Treatise on the Middle Way

Madhyamakaśāstra · Mअध्यमकशास्त्र

Treatise on the Middle Way

Madhyamakaśāstra

Mअध्यमकशास्त्र

SK
Nआगार्जुन कृत मध्यमकशास्त्रम् / (Mश्)
SK
१ प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम्
SK
अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् / अनेकार्थमनानार्थमनागममनिर्गमम् // Mश्_१.१ //
SK
यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम् / देशयामास संबुद्धस्तं वन्दे वदतां वरम् // Mश्_१.२ //
SK
न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः / उत्पन्ना जातु विद्यन्ते भावाः क्कचन केचन // Mश्_१.३ //
SK
चत्वारः प्रत्यया हेतुश्चालम्बनमनन्तरम् / तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः // Mश्_१.४ //
SK
न हि स्वभावो भावानां प्रत्ययादिषु विद्यते / अविद्यमाने स्वभावे परभावो न विद्यते // Mश्_१.५ //
SK
क्रिया न प्रत्ययवती नाप्रत्ययवती क्रिया / प्रत्यया नाक्रियावन्तः क्रियावन्तश्च सन्त्युत // Mश्_१.६ //
SK
उत्पद्यते प्रतीत्येमानितीमे प्रत्ययाः किल / यावन्नोत्पद्यत इमे तावन्नाप्रत्ययाः कथम् // Mश्_१.७ //
SK
नैवासतो नैव सतः प्रत्ययो ऽर्थस्य युज्यते / असतः प्रत्ययः कस्य सतश्च प्रत्ययेन किम् // Mश्_१.८ //
SK
न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा / कथं निर्वर्तको हेतुरेवं सति हि युज्यते // Mश्_१.९ //
SK
अनालम्बन एवायं सन् धर्म उपदिश्यते / अथानालम्बने धर्मे कुत आलम्बनं पुनः // Mश्_१.१० //
SK
अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते / नानन्तरमतो युक्तं निरुद्धे प्रत्ययश्च कः // Mश्_१.११ //
SK
भावानां निःस्वभावानां न सत्ता विद्यते यतः / सतीदमस्मिन् भवतीत्येतन्नैवोपपद्यते // Mश्_१.१२ //
SK
न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत्फलम् / प्रत्ययेभ्यः कथं तच्च भवेन्न प्रत्ययेषु यत् // Mश्_१.१३ //
SK
अथासदपि तत्तेभ्यः प्रत्ययेभ्यः प्रवर्तते / अप्रत्ययेभ्यो ऽपि कस्मात्फलं नाभिप्रवर्तते // Mश्_१.१४ //
SK
फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः / फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम् // Mश्_१.१५ //
SK
तस्मान्न प्रत्ययमयं नाप्रत्ययमयं फलम् / संविद्यते फलाभावात्प्रत्ययाप्रत्ययाः कुतः // Mश्_१.१६ //
SK
२ Gअतागतपरीक्षा द्वितीयं प्रकरणम् /
SK
गतं न गम्यते तावदगतं नैव गम्यते / गतागतविनिर्मुक्तं गम्यमानं न गम्यते // Mश्_२.१ //
SK
चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः / न गते नागते चेष्टा गम्यमाने गतिस्ततः // Mश्_२.२ //
SK
गम्यमानस्य गमनं कथं नामोपपत्स्यते / गम्यमाने द्विगमनं यदा नैवोपपद्यते // Mश्_२.३ //
SK
गम्यमानस्य गमनं यस्य तस्य प्रसज्यते / ऋते गतेर्गम्यमानं गम्यमानं हि गम्यते // Mश्_२.४ //
SK
गम्यमानस्य गमने प्रसक्तं गमनद्वयम् / येन तद्गम्यमानं च यच्चात्र गमनं पुनः // Mश्_२.५ //
SK
द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये / गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते // Mश्_२.६ //
SK
गन्तारं चेत्तिरस्कृत्य गमनं नोपपद्यते / गमने ऽसति गन्ताथ कुत एव भविष्यति // Mश्_२.७ //
SK
गन्ता न गच्छति तावदगन्ता नैव गच्छति / अन्यो गन्तुरगन्तुश्च कस्तृतीयो हि गच्छति // Mश्_२.८ //
SK
गन्ता तावद्गच्छतीति कथमेवोपपत्स्यते / गमनेन विना गन्ता यदा नैवोपपद्यते // Mश्_२.९ //
SK
पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते / गमनेन विना गन्ता गन्तुर्गमनमिच्छतः // Mश्_२.१० //
SK
गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति / गन्तेति चोच्यते येन गन्ता सन् यच्च गच्छति // Mश्_२.११ //
SK
गते नारभ्यते गन्तुं गतं नारभ्यते ऽगते / नारभ्यते गम्यमाने गन्तुमारभ्यते कुह // Mश्_२.१२ //
SK
न पूर्वं गमनारम्भाद्गम्यमानं न वा गतम् / यत्रारभ्येत गमनमगते गमनं कुतः // Mश्_२.१३ //
SK
गतं किं गम्यमानं किमगतं किं विकल्प्यते / अदृश्यमान आरम्भे गमनस्यैव सर्वथा // Mश्_२.१४ //
SK
गन्ता न तिष्ठति तावदगन्ता नैव तिष्ठति / अन्यो गन्तुरगन्तुश्च कस्तृतीयो ऽथ तिष्ठति // Mश्_२.१५ //
SK
गन्ता तावत्तिष्ठतीति कथमेवोपपत्स्यते / गमनेन विना गन्ता यदा नैवोपपद्यते // Mश्_२.१६ //
SK
न तिष्ठति गम्यमानान्न गतान्नागतादपि / गमनं संप्रवृत्तिश्च निवृत्तिश्च गतेः समा // Mश्_२.१७ //
SK
यदेव गमनं गन्ता स एवेति न युज्यते / अन्य एव पुनर्गन्ता गतेरिति न युज्यते // Mश्_२.१८ //
SK
यदेव गमनं गन्ता स एव हि भवेद्यदि / एकीभावः प्रसज्येत कर्तुः कर्मण एव च // Mश्_२.१९ //
SK
अन्य एव पुनर्गन्ता गतेर्यदि विकल्प्यते / गमनं स्यादृते गन्तुर्गन्ता स्याद्गमनादृते // Mश्_२.२० //
SK
एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः / न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते // Mश्_२.२१ //
SK
गत्या ययोच्यते गन्ता गतिं तां स न गच्छति / यस्मान्न गतिपूर्वो ऽस्ति कश्चित्किंचिद्धि गच्छति // Mश्_२.२२ //
SK
गत्या ययोच्यते गन्ता ततो ऽन्यां स न गच्छति / गती द्वे नोपपद्येते यस्मादेके प्रगच्छति // Mश्_२.२३ //
SK
सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति / नासद्भूतो ऽपि गमनं त्रिप्रकारं स गच्छति // Mश्_२.२४ //
SK
गमनं सदसद्भूतस्त्रिप्रकारं न गच्छति / तस्माद्गतिश्च गन्ता च गन्तव्यं च न विद्यते // Mश्_२.२५ //
SK
३ चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम् /
SK
दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः / इन्द्रियाणि षडेतेषां द्रष्टव्यादीनि गोचरः // Mश्_३.१ //
SK
स्वमात्मानं दर्शनं हि तत्तमेव न पश्यति / न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान् // Mश्_३.२ //
SK
न पर्याप्तो ऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये / सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः // Mश्_३.३ //
SK
नापश्यमानं भवति यदा किंचन दर्शनम् / दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते // Mश्_३.४ //
SK
पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम् / व्याख्यातो दर्शनेनैव द्रष्टा चाप्युपगम्यताम् // Mश्_३.५ //
SK
तिरस्कृत्य द्रष्टा नास्त्यतिरस्कृत्य च दर्शनम् / द्रष्टव्यं दर्शनं चैव द्रष्टर्यसति ते कुतः // Mश्_३.६ //
SK
प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः / चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः // Mश्_३.७ //
SK
द्रष्टव्यदर्शनाभावाद्विज्ञानादिचतुष्टयम् / नास्तीति उपादानादीनि भविष्यन्ति पुनः कथम् // Mश्_३.८ //
SK
व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः / दर्शनेनैव जानीयाच्छ्रोतृश्रोतव्यकादि च // Mश्_३.९ //
SK
४ Sकन्धपरीक्षा चतुर्थं प्रकरणम् /
SK
रूपकारणनिर्मुक्तं न रूपमुपलभ्यते / रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम् // Mश्_४.१ //
SK
रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते / आहेतुकं, न चास्त्यर्थः कश्चिदाहेतुकः क्वचित् // Mश्_४.२ //
SK
रूपेण तु विनिर्मुक्तं यदि स्याद्रूपकारणम् / अकार्यकं कारणं स्यात् नास्त्यकार्यं च कारणम् // Mश्_४.३ //
SK
रूपे सत्येव रूपस्य कारणं नोपपद्यते / रूपे ऽसत्येव रूपस्य कारणं नोपपद्यते // Mश्_४.४ //
SK
निष्कारणं पुना रूपं नैव नैवोपपद्यते / तस्मात् रूपगतान् कांश्चिन्न विकल्पान् विकल्पयेत् // Mश्_४.५ //
SK
न कारणस्य सदृशं कार्यमित्युपपद्यते / न कारणस्यासदृशं कार्यमित्युपपद्यते // Mश्_४.६ //
SK
वेदनाचित्तसंज्ञानां संस्काराणां च सर्वशः / सर्वेषामेव भावानां रूपेणैव समः क्रमः // Mश्_४.७ //
SK
विग्रहे यः परीहारं कृते शून्यतया वदेत् / सर्वं तस्यापरिहृतं समं साध्येन जायते // Mश्_४.८ //
SK
व्याख्याने य उपालम्भं कृते शून्यतया वदेत् / सर्वं तस्यानुपालब्धं समं साध्येन जायते // Mश्_४.९ //
SK
५ Dहातुपरीक्षा पञ्चमं प्रकरणम् /
SK
नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात् / अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात् // Mश्_५.१ //
SK
अलक्षणो न कश्चिच्च भावः संविद्यते क्कचित् / असत्यलक्षणे भावे क्रमतां कुह लक्षणम् // Mश्_५.२ //
SK
नालक्षणे लक्षणस्य प्रवृत्तिर्न सलक्षणे / सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते // Mश्_५.३ //
SK
लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते / लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः // Mश्_५.४ //
SK
तस्मान्न विद्यते लक्ष्यं लक्षणं नैव विद्यते / लक्ष्यलक्षणनिर्मुक्तो नैव भावो ऽपि विद्यते // Mश्_५.५ //
SK
अविद्यमाने भावे च कस्याभावो भविष्यति / भावाभावविधर्मा च भावाभावमवैति कः // Mश्_५.६ //
SK
तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम् / आकाशम् आकाशसमा धातवः पञ्च ये परे // Mश्_५.७ //
SK
अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः / भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम् // Mश्_५.८ //
SK
६ Rआगरक्तपरीक्षा षष्ठं प्रकरणम् /
SK
रागाद्यदि भवेत्पूर्वं रक्तो रागतिरस्कृतः / तं प्रतीत्य भवेद्रागो रक्ते रागो भवेत्सति // Mश्_६.१ //
SK
रक्ते ऽसति पुना रागः कुत एव भविष्यति / सति वासति वा रागे रक्ते ऽप्येष समः क्रमः // Mश्_६.२ //
SK
सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः / भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् // Mश्_६.३ //
SK
नैकत्वे सहभावो ऽस्ति न तेनैव हि तत्सह / पृथक्त्वे सहभावो ऽथ कुत एव भविष्यति // Mश्_६.४ //
SK
एकत्वे सहभावश्चेत्स्यात्सहायं विनापि सः / पृथक्त्वे सहभावश्चेत्स्यात्सहायं विनापि सः // Mश्_६.५ //
SK
पृथक्त्वे सहभावश्च यदि किं रागरक्तयोः / सिद्धः पृथक्पृथग्भावः सहभावो यतस्तयोः // Mश्_६.६ //
SK
सिद्धः पृथक्पृथग्भावो यदि वा रागरक्तयोः / सहभावं किमर्थं तु परिकल्पयसे तयोः // Mश्_६.७ //
SK
पृथङ् न सिध्यतीत्येवं सहभावं विकाङ्क्षसि / सहभावप्रसिद्ध्यर्थं पृथक्त्वं भूय इच्छसि // Mश्_६.८ //
SK
पृथग्भावाप्रसिद्धेश्च सहभावो न सिध्यति / कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि // Mश्_६.९ //
SK
एवं रक्तेन रागस्य सिद्धिर्न सह नासह / रागवत्सर्वधर्माणां सिद्धिर्न सह नासह // Mश्_६.१० //
SK
७ Sअंस्कृतपरीक्षा सप्तमं प्रकरणम् /
SK
यदि संस्कृत उत्पादस्तत्र युक्ता त्रिलक्षणी / अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम् // Mश्_७.१ //
SK
उत्पादाद्यास्त्रयो व्यस्ता नालं लक्षणकर्मणि / संस्कृतस्य समस्ताः स्युरेकत्र कथमेकदा // Mश्_७.२ //
SK
उत्पादस्थितिभङ्गानामन्यत्संस्कृतलक्षणम् / अस्ति चेदनवस्थैवं नास्ति चेत्ते न संस्कृताः // Mश्_७.३ //
SK
उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम् / उत्पादोत्पादमुत्पादो मौलो जनयते पुनः // Mश्_७.४ //
SK
उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि / मौलेनाजनितस्तं ते स कथं जनयिष्यति // Mश्_७.५ //
SK
स ते मौलेन जनितो मौलं जनयते यदि / मौलः स तेनाजनितस्तमुत्पादयते कथम् // Mश्_७.६ //
SK
अयमुत्पद्यमानस्ते काममुत्पादयेदिमम् / यदीममुत्पादयितुमजातः शक्नुयादयम् // Mश्_७.७ //
SK
प्रदीपः स्वपरात्मानौ संप्रकाशयिता यथा / उत्पादः स्वपरात्मानावुभावुत्पादयेत्तथा // Mश्_७.८ //
SK
प्रदीपे नान्धकारो ऽस्ति यत्र चासौ प्रतिष्ठितः / किं प्रकाशयति दीपः प्रकाशो हि तमोवधः // Mश्_७.९ //
SK
कथमुत्पद्यमानेन प्रदीपेन तमो हतम् / नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा // Mश्_७.१० //
SK
अप्राप्यैव प्रदीपेन यदि वा निहतं तमः / इहस्थः सर्वलोकस्थं स तमो निहनिष्यति // Mश्_७.११ //
SK
प्रदीपः स्वपरात्मानौ संप्रकाशयते यदि / तमो ऽपि स्वपरात्मानौ छादयिष्यत्यसंशयम् // Mश्_७.१२ //
SK
अनुत्पन्नो ऽयमुत्पादः स्वात्मानं जनयेत्कथम् / अथोत्पन्नो जनयते जाते किं जन्यते पुनः // Mश्_७.१३ //
SK
नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथंचन / उत्पद्यते तथाख्यातं गम्यमानगतागतैः // Mश्_७.१४ //
SK
उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा / कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते // Mश्_७.१५ //
SK
प्रतीत्य यद्यद्भवति तत्तच्छान्तं स्वभावतः / तस्मादुत्पद्यमानं च शान्तमुत्पत्तिरेव च // Mश्_७.१६ //
SK
यदि कश्चिदनुत्पन्नो भावः संविद्यते क्वचित् / उत्पद्येत स किं तस्मिन् भाव उत्पद्यते ऽसति // Mश्_७.१७ //
SK
उत्पद्यमानमुत्पादो यदि चोत्पादयत्ययम् / उत्पादयेत्तमुत्पादमुत्पादः कतमः पुनः // Mश्_७.१८ //
SK
अन्य उत्पादत्येनं यद्युत्पादो ऽनवस्थितिः / अथानुत्पाद उत्पन्नः सर्वमुत्पद्यते तथा // Mश्_७.१९ //
SK
सतश्च तावदुत्पत्तिरसतश्च न युज्यते / न सतश्चासतश्चेति पूर्वमेवोपपादितम् // Mश्_७.२० //
SK
निरुध्यमानस्योत्पत्तिर्न भावस्योपपद्यते / यश्चानिरुध्यमानस्तु स भावो नोपपद्यते // Mश्_७.२१ //
SK
न स्थितभावस्तिष्ठत्यस्थितभावो न तिष्ठति / न तिष्ठति तिष्ठमानः को ऽनुत्पन्नश्च तिष्ठति // Mश्_७.२२ //
SK
स्थितिर्निरुध्यमानस्य न भावस्योपपद्यते / यश्चानिरुध्यमानस्तु स भावो नोपपद्यते // Mश्_७.२३ //
SK
जरामरणधर्मेषु सर्वभावेषु सर्वदा / तिष्ठन्ति कतमे भावा ये जरामरणं विना // Mश्_७.२४ //
SK
स्थित्यान्यया स्थितेः स्थानं तयैव च न युज्यते / उत्पादस्य यथोत्पादो नात्मना न परात्मना // Mश्_७.२५ //
SK
निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते / तथापि निरुध्यमानं किमजातं निरुध्यते // Mश्_७.२६ //
SK
स्थितस्य तावद्भावस्य निरोधो नोपपद्यते / नास्थितस्यापि भावस्य निरोध उपपद्यते // Mश्_७.२७ //
SK
तयैवावस्थयावस्था न हि सैव निरुध्यते / अन्ययावस्थयावस्था न चान्यैव निरुध्यते // Mश्_७.२८ //
SK
यदैवं सर्वधर्माणामुत्पादो नोपपद्यते / तदैवं सर्वधर्माणां निरोधो नोपपद्यते // Mश्_७.२९ //
SK
सतश्च तावद्भावस्य निरोधो नोपपद्यते / एकत्वे न हि भावश्च नाभावश्चोपपद्यते // Mश्_७.३० //
SK
असतो ऽपि न भावस्य निरोध उपपद्यते / न द्वितीयस्य शिरसच्छेदनं विद्यते यथा // Mश्_७.३१ //
SK
न स्वात्मना निरोधो ऽस्ति निरोधो न परात्मना / उत्पादस्य यथोत्पादो नात्मना न परात्मना // Mश्_७.३२ //
SK
उत्पादस्थितिभङ्गानामसिद्धेर्नास्ति संस्कृतम् / संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्यसंस्कृतम् // Mश्_७.३३ //
SK
यथा माया यथा स्वप्नो गन्धर्वनगरं यथा / तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतम् // Mश्_७.३४ //
SK
८ Kअर्मकारकपरीक्षा अष्टमं प्रकरणम् /
SK
सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम् / कारको नाप्यसद्भूतः कर्मासद्भूतमीहते // Mश्_८.१ //
SK
सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् / सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः // Mश्_८.२ //
SK
करोति यद्यसद्भूतो ऽसद्भूतं कर्म कारकः / अहेतुकं भवेत्कर्म कर्ता चाहेतुको भवेत् // Mश्_८.३ //
SK
हेतावसति कार्यं च कारणं च न विद्यते / तदभावे क्रिया कर्ता करणं च न विद्यते // Mश्_८.४ //
SK
धर्माधर्मौ न विद्येते क्रियादीनामसंभवे / धर्मे चासत्यधर्मे च फलं तज्जं न विद्यते // Mश्_८.५ //
SK
फले ऽसति न मोक्षाय न स्वर्गायोपपद्यते / मार्गः सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते // Mश्_८.६ //
SK
कारकः सदसद्भूतः सदसत्कुरुते न तत् / परस्परविरुद्धं हि सच्चासच्चैकतः कुतः // Mश्_८.७ //
SK
सता च क्रियते नासन्नासता क्रियते च सत् / कर्त्रा सर्वे प्रसज्यन्ते दोषास्तत्र त एव हि // Mश्_८.८ //
SK
नासद्भूतं न सद्भूतः सदसद्भूतमेव वा / करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः // Mश्_८.९ //
SK
नासद्भूतो ऽपि सद्भूतं सदसद्भूतमेव वा / करोति कारकः कर्म पुर्वोक्तैरेव हेतुभिः // Mश्_८.१० //
SK
करोति सदसद्भूतो न सन्नासच्च कारकः / कर्म तत्तु विजानीयात्पूर्वोक्तैरेव हेतुभिः // Mश्_८.११ //
SK
प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम् / कर्म प्रवर्तते, नान्यत्पश्यामः सिद्धिकारणम् // Mश्_८.१२ //
SK
एवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः / कर्तुश्च कर्मकर्तृभ्यां शेषान् भावान् विभावयेत् // Mश्_८.१३ //
SK
९ Pऊर्वपरीक्षा नवमं प्रकरणम् /
SK
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ / भवन्ति यस्य प्रागेभ्यः सो ऽस्तीत्येके वदन्त्युत // Mश्_९.१ //
SK
कथं ह्यविद्यमानस्य दर्शनादि भविष्यति / भावस्य तस्मात्प्रागेभ्यः सो ऽस्ति भावो व्यवस्थितः // Mश्_९.२ //
SK
दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च / यः प्राग्व्यवस्थितो भावः केन प्रज्ञप्यते ऽथ सः // Mश्_९.३ //
SK
विनापि दर्शनादीनि यदि चासौ व्यवस्थितः / अमून्यपि भविष्यन्ति विना तेन न संशयः // Mश्_९.४ //
SK
अज्यते केनचित्कश्चित् किंचित्केनचिदज्यते / कुतः किंचिद्विना कश्चित् किंचित्कंचिद्विना कुतः // Mश्_९.५ //
SK
सर्वेभ्यो दर्शनादिभ्यः कश्चित्पूर्वो न विद्यते / अज्यते दर्शनादीनामन्येन पुनरन्यदा // Mश्_९.६ //
SK
सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते / एकैकस्मात्कथं पूर्वो दर्शनादेः स विद्यते // Mश्_९.७ //
SK
द्रष्टा स एव स श्रोता स एव यदि वेदकः / एकैकस्माद्भवेत्पूर्वं एवं चैतन्न युज्यते // Mश्_९.८ //
SK
द्रष्टान्य एव श्रोतान्यो वेदको ऽन्यः पुनर्यदि / सति स्याद् द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत् // Mश्_९.९ //
SK
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ / भवन्ति येभ्यस्तेष्वेष भूतेष्वपि न विद्यते // Mश्_९.१० //
SK
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ / न विद्यते चेद्यस्य स न विद्यन्त इमान्यपि // Mश्_९.११ //
SK
प्राक् च यो दर्शनादिभ्यः सांप्रतं चोर्ध्वमेव च / न विद्यते ऽस्ति नास्तीति निवृत्तास्तत्र कल्पनाः // Mश्_९.१२ //
SK
१० Aग्नीन्धनपरीक्षा दशमं प्रकरणम् /
SK
यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः / अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत् // Mश्_१०.१ //
SK
नित्यप्रदीप्त एव स्यादप्रदीपनहेतुकः / पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति // Mश्_१०.२ //
SK
परत्र निरपेक्षत्वादप्रदीपनहेतुकः / पुनरारम्भवैयर्थ्यं नित्यदीप्तः प्रसज्यते // Mश्_१०.३ //
SK
तत्रैतस्मादिध्यमानमिन्धनं भवतीति चेत् / केनेध्यतामिन्धनं तत्तावन्मात्रमिदं यदा // Mश्_१०.४ //
SK
अन्यो न प्राप्स्यते ऽप्राप्तो न धक्ष्यत्यदहन् पुनः / न निर्वास्यत्यनिर्वाणः स्थास्यते वा स्वलिङ्गवान् // Mश्_१०.५ //
SK
अन्य एवेन्धनादग्निरिन्धनं प्राप्नुयाद्यदि / स्त्री संप्राप्नोति पुरुषं पुरुषश्च स्त्रियं यथा // Mश्_१०.६ //
SK
अन्य एवेन्धनादग्निरिन्धनं काममाप्नुयात् / अग्नीन्धने यदि स्यातामन्योन्येन तिरस्कृते // Mश्_१०.७ //
SK
यदीन्धनमपेक्ष्याग्निरपेक्ष्याग्निं यदीन्धनम् / कतरत्पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम् // Mश्_१०.८ //
SK
यदीन्धनमपेक्ष्याग्निरग्नेः सिद्धस्य साधनम् / एवं सतीन्धनं चापि भविष्यति निरग्निकम् // Mश्_१०.९ //
SK
यो ऽपेक्ष्य सिध्यते भावस्तमेवापेक्ष्य सिध्यति / यदि यो ऽपेक्षितव्यः स सिध्यतां कमपेक्ष्य कः // Mश्_१०.१० //
SK
यो ऽपेक्ष्य सिध्यते भावः सो ऽसिद्धो ऽपेक्षते कथम् / अथाप्यपेक्षते सिद्धस्त्वपेक्षास्य न युज्यते // Mश्_१०.११ //
SK
अपेक्ष्येन्धनमग्निर्न नानपेक्ष्याग्निरिन्धनम् / अपेक्ष्येन्धनमग्निं न नानपेक्ष्याग्निमिन्धनम् // Mश्_१०.१२ //
SK
आगच्छत्यन्यतो नाग्निरिन्धने ऽग्निर्न विद्यते / अत्रेन्धने शेषमुक्तं गम्यमानगतागतैः // Mश्_१०.१३ //
SK
इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात् / नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः // Mश्_१०.१४ //
SK
अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः / सर्वो निरवशेषेण सार्धं घटपटादिभिः // Mश्_१०.१५ //
SK
आत्मनश्च सतत्त्वं ये भावानां च पृथक्पृथक् / निर्दिशन्ति न तान्मन्ये शासनस्यार्थकोविदान् // Mश्_१०.१६ //
SK
११ Pऊर्वापरकोटिपरीक्षा एकादशमं प्रकरणम् /
SK
पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः / संसारो ऽनवराग्रो हि नास्यादिर्नापि पश्चिमम् // Mश्_११.१ //
SK
नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत् / तस्मान्नात्रोपपद्यन्ते पूर्वापरसहक्रमाः // Mश्_११.२ //
SK
पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम् / निर्जरामरणा जातिर्भवेज्जायेत चामृतः // Mश्_११.३ //
SK
पश्चाज्जातिर्यदि भवेज्जरामरणमादितः / अहेतुकमजातस्य स्याज्जरामरणं कथम् // Mश्_११.४ //
SK
न जरामरणेनैव जातिश्च सह युज्यते / म्रियेत जायमानश्च स्याच्चाहेतुकतोभयोः // Mश्_११.५ //
SK
यत्र न प्रभवन्त्येते पूर्वापरसहक्रमाः / प्रपञ्चयन्ति तां जातिं तज्जरामरणं च किम् // Mश्_११.६ //
SK
कार्यं च कारणं चैव लक्ष्यं लक्षणमेव च / वेदना वेदकश्चैव सन्त्यर्था ये च केचन // Mश्_११.७ //
SK
पूर्वा न विद्यते कोटिः संसारस्य न केवलम् / सर्वेषामपि भावानां पूर्वा कोटिर्न विद्यते // Mश्_११.८ //
SK
१२ Dउःखपरीक्षा द्वादशमं प्रकरणम् /
SK
स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् / दुःखमित्येक इच्छन्ति तच्च कार्यं न युज्यते // Mश्_१२.१ //
SK
स्वयं कृतं यदि भवेत्प्रतीत्य न ततो भवेत् / स्कन्धानिमानमी स्कन्धाः संभवन्ति प्रतीत्य हि // Mश्_१२.२ //
SK
यद्यमीभ्य इमे ऽन्ये स्युरेभ्यो वामी परे यदि / भवेत्परकृतं दुःखं परैरेभिरमी कृताः // Mश्_१२.३ //
SK
स्वपुद्नलकृतं दुःखं यदि दुःखं पुनर्विना / स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम् // Mश्_१२.४ //
SK
परपुद्गलजं दुःखं यदि यस्मै प्रदीयते / परेण कृत्वा तद्दुःखं स दुःखेन विना कुतः // Mश्_१२.५ //
SK
परपुद्गलजं दुःखं यदि कः परपुद्गलः / विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत् // Mश्_१२.६ //
SK
स्वयंकृतस्याप्रसिद्धेर्दुःखं परकृतं कुतः / परो हि दुःखं यत्कुर्यात्तत्तस्य स्यात्स्वयं कृतम् // Mश्_१२.७ //
SK
न तावत्स्वकृतं दुःखं न हि तेनैव तत्कृतम् / परो नात्मकृतश्चेत्स्याद्दुःखं परकृतं कथम् // Mश्_१२.८ //
SK
स्यादुभाभ्यां कृतं दुःखं स्यादेकैककृतं यदि / पराकारास्वयंकारं दुःखमहेतुकं कुतः // Mश्_१२.९ //
SK
न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते / बाह्यानामपि भावानां चातुर्विध्यं न विद्यते // Mश्_१२.१० //
SK
१३ Sअंस्कारपरीक्षा त्रयोदशमं प्रकरणम् /
SK
तन्मृषा मोषधर्म यद्भगवानित्यभाषत / सर्वे च मोषधर्माणः संस्कारास्तेन ते मृषा // Mश्_१३.१ //
SK
तन्मृषा मोषधर्म यद्यदि किं तत्र मुष्यते / एतत्तूक्तं भगवता शून्यतापरिदीपकम् // Mश्_१३.२ //
SK
भावानां निःस्वभावत्वमन्यथाभावदर्शनात् / अस्वभावो भावो नास्ति भावानां शून्यता यतः // Mश्_१३.३ //
SK
कस्य स्यादन्यथाभावः स्वभावश्चेन्न विद्यते / कस्य स्यादन्यथाभावः स्वभावो यदि विद्यते // Mश्_१३.४ //
SK
तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते / युवा न जीर्यते यस्माद्यस्माज्जीर्णो न जीर्यते // Mश्_१३.५ //
SK
तस्य चेदन्यथाभावः क्षीरमेव भवेद्दधि / क्षीरादन्यस्य कस्याथ दधिभावो भविष्यति // Mश्_१३.६ //
SK
यद्यशून्यं भवेत्किंचित्स्याच्छून्यमिति किंचन / न किंचिदस्त्यशून्यं च कुतः शून्यं भविष्यति // Mश्_१३.७ //
SK
शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः / येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिरे // Mश्_१३.८ //
SK
१४ Sअंसर्गपरीक्षा चतुर्दशमं प्रकरणम् /
SK
द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः / सर्वशश्च न संसर्गमन्योन्येन व्रजन्त्युत // Mश्_१४.१ //
SK
एवं रागश्च रक्तश्च रञ्जनीयं च दृश्यताम् / त्रैधेन शेषाः क्लेशाश्च शेषाण्यायतनानि च // Mश्_१४.२ //
SK
अन्येनान्यस्य संसर्गस्तच्चान्यत्वं न विद्यते / द्रष्टव्यप्रभृतीनां यन्न संसर्गं व्रजन्त्यतः // Mश्_१४.३ //
SK
न च केवलमन्यत्वं द्रष्टव्यादेर्न विद्यते / कस्यचित्केनचित्सार्धं नान्यत्वमुपपद्यते // Mश्_१४.४ //
SK
अन्यदन्यत्प्रतीत्यान्यन्नान्यदन्यदृते ऽन्यतः / यत्प्रतीत्य च यत्तस्मात्तदन्यन्नोपपद्यते // Mश्_१४.५ //
SK
यद्यन्यदन्यदन्यस्मादन्यस्मादप्यृते भवेत् / तदन्यदन्यदन्यस्मादृते नास्ति च नास्त्यतः // Mश्_१४.६ //
SK
नान्यस्मिन् विद्यते ऽन्यत्वमनन्यस्मिन्न विद्यते / अविद्यमाने चान्यत्वे नास्त्यन्यद्वा तदेव वा // Mश्_१४.७ //
SK
न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते / संसृज्यमानं संसृष्टं संस्रष्टा च न विद्यते // Mश्_१४.८ //
SK
१५ Sवभावपरीक्षा पञ्चदशमं प्रकरणम् /
SK
न संभवः स्वभावस्य युक्तः प्रत्ययहेतुभिः / हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत् // Mश्_१५.१ //
SK
स्वभावः कृतको नाम भविष्यति पुनः कथम् / अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च // Mश्_१५.२ //
SK
कुतः स्वभावस्याभावे परभावो भविष्यति / स्वभावः परभावस्य परभावो हि कथ्यते // Mश्_१५.३ //
SK
स्वभावपरभावाभ्यामृते भावः कुतः पुनः / स्वभावे परभावे वा सति भावो हि सिध्यति // Mश्_१५.४ //
SK
भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति / भावस्य ह्यन्यथाभावमभावं ब्रुवते जनाः // Mश्_१५.५ //
SK
स्वभावं परभावं च भावं चाभावमेव च / ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने // Mश्_१५.६ //
SK
कात्यायनाववादे चास्तीति नास्तीति चोभयम् / प्रतिषिद्धं भगवता भावाभावविभाविना // Mश्_१५.७ //
SK
यद्यस्तित्वं प्रकृत्या स्यान्न भवेदस्य नास्तिता / प्रकृतेरन्यथाभावो न हि जातूपपद्यते // Mश्_१५.८ //
SK
प्रकृतौ कस्य चासत्यामन्यथात्वं भविष्यति / प्रकृतौ कस्य च सत्यामन्यथात्वं भविष्यति // Mश्_१५.९ //
SK
अस्तीति शाश्वतग्राहो नास्तीत्युच्छेददर्शनम् / तस्मादस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः // Mश्_१५.१० //
SK
अस्ति यद्धि स्वभावेन न तन्नास्तीति शाश्वतम् / नास्तीदानीमभूत्पूर्वमित्युच्छेदः प्रसज्यते // Mश्_१५.११ //
SK
१६ Bअन्धमोक्षपरीक्षा षोडशमं प्रकरणम् /
SK
संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते / संसरन्ति च नानित्याः सत्त्वे ऽप्येष समः क्रमः // Mश्_१६.१ //
SK
पुद्गलः संसरति चेत्स्कन्धायतनधातुषु / पञ्चधा मृग्यमाणो ऽसौ नास्ति कः संसरिष्यति // Mश्_१६.२ //
SK
उपादानादुपादानं संसरन् विभवो भवेत् / विभवश्चानुपादानः कः स किं संसरिष्यति // Mश्_१६.३ //
SK
संस्काराणां न निर्वाणं कथंचिदुपपद्यते / सत्त्वस्यापि न निर्वाणं कथंचिदुपपद्यते // Mश्_१६.४ //
SK
न बध्यन्ते न मुच्यन्ते उदयव्ययधर्मिणः / संस्काराः पूर्ववत्सत्त्वो बध्यते न न मुच्यते // Mश्_१६.५ //
SK
बन्धनं चेदुपादानं सोपादानो न बध्यते / बध्यते नानुपादानः किमवस्थो ऽथ बध्यते // Mश्_१६.६ //
SK
बध्नीयाद्बन्धनं कामं बन्ध्यात्पूर्वं भवेद्यदि / न चास्ति तत् शेषमुक्तं गम्यमानगतागतैः // Mश्_१६.७ //
SK
बद्धो न मुच्यते तावदबद्धो नैव मुच्यते / स्यातां बद्धे मुच्यमाने युगपद्बन्धमोक्षणे // Mश्_१६.८ //
SK
निर्वास्याम्यनुपादानो निर्वाणं मे भविष्यति / इति येषां ग्रहस्तेषामुपादानमहाग्रहः // Mश्_१६.९ //
SK
न निर्वाणसमारोपो न संसारापकर्षणम् / यत्र कस्तत्र संसारो निर्वाणं किं विकल्प्यते // Mश्_१६.१० //
SK
१७ Kअर्मफलपरीक्षा सप्तदशमं प्रकरणम् /
SK
आत्मसंयमकं चेतः परानुग्राहकं च यत् / मैत्रं स धर्मस्तद्बीजं फलस्य प्रेत्य चेह च // Mश्_१७.१ //
SK
चेतना चेतयित्वा च कर्मोक्तं परमर्षिणा / तस्यानेकविधो भेदः कर्मणः परिकीर्तितः // Mश्_१७.२ //
SK
तत्र यच्चेतनेत्युक्तं कर्म तन्मानसं स्मृतम् / चेतयित्वा च यत्तूक्तं तत्तु कायिकवाचिकम् // Mश्_१७.३ //
SK
वाग्विष्पन्दो ऽविरतयो याश्चाविज्ञप्तिसंज्ञिताः / अविज्ञप्तय एवान्याः स्मृता विरतयस्तथा // Mश्_१७.४ //
SK
परिभोगान्वयं पुण्यमपुण्यं च तथाविधम् / चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः // Mश्_१७.५ //
SK
तिष्ठत्या पाककालाच्चेत्कर्म तन्नित्यतामियात् / निरुद्धं चेन्निरूद्धं सत्किं फलं जनयिष्यति // Mश्_१७.६ //
SK
यो ऽङ्कुरप्रभृतिर्बीजात्संतानो ऽभिप्रवर्तते / ततः फलमृते बीजात्स च नाभिप्रवर्तते // Mश्_१७.७ //
SK
बीजाच्च यस्मात्संतानः संतानाच्च फलोद्भवः / बीजपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् // Mश्_१७.८ //
SK
यस्तस्माच्चित्तसंतानश्चेतसो ऽभिप्रवर्तते / ततः फलमृते चित्तात्स च नाभिप्रवर्तते // Mश्_१७.९ //
SK
चित्ताच्च यस्मात्संतानः संतानाच्च फलोद्भवः / कर्मपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् // Mश्_१७.१० //
SK
धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश / फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च // Mश्_१७.११ //
SK
बहवश्च महान्तश्च दोषाः स्युरपि कल्पना / यद्येषा तेन नैवैषा कल्पनात्रोपपद्यते // Mश्_१७.१२ //
SK
इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते / बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्चानुवर्णिताम् // Mश्_१७.१३ //
SK
पत्रं यथाविप्रणाशस्तथर्णमिव कर्म च / चतुर्विधो धातुतः स प्रकृत्याव्याकृतश्च सः // Mश्_१७.१४ //
SK
प्रहाणतो न प्रहेयो भावनाहेय एव वा / तस्मादविप्रणाशेन जायते कर्मणां फलम् // Mश्_१७.१५ //
SK
प्रहाणतः प्रहेयः स्यात्कर्मणः संक्रमेण वा / यदि दोषाः प्रसज्येरंस्तत्र कर्मवधादयः // Mश्_१७.१६ //
SK
सर्वेषां विषभागानां सभागानां च कर्मणाम् / प्रतिसंधौ सधातूनामेक उत्पद्यते तु सः // Mश्_१७.१७ //
SK
कर्मणः कर्मणो दृष्टे धर्म उत्पद्यते तु सः / द्विप्रकारस्य सर्वस्य विपक्के ऽपि च तिष्ठति // Mश्_१७.१८ //
SK
फलव्यतिक्रमाद्वा स मरणाद्वा निरुध्यते / अनास्रवं सास्रवं च विभागं तत्र लक्षयेत् // Mश्_१७.१९ //
SK
शून्यता च न चोच्छेदः संसारश्च न शाश्वतम् / कर्मणो ऽविप्रणाशश्च धर्मो बुद्धेन देशितः // Mश्_१७.२० //
SK
कर्म नोत्पद्यते कस्मात् निःस्वभावं यतस्ततः / यस्माच्च तदनुत्पन्नं न तस्माद्विप्रणश्यति // Mश्_१७.२१ //
SK
कर्म स्वभावतश्चेत्स्याच्छाश्वतं स्यादसंशयम् / अकृतं च भवेत्कर्म क्रियते न हि शाश्वतम् // Mश्_१७.२२ //
SK
अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि / अब्रह्मचर्यवासश्च दोषस्तत्र प्रसज्यते // Mश्_१७.२३ //
SK
व्यवहारा विरुध्यन्ते सर्व एव न संशयः / पुण्यपापकृतोर्नैव प्रविभागश्च युज्यते // Mश्_१७.२४ //
SK
तद्विपक्वविपाकं च पुनरेव विपक्ष्यति / कर्म व्यवस्थितं यस्मात्तस्मात्स्वाभाविकं यदि // Mश्_१७.२५ //
SK
कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः / न चेत्ते तत्त्वतः क्लेशाः कर्म स्यात्तत्त्वतः कथम् // Mश्_१७.२६ //
SK
कर्म क्लेशाश्च देहानां प्रत्ययाः समुदाहृताः / कर्म क्लेशाश्च ते शून्या यदि देहेषु का कथा // Mश्_१७.२७ //
SK
अविद्यानिवृतो जन्तुस्तृष्णासंयोजनश्च सः / स भोक्ता स च न कर्तुरन्यो न च स एव सः // Mश्_१७.२८ //
SK
न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् / अस्ति यस्मादिदं कर्म तस्मात्कर्तापि नास्त्यतः // Mश्_१७.२९ //
SK
कर्म चेन्नास्ति कर्ता च कुतः स्यात्कर्मजं फलम् / असत्यथ फले भोक्ता कुत एव भविष्यति // Mश्_१७.३० //
SK
यथा निर्मितकं शास्ता निर्मिमीतर्द्धिसंपदा / निर्मितो निर्मिमीतान्यं स च निर्मितकः पुनः // Mश्_१७.३१ //
SK
तथा निर्मितकाकारः कर्ता कर्म च तत्कृतम् / तद्यथा निर्मितेनान्यो निर्मितो निर्मितस्तथा // Mश्_१७.३२ //
SK
क्लेशाः कर्माणि देहाश्च कर्तारश्च फलानि च / गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः // Mश्_१७.३३ //
SK
१८ Āत्मपरीक्षा अष्टादशमं प्रकरणम् /
SK
आत्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् / स्कन्धेभ्यो ऽन्यो यदि भवेद्भवेदस्कन्धलक्षणः // Mश्_१८.१ //
SK
आत्मन्यसति चात्मीयं कुत एव भविष्यति / निर्ममो निरहंकारः शमादात्मात्मनीनयोः // Mश्_१८.२ //
SK
निर्ममो निरहंकारो यश्च सो ऽपि न विद्यते / निर्ममं निरहंकारं यः पश्यति न पश्यति // Mश्_१८.३ //
SK
ममेत्यहमिति क्षीणे बहिर्धाध्यात्ममेव च / निरुध्यत उपादानं तत्क्षयाज्जन्मनः क्षयः // Mश्_१८.४ //
SK
कर्मक्लेशक्षयान्मोक्षः कर्मक्लेशा विकल्पतः / ते प्रपञ्चात्प्रपञ्चस्तु शून्यतायां निरुध्यते // Mश्_१८.५ //
SK
आत्मेत्यपि प्रज्ञपितमनात्मेत्यपि देशितम् / बुद्धैर्नात्मा न चानात्मा कश्चिदित्यपि देशितम् // Mश्_१८.६ //
SK
निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे / अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता // Mश्_१८.७ //
SK
सर्वं तथ्यं न वा तथ्यं तथ्यं चातथ्यमेव च / नैवातथ्यं नैव तथ्यमेतद्बुद्धानुशासनम् // Mश्_१८.८ //
SK
अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम् / निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् // Mश्_१८.९ //
SK
प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् / न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् // Mश्_१८.१० //
SK
अनेकार्थमनानार्थमनुच्छेदमशाश्वतम् / एतत्तल्लोकनाथानां बुद्धानां शासनामृतम् // Mश्_१८.११ //
SK
संबुद्धानामनुत्पादे श्रावकाणां पुनः क्षये / ज्ञानं प्रत्येकबुद्धानामसंसर्गात्प्रवर्तते // Mश्_१८.१२ //
SK
१९ कालपरीक्षा एकोनविंशतितमं प्रकरणम् /
SK
प्रत्युत्पन्नो ऽनागतश्च यद्यतीतमपेक्ष्य हि / प्रत्युत्पन्नो ऽनागतश्च काले ऽतीते भविष्यतः // Mश्_१९.१ //
SK
प्रत्युत्पन्नो ऽनागतश्च न स्तस्तत्र पुनर्यदि / प्रत्युत्पन्नो ऽनागतश्च स्यातां कथमपेक्ष्य तम् // Mश्_१९.२ //
SK
अनपेक्ष्य पुनः सिद्धिर्नातीतं विद्यते तयोः / प्रत्युत्पन्नो ऽनागतश्च तस्मात्कालो न विद्यते // Mश्_१९.३ //
SK
एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ / उत्तमाधममध्यादीनेकत्वादींश्च लक्षयेत् // Mश्_१९.४ //
SK
नास्थितो गृह्यते कालः स्थितः कालो न विद्यते / यो गृह्येतागृहीतश्च कालः प्रज्ञप्यते कथम् // Mश्_१९.५ //
SK
भावं प्रतीत्य कालश्चेत्कालो भावादृते कुतः / न च कश्चन भावो ऽस्ति कुतः कालो भविष्यति // Mश्_१९.६ //
SK
२० Sआमग्रीपरीक्षा विंशतितमं प्रकरणम् /
SK
हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि / फलमस्ति च सामग्र्यां सामग्र्या जायते कथम् // Mश्_२०.१ //
SK
हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि / फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम् // Mश्_२०.२ //
SK
हेतोश्च प्रत्ययानां च सामग्र्यामस्ति चेत्फलम् / गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते // Mश्_२०.३ //
SK
हेतोश्च प्रत्ययानां च सामग्र्यां नास्ति चेत्फलम् / हेतवः प्रत्ययाश्च स्युरहेतुप्रत्ययैः समाः // Mश्_२०.४ //
SK
हेतुकं फलस्य दत्वा यदि हेतुर्निरुध्यते / यद्दत्तं यन्निरुद्धं च हेतोरात्मद्वयं भवेत् // Mश्_२०.५ //
SK
हेतुं फलस्यादत्वा च यदि हेतुर्निरुध्यते / हेतौ निरुद्धे जातं तत्फलमाहेतुकं भवेत् // Mश्_२०.६ //
SK
फलं सहैव सामग्र्या यदि प्रादुर्भवेत्पुनः / एककालौ प्रसज्येते जनको यश्च जन्यते // Mश्_२०.७ //
SK
पूर्वमेव च सामग्र्याः फलं प्रादुर्भवेद्यदि / हेतुप्रत्ययनिर्मुक्तं फलमाहेतुकं भवेत् // Mश्_२०.८ //
SK
निरुद्धे चेत्फलं हेतौ हेतोः संक्रमणं भवेत् / पूर्वजातस्य हेतोश्च पुनर्जन्म प्रसज्यते // Mश्_२०.९ //
SK
जनयेत्फलमुत्पन्नं निरुद्धो ऽस्तंगतः कथम् / तिष्ठन्नपि कथं हेतुः फलेन जनयेद्वृतः // Mश्_२०.१० //
SK
अथावृतः फलेनासौ कतमज्जनयेत्फलम् / न ह्यदृष्ट्वा वा दृष्ट्वा वा हेतुर्जनयते फलम् // Mश्_२०.११ //
SK
नातीतस्य ह्यतीतेन फलस्य सह हेतुना / नाजातेन न जातेन संगतिर्जातु विद्यते // Mश्_२०.१२ //
SK
न जातस्य ह्यजातेन फलस्य सह हेतुना / नातीतेन न जातेन संगतिर्जातु विद्यते // Mश्_२०.१३ //
SK
नाजातस्य हि जातेन फलस्य सह हेतुना / नाजातेन न नष्टेन संगतिर्जातु विद्यते // Mश्_२०.१४ //
SK
असत्यां संगतौ हेतुः कथं जनयते फलम् / सत्यां वा संगतौ हेतुः कथं जनयते फलम् // Mश्_२०.१५ //
SK
हेतुः फलेन शून्यश्चेत्कथं जनयते फलम् / हेतुः फलेनाशून्यश्चेत्कथं जनयते फलम् // Mश्_२०.१६ //
SK
फलं नोत्पत्स्यते ऽशून्यमशून्यं न निरोत्स्यते / अनिरुद्धमनुत्पन्नमशून्यं तद्भविष्यति // Mश्_२०.१७ //
SK
कथमुत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते / शून्यमप्यनिरुद्धं तदनुत्पन्नं प्रसज्यते // Mश्_२०.१८ //
SK
हेतोः फलस्य चैकत्वं न हि जातूपपद्यते / हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते // Mश्_२०.१९ //
SK
एकत्वे फलहेत्वोः स्यादैक्यं जनकजन्ययोः / पृथक्त्वे फलहेत्वोः स्यात्तुल्यो हेतुरहेतुना // Mश्_२०.२० //
SK
फलं स्वभावसद्भूतं किं हेतुर्जनयिष्यति / फलं स्वभावासद्भूतं किं हेतुर्जनयिष्यति // Mश्_२०.२१ //
SK
न चाजनयमानस्य हेतुत्वमुपपद्यते / हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति // Mश्_२०.२२ //
SK
न च प्रत्ययहेतूनामियमात्मानमात्मना / या सामग्री जनयते सा कथं जनयेत्फलम् // Mश्_२०.२३ //
SK
न सामग्रीकृतं फलं नासामग्रीकृतं फलम् / अस्ति प्रत्ययसामग्री कुत एव फलं विना // Mश्_२०.२४ //
SK
२१ Sअंभवविभवपरीक्षा एकविंशतितमं प्रकरणम् /
SK
विना वा सह वा नास्ति विभवः संभवेन वै / विना वा सह वा नास्ति संभवो विभवेन वै // Mश्_२१.१ //
SK
भविष्यति कथं नाम विभवः संभवं विना / विनैव जन्म मरणं विभवो नोद्भवं विना // Mश्_२१.२ //
SK
संभवेनैव विभवः कथं सह भविष्यति / न जन्ममरणं चैवं तुल्यकालं हि विद्यते // Mश्_२१.३ //
SK
भविष्यति कथं नाम संभवो विभवं विना / अनित्यता हि भावेषु न कदाचिन्न विद्यते // Mश्_२१.४ //
SK
संभवो विभवेनैव कथं सह भविष्यति / न जन्ममरणं चैव तुल्यकालं हि विद्यते // Mश्_२१.५ //
SK
सहान्योन्येन वा सिद्धिर्विनान्योन्येन वा ययोः / न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते // Mश्_२१.६ //
SK
क्षयस्य संभवो नास्ति नाक्षयस्यापि संभवः / क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च // Mश्_२१.७ //
SK
संभवो विभवश्चैव विना भावं न विद्यते / संभवं विभवं चैव विना भावो न विद्यते // Mश्_२१.८ //
SK
संभवो विभवश्चैव न शून्यस्योपपद्यते / संभवो विभवश्चैव नाशून्यस्योपपद्यते // Mश्_२१.९ //
SK
संभवो विभवश्चैव नैक इत्युपपद्यते / संभवो विभवश्चैव न नानेत्युपपद्यते // Mश्_२१.१० //
SK
दृश्यते संभवश्चैव विभवश्चैव ते भवेत् / दृश्यते संभवश्चैव मोहाद्विभव एव च // Mश्_२१.११ //
SK
न भावाज्जायते भावो भावो ऽभावान्न जायते / नाभावाज्जायते ऽभावो ऽभावो भावान्न जायते // Mश्_२१.१२ //
SK
न स्वतो जायते भावः परतो नैव जायते / न स्वतः परतश्चैव जायते, जायते कुतः // Mश्_२१.१३ //
SK
भावमभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् / प्रसज्यते स भावो हि नित्यो ऽनित्यो ऽथ वा भवेत् // Mश्_२१.१४ //
SK
भावमभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम् / उदयव्ययसंतानःफलहेत्वोर्भवः स हि // Mश्_२१.१५ //
SK
उदयव्ययसंतानः फलहेत्वोर्भवः स चेत् / व्ययस्यापुनरुत्पत्तेर्हेतूच्छेदः प्रसज्यते // Mश्_२१.१६ //
SK
सद्भावस्य स्वभावेन नासद्भावश्च युज्यते / निर्वाणकाले चोच्छेदः प्रशमाद्भवसंततेः // Mश्_२१.१७ //
SK
चरमे न निरुद्धे च प्रथमो युज्यते भवः / चरमे नानिरुद्धे च प्रथमो युज्यते भवः // Mश्_२१.१८ //
SK
निरुध्यमाने चरमे प्रथमो यदि जायते / निरुध्यमान एकः स्याज्जायमानो ऽपरो भवेत् // Mश्_२१.१९ //
SK
न चेन्निरुध्यमानश्च जायमानश्च युज्यते / सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते // Mश्_२१.२० //
SK
एवं त्रिष्वपि कालेषु न युक्ता भवसंततिः / त्रिषु कालेषु या नास्ति सा कथं भवसंततिः // Mश्_२१.२१ //
SK
२२ Tअथागतपरीक्षा द्वाविंशतितमं प्रकरणम् /
SK
स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः / तथागतः स्कन्धवान्न कतमो ऽत्र तथागतः // Mश्_२२.१ //
SK
बुद्धः स्कन्धानुपादाय यदि नास्ति स्वभावतः / स्वभावतश्च यो नास्ति कुतः स परभावतः // Mश्_२२.२ //
SK
प्रतीत्य परभावं यः सो ऽनात्मेत्युपपद्यते / यश्चानात्मा स च कथं भविष्यति तथागतः // Mश्_२२.३ //
SK
यदि नास्ति स्वभावश्च परभावः कथं भवेत् / स्वभावपरभावाभ्यामृते कः स तथागतः // Mश्_२२.४ //
SK
स्कन्धान् यद्यनुपादाय भवेत्कश्चित्तथागतः / स इदानीमुपादद्यादुपादाय ततो भवेत् // Mश्_२२.५ //
SK
स्कन्धांश्चाप्यनुपादाय नास्ति कश्चित्तथागतः / यश्च नास्त्यनुपादाय स उपादास्यते कथम् // Mश्_२२.६ //
SK
न भवत्यनुपादत्तमुपादानं च किंचन / न चास्ति निरुपादानः कथंचन तथागतः // Mश्_२२.७ //
SK
तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश्च पञ्चधा / उपादानेन स कथं प्रज्ञप्येत तथागतः // Mश्_२२.८ //
SK
यदपीदमुपादानं तत्स्वभावत्वान्न विद्यते / स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः // Mश्_२२.९ //
SK
एवं शून्यमुपादानमुपादाता च सर्वशः / प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः // Mश्_२२.१० //
SK
शून्यमिति न वक्तव्यमशून्यमिति वा भवेत् / उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते // Mश्_२२.११ //
SK
शाश्वताशाश्वताद्या कुतः शान्ते चतुष्टयम् / अन्तानन्तादि चाप्यत्र कुन्तः शान्ते चतुष्टयम् // Mश्_२२.१२ //
SK
येन ग्राहो गृहीतस्तु घनो ऽस्तीति तथागतः / नास्तीति स विकल्पयन्निर्वृतस्यापि कल्पयेत् // Mश्_२२.१३ //
SK
स्वभावतश्च शून्ये ऽस्मिंश्चिन्ता नैवोपपद्यते / परं निरोधाद्भवति बुद्धो न भवतीति वा // Mश्_२२.१४ //
SK
प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतमव्ययम् / ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम् // Mश्_२२.१५ //
SK
तथागतो यत्स्वभावस्तत्स्वभावमिदं जगत् / तथागतो निःस्वभावो निःस्वभावमिदं जगत् // Mश्_२२.१६ //
SK
२३ Vइपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम् /
SK
संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते / शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि // Mश्_२३.१ //
SK
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये / ते स्वभावान्न विद्यन्ते तस्मात् क्लेशा न तत्त्वतः // Mश्_२३.२ //
SK
आत्मनो ऽस्तित्वनास्तित्वे न कथंचिच्च सिध्यतः / तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम् // Mश्_२३.३ //
SK
कस्यचिद्धि भवन्तीमे क्लेशाः स च न सिध्यति / कश्चिदाहो विना कंचित्सन्ति क्लेशा न कस्यचित् // Mश्_२३.४ //
SK
स्वकायदृष्टिवत् क्लेशाः क्लिष्टे सन्ति न पञ्चधा / स्वकायदृष्टिवत् क्लिष्टं क्लेशेष्वपि न पञ्चधा // Mश्_२३.५ //
SK
स्वभावतो न विद्यन्ते शुभाशुभविपर्ययाः / प्रतीत्य कतमान् क्लेशाः शुभाशुभविपर्ययान् // Mश्_२३.६ //
SK
रूपशब्दरसस्पर्शा गन्धा धर्माश्च षड्विधम् / वस्तु रागस्य द्वेषस्य मोहस्य च विकल्प्यते // Mश्_२३.७ //
SK
रूपशब्दरसस्पर्शा गन्धा धर्माश्च केवलाः / गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः // Mश्_२३.८ //
SK
अशुभं वा शुभं वापि कुतस्तेषु भविष्यति / मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च // Mश्_२३.९ //
SK
अनपेक्ष्य शुभं नास्त्यशुभं प्रज्ञपयेमहि / यत्प्रतीत्य शुभं तस्माच्छुभं नैवोपपद्यते // Mश्_२३.१० //
SK
अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि / यत्प्रतीत्याशुभं तस्मादशुभं नैव विद्यते // Mश्_२३.११ //
SK
अविद्यमाने च शुभे कुतो रागो भविष्यति / अशुभे ऽविद्यमाने च कुतो द्वेषो भविष्यति // Mश्_२३.१२ //
SK
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः / नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः // Mश्_२३.१३ //
SK
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः / अनित्यमित्यपि ग्राहः शून्ये किं न विपर्ययः // Mश्_२३.१४ //
SK
येन गृण्हाति यो ग्राहो ग्रहीता यच्च गृह्यते / उपशान्तानि सर्वाणि तस्माद्ग्राहो न विद्यते // Mश्_२३.१५ //
SK
अविद्यमाने ग्राहे च मिथ्या वा सम्यगेव वा / भवेद्विपर्ययः कस्य भवेत्कस्याविपर्ययः // Mश्_२३.१६ //
SK
न चापि विपरीतस्य संभवन्ति विपर्ययाः / न चाप्यविपरीतस्य संभवन्ति विपर्ययाः // Mश्_२३.१७ //
SK
न विपर्यस्यमानस्य संभवन्ति विपर्ययाः / विमृशस्व स्वयं कस्य संभवन्ति विपर्ययाः // Mश्_२३.१८ //
SK
अनुत्पन्नाः कथं नाम भविष्यन्ति विपर्ययाः / विपर्ययेष्वजातेषु विपर्ययगतः कुतः // Mश्_२३.१९ //
SK
न स्वतो जायते भावः परतो नैव जायते / न स्वतः परतश्चेति विपर्ययगतः कुतः // Mश्_२३.२० //
SK
आत्मा च शुचि नित्यं च सुखं च यदि विद्यते / आत्मा च शुचि नित्यं च सुखं च न विपर्ययः // Mश्_२३.२१ //
SK
नात्मा च शुचि नित्यं च सुखं च यदि विद्यते / अनात्माशुच्यनित्यं च नैव दुःखं च विद्यते // Mश्_२३.२२ //
SK
एवं निरुध्यते ऽविद्या विपर्ययनिरोधनात् / अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते // Mश्_२३.२३ //
SK
यदि भूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् / कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति // Mश्_२३.२४ //
SK
यद्यभूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् / कथं नाम प्रहीयेरन् को ऽसद्भावं प्रहास्यति // Mश्_२३.२५ //
SK
२४ Āर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम् /
SK
यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः / चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते // Mश्_२४.१ //
SK
परिज्ञा च प्रहाणं च भावना साक्षिकर्म च / चतुर्णामार्यसत्यानामभावान्नोपपद्यते // Mश्_२४.२ //
SK
तदभावान्न विद्यन्ते चत्वार्यार्यफलानि च / फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः // Mश्_२४.३ //
SK
संघो नास्ति न चेत्सन्ति ते ऽष्टौ पुरुषपुद्गलाः / अभावाच्चार्यसत्यानां सद्धर्मो ऽपि न विद्यते // Mश्_२४.४ //
SK
धर्मे चासति संघे च कथं बुद्धो भविष्यति / एवं त्रीण्यपि रत्नानि ब्रूवाणः प्रतिबाधसे // Mश्_२४.५ //
SK
शून्यतां फलसद्भावमधर्मं धर्ममेव च / सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे // Mश्_२४.६ //
SK
अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम् / शून्यतां शून्यतार्थं च तत एवं विहन्यसे // Mश्_२४.७ //
SK
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना / लोकसंवृतिसत्यं च सत्यं च परमार्थतः // Mश्_२४.८ //
SK
ये ऽनयोर्न विजानन्ति विभागं सत्ययोर्द्वयोः / ते तत्त्वं न विजानन्ति गम्भीरं बुद्धशासने // Mश्_२४.९ //
SK
व्यवहारमनाश्रित्य परमार्थो न देश्यते / परमार्थमनागम्य निर्वाणं नाधिगम्यते // Mश्_२४.१० //
SK
विनाशयति दुर्दृष्टा शून्यता मन्दमेधसम् / सर्पो यथा दुर्गृहीतो विद्या वा दुष्प्रसाधिता // Mश्_२४.११ //
SK
अतश्च प्रत्युदावृत्तं चित्तं देशयितुं मुनेः / धर्मं मत्वास्य धर्मस्य मन्दैर्दुरवगाहताम् // Mश्_२४.१२ //
SK
शून्यतायामधिलयं यं पुनः कुरुते भवान् / दोषप्रसङ्गो नास्माकं स शून्ये नोपपद्यते // Mश्_२४.१३ //
SK
सर्वं च युज्यते तस्य शून्यता यस्य युज्यते / सर्वं न युज्यते तस्य शून्यं यस्य न युज्यते // Mश्_२४.१४ //
SK
स त्वं दोषानात्मनीनानस्मासु परिपातयन् / अश्वमेवाभिरूढः सन्नश्वमेवासि विस्मृतः // Mश्_२४.१५ //
SK
स्वभावाद्यदि भावानां सद्भावमनुपश्यसि / अहेतुप्रत्ययान् भावांस्त्वमेवं सति पश्यसि // Mश्_२४.१६ //
SK
कार्यं च कारणं चैव कर्तारं करणं क्रियाम् / उत्पादं च निरोधं च फलं च प्रतिबाधसे // Mश्_२४.१७ //
SK
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे / सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा // Mश्_२४.१८ //
SK
अप्रतीत्य समुत्पन्नो धर्मः कश्चिन्न विद्यते / यस्मात्तस्मादशून्यो हि धर्मः कश्चिन्न विद्यते // Mश्_२४.१९ //
SK
यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः / चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते // Mश्_२४.२० //
SK
अप्रतीत्य समुत्पन्नं कुतो दुःखं भविष्यति / अनित्यमुक्तं दुःखं हि तत्स्वाभाव्ये न विद्यते // Mश्_२४.२१ //
SK
स्वभावतो विद्यमानं किं पुनः समुदेष्यते / तस्मात्समुदयो नास्ति शून्यतां प्रतिबाधतः // Mश्_२४.२२ //
SK
न निरोधः स्वभावेन सतो दुःखस्य विद्यते / स्वभावपर्यवस्थानान्निरोधं प्रतिबाधसे // Mश्_२४.२३ //
SK
स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते / अथासौ भाव्यते मार्गः स्वाभाव्यं ते न विद्यते // Mश्_२४.२४ //
SK
यदा दुःखं समुदयो निरोधश्च न विद्यते / मार्गो दुःखनिरोधत्वात् कतमः प्रापयिष्यति // Mश्_२४.२५ //
SK
स्वभावेनापरिज्ञानं यदि तस्य पुनः कथम् / परिज्ञानं ननु किल स्वभावः समवस्थितः // Mश्_२४.२६ //
SK
प्रहाणसाक्षात्करणे भावना चैवमेव ते / परिज्ञावन्न युज्यन्ते चत्वार्यपि फलानि च // Mश्_२४.२७ //
SK
स्वभावेनानधिगतं यत्फलं तत्पुनः कथम् / शक्यं समधिगन्तुं स्यात्स्वभावं परिगृह्णतः // Mश्_२४.२८ //
SK
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः / संघो नास्ति न चेत्सन्ति ते ऽष्टौ पुरुषपुद्गलाः // Mश्_२४.२९ //
SK
अभावाच्चार्यसत्यानां सद्धर्मो ऽपि न विद्यते / धर्मे चासति संघे च कथं बुद्धो भविष्यति // Mश्_२४.३० //
SK
अप्रतीत्यापि बोधिं च तव बुद्धः प्रसज्यते / अप्रतीत्यापि बुद्धं च तव बोधिः प्रसज्यते // Mश्_२४.३१ //
SK
यश्चाबुद्धः स्वभावेन स बोधाय घटन्नपि / न बोधिसत्त्वचर्यायां बोधिं ते ऽधिगमिष्यति // Mश्_२४.३२ //
SK
न च धर्ममधर्मं वा कश्चिज्जातु करिष्यति / किमशून्यस्य कर्तव्यं स्वभावः क्रियते न हि // Mश्_२४.३३ //
SK
विना धर्ममधर्मं च फलं हि तव विद्यते / धर्माधर्मनिमित्तं च फलं तव न विद्यते // Mश्_२४.३४ //
SK
धर्माधर्मनिमित्तं वा यदि ते विद्यते फलम् / धर्माधर्मसमुत्पन्नमशून्यं ते कथं फलम् // Mश्_२४.३५ //
SK
सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे / यत्प्रतीत्यसमुत्पादशून्यतां प्रतिबाधसे // Mश्_२४.३६ //
SK
न कर्तव्यं भवेत्किंचिदनारब्धा भवेत्क्रिया / कारकः स्यादकुर्वाणः शून्यतां प्रतिबाधतः // Mश्_२४.३७ //
SK
अजातमनिरुद्धं च कूटस्थं च भविष्यति / विचित्राभिरवस्थाभिः स्वभावे रहितं जगत् // Mश्_२४.३८ //
SK
असंप्राप्तस्य च प्राप्तिर्दुःखपर्यन्तकर्म च / सर्वक्लेशप्रहाणं च यद्यशून्यं न विद्यते // Mश्_२४.३९ //
SK
यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति / दुःखं समुदयं चैव निरोधं मार्गमेव च // Mश्_२४.४० //
SK
२५ Nइर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम् /
SK
यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः / प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते // Mश्_२५.१ //
SK
यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः / प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते // Mश्_२५.२ //
SK
अप्रहीणमसंप्राप्तमनुच्छिन्नमशाश्वतम् / अनिरुद्धमनुत्पन्नमेतन्निर्वाणमुच्यते // Mश्_२५.३ //
SK
भावस्तावन्न निर्वाणं जरामरणलक्षणम् / प्रसज्येतास्ति भावो हि न जरामरणं विना // Mश्_२५.४ //
SK
भावश्च यदि निर्वाणं निर्वाणं संस्कृतं भवेत् / नासंस्कृतो हि विद्यते भावः क्वचन कश्चन // Mश्_२५.५ //
SK
भावश्च यदि निर्वाणमनुपादाय तत्कथम् / निर्वाणं नानुपादाय कश्चिद् भावो हि विद्यते // Mश्_२५.६ //
SK
यदि भावो न निर्वाणमभावः किं भविष्यति / निर्वाणं यत्र भावो न नाभावस्तत्र विद्यते // Mश्_२५.७ //
SK
यद्यभावश्च निर्वाणमनुपादाय तत्कथम् / निर्वाणं न ह्यभावो ऽस्ति यो ऽनुपादाय विद्यते // Mश्_२५.८ //
SK
य आजवंजवीभाव उपादाय प्रतीत्य व / सो ऽप्रतीत्यानुपादाय निर्वाणमुपदिश्यते // Mश्_२५.९ //
SK
प्रहाणं चाब्रवीच्छास्ता भवस्य विभवस्य च / तस्मान्न भावो नाभावो निर्वाणमिति युज्यते // Mश्_२५.१० //
SK
भवेदभावो भावश्च निर्वाणमुभयं यदि / भवेदभावो भावश्च मोक्षस्तच्च न युज्यते // Mश्_२५.११ //
SK
भवेदभावो भावश्च निर्वाणमुभयं यदि / नानुपादाय निर्वाणमुपादायोभयं हि तत् // Mश्_२५.१२ //
SK
भवेदभावो भावश्च निर्वाणमुभयं कथम् / असंस्कृतं च निर्वाणं भावाभावौ च संस्कृतौ // Mश्_२५.१३ //
SK
भवेदभावो भावश्च निर्वाणे उभयं कथम् / [तयोरेकत्र नास्तित्वमालोकतमसोर्यथा] // Mश्_२५.१४ //
SK
नैवाभावो नैव भावो निर्वाणमिति याञ्जना / अभावे चैव भावे च सा सिद्धे सति सिध्यति // Mश्_२५.१५ //
SK
नैवाभावो नैव भावो निर्वाणं यदि विद्यते / नैवाभावो नैव भाव इति केन तदज्यते // Mश्_२५.१६ //
SK
परं निरोधाद्भगवान् भवतीत्येव नोह्यते / न भवत्युभयं चेति नोभयं चेति नोह्यते // Mश्_२५.१७ //
SK
तिष्ठमानो ऽपि भगवान् भवतीत्येव नोह्यते / न भवत्युभयं चेति नोभयं चेति नोह्यते // Mश्_२५.१८ //
SK
न संसारस्य निर्वाणात्किंचिदस्ति विशेषणम् / न निर्वाणस्य संसारात्किंचिदस्ति विशेषणम् // Mश्_२५.१९ //
SK
निर्वाणस्य च या कोटिः कोटिः संसरणस्य च / न तयोरन्तरं किंचित्सुमूक्ष्ममपि विद्यते // Mश्_२५.२० //
SK
परं निरोधादन्ताद्याः शाश्वताद्याश्च दृष्टयः / निर्वाणमपरान्तं च पूर्वान्तं च समाश्रिताः // Mश्_२५.२१ //
SK
शून्येषु सर्वधर्मेषु किमनन्तं किमन्तवत् / किमनन्तमन्तवच्च नानन्तं नान्तवच्च किम् // Mश्_२५.२२ //
SK
किं तदेव किमन्यत्किं शाश्वतं किमशाश्वतम् / अशाश्वतं शाश्वतं च किं वा नोभयमप्यतः // Mश्_२५.२३ //
SK
सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः / न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः // Mश्_२५.२४ //
SK
२६ Dवादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम् /
SK
पुनर्भवाय संस्कारानविद्यानिवृतस्त्रिधा / अभिसंस्कुरुते यांस्तैर्गतिं गच्छति कर्मभिः // Mश्_२६.१ //
SK
विज्ञानं संनिविशते संस्कारप्रत्ययं गतौ / संनिविष्टे ऽथ विज्ञाने नामरूपं निषिच्यते // Mश्_२६.२ //
SK
निषिक्ते नामरूपे तु षडायतनसंभवः / षडायतनमागम्य संस्पर्शः संप्रवर्तते // Mश्_२६.३ //
SK
चक्षुः प्रतीत्य रूपं च समन्वाहारमेव च / नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते // Mश्_२६.४ //
SK
संनिपातस्त्रयाणां यो रूपविज्ञानचक्षुषाम् / स्पर्शः सः तस्मात्स्पर्शाच्च वेदना संप्रवर्तते // Mश्_२६.५ //
SK
वेदनाप्रत्यया तृष्णा वेदनार्थं हि तृष्यते / तृष्यमाण उपादानमुपादत्ते चतुर्विधम् // Mश्_२६.६ //
SK
उपादाने सति भव उपादातुः प्रवर्तते / स्याद्धि यद्यनुपादानो मुच्येत न भवेद्भवः // Mश्_२६.७ //
SK
पञ्च स्कन्धाः स च भवः भवाज्जातिः प्रवर्तते / जरामरणदुःखादि शोकाः सपरिदेवनाः // Mश्_२६.८ //
SK
दौर्मनस्यमुपायासा जातेरेतत्प्रवर्तते / केवलस्यैवमेतस्य दुःखस्कन्धस्य संभवः // Mश्_२६.९ //
SK
संसारमूलान्संस्कारानविद्वान् संस्करोत्यतः / अविद्वान् कारकस्तस्मान्न विद्वांस्तत्त्वदर्शनात् // Mश्_२६.१० //
SK
अविद्यायां निरुद्धायां संस्काराणामसंभवः / अविद्याया निरोधस्तु ज्ञानेनास्यैव भावनात् // Mश्_२६.११ //
SK
तस्य तस्य निरोधेन तत्तन्नाभिप्रवर्तते / दुःखस्कन्धः केवलो ऽयमेवं सम्यङ् निरुध्यते // Mश्_२६.१२ //
SK
२७ Dऋष्टिपरीक्षा सप्तविंशतितमं प्रकरणम् /
SK
अभूमतीतमध्वानं नाभूमिति च दृष्टयः / यास्ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः // Mश्_२७.१ //
SK
दृष्टयो न भविष्यामि किमन्यो ऽनागते ऽध्वनि / भविष्यामीति चान्ताद्या अपरान्तं समाश्रिताः // Mश्_२७.२ //
SK
अभूमतीतमध्वानमित्येतन्नोपपद्यते / यो हि जन्मसु पूर्वेषु स एव न भवत्ययम् // Mश्_२७.३ //
SK
स एवात्मेति तु भवेदुपादानं विशिष्यते / उपादानविनिर्मुक्त आत्मा ते कतमः पुनः // Mश्_२७.४ //
SK
उपादानविनिर्मुक्तो नास्त्यात्मेति कृते सति / स्यादुपादानमेवात्मा नास्ति चात्मेति वः पुनः // Mश्_२७.५ //
SK
न चोपादानमेवात्मा व्येति तत्समुदेति च / कथं हि नामोपादानमुपादाता भविष्यति // Mश्_२७.६ //
SK
अन्यः पुनरुपादानादात्मा नैवोपपद्यते / गृह्यते ह्यनुपादानो यद्यन्यो न च गृह्यते // Mश्_२७.७ //
SK
एवं नान्य उपादानान्न चोपादानमेव सः / आत्मा नास्त्यनुपादानः नापि नास्त्येष निश्चयः // Mश्_२७.८ //
SK
नाभूमतीतमध्वानमित्येतन्नोपपद्यते / यो हि जन्मसु पूर्वेषु ततो ऽन्यो न भवत्ययम् // Mश्_२७.९ //
SK
यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत् / तथैव च स संतिष्ठेत्तत्र जायेत वामृतः // Mश्_२७.१० //
SK
उच्छेदः कर्मणां नाशस्तथान्यकृतकर्मणाम् / अन्येन परिभोगः स्यादेवमादि प्रसज्यते // Mश्_२७.११ //
SK
नाप्यभूत्वा समुद्भूतो दोषो ह्यत्र प्रसज्यते / कृतको वा भवेदात्मा संभूतो वाप्यहेतुकः // Mश्_२७.१२ //
SK
एवं दृष्टिरतीते या नाभूमहमभूमहम् / उभयं नोभयं चेति नैषा समुपपद्यते // Mश्_२७.१३ //
SK
अध्वन्यनागते किं नु भविष्यामीति दर्शनम् / न भविष्यामि चेत्येतदतीतेनाध्वना समम् // Mश्_२७.१४ //
SK
स देवः स मनुष्यश्चेदेवं भवति शाश्वतम् / अनुत्पन्नश्च देवः स्याज्जायते न हि शाश्वतम् // Mश्_२७.१५ //
SK
देवादन्यो मनुष्यश्चेदशाश्वतमतो भवेत् / देवादन्यो मनुष्यश्चेत्संततिर्नोपपद्यते // Mश्_२७.१६ //
SK
दिव्यो यद्येकदेशः स्यादेकदेशश्च मानुषः / अशाश्वतं शाश्वतं च भवेतच्च न युज्यते // Mश्_२७.१७ //
SK
अशाश्वतं शाश्वतं च प्रसिद्धमुभयं यदि / सिद्धे न शाश्वतं कामं नैवाशाश्वतमित्यपि // Mश्_२७.१८ //
SK
कुतश्चिदागतः कश्चित्किंचिद्नच्छेत्पुनः क्वचित् / यदि तस्मादनादिस्तु संसारः स्यान्न चास्ति सः // Mश्_२७.१९ //
SK
नास्ति चेच्छाश्वतः कश्चित् को भविष्यत्यशाश्वतः / शाश्वतो ऽशाश्वतश्चापि द्वाभ्यामाभ्यां तिरस्कृतः // Mश्_२७.२० //
SK
अन्तवान् यदि लोकः स्यात्परलोकः कथं भवेत् / अथाप्यनन्तवांल्लोकः परलोकः कथं भवेत् // Mश्_२७.२१ //
SK
स्कन्धानामेष संतानो यस्माद्दीपार्चिषामिव / प्रवर्तते तस्मान्नान्तानन्तवत्त्वं च युज्यते // Mश्_२७.२२ //
SK
पूर्वे यदि च भज्येरन्नुत्पद्येरन्न चाप्यमी / स्कन्धाः स्कन्धान् प्रतीत्येमानथ लोको ऽन्तवान् भवेत् // Mश्_२७.२३ //
SK
पूर्वे यदि न भज्येरन्नुत्पद्येरन्न चाप्यमी / स्कन्धाः स्कन्धान् प्रतीत्येमांल्लोको ऽनन्तो भवेदथ // Mश्_२७.२४ //
SK
अन्तवानेकदेशश्चेदेकदेशस्त्वनन्तवान् / स्यादन्तवाननन्तश्च लोकस्तच्च न युज्यते // Mश्_२७.२५ //
SK
कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते / न नङ्क्ष्यते चैकदेश एवं चैतन्न युज्यते // Mश्_२७.२६ //
SK
उपादानैकदेशश्च कथं नाम विनङ्क्ष्यते / न नङ्क्ष्यते चैकदेशो नैतदप्युपपद्यते // Mश्_२७.२७ //
SK
अन्तवच्चाप्यनन्तं च प्रसिद्धमुभयं यदि / सिद्धे नैवान्तवत्कामं नैवानन्तवदित्यपि // Mश्_२७.२८ //
SK
अथवा सर्वभावानां शून्यत्वाच्छाश्वतादयः / क्व कस्य कतमाः कस्मात्संभविष्यन्ति दृष्टयः // Mश्_२७.२९ //
SK
सर्वदृष्टिप्रहाणाय यः सद्धर्ममदेशयत् / अनुकम्पामुपादाय तं नमस्यामि गौतमम् // Mश्_२७.३० //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Nāgārjuna: Madhyamakaśāstra (sa_nAgArjuna-madhyamakazAstra.htm).

Source