Bycśṭ_1.20 SK MS, प्. २०ब् सहचारिणौ //
2 SK यस्य हि भवतो ऽन्यस्य वेष्टैर् योगः प्रियस् तस्य तैर् एव वियोगः कथम् अप्रियः / ननु यत्रैव सन्ताने योगस् तत्रैवावश्यम्भावी वियोगो ऽपीति योगवियोगौ चोभाव् अपि दृश्येते सहचारिणौ / तस्माद् योगार्थिना वियोग
3 SK देवाMS, ल्. २राधनं कृतम् / श्रीर् मे स्याद् इति तेन वरो लब्धः / यथास्य गृहं प्रविष्टस्य श्रीर् गृहं प्रविष्टा तदनुलग्ना च कालकर्णी / स श्रियं पृच्छति स्म / कैषा / आह / कालकर्णीति / स आह / न पुनर् मयास्यार्थे वरो लब्धः / सा प्राह / यत्राहं तत्रैषावश्यम् इति / एवं यत्र संयोगः .
4 SK दुःMS, ल्. ३खम् / एवं सर्वसंयोगसुखं वियोगदुःखानुषक्तम् /
5 SK एवं यस्य बडिशामिषभक्षणम् इष्टं तस्यावश्यं बडिशवेधोद्धरणम् अपीति /
6 SK अत्राह / यद्य् अप्य् अन्ते वियोगो नियतस् तथाप्य् आदौ सम्प्रयोगमहत्त्वान् नासौ गण्यत इति //
Bycśṭ_1.21 SK अतिक्रान्तस्य नास्त्य् आदिर् अन्तो ऽनागतस्य च / केन ते दृ
8 SK विMS, ल्. ४प्रयोगप्रभावितः / अनागतस्याप्य् अविद्यावत एवान्ताभावे ऽसाव् अप्य् अप्राप्तत्वात् तदात्मकः / तद् अत्रानवराग्रजातिसंसारमहार्णवपतितस्य प्रतिक्षणं विनश्वरत्वात् संस्काराणां सर्वेषाम् अर्थेन यः संयोगः स क्षणिकः / तद् एवम् अतीतानागतसङ्गृहीतो विप्रयो
9 SK MS, ल्. ५स्यातिसूक्ष्मत्वात् संयोगदर्शने सति वियोगदर्शिना सदैव संवेगवता भाव्यम् /
10 SK अन्यभार्यापहरणविवादवत् / कश्चित् पुरुषो देशान्तरं गतस् तस्य प्रोषितस्य भार्यान्येन ग्रामसमीपस्थेन श्रुतं श्रुत्वा च विटगृहं गत्वा तत्कालकृतेन
11 SK MS, ल्. ६तात्कालिकवियोगेन तत् तं शोचितम् /
12 SK अत्राह / यद्य् अपि महान् वियोगस् तथाप्य् ऋतुसम्पदाक्षिप्तचित्तत्वान् नासौ चिन्त्यत इति / उच्यते /
Bycśṭ_1.22 SK शत्रुवद् यान्ति ते काला नियमेन क्षणादयः / सर्वथा तेन ते रागः शत्रुभूतेषु तेषु मा //
14 SK इह खलु यस्मात् तव जीवितं क्षणल
15 SK MS, ल्. ७महारिषु तेषु कालेषु भवतो रागो मा भवत्व् इति / मित्रमुखेनावस्थितारिपरिज्ञातृवत् तत्परिज्ञानकुशलेन भवितव्यम् अप्रमादचारिणा /
16 SK वृद्धदासीदुःखानुबन्धनवत् / यथा वृद्धदास्याः क्ष परिभवदोषच् च स्वामिभिः
17 SK शिMS, ल्. ८शिरम् अभिलषति /
18 SK एवम् इतरेणे कुतश्चित् सुखम् अस्ति / तद् एवम् एनां संस्कारधर्मताम् अभितःस्थिताम् अपि चानुचिन्तयता संविग्नमानसेन युक्तम् अनुरूपम् आचरितुम् //
20 SK उच्य MS, प्. २१अ१ते /
Bycśṭ_1.23 SK विप्रयोगभयाद् गेहान् न निर्गच्छसि दुर्मते / अवश्यं नाम कर्तव्यं कुर्याद् दण्डेन को बुधः //
22 SK इह बन्धुजनविप्रयोगः कष्ट इति तद्भयाद् गेहान् न निर्गच्छसि दुर्मते / तद् अपि यदा तदा च मृत्युवशान् निय
23 SK MS, ल्. २देयं करं कृत्स्नं महद् दुःखम् अनुभूय पश्चाद् ददति ग्रामीणा नान्यथा / एवम् अवश्यं त्यक्तव्यं बन्धुजनं मृत्युना त्याज्यन्ते ऽबुधा नात्मना त्यजन्ति /
24 SK अत्राह / यद्य् अवश्यं बन्धुवर्गस् त्याज्यस् तथापि सुतम् उत्पाद्य पूहे तस्मिन् गृहभारम् उत्सृज्येत कर्तव्यता परिसमाप्तं कृत्वा निर्गमि
25 SK MS, ल्. ३व मया वनं गन्तव्यं किं तु कर्तव्यशेषं किंचिद् अस्ति तत् कृत्वा यास्यामीति तद् एतद् यत् क्रियते यदर्थं च क्रियते तदुभयं कृत्वापि यदि पुनः परित्याज्यम् एव तेन तर्हि कृतेन को गुण इत्य् अकर्तव्यम् एवैतत् / तस्मान् न तदपेक्षया कालक्षेपो युक्त इति / कृत्याकृत्यविचार
26 SK पMS, ल्. ४तितम् आम्रफलं गृहीतं सो ऽन्येन पृष्टः किम् अनेन करिष्यसीति / स आह / प्रक्षाल्य परित्यक्ष्यामीति / एवं यदि विषयाः परित्याज्याः किं तैः पर्यन्विष्टैः / यथा हि कश्चित् सार्थिको गमन पाषाणं निर्घर्षयितुम् आरब्धः स पृष्टः किं करोषीति तद् एव निदर्शयति स्म
28 SK यद्य् अप्य् अर्थतो वनगमनं प्रधानं तथाप्य् आत्मात्मीयसङ्गवतो ऽस्माद् भयम् उत्पद्यत इति / उच्यते /
Bycśṭ_1.25 SK नियमाद् विद्यते यस्य मर्त्यो ऽहम् इति भावना / तस्य सङ्गपरित्यागान् मृत्योर् अपि भयं कुतः //
30 SK इह यस्य कस्यचित् प्राज्ञस्यागमानुसारेण मरणधर्मो ऽहम् इति भावना
31 SK MS, ल्. ६तावद् भयं नास्ति / कुत एव वनगमनात् पुत्रवियोगाद् वा भयं भविष्यतीति / अतो मरणानुस्मृतिभावनायाम् एव योगः करणीयः /
32 SK निर्विषीकरणाङ्गुलीयकरबन्धनवत् / सविषान्नपरित्यागवच् च / यथा हि निर्विषीकरणाङ्गुलीयकं करे बध्यते / तथा विद्वद्भिः क्लेशा
33 SK परित्याMS, ल्. ७गेन निःश्रेयसम् इति //
34 SK आचार्यार्यदेवीये बोधिसत्त्वयोगाचारे चतुःशतके नित्यविपर्यासप्रहाणोपायसन्दर्शनं प्रथमं प्रकरणं समाप्तम् //
35 SK MS, प्. २१अ७उक्तस् तावत् प्रथमेन प्रकरणेनानित्ये नित्यम् इति विपर्यासस्य प्रहाणोपायः /
36 SK यस्माMS, ल्. ८त् सति शरीरे ऽध्यात्मसमुत्थानि चतुरुत्तराणि चत्वारि व्याधिशतान्य् उत्पद्यन्ते धातुवैषम्यनिमित्तानि / बाह्यजानि च लोष्टदण्डशस्त्रशीतोष्णदंशमशकसरीसृपादिसंस्पर्शनिमित्तानि / तस्माद् अनेकदुःखोदयहेतु
37 SK MS, प्. ११ब् तथा दुःखस्य पात्रं भवति /
38 SK अपि च सुखेन भावयितुम् अशक्यत्वात् तद् गम्यते / तथाहि //
Bycśṭ_2.7 SK शरीरं सुचिरेणापि सुखस्य स्वं न जायते / परेणाभिभवो नाम स्वभावस्य न युज्यते //
40 SK सुचिरेणापि कालेन तैस् तैः सुखोपभोगनिमित्तैर् विषयैर् उपचर्यमाणम् अपि सुखस्य स्वं शरीरं न जायते / दुःखस्वभावत्वात् / यथा नाम कठिनस्वभावानां त्रपुसीसरजतसुवर्णादीनां यद्य् अप्य् अग्निसंयोगाद् द्रवत्वं भवति / तथापि तेषां द्रवत्वं स्वं नैव भवति / कठिनस्वभाMS, ल्. २वत्वात् / तथा शरीरस्य दुःखस्वभावत्वात् / अनात्मीयेन सुखेन सुचिरेणापि न शक्यम् आत्मीयत्वं कर्तुम् इति दुःखम् एव शरीरम् //
41 SK कोकिलपोतवत् / यथा कोकिलपोतः काकेन संवर्धितः कोकिलस्यैव भवति न काकस्यैवं न सुखस्य शरीरम् / भवति चात्र /
42 SK दुःखात्मकं शरीरं सुखस्य किं स्वीकरोषि मोहान्ध / न हि जातु कृष्णलोहं सुचिराद् अपि हेमतां याति //
44 SK स्याद् एतत् सद् अपि दुःखं नासंविदितम् अनर्थायतनम् / तथा ह्य् एके जात्या प्रभृत्य् आमरणाMS, ल्. ३न्ता एकान्तसुखिनो दृश्यन्ते / अग्रसत्त्वाश् च महति पदे निवेशितास्थास् तद्व्यासङ्गान् न संवेदयन्ते / तत् कथं दुःखात्मकं शरीरम् इति / उच्यते /
Bycśṭ_2.8 SK अग्र्याणां मानसं दुःखम् इतरेसां शरीरजम् / दुःखद्वयेन लोको ऽयम् अहन्य् अहनि हन्यते //
46 SK द्विविधं खलु दुःखं शारीरं मानसं च / तत्र य एते सर्वसुखोपकरणसम्पन्ना अग्र्या अग्रकुलीना महाभोगास् तेषां स्थूलेच्छानां महतः पदस्याभीप्सितस्य दुरापत्वाद् ईर्ष्याबाहुल्येनेष्टालाMS, ल्. ४भजं मानसं दुःखम् अनपायि तेषाम् / ये पुनर् एव नीचकुलीना अशनशयनशरणवसनविप्रहीणा अधमत्वात् ते शारीरेण दुःखेन हता एवेति / कुतः कस्यचित् सुखावकाश
47 SK इत्य् एवं सर्व एवायं लोको दुःखद्वयेनाहन्य् अहनि हन्यते / तस्माद् अत्र न कश्चित् स्वभावेन सुखी विद्यते //
48 SK अधिकृतहस्त्यारोपितदर्शनमन्युपरितोषणवत् / केनचिद् राज्ञा हस्तिनि दुर्दान्ते कश्चिद् आरोपितो वाहयेति / तेन च स हस्ती सम्यक् प्रेरिMS, ल्. ५तस् ततो राज्ञा परितुष्टेन सम्मानितः / तस्य पुरुषस्य सम्मानं दृष्ट्वा हस्त्यधिकृतः पुरुषो दुःखी संवृत्तः / ततो ऽस्य भयाद् दौर्मनस्यम् उत्पन्नम् / द्वितीयश् च हीनपुरुषस् तेन राज्ञा तस्मिन् हस्तिन्य् आरोपितो वाहयेति / तेन न शकितः / स राज्ञा शारीरेण दुःखेन योजितः / अधिकृतस्य च परितोष उत्पन्नः / तत्रैकस्य मानसं दुःखम् अभूद् द्वितीयस्य शारीरम् / तद्वन् महताम् अवमानान् मानसं दुःखम् उत्पद्यते / हीनानाMS, ल्. ६ं तु ताडनाच् छारीरम् / भवति चात्र /
49 SK दुःखद्वयेन लोकं विहन्यमानं स्वभावदुःखार्तम् / दृष्ट्वा कस् तं ब्रूयात् सुखीति करुणात्मकः पुरुषः //
51 SK अत्राह / यद्य् अपि दुःखद्वयं विद्यते / तथापि तन् महता सुखेनाभिभूतं न ज्ञायत इति / उच्यते / कुतः सुखस्य महत्त्वं दुःखविधेयस्य कल्पनाख्यस्यापि धर्मस्य प्रतिबद्धवृत्तित्वात् / तथा हि //
Bycśṭ_2.9 SK कल्पनायाः सुखं वश्यं वश्या दुःखस्य कल्पना / अतो ऽस्ति किंचित् सर्वत्र न दुःखाद् बMS, ल्. ७लवत्तरम् //
53 SK यदा खल्व् अयं पुरुष एवं कल्पयते दाताहम् ईश्वरो ऽहम् इष्टान् इन्द्रियार्थान् उपभुञ्जे ऽहम् इति / तदास्यैवं परिकल्पयतो मानसं सुखम् उत्पद्यते / सुखसमर्पिणाम् अपि परतस् तदपायम् आशङ्कमानानां भोगविच्छित्तिकल्पनया पुनस् तन् मानसं सुखं निवर्तत इत्य् एवं सुखस्योत्पादनिरोधयोः कल्पनाविधेयत्वात् कल्पनायाः सुखं वश्यं भवति / दुःखं तु नैवम् / न ह्य् अस्ति काचित् कल्पना या दुःखस्योपघातसामर्थ्यMS, ल्. ८म् उपरुन्ध्याद् इत्य् अतः सुखवन् न दुःखं कल्पनावश्यम् /
54 SK यत् तु खल्व् इदम् इष्टविषयसम्भोगसुखं या च सुखोदयानुकूला कल्पना तद् उभयम् अपि दुःखम् उपजातम् उपहन्ति / तथा हीन्द्रियार्थम् उपभुञ्जानो ऽप्य् अयम् अन्यतमेन दुःखेनाभिभूतः सह कल्पनया तत् सर्वं सुखम् अपहाय दुःखम् एव प्रतिसंवित्ते / न सुखम् // तद् एवं सुखकल्पनाया दुःखविधेयत्वात् / दुःखम् एव बलवत्तरं न सुखम् /
55 SK सपत्नीपुत्रसत्कारदुःखितावत् / सप MS, प्. १२अत्नीद्वयस्यैका मृतपुत्रा द्वितीया सपुत्रा / तत्र या मृतपुत्रा सा तं सपत्नीपुत्रं सत्क्रियमाणं दृष्ट्वातीव शोचति स्म / सा पृष्टा कस्मान् मृतम् अभीष्टं शोचसीति / सा प्राह / नाहं तं शोचामि / अपि त्व् एतम् अहं सपत्नीपुत्रो जीवतीति / सा परेण समयेन सपत्नीपुत्रे ग्लाने ग्रामान्तरं गता / कतिपयैर् अहोभिस् तं ग्रामम् उपश्लिष्टा मृतकश् च तस्मान् निह्रियते / तयैवं कल्पितं स एव सपत्नीपुत्रो मृत इति /
56 SK एवं चास्याः परिकल्प्यातीव सौमनस्यं जातम् / वृश्चिकेन चाMS, ल्. २ङ्गावयवे दष्टा तद् अस्याः कल्पनावशेन सौमनस्यं जातं विषदुःखेनाभिभूतम् / अतो न दुःखाद् बलवत्तरं किंचित् क्वचिद् अस्ति / आह चात्र /
57 SK विपर्यासाद् यतो जातं सुखं तस्मात् सुदुर्लभम् / दुःखं तु भूतनिर्यातं तस्मात् तद् बलवत्तरम् //
59 SK अत्राह / यद्य् अपि सुखं दुर्लभं तथापि शरीरस्यापीडाकरत्वात् तद् आत्मीयं बह्व् अपि दुःखं पीडाकरत्वात् परम् एव भवतीति / उच्यते /
Bycśṭ_2.10 SK कालो यथा यथा याति दुःखवृद्धिस् तथा तथा / तस्मात् कडेवरस्यास्य परवद् दृMS, ल्. ३श्यते सुखम् //
61 SK यस्य खलु शरीरकालो यथा यथा वर्धते बालकौमारयौवनस्थाविरेषु तथा तथा दुःखस्याभिवृद्धिर् दृष्टा न सुखस्य / यस्माच् चैवं विवर्धमानस्य शरीरस्य पृष्ठतः पृष्ठतः सुखम् अपसर्पति / तस्माद् अस्य शरीरस्य दुःखम् एवात्मीयं दृश्यते सुखं तु परभूतम् इति
62 SK दीर्घाध्वगवत् / यथा दीर्घाध्वगस्य दिने दिने तीव्रतरं श्रमदुःखं पथ्यदनपरिक्षयदुःखं च भवत्य् एवं सर्वबालपृथग्जना यथाMS, ल्. ४ यथा चिरं जीवन्ति तथा तथा जरादुःखम् अनुप्राप्नुवन्ति / मरणस्य चाभ्यासीभवन्ति / आह चात्र /
63 SK स्नेहाद् इवास्य दुःखं पुरतः पुरतः प्रयाति यन् नित्यम् / त्यजति च सुखं शारीरं परवत् तस्मात् परं भवति //
64 SK अत्राह / यद्य् अप्य् अस्य शरीरस्य दुःखं स्वभावस् तथापि सुखहेतुप्रतीकारो यस्माद् विद्यते तस्मान् नात्मशरीराद् उद्वेगः कार्य इति // उच्यते /
Bycśṭ_2.11 SK व्याधयो ऽन्ये च दृश्यन्ते यावन्तो दुःखहेतवः /MS, ल्. ५ तावन्तो न तु दृश्यन्ते नराणां सुखहेतवः //
66 SK इह शरीरस्य दुःखहेतवो यावन्तो दृश्यन्ते / अध्यात्मसमुत्थिता धातुवैषम्यहेतुका व्याधयः / अन्ये च बाह्याः शीतादिनिमित्ता अनिष्टसंस्पर्शाः / तावन्तो ऽध्यात्मबाह्यहेतुकाः सुखहेतवो ऽस्य शरीरस्य नैव दृश्यन्ते /
67 SK यस्य चाल्पाः सुखहेतवो ऽनेके च दुःखहेतवः शरीरस्य तस्मात् सुखहेतुसद्भावाद् दुःखान् नोद्वेगः करणीयMS, ल्. ६ इति / तन् न /
68 SK राजदुहितृस्वयंवराप्रार्थनावत् / वैश्रवणदुहितृहरणमान्धातृवच् च / ये राजदुहितरं स्वयंवरां प्रार्थयन्ते ते दुःखेन संयुज्यन्ते / एकस्यैव हि सा सुखहेतुर् भवति न सर्वेषाम् / बहवश् च प्रार्थयन्ते न चासादयन्ति ततो दुःखिनो भवन्ति / तथा सत्त्वानां बहवो दुःखहेतवो ऽल्पास् तु सुखहेतवः / तथा वैश्रवणदुहितृहरणे मान्धातृवद् अनेकदुःखहेतवो भवन्त्य् उभयोMS, ल्. ७र् बलवत्त्वात् / न तु तथा सुखहेतवः / आह चात्र /
69 SK सुखम् उदबिन्दुप्रतिमं दुःखं तु समुद्रवारिसङ्काशम् / काये मत्वा विद्वांस् तत्र सुखं मन्यते नु कथम् //
70 SK अत्राह / यदि सुखं नाम न स्यान् नास्य वृद्धिर् दृश्येत / यस्माच् च सुखस्य दृश्यते वृद्धिस् तस्मात् सुखम् अस्तीति / उच्यते /
Bycśṭ_2.12 SK सुखस्य वर्धमानस्य यथा दृष्टो विपर्ययः / दुःखस्य वर्धमानस्य तथा नास्ति विपर्ययः //
72 SK सुखस्य हि यथा यथा वृद्धिर् भवति तथा तथा तस्य वर्धMS, ल्. ८मानस्य विपर्ययो दृष्टः / यदि च स्वभावेन सुखं स्यान् न तद्विपर्ययः स्यात् / सुखस्य तु वर्धमानस्य तथाविपर्ययो ऽस्ति न दुःखस्य /
73 SK तथा हि सुखम् अभिवर्धमानं कालप्रकर्षेणावगीतम् अल्परसम् आजायते / दुःखं पुनर् अभिवर्धमानम् अधिकतरसंतापकर्कशं सुतरां शरीरं चेतश् चोपहन्ति / तद् एवं वृद्धौ विपर्ययाभावाद् दुःखस्वभावं शरीरं न सुखं स्वभावतो ऽस्ति /
75 SK MS, प्. २ब् कस्यचिद् राज्ञो नैमित्तिकेनावेदितं वर्षं पतिष्यति यस् तेनाम्भसा कृत्यं करिष्यति स उन्मादं गमिष्यतीति / अथ राज्ञा स्वार्थं कूपश् छादितस् तच् च वर्षं पतितम् / ततः स देशजनस् तेनाम्भसा कृत्यं कृत्वोन्मत्तो ऽपि सन्न् एकप्रकृतित्वाद् आत्मानम् एव स्वस्थं मन्यते / राजानम् उन्मत्तम् / ततो राज्ञा तद् अर्थम् उपलभ्य तद् एवाम्भ उपयुक्तं मा माम् उन्मत्त इति परिकल्प्यावहसेयुर् विनाशयेयुर् वेति //
76 SK एवं यद्य् एक एव मूत्री स्यात् स कुष्ठीव वर्ज्येत / यदा तु सर्व एव मूत्रिणस् तदा कुत्रैMS, ल्. २षाम् अशुचिसंज्ञा भविष्यति / क्वचिच् च देशे सर्वो जनो गलगण्डाभिभूतः परमविरूपस् तत्र चान्यो दर्शनीयो गतः स तैः परिवर्ज्यते परमविरूपो ऽङ्गविकल इति / आह चात्र /
77 SK यदि निर्दोषः स्याल् लोकः सर्वो ऽपि तत्र रज्येत / दोषस् तु विद्यते यस्मात् तस्मात् सन्तस् तम् उज्झन्ति //
78 SK अत्राह / यो नाम युवा भूत्वा सर्वोपकरणसम्पन्नं युवतिजनं तुष्ट्या नोपभुङ्क्ते स जीवलोके परमवञ्चितो भवति / तथा हि सुरभिगन्धामोदMS, ल्. ३संवासाद् अस्य तद् अशौचम् अपनुद्यते / तत्र शुचिं सेवमानानाम् अदोष इति // उच्यते //
Bycśṭ_3.23 SK प्रतिनासिकया तुष्टिः स्याद् धीनाङ्गस्य कस्यचित् / रागो ऽशुचिप्रतीकारे पुष्पादाव् इष्यते तथा //
80 SK यथा कश्चिद् अपनीतनासिको वहन् कृत्रिमां नासिकां सकलाङ्गम् आत्मानं मन्यते तुष्टिं च गच्छति / स हि बालजातीयतया ययैव स्वकायप्रतिनासिकया लज्जितव्यं तयैव तुष्टिं जनयति / तथैMS, ल्. ४व कामेषु प्रकृत्या लोलजातीयस्य बालजनस्य मोहाद् अशुचिप्रतीकारेषु सुरभिकुसुमगन्धालङ्कारादिष्व् अशरीरस्वभावेष्व् अप्य् अतः संरागो भवति / प्रतिविधानेन शुचिम् आत्मानं परं च मन्यते / न हि कुसुमादयः समुद्वहन्तो ऽपि स्थायिनं गन्धातिशयम् अलम् एनं लशुनम् इव वासयितुम् //
81 SK घृतलिप्तबिडालनासिकास्वादनवत् / सुवर्णनासिकादर्शनतुष्टिवच् च / यथा बिडालस्य घृतेन नासिकां म्रMS, ल्. ५क्षयित्वा रूक्षान्नपिण्डी दीयते / स तां स्नेहयुक्तां मन्यते / यथा च नासिकावियुक्तः प्रतिनासिकां सौवर्णीं कारयित्वा तां दृष्ट्वा तुष्टिम् उत्पादयति / एवं पुष्पादिभिर् अशुचिप्रतीकारं कृत्वा काये रागम् उत्पादयन्ति / आह चात्र /
82 SK व्रणोपमस्य कायस्य गन्धमाल्यांशुकादिषु / व्रणलेपनभूतेषु मोहात् संरज्यते जनः //
83 SK अत्राह / अस्ति रागस्य कारणं पुष्पादयः / यदि च नMS, ल्. ६ स्यात् कारनं न तैः कायेषु जनो रज्येतेति / उच्यते /
Bycśṭ_3.24 SK शुचि नाम न तद् युक्तं वैराग्यं यत्र जायते / न च सो ऽस्ति क्वचिद् भावो नियमाद् रागकारणम् //
85 SK स्वभावेन खलु शुचि नाम वस्तु न किंचिद् अस्ति / तत्र तावद् यद् अनुपहतदर्शनाः प्रक्षरितामेध्यबीजदर्शनं कायम् ईक्षमाणा विरज्यन्ते / तस्मात् तद्वैराग्यकारणत्वात् पुरीषपुञ्जवच् छरीरं शुचित्वेनानुपपन्नं पुष्पादयो ऽपि निMS, ल्. ७यमाद् रागकारणत्वेनानुपपन्नास् तत्रापि वैराग्यस्य सद्भावात् / तथा हि कामवैराग्यलाभिनां तेष्व् अपि वैराग्यम् उपजायते /
86 SK अपि खलु स्वभावेन न हि किंचिच् छुचि नामास्ति यन् नियमेन रागकारणं स्यात् / तथा हि पुष्पादीनाम् अपि शुचिसंज्ञितानां पर्युषितानाम् अन्यथाभावात् प्रातिकूल्यम् उत्पद्यते / यदि तेषां स्वभावेन शुचित्वं स्यान् नान्यथाभावः स्यात् / तस्मान् न तेषु स्वभावेन शुचित्वम् अस्ति /
87 SK यदि च नियमात् पुष्पादयो भाMS, ल्. ८वा रागस्य कारणं स्युस् तत्र सर्वे ऽपि सर्वदापि रागं जनयेयुः / न चैतद् एवम् इति / न पुष्पादयो रागस्य कारणं युज्यन्ते /
88 SK एकस्येष्टानिष्टदुहितृदर्शनवत् / कश्चिद् वणिग् अभिजातायां दुहितरि प्रवासं गतः स कालान्तरेणागतः / सा चास्य दुहिता प्राप्तयौवना तस्याधिष्ठानस्य बहिर् उद्याने कन्याभिः सह क्रीडति स्म / तस्य तां दृष्ट्वा तीव्रो राग उत्पन्नो यदा तु श्रुतं दुहिता तवैषेति तदा विरक्तः MS, प्. ३अ / एवं न स कश्चिद् भावो ऽस्ति यो नियमेन रागाय भवति / यत्र च वैराग्यम् उत्पद्यते तद् अशुचिरवगन्तव्यम् / आह चात्र /
89 SK तत्रैव रज्यते यस्मात् तत्रैव च विरज्यते / तस्मान् नियमतः सिद्धं न रागस्यास्ति कारणम् //
90 SK तद् एवम् अशुचि शरीरं यथा दुःखम् अनित्यं च तद् विहितं पूर्वं प्रतिपादयिष्यत्य् अनात्मत्वम् / त एते चत्वारो ऽविपर्यासाः / इदं चिन्त्यते किम् एते चत्वारो ऽविपर्यासा एकस्मिन् पदार्थे सम्भवन्त्य् आहोस्विन् नेति / उच्यते /
Bycśṭ_3.25 SK अनित्यम् अशुभं दुःखम् अMS, ल्. २नात्मेति चतुष्टयम् / एकस्मिन्न् एव सर्वाणि सम्भवन्ति समासतः //
92 SK यत् खलु संस्कृतं प्रतीत्यसमुत्पन्नं तद् अनित्यं क्षणिकत्वात् / यच् चानित्यं तद् अशुभम् उद्वेगकरत्वात् / यच् चाशुभं तद् दुःखं पीडाकरत्वात् / दुःखं च यत् तद् अनात्मकम् अस्वतन्त्रत्वात् / तद् एवम् एकस्मिन्न् एव भावे समासतश् चत्वारो ऽविपर्यासाः सम्भवन्ति / न चैतत् संविद्यमानम् अपि बालैर् विपर्यस्तैः परिच्छिद्यते / परिकल्प्यते तु तद्विपरीतत्वं भावानाम् / तद् अर्हMS, ल्. ३ति प्राज्ञो यथास्थितम् अनित्यत्वादिकं भावानाम् अधीत्य नैःस्वाभाव्याधिगमे चेतः समुत्साहयितुम् /
93 SK पिशाचीस्वभावदर्शनभीतवत् / कस्यचित् पिशाची पत्नीरूपेण व्यवस्थिता / स तां पत्नीवद् उपचरति / यदा तु तेन तस्या दुःखोत्पादनेन बीभत्सतयाविधेयतयानात्यन्तिकत्वेन च स्वभावो दृष्टस् तदा भीतो नैषा मम पत्नी पिशाच्य् एषेति / तदा तस्यां विरज्यति / एवं संस्कृतस्वभावदर्शना विरज्यन्तिMS, ल्. ४ प्राज्ञाः / आह चात्र /
94 SK यत् संस्कृतं न तन् नित्यं यद् अनित्यं न तच् छुभम् / न सुखं तद् यद् अशुभं यद् दुःखं तद् अनात्मकम् //
95 SK चत्वारो विपर्यासा एकस्मिन्न् एव संस्कृते सम्भवन्ति यतस् तस्मात् सर्वे क्लेशा अवस्तुका
97 SK अशुचिचिन्ता नाम त्र्तीयं प्रकरणम् //
98 SK MS, प्. ३अ४अत्राह / उक्तस् त्रयाणां विपर्यासानां प्रहाणोपायः / चतुर्थस्य विपर्यासस्येदानीम् उच्यतां प्रहाणोपाय इति / उच्यते /
Bycśṭ_4.1 SK अहं ममेतिMS, ल्. ५ वा दर्पः सतः कस्य भवेद् भवे / यस्मात् सर्वे ऽपि सामान्या विषयाः सर्वदेहिनाम् //
100 SK अहङ्कारममकारौ खल्व् अपि राजन्य् आधिक्येन वर्तेत इति / तयोः प्रतिषेधेन भूयसा राजैवानुशास्यते / तत्राहङ्कार आत्मन उत्कर्षविशेषपरिकल्पनाद् उपजायते / अहं प्रभुर् इति / ममकारस् तु स्वीकृतार्थवशित्वकल्पनायाम् उपजायते / ममेमे विषया इति / दर्पो दृप्तताMS, ल्. ६ गर्वो मद इत्यर्थः / भवः संसारः कर्मक्लेशपरायत्तस्य जन्ममरणपरम्परया गतिपञ्चकपर्यटनम् / तत्र वर्तमानस्य कस्य नाम विदुषो ऽहङ्कारममकाराभ्यां दर्प उत्पद्यते / यदि हि कस्यचित् क्वचिद् असाधारणम् ईशत्वं स्यात् तदा युज्येतास्य तदालम्बनो दर्पो ऽहम् एवैषां विषयाणां स्वामी ममैव चैते विषया इति वशित्वदर्शनात् / न चैतत् संसारपर्यापन्नस्य बालस्य सम्भMS, ल्. ७वति / तथा हि सर्वसत्त्वसाधारणकर्मनिर्जाताः सर्वे रूपादयो विषयास् तद् एषु सर्वसत्त्वसाधारणपरिभोगेषु साधारणतरुषण्डमण्डपादिष्व् इव न युक्तो ऽहङ्कारममकारपरिग्रहाद् दर्पः /
101 SK राजनटवत् / यथा राजनटो मुहूर्तेन नटो मुहूर्तेन राजा मुहूर्तेनामात्यो मुहूर्तेन ब्राह्मणो गृहपतिर् दासश् च भवति / तथा राजानवस्थितः / पञ्चगतिरङ्गनाटनात् / भवति चात्र /
102 SK ऐश्वर्यं भोगसम्पद् वा यMS, ल्. ८स्मात् पुण्येन लभ्यते / तस्मात् कर्मात्मके लोके न दर्पो युज्यते सतः //
103 SK अत्राह / यस्मात् सर्वारम्भो राजन्य् अधिकृतस् तस्माद् अधिकारनिमित्तस् तस्य दर्पो युज्यत इति / उच्यते /
Bycśṭ_4.2 SK गणदासस्य ते दर्पः सड्भागेन भृतस्य कः / जायते ऽधिकृते कार्यम् आयत्तं यत्र तत्र वा //
105 SK समुद्भूतादत्तादाने ऽपि प्राथमकल्पिके लोके क्षेत्रपरिरक्षार्थं प्रतिबलः पुरुषो महाजनेन धान्यषड्भागवेतनेन भृतः / कथं ना
106 SK ह MS, प्. २३अन्तुं तदाग्निना सर्वस्थानानि दग्धानि / तत्र बहूनि प्राणिसहस्राणि घातितानि तस्य तेन राज्ञानुमोदितम् / तद् एवं यत्र मौढ्यं तत्र दया न विद्यते / यत्र दया नास्ति तत्र कुतः पुण्यावाप्तिः / राज्ञां चैव सर्वम् अस्ति / अत एषां गोपायताम् अपि धर्मो न सम्भवति / आह च /
107 SK अहिंसा मूलं धर्मस्य यस्माद् आहुः कृपात्मकाः / तस्मान् न विद्यते धर्मो निर्दये तु नराधिपे //
108 SK अत्राह / ऋषिप्रणीतेन क्षत्रधर्मेण हिंसां कुर्वतो ऽपि राज्ञो नास्त्य् अधर्म इति / उच्यMS, ल्. २ते /
Bycśṭ_4.14 SK ऋषीणां चेष्टितं सर्वं कुर्वीत न विचक्षणः / हीनमध्यविशिष्टत्वं यस्मात् तेष्व् अपि विद्यते //
110 SK ऋषीणाम् इह कायवाङ्मनसां विचेष्टितं सर्वम् एव पण्डितेन न कर्तव्यम् / यस्माद् ऋषिष्व् अपि हीनमध्यविशिष्टत्वं विद्यते / तत्र यस्य शास्त्रे हिंसा कारणवशाद् धर्मो भवति स हीनः / यस्य स्यान् न स्याद् इति संशयः स मध्यः / यस्य त्व् अधर्म एव हिंसेति स विशिष्टः / तस्मात् सर्वेषाम् ऋषीणां शास्त्रम् अप्रमाणम् / तत्र यद् इष्टम् ऋषिप्रणीतेन क्षMS, ल्. ३त्रधर्मेण हिंसां कुर्वतो ऽपि राज्ञो नास्त्य् अधर्म इति तन् न /
111 SK विश्वामित्रवशिष्ठजामदग्न्यवत्/ विश्वामित्रवशिष्ठजामदग्न्यानां चौर्याभक्ष्यभक्षणागम्यगमनप्राणातिपातश्रवणात् / तत्र विश्वामित्रस्य चौर्यम् अभक्ष्यभक्षणं च श्रूयते / श्वपचेभ्यः किल श्वमांसम् अपजिहीर्षुणोक्तं तेन //
112 SK शक्यं तर्तुं जीवता कर्म पापम् / प्रायश्चित्तं ह्य् एतद् अस्मद्विशेषात् / मृतश् चाहं तर्तुं पापम् एतन् न शक्तः / तस्माद् ध्य् एतद् भक्षयिष्ये श्वमांसम्MS, ल्. ४ //
113 SK वशिष्ठो ऽक्षमालायां चण्डाल्यां विप्रतिपन्नः श्रूयते / ततः किल पुत्रा आजाता इति /
114 SK जामदग्न्येनापि वत्सापहरणकोपात् कार्तवीर्यस्यार्जुनस्य बाहुसहस्रं पातितम् / एवं ह्य् आह //
115 SK दान्तस्य क्षमिणो ऽपि दुर्जनजनैस् तैस् तैर् व्यलीकव्रणैः सामर्षं क्रियते बलाद् अपि मुनेर् व्युत्क्रान्तधैर्यं मनः / गोर् वत्सापनयेन दोहसमये हम्भारवैस् तत् कृतं यद् रामस्य सुनिर्मलस्य परशोर् धारां प्रविष्टा नृपाः //
116 SK MS, ल्. ५तथा तेनैव मात्रा संचोदितेन त्रिःसप्तकृत्वः पृथिवी निःक्षत्रिया कृता / एवं च किल तस्य मात्रोक्तम् //
117 SK ऋजुना मृदुना तपस्विना शतशो मान्यतमेन चाहवे / न जगस्य विनाशकारणं न परैर् एकम् अपि व्यपेक्षितम् //
118 SK अपकारमयेन कर्मणा न नरस् तुष्टिम् उपैति शक्तिमान् / अधिकां कुरु विर यातनां द्विषतां मूलम् अशेषम् उद्धर //
119 SK इति // ततस् तस्य धनुर्निनादशब्दः श्रूयते //
120 SK प्राकारशृङ्गाण्य् अतिवर्तMS, ल्. ६मानो गृहाणि भिन्दन्न् इव पार्थिवाणाम् / स जामदग्न्यस्य धनुर्निनादो जग्राह केशेष्व् इव कार्तवीर्यम् //
122 SK न तत् प्रमाणं कर्तव्यं शास्त्रम् आत्मार्थपण्डितैः / यस्यार्थं पुरुषाः कृत्वा व्रजेयुर् दुर्गतिं ध्रुवम् //
123 SK शास्त्रार्थं हि प्रमाणीकृत्य स्फीतां वसुमतीं सम्यक् परिपालितवन्तो यस्मात् पुरातना राजानस् तस्माद् अपि शास्त्रं प्रमाणम् इति / उच्यते //
Bycśṭ_4.15 SK पुत्रवत् पालितो लोकः पुरतः पार्थिवैःMS, ल्. ७ शुभैः / मृगारण्यीकृतः सो ऽद्य कलिधर्मसमाश्रितैः //
125 SK कलियुगात् पूर्वोत्पन्नैः पार्थिवैश् चक्रवर्त्यादिभिः शुभैर् युक्तायुक्तपरीक्षकैर् धर्मानुकूलं शास्त्रं प्रमाणीकृत्याधर्मानुकूलं परिवर्ज्य दशकुशलकर्मप्रतिष्ठितैः प्रियैकपुत्रकवज् जगत्प्रेमानुगतैः पालितो लोकः / साम्प्रतं तु कलियुगोत्पन्नैः पार्थिवैः स्वचित्तदौरात्म्यपरायत्तैर् अर्थमात्रतृष्णापरैर् अधर्मानुकूलं शास्त्रं प्रमाणीकृत्य धर्मानुकूलम् उत्सृज्य तMS, ल्. ८थायं लोको निष्करुणैर् उद्वासितो यथा मृगारण्यीकृत इत्य् अतो ऽपि नाधर्मयुक्तं शास्त्रं प्रमाणम् इति /
126 SK अपरिसंजातेक्षुम्लेच्छपीडनवत् / यो हि दस्युर् मोहाद् अपरिसंजातम् इक्षुं पीडयति सो ऽनर्थम् एव करोति नार्थम् / तद्वद् राजा चेत् पालनीयां न पालयति / न तस्यैहिको ऽर्थो न पारत्रिकः / अपुण्यकरणात् / आह च /
127 SK स्वराष्ट्रपरराष्ट्रेषु न विभागकृतो ऽत्र यत् / प्रजा भवन्ति सुखिनस् तच् छास्त्रं संस्कृतं बुधै MS, प्. २२ब्ः //
128 SK अत्राह / राज्ञः खल्व् इह शत्रूंश् छिद्रेषु प्रहरतो नास्त्य् अधर्मः शास्त्रदृष्टित्वाद् इति / उच्यते //
Bycśṭ_4.16 SK छिद्रप्रहारिणः पापं यदि राज्ञो न विद्यते / अन्येषाम् अपि चौराणां तत् प्राग् एव न विद्यते //
130 SK यदि खलु शत्रून् अन्यान् वा छिद्रेषु प्रहरतो राज्ञः पापं न विद्यते / ननु राजतस्कराद् अन्येषाम् अपि चौराणां धनारक्षकाणां किंचिच् छिद्रं प्राप्य परधनम् अपहरतां छिद्रप्रहारित्वात् प्रथमं पापेन न भवितव्यम् / छिद्रप्रहारित्वेन तेषां ज्येष्ठभूतत्वात् / पश्चाद् राज्ञोMS, ल्. २ न चैतद् एवम् इष्टम् इत्य् अतो यद् इष्टं राज्ञश् छिद्रेषु प्रहरतः पापं नास्तीति तन् न /
131 SK अजितसेनराजपुत्रवत् / केनचित् किल राज्ञामात्यः प्रोक्तो यदा मे मरणं भवति तदास्मद्भ्रातरम् अजितसेनं राजकुमारम् अभिषेक्ष्यसीति / ततस् तेनामात्येन तस्मिन् राजनि मृते छिद्रप्रहारिणा स राजकुमारो घातितः / आत्मना च तद्राज्यम् अवष्टब्धम् / तस्यातीवाकीर्तिर् लोके प्रतिष्ठिता पापाचार इति / परत्र चापुण्यम् / तद्वद् राज्ञां छिद्रप्रहाMS, ल्. ३रिणां कथम् अकीर्तिः पापं च न भविष्यतीति / आह चात्र /
132 SK यत् कृष्णं कर्म कृतं न तस्य संजायते फलं शुक्लम् / न हि पूतिवृक्षबीजाच् चम्पकबीजाङ्कुरो भवति //
133 SK अत्राह / राज्ञो रणमुखे शत्रूञ् जित्वा महान् परितोषो भवति / स्वशौर्यविक्रमार्जितां च धनसम्पदम् अनुपश्यतः / अथास्य रणे मृत्युर् भवति तदा ध्रुवम् अस्यात्मनः परित्यागात् स्वर्गगामित्वम्
Bycśṭ_4.17 SK सर्वस्वस्य परित्यागो मMS, ल्. ४द्यादिषु न पूजितः / आत्मनो ऽपि परित्यागः किं मन्ये पूजितो रणे //
136 SK इह द्यूतमद्यवेश्याङ्गनासु विशदं सर्वस्वम् अपि परित्यजन्तः पुण्यभाजो न भवन्ति / व्यसनानुपदत्वात् तत्त्यागस्य न सज्जनमनांस्य् आराधयन्ति / एवम् आत्मभावपरित्यागो रणे न पूज्यते / तस्यापुण्यायतनत्वात् / कथं हि नाम युद्धे ससंरम्भम् अभिधावतः कृपाविप्रयोगात् परस्मिन् निष्ठुराशयस्य विनिपातनाय परशिरसि विनिMS, ल्. ५विष्टदृष्टेः समुद्यतायुधस्य परेण विनिपातितस्य स्वर्गगमनं सम्भावयितुं युज्यते / तत्र यद् इष्टं रणमुखे ध्रुवं मृतस्य स्वर्गगमनम् इति तन् न /
137 SK आभीरीश्वशुरशरीरदानवत् / काचिद् आभीरी भर्तरि प्रोषिते श्वशुरम् अतीवावमन्यते स्म / अथ स वृद्धाभीरस् तस्मिन्न् आगते पुत्रे तम् अर्थम् आवेदितवान् /
138 SK एवं चाह / यदि ते पत्नी पुनर् अप्य् अस्माष्व् अवमानं करिष्यति / न ते गृहे वत्स्यामीति / स च न स्त्रिभीरुः पिMS, ल्. ६तृभक्तश् चातस् तां परिभाष्याह स / चेत् त्वं पितरम् अवमन्यसे न ते मम गृहे वासो ऽस्ति / दुष्करम् अप्य् अस्य कुरु दुर्देयं चास्मै प्रयच्छेति / तया तथैव प्रतिज्ञातम् /
139 SK अथ सा पुनः प्रोषिते भर्तरि चकितचकिता परेणादरेण श्वशुरस्य शुश्रूषां चकार / स्नानानुलेपनमाल्यदानान्नभोजनपानादिना प्रणीतेन दिवसम् उपस्थाय रात्राव् उष्णोदकेनास्य पादौ धावयित्वा तैलेन म्रक्षयित्वा वस्त्राण्य् अवMS, ल्. ७मुच्य निर्वसना दुष्टयोगाहितेन क्रमेण शयनम् आरोढुम् आरब्धा /
140 SK वृद्धाभीर आह / पापे किम् इदम् आरब्धम् इति / आभीर्य् आह / भर्त्राहम् उक्ता दुष्करम् अपि त्वयास्य कार्यं दुर्देयम् अपि देयम् इति / न चास्माद् दुष्करतरम् अस्ति दुर्देयाच् च दुर्देयम् इति / वृद्धाभीरो ऽब्रवीत् / एष उपायो हीतो निर्गमनाय तुष्टा भव / न पुनर् इह गृहे स्थास्यामीत्य् उक्त्वा निर्गतः /
141 SK स चास्य पुत्र आगतः / पितरम् अपश्यन् पत्नीं पृच्छति / सावोचत् / स्वामिन् न मम किMS, ल्. ८ंचित् परिहीणं परेणादरेण स मयर्तुसुखेन स्नानानुलेपनभोजनादिनोपचरित इति सर्वं निवेदयति /
142 SK ततस् तेन स्वामिना निर्भर्त्स्य गृहान् निष्कासिता / पिता च प्रसाद्य स्वभवनं प्रवेशितः /
143 SK यथास्या आभीर्या दुष्टभावायाः शरीरप्रदानं न पूजितम् / एवं राज्ञां दुष्टचेतसां रणे जीवितपरित्यागो न पूजितः / लोके च दुष्टत्वाद् मद्यादिषु सर्वस्वपरित्यागो न पूजित इति / आह च /
144 SK रणे मृतस्य गमनं मेरुपृ
Bycśṭ_4.23 SK क MS, प्. २२अर्मणा / विप्रो ऽपि कर्मणा शूद्रः केन मन्ये न जायते //
146 SK यदि हीदानीम् अक्षत्रियो ऽपि क्षत्रियकर्म कुर्वन् क्षत्रियो भवति / शूद्रो ऽपि हि नाम ब्राह्मणकर्म कुर्वन् ब्राह्मणो भविष्यति / प्रतिगृह्णन्न् अधीयांश् च / तथाप्य् अन्यो ऽप्य् अन्यदीयं कर्म समाचरन् स एव स्यात् / तत्र यद् इष्टं कर्मणा क्षत्रियो भविष्यतीति तन् न /
147 SK नौपारगमनवत् / यथा नौः पारं गच्छत्य् आगच्छति / तत्र नद्या उभयकूलस्थितौ ब्रुवाते नौः पारं गता नौः पारं गतेति / न च किंMS, ल्. २चित् सिद्धं पारम् अस्ति / स एवासिद्धो ब्राह्मणः क्षत्रियो वा / यदि शूद्रः कर्मणा क्षत्रियो भवत्य् एवं विप्रो ऽपि कर्मणा शूद्रो भविष्यति / आह च /
148 SK सद्यः पतति मांसेन लाक्षया लवणेन च / त्र्यहेण शूद्रो भवति यो विप्रः क्षीरविक्रयी //
149 SK इत्यादि / आह चात्र /
150 SK कर्मणा यदि वर्णाः स्युर् जातिस् तत्र न कारणम् /
151 SK न च द्वाभ्यां भवन्त्य् एते जातिः प्राग् दूषिता यतः //
152 SK अत्राह / राज्यैश्वर्येण हि महता महतो जनस्य शMS, ल्. ३क्नोत्य् ऐश्वर्यसंविभागं कर्तुं कालेन यतस् तस्माद् महद् ऐश्वर्यम् एष्टव्यं राज्ञेति / उच्यते //
Bycśṭ_4.24 SK पापस्यैश्वर्यवद् राजन् संविभागो न विद्यते / विद्वान् नाम परस्यार्थे कः कुर्याद् आयतीवधम् //
154 SK सत्यं राज्ञा महद् ऐश्वर्यं महता कालेनोपार्जितां शक्यं महाजनस्य संविभक्तुं तत् तु न विना महाजनपीडया शक्यं निष्पादयितुम् /
155 SK अवश्यं च महाजनपीडया महता पापेन भवितव्यम् / यथाMS, ल्. ४ चैश्वर्यं संविभज्यते नैवं तन्निमित्तम् अवद्यम् उपचितं संविभक्तुं पार्यते केवलम् एकाकिनैव तद् दुःखम् अनुभवितव्यम् / तत् को ऽयं पण्डितः परस्माय् अल्पोपकारार्थं संविभक्ष्यामीत्य् अनल्पानर्थप्रदानदक्षम् असाधारणम् अवद्यम् उपचिन्वन्न् आयत्यां वधम् आत्मनः कुर्यात् तद् इदं ह्रियः स्थानं न मदस्य /
156 SK महिषोपघातवत् / शूनिकदारकवच् च / यथा महिषः स्वMS, ल्. ५परार्थम् एकेन हन्यते बहुभिः परिभुज्यते / घातकस्यैव च पापम् / तथा राजा राज्यहेतोः पापं कर्म करोति बहवश् च परिभुञ्जते /
157 SK तथा च शूनिकदारको ऽधर्मभयान् न मारयति / स च स्वजनेनोच्यते मारय त्वं यस् तत्राधर्मो भविष्यति स सर्वेषाम् अस्माकं समतया भविष्यतीति / तेनोपायेनोक्तं महती मे शिरसि वेदना तां भाजयथेति / त ऊचुर् न शक्यत इति / स प्राह / तत् कथम् अपायवेदनाMS, ल्. ६ समतया भविष्यतीति / आह चात्र /
158 SK अनिन्द्यम् इह लोके यत् परत्र च सुखावहम् / तत् कर्तव्यं मनुष्येण परत्र सुखम् इच्छता //
159 SK अत्रह / रज्ञः खल्व् इह महत्य् ऐश्वर्ये ऽवश्यम् एव महता मानेन भवितव्यम् इति / उच्यते //
Bycśṭ_4.25 SK दृष्ट्वा समान् विशिष्टांश् च पराञ् छक्तिसमन्वितान् / ऐश्वर्यजनितो मानः सताम् हृदि न तिष्ठति //
161 SK परत उत्कर्षम् आत्मनः पश्यतो मानः स्यात् / स चानवस्थितः परापेक्ष एवेति न विद्वांसोMS, ल्. ७ मन्यन्ते / तस्माद् अपहाय मानं जगते हितम् आधित्सुना गुरव इव स्वामिन इव परे नावमन्तव्याः / तद् एवं कुर्वाणाः स्युर् एव ते भाजनं सम्पदां जगदाराधनप्रवृत्तत्वात् /
162 SK वासुलपत्नीवत् / वासुलब्राह्मणस्य पत्नी कथयति स्म / न मत्सदृशी स्त्री काचित् स्त्रीरूपेण पृथिव्यां संविद्यते / न च त्वं माम् अनुरूपेण वस्त्रालङ्कारेणार्चयसीति / सा तेनोपायेन रुद्रनाम्नो राज्ञो ऽन्तःपुरं प्रवेशिता / तस्यास् तत्र परिचारिकां दृष्ट्वा रूपमदो नMS, ल्. ८ष्टः प्राग् एव राजपत्नीम् / तथा राज्ञात्मनः समान् विशिष्टांश् च दृष्ट्वा मदं चाहङ्कारं च युक्तं त्यक्तुम् / आह चात्र /
163 SK दीने राजनि तावन् मानो राज्ञो न युज्यते कर्तुम् / तुल्ये श्रेष्ठे च नृपे कुतो ऽवकाशो ऽस्ति मानस्य //
164 SK अहङ्कारविपर्यासप्रहाणोपायं नाम चतुर्थं प्रकरणम् /
165 SK MS, प्. २२अ८अत्राह / कुतः पुनर् इमे सुभाषितरत्नविशेषा यथास्थितलौकिकार्थतत्त्वप्रतिपादका वैराग्यहेतवो लभ्यन्ते / उच्यते / बुद्धेभ्यो MS, प्. २१ब् भगवद्भ्यः / कीदृशाः खलु ते बुद्धा भगवन्तः / महाकरुणावेशात् सर्वथानिन्द्याचिन्त्याशेषजगदर्थसम्पादनपराः / तथा हि //
Bycśṭ_5.1 SK न चेष्टा किल बुद्धानाम् अस्ति काचिद् अकारणा / निश्वासो ऽपि हितायैव प्राणिनां सम्प्रवर्तते //
167 SK बुद्धा भगवन्तः सर्वजगदनुग्रहाशयक्षिप्तकर्मनिर्मितत्वाद् यथाप्रत्ययं फलम् इति जगद्धिताधानोदयदक्षाभिः समीहाभिः सकलं जगद् अनुगृह्णन्ति / न हि सास्ति काचित् कायपरिस्पन्दलक्षणा चेष्टा या सत्त्वोपकारानुपयोगिनीMS, ल्. २ति /
168 SK आस्तां ज्ञानपूर्विका तावच् चेष्टा / यो ऽप्य् अयं प्रेरकचेतनाविशेषाक्षेपनिरपेक्षः स्वरसवाही जन्मनः प्रभृत्य् आमरणाद् अहर्निशम् अनुवर्तते निश्वासः सो ऽपि नामैषां प्रवर्तते जन्मभृतां हितायैव / तथा ह्य् एषां बुद्धानां भगवतां निश्वासा विनिर्गत्योपरि नरकभाजनानां महान्तः कालमेघा विपरिणमन्ते कज्जलाञ्जनराशय इव नारकजनमनोहराः संछादिताशेषनरकभाजनमण्डलाः पटुमधुरनिरन्तरस्वनिMS, ल्. ३तैर् आह्लादयन्तो नारकान् स्वच्छस्वादुशीतोन्मुक्तवार्योघैर् निवारयन्तो नारकाग्निं तत्प्रत्ययम् अपेतदुःखानां नारकाणां कस्यानुभावाद् इदम् उपनतम् अस्माकम् इति मीमांसापरिगतहृदयाणां मनःप्रसादायतनतथागताचिन्त्यरूपकायसन्दर्शनेनावर्जितचित्तसन्तानानां बुद्धे भगवत्य् अभिप्रसादान्वयक्षयिताशेषाकुशलकर्मराशीनां तदन्वयम् एव च समाक्षिप्तमोक्षभागीयानाम् अत्यन्तोपकाराMS, ल्. ४न्
Bycśṭ_5.1cd SK निश्वासो ऽपि हितायैव प्राणिनां सम्प्रवर्तते /
170 SK एवम् अन्यत्रापि योज्यम् /
171 SK तद् एवं मतिमान् अवसितसंसारदोषस् तत्क्षयोद्युक्तः सर्वथा यथोपवर्णितसुभाषितरत्नाधारे त्रिभुवनगुरौ बुद्धे भगवति प्रसादपुरःसरम् अर्हति मनो निवेशयितुम् //
172 SK पाराशरकुलभिक्षुवत् / कश्चिद् भिक्षुः पाराशरकुलं गतः / स यन्त्राचार्यगृहं प्रविष्टस् तेन निमन्त्रितो मम गृहे त्वया वर्षा करणीया / अहं पिण्डपातंMS, ल्. ५ दास्यामीति / तेन तथैव कृतम् / तस्य च प्रासादस्याधस्ताद् बहूनि यन्त्रकार्यकरणे यन्त्राणि सन्ति / ततस् तेन स भिक्षुः प्रासादे स्थापितो ऽत्र त्वं यथेच्छसि तथा तिष्ठेति / स तस्मै निर्गताय चीवरमूल्यं दत्त्वा भृतकवेतनं ददाति स्म // भिक्षुर् आह / न ते मया किंचित् कर्म कृतं कस्माद् वेतनं ग्रहीष्यामीति / दानपतिर् आह / न त्वं मुहूर्तम् अप्य् अकर्मक इह गृहे केनचिद् ईर्यापथेन स्थितः / यन्त्राMS, ल्. ६णि चास्य दर्शयति लाभं च तत्कृतम् / यथा तस्य भिक्षोर् न कश्चिद् ईर्यापथो ऽस्ति यो ऽस्य नोपकाराय भवेत् तद्यन्त्रवाहनेन / एवं भगवतो बुद्धस्य न काचित् कायवाङ्मनश्चेष्टास्ति याल्पा वानर्था वा स्यात् / आह च /
173 SK शरीरवाचोमनसां प्रवृत्तिः / स्वार्था मुनेर् नास्ति न चाप्य् अनर्था / महाकृपाविष्टविशुद्धबुद्धेः / परोदयायैव पुनः प्रवृत्तिः //
175 SK तं चोपासीनाः सर्वव्यसनान्य् अतिMS, ल्. ७वर्तन्ते यावन् मरणभयम् इति / तथा हि /
Bycśṭ_5.2ab SK यथा सर्वस्य लोकस्य मृत्युशब्दो भयङ्करः /
177 SK प्रियजीवितवियोगकारकत्वात् /
Bycśṭ_5.2cd SK तथायं सर्वविच्छब्दो मृत्योर् अपि भयङ्करः //
179 SK यतस् तद्विषयसीमानम् अतिवर्तन्ते ताथागतस्य वर्त्मनः सम्यगनुष्ठातारस् तथानुष्ठानबीजानि च कुशलमूलानि तथागतनामधेयश्रवणाद् आधीयन्ते //
181 SK ये मम नामधेयं श्रोष्यन्ति सर्वे ते त्रयाणां यानानाMS, ल्. ८म् अन्यतमेन यानेन परिनिर्वास्यन्ति /
183 SK बन्धनमोक्षबन्धनाधिकृतज्वरवत् / कश्चिद् बन्धनाधिकृतः पुरुषो राजकुलेन स्थापितो यस्य सर्वबन्धनम् आयत्तम् / राज्ञा च पुत्रे जाते सर्वबन्धनमोक्षो घोषितस् तेन च शब्देन सर्वलोको हर्षितः / स चैवैको बन्धनाधिकृतो भीतो ज्वरितश् च तं बन्धनमोक्षशब्दं श्रुत्वा / एवं तथागत उत्पन्ने सर्वलोकः प्रीतो वर्जयित्वा मारम् / आह च /
184 SK अन्तशो बुद्ध इत्य् एव घोषो
185 SK MS, प्. १८अ गीतानि चकार /
186 SK यथास्य राज्ञः स्नेहविपर्ययानवस्थानाच् चोन्मादस् तद्वत् पृथग्जनानां विद्वांसस् तस्मात् स्नेहविपर्यासाच् चित्तानवस्थानाद् अनुचिन्तयन्त्य् उन्मादम् / तथा ह्य् एषां यत्रैव विषये ऽतीवाभिष्वङ्गस् तत्रैवातीव परित्यागो दृश्यते / तत् को भवस्थं न ब्रूयाद् उन्मत्त इति / आह चात्र /
187 SK उन्मादात् कर्मैवानर्थं कुरुते नरस्य नोन्मादः / न ह्य् उन्मादश् चित्रं करोति पुरुषं यथाकर्म //
188 SK तद् एवं सूनास्थानसमत्वाद् उन्मादस्थानत्वाच् च पण्डितैः परिवMS, ल्. २र्जनीयो भवः / स च सर्वकर्मप्रवृत्तिनिरोधेन परिवर्जयितव्यः / अस्ति चास्य भवस्य परिवर्जनोपायः सर्वकर्मक्षयः / स कथं भवतीति तदुपायावेदनायाह //
Bycśṭ_7.9 SK हीयमानां रुजं दृष्ट्वा गमनादौ विपर्यये / सर्वकर्मक्षये तेन करोति मतिमान् मतिम् //
190 SK यथा गमनादिजनिता रुजश् चङ्क्रमणादिपरिवर्जनेषु पूर्वावेधपरिक्षयाद् अनुपूर्वं क्षीयन्ते तथा सर्वेण सर्वं रुजः सर्वकर्मोपच्छेदैः /
191 SK ततः सMS, ल्. ३र्वकर्मोपच्छेदम् अर्थयमानः कुशलः पुरुषः सर्वकर्मक्षयाय यतते / तथान्यो ऽपि यतमानस् तां जातिं लप्स्यत इत्य् आस्थातव्यो यत्नः सर्वकर्मक्षयलभ्ये सर्ववेदयितृनिरोधरूपेण मतिमता निर्वाणे /
192 SK दीर्घाध्वगवत् / यथा दीर्घाध्वगो यथा यथा गच्छति तथा तथा दुःखी भवति श्रमदुःखेन पथ्यदनपरिक्षयदुःखेन च / तथा बालाः संसाराध्वनि वर्तमाना आश्रयदुःखेन शुभकMS, ल्. ४र्मपरिक्षयदुःखेन च बाध्यन्ते / अथवा दीर्घाध्वगो गमनदुःखेन पीडितः स्थानम् आरभते / ततो ऽस्य गमनदुःखं निवर्तते / स्थानदुःखम् अपि निषद्यया निषद्यादुःखम् अपि स्थानेन / यदि पुनर् निषद्यादुःखपरिखिन्नस् तत्त्यागाद् अन्यदीर्यापथान्तरं नारभते तदास्येर्यापथिकदुःखनिवृत्तिर् अत्यन्तं सम्भाव्येत / एवं सर्वकर्मक्षये ऽपि वाच्यम् / तद् एवं सर्वकर्मMS, ल्. ५क्षयः सर्वदुःखनिवृत्तिकारणम् इति सर्वकर्मक्षये मतिमता मतिः कार्येति / आह चात्र /
193 SK यथा सुखं चैतसिकं श्रेष्ठं कायसुखाद् अपि / तथा कर्मक्षयसुखं क्लेशक्षयसुखाद् इह //
194 SK इतश् च युक्तः संसारत्यागो धीमतां भयकारणत्वात् / तथा हि //
Bycśṭ_7.10 SK यदैकस्यापि कार्यस्य दृश्यते नादिकारणम् / तदा कस्य भयं न स्याद् दृष्ट्वैकस्यापि विस्तरम् //
196 SK इहैकस्यापि तावत् कार्यMS, ल्. ६स्य भौतिकस्य वा वातिकस्य वा पैत्तिकस्य वा पूर्वं पारम्पर्येण परीक्ष्यमाणस्यादिकारणं यदा न दृश्यते / अनादिमत्त्वाज् जगत्प्रवृत्तेर् एवम् एवैकस्यापि कार्यस्यानन्त्यं सविस्तरं दृष्ट्वा तदा कस्येह पुरुषस्याधिगतभयस्य जगत्प्रवृत्तिदर्शने भयं न स्यात् / युक्तं त्व् अस्यापरिमितप्रबन्धगहनदुःसञ्चरतरायां संसाराटव्यां नित्यम् एवोद्विजितुं तMS, ल्. ७दनुरूपं च योनिशःप्रधानं भावयितुम् /
197 SK घटवत् / यथा हि घटे ऽनेकप्रत्यया मृत्पिण्डदण्डचक्रसूत्रोदकपुरुषप्रयत्नादयो दृश्यन्ते घटकरणे तावत् प्राग् एवान्येषां गुरुतराणाम् अर्थानां निष्पादने / आह चात्र /
198 SK कालस्यानन्तत्वाद् आदिश् च न विद्यते यतो जगतः / तस्माज् जन्तोर् दुःखं पूर्वां कोटिं समाज्ञातुम् //
199 SK अपि च / यद् अयम् अभिलषंस् तृष्णया परिस्पन्दते तस्य यदि नियोगMS, ल्. ८तः सिद्धिः स्याद् युक्तं स्पन्दितुम् / तस्य च /
Bycśṭ_7.11 SK सिद्धिः सर्वस्य कार्यस्य नियमेन न जायते / नियमेन कृतस्यान्तः किं तदर्थं विहन्यसे //
201 SK इह हि सर्वस्यैव कार्यस्य प्रारब्धस्य नियमेन सिद्धिर् भवति वा न वा / सिद्धस्य तु सर्वस्यैव कार्यस्य नियमाद् अवश्यम् एव विनाशो भवति / तत्र यस्य कृतस्य सुचिराद् अप्य् अवश्यम् एव नियमतो विनाशः किं तदर्थम् अयं बालो विहन्यत इति / MS, प्. १७ब् अतो ऽवधूय जालिनीं तदुच्छेदाय यतितव्यम् /
202 SK कुम्भकारपाकवत् / यथा कुम्भकारपाके सिद्धिर् अनैकान्तिकी निष्पन्नानां च कुम्भकारभाजनानां नियमतो विनाशस् तथा सर्वेषां लौकिकानां कार्याणां सिद्धिर् अनैकान्तिकी / आह चात्र /
203 SK सर्वेषां भावानां कृतकत्वान् नास्ति नियमतः सिद्धिः / तस्माद् भाव्यस् तेषां नियमेनैव ध्रुवो नाशः //
204 SK यथा च कार्यस्य ध्रुवो विनाशस् तथा कर्मणो ऽपीति प्रतिपादयन्न् आह //
Bycśṭ_7.12 SK यत्नतः क्रियतेMS, ल्. २ कर्म कृतं नश्यत्य् अयत्नतः / विरागो ऽस्ति न ते कश्चिद् एवं सत्य् अपि कर्मणि //
206 SK इह खलु महता यत्नेन बहुभिः साधनोपायैः कर्म क्रियते / तत् तु महता प्रयत्नेन बहुभिर् अपि साधनैः कृतम् अयत्नाद् एव कार्यवद् विनश्यति / तद् एवम् अतिमहत् पुरुषकारसाधनम् अपार्थकम् इति कर्मणि कथं नाम न स्याद् वैराग्यं विदुषः / तव पुनः पुनस् तत्कर्माचरणाद् विरागाभावो जडताम् एव वेदयते / तत् क्रियतां वैराग्यावMS, ल्. ३सरः / न हि निष्ठुरा वृत्तिर् उपकुर्वति शोभते /
207 SK पर्वतशिलारोपणवत् / यथा पर्वतमूर्धनि शिला यत्नेनारोप्यते ऽयत्नेन पतति तथा सर्वलौकिक्यः प्रवृत्तयः / आह चात्र /
208 SK हेतुप्रत्ययसामग्र्या कर्म संस्क्रियते यतः / तस्माद् यत् क्रियते यत्नात् तद् वैकल्याच् च नश्यति //
210 SK अत्राह / यद्य् अप्य् अप्रयत्नात् कार्यं नश्यति तथापि सुखहेतुत्वान् न तत्र वैराग्यं भवतीति / उच्यMS, ल्. ४ते //
Bycśṭ_7.13 SK अतीतस्य सुखं नास्ति नाप्य् अप्राप्तस्य विद्यते / वर्तमानो ऽपि यात्य् एव श्रमो ऽयं कस्य नाम ते //
212 SK अतीतस्य तावद् विज्ञानस्य सुखं नास्ति निरुद्धत्वात् / अनागतस्यापि सुखं नास्त्य् असम्प्राप्तत्वात् / वर्तमानस्यापि सुखं नास्ति स्थित्यभावात् /
213 SK तद् एवम् असति सुखे तेनानुग्रहाभावात् सुखसम्भोगलालसस्य यो ऽयं सुखहेतुकर्मोपार्जनश्रमो भवतः स कस्यMS, ल्. ५ कृते भवतु / विफल एव सर्वथा सुखहेतूपार्जनपरिश्रमोपायास इत्य् अभिप्रायः /
214 SK नदीतीरगृहकरणवत् / केनचिन् नदीतीरे गृहं कृतं स च प्रदेशः स्फुटितः / ततो ऽन्यद् अनु तीरम् एव कृतं सो ऽपि स्फुटित एवम् अनवस्था जाता / एवं तस्य गृहकर्तुर् महांश् च श्रमो न च श्रमफलावाप्तिः / तथा सर्वलौकिक्यः प्रवृत्तयः / आह चात्र /
215 SK चित्तक्षणचपलगतेःMS, ल्. ६ कस्यार्थे सञ्चिनोषि कर्माणि / कालत्रये ऽपि यस्मात् परीक्ष्यमाणं सुखं नास्ति //
216 SK अत्राह / यद्य् अप्य् एवं तथापि स्वर्गसुखार्थम् अवश्यम् एव कुशलं कर्म कर्तव्यम् इति / उच्यते //
Bycśṭ_7.14 SK स्वर्गो निरयतुल्यो ऽपि विदुषां स्याद् भयङ्करः / सर्वथा दुर्लभस् तेषां भवो यो न भयङ्करः //
218 SK तत्र विविधसंक्लेशायद्वारत्वात् तीव्रतरविषयसम्भूतक्लेशाग्निसन्दीपितत्वाMS, ल्. ७न् मोहभूयस्त्वाच् च स्वर्गम् अपि निरयवद् भयङ्करत्वात् परिवर्जयन्ति विद्वांसः /
219 SK ततश् च येषाम् अनवगीतसुखसम्भोगरमणीयाः स्वर्गसम्पत्तयो न जनयन्त्य् आस्थां तेषां तदन्यत्र भवे श्मशानभूमाव् इव कुतो रतिः // अपि शब्दश् चात्र भिन्नक्रमः स्वर्गशब्दानन्तरं द्रष्टव्यः / तिष्ठतु तावद् अन्यो भवः / स्वर्गो ऽपि विदुषां निरयतुल्य इति व्याख्येयम् /
220 SK बालबन्धनमोक्षणवत् / तद् यथा बालो नाम राजा बभूवMS, ल्. ८ क्रूरप्रकृतिर् अयस्तीक्ष्णशासनः / तस्य बन्धनागारे यः प्रवेश्यते स करचरणग्रीवासु पञ्चभिर् बन्धनैर् गाढं बध्यते / स यदा उपायेन कंचिन् मोचयति तदा रक्षापुरुषान् आज्ञापयति / अयं सर्वबन्धनेभ्यो मोक्तव्यः किं तु येनैकेनेर्यापथेनेच्छति यावद् आयुः स्थास्यते तेन सुगुप्ते स्थापयितव्य इति / एवं देवेति राज्ञ आज्ञां शिरसि कृत्वा नूनं कुर्वन्ति / तत्र यो MS, प्. २३ब् बालराजबन्धनान् मुक्तो भवति तस्य बन्धनेन तुल्यं मोक्षणम् अपि भयङ्करम् एव दुःखविशेषात् / तथान्येषाम् अपि महात्मनां नरकतुल्यस् तेषां को ऽन्यो ऽस्ति भवस् तद्विशिष्टो यो न भयङ्करः स्यात् /
221 SK यथा बलिः सर्वलोकाधिपत्यं दत्त्वा बद्धः / किम् अयम् अन्यद् दत्त्वा मुक्तो दृश्यते / तथा येषां स्वर्गो ऽपि दुःखहेतुत्वान् निरयसमस् तेषां को ऽन्यो भवो ऽस्ति यो न भयङ्करः स्यात् /
222 SK अपि च / यथा खलु पण्डिताः संसारदोषप्रत्यवेक्षानिपुणा दुःखाग्निज्वालापरिगतम् एकान्तदुःखं संसारं यथावद् ईक्षन्ते / तथा खलु //
Bycśṭ_7.15 SK संसारदुःखं जानीयाद् यदि बालो ऽपि सर्वशः / गच्छेद् अत्यन्ततो नाशं सहMS, ल्. २ चित्तेन तत्क्षणम् //
224 SK यद् दुःखम् आकारयन्त आर्याः संसाराद् उद्विजन्ते तद् यदि पृथग्जनः शक्नुयाद् अध्यक्षयितुं तदा तत्क्षणम् एवास्य शतधा विशीर्येत हृदयम् / अनवबोधात् त्व् अयम् अभिरमते संसारे / कृतज्ञतामहाकरुणाभ्यां तु सत्त्वोपकाराभिप्रायधैर्यावष्टब्धं संसारदुःखम् आर्याणां न तथोद्वेगकारणम् इति न तेषाम् अत्यन्तो नाशः शक्यः सम्भावयितुम् / पृथग्जनस् तु सत्कायदृष्ट्यनुगमाMS, ल्. ३त् प्रतिपक्षभावनावैकल्यात् परमाणुशो नियतं विशीर्येत यदि सर्वथा संसारदुःखं जानीयात् /
225 SK यक्षाभ्याहतवद् बालनायकवच् च // कश्चिद् यक्षेणाभ्याहतः / स च यक्षस् तेन न दृष्टस् तस्यैतद् अभवत् / अदृष्टे तावत् तस्मिन् यक्ष ईदृग् दुःखम् उत्पन्नं यदि दृष्टः स्यात् ततो मे तुषमुष्टिवत् कायो विशीर्णः स्याद् इति /
226 SK यथा च बालनायक आधिपत्यलोभाज् जीMS, ल्. ४वितं परित्यज्य पुनर् नायकत्वाम् प्रतिगृह्णाति / एवं यदि बालो ऽपि संसारदुःखम् अधिगच्छेत् तद्भयात् सर्वभवपरित्यागाद् अत्यन्ततो नाशं गच्छेन् मोक्षम् इत्यर्थः / आह चात्र /
227 SK यथा बुद्धा विजानन्ति फलं पापस्य यादृशम् / तथा बालो विजानीयात् स भवेत् तत्क्षणं जिनः //
228 SK अपि च संसारे क्रियासु सामर्थ्यवतः समीहमानस्य सुखं स्यात् / स च निरूप्यमाणः //
Bycśṭ_7.16 SK अमानी दुर्लMS, ल्. ५भः शक्तो मानी नास्ति घृणान्वितः / उक्तः सुदुर्लभस् तेन ज्योतिर्ज्योतिः परायणः //
230 SK शक्तस्यैव क्रियासु पुरुषकारेणोपात्तसुखवेदनीयविषयोपार्जनाद् उपात्तपरिरक्षणाच् चावश्यम् एव पुरुषस्य मान उपजायते / मानतश् चायम् आत्मानं विशेषतः परिकल्पयन्न् अधिकम् असहमानस् तदुपजिघांसया निर्दयो भवति / निर्दयस्य चास्यापायपर्यवसानMS, ल्. ६तया कुत्र सम्पदो यतो ऽस्य सुखानुभवः सम्भाव्येत / अत एव भगवता ज्योतिर्ज्योतिःपरायणः पुद्गलो दुर्लभ इत्य् उक्तं कुलभोगैश्वर्यजातमानेन नियतम् अधःपतनात् /
231 SK जामदग्न्यवत् / यथा जामदग्न्येन शक्तेन मानित्वात् त्रिःसप्तकृत्वः पृथिवी निःक्षत्रिया कृता नैर्घृण्याद् अतिदुर्लभो यच् छक्तो ऽमानी स्यान् मानी च घृणान्वितः स्यात् / यत एवम् अMS, ल्. ७तो ऽवोचद् भगवान् दुर्लभो ज्योतिर्ज्योतिःपरायण इति /
232 SK यद्य् एवं मानिनः पापाचरणाद् अपायनिष्ठा इति गर्हिता विपर्ययेण त्व् अमानिनः स्वर्गसुखसाधनधर्माचरणात् प्रशस्यास् ततश् च तैर् एकान्तेन न गर्हितः संसार इति / उच्यते / धर्मे ऽपि वैपरीत्याद् अयुक्तः सङ्गः / तथा हि //
Bycśṭ_7.17 SK निवृत्तविषयस्येह विषयः किल लभ्यते / केनापि हेतुना धर्मो विपरीतो ऽपि संस्मृतः //
234 SK यः किलMS, ल्. ८ विषयेष्व् अनास्थस् तान् विषयान् परित्यजति / ब्रह्मचर्याभ्युपगमात् तस्येह च्युतस्येश्वरकुले स्वर्गेषूपपन्नस् तेन लोकेनाङ्गीकृतश् चेति नात्राभिनिवेशो ज्यायान् /
235 SK मेषताडयितुम् एषवत् / यथा मेषताडयितुम् इच्छन् दूरतो ऽप्य् अनिवृत्तस् तथा विषयार्थी निवृत्तविषयः / एवं तावद् धर्मो विपरीतत्वात् त्याज्यः /
236 SK यद् अपि तद्धर्मफलम् ऐश्वर्यं तद् अपि वशित्वाभावाद् विविधव्यसनस्थानत्वाच् च ना MS, प्. २४अस्थेयं विदुषा / तथा हि //
Bycśṭ_7.18 SK पुण्यस्य फलम् ऐश्वर्यं तच् च रक्ष्यं सदान्यतः / कथं नाम तद् आत्मीयं यद् रक्ष्यं सर्वदान्यतः //
238 SK पूर्वकृतस्य हि कर्मणः फलम् ऐश्वर्यं तच् चात्मीयसंज्ञितं तच् चेह सदैव संरक्ष्यते प्रत्यर्थिभ्यः / यदि तद् आत्मीयं स्यान् नैव प्रत्यर्थिभ्यो रक्षणीयं स्यात् / यच् च परैर् आच्छेद्यत्वात् सततम् आधीयमानरक्षाविधानं कथं तद् आत्मीयम् इति शक्यं वक्तुम् / तद् अयं रक्षाविधाननिरन्तरः परमनिर्वृत्तः कदा नाम विषयरसम् आस्वादयेत् / तस्मात् फलम् अप्य् अस्य नानुMS, ल्. २ग्रहाय पर्याप्तम् /
239 SK गुरुवत् / यथा गुरुर् नित्यम् एवानुवन्द्यो नित्यं चाप्रमत्तेन भवितव्यं गुरौ / तथैश्वर्यं पुण्यबलनिर्जातं तच् च राजादिभ्यो नित्यम् एव रक्ष्यम् / यच् च सर्वदा रक्ष्यं कथं तद् आत्मीयं भवति / अनवस्थितत्वाच् च लौकिकस्य धर्मस्य तत्रास्था न ज्यायसी / तथा हि /
Bycśṭ_7.19 SK या या लोकस्थितिस् तां तां धर्मः समनुवर्तते / धर्माद् अपि ततो लोको बलवान् इव दृश्यते //
241 SK लोको हि यां यां स्थितिं व्यवस्थापयति देशकुलगोत्राचारव्यवस्थया कन्यादानोद्वहनादिकां तां ताम्MS, ल्. ३ धर्मः समनुवर्तते / तस्यास् तस्याः स्थितेर् धर्म इति प्रसिद्धिगमनात् / न चैष स्वभावव्यवस्थितस्य न्यायो युज्यते यद् देशकालभेदयोर् अन्यथात्वाद् अन्यथा स्यात् / ततो नात्रात्यन्तादरो युक्तः /
242 SK दुहितृविवाहवत् / केनचित् पुरुषेण यवनेषु गतेन यवनः कश्चिद् अग्निं प्रज्वाल्य तस्माद् अग्नेर् विद्यया शब्दं निश्चारयन् दृष्टो दुहिता कल्पते भार्या भवत इति / स च पुरुषो ऽत्यन्तरागचरितो दुहिता च तस्य स्वदेशे रूपMS, ल्. ४यौवनवती तिष्ठति / ततस् तेन पुरुषेण तस्य यवनस्य सकाशात् सा विद्या महता प्रयत्नेन द्रव्यप्रदानेन चार्थिता / स्वदेशं च गत्वा स्वां दुहितरं भार्यां कर्तुकामो ऽग्निम् इच्छति तम् अर्थं वाचयितुम् / तेनाग्निनोक्तम् अन्यथास्य देशस्थितिर् इति / एवं धर्माद् अपि लोको बलवान् इति /
243 SK अत्राह / अभिलषितविषयसमुत्पादम् अन्तरेण सुखवेदनानुभवो नास्ति / स च विषयोत्पादः कृतपुण्यानाम् एव यस्मात् सम्भवMS, ल्. ५ति तस्माद् विषयार्थिना कर्तव्य एव धर्म इति / उच्यते //
Bycśṭ_7.20 SK विषयश् च शुभेनेष्टो विषयः स च कुत्सितः / श्रेयान् यस्य परित्यागो निष्पन्नेनापि तेन किम् //
245 SK यो ऽयम् इहेष्टपञ्चकामगुणात्मको विषयो रूपशब्दगन्धरसस्प्रष्टव्यसंज्ञितः स शुभेन कर्मणा लभ्यते / स एव सत्त्वानां मोक्षकामानां कुत्सितो ऽमेध्यलिप्तगात्र इव श्वा / यस्य च श्रेयान् परित्यागो ऽनर्थमूलत्वाद् अनित्याशुच्यMS, ल्. ६नात्मकत्वेनानिर्वृतिकरत्वाद् रागादिक्लेशोत्पादकत्वेन प्रमादस्थानत्वाच् च निष्पन्नेनापि तेन न किंचित् प्रयोजनम् इति व्यर्थ एव विषयफलधर्मोपार्जनश्रम इति त्यज्यताम् अधर्म इव धर्मे ऽपि सङ्ग इति /
246 SK कम्बोजभैक्षचरणवत् / कश्चिद् भिक्षुः कम्बोजेषु जनपदेषु भिक्षां गतः / स केनचिद् उक्तः शठेन स्वकार्यार्थं मा तावद् अत्र किंचिद् वक्ष्यसि पिण्डपातं चरन्न् अवहास्यो भविष्यसि / एषास्मिन् विMS, ल्. ७षये मर्यादा / तेनर्जुना श्रद्धधानतया तथा कृतम् / ततस् तेन जनकायेन विज्ञातो ऽस्मत्स्पर्धिना यन्त्रम् एतत् तेन पुरुषेण कृत्वास्माकम् अनुप्रेषितम् इत्य् अहो ऽस्योन्मेषनिमेषादि पुरुषवद् उपपादितम् / एवं सर्वं प्रत्यङ्गानि वर्णयाम् आस / ततस् तैर् अपि तादृक्षाण्य् एव यन्त्राणि कृत्वा प्रेषितानि तस्य पुरुषस्य / ततस् तेन पुरुषेणोक्तं तस्य भिक्षोर् वाचम् इदानीं भाषस्व तत्सन्निरोधाद् इति / तेन तथा कृतम् आरोग्यादिवाग् निश्चारिता / ततस् ते विस्मMS, ल्. ८यापन्ना एवम् ऊचुः / अशक्यम् एतद् अस्माकम् अनेन निर्जिता वयम् इति / स शठो भिक्षुप्रतिरूपः स्वरूपपरिज्ञानात् कुत्सित एव भवति तद्वद् एतद् इति /
247 SK अत्राह / यद्य् अपि विषयस्य कुत्सितत्वाद् विषयसाधनो धर्मो निष्प्रयोजनस् तथाप्य् आज्ञारसास्वादसुखगुरूणि राज्यानीति तदर्थं राज्ञाधिपत्येषु प्रवर्तितव्यम् इति / उच्यते / नैव हि सर्वेषाम् आज्ञया कार्यं सम्भवति / ततश् च //
Bycśṭ_7.21ab SK कार्यं नास्त्य् आज्ञया यस्य तस्य धर्मो निरर्थकः /
249 SK यस्य हि समीहितार्थसंसिद्धिर् अन्यथा न सम्भवति स
250 SK तथा कस्य MS, प्. २६अचिद् राज्ञः पुत्रो ऽतीवप्रियः स कदाचिद् व्युत्थितः स तेन राज्ञा संग्रामे निर्जित्य गृहीतः / तस्य च राज्ञस् तद्दोषदर्शित्वात् तस्मात् स्नेहो विगतः / एवं दोषज्ञे सर्वत्र रागो न तिष्ठतीति / न केवलं सर्वदोषदर्शित्वाच् चिरं नास्ति रागः / इतश् च तत्प्रहाणं सम्भाव्यते /
251 SK रागवस्त्वभावात् / तथा प्रतिपादयन्न् आह /
Bycśṭ_8.2 SK तत्रैव रज्यते कश्चित् कश्चित् तत्रैव दुष्यति / कश्चिन् मुह्यति तत्रैव तस्मात् कामो निरर्थकः //
253 SK रञ्जनीयवस्त्वायत्तोदयो हि रागः / तच् च रञ्जनीयंMS, ल्. २ वस्तु स्वरूपासिद्धम् / यद् एव ह्य् एकस्य रञ्जनीयं तद् एवापरस्य द्वेषणीयं मोहनीयम् वोपलभ्यते / यदि च रञ्जनीयं वस्तु स्वरूपतः स्यात् तत् सर्वदा सर्वस्य च तथैव स्यात् / न त्व् एष नियमो दृष्टः / तथा हि / यत्रैको रज्यते तत्रैवापरो दुष्यति / तत्रैवापरो मुह्यति / तस्माद् विषयकामः स्वरूपासिद्धत्वाच् छून्यः / न चैवं रञ्जनीयवस्तुशून्यताभावनातत्परस्य योगिनो रागप्रहाणं न सम्भाव्यत इति विद्यत एव रागप्रहाणम्MS, ल्. ३ /
254 SK मातृपत्नीदासीवत् / कस्यचित् पुरुषस्य पत्नी द्वयं तत्रैका पुत्रेण सह तिष्ठति / द्वितीया तु विना पुत्रेण / तत्र यदासौ माता स्वपुत्रं पश्यति तदा तुष्टा भवति / तम् एव दृष्ट्वा सपत्नी दुःखिता भवति / दासी तु दृष्ट्वोदासीना भवतीति / नास्ति रागादीनाम् आलम्बनस्य स्वरूपसिद्धिः /
255 SK एवं तावद् आलम्बनासिद्ध्या रागाद्यसिद्धिं प्रतिपाद्य हेत्वसिद्ध्यापि रागाद्यसिद्धिं प्रतिपादयितुकाMS, ल्. ४म आह //
Bycśṭ_8.3 SK विना कल्पनयास्तित्वं रागादीनां न विद्यते / भूतार्थः कल्पना चेति को ग्रहीष्यति बुद्धिमान् //
257 SK संकल्पप्रभवो रागो द्वेषो मोहश् च कथ्यते / MMक्. XXIII.१अब्
258 SK इति वचनात् / विषयेष्व् अयोनिशःकल्पना रागादिसिद्धिकारणम् / ततश् च येषां सत्याम् एव कल्पनायाम् अस्तित्वं ध्रुवं तेषां रज्जुकुण्डलके परिकल्पितसर्पवत् स्वरूपासिद्धिर् अवसीयते / यस् तु स्वरूपसिद्धिं रागादीनाMS, ल्. ५म् अभ्युपैति नियतं तेन कल्पनापेक्ष्य जन्मत्वं स्वरूपसिद्धिविरुद्धं नाभ्युपेतव्यम् //
259 SK यदि ह्य् असौ भूतो ऽर्थः किमर्थं तदस्तित्वे कल्पनापेक्ष्यते / अथापेक्ष्यते कथम् असौ भूतार्थः / इत्य् एवं सोपपत्तिकागमालोकावभासितचित्तसन्तानत्वान् न विद्वांसः स्वरूपसिद्धस्य कल्पनाजनितत्वम् अङ्गीकुर्वन्ति / जडास् तु यथा कथंचिद् विपर्यासात् प्रवर्तन्ते /
260 SK ध्यायिशिरःकपालMS, ल्. ६वत् / कश्चिद् ध्यायी चित्तविभ्रमम् अनुप्राप्तः कपालं मम शिरसि लग्नम् इति / तस्य केनचिद् अन्यत् कपालं पातितम् एतत् तव शिरसः पतितम् इति / स च तथेत्य् अवगम्य स्वस्थो जातः / कल्पनाविगमात् /
261 SK अत्राह / विद्यत एव रागादीनां स्वभावो बन्धनत्वात् / तथा हि स्त्री पुरुषविषयेण रागेण पुरुषेण सह बद्धा नातिक्रामति पुरुषम् / पुरुषश् च स्त्रीविषयेण राMS, ल्. ७गेण स्त्रिया सह बद्धो न परित्यजति स्त्रियम् इति // उच्यते /
Bycśṭ_8.4ab SK कस्यचित् केनचित् सार्धं बन्धो नाम न विद्यते //
263 SK यथैव हि रागः कल्पनापेक्ष्यजन्मत्वात् स्वभावासिद्धस् तद्वत् स्त्रीपुरुषयोर् अपि स्वरूपासिद्धत्वात् कस्यचिद् अर्थस्य केनचिद् अर्थेन सह नास्ति स्वभावतो बन्ध इति / न बन्धकारणात्वाद् रागः स्वरूपतः सिध्यति /
264 SK अथाप्य् अवधूयेत्थं विचारं परेण सह परस्य बन्धः परिकल्प्यते / एMS, ल्. ८वम् अपि /
Bycśṭ_8.4cd SK परेण सह बन्धस्य विप्रयोगो न युज्यते //
266 SK यदि हि परस्य स्वरूपतो बन्धनकारणत्वं स्यात् तदा स्वरूपस्यान्यथाभावाभावान् मुक्त्यभाव एव स्यात् / विप्रयोगो विमोक्षो विमुक्तिर् इत्य् अनर्थान्तरम् / अस्ति च मुक्तिर् इति नास्ति स्वरूपतो बन्धनकारणत्वं परस्य / असति च बन्धनकारणे कुतो बन्ध इति स्वभावशून्या एव रागादयः स्वभावशून्यतादर्शनात् प्रहीयन्त इति शक्यम् आस्थातुम् /
267 SK कृष्णावदातबलीवर्दसंयो MS, प्. २५ब्जनवत् / यथा न कृष्णो बलीवर्दो ऽवदातस्य संयोजनाय नाप्य् अवदातः कृष्णस्यापि तु युगरन्ध्रम् / तथा नेन्द्रियाणि विषयाणां नापि विषया इन्द्रियाणाम् अपि तु यो ऽत्र छन्दरागस् तद् बन्धनम् इति /
268 SK यद्य् एवं विचारात् क्लेशा निवर्तन्ते तत् किम् इत्य् अजितक्लेशाः प्रायो दृश्यन्ते / गम्भीरधर्माधिमुक्तिविरहात् / तथा हि //
Bycśṭ_8.5 SK अस्मिन् धर्मे ऽल्पपुण्यस्य संदेहो ऽपि न जायते / भवः संदेहमात्रेण जायते जर्जरीकृतः //
270 SK अनादिसंसाराभ्यस्तविपर्यासदर्शनो ह्य् अविMS, ल्. २द्वान् प्रतिबिम्बोपमेषु पदार्थेष्व् इदंसत्याभिनिविष्टः स्वभावशून्यतोपदेशं प्रपातम् इव मन्यते / शून्यताधिमुक्तिहेतुकुशलविरहितचित्तसन्तानत्वात् / तथाविधस्य हि सत्त्वस्यास्मिञ् शून्यताधर्मे किम् एवं नैवम् इति संदेहो ऽपि न जायते ऽन्यत्र विपरीतनिश्चयात् / ततश् च मुक्तिहेतुविपर्यस्तत्वात् कुतो ऽस्य मोक्षः / यदि त्व् अयं केनापि हेतुना शून्यताधर्म उपदिश्यमाने संशयम् उत्पादयेत् / किम् अयं धर्म एवं नैवम् इMS, ल्. ३ति / नियतम् अस्यानेनापि संदेहमात्रेण जर्जर एव संसारो जायते / स हि यदैवम् इत्य् अवलम्बते तदा तत्क्रमेण क्लेशतस्करोच्छेदाय सम्पद्यते /
271 SK यद् वा संशयितो निश्चयेनार्थी सोपपत्तिकागमबलात् सम्यग्दर्शने निश्चितः क्लेशक्षयाय संसारोच्छेदं करिष्यतीति / संदेहकाले ऽपि जर्जर एवास्य संसारो लक्ष्यते / तद्भेदानुकूलावस्थावस्थितत्वात् /
272 SK राक्षसीगृMS, ल्. ४हीतबालाहकाश्वराजपरिमोक्षितवत् /
273 SK यथा भग्नवहनः सार्थवाहो राक्षसीगृहीतः पतित्वेनोपचर्यमाणस् तदा दक्षिणस्या दिशो निवार्यमाणो न कदाचित् त्वया दक्षिणा दिग् गन्तव्येति / स संदिह्यमानः कस्माद् एषा मां वारयतीति गतस् तत्र बालाहकम् अश्वराजम् आगम्य तस्या राक्षस्या निर्मुक्तः / समुद्रपारं च सम्प्राप्तः / यदि चास्य संदेहो नाभविष्यन् न तस्याMS, ल्. ५ राक्षस्या वियुक्तो ऽभविष्यन् न च समुद्रपारं प्राप्तो ऽभविष्यत् /
274 SK यश् चायं स्वभावशून्यतालक्षणो धर्मो यस्मिन् संदेहो ऽपि भवस्य जर्जरत्वाय संवर्तते तस्य भगवता प्रथमक्षान्तिक्षणम् उपादाय यावन् मोक्षस् तावद् अपरिहाणिर् वृद्धिश् चोपवर्णिता / न त्व् एवं लौकिकानां धर्माणाम् / ते हि विपाकक्षयाद् अपि क्षीयन्ते प्रत्ययवैकल्याद् अपि न प्रवर्तन्ते / न हि प्रज्ञापारमिMS, ल्. ६तानधिष्ठिता दानादयः समर्था जात्यन्धा इव सर्वज्ञतानगरम् अनुप्राप्तुम् इत्य् उवाच शास्ता / तद् एवम् //
Bycśṭ_8.6 SK आ मोक्षाद् यस्य धर्मस्य वृद्धिम् एवोक्तवान् मुनिः / तत्र भक्तिर् न यस्यास्ति सुव्यक्तं बुद्धिमान् न सः //
276 SK यो ह्य् अत्यन्तोपकारिणि धर्मे वृद्धिप्रकर्षवति नोत्पादयति भक्तिं स क्षेमस्थाने भयदर्शित्वान् मूढताम् एवात्मनो जडः प्रकटयति / तद् इत्थं मूढता माभून् ममेतिMS, ल्. ७ विद्वद्भिः स्वभावशून्यतादर्शने भक्तिर् आस्थेया /
277 SK शर्करामोदकवत् / शलाकामुद्रावच् च / यथा शर्करामोदकः सर्वत आस्वाद्यस् तथा / यथा कस्यचित् पुरुषस्य विद्याद्वयं सिद्धम् / तत्रैकया शलाकां परिजप्य सर्वं व्याध्युपशमनं करोति / द्वितीयया मुद्रां दत्त्वा / अथ तेन कस्यचित् स्निग्धस्योच्यते / गृहाण त्वम् एतद् विद्याद्वयम् उपकारस् ते भविष्यतीति / तेन न गृहीतम् / अथास्यास्मिन् मृते स्निग्धे महाव्याधिर् उत्पन्नः / सMS, ल्. ८ चाचिकित्स्यस् तेनैव कालगतः /
278 SK किं पुनर् इमे पदार्था अशून्या एव सन्तो वैराग्यार्थं शून्यवद् दृश्यन्ते / अथ प्रकृत्यैव शून्या इति व्यपदिश्यन्त इति / उच्यते //
Bycśṭ_8.7ab SK नाशून्यं शून्यवद् दृष्टं निर्वाणं मे भवत्व् इति //
Bycśṭ_8.7cd SK मिथ्यादृष्टेर् न निर्वाणं वर्णयन्ति तथागताः //
282 SK अन्यथावस्थितस्य वस्तुनो यद् अन्यथादर्शनं तन् मिथ्यादर्शनम् / यदि च स्वभावाशून्याः सन्तः पदार्थाः स्वभावशून्या इति दृश्येरंस् तदा मिथ्याद MS, प्. २४ब्र्शनाद् एव निर्वाणाधिगमः स्यात् / न च मिथ्यादृष्टेः पुग्गलस्य निर्वाणाधिगमं बुद्धा भगवन्तो व्यवस्थापयन्ति / सम्यग्दृष्टिपुरःसरेणैव यथा निर्वाणप्राप्तिव्यवस्थापनात् /
283 SK ततश् च मायावत् प्रतीत्यसमुत्पन्नत्वात् स्वभावशून्या एव सन्तो भावाः शून्याः स्वभावेनेत्य् अधिगम्यन्ते यथास्थितपदार्थतत्त्वदर्शनावदातसन्तानैः शमारोपापवादान्तकल्पनामलामलिनैर् आर्यैः /
284 SK रात्र्यां वेल्लकपेयप्रेषणवत् / कश्चिद् वेल्लको गुरुणाMS, ल्. २ रात्र्यां पेयस्यार्थम् अभीक्ष्णं प्रेष्यते / अथ कदाचित् स तेनोच्यते / नैतत् कल्पते भिक्षूणां कथं त्वं पिबसीति / स प्राह पानीयम् इति / तेनाप्य् अन्यस्मिन्न् अहनि पानीयम् एवानीतम् / स प्राह / कस्माद् अन्यद् एवम् आनीतम् इति / श्रामणेरः कथयति / यदा त्वं पानीयम् एवेतिकृत्वा पिबसि तत् को ऽत्र विशेष इति /
285 SK यदि खलु स्वभावशून्या एव पदार्थाः किम् अर्थम् अविद्यादिना क्रमेण सत्त्वभाजनलोकस्य प्रवृत्तिर् उपदिश्यते /MS, ल्. ३ ननु स्वभावपरमार्थत्वात् स्वभावशून्यतैव केवलम् उपदेष्टव्येति / नैतद् एवम् / नैव हि लौकिकं प्रवृत्त्यात्मकं परमार्थं पूर्वम् अनुपदिश्य शक्यं स्वभावशून्यतालक्षणं तत्त्वम् आदर्शयितुम् इति / तत्त्वावतारसोपानभूतत्वात् प्रवृत्त्युपदेशो पि कर्तव्यः / सर्वसङ्गपरित्यागेन निवृत्तिसुखावाप्तिनिमित्तं स्वभावशून्यतोपदेशो ऽपि कर्तव्यः / तद् अत्र ताथागते प्रवचने //
Bycśṭ_8.8 SK लौकिकी देशMS, ल्. ४ना यत्र प्रवृत्तिस् तत्र वर्ण्यते / परमार्थकथा यत्र निवृत्तिस् तत्र वर्ण्यते //
287 SK यत्र संसारप्रवृत्तिक्रमो ऽविद्यासंस्कारादिना क्रमेणाहेत्वेकहेतुविषमहेतुविनाशार्थं स्वसामान्यलक्षणसत्यत्वकल्पनया देश्यते / ज्ञातव्यं विदुषा प्रवृत्तिस् तत्र वर्ण्यत इति / यत्र तु प्रतीत्यसमुत्पादस्य स्वभावानुत्पादस्वभावशून्यतोपदिश्यते तत्र संसारप्रवृत्तेर् निव्र्त्तिर् वर्ण्यते / स्वभावशूMS, ल्. ५न्यतापरमार्थावगमात् सर्वत्रासङ्गवतो वेदनास्व् अतृष्णस्य तृष्णाप्रत्ययोपादानादिकारणनिरोधेन जातिजरामरणादेः सर्वथा निरोधात् /
288 SK विलप्रवेशवत् / यथा विलप्रवेशे या काचिद् उपकरणप्रवृत्तिः सर्वासाव् उच्छ्रष्टव्या न तया किंचित् प्रयोजनं क्रियते / तथा सर्वा लौकिक्यः प्रवृत्तयो निःसाराः परित्यक्तव्या विदुषा / यस्मात् प्रवृत्तिधर्म इति /
289 SK यद्य् एवंMS, ल्. ६ परमार्थकथायां न किंचिद् अस्ति शून्यत्वात् सर्वभावानां तदा सर्वाभावः प्रसज्यते / सर्वाभावाच् च न किंचित् कर्तव्यं स्यात् / कर्तृकर्मक्रियादीनां सर्वथाभावात् / अभावाच् च क्रियादीनां न स्यान् मोक्ष इत्य् अतः सर्वम् एवायुक्तम् इति / उच्यते //
Bycśṭ_8.9 SK किं करिष्याम्य् असत् सर्वम् इति ते जायते भयम् / विद्यते यदि कर्तव्यं नायं धर्मो निवर्तकः //
291 SK यत एव हि सर्वम् असद् अत एवायं पMS, ल्. ७रमार्थधर्मः प्रवृत्तिनिवर्तको युज्यते / तत् किम् इति निवृत्त्यर्थी सर्वाभावं क्रियाद्यनधिष्ठानं न समीहते / अथ हि नामात्रापि प्रवृत्ताव् इव कर्तव्यं स्यात् तदा क्रियाफलस्यापि पदार्थस्य प्रवृत्तेः सैव प्रवृत्तिर् इति कथम् अयं धर्मो निर्वाणवाहकः स्यात् /
292 SK मृगतृष्णावत् / यथा हि मृगतृष्णिका पानीयसंज्ञां जनयति न च तत् पानीयं भवति / यस्य तु तत्र परितर्षा जायते स तत्रैवानर्थं समापद्यते / तथा स्कन्धेष्व् आMS, ल्. ८त्मसंज्ञा /
293 SK यतस् तु निवर्तके धर्मे न किंचित् कर्मास्ति तस्माच् छून्यपक्षः श्रेयान् इति / यस् तु शून्यतामार्गे रज्यति विपरीते सस्वभावपक्षे दुष्यति तम् उपालभते //
Bycśṭ_8.10 SK स्वपक्षे विद्यते रागः परपक्षस् तु ते ऽप्रियः / न गमिष्यसि निर्वाणं न शिवं द्वन्द्वचारिणः //
295 SK द्विविधो हि पक्षः समासतः स्वपक्षः परपक्षश् च / तत्र यदि स्वपक्षे ते रागो ऽस्ति शून्यपक्षः श्रेयान् इति परपक्षश् च ते मिथ्ये MS, प्. २५अतिकृत्वाप्रियः / न गमिष्यसि निर्वाणम् /
296 SK न ह्य् अनुनयप्रतिघहतस्य द्वन्द्वचारिणो निर्वाणम् अस्ति / सर्वत्र ह्य् उदासीनाः सङ्गच्छेदाद् अनपायसुखैकरसं शिवम् आप्नुवन्ति /
297 SK आचार्यसंघसेनबटुवत् / कश्चिद् बटुर् आचार्यसंघसेनाच् छास्त्रं शुश्रूषति / स कदाचित् तेनोक्तम् उपासको भवेति / सो ऽप्य् अन्यतमस्मिन्न् अहनि तम् आचार्यम् उवाचार्योपासको ऽहं संवृत्तः / किं कारणम् इति / ब्राह्मणान् दृष्ट्वा घातयितुम् इच्छामीति /
298 SK अत्राह / यद्य् अपि निMS, ल्. २र्वाणं परमसुखं सकलोपद्रवरहितत्वात् तथापि तद् अशक्यं प्राप्तुं तत्प्राप्त्युपायस्यातिदुष्करत्वात् / भवस् त्व् अयत्नसाध्यत्वाद् यस्मात् सुखेन प्राप्यते तस्मात् तत्र नः प्रवृत्तिर् इति / उच्यते // विपरीतम् अवधारितम् / यस्मात् /
Bycśṭ_8.11 SK अकुर्वाणस्य निर्वाणं कुर्वाणस्य पुनर्भवः / निश्चिन्तेन सुखं प्राप्तुं निर्वाणं तेन नेतरः //
300 SK कुशलादिक्रियासु निरस्तव्यापारेण निश्चिन्तेन निर्वाणम् अवाप्यते / तस्मात् सुखं प्राप्तुं निर्वाणम् / कुशलाMS, ल्. ३कुशलादिप्रवृत्तिसाध्यत्वात् तु निर्वाणाद् इतरः पुनर्भवो न सुखेन प्राप्यते / न विदुषो ऽप्रयत्नलभ्यं निर्वाणम् अवधूय युक्तं विविधव्यापारपरिखेदलभ्यं पुनर्भवम् अर्थयितुम् /
301 SK आरोग्यबलसाधनवत् / बहवो ह्य् अरोगस्य बलसाधनाय दृश्यन्ते प्रत्ययाः / यदा तु नेच्छति किंचिद् अपि विशेषं तदा सर्वैः प्रत्ययैर् अनर्थी भवति /
302 SK यदि खल्व् अकुर्वाणस्य निर्वाणं तत् किम् अर्थं त्वMS, ल्. ४यात्र शास्त्रे ऽनित्याद्यर्थप्रतिपादनं क्रियत इति / उच्यते / संसारभुक्तं जगत् संसाराद् उद्वेजनार्थम् / तथा हि //
Bycśṭ_8.12 SK उद्वेगो यस्य नास्तीह भक्तिस् तस्य कुतः शिवे / निर्गमश् च भवाद् अस्मात् स्वगृहाद् इव दुष्करः //
304 SK संसाराद् उद्विग्नचेतास् तन्निःसरणाय निर्वाणं भजते / यस्य तु नास्त्य् उद्वेगः स किम् इति तद् अर्थयते / तद् उद्वेगाभावाद् एव च भवान् निर्गन्तुम् अल्पबुद्धयो नोत्सहन्ते / यथा स्वMS, ल्. ५ग्र्हम् अल्पसारम् अपि व्यासङ्गपरिच्छेदस्य दुष्करत्वान् न त्यक्तुं पार्यते / तादृशम् एतत् /
305 SK वध्यपानप्रार्थनवत् / वध्यः कश्चिद् वधायोत्सृष्टः सद्यो हन्तव्य इति / स च पानं प्रार्थयते स्म / एवम् अत्र भवगतानाम् अपीच्छा न निर्वर्तते /
306 SK अपि तु / विषयसुखसम्भोगसुलभानि गृहाणि त्यक्तुम् आढ्यानां मा भूत् तत्सामर्थ्यान् निर्वाणं च गन्तुम् / येषां तु व्याधिदारिद्र्यादीनां दुःखहेतूनां प्रतिविधानासMS, ल्. ६म्भवस् तेषां युक्त एव संसारपरित्यागः / तथा हि //
Bycśṭ_8.13 SK दुःखाभिभूता दृश्यन्ते केचिन् मरणकाङ्क्षिणः / ते तदा केवलं मोहान् न गच्छन्ति परं पदम् //
308 SK व्याधिविप्रयोगदुःखान्विताः केचिद् आत्मस्नेहम् अपास्य तटाद् अप्य् आत्मानम् उत्स्र्जन्ति / तथैव यदि संसारं दुःखतो निर्धार्यात्मस्नेहम् अत्यन्तायोद्धरेयुर् अदूरे निर्वृतिसुखस्य वर्तेरन् / विपर्यासितदर्शनास् तु मोMS, ल्. ७हात् तथा न प्रवर्तन्ते ये निर्वाणं नासादयन्ति /
309 SK पेयापीतशयितवत् / पेयौषधसन्देहवच् च / कश्चित् पेयान् पीत्वा शयितः स भूयस्या मात्रया दुःखी संवृत्तः / तथा बाला यथा यथा सुखं प्रार्थयन्ते तथा तथा दुःखिततमा भवन्ति / यथा कश्चिद् औषधं पास्यामीत्य् उपस्निग्धः स चोपस्नेहात् सन्दिग्धो जातः किम् औषधं पेयं कतमद् वा पेयम् इति स व्याधेर् न मुक्तः / तथा सर्वबालपृथग्जना दुःखोपद्रवस्नेहMS, ल्. ८द्रवीकृतक्लेशा अपि सन्तो ऽज्ञानव्याधिविनाशाय विरागौषधपानसन्दिग्धाः क्लेशौषधम् अपीत्वा सर्वक्लेशव्याधिनिर्मोक्षात् परं पदं नाधिगच्छन्ति /
310 SK अत्राह / यद्य् एवं सर्वपरित्यागेन निर्वाणम् एवार्थनीयम् / तत्प्राप्तये भावनाकथैवास्तु / तत् किम् अर्थं भगवता दानशीलकथे ऽपि विहित इति / उच्यते // त्रिविधो हि सत्त्वधातुर् हीनमध्यमोत्तमभेदात् / तद्भेदार्थं भगवतो देशनावैचित्र्यम् /
311 SK MS, प्. १९अस्य विधेयः //
312 SK बालदारकवत् / यथा बालदारको नान्यया भाषया शक्यते बोधयितुं तथा पृथग्जनो लोकः / अत एव लोकावतारोपायत्वात् सदसदादिदेशनानां भगवता //
Bycśṭ_8.20ab SK सद् असत् सदसच् चेति नोभयं चेति कथ्यते //
314 SK सर्वाभावदर्शनमलक्षालनाय सद् इति कथितम् / भावाभिनिवेशप्रहाणायासद् इति कथितम् / उभयाकारदर्शनत्यागाय सदसद् इत्य् आवेदितम् / सर्वाकारप्रपञ्चोच्छेदाय नोभयम् इति प्रकाशितम् /
315 SK अपि च त्वम् एव तावद् विचारयMS, ल्. २ //
Bycśṭ_8.20cd SK ननु व्याधिवशात् पथ्यम् औषधं नाम जायते //
317 SK व्याधयः प्रतिविधातव्याः / तेषां च निदानभेदाद् अनेकम् औषधं नैकम् एव सर्वत्रोपयुज्यते / ताडृशम् एतत् /
318 SK यक्षप्रेतप्रव्रजितधर्मपानीयदानवत् / यक्षप्रत्यवस्थितदर्शनवच् च / यथा त्रयो भ्रातरः / तत्रैकः प्रव्रजितः / द्वितीयो यक्षः संवृत्तो महर्द्धिकः / तृतीयः प्रेतः संजात उल्कामुखः / ताव् उभाव् अपि तस्य भिक्षोः सकाशं गतौ / ततस् तेन भिक्षुणा तस्य यक्षस्य मदहेतुज्ञापनार्थं दौःMS, ल्. ३शील्यदोष उद्भावित /
319 SK प्रेतस्य तु पानीयप्रदानेन ज्वलनदुःसहदुःखम् उपशमय दुःखहेतुज्ञापनार्थं मात्सर्यदोषो ज्ञापितः / एवं सत्त्वाशयवैचित्र्याद् धर्मदेशनावैचित्र्यं भवति /
320 SK यथा कस्यचित् पित्रा कन्यका देशान्तरे याचिता / स चास्य पिता कालगतः स मात्रोच्यते / गच्छ तां कन्यकाम् अवलोकयितुं तव पितृवयस्यो यक्ष एवं नामा तम् अर्थयस्वेति / तेन तथाकृतम् / अथ स यक्षस् तं विमाMS, ल्. ४नेन वैहायसं गृहीत्वा गतः / पुरुषश् चाभ्यागच्छति / स तेन यक्षेण पुत्र उक्तो गच्छैनं त्रासयस्वेति / तेन तथाकृतम् / आगत्यैनं पृच्छति / किम् अर्थं चैष पुरुषस् त्रासित इति / स प्राह / एष प्रव्रजितो नाहम् अस्य तेजः सहे / अथ तेन तं नगरं नीत्वा स पुत्र एकान्ते स्थापितः / तत्कन्यान्वेषणार्थं नगरं प्रविष्टः / तस्य च यक्षस्य तां कन्यकां दृष्ट्वा रागः समुत्पन्नः / सा तेन गृहीता / स च पुत्रश् चिरम् अMS, ल्. ५सौ किं करोतीति स्वयं गतो यावत् तेनैव गृहीतां दृष्ट्वा स तेनैव विज्ञप्यते / मुञ्चैनां कन्यकां स्नुषा ते भवतीति / धर्मदेशनापि तद्वज् ज्ञेया /
321 SK आसां च सदसदादिदेशनानाम् अध्यात्मचिन्ताप्रवृत्तत्वात् / यैषा नोभयदेशनैषा परमार्थदेशना / तस्मिंश् च परमार्थे //
Bycśṭ_8.21 SK सम्यग्दृष्टे परं स्थानं किंचिद् दृष्टे शुभा गतिः / तस्माद् अध्यात्मचिन्तायां कार्या नित्यं मतिर् बुधैः //
323 SK परमार्थज्ञानेनMS, ल्. ६ खलु सम्यग्दृष्टे परमार्थे परं स्थानं प्राप्यते निर्वाणम् / ईषत् किंचिद् दृष्टे शुभा देवमनुष्यगतिर् भवति / यस्माच् च सम्पूर्णज्ञानदर्शने निर्वाणं प्राप्यते / असमाप्ते च शुभा गतिः / तस्माद् अध्यात्मचिन्तायां विदुषा नित्यम् एव बुद्धिः कर्तव्येति /
324 SK इभ्यकुलचौरासद्धर्मनिमन्त्रणवत् / कश्चिच् चौरो ऽभीक्ष्णं विहारं गच्छति स्म / स केनचिद् भिक्षुणोक्तः प्राभृतम् अस्मद्भ्यः प्रतिगृहाणेति / सMS, ल्. ७ प्राह / कीदृशं प्राभृतम् / भिक्षुर् उवाच / धर्मप्राभृतं शिक्षापदं गृहाणेति / स प्राह / प्राणातिपातादत्तादानमृषावादेभ्यो विरक्तुं न शक्यं किं तु काममिथ्याचाराद् विरमामीति / स ततो विरम्य राजकुलं चौर्याय प्रविष्टः / तत्र चासद्धर्मेण निमन्त्रितो न च तेनेष्टं स चार्थो राज्ञोपलब्धः / तेन सर्वालंकारविभूषिता स्त्री तस्माय् अनुप्रदत्ता सम्मानितश् च / एवम् एवास्याम् अध्यात्मचिन्तायां नियतं फMS, ल्. ८लं निर्वाणं व्यवस्थाप्यते /
325 SK अथ कुतश्चित् प्रत्ययवैकल्यात् //
Bycśṭ_8.22 SK इह यद्य् अपि तत्त्वज्ञो निर्वाणं नाधिगच्छति / प्राप्नोत्य् अयत्नतो ऽवश्यं पुनर्जन्मनि कर्मवत् /
327 SK यद्य् अपीह जन्मनि तत्त्वदर्शनाभियुक्तो विरागावसानं न लभते / परमार्थज्ञाननिष्यन्दाद् अप्रयत्नाद् अवश्यम् एव पुनर्जन्मनि स निर्वाणं प्राप्नोति कर्मवत् / यथा नामेह कृतस्य नियतस्य कर्मणः फलं यद्य् अप्य् अस्मिञ् जन्मनि नास्ति / तस्य त्व् अवश्यम् एवा MS, प्. १८ब्न्यजन्मनि फलं भवति /
328 SK आम्रभक्षणरोपणवत् / यो ह्य् आम्रभक्षणं कृत्वा बीजम् अविनाश्य रोपयति / स यद्य् अपि सद्यः फलं नासादयति बीजास्वादनकृतं तथापि कालान्तरे महान्तम् अर्थम् आसादयति //
329 SK यद्य् एवं तत्त्वज्ञानम् अस्ति किम् अर्थं मुक्ता न दृश्यन्ते / दृश्यन्त एव च केचित् / अपि खलु //
Bycśṭ_8.23 SK सर्वकार्येषु निष्पत्तिश् चिन्त्यमाना सुदुर्लभा / न च नास्तीह निर्वाणं युक्ता मुक्ताश् च दुर्लभाः //
331 SK न च केवलं विराग एव दुर्लभदर्शनो ऽMS, ल्. २पि खलु सर्वारम्भा दुरवसेयफलोदयाः / न हि चिन्तैव फलसाधिका / किं तर्हि / हेतुप्रत्ययसामग्री समीहितफलनिष्पादिका / सा च हेतुप्रत्ययसामग्री दुर्लभा / तस्माद् इह चिन्तया सर्वकार्येषु सुदुर्लभा निष्पत्तिः / तद्वद् इह शासने यद्य् अपि निर्वाणम् अस्ति तथापि कल्याणमित्रवैकल्याद् अध्यात्मं च योनिशो विकल्पाभावाद् युक्ताः सुदुर्लभाः / यस्मात् ततो मुक्ता अपि दुर्लभा भवन्ति / अस्माMS, ल्. ३न् न शक्यं मुक्तादर्शनात् तत्वदर्शनाभावः प्रतिपत्तुम् /
332 SK चाण्डालीफालालेहनवत् / यथा चाण्डाली चौर्येणाभियुक्ता तद्दोषविमुक्तापि सती नोत्सहते फालालेहनं कर्तुं कथम् अहं चण्डालत्वेनाशुचिस्वभावा देवसन्निधौ फालालेहनं करिष्यामीति / यदि पुनः कुर्यान् मुच्येत ततो ऽभियोगात् / एवं केचिद् बाला हीनम् आत्मानं मन्यमाना नोत्सहन्ते बुद्धत्वायMS, ल्. ४ घटयितुम् /
333 SK यदि पुनर् न्यायेन घटेरल् लभेरन् बुद्धत्वम् अवश्यम् / कथं पुनर् एतद् अवसातुं शक्यं यद् एवं चिरकालप्रवृत्तस्य क्लेशगणस्य क्षयो ऽस्तीति // उच्यते /
Bycśṭ_8.24 SK श्रुत्वा शरीरनैर्गुण्यं क्षणं रागो न तिष्ठति / प्राप्तस् तेनैव मार्गेण सर्वस्यापि ननु क्षयः //
335 SK यथेह चिरकालं ममत्वाभिरक्षितस्य शरीरस्य विचित्रैर् भोगैर् उपलालितस्यापि विMS, ल्. ५नाशधर्मिणो ऽकृतज्ञस्य नैर्गुण्यं श्रुत्वा पण्डितस्य तत्क्षणं रागो न जायते / तथा तेनैव मार्गेण वैराग्यजनने सुभावितेन चिरकालप्रवृत्तस्यापि रागस्य सर्वस्यैवात्यन्तशो ननु क्षयः प्राप्तः / ततश् च सर्वस्यैव बाह्यस्य चाध्यात्मिकस्य च वस्तुनः स्वभावशून्यतयासारत्वदर्शनान् निरवशेषरागबन्धनच्छेदान् मुक्तिः /
336 SK चाणक्यसौवर्णपरित्यागवत् / शMS, ल्. ६क्याम्य् अहम् अनेनोपायेन बह्व् अपि सुवर्णं कर्तुम् इत्य् एवं योगाचारः शरीरनैर्गुण्यश्रवणमात्रकेण क्षणमात्रं रागस्यानवस्थानं दृष्ट्वा तम् एव मार्गम् अभ्यस्यति / शक्याम्य् अहम् अनेनोपायेन मार्गेणात्यन्तं रागनिवर्तनं कर्तुम् इति /
337 SK अत्राह / अनादिकालप्रवृत्तस्यास्य जन्मसन्तानस्य कथम् अन्तो भविष्यतीति / उच्यते //
Bycśṭ_8.25 SK यथा बीजस्य दृष्टो ऽन्तो नMS, ल्. ७ चादिस् तस्य विद्यते / तथा कारणवैकल्याज् जन्मनो ऽपि न सम्भवः //
339 SK यथा नाम चिरकालप्रवृत्तस्यास्य हेतुफलपरम्परया प्रवर्तमानस्य बीजसन्तानस्यानादिमतो ऽन्तो दृष्टो ऽग्निदाहात् तथानादिकालप्रवृत्तस्य परम्परया हेतुतः प्रवर्तमानस्यानादिमतो ऽपि विज्ञानबीजजन्मनः कारणवैकल्यात् पुनः सम्भवो नास्ति /
340 SK क्लेशापेक्षं हि कर्म जन्माक्षेप्तुं पर्याप्तम् / ते च क्लेशा ज्ञानMS, ल्. ८तेजःस्पर्शाद् अभावं गतास् तद् अयम् असमर्थं कर्म सहायाभावाज् जन्माक्षेप्तुम् / एवम् अयम् अवसितजन्मा शीतीभवति /
341 SK दीपवत् / भृष्टतिलवत् / विहायसपरिव्राजकवत् / वृक्षवच् च / यथा दीपस्य प्रत्ययेष्व् असत्सु स्थितिर् न भवति सत्सु भवति / यथा भृष्टानां तिलानां विरोहणं न भवति / विहायसपरिव्राजको मनःशिलां साधयित्वा तद्धेतोर् विहायसा गच्छति स्म / यदा तु सान्येन पुरुषेण विद्यापहृता त MS, प्. १३ब्दा हेत्वभावात् पतितः / यथा च वृक्षस्य मूलोत्पाटनान् न पुनर् वृद्धिर् भवति हेत्वभावात् / तथा भावाभिनिवेशहेत्वभावान् न रागादीनां क्लेशानाम् उत्पत्तिर् भवति / न च कर्मवशाद् बोधिसत्त्वानां प्रवृत्तिर् अपि तु प्रणिधानवशात् / तस्मात् सर्वगतिभावदर्शित्वेन परमदुष्करतमम् अत्यद्भुतं बोधिसत्त्वस्य यत् सत्त्वार्थे घटते / सत्त्वं च नाभिनिविशते किंचिद् इति /
342 SK उक्तं चाचार्यबुद्धपालितेन /
343 SK पश्यन्न् अपि जगच् छून्यं जन्मदुःखनुनुत्सया / MS, ल्. २सुचिरं यद् असि क्लिष्टस् तन् नाम परमाद्भुतम् //
345 SK तच् च सर्वजगत्स्वभावदर्शित्वं यथा भवति तथोत्तरत्र प्रकरणैर् अष्टाभिः प्रतिपादयिष्यति //
346 SK आचार्यार्यदेवीये बोधिसत्त्वयोगाचारे चतुःशतके पारिकर्मिकप्रकरणम् अष्टमम् //
347 SK MS, प्. १३ब्२समनुक्रान्तप्रकरणजलप्रक्षालितचित्तसन्तानस्य तत्त्वामृतदेशनापात्रस्य शिष्यस्याचार्यो ऽतः परम् अवशिष्टैः प्रकरणैर् यथास्थितपदार्थतत्त्वाMS, ल्. ३धिगमाय तत्त्वविनिश्चयम् आरब्धुकामः संस्कृतस्योदयव्ययत्वेनासारताम् उद्भावयन्न् आह //
Bycśṭ_9.1ab SK सर्वं कार्यार्थम् उत्पन्नं तेन नित्यं न विद्यते //
349 SK कार्यार्था हि प्रवृत्तिर् लोके न स्वाभाविकी / तथा चाहुर् लौकिकाः कार्यकृतो ऽयम् अस्य स्नेहो न स्वाभाविक इति / संस्कृतस्य च भूतभौतिकचित्तचैत्तलक्ष्यलक्षणादेर् एकस्यैकस्योदयाभावाद् यथासम्भवं कलापMS, ल्. ४रूपस्यैवोत्पादः / तस्य कलापस्य मिथःकार्यकारणावस्थानात् / यस्मिन् सति यद् भवति यद् अभावे च यन् न भवति तत् तस्य कारणम् इतरत् कार्यम् इति / पृथिवीम् अन्तरेण भूतत्रयस्याभावात् / सत्यां च भावाद् भवति कार्यप्रयोजना पृथिव्याः समुत्पत्तिर् इत्य् एवं सर्वम् एव संस्कृतं यथास्वं कार्यार्थम् उत्पन्नम् / यच् च कार्यार्थम् उत्पन्नं न तन् नित्यम् /
350 SK निMS, ल्. ५त्यशब्दस्य स्वभावसत्यसारवस्तुद्रव्यपर्यायत्वात् / तदभावेन निःस्वभावम् असत्यम् असारम् अवस्त्व् अद्रव्यं संस्कृतम् इति गम्यते /
352 SK चक्षुः समृद्धे शून्यम् आत्मनात्मीयेन च नित्येन ध्रुवेण शाश्वतेनाविपरिणामधर्मेणेति / तथा चक्षुश् चक्षुषा शून्यम् अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषेतिMS, ल्. ६ अत एव तन् मृषामोषधर्मकं यद् एतत् संस्कृतम् इत्य् उवाच शास्ता /
353 SK एतच् च वचनं वक्ष्यमाणयुक्त्युपेतं तन् निश्चित्याचार्य आह //
Bycśṭ_9.1cd SK तस्मान् मुनिम् ऋते नास्ति यथाभावस् तथागतः //
355 SK अशैक्ष्यकायवाङ्मनोमौनयोगान् मुनिर् बुद्धो भगवान् / स एवा नित्यशून्यतोपदेशेन यथा भावानां स्वभावस् तथा गतो बुद्धस् तथागत इत्य् उच्यते / नान्यो विपरीततत्त्वोपदेMS, ल्. ७शेन यथास्थिततत्त्वार्थानभिसम्बोधात् / यथा चोक्तम् /
356 SK अतीता तथता यद्वत् प्रत्युत्पन्नाप्य् अनागता / सर्वधर्मास् तथा दृष्टास् तेनोक्तः स तथागतः //
358 SK अथवायम् अन्यो ऽर्थः / यत् समुदयधर्मि तद् अवश्यं निरोधधर्मि जातिप्रत्ययं जरामरणम् इति चोपदेशात् / यद् उत्पन्नं तस्य कार्यं विनाश एव तदर्थत्वाद् उत्पादस्येत्य् अतः
359 SK स्वभावो न विMS, ल्. ८द्यत इत्यर्थः / यत एतद् एवम् /
360 SK अस्यार्थः पूर्ववत् /
361 SK अथवा वेदनात्रयवेदनीयकर्मणां कालदेशावस्थाविशेषसंवेद्यानां तैर् विना कर्मफलसंवेदनाभावात् तदर्थम् आध्यात्मिकं बाह्यं वा वस्तुसम्भवात् सर्वं कार्यार्थम् उत्पन्नं न स्वरूपत एव व्यवस्थितं तेन नित्यं न विद्यते /
362 SK यदि हि तत् स्वरूपतो व्यवस्थितं स्यात् स्वरूपस्यानपायित्वा MS, प्. १४अन् नित्यम् एव स्यात् / न च तथास्तीति /
Bycśṭ_9.1b SK तेन नित्यं न विद्यते /
364 SK स्वभावशून्यं सर्वम् इत्यर्थः / सा चेयं शुन्यत तथागतेतरशास्तृप्रवचनानुपदिष्टेत्य् आह /
366 SK तार्किकास् तु व्याचक्षते / परेण यत् कार्यार्थम् अनुत्पन्नत्वेनाभ्युपगतं तद् उत्पन्नं कार्यार्थत्वाद् उत्पन्नकार्यार्थवद् इति / तद् अत्रानुदयव्ययवतां परिकल्पितानां पृथिव्यादिपरमाणूनां खपुष्पादिवत् तावद् अस्तित्वम् आMS, ल्. २स्थातुम् अशक्यम् / न चाविद्यमानानां कारणत्वम् आरोप्योत्पादसिद्ध्यानित्यत्वसाधनं न्याय्यम् / कार्यार्थत्वस्य स्वत एवासिद्धत्वात् परप्रसिद्धहेत्वङ्गीकरणे चातिप्रसङ्गात् / अयुक्तवस्त्वभ्युपगमाच् च परस्य निवारणीयत्वान् न युक्तं नित्यं कार्यार्थत्वेनाभ्युपगन्तुम् / न चानेन परप्रतिज्ञाया अनुमानविरोधोद्भावनं न्याय्यम् / तस्योभयप्रसिद्धेनैवोद्भावनात् / यस्याप्य् उभयप्रसिद्धेMS, ल्. ३नानुमानबाधासम्भवात् स्वप्रसिद्धेनाप्य् अस्त्य् अनुमानबाधेति नूनं तस्याप्य् अर्थप्रतिपादनाकौशलम् एव स्यात् / न हि विद्वान् सुखप्रतिपाद्यम् अर्थं दुःखेन प्रतिपादयितुम् आद्रियते /
367 SK अपि चाकाशस्यापि चक्षुर्विज्ञानाङ्कुरोत्पत्तौ कारणत्वाभिधानात् सूत्रान्ते षड्धातुपाठाच् च पुद्गलप्रज्नप्तिनिमित्तत्वाद् अनैकान्तिकत्वम् एव स्यात्MS, ल्. ४ कार्यार्थत्वस्य //
Bycśṭ_9.9ab SK कारणं विकृतिं गच्छज् जायते ऽन्यस्य कारणम् /
369 SK इति न्यायान् नास्त्य् आकाशस्य कारणत्वम् इति चेन् नैतद् एवम् / तत्र हि क्रियते येन तत् कारणम् इति जनक एव हेतुर् अभिसमीहितः कारणत्वेनाङ्कुरस्येव बीजम् / निमित्तभावमात्रेण त्व् आकाशस्यापीष्यत एव कारणत्वम् / एवं ह्य् अनिष्यमाणे सूत्रशास्त्रयोर् अविरोधो नोद्भावितMS, ल्. ५ः स्यात् / न चाचार्यः सर्वथा निःस्वभावभाववादित्वाद् ध्य् उत्पत्तिमुखेनानित्यतां प्रतिपादयति / तत्त्वाधिकाराद् उत्तरत्र तस्या अपि नित्यतावत् प्रतिषिध्यमानत्वात् / वक्ष्यति हि /
370 SK उत्पादस्थितिभङ्गानां युगपन् नास्ति सम्भवः / क्रमशः सम्भवो नास्ति सम्भवो विद्यते कदा //
371 SK इति // शास्त्रे ऽपि चोक्तम् /
372 SK अनित्ये नित्यम् इत्य् एवं यदि ग्राहो विपMS, ल्. ६र्ययः / अनित्यम् इत्य् अपि ग्राहः शून्ये किं नविपर्यय /
374 SK अपि च वस्तुनो लोकसिद्धत्वात् तत्सिद्धाव् अनुमानपरिग्रहो निःप्रयोजन एव / यो ऽप्य् अवस्तुनो वस्तुसत्तां मौढ्यात् प्रतिपद्यते सो ऽपि सामान्यजनप्रसिद्ध्या शक्यत एव विवक्षितम् अर्थं ग्राहयितुम् / वस्तुतत्त्वसाधने चावयवत्रितयस्यापि साध्यवद् असिद्धत्वाद् असम्भव एवार्थMS, ल्. ७साधनस्येत्य् अतस् तार्किकानां व्यर्थ एव तर्कप्रणयनश्रमो लक्ष्यते / तथा च लौकिका अनधीततर्कलक्षणा अपि सन्तो लौकिकार्थविनिश्चयनिपुणा यद् यथास्थितं वस्तु तत् तथैव प्रतिपद्यन्ते / प्रतिपादयन्ति चापरेभ्यः /
375 SK अपि चानित्यताया लोकप्रतीतत्वाद् यत्र लोको ऽपि ताम् अवस्यति तत्र न शक्यत एव तद् वक्तुम् अविपरीतार्थाभिधायी तथागत एवेति / यस् तु स्वलक्षणम् आरोप्य लोको ऽनित्यतां प्रतिपद्यमानस् तस्य वस्तुनो मृMS, ल्. ८षामोषधर्मकत्वेनाप्रतिपात्तेः सर्वत्र तथागत एवाविपरीतदर्शीति युक्तम् /
376 SK अत्राहुर् एके / सत्यं यत् कार्यार्थम् उत्पन्नं न तन् नित्यं भवतीति / ये तूभयाङ्गविकलाः पदार्थास् तद् यथाकाशादयो मनःपर्यन्ताः / ये ऽपि चैकाङ्गविकलाः पदार्थास् तद् यथा पृथिव्यादिपरमाणवस् ते नित्या भविष्यन्ति / तेषां चास्तित्वनित्यत्वानवगमान् नाविपरीतदर्शी तथागत इति / तेषां मतस्यायुक्तताम् उद्भावयन्न् आहाचार्यः // MS, प्. १६अ
Bycśṭ_9.2a SK अप्रतीत्यास्तिता नास्तीति //
378 SK यथास्वं हेतुप्रत्ययायत्तोदयानां सुखादीनाम् अस्तित्वम् उपलभ्य कथम् अयम् अर्थापत्त्याप्रतीत्यसमुत्पन्नानां नास्तित्वं न प्रतिपद्येत / अर्हत्य् एवायं स्फुटतरम् एषां गगनोत्पलादीनाम् इवासत्त्वं प्रतिपत्तुम् / तच् चेन् न प्रतिपद्यते नियतम् अस्य तैमिरिकस्येव समारोपकृतं दर्शनवैकृतम् उपलक्ष्यत इति / अतो
Bycśṭ_9.2a SK ऽप्रतीत्यास्तिता नास्ति /
380 SK स चैष न्यायः कालवस्तुदेशभेदभिन्ने पदार्थे सर्वत्राव्यभिचारीत्य् आह //MS, ल्. २
Bycśṭ_9.2b SK कदाचित् कस्यचित् क्वचिद्
382 SK इति // यतश् चैतद् एवम् //
Bycśṭ_9.2cd SK न कदाचित् क्वचित् कश्चिद् विद्यते तेन शाश्वतः //
384 SK पूर्वार्धेन सिद्धस्यैतन् निगमनम् / यदा चैवम् अप्रतीत्यसमुत्पन्नत्वात् परपरिकल्पितानां पदार्थानां सत्त्वनित्यत्वे न स्तस् तदा सिद्धं तथागतस्याविपरीतदर्शित्वं तथा हि तेन सच् च सतो ज्ञातं यत् प्रतीत्यसमुत्पन्नम् / असच् चासतः परपरिकल्पितम् अप्रतीत्यसमुत्पन्नंचेति /
385 SK ये पि च सर्गप्रलययोर् आविर्भावतिरोभावमात्रेण महदादेर् अभूMS, ल्. ३त्वाभावतिरस्कारेणाभिव्यक्तिमात्रतया नित्यतां प्रतिपन्ना न कस्यचित् प्रतीत्योदयम् इच्छन्ति ते ऽप्य् उक्तदूषणं नातिवर्तन्ते /
386 SK अथ स्यात् / सुखादयस् तावत् प्रतीत्यसमुत्पन्नाः सन्ति / तेषां च समवायिकारणम् आत्मा / न चासतः समवायिकारणत्वं न्याय्यम् इत्य् अतस् तत्कार्योपलम्भाद् अस्ति तावद् आत्मा / स चैष नित्यः / सदकारणत्वात् / यद् अस्ति न चास्य कारणम् उपलभ्यते तन् नित्यम्MS, ल्. ४ / सति चात्मनि तज्जातीया अपि पदार्था भविष्यन्तीति /
387 SK अत्रोच्यते / स्युस् तज्जातीयाः पदार्था यद्य् आत्मैव स्यात् / न त्व् अस्ति / कथं कृत्वा / यस्मात् //
Bycśṭ_9.3a SK न विना हेतुना भावः /
389 SK भावः स्वभाव आत्मेति पर्यायाः / स विना हेतुना न सम्भवति / तथा हि परेणैवास्याकारणत्वम् अभ्युपेतं तच् च निर्हेतुकं खरविषाणादिवन् नास्तीति सिद्धम् / आकाशादिभिर् अनैकान्तिकतेति चेMS, ल्. ५त् / न / तेषाम् अपि तद्वद् एवास्तित्वस्य निषिध्यमानत्वात् /
390 SK अथैवं दोषपरिजिहीर्षयाभ्युपेतविरुद्धम् अपि हेतुमत्त्वम् अङ्गीक्रियते / एवम् अप्य् अस्य हीयते नित्यत्वम् / यस्मात् /
Bycśṭ_9.3b SK हेतुमान् नास्ति शाश्वतः //
392 SK हेतुमत्त्वात् सुखादिवद् इत्य् अभिप्रायः / यत एतद् एवम् //
Bycśṭ_9.3cd SK तेनाकारणतः सिद्धिः सिद्धिर् नेत्य् आह तत्त्ववित् //
395 SK प्रतीत्यधर्मान् अधिमुच्यते विदू / न चान्तदृष्टीय करोति निश्रयम् / सMS, ल्. ६हेतु सप्रत्यय धर्म जानति / अहेतु अप्रत्यय नास्ति धर्मता //
396 SK इति // अस्या देशनाया यथोपवर्णितोपपत्त्यनुगमाद् अविपरीतार्थवित् तथागत एवेति सिद्धम् /
397 SK अथ स्याद् घटसुखादेः कृतकस्यार्थस्यानित्यत्वम् उपलभ्यार्थापत्त्याकृतकस्यात्मादेर् नित्यत्वं भविष्यतीति / एतद् अप्य् अयुक्तम् / यस्माद् एवम् इष्यमाणे कृतकस्य घटसुखादेर् अस्तित्वम् उपलभ्य तद्विपर्ययेणार्थापत्त्याकृतMS, ल्. ७कस्यात्मादेर् नास्तित्वम् आपन्नम् इति / तद् एव प्रतिपादयन्न् आह //
Bycśṭ_9.4 SK अनित्यं कृतकं दृष्ट्वा शाश्वतो ऽकृतको यदि / कृतकस्यास्तितां दृष्ट्वा नास्ति तेनास्तु शाश्वतः //
399 SK न चाविद्यमानस्य नित्यत्वं नापि सद् एवानित्यं वस्तु //
400 SK अथ स्याद् आकाशाप्रतिसंख्यानिरोधप्रतिसंख्यानिरोधानाम् अभिधर्मशास्त्रपरिपठितानाम् अकृतकानां सतां नित्यत्वास्तित्वेनाभ्युपगमाद् अकृतकस्यासत्त्वप्रतिपादनम् अभ्युपेतेन बाध्यत इMS, ल्. ८ति / एतद् अपि नास्ति / यस्मात् //
Bycśṭ_9.5 SK आकाशादीनि कल्प्यन्ते नित्यानीति पृथग्जनैः / लौकिकेनापि तेष्व् अर्थान् न पश्यन्ति विचक्षणाः //
402 SK रूपाभावमात्र एवाकाशव्यवहारान् न किंचनाकाशं नाम वस्तुरूपम् अस्ति / रूपान्तराभावे तु रूपिणाम् उत्पत्तिप्रतिबन्धाभावात् स एव रूपान्तराभावो भृशम् अस्यान्तः काशन्ते भावा इत्य् आकाशम् इत्य् आख्यातः / तद् अस्यावस्तुसतो ऽकिंचनस्य नामधेयमात्रोपदेशव्यामूढैर् अभिधर्मशा MS, प्. १५ब्स्त्रे वैभाषिकैर् यद् वस्तुत्वम् आरोपितं न तत् प्रमाणम् इति न तेनास्माकम् अभ्युपगमबाधाचोदनं न्याय्यम् / तथा हि पदार्थस्वभावपण्डिता आकाशाभिधाने प्रयुज्यमाने लौकिकेनापि ज्ञानेन नाभिधेयं नाम किंचित् स्वरूपम् उपलभन्ते यथा पृथिव्याद्यभिधानेषु काठिन्यादिकम् / किम् उत पदार्थस्वभावज्ञानावस्थिताः सर्वं बाह्यं चाध्यात्मिकं च वस्त्वनुपलभमानास् तस्य स्वरूपम् उपलप्स्यन्त इत्य् एवम् अप्रतिसंख्यानिरोधप्रतिसंMS, ल्. २ख्यानिरोधयोर् अपि वक्तव्यम् / नित्यत्वं तेषाम् अकिंचनत्वेनानन्यथाभावमात्रद्योतकं न विधानम् इत्य् अतो नास्त्य् आकाशादीनां नित्यत्वम् इति /
403 SK अत्राह / नित्यम् एवाकाशं विभुत्वात् / यद् अनित्यं न तद् विभुः / तद् यथा घट इति / अत्रोच्यते / यद्य् अप्य् अजातस्यासत्त्वप्रतिपादनेन तदधिकरणसर्वाधेयासम्भवो ऽप्य् अर्थाद् उपपादितस् तथापि परमतप्रसिद्धपदार्थस्वरूपविशेषापाकरणमुखेनMS, ल्. ३ तन्मतस्यायुक्तताम् उद्बिभावयिषुर् आकाशस्य विभुत्वप्रतिषेधेन नित्यताम् अपाकर्त्तुकाम आह //
Bycśṭ_9.6 SK प्रदेशिनि न सर्वस्मिन् प्रदेशो नाम वर्तते / तस्मात् सुव्यक्तम् अन्यो ऽपि प्रदेशो ऽस्ति प्रदेशिनि //
405 SK आकाशस्य ये ऽवयवास् ते ऽस्य प्रदेशास् तैः प्रदेश्य् आकाशम् / तस्मिन् यो घटसंयोगी प्रदेशः स तदितरपदार्थसंयोगिनि प्रदेशे न वर्तते / यदि हि वर्तेत तदाMS, ल्. ४ तेनाभिन्नदेशस्यापि घटस्य सर्वगतत्वं स्यात् / न चैतद् अस्तीत्य् अयुक्तम् एतत् / अपि च यदि प्रदेशो ऽपि सर्वत्र वर्तेत सो ऽपि व्यापित्वात् प्रदेशिवत् प्रदेशाभिधानभाग् न स्यात् / प्रदेशाभावाच् च प्रदेशिनो प्य् अभावः स्यात् / अथैतद्दोषपरिजिहीर्षया
Bycśṭ_9.6ab SK प्रदेशिनि न सर्वस्मिन् प्रदेशो नाम वर्तत
407 SK इत्य् अभिमतम् / तदावश्यं
Bycśṭ_9.6cd SK सुव्यक्तम् अन्यो ऽपि प्रदेMS, ल्. ५शो ऽस्ति प्रदेशिनीत्य्
409 SK अभ्युपेयम् / ततश् चासर्वगतप्रदेशवत आकाशस्य प्रदेशिनो घटादिवद् विभुत्वम् अवहीयेत / न च परस्पराव्यतिभिन्नप्रदेशमात्रव्यतिरेकेण प्रदेशी नाम कश्चिद् उपलभ्यत इति कुतो ऽस्यासिद्धसत्ताकस्य नित्यत्वम् इति न नित्यम् आकाशम् /
410 SK अथाप्य् अस्य निरवयवत्वात् प्रदेशित्वं नाभ्युपेयते / नन्व् एवं सMS, ल्. ६ति घटादीनां तेन न संयोगो ऽपि स्यात् / स हि तेषां संयोगः सर्वात्मना वा स्याद् एकदेशेन वा /
411 SK न तावत् सर्वात्मना घटादीनाम् अपि प्रत्येकं सर्वगतत्वप्रसङ्गात् / तस्माद् अवश्यं प्रदेशसंयोगिनो घटादय इत्य् अभ्युपेयम् / तथा चाभ्युपगच्छतो नियतम् अयं यथोक्तो दोषो न नापद्यते / यथोक्तदोषप्रसङ्गाच् च न निMS, ल्. ७त्यम् आकाशम् इति /
412 SK कालवादी तु मन्यते / कालकृतौ जगत्प्रवृत्त्युपसंहाराव् उपलभ्य कालसद्भावो ऽनुमीयते / तथा हि सत्स्व् अपि बीजक्षितिसलिलज्वलनपवनाकाशाख्येषु प्रत्ययेषु न सर्वदाङ्कुरादेर् उदय उपलभ्यते / अथ कदाचिद् एवोपलभ्यते / तदवस्थानविरोधिकालसंनिधाने च निवर्तते / तद् एवम् //
Bycśṭ_9.7ab SK यस्मिन् भावे प्रवृत्तिश् च निवृत्तिश् चोपलभ्यते //
414 SK स तथानुमितMS, ल्. ८ः कालो नामास्ति / तस्य च सतो ऽपि कारणानुपलम्भान् नित्यत्वम् इति / ननु चैवं सति नित्यत्वात् कालस्य तदायत्तोदयानाम् अङ्कुरादीनां सदैवोत्पादः प्राप्नोति / अथ सतो ऽपि कदाचित् कार्यक्रियासूपरतव्यापारतास्येति कल्प्येत / एवम् अपि सैवास्यासत्त्वम् आपादयिष्यति / अथ सतो ऽपि बीजादिवत् कार्यप्रवृत्तियोग्यात्मातिशयासम्मुखीभावान् नास्ति सर्वदा कार्यम् इति
415 SK MS, प्. १७अम् इव संसारनिवृत्तिर् न स्यात् / विशेषाभ्युपगमे च विकारसद्भावाद् अनित्यः स्यात् / अनित्यस्य च कारणत्वं स्यात् / ततश् च दुःखसन्तानसदृश एव स्यात् / एवं च सति स्ववादत्यागः स्यात् / तस्मान् न युक्तम् अस्यात्मानम् अभ्युपेतुम् / अभ्युपेत्यापि हि यत् परं प्रति प्रतिपादनासामर्थ्याद् उक्तदोषाच् च परित्याज्यं किं तेनाभ्युपगतेन प्रयोजनम् इति त्यज्यताम् आत्मवादः /
416 SK यद्य् एवं मुक्तावस्थायां मुक्तात्मनो ऽप्य् असद्भावः संस्काराणां चापुनरुत्पत्त्या सर्वथा परिक्षयरूपंMS, ल्. २ परमार्थसंज्ञकं निर्वाणं वर्ण्यते तद् अलम् अनेनेदृशेन परमार्थेनार्थितेनेत्य् अत आत्मकामस्य //
Bycśṭ_9.25 SK वरम् लौकिकम् एवेदं परमार्थो न सर्वथा / लौकिके विद्यते किंचित् परमार्थे न विद्यते //
418 SK नैव ह्य् आत्मकामो लोचनामयसम्पातशङ्कयाक्ष्णोर् उत्पाटनम् अनुतिष्ठति करोति त्व् आमयोपघातम् एव / तथा संसारदुःखोद्विग्नस्य दुःखमात्रत्याग एव ज्यायान् / न तु सर्वथा सर्वाभावः / सर्वाभावे हि सति सर्वथा सुखस्याप्य् उच्छिMS, ल्. ३त्त्या न किंचिद् अनेनात्मन उपकृतं भवति / ततश् च
Bycśṭ_9.25a SK वरम् लौकिकम् एवेदम् /
420 SK लौकिके हि त्वया किंचिद् अङ्गीक्रियते य् अत् प्रतीत्यसमुत्पन्नम् उपादाय च प्रज्ञप्तम् / किंचिन् नाङ्गीक्रियते यत् तीर्थिकैर् अभूतम् आरोपितं सस्वाभाव्यं च भावानाम् / अथवा यद् अदत्तफलम् अतीतं कर्म तत्फलं चानागतं प्रत्युत्पन्नाश् च संस्कारा इत्य् एतत् तव लौकिके ऽस्ति / तदवशिष्टं नास्तीति वरम् एतल् लौकिकं यMS, ल्. ४त्र न सर्वाभावः / परमार्थस् तु सर्वथा न श्रेयान् सर्वथाप्य् आत्मनो ऽप्य् असद्भावाद् इति //
421 SK बोधिसत्त्वयोगाचारे चतुःशतके नित्यार्थप्रतिषेधो नाम नवमं प्रकरणम् //
422 SK MS, प्. १७अ४अत्राह / यद्य् आत्मा नाम कश्चित् स्वरूपतः स्यात् तस्य निर्वाणे सर्वथोच्छेददर्शनात् /
423 SK नास्त्य् अहं न भविष्यामि न मे स्ति न भविष्यति /
424 SK इति / परिशङ्कितस्य स्याद् एवं
425 SK वरम् लौकिकम् एMS, ल्. ५वेदं परमार्थो न सर्वथा / लौकिके विद्यते किंचित् परमार्थे न विद्यते //
426 SK इति / न चात्मा नाम कश्चित् स्वरूपतः सम्भवति / यदि हि स्यात् स नियतं स्त्रीत्वेन वा स्यात् पुरुषत्वेन या नपुंसकत्वेन वा / ततो ऽन्यस्य कल्पनान्तरस्याभावात् / द्विविधं ह्य् आत्मानं वर्णयन्ति तीर्थिका यद् उतान्तरात्मानं बहिरात्मानं च / तत्रान्तरात्माMS, ल्. ६ नाम यः शरीरागारान्तर्व्यवस्थितः शरीरेन्द्रियसंघातस्य तत्र तत्र प्रवर्तयितान्तर्व्यापारपुरुषो जगदहङ्कारनिबन्धनः कुशलादिकर्मफलोपभोक्ता प्रतितन्त्रम् अनेकविकल्पभेदभिन्नः / बहिरात्मा तु देहेन्द्रियसंहातरूपो ऽन्तरात्मन उपकारीव / तत्र यस् तावद् अयम् अन्तरात्मा स यदि स्त्रीत्वेन परिकल्प्येत तदा तस्याजहत्स्वरूपत्वाज् जन्मान्तरपरिवMS, ल्. ७र्ते ऽपि लिङ्गान्तराप्रतिपत्त्या नित्यम् एव स्त्रीत्वं स्यात् / न चैतद् दृश्यते / व्यत्ययोपलब्धेः स्त्रीत्वादीनाम् आत्मगुणत्वाभावाच् च /
427 SK एवं पुंस्त्वे नपुंसकत्वे च वाच्यम् / तद् एवम् /
Bycśṭ_10.1 SK अन्तरात्मा यदा न स्त्री न पुमान् न नपुंसकम् / तदा केवलम् अज्ञानाद् भावस् ते ऽहं पुमान् इति //
429 SK पुमान् इत्य् उपलक्षणत्वाद् अहं स्त्रीनपुंसकम् अहम् इति सर्वम् एवाज्ञानाद् भवति / विचार्यमाणस्य वस्तुसत्त्वस्य तथासिद्धत्वाद् अज्ञानं मुक्त्वा नाMS, ल्. ८न्यत् तथापरिकल्पकारणं युक्तम् / रज्जुस्वरूपापरिज्ञाने सर्पाध्यारोपवद् इत्य् अभिप्रायः / एवं तावद् अन्तरात्मनो यः स्त्रीत्वादिपरिकल्पो नासौ वस्त्वनुविधायीति स्थितम् //
430 SK अथ मन्यसे बहिरात्मनो लिङ्गान्य् एतानि स्त्रीपुंनपुंसकत्वानि तत्सम्बन्धाद् अन्तरात्मन्य् अपि परिकल्प्यन्त इति / स्याद् एतद् एवं यदि बहिरात्मनो ऽप्य् एतानि युज्यन्ते / कथं कृत्वा / इहाकाशस्य ता MS, प्. १६ब्वन् महाभूतत्वायोगाच् चत्वार्य् एव महाभूतानि / यस्यापि पञ्चमहाभूतानि तस्याप्य् आकाशस्य शरीरारम्भकत्वायोगाच् चत्वार्य् एव महाभूतानि कारणभावं प्रतिपद्यन्ते / तेषु च स्त्रीपुंनपुंसकत्वानि स्वरूपतो न विद्यन्ते / यदि स्युस् तदा तत्स्वभावानुरोधात् सर्वदेहानां नियतलिङ्गता स्यात् / कललाद् अपि च लिङ्गोपलब्धिः स्यान् न चैतद् अस्तीत्य् अतः //
Bycśṭ_10.2 SK यदा सर्वेषु भूतेषु नास्ति स्त्रीपुंनपुंसकम् / तदा किं नाम तान्य् एव प्राप्य स्त्रीपुंनपुंसकम् //
432 SK किं नामात्र कारणं यत् स्वरूपतो लिङ्गMS, ल्. २रहितानि महाभूतानि प्राप्य स्त्रीपुंनपुंसकानि देहानां सम्भविष्यन्ति / तद् एवं बहिरात्मनो ऽपि स्त्रीपुंनपुंसकत्वानाम् अयोगात् केवलम् अज्ञानात् तवायम् अभिप्रायः / पुमान् अहं स्त्री नपुंसकम् अहम् इति /
433 SK ये ऽपि च खट्वावृक्षयोः स्तनादिलोमशत्वादेर् निमित्तस्याभावाद् अन्यथा स्त्रीत्वादीनि कल्पयन्ति तेषाम् अपि कल्पनामात्रं न वार्यते / तवाप्य् अयं समानप्रसङ्ग इति चेन् नैतद् एवम् / मम हि निःस्वभावाः पदार्थाः प्रतीत्यसमुत्पन्नत्वान् न च निःस्वभावस्यMS, ल्. ३ यथा प्रत्ययम् अन्यथाभावो न युज्यते चित्रपुरुषमायाङ्गनादिरूपस्येवेत्य् अदोषः / सस्वभाववादिनस् तु स्वभावस्यान्यथात्वासम्भवाद् यथास्वभावं लिङ्गनियमः प्रसज्यते / तद् एवं पुमान् अहम् इत्य् एवमादीनां कल्पनानां मोहमात्रसम्भूतत्वाद् अयुक्तं तल् लिङ्गवत आत्मनः स्वरूपतो ऽस्तित्वम् / इतश् चात्मा स्वरूपतो नास्ति /
434 SK यदि ह्य् आत्मा स्वरूपतः स्यात् स यथैकस्याहङ्कारस्यालम्बनं तथाMS, ल्. ४ सर्वेषाम् अप्य् अहङ्कारस्यालम्बनम् / न हि लोके ऽग्नेर् औष्ण्यं स्वभावः कस्यचिद् अनौष्ण्यं भवति / एवम् आत्मा यदि स्वरूपतः स्यात् सर्वेषाम् आत्मेति स्याद् अहङ्कारविषयश् च / न चैतद् एवम् / तथा हि //
Bycśṭ_10.3ab SK यस् तवात्मा ममानात्मा तेनात्मा नियमान् न सः //
436 SK यो हि तवात्मा त्वदहङ्कारविषय आत्मस्नेहविषयश् च स एव ममानात्मा भवत्य् अस्मदहङ्काराविषयत्वाद् आत्मस्नेहाविषयत्वाच् च / यतMS, ल्. ५ एतद् एवं तेन नियमान् न सः / यश् च नियमाद् आत्मा न भवति स स्वभावतो नास्तीति त्यज्यतो ऽसदर्थ आत्माध्यारोपः /
437 SK यद्य् आत्मा नास्ति क्व ताव् इमाव् अहङ्कारात्मस्नेहाव् इत्य् आह //
Bycśṭ_10.3cd SK नन्व् अनित्येषु भावेषु कल्पना नाम जायते //
439 SK यथोपवर्णितेन न्यायेन स्वरूपसिद्धस्य स्कन्धव्यतिरिक्तस्यात्मनः सर्वथाभावान् नन्व् अनित्येषु रूपवेदनासंज्ञासंस्कारविज्ञानाख्येषु भावेस्व् आत्मेति कल्पनाMS, ल्. ६स्व् अभूतार्थारोपणं क्रियत आत्मा सत्त्वो जीवो जन्तुर् इति / यथा हीन्धनम् उपादायाग्निर् एवं स्कन्धान् उपादायात्मा प्रज्ञप्यते / स च स्कन्धेभ्यस् तत्त्वान्यत्वेन पञ्चधा च निरूप्यमाणः स्वभावतो नास्तीत्य् उपादाय प्रज्ञप्त्या परिकल्प्यत इत्य् एवम् अनित्येषु संस्कारेष्व् आत्मपरिकल्पना भवतीति स्थितम् /
440 SK अत्राह / अस्त्य् एवात्मा स्वभावतः प्रवृत्तिनिवृत्तिकारणत्वात् / यदि ह्य् आत्मा न स्यात् कः शुभम् अशुभंMS, ल्. ७ वा कर्म कृत्वा तत्फलं संवेदयेत् / स हि शुभम् अशुभं वा कर्म कृत्वा जातिगतियोन्यादिभेदभिन्ने त्रैधातुके कर्मानुरूपं जन्मप्रबन्धम् अनन्तप्रभेदं सुखदुःखफलोपभोगनिबन्धनम् आसादयति / स ह्य् अभिसंस्कर्ता च प्रत्यनुभविता च स हन्यते बाध्यते स्पृश्यते बध्यते मुच्यते च / तस्माद् अस्ति स्वरूपत आत्मेति /
441 SK किं पुनर् अयम् आत्मा जन्मान्तरपरिवर्तेषु देहभेदविकारम् अनुरुध्यते ऽथ न / यदि तावन् नानुरुध्यते तMS, ल्. ८दा किम् अनेनाकिंचित्करेणात्मपरिकल्पनेन / अथानुरुध्यते / तदा नियतं तव
Bycśṭ_10.4ab SK देहवद् विकृतिं याति पुमाञ् जन्मनि जन्मनि //
Bycśṭ_10.4cd SK देहात् तवान्यता तस्य नित्यता च न युज्यते //
445 SK नासौ देहाद् अन्यो देहविकारानुविधायित्वाद् देहैकदेशवत् / नापि नित्यो देहाद् अनन्यत्वाद् देहस्वात्मवद् इत्य् अयुक्त आत्माध्यारोपः / स हि प्रतिक्षणविनश्वराणां संस्काराणाम् अवस्थानाभावात् कर्मफलसंवेदनाय नित्यम् आत्मानं प्रतिपन्नः /
446 SK MS, प्. १४ब्मस् तस्य निःप्रयोजनम् एवेन्धनोपार्जनम् इति / तद्वद् एतत् / ततश् चास्य महदादेर् विकारग्रामस्य विफलैव प्रवृत्तिर् इति व्यर्थ एवास्य शास्त्रे प्रक्रियाप्रणयनश्रमो लक्ष्यते /
447 SK अथ स्याच् चैतन्यशक्तिरूपः पुरुषस् तस्य चक्षुरादिकरणव्यापारनिबन्धनबुद्ध्यभिव्यक्तेश् चैतन्यवृत्त्यभिव्यक्तेर् उपभोक्ता हि पुरुषः / स विषयोपभुक्तिक्रियाभिनिर्वृत्त्या विषयं चेतयते / सा ह्य् अस्य विषयोपभुक्तिश् चैतन्यवृत्त्यात्मिका क्रिया / सा च न विना चक्षुरादिना करणMS, ल्. २ग्रामेण भवतीति कुतो ऽस्य विकारग्रामस्य वृथात्वम् इति / उच्यते / यदि चैतन्यं चैतन्यवृत्तिस्वरूपं तदास्य क्रियाया धर्मानतिक्रमेण भवितव्यम् / कश् च क्रियाणां धर्मः / द्रव्याश्रयत्वं चलत्वं च / तथा हि //
Bycśṭ_10.11ab SK आ विनाशाच् चलं नाम द्रव्यं नास्ति क्रिया यथा //
449 SK द्रव्यव्यापाररूपा हि क्रिया / सा चोदयात् प्रभृत्य् आ विनाशाच् चला / तथा हि वृक्षादयः पवनाद्युपनिपातम् अन्तरेणानारब्धक्रियास् तिष्ठन्त्य् अविचलाः /MS, ल्. ३ कम्पनक्रिया त्व् एषा पवनादिप्रत्ययसम्पाताद् उपजायमानाविनाशं चलतां नातिवर्तते / यस्माद् एतद् एवम् //
Bycśṭ_10.11cd SK पुरुषो ऽस्ति न चैतन्यम् इति तेन न युज्यते //
451 SK यथा वृक्षादयश् चलनक्रियाप्रारम्भात् प्रागवस्थायां वृक्षाद्यात्मना द्रव्यरूपेणोपलभ्यन्ते / नैवं पुरुषः / स हि चैतन्यरूपमात्रत्वान् न तद्व्यतिरिक्तः / द्रव्यरूपत्वाभावाच् च चैतन्यरहितेनाप्य् आत्मनाMS, ल्. ४स्तीति न शक्यते कल्पयितुम् /
452 SK ततश् च पुरुषः संविद्यते न चैतन्यम् इति न युज्यते / यच् च चैतन्यशक्तिसद्भावात् पुरुषस्यास्तित्वं कल्प्येत तद् अप्य् अयुक्तम् / निराधारायाः शक्तेर् असद्भावात् / यथा चैतन्यवृत्तिव्यतिरिक्तः पुमान् न सम्भवत्य् एवं शक्त्यवस्थायाम् अपि चैतन्यशक्तिमात्रव्यतिरिक्तः पुरुषो नास्ति / ततश् च निराश्रया नास्ति शक्तिः शक्त्यभावाच् च शक्तेर् व्यक्तिरूपMS, ल्. ५भावोपयोगित्वेन यच् चक्षुरादीनां सोपयोगित्वं कल्पितं तद् अयुक्तम् एवेत्य् अविचलम् एतत् /
Bycśṭ_10.10ab SK करणं जायते मिथ्याचैतन्यं शाश्वतं यदि /
455 SK अपि चायं पुरुषो यदि चैतन्यव्यक्तेः पूर्वं चैतन्यशक्तिरूपः स्यात् तदा //
Bycśṭ_10.12ab SK चेतनाधातुर् अन्यत्र दृश्यते ऽन्यत्र चेतना //
457 SK चैतन्यस्य द्वैरूप्यकल्पनायाम् अन्यत्र पृथक्त्वेन चेतनायाश् चेतनाधातुश् चेतनाबीजं चेतनाशक्तिMS, ल्. ६र् दृश्यते त्वया / चेतनाशक्तेश् चान्यत्र पृथक् चेतनाधातोश् चेतना प्रवर्तमाना चेतनाधातुसमानदेशा प्रवर्तते // दृष्टान्तम् आह //
Bycśṭ_10.12c SK द्रवत्वम् इव लोहस्येति //
459 SK यथा लोहं द्रवताम् आपद्यमानं लोहदेशाभिन्नदेशं भवति तद्वत् / बीजाङ्कुरयोर् ह्य् आविर्भावतिरोभावदर्शनान् न समानदेशता / न च पुरुषस्याविर्भावतिरोभावाव् इति समानदेशत्वम् अस्ति / अत एवाचार्यो लोहस्य द्रMS, ल्. ७वतादृष्टान्तम् आह // न च चैतन्यशक्तिरूपात् पृथक् पुरुषो ऽस्ति व्यक्तस् ततो ऽनन्यत्वात् / तद् अयं शक्तिरूपापन्नो व्यक्तिरूपताम् आपद्यमानो
Bycśṭ_10.12cd SK द्रवत्वम् इव लोहस्य विकृतिं यात्य् अतः पुमान् //
461 SK विक्रियमाणत्वाच् च लोहवद् एव नास्यात्मनो नित्यत्वम् इति सिद्धम् /
462 SK अन्ये पुनर् आहुः / नैव ह्य् अस्माकं चैतन्यरूपः पुमान् / किं तर्हि //
Bycśṭ_10.13ab SK चैतन्यं च मनोमात्रे महांश् चाकाशवत् पुMS, ल्. ८मान् //
464 SK आत्मा हि प्रतिशरीरं सर्वप्राणभृताम् आकाशवद् विभुः / तस्य च मनोमात्रसंयुक्ता चेतना न सर्वव्यापिनी / मनश् चात्मनः परमाणुमात्रप्रदेशसंयुक्तम् / तेन मनसा संयुज्य पुरुषस् तदभिन्नदेशं चैतन्यम् उत्पादयति / ततश् च यथोक्तदोषानवसरो ऽस्मत्पक्ष इति /
465 SK उच्यते / यत एव ह्य् आकाशवद् अतिमहतः पुरुषस्य मनोमात्रे चैतन्यम् अभ्युपेयते / ननु त्वया //
Bycśṭ_10.13cd SK अचैतन्यं ततस् तस्य स्वरूपम् इव दृश्यते //
467 SK MS, ल्. ९एवं सत्य् अचेतन एव पुरुषः प्राप्नोति / ह हि परमाणुमात्रप्रदेशचेतनासम्बन्धेन सचेतनः पुरुष इति युक्तं वक्तुम् / न हि लवणपरमाणुमात्रसम्पर्काद् गङ्गानदीजलं सलवणम् इति शक्यं सम्भावयितुम् / तद्वद् एतत् / द्रव्यं चात्मा चैतन्यं च गुणरूपं तयोः परस्परभेदाद् अचेतनस्वरूप एव पुमान् / न चास्याचेतनस्य घटस्येवात्मत्वं कल्पयितुं न्याय्यम् इति न युक्त आत्मा / यदि चायम् आत्मा प्रति MS, प्. १५असत्त्वं सर्वगतः स्यात् तदा //
Bycśṭ_10.14ab SK परस् त्व् अवेति किं नाहम् अहं सर्वगतो यदि //
469 SK यदि तावकिया कल्पनयाहं सर्वगतः सर्वव्यापी स्याम् आकाशवत् तदा सत्त्वान्तरे ऽप्य् मदात्मनः सद्भावात् किम् इति तस्य तस्मिन् ममेवाहङ्कारो नोत्पद्यते / एवं ह्य् अस्य सर्वगतत्वं युज्यते यदि ममेव परस्यापि मदात्मनि स्याद् अहङ्कारः / न च परात्मनास्य मदात्मनः परशरीरे युक्तम् आवरणम् / न हि परात्मदेशे ऽस्मदात्मनो ऽसद्भावः सर्वात्मनांMS, ल्. २ व्यापित्वाभ्युपगमात् /
470 SK यदा च समानदेशता तदा न तेन तस्यावरणं शक्यं कर्तुम् इति प्रतिपादयन्न् आह //
Bycśṭ_10.14cd SK तेनैवावरणं नाम न तस्यैवोपपद्यते //
473 SK समानदेशत्वात् स्वात्मस्वरूपस्येव स्वात्मना नास्त्य् आवरणम् इत्य् अहङ्कारविषयत्वं परात्मनो ऽपि प्रसज्यते / न त्व् एवं भवतीति न सर्वगत आत्मा / एवं तावद् उभयमते ऽप्य् आत्मनो ऽस्तित्वम् अयुक्तम् इति प्रतिपाद्य गुणानाम् अपि सकलMS, ल्. ३जगत्कर्तृत्वासम्भवेनायुक्ततां प्रतिपादयन्न् आह //
Bycśṭ_10.15 SK येषां गुणानां कर्तृत्वम् अचैतन्यं च सर्वशः / तेषाम् उन्मत्तकानां च न किंचिद् विद्यते ऽन्तरम् //
475 SK सत्त्वरजस्तमांसि त्रयो गुणाः / तेषां साम्यावस्था प्रधानं प्रसवावस्था प्रकृतिः / सेदानीं त्रिगुणात्मिका प्रकृतिर् अचेतनापि सती पुरुषस्य विदितविषयोपभोगौत्सुक्यात् पुरुषेणाभेद्यं प्रतिपद्य सकMS, ल्. ४लं विकारग्रामं प्रसूते / तत्र चायं क्रमः / यद् उत / प्रकृतेर् महान् / महान् इति बुद्धेः पर्यायः / महतो ऽहङ्कारः / स च त्रिविधः / सात्त्विको राजसस् तामस इति / तत्र सात्त्विकाद् अहङ्कारात् पञ्चबुद्धीन्द्रियाणि श्रोत्रं त्वक् चक्षू रसनं घ्राणम् इति / पञ्चकर्मेन्द्रियाणि वाक् पाणि पाद पायूपस्थाख्यानि / उभयात्मकं च मन इत्य् एकादश प्रवर्तन्ते /
476 SK राजसाद् अहङ्काराMS, ल्. ५त् पञ्चतन्मात्राणि शब्दस्पर्शरूपरसगन्धाः / तन्मात्रेभ्यो भूतान्य् आकाशवायुतेजोजलपृथिव्याख्यानि / तामसस् त्व् अहङ्कार उभयोर् अहङ्कारयोः प्रवर्तक इत्य् एवं प्रकृतिविकाररूपत्वात् सकलस्य विकारग्रामस्य त्रयो गुणाः प्रवर्तका इत्य् एवं येषां वादिनां गुणानां कर्तृत्वम् अचैतन्यं चेत्य् अभिप्रायः / वस्तुतत्त्वविचक्षणाः
Bycśṭ_10.15cd SK तेषाम् उन्मत्तMS, ल्. ६कानां च न किंचिद् विद्यते ऽन्तरम्
478 SK इति पश्यन्ति / उन्मत्तको हि नाम विपर्यस्तविज्ञानसन्ततिः / स हि विपर्यस्तेन विज्ञानेन यथार्थं न प्रतिपद्यते / विपरीतं चावधारयति / असदर्थं च प्रलपति / तथा चायम् अपि सांख्यो ऽचेतनानां गुणानां कर्तृत्वं शास्त्रेण प्रतिपादयन् यथार्थो व्यवस्थापितस् तथा न प्रतिपद्यते / विपरीतं चावधारयति / असदर्थंMS, ल्. ७ प्रलपतीति / तुल्य एवोन्मत्तकैः स भाव्यते //
479 SK अपि चास्यायं पुरुषो विकारग्रामस्याकर्ता च भोक्ता च / गुणास् तु कर्तारो न तु भोक्तारः / तद् अयं कर्तृत्वम् अभोक्तृत्वं च निरुपपत्तिकं गुणानाम् आवेदयन्न् अत्यन्तायुक्तताम् एवात्मनः प्रकटयतीति प्रतिपादयन्न् आह //
Bycśṭ_10.16 SK कर्तुं नाम विजानन्ति गृहादीन् सर्वथा गुणाः / भोक्तुं च न विजानन्ति किम् अयुक्तम् अतः परम् //
481 SK युक्तिविरुद्धत्वाल् लोकासम्मतत्वाMS, ल्. ८च् चास्य मतस्य नातः परम् अयुक्ततरम् अस्तीत्य् अभिप्राय इत्य् एवं तावद् गुणानां कर्तृत्वम् अयुक्तम् / यस्याप्य् आत्मैव कार्ता धर्माधर्मयोः फलस्य चोपभोक्तेति मतं तस्याप्य् आत्मनो नित्यत्वम् अयुक्तम् / यस्मात् //
Bycśṭ_10.17a SK क्रियावाञ् छाश्वतो नास्ति //
483 SK इह करोतीति कर्ता / तस्य क्रियानिबन्धनं कर्तृत्वम् / न ह्य् अकिंचित् कुर्वाणो निर्हेतुकः कश्चित् कर्तेति युज्यते / सति च क्रियावत्त्वे नियतं तु क्रियाप्रागव
484 SK MS, प्. ५ब्सि / तथा हि / तस्यानागतभावच्युत्या हेतुप्रत्ययैर् वर्तमानता भवति / न चैवम् असंस्कृतं स्वरूपात् प्रच्यवत इति नास्यासंस्कृतवन् नित्यत्वम् इति / एवम् अपि कल्प्यमाने /
Bycśṭ_11.7ab SK विनापि जन्मना भङ्गाद् अनित्यो यद्य् अनागतः //
Bycśṭ_11.7cd SK अतीतस्य न भङ्गो ऽस्ति स नित्यः किं न कल्प्यते //
488 SK यदि स्वरूपप्रच्युतिसद्भावाद् अनागतस्य नित्यत्व त्तस्य तर्हि स्वरूपप्रच्युतिर् नास्तीति स नित्य इति कल्प्यताम् / कस्य वा पदार्थस्य शक्यम् अनित्यत्वं कल्पMS, ल्. २यितुम् / यदा च न शक्यते तदा सर्वपदार्थानाम् अनित्यत्वस्यासम्भवान् नित्यतैव सम्भाव्यते / तत्र तावत् //
Bycśṭ_11.8ab SK अनित्यो वर्तमानो ऽयम् अतीतश् च न जायते //
490 SK यस् तावद् अयं वर्तमानः पदार्थस् तस्य तावद् अनित्यत्वं नास्ति / स हि वर्तमानत्वात् स्वभावाद् अच्युतेर् वर्तमान इति व्यपदिश्यते / यस्य चानित्यत्वं स वर्तमान एव न भवत्य् अभावेनाभिसम्बन्धात् /
491 SK भावाभावयोश् च युगपद् असम्भवात् / वर्तमानस्यानित्यत्वं न सम्भवति / अतीतस्याMS, ल्. ३प्य् अनित्यत्वं न सम्भवति / विनष्टो ह्य् अतीत उच्यते / न च विनष्टस्य पुनर् अपि विनाशो न्याय्यो निःप्रयोजनत्वाद् आश्रयाभावाद् अनवस्थाप्रसङ्गाच् च / एवं तावद्
492 SK न च वर्तमानातीतौ मुक्त्वा तस्यानित्यत्वस्य तृतीयो ऽवकाशो युज्यत इत्य् आह //
Bycśṭ_11.8cd SK ताभ्याम् अन्या तृतीयापि गतिस् तस्य न विद्यते //
494 SK उत्पन्नस्य यदानित्यताश्रयस्यानिMS, ल्. ४त्यत्वम् असम्भाव्यं तदोत्पत्तिशून्यस्यानागतस्याकाशादेर् इव तत् स्याद् इत्य् अत्यन्तम् असङ्गतम् / न चानित्यतारहितस्याकाशादेर् अध्वत्रयकल्पना युक्तिमती / तद्वत् सस्वभावभाववादिनो न युक्तम् अध्वत्रयम् /
495 SK अत्राह / अस्त्य् एवानागतो भावस् तस्य सत्सु प्रत्ययेषु जन्मदर्शनात् / न ह्य् असतः पूर्वं पश्चाज् जन्म युज्यते वन्ध्यापुत्रादेर् इव / ततश् च जन्मदर्शनाद् अस्त्य् एवानागतो भाव इति / एवम् अपिMS, ल्. ५ कल्प्यमाने //
Bycśṭ_11.9 SK यः पश्चाज् जायते भावः स पूर्वं विद्यते यदि / न मिथ्या जायते पक्षस् तेषां नियतिवादिनाम् //
497 SK य उत्पादात् प्रागवस्थो भावो हेतुप्रत्ययैः पश्चाज् जायते स यद्य् उत्पादात् पूर्वं स्वरूपतो ऽस्तीति कल्प्यत एवं सति नियतिवादिनाम् प्रतिनियतस्वभावं निर्हेतुकं पुरुषकारशून्यम् उपपत्तिविरुद्धं जगद् वर्णयतां नाभ्युपगमो मिथ्या स्यात् / न च नMS, ल्. ६ मिथ्या तेषां वादस् तत्पक्षस्य दृष्टादृष्टविरोधात् / पुरुषकारानपेक्षत्वात् तेषां जगत्प्रतीत्यसमुत्पादाभावः / तदभावाच् च खरविषाणवत् सर्वं जगद् अग्राह्यं स्याद् इत्य् अयुक्तो नियतिवादः /
498 SK यदि चास्यानागतसद्भाववादिनो न्यायः स्यात् तदा नियतिवादिनाम् अपि वादो न्याय्यः स्याद् इत्य् अयुक्तो ऽनागतार्थसद्भाववादः / इतश् चायुको यतः //
Bycśṭ_10.10 SK सम्भवः क्रियते यस्य प्राक् सोMS, ल्. ७ ऽस्तीति न युज्यते / सतो यदि भवेज् जन्म जातस्यापि भवेद् भवः //
500 SK यस्यार्थस्य हेतुप्रत्ययैर् उत्पादनं सम्भवः क्रियते स जन्मनः पूर्वम् अप्य् अस्तीति न युज्यते / यदि हि तस्यास्तित्वं स्यात् तदा सतो विद्यमानस्य पुनर् अपि जन्म स्यात् / न च सतः पुनर् अपि जन्म न्याय्यं निःप्रयोजनत्वात् / अनिष्टप्रसङ्गाद् आ संसारम् एकस्यैवार्थस्य पुनर् उत्पादेनापरिसमाप्तोदयस्य सतस् तत्पदार्थान्तराप्रवृत्तेर् हेतुफलभावव्याघातMS, ल्. ८ः स्यात् / अस्ति चेयं हेतुफलभूतानां पदार्थानां सन्तानानुवृत्तिर् इति न युक्तो ऽनागतपदार्थसद्भावस्य वादः /
501 SK अत्राह / यद्य् अनागतं न स्याद् यद् एतद् अनागतार्थालम्बनं योगिनां प्रणिधिज्ञानं यथार्थं न स्यात् / अस्ति चैतद् यथार्थं योगिनां ज्ञानम् / यथार्थानागतार्थव्याकरणात् तस्य च तथैव भावात् / न ह्य् असत्सु वन्ध्यापुत्रादिष्व् एतत् सम्भवति / तस्माद् अस्त्य् एवानागत इति / उच्यते / तात्त्विकया कल्पनया MS, प्. ७अ //
Bycśṭ_11.11ab SK दृश्यते ऽनागतो भावः केनाभावो न दृश्यते //
503 SK उत्पादात् प्रागवस्थायाम् अनागतो भावो नास्ति स्वरूपत इति प्रतिपादितम् / यदि चाविद्यमानः पदार्थो योगिभिर् दृश्येत वन्ध्यापुत्रादयो ऽपि दृश्येरन् / द्वयोर् अपि तुल्यं स्वभावासत्त्वं तत्रैको दृश्यते नेतर इति न युज्यते /
504 SK किं पुनर् योगिनो ऽनागतं नेक्षन्ते / यथा भवान् परिकल्पयति तथा नेक्षन्ते / यथाभूतेनानागतेनार्थेन वर्तमानावस्थेन भवितव्यम् / तेषां प्रणिधिबलाक्षिप्तसमाधिविशेMS, ल्. २षात् तु ज्ञानम् उत्पद्यमानं तथा पदार्थाकारं परिकल्पयद् उत्पद्यते / न तु वर्तमाननीलालम्बनविज्ञानवत् तु तज् ज्ञानं संनिहितवस्त्वाकारानुकारि जायते / तस्य ज्ञानार्थस्य वर्तमानत्वप्रसङ्गात् /
505 SK वस्तुसत्पदार्थवादिनो हि यावत् तस्य वस्तुनो ऽस्तित्वं तावत् तथा स्वरूपस्यैव / यदा पदार्थस्वरूपानधिगमस् तदास्य तद् वस्तु सर्वथाभावात् खरविषाणप्रख्यम् इति द्वयवादानतिक्रमाद् अस्य सर्वम् एवाभिसमीहितं दुर्घटं जायते /MS, ल्. ३
506 SK निःस्वभाववादिनस् तु सर्वथा वस्तुस्वरूपस्यासम्भवाद् भावकल्पना दूरोत्सारिता / येन ह्य् उत्पत्तव्यं न तस्य नास्तित्वम् / यदि ह्य् अस्य नास्तित्वं स्यात् तदास्य खरविषाणादिवद् उत्पादो न स्यात् / अथास्यास्तित्वं स्यात् तदा वर्तमानस्येवोत्पादो न स्याद् अस्ति चास्योत्पाद इति सिद्धो ऽयम् अद्वयवादः / यत एवास्य नास्तित्वं नास्ति तत एवानागतदर्शनम् अविरुद्धम् / यतश् चास्तित्वं नास्ति ततMS, ल्. ४ एवानागतव्यपदेशो ऽपि सिध्यति / एष च लौकिको व्यवहारो न परमार्थ इति नात्रैकान्तेनोपपत्तिर् अवतार्यते /
507 SK बुद्धानां भगवतां यद् अनागते ज्ञानं तत् पूर्वप्रणिधानाधिष्ठानाक्षिप्तयथार्थप्रतिपादकशब्दश्रुतिबलाधानात् तथाविधधर्मश्रवणसंवर्तनीयकर्मविशेषप्रभावपरिणतविज्ञानसन्तानास् तथाकारानुविद्धविज्ञानोदयास् तथागताधिष्ठानात् तम् अर्थं प्रतिपद्यMS, ल्. ५माना यथार्थं प्रतिपद्यन्ते / कालान्तरेण च तम् अर्थं वर्तमानीभूतं तथैवावगच्छन्तीत्य् एवम् अनागते बुद्धानां ज्ञानं व्यवस्थाप्यते / न तु पूर्वधर्मस्वभावव्यवस्थितास् ते किंचित् पश्यन्त्य् उदाहरन्ति चेत्य् अलं प्रसङ्गेन /
508 SK एवं तावद् अनागतपदार्थसद्भाववादिनो ऽनागतदर्शनासम्भवः /
509 SK अपि च / यस्यानागतो ऽर्थः स्वरूपतो ऽस्ति तस्य न तद् दूरे स्यात् / अस्ति चास्य दूरत्वम् / दूरं धर्माः कतमे / अMS, ल्. ६तीतानागताः / अन्तिकं धर्माः कतमे / प्रत्युत्पन्ना इत्य् अभ्युपगमाद् अनागतम् अस्य दूरे / तच् चास्य दूरत्वम् अयुक्तम् इति प्रतिपादयन्न् आह //
Bycśṭ_11.11cd SK विद्यते ऽनागतं यस्य दूरं तस्य न विद्यते //
511 SK वर्तमानस्य विद्यमानत्वाद् इत्य् अभिप्रायः /
512 SK यश् चानेन कल्याणमित्रसम्पर्कधर्मश्रवणेन्द्रियपरिपाकादिकाद् भाविनः प्रत्ययाद् दानशीलाद्यात्मको धर्मः सो ऽप्य् अनागतार्थसद्भाववादित्वाद्MS, ल्. ७ अस्त्य् एवेति / तदा //
Bycśṭ_11.12ab SK धर्मो यद्य् अकृतो ऽप्य् अस्ति नियमो जायते वृथा //
514 SK यदर्थम् अस्य कायवाङ्मनसां संयमः स धर्मो ऽस्याकृत एवास्तीति तदुपार्जनाय नियमश्रमो ऽस्य वृथा / तेन विनापि तस्य सम्भवात् /
515 SK अथास्य तेन नियमेन तस्य धर्मस्य कश्चिद् विशेषो निष्पाद्यते स एव विशेषः पूर्वम् असन् पश्चात् क्रियत इति व्याहन्यते ऽस्य तर्हि सद्भाववादित्वम् इति प्रतिपादयन्न् आह //
Bycśṭ_11.12cd SK अथ स्वल्पो ऽपि कर्तMS, ल्. ८व्यः सत्कार्यस्य न सम्भवः //
517 SK अपि च यस्यानित्याः संस्कारा इत्य् अभ्युपगमस् तस्याध्वत्रये ऽप्य् अव्यभिचाराद् अनित्यताया यद् अनित्यत्वं तस्य पूर्वापरयोर् भागयोर् नियतम् असत्त्वेन भवितव्यम् / एवं ह्य् अस्यानित्यत्वं सिध्यते / अथोदयात् पूर्वापरयोर् अप्य् अवस्थयोर् अस्यास्तित्वं स्यात् तदास्य नित्यतैवापद्यते / अथानेनानित्यत्वम् अङ्गीक्रियते तदास्य //
Bycśṭ_11.13ab SK अनित्ये सति सत्कार्यं कथं नाम
519 SK नि MS, प्. ४ब्वृत्त्या मोक्षावाप्तिर् इति निश्चयः / यदा चैवं सर्वत्यागेन सर्वपाषण्डिनां निर्वाणम् अभिमतं तदा न किंचिन् मयात्रापूर्वम् उपचरितं यद् वैमुख्यकारणं भवेत् / येषाम् एव हि पदार्थानां निर्वाणे पुनर् अप्रवृत्त्या निर्वृत्तिर् अभिसमीहिता तेषाम् एव मया नैःस्वाभाव्यप्रतिपादनपरेण शास्त्रेणासद्दर्शनकण्टकु निर्वाणनगरगामिमार्गपरिशोधनम् अनुष्ठितम् / तत् किम् इति हृदि भयम् असद् आलिख्य भवान् बिभेMS, ल्. २ति / आधीयतां मनःपरितोषः क्रियताम् आत्मसाद् अयं धर्मो निवेश्यतां चेतसि सांक्लेशिकवस्तुनिवारणकथा /
520 SK ननु च यदि सर्वपाषण्डिनाम् अप्य् अयम् एवाभिप्रायो यद् उत सर्वत्यागेन निर्वाणम् इति कः पुनर् भवतस् तीर्थिकानां च विशेषः / अयं विशेषो यत् तीर्थिकानां सर्वत्यागाभिप्रायमात्रं न तु पुनः सर्वत्यागोपायाख्यानम् / अनुपदिष्टे च सर्वत्यागोपाये //
Bycśṭ_12.4ab SK किं करिष्यति स त्यागं त्यागोMS, ल्. ३पायं न वेत्ति यः //
522 SK सर्वत्यागाशये ऽपि स्थितस् तीर्थिकमतावलम्बी त्यागोपायानभिज्ञः किं त्यागं करिष्यति / यन् न जानाति सर्वधर्मस्वभावशून्यतालक्षणं सर्वत्यागोपायं परमार्थसत्यम् / अत एव //
Bycśṭ_12.4cd SK शिवम् अन्यत्र नास्तीति नूनं तेनोक्तवान् मुनिः //
524 SK इहैकः प्रथमश्रमण इह द्वितीयो यावच् चतुर्थः / शून्याः परप्रवादाः श्रमणैर् इत्य् अमुनैवाभिसंधिना मुनिनैवम् उMS, ल्. ४क्तम् इति निश्चीयते / अस्माद् एव च सर्वत्यागोपायसमाख्यानात् सर्वत्रैव भगवतो बुद्धस्य ज्ञानप्रवृत्त्यव्याघातेन यथार्थशास्तृत्वं प्रतीयते /
525 SK तीर्थिकानां च सर्वत्यागोपायसमाख्यानसामर्थ्यवैकल्येनेतरत्रापि पदार्थजाते२ विपर्यस्तविज्ञानतासिद्धत्वान् न साध्या /
526 SK ननु च तवाप्य् अपर्यन्तत्वाज् ज्ञेयस्यातीन्द्रियेष्व् अर्थेषूपदिष्टेष्व् असमक्षत्वात् तेMS, ल्. ५षां संशय एव जायते किम् असाव् अर्थो यथोपदिष्टस् तथैवाहो स्विद् अन्यथेति / न हि तद्विषयं निश्चयकारणम् अस्तीति / तत्राप्य् उच्यते //
Bycśṭ_12.5 SK बुद्धोक्तेषु परोऽक्षेषु जायते यस्य संशयः / इहैव प्रत्ययस् तेन कर्तव्यः शून्यतां प्रति //
528 SK न हि सर्वे भावाः प्रत्यक्षज्ञानगम्या अनुमानगम्या अपि विद्यन्ते / शक्यं चात्रानुमानं कर्तुं दृष्टान्तसद्भावात् / इह त्याMS, ल्. ६गोपायः सर्वधर्मस्वभावशून्यता / सा चाशक्या केनचिद् अन्यथात्वम् आसादयितुम् / सूक्ष्मश् चायम् अर्थो नित्यसंनिहितो ऽपि सर्वजनासमक्षत्वात् / तस्य चोपपत्त्या सर्वधर्मस्वभावग्राहविनिवारणमुखेनोपपादिता यथावत्ता / अत्रैव तावद् आस्थीयतां निश्चयः / किम् एवम् एवैतद् उताहो ऽन्यथेति / अथात्रास्ति किंचिद् अनिश्चयकारणं तद् उपदिश्यतां यदि तन् न निराकृतम् उMS, ल्. ७क्तवक्ष्यमाणप्रकरणप्रतिपादितविनिश्चयेन / न च शक्यम् अनेन स्वल्पम् अप्य् अनिश्चयकारणं किंचिद् अभिधातुम् इति सिद्ध एवायं दृष्टान्तः / ततश् चान्यद् अप्य् असमक्षार्थप्रतिपादकवचनं भगवतो यथार्थम् इति प्रतीयतां स्वनयेनैव तथागतोपदिष्टत्वात् स्वभावशून्यतार्थाभिधायकवचनवद् इति कुतो बुद्धोक्तेषु परोऽक्षेषु संशयावकाशः /
529 SK न च तथागतवत् तीर्थिकानाम् अपि शक्यम् अMS, ल्. ८विपरीतार्थाभिधायित्वम् अवसातुं तेषां दृष्ट एव विपर्यस्तत्वात् / तथाह्य् अस्य लोकस्य तैर् नित्यकारणपूर्विका प्रवृत्तिर् उपदिश्यते / सा चाशक्यप्रतिपाद्या दृष्टविरुद्धा चोपपत्तिविरुद्धा चेत्य् एवम् //
Bycśṭ_12.6ab SK लोको ऽयं येन दुर्दृष्टो मूढ एव परत्र सः //
531 SK न हि सम्पूर्णे चन्द्रमसि व्याहतदर्शनसामर्थ्यो ध्रुवम् अरुन्धतीं वा पश्यतीति सम्भाव्यम् / तद्वद् अयं तीर्थिको लोकस्य सत्त्वभाजनाख्यस्य हे MS, प्. ५अतुफलव्यामूढत्वात् स्थूलम् एवार्थं तावद् यदा न सम्यग् ईक्षते तदा कथम् अयम् अतिसूक्ष्मं विदूरदेशकालव्यवहितं सप्रभेदम् अर्थं ज्ञास्यतीति सम्भावयितुं शक्यम् / तद् इमं तीर्थिकं स्वयम् अत्यन्तविपर्यासितदर्शनं मृगतृष्णाजलवद् अनुपासनीयं तत्त्वदर्शनामलजलपिपासवः संसाराध्वपरिश्रमक्लमापनोदनाय
Bycśṭ_12.6cd SK // वञ्चितास् ते भविष्यन्ति सुचिरं ये ऽनुयान्ति तम् //
533 SK अपर्यवसानापरकोटिके संसारे ते वत वञ्चिता भविष्यन्ति ये यथार्थशास्तारंMS, ल्. २ बुद्धं भगवन्तम् अवधूय दृष्टादृष्टपदार्थस्वभावव्यामूढं मोक्षकामतया तीर्थिकम् अनुयास्यन्ति /
534 SK कस्मात् पुनर् एते मोक्षकमास् तम् एव विपर्यस्तदर्शनं तीर्थिकम् अनुगच्छन्ति / स्वभावशून्यताधर्मोपदेशश्रवणभयात् / तद् भयं
535 SK नास्त्य् अहं न भविष्यामि न मे ऽस्ति न भविष्यति /
536 SK इत्य् आलम्ब्योत्त्रासात् / तत्रायं सुचिरम् अहङ्कारममकाराभ्यासात् / अत एव कल्याणमित्रपरिग्रहात् सुचिराभ्यस्तम् अपि भावस्वभावाभिनिवेMS, ल्. ३शं मलवत् त्यक्त्वा //
Bycśṭ_12.7ab SK स्वयं ये यान्ति निर्वाणं ते कुर्वन्ति सुदुष्करम् /
538 SK बुद्धो भगवान् स्वयं भूत्वा स्वयम् एव निर्वाणपुरम् उपयाति / तस्येत्थं दुष्करकारिणः //
Bycśṭ_12.7cd SK गन्तुं नोत्सहते नेतुः पृष्ठतो ऽप्य् असतो मनः //
540 SK न केवलम् असताम् अहङ्करममकरव्यवस्थितानां स्वयम् एव निर्वाणं गन्तुं मनो नोत्सहते / अपि खलु यथोपवर्णितस्य नेतुः पृष्ठतो ऽप्य् अस्यासतो निर्वाMS, ल्. ४णं गन्तुं मनो नोत्साहम् प्रवेदयते /
541 SK कस्मात् पुनर् अस्य नेतुः पृष्ठतो ऽप्य् असतः पुद्गलस्य निर्वाणं गन्तुं मनो नोत्सहते / शून्यतायां त्रासात् /
542 SK कस्य पुनर् अस्यां त्रासो भवतीति / यस्य भवति तं प्रति प्रतिपादयन्न् आह //
Bycśṭ_12.8 SK त्रासो नारभ्यते ऽदृष्टे दृष्टे ऽपैति स सर्वशः / नियमेनैव किंचिज्ज्ञे तेन त्रासो विधीयते //
544 SK अव्युत्पन्नशास्त्रसंकेता हि गोपालादयः / शतशो ऽप्य् उपदिश्यमानायां शूMS, ल्. ५न्यतायां सर्वथा तदनुप्रवेशाभावे सत्य् अदृष्टत्वाच् छून्यतार्थस्य तेषां त्रासो नोत्पद्यते / तस्मिन् क्षणभङ्ग इव तद्व्यामूढस्य नारकाग्नव् इव मिथ्यादर्शनोपस्तब्धसन्तानस्य /
Bycśṭ_12.8b SK द्र्ष्टे ऽपैति स सर्वशः //
546 SK डृष्टे हि शून्यताख्ये धर्मे स संत्रासस् तत्पण्डितानां सर्वथापैति भयनिमित्तात्मात्मीयाभिनिवेशविगमात् /
547 SK रज्ज्वाम् उपजातसर्पविपर्यासस्य रज्जुदर्शने सति सर्पभयापगमवत् / यMS, ल्. ६स् तु किंचिज् जानाति तस्य नियमेनावश्यम्भावितया त्रासो विधीयते / न हि सुशिक्षितो मत्तगजावाहको हस्तिन्य् उत्काल्यमानस् ततो बिभेति / नापि तद्वाहनोत्सुको ऽत्यन्तमूर्खो ग्रामीणः / स हि तत्पातादिदोषादर्शनाद् वाहनम् एव बहु मन्यमानो न ततो बिभेति / किंचिज्ज्ञस् त्व् अतितरां बिभेत्य् आत्मनस् तदासनापरिजयं मन्यमानः / अपि खलु सर्वकार्येष्व् एवं प्रवृMS, ल्. ७त्तौ किंचिज्ज्ञस्य नियतं त्रासो भवति / न विदिततत्त्वस्य वैशारद्यात् / नाप्य् अत्यन्तानभिज्ञस्य मोहसंधारितत्वात् / किंचिज्ज्ञस् तु त्रस्यति किम् एतच् छक्यं न शक्यम् इति विमर्शोत्पादात् //
548 SK किम् अर्थं पुनर् अमी किंचिज्ज्ञा उत्तरं पदं न पर्येषन्ते यावतैषां ज्ञातव्यपरिसमाप्तिर् भवतीति / उच्यते / त्रासात् / किंपुनस् त्रासस्य कारणम् / आह / अनभ्यासः / तस्य पुनः किं कारणम् / विपरीताभ्यासस् तद् एव प्रतिपादMS, ल्. ८यन्न् आह //
Bycśṭ_12.9 SK एकान्तेनैव बालानां धर्मे ऽभ्यासः प्रवर्तके / धर्मान् निवर्तकात् तेषाम् अनभ्यासतया भयम् //
550 SK संसारप्रवृत्त्यनुकूलो हि धर्मः प्रवर्तकः / पृथग्जनपर्यापन्नायां च भूमौ स्थितानां पृथग्जनानां प्रवर्तक एव धर्मे ऽभ्यासः / स्वभावशून्यता हि निवर्तको धर्मः संसारनिवृत्त्यनुकूलत्वात् तदभ्यासस्य परिपन्थ्य् आत्मस्नेहः / तदनुगतचित्तसन्तानत्वात् / पृथग्जनास् तद्व्यावर्तकाद् धर्मात् सुत MS, प्. ३ब्रां बिभ्यति / स्वभावशून्यतां प्रपातम् इव मन्यमाना न तां यथावत् प्रतिपत्तुम् उत्सहन्ते /
551 SK तद् एवम् अविद्यासान्द्रान्धकारप्रच्छादितपदार्थतत्त्वे ऽनुपलभ्यमानापरकोटिके संसारमहाटवीकान्तारे प्रनष्टसन्मार्गस्य कस्यचिन् नाम पुद्गलस्य भवति स्वभावशून्यताकथायां चेद् भक्तिः स तदनुकूलप्रत्ययोपसिद्धिद्वारेण यथोपचीयमानप्रसादः शून्यतायां भवति तथा कार्यं करुणावता कृतज्ञेन च भगवति तथागते सद्धMS, ल्. २र्मान्तरायनिमित्तं च कर्मात्मनो महाप्रपातहेतुं परिजिहीर्षया संकटम् अप्य् अवगाह्य दुर्देयम् अपि दत्त्वा संग्रहवस्तुचतुष्टयेन संगृह्य सद्धर्मो ऽयं सद्धर्मभाजनेभ्य उपदेष्टव्यः /
552 SK यस् तु न केवलं यथोपदिष्टं न बहु मन्यते / अपि तु //
Bycśṭ_12.10 SK विघ्नं तत्त्वस्य यः कुर्याद् वृतो मोहेन केनचित् / कल्याणाधिगतिस् तस्य नास्ति मोक्षे तु का कथा //
554 SK मोहेन केनचिद् इतीर्ष्यामात्सर्यकौसीद्यभयश्रोतृविद्वेषादिना तत्त्वोपदेMS, ल्. ३शभाजने जने यस् तत्त्वदेशनश्रवणादिविघातं करोति / तस्य सुगतेर् अपि तावद् देवमनुष्यात्मिकाया नास्ति सम्भवो नियतम् अपायगमनात् किम् उतास्य मोक्षकथावकाशः स्यात् / किं ह्य् अनेन स्वपरसन्तानयोर् नापकृतम् / तेन हि निःशेषाशामुखव्यापिनः स्फुटतरालोकस्याध्वत्रयाप्रतिहतप्रभावृत्तेः प्रतिदिनम् अविद्यान्धकारोपघातायोपचीयमानालोकनिचयMS, ल्. ४स्याशेषजगदाशयावभासनसमर्थस्य प्रज्ञाप्रदीपस्य सन्तानेन समुपजायमानस्य विघातो ऽनुष्ठितः /
555 SK एवम् एव परात्मनोर् अत्यन्तापकारितां सम्पश्यता भगवता तथागतेनोक्तम् //
Bycśṭ_12.11ab SK शीलाद् अपि वरं स्रंसो न तु दृष्टेः कथंचन //
559 SK वरं शीलविपन्नो न तु दृष्टिविपन्नः /
560 SK इति / तद् अस्य तथागतस्य वचसः सोपपत्तिकताम् उद्भावयन्न् आचार्य आह //
Bycśṭ_12.11cd SK शीलेन गम्यते स्वMS, ल्. ५र्गो दृष्ट्या याति परं पदम् ऽ//
563 SK शीलविपत्तिर् हि सूपचीयमानमृदुमध्याधिमात्रक्रमाणां प्रेततिर्यङ्नरकोपपत्तिफला विपाकेयत्तापरिच्छेदेन प्रवर्तते / यद्य् आक्रान्तसम्यग्दर्शनेष्व् आर्येषु न व्यापद्यते / शीलविशुद्धिस् त्व् अनाक्रान्तसम्यग्दर्शनानां पृथग्जनानां प्रकर्षेण स्वर्गफला / दर्शनविपत्तिस् तु मृदुतरा चेत् साप्य् असंख्येयशतसहस्रैर् अपि शीलविपत्तीनाम् अशक्याMS, ल्. ६ विपाकमहत्तया समीकर्तुम् अपि प्राग् एव जेतुम् /
564 SK अथ चेद् अस्य पुद्गलस्य कथम् अपि प्रत्ययात् सम्यग्दर्शनसम्पत्तिर् आजायेद् आर्यमार्गोत्पादात् / तदायम् अवश्यम् अवधूयानादिसंसारप्रवृत्तम् अविद्यान्धकारम् अशेषसत्त्वधातुपुरस्कृतो निर्वाणम् उपयायाद् इत्य् एवम् अतिमहार्थताम् अस्य तत्त्वदर्शनस्यावेत्यैतदविघाताय विदुषा यतितव्यम् /
565 SK न चानेन तद्विघातभयदMS, ल्. ७र्शिना सता सर्वत्रैवानवधार्य पात्रविशेषम् एतन् नैरात्म्यदर्शनम् उपदेष्टव्यम् अपात्रेषु / अपात्रे हि तदुपदेशो ऽनर्थायैव स्यात् / अत एव च //
Bycśṭ_12.12ab SK अहङ्कारो ऽसतः श्रेयान् न तु नैरात्म्यदर्शनम् /
567 SK नैरात्म्यधर्माधिमुक्तिविरहितो ह्य् आत्मग्राहाभिनिविष्टो ऽसद्धर्मसमाश्रयाद् दृष्टिगहनानुचार्य् असन्न् इत्य् उच्यते / तस्यासतो वरम् आत्मदेशना दुश्चरितनिवृत्त्यनुकूलत्वात् तस्याः / तथा ह्य् असाव् आत्मस्नेहानुगमाद् धिMS, ल्. ८तम् आत्मनो ऽभिवाञ्छन् दुश्चरितनिवृत्तिं बहु मन्यते / निवृत्तपापस्य चास्य सुगतिगमनं भवति सुलभम् / नैरात्म्योपदेशस् तस्य प्रतिक्षेपविपर्यासबोधाभ्यां कायचित्तसन्तानं नियतम् उपहन्ति // तद् एवम् //
Bycśṭ_12.12cd SK अपायम् एव यात्य् एकः शिवम् एव तु नेतरः //
569 SK नैरात्म्यदर्शनविप्रतिपन्नो ह्य् अविद्वान् अपायम् एव याति न शिवम् / यस् तु नेतरः स शिवम् एव याति नापायम् / इतरशब्दो ऽयम् अनुत्कृष्टवाची / कश् चा MS, प्. ४अनुत्कृष्टः / यो विपरीतं शून्यतार्थम् अधिगच्छति प्रतिक्षिपति वा / तत्प्रतिषेधेन नेतरः / नेतर इत्य् उत्कृष्ट इत्यर्थः / यत एव शून्यतोपदेशाद् इतरो ऽपायनिष्ठस् तत एव शून्यतोपदेशान् नेतरो निर्वाणनिष्ठो जायते / शून्यतादर्शनप्रत्ययेन सर्वत्र सङ्गपरित्यागान् निहतक्लेशकर्मगणो नियतं निर्वृत्तिम् उपयाति /
570 SK किं पुनर् इदं नैरात्म्यं नाम यद् असत्सु नोपदेष्टव्यं सत्सु चोपदेष्टव्यम् इति तत् प्रतिपादयन्न् आह //
Bycśṭ_12.13 SK अद्वितीयं शिवद्वारं कुदृष्टीनां भMS, ल्. २यङ्करम् / विषयः सर्वबुद्धानाम् इति नैरात्म्यम् उच्यते //
572 SK यद् अद्वितीयं शिवद्वारं तन् नैरात्म्यम् / यत् कुदृष्टीनां भयङ्करं तन् नैरात्म्यम् / यो विषयः सर्वबुद्धानां तन् नैरात्म्यम् इत्य् उच्यते / तत्रात्मा नाम भावानां यो ऽपरायत्तस्वरूपस्वभावः / तदभावो नैरात्म्यम् / तच् च धर्मपुद्गलभेदाद् द्वैतं प्रतिपद्यते / धर्मनैरात्म्यं पुद्गलनैरात्म्यं चेति / तत्र पुद्गलो नाम यः स्कन्धपञ्चकस्योपादानाख्यस्योपादाता स्कन्धान् उपादाय प्रज्ञप्यते / स च स्कन्धेषु पञ्चधाMS, ल्. ३ मृग्यमाणो न सम्भवति / धर्मास् तु स्कन्धायतनधातुसंशब्दिताः पदार्थाः / तद् एषां धर्माणां पुद्गलस्य च यथास्वं हेतुप्रत्ययाधीनजन्मत्वात् / उपादाय प्रज्ञप्यमानत्वाच् च / स्वायत्तम् अपरायत्तं निजम् अकृतकरूपं नास्तीति पुद्गलस्य धर्माणां च नैःस्वाभाव्यं व्यवस्थाप्यते /
573 SK यस्य चार्थस्य स्वरूपसिद्धिर् नास्ति तस्य केनान्येनात्मनास्तु सिद्धिर् इति / सर्वथासिद्धस्वलक्षणा एMS, ल्. ४व पदार्था विसंवादकेनात्मना प्रतीत्य वोपादाय वा वर्तमाना मूढधियां सङ्गास्पदं सम्भवन्ति / यथास्वभावं तु सम्यग्दर्शनैः प्रतिभाव्यमाना धर्मपुद्गलयोः सङ्गपरिक्षयम् आवहन्ति / सङ्गपरिक्षयश् च निर्वाणावाप्तिकारणम् /
574 SK नैरात्म्यम् अद्वितीयम् शिवद्वारं भवति /निर्वाणपुरप्रवेशाय एकम् एवासहायम् एतद् द्वारम् / यद्य् अपि शून्यतानिमित्ताप्रणिहिताख्यानि त्रीणि विमोक्षमुखानि / तथापिMS, ल्. ५ नैरात्म्यदर्शनम् एव प्रधानम् / विदितनैरात्म्यस्य हि भावेषु परिक्षीणसङ्गस्य न क्वचित् काचित् प्रार्थना कुतो वा निमित्तोपलम्भ इत्य् अद्वितीयम् एव शिवद्वारम् एतन् नैरात्म्यम् /
575 SK तच् चैतत् कुदृष्टीनां भयङ्करम् / कुत्सिता दृष्टयः कुदृष्टयः / नैरात्म्ये हि वस्तुनः सर्वथानुपलम्भात् कुदृष्टीनां वस्तुस्वरूपपरिकल्पसमाश्रयणाद् अत्यन्तविनाशदर्शनाद् भयङ्करम् एतन् नैरात्म्यम् /
576 SK विषयः सर्वबुद्धाMS, ल्. ६नां नैरात्म्यम् / सर्वबुद्धानाम् इति श्रावकप्रत्येकबुद्धानुत्तरसम्यक्सम्बुद्धानाम् / ज्ञानविशेषविषयत्वेनावस्थानाद् विषयः सर्वबुद्धानाम् इत्य् उच्यते / धर्मशरीराव्यतिरेकवर्तितां वा सर्वेषां सम्यक्सम्बुद्धानाम् आवेदयन्न् आह विषयः सर्वबुद्धानाम् इति / विशेषणमालया नैरात्म्यम् उक्तम् आचार्येण /
577 SK एतच् च नैरात्म्यं सता मन्दधियो नोपदेष्टव्यम् / यस्मात् //
Bycśṭ_12.14ab SK अस्य धर्मस्य नाMS, ल्. ७म्नो ऽपि भयम् उत्पद्यते ऽसतः //
579 SK असतो ह्य् अस्य धर्मस्यातिदुर्गाधगम्भीरत्वान् नैरात्म्यशब्दश्रवणाद् अपि भयम् उत्पद्यते / तथा हि //
Bycśṭ_12.14cd SK बलवान् नाम को दृष्टः परस्य न भयङ्करः //
581 SK बलवन् नैरात्म्यदर्शनं सर्वासद्दर्शनोन्मूलनसमर्थत्वात् / दुर्बलम् असद्दर्शनम् उन्मूलनीयत्वात् / नियतं चैतद् यद् अबलवान् सबलाद् बिभेतीति / तस्मान् न दुर्बलस्य कुदर्शनेनात्मीकृतचित्तसन्तानस्यायं धर्म उपदेष्टव्यो भयहेतुर् इति कृत्वा /
582 SK ननुMS, ल्. ८ चोपदेष्टव्य एवायं धर्मः सकलकुदर्शनप्रमाथित्वात् / तथा ह्य् अवश्यं परप्रवादिनः सह धर्मेण निग्रहीतव्याः / ततश् च वादार्थिना सता परमतविजिगीषुणायं धर्मो ऽपात्रेष्व् अप्य् उपदेष्टव्य इति / उच्यते / नैतद् एवम् / यस्मात् //
Bycśṭ_12.15ab SK वादस्य कृतशो धर्मो नायम् उक्तस् तथागतैः /
584 SK यदि चायं धर्मो वादस्य कृतेनोपदिष्टः स्यात् स्याद् एतद् एवम् / न त्व् अयं वादार्थम् उपदिष्टो विमोक्षमुखेनोपदेशात् / यद्य् अप्य् एवम् //
585 SK च MS, प्. २०अक्षुः पश्येत् तद् रूपं पश्येद् विषयदेशं वा गत्वा पश्येद् अगत्वा वा / उभयथा च दोष इति प्रतिपादयन्न् आह //
Bycśṭ_13.13 SK पश्येच् चक्षुश् चिराद् दूरे गतिमद् यदि तद् भवेत् / अत्यभ्यासे च दुरे च रूपं व्यक्तं न तच् च किम् //
587 SK यदि चक्षुषः प्राप्तकारित्वाद् विषयदेशं गच्छेत् तदोन्मिषितमात्रेण न चन्द्रतारकादीन् अर्थान् गृह्णीयात् / गतिमतो ऽर्थस्य संनिहितविषयग्रहणं तुल्यकालं विप्रकृष्टविषयग्रहणम् अयुक्तं गतिकालस्य भिन्नत्वात् / पश्यति च चक्षुर् उन्मिMS, ल्. २षितमात्रेण समीपस्थवद् विदूरदेशस्थम् अपीत्य् अयुक्तम् एतत् / यदि च प्राप्तकारि चक्षुः स्यात् तदात्यभ्यासे ऽपि पश्येद् अक्षिस्थम् अञ्जनं शलाकां वा दुरे च व्यक्तदर्शनं स्यान् न चैतत् सम्भवतीत्य् अयुक्तम् एतत् /
588 SK अपि च यदि चक्षुर् गत्वा विषयं पश्यति तत् किं विषयं दृष्ट्वा विषयदेशं गच्छत्य् उतादृष्ट्वा / उभयथापि दोष इति प्रतिपादयन्न् आह //
Bycśṭ_13.14 SK गतेन न गुणः कश्चिद् रूपं दृष्ट्वाक्षि याति चेत् / द्रष्टव्यं नियमेनेष्टम् इति वा जायते वृMS, ल्. ३था //
590 SK यदि रूपं दृष्ट्वा रूपदेशं चक्षुर् यातीति कल्प्यते गतेन तेन गमनेन चक्षुषो न किंचित् प्रयोजनम् / विषयदर्शनार्थं हि चक्षुषो गमनम् / स च विषयः पूर्वम् एवेहस्थेन दृष्ट इति न किंचिद् गमनस्य प्रयोजनम् /
591 SK अथादृष्ट्वा गच्छति तदा दिदृक्षितविषयदर्शनं नियमेन न प्राप्नोति / अदृष्ट्वा ह्य् अन्धस्येवानभिलक्षितदेशगमनाद् द्रष्टव्यस्य नियमेन दर्शनं न प्राप्नोति /
592 SK अMS, ल्. ४थैतद्दोषपरिजिहीर्षया यदि //
Bycśṭ_13.15 SK गृह्णीयाद् अगतञ् चक्षुः पश्येत् सर्वम् इदं जगत् / यस्य नास्ति गतिस् तस्य नास्ति दूरं न चावृतम् //
595 SK चक्षुःश्रोत्रमनो ऽप्राप्तविषयम्
596 SK इत्य् आगमाद् अप्राप्तविषयम् एव चक्षुर् इति तं प्रत्य् उच्यते / प्राप्तकारितामात्रप्रतिषेधपरत्वाद् आगमस्य तावद् अविरोधः / क्वचिद् विधेः प्राधान्यं यत्र तस्याविरोधः / क्वचित् प्रतिषेधस्य प्राMS, ल्. ५धान्यं यत्र तदविरोधः / तद् अत्र विधेर् असम्भवात् प्राप्तकारिताप्रतिषेधमात्रेणाप्राप्तविषयत्वं व्यवस्थाप्यते /
597 SK विधिमुखेन त्व् अप्राप्तविषयत्वे कल्प्यमान इहस्थम् एव चक्षुः सर्वं जगत् पश्येत् / यस्य हि गतिर् नास्ति तस्य कुतो दूरम् / समीपस्थो ऽपि ह्य् अनेनार्थो ऽगत्वा द्रष्टव्यो विदूरस्थो ऽपीति दूरकृतो ऽपि विशेषो न स्यात् / यदा चागत्वा पश्यति तदेहस्थम् इवMS, ल्. ६ विदूरम् अपि पश्येत् / गतौ हि सत्याम् आवृते गतिविघाताद् आवृतं नेक्षत इति युक्तम् / यदा त्व् अगत्वा द्रष्टव्यं तदावृते गतिप्रतिबन्धाभावाद् अनावृत इव दर्शनं स्यात् /
598 SK यदि च दर्शनस्वभावं चक्षुः स्यात् तदा स्वभावस्य सर्वत्रैवाव्याघातात् स्वरूपम् अपि पश्येत् / तथा हि लोके //
Bycśṭ_13.16 SK स्वभावः सर्वभावानां पूर्वम् आत्मनि दृश्यते / ग्रहणं चक्षुषः केन चक्षुषैव न जायते //
600 SK यथाMS, ल्. ७ चम्पकमल्लिकादिषु सौगन्ध्यं पूर्वं स्वाश्रय एवोपलभ्यते पश्चात् तत्सम्पर्कात् तैलादिष्व् अपि /
601 SK यथा चाग्नेर् औष्ण्यं स्वतो व्यवस्थितं तद्योगात् परतो ऽप्य् उपलभ्यते / एवं यदि चक्षुषोर् दर्शनस्वाभाव्यं स्यात् तदा स्वात्मन्य् एव तावद् दर्शनं स्यात् / कस्मात् पुनश् चक्षुषो ग्रहणं चक्षुषैव न भवति / भावानां स्वभावस्य च स्वात्मन्य् एव प्रथमतरं विद्यमानत्वाच् चक्षुषैव चक्षुषो ग्रहणं न्याय्यम् / न चक्षुः स्वात्मानं पश्यतीतिMS, ल्. ८ लोष्टादिवत् परदर्शनम् अप्य् अस्य न सम्भाव्यते /
602 SK यस् तु मन्यते न केवलस्य चक्षुषो रूपदर्शनसामर्थ्यम् अस्ति / अपि तु त्रयाणां चक्षूरूपचक्षुर्विज्ञानानां सामग्र्यां सत्यां रूपदर्शनं भवतीति / तद् अप्य् असारम् / यस्मात् //
Bycśṭ_13.17 SK चक्षुषो ऽस्ति न विज्ञानं विज्ञानस्य न दर्शनम् / उभयं नास्ति रूपस्य तै रूपम् दृश्यते कथम् //
604 SK चक्षुषस् तावद् विज्ञानं नास्ति / न हि चक्षुर् विषयं विजानात्य् अविज्ञानस्वरूपत्वात् / भौतिकं हि चक्षुस् तस्य ज MS, प्. १९ब्डत्वाद् विषयबोधो न सम्भाव्यत इत्य् एवं चक्षुषो ऽस्ति न विज्ञानम् /
605 SK नापि विज्ञानस्य दर्शनम् अस्ति / विज्ञानं हि विजानाति न तु पश्यति / यदि तु विज्ञानं पश्येत् तदा तस्यापि रूपदर्शनं स्याद् विज्ञानसद्भावात् /
606 SK रूपस्य तूभयम् अपि नास्ति / न विज्ञानम् अनवबोधस्वरूपत्वात् / नापि दर्शनं रूपालोचनाभावात् /
607 SK यदा चैवम् अन्योन्यार्थविकलानीन्द्रियविषयविज्ञानानि तदा तत्सामग्र्याम् अपि सत्यां नैव तै रूपं दृश्यत इति सम्भावयितुं शक्यम् / रूपMS, ल्. २दर्शनाङ्गविकलत्वाद् अन्धसमुदायवद् इत्य् अभिप्रायः / यदा चैवं रूपस्य दर्शनासम्भवस् तदा को नामार्हति तत्त्वविद् रूपं दृश्यत इति वक्तुं द्रष्टुं वा /
608 SK यथा च तत्त्वविन् नार्हति रूपं द्रष्टुम् एवं शब्दम् अपि श्रोतुं नार्हति / रूपदर्शनवच् छब्दश्रवणस्यासम्भवात् / इह यदि शब्दः श्रूयते स श्रवणदेशं सम्प्राप्तो वा श्रूयेतासम्प्राप्तो वा / यदि तावत् सम्प्राप्तः श्रूयते स श्रवणदेशं व्रजञ् छब्दं वा कुर्वाणो व्रजन् निःशब्दो वा / तMS, ल्. ३त्र यदि पूर्वः कल्पस् तदा //
Bycśṭ_13.18 SK न वक्ता जायते केन शब्दो याति ब्रुवन् यदि / अथ यात्य् अब्रुवंस् तस्मिन् प्रत्ययः केन जायते //
610 SK ततश् च वक्तृत्वाद् देवदत्तवच् छब्दो ऽसौ न भवति / अथाब्रुवन् याति तदा तस्मिञ् छब्दे निःशब्दे व्रजति शब्दो ऽयम् इति कस्यावसायो भवेत् / न चागृहीतस्यास्यास्तित्वम् इति न युक्तम् एतत् /
Bycśṭ_13.19 SK प्राप्तश् चेद् गृह्यते शब्दस् तस्यादिः केन गृह्यते / न चैति केवMS, ल्. ४लः शब्दो गृह्यते केवलः कथम् //
613 SK यदि श्रोत्रेन्द्रियस्थानं प्राप्तः शब्दो गृह्यते प्राप्तग्राहित्वाच् छ्रोत्रस्य शब्दस्यादेर् ग्रहणं नास्ति / न चान्यद् इन्द्रियं तस्य ग्राहकं सम्भवतीति नैव केनचिद् अस्यादिर् गृह्यते / ततश् चागृह्यमाणत्वाच् छब्द एवासौ न भवतीत्य् अभिप्रायः /
614 SK नवद्रव्यकत्वाच् च शब्दपरमाणोः / न चैति केवलः शब्दः / भवता च शब्दमात्रम् एव श्रोत्रेण गृह्यते न गन्धादय इति नMS, ल्. ५ युज्यते / यद् वा शब्दस्याग्रहणम् अस्तु यद् वा गन्धादयो ऽपि गृह्यन्ताम् / न चैतद् एवम् इति न प्राप्तविषयत्वं शब्दस्य /
Bycśṭ_12.19ab SK प्राप्तश् चेद् गृह्यते शब्दस् तस्यादिः केन गृह्यते /
617 SK इति यदि तस्यादिर् न गृहीतस् तदा को दोष इति / अयं दोषो यद् अस्य शब्दत्वम् एव विशीर्यते / तथा हि //
Bycśṭ_13.20 SK यावन् न श्रूयते शब्दस् तावच् छब्दो न जायते / अशब्दस्यापि शब्दत्वम् अन्ते तच् च न युज्यते //
619 SK यो न श्रूयतेMS, ल्. ६ सो ऽश्रूयमाणत्वाद् गन्धादिवच् छब्द एव न भवति / अथ मन्यसे यदा श्रूयते तदा शब्दो भविष्यतीति / एतद् अप्य् असम्भाव्यम् / न हि गन्धादेः पश्चाच् छब्दत्वं दृष्टं तद्वद् एवास्याप्य् अशब्दस्य पश्चाच् छब्दत्वम् अयुक्तम् इति /
620 SK एवं तावद् इन्द्रियाणां विषयग्रहणासामर्थ्यम् उद्भाव्य मनसो ऽपि विषयग्रहणासामर्थ्यम् उद्भावयन्न् आह /
Bycśṭ_12.21ab SK वियुक्तम् इन्द्रियैश् चित्तं किं गत्वापि करिष्यति //
622 SK यदि चित्तं विषयदेशंMS, ल्. ७ गत्वा विषयं परिच्छिनत्तीति कल्प्यते तद् अयुक्तम् / इहेदं चित्तम् इन्द्रियसहितं वा विषयदेशं गच्छेत् केवलं वा / न तावद् इन्द्रियसहितं याति / इन्द्रियाणां देह एव सदा सन्निधानात् / गमने च सति देहस्य निरिन्द्रियत्वप्रसङ्गात् /
623 SK अथ केवलं गच्छति तदापि
624 SK न हि चक्षुरादीन्द्रियद्वारतिरस्कृतस्यास्य रूपादिदर्शनसामर्थ्यम् अस्ति / अन्धादीनाम् अपि दर्शनादिसद्भावप्रसङ्गात् /
625 SK अMS, ल्. ८थापि कथंचिद् विषयदेशगमनेनार्थोपलब्धिर् अस्य परिकल्प्यते तदाप्य् अपर्यवसानत्वाद् अर्थबोधस्यानिव्र्त्तौ सत्याम् //
Bycśṭ_12.21cd SK एवं सतीह जीवो ऽयम् अमनस्कः सदा न किम् //
627 SK अचिन्तक एवात्मा सर्वकालं प्राप्नोति / न चाचिन्तकस्यात्मकत्वं सम्भावयितुं युक्तं स्तम्भादिवद् अचिन्तकत्वात् /
628 SK तद् एवं युक्त्या विचार्यमाणानाम् इन्द्रियविषयविज्ञानानां सद्रूपासम्भवात् स्वरूपसिद्धिर् असती / यदि ह्य् एषां स्वरूपसिद्धिः स्यात् तदोपपत्त्या विचार्यमा MS, प्. ७ब्णा यथास्थितेन स्वरूपेण स्फुटतरम् उपलभ्येरन् / न चोपलभ्यन्ते / तस्मात् स्वभावशून्या इति सिद्धम् /
629 SK यदि तर्ह्य् एषं स्वभावो नाम नास्ति तत् कथम् एषां विशेषपरिच्छेदात्मिका संज्ञा पदार्थविशेषव्यवस्थाहेतुत्वेनोपदिश्यते / उच्यते / सत्सु पदार्थेषु तद्विशेषपरिच्छेदात्मिका संज्ञा स्यात् / तेषां च पदार्थानाम् असत्त्वं प्रतिपाद्यते तदा तद्द्वारा कुतः स्वरूपसिद्धिः स्यात् / किं खल्व् एष विषयपरिच्छेदः सर्वथा नास्ति / न नास्तीति / निःस्वभावभावMS, ल्. २स्य विद्यमानत्वात् / तथा हि //
Bycśṭ_13.22 SK मनसा गृह्यते यो ऽर्थः पूर्वदृष्टो मरीचिवत् / सर्वधर्मव्यवस्थासु स संज्ञास्कन्धसंज्ञकः //
631 SK इह चक्षुः प्रतीत्य रूपं च चक्षुर्विज्ञानम् उत्पद्य निरुध्यमानं सहेन्द्रियविषयैर् निरुध्यते / तस्मिन् निरुद्धे पूर्वदृष्टो यो ऽर्थः स एव पश्चान् मनसा गृह्यते /
632 SK कथं पुनर् असन्निहितस्य ग्रहणं सम्भाव्यत इत्य् आह / मरीचिवद् कायां जलम् अस्ति / अपि च हेतुप्रत्ययवशात् प्रवर्तत एव जलाकारसंज्ञा / एवम् अविद्यमाMS, ल्. ३नस्वरूपे ऽपि पूर्वगृहीते ऽर्थे मरीच्याम् इव यद् विकल्पकं विज्ञानम् उत्पद्यते तत् सर्वधर्मव्यवस्थाकारणम् / सर्वधर्मव्यवस्थाकारणत्वाच् च स एव संज्ञास्कन्ध इत्य् उक्तः / तथाविधसंज्ञाविशेषसम्प्रयोगात् / संज्ञावशेन च सर्वधर्मव्यवस्था विज्ञातव्या / न पुनः पदार्थस्वरूपनिबन्धना / स्वभावस्य सर्वथायुज्यमानत्वात् /
633 SK यद्य् एवम् अस्ति तर्हि स्वभावतः संज्ञास्कन्धः / न हि तस्मिन्न् असति सर्वधर्मव्यवMS, ल्. ४स्था शक्या कर्तुम् इति / उच्यते / सापि हि संज्ञा विज्ञानसम्प्रयुक्तत्वाद् विज्ञानव्यतिरेकेणासती / तद् अपि च विज्ञानं संज्ञाव्यतिरेकेणासिद्धत्वात् स्वरूपतो नास्ति / यस्माच्
Bycśṭ_12.23ab SK चक्षुः प्रतीत्य रूपं च मायावज् जायते मनः //
635 SK न हि तद् विज्ञानम् उत्पादात् प्राग् अस्ति यद् उत्पत्तिक्रियाश्रयत्वेन प्रवर्तेत / सत्स्व् अपि चक्षुरादिषु प्रत्ययेषु विज्ञानस्य स्वरूपासम्भवाद् उत्पत्तिक्रियाया अप्रवृत्तेर् उत्पादोMS, ल्. ५ न युज्यते /
636 SK उत्पद्यते चैतद् विज्ञानम् इत्य् अतः किं निश्चेतुं पार्यते ऽन्यत्र मायाधर्मतायाः /
638 SK तद्यथा भिक्षवो मायाकारो वा मायाकारान्तेवासी चतुर्महापथे विविधं मायाकर्म विदर्शयेत् / तद्यथा हस्तिकायं रथकायं पत्तिकायं तं चक्षुष्मान् पुरुषः पश्येन् निध्यायेद् योनिशश् चोपपरीक्षेत / तस्य तं पश्यतो निध्यायतो योनिशश् चोपपरीक्षमाणMS, ल्. ६स्यासतो ऽप्य् अस्य ख्यायाद् रिक्ततो ऽपि तुच्छतो ऽप्य् असारतो ऽपि /
639 SK तत् कस्य हेतोः / किम् अस्मिन् मायाकृते सारम् अस्तीति / एवम् एव यत् किंचिद् विज्ञानम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वौदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद् वा दूरे
640 SK यद् वान्तिके तद् भिक्षुः पश्येन् निध्यायेद् योनिशश् चोपपरीक्षेत / तस्य तत् पश्यतो निध्यायतो योनिशश् चोपपरीक्षमाणस्याMS, ल्. ७सतो ऽप्य् अस्य ख्यायाद् रिक्ततो ऽपि तुच्छतो ऽप्य् असारतो ऽपि रोगतो ऽपि गण्डतो ऽपि शल्यतो ऽप्य् अघतो ऽप्य् अनित्यतो ऽपि दुःखतो ऽपि शून्यतो ऽप्य् अनात्मतो ऽप्य् अस्य ख्यायात् /
641 SK तत् कस्य हेतोः / किम् अस्मिन् विज्ञानस्कन्धे सारम् अस्तीति /
642 SK यथोपलभ्यते विचार्यमाणस्य तथा स्वरूपासम्भावान् मायायुवतिप्रख्यं विज्ञानम् इति सक्यम् अवसातुम् / ततश् च सूक्तम् एव तच्
644 SK यMS, ल्. ८दि पुनर् अस्य स्वरूपं स्यात् तदा स्वरूपतो
Bycśṭ_12.23cd SK विद्यते यस्य सद्भावः स मायेति न युज्यते //
646 SK न हि लोके स्वभावाशून्या सद्भूता स्त्री मायेति युज्यते / एवं विज्ञानम् अपि स्वरूपतो विद्यमानत्वान् मायोपमं न स्यात् / उपदिश्यते च मायोपमं विज्ञानम् / अतो निःस्वभावं विज्ञानम् / यदा च निःस्वभावं विज्ञानं तदा निःस्वभावविज्ञानसम्प्रयुक्ता संज्ञा निःस्वभावेति स्थितम् /
647 SK अत्राह / आश्चर्यम् एतत् / न चेन्द्रियाणां कथ MS, प्. ८अम् अपि विषयग्रहणं सम्भाव्यत उत्पद्यते चक्षुः प्रतीत्य रूपाणि च विज्ञानम् इति / उच्यते / किम् एतद् एवाश्चर्यं त्वया दृष्टम् / इदं किं नाश्चर्यं यन् न निरुद्धान् नानिरुद्धाद् बीजाद् अङ्कुरोदयो युज्यते / उत्पद्यते च बीजं प्रतीत्याङ्कुरः / तथा कृतस्योपचितस्य कर्मणो निरुद्धस्य न क्वचिद् अवस्थानं सम्भवति / कल्पशतसहस्रान्तरितनिरोधाद् अपि कर्मणः साक्षाद् उत्पद्यत एव फलम् / घटादयश् च स्वकारणात् तत्त्वान्यत्वेन विचार्यमाMS, ल्. २णा न सम्भवन्ति तथाप्य् उपादाय प्रज्ञप्त्या मधूदकादीनां सन्धारणाहरणादिक्रियानिष्पादनयोग्या भवन्ति / तद् एवम् //
Bycśṭ_13.24 SK यदा न किंचिद् आश्चर्यं विदुषां विद्यते भुवि / इन्द्रियाणां गताव् एवं तदा को नाम विस्मयः //
649 SK कार्यं हि स्वकारणम् अनुविदधद् दृश्यते / गोर् गौः / अश्वाद् अश्वः / शालेः शालिर् इत्यादीनाम् / भूतानां रूपशब्दादीनां च विधिर् एष न दृश्यते / तथा हि कायेन्द्रियग्राह्यत्वान् महाभूतान्य् अचाMS, ल्. ३क्षुषान्य् अश्रावणानि / तेभ्यश् चाक्षुषं रूपं श्रावणः शब्द उत्पद्यत इति / परम् एतद् आश्चर्यम् / एवं घ्राणादिविषये चक्षुरादिषु च योज्यम् /
650 SK अथवा नैवेयम् इन्द्रियाणाम् अर्थगतिर् विस्मयकारणम् / यदि हीन्द्रियाणाम् एव केवलम् अर्थगताव् एतद् वैचित्र्यं स्यात् तदैतद् विस्मयस्थानम् / यदा तु सर्वम् एव यथोदितेन न्यायेन जगद् विदुषां विस्मयकरम् इन्द्रजालMS, ल्. ४म् इव तदा नेदम् आश्चर्यम् / प्रदेशवृत्ति हि किंचिद् असम्भावनीयम् उपलभ्यमानं विस्मयकरं जायते न सर्वत्रैव तुल्यरूपम् / न ह्य् अग्नेर् औष्ण्यं विस्मयायेति /
651 SK अत एवानियतस्वरूपत्वाद् यथाप्रत्ययं तथा तथा विपरिवर्तमानत्वाद् विदुषाम् //
Bycśṭ_13.25 SK अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकैः / धूमिकान्तःप्रतिश्रुत्कामरीच्यभ्रैः समो भवः //
653 SK यथा सज्वलस्येन्धनस्याशुMS, ल्. ५भ्राम्यमाणस्य तद्गतदर्शनविपर्यासनिबन्धनत्वाच् चक्राकारोपलब्धिर् भवति / न च तत्रास्ति चक्रस्वरूपलेशो ऽपि /
654 SK {यथा च निर्माणानि समाधिविशेषप्रत्ययसम्भूतानि विचित्रक्रियाविशेषनिष्पादनात् सद्भूतयोगिसंज्ञादर्शनमनोविपर्यासाद् उत्पादयन्ति / ते तु चित्तचैत्तेन्द्रियरहितत्वान् न सद्भूता योगिनाम् /}
655 SK यथा च मिद्धसम्प्रयुक्तविज्ञानसमाMS, ल्. ६युक्तात्मभावप्रत्ययः स्वप्नात्मभावो जाग्रदात्मभाव इवात्मनि स्नेहविपर्यासनिबन्धनः / स चासद्भूतः प्रबुद्धस्य तथादर्शनाभावात् /
656 SK यथा च मायाकारयन्त्रनिबन्धना मायाकृतयुवतयस् तत्स्वरूपानभिज्ञानां चित्तमोहनपरा एव सद्भूतस्त्रीशून्या जायन्ते /
657 SK यथा च जलचन्द्रः सद्भूतचन्द्रशून्यः प्रतीत्यसमुत्पादबलात् तथोत्पद्यमानश् चन्द्रविMS, ल्. ७पर्यासनिबन्धनो ह्हवति बालानाम् /
658 SK यथा च प्रतीत्यसमुत्पादबलाद् एव तथाविधकालदेशनिमित्तानि प्रतीत्य धूमिका जाता विदूरस्थानां सद्भूतधूमविपर्यासनिबन्धना भवति /
659 SK यथा च गिरिगह्वरोदरादीनाम् अन्तः प्रतिश्रुत्का प्रतीत्य जायमाना सद्भूतशब्दाभिमानं जनयत्य् अविदुषाम् /
660 SK यथा च मरीचिका देशकालविशेषसन्निहितादित्यरश्मिप्रत्यया जलस्वरूपविविक्ता विदूरस्थाMS, ल्. ८नां जलविपर्यासर्रि जनयति /
661 SK यथा चाभ्राणि विदूरतः पर्वताद्याकारं विपर्यासम् उपजनयन्ति / एवम् अविदुषां यथावत् प्रतीत्यसमुत्पादस्वभावाकुशलानाम् अविद्याविपर्यासाक्षिप्तकर्मप्रत्ययो विज्ञानादिजन्मसागरः स बाह्येन भाजनेन यजाः मृषामोषधर्मकः स्वभावशून्य एव सन् बालजनविसंवादकः प्रा MS, प्. ८ब्तिभाति /
662 SK विदितधर्मस्वभावाश् च सर्वत्रैव सङ्गपरि भवन्तीति स्थितम् एतद् अलातचक्रादिवन् निःस्वभावः संसर इति //
663 SK बोधिसत्त्वयोगचारे चतुःशतक इन्द्रियार्थप्रतिषेधो नाम त्रयोदशं प्रकरणं समाप्तम् //
664 SK MS, प्. ८बत्राह / यदि प्रतीत्यसमुत्पन्नत्वाद् अलातचक्रादिवन् निःस्वभावो भवः कस्य तर्हीदानीं स्वभावो ऽस्तु / न कस्यचित् पदार्थस्य स्वभावः शक्यः कल्पयितुम् / तथाविधस्य पदार्थस्य सर्वMS, ल्. २थानुपलभ्यमानत्वात् / तथा हि //
Bycśṭ_14.1 SK आयत्तं यस्य भावस्य भवेन् नान्यत्र कुत्रचित् / सिध्येत् तस्यास्तिता नाम क्वचित् स च न विद्यते //
666 SK यदि हि कस्यचित् पदार्थस्य निष्पत्तौ क्वचित् किंचिद् आयत्तं न स्यात् तदास्यापरायत्तस्य स्वतन्त्रस्य स्वत एव व्यवस्थितत्वात् स्वभावतो ऽस्तित्वं कल्पयितुं युक्तम् / न त्व् एष सम्भवो ऽस्ति यद् धेतुप्रत्ययायत्तजन्मनां परायत्तता न स्याद् अहेतुको वा पदार्थः कश्चित् सम्भवेद् इति / यतश् चैवं निर्हेतुMS, ल्. ३कत्वप्रसङ्गात् कस्यचित् पदार्थस्य क्वचित् स्वरूपं नास्ति तस्मान् नास्ति कस्यचित् स्वभावः / स्वभावाभावाच् चालातचक्रवन् नास्ति स्वभावसिद्धिर् इति स्थितम् /
667 SK यदि चामी पदार्था अलातचक्रादिवद् विसंवादका विसंवादकत्वाद् अवस्तुका न स्युस् तदा नियतम् उपपत्त्या विचार्यमाणा जातरूपादिवत् स्पष्टतरम् उपलभ्यमानस्वरूपाः स्युः / न चैते विचाराग्निसंतापिता विपर्यासनिबन्धनत्वात् स्वरूपाMS, ल्. ४भावं नासादयन्ति / न हि वस्तूपपत्त्यापि युज्यते / सर्वथा तस्य विसंवादकत्वात् /
668 SK अत एवाचार्यो वस्त्वभिनिवेशशिथिलिकरणायातः परं यथा च घटादीनां स्वरूपं न सम्भवति तथोपपत्तिम् आह //
Bycśṭ_14.2 SK रूपम् एव घटो नैक्यं घटो नान्यो ऽस्ति रूपवान् / न विद्यते घटे रूपं न रूपे विद्यते घटः //
670 SK इह यदि घटो नाम कश्चित् पदार्थः स्यात् स दर्शनेन्द्रियग्राह्यत्वाद् रूपाद् भेदेन वा परिकल्प्येMS, ल्. ५ताभेदेन वा / तत्र तावद्
Bycśṭ_14.2a SK रूपम् एव घटो नैक्यम् /
672 SK न यद् एव रूपं स एव घट इति रूपघटयोर् ऐक्यं सम्भवति / यदि हि रूपघटयोर् ऐक्यं स्यात् तदा यत्र यत्र रूपं तत्र तत्र घट इति सर्वत्रैव रूपे घटः स्यात् / पाकजगुणोत्पत्तौ रूपविनाशे घटविनाशः स्यात् / न चैतत् सम्भवतीति रूपम् एव घट इति नास्त्य् एकत्वम् /
673 SK अथैतद्दोषपरिजिहीर्षया रूपाद् अन्यो घटो रूपवान् पMS, ल्. ६रिकल्प्येत तद्यथार्थान्तरभूतैर् गोभिर् गोमान् देवदत्त इत्य् एतद् अप्य् अयुक्तम् इस् / यस्माद्
Bycśṭ_14.2b SK घटो नान्यो ऽस्ति रूपवान् /
675 SK यदि रूपाद् अन्यो घटः स्यात् सो रूपनिरपेक्षो गृह्येत / न हि गोभ्यो व्यतिरिक्तो देवदत्तो गोव्यतिरेकेण न गृह्यते / तद्वद् घटो ऽपि रूपनिरपेक्षो गृह्येत / न च गृह्यत इत्य् अतो रूपव्यतिरिक्तो घटो नास्ति /
676 SK यदा च नास्ति तदा कथम् असंविद्यमानस् तद्वMS, ल्. ७त्तया गृह्येत / न ह्य् अविद्यमानो वन्ध्यातनयो गोमान् इति व्यपदिश्यते / एवं रुपवान् घट इत्य् अपि न युज्यते /
677 SK अन्यत्वासम्भवाद् एव च रूपघटयोर् आधाराधेयकल्पनाया अपि नास्ति सिद्धिर् इति /
Bycśṭ_12.2cd SK न विद्यते घटे रूपं न रूपे विद्यते घटः /
679 SK रूपघटयोर् अन्यत्वे सति घटे रूपम् इति स्यात् कुण्ड इव दधि / रूपे ऽपि घट इति स्यात् कट इव देवदत्तः / न चैतत् सम्भवतीति नास्तिMS, ल्. ८ घटः स्वभावतः / यस्य च नास्ति स्वभाव उपलभ्यते च तद् अलातचक्रादिवत् स्वभावशून्यम् /
680 SK अपि च यथात्मा स्कन्धा न भवति कर्तुर् आत्मनः कर्मणश् चोपादानस्यैकत्वप्रसङ्गात् स्कन्धवच् चोदयव्ययभाक्त्वप्रसङ्गाद् आत्मबहुत्वप्रसङ्गाच् च / एवं घटो ऽपि रूपं न भवत्य् उपादानोपादात्रोर् एकत्वप्रसङ्गाच् चोपादानबहुत्वेन घटबहुत्वप्रसङ्गात् /
681 SK यथा चात्मा स्कन्धेभ्यो ऽन्यो न भवति पृथग्ग्रहणप्रसङ्गान् निर्हेतुMS, ल्. ९कत्वप्रसङ्गाच् च / एवं घटो ऽपि रूपव्यतिरिक्तो न भवति पृथग्ग्रहणप्रसङ्गान् निर्हेतुकत्वप्रशङ्गाच् च /
682 SK यथा चात्मस्कन्धेभ्यस् तत्त्वान्यत्वकल्पनाभावात् स्कन्धवान् आत्मेति न व्यपदिश्यते / तद्वद् एव रूपघटयोस् तत्त्वान्यत्वकल्पनाभावाद् रूपवान् घट इति न व्यपदिश्यते /
683 SK यथा च स्कन्धेभ्यस् तत्त्वान्यत्वकल्पनाभावाद् आत्मनि स्कन्धाः स्कन्धेष्व् आत्मेति द्विधापि न युज्यते / एवं घटे रूपम् रूपे घट इत्य् अपि कल्प MS, प्. ९अनाद्वयं नोपपद्यते /
684 SK यथा च रूपापेक्षया घटे कल्पनाचतुष्टयं न सम्भवत्य् एवं सर्वप्रज्ञप्तिकारणापेक्षं चतुष्टयं न सम्भवतीति / नास्ति स्वरूपतो घटः /
685 SK यथा च घटः स्वभावतो नास्ति तथा सर्वभावा अपि स्वभावतो मृग्यमाणा न सन्तीति सिद्धा भवत्य् अलातचक्रादिप्रख्यता भवस्य /
686 SK अत्राहुर् एके / यद्य् अपि रूपघटयोर् अन्यत्वं न सम्भवति तथापि भावघटयोर् अन्यत्वम् अस्ति / यस्माद् अन्य एव घटो ऽस्माकम् अन्यथैव च सत्ता / सत्ता हि नाम महासामाMS, ल्. २न्यं घटश् च विशेषो द्रव्यं सत्तायोगात् सद् इति व्यपदिश्यत इति / तान् प्रत्युच्यते //
Bycśṭ_14.3 SK वैलक्षण्यं द्वयोर् दृष्ट्वा भावाद् अन्यो घटो यदि / घटाद् अन्यो न भावो ऽपि किम् एवं न भविष्यति //
688 SK घटादिद्रव्याणाम् अनुप्रवृत्तिलक्षणत्वात् सामान्यो भावः / व्यावृत्तिलक्षणत्वाच् च घटो विशेषलक्षण इति / यदि तयोर् वैलक्षण्यं भावघटयोर् दृष्ट्वा भावाद् अन्यो घटो भवत्य् एवम् एव वैलक्षण्याद् घटाद् अपि किम् अर्थं भावो ऽन्यो न भविMS, ल्. ३ष्यति / ततश् चान्यबुद्धिध्वनिप्रवृत्तिनिमित्तम् अन्यत्वम् अपरम् अनुप्रवृत्तिलक्षणं न कल्पयितव्यम् / वैलक्षण्याद् एवान्यबुद्धिध्वनिप्रवृत्तिसिद्धेः /
689 SK कल्प्यते चापरम् अन्यत्वम् इति नास्ति तर्हि भावघटयोर् वैलक्षण्यापेक्षम् अन्यत्वम् / ततश् च यद् उक्तं
Bycśṭ_14.3ab SK वैलक्षण्यं द्वयोर् दृष्ट्वा भावाद् अन्यो घट
692 SK यथा च भावो ऽनुप्रवृत्तिलक्षणत्वाद् घटाद् अन्य एवम् अन्यत्वम् अप्य् अनुप्रवृत्तिलक्षणत्वाद् घटाMS, ल्. ४द् अन्यत् स्यात् / न च तस्यान्यत्वस्यापरम् अन्यत्वम् अन्यबुद्धिध्वनिप्रवृत्तिनिमित्तम् अस्ति / यदि स्याद् अन्यत्वानाम् अपर्यवसानदोषः स्यात् /
693 SK अथ विनैवान्यत्वेनान्यबुद्धिर् अन्यत्वे भवति / तद्वद् एवान्यत्रापि सम्भाव्यताम् इत्य् अलम् अन्यत्वेनाकिंचित्करेण परिकल्पितेन / असति चान्यत्वे नास्ति कुतश्चित् कस्यचिद् अन्यत्वम् इति सिद्धम् /
694 SK अपि चेदं चिन्त्यते किंभूतायाः सत्ताया अन्यत्वेन योगोMS, ल्. ५ ऽस्तु / किम् अन्यभूताया अनन्यभूताया वा / यद्य् अन्यभूतायास् तदा व्यर्थो ऽन्यत्वेन योगः / अथानन्यभूतायाः / एवम् अपि विरुद्धेनानन्यत्वेन योगाद् अन्यत्वेन योगो न प्राप्नोति / अन्यत्वाभावाच् च घटाद् अन्यो भाव इति न युज्यते / ततश् च लोके विपर्यासं प्रमानीकृत्य घटत्वरूपम् एव सद्बुद्धिध्वनिप्रवृत्तिनिमित्तत्वाद् भाव इति व्यवस्थाप्यते / तस्य चMS, ल्. ६ रूपाच् चतुर्धाविचार्यमाणस्य नास्ति स्वभाव इति / तत्त्वविदपेक्षयालातचक्रादिवत् स्वभावशून्यो घट इति सिद्धम् /
695 SK अत्राह / विद्यत एव घटो गुणाश्रयत्वात् / न ह्य् असद् गुणाश्रयो दृष्टः / भवति च गुणाश्रयो घट एको घटो द्वौ घटाव् इति / एकत्वादयो गुणपदार्थसंगृहीता घटश् च द्रव्यम् / द्रव्याश्रयित्वं च गुणानां सम्भवतीति /MS, ल्. ७ अतो गुणाश्रयत्वाद् अस्त्य् एव घट इति / अत्रोच्यते / त्वन्मतेन //
Bycśṭ_14.4ab SK एको यदि घटो नेष्टो घटो ऽप्य् एको न जायते //
697 SK पदार्थभेदाद् यद्य् एको घटो न भवतीति मन्यसे घटो ऽपि तर्ह्य् एको न भवति / यथैकत्वम् एकसंख्या घटो न भवत्य् एवं द्रव्यत्वेनैकसंख्यायाः पृथग्भूतत्वाद् घटो ऽप्य् एको न भवति / द्वित्वाद् इति भावः / अपि चास्य घटस्यैकरूपस्यैकसंख्या परिकल्पेताMS, ल्. ८नेकरूपस्य वा / यद्य् एकरूपस्य तदा व्यर्थैवैकत्वकल्पना / अथानेकरूपस्य तदापि विरुद्धत्वाद् अयुक्तैव / तस्माल् लोके घटस्वरूपस्यैवासन्निहितार्थान्तरस्यैककल्पना विज्ञेया /
698 SK अथ द्रव्याश्रयिणो गुणा इति कृत्वैकत्वयोगाद् घट एवैको भवति न त्व् एकत्वं घटो भवति / अत्रोच्यते //
Bycśṭ_14.4cd SK न चायं समयोर् योगस् तेनाप्य् एको न जायते //
700 SK योगो नाम समयोर् एव भवति MS, प्. ९ब् न विषमयोः /
701 SK तत्रैको गुणो दृष्टो घटश् च द्रव्यम् / द्रव्यगुणयोश् च समता यस्मान् न भवति तस्मात् तयोर् योग एव न भवति / योगाभावात् तत्र यद् इष्टम् एकत्ययोगाद् घट एवैको भवतीति तन् न / यदि चात्र योगो दृष्टस् तदैकेनापि घटस्य योगः स्याद् घटेनाप्य् एकस्य / स च नैवं भवतीति योग एवानयोर् नोपपद्यते / योगाभावाच् च नैवैको घटो भवतीति न घटो ऽप्य् एक इति / तद् अत्र पूर्वार्धेन कारिकाया योMS, ल्. २गम् अभ्युपेत्य दूषणम् उक्तम् / उत्तरार्धेन तु योगासम्भवे दूषणम् उक्तम् / अपिशब्दश् च दूषणकारणसमुच्चयार्थो द्रष्टव्यः /
702 SK अपि चेदम् अयुक्ततरं परसमये दृश्यते / यद् द्रव्याश्रयिणो गुणा व्यवस्थाप्यन्ते न गुणाश्रयिणो विशेषगुणाः / युज्यते च गुणानाम् अपि गुणाश्रयित्वम् / इह यत्परिमाणो घटस् तदाश्रयेणापि रूपेण तावतैव भवितव्यम् / ततश् च द्रव्यवद् रूपस्यापि महत्त्वं प्राप्नोMS, ल्. ३तीति //
Bycśṭ_14.5ab SK यावद् द्रव्यं यदा रूपं तदा रूपं महन् न किम् //
704 SK यदा यावद् द्रव्यं यावान् द्रव्यस्यायामविस्तारात्मकः सन्निवेशस् तावद् रूपं रूपस्यापि तावान् एवायामविस्तारात्मकः सन्निवेश इति परेणाभ्युपगम्यते तदा नियतम् अणुमहति द्रव्ये रूपेणापि तत्राणुमहत्ता भवितव्यम् / तत् किं नु खल्व् अत्र कारणं यद् द्रव्यवद् रूपस्याणुमहत्त्वे नेष्येते /
705 SK अथ स्याद् रूMS, ल्. ४पं गुणो ऽणुत्वं महत्त्वम् अपि च गुण एव न च गुणे गुणस्य सन्निवेशो भवतीति समय एषो ऽस्माकम् / ततश् च यद्य् अपि यावद् द्रव्यं रूपम् अपि तावद् एव तथापि सिद्धान्तविरोधभयाद् रूपस्याणुत्वमहत्त्वे न स्त इति / उच्यते //
Bycśṭ_14.5cd SK समयो जायते वाच्यः प्रतिवाद्य् अपरो यदि //
707 SK यदि हि तव स्वयूथ्य एव प्रतिवादी स्यात् तं निवर्तयितुं युक्तं तव सिद्धान्ताभिधानं तस्य तद् बाधिMS, ल्. ५तुम् असामर्थ्यात् / यदा तु प्रतिवादी परस् तं प्रति सिद्धान्तविरोधोद्भावनम् अकिंचित्करं सिद्धान्तनिराकरणप्रवृत्तत्वात् तस्य / युक्तिलोकविरोधोद्भावनं तु तं प्रति ज्यायः / तद्द्वारेण तस्य निवारयितुं शक्यत्वात् / तस्माद् अपरिहार एवायं यद् इदम् आगमविरोधोद्भावनम् इति स एवाविचलो दोष इति नास्ति भावघटयोर् अन्यत्वम् / तद् अत्रMS, ल्. ६ सत्तान्यत्वप्रतिषेधेनान्येषाम् अपि घटत्वादीनां सामान्यविशेषाणां प्रतिषेधो विज्ञेयः / संख्यावत् सामान्यगुणानां महत्त्ववद् विशेषाणाम् इति /
708 SK अत्राह / उक्तो भावस्य घटादिभ्यो ऽन्यत्वप्रतिषेधः / घटस्य तु स्वभावाप्रतिषेधाद् अस्त्य् एव स्वरूपतो घटाख्यो भाव इति / अत्रोच्यते //
Bycśṭ_14.6 SK लक्षणेनापि लक्ष्यस्य यत्र सिMS, ल्. ७द्धिर् न विद्यते / संख्यादिव्यतिरेकेण तत्र भावो न विद्यते //
710 SK इह घटसत्त्वयोर् व्यावृत्त्यनुवृत्तिलक्षणं ब्रुवता घटस्य व्यावृत्तिलक्षणं व्यवस्थापितं परेण / तद् अमुना लक्षणेनापि लक्ष्यस्य नास्ति सिद्धिः / न हि व्याव्र्त्तिमात्रेण शक्यं वस्तुस्वरूपं निर्धारयितुं यल् लक्ष्यतया सेत्स्यति / एकस् तावद् गुणत्वाद् घटो न भवति / अणुर् महद् इति रूपादयश् च गुणत्वाद् एव घटाMS, ल्. ८ख्या न भवन्ति / सत्तापि द्रव्यगुणकर्मसु सामान्याद् घटो न भवति / तद् अयं संख्याणुमहद्रूपादिभ्यो व्यावर्तमान इत्थं स्वभाव इति न शक्यं व्यवस्थापयितुम् / तद् एवं यत्र परवादिपक्षे लक्षणेनापि लक्ष्यस्य घटस्वरूपस्य नास्ति सिद्धिस् तत्र पक्षे संख्यादिव्यतिरेकेण सिद्धस्वरूपेण घटाख्यो भावो न विद्यते / ततश् च स्वभावशून्यो घट इति सिद्धम् / MS, प्. १०अ
711 SK अथवा संख्यारूपादयो घटस्य लक्षणं तैर् लक्ष्यमाणत्वाद् घटो लक्ष्यः / तस्य लक्षणेनापि पृथक् स्वरूपसिद्धिर् अशक्या कर्तुम् / संख्यादिव्यतिरेकेण तत्स्वरूपस्यानुपलभ्यमानत्वात् /
712 SK यदि हि तल् लक्ष्यं स्वरूपं लभते तदा नियतं संख्यादिव्यतिरेकेण गृह्येतेदं तत् संख्याव्यतिरिक्तं घटस्वरूपम् इदं पुनर् अस्य संख्यादिकं लक्षणम् इति / न चैतद् एवम् इत्य् अतः /
Bycśṭ_14.6 SK लक्षणेनापि लक्ष्यस्य यत्र सिद्धिर् न विद्यते / संख्यादिव्यतिरेकेण तत्र भावो न विद्यते //
714 SK इMS, ल्. २ति नास्ति स्वभावतो घटः /
715 SK उक्तस् तावल् लक्ष्यलक्षणयोर् अन्यत्वप्रतिषेधः / येषां तु रूपादिभिर् घटस्यैक्यम् इति सिद्धान्तस् तत्प्रतिषेधायेदम् उच्यते //
Bycśṭ_14.7 SK घटस्य न भवत्य् ऐक्यम् अपृथक्त्वाद् धि लक्षणैः / एकैकस्मिन् घटाभावे बहुत्वं नोपपद्यते //
717 SK रूपादीनि खलु नानालक्षणानि येषां तैर् अपृथक्त्वं घटस्येष्टं तेषां रूपादिभिर् लक्षणैर् अपृथक्त्वाद् घटस्यैक्यं नोपपद्यते बहुभिर् अनन्यत्वात् /
718 SK स्यात् तत्र मतं यदि घटस्यैक्यं न भवतिMS, ल्. ३ हन्त बहुत्वं प्राप्तम् इति / अत्रोच्यते / यस्माद् रूपादिष्व् एकैकस्मिन् घटस्याभावो दृष्टस् तस्माद् बहुत्वम् अपि नास्तीति /
719 SK अत्राह / यदि रूपादिभिर् लक्षणैर् अपृथक्त्वाद् घटस्यैक्यं नास्ति तेषां परस्परसंयोगाद् घटस्यैक्यं भविष्यतीति / अत्रोच्यते //
Bycśṭ_14.8 SK न ह्य् अस्पर्शवतो नाम योगः स्पर्शवता सह / रूपादीनाम् अतो योगः सर्वथापि न युज्यते //
721 SK तत्र स्पृष्टिः स्पर्शः कायेन्द्रियग्राह्यता स्पर्शोMS, ल्. ४ ऽस्यास्तीति स्पर्शवत् / स्प्रष्टव्यम् एव कायेन्द्रियग्राह्यत्वात् स्पर्शवत् / तेन स्पर्शवता स्प्रष्टव्येन रूपगन्धरसानाम् अस्पर्शवतां योगः संयोगः संस्पर्शो न सम्भवति / यथा घटस्याकाशेन /
722 SK यत एतद् एवं रूपादीनाम् अतो योगः सर्वप्रकारं न सम्भवति / यदा च न सम्भवति तदान्योन्यसंस्पर्शकृताद् रूपादीनां विशेषात् समुदायनिबन्धनो घट इति यद् उक्तं तन् न युक्तम् /
723 SK अथ विनाMS, ल्. ५प्य् अन्योन्यसंस्पर्शेन तत्समुदाय एव घट इति स्याद् / एतद् अपि नास्ति / यस्मात् //
Bycśṭ_14.9 SK घटस्यावयवो रूपं तेन तावन् न तद् घटः / यस्माद् अवयवी नास्ति तेन नावयवो ऽपि तत् //
725 SK रूपादिसमुदायरूपस्य घटस्य प्रत्येकं रूपादयो ऽवयवभूतत्वाद् घटव्यपदेशभाजो न भवन्ति / घटो ऽवयव्य् अवयवाश् च रूपादय इति रूपं तावद् अवयवत्वाद् घटो न प्राप्नोति / यथा च रूपम् एवंMS, ल्. ६ गन्धादयो वाच्याः /
726 SK ननु च रूपस्यावयवत्वाद् अस्ति तर्ह्य् असाव् अवयवी नाम कश्चित् / न ह्य् अवयविनिरपेक्षा अवयवा युज्यन्त इति / उच्यते / इह रूपादीनां प्रत्येकं घटत्वाभावे कुतः कश्चिद् अवयवी / न हि रूपादिव्यतिरेकेणावयवी नाम परिच्छेत्तुं पार्यते / न चापरिच्छिद्यमानस्वरूपस्य सत्त्वम् आस्थातुं शक्यम् इत्य् असन्न् अवयवी / यस्माच् चावयवी नास्ति तस्माद् रूपम् अवयवत्वेनापि न सम्भाव्यत इMS, ल्. ७ति न स्त एवावयवावयविनौ / इतश् च रूपादिसमुदायो न घटः / यस्मात्
Bycśṭ_14.10 SK सर्वेषाम् अपि रूपाणां रूपत्वम् अविलक्षणम् / एकस्य घटसद्भावो नान्येषां किं नु कारणम् //
728 SK सर्वेषाम् अपि रूपाणाम् इति रूपस्कन्धसंगृहीतत्वाद् रूपगन्धादयो रूपाणीत्य् उच्यन्ते / तानि रूपाणि घट इव पटादिष्व् अपि सन्ति / न च तानि घटादिभेदे ऽपि स्वलक्षणं व्यभिचरन्ति / सर्वत्रैव तुल्यलक्षणत्वात् /MS, ल्. ८ तत्र यथैकस्य रूपस्य घटत्वेनावस्थानं तथान्यस्यापि पटादिसम्बन्धिनो रूपस्य कस्माद् घटत्वेनावस्थानं नेष्यते / युज्यते तु तस्यापि घटत्वेनावस्थानं लक्षणाभेदात् / घटावस्थितरूपादिवत् / एवं त्व् अनभ्युपगमे कारणम् एव न सम्भवति / ततश् च सर्वेषाम् एव घटत्वं प्राप्नोति / यद् वा घटस्यापि घटत्वं न प्राप्नोति / यथा च घटादीनाम् अभेदप्रसङ्ग एवं रूपगन्धादीनाम् अप्य् अभेदः प्राप्नोति / एMS, ल्. ९कस्माद् घटाद् अनन्यत्वात् /
729 SK अथ मन्यसे यद्य् अपि घटाद् अन्यत्वम् एषां नास्त्य् एव तथापि रूपस्य रसादिभ्यो भेदो ऽस्ति / तस्माद् अभेदप्रसङ्गाभाव इति / एतद् अप्य् अयुक्तम् इति प्रतिपादयन्न् आह //
Bycśṭ_14.11 SK रूपम् अन्यद् रसादिभ्यो न घटाद् इति ते मतम् / स्वयं यस् तैर् विना नास्ति सो ऽनन्यो रूपतः कथम् //
731 SK यदि भिन्नेन्द्रियग्राह्यत्वाद् रसादिभ्यो रूपम् अन्यद् व्यवस्थाप्यते / घटाद् अपि तद् रूपम् अन्यद् इति किं न व्यवस्थाप्यते /
732 SK रूपाद् अन्येभ्यो रसादिभ्यस् तस्याव्यतिरि MS, प्. १०ब्क्तत्वाद् रसादिस्वात्मवद् रूपाद् अन्य एव प्राप्नोति / न चान्यत्वम् इष्यत इत्य् अयुक्तम् एतत् /
733 SK यदा चैवं रूपादीनां घटकारणत्वं न सम्भवति तदा नियतम् //
Bycśṭ_14.12a SK घटस्य कारणं नास्ति //
735 SK न च कारणरहितस्य स्वत एव निर्हेतुकं कार्यत्वं सम्भवतीति /
Bycśṭ_14.12b SK स्वयं कार्यं न जायते //
737 SK यत एव चास्य निर्हेतुकं कार्यत्वं न सम्भवति //
Bycśṭ_14.12cd SK रूपादिभ्यः पृथक् कश्चिद् घटस् तस्मान् न विद्यते //
739 SK रूपादिव्यतिरेकेण कार्यभूतस्य घटस्यानुपलभ्यमानत्वात् / नास्ति रूपादिव्यतिरिक्तोMS, ल्. २ घट इति सिद्धम् /
740 SK अथ मन्यसे नैव हि रूपाद्युपादानो घटः / किं तर्हि / स्वावयवानि कपालानि कारणान्य् अपेक्ष्य घटस्य कार्यत्वं कपालानां च कारणत्वम् इति / एतद् अप्य् अयुक्तम् इत्य् उद्भावयन्न् आह //
Bycśṭ_14.13 SK घटः कारनतः सिद्धः सिद्धं कारणम् अन्यतः / सिद्धिर् यस्य स्वतो नास्ति तद् अन्यज् जनयेत् कथम् //
742 SK यदि घटकारणानि कपालानि प्रतीत्य घटः सिध्यति / तानीदानीं कपालानि किम् अपेक्ष्य सिध्यन्ति / न हि तावत् तानि स्वभावसिद्धाMS, ल्. ३नि निर्हेतुकत्वप्रसङ्गात् / अथ तेषाम् अप्य् अन्यत् कारणम् इष्यते / न तर्हि कपालानां स्वरूपसिद्धिर् अस्ति / तेषाम् अपि कारणान्तरशर्करिकापेक्षत्वात् / येषां च कपालानां स्वतः सिद्धिर् न भवति कथम् तान्य् अन्यत् स्वरूपतः साधयिष्यन्तीत्य् अतो ऽप्य् असन् घटः / यश् चायं घटप्रतिषेधको विधिर् एष एव सर्वकार्याणाम् असिद्धौ योज्यः /
743 SK अत्राह / समुदितानां रूपादीनां घटाभिधाMS, ल्. ४नान् न रूपादिबहुत्वे ऽपि घटबहुत्वप्रसङ्ग इति / तद् अप्य् अयुक्तम् / समूहस्यैवासत्त्वात् / तथा हि //
Bycśṭ_14.14 SK समवाये ऽपि रूपस्य गन्धत्वं नोपपद्यते / समूहस्यैकता तेन घटस्येव न युज्यते //
745 SK समुदिता अपि रूपादयो न समुदायावस्थाः स्वं स्वं लक्षणं विजहति / ततश् च समुदायावस्थायां रूपस्य स्वरूपापरित्यागाद् गन्धत्वं न सम्भवति / एवम् अनेकाश्रयस्य समूहस्यैकत्वं न सम्भाव्यते /MS, ल्. ५ स हि समुदायो रूपादिभ्यो न व्यतिरिक्तस् ते च रूपादयः परस्परतो भिद्यन्ते / रूपादिभ्यश् चाव्यतिरिक्तसमुदायः कथम् एकः स्यात् / दृष्टान्तम् आह / घटस्येवेति / यथा
Bycśṭ_14.7ab SK घटस्य न भवत्य् ऐक्यम् अपृथक्त्वाद् धि लक्षणैर्
747 SK इत्य् उक्तम् / तथेहापि
748 SK समूहस्यास्ति नैकत्वम् अपृथक्त्वाद् धि लक्षणैः /
Bycśṭ_14.14cd SK समूहस्यैकता तेन घटस्येव न युज्यते /
751 SK ततश् च समूहस्यासम्भवाद् रूपादिसमूहे ऽपि घटकल्पना न युक्ता / यथोपवर्णितेन च विचारेण //
Bycśṭ_14.15 SK रूपादिव्यतिरेकेMS, ल्. ६ण यथा कुम्भो न विद्यते / वाय्वादिव्यतिरेकेण तथा रूपं न विद्यते //
753 SK रूपादिव्यतिरेकेण यथा कुम्भो न सिद्धः / एवं कुम्भप्रज्ञप्त्युपादाना अपि रूपादयो वाय्वादिमहाभूतचतुष्टयव्यतिरेकेण न युज्यन्ते / निर्हेतुकत्वप्रसङ्गात् /
754 SK यथा च वाय्वादिव्यतिरेकेण रूपगन्धादेर् असम्भवः / एवं महाभूतानाम् अन्योन्यव्यतिरेकेण सिद्ध्यभावात् रूपादिसिद्ध्यभावम् उMS, ल्. ७द्भावयन्न् आह //
Bycśṭ_14.16 SK अग्निर् एव भवत्य् उष्णम् अनुष्णं दह्यते कथम् / नास्ति तेनेन्धनं नाम तदृते ऽग्निर् न विद्यते //
756 SK इहाग्निर् दग्धा भूतत्रयं दाह्यम् / तद् एतद् इन्धनाख्यं भूतत्रयम् अग्निर् एव दहति नान्यः / इन्धनम् एव च दह्यते नान्यत् / तत्रेन्धनं यद्य् अग्निर् उष्णं दहति तदाग्निर् एव तद् उष्णं भवति नेन्धनम् / अनुष्णस्यापि दाहासम्भवाद् अनुष्णम् अपि नेन्धनम् / तद् एवं सर्वथापि दाह्यस्यासम्भवान् नास्ति तेनेन्धनं नाम यद् भूतत्रयात्मकं स्याMS, ल्. ८त् / यदा चैवम् अग्निव्यतिरेकेणेन्धनं नापरं सम्भवति तदेन्धनाभावे निर्हेतुको ऽप्य् अग्निर् न सम्भवतीति
Bycśṭ_14.16d SK तदृते ऽग्निर् न विद्यते /
758 SK अत्राह / अनुष्णात्मकम् एवेन्धनं काठिन्यादिरूपत्वात् / तच् चोष्णस्वभावेनाग्निनाभिभवाद् उष्णं भवति / उष्णं च सद् दह्यत इति / एवम् अपि कल्प्यमान इन्धनाख्यो ऽर्थः //
Bycśṭ_14.17ab SK अभिभूतो ऽपि यद्य् उष्णः सो ऽप्य् अग्निः किं न जायते //
760 SK यद्य् अग्निनाभिभूत इन्धनाख्यो ऽर्थो ऽनुष्णस्वभावो ऽप्य् उष्णो भवतीति कल्प्यते /MS, ल्. ९ सो ऽप्य् अग्निर् अस्तूष्णरूपत्वात् / ततश् च स एवेन्धनाभावः //
Bycśṭ_14.17cd SK अथानुष्णे परो ऽप्य् अग्नौ भावो ऽस्तीति न युज्यते //
762 SK अथाभिभूतो ऽप्य् असाव् अर्थो ऽनुष्ण एवेष्यते / स तर्ह्य् अग्नेः परो ऽपि भाव इन्धनाख्यं भूतत्रयम् उष्णविरुद्धत्वाद् अनुष्णस्वभावम् अग्नाव् अस्तीति न युज्यते / ततश् च भूतत्रयरहितम् अग्निमात्रम् एव स्यात् / न चैषां महाभूतानाम् अन्योन्यं विना भावः / यदि स्यात् सिद्धान्तविरोधश् च स्यात् / अग्नौ चापरस्य पदार्थस्येन्धनाख्यस्या MS, प्. ११अभावान् निर्हेतुकत्वं चाग्नेः स्याद् इत्य् अयुक्तम् एतत् /
763 SK अथ मन्यसे तेजोद्रव्यपरमाणौ भूतत्रयस्याभावाद् विनापीन्धनेनास्त्य् एवाग्निर् इति / उच्यते //
Bycśṭ_14.18ab SK इन्धनं यद्य् अणोर् नास्ति तेनास्त्य् अग्निर् अनिन्धनः //
765 SK ततश् च स एव निर्हेतुकदोषः / अत एव चाहेतुकदोषप्रसङ्गात् / वैशेषिकाणाम् इव स्वयूथ्यानाम् अयुक्तो द्रव्यपरमाण्वभ्युपगमः / वैशेषिकपरमाणुवादश् च नवम एव प्रकरणे निषिद्धत्वान् न पुनर् निषिध्यते /
766 SK यथाग्नेर् अहेतुकत्वप्रसङ्गभीत्यणव् इMS, ल्. २न्धनसद्भवः परिकल्प्येत //
Bycśṭ_14.18cd SK अणुर् एकात्मको नास्ति स्यात् तस्यापीन्धनं यदि //
768 SK यद्य् अणोर् इन्धनम् अस्तीति कल्प्यते न तर्हि तेजोद्रव्यपरमाणुर् एकरूपो ऽस्तीत्य् अभ्युपेयम् /
769 SK न च केवलं परमाणोर् एवैकात्मकस्याभावः / अष्टानां द्रव्याणां सहोत्पादनियमाद् अपि खलु तदन्यस्यापि पदार्थस्य //
Bycśṭ_14.19ab SK तस्य तस्यैकता नास्ति यो यो भावः परीक्ष्यते //
771 SK यथा भूतानाम् एकात्मकत्वं नास्ति तदितरस्मिन्न् इतरसद्भावाद् एवं भौMS, ल्. ३तिकम् अपि केवलं नास्ति भूतैर् विनाहेतुकत्वप्रसङ्गात् / एवं चित्तेन विना चैत्ता न सम्भवन्ति / नापि चैत्तैर् विना चित्तम् / तथा लक्षणैर् जात्यादिभिर् विना लक्ष्यं रूपादिकं नास्ति / नापि लक्ष्येण विना निराश्रयं लक्षणं सम्भवति /
772 SK यतश् चैवम् एकस्य पदार्थस्य कस्यचित् सिद्धिर् नास्ति / तदैककानां समुदायाभावे सत्य् अनेकसिद्धिर् अपि दूरोत्सारितैवेत्य् आह //
Bycśṭ_14.19cd SK न सन्ति तेनानेके ऽपि येनैकोMS, ल्. ४ ऽपि न विद्यते //
774 SK एकस्यासिद्धौ सत्यां समुदितानाम् अपि नास्ति सिद्धिः /
775 SK अथ स्यात् स्वयूथ्यं प्रत्य् एवैतद् दूषणम् उपपद्यते / सहोत्पादनियमाभ्युपगमात् / परं प्रति तु नेदं दूषणं नित्यानां पृथिव्यादिपरमाणूनां तदितरभावसद्भाववियुक्तानाम् अस्तित्वेनाभ्युपगमाद् इति / तत्राप्य् अयुक्तताम् उद्भावयन्न् आह //
Bycśṭ_14.20ab SK भावास् त्रयो न सन्त्य् अन्ये तत्रैको ऽस्तीति चेन् मतम् //
777 SK एतद् अप्य् असम्यक् /MS, ल्. ५ किं कारणम् //
Bycśṭ_14.20cd SK त्रित्वं येनास्ति सर्वत्र तेनैकत्वं न विद्यते //
779 SK परस्यापि हि न कश्चिद् एको नाम पदार्थो ऽस्ति / यस्मात् तत्रापि पृथिवीपरमाणौ द्रव्यत्वम् एकत्वं सत्त्वं चेत्य् एतत् त्रितयम् अस्ति / तथा गुणे गुणत्वं सत्त्वम् एकत्वं चेति / यस्मात् त्रितयम् अस्ति तस्मान् न कश्चिद् एको नाम पदार्थो ऽस्ति / तथा सांख्यस्य त्रिगुणात्मकं सर्वम् इत्य् एकः कश्चित् पदार्थो नाMS, ल्. ६स्तीति न कश्चिद् उक्तं दूषणम् अतिवर्तते /
780 SK अपि चायं दूषणमार्गः सर्वेषाम् एव वादिनां पक्षनिराकरणाय विदुषा प्रयोक्तव्य इति शिक्षयन्न् आचार्य आह //
Bycśṭ_14.21 SK सद् असत् सदसच् चेति सदसन् नेति च क्रमः / एस प्रयोज्यो विद्वद्भिर् एकत्वादिषु नित्यशः //
782 SK एकत्वम् अन्यत्वम् उभयं नोभयम् इत्य् एकत्वादयः / एतेष्व् एकत्वादिषु पक्षेषु वादिना व्यवस्थितेषु सMS, ल्. ७दसत्त्वाद्युपलक्षितो दूषणक्रमः सुधिया यथाक्रमम् अवतार्यः / तत्र सत्कार्यवादिनः कार्यकारणयोर् एकत्वम् इति पक्षः / तस्य हि कारणात्मना तत् कार्यं व्यवस्थितम् एव सत् कार्यात्मना विपरिणमते / न ह्य् असच् छक्यं कर्तुम् / यदि ह्य् असन्न् उत्पद्येत तदा सर्वतः सर्वसम्भवः स्यात् / न च सर्वतः सर्वसम्भवो दृष्टः / क्षीरादेर् एव प्रतिनियतदध्यादिदर्शनात् / तद् अस्य वादिनः कार्यकारणयोर् एकMS, ल्. ८त्वाभ्युपगमात् सद् एव कार्यम् उत्पद्यत इत्य् एवम् एकत्वपक्षः / तस्मिन्न् एकत्वपक्षे सत्कार्यवादपरामर्शेन नित्यं दूषणम् अभिधेयम् / तच् चोक्तम् /
783 SK स्तम्भादीनाम् अलङ्कारो गृहस्यार्थे निरर्थकः / सत्कार्यम् एव यस्येष्टम्
785 SK सम्भवः क्रियते यस्य प्राक् सो ऽस्तीति न युज्यते / सतो यदि भवेज् जन्म जातस्यापि भवेद् भवः //
786 SK धर्मो यद्य् अकृतो ऽप्य् अस्ति नियमो जायते वृथा / अथ स्वल्पो ऽपि कर्तव्यः सत्कार्यस्य न सम्भवः //
Bycśṭ_15.18 SK जायमानो न तस्यास्ति स्यात् तस्याप्य् अन्तरं यतः //
790 SK यस्य वादिनो ऽन्तरेण विना मध्यं विनातीतानागतस्य द्वयस्य नास्ति सम्भवस् तस्य जायमानो नास्ति / कथं कृत्वा / स्यात् तस्याप्य् अन्तरं यतः / यथा जायमानस्यातीतानागतान्तर्वर्तित्वम् एवं तस्यापि जायमानस्य जाताजातरूपस्य मध्येन भवितव्यं यद् अपेक्ष्य जाताजातव्यवस्थानं स्यात् / तच् चैतद् अशक्यं जाताजातयोर् अन्तरा तृतीयं जायमानं नाम व्यवस्थापयिMS, ल्. २तुम् / सर्वत्रैव जाताजातयोर् अन्तरा जायमानकल्पनानवस्थाप्रसरिगात् /
791 SK अत्राह / नैवार्धजातो जायमानो यतो यथोपवर्णितदोषप्रसङ्गः स्यात् / किं तर्हि / यस्य निरोधेन जातः पदार्थो भवति स जातेः प्रागवस्थारूपो ऽर्थो जायमान इत्य् उच्यत इति तद् एव प्रतिपादयन्न् आह //
Bycśṭ_15.19 SK जायमाननिरोधेन जात उत्पद्यते यतः / ततो ऽन्यस्यापि सद्भावो जायमानस्य दृश्यते //
793 SK यस्माज् जायमाननिरोMS, ल्. ३धेन जातः पदार्थो भवति तस्माद् अर्धजातव्यतिरेकेणाप्य् अस्त्य् एव जायमानः पदार्थ इति /
Bycśṭ_15.20ab SK जातो यदा तदा नास्ति जायमानस्य सम्भवः /
796 SK यदा तावद् अयं पदार्थो जात इत्य् उच्यते तदा जायमानो नास्ति / जायमानासम्भवाच् च जात इत्य् एव नास्ति / अतो जातेन जायमानो ऽनुमीयेत /
797 SK अथ जातो ऽपि जायमानः स्यात् / तस्य तर्ह्य् उत्पादासम्भवो जाMS, ल्. ४तत्वाद् इति प्रतिपादयन्न् आह //
Bycśṭ_15.20cd SK जात उत्पद्यते कस्माज् जायमानो यदा तदा //
799 SK यदा जात एवार्थो जायमान इत्य् उच्यते तदा स जायमानो ऽर्थः कस्माद् उत्पद्यत इति परिकल्प्यते / सिद्धत्वाद् उत्पादपरिकल्पो ऽस्य न युक्त इत्य् अभिप्रायः / ततश् च जायमानो जायत इति न युज्यते /
800 SK अत्राह / जन्माभिमुखत्वाद् अजातो ऽपि जायमानो जात इत्य् उच्यते / ततश् च जात एव जायMS, ल्. ५मानो न चास्योत्पादवैयर्थ्यम् इति / एवम् अपि यदि //
Bycśṭ_15.21ab SK अजातो जात इत्य् एव जायमानः कृतः किल //
802 SK यद्य् अजात एव जायमानः पदार्थो जन्माभिमुख्यात् परेण जात इति कल्पितः / जाताजातयोर्
Bycśṭ_15.21cd SK भेदाभावाद् घटो ऽभावस् तदा किं न विकल्प्यते //
804 SK जातावस्थ एव हि पदार्थो घट इत्य् अभिधीयते / जाताजातयोश् चैक्यात् प्रागभावेन जातो ऽपि घटो ऽभाMS, ल्. ६व एवेति स्यात् / न चैतत् सम्भवतीत्य् अयुक्तम् एतत् /
805 SK अथापि स्यात् / नैव जायमानाजातयोर् भेदाभावः / उत्पत्तिक्रिययाविश्यमानो हि पदार्थो जायमान इत्य् उच्यते / स च //
Bycśṭ_15.22ab SK अनिष्पन्नो ऽप्य् अजातात् तु जायमानो बहिष्कृतः //
807 SK यद्य् अप्य् अनागताद् अनिष्पन्नरूपो ऽपि पदार्थो जायमानो बहिर् व्यवस्थापितः /
Bycśṭ_15.22cd SK तथापि जायते ऽजातो यतो जाताद् बहिष्कृतः //
809 SK यMS, ल्. ७थाजाताज् जायमानो बहिष्कृतः क्रियावेशाद् एवं जाताद् अपि बहिष्कृत एवानिष्पन्नरूपत्वात् / ततश् चाजात एव जायत इत्य् आपन्नम् इति नास्ति जायमानो नाम /
810 SK न च केवलं जाताद् बहिर्भूतत्वाद् अजात एव जायते / इतश् चाजात एव जायते / यस्मात् परस्य //
Bycśṭ_15.23abc SK नासीत् प्राग् जायमानो ऽपि पश्चाच् च किल विद्यते / तेनापि जायते ऽजातः //
812 SK आसीच् छब्दश् चिरानुक्रान्ताभिधायी नासीन् नाभूद् इMS, ल्. ८त्यर्थः // यो ऽसाव् इदानीं जायमानत्वेन व्यपदिश्यते स नासीत् / प्राक् शब्दस् त्व् अवधिवचनः / वर्तमानावस्थायाः प्राग् अतीते काले स जायमानो ऽर्थो ऽविद्यमानो ऽपि पश्चात् किल जायमानो भवति / अतो ऽप्य् अजात एव जायमानो भवति जनिक्रियावेशकाले / ततश् चास्याजातत्वेनाभूतत्वम् / न चाभूतस्यालब्धात्मभावस्य निराश्रया जनिक्रिया प्रवर्तितुम् उत्सहते इत्य् आह //
Bycśṭ_15.23d SK नाभूतो नाम जायते //
Bycśṭ_15.24ab SK जायते ऽस्तीति निष्पन्नो नास्तीत्य् अकृत उच्यते //
817 SK अस्तीत्य् अनेन निष्पन्न उच्यते / निष्पन्न एव हि पदार्थो ऽस्तीति जायते / अस्तीति भवतीत्यर्थः / नास्तीत्य् अनेनाप्य् अकृतो ऽनिष्पन्न उच्यते / तद् एतदवस्थाद्वयं विरहय्य //
Bycśṭ_15.24cd SK जायमानो यदाभावस् तदा को नाम स स्मृतः //
819 SK इत्थम् अयं पदार्थो भवतीति जायमानावस्थो भावो यदा न शक्यते व्यपदेष्टुं तदासाव् अनिर्धार्यमाणस्वरूपत्वाद् असन्न् एवेति युक्तम् अवसातुम् / तद् एवं यथोपवर्णितेन विMS, ल्. २चारेण जायमानस्यासम्भवात् //
Bycśṭ_15.25 SK कारणव्यतिरेकेण यदा कार्यं न विद्यते / प्रवृत्तिश् च निवृत्तिश् च तदा नैवोपपद्यते //
821 SK यदा कारणात् पृथग्भूतं कार्यं विचार्यमाणं न सम्भवति तदा निराश्रया प्रवृत्तिः कार्यस्योत्पादो निव्र्त्तिश् च कारणस्य विनाशश् च न विद्यते /
822 SK तद् एवं परीक्ष्यमाणा भावाः स्वभावसिद्धा न भवन्तीति सैव मायोपमतावसिष्यते भावानाम् / तद् एनां बाललापिनीं मायां व्यामूढजनसम्मोMS, ल्. ३हनीम् अमूढजनविस्मयकरीम् अवेत्य विधूयेदंसत्याभिनिवेशसमुत्थां पदार्थतृष्णां सकलजगदनुग्रहाय महाकरुणाबोधिचित्ताद्वयज्ञानत्रयम् अनुत्तरज्ञानोदयबीजभूतम् अभिमुखीकृत्य यथावदवसितसंसारस्वभावः क्लेशदुःखाग्निज्वालावलीढभुवनत्रयागारमध्यगतम् अत्राणं जगद् ईक्षमाणः पिण्डीकृताशेषजगद्व्यसनसम्पातैः क्षणे क्षणे ऽन्यथा चान्यथा चाMS, ल्. ४संसारम् अपि कायचेतसोर् उपनिपतद्भिर् अप्य् अकातरो युगपत्पिण्डीकृताशेषजगद्दुःखोपनिपातैर् आसंसारं समुत्साहितैकैकवीर्यक्षणः सकलस्य जगतः सर्वाकारज्ञताज्ञानरत्नधननिचयोदयकारणं विदुषो भवोत्पत्तिर् इत्य् अवेत्य सर्वाकारज्ञताज्ञानोदयेन सकलस्य जगतः संविभागं चिकीर्षता पुनर् अपि युक्तं भवम् उपात्तुम् इति //
823 SK बोधिसत्त्वMS, ल्. ५योगाचारे चतुःशतके संस्कृतार्थप्रतिषेधो नाम पञ्चदशं प्रकरणम् //
824 SK MS, प्. १३अ५समनुक्रान्तैः पञ्चदशभिः प्रकरणैः शास्त्रकार्यं परिसमाप्य शास्त्रारम्भप्रयोजनं कृत्वान्यशेषपरिहारं चोपदर्शयन् षोडशं प्रकरणम् आरभते //
Bycśṭ_15.1 SK केनचिद् धेतुना शून्यम् अशून्यम् इव दृश्यते / तस्य प्रकरणैः सर्वैः प्रतिषेधो विधीयते //
826 SK नानवधार्य यथाMS, ल्. ६र्थां शून्यतां कश्चिच् छक्तः संसारे सङ्गम् अवधूय निर्वाणस्पृहाम् उत्पादयितुम् / स च शून्यतार्थो जगताम् अतीवोत्त्रासकरत्वाद् अप्रियावेदननिपुणपुरुषेण राज्ञः प्रियभार्यामरणक्रमावेदनसौमनस्योत्पादनवत् कयापि युक्त्या विदुषावतार्यः / अहङ्कारममकारस्नेहविपर्यस्तो हि लोको ऽनित्य एव वस्तुनि क्षणभङ्गादर्शनात् संस्कारमात्रप्रवाहस्य सMS, ल्. ७म्यगर्थानवसायाच् छून्यतादर्शनविबन्धभूतां नित्यताम् अवधार्य प्रत्यवतिष्ठमानो जगद् अशून्यम् एव प्रतिपन्नः / तद् अस्याशून्यताप्रतिषेधाय प्रथमप्रकरणप्रारम्भ इत्यादि योज्यम् / स्वभावविरहितार्थश् चात्र शून्यतार्थ इत्य् असकृद् आवेदितम् /
827 SK तद् एवं केनचिद् धेतुना स्वभावरहितम् अपि वस्त्व् एवाशून्यं येषां ख्याति तेषां तस्यासद्ग्राहहेतोः सर्वैः पञ्चदशभिर् अपि प्रकरणैः प्रतिषेधो विधीयते /
828 SK यद्य् एवमर्थम् एMS, ल्. ८षां प्रकरणानाम् आरम्भो नन्व् अत एवाशून्यत्वं सिद्धं भावानाम् / तथा ह्य् एषां प्रकरणानां वक्ता तावद् भवान् अस्ति / प्रकरणानाम् अभिध्यो ऽर्थो ऽशून्यताहेतुव्यावर्तको हेतुर् अस्ति / वचनं चेदं प्रतिविशिष्टार्थकृतावधिध्वनिसमुदायरूपं पञ्चदशप्रकरणात्मकम् अस्तीति वक्तृवाच्यवचनानां सद्भावात् सिद्धम् अशून्यत्वं भावानाम् इति व्यर्थ एव भवतः सर्वप्रकरणप्रारम्भपरिश्रमायास इति प्रतिपादयन्न् आह //
Bycśṭ_15.2a SK यदा वक्तास्ति वाच्यञ् च न शून्य /
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Candrakīrti: Bodhisattvayogācāracatuḥśatakaṭīkā (sa_candrakIrti-bodhisattvayogAcAracatuHzatakaTIkA.htm).
Source