Praise of the Birth Stories
Jātakastava
Jआतकस्तव
SKक्वेदं दाशबलं गुणैर् अशबलं चर्याविभुत्वं विभो जन्मस्यन्दनिकाविवर्तनजडं चेतः क्व चेदं मम येनावन्ध्यफलोदयास् त्वयि भवन्त्य् अभ्याहिताः पांसवस् तेन स्तुत्यनुबन्धिना मुखरताम् आलम्बते भारती //
SKचित्तालम्बनलङ्घिनः शमदृशाम् आवेणिकाः सद्गुणा वाचां गोचरतां तु यान्ति कलया स्थूला हि वो मादृशाम् रत्नान्य् अम्बुनिधेर् उपाम्बुपुलिनेष्व् आविर् भवन्त्य् अर्थिनाम् अन्तर्भिन्नतरङ्गद्योतरुचकज्योत्स्नानि गृह्णाति कः //
SKया वो बोधिपथानुयानमहताम् उत्साहिनी कर्मणाम् आसील् लोकहितोदये जिन कृपाविष्यन्दिनी सन्ततिः सानेकापचितः पुनाति भगवन् संकीर्त्यमानाधुना ज्ञेयाभोगविसारिणो गतमलाः प्राग् एव बोधौ गुणाः //
SKउद्दामद्विरदस्य रागवशिनो वृत्तिं पुरोन्मादिनीम् आलोक्याव्यतिवर्तिना प्रणिहिता बोधौ धियो यत् त्वया विन्यस्यन्त इवामरास् त्वयि चिरं धर्माभिषेकश्रियं तेनाकम्पितकेशरान्तम् असृजन् पुष्पोपहारं दिवः //
SKक्षुद्दुःखग्लपितोदरीं गिरिदरीरन्ध्रान्तरालस्थितां दृष्त्वा शावकघालनैकरभसां व्याघ्रीं दयाघ्रातधीः यत् त्वं वल्कलिनीं जटाजनवतीं मूर्तिं समुत्सृष्टवांस् त्राणं तेन भवान् भवाद्रिविवरव्यावर्तिनां देहिनाम् //
SKयत् प्रालेयसितोपलाद्रिबहलां मातङ्गतां बिभ्रता कान्तारान्तरवर्तिनां तनुभृताम् उच्छित्तये व्यापदाम् शैलेन्द्रं पृथुलोपलं चलयता मुक्तस् त्वयात्मा तटान् मन्ये मत्सरिणां नितान्तमलिनास् तेन क्षता वृत्तयः //
SKयल् लोकाम्बरचन्द्रचन्द्रवपुषा चन्द्रप्रभत्वे त्वया कल्माषान्तशिखं शिखामणिरुचा दत्तं द्विजायार्थिने नालाल् लूनम् इवारविन्दम् असिना व्युत्कृत्तमूलं शिरस् तेनैषां जगतां गतो ऽसि गुरुताम् उस्णीषवन् मूर्धनि //
SKबालान् बालसरोजकोमलतनून् यत् पुत्रकान् अर्थिने पर्यस्ताक्षचलच्छिखण्डकभृतो दारांस् च भावनुगान् प्रादास् त्वं जिन तेन नूनम् अह्हवन् माराङ्गनानां मुखं संकोचाञ्चितपक्ष्मलोचनदलं लज्जालसामन्थरम् //
SKशय्यास्वप्नविचारिणा वनभुवां भूत्वा पुरा पक्षिणा भिन्नाशेषकले जगत्य् अविकले ज्यायःपथाशंसिना विस्तारं गमितं व्रतं व्रतभृतां यन् नाथ कापिञ्जलं तेनाज्ञानरुजां किरीटकिरणच्छायास् पदं वो गताः //
SKयत् पर्णाम्बुफलाशिनीं शशतनुं त्वं नाथ बिभ्रत् पुरा तत्कालातिथये कृपापरिचयाद् आतिथ्यम् आवेदयन् आरूढः स्फुटविस्फुलिङ्गम् अनलं तेनाधुनापि क्षिताव् इन्दोर् मण्डललाञ्छनं शशमयं युष्मद्यशो लक्स्यते //
SKयत् कोपारुणदृष्टिना कलभुवा कृत्वा भ्रुवोर् भङ्गिनीं लेखाम् उल्लसितासिना विदलितप्रत्यङ्गम् आशङ्किना त्वाम् आसीत् क्षणम् अप्य् अविक्षतधियं त्यक्तुक्षमा न क्षमा मन्ये तेन निरङ्कुशाः स्मरशराः पुङ्खेषु भङ्गं गताः //
SKयद् द्वेषी करिणा चिराततधनुर् दन्तैस् त्वयाभ्यर्चितः षड्दन्तेन सता सितोन्नतबृहज्जीमूतपुञ्जत्विषा कोशाकर्षणवान्तभूरिरुधिरक्षोदारुणैस् तेन वः पाताले ऽपि भुजंगमैः श्लथफणैर् अद्यापि दंष्त्रार्च्यते //
SKसंरम्भात् फणिनां फणाहतिचलाद् भीमोर्मिमालाद् अपां पत्युर् यन् मकरच्छटाविलुलितात् पर्यस्तनौका नराः प्रेम्णा कायमहाप्लवेन भवता तीरान्तम् आपादितास् तत्कर्मातिशयेन तेन निखिला लोकाः कलत्रीक्र्ताः //
SKशैलान् मण्डलिनो विलङ्घ्य विषयांस् तोयावलीमेखलान् यच् चिन्तामणिना नरेन्द्र बदरद्वीपान्तरालोदरात् लब्ध्वा पूर्णफलास् त्वया प्रणयिनाम् आशावबन्धाः कृतास् त्वत्तस् तेन समुद्भवन्ति विदुषां सद्धर्मरत्नाङ्कुराः //
SKसान्द्राभ्रान्तविताननीलवपुषाम् ओजोमुषां रक्षसां खड्गोत्कृत्तदलैर् विपाटितशिरारन्ध्रस्रवल्लोहितैः यन् मांसैर् अकृथाः क्षुधाव्युपशमं स्वैर् अव्यपेतोष्मभिर् योगा जन्मरुधो भवोद्भवतृषाम् उच्छेदिनस् तेन वः //
SKश्येनोत्त्रासविशुष्ककम्पितगलस्योत्सङ्गसंसर्पिणो यन् निःसङ्गरता शिवाय शिबिना राज्ञा सता पक्षिणः रक्तोद्गारकलङ्कितातुलतुलाम् आरोपिता ते तनुर् मारस् तेन दुकूलपक्ष्मतरलं नीतस् तुलालाघवम् //
SKलक्ष्मीम् अप्य् अवधूय वाञ्छितफलाम् आखण्डम् आध्वंसिनीं यत् तिर्यक्प्रतिसन्धिबन्धम् अधमं कृत्वा भवाञ् जन्मनाम् चक्रे मर्मभिदां रुजां स्वपिशितैः प्राबन्धकीनां शमं तेन क्लेशविषच्छिदां तव धियां अव्याहताः शक्तयः //
SKयत् सन्दोहम् इव श्रियाः फलम् इव प्रोच्छ्रायि पुण्यौजसां दिग्धं रक्तकणैः स्फुरत्कुवलयच्छायाभिनीलायितम् उत्पाट्याक्षतलोचनद्वयम् अदाद् विप्राय निश्चक्षुषे तेनान्धस्य तमस्वतो ऽस्य जगतस् तुङ्गैकदीपो भवान् //
SKइत्य् आत्मार्थनिबन्धिनेदम् ऋषिवाक्यालंकृतं दर्शितं लेशस्यापि न कीर्तनं जिन कृतं त्वद्वर्णराशेर् मम ताराब्धानवतां जलं जलपुराम् आकर्षता वारिधेर् वेलान्तेष्व् इव रोधसां जललवच्छेदो हि संलक्ष्यते //
SKत्वच्चर्यातिशयांशलेशरचनाद् यः श्रेयसाम् उद्भवः सम्भारो विपुलप्रसादविकसद्भक्त्याचितांशस्य मे तेनात्यन्तपरोपकारनिरतः स्वार्थे ऽपि मन्दादरो भूयात् सर्वविदां परार्थविदुषां यानैकतानो जनः //