यदि नाम तत् प्रतिपत्तिविकलम्, तथापि तस्य आस्तां तावद् बुद्धत्वम्, संसारे ऽपि देवमनुष्योपपत्तिस्वभावं सुखसंपत्तिलक्षणं फलं महत्, अन्यस्मात् कुशलाद् बृहत् / सततं फलतीत्यादिविशेषणविशिष्टत्वात् / तथा चोक्तमार्यमैत्रेयविमोक्षे [=गण्डव्यूहसूत्र-५०८]-
SK
तद्यथापि नाम कुलपुत्र भिन्नमपि वज्ररत्नं सर्वप्रतिविशिष्टं सुवर्णालंकारमभिभवति, वज्ररत्ननाम च न विजहाति, सर्वदारिद्यं च विनिवर्तयति, एवमेव कुलपुत्र प्रतिपत्तिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुणसुवर्णालंकारमभिभवति, बोधिचित्तनाम च न विजहाति, संसारदारिद्यं च विनिवर्तयतीति //
अत्रैव च प्रव्रजितं बोधिसत्त्वमधिकृत्योक्तम्- स्मृति संप्रजन्यस्याविक्षेपः / इति //
SK
तथा आर्यतथागतगुह्यसूत्रे दर्शितम्-
SK
न खलु पुनः कुलपुत्र बोधिसत्त्वस्य वाग् रक्ता वा दुष्टा वा मूढा वा क्लिष्टा वा क्षणव्याकरणी वा स्वपक्षोत्कर्षणवचना वा परपक्षनिग्रहवचना वा आत्मवर्णानुनयवचना वा परवर्णप्रतिघातवचना वा प्रतिज्ञोत्तारणवचना वा आभिमानिकव्याकरणवचना वेति //
SK
एवं निष्फलस्पन्दवर्जनेन अनर्थादात्मभावस्य रक्षा प्रतिपादिता भवति / तस्मान्मया शीलसुस्थितेन अप्रकम्पेन अशिथिलेन भवितव्यमिति //
यदि नाम भृत्यकर्मकरणं तथापि तत्रानवस्थायिस्वभावे विचक्षणो ज्ञात्वैव प्रवर्तते, एवं प्रकृते ऽपि तद्धर्मिणि केनाभिप्रायेण हे मनः, त्वं कुरुषे व्ययमुपकरणोपक्षयम्?
SK
तत् किं सर्वथैव निरवकाशो ऽयं कर्तव्यः? नेत्याह-
SK
दत्वास्मै वेतनं तस्मात्स्वार्थं कुरु मनो ऽधुना / न हि वैतनिकोपात्तं सर्वं तस्मै प्रदीयते // Bच_५.६९ //
SK
वेतनं कर्ममूल्यम् / तावन्मात्रं दत्वा अस्मै गत्वरशरीराय, कर्मोपकरणत्वात्, स्वप्रयोजनमनुविधेयं हे मनः / अनेनैवोपार्जितं कस्मादस्मै न दीयते इति चेत्, न हि यस्मात् यत्किंचित् कर्मकरेणोपात्तं सर्वं तस्मै कर्मकराय प्रदीयते इति न्यायो ऽस्ति //
दुःखे ऽपि नैव चित्तस्य प्रसादं क्षोभयेद् बुधः / संग्रामो हि सह क्लेशैर्युद्धे च सुलभा व्यथा // Bच_६.१९ //
SK
प्रसादं पूर्वोक्तं नावसादयेद्विचक्षणः / कुतः? यस्मात् क्लेशशत्रुभिः सह संग्रामो ऽयमारब्धः / संग्रामे च व्यथा नाम न भवेदिति दुर्लभम्, व्यथा तु सुलमैव //
SK
ननु तथापि दुष्करमिदमतीव दृश्यत इति / अत्राह-
SK
उरसारातिघातान् ये प्रतिच्छन्तो जयन्त्यरीन् / ते ते विजयिनः शूराः शेषास्तु मृतमारकाः // Bच_६.२० //
SK
अभिमुखमभिभवन्तः शत्रुम् / तत्प्रहारान् वक्षःस्थलेन प्रतीच्छन्तो ये जयन्ति समरे रिपून्, ते ते शूरपुरुषाः पररिपुविजयादिह लब्धविजयाः प्रशस्यन्ते / ये पुनरन्ये छलप्रहारादिभिरभिभवन्ति शत्रुम्, ते च अकिंचित्करतया मृतमारका जुगुप्सनीया एव शूरैः //
स्यादेतत्- आत्मन्ययमदोष एव / न हि तस्य वयमुत्पादमिच्छामः / सर्वदा नित्यस्वभावतया अनुत्पन्न एवासौ / भवतु नाम एवम् / तथापि सर्वथा खरविषाणकल्प एवासौ, उत्पादाभावात् / ततो नात्रापि निवर्तते-
SK
अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा / इति /
SK
भावे ऽपि वा नास्य स्वात्मन्यपि प्रभुत्वमस्ति / प्रकृत्युपनामितमेव हि विषयमपि स भुङ्क्ते / तदा च विषयोपभोगात्प्राक् तद्भोक्तृत्वमस्य नासीत्, पश्चादुत्पन्नं च तत्स्वभावमेव / अन्यथा तस्य भोक्तृत्वायोगात् / तदुत्पादे च तस्याप्युत्पाद इति कथं नात्मन उत्पाद इष्यत इति / तदेवं पुनः
किं च / दुःखोपनिपातेन चित्तक्षोभे ऽपि न दुःखस्य निवृत्तिरस्तीत्युपदर्शयन्नाह-
SK
यदि तु स्वेच्छया सिद्धिः सर्वेषामेव देहिनाम् / न भवेत्कस्यचिद्दुःखं न दुःखं कश्चिदिच्छति // Bच_६.३४ //
SK
न हि आत्मेच्छामात्रेण अनविमतं निवर्तते, अभिमतं चोपतिष्ठते हेतुमन्तरेण / तथात्वे स ति न भवेत् कस्यचित् सत्त्वस्य दुःखम् / किमिति? न दुःखमात्मनः कश्चिदिच्छति / स्वसुखाभिलाषिण एव हि सर्वसत्त्वाः //
(Bच्प् १००) यो हि मारणमर्हति, स यदि हस्तमात्रं छित्त्वा मुच्यते, तदा न काचित् क्षतिरस्य / प्रत्युत लब्धलाभमात्मानं मन्यते अत्यल्पमिदं मरणदुःखात् करच्छेदनदुःखमिति / तथा यो ऽपि मनुष्यदुःखं ताडनबन्धनतिरस्कारादिकृतमनुभूय नरकदुःखाद्विमुक्तो भवति, तस्यापि न किंचिदपचीयते / न किंचिदिदं दुःखं नरकदुःखात्, सुखमेव तत् / ततो यदि विचक्षणः स्यात्, तदा सौमनस्यमेवात्र युक्तमस्य //
खटचपेटलोष्टादिप्रहारकृतमीषन्मात्रमपि दुःखमिदानीं सोढुं मर्षितुं न पार्यते न शक्यते / तदत्र भवन्तं पृच्छामः- यदि एवमेव, तदयं नारकदुःखसंवर्तनीयः क्रोधः कोपः कस्मात्कारणान्न वार्यते? अयमेव हि अतितरां नरकेषु दुःखदायक इति दुःखभीरूणामेव क्रोधं निवर्तयितुं युक्तं स्यात् //
SK
किं च / यद्यपि सोढुं न शक्यते, तथापि तद्धेतुककर्मसंभवादनिच्छतो ऽपि दुःखमापतिष्यति भवतः / न च किंचित्फलमुत्पत्स्यते / मर्षणात् पुनस्तस्य महार्थलाभो भविष्यतीति वृत्तद्वयेन शिक्षयितुमाह-
SK
कोपार्थमेवमेवाहं नरकेषु सहस्रशः /
SK
कारितो ऽस्मि न चात्मार्थः परार्थो वा कृतो मया // Bच_६.७४ //
SK
न चेदं तादृशं दुःखं महार्थं च करिष्यति / जगद्दुःखहरे दुःखे प्रीतिरेवात्र युज्यते // Bच_६.७५ //
अपि च / अपरस्य लाभसत्कारसंपदभावे ऽपि न भवतस्तद्भावसंभवः / तत्किमकारणमेव तद्विद्वेषिणा आत्मघाताय यत्नः क्रियते इति प्रतिपादयन्नाह-
SK
यदि तेन न तल्लब्धं स्थितं दानपतेर्गृहे / सर्वथापि न तत्ते ऽस्ति दत्तादत्तेन तेन किम् // Bच_६.८४ //
SK
यदि नाम तेन तव अक्षमाविषयेण सत्त्वेन तद्दीयमानं वस्तु न लब्धम्, तथापि स्थितं दानपतेर्गृहे / भवतस्तु किं तस्माज्जातम्? सर्वथापि तेन लब्धेन गृहावस्थितेन वा न तद्वस्तु तवास्ति / इति दत्तादत्तेन ते किम्? न किंचित् प्रयोजनं भवतः / अतस्तत्र उपेक्षैव युक्ता विदुषः //
SK
किं च / इदमपि तावत् परिभाव्यतामित्युपदर्शयन्नाह-
SK
किं वारयतु पुण्यानि प्रसन्नान् स्वगुणानथ / लभमानो न गृह्णातु वद केन न कुप्यसि // Bच_६.८५ //
SK
यो ऽसौ अतिप्रसन्नैर्दायकदानपतिओभिर्लाभसत्कारैः पूज्यते, स किं वारयतु पुण्यानि पूर्वजन्मकृतानि विपाकोन्मुखानि, यद्वशात्तस्य लाभसत्काराः / उत प्रसन्नान् दायकदानपतीन् वारयतु, अथ स्वगुणान् वारयतु, यानाश्रित्य एषां प्रसादो जातः / मा प्रसादमप्येषां जनयिष्यथेति / अथवा / लभमानो ऽपि तेभ्यो न स्वीकरोतु / ब्रूहि केन प्रकारेण अत्र न भवतो ऽपरितोषः स्यात् / तत्र पुण्यादीनां वारयितुमशक्यत्वात् लभ्यमानाग्रहणे ऽपि सर्वथापि न तत्ते ऽस्तीत्यादिना बाधकस्योक्तत्वादिति न किंचित् परितोषकारणमस्ति //
SK
अथापि स्यात्- परस्यैव लाभसत्कारसंपत्तिरस्ति, न मम / अथ मम नास्ति, तदा परस्यापि मा भूत्, इत्येतन्ममासंतुष्टिनिबन्धनमित्याशङ्कयाह-
SK
न केवलं त्वमात्मानं कृतपापं न शोचसि / कृतपुण्यैः सह स्पर्धामपरैः कर्तुमिच्छसि // Bच_६.८६ //
संसारदुःखानुद्वेगादसंवेगात्, यो ऽयमव्यापारो निर्व्यापारता, तत्र तेन वा सुखास्वादः सुखाभिरामः / स च निद्रा च मिद्धाक्रमणम् / ताभ्यां मिद्धाक्रमणमपाश्रयतृष्णा अवष्टम्भनाभिलाषः, तया / आलस्यमुपजायते इति योजनीयम् / यदि वा / संसारदुःखानुद्वेगादव्यापारः, क्वचिदपि कुशलकर्मणि न प्रवृत्तिः, तस्मात् सुखास्वादः, ततो निद्रा, तस्याश्च अपाश्रयतृष्णा, तया //
मानाच्चेन्न करोम्येतन्मानो नश्यतु मे वरम् // Bच_७.५१ //
SK
को ऽमुष्यपुत्रः, इदं च कर्म अतिनिहीनम्, तदयुक्तं मम कर्तुमिति मानाद्यदि न करोमि, तदा मानो नश्यतु मे वरम् / किमनेन महार्थभ्रंशकारिणा मम, न तु नीचकर्मप्रवृत्तिः //
तस्य प्रियस्य तत्संगमस्य वा चिन्तया तद्गुणानां सदा परिभावनया / कथं नाम ममास्य प्रियसंगमस्य विच्छित्तिर्मा भूदिति तल्लीनचित्ततया वा / निष्फलमेव आयुःसंस्काराः प्रतिक्षणं क्षीयन्ते / न च क्वचिदपि कुशलकर्मणि समुपयुज्यन्ते इति भावः / न च यदर्थमायुः क्शयमुपनीयते तन्मित्रं स्थिरमित्यत आह-
न वार्यमेव निरात्मकत्वादेव यदि मन्यसे, तदा न युक्तमेतत् / कुतः? सर्वेषामविवादादविप्रतिपत्तेः / चार्वाकस्यापि स्वदुःखपरिहारेणैवेह प्रवृत्तेः / न च तेषामात्मनो (Bच्प् १६०) ऽभ्युपगमाददोषः, तत्स्वभावस्यानुपलब्धेः / न च अभ्युपगममात्रेण तस्य सत्ता प्रसिध्यति तत्साधकप्रमाणाभावात्, बाधकस्य च अनेकप्रकारस्याभिधानात् / एवं सति यदि वार्यं दुःखम्, तदा सर्वं वार्यम्, न चेत्सर्वं वार्यम्, तदात्मापि / उपात्तपञ्चस्कन्धस्वभावमपि दुःखं न वार्यम्, सर्व(त्त्व?)वदविशेषादित्युपसंहारः //
यथा च परमार्थतो ऽशुचिनि स्त्रीकलेवरादौ तदासक्तिविपर्यस्तचेतसां शुचिबुद्धिरुपजायते / आदिशब्दादनित्यादौ नित्यादिबुद्धिर्गृह्यते / सा च अतस्मिंस्तद्गहान्मृषा / वितथग्राहिणीत्यर्थः / तद्वदियं रूपादावपीत्यविशेषः //
SK
यदि न प्रत्यक्षप्रमाणात् तत्सिद्धिः, आगमात्तर्हि भविष्यति / तथा हि स्कन्धधात्वायतनादिस्वभावतया भगवता भावाः सूत्रे देशिताः, क्षणिकादिस्वभावतया च / तत्रेदमुक्तं भगवता-
क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया / भूतिर्यैषां क्रिया सैव कारकं सैव चोच्यते //
SK
इति //
SK
न च मायादिस्वभावानां क्षणिकाक्षणिकादिधर्मताप्रतिपादनमुचितम्, निःस्वभावानां कस्यचित् स्वभावस्याभावात् / तत्कथममी न परमार्थसन्त इत्यत्राह लोकावतारणेत्यादि-
सिद्धं च तदञ्जनं च, सिद्धस्य वा अञ्जनम्, तस्य विधिः विधानं प्रयोगः, तस्माद् दृष्टः प्रतीतः घटो निधानादि वा नैव अञ्जनं भवति / न च घटादिरञ्जनमेव स्यात् / न यद् यस्मात्प्रतीयते तदेव तद्भवति / एवमीक्षणिकादिविद्यासहकारिणा ज्ञानेन परचित्तं च घटादिवद् दृष्टमिति नैतावता तत्संवेदनं सिद्धं स्यात् / तस्मान्नैतदपि साध्योपयोगि साधनम् / ननु यदि ज्ञानमविदितस्वरूपं स्यात्, अर्थस्यापि प्रतीतिर्न स्यात् / अव्यक्तव्यक्तिकत्वाद् ज्ञानस्य, न हि अर्थस्य व्यक्तिः / तदप्रतीतौ कथमर्थस्य प्रतीतिः? तथा हि स्वसंवेदनस्य प्रतिषेधात्, अन्येन अन्यस्य ग्रहणायोगाच्च, तद्गहणाभ्युपगमे च उत्तरोत्तरस्य अप्रतीतस्य प्रतीतये ज्ञानान्तरानुसरणेन अनवस्थाप्रसङ्गाच्च न कथंचिदपि अर्थस्य प्रतीतिरिति / तेन यदुक्तम् ᳚अन्यानुभूते᳚ इत्यादि, तदसंगतम्, अर्थस्यानुभवाभावात् //
SK
सर्वश्चायं दृष्टादिव्यवहारो लोके न स्यादित्याह यथा दृष्टमित्यादि / यदुच्यते दृष्टादिव्यवहारो न स्यादिति, स किं परमार्थतो न स्यात्, संवृत्या वा? तत्र यदि परमार्थतो न स्यादित्युच्यते, तदा प्रियमिदमस्माकम् / न हि सांवृतस्य परमार्थचिन्तायामवतारो ऽस्ति / अथ लोकप्रसिद्धिः, तदा-
यश्च खलु पुनः सिंहविक्रीडित तथागतं वर्षशतं वा वर्षसहस्रं वा सर्वसुखोपधानेनोपतिष्ठेत्, यश्च परिनिर्वृतस्य तथागतस्य चैत्ये बोधिचित्तपरिगृहीतैकपुष्पमारोपयेत्, तथागतपूजायै जलाञ्जलिं चोपनामयेत्, जलेन चोपसिञ्चेत्, ईषिकापदं वा दद्यात्, निर्माल्यं वा अपनयेत्, उपलेपनप्रदानं वा दीपप्रदानं वा कुर्यात्, आत्तमनाः, एकक्रमपदव्यतिहारं वा अतिक्रम्य वाचं भाषेत- नमस्तमै बुद्धाय भगवते इति, मा ते अत्र सिंहविक्रीडित काङ्क्षा वा विमतिर्वा विचिकित्सा वा, यदसौ कल्पं वा कल्पशतं वा कल्पसहस्रं वा दुर्गतिविनिपातं गच्छेत्, नेदं स्थानं विद्यते // इति /
SK
एतदवश्यमभ्युपेयमिति [आह] सत्यबुद्धे इत्यादि- सत्यबुद्धे कृता पूजा सफलेति कथं यथा // Bच_९.४० //
सालम्बनेन चित्तेन स्थातव्यं यत्र तत्र वा // Bच_९.४८ //
SK
सालम्बनेन सोपलम्भेन चित्तेन स्थातव्यमासक्तव्यम् / यत्र तत्र वा यत्र तत्र आसङ्गस्थानेषु आर्यसत्यादिषु तद्भावनाफलेषु वा / आसङ्गसंभावनायां न पुनर्जन्मनिवृत्तिरिति कथं पुनर्जन्मसंभावनायां निर्वाणमपि न संदिग्धं स्यात्?
यदपि विषयं न जानाति, तदपि यदि ज्ञानमुच्यते, तदा काष्ठमज्ञानस्वभावं ज्ञानं प्रसज्यते / न हि तेन किंचिदपराद्धं येन न विज्ञानं स्यात् / न चैवम् / तस्माद्विषयपरिज्ञानाभावात् यथा काष्ठं ज्ञानं न भवति, तथा अन्यदपि न स्यादित्याह-
अज्ञस्य किंचिदपि हिताहितं ज्ञातुमशक्तस्य निष्क्रियस्य निर्गतो बहिर्भूतः क्रियाया इति निष्क्रियः / तस्य सर्वप्रतीकाररहितस्य अनाधेयातिशयतया असंस्कर्तव्यस्य / अथवा सर्वकर्मणि शक्तिविकलस्य गमनाधिक्रियाशून्यस्य वा आकाशस्य प्रकृतानुपयोगित्वादाकाशकल्पस्य / एवं सति आत्मता आत्मस्वभावव्यवस्था व्यवस्थापिता / एतच्च स्वमतेनोदाहरणम् / यथा निःस्वभावतया सर्वक्रियाशून्यं प्रज्ञप्तिसन्मात्रमाकाशम्, तथा आत्मापीत्यर्थः / परमतेनापि वा / यथा च न कर्मकर्त्रादिरूपमाकाशमचेतनत्वादक्रियत्वाच्च, तथा आत्मपीति भावः //
SK
इदानीं पुनरन्यथा आत्मप्रतिषेधबाधकं परमतेनोत्थापयन्नाह न कर्मेत्यादि-
SK
न कर्मफलसंबन्धो युक्तश्चेदात्मना विना /
SK
यदि न कश्चिदेकः परलोकी स्यात्, तदा तेनात्मना परलोकगामिना विना अन्तरेण कर्मफलसंबन्धो ऽयुक्तः / कर्म शुभाशुभम्, फलं च तस्यैव इष्टानिष्टलक्षणम्, तयोः संबन्धः / कर्मणः कृतस्य फलेन वा संबन्धः / येनैव कृतं कर्म, तस्यैव तत्फलप्रतिलम्भो नान्यस्येति / न युक्तो न घटते / इष्यते च परलोके कर्मफलसंबन्धः / तत्र च सौगतानामप्यविवादः / तथा च सूत्रम्-
SK
अनेनैव कृतं कर्म, को ऽन्यः प्रत्यनुभविष्यति? न हि भिक्षवः कृतोपचितानि कर्माणि पृथिवीधातौ विपच्यन्ते नाब्धातौ न तेजोधातौ न वायुधातौ / उपात्तेष्वेव स्कन्धधात्वायतनेषु............ इति विस्तरः /
SK
उक्तं च-
SK
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि / सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् //
कार्यकारणभावप्रतिनियमादेव स्मृत्यभावो ऽपि निरस्तः / एकस्यानुगमात्मनो ऽभावात् न स्मर्ता कश्चिदिह विद्यते, किं तर्हि स्मरणमेव केवलमारोपवशात् स्मर्यमाणवस्तुविषयम् / न च अत्र स्मर्तुरभावे ऽपि कश्चिद् व्याघातः / अनुभूते हि वस्तुनि विज्ञानसंताने स्मृतिबीजाधानात् कालान्तरेण संततिपरिपाकहेतोः स्मरणं नाम कार्यमुत्पद्यते / एवं प्रत्यभिज्ञानादयो ऽपि द्रष्टव्याः / अतिविस्तरभयात् प्रत्येकमिह न प्रतिविधीयन्ते इति तत्समर्थनमन्यत्रैव विस्तरेणावधार्यमिति //
SK
सर्वमेतत् संवृतिसत्यमुपादाय समर्थितम् / परमार्थे तु सर्वधर्माणां निःस्वभावत्वात् सर्वविकल्पोपरमाच्च न किंचिदुत्पद्यते वा निरुध्यते वा सात्मकमनात्मकं वा / नापि विचार्यमाणं कर्म तत्फलं वा, नापि इहलोको न परलोको वा न कश्चिदस्ति, कल्पनाविठपितत्वात् / तस्मात् सर्वमेतत् प्रतिबिम्बसंनिभं निःस्वभावमुत्पद्यते निरुध्यते च / कार्यकारणं च सात्मकं निरात्मकं च नित्यमनित्यं चाभिधीयते / स्वप्नवत् कर्मकर्तृत्वम्, तत्फलोपभोगः, इहलोकः, परलोकः, सुगतिदुर्गतिगमनं च कल्पनानामप्रहाणात् / इति सर्वत्र सुस्थम् / यद्वक्ष्यति-
SK
एवं न च निरोधो ऽस्ति न च भावो ऽस्ति तत्त्वतः / अजातमनिरुद्धं च तस्मात्सर्वमिदं जगत् //
अंशा अंशेषु वर्तन्ते स च कुत्र स्वयं स्थितः // Bच_९.८१ //
SK
अंशा भागाः अंशेषु स्वस्वभागेषु वर्तन्ते व्यवतिष्ठन्ते, स्वस्वभागव्यवस्थितत्वात् सर्वभावानाम् / स च कुत्र स्वयं स्थितः? स्वयं पुनरसौ कायो ऽवयवी क्व नु नाम व्यवस्थितः इति न विद्मः //
एवं प्रत्यक्षादिप्रमाणसमधिगम्यः कायो नास्ति / बाधकं पुनरस्य अनन्तरमुक्तमस्तीति प्रसाधितमित्युपदर्शयन्नाह नैवान्तरित्यादि-
SK
नैवान्तर्न बहिः कायः कथं कायः करादिषु /
SK
पूर्वमन्तर्व्यापारपुरुषप्रतिषेधात् मांसशोणितादीनां विचारितत्वात् नैवान्तर्मध्ये कायः / अधुना पुनरवयविनः प्रतिषेधात् न बहिः न बाह्यः प्रत्यक्षादिगोचरः कायः, इति कथं कायः करादिषु व्यवस्थाप्यते? अथ करादिव्यतिरिक्तो भविष्यतीत्याह करादिभ्य इत्यादि-
SK
करादिभ्यः पृथङ् नास्ति कथं नु खलु विद्यते // Bच_९.८३ //
SK
करादिभ्यो ऽवयवेभ्यः पृथग् भिन्नः उपलब्धिलक्षणप्राप्तः कायो नास्ति, न प्रतिभासते / करादय एव हि केवलाः प्रतिभासन्ते / एवं यो न करादिस्वभावः, नापि तदाधेयः समवेतो नाप्यन्तर्गतः, न चापि तद्वयतिरिक्तः, स कायः कथं नु खलु विद्यते? कथं न्विति कथंचिदपि कायमनुपलभमानः तत्सत्त्वमसंभावयन् पृच्छति- कथं नु केन प्रकारेण / न्विति विमर्शे / विद्यते, तत्सत्ता व्यवस्थाप्यते?
न च नैव / अन्येन तत्समानकालभाविना ज्ञानेनानुभूयते, वेद्यते, ज्ञानस्य ज्ञानान्तरेण अवेदनात् //
SK
न चास्ति वेदकः कश्चिद्वेदनातो न तत्त्वतः /
SK
न च नैवास्ति वेदकः कश्चित्, यो वेदनां वेदयते, चित्तमन्यद्वा / अतः अस्मात् कारणात् वेदना अनुभव इति वेदनालक्षणशून्यत्वाद्वेदना न तत्त्वतः न परमार्थतः, अन्यत्राभिनिवेशात् तत्स्वरूपप्रतिपादकस्य कस्यचिदभावात् / एतदुक्तमार्याक्षयमतिसूत्रे-
यदि नाम असौ सदा सर्वकार्याणि कर्तुं समर्थः, तथापि अपेक्षते सामग्रीम् / न हि सामग्रीमन्तरेण सत्यपि समर्थे कर्तरि कार्यमुत्पद्यते / यथा किल पटोत्पादनसमर्थे ऽपि क्वचिद्धेतौ तुरीतन्तुवेमादिकमन्तरेण न पट उत्पद्यते, तथा प्रकृते ऽपि चेद्यदि, आह-
SK
हेतुर्न पुनरीश्वरः /
SK
यदि सामग्रीसद्भावे करोति, तदभावे च न करोतीत्यभ्युपगभ्यते, तदा पुनरीश्वरो हेतुर्न स्यात् / सामग्र्या एव कार्योत्पत्तेः, ततश्चानुत्पत्तेः / तस्या भावाभावयोः कार्यस्य भावाभावदर्शनात्, न तु पुनरीश्वरभावाभावयोरिति / न सामग्रीकाले ऽपि स पररूपेण कर्ता, स्वरूपं चास्य प्रागपि समर्थं तदेवेति कथं कदाचित् क्रियाविरामः? यदप्युक्तम्- कुविन्दादिवत् कदाचित् करोतीति, तदपि न युक्तम् / यतः कुविन्दादयः प्रागसमर्था एव / पुनः पश्चात् तुर्यादिसामग्रीप्रतिलम्भादपूर्वसामर्थ्याधिगमात् पटादिकार्यं कुर्वन्ति / अन्यथापि तेषामपि पूर्वं तत्सामर्थ्यसद्भावे तत्क्रियाप्रसङ्गो न निवर्तते इति साध्यविकलो (Bच्प् २६०) दृष्टान्तः / किं च / सामग्रीजनने ऽपि स एव कारणम्, स च सर्वदा संनिहितस्वभाव इति कथं कदाचित् सामग्रीवैकल्यमप्यस्य? अत एवोपदर्शयन्नाह-
यतः स्वभावादिसंभूतं न किंचित् कार्यमुपपद्यते, तस्मादेवं विचारेण समनन्तरनिरूपणेन नास्ति किंचिदहेतुतः, स्वभावादेरहेतुतो ऽकारणाज्जातं किंचित् कार्यं नास्ति न विद्यते / उपलक्शणं चैतत् / पुरुषकालादिकृतत्वमपि नास्ति, तेषामप्यहेतुत्वात् / अतो नाप्यहेतुत इति सिद्धम् / ननु यदि नाम स्वभावेश्वरप्रधानादेरहेतुतो न किंचिदस्ति, तथापि परिदृष्टकारणादेव परमार्थतः उत्पत्स्यते / तत् कथं सर्वधर्माणां निःस्वभावता सेत्स्यतीति पराशयमाशङ्कय न स्वतो नापि परतो न द्वाभ्याम् इति कोटित्रयं समर्थयन्नाह न च व्यस्तेत्यादि-
SK
न च व्यस्तसमस्तेषु प्रत्ययेषु व्यवस्थितम् // Bच_९.१४२ //
SK
न च नैव / व्यस्तसमस्तेष्विति व्यस्तेषु समस्तेसु च / तत्र न च व्यस्तेषु, एकैकशः स्वतः परतश्चेति / नापि समस्तेषु द्वाभ्यां स्वपराभ्याम् / प्रत्ययेषु कारणेषु / व्यवस्थितम् उत्पादरूपतया प्रतिष्ठितं किंचित् //
SK
तत्र न तावत् स्वतः स्वभावाद्भावा उत्पद्यन्ते / उत्पादात् पूर्वं तस्य स्वभावस्याविद्यमानत्वात् कुत उत्पद्यन्ताम्? उत्पन्ने च तस्मिन् सत्यपि स्वरूपे तस्यापि निष्पन्नत्वात् किमुत्पद्यन्ताम्? अपि च / स्वत एव जन्मनि जातस्यैव पुनर्जन्म स्यात् / न च तद्युक्तम् / कृतस्य करणयोगात् / जातस्य पुनर्जन्मनि बीजदीनामेव आसंसारं प्रवृत्तेः नाङ्कुरादयः कदाचिदुत्पत्तुमवसरं लभेरन् / न च एतदभ्युपगच्छतो ऽपि लोकत एव बाधामनुभवत् सिद्धिपथमुपयाति, बीजादेरङ्कुराद्युत्पत्तिदर्शनात् / न च बीजाङ्कुरयोरैक्यम्, उभयोरपि भिन्नरूपरसवीर्यविपाकत्वात् / स्वस्वभावजन्यत्वे च कस्यचिदुत्पत्तिरेव न स्यात्, इतरेतराश्रयत्वात् / तथा हि यावत् स्वभावो न भवति, तावदुत्पत्तिर्न स्यात्, यावच्च उत्पत्तिर्न भवति, तावत् स्वभावो न स्यात् / तस्मान्न स्वतः किंचिदुत्पद्यते //
SK
नापि परतः / परतो हि जन्मनि इष्यमाणे शालिबीजादपि कोद्रवाङ्कुरस्योत्पत्तिप्रसङ्गः / शालिकोद्रवयोरपि च कोद्रवाङ्कुरापेक्षया परत्वमविशिष्टम्, सर्वस्य वा जन्म सर्वतो भवेत् / सर्वेषां परस्परं परत्वाविशेषात् / अथ यदि नाम परत्वमविशिष्टम्, तथापि कार्यकारणयोरन्योन्यजन्यजनकभावस्य नियामकत्वात् न सर्वस्योत्पत्तिरिति चेत्, न / अनुत्पन्ने हि कार्ये कस्मिन् पुनरस्य शक्तिरिति वक्तव्यम् / न च कार्यकारणयोरसमानकालतया जन्यजनकभावप्रतिनियमो ऽपि कश्चित् / अत एव एकसंततिप्रतिनियमो ऽपि न युक्तः, कार्यकारणमन्तरेण संततेरभावात् / तस्य च एकक्षणानवस्थानात् केयं संततिर्नाम? पूर्वापरक्षणप्रवाहस्य च कल्पनासमारोपितत्वात् नास्ति संततिर्वास्तवी / एतेन सादृश्यमपि नियामकमिह निरस्तम् / इति न किंचित् केनचिदेकसंततिपतितं सदृशं वा जन्यजनकभावनियतं वा अस्ति, जन्यजनकभावस्यैव चात्र चिन्त्यत्वात्, कथं तेनैव परिहारः? तस्मात् परतो ऽपि न कस्यचित् संभवः //
SK
नापि द्वाभ्याम्, प्रत्येकपक्षोक्तसर्वदोषप्रसङ्गात् / प्रत्येकं च द्वयोरशक्तयोर्मिलितयोरप्यसामर्थ्यात् / न हि एकेनान्धेनादृष्टमार्गो बहुभिरपि द्रष्टुं शक्यते / प्रत्येकं वा सिकतास्तैलदानासमर्था मिलिता अपि तत्समर्था भवन्ति / तस्मादुभयपक्षप्रतिपादितदोषप्रसङ्गात् द्वाभ्यामपि न कस्यचिदुत्पत्तिसंभवः //
SK
इति स्वपरोभयजनितमहेतुजनितं वा तत्त्वतो न किंचिदस्ति / तस्मात् परमार्थतो ऽनुत्पन्नानिरुद्धस्वभावं मायामरीचिप्रतिबिम्बप्रतिश्रुत्कासमं प्रतीत्यसमुत्पन्नं स्वभावशून्यमेव सर्वं विश्वमाभासते / न तु पुनरिदंप्रत्ययतामात्रं सांवृतमिह निषिध्यते / यदुक्तमत्र भगवता शालिस्तम्बसूत्रे-
चक्षुर्भिक्षव उत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचित् संनिचयं गच्छति / इति हि भिक्षवः चक्षुरभूत्वा भवति, भूत्वा च प्रतिविगच्छतीति //
SK
यदि च अनागतं चक्षुः स्यात्, नोक्तं स्यादभूत्वा भवतीति / तस्मान्नाध्वसंक्रान्तिरस्ति / यदि चैवम्, न कुतश्चिदागमनम्, क्वचिद् गमनं वा प्रज्ञायते, प्रतिभासमानस्य च प्रत्युत्पन्नस्य न रूपं किंचिद्विचारेणावतिष्ठते, तदा-
SK
मायातः को विशेषो ऽस्य यन्मूढैः सत्यतः कृतम् // Bच_९.१४३ //
ये गम्भीरनयावगाहनपटुप्रज्ञानिरस्तभ्रमाः संक्लेशव्यवदानपक्षविमलज्ञानोच्छ्रिताः सूरयः / ते सन्तो गुणदोषयोरपि च तैः सारं विमिश्रादतो ग्राह्यं सर्वमकल्मषं विषमिव त्याज्यं दुरुक्तं यदि //
SK
न युक्तमुक्तं किमपीह यन्मया परं प्रजातं स्खलितं तदेव मे / ननु ग्रहीष्यन्ति ममात्र साधवो मतिं मयानेन कृतेन सांप्रतम् //