SKवारुणपद्धति व्याख्यानम् ट्.णो. - १४३ वारुणपद्धति व्याख्यानम् (भट्टशिवोत्तमकृता वरुणपद्धतिवृत्तिः) ॐ || वरुणपद्धति व्याख्यानम् || || हरिः ॐ || बीजन्निदायजनमथवा प्रवृत्तेर्यत्प्रयोजनम् | तदुक्त्या ज्ञायते सम्यक् तत्वं दीक्षा प्रतिष्ठयोः || तत्रादौ तावच्छ्रीवरुणः - प्रारिप्सितं वस्तु निदर्शयिता सर्वात्मनां मङ्गलमभीष्ट देवतारूपं वस्तु पुरस्कृत्य नमस्कृत्य आचार्य परंपरानुष्ठीय मानस्य शिष्टाचारस्य स्वात्मन्यपि कलास्तुतिरा वेद्यते | स्ववचनप्रामाण्येन श्रोतॄणां तत्र प्ररोचना जायत इति अभीष्ट देवतानमस्कार पूर्वं वस्तु निर्दिशति | निर्वाणद्वय बीजाय नमः सोमाय शम्भवे | अथ संगृह्यते बीजं द्वयं दीक्षा प्रतिष्ठयोः || १ || शम्भवे नमस्कृत्य किं भूताय सोमाय उमयासह वर्तमानाय च अत एव निर्वाणद्वय बीजाय द्विविधनिःश्रेयस हेतु भूताय अथ अनन्तरं दीक्षा प्रतिष्ठयोः द्वार द्वारि भावेन निर्वाणद्व्य साधन भूतयोर्यद्वीनं निदानं प्रवृत्तौ प्रयोजकं वा तत्संगृह्यते | सुखप्रतिपत्त्यर्थमस्माभिरिति वाक्यार्थः | तथा बाह्यलक्षणस्य शिवस्यापि कर्तृत्वं न संभवति | तस्मादुमया पराशक्त्यात्मिकया करण भूतया प्. २) निर्वाणद्वय बीजत्वम् | नत्वेकाकिन इति सूक्तम् | यत्पुनर्निर्वाणं मलादि बन्धविमुक्तिं पुरस्सरमात्मनः स्वरूपत्वाभिव्यक्तिं लक्षण निःश्रेयसा- परपर्यायं तदुपाधिद्वे विध्याद्द्विविधम् | तथा हि उपाधिरेको विज्ञान कैवल्यं निरधिकरणदीक्षायां निर्वाणाख्यमिति द्वयं द्वाभ्यामेव ताभ्यामुपाधिभ्यां निर्वाण द्वैविध्यं भवति | द्वयोरपि शिवस्यैव सशक्तिकस्य हेतुत्वम् | अपरे पुनराहुः सति विज्ञान कैवल्ये प्रथमं प्रकृत्यधिकरणलक्षणम् | पराणिमासिद्ध्यपरपर्यायमेक निर्वाणमिति कान्तकर्मामयात्वानुबन्धमोक्ष कैवल्यात् परन्तु नराणामधिकार बन्धमोक्षा पूर्वकर्मसाक्षाच्छिवत्वाभि व्यक्तिरिति | तदसत् |
SKपराणिमादि सिद्धेर्भुक्ति विशेषत्वे निःश्रेयसस्यापि भावात् | अपरे पुन राहुः दीक्षा एकनिर्वाणम् अन्यत्तु दीक्षिते शरीर विनिपातानन्तरं प्रभवति द्विनत्वापत्तेः | यथाऽनुपनीतस्य माणवकस्य यथा पूर्वमवस्थित शरीरस्यापि शास्त्रबलादुपनयाख्य संस्कारेण द्वितीय जन्माङ्गी क्रियते एवमिहामि दीक्षया निर्वाणं जीवन्मुक्तिरिति तदपि भुक्तिदशा नतिवृत्तेर्निः श्रेयसं न संभवति | अन्येपुनराहुः योनिद्वैविध्यादि क्रमान्निर्वाणद्वयं इति | प्. ३) द्विधा खलु पुंसो योनिः मातुरुपस्थात्मिका विश्वोपादानात्मिका च | यच्छ्रूयते योनि योनिमधितिष्ठत्येक इति || तस्मात् पश्चिम जन्माख्यमेकं निर्वाणं ततः परं पुंसोजन्मा भावाद्विश्वो पादान योनिरपि मखित् शिवत्वाभि व्यक्तिरिति परापरभावाद्द्विधा निर्वाणमिति | तदप्ययुक्तम् | दूषणानतिवृत्तं भुक्त्यनति वृत्तेः | एवं योगाज्जीवन्मुक्तिरपि भुक्त्यनति क्रमान्न निःश्रेयसम् | तस्मात् प्रथमव्याख्या नोक्तमेव ज्यायः | शिवस्येव द्विधावस्थानेन दीक्षाद्वैविध्येऽपि निःश्रेयसस्यैव सद्योवा फलभाक् | न तु दीक्षा प्रतिष्ठाभ्यां | निर्वाणद्वय पक्षे द्वयोपन्यासः किं न क्रियते | निर्वाणद्वैविध्य नियमा भावादिति वदामः | तथा हि नित्यादि कर्मभिः शिवयोग पर्यन्तैः निःश्रेयसस्यैवानेको पायतया निर्वाणद्वय निभयमो न सिद्धयति | दीक्षामात्रो पायत्वे तु तस्य निरधि कारण नियमान् | द्वैविध्य नियमादृतेन निर्वाणद्वैविध्यमिति स्थितम् | अथ निर्देश क्रमानुरोधेन दीक्षातल्लक्षणं तद्बीजं याह - सपाशत्रय विश्लेषं शिवत्वं व्यज्यते यया | क्रिया सा कथ्यते दीक्षा भक्तिवैराग्य लक्षणा || २ ||
SKययैव क्रियया फलद्वय निष्पत्या दीक्षाकर्मणः कर्मान्तरेभ्यः वैशिष्ट्य मुक्तं भवति | भक्ति वैराग्य लक्षणे इति दीक्षायामधिकार इत्युक्तं भवति | निदानं प्रयोजकञ्चोक्तं भक्तिं शिवे संसारे वैराग्यं दृष्ट्वाऽनुग्रहलक्षणे द्विविधेऽपि विषयस्य व्यवस्थाऽस्थेया | अन्यथा भक्तिवैराग्ययोरपि अवस्थित विषयतया परस्परं व्याख्यातः | यस्य शिवे भक्तिवैराग्यं च संसारे न भवति | न तस्य दीक्षायामधिकार इत्युक्तं भवति | शक्तिपातफलत्वा योगात् तल्लक्षणत्वाद्दीक्षायां | तस्माच्छक्तिपात एव दीक्षाबीजम् | फलप्रयुक्तत्वादीक्षा विधेः | अत प्रबोत्थं आचार्यानुशासनं अपतित शक्तिकं न दीक्षयेदिति | अथ कथं ज्ञायते अग्निसंस्कार दोषे तयोनतो भक्तिवैराग्ये संभवत इति | नैष दोषः | शक्तिपातस्यैव तद्ज्ञान कारणत्वात्कोऽयं शक्तिः पातो नाम तस्याविभुत्वादिति चेत् विमुखेऽपि तस्य मुक्तिपरिकरा भावात् सह सोपपत्रेः पात इत्युपचर्यते | कादाचित्कग?त्वं च तस्य सह कारिणः कर्मसाम्यस्य तस्य कादाचित्कत्व कृतम् | तदुक्तं श्रीमत्स्वायंभुवे शिवेच्छया पुरानन्ता शैवी शैवार्थ दायिका | सा शक्तिर्निपतन्त्याद्या पुंसो जन्मन्यपश्चिमे || तन्निपाताक्षरत्यस्य मलं संसारकारणम् | क्षीणे तस्मिन्निया साक्षात्परं निःश्रेयसं प्रति || स देशिकमनुप्राप्य दीक्षा विच्छिन्नबन्धनः | प्. ५) प्रयाति शिवसायुज्यं निर्मलोनिरुपप्लवः || इति | अत्र कर्म सात्यं सहकारिकारिणमिवोपपादितम् | तदुक्तं श्रीमत्स्वायंभुवे द्योतत इति नेह प्रतन्यते || प्रतिपादनस्य चेद्देहं मूलम् | यदुक्तं श्रीमत्किरणे समे कर्मणि सञ्जाते कालान्तर वशादिह | तीव्र शक्तिनिपातेन गुरुणादीक्षितोयजेत् || इति ||
SKयथा भक्ति वैराग्ये दीक्षाचिह्ने तथा शिवे संसारे तद्धिचिह्नमिति वेदितव्यं ज्ञायते शिवसंसारे भक्तिवैराग्य योगादतो ज्ञानस्यापि हेतुः शक्तिपात एवाक्षीणमलस्य तन्निरुद्धदृक्छक्ति भयात्प्रसरं भावामलक्षणस्य शक्तिपात निमित्तत्वा दित्यभिप्रायेण प्रागुक्तं निगमयन्नुप संहरति | तस्मात् ज्ञानं च भक्तिश्च वैराग्यमिति चात्मनः | दीक्षितस्येह चिह्नानि यशोस्त्वेतानि नाञ्जसा || ३ || अतः पतितशक्तिकः खल्वात्मा पशुः तस्य भक्तिज्ञान वैराग्याणि नाञ्जसा जवाद्भवत्यपि हेतोः सचेह दीक्षाप्रयोजकः शक्तिपात एव | अन्यथा दीक्षितस्येतानि चिह्नानि न भवेयी न भवन्ति | दीक्षितस्य विज्ञान भक्ति वैराग्यानि चिह्नानि अवसीयन्ते | पतितशक्तिक एवायं दीक्षित इति | तदथमत्र क्रमादाहुः | प्रथमं कर्मसाम्यम् | ततः शक्तिपातः ततः शिवे ज्ञानं ततो भक्तिः ततः संसारे वैराग्यं ततो देशिकान्वेषणं | ततोऽनुप्रापणं तस्य व्यक्तये प्. ६) च ततो दीक्षा ततः पाश विच्छित्तिः शिवत्वाभिव्यक्तिः निःश्रेयस इति | तदर्थञ्च शिवात् ज्ञानं श्रीमत्कामिकादि शिवशास्त्र लक्षणमनेक भेदोपभेद भिन्नं तस्सार्वभौमं प्राप्यते | यथोक्तं श्रीमत्स्वायंभुवे - अथात्ममल मायाख्य कर्मबन्ध विमुक्तये | व्यक्तये च शिवत्वस्य शिवाद्ज्ञानं प्रवर्तते || तदेकमप्यनेकत्वं शिववक्त्राम्बु भोद्भवम् | परापरेण भेदेन गच्छत्यर्थ प्रतिश्रयात् || इति || ननु दीक्षितस्य शिवशास्त्राभिगमः ततः कथं शिवे ज्ञानस्य दीक्षा हेतुत्वं न शिवशस्त्रलक्षणम् | ज्ञानदीक्षा प्रयोजनमपि तु पतित शक्तिकस्य तद्वैचित्र्यवशाल्लोक व्यवहारमात्रेणास्तीश्वर इति शिवसद्भावाभ्युपगम- लक्षण ज्ञानमित्यविरोधः || अथपशोस्त्वेतानि नाञ्जस्या इत्युक्तेः कीदृक् पशुः किं वा तल्लक्षणमित्यपेक्षायां पशुपाशस्वरुपावगतेरपि दीक्षा बीजत्वं ज्ञापयितुं तल्लक्षण तदुप योगिनि विशेषाणियाह - किञ्चिद्ज्ञोमलिनी भिन्नाः कर्ता भोक्ता स्वकर्मणाम् | शरीराढ्यो विभुर्नित्यः संसार्यः सेश्वरः प्रभुः || ४ ||
SKइति लक्ष्य निर्देशः | किञ्चिद्ज्ञ इति लक्षणमुक्तं भवति || प्. ७) ततोऽन्यत्तु लक्षणो पपादकत्वेन लक्षकल्प विशेषणमात्रं कथमिदं लक्षण किञ्चिद्ज्ञ इति | पति पशुपाशात्मसु सर्वेष्वन्तर्भावेंसति पशुः किञ्चिद्ज्ञ इत्येतावता पत्युणमात्रं कथमिदं लक्षणं किञ्चिद्ज्ञः सर्वज्ञत्वात् | न च पाशत्रयं तस्य ज्ञात्वात् न हि व्यावृत्यनन्तरमस्ति मुक्तात्मनः प्राक्पशुभावेन तदवस्थान्तरत्वाद्दीक्षा प्रतिष्ठावदेः पुनःपाश विश्लेष हेततया शक्त्यन्तर्भावाच्छक्तेश्च पत्यन्तर्भावाच्छक्तिमताः एव हि पतित्वं कथं पुनरात्मनो ज्ञत्व कर्तृत्वे तुल्ये पत्युरिव सर्वज्ञत्वा भावात् पशुत्वं चेत्युक्तं मलिन इति मलसद्भावे लिङ्गमुक्तं कर्ताभोक्ता स्वकर्मणां शरीराढ्य इति | कर्ता ज्ञानाधारत्वात् कुत्रास्य कर्तृत्वमित्युक्तं भोक्तेति भोगमात्रस्य कर्तेति यावत् | कस्य भोक्ता इत्याशंकायां सुखदुःख मोहनमिति वक्तव्ये तद्धेतुभिस्तान् उपलक्षयति | स्वकर्मणामिति | स्वकर्मणां हि न स्वरूपेण भोग्यत्वं अपि तु सुखदुःखादि फलभोगेनैवेति यावत् | स्वशब्दात् प्रत्यात्मकं भोगभेदं च तद्धेतु भेदं च व्यवस्थितमावेदयति | किमायतनम् भोगस्येत्यत उक्तं शरीराढ्यं इति | ऋद्धोयऽतिः स्वामीति पर्यायः | तच्छीरमात्रन्नामात्मा किन्तु तद्व्यतिरिक्तं स्वव्यतिरेकेण शरीरस्य स्वात्ययस्वारब्ध कर्मरूप सुरनरादि भावेन शरीराणां वैचित्र्यादित्युक्तं भवति | प्. ८) कर्तृत्वादेर्मलादि सद्भाव लिङ्गमन्यथानुपपत्तेर शुद्धिस्साक्षान्मलशब्दार्थस्तदभावेन भोक्तृत्वं स्वरूप उपपद्यते | यस्मात्तदुक्तं श्रीमत्स्वायंभुवे -
SKयद्यशुद्धिर्नपुंसोऽस्ति शक्तिर्भोगेषु किं कृता | इति | भिन्न इत्यर्थः | किं लब्धमात्माद्वैत निरास इति ब्रूमः | न स्यात्मैक्येव बन्धमुक्तेव पाशादिवेश्लेषोपपत्तिः | अत एवोक्तं कर्ता भोक्ता स्वकर्मणामिति | स्वरूप विभागभागे बन्धमुक्त्यादि वैचित्र्यादि योगात् | अस्ति च तद्वैचित्र्यं | अतः पशवो भिन्नाः इति किमद्वैतवादस्या लम्बनम् | विभुर्नित्य इति किमर्थं बुद्धिन्द्रियशरीराणां न भोक्तृत्वं संभवति | जन्मान्तर संबन्धाभावेन तत्प्रतिसन्धानाभावाज्जन्मार भोगप्रतिसन्धातुः खलु भोक्तृत्वं इतरथा भोग तद्धेतूनां वैयधिकख्यं स्यात् | अत एवोक्तं संस्कार्य इति | संस्कारो हि कर्मादिभिः वासनारूपः येन तत्फलेषु देशान्तर भाविषु भोक्तृत्वमुप पद्यते | दृश्यते चास्य भोक्तृत्वं जन्मान्तरा लब्धकर्मानुरूपं | अत एवास्य दीक्षात्वमपि नित्यतया विभुतया चास्य देशान्तरकालान्तर भावि दीक्षा फल भोगित्वोपपत्तेः | कथमस्य जन्मान्तर परतन्त्रस्य स्वभोगे कर्तृत्वं भोक्तृत्वमित्युक्तम् सेश्वर इति ईश्वर वानयम् | तेन प्रेरणया प्. ९) कर्ता भोगे यथोक्तम् - अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः | ईश्वर प्रेरितो गच्छेत् स्वर्गं वाश्वभ्रमेव वा || इति || पशुलक्षणं च दीक्षा च जन्मत एव तद्गतस्यैव मलादिपाशस्य शोधनीयत्वादत एव पाशत्रयलक्षणमनुक्रमेणाह - पाशा अपि त्रयो ज्ञेया मलो माया च कर्म च |
SKमलञ्च पाशोनिज शुद्ध्यर्थं मलस्य पुरस्तादुद्देश हेतुः | माया कर्मणो रागन्तु कत्वेन तुल्ये मायीयम शरीरजत्व कर्मजश्च चरमं निर्देश निर्मितं तदेव माया पाशस्यान्तरङ्गत्वात्तदपेक्षया कर्मपाशस्य बहिरङ्गत्वं चाङ्गीकरणीयम् | प्रवाहे पुनरनादि सिद्धचक्रे वर्तमाने मलादुषु परस्परं हेतु हेतु मद्भावोऽप्यस्ति | तथाऽनयुपगमे निजस्यापि मलस्य परिणामानुपपत्तिः | निमित्ता भावात्कर्म विपाक वैचित्र्यमेव हि मुक्तौ भुक्तौ साक्षान्निमित्तं मायामल परितो मयोस्तु यथा कर्मविपाकं परिणतत्वाद्भोगनिमित्तं अत एव हि कर्मणि परिक्षीणे मुक्तिरिव पुंसो मलमायाभ्यां भवति | निमित्ता भावे नैमित्तिका भावात् | परस्पर हेतु मद्भावेन चक्रवच्चलादिषु वर्तमानेषु वनिस्वर्स्वागन्तुका भावस्तेषां क्रमेणोद्देशः कृत | अथ - प्. १०) यथोद्देश क्रमानुरोधेन मलस्य तावल्लक्षणमाह - मलञ्चा शुद्धिरज्ञानं तच्चैतन्यनिरोधकम् || ४ || मलमिति लक्ष्यनिर्देशः | अशुद्धिरिति लक्षणम् | अज्ञानमिति तत्प्रतिपादकमुपपादक चैतन्यं निरोधकमिति तदेवाशुद्धिरिति चैतन्य निरोधक इत्यर्थः || अथ माया पाशलक्षणमाह - माया कलादि पृथिव्यन्तान्तद्भवा तत्व संहृतिः | कलादि पृथिव्यन्ता तत्वसंहतिः यतो भवति तादृशं तद्गतलोपा दनाद्धयेत्युक्तम् भवति | अथ कर्मलक्षणमुच्यते - धर्माऽधर्मात्मकं कर्म वेदसिद्धमिति वाक्य शेषः | तस्मादुक्त स्वायंभुवे धर्मशासन संवित्तिराम्नायादेव ज्ञायते इति मल मायादि कर्मभिः वासनात्मभिः पुंसोऽन्वयमाह एतैः पाशैः युतः पशुः पाशत्रयस्य प्रागुक्त क्रमानुरोधेन प्रतिपाशं फलभेदगर्भं हेतु मद्भावं निगमयति | पशोरज्ञतया माया योगो भोगाय कर्मणाम् | संयोजनं अथास्यैवं पाशत्रय बन्धे सति भुक्तिपरिकरं तदञ्च वञ्च सूचयति स मायादितीश्वरेच्छातो मुक्तिर्नास्यान्यथा यतः || ७ || इश्वरेच्छातो विना अस्य मुक्तिहेतुः नास्तीति भावः | यस्मादीश्वरेच्छामन्तरेणास्य मुक्तिर्न संभवति | प्. ११)
SKततः कारणत्वात् सति शक्तिपाते दीक्षया प्रसंख्यानुरुपया युगपदेव कृत्स्नस्यापि सुखादि भोगस्योपपत्तेः | भोगे सति पाशबन्ध यौगपद्यं ततो मुक्तिञ्च फलफली भावेनाह - ततः सुखादिकं कृत्स्न भोगं भुङ्क्ते स्वकर्मतः | संसारी स पशुबन्धो मुक्तः पाश त्रयोज्झितः || ८ || यद्वा पाशत्रय बन्धः संसारी पाश त्रयोज्झितो मुक्त इत्येता वानेन सूत्रार्थः | अथ दीक्षाभेदं दर्शयितु कामः तदर्थं दीक्षात्मनोत्रैविध्यं स्वरूप भेदञ्च वक्तुमारभते | त्रिधासोऽयमनुग्राह्यः सकलः | प्रलयाकलः विज्ञानाकल इत्येतं स्वरूपमधुना नक्ति - मायाकर्ममलच्छन्नः सकलः सोऽभिधीयते | मलकर्मावृतोयस्तु स भवेत् प्रलया कलः || १० || मलैकबन्ध सम्बन्धो विज्ञान कल उच्यते || सुयोजनमेतत् अथ संग्रह दीक्षा भेदं स हेतुकं दर्शयति - निराधारोऽथ साधारः शिवस्यानुग्रहोद्विधा || ११ || स्पुटार्थं तत्रो पाधिरुच्यते - शिवोऽनपेक्षिताचार्यो द्विधा शक्ति निपातनात् || १३ || स्वयमेवानुगृह्णाति विज्ञान प्रलया कलान् || विज्ञान केवलेषु शक्तिपातस्तीव्रतरः श्रेष्ठः | तदपेक्षया प्. १२) परस्तीव्रः प्रलाकलेष्विति शक्तिपात द्वैविध्यम् निराधारे साधारेप्यन्य या भेदमाह - आचार्यमूर्तिमास्थाय चतुर्धाशक्तिपाततः || १४ || भगवाननुगृह्णाति स एव सकलानपि || अधिकारणमाचार्यः सकल दीक्षायां दीक्षाकस्तु शिव एव | शिवादन्यस्य पाशविश्लेष सामर्थस्या संभवादित्यभिप्रायः | मन्दमन्दतरतीव्र तीव्रतर भावाच्छक्तिपातस्य चातुर्विध्यम् | मन्दादि भावे हेतुः स्वशिष्याचार्ययोः मन्दादिभाव चातुर्विध्यम् | न हि सर्वेऽनुग्राह्यम् | समशक्तिपात उपलभ्यन्ते | अपितु तारतम्यभावादेव | तस्मादाचार्य सौष्ठवेऽपि शिष्यात्मना तारतम्यानुरुप एवानुग्रहः प्रवर्तते | एव माचार्या अपि सर्वे न समान शक्तिका उपलभ्यन्ते | अपि तु मदादि भावेन तस्मादनुग्राहकस्य संभवतीति दशनुरुपमूहनीयम् | अथैव मनु ग्रहे दीक्षाबीजे सति ततो दीक्षा प्रवृत्तिरित्याह -
SKशिवस्यानुग्रहद्दिक्षा जायते कृत कर्मणाम् || १५ || परिपक्वमलाः कृत कर्माण इत्युच्यन्ते | अस्परिपक्वमलेषु दिक्षानिषिद्धा इत्यर्थात्सिद्धम् | अतः पुनः कृत कर्मसु दीक्षा जायते | दीक्षाप्यनेक विद्या | तेष्वपि मलपाक वैचित्र्याद्दीक्षा स्वरूप विशेषं प्रपञ्चयितुं आरभते - प्. १३) साव्यानेक विद्या प्रोक्ता तत्प्रपञ्चोऽयमुच्यते | सा चेति साधिकरण प्रत्यभिज्ञापकम् | चाक्षुषी स्पर्शदीक्षा च वाचिकी मानसी तथा || १६ || शास्त्री च योगदीक्षा च हौत्रीत्यादिरनेकधा || आदिशब्दात् पादोदक प्रधान प्रेरक बोधकाद्युक्तं भवति | अथ यथा निर्देशः | कर्मदीक्षाणां पृथग्लक्षणमाह - चक्षुरुन्मील्य यत्तत्वं ध्यात्वा शिष्यं समीक्षते || १७ || पाशबन्ध विमोक्षाय दीक्षोऽयं चाक्षुषी भवेत् || इत्यादि निरुपाधिकः | तत्व शब्दः शिवादन्यत्र वर्तते | अत्रापि तद्यायार्थ परं तस्माच्छिव यथार्थनं मनसा साक्षाद्दीक्षा बीजमित्युक्तं भवति स्वयं सुबोधम् || निधाय दक्षिणे हस्ते शिवं सर्वाङ्गसंयुतम् || १८ || संस्पृशेच्छिष्यमूर्धादि स्पर्शदीक्षा भवेदियम् || इत्यादि | अत्रापि तत्वं ध्यात्वेत्यनुवर्तते | तन्मूलत्वाद्दिक्षार्थ वृत्तेः शिवं सर्वाङ्गसंयुतमिति शिवप्रतिपादकतया शिवमूलमन्त्र हृदयाद्यङ्गषट्क युतं दक्षिणे हस्ते निधायेति | अन्यत् स्पष्टार्थम् || तत्वे चित्तं समाधाय बृंहितान्तर तेजसा || १९ || उच्चरेत् संहिता मन्त्रानाग्दीक्षा प्रकीर्तिता || इत्यादि तत्त्वे चित्रसमाधानाद्धेतोः तच्छक्त्यधिष्ठाने प्. १४) पुर्यष्टकाख्यं स्वात्म तेजोपबृंहितमुद्दीपितमविभाव्यते नोपपन्नः शिवभावः सन्नाचार्यः संहिता मन्त्रानुच्चरेदिति वाग्दीक्षालक्षणमित्युक्तम् | मूलब्रह्मङ्गमूर्त्यासनं संहिता शिव शासन इति श्रीलैङ्गेप्युक्तम् | मानसं विधिमाश्रित्य मानसीत्यभिधीयते | इत्यादि यद्बहिः क्रियया निर्वर्त्यं तत्सर्वं मनसा विधीमानं मानसो विधिः तेन मानस दीक्षा कृता भवति | चकारादिहापि प्रागुच्यमान तत्वे चित्तं समाधायेत्या कृष्यते -
SKमानसं विधिमाश्रित्य मानसी त्यभिधीयते || २० || शास्त्रस्य संप्रदानेन शास्त्रदीक्षा समीरिता || इत्याद्युक्तम् | ननु श्रीमत्स्वायंभुवे - समयी च समर्थस्तु शास्त्रेऽधिकृतः पुमान् | इति कथं दीक्षा विकल्पितया शास्त्रदीक्षा लक्षणमुयते | समयदीक्षादि दीक्षितस्यैव शास्त्र श्रवणेऽधिकारान्नैष दोषः | समयिन एव शास्त्रस्य संप्रदाने दीक्षान्तर संपत्तेः - योगेन योगदीक्षा स्याच्छिवत्वे सा व्यवस्थिता || २२ || न रुद्रत्वेनापि ईश्वरत्वेऽपि अपि तु शिवत्व एव निमित्त योगदीक्षेयं व्यवस्थिता स्यात् इति नियम विधिरयं | यद्वा निर्वाणया शिवत्वे लब्ध एवेत्यं योगदीक्षा कर्तव्याधिकारित्वादित्यर्थः | प्. १५) अथवा योग दीक्षेयं न रुद्र पद प्रदान पर्यवसायिनी अपि तु शिवत्वाभिव्यक्तये एव सम्पद्यत इति सूत्राथः | अथ निर्दिष्टया हौत्र्या लक्षणमह - रजः कुण्डवती हौत्री कुण्डमण्डलादि द्वाराबहिः क्रियमाणा समयादिदीक्षा हौत्रीत्युच्यते | तदेवं साधिकरण दीक्षाया नाना लक्षणमुक्त्वा इदानीं तस्या एवोपाध्यतो द्वैविध्यं वक्तुमुपक्रमए | सा द्विभेदा किलोदिता सैव प्रकृत साधिकरण दिक्षानन्तर प्रकृता हौत्रीति विशेषं सूचयति | किल शब्दः स्वयं सुबोधम् | यथास्माद्व्याख्या तथोपक्रान्तं स्वयमेव व्यञ्जयितुं कथं सा द्विभोदिते त्यासंक्याह - समासाद्धि विद्यैवेयं दीक्षातद्ज्ञै?रिहोच्यते || २२ || न प्रागिव चाक्षुषत्वादि विस्तरात् | अपि तु समासाद्द्विधैवेयं दीक्षा साधिकरणा तद्ज्ञैरपि अकलिदीक्षापि तद्भेदज्ञैराचार्यैरुच्यते इति तस्मिन् द्वैविध्ये उपाधिरुच्यते - ज्ञानवती भवेदेका क्रियावत्यपरा स्मृता | तद्व्याचष्टे | विनेज्यानलकं मायावतीति सम्यक् तत्वा व बोधजेति | यस्य तत्वे शिवे सम्यगनुभूत्या बोधो विद्यते स तत्र स त्यक्तत्व देशकालादि भेदतः न तु सधकाचार्ययोरित्युक्ते सति अर्थात् सर्वस्यापि प्. १६)
SKइतरस्याप्य वृत्तिराया नैव नायाता भवति | निर्बीज दीक्षाया बालबालिशादि गोचराया एव पूर्व कृतत्वात् समयि पुत्रकयोरपि व्यावृत्त्यङ्गीकारे तयोरभयत्रापि बीज सबीज दीक्षयोः व्यावृत्या साधिकरण नयमानत्व एव स्यात् | नवानवयोभिमत इति तदव्यावृत्ति सबीजायां प्रामाणिक्यै भवति | देशकालादि भेदत इति | किमुक्तं भवति न सर्वोदेश साधकाचार्य सम्पदनु गुणमुक्तः शास्त्रे | अपि तु विशिष्ट देशकालविति तथा चार्यैराचार्यवतोद्भव प्रशस्तमत्त शास्त्रेषु शरद्वसन्तादयश्च दीक्षाकालाः प्रशस्ताः | आदि शब्दो यथोक्त देशकाल संभवतो सिद्धो देशान्तर कालान्तरं मौनमपि प्रशस्त जन्मस्वरूप बोधकशक्तितमः ईश्वर तत्वार्थ वेदी नृपुंसा संभवादपि साधकार्या भावमनुमन्यन्ते | न हि देहादि वैशिष्ट्यं दीक्षायां स्वरूपत उपयुज्यते अपि तु सा दुर्लभतया दीक्षोच्छित्तिरेव स्यात् | यथा सबीज निर्बीज भावाद्द्वैविध्यमुक्तं तथा स बीज दीक्षाया एवो पाद्यन्तरतो द्वैविध्यंपुनराह - धर्माधर्मात्मकं कर्म प्रागागामि विचित्रकम् || ३१ || सञ्चिन्त्य शोध्यते यत्र सैवोक्ता शिवधर्मिणी || सार्वदेशिक सार्वकालिक धर्माधर्मयोः तन्निबन्धनानां भोगानां च प्रसंख्यान भेदवशाद्वुभुक्षु मुमुक्षुक्ष्वाद्यधिकारि भेद वशाच्चाहुति दानभेदात्फल भेदस्याधिक्यं न स्यात् | प्. १७) तथा शौचादौ गौरवलाघवाभ्यामनुष्ठेये च कर्मणि शिवधर्मिण्यामित्यमनुष्ठेयं लोकधर्मिण्यामित्यमाचार्यस्य इत्थं शिष्याणामित्यमेव सन्तानिनामित्थं भिन्नसन्तानिनामिति व्यवस्थाप्यते | एवमुपाध्यन्तरं पुनरवलम्ब्य प्रकृतायामेव साधिकरणायां दीक्षायां द्वैविध्यमाह - नित्यमात्राधिकारित्वात् समयिन्यथ पुत्रके | दीक्षा निरधिकारैव नैमित्ता नधिकारिणी ||
SKसाधिकार निरधिकार भेदाद्द्विप्रकारा साधिकरण दीक्षा | तत्र समयि पुत्रकयोः निरधिकारैवास्तु | तस्मात्तयोः नित्यमात्राधिकारान्नैमित्तक कर्मानधिकार इति निर्बीज दीक्षापक्षे समानमेतत् | समयि पुत्रकयोर्निरधिकारैव समयादारभ्य दीक्षेति सबीजा दीक्षा स्वयं वस्तुनैकत्रिया सामर्थ्याद्यपेक्षत्वात्तदन्वस्या तस्य चा नियमेन पाक्षिकत्वात् सतिसामर्थ्यादौ सबीजा तदभावे निबीजेति विकल्प्य निरधिकारत्वात्पुनरपि विकल्पैवेति | अथवा अधिकाराया विषयमाह - साधकाचार्ययोर्नित्य नैमित्तिक कार्म्यकर्मसु | सर्वत्रैवाधिकारित्वात् साधिकारैव सा तयोः || निगद व्याख्यानमेतत् || अथ सबीजनिर्बीज साधिकार निरधिकार साधारण्येन समय दीक्षां पक्षीकृत्य बीजद्वैविध्यं दर्शयति - प्. १८) यत्र रुद्रपदे योगो योगो यगेश्वरे पदे || ३३ || शिखाच्छेदो न यत्रास्ति दीक्षा सा समयीद्विधा || ३४ || रुद्रपद प्राप्त्या चेश्वर पद प्राप्त्या च समय दीक्षायाद्वैविध्यं शिखाच्छेदा भावादुभयसाधारण इत्युक्तं भवति | ननु कथं शिखाच्छेदा भावात्समय दीक्षामात्रायामेव शिखाच्छेदस्यापि श्रीमत्स्वायंभुवे विधानात् | वस्तुत्रय विधानार्थं पञ्चकं होममाचरेत् | होमान्तु ते शिखां च्छित्वा पूर्णाहुतिं ततः क्रमात् इति | सत्यम् इत्थं स्वायंभुवे तथापि दिव्यागमेषु विप्रकीर्णोपदेशसम्भवान्निर्वाण दीक्षाङ्गमेव शिखाच्छेदः | समयदीक्षायामप्युच्य मानायामुच्यत इत्युक्तमाश्रयितुमित एव शास्त्रादिभिर्युक्तम् | शिखाच्छेदो न यत्रास्तीति सूत्रं | अथ निर्वाणदीक्षामधि कृत्योपाधिभेदे सति सोपाधिकं विषय भेदं दर्शयन्नाह - यत्र पाशशिखाच्छेदो योगः शिवपदे भवेत् || ३४ || निर्वाणाख्या तु सा सैव पुत्रकेनाभिषेकतः || इति ||
SKशिखाच्छेदः पाशच्छेद हेतु भूतस्य तदभिषेकरहिता स्यादित्येव द्वैविध्यं हृदि कृत्वाऽभिषेकरहितायाः विषयं व्यवस्थापयति | सैव पुत्रकेनाभिषेकत इति | एतदुक्तं भवति अनभिषेकफला निर्वाणाख्यादीक्षा निरधिकारं पुत्रकमेव विषयीकृत्य कर्तव्येति | ततश्चार्यात् पुत्र लक्षणमप्युक्तमेव | प्. १९) निरधितया कृतसमय निर्वाणदीक्षाच्छिन्नपाशशिखोभिषेकानस्तो यः पुत्रको नामेति या पुनरभिषेकाफला निर्वाणदीक्षितस्याद्वैविध्यं स बीजमाह - साध्यमन्त्राभिषेकाच्च साधके सा प्रकीर्तिता || ३५ || सर्वविद्याभिषेकेण भवेत् सा चार्यगोचरे || सिद्धिकामः खलु मन्त्रान् साधयेत् | नमुक्ति कामः | सिद्धयश्चाणिमादि लक्षणा | शान्तिक पौष्टिक क्षौद्रकर्मादि साध्याश्चानेक विधाः | नैव समन्त्राः सर्वसिद्ध्यनुगुणाः | अपि तु कश्चिदेव कस्यचिदिति स्थितिरिति | तेऽणिमादि सिद्धये यो मन्त्रः शक्तः | ततः सिद्धि कामस्य साधकस्य स्वनाम जन्मनक्षत्राद्यविरोधे सति समन्त्रः साध्यो भवति | तस्य च साधने दीक्षितस्याधिकारात् साधिकारैव सति तदनुरूपाभिषेकं फलति | भवेदाचार्य गोचरे आचार्यमधि कर्तव्येत्यर्थः | ततः सर्वविद्याधिकारेण दीक्षितोऽभिषिक्तश्चाचार्य इत्याचार्यमर्थ सिद्धम् | तदेव साधिकरणे दीक्षाक्रियावती ज्ञानवती सबीजा निबीजा साधिकारा निरधिकारा चेत्यनेक प्रकारा समयि पुत्रक साधकाचार्याणां व्यवस्था कर्तव्यति स्थितम् | अथेदानीमेक योग्या समस्तस्याप्युक्तस्य तात्पर्यार्थव्यापक युक्त्या समस्तं निगमयति | प्. २०) शिवसंस्कार युक्तस्य याच्छिवत्वसमर्पणम् || ३६ || क्रियया वाऽथ शक्त्या वा दीक्षा सा सर्वतोमता || इति || परमोद्दिश्यतया शिवत्वसमर्पणस्य सर्वदीक्षाव्यापकत्वात् | अथ दीक्षाफलं पुरस्कृत्य स्वरूपतो लक्षणं तन्निमित्त भेदं च संक्षिप्याह - दीक्षायामुच्यते देही त्रिविधाद्भव बन्धनात् || ३७ || सा च दीक्षाध्व संशुद्धिः स चाध्वाषड्विधोमतः ||
SKत्रिविधं मल माया कर्मरूपाद्भव बन्धनाद्देहिनोन्मुक्तिः दीक्षाफलं अध्व संशुद्धिः दीक्षास्वरूपं षड्विधोऽध्वा तच्छोद्यतया निमित्तं दीक्षयेति दीक्षामुच्यत इति नियमार्थं दीक्षयैव देहिनो मुक्तिर्ना न्येनेति | न चैवं ज्ञानयोग क्रिया चार्याणां नैयर्थ्यं दीक्षाधिकारत्वात्तेषामध्वनां स्वरूपं षड्विध्यं च दर्शयति - मन्त्राध्वा च पदाध्वा च वर्णाध्वा भुवनात्मकः | तत्वाध्वा च कलाध्वा च विंशत्येकपदं शिवम् || ३८ || संहारवर्त्मनाऽध्वनामुद्देशः ततः शुद्धे संहाराश्रयत्वं लयः खलु साक्षाच्छुद्धि शब्दार्थः | सा च कार्यकारणेन तु कारणस्येति हृदयं सूत्रकारस्य एवोक्तं विंशत्येकं शिवं पदं इति | तत्र षडध्वनामाविर्भावा निरोधाभावोपदेशाद्यस्मादुक्तं श्रीमत्स्वायंभुवे - प्. २१) मन्त्राध्वा च पदाध्वा च इति शिव पदम् | शिवतत्वमिति वेदितव्यम् | तथा तरैवोपदेशात्तद्यथा -
SKशिवतत्वमिदं प्रोक्तं सर्वाध्वोपरि संस्थितम् || इति | ननु षड्विधानां कथं शिवतत्वे लयः संभवति | कारणे हि कार्यलयः न त्वन्यत्र | न चाध्वनां कारणं शिव तत्वमिति समीचीनम् | चिद्घनात्मकत्वात्तस्याध्वनां पुनः पाशभावेन चैतन्यात् | न च विच्छित्यो ध्वनांतिरोधाभावाविर्भावौ निमित्तकारणं तथा शक्ते रुपादानकारणत्वा योगात्तस्मादुपादान कारण एव ध्वनां लयोवक्तव्यः | न तु शिवतत्वे निमित्तकारणत्वाच्छिवतत्वस्ये त्याहुः | केचिन्नो पादान तयाध्वनां शिवतत्वे लय उक्तः | अपि तु निमित्ततयै वेति | तदसदित्यपरे ब्रूते | विशत्येकं शिवपदमित्युक्ते न हि निमित्तकारणेऽध्वनां प्रवेशः संभवति | अथा ध्वनां लयः शुद्धिः सत्यां तत्व शुद्धो दीक्षितः शिवपदं प्राप्नुयादिति शिवपद प्राप्त्युपायत्वपरं विशत्येकमिति तदयुक्तम् | दीक्षितस्यात्र शिव प्रवेश वचनादध्वा विशतीत्यत्रोक्तमुपचारस्तदिच्छेत् | तदप्युक्तं मन्त्राध्वादिनाध्वा संपदाद्युपादान एव संसारक्रमतो निवेशस्य वाचैक देशत उक्तेस्तदेक देशान्तरतोऽप्युपादान एव निवेश प्रत्याय करत्वान्न च दीक्षितस्यापि शिवनिवेशादात्मा प्राप्तिः प्. २२)
SKअर्थवती नियत इदानीं निवेशयतीत्यर्थे विशत्युपचारः संभवतीति विभुत्वाच्छिवदीक्षात्मनोः | किञ्चान्यत् दीक्षायां शिवधामानि दीक्षात्मनो योजनाख्यकर्म करणीयं तच्च विभुक्तस्यानुपपन्नं तत्र तस्योपचार क्रियोजनी तु चेत् सर्वत्रोपचारं वदतः किमापन्नमित्यालम्ब्यामोहेन कथं तत्र निर्वाहः | शिवतत्व एवो पादाने तत्परिणामस्य भोगसमाख्यस्य विन्दोराविर्भावः | तस्माद्बिन्दोः शान्त्यतीतादिक्रमेण कलाध्वन आविर्भावः कलाध्वनः पुनराविर्भूतस्तत्वाध्वा ततो भुवनाध्वा ततो वर्णाध्वा ततः पदाध्वा ततो मन्त्राध्वा इत्येव सृष्टि क्रमेण विपरीत क्रमः संहारक्रम इति अध्वनां षण्णां बैन्दवनया तत्रैव नयो बिन्दोश्च भोगाख्यस्य लयः शिवतत्व इत्येषः शिवनिर्वाहः | सोऽप्यनुपपन्न शैवे व्यवहारोऽयं लयभागाधिकारात्मनां शिवतत्व बिन्दुतत्व सदाशिवतत्वानां पर्वाणि परस्परं कार्यकारण भावोपपन्ना नीति जगदुपादानस्य शिवधाम्न एव सर्व पाशकानां पुर्यष्टकान्वितानां लयास्पदत्वं स्यात् | तस्यामेव दीक्षायां पुर्यष्टका देहयोजन भूमित्वात् | तत्र हि पाशानां लयः मल मायादिकर्मणां विमुक्तं नाम यदनन्तर विमुक्त पाशस्यदीक्षया शिवतत्वाभिव्यक्तिरिति शिवशास्त्रयुक्ते नाकुलता | प्. २३) स चायमर्थः श्रीमत्स्वायंभुवे द्योतितः | श्रीमन्मतङ्गवृत्तौ चोपपादित इति | तदनुरोधेन नहाध्वा शुद्ध्यहानिव्याख्यास्यते | तत्र भुक्तिमस्मिंच्छिव पक्षेणाप्यध्वनां स्वतन्त्राणामेव शिवेशः किं व्याप्य व्यापकमान पारतन्त्र्येणैवेयेत्येवमाशंका यथा प्रगस्माभिरुपन्यस्तं तथैवार्थं वक्तुमारभते - मन्त्राः पदानि वर्णाश्च व्याप्तानहि समन्ततः || निगदव्याख्यानम् | अथाध्व शुद्धे यया सौकर्यः संभवेत् तथानुकूलतः व्याप्तिमुपदिशन्नाह कलाभिस्तानि तत्वानि व्याप्तानीह कलाक्रमात् || ४० || शोधनीया विभाव्यैव पञ्चपञ्चाध्व गर्हिता || ४१ || परमव्याप्तिकाः पञ्चानामध्वनो पञ्चकलास्तेन ना एव दीक्षया विभाव्य शोधनीयाः ||
SKतच्छुद्ध्यैव तद्गर्हितानां प्ञ्चानामध्वनां शुद्धिः संपद्यत इत्युक्तं भवति | अथ संहारक्रमेण कलाशोधनीया इति तदुपविवदिवत् सूचयन्नेव तासां क्रमेण नामधेयानि यथा यमध्वान्तर प्राप्तं ज्ञापयति - निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिश्च नागसी || ४१ || कलाहृत्कण्ठतालु भ्रू ब्रह्मरन्ध्रावधि क्रमात् || निवृत्तौ पार्थिवं तत्वं चिन्त्यमेकं क्षमाक्षमरम् || ४२ || कालाग्नि प्रभृतीनान्तु पुरमष्टोत्तरं शतम् || इत्यादि || ४३ || प्. २४) भवत्येको गुणः शब्दः कारणं तु सदा शिवः || ५७अ || इत्यन्तं पञ्चदश | एवं संहारक्रमेण पञ्चाध्वगर्भ कलाव्याप्तिर्दीक्षाङ्गत्वे नोक्तम् भवति | अत्र संहार क्रमेणाऽश्रयेण युक्तिः पाशबन्धस्य बहिरंगादारभ्य यावदन्तरंगं पाशबन्ध विश्लेष भावना सौकर्यकृता | तथानेकादर्शनात् | तथा हि वृक्षादौ कुठारादिना च्छिद्यमाने प्रथमं त्वगादीनि बहिरङ्गान्युच्छिद्यन्ते | पश्चात्तु तदन्तर्हितसार काष्ठादीनि | इत्येव मिहापि कर्तुं युक्तम् | अत एवोक्तं श्रीमत्स्वायंभुवे - अन्तरङ्गतराः शोध्याः बहिरङ्गतरा अपि | बहिरङ्गेऽपनीते स्यादन्तरङ्ग क्रियाक्रमः || एवमध्वादि वस्योक्त उद्बन्ध क्रमयोगतः | लोके चार्थ व्यवस्येयं दृष्टा वस्तु निबन्धना || इति || किञ्चत्यविपरीते तदपनय सततोऽपि संहारक्रमस्य | दीक्षाभ्यमङ्गं सृष्टि क्रमाश्रयत्वाद्बन्धबन्धानस्य भवत्येत देव | ननु कथं मन्त्रपद वर्णापीति षडध्वशब्दोपपत्तिः | पतिपश्वात्मनोः द्वयोरपि विभुतयाऽभ्युपगतयोः परिस्पन्दा संभवेन गमनार्थासंभवात् | गमनार्थ संभवेन च बद्धबद्धा न स्याध्वा योगादित्थ मयाध्व सन्धानस्य न संभवति | न भूपचारादिति तदसंभवः पाशबन्ध शोधनस्य दीक्षाख्यस्य कर्मणः क्रमत्वात् प्. २५) अस्य च मयादि पाशपरिणयत्वा श्रयत्वे सति तत्परिणतेरपि तत्व भुवनादि क्रमवत्तया ध्वसादृश्यात्तदिदमप्युक्तं श्रीमत्स्वायंभुवे - पतिपुंसोर्विभुत्वेऽपि द्राविडोध्वा तवोर्यथा ||
SKउच्यते तच्छ्रुणु ब्रह्मन् अयनं पुरुषस्य तु | दीक्षाकर्म क्रमेणोक्तं मयापरिणतो यतः || सोऽध्वा परिणतिर्यस्माद्देशादि शयनादिनी || तदेव मायापरिणतेर्दीक्षा कर्मणश्चाध्वना गमेन च | न च सादृश्यादौपचारिकमध्वत्वं गमनं चेति न विभुत्व गतिमुक्तयोरत्र विरोधः | यद्वाऽयं गतिशब्दार्थः दीक्षानल संसार बीजतया पुंसस्तु स्वरूपोपवर्ग गतिरिति | तदप्युक्तं तत्रैव - बन्ध संसार बीजस्य या पुंसः पश्चिमास्थितिः | सा गतिस्तस्य विज्ञेया न देशान्तरसंस्थितिः || इति || ननु चाध्वव्याप्ति वचने शब्दादीनां समासाभ्यां व्याप्तेः पौनरुक्तं दृष्टम् | प्रतिष्ठा व्याप्य त्वान्नेपातेः तत्वजात चतुर्विंशतेः तत्रैव तन्मात्राणामन्तर्भावान्नैष दोषः | तत्व भाव गुण भावयोः निमित्त भेदात् | प्रकृतिभावः खलु तत्व शब्दे प्रवृत्तिनिमित्तं क्रियाव्यतिकरेऽत्रैवा श्रयत्वं गुणशब्दः | प्रवर्तकमिति निमित्त भेदेन च किन्निमित्त भेदाल्लब्धमर्थ भेद सिद्धेरिति वाच्यम् | प्. २६) कार्यकारण भावेनार्थस्यैव विभिन्नत्वात् तन्मात्राणि कारणं प्रथमादीनां सहगुणैर्भूतानां कार्याणि च भूतानि सविशेषणानीति कथमर्थैकयं | एवमर्थ भोनु रुपन्यस्तायां कला व्याप्तौ पौनरुक्त्यं किञ्चिद्बुध कालव्याप्तेर्दीक्षोपयोगित्वमनुष्ठाने नाह - इत्यध्वनां विचिन्त्याथ षडध्वव्यापिनीं पराम् || ५७ || ध्यात्वा शकित्ं तदूर्ध्वे तु भावयेत्परमं पदम् || दीक्षायोपयुधोऽयमुक्तस्याध्वनः तद्व्यापकं शिवतत्वात्मकं शिवस्य परमं पदं लया परपर्यायं भावयेदिति सूत्रार्थः | तदेवं षडध्वनां दीक्षोपयोगं उक्तवा मुक्त्वान्तरं तदीयन्तां विचिन्त्योद्देशेन कथयितु मारभते || अथ दीक्षोपयुक्तानां क्रमेणैव षडध्वनां इयत्तया || ५८ || समुद्देशः कथ्यतेऽत्रविभागशः | क्रमेणैव धारणात् स्वरूपोद्देश क्रमानुरोधेने यत्तया समुद्दिश्यत इति || सद्यो वामस्तथा घोरः पुरुषेशान हृच्छिरः || ४५ || शिखाधर्मास्त्र मूलं च मन्त्राध्वा समुदाहृतः || ६०अ ||
SKअयमभिप्रायः || यद्यपि मन्त्राणां कोटयः सन्ति यद्यपि च मन्त्रणामानन्त्यतयाऽपि तेषां सर्वेषां सद्यादिमूलपर्यन्तैरेकादशभिरेव मन्त्रैः व्याप्ति बीजत्वाच्च दीक्षायास्तत्वा मन्त्राध्व भावो एकादशानामेवैषां विलोमत उद्दिष्टानां प्. २७) इत्येवं पदवर्ण भुवनादिष्वपि योज्यम् | तेषामसंख्यत्वे व्यापकपद दिनावेवाध्व भावेन दीक्षाङ्गभावात्तच्छुद्ध्यैव सर्वमन्त्रपदवर्ण भुवनादीनां शुद्धयुपपत्तेः | एवं सति व्योमव्यापिमन्त्र सम्बन्धिन्येकादश पदान्येव यथा प्रागुक्त वर्त्मना विलोमत एव स्वीकर्तव्यानि | स्पष्टम् || एकाशीति पदैरेवं पदाध्वा परिकीर्तितः | ६०ब् || अकारादि क्षकारान्ता वर्णाध्वा समुदाहृतः || ६२अ || सुबोधम् | अथ भुवनाध्वोच्यते || कालाग्निरथवा कूष्माण्डं हाटकं ब्रह्मवैष्णवम् || ६२ब् || इत्यादि || निवृत्त्याख्य कलायां च ज्ञेयमष्टोत्तरं शतम् | इत्यन्तं निगद व्याख्यानम् | प्रतिष्ठाकलाया भुवनान्युच्यन्ते | अमरेशः - पुष्करे दधिरित्यादि | निगद व्याख्यानान्येतानि || अथ मरेशादीनां श्रीकण्ठानां विलोमतो व्याप्तित्वादारभ्य प्रकृति तत्वपर्यन्तं आश्रयविभागं सप्ताष्टकयाताञ्च दर्शने च प्रतिष्ठाकला व्याप्तिमुपसंहरति - अमरेशादि चाप्तत्वे हरिश्चन्दादि तेजसि || ८४ब् || गयादि वायुतत्वे च व्योम्निवस्त्रापदादि च || ८५ || छगलण्डाद्यहंकारे पैशाचाद्यं मनस्थितम् | प्रकृता वकृताद्येवं षट्पञ्चाशत्पुराणि तु? || ८६अ || प्. २८) ज्ञातव्यानि प्रतिष्ठायां अमरेशादि नामभिः || ८६ब् || अथ विद्याकला व्याप्तिमधिकृत्य भुवनान्याह - वामो भीमस्तथोग्राश्च भवेशानेक चीरकाः || इत्यादि || ८७अ || वामादीनां पुराणान्तु विद्यायां सप्तविंशतिः || ९१अ || अथ शान्तिकला व्याप्तिमधिकृत्य भुवने यदुच्यते - निवृत्तादीन्यतीतायां पुराणिदशपञ्च च || ९७अ || अत्रोक्त वर्त्मना समस्तानामपि भुवनानां महासंख्यां निगमयति एवं पञ्चकलावर्ति भुवनानां शतद्वयम् || ९७ब् || चतुर्विंशोत्तरं यत्तद्भुवनानीति वर्णितम् || ९८अ ||
SKभुवनानि नैव तावन्ति अपि तु एभ्यो व्यतिरिक्तान्यपि दिव्यागमोपदिष्टानि विद्यत एव | तथापि दीक्षायाः सौकर्यार्थः तेभ्योऽस्मादिभिरुपपादिता न्येतावन्ति यानि पुरतो व्यतिरिक्तानि शिवागमेषूक्तानि तेषा मेष्वन्तर्भावः ऊहनीय इति तात्पर्यार्यः | ननु कला पञ्चक व्याप्तिका उक्ताः | मन्त्रपदवर्ण भुवनादीनां भवत्य श्रीमत्स्वायंभुवादौ पुनः पदव्याप्तिरितराध्वनां व्यज्यत इति नियमः | ततश्च वास्तव तत्वमागमार्थस्य भवतीति वस्तुनो विकल्पा सहत्वान्नैष दोषः | दीक्षा वैकल्पे ..... ध्वाश्रितैः दिव्यागमेषु दीक्षासमाङ्गा लीयते अपि तु तत्वभुवनाद्यध्वान्तकाश्रितापि प्. २९) तथैवमपि वस्तु विकल्पादि वृत्तिः वस्तु व्याप्तेरैक्यैक वृद्ध्यादिति चेत् सत्यम् | वास्तवी व्याप्तिरेकैव सा शक्ति तत्वात्मिका वा समस्ताध्व मुखत्वाच्छक्तितत्व शिवतत्वयोरध्वसु पुनः षट्सु तद्भा * * * * * * * * वास्तव सा द्वयाप्ति भेदोऽपि निवस्तु वृत्तिं रुणद्धि | कूटस्था वा एवं व्याप्ते रध्वसु निवृत्तेः किंन्त्वस्त्वत्र त्ववधारिणीम् | किञ्चा ध्वनामपि व्याप्यव्यापक भवाऽभ्युपगमे कलाध्वन एव व्याप्त्या सर्वाध्व दीक्षास्वप्य ध्वनि पर्वाव्यवस्थेदोङ्गीकरणीय इति कलाभ्यो व्यतिरेकेण सदाशिवादि पञ्च * * * * रणाधिष्ठानान्वयः | * पदावच्छेदेनोच्य मानायामपि सत्यां कलाभिरेव पञ्चभिः पदानां व्यूहः पञ्चधावच्छिद्यते | कलानामेव साक्षाद्व्यवच्छेदकत्वाद्ययोक्तमध्व व्यापिपदस्थले ॐकारात्मतया भवति शान्त्यतीतः परपरः शिवः प्रथमावच्छेदार्थद्वितीया वच्छेदाय पुनः व्योमव्यापि पदस्थेषु पञ्चमन्त्र * * * * मन्त्रसंज्ञोऽध्वानव व्यूहोरक्षादिकः व्योमादिरूप पर्यन्ते सप्ताक्षरपदे स्थितः | इति तृतीयावच्छेदार्थन्तु ॐकारादि शिवायान्तं पदपञ्चकलंक्स्.इतम् | विद्यातत्वं ततो विद्याद्विद्याध्वादौ व्यवस्थितम् || प्. ३०)
SKविद्या तत्वं ततो विद्याद्विद्याध्वादौ व्यवस्थितम् | इति चतुर्थावच्छेद पञ्चमावच्छेदावधीकृत्यतेभ्योयाध्वा प्रतिष्ठायाध्वा प्रतिष्ठाया द्वात्रिंशत्पदस्थितिः निवृत्तेरपर * * * * वं प्रकीर्तित इति | व्याख्यातञ्चैतदस्याभिः सर्वं तच्च श्रीमत्स्वायंभुवे वेदित एव द्रष्टव्यम् | तस्माद्वरुणगुरुरपि कलाभिरेवाध्वान्त व्याप्तिमुपदिश्यत्यथोस्मदुक्तं वर्त्मन्यत इति सिद्धं भुवने यत्रादिदरत्वे यत्तमाह - अथ तत्वानिषट्त्रिंशत् पृथिव्यप्तेजोमरुद्वियत् || ९८ब् || इत्यादि निगद व्यानमेतत् || अथ कलाध्वन इयत्तो * * * * श्र प्रतिष्ठा च विद्या शान्तिस्तथापरा | अतीतेति कलापञ्च दीक्षा बीजप्रकरणमुपसंहरति || समुद्देशष्षडध्वानां इत्येवं षडध्वानां उद्देशः शिवदीक्षा बीजावगतयो रस्माभिः कृत इत्युपसंहारस्य तात्पर्यार्थः | इति भट्टशिवोत्तम कृतौ वरुणपद्धतिवृत्तौ आद्यं प्रकरणाम् || अथ ययाप्रतिज्ञात कर्म बीजकं निदर्शयितु कामः प्रथमं प्रधान बीजमाह - ज्ञानशक्त्यात्मके लिङ्गे क्रियाशक्तेः समर्पणम् | पीठस्य विधिनायोगः प्रतिष्ठा संग्रहेयो?क्तेति वाक्यशेषः | अनेन शिवस्य शक्तिः देहमधिष्ठानमपारं पर्यायं प्. ३१) हृदि कृत्य तदेवाधिष्ठानान्मूर्तिभूतं ज्ञान शक्त्यात्मना च त्रिविधं | तत्र लिङ्गं ज्ञानशक्त्यात्मकं पीठं क्रिया शक्त्यात्मकं * * * * यथात्मवेदिना शिवाचार्येण शिवशास्त्रोक्तेन वर्त्मना गुण प्रधान भावेन क्रियमाणं संयोजनं संग्रहात्प्रतिष्ठा शब्दस्यार्थ इत्युक्तं भवति | तथाह शिवः साक्षात्स्वयं चिद्घनत्वात्समवे *?तया परया संविल्लक्षणया ज्ञानशक्त्यैव स्वतोऽन्यत्सर्वं जानाति | तत्तया प्रपञ्चस्यायं कर्तृकारकतया शास्त्रोपपत्तिभ्यामधिगम्ये तावत एवोक्तं | अथ पत्युरधिष्ठानं स्वशक्तिकारणात्मकमिति |
SKयस्मात् सा च शक्तिः करणात्मिकमधिष्ठानात्मकं शिवस्यात्मनो यस्य तस्मादज्ञानशक्तिरेवैषा तस्यमूर्तीति शास्त्रेषूच्चार्यते | आत्मोपलक्षकत्वाल्लोके मूर्ति शब्दार्थः * पुनरञ्जसा तादृशस्य मूर्ति शब्दार्थस्या घटनात्मकत्वात्तंदुपलक्ष्यत्वा संभवे तत्समवायिनी ज्ञानात्मिका शक्तिरेव प्रथममुपलक्ष्यतां यातीति मूर्तिरुपचारस्य निमित्तं शिवमूर्तित्वेन च लिङ्गस्यैव प्रतिष्ठा क्रियत इति | ज्ञान शक्त्यात्मकमापाद्यत एव प्रतिरूपकत्वाच्छिवस्य कर्तृत्वं ज्ञानाधार तयेति ज्ञानशक्तिरेव तस्य कर्तृत्वं प्रतिपादयति तदवस्थायां क्रियाशक्त्युपचर्यते | क्रियागर्भत्वाल्लोके प्. ३२) कर्तृत्वार्थस्य स्वतन्त्रस्य च कर्तृत्वमिति स्वातन्त्र्य प्रतिपादकेच्छयापि भवितव्यम् | स्वेच्छालक्षणत्वात् | स्वतन्त्रस्य च शिवस्या व्याप्तकामतया न मुख्येच्छायोग इति ज्ञानशक्तिरेवोक्तोपाधिना शिवेच्छेत्युपचर्यते | तस्माद्ज्ञानशक्तिवत्स्वारसिककस्य च क्रियाशक्तित्वं पुनस्तदवस्था कल्पमिति बहिरङ्गत्वस्य सिद्धिः | यच्चेदं बहिरङ्गत्वं एतदेव क्रियाशक्तेः पीठत्वे उपरिनिमित्तं तदभिप्रेत्योक्तम् - ज्ञान शक्त्यात्मके लिङ्गे क्रियाः शक्तेः समर्पणम् || इति || तस्यैव विवरणं पीठस्य विधिना योग इति यथा शास्त्रमनुष्ठानं विधि शब्दार्थः | अत इदमप्यत्र समर्थितं भवति | शक्ति त्रयास्पदं विश्वमिदं क्रियत इति | तद्व्यापकत्वादारम्भ शब्दार्थस्य तस्यचारम्ब्भार्थ व्यापकत्वादभिमतमभिप्रेत्योक्तं नित्य शक्तित्रयोन्मेषकृतच्छत्रञ्जगत्त्रयं जयत्यत्वार्क विषयप्रभवः | प्रभुरीश्वर इति चेयमुक्त लक्षण प्रतिष्ठा तस्या नानात्वं तस्यापाञ्च विध्यञ्च सूचयति | आ च पञ्चधा प्रतिष्ठा स्थापनं चैव स्थित स्थापनमेव च | उत्थापनं च संप्रोक्तं तथा स्थापनमित्यपि || २ || निमग क्रमेण पञ्चानां विषय व्यवस्था लक्षणमाह - लिङ्गे ब्रह्मशिलान्यास पूर्वके योज्य पिण्डके || ३अ || प्. ३३) बाणादयः पृथक् पीठे जीर्णे व्यक्ते यथा क्रमम् | ३ब् |
SKयत्र लिङ्गे ब्रह्मशिलान्यासं पुरस्कृत्य प्रतिष्थाक्रियते तत्र व्यत्कादौ क्रियमाणस्य प्रतिष्ठा प्रतिष्ठेत्येव संज्ञा भवति | यत्र पुनरायोज्य पिण्डिकामात्रं तदायोज्य पिण्डिकां लिङ्गं तच्च बाणादि लोहरत्नमयं तस्माद्बाणादौ क्रियमाण प्रतिष्ठा कर्मस्थित स्थापन संज्ञितं भवति | जीर्णोद्धृतिरुत्थापनं पूर्वं पीठमास्थाप्य तस्मिन्नुक्त लिङ्गस्य निवेशनमास्थापन संज्ञकं भवतीति सूत्रार्थः | प्रथमं प्रतिष्ठाख्यस्य कर्मणः संज्ञा लक्षणाभ्यां पाञ्चविध्यं दर्शयित्वानन्तरं प्रतिह्वयस्य कर्मणः शास्त्रान्तरानुरोधेन वैकल्पिक लक्षणान्तरमाह - मूर्ति मूर्तीशविन्यासः तत्व तत्वेश्वरान्वितः | अष्टधा पञ्चधा यत्र प्रतिष्ठा सा विधिः क्वचित् || ४ || मूर्तयोऽष्टौ पृथिव्यादीनि पञ्चभूतानि सूर्याचन्द्रमसौ यजमानश्च मूर्तीशः | पुनः शर्वभव रुद्राश्चोग्र हीमाः पञ्चभूतेषु यजमाने पशुपतिश्चन्द्रमसी महादेवस्सूर्येत्वीशान इत्यष्टौ मूर्तीशाः इति केचिद्वरुण गुरुः मूर्तिमूर्त्यधिपाद्य सव ...... मनेन क्रमान्तरं वक्ष्यति | तत्रैव व्याकरिष्यते | एवं सत्येवं सूत्रार्थः | यत्र प्रतिष्ठा कर्मणि मूर्तिमूर्तीश विन्यासोऽष्टधा क्रियते यत्र वा मूर्तिर्तीश विन्यासमुत्सृज्य वक्ष्यमाणसूत्र प्. ३४) निर्दिष्ठानां तत्वानां तत्वेश्वराणां च पञ्चधा तूर्य आश्रयते | तयोरुभयत्र क्रियमाणमेव प्रतिष्ठाकर्म प्रतिष्ठा संज्ञकं नान्यदिति | अथ लक्ष्मोद्धारमधिकृत्य तद्विकल्पयन्वक्तुमुप क्रमते - रुद्रभागे त्रिधा भक्ते ब्रह्मरेखानुसारतः | अधोभागद्वये लक्ष्मलक्षणं चिह्नमित्यर्थः | सुयोजनमन्यत् | किन्तु कस्येवं चिह्नमित्येव धारणीयम् | यतो बहुधा शस्त्रेषूक्तयस्तावन्मात्स्यपुराणे पुराणोदाना ध्याये श्रेयो लैङ्गस्योत्पत्ति भूता | यत्रास्ति लिङ्गमध्यस्थ प्रभा देवोमहेश्वरः |
SKतल्लिङ्गमिति तदनुसारेण विद्याकलायलिङ्गमित्याख्यात तेजायां घटस्थत्वात् तस्या मायोच्चा व्यापकतया तस्यामेव विश्वस्य मायोपादानस्य नयनल्लिङ्गमुच्यत इति इह शास्त्रेव्युत्पादनं लिङ्गशब्दस्य अन्येत्बाहुः अव्यक्तं लिङ्गमिति यस्मादुक्तं श्रीमल्लैङ्गपुराणे - अलिङ्गोलिङ्गमूलन्तु चाव्यक्तं लिङ्गमुच्यते | तल्लिङ्गशिव इत्युक्तो लिङ्गं शैवमिति स्थितम् || अस्य च मूल श्रुतिर्यथा - शिवलिङ्गसूक्ते स्थाणुरव्यक्तादभवन्महेश शिवस्सदा सत्परव्योमनित्यादिकाः | अपरे पुनः एतामेव श्रुतिमवलम्ब्य परमव्योमिकां शान्त्यतीत कलामेवेदं लिङ्गं प्. ३५) इति | तथोक्तं च पुराणकारैः - आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका | इति | अपरे पुनराहुः सर्वमिदमुक्तं स्थूल लिङ्गाश्रयमिति यस्मादुक्तं श्रीमद्धर्मशास्त्रे - लिङ्गमध्ये परं लिङ्गं स्थितं प्रादेश संस्थितम् | समाधिस्तोत्रसम्पन्नो दृष्ट * * * * वतौ शिवात्मिकम् | नैव तत्काञ्चनं रूप्यं ताम्रं स्फाटिकमौक्तिकम् | लक्ष्यमात्र स्थितं शान्तं केवलं तच्छिवात्मकम् || इति तदेव लक्षणमुद्धार्यमाणं तस्योपलक्षणमिति चिन्त्यम् | तत्र परमशिवस्येदमुपलक्षणमिति केचित् तदुक्तम् | शिवस्यो परमस्य लिङ्गतया शिवलिङ्गोपरि पूजनीयात् | परलिङ्गत्वाल्लक्षणञ्चास्योद्ध्रियमाणस्या येद्येवं तर्हि ज्ञानशक्तिरेव तल्लक्षणमस्तु | तदप्यापादसुभगं परापरलिङ्गयोरपि शिवमूर्ति प्रतिरूपकतया ज्ञानशक्त्यात्मकत्वा विशेषाद्यः खल्विह मूर्तिभूतमङ्गी क्रियते | तत्र सर्वज्ञः शक्तात्मकमेवेति | ततो व्यतिरिक्तमेव वस्त्रपरिलिङ्गमिहोपपादनीयं तत्राहुः | केचित् यतः इदं जगत् षडध्वमाया विभूयतिरो भवति तत्परनादात्मकं परबिन्द्व परपर्यायं तदेव लिङ्गमध्यस्थं परलिङ्गमिति | तत्र चोदयत्यपरे अथ तावद्भवच्छब्दः कारणादक्षरं ततः || इति प्. ३६)
SKश्रीमत्स्वायंभुवे उक्तं | तस्मात्परा व्युत्पत्तिश्रवणात् कथं च नु तस्याध्वामूधः तत्तिरेणैव समस्ताध्वमुखेन भवितव्यम् | यस्मिन् सति जिज्ञासा नोपलक्षणं स्यादिति तत्र बिन्दूपादान वादिन आहुः | बिन्दुशक्तिशिवेभ्यो नान्यत्कारणमिति कार्यस्य विश्वस्य शिवोनिमित्तकारणमेव नोपादानं चिद्घनात्मकतया तस्य प्रकृति भावाभावाच्छक्तिः पुनः उपादानस्य क्षोभयंकतयास्मपादिधिकार तु यामलतः | अतः परिशेष निमित्तकारणं इति कार्यस्य विश्वस्य तत्र शिवोति निमित्तकारणत्वायामलतः परिशेषात्कारणकोट्यन्तर्भूत इव सत्यमपि समवाप्त?यिकारणता प्रतिपाद्यते ततः परिशिष्टो बिन्दुरेवोपादानं विश्वस्य तस्यैव लक्षणत्वं प्रकृतत्वमङ्गीकरणीयम् | ततश्चाविर्भवतिरेणाभावा न संभवत इति | ये च पुनः शब्दः तस्यापि नित्यत्वं न सहन्ते | व्याप्तिबलात्तेन प्रागुक्तमभ्युपगच्छन्ति | तत एवाहुः न तावच्छिवशक्ति सि * * * * द एव सर्वस्य नञ्जनः | अपितु लयाख्य शिवतत्वाख्यं वस्तु न तु शिव एव तत्व लयात्मके त्वङ्गीक्रियमाणे उपादानत्व प्रसङ्गान्न तु शिवोपादानं जगदिति सैद्धान्तिकश्चित्परिणामानामभ्युपगमात्तस्माल्लयाख्यमेवात्र लिङ्ग मध्ये परिलिङ्गमित्यभिधीयते | तदुपलक्षणं चेदं प्. ३७) इदानीमुद्धार्य लक्षणमिति सम्यक् तत्वविदः | अथ लक्षणस्योद्ध्रियमाणस्य विस्तरं रेखा यः * * * * ञ्च दर्शयति | लिङ्गायामेजिनांशे तु (लक्ष्म) लक्ष्मविस्तृतिरंशतः | पृथ्वी निम्ना च तद्रेखां विस्तृते नव मांशतः || ६ || लिङ्ग शब्देन रुद्रभागः कृत उच्यते तस्य लिङ्गायामो दैर्घ्यं तस्यां शेषु कियत्संख्येष्विति | अत उक्तं जिनांशेति मुक्तं भवति | मेध्यदेक मङ्गलं लक्षणस्य सरेखस्य विस्तार मानत्वेन स्वीकुर्याद्यो यमेकांशोलक्ष्मविस्तारमानेन * * * * पुनर्नवधा विभज्यैकेनांशेन समविस्तार निम्ना च यथा भवति तथा लक्ष्मरेखा कर्तव्येति सूत्रार्थः | अथ पक्ष सूत्रस्या निदर्शयति -
SKलक्ष्माध्वा पक्षरेखेद्वे तत्क्षेत्रेऽष्टाङ्ग भाजिते | षट्सप्तांश भ्रमाद्भ्रष्टे तद्योगो विवर्जनात् || ७ || लम्बसूत्रादारभ्य पक्ष्मसरेखाद्वे सूत्रभ्रमेण कर्तव्येति सूत्रार्थः | सूत्र भ्रमेण * * * * यत्क्षेत्रं तस्मिन्नष्टधा भक्ते सति भागद्वयमयो वर्जयित्वा भागषट्कमष्टकं वा तत्क्षेत्रे सप्रमाणेन सूत्रार्थेनाद्यं चन्द्रवद्भ्रामयेद्यावता लिङ्गप्रतिष्ठे तयोरेखयोः संयोगो भवतीत्युक्तम् भवति | तदेव समस्तलिङ्गासाधारणरक्षयो भूमन्दर्शयित्वाऽधुना प्रकारान्तरेण तद्भ्रमणं दर्शयति प्. ३८) वह्निभक्ते तु तत्क्षेत्रे * * * क्ष्मसन्तति भूत्यर्थमधोभागार्ध वर्जनात् || ७ || यत्प्रागुक्तं क्षेत्रं तस्मिन् त्रिविधा विभक्ते सत्ययं विशेषः | अथोर्ध्व भागं स्थापयित्वा तदुपरि अवशिष्टं सार्धभागद्वयं पञ्चरेखा भ्रमणाय कल्पयेत् | किमर्थं लक्ष्म सन्तति भूत्यर्थं पञ्चरेखा भ्रमणे कृते प्रागुक्तमारिशयने पक्ष्मसन्तानस्य भ्रमः स्यादिति | अ * * * * पक्ष्मरेखाभ्रमणार्थैकतोल्लक्ष्मलक्षणमुद्ध्रियमाणः कर्तुः सन्तति भूत्यर्थं भवेदिति | तदसत् | अनन्तरं सूत्रपायात्कस्तत्पायः तत्क्षेत्रवद्दर्शयिष्यते तदिदं साधारणं विधायै तत्कृत्य भेदे तदन्य या प्रकारद्वयमत्युक्तं समस्तलिङ्गधारणत्वेनोक्तं | वश्याकर्षण कृत्य भेदेतु तदेवान्यथा कर्तव्यमिति | तद्यथा प्रतिष्ठां विधायकयास्त्रं सिद्धं न च तदिह दर्शनीयं प्रतिष्ठी बीज मात्रस्यास्माभिः वक्तव्यत्वादिति | अथवा सार्ध भागद्वयतः पक्षरेकाधिकारमधि कारेस्यातां | अत एवोक्तं पिङ्गलामते लम्बार्धगुणवत्कृत्वा भागद्वयस्य तु | सार्ध तत्सूत्रं लक्ष्म भोगमोक्षार्थमिच्छतामिति | तस्मात्साधारण विधावेतदिति सूत्रमन्यथोपपन्नम् | भोगमोक्षयोः साधारणकोट्य निक्षेपात् कृत्यभेद इत्युक्तेत्वाभिचारादिविषयत्वाच्च प्. ३९) अव्यक्तादि लिङ्गेषु लक्षणोद्धारं दर्शयित्वा इदानीं प्रथम मुख लिङ्गादौ लक्षणं स्थापयति -
SKनयनोन्मीलनं व्यक्ते व्यक्ताव्यक्ते च लक्षणम् || ९ब् | व्यक्तं प्रतिमादि व्यक्ताव्यक्तं तु मुखलिङ्गं सुबोधमन्यत् | अथ लक्ष्मस्य बाधां विषय भेदादाह - न बाणादौ चले तत्र न लोहे नापि रत्नजे | १०अ || लक्षणोद्धारणं कार्यं इति वाक्यशेषः | पीठे विलक्षणं दर्शयति रन्ध्रमध्ये भगाकारं ऊर्ध्वाग्रं लक्ष्मपीठकम् || १०ब् || सुयोजनमेतत् किन्त्वे तन्मूलस्य दृश्यरेखाकरणमित्या रन्ध्रस्यैव त्रिभागेन तंमूल * * * द्रमरेखियत् || ११अ || लिङ्गवद्रणि त्रिधाभवन्त्योत्तरं भागांशं प्रथममवस्थाप्य अधस्तत एव भागद्वये भगाकारस्य मूलं यथा भवति तथा हस्तं परिभ्राम्य लिङ्गलक्षणरेखानुरूपविस्तारगांभीर्यवति भगरेखागुप्तं करणीयमित्युक्तं भवति | तस्मादुक्तं पिङ्गलामते - उत्कीर्य लक्षणं तस्या भगाकारं तु रन्ध्रकम् | यथा नु दृश्यते लोकैः गुह्यं शक्तिमयं परम् || इति लिङ्ग पिण्डिकयोरुद्धृत लक्षणयोमधु घृतादिभिः आसेचना दारभ्य पञ्चगव्यमूर्तिं कुम्भकषायन्गन्ध क्षीर क्षौद्र शुद्धोदकैः स्नपनम् | पूजा नीराजनरथयात्रा निद्राशयन कुम्भन्यासादिकं च यथा प्रयोगं पद्धति - प्. ४०) कारोक्तं क्र्त्वा यथा वक्ष्यमाणं मुमुक्षुसाधक कम्याधिकारानुरूपं लिङ्गपीठ शिलासु मूर्ती शादिविन्यासानन्तरं कर्तव्यानाह - लिङ्ग पीठशिलानां च व्याप्तिस्तत्वादितः क्रमात् || ११ब् || शिवशक्ति सदेशान्ताञ्चिन्तयेदिति वाक्यशेषः | तत्र लिङ्गेन पीठस्य पीठेन शिलाया व्याप्तिस्तावत् क्रमेण भावनीया | तदनन्तरं सृष्टिक्रमात्तत्वादित आरभ्य लिङ्गपीठस्य शिलानां यथा संख्यं शिव शक्तेः शक्तितत्वेन सदाशिवतत्वेन व्याप्तिरनु सन्धेयेति | ततः परं तेष्वेव लिङ्गा * * * त्रिषुवृत्येकं संहारक्रमात्त्रिखण्डपरिकल्पनं व्याप्ति बुद्धिं च कर्तुमाह त्रिखण्डं कल्पयेत्पुनः || १२अ || विद्याशक्ति शिवप्रान्तं माया सा देश शक्तिकम् || १२ब् || शब्दं चित्तं सदेशान्तं लिङ्गे पीठेऽश्मनि क्रमात् || १३अ ||
SKएतदुक्तं भवति | लिङ्ग मधस्ताच्छुद्धविद्यामयं मध्ये शक्तिमयं प्रान्ते शिवमयमित्येवं व्याप्यव्यापकतया गर्भं त्रिखण्डं भावयेत् तथा पीठमधस्तान्मायामयं मध्ये सदा शिवात्मकमन्ते शक्ति तत्वात्मकमित्येवं त्रिखण्डं व्याप्तिं कल्पयेत्तथाश्मनि शिलायामधस्तात् पृथिव्यादि शब्दतन्मात्रान्तं मध्ये कर्मेन्द्रियादि बुद्ध्यन्तमन्ते गुणतत्वादि सदाशिवात्मकमित्येवं त्रिखण्ड व्याप्ता परिकल्पयेदिति प्रसंगात् | प्. ४१) प्रसादे हृत्कुम्भ प्रतिष्ठानीजत्वेनाध्व व्याप्तिं त्रिखण्डपरिकल्पनाञ्च दर्शयति - मया तत्वान्तिकाव्याप्तिः हुत्कुम्भस्य प्रकीर्तिता || १३ब् || त्रिखण्डाध्वा पुनश्चित्त कलामाया वसानकम् ||१४अ || प्रङ्न्यासेन सुयोजनमेतत् | हृत्कुम्भेऽस्मिन्मूर्तिभूते न्यासनीयं रत्नौ षध्यादिकमन्यच्च तस्मिन्कल्पनीयम् | अथ यो हृत्कुम्भेन मूर्तिभूते सति मूर्तिमत्येनाबाह्य प्रासाद नामापुरुषः तस्याध्व याप्तिं त्रिखण्डेन ज्ञापयति पुरुषस्य त्रिखण्डत्वं शब्दधीपुरुषावधि || १४ब् || प्राङ्न्यासेन सुयोजनमेतत् | हृत्कुम्भस्य मूर्तित्वं प्रलयकालस्य चिदात्मना तन्मूर्तिछाग युक्तिभ्यां लब्धम् | यस्मादुक्तं पिङ्गलमते - समावाह्यात्म तत्वं च घटवर्त्मनि वेशयेत् | सर्वभूतात्मवृत्तिस्थं व्यापकञ्च विदीश्वरम् || तत्कर्मानुग्रहात्मानं अधिकारमलान्वितम् | नियत्यादि कलामाया रागविद्या समन्वितः || माया प्रसूति संसक्तं ध्यात्वेवन्तु निरोधयेत् || इति | यौक्तिकञ्चैतत् | प्रासादस्यापि लिङ्गवच्छिवमूर्तिविशेषत्वाच्छिव मूर्तीनाञ्चाधिकार मलान्विताविशेष विहितामो शिवं प्रतिमूर्तिभावः साक्षादिति श्रीमन्मतङ्गस्वायंभुवादि व्याख्यानेषु प्रतिपादितमित्युक्तं प्रसङ्गेन | प्. ४२) अथ हृत्कुंभप्रसङ्गे निष्ठा प्रसंगेन द्वारादि प्रतिष्ठा बीजभूतां व्याप्तिं दर्शयति - द्वारप्रासाद चूडानां व्याप्तिर्लिङ्गवदीरिता || १५अ || प्रसङ्गादुत्सृज्य लिङ्गप्रकरणत्व व्याप्त्यनन्तरमुपदिशति | कविष्ण्वीशान्तके तत्र न्यसेत्तत्वत्रयं क्रमात् || १५ब् ||
SKस्व स्वतत्वाधिपोपेतमात्म विद्याशिवात्मकम् || १५अ || को ब्रह्माविष्ण्वीशानामशास्त्रयो लिङ्गे ते वपत्यपेक्षयैकवनेन सप्तम्यानिर्दिष्टं तत्र देषु निर्दिष्टानुरोधेनात्म तत्व विद्यातत्व शिवतत्वात्मकं तत्वत्रयं मूर्तिभूत स्वस्वतत्वाधिपे ब्रह्मविष्णु रुद्ररूपोपेतं तथा तत्व व्यापि भाव्य प्रयोगमित्युक्त वर्त्मना धिपान्वै स्पर्शहोमान्त षक्तमन्त्रे न्यसेदिति सूत्रार्थः | तत्वात्म विद्या शिवात्मकमिदं तत्वं त्रितयं शक्तित्रयावस्थात्मकमिति सिद्धान्त शक्तिमयं च शैवं समस्तकार्य व्यापकं च न तन्निवर्तकमुत्कृष्टम् | ब्रह्मविष्णु रुद्राश्च सकलात्मक पशुष्वाम विध्यतापरि वृत्तिषु सर्गस्थित्यन्त कर्मकारितया पत्यामनस्वाधिकार पर्यवसाने यथात्र स्वकर्मविपाकं पुनरविबद्धा मुक्तापास्युरतः शक्तित्रया पेक्षयानुत्कृष्टाः प्रति परिवृत्ति ब्रह्मात्यन्तपरिवृत्तरेवञ्च कथमेव त्रितत्व त्रयाधिपत्यमुपपद्येते | नैष दोषः | सदाशिवादिष्वपि उक्तार्थस्य विद्यमानत्वात् | तेऽपि शिवस्यमूर्त्यापत्यात्मनः प्. ४३) स्वाधिकार पर्यवसाने मुच्यन्ते | एतेष्वपि मुक्तेषु संसारानुच्छेद परिवृत्यन्तरे सदाशिवान्तमीश्वराज्ञा प्रवर्तत इति | तत्राप्ययं समान उत्कर्षापकर्षा पर्यनुयोगः | अथास्तेव तेवेन्तथापि अनुपपत्तिः तदवस्येति चेन्न | तादवस्थ्यं तस्या ईश्वराज्ञाधिष्ठानस्यैव तादृशत्वादाज्ञैवं खल्वीश्वरस्य भुक्तिमुक्ती व्यवस्थापिता | कथमीदृग्दोषाय घटते किञ्चान्यलोके वहषुचरम् || तथा हि पुरग्रमजनपदादीनां राजैवाधिपतिः साक्षात् तथापि ते तदा ज्ञया तन्मन्त्रिभिरधिष्ठीयते | किञ्चित्कालं कान्तारे पुनस्तमन्त्य भरैरिति दृष्टमेवाष्माभिः | एवं शिवस्यैव शक्तित्रयमुत्कृष्टमेव सत्समस्तन्निवर्तयति | ब्रह्मादयस्तु परिमितकालास्तस्याधिपत्यं कुर्वत इति नाऽनुपपन्नं किञ्चित् | अथ मूर्ति मूर्तीश विन्यास व्यवस्थाविशेषं ज्ञापयन्नाह - अष्टवा पञ्चवा यत्र मूर्तिपानि यदास्वयम् || १६ब् || ब्रह्मविष्णु हरा एव लिङ्गे तत्वत्रयाधिपाः || १७ ||
SKक्ष्मावह्नियजमानार्क जलवायु निशाकराः | व्योमान्ता मूर्तयश्चाष्टौ न्यस्तव्याः प्रतिखण्डकम् || १८ || शर्वः पशुपतिश्चोग्नोरुद्रश्चैव भवस्तया | ईशानश्च महादेवो भीमश्चेत्यष्टमूर्तिपाः || १९अ || प्. ४४) लिङ्गमित्युपलक्षणम् | पिण्डिकाशिल्पयोरपि तत्वतः त्रयं तदधिपादि न्यासस्य वक्ष्यमाणत्वात् | अत एवोक्तं पिङ्गलामते लिङ्ग भागेषु तत्वत्रय व्याप्त्याध्वशुद्धहोम रुद्रादीश स्पर्शाद्युक्ता नान्तरं तथा पीठ क्रियां व्याप्त्याशोध्य मूर्तिसमन्वितं सा क्रियाख्या विधिः सोऽत्र किन्तु भोग्यत्व कल्पित भोक्तृत्वेन परो नाथोज्ञानशक्त्यात्मको विभुरिति | तथा तत्रैव ब्रह्मा का शिलाया च साध्वसाधारिणी स्थिता | सत्वैकमूर्ति तत्वानां ताञ्चसम्यग्विरोधयेत् | शुद्धे तृतीये पूर्वो वा ब्रह्मविष्णुहराक्रिया || ज्ञानेच्छा च यथा संख्यमेकै खण्डस्य व्यवस्थिता? | भवे यक्ष्मादिमूर्तयः शर्वादिमूर्तिपाश्चाष्टौ पुतथ जघन्यस्तव्या इत्येकोऽपि इयं विशेषः निशेषान्तर सूक्तं अष्टौ वेत्रादिना सूत्रेण द्वयिभिहितिः | मूर्ति मूर्तीश विन्यासस्थाष्टधा पञ्चधा वा | तत्राष्टधा कॢप्तिर्व्याख्याता पञ्चविध्यानुभूत पञ्चकनिवृत्ति कलापञ्चक विन्यासतो ब्रह्मादिकारणेश्वर सदाशिवादि ब्रह्मपञ्चकविन्यासतश्चेति सूत्रपूर्वं व्याख्यास्यते | मूर्तयोऽष्टौ यथा निर्दिष्टा तथा क्रमेण मूर्त्यधिपाश्च निर्दिष्टा इति वेदितव्यम् || एवं मुमुक्षोरुक्ता बुभुक्षोस्तु मूर्तिशान्तिरन्यासमाह - शुद्धविद्यादि शक्त्यन्ते बुभुक्षेः शुद्ध वर्त्मनि || १९ब् || साधकस्य प्रतिष्ठायां अनन्ताद्यास्तु मूर्तिपाः || २०अ प्. ४५) शुद्धात्मनि पुराणिमादि सम्पत्तिः साचान्त कथा स्यात् | बहिश्चेति दिव्यागम सिद्धान्तेन शुद्ध एवा ध्वनिबुभुक्षोः साधकस्यार्थे प्रतिष्ठायां क्रियमाणायां अनन्ताद्यास्तु मूर्तिपाः प्रतिखण्डं न्यस्तव्या इति शब्दार्थः | केते अनन्ताद्या इत्यत्र संज्ञया तार्न्निर्दिशति - अनन्तः सूक्ष्म संज्ञश्च शिवोत्तमश्चैक नेत्रकम् || २०ब् || एकरुद्रस्त्रिमूर्तिश्च श्रीखण्डश्च शिखण्डिनः || २१अ ||
SKविद्येश्वरा द्वैविध्येनोक्ताः प्रागुक्ताः | इदानीञ्चान्ये दृश्यन्ते | पुरुषादिकमायान्ते शुद्धयात्म शुद्धात्मके || २१ब् || ध्वनि विज्ञेया मूर्तिपारुद्रा अङ्गुष्ठमात्रकादयः | २२अ || एते वा बुभुक्षुलिङ्ग प्रतिष्ठायां मूर्तिपा अभवन्नितिभावः | केतोः अङ्गुष्ठमात्रादयः इत्यत्र संज्ञयातान् क्रमेणोद्दिशति - अङ्गुष्ठमात्र भुवनेशानाञ्चैक पिङ्गलः || २२ब् || उद्भवश्च भवश्चैव वामदेवो महाद्युतिः || २३अ || तदेवं शुद्धा शुद्धेऽध्वनि सिद्धिहेतून् विद्येश्वरान् दर्शयित्वा शुद्धेऽध्वनि सिद्धान्तं दर्शयति - अशुद्धेऽध्वनि प्रत्यादि व्रतानां तैर्व्यवस्थिता || २३ब् || मूर्तिपाः शतरुद्राणां अष्टौदिश दिगादिगाः || २४अ || शतरुद्राणां मध्ये अध ऊर्ध्वं दिगीशश्च वर्जयित्वादिगीश्वरेषु ये मुख्यास्ते व्यूहपतयः | ते वसास्मीत्यभिप्रायाः | किं संज्ञका विज्ञातास्ते इत्यत्राह - प्. ४६) असिताम्भोरुरुश्चणु क्रोध-उन्मत्त्त भैरवाः | २५ || कपाली भीसणश्चैव संहारश्चाष्ट भैरवाः || २७अ || य एव मूर्तिपास्तेन पापादक्ते त एव मूर्तयः || प्रागुपात्रायक्ष्मादयः एवास्टाविध्यर्थ सिद्धमेव तावत् | अष्टपक्षे मूर्तिविकल्पमुक्त्वा च पञ्चपक्षमधिक्ट्याह - पञ्चमूर्त्यात्मके न्यासे क्ष्मावरिदहनानिलाः || २७ब् || खञ्चेतिमूर्तयो लिङ्गे ब्रह्माद्याः पञ्चमूर्तिपाः || बुभुक्षोर्मुमुक्षोश्चेति वाक्यशेषः | बुभुक्षुमुमुक्षोर्विकल्प उच्यते - मुमुक्षोर्वा प्रतिष्ठायां निवृत्याद्यास्तु मूर्तिपाः || २८ब् || ? सद्योजातादयोलिङ्गे मतापञ्च तदीश्वराः || २८अ || सुबोधमेतत् | यथा लिङ्गे न्यास-उक्तः तथा पीठशिवयोरपि क्रमतोऽमूश्शक्तयः | एवं पीठ शिलायां च न्यायः कार्योभिधात्वियम् || ३२ब् व्याख्यतार्थमिदं वक्ष्यमाणतयाभितात्वियमिति विशेसः स्वयं वक्ष्यत इत्यर्थः | तमभिधामाह - क्रियाज्ञानी तथेच्छा च त्रितत्वाधीश्वरामता || ३०अ ब्रह्मविस्णु रुद्रा इति वाक्य शेषः | एवमष्टमूर्तिष्वपि मूर्तीशाप वादमाह - धारिकादीप्तिरत्युक्ता ज्योत्स्ना चैता बलोत्कटाः | ३०ब् धात्री बह्वीश मूर्तीशा मताः पीठादि गोचरे || ३२अ
SKशर्वादय-इत्यपवाद वाक्यशेषः | एवं मुमुक्षु प्रतिष्ठाभेदं मुक्त्वा प्. ४७) प्रतिष्ठान्तरमधि कृत्याऽह - साधकस्य प्रतिष्ठाया पीठादौमुख्यमीश्वराः || ३२ब् अनन्तादय एवस्युः त्रीपाठवशमागताः || ३२अ विद्येश्वर शक्त्य इति यावत् न हि विद्येश्वराणां स्त्रीत्वं न संभवति | ततेवष्ट पक्षहेत पञ्चपक्षेत्याह्नापामा ज्येष्ठा क्रिया ज्ञान इच्छा चेति विपक्षतः || ३२ब् पीठादौ पञ्चमूर्तीशाः उग्रार्चानामथोच्यते || ३३अ उग्राश्चा शब्दादाभिचारादि क्षुद्र कर्मसूच्यते | अर्चा प्रतिमा सा चोपलक्षणम् | पीठशिलयोस्तत्राष्ट पक्षमाह - तमामोहाक्षा निष्ठा मृत्युर्मया ज्वराः? || ३३ब् पञ्चपक्षे तमा मोहा वेपामतिरपञरा? || ३४अ एवं पीठ शिलयोः मूर्तीशन्यास भेदमुक्त्वा इदानीं तस्मिन् एव पञ्चपक्षे स्थित्वा तां क्ष्मादीनां व्योमान्तानां मूर्तीनां त्रिष्वपि लिङ्ग पीठाश्मसु भवनीयत्वार्थगोचरं व्याप्ति विशेषमाह - पञ्चानामपि मूर्तीनां लिङ्गपीठशिलास्वपि || ३४ब् तत्वाध्व व्याप्तितो भेदः क्रमादेवं विभावयेत् || ३५अ निगदव्याख्यानम् | कथं सा व्याप्तिरित्याह - रागान्ताक्ष्माम्बु कालान्तं विद्यां तञ्चहुताशनः || ३५ब् वायुरीश्वर पर्यन्तं शिवान्तं व्योमपीठकम् || ३६अ -३७अ लिङ्गपीठं शिलायास्तु पुमान्ताक्ष्मा कलान्तं स्यादम्बु मायान्तकोमलः? | प्. ४८) शुद्ध विद्यान्तकोवायुः शक्तयन्तं व्योमपीठकम् | भूतान्ता क्ष्माम्बुशब्दान्तं वह्निकर्मेन्द्रियान्तकाम् || बुद्धीन्द्रियान्तको वायुः व्योमबुद्ध्यन्तमश्मनि || ३८अ अथ पुनरष्ट पक्षमाश्रित्याष्ठानां क्ष्मादिमूर्तीनां लिङ्गपीठशिलायाश्मसु व्याप्तिनो भावना कर्माह - अष्टपक्षे तु पूर्वादि ईशान्तः क्ष्मादिमूर्तयः | अष्टाविधिति (३९अ) वाक्य शेषः | पक्षान्तर माश्रित्याह - पञ्चपक्षे परोदीच्यां * * * * पूर्वेश्वराश्रिताः || ४०अ
SKक्ष्मादि व्योमान्त मूर्तयः पञ्चेति वाक्य शेषः | क्ष्मासत्यब्रह्माधिष्ठिता तदनुरुपमपना भावनीया प्रतिममपुद्वामदेव ब्रह्माधिष्ठितमुदीच्यामग्निघोर ब्रह्मतिष्ठितो याम्या वायुः तत्पुरुषाधिष्ठितः | पूर्वे व्योमेशान ब्रह्माधिष्ठितमैशान्यां भावनीयमित्यभिप्रायः | तदयं लिङ्ग पीठाश्मसु मूर्तिमूर्तीश विन्यास्स भावना क्रमोक्तो भवति || अथ प्रतिमासु कथमित्याशङ्कय तत्राऽप्युक्तं प्रकारं अतिदिशन्नेव विशेषमाह | अयमेव क्रमः सर्वो द्रष्टव्यः प्रतिमास्वपि || ४०ब् किन्तु तत्वत्रयन्यासो जानुकण्ठ शिरोवधि जान्वन्तमात्म तत्वं कण्ठान्तं विद्यातत्वं शिरोरन्तं शिवतत्वन्यास विद्यावित्युक्तत्वात् क्रमा द्विद्यते | ततोऽन्यस्तु क्रमो यथा पूर्वमेव प्. ४९) कर्तव्य इति द्वार प्रासाद प्रतिष्ठयोरपि तत्वत्रय विन्यासस्यैवाधीतो भेदमाह - द्वारोदुम्बर शाखासु व्याप्तितत्वं त्रिखण्डकम् || ४१ब् जङ्घागलक चूडान्तं प्रासादेऽपि विचिन्तयेत् || अयमभिप्रायः | द्वारं त्रिखण्डं कृत्वा यस्तनोदुम्बरादारभ्य यस्तन्त्री खण्ड व्यापकमात्म तत्व मध्यखण्डक व्यापकं विद्यातत्वं ऊर्ध्वो ऊर्ध्वो दुम्बरेण सहोपरितन खण्डव्यापकं शिवतत्वं भावयेत् | तथा प्रासादञ्च जंघान्तं गलान्तं चूडान्तं च त्रिधा विभज्योक्त क्रमेण व्याप्तिं विभाव्य तत्वत्रय न्यासः कर्तव्य इति || अथ गौर्यादि प्रतिष्ठायां लिङ्ग पिण्डिकयोरिव ज्ञानविन्यास प्रकारं व्यवस्थापयति - गौर्यादीनां प्रतिष्ठायां पीठे शक्तिं क्रियात्मिकाम् | ४२ब् विग्रहे विन्यसेद् ज्ञानी शेषं पीठवदा चरेत् || स्पष्टम् || ४३अ मुखलिङ्ग प्रतिष्ठायां पीठे नवपदी कृते || ४३ब् मध्ये सदा शिवतत्वमीश्वरं प्राचीं विन्यसेत् || ४४अ आग्नेये विन्यसेद्विद्यां मायां याम्येऽथ नैर्-ऋते || ४४ब् कालाग्नि यतिमाप्येवा वायौ रागमुदङ्नरम् || प्रधानन्त्वीशदिग्भागे स्वाशासु ब्रह्म?पञ्चकम् || ४५ || स्पष्टम् | तत्वत्रय न्यासे विशेषमाह - त्रितत्व कल्पना प्राग्वत् किन्तु वृत्ते सदाशिवम् || ४६अ प्. ५०)
SKविन्यसेदर्धतां प्राग्वन्मूर्ति मूर्तीश्वरानपि || ४६ब् स्पष्टोऽर्थः | अथेदानीं समस्तस्यापि वस्तु जातस्य प्रतिष्ठामपनीय शिवलिङ्ग स्वरूपा यथात्मवेदिना तत्रैवांशांशतो अवसीदं प्रतिष्ठा बीजत्वेनावाधारयितुमिति देशात्मना परिभावते | अथैतन्नव तत्वादीन्पृथिव्या प्रतिमास्वपि || ४७ब् मूर्तिमूर्तिश्वरादीनां व्याप्तिं बीजं च नाम च || ध्यात्वा रूपञ्च सर्वत्र न्यासं कुर्याद्यथा स्थितः || ४८ || प्रतिमास्वपीति अपि शब्दात् तल्लिङ्ग पिण्डकयोरेव | अपितु सर्वत्र प्रतिष्ठापनीयेषु प्रासाद प्रभृतिषु यत्य प्रागुक्तं | तस्मात्सामान्य विशेष कारणे विप्रेक्षारूढं कृत्वा यथा स्थिति न्यासः करणीय इत्युक्तं भवति | नवतत्वादयस्सदा शिवतत्वादयो मुखलिङ्ग पीठे नव पदीकृते सत्युक्ता | पृथिव्यादि तत्व वर्मोक्तं मूर्तयोऽष्टधा पञ्चधा चोक्ता क्ष्मादयो मूर्तिशाः शर्वादयो विद्येश्वरा मध्या भैरवान्ता अष्टपक्षे पञ्चपक्षे तु ब्रह्मादि कारणेश्वरा पञ्चब्रह्माणि च आदि शब्द सत्वत्रयं ज्ञानक्रियेच्छा च सूचयति | व्याप्ति शब्दसूक्तानां हेतुमद्भावेनान्योन्य संकलनं सूचयति | संकलना भावे परसंबन्धा भावात् भुक्ति मुक्त्योः स्वातन्त्र्येण संभूय कारित्वासिद्धिबीज - प्. ५१) शब्द प्रयोगम्यात् | * * * *त्मदयोक्तानां संबन्धे कारणमीश्वराज्ञां गमयति | सर्वत्रापि वागीश्वर गर्भानतिवृत्त्या शब्दत्वं शब्दबोध्यत्वं च सूचयति | न ह्यशब्दः कश्चिदर्थोऽस्ति इत्याह अनेन मन्त्र साध्यत्वं प्रतिष्ठादि कर्मणः उक्तं भवति | आ रूप सप्तो वक्ष्यमाण निमित्तादेव शरीराण्यभिधत्ते | न ह्येका क्रान्तानां शरीरोपलक्षितानां बुद्ध्वा वरोहणं भवति | निष्कल तथा स्वरूपं यस्य बद्धचारो तेऽनुष्ठानार्थं वैकल्यात्तस्मात् सर्वमिदं ध्यात्वा न्यासः कर्तव्य इति परिभाषा सूत्रस्य तात्पर्यार्थः | अथ यदुक्तं यदास्तीति तद्व्याचष्टे - अप्त्वे तु स्थिता पृथ्वी अपादिस्वस्वगोचरे || ४९अ
SKन पृथिव्या शब्दतन्मात्रान्तानां दशतत्वानां अमस्यावरण भावेन कार्यकारण भावेनाश्रयाश्रायीभावे उक्तो वेदितव्यः | अत्र क्ष्मादयः | पञ्चमूर्तयोऽन्तर्भूते मूर्त्यात्मनाणिमाद्यव स्थान पादमाह - शब्दतन्मात्र मूर्तीद्वौ सोमसूर्यौ व्यवस्थितौ || ४९ब् तयोरूर्ध्वे च धर्माख्यो धर्मो ज्योतिष्ठोमादिराम्नाय सिद्धः | स एव यज्ञाख्या संज्ञा यस्य स यजमानः कूटस्य इति यावत् | तदेवाष्टमूर्तीनां स्थितिरुक्ता भवति | अथ मूर्त्यधिपानां स्थानान्याह - प्. ५२) गन्धे शर्वो व्यवस्हितः || ५०अ रुच्चस्तः पशुभृच्चैवमुग्रोहंकार गोचरे || ५०ब् रुद्रस्तत्रैव बोद्धव्यो रजतमात्रगो भवः | ईशानः स्पर्श तन्मात्रे महादेवो मनः स्थितः || ५१ || भीमश्च शब्दतन्मात्रे मूर्तीशानां व्यवस्थितिः | अत्र मूर्तीश्वरानुरुपमुत्तराभे तेषां स्थापन तारतम्येन साचितो भवन्ति | स चायं वक्ष्यमाणेष्वपि समानो वेदितव्यः | तदेवं मुमुक्षोः मूर्तीशा उक्ताः - अथ बुभुक्षोस्तानाह - विद्येश्वराश्च विज्ञेया विद्यातत्वे व्यवस्थिताः | ५२ब् क्षुद्रकर्मणि सुमूर्तिपा अपि उपलक्षिता भवन्ति | तेषां मायापिधातमया वस्त्वन्यव स्थानस्येन्निधत्वात् | अथ पञ्चपक्षमवलम्ब्य कलापञ्च मूर्तीशानामेव दर्शयति क्ष्मादिपुमवथो ब्रह्माक्ष्मादि मायान्तगोच्युतः || ५३अ क्ष्मादि विद्यान्तगो रुद्रक्ष्मादि विद्यान्त-ईश्वराः || ५३ब् सादाख्य क्ष्मादिनादान्तो शक्तिक्ष्मादि परावधिः || ५४अ क्ष्मवधिशक्त्यवस्थानात् सर्वमूर्तीशानां साक्षात् परम्परया च शक्तिमयत्वं ख्यापितं भवति | शक्तिश्चयेनरा शक्तिरपि तु मूर्तिभोगात्मिका कुण्डलैव मूर्तिमूर्ती प्रकारात्वात् | अस्य परशब्दश्च शिवसात्मकस्य शिवलिङ्गास्यावस्थाद्वयं सूचयति | अपरभावे परशब्द व्यावृता प्. ५३) शिवो यच्चा परावस्यात्मकं तच्छिवमूर्ति परावस्ये लिङ्गे लक्षणोद्धारणं व्याप्तमिति गुरवः | तदेवं शिवलिङ्गस्य समस्ता ध्वनि वेशभूमिरिति आलयात्मकमुक्तं भवति |
SKअथ सिद्धान्ते तरसमयस्पतानामपि तदेक देशत्वेन नान्यद्भावं सूचयितुं अर्वाचीनेष्व वस्थानं दर्शयति | पृथिवी तत्वे स्थिता विष्णोः दशावतारमूर्तयः || ५४ब् बिभ्रद्बुद्ध्याहं गुणपुं विद्येश्वर च गोचराः || ५५अ मित्राद्याः केशवाद्याश्च त्रयंपाका द्वादश त्रिधा || ५४ब् विघ्नराजस्य सादाख्ये तत्तद्देवीं सरस्वती | नन्द्याद्या शुद्धविद्यायां लक्ष्मीः ईश्वर गोचरे || ५६ || प्रकृतौ संस्थितांशेनाशक्त्या बुद्धौ व्यवस्थिता | पुरुषे पाञ्चरात्रस्याः शिवः सूर्ये व्यवस्थिताः || अप्सरो यक्षरक्षांसि विद्याधरा हि किन्नराः | बूतवेताल डाकिन्यो ग्रहनक्षत्र राशयः || ५७ || समुद्रा क्षेत्रपालाद्या ऋषिः ब्रह्मादिगीश्वराः | उर्वी तत्वे स्थिता ज्ञेया जरायुजोणुजोद्भिजाः || ५९ अन्येषामपि तत्वेषु यत्र यत्र व्यवस्थितिः || न्याय सन्तति किं स्थानं परं तस्य तदेव हि || ६० अयमभि प्रायः | अथोप न्यस्तमेवैषां परं स्थानमित्यत्र प्रमाणं तद्दीपाभ्युपगमे एवन्तथाभ्युपगमे च कारणं तत्परि ग्रहीतारभ्यैवेति सर्वेऽपि समयिनः स्वस्व शास्त्राभ्युपगमे प्. ५४) यो रेव सर्वोत्तरभावं ब्रुवाणेषु तन्न विप्रतिपत्तेः तत्व सन्देहे सति कस्य परमार्थमिति चेत् न्यायो पेतस्यैवेति वदामः | न्यायोश्मिनामा पक्षपतितो वस्तु निर्णयैकान्त-उपायः तस्मादनावमुत्सृज्य वत्सरेण बोद्धृभिरपि स्वात्म साक्षित्वं कं विमृज्य परमार्थः स्वीक्रियत इति नानुपपन्नं किञ्चित् | अथेदानीं धरादितत्वानां न्याये स्वरुपायानार्थं वज्राद्यवयवविशेषमन्यच्चोपयोग्य वस्तु भूषणादिकञ्चानु क्रमतो वक्तुमारभते | तच्चस्तोक मुख्यव्यक्त व्याख्यानत्वाद्यावदपेक्षं व्याख्यायते | चतुर्वक्त्राष्ट बाहुश्च पीतापीताम्बराधरा | कूर्मस्या सौम्यरूपा च नागाब्धि सरिदावृता || ६२ मेषारूढः प्रदीप्तार्चिरित्यादि शर्वाद्यामूर्तिपामताः || ७९अ इत्यन्तं स्पष्टम् | अष्टपक्ष एतत् | अथ पञ्चपक्षे आह - तप्त चामीकराकारा चतुर्बाह्विन्दु भूषिता || ७९ब् वज्रा भयाक्षमालाजा निवृत्तिः परिकीर्तिता || इत्यादि
SKपद्माभयाक्षमालाढ्या शान्त्यतीतावरप्रदा | इत्यन्तं स्पष्टम् || ८४अ एतामूर्तयः पञ्च | अथमूर्तिपान्पञ्च आह - बालवेषधरस्त्र्यक्षः पीनखण्डेन्दु शेखरः || ८४ब् अव्यकुण्डलवान्सद्यः पुण्डरीकनिभेक्षणः || इत्यादि || ८५अ प्. ५५) सव्य हस्तेषु खट्वाङ्गे शक्तिशूल वराभये | इत्यन्तं स्पष्टम् | पुनरष्टपक्षा नाह - विद्येश्वाराश्चतुर्वक्त्रा हरवद्दशबाहवः | इत्यादि | विद्ये शोक्ता युधोपेतं ईशानैकगुणावृतम् | इत्यन्तं स्पष्टम् | पुनः पञ्च पक्षे आह - ब्रह्मा चतुर्मुखः पीतः चतुर्दोर्दण्डमण्डितः | इत्यादि | दशबाहुः प्रसन्नास्यः पञ्चवक्त्रः सदाशिवः || ९३ब् इत्यन्तं स्पष्टम् | तत्वत्रयमधिकृत्याह - चतुर्भुजश्चतुद्वक्त्रः चतुरश्राम्बुजास्थितः || ९४अ इत्यादि शिवतत्वं स्मृतं ह्येतत्पञ्चवक्त्रं चतुर्भुजम् || इत्यन्तंअ | ९५ब् स्पष्टम् | तदेवं मूर्ति मूर्तीशाना ध्येयस्वरूपाण्युक्तानि | अथैषां यथोक्त देशकालयोरन्यथा करणे दोषमाह - स्वदेश कालयोरेव यज्ञा इष्टफलप्रदा || ९७अ आग्नेय्यां दिशि देशं च कालमन्द्र्यायं प्रपूजयेत् || ९८ब् स्वेष्टाष्ट देवा नावाह्य देशं कृत्वा बहिः स्थितम् | कालद्वादशकात्स्वीयात्कृत्याहात् स्वीयवत्सरात् || ९९ || देशाः क्ष्माधिगताः पञ्चामरेशाद्यष्टकं क्रमात् || १००अ अन्य देशेऽन्यकालेऽपि तदेवानिष्ट हेतवः || ९७ब् प्रतिष्ठायामतोदेशकालापादनमाचरेत् || ९८अ कालञ्च प्रभवादिस्तु द्वादशक्रमयोगतः || १००ब् पञ्च स्वेषु क्रमात् पञ्चब्रह्माद्याः कारणेश्वराः || १०१अ प्. ५६) तद्व्याप्तान्त स्थिताश्चान्ये देश * * * * च नाडिकाः || १०१ब् प्रासाद क्षेत्रमष्टधा विभज्य नवतत्र प्राङ्मुखो रेखास्तावत्यश्च उदङ्मुखाः स्युः | तश्चाष्टादश च रेखा नाड्याख्य इति | उभौ फोणगतौ वंशौ रज्जवोऽष्ट षट्पदाः || १०४अ ईशानकोष्टादारभ्य नैर्-ऋत कोणान्तमेकरेखास्तु तथाग्नेयकोणादारभ्य यावद्वायव्यकोणरन्यरेखा चैव देशयंशो नामके | ततो रज्जु काप्येतद्देशादि योगतः |
SKयत्र यत्र पद न्यासः तत्र तत्र तदा तदा || न्यसेत एवं मूर्तीशाऽभीष्टार्थ फलप्रदा || इति अथ देश प्रसंगेन दृश्यन्ते वस्तु देवताः | कियत्यः किं नामकाश्चेत्याह - ब्रह्मेश पर्जन्य जयमहेन्द्र रवि सत्यकाः || १०२ब् इत्यादि त्रिपञ्चाशदथो पदम् || १०७ब् इत्यन्तं स्पस्टम् | अथोपदमित्येतन्निगद्य व्याख्यानम् | अथो इत्यारभ्य वास्तुरूपं वक्तुमारभते - प्राच्युदीच्यानां रेखा अष्टानामिका | अष्टौ रेखा वंशस्या वधानेनो भौ भवतः | कोणान्तमुखाः कार्यास्तथा करणेति विशेषः | रज्जुचतुष्टयम् प्रत्येक मन्त्रत्रिपदं स्याच्चतुष्टयान्तरन्तु षट्षट्पदमिति चतुष्षष्टि पदे वास्तौ भवेदेवं प्रसङ्गतः ||१०९अ सुबोधम् | अथ प्रागुद्दिष्टानां त्रिपञ्चाशद्देवतानां यथा यथा वास्तु पदस्थानं पञ्चसंख्यानां च वक्तुमारभते - प्. ५७) उद्दिश्यन्त्रित्रिपञ्चाशत्क्रमेणैवात्र देवताः || २०३ब् मध्ये चतुष्पदे ब्रह्मा तदनन्तरं मरीचीषट्पदः || ११०अ ब्रह्मणोनन्तर पङ्क्तौ द्वे पदे तद्बहिः पङ्क्तौ नत्वानित्येवं मरीचिषट्पदो भवति | तयोरेव पङ्क्तयोराग्नेय कोणस्यं पदद्वयमधिकृत्याऽह सवितवह्निकोणस्य इत्यादि | रुद्रदासस्ततोप्यताम् इत्यन्तं स्पष्टम् | उदीच्यानाहति शिवयक्षे श इत्यादि ऐशान्यां चाह - आवस्त्वीशान्यत इत्यादि | २२३अ अथ समन्ताद्बहिरेक पङ्क्तितामधिकृत्येशानादि प्रदक्षिणत अह -
SKईशानार्धपदमारभ्येत्यादि ईशकोण पदार्थे ईशानस्ततो दक्षिणपद पदादारभ्य पर्जन्य जयन्त महेन्द्ररविसत्यक भ्राशांय * * * षट्कं आग्नेय कोणपदस्यार्धे अन्तरिक्षोर्धान्तरे सप्तार्चिः | ततः पश्चात्यादारभ्य पूषावितयग्रहक्षत प्रेत पतिगन्ध्य भृङ्गात्मनां पदस्य षट्कम् | निर्-ऋतिकोण कोष्ठस्यार्धे मृगः अर्धान्तरेऽपितृ ततोत्तरपदादारभ्य पितृदौ वारसुग्रीवः पुष्पदन्तः प्रचेताः | असुरः शेष इत्येते षट् पतिकाः | पुनर्वायुकोष्टस्यार्धे * * * * दितिरोगः इत्येवं द्वात्रिं शत्कोष्टस्यार्धे रोमशद्य तदर्धे वायुः प्राक्पदा दारभ्य नागमुख्य भल्लाटसो मुख्यादयः षट्पदिकाः पुनरीशानक्रोष्टस्यार्धे तीत्येवं द्वात्रींशद्देवताः प्रदक्षिण क्रमेण विभाव्य पूजनीया इति | तदेवं मध्ये ब्रह्माणमारभ्य वास्तुदेवो देवता पूजास्तास्संख्यया निगमयति | प्. ५८) एवं वस्तु तनौ पञ्च चत्वारिंशत्सुराः स्थिताः | ११४ अथ वास्तु तनौ बहिरीशानादि कोणकोष्ट चतुष्टय प्रान्त्ये पूज्या राक्षसीराह - चरकी च विदारी च इत्यादि चत्वारोऽपि बहिः क्रमात् | ११५ इत्यन्तं | एवं चतुष्षष्ठिपदं वास्तु मुक्त्वा इदानीमेकाशीतिपदं ग्रह वास्तु माह - एकाशीतिपदे वास्तौ मध्ये नवपदावधि | इत्यादि || ११७अ अन्ये तु पतिकाः स्मृताः इत्येतन्निगद व्याख्यानमेतत् || ११८ब् स्वारब्ध सूत्रपद्धति स्वरूप कालकरणोपसंहरति | एतद्बीजद्वयं दीक्षा प्रतिष्ठालतयोर्द्वयोः || ११९ || संगृह्य देशिकैः काले तन्निष्पत्ति समीहया | इत्याहरद्ग्रन्थशतद्वयीं सश्रीसोम भृङ्गुरुरागमेभ्यः || १२० || काले झटित्येकतरं तत्तद्बीजद्वयं श्रीवरुणाभिधानः | इति भट्ट शिवोत्तमकृतौ प्रतिष्ठाविवेक प्रकरणं द्वितीयम् || || हरिः ओम् | शुभमस्तु ||