Incomprehensible Praise

Acintyastava · Aचिन्त्यस्तव

Incomprehensible Praise

Acintyastava

Aचिन्त्यस्तव

SK
प्रतीत्यजानां भावानां नैःस्वाभाव्यं जगाद यः | तं नमाम्य् असमज्ञानम् अचिन्त्यम् अनिदर्शनम् || Nअग्Aस्त्_०१
SK
यथा त्वया महायाने धर्मनैरात्म्यम् आत्मना | विदितं देशितं तद्वद् धीमद्भ्यः करुणावशात् || Nअग्Aस्त्_०२
SK
प्रत्ययेभ्यः समुत्पन्नम् अनुत्पन्नं त्वयोदितम् | स्वभावेन न तज् जातम् इति शून्यं प्रकाशितम् || Nअग्Aस्त्_०३
SK
यद्वच् छब्दं प्रतीत्येह प्रतिशब्दसमुद्भवः | मायामरीचिवच् चापि तथा भवसमुद्भवः || Nअग्Aस्त्_०४
SK
मायामरीचिगन्धर्वनगरप्रतिबिम्बकाः | यद्य् अजाताः सह स्वप्नैर् न स्यात् तद्दर्शनादिकम् || Nअग्Aस्त्_०५
SK
हेतुप्रत्ययसंभूता यथैते कृतकाः स्मृताः | तद्वत् प्रत्ययजं विश्वं त्वयोक्तं नाथ सांवृतम् || Nअग्Aस्त्_०६
SK
अस्त्य् एतत् कृतकं सर्वं यत् किंचिद् बाललापनम् | रिक्तमुष्टिप्रतीकाशम् अयथार्थप्रकाशितम् || Nअग्Aस्त्_०७
SK
कृतकं वस्तु नो जातं तदा किं वार्तमानिकम् | कस्य नाशाद् अतीतं स्याद् उत्पित्सुः किम् अपेक्षते || Nअग्Aस्त्_०८
SK
स्वस्मान् न जायते भावः परस्मान् नोभयाद् अपि | न सन् नासन् न सदसन् कुतः कस्योदयस् तदा || Nअग्Aस्त्_०९
SK
अजाते न स्वभावो ऽस्ति कुतः स्वस्मात् समुद्भवः | स्वभावाभावसिद्ध्यैव परस्माद् अप्य् असंभवह् || Nअग्Aस्त्_१०
SK
स्वत्वे सति परत्वं स्यात् परत्वे स्वत्वम् इष्यते | आपेक्षिकी तयोः सिद्धिः पारावारम् इवोदिता || Nअग्Aस्त्_११
SK
यदा नापेक्षते किं चित् कुतः किं चित् तदा भवेत् | यदा नापेक्षते दीर्घं कुतो ह्रस्वादिकं तदा || Nअग्Aस्त्_१२
SK
अस्तित्वे सति नास्तित्वं दीर्घे ह्रस्वं तथा सति | नास्तित्वे सति चास्तित्वं यत् तस्माद् उभयं न सत् || Nअग्Aस्त्_१३
SK
एकत्वं च तथानेकम् अतीतानागतादि च | संक्लेशो व्यवदानं च सम्यङ्मिथ्या स्वतः कुतः || Nअग्Aस्त्_१४
SK
स्वत एव हि यो नास्ति भावः सर्वो ऽस्ति कस् तदा | पर इत्य् उच्यते यो ऽयं न विना स्वस्वभावतः || Nअग्Aस्त्_१५
SK
न स्वभावो ऽस्ति भावानां परभावो ऽस्ति नो यदा | भावग्रहग्रहावेशः परतन्त्रो ऽस्ति कस् तदा || Nअग्Aस्त्_१६
SK
आदाव् एव समं जाताः स्वभावेन च निर्वृताः | अनुत्पन्नाश् च तत्त्वेन तस्माद् धर्मास् त्वयोदिताः || Nअग्Aस्त्_१७
SK
निःस्वभावास् त्वया धीमन् रूपाद्याः संप्रकाशिताः | फेनबुद्बुदमायाभ्रमरीचिकदलीसमाः || Nअग्Aस्त्_१८
SK
इन्द्रियैर् उपलब्धं यत् तत् तत्त्वेन भवेद् यदि | जातास् तत्त्वविदो बालास् तत्त्वज्ञानेन किं तदा || Nअग्Aस्त्_१९
SK
जडत्वम् अप्रमाणत्वम् अथाव्याकृतताम् अपि | विपरीतपरिज्ञानम् इन्द्रियानां त्वम् ऊचिवान् || Nअग्Aस्त्_२०
SK
अज्ञानेनावृतो येन यथावन् न प्रपद्यते | लोकस् तेन यथाभूतम् इति मत्वा त्वयोदितम् || Nअग्Aस्त्_२१
SK
अस्तीति शाश्वती दृष्तिर् नास्तीत्य् उच्छेददर्शनम् | तेनान्तद्वयनिर्मुक्तो धर्मो ऽयं देशितस् त्वया || Nअग्Aस्त्_२२
SK
चतुष्कोटिविनिर्मुक्तास् तेन धर्मास् त्वयोदिताः | विज्ञानस्याप्य् अविज्ञेया वाचां किम् उत गोचराः || Nअग्Aस्त्_२३
SK
स्वप्नेन्द्रजालिकोद्भूतं द्विचन्द्रोद्वीक्षणं यथा | भूतं तद्वस्तु नो भूतं तथा दृष्टं जगत् त्वया || Nअग्Aस्त्_२४
SK
उत्पन्नश् च स्थितो नष्टः स्वप्ने यद्वत् सुतस् तथा | न चोत्पन्नः स्थितो नष्ट उक्तो लोको ऽर्थतस् त्वया || Nअग्Aस्त्_२५
SK
कारणात् संभवो दृष्टो यथा स्वप्ने तथेतरः | संभवः सर्वभावानां विभवो ऽपि मतस् तथा || Nअग्Aस्त्_२६
SK
रागादिजं यथा दुःखं संक्लेशसंसृती तथा | संभारपूरणान् मुक्तिः स्वप्नवद् भाषिता त्वया || Nअग्Aस्त्_२७
SK
जातं तथैव नो जातम् आगतं गतम् इत्य् अपि | बद्धो मुक्तस् तथा ज्ञानी द्वयम् इच्छेन् न तत्त्ववित् || Nअग्Aस्त्_२८
SK
उत्पत्तिर् यस्य नैवास्ति तस्य का निर्वृतिर् भवेत् | मायागजप्रकाशत्वाद् आदिशान्तत्वम् अर्थतः || Nअग्Aस्त्_२९
SK
उत्पन्नो ऽपि न चोत्पन्नो यद्वन् मायागजो मतः | उत्पन्नं च तथा विश्वम् अनुत्पन्नं च तत्त्वतः || Nअग्Aस्त्_३०
SK
अमेयैर् अप्रमेयानां प्रत्येकं निर्वृतिः कृता | लोकनाथैर् हि सत्त्वानां न कश् चिन् मोचितश् च तैः || Nअग्Aस्त्_३१
SK
ते च सत्त्वाश् च नो जाता ये निर्वान्ति न ते स्फुटम् | न कश् चिन् मोचितः कैश् चिद् इति प्रोक्तं महामुने || Nअग्Aस्त्_३२
SK
मायाकारकृतं यद्वद् वस्तुशून्यं तथेतरत् | वस्तुशून्यं जगत् सर्वं त्वयोक्तं कारकस् तथा || Nअग्Aस्त्_३३
SK
कारको ऽपि कृतो ऽन्येन कृतत्वं नातिवर्तते | अथ वा तत्क्रियाकर्तृ कारकस्य प्रसज्यते || Nअग्Aस्त्_३४
SK
नाममात्रं जगत् सर्वम् इत्य् उच्चैर् भाषितं त्वया | अभिधानात् पृथग्भूतम् अभिधेयं न विद्यते || Nअग्Aस्त्_३५
SK
कल्पनामात्रम् इत्य् अस्मात् सर्वधर्माः प्रकाशिताः | कल्पनाप्य् असती प्रोक्ता यया शून्यं विकल्प्यते || Nअग्Aस्त्_३६
SK
भावाभावद्वयातीतम् अनतीतं च कुत्र चित् | न च ज्ञानं न च ज्ञेयं न चास्ति न च नास्ति यत् || Nअग्Aस्त्_३७
SK
यन् न चैकं न चानेकं नोभयं न च नोभयम् | अनालयम् अथाव्यक्तम् अचिन्त्यम् अनिदर्शनम् || Nअग्Aस्त्_३८
SK
यन् नोदेति न च व्येति नोच्छेदि न च शाश्वतम् | तद् आकाशप्रतीकाशं नाक्षरज्ञानगोचरम् || Nअग्Aस्त्_३९
SK
यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता | तथाविधश् च सद्धर्मस् तत्समश् च तथागतः || Nअग्Aस्त्_४०
SK
तत् तत्त्वं परमार्थो ऽपि तथता द्रव्यम् इष्यते | भूतं तद् अविसंवादि तद्बोधाद् बुद्ध उच्यते || Nअग्Aस्त्_४१
SK
बुद्धानां सत्त्वधातोश् च तेनाभिन्नत्वम् अर्थतः | आत्मनश् च परेषां च समता तेन ते मता || Nअग्Aस्त्_४२
SK
भावेभ्यः शून्यता नान्या न च भावो ऽस्ति तां विना | तस्मात् प्रतीत्यजा भावास् त्वया शून्याः प्रकाशिताः || Nअग्Aस्त्_४३
SK
हेतुप्रत्ययसंभूता परतन्त्रा च संवृतिः | परतन्त्र इति प्रोक्तः परमार्थस् त्व् अकृत्रिमः || Nअग्Aस्त्_४४
SK
स्वभावः प्रकृतिस् तत्त्वं द्रव्यं वस्तु सद् इत्य् अपि | नास्ति वै कपितो भावो परतन्त्रस् तु विद्यते || Nअग्Aस्त्_४५
SK
अस्तीति कल्पिते भावे समारोपस् त्वयोदितः | नास्तीति कृतकोच्छेदाद् उच्छेदश् च प्रकाशितः || Nअग्Aस्त्_४६
SK
तत्त्वज्ञानेन नोच्छेदो न च शाश्वतता मता | वस्तुशून्यं जगत् सर्वं मरीचिप्रतिमं मतम् || Nअग्Aस्त्_४७
SK
मृगतृष्णाजलं यद्वन् नोच्छेदि न च शाश्वतम् | तद्वत् सर्वं जगत् प्रोक्तं नोच्छेदि न च शाश्वतम् || Nअग्Aस्त्_४८
SK
द्रव्यम् उत्पद्यते यस्य तस्योच्छेदादिकं भवेत् | अन्तवान् नान्तवांश् चापि लोकस् तस्य प्रसज्यते || Nअग्Aस्त्_४९
SK
ज्ञाने सति यथा ज्ञेयं ज्ञेये ज्ञानं तथा सति | यत्रोभयम् अनुत्पन्नम् इति बुद्धं तदास्ति किम् || Nअग्Aस्त्_५०
SK
इति मायादिदृष्तान्तैः स्फुटम् उक्त्वा भिषग्वरः | देशयाम् आस सद्धर्मं सर्वदृष्टिचिकित्सकम् || Nअग्Aस्त्_५१
SK
एतत् तत् परमं तत्त्वं निःस्वभावार्थदेशना | भावग्रहगृहीतानां चिकित्सेयम् अनुत्तरा || Nअग्Aस्त्_५२
SK
धर्मयाज्ञिक तेनैव धर्मयज्ञो निरुत्तरः | अभीक्ष्णम् इष्टस् त्रैलोक्ये निष्कपाटो निरर्गलः || Nअग्Aस्त्_५३
SK
वस्तुग्राहभयोच्छेदी कुतीर्थ्यमृगभीकरः | नैरात्म्यसिंहनादो ऽयम् अद्भुतो नदितस् त्वया || Nअग्Aस्त्_५४
SK
शून्यताधर्मगम्भीरा धर्मभेरी पराहता | नैःस्वाभाव्यमहानादो धर्मशङ्खः प्रपूरितः || Nअग्Aस्त्_५५
SK
धर्मयौतुकम् आख्यातं बुद्धानां शासनामृतम् | नीतार्थम् इति निर्दिष्टं धर्माणां शून्यतैव हि || Nअग्Aस्त्_५६
SK
या तूत्पादनिरोधादिसत्त्वजीवादिदेशना | नेयार्था च त्वया नाथ भाषिता संवृतिश् च सा || Nअग्Aस्त्_५७
SK
प्रज्ञापारमिताम्भोधेर् यो ऽत्यन्तम् पारम् आगतः | स पुण्यगुणरत्नाढ्यस् त्वद्गुणार्णवपारगः || Nअग्Aस्त्_५८
SK
इति स्तुत्वा जगन्नाथम् अचिन्त्यम् अनिदर्शनम् | यद् अवाप्तं मया पुण्यं तेनास्तु त्वत्समं जगत् || Nअग्Aस्त्_५९
SK
|| इत्य् अचिन्त्यस्तवः समाप्तः ||
SK
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
SK
Cओप्य्रिघ्त् (C) २००३ ब्य् Cह्र्. Lइन्द्त्नेर् - Dएन्मर्क्
SK
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Nāgārjuna: Acintyastava (sa_nAgArjuna-acintyastava.htm).

Source