The Sutras of Inquiry

Mīmāṃsāsūtra · Mईमांसासूत्र

The Sutras of Inquiry

Mīmāṃsāsūtra

Mईमांसासूत्र

SK
अथातो धर्मजिज्ञासा / Jऐम्_१,१.१ /
SK
चोदनालक्षणो ऽर्थो धर्मः / Jऐम्_१,१.२ /
SK
तस्य निमित्तपरीष्टिः / Jऐम्_१,१.३ /
SK
सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात् / Jऐम्_१,१.४ /
SK
औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम् उपदेशो ऽव्यतिरेकश् चार्थे ऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् / Jऐम्_१,१.५ /
SK
कर्मैके तत्र दर्शनात् / Jऐम्_१,१.६ /
SK
अस्थानात् / Jऐम्_१,१.७ /
SK
करोति शब्दात् / Jऐम्_१,१.८ /
SK
सत्त्वान्तरे च यौगपद्यात् / Jऐम्_१,१.९ /
SK
प्रकृति विकृत्योश् च / Jऐम्_१,१.१० /
SK
वृद्धिश् च कर्तृभूम्नास्य / Jऐम्_१,१.११ /
SK
समं तु तत्र दर्शनम् / Jऐम्_१,१.१२ /
SK
सतः परमदर्शनं विषयानागमात् / Jऐम्_१,१.१३ /
SK
प्रयोगस्य परम् / Jऐम्_१,१.१४ /
SK
आदित्त्यवद्यौगपद्यम् / Jऐम्_१,१.१५ /
SK
वर्णान्तरम् अविकारः / Jऐम्_१,१.१६ /
SK
नादवृद्धिपरा / Jऐम्_१,१.१७ /
SK
नित्यस् तु स्याद् दर्शनस्य परार्थत्वात् / Jऐम्_१,१.१८ /
SK
सर्वत्र यौगपद्यात् / Jऐम्_१,१.१९ /
SK
संख्याभावात् / Jऐम्_१,१.२० /
SK
अनपेक्षत्वात् / Jऐम्_१,१.२१ /
SK
प्रख्याभावाच् च योगस्य / Jऐम्_१,१.२२ /
SK
लिङ्गदर्शनाच् च / Jऐम्_१,१.२३ /
SK
उत्त्पत्तौ वावचनाः स्युर् अर्थस्यातन् निमित्तत्वात् / Jऐम्_१,१.२४ /
SK
तद्भूतानां क्रियार्थेन सामाम्नायो ऽर्थस्य तन्निमित्तत्त्वात् / Jऐम्_१,१.२५ /
SK
लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात् / Jऐम्_१,१.२६ /
SK
वेदांश् चैके सन्निकर्षं पुरुषाख्याः / Jऐम्_१,१.२७ /
SK
अनित्यदर्शनाच् च / Jऐम्_१,१.२८ /
SK
उक्तं तु शब्दपूर्वत्वम् / Jऐम्_१,१.२९ /
SK
आख्या प्रवचनात् / Jऐम्_१,१.३० /
SK
परन्तु श्रुतिसामान्यमात्रम् / Jऐम्_१,१.३१ /
SK
कृते वा विनियोगः स्यात् कर्मणः संबन्धात् / Jऐम्_१,१.३२ /
SK
आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते / Jऐम्_१,२.१ /
SK
शास्त्रदृष्टाविरोधाच् च / Jऐम्_१,२.२ /
SK
तथाफलाभावात् / Jऐम्_१,२.३ /
SK
अन्यानर्थक्यात् / Jऐम्_१,२.४ /
SK
अभागिप्रतिषेधाच् च / Jऐम्_१,२.५ /
SK
अनित्यसंयोगात् / Jऐम्_१,२.६ /
SK
विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः / Jऐम्_१,२.७ /
SK
तुल्यं च साम्प्रदायिकम् / Jऐम्_१,२.८ /
SK
आप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच् छब्दार्थस् त्व् अप्रयोगभूतस् तस्माद् उपपद्येत / Jऐम्_१,२.९ /
SK
गुणवादस् तु / Jऐम्_१,२.१० /
SK
रूपात् प्रायात् / Jऐम्_१,२.११ /
SK
दूरभूयस्त्वात् / Jऐम्_१,२.१२ /
SK
अपराधात् कर्तुश् च पुत्रदर्शनम् / Jऐम्_१,२.१३ /
SK
आकालिकेप्सा / Jऐम्_१,२.१४ /
SK
विद्याप्रशंसा / Jऐम्_१,२.१५ /
SK
सर्वत्वम् आधिकारिकम् / Jऐम्_१,२.१६ /
SK
फलस्य कर्मनिष्पत्तेस् तेषां लोकवत्परिमाणतः फलविशेषः स्यात् / Jऐम्_१,२.१७ /
SK
अन्त्ययोर् यथोक्तम् / Jऐम्_१,२.१८ /
SK
विधिर् वा स्याद् अपूर्वत्वाद् वादमात्रम ह्य् अनर्थकम् / Jऐम्_१,२.१९ /
SK
लोकवद् इति चेत् / Jऐम्_१,२.२० /
SK
न पूर्वत्वात् / Jऐम्_१,२.२१ /
SK
उक्तं तु वाक्यशेषत्वम् / Jऐम्_१,२.२२ /
SK
विधिश् चानर्थकः क्वचित् तस्मात् स्तुतिः प्रतीयेत तत्सामान्याद् इतरेषु तथात्वम् / Jऐम्_१,२.२३ /
SK
प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति / Jऐम्_१,२.२४ /
SK
विधौ च वाक्यभेदः स्यात् / Jऐम्_१,२.२५ /
SK
हेतुर् वा स्याद् अर्थवत्वोपपत्तिभ्याम् / Jऐम्_१,२.२६ /
SK
स्थितिस् तु शब्दपूर्वत्वादचोदनाच तस्य / Jऐम्_१,२.२७ /
SK
व्यर्थे स्तुतिर् अन्याय्येति चेत् / Jऐम्_१,२.२८ /
SK
अर्थस् तु विधिशेषत्वाद् यथा लोके / Jऐम्_१,२.२९ /
SK
यदि च हेतुर् अवतिष्ठेत निर्देशात् सामान्याद् इति चेद् अवस्था विधीनां स्यात् / Jऐम्_१,२.३० /
SK
तदर्थशास्त्रात् / Jऐम्_१,२.३१ /
SK
वाक्यनियमात् / Jऐम्_१,२.३२ /
SK
बुद्धिशास्त्रात् / Jऐम्_१,२.३३ /
SK
अविद्यमानवचनात् / Jऐम्_१,२.३४ /
SK
अचेतने ऽर्थबन्धनात् / Jऐम्_१,२.३५ /
SK
अर्थविप्रतिषेधात् / Jऐम्_१,२.३६ /
SK
स्वाध्यायवद्वचनात् / Jऐम्_१,२.३७ /
SK
अविज्ञेयात् / Jऐम्_१,२.३८ /
SK
अनित्यसंयोगान् मन्त्रार्थानर्थक्यम् / Jऐम्_१,२.३९ /
SK
अविशिष्टस् तु वाक्यार्थः / Jऐम्_१,२.४० /
SK
गुणार्थेन पुनः श्रुतिः / Jऐम्_१,२.४१ /
SK
परिसंख्या / Jऐम्_१,२.४२ /
SK
अर्थवादो वा / Jऐम्_१,२.४३ /
SK
अविरुद्धं परम् / Jऐम्_१,२.४४ /
SK
संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् / Jऐम्_१,२.४५ /
SK
अभिधाने ऽर्थवादः / Jऐम्_१,२.४६ /
SK
गुणाद् अप्रतिषेधः स्यात् / Jऐम्_१,२.४७ /
SK
विद्यावचनम् असंयोगात् / Jऐम्_१,२.४८ /
SK
सतः परमविज्ञानम् / Jऐम्_१,२.४९ /
SK
उक्तश् चानित्यसंयोगः / Jऐम्_१,२.५० /
SK
लिङ्गोपदेशश् च तदर्थवत् / Jऐम्_१,२.५१ /
SK
ऊहः / Jऐम्_१,२.५२ /
SK
विधिशब्दाश् च / Jऐम्_१,२.५३ /
SK
धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् / Jऐम्_१,३.१ /
SK
अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् / Jऐम्_१,३.२ /
SK
विरोधे त्व् अनपेक्ष्यं स्याद् असति ह्य् अनुमानम् / Jऐम्_१,३.३ /
SK
हेतुदर्शनाच् च / Jऐम्_१,३.४ /
SK
शिष्टाकोपे ऽविरुद्धम् इति चेत् / Jऐम्_१,३.५ /
SK
न शास्त्रपरिमाणत्वात् / Jऐम्_१,३.६ /
SK
अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् / Jऐम्_१,३.७ /
SK
तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् / Jऐम्_१,३.८ /
SK
शास्त्रस्था वा तन्निमित्तत्वात् / Jऐम्_१,३.९ /
SK
चोदितं तु प्रतीयेताविरोधात् प्रमाणेन / Jऐम्_१,३.१० /
SK
प्रयोगशास्त्रम् इति चेत् / Jऐम्_१,३.११ /
SK
नासन्नियमात् / Jऐम्_१,३.१२ /
SK
अवाक्यशेषाच् च / Jऐम्_१,३.१३ /
SK
सर्वत्र च प्रयोगात् सन्निधानशास्त्राच् च / Jऐम्_१,३.१४ /
SK
अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् / Jऐम्_१,३.१५ /
SK
अपि वा सर्व धर्मः स्यात् तन्न्यायत्वाद् विधानस्य / Jऐम्_१,३.१६ /
SK
दर्शनाद् विनियोगः स्यात् / Jऐम्_१,३.१७ /
SK
लिङ्गाभावाच् च नित्यस्य / Jऐम्_१,३.१८ /
SK
आख्या हि देशसंयोगात् / Jऐम्_१,३.१९ /
SK
न स्याद् देशान्तरेष्व् इति चेत् / Jऐम्_१,३.२० /
SK
स्याद्योगाख्या हि माथुरवत् / Jऐम्_१,३.२१ /
SK
कर्मधर्मो वा प्रवणवत् / Jऐम्_१,३.२२ /
SK
तुल्यं तु कर्तृधर्मेण / Jऐम्_१,३.२३ /
SK
प्रयोगोत्पत्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् / Jऐम्_१,३.२४ /
SK
शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् / Jऐम्_१,३.२५ /
SK
अन्यायश् चानेकशब्दत्त्वम् / Jऐम्_१,३.२६ /
SK
तत्र तत्त्वम् अभियोगविशेषात् स्यात् / Jऐम्_१,३.२७ /
SK
तदशक्तिश् चानुरूपत्वात् / Jऐम्_१,३.२८ /
SK
एक देशत्वाच् च विभाक्तिव्यत्यये स्यात् / Jऐम्_१,३.२९ /
SK
प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् / Jऐम्_१,३.३० /
SK
अद्रव्यशब्दत्वात् / Jऐम्_१,३.३१ /
SK
अन्यदर्शनाच् च / Jऐम्_१,३.३२ /
SK
आकृतिस् तु क्रियार्थत्वात् / Jऐम्_१,३.३३ /
SK
न क्रिया स्याद् इति चेदर्थान्तरे विधानं न द्रव्यम् इति चेत् / Jऐम्_१,३.३४ /
SK
तदर्थत्वात् प्रयोगस्याविभागः / Jऐम्_१,३.३५ /
SK
उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् / Jऐम्_१,४.१ /
SK
अपि वा नामधेयं स्याद् यदुत्पत्तावपूर्वम् अविधायकत्वात् / Jऐम्_१,४.२ /
SK
यस्मिन् गुणोपदेशः प्रधानतो ऽभिसम्बन्धः / Jऐम्_१,४.३ /
SK
तत्प्रख्यञ् चान्यशास्त्रम् / Jऐम्_१,४.४ /
SK
तद्व्यपदेशं च / Jऐम्_१,४.५ /
SK
नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् / Jऐम्_१,४.६ /
SK
तुल्यत्वात् क्रिययोर् न / Jऐम्_१,४.७ /
SK
ऐकशब्द्ये परार्थवत् / Jऐम्_१,४.८ /
SK
तद्गुणास् तु विधायेर् अन्नविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः / Jऐम्_१,४.९ /
SK
बर्हिराज्ययोर् असंस्कारे शब्दलाभाद् अतच्छब्दः / Jऐम्_१,४.१० /
SK
प्रोक्षणीष्व् अर्थसंयोगात् / Jऐम्_१,४.११ /
SK
तथानिर्मन्थ्ये / Jऐम्_१,४.१२ /
SK
वैश्वदेवे विकल्प इति चेत् / Jऐम्_१,४.१३ /
SK
न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य / Jऐम्_१,४.१४ /
SK
मिथश् चानर्थसम्बन्धः / Jऐम्_१,४.१५ /
SK
परार्थत्वाद् गुणानाम् / Jऐम्_१,४.१६ /
SK
पूर्ववन्तो ऽविधानार्थास् तत्सामर्थ्यं समाम्नाये / Jऐम्_१,४.१७ /
SK
गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवत्तास्ति / Jऐम्_१,४.१८ /
SK
तच्छेषो नोपपद्यते / Jऐम्_१,४.१९ /
SK
अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् / Jऐम्_१,४.२० /
SK
कारणं स्याद् इति चेत् / Jऐम्_१,४.२१ /
SK
आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते / Jऐम्_१,४.२२ /
SK
तत्सिद्धिः / Jऐम्_१,४.२३ /
SK
जातिः / Jऐम्_१,४.२४ /
SK
सारूप्यात् / Jऐम्_१,४.२५ /
SK
प्रशंसा / Jऐम्_१,४.२६ /
SK
भूमा / Jऐम्_१,४.२७ /
SK
लिङ्गसमवायात् / Jऐम्_१,४.२८ /
SK
सन्दिग्धेषु वाक्यशेषात् / Jऐम्_१,४.२९ /
SK
अर्थाद् वा कल्पनैकदेशत्वात् / Jऐम्_१,४.३० /
SK
भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयते / Jऐम्_२,१.१ /
SK
सर्वेषां भावो ऽर्थ इति चेत् / Jऐम्_२,१.२ /
SK
येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगै / Jऐम्_२,१.३ /
SK
येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते तान्य् आख्यातानि तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य / Jऐम्_२,१.४ /
SK
चोदना पुनर् आरम्भः / Jऐम्_२,१.५ /
SK
तानि द्वैधं गुणप्रधानभूतानि / Jऐम्_२,१.६ /
SK
यैर् द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् / Jऐम्_२,१.७ /
SK
यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् / Jऐम्_२,१.८ /
SK
धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् / Jऐम्_२,१.९ /
SK
तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् / Jऐम्_२,१.१० /
SK
द्रव्योपदेश इति चेत् / Jऐम्_२,१.११ /
SK
न तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् / Jऐम्_२,१.१२ /
SK
स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् / Jऐम्_२,१.१३ /
SK
अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् / Jऐम्_२,१.१४ /
SK
वशावद् वा गुणार्थं स्यात् / Jऐम्_२,१.१५ /
SK
न श्रुतिसमवायित्वात् / Jऐम्_२,१.१६ /
SK
व्यपदेशभेदाच् च / Jऐम्_२,१.१७ /
SK
गुणश् चानर्थकः स्यात् / Jऐम्_२,१.१८ /
SK
तथा याज्यापुरोरुचोः / Jऐम्_२,१.१९ /
SK
वशायाम् अर्थसमवायात् / Jऐम्_२,१.२० /
SK
यच् चेति वार्थवत्त्वात् स्यात् / Jऐम्_२,१.२१ /
SK
न त्वाम्नातेषु / Jऐम्_२,१.२२ /
SK
दृश्यते / Jऐम्_२,१.२३ /
SK
अपि वा श्रुतिसंयोगात् प्रकरणे स्तौतिशंसती क्रियोत्पात्तिं विदध्याताम् / Jऐम्_२,१.२४ /
SK
शब्दपृथक्त्वाच् च / Jऐम्_२,१.२५ /
SK
अनर्थकं च तद्वचनम् / Jऐम्_२,१.२६ /
SK
अन्यश् चार्थः प्रतीयते / Jऐम्_२,१.२७ /
SK
अभिधानं च कर्मवत् / Jऐम्_२,१.२८ /
SK
फलनिर्वृत्तिश् च / Jऐम्_२,१.२९ /
SK
विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् / Jऐम्_२,१.३० /
SK
अपि वा प्रयोगसामर्थ्यान् मन्त्रो ऽभिधानवाची स्यात् / Jऐम्_२,१.३१ /
SK
तच्चोदकेषु मन्त्राख्या / Jऐम्_२,१.३२ /
SK
शेषे ब्राह्मणशब्दः / Jऐम्_२,१.३३ /
SK
अनाम्नातेष्व् अमन्त्रत्वमाम्नातेषु हि विभागः / Jऐम्_२,१.३४ /
SK
तेषाम् ऋग्यत्रार्थवशेन पादव्यवस्था / Jऐम्_२,१.३५ /
SK
गीतिषु स माख्या / Jऐम्_२,१.३६ /
SK
शेषे यजुः शब्दाः / Jऐम्_२,१.३७ /
SK
निगदो वा चतुर्थं स्याद् धर्मविशेषात् / Jऐम्_२,१.३८ /
SK
व्यपदेशाच् च / Jऐम्_२,१.३९ /
SK
यजूंषि वा तद्रूपत्वात् / Jऐम्_२,१.४० /
SK
वचनाद् धर्मविशेषः / Jऐम्_२,१.४१ /
SK
अर्थाच् च / Jऐम्_२,१.४२ /
SK
गुणार्थो व्यपदेशः / Jऐम्_२,१.४३ /
SK
सर्वेषाम् इति चेत् / Jऐम्_२,१.४४ /
SK
न, ऋग्व्यपदेशात् / Jऐम्_२,१.४५ /
SK
अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् / Jऐम्_२,१.४६ /
SK
समेषु वाक्यभेदः स्यात् / Jऐम्_२,१.४७ /
SK
अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् / Jऐम्_२,१.४८ /
SK
व्यवायान् नानुषज्येत / Jऐम्_२,१.४९ /
SK
शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् / Jऐम्_२,२.१ /
SK
एकस्यैवं पुनः श्रुतिर् अविशेषाद् अनर्थकं हि स्यात् / Jऐम्_२,२.२ /
SK
प्रकरणं तु पौर्णमास्यां रूपावचनात् / Jऐम्_२,२.३ /
SK
विशेषदर्शनाच् च सर्वेषां समेषु ह्य् अप्रवृत्तिः स्यात् / Jऐम्_२,२.४ /
SK
गुणस् तु श्रुतिसंयोगात् / Jऐम्_२,२.५ /
SK
चोदना वा गुणानां युगपच्छास्त्राच् चोदिते हि तदर्थत्वात् तस्यतस्योपदिश्येत / Jऐम्_२,२.६ /
SK
व्यपदेशश् च तद्वत् / Jऐम्_२,२.७ /
SK
लिङ्गदर्शनाच् च / Jऐम्_२,२.८ /
SK
पौर्णमासीवद् उपांशुयाजः स्यात् / Jऐम्_२,२.९ /
SK
चोदना वाप्रकृतत्वात् / Jऐम्_२,२.१० /
SK
गुणोपबन्धात् / Jऐम्_२,२.११ /
SK
प्राये वचनाच् च / Jऐम्_२,२.१२ /
SK
आघाराग्निहोत्रम् अरूपत्वात् / Jऐम्_२,२.१३ /
SK
संज्ञोपबन्धात् / Jऐम्_२,२.१४ /
SK
अप्रकृतत्वाच् च / Jऐम्_२,२.१५ /
SK
चोदना वा शब्दार्थस्य प्रयोगभूतत्वात् तत्सन्निधेर् गुणार्थेन पुनः श्रुतिः / Jऐम्_२,२.१६ /
SK
द्रव्यसंयोगाच् चोदना पशुसोमयोः प्रकरणे ह्य् अनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन / Jऐम्_२,२.१७ /
SK
अचोदकाश् च संस्काराः / Jऐम्_२,२.१८ /
SK
तद्भेदात् कर्मणो ऽभ्यासो द्रव्यपृथक्त्वाद् अनर्थकं हि स्याद् भेदो द्रव्यगुणीभावात् / Jऐम्_२,२.१९ /
SK
संस्कारस् तु न भिद्येत परार्थत्वाद् द्रव्यस्य गुणभूतत्वात् / Jऐम्_२,२.२० /
SK
पृथक्त्त्वनिवेशात् संख्यया कर्मभेदः स्यात् / Jऐम्_२,२.२१ /
SK
संज्ञा चोत्पत्तिसंयोगात् / Jऐम्_२,२.२२ /
SK
गुणाश् चापूर्वसंयोगे वाक्योः समत्त्वात् / Jऐम्_२,२.२३ /
SK
अगुणे तु कर्मशब्दे गुणस् तत्र प्रतीयेत / Jऐम्_२,२.२४ /
SK
फलश्रुतेस् तु कर्म स्यात् फलस्य कर्मयोगित्वात् / Jऐम्_२,२.२५ /
SK
अतुल्यत्वात् तु वाक्ययोर् गुणे तस्य प्रतीयेत / Jऐम्_२,२.२६ /
SK
समेषु कर्मयुक्तं स्यात् / Jऐम्_२,२.२७ /
SK
सौभरे पुरुषश्रुतेर् निधनं कामसंयोगः / Jऐम्_२,२.२८ /
SK
सर्वस्य वोक्तकामत्वात् तस्मिन् कामश्रुतिः स्यान् निधनार्था पुनः श्रुतिः / Jऐम्_२,२.२९ /
SK
गुणस् तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूत्वात् / Jऐम्_२,३.१ /
SK
एकस्य तु लिङ्गभेदात् प्रयोजनार्थम् उच्येतैकत्वं गुणवाक्यत्वात् / Jऐम्_२,३.२ /
SK
अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते / Jऐम्_२,३.३ /
SK
आधाने सर्वशेषत्वात् / Jऐम्_२,३.४ /
SK
अयनेषु चोदनान्तरं संज्ञोपबन्धात् / Jऐम्_२,३.५ /
SK
अगुणाच् च कर्मचोदना / Jऐम्_२,३.६ /
SK
समाप्तं च फले वाक्यम् / Jऐम्_२,३.७ /
SK
विकारो वा प्रकरणात् / Jऐम्_२,३.८ /
SK
लिङ्गदर्शनाच् च / Jऐम्_२,३.९ /
SK
गुणात् संज्ञोपबन्धः / Jऐम्_२,३.१० /
SK
समाप्तिर् अविशिष्टा / Jऐम्_२,३.११ /
SK
संस्कारश् चाप्रकरणे ऽकर्मशब्दत्वात् / Jऐम्_२,३.१२ /
SK
यावद् उक्तं वा कर्मणः श्रुतिमूलत्वात् / Jऐम्_२,३.१३ /
SK
यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एतेषां कर्मसम्बन्धात् / Jऐम्_२,३.१४ /
SK
लिङ्गदर्शनाच् च / Jऐम्_२,३.१५ /
SK
विषये प्रायदर्शनात् / Jऐम्_२,३.१६ /
SK
अर्थवादोपपत्तेश् च / Jऐम्_२,३.१७ /
SK
संयुक्तस् त्व् अर्थशब्देन तदर्थः श्रुतिसंयोगात् / Jऐम्_२,३.१८ /
SK
पात्नीवते तु पूर्वत्वाद् अवच्छेदः / Jऐम्_२,३.१९ /
SK
अद्रव्यत्वात् कवेले कर्मशेषः स्यात् / Jऐम्_२,३.२० /
SK
अग्निस् तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत / Jऐम्_२,३.२१ /
SK
द्रव्यं वा स्याच् चोदनायास् तदर्थत्वात् / Jऐम्_२,३.२२ /
SK
तत्संयोगात् क्रतुस् तदाख्यः स्यात् तेन धर्मविधानानि / Jऐम्_२,३.२३ /
SK
प्रकरणान्तरे प्रयोजनान्यत्वम् / Jऐम्_२,३.२४ /
SK
फलं चाकर्मसंनिधौ / Jऐम्_२,३.२५ /
SK
संनिधौ त्व् अविभागात् फलार्थेन पुनः श्रुतिः / Jऐम्_२,३.२६ /
SK
आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत / Jऐम्_२,३.२७ /
SK
अविभागात् तु कर्मणां द्विरुक्तेर् न विधीयते / Jऐम्_२,३.२८ /
SK
अन्यार्था वा पुनः श्रुतिः / Jऐम्_२,३.२९ /
SK
यावज्जीविको ऽभ्यासः कर्मधर्मः प्रकरणात् / Jऐम्_२,४.१ /
SK
कर्तुर् वा श्रुतिसंयोगात् / Jऐम्_२,४.२ /
SK
लिङ्गदर्शनाच् च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकम् अन्यत् स्यात् / Jऐम्_२,४.३ /
SK
व्यपवर्गं च दर्शयति कालश् चेत् कर्मभेदः स्यात् / Jऐम्_२,४.४ /
SK
अनित्यत्वात् तु नैवं स्यात् / Jऐम्_२,४.५ /
SK
विरोधश् चापि पूर्ववत् / Jऐम्_२,४.६ /
SK
कर्तुस् तु धर्मनियमात् कालशास्त्रं निमित्तं स्यात् / Jऐम्_२,४.७ /
SK
नामरूपधर्मविशेषपुनरुक्तिनिन्दाशाक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात् / Jऐम्_२,४.८ /
SK
एकं वा संयोगरूपचोदनाख्याविशेषात् / Jऐम्_२,४.९ /
SK
न नाम्ना स्याद् अचोदनाभिधानत्वात् / Jऐम्_२,४.१० /
SK
सर्वेषां चैककर्म्यं स्यात् / Jऐम्_२,४.११ /
SK
कृतकं चाभिधानम् / Jऐम्_२,४.१२ /
SK
एकत्वे ऽपि परम् / Jऐम्_२,४.१३ /
SK
विद्यायां धर्मशास्त्रम् / Jऐम्_२,४.१४ /
SK
अग्नेयवत्पुनर्वचनम् / Jऐम्_२,४.१५ /
SK
अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् / Jऐम्_२,४.१६ /
SK
अर्थासन्निधेश् च / Jऐम्_२,४.१७ /
SK
न चैकं प्रतिशिष्यते / Jऐम्_२,४.१८ /
SK
समाप्तिवच् च संप्रेक्षा / Jऐम्_२,४.१९ /
SK
एकत्वे ऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि / Jऐम्_२,४.२० /
SK
प्रायश्चित्तं निमित्तेन / Jऐम्_२,४.२१ /
SK
प्रक्रमाद् वा नियोगेन / Jऐम्_२,४.२२ /
SK
समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत / Jऐम्_२,४.२३ /
SK
लिङ्गमविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्मात् द्वादशाहस्याहारव्यपदेशः स्यात् / Jऐम्_२,४.२४ /
SK
द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यतिष्ठेत तस्मान् नित्यानुवादः स्यात् / Jऐम्_२,४.२५ /
SK
विहितप्रतिषेधात् पक्षे ऽतिरेकः स्यात् / Jऐम्_२,४.२६ /
SK
सारस्वते विप्रतिषेधाद्यदेति स्यात् / Jऐम्_२,४.२७ /
SK
उपहव्ये ऽप्रतिप्रसवः / Jऐम्_२,४.२८ /
SK
गुणार्था वा पुनः श्रुतिः / Jऐम्_२,४.२९ /
SK
प्रत्ययं चापि दर्शयति / Jऐम्_२,४.३० /
SK
अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत / Jऐम्_२,४.३१ /
SK
विरोधिना त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात् / Jऐम्_२,४.३२ /
SK
अथातः शेषलक्षणम् / Jऐम्_३,१.१ /
SK
शेषः परार्थत्वात् / Jऐम्_३,१.२ /
SK
द्रव्यगुणसंस्कारेषु बादरिः / Jऐम्_३,१.३ /
SK
कर्माण्यपि जैमिनिः फलार्थत्वात् / Jऐम्_३,१.४ /
SK
फलं च पुरुषार्थत्वात् / Jऐम्_३,१.५ /
SK
पुरुषश् च कर्मार्थत्वात् / Jऐम्_३,१.६ /
SK
तेषाम् अर्थेन सबन्धः / Jऐम्_३,१.७ /
SK
विहितस् तु सर्वधर्मः स्यात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च / Jऐम्_३,१.८ /
SK
अर्थलोपाद् अकर्मे स्यात् / Jऐम्_३,१.९ /
SK
फलं तु सह चेष्टया शब्दार्थो ऽभावाद् विप्रयोगे स्यात् / Jऐम्_३,१.१० /
SK
द्रव्यं चोत्पत्तिसंयोगात् तद् अर्थम् एव चोद्येत / Jऐम्_३,१.११ /
SK
अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात् / Jऐम्_३,१.१२ /
SK
एकत्वयुक्तम् एकस्य श्रुतिसंयोगात् / Jऐम्_३,१.१३ /
SK
सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम् / Jऐम्_३,१.१४ /
SK
चोदितेतुपरार्थत्वाद् यथाश्रुति प्रतीयेता / Jऐम्_३,१.१५ /
SK
संस्काराद् वागुणानाम् अव्यवस्था स्यात् / Jऐम्_३,१.१६ /
SK
व्यवस्थावार्थस्य श्रुतिसंयोगात् तस्य शब्द प्रमाणत्वात् / Jऐम्_३,१.१७ /
SK
आनर्थक्यात्तदङ्गेषु / Jऐम्_३,१.१८ /
SK
कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् / Jऐम्_३,१.१९ /
SK
साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण / Jऐम्_३,१.२० /
SK
सन्दिग्धे तुब्यवायाद् वाक्यभेदः स्यात् / Jऐम्_३,१.२१ /
SK
गुणानां च परार्थत्त्वाद् असम्बन्धः समत्वात् स्यात् / Jऐम्_३,१.२२ /
SK
मिथश् चानर्थसम्वन्धात् / Jऐम्_३,१.२३ /
SK
आनन्तर्यम् अचोदना / Jऐम्_३,१.२४ /
SK
बाक्यानां च समाप्तत्वात् / Jऐम्_३,१.२५ /
SK
शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असम्बन्धात् / Jऐम्_३,१.२६ /
SK
व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन सम्बन्धाल्लक्षणार्था गुणश्रुतिः / Jऐम्_३,१.२७ /
SK
अर्थाभिधानसामर्थ्यान् मन्त्रेषु शेषभावः स्यात् तस्माद् उत्पत्तिसम्बन्धो ऽर्थेन नित्यसंयोगात् / Jऐम्_३,२.१ /
SK
संस्कारकत्वाद् अचोदितेन स्यात् / Jऐम्_३,२.२ /
SK
वचनात् त्व् अयथार्थम् ऐन्द्री स्यात् / Jऐम्_३,२.३ /
SK
गुणाद् वाप्य् अभिधानं स्यात् सम्बन्धस्याशास्त्रहेतुत्वात् / Jऐम्_३,२.४ /
SK
तथाहवानम् अपीति चेत् / Jऐम्_३,२.५ /
SK
नकालविधिश् चोदितत्वात् / Jऐम्_३,२.६ /
SK
गुणाभावात् / Jऐम्_३,२.७ /
SK
लिङ्गाच् च / Jऐम्_३,२.८ /
SK
विधिकोपश् चोपदेशे स्यात् / Jऐम्_३,२.९ /
SK
तथोत्थानविसर्जने / Jऐम्_३,२.१० /
SK
सूक्तवाके च कालविधिः परार्थत्वात् / Jऐम्_३,२.११ /
SK
उपदेशो वा याज्याशब्दो हि नाकस्मात् / Jऐम्_३,२.१२ /
SK
सदेवतार्थस् तत्संयोगात् / Jऐम्_३,२.१३ /
SK
प्रतिपत्तिर् इति चेत् स्विष्टकृद्वदुभयसंस्कारः स्यात् / Jऐम्_३,२.१४ /
SK
कृत्स्नोपदेशाद् उभयत्र सर्ववचनम् / Jऐम्_३,२.१५ /
SK
यथार्थं वा शेषभूतसंस्कारात् / Jऐम्_३,२.१६ /
SK
वचनाद् इति चेत् / Jऐम्_३,२.१७ /
SK
प्रकरणाविभागाद् उभे प्रति कृत्स्नशब्दः / Jऐम्_३,२.१८ /
SK
लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समामनानम् / Jऐम्_३,२.१९ /
SK
अधिकारे च मन्त्रविधिर् अतदाख्येषु शिष्टत्वात् / Jऐम्_३,२.२० /
SK
तदाख्यो वा प्रकरणोपपत्तिभ्याम् / Jऐम्_३,२.२१ /
SK
अनर्थकश् चोपदेशः स्याद् असम्बन्धात् फलवता न ह्य् उपस्थानं फलवत् / Jऐम्_३,२.२२ /
SK
सर्वेषां चोपदिष्टत्वात् / Jऐम्_३,२.२३ /
SK
लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य / Jऐम्_३,२.२४ /
SK
तस्य रूपोपदेशाभ्याम् अपकर्षो ऽर्थस्य चोदितत्वात् / Jऐम्_३,२.२५ /
SK
गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्यात् तयोर् एकार्थसंयोगात् / Jऐम्_३,२.२६ /
SK
लिङ्गविशेषनिर्देशात् समानविधानेष्व् अनैन्द्राणाम् अमन्त्रत्वम् / Jऐम्_३,२.२७ /
SK
यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति / Jऐम्_३,२.२८ /
SK
पुनरभ्युन्नीतेषु सर्वेषाम् उपलक्षणं द्विशेषत्वात् / Jऐम्_३,२.२९ /
SK
अनयाद् वा पूर्वस्यानुपलक्षणम् / Jऐम्_३,२.३० /
SK
ग्रहणाद् वापनयः स्यात् / Jऐम्_३,२.३१ /
SK
पात्नीवते तु पूर्ववत् / Jऐम्_३,२.३२ /
SK
ग्रहणाद् वापनीतं स्यात् / Jऐम्_३,२.३३ /
SK
त्वष्टारं तूपलक्षयेत् पानात् / Jऐम्_३,२.३४ /
SK
अतुल्यत्वात् तु नैवं स्यात् / Jऐम्_३,२.३५ /
SK
त्रिंशच् च परार्थत्वात् / Jऐम्_३,२.३६ /
SK
वषट्कारश् च कर्तृवत् / Jऐम्_३,२.३७ /
SK
छन्दः प्रतिषेधस् तु सर्वगामित्वात् / Jऐम्_३,२.३८ /
SK
ऐन्द्राग्ने तु लिङ्गभाबात् स्यात् / Jऐम्_३,२.३९ /
SK
एकस्मिन् वा देवतान्तराद् विभागवत् / Jऐम्_३,२.४० /
SK
छन्दश् च देवतावत् / Jऐम्_३,२.४१ /
SK
सर्वेषु वाभावाद् एकच्छन्दसः / Jऐम्_३,२.४२ /
SK
सर्वेषां वैकमन्त्र्यम् ऐतिशायनस्य भक्तिपानत्वात् सवनाधिकारो हि / Jऐम्_३,२.४३ /
SK
श्रुतेर् जाताधिकारः स्यात् / Jऐम्_३,३.१ /
SK
वेदो वा प्रायदर्शनात् / Jऐम्_३,३.२ /
SK
लिङ्गाच् च / Jऐम्_३,३.३ /
SK
धर्मोपदेशाच् च न हि द्रव्येण सम्बन्धः / Jऐम्_३,३.४ /
SK
त्रयीविद्याख्या च तद्विद् धि / Jऐम्_३,३.५ /
SK
व्यक्तिक्रमे यथाश्रुतीति चेत् / Jऐम्_३,३.६ /
SK
न सर्वस्मिन् निवेशात् / Jऐम्_३,३.७ /
SK
वेदसंयोगान् न प्रकरणेन बाध्यते / Jऐम्_३,३.८ /
SK
गुणमुख्यव्यतिक्रमे तदर्थत्वान् मुख्येन वेदसंयोगः / Jऐम्_३,३.९ /
SK
भूयस्त्वेनोभयश्रुति / Jऐम्_३,३.१० /
SK
असंयुक्तं प्रकरणाद् इति कर्तव्यतार्थित्वात् / Jऐम्_३,३.११ /
SK
क्रमश् च देशसामान्यात् / Jऐम्_३,३.१२ /
SK
आख्या चैवम तदर्थत्वात् / Jऐम्_३,३.१३ /
SK
श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् / Jऐम्_३,३.१४ /
SK
अहीनो वा प्रकरणाद् गौणः / Jऐम्_३,३.१५ /
SK
असंयोगात् तु मुख्यस्य तस्माद् अपकृष्येत / Jऐम्_३,३.१६ /
SK
द्वित्वबहुत्वयुक्तं वा चोदनात् तस्य / Jऐम्_३,३.१७ /
SK
पक्षेणार्थकृतस्येति चेत् / Jऐम्_३,३.१८ /
SK
नकृतेर् एकसंयोगात् / Jऐम्_३,३.१९ /
SK
जाघनी चैकदेशत्वात् / Jऐम्_३,३.२० /
SK
चोदना वापूर्वत्वात् / Jऐम्_३,३.२१ /
SK
एकदेश इति चेत् / Jऐम्_३,३.२२ /
SK
न प्रकृतेर् अशास्त्रनिष्पत्तेः / Jऐम्_३,३.२३ /
SK
सन्तर्दनं प्रकृतौ क्रयणवदनर्थलोपात् स्यात् / Jऐम्_३,३.२४ /
SK
उत्कर्षो वा ग्रहणाद् विशेषस्य / Jऐम्_३,३.२५ /
SK
कर्तृतो वा विशेषस्य तन्निमित्तत्वात् / Jऐम्_३,३.२६ /
SK
क्रतुतो वार्थवादान् उपपत्तेः स्यात् / Jऐम्_३,३.२७ /
SK
संस्थाश् च कर्तृवद् धारणार्थाविशेषात् / Jऐम्_३,३.२८ /
SK
उक्थ्यादिषु वार्थस्य विद्यमानत्वात् / Jऐम्_३,३.२९ /
SK
अविशेषात् स्तुतिर् व्यर्थेति चेत् / Jऐम्_३,३.३० /
SK
स्याद् अनित्यत्वात् / Jऐम्_३,३.३१ /
SK
सङ्ख्यायुक्तं क्रतोः प्रकरणात् स्यात् / Jऐम्_३,३.३२ /
SK
नैमित्तिकं वा कर्तृसंयोगाल् लिङ्गस्य तन्निमित्तत्वात् / Jऐम्_३,३.३३ /
SK
पौष्णं पैषणं विकृतौ प्रतीयेताचोदनात् प्रकृतौ / Jऐम्_३,३.३४ /
SK
तत्सर्वार्थम् अविशेषात् / Jऐम्_३,३.३५ /
SK
चरौवार्थोक्तं पुरोडाशे ऽर्थविप्रतिषेधात् पशौ न स्यात् / Jऐम्_३,३.३६ /
SK
चराव् अपीति चेत् / Jऐम्_३,३.३७ /
SK
न पक्तिनामत्वात् / Jऐम्_३,३.३८ /
SK
एकस्मिन्न् एकसंयोगात् / Jऐम्_३,३.३९ /
SK
धर्माविप्रतिषेधाच् च / Jऐम्_३,३.४० /
SK
अपि वा सद्वितीये स्याद् देवतानिमित्तत्वात / Jऐम्_३,३.४१ /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,३.४२ /
SK
वचनात् सर्वपेषणं तं प्रति शास्त्रवत्वाद् अर्थाभावाद् विचराव् अपेषणं भवति / Jऐम्_३,३.४३ /
SK
एकस्मिन् वार्थधर्मत्वाद् ऐन्द्राग्नव् अदुभयोर् न स्याद् अचोदितत्वात् / Jऐम्_३,३.४४ /
SK
हेतुमात्रम् अदन्तत्वम् / Jऐम्_३,३.४५ /
SK
वचनं परम् / Jऐम्_३,३.४६ /
SK
निवीताम् इति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् / Jऐम्_३,४.१ /
SK
अपदेशो वार्थस्य विद्यमानतत्त्वात् / Jऐम्_३,४.२ /
SK
विधिस्तवर्पूर्वत्वात् स्यात् / Jऐम्_३,४.३ /
SK
स प्रायात् कर्मधर्मः स्यात् / Jऐम्_३,४.४ /
SK
वाक्यशेषत्वात् / Jऐम्_३,४.५ /
SK
तत्प्रकरणे यत् तत् संयुक्तम् अविप्रतिषेधात् / Jऐम्_३,४.६ /
SK
तत्प्रधाने वा तुल्यवत् प्रसंख्यानाद् इतरस्य तदर्थत्वात् / Jऐम्_३,४.७ /
SK
अर्थवादो वा प्रकरणात् / Jऐम्_३,४.८ /
SK
विधिना चैकवाक्यत्वात् / Jऐम्_३,४.९ /
SK
दिग्विभागश् च तद्वत् सम्बन्धस्यार्थहेतुत्वात् / Jऐम्_३,४.१० /
SK
परुषि दितपूर्णघृतविदग्धं च तद्वत् / Jऐम्_३,४.११ /
SK
अकर्म क्रतुसंयुक्तं संयोगान् नित्यानुवादः स्यात् / Jऐम्_३,४.१२ /
SK
विधिर् वा संयोगान्तरात् / Jऐम्_३,४.१३ /
SK
अहीनवत् पुरुषस् तदर्थत्वात् / Jऐम्_३,४.१४ /
SK
प्रकरणविशेषाद् वा तद्युक्तस्य संस्कारो द्रव्यवत् / Jऐम्_३,४.१५ /
SK
व्यपदेशाद् अपकृष्येत / Jऐम्_३,४.१६ /
SK
शंयौ च सर्वपरिदानात् / Jऐम्_३,४.१७ /
SK
प्रागपरोधान् मलवद् वाससः / Jऐम्_३,४.१८ /
SK
अन्नप्रतिषेधाच् च / Jऐम्_३,४.१९ /
SK
अप्रकरणे तु तद्वर्मस् ततो विशेषात् / Jऐम्_३,४.२० /
SK
अद्रव्यत्वात् तु शेषः स्यात् / Jऐम्_३,४.२१ /
SK
वेदसंयोगात् / Jऐम्_३,४.२२ /
SK
द्रव्यसंयोगाच् च / Jऐम्_३,४.२३ /
SK
स्याद् वास्य संयोगवत् फलेन सम्बन्धस् तस्मात् कर्मैतिशायनः / Jऐम्_३,४.२४ /
SK
शेषाः प्रकरणे ऽविशेषात् सर्वकर्मणाम् / Jऐम्_३,४.२५ /
SK
होमास् तु व्यवतिष्ठेर् अन्नाहवनीयसंयोगात् / Jऐम्_३,४.२६ /
SK
शेषश् च समाख्यानात् / Jऐम्_३,४.२७ /
SK
दोषात् त्व् इष्टिर् लौकिके स्याच् छास्त्राद् धि वैदिक न दोषः स्यात् / Jऐम्_३,४.२८ /
SK
अर्थवादो वानुपपातत् तस्माद् यज्ञे प्रतीयेत / Jऐम्_३,४.२९ /
SK
अचोदित च कर्मभेदात् / Jऐम्_३,४.३० /
SK
लिङ्गाद् आर्त्विजे स्यात् / Jऐम्_३,४.३१ /
SK
पानव्यापच् च तद्वत् / Jऐम्_३,४.३२ /
SK
दोषात् तु वैदिके स्याद् अर्थाद् धि लौकिके न दोषः स्यात् / Jऐम्_३,४.३३ /
SK
तत्सर्वत्राविशेषात् / Jऐम्_३,४.३४ /
SK
स्वामिनो वा तदर्थत्वात् / Jऐम्_३,४.३५ /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,४.३६ /
SK
सर्वप्रदानं हविषस् तदर्थत्वात् / Jऐम्_३,४.३७ /
SK
निरवदानात् तु शेषः स्यात् / Jऐम्_३,४.३८ /
SK
उपायो वा तदर्थत्वात् / Jऐम्_३,४.३९ /
SK
कृतत्वात् तु कर्मणः सकृत् स्याद् द्रव्यस्य गुणभूतत्वात् / Jऐम्_३,४.४० /
SK
शेषदर्शनाच् च / Jऐम्_३,४.४१ /
SK
अप्रयोजकत्वाद् एकस्मात् क्रियेरञ् छेषस्य गुणभूतत्वात् / Jऐम्_३,४.४२ /
SK
संस्कृतत्वाच् च / Jऐम्_३,४.४३ /
SK
सर्वेभ्यो वा कारणाविशेषात् संस्कारस्य तदर्थत्वात् / Jऐम्_३,४.४४ /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,४.४५ /
SK
एकस्माच् चेद् यथाकाम्यम् अविशेषात् / Jऐम्_३,४.४६ /
SK
मुख्याद् वा पूर्वकालत्वात् / Jऐम्_३,४.४७ /
SK
भक्षाश्रवणाद् दानशब्दः परिक्रये / Jऐम्_३,४.४८ /
SK
तत्संस्तवाच् च / Jऐम्_३,४.४९ /
SK
भक्षार्थो वा द्रव्ये समत्वात् / Jऐम्_३,४.५० /
SK
व्यादेशाद् दानसंस्तुतिः / Jऐम्_३,४.५१ /
SK
आज्याच् च सर्वसंयोगात् / Jऐम्_३,५.१ /
SK
कारणाच् च / Jऐम्_३,५.२ /
SK
एकस्मिन्त् समवत्तशब्दात् / Jऐम्_३,५.३ /
SK
आज्ये च दर्शनात्स्विष्टकृदर्थवदस्य / Jऐम्_३,५.४ /
SK
अशेषत्वात् तु नैवं स्यात् सर्वादानाद् अशेषता / Jऐम्_३,५.५ /
SK
साधारण्यान् न ध्रुवायां स्यात् / Jऐम्_३,५.६ /
SK
अवत्तत्वाच् च जुह्वां तस्य च होमसंयोगात् / Jऐम्_३,५.७ /
SK
चमसवद् इति चेत् / Jऐम्_३,५.८ /
SK
न चोदनाविरोधाद् धविः प्रकल्पनात्वाच् च / Jऐम्_३,५.९ /
SK
उत्पन्नाधिकारात् सति सर्ववचनम् / Jऐम्_३,५.१० /
SK
जातिविशेषात् परम् / Jऐम्_३,५.११ /
SK
अन्त्यम् अरेकार्थे / Jऐम्_३,५.१२ /
SK
साकम्प्रस्थाय्ये स्विष्टकृद् इडं च तद्वत् / Jऐम्_३,५.१३ /
SK
सौत्रामण्यां च ग्रहेषु / Jऐम्_३,५.१४ /
SK
तद्वच् च शेषवचनम् / Jऐम्_३,५.१५ /
SK
द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् / Jऐम्_३,५.१६ /
SK
अविभागाच् च शेषस्य सर्वान् प्रत्यविशिष्ठत्वात् / Jऐम्_३,५.१७ /
SK
ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् / Jऐम्_३,५.१८ /
SK
सोमे ऽवचनाद् भक्षो न विद्यते / Jऐम्_३,५.१९ /
SK
स्याद् वान्यार्थदर्शनात् / Jऐम्_३,५.२० /
SK
वचनानि त्व् अपूर्वत्वात् तस्माद् यथोपदेशं स्युः / Jऐम्_३,५.२१ /
SK
चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्त्वात् / Jऐम्_३,५.२२ /
SK
उद्गातृचमसमेकः श्रुतिसंयोगात् / Jऐम्_३,५.२३ /
SK
सर्वे वा सर्वसंयोगात् / Jऐम्_३,५.२४ /
SK
स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः / Jऐम्_३,५.२५ /
SK
सर्वे तु वेदसंयोगात् कारणाद् एकदेशे स्यात् / Jऐम्_३,५.२६ /
SK
ग्रावस्तुतो भक्षो न विद्यते ऽनाम्नानात् / Jऐम्_३,५.२७ /
SK
हारियोजने वा सर्वसंयोगात् / Jऐम्_३,५.२८ /
SK
चमसिनां वा सन्निधानात् / Jऐम्_३,५.२९ /
SK
सर्वेषां तु विधित्वात् तदर्था चमसिश्रुतिः / Jऐम्_३,५.३० /
SK
वषट्काराच् च भक्षयेत् / Jऐम्_३,५.३१ /
SK
होमाभिषबाभ्यां च / Jऐम्_३,५.३२ /
SK
प्रत्यक्षोपदेशाच् चमसानाम् अव्यक्तः शेषे / Jऐम्_३,५.३३ /
SK
स्याद् वा कारणभावाद् अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात् / Jऐम्_३,५.३४ /
SK
चमसे चान्यदर्शनात् / Jऐम्_३,५.३५ /
SK
एकपात्रे क्रमाद् अध्वर्युः पूर्वो भक्षयेत् / Jऐम्_३,५.३६ /
SK
होता वा मन्त्रवर्णात् / Jऐम्_३,५.३७ /
SK
वचनाच् च / Jऐम्_३,५.३८ /
SK
कारणानुपूर्व्याच् च / Jऐम्_३,५.३९ /
SK
वचनाद् अनुज्ञातभक्षणम् / Jऐम्_३,५.४० /
SK
तदुपहूत उपह्वयस्वेत्य् अनेनानुज्ञापयेलिङ्गात् / Jऐम्_३,५.४१ /
SK
तत्रार्थात् प्रतिवचनम् / Jऐम्_३,५.४२ /
SK
तदेकत्राणां समवायात् / Jऐम्_३,५.४३ /
SK
याज्यापनयेनापनीतो भक्षः प्रवरवत् / Jऐम्_३,५.४४ /
SK
यष्टुर् वा कारणागमात् / Jऐम्_३,५.४५ /
SK
प्रवृत्तत्वात् प्रवरस्यानपायः / Jऐम्_३,५.४६ /
SK
फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् / Jऐम्_३,५.४७ /
SK
इज्याबिकारो वा संस्कारस्य तदर्थत्वात् / Jऐम्_३,५.४८ /
SK
होमात् / Jऐम्_३,५.४९ /
SK
चमसैश् च तुल्यकालत्वात् / Jऐम्_३,५.५० /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,५.५१ /
SK
अनुप्रसर्पिषु सामान्यात् / Jऐम्_३,५.५२ /
SK
ब्रह्मणा वा तुल्यशब्दत्वात् / Jऐम्_३,५.५३ /
SK
तत् सर्वार्थम् अप्रकरणात् / Jऐम्_३,६.१ /
SK
प्रकृतौ वाद्विरुक्तत्वात् / Jऐम्_३,६.२ /
SK
तद्वर्जं तु वचनप्राप्ते / Jऐम्_३,६.३ /
SK
दर्शनाद् इति चेत् / Jऐम्_३,६.४ /
SK
न चोदनैकार्थ्यात् / Jऐम्_३,६.५ /
SK
उत्पत्तिर् इति चेत् / Jऐम्_३,६.६ /
SK
न तुल्यत्वात् / Jऐम्_३,६.७ /
SK
चोदनार्थकार्त्स्न्यात् तु मुख्यविप्रतिषेधात् प्रकृत्यर्थः / Jऐम्_३,६.८ /
SK
प्रकरणविशेषात् तु विकृतौ विरोधि स्यात् / Jऐम्_३,६.९ /
SK
नैमित्तिकं तु प्रकृतौ तद्विकारः संयोगविशेषात् / Jऐम्_३,६.१० /
SK
इष्टयर्थमग्न्याधेयं प्रकरणात् / Jऐम्_३,६.११ /
SK
न वा तासां तदर्थत्वात् / Jऐम्_३,६.१२ /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,६.१३ /
SK
तत्प्रकृत्यर्थं यथान्ये ऽनारभ्यवादाः / Jऐम्_३,६.१४ /
SK
सर्वार्थ वाग्न्यधानस्य स्वकालत्वात् / Jऐम्_३,६.१५ /
SK
तासाम् अग्निः प्रकृतितः प्रयाजवत् स्यात् / Jऐम्_३,६.१६ /
SK
न वा तासां तदर्थत्वात् / Jऐम्_३,६.१७ /
SK
तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् / Jऐम्_३,६.१८ /
SK
स्थानाच् च पूर्वस्य / Jऐम्_३,६.१९ /
SK
श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था / Jऐम्_३,६.२० /
SK
तेनोत्कृष्टस्य कालविधिर् इति चेत् / Jऐम्_३,६.२१ /
SK
नैकदेशत्वात् / Jऐम्_३,६.२२ /
SK
अर्थेनेति चेत् / Jऐम्_३,६.२३ /
SK
न श्रुतिविप्रतिषेधात् / Jऐम्_३,६.२४ /
SK
स्थानात् तु पूर्वस्य संस्कारस्य तदर्थत्वात् / Jऐम्_३,६.२५ /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,६.२६ /
SK
अचोदना गुणार्थेन / Jऐम्_३,६.२७ /
SK
दोहयोः कालभेदाद् असंयुक्तं शृतं स्यात् / Jऐम्_३,६.२८ /
SK
प्रकरणविभागाद् वा तत्संयुक्तस्य कालशास्त्रम् / Jऐम्_३,६.२९ /
SK
तद्वत् सवनान्तरे ग्रहाम्नानम् / Jऐम्_३,६.३० /
SK
रशना च लिङ्गदर्शनात् / Jऐम्_३,६.३१ /
SK
आराच् छिष्टम् असंयुक्तम् इतरैः सन्निधानात् / Jऐम्_३,६.३२ /
SK
संयुक्तं वा तदर्थत्वाच् छेषस्य तन्निमित्तत्वात् / Jऐम्_३,६.३३ /
SK
निर्देशाद् व्यवतिष्ठेत / Jऐम्_३,६.३४ /
SK
अग्न्यङ्गम् अप्रकरणे तद्वत् / Jऐम्_३,६.३५ /
SK
नैमित्तिकम् अतुल्यत्वाद् असमानविथानां स्यात् / Jऐम्_३,६.३६ /
SK
प्रतिनिधिश् च Jऐम्_३,६.३७ /
SK
तद्वत्प्रयोजनैकत्वात् / Jऐम्_३,६.३८ /
SK
अशास्त्रलक्षणत्वाच् च / Jऐम्_३,६.३९ /
SK
नियमार्था गुणश्रुतिः / Jऐम्_३,६.४० /
SK
संस्थास् तु समानविधानाः प्रकरणाविशेषात् / Jऐम्_३,६.४१ /
SK
व्यपदेशश् च तुल्यवत् / Jऐम्_३,६.४२ /
SK
विकासस् तु कामसंयोगे नित्यस्य समत्वात् / Jऐम्_३,६.४३ /
SK
अपि वा द्विरुक्तत्वात् प्रकृतेर् भविष्यन्तीति / Jऐम्_३,६.४४ /
SK
बचनात् तु समुच्चयः / Jऐम्_३,६.४५ /
SK
प्रतिषेधाच् च पूर्वलिङ्गनाम् / Jऐम्_३,६.४६ /
SK
गुणविशेषाद् एकस्य व्यपदेशः / Jऐम्_३,६.४७ /
SK
प्रकरणविशेषाद् असंयुक्तं प्रधानस्य / Jऐम्_३,७.१ /
SK
सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् / Jऐम्_३,७.२ /
SK
आरादपीति चेत् / Jऐम्_३,७.३ /
SK
न तद्वाक्यं हि तदर्थत्वात् / Jऐम्_३,७.४ /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,७.५ /
SK
फलसंयोगात् तु स्वामियुक्तं प्रधानस्य / Jऐम्_३,७.६ /
SK
चिकीर्षयो च संयोगात् / Jऐम्_३,७.७ /
SK
तथाभिधानेन / Jऐम्_३,७.८ /
SK
तद्युक्ते तु फलश्रुतिस् तस्मात् सर्वचिकीर्षा स्यात् / Jऐम्_३,७.९ /
SK
गुणाभिधानात् सर्वार्थम् अभिधानम् / Jऐम्_३,७.१० /
SK
दीक्षादक्षिणं तु वचनात् प्रधानस्य / Jऐम्_३,७.११ /
SK
निवृत्तिदर्शनाच् च / Jऐम्_३,७.१२ /
SK
तथा यूपस्य वेदि / Jऐम्_३,७.१३ /
SK
देशमात्रं वा शिष्टेनैकवाक्यत्वात् / Jऐम्_३,७.१४ /
SK
सामधेनीस् तद् अन्वाहुर् इति हविर् द्धानयोर् वचनात् सामधेनीनाम् / Jऐम्_३,७.१५ /
SK
देशमात्रं वा प्रत्यक्षं ह्य् अर्थकर्म सोमस्य / Jऐम्_३,७.१६ /
SK
समाख्यानं च तद्वत् / Jऐम्_३,७.१७ /
SK
शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् / Jऐम्_३,७.१८ /
SK
उत्सर्गे तु प्रधानत्वाच् छेषकारी प्रधानस्य तस्माद् अन्यः स्वयं वा स्यात् / Jऐम्_३,७.१९ /
SK
अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यग् आत्मनि / Jऐम्_३,७.२० /
SK
तत्रार्थात् कर्तृपरिमाणं स्याद् अनियमो ऽविशेषात् / Jऐम्_३,७.२१ /
SK
अपि वा श्रुति भेदात् प्रतिनामधेयं स्युः / Jऐम्_३,७.२२ /
SK
एकस्य कर्मभेदाद् इति चेत् / Jऐम्_३,७.२३ /
SK
नोत्पत्तौ हि / Jऐम्_३,७.२४ /
SK
चमसाध्वर्यवश् च तैर् व्यपदेशात् / Jऐम्_३,७.२५ /
SK
उत्पत्तौ तु बहुश्रुतेः / Jऐम्_३,७.२६ /
SK
दशत्वं लिङ्गदर्शनात् / Jऐम्_३,७.२७ /
SK
शमिता च शब्दभेदात् / Jऐम्_३,७.२८ /
SK
प्रकरणाद् वोत्पत्त्यसंयोगात् / Jऐम्_३,७.२९ /
SK
उपगाश् च लिङ्गदर्शनात् / Jऐम्_३,७.३० /
SK
विक्रयी त्वन्यः कर्मणो ऽचोदित्वात् / Jऐम्_३,७.३१ /
SK
कर्मकार्यात् सर्वेषाम् ऋत्विक्त्वम् अविशेषात् / Jऐम्_३,७.३२ /
SK
न वा परिसंख्यानात् / Jऐम्_३,७.३३ /
SK
पक्षेणेति चेत् / Jऐम्_३,७.३४ /
SK
न सर्वेषाम् अधिकारः / Jऐम्_३,७.३५ /
SK
नियमस् तु दक्षिणाभिः श्रुतिसंयोगात् / Jऐम्_३,७.३६ /
SK
उक्त्वा च यजमानत्वं तेषां दीक्षाबिधानात् / Jऐम्_३,७.३७ /
SK
स्वामिसप्तदशाः कर्मसामान्यात् / Jऐम्_३,७.३८ /
SK
ते सर्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात् / Jऐम्_३,७.३९ /
SK
तत्सयोगात् कर्मणो व्यवस्था स्यात् संयोगास्यार्थवत्वात् / Jऐम्_३,७.४० /
SK
तस्योपदेशसमाख्यानेन निर्देशः / Jऐम्_३,७.४१ /
SK
तद्वच् च लिङ्गदर्शम् / Jऐम्_३,७.४२ /
SK
प्रैषानुवचनं मैत्रावरुणस्योपदेशात् / Jऐम्_३,७.४३ /
SK
पुरो ऽनुवाक्याधिकारो वा प्रैषसन्निधानात् / Jऐम्_३,७.४४ /
SK
प्रातर् अनुवाके च होतृदर्शनात् / Jऐम्_३,७.४५ /
SK
चमसांश्चमसाध्वर्यवः सामाख्यानात् / Jऐम्_३,७.४६ /
SK
अध्वर्युर्वा तन्न्यायत्वात् / Jऐम्_३,७.४७ /
SK
चमसे चान्यदर्शनात् / Jऐम्_३,७.४८ /
SK
अशक्तौ ते प्रतीयेरन् / Jऐम्_३,७.४९ /
SK
वेदोपदेशात् पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः / Jऐम्_३,७.५० /
SK
तद्गुणाद् वा स्वधर्मः स्याद् अधिकारसामथ्यात् सहाङ्गैर् अव्यक्तः शेषे / Jऐम्_३,७.५१ /
SK
स्वामिकर्मपरिक्रयः कर्मणस् तदर्थत्वात् / Jऐम्_३,८.१ /
SK
वचनाद् इतरेषां स्यात् / Jऐम्_३,८.२ /
SK
संस्कारास् तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन् / Jऐम्_३,८.३ /
SK
याजमानास् तु तत्प्रधानत्वात् कर्मवत् / Jऐम्_३,८.४ /
SK
व्यपदेशाच् च / Jऐम्_३,८.५ /
SK
गुणत्त्वे तस्य निर्देशः / Jऐम्_३,८.६ /
SK
चोदना प्रति भावाच् च / Jऐम्_३,८.७ /
SK
अतुल्यत्वाद् असमानविधानाः स्युः / Jऐम्_३,८.८ /
SK
तपश् च फलसिद्धित्वाल् लोकवत् / Jऐम्_३,८.९ /
SK
वाक्यशेषश् च तद्वत् / Jऐम्_३,८.१० /
SK
वचनाद् इतरेषां स्यात् / Jऐम्_३,८.११ /
SK
गुणत्वाच् च वेदेन न व्यवस्था स्यात् / Jऐम्_३,८.१२ /
SK
तथा कामो ऽर्थसंयोगात् / Jऐम्_३,८.१३ /
SK
व्यपदेशाद् इतरेषां स्यात् / Jऐम्_३,८.१४ /
SK
मन्त्राश् चाकर्मकरणास् तद्वत् / Jऐम्_३,८.१५ /
SK
विप्रयोगे च दर्शनात् / Jऐम्_३,८.१६ /
SK
द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात् / Jऐम्_३,८.१७ /
SK
ज्ञाते च वाचनं न ह्य् अविद्वान् विहितो ऽस्ति / Jऐम्_३,८.१८ /
SK
याजमाने समाख्यानात् कर्माणि याजमानं स्युः / Jऐम्_३,८.१९ /
SK
अध्वर्युर् वा तदर्थो हि न्यायपूर्वे समाख्यानम् / Jऐम्_३,८.२० /
SK
विप्रतिषेधे करणः समावायविशेषाद् इतरम् अन्यस् तेषां यतो विशेषः स्यात् / Jऐम्_३,८.२१ /
SK
प्रैषेणु च पराधिकारात् / Jऐम्_३,८.२२ /
SK
अध्वर्युस् तु दर्शनात् / Jऐम्_३,८.२३ /
SK
गौणो वा कर्मसामान्यात् / Jऐम्_३,८.२४ /
SK
ऋत्विक् फलं करणेष्व् अर्थत्त्वात् / Jऐम्_३,८.२५ /
SK
स्वामिनो वा तदर्थत्वात् / Jऐम्_३,८.२६ /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,८.२७ /
SK
कर्मार्थ फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् / Jऐम्_३,८.२८ /
SK
व्यपदेशाच् च / Jऐम्_३,८.२९ /
SK
द्रव्यसंस्कारः प्रकारणाविशेषात् सर्वकर्मणाम् / Jऐम्_३,८.३० /
SK
निर्देशात् तु विकृताव् अपूर्वस्यानधिकारः / Jऐम्_३,८.३१ /
SK
विरोधे च श्रुतिविशेषाद् अव्यक्तः शेषे / Jऐम्_३,८.३२ /
SK
अपनयस् त्व् एकदेशस्य विद्यमानसंयोगात् / Jऐम्_३,८.३३ /
SK
विकृतौ सर्वार्थः शेषः प्रकृतिवत् / Jऐम्_३,८.३४ /
SK
मुख्यार्थो वाङ्गस्याचोदितत्वात् / Jऐम्_३,८.३५ /
SK
सन्निधानाविशेषाद् असम्भवेद् अतदङ्गानाम् / Jऐम्_३,८.३६ /
SK
आधाने ऽपि तथेति चेत् / Jऐम्_३,८.३७ /
SK
नाप्रकरणत्वाद् अङ्गस्यातन्निमित्तत्वात् / Jऐम्_३,८.३८ /
SK
तत्काले वा लिङ्गदर्शनात् / Jऐम्_३,८.३९ /
SK
सर्वेषां वाविशेषात् / Jऐम्_३,८.४० /
SK
न्यायोक्ते लिङ्गदर्शनम् / Jऐम्_३,८.४१ /
SK
मांसं तु सवनीयानां चोदनाविशेषात् / Jऐम्_३,८.४२ /
SK
भक्तिर् असन्निधावन्याय्येति चेत् / Jऐम्_३,८.४३ /
SK
स्यात् प्रकृतिलिङ्गाद् वैराजवत् / Jऐम्_३,८.४४ /
SK
अथातः क्रत्वर्थपुरुषार्थयोर् जिज्ञासा / Jऐम्_४,१.१ /
SK
यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तत्वात् / Jऐम्_४,१.२ /
SK
तदुत्सर्गे कर्माणि पुरुषार्थाय शास्त्रस्यानतिशङ्क्यत्वान् न च द्रव्यं चिकीर्ष्यते तेनार्थेनाभिसम्बन्धात् क्रियायां पुरुषश्रुतिः / Jऐम्_४,१.३ /
SK
अविशेषात् तु शास्त्रस्य यथाश्रुति फलानि स्युः / Jऐम्_४,१.४ /
SK
अपि वा कारणाग्रहणे तदर्थम् अर्थस्यानभिसम्बन्धात् / Jऐम्_४,१.५ /
SK
तथा च लोकभूतेषु / Jऐम्_४,१.६ /
SK
द्रव्याणि त्व् अविशेषेणानर्थक्यात् प्रदीयेरन् / Jऐम्_४,१.७ /
SK
स्वेन त्वर्थे न सम्बन्धो द्रव्याणां पृथगर्थत्वात् तस्माद् यथाश्रुति स्युः / Jऐम्_४,१.८ /
SK
चोद्यन्ते चार्थकर्मसु / Jऐम्_४,१.९ /
SK
लिङ्गदर्शनाच् च / Jऐम्_४,१.१० /
SK
तत्रैकत्वमयज्ञाङ्गम् अर्थस्य गुणभूतत्वात् / Jऐम्_४,१.११ /
SK
एकश्रुतित्वाच् च / Jऐम्_४,१.१२ /
SK
प्रतीयते इति चेत् / Jऐम्_४,१.१३ /
SK
नाशब्दं तत्प्रमाणत्वात् पूर्ववत् / Jऐम्_४,१.१४ /
SK
शब्दवत् तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथान्येषाम् / Jऐम्_४,१.१५ /
SK
तद्वच् च लिङ्गदर्शनम् / Jऐम्_४,१.१६ /
SK
तथा च लिङ्गम् / Jऐम्_४,१.१७ /
SK
आश्रयिष्व् अविशेषेण भावो ऽर्थः प्रतीयेत / Jऐम्_४,१.१८ /
SK
चोदनायां त्व् अनारम्भो ऽविभक्तत्वान् न ह्य् अन्येन विधीयते / Jऐम्_४,१.१९ /
SK
स्याद् वा द्रव्यचिकीर्षायां भावो ऽर्थे च गुणभूतताश्रयाद् धि गुणीभावः / Jऐम्_४,१.२० /
SK
अर्थे समवैषम्यतो द्रव्यकर्मणाम् / Jऐम्_४,१.२१ /
SK
एकनिष्पत्तेः सर्वे समं स्यात् / Jऐम्_४,१.२२ /
SK
संसर्गरसनिश्पत्तेरामिक्षा वा प्रधानं स्यात् / Jऐम्_४,१.२३ /
SK
मुख्यशब्दाभिसंस्तवाच् च / Jऐम्_४,१.२४ /
SK
पदकर्माप्रयोजकं नयनस्य परार्थत्वात् / Jऐम्_४,१.२५ /
SK
अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात् तदर्थो हि विधीयते / Jऐम्_४,१.२६ /
SK
पशाव् अनालम्भाल् लोहितशकृतोर् अकर्मत्वम् / Jऐम्_४,१.२७ /
SK
एकदेशद्रव्यश् चोत्पत्तौ वद्यमानसंयोगात् / Jऐम्_४,१.२८ /
SK
निर्देशात् तस्यान्यद् अर्थाद् इति चेत् / Jऐम्_४,१.२९ /
SK
न शेषसन्निधानात् / Jऐम्_४,१.३० /
SK
कर्मकार्यात् / Jऐम्_४,१.३१ /
SK
लिङ्गदर्शनाच् च / Jऐम्_४,१.३२ /
SK
अभिघारणे विप्रकर्षाद् अनूयाजवत् पात्रभेदः स्यात् / Jऐम्_४,१.३३ /
SK
न वा पात्रत्वाद् अपात्रत्वं त्व् एकदेशत्वात् / Jऐम्_४,१.३४ /
SK
हेतुत्वाच् च सहप्रयोगस्य / Jऐम्_४,१.३५ /
SK
अभावदर्शनाच् च / Jऐम्_४,१.३६ /
SK
सति सव्यवचनम् / Jऐम्_४,१.३७ /
SK
न तस्येति चेत् / Jऐम्_४,१.३८ /
SK
स्यात् तस्य मुख्यत्वात् / Jऐम्_४,१.३९ /
SK
समानयनं तु मुख्यं स्याल् लिङ्गदर्शनात् / Jऐम्_४,१.४० /
SK
वचने हि हेत्वसामर्थ्यम् / Jऐम्_४,१.४१ /
SK
तत्रोत्पत्तिर् अविभक्ता स्यात् / Jऐम्_४,१.४२ /
SK
तत्र जौहवम् अनूयाजप्रतिषेधार्थम् / Jऐम्_४,१.४३ /
SK
औपभृतं तथेति चेत् / Jऐम्_४,१.४४ /
SK
स्याज् जुहूप्रतिषेधान् नित्यानुवादः / Jऐम्_४,१.४५ /
SK
तदष्टसङ्ख्यं श्रवणात् / Jऐम्_४,१.४६ /
SK
अनुग्रहाच् च जौहवस्य / Jऐम्_४,१.४७ /
SK
द्वयोस् तु हेतुसामर्थयं श्रवणं च समानयने / Jऐम्_४,१.४८ /
SK
स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात् / Jऐम्_४,२.१ /
SK
जात्यन्तराच् च शङ्कते / Jऐम्_४,२.२ /
SK
तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् / Jऐम्_४,२.३ /
SK
शकलश्रुतेश् च / Jऐम्_४,२.४ /
SK
प्रतियूपं च दर्शनात् / Jऐम्_४,२.५ /
SK
आदाने करोतिशब्दः / Jऐम्_४,२.६ /
SK
शाखायां तत्प्रधानत्वात् / Jऐम्_४,२.७ /
SK
शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् / Jऐम्_४,२.८ /
SK
श्रुत्यपायाच् च / Jऐम्_४,२.९ /
SK
हरणे तु जुहोतिर् योगसामान्याद् द्रव्याणां चार्थशेषत्वात् / Jऐम्_४,२.१० /
SK
प्रतिपत्तिर् वा शब्दस्य तत्प्रधानत्वात् / Jऐम्_४,२.११ /
SK
अर्थे ऽपि चेत् / Jऐम्_४,२.१२ /
SK
न तस्यानधिकाराद् अर्थस्य च कृतत्वात् / Jऐम्_४,२.१३ /
SK
उत्पत्त्यसंयोगात् प्रणीतानाम् आज्यवद् विभागः स्यात् / Jऐम्_४,२.१४ /
SK
संयवनार्थानां वा प्रतिपत्तिर् इतरासां तत्प्रधानत्वात् / Jऐम्_४,२.१५ /
SK
प्रासनवन् मैत्रावरुणस्य दण्डप्रदानं कृतार्थत्वात् / Jऐम्_४,२.१६ /
SK
अर्थकर्म वा कर्तृसंयोगात् स्रग्वत् / Jऐम्_४,२.१७ /
SK
कर्मयुक्ते च दर्शनात् / Jऐम्_४,२.१८ /
SK
उत्पत्तौ येन संयुक्तं तदर्थं तच्छ्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् प्रतिपत्तिः स्यात् / Jऐम्_४,२.१९ /
SK
सौमिके च कृतार्थत्वात् / Jऐम्_४,२.२० /
SK
अर्थकर्म वाभिधानसंयोगात् / Jऐम्_४,२.२१ /
SK
प्रतिपत्तिर् वा तन्न्यायत्वाद् देशार्थावभृथश्रुतिः / Jऐम्_४,२.२२ /
SK
कर्तृदेशकालानाम् अचोदनं प्रयोगे नित्यसमवायात् / Jऐम्_४,२.२३ /
SK
नियमार्था वा श्रुतिः / Jऐम्_४,२.२४ /
SK
तथा द्रव्येषु गुणश्रुतिर् उत्पत्तिसंयोगात् / Jऐम्_४,२.२५ /
SK
संस्कारे च तत्प्रधानत्वात् / Jऐम्_४,२.२६ /
SK
यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् / Jऐम्_४,२.२७ /
SK
तदुक्ते श्रवणाज् जुहोतिर् आसेचनाधिकः स्यात् / Jऐम्_४,२.२८ /
SK
विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात् / Jऐम्_४,२.२९ /
SK
अपि वोत्पत्तिसंयोगाद् अर्थसम्बन्धो ऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् / Jऐम्_४,२.३० /
SK
द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्यात् / Jऐम्_४,३.१ /
SK
उत्पत्तेश् चातत्प्रधानत्वात् / Jऐम्_४,३.२ /
SK
फलं तु तत्प्रधानायाम् / Jऐम्_४,३.३ /
SK
नैमित्तिके विकारत्वात् क्रतुप्रधानम् अन्यत् स्यात् / Jऐम्_४,३.४ /
SK
एकस्य तूभयत्वे संयोगपृथक्त्वम् / Jऐम्_४,३.५ /
SK
शेष इति चेत् / Jऐम्_४,३.६ /
SK
नार्थपृथक्त्वात् / Jऐम्_४,३.७ /
SK
द्रव्याणान्तु क्रियार्थानां संस्कारः क्रतुधर्मस्यात् / Jऐम्_४,३.८ /
SK
पृथक्त्वाद्व्यवतिष्ठेत / Jऐम्_४,३.९ /
SK
चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्य् अशब्दं प्रतीयते / Jऐम्_४,३.१० /
SK
अपि वाम्नानसामथर्थ्याच् चोदनार्थेन गम्येतार्थानां ह्य् अर्थत्वेन वचनानि प्रतीयन्ते ऽर्थतोप्य् असमर्थानाम् आनन्तर्ये ऽप्य् असम्बन्धस् तस्माच् छ्रुत्येकदेशः सः / Jऐम्_४,३.११ /
SK
वाक्यार्थश् च गुणार्थवत् / Jऐम्_४,३.१२ /
SK
तत्सर्वार्थम् अनादेशात् / Jऐम्_४,३.१३ /
SK
एकं वा चोदनैकत्वात् / Jऐम्_४,३.१४ /
SK
स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात् / Jऐम्_४,३.१५ /
SK
प्रत्ययाच् च / Jऐम्_४,३.१६ /
SK
क्रतौ फलार्थवादमङ्गवत् कार्ष्णाजिनिः / Jऐम्_४,३.१७ /
SK
फलमात्रेयो निर्देशाद् अश्रुतौ ह्य् अनुमानं स्यात् / Jऐम्_४,३.१८ /
SK
अङ्गेषु स्तुतिः परार्थत्वात् / Jऐम्_४,३.१९ /
SK
काम्ये कर्मणि नित्यः स्वर्गे यथा यज्ञाङ्गे क्रत्वर्थः / Jऐम्_४,३.२० /
SK
वीते च कारणे नियमात् / Jऐम्_४,३.२१ /
SK
कामो वा तत्संयोगेन चोद्यते / Jऐम्_४,३.२२ /
SK
अङ्गेषु स्तुतिः परार्थत्वात् / Jऐम्_४,३.२३ /
SK
वीते च नियमस् तदर्थम् / Jऐम्_४,३.२४ /
SK
सर्वकाम्यम् अङ्गकामैः प्रकरणात् / Jऐम्_४,३.२५ /
SK
फलोपदेशो वा प्रधानशब्दसंयोगात् / Jऐम्_४,३.२६ /
SK
तत्र सर्वे ऽविशेषात् / Jऐम्_४,३.२७ /
SK
योगसिद्धिर् वार्थस्योत्पत्यसंयोगित्वात् / Jऐम्_४,३.२८ /
SK
समवाये चोदनासंयोगस्यार्थवत्वात् / Jऐम्_४,३.२९ /
SK
कालश्रुतौ काल इति चेत् / Jऐम्_४,३.३० /
SK
नासमवायात्प्रयोजनेन / Jऐम्_४,३.३१ /
SK
उभयार्थाम् इति चेत् / Jऐम्_४,३.३२ /
SK
न शब्दैकत्वात् / Jऐम्_४,३.३३ /
SK
प्रकरणाद् इति चेत् / Jऐम्_४,३.३४ /
SK
नोत्पत्तिसंयोगात् / Jऐम्_४,३.३५ /
SK
अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन सम्बन्धात् / Jऐम्_४,३.३६ /
SK
उतपत्तिकालविशये कालः स्याद् वाक्यस्य तत्प्रधानत्वात् / Jऐम्_४,३.३७ /
SK
फलसंयोगस् त्व् अचोदिते न स्याद् अशेषभूतत्वात् / Jऐम्_४,३.३८ /
SK
अङ्गानां तूपघातसंयोगो निमित्तार्थः / Jऐम्_४,३.३९ /
SK
प्रधानेनाभिसंयोगाद् अङ्गानां मुख्यकालत्वम् / Jऐम्_४,३.४० /
SK
अपवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात् / Jऐम्_४,३.४१ /
SK
प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् / Jऐम्_४,४.१ /
SK
अपि वाङ्गमनिज्याः स्युस् ततो विशिष्टत्वात् / Jऐम्_४,४.२ /
SK
मध्यस्थं यस्य तन्मध्ये / Jऐम्_४,४.३ /
SK
सर्वासां वा समत्वाच् चोदनातः स्यान् न हि तस्य प्रकरणं देशार्थम् उच्यते मध्ये / Jऐम्_४,४.४ /
SK
प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् / Jऐम्_४,४.५ /
SK
अपि वा कालमात्रं स्याद् अदर्शनाद् विशेशस्य / Jऐम्_४,४.६ /
SK
फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात् / Jऐम्_४,४.७ /
SK
दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् / Jऐम्_४,४.८ /
SK
नित्यश् च ज्येष्ठशब्दात् / Jऐम्_४,४.९ /
SK
सार्वरूप्याच् च / Jऐम्_४,४.१० /
SK
नित्यो वा स्याद् अर्थवादस्तयोः कर्मण्य् असम्बन्धाद् भङ्गित्वाच् चान्तरायस्य / Jऐम्_४,४.११ /
SK
वैश्वानरश् च नित्यः स्यान् नित्यैः समानसङ्ख्यत्वात् / Jऐम्_४,४.१२ /
SK
पक्षे वोत्पन्नसंयोगात् / Jऐम्_४,४.१३ /
SK
षट्चितिः पूर्ववत्त्वात् / Jऐम्_४,४.१४ /
SK
ताभिश् च तुल्यसंख्यानात् / Jऐम्_४,४.१५ /
SK
अर्थवादोपपत्तेश् च / Jऐम्_४,४.१६ /
SK
एकचितिर् वा स्याद् अपवृक्ते हि चोद्यते निमित्तेन / Jऐम्_४,४.१७ /
SK
विप्रतिषेधात् ताभिः समानसङ्ख्यत्वम् / Jऐम्_४,४.१८ /
SK
पितृयज्ञः स्वकालत्वाद् अनङ्गं स्यात् / Jऐम्_४,४.१९ /
SK
तुल्यवच् च प्रसङ्ख्यानात् / Jऐम्_४,४.२० /
SK
प्रतिषिद्धे च दर्शनात् / Jऐम्_४,४.२१ /
SK
पश्वङ्ग रशमा स्यात् तदागमे विधानात् / Jऐम्_४,४.२२ /
SK
यूपाङ्गं वा तत्संस्कारात् / Jऐम्_४,४.२३ /
SK
अर्थवादश् च तदर्थवत् / Jऐम्_४,४.२४ /
SK
स्वरुश्चाप्य् एकदेशत्वात् / Jऐम्_४,४.२५ /
SK
निष्क्रयश् च तदङ्गवत् / Jऐम्_४,४.२६ /
SK
पश्वङ्गं वार्थकर्मत्वात् / Jऐम्_४,४.२७ /
SK
भक्त्या निष्क्रयवादः स्यात् / Jऐम्_४,४.२८ /
SK
दर्शपूर्णमासयोर् इज्याः प्रधानान्य् अविशेषात् / Jऐम्_४,४.२९ /
SK
अपि वाङ्गानि कानि चिद्येश्वङ्गत्वेन संस्तुतिः सामान्यो ह्य् अभिसंस्तवः / Jऐम्_४,४.३० /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_४,४.३१ /
SK
अवशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् / Jऐम्_४,४.३२ /
SK
नानुक्ते ऽन्यार्थदर्शनं परार्थत्वात् / Jऐम्_४,४.३३ /
SK
पृथवत्वे त्व् अभिधानयोर् निवेशः श्रुतितो व्यपदेशाच् च तत्पुनर्मुख्यलक्षणं यत्फलवत्वं तत्सन्निधाव् असंयुक्तं तदङ्गंस्याद्भागित्वात् कारणस्याश्रुतश् चान्यसम्बन्धः / Jऐम्_४,४.३४ /
SK
गुणाश् च नामसंयुक्ता विधीयन्ते नाङ्गेषूषपद्यन्ते / Jऐम्_४,४.३५ /
SK
तुल्या च कारणश्रुतिर् अन्यैर् अङ्गाङ्गिसम्बन्धः / Jऐम्_४,४.३६ /
SK
उत्पत्ताव् अभिसम्बन्धस् तस्माद् अङ्गोपदेशः स्यात् / Jऐम्_४,४.३७ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_४,४.३८ /
SK
ज्योतिष्टोमे तुल्यान्य् अविशिष्टं हि कारणम् / Jऐम्_४,४.३९ /
SK
गुणानां तूत्पत्तिवाक्येन सम्बन्धात् कारणश्रुतिस् तस्मात् सोमः प्रधानं स्यात् / Jऐम्_४,४.४० /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_४,४.४१ /
SK
श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात् / Jऐम्_५,१.१ /
SK
अर्थाच् च / Jऐम्_५,१.२ /
SK
अनियमो ऽन्यत्र / Jऐम्_५,१.३ /
SK
क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् / Jऐम्_५,१.४ /
SK
अशाब्द इति चेत् स्याद् वाक्यशब्दत्वात् / Jऐम्_५,१.५ /
SK
अर्थकृते वानुमानं स्यात् क्रत्वेकत्वे परार्थत्वात् स्वेन त्व् अर्थेन सम्बन्धस् तस्मात् स्वशब्दम् उच्येत / Jऐम्_५,१.६ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_५,१.७ /
SK
प्रवृत्या तुल्यकालानां गुणानां तदुपक्रमात् / Jऐम्_५,१.८ /
SK
सर्वम् इति चेत् / Jऐम्_५,१.९ /
SK
नाकृतत्वात् / Jऐम्_५,१.१० /
SK
क्रत्वन्तरवद् इति चेत् / Jऐम्_५,१.११ /
SK
नासमवायात् / Jऐम्_५,१.१२ /
SK
स्थानाच् चोत्पत्तिसंयोगात् / Jऐम्_५,१.१३ /
SK
मुख्यक्रमेण वाङ्गानां तदर्थत्वात् / Jऐम्_५,१.१४ /
SK
प्रकृतौ तु स्वशब्दत्वाद्याक्रमं प्रतीयेत / Jऐम्_५,१.१५ /
SK
मन्त्रतस् तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्माद् उत्पत्तिदेशः सः / Jऐम्_५,१.१६ /
SK
तद्वचनाद् विकृतौ यथा प्रधानं स्यात् / Jऐम्_५,१.१७ /
SK
विप्रतिपत्तौ वा प्रकृत्यन्वयाद् यथाप्रकृति / Jऐम्_५,१.१८ /
SK
विकृतिः प्रकृतिधर्मत्वात् तत्काला स्याद् यथा शिष्टम् / Jऐम्_५,१.१९ /
SK
अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेर् अनुमानात् प्रकृतिधर्मलोपः स्यात् / Jऐम्_५,१.२० /
SK
कालोत्कर्ष इति चेत् / Jऐम्_५,१.२१ /
SK
न तत्सम्बन्धात् / Jऐम्_५,१.२२ /
SK
अङ्गानां मुख्यकालत्वाद् यथोक्तम् उत्कर्षे स्यात् / Jऐम्_५,१.२३ /
SK
तदादि वाभिसम्बन्धात् तदन्तम् अपकर्षे स्यात् / Jऐम्_५,१.२४ /
SK
प्रवृत्या कृतकालानाम् / Jऐम्_५,१.२५ /
SK
शब्दविप्रतिषेधाच् च / Jऐम्_५,१.२६ /
SK
असंयोगात् तु वैकृतं तद् एव प्रतिकृष्येत. Jऐम्_५,१.२७ /
SK
प्रासङ्गिकं च नोत्कर्षेद् असंयोगात् / Jऐम्_५,१.२८ /
SK
तथापूर्वम् / Jऐम्_५,१.२९ /
SK
सान्तपनीया तूत्कर्षेद् अग्निहोत्रं सवनवद् वैगुण्यात् / Jऐम्_५,१.३० /
SK
अञ्यवायाच् च Jऐम्_५,१.३१ /
SK
असम्बन्धात् तु नोत्कर्षेत् / Jऐम्_५,१.३२ /
SK
प्रापणाच् च निमित्तस्य / Jऐम्_५,१.३३ /
SK
सम्बन्धात् सवनोत्कर्मः / Jऐम्_५,१.३४ /
SK
षोडशी चोक्थ्यसंयोगात् / Jऐम्_५,१.३५ /
SK
सन्निपाते प्राधानानाम् एकैकस्य गुणानां सर्वकर्म स्यात् / Jऐम्_५,२.१ /
SK
सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात् / Jऐम्_५,२.२ /
SK
कारणाद् अभ्यावृत्तिः / Jऐम्_५,२.३ /
SK
मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन / Jऐम्_५,२.४ /
SK
सर्वाणि त्व् एककार्यत्वादेषां तद्गुणत्वात् / Jऐम्_५,२.५ /
SK
संयुक्ते तु प्रक्रमात् तदङ्गं स्याद् इतरस्य तदर्थत्वात् / Jऐम्_५,२.६ /
SK
वचनात् तु परिव्याणान्तम् अञ्जनादिः स्यात् / Jऐम्_५,२.७ /
SK
कारणाद्वा(न) वसर्गः स्याद् यथा पात्रवृद्धिः / Jऐम्_५,२.८ /
SK
न वा शब्दकृतत्वान् न्यायमात्रमितरदर्थात् पात्रविवृद्धिः / Jऐम्_५,२.९ /
SK
पशुगणे तस्यतस्यापवर्जयेत् पश्वैकत्वात् / Jऐम्_५,२.१० /
SK
दैवतैर् वैककर्म्यात् / Jऐम्_५,२.११ /
SK
मन्त्रस्य चार्थवत्त्वात् / Jऐम्_५,२.१२ /
SK
नानाबीजेष्वेकमुलूखलं विभवात् / Jऐम्_५,२.१३ /
SK
विवृद्धिर् वा नियामादानुपूर्व्यस्य तदर्थत्वात् / Jऐम्_५,२.१४ /
SK
एकं वा तण्डुलभावाद् धन्तेस् तदर्थत्वात् / Jऐम्_५,२.१५ /
SK
विकारे त्व् अनूयाजानां पात्रभेदो ऽर्थभेदात् स्यात् / Jऐम्_५,२.१६ /
SK
प्रकृतेः पूर्वोक्तत्वाद् अपूर्वम् अन्ते स्यान् न ह्य् अचोदितस्य शेषाम्नानम् / Jऐम्_५,२.१७ /
SK
मुख्यानन्तर्यमात्रेयस् तेन तुल्यश्रुतित्वाद् अशब्दत्वात् प्राकृतानां व्यवायः स्यात् / Jऐम्_५,२.१८ /
SK
अन्ते तु बादरायणस् तेषां प्रधानशब्दत्वात् / Jऐम्_५,२.१९ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_५,२.२० /
SK
कृतदेशात् तु पूर्वेषां स देशः स्यात् तेन प्रत्यक्षसंयोगान् नयायमात्रमितरत् / Jऐम्_५,२.२१ /
SK
प्रकृताच् च पुरस्ताद् यत् / Jऐम्_५,२.२२ /
SK
सन्निपातश् चेद् यथोक्तमन्ते स्यात् / Jऐम्_५,२.२३ /
SK
विवृद्धिः कर्मभेदात् पृषदाज्यवत् तस्यतस्योपदिश्येत / Jऐम्_५,३.१ /
SK
अपि वा सर्वसङ्ख्यत्वाद् विकारः प्रतीयेत / Jऐम्_५,३.२ /
SK
स्वस्थानात् तु विवृध्येरन् कृतानुपूर्व्यत्वात् / Jऐम्_५,३.३ /
SK
समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युर् द्यावापृथिञ्योरन्तरालं समर्हणात् / Jऐम्_५,३.४ /
SK
तच्छब्दो वा / Jऐम्_५,३.५ /
SK
उष्णिक्ककुभोरन्ते दर्शनात् / Jऐम्_५,३.६ /
SK
स्तोमविवृद्धौ वहिष्पवमाने पुरस्तात् पर्यासाद् आगन्तवः स्युस् तथा हि दृष्टं द्वादशाहे / Jऐम्_५,३.७ /
SK
पर्यास इति चान्ताख्या / Jऐम्_५,३.८ /
SK
अन्ते वा तदुक्तम् / Jऐम्_५,३.९ /
SK
वचनात् तु द्वादशाहे / Jऐम्_५,३.१० /
SK
अतद्विकारश् च / Jऐम्_५,३.११ /
SK
तद्विकारे ऽप्य् अपूर्वत्वात् / Jऐम्_५,३.१२ /
SK
अन्ते तूत्तरयोर् दध्यात् / Jऐम्_५,३.१३ /
SK
अपि वा गायत्रीबृहत्यनुष्टुप्सु वचनात् / Jऐम्_५,३.१४ /
SK
ग्रहेष्टकम् औपानुवाक्यं सवनचितिशेषः स्यात् / Jऐम्_५,३.१५ /
SK
क्रत्वग्निशेषा वा चोदितत्वाद् अचोदनानुपूर्वस्य / Jऐम्_५,३.१६ /
SK
अन्ते स्युर् अव्यवायात् / Jऐम्_५,३.१७ /
SK
लिङ्गदर्शनाच् च / Jऐम्_५,३.१८ /
SK
मध्यमायां तु वचनाद् ब्राह्मणवत्यः / Jऐम्_५,३.१९ /
SK
प्राग्लोकम्पृणायास् तस्याः सम्पूरणार्थत्वात् / Jऐम्_५,३.२० /
SK
संस्कृते कर्म संस्काराणां तदर्थत्वात् / Jऐम्_५,३.२१ /
SK
अनन्तरं व्रतं तद्भूतत्वात् / Jऐम्_५,३.२२ /
SK
पूर्वं च लिङ्गदर्शनात् / Jऐम्_५,३.२३ /
SK
अर्थवादो वार्थस्य विद्यमानत्वात् / Jऐम्_५,३.२४ /
SK
न्यायविप्रतिषेधाच् च / Jऐम्_५,३.२५ /
SK
सञ्चिते त्व् अग्निचिद् युक्तं प्रापणान् निमित्तस्य / Jऐम्_५,३.२६ /
SK
क्रत्वन्ते वा प्रयोगवचनाभावात् / Jऐम्_५,३.२७ /
SK
अग्नेः कर्मत्वनिर्देशात् / Jऐम्_५,३.२८ /
SK
परेणावेदनाद् दीक्षितः स्यात् सर्वैर् दीक्षाभिसम्बन्धात् / Jऐम्_५,३.२९ /
SK
इष्ट्यन्ते वा तदर्था ह्य् अविशेषार्थसन्वन्धात् / Jऐम्_५,३.३० /
SK
समाख्यानं च तद्वत् / Jऐम्_५,३.३१ /
SK
अङ्गवत् क्रतूनाम् आनुपूर्व्यम् / Jऐम्_५,३.३२ /
SK
न वासम्बन्धात् / Jऐम्_५,३.३३ /
SK
काम्यत्वाच् च / Jऐम्_५,३.३४ /
SK
आनर्थक्यान् नेति चेत् / Jऐम्_५,३.३५ /
SK
स्याद् विद्यार्थत्वाद् यथा परेषु सर्वस्वारात् / Jऐम्_५,३.३६ /
SK
य एतेनेत्य् अग्निष्टोमः प्रकरणात् / Jऐम्_५,३.३७ /
SK
लिङ्गाच् च / Jऐम्_५,३.३८ /
SK
अथान्येनेति संस्थानां सन्निधानात् / Jऐम्_५,३.३९ /
SK
तत्प्रकृतेर् वापत्तिविहारौ न तुल्येषूपपद्यते / Jऐम्_५,३.४० /
SK
प्रशसा च विहरणाभावात् / Jऐम्_५,३.४१ /
SK
विधिप्रत्ययाद् वा न ह्य् अकस्मात् प्रशंसा स्यात् / Jऐम्_५,३.४२ /
SK
एकस्तोमे वा क्रतुसंयोगात् / Jऐम्_५,३.४३ /
SK
सर्वेषां वा चोदनाविशेषात् प्रशंसा स्तोमानाम् / Jऐम्_५,३.४४ /
SK
क्रमकोयो ऽर्थशब्दाभ्यां श्रुतिविशेषाद् अर्थपरत्वाच् च / Jऐम्_५,४.१ /
SK
अवदानाभिघारणासादनेष्व् आनुपूर्व्यं प्रवृत्या स्यात् / Jऐम्_५,४.२ /
SK
यथारप्रदानं वा तदर्थत्वात् / Jऐम्_५,४.३ /
SK
लिङ्गदर्शनाच् च / Jऐम्_५,४.४ /
SK
वचनाद् इष्टिपूर्वत्वम् / Jऐम्_५,४.५ /
SK
सोमश् चैकेषाम् अग्नयाधेयस्यर्तुनक्षत्रातिक्रमवचनात् तदन्तेनानर्थकं हि स्यात् / Jऐम्_५,४.६ /
SK
तदर्थवचनाच् च नाविशेषात् तदर्थत्वं / Jऐम्_५,४.७ /
SK
अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशाद् आनन्तर्याद् विशङ्का स्यात् / Jऐम्_५,४.८ /
SK
इष्टिर् अयक्ष्यमाणस्य तदर्थ्ये न सोमपूर्वत्वम् / Jऐम्_५,४.९ /
SK
उत्कर्षाद् ब्राह्मणस्य सोमः स्यात् / Jऐम्_५,४.१० /
SK
पौर्णमासी वा श्रुतिसंयोगात् / Jऐम्_५,४.११ /
SK
सर्वस्य वैककर्म्यात् / Jऐम्_५,४.१२ /
SK
स्याद् वा विधिस् तदर्थेन / Jऐम्_५,४.१३ /
SK
प्रकरणात् तु कालः स्यात् / Jऐम्_५,४.१४ /
SK
स्वकाले स्याद् अविप्रतिषेधात् / Jऐम्_५,४.१५ /
SK
अपनयो वाधानस्य सर्वकालत्वात् / Jऐम्_५,४.१६ /
SK
पौर्णमास्य् ऊर्ध्वं सोमाद् ब्राह्मणस्य वचनात् / Jऐम्_५,४.१७ /
SK
एकं वा शब्दसामर्थ्यात् प्राक् कृत्स्नविधानम् / Jऐम्_५,४.१८ /
SK
पुरोडाशस् त्व् अनिर्देशे तद्युक्ते देवताभावात् / Jऐम्_५,४.१९ /
SK
आज्यमपीति चेत् / Jऐम्_५,४.२० /
SK
न मिश्रदेवतत्वाद् ऐन्द्राग्नवत् / Jऐम्_५,४.२१ /
SK
विकृतेः प्रकृतिकालत्वात् सद्यस्कालोत्तरा विकृतिस् तयोः प्रत्यक्षशिष्टत्वात् / Jऐम्_५,४.२२ /
SK
द्वैयहकाल्ये तु यथान्यायम् / Jऐम्_५,४.२३ /
SK
वचनाद् वैककाल्यं स्यात् / Jऐम्_५,४.२४ /
SK
सन्नाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात्प्रकृतिवत् / Jऐम्_५,४.२५ /
SK
तथा सोमविकारा दर्शपूर्णमासाभ्याम् / Jऐम्_५,४.२६ /
SK
द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः / Jऐम्_६,१.१ /
SK
असाधकं तु तादर्थ्यात् / Jऐम्_६,१.२ /
SK
प्रत्यर्थं चाभिसंयोगात्कर्मतो ह्य् अभिसम्बन्धस् तस्मात् कर्मोपदेशः स्यात् / Jऐम्_६,१.३ /
SK
फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात् / Jऐम्_६,१.४ /
SK
कर्तुर् वा श्रुतिसंयोगाद् विधिः कार्त्स्न्येन गम्यते / Jऐम्_६,१.५ /
SK
लिङ्गविशेषनिर्देशात् पुंयुक्तम् ऐतिशायनः / Jऐम्_६,१.६ /
SK
तदुक्तित्वाच् च दोषश्रुतिर् अविज्ञाते / Jऐम्_६,१.७ /
SK
जातिं तु बादरायणो ऽविशेषात् तस्मात् स्त्र्य् अपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात् / Jऐम्_६,१.८ /
SK
चोदितत्वाद् यथाश्रुति / Jऐम्_६,१.९ /
SK
द्रव्यवत्त्वात् तु पुंसां स्याद् द्रव्यसंयुक्तं क्रयविक्रयाभ्याम् अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात् / Jऐम्_६,१.१० /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_६,१.११ /
SK
तादर्थ्यात् कर्म तादर्थ्यम् / Jऐम्_६,१.१२ /
SK
फलोत्साहाविशेषात् तु / Jऐम्_६,१.१३ /
SK
अर्थेन च समवेतत्वात् / Jऐम्_६,१.१४ /
SK
क्रयस्य थर्ममात्रत्वम् / Jऐम्_६,१.१५ /
SK
स्ववत्ताम् अपि दर्शयति / Jऐम्_६,१.१६ /
SK
स्ववतोस् तु वचनाद् ऐककर्म्यं स्यात् / Jऐम्_६,१.१७ /
SK
लिङ्गदर्शनाच् च / Jऐम्_६,१.१८ /
SK
क्रीतत्वात् तु भक्त्या स्वामित्वम् उच्यते / Jऐम्_६,१.१९ /
SK
फलार्थित्वात् तु स्वामित्वेनाभिसम्बन्धः / Jऐम्_६,१.२० /
SK
फलवत्तां च दर्शयति / Jऐम्_६,१.२१ /
SK
द्व्याधानं च द्वियज्ञवत् / Jऐम्_६,१.२२ /
SK
गुणस्य तु विधानत्वात् पत्न्या द्वितीयशब्दः स्यात् / Jऐम्_६,१.२३ /
SK
तस्या यावदुक्तम् आशीर् ब्रह्मचर्यम् अतुल्यत्वात् / Jऐम्_६,१.२४ /
SK
चातुर्वर्ण्यम् अविशेषात् / Jऐम्_६,१.२५ /
SK
निर्देशाद् वा त्रयाणां स्याद् अग्न्याधेये ऽसम्बन्धः क्रतुषु ब्राह्मणश्रुतेर् इत्य् आत्रेयः / Jऐम्_६,१.२६ /
SK
निमित्तार्थे न बादरिस् तस्मात् सर्वाधिकारं स्यात् / Jऐम्_६,१.२७ /
SK
अपि वान्यार्थदर्शनाद् यथाश्रुति प्रतीयेत / Jऐम्_६,१.२८ /
SK
निर्देशात् तु पक्षे स्यात् / Jऐम्_६,१.२९ /
SK
वैगुण्यान् नेति चेत् / Jऐम्_६,१.३० /
SK
न काम्यत्वात् / Jऐम्_६,१.३१ /
SK
संस्कारे च तत्प्रधानत्वात् / Jऐम्_६,१.३२ /
SK
अपि वा वेदनिर्देशाद् अपशूद्राणां प्रतीयेत / Jऐम्_६,१.३३ /
SK
गुणार्थित्वान् नेति चेत् / Jऐम्_६,१.३४ /
SK
संस्कारस्य तदर्थत्वाद् विद्यायां पुरुषश्रुतिः / Jऐम्_६,१.३५ /
SK
विद्यानिर्देशान् नेति चेत् / Jऐम्_६,१.३६ /
SK
अबैद्यत्वाद् अभावः कर्मणि स्यात् / Jऐम्_६,१.३७ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_६,१.३८ /
SK
त्रयाणां द्रव्यसम्पन्नः कर्मणी द्रव्यसिद्धत्वात् / Jऐम्_६,१.३९ /
SK
अनित्यत्वात् तु नैवं स्याद् अर्थाद् धि द्रव्यसंयोगः / Jऐम्_६,१.४० /
SK
अङ्गहीनश् च तद्धर्मा / Jऐम्_६,१.४१ /
SK
उत्पत्तौ नित्यसंयोगात् / Jऐम्_६,१.४२ /
SK
अत्र्यार्षेयस्य हानं स्यात् / Jऐम्_६,१.४३ /
SK
वचनाद् रथकारस्याधाने ऽस्य सर्वशेषत्वात् / Jऐम्_६,१.४४ /
SK
न्याय्यो वा कर्मसंयोगाच् छूद्रस्य प्रतिषिद्धतत्वात् / Jऐम्_६,१.४५ /
SK
अकर्मत्वात् तु नैवं स्यात् / Jऐम्_६,१.४६ /
SK
आनर्थक्यं च संयोगात् / Jऐम्_६,१.४७ /
SK
गुणार्थेनेति चेत् / Jऐम्_६,१.४८ /
SK
उक्तम् अनिमित्तत्वम् / Jऐम्_६,१.४९ /
SK
सौधन्वनास् तु हीनत्वान् मन्त्रवर्णात् प्रतीयेरन् / Jऐम्_६,१.५० /
SK
रथपतिर् निषादः स्याच् छब्दसामर्थ्यात् / Jऐम्_६,१.५१ /
SK
लिङ्गदर्शनाच् च / Jऐम्_६,१.५२ /
SK
पुरुषार्थैकसिद्धित्वात् तस्य तस्याधिकारः स्यात् / Jऐम्_६,२.१ /
SK
अपि चोत्पत्तिसंयोगो यथा स्यात् सत्वदर्यशनं तथाभावो विभागे स्यात् / Jऐम्_६,२.२ /
SK
प्रयोगे पुरुषश्रुतेर् यथाकामी प्रयोगे स्यात् / Jऐम्_६,२.३ /
SK
प्रत्यर्थं श्रुतिभाव इति चेत् / Jऐम्_६,२.४ /
SK
तादर्थ्ये न गुणार्थतानुक्ते ऽर्थान्तरत्वात् कर्तुः प्रधानभूतत्वात् / Jऐम्_६,२.५ /
SK
अपि वा कामसंयोगे सम्बन्धात् प्रयोगायोपदिश्येत प्रत्यर्थं हि विधिश्रुतिर् विषाणावत् / Jऐम्_६,२.६ /
SK
अन्यस्य स्याद् इति चेत् / Jऐम्_६,२.७ /
SK
अन्यार्थेनाभिसम्बन्धः / Jऐम्_६,२.८ /
SK
फलकामो निमित्तम् इति चेत् / Jऐम्_६,२.९ /
SK
न नित्यत्वात् / Jऐम्_६,२.१० /
SK
कर्म तथेति चेत् / Jऐम्_६,२.११ /
SK
न समवायात् / Jऐम्_६,२.१२ /
SK
प्रकमात् तु नियम्येतारम्भस्य क्रियानिमित्तत्वात् / Jऐम्_६,२.१३ /
SK
फलार्थित्वाद् वानियमो यथानुपक्रान्ते / Jऐम्_६,२.१४ /
SK
नियमो वा तन्निमित्तत्वात् कर्तुस् तत्कारणं स्यात् / Jऐम्_६,२.१५ /
SK
लोके कर्माणि वेदवत् ततो ऽधिपुरुषज्ञानम् / Jऐम्_६,२.१६ /
SK
अपराधे ऽपि च तैः शास्त्रम् / Jऐम्_६,२.१७ /
SK
अशास्त्रात् तूपसम्प्राप्तिः शास्त्रं स्यान् न प्रकल्पकं तस्माद् अर्थेन गम्येताप्राप्ते शास्त्रम् अर्थवत् / Jऐम्_६,२.१८ /
SK
प्रतिषेधेष्व् अकर्मत्वात् क्रिया स्यात् प्रतिषिद्धानां विभक्तत्वाद् अकर्मणाम् / Jऐम्_६,२.१९ /
SK
शास्त्राणां त्व् अर्थवत्वेन पुरुषार्थो विधीयते तयोर् असमवायित्वात् तादर्थ्ये विध्यतिक्रमः / Jऐम्_६,२.२० /
SK
तस्मिंस् तु शिष्यमाणानि जननेन प्रवर्तेरन् / Jऐम्_६,२.२१ /
SK
अपि वा वेदतुल्यत्वाद् उपायेन प्रवर्तेरन् / Jऐम्_६,२.२२ /
SK
अभ्यासो ऽकर्मशेषत्वात् पुरुषार्थो विधीयते / Jऐम्_६,२.२३ /
SK
तस्मिन्न् असम्भवन्न् अर्थात् / Jऐम्_६,२.२४ /
SK
न कालेभ्य उपदिश्यन्ते / Jऐम्_६,२.२५ /
SK
दर्शनात् काललिङ्गानां कालविधानम् / Jऐम्_६,२.२६ /
SK
तेषाम् औत्पत्तिकत्वाद् आगमेन प्रवर्तेत / Jऐम्_६,२.२७ /
SK
तथा हि लिङ्गदर्शनम् / Jऐम्_६,२.२८ /
SK
तथान्तःक्रतुप्रयुक्तानि / Jऐम्_६,२.२९ /
SK
आचाराद् गृह्यमाणेषु तथा स्यात् पुरुषार्थत्वात् / Jऐम्_६,२.३० /
SK
ब्राह्मणस्य तु सोमविद्याप्रजम् ऋणवाक्येन संयोगात् / Jऐम्_६,२.३१ /
SK
सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात् / Jऐम्_६,३.१ /
SK
अपि वाप्य् एकदेशे स्यात् प्रधाने ह्य् अर्थनिर्वृत्तिर् गुणमात्रम् इतरत् तदर्थत्वात् / Jऐम्_६,३.२ /
SK
तदकर्मणि च दोषस् तस्मात् ततो विशेषः स्यात् प्रधानेनाभिसम्बन्धात् / Jऐम्_६,३.३ /
SK
कर्माभेदं तु जैमिनिः प्रयोगवचनैकत्वात् सर्वेषाम् उपदेशः स्याद् इति / Jऐम्_६,३.४ /
SK
अर्थस्य व्यपवर्गित्वाद् एकस्यापि प्रयोगे स्याद् यथा क्रत्वन्तरेषु / Jऐम्_६,३.५ /
SK
विध्यपराधे च दर्शनात् समाप्तेः / Jऐम्_६,३.६ /
SK
प्रायश्चित्तविधानाच् च / Jऐम्_६,३.७ /
SK
काम्येषु चैवम् अर्थित्वात् / Jऐम्_६,३.८ /
SK
असंयोगात् तु नैवं स्याद् विधेः शब्दप्रमाणत्वात् / Jऐम्_६,३.९ /
SK
अकर्मणि चाप्रत्यवायात् / Jऐम्_६,३.१० /
SK
क्रियाणाम् आश्रितत्वाद् द्रव्यान्तरे विभागः स्यात् / Jऐम्_६,३.११ /
SK
अपि वाव्यतिरेकाद् रूपशब्दाविभागाच् च गोत्ववद् ऐककर्म्यं स्यान् नामधेयं च सत्त्ववत् / Jऐम्_६,३.१२ /
SK
श्रुतिप्रमाणत्वाच् छिष्टाभावे ऽनागमो ऽन्यस्याशिष्टत्वात् / Jऐम्_६,३.१३ /
SK
क्वचिद् विधानाच् च / Jऐम्_६,३.१४ /
SK
आगमो वा चोदनार्थाविशेषात् / Jऐम्_६,३.१५ /
SK
नियमार्थः क्वाचिद् विधिः / Jऐम्_६,३.१६ /
SK
तन् नित्यं तच्चिकीर्षा हि / Jऐम्_६,३.१७ /
SK
न देवताग्निशब्दक्रियमन्यार्थसंयोगात् / Jऐम्_६,३.१८ /
SK
देवतायां च तदर्थत्वात् / Jऐम्_६,३.१९ /
SK
प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः / Jऐम्_६,३.२० /
SK
तथा स्वामिनः फलसमवायात् फलस्य कर्मयोगित्वात् / Jऐम्_६,३.२१ /
SK
बहूनां तु प्रवृत्ते ऽन्यमागमयेद् अवैगुण्यात् / Jऐम्_६,३.२२ /
SK
स स्वामी स्यात् संयोगात् / Jऐम्_६,३.२३ /
SK
कर्मकरो वा भृतत्वात् / Jऐम्_६,३.२४ /
SK
तस्मिंश् च फलदर्शनात् / Jऐम्_६,३.२५ /
SK
स तद्धर्मा स्यात् कर्मसंयोगात् / Jऐम्_६,३.२६ /
SK
सामान्यं तच्चिकीर्षा हि / Jऐम्_६,३.२७ /
SK
निर्देशात् तु विकल्पे यत् प्रवृत्तम् / Jऐम्_६,३.२८ /
SK
अशब्दम् इति चेत् / Jऐम्_६,३.२९ /
SK
नानङ्गत्वात् / Jऐम्_६,३.३० /
SK
वचनाच् चान्याय्यम् अभावे तत्सामान्येन प्रतिनिधिर् अभावाद् इतरस्य / Jऐम्_६,३.३१ /
SK
न प्रतिनिधौ समत्वात् / Jऐम्_६,३.३२ /
SK
स्याच् छ्रुतिलक्षणे नियतत्वात् / Jऐम्_६,३.३३ /
SK
न तदीप्सा हि / Jऐम्_६,३.३४ /
SK
मुख्याधिगमे मुख्यम् आगमो हि तदभावात् / Jऐम्_६,३.३५ /
SK
प्रबृत्ते ऽपीति चेत् / Jऐम्_६,३.३६ /
SK
नानर्थकत्वात् / Jऐम्_६,३.३७ /
SK
द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात् / Jऐम्_६,३.३८ /
SK
अर्थद्रव्यविरोधे ऽर्थो द्रव्याभावे तदुत्पत्तेर् द्रव्याणाम् अर्थशेषत्वात् / Jऐम्_६,३.३९ /
SK
विधिर् अप्य् एकदेशे स्यात् / Jऐम्_६,३.४० /
SK
अपि वार्थस्य शक्यत्वाद् एकदेशेन निर्वर्तेतार्थानाम् अविभक्तत्वाद् गुणमात्रम् इतरत् तदर्थत्वात् / Jऐम्_६,३.४१ /
SK
शेषाद् द्व्यवदाननाशे स्यात् तदर्थत्वात् / Jऐम्_६,४.१ /
SK
निर्देशाद् वान्यद् आगमयेत् / Jऐम्_६,४.२ /
SK
अपि वा शेषभाजां स्याद् विशिष्टकारणत्वात् / Jऐम्_६,४.३ /
SK
निर्देशाच् छेषभक्षो ऽन्यैः प्रधानवत् / Jऐम्_६,४.४ /
SK
सर्वैर् वा समवायात् स्यात् / Jऐम्_६,४.५ /
SK
निर्देशस्य गुणार्थत्वम् / Jऐम्_६,४.६ /
SK
प्रधाने श्रुतिलक्षणम् / Jऐम्_६,४.७ /
SK
अर्थवद् इति चेत् / Jऐम्_६,४.८ /
SK
न चोदनाविरोधात् / Jऐम्_६,४.९ /
SK
अर्थसमवायत् प्रायश्चित्तम् एकदेशे ऽपि / Jऐम्_६,४.१० /
SK
न त्व् अशेषे वैगुण्यात् तदर्थं हि / Jऐम्_६,४.११ /
SK
स्याद् वा प्राप्तनिमित्तत्वाद् अतद्धर्मो नित्यसंयोगान् न हितस्य गुणार्थेनानित्यत्वात् / Jऐम्_६,४.१२ /
SK
गुणानां च परार्थत्वाद् वचनाद् व्यपाश्रय स्यात् / Jऐम्_६,४.१३ /
SK
भेदार्थम् इति / Jऐम्_६,४.१४ /
SK
न शेषभूतत्वात् / Jऐम्_६,४.१५ /
SK
अनर्थकश् च सर्वनाशे स्यात् / Jऐम्_६,४.१६ /
SK
क्षामे तु सर्वदाहे स्याद् एकदेशस्यावर्जनीयत्वात् / Jऐम्_६,४.१७ /
SK
दर्शनाद् एकदेशे स्यात् / Jऐम्_६,४.१८ /
SK
अन्येन वैतच् छास्त्राद् धि कारणप्राप्तिः / Jऐम्_६,४.१९ /
SK
तद्धविःशब्दान् नेति चेत् / Jऐम्_६,४.२० /
SK
स्याद् अन्यायत्वादिज्यागामी हविः शब्दस् तल्लिङ्गसंयोगात् / Jऐम्_६,४.२१ /
SK
यथाश्रुतीति चेत् / Jऐम्_६,४.२२ /
SK
न तल्लक्षणत्वाद् उपपातो हि कारणम् / Jऐम्_६,४.२३ /
SK
होमाभिषवभक्षणं च तद्वत् / Jऐम्_६,४.२४ /
SK
उभाभ्यां वा न हि तयोर् धर्मशास्त्रम् / Jऐम्_६,४.२५ /
SK
पुनर् आधेयम् ओदनवत् / Jऐम्_६,४.२६ /
SK
द्रव्योत्पत्तेर् वोभयोः स्यात् / Jऐम्_६,४.२७ /
SK
पञ्चशरावस् तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् / Jऐम्_६,४.२८ /
SK
चोदना वा द्रव्यदेवताविधिर् अवाच्ये हि / Jऐम्_६,४.२९ /
SK
स प्रत्यामनेत् स्थानात् / Jऐम्_६,४.३० /
SK
अङ्गविधिर् वा निमित्तसंयोगात् / Jऐम्_६,४.३१ /
SK
विश्वजित्वप्रवृत्ते भावः कर्मणि स्यात् / Jऐम्_६,४.३२ /
SK
निष्क्रयवादाच् च / Jऐम्_६,४.३३ /
SK
वत्ससंयोगे व्रतचोदना स्यात् / Jऐम्_६,४.३४ /
SK
कालो वोत्पन्नसंयोगाद् यथोक्तस्य / Jऐम्_६,४.३५ /
SK
अर्थापरिमाणाच् च / Jऐम्_६,४.३६ /
SK
वत्सस् तु श्रुतिसंयोगात् तदङ्गं स्यात् / Jऐम्_६,४.३७ /
SK
कालस् तु स्याद् अचोदनात् / Jऐम्_६,४.३८ /
SK
अनर्थकश् च कर्मसंयोगे / Jऐम्_६,४.३९ /
SK
अवचनाच् च स्वशब्दस्य / Jऐम्_६,४.४० /
SK
कालश् चेत् सन्नयत्पक्षे तल्लिङ्गसंयोगात् / Jऐम्_६,४.४१ /
SK
कालार्थत्वाद् वोभयोः प्रतीयेत / Jऐम्_६,४.४२ /
SK
प्रस्तरे शाखाश्रयणवत् / Jऐम्_६,४.४३ /
SK
कालविधिर् वोभयोर् विद्यामानत्वात् / Jऐम्_६,४.४४ /
SK
अतत्संस्कारार्थत्वाच् च / Jऐम्_६,४.४५ /
SK
तस्माच् च विप्रयोगे स्यात् / Jऐम्_६,४.४६ /
SK
उपवेषश् च पक्षे स्यात् / Jऐम्_६,४.४७ /
SK
अभ्युदये कालापराधाद् इज्याचोदना स्याद् यथा पञ्चशरावे / Jऐम्_६,५.१ /
SK
अपनयो वा विद्यानत्वात् / Jऐम्_६,५.२ /
SK
तद्रूपत्वाच् च शब्दानाम् / Jऐम्_६,५.३ /
SK
आतञ्चनाभ्यासस्य दर्शनात् / Jऐम्_६,५.४ /
SK
अपूर्वत्वाद् विधानं स्यात् / Jऐम्_६,५.५ /
SK
पयोदोषात् पञ्चशरावे ऽदुष्टं हीतरत् / Jऐम्_६,५.६ /
SK
सान्नाय्यो ऽपि तथेति चेत् / Jऐम्_६,५.७ /
SK
न तस्यादुष्टत्वाद् अविशिष्टं हि कारणम् / Jऐम्_६,५.८ /
SK
लक्षणार्थाश्रुतिः / Jऐम्_६,५.९ /
SK
उपांशुयाजे ऽवचनाद् यथाप्रकृति / Jऐम्_६,५.१० /
SK
अपनयो वा प्रवृत्या यथेतरेषाम् / Jऐम्_६,५.११ /
SK
निरुप्ते स्यात् तत्संयोगात् / Jऐम्_६,५.१२ /
SK
प्रवृत्ते वा प्रापणान् निमित्तस्य / Jऐम्_६,५.१३ /
SK
लक्षणमात्रम् इतरत् / Jऐम्_६,५.१४ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_६,५.१५ /
SK
अनिरुप्ते ऽभ्युदिते प्राकृतीभ्यो निर्वपेद् इत्य् आश्मरथ्यस् तण्डुलभूतेष्व् अपनयात् / Jऐम्_६,५.१६ /
SK
व्यूर्ध्वभाग्भ्यस् त्व् आलेखनस् तत्कारित्वाद् देवतापनयस्य / Jऐम्_६,५.१७ /
SK
विनिरुप्ते न मुष्टीनाम् अपनयस् तद्गुणत्वात् / Jऐम्_६,५.१८ /
SK
अप्राकृतेन हि संयोगस् तत्स्थानीयत्वात् / Jऐम्_६,५.१९ /
SK
अभावाच् चेतरस्य स्यात् / Jऐम्_६,५.२० /
SK
सान्नाय्यसंयोगान् नासन्नायतः स्यात् / Jऐम्_६,५.२१ /
SK
औषधसंयोगाद् वोभयोः / Jऐम्_६,५.२२ /
SK
वैगुण्यान् नेति चेत् / Jऐम्_६,५.२३ /
SK
नातत्संस्कारत्वात् / Jऐम्_६,५.२४ /
SK
साम्युत्थाने विश्वजित्क्रीते विभागसंयोगात् / Jऐम्_६,५.२५ /
SK
प्रवृते वा प्रापणान् निमित्तस्य / Jऐम्_६,५.२६ /
SK
आदेशार्थेतरा श्रुतिः / Jऐम्_६,५.२७ /
SK
दीक्षापरिमाणे यथाकाम्यविशेषात् / Jऐम्_६,५.२८ /
SK
द्वादशाहस् तु लिङ्गात् स्यात् / Jऐम्_६,५.२९ /
SK
पौर्णमास्याम् अनियमो ऽविशेषात् / Jऐम्_६,५.३० /
SK
आनन्तर्यात् तु चैत्री स्यात् / Jऐम्_६,५.३१ /
SK
माघी वैकाष्टकाश्रुतेः / Jऐम्_६,५.३२ /
SK
अन्या अपीति चेत् / Jऐम्_६,५.३३ /
SK
न भक्तित्वाद् एषा हि लोके / Jऐम्_६,५.३४ /
SK
दीक्षापराधे चानुग्रहात् / Jऐम्_६,५.३५ /
SK
उत्थाने चानुप्ररोहात् / Jऐम्_६,५.३६ /
SK
अस्यां च सर्वलिङ्गानि / Jऐम्_६,५.३७ /
SK
दीक्षाकालस्य शिष्टत्वाद् अतिक्रमे नियतानाम् अनुत्कर्षः प्राप्तकालत्वात् / Jऐम्_६,५.३८ /
SK
उत्कर्षो वा दीक्षितत्वाद् अविशिष्टं हि कारणम् / Jऐम्_६,५.३९ /
SK
तत्र प्रतिहोमो न विद्यते यथा पूर्वेषाम् / Jऐम्_६,५.४० /
SK
कालप्राधान्याच् च / Jऐम्_६,५.४१ /
SK
प्रतिषेधाच् चोर्ध्वम् अवभृथादेष्टे / Jऐम्_६,५.४२ /
SK
प्रतिहोमश् चेत् सायम् अग्निहोत्रप्रभृतीनि हूयेरन् / Jऐम्_६,५.४३ /
SK
प्रातस् तु षोडशिनि / Jऐम्_६,५.४४ /
SK
प्रायश्चित्तम् अधिकारे सर्वत्र दोषमामान्यात् / Jऐम्_६,५.४५ /
SK
प्रकरणे वा शब्दहेतुत्वात् / Jऐम्_६,५.४६ /
SK
अतिद्विकारश् च / Jऐम्_६,५.४७ /
SK
व्यापन्नस्याप्सु गतौ यद् अभोज्यम् आर्याणां तत् प्रतीयेत / Jऐम्_६,५.४८ /
SK
विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते / Jऐम्_६,५.४९ /
SK
स्याद् वा प्राप्तनिमित्तत्वात् कालमात्रम् एकम् / Jऐम्_६,५.५० /
SK
तत्र विप्रतिषेधाद् विकल्पः स्यात् / Jऐम्_६,५.५१ /
SK
प्रयोगान्तरे वोभयानुग्रहः स्यात् / Jऐम्_६,५.५२ /
SK
न चैकसंयोगात् / Jऐम्_६,५.५३ /
SK
पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् / Jऐम्_६,५.५४ /
SK
यद्य् उद्गाता जघन्यः स्यात् पुनर् यज्ञे सर्ववेदसं दद्याद् यथेतरस्मिन् / Jऐम्_६,५.५५ /
SK
अहर्गणे यस्मिन्न् अपच्छेदस् तद् आवर्तेत कर्म पृथक्त्वात् / Jऐम्_६,५.५६ /
SK
सन्निपाते वैगुण्यात् प्रकृतिवत् तुल्यकल्पा यजेरन् / Jऐम्_६,६.१ /
SK
वचनाद् वाशिरोवत्स्यात् / Jऐम्_६,६.२ /
SK
न वानारभ्यवादत्वात् / Jऐम्_६,६.३ /
SK
स्याद् वा यज्ञार्थत्वाद् औदुम्बरीवत् / Jऐम्_६,६.४ /
SK
न तत्प्रधानत्वात् / Jऐम्_६,६.५ /
SK
औदुम्बर्याः परार्थत्वात् कपालवत् / Jऐम्_६,६.६ /
SK
अन्येनापीति चेत् / Jऐम्_६,६.७ /
SK
नैकत्वात्तस्य चानधिकाराच् छब्दस्य चाविभक्तत्वात् / Jऐम्_६,६.८ /
SK
सन्निपातात् तु निमित्तविघातः स्याद् बृहद्रथन्तरवद् विभक्तशिष्टत्वाद् वसिष्ठनिर्वर्त्ये / Jऐम्_६,६.९ /
SK
अपि वा कृत्स्नसंयोगाद् अविघातः प्रतीयेत स्वामित्वेनाभिसंबन्धात् / Jऐम्_६,६.१० /
SK
साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसंबन्धस् तस्मात् तत्र विघातः स्यात् / Jऐम्_६,६.११ /
SK
वचनात् तु द्विसंयोगस् तस्माद् एकस्य पाणिवत् / Jऐम्_६,६.१२ /
SK
अर्थाभावात् तु नैवं स्यात् / Jऐम्_६,६.१३ /
SK
अर्थानां च विभक्तत्वान् न तच्छ्रुतेन संबन्धः / Jऐम्_६,६.१४ /
SK
प्राणेः प्रत्यङ्गभावाद् असंबन्धः प्रतीयेत / Jऐम्_६,६.१५ /
SK
सत्राणि सर्ववर्णामाम् अविशेषात् / Jऐम्_६,६.१६ /
SK
लिङ्गदर्शनाच् च / Jऐम्_६,६.१७ /
SK
ब्राह्मणानां वेतरयोर् आर्त्विज्यभावात् / Jऐम्_६,६.१८ /
SK
वचनाद् इति चेत् / Jऐम्_६,६.१९ /
SK
न स्वामित्वं हि विधीयते / Jऐम्_६,६.२० /
SK
गार्हपते वा स्याताम् अविप्रतिषेधात् / Jऐम्_६,६.२१ /
SK
न वा कल्पविरोधात् / Jऐम्_६,६.२२ /
SK
स्वामित्वाद् इतरेषाम् अहीने लिङ्गदर्शनम् / Jऐम्_६,६.२३ /
SK
वासिष्ठानां वा ब्रह्मत्वनियमात् / Jऐम्_६,६.२४ /
SK
सर्वेषां वा प्रतिप्रसवात् / Jऐम्_६,६.२५ /
SK
विश्वामित्रस्य हौत्रनियमाद् भृगुशुनकवसिष्ठानाम् अनधिकारः / Jऐम्_६,६.२६ /
SK
विहारस्य प्रभुत्वाद् अनग्नीनाम् अपि स्यात् / Jऐम्_६,६.२७ /
SK
सारस्वते च दर्शनात् / Jऐम्_६,६.२८ /
SK
प्रायश्चित्तविधानाच् च / Jऐम्_६,६.२९ /
SK
साग्नीनां वेष्टिपूर्वत्वात् / Jऐम्_६,६.३० /
SK
स्वार्थेन च प्रयुक्तत्वात् / Jऐम्_६,६.३१ /
SK
सन्निवापं च दर्शयति / Jऐम्_६,६.३२ /
SK
जुह्वादीनाम् अप्रयुक्तत्वात् संदेहे यथाकामी प्रतीयेत / Jऐम्_६,६.३३ /
SK
अपि वान्यानि पात्राणि साधारणानि कुर्वीरन् विप्रतिषेधाच् छास्त्रकृत्वात् / Jऐम्_६,६.३४ /
SK
प्रायश्चित्तम् आपदि स्यात् / Jऐम्_६,६.३५ /
SK
पुरुषकल्पेन विकृतौ कर्तृनियमः स्याद् यज्ञस्य तद्गुणत्वाद् अभावाद् इतरान् प्रत्येकस्मिन्न् अधिकारः स्यात् / Jऐम्_६,६.३६ /
SK
लिङ्गाच् चेज्याविशेषवत् / Jऐम्_६,६.३७ /
SK
न वा संयोगपृथक्त्वाद् गुणस्येज्याप्रधानत्वाद् असंयुक्ता हि चोदना / Jऐम्_६,६.३८ /
SK
इज्यायां तद्गुणत्वाद् विशेषेण नियमयेत / Jऐम्_६,६.३९ /
SK
स्वदाने सर्वम् अविशेषात् / Jऐम्_६,७.१ /
SK
यस्य वा प्रभुः स्याद् इतरस्याशक्यत्वात् / Jऐम्_६,७.२ /
SK
न भूमिः स्यात् सर्वान् प्रत्यविशिष्टत्वात् / Jऐम्_६,७.३ /
SK
अकार्यत्वाच् च ततः पुनर् विशेषः स्यात् / Jऐम्_६,७.४ /
SK
नित्यत्वाच् चानित्यैर् नास्ति संबन्धः / Jऐम्_६,७.५ /
SK
शूद्रश् च धर्मशास्त्रत्वात् / Jऐम्_६,७.६ /
SK
दक्षिणाकाले यत् स्वं तत् प्रतीयेत तद्दानसंयोगात् / Jऐम्_६,७.७ /
SK
अशेषत्वात् तदन्तः स्यात् कर्मणो द्रव्यसिद्धित्वात् / Jऐम्_६,७.८ /
SK
अपि वा शेषकर्म स्यात् क्रतोः प्रत्यक्षशिष्टत्वात् / Jऐम्_६,७.९ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_६,७.१० /
SK
अशेषं तु समञ्जसादानेन शेषकर्म स्यात् / Jऐम्_६,७.११ /
SK
नादानस्यानित्यत्वात् / Jऐम्_६,७.१२ /
SK
दीक्षासु विनिर्देशाद् अक्रत्वर्थेन संयोगस् तस्माद् अविरोधः स्यात् / Jऐम्_६,७.१३ /
SK
अहर्गणे च तद्धर्मः स्यात् सर्वेषाम् अविशेषात् / Jऐम्_६,७.१४ /
SK
द्वादशशतं वा प्रकृतिवत् / Jऐम्_६,७.१५ /
SK
अतद्गुणत्वात् नैवं स्यात् / Jऐम्_६,७.१६ /
SK
लिङ्गदर्शनाच् च / Jऐम्_६,७.१७ /
SK
विकारः सन्न् उभयतो ऽविशेषात् / Jऐम्_६,७.१८ /
SK
अधिकं वा प्रतिप्रसवात् / Jऐम्_६,७.१९ /
SK
अनुग्रहाच् च पादवत् / Jऐम्_६,७.२० /
SK
अपरिमिते शिष्टस्य सङ्ख्याप्रतिषेधस् तच्छ्रुतित्वात् / Jऐम्_६,७.२१ /
SK
कल्पान्तरं वा तुल्यवत् प्रसङ्ख्यानात् / Jऐम्_६,७.२२ /
SK
अनियमो ऽविशेषात् / Jऐम्_६,७.२३ /
SK
अधिकं वा स्याद् बहूर्थत्वाद् इतरेषां सन्निधानात् / Jऐम्_६,७.२४ /
SK
अर्थवादश् च तदर्थवत् / Jऐम्_६,७.२५ /
SK
परकृतिपुराकल्पं च मनुष्यधर्मः स्याद् अर्थाय ह्य् अनुकीर्तनम् / Jऐम्_६,७.२६ /
SK
तद्युक्ते च प्रतिषेधात् / Jऐम्_६,७.२७ /
SK
निर्देशाद् वा तद्धर्मः स्यात् पञ्चावत्तवत् / Jऐम्_६,७.२८ /
SK
विधौ तु वेदसंयोगाद् उपदेशः स्यात् / Jऐम्_६,७.२९ /
SK
अर्थवादो वा विधिशेषत्वात् तस्मान् नित्यानुवादः स्यात् / Jऐम्_६,७.३० /
SK
सहस्रसंवत्सरं तदायुषाम् असंभवान् मनुष्येषु / Jऐम्_६,७.३१ /
SK
अपि वा तदधिकारान् मनुष्यधर्मः स्यात् / Jऐम्_६,७.३२ /
SK
नासामर्थ्यात् / Jऐम्_६,७.३३ /
SK
सम्बन्धादर्शनात् / Jऐम्_६,७.३४ /
SK
स कुलकल्पः स्याद् इति कार्ष्णाजिनिर् एकस्मिन्न् असंभवात् / Jऐम्_६,७.३५ /
SK
अपि वा कृत्स्नसंयोगाद् एकस्यैव प्रयोगः स्यात् / Jऐम्_६,७.३६ /
SK
विप्रतिषेधात् तु गुण्यन्यतरः स्याद् इति लावुकायनः / Jऐम्_६,७.३७ /
SK
संवत्सरो विचालित्वात् / Jऐम्_६,७.३८ /
SK
सा प्रकृतिः स्याद् अधिकारात् / Jऐम्_६,७.३९ /
SK
अहानि वाभिसंख्यत्वात् / Jऐम्_६,७.४० /
SK
इष्टिपूर्वत्वाद् अक्रतुशेषो होमः संस्कृतेष्व् अग्निषु स्याद् पूर्वो ऽप्य् आधानस्य सर्वशेषत्वात् / Jऐम्_६,८.१ /
SK
इष्टित्वे न तु संस्तवश् चतुर्होतॄन् असंस्कृतेषु दर्शयति / Jऐम्_६,८.२ /
SK
उपदेशस् त्व् अपूर्वत्वात् / Jऐम्_६,८.३ /
SK
स सर्वेषाम् अविशेषात् / Jऐम्_६,८.४ /
SK
अपि वा क्रत्वभावाद् अनाहिताग्नेर् अशेषभूतनिर्देशः / Jऐम्_६,८.५ /
SK
जपो वानग्निसंयोगात् / Jऐम्_६,८.६ /
SK
इष्टित्वेन संस्तुते होमः स्याद् अनारभ्याग्निसंयोगाद् इतरेषाम् अवाच्यत्वात् / Jऐम्_६,८.७ /
SK
उभयोः पितृयज्ञवत् / Jऐम्_६,८.८ /
SK
निर्देशो वानाहिताग्नेर् अनारभ्याग्निसंयोगात् / Jऐम्_६,८.९ /
SK
पितृयज्ञे संयुक्तस्य पुनर् वचनम् / Jऐम्_६,८.१० /
SK
उपनयन्न् आदधीत होमसंयोगात् / Jऐम्_६,८.११ /
SK
स्थपतीष्टवल् लौकिके वा विद्याकर्मानुपूर्वत्वात् / Jऐम्_६,८.१२ /
SK
आधानं च भार्यासंयुक्तम् / Jऐम्_६,८.१३ /
SK
अकर्म चोर्ध्वम् आधानात् तत्समवायो हि कर्मभिः / Jऐम्_६,८.१४ /
SK
श्राद्धवद् इति चेत् / Jऐम्_६,८.१५ /
SK
न श्रुतिविप्रतिषेधात् / Jऐम्_६,८.१६ /
SK
सर्वार्थत्वाच् च पुत्रार्थो न प्रयोजयेत् / Jऐम्_६,८.१७ /
SK
सोमपानात् तु प्रापणं द्वितीयस्य तस्माद् उपयच्छेत् / Jऐम्_६,८.१८ /
SK
पितृयज्ञे तु दर्शनात् प्राग् आधानात् प्रतीयेत / Jऐम्_६,८.१९ /
SK
स्थपतीष्टिः प्रयाजवद् अग्नयाधेयं प्रयोजयेत् तादर्थ्याच् चापवृज्येत / Jऐम्_६,८.२० /
SK
अपि वा लौकिके ऽग्नौ स्याद् आधानस्यासर्वशेषत्वात् / Jऐम्_६,८.२१ /
SK
अवकीर्णिपशुश् च तद्वद् आधानस्याप्राप्तकलत्वात् / Jऐम्_६,८.२२ /
SK
उदगयनपूर्वपक्षाहः पुण्याहेषु दैवानि स्मृतिरूपान्य् आर्थदर्शनात् / Jऐम्_६,८.२३ /
SK
अहनि च कर्मसाकल्यम् / Jऐम्_६,८.२४ /
SK
इतरेषु तु पित्र्याणि / Jऐम्_६,८.२५ /
SK
याच्ञाक्रयणम् अविद्यमाने लोकवत् / Jऐम्_६,८.२६ /
SK
नियतं वार्थवत्वात् स्यात् / Jऐम्_६,८.२७ /
SK
तथा भक्षप्रैषाच् छादनसंज्ञप्तहोमद्वेषम् / Jऐम्_६,८.२८ /
SK
अनर्थकं त्व् अनित्यं स्यात् / Jऐम्_६,८.२९ /
SK
पशुचोदनायाम् अनियमो ऽविशेषात् / Jऐम्_६,८.३० /
SK
छागो वा मन्त्रवर्णात् / Jऐम्_६,८.३१ /
SK
न चोदनाविरोधात् / Jऐम्_६,८.३२ /
SK
आर्षेयवद् इति चेत् / Jऐम्_६,८.३३ /
SK
न तत्र ह्य् अचोदित्वात् / Jऐम्_६,८.३४ /
SK
नियमो वैकार्थ्यं ह्य् अर्थभेदाद् भेदः पृथवत्वेनाभिधानात् / Jऐम्_६,८.३५ /
SK
अनियमो वार्थान्तरत्वाद् अन्यत्वं व्यतिरेकशब्दभेदाभ्याम् / Jऐम्_६,८.३६ /
SK
रूपाल् लिङ्गाच् च / Jऐम्_६,८.३७ /
SK
छागे न कर्माख्या रूपलिङ्गाभ्याम् / Jऐम्_६,८.३८ /
SK
रूपान्यत्वान् न जातिशब्दः स्यात् / Jऐम्_६,८.३९ /
SK
विकारो नौत्पत्तिकत्वात् / Jऐम्_६,८.४० /
SK
स नैमित्तिकः पशोर् गुणस्याचोदितत्वात् / Jऐम्_६,८.४१ /
SK
जातेर् वा तत्प्रायवचनार्थवत्वाभ्याम् / Jऐम्_६,८.४२ /
SK
श्रुतिप्रमाणत्वाच् छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात् / Jऐम्_७,१.१ /
SK
उत्पत्त्यर्थाविभागाद् वा सत्त्ववद् ऐकधर्म्यं स्यात् / Jऐम्_७,१.२ /
SK
चोदनाशेषभावाद् वा तद्भेदाद् व्यवतिष्ठेरन्न् उत्पत्तेर् गुणभूतत्वात् / Jऐम्_७,१.३ /
SK
सत्वे लक्षणसंयोगात् सार्वत्रिकं प्रतीयेत / Jऐम्_७,१.४ /
SK
अविभागात् तु नैवं स्यात् / Jऐम्_७,१.५ /
SK
द्व्यर्थत्वं च विप्रतिषिद्धम् / Jऐम्_७,१.६ /
SK
उत्पत्तौ विध्यभावाद् वा चोदनायां प्रवृत्तिः स्यात् ततश् च कर्मभेदः स्यात् / Jऐम्_७,१.७ /
SK
यदि वाप्य् अभिधानवत् सामान्यात् सर्वधर्मः स्यात् / Jऐम्_७,१.८ /
SK
अर्थस्य त्व् अविभक्तत्वात् तथा स्याद् अभिधानेषु पूर्ववत्त्वात् प्रयोगस्य कर्मणः शब्दभाव्यत्वाद् विभागाच् छेषाणाम् अप्रवृत्तिः स्यात् / Jऐम्_७,१.९ /
SK
स्मृतिर् इति चेत् / Jऐम्_७,१.१० /
SK
न पूर्ववत्वात् / Jऐम्_७,१.११ /
SK
अर्थस्य शब्दभाव्यत्वात् प्रकरणनिबन्धनाच् छब्दाद् एवान्यत्र भावः स्यात् / Jऐम्_७,१.१२ /
SK
सामाने पूर्ववत्वाद् उत्पन्नाधिकारः स्यात् / Jऐम्_७,१.१३ /
SK
श्येनस्येति चेति / Jऐम्_७,१.१४ /
SK
नासन्निधानात् / Jऐम्_७,१.१५ /
SK
अपि वा यद्य् अपूर्वत्वाद् इतरदधिकार्थे ज्यौतिष्टोमिकाद् विधेस् तद्वाचकं समानं स्यात् / Jऐम्_७,१.१६ /
SK
पञ्चसञ्चरेष्व् अर्थवादातिदेशः सन्निधानात् / Jऐम्_७,१.१७ /
SK
सर्वस्य वैकशब्द्यात् / Jऐम्_७,१.१८ /
SK
लिङ्गदर्शनाच् च / Jऐम्_७,१.१९ /
SK
विहिताम्नानान् नेति चेत् / Jऐम्_७,१.२० /
SK
नेतरार्थत्वात् / Jऐम्_७,१.२१ /
SK
एककपालैन्द्राग्नौ च तद्वत् / Jऐम्_७,१.२२ /
SK
एककपालानां वैश्वदेविकः प्रकृतिर् आग्रयणे सर्वहोमापरिवृत्तिदर्शनाद् अवभृथे च सकृद् द्व्यवदानस्य वचनात् / Jऐम्_७,१.२३ /
SK
साम्नो ऽभिधानशब्देन प्रवृत्तिः स्याद् यथाशिष्टम् / Jऐम्_७,२.१ /
SK
शब्दैस् त्व् अर्थविधित्वाद् अर्थान्तरे ऽप्रवृत्तिः स्यात् पृथग्भावात् क्रियाया ह्य् अभिसम्बन्धः / Jऐम्_७,२.२ /
SK
स्वार्थे वा स्यात् प्रयोजनं क्रियायास् तदङ्गभावेनोपदिश्येरन् / Jऐम्_७,२.३ /
SK
शब्दमात्रम् इति चेत् / Jऐम्_७,२.४ /
SK
नौत्पत्तिकत्वात् / Jऐम्_७,२.५ /
SK
शास्त्रं चैवम् अनर्थकं स्यात् / Jऐम्_७,२.६ /
SK
स्वरस्येति चेत् / Jऐम्_७,२.७ /
SK
नार्थाभावाच् छ्रुतेर् असंबन्धः / Jऐम्_७,२.८ /
SK
स्वरस् तूत्पत्तिषु स्यान् मात्रावर्णाविभक्तत्वात् / Jऐम्_७,२.९ /
SK
लिङ्गदर्शनाच् च / Jऐम्_७,२.१० /
SK
अश्रुतेस् तु विकारस्योत्तरासु यथाश्रुति / Jऐम्_७,२.११ /
SK
शब्दानां चासामञ्जस्यम् / Jऐम्_७,२.१२ /
SK
अपि तु कर्मशब्दः स्याद् भावो ऽर्थः प्रसिद्धग्रहणत्वाद् विकारो ह्य् अविशिष्टो ऽन्यैः / Jऐम्_७,२.१३ /
SK
अद्रव्यं चापि दृश्यते / Jऐम्_७,२.१४ /
SK
तस्य च क्रिया ग्रहणार्था नानार्थेषु विरूपित्वाद् अर्थो ह्य् आसामलौकिको विधानात् / Jऐम्_७,२.१५ /
SK
तस्मिन् संज्ञाविशेषाः स्युर् विकारपृथक्त्वात् / Jऐम्_७,२.१६ /
SK
योनिशस्याश् च तुल्यवद् इतराभिर् विधीयन्ते / Jऐम्_७,२.१७ /
SK
अयोनौ चापि दृश्यते ऽतथायोनि / Jऐम्_७,२.१८ /
SK
ऐकार्थ्ये नास्ति वैरूप्यम् इति चेत् / Jऐम्_७,२.१९ /
SK
स्याद् अर्थान्तरेष्व् अनिष्पत्तेर् यथा पाके / Jऐम्_७,२.२० /
SK
शब्दानां च सामञ्जस्यं / Jऐम्_७,२.२१ /
SK
उक्तं क्रियाभिधानं तच्छ्रुताव् अन्यत्र विधिप्रदेशः स्यात् / Jऐम्_७,३.१ /
SK
अपूर्वे वापि भागित्वात् / Jऐम्_७,३.२ /
SK
नाम्नस् त्व् औत्पत्तिकत्वात् / Jऐम्_७,३.३ /
SK
प्रत्यक्षाद् गुणसंयोगात् क्रियाभिधानं स्यात् तदभावे ऽप्रसिद्धं स्यात् / Jऐम्_७,३.४ /
SK
अपि वा सत्रकर्मणि गुणार्थैषा श्रुतिः स्यात् / Jऐम्_७,३.५ /
SK
विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज् ज्यौतिष्टोमिकानि पृष्ठान्य् अस्ति च पृष्ठशब्दः / Jऐम्_७,३.६ /
SK
षडहाद् वा तत्र हि चोदना / Jऐम्_७,३.७ /
SK
लिङ्गाच् च / Jऐम्_७,३.८ /
SK
उत्पन्नाधिकारो ज्योतिष्टोमः / Jऐम्_७,३.९ /
SK
द्वयोर् विधिर् इति चेत् / Jऐम्_७,३.१० /
SK
न व्यर्थत्वात् सर्वशब्दस्य / Jऐम्_७,३.११ /
SK
तथावभृथः सोमात् / Jऐम्_७,३.१२ /
SK
प्रकृतेर् इति चेत् / Jऐम्_७,३.१३ /
SK
न भक्तित्वात् / Jऐम्_७,३.१४ /
SK
लिङ्गदर्शनाच् च / Jऐम्_७,३.१५ /
SK
द्रव्यादेशे तद्द्रव्यः श्रुतिसंयोगात् पुरोडाशस् त्व् अनादेशे तत्प्रकृतित्वात् / Jऐम्_७,३.१६ /
SK
गुणविधिस् तु न गृह्णीयात् समत्वात् / Jऐम्_७,३.१७ /
SK
निर्मन्थ्यादिषु चैवम् / Jऐम्_७,३.१८ /
SK
प्रणयनं तु सौमिकम् अवाच्यं हीतरत् / Jऐम्_७,३.१९ /
SK
उत्तरवेदिप्रतिषेधश् च तद्वत् / Jऐम्_७,३.२० /
SK
प्राकृतं वानामत्वात् / Jऐम्_७,३.२१ /
SK
परिसङ्ख्यर्थं श्रवणं गुणार्थवादो वा / Jऐम्_७,३.२२ /
SK
प्रथमोत्तमयोः प्रणयनमुत्तरवेदिप्रतिषेधात् / Jऐम्_७,३.२३ /
SK
मध्यमयोर् वा गत्यर्थवादात् / Jऐम्_७,३.२४ /
SK
औत्तरवेदिको ऽनारभ्यवादप्रतिषेधः / Jऐम्_७,३.२५ /
SK
स्वरसामैककपालामिक्षं च लिङ्गदर्शनात् / Jऐम्_७,३.२६ /
SK
चोदनासामान्याद् वा / Jऐम्_७,३.२७ /
SK
कर्मजे कर्म यूपवत् / Jऐम्_७,३.२८ /
SK
रूपं वाशेषभूतत्वात् / Jऐम्_७,३.२९ /
SK
विशये लौकिकः स्यात् सर्वार्थत्वात् / Jऐम्_७,३.३० /
SK
न वैदिकम् अर्थनिर्देशात् / Jऐम्_७,३.३१ /
SK
तथोत्पत्तिर् इतरेषां समत्वात् / Jऐम्_७,३.३२ /
SK
संस्कृतं स्यात् तच्छब्दत्वात् / Jऐम्_७,३.३३ /
SK
भक्त्या वायज्ञशेषत्वाद् गुणानाम् अभिधानत्वात् / Jऐम्_७,३.३४ /
SK
कर्मणः पृष्टशब्दः स्यात् तथाभूतोपदेशात् / Jऐम्_७,३.३५ /
SK
अभिधानोपदेशाद् वा विप्रतिषेधाद् द्रव्येषु पृष्ठशब्दः स्यात् / Jऐम्_७,३.३६ /
SK
इतिकर्तव्यता विधेर् यजतेः पूर्ववत्त्वम् / Jऐम्_७,४.१ /
SK
स लौकिकः स्याद् दृष्टप्रवृत्तित्वात् / Jऐम्_७,४.२ /
SK
वचनात् तु ततो ऽन्यत्वम् / Jऐम्_७,४.३ /
SK
लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात् / Jऐम्_७,४.४ /
SK
अपि वान्यायपूर्वत्वाद् यत्र नित्यानुवादवचनानि स्युः / Jऐम्_७,४.५ /
SK
मिथो विप्रतिषेधाच् च गुणानां यथार्थतल्पना स्यात् / Jऐम्_७,४.६ /
SK
भागित्वात् तु नियम्येत गुणानाम् अभिधानत्वात् सम्बन्धाद् अभिधानवद् यथा धेनुः किशोरेण / Jऐम्_७,४.७ /
SK
उत्पत्तीनां समत्वाद् वा यथाधिकारं भावः स्यात् / Jऐम्_७,४.८ /
SK
उत्पत्तिशेषवचनं च विप्रतिषिद्धम् एकस्मिन् / Jऐम्_७,४.९ /
SK
विध्यन्तो वा प्रकृतिवच् चोदनायां प्रवर्तेत तथा हि लिङ्गदर्शनम् / Jऐम्_७,४.१० /
SK
लिङ्गहेतुत्वाद् अलिङ्गे लौकिकं स्यात् / Jऐम्_७,४.११ /
SK
लिङ्गस्य पूर्ववत्तवाच् चोदनाशब्दसामान्याद् एकेनापि निरूप्येत यथा स्थालीपुलाकेन / Jऐम्_७,४.१२ /
SK
द्वादशाहिकम् अहर्गणे तत्प्रकृतित्वाद् ऐकाहिकम् अधिकागमात् तदाख्यं स्याद् एकाहवत् / Jऐम्_७,४.१३ /
SK
लिङ्गाच् च / Jऐम्_७,४.१४ /
SK
न वा क्रत्वभिधानाद् अधिकानाम् अशब्दत्वम् / Jऐम्_७,४.१५ /
SK
लिङ्गं संघातधर्मः स्यात् तदर्थापत्तेर् द्रव्यवत् / Jऐम्_७,४.१६ /
SK
न वार्थधर्मत्वात् संघातस्य गुणत्वात् / Jऐम्_७,४.१७ /
SK
अर्थापत्तेर् द्रव्येषु धर्मलाभः स्यात् / Jऐम्_७,४.१८ /
SK
प्रवृत्त्या नियतस्य लिङ्गदर्शनम् / Jऐम्_७,४.१९ /
SK
विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थतवात् / Jऐम्_७,४.२० /
SK
अथ विशेषलक्षणम् / Jऐम्_८,१.१ /
SK
यस्य लिङ्गम् अर्थसंयोगाद् अभिधानवत् / Jऐम्_८,१.२ /
SK
प्रवृत्तित्वाद् इष्टेः सोमे प्रवृत्तिः स्यात् / Jऐम्_८,१.३ /
SK
लिङ्गदर्शनाच् च / Jऐम्_८,१.४ /
SK
कृत्स्वविधानाद् वापूर्वत्वम् / Jऐम्_८,१.५ /
SK
स्रुगभिघारणाभावस्य च नित्यानुवादात् / Jऐम्_८,१.६ /
SK
विधिर् इति चेत् / Jऐम्_८,१.७ /
SK
न वाक्यशेषत्वात् / Jऐम्_८,१.८ /
SK
शङ्कतेचानुपोषणात् / Jऐम्_८,१.९ /
SK
दर्शनम् ऐष्टिकानां स्यात् / Jऐम्_८,१.१० /
SK
इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्यात् / Jऐम्_८,१.११ /
SK
पशौ च लिङ्गदर्शनात् / Jऐम्_८,१.१२ /
SK
दैक्षस्य चेतरेषु / Jऐम्_८,१.१३ /
SK
ऐकादशिनेषु सौत्यस्य द्वैरशन्यस्य दर्शनात् / Jऐम्_८,१.१४ /
SK
तत्प्रवृत्तिर् गणेषु स्यात् प्रतिपशु यूपदर्शनात् / Jऐम्_८,१.१५ /
SK
अव्यक्तासु तु सोमस्य / Jऐम्_८,१.१६ /
SK
गणेषु द्वादशाहस्य / Jऐम्_८,१.१७ /
SK
गव्यस्य च तदादिषु / Jऐम्_८,१.१८ /
SK
निकायिनां च पूर्वस्योत्तरेषु प्रवृत्तिः स्यात् / Jऐम्_८,१.१९ /
SK
कर्मणस् त्व् अप्रवृत्तित्वात् फलनियमकर्तृ समुदायस्यानन्वयस् तद्बन्धनत्वात् / Jऐम्_८,१.२० /
SK
प्रवृत्तौ चापि तादर्थ्यात् / Jऐम्_८,१.२१ /
SK
अश्रुतित्वाच् च / Jऐम्_८,१.२२ /
SK
गुणकामेष्व् आश्रितत्वात् प्रवृत्तिः स्यात् / Jऐम्_८,१.२३ /
SK
निवृत्तिर् वा कर्मभेदात् / Jऐम्_८,१.२४ /
SK
अपि वातद्विकारत्वात् क्रत्वर्थत्वात् प्रवृत्तिः स्यात् / Jऐम्_८,१.२५ /
SK
एककर्मणि विकल्पो ऽविभागो हि चोदनैकत्वात् / Jऐम्_८,१.२६ /
SK
लिङ्गसाधारण्याद् विकल्पः स्यात् / Jऐम्_८,१.२७ /
SK
ऐकार्थ्याद् वा नियम्येत पूर्ववत्त्वाद् विकारो हि / Jऐम्_८,१.२८ /
SK
अश्रुतित्वान् नेति चेत् / Jऐम्_८,१.२९ /
SK
स्याल् लिङ्गभावात् / Jऐम्_८,१.३० /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_८,१.३१ /
SK
विप्रतिपत्तौ हविषा नियम्येत कर्मणस् तदुपाख्यत्वात् / Jऐम्_८,१.३२ /
SK
तेन च कर्मसंयोगात् / Jऐम्_८,१.३३ /
SK
गुणत्वेन देवताश्रुतिः / Jऐम्_८,१.३४ /
SK
हिरण्यम् आज्यधर्मस् तेजस्त्वात् / Jऐम्_८,१.३५ /
SK
धर्मानुग्रहाच् च / Jऐम्_८,१.३६ /
SK
औषधं वा विशदत्वात् / Jऐम्_८,१.३७ /
SK
चरुशब्दाच् च / Jऐम्_८,१.३८ /
SK
तस्मिंश् च श्रपणश्रुतेः / Jऐम्_८,१.३९ /
SK
मधूदके द्रव्यसामान्यात् पयोविकारः स्यात् / Jऐम्_८,१.४० /
SK
आज्यं वा वर्णसामान्यात् / Jऐम्_८,१.४१ /
SK
धर्मानुग्रहाच् च / Jऐम्_८,१.४२ /
SK
पूर्वस्य चाविशिष्टत्वात् / Jऐम्_८,१.४३ /
SK
वाजिने सोमपूर्वत्वं सौत्रामण्याञ् च ग्रहेषु ताच्छब्द्यात् / Jऐम्_८,२.१ /
SK
अनुवषट्कारच् च / Jऐम्_८,२.२ /
SK
समुपहूय भक्षणाच् च / Jऐम्_८,२.३ /
SK
क्रयणश्रपणपुरोरुगुपयामग्रहणासादनवासोपनहनञ् च तद्वत् / Jऐम्_८,२.४ /
SK
हविषा वा नियम्येत तद्विकारत्वात् / Jऐम्_८,२.५ /
SK
प्रशंसा सोमशब्दः / Jऐम्_८,२.६ /
SK
वचनानीतराणि / Jऐम्_८,२.७ /
SK
व्यपदेशश् च तद्वत् / Jऐम्_८,२.८ /
SK
पशुपुरोडाशस्य च लिङ्गदर्शनम् / Jऐम्_८,२.९ /
SK
पशुः पुरोडाशविकारः स्याद् देवतासामान्यात् / Jऐम्_८,२.१० /
SK
प्रोक्षणातच् च / Jऐम्_८,२.११ /
SK
पर्यग्निकरणाच् च / Jऐम्_८,२.१२ /
SK
सान्नाय्यं वा तत्प्रभवत्वात् / Jऐम्_८,२.१३ /
SK
तस्य च पात्रदर्शनात् / Jऐम्_८,२.१४ /
SK
दध्नः स्यान् मूर्तिसामान्यात् / Jऐम्_८,२.१५ /
SK
पयो वा कालसामान्यात् / Jऐम्_८,२.१६ /
SK
पश्वानन्तर्यात् / Jऐम्_८,२.१७ /
SK
द्रवत्वं चाविशिष्टम् / Jऐम्_८,२.१८ /
SK
आमिक्षोभयभाव्यत्वाद् उभयविकारः स्यात् / Jऐम्_८,२.१९ /
SK
एकं वा चोदनैकत्वात् / Jऐम्_८,२.२० /
SK
दधिसंघातसामान्यात् / Jऐम्_८,२.२१ /
SK
पयो वा तत्प्रधानत्वाल् लोकवद् दध्नस् तदर्थत्वात् / Jऐम्_८,२.२२ /
SK
धर्मानुग्रहाच् च / Jऐम्_८,२.२३ /
SK
सत्रमहीनश् च द्वादशाहस् तस्योभयथा प्रवृत्तिर् ऐककर्म्यात् / Jऐम्_८,२.२४ /
SK
अपि वा यजतिश्रुतेर् अहीनभूतप्रवृत्तिः स्यात् प्रकृत्या तुल्य शब्दत्वात् / Jऐम्_८,२.२५ /
SK
द्विरात्रादीनाम् एकादशरात्राद् अहीनत्वं यजतिचोदनात् / Jऐम्_८,२.२६ /
SK
त्रयोदशरात्रादिषु सत्रभूतस् तेष्व् आसनोपायिचोदनात् / Jऐम्_८,२.२७ /
SK
लिङ्गाच् च / Jऐम्_८,२.२८ /
SK
अन्यतरतो ऽतिरात्रत्वात् पञ्चदशरात्रस्याहीनत्वं कुण्डपायिनामयनस्य च तद्भूतेष्व् अहीनत्वस्य दर्शनात् / Jऐम्_८,२.२९ /
SK
अहीनवचनाच् च / Jऐम्_८,२.३० /
SK
सत्रे वोपायिचोदनात् / Jऐम्_८,२.३१ /
SK
सत्रलिङ्गञ् च दर्शयति / Jऐम्_८,२.३२ /
SK
हविर्गणे परमुत्तरस्य देशसामान्यात् / Jऐम्_८,३.१ /
SK
देवतया वा नियम्येत शब्दत्त्वाद् इतरस्याश्रुतित्वात् / Jऐम्_८,३.२ /
SK
गणचोदनायां यस्य लिङ्गं तदावृत्तिः प्रतीयेताग्नेयवत् / Jऐम्_८,३.३ /
SK
नानाहानि वा संघातत्वात् प्रवृत्तिलिङ्गेन चोदनात् / Jऐम्_८,३.४ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_८,३.५ /
SK
कालाभ्यासे ऽपि बादरिः कर्मभेदात् / Jऐम्_८,३.६ /
SK
तदावृत्तिं तु जैमिनिर् अह्नाम् अप्रत्यक्षसंख्यत्वात् / Jऐम्_८,३.७ /
SK
संस्थागणेषु तदभ्यासः प्रतीयेत कृतलक्षणग्रहणात् / Jऐम्_८,३.८ /
SK
अधिकाराद् वा प्रकृतिस् तद्विशिष्टा स्याद् अभिधानस्य तन्निमित्तत्वात् / Jऐम्_८,३.९ /
SK
गणाद् उपचयस् तत्प्रकृतित्वात् / Jऐम्_८,३.१० /
SK
एकाहाद् वा तेषां समत्वात्स्यात् / Jऐम्_८,३.११ /
SK
गायत्रीषु प्राकृतीनाम् अवच्छेदः प्रकृत्याधिकारात् संख्यात्वाद् अग्निष्टोमवद् अव्यतिरेकात् तदाख्यत्वम् / Jऐम्_८,३.१२ /
SK
तन् नित्यवच् च प्रथक्सतीषु तद्वचनम् / Jऐम्_८,३.१३ /
SK
न विंशतौ दशेति चेत् / Jऐम्_८,३.१४ /
SK
ऐकसंख्यम् एव स्यात् / Jऐम्_८,३.१५ /
SK
गुणाद् वा द्रव्यशब्दः स्याद् असर्वविषयत्वात् / Jऐम्_८,३.१६ /
SK
गोत्ववच् च समन्वयः / Jऐम्_८,३.१७ /
SK
संख्यायाश् च शब्दत्वात् / Jऐम्_८,३.१८ /
SK
इतरस्याश्रुतित्वाच् च / Jऐम्_८,३.१९ /
SK
द्रव्यान्तरे ऽनिवेशाद् उक्थ्यलोपैर् विशिष्टं स्यात् / Jऐम्_८,३.२० /
SK
अशास्त्रलक्षणत्वाच् च / Jऐम्_८,३.२१ /
SK
उत्पत्तिनामधेयत्वाद् भत्तया पृथक्सतीषु स्यात् / Jऐम्_८,३.२२ /
SK
वचनमिति चेत् / Jऐम्_८,३.२३ /
SK
यावद् उक्तम् / Jऐम्_८,३.२४ /
SK
अपूर्वे च विकल्पः स्याद् यदि संख्याविधानम् / Jऐम्_८,३.२५ /
SK
ऋग्गुणत्वान् नेति चेत् / Jऐम्_८,३.२६ /
SK
तथा पूर्ववति स्यात् / Jऐम्_८,३.२७ /
SK
गुणावेशश् च सर्वत्र / Jऐम्_८,३.२८ /
SK
निष्पन्नग्रहणान् नेति चेत् / Jऐम्_८,३.२९ /
SK
तथेहापिस्यात् / Jऐम्_८,३.३० /
SK
यदि वाविशये नियमः प्रकृत्युपबन्धाच् छरेष्व् अपि प्रसिद्धः स्यात् / Jऐम्_८,३.३१ /
SK
दृष्टः प्रयोग इतिचेत् / Jऐम्_८,३.३२ /
SK
तथा शरेष्व् अपि / Jऐम्_८,३.३३ /
SK
भत्तयेति चेत् / Jऐम्_८,३.३४ /
SK
तथेतरस्मिन् / Jऐम्_८,३.३५ /
SK
अर्थस्य चासमाप्तत्वान् न तासाम् एकदेशे स्यात् / Jऐम्_८,३.३६ /
SK
दर्विहोमो यज्ञाभिधानं होमसंयोगात् / Jऐम्_८,४.१ /
SK
स लौकिकानां स्यात् कर्तुस् तदाख्यत्वात् / Jऐम्_८,४.२ /
SK
सर्वेषां वा दर्शनाद् वास्तुहोमे / Jऐम्_८,४.३ /
SK
जुहोतिचोदनानां वा तत्संयोगात् / Jऐम्_८,४.४ /
SK
द्रव्योपदेशाद् वा गुणाभिधानं स्यात् / Jऐम्_८,४.५ /
SK
न लौकिकानाम् आचारग्रहणत्वाच् छब्दवतां चान्यार्थविधानात् / Jऐम्_८,४.६ /
SK
दर्शनाच् चान्यपात्रस्य / Jऐम्_८,४.७ /
SK
तथाग्निहविषोः / Jऐम्_८,४.८ /
SK
उक्तश् चार्थसम्बन्धः / Jऐम्_८,४.९ /
SK
तस्मिन् सोमः प्रवर्तेताव्यक्तत्वात् / Jऐम्_८,४.१० /
SK
न वा स्वाहाकारेण संयोगाद् वाषट्कारस्य च निर्देशात् तन्त्रेतेन विप्रतिषेधात् / Jऐम्_८,४.११ /
SK
शब्दान्तरत्वात् / Jऐम्_८,४.१२ /
SK
लिङ्गदर्शनाच् च / Jऐम्_८,४.१३ /
SK
उत्तरार्थस् तु स्वाहाकारो यथा साप्तदश्यं तत्राविप्रतिषिद्धा पुनः प्रवृत्तिर् लिङ्गदर्शनात् पशुवत् / Jऐम्_८,४.१४ /
SK
अनुत्तरार्थो वार्थवत्त्वाद् आनर्थक्याद् धि प्राकृतस्योपरोधः स्यात् / Jऐम्_८,४.१५ /
SK
न प्रकृताव् अपीति चेत् / Jऐम्_८,४.१६ /
SK
उक्तं समवाये पारदौर्बल्यम् / Jऐम्_८,४.१७ /
SK
तच्चोदना वेष्टेः प्रवृत्तित्वाद् विधिः स्यात् / Jऐम्_८,४.१८ /
SK
शब्दसामर्थ्याच् च / Jऐम्_८,४.१९ /
SK
लिङ्गदर्शनाच् च / Jऐम्_८,४.२० /
SK
तत्राभावस्य हेतुत्वाद् गुणार्थे स्याद् अदर्शनम् / Jऐम्_८,४.२१ /
SK
विधिर् इति चेत् / Jऐम्_८,४.२२ /
SK
न वाक्यशेषत्वाद् गुणार्थे च समाधानं नानात्वेनोपपद्यते / Jऐम्_८,४.२३ /
SK
येषां वापरयोर् हेमस् तेषां स्याद् अविरोधात् / Jऐम्_८,४.२४ /
SK
तत्रौषधानि चोद्यन्ते तानि स्थानेन गम्येरन् / Jऐम्_८,४.२५ /
SK
लिङ्गाद् वा शेषहोमयोः / Jऐम्_८,४.२६ /
SK
प्रतिपत्ति तु ते भवतस् तस्माद् अताद्विकारत्वम् / Jऐम्_८,४.२७ /
SK
सन्निपाते विरोधिनाम् अप्रवृत्तिः प्रतीयेत विध्युत्पत्तिव्यवस्थानाद् अर्थस्यापरिणेयत्वाद् वचनाद् अतिदेशः स्यात् / Jऐम्_८,४.१८ /
SK
यज्ञकर्म प्रधानं तद् धि चोदनाभूतं तस्य द्रव्येषु संस्कारस् तत्प्रयुक्तस् तदर्थत्वात् / Jऐम्_९,१.१ /
SK
संस्कारे युज्यमानानां तादर्थ्यात् तत्प्रयुक्तं स्यात् / Jऐम्_९,१.२ /
SK
तेन त्वर्थेन यज्ञस्य संयोगाद् धर्मसम्बन्धस् तस्माद् यज्ञप्रयुक्तं स्यात् संस्कारस्य तदर्थत्वात् / Jऐम्_९,१.३ /
SK
फलदेवतयोश् च / Jऐम्_९,१.४ /
SK
न चोदनाती हि ताद्गुण्यम् / Jऐम्_९,१.५ /
SK
देवता वा प्रयोजयेद् अतिथिवद् भोजनस्य तदर्थत्वात् / Jऐम्_९,१.६ /
SK
अर्थापत्या च / Jऐम्_९,१.७ /
SK
ततश् च तेन सम्बन्धः / Jऐम्_९,१.८ /
SK
अपि वा शब्दपूर्वत्वाद् यज्ञकर्म प्रधानं स्याद् गुणत्वे देवताश्रुतिः / Jऐम्_९,१.९ /
SK
अतिथौ तत्प्रधानत्वम् अभावः कर्मणि स्यात् तस्य प्रीतिप्रधानत्वात् / Jऐम्_९,१.१० /
SK
द्रव्यसंख्याहेतुसमुदायं वा श्रुतिसंयोगात् / Jऐम्_९,१.११ /
SK
अर्थकारिते च द्रव्येण न व्यवस्था स्यात् / Jऐम्_९,१.१२ /
SK
अर्थो वा स्यात् प्रयोजनम् इतरेषाम् अचोदनात् तस्य च गुणभूतत्वात् / Jऐम्_९,१.१३ /
SK
अपूर्वत्वाद् व्यवस्था स्यात् / Jऐम्_९,१.१४ /
SK
तत्प्रयुक्तत्वे च धर्मस्य सर्वविषयत्वम् / Jऐम्_९,१.१५ /
SK
तद्युक्तस्येति चेत् / Jऐम्_९,१.१६ /
SK
नाश्रुतित्वात् / Jऐम्_९,१.१७ /
SK
अधिकाराद् इति चेत् / Jऐम्_९,१.१८ /
SK
तुल्येषु नाधिकारः स्याद् अचोदितश् च सम्बन्धः पृथक्सतां यज्ञार्थेनाभिसम्बन्धस् तस्माद्यज्ञप्रयोजनम् / Jऐम्_९,१.१९ /
SK
देशबद्धम् उपांशुत्वं तेषां स्याच् छ्रुतिनिर्देशात् तस्य च तत्रभावात् / Jऐम्_९,१.२० /
SK
यज्ञस्य वा तत्संयोगात् / Jऐम्_९,१.२१ /
SK
अनुवादश् च तदर्थवत् / Jऐम्_९,१.२२ /
SK
प्रणीतादि तथेति चेत् / Jऐम्_९,१.२३ /
SK
न यज्ञस्याश्रुतित्वात् / Jऐम्_९,१.२४ /
SK
तद्देशानां वा संघातस्य चोदितत्वात् / Jऐम्_९,१.२५ /
SK
अग्निधर्मः प्रतीष्टकं संघातात् पौर्णमासीवत् / Jऐम्_९,१.२६ /
SK
अग्नेर् वा स्याद् द्रव्यैकत्वाद् इतरासां तदर्थत्वात् / Jऐम्_९,१.२७ /
SK
चोदनासमुदायात् तु पौर्णमास्यां तथा स्यात् / Jऐम्_९,१.२८ /
SK
पत्नीसंयाजान्तत्वं सर्वेषाम् अविशेषात् / Jऐम्_९,१.२९ /
SK
लिङ्गाद् वा प्राग् उत्तमात् / Jऐम्_९,१.३० /
SK
अनुवादो वा दीक्षा यथा नक्तं संस्थापनस्य / Jऐम्_९,१.३१ /
SK
स्याद् वानारभ्य विधानाद् अन्ते लिङ्ग विरोधात् / Jऐम्_९,१.३२ /
SK
अभ्यासः सामिधेनीनां प्राथम्यात् स्थानधर्मः स्यात् / Jऐम्_९,१.३३ /
SK
इष्ट्यावृतौ प्रयाजवद् आवर्तेतारम्भणीया / Jऐम्_९,१.३४ /
SK
सकृद् वारम्भसंयोगाद् एकः पुनरारम्भो यावज्जीवप्रयोगात् / Jऐम्_९,१.३५ /
SK
अर्थाभिधानसंयोगान् मन्त्रेषु शेषभावः स्यात् तत्राचोदितम् अप्राप्तं चोदिताभिधानात् / Jऐम्_९,१.३६ /
SK
ततश् चावचनं तेषाम् इतरार्थं प्रयुज्यते / Jऐम्_९,१.३७ /
SK
गुणशब्दस् तथेति चेत् / Jऐम्_९,१.३८ /
SK
नसमवायात् / Jऐम्_९,१.३९ /
SK
चोदिते तु परार्थत्वाद् विधिवदविकारः स्यात् / Jऐम्_९,१.४० /
SK
विकारस् तत्प्रधाने स्यात् / Jऐम्_९,१.४१ /
SK
असंयोगात् तदर्थेषु तद्विशिष्टं प्रतीयेत / Jऐम्_९,१.४२ /
SK
कर्माभावाद् एवम् इति चेत् / Jऐम्_९,१.४३ /
SK
न परार्थत्वात् / Jऐम्_९,१.४४ /
SK
लिङ्गविशेषनिर्देशात् समानविधानेष्व् अप्राप्ता सारस्वती स्त्रीत्वात् / Jऐम्_९,१.४५ /
SK
पश्वभिधानाद् वा तद् धि चोदनाभूतं पुंविषयं पुनः पशुत्वम् / Jऐम्_९,१.४६ /
SK
विशेषो वा तदर्थनिर्देशात् / Jऐम्_९,१.४७ /
SK
पशुत्वं चैकशब्द्यात् / Jऐम्_९,१.४८ /
SK
यथोक्तं वा सन्निधानात् / Jऐम्_९,१.४९ /
SK
आम्नाताद् अन्यद् अधिकारे वचनाद् विकारः स्यात् / Jऐम्_९,१.५० /
SK
द्वैधं वा तुल्यहेतुत्वात् सामान्याद् विकल्पः स्यात् / Jऐम्_९,१.५१ /
SK
उपदेशाच् च साम्नः / Jऐम्_९,१.५२ /
SK
नियमो वा श्रुतिविशेषाद् इतरत् साप्तदश्यवत् / Jऐम्_९,१.५३ /
SK
अप्रगाणाच् छब्दान्यत्वे तथाभूतोपदेशः स्यात् / Jऐम्_९,१.५४ /
SK
यत्स्थाने वा तद्गीतिः स्यात् पदान्यत्वप्रधानत्वात् / Jऐम्_९,१.५५ /
SK
गानसंयोगाच् च / Jऐम्_९,१.५६ /
SK
वचनम् इति चेत् / Jऐम्_९,१.५७ /
SK
न तत्प्रधानत्वात् / Jऐम्_९,१.५८ /
SK
सामानि मन्त्रम् एके स्मृत्युपदेशाभ्याम् / Jऐम्_९,२.१ /
SK
तदुक्तदोषम् / Jऐम्_९,२.२ /
SK
कर्म वा विधिलक्षणम् / Jऐम्_९,२.३ /
SK
तादृग्द्रव्यं वचनात् पाकयज्ञवत् / Jऐम्_९,२.४ /
SK
तत्राविप्रतिषिद्धो द्रव्यान्तरे व्यतिरेकः प्रदेशश् च / Jऐम्_९,२.५ /
SK
शब्दार्थत्वात् तु नैवं स्यात् / Jऐम्_९,२.६ /
SK
परार्थत्वाच् च शब्दानाम् / Jऐम्_९,२.७ /
SK
असम्बन्धश् च कर्मणा शब्दयोः पृथगर्थत्वात् / Jऐम्_९,२.८ /
SK
संस्कारश् चाप्रकरणे ऽग्निवत्स्यात् प्रयुक्तत्वात् / Jऐम्_९,२.९ /
SK
अकार्यत्वाच् च शब्दानाम् अप्रयोगः प्रतीयेत / Jऐम्_९,२.१० /
SK
आश्रितत्वाच् च / Jऐम्_९,२.११ /
SK
प्रयुज्यत इति चेत् / Jऐम्_९,२.१२ /
SK
ग्रहणार्थं प्रयुज्येत / Jऐम्_९,२.१३ /
SK
तृचे स्याच् छ्रुतिनिर्देशात् / Jऐम्_९,२.१४ /
SK
शब्दार्थत्वाद् विकारस्य / Jऐम्_९,२.१५ /
SK
दर्शयति च / Jऐम्_९,२.१६ /
SK
वाक्यानां तु विभक्तत्वात् प्रतिशब्दं समाप्तिः स्यात् संस्कारस्य तदर्थत्वात् / Jऐम्_९,२.१७ /
SK
तथा चान्यार्थ दर्शनम् / Jऐम्_९,२.१८ /
SK
अनवानोपदेशश् च तद्वत् / Jऐम्_९,२.१९ /
SK
अभ्यासेनेतरा श्रुतिः / Jऐम्_९,२.२० /
SK
तदभ्यासः समासु स्यात् / Jऐम्_९,२.२१ /
SK
लिङ्गदर्शनाच् च / Jऐम्_९,२.२२ /
SK
नैमित्तिकं तूत्तरात्वम् आनन्तर्यात् प्रतीयेत / Jऐम्_९,२.२३ /
SK
ऐकार्थ्याच् च तदभ्यासः / Jऐम्_९,२.२४ /
SK
प्रागाथिकं तु / Jऐम्_९,२.२५ /
SK
स्वे च / Jऐम्_९,२.२६ /
SK
प्रगाथे च / Jऐम्_९,२.२७ /
SK
लिङ्गदर्शनाव्यतिरेतकाच् च / Jऐम्_९,२.२८ /
SK
अर्थैकत्वाद् विकल्पः स्यात् / Jऐम्_९,२.२९ /
SK
अर्थैकत्वाद् विकल्पः स्याद् ऋक्सामयोस् तदर्थत्वात् / Jऐम्_९,२.३० /
SK
वचनाद् विनियोगः स्यात् / Jऐम्_९,२.३१ /
SK
सामप्रदेशे विकारस् तदपेक्षः स्याच् छास्त्रकृत्वात् / Jऐम्_९,२.३२ /
SK
वर्णे तु वादरिर् यथाद्रव्यं द्रव्यव्यतिरेकात् / Jऐम्_९,२.३३ /
SK
स्तोभस्यैके द्रव्यान्तरे निवृत्तिम् ऋग्वत् / Jऐम्_९,२.३४ /
SK
सर्वातिदेशस् तु सामान्याल् लोकवद् विकारः स्यात् / Jऐम्_९,२.३५ /
SK
अन्वयञ् चापि दर्शयति / Jऐम्_९,२.३६ /
SK
निवृत्तिर् वार्थलोपात् / Jऐम्_९,२.३७ /
SK
अन्वयो वार्थवादः स्यात् / Jऐम्_९,२.३८ /
SK
अधिकञ् च विवर्णञ् च जैमिनिः स्तोभशब्दत्वात् / Jऐम्_९,२.३९ /
SK
धर्मस्यार्थकृतत्वाद् द्रव्यगुणविकारव्यतिक्रमप्रतिषेधे चोदनानुबन्धः समवायात् / Jऐम्_९,२.४० /
SK
तदुत्पत्तेस् तु निवृत्तिस् तत्कृतत्वात् स्यात् / Jऐम्_९,२.४१ /
SK
अवेश्येरन् वार्थवत्त्वात् संरकारस्य तदर्थत्वात् / Jऐम्_९,२.४२ /
SK
आख्या चैवं तदावेशाद् विकृतौ स्याद् अपूर्वत्वात् / Jऐम्_९,२.४३ /
SK
परार्थेन त्व् अर्थसामान्यं संस्कारस्य तदर्थत्वात् / Jऐम्_९,२.४४ /
SK
क्रियेरन् वार्थनिर्वृत्तेः / Jऐम्_९,२.४५ /
SK
एकार्थत्वाद् अविभागः स्यात् / Jऐम्_९,२.४६ /
SK
निर्देशाद् वा व्यवतिष्ठेरन् / Jऐम्_९,२.४७ /
SK
अप्राकृते तद्विकाराद् विरोधाद्यवतिष्ठेरन् / Jऐम्_९,२.४८ /
SK
उभयसाम्नि चैवम् एकार्थापत्तेः / Jऐम्_९,२.४९ /
SK
स्वार्थत्वाद् वा व्यवस्था स्यात् प्रकृतिवत् / Jऐम्_९,२.५० /
SK
पार्वणहोमयोस् त्व् अप्रवृत्तिः समुदायार्थसंयोगात् तदभीज्या हि / Jऐम्_९,२.५१ /
SK
कालस्येति चेत् / Jऐम्_९,२.५२ /
SK
नाप्रकरणत्वात् / Jऐम्_९,२.५३ /
SK
मन्त्रवर्णाच् च / Jऐम्_९,२.५४ /
SK
तदभावे ऽग्निवद् इति चेत् / Jऐम्_९,२.५५ /
SK
नाधिकारकत्वात् / Jऐम्_९,२.५६ /
SK
उभयोर् अविशेषात् / Jऐम्_९,२.५७ /
SK
यदभीज्या वा तद्विषयौ / Jऐम्_९,२.५८ /
SK
प्रयाजे ऽपीति चेत् / Jऐम्_९,२.५९ /
SK
नाचोदितत्वात् / Jऐम्_९,२.६० /
SK
प्रकृतौ यथोत्पत्तिवचनम् अर्थानां तथोत्तरस्यां ततौ तत्प्रकृतित्वात्वाद् अर्थे चाकार्यत्वात् / Jऐम्_९,३.१ /
SK
लिङ्गदर्शनाच् च / Jऐम्_९,३.२ /
SK
जातिनैमित्तिकं यथास्थानम् / Jऐम्_९,३.३ /
SK
अविकारम् एके ऽनार्षत्वात् / Jऐम्_९,३.४ /
SK
लिङ्गदक्शनाच् च / Jऐम्_९,३.५ /
SK
निकारो वातदुक्तहेतुः / Jऐम्_९,३.६ /
SK
लिङ्गं मन्त्रचिकीर्षार्थम् / Jऐम्_९,३.७ /
SK
नियमो वोभयभागित्वात् / Jऐम्_९,३.८ /
SK
लौकिके दोषसंयोगाद् अपवृक्ते हि चोद्यते निमित्तेन प्रकृतौ स्याद् अभागित्वात् / Jऐम्_९,३.९ /
SK
अन्यायस् त्व् अविकारेणा द्रष्टप्रतिघातित्वाद् अविशेषाच् च तेनास्य / Jऐम्_९,३.१० /
SK
विकारो वा तदर्थत्वात् / Jऐम्_९,३.११ /
SK
अपि त्व् अन्यायसम्बन्धात् प्रकृतिवत् परेष्व् अपि यथार्थं स्यात् / Jऐम्_९,३.१२ /
SK
यथार्थं त्व् अन्यायस्याचोदितत्वात् / Jऐम्_९,३.१३ /
SK
छन्दसि तु यथादृष्टम् / Jऐम्_९,३.१४ /
SK
विप्रतिपत्तौ विकल्पः स्यात् तत्सत्वाद् गुणे त्व् अन्यायकल्पनैकदेशत्वात् / Jऐम्_९,३.१५ /
SK
प्रकरणविशेषाच् च / Jऐम्_९,३.१६ /
SK
अर्थाभावात् तु नैवं स्याद् गुणमात्रम् इतरत् / Jऐम्_९,३.१७ /
SK
द्यावोस् तथेति चेत् / Jऐम्_९,३.१८ /
SK
नोत्पत्तिशब्दत्वात् / Jऐम्_९,३.१९ /
SK
अपूर्वे त्व् अविकारो ऽप्रदेशात् प्रतीयेत / Jऐम्_९,३.२० /
SK
विकृतौ चापि तद्वचनात् / Jऐम्_९,३.२१ /
SK
अध्रिगुः सवनीयेषु तद्वत् समानविधानाश् चेत् / Jऐम्_९,३.२२ /
SK
प्रतिनिधौ चाविकारात् / Jऐम्_९,३.२३ /
SK
अनाम्नानाद् अशब्दत्वम् अभावाच् चेतरस्य स्यात् / Jऐम्_९,३.२४ /
SK
तादर्थ्याद् वा तदाख्यं स्यात् संस्कारैर् अविशिष्टत्वात् / Jऐम्_९,३.२५ /
SK
उक्तञ् च तत्त्वम् अस्य / Jऐम्_९,३.२६ /
SK
संसर्गिषु चार्थस्यास्थितपरिमाणत्वात् / Jऐम्_९,३.२७ /
SK
लिङ्गदर्शनाच् च / Jऐम्_९,३.२८ /
SK
एकधेत्य् एकसंयोगाद् अभ्यासेनाभिधानं स्यात् / Jऐम्_९,३.२९ /
SK
अविकारो वा बहूनाम् एककर्मवत् / Jऐम्_९,३.३० /
SK
सकृत्त्वं चैकध्यं स्याद् एकत्वात् त्वचो ऽनभिप्रेतं तत्प्रकृतित्वात् परेष्व् अभ्यासेन विवृद्धाव् अभिधानां स्यात् / Jऐम्_९,३.३१ /
SK
मेधपतित्वं स्वामिदेवतस्य समवायात् सर्वत्र च प्रयुक्तत्वात् तस्याचान्यायनिगदत्वात् सर्वत्रैवाविकारः स्यात् / Jऐम्_९,३.३२ /
SK
अपि वा द्विसमवायो ऽर्थान्यत्वे यथासंख्यं प्रयोगः स्यात् / Jऐम्_९,३.३३ /
SK
स्वामिनो वैकशब्द्याद् उत्कर्षो देवतायां स्यात् पत्न्यां द्वितीयशब्दः स्यात् / Jऐम्_९,३.३४ /
SK
देवता तु तदाशीष्ट्वात् सम्प्राप्तत्वात् स्वामिन्य् अनर्थिका स्यात् / Jऐम्_९,३.३५ /
SK
उत्सर्गाच् च भक्त्या तस्मिन् पतित्वं स्यात् / Jऐम्_९,३.३६ /
SK
उत्कृष्येतैकसंयुक्तो द्विदेवते सम्भवात् / Jऐम्_९,३.३७ /
SK
एकस् तु समवायात् तस्य तल्लक्षणत्वात् / Jऐम्_९,३.३८ /
SK
संसर्गित्वाच् च तस्मात् तेन विकल्पः स्यात् / Jऐम्_९,३.३९ /
SK
एकत्वेपि गुणानपायात् / Jऐम्_९,३.४० /
SK
नियमो बहुदेवते विकारः स्यात् / Jऐम्_९,३.४१ /
SK
विकल्पो वा प्रकृतिवत् / Jऐम्_९,३.४२ /
SK
अर्थान्तरे विकारः स्याद् देवतापृथक्त्वाद् एकाभिसमवायात् स्यात् / Jऐम्_९,३.४३ /
SK
षड्विंशतिर् अभ्यासेन पशुगणे तत्प्रकृतित्वाद् गणस्य प्रविभक्तत्वाद् अविकारे हि तासाम् अकार्त्स्न्येनाभिसम्बन्धो विकारान् न समासः स्याद् असंयोगाच् च सर्वाभिः / Jऐम्_९,४.१ /
SK
अभ्यासे ऽपि तथेति चेत् / Jऐम्_९,४.२ /
SK
न गुणाद् अर्थकृतत्वाच् च / Jऐम्_९,४.३ /
SK
समासे ऽपि तथेति चेत् / Jऐम्_९,४.४ /
SK
नासम्भवात् / Jऐम्_९,४.५ /
SK
स्वाभिश् च वचनं प्रकृतौ तथेह स्यात् / Jऐम्_९,४.६ /
SK
वङ्क्रीणां तु प्रधानत्वात् समासेनाभिधानं स्यात् प्राधान्यम् अध्रिगोस् तदर्थत्वात् / Jऐम्_९,४.७ /
SK
तासां च कृत्स्नवचनात् / Jऐम्_९,४.८ /
SK
अपि त्व् असन्निपातित्वात् पत्नीवद् आम्नातेनाभिधानं स्यात् / Jऐम्_९,४.९ /
SK
विकारस् तु प्रदेशत्वाद् यजमानवत् / Jऐम्_९,४.१० /
SK
अपूर्वत्वात् तथा पत्न्याम् / Jऐम्_९,४.११ /
SK
अनाम्नातस् त्व् अविकारात् सङ्ख्यासु सर्वगामित्वात् / Jऐम्_९,४.१२ /
SK
सङ्खाया त्व् एवं प्रधानं स्याद् वङ्क्रयः पुनः प्रधानम् / Jऐम्_९,४.१३ /
SK
अनाम्नातवचनम् अवचनेन हि वङ्क्रीणां स्यान् निर्देशः / Jऐम्_९,४.१४ /
SK
अभ्यासो वाविकारात् स्यात् / Jऐम्_९,४.१५ /
SK
पशुस् त्व् एवं प्राधानं स्याद् अभ्यासस्य तन्निमित्तत्वात् तस्मात् समासशब्दः स्यात् / Jऐम्_९,४.१६ /
SK
अश्वस्य चतुस्त्रिंशत् तस्य वचनाद् वैशेषिकम् / Jऐम्_९,४.१७ /
SK
तत् प्रतिषिध्य प्रकृतिर् नियुज्यते सा चतुस्त्रिंशद्वाच्यत्वात् / Jऐम्_९,४.१८ /
SK
ऋग् वा स्याद् आम्नातत्वाद् अविकल्पश् च न्याय्यः / Jऐम्_९,४.१९ /
SK
तस्यां तु वचनाद् ऐरवत्पदविकारः स्यात् / Jऐम्_९,४.२० /
SK
सर्वप्रतिषेधो वासंयोगात् पदेन स्यात् / Jऐम्_९,४.२१ /
SK
वनिष्ठुसन्निधानाद् उरूकेण वपाभिधानम् / Jऐम्_९,४.२२ /
SK
प्रशसास्याभिधानम् / Jऐम्_९,४.२३ /
SK
बाहुप्रशंसा वा / Jऐम्_९,४.२४ /
SK
श्येन-शला-कश्यप-कवषस्त्रेकपर्णेष्व् आकृतिवचनं प्रसिद्धसन्निधानात् / Jऐम्_९,४.२५ /
SK
कार्त्स्न्यं वा स्यात् तथाभावात् / Jऐम्_९,४.२६ /
SK
अध्रिगोश् च तदर्थत्वात् / Jऐम्_९,४.२७ /
SK
प्रासङ्गिके प्रायश्चित्तं न विद्यते परार्थत्वात् तदर्थे हि विधीयते / Jऐम्_९,४.२८ /
SK
धारणे च परार्थत्वात् / Jऐम्_९,४.२९ /
SK
क्रियार्थत्वाद् इतरेषु कर्म स्यात् / Jऐम्_९,४.३० /
SK
न तूत्पन्ने यस्य चोदनाप्राप्तकालत्वात् / Jऐम्_९,४.३१ /
SK
प्रदानदर्शनं श्रपणे तद्धर्मभोजनार्थत्वात् संसर्गाच् च मधूदकवत् / Jऐम्_९,४.३२ /
SK
संस्कारप्रतिषेधश् च तद्वत् / Jऐम्_९,४.३३ /
SK
तत्प्रतिषेधे च तथाभूतस्य वर्जनात् / Jऐम्_९,४.३४ /
SK
अधर्मत्वम् अप्रदानात् प्रणीतार्थे विधानाद् अतुल्यत्वाद् असंसर्गः / Jऐम्_९,४.३५ /
SK
परो नित्यानुवादः स्यात् / Jऐम्_९,४.३६ /
SK
विहितप्रतिषेधो वा / Jऐम्_९,४.३७ /
SK
वर्जने गुणभावित्वात् तदुक्तप्रतिषेधात् स्यात् कारणात् केवलाशनम् / Jऐम्_९,४.३८ /
SK
व्रतधर्माच् च लेपवत् / Jऐम्_९,४.३९ /
SK
रसप्रतिषेधो वा पुरुषधर्मत्वात् / Jऐम्_९,४.४० /
SK
अभ्युदये दोहापनयः स्वधर्मा स्यात् प्रवृत्तत्वात् / Jऐम्_९,४.४१ /
SK
शृतोपदेशाच् च / Jऐम्_९,४.४२ /
SK
अपनयो वार्थान्तरे विधानाच् चरुपयोवत् / Jऐम्_९,४.४३ /
SK
लक्षणार्था शृतश्रुतिः / Jऐम्_९,४.४४ /
SK
श्रयणानां त्व् अपूर्वत्वात् प्रदानार्थे विधानं स्यात् / Jऐम्_९,४.४५ /
SK
गुणो वा श्रयणार्थत्वात् / Jऐम्_९,४.४६ /
SK
अनिर्देशाच् च / Jऐम्_९,४.४७ /
SK
श्रुतेश्च तत्प्रधानत्वत् / Jऐम्_९,४.४८ /
SK
अर्थवादश् च तदर्थत्वात् / Jऐम्_९,४.४९ /
SK
संस्कारं प्रति भावाच् च तस्माद् अप्य् अप्रधानम् / Jऐम्_९,४.५० /
SK
पर्यग्निकृतानाम् उत्सर्गे तादर्थ्यम् उपधानवत् / Jऐम्_९,४.५१ /
SK
शेषप्रतिषेधो वार्थाभावाद् इडान्तवत् / Jऐम्_९,४.५२ /
SK
पूर्वत्वाच् च शब्दस्य संस्थापयतीति चाप्रबृत्तेनोपपद्यते / Jऐम्_९,४.५३ /
SK
प्रबृत्तेर् यज्ञहेतुत्वात् प्रतिषेधे संस्काराणाम् अकर्म स्यात् तत्कारितत्वाद् यथा प्रयाजप्रतिषेधे ग्रहणम् आज्यस्य / Jऐम्_९,४.५४ /
SK
क्रिया वा स्याद् अवच्छेदाद् अकर्म सर्वहानं स्यात् / Jऐम्_९,४.५५ /
SK
आज्यसंस्थाप्रतिनिधिः स्याद् द्रव्योत्सर्गात् / Jऐम्_९,४.५६ /
SK
समाप्तिवचनात् / Jऐम्_९,४.५७ /
SK
चोदना वा कर्मोत्सर्गाद् अन्यैः स्याद् अविशिष्टत्वात् / Jऐम्_९,४.५८ /
SK
अनिज्यां च वनस्पतेः प्रसिद्धान्तेन दर्शयति / Jऐम्_९,४.५९ /
SK
संस्था तद्देवतत्वात् स्यात् / Jऐम्_९,४.६० /
SK
विधेः प्रकरणान्तरे ऽतिदेशात् सर्वकर्म स्यात् / Jऐम्_१०,१.१ /
SK
अपि वाभिधानसंस्कारद्रव्यम् अर्थे क्रियेत तादर्थ्यात् / Jऐम्_१०,१.२ /
SK
तेषाम् अप्रत्यक्षविशिष्टत्वात् / Jऐम्_१०,१.३ /
SK
इष्ठिर् आरम्भसंयोगाद् अङ्गभूतान् निवर्तेतारमभस्य प्रधानसंयोगात् / Jऐम्_१०,१.४ /
SK
प्रधानाच् चान्यसंयुक्तात् सर्वारम्भान् निवर्तेतानङ्गत्वात् / Jऐम्_१०,१.५ /
SK
तस्यां तु स्यात् प्रयाजवत् / Jऐम्_१०,१.६ /
SK
न वाङ्गभूतत्वात् / Jऐम्_१०,१.७ /
SK
एकवाक्यत्वाच् च / Jऐम्_१०,१.८ /
SK
कर्म च द्रव्यसंयोगार्थम् अर्थाभावान् निवर्तेत तादर्थ्यं श्रुतिसंयोगात् / Jऐम्_१०,१.९ /
SK
स्थाणौ तु देशमात्रत्वाद् अनिबृत्तिः प्रतीयेत / Jऐम्_१०,१.१० /
SK
अपि वा शेषभूतत्वात् संस्कारः प्रतीयेत / Jऐम्_१०,१.११ /
SK
समाख्यानं च तद्वत् / Jऐम्_१०,१.१२ /
SK
मन्त्रवर्णश् च तद्वत् / Jऐम्_१०,१.१३ /
SK
प्रयाजे च तन्न्यायत्वात् / Jऐम्_१०,१.१४ /
SK
लिङ्गदर्शनाच् च / Jऐम्_१०,१.१५ /
SK
तथाज्यभागाग्निर् अपीति चेत् / Jऐम्_१०,१.१६ /
SK
व्यपदेशाद् देवतान्तरम् / Jऐम्_१०,१.१७ /
SK
समत्वाच् च / Jऐम्_१०,१.१८ /
SK
पशावपीति चेत् / Jऐम्_१०,१.१९ /
SK
न तदभूतवचनात् / Jऐम्_१०,१.२० /
SK
लिङ्गदर्शनाच् च / Jऐम्_१०,१.२१ /
SK
गुणो वा स्यात् कपालवद् गुणभूतविकाराच् च / Jऐम्_१०,१.२२ /
SK
अपि वा शेषभूतत्वात् तत्संस्कारः प्रतीयेत स्वाहाकारवद् अङ्गानाम् अर्थसंयोगात् / Jऐम्_१०,१.२३ /
SK
व्यृद्धवचनञ् च विप्रतिपत्तौ तदर्थत्वात् / Jऐम्_१०,१.२४ /
SK
गुणेपीति चेत् / Jऐम्_१०,१.२५ /
SK
नासंहानात् करालवत् / Jऐम्_१०,१.२६ /
SK
ग्रहाणाञ् च सम्प्रतिपत्तौ तद्वचनं तदर्त्वात् / Jऐम्_१०,१.२७ /
SK
ग्रहाभावे च तद्वचनम् / Jऐम्_१०,१.२८ /
SK
देवतायाश् च हेतुत्वं प्रसिद्धं तेन दर्शयति / Jऐम्_१०,१.२९ /
SK
अविरुद्धोपपत्तिर् अर्थापत्तेः शृतवद् भूतविकारः स्यात् / Jऐम्_१०,१.३० /
SK
स द्व्यर्थः स्याद् उभयोः श्रुतिभूतत्वाद् विप्रतिपत्तौ तादर्थ्याद् विकारत्वम् उक्तं तस्यार्थवादत्वम् / Jऐम्_१०,१.३१ /
SK
विप्रतिपत्तौ तासाम् आख्याविकारः स्यात् / Jऐम्_१०,१.३२ /
SK
अभ्यासो वा प्रयाजवद् एकदेशो ऽन्यदेवत्यः / Jऐम्_१०,१.३३ /
SK
चरुर् हविर्विकारः स्याद् इज्यासंयोगात् / Jऐम्_१०,१.३४ /
SK
प्रसिद्धग्रहणत्वाच् च / Jऐम्_१०,१.३५ /
SK
ओदनो वान्नसंयोगात् / Jऐम्_१०,१.३६ /
SK
न द्व्यर्थत्वात् / Jऐम्_१०,१.३७ /
SK
कपालविकारो वा विशये ऽर्थोपपत्तिभ्याम् / Jऐम्_१०,१.३८ /
SK
गुणमुख्यविशेषाच् च / Jऐम्_१०,१.३९ /
SK
तच्छ्रुतौ चान्यहविष्ठ्वात् / Jऐम्_१०,१.४० /
SK
लिङ्गदर्शनाच् च / Jऐम्_१०,१.४१ /
SK
ओदनो वा प्रयुक्तत्वात् / Jऐम्_१०,१.४२ /
SK
अपूर्वव्यपदेशाच् च / Jऐम्_१०,१.४३ /
SK
तथा च लिङ्गदर्शनम् / Jऐम्_१०,१.४४ /
SK
स कपाले प्रकृत्या स्याद् अन्यस्य चाश्रुतित्वात् / Jऐम्_१०,१.४५ /
SK
एकस्मिन् वा विप्रतिषेधात् / Jऐम्_१०,१.४६ /
SK
न वार्थान्तरसंयोगाद् अपूपे पाकसंयुक्तं धारणार्थं चरौ भवति तत्रार्थात् पात्रलाभः स्याद् अनियमो ऽविशेषात् / Jऐम्_१०,१.४७ /
SK
चरौ वा लिङ्गदर्शनात् / Jऐम्_१०,१.४८ /
SK
तस्मिन् पेषणम् अनर्थलोपात् स्यात् / Jऐम्_१०,१.४९ /
SK
अक्रिया वा अपूपहेतुत्वात् / Jऐम्_१०,१.५० /
SK
पिण्डार्थत्वाच् च संयवनम् / Jऐम्_१०,१.५१ /
SK
संवपनञ् च तादर्थ्यात् / Jऐम्_१०,१.५२ /
SK
सन्तापनम् अधःश्रपणात् / Jऐम्_१०,१.५३ /
SK
उपधानं च तादर्थ्यात् / Jऐम्_१०,१.५४ /
SK
पृथुश्लक्ष्णे वानपूपत्वात् / Jऐम्_१०,१.५५ /
SK
अभ्यूहश् चोपरिपाकार्थत्वात् / Jऐम्_१०,१.५६ /
SK
तथावज्वलनम् / Jऐम्_१०,१.५७ /
SK
व्युद्धृत्यासादनं च प्रकृतावश्रुतित्वात् / Jऐम्_१०,१.५८ /
SK
कृष्णलेष्वर्थलोपाकः स्यात् / Jऐम्_१०,२.१ /
SK
स्याद् वा प्रत्यक्षशिष्टत्वात् प्रदानवत् / Jऐम्_१०,२.२ /
SK
उपस्तरणाभिघारणयोर् अमृतार्थत्वाद् अकर्म स्यात् / Jऐम्_१०,२.३ /
SK
क्रियेत वार्थवादत्वात् तयोः संसर्गहेतुत्वात् / Jऐम्_१०,२.४ /
SK
अकर्म वा चतुर्भिर् आप्तिवचनात् सह पूर्णं पुनश् चतुरवत्तम् / Jऐम्_१०,२.५ /
SK
क्रिया वा मुख्यावदानपरिमाणात् सामन्यात् तद्गुणत्वम् / Jऐम्_१०,२.६ /
SK
तेषां चैकावदानत्वात् / Jऐम्_१०,२.७ /
SK
आप्तिः संख्या समानत्वात् / Jऐम्_१०,२.८ /
SK
सतोस् त्व् आप्तिवचनं व्यर्थम् / Jऐम्_१०,२.९ /
SK
विकल्पस् त्व् एकावदानत्वात् / Jऐम्_१०,२.१० /
SK
सर्वविकारे त्व् अभ्यसानर्थक्यं हविषो हीतरस्य स्याद् अपि वा स्विष्टकृतः स्याद् इतरस्यान्याय्यत्वात् / Jऐम्_१०,२.११ /
SK
अकर्म वा संसर्गार्थनिवृत्तत्वात् तस्माद् आप्तिसमर्थत्वं / Jऐम्_१०,२.१२ /
SK
भक्षाणां तु प्रत्यर्थत्वाद् अकर्म स्यात् / Jऐम्_१०,२.१३ /
SK
स्याद् वा निर्धानदर्शनात् / Jऐम्_१०,२.१४ /
SK
वचनं वाज्यभक्षस्य प्रकृतौ स्याद् अभागित्वात् / Jऐम्_१०,२.१५ /
SK
वचनं वा हिरण्यस्य प्रदानवदाज्यस्य गुणभूतत्वात् / Jऐम्_१०,२.१६ /
SK
एकधोपहारे सहत्वं ब्रह्मभक्षाणां प्रकृतौ विहितत्वात् / Jऐम्_१०,२.१७ /
SK
सर्वत्वं च तेषाम् अधिकारात् स्यात् / Jऐम्_१०,२.१८ /
SK
पुरुषापनयो वा तेषाम् अवाच्यत्वात् / Jऐम्_१०,२.१९ /
SK
पुरुषापनयात् स्वकालत्वम् / Jऐम्_१०,२.२० /
SK
एकार्थत्वाद् अविभागः स्यात् / Jऐम्_१०,२.२१ /
SK
ऋत्विग्दानं धर्ममात्रार्थं स्याद् ददातिसामर्थ्यात् / Jऐम्_१०,२.२२ /
SK
परिक्रयार्थं वा कर्मसंयोगाल् लोकवत् / Jऐम्_१०,२.२३ /
SK
दक्षिणायुक्तवचनाच् च / Jऐम्_१०,२.२४ /
SK
नचान्येनानम्येत परिक्रीयात् कर्मणः परार्थत्वात् / Jऐम्_१०,२.२५ /
SK
परिक्रीतवचनाच् च / Jऐम्_१०,२.२६ /
SK
सनिवन्येव भृति वचनात् / Jऐम्_१०,२.२७ /
SK
नैष्कर्तृकेण संस्तवाच् च / Jऐम्_१०,२.२८ /
SK
शेषभक्षाश् च तद्वत् / Jऐम्_१०,२.२९ /
SK
संस्कारो वा द्रव्यस्य परार्थत्वात् / Jऐम्_१०,२.३० /
SK
शेषे च समत्वात् / Jऐम्_१०,२.३१ /
SK
स्वामिनि त दर्शनात् तत्सामान्याद् इतरेषान्तथात्वम् / Jऐम्_१०,२.३२ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_१०,२.३३ /
SK
वरणमृत्विजामानमनार्थत्वात् सत्रे न स्यात् स्वकर्मत्वात् / Jऐम्_१०,२.३४ /
SK
परिक्रयश् च तादर्थ्यात् / Jऐम्_१०,२.३५ /
SK
प्रतिषेधश् च कर्मवत् / Jऐम्_१०,२.३६ /
SK
स्याद् वा प्रासर्पिकस्य धर्ममात्रत्वात् / Jऐम्_१०,२.३७ /
SK
न दक्षिणाशब्दात् तस्मान् नित्यानुवादः स्यात् / Jऐम्_१०,२.३८ /
SK
उदवसानीयः सत्रधर्मा स्यात् तदङ्गत्वात् तत्र दाने धर्ममात्रं स्यात् / Jऐम्_१०,२.३९ /
SK
न त्व् एतत् प्रकृतित्वाद् विभक्तचोदितत्वाच् च / Jऐम्_१०,२.४० /
SK
तेषां तु वचनाद् द्वियज्ञवत्सहप्रयोगः स्यात् / Jऐम्_१०,२.४१ /
SK
तत्रान्यान् ऋत्विजो वृणीरन् / Jऐम्_१०,२.४२ /
SK
एकैकशस् त्व् अविप्रतिषेधात् प्रकृतेश् चैकसंयोगात् / Jऐम्_१०,२.४३ /
SK
कामेष्टौ च दानशब्दात् / Jऐम्_१०,२.४४ /
SK
वचनं वा सत्रत्वात् / Jऐम्_१०,२.४५ /
SK
द्वेष्ये च चोदनाद् दक्षिणापनयात् / Jऐम्_१०,२.४६ /
SK
अस्थियज्ञो ऽविप्रतिषेधाद् इतरेषां स्याद् विप्रतिषेधाद् अस्थ्नाम् / Jऐम्_१०,२.४७ /
SK
यावादुक्तम् उपयोगः स्यात् / Jऐम्_१०,२.४८ /
SK
यदि तु वचनात् तेषां जपसंस्कारम् अर्थलुप्तं सेष्टि तदर्थत्वात् / Jऐम्_१०,२.४९ /
SK
क्रत्वर्थं तु क्रियेत गुणभूतत्वात् / Jऐम्_१०,२.४९* /
SK
काम्यानि तु न विद्यन्ते कामा ज्ञानाद् यथेतरस्यानुच्यमानानि / Jऐम्_१०,२.५० /
SK
ईहार्थाश् चाभावात् सूक्तवाकवत् / Jऐम्_१०,२.५१ /
SK
स्युर् वार्थवादत्वात् / Jऐम्_१०,२.५२ /
SK
नेच्छाभिधानात् तदभावाद् इतरस्मिन् / Jऐम्_१०,२.५३ /
SK
स्युर् वा होतृकामाः / Jऐम्_१०,२.५४ /
SK
न तदाषीष्ट्वात् / Jऐम्_१०,२.५५ /
SK
सर्वस्वारस्य दिष्टगतौ समापनं न विद्यते कर्मणो जीवसंयोगात् / Jऐम्_१०,२.५६ /
SK
स्याद् वोभयोः प्रत्क्षशिष्टत्वात् / Jऐम्_१०,२.५७ /
SK
गते करमास्थियज्ञवत् / Jऐम्_१०,२.५८ /
SK
जीवत्य् अवचनम् आयुर् आशिषस् तदर्थत्वात् / Jऐम्_१०,२.५९ /
SK
वचनं वा भागित्वात् प्राग्यथोक्तात् / Jऐम्_१०,२.६० /
SK
क्रिया स्याद् धर्ममात्राणाम् / Jऐम्_१०,२.६१ /
SK
गुणलोपे च मुख्यस्य / Jऐम्_१०,२.६२ /
SK
मुष्टिलोपात् तु संख्यालोपस् तद्गुणत्वात् स्यात् / Jऐम्_१०,२.६३ /
SK
न निर्वापशेषत्वात् / Jऐम्_१०,२.६४ /
SK
संख्या तु चोदनां प्रति सामान्यात् तद्विकारः संयोगाच् च परं मुष्ठेः / Jऐम्_१०,२.६५ /
SK
न चोदनाभिसम्बन्धात् प्रक्रतौ संस्कारयोगात् / Jऐम्_१०,२.६६ /
SK
औत्पत्तिके तु द्रव्यतो विकारः स्याद् अकार्यात्वात् / Jऐम्_१०,२.६७ /
SK
नैमित्तिके तु कार्यत्वात् प्रकृतेः स्यात् तदापत्तेः / Jऐम्_१०,२.६८ /
SK
विप्रतिषेधे तद्वचनात् प्राकृतगुणलोपः स्यात् तेन च कर्मसंयोगात् / Jऐम्_१०,२.६९ /
SK
परेषां प्रतिषेधः स्यात् / Jऐम्_१०,२.७० /
SK
प्रतिषेधाच् च / Jऐम्_१०,२.७१ /
SK
अर्थाभावे संस्कारत्वं स्यात् / Jऐम्_१०,२.७२ /
SK
अर्थेन च विपर्यासे तादर्यात्तत्त्वमेव स्यात् / Jऐम्_१०,२.७३ /
SK
विकृतौ शब्दवत्त्वात् प्रधानस्य गुणानाम् अधिकोत्पत्तिः सन्निधानात् / Jऐम्_१०,३.१ /
SK
प्रकृतिवत् तस्य चानुपरोधः / Jऐम्_१०,३.२ /
SK
चोदनाप्रभुत्वाच् च / Jऐम्_१०,३.३ /
SK
प्रधानं त्व् अङ्गसंयुक्तं तथाभूतम् अपूर्वं स्यात् तस्य विध्युपलक्षणात् सर्वो हि पूर्ववान् विधिर् अविशेषात् प्रवर्तितः / Jऐम्_१०,३.४ /
SK
न चाङ्गविधिर् अनङ्गे स्यात् / Jऐम्_१०,३.५ /
SK
कर्मणश् चैकशब्द्यात् सन्निधाने विधेर् आख्यासंयोगो गुणेन तद्विकारः स्याच् छब्दस्य विधिगामित्वाद् गुणस्य चोपदेश्यत्वात् / Jऐम्_१०,३.६ /
SK
अकार्यत्वाच् च नाम्नः / Jऐम्_१०,३.७ /
SK
तुल्या च प्रभुता गुणे / Jऐम्_१०,३.८ /
SK
सर्वम् एवं प्रधानम् इति चेत् / Jऐम्_१०,३.९ /
SK
तथाभूतेन संयोगाद् यथार्थविधयः स्युः / Jऐम्_१०,३.१० /
SK
विधित्वं चाविशिष्ठम् एवं प्राकृतानां वैकृतैः कर्मणायोगात् तस्मात् सर्वं प्रधानार्थम् / Jऐम्_१०,३.११ /
SK
समत्वाच् च तदुत्पत्तेः संस्कारैर् अधिकारः स्यात् / Jऐम्_१०,३.१२ /
SK
हिरण्यगर्भः पूर्वस्य मन्त्रलिङ्गात् / Jऐम्_१०,३.१३ /
SK
प्रकृत्यनुपरोधाच् च / Jऐम्_१०,३.१४ /
SK
उत्तरस्य वा मन्त्रार्थित्वात् / Jऐम्_१०,३.१५ /
SK
विध्यतिदेशात् तच्छ्रुतौ विकारः स्याद् गुणानाम् उपदेश्यत्वात् / Jऐम्_१०,३.१६ /
SK
पूर्वस्मिंश् चामन्त्रत्वदर्शनात् / Jऐम्_१०,३.१७ /
SK
संस्कारे तु क्रियान्तर तस्य विधायकत्वात् / Jऐम्_१०,३.१८ /
SK
प्रकृत्यनुपरोधाच् च / Jऐम्_१०,३.१९ /
SK
विधेस् तु तत्र भावात् सन्देहे यस्य शब्दस् तदर्थः स्यात् / Jऐम्_१०,३.२० /
SK
संस्कारसामर्थ्याद् गुणसंयोगाच् च / Jऐम्_१०,३.२१ /
SK
विप्रतिषेधात् क्रियाप्रकरणे स्यात् / Jऐम्_१०,३.२२ /
SK
षड्भिर् दीक्षयतीति तासां मन्त्रविकारः श्रुतिसंयोगात् / Jऐम्_१०,३.२३ /
SK
अभ्यासात् तु प्रधानस्य / Jऐम्_१०,३.२४ /
SK
आवृत्त्या मन्त्रकर्म स्यात् / Jऐम्_१०,३.२५ /
SK
अपि वा प्रतिमन्त्रत्वात् प्राकृतानाम् अहानिः स्याद् अन्यायश् च कृते ऽभ्यासः / Jऐम्_१०,३.२६ /
SK
पौर्वापर्यञ्चाभ्यासे नोपपद्यते नैमित्तिकत्वात् / Jऐम्_१०,३.२७ /
SK
तत्प्रथक्त्वं च दर्शयति / Jऐम्_१०,३.२८ /
SK
न चाविशेषाद् व्यपदेशः स्यात् / Jऐम्_१०,३.२९ /
SK
अग्न्याधेयस्य नैमित्तिके गुणविकारे दक्षिणादानम् अधिकं स्याद् वाक्यसंयोगात् / Jऐम्_१०,३.३० /
SK
शिष्ठत्वाच् चेतरासां यथास्थानम् / Jऐम्_१०,३.३१ /
SK
विकारस् त्व् अप्रकरणे हि काम्यानि / Jऐम्_१०,३.३२ /
SK
शङ्कते च निवृत्तेर् उभयत्वं हि श्रूयते / Jऐम्_१०,३.३३ /
SK
वासो वत्सञ् च सामान्यात् / Jऐम्_१०,३.३४ /
SK
अर्थापत्तेस् तद्धर्माः स्यान् निमित्ताख्याभिसंयोगात् / Jऐम्_१०,३.३५ /
SK
दाने पाको ऽर्थलक्षणः / Jऐम्_१०,३.३६ /
SK
पाकस्थ चान्नकारित्त्वात् / Jऐम्_१०,३.३७ /
SK
तथाभिघारणस्य / Jऐम्_१०,३.३८ /
SK
द्रव्यविधिसन्निधौ सङ्ख्या तेषां गुणत्वात् स्यात् / Jऐम्_१०,३.३९ /
SK
समत्वात् तु गुणानाम् एकस्य श्रुतिसंयोगात् / Jऐम्_१०,३.४० /
SK
यस्य वा सन्निधाने स्याद् वाक्यतो ह्य् अभिसम्बन्धः / Jऐम्_१०,३.४१ /
SK
असंयुक्तास् तु तुल्यवद् इतराभिर् विधीयन्ते तस्मात् सर्वाधिकारः स्यात् / Jऐम्_१०,३.४२ /
SK
असंयोगाद् विधिश्रुताव् एकजाताधिकारः स्याच् छ्रुत्याकोपात् क्रतोः / Jऐम्_१०,३.४३ /
SK
शब्दार्थश् चापि लोकवत् / Jऐम्_१०,३.४४ /
SK
सापशूनाम् उत्पत्तितो विभागात् / Jऐम्_१०,३.४५ /
SK
अनियमो ऽविशेषात् / Jऐम्_१०,३.४६ /
SK
भागित्वाद् वा गवां स्यात् / Jऐम्_१०,३.४७ /
SK
प्रत्ययात् / Jऐम्_१०,३.४८ /
SK
लिङ्गदर्शनाच् च / Jऐम्_१०,३.४९ /
SK
तत्र दानं विभागेन प्रदानानां पृथक्त्वात् / Jऐम्_१०,३.५० /
SK
परिक्रयाच् च लोकवत् / Jऐम्_१०,३.५१ /
SK
विभागं चापि दर्शयति / Jऐम्_१०,३.५२ /
SK
समं स्याद् अश्रुतित्वात् / Jऐम्_१०,३.५३ /
SK
अपि वा कर्मवैषम्यात् / Jऐम्_१०,३.५४ /
SK
अतुल्याः स्युः परिक्रये विषमाख्या विधिश्रुतौ परिक्रयान् न कर्मण्य् उपपद्यते दर्शनाद् विशेषस्य तथाभ्युदये / Jऐम्_१०,३.५५ /
SK
तस्य धेनुर् इति गवां प्रकृतौ विभक्तचोदितत्वात् सामान्यात् तद्विकारः स्याद् यथेष्टिर् गुणशब्देन / Jऐम्_१०,३.५६ /
SK
सर्वस्य वा क्रतुसंयोगाद् एकत्वं दक्षिणार्थस्य गुणानां कार्यैकत्वाद् अर्थे विकृतौ श्रुतिभूतं स्यात् तस्मात् समवायाद् धि कर्मभिः / Jऐम्_१०,३.५७ /
SK
चोदनानाम् अनाश्रयाल् लिङ्गेन नियमः स्यात् / Jऐम्_१०,३.५८ /
SK
एका पञ्चेति धेनुवत् / Jऐम्_१०,३.५९ /
SK
त्रिवत्सश् च / Jऐम्_१०,३.६० /
SK
तथा च लिङ्गदर्शनम् / Jऐम्_१०,३.६१ /
SK
एके तु श्रुतिभूतत्वात् सङ्ख्यया गवां लिङ्गविशेषेण / Jऐम्_१०,३.६२ /
SK
प्राकाशौ तथेति चेत् / Jऐम्_१०,३.६३ /
SK
अपि त्व् अवयवार्थत्वाद् विभक्तप्रकृतित्वाद् गुणेदन्ताविकारः स्यात् / Jऐम्_१०,३.६४ /
SK
धेनुवच् चाश्वदक्षिणा स ब्रह्मण इति पुरुषापनयो यथा हिरण्यस्य / Jऐम्_१०,३.६५ /
SK
एके तु कर्तृसंयोगात् स्रग्वत् तस्य लिङ्गविशेषेण / Jऐम्_१०,३.६६ /
SK
अपि वा तदधिकाराद् धिरण्यवद् विकारः स्यात् / Jऐम्_१०,३.६७ /
SK
तथा च सोमचमसः / Jऐम्_१०,३.६८ /
SK
सर्वविकारो वा क्रत्वर्थे प्रतिषेधात् पशूनां / Jऐम्_१०,३.६९ /
SK
ब्रह्मदाने ऽविशिष्टम् इति चेत् / Jऐम्_१०,३.७० /
SK
उत्सर्गस्य क्रत्वर्थत्वात् प्रतिषिद्धस्य कर्म स्यान्न् अ च गौणः प्रयोजनम् अर्थः स दक्षिणानां स्यात् / Jऐम्_१०,३.७१ /
SK
यदि तु ब्रह्मणस् तदूनं तद्विकारः स्यात् / Jऐम्_१०,३.७२ /
SK
सर्वं वा पुरुषापनयात् तासां क्रतुप्रधानत्वात् / Jऐम्_१०,३.७३ /
SK
यजुर्युक्ते ऽध्वर्योर् दक्षिणा विकारः स्यात् / Jऐम्_१०,३.७४ /
SK
अपि वा श्रुतिभूतत्वात् सर्वासां तस्य भागो नियम्यते / Jऐम्_१०,३.७५ /
SK
प्रकृतिलिङ्गासंयागात् कर्मसंस्कारं विकृतावधिकं स्यात् / Jऐम्_१०,४.१ /
SK
चोदनालिङ्गसंयोगे तद्विकारः प्रतीयेत प्रकृतिसन्निधानात् / Jऐम्_१०,४.२ /
SK
सर्वत्र तु ग्रहाम्नानम् अधिकं स्यात् प्रकृतिवत् / Jऐम्_१०,४.३ /
SK
अधिकैश् चैकवाक्यत्वात् / Jऐम्_१०,४.४ /
SK
लिङ्गदर्शनाच् च / Jऐम्_१०,४.५ /
SK
प्राजापत्येषु चाम्नानात् / Jऐम्_१०,४.६ /
SK
आमने लिङ्गदर्शनात् / Jऐम्_१०,४.७ /
SK
उपगेषु शरवत् स्यात् प्रकृतिलिङ्गसयोगात् / Jऐम्_१०,४.८ /
SK
आनर्थक्यात् त्व् अधिकं स्यात् / Jऐम्_१०,४.९ /
SK
संस्कारे चान्यसंयोगात् / Jऐम्_१०,४.१० /
SK
प्रयाजवद् इति चेत् / Jऐम्_१०,४.११ /
SK
नार्थान्यत्वात् / Jऐम्_१०,४.१२ /
SK
आच्छादने त्व् ऐकार्थ्यात् प्राकृतस्य विकारः स्यात् / Jऐम्_१०,४.१३ /
SK
अधिकं वान्यार्थत्वात् / Jऐम्_१०,४.१४ /
SK
समुच्चयं च दर्शयति / Jऐम्_१०,४.१५ /
SK
सामस्वर्थान्तरश्रुतेर् अविकारः प्रतीयेत / Jऐम्_१०,४.१६ /
SK
अर्थे त्व् अश्रूयमाणे शेषत्वात् प्राकृतस्य विकारः स्यात् / Jऐम्_१०,४.१७ /
SK
सर्वेषाम् अविशेषात् / Jऐम्_१०,४.१८ /
SK
एकस्या वा श्रुतिसामर्थ्यात् प्रकृतेश् चाविकारात् / Jऐम्_१०,४.१९ /
SK
स्तोमविबृद्धौ त्व् अधिकं स्याद् अविबृद्धौ द्रव्यविकारः स्याद् इतरस्याश्रुतित्वाच् च / Jऐम्_१०,४.२० /
SK
पवमाने स्यातां तस्मिन्न् आवापोद्वापदर्शनात् / Jऐम्_१०,४.२१ /
SK
वचनानि त्व् अपूर्वत्वात् / Jऐम्_१०,४.२२ /
SK
विधिशब्दस्य मन्त्रत्वे भावः स्यात् तेन चोदना / Jऐम्_१०,४.२३ /
SK
शेषाणां वा चोदनैकत्वात् तस्मात् सर्वत्र श्रूयते / Jऐम्_१०,४.२४ /
SK
तथोत्तरस्यां ततौ तत्प्रकृतित्वात् / Jऐम्_१०,४.२५ /
SK
प्राकृतस्य गुणश्रुतौ सगुणेनाभिधानं स्यात् / Jऐम्_१०,४.२६ /
SK
अविकारो वार्थशब्दानपायात् स्याद् द्रव्यवत् / Jऐम्_१०,४.२७ /
SK
तथारम्भासमवायाद् वा चोदितेनाभिधानं स्याद् अर्थस्य श्रुतिसमवायित्वाद् अवचने च गुणशास्त्रम् अनर्थकं स्यात् / Jऐम्_१०,४.२८ /
SK
द्रव्येष्व् आरम्भगामित्वाद् अर्थे विकारः सामर्थ्यात् / Jऐम्_१०,४.२९ /
SK
बुधन्वान् पवमानवद् विशेषनिर्देशात् / Jऐम्_१०,४.३० /
SK
मन्त्रनिशेषनिर्देशान् न देवताविकारः स्यात् / Jऐम्_१०,४.३१ /
SK
विधिनिगमभेदात् प्रकृतौ तत्प्रकृतित्वाद् विकृताव् अपि भेदः स्यात् / Jऐम्_१०,४.३२ /
SK
यथोक्तं वा विप्रतिपत्तेर् न चोदना / Jऐम्_१०,४.३३ /
SK
स्विष्टकृद्देवतान्यत्वे तच्छब्दत्वान् निवर्तेत / Jऐम्_१०,४.३४ /
SK
संयोगो वार्थापत्तेर् अभिधानस्य कर्मजत्वात् / Jऐम्_१०,४.३५ /
SK
सगुणस्य गुणलोपे निगमेषु यावदुक्तं स्यात् / Jऐम्_१०,४.३६ /
SK
सर्वस्य वैककर्म्यात् / Jऐम्_१०,४.३७ /
SK
स्विष्टकृद् आवापिको ऽनुयाजे स्यात् प्रयोजनवद् अङ्गानाम् अर्थसंयोगात् / Jऐम्_१०,४.३८ /
SK
अन्वाहेति च शस्त्रवत्कर्म स्याच् चोदनान्तरात् / Jऐम्_१०,४.३९ /
SK
संस्कारो वा चोदितस्य शब्दस्य वचनार्थत्वात् / Jऐम्_१०,४.४० /
SK
स्याद् गुणार्थत्वात् / Jऐम्_१०,४.४१ /
SK
मनोतायां तु वचनाद् अविकारः स्यात् / Jऐम्_१०,४.४२ /
SK
पृष्ठार्थे ऽन्यद् रथन्तरात् तद्योनिपूर्वत्वाद् ऋचां प्रविभक्तत्वात् / Jऐम्_१०,४.४३ /
SK
स्वयोनौ वा सर्वाख्यत्वात् / Jऐम्_१०,४.४४ /
SK
यूपवद् इति चेत् / Jऐम्_१०,४.४५ /
SK
न कर्मसंयोगात् / Jऐम्_१०,४.४६ /
SK
कार्यत्वाद् उत्तरयोर् यथाप्रकृति / Jऐम्_१०,४.४७ /
SK
समानदेवते वा तृचस्याविभागात् / Jऐम्_१०,४.४८ /
SK
ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वाद् अविकारः स्यात् / Jऐम्_१०,४.४९ /
SK
उभयपानात् पृषदाज्ये दध्नः स्याद् उपलक्षणं निगमेषु पातव्यस्योपलक्षणात् / Jऐम्_१०,४.५० /
SK
न वा परार्थत्वाद् यज्ञपतिवत् / Jऐम्_१०,४.५१ /
SK
स्याद् वा आवाहनस्य तादर्थ्यात् / Jऐम्_१०,४.५२ /
SK
न वा संस्कारशब्दत्वात् / Jऐम्_१०,४.५३ /
SK
स्याद् वा द्रव्याभिधानात् / Jऐम्_१०,४.५४ /
SK
दध्नस् तु गुणभूतत्वाद् आज्यपानिगमाः स्युर् गुणत्वं श्रुतेर् आज्यप्रधानत्वात् / Jऐम्_१०,४.५५ /
SK
दधि वा स्यात् प्रधानम् आज्ये प्रथमान्त्यसंयोगात् / Jऐम्_१०,४.५६ /
SK
अपि वाज्यप्रधानत्वाद् गुणार्थे व्यपदेशे भक्त्या संस्कारशब्दः स्यात् / Jऐम्_१०,४.५७ /
SK
अपि वाख्याविकारत्वात् तेन स्याद् उपलक्षणम् / Jऐम्_१०,४.५८ /
SK
न वा स्याद् गुणशास्त्रत्वात् / Jऐम्_१०,४.५९ /
SK
आनुपूर्व्यवताम् एकदेशग्रहणेष्व् आगमवद् अन्त्यलोपः स्यात् / Jऐम्_१०,५.१ /
SK
लिङ्गदर्शनाच् च / Jऐम्_१०,५.२ /
SK
विकल्पो वा समत्वात् / Jऐम्_१०,५.३ /
SK
क्रमाद् उपजनो ऽन्तेस्यात् / Jऐम्_१०,५.४ /
SK
लिङ्गम् अविशिष्टं सङ्ख्याया हि तद्वचनम् / Jऐम्_१०,५.५ /
SK
आदितो वा प्रवृत्तिः स्याद् आरम्भस्य तदादित्वाद् वचनाद् अन्त्यविधिः स्यात् / Jऐम्_१०,५.६ /
SK
एकत्रिके तृचादिषु माध्यन्दिनेछन्दसां श्रुतिभूतत्वात् / Jऐम्_१०,५.७ /
SK
आदितो वा तन्न्यायत्वाद् इतरस्यानुमानिकत्वात् / Jऐम्_१०,५.८ /
SK
यथानिवेशञ् च प्रकृतिवत् सङ्ख्यामात्रविकारत्वात् / Jऐम्_१०,५.९ /
SK
त्रिकस् तृचे धुर्ये स्यात् / Jऐम्_१०,५.१० /
SK
एकस्यां वा स्तोमस्यावृत्तिधर्मत्वात् / Jऐम्_१०,५.११ /
SK
चोदनासु त्व् अपूर्वत्वाल् लिङ्गेन धर्मनियमः स्यात् / Jऐम्_१०,५.१२ /
SK
प्राप्तिस् तु रात्रिशब्दसम्बन्धात् / Jऐम्_१०,५.१३ /
SK
अपूर्वासु तु सङ्ख्यासु विकल्पः स्यात् सर्वासाम् अर्थवत्त्वात् / Jऐम्_१०,५.१४ /
SK
स्तोमविवृद्धौ प्राकृतानाम् अभ्यासेन सङ्ख्यापूरणम् अविकारात् सङ्ख्यायां गुणशब्दत्वाद् अन्यस्य चाश्रुतित्वात् / Jऐम्_१०,५.१५ /
SK
आगमेन वाभ्यासस्याश्रुतित्वात् / Jऐम्_१०,५.१६ /
SK
सङ्ख्यायाश् च पृथक्त्वनिवेशात् / Jऐम्_१०,५.१७ /
SK
पराक्शब्दत्वात् / Jऐम्_१०,५.१८ /
SK
उक्ताविकाराच् च / Jऐम्_१०,५.१९ /
SK
अश्रुतित्वान् नेति चेत् / Jऐम्_१०,५.२० /
SK
स्याद् अर्थचोदितानां परिमाणशास्त्रम् / Jऐम्_१०,५.२१ /
SK
आवापवचनं चाभ्यासे नोपपद्यते / Jऐम्_१०,५.२२ /
SK
साम्नां चोत्पत्तिसामर्थ्यात् / Jऐम्_१०,५.२३ /
SK
धूर्येष्व् अपीति चेत् / Jऐम्_१०,५.२४ /
SK
नावृत्तिधर्मत्वात् / Jऐम्_१०,५.२५ /
SK
वहिष्पवमाने न ऋगागमः सामैकत्वात् / Jऐम्_१०,५.२६ /
SK
अभ्यासेन तु संख्यापूरणं सामिधेनीष्व् अभ्यासप्रकृतित्वात् / Jऐम्_१०,५.२७ /
SK
अविशेषान् नेति चेत् / Jऐम्_१०,५.२८ /
SK
स्यात् तद्धर्मत्वात् प्रकृतिवद् अभ्यस्येतासङ्ख्यापूरणात् / Jऐम्_१०,५.२९ /
SK
यावद् उक्तं वा कृतपरिमाणत्वात् / Jऐम्_१०,५.३० /
SK
अधिकानाञ् च दर्शनात् / Jऐम्_१०,५.३१ /
SK
कर्मस्व् अपीति चेत् / Jऐम्_१०,५.३२ /
SK
न चोदितत्वात् / Jऐम्_१०,५.३३ /
SK
षोडशिनो वैकृतत्वं तत्र कृत्स्नविधानात् / Jऐम्_१०,५.३४ /
SK
प्रकृतौ चाभावदर्शनात् / Jऐम्_१०,५.३५ /
SK
अयज्ञवचनाच् च / Jऐम्_१०,५.३६ /
SK
प्रकृतौ वा शिष्टत्वात् / Jऐम्_१०,५.३७ /
SK
प्रकृतिदर्शनाच् च / Jऐम्_१०,५.३८ /
SK
आम्नातं परिसङ्ख्यार्थम् / Jऐम्_१०,५.३९ /
SK
उक्तम् अभावदर्शनम् / Jऐम्_१०,५.४० /
SK
गुणाद् अयज्ञत्वम् / Jऐम्_१०,५.४१ /
SK
तस्याग्रयणाद् ग्रहणम् / Jऐम्_१०,५.४२ /
SK
उक्थ्याच् च वचनात् / Jऐम्_१०,५.४३ /
SK
तृतीयसवने वचनात् स्यात् / Jऐम्_१०,५.४४ /
SK
अनभ्यासे पराक्शब्दस्य तादर्थ्यात् / Jऐम्_१०,५.४५ /
SK
उक्थ्यविच्छेदवचनत्वाच् च / Jऐम्_१०,५.४६ /
SK
आग्रयणाद् वा पराक्शब्दस्य देशवाचित्वात् पुनराधेयवत् / Jऐम्_१०,५.४७ /
SK
विच्छेदः स्तोमसामान्यात् / Jऐम्_१०,५.४८ /
SK
उक्थ्याग्निष्टोमसंयोगाद् अस्तुतशस्त्रः स्यात् सति हि संस्थान्यत्वम् / Jऐम्_१०,५.४९ /
SK
संस्तुतशस्त्रो वा तदङ्गत्वात् / Jऐम्_१०,५.५० /
SK
लिङ्गदर्शनाच् च / Jऐम्_१०,५.५१ /
SK
वचनात् संस्थान्यत्वम् / Jऐम्_१०,५.५२ /
SK
अभावाद् अतिरात्रेषु गृह्यते / Jऐम्_१०,५.५३ /
SK
अन्वयो वानारभ्य विधानात् / Jऐम्_१०,५.५४ /
SK
चतुर्थेचतुर्थे ऽहन्य् अहीनस्य गृह्यत इत्य् अभ्यासेन प्रतीयेत भोजनवत् / Jऐम्_१०,५.५५ /
SK
अपि वा सङ्ख्यावत्त्वान् नानाहीनेषु गृह्यते पक्षवद् एकस्मिन् संख्यार्थभावात् / Jऐम्_१०,५.५६ /
SK
भोजने तत्सङ्ख्यं स्यात् / Jऐम्_१०,५.५७ /
SK
जगत्साम्नि सामाभावाद् ऋक्तः सामतदाख्यं स्यात् / Jऐम्_१०,५.५८ /
SK
उभयसाम्नि नैमित्तिकं विकल्पेन समत्वात् स्यात् / Jऐम्_१०,५.५९ /
SK
मुख्येन वा नियम्येत / Jऐम्_१०,५.६० /
SK
निमित्तविघाताद् वा क्रतुयुक्तस्य कर्म स्यात् / Jऐम्_१०,५.६१ /
SK
ऐन्द्रवायवस्याग्रवचनाद् आदितः प्रतिकर्षः स्यात् / Jऐम्_१०,५.६२ /
SK
अपि वा धर्माविशेषात् तद्धर्माणां स्वस्थाने प्रकरणाद् अग्रत्वम् उच्यते / Jऐम्_१०,५.६३ /
SK
धारासंयोगाच् च / Jऐम्_१०,५.६४ /
SK
कामसंयोगे तु वचनाद् आदितः प्रतिकर्षः स्यात् / Jऐम्_१०,५.६५ /
SK
तद्देशानां वाग्रसंयोगात् तद्युक्तं कामशास्त्रं स्यान् नित्यसंयोगात् / Jऐम्_१०,५.६६ /
SK
परेषु चाग्रशब्दः पूर्ववत् स्यात् तदादिषु / Jऐम्_१०,५.६७ /
SK
प्रतिकर्षो वा नित्यार्थेनाग्रस्य तदसंयोगात् / Jऐम्_१०,५.६८ /
SK
प्रतिकर्षञ् च दर्शयति / Jऐम्_१०,५.६९ /
SK
पुरस्ताद् ऐन्द्रवायवस्याग्रस्य कृतदेशत्वात् / Jऐम्_१०,५.७० /
SK
तुल्यधर्मत्वाच् च / Jऐम्_१०,५.७१ /
SK
तथा च लिङ्गदर्शनम् / Jऐम्_१०,५.७२ /
SK
सादनं चापि शेषत्वात् / Jऐम्_१०,५.७३ /
SK
लिङ्गदर्शनाच् च / Jऐम्_१०,५.७४ /
SK
प्रदानं चापि सादनवत् / Jऐम्_१०,५.७५ /
SK
न वा प्रधानत्वाच् छेषत्वात् सादनं तथा / Jऐम्_१०,५.७६ /
SK
त्र्यनीकायां न्यायोक्तेष्व् आम्नानं गुणार्थं स्यात् / Jऐम्_१०,५.७७ /
SK
अपि वाहर्गणेष्व् अग्निवत् समानविधानं स्यात् / Jऐम्_१०,५.७८ /
SK
द्वादशाहस्य व्यूढसमूढत्वं पृष्ठवत् समानविधानं स्यात् / Jऐम्_१०,५.७९ /
SK
व्यूढो वा लिङ्गदर्शनात् समूढविकारः स्यात् / Jऐम्_१०,५.८० /
SK
कामसंयोगात् / Jऐम्_१०,५.८१ /
SK
तस्योभयथा प्रवृत्तिर् ऐककर्म्यात् / Jऐम्_१०,५.८२ /
SK
एकादशिनीवत् त्र्यनीका परिवृत्तिः स्यात् / Jऐम्_१०,५.८३ /
SK
स्वस्थानविवृद्धिर् वाह्नाम् अप्रत्यक्षसङ्ख्यत्वात् / Jऐम्_१०,५.८४ /
SK
पृष्ठ्यावृत्तौ चाग्रयणस्य दर्शनात् त्रयस्त्रिंशे परिवृत्तौ पुनरैन्द्रवायवः स्यात् / Jऐम्_१०,५.८५ /
SK
वचनात् परिवृत्तिर् ऐकादशिनेषु / Jऐम्_१०,५.८६ /
SK
लिङ्गदर्शनाच् च / Jऐम्_१०,५.८७ /
SK
छन्दोव्यतिक्रमाद् व्यूढे भक्षपवमानपरिधिकपालस्यम न्त्राणां यथोत्पत्तिवचनम् ऊहवत् स्यात् / Jऐम्_१०,५.८८ /
SK
एकर्च स्थानि यज्ञे स्युः स्वाध्यायवत् / Jऐम्_१०,६.१ /
SK
तृचे वा लिङ्गदर्शनात् / Jऐम्_१०,६.२ /
SK
स्वर्दृशं प्रतिवीक्षणं कालमात्रं परार्थत्वात् / Jऐम्_१०,६.३ /
SK
पृष्ठ्यस्य युगपद्विधेर् एकाहवद् द्विसामत्वम् / Jऐम्_१०,६.४ /
SK
विभक्ते वा समस्तविधानात् तद्विभागे विप्रतिषिद्धम् / Jऐम्_१०,६.५ /
SK
समासस् त्व् एकादशिनेषु तत्प्रकृतित्वात् / Jऐम्_१०,६.६ /
SK
विहारप्रतिषेधाच् च / Jऐम्_१०,६.७ /
SK
श्रुतितो वा लोकवद् विभागः स्यात् / Jऐम्_१०,६.८ /
SK
विहारप्रकृतित्वाच् च / Jऐम्_१०,६.९ /
SK
विशये च तदासत्तेः / Jऐम्_१०,६.१० /
SK
त्रयस् तथेति चेत् / Jऐम्_१०,६.११ /
SK
न समत्वात् प्रयाजवत् / Jऐम्_१०,६.१२ /
SK
सर्वपृष्ठे पृष्ठशब्दात् तेषां स्याद् एकदेशत्वं पृष्ठस्य कृतदेशत्वात् / Jऐम्_१०,६.१३ /
SK
विधेस् तु विप्रकर्षः स्यात् / Jऐम्_१०,६.१४ /
SK
वैरूपसामा क्रतुसंयोगात् त्रिवृद्वद् एकसामा स्यात् / Jऐम्_१०,६.१५ /
SK
पृष्ठार्थे वा प्रकृतिलिङ्गसंयोगात् / Jऐम्_१०,६.१६ /
SK
त्रिवृद्वद् इति चेत् / Jऐम्_१०,६.१७ /
SK
न प्रकृताव् अकृत्स्नसंयोगात् / Jऐम्_१०,६.१८ /
SK
विधित्वान् नेति चेत् / Jऐम्_१०,६.१९ /
SK
स्याद् विशये तन्न्यायत्वात् कर्माविभागात् / Jऐम्_१०,६.२० /
SK
प्रकृतेश् चाविकारात् / Jऐम्_१०,६.२१ /
SK
त्रिवृति सङ्ख्यात्वेन सर्वसंख्याविकारः स्यात् / Jऐम्_१०,६.२२ /
SK
स्तोमस्य वा तल्लिङ्गत्वात् / Jऐम्_१०,६.२३ /
SK
उभयसाम्नि विश्वजिद्वद्विभागः स्यात् / Jऐम्_१०,६.२४ /
SK
पृष्टार्थे वातदर्थत्वात् / Jऐम्_१०,६.२५ /
SK
लिङ्गदर्शनाच् च / Jऐम्_१०,६.२६ /
SK
पृष्ठे रसभोजनम् आवृत्ते संस्थिते त्रयस्त्रिंशे ऽहनि स्यात् तदानन्तर्यात् प्रकृतिवत् / Jऐम्_१०,६.२७ /
SK
अन्ते वा कृतकालत्वात् / Jऐम्_१०,६.२८ /
SK
अभ्यासे च तदभ्यासः कर्मणः पुनः प्रयोगात् / Jऐम्_१०,६.२९ /
SK
अन्ते वा कृतकालत्वात् / Jऐम्_१०,६.३० /
SK
आवृत्तिस् तु व्यवाये कालभेदात् स्यात् / Jऐम्_१०,६.३१ /
SK
मधु न दीक्षिता ब्रह्मचारित्वात् / Jऐम्_१०,६.३२ /
SK
प्राश्येत यज्ञार्थत्वात् / Jऐम्_१०,६.३३ /
SK
मानसम् अहर् अन्तरं स्याद् भेदव्यपदेशात् / Jऐम्_१०,६.३४ /
SK
तेन च संस्तवात् / Jऐम्_१०,६.३५ /
SK
अहर् अन्ताच् च परेण चोदना / Jऐम्_१०,६.३६ /
SK
पक्षे सङ्ख्या सहस्रवत् / Jऐम्_१०,६.३७ /
SK
अहरङ्गं वांशुवच् चोदनाभावात् / Jऐम्_१०,६.३८ /
SK
दशमविसर्गवचनाच् च / Jऐम्_१०,६.३९ /
SK
दशमे ऽहनीति च तद्गुणशास्त्रात् / Jऐम्_१०,६.४० /
SK
सङ्ख्यासामञ्जस्यात् / Jऐम्_१०,६.४१ /
SK
पश्वतिरेके चैकस्य भावात् / Jऐम्_१०,६.४२ /
SK
स्तुतिव्यपदेशम् अङ्गेन विप्रतिषिद्धं व्रतवत् / Jऐम्_१०,६.४३ /
SK
वचनाद् अतदन्तत्वम् / Jऐम्_१०,६.४४ /
SK
सत्रम् एकः प्रकृतिवत् / Jऐम्_१०,६.४५ /
SK
वचनात् तु बहूनां स्यात् / Jऐम्_१०,६.४६ /
SK
अपदेशः स्याद् इति चेत् / Jऐम्_१०,६.४७ /
SK
नैकव्यपदेशात् / Jऐम्_१०,६.४८ /
SK
सन्निवापञ् च दर्शयति / Jऐम्_१०,६.४९ /
SK
बहूनाम् इति चैकस्मिन् विशेषवचनं व्यर्थम् / Jऐम्_१०,६.५० /
SK
अन्ये स्युर् ऋत्विजः प्रकृतिवत् / Jऐम्_१०,६.५१ /
SK
अपि वा यजमानाः स्युर् ऋत्विजाम् अभिधानसंयोगात् तेषां स्याद् यजमानत्वम् / Jऐम्_१०,६.५२ /
SK
कर्तृसंस्कारो वचनाद् आधातृवद् इति चेत् / Jऐम्_१०,६.५३ /
SK
स्याद् विशये तन्न्यायत्वात् प्रकृतिवत् / Jऐम्_१०,६.५४ /
SK
स्वाम्याख्याः स्युर् गृहपतिवद् इति चेत् / Jऐम्_१०,६.५५ /
SK
न प्रसिद्धग्रहणत्वाद् असंयुक्तस्य तद्धर्मेण / Jऐम्_१०,६.५६ /
SK
दीक्षितादीक्षितव्यपदेशश् च नोपपद्यते ऽर्थयोर् नित्यभावित्वात् / Jऐम्_१०,६.५७ /
SK
अदक्षिणत्वाच् च / Jऐम्_१०,६.५८ /
SK
द्वादशाहस्य सत्रत्वम् आसनोपायिचोदनेन यजमानबहुत्वेन च सत्रशब्दाभिसंयोगात् / Jऐम्_१०,६.५९ /
SK
यजतिचोदनाद् अहीनत्वं स्वामिनां चास्थितपरिमाणत्वात् / Jऐम्_१०,६.६० /
SK
अहीने दक्षिणाशास्त्रं गुणत्वात् प्रत्यह कर्मभेदः स्यात् / Jऐम्_१०,६.६१ /
SK
सर्वस्य वैककर्म्यात् / Jऐम्_१०,६.६२ /
SK
पृषदाज्यवद् वाह्नां गुणशास्त्रं स्यात् / Jऐम्_१०,६.६३ /
SK
ज्यौतिष्टोम्यस् तु दक्षिणाः सर्वासाम् एककर्मत्वात् प्रकृतिवत् तस्मान् नासां विकारः स्यात् / Jऐम्_१०,६.६४ /
SK
द्वादशाहे तु वचनात् प्रत्यहं दक्षिणाभेदस् तत्प्रकृतित्वात् परेषु तासां संख्याविकारः स्यात् / Jऐम्_१०,६.६५ /
SK
परिक्रयाविभागाद् वा समस्तस्य विकारः स्यात् / Jऐम्_१०,६.६६ /
SK
भेदस् तु गुणसंयोगात् / Jऐम्_१०,६.६७ /
SK
प्रत्यहं सर्वसंस्कारः प्रकृतिवत् सर्वासां सर्वशेषत्वात् / Jऐम्_१०,६.६८ /
SK
एकार्थत्वान् नेति चेत् / Jऐम्_१०,६.६९ /
SK
स्याद् उत्पत्तौ कालभेदात् / Jऐम्_१०,६.७० /
SK
विभज्य तु संस्कारवचनाद् द्वादशाहवत् / Jऐम्_१०,६.७१ /
SK
लिङ्गेन द्रव्यनिर्देशे सर्वत्र प्रत्ययः स्याल् लिङ्गस्य सर्वगामित्वाद् आग्नेयवत् / Jऐम्_१०,६.७२ /
SK
यावद् अर्थं वार्थशेषत्वाद् अल्पेन परिमाणं स्यात् तस्मिंश् च लिङ्गसामर्थ्यम् / Jऐम्_१०,६.७३ /
SK
आग्नेये कृत्स्नविधिः / Jऐम्_१०,६.७४ /
SK
ऋजीषस्य प्रधानत्वाद् अहर्गणे सर्वस्य प्रतिपत्तिः स्यात् / Jऐम्_१०,६.७५ /
SK
वाससि मानोपावहरणे प्रकृतौ सोमस्य वचनात् / Jऐम्_१०,६.७६ /
SK
तत्राहर्गणे ऽर्थाद् वासः प्रकृतिः स्यात् / Jऐम्_१०,६.७७ /
SK
मानं प्रत्युत्पादयेत् प्रकृतौ तेन दर्शनाद् उपावहरणस्य / Jऐम्_१०,६.७८ /
SK
हरणे वा श्रुत्यसंयोगाद् अर्थाद् विकृतौ तेन / Jऐम्_१०,६.७९ /
SK
पशोर् एकहविष्ट्वं समस्तचोदितत्वात् / Jऐम्_१०,७.१ /
SK
प्रत्यङ्गं वा ग्रहवद् अङ्गानां पृथक्कल्पनत्वात् / Jऐम्_१०,७.२ /
SK
हविर् भेदात् कर्मणे ऽभ्यासस् तस्मात् तेभ्यो ऽवदानं स्यात् / Jऐम्_१०,७.३ /
SK
आज्यभागवद् वा निर्देशात् परिसंख्या स्यात् / Jऐम्_१०,७.४ /
SK
तेषां वा द्व्यवदानत्वं विवक्षन्न् अभिनिर्दिशेत् पशोः पञ्चावदानत्वात् / Jऐम्_१०,७.५ /
SK
अंसशिरोऽनूकसक्थिप्रतिषेधश् च तदन्यपरिसङ्ख्याने ऽनर्थकः स्यात् प्रदानत्वात् तेषां निरवदानप्रतिषेधः स्यात् / Jऐम्_१०,७.६ /
SK
अपि वा परिसङ्ख्या स्याद् अनवदानीयशब्दत्वात् / Jऐम्_१०,७.७ /
SK
अब्राह्मणे च दर्शनात् / Jऐम्_१०,७.८ /
SK
शृताशृतोपदेशाच् च तेषाम् उत्सर्गवद् अयज्ञशेषत्वं / Jऐम्_१०,७.९ /
SK
इज्याशेषात् स्विष्टकृद् इज्येत प्रकृतिवत् / Jऐम्_१०,७.१० /
SK
त्र्यङ्गैर् वा शरवद् विकारः स्यात् / Jऐम्_१०,७.११ /
SK
अध्यूध्नी होतुस् त्र्यङ्गवद् इडाभक्षविकारः स्यात् / Jऐम्_१०,७.१२ /
SK
शेषे वा समवैति तस्माद् रथवन् नियमः स्यात् / Jऐम्_१०,७.१३ /
SK
अशास्त्रत्वात् तु नैवं स्यात् / Jऐम्_१०,७.१४ /
SK
अपि वा दानमात्रं स्याद् भक्षशब्दानभिसम्बन्धात् / Jऐम्_१०,७.१५ /
SK
दातुस् त्व् अविद्यमानत्वाद् इडाभक्षविकारः स्याच् छेषं प्रत्यविशिष्टत्वात् / Jऐम्_१०,७.१६ /
SK
अग्नीधश् च वनिष्ठुर् अध्यूध्नीवत् / Jऐम्_१०,७.१७ /
SK
अप्राकृतत्वान् मैत्रावरुणस्याभक्षत्वम् / Jऐम्_१०,७.१८ /
SK
स्याद् वा होत्रध्वर्युविकारत्वात् तयो कर्माभिसम्बन्धात् / Jऐम्_१०,७.१९ /
SK
द्विभागः स्याद् द्विकर्मत्वात् / Jऐम्_१०,७.२० /
SK
एकत्वाद् वैकभागः स्याद् भागस्याश्रुतिभूतत्वात् / Jऐम्_१०,७.२१ /
SK
प्रतिप्रस्थातुश् च वपाश्रपणात् / Jऐम्_१०,७.२२ /
SK
अभक्षो वा कर्मभेदात् तस्याः सर्वप्रदानत्वात् / Jऐम्_१०,७.२३ /
SK
विकृतौ प्राकृतस्य विधेर् ग्रहणात् पुनः श्रुतिर् अनर्थिका स्यात् / Jऐम्_१०,७.२४ /
SK
अपि वाग्नेयवद् द्विशब्दत्वं स्यात् / Jऐम्_१०,७.२५ /
SK
न वा शब्दपृथक्त्वात् / Jऐम्_१०,७.२६ /
SK
अधिकं वार्थवत्त्वात् स्याद् अर्थवादगुणाभावे वचनाद् अविकारे तेषु हि तादर्थ्यं स्याद् अपूर्वत्वात् / Jऐम्_१०,७.२७ /
SK
प्रतिषेधः स्याद् इति चेत् / Jऐम्_१०,७.२८ /
SK
नाश्रुतत्वात् / Jऐम्_१०,७.२९ /
SK
अग्रहणाद् इति चेत् / Jऐम्_१०,७.३० /
SK
न तुल्यत्वात् / Jऐम्_१०,७.३१ /
SK
तथा तद्ग्रहणे स्यात् / Jऐम्_१०,७.३२ /
SK
अपूर्वतां तु दर्शयेद् ग्रहणस्यार्थवत्त्वात् / Jऐम्_१०,७.३३ /
SK
ततो ऽपि यावदुक्तं स्यात् / Jऐम्_१०,७.३४ /
SK
स्विष्टकृद्भक्षप्रतिषेधः स्यात् तुल्यकारणत्वात् / Jऐम्_१०,७.३५ /
SK
अतिषेधो वा दर्शनाद् इडायां स्यात् / Jऐम्_१०,७.३६ /
SK
प्रतिषेधो वा विधिपूर्वस्य दर्शनात् / Jऐम्_१०,७.३७ /
SK
शंय्विडान्तत्वे विकल्पः स्यात् परेषु पत्न्यनुयाजप्रतिषेधो ऽनर्थकः स्यात् / Jऐम्_१०,७.३८ /
SK
नित्यानुवादो वा कर्मणः स्याद् अशब्दत्वात् / Jऐम्_१०,७.३९ /
SK
प्रतिषेधार्थवत्त्वाच् चोत्तरस्य परस्तात् प्रतिषेधः स्यात् / Jऐम्_१०,७.४० /
SK
प्राप्तेर् वा पूर्वस्य वचनाद् अतिक्रमः स्यात् / Jऐम्_१०,७.४१ /
SK
प्रतिषेधस्य त्वरायुक्तत्वात् तस्य च नान्यदेशत्वम् / Jऐम्_१०,७.४२ /
SK
उपसत्सु यावदुक्तम् अकर्म स्यात् / Jऐम्_१०,७.४३ /
SK
स्त्रोवेण वागुणत्वाच् छेषप्रतिषेधः स्यात् / Jऐम्_१०,७.४४ /
SK
अप्रतिषेधं वा प्रतिषिध्यप्रतिप्रसवात् / Jऐम्_१०,७.४५ /
SK
अनिज्या वा शेषस्य मुख्यदेवतान् अभीज्यत्वात् / Jऐम्_१०,७.४६ /
SK
अवभृथे बर्हिषः प्रतिषेधाच् छेषकर्म स्यात् / Jऐम्_१०,७.४७ /
SK
आज्यभागयोर् वा गुणत्वाच् छेषप्रतिषेधः स्यात् / Jऐम्_१०,७.४८ /
SK
प्रयाजानां त्व् एकदेशप्रतिषेधाद् वाक्यशेषत्वं तस्मान् नित्यानुवादः स्यात् / Jऐम्_१०,७.४९ /
SK
आज्यभागयोर् ग्रहणं वित्यानुवादो वा गृहमेधीयवत् स्यात् / Jऐम्_१०,७.५० /
SK
विरोधिनाम् एकश्रुतौ नियमः स्याद् ग्रहणस्यार्थवत्त्वाच् छरवच् च श्रुतितो विशिष्टत्वात् / Jऐम्_१०,७.५१ /
SK
उभयप्रदेशान् नेति चेत् / Jऐम्_१०,७.५२ /
SK
शरेष्व् अपीति चेत् / Jऐम्_१०,७.५३ /
SK
विरोध्यग्रहणात् तथा शरेष्व् इति चेत् / Jऐम्_१०,७.५४ /
SK
तथेतरास्मिन् / Jऐम्_१०,७.५५ /
SK
श्रुत्यानर्थक्यम् इति चेत् / Jऐम्_१०,७.५६ /
SK
ग्रहणस्यार्थवत्त्वाद् ग्रहणम् अप्रवृत्ते स्यात् / Jऐम्_१०,७.५७ /
SK
सर्वासां च गुणानाम् अर्थवत्त्वाद् ग्रहणम् अप्रवृत्ते स्यात् / Jऐम्_१०,७.५८ /
SK
अधिकं स्याद् इति चेत् / Jऐम्_१०,७.५९ /
SK
नार्थाभावात् / Jऐम्_१०,७.६० /
SK
तथैकार्थविकारे प्राकृतस्याप्रवृत्तिः प्रवृत्तौ हि विकल्पः स्यात् / Jऐम्_१०,७.६१ /
SK
यावच्छ्रुतीति चेत् / Jऐम्_१०,७.६२ /
SK
न प्रकृताव् अशब्दत्वात् / Jऐम्_१०,७.६३ /
SK
विकृतौ त्व् अनियमः स्यात् प्रषदाज्यवद् ग्रहणस्य गुणार्थत्वाद् उभयोश् च प्रदिष्टत्वाद् गुणशास्त्रं यदेति स्यात् / Jऐम्_१०,७.६४ /
SK
ऐकार्थ्याद् वा नियम्येत श्रुतितो विशिष्टत्वात् / Jऐम्_१०,७.६५ /
SK
विरोधित्वाच् च लोकवत् / Jऐम्_१०,७.६६ /
SK
क्रतोश् च तद्गुणत्वात् / Jऐम्_१०,७.६७ /
SK
विरोधिनाञ् च तच्छ्रुताव् अशब्दत्वाद् विकल्पः स्यात् / Jऐम्_१०,७.६८ /
SK
पृषदाज्ये समुच्चयाद् ग्रहणस्य गुणार्थत्वम् / Jऐम्_१०,७.६९ /
SK
यद्य् अपि चतुरवत्तीति तु नियमे नोपपद्यते / Jऐम्_१०,७.७० /
SK
क्रत्वन्तरे वा तन्न्यायत्वात् कर्मभेदात् / Jऐम्_१०,७.७१ /
SK
यथाश्रुतीति चेत् / Jऐम्_१०,७.७२ /
SK
न चोदनैकत्वात् / Jऐम्_१०,७.७३ /
SK
प्रतिषेधः प्रदेशे ऽनारभ्यविधाने च प्राप्तप्रतिषिद्धत्वाद् विकल्पः स्यात् / Jऐम्_१०,८.१ /
SK
अर्थप्राप्तवद् इति चेत् / Jऐम्_१०,८.२ /
SK
न तुल्यहेतुत्वाद् उभयं शब्दलक्षणम् / Jऐम्_१०,८.३ /
SK
अपि तु वाक्यशेषः स्याद् अन्याय्यत्वाद् विकल्पस्य विधीनाम् एकदेशः स्यात् / Jऐम्_१०,८.४ /
SK
अपूर्वे चार्थवादः स्यात् / Jऐम्_१०,८.५ /
SK
शिष्ट्वा तु प्रतिषेधः स्यात् / Jऐम्_१०,८.६ /
SK
न चेद् अन्यं प्रकल्पयेत् प्रकॢप्ताव् अर्थवादः स्याद् आनर्थक्यात् परसामर्थ्याच् च / Jऐम्_१०,८.७ /
SK
पूर्वैश् च तुल्यकालत्वात् / Jऐम्_१०,८.८ /
SK
उपवादश् च तद्वत् / Jऐम्_१०,८.९ /
SK
प्रतिषेधाद् अकर्मेति चेत् / Jऐम्_१०,८.१० /
SK
न शब्दपूर्वत्वात् / Jऐम्_१०,८.११ /
SK
दीक्षितस्य दानहोमपाकप्रतिषेधो ऽविशेषात् सर्वदानहोमपाकप्रतिषेधः स्यात् / Jऐम्_१०,८.१२ /
SK
अक्रतुयुक्तानां वा धर्मः स्यात् क्रतोः प्रत्यक्षशिष्टत्वात् / Jऐम्_१०,८.१३ /
SK
तस्य वाप्य् आनुमानिकम् अविशेषात् / Jऐम्_१०,८.१४ /
SK
अपि तु वाक्यशेषत्वाद् इतरपर्युदासः स्यात् प्रतिषेधे विकल्पः स्यात् / Jऐम्_१०,८.१५ /
SK
अविशेषेण यच् छास्त्रम् अन्याय्यत्वाद् विकल्पस्य तत् सन्दिग्धम् आराद् विशेषशिष्टं स्यात् / Jऐम्_१०,८.१६ /
SK
अप्रकरणे तु यच् छास्त्रं विशेषे श्रुयमाणम् अविकृतम् आज्यभागवत् प्राकृतप्रतिषेधार्थम् / Jऐम्_१०,८.१७ /
SK
विकारे तु तदर्थं स्यात् / Jऐम्_१०,८.१८ /
SK
वाक्यशेषो वा क्रतुना ग्रहणात् स्याद् अनारभ्यविधानस्य / Jऐम्_१०,८.१९ /
SK
मन्त्रेष्व् अवाक्यशेषत्वं गुणोपदेशात् स्यात् / Jऐम्_१०,८.२० /
SK
अनाम्नाते च दर्शनात् / Jऐम्_१०,८.२१ /
SK
प्रतिषेधाच् च / Jऐम्_१०,८.२२ /
SK
अग्न्यतिग्राह्यस्य विकृताव् उपदेशाद् अप्रवृत्तिः स्यात् / Jऐम्_१०,८.२३ /
SK
मासि ग्रहणञ् च तद्वात् / Jऐम्_१०,८.२४ /
SK
ग्रहणं वा तुल्यत्वात् / Jऐम्_१०,८.२५ /
SK
लिङ्गदर्शनाच् च / Jऐम्_१०,८.२६ /
SK
ग्रहणं समानविधानं स्यात् / Jऐम्_१०,८.२७ /
SK
मासिग्रहणम् अभ्यासप्रतिषेधार्थम् / Jऐम्_१०,८.२८ /
SK
उत्पत्तितादर्थ्याच् चतुरवत्तम प्रधानस्य होमसंयोगाद् अधिकम् आज्यम् अतुल्यत्वाल् लोकवद् उत्पत्तेर् गुणभूतत्वात् / Jऐम्_१०,८.२९ /
SK
तत्संस्कारश्रुतेश् च / Jऐम्_१०,८.३० /
SK
ताभ्यां वा सह स्विष्टकृतः सकृत्त्वे द्विपभिघारणेन तदाप्तिवचनात् / Jऐम्_१०,८.३१ /
SK
तुल्यवच् चाभिधाय सर्वेषु भक्त्यनुक्रमणात् / Jऐम्_१०,८.३२ /
SK
साप्तदश्यवन् नियम्येत / Jऐम्_१०,८.३३ /
SK
हविषो वा गुणभूतत्वात् तथाभूतविवक्षा स्यात् / Jऐम्_१०,८.३४ /
SK
पुरोडाशाभ्याम् इत्य धिकृतानां पुरोडाशयोर् उपदेशस् तच्छ्रुतित्वाद् वैश्यस्तोमवत् / Jऐम्_१०,८.३५ /
SK
न त्व् अनित्याधिकारो ऽस्ति विधौ नित्येन सम्बन्धस् तस्माद् अवाक्यशेषत्वम् / Jऐम्_१०,८.३६ /
SK
सति च नैकदेशेन कर्तुः प्रधानभूतत्वात् / Jऐम्_१०,८.३७ /
SK
कृत्स्नत्वात् तु तथा स्तोमे / Jऐम्_१०,८.३८ /
SK
कर्तुः स्याद् इति चेत् / Jऐम्_१०,८.३९ /
SK
न गुणार्थत्वात् प्राप्ते न चोपदेशार्थः / Jऐम्_१०,८.४० /
SK
कर्मणोस् तु प्रकरणे तन्न्यायत्वाद् गुणानां लिङ्गेन कालशास्त्रं स्यात् / Jऐम्_१०,८.४१ /
SK
यदि तु सान्नाय्यं सोमयाजिनो न ताभ्यां समवायो ऽस्ति विभक्तकालत्वात् / Jऐम्_१०,८.४२ /
SK
अपि वा विहितत्वाद् गुणार्थायां पुनः श्रुतौ सन्देहे श्रुतिर् द्विदेवतार्था स्याद् यथानभिप्रेतस् तथाग्नेयो दर्शनाद् एकदेवते / Jऐम्_१०,८.४३ /
SK
विधिं तु बादरायणः / Jऐम्_१०,८.४४ /
SK
प्रतिषिद्धविज्ञानाद् वा / Jऐम्_१०,८.४५ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_१०,८.४६ /
SK
उपांशुयाजम् अन्तरा यजतीति हविर्लिङ्गाश्रुतित्वाद् यथाकामी प्रतीयेत / Jऐम्_१०,८.४७ /
SK
ध्रौवाद् वा सर्वसंयोगात् / Jऐम्_१०,८.४८ /
SK
तद्वच् च देवतायां स्यात् / Jऐम्_१०,८.४९ /
SK
तान्द्रीणां प्रकरणात् / Jऐम्_१०,८.५० /
SK
धर्माद् वा स्यात् प्रजापतिः / Jऐम्_१०,८.५१ /
SK
देवतायास् त्व् अनिर्वचनं तत्र शब्दस्येह मृदुत्वं तस्माद् इहाधिकारेण / Jऐम्_१०,८.५२ /
SK
विष्णुर् वा स्याद् धौत्राम्नानाद् अमावास्याहविश् च स्याद् धौत्रस्य तत्र दर्शनात् / Jऐम्_१०,८.५३ /
SK
अपि वा पौर्णमास्यां स्यात् प्रधानशब्दसंयोगाद् गुणत्वान् मन्त्रो यथा प्रधानं स्यात् / Jऐम्_१०,८.५४ /
SK
आनन्तर्यञ् च सान्नाय्यस्य पुरोडाशेन दर्शयत्य् अमावास्याविकारे / Jऐम्_१०,८.५५ /
SK
अग्नीषोमविधानात् तु पौर्णमास्याम् उभयत्र विधीयते / Jऐम्_१०,८.५६ /
SK
प्रतिषिद्ध्यविधानाद् वा विष्णुः समानदेशः स्यात् / Jऐम्_१०,८.५७ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_१०,८.५८ /
SK
न चानङ्ग सकृच् छ्रुताव् उभयत्र विधीयोतासम्बन्धात् / Jऐम्_१०,८.५९ /
SK
गुणानां च परार्थत्वात् प्रवृत्तौ विधिलिङ्गानि दर्शयति / Jऐम्_१०,८.६० /
SK
विकारे चाश्रुतित्वात् / Jऐम्_१०,८.६१ /
SK
द्विपुरोडाशायां स्याद् अन्तरार्थत्वात् / Jऐम्_१०,८.६२ /
SK
अजामिकरणार्थत्वाच् च / Jऐम्_१०,८.६३ /
SK
तदर्थम् इति चेन् न तत्प्रधानत्वात् / Jऐम्_१०,८.६४ /
SK
अशिष्ठेन च सम्बन्धात् / Jऐम्_१०,८.६५ /
SK
उत्पत्तेस् तु निवेशः स्याद् गुणस्यानुपरोधेनार्थस्य विद्यमानत्वाद् विधानाद् अन्तरार्थस्य नैमित्तिकत्वात् तदभावे ऽश्रुतौ स्यात् / Jऐम्_१०,८.६६ /
SK
उभयोस् तु विधानात् / Jऐम्_१०,८.६७ /
SK
गुणानाञ् च परार्थत्वाद् उपवेषवद् यदेति स्यात् / Jऐम्_१०,८.६८ /
SK
अनपायश् च कालस्य लक्षणं हि पुरोडाशौ / Jऐम्_१०,८.६९ /
SK
प्रशंसार्थम् अजामित्वम् / Jऐम्_१०,८.७० /
SK
प्रयोजनाभिसम्बन्धात् पृथक् सतां ततः स्याद् ऐककर्म्यम् एकशब्दाभिसंयोगात् / Jऐम्_११,१.१ /
SK
शेषवद् वा प्रयोजनं प्रतिजनं प्रतिकर्म विभज्येत / Jऐम्_११,१.२ /
SK
अविधानात् तु नैवं स्यात् / Jऐम्_११,१.३ /
SK
शेषस्य हि परार्थत्वाद् विधानात् प्रतिप्रधानभावः स्यात् / Jऐम्_११,१.४ /
SK
अङ्गानां तु शब्दभेदात् क्रतुवत् स्यात् फलानयत्वम् / Jऐम्_११,१.५ /
SK
अर्थभेदस् तु तत्राथेहैकार्थ्याद् ऐककर्म्यम् / Jऐम्_११,१.६ /
SK
शब्दभेदान् नेति चेत् / Jऐम्_११,१.७ /
SK
कर्मार्थत्वात् प्रयोगे ताच्छब्द्यं स्यात् तदर्थत्वात् / Jऐम्_११,१.८ /
SK
कर्तृविधेर् नानार्थत्वाद् गुणप्रधानेषु / Jऐम्_११,१.९ /
SK
आरम्भस्य शब्दपूर्वत्वात् / Jऐम्_११,१.१० /
SK
एकेनापि समाप्येत कृतार्थत्वाद् यथा क्रत्वन्तरेषु प्राप्तेषु चोत्तरावत् स्यात् / Jऐम्_११,१.११ /
SK
फलाभावान् नेति चेत् / Jऐम्_११,१.१२ /
SK
न कर्मसंयोगात् प्रयोजनबशब्ददोषं स्यात् / Jऐम्_११,१.१३ /
SK
एकशब्द्याद् इति चेत् / Jऐम्_११,१.१४ /
SK
नार्थपृथक्त्वात् समत्वाद् अगुणत्वम् / Jऐम्_११,१.१५ /
SK
विधेस् त्व् एकश्रुतित्वाद् अपर्यायविधानान् नित्यवच् छ्रुतभूताभिसंयोगाद् अर्थेन युगपत्प्राप्तेर् यथाप्राप्तं स्वशब्दो निवीतवत् सर्वप्रयोगे प्रवृत्तिः स्यात् / Jऐम्_११,१.१६ /
SK
तथा कर्मोपदेशत्वात् / Jऐम्_११,१.१७ /
SK
क्रत्वन्तरेषु पुनर्वचनम् / Jऐम्_११,१.१८ /
SK
उत्तरास्वश्रुतित्वाद् विशेषाणां कृतार्थत्वात् संदोहे यथाकामी प्रतीयेत / Jऐम्_११,१.१९ /
SK
कर्मण्य् आरम्भभाव्यत्वात् कृषिवत् प्रत्यारम्भं फलानि स्युः / Jऐम्_११,१.२० /
SK
अधिकारश् च सर्वेषां कार्यत्वाद् उपपद्यते विशेषः / Jऐम्_११,१.२१ /
SK
सकृत् तु स्यात् कृतार्थत्वाद् अङ्गवत् / Jऐम्_११,१.२२ /
SK
शब्दार्थश् च तथा लोके / Jऐम्_११,१.२३ /
SK
अपि वा संप्रयोगे यथाकामी प्रतीयेताश्रुतित्वाद् विधिषु वचनानि स्युः / Jऐम्_११,१.२४ /
SK
एकशब्द्यात् तथाङ्गेषु / Jऐम्_११,१.२५ /
SK
लोके कर्मार्थलक्षणम् / Jऐम्_११,१.२६ /
SK
क्रियाणाम् अर्थशेषत्वात् प्रत्यक्षतस् तन्निर्वृत्त्यापवर्गः स्यात् / Jऐम्_११,१.२७ /
SK
धर्ममात्रे त्व् अदर्शनाच् छब्दार्थेनापवर्गः स्यात् / Jऐम्_११,१.२८ /
SK
क्रतुवच् चानुमानेनाभ्यासे फलभूमा स्यात् / Jऐम्_११,१.२९ /
SK
सकृद् वा कारणैकत्वात् / Jऐम्_११,१.३० /
SK
परिमाणं चानियमेन स्यात् / Jऐम्_११,१.३१ /
SK
फलस्यारम्भनिर्वृत्तेः क्रतुषु स्यात् फलान्यत्वम् / Jऐम्_११,१.३२ /
SK
अर्थवांस् तु नैकत्वाद् अभ्यासः स्याद् अनर्थको यथा भोजनम् एकस्मिन्न् अर्थस्यापरिमाणत्वात् प्रधाने च क्रियार्थत्वाद् अनियमः स्यात् / Jऐम्_११,१.३३ /
SK
पृथक्त्वाद् विधितः परिमाणं स्यात् / Jऐम्_११,१.३४ /
SK
अनभ्यासो वा प्रयोगवचनैकत्वात् सर्वस्य युगपच्छास्त्राद् अफलत्वाच् च कर्मणः स्यात् क्रियार्थत्वात् / Jऐम्_११,१.३५ /
SK
अभ्यासो वा छेदनसंमार्गावदानेषु वचनात् सकृत्त्वस्य / Jऐम्_११,१.३६ /
SK
अनभ्यासस् तु वाच्यत्वात् / Jऐम्_११,१.३७ /
SK
बहुवचनेन सर्वप्राप्तेर् विकल्पः स्यात् / Jऐम्_११,१.३८ /
SK
दृष्टः प्रयोग इति चेत् / Jऐम्_११,१.३९ /
SK
भक्त्येति चेत् / Jऐम्_११,१.४० /
SK
तथेतरस्मिन् / Jऐम्_११,१.४१ /
SK
प्रथमं वा नियम्येत कारणाद् अतिक्रमः स्यात् / Jऐम्_११,१.४२ /
SK
श्रुत्यर्थाविशेषात् / Jऐम्_११,१.४३ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_११,१.४४ /
SK
प्रकृत्या च पूर्ववत् तदासत्तेः / Jऐम्_११,१.४५ /
SK
उत्तरासु यावत्स्वम् अपूर्वत्वात् / Jऐम्_११,१.४६ /
SK
यावत्स्वं वान्यविधानेनानुवादः स्यात् / Jऐम्_११,१.४७ /
SK
साकल्यविधानात् / Jऐम्_११,१.४८ /
SK
बह्वर्थत्वाच् च / Jऐम्_११,१.४९ /
SK
अग्निहोत्रे चाशेषवद्यवागूनियमः प्रतिषेधः कुमाराणाम् / Jऐम्_११,१.५० /
SK
सर्वप्रायिणापि लिङ्गेन संयुज्यते देवताभिसंयोगात् / Jऐम्_११,१.५१ /
SK
प्रधानकर्मार्थत्वाद् अङ्गानां तद्भेदात् कर्मभेदः प्रयोगे स्यात् / Jऐम्_११,१.५२ /
SK
क्रमकोपश् च यौगपद्यात् स्यात् / Jऐम्_११,१.५३ /
SK
तुल्यानां तु यौगपद्यम् एकशब्दोपदेशात् स्याद् विशेषाग्रहणात् / Jऐम्_११,१.५४ /
SK
एकार्थ्याद् अव्यवायः स्यात् / Jऐम्_११,१.५५ /
SK
तथा चान्यार्थदर्शनं कामुकायनः / Jऐम्_११,१.५६ /
SK
तन्न्यायत्वाद् अशक्तेर् आनुपूर्व्यं स्यात् संस्कारस्य तदर्थत्वात् / Jऐम्_११,१.५७ /
SK
असंसृष्टो ऽपि तादर्थ्यात् / Jऐम्_११,१.५८ /
SK
विभवाद् वा प्रदीपवत् / Jऐम्_११,१.५९ /
SK
अर्थात् तु लोके विधितः प्रतिप्रधानं स्यात् / Jऐम्_११,१.६० /
SK
सकृद् इज्यां कामुकायनः परिमाणविरोधात् / Jऐम्_११,१.६१ /
SK
विधेस् त्व् इतरार्थत्वात् सकृद् इज्याश्रुतिव्यतिक्रमः स्यात् / Jऐम्_११,१.६२ /
SK
विधिवत् प्रकरणाविभागे प्रयोगं बादरायणः / Jऐम्_११,१.६३ /
SK
अपि चैकेन सन्निधानम् अविशेषको हेतुः / Jऐम्_११,१.६४ /
SK
क्वचिद् विधानान् नेति चेत् / Jऐम्_११,१.६५ /
SK
न विधेश् चोदितत्वात् / Jऐम्_११,१.६६ /
SK
व्याख्यातं तुल्यानां यौगपद्यम् अगृह्यमाणविशेषाणाम् / Jऐम्_११,१.६७ /
SK
भेदस् तु कालभेदाच् चोदनाव्यवायात् स्याद् विशिष्टानां विधिः प्रधानकालत्वात् / Jऐम्_११,१.६८ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_११,१.६९ /
SK
विधिर् इति चेन् न वर्तमानापदेशात् / Jऐम्_११,१.७० /
SK
एकदेशकालकर्तृत्व मुख्यानाम् एकशब्दोपदेशात् / Jऐम्_११,२.१ /
SK
अविधिश् चेत् कर्मणाम् अभिसम्बन्धः प्रतीयेत तल्लक्षणार्थाभिसंयोगाद् विधित्वाच् चेतरेषां प्रतिप्रधानभावः स्यात् / Jऐम्_११,२.२ /
SK
अङ्गेषु च तदभावः प्रधानं प्रतिनिर्देशात् / Jऐम्_११,२.३ /
SK
यदि तु कर्मणो विधिसम्बन्धः स्याद् ऐकशब्द्यात् प्रधानार्थाभिधासंयोगात् / Jऐम्_११,२.४ /
SK
तथा तान्यार्थदर्शनम् / Jऐम्_११,२.५ /
SK
श्रुतिश् चैषां प्रधानवत् कर्मश्रुतेः परार्थत्वात् / Jऐम्_११,२.६ /
SK
कर्मणो ऽश्रुतित्वाच् च / Jऐम्_११,२.७ /
SK
अङ्गानि तु विधानत्वात् प्रधानेनोपदिश्येरंस् तस्मात् स्याद् एकदेशत्वम् / Jऐम्_११,२.८ /
SK
द्रव्यदेवतं तथेति चेत् / Jऐम्_११,२.९ /
SK
न चोदनाविधिशेषत्वान् नियमार्थो विशेषः / Jऐम्_११,२.१० /
SK
तेषु समवेतानां समवायात् तन्त्रम् अङ्गानि भेदस् तु तद्भेदात् कर्मभेदः प्रयोगे स्यात् तेषां प्रधानशब्दत्वात् तथा चान्यार्थदर्शनम् / Jऐम्_११,२.११ /
SK
इष्टिराजसूयचातुर्मास्येष्व् ऐककर्म्याद् अङ्गानां तन्त्रभावः स्यात् / Jऐम्_११,२.१२ /
SK
कालभेदान् नेति चेत् / Jऐम्_११,२.१३ /
SK
नैकदेशत्वात् पशुवत् / Jऐम्_११,२.१४ /
SK
अपि वा कर्मपृथक्त्वात् तेषां तन्त्रविधानात् साङ्गानाम् उपदेशः स्यात् / Jऐम्_११,२.१५ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_११,२.१६ /
SK
तथा तदवयवेषु स्यात् / Jऐम्_११,२.१७ /
SK
पशौ तु चोदनैकत्वात् तन्त्रस्य विप्रकर्षः स्यात् / Jऐम्_११,२.१८ /
SK
तथा स्याद् अध्वरकल्पेष्टौ विशेषस्यैककालत्वात् / Jऐम्_११,२.१९ /
SK
इष्टिर् इति चैकवच्छ्रुतिः / Jऐम्_११,२.२० /
SK
अपि वा कर्मपृथकत्वात् तेषां च तन्त्रविधानात् साङ्गानाम् उपदेशः स्यात् / Jऐम्_११,२.२१ /
SK
प्रथमस्य वा कालवचनम् / Jऐम्_११,२.२२ /
SK
फलैकत्वाद् इष्टिशब्दो यथान्यत्र / Jऐम्_११,२.२३ /
SK
वसाहोमस् तन्त्रम् एकदेवतेषु स्यात् प्रदानस्यैककालत्वात् / Jऐम्_११,२.२४ /
SK
कालभेदात् त्व् आवृत्तिर् देवताभेदे / Jऐम्_११,२.२५ /
SK
अन्ते यूपाहुतिस् तद्वत् / Jऐम्_११,२.२६ /
SK
इतरप्रतिषेधो वा / Jऐम्_११,२.२७ /
SK
अशास्त्रत्वाच् च देशानाम् / Jऐम्_११,२.२८ /
SK
अवभृथे प्रधाने ऽग्निविकारः स्यान् न हि तद्धेतुर् अग्निसंयोगः / Jऐम्_११,२.२९ /
SK
साङ्गो वा प्रयोदवचनैकत्वात् / Jऐम्_११,२.३० /
SK
लिङ्गदर्शनाच् च / Jऐम्_११,२.३१ /
SK
शब्दविभागाच् च देवतानपनयः / Jऐम्_११,२.३२ /
SK
दक्षिणे ऽग्नौ वरुणप्रधासेषु देशभेदात् सर्वं क्रियते / Jऐम्_११,२.३३ /
SK
अचोदनेति चेत् / Jऐम्_११,२.३४ /
SK
स्यात् पौर्णमासीवत् / Jऐम्_११,२.३५ /
SK
प्रयोगचेदनेति चेत् / Jऐम्_११,२.३६ /
SK
इहापि मारुत्याः प्रयोगश् चोद्यते / Jऐम्_११,२.३७ /
SK
आसादानम् इति चेत् / Jऐम्_११,२.३८ /
SK
नोत्तरेणैकवाक्यत्वात् / Jऐम्_११,२.३९ /
SK
अवाच्यत्वात् / Jऐम्_११,२.४० /
SK
आम्नायवचनं तद्वत् / Jऐम्_११,२.४१ /
SK
कर्तृभेदस् तथेति चेत् / Jऐम्_११,२.४२ /
SK
न समवायात् / Jऐम्_११,२.४३ /
SK
लिङ्गदर्शनाच् च / Jऐम्_११,२.४४ /
SK
वेदिसंयोगाद् इति चेत् / Jऐम्_११,२.४५ /
SK
न देशमात्रत्वात् / Jऐम्_११,२.४६ /
SK
एकवाक्यत्वात् / Jऐम्_११,२.४७ /
SK
एकाग्नित्वाद् अपरेषु तन्त्रं स्यात् / Jऐम्_११,२.४८ /
SK
नाना वा कर्तृभेदात् / Jऐम्_११,२.४९ /
SK
पर्यग्निकृतानाम् उत्सर्गे प्राजापत्यानां कर्मोत्सर्गः श्रुतिसामानयाद् आरण्यवत् तस्माद् ब्रह्मसाम्नि चोदनापृथक्तवं स्यात् / Jऐम्_११,२.५० /
SK
संस्कारप्रतिषेधो वा वाक्यैकत्वो क्रतुसामान्यात् / Jऐम्_११,२.५१ /
SK
वाक्यैकत्वे क्रतुसामान्यात् / Jऐम्_११,२.५२ /
SK
वपानां चानभिघारणस्य दर्शनात् / Jऐम्_११,२.५३ /
SK
पञ्चशारदीयास् तथेति चेत् / Jऐम्_११,२.५४ /
SK
न चोदनैकवाक्यत्वात् / Jऐम्_११,२.५५ /
SK
यातयामत्वाच् च / Jऐम्_११,२.५६ /
SK
संस्कारणां च तद्दर्शनात् / Jऐम्_११,२.५७ /
SK
दशपेये क्रयप्रतिकर्षात् प्रतिकर्षस् ततः प्राचां तत्समानं तन्त्रं स्यात् / Jऐम्_११,२.५८ /
SK
समानवचनं तद्वत् / Jऐम्_११,२.५९ /
SK
अतिकर्षो वार्थहेतुत्वात् / Jऐम्_११,२.६० /
SK
पूर्वस्मिंश् चावभृथस्य दर्शनात् / Jऐम्_११,२.६१ /
SK
समानः कालसामान्यात् / Jऐम्_११,२.६२ /
SK
निष्कासस्यावभृथे तदेकदेशत्वात् पशुवत् प्रदानविप्रकर्षः स्यात् / Jऐम्_११,२.६३ /
SK
अपनयो वा प्रसिद्धेनाभिसंयोगात् / Jऐम्_११,२.६४ /
SK
प्रतिपत्तिर् इति चेन्न कर्मसंयोगात् / Jऐम्_११,२.६५ /
SK
उदयनीये च तद्वत् / Jऐम्_११,२.६६ /
SK
प्रतिपत्तिर् वाकर्मसंयोगात् / Jऐम्_११,२.६७ /
SK
अर्थकर्म वा शेषत्वाच् छ्रयणवत् तदर्थेन विधानात् / Jऐम्_११,२.६८ /
SK
अङ्गानां मुख्यकालत्वाद् वचनाद् अन्यकालत्वम् / Jऐम्_११,३.१ /
SK
द्रव्यस्य कर्मकालनिष्पत्तेः प्रयोगः सर्वार्थः स्यात् स्वकालत्वात् / Jऐम्_११,३.२ /
SK
यूपश् चाकर्मकालत्वात् / Jऐम्_११,३.३ /
SK
एकयूपं च दर्षयति / Jऐम्_११,३.४ /
SK
संस्कारास् त्व् आवर्तेरन्न् अर्थकालत्वात् / Jऐम्_११,३.५ /
SK
तत्कालस् तु यूपकर्मत्वात् तस्य धर्मविधानात् सर्वार्थानां च वचनाद् अन्यकालत्वम् / Jऐम्_११,३.६ /
SK
सकृन्मानं च दर्शयति / Jऐम्_११,३.७ /
SK
स्वरुस् तन्त्रापवर्गः स्याद् अस्वकालत्वात् / Jऐम्_११,३.८ /
SK
साधारणे वानुनिष्पत्तिस् तस्य साधारणत्वात् / Jऐम्_११,३.९ /
SK
सोमान्ते च प्रतिपत्तिदर्शनात् / Jऐम्_११,३.१० /
SK
न चोत्पत्तिवाक्यत्वात् प्रदेशात् प्रस्तरे तथा / Jऐम्_११,३.११ /
SK
अहर्गणे विषाणाप्रासनं धर्मविप्रतिषेधाद् अन्ते प्रथमे वाहनि विकल्पः स्यात् / Jऐम्_११,३.१२ /
SK
पाणेस् त्व् अश्रुतिभूतत्वाद् विषाणानियमः स्यात् प्रातः सवनमध्यत्वाच् छिष्टे चाभिप्रवृत्तत्वात् / Jऐम्_११,३.१३ /
SK
शिष्ठे चाभिप्रवृत्तत्वात् / Jऐम्_११,३.१४ /
SK
वाग्विसर्गो हविष्कृता वीजभेदे तथा स्यात् / Jऐम्_११,३.१५ /
SK
यथाह्वानम् अपीति चेत् / Jऐम्_११,३.१६ /
SK
पशौ च पुरोडाशे समानतन्त्रं भवेत् / Jऐम्_११,३.१७ /
SK
अङ्गप्रधानार्थो योगः सर्वापवर्गे विमोकः स्यात् / Jऐम्_११,३.१८ /
SK
प्रधानापवर्गे वा तदर्थत्वात् / Jऐम्_११,३.१९ /
SK
अवभृथे च तद्वत् प्रधानार्थस्य प्रतिषेधो ऽपवृक्तार्थत्वात् / Jऐम्_११,३.२० /
SK
अहर्गणे च प्रत्यहं स्यात् तदर्थत्वात् / Jऐम्_११,३.२१ /
SK
सुब्रह्मण्या तु तन्त्रं दीक्षावदन्यकालत्वात् / Jऐम्_११,३.२२ /
SK
तत्कालात् त्व् आदावर्तेत प्रयागतो विशेषसम्बन्धात् / Jऐम्_११,३.२३ /
SK
अप्रयोगाङ्गम् इति चेत् / Jऐम्_११,३.२४ /
SK
प्रयोगनिर्देशात् कर्सृभेदवत् / Jऐम्_११,३.२५ /
SK
तद्भूतस्थानाद् अग्निवद् इति चेत् तदपवर्गस् तदर्थत्वात् / Jऐम्_११,३.२६ /
SK
अग्निवद् इति चेत् / Jऐम्_११,३.२७ /
SK
न प्रयोगसाधारण्यात् / Jऐम्_११,३.२८ /
SK
लिङ्गदर्शनाच् च / Jऐम्_११,३.२९ /
SK
तद् धि तथेति चेत् / Jऐम्_११,३.३० /
SK
नाशिष्टत्वाद् इतरन्यायत्वाच् च / Jऐम्_११,३.३१ /
SK
विध्येकत्वाद् इति चेत् / Jऐम्_११,३.३२ /
SK
न कृत्स्नस्य पुनः प्रयोगात् प्रधानवत् / Jऐम्_११,३.३३ /
SK
लौकिकेतु यथाकामी संस्कारानर्थलोपात् / Jऐम्_११,३.३४ /
SK
यज्ञायुधानि धार्येरन् प्रतिपत्तिविधानाद् ऋजीषवत् / Jऐम्_११,३.३५ /
SK
यजमानसंस्कारो वा तदर्थः श्रूयते तत्र यथाकामी तदर्थत्वात् / Jऐम्_११,३.३६ /
SK
मुख्यधारणं वा मरणस्यानियतत्वात् / Jऐम्_११,३.३७ /
SK
यो वा यजनीये ऽहनि म्रियेत सो ऽधिकृतः स्याद् उपवेषवत् / Jऐम्_११,३.३८ /
SK
न शास्त्रलक्षणत्वात् / Jऐम्_११,३.३९ /
SK
उत्पत्तिर् वा प्रयोजकत्वाद् आशिरवत् / Jऐम्_११,३.४० /
SK
शब्दासामज्जस्यम् इति चेत् / Jऐम्_११,३.४१ /
SK
तथाशिरे ऽपि / Jऐम्_११,३.४२ /
SK
शास्त्रात् तु विप्रयोगस् तत्रैकद्रव्यचिकीर्षा प्रकृताव् अथेहापूर्वार्थवद् भूतोपदेशः / Jऐम्_११,३.४३ /
SK
प्रकृत्यर्थत्वात् पौर्णमास्याः क्रियेरन् / Jऐम्_११,३.४४ /
SK
अग्न्याधेये वाविप्रतिषेधात् तानि धारयेन् मरणस्यानिमित्तवात् / Jऐम्_११,३.४५ /
SK
प्रतिपत्तिर् वा यथान्येषाम् / Jऐम्_११,३.४६ /
SK
उपरिष्टात् सोमानां प्राजापत्यैश् चरन्तीति / Jऐम्_११,३.४७ /
SK
अङ्गविपर्यासो विनावचनाद् इति चेत् / Jऐम्_११,३.४८ /
SK
उत्कर्षः संयोगात् कालमात्रम् इतरत्र / Jऐम्_११,३.४९ /
SK
प्रकृतिकालासत्तेः शस्त्रवताम् इति चेत् / Jऐम्_११,३.५० /
SK
न श्रुतिप्रतिषेधात् / Jऐम्_११,३.५१ /
SK
विकारस्थाने इति चेत् / Jऐम्_११,३.५२ /
SK
न चोदनापृथक्त्वात् / Jऐम्_११,३.५३ /
SK
उत्कर्षे सूक्तवाकस्य न सोमदेवतानाम् उत्कर्षः पश्वनङ्गत्वाद् यथा निष्कर्षेनान्वयः / Jऐम्_११,३.५४ /
SK
वाक्यसंयोगाद् वोत्कर्षः समानतन्त्रत्वाद् अर्थलोपाद् अनन्वयः / Jऐम्_११,३.५५ /
SK
चोदनैकत्वाद् राजसूये ऽनुक्तदेशकालानां समवायात् तन्त्रम् अङ्गानि / Jऐम्_११,४.१ /
SK
प्रतिदक्षिणं वा कर्तृसम्बन्धाद् इष्टिवद् अङ्गभूतत्वात् समुदायो हि तन्निर्वृत्त्यातदेकत्वाद् एकत्वाद् एकशब्दोपदेशः स्यात् / Jऐम्_११,४.२ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_११,४.३ /
SK
अनियमः स्याद् इति चेत् / Jऐम्_११,४.४ /
SK
नोपदिष्टत्वात् / Jऐम्_११,४.५ /
SK
प्रयोजनैकत्वात् / Jऐम्_११,४.६ /
SK
अविशेषार्था पुनः श्रुतिः / Jऐम्_११,४.७ /
SK
अवेष्टौ चैकतन्त्र्यं स्याल् लिङ्गदर्शनाद् वचनात् कामसंयोगेन / Jऐम्_११,४.८ /
SK
क्रत्वर्थायाम् इति चेन् न वर्णसंयोगात् / Jऐम्_११,४.९ /
SK
पवमानहविःष्वैकतन्त्र्य प्रयोगवचनैकत्वात् / Jऐम्_११,४.१० /
SK
लिङ्गदर्शनाच् च / Jऐम्_११,४.११ /
SK
वर्तमानापदेशाद् वचनात् तु तन्त्रभेदः स्यात् / Jऐम्_११,४.१२ /
SK
सहत्वे नित्यानुवादः स्यात् / Jऐम्_११,४.१३ /
SK
द्वादशाहे तु प्रकृतित्वाद् एकैकम् अहर् अपवृज्येत कर्मपृथक्त्वात् / Jऐम्_११,४.१४ /
SK
अह्रां वा श्रुतिभूतत्वात् तत्र साङ्गं क्रियेत यथा माध्यन्दिने / Jऐम्_११,४.१५ /
SK
अपि वा फलकर्तृसम्बन्धात् सह प्रयोगः स्याद् आग्नेयाग्नीषोमीयवत् / Jऐम्_११,४.१६ /
SK
साङ्गकालश्रुतित्वाद् वा स्वस्थानानां विकारः स्यात् / Jऐम्_११,४.१७ /
SK
दीक्षोपसदां च संख्या पृथक्पृथक् प्रत्यक्षसंयोगात् / Jऐम्_११,४.१८ /
SK
वसतीवरीपर्यन्तानि पूर्वाणि तन्त्रम् अन्यकालत्वाद् अवभृथादीन्य् उत्तराणि दीक्षाविसर्गार्थत्वात् / Jऐम्_११,४.१९ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_११,४.२० /
SK
चोदनापृथक्त्वे त्व् ऐकतन्त्र्यं समवेतानां कालसंयोगात् / Jऐम्_११,४.२१ /
SK
भेदस् तु तद्भेदात् करमभेदः प्रयोगे स्यात् तेषां प्रधानशब्दत्वात् / Jऐम्_११,४.२२ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_११,४.२३ /
SK
श्वासुत्यावचनं तद्वत् / Jऐम्_११,४.२४ /
SK
पश्वतिरेकश् च / Jऐम्_११,४.२५ /
SK
सुत्याविवृद्धौ सुब्रह्मण्यायां सर्वेषाम् उपलक्षणं प्रकृत्यन्वयाद् आवाहनवत् / Jऐम्_११,४.२६ /
SK
अपि वेन्द्राभिधानत्वात् सकृत् स्याद् उपलक्षणं कालस्य लक्षणार्थत्वात् / Jऐम्_११,४.२७ /
SK
अविभागाच् च / Jऐम्_११,४.२८ /
SK
पशुगणे कुम्भीशूलवपाश्रपणीनां प्रभुत्वात् तन्त्रभावः स्यात् / Jऐम्_११,४.२९ /
SK
भेदस् तु सन्देहाद् देवतान्तरे स्यात् / Jऐम्_११,४.३० /
SK
अर्थाद् वा लिङ्गकर्म स्यात् / Jऐम्_११,४.३१ /
SK
प्रतिपाद्यत्वाद् वसानां भेदः स्यात् स्वयाज्याप्रदानत्वात् / Jऐम्_११,४.३२ /
SK
अपि वा प्रतिपत्तित्वात् तन्त्रं स्यात् स्वत्वस्याश्रुतिभूतत्वात् / Jऐम्_११,४.३३ /
SK
सकृद् इति चेत् / Jऐम्_११,४.३४ /
SK
न कालभेदात् / Jऐम्_११,४.३५ /
SK
पक्तिभेदात् कुम्भीशूलवपाश्ररणीनां भेदः स्यात् / Jऐम्_११,४.३६ /
SK
जात्यन्तरेषु भेदः पक्तिवैषम्यात् / Jऐम्_११,४.३७ /
SK
वृद्धिदर्शनाच् च / Jऐम्_११,४.३८ /
SK
कपालानि च कुम्भीवत् तुल्यसंख्यानाम् / Jऐम्_११,४.३९ /
SK
प्रतिप्रधानं वा प्रकृतिवत् / Jऐम्_११,४.४० /
SK
सर्वेषां वाभिप्रथमं स्यात् / Jऐम्_११,४.४१ /
SK
एकद्रव्ये संस्काराणां व्याख्यातम् एककर्मत्वात् / Jऐम्_११,४.४२ /
SK
द्रव्यान्तरे कृतार्थत्वात् तस्य पुनः प्रयोगान् मन्त्रस्य च तद्गुणत्वात् पुनः प्रयोगः स्यात् तदर्थेन विधानात् / Jऐम्_११,४.४३ /
SK
निर्वपणलवनस्तरणाज्यग्रहणेषु चैकद्रव्यवत् प्रयोजनैकत्वात् / Jऐम्_११,४.४४ /
SK
द्रव्यान्तरवद् वा स्यात् तत्संस्कारात् / Jऐम्_११,४.४५ /
SK
वेदिप्रोक्षणे मन्त्राभ्यासः कर्मणः पुनः प्रयोगात् / Jऐम्_११,४.४६ /
SK
एकस्य वा गुणविधिर् द्रव्यैकत्वात् तस्मात् सकृत् प्रयोगः स्यात् / Jऐम्_११,४.४७ /
SK
कण्डूयने प्रत्यङ्गं कर्मभेदात् स्यात् / Jऐम्_११,४.४८ /
SK
अपि वा चोदनैककालम् ऐककर्म्यं स्यात् / Jऐम्_११,४.४९ /
SK
स्वप्ननदीतरणाभिवर्षणामेध्यप्रतिमन्त्रणेषु चैवम् / Jऐम्_११,४.५० /
SK
प्रयाणे त्व् आर्थनिर्वृत्तेः / Jऐम्_११,४.५१ /
SK
उपरवमन्त्रस् तन्त्रं स्याल् लोकवद् बहुवचनात् / Jऐम्_११,४.५२ /
SK
न सन्निपातित्वाद् असन्निपातिकर्मणां विशेषग्रहणे कालैकत्वात् सकृद् वचनम् / Jऐम्_११,४.५३ /
SK
हविष्कृदध्रिगुपुरो ऽनुवाक्यामनोतस्यावृत्तिः कालभेदात् स्यात् / Jऐम्_११,४.५४ /
SK
अध्रिगोश् च विपर्यासात् / Jऐम्_११,४.५५ /
SK
करिष्यद्वचनात् / Jऐम्_११,४.५६ /
SK
तन्त्रिसमवाये चोदनातः समानानाम् एकतन्त्र्यम् अतुल्येषु तु भेदः स्याद् विधिप्रक्रमताद् अर्थ्यात् श्रुतिकालनिर्देशात् / Jऐम्_१२,१.१ /
SK
गुणकालविकाराच् च तन्त्रभेदः स्यात् / Jऐम्_१२,१.२ /
SK
तन्त्रमध्ये विधानाद् वा मुख्यतन्त्रेण सिद्धिः स्यात् तन्त्रार्थस्याविशिष्टत्वात् / Jऐम्_१२,१.३ /
SK
विकाराच् च न भेदः स्याद् अर्थस्याविकृतत्वात् / Jऐम्_१२,१.४ /
SK
एकेषां वाशक्यत्वात् / Jऐम्_१२,१.५ /
SK
आहोपुरीषकं स्यात् / Jऐम्_१२,१.६ /
SK
एकाग्निवच् च दर्शनम् / Jऐम्_१२,१.७ /
SK
जैमिनेः परतन्त्रत्वापत्तेः स्वतन्त्रप्रतिषेधः स्यात् / Jऐम्_१२,१.८ /
SK
नानार्थत्वात् सोमे दर्शपूर्णमासप्रकृतीनां वेदिकर्म स्यात् / Jऐम्_१२,१.९ /
SK
अकर्म वा कृतदूषा स्यात् / Jऐम्_१२,१.१० /
SK
पात्रेषु च प्रसङ्गः स्याद् धोमार्थत्वात् / Jऐम्_१२,१.११ /
SK
न्याय्यानि वा प्रयुक्तत्वाद् अप्रयुक्ते प्रसङ्गः स्यात् / Jऐम्_१२,१.१२ /
SK
शामित्रे च पशुपुरोडाशो न स्याद् इतरस्य प्रयुक्तत्वात् / Jऐम्_१२,१.१३ /
SK
श्रपणं वाग्निहोत्रस्य शालामुखीये न स्यात् प्राजहितस्य विद्यमानत्वात् / Jऐम्_१२,१.१४ /
SK
हविर्धाने निर्वपणार्थं साधयेतां प्रयुक्तत्वात् / Jऐम्_१२,१.१५ /
SK
असिद्धिर् वान्यदेशत्वात् प्रधानवैगुण्याद् अवैगुण्ये प्रसङ्गः स्यात् / Jऐम्_१२,१.१६ /
SK
अनसाञ् च दर्शनात् / Jऐम्_१२,१.१७ /
SK
तद्युक्तत्वं च कालभेदात् / Jऐम्_१२,१.१८ /
SK
मन्त्राश् च सन्निपातित्वात् / Jऐम्_१२,१.१९ /
SK
धारणार्थत्वात् सोमे ऽग्न्यन्वाधानं न विद्यते / Jऐम्_१२,१.२० /
SK
तथा व्रतम् अपेतत्वात् / Jऐम्_१२,१.२१ /
SK
विप्रतिषेधाच् च / Jऐम्_१२,१.२२ /
SK
सत्यवद् इति चेत् / Jऐम्_१२,१.२३ /
SK
न संयोगपृथक्त्वात् / Jऐम्_१२,१.२४ /
SK
ग्रहार्थं च पूर्वम् इष्टेस् तदर्थत्वात् / Jऐम्_१२,१.२५ /
SK
शेषवद् इति चेन् न वैश्वदेवो हि स्याद् व्यपदेशात् / Jऐम्_१२,१.२६ /
SK
न गुणार्थत्वात् / Jऐम्_१२,१.२७ /
SK
सन्नहनञ् च वृत्तत्वात् / Jऐम्_१२,१.२८ /
SK
अन्यविधानाद् आरण्यभोजनं न स्याद् उभयं हि वृत्त्यर्थम् / Jऐम्_१२,१.२९ /
SK
शेषभक्षास् तथेति चेन् नान्यार्थत्वात् / Jऐम्_१२,१.३० /
SK
भृतत्वाच् च परिक्रयः / Jऐम्_१२,१.३१ /
SK
शेषभक्षास् तथेति चेत् / Jऐम्_१२,१.३२ /
SK
न कर्मसंयोगात् / Jऐम्_१२,१.३३ /
SK
प्रवृत्तवरणात् प्रति तन्त्रवरणात् प्रतितन्त्रवरणं होतुः क्रियेत / Jऐम्_१२,१.३४ /
SK
ब्रह्मापीति चेत् / Jऐम्_१२,१.३५ /
SK
न प्राङ्नियमात् तदर्थं हि / Jऐम्_१२,१.३६ /
SK
निर्दिष्टस्येति चेत् / Jऐम्_१२,१.३७ /
SK
न श्रुतत्वात् / Jऐम्_१२,१.३८ /
SK
होतुस् तथेति चेत् / Jऐम्_१२,१.३९ /
SK
न कर्मसंयोगात् / Jऐम्_१२,१.४० /
SK
यज्ञोत्पत्त्युपदेशे निष्ठितकर्मप्रयोगभेदात् प्रतितन्त्रं क्रियेत / Jऐम्_१२,१.४१ /
SK
देशपृथक्त्वान् मन्त्रो व्यावर्तते / Jऐम्_१२,१.४२ /
SK
सन्नहनहरणे तथेति चेत् / Jऐम्_१२,१.४३ /
SK
नान्यार्थत्वात् / Jऐम्_१२,१.४४ /
SK
विहारो लौकिकानाम् अर्थं साधयेत् प्रभुत्वात् / Jऐम्_१२,२.१ /
SK
मांसपाकप्रतिषेधश् च तद्वत् / Jऐम्_१२,२.२ /
SK
निर्देशाद् वा वैदिकानां स्यात् / Jऐम्_१२,२.३ /
SK
सति चोपासनस्य दर्शनात् / Jऐम्_१२,२.४ /
SK
अभावदर्शनाच् च / Jऐम्_१२,२.५ /
SK
मांसपाको विहितप्रतिषेधः स्याद् आहुतिसंयोगात् / Jऐम्_१२,२.६ /
SK
वाक्यशेषो वा दक्षिणस्मिन्न् अनारभ्यविधानस्य / Jऐम्_१२,२.७ /
SK
सवनीये छिद्रापिधानार्थत्वात् पशुपुरोडाशो न स्याद् अन्येषाम् एवम् अर्थत्वात् / Jऐम्_१२,२.८ /
SK
क्रिया वा देवतार्थत्वात् / Jऐम्_१२,२.९ /
SK
लिङ्गदर्शनात् / Jऐम्_१२,२.१० /
SK
हविष्कृत् सवनीयेषु न स्यात् प्रकृतौ यदि सर्वार्था पशुं प्रत्याहूता सा कुर्याद् विद्यमानत्वात् / Jऐम्_१२,२.११ /
SK
पशौ तु संस्कृते विधानात् / Jऐम्_१२,२.१२ /
SK
योगाद् वा यज्ञाय तद्विमोके विसर्गः स्यात् / Jऐम्_१२,२.१३ /
SK
निशि यज्ञे प्राकृतस्याप्रवृत्तिः स्यात् प्रत्यक्षशिष्टत्वात् / Jऐम्_१२,२.१४ /
SK
कालवाक्यभेदाच् च तन्त्रभेदः स्यात् / Jऐम्_१२,२.१५ /
SK
वेद्युद्धननव्रतं विप्रतिषेधात् तद् एव स्यात् / Jऐम्_१२,२.१६ /
SK
तन्त्रमध्ये विधानाद् वा तत्तन्त्रा सवनीयवत् / Jऐम्_१२,२.१७ /
SK
वैगुण्याद् इध्मबर्हिर् न साधयेद् अग्न्यन्वाधानं च यदि देवतार्थम् / Jऐम्_१२,२.१८ /
SK
अग्न्यन्वाधानं च यदि देवतार्थम् / Jऐम्_१२,२.१९ /
SK
आरम्भणीया विकृतौ न स्यात् प्रकृतिकालमध्यत्वात् कृता पुनस् तदर्थेन / Jऐम्_१२,२.२० /
SK
सकृद् आरम्भसंयोगात् / Jऐम्_१२,२.२१ /
SK
स्याद् वा कालस्याशेषभूतत्वात् / Jऐम्_१२,२.२२ /
SK
आरंभविभागाच् च / Jऐम्_१२,२.२३ /
SK
विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात् सधर्मकत्वम् / Jऐम्_१२,२.२४ /
SK
मुख्यं वा पूर्वचोदनाल् लोकवत् / Jऐम्_१२,२.२५ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_१२,२.२६ /
SK
अङ्गगुणविरोधे च तादर्थ्यात् / Jऐम्_१२,२.२७ /
SK
परिधेर् द्व्यर्थत्वाद् उभयधर्मा स्यात् / Jऐम्_१२,२.२८ /
SK
यौप्यस् तु विरोधे स्यान् मुख्यानन्तर्यात् / Jऐम्_१२,२.२९ /
SK
इतरो वा तस्य तत्र विधानाद् उभयोश् चाङ्गसंयोगः / Jऐम्_१२,२.३० /
SK
पशुसवनीयेषु विकल्पः स्याद् वैकृतश् चेद् उभयोर् अश्रुतिभूतत्वात् / Jऐम्_१२,२.३१ /
SK
पाशुकं वा तस्य वैशेषिकाम्नानात् तदनर्थकं विकल्पे स्यात् / Jऐम्_१२,२.३२ /
SK
पशोश् च विप्रकर्षस् तन्त्रमध्ये विधानात् / Jऐम्_१२,२.३३ /
SK
अपूर्वं च प्रकृतौ समानतन्त्रा चेद् अनित्यत्वाद् अनर्थकं हि स्यात् / Jऐम्_१२,२.३४ /
SK
अधिकश् च गुणः साधारणे ऽविरोधात् कांस्यभोजिवद् अमुख्ये ऽपि / Jऐम्_१२,२.३५ /
SK
तत्प्रवृत्त्या तु तन्त्रस्य नियमः स्याद् यथा पाशुकं सूक्तपाकेन / Jऐम्_१२,२.३६ /
SK
न वाविरोधात् / Jऐम्_१२,२.३७ /
SK
अशास्त्रलक्षणत्वाच् च / Jऐम्_१२,२.३८ /
SK
विश्वजिति वत्सत्वङ्नामधेयाद् इतरथा तन्त्रभूयस्त्वाद् अहतं स्यात् / Jऐम्_१२,३.१ /
SK
अविरोधी वा उपरिवासो हि वत्सत्वक् / Jऐम्_१२,३.२ /
SK
अनुनिर्वाप्येषु भूयस्त्वेन तन्त्रनियमः स्याच् छ्विष्ठकृद्दर्शनाच् च / Jऐम्_१२,३.३ /
SK
आगन्तुकत्वाद् वा स्वधर्मा स्याच् छ्रुतिविशेषाद् इतरस्य च मुख्यत्वात् / Jऐम्_१२,३.४ /
SK
स्वस्थानत्वाच् च / Jऐम्_१२,३.५ /
SK
स्विष्टकृच्छ्रपणान् नेति चेद् विकारः पवमानवत् / Jऐम्_१२,३.६ /
SK
अविकारो वा प्रकृतिवच् चोदनां प्रति भावाच् च / Jऐम्_१२,३.७ /
SK
एक कर्मणि शिष्टत्वाद् गुणानां सर्वकर्म स्यात् / Jऐम्_१२,३.८ /
SK
एकार्थास् तु विकल्पेरन् समुच्चये ह्य् आवृत्तिः स्यात् प्रधानस्य / Jऐम्_१२,३.९ /
SK
अभ्यस्येतार्थवत्त्वाद् इति चेत् / Jऐम्_१२,३.१० /
SK
नाश्रुतत्वाद् धि विकल्पवच् च दर्शयति कालान्तरे ऽर्थवत्त्वं स्यात् / Jऐम्_१२,३.११ /
SK
प्रायश्चित्तेषु चैकार्थ्यान् निष्पन्नेनाभिसंयोगस् तस्मात् सर्वस्य निर्घातः / Jऐम्_१२,३.१२ /
SK
समुच्चयस् तु दोषार्थः / Jऐम्_१२,३.१३ /
SK
मन्त्राणां कर्मसंयोगः स्वधर्मेण प्रयोगः स्याद् धर्मस्य तन्निमित्तत्वात् / Jऐम्_१२,३.१४ /
SK
विद्यांप्रतिविधिनाद् वा सर्वकारणं प्रयोगः स्यात् कर्मार्थत्वात् प्रयोगस्य / Jऐम्_१२,३.१५ /
SK
भाषास्वरोपदेशादैरवत् प्रायवचनप्रतिषेधः / Jऐम्_१२,३.१६ /
SK
मन्त्रोपदेशो वा न भाषिकस्य प्रायोपपत्तेर् भाषिकश्रुतिः / Jऐम्_१२,३.१७ /
SK
विकारः कारणाग्रहणे तन्न्यायत्वाद् दृष्टे ऽप्य् एवम् / Jऐम्_१२,३.१८ /
SK
तदुत्पत्तेर् वा प्रवचनलक्षणत्वात् / Jऐम्_१२,३.१९ /
SK
मन्त्राणां करणार्थत्वान् मन्त्रान्तेन कर्मादिसन्निपातः स्यात् सर्वस्य वचनार्थत्वात् / Jऐम्_१२,३.२० /
SK
संततवचनाद् धारायाम् आदिसंयोगः / Jऐम्_१२,३.२१ /
SK
करमसंतानो वा नानाकर्मत्वाद् इतरस्याशक्चत्वात् / Jऐम्_१२,३.२२ /
SK
आघारे च दीर्घधारत्वात् / Jऐम्_१२,३.२३ /
SK
मन्त्राणां संनिपातित्वाद् एकार्थानां विकल्पः स्यात् / Jऐम्_१२,३.२४ /
SK
संख्याविहितेषु समुच्चयो ऽसंनिपातित्वात् / Jऐम्_१२,३.२५ /
SK
ब्राह्मणविहितेषु च संख्यावत् सर्वेषाम् उपदिष्ठत्वात् / Jऐम्_१२,३.२६ /
SK
याज्यावषट्कारयोश् च समुच्चयदर्शनं तद्वत् / Jऐम्_१२,३.२७ /
SK
विकल्पो वा समुच्चयस्याश्रुतित्वात् / Jऐम्_१२,३.२८ /
SK
गुणार्थत्वाद् उपदेशस्य / Jऐम्_१२,३.२९ /
SK
वषट्कारे नानार्थत्वात् समुच्चयो हौत्रास् तु विकल्पेरन्न् एकार्थत्वात् / Jऐम्_१२,३.३० /
SK
क्रियमाणानुवादित्वात् समुच्चयो वा हौत्राणाम् / Jऐम्_१२,३.३१ /
SK
समुच्चयं च दर्शयति / Jऐम्_१२,३.३२ /
SK
जपाश् चाकर्मसंयुक्ताः स्तुत्याशीरभिधानाश् च याजमानेषु समुच्चयः स्याद् आशीःपृथक्त्वात् / Jऐम्_१२,४.१ /
SK
समुच्चयं च दर्शयति / Jऐम्_१२,४.२ /
SK
याज्यानुवाक्यासु तु विकल्पः स्याद् देवतोपलक्षणार्थत्वात् / Jऐम्_१२,४.३ /
SK
लिङ्गदर्शनाच् च / Jऐम्_१२,४.४ /
SK
क्रयेषु ति विकल्पः स्याद् एकार्थत्वात् / Jऐम्_१२,४.५ /
SK
समुच्चयो वा प्रयोगद्रव्यसमवायात् / Jऐम्_१२,४.६ /
SK
समुच्चयञ् च दर्शयति / Jऐम्_१२,४.७ /
SK
संस्कारे च तत्प्रधानत्वात् / Jऐम्_१२,४.८ /
SK
संख्यासु तु विकल्पः स्याच् छ्रुतिप्रतिषेधात् / Jऐम्_१२,४.९ /
SK
द्रव्यविकारात् तु पूर्ववद् अर्थकर्म स्यात् तया विकल्पेन नियमप्रधानत्वात् / Jऐम्_१२,४.१० /
SK
द्रव्यत्वे ऽपि समुच्चयो द्रव्यस्य कर्मनिष्पत्तेः प्रतिपशुकर्मभेदाद् एवं सति यथाप्रकृति / Jऐम्_१२,४.११ /
SK
कपाले ऽपि तथेति चेत् / Jऐम्_१२,४.१२ /
SK
न कर्मणः परार्थत्वात् / Jऐम्_१२,४.१३ /
SK
प्रतिपत्तिस् तु शेषत्वात् / Jऐम्_१२,४.१४ /
SK
शृते ऽपि पूर्ववत् स्यात् / Jऐम्_१२,४.१५ /
SK
विकल्प्यो ऽन्वर्थकर्मनियमप्रधानत्वाच् छेसे च कर्मकार्यसमवायात् तसमात् तेनार्थकर्म स्यात् / Jऐम्_१२,४.१६ /
SK
उखायां काम्यनित्यसमुच्चयो नियोगे कामदर्शनात् / Jऐम्_१२,४.१७ /
SK
असति चासंस्कृतेषु कर्म स्यात् / Jऐम्_१२,४.१७* /
SK
तस्य च देवतार्थत्वात् / Jऐम्_१२,४.१८ /
SK
विकारो वा नित्यस्याग्नेः काम्येन तदुक्तहेतुः / Jऐम्_१२,४.१९ /
SK
वचनाद् असंस्कृतेषु कर्म स्यात् / Jऐम्_१२,४.२० /
SK
संसर्गे चापि दोषः स्यात् / Jऐम्_१२,४.२१ /
SK
वचनाद् इति चेद् अथेतरस्मिन्न् उत्सर्गापरिग्रहः कर्मणः कृतत्वात् / Jऐम्_१२,४.२२ /
SK
स आहवनीयः स्याद् आहुतिसंयोगात् / Jऐम्_१२,४.२३ /
SK
अन्यो वोद्धृत्याहरणात् तस्मिन्त्संस्कारकर्म शिष्टत्वात् / Jऐम्_१२,४.२४ /
SK
स्थानात् तु परिलुप्येरन् / Jऐम्_१२,४.२५ /
SK
नित्याधारणे विकल्पो न ह्य् अकस्मात् प्रतिषेधः स्यात् / Jऐम्_१२,४.२६ /
SK
नित्यधारणाद् वा प्रतिषेधो गतश्रियः / Jऐम्_१२,४.२७ /
SK
परार्थान्य् एकः प्रतियन्तिवत् सत्राहीनयो यजमानगणे ऽनियमो ऽविशेषात् / Jऐम्_१२,४.२८ /
SK
मुख्यो वाविप्रतिषेधात् / Jऐम्_१२,४.२९ /
SK
सत्रे गृहपतिर् असंयोगाद् धौत्रवद् आम्नायवचनाच् च / Jऐम्_१२,४.३० /
SK
सर्वैः वा तदर्थत्वात् / Jऐम्_१२,४.३१ /
SK
विप्रतिषेधे परम् / Jऐम्_१२,४.३२ /
SK
हौत्रे परार्थत्वात् / Jऐम्_१२,४.३३ /
SK
वचनं परम् / Jऐम्_१२,४.३४ /
SK
प्रभुत्वाद् आर्त्विज्यं सर्ववर्णानां स्यात् / Jऐम्_१२,४.३५ /
SK
स्मृतेर् वा स्याद् ब्राह्मणानाम् / Jऐम्_१२,४.३६ /
SK
फलचमसविधानाच् चेतरेषाम् / Jऐम्_१२,४.३७ /
SK
सान्नाय्ये ऽप्य् एवं प्रतिषेधः सौमपीयहेतुत्वात् / Jऐम्_१२,४.३८ /
SK
चतुर्धाकरणे च निर्देशात् / Jऐम्_१२,४.३९ /
SK
अन्वाहार्ये च दर्शनात् / Jऐम्_१२,४.४० /

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Jaimini: Mīmāṃsāsūtra (sa_jaimini-mImAMsAsUtra.htm).

Source