The Song of God Bhagavadgītā
1 SK श्रीमद्भगवद्गीतावीरशैवभाष्यम् ॐ शिवाय परब्रह्मणे नमः प्रथमाध्यायः चिद्रूपशक्त्या विलसन्सदैव जीवात्ममोक्षस्थितिबन्धहेतुः | मृत्युञ्जयः पाशविमोचनेन पायान्मुदा किङ्करभावनम्रान् || १ || सात्त्विकैरर्चितो योगिभिस्सेवितः कृत्तिना रञ्जितो भस्मना रूषितः | गङ्गया शोभितो भोगिना वेष्टितो नंदिनाराधितः पातु वश्शङ्करः || २ || लिङ्गस्य तत्त्वं निहितं हि लोके सर्वैर्यथा ग्राह्यमनन्यभक्त्या | तथा प्रचारं कुरुते स्म नित्यं दिव्योपदेशात् गुरुरेणुकार्यः || ३ || नामामि शंभुं गुरुरूपधारिणं सनातनं शाश्वतधर्मबोधकम् | लिङ्गोद्भवं लिङ्गसमानवैभवं यो विश्वमावृत्त्य विराजतेऽनिशम् || ४ || यो वीरशैवं स्थिरयन्महीतले संराजतेऽद्यापि सुनिर्मले हृदि | अगस्त्यसंबोधितया दिशाधुना कुर्यात्स देवश्शुभसन्ततिं पराम् || ५ || वैराग्यमूलं वरशून्यपीठं सुज्ञानलभ्यं गुरुरल्लमार्यः | गुहेशनिष्ठस्समलञ्चकार लोकेषु स्थित्वाऽयमलोकधर्मा || ६ || तदीयपीठे विलसन् शिवात्मको योगीश्वरः श्रीगुरुतोण्टदार्यः | भक्तान्सदा पातु कृपाप्रसादाद्यदर्थमेवागत एष देवः || ७ || निर्लिप्तमूर्तिः शिवयोगिवर्यश्चिदात्मको निर्मलज्योतिरूपः | सन्दर्शयामास तदीयरूपं ह्यमूर्तमस्यां भुवि सञ्चरन्यः || ८ || वैराग्यतत्त्वं परिनिष्ठितं चेत्सद्भक्तवृन्दं समलङ्करोति | तस्यैव दार्ढ्याय गृहीतवेषो ह्यमूर्तशंभुर्भुवि सञ्चचार || ९ || प्. २) स एव शंभुर्मुरुघेशनाम्ना निरञ्जनं पीठमुदारुरोह | बृहन्मठे योगसमाधिमग्नो जगद्गुरुर्लोकहितैकनिष्ठया || १० || निर्लेपनं नाम भवाब्धितारणं रागादिदुःखौघनिवारणौषधम् | मायाख्यशक्तेः परिमार्जनं वरं तत्त्वार्थविज्ञानविचारभूषणम् || ११ || एतादृशं दिव्यतपः फलोदयं हृद्रोगनाशाय समर्थमौषधम् | प्रदातुमीशश्चरजङ्गमाह्वयो विराजते शुद्धविरक्तमुद्रया || १२ ||
2 SK महानुभावो मुरुघेशवर्यः पापौघसन्त्रासनिबद्धकक्ष्यः | योगेन दिव्यं परिगृह्य देहं सदानुगृह्णाति समस्तभक्तान् || १३ || मुरुघेश एषो भुवि शून्यपीठे चिद्रूपदेहे विमले विराजते | नमामि तं सद्गुरुमल्लिकार्जुनं यत्पादपद्मे विनिविष्टमानसः || १४ || विद्वद्भिरासेवितदिव्यपादं सद्भक्तिगम्यं चिरशांतियुक्तम् | शास्त्रार्थसंशोधनबद्धलक्ष्यं वैराग्यवीरं चरलिङ्गमीडे || १५ || सदानुरक्तो जगतो हितावहे सत्कर्मवृन्दे मुरुघेशतुष्टये | फलाभिसंधिं परिहाय लौकिकीं विशालदृष्ट्या विलसत्ययं भुवि || १६ || जगद्गुरुस्सोऽयमुदारभावात् श्रीकृष्णगीतार्थविवेचनाय | समन्वयाख्यं गुरुभाष्यमेतत्प्रकाशयामास जगद्धिताय || १७ || स एव चित्ते निवसन्मदीये सिद्धार्यभाष्यं वरवीरशैवम् | शिवप्रियं सर्वसमीहितं यत् संयोजयामास विशुद्धबुद्ध्या || १८ || इदं च भाष्यं मुरुघेशतुष्ट्या पितुश्च तुष्ट्यै प्रभवत्विदानीम् | आज्ञा तदीया परिपालितैषा जगद्गुरोः पूर्णकृपाप्रसादात् || १९ || भाष्यं वितन्यादुपयुक्तमर्थं मनस्तु नित्यं लभतां चिदैक्यम् | बुद्धिः प्रसन्ना रमतां गुहेशे शक्तेर्विकासोऽस्तु शिवप्रसादात् || २० || प्. ३) चिदात्मकोऽयं मुरुघेशदेवस्संवीक्ष्य भृत्यं करुणार्द्रदृष्ट्या | गीतार्थसंशोधनकार्यरङ्गे समाधियोगं वितरत्वमोघम् || २१ ||
3 SK विचित्रानन्तशक्तिविशिष्टं परमशिवसदाशिवरुद्रादिशब्दैरभिधीयमानं परब्रह्मैव जगदात्मना परिणमत इति निरूपितं शक्तिविशिष्टाद्वैतदर्शने | एकमेव परं ब्रह्म तत्तच्छक्तिविशिष्टतया तत्तत्कार्यं निर्वहति | एवं सृष्टिस्थितिसंहारादिकं जगद्व्यापारं लीलया निर्वर्तयदेव परशिवब्रह्म स्वीयानन्दानुभवेन आत्मारामं च विराजते | तत्र सृष्ट्यनुकूलज्ञान- rakṣaṇānukūlakriyāśaktiviśiṣṭaḥ sa eva viṣṇuriti kathyate | tathaiva saṃhārānukūlajñānakriyāsamanvayātmakaśaktiviśiṣṭassa eva kālarudra ityabhidhīyate | yataḥ pralayādhikārī kālarudro yasya jīvasyāvasānakāla- त्रिमूर्तयोऽपि परशिवब्रह्मणो विभूतिरूपा एव | अत एव ब्रह्मविष्णु- kālarudraparaḥ | evaṃ trimūrtirūpataḥ sthitvā sṛṣṭisthitisaṃhārān nirvahan paramātmā yada yadā adharmabhāravaśāt jagadeva vināśonmukhaṃ bhavet tadā tadā rakṣaṇādhikāriviṣṇurūpeṇa jagati svayamevāvatīrya jagadrakṣaṇaṃ karoti | evaṃ jagadrakṣaṇārthaṃ amūrtaḥ paramātmaiva divyamūrtarūpeṇa viṣṇunāmnā avatarati | evaṃ viṣṇordaśāvatārā api bhagavataḥ parāśakti-viśiṣṭasya paraśivasya lokakāruṇyalīlāvibhūtaya eva | trimūrtiṣvanyatamo'yaṃ viṣṇuḥ paraśivaniṣṭāyāḥ parāśakteraṃśa iti sāmāmnāyarudrasūkte nirdiṣṭam | ekaiva śaktiḥ parameśvarasya bhinnā caturdhā viniyogakāle | bhoge bhavānī samareṣu durgā krodhe ca kālī tvavane hi viṣṇuḥ | iti tatra viṣṇoḥ parāśaktyaṃśatvamupadiṣṭam | ato rakṣaṇārthaṃ niyukto viṣṇuḥ śivasya prāṇaśaktirūpa eva | ayaṃ ca paraśivaḥ trimūrtyatīto'pi trimūrtyātmakassan jagadvyāpāraṃ nirvahatīti lokavattu līlākaivalyam ityetadbrahmasūtravyākhyāne śrīpati- p. 4)
4 SK पण्डिताराध्यैर्निरूपितम् | यतश्शिव एव त्रिमूर्त्यात्मकेन रूपेण परिणतो भूत्वा जगतो हितं साधयत्यतस्स एव महादेव इति परिगणितः | अथ कस्माद्रुच्यते महादेव? यतः आत्मज्ञानयोगैश्वर्येण महति महीयते तस्मादुच्यते महादेवः इति व्यपदेशात् सर्वेश्वरत्वं सर्वान्तर्यामित्वं सर्वफलप्रदातृत्वं च महादेवे शिवे परमकारण एव व्यवस्थाप्यत इति श्रीकरभाष्ये त्रिमूर्तिसकाशात् जगद्व्यापारनिर्वहणं निराकारशिवस्य लीलाविनोद इति सम्यगुक्तम् | एतेषु त्रिमूर्तीनामवतारेषु विश्रुतौ रामकृष्णावतारौ | तयोश्च रामावतारस्सद्वर्तनसौशील्यादिगुणैस्सत्क्रिया-नुष्ठानमार्गे च सुप्रतिष्ठितो विराजते | कृष्णावतारस्तु विशेषतस्तत्त्वोप-देशाय दिव्यादर्शतया विश्रुतः | अनेन चोपदेशेन कृष्णोऽर्जुनव्याजेन त्रिगुणात्मकान् सर्वान् जीविनः पावयति | एतस्याप्युपदेशस्य रामावतारे शिवेनोपदिष्टा गीतैव मूलाधार इति निर्विवादम् | पुरा त्रेतायुगे सीतावियोग- svāṃśabhūtaṃ taṃ samādhātuṃ trimūrtibhissaha vaibhavena daṇḍakāraṇyamupāgatena divyamaṅgalavigraheṇa śivena sadayamanugṛhīta- विराजते | तदानीमुपदिष्टं शिवतत्त्वं श्रद्धयाकर्ण्य श्रीरामचन्द्रो निरतिशयं मनस्समाधानमलभत | तदानीं श्रीरामे संस्काररूपेण स्थितः प्राक्तनोऽयमुपदेशः कृष्णावतारेऽर्जुनविषादं परिहृत्य तं कर्तव्यनिष्ठं कर्तुमशक्नोत् | कृष्णमुखेन समायातो दिव्योपदेशः अर्जुनं निमित्तिकृत्य तद्रूपास्सर्वे जीवा यथेश्वरप्रीत्यर्थमेव लोके व्यवहरन्तो नित्यसुखनुभवेयुस्तथा तेषु दिव्यां स्फूर्तिं स्वरूपस्मृतिं चोत्पादयन् वर्तत इति विश्रुतमेव | त्रेतायुगे शिवगीतामृतेन समाहितचेतनो रामो यथा सच्चारित्र्येणात्मानं पावयामास तथा तदीयात्मसंस्कारेण स एव द्वापरयुगे कृष्णाभिधानेनावतीर्य अर्जुनव्याजेन सर्वानार्तान् जीवानुपदेष्टुमपारयत् | अयमाशयः अपि च स्मर्यते इत्येतत्सूत्रार्थ- gītāśāstramapīśvarāllabdhvā tadājñāvaśādeva p. 5)
5 SK कृष्णेनार्जुनायोपदिष्टम् इत्येवमुल्लेखितम् | तत्रत्यैः प्रस्ताव एवं वर्तते | मयैतद्भाषितं ज्ञानं हितार्थं ब्रह्मवादिनाम् | दातव्यं शान्तचित्तेभ्यः शिष्येभ्यो भवता सदा | इति शिवो राममादिशत् | तथैव नारायणोऽपि भगवान् देवकीतनयोः हरिः | अर्जुनाय स्वयं साक्षाद्दत्त- śivājñānirvāhamāvedayati | ayameva vyāsaḥ padmapūrāṇāntargatāyāṃ śivagītāyāṃ rāmāyadaṇḍakāraṇye pārvatīpatinā purā | yā proktā śivagītākhyā guhyāt guhyatamaṃ hi sā | iti rāmāvatāre śivopadiṣṭāyā gītāyāḥ gopyatāṃ prācīnatāṃ ca samyak prakaṭayati | sa evopadeśo mahābhāratakāle kṛṣṇāvatāre prasiddhiṃ gataḥ pracārātiśayamalabhata | yato'sminnevāvatāre naṣṭamadhyātmajñānamarjunaṃ nimittikṛtya sarvalokahitāya punassamupadiṣṭaṃ paramātmanā śrīkṣṛṇadvārā | sa evopadeśo bhagavadgatetyucyate | śāstradṛṣṭyā dūpadeśo vāmadevavat ityetatsūtrārthavivaraṇavelāyāṃ śrīkarabhāṣye śrīkṛṣṇaḥ paraśivatādātmyamāpannaḥ śivo'haṃbhāvanayā śivatattvamupadiśatītyāśayaḥ vāmadevadṛṣṭāntena samyak prakaṭitaḥ | vāmadevo maharṣirupadeśāvasare pratipadaṃ ahaṃ manurabhavam ityādinā svasyaiva sarvātmakatvaṃ nirdiśati | tadvatkṛṣṇo'pyupadeśāvasare ayaṃ sarvo'pi svasyaivopadeśa ityevāviṣkaroti | daṇḍakāraṇye bhagavatā paramaśivena śrīrāmacandraḥ sarvo vai rudraḥ eka eva rudro na dvitoyāya tasthe śiva eko dhyeyaśśivaṅkarassarvamatyatparityajya sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja ityādinā sarvavedāntasārabhūtaṃ śivajñānamupadiṣṭaḥ kila | sa eva rāmaḥ kṛṣṇāvatāre'rjunaṃ prati vāsudevassarvamiti sa mahātmā sudurlabhaḥ mamaivāṃśo jīvaloke jīvabhūtassanātanaḥ ityādīni vākyāni śivatādātmyadṛṣṭyā upadideśa | brahma veda brahmaiva bhavati iti śrutireva śiṣyasya buddhāvasthāyāṃ guruṇā aikyaṃ upadiśati | śivenopadiṣṭaṃ śivatattvaṃ jñātvā rāmo yathātmārāmassan p. 6)
6 SK शिवस्समपद्यत तथा स एव कृष्णरूपेणावतीर्णस्तमेव संस्कारमलभत | अतः कृष्णोऽपि शिव एव सन्नुपदेशावसरे अहमेव कर्ता कारयिता भोक्ता प्रेरयिता इत्यादिना क्रमेणास्मत्पदमनेकेषु सन्दर्भेषु प्रयुंक्ते | तच्च श्रुतियुक्त्यनुभवानुरोधेन युज्यत एव | अत एव विद्यमानास्वप्यनेकासु गीतासु इयमेव सर्वैराद्रियते | अस्याः विष्णुगीतेति नाम विहाय भगवद्गीतेति नामकथनादेव सर्ववैशिष्ट्यं सूच्यते | अत एव सर्वैरप्याचार्यैः शङ्कररामानुजादिभिः स्वस्वमतानुसारेणेयं व्याख्याताऽस्ति | परं तु शक्तिविशिष्टाद्वैतमतरीत्यैतावता कालेन केनापि व्याख्यानस्याकरणा- śaktiviśiṣṭādvaitadarśane hi kārmaṅgakāt jñānādeva muktiriti nirūpitam | ata eva bhagavānapi jīvananirvahaṇarūpe yuddharaṅga evedaṃ śāstramupādiśat | pāṇḍavānāṃ rājyaṃ dyūtādibhirdurupāyairduryodhano'pajahāra | tasya vacanānusāreṇa pāṇḍavāḥ dvādaśavarṣāṇi vanavāsaṃ ekavarṣamajñāta- दुराशाग्रस्तः पञ्च ग्रामानपि नाहं दास्यामि | यदि शक्तिरस्ति युष्माकं गृह्यतां राज्यं बलप्रदर्शनेन इति धार्ष्ट्यादवोचत् | अन्ते गत्यन्तरा- yayuḥ | ye ca vedavido viprā ye cādhyātmavido janāḥ | te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam | evaṃ dharmasvarūpī śrīkṛṣṇaḥ pāṇḍavapakṣe sthitvā'śritavātsalyādarjunasya sārathyamapyaṅgīkṛtya dharmasaṃsthāpa- दुर्योधनादीनां शतानां कौरवाणां पिता धृतराष्ट्रो जात्यन्धो वृद्धः युद्धं द्रष्टुमशक्तस्तद्विषयं तदातदा ज्ञातुमियेष प्रार्थयामास च तदुपायं श्रीव्यासमहर्षिम् | व्यासोऽपि कृपया सञ्जयमाहूय तस्मै दिव्यदृष्टिं दत्वा प्रतिदिनं यद्युद्धरङ्गे प्रवर्तते तत्सर्वमपि त्वयाऽस्मै वक्तव्यम् इत्यादिदेश | एवं नियुक्तं सञ्जयं धृतराष्ट्रो युद्धवार्तां श्रोतुमिच्छया पप्रच्छ | प्. ७)
7 SK एवं क्रमेण भगवद्गीता आरभते | एवं ज्ञानक्रियासमन्वयमार्गा- vyavahārānuguṇasya śaktiviśiṣṭādvaitadarśanasyātīva sammataḥ ityabhijñā viśvasanti | brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ | lipyate na sa pāpena padmapatramivāmbhasā | iti khalu gītā upadeśati | etadanusāreṇa yaḥ hṛdaye nivasateśvareṇa saṃyujya phalābhisandhiṃ vinā vyavaharati tasya pāpalepo na saṃbhavati | hṛdaye prabhurnivasatīti yo jānāti saḥ svīyaṃ karmaphalaṃ tasmai samarpayituṃ prabhavati | evaṃ phalārpaṇādeva karma taṃ na badhnāti | ayameva karmayoga iti gītāyāṃ nirdiśyate | ayaṃ ca yogaḥ jñānakarmayorubhayorapi samaprādhānyaṃ nirdiśati | śaktiviśiṣṭādvaita- साधनीयेऽद्वैत-रूपे सामरस्ये ज्ञानक्रियासमन्वयमार्गस्य महती आवश्यकता वर्तते | जीवः यदा स्वस्मिन् विद्यमानं परशिवं ज्ञात्वा तस्मै स्वीयं सर्वमपि कर्मफलं भक्त्या समर्पयति तदानीमेव तदीया चित्तशक्तिः चिद्रूपतया परिणमते | अयमेव मुक्त्यपरनामधेयः शक्तिविकास इति तत्र परिगणितः | एवं शक्तिविशिष्टाद्वैततत्त्वं गीतायां सम्यगन्वेतीत्यनयापि दिशाऽस्य व्याख्यानेऽद्य प्रयत्नः कृतः | एतद्दर्शनरीत्या अस्या व्याख्यानस्यावकाशे सत्त्वेऽपि तत्रत्यानि कानिचिद- yadā yadā hi dharmasya glānirbhavati bhārata | abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham || paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām | dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge || iti bhagavadgītāyāṃ śrīkṛṣṇaḥ paramātmaupamyadṛṣṭyā svīyāvatāroddeśaṃ nirūpayati | atra ahaṃ saṃbhavāmi ityādau asmacchabdaḥ na tāvat p. 8)
8 SK कृष्णावतारमूर्तिमात्रवाची तादृशमानुषमूर्तेर्नश्वरत्वात् तस्य सर्वजत्कारणत्वासंभवाच्च | तद्वदेव स शब्दः न तन्मूलभूतविष्णु- sṛṣṭipralayakartṛtvā-bhāvena ca ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ityādau sṛṣṭipralaya-kartṛtvoktervirodhaprasaṃṅgāt | ataḥ sṛṣṭisthitisaṃhārarūpatrividhakārya-kartṛṇāṃ trimūrtīnāmapi mūlabhūtaparaśivabrahmapara evāsmacchabda iti nirvivādametat | ataḥ śrīkṛṣṇaḥ paraśivabrahmaṇo'vatāra eva | yatastrimūrtayaḥ paraśivasya līlāvinodabhūmayo divyavibhūtaya eva | nanu tarhi kṛṣṇasya viṣṇvavatāratvena prasiddhiḥ kathamavirāsīdityākṣepassañjāyate | viṣṇurhi pālanānukūlakriyāśaktiviśiṣṭaṃ paraśivabrahmaiva | na tatra kasyāpi vipratipattissaṃbhavet | kṛṣṇenāpi duryodhanādyāsurīśakterdamanadvārā pāṇḍavādidaivīśaktyutkarṣasaṃpādanena jagadrakṣaṇakāryanirvāhāt saḥ viṣṇoravatāra ityapi kathyate | viṣṇunā tadavatārabhūtena kṛṣṇena ca yatkāryaṃ niruhyate yadvacanaṃ procyate tatsarvaṃ tadantaryāmiṇā paraṃjyoti- तावत्केवलपाठकास्ते अनधिगतसाक्षात्काररूपानुभवाः परस्परं मात्सर्यासूयादिभिः हृदयं कलुषीकृत्य परमात्मरूपिणं श्रीकृष्णं दिव्यामृतरूपं तदुपदेशं च द्विषन्ति | न हि विवेकिनां त्रिमूर्तिषु तारतम्यबुद्धिस्सञ्जायेत न वा त्रिमूर्तीनां परशिवान्यत्वभावना चोत्पद्येत | तादृशतारतम्यबुद्धिरन्यत्वभावना च शास्त्रेष्यत्यन्तं निन्दिता परिदृश्यते | यथा आकरग्रन्थेषु ब्रह्माण्डपुराणे भवानहं च विश्वात्मन् एक एव हि कारणम् | जगतोऽस्य जगत्यर्थे भेदेनावां व्यवस्थितौ | त्वया यदभवद्दत्तं तद्दत्तमखिलं मया | मत्तो न भिन्नमात्मानं द्रष्टुमर्हसि शङ्कर | इति शङ्करं प्रति विष्णोर्वचनम् | भविष्योत्तरपुराणे विष्णोरन्यं तु पश्यन्ति ये मां ब्रह्मणमेव वा | कुतर्कमतयो मूढाः पच्यन्ते नरकेष्वधः | ये च मूढा दुरात्मानो भिन्नं पश्यन्ति मां हरेः | ब्रह्माणं वाऽथवा तेषां भ्रूणहत्यासमं त्वघम् | इति
9 SK भक्तान्प्रति शङ्करवचनम् | अहं त्वं प्. ९) सर्वगो देव त्वमेवाहं जनार्दन आवयोरन्तरं नास्ति शब्दैरर्थैर्जगत्पते | यानि नामानि गोविन्द तव लोके महान्ति वै | तान्येव मम नामानि नात्र कार्या विचारणा || त्वदुपासा जगन्नाथ सैवास्तु मम गोपते | यश्च त्वां द्वेष्टि हे देव स मां द्वेष्टि न संशयं || इति महाभारते विष्णुं प्रति शङ्करवचनम् | एवं शिवविष्ण्वोरैकात्म्यं सम्यक् प्रतिपाद्यते प्रमाणग्रन्थेषु | परं तु भगवद्गीता शिवांशभूतेन कृष्णेन प्रोक्तापि तदुपदेशकः कृष्णः सूत्रप्रोता दारुमयी योषेव शिवप्रेरितमेवाशयमाविष्करोति | तदीय- विश्वरूपाविष्करणसमये सः पश्य मे योगमैश्वरम् इति स्वान्तरङ्गे विराजमानामीश्वरमहाविभूतिमेवार्जुनाय प्रदर्शयति | ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि चोत्तमम् | इतीश्वरप्रसादसिद्धिमेवार्जुनायावश्यलभ्या- svātmānyeva prayuṅkte yajñaphalabhoktā svayameveti nirdiśati yatkaroṣi yadaśnāsi - tatsarvaṃ mahyaṃ samarpaya tyārjunāyopadiśati ca | tathāpi taccittāstadgataprāṇāḥ ityanekeṣu sandarbheṣu tacchabdameva prayujya kṛṣṇassarveṣvapīśvarārpaṇabuddhimevotpādayati | yatrāsmacchabdaḥ prayujyate upadeśavelāyāṃ tatra sa śabdo na hi prākṛtikaḥ kintu pārameśvarīya iti mantavyam | prakṛtisambandhī tvahaṅkāraḥ viśruta evāsti | bhaktānugrahalīlā-nirvāhāya iyameva parāhantā sarvairapyanubhavibhirupayujyate | paramātmani ye samarasaṃ vilīnāste tāvattādṛśīṃ sthitimadhigacchaṃti | kṛṣṇastāvat parāhāntāsthitau vartamāno lokasaṃgrahārthamavyājapremṇā pūrṇakāmo'pyanāsakta iva vyavaharati | yataḥ kṛṣṇo mānavassannapi śivayogena śivabhāve sthitvā lokaṃ paśyati atastasyopadeśe asmacchabda-prayoge parasparabādho na saṃghaṭate | gītārthasamālocanenāpi kṛṣṇasya śivatādātmyabhāvanā hṛdgatāsīditi spaṣṭaṃ pratibhāti || p 10)
10 SK परमेश्वरस्यापि विष्ण्ववतारभूते कृष्णे प्रीतिः एवमेव निरतिशया आसीत् | कूर्मपुराणान्तर्गतायां शिवगीतायां शिवोऽपि विष्णोर्विषये तथैव आत्मीयतया स्वीयमाशयमाविष्करोति | शिवः तत्रैवं रामायोपदिशति ममिषा परमा मूर्तिर्नारायणसमाह्वया | सर्वभूतात्मभूतस्था शान्ता चाक्षरसंज्ञिका | तस्मादेष महायोगी मद्भक्तः पुरुषोत्तमः | अर्चनीयो नमस्कार्यः पत्प्रीतिजननाय हि || इति | एतादृशं गौरवं नारायणविषये शिवः प्रकटयति | यो विष्णुं निन्दति सो मदनुग्रहं न लभते इति पद्मपुराणान्तर्गतायां शिवगीतायां शिव एवोपदिशति | नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि इति भगवती श्रुतिरेव शिवकेशवयोस्तादात्म्यमुपदिशति | आदित्यपुराणे विष्णुं प्रति शिववचनं सुशोभतेऽस्मिन्सदर्भे | प्रकृतिस्त्वं सुरश्रेष्ठ पुरुषोऽहं न संशयः | त्वन्मयं मन्मयं सर्वमव्यक्तपुरुषात्मकम् | एतादृशं मधुरं बान्धव्यं सहजतया वर्तते तयोः | प्रकृतिः परमो विष्णुः पुरुषः परमश्शिवः इति कूर्मपुराणे अभिधीयते | आ वो राजानमध्वरस्य होतारं रुद्रम् इति श्रुतौ यज्ञपतित्वं सर्वान्तर्यामिणो महादेवस्य सर्वकारणस्य रुद्राभिधेयस्य शिवस्यैव निर्दिष्टम् | अत एवाथर्वणिकी श्रुतिः विश्वाधिको रुद्रो महर्षिः इति तस्य विश्वाधिक्यं स्थापयति | आखुस्ते रुद्र पशुस्तं जुषस्वैष ते रुद्रभागस्सह स्वस्रांबिकया इति श्रुतौ यज्ञभूमौ अग्रपूजास्वीकारार्थं रुद्र एव आहूयते | अत एव कैवल्ये उमासहायं परमेश्वरं प्रभुम् इत्यारभ्य स एव विष्णुस्स प्राणस्स कालोऽग्निः स चन्द्रमाः इत्यादिना विष्ण्वादिसर्वदेवात्मकः परमशिव एवेति सम्यगुपदिष्टम् | शब्दविशेषात् इत्येतत्सूत्रभाष्ये शिवोपासनया शिवभावमापन्नस्य नारायणस्यानितरसाधारण- vyāpakatvāntaryāmitvādayo dharmāḥ nārāyaṇe'pi dṛśyante | iti spaṣṭaṃ nirdiṣṭam | nārāyaṇātparo bhakto mama nāsti varānane | p. 11) bhāryātvaṃ vṛṣabhatvaṃ ca bāṇatvamagamatpurā |
11 SK इति स्कान्दे शिववचनं विराजते | द्रोणपर्वण्यश्वत्थामानं प्रति शिववचनमेवं वर्तते | अहं यथावदाराध्यः कृष्णेनाक्लिष्टकर्मणा | तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते || शिवविष्ण्वोस्सम्बन्ध एवं विलसति | सौरसंहिता तावत् शिवस्य परतत्त्वार्थं स्वयं ज्ञात्वा शिवस्तथा | उवाच विष्णवे विष्णुः पद्मगर्भाय प्रोक्तवान् || इत्यादिना क्रमेण शिवविष्ण्वोरुपास्योपासकभावं गुरुशिष्यभावं च सम्यगुपदिशति | व्यासभुजस्तम्भनानन्तरं व्यासं प्रति विष्णुवचनं स्कान्दे अहमेव जगत्कर्ता मम कर्ता महेश्वरः एवं प्रवर्तते | वैदिकस्सर्वकर्माणि शिवमुद्दिश्य कारयेत् इति शैवपुराणे स्पष्टं विधीयते | श्राद्धप्रारंभे ईशानः पितृरूपेण महादेवो महेश्वरः | प्रियतां भगवानीशः परमात्मा सदाशिवः इति शिवप्रीतिकरत्वेन शिवाराधनरूपं गुरुजङ्गमसन्तर्पणात्मकं श्राद्धकर्मवैदिकैराचरणीयमित्युपदिष्टम् | अत एव वन्दे सुकुन्दप्रियम् इति स्कान्दे शिवस्य विष्णुवल्लभत्वं तत्प्रियत्वं च यन्निर्दिष्टम् तत्समञ्जसमेव भाति | शिवकेशवसंभूतं कलये कालभैरवम् इति शक्ति पुराणे कालभैरवः शिवकेशवयोः प्रियपुत्रत्वेन निर्दिश्यते | एवं शिवनारायणयोरैक्यबोधकानि वाक्यानि परश्शतानि सन्ति || न केवलं कृष्णोऽमूर्तशिवतत्त्वबोधक एव परं तु प्राक्तनसंस्कारानुरोधेन प्रेरितः शैवमहर्षिवर्येणोपमन्युनानुगृहीतशिवदीक्षासंस्कारः मूर्तशिवपूजामहत्त्वमपि सम्यगजानात् | किं नाम शिवाराधनमिति तेन पृष्टः सः महर्षिरेवमुत्तरयति सर्वाभयाप्रदानं च सर्वानुग्रहणं तथा | सर्वोपकारकरणं शिवस्याराधनं विदुः | इति | शिवतत्त्वं स्वस्मै बोधयितुं श्रीकृष्णः उपमन्युमहर्षिं प्रार्थयामासेति वायुसंहितायां भगवन् श्रोतुमिच्छामि शिवेन परिभाषितम् | वेदसारं शिवज्ञानं स्वाश्रितानां विमुक्तये | (अध्या. ४०-१) इत्यभिधीयते | प्. १२)
12 SK उपमन्युमहर्षिः श्रीकृष्णाय शिवदीक्षां ददाविति कूर्मपुराणे अभिधीयते | एवमुक्त्वा ददौ ज्ञानमुपमन्युर्महामुनिः | व्रतं पाशुपतं योगं कृष्णायाक्लिष्टकर्मणे | स तेन मुनिवर्येण व्याहृतो मधुसूदनः | तत्रैव तपसा देवं रुद्रमाराधयत्प्रभुम् || इति | कृष्णेनार्जुनेन च कृतं शिवलिङ्गार्चनं द्रोणपर्वणि निर्दिश्यते | शत्रुपक्षीययोस्तयोः शिवलिङ्गार्चनादेव अश्वत्थाम्नः प्रयत्नः पराहत इति तत्र स्पष्टमुच्यते | अत्र कृष्णाय अक्लिष्टकर्मेति विशेषणमन्वर्थं दृश्यते | सः सर्वमपि कर्म क्लेशं विनैव साधयितुं प्राभवदित्यर्थोऽनेन द्योत्यते | अतश्चायमादर्शभूतः कर्मयोगी आसीदेवेति ध्वन्यते | पराशक्तेः पुरुषरूपोऽयं कृष्णोऽत एव न केवलं शिवेन किन्तु सर्वैरपि देवैर्विशेषतः प्रशस्यते | एवं च रक्षणरूपजगद्व्यापारनिर्वहणेऽय-मतीव निपुण आसीदित्ययमंशो महाभारतेऽनेकवारमनूद्यते | यतस्सः कर्मयोगी आसीदत एव तत्त्वज्ञान्यपि सन् तत्त्वोपदेशाय शक्तश्च बभूव | अत एवायं परमशिवभक्तः कृष्णः शिवस्य हृदयरूपिणी प्राणशक्तिरेवा-सीदिति निर्विवादमेतत् | एतादृश्याः विशालभावनायाः संस्कारजन्यत्वात् कृष्णश्शिवानुग्रहेण लब्धसकलैश्वर्यः अर्जुनसदृशं समग्रमपि लोकं कल्याणबुद्ध्यैवापश्यत् | सर्वलोकहिते रतिस्तस्मिन्सहजतयाविरासीत् | सर्वाकारे चिदानन्दे सत्यरूपिणी शाश्वते | पराकाशमये तस्मिन् परब्रह्मणि निर्मले | एकीभावमुपेतानां योगिनां परमात्मनाम् ||
13 SK इति रेणुकाचार्यवर्यैर्निर्दिष्टेषु शिवयोगिसार्वभौमेष्वन्यतमः श्रीकृष्णः परमात्मपदेनैव व्यवहारयोग्यस्सञ्जातः | भेदशङ्काविवर्जिते सर्वात्मनि निराकारे परे तत्त्वे विलीय निर्विकल्पतया व्योमवत्स्थितेः कृष्णः कस्य वा ज्योतिर्मयः परमात्मा न भवेत्? स्वप्रकाशे निरन्तरे चिदाकारे ज्योतिर्लिङ्गे एकीभावमुपेतो भगवान् श्रीकृष्णः कस्य वा मान्यो न भवेत्? एवं परब्रह्मणि विलीनस्स भगवान् साक्षात्कृतधर्मत्वात् त्रिगुणातीतत्वाच्च सर्वमान्यः संभूतः | परशिवं विदित्वा तस्मिन् समरसं विलीनो योगी परशिव एव प्. १३) संपद्यत इति सर्वप्रमाणभूता श्रुतिरेव भगवती स्पष्टमुपदिशति | यतः श्रीकृष्णस्स्वयमनुभूतगुहेश्वरस्तदीयलीलानाटकसूत्रधारी आसीदत एवेश्वरभावे स्थित्वेश्वरतादात्म्येनैवोपदिदेश | न तत्र काप्यनुपपत्तिः | ईश्वरदर्शनात् सर्वेऽप्येकजातीया एव भवन्ति | सा च जातिराध्यात्मिकेति विश्रुता | इयं च जातिर्दीक्षाग्निदग्धाऽभिनवा अतिवर्णाश्रमेति परिगण्यते | अस्यां असाधारणायां जातौ पुनर्जातास्ते महात्मान अद्भुतां पारमेश्वरीं शक्तिमधिगतवन्तः लोककल्याणापेक्षयैव सर्वदा जागृता वर्तन्ते | एतादृशासु असाधारणासु महाव्यक्तिष्वन्यतमो हि कृष्णो लोकहितार्थमेव दिव्यममूर्तं तत्त्वमुपादिशत् | एतच्च तत्त्वमुपनिषत्सागरादुद्द्धृतं दिव्यामृतमेव | एतत्पानेन मानवो देवस्संपद्यते मर्त्योऽपि अमृतो जायते त्रिगुणबद्धः पशुसदृशो जीवस्त्रिगुणातीत ईश्वरस्संपद्यते | एवमध्यात्मसारभूतायाः श्रीकृष्णगीतायाः ज्ञानक्रियासमन्वयरूपत्वात् तत्प्रतिपादकं भाष्यमत्यावश्यकमिति सर्वे पण्डितवर्याः बहोः कालादारभ्य विश्वसन्तः प्रयतमानाश्च वर्तन्त इति प्रमोदस्थानमेतत् ||
14 SK दिव्योपदेशः येन केनापि पुंसा यया कयापि स्त्रिया वा समागछतु | सोऽवश्यं वर्धिष्णुभिर्भक्त्या परिग्रहीतव्या | मात्सर्यमुत्सार्य विचार्य कार्यं आर्यास्समर्यादमुदाहरन्तु इति खलु नीतिमतामादर्शो मार्गः प्रसरति | तमेव मार्गमनुसरन्तो वयं भगवता दिव्यमूर्तरूपिणा कृष्णपरमात्मना समुपदिष्टमूर्तपरशिवतत्त्वं तत्प्राप्त्यनुकूलमूर्तो-पासनरहस्यं च सम्यक् जानीम | तमसावृताभस्मत्प्रकृतिं सांत्वयितुं भगवदुपदेशानुरोधेन यथा- कथंचित् प्रयतामहै | आसुरीसंपद्- sādhayāma | kāmāgnidagdhā vayaṃ bhagavadvihitayā divyāmṛtavṛṣṭyā samyaksiñcitāḥ tṛptāśśāntāśca bhavāma | nāsti buddhirayuktasya na cāyuktasya bhāvanā | na cābhāvayataḥ śāntiraśāṃtasya kutassukham | p. 14)
15 SK एवं गीतायां भगवानेवोपदिशति | तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन इति योगनिष्ठां च स एवोपदिशति | मानवैस्सर्वैरपि सर्वदा शिवयोगनिष्ठैरेव भवितव्यं | व्यवाहारमग्नैरपि सर्वैः स्वीयहृदये विराजमानो गुहेश्वरः सर्वदा निर्मलेन मनसा परिचिन्तनीयः | अयमेव योग इति गीता निर्दिशति | एतादृशयोगयुक्ताः पुरुषाः स्त्रियो वा व्यवहारनिरता अपि गुणदोषैर्न बाध्यन्ते | एतादृशेषु न कदापि कर्म लिप्यते | एवं निर्लिप्तं जीवनं निर्वहन् परमवैराग्यशाली चिदाकाशे विहरन्नात्मारामः श्रीकृष्णः कथं वा शक्तिविकासरूपशिवयोगलक्षणं नाधिगच्छेत्? वैभवेन गोपिकास्त्रीभिर्विहरन्नेव परमवैराग्यसुखमनुभवन् सः उभयोरपि तयोरावश्यकतां सर्वेभ्यः प्रदर्शनाय कथं वा न प्रभवेत्? तदर्थमेव निर्लिप्ततया यः सर्वत्र सञ्जचार स तादृशो भगवान् वासुदेवः पराशक्तिरूपः कस्मै शिवानुग्रहं न दद्यात्? शिवमये जगत्यव्यक्ततया निवसतः शिवस्य प्रकाशनाय शिवभक्ताग्रगण्येन कृष्णपरमात्मना प्रदर्शितो दिव्यो मार्गः कस्मै साधकाय न स्वदेत? अतो भगवद्गीता कृष्णप्रोक्तापि न केवलं वैष्णवानां शैवानां वा किन्तु वीरशैवानामप्यतीव मान्या विराजत इति विश्वजनीनमेतत् || एतादृश्या आप्तवाक्यरूपायाः परमात्मनैव स्वतः प्रोक्तायाः प्रमाण- anivāryamiti pratibhāti | prasthānatrayāntarbhūtāyā gītāyāḥ jñānakriyā- देहाभिमानं परित्यज्य देहस्थं परमेश्वरं प्रस्थातुं येऽभिलषन्ति तेषां सर्वेषामपि ज्ञानकर्मसमन्वय आवश्यक इत्यनुभविनो वदन्ति | तथा प्रस्थातुकामानां सर्वेषामपि साधकानां गीताभाष्यं विश्रान्त्यावहः प्रकरणग्रन्थो भवितुमर्हतीत्यभियुक्तोक्त्यात्र प्रवर्तनं युज्यत एव | दहराकाशे चिदानन्दमये रममाणस्य प्. १५)
16 SK शिवभक्तिसम्पन्नस्य कृष्णस्य ऐश्वरो योगः यदि न प्रकाश्येत तदा महता तमसा आवृता भवेम भगवदंशभूता वयं सर्वेऽपि | हृदये विराजमाने प्राणलिङ्गे सुषुप्त्यानन्दमनुभवन् कृष्णो यद्दिव्यतत्त्व- tathaivāsmākaṃ saṅkocaprakṛtirna vikāsamadhigacchet | tathā ca vayaṃ sadrūpaṃ sarvavyāpi pāramaiśvaryamanubhavituṃ na pārayema | sannapi hṛdayaprakāśo na kadāpyasmākaṃ jīvane sphuret | niṣkalaṅkajñānasvarūpā api vayaṃ vismṛtyā ajñānāndhakāre mohāndhā iva paritapema | etāvān- दिव्यसन्देशो नास्माकं हृदयं प्रविशेत् | अतो निर्मत्सरया दृष्ट्या गीतार्थविवरणं विवेकिभिरनुसन्धेयम् | विनैव वर्णाश्रमलिङ्गवयो- paramayogīśvaro bhagavān kṛṣṇaḥ kasmai sādhakāya na roceta? ata etad- चेदन्धेनैव नीयमाना यथान्धास्तथा मोहतमसि पतित्वा वयं जन्मसार्थक्यं नाधिगच्छेम | मानवजीवने तावत् कृतकृत्यता प्रतिनिमिषं साधनीयैव | एतच्च साधनं ईश्वरानुग्रहाधीनमेव | ईश्वरानुग्रहोऽपि हृदयवैशाल्यमात्मविश्वासं चावलम्बते | एवमनुगृहीता यदि वयं न स्याम तदा प्रकृतिरस्मान्नियुञ्जीत | एवं प्रकृतिबद्धा वयं पशव इव यदि भोगिनो भवेम तदा योगानन्दस्य गन्धोऽपि न स्यादस्मासु | अतस्त्यागभोग-योगसमन्वयाख्यो जीवनमार्ग एवावश्यमस्माभिराश्रयणीयः | शक्तो दयालुः प्रभुराश्रयार्हः इति खलु लौकिका अभिप्रयन्ति | कृष्णस्त्वेतदुभय-लक्षणसंपन्न एव वर्तते | अतस्स्मन्वयजीवननिर्वाहाय कृष्णगीतैवास्माकं दिव्यसंजीविनी भवितुमर्हति | अतस्तदर्थविवरणरूपं भाष्यं चिराभिलिषितमधुना भगवत्कृपयाऽविर्भूतामति प्रमोदस्थानमेतत् || स्वीयकर्मानुसारेण देहमधिगतवान् जीवो जातिमतकुलगोत्रसङ्कोचं प्. १६)
17 SK विहाय स्वस्वरूपज्ञानेन प्रकृतिदत्तां परिमितिं हित्वा स्वान्तर्वर्तिनं गुहेश्वरमन्तर्बहिश्चोपास्य तस्मिन्नेव समरसं विलीय लोके व्यवहरेत् | अयमेव भगवद्गीतायाः सारसन्देशः | एतादृशो दिव्यसन्देशः कस्य अप्रियो भवेत् | तत्र वर्णाश्रमयोर्न्यूनाधिक्यगणनायाः अवकाशः कुत्र वर्तेत ? na labheran tarhi tajjanmasārthakyaṃ kathamadhigamyeta? ye tvātmānandaṃ nānubhavantīha janmani te tāvatsarvadā bhedadṛṣṭaya eva varteran | nahi tairātmakalyāṇaṃ kadāpi sādhyeta | lokakalyāṇasādhanaṃ tāvaddūrā- भगवद्गीतार्थं ज्ञातुं न पारयेयुः | साक्षात्कृतधर्मसु ज्ञानिषु ये वर्णाश्रमभेदं न गणयन्ति त एव त्रिगुणात्मकात् पाशात् मुक्ता भवेयुः | तत्त्वदर्शिनो ज्ञानिनः दिक्कालाद्यनवच्छिन्नाः अतिवर्णाश्रमिणः परं- vigataspṛhā nirliptavartanena ātmārāmāssanta eva lokakalyāṇamadbhūtayā rītyā anāyāyāsenaiva nirvahanto jagadādarśāssaṃpadyate | ete śuddhasattvā vedāṃtavicāraviniścitārthā nirañjanasthitau ātmānandamanubhavanta eva triguṇabaddheṣvapi mānaveṣvavyājapremṇā hṛdayavikāsamutpādayaṃti | sarvabhūtahite ratā ete mahānubhāvāḥ parameśvarasākṣātkāreṇa parameśvarā eva santaḥ sarveṣāmākarṣakatvāt guruśabdavācyāssadupa-deśena sarveṣāṃ śreyassādhanāya sarvatra sañcaraṃtaścarajaṅgamāḥ nirañjanamūrtayaḥ śivayogina iti ca vyavahriyaṃte || evaṃ gurucararūpadhārī parameśvaraḥ sarveṣā sādhakānāṃ hitarakṣaṇāya sarvatra nirliptatayā nivasan sarvaṃ karma līlayaiva nirvahan karmayogasya divyamādarśaṃ sarvebhyaḥ pradātuṃ kṛṣṇumūrtessakāśāt ādhyātma- दिव्योपदेशः कृष्णरूपेण मानवेनाभिहित इति भावनयैव यस्तं नानुमोदते सः न कदाप्याध्यात्मसुख- प्. १७)
18 SK स्पर्शमपि लभेत् | एतादृशदिव्यतत्त्वबोधकः श्रीकृष्णः केषां मानसीं दैहिकीं च व्यथां न परिहरेत् ? गुणान् रुन्धे इति गुरुः इति व्युत्पत्त्या क्रिया-सारोक्तदिशा सत्त्वरजस्तमोरूपान् त्रिगुणानतीत्य निस्त्रैगुण्यस्थितौ निर्लिप्ततया विराजमानः परमयोगीश्वरः श्रीकृष्णः कस्य न प्रियो भवेत्? kṛṣṇarūpamādarśakarmayoginaṃ ko vivekī na saṃbhāvayet? paraṃ tu gītopadeśaḥ na kevalaṃ pāribhāṣikaḥ kintu sārvajanikavyavahāraviṣaya eva | tatratyāssarve vicārāḥ dainandinavārtāmeva pratipādayaṃti | dhṛtarāṣṭraputrā-stāvat durabhimānadurahaṅkāradyotakā rajastamoguṇapracurāḥ āsurīsaṃpadāviṣṭā durvicārā iti parigaṇyante | tathaiva pāṇḍuputrāstāvat jñānakriyāsamanvayasūcakāssattvapradhānāḥ daivīsaṃpadbharitāssad-vicārā iti saṃbhāvyante | tathaiva śrīkṛṣṇo nirākāraparaśivabrahmaṇa-ssākāramūrtirityeva sanmānyate | kṛṣṇarūpasyeśvarasya saṅkalpena sadvicārāṇāṃ durvicāraissaha pravṛttaṃ yuddhameva mahābhāratamityanu-bhavibhirbhāvyate | īśvarānugraheṇa durvicārāḥ kauravāḥ parājayaṃ prāpnuvanti sadvicārāstu pāṇḍavā digvijayaṃ prāpya nityasukhinaḥ saṃpadyante ||
19 SK गीतानुसारेण अयं सच्छब्दः परमात्मनि शुद्धजीवे तदीयप्रशस्तकर्मणि च प्रयुज्यते | कृष्णपरमात्मनि सच्छब्दं प्रयोक्तुं न कस्यापि विरोधो वर्तते | तथैवार्जुनरूपे शुद्धजीवेऽपि सच्छब्दप्रयोगो युज्यते | तेनैव क्रमेण धर्मस्थापनाय ईश्वरोक्तेन मार्गेण परब्रह्मान्वेषणरूपं महाभारतं युद्धं निमित्तमात्रं निर्वहता अर्जुनरूपेण शुद्धजीवेन निर्वर्त्यमानं अधर्मनिर्मूलनरूपं धर्मस्थिरीकरणरूपं च प्रशस्तं कर्म सच्छब्देन व्यवह्रियते | एतादृशेषु सद्विचारेषु जिहासामुत्पादयन्तीयं श्रीकृष्णगीता तदन्तर्यामिपरशिवब्रह्मोपदेश-रूपत्वादेव भग्वद्गीतेति निराकारतत्त्वबोधकेन पवित्रनाम्ना व्यवह्रियमाणा सर्वसाधकानां मनोमंदिरमधिवसति | परमेश्वर-प्रसादलब्धाया एतादृश्याः पवित्रगीताया वीरशैवमतपरं भाष्यं एतावत्पर्यंतं नाविरासीदिति विषादस्थानमेतत् || किं नाम वीरशैवमतस्वरूपम्? तन्मतसम्मतस्यास्य भाष्यस्य का प्. १८)
20 SK नामावश्यकता? इत्ययं प्रश्नोऽत्र समालोच्यः | वीरशैवमतं तावत् जीव-ब्रह्मणोर्बद्धावस्थायां स्वाभाविकं द्वैतं बुद्धावस्थायां स्वाभाविकमद्वैतं चानुमोदते | अत एव द्वैताद्वैतमते शुद्धे वीरशैवैकसंज्ञके | सर्वश्रुतिसमन्वयः इति श्रीशैलपीठाध्यक्षैर्जगद्- dvaitā-dvaitabodhakayorubhayorapi śrutyossamanvayenedaṃ mataṃ samanvayākhyayā sarvatra viśrutam | śrutyukto jīveśvarayorbhedaḥ sahaja evetyasminmate parigaṇyate | na tatropādhikalpanā yujyate | jñā'jñau dvāvajāvīśānīśau dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ parisvajāte ityādyāḥ śrutayaḥ guhāṃ praviṣṭāvātmānau hi taddarśanāt ityādīni brahmasūtrāṇi ca jīveśvarabhedaṃ sahajatayā spaṣṭamevopadiśaṃti na tvaupādhikatayā taṃ sūcayaṃti | ato vīraśaivamataṃ jīveśvarabhedaṃ svābhāvikamityaṅgīkṛtya vaidikaviśvāsaṃ sādhayāmāsa | tathaiva tattvamasi ayamātmā brahma sarvo hyeṣa rudraḥ ityādyāḥ śrutayaḥ jīveśvarayoraikyarūpaṃ sāmarasyāparanāmadheya-madvaitaṃ bodhayaṃti | tadapi vīraśaivamate samyaganustriyate | śivāṃśabhūto jīvaḥ śivādbhinno'pi nirantaraṃ śivamupāsya svīyaṃ bhedaṃ kramaśaḥ parihāya svāṃśini śive vilīno bhavati | ayameva vilayaḥ ātyantikapāśanivṛttyā jīveśvarasaṃyogarūpaṃ sāmarasyaṃ sādhayati | idamevaikyasukhaṃ nirañjanākhyaṃ sāmarasyamityanubhavino vadaṃti | yo guruṇā dīkṣāsaṃskāramadhigamya talliṅgānubhavaṃ jaṅgamena ca vardhayitvā liṅganiṣṭho bhavet sa eva aṅgaśabdavācyaḥ saṃpadyate | aṃ paramātmānaṃ gacchatītyaṅgam | paramātmani samarasatayā vilīno bhavituṃ prabhavati tādṛśaḥ susaṃskṛto jīvaḥ | ayaṃ vīraśaivamate aṅgamityucyate | tadānukūlyāyaiva tadīyahṛdaye virājamāna īśvaro'pi liṅgaśabdavācyo bhavati | īśvarassarva-bhūtānāṃ hṛddeśe'rjuna tiṣṭhati ityatropadiṣṭa eveśvaro vīraśaivamate prāṇavatpriyamiṣṭaliṅgamityabhidhīyate | aṅganāmako jīvaḥ nirantaropāsana-dvārā īśvarānugraheṇa
21 SK हृदयविकासमधिगच्छति | तादृशे निर्मले ज्योतिर्मये हृदये समरसं विलीनो जीवः ईश्वरानन्दमनुभवन्नेव प्. १९) लोकव्यवहारानपि निर्लिप्ततया निर्वोढुं प्रभवति | इदमेवं लिङ्गाङ्ग- nityānanda-rūpamuktisādhakatvādeva bhagavadgītā prasthānatraye prakhyātatayā parigaṇitā virājate | etādṛśasya gītāprasthānasya sarvaśrutisamanvaya-prakāreṇa jñānakriyāsamanvayātmakena mārgeṇa ca kālabhedenāvasthā-bhedena bhedābhedayorubhayorapi satyatvavyavasthāpakaṃ sarvamatasammataṃ bhāṣyaṃ mahatā kālena paṇḍitavaryairmahāsvāmibhirmahājanaiśca nirīkṣya-māṇamāsīt | tadevedamadya samāgatamityātmaviśvāsena sahṛdayeṣu vijñāpyate ||
22 SK न केवलं भेदाभेदसमन्वयात्मकमेवेदं भाष्यं किंतु परशिव- śrutau tāvat paraśivabrahma kvacitsaguṇaṃ kvacinnirguṇaṃ kvacitsākāraṃ kvacinnirākāraṃ kvacitsaviśeṣaṃ kvacinnirviśeṣaṃ iti bahudhā pratipādanāt parasparavirodha iva dṛśyate | sarvaiḥ pramāṇatayābhyupagatayāṃ śrutau etādṛśo virodho na kadāpi yujyate | ataśca adhikāribhedenaitādṛśyo vipratipattayaḥ samanvetavyāḥ | etadarthameva samanvayādhikaraṇaṃ pravṛttaṃ sūtraprasthāne | no cet sarvasaṃpratipannāyāḥ śruteḥ prāmāṇyaṃ vyāhanyeta | vīraśaivamataṃ tāvat paramātmani mūrtamamūrtaṃ cobhayaṃ rūpamaṅgī- अमूर्तत्वमात्रं परमार्थतयाङ्गीक्रियते | द्वैतमते विशिष्टाद्वैतमते च परमात्मनो मूर्तत्वमात्रमभ्युपगम्यते | श्रुतिस्तु द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तमेव च इति तस्योभयमपि रूपं सत्यतयैव निर्वक्ति | अतो वीरशैवमतं मन्दाधिकारिभ्यः परमात्मनो मूर्तरूपं उत्तमाधिकारिभ्यश्चामूर्तरूपं च आवश्यकमित्यङ्गीकरोति | अयं चाङ्गीकारः परमात्मनः शक्तिवैचित्र्यमेवावलंबते | शक्तिसंपर्कं विना परमात्मन्येतादृशः समन्वयो न संघटते | परमात्मनः शक्तिसंकोचावस्थायां निर्गुणश्रुतिं निर्विशेषश्रुतिं च समन्वेतुं सुशकं भवेत् | तथैव सगुणश्रुतिं सविशेषश्रुतिं च परमात्मनः शक्तिविकासावस्थायां समन्वेतुं सुकरं भवेत् | अद्वैतमते तावदेतादृशस्य समन्वयस्यावकाश एव नास्ति | परमात्मना प्. २०)
23 SK निर्वर्त्यमानं सत्यं जगद्व्यापारमपलपितुमनुभवविरोधः प्रसज्येत | सत्यं वस्तु न कदापि मिथ्याभवितुमर्हति | जीवेन देहे निर्वर्त्यमानं पूजादिकमपि मिथ्येति वक्तुं न शक्यते | सर्वं व्यवहारं यथार्थतया निर्वहन् मानवो यदि तं केवलव्यावहारिकमिति यदि भावयेत् तदा तस्य बुद्धौ यत्किञ्चित् वैपरीत्यं संभाव्यमेव | अतः द्वैतभावनया यद्यत्क्रियते तत्सर्वमपि यथार्थमेवेति ग्राह्यम् | एवं द्वैतस्यापि सत्यत्वाङ्गिकारः शक्तिवैशिष्ट्यं विना न संघटत एव | यतः शिव एव जीवरूपतया परिणमते एतस्यां परिणामावस्थायां शिवस्याद्भुतायां निरर्गलशक्तौ यः कश्चन सङ्कोचः अद्वैतिभिरप्यवश्यमभ्युपगम्य एव | जीवः शिवांशस्सन्नपि शक्तिसङ्कोचेनैव याथार्थ्येन मोहं गतस्संसारचक्रे परिभ्रमन् वर्तते | एतस्यामवस्थायां तं परब्रह्मैवेति को वा विवेकी वदेत् | तथैव सः न कदापि परब्रह्म भवितुमर्हति इत्यपि न कोऽपि वदेत् यतः स परमात्मनस्संबद्ध एव वर्तते अपि तु परमात्म-निष्ठया मायाशक्त्या सहजतया विभिन्नोऽविवेकेन परमात्मानं स्वबन्धुं विस्मृत्य स्वतन्त्रतया स्वयमेव व्यवहरति | तादृशं जीवं ब्रह्मैवेति तथैव न ब्रह्मेति च वक्तुं न शक्यते | अत एव तस्य बद्धावस्थायां जीवभावः सत्यतयैवाङ्गीकार्यः | स एव विवेकदशायां स्वीयबन्धोरानन्दमयस्य परमात्मनः पुर्णपरिचयेन तस्मिन् समरसं विलीय शक्तिविकासमधिगच्छति | अयं च शक्तिविकासो जीवस्य बुद्धावस्थैव | एवं शक्तिसङ्कोचविकासाङ्गीकारेणैव जीवपरमात्म- tadvīkāsāvasthaiva śivabhāva ityabhyupagamenaiva vyavahāraḥ samanvetīti śāstramapi saphalaṃ bhavet | śaktisaṅkocena jīvassannapi śaktivikāsenaikakāla eva śivabhāve'pi yadi paramaśivo virājate tadānīmeva tasya jagatpatitvaṃ prabhutvaṃ ca siddhyeta | evaṃ paramātmani śaktivaiśiṣṭyasyābhyupagamaḥ sarvānubhavasiddhaḥ śāstrapramāṇagamyaśca | ata eva vīraśaivamate śakti-
24 SK शिवजीवयोर्यस्सं-बन्ध उपवर्ण्यते प्. २१) स एव वीरशमतेऽपि यथार्थतया निर्दिश्यते || इदमेव शक्तिवैशिष्ट्यं निर्मित्तीकृत्य परमात्मनि श्रुतिसमन्वयः शिवा- niṣkalaṅko nirādhāraḥ nirliptaḥ śiva ucyate | anantānantakalyāṇaguṇaikaghana īśvaraḥ | śiva ityucyate sadbhiḥ śivatattvārthavevibhiḥ | iti smṛtau śivaśabda-vācyaṃ parabrahma ubhayaliṅgamiti śrīkarabhāṣye ubhayaliṅgādhikaraṇe śrīpatipaṇḍitārādhyaiḥ vyākhyātam | upasthite'tastadvacanāt (3-3-40) ityetat-sūtrabhāṣye sarvavedāntamukhyārthavedibhiḥ revaṇasiddhamarulasiddhodbhaṭā- निर्गुणश्रुतीनां शक्तिसङ्कोचविषयत्वमिति व्यवस्था निर्णीता इत्यभिधीयते | लोकवत्तु लीला कैवल्यं इत्यस्मिन्सूत्रे परब्रह्मणः शिवस्य शक्तिप्राचुर्यतया सृष्ट्युन्मुखस्थितौ लीलाश्रयत्वं संहारानन्तरं पुनस्सृष्टिपर्यंतं स्वेच्छया शक्तिसङ्कोचत्वेन केवलत्वमुपदिष्टमिति श्रीकरभाष्ये कथ्यते | निरञ्जनजङ्गमपुङ्गवेन अल्लमप्रभुदेवेनापि लीले यादोडे उमापति लीले तप्पिदोडे स्वयंभु इत्यादिना एकस्मिन्नेव परमात्मनि सृष्टिकाले भक्तानु- sṛṣṭeḥ anantaramapi paramātmano jīvāvasthāyāṃ śaktisaṃkocaḥ bhaktānugrahalīlā-nirvāhāya śaktivikāsaścāvaśyumabhyupagantavyaḥ | evaṃ sarvaśruti-samanvayasādhanena vīraśaivamataṃ śaktiviśiṣṭādvaitadarśanamabhyupagamya sarvamatasādhāraṇyena sarveṣāṃ ca sādhakānāṃ śreyovahatvena sarvābhi-laṣitaṃ sat virājate | etanmatasammatassamanvayamārgo bhagavadgītāyāṃ saṅgachata iti hi nirvivādam | trimurtyantargatasya tu amūrtaparaśive sāmarasyaṃ vastuto vidyata eva | tadbodhikā samanvayadṛṣtireva bhagavadgītāyāmanūdyate | viṣṇoravatārabhūtaḥ kṛṣṇaḥ śivatādātmyenaiva śivatattvamupadiśati | etatpaṭhanena mūrtopāsakāssarve'pi tattanmūrtidvārā amūrtaparamaśivānu-grahaṃ labdhvā deharūpe devālaye sarvatrāvṛtaṃ maladoṣaṃ dūrīkṛtya nirmalāssañjāyanta p. 22)
25 SK इत्याश्वासनं भगवद्गीता सर्वेभ्यस्साधकेभ्यो ददाति | निर्मला एव साधकाः योगमार्गेण शिरसि हृदये भ्रूमध्ये च विराजमानेन भाव- vyavaharantaḥ sarvānapi jīvānātmīyatayā prīṇayeyuḥ | etādṛśī ātmaupamya- प्रसादास्साधकाः नित्यतृप्ताश्शान्ताश्च भवन्ति | एवं भगवद्गीतायां विश्वजनीनमाशयमाविष्कुर्वदिदं वीरशैवभाष्यं न केवलं वीरशैवानां किन्तु सर्वेषामाध्यात्मजीविनां स्वान्तर्गतमहादेव- jātyandho dhṛtarāṣṭraḥ manornairmalyeneśvarānugrahaṃ labdhvā tatprasādācca jñānanetraṃ yathādhigacchat tathā abhimānabaddhā api jīvāḥ ajñānāndhāssanto'pi bhagavadgītāvalokanena jñānāgnidagdhakarmāṇa- ईश्वरावासभूतोऽयं देह एव धर्मक्षेत्रं संपद्यते | हृदयं तद्विजानीयात् विश्वस्यायतनं महत् इत्यत्र मानवदेहे हृदयं विश्वात्मनो दिव्यलीलाविनोदस्थानमिति निर्दिष्टम् | एतादृशं हृदयं यथा अकलुषितं भवेत्तथा यदि संशोध्येत तदा तत्र विराजमानं प्रकाशरूपं प्राण- sarvaissādhakaiḥ | pāśarūpaistriguṇairbaddho jīvaḥ triguṇātmakairviṣayaiḥ rūparasagandhasparśaśabdairavaśyaṃ yuddhyamāna eva vartate | etaiḥ pañcabhirbhogyaviṣayairāvṛtasya mānavasya dvaṃdvayuddhaṃ nityameva pravartate | mahābhārataṃ yuddhaṃ sarveṣāmapi jīvitasamaye sadabhyastameva | dharmasvarūpī jīvassaccidānandātmako'dharmarūpeṇa sattvarajastamoguṇātma- नित्यं प्रसज्यैव वर्तते | इदानीं जीवः किं चिच्छक्तिमाश्रयेत् अथवा चित्तशक्ति-माश्रयेत् इति महद्धर्षणमुत्पद्यते | चिच्छक्तिस्तावत् परमात्मतेजस्स्वरूपिणी सच्चिदानन्दात्मिका प्राणशक्तिरेव | अत एवोपनिषदि परशिवब्रह्म प्राणा-राममिति श्रूयते | एतादृशी परमात्मनिष्ठा प्राणशक्तिस्सङ्कृचिता सती देहेऽप्यत्र जीवेन सह वर्तते | एवं च जीवः किं चिच्छक्तिं शरणं गच्छेत्? अथवा चित्तशक्तिपरिणामभूतान् प्. २३)
26 SK मोहकारिणो भोग्यविषयान् किं समाश्रयेत्? इत्येवं सन्दिग्धावस्थायां जीवो निवसति | एतत्सन्देहपरिहाराय बाह्यं तु चक्षुर्नहि शक्नोति | तच्चान्तःप्रवेशाय न प्रभवेत् ? अतो मनोनैर्मल्यमन्तश्चक्षुरेवे- īśvarārpaṇa-dhiyā yadi bhunakti tadā tatsarvaṃ prasādarūpeṇa pariṇamate | idameva prasādajīvanaṃ sarveṣāṃ nityasukhasādhakamiti śivaḥ śrīrāmāya kṛtayuga eva samyagupadiṣṭavānāsīt | yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat | yattapasyasi rāma tvaṃ tatkuruṣva madarpaṇam | tataḥ paratarā nāsti bhaktirmayi raghūttama | atropadiṣṭa eva sarvārpaṇabhāvo bhagavadgītāyāmapyanūdyate | anena prasādajīvanena sarve vayaṃ prasannacetaso bhavāma | asmadīyā yuvāno yuvatyaścaivaṃ prasannā nirmalāśca bhūtvā svīyamajñānāndhakāraṃ parihāya jñānacakṣuṣā śobheran | yadyapi purāṇeṣu kvacitkvacit paramātmanaḥ mūrtāmūrtobhayasthititāratamyakathanādikaṃ yadyapi dṛśyate | kvacit śivasya śraiṣṭyaṃ kvacit viṣṇoḥ śreṣṭhatvamityādi nirdiśyate | tathāpi tatsarvaṃ na hi nindā nindituṃ pravṛttā api tu stutyaṃ stotum iti nyāyena prasaktāṃśapraśaṃsārthameveti brahmavido jānanti | nindyamaṃśaṃ niṃdituṃ tādṛśī nindā na hi pravartate kiṃtu prakaraṇocitaṃ stotrārhamaṃśaṃ praśaṃsitumeva sā tatra pravartata iti vivekibhirjñeyam | tatrāpātato dṛśyamānāṃ niṃdāmavalokya devālayo'yaṃ deho na kaluṣī-kartavyaḥ | ata mūrtopāsanenāpi mānavo'mūrtaśivaikyasukhamihaivāsmin janmanyeva prasādakāye'nubhavituṃ pārayatīti divyaṃ sandeśaṃ gītā duḥkhasāgaramagnāya mānavasamājāya samanugṛhṇāti | ayaṃ ca saṃdeśaḥ paramātmana eva sākṣādāgatassan sarvānapi sādhakān tattaprakṛtyanurodhena sāṃtvayan virājate | adhikaṃ purastātprakaraṇānurodhena vakṣyate | atha saṃdarbhocitamanubandhacatuṣṭayaṃ saṃsūcya prakṛtamanusarāmaḥ || hṛdaye virājamāno jīvo'pi nirākāra eva san na kenāpi svayameva p. 24)
27 SK अनुभूयते | परमात्मांशभूतस्सः अत्यल्पप्रमाणोऽपि परमात्म- cetanassan icchājñānakriyāśaktyāśrayaḥ tathā jīvo'pi tadāśraya eva vartate | athāpi paramātmaśaktiranyādṛśī aparimatā'nantā jīvaśaktistāvatsarvasādhāraṇā parimitā'ntavatī ca | cetanatvenaikajātīyo jīvaḥ śaktivikāsena paramātmani sāmarasyamavaśyamadhigacchatyeva | etadarthameva svasya paramātmanaśca saṃyogo'sminneva prasādakāye'dhigantavyaḥ | anena ca saṃyogena ātmaupamyarūpaṃ samadarśanaṃ atraivānubhavituṃ śaknoti mānavaḥ | etādṛśayogasādhanāya bhagavadgītā asmākaṃ pradhānaṃ śaraṇaṃ bhavitu-marhati | ayameva śivayoga iti śivāgameṣu nigadyate | yena kenāpi nāmnā vyavahṛtamapi tattvaṃ sarveṣāmapi sukhapariṇāmyeva saṃpadyate | etādṛśa-śivayogasvarūpaṃ bhagavadgītā līlayaiva vivṛṇoti etadadhigamāya anekān mārgānupadiśati ca | ato'tra aṅgaliṅgābhidhayoḥ jīvaparamayossaṃyogarūpa-sāmarasyapratipādanameva viṣayaḥ | etādṛśena saṃyogena jīvasya svarūpa-vijñānaṃ tasminnantaryāmitayā nivasataḥ iṣṭaprāṇabhāvātmakasya ca śivasya anubhavaḥ tādṛśena jñānāmṛtena tṛptasya jīvasyātmārāmatayāva-sthānamityetatsarvamatra prayojanam | granthasyāsya prakṛtena viṣayena saṃbandhaḥ pratipādyapratipādakarūpaḥ prasiddha eva | adhikāriṇaścātrā-dhītatarkavyākaraṇālaṅkāraśāstrāḥ samyaganubhūtakāvyanāṭakarasāḥ samadhigatāntaḥkaraṇanairmalyāḥ dehātmavivecanapaṭava sadbuddhisadbhāva-nāyuktāḥ citravicitraprapañcasvabhāvavijñānaniratāḥ strīpuruṣarūpāssarve sādhakāḥ | evamanubandhacatuṣṭayeṣu nirūpiteṣu adhikāridṛṣṭyā kaścana ākṣepa udbhavet | nanu strīṇāṃ tattvopadeśasyānarhatāyāḥ śāstrapratipādi-tatvāt kathaṃ tā api gītāyā adhikāriṇyo bhaveyuḥ ? ayaṃ ca vicāro yadyapi gahano gaṃbhīraśca vartate | tathāpi niṣpakṣapātayā dṛṣṭyā vicāryamāṇe tāsāṃ tattvaśāstravijñāne avakāśaḥ prāktanakālādapi dṛśyata eva | upaniṣatkāle maitreyyādyāḥ striyo na
28 SK केवलमात्मतत्वं स्वयमधिगतवत्यः किंतु तादृशमुपदेशं पुरुषेभ्योऽपि दत्तवत्य इति ज्ञायते | याज्ञवल्क्यः स्वभार्यायै प्. २५)
29 SK तदीयं दायं विभज्य प्रदातुमैच्छत् | तदा सा तमपृच्छत् यद्यमृतस्य त्वाशास्ति वित्तेन ? इति | सः प्रत्यवदत् अमृतस्य तु न आशास्ति वित्तेन इति | तदानीं साऽब्रवीत् किमहं तेन कृर्यां यद्यहममृता न स्याम् इति | अहो कीदृशं धीरं घनगंभीरं वचनमेतत् | कीदृशं वीर्यं वर्चश्च तत्र द्योत्यते | यदेव श्रद्धया विद्ययोपनिषदा क्रियते उच्यते चिन्त्यते च तदेव वीर्यवत्तरं भवति | एतदृशं वचनं कार्यं च किमर्थं न शोभेतेदानींतनासु युवतिष्वपि? स्त्रीषु पुरुषेषु च विद्यमानं ब्रह्मैकविधमेव | अयमंशो बसवार्येणापि सम्यगनूद्यते जले यथा गूढतमोऽस्ति वह्नी रसश्च सस्येषु यथा निबद्धः | गन्धश्च पुष्पेषु यथा निरूढस्तथैव जीवेषु परो निगूढः | बालासु सौहार्दमिवास्ति गूढं महेश्वरस्सर्वगतोऽपि गुप्तः | एवं देहे परमात्मनोऽवस्थानमुपवर्णयितुं कन्यास्नेहमेवोपमानतया निर्दिशति भगवान् बसवार्यः | एवं च स्त्रीषु पुरुषेषु परमात्मन एकरूपत्वात् तस्य परिचयमधिगन्तुं पुरुषाणामिव स्त्रीणामपि समान एवावकाशः सहजतया विलसति | अतस्ता अप्यधिकारिण्यः संपद्यन्ते | गीताप्रास्थनमेव स्त्रीशूद्रादीनुद्दिश्य प्रवृत्तमिति भगवान् व्यासो महाभारते कथयति | स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा | इति भारतमाख्यानं कृपया मुनिना कृतम् | एवं व्यासमहर्षिः स्त्रीशूद्रान् कर्मभ्रष्टान् ब्राह्मणांश्चोद्दिश्यैव महाभारतांतर्गतं गीताशास्त्रं रचयामास | स्त्रियो वैश्यास्तथा शूद्राः इत्युक्त्वा श्रीकृष्णोऽपि स्त्रीणां वैश्यानां शूद्राणामपि परमात्मस्वरूपविज्ञानाय अवकाशं परिकल्पयति | अतोऽत्र विनैव लिङ्गवयोभेदं जिज्ञासुसामान्यस्यापि अधिकारोऽस्तीति महान्विशेषः | अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः इत्यभियुक्तोक्त्या पुरुषाभिधेयानां पुंरूपाणां स्त्रीरूपाणां सर्वेषामपि गीतायां प्रवेशो विद्यत एव | मानवदेहे चेतनरूपो जीवः पुरुष उच्यते | स्त्रीष्वपि वर्तमानः स एव जीवः पुरुषपदवाच्यो भवति | अतः स्त्रीणामपि
30 SK वस्तुतः पुरुषत्वात् गीताप्रस्थानेऽवकाशो युज्यत एवेति सर्वमवदातम् || प्. २६) एवं मानवसामान्यमुद्धारयितुं प्रवृत्तं गीताप्रस्थानमारभमाणस्तदाविर्भावस्यावकाशं कल्पयति धृतराष्ट्रप्रश्नद्वारा धृतराष्ट्र उवाच इत्यादिना- धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः | मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय || १ || धर्मक्षेत्रे पुण्यक्षेत्रभूते कुरुक्षेत्रे समवेतास्सङ्गता युयुत्सवः युद्धं कर्तुमिच्छंतो मामकाः मत्पुत्रा दुर्योधनादयः पाण्डवाश्चैव पाण्डुपुत्रा युधिष्ठिरादयश्च किं अकुर्वत? अस्मत्पक्षीयं प्रबलमधिकं च सैन्यं वीक्ष्य तस्याधिक्यं बलिष्ठतां चावगत्य पाण्डवानां स्वविजयसन्देहात् युद्धादुपरतिरेव आसीद्वा? उत तैः सह युद्धमेव प्रवृत्तं वा? इति स्वपुत्राभिमानात् धृतराष्ट्रः कुतूहलेन सञ्जयं युद्धवार्तां पृच्छति || १ || दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तथा | आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् || २ || सञ्जय उवाच- पाण्डवानां भयप्रसङ्गनिवृत्तिस्तुशब्देन उच्यते | तेषां भयं नासीदेव प्रत्युत दुर्योधनस्यैव भयं बभूवेति भावः | तदा उभयपक्षयोस्सङ्गमे राजा दुर्योधनः व्यूढं व्यूहरचनादिकं कृत्वा स्थितं पाण्डवानीकं पाण्डवसैन्यं दृष्ट्वा आचार्यं द्रोणमुपसङ्गम्य तस्यातिसमीपं गत्वा वचनं वक्ष्यमाणं वाक्यमब्रवीत् अकथयत् || २ || पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् | व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता || ३ || पूर्वोक्त एवाशयः प्रपञ्च्यते - द्रुपदपुत्रेण द्रुपदस्य राज्ञः पुत्रेण तव च शिष्येण त्वत्सकाशादेव धनुर्विद्यां प्राप्तवता च धीमता मेधाविना धृष्टद्युम्नेन व्यूढां व्यूहरचनादिना व्यवस्थापितां पाण्डुपुत्राणां पाण्डवानामेतां पुरःस्थितं महतीं बुहदाकारां चमूं सैन्यं पश्य विलोकय पाण्डवसैन्यस्य प्. २७) संख्यया न्यूयत्वेऽपि महती चमूः इति कथनेन दुर्योधनस्य हृदये विद्यमानमविश्वासमूलं भयं सूच्यते || ३ ||
31 SK तस्य हृदये समुत्थितमेतदेव भयं विस्तरेण प्रकटयति - अत्र शूरा महेष्वासा भीमार्जुनसमा युधि | युयुधानो विराटश्च द्रुपदश्च महारथः || ४ || धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् | पुरुजित्कुन्तिभोजश्च शैव्यश्च नरपुङ्गवः || ५ || युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् | सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः || ६ || अत्र पाण्डवानां पक्षे शूराः शौर्यवन्तो महेश्वासाः महत्तर- prasiddhaḥ | śastrabale'rjuno viśrutaḥ | etadubhayatulyā yuyudhānādyāḥ draupadeyāntāssarva eva sarve'pi mahārathāḥ ātmānaṃ sārathiṃ caiva svasainyaṃ cāpi kṛtsnaśaḥ | yo rakṣanyudhyati naraḥ sa mahāratha ucyate | ityuktapūrṇavīralakṣaṇasaṃpannāssanti | evaṃ tatpakṣe vidyamānāḥ sarve'pi mahārathā ityabhiprāyeṇa pūrvaṃ mahatī camūḥ ityuktam | evaṃ parabalasya saṃkhyayā'lpatve'pi mahattvamuktvā svapakṣasya saṃkhyayā ādhikye'pi baladṛṣṭyā nyūnatvamāha- asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama | nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi || 7 || tuśabdena pratipakṣāt vailakṣaṇyaṃ sūcyate | tatpakṣīyāstu sarva eva mahārathāḥ asmadīyāstu sarve yuddhaviśāradāḥ sāmānyavīrāpekṣayā kiñcidviśiṣṭāḥ tāvataiva na mahārathāḥ | yadyapyatra bhīṣmadroṇādayo mahārathāssanti | athāpi na sarve mahārathāḥ tatpakṣe tu sarva eva mahārathāḥ | tadidaṃ vailakṣaṇyaṃ sūcyate tuśabdena | he dvijottama asmākaṃ asmatpakṣe tu ye viśiṣṭāḥ p. 28) vīryādiguṇasaṃpannāṃssanti tānnibodha śṛṇu | yadyapi bhavānetatsarvaṃ jānāti tathāpi tān pradhānabhūtān mama sainyasya parigaṇanārthaṃ te bravīmi || bhavān bhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ | aśvatthāmā vikarṇaśca saumadattirjayadrathaḥ || 8 || anye ca bahavaśśūrā madarthe tyaktajīvitāḥ | nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || 9 ||
32 SK भवद्व्यतिरिक्ता अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः प्राणानर्पयितुं सन्नद्धाः नानाशस्त्रप्रहरणाः नानाविधानि शस्त्राणि प्रहरणसाधनानि गदामुसलादीनि च येषां तादृशाः | सर्वे युद्धनिपुणा एव वर्तन्ते || ९ || एवं परबलस्य स्वबलस्य च तोलनेन स्वीयं निर्णयमाह- अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् | पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् || १० || तत् स्वस्मात् स्वपक्षापेक्षया परपक्षे महारथाधिक्यात् भीष्माभि- pāṇḍavānāṃ bhīmābhirakṣitamidaṃ tu balaṃ sainyaṃ paryāptaṃ svakārya- अपर्याप्तमपरिमितं परेषां परिभवसमर्थमत्यधिकम् पर्याप्तं परिमितमल्पं अस्मज्जयासमर्थम् इति व्याकुर्वन्ति | परं तु पूर्वोक्तमेव स्वरसं दृश्यते || १० || एवं स्वपक्षस्य दौर्बल्यं जानन् दुर्योधनः वृद्धस्य पितामहस्य सेनापतेर्भीष्मस्य रक्षणे सर्वैरपि जागरूगतया वर्तितव्यमित्याह- अयनेषु च सर्वेषु यथाभागमवस्थिताः | भीष्ममेवाभिरक्षन्तु भवन्तस्सर्व एव हि || ११ || अयनं नाम युद्धसंरंभे योधानां तत्तत्स्वरूपानुगुणं युद्धरङ्गे अवस्थितिस्थानम् | अतस्सर्वेषु च अयनेषु यथाभागं स्वस्वनियत- p. 29) avasthitāssarva eva hi bhavantaḥ asmatsenāpatiṃ bhīṣmamevābhirakṣantu sarvaprakāreṇāpi saṃrakṣantu | senāpatyadhīnatvātsainyasya tasmin rakṣite sati samagraṃ sainyameva rakṣitaṃ bhaviṣyatītyarthaḥ || 11 || evamadhairyeṇācāryaṃ droṇaṃ prati vadantaṃ rājānaṃ duryodhanaṃ protsāhayituṃ senāpatiḥ pitāmahaśca bhīṣmaḥ prayatitavānityāha- tasya sañjanayan harṣaṃ kuruvṛddhaḥ pītāmahaḥ | siṃhanādaṃ ninadyoccaiḥ śaṃkhaṃ dadhmau pratāpavān || 12 ||
33 SK तस्य राज्ञो दुर्योधनस्य हर्षं सन्तोषं सञ्चनयन्सम्यगुत्पादयन् प्रतापवान् महाबलपराक्रमशाली कुरुवृद्धः कुरुवंशवृद्धः पितामहो भीष्मस्तदीयभयापनोदाय सिंहनादं परकीयानां भयोत्पादनाय स्वीयानां धैर्योत्पादनाय च वीरैः क्रियमाणं सिंहगर्जनतुल्यं नादं निनद्य शब्दयित्वा | पाकं पचतीतिवत् प्रयोगः | सिंहनादं कृत्वेत्यर्थः | शंखं स्वीयशंखं दध्मौ पूरयामास || १२ || एवं सेनापतिना कृतप्रोत्साहा इतरेऽपि सर्वे तथैवाकुर्वन्नित्याह- ततश्शंखाश्च भेर्यश्च प्रणवानकगोमुखाः | सहसैवाभ्यहन्यस्त स शब्दस्तुमुलोऽभवत् || १३ || ततस्तदनन्तरं शंखाश्च प्रणवानकगोमुखा भेर्यश्च सहसैव ज्ञटिति अभ्यहन्यन्त ताडिताः | तैरुत्पन्नः स च शब्दः सर्वव्यापी परपक्षभया- || 13 || evaṃ duryodhanapakṣīyaprotsāhaṃ paśyatāṃ pāṇḍavasainyānāmadhairyaṃ yathā mābhūt tathā pāṇḍavapakṣīyā api svīyasainyaprotsāhāya prayatitavanta ityāha- tataḥ śvetahayairyukte mahati sthandane sthitau | mādhavaḥ pāṇḍavaścaiva divyau śaṃkhau pradadhmatuḥ || 14 || tataḥ parapakṣe bheryāditāḍanānantaraṃ śvetahayaiḥ śvetaturagairyukte mahati bṛhadākāre syandane rathe sthitāvupaviṣṭau mādhavaḥ śrīkṛṣṇaḥ pāṇḍaścaivārjunaścaiva p. 30) divyau śaṃkhau svīyadivyaśaktiviśiṣṭau śaṃkhau pradadhmatuḥ pūrayāmāsatuḥ || 14 || pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ | pauṇḍraṃ dadhmau mahāśaṃkhaṃ bhīmakarmā bṛkodaraḥ || 15 || anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ | nakulassahadevaśca suṣeṇamaṇipuṣpakau || 16 || kāśyaśca parameśvāsaḥ śikhaṇḍī ca mahārathaḥ | dhruṣṭadyumno virāṭaśca sātyakiścāparājitaḥ || 17 || drupado draupadeyāśca sarvaśaḥ pṛthivīpate | saubhadraśca mahābāhuḥ śaṃkhān dadhmuḥ pṛthak pṛthak || 18 ||
34 SK पाञ्चजन्यमिति श्रीकृष्णशंखस्य नाम | देवदत्तमित्यर्जुनशंखस्य नाम | एवमुपरिष्टादपि | एवं प्रधानपुरुषैः शंखध्मानकरणात् प्रोत्साहिता इतरेऽपि योधाः काश्यः काशीराजः तत्प्रभृतयस्सर्वेऽपि स्वस्वशंखान् पृथक् पृथक् प्रत्येकं प्रत्येकं दध्मुः पूरयामासुः || १५-१८ || एवं श्रीकृष्णादिभिः दिव्यशंखध्वनिभिः पाण्डवसैन्ये प्रोत्साहिते दुर्योधनसैन्यस्यैतच्छ्रवणेन महद्भयमासीदित्याह- स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् | नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् || १९ || नभः पृथिवीं चैव व्वनुनादयन् विशेषेण प्रतिशब्दं उत्पादयन् तुमलः सर्वव्यापाकस्सन् स घोषः शंखशब्दः धार्तराष्ट्राणां दुर्योधन- vyadārayadbhedayāmāsa || 19 || evaṃ bāhyadṛṣṭyā duryodhanādīnāṃ hṛdayakaṃpane jāte'pi kiñcidvyāje- विचित्रं परिणाममुत्पादयितुमवकाशं परिकल्पयति- अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः | प्. ३१) प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः || २० || हृषीकेशं तदा वाक्यमिदमाह महीपते |
35 SK हे महीपते इति सञ्जयेन धृतराष्ट्रसंबोधनम् | अथ व्यवस्थितान् सर्वेष्वयनेषु यथाभागमवस्थितान् सुसज्जितान् धार्तराष्ट्रान् दुर्योधनादीन् दृष्ट्वा तदा कपिध्वजः कपिर्ध्वजे यस्य सः पाण्डवोऽर्जुनः शस्त्रसंपाते शस्त्राणां संपातः परस्परं प्रयोगस्तस्मिन् प्रवृत्ते सति एवं पक्षद्वयशंखशब्दादिभिः प्रोत्साहनेन युद्धारम्भसूचनया च परस्परं बाणप्रयोगे आरब्धे सति धनुः स्वस्य धनुरुद्यम्य हस्ते धृत्वा बाणप्रयोगोन्मुखं कृत्वेत्यर्थः | हृषीकेशं श्रीकृष्णं इदं वक्ष्यमाणं वाक्यमाह | अत्र हृषीकेशपदप्रयोगादिदं वैचित्र्यं भगवतैव कृतमिति सूच्यते | हृषीकं नाम इन्द्रियम् | हृषीकं विषयेंद्रियम् इत्यमरः | तस्येशः प्रेरकः | स हि भगवान्सर्वेषामिन्द्रि- mattaḥ smṛtirjñānamapohanaṃ ca iti ca bahu vadiṣyati sa eva | ato'dhyātma- हृषीकेशपदेन सूच्यते | ननु अध्यात्मशास्त्रस्य युद्धरङ्गे किमर्थमुपदेशः कृतः | यत्र क्वचनोपविश्यैकान्ते खलु तत्त्वशास्त्रमुपदेष्टव्यमिति चेत्सत्यम् | परंतु अध्यात्मशास्त्रं केवलशुष्कवैराग्यसाधकं लोकव्यवहारानुपयोगि प्रत्युत तद्विरोध्येव न तेन लोकस्य कश्चनोपयोगः प्रत्युत विरोध एव इत्यादिरीत्या जनास्सर्वे भ्रमे मग्नास्संति | अध्यात्मशास्त्राध्यायनाय सर्वोद्यमेभ्यो निवृत्तिरेव संपादनीयेत्यपि केचित् भ्राम्यंति | ये तावद्गलितवयसो वृद्धास्त एवाध्यात्मशास्त्रस्याधिकारिणः | न तच्छास्त्रं तरुण- kecidvadaṃti | ye tāvadaśaktāḥ śarīre manasi buddhau ca ta eva kālayāpanāya adhyātmaśāstraṃ paṭheyuriti ca kecana mandāḥ bhāvayaṃti rājakīyavyavahāreṣu vyāpṛtāḥ puruṣāḥ striyaśca svīyakarmanivṛttyanantarameva adhyātmaśāstramadhyetuṃ prabhaveyuriti kecana bhāvayaṃti | etādṛśabhramāpanodanāya p. 32)
36 SK सैन्यमध्य एव वेदान्तोपदेशमारभते प्रभुः | अध्यात्मशास्त्रस्य धार्मिकलौकिकप्रवृत्त्योर्द्वयोरप्युपयोगितां प्रदर्शयितुं युद्धरङ्ग एवोपदेश आरब्धः | प्रत्युत मदालसानां दुरभिमानिनां पण्डितं- svakartavye pravṛttyutpādakatāṃ ca pradarśayituṃ kāryakṣetra evādhyātma- संपादयितुं प्रभवेदित्याशयेन तच्छास्त्रस्य तादृशवीर्यवत्तां साक्षादेव क्रियया च निवेदयितुं रणभूमावेव तदुपदेशावकाशं कल्पितवान् प्रभुः | अर्जुनो हि स्वपक्षीयान् परपक्षीयान् सर्वानपि पूर्वमेव अजानादेव | नूतनतयेव तस्य तेषां दिदृक्षा तद्दर्शनेन च तस्य निर्वेदः तेन च तस्य युद्धादुपरतिः न योत्स्ये इति तद्वचनं अन्ते तस्यैव नष्टो मोहः इत्युद्घोषः इत्यादिकं सर्वमपि भगवत्प्रेरणं विना नहि स्वत एव प्रवर्तेत | एतादृशं भगवतस्सर्वेंद्रियप्रेरकत्वं इन्द्रियाणां तदधीनत्वं अध्यात्मशास्त्रस्यानुष्ठानपर्यवसायित्वं इत्यादिकमर्थजातं स्पष्टं सूच्यते हृषीकेशपदेन | अतः शास्त्रस्यानुष्ठानपर्यवसायितां सर्वेभ्यः प्रत्यक्षतयैव प्रदर्शयितुमेव युद्धभूमावेव केनचिद्व्याजेनध्यात्म- tacchāstropadeśo na doṣāya bhavet | avaśiṣṭho viṣayo'nyatra yathāvasaraṃ nivedyate || 20 || hṛdi sthitena devena preritaḥ arjunastadā kimuvāca ityāha - senayorubhayormadhye rathaṃ sthāpaya me'cyuta || 21 || yāvadetānnirīkṣe'haṃ yoddhukāmānupasthitān | kairmayā saha yoddhavyamasmin raṇasamudyame || 22 || yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ | dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ || 23 || he acyuta kṛṣṇa! acyutapadaprayogāt kṛṣṇaḥ mānavo'pi nāśarahitaḥ sākṣātparamātmaivetyartho gamyate | evamutpattivināśarahitaḥ paraṃ- प्. ३३)
37 SK भगवान् दिव्यमङ्गलविग्रहो महादेव एव कृष्णनाम्ना जिज्ञासोरर्जुनस्य पुरस्तस्थौ | अर्जुनश्शुद्धजीवः भाविकल्याणसाधकं स्वीयमाशयं साक्षात्परमात्मन्येव शुद्धहृदयेन प्रकटीचकार उभयोस्सेनयोर्मध्ये मे रथं स्तापय चालयित्वा तिष्ठ कतिपयनिमेषपर्यन्तमिति | किमर्थमित्यत आह- यावदित्यादि | अहं योद्धुकामानवस्थितान् युद्धं कर्तुकामास्सन्तो येऽवस्थितास्तान्यावन्निरीक्षे यथा पश्येयंस्तथा रथं स्थापय | मन्निरीक्षाणाय यथा सौकर्यं स्यात्तथा स्थापय | के ते निरीक्षणीया इत्यस्य विवरणं यैरित्यादि | कैः यैरिति यावत् | अस्मिन् रणसमुद्यमे युद्ध- mattvā mayā saha virodhena yuddhaṃ kartuṃ ke vā iccheyuḥ | iti viṣādasūcanāya yairityanu kairityuktam | etadeva spaṣṭaṃ vivṛṇoti yotsyamānānītyādi | durbuddherdrohabuddheryathākathaṃcit pañcagrāmairvā saṃdhiṃ vāñchatāmapyasmākaṃ pūrṇadrohaṃ kartumicchato dhārtarāṣṭrasya duryodhanasya yuddhe tena pravartamāne tadīye yuddhe | etenaitādṛśasahodara- प्रियमस्मद्वधरूपं चिकीर्षवः कर्तुमिच्छवः य एतेऽत्र युद्धरङ्गे समागता मिलितास्तादृशान्योत्स्यमानान् अहमवेक्षे सम्यक्पश्यामि || एवमर्जुनेनोक्तः श्रीकृष्णः सर्वेश्वरोऽपि सन्नाश्रितवात्सल्यात् तदीयसारथ्येऽवस्थितः तादात्विकस्वस्वामिनियोगं तथैव परिपालयामासेति सञ्जयो धृतराष्ट्रमुवाच - एवमुक्तो हृषीकेशो गुडाकेशेन भारत | सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् || २४ || भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् | उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति || २५ || हे भारतेति धृतराष्ट्रसंबोधनम् | हृषीकेशः अन्तर्बाह्यकरणानां प्रेरकः | एतेनार्जुनस्यैतादृशबुद्ध्युदयस्तेनैव कृत इति सूच्यते | तादृशः प्. ३४)
38 SK परमात्मावतारभूतः श्रीकृष्णः गुडाकेशेनार्जुनेनैवं एतत्प्रकार- sthāpayivetyarthaḥ | he pārtha samavetān yuddhārthaṃ samāgatānanekān kurūn duryodhanapakṣīyān paśya ityuvāca | atra guḍākeśapadaprayogaḥ arthagarbhito'nvarthatayā yujyate | guḍākā nidrā tasyā īśo jitanidra ityarthaḥ | nidrā tāvattamaso duṣpariṇāmaḥ | sā ca jāgratprakṛtikenārjunena jitavāsīt | pāśupataprāptyarthaṃ tenādbhutaṃ tapa ācaritaṃ khalu | tadānīṃ nidrālasyādikaṃ tena parityaktamiti viśrutameva | evaṃ ca saḥ sātvikasvabhāva evāsīt | paraṃtu śrīkṛṣṇapreraṇena tasya manasi bandhuvyāmoha utpannaḥ | lokakalyāṇārthaṃ taktvopadeśāyaivamavakāśaḥ paramātmanaiva parikalpitaḥ | vastuto'rjunaḥ śuddhasvabhāva āsīt ata evepadeśārhassañjāta ityāśayaṃ guḍākeśapadaṃ sūcayati | idamatra aucityena śobhate || tataḥ kimāsīt? arjunaḥ kimapaśyat? ityatrāha - tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān | ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā || 26 || śvaśurānsuhṛdaścaiva senayorubhayorapi | senayorubhayorapi sthitān pitṛpitāmahādīn apaśyadarjunaḥ | tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān || 27 || kṛpayā parayāviṣṭo viṣīdannidamabravīt | tānsamīkṣya samyagavalokya viṣīdan saḥ mama pitṛpitāmahādayā eva vadhyā- स्वेन योद्धव्यमित्यर्जुनोऽजानादेव | अथापि बुद्ध्या जानन्नप्येकत्र समवेतांस्तान् पश्यतस्तस्य हृदये भगवत्प्रेरणयैव शोकस्सञ्जात इत्यर्थः || २७ || प्. ३५) एवं विषण्णस्सः किमब्रवीदित्याह- दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् || २८ || सीदन्ति मम गात्राणि मुखं च परिशुष्यति | हे कृष्ण युयुत्सुं युद्धाय समुपस्थितमिमं स्वजनं दृष्ट्वा मम गात्राणि सीदन्ति खिद्यन्ते | मुखं च परिशुष्यति शोकात् कान्तिहीनं संपद्यते || वेपथुश्च शरीरे मे रोमहर्षश्च जायते || २९ || गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते |
39 SK वेपथुश्च मे शरीरे जायते | तथा रोमहर्षः भीतिजुगुप्सादिना जायते | हस्ताद्गाण्डीवं धनुरपि स्रंसते | त्वक्चर्मापि परिदह्यते || २९ || न च शक्रोम्यवस्थातुं भ्रमतीव च मे मनः || ३० || निमित्तानि च पश्यामि विपरीनानि केशव | न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे || ३१ || न कांक्षे विजयं कृष्ण न च राज्यं सुखानि च | एतेषां निष्कारणवैरिणां पुरः स्थातुं नाहमभिलषामि | किमर्थमेतैः स्वार्थसाधकैस्सह मया योद्धव्यमित्यालोच्य मे मनसि भ्रमस्सञ्जातः | एतैस्सह योद्धुमागतस्य मे निमित्तान्यपि विरुद्धानि दृश्यन्ते | स्वबन्धूना-मेतेषां युद्धे हननेन न किञ्चिदपि फलमधिगम्यते मया | एतस्मिन्युद्धे विजयोऽपि नाभिलषितो मया | एतेन पापकर्मणा लब्धव्यं राज्यमपि मे मास्तु || कुतो युद्धे विजयादिकं नाकांक्ष्यत इत्यत्राह- किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा || ३२ || येषामर्थे कांक्षितं नो राज्यं भोगाः सुखानि च | त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च || ३३ || नाहं केवलस्वार्थपरतया किन्तु बन्धुभिस्सह सुखी स्यामिति भावनयैव राज्यमिदं वाञ्छे | यदि बन्धव एवास्मिन्युद्धे म्रियेरन् तदा किमहं तेन प्. ३६) कुर्यामनेन राज्येन | यदर्थमहं योत्स्ये तादृशास्तु बन्धवः धनकन- atrāgatāssaṃti | ahaṃ ca tān haniṣyāmyeva | parantu tān hatvā tādṛśarājya- प्रयोजनं स्यात् ? कैस्सह राज्यसुखमनुभाव्यम् ? के वा मया बध्या इत्यत्रा- आचार्याः पितरः पुत्रास्तथैव च पितामहाः | मातुलाः श्वशुराः पौत्राः स्यालास्संबधिनस्तथा || ३४ || पूज्या आचार्याः रक्तसंबधिन एते न हन्तन्या एवेत्यर्जुनस्याशयः || तेषु भवन्तं हन्तुं सन्नद्धेषु आत्मरक्षार्थं तेऽपि भवता वध्या एव भवितुमर्हन्तीति चेत्तदपि नाहमिच्छामीत्यत्राह- एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन | अपि त्रैलोक्यराज्यस्य हेतोः किन्नु महीकृते || ३५ ||
40 SK एतान् हत्वा प्राप्य त्रैलोक्याधिपत्यमेव मम मास्तु | अयमेव ममाशयः | एतादृश्यां स्थितौ केवलमहीकृते ऐहिकराज्यार्थं किन्नु किमुत युद्धे प्रवर्ते ? अहं तैर्हतो यदि भवेयमपि तदा सुष्टु स्यात् | अहं तावत् तानस्मिन्युद्धे हन्तुं सर्वथा नेच्छामि || ३५ || भवद्वधोद्यतानपि कुतो हन्तुं नेच्छसीत्यत्राह- निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्यञ्जनार्दन | पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः || ३६ || एवं त्रैलोक्यराज्यापेक्षाया अप्यभावात् एतान् धार्तराष्ट्रान् हत्वा नः का प्रीतिस्सन्तोषः स्यात् ? न कोऽपीत्यर्थः | विना कारणमस्माभिस्सह द्वेषं कृत्वा अस्मान्हन्तुमप्युद्यता एते आततायिन एव | आततायिनश्च महापातकिनः | तादृशांस्तान् हनिष्यामि चेन्मम ततोऽप्यधिकं पापं संभवेत् | पापिभिः स्वकृतपापफलं स्वयं भुज्येतैवेति हि विवेकिभिरस्माभिस्तूष्णीं प्. ३७) स्थातव्यम् | तादृशं मार्गं परित्यज्य वयमपि कामक्रोधादिभ्यस्तान् हन्मश्चेत् तेषामपि पापमस्मानेवाश्रयेत् | अतो न युक्तमेतेषां हनन- tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsabāndhavān | svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava || 37 || svabandhūn hatvā ko vā sukhī saṃpadyeta ? tādṛśastu mūrkha eva syāt | sa ca na kadāpi loke sukhaṃ vindeta || tarhi tvadbāndhavāste tvāṃ hantuṃ kathaṃ sannaddhā babhūvurityata āha- yadyapyete na paśyanti lobhopahatacetasaḥ | kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam || 38 || kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum | kulakṣayakṛtaṃ doṣaṃ prapaśyādbhirjanārdana || 39 || ete duryodhanādayo rājyalobhena naṣṭabuddhayaḥ kulanāśādikaṃ na jānantyeva rājyalobhāt | ahaṃ tajjānanneva kathamidaṃ pāpaṃ kuryām ? kulakṣayakṛtaṃ doṣaṃ prapaśyadbhiḥ samyaganubhavadbhirasmābhiḥ asmātpāpānnivartituṃ kathṃ na jñeyam | etādṛśapāpannivṛttiḥ kathaṃ na cintyeta ? ataḥ kaścana upāyaścintanīya eva pāpanivṛttaye ||
41 SK कुलक्षये कोऽसौ महान्दोष इत्यत्र वर्णसांकर्यरूपो महान्दोषस्संभवे- kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ | dharme naṣṭe kṛtsnamadharmo'bhibhavatyuta || 40 || adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ | strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ || 41 || vaṃśasya kṣaye saṃpradāyaparaṃparāgatācārādīnāmapi svayaṃ nāśaḥ avarjanīyo bhavet | evaṃ sadācārādimaryādāvināśe svato durbalāḥ mānavāḥ svayaṃ p. 38) paranirbandhādvā parakīyairdūṣitā bhaveyuḥ | tena ca brāhmaṇakṣatriyavaiśya- पर्यवस्येत् | अस्तु वर्णसाङ्कर्यम् | अनेन का हानिरिति चेतस्य महादोषत्वमाह - सङ्करो नरकायैव कुलघ्नानां कुलस्य च | पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः || ४२ || सङ्करो वर्णसांकर्यं कुलघ्नानां वर्णसङ्करहेतूभूतकुलक्षय- kulaṃ naṣṭaṃ teṣāmeva dharmalopaḥ saṃbhavediti na kintu ya etaddoṣahetavaḥ kulakṣayakartāraḥ te'pi tatpāpaprabhāvavaśāt kramaśaḥ kṣīṇā bhaviṣyantyevetyuktam | narakāyaiveti kathayitvāha- patantīti | hi yasmātkāraṇāt eṣāṃ kulakṣayakāriṇāṃ kṣīṇakulānāṃ ca pitaraḥ luptapiṇḍodakakriyāḥ naṣṭvapaitṛkavyāpārāḥ patanti pateyuḥ | putrasyotpattireva etādṛśa-ṛṇaparihārāyeti viśrutā | yuddhe sarveṣāṃ maraṇāt śrāddhāṃ nirvahantaḥ puruṣā eva na syuḥ | yadā paitṛkakriyaiva parityaktā bhavet tadā pitṛdevatāḥ kupitā bhaveyuḥ | ataśca pitṛsvarūpamahādevoddeśyakamāheśvarārādhanarūpasatkarmatyāgena tatphalaṃ narakādiduḥkhaṃ sarveṣāṃ saṃbhavedeva || nanu varṇasāṃṅkaryamātreṇa na putrotpattyasaṃbhavaḥ yo hi jāyate kaścit sa eva pitudevānuddiśya bhaktamāheśvarasantarpaṇaṃ kariṣyatītyucyate cet so'pyasaṃbhava ityāha- doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ | utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ || 43 || utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana | narake niyataṃ vāso bhavatītyanuśuśruma || 44 ||
42 SK हे जनार्दन कुलघ्नानां वर्णसाङ्कर्यहेतुभिरेतैर्दोषैः वंशक्षया- dharmā ye śāśvatāḥ p. 39) etāvatā kālena anuvartamānāssanti te utsādyante naśyati | sāṅkaryeṇa jāyamānaḥ putro yaḥ ko'pi jātikulādivarjita eva jāyeta ? ayaṃ ca kathaṃ svajātikulakramāgatān dharmān jānātu ? atassāṅkarye dharmanāśa avarjanīyaḥ | ataścaivaṃ utsannakuladharmāṇāṃ naṣṭajātikuladharmāṇāṃ manuṣyāṇāṃ narake niyataṃ vāsassaṃbhavatītyanuśaśruma śrutismṛtyā- अतश्च सङ्करो नरकायैवेत्येतत् दुरपह्नवमेव || एवं महापातकस्य वर्णसाङ्कर्यस्य अहमेव कारणं भवेयमिति स्मरण-मात्रेण कंपितमनाः अर्जुनः पापभीत्यैवमाह- अहो व्रत महत्पापं कर्तुं व्यवसिता वयम् | यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः || ४५ ||
43 SK अहो बत इत्यव्ययद्वयं स्वस्येदृशी बुद्धिर्वर्णसाङ्कर्यकारिका कथमुत्पन्ना इत्याश्चर्यं सङ्कटं लज्जादिकं च सूचयति | यद्यस्मात् वयं राज्यसुखलोभेन राज्यप्रप्त्यधीनसुखे लोभात् दुराशया स्वजनं पितृभ्रात्रादिबन्धुजनमेव हन्तुमुद्यतास्सन्नद्धाः अतो महत्पापं कर्तुं व्यवसिता निश्चितवन्तः | एवं वर्णाश्रमधर्माणां श्रूत्याचारादिसिद्धत्वं तेषां साङ्कर्यस्य नरकहेतुत्वं तादृशसाङ्कर्यकर्तॄणामपि नरकादिप्राप्तिः इत्यादिकामनर्थपरंपरां सम्यक् प्रदर्शयितुं अहो बत इत्याद्युपोद्धातो व्यासेन रचितः | भगवानप्युपरिष्टात् वक्ष्यति सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः इत्यत्र सङ्करस्य सर्वनाशकत्वं चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः इत्यत्र वर्णाश्रमधर्मस्य स्वसृष्टत्वं च | ननु गुणकर्मविभागशः इत्यनेन गुणकर्माधीनमेव ब्राह्मणत्वादिकमिति ज्ञायत इति चेत्सर्वोऽपि गुणः सर्वं वा कर्म नहि सर्वेषामपि समानतया अन्वेतुमर्हति | नहि सर्वं सर्वस्य कर्तुं वा शक्यम् | यथा क्षमादानादयो ब्राह्मणगुणा वा वीर्यशौर्यादयः क्षत्रियगुणा वा रक्ततस्संबद्धा अनुस्रियमाणाश्च नहि प्रयत्नमात्रसंपाद्याः भवेयुः | मूलतः स्थितानामेषां पोषणं परं प्रयत्नसाध्यम् | अतो बीजगता ब्राह्मणत्वादिजातयः अवश्यमङ्गीकार्या एव | प्. ४०)
44 SK अत एवात्रापि उत्साद्यन्ते जातिधर्माः इति जातिपदं प्रयुक्तम् | अतो वर्णाश्रम- siddham | kiṃca varṇāśramadharmānaṅgīkāre sarvassarvaṃ kartuṃ śaknuyāt | tatra jātivibhāgena dharmavyavasthāyā anaṅgīkāre'pi āśramavibhāgena tadaṅgīkāra āvaśyaka eva | no cet gṛhasthasyaiva strībhogo dharmaḥ saṃnyāsinastu saḥ mahānadharmaḥ ityādyāśramavyavasthāpi nāṅgīkāryā syāt | ataśca brahmacārigṛhasthasaṃnyāsivānaprastharūpacaturāśramāṇā-mapi sāṅkaryaṃ syāt | brahmacāriṇo'pi viṣayopabhoga ityādikaṃ syāt | ataśca narā api paśuprāyāḥ syuḥ | yadi ca āśramadhramā aṅgīkriyante tarhi tatsahapaṭhitā varṇadharmā apyaṅgīkāryāḥ | ato vivekināṃ susaṃskṛtānāṃ ca varṇāśramadharmāḥ nāpalapituṃ yuktāḥ | ye pūrṇaviraktāḥ jñānānandamagnāḥ śivānubhavinaste tāvadativarṇāśramiṇa ucyante | ullaṃghitavarṇāśramadharmā api te lokakalyāṇadṛṣṭyā atyutkṛṣṭaṃ samadarśanarūpaṃ dharmamācaranto vartante | te tu kevalajñānamārgāva- समरसं विलीनस्तादृशाः पुरुषा अतिक्रान्तवर्णाश्रमा एव सन्ति | तेषां विचारः अन्यैर्न कदापि परीक्ष्यः | अयमंशः बसवार्येण सम्यगाविष्कृतः शिवैकनिष्टाः शरणास्तु लोके केनापि रूपेण वसन्तु नित्यम् | महानुभावाश्च शिवैकचित्ता यथाकथं वापि वसन्तु भूमौ | साधु-स्वभावा विनिवृत्तकामाः कयापि वृत्त्या निवसन्तु लोके | संशोधकोऽयं मणिरस्तु रूक्षस्तथापि संशोधयतीह लोहम् | सङ्गार्यभक्ता हि यथाभिलाषं वसन्तु लोके रसवार्धयस्ते | एतादृशां ज्ञानिनां स्थितिरन्यादृशी विलक्षणा च वर्तते | तैस्तावद्वर्णाश्रमधर्मा त्यज्यन्ताम् | तावता न कापि हानिः | तथापि सर्वे तादृशीं स्थितिं नाधिगतवन्तः | तैस्तावद्वर्णाश्रमधर्मा ईश्वरकृतत्वादनिवार्यत्वाच्चावश्यं पालनीया एव | एवं कृते सत्येव तेऽपि क्रमशः शिवानुग्रहं लब्धुं प्रभवेयुः | भवसागरमग्नैः सर्वैरपि आश्रमाधर्मादिकमनुष्टेयमेव | प्. ४१)
45 SK अयमाशयः मदीयायां शरणगीतायामनूद्यते | स्वमेव सर्वं घनता- mauktikaṃ syāccetsamudraḥ kathamāvahejjalam | bhraṣṭāstu jīvāḥ paśutulyavartanāt kathaṃ labheran paramātmabodhanam | sarvaiśca taistadyadi labhyate bhuvi tadā bhavaḥ kutra labhet vardhanam | ataśca bhaktā viralā hi jātā deve yathā kūḍalacannasaṅge | tathaiva sādhuḥ punareka eva lakṣeṣu bhaktaḥ śaraṇastu koṭau | ityevaṃ sarve mānavāḥ bhaktasthitimevādhigantuṃ nāśaknuyuḥ | tadā yadi te ativarṇāśramiṇo bhaveyuḥ tadā teṣāṃ vaikṛtama- वर्धिष्णुभिः स्थेयम् | अधिकमप्रसक्तमत्र | ननु यदि भवान्युद्धं न कुर्यात् तर्हि तुष्णीमुपविष्टं भवन्तं शत्रवो हन्युरित्याशङ्कायां इष्टापत्तिमाह- यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः | धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् || ४६ || अशस्त्रं परित्यक्तशस्त्रं अत एवाप्रतीकारं मद्वधे प्रवृत्तानपि दृष्ट्वा तूष्णीं स्थितं मां शस्त्रपाणयो धार्तराष्ट्राः दुर्योधनपक्षीयाः रणेऽस्मिन्यदि हन्युः तदेव मे क्षेमतरं नरकपातादिभ्यो मद्रक्षणात् हितावहं भवेत् || ४६ || एवमुक्त्वार्जुनः संख्येः रथोपस्थ उपाविशत् | विसृज्य सशरं चापं शोकसंविग्नमानसः || ४७ || अर्जुनविषादमेवं सूचयन् सञ्जय उवाच- एवमुक्तप्रकारेण शोकनिर्वेदादिकं प्रकटयित्वा संख्ये तद्युद्धरङ्ग एव शोकसंविग्नमानसः शोकेन संविग्नं खिन्नं मानसं यस्य सोऽर्जुनः सशरं चापं धनुर्विसृज्य दूरस्त्यक्त्वा रथोपस्थे रथप्रान्ते रथमध्येऽप्युपवेष्टुं जुगुप्सया रथप्रान्त एवोपाविशदुपविष्टवान् | एवमर्जुनः प्रकृतेर्वशङ्गतः स्वकर्तव्यं विस्मृत्य स्वीयं विषादं न्यवेदयत् | तथैव प्. ४२) सर्वे जीवाः व्यवहारकाले मुह्यन्ति | तन्मोहपरिहारायार्जुनविषादः दिव्य- labhante || atha dvitīyo'dhyāyaḥ tataḥ kimāsīditi kutūhalena śrotumicchantaṃ dhṛtarāṣṭraṃ prati sañjayaḥ bhagavatkṛtamarjunaviṣādanivāraṇopakramaṃ nyavedayat -
46 SK तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् | विषीदन्तमिदं वाक्यमुवाच मधुसूदनः || १ || तथा तादृश्या कृपया दयया आविष्टं व्याप्तमत एव बन्धुजनहनन- madhusūdanaḥ idaṃ vākyamuvāca | pākaṃ pacatītivatprayogaḥ | idamuvācā- निवारकः कृष्ण इति सूच्यते || १ || कुतस्त्वा कश्मलभिदं विषमे समुपस्थितम् | अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन || २ || श्रीभगवानुवाच- हे अर्जुन त्वा त्वां अनार्यैः शास्तार्थमजानद्भिः मूढैर्जुष्टं केवलपामरैस्सेवितमत एव अस्वर्ग्यं परलोकानर्हं अकीर्तिकरमपयशस्करमिहलोकानर्हमिदं कश्मलं कालुष्यं विषमे विषमसमयेऽस्मिन् युक्तकार्या चरणकाले कुतः समुपस्थितं समागतम्? यदि युद्धमधर्मं जानीयास्त्वं तर्हि इदं पूर्वमेव परिहर्तव्यमासीत् | तत्परिहाराय प्रयत्ने कृतेऽपि अवर्जनीयतया आपतितेऽस्मिन्युद्धे क्षत्रियेण न कदापि पलायितव्यम् | युद्धरङ्गात्पलायनं न हि क्षत्रियधर्मः | वर्णसाङ्कर्यं महापापं वदता भवता स्ववर्णधर्मः अनिवार्यतया पालनीय एव | स्वधर्मवर्जने सांकर्यं जायेतैव | प्. ४३) क्षत्रियस्य तावत् युद्धे शत्रुनिग्रह एव धर्मः | तत्रापि अवशादेवेदं युद्धं समागतम् | तदपि न क्रियत इति चेत्प्रथमं त्वमेव वर्णधर्म- cāpya-palāyanam | dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam | iti yuddhe'-palāyanaṃ kṣatriyasya bhavato vihito dharmaḥ | varṇāśramaprāśastyaṃ vadata-stava evaṃ varṇadharmatyāgarūpaṃ mahāntamadharmaṃ kartumanarhatayā etādṛśaṃ kaśmalaṃ manaḥkāluvyaṃ kathaṃ tvayi prāptam ? yadi viraktastvaṃ tarhi upakrāntaṃ karma samāpyaiva vanaṃ gantavyam | yuddhe cāpyapalāyanaṃ hi tvadīyo dharmaḥ | ata evehocyate viṣame samupasthitamityādinā || 2 || evaṃ kṣatriyasyāvaśyaprāptayuddhāduparamo napuṃsakalakṣaṇameva na tu vīrakṣatriyalakṣaṇam | ato bhavatā raṇaraṅge utsāhenāvaśyaṃ sthātavyāmi-
47 SK क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते | क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप || ३ || हे पार्थ-अर्जुन क्लैब्यं नपुंसकत्वं मा स्म गमः मा गाः | महेश्वरेणापि युद्धं कृतवति वीरक्षत्रिये निष्कलङ्कशक्तिमति त्वयि एतदेवमक्लिबत्वं नहि उपपद्यते नैव युज्यते | महावंशजातस्य तवेदं वचनं न युक्तम् | अतः एतादृशं क्षुद्रमतिनीचं हृदयदौर्बल्यम् | नेदं वैराग्यं किन्तु मनोदौर्बल्यमेव | आस्थाने दयादिकमपि हि मनोदौर्बल्यमात्रजन्यमिति भावः | इदं त्यक्त्वा उत्तिष्ठ युद्धायोपक्रमं कुरु | रणभूमौ दयाविष्करणं न शोभते तव || ३ || एवं भगवता अर्जुनाय क्लीबत्वे मनोदौर्बल्ये चापादिते सति अर्जुनः न मे मनोदौर्बल्यं न वा नपुंसकोऽहं किंत्विदं अस्माभिः क्रियमाणं युद्धं न हि धर्मयुद्धम् अपि तु अधर्मयुद्धमित्यभिप्रायेणार्जुन उवाच- कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन | इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन || ४ || प्. ४४) हे मधुसूदन पूजार्हौ मम परमपुज्यौ भीष्मं पितामहं द्रोणमाचार्यं च संयुगे समरे कथमिषुभिर्बाणैः प्रतियोत्स्यामि ताभ्यां प्रतियुद्धं करिष्यामि | तैस्ताडितेनापि मया तेषां विषये गौरवेण वर्तितव्यम् | अतस्तूष्णीं स्थातव्यमिति मे निश्चयः | ते हि मम पूज्याः | अतो भीत्या नाहं युद्धादुपरमामीत्यर्थः || ४ || एतादृशाधर्मादपि मम भैक्ष्याचरणमेव वरमित्याह - गुरुनहत्वा हि महानुभावान् श्रेयो भोक्तं भैक्ष्यमपीह लोके | हत्वार्थकामांस्तु गुरुनिहैव भूञ्जीय भोगान् रुधिरप्रदिग्धान् || ५ ||
48 SK महानुभावान् परमपूज्यान् गुरून् अहत्वा वधमकृत्वा इह लोकेऽस्मिन्जगति भैक्ष्यं भिक्षाचरणप्राप्तं भोगमपि भोक्तुमनुभवितुं श्रेयो हि उत्तमं खलु | गुरुहननाद्भिक्षाचरणमेव हितावहम् | गुरून् हत्वा तु रुधिरप्रदिग्धान् लोहितलिप्तान् अत्यन्तगर्हितान् अर्थकामरूपान् भोगान् इहैवास्मिन्नेव जगति लोके भुञ्जीय अनुभवेयम् | एवं च अस्यार्थकामभोग- etalloke bhikṣācaraṇameva sarvathā śreyovahamityarjunasyāśayaḥ || 5 || kṣatriyasya khalu svadharmatvāt yuddhameva hi śreyaskaram na tu bhikṣācaraṇa- न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः | यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः || ६ || नः अस्माकं कतरत् गरीयः श्रेष्ठमित्येतन्न च विद्मः नैव जानीमः | यद्वा वयं जयेम धार्तराष्ट्रान् यदि वा नः अस्मान् धार्तराष्ट्राः जयेयुः इत्येतदपि न विद्मः | प्रत्युत यान् दुर्योधनादीन् भ्रातून् हत्वा वयं न जिजीविषामः जीवितुमिच्छामः ते धार्तराष्ट्रा एव आवयोः प्रमुखे संमुखे प्. ४५)
49 SK अवस्थिताः | तथा च भ्रात्रादीन् हत्वा प्राप्यं राज्यं नाहमिच्छेयमिति स्वीयमभिप्रायं निवेदयामासार्जुनः | बन्धुव्यामोहेन सः स्वकर्तव्यमेव व्यस्मरत् | दुर्योधनादयो यद्यपि दुर्भावनया महान्तं क्लेशं बाल्यादरभ्य कृतवन्तः | ते दयां नार्हन्त्येव | तथाप्यर्जुनः तेषु दयामाचरितुमिच्छति दुष्टहननरूपं स्वीयं कर्म परित्यजति | एवमेव लौकीकास्सर्वेऽपात्रेषु दयामाचरन्तः स्वीयं दौर्बल्यं स्वयं जानन्तोऽपि स्वकर्तव्यनिर्वाहाय समुचितां योग्यतां संपादयितुं न प्रयतन्ते | य एवं योग्यतां संपादयन्ति तत्रैवेश्वरानुग्रहरूपो योगस्संभवति | एतादृशं योगयोग्यतयोस्सामरस्यमेव मानवकल्याणद्वारा लोककल्याणमपि साधयति | योगस्तावद्योग्यतामेवावलबते | योग्यतापि व्यवस्थितं जीवनमवलंबते | व्यवस्थितं जीवनमपि परमात्मविश्वासम-वलंबते | यस्य विश्वासः तस्यैव मनोरथास्सर्वैऽपि संपत्स्यन्ते | नो चेत् सः विनश्येदेव | अतो विश्वास एव सर्वसौख्यमूलमित्यभियुक्ता वदन्ति | महात्मा बसवार्यः मानवकल्याणाय विश्वासस्यावश्यकतां सम्यग्विशदयति | न विश्वसन्त्येव जनास्तु देवं तथापि तं नित्यमुपाह्वयन्ति | कर्तुं च विश्वासमपारयन्तस्तथापि मोहाद्विचरन्ति मन्दाः | विश्वासपूर्वं यदि वाह्वयेत तदा कुतो नोत्तरयेच्च देवः | विश्वासहीनो यदि देवमाह्वयेत् सद्यः पतेत्तत्कृतनिग्रहाङ्कुशः | एषोक्तिः सदा स्मर्येत चेत्तदा पापे मतिरेव नोत्पद्येत | एवमात्मविश्वासदारिद्र्यात् अर्जुनः मोहेन कर्तव्यं व्यस्मरत् || एवं युद्धं न कुर्यामिति रणरङ्गे वदन्नर्जुनः सद्वंशप्रसूतत्वात् मौर्ख्यमवलंब्य स्वनिर्णयो युक्तो वा नवा इति संशयमापन्नः अन्तर्हृदये विद्यमानेन तेनैव हृषीकेशेन प्रेरितः स्वकर्तव्यनिर्णयार्थं भगवन्तमेव शरणं गच्छति | तदानीं यत्कर्तव्यं तदुपदेष्टुं च सः पृच्छति -
50 SK कार्षण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः | यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वं प्रपन्नम् || ७ || प्. ४६) यः अल्पामपि स्वक्षतिं क्षन्तुं न शक्नोति सः कृपणः | तस्य भावः कार्पण्यं दैन्यम् | तेन दोषेणोपहतः दूषितः स्वभावः स्वीयं चित्तं यस्य तादृशोऽहं अत एव धर्मसंमूढचेताः धर्मे संमूढं मोहविशिष्टं चेतः मनः यस्य तादृशः | को धर्मः ? को वा अधर्मः ? इति विवेचनरहितोऽहं त्वा त्वामेव पृच्छामि | मे यत् श्रेयः युद्धकरणाकरण-योर्मध्ये उपादेयः श्रेष्ठो मार्गः कः स्यात् तत् निश्चितं यथा तथा ब्रूहि वद | अहं ते शिष्यो भवामि | त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय | शास् अनुशिष्टौ इति धातुः | शिष्याय मह्यं धर्ममुपदिशेत्यर्थः || २ || एवं धर्मजिज्ञासया भगवच्छरणागतेर्मूलभूतं सकलविषयवैराग्यं स्वस्याप्यस्तीति अर्जुनो विज्ञापयति - न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् | अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् || ८ || भूमावस्मिन्लोके असपत्नं शत्रुरहितं ऋद्धं समृद्धं राज्यं वा सुराणामाधिपत्यं वा यत् यत्किञ्चित् अवाप्य मम इन्द्रियाणां मनःप्रभृतीनां उच्छोषणं शोषणकरं शोकं यदपनुद्यात् नाशयेत् तत् न हि प्रपश्यामि | ऐहिकराज्यसंपादनेन वा स्वर्गराज्यसंपादनेन वा मदीयः शोको निवर्तेत इति न मे निश्चयोऽस्ति | अतो मम शोकनिवृत्त्युपायमुप- svīyasvarūpaṃ jñātumicchā vyavahārasamaye kadācidutpadyata eva yatassarve'pi ātmāna eva vartante | paraṃtu teṣāṃ śaktiḥ saṅkocasthitau vartate | śaktivikāsamadhigantumeva tairvyavahartavyam | vyavahārāssarve'pi śaktivikāsāyaiva niruhyā ityadhyātmaśāstraṃ nivedayati | ayaṃ ca śaktivikāsaḥ mānavaistadādhigamyeta yadā sarvo'pi vyavahāraḥ kāyakarūpeṇa niruhyeta | kāyakasya ca mahattvaṃ śaraṇagītā samyagāviṣkaroti | tatra basavāryaḥ p. 47)
51 SK स्वदृष्टान्तेन तन्महत्वं प्रकटयति | कृषिं हि कुर्यां गुरुपूजनार्थं लिङ्गार्चनार्थं व्यवहारमेव | कुर्यां च सेवां चरतोषणार्थं शिव- saṃpatsyata ityavaimi | tvaddattamarthaṃ gurusaṅgamārya samarpaye tubhya- | इति | एवं गुरुलिङ्गजङ्गमात्मकस्य परमेश्वरस्य प्रीत्यर्थमेव व्यवहरन् मानवः नित्यसुखी संपद्यते | मानवजन्मसाफल्यं च इदमेव | एतां स्थितिमधिगतास्तु पुरुषाः स्त्रियो वा प्रकृतेर्वशं न गच्छन्ति किन्तु शिवमयमिमं प्रपञ्चमध्यात्मदृष्ट्या प्रीणयन्ति सर्वेषां हितं साधयन्ति च | तदीयं वर्तनं शरणगीतायां आदर्शतया निरूप्यते | भक्ताग्रगण्यो बसवार्यः एवं वदति | नैवाभिकांक्षे कमलोद्भवस्य स्थानं न विष्णोः पदवीमपीह | तथैव शंभोः पदवीमथान्यां न कामये सङ्गमदेव नित्यम् | त्वद्भक्तपादार्चनसक्तभृत्यस्थानं तु काक्षे नियमेन देहि | इति | एतादृशं याचनमेव स्त्रीपुरुषाणां श्रेयस्करम् किन्त्वे- yena yatkāryaṃ sādhanīyam ityayamaṃśaḥ paramātmanaiva nirṇetavyaḥ | evaṃ nirṇayamativartituṃ na śakyate yasya kasyāpi | etādṛśyā aśaktatayā muhya- स्वान्तर्गतं तमेव परमात्मानं यदि शरणं गच्छेयुस्तदा जगदिदं योगानन्दस्य विश्रान्तिस्थलं भवेत् | एवं च परमात्मनि शरणागतिरवश्य-मनुष्ठेयेत्यादर्शं अर्जुनद्वारा व्यासमहर्षिः लोकाय प्रकटयति | ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः | लिप्यते न स पापेन पद्मपत्रमिवांभसा इत्येवंरूपः भगवदुपदेशः मानवानां गहनतमं रहस्यं सार्वत्रिकतया विवेचयति | एतादृश्याः विविचनाया अभावात् अर्जुनः भ्रान्तो बभूव | तथापि सत्सङ्गे स्थितः सः विवेकं प्राप्तुमैच्छत् | एवमेव सर्वे जीवा स्वीयं मोहं परित्यज्य विवेकमधिगन्तुं प्रयतेरन्निति भगवानपेक्षते || ८ || अन्ते किमासीदिति पृच्छन्तं धृतराष्ट्रं प्रति संजय उवाच - प्. ४८) एवमुक्त्वा हृषीकेशं गुडाकेशं परन्तपः | न योत्स्य इति गोविन्दं उक्त्वा तूष्णीं बभूव ह || ९ ||
52 SK परंतपः पराक्रमशाली गुडाकेशः अर्जुनः हृषीकेशं श्रीकृष्णमेवं उक्तप्रकारेण उक्त्वा कथयित्वा न योत्स्ये नाहं युद्धं करिष्ये इति गोविन्दं श्रीकृष्णं उक्त्वा तूष्णीं निर्व्यापारो बभूव ह बभूव किलेत्यर्थः || ९ || तमुवाच हृषीकेशः प्रहसन्निव भारत | सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः || १० || हे भारत हे धृतराष्ट्र हृषीकेशः प्रहसन्निव श्रीकृष्णः अर्जुनमुपह-सन्निव न तु कोपमाविष्कुर्वन्नित्यर्थः | अत्र श्लोकद्वयेऽपि हृषीकेशपद-प्रयोगात् प्रहसन्निवेति च कथनात् इदं सर्वं भगवतः स्वस्य चेष्टितमिति सूचितम् | उभयोस्सेनयोर्मध्ये विषीदन्तं विषादं कुर्वन्तं तमर्जुनं इदं वक्ष्यमाणं वचः वाक्यं उवाच अक्थयत् || १० || अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे | गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः || ११ || अशोच्यान् शोचितुमनर्हान् भीष्मद्रोणादीन् प्रति त्वं अन्वशोचः शोकं कृतवानसि | एवं तदानीमेव त्वं प्रज्ञावादांश्च प्रज्ञावतां मेधाविनां वादांश्च भाषसे कथयसि | तदेतदुभयं च परस्परमत्य- nāma ātmajñānaṃ tadeṣāṃ saṃjātaṃ te paṇḍitāḥ ātmajñāninaste gatāsūn gataprāṇān mṛtānityarthaḥ | agatāsūṃśca agataprāṇān jīvato vā nānuśocanti tatra śokaṃ na kurvantyeva | tvaṃ tu ātmajñānīva dharmādharmā- युद्धे देहं परित्यजन्तोऽपि वस्तुतो न म्रियन्त इत्यमुमंशं त्वं न जानासीति विषादस्थानमेतत् | मरणरहितान् भीष्मादीन् प्रति शोचसि चेति किमयमुन्मत्तप्रलापः ? इत्याशयोऽत्र ध्वन्यते || ११ || प्. ४९) कुतस्तेषामशोच्त्वमित्यत्र वस्तुतस्तेषां नित्यत्वमेवेत्याह - न त्वेवाहं जातु नासं न त्वं नेमे नराधिपाः | न चैव न भविष्यामस्सर्वे वयमतः परम् || १२ ||
53 SK अहं अमूर्तपरमात्मनो दिव्यमूर्तात्मकः जातु कदाचिदपि न त्वेव नासं सर्वदा आसमेव | यथा अहमद्यास्मिन्देहे वर्ते तथान्यस्मिन् देहे प्रागप्यासं तथैवागामिनि कालेऽपि वर्तिष्ये | तथैव त्वमपि न नासीरिति विपरिणामः किंत्वासीरेव | तथैव इमे जनाधिपाः न केवलं भीष्म-द्रोणादयः किन्तु सर्वेऽप्यत्रावस्थिता राजानश्च न नासन्निति विपरिणामः किं त्वासन्नेव | सर्वे वयं अतः परं एतद्देहनाशानन्तरमपि न चैव न भविष्यामः - अपि तु भविष्याम एव | एवं त्रिष्वपि कालेषु वयं सर्वेऽपि स्वरूपतो नित्यास्सनातना एव | कथमस्माकं नाशः ? कुतो वा शोकः ? अतः अचोच्याननुशोचंस्त्वं यथार्थतस्त्वत्स्वरूपं न जानासि || ननु देहविनाशमधिकृत्यैवाहमधुना शोचामीति चेत्तदपि न युक्तमित्याह - देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा | तथा देहान्तरप्राप्तिः धीरस्तत्र न मुह्यति || १२ || देहिनः प्राणीनः अस्मिन्नेव देहे यथा कौमारं बाल्यावस्था यौवनं युवावस्था एवं जरा जीर्णावस्था च सहजतया भवन्ति न तत्र कश्चित् शोचति शोचितुमर्हति वा | तथैव मरणमपि काचिदवस्था देहान्तरप्राप्तिरूपा | अतः एतच्च ज्ञात्वैव धीरः स्वाधीनबुद्धिमान् तत्र मरणविषयेऽपि न मुह्यति वा | यः भयशोयमोहाननुभवति सः ज्ञान्येव न संपद्यते | त्वं तावत् ज्ञानं वदसि शोकं अनुभवसि च | ज्ञानशोकयोरेकत्रावस्थानं न शोभते | तेजस्तमसोरिव तयोस्संमिलनं न कदापि युज्यते | त्वं यावत्पर्यन्तं भिष्यादीन्प्रति शोचसि तावत्पर्यन्तं तेषां नैजं रूपं न जानासि | यः अपात्रे शोचति सः प्. ५०) पात्रं न जानात्येव | य एव सत्पात्रे शोचसि स एव तत्स्वरूपं यथार्थतो जानाति | एवमत्र देहावस्था वर्णिताः || १२ || ननु जानाम्येवाहं आत्मा नित्यः शरीरमेवानित्यम् इति | तथापि तादृशशरीरसंबन्धवियोगादिप्रयुक्तः सुखदुःखादिर्लोकेऽनुभूयमानः नापलपितुं शक्यः | अतस्तादृशदुःखं दुःखहेतुत्वं च पश्यतो मम शोकः कुतो न स्यादित्याशङ्कायामाह-
54 SK मात्रास्पर्शास्तु कौन्तेय शीतोषणसुखदुःखदाः | आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || १४ || मात्रास्पर्शास्तु मात्राः मायन्ते आभिः शब्दादय इति मात्राः श्रोत्रादीनि इन्द्रियाणि | तेषां स्पर्शाः शब्दादिभिः स्वविषयैः संबंधाः | शब्द- teṣāmindriyaiḥ saṃyogāḥ śitoṣṇasukhaduḥkhadāḥ śītaṃ kadācit kadācit tadviruddhatayā uṣṇaṃ ca | evaṃ kadācitsukhaṃ kadācit duḥkhaṃ ca dadatyeva te viṣayendriyasaṃyogāḥ | teṣāṃ svabhāvo hi tādṛśa eva vartate | sa ca duratikrama eva | ataste saṃyogāḥ dustyajāssantaḥ sarvadā sambhavantyeva | tarhi tatra kiṃ kartavyamityatrāha ātmeti | te hi āgamāpāyaśīlāḥ āgacchanti svayameva gacchaṃti ca na tu sthiratayā yatra kutrāpi tiṣṭhanti | evaṃ svayameva te yāvannaśyanti tāvatparyantaṃ tān titikṣasva sahasva | teṣāmavarjanīyatvāt sahanaivātra kartavyā | yaḥ sukhaṃ duḥkhaṃ vā tātkālikamiti jñātvā sahate saḥ svarūpajñānaṃ labdhvā nityasukhī bhavati | yadeva śokaṃ pariharet tādṛśaṃ jñānameva mānavairadhigantavyamiti bhāvaḥ | he bhārata iti arjuna- एवं शीतोष्णादीन् सुखदुःखादींश्च द्वन्द्वान् सहतः महत्फलं संभवेत् तदसहतस्तद्वशीभूतस्य तु संसारक्लेशः नित्यमेव स्यादित्याह- यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ | प्. ५१) समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते || १५ ||
55 SK हे पुरुषर्षभ पुरुषश्रेष्ठ अर्जुन समदुःखसुखं सुखदुःखप्राप्ता- harṣaviṣādādiparavaśāḥ khalu puruṣāḥ striyaśca mohādikaṃ prāpnuvanti | mohaśca buddhiśaktervināśakaḥ | ataḥ samaduḥkhasukhasya jīvasya buddhiḥ sadā prasannaiva vartate | tādṛśaṃ yaṃ puruṣaṃ ete sukhasuḥkhādayo na vyathayanti na pīḍayanti na cālayanti | saḥ tādṛśanirvikāracitta eva jīvaḥ amṛtatvāya mokṣāya śāśvatadvandvādinivṛttipūrvakamahānandarūpa-mokṣaprāptaye kalpate samartho bhavati | yastu sukhaduḥkhaparavaśo bhavati sa tu naṣṭabuddhireva syāt | atastasya punaḥpunaḥ śokādiprāptirbhavedeva | sa sarvadā saṃsaranneva varteta | kadāpi saḥ sthiratayaikatra na tiṣṭhet | ataśca tasya pāśarūpānmohānmuktiḥ na saṃbhavedityarthaḥ || 15 || śokamohākaraṇāya kāraṇāntaramapyupadiśati paramātmā jīvahitecchayā - nāsato vidyate bhāvaḥ nābhāvo vidyate sataḥ | ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ || 16 || asato'vidyamānasya vastunaḥ bhāvaḥ sattā na vidyate | evaṃ sataśca vastunaḥ abhāvaḥ asattāpi na vidyate | evaṃ sadasatoḥ ubhayorapyetayoḥ antaḥ niṣkarṣaḥ tattvadarśibhiḥ tattvasākṣātkāribhiśca sākṣātkṛtaḥ | tathā ca manuṣyaprayatnena na kasyāpi vyatyāsaḥ kartuṃ śakyeta | ayaṃ ca vyavasthito mārgaḥ na kenāpyatikramaṇīyaḥ | kimarthaṃ vṛthā cintā śokamohādirvā yataḥ vastunāṃ svabhāvo yādṛśaḥ tādṛśa eva sarvatrāpi teṣāṃ sthitiḥ | svabhāvamanusṛtyaiva vivekibhirvyavahartavyamiti bhāvaḥ || 16 || sadasatoḥ svarūpaṃ kim ? sadā vartamānaḥ san kaḥ ? ityatrāha- avināśi tu tadviddhi yena sarvamidaṃ tatam | vināśamavyayasyāsya na kaścitkartumarhati || 17 || p. 52)
56 SK येन सर्वमिदं जगत् ततं व्याप्तं तत् तदेव तु अविनाशि अविनाशस्वभावं विद्धि जानीहि | जगद्व्यापकं ब्रह्मैव सर्वदा वर्तमानं त्रिकालाबाधितं सदित्यभिधीयते | व्याप्यं जगच्च तद्भिन्नत्वात् जडरूपतया असदित्युच्यते | चेतनात्मकं परब्रह्म स्वियाद्भुतशक्तिमहिम्ना सर्वमपि जगत् स्वयमेव धृत्वा सर्वाधारं सन्तिष्ठते | पञ्चभूतात्मकं जगत् जडत्वात् अनेकाकारेण विपरिणमत् असदिति परिगण्यते | अयं च विपरिणामः सतः परमात्मनः सान्निध्येनैव प्रवर्तते | अत एतन्मूलकारणस्य अव्ययस्य नाशरहितस्य अस्य परशिवब्रह्मणः विनाशं ध्वसं कश्चित् कोऽपि कर्तुं नार्हति न शक्नोति च | नाभावो विद्यते सतः इत्युक्तत्वात् सतो ब्रह्मणः सर्वाधारस्य सर्वकारणस्य सर्वप्रेरकस्य सर्वव्यापकाखण्डलिङ्गस्य नाशः कथं कर्तुं शक्यः स्यात्? एवं सन् कः ? इत्यस्योत्तरमुक्त्वा असन् कः ? इत्यस्योत्तरमाह - अन्तवन्त इमे देहाः नित्यस्योक्ताः शरीरिणः | अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत || १८ || नित्यस्य सदातनस्य अत एवाविनाशिनः नाशरहितस्य अप्रमेयस्य प्रत्यक्षादि- śarīriṇaḥ śarīrasvāminaḥ ātmanaḥ ye ime dehā pañcabhūtasamūhātmakāḥ vartante te khalu antavantaḥ vināśavantaḥ | śarīre'smin vyavaharan cetanaḥ yadyapi tatprabhureva | śarīrasaṃparkāt saḥ saṃspṛṣṭaśarīradharmā duḥkhī saṃvṛttaḥ śocati | ayaṃ ca śokaḥ mohājñānamūla eva | cetanaḥ svīyamātmavaiśālyamadhigantumeva dehaṃ labdhavān | tathāpi deho'haṃ- एवं च सतः आत्मनः अभावो नास्ति | तस्य न कदापि विनाशः संभवेत् | तथा च असतो देहस्य भावो नास्तीत्युक्तं भवति | अत्र देहस्यापि सूक्ष्मरूपतया प्रलये परमात्मन्येव स्थित्वा सृष्टिकाले तदिच्छानुरोधेन बहिरागत्य तस्यैव विनोदनायोपयुक्तत्वात् देहेऽप्य प्. ५३)
57 SK नित्यतामारोपयितुं न शक्यते | तथापि देहस्य पञ्चत्वप्राप्त्या अन्तवद्- samyagupayujyate tadā tatsahakāreṇaiva dehino yāthārthyaṃ vijñāyate | dehastho doṣaḥ yadi nirmūlaṃ niṣkāsyeta tadā sa eva ātmakalyāṇasādhakaḥ saṃpadyate | śaraṇagītāyāmayamaṃśaḥ samyak nirūpyate | utpāṭyate yadyahidantapaṃktiḥ tadā ca tenaiva rameta mānavaḥ | tathaiva dehe viṣapāpmanaśca niṣkāsane tatra varaṃ hi vāsaḥ | mātaiva cedrākṣasabhāvayuktā śiśurna rakṣyeta tayaiva loke | tathaiva kāye vikṛtistu jātā jīvaṃ na rakṣiṣyati satyametat | ya eva dehe gurumalli-kārjuna tvayānugṛhyeta sa eva dhanyaḥ || evaṃ śarīravyāmoharūpadoṣanivṛttyā ātmā kevalaḥ śuddho bhavatīti bhāvaḥ | ata eva śivayoginaśśaraṇāḥ sārvajanikahitadṛṣṭyā evamupadiśanti | yūyaṃ kimarthaṃ janavakradṛṣṭer-nivṛttaye sammilitā yatadhve | svaṃ svaṃ śarīraṃ prathamaṃ viśodhya manassamādhitsata mā parasya | duḥkhāya śociṣyatha satyametat devo na viśvāsamiyāttu tena || iti | evaṃ dehaśodhanenātmasaṃskāraṃ prāptuṃ na kevalaṃ śivaśaraṇāḥ kintu maharṣayo'pi mānavamuttejayanti | evaṃ śarīrātmanoḥ svabhāvasya svarūpasya ca vyavasthitatvāt he bhārata arjuna tvayā nūtanatayā yatkiñcitkartuṃ na śakyate | dharmasādhanārthameveśvarānugrahā-tsamāgatasyāsya dehasya sahakāreṇaiva śatruhananarūpo dharmaḥ avaśyaṃ kartavya eva | ataḥ tvaṃ yudhyasva yuddhaṃ kuru | yuddhakaraṇe na doṣaḥ | yadarthamayaṃ deha āgataḥ tatkāryamavaśyaṃ karaṇīyameva | no cet mahatī vinaṣṭiḥ saṃbhavet | dehe svāṃtarlīnasyeśvarasyāgraheṇa tvaṃ vinaśyasi | ātmakalyāṇābhilāṣibhiḥ sarvairapi deho na kadāpi nindyo bhavitumarhati | paraṃtu dehātmavivekastāvadadhigamyaḥ | etādṛśavivekābhāvādeva tvaṃ duḥkhī saṃvṛttaḥ iti arjunavyājena jāgatikān sarvānapi bodhayati paramātmā || 18 ||
58 SK विषयस्वरूपे एवं स्थिते यः कश्चित् देहात्मविवेकरहितः अहं कंचित् हन्मि अहं तेन हतः इति वा जानीयाच्चेत्सः भ्रान्त एवेत्याह - प्. ५४) य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् | उभौ तौ न विजानीतो नायं हन्ति न हन्यते || १९ || यः कश्चिदविवेकी एनं प्रकृतं नित्यं शरीरिणं शरीरे विद्यमानं जीवं हन्तारं हननक्रियायाः कर्तारं वेत्ति जानाति यश्च यो वाऽविवेकी एनं नित्यं शरीरिणं जीवं हतं हननक्रियायाः कर्मभूतं वेत्तीत्यनुकर्षः | तावुभौ न विजानीतः आत्मतत्त्वं न ज्ञानवन्तौ अविवेकि-नावित्यर्थः | कुत इत्यत्राह नायमिति | अयं शरीरी न हन्ति नहि हननकर्ता भवति | तथैव न हन्यते न च हननकर्मापि भवति | एतदुभयमपि आत्मनो जीवस्य न कदापि संभवेत् | ननु नित्यत्वात् जीवस्य हननकर्मत्वनिषेधो युज्यते | कथं वा हननकर्तृत्वस्यापि निषेधः संभवेत् ? नित्यत्वकर्तृत्वयोर्नहि विरोधः | सनातनोऽपि चेतनः यद्यपि बध्यो न भवेत् तथापि हननकर्ता भवितुमर्हत्येव इति चेत् नात्रात्मनः कर्तृत्वसामान्यं निषिध्यते | किन्तु हननकर्तृत्वं तत्राप्यात्मकर्मकहननकर्तृत्वम् | आत्मनः नित्यत्वात् तत्कर्मकहननं अप्रसिद्धमेव | यदा चात्मकर्मकहननमेवाप्रसिद्धं तदा तादृशहननकर्तृत्वं वा कस्य स्यात् ? शशशृङ्गस्यैव अप्रसिद्धत्वे शशशृङ्गकर्तृत्वं नहि कस्यचिद्भवितुमर्हति | अतः आत्मकर्मकहनन-कर्तृत्वनिषेधे न कोऽपि दोषः संभवेत् || १९ || आत्मनः हननकर्मत्वाभावमेव सुविशदमुपपादयति - न जायते म्रियते वा कदाचिन्नायं भूत्वाऽभविता वा न भूयः | अजो नित्यः शाश्वतोऽयं पराणो न हन्यते हन्यमाने शरीरे || २० ||
59 SK अयमात्मा देहाधिपो जीवः न जायते नोत्पद्यते | अत एव कदाचिदपि सः न म्रियते | जातस्य हि ध्रुवो मृत्युः इत्यभियुक्ता वदन्ति | यः उत्पद्यते स एव विनश्यति | उत्पत्त्यभावादेव जीवस्य विनाशो न संभवति | अत एव भूत्वा भवनक्रियावान् स्थित्वा भूयः कदाचित् न वाऽभविता भवनक्रियाशून्यो भवेत् यतः सदैव भवति सः | कदाचिन्न भवति प्. ५५) कदाचिद्भवति इति व्यवहारे हि तस्य उत्पत्तिः सिद्ध्येत | यः सदा वर्तते तस्य उत्पत्तिः कथं संभवेत् ? यः सर्वदा भवति सः न कदापि अभविता भवेत् किन्तु सः सदा भवत्येव | एवं च किं तत्स्वरूपमित्यत आह- अजः न जायत इत्यजः उत्पत्तिरहितः अत एव नित्यः विनाशरहितः | एवमुत्पत्तिविनाशरहित- anādiḥ | ayamātmā śarīre hanyamāne'pi na hanyata eva | atra proktaḥ śarīra- जीवे एवं संघटनाभावात् विभजनमपि न संघटते | तथा च शरीरस्यैव हननकर्मत्वं न त्वात्मन इत्युक्तं भवति || २० || एवं शरीरात्मनोः स्वभावस्य विविक्तत्वात् नायं हन्ति न हन्यते इत्येतत्समर्थितं भवतीत्याह - वेदाविनाशिनं नित्यं य एनमजमव्ययम् | कथं स पुरुषः पार्थ कं घातयति हन्ति कम् || २१ ||
60 SK हे पार्थ शरीरात्मविवेकी एनमात्मानं अजमुत्पत्तिरहितं अत एवविनाशिनं विनाशरहितं अत एव नित्यं सदा वर्तमानं ततश्चाव्ययं विकाररहितं यः वेद ज्ञातवान् सः पुरुषः कं कश्चित्पुरुषं कथं घातयति ? कः कं वा पुरुषं कथं हन्ति | तादृशविवेकी अहमस्य हन्ता इति वा अयं मया हतः इति वा कथमात्मानं जानीयात् ? यस्तु देहात्मब्रह्मादिभिः अहंङ्कारादिविमूढः स एव अहं हन्ता अयं हतः इति जानीयात् | अत एव वक्ष्यति यस्य नाहंकृतो भावः बुद्धिर्यस्य न लिप्यते | हत्वापि स इमान् लोकान् न हन्ति न निबध्यते || इति | देहे विद्यमानस्येश्वरस्य सेवनार्थं यः देहेन्द्रियादिकमुपयुङ्के सो नित्यसुखी भवत्येव | देहदृष्ट्या यो व्यवहरति स एव दुःखं समश्नुते | महात्मा बसावार्यः स्वदृष्टान्तेन देहोपयोग-विधानं निर्दिशति | देहस्य दुःखं प्रसमीक्ष्य मीतः रक्षेति देवं न कदापि याचे | प्. ५६)
61 SK शरीररक्षार्थमुपायमेकं अन्वेषयन्भीत इहैव भृत्यः | देहीति देवं न कदापि याचे यद्भाव्यमेवेह तदस्तु नित्यम् | निन्दा तु स्तोत्रं ह्यनुयातु भृत्यं तस्योभयं साधु भवेद्धि सत्यम् | सुखं च दुःखं च न चैव याचे नवा निराकर्तुमपि प्रवृत्तः | तथा भवन्तं गुरुसङ्गमेश तथैव चान्यान् न कदापि याचे || इति | एवं च शरणाः देहदुःखं सन्तोषेण सहमानाः सत्कार्यसाधनायैव देहं युक्तया रीत्या उपयुञ्जते | एवमेव महर्षयः देहमात्मकल्याणायैव रक्षन्तः देहविषयकं भ्रमं परित्यज्य नित्यसुखिन आसन्नेव | ते तावत् देहविषये सद्भावना एव आसन् | भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः | स्थिरैङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः || इति दृढकायेन दीर्घायुष्मन्तस्ते देवहितं साधयन्त आसन्निति सम्यक् विज्ञायते | तथैव महर्षयोऽन्येष्वपि देहारोग्यं हृत्पूर्वकं प्रशंसन्ते | पश्येम शरदश्शतम् | जीवेम शरदश्शतम् | नन्दाम शरदश्शतम् | मोदाम शरदश्शतम् | अजीतास्स्याम शरदश्शतम् | इत्यादिना देहमहत्त्वं सम्यक् प्रतिपादयन्ति ते | एवं च देहेन निर्वर्त्यमानं सर्वमपि कार्यं विवेकी निस्स्वार्थतया कुर्वन् निर्लिप्त एव वर्तेत | तादृशो विवेकः देहवतोऽर्जुनस्य आवश्यक आसीत् | तदेव सर्वेषामपि व्यवहारसमयेऽपेक्ष्यत इति भगवानुवाच || २१ || ननु आत्मनां नित्यत्वेऽपि शरीरसंबन्ध एवोत्पत्तिः शरीरवियोग एव मरणम् इति शरीरत्यागादिकं दुःखहेतुतया लोके दृश्यत एवेति तादृशा- vastutaḥ santoṣahetutvameva | ato nityānandadāyakasya tasya maraṇasya duḥkha- वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि | तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही || २२ || नरो मनुष्यः जीर्णानि दुर्बलतां गतानि प्राचीनानि वासांसि वस्त्राणि प्. ५७)
62 SK विहाय त्यक्त्वा अपराण्यन्यानि नवानि नूतनानि दृढानि वासांसि इत्यस्या- jarayā pīḍitāni durbalāni śarīrāṇi | śīryanta iti śarīrāṇi | svayameva naśvarāṇi tādṛṃśi vihāya tyaktvā anyāni navāni nūtanāni sudṛḍhāni śarīrāṇi ityasyāpyāvṛttiḥ | saṃyāti prāpnoti | tathā ca prācīnavastratyāga- दुःखितव्यमित्यर्थः | एतादृशस्य नश्वरस्य देहस्य संरक्षणाय अविवेकिनः महत्पापमाचरन्ति | मुत्युमुखसन्निहितोऽपि मानवः देहदुःख- maurkhyaṃ samyagāviṣkaroti śaraṇagītā | yathā ca bhekaḥ pavanāśanasya mukhe vilagnaḥ saraghāṃ samākṣipet | tathaiva mṛtyormukhasakta eṣo jīvassamāsañjati bhogaleśe | śūlaṃ samārohati yaśca coraḥ sarpiḥ payaḥ prāśya bubhukṣayaiva | jīvetkiyantaṃ samayaṃ sa bhūyaḥ ācakṣva mahyaṃ śaraṇārthine tvam | vinaśvaraṃ dehamihāvalaṃvya mithyāprayogaṃ viniyujya dehī | puṣṇāti cetsvodarameva nityaṃ taṃ saṅgamāryo nahi viśvaseddhruvam || iti | evaṃ deharakṣaṇārthaṃ yaḥ asatyaṃ panthānamanuvartate saḥ īśvarānugrahaṃ na labhata eva | paraṃ tu śivayogivaryāḥ naśvaramapi dehaṃ devālayaṃ budhvā tatraiva svīyaṃ śivānandamanubhavanti | allamāryaḥ svadehasahakāreṇaiva paramātmasasyaṃ śraddhayā avadhānena ca saṃvardhya tadīyaṃ phalamānandarūpaṃ guroḥ prasādāt yathā anvabhavat tathānye'pi sādhakāḥ dehaṃ naśvarabhāvanayā na dūṣayeyuriti tān svadṛṣṭāntena bodhayati | svadehamevopavanaṃ vidhāya manaḥkhanitreṇa ca taṃ khanitvā | bhrānti samūlāṃ parihāya citte saṃsāraloṣṭaṃ vinibhidya yuktyā | svānte nikhanyāṃ paramātmabījaṃ vāpyāssahasrārasamāhvayāyāḥ | prāṇākhyayantrādudakaṃ suṣumnayā niṣicya samyak paripoṣitaṃ mayā | pañcaiva gāvo na hi kuryuratra vināśamityeva vicintya bhaktyā | kṣamāsamatvākhyavṛtiṃ vidhāya tatrāvadhānena tadeva sasyam | guheśvara tvatkṛpāyā vyavardhayaṃstato p. 58)
63 SK हि सर्वो भवतो विलासः | इति | एवं भगवत्प्रसादलब्धोऽयं देहः तदन्तर्- sādhanamiti vivekibhirbhāvyam | etādṛśayogaprāptaye samāgato'yaṃ deho yadi bhogāya kevalamupayujyeta tadaiva mahatī hānirutpadyeta | ato dehaḥ yāvatparyantaṃ baliṣṭho varteta tāvadavadhāveva tatratyaṃ satyavastu jñātumanubhavituṃ ca mānavāḥ yateranniti bhagavānnirīkṣate | yaḥ tādṛśa- जीवस्य मरणं तावत् नूतनदेहस्वीकार एव | ज्ञानिनस्तु मरणं नित्यसुखात्मकस्य गृहस्योद्घाटनमेव | स्वदेहे अनुभूतः आनन्दः मरणानन्तरमपि नित्यतया अनुभूयते | एवं च मानवैराध्यात्म- evaṃ śarīrāṇāmevotpattiḥ kṣayaśca na tvātmana ityāha - nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ | na cainaṃ kledayantyāpo na śoṣayati mārutaḥ || 23 || dehe vidyamāno'pi jīvātmā ātmāyaṃ kevalaḥ śuddhaḥ śivasyāṃśaḥ sadāmalaḥ | nityo nirañjanaḥ śāntastasmādātmā svayaṃ śivaḥ || ityanubhava- शुद्धो निर्लिप्तः शान्तश्च वर्तते | मलावृतस्सन् जननमरणचक्रे संसरन्नपि जीवः वस्तुतः शिवत्वात् शिवोपासनेन शिवो भवितुमर्हति | यथा शिवः निराकारस्तथा तदंशभूतो जीवः देहे स्थित्वापि स्वयं निर्लिप्त एव वर्तते | तस्य भयशोकमोहादिकं वस्तुतो नास्ति | तं च देहिनं शस्त्राणि आयुधानि नहि छिन्दन्ति नहि छेदनं कुर्वन्ति किन्तु देहमेव तानि छिन्दन्ति | एवं देहिनं पावकः अग्निरपि न दहति न भस्मीकरोति किन्तु देहमेव अग्निर्भस्मीकरोति | एवं एनं देहिनमात्मानं आपो जलानि न च क्लेदयन्ति नैवार्द्रीकुर्वन्ति | किन्तु जलानि शरीरमेवार्द्रीकुर्युः | एवं मारुतो वायुः एनमात्मनं न शोषयति न प्. ५९) शुष्कं करोति | तथा च लोके छेदनदहनार्द्रीभावशोषणहेतवः शस्त्राग्नि-जलवायवः आत्मनि न कञ्चिदपि विकारं कर्तुं शक्नुवन्ति | एतादृशं निर्मलात्मस्वरूपमजानानः पुरुष आत्मानं देहं मन्वानः देहदुःखेन लिप्यते | अयं च स्वयंकृतापराधः स्वेनैवानुभावितव्य इत्यर्थः || २३ ||
64 SK कुतः अयमात्मा देहस्थोऽपि विकारं न प्राप्नोतीत्यत्राह - अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च | नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः || २४ || यतः अयमात्मा अच्छेद्यः शस्त्रदिना न हि च्छेत्तुमर्हः | अदाह्यः न वह्निना दग्धुमर्हः | अक्लेद्यः न जलेनार्द्रिकर्तुमर्हः | अशोष्य एव च न वायुना शुष्कीकर्तुमर्हश्च | अतो नैनं छिन्दन्ति शस्त्राणि इत्याद्युक्तं | अच्छेद्यत्वादिकमेव कथमात्मनः ? तत्सिद्धौ खलु नैनं छिन्दन्ति शस्त्राणि इत्यादि सङ्गच्छेतेत्यत्राह नित्य इत्यादि | यतः आत्मा नित्यः उत्पत्तिविनाशरहितः अत एव सर्वगतः विभुः आकाश इव सर्वव्यापकः | नहि वोभोराकाशस्य छेदनादिकं केनचित्कर्तुं शक्यम् | अत एव स्थाणुः स्थिरः | अत एव अचलः न केनापि चालयितुमपि शक्यः | एवं नित्यत्वादिहेतुभ्यः सनातनः सदैव विद्यमानः | शरीराणि तु नश्वराणि प्रत्यक्षत एव दृष्टानि | अतः छेदनादिकं शरीरस्यैव न त्वात्मन इत्यर्थः | शरीराभिमानेन प्रवर्तमानो जीवात्मैव छेदनादिकं अद्यपि अनुभवति | स एव शरीरदृष्टया प्रवर्तमानं व्यवहारं आध्यात्मदृष्ट्या यदि विवेकतः परिवर्तयेत् तदा तस्य शरीरेण न कोऽपि बाधः सञ्जायेत | एवं देहात्मविवेकिनि देहस्यैव शिवभावनया परिणमनात् तदीयो विकारस्तेन नानुभूयते | अयमेव विशेषो विवेकिनस्तु मूढात् | देहविकारान् मूढः पश्यति विवेकी नु न गणयति | तथापि रोगादिविकारास्तत्र वर्तन्त एव | सरोगानि शरीराणि इत्यभियुक्ता वदन्ति | रोगाश्रयत्वं शरीरस्य लक्षणं | रोगराहित्यमात्मनो लक्षणं | आरोग्यमेव तस्य लांछनम् | शरीरसंपर्कादविवेकेन सः प्. ६०)
65 SK सहजतया रोगी संवृतः | स्वान्तर्विद्यमानं शिवं ज्ञात्वा तदुपासनं च कुर्वन् जीवः स्वयं शिवो भूत्वा निर्मलः अरोगश्च सञ्जायते | एवं शरीरस्य विकारं स्वस्य नित्यत्वं च सदा स्मरन्मानवः नित्येन परमशिवेन योगरूपाय नित्यसंपर्काय देहं समुपयुञ्जीत | देहे ईश्वरस्यैव सारवत्त्वात् अयं संसारः देहिन एव सार्थकस्संपद्येत | तथा च देहवन्तस्सर्वेऽपि यद्यात्मज्ञानिनो भवेयुस्तदैव तेषां नित्यसुखं संभवेत् | तदभावे मानवानां परस्परसंबन्धः न कदापि शोभेत किन्तु अनर्थश्च उत्पद्येत | सर्वेष्वपि शरीरिषु जीवान्तर्यामी गुहेश्वर एव विश्वासयोग्यः | अयमंशः बसवार्येण सम्यगभिहितः | चन्द्रोदयादुच्च-यमेति बार्धिस्तस्यास्तकाले परिहीयते सः | मुनिर्यदापः पिबति स्म बार्धेः किमागतोऽब्धेः सहकर्तुमिन्दुः | यदा तु राहुर्ग्रसते हि चन्द्रं तदा समुद्रः किमु याति मध्ये | न कोऽपि देव प्रददाति रक्षां त्वमेव दाता जगदेकबन्धुः इति | एवं शरीरिषु नित्यो निरञ्जनः परमशिव एव सर्वेषामपि विश्वसनीय आदरणीयश्च | तदपरिज्ञानादेव अर्जुनः भ्रान्त्या स्वकर्तव्यं व्यस्मरत् | अरिदोडे शरण मरेतरे मानव इति शरणनामुक्तिः सर्वानपि साधकान् सदाचारे प्रेरयन्ती परिशोभते | अतः शरीरात्मविवेकेन यः प्रवर्तते स एव शरीरविकारासंस्पृष्टः सर्वमपि कर्म कर्तव्यदृष्ट्या भगवदाराधनभावनया च निर्वहति | एतादृशः ज्ञानयुक्त एव आचारः न केवलमर्जुनस्य किन्तु सर्वेषामप्यावश्यक एवेति भगवानुपदिशति || २४ || अव्यक्तोऽय मचिन्त्योऽयमविकार्योऽयमुच्यते | तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि || २५ || न नित्यत्वादिकमेव केवलमात्मनो लक्षणं किन्तु अव्यक्तत्वादिकमपि वर्तत इत्यत आह अव्यक्त इति | अयमात्मा अव्यक्तः न कस्यापि कदापि घटादिवत् व्यक्तः | अतस्तादृशस्य छेदनादिकं केन कर्तुं शक्यम् ? यतस्सः न कस्यापि व्यक्तः अत एव अचिन्त्यः एवमिदमिति चिन्तयितुमशक्यः | प्. ६१)
66 SK यस्तु घटादिः व्यक्ततया इन्द्रियग्राह्यः स तावत् एवमयम् इति चिन्तयितुं शक्यः | आत्मा तु न व्यक्तः अत एव न चिन्त्यः | एतादृशस्यामूर्तस्य शरीरिणः शस्त्रादिना छेदनं वा कथं संभवेत् ? प्राकृतमूर्तरूप-वदेव वस्तु शस्त्रेण च्छेत्तुं शक्यते | अमूर्तः आत्मा कथमेव केन वा छिद्येत ? ityucyate'nubhavibhiḥ | tasmādeva enamātmānaṃ evamuktaprakāreṇa dehavilakṣaṇatvādinā viditvā jñātvā anuśocituṃ kathamete mayā hantavyā iti duḥkhituṃ nārhasi | ātmajñānyeva bhayaśokamohavidūro bhavati | taṃ vihāya itare sarve'pi sarvadā śocanta eva kālaṃ yāpayanti | ato bhavatā yuddhe'smin śoko na kartavyaḥ || 25 || evamātmano nityatvaṃ jānatastava na teṣāṃ vadhaprayuktaḥ śokaḥ prasajyeta | yadi ca mohāttathā na jānāsi parantu ātmānaṃ naśvarameva jānāsi tadāpi na śokasya prasaktirityāha - atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam | tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi || 26 | atha ca athavā enaṃ prakṛtamātmānaṃ nityajātaṃ nityaṃ jātameva | janana- वा मन्यसे यदि उत्पत्तिविनाशस्वभाव एवायमात्मेति त्वं मनुषे चेत् तदा भवतस्तादृशी बुद्धिरियं तात्कालिकी न तु वास्तविकी इति बोधव्यम् | तथापि एवं यदि त्वमङ्गीकरोषि हे महाबाहो पराक्रमशालिन् अर्जुन त्वमेवमुक्त- jananasvabhāvo maraṇasvabhāvaśceti jānāsi tarhi jananamaraṇayoḥ svabhāvatvena svabhāvo duratikramaḥ iti nyāyena tayoravarjanīyatvāt kutaḥ śokassaṃbhavedityarthaḥ || jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca | tasmādaparihārye'rthe na tvaṃ śocitumarhasi || 27 || p. 62)
67 SK जननमरणयोः शरीरस्वभावत्वमेव प्रतिपादयति | जातस्य उत्पन्नस्य हि शरीरस्य मृत्युर्मरणं ध्रुवः स्थिरः | एवं मृतस्य पुनरपि जन्म उत्पत्तिश्च ध्रुवो निश्चितः | एवमुत्पत्तिविनाशावस्य स्वभावाविति हि मन्यसे त्वम् | तस्मात्कारणात् अपरिहार्ये केनापि परिहर्तुमशक्येऽर्थे विषयेऽस्मिन् त्वं शोचितुं शोकं कर्तुं नार्हस्येव | गन्तुमेवागतोऽयं देहः कथं वाऽत्र तिष्ठेत् ? जीविते को हि विश्रंभः मृत्यौ प्रत्यर्थिनि स्थिते इति ह्यश्वघोषो वदति बुद्धचरिते | अत एव कालिदासोक्तिरपि सङ्गच्छते | क्षणमप्यवतिष्ठते स्वसन् यदि जन्तुर्ननु लाभवानसौ इति सः शरीरस्य क्षणकालिकमवस्थान- ? tasyaiva kimarthaṃ prādhānyaṃ deyam ? ityayamaṃśaḥ basavārya- मर्त्यम् | आचार एव त्रिदशालयः स्यादाचारलोपः खलु दुर्गतिर्हि || मद्वर्तने तं गुरुसङ्गमार्य प्रमाणमित्यात्मविनिश्चयोऽसौ | इति स्वानुभवप्रामाण्येन शीलशुद्धेर्महत्त्वं तदर्थमुपयुज्यमानस्य देहस्य पावित्र्यं च बसवार्यो निरूपयति | य एव देहस्य सदुपयोगेन लोककल्याणं साधयति सर्वदा सर्वेषां हितमेव चिंतयति च स एव शरीरी सत्कुलप्रसूतः इति भाव्यते | स्वार्थं विस्मृत्य परार्थमेव यो जीवति तस्यैव शरीरं सफलीभवति | स्वार्थसाधनपूर्वकं परार्थमपि यः संपादयति तस्यापि शरीरं न कदापि प्रमादमाचरेत किंतु स्वार्थसाधनार्थं परेभ्यो यः क्लेशं उत्पादयति तस्य तावत् शरीरं सदैव बन्धकं भवेत् | तादृशं शरीरिणमनुभविनो निन्दन्ति | य एव जीवान्विनिहन्ति नित्यं स एव भाव्योऽन्त्यज इत्यजस्रम् | तथैव योऽश्नाति परान्नमेव स एव भाव्योऽन्त्यज इत्यजस्रम् | यैरेव सर्वत्र हितं विचिंत्यते तेषां कुलं नैव विचारणीयम् | सर्वेषु जीवेषु हिताभिशांसकाः सङ्गार्यभक्ताः कुलजाः प्रकीर्तिताः इति देहिभिर्देहसहकारेण सार्वजनिकं हितं सम्यक् साधनीयम् | नो चेत् पवित्रं तदीयं प्. ६३)
68 SK जीवनं निरर्थकं संपद्येत | अतो नश्वरमपि शरीरमात्मकल्माणाय विवेकिभिः सम्यगुपयोज्यमित्याशयोऽत्र निवेद्यते || अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत | अव्यक्तनिधनान्येव तत्र का परिदेवना || २८ || ननु आत्मानमुद्दिश्य शोकं कर्तुमयुक्तत्वेऽपि जननमरणपरवशान् शरीरस्थान् जीवानुद्दिश्य शोको युज्यत एवेत्याशंकायां समाधानमाह - avyaktādīni avyaktaḥ anupalabdhaḥ ādiḥ pūrvakālaḥ yeṣāṃ tāni bhūtāni | putrakalatrādirūpāṇāṃ hi bhūtānāṃ jīvānāṃ utpatteḥ prākkālikī avasthā na kenāpi jñāyata eva | jananāt kañcidavadhikaṃ kālameva teṣāmupalaṃbhaḥ | atastāni vyaktamadhyāni vyaktah dṛṣṭaḥ madhyaḥ madhyakālaḥ yeṣāṃ tāni bhūtāni | punarante avyaktanidhanāni avyaktamadṛṣṭaṃ nidhanaṃ maraṇaṃ tadanantarakālikī avasthā ca yeṣāṃ tāni | maraṇānantaramapi teṣāṃ gatirna jñāyata eva | evaṃ ca putramitrādīnāṃ pūrvasthitiranantarasthitirvā na jñāyata eva | madhyakāle paraṃ kiñcideva parasparaṃ sandarśanam | tatrāpi ye putramitrādayo'dya te pūrvasthitāvapi tathaivāsannityatra viśvāso'pi nāsti | prāktane kāle yaḥ śatrurāsīt saḥ adhunā vyaktadaśāyāṃ svakīyakāryānukūlyena tātkālikaṃ mitraṃ bhūtvā svakāryaprātikūlyena ahitaśca bhavet | evaṃ jīvānāmavasthāḥ avyavasthitā vartante | atastatra viṣaye kā paridevanā pralāpaḥ kleśa iti yāvat | pūrvamapi na dṛṣṭāni bhūtāni ante'pi na dṛśyante | teṣāṃ viṣaye na kadāpi śokaḥ kartavyaḥ | śoko'tra na sarvathā yujyata eva || parantu dehasthasya ātmanaḥ svarūpamatyantadurjñeyamityāha - āścaryavatpaśyati kaścidenamāścaryavadvadati tathaiva cānyaḥ | āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit || 29 || śarīre nivasan jīvātmā na kadāpi pratyakṣato draṣṭuṃ śakyaḥ | kaścitpuruṣaḥ p. 64)
69 SK एनमात्मानं आश्चर्यवत् अत्यद्भुतवत् पश्यति | तथैव चान्यः कश्चित्पुरुषः आश्चर्यवदेव अत्यद्भुतवदेव वदति | एवमन्यश्च कश्चित्पुरुषः एनमात्मानं आश्चर्यवदत्यद्भुतवस्तुवत् शृणोति | कश्चित्तु पुरुषः श्रुत्वापि आत्मा एवं वर्तते इत्यनुभविनां सकाशात् श्रुत्वापि न चैव वेद नैव ज्ञातवानात्मस्वरूपम् | एवमात्मज्ञानमतीव दुस्संपादमित्यर्थः || २९ || एवमात्मस्वरूपमुपदिश्य अथ प्रकृतोपदेश आरभ्यते - देही नित्यमवध्योऽयं देहे सर्वस्य भारत | तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि || ३० || सर्वस्यापि निखिलस्यापि प्राणिजातस्य देहे शरीर एव विद्यमानोऽयं देही आत्मा नित्यं सर्वदा अवध्यः हन्तुमशक्यः | तस्मान्कारणात् सर्वाणि भूतानि भीष्मादिसर्वजीववर्गात् समुद्दिश्य त्वं शोचितुं नार्हसि | जननमरणविदूरान् तानुद्दिश्य शोकं कर्तुं सर्वथा न युज्यत एव | तथापि यः शोचति सः मूढ एव | त्वया तथा न भवितव्यम् | दुष्टनिग्रहद्वारा जगद्रक्षणाय क्षत्रियवंशे अवतीर्णेन भवता अशोच्येषु भीष्मादिषु शोचनं न युक्तमेव || ३० || एवं परमार्थदृष्ट्या शोको मोहश्च कर्तुं न युज्यत एवेत्युक्त्वा अथ न केवलं परमार्थदृष्ट्यैव किन्तु धर्मदृष्ट्यापि शोककरणं तव न युज्यत एवेत्याह- स्वधर्मपपि चावेक्ष्य न विकंपितुमर्हसि | धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते || ३१ || अपि च स्वधर्मं स्वस्य क्षत्रियस्य धर्मं तत्स्वरूपमवेक्ष्यालोच्यापि विकंपितुं युद्धात्पलायितुं नार्हसि | हि यस्मात् धर्मात् क्षत्रियस्य स्ववर्ण- yuddhe cāpyapalāyanam iti kṣatriyadharmaḥ prasiddhaḥ | ataḥ dharmaprāptāt yuddhādanyat śreyaḥ puṇyaṃ kṣatriyasya na vidyate | ato yuddhāccalituṃ nārhasi tvam | pratyuta yuddhākaraṇe svadharmabhraṣṭatvāt mahatpāpamapi saṃbhavedi- प्. ६५)
70 SK यदि संगृह्येत तदा मानवजन्मापि न पुनर्लभ्येत अपि तु कस्यचित् चतुष्पात्प्राणिनो जन्म संभवेत् | अस्यां स्थितौ लोककल्याणस्य उत पुनर- tvayaivāsminraṇaraṅge kintu sarvairapi mānavaiḥ kāryakṣetrabhūte'smin jagati svīyaṃ karmāvaśyaṅkaraṇīyameva | na tatra puṇyapāpavicārasyāvavakā- तथा तदीया अपि मनुष्याः उभयमपि समानमिति भावयन्तः स्वकर्तव्यं यदि कुर्युस्तदा तदनुग्रहं लभेरन् | एवं च वर्धिष्णुभिस्सर्वैरपि कर्तव्यदृष्टिः सर्वथा आदरणीया | अनयापि दिशात्वयावश्यं युद्धमाचारणीयमेवेति भगवानर्जुनायोपदिशति || ३१ || प्रत्युत सन्तोष्टव्ये विषये त्वं शोचसीतिविचित्रमेतदित्याह - यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् | सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् || ३२ || हे पार्थ यदृच्छया अप्रार्थिततयैव उपपन्नं प्राप्तं अपावृतमुद्घाटितं स्वर्गद्वारमिव स्थितमीदृशं युद्धं धर्मयुद्धं सुखिनः पुण्यशालिन एव क्षत्रियाः लभन्ते | एवं स्वयमनायायेन प्राप्तं निश्चितस्वर्गसाधनं ईदृशं युद्धं को वा क्षत्रिय त्यजेदित्यर्थः || ३२ || एवमनेकप्रकारैः अवश्यकर्तव्यतां युद्धस्योपदिश्य अथ तदकरञे अनिष्टमप्यापतेदित्याह - अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि | ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि || ३३ || अथ चैवं नवं युद्धस्यावश्यकर्तव्यत्वे ज्ञातेऽपि त्वमिमं धर्म्यं धर्मप्राप्तं संग्रामं युद्धं न करिष्यसिततस्तर्हि स्ववर्णधर्मं हित्वा त्यक्त्वा तन्मूलतया कीर्तियशश्च हित्वा पापं स्वधर्मभ्रष्टत्वरूपं पापं अवाप्स्यसि प्राप्स्यसि | प्. ६६)
71 SK एवं यः कर्तव्यं कर्म परित्यजति तस्य न केवलं धर्मलोपः किन्तु पापमपि संभवेत् | एवं विदित्वापि मानवैः कर्मयोगिभिर्भाव्यमिति परमात्मा अपेक्षते | अकृतकर्माणस्तु पुरुषाः भूभारा एव जायन्त इत्याशयः | कर्मत्यागिनां दुरवस्थां शरणगीता सम्यक् वर्णयति | सत्येन शुद्धेन च कायकेन यावद्धि वित्तं लभते मनुष्यः | चित्तं तु तावत्यनु-षक्तमेव विच्छेदमेयान्न च वित्तलोभात् | न कायकादभ्यधिकं त्वमीप्सेत् लभेत् लभ्यं ननु कायकेन | व्यवस्थितात्कायकजाद्धनाच्च भिन्नं सुवर्णं यदि कांक्षतेऽज्ञः | तदा विनश्येत्तु तदीयसेवा प्रत्याशया विन्दति पाशमेव | इति | एवं स्वकर्तव्यनिर्वाहरूपात्कायकादेव न केवलं क्षत्रियः अपि तु सर्वेऽपि मानवाः धन्या भूत्वा ईश्वरप्रसादं लभेरन् || न कीर्तिहानिमात्रं प्रत्युत अपकीर्तिरपि महती ते स्यादित्याह - अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् | संभावितस्य चाकीर्तिर्मरणादतिरिच्यते || ३४ || भूतानि प्राणिजातानि सर्वाण्यपि ते अव्ययां स्थिरां न तु कालान्तरेऽपि नश्वरामित्यर्थः | तादृशीं अकीर्तिं चापि अपयशोऽपि कथयिष्यति | एवं त्वद्विषये शाश्वतीमकीर्तिं सर्वत्र प्रचारयन्ति सर्वे मानवाः | परित्यक्त- hānirityatrāha saṃbhāvitasyetyādi | saṃbhāvitasya arjunaḥ mahāśūraḥ dharmiṣṭhaḥ ityādirītyā janaissarverbahudhā gauravitasya ca te akīrtirevaṃ dharmabhraṣṭatvādimūlā maraṇānmaraṇāpekṣayāpi atiricyate | etādṛśāpa- इदानीं वा मम शौर्यस्य का हानिः ? अस्त्येव मम सहजं शौर्यम् | तथापि कृपया युद्धं न करिष्यामि इति चेत्तत्राह - भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः | येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् || ३५ || प्. ६७)
72 SK भवतः शूरत्वेऽपि युद्धरङ्गे आगत्य युद्धान्निवृत्तौ महारथाः पुरो विद्यमानास्सर्वे वीराः दुर्योधनप्रभृतयस्त्वां भयात् भीत्यैव रणात् युद्धात् उपरतं निवृत्तं मंस्यन्ते लाघवेन निन्दिष्यन्ति | कृपया युद्धादु-परमस्तु रणरङ्गप्राप्तेः पूर्वमेव कर्तव्यमासीत् | रणरङ्गे आगत्य सर्वान् वीक्ष्यानन्तरं यद्युपरतिः क्रियते तदा भयादुपरतमेव मन्येयुरित्यर्थः | महारथा इत्युक्ते के ते इत्यत्राह येषामिति | येषां दुर्योधनादीनां त्वं बहुमतः शूरत्वेन संभावितो भूत्वा इदानीं लाघवं गौरवहानिं यास्यसि प्राप्स्यसि || ३५ || अन्तः गौरवहानिमात्रं न लोकेऽपि बहिर्निन्दापि भविष्यतीत्याह - अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः | निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् || ३६ || तव ते अहिताः शत्रवः दुर्योधनादयः तव सामर्थ्यं वस्तुतो विद्यमानं तव पौरुषादिकं निन्दन्तः कुत्सयन्तः बहूननेकप्रकारान् अवाच्यवादान् वक्तुमप्यनर्हनिन्दावाक्यानि अर्जुनोऽयं नपुंसक एव इत्येवमादीनि वदिष्यन्ति कथयिष्यन्ति | अतः एतदपेक्षया दुःखतरं किं नु ? ततोपि कष्टतरं दुःखमेव नास्ति | सर्वस्याप्यनर्थस्य त्वमेव मूलं स्याः || ३६ || अतो भवतात्र इदमेव कर्तव्यमिति निष्कर्षमाह भगवान् - हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् | तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः || ३७ || हतः शत्रुभिस्ताडितस्सन् त्वं स्वर्गं वा प्राप्स्यसि गमिष्यसि | स्वर्गद्वारम- anubhaviṣyasi | ataḥ kṣatriyasya yuddhamubhayathāpi lābhapradameva | he kaunteya arjuna tasmātkāraṇāt kṛtaniścayaḥ jeṣyāmi śatrūn mariṣyāmyeveti bhagavat- युद्धं प्. ६८)
73 SK करिष्ये इति प्रागुक्त्वा अधुना भयात्पलायनं न सर्वथा बहुमन्यते भवदन्तर्यामिणेश्वरेण | यद्यैकरूप्यं वचने कृतौ च तदान्तरे तिष्ठति सङ्गमार्यः इति शरणवचनप्रामाण्येन हृदये भवद्वर्तनं निरीक्ष- paratrāpi parityakto bhaviṣyati | parameśvaralīlāvinodasthāne'smin prapañce dainyena yathākathañciñjīvaṃstvaṃ gauravaṃ na labhase | tathaivānte anāyāsena maraṇamapi na prāpsyasi | etasminsandarbhe bhaktāvataṃsasya mahātmano basavāryasoktissarvairapi smaraṇīyā virājate | martyo hi lokaḥ parameśvarasya līlāvinodāya vinirmitaṃ gṛham | atraiva yogyā ya ihādya dṛṣṭāḥ te'mutra yogyāḥ khalu saṅgamārya | ye tvatra nārhāstvabhavanmanuṣyāḥ te tatra nārhā bhavituṃ samarthāḥ | iti | evaṃ kartavyaniṣṭhā eva puruṣāḥ striyaśca ihāmutra ca ślāghyā bhavanti | atastvayāvaśyaṃ dharmyamidaṃ yuddhaṃ karaṇīyameveti bhagavānarjunāyopadiśatyavyājapremṇā || 37 || nanu bandhuvadhajanyaṃ pāpaṃ mama na bhavedvetyatra samādhānamāha - sukhaduḥkhe same kṛtvā lābhālābhau jayājayau | tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi || 38 || kṣatriyasya tāvadyuddhasya svadharmatvāt kevalatadbuddhyai kṣatriyeṇa yuddha- वा नष्टं वा जयाजयौ जयं वा पराजयं वा समे कृत्वा समतया भावयित्वा ततः अनन्तरं युद्धाय युज्यस्व प्रवर्तयेत्यर्थः | एवं स्वधर्मतयैव युद्धं कुर्वन् पापं नावाप्स्यसि न प्राप्स्यसि | एवं सर्वैरपि मानवैः स्वधर्माचरणेन पापं परिहर्तव्यमित्याशयोऽत्र ध्वन्यते || ३८ || मध्ये प्रसङ्गात् लोभदृष्ट्या स्वधर्मत्वबुद्ध्या च युद्धस्य कर्तव्यत्वमुपदिष्टम् | परमार्थतत्त्वं तु नत्वेवाहं जातु नासं इत्यादिनोपदिष्टमित्युपसंहरन् उपरिष्टाद्वक्ष्यमाणस्य पीठिकां रचयति - p. 69) eṣā te'bhihitā sāṃkhye buddhiryoge tvimāṃ śṛṇu | budhyā yukto yayā pārtha karmabandhaṃ prahāsyasi || 39 ||
74 SK सांख्ये-संख्या नाम ज्ञानम् | तत्संबन्धिनि परमार्थवस्तुविवेकविषये एषा | इयता कालेनोपदिष्टा बुद्धिस्ते तुभ्यं अव्याजप्रेम्णा अभिहिता | योगे तु तादृशपरमार्थतत्त्वज्ञानोपायभूते कर्मयोगे इमामनन्तरमुच्य-मानां बुद्धिं शृणु | यया बुद्ध्या कर्मयोगविषयज्ञानेन युक्तः सन् हे पार्थ अर्जुन कर्मबन्धं कर्मरूपं बन्धं प्रहास्यसि वक्ष्यमाण-कर्मज्ञानपूर्वकं कर्मानुष्ठानेन संसारपाशनिवृत्तिर्भवितुमर्हतीति कर्मयोगप्रशंसात्र क्रियते | अध्यात्मज्ञानसहकारेण यः कर्म आचरते स एव कर्मयोगीत्युच्यते | सर्वमपि कर्म भगवदाराधनरूपमिति ज्ञात्वा यदाचर्यते तदा तादृशमनुष्ठानं कर्मयोग उच्यते | स एव कायकानाम्ना शरणैः प्रशंस्यते | कायकरूपमेव कर्म मानवान् न बध्नाति नो चेत् लोकोयं कर्मबन्धनः स्यादेव | अज्ञात्वा कर्मानुष्ठानं ज्ञात्वा कर्माननुष्ठानमेतदुभयमपि असाधु भवेत् | अतो मानवैः स्वीयं राष्ट्रहितावहं कर्म सर्वान्तर्गतस्य परमेश्वरस्य प्रीत्यर्थं ससन्तोषमाचरणीयमित्यमुमंशमुपदिशति परमात्मास्मिन्प्रकरणे || कर्मयोगस्यैव प्राशस्त्यमन्यदप्याह - नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते | स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् || ४० || इह मोक्षसाधनभूते कर्मयोगे अभिक्रमनाशोऽभिक्रमस्य नाशो न विद्यते | यदारभ्यते तन्न कदापि नश्येत् | तदवश्यं फलं प्रदास्यत्येव | तत्रापि यत्कर्म लोकहितेच्छयारभ्यते तन्नियतमेवेश्वरानुग्रहेण संपत्स्यते | न केवलं तदेव किन्तु स्वार्थदृष्ट्या यत् क्रियते तदपि निर्दिष्टं फलं प्रदास्यात्येव तथापि तत् मानवान् बध्नाति | तादृशः पुरुषाः कर्मिण उच्यन्ते | अर्जुनः स्वधर्माचरणेन कर्मयोगी भवेत् न तु कर्मी इत्येव भगवत आशयः | एवं कर्मानुष्ठाने प्रत्यवायः पापं वा न विद्यते न संघटेत | अस्य धर्मस्य स्वल्पमपि प्. ७०)
75 SK अनुष्ठितं सत् महतो भयात् संसाररूपमहाभयात् भवन्तं त्रायते रक्षति | कृष्यादिकं तु कर्म पूर्णं कृतमेव फलप्रदं भवेत् | कर्मयोग- || vyavasāyātmikā buddhirekeha kurunandana | bahuśākhā hyanantāśca buddhayo'vyavasāyinām || 41 || he kurunandana vyavasāyātmikā buddhiḥ vyavasāyo niścayaḥ | niścayarūpā buddhirhi vyavasthitā ekaiva iha loke virājate | nahi nirṇayedvaividhyaṃ bhavitu- व्यवस्थितो मार्गः निश्चयात्मकः एक एव | या पुनस्तद्व्यातिरिक्ता अव्यव- bahuvidha-prabhedaviśiṣṭāḥ anantāśca vartante | tāsāmanantaprakāratvāt tādṛśa-prabhedeṣu anta eva nāsti | yeṣāṃ tu paramārthatattvajñānaṃ nāsti nādhigata buddhayo avyavasthitā anantāśca bhavanti | ekasya paśuputrādiḥ paramaḥ puruṣārthaḥ | saḥ tadarthameva jīvati | anyasya tu artha eva paramaḥ puruṣārthaḥ | aparasya tu lokavikhyātireva paramapuruṣārthaḥ | ataḥ avivekināṃ mūḍhānāṃ buddhayo bahuśākhāḥ bahuvidhā ityucyante | ye tu vyavasāyinaḥ niścitajñāna-vantaḥ manuṣyajanmaparamoddeśādikaṃ samyak jānanti teṣāmuddeśasyaikatvāt tadīyā buddhirekaivetyuktam | evaṃ vyavasthitacittānāṃ vyavahāraṃ praśaṃsantaḥ śaraṇāḥ avyavasthitānāṃ durabhimānapūrvakaṃ karma satyadūramiti nirdiśanti | tatsarvadā sarvaiḥ smaraṇīyam | kṛtvā kṛtvā vyāhatā daurmanasyāt datvā datvā vyāhatāḥ satyahānāt | kuryurdadyuryaddhi satyasya yogātsaṃsṛjyeyussaṅgameśa tvayaiva | iti | evaṃ vyavasthittāḥ nirmalena manasā lokeśvaraprītyarthaṃ lokakalyāṇadṛṣṭyā sarvadā karmavyāputā api tena karmaṇā na badhyanta iti bhāvaḥ || 41 || vyavasāyātmikā buddhiryeṣāṃ nāsti tān nindati ślokatrayena - p. 71) yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ | vedavādaratāḥ pārtha nāvyadastīti vādinaḥ || 42 || kāmātmānaḥ svargaparāḥ janmakarmaphalapradām | kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati || 43 ||
76 SK भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् | व्यवासायात्मिका बुद्धिः समाधौ न विधीयते || ४४ || हे पार्थ अविपश्चितः अविद्वांसः अविवेकिनः कामात्मानः | काम्यन्त इति कामाः ख्यातिलाभपूजादयः | तत्स्वभावाः सतततत्प्रवणचित्ताः तल्लौकिकं किञ्चित्फलमतीत्य स्वर्गासक्ताः स्वर्गसुखप्रवणचित्ताः | एवं चैतेषामैहिकमामुष्मिकं चेति फलद्वयमपि हेयमेवेत्युक्तम् | वेदवादरताः न तु वेदान्ततत्त्वपराः | वेदवादः कर्मकाण्डवाचि प्रसिद्धः | कर्मकाण्डे च अल्पमतीनां तृप्त्यर्थं पशुपुत्रस्वर्गख्यात्या-दिफलकानि कर्माण्युपदिश्यन्ते | वक्ष्यति च इहैव त्रैगुण्यविषया वेदाः इति | एवं च केवलैहिकामुष्मिकफलबोधकेषु वेदवादेषु रताः आसक्ताः नान्यदस्त्यत्रेति वादिनः एतदपेक्षयान्यत् मोक्षादिकं नास्त्येव इत्यभिमाना-द्वदन्तः जन्मकर्मफलप्रदां जन्मप्रदां पुनः पुनः जन्मप्रदां ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति इति स्वर्गार्थं कर्म कुर्वतामेव पुनर्जन्म विद्यते चेत् ख्यातिर्लाभादिरूपै- punaḥ punaḥ karmaphalapradāṃ natu karmaṇo vimuktipradām | evamavyavasāyināṃ buddherbahuśākhātvāt anekaprakāratvāt kriyāviśeṣabahulāṃ bahuvidhakarmamayīṃ puṣpitāṃ puṣpitavṛkṣa iva sarvatra pariśobhamānāṃ na tu phalitavṛkṣa iva āpātaramaṇīyāmiti bhāvaḥ | yāmimāṃ uktarūpāṃ vācaṃ bhogaiśvaryagatiṃ prati svargapaśuputrādyalpapuruṣārthaprāptiṃ prati vadantya-vipaścitaḥ teṣāṃ bhogaiśvaryeṣveva prakarṣeṇa saktānāṃ tayā bhogaiśvaryeṣvatyantāsaktyā apahṛtacetasāṃ apahṛtamanaskānāṃ naṣṭabuddhināmiti yāvat | p. 72)
77 SK व्यवसायात्मिका बुद्धिः समाधौ चित्तवृत्तिनिरोधरूपे योगे न विधीयते न प्रवर्तते | समाधिर्नाम मनस्समाधानम् | तद्धेतुर्व्युवसायात्मिका बुद्धिः | तस्याः अभावात् तेषु चित्तसमाधानं कदापि न भवतीत्यर्थः | तत्तदल्पपुरुषार्थप्रवणानां कदापि न चित्तसमाधानं शान्तिर्वा भवतीत्यर्थः | स शान्तिमाप्नोति न कामकामी इति च वक्ष्यति || ४२-४४ || त्वमेतादृशाल्पपुरुषार्थपरो मा भव इत्यर्जुनं प्रत्याह भगवान् - त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन | निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् || ४५ || त्रैगुण्यं त्रिगुणात्मकः प्राकृतः संसारः | तद्विषयास्तत्प्रवृत्त्युत्पा- nistrauguṇyaḥ etādṛśasaṃsāricetanavilakṣaṇaḥ paramapuruṣārthamātra- एव सुखदुःखादिपरवशा भवेयुर्न तु तद्विलक्षणा मुमुक्षवः | अत एव नित्यसत्त्वस्थो सदा सत्त्वगुणमात्राश्रितो भव | तथैव निर्योगक्षेमः | अप्ताप्तस्य प्राप्तिर्योगः | प्राप्तस्य परिरक्षणं क्षेमः | उभयरहितो भवेत्यर्थः | मयैव लोके सर्वं क्रियते इति कर्मिण एवं भावयन्ति | ज्ञानिनस्तु निमित्तमात्रं व्यवहरन्तस्तेषां योगः क्षेमश्च परमात्मनैव निरुह्यते इति ज्ञात्वा तूष्णीं स्वीयकर्तव्ये दृष्टिं निदधति | कर्मिभिरधिकतयापेक्षितोऽपि लाभः ईश्वरसङ्कल्पानुरोधेनैव आयाति | यल्लभ्यं तदेव प्राप्नुवन्ति मनुजाः | शरणाः खलु अमुं विषयं स्वानुभवेन वर्णयन्ति | यस्मै यदा दास्यति वित्तमीशः तदैव धावेत्त्वरितं हि तद्धनम् | कुल्यास्तटाकं परिपूरयेयुर्यथा प्रधाव्यैव तथा प्रसादात् | अलभ्यलाभो भवतीति जानन् निधेहि चित्तं गुरुपादपद्मे | सर्वाणि सौख्यानि तदा त्वदन्तिकं समापतेयुश्शिवसंप्रसादात् | घटोऽश्मपातादिव हन्यसे निरञ्जनोऽयं यदि विस्मरेत्त्वाम् | इति | एवमीश्वरेच्छयैव प्. ७३)
78 SK अस्मत्प्रयत्नः सफलीभवेदिति निश्चिन्वन्ति शिवयोगिनः | एवं च ऐहिकफलार्थ-प्रवृत्तिर्वा तद्रक्षणार्थप्रवृर्तिर्वा मास्तु | यथालाभसन्तुष्टो भव | एवं सत्येवात्मवान् भवेस्त्वम् | अन्यथा आत्मनाश एव संभवेदित्यर्थः || ४५ || ननु पशुपुत्रादिफलानां कर्मणापि वेदविहितत्वात् तत्करणे को दोष इति चेत् वेदोक्तं सर्वं कर्म सर्वैरनुष्ठेयमिति न निर्बन्ध इत्याह - यावानर्थ उदपाने सर्वतः संप्लुतोदके | तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः || ४६ || विजानतः ज्ञानिनः मुमुक्षोर्ब्राह्मणस्य ब्रह्मज्ञानिनः सर्वतः संप्लु- tāvāneva sarveṣvapi vedeṣu prayojanamastīti śeṣaḥ | jalapūrṇataṭākāt brāhmaṇaḥ snānapānamātraphalaṃ labhate na tu tatratyapaṅkādikaṃ matsyādikaṃ vā saḥ gṛhṇāti | tadvadeva vedoktatvamātrāt brāhmaṇasya aihikāmuṣmikakarmāṇi nopādeyānyeva | jñāninastu sarvatra samadṛṣṭyā vyavaharantaḥ samasvarūpaṃ paraśivameva yataḥ paśyanti tataste jñānānandasvarūpā vedādiśāstramavalambyaiva na tiṣṭhanti | na hi paramātmā jñānaikapriyaḥ na vā kriyāmātrapriyaśca vartate api tu jñānayuktā kriyaiva tasmai rocate | jñānenācārayuktena prasīdati maheśvaraḥ iti siddhantaśikhāmaṇirvadati | ayameva jñānakriyāsamanvayo mārgaḥ bhaktirityabhidhīyate | jñāninastāvat paramaśivaṃ bhaktipriyamiti jānanti | ataste kevalaśāstrajñāna eva na hi niratā bhaveyuḥ | śaraṇagītā amuṃ viṣayaṃ samyagabhidhatte | nādapriyaḥ śaṃbhuritīryate janaiḥ na nādamātreṇa hi tuṣyate śivaḥ | vedapriyaḥ śaṃbhuritīryate janaiḥ na vedamātreṇa hi tuṣyate śivaḥ | ardhāyurāsīnnanu nādakārī laṅkādhirājo bata bhaktihīnaḥ | abhyasya vedaṃ nanu paṅkajāsanaḥ śirovihīnassamajāyataiva | tasmācchivo nādaparo'pi naiva na vedamātrapriyatā ca tasmin | bhaktipriyatvaṃ hi sameti deve bhakto bhaveyaṃ khalu saṅgamārtha | iti | evaṃ bhaktimahattvaṃ samyak p. 74)
79 SK विज्ञाय ज्ञानिनस्सदाचारनिष्ठाः केवलं शास्त्रज्ञानमवलंब्यैव न वर्तन्ते | अतस्तेभ्यो वेदादिशास्त्रान्महाफलं न जायते || ज्ञानिनः कर्मणामनुपादेयत्वे कथमहं कर्म कुर्याम् इति पृच्छन्तं अर्जुनं प्रति तावदपरिपक्वबुद्धेस्तु तव चित्तशुद्ध्यर्थं फलसङ्गकर्तृत्व-त्यागपूर्वकं कर्म अनुष्ठेयमेव | एवं निष्कामनयाऽनुष्ठितं तु कर्म मोक्षायैव भवेदित्याह - कर्मण्येवाधिकारस्ते मा फलेषु कदाचन | मा कर्मफलहेतुर्भूः मा ते सङ्गोऽस्त्वकर्मणि || ४७ || ते तव अपरिपक्वत्वात् परिपाकमधिगन्तुमर्हत्वाच्च कर्मण्येव युद्धादि- te'dhikāraḥ saṃparkaḥ māstu | yadā ca karmaphale tṛṣṇā bhavati tadā tādṛśa-karmaphalaprāpteḥ tvameva hetuḥ syāḥ | ataḥ karmaphalaheturapi tvaṃ mā bhūḥ kartṛtvabuddhiṃ tyaja | ata eva akarmaṇi karmākaraṇe'pi te saṅgaḥ saṃbandho māstu | karmaṇa uparatirapi na te yuktā kintu karmaṇyabhiratirevāvaśyaṃ tvayi stheyā | karma ca tattatphaloddeśena kṛtaṃ cet tattatphalasādhanaṃ bhavet | yasya ca vyavasāyātmikā buddhirvartate sa tu mokṣoddeśenaiva khyātilābhādikaṃ leśato'pyanapekṣya kevalakartavyatvādibuddhyaiva karma karoti | etānyapi tu karmāṇi saṅgraṃ tyaktvā phalāni ca ityagre vakṣyati paramātmaiva | evaṃ kartavyadṛṣṭyā karmācaraṇena mānavasya cittaśuddhirutpadyate | tadā cittaṃ triguṇātmakaṃ cidrūpatayā pariṇamati | ayameva pariṇāmaḥ sārvatrikaḥ śaktivikāsa iti parigaṇitaḥ | etadarthameva mānavāḥ dehādisādhanāni prāptavantaḥ | ato'vaśyaṃ dehibhirātmakalyāṇāya svīyaṃ karma ācaraṇīyameva | no cenmahatī hānissañjāyeta | kurvanneveha karmāṇi jijīviṣet śataṃ samāḥ iti śrutireva mānavān karmaniratān kartuṃ samyak prerayati | tathā coktamabhiyuktaiḥ kaṣāye karmabhiḥ pakve tato jñānaṃ pravartate iti | atastava yuddhākhyaḥ svadharmaḥ avaśyaṃ kartavya p. 75)
80 SK एवेति भगवानर्जुनमुपदिशति | एवं कर्म यदि नाचर्येत तदा मनवाः भगवदाग्रहपात्राणि भवेयुः | अनया रित्या कर्म परित्यक्तुमपि मानवाः न पारयन्ति | यतस्तदानीं प्रकृतिस्त्वां नियोक्ष्यति इति भगवानेवोपदिशति | अतो भवता अवश्यं युद्धमनुष्ठेयमेवेति भावः || ४७ || यदि फले अपेक्षा न कर्तव्या तर्हि कथमिदं युद्धं कर्तव्यमित्यत्राह - योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय | सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते || ४८ || हे धनञ्जय अर्जुन योगस्थः योगे विद्यमानः सन् सङ्गं कर्मफल- samo bhūtvā avikāreṇa sthitvā karmāṇi yuddhādīni kuru | nanu yogasthaḥ kuru ityasya ko'rthaḥ ? kathaṃ vā tatsiddhyati ? yoge vidyamānaḥ kathaṃ karma tadānīṃ kartuṃ śaknuyāt ? ityāśaṅkāyāṃ yogaśabdo na samādhyādiparaḥ kintu samatvaparaḥ | sidhdyasiddhyoḥ samatvaṃ yat tadevātra yogaḥ ityucyate | phalāphalayoḥ samabhāvanayā svīkāro'tra yogaḥ ityucyate | phalāphalayoḥ samabhāvanayā svīkāro'tra yogaḥ | saṃpadi na harṣaḥ vipadi na śokaśca yasya vartete sa evātra yogītyabhidhiyate | sukhaduḥkhayornirvikāratayā vartanamevātra yoga ucyate | tathā ca yogasthaḥ ityasya itādṛśasamatvabhāvanāviśiṣṭa ityarthaḥ | yuddhe yadyapajayaḥ saṃbhavettadā bhavadīyaṃ kartavyaṃ nirūḍhamiti buddhyā santoṣeṇa tūṣṇīṃ stheyam | yadi jayassyāt tadāpi kartavyanirvāhabhāvanayā saṃtoṣeṇaiva sthātavyam | etādṛśī nirvikārasthitireva yogaḥ | kartavyaniṣṭhā phalasaṅgaparityāgaḥ etaddvayamavalaṃbya tiṣṭhatyayaṃ yogaḥ | etadyoganiṣṭhaḥ nityasukhī bhūtvā sadā santoṣeṇa vartate | yatne kṛte yadi na siddhyati ko'tra doṣaḥ ityabhiyuktoktyāpi nahi prayatno viphalībhavet | tadā svayaṃkṛto'yamaparādhaḥ svenaivānubhavitavyaḥ | atassarvathā svakartavyaṃ na parityājyameva || 48 || p. 76)
81 SK फलसङ्गत्यागपूर्वकं क्रियमाणनिस्स्वार्थकर्मापेक्षया फलापेक्षया क्रियमाणं स्वार्थं कर्म अत्यन्तं हेयमित्याह - दुरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय | बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः || ४९ || हे धनञ्जय पार्थ फलापेक्षया क्रियमाणं कर्म बुद्धियोगात् समत्व- nikṛṣṭameva | yataḥ phalahetavaḥ phalaṃ phaloddeśena kriyācaraṇameva yeṣāṃ hetuḥ pravṛttiste puruṣāḥ kṛpaṇāḥ atisaṅkucitaprakṛtayo bhāvyante | athavā phalaprāptireva yāsu sādhanatāmāpannāḥ tāḥ kriyāḥ kṛpaṇā atyalpā iti parigaṇyante | evaṃ ca phalāpekṣayā kurvantaścetanāḥ kriyamāṇāḥ kriyāśca mahattvarahitā eva bhaveyuḥ | ataḥ buddhau uktasamatvabuddhau śaraṇamāśraya-manviccha prārthayasva | svasaṃrakṣaṇāya tādṛśīṃ samatvabuddhimeva śaraṇaṃ gaccha | anenaiva buddhiyogena tvadīyamajñānaṃ vinaśyati | etatsaṃsargasya mahattvaṃ śaraṇāssamyak praśaṃsante | jñānaprabhāvādvini-hanyate'jñatā jyotirbalādeva tamo vihanyate | ṛtaprabhāvādanṛtaṃ vihanyate tathaiva lohaḥ paruṣaprabhāvāt | bhavo madīyo hata eva deva mahānubhāvaiḥ śaraṇaiśca saṅgāt | iti | evaṃ sadbuddhisaṅgādeva mānavaḥ svāsthyaṃ labhate | ata evātra samyagabhihitaṃ buddhau śaraṇamanviccheti | buddhiyogādeva mānavaḥ svīyajanyasāphalyaṃ sādhayati | etādṛśyā samabuddhyā yuddhaṃ kartuṃ bhagavānājñāpayatyarjunam || 49 || evaṃ prāpañcikaṃ karma kurvataḥ puruṣasya mahāphalaṃ syādityāha - buddhiyukto jahātīha ubhe sukṛtaduṣkṛte | tasmādyogāya yujyasva yogaḥ karmasu kauśalam || 50 || buddhiyuktaḥ uktasamatvabuddhiyoganiṣṭhaḥ susaṃskṛtaḥ śivadīkṣāsaṃpanno jīvaḥ gurumukhādhigataśivalīlāmahattvaḥ dehe paraśivaḥ bhāvaprāṇeṣṭa- प्. ७७)
82 SK भ्रूमध्ये सन्तिष्ठते इति ज्ञात्वा इहास्मिन् लोके स्वेन क्रियमाणे सुकृतदुष्कृते उभे अपि जहाति स्वेन सहैव निवसते परमात्मने तदानीमेव भक्त्या समर्पयति | ख्यातिलाभस्वर्गाद्यपेक्षामन्तरा कर्तव्येनावश्यप्राप्तं कर्म कुर्वतो जीवस्य तादृशकर्मप्रयुक्तपुण्यपापादिकं न भविष्यत्येव | अतस्त्वया स्वधर्मत्वेनावश्यप्राप्ते युद्धे करणीये सति भ्रात्रादिवधे संभवत्यपि नहि पापं संभवेत् | तस्मादेवं पुण्यपापयोरत्राप्रसक्त्या त्वमपि योगाय समत्वभावनायै युज्यस्व प्रयत्नं कुरु | यतः कर्मसु क्रियमाणेषु योगः उक्तसमत्वभावना कौशलं क्षेमावहा आत्मकल्याण-साधिका भवेत् | अतो योगाय युज्यस्व | तस्मात्सर्वदा योगयुक्तो भवार्जुन इति पुरस्ताद्वक्ष्यति च | भावप्राणेष्टलिङ्गरूपे परमात्मनि समरसतया योक्तुं जीवेन सर्वथा प्रयतितव्यमित्याशयः | इष्टरूपिणे परमात्मने सर्वकर्मफलत्यागात् जीवस्त्यागाङ्गमित्यभिधीयते | प्राणरूपिणा परमात्मना सह हृदये सर्वफलभोगानुभवात् जीवो भोगाङ्गमिति कथ्यते | एवं जीवात्मा समर्पणानन्तरं शिवेन सहैव तच्च भुनक्ति | एवं प्रसाद-सेवनात् जीवः शिरसि विराजमानेन सद्रूपेण भावलिङ्गेन सह संयुक्तस्सन् योगाङ्गमिति व्यवह्रियते | बीजे यथाङ्कुरः सिद्धस्तथात्मनि शिवः स्थितः | इति सिद्धान्तशिखामण्युक्तदिशा जीवे अन्तर्यामितया शिवो निवसत्येव | स च भ्रूमध्ये इष्टरूपेण (आनन्दरूपेण) हृदये प्राणरूपेण शिरसि भावरूपेण (सद्रूपेण) विराजते | एवं परमात्मनो लीलाविनोदाय आश्रयत्वात् जीवः अङ्गमित्युच्यते | अयमङ्गनामको जीवः सर्वकर्मफल- bhogāt bhogāṅgamiti etatprasādabhogamahimnā śirasi sahasrārakamalavirāja- फलत्यागादेव त्यागाङ्गं भवितुमर्हति जीवः | तथैव प्रसादभोगादेव सः भोगाङ्गं भवितुमर्हति | यः त्यागी भोगी च भवेत् स एव योगाङ्गं च (योगी) भवेत् | एतादृशं योगमधिगन्तुं सर्वदा प्रयत्नः कर्तव्यो विवेकिना | अयमेवाशयः योगाय युज्यस्व
83 SK इत्यनेनाविष्क्रियतेऽत्र || ५० || प्. ७८) एवं कुर्वतो न केवलं फलप्राप्तिः प्रत्युत मोक्षावाप्तिरित्याह - कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः | जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् || ५१ || बुद्धियुक्ताः उक्तसमत्वभावनायुक्ताः मनीषिणो विवेकिनः कर्मजं फलं पशुपुत्रस्वर्गादिरूपं विहाय न तु कर्म त्यक्त्वा तेन जन्मबन्ध- śivayogināṃ saṅgāt jīvasya malapāśahānyā ihaivāsminprasādakāye vibhinnadehe ātyantikaduḥkhanivṛttirūpaḥ nityānantamayo mokṣaḥ anubhūyate | ayaṃ tu śivayogasyaiva mahimātiśayaḥ vivekibhireva anubhavitavyaḥ | yogasya mahattvaṃ samvagvarṇavanti śaraṇāḥ | gaṅgādisaṅgaṭṭitaparvatāstu sarve ca nirmūlatayā vinaṣṭāḥ | agneśca saṃsargavaśāddhi kāṣṭhaṃ samūlato naśyati paśya jīva | sujñāninassaṅgavaśāddhi jantustvajñānanāśena śive pralīyate | tathaiva śaṃbho gurumallikārjuna tavaiva yogātsukhameti lokaḥ | iti śivayogādeva nityasukharūpaṃ mokṣaṃ prāptuṃ prabhavati sādhako jīvaḥ || 51 || sādhakasya tādṛśī samatvarūpā buddhiḥ kadā bhavedityatrāha - yadā te mohakalilaṃ buddhirvyatitariṣyati | tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca || 52 || te tava buddhiḥ yadā yasminkāle mohakalilaṃ moho'vivekastadrūpaṃ kāluṣyaṃ vyatitariṣyati parityajatītyarthaḥ | tadā tasminkāle śrotavyasya śrotavyatvena bhavatā nirṇītasya aihikāmuṣmikaphalaviṣayasya evametāvatā śrutasyaihikāmu- हिताहितविवेकरहितस्यैव आत्मनः अल्पफलेषु प्रवृत्तिः स्यात् | तादृशविवेकवतस्तु जीवस्य तादृशाल्पफलकार्यादिषु वैराग्यं स्वयमेव संभवेत् | अतः सुदृढं विवेकं प्रथमं संपाद्य स्वकर्तव्यनिरतो भवेदित्यर्थः || ५२ || प्. ७९) एवं विवेकवतो योगनिष्टस्य उत्तरफलमप्याह - श्रुतिविप्रतिपन्ना ते तदा स्थास्यति निश्चला | समाधावचला बुद्धिस्तदा योगमवाप्स्यसि || ५३ ||
84 SK ते बुद्धिरेतावता कालेन श्रुतिविप्रतिपन्ना बहुविधवाक्यैश्च इदमेव जन्मनः फलं इत्यज्ञानिभिः संसारप्रवणैरुच्यमानानां ख्यातिलाभादिपराणां वाक्यानां श्रुत्या श्रवणेन विप्रतिपन्ना विप्रतिपत्तिं विपरीतप्रतिपत्तिं आपन्ना प्राप्ता हेये उपादेयत्वमतिं उपादेये हेयत्वमतिं च प्राप्तेत्यर्थः | एतादृशी बुधिः विवेकवशाद्यदा निश्चला व्यवसायात्मिका सुदृढा स्थास्यति मज्जन्मनः नहि ख्यातिलाभादिक-मत्यल्पं फलं किन्तु संसारबन्धान्मोचनमेव इति निश्चयः यदा भवति तदाल्पफलेषु बुद्धेरप्रवृत्त्या सा न कलुषिता बहुप्रकारेण दूषिता भवेत् | तदा एवं चाञ्चल्यनिवृत्तौ सा बुद्धिर्निश्चयात्मिका | समाधौ समाधीयते चित्तमत्रेति समाधिः | यस्मिन् स्थितस्य जीवस्य बुद्धेस्समाधानं कालुष्या-भावः शांतिश्च भविष्यति तादृशसमचित्ततारूपसमाधौ अचला सुप्रतिष्ठिता भविष्यति | तेन च योगं सर्वत्र समचित्तत्वरूपं त्वम-वाप्स्यसि | बुद्धिस्समाहिता चेत् समत्वभावना स्वयमेव संभवेत् | बुद्धौ असमाहितायां तदा तस्याः कलुषितत्वात् न समत्वभावना स्यादित्यर्थः || ५३ || एवं संपूर्णतया फलसङ्गत्यागात् मनुष्यस्य बुद्धिरचला व्यवस्थिता च भवतीत्युक्ते तादृशः निश्चितमर्तेर्लक्षणं किमित्यर्जुनः पृच्छति - स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव | स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् || ५४ || अर्जुन उवाच - हे केशव कृष्ण समाधिस्थस्य उक्तसमाधिनिष्ठस्य स्थित-प्रज्ञस्य स्थिता उक्तरीत्या प्रज्ञा यस्य तस्य का भाषा ? किं भाषणं वचनं हि कीदृशम् ? स च स्थितधीः परैरितरैः सह किं प्रभाषेत कीदृशं प्. ८०) वचनं ब्रूयात् ? किं कीदृशरीत्या स आसीत् ? किं कीदृशरीत्या व्रजेत् गच्छेत् ? तस्य गतिस्थित्यादिकं किंरूपं स्यात् ? इति अर्जुनोऽपृच्छत् || ५४ || एवं पृष्टमर्जुनं प्रति भगवात् प्रत्युत्तरमाह - प्रजहाति यदा कामान्सर्वान् पार्थ मनोगतान् | आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते || ५५ ||
85 SK श्रीभगवानुवाच - हे पार्थ अर्जुन मनोगतान् मनसि विद्यमानान् सर्वान् सर्वविधानप्यैहिकामुष्मिकरूपान् ख्यातिलाभस्वर्गादिरूपान् कामान् अल्पपुरुषार्थविषयकान् कामान् यदा प्रजहाति त्यजति | किन्तु आत्मन्येवा- svayamantareva yogavaśādātmānubhavamātreṇa tuṣyan yadā vartate tadā saḥ sthitaprajña ityucyate | aindriyikasukhādīni atyalpaṃ manvānaḥ ātmasukhamātra- चित्तस-साधानाद्यसंभवेन प्रज्ञा तावत् सुव्यवस्थिता न कदापि स्यादेव || ५५ || दुःखेस्वनुद्विग्नमनाः सुखेषु विगतस्पृहः | वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते || ५६ || दुःखेषु प्राप्तेषु अनुद्विग्नमनाः न उद्विग्नं प्रक्षुभितं मनः यस्य सः अविकृतचित्तः | एवं सुखेषु च विगतस्पृहः तदर्थापेक्षाशून्यः | अग्निरिव इन्धनेन विषयाभिलाषो न भोगेन शाम्यति | न जातु कामः कामानामुप- vadanti | evameva duḥkhe'pi avikārāt sukhe'pyapekṣābhāvācca vitārāgabhaya- वीतरागभयक्रोधः यस्तादृशः स मुनिर्योगी स्थितधीः स्थितप्रज्ञ इत्युच्यते | जीवितकाले तदातदा समागतानि दुःखानि भगवत्प्रसादलब्धानीति सन्तोषेण स्वीकरोत्ययं प्. ८१)
86 SK स्थितप्रज्ञः | अस्य जीवनप्रकारं शरणाः हृदयङ्गमया रीत्या वर्णयन्ति | देहस्य दुःखं प्रसमीक्ष्य भीतः रक्षेति देवं न कदापि याचे | शरीर- yāce yadbhāvyameveha tadastu nityam | nindā ca stotraṃ hyanuyātu bhṛtye tasyobhayaṃ sādhu bhaveddhi satyam | iti | etādṛśīṃ niṣṭhāṃ sthitaprajñe paśyāmaḥ | ata eva tasya sukhaduḥkhādikaṃ sarvamapi bhagavatprasādarūpatayā pariṇamati | tādṛśe'nubhavini kāmādayo'pi svīyāṃ vakratāṃ vihāya bhagavati viniyuktāḥ tatpriyā bhūtvā anubhavinamalaṅkurvanti | kāmena kiṃ syādiha liṅgamicchataḥ krodhena kiṃ syāccharaṇābhikāṃkṣiṇaḥ | lobhena kiṃ syādgurubhaktikāṃkṣiṇa mohena kiṃ syācca prasādakāṃkṣiṇaḥ | iti basavāryaḥ kāmakrodhādīn gurujaṅgamātmakasya śivasya sevāyāṃ viniyoktavyatvena nirdiśati | evaṃ kāmakrodhādayaśca vidyamānā api śivasevārthaṃ viniyuktāścenna kāmapi hānimutpādayanti | parantu madamatsarayoravakāśo na deya iti śaraṇāḥ sādhakān vārayanti yatastābhyāṃ caitanyaśuddhireva parihīyeta | caitanyaśuddhirmadamatsarātmasu nirīkṣituṃ nārhati saṃgameśa | sadvartaneṣu prayateṣu devo hyātiṣṭhatīti prathitā pratītiḥ | iti nirmatsarāṇāṃ sadvartanaṃ praśaṃsate bhagavān basavāryaḥ | etādṛśa eva yogī sthitaprajña iti vyavahriyate | arjunastādṛgyogī bhavediti kṛṣṇo nirīkṣate || yassarvatrānabhisnehastattatprāpya śubhāśubham | nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā || 57 || yaḥ yogī sarvatra laukikaviṣayeṣu sarveṣvapi anabhisnehaḥ abhisneha āsaktistad- प्राप्तं सर्वं प्राप्य नाभिनन्दति न द्वेष्टि च | शुभं प्राप्य न प्रहर्ष- ayamevā-syāśubhasya hetuḥ ityālocya na kamapi nindati | tasya tādṛśasya munessādhakasya prajñā pratiṣṭhitā p. 82) suvyavasthitā vartate | saḥsthitaprajñasya ucyate | śarīrarakṣaṇārthaṃ tadduḥkha- साधुस्वभावः पुरुषस्तु लोके शिवप्रियो ह्येकदिनं वसेन्नु इति शरणोक्त्यनु- bhavitumarhati || 57 ||
87 SK यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः | इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || ५८ || यदा अयं योगी कूर्मः अंगानीव इन्द्रियाणि मनःप्रभृतीनि स्वेन्द्रियाणि इन्द्रियार्थेभ्यस्तत्तद्विषयेभ्यः सर्वशः संपूर्णतया संहरते सम्य- leśato'pyātmasākṣika-tayā apekṣārahito vartate | tadā tasya muneḥ prajñā pratiṣṭhitā | sa eva sthitaprajña ucyate | evaṃ ca yadṛcchayā karmavaśaprāptaṃ sukhaṃ duḥkhaṃ vā samaṃ jānan ātmanyevātmanā tuṣṭaḥ sthitaprajña iti bhāvyate || 58 ||| indriyāṇāṃ viṣayebhya upasaṃhāraḥ kathaṃ kartavya ityatrāha - viṣayā vinivartante nirāhārasya dehinaḥ | rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate || 59 || nirāhārasya anupabhujyamānaviṣayasya dehino narasya viṣayā rūparasagandha- मुलभूतं बीजं तद्वर्जं निवर्तन्ते | इन्द्रियाणां विषयग्रहणस्वभावत्वेन स्वभावस्य दुस्त्यजत्वात् तेषु तादृशः स्वभावः बीजरूपतया तिष्ठेदेव | परंतु उपर्युपरि विषयान् अभुञ्जतस्तु पुरुषस्य इन्द्रियाणि अस्य समीपे न मम प्रभावः प्रचलति इति विज्ञायेव तूष्णीं तिष्टेयुः | अतो विषयभोगेच्छा प्रथमतस्तस्त्याज्या | विषयाश्च शब्दादयो बाह्येन्द्रियाणाम् | ख्यातिलाभाद्यर्थसङ्कल्पास्तु मनस इत्येतत्प्रसिद्धमेव | अतस्सर्व एवैते विवेकिना दूरतस्त्याज्याः | इन्द्रियेषु बीजतया वर्तमानो रसोऽपि परं इन्द्रियविषयसुखापेक्षयाऽतिशयितसुखस्वरूपं प्. ८३) परतत्त्वरूपं वस्तु दृष्ट्वाऽनुभूय स्वयं निवर्तते | परमात्मानुभवा- prayayeta | tadarthaṃ pratyekaḥ prayatnaśca nāpekṣyate | vyavahārān sarvānapi śivacintanena yadā nirvahan vartate mānavastadaiva tasya bhāvanā parivartate | tataḥ prabhṛti saḥ brāhmīṃ sthitimadhigacchati | evaṃ sthitvā bhavatsaṅkalpā- परन्तु इन्द्रियाणां जयो न सुलभ इत्याह - यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः | इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः || ६० ||
88 SK हे कौन्तेय यततो ह्यपि प्रयत्नं कुर्वतोऽपि विपश्चितः सर्वमेतज्जानतोऽपि पुरुषस्य प्रमाथीनि प्रमथनशीलानि चित्तचांचल्यकारिणि इन्द्रियाणि मनः प्रसभं हठादेव हरन्ति बहिर्मुखानि कुर्युः | एवं च प्रथमं बाह्येन्द्रियाणां जयः कर्तव्यः | नो चेत् मनोऽपि कलुषितं स्यात् | बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति इति व्यासमहर्षिरिन्द्रियाणां चित्ताकर्षणसामर्थ्यं प्रवक्ति | अत इन्द्रियाणां व्यवस्थितया रीत्या सदुपयोगाय मानवैर्बुद्धिबलेन प्रयतितव्यम् || तानि सर्वाणि संयम्य युक्त आसीत मत्परः | वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता || ६१ || अतस्तानि तादृशानि प्रमाथीनि अनर्थकारीणि इन्द्रियाणि सर्वाणि संयम्य सम्यक् नियम्य व्यवस्थयोपयुज्य युक्तस्सर्वत्र समभावनया समाहितो मत्परो मदेकप्रवणचित्तस्त्वम् | त्वया परमात्मैक एव प्राप्यः इति निर्णयवान् भव | तदेकध्यान एव आसीः | एवमासीनस्य यस्य पुरुषस्य वशे इन्द्रियाणि वर्तेयुस्तस्यैव प्रज्ञा प्रतिष्ठिता निश्चला भवेत् | इन्द्रियाणां संयमनप्रकारोऽत्रोपदिष्टस्तेषां सत्कार्ये विनियोग एवेति | बुद्धियुक्तेन जीवेन धर्माचरणाय यदीन्द्रियाण्युपयुज्येरन् तदा तानि बन्धकानि न भवेयुः | प्. ८४)
89 SK एवमिन्द्रियाणां सहकारेनैव कर्तव्यं निर्वहन्मानवः आत्मकल्याणं साधयेदिति भगवानपेक्षते | शरणास्तु अमुं विषयं स्वानुभवपूर्वकं सोदाहरणं प्रतिपादयन्ति | बसवार्यवचनमत्र निदर्शनार्हं विराजते | यदीन्द्रियं रुद्ध्यत एव एव मर्त्यैस्तदा भवेद्दोषविदूषितत्वम् | भोगैकसक्तस्सिरियालभक्तस्तत्याज किं भोगसुखं विरक्तः | बल्लाल एषः किमु भोगभाग्यं तत्याज स्वामिन् गुरुकूडलार्य | भवन्तमाश्रित्य परस्त्रियं तथा परस्वमिच्छन्हि विसृज्यते सदा | इति | एवमिन्द्रियाणि भगवत्सेवार्थं विनियुज्यैवात्महितमाचरणीयमिति बसवार्यो यद्वदति तत्सर्वेषां सर्वदा उपादेयमेव | इन्द्रियाणां विनियोगमार्गोऽपि सभ्यगुपदिश्यते तेन महात्मना | वीक्षस्व भृत्यं गुरुसङ्गमार्य संप्रार्थये त्वां दृढ- mām | yathā na gaccheyamitastato'pi tathā kuru tvaṃ kṛpayaiva paṃgum | yathā ca nānyacchṛṇuyāmihaiva tathā kuru tvaṃ kṛpayaiva mūkam | tathādya māṃ paśya yathā bhavatpadaṃ vihāya nānyatparicintyate mayā | iti | evaṃ sarvadā bhagavaddhyānaśuśrūṣārthamevendriyāṇāṃ viniyoga eva tāni durmārga- इन्द्रियाणां संयमप्रकारं तदसंयमनेऽनर्थं चाह द्वाभ्याम् - ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते | सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते || ६२ || क्रोधाद्भवति संमोहस्संमोहात्स्मृतिविभ्रमः | स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति || ६३ || विषयान् रूपस्पर्शादीन् बाह्यान् ख्यातिलाभादिकान् आन्तरांश्च ध्यायत- tatpratirodhādinā krodho jāyate | krodhe ca jāte saṃmoha aviveka utpadyate | kruddho hanyāt gurūnapi iti hi nyāyaḥ prasiddhaḥ | evamavivekāt p. 85)
90 SK स्मृतिविभ्रमः कोऽहं किं कर्तव्यं इत्यादिकृत्याकृत्यविवेकनाशो भवेत् | तेन च बुद्धिनाशः | तस्माच्च प्रणश्यति संपूर्णतया नष्टो भवति मानवः | समीचीना हि बुद्धिः सकलश्रेयसः कारणं संपद्यते | तस्या विनाशे पुरुषस्य नाशः अवश्यं भवेदेवेत्यर्थः | कोपस्य दुष्परिणामं हृदयङ्गमतया चित्रयन्ति शरणाः | योऽविवेकेन कोपमादत्ते तस्य न केवलं स्थानमानहानिः किन्तु सर्वस्वनाशस्संभवतीते ते अभिप्रयन्ति | किं कुप्यसि त्वं कुपितेऽपि मानवे किं तत्फलं स्यात्तव किं परेषाम् | तनोश्च कोपः प्रविहन्ति मानं मनःप्रकोपः प्रविहन्ति शेमुषीम् | दहेद्गृहस्थो गृहमेव दावो नान्यद्गृहं संदहतीव देव | इति शरणो बसवार्यः कोपेन निर्वर्त्यमानं विषमं परिणामं सम्यगुपपादयति | एवं विषयसंगात् कामक्रोधाद्युत्पत्तिश्रवणेन साधकाः सर्वदा सतां संगे स्थित्वा कामक्रोधादीन् महाविषये परमात्मनि विनियुज्य तदनुग्रहेणैव जन्मसाफल्यं लभेरन्निति निरीक्ष्यते | एवंविधं मनःपरिपाकं लब्ध्वैव साधकाः कर्तव्यनिष्ठाः स्युः | तादृश एव ते नित्यसुन्दराश्च भवेयुः || ननु यावत्पर्यन्तं लोके वसति मानवः तावत्पर्यन्तं रूपस्पर्शादिविषय- rāgadveṣaviyuktaistu viṣayānindriyaiścaran | ātmavaśyairvidheyātmā prasādamadhigacchati || 64 || rāgadveṣaviyuktaiḥ pūrvoktarītyā śubheṣu rāgaṃ vyāmohaṃ aśubheṣu dveṣaṃ vā tyajadbhiḥ ata eva ātmavaśyaiḥ viṣayān tattatkālaṃ karmavaśa-prāptān sparśādiviṣayān caran anubhavan svāntargatāyeṣṭaprāṇabhāvātma-kāya parameśvarāya tadānīmeva bhaktyā samarpya tadbhuktaśeṣān tāneva viṣayān bhuñjāno vidheyātmā vyavasthitacittaḥ śivadīkṣayā susaṃskṛto nirmalo jīvaḥ prasādamantaḥkaraṇanairmalyamadhigacchati prāptoti | sparśādiṣu bhojyaviṣayeṣu ekaikasminnapi rūpaṃ rucistṛpti- p. 86)
91 SK रिति त्रयः पदार्था वर्तन्ते | भक्त्या यदि ते सपर्प्यन्ते तदा तान् परमेश्वरो- prāṇaliṃga-rūpeṇa śirasi bhāvaliṃgarūpeṇa eka eva paramātmā bhaktānugrahāya vilasati | gurūṇā etatsarvaṃ jñātvā sādhako jīvaḥ ekaikamapi bhojyavastu yadi bhaktyā paramātmane samarpayettadā rūpamiṣṭaliṃgāya bhrūmadhyasthāya rasaḥ prāṇaliṃgāya hṛdayasthāya tṛptirbhāvaliṃgāya śirovirājamānāya samarpitā bhavanti | evaṃ samarpaṇena padārthagatau rajastamoguṇau parihīyete paraṃtu sattvaguṇa eka evāvaśiṣyate | evaṃ sattvapravṛddhyā sādhake sāttvikavartanena manaḥprasādo jāyate | prasādastu prasannatetyanubhavino vadanti | padārthabhogātprāk yasmai kasmaicit satpātrāya santoṣeṇa pradānameva tyāga ucyate | anena tyāgenaiva paramātmā prīyate na tu prāgbhogena | na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ iti bhagavatī śrutireva tyāgasya mahattvaṃ varṇayati | tyāgenaiva mānavaḥ śivapriyo bhūtvā śaktivikāsena śiva eva saṃpadyate | iyamevāmṛtasthitiḥ | bhogena pāśavī vṛttirvardhate | parantu tyāgādanantaraṃ tadeva bhojyaṃ vastu yadi bhujyeta tadā prasādarūpeṇa pariṇataṃ sat sādhakaṃ pāvayati | mānavairna kadāpi padārthabhogibhirbhāvyaṃ kintu prasādabhogibhirbhavitavyamiti bhagavata āśayaḥ | tena tyaktena bhuñjīthāḥ mā gṛdhaḥ kasyasviddhanam itīśāvāsye śrūyate | iṣṭaprāṇabhāvātmakāya mahādevāya vastugatarūparucitṛptīnāṃ padārthānāṃ samarpaṇena ta eva paramātmanā adṛśyatayaivopabhujya tyaktāḥ bhaktānanugrahītuṃ vātsalyapūrvakaṃ pratinivartyante | etadeva bhuktāvaśiṣṭaṃ vastu śeṣaḥ iti vaiṣṇavasaṃpradāye tyakta iti vīraśaivasaṃpradāye ca bhāvyate | paramātmane tattatkāla eva bhaktyā samarpitaṃ sukhaduḥkhādikaṃ sarvamapi vastu tena tyaktamiti saṃbhāvya yaḥ svīkaroti saḥ nityasukhī saṃpadyate | tādṛśaṃ nityasukhaṃ duḥkhamadhye yo'nubhavati sa eva brāhmaṇaḥ | sukhaduḥkhayoḥ samīkaraṇaṃ
92 SK त्विदमेव | यः समदर्शनः स सर्वोऽपि ब्राह्मण एव | य एवं स्वान्ते स्वहिताय निवसन्तं परमात्मानं प्राणवत्प्रियामष्ट- प्. ८७) देवमिति भावयित्वा सर्वमपि स्वीयं भोज्यं वस्तु तस्मै भक्त्या समर्पयितुं वीरव्रतमेकं स्वीकरोति स एव वीरशैवः | जगद्रूपतया सर्वव्यापकं ब्रह्मचैतन्यं अखण्डलिंगमिति मत्वा तस्मिन्नेव स्वस्याव-स्थानात् स्वं संपूर्णतया तदधीनमिति यो भावयति स एव लिङ्गायत्तचित्त-त्वात् लिंगायत इति व्यवह्रियते | एवं ब्राह्मणवीरशैवलिंगायतपदानि न केवलं जातिवाचकानि किंतु ब्रह्मभावबोधकानीति विवेकिभिर्ज्ञेयम् | एतादृशं ब्रह्मभावमधिगन्तुं सच्चरितानां सर्वेषामप्यधिकारो वर्तते | एवं ब्राह्मणो भूत्वा ब्रह्मभावेऽहङ्कारममकारौ संत्यज्य प्रसादभोगेन निर्मलो भूत्वा युद्धं शिवाराधनभावनया निर्वोढुं परमात्मा श्रीकृष्णोऽर्जुनं प्रेरयति || ६४ || प्रसादे सर्वदुःखानां हानिरस्योपजायते | प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते || ६५ || प्रसादे एवं प्रसादभोगेनान्तःकरणे प्रसन्ने सति पुरुषस्य सर्वदुःखानां हानिरुपजायते | सर्वदुःखानामपि हि मूलं मनःकालुष्यमेव | मन एव मनुष्याणां कारणं बन्धमोक्षयोः | बन्धाय विषयासङ्गि मुक्त्यै निर्विषयं मनः | इति ह्युच्यतेऽनुभविभिः | एवं प्रसन्नचेतसो मनुष्यस्य हि बुद्धिराशु शीघ्रमेव पर्यवतिष्ठते | निश्चलभक्तिस्तादृशः साधकः शीघ्रं स्थितप्रज्ञो भवतीत्यर्थः || ६५ || नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना | न चाभावयतः शान्तिरशान्तस्य कुतस्सुखम् || ६६ || अयुक्तस्य असमाहितचित्तस्य तावत् समीचीना बुद्धिर्नास्ति न संभवति | एवमयुक्तस्य परमात्मनि सर्वार्पणभावेन यः शरणागतो न भवति तादृशः प्रत्येकजीवनः पुरुषस्य व्यवहारकालेऽपि शिरोविराजमानेन प्रेक्षकेन भावलिंगेन ऐक्यमनापन्नस्य भावना सर्वत्रात्मचिन्ता न संभवति | तस्य तावदात्मौपम्यदृष्टिर्न विलसति |
93 SK ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः | लिप्यते न स पापेन पद्मपत्रमिवांभसा || इति भगवानेव वक्ष्यति | एवं प्. ८८) सर्वेषामपि कर्मणां ब्रह्मभावेन समदृष्ट्या अनुष्ठानमेव योगः | स एव यस्मिन् न विद्यते सोऽयुक्त इति परिगम्यते | तस्यायुक्तस्य सद्भावना न विद्यते | एवमध्यात्मभावनारहितस्य शान्तिरुपशमो न संभवति | अशान्तस्य विषयकलुषितस्य सुखं कुतो लभ्यते ? इन्द्रियलभ्यं सुखं दुःखमिश्रमेवेति सर्वैः ज्ञातम् | ये हि संस्पर्शजा भोगा दुःखयोनय एव ते इति भगवानप्याह | तस्मात्संयुक्तस्यैव जगद्व्यवहारेण शाश्वतं सुखं स्यात् | एतादृशो योगो यैर्नाधिगम्यते त एव व्यवहारैर्दुःखं प्राप्नुवन्ति | अयमेवाशयः योगः कर्मसु कौशलम् इत्यत्राविष्कृतः | यः स्वस्मै स्वहिताय स्तयमेवाहङ्कारेण व्यवहरति सः दुःखभाग्भवति | यः स्वहृदये विराजमानाय प्राणलिङ्गाय सर्वेन्द्रियैस्सह स्वात्मानमपि समर्प्य तत्सन्तोषार्थं तत्प्रेरणानुरोधेनैव व्यवहरति सः न कदापि दुःखं समश्नुते | यस्तच्चित्तो तन्निष्ठस्तद्गतप्राणस्समाहितो भूत्वा स्वीयपतिसन्तोषायैव नित्यं व्यवहर्ति स सर्वदा नित्यसुखी वर्तते | शान्तितृप्ती तस्य स्वभावतया परिणमतः | एवं जागरूकतया व्यवहरणमेव योग इति परमात्मा उपदिश्यति | तादृशो योगस्य परिचयः सर्वेषामप्यावश्यकः | अस्य योगस्यानधिगमेनैव मानवा दुःखिनो भवेयुः || ६६ || अयुक्तस्य जीवस्य बुद्धिर्व्यवस्थिता न भवतीति कुत इत्यत्राह - इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते | तदस्य हरति प्रज्ञां वायुर्नावमिवांभसि || ३७ ||
94 SK चरतां स्वस्वविषयेषु प्रवर्तमानानां इन्द्रियाणां यन्मनः अनुविधीयते इन्द्रियमनुसृत्य मनोऽपि यत्र प्रवर्तेतैवेत्यर्थः | तन्मनः अंभसि उदके नद्यादिप्रवाहे नावं वायुरिव अस्य मनुष्यस्य प्रज्ञां हरति हि | वायुर्यस्यां दिशिनावमपि हठात्प्रवर्तयत्येव तद्वदिन्द्रियाणां विषयप्राबल्ये मनसोऽपि तदनुगुणप्रवृत्तौ प्रज्ञापि तदनुगुणैव भवेदित्यर्थः || ६८ || तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः | प्. ८९) इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || ६९ || हे महाबाहो तस्मात्कारणात् यस्य विवेकिनः इन्द्रियाणीन्द्रियार्थेभ्यः स्वविषयेभ्यः सर्वशः सर्वप्रकारेणापि निगृहीतानि भवन्ति तस्यैव प्रज्ञा प्रतिष्ठिता निश्चला भवति || ६७ || एवमिन्द्रियविषयेषु प्रवृत्तिरविद्यावशाद्भवति | अविद्या च विद्याविरोधिनी | अत इयमविद्या विद्यां ज्ञानं नाशयेत् | एवमुत्पन्ना च विद्या अविद्यां नाशयेत् | विद्याया अविद्यानाशकत्वं प्रसिद्धम् | एवं विद्याविद्ययोः परस्परनाशकत्वमुपपादयति - या निशा सर्वभूतानां तस्यां जागर्ति संयमी | यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः || ६९ ||
95 SK यथा निशाचराणां निशैव दिवा भवति तेषां दिवैव अस्माकं निशा भवति तथा सर्वभूतानां सर्वप्राणिनां या निशा तमः सर्वपदार्थानां अविवेकहेतुरदर्शनकारणं संपद्यते तस्यां तमसि संयमी योगी जागर्ति सर्वं पश्यति | लोकस्तु तद्विपरीतवर्तन एव वर्तते | अतस्तेषां विवेक एव स्वेष्टविरोधित्वात् तम उच्यते | योगी तावदन्धकारे वस्तूनां बाह्यरूपाणि यद्यपि न पश्यति किन्तु प्रकाशमानं ब्राह्मं चिद्रूपं पश्यत्येव | तदानीमविवेकिनस्तु बाह्यप्रकाशाभावात् वस्तुनां बाह्यरूपाणि न हि पश्यन्ति | परन्तु अन्तर्विराजमानं चिद्रूपं द्रष्टुं न शक्यत एव तेषाम् | अतो ज्ञानिनां या जागृदवस्था सा अज्ञानिनां निशावस्था संपद्यते | यदा अज्ञानिना सर्वाणि वस्तूनि बाह्यदृष्ट्या अवलोक्यन्ते तदा ज्ञानिना तानि न दृश्यन्त एव प्रयुत सः सर्वत्र परमात्म प्रकाशमेव पश्यति | बाह्यानि रूपाण्यपि तस्य ब्रह्मभावेनैव दृश्यन्ते | अविवेकिनां स्वेष्टविरोधित्वात् यो विवेकस्तमो भवति स एव योगिनां स्वेष्ट-साधनत्वात् दिवा संपद्यते | एवं यस्यामविवेकावस्थायां भूतानि इतरप्राणिनः जाग्रति सर्वं पश्यन्ति सैवावस्था पश्यतो मुनेः परमर्थ-तत्त्वं पश्यतो योगिनः प्. ९०) निशा भवति | अविवेकदशायां हि मानवः सर्वं करोति | सा त्ववस्था ज्ञानिनः स्वेष्टवस्तुविरोधित्वात् निशेव भवति | तथाच अविवेकिनो यत्र रमन्ते तत् विवेकिनां जुगुप्सितं भवति | विवेकिना यत् जुगुप्सितं तदेव च मूर्खाणां प्रियतमं भवतीत्युक्तं भवति || ६९ || एवञ्च उक्तरीत्या विवेकिनः आत्मातिरिक्तविषयवितृष्णस्यैव शान्तिर्मोक्षो वा भवितुमर्हति न तु आत्मातिरिक्तक्षुद्रात्यन्तहेयार्थतृष्णस्येति सदृष्टान्तमुपपादयति - आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति तद्वत् | तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी || २० ||
96 SK आपूर्यमाणं नद्यादीनामद्भिः सदा पूर्यमाणमपि अचलं एकरूपमेव सन्तं समुद्रमापः सर्वतः प्राप्ता यद्वत्प्रविशन्ति | तद्वत् प्राप्त्या अप्राप्त्या वा अविकृतं सततैकरूपं यं पुरुषं कामा अवशप्राप्ता विषयाः सर्वे प्रविशन्ति नतु लेशतोऽपि विकारमापादयन्ति स एव शान्तिमैहिकमनस्समाधानं अनन्तरं शाश्वतशान्तिरूपमोक्षं च आप्नोति | कामकामी काम्यन्त इति कामाः आत्मातिरिक्तलौकिकविषयाः तान् कामयितुं शीलं यस्य सः कामकामी | तादृग्जीवो नैव शान्तिमाप्नोतीत्यर्थः || ७० || विहाय कामान्यस्सर्वान् पुमांश्चरति निःस्पृहः | निर्ममो निरहङ्कारः स शान्तिमधिगच्छति || ७१ || तस्मात् यः कामान् उक्तलौकिकविषयान् विहाय परित्यज्य | तेषु पुरुषार्थत्वबुद्धिरहित इति यावत् | अत एव निस्पृहः कुत्राप्यपेक्षारहितः | अत एव निर्ममो निरहङ्कारश्च अहङ्कारममकाररहितस्स एवंभूतः शान्तिमधिगच्छति प्राप्नोति || ७१ || एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यसि | स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति || ७२ || प्. ९१) हे पार्थ एषा यथोक्ता ब्राह्मी परशिवप्राप्त्यनुगुणा स्थितिः | एनां स्थितिं प्राप्य कोऽपि न विमुह्यति | अस्यां स्थित्यामन्तकालेऽपि अन्तिमवयस्यपि स्थित्वा ब्रह्मनिर्वाणं ब्रह्मरूपं निर्वाणं मोक्षं ऋच्छति प्राप्नोति | अतः कथञ्चित् तादृशीं स्थितिं संपादयेत्यर्थः || तृतीयाध्यायः पूर्वं दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय | बुद्धौ शरणमन्विच्छ इत्यारभ्य कर्मणां हेयत्वं ज्ञानस्यैव श्रेष्ठत्वं चोक्तम् | अत्रार्जुनः पृच्छति | ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन | तत्किं कर्मणि घोरे मां नियोजयसि केशव || १ ||
97 SK हे जनार्दन कृष्ण कर्मणः कर्मापेक्षया बुद्धिर्ज्ञानमेव ज्यायसी श्रेष्ठेति ते तव मता चेत्सम्मता स्यात् तत् तर्हि हे केशव कृष्ण घोरे कर्मणि युद्धाख्येऽस्मिन् घोरकृत्ये मां किं कुतो नियोजयसि प्रेरयसि तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः इत्यादिना? देहे त्वयि परशिवस्त्रिधा वर्तत इति ज्ञानमेम नालम् किन्तु स एव तदीयेन्द्रियैः तत्सेवकसकाशात् सकलान् व्यवहारान् निर्वहन् वर्तते | तदा प्रकृतिस्तमाकृष्य तत्सकाशाद्बलात्कारेण कर्म कारयति | अतस्स सर्वमपि कर्म भगवत्प्रीत्यर्थं निस्स्वार्थतया यदि करोति तदा स भगवदनुग्रहभाजनं भूत्वा तत्प्रसादेन सुखी संपद्यते | अतो देहे विराजमानस्य शिवस्य संतोषाय सर्वोऽपि व्यवहारो निरुह्य इत्याशयेन तत्काले निर्वर्त्यं कर्म सर्वमपि कर्तव्यभावनया सर्वैरनुष्ठेयमिति कृष्णोऽर्जुनमपादिशत् | देहे शिवस्य सान्निध्यं तेन निर्वर्त्यां जगद्व्यापारलीलां चाजानन्नर्जुनः केवलस्वरूपज्ञाने यदि मानवो वर्तेत तदेवालम् किमिति भीकरमिदं युद्धाख्यं कर्मानुष्ठेयमिति तस्याशयः | अत एव सः पृच्छति || १ || प्. ९२) व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे | तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् || २ || व्यामिश्रेणेव परस्परसङ्कीर्णतयेव कर्मसु मम प्रेरणात् ज्ञानस्य च प्रशंसया अर्थं निर्णेतुमशक्येनेव वाक्येन पूर्वोक्तेन मे मम बुद्धिं मोहयसीव कृत्याकृत्यविवेकशून्यं मां त्वमेव करोषीव कृतवानस्येव | उभयत्र इवशब्दप्रयोगः स्वस्य मन्दबुद्धेस्तथा भातीत्यर्थं निवेदयति | मानवस्य शिवज्ञानमेवावश्यकम् | तेनैव तस्य स्वरूपज्ञानमुदेति इत्येकदा वक्ति भवान् | अनन्तरं सर्वमपि कर्म तदीयमिति ज्ञात्वा श्रद्धयानुष्ठेयमिति च वदति भवान् | किमहं ज्ञानमेकमेवावलंबे उत सर्वदा कर्म कुर्वन्नेव वर्ते इति संशयो मे जातः | तत्तस्मात् एकं कर्मज्ञानयोरन्यतरत् निश्चित्य येनान्यतरेण अहं श्रेयस्सद्गतिमाप्नुयां प्राप्नुयां तद्वद कथय || २ ||
98 SK लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ | ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् || ३ || एवं पृष्टः श्रीभगवानुवाच - अनघ अर्जुन सांख्यानां ज्ञानिनां ज्ञानयोगेन योगिनां कर्मिणां कर्मयोगेन च द्विविधा निष्ठा पुरा मया लोकेऽस्मिन् मया प्रोक्ता उपदिष्ठा | तथा च ज्ञानयोगाधिकारिण एव केचित् कर्मयोगाधिकारिण एवान्ये इत्युक्तं भवति || ३ || एवमुक्तयोर्द्विविधनिष्ठयोः स्वरूपमाह - न कर्मणामनारंभान्नैष्कर्म्यं पुरुषोऽश्नुते | न च संन्यसनादेव सिद्धिं समधिगच्छति || ४ || कर्मणामनारंभादेव नैष्कर्म्यं कर्मोपरतिरूपं संन्यासं पुरुषो नाश्नुते न प्राप्नोति | एवं संन्यसनादेव कर्मणां त्यागमात्रेणैव सिद्धिं मोक्षाख्यपरमपुरुषार्थं न च समधिगच्छति नैव प्राप्नोति | तथा च कर्मत्यागमात्रादेव ज्ञानयोगो न सिद्ध्येत् | अनुष्ठितेषु कर्मसु क्रमशश्चित्तशुद्धौ जातायां तस्याः प्. ९३) प्रतिष्ठितत्वसंभवेन तदानीमेव ज्ञानयोगस्यावकाशः न त्वारंभ एवेत्यर्थः || कुतः कर्मणामावश्यकत्वमिति शङ्कायां कर्मणामवर्जनीयत्वमाह - na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt | kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ || 4 || kaściddhi puruṣaḥ kṣaṇamapi kaṃcitkālamapi jātu kadāpi akarmakṛt karma akurvanneva tiṣṭhati sthātuṃ śaknoti | sarvadā sarvairapi yatkiñcitkarma kriya- जीवः कश्चिद्यः कर्म परित्यजति | किन्तु प्रकृतिजैः प्रकृतिसंबद्धैर्गुणैः सत्त्वरजस्तमोभिः सर्वः सर्वोऽपि जनः अवश एव स्वयमजानन्नपि यत्किञ्चित्- yāvaccharīrapatanaṃ prakṛtisaṃbandhasyāvarjanīyatvāt tatprayuktatayā yatkiñcitkarma sarvairapyavaśyaṃ kartavyameva | ataḥ karmaṇāṃ tyāgamātreṇa jñānayogaḥ siddhyatīti na bhramitavyam | yataḥ karmāṇi tyaktumevāśakyāni ityarthaḥ || 5 || karmendriyāṇi saṃyamya ya āste manasā smaran | indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate || 6 ||
99 SK एवं स्थिते कर्मेन्द्रियाणि हस्तपादादीनि संयम्य बलात्कारेण बन्धयित्वा मनसा इन्द्रियार्थान् इन्द्रियविषयान् यः स्मरन्नास्ते चिन्तयंस्तिष्ठति स विमूढात्मा अत्यन्तमोहपीडितस्सन् मिथ्याचारो मृषाचारः कपटवेषधारी उच्यते | एवं च कर्मणां बाह्यतस्त्यागमात्रेण ज्ञानयोगो न सिद्ध्येत् | एवं च इन्द्रियनिरोध एव नालम् किन्तु मनसोऽपि सर्वविषयेभ्यो निवृत्तिरप्यपेक्षितेत्यर्थः || ६ || एतादृशकपटज्ञान्यपेक्षया कर्मयोग्येव श्रेष्ठ इत्याह - यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन | कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते || ७ || प्. ९४) यस्तु एवं कर्मणां पूर्णतया त्याज्यत्वं न संभवतीति जानन् मनसान्तःकरणेन इन्द्रियाणि चक्षुरादीनि नियम्य स्वविषयेभ्यः संयम्य कर्मेन्द्रियैर्हस्तादिभिरसक्तस्सन् फलसङ्गरहितस्सन् कर्मयोगमारभते स एव विशिष्यते | पूर्वोक्तकपटज्ञानयोग्यपेक्षया एतादृशकर्मयोग्येव श्रेष्ट इत्यर्थः | इन्द्रियाणि व्यवस्थयोपयुज्य तत्सहकारेणैव फलाभिसन्धिरहितो यः स्वप्रेरकेश्वरप्रीत्यर्थमेव कर्मारभते स तादृक्कर्मयोगी प्रशस्य इत्यर्थः || ७ || अतस्त्वमपि कर्मनिष्ठ एव भवेत्यार्जुनं प्रेरयति भगवान् - नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः | शरीरयात्रापि च ते न प्रसिध्येदकर्मणः || ८ || अवश्यकर्तव्यत्वेन प्राप्तं कर्म त्वं कुरु | यतः अकर्मणः तादृशकर्म-त्यागापेक्षया कर्मकरणमेव ज्यायः श्रेष्ठम् | कुत इत्यत्राह शरीर-यात्रेति | अकर्मणः संपूर्णकर्मत्यागात् ते शरीरयात्रा देहसंरक्षणमपि न च प्रसिद्ध्येत् नैव सिद्ध्येत् | संपूर्णकर्मत्यागे शरीररक्षणं वा कथं कर्तुं शक्यम् | नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः | उद्यमेन हि सिद्ध्यन्ति सर्वेऽपि च मनोरथाः इत्यभियुक्ता वदन्ति | अतोऽन्ततस्तदर्थं वा कर्म कर्तव्यमेवेति सूचनाय कर्म ज्यायो ह्यकर्मणः इत्युक्तम् || ८ || ननु कर्मणः पुण्यपापसाधनत्वात् बन्धकत्वेन तत्कथं ज्याय इत्यत्राह -
100 SK यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः | तदर्थं कर्म कौन्तेय मुक्तसङ्गस्समाचर || ९ || अयं लोकः यज्ञार्थात् | ईश्वरप्रीत्यर्थो व्यापारो यज्ञः | यज् देवपूजा- loko'yamatratyo janaḥ karmabandhanaḥ karmarūpabandhanaviśiṣṭo bhavati | īśvaraprītyarthatayā avaśyaprāptakarmaṇaḥ karaṇe tu tādṛśaṃ karma nahi bandhakaṃ bhavatītyarthaḥ | yadeva kriyate tatsarvamapi p. 95) īśvarārādhanamiti yo bhāvayatiḥ saḥ karmaṇā na badhyate | pratyuta yaḥ svīyaṃ karma svasmai svasukhāyaiva svayamevānutiṣṭhati tameva tadīyaṃ karma badhnāti | saḥ dehe sahajatayā pravartamānāṃ śivasya jagadvyāpāralīlāṃ jñātvā indriyavyāpāramapi śivalīlātvenaiva bhāvayati | atastasya karmaṇā na kāpi hānissaṃbhavet | tadarthaṃ tasmātkāraṇāt he kaunteya arjuna muktasaṅgaḥ phale saṅgaṃ tyaktvā phalāpekṣāṃ vihāya karma samācara kuru | phalasaṅga eva anarthakārī | ata eva mānavairdehena nirvartyamānānāṃ sarveṣāmapi karmaṇāṃ phalāni tadānīmeva sveṣveva virājamānāyeśvarāya bhaktyā samarpaṇīyāni | evaṃ kṛte teṣu bandho na bhaviṣyatyevetyarthaḥ | yataḥ puṇyaṃ pāpaṃ vā īśvara eva svasevakajīvātkārayati tato'yaṃ jīvaḥ sarvamapi tenaivānuṣṭitamiti yathārthatayā budhvā svayaṃ nimittamātraṃ śraddhayā pravarteta | sa eva nirliptatayā karma kurvan manasāpi svakartṛtvamasmaran sukhaduḥkhādikaṃ sarvamapi īśvaraprasādarūpeṇa svīkaroti | ayameva bandhavimocanamārgaḥ bhagavatopadiṣṭo mānavakalyāṇāya | anayā bhāvanayā avaśyaprāptaṃ yuddhamanuṣṭhāya tatphalamīśvaraprasāda-dṛṣṭyā anubhavituṃ śrīkṛṣṇo'rjunamājñāpayati | sarvaṃ karma dehastha- शान्त्या च वसन् नित्यसुखी संपद्यते | एतदर्थमेव मानवो देहेन्द्रिय- yaḥ karma karoti saḥ na kadāpi tena karmaṇā badhyate || 9 || sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ | anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk || 10 ||
101 SK मनुष्यस्य पाशविमोचनप्रकारमेवोपपादयति | प्रजापतिः प्रजानां स्रष्टा ब्रह्मा पुरा पूर्वस्मिन्काले सहयज्ञाः यज्ञसहिता प्रजाः सृष्ट्वा एवमुवाच अनेन यज्ञेन यूयं प्रसविष्यध्वं वृद्धिं प्राप्नुत | एष यज्ञो वः युष्माकं इष्टकामधुक् इष्टानमितान्कामान् दोग्धि प्रददाति इति | एवं च कर्माणि प्रजानां सृष्टिकाले सहैव सृष्टानि तथैव कार्याभिमतसाधनानि च | अतः प्. ९६) कर्मणां त्यागो न कदापि कर्तव्यः कर्तुमशक्यश्च | तत्रापि भारतभूमौ वर्तमानैरवश्यं कर्माचरणीयमेव | यतो हि कमूभूरेषा ह्यतोऽन्या भोगभूमयः इत्यभिज्ञा वदन्ति | कर्मभूमौ जातैस्सर्वेरपि कर्म कायकदृष्ट्या नियतमेवानुष्ठेयमित्यर्थः || १० || देवान् भावयतानेन ते देवा भावयन्तु वः | परस्परं भावयन्तः श्रेयः परमवाप्स्यथ || ११ || यज्ञरूपं कर्म कथमिष्टार्थं साधयतीत्यत्राह देवानिति | देवानिन्द्रादीन् भावयता प्रीतान् कुर्वता अनेन यज्ञेन भवत्कृतकर्मणा प्रीतास्ते देवा व युष्मान्भावयन्तु भवदिष्टप्रदानेन भवतस्सन्तोषयन्तु | भवद्भिः पूजिता देवा भवद्भ्यस्सर्वमपि फलं दद्युः | एवं परस्परं भावयन्तः परस्परेष्टं साधयन्तो यूयं सर्वे एवमेव परं श्रेय परमपुरुषार्थमपि क्रमशोऽवाप्स्यथ | एव कर्माचरणेन सर्वमपि फलं प्राप्तुं शक्यते यतः इष्टकामधुक् यज्ञ इति प्रोक्तं परमात्मनैव | अयं च यज्ञः शिवाराधनरूप इति वर्ण्यते श्रीरेणुकाचर्यैः | पञ्चधा कथ्यते सद्भिस्तदेव भजनं पुनः | तपः कर्म जपो ध्यानं ज्ञानं चेत्यनुपूर्वकम् | अनेन पञ्चयज्ञेन यः पूजयति शङ्करम् | भक्त्या परमया युक्तः स वै भक्त इति स्मृतः || एवं पञ्चप्रकारेण शिवयज्ञेन मूर्तामूर्तात्मकं शिवं यः पूजयति स सर्वमप्यैहिकामुष्मिकं फलं शिवानुग्रहाद्विन्दते || ११ || एवं परस्परभावनाया अकरणे पापमपि स्यादित्याह - इष्टान् भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः | तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः || १२ ||
102 SK यज्ञभाविता यज्ञैर्भावितास्तोषिता हि देवा इन्द्रादयः व इष्टानभिमतान् भोगान् स्त्रीपशुपुत्रादीन् वः युष्मभ्यं दास्यन्ते वितरिष्यन्ति | एवं च यद्वत् दैहिकं सुखसाधनं लब्धं तत्सर्वमपि देवदत्तमिति भाव्यम् | एवं तैर्दत्तान् तानादायैभ्यो देवेभ्य अप्रदायादत्वा तेषां तृप्तिमकृत्वा यः केवलं प्. ९७) स्वयमेव भुङ्के स्वदेहेन्द्रियाणि केवलं तर्पयन्ति सः स्तेन एव चोर एव भवेत् | देवैर्दत्तं तदीयाराधनरूपं यज्ञसाधनं कर्म यः स्वकीयभोग- akurvatāṃ cauryarūpaṃ mahacca pāpaṃ saṃbhavatyeva | karmānuṣṭhānā- तादृशपवित्रयज्ञा-चरणाय स्वकीयं मनस्ते सम्यक् प्रेरयन्ति | चित्त मदीयं शृणुताद्वचो हि शिवं समाहूय गुरो शिवेति | तथा सकृत्पूजनतश्शिवस्य शिवो भव त्वं शिवभावनायाः || सकृत्समाहूय विभो हरेति भक्त्या समभ्यर्च्य हरो भव त्वम् | लिङ्गं समाहूय तदीयनाम्ना चिद्रूपमेतं गुरुमल्लिकार्जुनम् | सकृत्समभ्यर्च्य भवं वितीर्य त्वमेव लिङ्गं भव चित्त नित्यम् | इति शरणाः सर्वदेवात्मकस्य लिङ्गरूपिणश्शिवस्यार्चनेन मानवश्शिवो भवत्येवेति प्रतिपादयन्ति | चिद्रूपलिङ्गस्य चरात्मनस्ते संसर्गतो मे भवरोगनाशः इत्येतादृशो दृढ आत्मविश्वासस्तेषां चिरस्मरणीयोऽस्माकम् | यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः | भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् || १३ ||
103 SK अतो यज्ञशिष्टाशिनः | यज्ञो देवतापूजनम् | तत्कृत्वा तत्र शिष्टं यत् तत्प्रसादरूपत अधिगतं स्त्रीपशुपुत्रान्नादिकं तदाशिनः तदेवोपयुञ्जन्तो जनास्सर्वकिल्बिषैः सर्वविधपापेभ्यो मुच्यन्ते देवप्रसादभावनयैव सर्वस्योपभोगात् पापं न भवेदित्यर्थः | यज्ञशिष्टरूपे प्रसादेऽपि व्यवस्थितः क्रम आदराणीयः | स्वकीयोपास्यदेवाय यदेव भोज्यं वस्तु समर्प्यते तदेव तेन भुक्तं सत् स्वस्मै प्रसादरूपेणानुगृह्यते | स्वदेवे स्वीय प्रसादे च यो न विश्वसिति सः न कुत्रापि विश्वसेत् | अस्मिन्विषये शरणा निर्दाक्षिण्यतया वदन्त्याशयं स्वीयम् | उपास्यदेवं परिहाय भिन्नं समर्चयेच्चेत्पतितो भवेन्ना | अनेकदेवोज्झितभक्षितारं शिष्टाः किमाहुः कथय प्रभो स्वयम् | इति ते भक्तंमन्यान् निष्पक्षपातं वारयन्ति | एवं दृढविश्वासेन यः प्रसादं भुङ्क्ते स प्. ९८) सर्वविधैः प्रापैर्विमुच्यत इत्याश्वासयति भगवान् सर्वेभ्यस्साधकेभ्यः | ये मूढा आत्मकारणात् केवलस्वदेहेन्द्रियादितृप्त्यर्थमेव पचन्ति पाकादिकं कर्म सर्व कुर्वन्ति ते तु पापाः पापात्मान एव भवन्ति | पापमेव भुञ्जते पापै संपादयन्ति ते || १३ || कर्मणो जगच्चक्रप्रवृत्तिहेतुत्वात् तदवश्यं कर्तव्यमेवेत्याह - अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः | यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः || १४ || कर्म ब्रह्मोद्भवं विद्धि ब्रह्माऽक्षरसमुद्भवम् | तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् || १५ ||
104 SK अन्नात् भुक्तादाहारात् भूतानि जीववर्गा भवन्ति जायन्ते | भुक्तं ह्यन्नं लोहिताद्यात्मना परिणमते | पर्जन्यान्मेघात् वृष्टेरन्नसंभवोऽन्नस्योत्- prāstāhutiḥ samyagādityamupatiṣṭhate | ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ | iti hi śrūyate | ato yajñātparjanyo bhavati | yajñaśca karmasamud- शिवयज्ञोऽपि पूजाद्रव्यानयनादिरूप एव | एवं चोभयविधोऽपि यज्ञः कर्मसमुद्भव एव | व्यापाररूपं कर्म च ब्रह्मोद्भवं ब्रह्म वेदः उद्भवः कारणं यस्य तत् | वेदविहितं खलु यज्ञादिकं कर्म | शिवयज्ञोऽपि त्रिविधोपासनरूपो वेदे विहित एव | तस्याभिध्यानाद्योजनात्-तत्वभावात् इति श्वेताश्वतरोपनिषत्सु श्रूयते | ऋत्विक् त्रैविध्यं ब्रह्मसूत्र- jānīhi | eva. m jñātuṃ bhagavānādiśati | brahma vedaśca akṣarasamudbhavaṃ akṣaraṃ nāma paramātmā sa eva vedasya paramakāraṇam | tasya mahato bhūtasya niśvasitametadyadvedaḥ iti vedānāṃ paraśivasakāśādudbhavaḥ prasiddhaḥ | evaṃ sarvakāraṇatvāt paraśivabrahma sarvagataṃ sarvatra vidyamānamapi nityaṃ sadā yajñe p. 99) pratiṣṭhitaṃ sarveṣvapi karmasu vedavihitayajñādereva prādhānyāt | yajño dānaṃ tapaḥ karma pāvanāni manīṣiṇām iti yajñādeḥ pavitratvaṃ vakṣyati ato brahma yajñe pratiṣṭhitamityucyate || 14-15 || evaṃ pravartitaṃ yajñaṃ nānuvartayatīha yaḥ | aghāyurindriyārāmo moghaṃ pārtha sa jīvati || 16 || evamitthaṃ pravartitamīśvareṇaiva vyavasthāpitaṃ cakraṃ jagaccakraṃ yo nānu- इन्द्रियाण्येव यस्यारामः क्रीडास्थानानि तादृशत्वात् अघायुः पापमयायुः मोघं व्यर्थमेव जीवति | एतादृशां जघन्यं जीवनमेवं निर्दिशन्ति शरणाः आशानिबद्धाः शतशो मृताः पुरा तथैव चान्नात्खलु कोटिशो मृताः | नितंबिनीस्वर्णभुवां कृते मृतास्सहस्रशस्ते भवरोगपीडिताः | विचार्यमाणे बहुधा गुहेश्वर त्वदर्थमेकोऽपि मृतो न दृश्यते | इति भगवत्सेवार्थमेव यो जीवेत्स एव धन्य इत्याशयं प्रकटयन्ति ते || १६ ||
105 SK यस्त्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः | आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते || १७ || यस्तु पूर्वविलक्षणो मानवः अनेकजन्मानुष्ठितदेवपूजादिपुण्यवशात् क्षीणपापः पिण्डनामकः साधकः सः आत्मरतिरेव स्यात् न त्विन्द्रियरति- evātmanyeva ca santuṣṭaḥ na tu putradārādinā | tādṛśasya tu jñāninaḥ kāryaṃ kartavyaṃ kiñcidiha na vidyate nāstyeva | etādṛśaṃ sādhakamevaṃ varṇayati siddhānta-śikhāmaṇiḥ bahujanmakṛtaiḥ puṇyaiḥ prakṣīṇe pāpapañjare | śuddhantaḥ-karaṇo dehī piṇḍaśabdena gīyate || śivaśaktisamutpanne prapañce'sminviśiṣyate | puṇyādhikaḥ kṣīṇapāpaḥ śuddhātmā piṇḍanāmakaḥ || iti | ayameva piṇḍo bhaktaḥ iti śivena mamivāṃśaḥ iti kṛṣṇena ca nirdiśyate || 17 || p. 100) naivaṃ tasya kṛtenārthaḥ nākṛteneha kaścana | na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ || 18 || tasyātmaraterjñāninaḥ kṛtena karmaṇā arthaḥ prayojanaṃ kiñcidapi naivāsti | evamakṛtena | karmākaraṇenāpi vā kaścanārthasya hānyādiriha naivāsti | asya jñāninassarvabhūteṣu brahmādisthāvarānteṣu prāṇiṣu yaḥ kaścit arthavya- तस्मादसक्तस्सततं कार्यं कर्म समाचर | असक्तो ह्याचरन्कर्म प्रमाप्नोति पूरुषः || १९ || तस्मात्कारणात् फलनिरपेक्षकर्मानुष्ठानेन दोषाभावादसक्तः सङ्ग- evamasaktassan karmācaranpuruṣaḥ paraṃ paramātmānamevāpnoti prāpnoti | tādṛśakarmānuṣṭhānena sattvaśuddhyā śivajñānodayānmalapāśahānyā mokṣassidhyatītyarthaḥ || 19 || karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | lokasaṃgrahamevāpi saṃpaśyankartumarhasi || 20 ||
106 SK कर्मानुष्ठानावश्यकत्वे दृष्टान्तमप्याह | जनकादयो राजानोऽपि कर्मणैव स्ववर्णाश्रमधर्मत्वेन प्राप्तराज्यरक्षणादिनैव ससिद्धिं मोक्षमास्थिताः प्राप्ताः | यदि ते जनकादयः संपूर्णज्ञानिनोऽपि सन्तो लोकहितार्थमेव राज्यपरिपालनादिकं कृतवन्त इति मन्यसे तर्हि त्वमपि तथैव लोकसंग्रहमेवापि संपश्यन् लोकस्य स्वेच्छयोन्मार्गप्रवृत्तिवारणार्थं वा कर्मैव कर्तुमर्हसि || २० || यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः | स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते || २१ || लोकसंग्रहार्थमिति चेत्कोऽर्थ इत्यत्र विवरणं क्रियते | श्रेष्ठो मुख्यो प्. १०१) जनो यद्यदाचरति यद्यत्कर्म करोति इतरो जनस्सामान्यः प्राकृतो जनः तत्तदेव करोति | किञ्च सः श्रेष्ठो यत्प्रमाणं कुरुते लौकिकं वैदिकं वा प्रमाणी- kṛtatvāt tadeva mamāpi samīcīnaṃ syāt | ato mayāpi tadeva kartavyam iti matvā tathaiva kuryussarve | ataḥ saṃbhāvito bhavān karma na parityajedityarthaḥ || 21 || na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana | nānavāptamavāptavyaṃ varta eva ca karmani || 22 || prāguktamarthaṃ svānuṣṭhānena sthāpayatyatra | he pārtha me avāptasamasta- कर्म न विद्यते लेशतोऽपि नास्ति | यतो हि ममैतावता कालेनानवाप्तम- karmaṇi mama varṇāśramadharmasya paripālanakarmaṇi ahaṃ varta eva ca | sādhayitavyaphalābhāve'pi sarvadāhaṃ kāryanirata evāsmītyanena bhagavānevādarśabhūtaḥ karmayogītyartho dhvanyate || 22 || yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ | mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || 23 ||
107 SK हे पार्थ किमर्थमहं सर्वदा कर्तव्यकर्मव्यापृतोऽस्मीत्येतदाश्रावय | अतन्द्रितोऽनलसोऽहं जातु कदाचिदालस्यादिना कर्मणि न वर्तेय यदि कर्म न कुर्यां चेत् मनुष्यास्सर्वेऽपि सर्वशः सर्वप्रकारेणापि मम वर्त्मैव मदीयमार्गमेव अनुवर्तन्तेऽनुवर्तेरन् | सर्वेऽपि लोके न किञ्चिदपि कर्म कुर्युः परन्तु ते भूभारा एव भवेयुः यद्यहं कर्म न कुर्याम् || २३ || उत्सीदेयुरिमे लोकाः न कुर्यां कर्म चेदहम् | सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः || २४ || यदि लोके जनाः कर्म त्यजेयुस्तदा का हानिरित्यत्राह | अहं कर्म न कुर्यां चेदिमे लोकाः मामनुवर्तमानास्तेऽपि स्वस्वकर्तव्यं न कुर्युः | मम तु प्. १०२) अवाप्तसमस्तकामत्वात् न कापि हानिः स्यात् | तेषां त्वतादृशत्वात् सङ्करस्य वर्णाश्रनसाङ्कर्यस्य चाहमेव कर्ता स्याम् | अत एवेमाः प्रजा अहमेव हन्यां प्रजानामनुग्रहाय समागतोऽहमेव तान् हन्यामित्यर्थः || २४ || सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत | कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् || २५ || हे भारत अर्जुन अविद्वांसोऽज्ञानिनः कर्मणि सक्तास्सन्तो यथा तत्तत्फलाय कर्म कुर्वन्ति तथैव विद्वान् ज्ञानि सन्नपि लोकसङ्ग्रहं चिकीर्षुर्लोकानु- tathāpi jñānī karmaphale anāsaktassan kartavyabhāvanayā karma anutiṣṭhati | ajñānī tu phalāpekṣayā svābhimānena ca karmānutiṣṭhati | tayorekaḥ pāśamukto bhavatyaparaḥ pāśabaddho bhavati | ayameva viśeṣastayorāntaraṅgikaḥ || 25 || na buddhibhedaṃ janayedajñānāṃ karmasaṅginām | joṣayetsarvakarmāṇi vidvānyuktassamācaran || 26 ||
108 SK पूर्वोक्तमेवाशयं विवृणोत्यत्र | कर्मसङ्गिनां कर्मसु सङ्गवतामपरि-पक्वचित्तानामत एव अज्ञानां कर्मिणां बुद्धिमेदं बुद्धेः मेमेदमवश्यकर्तव्यम् इत्येतादृश्याः बुद्धेर्भेदं नाशं न जनयेत्-कुर्यात् | भवता कर्माकरणे तेऽपि कर्म अकुर्वन्तः पतिता भवेयुः | अतो विद्वान् सर्वकर्माणि अवश्यकर्तव्यानि सर्वाण्यपि कर्माणि युक्तः हृदये विराजमानेन प्राणलिङ्गरूपेणेश्वरेण संयुक्तः स्वयमपि ईश्वरप्रेरणा-नुरोधेन कर्म कुर्वन्नेव जोषयेत् तूष्णीं तिष्ठेत् | बहिः स्वस्य ज्ञानितां स्वेन कर्माकर्तव्यतां वा लेशतोऽप्यसूचयन् अज्ञानिनो यथा कर्म कुर्वन्ति तद्वदेव तेषु कर्मणि विश्वासोत्पादनार्थं ज्ञान्यपि सर्वं कर्म फलसङ्गकर्तृत्वादिरहितस्सन् कुर्यादेव || २६ || प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः | प्. १०३) अहङ्कारविमूढात्मा कर्ताहमिति मन्यते || २७ || अज्ञानां कर्मसु सङ्गस्य हेतुमाह-प्रकृतेः प्रकृतिः प्रधानमव्यक्तं सर्वजगन्मूलकारणं त्रिगुणात्मकं द्रव्यम् | अस्य गुणैस्सत्त्वरजस्तमोभिः सर्वशः सर्वप्रकारेणापि क्रियमाणानि कर्माणि | सत्त्वं समीचीनकार्य-हेतुः | रजो रागादिहेतुः | तमोऽज्ञानहेतुः | अत एतत्त्रिविधमपि कार्यं प्रकृत्यधीनमेव | एतादृशकर्माणि सर्वाण्यप्यहमेव करोमीत्यहङ्कारेण मोहितचित्तो जीवः अहं कर्ता इत्यात्मानं मन्यते | वस्तुतस्तु प्रकृतेरेव कर्तृत्वमित्यर्थः | अथ च अहङ्कारममकारादिमोह एव सर्वकर्मसु सङ्गहेतुरित्यर्थः || २७ || तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः | गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते || २८ ||
109 SK हे महाबाहो गुणकर्मविभागयोस्तत्त्ववित्तु गुणविभागस्य तन्मूलककर्म- svasvaviṣayabhūteṣu guṇeṣu vyāpṛtāssahajatayā vartante na mama tatra saṅgaleśo'pi iti matvā jānan na sajjate vyavahāreṣu sarveṣvapi na saktiṃ karoti | parantu saḥ sarvamapi karma kartavyaniṣṭhayā kāyakabhāvanayā ca nirvahati | atassa karmācaraṇakāle tataḥ pūrvamanataramapi sukhena śāntyā ca vartate | tādṛśaṃ karmayoginaṃ praśaṃsante śaraṇāḥ | yadi karma kāyakarūpeṇā-caryeta tadaiva tatkarturduḥkhaṃ notpadyeteti te samyak pratipādayanti | kṛṣistadā kāyakatāmupaiti yadā tu sadbhaktasamāśritā syāt | yadā guruṇāṃ carajaṅga- मदीयमस्तके || इत्येवं शिवात्मकस्य जगतो हिताय देहसहकारेण यद्यदाचर्यते तत्सर्वमपि कर्तारं न बध्नाति | एतादृश्या सद्भावनया युवयुवतिभिः स्वीयं कर्माचरणीयमिति भावः || २८ || प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु | प्. १०४) तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् || २९ || प्रकृतेरुक्तस्य त्रिगुणद्रव्यस्य गुणसम्मूढाः गुणैस्सत्त्वरजस्तमोभि- karmasu sajjante saktā bhavanti | akṛtsnavido'tattvavidastān pāmarān kṛtsnavittattvavinna vicālayet buddhibhedaṃ na janayet | aparipakvamanasāṃ hi karmāṇyavarjanīyānyeva | jñānī paripakvabuddhiryadi karma na kuryāt tadā te'pi taṃ dṛṣṭvā karma na kuryuḥ | ato jñānyapi lokasaṃgrahārthaṃ karma kuryādeva | tādṛśo jñānino mahattvaṃ stuvanti te śaraṇā ādarśarītyā | tadīyavākyaṃ paramaṃ pavitraṃ tathā ca tadvartanameva śuddham | tasmai ca yastattvamupādideśa sa eva divyo gururityavaimi | etādṛśaṃ bhaktagṛhaṃ ca kevalaṃ kailāsa eveti vicintya jaṅgamaḥ | liṅgārcanaṃ tatra samācareccet sa vandanīyo jagadekapāvanaḥ | viśvasya caitādṛśajaṅgamaṃ hi tasmai praṇāmaṃ vidadhāmi deva | iti | evaṃ praśaṃsārhaṃ sadbhaktajīvanaṃ yuvayuvatibhiryadi niruhyeta tadā te nityatṛptā nityasukhino nityasundarāśca bhaveyuḥ || 29 ||
110 SK मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा | निराशीर्निर्ममो भूत्वा युध्यस्य विगतज्वरः || ३० || तर्हि अज्ञानां कर्मिणां का गतिः ? कथं ते पाशान्मुच्येरन्नित्यत्राह- kṛṣṇaḥ evaṃ vadati | avaśyakartavyatvena prāptāni yuddhādīni sarvāṇi karmāṇi adhyātmacetasā vivekayutena manasā saṃnyasya samarpya rājaprītyai bhṛtyavat īśvaraprītyai kevalamidamahaṃ karomi na tvetatphaloddeśena ityevaṃrītyā phalasaṃbandhaṃ vihāya | evaṃ nirāśīḥ phalaprārthanārahitassan ata eva nirmamo mamedaṃ bhavatviti mamakārarahitaśca bhūtvā vigatajvaro gatasantāpassan yudhyasva yuddhaṃ kuru | evaṃ phalāpekṣāmantarā karmaṇi kṛte tena na kaścana anartha utpadyeta | tasyaiva jīvanaṃ sarveṣāmapyādaraṇīyaṃ bhavet | saḥ nirdiṣṭaphalādadhikaṃ lābhaṃ na p. 105) kadāpyapekṣate nānyaṃ yācate ca | tadīyaṃ pāvanaṃ jīvanamevamupavarṇyate basavāryeṇa śva eva yadyacca samāgamiṣyati tadeva cādyaiva samāpnutānmama | yadadya bhāvyaṃ tadupaitu sadyaḥ vibheti ko'smādathavāśru muñcet | jātasya tāvanmaraṇaṃ dhruvaṃ syātkarmānusāraṃ guruṇaiva kevalam | yadeva likhyeta lalāṭadeśe taccāpi dhātrā nahi mārṣṭumarham | iti | evaṃ nirdākṣiṇyaprakṛtir-naraḥ kasmai na svadeta? tasya tāvatsarvadā parameśvaracintanaṃ vihāya nānyā viṣayacintā varteta | yatra yatra ca dṛśaṃ prahiṇoti tatra tatra paripaśyati sa tvām | yacca yacca nayanābhimukhaṃ sat sarvameva bhavataḥ khalu rūpam | ityevaṃ jñāninassarvatra paramātmānameva paśyanti | cakora indorudayaṃ nirīkṣate bhānoḥ prakāśaṃ ca nirīkṣate'mbujam | dvirepha icchetkusumasya gandhaṃ mamāsti cintā gurusaṅgameśvare | ityevaṃ basavāryaḥ svadṛṣṭāntena sarveṣāmapi vyavahāriṇāmīśvaradṛṣṭimeva āvaśyakatayā nirdiśati | evaṃ ca kartavyadṛṣṭyā karmanirvāho'bhyāsena sādhanīyo vardhiṣṇubhiriti arjunavyājena sarvānapi sādhakān prabodhayati kṛṣṇaḥ || 60 ||
111 SK ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः | श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः || ३१ || उक्तार्थस्य प्राशस्त्यं विपरीतस्य च निन्दां कुर्वन्नाह - ये मानवाः मे मदीयमिदं उक्तं मतं निर्णयमनुतिष्ठन्ति अनुवर्तन्ते अनुष्ठाने अशक्तौ सत्यां श्रद्धावन्तो वा तिष्ठन्ति | तत्राप्यशक्तौ अनसूयन्तः अन्ततो मयि असूयां वा अकुर्वन्तस्तिष्ठन्ति तेऽपि क्रमशः कर्मभिः पुण्यपापैर्मुच्यन्ते मुक्ता भवेयुः | एवं मुक्तयेऽनेकान् मार्गान् बोधयति भगवान् कृष्णः || ६१ || ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् | सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः || ३२ || ये तु मानवाः एतन्मे मतमभ्यसूयन्तोऽसूयाविष्टा नानुतिष्ठन्ति तान्- p. 106) eva naṣṭān svayameva nāśaṅgatān viddhi jānīhi | evaṃ karmākurvanto vivekaśunyā ante nāśameva prāpnuyuḥ | atastvaṃ tathā mā bhūrityarjunāya yathārthaṃ tattvaṃ upadiśati bhagavān || 32 || evaṃ tarhi loke sarve'pi kutastava mataṃ nānutiṣṭhanti ? pratyuta alpapuruṣārtha-pravaṇā ātmanāśamevaṃ kutaḥ saṃpādayanti ? ityatrāha - sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi | prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati || 33 || jñānavānapi vivekī sannapi svasyāḥ prakṛtessvasvabhāvasya sadṛśameva ceṣṭate pravartate svabhāvo duratikrama iti nyāyāt | yato bhūtāni prāṇinaḥ prakṛtiṃ svasvabhāvaṃ yānti anuvartante | nigrahaḥ vivekādinā mato nirodhaḥ kiṃ kariṣyati ? kimeva kuryādityarthaḥ | vivekināmevetthaṃ gatiriti cedanyeṣāṃ viṣaye kiṃ vaktavyamityarthaḥ || 33 || indriyāṇīndriyasyārthe rāgadveṣau vyavasthitau | tayorna vaśamāgacchettau hyasya paripanthinau || 64 ||
112 SK मनोनिग्रहेऽसाध्ये सति किं कर्तव्यम् ? आत्मकल्याणं साधयितुं कथं प्रयतेत मानव इत्यत्राह | इन्द्रियस्येन्द्रियस्य चक्षुरादितत्तदिन्द्रियस्य अर्थे शब्दस्पर्शादिषु विषयेषु रागद्वेषौ पुरस्कारतिरस्कारौ व्यवस्थितौ अवश्यंभाविनौ | अतस्तयोरिन्द्रियार्थापेक्षामूलकरागद्वेषयोर्वशं नागच्छेत्तदधीनो न भूयान्मानवः | यतस्तौ हि रागद्वेषौ अस्य चेतनस्य परिपन्थिनौ प्रधानशत्रुस्थानीयौ स्तः | अतः रागं द्वेषं च प्रथमं त्यक्त्वा समाहितेन मनसा कर्तव्यनिरतो भवेत्यर्जुनव्याजेन सर्वान्प्रेरयति भगवान् || ३४ || श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् | स्वधर्मे निधनं श्रेयः परधर्मो भयावहः || ३५ || रागद्वेषवतां शास्त्रार्थोऽपि विपरीतो भासेतेत्याह | स्वानुष्ठिताद्रागद्वे- प्. १०७) षादिमूलकाविवेकेन सम्यगनुष्ठितादपि परधर्मात् परकीयधर्मात् विगुणो गुणहीनोऽपि स्वधर्म एव श्रेयानुत्तमः | यतस्स्वधर्मे स्थितस्य निधनं मरणमपि श्रेयस्करमेव | परधर्ममनुवर्तमानस्य जीवितादपि स्वधर्ममाचरतो मरणमपि श्रेयोवहमेव | यतः परधर्मः परकीय- svadharmatyāgaḥ paradharmācaraṇaṃ ca na kadāpi kartavyam | mānavo na kevalaṃ naśvaro deha eva kintvavināśī ātmeti pragevātmatattvamupavarṇitam | ata ātmabhūto mānavaḥ ātmadharmamavaśyamanutiṣṭhedeva | sa eva tasya svadharma ucyate | taṃ vyavasthitaṃ dharmyaṃ kramaṃ parityajya sa sarvadā dehadharmameva yadyanuvarteta tadā tasya mahatī hāniranivāryatayā saṃbhavedeva | dehadharmastasya paradharma iti bhāvyaḥ | tathāpi dehasya sahakāreṇaivātmaguṇavikāsastena sādhanīyaḥ | ayameva tasya svadharma ityanubhavino vadanti | śaktivikāso yadi mānavairnādhigamyeta tadā mahatī vipatparaṃparā saṃbhavedeva || 35 || atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ | anicchannapi vārṣṇeya balādiva niyojitaḥ || 36 ||
113 SK एवं तर्हि सर्वोऽपि जनो लोके कुतः पापं करोतीत्यर्जुनः पृच्छति | अथैवं चेत् हे वार्ष्णेय वृष्णिकुलप्रसूत कृष्ण केन प्रयुक्तः प्रेरितोऽयं पूरुषः स्वयमनिच्छन्नपि अयमधर्मो मया न कार्यः इति जानन्नेव बलात् बलात्कारेण नियोजितस्सन् पापं चरति करोतीति मानवानां पापाचरणस्य कारणं पृच्छत्यर्जुनः || ३६ || काम एषः क्रोध एषः रजोगुणसमुद्भवः | महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् || ३७ || अर्जुनप्रश्नस्योत्तरमुवाच भगवान् | रजोगुणसमुद्भवो रजोगुणाज्जात एषः कामो विषयाभिलाषः पापं कर्तुं मानवान् प्रेरयति | अयमेव पापाचरणे हेतुः | एवं तन्मूलकः क्रोधश्च पापाचरणे मानवं प्रेरयति | स कामो प्. १०८) महाशनः | महदंशनमाहारो भोग्यविषयो यस्य तादृशः | लोके हि भोग्यविषयाणामानन्त्यात् सदानुभवेऽपि तृप्तिर्न भवति | न जातु कामः कामानामुपभोगेन शाभ्यति | हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते | इति हि प्रसिद्धो न्यायः | अतः कामो महाशनः | अत एव महापाप्मा महापापानामपि प्रेरकः स इति प्रसिद्धः | कामाक्रान्तहृदयो हि सर्वमपि पापं कर्तुं सन्नद्धो भवति | तस्मादेनं काममिह संसारे वैरिणं शत्रुं सर्वनाशकं विद्धि जानीहि | कामक्रोधयोर्दुर्गतिं सम्यगुपपाद- raktadhārā-sarūpam | pāpātmā cetpuṣpabhāropahāraṃ kuryādetatkhaḍgadhārāvraṇaṃ syāt | tannośca kopaḥ pravihanti mānaṃ manaḥprakopaḥ pravihanti śemuṣīm | dahedgṛhastho gṛhameva dāvo nānyadgṛhaṃ sandahatīva deva | iti kāmakrodha-yorduṣprabhāvaṃ hṛdayaṃgamayā rītyā nivedayanti te || 37 || dhūmenāvriyate vahniryathādarśo malena ca | yatholbenāvṛto garbhastathā tenedamāvṛtam || 38 || dhūmena vahniragniryathā āvriyate vyāpyate ādarśo darpaṇo malenāśuddhyā yathā āvriyate | garbhaḥ ulbena garbhaveṣṭanajarāyuṇā yathā āvṛta āchāditaḥ tathaiva tena kāmena idaṃ viśvamāvṛtaṃ vyāptameva || 38 ||
114 SK आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा | कामरूपेण कौन्तेय दुष्पूरेणानलेन च || ३९ || ज्ञानिनो विवेकिनो नित्यवैरिणा सदा शत्रुभूतेन दुष्पूरेणानलेन च पूरयि- śāmyati | na jātu kāmaḥ kāmyavastūnāmupabhogena prasīdati kintu viśeṣata abhivardhata eva | tādṛśenaiva tena kāmāgninā mānavasya jñānaṃ yathārtha- मानवो धर्माधर्मादिकं न विचारयत्येव | अतः कामवशो यथा न भवेन्मानवस्तथा सत्सङ्ग एव प्. १०९) यथावसरं स्थातुं प्रयतेत | तस्माद्यस्य कामक्रोधमूलं मनः सत्संसर्गे यदि वर्तेत तदा सः सुव्यवस्थितस्स्यादित्यभिप्रायेण शरणा भवबीजनाशकं भैषज्यमेकं साधितवन्तः | तच्चैवं वर्णयन्ति ते महानुभावाः | शाखास्वटन्मर्कटतुल्यमेतन्मनो मदीयं चलतीति सत्यम् | संसक्तमेतद्विषयोपभोगे न केवलं तिष्ठति सत्समूहे | तथा प्रवेशं न ददाति मह्यं समाधियोगाय हृदन्तराले | संप्रार्थये त्वां गुरुसङ्गमेश दयस्व भृत्यं भवदंशभूतम् | मनो मदीयं भवतः पदांबुजे द्विरेफरूपेण निधेहि सर्वदा | चिद्रूपलिङ्गस्य चरात्मनस्ते संसर्गतो मे भवरोगनाशः | इति सतां संबधं विना न केनापि मार्गेण कामक्रोधबीजं मन इदं निरुद्ध्यत इत्यनुभविनश्शरणा वदन्ति | अतस्सत्सङ्गे स्थित्वा मानवो यदि स्वकर्तव्यनिरतो भवेत् तदा मनसि दुष्प्रवृत्तिरेव न संभवेत् | सुज्ञानिनस्सङ्गवशाद्धि जन्तुरज्ञाननाशेन शिवे प्रलीयते | तथैव शंभो गुरुमल्लिकार्जुन तवैव योगात्सुखमेति लोकः | इति भगवान् सिद्धरामशिवयोगी सत्सङ्गमेव मनोरोगस्यौषधरूपेण प्रयुङ्के | एवं जानन्मानवः काममूलस्य मनसो निग्रहाय यथाशक्ति प्रयतेत || ३९ || इन्द्रियाणि मनोबुद्धिरस्याधिष्ठानमुच्यते | एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् || ४० ||
115 SK कामः कथं ज्ञानमावृणोतीत्यत्र तत्क्रममाह | अस्य कामस्याधिष्ठान-माश्रय इन्द्रियाणि पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि च मनश्चेतः बुद्धिर्मनीषा एतानि कामस्याश्रयः | शब्दादिषु विषयेषु चापल्यात् ख्याति-लाभपूजादिव्यामोहात् बुद्धिदोषाच्चायं कामः प्रवर्तते | एषः काम एतैरुक्तैरिन्द्रियादिद्वारैर्ज्ञानं विवेकमावृत्य देहिनं चेतनं विमोहयति मोहपरवशं करोति || ४० || तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ | पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् || ४१ || अत एव हे भरतर्षभ अर्जुन त्वं तस्मात् यस्मादिन्द्रियादीनि पुरुष- प्. ११०) स्यात्मप्रभां नाशयन्ति तस्मात्कारणादादौ प्रथमं इन्द्रियाणि नियम्य वशिकृत्य व्यवस्थया सत्कार्येभ्य उपयुज्य ज्ञानविज्ञाननाशनं शास्त्र-जन्यं ज्ञानं विज्ञानं विशेषतस्तदनुभवरूपं ज्ञानं तयोरुभयोरपि विनाशकं एनं पाप्मानं पापहेतुं कामं जहि परित्यज | एवं सर्वानर्थमूलं कामं विषयसंग्रहणादाकृष्य सत्सङ्गे विनियोक्तुं यथामति प्रयतितव्यं मानवैः | हदिस्थेश्वरचिन्तया यः यथाशक्ति प्रयतेत स एव मनोनिग्रहाय प्रभवति | यः स्वाहङ्कारेण ईश्वरं विस्मृत्य स्वयमेव प्रयतेतः सः न कदापि मनो निगृह्णीत || ४१ || इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः | मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः || ४२ || देहे परमात्मावस्थितिमुपदिशति | इन्द्रियाणि श्रोत्रादीनि पराणि प्रकृष्टानि स्थूलदेहापेक्षया सूक्ष्मत्वात्प्रबलान्याहुः पण्डिताः | इन्द्रियेभ्यस्तु मनः परं ततोऽपि सूक्ष्मत्वात् | एवं सूक्ष्मत्वेन प्रसिद्धायाः बुद्धेरप्यपेक्षया परतः योऽस्ति स एव परशिवब्रह्मेत्यर्थः || ४२ || एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना | जहि शत्रुं महाबाहो कामरूपं दुरासदम् || ४३ ||
116 SK हे महाबाहो एवं बुद्धेरपि परमुत्कृष्टं वस्तु बुद्वा ज्ञात्वा आत्मना सुसंस्कृतेन मनसा आत्मानमसंस्कृतं चित्तं संस्तभ्य सम्यक् निरुध्य दुरासदं दुर्विज्ञेयं कामरूपं शत्रुं जहि नाशय | अनेन कर्मयोगेन कायकरूपस्य कर्मणः प्राशस्त्यं यथा सर्वेषां हृदये स्थिरीक्रियेत तथा स्मृत्युत्साहोत्पादनायात्र सभ्यगाविष्कृतो भगवता स्वीयावतारस्य सदाशयोऽव्याजप्रेम्णा || ४३ || चतुर्थाध्यायः एवमध्यायद्वयेनोक्तसङ्गेन कर्मानुष्ठानरूपं योगं वंशानुक्रमनिरूपणेन भगवान् स्वयमेव स्तौति | प्. १११) इमं विवस्वते योगं प्रोक्तवानहमव्ययम् | विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् || १ || इममव्ययमव्ययफलत्वात् शाश्वतं योगमहं पूर्वं विवस्वते आदित्याय सृष्ट्यादौ प्रोक्तवानुपदिष्टवान् | स च विवस्वान् मनवे स्ववंश्याय प्राह | सोऽपि स्ववंशोद्भवायेक्ष्वाकवे अब्रवीदुपदिदेश || १ || एवं परंपराप्राप्तमिमं राजर्षयो विदुः | स कालेनेह महता योगो नष्टः परन्तप || २ || हे परन्तप ! एवं क्रमेण परंपराप्राप्तमुपदेशपरंपरागतमिमं योगं राजर्षयो राजानश्च ते ऋषयश्च | राजानोऽपि सन्तः ये ऋषयोऽप्य- naṣṭo vicchinnasaṃpradāyo babhūva | kramaśo mānavasyāvivekāvasthayā prakṛterduṣpreraṇena ca karmayogo'yaṃ naṣṭo'bhūdityarthaḥ || 2 || sa evāyaṃ mayā te'dya yogaḥ proktaḥ purātanaḥ | bhakto'si me sakhā ceti rahasyaṃ hyetaduttamam || 3 || sa evāyaṃ purātanaḥ prācīno yogo mayā te tubhyaṃ adyedānīṃ me bhakto'si me sakhā cāsi iti hetoḥ prokta upadiṣṭaḥ | kastādṛśo'tiśayaḥ ? ityatrāha rahasyamiti | hi yasmādetāvaduttamaṃ śreṣṭhaṃ rahasyaṃ etādṛśo yogastubhyamupadiṣṭaḥ | atassarvebhyo'yaṃ nopadeṣṭumarhaḥ bhaktāya mitrāya tubhyamevopadiṣṭo vātsalyena | tvayā śraddhayā ayaṃ yogo jñeyo'nuṣṭheyaścetyarthaḥ || 3 || evaṃ bhagavatokte tatra vacanavirodhamāśaṃkyārjunaḥ pṛcchati -
117 SK अपरं भवतो जन्म परं जन्म विवस्वतः | कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति || ४ || भवतः कृष्णरूपस्य ते जन्मोत्पत्तिरपरमर्वाचीनम् | त्वं हि समीप एव काले वसुदेवगृहे जातः | विवस्वतस्सुर्यस्य तु जन्मोत्पत्तिः परमतिप्राचीनम् | प्. ११२) जगत्सृष्ट्यादावेव किल सूर्यस्योत्पत्तिः | अत इदानीमुत्पन्नस्त्वं आदौ सर्गारंभे सूर्यायेदं प्रोक्तवानित्येतत् कथमहं विजानीयाम् ? कथमिदं घटताम् ? तयोः परस्परं संघटनैव न विद्यते || ४ || एवं श्रीकृष्णं सामान्यमनुष्यं मत्वा पृष्टवन्तमर्जनं प्रति कृष्णस्स्वस्य वास्तविकं रूपमुपदेष्टुमारभते - बहूनि मे व्यतीतानि जन्मानि तव चार्जुन | तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप || ५ || अर्जुनप्रश्नमुत्तरयितुं पीठिकामारचयन्भगवानुवाच | हे अर्जुन बहूनि जन्मानि मे व्यतीतानि गतानि | तव च बहूनि जन्मानि व्यतीतानि गतानि | हे परन्तप अथापि तानि सर्वाण्यपि जन्मानि अहं वेद जाने | त्वं तु न वेत्थ न जानीषे | एवं चेदानीं वसुदेवपूत्रो योऽहं जातस्स एव पूर्वं जगत्सर्गा-रंभेऽपि स्थित्वा आदित्यायेमं योगमुपदिष्टवान् | यतोऽहं मदीयं सर्वं जन्म जानामि अत एवाहमेवेमं योगमादित्याय तदोपदिष्टवान् तुभ्यमधु- śrotārastu bahavoḥ jīvāḥ | ekasya bahūnāṃ ca svarūpaṃ kim ? saṃbandhaśca kaḥ ? ityayamevāṃśa adhunā jñātavyaḥ | etasyaiva vijñānena bhavataḥ sandeho nivāryate | ayameva mahāviṣayastattvaśāstre jijñāsārho vartate | etatparicayena bhavān yoganiṣṭho bhaviṣyati || 5 || evaṃ svasya sarvajñatve ukte bhagavāneva sarvajñaḥ akarmaparavaśaśca sa tu kimardhaṃ bahūni janmāni svīkaroti ityāśaṅkāyāṃ stasyākarmavaśyatve'pi svecchayaiva janmāni svayaṃ svīkriyanta ityāha - ajo'pi sannavyayātmā bhūtānāmīśvaro'pi san | prakṛtiṃ svāmadhiṣṭhāya saṃbhavābhyātmamāyayā || 6 || ajo'pi san svayamutpattirahito'pi tathā avyayātmāpi vyayaḥ p. 113)
118 SK ज्ञानशक्त्यादीनां क्षयः तद्रहितोऽक्षीणज्ञानक्रियेच्छाशक्तिकस्सन् भूतानां ब्रह्मादिस्तंबपर्यन्तानां सकलप्राणिजातानामीश्वरोऽपि सन् नियामकस्सन्नपि स्वां प्रकृतिमधिष्ठाय स्वीयां स्वाधीनां त्रिगुणात्मिकां प्रकृतिं स्ववशां कृत्वा न त्वितरजनवत् प्रकृत्याः परवशो भूत्वा मदीय्या विचित्रया मायाशक्त्या संभवामि उत्पत्स्ये | अत्र मायया इति कथनमात्रेण भगवदवताराणां मिथ्यात्वं केचित् भ्रमन्ति | सत्समनन्तरमेव जन्म कर्म च मे दिव्यम् इति स्वजन्मनः स्पष्टतया दिव्यत्व-कथनात् विचित्रशक्तिरेव मायाशब्दस्यार्थः न तु मिथ्यात्वम् मायाशब्दस्य मिथ्यार्थकत्वं न संभवतीति श्रीकरभाष्ये उक्तम् | मं शिवं परमं ब्रह्म अयतीति स्वभावतः | मायेति प्रोच्यते लोके ब्रह्मनिष्टा सनातनी | इति मायाशब्दनिर्वचनमपि शिवागमेषु प्रसिद्धं विराजते | अयमर्थः श्वेताश्वतरोपनिषद्वीरशैवभाष्ये सम्यग्विशदीकृतः | एवं च परमात्मा अजोऽपि सन् जायत इत्येतत्सर्वं विचित्रशक्तियोगादेव युज्यत इति स एवात्र मायाशब्दार्थो वेद्यः | सर्वोपेता च तद्दर्शनात् इति ब्रह्मसूत्रे पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी इति श्वेताश्वतरश्रुतौ च परमात्मनः शक्तिवैशिष्ट्यं स्वाभाविकमित्युपवर्ण्यते || ६ || यदा यदा हि धर्मस्य ग्लानिर्भवति भारत | अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् || ७ || मज्जन्मनः कालः क इत्यत्राह - हे भारत धर्मस्य स्वधर्मनिरतो भव इत्यादिषु उच्यमानस्य लोकव्यवस्थाहेतोर्वर्णाश्रमादिधर्मस्य ग्लानिः क्षीणतावस्था यदा यदा भवति सञ्जायते | न तु तत्र कालनियमो वर्तते इत्यर्थः | एवं धर्मस्य हानौ अधर्मस्य तद्विपरीतस्य च अभ्युत्थानं अभित उत्थानमुद्भवो यदा भवति तदा अहमात्मानं आत्ममायया स्वीयमायाशक्तियोगात् सृजामि लोके अवतरामीत्यर्थः || ७ || परित्राणाय साधूनां विनाशाय च दुष्कृताम् | धर्मसंस्थापनार्थाय संभवामि युगे युगे || ८ || प्. ११४)
119 SK किमर्थं परमात्मनोऽवतारः ? तस्योपदेशश्च कः ? इत्यस्योत्तरमाह | साधूनां धर्मपरायणानां निरपराधिनां भगवद्भक्तानाम-धर्मपीडितानां परित्राणाय रक्षणाय तथा तदङ्गतया साधुहिंस-कानां दुष्कृतानामधर्मनिष्ठानां विनाशाय च ध्वंसनाय च तन्मूलतया धर्मसंस्थापनार्थाय धर्मस्य जगदाधारभूतस्य मया सृष्टस्य वर्णाश्रमधर्मस्य संस्थापनाय पुनस्सम्यगसङ्कीर्णतया स्थिरीकरणाय | जातिसांकर्यस्य हि नरकहेतुत्वं सङ्करो नरकायैव इत्यादिषूक्तम् | अतस्तादृशसाङ्कर्यादिकं परिहृत्य यथावस्थिततया धर्मसंस्थापनाय युगे युगे प्रतियुगं यदा यदा धर्मग्लानिर्भवति तदा सर्वदा संभवाम्यवतरामि || ८ || जन्म कर्म च मे द्विव्यमेवं यो वेत्ति तत्त्वतः | त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन || ९ ||
120 SK मदीयं जन्म मिथ्येति वा सामान्यजनसदृशमिति वा अजानानो यः कश्चिदे- paramapuruṣārthaprāptiratra nirdiśyate | he arjuna me janma karma vā sarvamevamuktarītyā divyaṃ lokānugrahāya svayaṃ svīkṛtaṃ nityasundaraṃ rūpamiti tattvato vastusthityaiva yo vetti jānāti sa etaddehaṃ prākṛtaṃ rūpaṃ tyaktvā divyadehadhārī san punaridaṃ bhautikaṃ janma naiti na prāpnoti | dhruvaṃ janma mṛtasya ca ityayaṃ nyāyastasmin nānveti | yastu hṛdayasthaṃ mahādevaṃ jānāti tena saha yunakti ca tasya dehe sarvatra mahādeva eva dṛśyate | aṅgedriyāṇi ca liṅgendriyarūpatayā pariṇatāni bhavanti | tathā ca prakṛtimayo dehaḥ mahādevasaṃparkāt divyadeho bhavati | sāmānyajīvīva saḥ bāhyadṛṣṭyā prākṛtadehe sthito'pi parityaktavyāmoho nirāmayo divyajīvī saṃpadyate | idameva divyajīvanaṃ dehatyāga iti bhāvyate | etādṛgdivyajīvī atraiva nityasukhamanubhavan bhavapāśānmuktaḥ punarjanma na labhate | tarhi dehāvasāne saḥ kutra gacchatītyatrāha māmetīti | saḥ māṃ paramātmānaṃ janmamaraṇarahitamamūrtaśivaṃ prāpnoti | evaṃ yo na jānāti sa tu punaḥ punaḥ janmamṛtyuparavaśo p. 115) bhavatyeva | saṃsāracakrabhramaṇānmocanaṃ tu dehastheśvaraparicayādeva tatrāpi tatsevākaraṇāt sarvatra tadvijñānādeva ceti spaṣṭaṃ pratibhāti | etādṛśaṃ divyajñāninaṃ śaraṇāḥ ajātamityeva bhāvayanti sāmānyajīvīva hi dehadṛṣṭyā jāto'pi bhaktassa ajāta eva | ayaṃ hyajāto na hi yācate'nyaṃ na kāṃkṣate tanmanasā yatheṣṭam ityevaṃ sādhako jīvaḥ yogamahimnā ajātassan sarvatra śivameva paśyan śivasāyujyamatraiva divyadehe anubhavan dehaviyogā- निरन्तरतयानवच्छिन्नतया वसेदिति भगवानर्जुनद्वारा सर्वानुपदिशति || ९ || वीतरागभयक्रोधा मन्मया मामुपाश्रिताः | बहवो ज्ञानतपसा पूता मद्भावमागताः || १० ||
121 SK मदाश्रयेण मानवीप्रकृतिं दैवीप्रकृतिकतया परिणतां कृत्वा जीवित- ityāha- vītarāgabhayakrodhā vītā gatā rāgo bhayaṃ krodhaśca yeṣāṃ te tādṛśā jīvā manmayā maccintanayā madbhāvamāgatāḥ ata eva māmupāśritāḥ sevamānā bahavassādhakā bhaktā jñānatapasā jñānaṃ tattvajñānameva tapaḥ śarīrendriyavyavasthāpakaṃ sādhanaṃ tena pūtāḥ pariśuddhāḥ malakarmakṣayaṃ prāptā ityarthaḥ | madbhāvamīśvarabhāvaṃ paraśivaliṅgabhāvaṃ nāma liṅgasvarūpaṃ samadarśanaprakṛtiṃ āgatāḥ prāptāḥ | ato jīvabhāvasya brahmāṃśasya aṃśini akhaṇḍaliṅgarūpe paraśivabrahmaṇi samarasatayā vilayanaṃ nahi nūtanatayā ucyate | bahoḥ kālādārabhya aneke maharṣayaḥ śivayogivaryāḥ śrīreṇukādyācāryāḥ allamādiśaraṇāśca svāntarlīne mahāliṅge tanmayāssanto'nanyavātsalyena itarānsādhakānapi tathā bhavituṃ preritavanto dṛśyante | śrībasavāryaḥ svoddhārakramamevaṃ nirdiśati | bhaktyākhyabhūmerupari prarūḍhe gurau tu liṅge chadatāmupeyuṣi | tasyopariṣṭāddhiṣaṇākhyapuṣpe kriyā śalāṭutva- तस्मिंश्च निष्पत्तिफले तु वृन्तात् श्लथं पतत्येव तदुन्निनाय | वात्सल्यपूर्णो प्. ११६) गुरुसङ्गमार्यस्तदीयवात्सल्यफलोऽस्मि जातः | इत्येवं बसवार्यः गुरुसङ्गमार्यस्य कृपया स्वान्तर्लिङ्गस्वरूपं ज्ञात्वा तत्र विलीनस्तदा- sādhakānapi prerayati | na kevalaṃ sa eva api tvitare śaraṇāśca jīvane kṛtakṛtyatāṃ gatāssarvānapi janmasāphalyārthaṃ manaḥpūrvakamuttejayanti | ataḥ prāktanāt kālādapyaneke mahātmānaḥ svayaṃ vijñātaśivatattvā itareṣvapi śivameva paśyantaḥ svīyādarśenādhunāpi sādhakān adhyātma-sukhāya adyāpi uttejayanto virājante || 10 || nanu bahava iti kuta ucyate ? tarhi svīyāntargatamīśvaraṃ draṣṭumanubhavituṃ ca yogyatā sarveṣāṃ nāsti vā ? asti cetkutaste pakṣapātaḥ ? yena kecideva brahmatvaṃ prāptā iti śaṅkāyāṃ na mamāyaṃ doṣaḥ kintu teṣāmeva ityāha-
122 SK ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् | मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः || ११ || ये मनुष्याः यथा येन प्रकारेण यादृशफलोद्देशेन मां प्रपद्यन्ते समाश्रयन्ति तांस्तथैव तदनुगुणतयैव भजाम्यहं तदभीष्टं निर्वर्तयामि | तथा च ये अल्पफलोद्देशेन मामाश्रयन्ति तेषां तदेव फलं ददामि | ये तु मोक्षार्थमेव मामश्रयन्ति तेभ्यस्तु मोक्षमेव ददामि | अतो न मे कुत्रापि पक्षपातः | एवं सर्वत्र समदृष्टया व्यवहरन्तं मां सम इति श्रुतिर्वर्णयति | अतश्च हे पार्थ मनुष्याः सर्वप्रकारेणापि मम वर्त्म मदादिष्टं ज्ञानकर्मसमाविष्टं कर्मयोगमार्गमेव अनुवर्तन्ते अनुसरन्ति | को वा त्वदादिष्टो मार्ग इत्यत्रोत्तरं चातुर्वर्ण्यं मया सृष्टम् इत्यादिना अनुपदं वक्ष्यति | भक्ता वयमस्मत्प्रकृत्यनुरोधेन यद्यद- āmuṣmikaṃ vā phalaṃ yadyadapekṣyate tatsarvamapi parameśvarastadānīme- वचनमेवं परिशोभते | आरोह्यापि रथं य एष भषको भावं नवं ग्राहितः स्वं भावं न जहाति वीक्ष्य विषयं प्राग्जन्मसंपादितम् | तद्वन्मे मनसोऽन्यतः प्रसरणं दन्दह्यतां हे प्. ११७)
123 SK मृड त्वां संस्मर्तुमपीह नो वितरति ह्यज्ञं मनो मेऽन्तरम् | मत्स्वामिन् भवदीयपादयुगलं संस्मर्तुमाशाधि माम् | चेलान्तं हि वितत्य याचितु- mahātmā laukikaphalāsaktānsarvānapi bhagavantameva samadhigantuṃ tatpariṇāmena sukhībhavituṃ ca samyagupadiśati | tadīyaṃ vacanaṃ sarveṣāmapi hitāvahaṃ vartate | bhakto yadīpsetstriyamātmanā tadā śivājñayā tāṃ striyamudvahennanu | tasyaiva cittaṃ yadi mṛttikāyāṃ tadālayaṃ saṃracayen- इत्येवं ईश्वरकृपयैव भूकामिनीकाञ्चनरूपं फलमपि मानवैर्- bhagavatprasādalabhyatvānna kadāpi nindyameva | bhogo yogo vā sarvo'pi bhagavata eva labhyaḥ | atassarve'pi parameśvarameva yena kenāpi mārgeṇānu-sarantyeva | ye tu tadīyaṃ mārgaṃ nindanti te narakameva gaccheyuḥ | ato'rjuno bhagavaddarśitameva mārgamanusaran sukhī bhavedityāśayo'tra sūcyate || 11 || kāṃkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ | kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā || 12 || nanu sarve'pi mokṣārthameva tvāṃ kuto na samāśrayante ? laukikaphalaprāptā-vapi tasya kṣaṇikatvāt saṃsārapāśa eva niyataḥ syāt | kathamete janāḥ bhava-bandhamevābhilaṣeyurityatrāha- karmaṇāmaihikāmuṣmikakarmaṇāṃ siddhiṃ phalasiddhiṃ kāṃkṣanto'pekṣanto manuṣyā ihāsminloke devatā indrādidevān yajante pūjayanti | hi yasmāt mānuṣe loke karmajā siddhiḥ karmādhīnaihikā-muṣmikaphalaprāptiḥ kṣipraṃ śīghraṃ bhavati | evaṃ ca śīghraphalaprāptima-pekṣamāṇāḥ puruṣāḥ striyaśca tadanuguṇadevān tattaduddeśenaiva pūjayanti na tu mokṣārthaṃ māmāśrayante | yasya malakarmakṣayaḥ sannihitaḥ sa ema amṛtarūpaṃ mokṣamapekṣate labhate anubhavati ca | sarve'pi tathā na vartante'smin citravicitraprapañce | pṛthivīkāñcananitaṃbinī- p. 118) prāptyarthameva mūrkhāḥ prāṇānapi parityajanti | bhavapāśabaddhāste evama- फलप्रदानं मानवेच्छाधीनमिति निष्पक्षपातया दृष्ट्या वदति || १२ ||
124 SK चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः | तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् || १३ || मम वर्त्मानुवर्तन्ते इत्युक्तम् | को वा तव वर्त्मेत्यत्राह- चत्वारो वर्णाश्चा-तुर्वर्ण्यं स्वार्थिकः प्रत्ययः | मया परमात्मनैव गुणकर्मविभागशः गुणाः सत्त्वरजस्तमांसि कर्माणि तदनुगुणानि तम आदीनि अष्टादशा-ध्याये वक्ष्यन्ते | सत्त्वप्रधानस्य ब्राह्मणस्य ब्रह्मज्ञानोत्सुकिनः तप आदीनि कर्माणि | सत्त्वमिश्ररजःप्रधानस्य क्षत्रियस्य राज्यरक्षणादीनि कर्माणि | तमोमिश्ररजः प्रधानस्य वैश्यस्य वाणिज्यादीनि कर्माणि | रजोमिश्रतमःप्रधानस्य शूद्रस्य परिचर्यादीनि कर्माणि | एवंरीत्या गुणानां कर्मणां च विभागानुगुणतया चातुर्वर्ण्यं मयैव सृष्ट्यादौ लोकव्यवस्थानिर्वाहाय रचितम् | एषु वर्णविहितेषु कर्मसु नैकमपि तुच्छं निन्द्यं वा भवितुमर्हति | एकैकोऽपि वर्णीयः स्वीयं कर्म श्रद्धया भगवदाराधनभावनयैव यदि निर्वहेत्तदा सः तेनैव भगवत्प्रसादं लभते | एवं तत्तद्गुणकर्मानुगुणतयैव मया प्रागेव तादृशव्यवस्थायाः रचनात् तस्य कर्तारमपि मां अकर्तारं अत एवाव्ययं स्वतो निर्विकारं च विद्धि जानीहि | कर्तारमकर्तारं च इति यदुच्यते तदर्थवत्तरं विद्यते | अहमेव तस्य कर्तेत्ययमंशस्सत्य एव | तथाप्ययं मानवकल्याणायैव मया कृतः न हि ममानेन साधनीयं यत्किञ्चित्फलमस्ति | लोके सुखाय चतुर्विधमपि कर्म सर्वेषामप्यावश्यकम् | अत एव सर्वे स्वीयकर्मसु उच्चनीचभावनां विहाय परस्परप्रेम्णा सार्वजनिकहिताय सर्वं कर्म सहोदरदृष्ट्या निर्वहन्त्वित्यपेक्षया परमात्मा स्वकीयां निर्लिप्ततामभिव्यनक्ति | लोकव्यवस्थायै गुणकर्मविभागस्य कर्तापि स स्वस्याकर्तृत्वभावनया दोषविदूरत्वं स्थापयति | प्. ११९)
125 SK एतादृशो विभागो यदि न स्यात् सर्वत्र अव्यवस्थैवोत्पद्येत | एवं जगद्धि- sarvajīviṣu sthitvāpi tebho'nya evetyanubhavino vadanti | ata eva bhagavān nityasuṃdaro divyādarśo vartate sanātanakālādārabhya na kevalametaddivasa- लोकहितदृष्टया कुर्वन् मनसि वचने च स्वीयां कर्तृत्वभावनां परित्यजेदि-त्याशयं भगवान् स्वदृष्टान्तेन बोधयति | शरणगीता कर्तुर्जीवस्य हितदृष्टयाऽकर्तृत्वभावनाया आवश्यकतां सम्यक् प्रतिपादयति | मया कृतं कार्यमिदं त्विहेति संचिन्तयन्वै लभते शिवाग्रहम् | लिङ्गेऽर्पितं यन्न च वाच्यमेतद्वर्धिष्णुना लिङ्गपदाभिकांक्षिणा | यदर्पितं जङ्गम एव भक्त्या तदप्यवाच्यं शिवभक्तिकामिना | यदि ह्यकार्यं किल कार्यमेतदित्येव चित्ते न निवेश्यते चेत् | इष्टं प्रदद्यात्खलु सङ्गमेशः शिष्टाय चेष्टाय चरात्मकाय | इत्येवं कर्तृत्वभावनां परित्यज्य सर्वमपि परहितेच्छया कार्यमित्युदात्तमाशयमाविष्करोति महात्मा बसवार्यः | एवमेवेतरेऽपि शरणा शिवभक्तिमेव प्रधानीकृत्य शिवप्री-त्यर्थमेव सर्वानपि व्यवहारान् निर्वहन्तोऽद्यापि तमेवाशयं आधुनिकेष्वपि युवकेषु दृढीकुर्वन्ति | तथैव रेणुकाचार्या अपि भावार्पणस्थले सर्वेन्द्रियव्यवहारं शिवार्थ मेव निर्वोढुं साधकेभ्य आदिशंति | शिवार्पणबुद्ध्या व्यवहरन्तो जनाः नित्यसुखिनो भवेयुरिति सर्वे दार्शनिका अप्यभ्युपगच्छन्ति || १३ || न मां कर्माणि लिंपन्ति न मे कर्मफले स्पृहा | इति मां योऽभिजानाति कर्मभिर्न स बध्यते || १४ || एवं सर्वकर्तारमपि मां अकर्तृत्वेन तत्प्रयुक्तफलाभागित्वेन च यो जानाति सोऽपि क्रमशः कर्मबन्धाद्विनिर्मुक्तो भवतीत्यत्राह- तानि कर्माणि मां न लिंपन्ति न मे तत्कर्मसंपर्कोऽस्ति | एवं मे कर्मफले तादृशकर्मफले स्पृहा इच्छापि नास्ति | इति मां योऽभिजानाति सम्यक् विजानाति प्. १२०)
126 SK सः कर्मभिः पुण्यपापादिभिर्न संबध्यते | एवं यथार्थतया मां यो जानाति सः न केनापि कर्मणा बध्यते | ये तु एतद्विपरीततया सर्वस्यापि कर्मणः मामेव साक्षात् कर्तारं अत एव तत्फलभोगिनं अत एव पक्ष- tiṣṭheyurityuktaṃ bhavati | lokakalyāṇāya sarvaṃ kṛtavato'pi me tasmin karmaṇi na kadāpi kartṛtvaṃ vidyate | tathāpi yo māmeva sarvasyāpi kartāraṃ phala- चिदानन्दरूपं मां यो याथार्थ्येन जानाति स एव नित्यसुखी भवेदित्याशयः || १४ || एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः | कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् || १५ || एवं वर्णाश्रमव्यवस्थायाः मयैव कृतत्वात् मदंशभूतैर्मानवैस्त-द्धर्मपरिपालनमवश्यकर्तव्यमित्याह- एवं वर्णाश्रमधर्मरूपस्य कर्मणस्तत्वमेतादृशं ज्ञात्वा पूर्वैरपि मुमुक्षुभिः पूर्वतनैर्जनका-दिभिर्मुमुक्षुभिरपि कर्म स्वकर्तव्यत्वेन प्राप्तं कर्म कृतमाचरितम् | फलसङ्गकर्तृत्वत्यागपूर्वकं ह्यनुष्ठितं कर्म मोक्षफलप्रदं भवतीति प्रागेवासकृदुक्तम् | कर्मणैव हि संसिद्धिमास्थिता जनकादयः इत्यत्राप्ययमाशयः स्पष्तीकृतः | तस्मात्कारणात् त्वमपि पूर्वतरैरनादेः कालादेव कृतं पूर्वतरमनादिकालप्राप्तं कर्मैव कुरु न तु कर्म परित्यक्तुमर्हति भवान् यावत्पर्यन्तं देहे तिष्ठति | वर्णधर्माऽपरिपालनं महादोष इति परिगण्यते | तत्र यो जुगुप्सते स आत्मकल्याणं नहि साधयितुं प्रभवेत् | अतः सर्वथा भवदीयं कर्म कायकमिति ज्ञात्वा अवश्यं श्रद्धया आचरणीयमेव | नो चेत् महती हानिरुत्पद्येत विपत्परंपरा च समापतेत् || ननु यदि मया कर्म कर्तव्यं स्यात् तदा सर्वस्यापि कर्मणो नैकेनैव कर्तुं शक्यत्वात् कीदृशं कर्म कर्तव्यं कीदृशं न कर्तव्यं इत्यादिविवेचना दुर्ज्ञेयैव मादृशाम् | अतः कथं कर्म कुर्यां किं वा कुर्यां कदा वा कुर्यां इति चिन्तायां पराशक्तिरूपो भगवानेव विवेचयितुं पीठिकामारचयति - प्. १२१)
127 SK किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः | तत्ते कर्म प्रवक्ष्यामि यद्ज्ञात्वा मोक्ष्यसेऽशुभात् || १६ || कर्म कर्तव्यं चेत्तत् किं कीदृक्स्वरूपम् | एवमेव अकर्म अकर्तव्यं परित्याज्यं च कर्म किं कीदृशमित्यस्मिन् विषये कवयोऽपि मेधाविनोऽपि मोहिता मोहङ्गता एव | तत्ततस्मात्कारणात् ते तुभ्यमहमेव कर्मस्वरूप- vijñāya aśubhādetādṛśamohāt tanmūlakādbhavabandhāt tadrūpājjanana- ननु शास्त्रैरेव कर्तव्यं कर्म विहितम् अकर्तव्यं च निषिद्धं दृश्यत एव | अतस्तत्र ज्ञेयांशः शास्त्रावलोकनेनैव ज्ञातुं शक्य इति शङ्कायां कर्मादीनां स्वरूपं न तावत्सुलभतया ज्ञातुं शक्यत इति प्रतिपादयन् भगवान् तदेव विवेचनमसन्दिग्धतयोपदिशति - कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः | अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः || १७ || हि यस्मात् कर्मणोऽपि कर्मस्वरूपविषयेऽपि बोद्धव्यं ज्ञातव्यं रहस्यमस्ति | एवं विकर्मणो विरुद्धस्य कर्मणः स्वरूपेऽपि ज्ञातव्यं रहस्यमस्ति | एवमकर्मणः कर्मत्यागरूपे तूष्णींभावेऽपि बोद्धव्यं रहस्यं किंचिदस्ति | यतः कर्मणः कर्तव्याकर्तव्यकर्मणां गतिर्गहना अतिगंभीरा सूक्ष्मा च वर्तते | कर्तव्यं चेत्सर्वमपि कर्म कर्तव्यमेव भवेत् | सर्वस्यापि कर्मणः कर्तुमशक्यत्वात् तत्त्यज्यते चेत् सर्वमपि त्यक्त-व्यमेव भवेत् | अतोऽस्य कर्मणः सूक्ष्मं रहस्यं अतीव दुर्ज्ञेयम् | ततोऽहमेव तद्रहस्यं विविच्य वक्ष्य इत्यभिप्रायः || कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः | स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् || १८ || तदेव कर्मानुष्ठानरहस्यं प्रथमं संक्षेपेण प्रशंसार्थमुप- p. 122)
128 SK पुरुषः कर्मणि क्रियमाणे व्यापारे अकर्म कर्माभावं पश्येत् एवमेव यः बाह्ये अकर्मणि कर्माननुष्ठानेऽपि अन्तरङ्गे मानसिकतया अनुष्ठितं कर्म जानीयात् स एव मनुष्येषु बुद्धिमान् विवेकी संपद्यते | चक्षुरादिभिर्- matvā tūṣṇīṃ tiṣṭhan puruṣaḥ strīpuṃdehāntargato jīvaḥ svena na kiñcidapi karma kṛtamiti akarmaiva yadi paśyet tadā saḥ buddhimāniti parigaṇyate | ātmasānnidhyena indriyaissahajatayā karmaṇi anuṣṭhite'pi tatsvenaivānuṣṭhitamiti yaḥ manasāpi na smaret sa eka eva dhīmāniti bhāvyate | evaṃ saḥ yadi sarvamapi karma vastutaḥ parityajet tadā tadīyaṃ manaḥ parityaktasyaiva karmaṇāścintane nimagnaṃ sat sarvadā tatraiva vyāpṛtaṃ bhavet | karmānuṣṭhāne'pi kartṛtvābhimānaṃ yaḥ parityajati sa eva karmā'nuṣṭhāne'pi manasaḥ karmavyāpṛtimapi jānāti | tādṛgeva jīvaḥ prajñāśālīti kīrtyate | sa eva yuktaḥ hṛdaye prakāśamānena prāṇaliṅgena saṃyutassan śivayogīti ca parigaṇyate | sa eva kṛtsnakarmakṛttu samagrakarmanirvāhakaśca saṃpadyate | tena kasmiṃścit karmaṇi samagrakarmabhiryatphalaṃ prāpyate tasyaivādhunāpi prāptyā sa eva karmayogī bhavati || nanu karmaṇi kriyāmāṇe sati karmābhāvasya darśanaṃ viruddhameva | ata idaṃ sarvaṃ bhrāntimūlameva bhavet ityāśaṅkāyāṃ karmākarmaṇoḥ svarūpaṃ vailakṣaṇyaṃ ca samupadiśan paramātmā tayoḥ parasparaṃ virodho na ghaṭata evetyāha - yasya sarve samāraṃbhāḥ kāmasaṅkalpavarjitāḥ | jñānanirdagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ || 19 || yasya puruṣasya sarve samāraṃbhā vyāpārāḥ kāmasaṅkalpavarjitāḥ kāma icchā tena tatkāraṇabhūtaissaṅkalpaiśca varjitā bhavanti | phalasaṅkalpādikaṃ vinā kartavyabhāvanayaiva yaḥ karmāṇyanutiṣṭhati taṃ tādṛśaṃ śivajñānā- आहुर्भावयन्ति | तस्मिंश्च ज्ञानं कर्मण्यकर्मतादर्शनं पूर्वोक्तं तदेवाग्निस्तेन दग्धं शुभाशुभलक्षणं कर्म च समन्विते प्. १२३)
129 SK वर्तेते | एवं कर्म कुर्वन्त एव निर्लिप्ता असंस्पृष्टविकारा जीवा युक्ता इति पण्डितैर्भाव्यन्ते | एते कर्मयोगिनः इतरैः कर्मिभिर्विशिष्यन्ते | कर्मिणः पदेपदे व्यथामनुभवन्ति कर्मयोगिनस्तु कर्म कृत्वापि न निबध्यन्ते | कृत्वा कृत्वा व्याहता दौर्मनस्यात् दत्वा दत्वा व्याहतास्सत्यहानात् | कुर्युर्दद्युर्यद्धि सत्यस्य योगात्संयुज्येरन् सङ्गमेश त्वयैव | इति शरणाः कर्मयोगिनो वैशिष्ट्यं निरूपयन्ति | कर्मण्यकर्मताबुद्धिमान् पण्डितः देहेन्द्रियादिकं सर्वमपि भगवत्संबद्धं जानन् नित्यसुखी भवति | तस्य सद्भावनामेवं वर्णयति शरणगीता | यतस्तदीया तनुरित्यवैमि ततो ममान्या तनुरेव नास्ति | यस्मात्त्वदीयान्मनसो विभिन्नं मनस्तु नैवेति विनिश्चयो मे | यतस्त्वदीयं धनमेव सर्वं ततो विभिन्नं धनमेव नास्ति | ज्ञात्वा तदीयं त्रयमेतदेवं कथं नु विद्येत परो विचारः | इत्येवं शिवानुभविनः पण्डितस्य निरभिमानं जीवनं प्रशंसते शरणगीता | तादृगेव ज्ञानी शिवयोगी इत्यादिशब्दैर्लोकेर्व्यवह्रियते || त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः | कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः || २० ||
130 SK कर्मणि क्रियमाणे सति तत्र अकर्मत्वदर्शनं कथं नु शक्यमित्यत्राह | कर्मफलासङ्गं कर्मसु तत्फलेषु च आसङ्गमभिमानं त्यक्त्वा वर्जयित्वा अत एव नित्यतृप्तो विषयेष्वाकांक्षाऽभावात् सदा तुष्ट एव अत एव निराश्रयो यत्किञ्चिदुद्देशादिरूपाश्रयरहितो यः सः कर्मण्यवश्य-कर्तव्यतया प्राप्ते कर्मणि अभिप्रवृत्तोऽपि किञ्चिदपि कर्म नैव करोति | कर्तृत्वाभिमानरहितत्वान् तेन कर्म कृतमपि तत्परिणामे सुखदुःखादिरूपे तस्य मतिर्न प्रवर्तत एव | समदर्शनस्य तस्य कुत्राप्यपेक्षाऽभावात् सः कर्म कुर्वन्नपि न करोत्येवेति ज्ञानिनो विदन्ति | तस्य करणमकरणं चोभय-मपि तुल्यमेव | स्वार्थशून्यः कर्मणा न किञ्चिदपि फलमपेक्षते | तादृशस्य कर्मयोगिनो निष्ठामेवं वर्णयति शरणगीता | परस्य वित्तं नहि मे भवेदित्येषा हि निष्ठा शरणे निरीक्ष्यते | परस्य भार्या नहि मे भवेदित्येषा हि निष्ठा शरणे निरीक्ष्यते | परस्य हिंसा न चिकीर्ष्यते प्. १२४) मयेत्येषा हि निष्ठा शरणे निरीक्ष्यते | लिङ्गं त्वभिन्नं चरजङ्गमादि- niṣṭhā śaraṇe nirīkṣyate | vinaiva niṣṭhāṃ carato narāṃstu na viśvasetkūḍala- लोक-कल्याणाय व्यवहरतः पाण्डितस्य पावनं मुन्दरमार्जवोपेतं जीवनपु-पवण्यते तत्र | तादृश एव कर्मयोगिनि प्रागुक्तं कर्मण्यकर्मत्वदर्शनं दृश्येत नान्यत्र तच्च शक्येत || २० || निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः | शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्विषम् || २१ ||
131 SK तादृशे योगिनि कर्मणां व्याप्तिमाह - निराशीः कुत्राप्यपेक्षारहितः अत एव यतचित्तात्मा यतो नियमितः चित्तमन्तःकरणं आत्मा च येन तादृशः | अत एव त्यक्तसर्वपरिग्रहः विषयभोगादिसर्वपरिग्रहविवर्जितः शारीरं कर्म केवलं शरीरधारणमात्रोपयोगि कर्ममात्रं कुर्वन् किल्बिषं पापं नाप्नोति | तदतिरिक्तापेक्षायां तु पापमवर्जनीयमेव | तादृशः शिवयोगिनो वर्तनं बसवार्यजीवने सम्यगभिलक्ष्यते | तदीयमादर्शं वर्तनं स एव निर्दिशति | सुवर्णराशीषु च लेशमात्रं तन्तुं च वासस्स्वहमेकमेव | एतद्दिनार्थं परतो दिनार्थं यदि प्रतीक्षे शरणं तदा भवान् | तथा भवत्पारिषदाः प्रमाणं भवन्तु मह्यं गुरुसङ्गमार्य | इति | एवं शरीररक्षणाय यत्किञ्चित्कर्म कायकभावनया कुर्वन् योगी सत्यः शुद्धश्च वर्तत इति भगवत आशयः || २१ || यदृच्छालाभसन्तष्टो द्वन्द्वातीतो विमत्सरः | समः सिद्धावसिद्धौ च कृत्वापि न निबद्ध्यते || २२ || एवं शरीरयात्रार्थमेव कर्म कुर्वतः पापाभाव उक्तः | एवमेव स्वयं पूर्वतनकर्मोपात्तद्रव्यैरेव सन्तोष्टव्यम् | अन्यथा तस्यापि बन्धो निरन्तर एव स्यादित्याह - यदृच्छालाभसन्तुष्टः अप्रार्थितोपनतेनैव लाभेन सम्यक् तुष्टः पुनः पुनः उपर्युपरि आशारहितः द्वन्द्वातीतः सुखदुःखादि- p. 125) eva vimatsaraḥ kutrāpi mātsaryādirahitaḥ | ata eva siddhāvasiddhau ca kārya- न निबध्यते बन्धपरवशो न भवत्येव | तादृशो योगिनो वर्तनं स्वीय- yāvat tāvacca dākṣiṇyaparo na jātaḥ | lokādviruddhaḥ śaraṇo bibheti kuto'pi no saṅgamadeva eṣaḥ | tavaiva tejonicaye vilīnaḥ jagacca tejomayameva paśyati | evaṃ saḥ sarvadā nirbhayastṛptyā śāntyā ca vasan karma kṛtvāpi tatra nābhimanute || 22 || gatasaṅgasya muktasya jñānāvasthitacetasaḥ | yajñāyācarataḥ karma samagraṃ pravilīyate || 23 ||
132 SK एवं ज्ञानिना कृतं कर्म कुत्र गच्छतीत्यत्राह | गतसङ्गस्य सर्वतोऽपि निवृत्तासक्तस्य अत एव मुक्तस्य निवृत्तकर्मकृतबन्धस्य ज्ञानावस्थितचेतसः ज्ञाने एतावता प्रतिपादिते तत्त्वज्ञाने अवस्थितं व्यवस्थया तिष्ठच्चेतो मनो यस्य तादृशः शिवयोगिनः | उक्ततत्त्वज्ञाने दृढनिश्चयवत इत्यर्थः | एतेन च क्रियमाणं कर्म सर्वमपि केवलभगवत्प्रीत्यर्थं तदुद्देशेनैव प्रवर्तेत | अतो यज्ञाय केवलभगवत्पूजोद्देशेनैव कर्माचरतः कुर्वतो जीवस्य तत्कर्म समग्रं संपूर्णतया प्रविलीयते विनश्यत्येव | यतो ज्ञानिना कृतस्य कर्मणः भगवत्प्रीतिरेव फलं अतो बन्धं न जनयत्येव तदीयं कर्म | सः साधुषु पापिषु सर्वत्र समदृष्ट्या व्यवहरन् परमात्मप्रकाशमेव पश्यति | जगच्च सर्वं तस्य परशिवलीलाविनोदभूमि-स्संपद्यते | सः त्रिकरणैश्च जगत्प्रीणयन् सदा सन्तुष्टचित्तो विलसति | शरणगीता तदीयजीवनमेवं वर्णयति | मर्त्यो हि लोकः परमेश्वरस्य लीलाविनोदाय विनिर्मितं गृहम् | अत्रैव योग्या य इहाद्य दृष्टास्तेऽमुत्र योग्याः खलु सङ्गमार्य | ये त्वत्र नार्हास्त्वभवन्मनुष्यास्ते तत्र नार्हा भवितुं समर्थाः | इति | एवं योग्यवर्तनेन योगी न केवलमिहैव अपि तु परत्रापि संभावितो नित्यसुखी शिवप्रियश्च वर्तेतेत्यर्थः || २३ || प्. १२६) ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् | ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना || २४ ||
133 SK भगवत्पूजारूपेण कर्माचरणे तत्कर्म बन्धाय न भवतीत्युक्तं प्राक् | कथ्ं तत्संभवतीत्यत्राह | केवलकर्तव्यभावनयैव भगवत्पूजारूपमेव कर्म यः करोति तेन तादृशकर्मणो भगवते यदर्पणं क्रियते तदपि ब्रह्मैव भवति | एवं हविः पूजासाधनं द्रव्यमपि ब्रह्मरूपमेवेति भाव्यम् | तथा च ब्रह्मरूपाग्नावेव ब्रह्मणा तदंशभूतेन जीवेन स्वेन हुतं भवति | तस्मात् ज्ञानिनस्तु कर्ता कर्म करणं क्रिया इत्यादिकं सर्वमपि शिवरूपमेव संपद्यते | अतो ब्रह्मकर्मसमाधिना तदीयं कर्म परशिवानुभवसाधकमित्येतद्भावनावता तेन ज्ञानिना परशिव एव ज्ञातव्यो भवति | न तु तादृशं कर्म अस्य पुण्यपापादिफलप्रदं भवेदित्यर्थः | अयमेवाशयः श्रीरेणुकाचार्यैः प्रागेवाविष्कृतः | ते तु एवं वदन्ति | भोक्ता भोज्यं प्रेरयिता सर्वमेतच्चराचरम् | भावयन् शिवरूपेण शिवो भवति वस्तुतः | सर्वं कर्मार्चनं शंभोर्वचनं तस्य कीर्तनम् | इति भावयतो नित्यं कथं स्यात्कर्मबन्धनम् | इत्येतादृशी भावना श्रेयोवहास्यात् || २४ || दैवमेवापरे यज्ञं योगिनः पर्युपासते | ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति || २५ || एवं ज्ञानिना अनुष्ठेये कर्मणि शिवपूजारूपत्वमुक्त्वा तादृशक्रियायाः प्रभेदान् प्रतिपादयति | अपरे योगिनः पूर्वोक्ततत्वज्ञानिनः दैवमेव यज्ञं महादेवः परमशिवो येन पूज्यते तादृशं देवताराधनरूपं कर्मैव पर्युपासते कुर्वन्ति | अपरे केचन ज्ञानिनः यज्ञं तादृशमाराध- bāhyapūjāṃ pratyekatayā kurvanti | sarvendriyasukhānāṃ paraśivāgnau tadānīmeva bhaktyā samarpaṇameva jñānināmeteṣāṃ homakarma bhavati || 25 || śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati | śabdānīnviṣayānanye indriyāgniṣu juhvati || 26 || p. 127)
134 SK अन्ये अपरे तु ज्ञानिनः श्रोत्रादीनि पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि च संयमाग्निषु संयम इन्द्रियाणां विषयेभ्यो निवर्तनं तद्रूपेष्वग्निषु जुह्वति होमं कुर्वन्ति | तथा च इन्द्रियजये प्रयतन्त इत्यर्थः | अन्ये तु योगिनः शब्दादीन् पञ्च विषयान् एवमेव वचनादिकर्माणि च इन्द्रियाग्निषु तत्तदिन्द्रियरूपेष्वेवाग्निषु विराजमाने आचारलिङ्गगुरुलिङ्ग- viṣayabhogamanubhavatāmapi śāstroktaṃ saṃyamamanusṛtya vartanāt so'pi saṃyamo homa ityuktaḥ | ayamevāśayaḥ śrīreṇukācāryairagastyamaharṣaye prāgeva viśadīkṛtaḥ | ātmajyotiṣi cidrūpe prāṇavāyunibodhite | juhvat samasta- शिवपूजांगभावेन भावयन्मुक्तिमाप्नुयात् | इति विषयभोगं शिवपूजांगमिति भावयितुम् पूज्यपादाः सर्वानादिशन्ति || २६ || सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे | आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते || २७ || अपरे च योगिनः सर्वाणि समस्तान्यपि इन्द्रियकर्माणि इन्द्रियाणां चक्षुरादीनां दर्शनादीनि सर्वाणि कर्माण्यपि प्राणकर्माणि प्राणवायोरुच्छ्वासनिश्वासादिकर्माणि च ज्ञानदीपिते शिवज्ञानेन प्रज्वलिते प्रकाशिते आत्मसंयमयोगानौ आत्मनः स्वस्य यः संयमो विषयवैमुख्यरूपस्तादृशे शिवयोगरूपाग्नौ होमं कुर्वन्ति | इन्द्रियकर्माणि प्राणकर्माणि सर्वाण्यपि तत्रत्याय परमेश्वराय समर्पयन्तः तत्प्रसादरूपेण तान्युपयुञ्जन्तो वर्तन्ते केचनेत्यर्थः || २७ || द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे | स्वाध्यायज्ञानयज्ञाश्च यतयः संशितवृताः || २८ || अपरे योगिनो द्रव्ययज्ञाः द्रव्यं संपाद्य तस्य सत्पात्रेषु विनियोगरूप- p. 128) vartante | apare ca yatayaḥ prayatnaśīlāḥ saṃśitavratāstīkṣṇavratāśca bhūtvā svādhyāyajñānayajñāḥ svādhyāyaḥ svasvaśākhādhyayanam | jñānaṃ tadarthacintanam | etādṛśayajñaniṣṭhā bhavanti | sarveṣāṃ etatsarvaṃ devapūjārūpatvāt yajño bhavati || apāne juhvati prāṇaṃ prāṇe'pānaṃ tathāpare | prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ || 29 ||
135 SK अपरे प्राणं प्राणवायुव्यापारं पूरकाख्यं कर्म अपाने अपानवृत्तौ रेचकाख्ये कर्मणि लीनं कुर्वन्ति | तथापरे प्राणेऽपानं पूरके रेचकं पूरयन्ति | अपरे तु प्राणायामपरायणाः प्राणायामसाधनतत्पराः प्राणापानगती रुद्ध्वा पूरकं रेचकं उभयमपि निरुद्ध्य कुंभकं कृत्वा प्राणायाममेव आचरन्ते || २९ || अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति | सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः || ३० || अपरे तु नियताहाराः नियतः व्यवस्थापितः आहारो यैस्ते आहारनियमविशेष- sarve'pi yajñavidaḥ paramātmapūjārūpasya atroktasya sarvasyāpi yajñasya tatvavijñāninaḥ yajñakṣapitakalmaṣāḥ tādṛśayajñānuṣṭānena kṣapitaṃ nāśitaṃ kalmaṣaṃ pāpaṃ yeṣāṃ te tādṛśā bhavanti | ukteṣu yajñeṣu yasyakasyāpyanuṣṭhānenaiva pāpakṣayo bhavatyeva | eteṣāṃ sarveṣāmapi samanvayarūpasya śivayajñasya svarūpaṃ svasyācaraṇadvārā nirūpayatyallamaprabhurjaṅgamapuṅgavaḥ | taccaivamupavarṇyate śaraṇagītāyām | sa āha | svadehamevopavanaṃ vidhāya manaḥkhanitreṇa ca taṃ khanitvā | bhrāntiṃ samulāṃ parihāya citte saṃsāraloṣṭaṃ vinibhidya yuktyā || svāṃnte nikhanyāṃ paramātmabījaṃ vāpyāssahasrārasamāhvayāyāḥ | prāṇākhyayantrādudakaṃ suṣumnayā niṣicya samyak paripoṣitaṃ mayā | paṃcaiva gāvo nahi kuryuratra vināśamityeva vicintya bhaktyā | kṣamāsamatvākhyavṛttiṃ vidhāya tatrāvadhānena tadeva sasyam | guheśvara tvatkṛpayā vyavardhayaṃ yato hi sarvo bhavato vilāsaḥ | p. 129) iti | tasyābhyāsena dehe paraśivasya pūrṇavyāptiṃ samyaganubhavituṃ śaknoti sādhakaḥ | dehe vidyamānaṃ malapāśaṃ nivārayitumayaṃ śivayogaḥ śivaprabhāvikasanadvārā prabhavati | tasya ca śivayajñasyānuṣṭhātāraḥ malapāśavinirmuktā bhavanti || yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam | nāyaṃ loko'styayajñasya kuto'nyaḥ kurusattama || 31 ||
136 SK बहुविधयज्ञकर्तृणां कर्मक्षयः परशिवप्राप्तयेऽपि भवतीत्याह | पूर्वं देवान् भावयतानेन ते देवा भावयन्तु वः इति देवाराधनेनैव मनुष्यस्य श्रेयःप्राप्तिः प्रतिपादिता | ते त्वघं भुञ्जते पापाः ये पचन्त्यात्मकारणात् इति देवपूजादिकमकुर्वतो निन्दा च कृता | अतः यज्ञशिष्टामृतभुजः पूर्वोक्तदेवाराधनरूपो यो यज्ञः तत्र शिष्टं यदमृतं तत्प्रसादरूपं भुञ्जन्तो मानवाः सनातनमाद्यन्तरहितं सदा विद्यमानं परशिवब्रह्मैव यान्ति प्राप्नुवन्ति | सदा लिङ्गैक- maheśvaraḥ | ityevaṃ haragurucaraprasādabhogino jīvāḥ sarvatra śivaṃ paśyantaḥ svātmanyapi tamevānubhavanti | prasāde śāṃbhave siddhe paramānandakāraṇe | sarvaṃ śivamayaṃ viśvaṃ dṛśyate nātra saṃśayaḥ || iti śrīreṇukabhagavaccaraṇāḥ prasādamāhatmyaṃ prasādinaḥ śivadṛṣṭiṃ ca samyak nirūpayanti | ato vardhiṣṇubhissavairapi yajña ācaraṇīyaḥ | ayajñasya tādṛśaṃ māheśvarārādhanarūpaṃ yajñamakurvataḥ ayaṃ lokaḥ aihika- संभवेत् ? हे कुरुसत्तम अर्जुन शृणु तावत् || एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे | कर्मजान् विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे || ३२ || एवमुपक्रान्तानां यज्ञानां स्वरूपविचारमुपसंहरति | एवं पूर्वाक्तरीत्या बहुविधाः बहुप्रकारा अनेके यज्ञाः हरगुरुजङ्गमारा- prajāḥ sṛṣṭvā purovāca prajāpatiḥ | p. 130) anena prasaviṣyadhvameṣa vo'sttviṣṭakāmadhuk | iti pūrvamevoktam | tānuktān- कर्मयोगरूपा इति भावः | एवं भूतान् ज्ञात्वा एतादृशः कर्मयोगस्य परमात्मप्राप्तिसाधनत्वमप्यस्तीति ज्ञात्वा तदनुष्ठानेन विमोक्ष्यसे बन्धान्मुक्तो भविष्यसि | अतस्त्वया युद्धं श्रद्धया आचरणीयमेवेति भावः || ३३ || श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप | सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते || ३२ ||
137 SK एवं कर्मयोगमुपदिश्य तदपेक्षया ज्ञानयोगस्यैव श्रैष्ठ्यमुपपादयति | द्रव्यमयात् द्रव्यसाध्यात् यज्ञात् आराधनरूपात् उक्तकर्मयोगात् ज्ञानयज्ञः ज्ञानरूपो यज्ञः श्रेयानुत्तमः | हे परंतप अर्जुन अखिलं सर्वमपि कर्म निश्शेषतः ज्ञाने ज्ञानयोग एव परिसमाप्यते पर्यवस्यति | ज्ञानस्यैव साक्षान्मोक्षसाधनत्वेन उक्तकर्मयोगस्सर्वोऽपि तादृशज्ञानोत्पत्तिद्वारैव मोक्षसाधनं संपद्यत इति कर्मयोगापेक्षया ज्ञानयोग उत्तम इत्युक्तम् | अयमेव ज्ञानयोगी ज्ञानाचारस्थले एवं निर्दिश्यते श्रीरेणुकाचार्यैः निर्विकल्पे परे धाम्नि निष्कले शिवनामनि | ज्ञानेन योजयन्सर्वं ज्ञानाचारी प्रकीर्तितः | इति | तस्य प्राक्तनं सर्वमपि कर्म ज्ञानग्निना दग्धं सत् पुनर्न प्ररोहेत् | तथापि सः लोककल्याणाय स्वधर्ममाचरति | अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दया क्षमा | दानं पूजा जपो ध्यानमिति धर्मस्य संग्रहः || इति तदीयो धर्मः रेणुकाचार्यैर्व्यवस्थापितो वर्तते | एवमाचरन् ज्ञानयोगी सर्वैः विशिष्यते || तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया | उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः || ३४ || मोक्षसाधनभूतं ज्ञानं च किंरूपमिति प्रश्नस्योत्तरमाह | मोक्षसाधनभूतशिवज्ञानस्वरूपं प्रणिपातेन गुरुजङ्गमप्रणा- sevayā gurujaṅgamaśruśrūṣādinā viddhi gurossakāśājjānīhi | na tu tat rahasyatvāt spaṣṭatayā vaktuṃ śakyate | keṣāṃ sakāśe p. 131) tat praṣṭavyamiti śaṅkāyāmāha upadekṣyantīti | tattvadarśinaḥ ye yathāvasthitaṃ tattvaṃ paramātmasvarūpaṃ sākṣātkṛtavantastādṛśo jñāninaste tubhyaṃ tat jñānaṃ mokṣasādhanabhūtaṃ paraśivajñānamupadekṣyanti praṇipātādipūrvakapraśne kṛte tadrahasyamupadiśeyuriti bhāvaḥ | matsvāmin bhavadīyapādayugalaṃ saṃsmartumāśādhi mām | celāntaṃ hi vitatya yācitumupakrānto'smi deva tvayi | iti basavāryaḥ tattvajñānopadeśāya paramaguruṃ saṅgamāryamananyabhaktyā yācate || 34 ||
138 SK यद्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव | येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि || ३५ || तादृशतत्त्वज्ञानस्यैव प्रशंसा करोति | मोक्षसाधनभूतं यद्रहस्यं वर्तते तदेव ज्ञात्वा विज्ञाय पुनर्भूय एव मोहं कथमहमिमान् हन्याम् इत्यादिरूपं मोहं न यास्यसि न प्राप्स्यसि | तादृशतत्त्वज्ञाने जाते भवत एतादृशो मोह एव नोत्पद्येत | किञ्च हे पाण्डव अर्जुन येन तादृशेन ज्ञानेन भूतानि सर्वाण्यपि प्राणिजातान्यशेषेण कृत्स्नशः आत्मनि स्वस्मिन्नेव द्रक्ष्यसि साक्षात्करिष्यसि | अथोऽनन्तरं मय्यपि परमात्मनि तत्सर्वं साक्षात्करिष्यसि | यत्र यत्र च दृशं प्रहिणोति तत्र तत्र परिपश्यति स त्वाम् | यच्च यच्च नयनाभिमुखं सत् सर्वमेव भवतः खलु रूपम् | इति शरणगीता ज्ञानिनस्सर्वत्र शिवदर्शनं निरूपयति | शिवप्रसादे सति योगभाजः सर्वं शिवात्मकतया विभाति | इति श्रीरेणुकाचार्याः शिवयोगिनः सर्वशिवात्मकत्वमुपपादयन्ति || अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः | सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि || ३६ || तस्यैव प्रशंसात्र क्रियते | सर्वेभ्यः पापेभ्यो लोके विद्यमानेभ्यः सर्वेभ्योऽपि पापात्मभ्यः पापकृत्तमः महापापी असि चेदपि सन्नपि सर्वं वृजिनं संसारं ज्ञानप्लवेनैव उक्तगुरूपदेशलब्धज्ञानाख्येन साधनेनैव सन्तरिष्यसि संपूर्णतया अतिक्रम्य गच्छसि | तादृशमहापापि-नामपि शिवज्ञानेन सर्वपापनाशः संभवेदिति चेत् सद्भक्तानां विषये किं वक्तव्यम् | अपि वा यश्चण्डालः प्. १३२)
139 SK शिव इति वाचं प्रयुञ्जीत सोऽपि बन्धमुक्तो भवेदेवेति श्रुतिराह | गर्भस्थो वा जायमानो वा जातो वा ब्राह्मणोऽथवा | अन्त्यजो वापि मुच्येत प्रसादे सति शाङ्करे | इति श्रीरेणुकभगवत्पादाः अतिनीचजातीयानामपि शिवज्ञान- mahatodārabhāvena svāśayamāviṣkurvanti | grāmasya bāhyāntarabhedamātrādākāśabhedaḥ kimu satya eṣaḥ | jale'pyabhedaḥ paridṛṣṭa eva śaucasya caivācamanasya loke | ātmasvarūpāvagamastu yeṣāṃ teṣāṃ kule bhedavideva nāsti | ṣaḍdarśanajñānamuktilabhyaṃ phalaṃ dvitīyaṃ na ca dṛśyate hi || yenaiva dṛṣṭaṃ parameśarūpaṃ tasyaiva niṣṭhā na ca sadvitīyā | iti jagajjīvane bhedadṛṣṭimantaraṅge vihāya sarvaśivabhāvanayā jagadavalokayituṃ śaraṇāḥ sādhakānsarvān prerayanti | basavāryaḥ svadṛṣṭāṃtena janeṣu sadbhāvanāmutpādayati | deva tvamākarṇaya madvidhānaṃ viprādiśūdrāntasamastavarṇāḥ | śivaikaniṣṭhā yadi bhaktimantaḥ sarve samānā iti bhāvyate mayā | iti viśāladṛṣṭyā jagadavalokayansaḥ tāmeva divyadṛṣṭimitareṣvapi prerayati | evamātmarūpaśivajñānāya sarvairapi sāvadhānena cittena prayatitavyamityu-dārāśayaṃ bhagavānatrāviṣkaroti || 36 || yathaithāṃsi samiddho'gnirbhasmasātkurute'rjuna | jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā || 37 || he arjuna samiddhaḥ samyak pradīpitaḥ agnirvahniredhāṃsi bahūnyapi kāṣṭhani yathā yādṛśarītyā bhasmasātkurute bhasmīkaroti tathā tenaiva prakāreṇa jñānāgniḥ śivajñānarūpāgnirapi sarvakarmāṇi sarvāṇyapi pāpāni bhasmasātkurute saṃpūrṇatayā vināśayati | agninā kāṣṭhānāṃ nāśe yathā kāṣṭhabāhulye satyapi nāgniḥ kṣīṇo bhavati kintu vardhate tadvadeva jñānamapi saṃpūrṇatayā malapāśaṃ nāśayet na tu kṣīṇaṃ bhavedityāśayaḥ | jñānaprabhāvādvinihanyate'jñatā jyotirbalādeva tamo vihanyate | ṛtaprabhāvadanṛtaṃ vihanyate tathaiva lohaḥ paruṣaprabhāvāt | bhavo madīyo hata eva deva mahānubhāvaiḥ śaraṇaiśca saṅgāt | p. 133)
140 SK इति ज्ञानिनस्सङ्गाद्भवपाशनाशं शरणगीता हृदयङ्गमया रीत्या प्रतिपादयति || न हि ज्ञानेन सदृशं पवित्रमिह विद्यते | तत्स्वयं योगसंसिद्धः कालेनात्ममि विन्दति || ३८ || कथं तादृशप्रभावो ज्ञानस्य संभवेदित्यत्र समाधानमाह | ज्ञानेनोक्तशिवज्ञानेन सदृशं तुल्यमन्यत्पवित्रं वस्तु मलदोषनिवारकं इहास्मिन् जगति नहि विद्यते नास्त्येव | तच्च ज्ञानं योगसंसिद्धः पूर्वोक्तकर्मयोगानुष्ठानेन संपूर्णाधिकारवान् महता कालेन स्वस्मिन्नेव लभते | अतः चिराभ्याससाध्यमिदम् || श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः | ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति || ३९ || तादृशज्ञानं कथं प्राप्यत इत्यत्राह | श्रद्धावान् श्रद्धामयोऽयं पुरुषः यो यच्छ्रद्धः स एव सः इति न्यायेन तादृशज्ञानप्राप्तये श्रद्धालुरेव जीवात्मा प्रभवति न तु श्रद्धाहीनः | श्रद्धालुत्वेऽपि तदनुगुणप्रयत्नाद्यभावे शिवज्ञानं न लभ्येत इत्यतः तत्परः इत्याह | तत्परस्तादृशज्ञानैकसाधनप्रवणो जीवस्तल्लभत इत्यर्थः | तत्परत्वेऽपि विषयचपलश्चेत् जीवस्तन्न लभते इत्यतः संयतेन्द्रिय इत्युक्तम् | लौकिकविषयविमुखस्यैव तत्सिद्धिरिति भावः | एतादृशं ज्ञानं लब्ध्वा परां शान्तिं परिपूर्णशान्तिरूपं मोक्षमचिरेण शीघ्रमेव अधिगछति प्राप्नोति जितेन्द्रियः श्रद्धावान् साधकः || ३९ || अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति | नायं लोकोऽस्ति न परो न सुखं संशयात्मनः || ४० || स्वोक्तार्थे विश्वासहीनस्य संशयवतो वा दुर्गतिरेव संभवेदित्याह | अज्ञ उक्तमर्थमजानन् यो वर्तते जानन्नपि अश्रद्दधानः श्रद्धारहितो यो वर्तते अथवा उक्तार्थे संशयात्मा सन्देहस्वभावो यः एते सर्वेऽपि विनश्यन्ति | ते नह्यत्मकल्याणं साधयितुं प्रभवेयुः | तत्रापि अज्ञाऽश्रद्दधानापेक्षया संशयात्मनो महन्नष्टमित्याह नायं लोक इति | अज्ञाऽश्रद्दधानौ हि एतद्विचारं परित्यज्य लौकिके वा मार्गे संचरन्तौ लौकिकं वा सुखं अनुभवेताम् संशयात्मनः
141 SK प्. १३४) सन्देहप्रकृतिकस्य तु इतो भ्रष्टस्ततो भ्रष्टः इति न्यायेन अयं लोकः ऐहिक- na bhaviṣyati | āhatya na sukhaṃ kutrāpi saḥ sukhaṃ ta vindate | viśvāsarahitasya jīvasya durgatiṃ śaraṇagītā samyagāvedayati | viśvāsahīnāya gururna vidyate na jaṅgamo naiva tayoḥ prasādaḥ | na cāpi śāntiṃ labhate sa mānavaḥ | tathaiva liṅgaṃ na kadāpi vindate | viśvāsayuktaḥ punareva saṃśayaṃ yadā hi dhāvatyatha sūtakī bhavet | tadaiva devo vijahāti tādṛśaṃ devādviyuktastu vibhāvyate mṛtaḥ | na caiva tasyābhyudayādiyogaḥ na saṃśayātmā sukhamaśnute bhuvi | ityevaṃ śraddhārahitasya saṃśayātmanaśca jīvasya saṃbhavantī vipatparaṃparā atīva viṣamā bhayaṅkarā ceti sarvānubhavasiddhametat | adhyātmakṣetre niratiśayaṃ sukhamadhigato basavāryaḥ śraddhārahitān janānavalokya svāśayamevaṃ nivedayati na viśvasantyeva janāstu devaṃ tathāpi taṃ nityamupāhvayanti | kartuṃ ca viśvāsamapārayantastathāpi mohādvicaranti mandāḥ | viśvāsapūrvaṃ yadi vāhvayeta tadā kuto nottarayecca devaḥ | viśvāsahīno yadi devamāhvayetsadyaḥ patettatkṛtanigrahāṃkuśaḥ | iti | evaṃ viśvāsavāneva jīva ihāmutra ca yogyavartanena sadityabhikhyāṃ labdhvā śivapriyo bhavediti satyam || 40 || yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam | ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya || 41 || ataḥ kathaṃ vartitavyam | bandharahitaṃ yathā tathātra kathaṃ nivasenmānavo gauraveṇetyatrāha | he dhanañjaya arjuna yogasanyastakarmāṇaṃ yogenoktakarma-yogena śivapriyena saṃnyastāni śivārpitāni karmāṇi sarve indriyaviṣayāḥ yena saḥ tādṛśam | pūrvoktarītyā phalābhilāṣasvakartṛtvatyāgapūrvakaṃ asaṅginā aṅganāmnā śivadīkṣāsaṃskṛtena nirmalena jīvenānuṣṭhitāni karmāṇi śivārpitāni bhūtvā taṃ na badhnanti | tathaiva jñānasaṃcchinna-saṃśayaṃ jñānena tattvajñānena saṃcchinno vināśitassaṃśayo yena saḥ tādṛśamityarthaḥ | ata evātmavantama- p. 135)
142 SK प्रमत्तं सदा जागरूकतया व्यवहरन्तं कर्माणि वर्णविहितानि युद्धादि- karmaphalāpekṣābhāvāt tāni karmāṇi na saṃsārabandhamāpādayantī- नित्यसुखदायकं सत् कायकमिति पवित्रनाम्ना व्यवह्रियते | अनया दृष्ट्या यदि कर्तव्यमनुष्ठीयते तदैव जीवनं निरामयं भवेत् | वृत्तिस्तदा कायकतामुपैति यदा तु सद्भक्तसमाश्रिता स्यात् | यदा गुरुणां चरजङ्गमानां सेवार्थमेवोपनिबध्यते चेत् | देहं मनश्चैव निपीड्य धर्मादाहृत्य किञ्चित्तत एव सेवां समाचरेद्यः परमस्स भक्तस्तदीयपादोऽस्तु मदीयमस्तके || इति शरणगीतायां बसवार्यः सद्भक्तैरनुष्ठितां सर्वामपि वृत्तिं कायकनाम्ना व्यवहरति | एवं कायकमहत्त्वं यदि सर्वैरभ्युपगम्येत तदा विपदो न संभवन्त्येव | कायकनिरताः पुरुषाः स्त्रियश्च सदा सन्तुष्टचित्ता भवेयुः | सदा सन्तुष्टचित्तानां संपदस्तु पदे पदे | सदाऽसन्तुष्टचित्तानां विपदस्तु पदेपदे | इत्यनुभवितो वदन्ति | एवं सर्वरोगनिवारिका कायकदृष्टिस्सर्वैरपि वर्धिष्णुभिरभ्यसनीया | इदमेव भवरोगनाशकं परमौषधम् || तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनाऽत्मनः | छित्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत || ४२ || हे भारत तस्मात्कारणात् अज्ञानसंभूतं अविवेकाज्जातं हृत्स्थं तव हृदये विद्यमानमात्मनः स्वस्य तव एनं संशयं कथमिदं युद्धमहं कुर्याम् इत्यादिरूपं सन्देहं ज्ञानासिना ज्ञानं मदन्तरङ्गे नियामकतया वसन् परमेश्वर एव तदीयसेवकेन कारयति न ममात्र पापसंपर्कः इत्यादिकं तत्त्वज्ञानं तदेव असिः खड्गः | छेदनसाधनत्वात् ज्ञानं असिरित्युच्यते | छित्वा नाशयित्वा योगं शिवप्रिय- kāryanirataṃ ca kartumuddeśapūrvakaṃ kṛṣṇaḥ uttiṣṭheti padamatra prayuṅke || p. 136) pañcamādhyāyaḥ
143 SK एवं भगवता कर्मयोगस्वरूपे प्रतिपादितेऽपि श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परन्तप इत्येवं ततोऽपि ज्ञानयोगस्य प्राशस्त्याभिधानात् अथाप्यन्ते त्यक्त्वैनं संशयं योगमातिष्ठ इति युद्धं कुरु इति च कथनात् पुनस्संशयग्रस्तोऽर्जुन उवाच - संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि | यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् || १ || हे कृष्ण कर्मणां संन्यासं भगवदर्पणरूपं ज्ञानयोगमेकदा शंससि श्रेयान् द्रव्यमयाद्यज्ञादित्यादिना | पुनश्च योगं कर्मयोगमपि शंससि नायं लोकोऽस्त्ययज्ञस्य इत्यादिना एतयोर्मध्ये सुनिश्चितमेकं श्रेयस्साधनं यत् तत् मे मह्यं ब्रूहि निश्चित्य वद किं मयाधुना कर्तव्यमिति | एतादृशसंशयपरिहारेणैव निश्चयज्ञानमुदेति मयि || संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ | तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते || २ || एवं पृष्टो भगवानुवाच | संन्यासः कर्मणां त्यागः स्वकर्तृत्व- karmānuṣṭhānarūpayogaścāparaḥ ityubhāvapi niḥśreyasakarāveva niḥśreyasaṃ sādhayata eva ubhāvapi mokṣahetubhūtāveva | tu paraṃ tu tayormadhye karmasaṃnyāsāt bhagavate karmaphalasamarpaṇarūpāt jñānayogāt karmayoga eva śraddhayā kartavyadṛṣṭyā nirabhimānena karmānuṣṭhānarūpaḥ karmayoga eva sarvadā manonairmalyasaṃpādanadvārā santoṣaprakṛtikatvāviṣkaraṇādviśiṣyate śreṣṭha ityanubhavino vadanti || jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṃkṣati | nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate || 3 || karmayogasya śreṣṭhatve hetumāha | sa eva nityasaṃnyāsī yaḥ na dveṣṭi kutrāpi dveṣaṃ na karoti na kāṃkṣati na kiñcidapi laukikaṃ phalamicchati | p. 137)
144 SK एवमिच्छाद्वेषरहितः फलापेक्षादिकं विना कर्म कुर्वन् यः स एव नित्यसंन्यासीत्यर्थः | हे महाबाहो अर्जुन निर्द्वन्द्वः इच्छाद्वेषरहितं सुखदुःखयोः समत्वभावनश्च यः सः बन्धात् संसारपाशात् सुखं प्रमुच्यते मुक्तो भवति | तस्य तावत् सर्वत्र परमात्मैव दृश्यते | तेन क्रियमाणः सर्वोऽपि शिवपूजैव संपद्यते | तस्य वर्तनमेवं वर्णयति शरणगीता | मर्त्यो हि लोकः परमेश्वरस्य लीलाविनोदाय विनिर्मितं गृहम् | अत्रैव योग्या य इहाद्य दृष्टाः तेऽमुत्र योग्याः खलु सङ्गमार्य | ये त्वत्र नार्हास्त्वभवन्मनुष्यास्ते तत्र नार्हा भवितुं समर्था | मनुष्यलोकस्तु विभिन्न एव सुपर्वलोकादिति नैव सत्यम् | पुण्यं पापं यद्धि लोके प्रदृष्टं तत्तत्सर्वं चित्तसंकल्पजं हि | उक्तादन्यं नास्ति लोके हि पुण्यं पापं वेति प्रायशः सिद्धमेतत् | इति | एवं सद्वर्तनशीलः कर्मयोग्येव ज्ञानयोग्यपे- pravarteta || sāṃkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ | ekamāpyāsthitaḥ samyagubhayorvindate phalam || 4 || sāṃkhyayogau jñānayogakarmayogau ubhāvapi pṛthak parasparamatyanta- पण्डितास्तत्त्वानुभविनो यथार्थतत्त्ववेत्तारः | यतः एकमपि अनयोरन्य- labhate tadeva karmayogyapi labhate | evaṃ karmayoginā yatphalaṃ labhyate tadeva jñānayogyapi labhate | ubhayorapi mokṣasādhanatvāt ekatarānuṣṭhānenaiva mokṣo labhyate | evaṃ tayoḥ parasparasaṃbandhasattvāt ekasyāparatra samanva-yācca tayorbhedaṃ na kalpayanti paṇḍitāḥ | karmayoge īśvaraprītyarthameva karmācaraṇamāvaśyakam | tathaiva sarvavyāpako mahādeva eva svaśaktyaṃśa- प्. १३८) मानवकल्याणसाधनत्वात् पण्डितैस्समदृष्टिरेवाचर्यते || ४ || यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते | एकं सांख्यं च योगं च यः पश्यति स पश्यति || ५ ||
145 SK एकेनैव उभयोः फलं कथं संभवेदित्यत्राह- सांख्यैर्ज्ञान- prāpyate | ubhayoḥ phalabhūte mokṣe na hi bhedo'sti | śaktisaṅkocarūpā'ṇava- अनुभूयेत | अत्र न कोऽपि भेदोऽस्ति | एवमुभयोः फलैक्यात् एकेनैव उभयोः फलं प्राप्नोति साधक इत्यर्थः | एवमेकफलत्वात् तयोः सांख्यं ज्ञानयोगं योगं कर्मयोगं च एकं फलैकत्वादेकमेवेति यः पश्यति जानाति स एव पश्यति सम्यक् तत्त्वं विजानाति | उभयोः फलभेदं यो जानाति सः ज्ञान्येव भवितुं नार्हति | ऐक्यदृष्टिरेव ज्ञानी संपद्यते | भेददृष्टिस्तु कर्मी भूत्वा दुःखभाग्भवति || ५ || संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः | योगमुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति || ६ || एवं तयोरेकत्वे कर्मसंन्यासात् कर्मयोगो विशिष्यते इति कर्मयोगस्य श्रेष्टत्वं कथमुक्तमित्यत्राह | हे माहबाहो संत्यासस्तु वास्तविकतया कर्मणां संन्यासरूपो ज्ञानयोगस्तु अयोगतः कर्मयोगानुष्ठान- cittaśuddhau jātāyāmeva hi jñānayoge adhikāro labhyeta sādhakaiḥ | na tu karmaṇāṃ tyāgamātreṇa jñānayogaḥ sidhyet | karmāṇi paramātmanaiva kriyanta iti jñānādeva mānavo nahi nirmalo bhavet | tāni sarvāṇi praśāntena manasā kṛtvā tadgataphalāni paramātmane samarpaṇīyāni | ayameva karmayogaḥ | etasya saṃbandho jñānayoge'pi vartata eva | evaṃ yogayuktastu muniḥ parameśvare phalasamarpaṇārūpakarmayogena yukta eva karmayogī na cireṇa śīghrameva brahma paramātmānaṃ adhigacchati prāpnoti | ataḥ karmasaṇyāsāt karmayogo viśiṣyate || 6 || p. 139) yogayukto viśuddhātmā vijitātmā jitendriyaḥ | sarvabhūtātmabhūtātmā kurvannapi na lipyate || 7 ||
146 SK कर्मयोगनिष्ठस्य जीवस्य वैशिष्ट्यं प्रशंसयन्नाह | योगयुक्त उक्तकर्म-योगनिष्ठः तेन विशुद्धात्मा विशुद्धान्तःकरणः तेन विजितात्मा विजितान्तःकरणः जितेन्द्रियः जितबाह्येन्द्रियः सर्वभूतात्मा सर्वेषां ब्रह्मादिस्तंबपर्यन्तानां भूतानां आत्मभूतः आत्मा चेतनो यस्य सः सर्वत्र समदर्शीत्यर्थः | एतादृशो योगी कर्म कुर्वन्नपि न लिप्यते न कर्मफलसंस्पृष्टो भवति अपि तु परशिवब्रह्मैव संपद्यते | स सर्वदा परहितचिन्तक एव सन् नित्यसुखी संपद्यते | एतादृशस्य कर्मयोगिनो महत्त्वं शरणगीतायामेवं वर्ण्यते | मनो निपीड्याथ गृहं विनाश्य त्रिस्रोतस- kalaṅka eṣaḥ ? tataśca yo'nyasya mano na pīḍayan na nāśayatyeva gṛhaṃ kadāpi | sa eva dhanyo bhuvi pāvanaśca tavaiṣa yogaḥ kapilāryasiddha | iti | evaṃ karmayogī na kadāpyanyasya hiṃsāmutpādayati paraṃtu sarvadā sarvānapyātmaupamdṛṣṭyā prīṇayan sārvajanikaṃ hitameva sādhayati | ataḥ karmayogyeva jñānayogyapekṣayā viśiṣyate || 7 || naiva kiñcitkaromīti yukto manyeta tattvavit | paśyanśṛṇvan spṛśan jighran aśnan gacchan śvasan svapan || 8 || pralapanvisṛjan gṛhṇān unmiṣannimiṣannapi | indriyāṇīndriyārtheṣu vartanta iti dhārayan || 9 || brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ | lipyate na sa pāpena padmapatramivāṃbhasā || 10 || karma kṛtvāpi tasya lepanaṃ yathā na syāttatprakaramevātra vivṛṇoti | yuktaḥ samāhitacittastattvavit ātmayāthārthyavinnaro naiva kiñcitkaromīti p. 140)
147 SK अहं न किञ्चित्करोमि मम कुत्राप्यपेक्षाया अभावात् लोककल्याणाय यदा- eva paśyanvā śṛṇvanvā jighranvā aśnanvā gṛhṇanvā unmiṣannimiṣanvāpi etādṛgbahuvidhakāryāṇi kurvannapi indriyāṇi cakṣurādīni indriyārtheṣu rūpādiṣu tattadviṣayeṣu vartante vyāpṛtā bhavantīti dhārayan niścayaṃ kurvan sarvāṇi karmāṇi brahmaṇi dehe sarvatra vyāpṛte parameśvara eva ādhāya samarpya phale tatkarmaprayukte phale āsaktiṃ tyaktvā yaḥ karoti karmāṇi karoti saḥ padmapatraṃ kamalapatraṃ aṃbhaseva jalenaiva pāpena karmaphalarūpeṇa na saṃbadhyate | karmaphalasaṃbandhaṃ vihāya īśvaraprītyarthameva sakalakarmā- वर्तनं शरणगीतायामेवं वर्ण्यते | अयीति वाचा प्रवदेद्यदा नरः तदैव तत्रैव हि नाकलोकः | रेशब्दसंबोधयितुर्जनस्य तदैव तत्रैव हि कालसूत्रम् || इति | ईश्वराराधनभावनया सर्वाण्यपि कर्माणि श्रद्धया निर्वहतः कर्मयोगिनः फलार्पणबुद्धिः स्वयमेवोदेति | एवं सर्वप्रीणनात्पवित्रं जीवनं निरुह्यते कर्मयोगिना | अतः कर्मयोगी सद्भक्तः कर्मयोगीश्वरस्य परमात्मनः प्रियो भूत्वा माहेश्वर स्थितिं लभते || १० || कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि | योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये || ११ || एवं कर्मयोगिनि सार्वजनिकहितदृष्ट्या क्रियमाणानां कर्मणां अलेप- budhyā ca kevalaiḥ mamakāravarjitairindriyaiḥ cakṣurādibhirapi | kevalaśabda itaratrāpi saṃbadhyate | kevalena kāyena dagdhapaṭavatsthitena dehena kevalena nirliptena manasā kevalayā buddhyā sarvatrāhaṅkāramamakāravarjitayā nirvikārayā matyā | yoginaḥ karmayoginaḥ saṅgaṃ tyaktvā phalāpekṣāṃ vinaiva ātmaśuddhaye ātmanairmalyasaṃpādanāyaiva karma kurvanti | na tu daihikasukhaprāptīcchayā te karmavyāpṛtā bhavanti || 11 || p. 141) yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm | ayuktaḥ kāmakāreṇa phale sakto nibadhyate || 12 ||
148 SK एवं कर्मयोगाचरणे क्रमेण मोक्षः तदकरणे बन्धश्च नियत इत्याह- tasmādeva kāraṇāt naiṣṭhikīṃ sthirāṃ śāntiṃ mokṣaṃ āpnoti prāpnoti | ayuktastu tādṛśaṃ karmayogākhyarahasyamajānanpuruṣaḥ kāmakāreṇa svecchācāreṇa karma kurvan phale tattatkarmaphale sakta āsakto nibadhyate bandhaparavaśo bhavati | phalāsaktyā karma kurvan karmīti vyavahriyate | phalābhisandhiṃ vinā sarvāṇyapi karmāṇi śraddhayā īśvaraprītyartha- दुःखभाग्भवति कर्मयोगी तु नित्यतृप्तः सदा सुखी वर्तते | एवं सर्वे मानवाः कर्मयोगरहस्यं विदित्वा कर्मयोगिनो भवेयुरिति भागवानपेक्षते || १२ || सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी | नवद्वारे पुरे देही नैव कुर्वन्न कारयन् || १३ || यस्तु तत्त्वदर्शी कर्मयोगी स तु सर्वकर्माण्यपि मनसा संन्यस्य स्वाभि- mukhaṃ pāyupasthe iti navadvāraviśiṣṭe pure bhautikadehe vidyamāno dehī dehasvāmī vaśī jitendriyo jīvaḥ naiva kurvan svayaṃ yatkiñcitphaloddeśena kiñcidapi karma sākṣātsvayamakurvan naiva kārayan paraṃparayā anyadvārā vā tādṛśakarmāṇi akārayanneva sukhaṃ nissaṅgatvena sukhaduḥkhādidvandvapīḍārahitatvāt sukhena śāntyaiva āste vasati | tādṛśo jīvasya na kadāpi śāntibhaṅgassañjāyeta sukhahānirapi na saṃbhavet | ayameva nityasukhayoga ityanubhavino vadanti || 13 || na kartṛtvaṃ na karmāṇi lokasya sṛjāti prabhuḥ | na karmaphalasaṃyogaṃ svabhāvastu pravartate || 14 || naiva kurvanna kārayan ityetadeva vivṛṇoti | prabhuḥ etannavadvārapurasya rājabhūta ātmā lokasya jīvavargasya kartṛtvaṃ na sṛjati tairniruhyamānāni karmāṇi p. 142)
149 SK वा न सृजति तथैव कर्मफलसंयोगं कर्मजन्यफलप्राप्तिं वा न सृजति वस्तुतस्तु विशुद्धोऽयमात्मा सर्वव्यापको निर्मलः परमात्मा न कस्यापि करणं संपद्यते | एवं चेत् लोके प्रवर्तमानस्य सर्वस्यापि कार्यजातस्य किं कारणं भवेदित्याशङ्कायां स्वभावस्तु प्रवर्तते इत्यत्र समाधानमुच्यते | स्वभावो नाम प्रकृतिः परमात्मनिष्ठा शक्तिर्माययाभिधा | परमात्मनः सान्निध्येन सा सर्वमपि कार्यं साधयति | प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः | अहङ्कारविमूढात्मा कर्ताहमिति मन्यते इति पूर्वमेव आत्मनः कुत्रापि स्वतः कर्तृत्वं न वर्तत इत्युक्तम् | प्रकृतिगुणाः सत्त्वादयः भगवदिच्छानुरोधेन सर्वमपि कार्यं साधयन्तीति भावः | परमात्मा देहस्थोऽपि प्रकृतिकार्यस्य प्रेक्षको भूत्वा उदासीनतया वर्तते जीवात्मा तु प्रकृतिसंबद्धस्सन् स्वमेव सर्वस्यापि कर्तारं भावयति | अयमेव प्रकृतिसङ्गो यथार्थविवेचनशून्यतया जीवं बध्नाति | अविवेकमूलोऽयं बन्धः सर्वस्याप्यनर्थस्य मूलम् || १४ || नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः | अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः || १५ ||
150 SK विभुरयं परमात्मा कस्यचिदेकस्य स्वांशभूतस्यापि प्रकृतिसंबन्धात्-सहजतया भिन्नस्य कस्यापि जीवस्य | जीवानामानन्त्यात् कस्यापीति निर्दिश्यते | पापं तेनाभिमानेन कृतं नादत्ते न स्वीकरोति | सर्वत्रोदासीनतयैव साक्षि-रूपेण तिष्ठन् सः जीवेन सह सर्वेष्वपीन्द्रियेषु वर्तत एव | तथापि सः सहज-तया जीवकर्मणः फलं न किञ्चिदप्यादत्ते | तर्हि लोके दृश्यमानः सर्वोऽपि व्यवहारः किन्निबन्धन इत्यत्राह अज्ञानेनेति | ज्ञानं देहे परमेश्वरः स्वस्मिन्नन्तर्यामितया वर्तत इत्याकारकज्ञानं विवेकः अज्ञानेन प्रकृत्युत्-पादिताहङ्काराभिमानमूलकाऽविवेकेन आवृतमाच्छादितं वर्तते | देहोऽहंभावनैवात्राज्ञानम् | चिदानन्दस्वरूपो जीवः त्रिगुणात्मक-मात्मानं मनुते | अतः संसारचक्रभ्रमणनिरताः प्राणिन मुह्यन्ति अहं करोमि कारयामि भोक्ष्ये भोजयामि ददामि दापयामि इत्येवमादिरूपतया मोहपरवशा भवन्ति | मया कृतं कार्यमिदं त्विहेति प्. १४३) संचिन्तयन्वै लभते शिवाग्रहम् | लिङ्गेऽर्पितं यन्न च वाच्यमेतद्वर्धि- niveśyate cet | iṣṭaṃ pradadyātkhalu saṅgameśaḥ śiṣṭāya ceṣṭāya carātma- कर्मफलं भक्त्या समर्पयितुं च तान् हृदयङ्गमया रीत्या प्रेरयति | एवं विवेकिनः कर्तृत्वभावनां परित्यज्य परमात्मसङ्गं मनसि भावयित्वा तत्प्रीतये युक्त्या रीत्या व्यवहर्तुं निपुणा वर्तन्ते | तादृशां शिवानु- viditvā tathaivācarantaḥ sukhino bhaveyuriti bhagavānapekṣate || 15 || jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ | teṣāmādityavajjñānaṃ prakāśayati tatparam || 16 ||
151 SK येषां जन्तूनां जीवानां आत्मनः स्वस्य स्वान्तर्गतस्य परमेश्वरस्य च अज्ञानं देहात्मभावनामयः स्वरूपवैलक्षण्यसंबन्धाऽपरिचयः ज्ञानेन तयोर्वैलक्षण्यपरिचयपूर्वकानुभवेन नाशितः परिहृतो भवति तेषां तत् ज्ञानं परं तत्त्वं देहे विराजमानस्य परमात्मनः स्वरूपं आदित्यवत् सर्वप्राकशकसूर्यवत् सूर्यो लौकिकान् सर्वात् पदार्थान् प्रकाशयति तद्वत् प्रकाशयति परतत्त्वपरिचयं संपादयति | नायमात्मा प्रवचनेन लभ्यः न मेधया न बहुना श्रुतेन | यमेवैष वृणुते तेन लभ्यस्तस्यैष विवृणुते तनूं स्वाम् | इति कठोपनिषदि श्रूयते | यः कोऽपि पुरुषः हठादेवाविवेकेन आत्मज्ञानं लब्धुं न पारयति | यः निर्मलेन मनसा प्रशान्तया बुद्ध्या च निर्मले हृदये गुरुकृपया अन्वेषयति तस्यैव परमात्मा स्वस्वरूपमावेदयति | यः स्वं स्वनियामकं च जानाति स एव स्वानुभवेन मोदते | अनुभूतिं विना मूढः वृथा ब्रह्मणि मोदते इत्यभि-युक्तोक्त्या यः गुरुप्रसादलब्धज्ञानः स्वयमेव स्वहृदयं प्रविशति तस्यैव ईश्वरानुग्रहः सिद्ध्यति | स एव फलं विन्दते च | तदानीमेव प्. १४४) उक्तपरमार्थतत्त्वं सम्यग् ज्ञातं भवति साधकेन | नो चेत् स इहपरज्ञानविमूढः सर्वतो भ्रष्टो भवति | अतः साधकेन स्वावरणभूत-मलपाशरूपमज्ञानं प्रथमं परिहर्त्वयम् | तदर्थमेव तेन आत्म-साक्षात्कारवान् कश्चन गुरुरन्वेषणीयः | तदुपदेशं विना न कोऽपि जीवः देहे परतत्त्वं ज्ञातुं प्रभवेत् || १६ || तद्बुद्धयस्तदात्मानः तन्निष्ठस्तत्परायणाः | गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः || १७ ||
152 SK स्वपरज्ञानमेवात्र प्रशंसति | तद्बुद्धयः तस्मिन् उक्ततत्त्वद्वज्ञान एव विद्यमाना बुद्धिर्येषां ते तदात्मानः तस्मिन् तत्त्वज्ञान एव विद्यमानः आत्मा अन्तःकरणं येषां ते अत एव तन्निष्ठाः तस्मिन्नैव निष्ठा श्रद्धा येषां ते अत एव च तत्परायणास्तदेकप्रवणाः ते ज्ञाननिर्धूतकल्मषाः उक्ततत्त्वज्ञानेन नाशितसर्वपापाः एवं निर्मलाः | ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन इति शिवज्ञानस्य सर्वमलपाशरूपा- prāpnuvanti tādṛśo jñānino'traivāsmin prasādakāye nirmalamanobuddhiyukte hṛdaye ātmaprakāśamanubhavanti | tādṛśaprakṛtipuruṣavivekadarśināmeva punarjanmanivṛttiḥ sugamā bhavet | no cet dehamevātmānaṃ bhāvayitvā ye'haṅkāreṇa dehasaukhyameva jīvitadhyeyaṃ parikalpya loke vyavahareyuste punaḥ punaḥ jananamaraṇarūpasaṃsāracakre bhramantyeva | ato vivekaṃ labdhuṃ strībhiḥ puruṣaiśca śraddhayā prayatitavyabhityāśayaṃ spaṣṭayati bhagavān || 17 || vidyāvinayasaṃpanne brāhmaṇe gavi hastini | śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ || 18 || ātmajñānināṃ sthitiprakāramatra nivedayati | paṇḍitāḥ uktavivekavantaḥ strīpuṃdehāntargatā jīvāḥ vidyāvinayasaṃpanne vidyayā vinayena ca yukte śreṣṭhe brāhmaṇe brahmajñānini gavi paramapavitrāyāṃ dhenvāṃ hastini mahābale gaje vā śuni atyanyanīce prāṇini śvapāke māṃsāhāriṇi atyanta- प्. १४५)
153 SK वा समदर्शिनः समवर्तिनः समाह्वयस्य च परमात्मनो दर्शनवन्तो भवन्ति | जीवजीवभेदस्य प्रकृतिकृतत्वात् सहजत्वेऽपि परमात्मनस्तु सर्वत्र समदृष्टया अवस्थानान् तस्यैव दर्शनमधिगम्यते पण्डितैः | अतिनीचेष्व-त्युत्तुमेषु च प्राणिषु परमेश्वरोऽङ्गुष्ठपरिमित एव वर्तते | साधुषु पापिष्वपि सः समानदृष्ट्यैव निवसति | न मे द्वेष्योऽस्ति न प्रियः इति स एव वदति | एवं ये समभावेन स्थितं परमशिवमेव सर्वत्र पश्यन्ति त एव ज्ञानिन उच्यन्ते | तेषु आत्मौपम्यदृष्टिः सहजतया विलसति | एवं यो लोके व्यवहरति स निर्लिप्त एवास्ते | तस्य तावत् स्वदेहे परमात्मविलासस्तु एवमनु- cidacidātmakaṃ vastupañcakaṃ sarveṣvapi vartate | teṣu pañcasvapi paramātmaprakāśaḥ susaṃghaṭita eva vartate | tatsānnidhyādeva tāni sarvāṇi kāryavyāpṛtāni bhavanti | teṣu sadā nirliptatayā avyaktatayā ca virājamānaḥ paramātmā eka eva | sūtre maṇigaṇā iva tasminnekasminneva tāni pañca saṃghaṭitāni vartante | tathā vartamānasya paramātmano'nubhava evātra samadarśanamiti nirdiśyate kṛṣṇaparamātmanā | brāhmaṇapadena buddhiḥ gopadena cittaṃ hastipadena ahaṅkāraḥ śvapadena manaḥ śvapākapadena jīvaḥ ityetāni antaḥkaraṇacatuṣṭayaṃ jīvaścātra pañca nirdiśyante | teṣu sarveṣvapya-nusyūtatayā vartamānasya paramātmano darśanena jñāninaḥ saṃsārapāśān-mucyate | iyamevādhyātmadṛṣṭiryadi vyāvahārikairjanaiḥ saṃpādyeta tadā jīvanaṃ nirāmayaṃ sundaraṃ ca bhavediti kṛṣṇasyāśayaḥ | yaḥ svadehe evaṃ paramātmānaṃ paśyati sa itareṣvapi tameva paśyati | yaḥ svasmin paramātma-paricayaṃ na saṃpādayati sa na kutrāpi taṃ labheta | iha cedavedīvatha satyamasti na cedihāvedīnmahatī vinaṣṭiḥ iti cānyatra śrūyate | ata eva dehātmavivekena mānavairvyavahartavyamiti śrīkṛṣṇaparamātmanā yannirīkṣyate tatsādhveva bhātīti sarvaṃ samañjasam || 18 || ihaiva tairjitaḥ sargaḥ yeṣāṃ sāmye sthitaṃ manaḥ |
154 SK प्. १४६) निर्दोषं हि सम ब्रह्म तस्मात् ब्रह्मणि ते स्थिताः || १९ || येषां पण्डितानां मनः साम्ये उक्तरीत्या समत्वभावनायां स्थितं तैरिहैवास्मिन्नेव जन्मनि सर्गः संसारो जितो भवति | तेषां तु पुनर्जन्म न विद्यत एव | हि यस्मात् ब्रह्म आत्मतत्त्वं सर्वत्र विद्यमानं निर्दोषं स्वतः सर्वविधदोषरहितं अत एव समं समानं सर्वत्र | तस्मात् ते उक्तसमदर्शिनो ब्रह्मणि स्थिताः ब्रह्मनिष्ठा भवन्ति | ब्रह्मनिष्ठानां च पुनर्जन्म नास्तीति प्रसिद्धमेव || १९ || न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् | स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः || २० ||
155 SK तादृशब्रह्मनिष्ठस्य स्वरूपमाह | ब्रह्मवित् उक्तरीत्या परमात्मतत्त्ववित् परशिवस्वरूपानुभवी ब्रह्मनि परशिवब्रह्मनिष्ठ एव सन् स्थिरबुद्धिर- prahṛṣyet praharṣaṃ na kuryāt | evameva apriyamaniṣṭaṃ ca duḥkhādikaṃ prāpya nodvijet viṣādaṃ na kuryāt | tasya nindāstutī sukhaduḥkhe cetyādikaṃ dvandvajātaṃ samānārthakameva śobhate | śaraṇagītāyāṃ basavāryasya samadṛṣṭiḥ samyagupavarṇitā dṛśyate | saḥ svīyāṃ bhāvanāmevaṃ nivedayati | avaimi cākrośakameva bandhuṃ avaimi pīḍākarameva rakṣakam | avaimi mātāpitarau vinindakaṃ avaimi matpālitameva pālakam | maddūṣakaṃ caiva hi janmabandhuṃ avaimi matstāvakameva deva | suvarṇaśūlopari nikṣipantaṃ tadetadākarṇaya saṅgameśa || iti | evaṃ śatrumitrayoḥ stutinindayoḥ samadṛṣṭiryasmīndṛśyate sa eva brahmajñānītyanubhavino bhāvayanti | parantu basavāryaḥ gurau saṅgamārye śaraṇāgato bhūtvā tadanugṛhītaṃ svīyaṃ prāṇarūpamiṣṭaliṅgaṃ śraddhayā samarcayan samadhigataṃ svīyaṃ śāntaṃ jīvanamevamāvedayati | saṃhanyate cediha hanya eva vinindyate cediha nindya eva | prāgjanmakṛtyaṃ na vicintyameva tathaiva bhogo'dyatanastu haste | saṃprāpyate kūḍalasaṅgameśa phalaṃ bhavatpūjanataśca haste || iti | evaṃ bhagavadārādhanena mānave samabhāvanā sahajatayā sphurati | vismṛto'pi saḥ asmānna vismarati | asmabhyaṃ yaddātavyaṃ tatsarvamapi saḥ dadātyeva | p. 147)
156 SK तस्य परिचयोऽपि तदनुभविनां सन्तोषणादेवास्माभिरधिगम्यते | अयमा- kvacidbhavet | na mlānatā vismṛtervā liṅgasya paridṛśyate | phalaṃ nāsti phalaṃ nāsti jaṅgamārādhanam vinā | kintu jaṅgamasantuṣṭyā liṅgamārdraṃ tathā mṛdu | bhavetsaṅgamadeveśa iti niścitadhīraham | ityevaṃ liṅgaprāṇabhūtasya mahāprakāśarūpasya cetanasya saṃprīṇanaṃ vinā kevalaliṅgapūjā nahi saphalā bhavet | evameva sarve'pi sādhakāḥ samadṛṣṭyā bhagavādārādhana-samakāla eva bhagavadbhaktārādhane'pi niratā bhaveyuriti kṛṣṇaparamātmātro-padiśati | tādṛśa eva sādhakāḥ priyāpriyayoḥ samadṛṣṭimadhigacchantīti bhāvaḥ || 20 || bāhyasparśeṣvaśaktātmā vindatyātmani yatsukham | sa brahmayogayuktātmā sukhamakṣayyamaśnute || 21 || evameva bāhyeṣu sparśarūparasāgandhādiviṣayeṣu asaktātmā asakta āsakti- मिलन-रूपस्संबन्धः तत्र युक्त आसक्तस्तत्रैव मोदमानः आत्मा मनो यस्य सः तादृशस्सन् सः अक्षय्यं नाशरहितं शाश्वतं सुखं मोक्षमश्नुते प्राप्नोति | रूपरसादिबाह्यवस्तूनां नश्वरत्वात् तदधीनं सुखमपि नश्वरमेव | आत्मसुखं आत्मनस्तु नित्यत्वात् आनन्दमयत्वात् तदनुभव-जन्यं सुखमपि नित्यमेवेत्यर्थः | तच्च आत्मरूपो जीव एवानुभवितुं शक्नोति | न हि जडभूतो देहः आत्मसुखमनुभवेत् | जीवोऽपि चेतनात्मकस्य परमात्मनः अंशत्वात् परमात्मनो भिन्नोऽपि भेददृष्टिं परिहाय अभेदानन्दमनुभवितुं पारयति | न ह्यत्मासंबन्धो देहः आत्मनः आश्रयप्रदानेनापि आत्मसुखं अनुभवेत् | अत एव चेतनो जीवः स्वीयमूलवस्तुनः परिचयेन स्वीयाज्ञानरूपं मलावरणं परिहृत्य आनन्दमयो भवत्येवेति भगवान् उपदिशति || ये हि संस्पर्शजा भोगा दुःखयोनय एव ते | आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः || २२ || प्. १४८)
157 SK आत्मानन्दं विहाय बाह्यसुखे यो रमते सः नित्यसुखं न लभत एवेति निर्दिशति | हि यतः संस्पर्शजाः विषयेन्द्रियसंपर्कजन्या ये भोगा वैषयिकसुखानि ते दुःखयोनय एव दुःखस्यैवोत्पादकानि दुःखस्वरूपाणि दुःखमूलानि दुःखपर्यवसायीनि चेत्यर्थः | न तावत्मात्रं अपि च आद्यन्तवन्तस्ते भागास्सर्वेऽनित्या एव | तेषामुत्पत्तिर्यथा वर्तते तथैव तदवासानपि विद्यते | अवसन्नं दुःखं पुनरप्युत्पद्यते | एवं दुःखमिश्रं लौकिकं सुखं यद्वर्तते तत्र केवलमविवेक्येव रमते आसक्तो भवति न तु विवेकी देहात्मविवेकमधिगतवान् ज्ञानीत्यर्थः || २२ || शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् | कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः || २३ || एवमात्मसुखापेक्षी प्रागिन्द्रियजयाय प्रयतेत | नो चेन्महती विपत्तिः संभवेदित्याह | यः बुद्धिमान् इहैव जीवन्नेव शरीरे स्थित्वा व्यवहरन्नेव भोगमनुभवन्नेव शरीरविमोक्षणात्पाक् एतच्छरीरत्यागात्पूर्वमेव कामक्रोधोद्भवं वेगं कामो विषयाभिलाषः क्रोधस्तन्मूलञ्चित्त- tena svasya kṣobhaḥ kāpi hānirvā yathā na syāt tathā sthātuṃ śaknoti samartho bhavati | yaḥ kāmakrodhāveśaṃ sahate sa eva nityasukhī saṃpadyeta | sa eva muktaḥ yogī bhavitumarhati | sa eva naraḥ buddhimāṃśca bhavet | no cet tasya janmāntaraṃ saṃsāracakrabhramaṇaṃ ca avarjanīyaṃ bhavet | kāmakrodhasamāviṣṭaḥ na kevalamaihikaṃ kintu pāralaukikamapi sukhaṃ vindate | tena kṛtaṃ devārcanamapi vyarthameva bhavet | sadvartanaśīla eva yadi devamarcayet tadā tadarcanameva devena svīkriyeta | manasi krodhaṃ dveṣaṃ ca parikalpya yo devamarcayet tadā devasyāgraheṇa saḥ nityaduḥkhyeva bhavet | basavāryaḥ pāpina arcanamevaṃ dūṣayati | krodhāviṣṭaḥ snāpapayatyaṃbikeśaṃ tacca snānaṃ raktadhārāsarūpam | pāpātmā cetpuṣpabhāropahāraṃ kuryādetatkhaḍgadhārāvraṇaṃ syāt || iti | evaṃ saccāritryaṃ vinā yaḥ khyātilābhadṛṣṭyā pūjādi- p. 149)
158 SK कमाचरति सः इतो भ्रष्टस्ततो भ्रष्टश्च भवेदेव | तादृशान् डांभिक- jale'vagāhātkimu labhyate vaḥ | parastriyaṃ saṃparihāya dūre tathaiva vittaṃ parihāya cānyaṃ | jalāvagāhena ca sā viśuddhiḥ syādeva satyaṃ na hi tatpurastāt | iti ḍāṃbhikabhaktān dṛṣṭvā manasi vyathāmanubhavan basavāryo yattadānīmavadat tadadyāpi sarvān jāgarayati | pratidinaṃ devadarśanārthaṃ devālayaṃ gatvā devasya puraḥ sthitvā bāhye visṛṣṭayoḥ pādukayoḥ smaraṇaṃ anekairadhunāpi kriyamāṇaṃ dṛśyate | tādṛśo bhaktān śaraṇagītā evaṃ nirdiśya teṣu satsphūrtimutpādayati | liṅgābhiṣekārcanamagnamānavāḥ sarve ca śṛṇvantu madīyavākyam | bahirvisṛjya svapadorupānahau devālayaṃ prāpya namaskaroti | tadātmanaḥ pādukayornirantaraṃ dhyāne vaśo dhyāyati na prabhuṃ svam | tasmācca vittaṃ na nidhatta mānavā nidhīyate tarhi bhavo'nivāryaḥ || vittaṃ ca saṃpāditameva sarvaṃ saṅgāryabhakteṣu samarpaṇīyam | iti bhaktān sadvartanaśīlān kāmakrodhavidūrāṃśca kartuṃ basavāryaḥ vīryavattarayā vāṇyā svīyamāśayamāvedayati || 23 || yo'ntassukho'ntarārāmastathāntarjyotireva yaḥ | sa yogī brahmanirvāṇaṃ brahmabhūto'dhigacchati || 24 || yaḥ antassukhaḥ antarātmanyeva sukhaṃ na tu indriyeṣu yasya tādṛśaḥ saḥ | ata eva antarārāmaḥ ātmanyeva ārāmaḥ krīḍā vihāro yasya saḥ | tathā antareva jyotiḥ prakāśo yasya saḥ tādṛśo yogī ātmanyevāsakto viharaṃśca brahmabhūtaḥ paraśivabrahmasvarūpī san brahmanirvāṇaṃ kaivalyānandaṃ duḥkhamadhya evānubhavati | saṃsāra eva duḥkhamūlam | etādṛśe malapaṅke nimagnaḥ paśujīvaḥ paramātmāvalaṃbanenaivātmānamuddharet | paramātmana eva sārabhūtasya vastuna atrāvasthānādayaṃ saṃsāraḥ sārthakaḥ saṃpadyate | śaraṇagītā śivayogivaryasya basavāryasyātmaśodhanamārgamevaṃ nirdiśati | paṅke nimagnasya paśorhi dṛṣṭā pādasya ghātādgatiratra nānyā | naṣṭo'smi śaṃbho giriśāsmi naṣṭaḥ uddhṛtya māṃ p. 150)
159 SK त्वद्धृदये निधेहि | पशुस्त्वहं त्वं च पशोरधीशस्ततो दयस्वात्मनि वत्सल त्वम् | यावच्च मां हिंस्र इति प्रतीत्या संगृह्य संहन्युरमी मनुष्याः | तावत्प्रभो पश्य तथात्मनीनं यथा न निन्देयमहं भवन्तम् इति | एवं संसारसागरमग्नानामुद्धरणाय परमात्मैव प्रधानं साधनमिति भाव्यतेऽनुभविभिः | अत एव आनन्दमयं परमात्मानं ज्ञात्वा तेन सह समाविष्टा भवन्तु सर्वे मानवा इति भगवान् आत्मसुखं भवरोगौषध-रूपतया प्रयुङ्के || २५ || लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः | छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः || २५ || क्षीणकल्मषाः उक्ततत्त्वज्ञानेन नाशितसर्वपापाः छिन्नद्वैधा संछिन्नसंशयाः यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः जातिमतकुलगोत्रसूत्रादिकं विनैव सर्वेषामपि भूतानां हिते आसक्ताः कस्यापि प्राणिनो हिंसामकुर्वन्त इत्यर्थः | एतादृशाः ऋषयो ब्रह्मनिर्वाणं परमशिवाभिधं निर्वाणं अमूर्तस्थितिं लभन्ते इहास्मिन्नेव प्रसादकाये अनुभवन्ति | देहे स्थित्वा व्यवहरन्तोऽपीतरे मानवा अपि शिवज्ञानेन तथैव निर्लिप्ता भवेयुरित्याशायमाविष्करोति भगवान् || २५ || कामक्रोधवियुक्तानां यतीनां यतचेतसाम् | अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् || २६ || एतादृशानां मुक्तिरत्रैव सिध्यतीप्याह | कामक्रोधवियुक्तानां उक्तरीत्या इहैव जन्मनि कामात् क्रोधाच्च विमुक्तानां यतचेतसां संयतान्तःकर- brahmanirvāṇaṃ paraśivaikyarūpo mokṣaḥ abhito vartate sarvatra saṃbhavati na kevalaṃ maraṇānantaraṃ kintu adyāpyatraiva śivānandamanubhavanti te | evaṃ karmayogināṃ sarvatra sarvadā brahmanubhavassaṃbhavatītyāśayamāvedayati bhagavān || 26 || evaṃ yogināṃ prabhāvamuktvā anantarādhyāye yogaprakriyāṃ vistareṇopade- प्. १५१) स्पर्शान्कृत्वा बहिर्बाह्यान् चक्षुश्चैवान्तरे भ्रुवोः | प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ || २७ ||
160 SK यतेन्द्रियमनोबुद्धिः मुनिर्मोक्षपरायणः | विगतेछाभयक्रोधो यस्सदा मुक्त एव सः || २८ || बाह्यान् स्पर्शान् शब्दस्पर्शादिबाह्यविषयान् बहिः कृत्वा तेभ्यः अन्तरव- nāsā-bhyantaracāriṇau nāsāyāḥ abhyantarayordvārayoḥ saṃcarantau prāṇāpānau ca samau kṛtvā yatendriyamanobuddhiḥ yatāḥ indriyāṇi cakṣurādīni mano buddhiśca yasya saḥ | indriyāṇi vivekena suvyavasthitayā rītyā upayuñjan mokṣa eva saṃraktaḥ pāśavimocanena nirmalo bhūtvā śaktivikāsamadhigantu-mabhilaṣan | vigatecchābhayakrodhaḥ vigatāḥ icchā kāmaḥ bhayaṃ aniṣṭadarśanājjāyamānaṃ krodhaśca icchābhaṅgājjāyamānaḥ yasya saḥ sadā samacitta ityarthaḥ | etādṛśo yaḥ munissādhako yatiḥ saḥ sadā sarvasminnapi kāle iha paratra ca mukta eva | evamihaiva hṛdaye mahāprakāśarūpe mahādeve ekībhāvamupeto yogī maraṇabhayādvidūro deha eva nityānandamanu-bhavati | yathālābhasantuṣṭaḥ sa yogī sarvān śivabhāvanayā prīṇayan sarveṣāṃ hitameva kārayaṃśca duḥkhākare saṃsāre sthitvāpi sāravattarasyā-nandamayasyeśvarasya darśanāt kṛtakṛtyo bhavati | etādṛśī adhyātmabhāvanā yasya hṛdaye vilasati saḥ sarvadā samāhitacittassan loke vasannapi alokadharmā virājate yataḥ lokasvabhāvaṃ viditvā tadīyau anurāgavirāgau dvāvapi parihāya saḥ sāvadhānena manasā svīyaṃ kartavyaṃ nirvahan asaṃspṛṣṭalokavihāro mugdha iva nivasati | etādṛśāṃ yogināṃ pāvanamādarśabhūtaṃ jīvanaṃ śaraṇā abhinandanto'vyājapremṇā lokamavalokyaivamupadiśanti | gṛhaṃ viracyaiva girau mṛgāśraye kuto hi bibhyennu mṛgebhya eṣaḥ | samudratīre śaraṇaṃ viracya kuto nu bibhyetkhalu tattaraṃgāt | vasan vipaṇyāṃ khalu tadbhavādravāt kathaṃ vibhīyādiha jīvalokaḥ | loke janitvā stutinindayordvayaṃ prāpyāpi p. 152)
161 SK चित्ते कुरु मा क्रुधं बुध | समाहितस्त्वं भव नित्यमेव तदेतदाश्रावय मल्लिकार्जुन | इत्येवमध्यात्मसुखनिष्णाता अक्कमहादेवी लोके वसन्तो जनाः समाधानचित्ताः सन्त्विति हृत्पूवकमपेक्षमाणा तदर्थं स्वेष्टदेवे गुरु- saṅgārya-bhaktāḥ kulajāḥ prakīrtitāḥ ityevaṃ sadbhaktāneva sārvajanikahitacintanena yogyavartanena ca satkulaprasūtān bhāvayati bhaktāvataṃsaḥ śrībasavāryaḥ || bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram | suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati || 29 || evaṃ loke sarvasahiṣṇutayā samādhānacittena ca jīvituṃ duḥkhamadhye sukha- मित्रैः शत्रुभिश्चानुमोद्येत तथात्र वसितुं यदि मानवो जानाति तदैव तस्य जननं सार्थकं संपद्येत | तथा भूत्वा मानवः स्वान्तरङ्गे विराज- samastānāṃ samasyānāṃ parihārāya svāntaraṅgastheśvarabhaktireva divyasañjīvinī bhavitumarhati | parameśvaro yadyapi hṛdaye prakāśarūpatayā gopyameva nivasati | tathāpi mānavaḥ svīyaṃ bhogaṃ tenaivārpitamiti jñātvā yadi tasmai bhaktyā samarpayati tadā taṃ santoṣeṇa svīkṛtya bhuṅkte | ataḥ sa eva pūrvoktānāṃ sarveṣāmapi yajñānāṃ tapasāṃ ca bhoktā svīkartā bhavati | yadyadbhaktyā samarpyate tatsarvaṃ saḥ bhuktvā dātre bhaktāya śeṣaṃ prasādarūpeṇānugṛhṇāti | etatprasādabhogena mānavasya sarvaduḥkhahāniḥ sañjāyate | prasādabhoga eva sarvaroganivārakaṃ bhaiṣajyamityanubhavino vadanti | evaṃ ca sarvahṛdayeṣu udāsīnavadāsīnaḥ parameśvaraḥ bhaktyā dattaṃ patrapuṣpādikaṃ svīkṛtya tato'pyadhikaṃ aihikamāmuṣmikaṃ vā sukhaṃ dadāti | ataḥ sa eva sarveṣāṃ pūjyatama ityanubhavino'bhiprayanti | ata eva saḥ sarvalokamaheśvaraḥ sarveṣvapi lokeṣu vidyamānānāṃ īśvarāṇāmapi īśvaro niyāmaka iti parigaṇitaḥ | lokavyavasthāpakānāṃ trimūrtināmapi paramakāraṇamiti śrutirnirdiśati | p. 153)
162 SK न केवलं सः सर्वफलभोक्ता सर्वनियामकश्चैव अपि तु सर्वप्राणिनां स एव सुहृदित्यनुभविनो भावयन्ति | एवं सर्वलोकहितरक्षकत्वादेव परमात्मा शिव इति श्रूयते | सर्वेषां प्रकाशकत्वादाश्रयत्वाच्च स एव देव इत्याहूयते | स एव देवः सर्वेषां सर्वदा बन्धुरित्यत्र न कस्यापि विरोधोऽस्ति | सर्वाभ्युपगतोऽयं विषयः | अयमाशयो बसवार्येण सम्यग-भिधीयते | चन्द्रोदयादुच्चयमेति बार्धिस्तस्यास्तकाले परिहीयते सः | मुनिर्यदापः पिबति स्म वार्धेः किमागतोऽब्धेः सहकर्तुमिन्दुः | यदा तु राहुर्ग्रसते हि चन्द्रं तदा समुद्रः किमु याति मध्ये | न कोऽपि देव प्रददाति रक्षां त्वमेव दाता जगदेकबन्धुः || इति | एवं सर्वस्यापि लोकस्य परमात्मैक एव बन्धुरिति सर्वे अनुभविन आहुः | एवं सदा हितकरं मां न केवलं मानुषं किन्तु परमात्मनि समरसतया विलीनं साक्षात्परमात्मानमित्येव यो जानाति सः तादृशेन ज्ञानेन प्रेरितः सद्भक्तिरूपां क्रियामाचरन् तत्परिणामेन इहैव शान्तिं नित्यसुखस्वरूपं मोक्षं ऋच्छति प्राप्नोति | एवं सर्वस्यापि मूलं भगवदनुग्रह एवेति सिद्धम् | सोऽपि भगवान् सर्वत्र व्याप्तोऽपि सर्वजीवदयापरतया हृदये निवसतीनि विश्वस्य तत्सेवां यः आचारते सोऽत्रैव परमसौख्यमनुभवन् देहानन्तरमपि तदेव नित्यमनुभवति | अत्र परमात्मनो यज्ञभोक्तृत्वेन निर्देशोऽन्वर्थतया शोभते | निर्मलेन जीवेनानुष्ठितो गुरुजङ्गमाराधनरूपो यज्ञः हृदयस्थिताय परमेश्वराय यदि भक्त्या समर्प्यते तदा सोऽवश्यं तं स्वीकृत्य भुनक्ति इति प्रागेवोक्तम् | कथं सः भक्त्युपहृतं यज्ञफलं स्वीकरोति ? देहे सः कुत्र कथं वसति ? यज्ञो नाम कीदृशः ? तदीयं फलं कथं समर्पणीयम् ? एते विषया अत्र पर्यालोचनीयाः | भगवते मूर्तिमते अमूर्तभावनया यत्क्रियतेऽर्चनार्पणरूपेण तत्सर्वमपि यज्ञ एव | जलेनाभिषेचनं षोडशोपचारपूजा बाह्यफलादिनिवेदनं इत्येषः सर्वोऽपि यज्ञ एव | भगवत्स्वरूपेभ्यः
163 SK श्रीगुरुजङ्गमेभ्य अन्नपानाद्य- bhikṣāpradānaṃ gṛhe vasabhdyaḥ bandhubhaginyādibhyaḥ aśanavastrādi- प्. १५४)
164 SK गुरुजङ्गमेषु भिक्षुकेषु बन्धुषु सर्वेष्वपि विराजमानः प्रभुरेक एव | स एवास्माकं शत्रुष्वपि वर्तते | अतस्तेष्वपि शत्रुत्वं विहाय प्रेमदृष्ट्या समीक्षणं च भगवदाराधनमेव | एतादृशमर्चनं यैराचर्यते तदेव यज्ञशब्देन व्यवह्रियते | एवं कृतस्यैव यज्ञरूपस्य तपसः फलं परमेश्वरो भुनक्तीत्याशयं कृष्णोऽभिव्यनक्त्यत्र | देहे पञ्चस्वपीन्द्रि- yajñe'rpaṇoyeṣu vastuṣu gandhaḥ rasaḥ rūpaṃ sparśaḥ śabdaḥ iti pañca viṣayā vartante | tān svīkartuṃ paramātmāpi pañcaprakāraiḥ dehe virājate | cetanarūpasya vaśīkṛtamāyāśaktikasya parameśvarasya ekakāle'nantarūpaiḥ anekeṣu sthaleṣu avasthānaṃ yujyate | tena saha tadaṃśabhūto jīvastattadviṣaya-samarpaṇāya tatraiva nivasati | paramātmavinodāśrayatvāt saḥ aṅgamiti kathyate | yaḥ dīkṣayā susaṃskṛto vartate sa eva aṅgaśabdavācyo bhavati | ayamaṅga-nāmakaḥ śuddhajīva svabhogyānāṃ viṣayāṇāṃ paramātmane tyāgāt tyāgāṅgamiti tadupabhuktaśeṣaprasādabhogāt bhogāṅgamiti ca vyavahriyate | anayā tyāgabhogasamanvayadṛṣṭyā sarvābhimānaparihārāt jīvaḥ parama- परमनिर्मलो जीव ईश्वरेण सहयोगात् योगाङ्गमिति कथ्यते त्यागाङ्गेन समर्पितस्य वस्तुनः स्वीकारसमये परमेश्वरः इष्टलिङ्गमिति भोगाङ्गेन समर्पितस्य तु स्वीकारार्थं प्राणलिङ्गमिति योगाङ्गेन समर्पितस्य तु स्वीकाराय भावलिङ्गमिति चानुभविभिः कथ्यते | एवं च त्यागाङ्गनामको जीवः नासिकायां निवसन् भक्त इति रसानायां निवसन् माहेश्वर इति कथ्यते | जीवस्तावत् परमेश्वरचेतनांशः अत एव तस्य सर्वत्र स्थातुं शक्यत इति च प्रागेव कथितम् | तथैव भोगाङ्गनामको जीवः नेत्रद्वये निवसन् प्राणलिङ्गीति च कथ्यते | तथैव भोगाङ्गनामको जीवः नेत्रद्वये निवसन् प्रसादीति देहावृते चर्मणि सर्वत्र निवसन् प्राणलिङ्गीति च कथ्यते | तथैव योगाङ्गनामको जीवः श्रोत्रद्वये निवसन् शरण इति शिरसि विराजमानेन भावलिङ्गेन एकीभावात् ऐक्य इति च
165 SK कथ्यते | तथैव ईश्वरोऽपि प्. १५५)
166 SK नासिकायां निवसन् आचारलिङ्गमिति रसनायां निवसन् गुरुलिङ्गमिति नेत्रयोर्- nivasan prasādaliṅgamiti hṛdaye nivasan mahāliṅgamiti cānubhavibhirbhāvyate | śvāsocchvāsakriyācaraṇāya prerakatvāt nāsikāstheśvarasya ācāraliṅgamiti jīvasya tatkriyācaraṇāt bhakta iti ca nāmnī sārthake vartete | rasanādvārā bhaktāyopa-deśayogyatvāt tatratyeśvarasya guruliṅgamiti tena sahaiva tatra tiṣṭhate jīvāya upadeśagrahaṇayogyatvāt māheśvara iti ca nāmnī sārthake vartete | tathaiva netrayorvartamāna īśvaraḥ sarvavastuprakāśanāt śivaliṅgamiti tatraiva sthitvā sarveṣāṃ vastūnāṃ prasādarūpatayā avalokanāt praśāntacitto nirmalahṛdayo jīvaḥ prasādīti ca kathyate | carmaṇi sarvatra vyāpya nirliptatayā vartanāt īśvaraḥ caraliṅgamiti tatraiva sarvatrāpi prāṇabhāvanayā paramātma- शब्दं गृहीत्वा जीवाय प्रसादरूपेणानुगृह्णाति अत एव सः प्रसादलिङ्गमिति कथ्यते | तत्रत्य एव जीवः प्रसादस्वीकारार्थं अनन्यभक्त्या ईश्वरे शरणागतस्सन् शरण इत्यभिधीयते | एवं शरणागतो जीवः हृदये विराजमानेन महालिङ्गेन एकीभावमनुभवन् ऐक्य इत्यभिधीयते | ईश्वरस्य महालिङ्गमिति जीवस्य ऐक्य इति च नाम्नी अन्वर्थे वर्तेते | अनेन क्रमेण भक्तः आचारलिङ्गाय गन्धं माहेश्वरः गुरुलिङ्गाय रसं च यद्यर्पयति तदा जीवस्य यद्भोग्यं वस्तुजातं तत्सर्वमपि ईश्वराय समर्पितं भवेत् | एवं यद्यर्प्यते तदैव तत्सर्वमीश्वरः स्वीकरोति भुनक्ति च | अयमेवाशयः भोक्तारं यज्ञतपसां इत्यत्राविष्कृतः | एवं शेषप्रसाद भोगादेव भक्तः लिङ्गभोगोपभोगीति कथ्यतेऽनुभविभिः | अयं प्रसादस्वीकारक्रमः षट्स्थलसंप्रदाय इति भाव्यते | अयं विषयो विस्तरेण निरूपितः शक्तिविशिष्टाद्वैतदर्शनस्य द्वितीये भागे | शुद्धजीवेन नित्यं व्यवहारकाले निर्लिप्ततया क्रियमाणः प्रपञ्चभोगानुभव एव प्रसादजीवनमिति लिङ्गाङ्गसामरस्यमिति शक्तिविकास इति चानेकैः पदैरभिधीयतेऽनुभविभिः |
167 SK प्. १५६) एतद्विज्ञानेनैव मानवः स्वीयां सत्त्वरजस्तमोमयीं प्रकृतिं सच्चिदा- gurujaṅgama-prasādādeva tasmin sañjāyate | gurustu tattvopadeśena jīve avyaktaṃ śivaprakāśaṃ uddīpayati | uttiṣṭata jāgrata prāpya varānnibodhata ityetādṛśenopadeśena jīveṣu suptāṃ bhaktiṃ utthāpayati | amūrtasya śivasya bhāvanāṃ tasmin draḍhīkartuṃ tadantaraṅgasthameva prakāśarūpaṃ caitanyaṃ susaṃskṛte aṅguṣṭhaparimite liṅge samāviśya samarcanārthaṃ bahiḥ sthāpayati saḥ | tadeva liṃgaṃ prāṇavatpriyatvāt prāṇaliṅgamiti iṣṭaliṅgamiti ca bhaktena bhāvyam | evaṃ bhaktiryadotthāpyate guruṇā tadā tadvikasanadvārā sthirīkartuṃ jaṅgamastatra praviśati | sa tu sarvatra gacchannapi laukikābhimānaśūnyassan nirañjana iti nirābhārī iti ca kathyate | tasya darśanādeva bhaktahṛdaye nirlepanābhidhaṃ vairāgyaṃ dṛḍhīkriyate | evaṃ mānavaḥ guroḥ sakāśādvaibhavaṃ jaṅgamasya sakāśāt vairāgyaṃ ca samadhigacchati | vardhiṣṇūnāṃ sarveṣāmapi antarvaibhavaṃ bahirvairāgyaṃ evamubhayamapi āvaśyakam | amūrtasya śivasya paricayasaṃpādanadvārā tatprasādasamarpaṇāya prapañco'yaṃ gurujaṅgamamaya eva vartate | yadarpyate tatsarvamapi tadrūpī śiva eva bhunaktīti kṛṣṇasyāśayaḥ | ata eva saḥ śivatādātmyabhāvanayā māṃ iti ātmānaṃ nirdiśati || 29 || ṣaṣṭho'dhyāyaḥ pūrvādhyāyānte sparśān kṛtvā bahirbāhyān ityādinopakṣiptaṃ śivayogaṃ vistareṇa nirūpayituṃ tatpīṭhikatayā phalasaṅgatyāgapūrvakakarmānuṣṭhāna- अनाश्रितः कर्मफलं कार्य कर्म करोति यः | स संन्यासी च योगी च न निरग्निर्न चाक्रियः || १ || प्. १५७)
168 SK कर्मफलं कर्मणः फलं अनाश्रितः अनपेक्षमाणः कर्मफलापेक्षा- karoti nirvartayati sa eva yatiḥ prayatnaśīlaḥ saṃnyāsī īśvarāya svadehasthāya pūrvoktena ṣaṭsthalopāsanamārgeṇa karmaphalamarpayituṃ śaktaḥ saṃnyāsīti vyavahriyate | sa eva ca karmayogī ityabhidhīyate | na tu niragniḥ agnihotrādi vaidikaṃ karma parityaktavān puruṣaḥ saṃnyāsī bhavitumarhati | tathaiva agni- नार्हति | अतो ज्ञानिनापि नियतं सर्वमपि कर्म भगवदाराधनरूपतया करणीयमेव | तथैव न वा अक्रियः अर्पणादिक्रियामकुर्वन् पुरुषश्च योगी भवेत् | अत्र पुरुषपदेन स्त्रीपुंदेहरूपे पुरे शयनयोग्यो जीवो निर्दिश्यते | एवं पुमांसः स्त्रियश्च ज्ञानकर्मसमन्वयात्मिकया दृष्ट्या सर्वं व्यवहारं शिवार्चनरूपतया निर्वहणात् दुःखमध्य एव नित्यसुखमनुभवन्त्विति भगवानेवं स्पष्टतयात्रोपदिशति || १ || यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव | न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन || २ || स संन्यासी च योगी च इत्यत्र हेतुमाह | उक्तरीत्या कर्मफलत्यागरूपो ज्ञानयोगः कर्तव्यभावनया कर्माचरणरूपः कर्मयोगश्चेति उभयोरपि समनत्वात् यं संन्यासमिति फलसमर्पणमिति प्राहुरनुभविनः तमेव कर्मयोगं विद्धि जानीहि | कर्मानुष्ठानकालेऽपि स्वार्थत्यागरूपचातुर्य- yasmāt asaṃnyastasaṅkalpaḥ asaṃnyastaḥ aparityaktaḥ saṃkalpaḥ phalaviṣaya- योगी कर्मयोगी भवितुं अर्हति | अतः संन्यासं यं प्राहुस्तमेव योगं प्राहुरनुभविनः || २ || आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते | योगारूढस्य तस्यैव शमः कारणमुच्यते || ३ || प्. १५८)
169 SK एवं कर्मयोगं प्रशंस्येदानीं कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति | योगं ध्यानयोगमारुरुक्षोः आरोढुमिच्छोर्मुनेः कर्म कारणमुच्यते | चित्तशुद्धिमन्तरा ध्यानयोगस्य कर्तुमशक्यत्वात् तस्य कर्माचरणमावश्यमित्यर्थः | तस्यैव तु योगारूढस्य ध्यानयोगनिष्ठस्य शमः शान्तिः सर्वप्रवृत्तिभ्यो निवर्तनमेव कारणमुच्यते | बाह्यप्रवृत्तिनिष्ठेन न हि ध्यानयोगः कर्तुं शक्य इत्यर्थः || ३ || यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषञ्जते | सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते || ४ || इदानीं योगारूढस्य लक्षणमाह- इन्द्रियार्थेषु इन्द्रियाणां चक्षुरादीनां अर्थाः शब्दस्पर्शरूपरसगन्धाः तेषु कर्मसु तदर्थव्यापारेषु च यदा हि पुरुषः नानुषज्जते अनुषङ्गं आसक्तिं न करोति तदा सः सर्वसङ्कल्पसंन्यासी ऐहिकामुष्मिकफलेच्छास्सर्वा अपि त्यक्तवान् योगारूढ इत्युच्यते | ऐहिकामुष्मिकफलदायकेषु कर्मसु सर्वथा अप्रवर्तमानः मनसापि तादृशान्यल्पफलान्यनिच्छन् यः स एव योगारूढ इत्यर्थः || ४ || उद्धरेदात्मानात्मानं नात्मानवमसादयेत् | आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः || ५ || योगारूढस्य लक्षणमुक्त्वा तस्य कर्तव्यमत्राह- आत्मानं संसार- śreyaḥ prāpnuyāt | svasmin gopyatayā vilasatparamātmatattvaṃ kevalena jñānena kevalayā kriyayā vā nānubhūyate sādhakaiḥ | ya svasminneva paramātmano'vasthānaṃ gurujaṅgamasakāśāt jñātvā mana indriyādikaṃ tatsevāyai śraddhayā viniyuṅkte sa eva paratattvamanubhavituṃ śaknoti | ata eva paramātmajñānāya ātmarakṣaṇamāvaśyayam | ataścātmānaṃ na kadāpyasādayet na adhaḥ pātayet | ātmoddharaṇamātmavināśaścetyubhayamapi svasyaiva haste- p. 159)
170 SK वर्तत इत्यर्थः | तदेवाह आत्मैवेति | हि यस्मान् आत्मैव आत्मनो बन्धुः | एवं च इतरबन्धवस्तु केवलदेहसंबन्धिन एव न ह्यात्मबन्धवो भवितुमर्हति | एवमेव आत्मैव स्वस्य रिपुः प्रतिकूलः | यदि आत्मा स्वबन्धुं परमात्मानं जानीयत् तदा स एव तस्य हितावहो भवेत् | यै आत्मा स्वात्मानं न जानीते तदा स एव स्वस्य प्रतिकूलो भवेत् | अत एव स्वस्मिन् स्वयमेव विचिन्त्य गुरूपदिष्टक्रमेण यः प्रयतेत स एव स्वानन्दमनु-भवितुं पारयेत् || ५ || बन्धुरात्माऽत्मनस्तस्य येनात्मैवात्मना जितः | अनात्मस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् || ६ || पूर्वोक्तं विव्रियते | तस्य आत्मा आत्मनः स्वस्य बन्धुरनुकूलो भवति | यः मन इन्द्रियादिकं स्वान्तर्गतपरमात्मसेवार्थं विनियुङ्के तदा तानि सर्वाणि करणानि परमात्ममयान्येव भवेयुः | एवमध्यात्मनिष्ठया आत्मसौख्यं यस्साधयति स एव स्वस्य अनुकूलस्सञ्जायते | अनात्मनस्तु एवं स्वयं स्वतः संयमादिकमननुतिष्ठतस्तु आत्मैव शत्रुवत् बाह्यशत्रु-वदेव शत्रुत्वे शत्रुभावे वर्तेत | अतस्सर्वेषामप्यात्मसंयम आवश्यक इत्यर्थ || ६ || जितात्मनः प्रशान्तस्य परमात्मा समाहितः | शीतोष्णसुखदुःखेषु तथा मानापमानयोः || ७ || आत्मसंयमवन्तं वर्णयत्यत्र | जितात्मनः स्वाधीनान्तःकरणस्य अत एव प्रशान्तस्य प्रसन्नचेतसो जीवस्य निर्मले हृदये परमात्मा समाहितः सुव्यवस्थया अवतिष्ठते | प्रशान्तहृदय एव परमात्मा अनुभूयत इत्यर्थः | स्वाधीनप्रकृतिकस्य जीवस्य आत्मा परं अत्यन्तं समाहितो सुव्यवस्थितो भवेदिति वाऽन्ययः | तस्य त्वात्मा तादृशः पुरुषः इत्यर्थः | सः शीतोष्ण- vikāra-paravaśo na bhavedeva | yadā dehī dehaṃ viśodhya tatraiva yadi nirmalena manasā vaset tadā'tmasukhamanubhavan sukhaduḥkhādidvandvadarśanenāpi nirvikāra eva varteta | dehinastādṛśaṃ pavitraṃ p. 160)
171 SK जीवनमेवं वर्णयति शरणगीता | उत्पाट्यते यद्यहिदन्तपङ्क्तिस्तदा च तेनैव रमेत मानवः | तथैव देही विषपाप्मनश्च निष्कासनेनात्र वसेदबाधम् | मातैव चेद्राक्षसभावयुक्ता शिशुर्न रक्ष्येत तयैव लोके | तथैव काये विकृतिस्तु जाता जीवं न रक्षिष्यति सत्यमेतत् | य एव देहे गुरुमल्लिकार्जुन त्वयानुगृह्येत स एव धन्यः | इति भगवती अक्वमहादेवी देहशोधनेन शिवप्रियं पावनं जीवनं यथा सर्वेऽपि मानवा इहैव निर्वहेयुस्तथा वीर्यवत्तरया वाण्या तेषु समभावनाया आवश्यकत्वमुप-पादयति | स्वीयप्रकृतेस्सत्परिणामेन सर्वेऽपि साधका एवमेवाध्यात्म-प्रगतिं साधयेयुरित्याशयमाविष्कुर्वन्ति सर्वे दार्शनिकाः | आध्यात्म-विकासं विना न कोऽपि व्यावहारिकः पुरुषः शान्तिं लभेत | स च विकास- bhavet | pratidinaṃ yaḥ sukhaṃ duḥkhaṃ ca paśyet tasmistu katipayeṣveva divaseṣu tayossamatvabuddhirudetyeva | ata eva duḥkhamadhya eva vasan saḥ duḥkhadarśanena labdhavivekaḥ dhairyaṃ prakāśaṃ ca sahajatayā vindate | evaṃ jīvane duḥkhadoṣānudarśanamāvaśyakamiti sarve'nubhavino vadanti | tamevāśayamanumodayan kṛṣṇo'tra samabuddhervaiśiṣṭyaṃ pratipādayati || 7 || jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ | yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ || 8 || jñānavijñānatṛptātmā jñānaṃ śāstrajanyaṃ paramātmajñānaṃ tatpariṇāmabhūtasya prapañcasya ca jñānaṃ vijñānaṃ śāstrataḥ jñātānāṃ svānubhavagocarīkaraṇaṃ tābhyāṃ tṛpta ātmā antaḥkaraṇaṃ yasya tādṛśaḥ | śivajñānena cidacidātmakasya prapañcasya paricayena ca labdhaviveko mānavaḥ | duḥkhamagno'pi sukhamayo vartate | ata eva vijitendriyaḥ vijitasarvendriyaḥ | na tu indriyārthānveṣako bhavatītyarthaḥ | ata eva kūṭastha aprakampyo nirvikāro vasetsaḥ | samaloṣṭāśmakāñcanaḥ loṣṭāśmakāñca-nāni samānāni bhāvayan yaḥ yuktaḥ samāhito bhavati sa eva śivayogītyucyate || 8 || p. 161)
172 SK सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु | साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते || ९ || सुहृत् प्रत्युपकारमनपेक्ष्यैव उपकुर्वन् | मित्रं स्नेहितः | अरिः शत्रुः | उदासिनः यः न मित्रं नापि शत्रुस्तादृशः | मध्यस्थः पक्षद्वयस्यापि हितैषी | द्वेष्यः आत्मनोऽप्रियवर्तनवान् | बन्धुः स्वसंबन्धी | एषु च साधुष्वपि शास्त्रोक्तकर्मानुष्ठातृषु सद्वर्तनशीलेषु पापेषु शास्त्र- caiva śvapāke ca paṇḍitāḥ samadarśinaḥ iti pūrvamevoktam | etādṛśasama- कर्मानुगुणं विजातीयं सुखदुःखादिकं द्वन्द्वं विलोक्यापि तस्य वैचित्र्यस्य कारणं विज्ञाय तत्रैव निर्विकारतया तिष्ठन्तं एकविधं परमात्मानमेवावलोकयन् मानवः सर्वैभ्यो विलक्षण एव वर्तेत | तस्यैव स्थितिः लोकेषु भूतोऽस्मि न लोकधर्मा इत्यत्रोपवर्णीता | तथात्रावस्थानमेव मानवजीवनस्यान्तिमं ध्येयम् | अयमेव योगस्य महान्परिणाम इति भगवता निर्दिष्टः || ९ || योगी युञ्जीत सततमात्मानं रहसि स्थितः | एकाकी यतचित्तात्मा निराशीरपरिग्रहः || १० || एवं योगारूढस्य प्रशंसां कृत्वा योगप्रकारमधुना विस्तरेण निवेदयति | योगी ध्यानयोगं कुर्वन् रहसि एकान्तप्रदेशे स्थितः तत्रापि एकाकी असहायः नेतरेषां साहाय्यमपेक्षमाणः यतचित्तात्मा यतः संयमितः चित्तं अन्तःकरणं आत्मा देहश्च येन तादृशः | देहेन्द्रियादिकं व्यवस्थया उपयुञ्जन् इत्यर्थः | निराशीः बाह्यविषयकतृष्णाविरहितः अपरिग्रहः शय्यासनादिसुखपरिकररहितः नाधिकसुखापेक्षी यदृच्छा- bhūtvā ātmānaṃ satataṃ yuñjīta antaraṅgastheśvarasya cintanarūpe dhyāne pravartayet | hṛdaye paramātmano'vasthānaṃ viśvasya tatraiva matiṃ p. 162)
173 SK निधाय तत्साक्षिकतया यो व्यवहरेत् तस्य मनः अस्थाने न प्रवर्तेत | हृदयं यदि कलुषितं भवेत् तदा प्राणपतिस्तत्र विद्यमानोऽपि नानुभूयेतैव | अतः हृदयशुद्धिस्सर्वदाऽवश्यं संरक्षणईयेत्यनुभविनो वदन्ति | हृदा मनिषा मनसाभिकॢप्तः इति श्रुतिरपि परमात्मनः निर्मलहृदयवेद्यत्वं उपदिशति | अत एवात्र भगवानेवं वर्धिष्णूनां सर्वेषामपि सार्वजनिक- śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ | nātyucchritaṃ nātinīcaṃ celājinakuśottaram || 11 || tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ | upaviśyāsane yuñjyādyogamātmaviśuddhaye || 12 || ekāntasthale'pi śucau pariśuddhe pradeśe ātmanaḥ āsanaṃ sthiraṃ acalaṃ yathā tathā nātyucchritaṃ nātīvonnataṃ nātinīcaṃ nātīva nimnaṃ ca celājinakuśottaraṃ celaṃ vastraṃ ajinaṃ kṛṣṇājinaṃ kuśāḥ darbhāḥ taduttaraṃ taiḥ kramaśaḥ kalpitaṃ pratiṣṭhāpya sthāpayitvā tatra āsane upaviśya manaḥ ekāgraṃ sarvebhyo viṣayebhya upasaṃhṛtya tadekamātraparaṃ kṛtvā yatacittendriyakriyaḥ yatāḥ saṃyatāḥ cittasya indriyāṇāṃ ca kriyāḥ yena tādṛśaḥ | ātmaviśuddhaye ātmano'ntaḥkaraṇasya viśuddhyarthaṃ yogaṃ yuñjyāt kuryāt | evamekāntapradeśe yuktamāsanaṃ parikalpya sādhakaḥ tatropaviśya samāhitamanā bhūtvā svīye prāṇaliṅge sarvendriyāṇāṃ cittasya ca vṛttīḥ samāviśya talliṅganirīkṣaṇena prāṇapatiṃ anubhavet | sādhakaḥ śivadīkṣāsaṃskṛtassan svīyaṃ prakāśaṃ guroḥ sakāśāt bahirarcanāya labdhvā satataṃ tannirīṇapūrvakamarcanena svīyamāntaraṅgikameva prakāśa- परिकल्पनीयः | अयमाशयः तेषां नित्याभियुक्तानां इत्यत्राविष्कृतः | बहिरर्चनं विना हृदिस्थः प्रकाशो न ज्ञायेत | क्रियां विना काष्टाद्- p. 163) samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ | saṃprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan || 13 || praśāntātmā vigatabhirbrahmacārivrate sthitaḥ | manaḥ saṃyamya maccitto yukta āsīta matparaḥ || 14 ||
174 SK शिवपूजार्थमुपविष्टो योगी कथमुपविशेत् किं वा कुर्यात् इत्येतं प्रकार- samāhāradvandve'tra prāṇyaṅgatvāt dvandvaśca prāṇitūryasenāṅgānām ityekatvam | samaṃ ekarūpaṃ kṛtvā dehaḥ śiro grīvā ca samāvasthāyāṃ yathā tiṣṭheyustathā vyavasthāpayitvā tathaiva acalaṃ calanarahitaṃ ca dhārayan sthiraḥ sthiro bhūtvā svaṃ nāsikāgraṃ saṃprekṣya svanāsāgre bhrūmadhye dattadṛṣtirnihitekṣaṇo bhavetsādhakaḥ | karapīṭhe gurvanugrahītaṃ sveṣṭa- दृष्ट्या निरीक्षेत | एतादृशं लिङ्गनिरीक्षणमेव शिवयोग इति प्रकीर्त्यते | एतच्छिवयोगसाधकस्तु प्रथमं अभ्याससौकर्याय यथावसरमेकान्त- bhrūmadhyanirīkṣaṇena dṛṣṭyāṃ manasaḥ prāṇāvāyo tadanusarato jīvabhāvasya ca samāveśena sādhakaḥ cittanaiścalyaṃ prāpnoti | evaṃ niścalaṃ cittaṃ dṛśoḥ puro hastapīṭhe virājamāne sveṣṭaliṅge yadi samāviśyate tadā talliṅge mahāprakāśaḥ paridṛṣṭaḥ hṛdgatena prakāśena ca ekībhavati | tadā antarbāhyayorbhedamajānan sādhakaḥ dehe sarvatra sveṣṭaliṅgasparśena prāṇarūpasya mahāprakāśasya paricayamadhigacchati | ayameva prāṇaliṅgānubhāvaḥ yogārūḍhe sarvadā virājate | paraṃ tu sādhakaiḥ abhyāsānusāreṇa kramaśaḥ ayamanubhavaḥ prāpyaḥ | teṣāṃ dṛṣṭiryathāṇyatra na pradhāvet tathābhyasituṃ svasannihita eva karapīṭhe svaprāṇarūpasyāṃguṣṭhaparimitasyaiva prāṇaliṅgasyārcanaṃ brahmasūtre śrutau ca vidhīyate | anena ca sādhanena sādhako diśaḥ itastataḥ anavalokayan apaśyaṃśca praśāntātmā prakarṣeṇa śāntaḥ ātmā'ntaḥkaraṇaṃ yasya tādṛśo'sti | tasya manaḥ p. 164)
175 SK शिवानुग्रहेण प्रसन्नं भवति | अस्यां दशायां साधकः विगतभीः गतभयः अकुतोभयः सन् ब्रह्मचारिव्रते स्थितः ब्रह्मचारिणो यत् व्रतं भैक्ष्याचरणादिनियमः तत्रास्थितः मनः सयम्य इतरविषयेभ्यो मनः निवर्तयित्वा मच्चित्तः मय्येव अन्तरङ्गस्थे परमप्रकाशरूपे प्राणलिंगे चित्तं कुर्वन् मत्परः मामेव प्राणलिंगमेव परमप्राप्यं च कुर्वन् | युक्तः तादृशशिवयोगनिष्ठः आसीत | एवं केन्द्रीकृतदृङ्मनोवृत्तिः निश्चलचित्तः लिंगनिरीक्षणसमकाल एव स्वान्तर्विराजमानं चित्प्रकाशमनुभवेत् | अयं शिवपूजाप्रकारः शङ्करसंहितायां एवं निर्दिश्यते व्यासमहर्षिणा | यो हस्तपीठे निजमिष्टलिंगं विन्यस्य तल्लिनमनःप्रसारः | बाह्यक्रियासंकुलनिष्पृहात्मा संपूजयत्यंग सा वीरशैवः इति | यः साधकः हस्तपीठे अयं मे हस्तो भगवानयं मे भगवत्तरः इति रुद्राध्याये लिंगाश्रयत्वात् हस्तस्यापि पूज्यत्वसूचनार्थं भगवत्पदप्रयोगः श्रूयते | एतादृशे हस्तपीठे निजं स्वमिष्टलिंगं स्वस्मादभिन्नं स्वीयं प्राणलिंगं विन्यस्य तस्य सततनिरीक्षणेन तल्लिनमनोवृत्तिः बाह्यक्रियास्वनासक्तः सन् श्रद्धयोत्साहेन स्वप्राणवत्प्रियतमं तदिष्टलिंगं समर्चयन्साधकः स्वीयं प्रकाशं पश्येत् | अत एवेदं गुर्वनुगृहीतमिष्टलिंगं पाणौ अर्चनार्थं निक्षिप्य सर्वदा मननादात्मानं मलकर्मभ्यस्त्रायत इति पाणिमन्त्रमिति धारिणमर्चकं सर्वदा पावयतीति पावनमिति चानुभविभिर्भाव्यते || १३- yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ | śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati || 15 || pūrvoktasya śivayogasya phalamāvedayatyatra | yogī niyatamānasaḥ saṃyamita- विराजमानेन आनन्दरूपेण प्राणलिंगेन समावेशयन् | भ्रुमध्यस्थेष्ट- virājamānena sadrūpeṇa bhāvaliṃgena ca samarasatayā vilīyate | ayamevātra yoga iti kṛṣṇaparamātmanā nirdiṣṭaḥ | etādṛśayogāya mānavadeho'tyantopa- प्. १६५)
176 SK यैवायं देहोऽनुग्रहीतोऽस्माकं भगवता | एवं योगनिष्ठस्य पुरोवर्त- jīvaḥ śāntiṃ sarvoparatirūpāṃ nirvāṇaparamāṃ nirvāṇaḥ śivasāyujyarūpaṃ kaivalyaṃ tadeva paramā niṣṭhā yasyāḥ śāntestādṛśīṃ kaivalyaparyavasāyinīmityarthaḥ | etādṛśīṃ matsaṃsthāṃ paramātmani vidyamānāṃ madadhīnāmityarthaḥ | tāṃ adhigacchati prāpnoti | iha jīvitakāle triguṇātmakapāśā'saṃsparśatayā jīvituṃ sādhakāstadā prabhaveyuryadā te bahirantarbhedadṛṣṭiṃ vihāya bāhyamiṣṭaliṃgaṃ prāṇabhāvanayā arcayeyuḥ | etādṛśārcanāya nirdiṣṭaṃ śivadīkṣāsaṃskāramadhigato jīvaḥ svārthatyāgapūrvakamīśvarārpaṇadṛṣṭyā liṅgārcane śraddhābhaktyā pravartamānaḥ bhakta iti bhāvyate'nubhavibhiḥ | ayameva bhaktaḥ bhaktivikāsena nirabhimānasthitimadhigamya hṛdayastheśvarasya sannihitaḥ priyaśca bhūtvā māheśvara iti vyavahriyate | ayameva māheśvaraḥ sarvaṃ prapañcaṃ śivamayaṃ bhāvayan śivadṛṣṭyā prasannacetā bhūtvā prasādīti kathyate | ayameva prasādī ekāntapradeśe upaviśya bhrūmadhye avyaktatayā karapīṭhe vyaktatayā vikāsamānamiṣṭaliṃgaṃ samarasīkṛtya bahirantaścānubhavāt prāṇaliṅgīti kathyate | ayameva prāṇaliṃgī yogārūḍha iti bhagavatātra nirdiṣṭaḥ | evaṃ ca prāṇaliṃgī dehābhimānaṃ parityajya nirliptatayā vasan svadeha eva kaivalyānandamanubhavituṃ śaknoti | etādṛśo'nubhavaḥ yogamārgādevābhyāsena sādhanīyaḥ | ayameva ayanāya vihito mārgaḥ | evaṃ vihāya nānyena mārgeṇa hṛdayaṃ vihāya nānyatra śivānubhavo labhyeta | ima kramaṃ vihāya nānyathā śāntirlabhyeta | śāntiṃ vinā duḥkhamadhye sukhaṃ nānubhūyeta | anenaiva krameṇa jīvāḥ svīyamajñānaṃ saṃśayaṃ viparītabhāvanāṃ ca parihātuṃ prabhaveyuḥ || nātyaśnatastu yogo'sti na caikāntamanaśnataḥ | na cātisvapnaśīlasya jāgrato naiva cārjuna || 16 ||
177 SK अत्र शिवयोगनिरतेनानुष्ठीयमानान् नियमानाह | हे अर्जुन अत्यश्नतः अधिकं भुञ्जतः योगः नास्ति न सिद्ध्यति | एवमेव एकान्तमत्यन्त- प्. १६६) मनश्नतः अभुञ्जतोऽपि योगो न सिद्ध्यति | एवं अतिस्वप्नशीलस्य सदा निद्रां कुर्वतोऽपि योगो न घटते | एअमेव सदा जाग्रतोऽपि पुरुषस्य हृदयस्थेनेश्व- visṛjya yaḥ sāvadhānacittaḥ prayatate tasyaiva śivayogaḥ sidhyati | sa eva niyamasahiṣṇuḥ yogamabhyasedityarthaḥ || 16 || yuktāhāravihārasya yuktaceṣṭasya karmasu | yuktasvapnāvabodhasya yogo bhavati duḥkhahā || 17 || kīdṛśaḥ puruṣo yogābhyāsāya prabhavedityatrāha | yuktāhāravihārasya yuktaḥ niyataḥ vyavasthita ityarthaḥ | tādṛśaḥ āhāro bhojanaṃ vihāraḥ calanavalanādi-karma yasya saḥ tasya | āhāravihārādikaṃ vyavasthayopayuñjanneva sādhakaḥ śivayogamabhyaset | karmasu kriyamāṇāsvapi yuktaceṣṭasya parimitavyāpārasya | śarīrakleśamakurvata ityarthaḥ | atyāyāsakarāṇi karmāṇyanutiṣṭhatastu deha-śrameṇa śivayogo viphalassañjāyate | ato vyavahārā api yathāśaktyeva niruhyāḥ | yuktasvapnāvabodhasya svapnajāgaraṇayorapi niyatapramāṇasyaiva yogaḥ duḥkhahā duḥkhāni sarvāṇi hantīti duḥkhahā sarvaduḥkhavināśako bhavati | evaṃ ca āhāravihārayoḥ svapnajāgaraṇayośca yo niyamitaḥ sa eva tyāgabhogasamanvayadṛṣṭhyā yogamārgamanusartuṃ prabhavati | atinidrālurati-jāgarūko vā atibhogī abhogī vā evameva ativyavahārī vā yogābhyāsāya na prabhavati || 17 || yadā viniyataṃ cittaṃ ātmanyevāvatiṣṭhate | niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā || 18 || viniyatamevaṃprakāreṇa viśeṣataḥ saṃyamitaṃ vyavasthāpitaṃ udvegāveśā- स्थितिं करोति आत्मन अनुकूलं भवेत् तदा सर्वकामेभ्य ऐहिकामुष्मिक- bhavati | cittamapi paramātma- p. 167)
178 SK निष्ठायाः प्राणरूपिण्याः चित्शक्तेः संकुचिता त्रिगुणात्मिका पराशक्तिरेव | चिच्छक्तिः चेतनात्मिका सच्चिदानन्दरूपिणी चित्तशक्तिस्तु जडभूता सत्त्वरजस्तमोमयी | अयमेव तयोर्विशेषः | परमात्मा यदि चिच्छक्तिविशिष्टोऽस्ति तदंशो जीवात्मा तु चित्तशक्तिविशिष्टो वर्तते | इयमेव चित्तशक्तिः जीवस्य निरन्तरपरमात्मचिन्तनेन धारणेन अर्चनेन च सच्चिदानन्दरूपतया परिणमते | अयमेव शक्तिविकासः अभ्यासेन साधनीयः | तदानीमेव जीवः सद्भक्त इति कथ्यते | शक्तिसङ्कोचावस्थायां यः शिवात् भिन्न आसीत् स एव शक्तिविकासेन शिवेनाभिन्नो भवति | अयमेव शिवयोगः सर्वैरपि साधकैर्निरन्तरं शिवसंपर्काधानेनावश्यं संपादनीयः | नो चेत् जीवः शिवांशोऽपि सन् शिवाद्भिन्न एव स्थित्वा चित्तशक्तिवशंगतः जननमरणचक्रे भ्रमणं सार्वत्रिकतया प्राप्नोति | अत एव देहेन्द्रियसहकारेण सर्वे साधकाः स्वान्तरंगे विराजमानेन परमशिवेन योगमधिगन्तुं प्रयतेरन्निति भगवानपेक्षते | आत्मसुखात्परतरं सुखमेव न कुत्रापि लभ्यते | सर्वोऽपि व्यवहारः आत्मसुखप्राप्तय एव निरुह्य इति भगवत आशयः सर्वैरपि ज्ञातव्यः || १७ || यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता | योगिनो यतचित्तस्य युञ्चतो योगमात्मनः || १९ || एतादृशस्य शिवयोगिनो निदर्शनमाह | निवातस्थः निवाते वायुरहितप्रदेशे वर्तमानो दीपो यथा नेङ्गते न चलति सा दीप्तिः आत्मनः स्वस्य योगं शिवेन सामरस्यं युञ्जतः साधयतः यतचित्तस्य संयतांन्तःकरणस्य शिवयोगिनः उपमा निदर्शनं स्मृता | सः दीपः यथा निश्चलो भासते तथा शिवध्याननिष्ठो योगी निश्चलां दृष्टिं भ्रूमध्यस्थेष्टलिंगे तद्रूपे च करपीठस्थेष्टलिंगे समरसतया विलीनां करोति | यः सदा शिवचिन्तनेन सुखदुःखयोः समभावनया सर्वमपि व्यवहारं कायकदृष्टया स्वकर्तव्यमिति चिन्तयित्वा निर्वहति तस्य चित्तं सहजतया स्वीयां दिव्यप्रकृति- śivasmaraṇameva cittasaṃyamahetuḥ | cittasaṃyama eva p. 168)
179 SK शिवयोगसाधनम् | एतत्सर्वमपि जीवात्मनः सत्संगेन साध्यते || यत्रोपरमते चित्तं निरुद्धं योगसेवया | यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति || २० || सुखमात्यन्तिकं यत्तत् बुद्धिग्राह्यमतीन्द्रियम् | वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः || २१ || यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः | यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते || २२ || तं विद्यात् दुःखसंयोगवियोगं योगसंज्ञितम् | स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा || २३ || तादृशशिवयोगसिद्धेः निष्कृष्टं स्वरूपमाह | योगसेवया शिवयोगाभ्या-सेन निरन्तरशिवचिन्तनेन चित्तं अन्तःकरणं निरुद्धं विषयेभ्यो विनिवृत्तं सत् यत्र यस्यां दशायां उपरमते उपरतिं गच्छति यत्र च दशायां आत्मना अन्तःकरणेन आत्मानमेव पश्यन् योगी चेतनात्मकस्य शिवस्य दिव्यं प्रकाशं अनुभवन् आत्मन्येव तुष्यति तृप्तिं भजते यत्तत् बुद्धिग्राह्यं बुद्ध्यैव निर्मलया प्रशान्तया च बुद्ध्या केवलं ग्राह्यं न तु इन्द्रियग्राह्यं अत एवातीन्द्रियं आत्यन्तिकं सुखं अनवधिक-सुखस्वरूपं परमात्मानं यत्र च यस्यामवस्थायां स्थितो योगी वेत्ति जानाति यत्र स्थित्वा अयं योगी तत्त्वतः तत्त्वस्वरूपात्परमात्मनः नैव चलति न कदापि प्रच्यवते यस्मिन्ननुभूते पुनश्चाञ्चल्यमेव यो न कदापि विन्दत इत्यर्थः | यं आत्मदर्शनं लब्ध्वा च अनुभूय अपरं लाभं ततोऽप्यधिकं न मन्यते तदपेक्षया प्राप्तव्यमन्यन्नास्तीति यो जानाति यस्मिन्नात्मतत्त्वे स्थितो योगी गुरुणापि दुःखेन शस्त्रपातादिलक्षणेनापि न विचाल्यते न चलितो भवति तं दुःखसंयोगवियोगं दुःखैः संयोगः अनुभवः तस्माद्वियोगं योगसंज्ञितं योग इति संज्ञया वाच्यं विद्यात् जानीयात् | सः एतादृशः शिवयोगः निशयेन नियतमेव निर्विण्णचेतसा प्. १६९)
180 SK निर्वेदसहितेन चेतसा प्रयोक्तव्यः कर्तव्यः | क्षणकालकरणमात्रेण फला- śivayogaḥ sādhanīyaḥ | paraṃ tu nirantarābhyāsasādhyaḥ | gacchatpipīlakā- यति-रात्मकल्याणं साधयितुं प्रभवेत् | हृदये विराजमानेन शिवेन सामरस्यं यः प्राप्नोति स एव धन्यः सुखी बुद्धिमान् कुशलश्च संपद्यते | नो चेत् तस्य निरतिशयं ऐहिकं वैभवं सर्वमपि स्मशान-पुष्पमिव व्यर्थं भवेत् | अतो निर्वेदस्यावकाशमपरिकल्पयन् साधकः सर्वदा गच्छन् तिष्ठन् भुञ्जन् श्वपन् एवं सर्वव्यवहारेष्वपि युक्त एव स्यादिति भगवत आशयः | तत्साधनाय न केवलं नैरन्तर्यं अपि तु आत्मनिश्चयोऽप्यावश्यकः | आत्मभूतो जीव एव परमात्मयोगं साधयितुमनुभवितुं च प्रभवेत् | न हि अनात्मवस्तु परमात्मानुभवमधिगन्तुं प्रभवेत् | किन्तु यः आत्मानन्दमनुभवति सः अनात्मवस्त्त्वपि देहादिकं आत्मसान्निध्येन आत्मवदेव भावयति | तस्य सर्वमप्यात्मैव दृश्यते | सन् हृदयप्रकाशस्तेन योगिना सर्वदा सर्वास्वप्यवस्थास्वनुभूयते | प्रापञ्चिकः स्थूलं बाह्यं रूपं यदि पश्यति शिवयोगी सूक्ष्ममान्तरं चित्प्रकाशमेव पश्यति | अयमेव तयोर्विशेषः | एवं ध्यानयोगस्वरूपमुपवर्णितं भगवता || २३ || सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः | मनसैवेन्द्रियग्रामं विनियम्य समन्ततः || २४ || शनैः शनैरुपमेत् बुद्ध्या धृतिगृहीतया | आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् || २५ || पुनरपि तस्यैव शिवयोगस्यादरातिशयादुपदेशः क्रियते | सङ्कल्पप्रभवान् सङ्कल्पो मानसं कर्म तज्जन्यान् विषयाभिलाषादीन् सर्वानशेषतः कार्त्स्न्येन त्यक्त्वा मनसा बाह्यं भोग्यविषयं लेशतोऽप्यचिन्तयन् | एवं मनसो निर्व्यापारत्वे सिद्धे तेनैव मनसा इन्द्रियग्रामं चक्षुरादीन्द्रिय- p. 170)
181 SK सर्वप्राकरतो विनियम्य सन्निरुध्य धृतिगृहीतया धृत्यां धैर्येण गृहीतया युक्त्या बुध्या दृढनिश्चयेन शनैः शनैः क्रमशः उपरमेदुपरतिं कुर्यात् | किं च मनः अन्तःकरणं आत्मसंस्थं आत्ममात्रविषयकं कृत्वा अन्यत्किञ्चिदपि वस्तु न चिन्तयेत् | एवं साधकः मनोनिश्चयेन बुद्धिं प्रसन्नां कृत्वा यथालाभसन्तुष्टः विषयव्यामोहं सत्सङ्गप्रभावेण सन्निरुध्य क्रमेण उपरतिं गच्छेत् | शान्तोदान्त उपरतस्तितिक्ष्णुः समाहितो भृत्वा आत्मन्यात्मानमनुचिन्तयेत् | इत्येव भगवती श्रुतिरपि वदति | एवमुपरतिरवश्यं साधनीयेति भगवत आशयः वर्धिष्णुभिर्नित्यं स्मरणीयः || २५ || यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् | ततस्ततो नियम्यैतत् आत्मन्येव वशं भवेत् || २६ || चञ्चलं स्वभावत एव चपलं अस्थिरं कुत्रापि सहजतया न तिष्ठत् मनः यतो यतः यस्माद्यस्मान्निमित्तात् निश्चरति बहिर्गच्छति वशे न याति ततस्ततः तत्तन्निमित्तात् एतन्मनः नियम्य विवेकबलेन निरुध्य आत्मन्येव वशं नयेत् | परमात्मस्वरूपं केवलं यथा चिन्तयेन्मनस्तथा तस्य आनुकुल्यं संपादयेत् | मनस्सहकारेणैव जीवात्मपरमात्मनोः संयोगः सुसंघटितो भवेत् | अत एवात्र मनोनियमनमुपदिशति भगवान्मलदोष- praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam | upaiti śāntarajasaṃ brahmabhūtamakalmaṣam || 27 || pūrvoktasya śivayogasya phalaṃ nirdiśatyatra | praśāṃtamanasaṃ praśāntaṃ rajaḥ rajoguṇaḥ tamoguṇaśca yasya tādṛśaṃ evamakalmaṣaṃ brahmabhūtaṃ paraśivaikyaṅgataṃ yoginam uttamaṃ niratiśayaṃ loke'nyatrānanubhūtaṃ sukhaṃ paramānandaḥ upaiti prāpnoti | śivaikyasukhātparamaṃ vastu na kutrāpyasti | tādṛśaṃ sukhaṃ uttamasādhakā eva nirmalena manasā nirmala eva hṛdaye labhante || 27 || p. 171) yuñjannevaṃ sadā'tmānaṃ yogī vigatakalmaṣaḥ | sukhena brahmasaṃsparśaṃ atyantaṃ sukhamaśnute || 28 ||
182 SK अभ्यासतारतम्यानुगुणतया तादृशसुखेऽपि तारतम्यमस्तीति कथयत्यत्र | योगी आत्मानमेवं उक्तप्रकारेण सदा अविरलतया युञ्जन् योगं कुर्वन् तेन च विगतकल्मषः विगतसर्वमलपाशरूपपापः सुखेनानायासेन ब्रह्मसंस्पर्शं ब्रह्मणा सह सामरस्योत्पादकं अत्यन्तं सुखं मोक्षसुखं परशिवब्रह्मानुभवसुखं अश्नुते प्राप्नोति || २८ || सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि | ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः || २९ || एतादृशयोगविपाकस्य फलं निर्दिशत्यत्र | आत्मानं स्वं सर्वभूतस्थं सर्वेषु भूतेषु समस्तप्राणिषु विद्यमानं निर्लिप्ततया अव्यक्ततया च तिष्ठन्तं तथा सर्वभूतानि सकलप्राणिवर्गं आत्मनि स्वस्मिन् योगयुक्तात्मा योगे शिवसामरस्यरूपे योगे युक्तं मनः अन्तःकरणं यस्य तादृशः एवं सर्वत्र उक्तसर्वभूतेषु समदर्शनः सर्वत्र ब्रह्मात्मैक- śivayogī | śivajñāninaḥ sarve'pyeva sarvatra śivaprakāśameva paśyanti | ataḥ ekavijñānena sarvavijñānaśrutistaiḥ śivayogibhirmaharṣibhiḥ pratiśrutā virājate | yaḥ svahṛdaye virājamānaṃ paramātmānaṃ prathamaṃ paśyati yogasādhanena saḥ tameva mahāprakāśaṃ sarvatra paśyati | malakarma- | आत्मज्ञानी सदा आत्मदर्शन एव निरतो वर्तते | एतादृशेन योगेन सर्वे व्यावहारिकाः लोके वसेयुरिति भगवान् निरीक्षते || २९ || यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति | तस्याहं न प्रणश्यामि स च मे न प्रणश्यति || ३० || तादृशस्यात्मैकत्वदर्शनस्य फलं निर्दिशत्यद्य | यः उक्तयोगी मां प्. १७२)
183 SK परमात्मानं सर्वत्र पश्यति एवं सर्वं च जगत् मयि परमात्मन्येव पश्यति तस्य तादृशः आत्मैक्यदर्शनवतः शिवयोगिनः अहं न कदापि प्रणश्यामि नश अदर्शने इति धात्वर्थगतां परोक्षतां अदर्शनस्थितिं न कदापि उत्पादयामि | तथैव सोऽपि मे न प्रणश्यति न हि परोक्षः संपद्यते | सः मां सदा पश्यति अहमपि तं सदा पश्यामि | मदर्थं यः सर्वान् प्रीणयति सः न कदापि विनाशं गमिष्यति | लोके विद्यमानं कामिनी-काञ्चनादिकं विविधं वस्तुजातं दृष्टमपि ज्ञानिनः एकमेव परमात्मप्रकाशं सर्वत्र पश्यन्ति | शरणगीता बसवार्यस्य पवित्रं जीवनमेवं निर्दिशति | यद्यद्धि पश्यामि तदेव नित्यं मनो मदीयं स्मरतीति चिन्ता | मा भूच्च ते कूडलसङ्गमार्य मद्वर्तने त्वं प्रमथाश्च मानम् | परस्त्रियः शर्ववधूस्वरूपा इत्येष एवास्ति विनिश्चयो मे | इति | एवमात्मनिश्चयस्तेषामध्यात्मदर्शनेऽस्मानाधुनिकानधुनापि प्रबोधयति || ३० || सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः | सर्वथा वर्तमानोऽपि स योगी मयि वर्तते || ३१ ||
184 SK स योगी शिवानुभववान् शिवयोगसिद्धः एकत्वं शिवैकत्वमास्थितः सम्यक् जानन् मां परमात्मानं सर्वभूतेषु प्राणिवर्गेषु विद्यमानं परमात्मानं भजते सेवते सः योगी सर्वथा वर्तमानोऽपि सर्वप्रकारैः स्थितोऽपि मय्येव परमात्मनि वर्तते | सदा परमात्मन्येव मग्नचित्तो भवति सः | तस्य सर्वसमभावनां आत्मौपभ्यदृष्टिमेवमुपवर्णयति शरणगीता | एकैव भूमिः परिदृश्यते हि शिवालयस्य श्वपचालयस्य | ग्रामस्य मध्ये द्विजवासभूमिर्ग्रामाद्बहिश्च स्वपचस्य भूमिः | किमेवमस्ति प्रविभाग एषः त्वां सर्वतो दृष्टवतो जनस्य | अन्तर्धिभेदात्-खलु नामभेदः तन्नाशकालेऽन्तरबाह्ययोर्न | भेदस्समस्तीति विभाव-यन्तः सर्वत्र पश्याम भवद्विभूतिम् | इति शुच्यशुचिषु सर्वेष्वपि वस्तुजातेषु वस्तुतो निर्लिप्ततया वर्तमानं परमात्मानमेव पश्यन्तः शरणाः मानवेष्वपि तादृशीमेव दृष्टिमुत्पादयन्ति | एतादृशाः महापुरुषाः स्त्रियश्च लोककल्याणायैव जाताः लोके सर्वत्र लोकपतिमेव पश्यन्तस्सदैव शान्त्या प्. १७३) निवसन्तः सामान्यजीविष्वपि सर्वसामान्यं परमात्मानमेव द्रष्टुं उद्बोधयन्ति || आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन | सुखं वा यदि वा दुःखं स योगी परमो मतः || ३२ ||
185 SK एतादृशस्यैव योगिनः सर्वश्रेष्ठत्वं प्रतिपादयति | एवं सर्वत्र आत्मैक्य-भावनायाः सत्त्वात् शिवयोगिनः आत्मौपम्येन आत्मसादृश्येन सर्वत्र सर्व-भूतेष्वपि सुखं वा यदि वा अथवा दुःखं उभयमपि सममेव | सर्वेषां सुखं स्वस्य सुखमिव सर्वेषां च दुःखं स्वदुःखमिव च यः पश्यति जानाति हे अर्जुन स एव योगी परमः सर्वश्रेष्ठो मतोऽभिमतः | मानवान्सर्वानपि समदृष्ट्या भावयतां शिवयोगिनामादर्शं जीवनं शरणगीतायामेवं निर्दिश्यते | रजो विना बिन्दुसमागमो न जलस्य बिन्दोश्च समानपातः | आशामिषाद्या विषयास्समानाः श्रुत्वा पठित्वा फलमेव किं स्यात् | सप्तधातुसमं पिण्डं समयोनिसमुद्भवम् | आत्मजीवसमुत्-पन्नं वर्णानां किं प्रयोजनम् | अयः प्रताप्य स्वयमेव जातोऽयस्कार-नामा रजकश्च धावनात् | तन्तुं वयित्वा च कुविन्दनामा वेदं पठित्वा द्विज एक आसीत् | कर्णेऽभिजातः क इहास्ति लोके योनेर्हि जाता इति सिद्धमेतत् | य एव देहे सुविराजमानं लिङ्गं विजानाति स एव धन्यः | इत्येवं विशालभाव-नया शरणाः लोके सर्वत्र शिवमेवावलोकयन्तः विभिन्नस्वभावेष्वस्मा-स्वपि तादृशीमेवात्मौपम्यदृष्टिमुत्पादयन्ति | लोके दृश्यवस्तुषु सर्वेष्वपि सुन्दररूपत्त्वात् कामिन्येव सर्वेषामपि मोहकारिणीति जना वदन्ति | तादृश्याः कामिन्याः स्वरूपं विवेचयन्तः शरणास्तु मानवान्सर्वानपि सम्यक् प्रबोधयन्ति | कामिनीविषये तैराचरितं समदर्शनमाधुनिकानां सर्वेषामपि मार्गदर्शकं वर्तते | तदीया अमरवाणी यूनां मनसि सर्वदा यदि विराजेत तदा भूमिः स्वर्गायेत | तदीया दिव्या वाणी एवं विलसति | स्वयं कृता सा वनिता स्वयंभुवः शिरस्समारुह्य समास्थिता पुरा | तथैव तत्सृष्टिमुपेत्य लक्ष्मीर्हरेर्हृदन्ते विजहार पूर्वम् | तस्माच्च योषिन्न हि योषिदेव न राक्षसी किन्तु पराऽस्य शक्तिः | इति | एवं सहनशीलायां स्त्रियां पराशक्तिभावना प्. १७४)
186 SK मानववर्गस्यैव श्रेयस्करा सुखावहा च वर्तते | एवं जगद्व्यापकेषु भूसुवर्णकामिन्यादिषु यथा मनो नानुषज्जेत् यथा च तेष्वेव निर्विकारतया तिष्ठति परमात्मप्रकाश एव मनोऽनुरज्जेत् तथा वीर्यवत्तरया वाण्या आत्मौपम्यदृष्टिं सर्वेषामनुष्ठानायोपदिशति भगवान् || ३२ || एतादृशस्य शिवयोगस्योत्कृष्टफलत्वेऽपि कर्तुमशक्यत्वं मन्वानोऽर्जुनः अशक्यार्थस्य तत्वस्योपदेशेन लभाभावात् कस्तत्रोपाय इत्याशयेन पृच्छति- योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन | एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् || ३३ || अर्जुन उवाच | हे मधुसूदन कृष्ण साम्येन सर्वत्र समताभावनाविशिष्ट-तया योऽयं योगः इदानीं त्वया प्रोक्त उपदिष्टश्चाञ्चल्यात् योगस्य सिद्धिं नाहं पश्यामि | मन एव मे चाञ्चल्यात् योगं ज्ञातुं आचरितुं च न प्रभवति | मनसः स्वत एव चाञ्चल्यात् एतादृशी दुरवस्था मे संजाता | एतस्यास्य तुच्छस्य मे मनसः स्थिरां निश्चलां स्थितिं न पश्यामि | यदि स्थिरं स्यादिदं मनः तदा तवायमुपदेशः सफलो भवेदेव | एवमर्जुनः सामान्यमानव इव तदीयं दौर्बल्यं स्पष्टयति || ३३ || चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् | तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् || ३४ || मनश्चाञ्चल्यमेव विवृणोत्यत्रापि | हे कृष्ण मे मनो हि मनस्तावत् चञ्चलं सहजतया चपलमित्येतत् प्रसिद्धमेव | परन्तु मे मनः न केवलं चञ्चलस्वभवं किञ्च प्रमाथि प्रमथनशीलं चक्षुरादीन्द्रियाणि प्रमथ्य स्ववशीकरणसमर्थं च वर्तते | बलवन्तमिन्द्रियमग्रामं स्वाधीनं कर्तुं हतमिदं मे मनः प्रभवति | एवं बलवत्त्वात् न सुलभतया नियन्तुं शक्यम् | न केवलमेवं बलवत् अपि च दृढं बिसतन्तुना गज इव न बन्धयितुं शक्यम् | एतादृशस्य तस्य निग्रहं निरोधं वायोरिव सुदुष्करं सुतरां दुस्साध्यं अहं मन्ये | अतो प्. १७५)
187 SK भवतोपदिष्टं योगं कः कर्तुं समर्थः ? अथवा मनोनिग्रहे को वा उपायोऽस्ति ? अस्ति चेत् तन्मे उपदिशतु भवान् इत्यर्जुनः कृष्णं ययाचे || ३४ || असंशयं महाबाहो मनोदुर्निग्रहं चलम् | अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते || ३५ || एवमर्जुनेनोक्तमङ्गीकृत्य तस्योत्तरं भगवानुवाच | हे महाबाहो अर्जुन असंशयं भवदुक्तार्थे संशयो नास्त्येव | सत्यमेव मनः चलं चञ्चलं दुर्निग्रहं निगृहीतुमशक्यं च | तत्र न कस्यापि विप्रतिपत्तिर्वर्तते | सर्वाभ्युपागतोऽयं विषयः | तु परन्तु कौन्तेय हे अर्जुन अभ्यासेन प्रति- anāsaktyā ca gṛhyate nibadhyata idaṃ manaḥ | evaṃ ca yāvatparyantaṃ manaḥ viṣayābhilāṣaṃ bhavati tāvatparyantaṃ manaso jayaḥ asaṃbhava eva | manaso nirviṣayatvamadhunā sādhayitavyam | mano yada prāpañcikāneva viṣayān paramātmaprītyarthaṃ viniyoktavyān bhāvayet tadā manaḥ mahāviṣaye paramātmanyevāsaktaṃ bhavet | paramātmā tu nirākārassaccidānandamayo vartate | tadāsaktaṃ mano'pi nirākārasthitau ramamāṇaṃ sat saccidānanda-mayameva bhavet | manaḥ nirantaraṃ yaṃ viṣayaṃ cintayet tādṛśameva rūpaṃ tadadhigacchati | viṣayacintanena tadeva prāpaṃcikaṃ bhavati īśvaracintanena pāramārthikaṃ saṃpadyate | ata eva jñāninaḥ manaḥ pikatvena śukatvena ca rūpayanti | śaraṇagītā śaraṇānāṃ manonigrahaprakāramevaṃ nirdiśati | manaḥśukasyārtaninādametaṃ niśāmaya śrīgurusaṅgamārya | saṃpīḍito'sau bhavarogaduḥkhāditastato bhrāmyati mohadṛṣṭyā | nirbadhya caitaṃ śivabhaktipañjare divyāmṛtaṃ prāśaya vatsabhāvāt | tathā kuru tvaṃ sadayaṃ tathāyaṃ hyuccārayedadya śiveti śabdam | iti | evaṃ śaraṇāḥ śivabhaktipañjare mana idaṃ nigṛhya śivamayasyāsya prapañcasya sevāyai niyuñjantaḥ tathaiva sarve vyāvahārikāśca kuryuriti saumyena manasā lokakalyāṇasya divyamādarśaṃ teṣāṃ puro nidadhati || 35 || p. 176)
188 SK असंयतात्मना योगो दुष्प्राप इति मे मतिः | वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः || ३६ ||
189 SK असंयतात्मना अभ्यासवैराग्याभ्यां अजितमनसा योगः उक्तयोगः दुष्प्रापः प्राप्तुमशक्य एवेति मे मम मतिः निर्णयः | वश्यमात्मना तु जितमनसा तु यतता प्रयत्नं कुर्वता उपायतः उक्तवैराग्याद्युपायात् योगमवाप्तुं शक्यते | मनोजयादेव साधकः अध्यात्मक्षेत्रे प्रगतिमाप्नुयात् | यतो हि मनः सर्वाकार्षिण्याः मायाशक्तेः प्रधानमवलंबनमिति शिवानुभविनो वदन्ति | कामिनिकांचनादिकं मायेति अनेके अभिप्रयन्ति किन्तु शरणाः मानसीमाशामेव मायां परिकल्पयन्ति | अतो मनः महाविषये महादेवे यदि रमेत तदा तच्च महादेव एव भवेदित्यभियुक्ता वदन्ति | मनोमायाविजये सुगममुपायं निवेदयन्ति शरणाः | शरणाग्रगण्यो बसवार्य एवं वदति | त्वदीयमाया गुरुकूडलार्य सर्वं जगत्सर्वत आवृणोति | तथा भवन्तं परितः स्तृणोति मनो मदीयं त्विदमत्र चित्रम् | प्रभुर्यदि त्वं जगतो हि देव तवाहमत्रास्मि विनोदभूमिः | करी यथा दर्पण एव लीयते तथा त्वमेवाद्य निलीयसे मयि | इति बसवार्यस्तदीये मनसि परमात्मावस्थितिं स्पष्टयित्वा तदीयचिन्तनमेव मनोविजयहेतुत्वेन निर्दिशति | हृदये तिष्ठतः परमात्मनो नित्यस्मरणमेव सर्वव्याधिनिवारणोपाय इति सर्वे दार्शनिका अभिप्रयन्ति | निराकारं मनो न कदापि साकारस्मरणात्तृप्यति | निराकारस्येश्वरस्य चिन्तनादेव तदैक्यानुभवेन मनस्तृप्येत | जगति सर्वश्रेष्ठ इति परिगणितः परमेश्वर एव सद्भक्तस्य निर्मले हृदयेऽन्तर्भवतीति ज्ञानिनो वदन्ति | शरणगीता परमात्मावासभूतस्य सद्भक्तस्य महत्त्वमेवं वर्णयति | घनः समुद्रः किमु ? नैतदेवं यतो हि भूमावयमेव लीनः | भूमिर्घना किम् ? न च युज्यते तथा यतो हि सा तिष्ठति नागमस्तके | नागो घनः किम् ? न च तद्धि युज्यते यतो हि नागस्त्ववलंबते ह्युमाम् ? उमा घना किम् ? न हि तच्च युज्यते शिवार्थभागे तु निवेशिता सा | शिवो घनः किम् ? न च तद्भवेन्नु यतो ह्यसौ तिष्ठति सङ्गमार्य | त्वदेकनिष्ठस्य प्. १७७)
190 SK हृदग्रभागे ह्यतश्च भक्तो भवदीयतेजः | इति | एवं सद्भक्तानां सङ्गे स्थित्वा सद्विषयाकर्णनेन मनसि सद्भावनां यदि साधकः पदेपदे परिकल्पयति तदैव मनोनिग्रहः सुगमो भवेदित्याशयेन जितमनस एव साधकस्य योगसिद्धेः संभवमुपदिशति भगवान् || ३६ || एवं मनसो जयस्य अतीव क्लेशसाध्यत्वे भगवतैव प्रतिपादिते सति यः कश्चित् योगाभ्यासं कर्तुं प्रवृत्तः तादृशमनश्चाञ्चल्यात् कदाचित् योगाद्यदि चलितो भवेत् तदा तस्य का गतिस्स्यादित्यर्जुनः पृच्छति - अयतिः श्रद्धयोपेतो योगाच्चलितमानसः | अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति || ३७ || अर्जुन उवाच - हे कृष्ण श्रद्धया योगः साधनीय इति श्रद्धायुक्तोऽपि पुरुषः अयतिः मनश्चाञ्चल्यात् अभ्यासाद्यकरणेन यथोचितप्रयत्न- yogamanuṣṭhātumaśakyamanaśśaktimān yogasaṃsiddhiṃ yogasya phalaṃ aprāpya tādṛśaḥ aprāpnuvan sādhakaḥ kāṃ gatiṃ kīdṛśīṃ gatiṃ gacchati ? tasyottaragatiḥ kā ? ityarjunapraśnasyāśayaḥ || 37 || kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati | apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi || 37 || svapraśnāśayaṃ svayameva vivṛṇoti | he mahābāho kṛṣṇa saḥ vimūḍhaḥ viṣayavyāmohaviśiṣṭaḥ brahmaṇaḥ pathi paraśivasāmarasyādhigamāvasare apratiṣṭhaḥ pratiṣṭhāśūnyaḥ yogabhraṣṭatvāt paramātmānugrahāt loka- आकाशे मेघखण्ड इव न नश्यति कच्चित् नाशं न प्राप्नोति किम् ? योगारूढः पुरुषः यदि कदाचित् योगभ्रष्टो जायेत तदा सः शिवयोगात् च्युतोऽपि लोके विषयभोगानुकूलात् कर्ममार्गादपि किं च्युतो भवेत् ? योगाद्विदुरा ह्यनेके सदा भोगमार्गमेवावलंबमाना वर्तन्ते | तेषां विषये वक्तव्यं किञ्चिदपि नास्ति | ये तु योगमार्गनिरता यदि योगभ्रष्टा प्. १७८) भवेयुस्सदा ते जन्मान्तरे भोगमार्गमपि किं नाश्रयन्ते ? किं योगभ्रष्टः उभयभ्रष्टो भवेदिति ज्ञातुं अर्जुनः कुतूहली बभुव || ३८ ||
191 SK एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः | त्वदन्यः संशयस्यास्य छेत्ता नह्युपपद्यते || ३९ || हे कृष्ण मे मम एतं संशयमशेषतः संपूर्णतः छेतुं परिहर्तुं अर्हसि | यतः त्वदन्यः त्वद्व्यतिरिक्तः कश्चित् अस्य महतः संशयस्य छेत्ता परिहर्ता न भवितुमर्हत्येव | कोऽन्योऽस्ति त्वत्सदृशः अन्यः कश्चित् ज्ञानी ? त्वत्तोऽपि हितावहः अन्यः कश्चिन्नास्त्येव मे | अतस्त्वयैव मे संशयोऽयं निवारणीयः || पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते | न हि कल्याणकृत्कश्चित् दुर्गतिं तात गच्छति || ४० || एवं पृष्टः श्रीभगवानाह | हे पार्थ अर्जुन तस्य तादृशस्य योगाच्छलित-मनसः योगभ्रष्ठस्यापि इहास्मिन्लोके वा अमुत्र परलोके वा विनाशः भवदुक्तविनाशो न विद्यते न संभवति | नाशो नाम विद्यमानजन्मनोऽपि हीनजन्मप्राप्तिः | तदपि तस्य न भविष्यत्येव | कुत इत्यत्राह नहीति | हे तात अर्जुन कल्याणकृत् कश्चित् शुभकर्मकृत् मानवो यः कश्चिद्वा दुर्गतिं हीनावस्थां नहि गच्छति न कदापि प्राप्नुमर्हति | आत्मश्रेयस्साधनाय कृतः प्रयत्न एव शुभकर्मेत्यन्युभविनो भावयन्ति | तादृशशुभकर्मणि प्रवर्तमानः कदाचित् मायायाः वक्रदृष्टेः पात्रं भूत्वा यदि शुभकर्मणो भ्रष्टो भवेत् तदापि सः अशुभं फलं नैव प्राप्नुयात् || ४० || प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः | शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते || ४१ || तर्हि योगभ्रष्टस्य किं भविष्यति इत्यत्राह | योगभ्रष्टः शिवयोगाच्चलितः पुण्यकृतां अश्वमेधादिमहापुण्यकृतां महापुरुषाणां लोकान् स्वर्गादीन् प्राप्य तत्र शाश्वतीः बह्व्यः समाः संवत्सरान् उषित्वा वासं कृत्वा अनन्तरमपि प्. १७९) शुचीनां परिशुद्धात्मनां श्रीमतां निरतिशयैश्वर्यविशिष्टानां गेहे गृहे | वंश इत्यर्थः | अभिजायते पुनर्जन्म लभते | तथा च तस्य ऐहिके आमुष्मिके वा सुखे प्राप्तव्ये उत्कर्ष एव दृश्यते | उत्कृष्टफलप्राप्तिरेव तस्य संभवेदित्युक्तं भवति || ४१ ||
192 SK अथवा योगिनामेव कुले भवति धीमताम् | एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् || ४२ || श्रीमतां कुले जन्मप्राप्त्यपेक्षया उत्कृष्टजन्मप्राप्तिरपि योगभ्रष्टानां भवितुमर्हतीत्याह | अथवा श्रीमतां संपद्भरितानामेव संपन्नानां कुले अजननेऽपि धीमतां विवेकिनां योगिनामेव कुले अयं योगभ्रष्टो भवति जायते | यत् ईदृशं जन्म योगसिद्धानामेव कुले संभवति | एतत् लोके दुर्लभतरं अतीव दुर्लभम् | योगभ्रष्टस्यापि उत्कृष्टमेव जन्म संभवति | अतो मानवैः योगनिष्ठैरेव भवितव्यम् | भोगमार्गावलंबिनः सदा स्वार्थपरायणाः मोहदृष्ट्या स्वीयं मूलभूतं परमात्मानमेव विस्मरन्ति | एत एव तेषां अधोगतिर्नियता | योगमार्गनिरतास्तु योगिश्रेष्ठस्य परमेश्वरस्यातीव प्रियतमास्सन्तः माहेश्वराभिख्यां लब्धवन्तः हहपरसुखशान्ति- teṣāṃ tu iha amutra ca sukhaṃ vidyetaiva | evaṃ ca śivabhūtāssarve'pi sādhakāḥ śivena saha yogāya yathāśakti yathāmati ca prayateranniti bhagavānādiśati || 42 || tatra taṃ buddhisaṃyogaṃ labhate paurvadaihikam | yatate ca tato bhūyaḥ saṃsiddhau kurunandana || 43 || tādṛśotkṛṣṭakule yogabhraṣṭasya janane vaiśiṣṭyamāha | he kurunandana pārtha tatra tasmin kule saḥ yogabhraṣṭaḥ paurvadaihikaṃ pūrvasmin dehe bhavaṃ pūrvajanmasādhitaṃ tādṛśaṃ buddhisaṃyogaṃ samīcīnabuddhimatāṃ labhate sahavāsavaśādeva prāpnoti | evaṃ ca yogabhraṣṭe pūrvajanyakṛto yogaḥ saṃskārarūpeṇa vartata eva | tena saṃskāreṇa p. 180) viśiṣṭa eva saḥ janmāntaraṃ labhate | tasmin janmani pūrvajanmasaṃskāra udbuddho bhavati | tasmātkāraṇāt saḥ punarapi saṃsiddhau yogasaṃsiddhinimittaṃ yatate ca prayatnaṃ karotyeva | evaṃ ca ekadā kṛtasya śivayogasya bhraṃśaḥ na kadāpi saṃbhavedityarthaḥ || 43 || pūrvābhyāsena tenaiva hriyate hyavaśo'pi saḥ | jijñāsurapi yogasya śabdabrahmātivartate || 44 ||
193 SK सः योगभ्रष्टः योगिनां कुले जातः तेनैव पूर्वभ्यासेन पूर्वजन्म- bhavati | yogasya jijñāsurapi yogasvarūpaṃ jñātumicchannapi saḥ yogabhraṣṭaḥ pūrvatanasaṃskāravaśāt śabdabrahma vedoktakarmakalāpaṃ ativartate atikramya śivayogamārga eva vartate | tāvataiva tasya yogaḥ susādhyo bhavatītyarthaḥ || 44 || prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ | anekajanmasaṃsiddhastato yāti parāṃ gatim || 45 || jijñāsorapi yogo yadi susādhyaḥ syāt tadā prayatnādyatamānastu yogī yogasādhanāya tīvraṃ prayatnaṃ kurvastu sa yogī saṃśuddhaḥ anekeṣu janmasu kiñcitkiñcidabhyāsajanyasaṃskāropacayavaśāt śivayogasya siddhiṃ prāptaḥ tatphalatayā parāṃ gatiṃ śivasāyujyarūpaṃ mokṣaṃ prāpnoti || 45 || tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ | karmibhyaścādhiko yogī tasmādyogī bhavārjuna || 46 || sarvāpekṣayā śivayoginaḥ śreṣṭhatvaṃ pratipādayati | tapasvibhyaḥ taponiṣṭhe-bhyo'pi yogī śivayoganiṣṭha adhika utkṛṣṭaḥ | jñānibhyo'pi śāstrajanya-pāṇḍityavadbhyo'pi yogī adhikaḥ utkṛṣṭo mataḥ sammataḥ | karmibhyaśca agnihotrādikarmakartṛbhyaḥ avijñātaśivatattvebhyaḥ kevalakarmaniratebhyaśca yogī śivena sāmarasyamadhigatavān yogasiddhiḥ adhika utkṛṣṭaḥ | he arjuna p. 181)
194 SK तस्मात्कारणात् त्वमपि योगी योगनिष्ठो भव | एवमर्जुनव्याजेन सर्वान् व्यावहारिकान् जनान् स्वान्तरङ्गे विराजमानेनेश्वरेण संयुज्यैव लोके वसितुं तथैवेश्वरप्रकृतिमधिगन्तुं च प्रेरयति भगवान् | गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् इत्यस्मिन् ब्रह्मसूत्रे आत्मनोर्द्वयोरवस्थानं स्पष्टं निर्दिष्टं | जीवात्मा शरीरस्वाम्यमधिगम्य स्वीयं प्रभुं परमात्मानं विस्मृत्यैव अहङ्कारेण व्यवहरन् दुःखपरम्परया बाध्यमानोऽपि तदेव सुखमिति बुध्व तत्रैव मुह्यति | परमात्मा तु असंस्पृष्टसुखदुःख एव निर्लिप्तो वर्तते | तेन सह युक्तश्चेज्जीवः परमात्मप्रकृतिमानन्दमयीमेवाधिगच्छन्ति | तेन वियुक्तस्सन् व्यवहारेण दुःखमश्नुते | स च वियोगः अहङ्कारभिमानपोषणेन जीवस्य दुःखं वर्धयति | योगस्तु शक्तिविकासेन सुखप्रकृतिं स्थिरयति | शिवेन सामरस्यानुभव एवात्र योगशब्दार्थः | अयमेव शिवयोगोऽत्र अभ्याससाध्य इति निर्दिष्टः | एवं योगस्यानिवार्यतां भगवानुपदिशति | योगाभावे मानवजन्मैव व्यर्थं भवेदित्याशयः | तथा च शिवयोगसिद्धः शिवेन सह वसन् शिवप्रियो भूत्वा एकदिनं यदि वसेदिह तदेव जन्मसार्थक्यं संपादयतीति शिवयोगिनोऽभिप्रयंति || ४६ || योगिनामपि सर्वेषां मद्गतेनान्तरात्मना | श्रद्धावान् भजते यो मां स मे युक्ततमो मतः || ४७ || सर्वेषां योगिनामपि आदित्यचतुर्मुखादीतरदेवताध्यानपराणां सकल- antaḥkaraṇena māṃ tadīyahṛdaye virājamānaṃ prāṇaliṅgaṃ śraddhāvān tadekapravaṇo bhaktimān yaḥ bhajate sevate sa eva yuktatamaḥ sarvayogiṣva- कृष्णः शिवतादात्म्यभावनयोपदिशति | तथा च योगोऽत्र प्राधान्यतया निर्दिष्टः | योगो नाम सामरस्यम् | पूर्णभिन्नयोः वस्तुनोः सामरस्यं न संभवति | पुर्णाभिन्नयोस्तु सामरस्यप्रतिपादनावश्यकतैव नोदेति | वस्तुतोऽभिन्नयोरेकरूपयोः योग एव त घटते | अतो जीवपरमयोः वस्तुतः चिद्रुपेणैवकजातीययोः प्रकृतिसंपर्केण सहजतया प्. १८२)
195 SK भिन्नयोर्योगोऽत्र भगवता उपदिश्यते | तिलतण्डुलवत्पूर्णभिन्नौ चेत् जीवपर- ekarūpayo-rbhinnaprasthāne nimagnayostu jñānakriyāsamanvayātmikayā bhaktyā yogaḥ sahajatayā saṃghaṭate | evaṃ ca yogaḥ ekajātīyayoreva tatrāpi bhinnaśaktikayoḥ saṃbhavati na tu bhinājātīyayoḥ | jīvaparamātmānau cijjātīyāvapi śaktivaiśiṣṭyena bhinnau vartete | ata eva tayoḥ baddhāvasthāyāṃ śaktibhedāt sahajatayā bhedaḥ buddhāvasthāyāṃ cidaikyarūpo'bhedaśca saṃbhavataḥ | jīvaḥ māyayāpahṛtaiśvaryaḥ svīyaśaktessaṅkocena kṣīṇaśaktikaḥ alpaḥ parimitaśca vartate | paramātmā tu pūrṇaśaktiko'parimito'khaṇḍaśca vartate | tanniṣṭhā icchāśaktiḥ viśālā sarvavyāpikā aparicchinnā anantā ca vartate | jīvaniṣṭhā tu sā śaktiḥ svārthamātraparā parimitā ca vartate | tathaiva paramātmaniṣṭhā jñānaśaktirapratihatā nirgalā viśvavyāpikā ca virājate | jīvaniṣṭhā puṃsā śaktiratyalpā mitavyāptikā durabhimānapūrvikā ca vartate | tathaiva paramātmaniṣṭhā kriyāśaktiḥ vīryavattarā apratispardhinī anavadhikā adbhutā akhaṇḍā ca virājate | jīvaniṣṭhā tu sā śaktiḥ svārthasādhikā parimitā deśakālādyavadhikā ca vartate | evaṃ cidrūpeṇaikajātīyayorapi jīvaparamayoḥ śaktisaṅkocavikāsābhyaṃ svābhāvikabheto vilasati | atastau na saṃpūrṇamabhinnau | paraṃtu dvāvapi śaktiviśiṣṭāveva | ekasya śaktiraparimitā aparasya tu parimitā | paramātmā cicchaktiviśiṣṭhaścet jīvātmā cittaśaktiviśiṣṭo vartate iti prāgevoktam | evaṃ ca cittaśaktiviśiṣṭasya jīvasya cicchaktiviśiṣṭena śivena saha advaitaṃ sāmarasyamatra kṛṣṇaparamātmanopadiśyate | etādṛśamadvaitaṃ avaśyaṃ saṃpādanīyameva | mūlataḥ abhinnayoḥ śaktivaiśiṣṭyena bhinnayoḥ tasyā eva śaktervikāsena advaitaṃ saṃghaṭate | etādṛśo yogaḥ abhyāsena nirantarasādhanena ca adhigantavya iti bhagavānupadiśati |
196 SK नदीसमुद्रवत् मूलतोऽभिन्नावपि जीवेशौ सहजतया भिन्नावेव वर्तेते | तयोर्विवेचनमालोचनमारचनं च प्रत्येकं विभिन्नमेव वर्तते | जीवस्य प्. १८३)
197 SK विवेचनं स्वार्थमूलं परमात्मनस्तु लोककल्याणायत्तं सर्वव्यापकं श्रूयते | तथैव जीवस्यालोचनं स्वस्य स्वसंबन्धिनां च हितावहम् परमात्मनस्तु लोकहितासक्तमिति विश्रुतमेव | तथैव जीवस्य आरचनं तु स्वकुक्षिपूरकं स्वार्थैकप्रवणम् प्रमात्मनस्तु सार्वजनिकं अव्याज- yādṛcchikaḥ | tathā ca prakṛtyā bhinnayoḥ cidātmakayostayoḥ parasparajñānena tatprayuktakriyayā ca sāmarasyaṃ udeti | tathā tayoryoge na ko'pi virodhaḥ sphurati | nadī samudrādevotpannā tathāpi nadyāḥ nadītvenaiva vyavahāraḥ na samudratvena | yadā nadī samudraṃ gacchati tadā tasyā nāmarūpavilayanāt samudra ityeva vyavahāraḥ saṃbhavati | evaṃ ca jīvaḥ paramātmacetanāṃśo'pi cittaśaktyākhyasya malasya nityasaṃparkeṇa prākṛtikatayā bhinna āste | yadi sattvarajastamomayaṃ manaḥ śivacintananairantaryeṇa satyajñānānandarūpeṇa pariṇameta tadā jīvaḥ paramātmanā saha yujyaitaiva | evaṃ ca yogaḥ manaḥ-pariṇāmadvārā saṃpādanīya iti kṛṣṇasya āśayaḥ | yadā mānavī prakṛtiḥ daivīprakṛtikatayā pariṇamate tadānīmeva jīvaparamayoryogaḥ saṃghaṭanīyaḥ | evaṃ ca śaktiviśiṣṭvādvaitapratipādako yogaḥ kṛṣṇaparamātmanopadiṣṭaḥ cidrūpeṇābhinnayoḥ śaktivaiśiṣṭyena bhinnayoḥ jīvaparamātmanoḥ samyaganveti | evaṃ ca tādṛśayoga eva sarvaduḥkha nivāraṇopāyaḥ | evaṃ yukto jīvaḥ yadyadācarati tattatsarvamapi lokakalyāṇasādhakameva bhāsate | sādhusvabhāvaḥ puruṣastu loke śivapriyo hyekadinaṃ vasennu ityanubhavināmā- अध्यात्मभावनामयः सामरस्योत्पादकोऽत्र जीवनाधारमिति गीतायामने- vartate | evaṃ ca jīvaṃ sākṣātparabrahmeti bhāvayituṃ na yujyata iti sarvaviditameva | anīśayā śocati muhyamānaḥ iti śvetāśvataraśrutiḥ jīvasya aśaktatāprayuktau śokamohau nirdiśati | evaṃ bhayagrastaṃ śokamohapīḍitaṃ malāvṛtaṃ jīvaṃ sākṣāt brahmaiveti saṃsāradaśāyāṃ baddhāvasthāyāṃ na ko'pi p. 184)
198 SK वदेत् | एवं भिन्नस्यैव जीवस्य प्रत्येकभावनां दूरिकर्तुं तन्मूलभूते शिवे सामरस्यमयं योगमुत्पादयितुं च श्रीक्षृणभगवान् योगशास्त्र- pravarteta | sahajatayā bhinnayoreva dvayoryogaḥ saṃbhavet | evaṃ jīvaparamātmanoḥ saṃsāradaśāyāṃ bhedaḥ svābhāvikatayā vartate | tadānīṃ yaḥ cidaikyarūpo'bhedaḥ atīva sūkṣmo'vyaktaścāsīt sa eva cicchaktipariṇāmabhūtāyāḥ bhaktyāḥ prabhāveṇa buddhāvasthāyāṃ vyaktatayā bahirantaśca vikasati | śaktyā saṃsāre pravṛttimupagato jīvaḥ bhaktyā nivṛttiṃ saṃprāpya sarvatomukhena ātmakalyāṇākhyena śaktivikāsena paramaśivo bhūtvā lokakalyāṇaṃ sādhayati | ataḥ sarve'pi jīvāḥ manassaṃparkeṇa bhinnā api sveṣvavasthitasyaikavidhasya paramātmanaḥ paricayena paramāṃ śāṃtiṃ labdhvā parasparaṃ premabhāvanayā varteranniti bhagavān nirīkṣate | evaṃ sahajatayā bhinnayoḥ yogapratipādanāt gītāśāstraṃ kevalādvaitamataparamiti na bhramitavyaṃ vivekribhiḥ | yogasya śaktivikāsaparatvāt yogaśāstramidaṃ śaktiviśiṣṭādvaitamate yathāśrutayā rītyā anvetītyanubhavino bhāvayanti | iyaṃ ca bhāvanā śrutiyuktyanubhavamūlā ca bhāsata iti sarvamavadātam || 47 || saptamo'dhyāyaḥ pūrvādhyāyānte yogiṣu sarveṣvapi śivayoganiṣṭha eva uttama ityuktam | tatra kāraṇaṃ vistareṇāsminnadhyāye sūcayati - mayyāsaktamanāḥ pārtha yogaṃ yuñjan madāśrayaḥ | asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇuḥ || 1 || śrībhagavānuvāca - he pārtha arjuna ! mayi vakṣamāṇaviśiṣṭe parameśvare mayi āsaktamanāḥ āsaktaṃ mano yasya tādṛśaḥ san yogaṃ yuñjan yogaṃ kurvan madāśrayaḥ ahameva āśrayo'valaṃbanaṃ yasya tādṛśaḥ tvaṃ asaṃśayaṃ p. 185)
199 SK संशयलेशमपि विना मां पुरोऽवस्थितं दिव्यरूपधारिणं परमात्मानं समग्रं संपूर्णं यथा ज्ञास्यसि तत्प्रकारं शृणु | तत्त्वोपदेशकं कृष्णं मर्त्यरूपधारिणमपि यथा परमात्मभावनया मानवः आदृत्य पुरस्कुर्यात् परमात्मतत्त्वं च यथा तेन ज्ञायेत तथाधुना भगवान् न केवलमर्जुनाय किन्तु सकललोकाय च तत्त्वोपदेश-मारभते || १ || ज्ञानं तेऽहं सविज्ञानं इदं वक्ष्याम्यशेषतः | यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते || २ || अहं ते तुभ्यं इदं वक्ष्यमाणं ज्ञानं सविज्ञानं विज्ञानसहितं स्वानुभवयुक्तं अशेषतः संपूर्णतया वक्ष्यामि उपदिशामि | यत् मया वक्ष्यामाणं ज्ञात्वा इह लोके भूयः पुनरपि अन्यत् ज्ञातव्यं पुरुषार्थसाधनं नावशिष्यते तत् तादृशं शिवतत्त्वज्ञानं वक्ष्यामि || २ || मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये | यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः || ३ || को विशेषः वक्ष्यमाणज्ञानस्येत्यत्र तादृशमेव अतिदुर्लभं इति प्रतिपादयति | मनुष्याणां मध्ये कश्चित् एक एव सिद्धये वक्ष्यमाणज्ञानसिध्यर्थं यतति प्रयत्नं करोति | एवं यततामपि प्रयत्नं कुर्वतां सिद्धानां सिद्धिं प्राप्तानां मध्येऽपि तेषु कश्चिदेव यः कश्चिदेव मां तत्त्वतः यथावत् वेत्ति जानाति | वक्ष्यमाणज्ञानप्राप्त्यर्थं प्रयत्नं कुर्वन्त एव विरलाः | अथ प्रयतमाना अपि पूर्णतया तत्त्वं जानन्तस्तु ततोऽपि विरला इत्यर्थः || ३ || भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च | अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा || ४ || एवं वक्ष्यमाणं स्वस्वरूपविषयं तत्त्वज्ञानं प्रशंस्य अथ तदेवोपदेष्टुमुपक्रमते | भूमिः पृथिवी | आपः जलम् | अनलोऽग्निः | वायुः प्रसिद्धः | खं आकाशः | मनः बुद्धिः अहङ्कार इति त्रीणि तत्त्वानि | आहत्य अष्टौ प्. १८६) इत्येवं प्रकारेण इयं मे प्रकृतिः अष्टधा भिन्ना | एवं च परमात्मनः अचिद्रूपा जडा प्रकृतिः शरीरस्थानीया अष्टविधा वर्तत इत्यर्थः || ४ ||
200 SK अपरेयमितस्वन्यां प्रकृतिं विद्धि मे पराम् | जीवभूतां महाबाहो ययेदं धार्यते जगत् || ५ || एवं जडप्रकृतेरष्टधा विभागमुक्त्वा ततः चेतनप्रकृतिं निरूपयति | इयमुक्ता प्रकृतिः अपरा निकृष्टा संसारबन्धरूपेति भाव्यते | इतोऽस्याः अन्यां परां विशुद्धामुत्कृष्टां च जीवभूतां जीवस्वरूपां प्रकृति- tatpatnīsthānīyāṃ tatpremapātraṃ viddhi jānīhi | yayā jīvarūpaprakṛtyā idaṃ sarvaṃ jagat pañcabhūtātmakaṃ jaḍasvarūpaṃ dhāryate dhṛtaṃ bhavati | evaṃ ca paramātmajātīyāyāstatsaṃbandhinyāḥ jīvaśakteḥ saṃparkādeva hi jagataḥ sthitissaṃbhavatītyarthaḥ || 5 || etadyonīni bhūtāni sarvāṇītyupadhāraya | ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā || 6 || etādṛśaprakṛtidvayameva sarvavastūnāṃ kāraṇamiti pratipādayatyatra | etadyonīni ete parāpare prakṛtī śarīrasthānīye adyokte yoniḥ kāraṇaṃ yeṣāṃ tāni etadyonīni sarvāṇyapi bhūtāni prāṇijātānītyupadhāraya jānīhi | parantu etāvatā tayoḥ svātantryeṇaiva sarvakāraṇatvamiti na bhramitavyamityadya pratipādayati | etadubhayaprakṛtidvārā ahameva kṛtsnasya sarvasyāpi jagataḥ prabhavaḥ utpattikāraṇam | tathā pralayaḥ ante mahāpralaye mayyeva sarvasya vilayanaṃ ca saṃbhavati | evamutpattipralayayoḥ kāraṇatve rakṣaṇakāraṇatvamapi paramātmanyeva saṃbhavati | ata eva jīvaḥ pañcabhūtātmakasya prapañcasya kāraṇabhūto'pi na svātantryeṇa tasya karanatvaṃ saṃbhavati | tanmūlabhūtasya paramātmanaḥ saṃṅkalpādeva tadicchānurodhena tatpreraṇānuguṇatayaiva jīvaḥ pañcabhūtaiḥ saha vyavaharan vartate | evaṃ ca jīvaḥ cetanarūpatvāt kartā yadyapi bhavedeva tathāpi paramātmādhīna- p. 187)
201 SK कर्तृत्वमेव तस्मिन् अन्वेति | एवं च जीवः न हि स्वत एवाहङ्कारेण यत्रकुत्रापि प्रवर्तेत तथैवौदासीन्यतया विरक्तो भूत्वा न कदापि निवर्तेत | तस्य प्रवृत्तिनिवृत्ती परमात्माधीने स्तः | अत एव सर्वमपि सर्वकारणेन परमात्मनैव क्रियत इति ताटस्थ्यं सः न वहेत् | तथैव सः सर्वस्यापि स्वमेव कर्तारं भावयित्वा स्वयमपि न प्रवर्तेत | एतेदुभयमपि तस्मिन् न युज्यते | तस्य प्रवृत्तेर्निवृत्तेश्च परमात्मैव प्रधानं कारणम् | एवं च जीवण् स्वान्तःप्रकृतिभूतं मनः सर्वदा परमात्मचिन्तन एव विनियुञ्जन् स्वबहिःप्रकृतिं शरीरं स्वीयबन्धुभ्यः चेतनजीवेभ्यो नियुञ्जीत | एवमेव यदि सः जीवेत् तदानीमेव सः जन्मसाफल्यमधिगच्छेत् | नो चेन्महती विपत्तिः संपतेत् | मनसि स्वपितरं परमात्मानं विहाय सोदरसोदरीचिन्ताया यदि सः अवकाशं दद्यात् तदा तस्य मतिभ्रंशो नियत एव स्यात् | अत एव जीवात्मा परमात्मसंबन्धी भूत्वा पञ्चभूतानां सहकारेण मनसि स्वकारणं स्वरक्षकं परमात्मानं तमेव सदा चिन्तयन् तदिच्छानु-रोधेन स्वसोदरवर्गस्य क्लेशपरिहारद्वारा सन्तोषणार्थं यदि प्रयतेत तदा सः परमात्मानुग्रहपात्रं भवेत् | एवं चिद्रूपतया सजातीये जीवे परमात्मना निक्षिप्तः लोककल्याणरूपो गुरुतरो भारः परमात्मने यथा सन्तोषः संभवेत् तथा जीवेन निरुह्यः || ६ || मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय | मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव || ७ ||
202 SK मत्तः परमेश्वरात् सर्वकारणादपि परतरं अन्यत्कारणान्तरं किञ्चिदपि नास्ति | हे धनंजय अर्जुन सर्वमिदं जगत् सूत्रे तन्तौ मणिगणा रत्नसमूहा इव मणिसमुदायवत् मयि परमेश्वरस्य साकारमूर्तौ तत्स्थानीये मयि प्रोतं ग्रथितम् | एव सर्वस्याप्यहमेवाधारभूतोऽस्मीत्यर्थः | कृष्णः यद्यपि सर्वकारणस्यामूर्तस्य शिवस्य तादात्म्यभावनया अनेकेषु स्थलेषु अस्मत्पदं प्रयुङ्क्ते | तत्र न कोऽपि मिथो विरोध इत्युपक्रम एव विस्तरशो निरूपितम् | मामिति तस्य प्रयोगः अमूर्तपरमात्मन्येवान्वेति | एवं च सर्वाधिकरणत्वात् प्. १८८) परमात्मनः स्थलमिति अनुभविभिर्यदुच्यते तत्समञ्जसं भाति | एवमेव सर्वेषां भूतानां प्राणिवर्गस्य च लयगमनाश्रयत्वात् तस्याखण्ड- rudraḥ viṣṇuḥ ityādibhirnāmabhirvyavahāryaḥ paramātmā sarvasyāpi sthalāvakāśa-pradānena svaprabhutvaṃ patitvaṃ ca sārthakaṃ kurvan virājata iti vivekibhirbhāvyam | ayamevāmūrtaḥ paramātmā jagadrakṣaṇārthaṃ viṣṇoḥ divyaṃ mūrtaṃ saumyaṃ rūpaṃ paridhatte jagatsaṃhārārthaṃ kālarūdrasya bhīkaraṃ rūpaṃ svīkaroti | evaṃ ca kāraṇarūpasya mūlabhūtaparamātmanaḥ divyamūrtarūpāṇāṃ kāryakoṭau praviṣṭānāṃ trimūrtīnāṃ ca bhedo nāsti | yadi vaiṣṇavāḥ śaivāśca mitho bhedaṃ parikalpya svasahodaravarge paramātma- भवेयुः | मानवाः परमात्मांशभूताः मिथो विवादार्थमत्र नागताः किन्तु परस्परप्रेमसौहार्दप्रसारार्थमेवेमं पवित्रं देहमधिगतवन्त इति सर्वदा तैः विचिन्त्यमिति भगवत आशयः || ७ || रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः | प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु || ८ ||
203 SK मणिगणे सूत्रमिव जगति विद्यमानेषु सर्ववस्तुषु परमात्मा केन रूपेण निवसतीत्यत्र कानिचिन्निदर्शनानि ददाति | हे कौन्तेय अहं अप्सु जलेषु रसः रसरूपोऽस्मि | जलस्य हि प्रधानो गुणः रस एव | एवं च शशिसूर्ययोः चन्द्रसूर्ययोः प्रभा कान्तिरूपश्च अहमेवास्मि | सर्ववेदेषु सर्वेष्वपि वेदेषु प्रधानभूतः प्रणवश्च अहमेवास्मि | खे आकाशे शब्दोऽस्मि | आकाशस्य असाधारणो गुणः शब्दः | शब्दगुणकमाकाशमिति हि तल्लक्षणमुच्यते नैयायिकैः | एवमेव नृषु पुंरूपमापन्नेषु जीवेषु यत्पौरुषं पराक्रमो दृश्यते तदप्यहमेव | एवं सर्ववस्तुषु यद्यत् वैशिष्ट्यं असाधारणधर्मस्थाने वर्तते तत्सर्वमपि परमात्मशक्तिरेवेति भाव्यम् | यत्र यत्र कश्चन विशेषो विलसति स सर्वेऽपि भगवत्प्रसाद एवेति फलितम् || ८ || प्. १८९) पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ | जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु || ९ || पृथिव्यां पुण्यो गन्धः सुगन्धो योऽस्ति सः अहमेव | विभावसौ अग्नौ यत्तेजो दीप्तिस्तदहमेव | सर्वभूतेषु सर्वेष्वपि प्राणिषु यज्जीवनं नाम देहाधारो धर्मः सोऽप्यहमेव | तपस्विषु च तपः तपोरूपश्चास्मि | एवं यत्र यत्किञ्चित् श्रेष्ठत्वं विद्यते तत्सर्वमपि भगवत्स्वरूपमिति भावयित्वा तद्विशिष्टं प्राणिवर्गमात्मीयतया प्रीणयेत्सुधीरिति भावः | एतद्वर्तनेनैव भगवदनुग्रहो लभ्येत || ९ || बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् | बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् || १० ||
204 SK हे पार्थ सर्वभूतानां सर्वप्राणिनां सनातनं आदिकालादारभ्य प्रवर्तमानं बीजं च अहमेवेति जानीहि | बुद्धिमतां प्रज्ञाशालिनां च बुद्धिरप्यहमेव | तेजस्विनां यत्तेजः प्रागल्भ्यं तदप्यहमेव | एतद्रूपत्वादेव सर्वेष्वपि जीवेषु मदवस्थितेः यत्किञ्चिद्वैशिष्ट्यं विलसत्येव | एकं जीवं अपरस्मात् प्रत्येकयितुं समर्थः यः कश्चन विशेषो यो वर्तते एकैकस्मिन् जीवे स सर्वोऽप्यहमस्मि | अतो जीवाः परस्परं वैलक्षण्यं दृष्ट्वा द्वेषमात्सर्यादिना हृदयं न कलुषीकुर्युरिति भगवानादिशति | यः स्वभ्रातरं अन्यभावनया द्वेष्टि सः स्वमेव द्वेष्टि | जीवाः स्वकर्मानुसारेण विभिन्ना अपि स्वान्तर्नियामकस्यैकरूपत्वात् तत्प्रीत्यर्थं परस्परं प्रीणयेयुरिति भगवत आशयः | तथापि अविवेकेन यः द्वेष्टि तस्य आत्मविनाशो नियतः | य इतरान् जीवान् परमात्मदृष्ट्या प्रीणयति सः परमात्मानुग्रहेण नित्यसुखी संपद्यत इति भावः || १० || बलं बलवतामस्मि कामरागविवर्जितम् | धर्माऽविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ || ११ || हे भरतर्षभ अर्जुन बलवतां बलशालिनां कामरागविवर्जितं काम इच्छा रागः प्राप्ते भाग्ये आसक्तिः तदुभयवर्जितं बलं च अहमेव | प्. १९०)
205 SK बलिष्ठेषु यद्बलं अपेक्षासक्त्यादिकं विनैवानायासेन सहजतया स्फुरति तदहमेवास्मि | अतो बलं सहजप्राप्तं सर्वेषु मदीयमिति भावयन् विवेकी मदनुग्रहं लभते | भूतेषु प्राणिषु धर्माऽविरुद्धः धर्मस्य शास्त्र- so'pyahameva | evaṃ dharamānuguṇatayā saṃsārabhogānubhavo'pi bhagavat- भक्तिरियं शिवेष्टा भावैक्यरूपा यदि रामनाथ | एतादृशी भक्तिरनैक्य- parameśvarasya yathā priyo bhavedityaṃśastaiḥ samyak pratipāditaḥ | ayaṃ bhāvaikyamūlaḥ kāmo yathā sarvaroganivārako bhavedityaṃśaṃ basavāryaḥ samucitayā rītyā varṇayati | anyonyaṃ yadi citta ekarasatāṃ kanyāvarau prāpnyuyuḥ | tallagnaṃ śubhamityudīrayata mā cānyathā kathyatām | tārācandrabale tathā ṛṇamukhāḥ kūṭāśca rāśyādayaḥ | santīti pratipādyatām varamayaṃ dhasraḥ parastāddināt | saṃsāraracanāyaivaṃ ukte sati bhaveddhruvam | saṅgameśasya pūjāyāḥ phalamityabhidhīyate | iti | etādṛśaṃ mahattvaṃ dharmāviruddhasya kāmasya parikalpitaṃ śaraṇaiḥ | ato vyavahāribhirmānavaiḥ sadā dharmānuguṇyenaiva arthakāmayorārjane matirnidheyeti bhagavata āśayaḥ || 11 || ye caiva sāttvikā bhāvā rājasāstāmasāśca ye | matta eveti tānviddhi na tvahaṃ teṣu te mayi || 12 || sarvavastuṣu madavasthānaṃ kimu vaktavyamadhikatayā ? ayamatra saṃkṣepa iti nirūpayati | ye caiva sāttvikā sattvaguṇamūlabhūtāḥ ye ca rājasā rajoguṇa- मत्सकाशादेव जायन्ते अथापि नाहं तत्र कस्यापि फलस्य भगवानस्मि इत्यमुमाशयमधुना स्पष्टयति | अहं तेषु स्थित्वापि न तदधीनोऽस्मि | प्. १९१)
206 SK प्रत्युत ते त एव मयि वर्तन्ते | ते सर्वेऽपि सर्वदा मदधीना एव वर्तन्ते | तदीय- yatkiñcidvastu bhaktyā mahyaṃ dadāti tadānīṃ tadahaṃ santoṣeṇa svīkṛtya bhuṃje | yadarpyate bhaktyā tadeva mayā svīkriyate | no cedahaṃ jīve udāsīna- तत्सर्वमपि तस्मै न फलति | यद्यत्फलं तस्य प्राप्यं तदेव तस्मै ददामि | सः यद्यदिच्छेत् तत्सर्वमपि तस्मै नाहं दातुं प्रभवामि | सः प्राग्जन्मनि मह्यं सर्वान्तर्यामिणे यद्यददात् तदेवाद्य तस्मै ददामि | गृहमागतेभ्यः सर्वेभ्योऽपि मत्प्रीत्यर्थं सः यत्तदानीमेव सन्तोषेण अददात् तत्सर्वमपि तदीयमेव आसीत् तदेवाद्य तस्मै दीयते मया | एवं सर्वे जीवाः मदधीना एव वर्तन्ते नाहं तदधीनोऽस्मि | अत एवाहं पतिः प्रभुश्चास्मि सर्वेषाम् || १२ || त्रिभिर्गुणमयैर्भावैरेभिस्सर्वमिदं जगत् | मोहितं नाभिजानाति मामेभ्यः परमव्ययम् || १३ || एतादृशं सर्वजगत्कारणं त्वां लोकस्तर्हि कुतो न जानातीत्याक्षेपं परिहरन्नाह | गुणमयैः सत्त्वरजस्तमोरूपैः एभिस्त्रिभिः भावैः रागद्वेषमोहादिरूपैः पाशैः मोहितं बद्धं अत एव संपादिताऽविवेकमिदं सर्वं जगत् एभ्यः उक्तगुणमयभावपाशेभ्यः परं व्यतिरिक्तं मां नाभिजानाति | तादृशगुणपरत्वात् गुणातीतं मां ज्ञातुं जना न शक्नुवन्ति | पाशबद्धाः पशुसदृशा जीवा स्वान्तरङ्गे निर्लिप्ततया विलसन्तं परमात्मानं विश्वसितुं न जानन्ति | विश्वासाभावे तज्ज्ञानं दूरापास्तमेव | ज्ञानाभावे तदीयसेवायाः प्रसक्तिरेव नास्ति | न विश्वसन्त्येव जनास्तु देवं तथापि तं नित्यमुपाह्वयन्ति | कर्तुं च विश्वासमपारयन्तस्तथापि मोहाद्विचरन्ति मन्दाः | विश्वासपूर्वं यदि वाह्वयेत तदा कुतो नोत्तरयेच्च देवः | विश्वासहीनो यदि देवमाह्वयेत् सद्यः पतेत्तत्कृतनिग्रहांकुशः | इति शरणगीता पाशबद्धजीवस्य विश्वासदरिद्र्यं वर्णयति | इदं सर्वमपि बन्धरूपस्य पाशस्य विषमः परिणामः | अत एव प्. १९२)
207 SK जनाः परमात्मानं विस्मृत्य स्वोदरपूरण एव कालं यापयन्ति || १३ || दैही ह्येषा गुणमयी मम माया दुरत्यया | मामेव मे प्रपद्यन्ते मायामेतां तरन्ति ते || १४ || एतादृशमोहस्य नाशोपायं परमात्मा स्वयमेवोपदिशति | दैवी देवस्य मम परमेश्वरस्य संबन्धिनी एषा हि मदीया गुणमयी त्रिगुणात्मिका मायाख्या सर्वव्यामोहकारिणी सर्वाकर्षणयोग्या शक्तिः दुरत्यया दुःखेन अत्ययः अतिक्रमणं यस्याः सा | एवं च सा मदीयापि माया न हि जनैर्मदंशभूतैरपि सुलभतया जेतुं शक्या | इदमेवात्र वैचित्र्यम् | जीवा अपि मदीयाः किन्तु मच्चेतनांशाः | तथैव तन्मोहकारिणी मायापि मदीया किन्तु मच्छक्त्यंशा | मच्चेतनांशः मच्छक्त्यंशेन सह युक्तः तदपहृत्तचैतन्यप्रभावः मां विस्मृत्य स्वाहङ्कारेण सर्वत्र प्रवर्तते | एवं च सः मायाया दासो भूत्वा तदाकर्षणभूतेषु रूपरसगन्ध- ayamaṃśaḥ śaraṇaiḥ samyak pratipāditaḥ | rūpādibhogyānviṣayānmamāgre deva prasāraṃ kuru mā kadāpi | kimeṣa jānāti paśustadānīṃ tṛṇābhilāṣaṃ parihāya nūnam | tathaiva kurvanviṣayairvīhīnaṃ bhṛtyaṃ hi paśyādbhutayā hi dṛṣṭyā | sadbhaktirūpaṃ tṛṇameva nityaṃ yathepsitaṃ bhojaya māṃ tvadīyam | tathaiva māṃ siñca subuddhivṛṣṭyā yāce prabho kūḍalasaṅgamārya ityevaṃ basavāryaḥ māyāprabhāvabhūtān bhogyaviṣayān īśvarānugraheṇa tasmai samarpya tatprasādarūpatayā tānupabhujya deha eva nityānandamanubhavituṃ īśvara eva bhaktyā yācate | evameva bhagavān kṛṣṇo'pi māyāyā ānukulya- अतः मामेव तादृशमायापतिं महेश्वरं मां ये प्रपद्यन्ते शरणं यान्ति त एवैतां मायां तरन्ति तर्तुं शक्नुवन्ति | एवं मायावाल्लभ्यसंपादनाय मायाकोलाहलः परमात्मैव मूलमिति भाव्यतेऽनुभविभिः | नो चेन्मायानुसरणं अरण्यरोदनमेव भवेत् | मायाविजयाय परमात्मशरणागतिं विहाय नान्य उपायोऽस्ति | अयमाशयो बसवार्येणैवं स्वानुभवप्रामाण्येन विशदीकृतः | प्. १९३)
208 SK त्वदीयमाया गुरुकूडलार्य सर्वं जगत्सर्वत आवृणोति | तथा भवन्तं परितः स्तृणोति मनो मदीयं त्विदमत्र चित्रम् || प्रभुर्यदि त्वं जगतो हि देव तवाहमत्रास्मि विनोदभूमिः | करी यथा दर्पण एव लीयते तथा त्वमेवाद्य निलीयसे मयि | इत्येवं मायाया वक्रगतिं निरोद्धुं भगवत्कृपैव दिव्य- renukādyācāryāśca māyāprabhāvavilāsānāṃ praśamāya paramātmasaṃbaddhaṃ sthirabhaktiyogameva sādhakebhya upadiśanti | yataḥ paramātmana eva sā māyā samāgatya asmān parīkṣamāṇā vartate atastaṃ vinā nānyena sādhanena vayaṃ māyāvakragateḥ vidūrā bhavema | ato māyāvijayāya māyāpatirevāśrayaṇīyaḥ || 14 || na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ | māyayā'pahṛtajñānā āsuraṃ bhāvamāśritāḥ || 15 || bhavadanugrahādeva māyā niroddhavyā cettarhi sarve'pi bhavantaṃ prapadya kuto māyāpāśādvimocanaṃ na prāpnuvantītyatrāha | duṣkṛtinaḥ pāpakarmāṇaḥ ata eva mūḍhā vivekahīnā narādhamāḥ puruṣeṣvatinīcāḥ | māyayā uktadura- ये तु दैवीप्रकृतिसंपन्नास्त एव मां सेवन्त इति भावः | एतदेव च वक्ष्यति महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः | भजन्त्यनन्यमनसा ज्ञात्वा भूतादिमव्ययम् इति | एवं ये सद्वर्तनशीला हृदयशुद्धिमन्तस्त एव परमात्मनि विश्वसन्ति तं प्रपद्यन्ते च | अन्येषां तु तत्र प्रवृत्तिरेव नोदेति | ये तु मायायाः शरणागता विषयभोग एव निष्णाता भवन्ति ते सर्वदा पाशबद्धा एव सन्तः परमात्मसंपर्कं न लभन्ते | तेषां दुरवस्थां शरणगीता एवं वर्णयति | व्याघ्रास्यसंसक्तमृगो यथैव यथैव भेको भुजगास्यलग्नः | तथैव मायामृगबन्धिनीसितान् समीक्ष्य भीतः शरणं प्रपद्ये | अतस्त्वमेवार्हसि रक्षितुं मामखण्ढदेवाद्य दयां निधेहि इत्येवं परमात्मशरणागत्यैव मायाया वाल्लभ्यं संपादनीयमिति प्. १९४) शरणास्स्वानुभवेन यद्वदन्ति तत्सर्वदा साधकैः स्मरणीयम् || १५ ||
209 SK चतुर्विधा भजन्ते मां जनास्सुकृतिनोऽर्जुन | आर्तो जिज्ञासुरर्थार्थीं ज्ञानी च भरतर्षभ || १६ || एवं परमात्मानं भजतामपि तारतम्यमस्तीत्याह | हे अर्जुन सुकृतिनः पूर्वश्लोके उक्तस्य दुष्कृतिन इत्यस्य विपरीततया स्थिताः पुण्यकर्माणस्तु चतुर्विधा चतुष्प्रकारा मां भजन्ते सेवन्ते | हे भरतर्षभ अर्जुन तेषु च आर्तः बहिरन्तर्व्याधिपीडितः संकटे पतित एकः | जिज्ञासुः ज्ञातुमिच्छुः तत्त्वज्ञानं प्राप्तुमिच्छुः स एकः | अर्थार्थी ऐश्वर्याद्यपेक्षावान् अन्यः | ज्ञानी परमात्मतत्त्वविच्च अपरः | एवं चतुर्विधा मां भजन्ते | सङ्कट- jñānaprāptaye māmāśrayanti | prāptatattvajñānāstu jñāninaḥ mayi sāmarasyasukhamanubhavitumeva māṃ bhajante | jīvānāṃ madaṃśatvāt mayyeva ekībhāvamadhigantuṃ sarvairapi prayatitavyam | tathāpi kecideva maladoṣavinirmuktāḥ paramātmanaḥ priyāḥ sādhakāstasminneva saṃyuktā nityānandamanubhavitumicchanti | etatsarvaṃ māyāyāḥ prābalyamavalaṃbate | ye māyayā yāvatpramāṇaṃ parityajyante tāvatpramāṇaṃ paramātmanā puraskriyante | atassarvairapi māyanirodhāya prayatitavyam || 16 || teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate | priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ || 17 || teṣāṃ caturṇāṃ madhye nityayuktaḥ nityaṃ sadā paramātmanyeva saṃsaktaḥ tanniṣṭha ityarthaḥ | ata eva ekabhaktiḥ mayyekasminneva nirākāraparameśvare bhaktiryasya saḥ | tena prāptavyasyānyasyābhāvāt parameśvarameva apekṣamāṇā ityarthaḥ | tādṛśo jñānī viśiṣyate itaratrayāpekṣayā atiricyate | hi yasmāt jñāninastasya ahamevātyarthamatyantaṃ priyaḥ prītiviṣayaḥ | tathaiva mama ca sa eva priyaḥ madekacittatvāt | tasmātsa eva sarvāpekṣayā śreṣṭha iti bhāvaḥ | evaṃ jñānyeva p. 195)
210 SK परमभक्त इति तस्य महत्त्वं प्रतिपादयति भगवान् | ज्ञानी सर्वदा निरहङ्कारस्थितौ भगवदनुग्रहमेवावलंब्य निमित्तमात्रं व्यवरति | शरणगीता परमात्मविषये मानवस्य वर्तनमेवं वर्णयति पुरस्तु सिंहस्य पराक्रमस्ते किं शोभते मानव चिन्तय त्वम् | संवर्तकाग्रे किमु पक्षिलीला अहस्कराग्रे किमु कीटनर्तनम् | भवत्पदाग्रे कलिदेवदेव किं शोभते क्रीडितमस्मदीयम् | एवं परमात्मनि भक्तिनम्रतया शरणागतिं विना मायाविजयाय नान्यो मार्गोऽस्तीति शरणा भावयन्ति | तादृशं ज्ञानिनं भक्तं परमात्मा स्वसन्तोषार्थं अनेकैः प्रतारणैः परीक्षते | एतत्परीक्षाविधानं शरणगीता स्पष्टयति | हरस्तु भक्तानटने नियोजयेत्- mardyātpunarikṣudaṇḍavat | ya eva bhīto na bhavet kadāpi taṃ rāmanāthastu kareṇa dhatte | iti | evaṃ sarvavidhaparīkṣaṇairavañcita eva sādhake bhagavān kṛpāṃ tanoti | evaṃ parīkṣitatvādeva jñānī paramātmano'tīva priyo bhavati | sa eva tasya prāṇasthāne vartate || 17 || udārāḥ sarva evaite jñāni tvātmaiva me matam | āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim || 18 || tarhi jñāninaḥ śreṣṭhatve evaṃ sthirīkṛte itaratrayāṇāṃ sthitiḥ kīdṛśī ityatrāha | sarva evaite trayo'pi udārā utkṛṣṭā eva | itaradevatābhaktāpekṣayā paramātmabhaktatvāt te sarve'pi utkṛṣṭā eva | tu kintu jñānī me mama ātmaiva prāṇatulya eveti mataṃ mama sammatam | kṛta ityatrāha- āsthita ityādi | sa hi jñānī yuktātmā samāhitacittaḥ māmeva paramātmānaṃ anuttamāṃ uttamā- परमात्मा-पेक्षया प्राप्यं परमं स्थानं तस्य यतो नास्ति अतः सः मम परमात्मनः प्राणभूत इति भावः | एवं ज्ञानिनस्सर्वश्रेष्ठत्वं निर्दिशति भगवान् || १८ || बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते | वासुदेवः सर्वमिति स महात्मा सुदुर्लभः || १९ || प्. १९६)
211 SK तादृशस्तु ज्ञानिनः अतिदुर्लभत्वमाह | बहूनां जन्मनां अन्ते समाधौ बहुजन्मसु साधितसंस्कारविशेषादेवेत्यर्थः | वासुदेवः परमात्मप्राणरूपिण्याः पराशक्तेः पुरुषरूपः | स एव वासुदेवः सर्वमिदं जगत् इति सर्वं खल्विदं ब्रह्म इत्यादिवत् सर्वात्मज्ञानवान् मां प्रपद्यते भजते | सर्वो वै रुद्रः | इत्यत्र रुद्रपदं मूलतः पुरुषवाचकं एवं वासदेवपदं प्रकृतिवाचकं ज्ञेयम् | एवमेव सर्वं वस्तुजातं वासुदेव एवेति ज्ञेयम् | एतादृशज्ञानवानेव मां निराकारं परशिवं प्राप्नोतीति भावः | स एतादृशो महात्मा सुदुर्लभः सुतरामलभ्यः || १९ || कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः | तं तं नियममास्थाय प्रकृत्या नियताः स्वया || २० || उदारास्सर्व एवैते इति स्वभक्तानां श्रैष्ठ्यमुक्त्वा इदानीमन्यदेवता- putrapaśusvargakhyātyādirūpaiḥ kāmaiḥ hṛtajñānā apahṛtavivekāḥ svayā janmasiddhayā prakṛtyā niyatāḥ baddhāḥ taṃ taṃ niyamaṃ tattatphalaprāptaye ucyamānaṃ niyamaṃ āsthāyānuṣṭhāya anyadevatāḥ paramātmātiriktakṣudradevatāḥ prapadyante sevante | paramātmānaṃ vihāya anyā devatāḥ parikalpya aihikaphalaprāptaye ye upāsante te ātmaikyabhāvanāṃ nādhigacchanti | tādṛśaḥ upāsakān dṛṣṭvā śaraṇāḥ evamupadiśanti | eko hi devaḥ khalu nāma nānā pativratāyāḥ patireka eva | sā'nyaṃ yadīpsetsa patistadā tu karṇau tathā prāṇamapīha chindyāt | upāsyadevaṃ parihāya bhinnaṃ samarcayeccetpatito bhavennā | anekadevojjhitabhakṣitāraṃ śiṣṭāḥ kimāhuḥ kathaya prabho svayam || iti | evaṃ sarvadevapūjakaḥ naikaniṣṭho bhavet | sarvadevatāmayasyaikasya paramātmanaḥ samarcanaṃ vinā bhinnadevatānāmārādhane pravṛttasya na kācana vyavasthā nirīkṣyetetyarthaḥ || 20 || yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati | tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham || 21 || anyadevatārādhane'pi yathārthatattvaṃ te na jānantītyāha | yo yaḥ p. 197)
212 SK तत्तदल्पफलेच्छावान् भक्तः तत्तद्देवताभक्तः यां यां तनुं तत्तद्देव- tattatphalecchayā tattaddevatāpūjakasyāpi tasya tāmeva tattadanuguṇāmeva acalāṃ sthirāṃ śraddhāṃ ahameva vidadhāmi | tattaddevatāmūrtiṣvapi antarvartamānaḥ ahameva teṣāṃ śraddhāṃ poṣayitvā tadanuguṇaphalamapi dattvā tadīyāṃ devabhaktiṃ poṣayāmi | evaṃ ca anyadevatāpūjakairapi paramātmana ekasyaiva pūjā nirvartiteti bhāvanāṃ sa eva tatrāntaryāmitayā vartamānaḥ paramātmā niyatamevotpādayati | etādṛśī bhāvanā sarverapyarcakaistadānīṃ parikalpanīyeti śabdapramāṇabhūtaṃ śāstramupadiśati | iyamevātmaupamyadṛṣṭissarvairapi sādhakairācaraṇīyeti bhagavata āśayaḥ || 21 || sa tayā śraddhayā yuktastasyā rādhanamīhate | labhate ca tataḥ kāmān mayaiva vihitān hi tān || 22 || tayā madanugṛhītayā śraddhayā yuktassaḥ tasyā eva devatāyāḥ rādhanaṃ ārādhanamīhate karoti | tatastatkāraṇāt mayaiva hi sākāreṇa paramātmanā vihitān dattān tān kāmān tattatphalāni labhate ca prapnoti | evaṃ ca alpamatī-nāmapi śraddhāpoṣaṇārthaṃ ahameva mānavairarciteṣu sarvadevatāvigraheṣu amūrtatayā sthitvā tebhyastattadanuguṇaśraddhāmapyutpādya tattadabhipsitaṃ phalamapi dadāmi | bhakto bhaktyā sveṣṭadevaṃ svābhīpsitena nāmnā ākāreṇa ca yadyarcayet tadā tadīyārcanamahameva svīkaromi | tādṛśamarcanamahameva tasmātkārayāmi tasyārcanasya samucitaṃ phalamapyahameva pradāsyāmi | yatra yatrārcanaṃ karoti bhaktastatra sarvatrāpi paramātmabhāvanayaiva yadi pravarteta tadā tadarcanaṃ paramātmanaḥ priyaṃ bhavet | eka eva devaḥ anekānyākārāṇi nāmāni ca yato dhatte tato bhaktassarvatra ekabhāvanayaiva yadi pravarteta tadā tasya manasi śāntirutpadyeta | etadeva vakṣyati bhagavān ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca na tu māmabhijānanti tattvena iti || 22 || p. 198)
213 SK अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् | देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि || २३ || अन्यभावनया आराधितैर्देवैर्दत्तं फलमशाश्वतमल्पमित्याह | अल्पमे- paramapuruṣārthe yeṣāṃ matiḥ te hi mahāmatayo mahātmāna iti cocyante | paraṃ tu kṣudrā alpaprajñāḥ mahatā prayāsena alpameva phalaṃ labhante | paramātmaiva mahāniti parigaṇitaḥ | paramātmabhāvanayā arcayatastu mahadevaṃ phalaṃ saṃpadyate | tādṛśī bhāvanā yasya na vidyate tasya tādṛśe-nārcanena alpameva phalaṃ labhyate | teṣāṃ tattu phalaṃ mahatā āyāsena saṃpādyamānamapi tatphalaṃ antavat naśvarameva bhavati | devayajaḥ naśvarān paramātmātiriktān devān ye pūjayanti te tu devān tādṛśo naśvarāneva devān yānti prāpnuvanti | madbhaktāstu matpūjakāstu māmapi māmeva yānti prāpnuvanti | paramatmabhāvanayā ye arcayanti te paramātmānameva gacchanti | etādṛśyāmapi sthitau mūrkhā māṃ bhajitvā śāśvataṃ phalaṃ na prāpnuvanti hīti śocati bhagavānevam | vakṣyati ca ābrahmabhuvanāllokāḥ punarāvartino'rjuna | māmupetya tu kaunteya punarjanma na vidyate iti || 23 || avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ | paraṃ bhāvamajānanto mamāvyayamanuttamam || 24 || kutaḥ paramātmānaṃ te sarve na prapadyanta ityatrāha | abuddhayo buddhihīnāḥ mama madīyamavyayaṃ vyayarahitaṃ avatāradaśāyāmapi sadā vidyamānaṃ anuttamaṃ sarvottamaṃ yadapekṣayā uttamaṃ nāsti tadeva paraṃ bhāvaṃ paramātmabhāvaṃ ajānanto'navagacchantaḥ | svato'vyaktaṃ janmarahitaṃ santamapi idānīmeva nūtanatayā vyaktimāpannaṃ janma prāptavantaṃ manyante jānanti itarasāmānyajanavadeva māmapi manyante | ata eva te sarve māmamurta- महदाश्रयेण महाफलमधिगच्छन्ति | प्. १९९) अल्पास्त्वल्पमेव फलं लब्ध्वा पुनः पुनरुत्पद्यन्ते विलीयन्ते च | एतादृश- nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ | mūḍho'yaṃ nābhijānāti loko māmajamavyayam || 25 ||
214 SK कुतो भवन्तं ज्ञातुं न शक्नुवन्ति सर्वे साधका इत्यत्राह | योगमाया- guṇamayī mama māyā ityuktameva prāk | tayā samāvṛta ācchādito'haṃ paramātmā sarvasyāpi janasya sāmānyataḥ na prakāśo na jñātumarhaḥ | ye tu māmeva prapadyante teṣāmevāhaṃ prakāśo jñeyo bhaveyam | ata eva māyayā mūḍhaḥ ajño'yaṃ lokaḥ māmajaṃ vastuto janmarahitamavyayaṃ maraṇarahitaṃ ca nābhijānāti nāvagacchati | evaṃ paramātmanaḥ sarvavyāptiṃ samyak jñātvā yo'rcayati sa eva paramātmapremabhājanaṃ bhūtvā paramātmani sāmarasyaṃ labhata ityarthaḥ || 25 || vedāhaṃ samatītāni vartamānāni cārjuna | bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana || 26 || sarvakleśakāriṇī māyā paramātmānaṃ tu na kadāpi mohayedityāha | he arjuna ahaṃ samatītāni bhūtakālikāni vartamānāni vartamānakālikāni bhaviṣyāṇi bhaviṣyatkālikāni ca sarvāṇi bhūtāni sarveṣāṃ sthitigatīḥ veda jānāmi | tu kintu māmetādṛśaṃ māṃ kaścana ko'pi na veda na jñātavān | madbhakta eva manniṣṭho matparāyaṇa eva madārādhaka eva māṃ jānīyādityarthaḥ || 26 || icchādveṣasamutthena dvandvamohena bhārata | sarvabhūtāni saṃmohaṃ sarge yānti parantapa || 27 || idānīṃ māyāyā mohanaprakāramāha | he bhārata bharatavaṃśotpanna parantapa arjuna icchādveṣasamutthena icchā ca dveṣaśca tābhyāṃ samutthena dvandvamohena sukhaduḥkhalābhālābhādidvaṃdvarūpeṇa mohena sarvabhūtāni sarvaprāṇino'pi sarge p. 200)
215 SK उत्पत्तिकाले संमोहं संमूढातामज्ञतां यांति प्राप्नुवन्ति | यदा जन्म तदा प्रकृतिसंबंधस्यावश्यकत्वात् तन्मूलतया रागद्वेषादिना विमूढो जनः मां परमात्मानं न जानाति | अतः प्रथमं सत्सङ्गे स्थित्वा मानवः रागद्वेषादिकं परित्यजेत् | रागद्वेषपरिहाराय ज्ञान-क्रिययोरुभयोरपि समन्वयदृष्ट्या अनुष्ठानमावश्यकम् | यः सम्यक् परमात्मव्याप्तिं ज्ञात्वा तस्य स्वदेहेऽवस्थानं च सद्भिरवगम्य तदुपदिष्टेन क्रमेण अर्चनादिकं करोति तस्य मनसि सर्वदा परमात्म-प्रकाश एव जागर्ति | अयमंशः शरणगीतायामेवं निर्दिष्टः | क्रिया-विहीना मतिरत्र नेष्यते देहं विना प्राणधृतिर्न शक्यते | प्राणं विना नैव च देह आत्मा क्रियां विना नैव च ज्ञानमाप्यते | ज्ञानं विनैवाचरणं न शोभते ज्ञानक्रियादीप्तिमुपेक्ष्य लिङ्गम् | निराश्रितं स्यादत एव लोके ज्ञानक्रियाभ्यां सहितोऽस्तु मर्त्यः | इति | एवं ज्ञात्वा यः कुरुते स एव महाप्रकाशं स्वियहृदयेऽनुभवितुं पारयति | नो चेत् सः न किञ्चिदप्युत्तमं फलं लभते | एतादृशसमन्वयदृष्टिरहितानामर्चनमेवं निर्दिशति शरणगीता | पाथेयबन्धादुदरोर्ध्वभागे क्षुधो निवृत्तिः किमु दृश्यतेऽत्र | तथैव लिङ्गस्य हृदूर्ध्वभागे संधारणादेव किमद्य लभ्यम् | वेण्वन्तरे केनचिदष्म दत्तं लिङ्गात्मतां गच्छति किं कदापि | तथैव वेणुर्न भवेद्धि भक्तः गुरुश्च किं क्षेपणतः शिलायाः | एतादृशान्वीक्ष्य ममैव लज्जा सञ्जायते सत्यमहो गुहेश्वर | इति | एवं अन्तर्बहिर्विराज-मानयोः परमात्मप्रकाशयोरैकरूप्यमजानता साधकेन परमात्मनो नित्यसंपर्कसाधनाय बहिरात्मलिङ्गधारणमपि व्यर्थमेव भवेत् | अतो हृदये सहजतया शोभमान एव प्रकाशः गुर्वनुग्रहेण बहिर्गतः जङ्गमप्रसादेन च प्रवर्धित इति यः स्वेष्टलिङ्गं भावयति स एव वस्तुतो वीरव्रतधारी शैव इत्यनुभविभिर्भाव्यते | नो चेत्तस्याधोगतिर्नियता | अत एव मानवैर्ज्ञानक्रियासमन्वयमार्ग आश्रयणीयः || २७ ||
216 SK येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् | ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः || २८ || प्. २०१) एवं मायाया दुरतिक्रमत्वे तदीयमोहात्कदा मुक्तिः स्यादित्यत आह | पुण्यकर्मणां पुण्यशालिनां येषां जनानां तु पापमन्त्यगतं अन्तं नाशं गतं प्राप्तं समाप्तप्रायमित्यर्थः | ते द्वन्द्वमोहनिर्मुक्ताः द्वन्द्वरूपः पूर्वमुक्तो यो मोहः द्वन्द्वमोहस्तेन निर्मुक्ता दृढव्रताः परमात्मैव मम प्राप्यो नान्य इत्याकारकदृढव्रतविशिष्टास्सन्तो मां परामात्मानं भजन्ते सेवन्ते | एवं द्वंद्वमोहविनिर्मुक्ताः श्रद्धावंत एव परमात्मनि एकीभवितुमर्हन्तीत्यर्थः || २८ || जरामरणमोक्षाय मामाश्रित्य यतन्ति ये | ते ब्रह्मतद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् || २९ || साधकाः किमर्थं मां भजन्ते इत्यस्योत्तरकथनव्याजेन उत्तरोपदेष्ट- mokṣāya punarjanma yathā na syāt tādṛśāya mokṣāya māṃ sākāraṃ paramātmānaṃ āśrityāvalaṃbya ye yataṃti te tat brahma nirākāraṃ parabrahma viduḥ kṛtsnaṃ samastaṃ adhyātmaṃ ātmasaṃbaṃdhiviṣayamapi viduḥ akhilaṃ samastaṃ karma ca karmasvarūpaṃ ca viduḥ | māmāśritya mokṣārthaṃ yataṃtaste sarvamapi rahasyaṃ svayameva jānīyuriti bhāvaḥ | ato'mūrtaparaśivabrahmānubhavāya sarvairapi sādhakaiḥ mūrtarūpamāśra- वर्तते || २९ || साधिभूताधिदैवं मां साधियज्ञं च ये वियुः | प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः || ३० || ये पूर्वोक्तास्साधकाः साधिभूताधिदैवं अधिभूतं भूतसंबंधिविषयः | अधिदैवं देवसंबंधिविषयः | अध्यात्मसंबन्धिविषयः पूर्वश्लोक एवोक्तः | अधिभूताधिदैवविशिष्टं एवं साधियज्ञं यज्ञसंबन्धिविषयो ह्यधियज्ञं तद्विशिष्टं च मां ये विदुस्ते युक्तचेतसस्समाहितमनसस्सन्तः प्रयाणकाले च अन्तिमकालेऽपि च मां विदुः | कदापि ते मां न हि विस्मरेयुः || ३० || प्. २०२) अष्टमोऽध्यायः
217 SK ये मां दिव्यमूर्तरूपं भजन्ते ते अमूर्तं ब्रह्म विदुः अध्यात्मधिभूताधिदैवविशिष्टं च मां विदुः अधियज्ञविशिष्टमपि मां विदुः प्रयाणकालेऽपि देहत्यागसमयेऽपि मां विदुः इति पूर्वाध्यायान्ते संग्रहेणोक्तं विस्तरेण ज्ञातुमिच्छन्नर्जुन उवाच - किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम | अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते || १ || अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन | प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः || २ || हे पुरुषोत्तम कृष्ण पूर्वं भवतोक्तं तद्ब्रह्म किं कीदृक्स्वरूपम् ? adhibhūtamiti ca kiṃ proktaṃ ? adhidaivamityanena ca kimatrocyate ? he madhusūdana atra adhiyajña-śabdanirdiṣṭaḥ kaḥ ? kathaṃ ca vartate saḥ ? asmin dehe ? utānyatreti śeṣaḥ | evaṃ niyatātmabhiḥ samāhitacittaiḥ prayāṇakāle ca aṃtimasamaye ca kathaṃ tvaṃ jñeyo jñātavyo'si | etebhyaḥ praśnebhya uttaraṃ nirīkṣate'rjuna || akṣaraṃ brahma paramaṃ svabhāvo'dhyātmamucyate | bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ || 3 || eteṣāṃ praśnānāmuttaraṃ yathākramaṃ śrībhagavānuvāca | paramaṃ sarvotkṛṣṭaṃ yadakṣaraṃ na kṣaratītyakṣaraṃ avyayaṃ vastu tadeva brahma brahmaśabdenoktam | svabhāvaḥ uktasya parabrahmaṇo yaḥ svabhāvaḥ sa eva adhyātmamityucyate | bhūtabhāvodbhavakaraḥ bhūtānāṃ sarvaprāṇināṃ bhāvo yassvabhāvaḥ tasyodbhavakara utpattihetubhūtaḥ yo visargaḥ devatoddeśena dravyatyāgarūpo yaḥ sa eva karmasaṃjñitaḥ | yajño'pi karmapadavācyo bhavati | paraśivabrahmavidāṃ saṃtoṣāya tadārādhanarūpaṃ yadyat kriyate tadapi yajñassaṃpadyate | tathaiva kleśārtānāṃ jīvānāṃ kleśaparihārāya yadyatkriyate tadapi p. 203) yajña eva | etādṛśādeva yajñādeḥ vṛṣṭyādikrameṇa sakalabhūtānāmapyutpattiḥ saṃbhavati | ataḥ sa eva karmapadavācyaḥ saṃpadyate || 3 || adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam | adhiyajño'hamevātra dehe dehabhutāṃ vara || 4 ||
218 SK देहभृतां वर नरश्रेठ हे अर्जुन क्षरो नश्वरः यः पदार्थस्स एव अधिभूतं अधिभूतपदेन निर्दिष्टः | पुरुषश्च पुरुष एव अधिदैवतं अधिदैवतशब्देन निर्दिष्टः | अधियज्ञः सर्वयज्ञाभिमानी देवता च या देहेऽस्मिन् वर्तते सापि अहमेव | अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च इति ह्युच्यते | परमात्मनः सार्वत्रिकीं स्थितिं शरणगीता स्पष्टं प्रतिपादयति | त्वामर्चयामीति विभाव्यते चेन्न चास्ति देहो भवतः पृथङ् मम | त्वां चिन्तयामीति विभाव्यते चेन्न चास्ति चित्तं भवतः पृथङ् मम | वसन्भवत्येवमखण्डदेव ज्वलत्सुकर्पूर इवास्मि देहे | इति | एवं परमात्मैव देहे स्थित्वा सर्वकार्याणि तत्सेवकसकाशात् निर्वाहयन् अनासक्ततयैव कर्मफलान्यप्यनुभूय सेवकाय तान्येव प्रसादरूपेणानुगृह्णाति | तथाप्येतत्सर्वं अनुभविभिरेव ज्ञायते न तु देहाभिमानिभिः | अधियज्ञस्वरूपं परशिवं ज्ञातुं कर्मिणो न प्रभवन्ति | एतद्रहस्यं ज्ञात्वा मानवः स्वदेह एवेश्वरं निरंतरं ध्यायन् नित्यसुखं अनुभवत्विति भगवत आशयः || ४ || अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् | यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः || ५ || देहे जीवरक्षणार्थं स्थितं मामेव परमात्मानमेव सदा स्मरन् यो निर्लिप्ततया लोके व्यवहरति सोऽन्तकालेऽपि मरणकालेऽपि मामेव स्मरन् कलेवरं शरीरं मुक्त्वा त्यक्त्वा प्रयाति गच्छति | तादृशो भक्तः मद्भावं मदीयां स्थितिं अमूर्तावस्थां याति प्राप्नोति | अत्रास्मिन्नंशे संशयो नास्त्येव | अस्मिन्विषये शरणगीता एवमभिप्रैति | यतत्स्वदीया तनुरित्यवैमि ततो ममान्या तनुरेव नास्ति | यस्मात्त्वदीयान्मनसो विभिन्नं मनस्तु नैवेति प्. २०४)
219 SK विनिश्चयो मे | यतस्त्त्वदीयं धनमेव सर्वं ततो विभिन्नं धनमेव नास्ति | ज्ञात्वा त्वदीयं त्रयमेतदेवं कथं नु विद्येत परो विचारः | इति बसवार्यः परमात्मनि स्वस्य सर्वार्पणभावमावेदयति | देहे स्थित्वैव यो देहाधिराजं परमात्मानं ज्ञात्वा तस्मिन्विलीयते तस्य अन्यो विचारो न विद्यत इत्येतत्सत्यमेव | तस्य इह परत्र चामूर्तस्थितिर्नियतैव भवेत् | इह या स्थितिरनुभूयते सैव शाश्वतिकतया अन्यत्र च विलसति || ५ || यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् | तं तमेवैति कौन्तेय सदा तद्भावभावितः || ६ || कथमेवमित्यत्र अयं सामान्यो न्याय इत्याह | हे कौन्तेय अर्जुन यं यं वापि भावं यं कंचन भावविशेषं स्मरन् मानवः अन्ते मरणकाले कलेवरं त्यजति तं तं तादृशमेव भावं सदा सर्वकालेऽपि तद्भाव-भावितः तद्भावेनैव प्रभावितस्सन् एति प्राप्नोति | अतश्च अन्तकाले यो मां स्मरति सः मद्भावमेव यातीत्यत्र संशयो नास्ति | प्रयाणसमये कामिनीकाञ्चनचिन्ता यदि स्यात् तदर्थमेव जीवः पुनर्जायेतैव | यः देह-वियोगावसरे परमात्मानमेव चिन्तयति सः परमात्मैव संपद्यते || ६ || तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च | मय्यर्पितमनोबुद्धिर्मामेवैष्यस्य संशयम् || ७ || एवमन्तिमसमये मम स्मरणं न सुलभं किन्तु सतताभ्याससाध्यम् | अतः सदा न केवलं पूजासमय एव किन्तु व्यवहारकालेऽपि चिन्तयेत्यर्जुनाय भगवान् हितमुपदिशति | तस्मात्कारणात् सर्वेष्वपि कालेषु इदानीमारभ्यैव मामनुस्मर सततं चिन्तय | एवं मां स्मरन्नेव युध्य च कर्तव्यत्वेन प्राप्तं युद्धं च मद्वचनात्कुरु | एवं मय्येवार्पितमनोबुद्धिः अर्पितं निक्षिप्तं मनो बुद्धिश्च येन तादृशस्त्वं मामेव एष्यसि प्राप्स्यसि | असंशयमत्र संशयस्य अवकाश एव नास्ति || ७ || प्. २०५) अभ्यासयोगयुक्तेन चेतसा नान्यगामिना | परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् || ८ ||
220 SK अन्तिमस्मरणफलमुक्त्वा तदेवातिमुख्यत्वात् अध्यायशेषेण विवृणोति | हे पार्थ अर्जुन अभ्यासयोगयुक्तेन अभ्यास एव योगः तेन युक्तेन सहितेन नान्यगामिना अनन्यगामिना तदेकविषयेण चेतसा मनसा दिव्यं अप्राकृतं परमं पुरुषं परमात्मानं अनुचिन्तयन्ननुस्मरन् ध्यायन् साधकः परंज्योतिस्स्वरूपं तमेवामूर्तशिवं याति प्राप्नोति || ८ || कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः | सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् || ९ || सदा ध्याअनयोगनिरतः कीदृशं परमात्मानं प्रयातीत्यंशमेव विवृणोति | कविं कान्तदर्शिनं पुराणं चिरन्तनं अनुशासितारं सर्वस्यापि जगतो नियामकं अणोरणीयांसं सूक्ष्मादपि परमसूक्ष्मं सर्वस्य धातारं सर्वस्यापि जगतः स्रष्टारं अचिन्त्यरूपं चिन्तयितुमप्यशक्यं यद्रूपं तद्विशिष्टं आदित्यवर्णं आदित्यसदृशवर्णविशिष्टं तमसः परस्तात् अज्ञानरूपात्तमसोऽतीत्य वर्तमानं अमूर्तपरमेश्वरं योऽनुस्मरेत् सः तादृशमेव परमं पुरुषं यातीति पूर्वेण संबन्धः || प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव | भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् || १० || पूर्वोक्तस्यैव विवरणमत्र क्रियते | प्रयाणकाले देहावसानकाले अचलेन दृढेन मनसा भक्त्या च युक्तः अपि च तथैव योगबलेन योगस्य बलं तेन च युक्तो भ्रुवोर्मध्ये भ्रूमध्यस्थाने सम्यगप्रमत्ततया प्राणमावेश्य स्थापयित्वा यः योगी वर्तते सः तं उक्तं दिव्यं परं पुरुषं उपैति प्राप्नोति || १० || यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः | यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये || ११ || पुनरपि योगिनः स्थित्यन्तरमाह | यत् अक्षरं अव्ययं सर्वाश्रयं प्. २०६)
221 SK अखण्डलिङ्गरूपं परशिवब्रह्म वेदविदो ब्रह्मविदो वदन्ति ज्ञात्वा तत्स्वरूपं कथयन्ति | वीतरागा वैराग्यशीला यतयः संन्यासिनो यत् सर्व- prāptumabhilasaṇtassādhakāḥ brahmacaryaṃ gurukulavāsādirūpaṃ caranti kurvanti tatpadaṃ divyamamūrtaṃ sthānaṃ te saṃgraheṇa saṃkṣepataḥ pravakṣye tatsvarūpaṃ vadiṣyāmi || 11 || sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca | mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām || 12 || omityekākṣaraṃ brahma vyāharanmāmanusmaran | yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim || 13 || sarvadvārāṇi jñānasādhanāni indriyāṇi dvāraśabdenocyante | sarvāṇyapīndriyāṇi | saṃyamya viṣayebhyo nigṛhya mano hṛdi nirudhya niyamya ātmanaḥ svasya prāṇaṃ mūrdhni śirasi tatratye bhāvaliṅge ādhāya nikṣipya yogadhāraṇāṃ yogasya dhāraṇāmāsthito yoge dṛḍhamaṃkuritaḥ omityekā-kṣaraṃ praṇavarūpavināśi advitīyaṃ ca brahma paraśivākhyamakhaṇḍaliṅgaṃ vyāharannuccaran māṃ ca tadvācyamamūrtaṃ māṃ anusmaran manasādhyāyan dehaṃ śarīraṃ tyajan yaḥ prayāti dehādgacchati saḥ paramāṃ gatiṃ prakṛṣṭaṃ sthānaṃ yāti prāpnoti || 12-13 || ananyacetāssatataṃ yo māṃ smarati nityaśaḥ | tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ || 14 || antimakālikasthitimuktvā adya itaradevatābhaktāpekṣayā svabhaktasya śraiṣṭhyaṃ vadati | ananyacetāḥ nānyasmin ceto mano yasya saḥ madekamanāssan | yo māṃ paramātmānaṃ nityaśaḥ sadā smarati dhyāyati he pārtha arjuna nityayuktasya nityaṃ samāhitasya tasya yogina evāhaṃ sulabhaḥ sukhena prāpyaḥ || māmupetya punarjanma duḥkhālayamaśāśvatam | nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ || 15 || p. 207)
222 SK एवमन्यचेतसः परमात्मैकनिष्ठाः अन्तिमां संसिद्धिं योगफलं गताः प्राप्ता महात्मानः महापुरुषाः मां परमात्मानमुपेत्य प्राम्य दुःखालयं दुःखानामाधारभूतं अशाश्वतमनित्यमिदं पुनर्जन्म नाप्नुवन्ति पुनस्तेषां संसारप्रसक्तिरेव न संभवति || १५ || आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन | मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते || १६ || इतरेषां तु पुनरावृत्तिरवर्जनीयैवेत्याह | हे अर्जुन आब्रह्मभुवनात् ब्रह्मणश्चतुर्मुखस्य भुवनं लोकस्तत्पर्यन्तं ये लोकास्ते सर्वेऽपि पुनरावर्तिनः पुनरावर्तनस्वभावा एव | ब्रह्मलोकपर्यन्तं प्राप्तानामपि योगिनां परशिवब्रह्मैक्यानवाप्तौ पुनरावृत्तिरस्त्येवेत्यर्थः | हे कौन्तेय मां परमात्मानमुपेत्य तु प्राप्य तु पुनर्जन्म न विद्यते | जले जलमिव तेषां तावत्पुनरावृत्तिर्नास्त्येव || १६ || सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः | रात्रिं युगहस्रान्तां तेऽहोरात्रविदो जनाः || १७ || चतुर्मुखब्रह्मणोऽप्यनित्यत्वकथनेन ब्रह्मलोकस्यापि अनित्यत्वं प्रतिपादयति | सहस्रयुगपर्यंतं सहस्रं युगानि पर्यंतोऽवसानं यस्य कालस्य तावान् यो वर्तते सः ब्रह्मणः अहः दिवाकालस्थपरिमाणं अहोरात्रविदो जना अहोरात्रप्रमाणज्ञा अनुभविनो विदुः एवमेव रात्रिमपि युगसहस्रांतां सहस्रयुगावसानां विदुः | अतश्च चतुर्मुखलोकोऽपि कालपरिच्छिन्न एवेत्यर्थः || १७ || अव्यक्ताद्व्यक्तयस्सर्वाः प्रभवन्त्यहरागमे | रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके || १८ || एतादृशेऽहनि रात्रौ च किं भवतीत्यत्राह | अहरागमे दिवाकाले प्राप्ते सर्वाः व्यक्तयः स्थावरजङ्गमादयश्च अव्यक्तात्प्रधानात् सर्वाधारात् अमूर्तपरमात्मनः प्रभवन्ति आविर्भवन्ति | तथैव रात्र्यागमे रात्रिकाले प्राप्ते तत्रैवाव्यक्तसंज्ञके प्रमात्मनि प्रलीयन्ते पुनर्लयं यान्ति | एवं च चतुर्मुखस्य दिवाकाले तु जगत्सृष्टि रात्रौ च प्रलयो भवतीत्यर्थः || १८ || प्. २०८)
223 SK भूतग्रामस्स एवायं भूत्वा भूत्वा प्रलीयते | रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे || १९ || सर्वेषामपि प्रलये संपूर्णलये सति पुनः सृष्टिकाले नूतनप्राणिनामेव सृष्टिर्वक्तव्या | एवं सति तेषां परस्परतारतम्यं किं कृतम् ? इति शङ्कायां पूर्णलयाङ्गीकारमात्रेण निरवशेषतया जीवानामपि नाशः संभवेत् किंतु अव्यक्ततया ते सर्वेऽपि तदानीं अमूर्तपरमात्मन्येव तिष्ठन्ति | सृष्टिकाले च त एव व्यक्तीभवंति | तथा च प्रलयेऽपि सूक्ष्मतया अव्यक्ततया च जीवानां स्थित्या तेषां विचित्रकर्मसंस्कारविशिष्टानामेव पुनस्सृष्टिकाले उत्पत्त्या तादृशविचित्रकर्ममूलकमेव तारतम्यमिति न कोऽपि दोष इत्याशयेनाह | हे पार्थ स एवायं भूतग्रामः यः प्राणिसमुदायः इदानीमपि वर्तते स एव भूत्वा भूत्वा तदातदा उत्पद्य पुनः स एव रात्र्यागमे उक्तचतुर्मुखस्य रात्रिकाले प्राप्ते अवशः स्वत एव प्रलीयते प्रलयकाले | एवमेव अहरागमे उक्तचतुर्मुखस्य दिवाकाले प्राप्ते प्रभवति स एव पुनरुत्पद्यते | ततश्च जीवानां न संपूर्णो नाश इत्यर्थः || १९ || परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः | यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति || २० || एवं जीवानामपि उत्पत्तिप्रलयपरवशत्वेन क्षरत्वमेवेत्युक्त्वा तद्विलक्षणस्य परमात्मनः सदा अक्षररूपत्वमाह | तस्मादुक्तादव्यक्तात् प्रलयकालेऽव्यक्तभावमापन्नात् जीवादपि उत्कृष्टोऽन्यो यो भावः पदार्थः सनातनः सदैकरूपतया वर्तमानः अव्यक्तः सदैव चाव्यक्तरूपो ह्यमूर्तः परमात्मा अस्ति सः सर्वेषु भूतेषु नश्यत्स्वपि उक्तप्रलयकाले न विनश्यति || २० || अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् | यं प्राप्य न निवर्तन्ते तद्धामः परमं मम || २१ || अत एव सः अव्यक्तः परमात्मा अक्षरोऽविनाशीत्युक्तः | तमेवाक्षरं प्. २०९)
224 SK अमूर्तं परशिवं सर्वेषां जनानां परमां गतिं परमप्राप्यमाहुः शिवानुभविनः | कुत इत्यत्राह यमित्यादि | यमक्षरं प्राप्य न निवर्तन्ते न पुनरावर्तन्ते पाशमुक्ता निर्मलाः सिद्धाः तत्परमं धाम उत्कृष्टं स्थानं मम मदीयमेवेति भगवानुपदिशति | अतस्स एव सर्वेषां प्रमप्राप्यः || २१ || पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया | यस्यांतःस्थानि भूतानि येन सर्वमिदं ततम् || २२ || परशिवब्रह्मप्राप्त्युपायमाह | हे पार्थ सः परः पुरुषः परमपुरुषः परमात्माऽहम् | अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः इति परमात्मनः पुरुषोत्तमत्वं वक्ष्यते | अनन्यया अन्याऽविषयया मदेकमात्रविषयया भक्त्यैव लभ्यः प्राप्यः | यस्य परमात्मनः भूतानि सर्वाण्यपि अंतर्विद्यमानानि तदधीनान्येवेत्यर्थः | येन च परमात्मना इदं सर्वं जगत् ततं व्याप्तं सः परः पुरुषः मूर्तामूर्तस्वरूपः परमात्मेत्यर्थः || २२ || यत्र काले त्वनावृर्त्ति आवृत्तिं चैव योगिनः | प्रयाता यांति तं कालं वक्ष्यामि भरतर्षभ || २३ || आब्रह्मभुवनाल्लोकाः पुनरावर्तिनः इति यं प्राप्य न निवर्तंते तद्धाम परमं मम इति च परमात्मानं प्राप्नुवतां अपुनरावृत्तिरितरेषां पुनरावृत्तिश्च प्रतिपादिता | अथ तादृशानां तत्तदनुगुणो मार्गोऽपि भिन्न इति वक्तुं प्रथमं प्रतिज्ञामाह | हे भरतर्षभ अर्जुन योगिनो यत्र काले यादृशसमयविशेषे प्रयाता मृतास्सन्तः आवृत्तिं पुनरागमनं अनावृत्तिं चैव पुनरनागमनं वा यान्ति प्राप्नुंवन्ति तं कालं वक्ष्यामि शृणु || २३ || अग्निर्ज्योतिरहः शुक्लः षन्मासा उत्तरायणम् | तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः || २४ || अग्निः कालाभिमानिनी देवता | ज्योतिस्तदभिमानिनी देवता | एवं अहः शुक्लः शुक्लपक्षः उत्तरायणं षण्मासाः उत्तरायणत्वेन परिगणिताः प्. २१०)
225 SK षण्मासाः तत्र एतादृशे शुभे काले प्रयाता मृताः ब्रह्मविदः शिवानु- saṃsāracakre te na paribhramanti | puṇyaśālina eva tasmin kāle dehaṃ tyajanti || 24 || dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam | tatra cāndramasaṃ jyotiryogī prāpya nirvartate || 25 || dhūma ityādāvapi pūrvavat tattadabhimāninī devatāḥ arthaḥ | rātristathā kṛṣṇaḥ kṛṣṇapakṣaḥ ṣaṇmāsā dakṣiṇāyanaṃ dakṣiṇāyanabhūtāḥ ṣaṇmāsāḥ | tatra etādṛśe kāle cāndramasaṃ candramassaṃbandhijyotiḥ yogī paramātmavyatiriktānyadevatāsakto yogī prāpya tattallokaṃ ca prāpya tasmānnivartate | atra mānavaloke janmādhigaṃtuṃ saḥ punarāvartate || 25 || śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate | ekayā yātyanāvṛttiṃ anyayāvartate punaḥ || 26 || ete hi dve śuklakṛṣṇe gatī mārgadvayaṃ jagato lokasya śāśvate nitye vartete | kadāpi nāsya mārgasya vyavasthitasya vyatyayaḥ saṃbhavet | tatra ekayā gatyā śuklagatyā prayātaḥ anāvṛttiṃ apunarāvṛttiṃ yāti prāpnoti | anyayā kṛṣṇagatyā prayātā tu sādhakaḥ punarāvartate punarāvṛttiṃ prāpnoti | sa tu saṃsāracakrapraibhramaṇamadhigacchanti || 26 || naite sṛtī pārtha jānan yogī muhyati kaścana | tasmātsarveṣu kāleṣu yogayukto bhavārjuna || 27 || etādṛśamārgadvayopadeśasyoddeśamāha | he pārtha ete sṛtī etanmārgadvayaṃ jānan kaścana yogī na muhyati mohaparavaśo na bhavati | śuklagatyā gacchatāṃ apunarāvṛttiṃ kṛṣṇagatyā gacchatāṃ punarāvṛttiṃ ca yaḥ jānāti sa yogī punarāvṛttimārgaṃ kathamicchedityarthaḥ | tasmātkāraṇāt he arjuna sarveṣvapi kāleṣu yogayukto bhava matprāptyanuguṇapunarāvṛttihetubhūtamadyogayukto p. 211)
226 SK भव न तु पुनरावृत्त्यनुगुणान्यदेवतायोगयुक्तो भव | यत्र कुत्रापि स्वामीप्सिते मूर्तरूपे परमात्मभावनयैव आसक्तः साधक शुक्लगतिमेवाधिगच्छति | यः स्वात्मानं परमात्मांशं विज्ञाय स्वान्तःस्थं परमात्मानमनुभवितुं तमेव प्राणभावनया बहिरर्चयन् नित्ययोगमधिगच्छति सोऽपि शुक्लगत्यैव गच्छन् तमेव पूर्वानुभूतं शिवयोगमनुसरति | एतादृशं योगमिहैव यो न जानाति नाचरते च सः अव्यवस्थितचित्तः स्वदेहतुष्ट्यै यां कामपि देवतां तत्तत्कालानुगुणां परिगृह्य तत्र सर्वात्मकं परमात्मानं न भावयति | सः स्वात्मस्थं अमूर्तं देवमजानन् बाह्यसुख एवासक्तः देहावसानकाले कृष्णगत्यैव चन्द्रलोकपर्यन्तं गत्वा पुनरिहैव प्रतिनिवर्तते | एवं शुक्लकृष्णगत्योरन्तरं विज्ञाय विवेकी शुक्लगत्यधिगमायाभिलषितं ज्ञानक्रियासमन्वयमार्गमेव समाश्रयेत् | बाह्यार्चनादेव सुखं न लभ्यते फलं न किञ्चित्परिणामतश्च इति वदन्तः शरणाः स्वान्तःशिवयोगविरहितां बाह्यार्चनां विनिन्दन्ति | बाह्यार्चनकाल एव यस्य हृदयविकासेन गुहेश्वरार्चनं सदा लीलयैव प्रवर्तेत स एवात्र नित्यसुखी वसन् देहवियोगकाले शुक्रगतिमेवाश्रयन् शिवैक्यसुखमेव सार्वत्रिकतया अनुभवति | हृदयविकासेन यः प्रपञ्चं पश्यति स सर्वत्र सर्वदा परमात्मप्रकाशमेवानुभवति | तस्यार्चनं शरणगीतैवं निर्दिशति | तदीयानि अष्टविधानि पुष्पाणि परमात्मनः अतीव प्रियाणि वर्तन्ते | समस्तजीवेषु विनैव हिंसां संप्रीणनं स्यात्प्रथमं हि पुष्पम् | सर्वेन्द्रियग्रामविनिग्रहो वै द्वितीयपुष्पं हृदये निर्वेश्यम् | अहंममेत्यादि विसृज्य शांत्या सद्वर्तनं स्याच्च तृतीयपुष्पम् | विहाय दुर्भावमसह्यतावहं सद्भावयोगस्सुमनस्सु पञ्चमः | भुक्त्वोपवासी शिवयोगनिष्ठः संतिष्ठते चेत्कुसुमं च षष्ठम् | सदुक्तिरेवानृतविप्रयोगात्संभाव्यते सप्तमपुष्पमेषा | सर्वप्रपंचे शिवभावनैव संकीर्त्यते त्वष्टमपुष्पमेव | एतादृशे ह्यष्टदलाख्यपुष्पे सहस्रपूजां
227 SK विरचय्य लोके | शरणाश्च ते कूडलचन्नसङ्ग वसन्ति नित्यं तव बिंबभावे | इत्येवमनुष्ठिता शरणानामर्चना यैराश्रियते तेऽवश्यं शिवयोगनिष्ठाः शुक्लगतिमेवाधिगच्छन्ति | एतादृशपरमफल- प्. २१२) सिधये साधकैः सर्वदा शिवयोगनिरतैर्भवितव्यमित्युपदिशति भगवान् || वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफले प्रदिष्टम् | अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् || २८ || एतादृशपरमात्मयोगनिष्ठान् प्रशंसयति भगवान् | वेदेषु अधीतेषु यज्ञेषु अग्निहोत्रादिषु तपस्सु चैव तपोऽनुष्ठानेषु च एवमेव दानेषु महादानेषु च कृतेषु यद्यादृशं महत्पुण्यफलं पुण्यरूपं फलं प्रदिष्टं शास्त्रेषूपदिष्टं तत्सर्वं तादृशसर्वफलमपि इदं विदित्वा उक्तरहस्यं ज्ञात्वा योगी शिवयोगी अत्येति अतिक्रम्य गच्छति | एतत्सर्वापेक्षयाप्युत्कृष्टं स्थानं सः गच्छति | तदेव स्थानमाह | आद्यं सर्वकारणभूतं ब्रह्मरूपं परमुत्कृष्टं स्थानं च उपैति प्राप्नोति तादृशः शिवयोगी देहवियोगानन्तरम् | योऽस्मिन्नेव प्रसादकाये शिवानन्दमनुभवति स एवामूर्तं शिवैक्यरूपं सुखं विन्दते | एवं शिवयोगपराणां प्राप्यं स्थानमेव सर्वापेक्षयाप्युत्कृष्टमित्यर्थः || २८ || नवमोऽध्यायः एवं इतरसर्वविधयोग्यपेक्षया शिवयोगिनः श्रेष्ठत्वमुक्त्वा अधुना शिवयोगोपयोगिविषयं उपदेष्टुमिच्छन् आदौ तस्य परमगुह्यत्वादिविशेषान् सूचयितुं श्रीभगवानुवाच - इदं तु ते गृह्यतमं प्रवक्ष्याम्यनसूयवे | ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || १ || इदं तु वक्ष्यमाणं गुह्यतममत्यन्तगोप्यं अनसूयवे असूयारहिताय सद्गुणवते ते तुभ्यं प्रवक्ष्यामि कथयिष्यामि | विज्ञानसहितं विशिष्टं ज्ञानं विज्ञानं अनुभवरूपं तत्सहितं वक्ष्यमाणं यत् ज्ञानं ज्ञात्वा प्राप्य अशुभात् संसारात् मोक्ष्यसे मुक्तो भविष्यसि | एवं च शिवज्ञानमेव संसारपाशमोचकमिति प्. २१३)
228 SK सिद्धं भवति | तदानीमेव जीवः स्वीयाहङ्कारममकारादिकं परित्यज्य निरीहो निर्ममश्च संपद्यते || १ || राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् | प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् || २ || राजविद्या विद्यानां राजा श्रेष्ठम् | अध्यात्मविद्या विद्यानाम् इति हि वक्ष्यति | राजगुह्यं गुह्यानां राजा अतिगोप्यमिदं तत्त्वं न सुलभतया सर्वैर्ज्ञातुं शक्यम् | इदमुत्तमं पवित्रं पावनानामपि परमपावनम् | प्रत्यक्षावगमं प्रत्यक्षेण अवगमो यस्य तत् प्रत्यक्षतोऽनुभवितुं शक्यम् | धर्म्यं धर्मानुगुणम् | कर्तुं सुसुखं सुलभम् | अव्ययं भगवदाराधनादिकर्मवत् नाशरहितं तत् ज्ञानमिति शेषः | एवं ज्ञानमतिगूढमपि ज्ञेयमनुष्ठेयं च वर्तते | निर्मलहृदयैस्साधकैः देहस्थस्येश्वरस्य लीलाविलासो ज्ञायत एव | तेषां तावत् तज्ज्ञानं प्रत्यक्षावगममिति भगवत उपदेशः सर्वेषामादरणीयः हृदयनैर्मल्यसंपादनायेति ज्ञेयम् || २ || अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप | अप्राप्य मां निर्वन्तन्ते मृत्युसंसारवर्त्मनि || २ || एतादृशं सुलभसाध्यमपि ज्ञानं जना न शृण्वन्ति किलेति शोकादाह भगवान् | हे परन्तप अर्जुन अस्य धर्मस्य उक्तस्य परमधर्मस्य विषये अश्रद्दधाना श्रद्धाविरहिताः पुरुषाः जनाः मां परमात्मानं अप्राप्य अनवाप्य मृत्युसंसारवर्त्मनि मृत्युयुक्ते संसारमार्गे निवर्तन्ते पुनःपुनरावर्तन्ते नहि अपुनरावृत्तिं लभन्ते | हन्त जगद्व्यापके जगदा- śivaikyasukhamalabhamānāḥ mṛtyuvaśaṃ gacchanti | ihaparaduḥkhabhāgino bhavanti tādṛśo jñānahīnāḥ paśujīvāḥ || 3 || mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā | matsthānisarvabhūtāni na cāhaṃ teṣvavasthitaḥ || 4 || p. 214)
229 SK एवं वक्ष्यामाणं स्तुत्वा अथ वक्तव्यमंशं वदति | अव्यक्तमूर्तिना न व्यक्ता अव्यक्ता मूर्तिर्यस्य तेन अव्यक्तस्वरूपेण मया परमात्मना इदं सर्वं जगत् ततं व्याप्तम् | अतस्सर्वभूतानि सर्वाण्यपि भूतानि मत्स्थानि मदधीनान्येव | अथापि तेषु भूतेषु अहं न चावस्थितः नाहं तदधीनोऽस्मि | अहं सर्वत्र वर्तमानोऽपि न कस्यापि वशे वर्ते इति भगवदुक्त्या अमूर्तशिवस्य सर्वत्र निर्लिप्ततयाऽवस्थानं सूच्यते || ४ || न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् | भूतभृन्न च भूतस्थो ममात्मा भूतभावनः || ५ || एवं स्वस्यैकरीत्याऽवस्थानात् निर्लिप्ततामाह | एवं मे निर्लिप्ततयाऽव- etadeva madīyaṃ īśvarasaṃbandhisāmarthyam | vicitramimaṃ mahāmahima- भूतभृत् भूतानि बिभ्रदपि सर्वाधारस्सन्नपि न च भूतस्थः भूतेष्वेव न तिष्ठामि | मम आत्माऽयं स्वरूपः भूतभावनः भूतानामुत्पादकः | न केवलं शिवः सर्वाधारः किन्तुसर्वोत्पादकश्च अस्तीति भावः || ५ || यथाऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् | तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय || ६ || उक्तमर्थं सदृष्टान्तमाह | यथा सर्वत्रगः सर्वत्र विद्यमानः महान् वायुर्नित्यं आकाशस्थितः आकाशे तिष्ठति तथैव सर्वाणि भूतानि मत्स्थानि लिङ्गस्वरूपिणि मय्येव निवसन्ति न तु भूतले घटादिरिव अन्यत्र निवसेयुरिति उपधारय निश्चिनु | एवं भगवतो महादेवस्य सर्वाधारत्वं सुव्यवस्थया प्रतिपादितम् | अत एव तस्य स्थलाभिधानं युज्यते || ६ || सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् | कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् || ७ || प्. २१५)
230 SK हे कौन्तेय अर्जुन कल्पक्षये प्रलयकाले सर्वभूतानि मामिकां मदीयां प्रकृतिं त्रिगुणात्मिकां मायां यान्ति प्राप्नुवन्ति तत्र विलीना भवन्ति | कल्पादौ सृष्ट्यारंभे तानि भूतानि जीवजातानि पुनरहमेव विसृजामि उत्पादयामि | प्रलये अन्यक्ततया मायायां अवस्थितानि वस्तुजातानि सृष्टिकाले व्यक्तरूपतया बहिः प्रकाश्यन्ते | एवं सर्वेषां सृष्टिप्रलयाश्रयत्वात् अखण्डलिङ्गरूपोऽमूर्तः परमात्मा सर्वत्र वर्तत इति भावः | एवं सर्वसाक्षिभूतं परशिवं वञ्चयित्वा मानवरिन किञ्चिदपि नूतनतया निर्मितुं शक्यते | तैः क्रियमाणं सर्वमपि सर्वव्यापकस्य परशिवस्य सङ्कल्पाधीनमेव | अत एव तदिच्छानुरोधेनैव जगद्व्यापारस्सर्वोऽपि निरुह्यत इति ज्ञात्वा विवेकिनो निमित्तमात्रं लोके व्यवहरन्तः देवात्मशक्तिं स्वगुणैर्निगूढां सम्यक् पश्यन्ति | लोके सर्वत्र तदीयं परमात्मसंदर्शनं शरणगीता एवमुपदिशति | सर्वेष्वपि निर्लिप्ततया विराजमानः शिव एव तैः सन्दृश्यते | तस्मिन् शरणागतानां तदीयं वर्तनमेवं तत्रोपवर्ण्यते त्वमेव माता च पिता त्वमेव बन्दुस्त्वमेवासि तथैव मित्रम् | विना भवन्तं न च मेऽस्ति कश्चित् सङ्गार्यदेव शृणुताद्वचो मे | यथैव रोचेत तथा कुरुष्व दुग्धेऽथवा वारिणि निक्षिप त्वम् || इत्येवं ते शरणाः स्वीयं गुरुतरं योगक्षेमनिर्वहणं स्वेषां बहिरन्तर्विराजमाने परमेश्वर एव समर्पयन्ति | एतादृशोऽचलविश्वासो वर्धिष्णुभिरवश्यं संपाद्यः प्रवर्ध्यश्च प्रतिक्षणम् | विश्वासहीनो न कदापि सुखं विन्दते शान्तिञ्चाधिगच्छति | एवं साधकेषु सर्वेष्वपि आत्मविश्वासमुत्पादयितुमेव भगवान् देहधार्यपि स्वीयामूर्तस्थितौ स्वस्य सर्वव्याप्तिं सनिदर्शनमुपदिशति || ७ || प्रकृतिं स्वामवष्टभ्य विसृजाभि पुनः पुतः | भूतग्राममिमं कृत्स्नं अवशं प्रकृतेर्वशात् || ८ ||
231 SK पूर्वोक्तमेवाशयं विवृणोति | स्वां मदीयां प्रकृतिं अवष्टभ्य वशीकृत्य व्याप्य च कृत्स्नं सर्वं अवशं प्रकृत्यधीनं इमं भूतग्रामं प्राणिजातं प्रकृतेर्वशात् तदधीनत एव पुनः पुनः विसृजामि पूर्वपूर्वकर्मानुगुणतया प्रकृतिपर- प्. २१६) वशानेव सृजामि | सर्वं वस्तु तत्तत्प्रकृत्यनुरोधेनैव सृजति परमात्मा | सत्त्वरजस्तमोमयानि वस्तूनि तत्तद्गुणविशिष्टतयैव सृज्यन्ते | गुणसंपर्को यदि जीवैः शिवयोगमहिम्ना परित्यज्यते तदा तेषां पुनर्जन्मैव विहन्यते | यावत्पर्यन्तं गुणसंबन्धो विलसति तावत्पर्यन्तं सर्वे जीवाः जननमरणचक्रे भ्रमन्त्येव | तत्तत्प्रकृत्यनुगुणतयैव सर्वाणि वस्तूनि अभिव्यज्यन्ते || ८ || न च मां तानि कर्माणि निबध्नन्ति धनञ्जय | उदासीनवदासीनमसक्तं तेषु कर्मसु || ९ || एवं तत्तत्कर्मानुगुणं सर्गकारणत्वादेव न मम तत्र लेपनमित्याह | हे धनञ्जय अर्जुन | उदासीनवदुपेक्षकवत् आसीनं विद्यमानं तेषु कर्मसु सृष्ट्यादिषु जगद्व्यापारेषु असक्तं सङ्गरहितं मां तानि कर्माणि सृष्ट्यादिव्यापाराणि न च निबध्नन्ति नैव बद्धं कुर्वंति | कर्मण्यासक्तस्यैव तेन बंधः प्रसज्यते नत्वसक्तस्य मम कर्मलेपः संभवेत् | एवं सर्वे मानवाः स्वीयान् व्यवहारान् स्वार्थं विना भगवत्प्रेरणानुरोधेन कर्तव्यभावनया यदि कुर्युः तदा तैर्न कदापि दुःखमनुभूयेत | इदमेव नित्यसुखस्य संविधानमित्युदाराशयं भगवानाविष्करोत्यत्र | फलसङ्ग एव सर्वान् कर्मणि बध्नाति कर्तव्यदृष्ट्या व्यवहरणं व्यवहर्तॄन् नित्यसुखिनः करोति | भगवान् यथा सर्वं निर्वहन्नपि निरञ्जनो वर्तते तथा तदंशा वयमपि निर्लिप्ततया व्यवहर्तुं प्रयतेरन्निति भगवत आशवः || ९ || मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् | हेतुनानेन कौन्तेय जगद्विपरिवर्तते || १० ||
232 SK अहं सृजामीति वदतः उदासीनवदासीनमिति कथनं परस्परविरुधमिव भाति इति शङ्कायां परिहारमाह | हे कौन्तेय अध्यक्षेण मया प्रकृतिः सचराचरं जगत्सर्वं सूयते उत्पादयति | परमात्माधिष्ठितैव प्रकृतिर्जगत्कारणं संपद्यत इत्यर्थः | अनेन हेतुना मदधिष्ठितत्वेनैव हेदुना जगद्विपरिवर्तते प्. २१७) विविधरूपतया परिवर्तते | परमात्माधिष्ठानाभावे हि प्रकृतिर्जगत् न सृजेदेव | एवं चैकरीत्या अहं कारणभूतोऽपि एकरीत्या उदासीनोऽप्यस्मीति न विरोध इति भावः | परमात्मनस्तु स्वातन्त्र्यात् उभयमपि तस्मिन् सिद्ध्यति | स एव जतद्रूपतया परिणमनात् स्वसान्निध्यात् प्रकृत्या सर्वकार्यनिर्वहणात् सृष्टेष्वेवोदासीनतयाऽवस्थानात् तस्मिन् सर्वमपि संपद्यते || १० || अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् | परं भावमजानन्तो मम भूतमहेश्वरम् || ११ || मूढा अविवेकिनो जनाः मम परं सर्वोत्तमं भावं पूर्वोक्तं अमूर्तं स्वभावं अजानन्तः मानुषीं तनुमाश्रितं लोककल्याणार्थमेव मनुष्यसंबन्धिदेहं स्वीकृतवन्तं भूतमहेश्वरं भूतानां सर्वेषामीश्वरा नियामकाः ये वर्तन्ते तेषामपि इन्द्रादीनामीश्वरं मां अमूर्तं परमात्मानं अवजानन्ति सामान्यमनुष्यभावनया अवज्ञां कुर्वन्ति || ११ || मोघाशो मोघकर्माणो मोघज्ञाना विचेतसः | राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः || १२ ||
233 SK अयं च आसुरराक्षसप्रकृतीनां मन्दानां तामसस्वभाव इत्याह | मोघाशाः मोघा व्यर्था आशा येषां ते | एवं जानतां तेषां आशा तावन्न कदापि फलिष्यत्येव | हिरण्यकशिपुरावणादिवत् त्रैलोक्यमेव जेतुं प्रवृता अपि ते अन्ते न शिष्यन्त्येव | तेषां विनाशो नियत एव | अत एव मोघ-कर्माणः तैरनुष्ठीयमानानि सर्वाण्यपि कर्माणि विफलान्येव | मोघज्ञाना एवमेव तेषां शास्त्रज्ञानादिकमपि विफलं भवत्येव | रावणोऽपि चतुर्वेदविद्यापारङ्गत इति प्रसिद्धमेव | अत एव विचेतसः विगलचेतसो अविवेकिनः | किञ्च ते आसुरीं राक्षसीं चैव मोहिनीं मोहकरीं प्रकृतिं श्रिता आश्रिताः | एतादृशा जनाः मां मर्त्यमिति भावयन्तो यथार्थतयाऽजानन्तो मां अवजानन्ति | स्वभावानुरोधेन ते विचिन्त्य भावयन्ति | तदीयं कर्मफलं तेऽवश्यमनुभवन्ति | दैवीप्रकृतेः परिचयानधिगमात् तद्वर्तनं तेभ्यो रोचत्ते || प्. २१८) महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः | भजन्त्यानन्यमनसो ज्ञात्वा भूतादिमव्ययम् || १३ || दैवीप्रकृतिविशिष्टानां महात्मनां सद्भावनामत्र निर्दिशति | हे पार्थ अर्जुन दैवीं प्रकृतिमाश्रिता महात्मानस्तु मां भूतादिं सर्वभूतानां कारणभूतं अव्ययं निर्विकारतया सर्वत्र स्थितं मां अनन्यमनसो मदेककित्ताः भजंति सेवंते | दैवीसंपद्भरीता मां यथार्थतया जानंति पुरस्कुर्वन्ति मदनुग्रहं तु लभन्ते च | आसुरीसंपद्-भरितास्त्वेवं ज्ञातुं पुरस्कर्तुं च अशक्ता मत्प्रसादमपि नाधिगच्छन्ति | दुराशानां तेषां जीवने तु शांतिर्न दृश्यते | दैवीसंपद्विमोक्षाय निबन्धायासुरी मता इति विस्तरेण एतत्प्रकृतिस्वरूपं वक्ष्यति || सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः | नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते || १४ ||
234 SK दैवीसंपद्भरिताः कथं परमात्मानं भजंत इत्यत्राह | मां पर- indriyajayādiṣu pravartayaṃtaśca dṛḍhavratāḥ sthiravratā vyavasthitacittā māṃ namasyaṃtaśca namaskāraṃ kurvantaśca evaṃ nityayuktāssadā samāhitacittā bhaktyā māmupāsate | tadīyaṃ vartanaṃ śaraṇagītā samyagāvedayati na vāraṃ dinaṃ vā na naktaṃ divaṃ vā na jāne'dya kiṃ vā na ye yanmameti | suvismṛtya kāyaṃ samādhāya cittaṃ sameto'smi yogaṃ bhavatpādapadme iti | evaṃ daivīsaṃpadvaritāstu sarvadā īśvara eva ramante | ata eva teṣāṃ saṃsāraḥ sāravadvastusaṃgato virājate || 14 || jñānayajñena cāpyanye yajanto māmupāsate | ekatvena pṛthaktvena bahudhā viśvatomukham || 15 || atraiva prakārabheda ucyate | anye tu upāsakāḥ jñānayajñena cāpi māṃ yajaṃtaḥ ekatvena pṛthaktvena bahudhā ca kecidekameva paraṃ brahma sarvavyāpakamiti anye kecit indracandrādibhedena ekameva brahma pṛthak pṛthak p. 219) avasthitamiti apare tu bahudhā anaṃtarūpaṃ parabrahmeti bahubhāvāpannatvena māṃ viśvatomukhaṃ sarvavyāpakaṃ ekatvena pṛthaktvena bahudhā cāvasthitaṃ jñātvā upāsate upāsanaṃ kurvaṃti || 15 || svasya viśvatomukhatvena sarvamahameveti yena kenacidupāsanaṃ mama yuktameveti kathanāya svasya sarvātmakatvameva caturbhiḥ ślokairāha - ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham | mantro'hamahamevājyamahamagnirahaṃ hutam || 16 || kraturagnihotrādikaṃ śrautaṃ karma ahameva | vaidikaiḥ kriyamāṇaṃ sarvamapi karma ahameva | tathaiva guruliṅgajaṅgamārādhanarūpo yajño'pi parabrahma- श्राद्धादिकं कर्मापि भगवत्स्वरूपमेवेत्यर्थः | औषधं व्याध्युप- bhagavatsvarūpameva | agnirhomādhārabhūto'pi bhagavatsvarūpa eva | tatra hutaṃ havanakarma yadasti tadapyahameva | tadaiva agnisvarūpau gurujaṅgamāvapi parabrahmabhāvanayaivopāsyau | tayoḥ prīṇanāya yatsantoṣeṇa samarpyate tadapi parabrahmasvarūpameveti bhāvyam || 16 ||
235 SK पितामहस्य जगतो माता धाता पितामहः | वेद्यं पवित्रमोङ्कारः ऋक्साम यजुरेव च || १७ || अस्य जगतः पिता जनयिता अहमेव | माता जनयित्री धाता कर्मफलानां विधाता पितामहः पितुः पिता वेद्यं वेदितव्यं पवित्रं पावनमोङ्कारः ऋक् साम यजुरेव च त्रयो वेदाश्च सर्वं अहमेवेति भाव्यम् | सर्ववेदप्रतिपाद्यं परवस्तु अहमेवेति अजानन् मूढः मां मानुषं भावयति ततश्च सार्वजनिके मद्वचने सः न विश्वसिति | तस्य तु सर्वनाशो नियतमेव संभवेत् | न केवलं मां अपि तु सर्वत्र वस्तुतः स्थितं देवांशमेव यः पुरस्करोति प्. २२०) स एव आनन्दमयो भवति | अतो भगवतः सर्वव्यापकत्वं विज्ञाय तथैव आचरन् मानवः आत्मकल्याणं साधयेत् || १७ || गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् | प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् || १८ || गतिः कर्मफलं भर्ता पोषकः प्रभुः सर्वरक्षणसमर्थः स्वामी साक्षी धर्माधर्मयोः प्रेक्षकः निवासः सर्वेषां वासयोग्या भूमिः शरणं आर्तानां रक्षकः सुहृत् सर्वेषामुपकारी प्रभवः सर्वेषामुत्पत्तिः प्रलयः स्थानं स्थितिः निधानं कालान्तरोपभोग्यं प्राणिणां निक्षेपो रत्नादिरूपः अव्ययं त्रिकालवर्ति बीजं प्ररोहकारणं सर्वमेतत् अहमेव | सर्वाधारः अमूर्त एव परशिवः जगद्व्यापारनिर्वाहाय अनन्ताकारेण परिणमते | स एव बीजं अंकुरो वृक्षः फलं च संपद्यते | एतादृशः परिणामस्तस्य परिपूर्णतायाः स्वतन्त्रतायाश्च विलासः | अत एव सः सर्वेषामाकर्षकस्तिष्ठति || १८ || तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च | अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन || १९ ||
236 SK हे अर्जुन अहं तपामि आदित्यद्वारा जगत् शोषयामि | अहं वर्षं निगृह्णाभि अहमेव उत्सृजामि च | वर्षकर्ता वर्षसंहर्ता च अहमेव | अमृतं देवानां मृत्युश्च मनुष्याणां उभयमप्यहमेव | सत् यस्य एतत्संबन्ध्नि तत्सत् असंबन्धि असत् तदुभयमप्यहमेव | न त्वत्र असच्छब्देन सर्वथा अविद्य- ca vastu sarvamapi bhagavatsvarūpameva | amṛtarūpaṃ sukhādikaṃ mṛtyurūpaṃ duḥkhādikaṃ ca parabrahmasvarūpameveti bhāvyam | ata eva tattvajñānino samadarśanā bhūtvā loke śāntyā vyavaharanti | viṣamarūpaṃ vyavahāraṃ nirvoḍhuṃ samadṛṣṭiravaśyaṃ abhyasanīyā vardhiṣṇubhiḥ | no cet nindā- सुखस्येव दुःखस्यापि परिचयोऽधिगन्तव्यो मानवैरिति भगवान् स्वाशयं स्पष्टीकरोति || २९ || प्. २२१) एवं सर्वरूपमपि सन्तं मा विहाय केवलं तत्तद्रूपं ये आराधयन्ति ते तावत् केवलं तदनुगुणं नश्वरं प्राप्नुवन्तीति द्वाभ्यामाह - त्रैविद्या मां सोमपाः पूतपापाः यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते | ते पुण्यमासाद्य नरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगन् || २० || त्रैविद्याः ऋग्यजुस्सामविदः केवलकर्मकाण्डपराः सोमपाः सोमं पिबन्तीति तादृशः | तेन सोमपानेन पूतपापाः परिशुद्धाः यज्ञैः सोमादियज्ञैः मामिष्ट्वा पूजयित्वा स्वर्गतिं स्वर्गरूपं फलं प्रार्थयन्ते | अपेक्षन्ते | ते च पुण्यं तत्पुण्यफलभूतं सुरेन्द्रलोकं देवेन्द्रलोकं स्वर्गमासाद्य प्राप्य दिवि तस्मिन् देवलोके दिव्यान् देवभोगान् देवानां ये भोगास्तानश्नन्ति अनुभवन्ति | परमात्मसंपर्कं विहाय केवलभोगदृष्ट्या यदि कर्म आचर्यते तदाऽत्र स्वर्गे च सुखं अनुभवितुं यद्यपि शक्यते | तथापि तत् चिरस्थायि न भवेत् | कर्मफलं यावत्पर्यन्तं वर्तेत तावदवधिकमेव सुखं विन्देत साधकः ततोऽधिकं सुखं न कदापि लभेत || ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति | एवं त्रयीधर्ममनुप्रपन्नाः गतागतं कामकामा लभन्ते || २१ ||
237 SK ते च नरास्तं विशालं विपुलं स्वर्गलोकं तदीयसुखं भुक्त्वा पुण्ये तदनुभवहेतुभूते पुण्ये क्षीणे सति पुनरिमं मर्त्यलोकं विशन्ति प्राप्नुवन्ति | एवमुक्तक्रमेण त्रयीधर्मं वेदोक्तं यज्ञादिधर्मं अनुप्रपन्ना आश्रिता जनाः कामकामाः कामानेव कामयन्तो न त्वात्मानं कामयन्तः गतागतं गमनागमनं लभन्ते न त्वपुनरा-वृत्तिं प्राप्नुवन्ति | एवं भोगाभिलाषेण यज्ञादिकं कुर्वन्तः तादृश-मल्पमेव फलं लब्ध्वाऽनुभवन्तस्तदर्थमेव पुनः पुनरुत्पद्यन्ते | तेषां संसारचक्रपरिभ्रमणं नियतमेव | अतो विवेकिभिर्भोगमार्गं परित्यज्य तमेव भोगमीश्वरप्रसादभावनया उपयुज्य आत्मकल्याणं साधनीयम् || २१ || अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते | तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् || २२ || प्. २२२)
238 SK ये त्वेवं कामान्कामयन्तो न भवन्ति किन्तु मामेवाश्रयन्ते तेषां तु न किञ्चिदपि भयभित्याह | अनन्याः अन्यप्रयोजनरहिताः ये जनास्साधका मामेव चिन्तयन्तो मामेव पर्युपासते परितस्सर्वत एव उपासते अन्तर्बहिश्च नित्याभियुक्तानां नित्यं मय्येव अभितः सर्वतः संबद्धानां तेषां सद्भक्तानां योगक्षेमं अप्राप्तस्य प्रापणं योगः तद्रक्षणं क्षेमः तदुभयमप्यहं वहामि निर्वहामि | अत्र नित्याभियुक्तपदं शिवस्य नित्याभियोगं द्योतयति | अतो नित्याभियोगः लिङ्गरूपिणः परमात्मनो लिङ्गरूपेणैव देहे धारणं बोधयति | हृदये तावत्परमात्मा अङ्गुष्ट-परिमितो विराजत इति श्रूयत एव | तस्यैव संपर्को यदि बहिरपि परिकल्प्यते तदैव तस्य नित्याभियोगः सञ्जायेत भक्ते | एतादृशोऽभियोगः देहे लिङ्ग-धारणं विना न संभवति | नित्याभियोगयुक्तानामेव सद्भक्तानां योगक्षेमं वहामीति भगवान् अत्र प्रतिशृणोति | एवं धारणादेव साधकः परमात्मनो नित्यसंपर्कमधिगच्छेत् | एतादृशेन संपर्केणैव साधकस्य देहः मन्त्रमयस्सन् पावनो भवति | एतद्देहवानेव भक्तः भगवदनुग्रहभाजनं भवेत् | तस्य तु पापे मतिरेव नोत्पद्येत | एवं परमात्मनो नित्याभियोगेन साधकस्य सद्बुद्धिस्सद्भावना च स्थिरीक्रियेत | एतादृशो नित्याभियोगः वीरशैवेरक्षरशः अर्थशश्च पाल्यते | इतरेषां तु बहिर्धारणाभावेऽपि परमात्मनामस्मरणमेव नित्यामाचर्यमाणं सत् नित्याभियोगं संपादयति | अत एव सर्वैरपि साधकैः सजीवविश्वासेन परमाय्मस्मरणं सर्वदा कर्तव्यमिति भगवत आशयः | यद्यपि सर्वेषां सर्वफलप्रदो भगवानेव अथापि फलार्थिनां तत्तत्कर्मानुगुणतयैव सः रक्षको भवति न तु साक्षादेव | ये तु स्वीयकर्मणां फलं नापेक्षन्ते तेषां तु कर्मफलसंबंधाभावात् साक्षादेव भगवान् परशिवः तद्रक्षको भवति | अयमेव विशेषः परिकल्प्यते भगवता सकामनिष्काम-भक्तेषु || २२ ||
239 SK ननु इतरदेवताः फलार्थं पूजयंतोऽपि भक्ताः अमूर्तं परमशिवमेव प्. २२३) पूजयंति यतः स एव सर्वरूपेणावस्थित इति श्रूयते स्मर्यते अनुभूयते च | तथापि ते अपि भगवत्पूजका एव भवेयुः | अतः को विशेषः परमात्माराधकानां इतरदेवतापूजकानां चेत्यत्राह- येऽप्यन्यदेवताभक्ताः यजन्ते श्रद्धयान्विताः | तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् || २३ || हे कौन्तेय येऽप्यन्यदेवताभक्ता इतरदेवताराधकाः सन्ति तेऽपि श्रद्धया अन्विता युक्ताः मामेव अमूर्तशिवमेव यजंते अर्चयन्ति परंतु ते अविधिपूर्वकं अमूर्तशिव एव सर्वान्तर्यामी सर्वत्र पूज्यः इति ज्ञानाभावात् तदनुगुणविधिरहिततयैव मां अमूर्तं शिवमर्चयन्ति | तथा च अविधिना कृतं अकृतमेव इति न्यायेन तादृशं अविधिपूर्वकं प्राकृतमूर्तरूपस्य अर्चनं कृतमपि वस्तुतो न हि अमूर्तपूजनं भवति अतस्तेषां फलमपि तदनुगुणमेव भवतीत्ययमेव अमूर्तशिवभक्तानां इतरमूर्तरूपाराधकानां च विशेषः | विग्रहाराधका अपि तदन्तःस्थिताऽमूर्ताराधका एव भवन्ति | अथाप्यमूर्ताख्यप्राणलिङ्गाराधकास्तु प्राणे विलीनाः नित्यानन्दमनुभवन्ति | मूर्तोपासकास्तु क्षणिकैहिकसुखान्यनुभवन्तस्त-दनन्तरं दुःखभाजोऽपि भवन्ति | नित्यसुखापेक्षिणस्तु मूर्तोपासनवेला-यामपि अमूर्तभावनामेव यदि कल्पयेयुस्तदा ते कृतकृत्या भवेयुरिति भगवदाशयः || २३ || अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च | न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते || २४ || अविधिपूर्वकं यजन्तीत्येतदेव विवृणोति | सर्वयज्ञानां श्रौतस्मार्तादि- prabhureva ca sarveṣāmapi saṃrakṣako niyāmakaścāsmi | tu kiṃtu te kāmakāmā aihikaphalāpekṣayā karma kurvantaḥ puruṣāḥ māṃ tādṛśaṃ māṃ nābhijānanti tattvena vastutaḥ | ataste cyavanti tatphalaṃ nāpnuvanti || 24 || p. 224) yanti devavratā devān pitṛnyānti pitṛvratāḥ | bhūtāni yāṃti bhūtejyā yāṃti madyājino'pi mām || 25 ||
240 SK अन्यदेवताराधका अमूर्तोपासनफलं नाप्नुवंति किंतु तत्तत्कर्मफलं तु प्राप्नुवंत्येवेत्याह | देवव्रता देवस्य तत्तद्देवसंबन्धीनि व्रतानि येषां ते देवव्रताः देवान् तत्फलत्वेन तान् देवानेव यांति प्राप्नुवंति एवं पितृव्रताः पितृदेवतापूजकाः पितृन् यांति | एवं भूतेज्याः विनायकसुब्रह्मण्यादिभूतगणाराधकाः भूतानि तान्येव यांति | मद्याजिनस्तु मूर्तामूर्तस्वरूपिणं मां परमात्मानं ये च आराधयन्ति ते तु मां अमूर्तं परमात्मनमेव यांति | देवान् देवयजो यांति मद्भक्ता यांति मामपि इति पूर्वोमेवोक्तम् || २५ || पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति | तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः || २६ || इतरदेवपूजापेक्षया परमात्मनो ममार्चनमतिसुलभमित्यप्याह | नाहमधिकं लाभमपेक्षे भक्तानां सकाशात् | तैः भक्त्या यदर्प्यते तेनैवाहं तुष्टो भवेयम् | यत्किंचित्पत्रं पुष्पं फलं अंततः तोयं जलं वा यो मे मह्यं भक्त्या अनुरागेण प्रयच्छति ददाति प्रयतात्मनः शुद्धचित्तस्य तस्य भक्त्युपहृतं भक्त्या समर्पितं तदेव संतोषेण गृह्णामि स्वीकरोमि | भक्तिरेव मयापेक्ष्यते नान्यद्वस्तुजातमिति भावः || २६ || यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् | यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् || २७ || अत एव कृष्णोऽत्र न केवलमर्जुनाय अपि तु सर्वेभ्यः साधकेभ्यः सर्वार्पणभवमुपदिशति | हे कौन्तेय ! यत्कर्म करोषि यतश्च अनादिकमश्नासि यच्च हविरादिकं जुहोषि यच्च ददासि गृहमागतेभ्यो दानादिकं करोषि यच्च तपस्यसि यत्तपः करोषु तत्सर्वं मदर्पणं मह्यं निराकारपरमात्मने स्वीयांतरङ्गस्थायैव समर्पणं कुरुष्व | परमात्मा भक्तैः स्वहृदय एव अन्वेषणीयः | देह प्. २२५)
241 SK एव देवालय इति परिगण्यतेऽनुभविभिः | तत्राव्यक्ततया निवसन् देवः सर्वार्पणभावादेवानुभवितव्यः साधकैः | शरणगीता भक्तत्य सर्वार्पणभावमेवं निर्दिशति | मदीयकायं कुरु दण्डमेव तथैव मूर्धानमलाबुरूपम् | नाडीर्मदीयाश्च विधेहि तन्त्रीर्मदंगुलीश्चैव कुरुष्व काष्ठम् | आघट्य वक्षो भवदीयजैत्रनादं कुरुष्वात्मनि सङ्गमार्य | इति | एवं देहादिसकलकरणानि परमात्मने भक्त्या समर्प्यैव तत्प्रसादभाजो भवन्ति मानवाः | अर्पणरूपं त्यागं विना योगानन्दो न केनाप्यधिगम्यते | अतः सर्वे व्यवाहारिका जना मूर्तामूर्तस्वरूपिणे स्वराष्ट्राय स्वीयं सुखं समर्प्य अत्रत्यैः सर्वैरपि सहोदरभावं परिकल्प्य संतोषेण गौरवेण च निवसंतः प्रयाणकाले शान्तिमनुभवेयुरिति भगवान् निरिक्षते || २७ || शुभाशुभफलैरेवं मोक्षस्ये कर्मबन्धनैः | संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि || २८ || एवं सर्वस्य भगवत्समर्पणस्य फलमाह | तथा समर्पणे कृते शुभा- karma-bandhanaiḥ karmarūpabandhasādhanaiḥ mokṣasye mukto bhaviṣyasi | ata eva saṃnyāsayogayuktātmā mahyaṃ amurtarūpiṇe bahiraṃtaśca virājamānāya parameśvarāya saṃnyāsaḥ samarpaṇaṃ sa eva yogastena yukta ātmā cittaṃ yasya saḥ tādṛśastvaṃ vimuktaḥ saṃsārādeva mukto māṃ paramātmānaṃ upaiṣyasi || 28 || nanu tarhi tvaṃ pakṣapātīti vaktavyam yatastvadbhaktānāmeva tvaṃ anugrahaṃ karoṣi abhaktānāṃ nigrahaṃ ca karoṣi | evaṃ ca tavāpi rāgadveṣau tanmūlatayā śatrumitrādirapi syādevetyatrāha - samo'haṃ sarvabhūteṣu na me dveṣyo'sti na priyaḥ | ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham || 29 || ahaṃ bhagavān sarveṣvapi bhūteṣu prāṇiṣu sama eva samadṛṣṭyaiva nivasāmi | na me kutrāpi pakṣapātaḥ | ata eva me dveṣyaḥ śatrurvā priyo vā p. 226)
242 SK मित्रं वा नास्ति लोके | सर्वे मदीया एव | तथापि ये मां द्विषन्ति ते तु द्वेषस्य फलमनुभवन्ति | ये मां प्रीणयन्ति तेऽपि तथैव मत्प्रीणनस्य फलमनु- teṣu ca ahamapi varte | tathā ca na me bhaktasya ca bhedo vartate | madbhakto hi mama priyaḥ | evaṃ ca bhakteṣu sthitāyā mama ātmīyatāyāḥ teṣāṃ bhaktireva mūlaṃ na me teṣu pakṣapātaḥ kriyata iti bhagavān svāśayaṃ spaṣṭīkaroti | śaraṇagītā paramātmanastu bhakte vidyamānāmātmīyatāṃ samyak pradarśayati | yato madīyaṃ na hi kiñcidasti tvameva sarvaṃ gurusaṅgamārya | bhaktasya devasya ca nāsti bheda ityarthakaṃ vedamavetya nityam || saṃspṛśya devaṃ hṛdaye vasaṃtaṃ tvabhinnatāṃ prāpta ihaiva loke | iti | evaṃ cidaṃśabhūtāyāḥ bhakteḥ prabhāvena mānavaḥ svadehe śivaṃ bhāvayitvā samarcya ca śiva eva bhūtvā tadīyamakhaṇḍamānaṃdamanubhavituṃ prabhavati || 29 || api cetsudurācāro bhajate māmananyabhāk | sādhureva sa mantavyaḥ samyagvyavasito hi saḥ || 30 || sudurācāro'pi cet atīva kutsitācārayukto'pi yaḥ ananyabhāk ananyabhaktissan māṃ bhajate sevate saḥ sādhureva sadvartanaśīla eveti mantavyo jñātavyaḥ | hi yasmāt saḥ samyagvyavasitaḥ samīcīnādhyavasāyayuktastasmāt sādhureva bhavediti vijñāyate'nubhavibhiḥ | evaṃ paramātmā sarveṣāmapyatisulabha-sādhyassan teṣāṃ tyāgabuddhimeva nirīkṣate | mahāpātakī sannapi mānavaḥ svīyapāpakarmaṇe paścāttāpamanubhavan ātmaśuddhimadhigacchati | tataśca paramātmaprasādena saḥ sadvartanavān saṃpadyate | idaṃ sarvamapi hṛtpūrvakasya paścāttāpasya satpariṇāma eveti bhāvyate || 30 || kṣipraṃ bhavati dharmātmā śaśvacchantiṃ nigacchati | kaunteya pratijānīhi na me bhaktaḥ praṇaśyati || 31 || saḥ durācārayukto'pi kṣipraṃ śighrameva dharmātmā dharmaniṣṭho bhavatyeva bhakteḥ p. 227)
243 SK प्रभावात् | तेन च स शश्वत् नित्यशान्तिं च निगच्छति प्राप्नोति | हे कौन्तेय मे भक्तः मयि भक्तियुक्तः न प्रणश्यति कदापि विनाशं न प्राप्नोतीति प्रति- kurvityarthaḥ | evamātmaviśvāsenaiva mānavaḥ sukhaṃ vindate || 31 || māṃ hi pārtha vyapāśritya ye'pi syuḥ pāpayonayaḥ | striyo vaiśyāstathā śūdrāste'pi yāṃti parāṃ gatim || 32 || kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā | anityamasukhaṃ lokamimaṃ prāpya bhajasva mām || 33 || he pārtha hi yasmāt māṃ paramātmānaṃ vyapāśritya samāśritya ye'pi ke'pi pāpayonayaḥ pāpajanmānaḥ striyo vaiśyāstathā śūdrā vā syuḥ te'pi parāṃ gatiṃ paramamokṣaṃ yāṃti prāpnuvanti | evaṃ sati puṇyāḥ puṇyayonayo brāhmaṇāḥ tathā bhaktā rājarṣayo janakāditulyā api paramātmānameva yāṃti tatraiva samarasatayā vilīnā bhavantīti kiṃ punarvaktavyam | atastvamapi anityaṃ kṣaṇabhaṅguraṃ asukhaṃ sukhavarjitamimaṃ manuṣyalokaṃ prāpya etādṛśamanuṣyaloke uttamaṃ manuṣyatvaṃ prāpya māmamūrtaparamātmānaṃ svahṛdaya eva nivasaṃtaṃ tathaiva saṃbhāvya viśvasya ca bhaktipūrvakaṃ bhajasva samāśraya || 32-33 || manmanā bhava madbhakto madyājī māṃ namaskuru | māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ || 34 || paramātmārādhanaprakāramevāha | manmanā bhava mayi mano yasya saḥ tādṛśo bhava | tathaiva madbhaktaśca bhava | atha madyājī matpūjakaśca bhava | tathaiva māmeva namaskuru | evamātmānaṃ yuktvā yojayitvā matparāyaṇo māmeva paramaṃ ayanaṃ prāpyaṃ manvānastvaṃ māmeva eṣyasi prāpsyasi | evaṃ sādhakān sarvānapi paramātmāsaktacittān kartuṃ bhagavānavyāja- प्. २२८) दशमोऽध्यायः इदं तु ते गुह्यतमं प्रवक्ष्यामि इत्युपक्रम्य भगवान् स्वकीयं तत्त्वमुपदिश्य स्वभजनमेव मुक्तिसाधनमिति निर्दिशति | तत्रैव भगवत्स्वरूपविषयेऽवश्यज्ञेयान् विषयानस्मिन्नध्याये विस्तरेणोपदेष्टुं श्रीभगवानुवाच-
244 SK भूत एव महाबाहो शृणु मे परमं वचः | यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया || १ || हे महाबाहो अर्जुन ! मे मम परमं उत्तमं वचः भूय एव पुनरपि शृणु | यद्वचनं प्रीयमाणाय मद्विषये प्रीतिं कुर्वते ते तुभ्यं हितकाम्यया हितेच्छया वक्ष्यामि न त्वात्मप्रशंसया || १ || न मे विदुः सुरगणाः प्रभवं न महर्षयः | अहमादिर्हि देवानां महर्षीणां च सर्वशः || २ || हे मम प्रभवं प्रभावं सुरगणाः ब्रह्मादिदेवगणा अपि न विदुर्न ज्ञातवन्तः | महर्षयो भृग्वादयोऽपि न विदुः | कुतो न विदुरित्यत्राह- अहमित्यादि | हि यस्मात् देवानां ब्रह्मादीनां महर्षीणां भृग्वादीनां च अहमेव आदिर्मूलकारणं सर्वशः सर्वप्रकारेणापि | अतः कथं ते मां जानीयुः || २ || यो मामजमनादिं च वेत्ति लोकमहेश्वरम् | असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते || ३ || मर्त्येषु मनुष्येषु यो मामजं उत्पत्तिरहितं च लोकमहेश्वरं लोकानां महांतं निरतिशयमीश्वरं च वेत्ति असंमूढो मोहरहितो विवेकी सः सर्वपापैः सर्वविधपापैरपि प्रमुच्यते प्रकर्षेण मुक्तो भवति | एवं परमात्मविज्ञानादेव सर्वमलक्षयमुपदिशति भगवान् || ३ || बुद्धिर्ज्ञानसंमोहः क्षमा सत्यं दमः शमः | सुखं दुःखं भवोऽभावो भयं चाभयमेव च || ४ || अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः | भवन्ति भावा भूतानां मत्त एव पृथग्विधाः || ५ || प्. २२९)
245 SK बुद्धिरंतःकरणसामर्थ्यम् | ज्ञानं तत्त्वज्ञानम् | असंमोहः समीचीनो विवेकः | क्षमा अविकृतचित्तता | सत्यं यथादृष्टार्थकथनम् | दमो बाह्येन्द्रियविजयः | शमः अंतःकरणविजयः | सुखमानन्दः | दुःखं संतापः | भवो वस्तूनां उद्भवः | अभावस्तेषां नाशः | भयं त्रासः | अभयं निर्भयता | अहिंसा प्राणिनामपीडनम् | समता समचित्तता | तुष्टिः संतोषः | तपः शरीरक्लेशादिः | दानं त्यागः | यशः कीर्तिः | अयशः अपकीर्तिः | एतादृशाः पृथग्विधा नानाविधाः भूतानां प्राणिनां भावामनोभावाः मत्त एव मत्कारणादेव भवन्ति उत्पद्यन्ते || ४-५ || महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा | मद्भावा मानसा जाता येषां लोक इमाः प्रजाः || ६ || सप्त महर्षयो भृग्वादयः तथा पूर्वे अतीताः चत्वारो मनवः मद्भावा मद्गतभावविशिष्टा एव मानसा जाताः मनसैव मयोत्पादिताः | येषां मनूनां लोकेऽस्मिन् इमाः प्रजास्तिष्ठन्ति तादृशो मनवः मत्त एव जाताः || ६ || एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः | सोऽविकंपेन योगेन युज्यते नात्र संशयः || ७ || एतां उक्तां मम विभूतिं ऐश्वरं वैभवं योगं तद्धटनासामर्थ्यं च यस्तत्त्वतो यथावत्तया वेत्ति जानाति सः अविकंप्येन सुदृढेन सुव्यवस्थितेन च योगेन शिवयोगेन युज्यते तादृशं योगं लभत इत्यर्थः | अस्मिन्विषये न संशयः || ७ || अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते | इति मत्त्वा भजन्ते मां बुधा भावसमन्विताः || ८ || स्वभजनप्रकारमत्र निर्दिशति | सर्वस्यापि जगतः प्रभवः उत्पत्तिकारणं अहमेव | अत एव मत्त एव सर्वमपि सृष्टिस्थितिप्रलयादिकं प्रवर्तते | इति भाव-समन्विताः सद्भावनायुक्ता बुधा ज्ञानिनः मत्वा ज्ञात्वा प्. २३०)
246 SK मां भजंते सेवंते | ज्ञानिनां परमात्मभजनप्राकरमेवं निर्दिशति शरणगीता आपूर्य नामामृतमेव सूक्तौ नेत्रे समापूर्य तदीयमूर्तिम् | चित्ते समापूर्य तदीयसंस्मृतिं श्रोत्रे समापूर्य तदीयकीर्तिम् | तथा द्विरेफोऽस्मि भवत्पदाब्जनिष्यन्दमग्नो गुरुसङ्गमार्य | इति | एवं सर्वेन्द्रियेष्वपि परमात्मसंपर्कमेव परिकल्प्य तदारामास्तन्निष्ठा एव निवसंति ज्ञानिनः || ८ || मच्चित्ता मद्गतप्राणा बोधयंतः परस्परम् | कथयंतश्च मां नित्यं तुष्यंति च रमंति च || ९ || मच्चित्तः मय्येव चित्तं येषां ते मद्ध्यानासक्ताः मद्गतप्राणाः मां गताः प्राणा येषां ते | तादृशः परस्परं बोधयंतः मदीयं वैभवं ज्ञापयंतः तदनुगुणं मां कथयंतश्च मद्विषयिकां कथामेव कुर्वंतश्च तुष्यंति संतुष्टा निवसंति देहेऽस्मिन् तस्मिन्नेव परमात्मनि रमंति च | शरणगीता सद्भक्तानामानंन्दमेवं वर्णयति | संतुष्य वार्ताश्रवणेन शंभोस्तथैव कृत्वा शिवकीर्तनं च | तथा विचिन्त्यैव विना श्रमेण तथैव कुर्वंश्च तदीयसेवाम् | विस्तीर्य पूजां च यथोक्तरीत्या स्वतन्त्रमूर्वे गुरुसिद्धलिङ्ग | शिवं शरण्यं ह्यनुचिंत्य नित्यं तदीयवस्तूनि तदीयवर्गे | समर्प्य भक्त्या भवदेकनिष्ठः शिवः स्वयंभूत इहैव भक्तः | इति | एवं शिवस्य वार्ताश्रवणेन शिवकीर्तनेन शिवचिंतनेन शिवार्चनेन शिवसंबन्धीनि वस्तूनि शिवभक्तेभ्यः समर्प्य शिवैकनिष्ठया व्यवहरन् मानवः शिव एव भवेन्नान्यथेति दृढं विश्वासमभिव्यञ्जंति शरणाः || ९ || तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् | ददामि बुद्धियोगं तं येन मामुपयांति ते || १० || सततयुक्तानां सतत मयि युक्तानां मां प्रीतिपूर्वकं भजतां सेवतां च तेषां तं तादृशं बुद्धियोगं ज्ञानयोगं ददामि | सर्वदा परमात्मचिंतन एव मग्ना ये लोकव्यवहारं श्रद्धया शिवाराधन- svīyadarśanalābhamanugṛhṇātyeva | yena jñānayogena te māṃ p. 231)
247 SK निराकारपरमात्मानं उपायांति प्राप्नुवंति तादृशं ज्ञानयोगं ददामि अहमेवानुगृह्णामीति परमात्मा स्वयमेव प्रतिशृणोति | तस्यैतदाश्वासनं साधकानां सद्भावनामुत्तेजयति | अनयैव दिव्यस्फूर्त्या प्रोत्साहितास्सर्वेऽपि साधकाः स्वीयहृदये दृढतया | विश्वसन्त्विति भगवत आशयः || १० || तेषामेवानुकंपार्थमहमज्ञानजं तमः | नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता || ११ || तादृशज्ञानयोगस्य फलं निर्दिशति तेषामेव मां भजतामेव अनुकंपार्थं दयाहेतोः अहं आत्मभावस्थ आत्मनोऽन्तःकरणस्य भाव आशयस्तत्र विद्यमानस्सन् भास्वता प्रकाशवता ज्ञानदीपेन ज्ञानाख्यदीपेन अज्ञानजं अज्ञानप्रभवं तमः अन्धकारं नाशयामि ध्वंसयामि | तथा च ध्वस्ततमसो ज्ञानिनो निराकारं परमशिवं मां प्राप्नुवन्ति || ११ || एवं भगवता स्वप्रभावेऽभिहिते दैवीप्रकृतियुक्तोऽर्जुनः अभिवृद्धभगवद्भक्तिः भूयोऽपि भगवन्महिमातिशयं विस्तरेण श्रोतुमिच्छन् अतिविनयेन भगवन्तं स्तुत्वा पृच्छति - परं ब्रह्म परं धाम पवित्रं परमं भवान् | पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् || १२ || आहुस्त्त्वामृषयस्सर्वे देवर्षिर्नारदस्तथा | असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे || १३ || हे कृष्ण भवान् त्वमेव परब्रह्म परब्रह्मभूतः | एवं परं धाम परमं तेजश्च | परमं पवित्रं पावनश्च | सर्वे ऋषयो वसिष्ठाद्यास्तथा देवर्षिः नारदः असितः देवलः एते सर्वेऽपि त्वामेव पुरुषं परमपुरुषम् | पराप्रकृतेः पुरुषरूपस्य वासुदेवस्य पुरुषाख्यस्य परशिवस्य च सामरस्यात् वसुदेवात्मजस्य कृष्णस्यापि पुरुषत्वेनात्र निर्देशो युज्यते | एवमेव शास्वतं नित्यं दिव्यमप्राकृतं परंज्योतिस्स्वरूपमादिदेवं सर्वदेवानामपि आदौ विद्यमानं देवं अजं प्. २३२) उत्पत्तिरहितं विभुं सर्वव्यापकं च आहुः | स्वयं चैव मे मह्यमेवमेव त्वत्स्वरूपं ब्रवीषि | अतस्त्वं साक्षात् परमात्मैव || १३ ||
248 SK सर्वमेतदृतं मन्ये यन्मां वदसि केशव | न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः || १४ || हे केशव एतत्सर्वं ऋषिभिस्त्त्वया चोक्तं इदं सर्वं ऋतं सत्यमेव मन्ये यत् मां प्रति त्वमपि वदसि | हे भगवन् ते तव व्यक्तिं अभिव्यक्तिं देवा इन्द्रादयोऽपि न विदुः दानवा असुरा वा न विदुः | सर्वव्यापकस्यामूर्तस्य परमात्मनो रूपं देवदानवानामप्यज्ञेयमित्यर्थः || १४ || स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम | भूतभावन भूतेश देवदेव जगत्पते || १५ || हे पुरुषोत्तम कृष्ण हे भूतभावन भूतानि सर्वाणि भावयति उत्पादयतीति भूतभावनः जगत्सृष्ट्याद्यसदृशमहाकार्यनिर्वाहक हे भूतेश सकल-प्राणिनां नियामक हे देवदेव देवानामपि देव हे जगत्पते जगतामधिपते आत्मना आत्मानं त्वमेव स्वयं वेत्थ जानीषे | अन्यः को वा मूर्तामूर्त-स्वरूपिणं उदासीनवदासीनं लोकेऽवस्थितमप्यलोकधर्माणं त्वां असाधारणशक्तिविशिष्टं जानीयात् | वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः | याभिर्विभूतिभिर्लोकान् इमांस्त्वं व्याप्य तिष्ठसि || १६ || भवतो महिमानमशेषेण संपूर्णतया वक्तुं अर्हसि स्वामिन् हि यस्मात् आत्मविभूतयः आत्मनस्तव विभूतयो दिव्या अप्राकृता आसाधारणा एव | अतस्ता वक्तुमर्हसि | यामिर्विभूतिभिस्तव महिमाभिरिमान् लोकान् सर्वान् त्वं व्याप्य तिष्ठसि | लोकव्यापिन्यः सर्वविभूतयस्तव विविधाः शक्तय एव | एतादृशाद्भुतशक्तिविशिष्टस्त्वं अमूर्तस्सन्नपि भक्तानुग्रहलीलया दिव्यमूर्तो नित्यसुन्दरस्सन् सर्वेषामाकर्षणीयोऽसि | अतस्तव प्. २३३) महिमातिशयं ज्ञातुं न शक्यतेऽन्येषाम् | त्वमेव त्वदीयं वैभवं समुपदिश्य त्वद्भक्तं मां समुद्धर संशयकूपात् | इत्यर्जुनः श्रीकृष्णं भक्तिपूर्वकं प्रणम्य विज्ञापयामास || १६ || कथं विद्यामहं योगिन् त्वां सदा परिचिन्तयन् | केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया || १७ ||
249 SK हे योगिन् सर्वयोगानामपि स्वामिन् त्वां सदा सर्वदा परिचिन्तयन् ध्यायन् कथं त्वां विद्यां जानीयाम् | हे भगवन् | मया त्वं केषु केषु भावेषु वस्तुषु च चिन्त्यः ध्येयोऽसि ? तव सर्वत्र अव्यक्ततया अवस्थानात् कुत्र तव अभिव्यक्तिमहं जानीयाम् ? सर्वत्र गोप्यतया निवसन्तं त्वां सामान्य- pañcabhūtavistāra-rūpe'smin prapañce vidyamāno'pi sarvairbāhyadṛṣṭyā na jñāyase | ataḥ kathaṃ tvāmahaṃ jānīyām ? kasmin bhāve kena rūpeṇa tvāmarcayeyam ? ityādyāḥ praśnāḥ pṛcchyante'rjunena || 17 || vistareṇātmano yogaṃ vibhūtiṃ ca janārdana | bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam || 18 || he janārdana kṛṣṇa ātmanastava yogaṃ aiśvarayādiyogaṃ vibhūtiṃ vaibhavaṃ ca vistreṇa bhūyaḥ punarapi kathaya | hi yasmāt amṛtaṃ tava vacanāmṛtaṃ śṛṇvato me tṛptiḥ paritoṣaḥ alaṃbhāvo nāstyeva | śrutvāpi punaḥpunaḥ śrotumichāmi | atastava tejovaiśiṣṭyaṃ bhūyaḥ kathaya || 18 || hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ | prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me || 19 || hanteti harṣe anukaṃpāyāṃ vākyāraṃbhe vā | he kuruśreṣṭha arjuna divyā ātmayibhūtayaḥ tejoviśeṣāḥ prādhānyato mukhyaśaḥ te tubhyaṃ kathayiṣyāmi | yadīyaṃ śaktivaibhavamanantamapāraṃ ca vidyate | hi yasmāt me mama p. 234) vibhūtervistarasya vaipulyasya antaravasān eva nāsti | śaktiviśeṣaḥ jagadidaṃ sarvata eva vyāpya sarveṣāṃ jīvanādhārassaṃbhūtaḥ yenākṛṣṭāssarve jagatyasmin parasparaviśvāsena vyavaharanti | sarveṣvapi prītipātraṃ vastu paramātmaśaktivaibhavameva | tadīyā śaktirjagadākāreṇa pariṇatā satī tatra svayamantarhitā bhūtvā sarvānapyākarṣayati | etacchaktiyogavijñānenaiva tadantaryāmiṇaḥ śaktimataḥ paramātmano jñānaṃ suśakaṃ bhavet | ataḥ śaktiyogaṃ jñātuṃ uttamādhikārī arjunaḥ prabhavatyevaḥ || 19 || ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ | ahamādiśca madhyaṃ ca bhūtānāmanta eva ca || 20 ||
250 SK तत्र तावत्प्रथममिदं सारभूतं मदीयं शक्तियोगं शृणु इत्यारभते भगवान् तदीयं वैभवं कथयितुम् | हे गुडाकेश निद्राविजेतः सर्वदा जाग्रत्स्वरूप अर्जुन सर्वभूताशयस्थितः सर्वेषां भूतानां आशये हृदये विद्यमानः आत्मा अन्तर्याम्यात्मा अहमेव | ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति सर्वस्य चाहं हृदि सन्निविष्टः इति भगवानेव वक्ष्यति | भूतानां सर्वेषां अहमेव आदिर्मूलकारणं मध्यं मध्यकाले स्थितिकारणं तथैव अन्तः प्रलयकारणं चास्मि | एवं सर्वेषां सृष्टिस्थितिप्रलयकारणं अहमेवेत्यर्थः || २० || आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् | मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी || २१ || आदित्यानां द्वादशादित्यानां मध्ये विष्णुर्नाम आदित्यः अहमेव | ज्योतिषां प्रकाशयितॄणां मध्ये अंशुमान् सहस्रकिरणो रविः सूर्यः अहमेव | मरुतां मरुद्देवतासु मरीचिरस्मि | नक्षत्राणां मध्ये अहं शशी चन्द्रोऽस्मि | तथा च लोके यत्र यत्र विद्यमानः शक्त्युत्कर्षः स सर्वोऽपि परमात्मैवेत्युदारमाशयमाविष्करोति भगवान् || २१ || वेदानां सामवेदोऽस्मि भूतानामस्मि वासवः | इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना || २२ || प्. २३५) वेदानां चतुर्णा मध्ये सामवेदः अहमस्मि | देवानां मध्ये वासवः इन्द्रोऽस्मि | इन्द्रियाणां प्रेरकं यन्मनस्तदहमेव | भूतानां चैतन्यवतां प्राणिनां चेतना चैतन्यं अहमेव || रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् | वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् || २३ || रुद्राणामेकादशरुद्राणां मध्ये शङ्करः कालरुद्रः अहमेव | यक्षरक्षसां मध्ये वित्तेशः कुबेरोऽहमेव | वसूनामष्टानां मध्ये पावकोऽग्निरहमेव | शिखरिणां शिखरवतां मध्ये मेरुः मेरुपर्वतः अहमेव || २३ || पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् | सेनानीनामहं स्कन्दः सरसामस्मि सागरः || २४ ||
251 SK हे पार्थ पुरोधसां पुरोहितानां मुख्यं श्रेष्ठं बृहस्पतिं देवपुरोहितं मां विद्धि जानीहि | सेनानीनां सेनापतीनां मध्ये स्कन्दो देवसेनापतिः सुब्रह्मण्योऽहमेव | सरसां मध्ये सागरस्समुद्रोऽस्मि || २४ || महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् | यज्ञानां जपयज्ञोऽस्मि स्थावरणां हिमालयः || २५ || महर्षीणां ज्ञानिनां मध्ये भृगुरहमेव | गिरां पदानां मध्ये एकमक्षरं प्रणवरूपः अहमेव | यज्ञानां मध्ये जपयज्ञो शिवमन्त्रजपरूपयज्ञोऽहमेव | स्थावराणां स्थिरवस्तूनां तत्राप्यचलानां पर्वतानां मध्ये हिमालयो नाम नगाधिराजः अहमेव || २५ || अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः | गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः || २६ || सर्ववृक्षाणां मध्ये अश्वत्थः तदाख्यः प्रसिद्धो वृक्षः अहमेव | देवर्षीणां मध्ये नारदोऽस्मि | गन्धर्वाणां मध्ये चित्ररथो नाम गन्धर्वः अहमेव | सिद्धानां मध्ये कपिलो मुनिरहमेव || २६ || प्. २३६) उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् | ऐरावतं गजेन्द्राणां नराणां च नराधिपम् || २७ || अश्वानां मध्ये अमृतोद्भवं अमृतसागरमथनसमये जातं उच्चैःश्रवसं तन्नामानं मां विद्धि | गजेन्द्राणां गजश्रेष्ठानां मध्ये ऐरावतं देवगजं नराणां मध्ये नराधिपं राजानं च मां विद्धि | एवं लोके सर्वश्रेष्ठं यद्यत् वस्तु वर्तते तत्सर्वं अहमेव || २७ || आयुधानामहं वज्रं धेनूनामस्मि कामधुक् | प्रजनञ्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः || २८ || आयुधानां मध्ये वज्रं वज्रायुधमहमेव | धेनूनां गवां मध्ये कामधेनुरहमेव | प्रजनो जगत्प्रेरकस्तदाकर्षकः कन्दर्पः कामोऽहमेव | सर्पाणां मध्ये वासुकिरहमेव || २८ || अनन्तश्चास्मि नागानां वरुणो यादसामहम् | पितृणामर्यमा चास्मि यमः संयमतामहम् || २९ ||
252 SK नागानां अनन्तस्तन्नामा नागोऽस्मि | यादसां जलदेवानां मध्ये वरुणः अहमेव पितृणां मध्ये अर्यमा नाम पितृराजोऽहमेव | संयमतां संयमनं कुर्वतां योगिनां यमः संयमः अहमेवास्मि || २९ || प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् | मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् || ३० || दैत्यानामसुराणां मध्ये प्रह्लादः अहमेव | कलयतां कलनं गणनं कुर्वतां मध्ये कालः सर्वेषां वीक्षको गणकस्सुप्रसिद्धः कालोऽहमेवास्मि | मृगाणां मध्ये सिंहोऽहमेव | पक्षिणां पतत्रिणां मध्ये वैनतेयो गरुडोऽस्मि || पवनः पवतामस्मि रामः शस्त्रभृतामहम् | झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी || ३१ || प्. २३७) पवतां पावयितृणां मध्ये पावनस्सर्वेषां मलदोषनिवारको वायुरहमेव | शस्त्रभृतां शस्त्राणि धारयितृणां मध्ये रामो दशरथसूनुः रामोऽहमेव | झषाणां मत्स्यानां मध्ये मकरो मत्स्यजातिविशेषोऽस्मि | स्रोतसां नदीनां मध्ये जाह्नवी सर्वपावना दिव्यगङ्गा अहमेव || ३१ || सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन | अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् || ३२ || हे अर्जुन सर्गाणां सृष्टीनां आदिरन्तो मध्यं च अहमेव | सृष्टिस्थिति- pravadatāṃ parasparaṃ vivādaṃ kurvatāṃ vādo'hameva || 32 || akṣarāṇāmakāro'smi dvandvaḥ sāmāsikasya ca | ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ || 33 ||
253 SK अक्षराणां वर्णानां अकारः अवर्णोऽस्मि | सामासिकस्य समाससमुदायस्य मध्ये द्वन्द्वसमासोऽस्मि | अकारः सर्वेषु वर्णेष्वनुस्यूततया संबद्धोऽस्ति | अतस्सः परमात्मस्वरूप इति भाव्यते | द्वन्द्वसमासे प्रयुक्तयोरुभयोरपि शब्दयोः समप्राधान्यात् सः परमात्मस्वरूप इत्यनुभविभिर्भाव्यते | इतरेषु समासेषु पूर्वस्य परस्य अन्यस्य वा प्राधान्यात् उभयोः प्राधान्यं नास्ति | सर्वत्र प्रधानतया अवस्थितिरेव ब्रह्मभाव इति ज्ञायते शिवयोगिभिः | द्वन्द्वे सर्वप्राधान्यात् तथा व्यवहारो युज्यते | तथैव अक्षयः क्षयरहितः कालोऽपि ब्रह्मस्वरूप एव | एवमेव विश्वतोमुखो धाता कर्मफलानां विधाता अहमेव || मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् | कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा || ३४ || सर्वहरः सर्वसंहर्ता मृत्युरहमेव | भविष्यतां भाविकल्याणयोग्यानां वस्तूनां उद्भवः अहमस्मि | नारीणां मध्ये नारीषु सहजतया दृश्यमानो यः कश्चन विशेषः परमात्मस्वरूप एव | तत्रापि कीर्तिः श्रीः वाक् स्मृतिः प्. २३८) मेधा धृतिः क्षमा एतादृशा अभिनन्दनीया गुणाः स्त्रीषु वैयक्तिकतया दृश्यन्ते | अयं सर्वोऽपि विशेषः भगवत्तेज्ॐऽश एवेति भाव्यः | यस्यां व्यक्तौ यः कश्चन विशेषो दृश्यते सोऽवश्यं देवांश इति संभाव्य पुरस्कार्य इति सूच्यतेऽत्र भगवता | अत एव स्त्रीणां मधुरा प्रसन्ना गंभीरा वाणी देवात्मशक्तेरसाधारणो विलास एवेति विवेकिभिर्भाव्यते || ३४ || बृहत्साम तथा साम्नां गायत्री छन्दसामहम् | मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः || ३५ ||
254 SK साम्नां मध्ये बृहत्सामेति प्रधानं साम अहमेव | छन्दसां मध्ये गायत्रीछन्दः अहमेव | मासानां मध्ये मार्गशीर्षोऽस्मि | तस्मिन्नेव मासे रणरङ्गे अर्जुनाय अयं कर्मयोग उपदिष्टः | तत्राप्येकादश्यां गीतोपदेशात् तस्याः प्राधान्यं परिकल्प्यते विवेकिभिः | अमृतस्थित्याधायकः सर्वोऽपि कालः परमात्मनः प्रियत्वात् तत्संबद्ध एव | मार्गशिरमासे एकादश्यां तादृगमृतोपदेशाविर्भावात् तस्याः भगवदंशत्वं भाव्यते | तथैव बृहत्साम परमात्मनोऽतीव प्रियम् | एवमेव गायत्रीछन्दोऽपि दैवीसंपत्परिपूर्णमिति परिकीर्त्यते | तथैव ऋतूनां कुसुमाकरो वसन्तः अहमेव || ३५ || द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् | जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् || ३६ || छलयतां धलप्रयोक्तॄणां द्यूतं अक्षविद्या अहमेव | तेजस्विनो यत्तेजस्त-दहमेव | जेतॄणां विजयशीलैरधिगतो विजयः अहमेव | व्यावहारिकाः जनाः व्यवहारेषु यादृशं लाभं प्राप्नुवन्ति तं सर्वमपि भगवत्-स्वरूपमिति संभाव्यः यः पुरस्करोति स एव भगवदनुग्रहं लभते | एतत्तत्वं यो न जानाति स एव अन्यलाभाय मात्सर्यासूयादिकमनुभवति | अतो विवेकिनः समाहितेन मनसा परेषां वृद्धिं वीक्ष्य सन्तुष्यन्ति | एवमेव सत्त्ववतां सत्त्वं च अहमेव | एवं परसन्तोषणं परानुग्रहणं परोपकरणमित्येतत्सर्वं शिवाराधनमेवेति उपमन्युमहर्षिणा भगवते कृष्णाय यदुपदिष्टं तत्समञ्जसमेव भाति || प्. २३९) वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः | मुनीनामप्यहं व्यासः कवीनामुशनाः कविः || ३७ ||
255 SK वृष्णीनां वृष्णिवंशजातानां मध्ये वासुदेवो वसुदेवपुत्रोऽयं अहमेवामूर्तः परमात्मा | तथैव पाण्डवानां पञ्चानां मध्ये धनञ्जयोऽर्जुनस्त्वं अहमेव | भगवत्स्वरूप एव भवानिति भगवानुपदिशत्यर्जुनाय | मुनीनामपि व्यासश्च महाज्ञानि निगमागमव्यवस्थापकः भगवत्स्वरूप इति भगवत एव निर्देशः सर्वेषां स्फूर्तिदायको भाति | तथैव कवीनां ज्ञानिनां मध्ये उशनाः शुक्रो दिव्यदर्शीति भाव्यते || ३७ || दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् | मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् || ३८ || दमयतां दमनं कुर्वतां तत्साधनभूतो दण्डः अहमेवास्मि | जिगीषतां जेतुमिच्छतामनुसरणीया नीतिर्न्यायः अहमेव | गुह्यानां गोप्यानां योगिनामादर्शभूतं मौनमप्यहमेव | ज्ञानवतां ज्ञानं च अहमेव || ३८ || यच्चापि सर्वभूतानां बीजं तदहमर्जुन | न तदस्ति विना यत्स्यान्मया भूतं चराचरम् || ३९ || हे अर्जुन सर्वभूतानामपि यच्चापि बीजं प्ररोहकारणं तदहमेव | मया विना मां विना यत् भूतं उत्पन्नं चराचरं स्यात् वर्तेत तत् तादृशं वस्तु मां विना जातं नास्त्येव | सर्वं मत्त एवोत्पन्नं मदविनाभूतमेव | लोके विद्यमानेषु सर्वेष्वपि वस्तुषु परमात्मनः सान्निध्यं सहजतया विलसति | एवमन्तस्थोऽपि सः स्वगुणैर्निगूढत्वात् लौकिकैर्न ज्ञायते परन्तु अन्तर्दृष्टिभिर्योगिभिरेव अनुभूयते | दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः इति श्रुत्या सूक्ष्मदृशामेव तदीयं दर्शनं सुशकं भवेदिति प्रतिश्रुतम् || नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप | एष तुद्देशतः प्रोक्तो विभूतेर्विस्तरो मया || ४० || प्. २४०)
256 SK हे परन्तप अर्जुन मम दिव्यानां विभूतीनां अन्तः इयत्ता नास्त्येव | एतावत्- veditavyaṃ alpaśca kālo bahavaśca vighnāḥ ityabhiyuktoktyā paramātma- नास्ति | तथा प्रयत्ने कृतेऽपि निरुपधिका विघ्नाश्च संभवन्ति | तस्यामूर्त- kṣṛṇasyāśayaḥ | eṣa tu svavibhūtervistara etāvāneveti bhagavānapi na vadati parantu saḥ uddeśata ekadeśata eva tadīyaṃ bhagavadvaibhavaṃ nirdiśati na tu saṃpūrṇatayā pravakti | śivasya tattvaṃ śiva eva vetti nandī ca viṣṇurnagajākumāraḥ iti śrīpatipaṇḍi-tārādhyamahodayāḥ śrīkarabhāṣyāraṃbhe kathayanti | tathā amūrtaśivasya tattvaṃ divyamūrtaḥ śivo yathā jānāti tathā viṣṇustadavatārabhūtaḥ kṛṣṇo'pyavaśyaṃ jānātyeva | tathāpi saḥ samagratayā tādṛśaṃ vaibhavapūrṇaṃ tattvaṃ arjunāya upadiśati | samagraṃ tattvamavagantuṃ na pārayati khalvarjunaḥ | jitanidro'rjuna eva yadi śivasya śaktivaibhavaṃ saṃpūrṇatayā jñātuṃ na śaknuyāt tadā anye tāmasā janāḥ kathaṃ tatra prabhaveyuḥ | ata eva bhagavān svaśaktivaibhavasyātyalpāṃśamevātra dikpradarśanārthaṃ sūcayati || 40 || yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā | tattadevāvagaccha tvaṃ mama tejoṃ'śasaṃbhavam || 41 || loke yadyat vibhūtimat vaibhavavat sattvaṃ vastu śrīmat kāntyādimat ūrjitameva vā utsāhādyupetaṃ vāsti tattatsattvaṃ mama tejoṃ'śasaṃbhavaṃ mama tejasaḥ ekadeśādeva utpannaṃ viddhi jānīhi | yasyaikaśaktiśakale sakalassamāptaḥ ityabhiyuktoktirata eva saṅgacchate | sakalamapi daivaṃ vaibhavaṃ tadīyatejorūpāyāḥ prāṇaśakteratyalpāṃśa eva vilīyate | akhaṇḍaṃ viśvaṃ paramātmanaścicchakterekāṃśa eva parisamāpyate cet tadā mānavo'bhimāne- सर्वत्र निर्लिप्ततया निवसन् परमात्मा प्. २४१)
257 SK स्वीयशक्तिवैभवेन स्वांशैर्जीवैः स्वीयं जगद्व्यापारमनायासेन लीलयैव निर्वहति | एतादृश्यां स्थितौ मानवाः परमात्मानं विस्मृत्य कर्तृत्वाभिमानेन स्वत एव व्यवहारेषु प्रवर्तन्त इत्येतद्विषादास्पदमेव | अतो विवेकिभिः सर्वव्यापिकायाः भगवत्तेजोरूपायाः पराशक्तेर्विज्ञानाय यथाशक्ति यथामति च प्रयतितव्यम् | परमात्मा तेजोरूपशक्तिविशिष्टः सहजतया यथा विराजते तथा तदंशभूता जीवाश्च सर्वे तेज्ॐशरूपिण्या बुद्धिशक्त्या विशिष्टा एव वर्तन्ते | तथैव पञ्चतत्त्वात्मकः प्रपञ्चोऽपि शक्तिविशिष्ट एव वर्तते | शक्तिरहितमेव वस्तु न कदाप्युपलभ्यते | तेजोविहीनं वस्तु प्रपञ्चे न विद्यते कुत्रापि | पृथिव्यां विद्यमाना सर्ववस्तुसंधारणरूपा शक्तिस्सर्वैरनुभूयते | तथैव अप्सु विद्यमानं आप्यायनरूपं तेजश्च सर्वेषाम् परिचितमेव | तेजसि सर्ववस्तुदहनरूपं यत्तेजो विद्यते तदपि परमात्मतेज्ॐश एव | एवमेव वायौ सर्वेषां मलदोषपरिहाररूपं यत्तेजो वर्तते तदपि भगवच्छक्तेरंश एव | आकाशे सर्वव्याप्तिनिर्लेपनादिकं यत्तेजो वर्तते तदपि भगवच्छक्त्यंशसंभवमेवेति ज्ञेयम् | एवं च परमात्मा तदंशभूता जीवाः तद्विनोदभूमिः प्रपञ्च इत्येतत्सर्वं तेजोरूपशक्तिविशिष्टमेवेति भगवानत्र स्पष्टयति | तथापि जीवेष्वियं शक्तिः सत्त्वरजस्तमोरूपैस्त्रिगुणैरावृता सती सङ्कुचिता वर्तते | अयं च सङ्कोचः भगवदुत्पासननैरन्तर्येण क्रमशः परिहरणीयो मानवैः | शक्तिसङ्कोच एव मल इत्यनुभविनो वदन्ति | अयमेव मलस्त्रिविधो भासते आणवमायेयकार्मिकभेदेन | आणवमलस्तु इच्छाशक्तेः सङ्कोचभूतः जीवेषु स्वार्थभावनामुत्पादयति | मायेयमलस्तु इच्छाशक्तेः सङ्कोचभूतः जीवेषु व्यामोहदृष्टिं उत्पादयति | एवमेव कार्मिकमलोऽपि क्रियाशक्तेः सङ्कोचरूपः जीवेषु अहङ्कारभावनामुत्पादयति | एवं जीवाः सर्वेऽपि स्वार्थताव्यामोहाहङ्कारसमन्विताः स्वेच्छया मोहङ्गता ह्यभिमानेन सर्वत्र व्यवहरन्ति अत एव दुःखपरंपरां
258 SK समश्नुवन्ति | एतत्सङ्कोचपरिहारेण शक्तिविकासोऽधिगन्तव्योऽभ्यासदार्ढ्यात् | एतत्प्राप्त्युपायोऽन्यत्र विचार्यते || ४१ || प्. २४२) अथवा बहुनैतेन किं ज्ञातेन तवार्जुन | विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितो जगत् || ४२ || शक्तिवैभववर्णनमुपसंहरन्नाह भगवान् | हे अर्जुन बहूक्त्वा किं फलम् | अधिकमुच्यते चेत् त्वया न ज्ञायते | अथवा मदीयं अनन्तं तेजोवैभवं बहुधा ज्ञात्वापि तव किं फलं स्यात् | यावत् ज्ञायेत चेदपि तत् अल्पं सावशेषमेव स्यात् | सारतः कथ्यते चेत् अहमिदं कृत्स्नं जगदपि एकांशेनैव मच्छक्त्येकदेशेनैव विष्टभ्य व्याप्य स्थितः | पादोऽस्य विश्वा भूतानि | त्रिपादस्या अमृतं दिवि इति पुरुषसूक्ते परमात्मन एकांशेनैव विश्वव्याप्तिरुपवर्ण्यते | अतस्तद्वैभवस्य इयत्ता न केनापि ज्ञातुं शक्यते | एवं भगवान् तदीयं विभूतियोगं संक्षेपतो लोककल्याणायोपदिशति || ४२ || एकादशोऽध्यायः एवं भगवता स्ववैभवे कथिते तेन अभिवृद्धभक्तिस्तादृशं भगवन्तं साक्षात्कर्तुमिच्छत् अर्जुन उवाच - मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् | यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम || १ || मदनुग्रहाय ममानुग्रहकरणार्थं कृपयैव परमगुह्यं अध्यात्म- ayaṃ mama moho mayi vidyamānaṃ ajñānaṃ vigato naṣṭaḥ | bhagavadanu- सः हृदयशुद्धिमान् उपदेशामृतेन सम्यक् सिक्तः स्वीयसंशयपरिहारेण स्वयं निष्कल्मषः संभूतः | प्राक्तनं अविवेकं बान्धवव्यामोहं स्वीयं कर्तृत्वाभिमानं सर्वमपि संपूर्णं परित्यज्य सर्वत्र व्याप्य प्. २४३)
259 SK सर्वमपि जगतः कर्म फलाभिसन्धिं विनैव कर्तव्यनिष्ठया लोकहितेच्छया च निर्वहतः परमात्मनो दिव्यमादर्शं स्वयमनुसर्तुं कृतमतिरर्जुनो विनयेन तस्मिन् शरणागतो बभूव | परमात्मना लोककल्याणाय क्रियमाणे महायुद्धे निमित्तमात्रं व्यवहरणमेव स्वीयं कर्तव्यमिति यथार्थं तत्त्वमद्य विज्ञातमर्जुनेन | प्रागविवेकदशायां तस्य हृदये संलग्नः संशयोऽधुना भगवदुपदेशेन स्वयं विनष्टः | एवमेव शरणा महात्मनां दिव्यवाणेरुत्तमं सत्परिणामं स्वानुभावेन कथयन्ति क्षीरप्रवाहे गुडपङ्कपूर्णे सच्छर्करावालुकसंविशिष्टे | तथैव खण्डात्मकफेनयुक्ते सुभाषिते सत्यपि दिव्यवाक्ये | कूपं खनित्वान्यमपेयरूपं क्षारं जलं पीतवतो गतिः स्वात् इति | एवं महात्मनां वाणी दिव्यप्रभावान्वितैव वर्तते | तां श्रद्धया आकर्ण्य विच्छिन्नासर्वसंशया वयं निर्मलमानसाः स्वीयं कर्तव्यं निर्वहन्तो भगवदनुग्रहभाजनं यदि भवेम तदा अस्मज्जन्म सार्थकं भवेदेव | अर्जुनस्थितिं दृष्ट्वा सर्वे वयं महत्या स्फूर्त्यासरलनिराडम्बरजीवनेन लोके वव्यहरन्तः जन्मसाफल्यमधिगच्छेम | पवित्रमिदं शरीरं भगवत्प्रसादलब्धं व्यर्थकालयापनेन शुष्कविचारेण च यथा दुरुपयुक्तं न भवेत् तथा प्रत्युत्पन्नमतयो वयं भवेम | अर्जुनेनानुभूतः संशयः सर्वेषामस्माकं दैनन्दिनजीवनं पावयामास | तादृशः संशयस्य हृदये यथा अवकाशो न संभवेत् तथा जागृतैरस्माभिर्भवितव्यमित्यभिप्रायोऽत्र संसूच्यते || भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया | त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् || २ || विगतसर्वसंशयोऽर्जुनः स्वाभिप्रायमाविष्करोति | हे कमलपत्राक्ष पुण्डरीकाक्ष कृष्ण भूतानां सर्वेषां भवाप्ययौ उत्पत्तिप्रलयावपि विस्तरशो मया श्रुतौ | अव्ययं नाशरहितमेव निर्विकारतया सर्वव्यापकं तव माहात्म्यमपि वैभवपूर्णं च पावनं जीवनमपि त्वत्तः त्वत्सकाशादेव मया सम्यक् श्रुतम् || २ ||
260 SK एवमेतद्यथाऽत्थ त्वं त्वमात्मानं परमेश्वर | द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम || ३ || प्. २४४) हे परमेश्वर आत्मानं त्वं यथा येन प्रकारेण आत्थ कथयसि तत् सर्वमे- gṛhītavānasi | tathāpi tvaṃ divyatanurevāsīti mayā samyagviditam | atastava divyāṃ tanuṃ draṣṭumicchā mayi viśeṣata utpannā | iyamapi hārdī icchā tvayaiva dayayā pūraṇīyā | ityarjunaḥ svahṛdayasyāśayayāviścakāra || 3 || manyase yadi tacchakyaṃ mayā draṣṭumiti prabho | yogeśvara tato me tvaṃ darśayātmānamavyayam || 4 || he prabho yogeśvara sarveṣāmadhipate yogānāṃ sarveṣāṃ niyāmaka tvadīya- अव्ययमात्मानम् स्वात्मस्वरूपं मे दर्शन इति भक्त्या अर्जुनः परमात्मानं प्रार्थयामास || ४ || पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः | नानाविधानि दिव्यानि नानावर्णाकृतीनि च || ५ || भगवानव्याजवात्सल्येन अर्जुनस्य सत्सङ्कल्पमपूरयत् | हे पार्थ अर्जुन शतशः सहस्रशः नानाविधानि नानावर्णाकृतीनि अनेकविधवर्णाकृति- paśyādityān vasūnrudrān aśvinau marutastathā | bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata || 6 || he bhārata arjuna mayi virājamānān ādityān vasūn rudrān aśvinau tathā marutaśca paśya | kiṃ bahunā adṛṣṭapūrvāṇi kenāpyetāvatā kālena na dṛṣṭāni bahūnyāścaryāṇi mayi paśya || 6 || ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram | mama dehe guḍākeśa yaccānyaddraṣṭumicchasi || 7 || ihaikasthaṃ atra mayyekasmin sthitaṃ sacarācaraṃ kṛtsnaṃ jagat adya paśya | p. 245) sarvādhāre sarvaviśrāntisthale akhaṇḍaviśvākāre mayi vyavaharantaṃ prāṇivargaṃ sarvamapi paśya | he guḍākeśa jitanidra jāgaraṇaśīla yaccānyadapi draṣṭumicchasi tadapi mama dehe adya paśya || 7 || na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā | divyaṃ dadāmi te cakṣuḥ paśya me yaugamaiśvaram || 8 ||
261 SK त्वं यद्यपि भक्त्यतिशयेन मदीयमैश्वरं वैभवं द्रष्टुं योग्योऽसि | तथापि अनेन स्वचक्षुषा चर्मचक्षुषा मां द्रष्टुं न शक्नोषि | अतस्ते तुभ्यं दिव्यं दिव्यशक्तियुतं मद्दर्शनसाधकं चक्षुर्ददाम्यनु-गृह्णामि | मम ऐश्वरं योगं परमात्मसंबन्धि संघटनादिसामर्थ्यं दिव्यचक्षुषा पश्य | हृदयस्थे परमेश्वरे यः समरसतया विलीयते तादृशः सर्वोऽपि पारमेश्वरयोगेन दिव्यां शक्तिं समश्नुते | सामान्यजीविनोऽपि यदि तादृग्योगः संभवेत् तदा पराशक्तिस्वरूपस्य श्रीकृष्णस्य शिवयोगसंघटने किं वक्तव्यम् | कृष्णो वस्तुतः दिव्यप्रकाशोऽपि मानवरूपधारणात् दिव्यभावे संयुज्य तमेव योगं ईश्वरसंबद्धं न केवलमर्जुने परन्त्वितरेष्वप्यस्मासु स्थिरीकरोति | एवं तादात्म्यभावनयैव शिवयोगः संपत्स्यते फलिष्यति च | नो चेत् मानवः शक्तिदौर्बल्यात् स्वयं नष्टः परांश्च नाशयति | सः स्वयमेव स्वसाहाय्येन न किञ्चिदपि कर्म साधयितुं शक्नोति | तथैव देहस्थेने- sūryaprakāśena yata saṃyujyate tadaiva puro vidyamānaṃ vastu dṛśyate janaiḥ | tathaiva jīvaśaktiḥ paramātmaśakyā yadi saṃyujyeta tathaiva jīvaḥ svīyaṃ śaktivikāmamadhigantuṃ prabhavet | māyayāpahṛtaiśvaryo jīvaḥ paramātma- भगवान् सर्वेषामपि जीवानां शिवयोगमुपदिशति | अस्यैव शिवयोगस्य महिम्ना मानवः शिवो भूत्वा इच्छाज्ञानक्रियाशक्तिविकासेन लोककल्याणं साधयितुं प्रभवति || ८ || एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः | दर्शयामास पार्थाय परमं रूपमैश्वरम् || ९ || प्. २४६) अर्जुनप्रार्थनानुसारेण भगवता अनुगृहीतं स्वीययोगदर्शनक्रमं सञ्जयो धृतराष्ट्राय न्यवेदहत् | हे राजन् धृतराष्ट्र महायोगेश्वरः महांश्चासौ योगेश्वरश्च तादृशः हरिः सर्वपापपरिहारकः श्रीकृष्णः ततस्तदनन्तरं पार्थायार्जुनाय परममुत्तममैश्वरं ईश्वरसंबन्धी स्वस्वरूपं दर्शयामास || ९ ||
262 SK अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् | अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् || १० || दिव्यमाल्यांबरधरं दिव्यगन्धानुलेपनम् | सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् || ११ || तादृशरूपस्यैव विवरणं क्रियतेऽद्य | अनेकवक्त्रनयनं अनेकानि असंख्याकानि वक्त्राणि नयनानि च यत्र तादृशम् | अनेकाद्भुतदर्शनं अनेकविधाद्भुतदर्शनविशिष्टम् | अनेकदिव्याभरणं तादृशमहा- āyudhāni yatra tādṛśam | divyamalyāṃbaradharaṃ divyamālyāni puṣpāṇi aṃbarāṇi vastrāṇi ca dharantam | divyagandhānulepanaṃ divyasya gandhasyānu- विश्वतोमुखं देवं भगवन्तं अर्जुनो ददर्शेति शेषः || १०-११ || दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता | यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः || १२ || दिवि आकाशे युगपत् एककाले उत्थिता उदिता सूर्यसहस्रस्य भाः यदि स्यात् | तथा असंभावितत्वात् यदि स्यादिति निर्देशः कृतः | सा भाः तस्य महात्मनः परमात्मनो भास महाप्रकाशस्य सदृशी समाना स्यात् | सञ्जयः धृतराष्ट्राय परमात्मप्रकाशवैशिष्ट्यं वर्णयामास || १२ || तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा | अपश्यद्देवदेवस्य शरीरे पाण्डवस्तथा || १३ || प्. २४७)
263 SK तत्र देवदेवस्य श्रीकृष्णस्य शरीरे पाण्डवोऽर्जुनः अनेकधा अनेकप्रकारेण प्रविभक्तं कृत्स्नं जगत् एकस्थं एकत्र स्थितं तदा अपश्यत् | चराचरात्मकमिदं जगत् सर्वमपि श्रीकृष्णप्रदर्शिते विश्वरूपे विभिन्न- jīvāstadānīṃ akhaṇḍaviśvātmake liṅgarūpiṇyaparicchinne sarvavyāpini divyadehe saṃdṛṣṭā hyarjunena | jagati yādṛśo vyavahāraḥ vibhinnasaṃskārairjanairyathā niruhyate tathaiva paramātmano divyarūpaṃ paridṛṣṭamarjunena | arjunaḥ prāk carmacakṣuṣā prapañcasya pāñcabhautikaṃ rūpaṃ paśyannāsīt adhunā bhagavadanugṛhītena divyacakṣuṣā tameva prapañcaṃ divyatejoviśiṣṭamapaśyat | sarvadehāntargataṃ divyatejaḥ prāgavyaktaṃ sat arjunena na dṛṣṭam | ata eva tasya vyāmohadṛṣṭirvyavardhata | tatprabhāvādeva tasya manaḥ saṃśayagrastaṃ babhūva | adhunā saḥ divyacakṣuṣā praṇaṣṭasarvasaṃśayaḥ tadīyakāryanirvāhāya virājamānasya parameśvarasya divyadarśanamalabhata | adhunā prapañce yathā parameśvaro'dṛśyata tathā prāk tatra vidyamāno'pi na dṛṣṭastena | evaṃ ceśvaraḥ dṛṣṭo'dṛṣṭo vā sarvatra kāryavyāpṛto vartata eva | paraṃ tu taddarśanāya divyadṛṣṭistāvat sādhakairyogamārgeṇābhyāsātsādhanīyā || 13 || tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ | praṇamya śirasā devaṃ kṛtāñjalirabhāṣata || 14 || tatastadanantaraṃ vismayāviṣṭaḥ vismayenāścaryeṇa āviṣṭo hṛṣṭaromā pulakitaromā saḥ dhanañjayo'rjunaḥ devaṃ bhagavantaṃ śrīkṛṣṇaṃ śirasā praṇamya vanditvā kṛtāñjaliḥ saṃpuṭīkṛtahastaḥ abhāṣata uktavān | paramātmano divyavaibhavaṃ dṛṣṭvā santuṣṭāntaraṅgo'rjunastameva mahāprakāśaṃ mahādevameva bhaktyā praṇamya vijñāpayāmāseti sañjayo dhṛtarāṣṭramabravīt || 14 || paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṃghān | brahmāṇamīśaṃ kamalāsanasthaṃ ṛṣīṃśca sarvānurāgāṃśca divyān ||15|| p. 248)
264 SK परमात्मनो दिव्यदर्शनलाभेन सन्तुष्टोऽर्जुनस्तस्मिन्नेव विश्वरूपे किं किमपश्यत्तत्सर्वमपि भक्तिनम्रो न्यवेदयत् | हे देव भगवन् तव देहे सर्वान् देवान् पश्यामि | तथा भूतविशेषसंघान् भूतविशेषाणां प्राणि- īśaṃ niyāmakaṃ pralayādhikāriṇaṃ trimūrtyantargataṃ kālarūdraṃ tathaiva ṛṣīṃśca divyān uragāṃśca sarpāṃśca paśyāmi | saḥ svayaṃ viṣṇoravatārabhūtatvāt viṣṇurūpatayā dṛśyata eva | evaṃ trimūrtayo'pi bhagavato'mūrtaparameśvarasya divyamūrteḥ viśvarūpe virājamānā hyarjunena sandṛṣṭāḥ | viṣṇurapi viśvavyāpake rūpe amūrtaḥ parameśvara eva vaikuṇṭhavāsino divyamaṅgalavigrahadhāriṇaśca sthitau sa eva trimūrtyantargato viṣṇuriti bhāvyate | ata eva amūrtaparaśivasya divyamūrtarūpāṇāṃ trimūrtīnāṃ ca bhedaṃ na gaṇayantyanubhavinaḥ || 15 || anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato'nantarūpam | nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa || 16 || anekabāhūdaravaktranetraṃ aneke bāhavaḥ udarāṇi vaktrāṇi netrāṇi ca yasmiṃstādṛśam | sarvataḥ sarvatra anantarūpamasaṃkhyātarūpaṃ tvā tvāṃ paśyāmi | he viśveśvara jagadīśvara viśvarūpa tava antaṃ na paśyāmi madhyaṃ na paśyayi | tathaiva ādiṃ ca na paśyāmi | evamādimadhyāvasāna- मानुषं रूपं परिगृह्य लोके व्यवहरसि || १६ || किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् | पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् || १७ || किरीटिनं किरीटवन्तं गदिनं गदावन्तं सर्वतः सर्वत्र दीप्तिमन्तं प्रकाशमानं तेजोराशिं परंज्योतिस्स्वरूपं समन्तात्सर्वदिक्षु दीप्तानलार्कद्युतिं दीप्तः अनलः अग्निः अर्कः सूर्यश्च तयोरिव द्युतिमन्तं अप्रमेयं प्रमातुमशक्यं दुर्निरीक्ष्यं द्रष्टुमशक्यं त्वां पश्यामि | एवं सर्वात्मकं देवमर्जुनोऽपश्यत् || १७ || प्. २४९)
265 SK त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् | त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे || १८ || परममुत्तमं वेदितव्यं ज्ञातव्यं अक्षरं परं ब्रह्म त्वमेव | अस्य विश्वस्य जगतः त्वं परं निधानं परम आश्रयः | त्वं अव्ययो नाशरहितो नित्यः शाश्वतध्रमगोप्ता शाश्वतो नित्यो यो धर्मः भारतीयः सर्वसहिष्णुतासमदर्शनतारूपो यो धर्मस्तस्य गोप्ता रक्षकः | त्वं सनातनः पुरुषः पुराणपुरुषो मे मतोऽभिमतः || १८ || अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् | पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् || १९ || अनादिमध्यान्तमादिमध्यान्तरहितं अनन्तवीर्यं यस्य वीर्यस्य अन्तः इयत्ता नास्ति तादृशमनन्तबाहुमसंख्यातबाहुयुक्तमीश्वरम् | शशिसूर्यनेत्रं चन्द्रसूर्यावेव नेत्रे यस्य तादृशम् | दीप्तहुताशवक्त्रं प्रकाशमानाग्नितुल्यमुखम् | स्वतेजसा स्वप्रभया इदं विश्वं जगत्सर्वं तपन्तं त्वां पश्यामि || १९ || द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः | दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् || २० || हे महात्मन् परमात्मन् द्यावापृथिव्योः आकाशपृथिव्योः यदन्तरं मध्यप्रदेशोऽस्ति सः सर्वा दिशश्च एकेनैव त्वया व्याप्तम् | एतादृशं अद्भूतं आश्चर्यकरं इदं तव उग्रं भयङ्करं रूपं दृष्ट्वा लोकत्रयं लोकानां त्रयमपि प्रव्यथितं प्रकर्षेण भीतं वर्तते || २० || अमी च त्वां सुरसिद्धसंघा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति | स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः || २१ || अमी हि सुरसंघा एते युद्धायागता ये देवांशभूता मनुष्याः धर्म- prāñjalayaḥ kṛtāñjalayo gṛṇānti stuvanti | evaṃ yuddhāya samudyuktān sarvānapi p. 250)
266 SK योधान् अर्जुनः भगवतो विश्वरूपेऽपश्यत् | तथैव महर्षीणां सिद्धानां च संघाः स्वस्ति जगतः स्वस्त्यस्तु इत्युक्त्वा पुष्कलाभिः समृद्धाभिः स्तुतिभिः स्त्रोत्रैस्त्वां स्तुवन्ति स्तोत्रं कुर्वन्ति | एवं विश्वात्मके परमात्मविश्वरूपे तमेव स्तुतिभिः प्रशंसतो महर्षींश्चार्जुनोऽपश्यत || २१ || रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च | गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे || २२ || रुद्रा एकादश | आदित्या द्वादश | एवं वसवो ये च साध्याश्च विश्वे देवा अश्विनौ देवौ मरुद्गणः ऊष्मपाश्च पितरः | गन्धर्वयक्षासुर- evamarjuno bhagavato divyadehe sarvānapi vismitān gandharvādīnapaśyat || 22 || rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam | bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham || 23 || he mahābāho bāhubalaśālin mahādeva bahuvaktranetraṃ bahūni vaktrāṇi ca yasya tādṛśam | bahubāhūrupādaṃ bahavo bāhavaḥ ūravaḥ pādāśca yasya tādṛśam | bahūdaraṃ bahūni udarāṇi yasya tādṛśam | bahudaṃṣṭrākarālaṃ bahvībhirdaṃṣṭrābhiḥ karālaṃ bhayaṅkaraṃ mahatte idaṃ rūpaṃ dṛṣṭvā sarve lokāḥ pravyathitāḥ bhītā vartante | tathā ahamapi pravyathito hyatīva bhīto'smi || 23 || nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram | dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo ||24|| he viṣṇo nabhaḥspṛśaṃ ākāśasparśi dīptaṃ prakāśamānaṃ anekavarṇaṃ bahuvarṇayuktaṃ vyāttānanaṃ vivṛtāsyaṃ tīptaviśālanetraṃ dīptaṃ prakāśamānaṃ viśālaṃ ca netraṃ yasya tādṛśaṃ tvāṃ dṛṣṭvā pravyathitāntarātmā bhītamanaskaḥ ahaṃ dhṛtiṃ dhairyaṃ na vindāmi na prāpnomi śamaṃ śāntiṃ ca na prāpnomi || 24 || p. 251) daṃṣṭrākarālāni ca te mukhāni dṛṣṭaiva kālānalasannibhāni | diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa || 25 ||
267 SK दंष्ट्राकरालानि दंष्ट्राभिरतिभयंकराणि कालानलसन्निभानि प्रलया- tadāprabhṛtyeva diśo'pi na jāne śarma sukhaṃ ca na labhe na prāpnomi | he deveśa devānāmīśvara jagannivāsa jagatāmādhārabhūta mahyaṃ sadayaṃ prasīda prasanno bhava || 25 || amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṃghaiḥ | bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ || 26 || vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni | kecidvilagnā daśanāntareṣu saṃdṛśyante cūrṇitairuttamāṅgaiḥ || 27 || amī dhṛtarāṣṭrasya putrāḥ duryodhanādayaḥ sarve avanipālasaṃghaiḥ rājasamūhaiḥ sahaiva tathā bhīṣmo droṇaḥ asau sūtaputraḥ karṇaḥ asmadīyaiḥ yodhamukhyaiḥ asmatpakṣīyaiḥ vīraissahaiva daṃṣṭrākarālāni daṃṣṭrābhirbhayaṅkarāṇi bhayānakāni atibhayaṅkarāṇi te vaktrāṇi mukhāni tvaramāṇāstvarāyuktā viśanti praviśanti | kecit daśanāntareṣu dantamadhyeṣu vilagnāḥ saṃbaddhāḥ cūrṇitaiḥ cūrṇīkṛtairuttamāṅgaiḥ śirobhiḥ saṃdṛśyante upalabhyante || 26-27 || yathā nadīnāṃ bahavoṃ'buvegāḥ samudramevābhimukhā dravanti | tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti || 28 || nadīnāṃ bahavo'nantā aṃbuvegā jalapravāhāḥ samudramevābhimukhā samudramevābhimukhīkṛtya yathā dravanti gacchanti tathā amī naralokavīrā manuṣyalokavīrā abhivijvalanti prakāśamānāni tava vaktrāṇi mukhāni viśanti praviśanti || 28 || yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ | tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ || 29 || p. 252) pradīptaṃ prakāśamānaṃ jvalanaṃ agniṃ pataṅgāḥ pakṣiṇaḥ kīṭaviśeṣā vā samṛddhavegā atyantavegayuktāḥ nāśāya svanāśāya yathā viśanti tathaiva lokā ete janāḥ samṛddhavegāḥ atyantavegayuktāḥ nāśāya svanāśāya tava vaktrāṇyapi mukhānyapi viśanti praviśanto vartante || 29 ||
268 SK लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्जलद्भिः | तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो || ३० || ज्वलद्भिर्दीप्यमानैः वदनैर्मुखैः समग्रान्समस्तान् लोकान् समन्तात् समन्ततो ग्रसमानः सन् लेलिह्यसे जिह्वया आस्वादयसि | एवं भीकरेण रूपेण सर्वानपि लोकान् आस्वादयन् दृश्यते परमात्मा | तस्यैते तनुवौ घोराऽघोरा च इति श्रुतौ परमात्मनः अघोरं प्रसन्नं घोरं भिकरं च मुखद्वयं श्रूयते | सः अघोरेण मुखेन भक्ताननुगृह्णाति घोरेण च दुष्टान् निगृह्णाति | अधुना भाविनो महायुद्धस्य निर्विघ्नपरिसमाप्ति- bhīto'rjunaḥ tadrūpopasaṃhārāya bhagavati prārthayate he viṣṇo ugrāstīkṣṇāḥ tava bhāsaḥ kāntayaḥ tejobhiḥ svaprabhābhiḥ samagraṃ samastaṃ jagat āpūrya vyāpya pratapanti pratāpaṃ kurvanti | atra paramātmanaḥ prakāśarūpeṇa viśvavyāptiṃ sūcayituṃ viṣṇupadaprayogo yujyate | viṣṇupadaṃ amūrtaṃ bhūtayoniṃ samastasākṣiṃ paraṃjyotisvarūpaṃ mahādevamabhivyanakti | viśvavyāptirūpaṃ yaugikārthaṃ bodhayadviṣṇapadaṃ yathā trimūrtyantargate rakṣaṇādhikāriṇi anveti tathā mikhyavṛttyā sarvāśrayabhūte amūrtaparamātmanyapi sahajatayā anevti | ataḥ viṣṇupadaprayogenaiva śaivairanyathā bhāvayitumavakāśo nāsti || 30 || ākhyāhi me ko bhagānugrarūpo namo'stu te devavara prasīda | vijñātumicchāmi bhavantamādyaṃ nahi prajānāmi tava pravṛttim || 31 || ugrarūpaḥ krurākāro bhavān kaḥ ? ākhyāhi kathaya he devavara devaśreṣṭha te tubhyaṃ namo'stu | mahyaṃ prasīda prasādaṃ kuru | ādyaṃ sarveṣāmādau p. 253) bhavaṃ bhavantaṃ vijñātuṃ icchāmi | etādṛśaṃ bhīkaraṃ rūpamāsthitavataste prāktanaṃ rūpaṃ jñātumichāmi | saumyasvarūpastvaṃ kuta evaṃ bhīkaraṃ rūpaṃ parigṛhītavānityetanna jāne | etatsarvaṃ me sadayaṃ kathaya | iti bhayena vinayena ca arjuno bhagavantaṃ prārthayate || 31 ||
269 SK कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः | ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः || ३२ || एवं पृष्टो भगवानुवाच | अहं लोकक्षयकृत् लोकप्रलयकारी प्रवृद्धः प्रकर्षेण वृद्धिं गतः कालोऽस्मि | अहमेव प्रलयाधिकारी कालरुद्रोऽस्मि | इह इदानीं लोकान् समस्तान् समाहर्तुं संहर्तुः प्रवृत्तः भूभाराव- adhunā mahāyuddhe samāgatāḥ sarva ete yodhā kālavaśaṅgatā eva vartante | ete sarve viṣṇurūpe mayyevaitāvatā kālena nivasanto vyavaharantaśca ante bhīkare kālarudre mayi praviśanti | ataḥ pratyanīkeṣu āsu pratipakṣasenāsu ye yodhā vīrā avasthitāste sarve tvāṃ ṛte'pi vināpi na bhaviṣyanti na jivīṣyanti | teṣāṃ vināśakālaḥ sannihitaḥ | tadarthameva te'tra samāgatāḥ | ahamapye- मयैवैतेऽधुना निहन्यन्ते | एतेषां हननरूपं घोरं कार्यं मदीयमेव | इदं सर्वं त्वयैव क्रियत इति भ्रान्त्या त्वं विषण्णोऽसि | एतादृशेऽपरिहार्ये विषये तव विषादो न युज्यते | जगद्व्यापारे तावत् अवान्तरोऽपि प्रलयः महत्तरः कार्यः | स तु संपूर्णं मदधीन एव | तत्र विचारणा न कार्यैव त्वादृशैर्जीवैः | हृदये तिष्ठन्नीश्वरः यथा यादृशे कर्मणि त्वां प्रेरयति तथा तादृश एव कर्मणि त्वया कर्तव्य दृष्ट्या निमित्तमात्रं प्रवर्तितव्यम् | मरणशीला एव जनाः अस्मिन् युद्धे मत्प्रेरणया समुपस्थिताः | तेषां योगक्षेमनिर्वहणं नैकव्यक्ति-संबद्धं अपि तु सर्वझेश्वरसंबद्धमित्यंशं भगवानत्र स्पष्टयति || ३२ || प्. २५४) तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रूत् भुंक्ष्व राज्यं समृद्धम् | मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् || ३३ ||
270 SK तस्मात् यतः एषां मृत्युस्सन्निहितस्तस्मात् त्वं उत्तिष्ठ युद्धाय | त्वदीयं कर्तव्यं श्रद्धया निर्वर्तय | ततश्चावश्यंभाव्यं यशो लभस्व प्राप्नुहि | यद्यात्मगौरवे बद्धकक्षोऽसि तदा कर्तव्यप्राप्तं युद्धं ईश्वरप्रेरणानुरोधेन निर्वह | हे सव्यसाचिन् अर्जुन एतेऽत्र समागताः सर्वेऽपि योधाः पूर्वमेव त्वया युद्धे हननात्पूर्वमेव मयैव कालरुद्रात्मकेन निहता एव | अत एते सर्वे जीवश्रवा एव संभूता | त्वया एते न कदापि हन्यन्ते | तथापि मदंशभूताय ते कर्तव्यनिर्वाहाय सदवकाशं कल्पयितुं त्वमत्र निमित्तमात्रमुपयुज्यसे | प्रधानकर्तृत्वं न ह्यन्वेति त्वयि | एवं ज्ञात्वा कर्मयोगाचरणेन मदनुग्रहभाजनं भव | एतादृशं दिव्यमुपदेशं भगवान् मानवकल्याणाय अनुगृह्णाति || ३३ || द्रोणं च भीष्मं जयद्रथं च कर्णं तथान्यानपि योधवीरान् | मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् || ३४ || सामान्यतः उपदिश्य अधुना विशिष्याप्याह भगवान् | द्रोणं च भीष्मं च जयद्रथं च कर्णं च तथा अन्यानपि योधमुख्यान् प्रधानवीरान् त्वं जहि | मा व्यथिष्ठाः व्यथां मां कुरु | युध्यस्व युद्धं कुरु | सपत्नान् शत्रून् रणे जेतासि जयिष्यसि | तथा द्रोणादीन् कथं हन्यामिति वा यद्वा जयेम यदि वा नो जयेयुः इति वा शङ्का न कदापि कार्या त्वया | एतादृशं विचारं कर्तुं त्वं न जातः परन्तु स्वकर्तव्यनिर्वहणेन हि मदनुग्रहं लब्ध्वा मद्योगमधिगन्तुमेव जातः | एवं भगवान् अर्जुनाय अवश्यकर्तव्यं धर्ममव्यजप्रेम्णा उपदिशत् || ३४ || एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी | नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य || ३५ || श्रीकृष्णपरमात्मनो वचोऽमृतं निपीय अर्जुनः किमकरोदित्यमुमंशं प्. २५५)
271 SK सञ्जय उवाच | किरीटी अर्जुनः केशवस्य श्रीकऋष्णस्य एतद्वचनं श्रुत्वा वेपमानः कम्पमानः कृताञ्जलिश्च नमस्कृत्वा कृष्णं भूय एव सगद्गदं भयात् गद्गदस्वरेण भीतभीतः अत्यन्तभीतः पुनः प्रणम्य वक्ष्यमाणं वाक्यमब्रवीत् || ३५ || स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च | रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः || ३६ || हे हृषीकेश कृष्ण तव प्रकीर्त्या माहात्म्येन जगत्सर्वो लोकः प्रहृष्यति हर्षं प्राप्नोति अनुरज्यते च अनुरागमपि त्वयि करोति | एवमेव रक्षांसि राक्षसा भीतानि दिशो द्रवन्ति प्रधावन्ति | सर्वे च सिद्धसंघा नमस्यन्ति च | एतत्सर्वं स्थाने युक्तमेव | यतस्त्वं तादृशाद्भुतशक्तिमान् वर्तसे | अत एव नित्यसुन्दरस्त्वं सर्वेषामादर्शभूतोऽसि || ३६ || कस्माच्च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे | अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् || ३७ || हे महात्मन् परमात्मन् ब्रह्मणोऽपि हिरण्यगर्भस्यापि आदिकर्त्रे प्रथम- namskuryurete siddhasaṃghāḥ ? arhate tubhyamarhaṇāṃ kurvanta evaite siddhā mānavavargaṃ śubhayā buddhyā ssṛtyā ca yuñjata eva | he ananta antaraddita deveśa devānāmapīśa jagannivāsa jagatāṃ vāsasthānabhūta tvameva paraṃ uttamaṃ sadasat sadasadrūpam | sarvātmakamityarthaḥ | akṣaraṃ paraṃ brahma yaducyate tat tvameva | mānavadehamāsthito'pi tvameva sākṣāt parabrahmāsi || 37 || tvamādidevaḥ puruṣaḥ purāṇastvamasya viśvasya paraṃ nidhānam | vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa || 38 || tvameva ādidevaḥ sarveṣāmapi devānāmādau sthito devaḥ | evaṃ purāṇaḥ sanātanaḥ puruṣastvameva | asya viśvasya jagata paraṃ paramaṃ nidhānamā- तत्त्वमसि प्. २५६) त्वमेव परं उत्तमं च धाम तेजः | हे अनन्त वि᳚वाकार त्वया विश्वं जगत्-
272 SK वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च | नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते || ३९ || अमूर्तपरमात्मनो भक्तानुग्रहलीलायां घृतकाठिन्यन्यायेन परिगृही- varuṇaḥ agniḥ śaśāṅkaścandraḥ prajāpatiḥ kaśyapādiḥ prapitāmahaśca tvameva | pitāmahaścaturmukhastasyāpi janakatvāt tvaṃ prapitāmahaḥ | ataste sahasrakṛtvaḥ bahuvāraṃ namo'stu | punaśca bhūyo'pi te namo namaḥ | evaṃ bhaktyatiśayāt namaskārasyāvṛttiḥ || 39 || namaḥ purastādatha pṛṣṭhataste namo'stu te sarvata eva sarva | anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato'si sarvaḥ || 40 || evaṃ bhaktipāravaśyādevāha | te purastāt pūrvasyāṃ diśi namaḥ | evaṃ pṛṣṭhato'pi namaḥ | kiṃ bahunā he sarva sarvasvarūpa | te sarvata eva sarvāsvapi dikṣu namo'stu | kathaṃ bhagavataḥ sarvarūpatvamityatrāha anantetyādi | ananta- तदुभयमपि ते अपारम् | तादृशः अद्भुतशक्तिमांस्त्वं यतः सर्वं समाप्नोषि व्याप्य तिष्ठसि ततस्त्वं सर्वोऽसि सर्वस्वरूपोऽसि | ततश्च सर्वव्यापकत्वमेव सर्वस्वरूपत्वे हेतुरित्युक्तं भवति || ४० || सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति | अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि || ४१ || यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु | एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् || ४२ || एवं परमात्मस्वरूपं कृष्णं पश्यन्नर्जुन एतावता कालेन तन्महिम्नः प्. २५७)
273 SK अपरिज्ञानात् यद्यत् तद्विषये स्वेन कृतं अवज्ञानादि तत्सर्वं स्मरन्सः भीत्या कृष्णपरमात्मनि क्षमां याचते | सखा मत्समानवया इति मत्वा मया तव भगवत्स्वरूपस्य इदं निरतिशयमहिमानं वैभवं अजानता अत एव प्रमादात् अनवधानतः प्रणयेन वापि स्नेहतो वा प्रसभं बलात्कारेणाभिभूय हे कृष्ण हे यादव हे सखेति यन्मयोक्तम् यच्च अवहासार्थं उपहासार्थं विहारशय्यासनभोजनेषु विहारः क्रीडादिः शय्या शयनं आसनमुपवेशनं भोजनं इत्यादिव्यवहारेषु प्रचलत्मु एकं प्रत्येकं रहसि वा अथवा त्वत्समक्षं वा सर्वेषां पुरतो वा बहुधा असत्कृतोऽसि परिभूतोऽसि हे अच्युत भगवन् तत्सर्वं अप्रमेयं वर्णितुमप्यशक्यमहावैभवशालिनं त्वामहं क्षामये क्षमां प्रार्थये तत्सर्वं भवता क्षन्तव्यमेवेत्यर्जुनः सविनयं प्रार्थयते || ४१-४२ || पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गुरीयान् | न त्वत्समोऽत्स्यधिकः कृतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव || ४३ || किमर्थं क्षमां प्रार्थयत इत्यत्राह | हे अप्रतिमप्रभाव न तत्समश्चाभ्यधिकश्च दृश्यते इति श्रुत्युक्तरीत्या विस्मयवैभवविशिष्ट महादेव त्वं हि चराचरस्य स्थावरजङ्गमरूपस्य लोकस्य पितासि जनकोऽसि परब्रह्मण एव जगदुत्पत्तिहेतुत्वात् | एवमस्य लोकस्य पूज्यः पूजार्हो गरीयान् सर्वश्रेष्ठो गुरुश्च त्वमेवासि | त्वमेव सर्वजगद्गुरुरित्यर्थः | किं बहुना | लोकत्रयेऽपि त्वत्समः त्वत्तुल्य एव कश्चिन्नास्ति | त्वदन्योऽभ्यधिकस्त्वदपेक्षयाप्युत्तमः कुतः स्यात् ? सर्वेऽपि भवदपेक्षया निकृष्टा एव | अतस्त्वां क्षमां प्रार्थयेऽहम् || ४३ || तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् | पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् || ४४ ||
274 SK तस्मात् एवं तव समाभ्यधिकरहितत्वादेव ईशं सर्वलोकमहेश्वरम् | भोक्तारं यज्ञतपसां महेश्वरं ज्ञात्वा मां शान्तिमृच्छति इति हि पूर्वमेवोक्तम् | अत एवेड्यं स्तुत्यं त्वामहं प्रणम्य नमस्कृत्य कायं शरीरं प्. २५८) प्रणिधाय प्रकर्षेण नीचैः कृत्वा प्रसादये प्रसन्नं कर्तुं प्रार्थये | एतावतः अपराधान् कृत्वाद्य क्षमाप्रार्थनामात्रेण कथं देहः प्रसन्नो भवेदित्याह - पितेवेत्यादि | हे देव भगवन् कृष्ण पुत्रस्य अपराधं यथा पिता क्षमेत | सख्युर्वा अपराधं यथा सखा क्षमेत | प्रियायाः अपराधं प्रियो वा यथा क्षमेत | प्रियायार्हसीति सन्धिच्छांन्दसः | तथा मां सोढुमर्हसि || ४४ || अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे | तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास || ४५ || एवं विश्वरूपं भगवन्तं पश्यन्नर्जुनः इतोऽपि तं द्रष्टुमशक्नुवन् विश्वरूपमुपसंहर्तुं विनयेन प्रार्थयते | अदृष्टपूर्वं कदापि कुत्रापि पूर्वमदृष्टं ते दिव्यं रूपमिदं दृष्ट्वा हृषितोऽस्मि अत्यन्तं सन्तुष्टोऽस्मि | किञ्च मे मनः भयेन एतादृशभयङ्कररूपदर्शनजन्यभीत्या च प्रकर्षेण व्यथितं कम्पितं वर्तते | हे देवेश देवानामपीश | जगन्निवास जगदाधारभूत स्वामिन् हे देव तदेव प्राक्तनं साधारणं मानुषं रूपं मे मह्यं दर्शय | प्रसन्नो भव | प्रसन्नो भूत्वा विश्वरूपमुपसंहरेत्यर्थः || ४५ || किरीटिनं गदिनं चक्रहस्तं इच्छामि त्वां द्रष्टुमहं तथैव | तेनैव रूपेण चतुर्भुजेन सहस्रबाहो तव विश्वमूर्ते || ४६ || इदं शंखस्याप्युपलक्षणम् | एतादृशं शंखचक्रधारिणं त्वां तथैव पूर्ववदेव द्रष्टुमहमिच्छामि | अनस्तेनैव पूर्वदृष्टेन चतुर्भुजेन रूपेण भव पूर्वरूपमेव पुनर्गृहाण || ४६ || मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् | तेजोमयं विश्वमनन्तमाद्य यन्मे त्वदन्येन न दृष्टपूर्वम् || ४७ ||
275 SK एवमर्जुनेन सविनयं प्रार्थितो भगवानुवाच | हे अर्जुन प्रसन्नेन त्वयि अनुग्रहवता मया आत्मयोगात् आत्मवैभवादेव तेजोमयं ज्योतीरूपं विश्वं विश्वरूपं अनन्तं अन्तरहितं आह्यं सर्वेषामप्यादौ भवं इदं परं रूपं प्. २५९) परमात्मस्वरूपं तव तुभ्यं दर्शितम् | यत् रूपं त्वदन्येन त्वद्व्यतिरिक्तेन केनापि न दृष्टपूर्वं पूर्वं न दृष्टं तादृशं रूपं तुभ्यं मया प्रदर्शितम् || ४७ || न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियभिर्न तपोभिरुग्रः | एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर || ४८ || उक्तमेवार्थं द्रढयति | हे कुरुप्रवीर वेदयज्ञाध्ययनैः वेदैः यज्ञैः अध्ययनैश्च न द्रष्टुमहं शक्यः इति प्रत्येकं प्रत्येकं अन्वयः | एवं दानैः क्रियाभिः अग्निहोत्रादिकर्मभिर्वा उग्रैस्तीक्ष्णैस्तपोभिर्वा एवंरूपो विश्वरूपोऽहं नृलोके मनुष्यलोके त्वदन्येन त्वद्व्यतिरिक्तेन द्रष्टुं न शक्यः | एवं परमात्मा स्थिरभक्तियोगलभ्यः सन् केवलसद्भक्तवर्येभ्य एव स्वीयं दर्शनलाभमनुगृह्णाति | अयमाशयः शरणगीतायामेवम- vedapriyaḥ śaṃbhuritīryate janairna vedamātreṇa hi tuṣyate śivaḥ | ardhāyurā- पङ्कजासनः शिरोविहीनः समजायतैव | तस्माच्छिवो नादपरोऽपि नैव न वेदमात्रप्रियता च तस्मिन् | भक्तिप्रियत्वं हि समेति देवे भक्तो भवेयं खलु सङ्गमार्य | इति | एवं शरणाः परमेश्वरं केवलभक्तिगम्यमिति स्वानु- mānavakalyāṇāyāvyājavātsalyena || 48 || mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam | vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya || 49 || atha bhagavān bhītamarjunaṃ sāntvayati | īdṛk īdṛśaṃ ghoraṃ idaṃ madīya- त्वमेव पुनः तदेव पूर्वतनमिदं रूपं मे प्रपश्य || ४९ || प्. २६०) इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः | आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा || ५० ||
276 SK संजय उवाच | वासुदेवः श्रीकृष्णः अर्जुनाय इति तथोक्त्वा इत्येतत्प्रकारेणोक्त्वा भूयः पुनः स्वीयमेव पूर्वतनरूपं दर्शयामास | पुनश्च महात्मा परमात्मा श्रीकृष्णः सौम्यवपुः सौम्यशरीरो भूत्वा भीतमेनमर्जुनमाश्वासयामास च सान्त्वयामास | तथा भगवत्कृतमर्जुनाश्वासनप्रकारं सञ्जयो धृतराष्ट्राय न्यवेदयत् || ५० || दृष्टेदं मानुषं रूपं तव सौम्यं जनार्दन | इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः || ५१ || एवमेव भगवता सान्त्वितोऽर्जुन उवाच | हे जनार्दन कृष्ण तव सौम्यमेव मानुषरूपं दृष्ट्वा अहमिदानीमेव सचेताः प्रसन्नमनाः संवृत्तोऽस्मि | प्रकृतिं मदीयस्वभावमेव गतोऽस्मि || ५१ || सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम | देवा अप्यस्य रूपस्य नित्यं दर्शनकांक्षिणः || ५२ || मानवभावमापन्नः पुनः श्रीभगवानुवाच | यत् सुदुर्दर्शं सुतरां द्रष्टुमशक्यं इदं मम रूपं दृष्टवानसि | तदस्य रूपस्य देवा इन्द्रादयोऽपि नित्यं दर्शनकांक्षिणो दर्शनं कांक्षन्त एव सन्ति | त्वया एतावत्पर्यन्तं दृष्टं विश्वरूपं देवा अपि न दृष्टवन्तः न पुनर्द्गक्ष्यन्ति वा || ५२ || नाहं वेदैर्न तपसा न दानेन न चेज्यया | शक्य एवेविधो द्रष्टुं दृष्टवानसि मां यथा || ५३ || कथं विश्वरूपदर्शनं दुर्लभमित्यत्राह | यथा येन प्रकारेण मां त्वं दृष्टवानसि एवंविधोऽहं वेदैः ऋग्यजुरादिवेदाध्ययनेन तपसा उग्रेण तपसा वा दानेन वा इज्यया यज्ञादिना वा द्रष्टुं न शक्य एव | नायमात्मा प्. २६१)
277 SK प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन | यमेवैष वृणुते तेन लभ्यस्तस्यैष विवृणुते तनूं स्वाम् | इति श्वेताश्वतरश्रुतौ परमात्मनः केवलशास्त्रज्ञानगम्यत्वं निषिध्य सद्वर्तनैकगम्यत्वमुपदिष्टम् | सद्वर्तनं च सद्वस्तुनः परमात्मनः सेवैव | इयमेव सेवा भक्तिशब्देन व्यवह्रियते | महाकविः कालिदासः परमात्मानं स्थिरभक्तियोगलभ्यं निर्दिशति अतः कृष्णपरमात्मना भक्तेः प्राशस्त्यं यद्दीयते तत् शुभोदर्कं भाति | अस्यामपि भक्तौ फलकामनारहिता तु या भक्तिः स परमात्मनः प्रिया सती पराशब्देन व्यवह्रियते | अनया पराभक्त्या पराशक्तिं परमात्मानं च सन्तोष्य जन्मसार्थक्यं संपाद्यमेव मानवैः | अतः वेदाध्ययनतपः प्रभृतिभिः केवलमहं द्रष्टुं न शक्य इति भगवता यदुक्तमत्र तदन्वर्थं संपद्यते || ५३ || भक्त्या त्वनन्यया शक्यः अहमेवंविधोऽर्जुन | ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप || ५४ || कस्तर्हि त्वद्दर्शनोपाय इत्यत्राह | हे अर्जुन अनन्यया अनन्यप्रयोजनया भक्त्या तु एवंविधोऽहं द्रष्टुं शक्यः | न दर्शनमात्रं भक्तेः फलं अपि तु भक्तिः सर्वफलप्रदेत्याह ज्ञानमित्यादि | तत्त्वेन ज्ञातुं तत्त्वशः मत्तत्त्वं ज्ञातुं वा तत्त्वेन मां प्रवेष्टुं च | प्रवेशो नाम मुक्तिः | नद्याः समुद्र इव जीवस्य परमात्मन्येकीभाव एव मुक्तिः | अतो मत्तत्त्वज्ञानं मद्दर्शनं वा सर्वं भक्त्यैकलभ्यं न त्वन्योपायगम्यम् || ४४ || मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः | निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव || ४५ || अतश्च हे पाण्डव अर्जुन यो मत्कर्मकृत् मदर्थमेव कर्माणि करोति | मत्परमः मामेव परमं प्राप्यं जानाति मद्भक्तो मय्येव भक्तः अत एव सङ्गवर्जितः मद्व्यतिरिक्तेष्वासक्तिरहितः सर्वभूतेषु सर्वप्राणिष्वपि निर्वैरो द्वेषरहितश्च भवति सो मामेति प्राप्नोत्येव | न संशयोऽत्र | एवं सद्रूपस्य प्. २६२)
278 SK परशिवस्य सेवया मानवः अहंकारममकारादिमलदोषं परिहृत्य निर्मलस्थितौ स्वतो निर्मले परशिवे संयुज्य शिवानन्दमनुभवन् सर्वानपि शिवभावनया प्रीणयन् सर्वं व्यवहारं शिवराधनदृष्ट्यैव निर्वहति | एवमेव सर्वत्र शिवदर्शनं शिवयोगादिव सिद्ध्यति | अतस्तथा सर्वैरपि प्रयतितव्यम् || ५५ || द्वादशोऽध्यायः पूर्वाध्यायान्ते मत्कर्मकृत् इत्यादिना भक्तेः मोक्षहेतुत्वमुक्तम् | भक्तिश्च उपासनमेव | तथा च परमात्मोपासनमेव मुक्तिहेतुरित्युक्तं भवति | परमात्मोपासनं च सोपाधिकं निरुपाधिकं चेति द्विविधम् | तह्यद्देवतात्मना उपासनं सोपाधिकमुच्यते | निरस्तसमस्तोपाधिकपरशिव-ब्रह्मोपासनमेव निरुपाधिकमुच्यते | अनयोरुपासनयोः किं श्रेष्ठमिति जिज्ञासया अर्जुन उवाच - एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते | ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः || १ || ये भक्ता उपासकाः सततयुक्ताः नैरन्तर्येण त्वत्कर्मादिप्रवृत्तमनोविशिष्टास्सन्तः त्वामेवमुक्तविश्वरूपाकारमुपासते ये चान्ये अक्षरं सततैक-रूपमव्यक्तकरणगोचरमरूपममूर्तं परमात्मानमुपासते तेषां मध्ये के योगवित्तमाः अतिशयेन योगविदः ? परमात्मनः संबद्धायाः साकारमूर्तेरुपासकस्य तन्निराकारस्थितिचिन्तकस्य च मध्ये कतरः श्रेष्ठ इत्यर्जुनः पृच्छति || १ || मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते | श्रद्धया परयोपेतास्ते मे युक्ततमा मताः || २ || एवं पृष्टः श्रीभगवानुवाच | मयि विश्वात्मके भगवति मनः प्. २६३) आवेश्य समाधाय ये उपासका नित्ययुक्ताः नित्यं सततं मय्येव युक्ताः योगनिष्ठास्सन्तः परया श्रेष्ठया श्रद्धयोपेताश्च सन्तः मां सर्व- ubhayormadhye śreṣṭhā matāḥ sammatāḥ | paramātmānameva tattaddevatā- योगिश्रेष्ठा इति कीर्त्यन्ते || २ || ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते | सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् || ३ ||
279 SK संन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः | ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः || ४ || अव्यक्तोपासकानां का गतिरित्यात्राह | ये तु उपासका इन्द्रियग्राममिन्द्रिय- jagati rāgadveṣamaye samabuddhayastāratamyabuddhirahitāḥ ata eva sarvabhūtahite sarveṣāmapi bhūtānāṃ prāṇināṃ hite ratāḥ hitāśaṃsanaparāḥ santaḥ akṣaraṃ nāśarahitamanirdeśyaṃ evamidamiti nirdeṣṭumanarhaṃ sarvatragamā- निर्विकारमचलं सर्वव्यापकं अत एव अचिंत्यं चिन्तयितुमशक्यं कूटस्थं निर्विकारमचलं सर्वव्यापकत्वात् चलनादिरहितं ध्रुवं शाश्वतमव्यक्तं कुत्रापि विशिष्यानभिव्यक्तं परमात्मतत्त्वं पर्युपासते तेऽपि मामेव अमूर्तपरमात्मानं प्राप्नुवन्ति | अतश्च उपासकद्वयोरपि फलं तावदेकरूपमेव || ३-४ || क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् | अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते || ५ || एवं तर्हि कुतस्त्वदुपासका एव श्रेष्ठा इत्युच्यन्ते | मूर्तामूर्तरूपो भवानिति हि श्रूयते | भवदीयं मूर्तरूपमेवाखण्ढं विश्वम् | विश्वप्रीणनमेव विश्वोपासनम् | तदपेक्षया भवन्मूर्तोपासनमेव श्रेष्ठमिति कथसुच्यतेऽनुभविभिः | मूर्तोपासकेभ्योऽप्यमूर्तोपासका एव श्रेष्ठा इति कुत उच्यत प्. २६४)
280 SK इत्यस्य समाधानमाह | अव्यक्तासक्तचेतसां अव्यक्ते तादृशे विश्वव्यापकेऽ-मूर्ते तत्त्वे आसक्तं चेतः येषां तादृशां साधकानां क्लेशः स्वफल-प्राप्तौ श्रमस्तैरनुभूयमानः अधिकतरः मन्मूर्तरूपोपासकापेक्षया अधिकः | अतो मदुपासका एव श्रेष्ठा इत्युच्यन्ते | यत्र कुरापि विग्रहे मद्भावनया ये अर्चयन्ति त एव मद्रूपार्चकाः | त एव अनायासेन फलं लभन्त इति तेषां श्रैष्ठ्यं भाव्यते | कुतः अव्यक्तोपासने क्लेशः अधिक इत्यत्राह अव्यक्ता हीति | हि यस्मात्कारणात् अव्यक्ता तादृशाव्यक्तोपासनरूपा गतिर्देहवद्भिः प्राणिभिर्दुःखं यथा तथा अवाप्यते | सा उपासना अत्यन्तं दुष्करेत्यर्थः | एवममूर्तोपासन्स्य अतिक्लेशरूपत्वादेव मदीयव्यक्तरूपोपासका एव श्रेष्ठाः परिकीर्त्यन्त इत्यर्थः || ५ || ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः | अनन्येनैव योगेन मां ध्यायन्त उपासते || ६ || तेषामहं समुद्धर्ता मृत्युसंसारसागरात् | भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् || ७ || त्वदुपाकसानां कुतः क्लेशो न्यून इति शङ्कायां यतस्तेषामहमेव रक्षको भवामि अतस्तेषां फलप्राप्तिः सुलभा भवतीत्याह | ये तु मदुपासकाः सर्वाण्यपि कर्माणि मयि संन्यस्य समर्प्य यत्करोषि यदश्नासि तत्कुरुष्व मदर्पणम् इत्युक्तरीत्या समर्प्य मत्पराः मदेकचित्ताः अनन्येन अन्यप्रयोजनरहितेन मदेकफलेन योगेन भक्तियोगेन मां ध्यायन्तः चिन्तयन्त उपासते हे पार्थ मयि परमात्मनि आवेशितचेतसां समाहितचित्तानां तेषां अहमेव मृत्युरूपसंसारसमुद्रात् न चिरात् शीघ्रमेव समुद्धर्ता सम्यगुद्धर्ता भवामि | एवं च तेषां योगक्षेम-निर्वहणस्य मयैव स्वीकृतत्वात् तेषां फलप्राप्तौ विलंबस्य च्युतेर्वा प्रसक्तिरेव नास्ति | अतो मद्भक्ता एव सर्वश्रेष्ठा इति परिगण्यन्ते || ६-७ || प्. २६५) मय्येव मन आधत्स्व मयि बुद्धिं निवेशय | निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः || ८ ||
281 SK अतश्च त्वमपि मय्येव विश्वात्मनि सकलदेवमये मय्येव मन आधत्स्व निवेशय | बुद्धिमपि मय्येव निवेशय संस्थापय | एवं कुर्वन् त्वमत ऊर्ध्वमेतदनन्तरं मय्येव परमात्मनि निवसिष्यसि | मां परित्यज्यान्यत्र गन्तुमपि नास्त्यवकाशस्ते | अत्र संशयो नास्त्येव || ८ || अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् | अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय || ९ || एवं स्वभक्तियोगमुपदिश्य भगवान् तदशक्तौ पर्वभेदानपि कृपयोप- śaknoṣi cet tatastarhi abhyāsayogena mayi cittaniveśanābhyāsarūpeṇa yogena māmāptuṃ prāptumiccha prārthaya | bhakto yadi taccittaṃ paramātmanyeva nidhātuṃ na śaknoti tadā tatprāptaya evābhyasediti bhagavānatropadiśati | bhaktaḥ sarvadā paramātmasaṃyogamevāpekṣate yadi tadīyā bhaktiḥ śraddhāvatī syāt | no cetsaḥ paramātmane na roceta | niṣṭhāvihīnā bhaktiḥ ihaparasukhaṃ na hi sādhayati | śaraṇagītā niṣṭhāvihīnasya bhaktiṃ śraddhāvihīnasya vyavahāraṃ ca nirdākṣiṇyatayā khaṇḍayati | yathaiva citrapratimāṅkapālyā saṃjāyate naiva sukhaṃ kadāpi | yathaiva cekṣoḥ paṭacitritasya daṃśādraso na dravatīha tadvat | niṣṭhāvihīnasya tu bhaktireṣā devasya tuṣṭyai na bhavetkadāpi | tathaiva lokavyavahāra eṣo rasāya na syādbhavamocake bhave | iti | evaṃ bhaktirniṣṭhāvatyeva satī bhavapāśaṃ vimocayituṃ prabhavati | etatprabhāvādeva bhaktaḥ hṛdaye virājamānena paraśivena saṃyoktuṃ abhyāsadārḍhyātsaṃpadyate || 9 || abhyāse'pyasamartho'si matkarmaparamo bhava | madarthamapi karmāṇi kurvansiddhimavāpsyasi || 10 || p. 266)
282 SK एतादृशेऽभ्यासे अभ्यासकरणेऽपि यदि त्वमसमर्थोऽसि न शक्नोषि तर्हि मत्कर्मपरमः मदर्थं कर्म मत्कर्म तदेव परममुद्देश्यं यस्य तादृशो भव | मदुद्देशेनैव कर्माणि कुरु न तु स्वार्थोद्देशेन एवं मदर्थं कर्माणि कुर्वन्नपि त्वं सिद्धिं क्रमशः फलप्राप्तिं अवाप्स्यसि | अत्र न संशयः | भगवत्प्राप्त्यभ्यासं कर्तुं यति मानवो न शक्नोति तदा भगवत्प्राप्त्यर्थमेव सकलकर्मानुष्ठानमेवालमिति भगवान् सूचयति | दानादानादिकं सकलमपि व्यवहारं भगवतः प्रीतय एव निर्वोढुं प्रयतेत साधकः | तदापि भगवदनुग्रहं लब्धुं प्रभवत्येवेति परमात्मन आशयः || १० || अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः | सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् || ११ || अथ पुनरेतदपि कर्तुं मत्कर्मपरमो भूत्वा कर्माणि कर्तुमप्यशक्तोऽसि तथा स्थातुं न शक्नोपि यदि तर्हि मद्योगं मयि भक्तिरूपं योगमाश्रितः सन् यतात्मवान् संयतचित्तः ततः कारणात् सर्वकर्मफलत्यागं सर्वेषामपि कर्मणां फलस्य त्यागं कुरु | प्रातरारभ्य सायंपर्यन्तं यद्यदाचर्यते त्वया तत्तत्कर्मणः सर्वस्वापि फलं तदानीमेव मूर्तामूर्तरूपिणे मह्यं समर्पय | तेनापि क्रमशः चित्तशुद्धयादिना मत्प्राप्तिर्भवत्येव || ११ || श्रेयो हि ज्ञानमभ्यासात् ज्ञानाध्यानं विशिष्यते | ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् || १२ || एतादृशसर्वकर्मफलत्यागं स्तौति | अभ्यासात् अभ्यासयोगेन तत इत्युक्ताद- tādṛśaḥ paramātmajñānāt tadīyaṃ dhyānaṃ viśiṣyate śreṣṭhaṃ saṃpadyate | dhyānādapi karmaphalatyāgo hyanupadamuktaḥ sarvakarma-phalānāṃ tyāgo viśiṣyate | anantaraṃ ca tyāgāt śāntiḥ kramaśaḥ cittasamādhānaṃ bhavatyeveti śeṣaḥ || 12 || atha adhyāyaśeṣeṇa bhaktānāmupadeyān guṇānāha - p. 267) adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca | nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī || 13 ||
283 SK सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः | मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः || १४ || सर्वभूतानामपि अद्वेष्टा कमपि प्राणिनं न द्वेष्टि यः अत एव सर्वत्र मैत्रो मित्रभावविशिष्टः | करुण एव च दयाविशिष्ट एव वर्तमानः निर्ममो ममतारहितः निरहङ्कारोऽहङ्काररहितः समदुःखमुखं दुःखं सुखं च समतया भावयन् क्षमी क्षमाशीलः सततं सदैव सन्तुष्टः न कदाप्यसन्तुष्टः योगी योगाभ्यासपरः यतात्मा नियमितचित्तः दृढनिश्चयः स्वलक्ष्येऽचञ्चलनिश्चयवान् मयि परमात्मनि अर्पितमनोबुद्धिः अर्पितं समर्पितं मनो बुद्धिश्च येन तादृशो यो मद्भक्तोऽस्ति सः मे मम प्रियोऽभिमतः | परमात्मन्येवासक्तस्तदर्थमेव जीवन् तत्प्रसादमेव भुञ्जन् तमेव सर्वत्र विषयप्रपञ्चे संपश्यन् साधकः सदा सन्तुष्टान्तरङ्गस्सदा परमात्मन्येव निवसन् तस्यैवातिप्रियो भवति || १३-१४ || यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः | हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः || १५ || यस्मात् भक्तात् लोको नोद्विजते उद्वेगं न प्राप्नोति लोकाच्च यो नोद्विजते यं दृष्ट्वा लोको नोद्वेगं प्राप्नोति लोकं वा दृष्ट्वा य उद्वेगं न प्राप्नोति अत एव हर्षामर्षभयोद्वेगैः हर्षस्सन्तोषः अमर्षः कोपः भयं प्रसिद्धं सर्वानुभूतं उद्वेगः उद्विग्नता एभिर्मुक्तो यो भक्तः स च मे प्रियः प्रीतिविषयः || १५ || अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः | सर्वारंभपरित्यागी यो मद्भक्तः स मे प्रियः || १६ || अनपेक्षः देहेन्द्रियादिविशयेषु अपेक्षारहितः अत एव शुचिः सदा परिशुद्धः दक्षः समर्थः | उदासीनश्शत्रुमित्रभावादिरहितः गतव्यथः विगतक्लेशः सर्वारंभपरित्यागी | आरभ्यन्त इत्यारंभाः ऐहिकामुष्मिकफलदायकानि कर्माणि | तानि सर्वाण्यपि परित्यजन् यो मद्भक्तोऽस्ति स च मे प्रियः || १६ || प्. २६८) यो न हृष्यति न द्वेष्टि न शोचति न कांक्षति | शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः || १७ ||
284 SK यः इष्टप्राप्तावपि न हृष्यति हर्षं न प्राप्नोति | एवमनिष्टप्राप्तावपि न च शोचति शोकं करोति न कमपि द्वेष्टि द्वेषं करोति न कमपि कांक्षति इच्छति वा अत एव शुभाशुभपरित्यागी कर्ममु शुभाशुभयोः विवेचनां विहाय कर्तव्यदृष्ट्यैव सर्वाणि कुर्वन् यो भक्तिमान् वर्तते स च मे प्रियः | एवं भक्तः सर्वदा शुभाशुभचिन्तां विहाय परमात्मचिन्तन एव मग्नो वर्तते | सः परमात्मामेव प्रार्थयतेऽनुदिनम् | कोऽयं कुतो ह्येष समा-गतोऽत्र बन्दुश्च को वेति न चिन्तयैवम् | अयं मदीयो मम सेवकोऽयं मय्येव संयुज्यत एष भृत्यः | इत्येव सञ्चिन्तय सङ्गमेश त्वदीयभृत्यं सुतमेव भावय | इति | एवं भक्तः शिवतादात्म्यसंपादनाय त्रिकरणपूर्वकं प्रयतमानोऽप्यन्ते अनन्यगतिकतया शिव एव स्वरक्षणभारं समर्पयति | शरणगीता देवभक्तसंबन्धमेव हृदयङ्गमतया निरूपयति | महात्मनो बसवार्यस्य परमात्मनि सर्वार्पणभाव एवं निर्दिश्यते तत्र | त्वमेव माता च पिता त्वमेव बन्धुस्त्वमेवासि तथैव मित्रम् | विना भवन्तं न च मेऽस्ति कश्चित् सङ्गार्यदेव शृणुताद्वचो मे || यथैव रोचेत तथा कुरुष्व दुग्धेऽथवा वारिणि निक्षिपत्वम् | इति एवं परमेश्वराधीनो भक्तः लोकादभीतो नित्यतृप्तः स्वदेहेन्द्रियादिकं सर्वमपि परमेश्वरसेवायै समुपयुञ्जन् तदीयमेवेति भावयति | तस्य तावदीश्वरेण संबन्ध एवं वर्ण्यते शरणगीतायाम् | यतस्त्वदीया तनुरित्यवैमि ततो ममान्या तनुरेव नास्ति | यस्मात्त्वदीयान्मनसो विभिन्नं मनस्तु नैवेति विनिश्चयो मे || यतस्त्वदीयं धनमेव सर्वं ततो विभिन्नं धनमेव नास्ति | ज्ञात्वा त्वदीयं त्रयमेतदेवं कथं नु विद्येत परो विचारः | इति | एवं भक्तो यथार्थतया निर्ममो निरमिमानश्च वसन् तदानीन्तनं सुखदुःखादिकं सर्वमपि भगवत्प्रसादभावनया अनुभवन् नित्यसुखी संपद्यते | भगवदर्पणेऽपि सः शुभऽशुभदृष्टिं परित्यजति | अर्पणीयस्य वस्तुनः प्. २६९)
285 SK सर्वस्यापि भगवद्दत्तत्वात् तत्र इदमर्पणीयमिदमनर्प्यमिति विवेचनामेव सः न करोति | अयमंशः शरणगीतायां सम्यक् प्रतिपाद्यते | गोः क्षीरमुच्छिष्टमथोदकं तु मत्स्यस्य तावद्भ्रमरस्य पुष्पम् | कथं नु कुर्यां भवदीयपूजां शंभो गुरो त्वां कथमर्चयामि | उच्छिष्टमेतत्परिमार्ष्टुमद्य मया न शक्यं गुरुसङ्गमार्य | यदेव दत्तं भवता मदर्थं तदेव तुभ्यं हि समर्प्यते नु | इति | एवमेव भक्तः प्रपञ्चे हर्षशोकौ विहाय स्वीयमपि भोग्यवस्तुजातं परमात्मने समर्प्य निश्चिन्ततया निवसति || १७ || समः शत्रौ च मित्रे च तथा मानापमानयोः | शीतोष्णुसुखदुःखेषु समः सङ्गविवर्जितः || १८ || तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् | अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः || १९ || शत्रौ मित्रे च समः समताभाववान् तथा मानापमानयोरपि गौरवागौर- tiṣṭhan tathaiva śītoṣṇusukhaduḥkheṣu etādṛśeṣu sukhaduḥkhotpādakeṣu dvandveṣu samaḥ samacittavṛttissan saṅgavivarjitaḥ āsaktirahitaḥ | tulyanindāstutiḥ stutiṃ nindāṃ ca samatayā bhāvayan | maunī maunavān yena kenacidalpenāpi prāptena santuṣṭaḥ samyak tuṣṭaḥ adhikaṃ nāpekṣamāṇo yathālābhatṛpta ityarthaḥ | aniketaḥ niketa āśrayo nivāsastadrahitaḥ svagṛhādyabhimānarahitaḥ | sthiramatiḥ dṛḍhabuddhiryo bhaktimān madbhaktaḥ saḥ naro me priyaḥ prītiviṣayaḥ | evaṃ bhaktassadā saralajīvī yayā kayācidgauravayutayā vṛttyā jīvanaṃ nirvahan saṃsāre sāravattaramīśvarameva sadā cintayan sarveṣvapi prāpañcikavastuṣu sāmyenāvasthitaṃ paramātmanameva paśyan ānandānubhavenaiva kālaṃ yāpayati | kaścana bhaktaḥ svīyāṃ nirmalāṃ sthitimevaṃ varṇayati | ahau vā hāre vā kusumaśayane vā dṛṣadi vā | maṇau vā loṣṭe vā balavati ripau vā suhṛdi vā | tṛṇe p. 270)
286 SK वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः || इति | एवं भक्तः गृहारामादिसौकर्यमगणयन् यत्र कुत्रापि निवसन् परमात्मचिन्तन एव संसक्तो भवति | अत एव तस्य निर्मलहृदयेन सन्तुष्टो महादेवः तदीयं बाह्यवेषाडंबरादिकं न निरीक्षते | तस्य हार्दी प्रार्थनां शरणगीता सर्वेषामपि साधकानां स्फूर्तिदायिकया रीत्या वर्णयति | स सर्वदा स्वीयमायामोहचांचल्यपरिहारायैव परमात्मन्यहर्निशं प्रार्थयते | महात्मा सिद्धरामः श्रीगुरुमल्लिकार्जु-नमेवं प्रार्थयते मायामदं भञ्जय मल्लिकार्जुन प्रजागरं कायिक-मुन्निबर्हय | चित्तस्य चाञ्चल्यमपोह्य नित्यं मोहप्रपञ्चं श्लथय त्वमेव || इति | एवं भगवद्ध्यानेन अङ्गप्रकृतिं लिङ्गप्रकृतिकतया परिवर्तयितुं प्रवर्तमानाः शरणाः सर्वेषामादरणीया वर्तन्ते | एवमेव बसवार्यः स्वीयप्रकृतेः परिणमनमेवं निर्दिशति | तवानुभवात्तनुरेव नष्टा तवानुभावान्मन एव नष्टम् | तवानुभावान्मम कर्म नष्टं न मेऽस्ति किञ्चिद्गुरुसङ्गमार्य | पुनः पुनः प्रोच्य तवैव भक्ताः भक्त्याख्यरत्नाभरणं प्रदर्श्य | यथार्थयामासुरतश्च तत्र कर्ता भवात् कारयिताऽनुभोक्ता | इति | एवं भक्तो देहे सर्वेन्द्रियेषु देवस्यैव वसतिं भावयित्वा तेन सहैव तत्सेवार्थं तस्मै स्वकीयं रूपादिभोगमपि भक्त्या समर्प्य तत्रैवात्मानमपि निवसन्तं भावयति | अतः तस्मिन् अहङ्कारममकारयोः प्रवृद्धये अवकाशो न विद्यत एव || १९ || ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते | श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः || २० || एवं भक्तानामुपादेयान् गुणानुपवर्ण्य तादृग्गुणवतां प्रशंसयाऽ- ca dharmādanapetaṃ ātmatattvahetubhūtaṃ cedaṃ yathoktamupadeśaṃ paryupāsate tādṛgupadeśaparāḥ bhavanti tādṛgupadeśaṃ jīvanaraṅge vyavahāra- श्रद्धायुक्ताः मत्परमाः मामेव परमप्राप्यं मन्वानाश्च ये प्. २७१)
287 SK भक्ताः सन्ति ते मे मम अतीवात्यन्तं प्रियाः प्रीतिविषया भवन्ति | भक्तस्य भगवदुपासनक्रमं च शरणगीता शरणानामनुभववाण्यैव स्पष्टं निर्दिशति | भवान्गुरुर्मय्यगुणं गुणं वा दधातु यः स्याद्भवदाप्तिदस्युः | नाहं भवद्भिः सदृशः कदाचित् भवेयमत्राप्रतिमस्वभाव | भवद्दयापातत एव नन्वहं स्वरूपलाभं भगवन् प्रपन्नः | एवं सति त्वं मयि कोपमद्य कर्तुं कथं युज्यत इत्यवेहि || इति | एवं भक्तस्सदा परमेश्वरस्य दयाभाजनं भूत्वा तदीय एव सन् तदिच्छानुरोधेन तत्तत्कर्म कुर्वन् पुण्यपापसंबन्धरहितः शिवानन्दमनुभवन्वर्तते | तदीयां नैष्ठिकीं निरपाराधस्थितिमेवं वर्णयति शरणगीता मदीयदेहस्य भवानधीशस्तथैव चित्तद्रविणादिकस्य | ज्ञानं मदीयं तव वश्यमेतन्मोहो मदीयोऽपि तवैव वश्यः | इत्थं मदीयेष्वखिलेषु देव भावत्कतामप्युपयत्सु सत्सु | आगः समेयाद्यदि मय्यकस्मादाप्नोषि तस्यापि फलं त्वमेव || इति | एवं निर्दाक्षिण्यतया परमात्मने सर्वार्पणभावेन शरणागतो भूत्वा भक्तः स्वस्य निरपराधित्वं संस्थापयति व्यवहारनिर्वहणसमये | सर्वास्वप्यवस्थासु सः परमात्मानमेवावलम्ब्य यतो जीवति ततस्तस्य योगक्षेमं परमात्मैव संपूर्णतया निर्वहति | भक्तेः पराकाष्ठदशायां भक्तस्य देवस्य च प्राक्तनो भेदोऽपि परिहीयते | तदानीं तस्य स्थितिरेवमुपवर्ण्यते त्वमेव भक्तिं कुरुषे तथैव भक्तस्त्वमेवासि च सेव्यरूपः | न दृष्टमेवेह भवत्पदं मया त्वयापि दत्तं न हि मे भवत्पदम् | इति | अत्र सेवकोऽपि त्वमेव सेव्योऽपि त्वमेव त्वदीयं पदं न मया दृष्टं त्वयापि मे पदं त्वदीयं न परिकल्पितम् | अतो दाता भोक्ता कर्ता कारयिता इत्येवं सर्वोऽपि त्वमेव | न मे स्वतन्त्रताप्रवृत्तये यः कश्चनावकाशो वर्तते | इत्येतादृशी निष्कल्मषा भक्तस्य स्थितिर्न कदापि तस्मिन् रागद्वेषौ कामक्रोधौ च वर्धयेत् | एवं सर्वे मानवाः सद्भक्ता भूत्वा अहङ्कारमभिमानं च परित्यज्य
288 SK स्वदेशं आत्मीयतया प्रीणयन्तो नित्यतृप्ताः शान्त्या निवसन्त्विति श्रीकृष्णपरमात्मा निरीक्षते | शत्रुमित्रयोश्च समदृष्टिः स्तुतिर्निंदयोर्हि प्. २७२) समभावना च यत्र विलसति स एव भक्तः निर्विकारस्थितौ संतोषमनुभवति | स सर्वदा तद्दूषकं स्वजन्मबन्धुमवैति तथैव तत्स्तावकं जन्मशत्रुं भावयति | एवमेव सः सुखं नापेक्षते दुःखे च नोद्विजते | एतादृश्यां परिपक्वस्थितौ तस्य मनो बुद्धिः चित्तं अहङ्कारश्च उत्तमसंस्कारमधि- etādṛśairbhaktaireva lokakalyāṇaṃ sādhanīyamiti paramātmana āśayaḥ | matsvāmin bhavadīyapādayugalaṃ saṃsmartumāśādhi mām | celāṃtaṃ hi vitatya yācitumupakrāṃto'smi deva tvayi | ityevaṃ bhaktaḥ paramātmapāda- श्रीयामुनाचार्यैभगवत्प्रार्थनावसरे प्रकटित आशयः सर्वेषां साधकानां स्मरणीयो विराजते | न भूतपूर्वं न च भावि किं वा सर्वं सहे मे सहजं हि दुःखम् | किंतु त्वदग्रे शरणागतानां पराभवो नाम न तेऽनुरूपः | इति | एवं शरणागतानां रक्षणभारः देवेऽश्यं स्थ्येय इत्याशयं पूर्णविश्वासेनाविष्कुर्वन्ति ते महाशयाः | रक्षिष्यतीति विश्वासो यस्य दृढो वर्तते स एव भक्तो भवितुमर्हति | एतादृग्भक्तिमान् महादेव-प्रसादेन नित्यसुखी संपद्यते | एवं भक्तियोगे शुद्धजीवस्य परमात्मनि एकीभावरूपं सामरस्यमुपदिशन् श्रीकृष्णपरमात्मा भक्तेर्वैशिष्ट्यं सम्यक् प्रतिपादयति || २० || त्रयोदशोऽध्यायः अतीतेष्वध्यायेषु परमात्मा भक्त्यैकलभ्य इति बहुत्रोक्तम् | अथ तादृश- idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate | etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ || 1 || p. 273)
289 SK हे कौन्तेय अर्जुन ! इदं पाञ्चभौतिकं शरीरं क्षेत्रमित्यभिधीयते तत्त्वज्ञैः | क्षतात् दुःखात् त्रायत इति क्षेत्रम् इदमेव हि शरीरं ध्यानार्च- śarīramādyaṃ khalu dharmasādhanam iti hi mahākavirapi vadati | athavā kṣetravat karmaphalayoḥ sukhaduḥkhayorasminneva prāptyā idaṃ śarīraṃ kṣetramityabhidhīyate | etat kṣetraṃ yo vetti āpādamastakaṃ mamedaṃ śarīramiti yo jānāti saḥ kṣetrajña iti tadvidaḥ tattattvavidaḥ prāhurvadanti || 1 || kṣetrajñaṃ cāpi māṃ viddhi sarvakṣatreṣu bhārata | kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama || 2 || ko'yaṃ kṣetrajña ityatrāha- he bhārata arjuna sarvakṣetreṣvapi vidyamānaṃ kṣetrajñaṃ jīvaṃ cāpi māmeva madaṃśameva viddhi | jīvabrahmaṇoravasthā- तत्र विद्यमानस्य जीवस्य च विषये यत् ज्ञानमस्ति तदेवात्र ज्ञानमिति मे मतम् ज्ञानं हि मोक्षसाधनम् | एतादृशक्षेत्रक्षेत्रज्ञज्ञानमेव मुक्तिहेतुरिति तदेव ज्ञानं नान्यदिति मम सम्मतभित्यर्थः | इममर्थं अमानित्वमदंभित्वं इत्यारभ्य एतत् ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा इत्यतेन विस्तरेण कथयिष्यति || २ || तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् | स च यो यत्प्रभावश्च तत्समासेन मे शृणु || ३ || एवं संग्रहेण क्षेत्रक्षेत्रज्ञयोः स्वरूपवैलक्षण्यादिकं विस्तरेणोप- yādṛśaṃ yādṛśadharmaviśiṣṭam ? yadvikāri asya vikārāśca ke? yasmādasmāt kṣetrāt yatkāryamutpadyate ? sa ca yaḥ kṣetrajña uktaḥ saḥ yatprabhāvaḥ yādṛśa-prabhāvaviśiṣṭaḥ ? tatsarvaṃ samāsena saṃkṣepeṇa me matsakāśāt śṛṇu | tadubhayoḥ svarūpaṃ vaiśiṣṭyaṃ ca vadāmyākarṇaya || 3 || p. 274) ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak | brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ || 4 ||
290 SK उक्तमर्थमवश्यज्ञेयत्वाय प्रशंसति | ऋषिभिर्वसिष्ठादिभिर्बहुधा बहु-प्रकारेण गीतं कथितम् | विविधैर्नानाविधैः छन्दोभिः ऋगादिवेदैः पृथग्विविच्य गीतं कथितम् | हेतुमद्भिः युक्तिमद्भिः विनिश्चितैर्निर्णी-तार्थकैः ब्रह्मसूत्रपदैश्चैव अथातो ब्रह्मजिज्ञासा इत्यादिप्रसिद्धैर्-ब्रह्मसूत्रगणैश्च गीतं प्रोक्तं त्विदमेव ज्ञानम् | सकलशास्त्रप्रतिपाद्यो विषयोऽप्ययमेवेत्यर्थः || ४ || महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च | इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः || ५ || इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः | एतत्क्षेत्रं समासेन सविकारमुदाहृतम् || ६ || क्षेत्रक्षेत्रज्ञावेवं प्रशंस्य प्रथमं क्षेत्रं विवृणोति | महाभूतानि पृथिव्यप्तेजोवाय्वाकाशरूपाणि पञ्च अहङ्कारः बुद्धिः अव्यक्तमेव च प्रकृतिश्च इन्द्रियाणि दशैकं च एकादशेन्द्रियाणि | पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि मनश्चेत्येकादशेन्द्रियाणि इन्द्रियगोचराः पञ्चज्ञानेन्द्रियाणां घ्राणरसनचक्षुस्त्वक्छ्रोत्राणां विषयाः पञ्च गन्धरसरूपस्पर्शशब्दाः | एतानि सर्वाणि मिलित्वा क्षेत्रनाम्ना व्यवह्रियन्ते | इदं क्षेत्रस्वरूपनिरूपणम् | अथ तत्कार्यं प्राह- इच्छा द्वेषः दुःखं संघातो देहेन्द्रियाणां संहतिः चेतना चैतन्यं धृतिः एतेषां धारणं इत्येवमिदं सर्वं क्षेत्रं विकारभूतम् | तथा च एतदेव क्षेत्रं सविकारं स्वकार्यवर्गविशिष्टं समासेन संक्षेपतः उदाहृतं कथितम् || ५-६ || अमानित्वमदंभित्वमहिंसा क्षान्तिरार्जवम् | आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः || ७ || इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च | जन्ममृत्युजरावाधिदुःखदोषानुदर्शनम् || ८ || प्. २७५) असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु | नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु || ९ || मयि चानन्ययोगेन भक्तिरव्यभिचारिणी | विविक्तदेशसेवित्वमरतिर्जनसंसदि || १० || अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् | एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा || ११ ||
291 SK विवेकिनः अवश्योपादेयान् कांश्चिदंशात् उपदिशति पञ्चभिः श्लोकैः | अमानित्वं मानित्वं आत्मनः श्लाघनं तदभावः | अदंभित्वं स्वधर्मप्रकटीकरणं दंभः तदभावः | अहिंसा प्राणिनामपीडनम् | क्षान्तिः परापराधप्राप्तावपि विकारराहित्यम् | आर्जवं अन्तःकरण- dṛḍhādhyavasāyaḥ | ātmavinigrahaḥ ātmano dehendriyādervinigrahaḥ saṃyamaḥ | indriyārtheṣu śabdādiṣu pañcasu vairāgyaṃ rāgābhāvaḥ | anahaṅkāra ahaṃbhāvarāhityam | janmamṛtyujarāvyādhiduḥkhadoṣāṇāṃ anudarśanamanucintanameva nityasmaraṇam | saṃsāradoṣacintanamityarthaḥ | asaktirviṣayeṣu prāpteṣvapi āsaktyabhāvaḥ | putradāragṛhādiṣu bāhyaiśvaryā-disaukaryeṣu anabhiṣvaṅgaḥ abhitassaṃbandhābhāvaḥ | vyāmoharāhitya-mityarthaḥ | iṣṭāniṣṭopapattiṣu iṣṭāniṣṭaprāptāvapi nityaṃ sarvadā samacitta-tvamekarītyā cittavartanam | mayi ca sarvavyāpake mūrtāmūrtarūpiṇi paramātmani ananyayogena prayojanāntarānuddeśena avyabhicāriṇī ekarūpā bhaktiḥ | viviktadeśasevitvaṃ ekāntapradeśāśrayaṇam | janasaṃsadi aratiḥ prākṛtānāṃ janānāṃ samudāye khyātilābhādyarthaṃ ratyabhāvaḥ | adhyātmajñānanityatvantu sadā adhyātmacintanam | tattvajñānārthadarśana-mapi uktatattvajñānānāṃ yo'rthaḥ phalarūpo mokṣastathaiva cintanam | ityevametadeva mokṣasādhanatvāt jñānamiti proktam | ato'smadanyathā yadasti tadajñānaṃ jñānābhāvarūpameva proktam | sā vidyā yā vimuktaye iti mokṣahetubhūtameva jñānaṃ jñānamiti p. 276)
292 SK इतरविषयकज्ञानं तु संसारहेतुत्वात् अज्ञानमिति च कथ्यते | अतश्च मुमुक्षुभिः प्रथममेतानि अमानित्वादीन्युपादेयानि | एते गुणाः साधकस्यान्तरङ्गशुद्धिद्वारा तदीयां भक्तिं विकासयन्ति | तथा च निर्मलहृदये विराजमानेन महाप्रकाशेन संयुज्य तदीयमानन्दमनु- yathāśakti prayateta | etādṛgantaraṅgaśodhanaprakāraḥ śaraṇagītāyāmevaṃ nirdiśyate | cauryaṃ hiṃsāṃ naiva kuryāḥ kadāpi naivāsatyaṃ vācyamevai- कुर्यात् | आत्मानं त्वं मा प्रशंसीः कदापि माऽन्येषां त्वं निन्दक- viśuddhiḥ | saiveha śuddhirgurusaṅgamārya tvatprīṇanārthaṃ vihitā bahujñaiḥ | iti | evamantaraṅgaśuddhimāneva hṛdayavikāsena mahāprakāśaṃ svasmin samyaganubhūya sarveṣvapi tameva prakāśaṃ sākṣātkaroti | yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati | tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati | iti ca bhagavataivopadiṣṭam | etādṛgbhaktaḥ sarvatra mṛduvākyameva prayuñjānaḥ saccāritryeṇa ihaparayogyatāṃ saṃpādayati | parameśvaralīlā- परिगण्यते सः परत्र च योग्य एव भवेत् | योऽत्रैव दुर्वर्तनेन अयोग्य इति परिगण्यते सः न कुत्रापि पुरस्क्रियेत | एवं शीलशुद्धिरिहपरसुखसाधनाय अनिवार्येत्यनुभविनः कथयन्ति | अत एव यद्भगवानत्र सर्वेषां साधका- jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute | anādimatparaṃ brahma na sattannāsaducyate || 12 || amānitvādikameva jñānaṃ cet taiśca jñeyaṃ vastu kimityatrāha | jñeyama- अमृतं शाश्वतसुखरूपं मोक्षमश्नुते अनुभवति साधकः किं तदित्यत्राह अनादिमदित्यादि | अनादिमत् उत्पत्तिरहितम् | इदं नाशराहित्यस्या- p. 277)
293 SK एतादृशं परं ब्रह्म तदेव ज्ञेयम् | तच्च परं ब्रह्म सदित्यपि वक्तुमशक्यं असदित्यपि वक्तुमशक्यम् | सकलप्रमाणातीतं वाङ्मनसोरगोचरं तदित्यर्थः | परशिवब्रह्म केवलं सद्रूपमेवेति न भाव्यतेऽनुभविभिः तथैव केवलमसद्रूपमित्येव न भाव्यते | तथा च सदसदुभयात्मकमिति परिचिन्त्यम् | अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन इति भगवतैवोपदिष्टम् | सृष्टिकाले यत् सदसदात्मकं सम्पद्यते तदिदमेव परशिवब्रह्म प्रलये सदसदात्मकत्वमपि विहाय कैवल्यस्थितिरूपस्वस्थावस्थां भजते | यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः इति श्वेताश्वेतरो महर्षिः परशिवस्य सदसदनुभयात्मकत्वमुपदिशति | अयमेव शक्तिसङ्कोचकालीनः अवस्थाविशेषः | स एव परशिवः सृष्ट्युन्मुखावस्थायां शक्तिविकासेन सदसद्रूपतया परिणमते | तस्य शक्तिसंकोचावस्थैव अमूर्तस्थितिरिति च परिगण्यते || १२ || सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् | सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति || १३ || सदसदात्मकत्वादत्यन्तविलक्षणस्यास्य परशिवब्रह्मणः स्वरूपमद्य विशिष्य निर्दिशति | तत्परं ब्रह्म परशिवाख्यममूर्तं निरञ्जनम- sarvatra tattakāryakaraṇaśaktam | tathaiva sarvato'kṣiśiromukhantu cakṣurādi- चक्षुरभावेऽपि सर्वं पश्यत्यमूर्तं ब्रह्म तथैव श्रोत्रेन्द्रियाभावेऽपि सर्वमपि शृणोति | न केवलं तदेव परन्तु सर्वमावृत्य व्याप्यैव तिष्ठति | एवं सर्वत्र स्थित्वा सर्वकार्यनिर्वाहकं तदेव परतत्त्वमित्यर्थः || १३ || सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् | असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च || १४ || तत् परशिवाख्यं तत्त्वं सर्वेन्द्रियाणां चक्षुरादीनां गुणैस्तत्तत्कार्यैरेव प्. २७८)
294 SK आभासमाभासते | तत्तदिन्द्रियकार्यैः रूपादिभिरेव तद्ग्रहणं भवितु- athāpi tadvastu sarvendriyavivarjitameva vartate | indriyādīnāmāśrayastu śarīrameva na tu paraṃ brahma | evameva tadvastu asaktaṃ kutrāpi saṅgarahitam | sarvabhṛt sarvadhārakam | nirguṇaṃ sattvarajastamoguṇarahitam | athāpi guṇabhoktṛ tādṛśaguṇaphalānubhavitṛ ca vartate || 15 || bahirantaśca bhūtānāmacaraṃ carameva ca | sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat || 15 || tat paraśivatattvaṃ bhūtānāṃ prāṇināṃ bahirantassarvatra sadā vartamānaṃ sarvavyāpakamityarthaḥ | vyāpakatvādeva acaraṃ gatirahitam | athāpi tattatkārya- नहीन्द्रियादिभिर्ज्ञातुमर्हम् | तत्परतत्त्वं एककाले दूरस्थमपि भूत्वा अन्तिके च समीपस्थमपि भवति | सर्वव्यापकत्वात् स्वातन्त्र्याच्च सः परशिवः नक्षत्रमण्डलादावपि वर्तमान एव अस्मासु तथैव सर्वप्राणिनामपि हृदयगुहायामावसति | परिपूर्णे तु तस्मिन् परस्परविरुद्धधर्माणामेकत्र समावेशनरूपं वैलक्षण्यं शब्दप्रमाणभूतयोः निगमागमयोः सम्यक् प्रदर्श्यते | अत्राप्यमुमेव क्रममनुसृत्य भगवानेव स्वस्यामूर्त-स्थितेः प्रकृतिं हृदयंगमया रीत्या मितैरेव पदैर्निर्दिशति || १५ || अविभक्तं च भूतेषु विभक्तमिव च स्थितम् | भर्तृमर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च || १६ || भूतेषु विभक्ततया दृश्यमानेषु प्राणिषु अविभक्ततया सर्वत्र एकरूपतया वर्तमानम् | अथापि विभक्तमिव परस्परविलक्षणमिव च स्थितम् | तत् भूतभर्तृ सर्वभूतधारकं ज्ञेयम् | तथैव ग्रसिष्णु प्रलयकाले सर्वसंहर्तृ | एवमेव प्रभविष्णु सृष्टिकाले सर्वस्रष्टृ च ज्ञेयम् | तथा च परशिवब्रह्मणोऽति- प्. २७९) विलक्षणत्वादेवं परस्परविरुद्धतया भासमानानां गुणानामपि तस्मिन्नेककाले संघटनायामपि न विरोध इति वैलक्षण्यकथनायैव तथोक्तम् || १६ ||
295 SK ज्योतिषामपि यञ्ज्योतिस्तमसः परमुच्यते | ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्टितम् || १७ || तत्परं ब्रह्म ज्योतिषां चन्द्रसूर्यादीनामपि ज्योतिः प्रकाशकम् | तस्य भासा सर्वमिदं विभाति तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्-प्रसृता पुराणी इति श्रुतौ परमात्मनः सर्वप्रकाशकत्वं प्रसिद्धमेव | अत एव महालिङ्गाभिधं परशिवब्रह्म तमसः परं तमोऽतीतं परंज्योतिरित्युच्यते | भूतयोनिं समस्तसाक्षिं तमस परस्तात् इति श्रुतौ परमात्मनः तमःपरत्वं स्पष्टं प्रतिपाद्यते | तच्च परतत्त्वं ज्ञानरूपमिति विज्ञेयम् | एवञ्च ज्ञानगम्यं तत्त्वज्ञानैकलभ्यं तत्परवस्तु सर्वस्य हृदि अन्तर्यामितया विष्टितं स्थितम् || १७ || इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः | मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते || १८ || इत्येवंरीत्या क्षेत्रं तथा ज्ञानं ज्ञेयं परशिवलिङ्गं च समासतः संक्षेपत उक्तं तत्क्षेत्रं यच्च इत्यादिप्रतिज्ञानुरोधेन | एतदुक्तं विज्ञाय साधकः मद्भक्तो भूत्वा मद्भावाय अमूर्तशिवक्यमधिगन्तु- śrutyā etādṛśaḥ tattvajñānāt paraśivasāmarasyarūpo mokṣo bhavatītyarthaḥ || 18 || prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi | vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān || 19 || kṣetrakṣetrajñasvarūpamuktvā saptamādhyāye uktayoḥ prakṛtipuruṣayoḥ svarūpamatra vimṛśati | prakṛtiṃ puruṣaṃ ca ubhāvapi anādī viddhi | ubhāvapi nitye | tatra vikārān mahadādivikārajātaṃ guṇāṃśca sattvarajastamo- संबद्धमित्यर्थः || १९ || प्. २८०) कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते | पुरुषः सुखदुःकानां भोक्तृत्वे हेतुरुच्यते || २० ||
296 SK कार्यं विकाररूपं शरीरम् | करणमिन्द्रियादीनि करणानि | तदुभयोः कर्तृत्वे हेतुस्तदुभयसृष्टौ कारणं प्रकृतिरुच्यते | प्रकृतिः शरीरेन्द्रियादि-कारणमित्यर्थः | पुरुषस्तु सुखदुःखानां भोक्तृत्वे अनुभवितृत्वे हेतुरित्युच्यते | शारीरकादिकार्याणि प्रकृतिविकाररूपाण्येव | तत्फलभोक्ता तु पुरुष इत्युच्यते || २० || पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् | कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु || २१ || पुरुषभोगमेवोपपादयति | अयं पुरुषश्चेतनः प्रकृतिस्थः प्रकृति- guṇān sattvarajastamāṃsi | tatphalānīti yāvat | bhuṅkte anubhavati | asya bhoktuḥ puruṣasya sadasadyonijanmasu sadyoniprāptau asadyoniprāptau vā samucitabrāhmaṇādijanmano vā anucitaśvādijanmano vā kāraṇaṃ guṇasaṅga eva triguṇasaṃparka evetyanubhavino'bhiprayanti | sātvikaḥ uttamaṃ janma prāpnoti | rājasatāmasau tu nīcaṃ janma prāpnuta ityarthaḥ | ataḥ sarvasyāsya jananamaraṇarūpasaṃsārasya mūlaṃ guṇatrayameva || 21 || upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ | paramātmeti cāpyukto dehe'sminpuruṣaḥ paraḥ || 22 || asmindehe vidyamānaḥ paraḥ puruṣaḥ paramātmaiva upadraṣṭā sarvavastūnāṃ samīpe vidyamānassan draṣṭā prekṣakaḥ sākṣī bhavati | evameva kriyamāṇānāṃ karmaṇāmanumantā ca bhavati | tathaiva bhartā sarvarakṣaṇakartā ca bhavati | evameva bhoktā sarvaphalānubhavitā ca saṃpadyate | evamadbhutasāmarthyavān sa eva maheśvaraḥ paramātmeti cāpyuktaḥ sarvatra sarvadā vartamānaḥ paramātmaiva sarvaṃ karoti sarvamanubhavati cetyarthaḥ || 22 || p. 281) ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha | sarvathā vartamāno'pi na sa bhūyo'bhijāyate || 23 ||
297 SK एवमुक्तायाः प्रकृतिपुरुषविवेचनायाः फलमाह | यः प्रकृतिं पुरुषं च तेषां प्रागुक्तैर्गुणैः सह वेत्ति सः सर्वथा सर्वप्रकारेण वर्तमानोऽपि भूयः नाभिजायते न जन्म प्राप्नोति | पुनर्जन्मनिवृत्त्या मुक्तो भवतीत्यर्थः | मन इन्द्रियाणि च प्रकृतिशब्देन निर्दिश्यन्ते | तानि सर्वदा गुणैर्व्यापृतान्येव वर्तन्ते | अनेन गुणसङ्गेन पुरुषे उत्पद्यमानानि रागद्वेषसुखदुःखादिद्वन्द्वानि आत्मनि संबध्यन्ते | अतः प्रकृतिपुरुषयोः गुणैर्यः संबन्धः संघटनात्मकोऽस्ति सः पुरुषेण यदि ज्ञायते तदैव तेन सर्वोऽपि व्यवहारः स्वाभाविकतया प्रवर्तत इति यथार्था परिस्थितिर्बुध्यते | अयमेव विवेकः पुरुषस्य बन्धविमोचनहेतुरिति परिगण्यते | एतादृग्विवेकी यत्र कुत्रापि येन केनापि संतुष्टः यया कयापि वृत्त्या जीवनं निर्वहन् निर्मलो निर्ममश्च निवसति | तस्य विवेकोऽप्येवं प्रसरति | स्वस्य प्रकृतेश्च संघटको यः परमात्मा सन्निहितः स एव तत्र तत्र अन्तर्नियामकस्सन् तच्चेतनांशभूतेन जीवेन तच्छक्त्यंशभूतायाः प्रकृत्यास्सकाशात् सर्वं कार्यं निर्वाहयति | एतादृगेव विवेकोऽत्र अभीप्स्यते | वस्तुतः परमात्मसान्निध्यादेव पुरुषाख्यो जीवः प्रकृत्या सह व्यवहर्तुं प्रभवति | प्रकृतिरपि तत्सान्निध्यादेव चेतनेव सर्वत्र प्रवर्तते | एवं सहजतया प्रवर्तमानं संसारचक्रं यो वेत्ति सः तत्संबन्धात्- bhogaḥ puruṣamandhayan prakṛtivilīnaṃ karoti | ata eva puruṣasya bandhanivṛttaye prakṛtiguṇavijñānamāvaśyakamityanubhavino vadanti | pañcendriyeṣu manasi ca sahajatayā virājamānāya parameśvarāya tāni sarvāṇyapīṃdriyasukhāni yadi puruṣaḥ bhaktyā samarpayati tadā tānyeva tatprasādarūpatāmāpadyante | idameva ṣaṭsthalopāsanamucyate | puruṣeṇa ṣaḍindriyasthāyeśvarāya ṣaḍvidha-bhaktibhiḥ ṣaḍvidhānāmindriyasukhānāṃ samarpaṇameva ṣaṭsthalopāsana- प्. २८२)
298 SK व्यवहारस्य परिचयं पुरुषायोत्पादयति | अनेन च परिचयेन पुरुषस्य प्रकृतिसंसर्गः परिहीयते | पुरुषो यदा परमात्मनः संबन्धमभि- prakṛtipuruṣavivecanetyucyate | etādṛśo vivekaḥ ṣaṭsthalātmakasya parameśvarasya sāhajikaṃ ṣaḍindriyasaṃbandhamavalaṃbate | ṣaḍindriyeṣu vartamānaḥ paramātmaiva śaktivikāsena īśvara iti śaktisaṅkocena jīva iti ca vyavahriyate | avivekī jīvaḥ sarvāṇīndriyasukhāni svīyāni bhāvayati ata eva tatprāptaye mahadduḥkhamanubhavati ca | vivekī jīvastu tānyeva sukhaduḥkhāni īśvaraprasādabhāvanayā svīkṛtya nityasukhī saṃpadyate | ahaṅkāravimūḍhātmā kartāhamiti manyate iti bhagavāneva nirdiśatya vivekinaḥ kartṛtvabhāvanām | vivekini tāvadasyāḥ bhāvanāyāḥ pravṛttireva na jāyate | ato vardhiṣṇūnāṃ sarveṣāṃ ṣaḍiṃdriyeṣu nirliptatayā sthitasyeśvara- भूत्वा शक्तिविकासेन जगदिदमेव शिवदृष्ट्या पुरस्कुर्वन् ईश्वरः संपद्यते | तस्य तावत्पुनर्जन्म नास्त्येव || २३ || ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना | अन्ये सांख्येन योगेन कर्मयोगेन चापरे || २४ || परमात्मदर्शने कांश्चित्प्रकारान् निर्दिशति | केचिदनुभविनः ध्यानेन तैलधारावत्परमात्मसततचिन्तनेन आत्मनि बुद्धौ आत्मानमात्मना ध्यानसंस्कृतेनान्तःकरणेन पश्यन्ति | अन्ये सांख्येन योगेन ज्ञान- parityajya kartavyadṛṣṭyā paramātmaprītyarthameva karmānuṣṭhānarūpeṇa kāyakākhyena karmayogena paramātmānaṃ ātmani svasmin paśyanti | evaṃ kecana yoginaḥ hṛdaye virājamānaṃ paramātmānaṃ nirantaraṃ cintayanta-statraiva manobudhyādikaṃ niveśya svayamapi vilīyante | ayaṃ ca dhyānayogaḥ vīraśaivasaṃpradāye prāṇaliṅgina upāsanāyāmanusriyate | prāṇaliṅgaṃ dhyānaviṣayameva | kecitsādhakāḥ jñānayogamavalaṃbante | sādhako p. 283)
299 SK ह्यात्मानं परमात्मांशभूतत्वात् तत्संबन्धिनमिति यज्जानाति तदेव ज्ञानयोगः | तथैव स्वस्मिन् प्रकृतौ च स एव परमात्मा स्वकल्याणसाधनाय निवसतीति यज्ज्ञायते तदपि ज्ञानयोग एव | अयं च ज्ञानयोगः सर्वेषां साधकानां प्रधानमवलंबनम् | देहेन्द्रियैर्व्यवहरतः शुद्धजीवस्य स्वस्मिन्नन्तर्यामितया निवसतो महादेवस्य च ज्ञानमध्यात्मसाधने विकासाय प्राधान्येनापेक्ष्यते | एतादृशदिव्यज्ञानामृतेन सिक्त एव साधकः परित्यक्तमलदोषो भूत्वा भक्तस्सञ्जायते | अयमेव भक्तः स्वीयसद्वर्तनेन सर्वेन्द्रियेषु निवसतः परमेश्वरस्य अतीव प्रियो भूत्वा माहेश्वरः संपद्यते | अयमेव माहेश्वरः स्वावृतं जगत्सर्वं शिवप्रसादभावनया प्रीणयन् प्रसन्नचेता भूत्वा प्रसादी संपद्यते | एतादृगेव प्रसादी सुनिर्मले स्वान्तरङ्गे महाप्रकाशरूपं प्राणलिङ्गमनुभवन् प्राणलिङ्गी संपद्यते | अयमेव प्राणलिङ्गी स्वस्य महालिङ्गस्य च भेदमजानन् लिङ्गानन्दे विलीय बाह्यां भेददृष्टिमपि विजहाति | प्राणलिंगानुभवेन निरस्तसमस्तकर्मपाशः साधकः आनन्दमये परमात्मनि सर्वथा शरणागतः स्वस्य व्यक्तित्वमपि विस्मरति | प्राणलिंगानुभववान् शिवमेव शरणं प्रपद्य तस्मिन् विलीनः स्वस्य शिवाद्भेदं न जानाति | भक्तस्थिति- karmayogamanutiṣṭhanneva vartate | jñānavalambyaiva yatra karmācaryate tatraiva karmayogaḥ prapadyate | no cet tatkevalaṃ laukikaṃ karmetyeva bhāvyeta | karma udarapoṣaṇāya yadyācaryate tadā karmayogo hyātmakalyāṇāya lokakalyāṇaya cānuṣṭhīyate | etādṛśena karmayogena ātmānaṃ ātmani paśyanti kecana sādhakāḥ | ete trayo'pi yogāḥ ṣaṭsthalopāsanamārge anusyūtatayā militāḥ sādhakaṃ bhaktasthityā śaraṇasthitiparyantaṃ dehendriyasahakāreṇaivānāyā- शिवभावनया शुश्रूषयन् माहेश्वरस्थितौ तथैवात्मीयतया प्रीणयन् प्रसादिस्थितौ तमेव प्रपंचं प्रसादमिति भावयन् प्राणलिंगिस्थितौ शिवात्मकत्वेन बहिरंतश्चानुभवन् शरणस्थितौ स्वस्य
300 SK जगद्रूपस्य परमेश्वरस्य च भेदमजान- प्. २८४) न्नेवानन्दमनुभवति | एतादृग्योगी लोके व्यवहरन्नपि तदासक्तिरहितः स्वार्थशून्यश्च वर्तमानः लोकहितैकदृष्टिर्नित्यसुखी संपद्यते | सोऽपि निर्मले मनसि विराजमाने स्वांशिनि महादेवे शिखिकर्पूरयोगेन समरस- svāntaraṅgasthasya mahādevasya paricayamadhigantuṃ prabhavanti | ayameva mānavakalyāṇasādhako yogamārgaḥ gītāyāmādita ārabhya vistaraśo nirūpitaḥ || 24 || anye tvevamajānantaḥ śrutvānyebhya upāsate | te'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ || 25 || anye tu evaṃ yathoktamātmasvarūpamajānantaḥ anyebhya ācāryebhyastattvaṃ śrutvā ātmānamupāsate | śrotavyo maṃtavyo nididhyāsitavyaḥ iti śruteḥ ātmavicāraḥ prathamaṃ śrotavyaḥ khalu | evameva śrutiparāyaṇāḥ tattva- श्रवणपरा अपि संसारपाशान्मुक्ताः मोक्षं प्राप्नुवन्त्येव | एवं केवलश्रवणमननद्वारापि देहे शिवतत्त्वं विज्ञाय तदीयषट्स्थल- sarveṣāṃ sādhakānāṃ sulabhopāyamupadiśatyatra || 25 || yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṃgamam | kṣetrakṣetrajñasaṃyogāt tadvidhi bharatarṣabha || 26 || atha upakramaślokoktaṃ kṣetrakṣetrajñasvarūpamadhikṛtya avaśiṣṭaṃ vadan tadvicāramupasaṃharati | he bharatarṣabha arjuna yāvatkiṃcit yatkiṃcit sthāvaraṃ vṛkṣādikaṃ jaṅgamaṃ paśupakṣyādikaṃ vā sattvaṃ prāṇijātaṃ jāyate tat kṣetrakṣetrajñasaṃyogāt uktasya kṣetrasya kṣetrajñasva ca saṃyogādeveti viddhi | dehe pravartamānāssarve vyavahārāḥ dehajīvasaṃyogaṃ yathā apekṣante tathā prapaṃce pravartamānāḥ sarve sṛṣṭyādivyāpārāḥ dehasthānīyāyāḥ prakṛtyākhyāyāḥ māyāśakteḥ p. 285)
301 SK मायापतिना परमेश्वरेण सहजतया विलसन्तं संबन्धपपेक्षन्ते | तथा च चराचरात्मकोऽयं प्रपंचस्सर्वोऽपि परमेश्वरमाययोर्नित्यसम्पर्क- sadrūpeṇa svayameva vilasati | etatparijñānena sarvatra sādhakānāṃ sarveṣāmapi śiva-bhāvanā sahajatayā udeti | śivavirahitasya vastuna eva na kutrāpyupalabhya-mānatvāt prakāśarūpeṇa śivena saṃyuktasya ekaikasyāpi vastuno yāthārthyena puraskaraṇameva śivajñānaṃ śivabhāvanācetyanekadhā vyavahriyate | evaṃ sarvamaṃgalakarasya sārvatrikasya sarvasannihitasya śivasya nityasmaraṇāt loke vyavaharaṇaṃ sādhakān sarvadā sukhayatītyupadiśati bhagavānatra || 26 || samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaran | vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati || 27 || atha kṣetrajñaṃ vivicya darśayati | sarveṣu bhūteṣu kīṭādārabhya manuṣya- तु कर्मकृतमिति भावः | एवमेव दैहिकस्य तारतम्यस्य कर्मकृतत्वात् देहे स्थित्वापि स्वतः परमेश्वरं अमूर्तपरमात्मनो दिव्यांशभूतं विनश्यत्सु देहादिषु नाशं प्राप्तवत्स्वपि स्वयमविनश्यन्तं नाशमना- paśyati nirantaropāsanena sākṣātkaroti sa eva paśyati praśastadarśanavāniti jñāyate | itare tu andhā eva bhāvyante draṣṭavyasyādarśanāt | ayameva prāṇa- इत्यर्थः | जीवानां सर्वेष्वपि व्यवहारेषु साक्षिभूतः तदुद्धारायैवाने- eva | etadaparijñānena mānavaḥ praṇaṣṭasarvaśaktirmuhyamānaḥ kṣaṇaṃ śocannapi indriyāṇāṃ duṣpreraṇānurodhena samanantarameva bhoge hyanurajyate | evamatibhogāsakto jīvaḥ yuktāyuktavivekarahitassan andhaḥ saṃpadyate | etādṛśamavivekinaṃ vivekinā saha tolanenaivaṃ nirdiśati śaraṇagītā anyā madīyā kṛtireva paśya p. 286)
302 SK वचस्तथान्यधृति नास्ति शुद्धिः | यद्यैकरूप्यं वचने कृतौ च तदान्तरे तिष्ठति संगमार्यः | इति | तत्रैव बसवार्यः आत्मशोधनावसरे स्वस्य भक्तिदारिद्र्यं पश्यन् तदर्थं परिशोचति | अयमस्य सत्यशोधनमार्गो- bhavedyadā tu samaṣṭibhāve manasordvayośca | romodgamo naiva yadā sphurettu smarśānmitho vāri patenna netrayoḥ | uktau na dṛśyeta hi gadgadasvaraḥ saṃgāryabhakteridameva cihnam | yato na dṛṣṭaṃ mayi sarvametat tato hyahaṃ ḍāṃbhikaveṣadhārī | iti | evaṃ dehe virājamānaṃ śivaṃ vijñāya tadarthaṃ dehaṃ mana indriyādikaṃ yo viniyuṅkte sa eva śivasya kṛpāprasādayorbhājanaṃ bhavati | sa eva cakṣuṣmān bhūtvā sādhuṣu pāpiṣvapi śivameva paśyan sarvatra samabhāvanayaiva vyavaharan śivayogī bhavati | no cet saḥ sarvatra vidyamānasya śivasya darśanā'lābhena andha eva bhavet | ayamāśayaḥ śvetāśvataraśrutau samyagāviṣkriyate | agniryatrābhimathyate vāyuryatrādhiruhyate | somo yatrātiricyate tatra sañjāyate manaḥ || iti | atrābhihitamagnimathanameva jñānayoga ucyate | vāyvadhirohaṇameva karmayoga abhidhīyate | anena jñānakriyāsamanvayamārgeṇa prāpyaṃ somātirecanaṃ nāma jīvaśiva-saṃyoga eva | śivasya sānnidhyaṃ bhāvayitvā tatsaṃyogāya prāṇādivāyuṃ nirudhya suṣumnāmārgeṇa yaḥ prayāti so'vaśyaṃ umāśaktiviśiṣṭena parameśvareṇa saṃyujyata eva | tadānīṃ tadīyaṃ manaḥ mānavīṃ prakṛtiṃ vihāya daivīṃ prakṛtimāpnoti | etādṛśīṃ sthitimadhigatavāneva puruṣaḥ cakṣuṣmān bhūtvā sarvatra śivameva paśyati | anye andhenaiva nīyamānā andhā iva vyarthaṃ jīvantītyarthaḥ || 27 || samaṃ paśyan hi sarvatra samavasthitamīśvaram | na hinastyātmanātmānaṃ tato yāti parāṃ gatim || 28 || etadātmatattvaṃ ye na paśyanti te ātmaghātakā eva bhaveyurityāha | sarvatra prāṇijāteṣu samaṃ samatayā samavasthitamīśvarametatkṣetraniyantāra- भवति | प्. २८७)
303 SK ततः एवमात्मना आत्मनोऽनाशनेन आत्मदर्शनेन सः परां गतिं परमपदं मोक्षं याति प्राप्नोति | आत्मदर्शिनो हि मोक्षः करस्थ एव | यः देहेन्द्रियादिभिर्व्यवहरन्नप्यात्मानमेव न पश्यति तस्य आत्मनाशो नियत एव भवेत् | यः आत्मानं पश्यति सः स्वान्तर्गतमीश्वरमपि पश्यति | आत्मा परमात्मा च चिद्रूपत्वात्परस्परमेकजातीयौ वर्तेते | तयोरंशांशिभाव- vyavahriyate | saḥ tajjātīyasyaiya paramātmano divyadarśanena upāsanena ca aparimitādbhutaśaktimān bhavati | saḥ na kadāpi vinaśyati | atraiva ānandamayo bhūtvā nityasukhamanubhavan tadeva sukhaṃ śāśvatikatayā dehatyāgāda- वर्धिष्णुभिः साधनीयम् || २८ || प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः | यः पश्यति तथात्मानमकर्तारं च पश्यति || २९ || आत्मनोऽकर्तृत्वमुपदिशति | त्रिगुणद्रव्येणैव सर्वशः सर्वप्रकारेणापि क्रियमाणानि कर्माणि | प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः इत्यादि बहुधोक्तमेव | एवं यः पश्यति सः आत्मानमकर्तरमेव पश्यति | नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् इत्याद्यपि बहुधोक्तम् | देहस्थः परमेश्वरः स्वीयैरिंद्रियादिभिः सर्वान् व्यवहारान् निर्वाहयन् निर्लिप्ततया विराजते | प्रकृतिपरिणामभूतोऽयं देहः परमात्मसंबद्ध एव | अतो देहेन निर्वर्त्यमानानि सर्वाण्यपि कर्माणि परमात्मनैव निरुह्यानीति विवेकी पश्यति | दानादानादिकः सर्वोऽपि दैनंदिनो व्यवहारः परमात्मकर्तृक एवेति भावयन् तत्त्वज्ञानी स्वमात्मानमकर्तारं विजानाति | परमात्मसान्निध्येन प्रकृतिगुणाः जडा अपि चैतन्यवंत इव सर्वं व्यवहारं निर्वहंति | अतो विवेकी सर्वेष्वपि व्यवहारेषु स्वमकर्तारं केवलनिमित्तमात्रं भावयति | भगवत्सान्निध्येन प्रकृतिकर्तृकं सर्वव्यवहारनिर्वहणरूपं यज्ज्ञानं यैरनुभूयते तेषु स्वकर्तृत्वभावना सहजतया नोदेत्येव | एतद्भावनारहितत्वादेव मानवाः प्. २८८)
304 SK अहङ्कारममकाराभ्यां विलसन्तः परमात्मनो भक्तानुग्रहलीलामेव विस्मृतवन्तः | अत एव बहवो जनाः स्त्रियः पुरुषाश्च आत्मज्ञानशुन्याः प्रकृतिवशङ्गता भयशोकमोहग्रस्ता जीवंति | परमात्मापि सर्वं जगद्व्यापारं प्रकृत्या अनायासेनैव कारयन् स्वमप्यकर्तारं भावयन् स्वयमात्मारामः आनन्दमयो विराजते | तथैव तदंशभूतो जीवात्मा किमर्थं सर्वस्य व्यवहारस्यात्मानमेव कर्तारं भावयेदित्ययमंशः श्रद्धया परिशीलनीयः | अन्येन क्रियमाणं सर्वं कार्यं स्वीयमिति भावयन् पुरुषः कथं वा मिथ्याचारी न भवेत् ? तादृक् स्तेनः कथं वा आत्मश्रेयः साधयेत् | तथा च सर्वेषां श्रेयस्करमात्मज्ञानमवश्यम- kevalamarjunaṃ paraṃtu sarvānapi sādhakān upadiśati || 29 || yadā bhūtapṛthagbhāvamekasthamanupaśyati | tata eva ca vistāraṃ brahma saṃpadyate tadā || 30 ||
305 SK यदा यस्मिन्काले भूतपृथग्भावं भूतानां प्राणिनां पृथग्भावं पृथक्त्वं एकस्थं एकस्मिन्नेवात्मनि वर्तमानं अनुपश्यत्यनुभवति अविभक्तं च भूतेषु विभक्तमिव च स्थितम् इत्यत्रोक्तं तत्त्वं यदा अनुभवति साधकस्तदा तस्मिन् काले तत एव कारणात् विस्तारं सर्वव्यापकं ब्रह्म अखण्डलिङ्गात्मकः परशिवः संपद्यते भवतीत्यर्थः | यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति इति प्रागेव सर्वस्य चराचरात्मकप्रपञ्चस्य लिङ्गरूपिणि परमात्मन्येव वर्तमानत्वं भगवतैवोपदिष्टम् | तादृशमनुभवं योऽधिगच्छति सः सर्वव्यापकेऽखण्डलिङ्गे समरसतया विलीयते | यस्य चर्मवदाकाश एव वेष्टनं भवेत् तस्य व्याप्तिरनंताऽपरिमिता च भवति | एतादृगखण्डप्रकाशविलयनेन मानवो ह्यखण्डशक्तिमानात्म-श्रीसंपन्नश्च भवति | इदमेवात्मैश्वर्यमवश्यमधिगंतव्यं मानवैर्ज्ञानक्रियासमन्वयेन मार्गेण | यस्य परमात्मैव प्रसन्नो भवेत् तस्य न कुत्रापि दारिद्र्यदौर्बल्ययोः परिचयः संभवेत् | अयमाशय एवमुपवर्ण्यते शरणगीतायाम् | त्वयि प्रसन्ने सति काष्ठमेतदुज्जृंभते पल्लवितस्वरूपम् | प्. २८९) वशापि वाहाऽचिरमेव सूते किशोरमित्येव तु सिद्धमेतत् | तवाप्रसादाद्भवितामृतं विषं विषं प्रसादाभविताऽमृतं नु | त्वयिं प्रसन्ने सकलाः पुमर्थाः समापतेयुर्गुरुसङ्गमार्य | इति | एवमनेन परमात्मदर्शनेन मानवजीवनमेव न केवलममृतमयमेव परन्तु नित्यसुन्दरमपि भूत्वा सफलीभवेत् || ३० || अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः | शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते || ३१ ||
306 SK हे कौन्तेयः अव्ययो व्ययरहितः अयमपि परमात्मा शरीरस्थोऽपि सर्वप्राणि- tiṣṭhati ityucyate kila | svataḥ anāditvāt utpattirahitatvāt sattvarajastamorahitatvāt na karoti na kiñcidapi karma karoti | sarvamapi karma triguṇairnirvartyamānameva kāryajātamapi triguṇātmakameva vartate | evaṃ kāryakāraṇayorubhayorapi triguṇātmakatvāt tādṛgguṇarahitasya paramātmanaḥ kartṛtvaṃ na saṃbhatyeva | ata eva bhagavān spaṣṭamupadiśati triguṇā prakṛtireva hi sarvaṃ karoti iti | evaṃ śarīrastho'pi paramātmā yadi yatkiñcinna karoti cet saḥ na kadāpi lipyate tādṛśakarmaphalaiḥ sakto na bhavatyeva | yaḥ karma karoti sa eva karmaphalairlipyate | nirliptasyātmārāmasya parameśvarasya karmācaraṇakarmaphalasaṃbandhayorabhāvāt nirvikāratvaṃ svābhāvikam || 31 || yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate | sarvatrāvasthito dehe tathātmā nopalipyate || 32 || deha eva vidyamānasyāpi paramātmanaḥ tadīyaprakṛtikriyamāṇakarmaphala- यथा सर्वगतं सर्वत्र विद्यमानमप्याकाशं सौक्ष्म्यात् अतिदुर्विज्ञेयसूक्ष्म-स्वभावात् नोपलिप्यते तत्तद्वस्तुभिर्न संपृक्तं भवति तथैव देहे सर्वत्र सर्वदेहेष्वपि अवस्थित आत्मापि परमात्मापि अतिसूक्ष्मत्वादेव नोपलिप्यते तादृशदेहनिबन्धनकर्मादिभिर्न प्. २९०) संपृक्तो भवति | परमात्मा यथा कर्मणा तत्फलेन वा नोपलिप्यते तथा तदंशभूतो जीवोऽपि सहजतया कर्मफलाभ्यां नोपलिप्यते इत्याशय- svasya paramātmanaśca paricayābhāvāt karmaṇyabhipravṛttaḥ phale sajjati | svaparajñānāt mānavaḥ anāsaktilābhaṃ parigṛhṇāti | etādṛśajñāna- सङ्गादेवैतादृशं ज्ञानमुदेति साधकेषु | अत एव मानवैः सर्वेरपि आसुप्तेरामृतेः कालं सत्सङ्गे स्थित्वा वेदान्तविचारः करणीयः || यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः | क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशय्ति भारत || ३३ ||
307 SK हे भारत अर्जुन एक एव सन्नपि रविः सूर्यः कृत्स्नं समस्तमिमं लोकं प्रकाशयति स्वतेजसा व्याप्य तिष्ठति | तथैव क्षेत्री क्षेत्रज्ञोऽयं परमेश्वरः कृत्स्नमिदं क्षेत्रं शरीरं प्रकाशयति स्वचैतन्यशक्त्या व्याप्य तिष्ठति | तस्यैव भासा शरीरमिदं विभाति | अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः इति हि श्रूयते | स विश्वकृद्विश्ववित् निष्कलं निष्क्रियं शांतं निरवद्यं निरञ्जनम् इति च परमात्मनि मिथो विरुद्धधर्माणां सान्निध्यं श्रूयते | तथैव सः प्रधानक्षेत्रज्ञ- etādṛśā-dbhutaśaktimataḥ svatantrasya paripūrṇasya sarvamapi saṃpadyate || 36 || kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā | bhūtaprakṛtimokṣaṃ ca ye viduryānti te param || 34 || evaṃ kṣetrakṣetrajñasvarūpanirūpaṇamupasaṃharati | tayostu kṣetrasya śarīrasya kṣetrajñasya paramātmanaśca yadantaraṃ parasparavailakṣaṇyaṃ tat jñānacakṣuṣā jñānākhyena cakṣuṣā ye jīvā vidurdṛṣṭavantaḥ evameva bhūtaprakṛtimokṣaṃ ca bhūtānāṃ prāṇināṃ prakṛteḥ triguṇamayasaṃsāra-bandhāt vimocanaprakāraṃ ca ye viduḥ | kāraṇaṃ p. 291)
308 SK गुणसङ्गोऽस्य सदसद्योनिजन्मसु इत्यादावयमर्थ उपदिष्टः | ते परं महालिङ्गाख्यं परशिवब्रह्म यान्ति | तेन एकरूपा भवन्ति | देहे परमात्मा षडिन्द्रियैर्यं व्यवहारं लोककल्याणार्थमनासक्त एव अनायासेन निर्वहन्विराजते तं यदि मानवो जानाति तदा तस्य प्रकृतिर्व्यवस्थिता सती तं नित्यसुखिनं करोति | अतः सर्वेषामपि व्यावहारिकाणां क्षेत्रक्षेत्रज्ञज्ञानं तत्कल्याणदृष्ट्या अनिवार्यतयापेक्ष्यते | इदमेव क्षेत्रक्षेत्रज्ञज्ञानं वीरशैवसंप्रदाये षट्स्थलोपासनमार्ग इति व्यवह्रियते | अनेन मार्गेण जीवपरमौ एकैकस्मिन्निन्द्रिये वर्तमानौ तत्तदिन्द्रियव्यवहारान् निर्लिप्ततया निर्वहन्तौ वर्तेते | जीवः तत्तदिन्द्रियसुखदुःखानि तदानीमेव स्वप्रभवे परमेश्वराय भक्त्या समर्पयति | परमेश्वरोऽपि तानि प्रेम्णा स्वीकृत्य प्रसादरूपतया तस्मा एव अनुगृह्णाति | प्रभुर्न किञ्चिदपि करोति भुनक्ति चेति प्रागुक्तमेव | तथापि भक्त्युपहृतमश्नामीति तेनैवोपदिष्टत्वात् जीवः भक्त्या यद्ददाति तदवश्यं प्रभुः स्वीकृत्य तदेव तस्मै प्रसादरूपतया प्रत्यर्पयति | इयमेव षट्स्थललीला क्षेत्रक्षेत्रज्ञविज्ञानमित्यत्रोपदिश्यते | एतत्परिज्ञानादेव मानवः प्रसादभोगी संपद्यते | एवमेव सर्वैरपि साधकैः प्रसादजीविभिर्भाव्यमिति भगवानाशास्ते | अनेन प्रसादजीवनेन भूमिरेव स्वर्गायते विषमप्यमृतायते दुःखमपि सुखायते | इदमेवामृतजीवनं शक्तिविकास इत्यनुभविभिः कथ्यते | षट्स्थलज्ँआनमन्यत्र विस्तरशो निरूपितं श्रद्धालु- caturdaśādhyāyaḥ yāvatsañjāyate kiṃcitsattvaṃ sthāvarajaṅgamam | kṣetrakṣetrajñasaṃyogāt tadviddhi bharatarṣabhaḥ | iti pūrvādhyāye kṣetrakṣetrajñasaṃyogarūpaḥ māyino maheśvarasya p. 292) māyāśaktyā saha saṃparka eva sarvotpatterheturityuktam | evameva kāraṇaṃ guṇasaṅko'sya sadasadyonijanmasu iti guṇasaṃbandha eva bandhaheturiti coktam | evaṃ saṅgraheṇoktasyārthasya vivaraṇamasminnadhyāye kriyate | śrībhagavānuvāca -
309 SK परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् | यज्ज्ञात्वा मुनयस्सर्वे परां सिद्धिमितो गताः || १ || ज्ञानानामुत्तममेतत्परं ज्ञानमवश्यज्ञातव्यं परमरहस्यज्ञान- pravakṣyāmi yajjñānaṃ jñātvā vijñāya sarve munayo maharṣayassarve'pi itaḥ etaddehabandhāt parāṃ siddhiṃ paramamuktirūpāṃ siddhiṃ gatāḥ prāptāḥ || 1 || idaṃ jñānamupāśritya mama sādharmyamāgatāḥ | sarge'pi nopajāyante pralaye na vyathanti ca || 2 || parāṃ siddhimityasyaiva vivaraṇamāha | idamuttamaṃ jñānamupāśritya saṃpādya te munayo mama mayā sākaṃ sādharmyaṃ samānadharmatāṃ nirañjanaḥ paramaṃ sāmyamupaiti brahmavit brahmaiva bhavati ityādiśruteḥ samānaguṇayogaṃ samāgatāḥ prāptāḥ | dehe virājamānasya iṣṭaprāṇa- प्रसादमुपभुज्य भावात्मकेन परवस्तुना च संयुज्य स्वीयसच्चिदानन्द- nāmaitādṛksvarūpānubhavādhigama eva | purā aneke munaya etādṛśīṃ daśāṃ prāptā āsan | te tu dehasthe'mūrte bhāvaliṅge sāmarasyamadhi- नित्यजीविन इति परिकीर्तिताः | अत एव ते सर्गेऽपि जगत्सृष्टिकालेऽपि नोपजायन्ते पुनर्जन्म न प्राप्नुवन्ति | पुनर्जन्मनिवृत्त्या तेऽमृतानुभविनो न पुनः स्त्रीयोनिं प्रविशन्ति | प्रलये प्रलयकालेऽपि न व्यथन्ति च ते न नश्यन्ति च | ते हि परशिवैक्य- प्. २९३)
310 SK मनुभवन्ति प्रलयकालेऽपि न विनाशं प्राप्नुवन्ति | तथा च जन्ममरण- ceda-vedīdatha satyamasti na cedihāvedīnmahatī vinaṣṭiḥ iti śruterupadeśa'nvarthatayā śobhate | iha yadi svadeha eva sādhakaḥ jñānakriyāsamanvayamārgeṇa śivaikyamadhigamya śivānandamanubhavet tadā saḥ nityameva tādṛśamānandamanubhavati | svadehamaraṇiṃ kṛtvā praṇavaṃ cottarāraṇim | dhyānanirmathanābhyāsāddevaṃ paśyennigūḍhavat | tileṣu tailaṃ dadhinīva sarpirāpaḥ srotassvaraṇīṣu cāgniḥ | evamātmā'tmani gṛhyate'sau satyenainaṃ tapasā yo'nupaśyati | ityevaṃ śrutau paramātmadarśanaṃ sādhakaḥ svadeha evādhigacchediti spaṣṭamupadiśyate | ata eva ātmadarśanamatisūkṣmaṃ gaṃbhīramavyaktamityabhidhīyate'nubhavibhiḥ | dehasahakāreṇaivedamātmadarśanaṃ sādhanīyam | śravaṇamanananididhyāsānāṃ deha eva pradhānamavalambanam | vyavahārikā janā svadehe tatrāpi paramātmāvāsabhūte hṛdaye mahatā viśvāsena ihaparasaukhyayorubhayorapi dattadṛṣṭayo bhaveyuriti bhagavata āśayaḥ || 2 || mama yonirmahadbrahma tasmingarbhaṃ dadhāmyaham | saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata || 3 || he bhārata arjuna mama madīyaṃ yat mahat vyāpakaṃ brahma vistṛtaṃ ca triguṇa-dravyamasti tadeva yoniḥ sarvajagadutpattikāraṇatvāt sarvasyāpi mūlamucyate | tasyāṃ yonau ahaṃ garbhaṃ caitanyaśaktidhāraṇarūpaṃ garbhaṃ dadhāmi | tatastasmādeva bhūtānāṃ sarvaprāṇināmapi saṃbhava utpattirbhavati | acetana-prakṛtau caitanyaśaktisaṃyogādeva sakalajagadutpattirbhavatītyarthaḥ | ayameva kṣetrakṣetrajñasaṃyoga ityucyate anubhavibhiḥ | ata eva sarvameva jagat cetanā-cetanamiśramityucyate | tathaiva deho'pi cetanācetanamiśra eva vartate | acetanaṃ śarīramāśrityaiva cetano jīvaḥ svaśaktivikāsāya svīyabaṃdhuṃ paramātmā-namupāste | paramātmaiva śarīrī ca saṃpadyate | tadīyā acetanā māyāśaktiḥ śarīraṃ bhavati cetanarūpaḥ p. 294)
311 SK परमात्मैव इच्छाज्ञानक्रियाशक्तिसङ्कोचेन जीवो भवति | तथा च शिवांशो जीवः शिवध्याननैरंतर्येण सर्वतोमुखं शक्तिविकासमधिगच्छति | अनेन शक्तिविकासेन सः शिवैक्यसुखमिहैवानुभवन् निर्लिप्ततया व्यवहरन् लोक- lokaṃ śivadṛṣṭyaiva paśyan sarvatra śivameva kurvan virājate | evameva saḥ cetanācetanātmakamidaṃ śarīraṃ jagacca īśāvāsyamiti bhāvayan tāmeva bhāvanāmitareṣvapyutpādayati || 3 || sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ | tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā || 4 || he kaunteya arjuna sarvayoniṣu devamanuṣyādisarvavidhayoniṣvapi yāḥ mūrtayo dehasaṃsthānarūpā mūrtayaḥ saṃbhavaṃti utpadyaṃte tāsāṃ mūrtīnāmapi mahat vyāpakameva brahma triguṇadravyameva yoniḥ kāraṇaṃ saṃpadyate | ahaṃ tu tatra bījapradaḥ caitanyaśaktirūpabījadātā pitā janako bhavāmi | sarveṣāmapi mūrtarūpāṇāṃ prāṇināṃ śarīrabhāvamāpannā prakṛtyākhyā māyā- एव पितृस्थानीयो वर्तते | अत एव जगतः पितरौ वंदे पार्वतीपरमेश्वरौ इति महाकविकालिदासेन तयोः मातापितृत्वेन निर्देशः सम्यक् शोभते || ४ || सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः | निबध्नन्ति महाबाहो देहे देहिनमव्ययम् || ५ || जीवानामेवमुत्पत्तिक्रममुक्त्वा अथ बन्धक्रममाह | हे महाबाहो अर्जुन प्रकृतिसंभवाः त्रिगुणद्रव्यादुत्पन्नाः सत्त्वं रजः तमः इति एते गुणा एव अव्ययं स्वत उत्पत्त्यादिरहितं देहिनं जीवं देहेऽस्मिन् शरीरे निबध्नन्ति | त्रिगुणद्रव्यमेव जीवस्य शरीरबन्धहेतुरित्यर्थः || ५ || तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् | सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ || ६ || प्. २९५)
312 SK तत्र त्रिगुणमध्ये सत्त्वं सत्त्वगुणो निर्मलत्वात् स्वच्छत्वात् अनामयं निरुपद्रव्यं प्रकाशकं प्रकाशहेतुर्भवति | आत्मस्वरूपप्रकाशकं संपद्यत इत्यर्थः | हे अनघ अर्जुन तत्सत्त्वं सुखसङ्गेन सुखे सङ्गोत्- saṅgotpādanena ca badhnāti sukhāsaktimutpādya taddvārā jīvaṃ cetanaṃ baṃdhayati | sukhamapi mokṣapratibaṃdhakatvāt baṃdha eveti bhāvyate jñānibhiḥ | tathā ca sattvaṃ ātmajñānasādhakamapi tādṛśe jñāne jīvasyāsaktyutpādanadvārā bandhakameva bhavet || 6 || rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam | tannibadhnāti kaunteya karmasaṅgena dehinam || 7 || rajaḥ rajoguṇo'pi rāgātmakaṃ anurāgakāryasya abhimānasya vardhakatvāt tādṛśameva bandhakameva | tacca tṛṣṇāsaṅgasamudbhavaṃ tṛṣṇāyā viṣayabhogābhilāṣāyā yassaṅgastena samutpannaṃ viddhi | ata eva tadrajaḥ he kaunteya dehinaṃ jīvaṃ karmasaṅgena karmasu saṃbandhotpādanena sadā sarvakāleṣvapi arthakāmādivyāpārotpādanena badhnāti baṃdhamutpādayati | tathā ca rajoguṇaḥ viṣayabhogābhilāṣamutpādya tatraiva jīvasyāsaktimabhi-vardhya arthakāmārjana eva taṃ viśeṣataḥ saṃsaktaṃ karoti || 7 || tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām | pramādālasyanidrābhistannibadhnāti bhārata || 8 || tamastu ajñānajamajñānājjāyamānaṃ sarvadehināṃ sarvaprāṇināṃ mohanaṃ mohahetuṃ viddhi | he bhārata arjuna tat tamaḥ pramādālasyanidrābhiḥ | pramādo'navadhānatā | ālasyaṃ nidrā ca prasiddhe | tairjīvaṃ badhnāti baddhaṃ karoti | tamoguṇaḥ jīveṣu vyāmohadṛṣṭimutpādya nidrālasyapramā- प्. २९६) सत्त्वं सुखे संजयति रजः कर्मणि भारत | ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत || ९ || तथा च हे भारत अर्जुन सत्त्वं सत्त्वगुणः जीवस्य सुखेन सञ्जयति सङ्ग- jñānamāvṛtya nāśayitvā pramāde anavadhānatāyāṃ jīvasya sañjayati saṅgamutpādayati || 9 ||
313 SK रजस्तमश्चाभिभूय सत्त्वं भवति भारत | रजस्सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा || १० || हे भारत अर्जुन सत्त्वं स्वकाले रजस्तमश्च रजोगुणं तमोगुणं च अभिभूय मर्दयित्वा भवति स्वकार्योत्पादनसमर्थं भवति | एवमेव रजः रजोगुणः स्वकाले सत्त्वं तमश्च अभिभूय स्वकार्यं साधयति | तथैव तमोऽपि स्वकाले सत्त्वं रजश्च अभिभूय स्वीयं कार्यं करोति | तथा च उद्भवाभिभवाभ्यामेते गुणाः स्वस्वकार्याणि साधयन्ति | सर्वेष्वप्येते गुणा न्यूनाधिकप्रमाणतो विद्यन्त एव | क्वचिदेकस्य प्राधान्यात् इतरयोर- itarayorguṇayorabhibhūtatvaṃ sarvānubhavasiddham | tathaiva mānaveṣvapi kvacit sattvasya kvacidrajasaḥ kvacittamasaśca prādhānyāt itarayoraprādhānyāt aneka- वैविध्यं संभवति | अत एव जीवाः प्रतिशरीरं भिन्ना विचित्राश्च सन्ति || १० || सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते | ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत || ११ || ननु तत्तद्गुणानामुद्भवस्य किं लिङ्गमिति चेत्तत्राह | अस्मिन् देहे शरीरे सर्वद्वारेषु ज्ञानद्वारभूतेषु सर्वेष्वपीन्द्रियेषु प्रकाशः ज्ञानरूपः प्रकाशो प्. २९७)
314 SK यदा यस्मिन्काले उपजायते तदा सत्त्वं सत्त्वगुणः विवृद्धमिति उद्भूतमिति विद्धि जानीहि | इन्द्रियेषु निर्लिप्ततया निवसतः षट्स्थलात्मकस्य परमात्मनो ज्ञानं गुरूपदेशश्रवणेन यस्य साधकस्य हृदये यदा विलसति तदा तस्मिन् सत्त्वगुणः उद्भूत इति ज्ञेयम् | यदा च इन्द्रियादीनि साधनानि तत्रत्ये- ityavagantavyamityarthaḥ | paramātmaiva sarvāṇīndriyāṇi bhūtvā tatraiva cetanātmakatayā nivasaṃśca vyavaharati | sa eva cakṣuṣī draṣṭā ca vartate | sa eva śrotre śrotā ca vartate | evameva saḥ nāsikā bhūtvā gandhaghrātā ca saṃpadyate | tathaiva saḥ rasanā bhūtvā tatratyo rasayitā ca vartate | evameva saḥ carma bhūtvā tatra sparśasukhabhoktā ca vartate | evaṃ sa eva mano bhūtvā tatra tṛptisukhānubhavitā ca vartate | tathā ca sarvendriyeṣu sahajatayā sthitaḥ paramaśivo yadā yasmin sattvavikāsassañjāyate tadā anubhāvyata ityanubhavibhiḥ kathyate || 11 || lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā | rajasyetāni jāyante vivṛddhe bharatarṣabha || 12 || he bharatarṣabha arjuna rajasi rajoguṇe vivṛddhe sati lobhaḥ dravyaprāptīcchāyāṃ tṛptyabhāvaḥ | ata eva tadarthaṃ pravṛttiḥ karmaṇāmāraṃbhaḥ upakramaḥ aśama indriyādīnāṃ śāntyabhāavaḥ spṛhā uttarottarecchā etāni jāyante | ida sarvaṃ rajoguṇakṛtyamityarthaḥ | arthasaṃpādane'tīvāśā tadarthaṃ satatapravṛtirāraṃbhastatra aśāntiśca yadā yasmin viśeṣata utpadyante tadā tasmin rajoguṇo vikasita iti jñeyam || 12 || aprakāśo'pravṛttiśca pramādo moha eva ca | tamasyetāni jāyante vivṛddhe kurunandana || 13 || he kurunandana arjuna tamasi tamoguṇe vivṛddhe sati viśeṣato vyāptiṃ gate sati aprakāśa avivekaḥ | apravṛtiḥ kartavyeṣvapi kāryeṣu pravṛttyabhāvaḥ p. 298)
315 SK औदासीन्यम् कर्तव्यपराङ्मुखतेत्यर्थः | प्रमादोऽनवधानता | प्रमादं वै मृत्युमहं ब्रवीमि इति सनत्सुजातीये श्रुतम् | जीवतो मरण-सदृशः प्रमादः तमसः कार्य एव | मोह एव च मौढ्यं चेत्येतानि जायन्ते | युक्तायुक्तविवेचनां विनैव कर्मारंभः कर्तव्यपरित्यागः अकर्तव्य- yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt | tadottamavidāṃ lokānamalān pratipadyate || 14 || atha maraṇakāle sattvādiguṇānāṃ kṛtyamāha | yadā yasminkāle sattve sattvaguṇe pravṛddhe sati abhivṛddhe sati dehabhṛt jīvaḥ pralayaṃ maraṇaṃ pañcatvaṃ yāti prāpnoti tadā sa jīvaḥ uttamavidāṃ tattvajñānināmamalān malarahitān puṇyān lokān pratipadyate prāpnoti || 14 || rajasi pralayaṃ gattvā karmasaṅgiṣu jāyate | tathā pralīnastamasi mūḍhayoniṣu jāyate || 15 || rajasi rajoguṇe pravṛddhe sati dehabhṛt pralayaṃ maraṇaṃ gatvā prāpya karma-saṅgiṣu kāmāsaktiyukteṣu lokeṣu jāyate utpadyate | karmiṇo yatra nivasanti tādṛśaṃ karmalokaṃ martyalokaṃ bhūlokaṃ punaḥ prāpnuvaṃti te ye rajo-guṇavikāsakāle mriyante | evameva tamasi tamoguṇe pravṛddhe pralayaṃ gatvā dehabhṛt jīvaḥ mūḍhayoniṣu paśvādiyoniṣu jāyate janma prāpnoti | tamaḥpracure kāle yo dehaṃ tyajati saḥ paśvādīnāṃ janma prāpnoti || 15 || karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam | rajasastu phalaṃ duḥkhamajñānaṃ tapasaḥ palam || 16 || uktamarthaṃ saṃgṛhyāya | sukṛtasya puṇyakarmaṇaḥ nirmalaṃ pariśuddhaṃ sāttvikaṃ sattvaguṇasaṃbandhiphalamāhurjñāninaḥ | evameva rajasaḥ rajoguṇasya tu duḥkhaṃ p. 299) phalamāhuḥ | tathaiva tamoguṇasya ajñānameva tattvā'nabhijñānameva phalamāhuḥ || 16 || sattvātsañjāyate jñānaṃ rajaso lobha eva ca | pramādamohau tamaso bhavato'jñānameva ca || 17 ||
316 SK सत्त्वगुणात् ज्ञानं सञ्जायते ज्ञानस्य सत्त्वगुणकार्यत्वात् | एवमेव रजसो रजोगुणात् लोभः दुराशा जायते | रजोगुणहेतुकत्वं दुराशायाः विश्रुतमेव | तथैव तमसः तमोगुणात् प्रमादमोहौ प्रमादोऽनवधानता मोहोमौढ्यम् तथा अज्ञानमविवेकश्च जायते || १७ || ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः | जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः || १८ || सत्वस्थाः सत्वगुणनिष्ठा ऊर्ध्वं ऊर्ध्वलोकं गच्छन्ति | राजसा रजोगुणनिष्ठा मध्ये लोके तिष्ठन्ति | तामसाः तमोनिष्ठास्तु जघन्यगुणवृत्तिस्था जघन्यो नीचः यो गुणः तमोगुणस्तद्वृत्तिस्थास्तत्कार्यपराः सन्तः अधः अधोलोकं गच्छन्ति प्राप्नुवन्ति || १८ || सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः | निबधन्ति महाबाहो देहे देहिनमव्ययम् | इत्युक्तार्थ एव एतावता ग्रन्थेन विवृतः | अथ गुणातीतावस्था सर्वोत्तमरूपा वर्ण्यते - नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति | गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति || १९ || द्रष्टा जीवः यदा यस्मिन् काले गुणेभ्यस्त्रिगुणेभ्योऽन्यं कर्तारं नानुपश्यति | गुणा एव सर्वत्र सर्वकर्मणां कर्तार इति पश्यतीत्यर्थः | एवमात्मानं गुणेभ्यस्त्रिगुणेभ्यः परं भिन्नमुत्तमं च वेत्ति सः मद्भावं परशिवब्रह्मभावरूपमुक्तिमेव अधिगच्छति प्राप्नोति | आत्मनः परमात्मनस्तदशंस्य स्वस्य च अकर्तृत्वं यो जानाति सः मुक्तो भवति | आत्मन आसुप्तेरामृतेः कालं प्रकृतेर्गुणाः सर्वत्र व्यापृताः सर्वान् व्यवहारान् निर्वहन्ति | परमात्मन एव सान्निध्येन प्. ३००)
317 SK अयमिन्द्रियव्यवहारः प्राकृतिकतया निरुह्यते | परमात्मस्समीपे तदीयो बन्धुस्तदंशो जीवोऽपि वर्तत एव | तयोः सान्निध्यमेव कार्यनिर्वाहोपयोगि भवेदिति यो जानाति तस्मिन् कर्तृत्वाद्यहङ्कारो न प्रवर्तेत | कर्तृत्वबुद्धिं विना यः इन्द्रियव्यवहारयोः साक्षी भवेत् तस्य जन्मान्तरावाप्तेः बीजमेव विहन्येत | सः जीवितसमये दग्धपटवत् अनासक्त्यैव वर्तमानः सर्वमपि व्यवहारं लोककल्याणदृष्टया निर्वहति | स एव अमृतः आनन्दमय इति च व्यवह्रियते || १९ || गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् | जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते || २० || मुक्तस्यामृतस्थितिमेवात्र विवृणोति | देही जीवात्मा देहसमुद्भवान् देहोत्पत्ति-बीजस्थानापन्नात् एतात् त्रीन् गुणान् सत्त्वरजस्तमांसि आतीत्य अतिक्रम्य जन्म-मृत्युजरादुःखैः जन्म जननं मृत्युर्मरणं जरा दुःखं च एभिर्विमुक्तस्सन् अमृतं नित्यानन्दमनुभवति | अतश्च जीवस्य त्रिगुणाति क्रमणाभावे मुक्तिरपि न स्यादिति भावः | यदा जीवस्त्रिगुणैः पाशरूपैर्बद्धस्तेष्वेव संसज्य प्रवर्तते तदा सः संसारीति व्यवह्रियते | यदा सः त्रिगुणकार्यं ज्ञात्वा आत्मानमकर्तारं मनुते तदा सः त्रिगुणातीतो भवति | गुणानां वशवर्तीव दृश्यमानोऽपि सः तदसंस्पृष्ट एव स्वतन्त्रस्तन्मूलभूते स्वांशिनि शिवे समरसतया विलीयते || २० || कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो | किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते || २१ || एवमुक्ता गुणातीतावस्था प्राप्तेति करिलिङ्गैर्ज्ञातुं शक्यत इति ज्ञातुमर्जुन उवाच | हे प्रभो सर्वेश्वर श्रीकृष्ण जीवः कैर्लिङ्गैः चिह्नैरेतान् सत्वादीन् त्रीन् गुणान् अतिवर्तते अतिक्रम्य वर्तते ? तादृशश्च किमाचारः कीदृशाचारयुक्तो भवेत् ? कथं च केनोपायेन च एतात् त्रीन् गुणान् अतिक्रम्य वर्तेत सः ? त्रिगुणातीतस्य चिह्नं किम् ? तस्य व्यापारः कीदृशः ? तदतिक्रमणो पायश्च कः ? एतान् प्रश्नान् पृच्छत्यर्जुनः || २१ || प्. ३०१)
318 SK प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव | न द्वेष्टि संप्रवृत्तानि न निवृत्तानि कांक्षति || २२ || हे पाण्डव अर्जुन प्रकाशं च सत्त्वकार्यभूतं प्रकाशं रजःकार्य- saṃpravṛttāni prācīnakarmavaśāt prāptāni na dveṣṭi na teṣu dveṣaṃ karoti tattannibandhanatayā kleśādikaṃ na prāpnoti tathaiva tannivṛttyarthaṃ na yatate ca | ata eva nivṛttānyapi tāni sukhādīni na kāṃkṣate nābhilaṣati | yat prāptaṃ tat tūṣṇīmanubhavatītyarthaḥ || 22 || udāsīnavadāsīno guṇairyo na vicālyate | guṇā vartanta ityeva yo'vatiṣṭhati neṅgate || 23 || satvādikāryeṣu pravṛtteṣvapi yaḥ udāsīnavat teṣu svayamasaktavadeva āsīno vartamānassan tairna vicālyate na cāṅcalyaṃ prāpnoti | kintu sattvādayaste svasvabhāve vartanta ityeva manyamāno'vatiṣṭhati neṅgate na calati ca saḥ guṇātīta ityucyate | indriyāṇi indriyārtheṣu vartanta iti matvā yasteṣveva sākṣirūpatayā nirvikāratayā ca tiṣṭhati saḥ triguṇātīta ucyate || 23 || samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ | tulyapriyāpriyo dhīrastulyānindātmasaṃstutiḥ || 24 || mānāpamānayostulyastulyo mitrāripakṣayoḥ | sarvāraṃbhaparityāgī guṇātītaḥ sa ucyate || 25 || same sukhaduḥkhe yasya saḥ | svasthaḥ svasmin ātmani sthitaḥ prasannaḥ samalo- कपालचूर्णादि अश्म पाषाणः काञ्चनं सुवर्णं इदं सर्वमपि समं यस्य तादृशः समदर्शन इत्यर्थः | तुल्यप्रियाप्रियः प्रियमिष्टं अप्रिय- tulyanindā-tmasaṃstutiḥ nindā ātmanindā ātmasaṃstutiḥ svapraśaṃsanaṃ etādṛgu-bhayamapi yasya tulyaṃ tādṛśaḥ | mānāpamānayoḥ p. 302) mānaṃ saṃmānanaṃ apamānaṃ prasiddhaṃ tayostulyaḥ samatābhāvanāvān | evaṃ mitrāripakṣayoḥ mitrapakṣe śatrupakṣe ca tulyaḥ niṣpakṣapātaḥ | sarvāraṃbhaparityāgī sarve ca āraṃbhā aihikāmuṣmikaphalavyāpārāstān parityaktān ya etādṛśaḥ saḥ guṇātīta ucyate || 24-25 ||
319 SK मां च योऽव्यभिचारेण भक्तियोगेन सेवते | स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते || २६ || एवं गुणातीतस्य चिह्नान् तद्व्यापारांश्चोक्त्वाऽथ सः कथं चैतांस्त्रीन् अतिवर्तत इत्यस्योत्तरमाह मां परमेश्वरं सर्वकारणभूतं योऽव्यभि- sevate upāste saḥ etān trīnapi samatītya atikramya brahmabhūyāya paraśiva- तदतिक्रमो-पाय इत्यर्थः || २६ || ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च | शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च || २७ || कथं भक्त्या गुणातिक्रमः सुगमो भवेदित्यत्राह | हि यस्मात्कारणात् अहमेव ब्रह्मणश्चतुर्मुखस्य प्रतिष्ठा पराकाष्ठाभूतोऽस्मि | अहमेवा-मूर्तं परशिवब्रह्म यतः परशिवब्रह्मास्मीत्यर्थः | एवमव्ययस्य नाशरहितस्यामृतस्यऽमर्त्यभावस्य यतोऽहमेव प्रतिष्ठा आधारभूतो- āśrayo'smi | aikāntikasya duḥkhāmiśritasya sukhasya ca yato'hameva pratiṣṭhā ato māṃ yo'vyabhicāreṇa bhaktiyogena sevate sa etān trīnatikramya brahmabhā- मानुषीं तनुमाश्रितम् | परं भावमजानन्तो ममाव्ययमनुत्तमम् | इत्यादिना स्वतत्त्वमसकृत् पूर्वमेव प्रतिपादितम् | एवमेव न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः | माययाऽपहृतज्ञाना आसुरं भाव- p. 303) baddhānāṃ duḥkhāvasthopavarṇitā | tathā ca vyāvahārikāḥ jīvāḥ sveṣāṃ guṇānāṃ ca sambandhaṃ samyak jñātvā taiḥ sahajatayā kriyamāṇeṣu kāryeṣu tādātmyabuddhiṃ parityajya svīyapitṛsthānīye parameśvare saṃyujya śivānandamanubhavanta eva ahaṅkāramamakārayostatprayuktayoḥ rāgadveṣayoḥ avakāśaṃ na parikalpayeyuriti bhagavān nirīkṣate || 27 || pañcadaśādhyāyaḥ evaṃ saṃsāriṇo jīvasya paramātmabhaktyā mokṣaprāptiḥ atītādhyāyānte pratipāditā | sa evārthaḥ asminnadhyāye prapañcyate | tatra saṃsāriṇaḥ svarūpaṃ pratipādayituṃ prathamaṃ saṃsārasvarūpamāha - ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam | chandāsi yasya parṇāni yastaṃ veda sa vedavit || 1 ||
320 SK ऊर्ध्वमूलम् | संसारस्य जननमरणरूपस्य मूलं हि अज्ञानमयो मलपाशः | स च भवबीजभूतः | संसारमूलकारणत्वात् संसार- śākhāścordhvabhāge vartante | asya tu saṃsāravṛkṣasya etat dvayamapi viparyastaṃ vidyata ityetadevātra āścaryam | pāśamayājñānarūpaṃ bhavabījaṃ piṇḍāṇḍamaye dehe ūrdhvaṃ śirasi saṃlagnam | indriyādayastu śākhāsthānīyāḥ adhaḥsthāḥ adho vyāpya vartante | tādṛśamimamaśvatthaṃ saṃsāravṛkṣamavyayaṃ nityamanādisiddhamāhuḥ jñāninaḥ | yasyāsya saṃsāravṛkṣasya chandāṃsi ṛgādivedā eva parṇāni patrāṇi | yathā vṛkṣaḥ parṇānāśritya taiḥ rakṣitastiṣṭhati tathā dharmādharmamūlako'yaṃ saṃsāraḥ vedādhīnastiṣṭhatītyarthaḥ | yastadetādṛk saṃsāratattvaṃ p. 304) veda sa eva vedarahasyavit nānyaḥ | asya tu deharūpasya vṛkṣasya aśvattha iti nāma anvarthaṃ vartate | vṛkṣāṇāmaśvatthaḥ śreṣṭhaḥ khalu | paramātma- तस्मिन्नंशे विवेकिभिः निकृष्टभावना न कर्तव्या || १ || अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः | अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके || २ || त्रिगुणाद्रव्यैः प्रकर्षेण वृद्धिं गताः विषयप्रबालाः शब्दादिविषया एव प्रवालाः किसलयाः यासु तादृशाः शाखाः अधश्चोर्ध्वं च नानामुखतया प्रसृतास्तिष्ठन्ति शब्दादिविषयैरतिविस्तृतोऽयं वृक्षः नानादिक्षु प्रसरन् वर्तत इत्यर्थः | अस्य वृक्षस्य कर्मानुबन्धीनि कर्मनिबन्धानानि मूलानि अधश्च अधोलोके मनुष्यलोकेऽपि अनुसन्ततानि सततं व्याप्तानि तिष्ठन्ति || २ || न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा | अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा || ३ || ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः | तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी || ४ ||
321 SK अस्य उक्तसंसारवृक्षस्य रूपमिहास्मिन् लोके तथा उक्तरीत्या नोपलभ्यते संसारिजीवस्य न प्रत्यक्षीभवति | न तावन्मात्रमेव अन्तरवसानमपि नोपलभ्यते आदिर्मूलमपि नोपलभ्यते संप्रतिष्ठा आधारोऽपि नोपलभ्यते | सुविरूढमूलं सुतरां विशेषेण च रूढमूलमेनमश्वत्थं संसारवृक्षमसङ्गशस्त्रेण संसारे स्थित्वाऽपि तत्सङ्गपरित्यागरूपेण दृढेन प्रबलेन शस्त्रेण छित्वा नाशयित्वा ततः पश्चात् तत् परं पदं परमपदाख्यं तत्रैव शिरसि सहस्रारकमलमध्ये विराजमानं भावलिङ्गाख्यं स्थानं परिमार्गितव्यं तत्प्राप्तये समुचित उपायः अन्वेषणीयः | यस्मिन् परमपदे गताः भूयः पुनः न निवर्तन्ते तादृशा- p. 305) parimārgitavyamityatrāha tamevetyādi | yataḥ yasmātparamapuruṣādamūrta- सर्वकारण-भूतं पुरुषं भावलिङ्गाख्यं परमशिवमहं शरणं प्रपद्ये इत्येव तस्मिन् अनन्यभावेन शरणागत्या तच्च भावलिङ्गस्थानं परिमार्गितव्यम् | प्रपद्येत् इति पाठे तु तादृशं परमपुरुषं इष्टप्राण-भावात्मकं महादेवं उक्तसंसारवृक्षच्छेदनपूर्वकमोक्षार्थं प्रपद्येत् शरणं गच्छेत् इत्यर्थः स्वरस एव || ३-४ || निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः | द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् || ५ ||
322 SK निर्मानमोहाः मानो गर्वः मोह अज्ञानं तद्रहिताः | जितसङ्गदोषाः जितः सङ्गो विषयसम्बन्धस्तदधीनो यो दोषो यैस्ते जितसङ्गदोषाः | अध्यात्मनित्याः नित्यं सदा अध्यात्मासक्तचित्ताः देहेन्द्रियसहाकारेणेष्टलिङ्गमष्टविधोपचारैरर्चयन्तस्तदानीमेव हृदयस्थं प्राणलिङ्गमपि ध्यानयोगेन निर्मले मनसि अनुभवन्तः | एवं बहिरन्तश्च परमात्माभियुक्ताः | अत एव विनिवृत्तकामाः संपूर्णतया निवृत्तविषयाभिलाषाः | सुखदुःखसंज्ञैः सुखदुःखलाभालाभजयापजयादिरूपैः द्वन्द्वैर्विमुक्ताः परित्यक्ताः | अत एव अमूढाः विवेकिनः | एतादृशा एव अव्ययं शाश्वतं तत्पदं स्थानं शिवयोगप्राप्यमनामयमृतमयं ब्रह्मस्थानं गच्छन्ति | जगत्येकैकवस्तुदर्शनेनापि तदन्तर्गतस्य सद्रूपस्य परमात्मनः स्फूर्त्या साधकः सुषुम्नामार्गेण ब्रह्मस्थानापन्नं शिरः प्रविश्य तत्रत्ये भावरूपे महालिङ्गे समरसतया व्यवहरति सः न कदापि दुःख- hṛdayadvārā amṛtasthāne śirasi niviṣṭāssantaḥ śivabhāvena yadi vyavahareyustadā saṃpatsa-mṛddhivaibhavamatraivādhikatayā saṃśobheta | tādṛśa eva amṛtānubhavinaḥ p. 306) dehāvasāne'pi tadeva divyāmṛtaṃ śāsvatikatayā anubhaveyuḥ || 5 || na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ | yadgatvā na nivartante taddhāma paramaṃ mama || 6 ||
323 SK तच्च पदममृतस्थानं सूर्यः न भासयते प्रकाशयति | शशाङ्कः चन्द्रो वा न भासयते तथैव पावकः अग्निरपि न प्रकाशयति | तादृशं यत् स्थानं गत्वा पुनस्तस्मान्न निवर्तन्ते प्रत्यागच्छन्ति तत्र परमं धाम मम मदीयमेव | मानवदेहे ब्रह्मस्थानाह्वये शिरसि कोटिसूर्यप्रकाशं दिव्यज्योतिर्यद्भावलिङ्गं विराजते तत् सूर्यचन्द्राग्नीनामपि प्रेरकं प्रकाशकं च वर्तते | न त्रत्र सर्वेषामपि गन्तुं शक्यते | षडिन्द्रियेषु षड्विधविषयग्राहकमीश्वरं यश्च श्रद्धानिष्ठावधानानुभवा- prabhavati | etadamṛtasthānaprāptirevādhyātmavyavasāyasyāntimaṃ phalam | etatphalānanubhave adhyātmavyavasāya eva nirarthako bhavet || 6 || mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ | manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati || 7 || prakṛtimaye dehe bhāvarūpeṇa nivasantaṃ mahādevaṃ dṛṣṭavanto yoginaḥ prākṛtā iva loke vyavaharanto'pi na hi duḥkhabhājo bhaveyuḥ | te tāvat saṃsāre sthitvāpi parityaktābhimānā dagdhapaṭā iva vartante | mahādevadarśanānantara- भोगमार्गं न पुनः स्वीकुर्युः ? इत्याशङ्कायां जीवात्मतत्त्वमुपदिशन् जीवानां सर्वेषामपि परमात्मांशत्वादेव अंशानामंशिप्राप्तिः सहजैवेति समाधानं वदति | जीवलोकेऽस्मिन् जीवानां लोके जीवभूतो यः सनातनः अनादिसिद्धश्च आत्मा प्रकृतिसंबन्धेन क्षीणशक्तिको वर्तते सः ममैवामूर्तपरशिवस्य साक्षादंशभूतः | परन्तु सः अनादिकर्मवशात् प्रकृतिसंबद्धस्सन् प्रकृतिस्थानि मनष्षष्ठानि इन्द्रियाणि कर्षति आकर्षति | इदं कर्मेन्द्रियाणामप्युपलक्षणम् | प्. ३०७) एवं सः कर्मफलभोगाय सर्वेषामिन्द्रियाणां सहकारमपेक्षत इत्यर्थः || शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः | गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् || ८ ||
324 SK अयं च इन्द्रियादिसंबन्धस्तस्य सदा अस्तीत्याह | ईश्वरः एतच्छरीरस्वामी जीवः यत् शरीरं नूतनतया आप्नोति यच्चापि शरीरं उत्क्रामति परित्यज्यति तदा सर्वदापि वायुः पवनः आशयात्पुष्पादेः गन्धानिव एतानि मन आदीनीन्द्रियाणि गृहीत्वैव स्वेन सह स्वीकृत्यैव संयाति गच्छति | वायुर्यदा पुष्पमेकं परित्यज्य अन्यं गच्छति तदा तदीयं गन्धं गृहीत्वैव याति | गन्धसहित एव सः इतस्ततश्चलति | गन्धं विना तस्य चलनमेव यथा न संभवति तथा जीवः इन्द्रियैरेव देहाद्देहान्तरं गच्छति || ८ || श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च | अधिष्ठाय मनश्चायं विषयानुपसेवते || ९ || कानि तानि गृहीत्वा गच्छति जीव इत्यत्राह | श्रोत्रं चक्षुः स्पर्शनं त्वगिन्द्रियं रसनं घ्राणमेव | मनश्चेत्येतानि अधिष्ठायाश्रित्य अयं जीवः विषयान् शब्दादीन् उपसेवते अनुभवति || ९ || उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् | विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः || १० || अयं जीवात्मा कथमिदं शरीरं परित्यज्यान्यत्र गच्छति ? शरीरे कथं वर्तते ? शब्दादिविषयान् कथमनुभवति ? कथं गुणबद्धो व्यवहरति ? एतानंशान् अज्ञानिनो न जानन्ति | तत्त्वज्ञानिन एव तत्सर्वं ज्ञातुं प्रभवंति | अयमेवाशयोऽत्र निर्दिश्यते | उत्क्रामन्तं शरीरं परित्यज्यान्यत्र गच्छन्तं शरीरे विद्यमान्ं भुञ्जानं शब्दादिविषयाननुभवन्तं वा गुणान्वितं वा गुणैः सत्त्वादिभिः समन्वितं वा एनमात्मानं विमूढा अज्ञानिनो नानुपश्यन्ति न जानन्त्येव | ये पुनर्ज्ञानचक्षुषो ज्ञानिनस्त एव पश्यन्ति जीवस्य व्यवहारं प्. ३०८) प्रस्थानं चास्मिन् संसारवृक्षे | तथा च जीवात्मा अतिसूक्ष्मो दुर्दर्श इत्यर्थः | सः कथमस्मिन् वृक्षे निवसति व्यवहरति भुनक्ति ? एते अंशाः विचित्रा एव वर्तन्ते | तस्य देहाद्देहान्तरगमनन्त्वतिविचित्रमेव | तदेव यो जानाति स एव विद्वान् नित्यसुखी निरामयश्च संपद्यते || १० ||
325 SK यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् | यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः || ११ || योगिनस्समाहितचित्ता योगाभ्यासरताश्च आत्मनि स्वदेह एव अवस्थितमेनं जीवात्मानं स्वयमेव यतन्तः प्रयत्नं कुर्वन्तः पश्यन्ति | अकृतात्मानस्तु असंस्कृतान्तःकरणास्तु अचेतसोऽज्ञानिनो यतन्तोऽपि प्रयत्नं कुर्वन्तोऽपि एनं जीवात्मानं स्वयमेव न पश्यन्ति न हि द्रष्टुं शक्नुवन्ति | यः आत्मानमेवाऽपश्यन् केवलं पञ्चभूतात्मकं प्रपंचं पश्यति सः तदन्तस्थं प्रकाशरूपं चैतन्यं द्रष्टुं न प्रभवति | एवात्मादर्शनविमुखः प्रपञ्चव्यामोहेन दुःखभाग्भवेत् | स संसारसागरे मज्जन् निमज्जंश्च वर्तते | एवमस्य गतागतादिकं स्वयमेवाजानन् मूढो भयशोकमोहग्रस्तो वर्तते || ११ || यदादित्यगतं तेजो जगद्भासयतेऽखिलम् | यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् || १२ || एवं जीवस्वरूपं निरूप्य तदनन्तरं स्वस्य परमात्मनश्च स्वरूपमुप- hyakhilaṃ jagat sakalaprapañcamapi bhāsayate prakāśayati yacca yādṛśaṃ tejaścandramasi candre'sti yacca yādṛśaṃ tejaścāgnau vartate tadidaṃ tejaśca māmakaṃ madīyameveti viddhi jānīhi | sūryacandrāgnigato divyaprakāśo hi paramātmasaṃbaddha eva | teṣvantaryāmitayā sthitvā sa eva prakāśata ityarthaḥ || 12 || gāmāviśya ca bhūtāni dhārayāmyahamojasā | puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ || 13 || p. 309)
326 SK गां भूमिं आविश्य प्रविश्य भूतानि सर्वानपि प्राणिनः ओजसा मद्बलेन अहमेव धारयामि | एवमेव रसात्मको सर्वरसमयस्सोमश्चन्द्रो भूत्वा अहमेव सर्वा ओषधीश्च पुष्णामि पोषयामि | ओषधीशो निशापतिः इति चन्द्रस्य ओषधीषत्वं प्रसिद्धमेव | सर्वेऽपि प्राणिनः परमात्मान-माश्रित्यैव तिष्ठन्ति | तदवलम्बनेनैव सर्वे जीवन्ति | एवं सर्वविश्रान्ति-स्थलभूतः परमात्मा शिवागमेषु स्थलशब्देनैव व्यवह्रियते | न केवलं सृष्ट्यनंतरं किंतु प्रलयकालेऽपि सर्वेषां जीवानां पञ्चतत्त्वानां च स एव विश्रांतिस्थलं संपद्यते | तथा च प्राक् अद्य उत्तरकाले च स एव चराचरात्मकस्यास्य जगत आश्रयभूतं विश्रांतिस्थलं वर्तते | अतस्तस्य स्थलाभिधानं सम्यक् शोभते | एवमेव चिदचितां लयगमनाश्रयत्वात् | सः लिङ्गमित्यप्यधीयते | अस्याखण्डलिङ्गस्य प्रकाशेनैव न केवलं सूर्यादयः परं त्वितरेऽपि जीवाः प्रकाशंते || १३ || अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः | प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् || १४ || अहमेव वैश्वानरो जठराग्निर्भूत्वा प्राणिनां देहमास्थित आश्रितस्सन् प्राणापानसमायुक्तः प्राणापानाभ्यां सहितश्चतुर्विधमन्नं भक्ष्यभोज्यलेह्यचोष्यरूपं चतुःप्रकारमाहारं पचामि पक्वं करोमि || १४ || सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च | वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेविदेव चाहम् || १५ || सर्वस्यापि प्राणिजातस्य अहमेव हृदि हृदयगुहायां सन्निविष्टोऽन्तर्यामि- sarvamapi matta eva matkāraṇādeva bhavati | sarvasyāsya ahameva kāraṇa- मामेव प्रतिपादयन्ति | अहमेव वेदान्तकृत् वेदान्तानामुपदेष्टा | वेदविदेव चाहं अहमेव सर्ववेदविदस्मि | सर्वव्यापकस्य मूर्तामूर्तरूपस्य परमात्मनो महत्त्वप्रशंसका प्. ३१०) वेदाः पर्णशब्देन प्रागेव निर्दिष्टाः | अत एवं अद्भुतशक्तिविशिष्टस्य परमात्मनो महिमातिशयं वर्णयन्तो वेदाः तत्स्वरूपविज्ञानाय परमप्रमाणस्थानीया वर्तन्ते || १५ ||
327 SK द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च | क्षरः सर्वाणि भूतानि कूटस्योऽक्षर उच्यते || १६ || उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः | यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः || १७ || एवमेतावता संसारिरूपचेतनस्य स्वरूपं ततो विशुद्धस्य जीवात्मनः परमात्मांशरूपत्वं ततः परमात्मस्वरूपं चोपदिष्टम् | एवमुक्त- imau dvau kṣaraścākṣaraśceti puruṣau staḥ | tatra sarvāṇi bhūtāni prāṇijātāni kṣaraḥ kṣaraśabdanirdiṣṭāni | kūṭasthaḥ nirvikāraḥ śuddhastu cetanaḥ akṣara ityucyate | ābhyāmuttama utkṛṣṭo'nyaḥ paramātmetyudāhṛtaḥ | yaḥ paramātmā avyayo nityaḥ īśvaraḥ sarveśvarassan lokatrayamapyāviśya sarvalokamapi vyāpya tatrāntaryāmitayā sthitvā bibharti sarvān lokān dhārayati | evaṃ ca sarve prāṇinaḥ kṣarā ucyante | gurvanugraheṇa dīkṣāyāṃ susaṃskṛto jīvaḥ akṣara ucyate | ayameva paramātmalīlāvinodabhūmitvāt aṅgamiti vyavahriyate | so'pi puruṣapadavācyaḥ saṃpadyate | tathaiva uttamaḥ puruṣa ityabhidhīyamānaḥ paramātmā sarvalokavyāpyapi prakṛtisaṃparkāt kṣīṇa- तस्मिन् इष्टप्राणभावात्मकतया निवसन् लिङ्गमित्यभिधीयते | अङ्गलिङ्गयोर-नयोरैक्यरूपं सामरस्यमधिगन्तव्यमस्मिन्नेव देहे इन्द्रियाणां सहकारेणेत्यसकृदुक्तमेव || १६-१७ || यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः | अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः || १८ || एवमितरापेक्षयोत्कृष्टस्य पुरुषोत्तमत्वे हेतुमुक्त्वा अहमेव स इत्युपदिशति | प्. ३११) यस्मात् अहं उक्तं क्षरमक्षरं चातीतः अतिक्रम्य वर्तमानः उत्तमश्च वर्तामि | अत एव कारणात् लोके वेदे च पुरुषोत्तम इति प्रथितः प्रसिद्धोऽस्म्यहम् | विश्वव्यापकस्यामूर्तपरमशिवस्य पुरुषत्वं पुरुषसूक्ते स्पष्टं प्रतिपाद्यते | तस्मादधिकस्यान्यस्याभावात् तस्य पुरुषोत्तमत्वं प्रसिद्धम् | विश्वाधिको रुद्रो महर्षिः इत्यपि श्रूयते | कृष्णस्तु शिवतादात्म्येनैवं वदति || १८ ||
328 SK यो मामेवमसंमूढो जानाति पुरुषोत्तमम् | स सर्वविद्भजति मां सर्वभावेन भारत || १९ || एवमुक्तार्थज्ञानस्य फलमाह | हे भारत अर्जुन यः असम्मूढो मोह- sarvarasyajño bhūtvā sarvabhāvena gatirbhartā prabhussākṣī ityādyātmanā sarvamapyahameveti bhāvanayā māṃ bhajati seveta | evaṃ ca matsvarūpa- इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ | एतद्बुध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत || २० || एतादृशस्य स्वतत्त्वज्ञानस्य परमरहस्यत्वं परमोपादेयत्वं च वदन् अध्ययनमुपसंहरति | हे अनघ दोषरहित अर्जुन इत्येवं प्रकारमिदं गुह्यतममत्यन्तरहस्यभूतं शास्त्रं मया उक्तमुपदिष्टम् | हे भारत अर्जुन एतत् रहस्यं बुध्वा तेनैव नरः बुद्धिमान् स्यात् नात्वन्यज्ञानेन | एवमेतज्ज्ञानेनैव च सः कृतकृत्य्स्स्यात् | मनुष्यजन्म संप्राप्य यत्कर्तव्यं तदपि तदानीमेव कृतं स्यात् | अन्यथा तु निरर्थकमेव तस्य इन्द्रियचापल्याभावः || २० || प्. ३१२) षोडशाध्यायः पूर्वं नवमाध्याये दैवीं प्रकृतिमाश्रिताः आसुरं भावमाश्रिताः इत्यादिना दैवीप्रकृतिः आसरीकृतिश्चैति प्रकृतिद्वयं निर्दिष्टम् | तयोः स्वरूपमवश्यज्ञेयत्वादस्मिन्नध्याये विस्तरेणोपदिश्यते || अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः | दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् || १ || अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् | दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् || २ || तेजः क्षमाः धृतिः शौचमद्रोहो नातिमानिता | भवन्ति संपदं दैवीमभिजातस्य भारत || ३ ||
329 SK श्रीभगवानुवाच | अभयं भयाभावो धैर्यम् | सत्त्वसंशुद्धिस्सत्त्व- damo bāhyendriyāṇāmupaśamaḥ | yajño sveṣṭadevapūjanam | svādhyāyaḥ svasya śākhyādhyāyanam | tapaḥ utaratra vakṣyamāṇaṃ kāyikaṃ vācikaṃ mānasikaṃ ca trividham | ārjavaṃ sarvadā ṛjutayā vartanam | ahiṃsā prāṇi- पीडितस्यापि कोपाऽकरणम् | त्यागः मानसिकाशानां त्यागः | शान्तिरन्तः- duḥkhiteṣu kṛpā | aloluptvaṃ viṣayasānnidhye'pi indriyācāpalyābhāvaḥ | mārdavamakiṭanahṛdayatvam | hrīrakāryādau lajjā | acāpalaṃ manasa acāñcalyam | tejaśca prabhāvaḥ | kṣamā sahanā | dhṛtiḥ dehādipīḍane'pi tadalakṣīkaraṇākhyaṃ manassthairyam | śauca bāhyābhyantaraśuddhiḥ | adrohaḥ paravañcanābhāvaḥ | nātimānitā atyantaṃ māno'timāno garvastadabhāvaḥ | he bhārata arjuna etāni daivīṃ saṃpadaṃ abhi abhimukhīkṛtya jātasya p. 313) jīvasya saṃbhavanti | etādṛgguṇavataḥ puruṣasya divyaiśvaryaprāptyādyarhatā astītyavagantavyamityarthaḥ || 1-3 || dambho darpo'bhimānaśca krodhaḥ pāruṣyameva ca | ajñānaṃ cābhijātasya pārthaṃ saṃpadamāsurīm || 4 || atha āsurīṃ saṃpadamāha | dambho dharmakaṃcukatvaṃ kīrtyādyarthaṃ dharmācaraṇamityarthaḥ | darpo vidyādhanādiprayukto madaḥ | abhimānoḥ garvaḥ | krodhaḥ kopaśīlatā | pāruṣyaṃ krauryam | ajñānamavivekaḥ | he pārtha arjuna etāni āsurīṃ saṃpadamapi abhimukhīkṛtya jātasya jīvasya bhavanti | etādṛśaguṇavān asurabhāvārha ityavagantavyamityarthaḥ || 4 || daivī saṃpadvimokṣāya nibandhāyāsurī matā | mā śucaḥ saṃpadaṃ daivīmabhijāto'si pāṇḍava || 5 || daivī saṃpat vimokṣāya mokṣaprāptaye matā | āsurī saṃpacca nibandhāya punaḥpunaḥ saṃsārabandhāya matā tattatphalapradetyarthaḥ | evaṃ bhagavatokte kimahamāsurīsaṃpadvān uta daivīsaṃpadvān iti saṃśayamāpannamarjuna- पाण्डव अर्जुन त्वं दैवीं संपदमभिमुखीकृत्यैव जातोऽसि न त्वासुरी- bhavatā || 5 ||
330 SK द्वौ भूतसर्गो लोकेऽस्मिन्दैव आसुर एव च | दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु || ६ || एवमासुरीसंपदः सङ्ग्रहेणोपदेशेन अतृप्यन् भगवान् अवश्यज्ञेयत्वेन आसुरीसंपत्स्वरूपं विस्तरेण वक्तुं पीटिकामारचयति | हे पार्थ अर्जुन अस्मिन् लोके दैव आसुर एवेति द्वौ भूतसर्गौ भूतानां प्रानिनां सृष्टी द्विविधा सृष्टिः कृताऽस्ति | तयोर्दैवस्सर्गो विस्तरशश्च प्रोक्तः अभयं सत्त्वसंशुद्धिरित्यादिना | अद्य विस्तरशश्च आसुरं आसुरसर्गं वदामि शृणु || ६ || प्. ३१४) प्रवृत्तिं च निवृत्तिं च जना न विदुरासुरा | न शौचं नापि चाचारो न सत्यं तेषु विद्यते || ७ || असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् | अपरस्परसंभूतं किमन्यत्कामहैतुकम् || ८ || ते आसुरा ह्यासुरीप्रवृत्तिमन्तः पुरुषास्तु जगत्सर्वमपि असत्यं मिथ्यैवेति आहुः | एवमप्रतिष्ठं अस्य जगत् आधारत्वेन परब्रह्मादिकं न किञ्चिदस्ति इत्याहुः | अत एवेदं जगत् अनीश्वरमीशररहितं आहुः | तर्हि जगतस्तु प्रवृत्तिरेव कथमिति ते जानन्तीत्यत्राह | अपरस्परसंभूतं परस्पर- etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ | prabhavantyugrakarmāṇaḥ kṣayāya jagato'hitāḥ || 9 || etāṃ dṛṣṭiṃ uktanāstikyabuddhimavaṣṭabhyāśritya naṣṭātmāno hyātma- प्रभवन्ति उद्भवन्ति | ते आसुरप्रकृतय एवं लोकं नाशयन्ति || ९ || काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः | मोहाद्गृहीत्वाऽसद्ग्रहान् प्रवर्तन्तेऽशुचिव्रताः || १० || दुष्पूरं पूरयितुमशक्यं कामं तृष्णामाश्रित्य वर्तमाना दम्भ- grāhāstān gṛhītvā tadvanta ityarthaḥ | aśucivratā hyapariśuddhācaraṇaparāḥ pravartante | svakāmapūraṇāya sarvadā prayatanta ityarthaḥ || 10 || cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ | kāmopabhogaparamā etāvaditi niścitāḥ || 11 || p. 315) āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ | īhante kāmabhogārthamanyāyenārthasañcayān || 12 ||
331 SK अपरिमेयां अवधिरहितां प्रलयान्तां सर्वनाशे पर्यवसायिनीं चिन्तामुपाश्रिताश्च कामोपभोगपरमा विषयोपभोग एव परमपुरुषार्थ इति मन्वानाः एतावदिति निश्चिता एतदपेक्षया नान्यत् किञ्चिदस्तीति निश्चयवन्तो ह्याशापाशशतैः आशा एव पाशास्तेषां शतैर्बद्धा नियमिताः कामक्रोधपरायणाः कामक्रोधपरवशा ह्यन्यायेन अपामार्गेण अर्थसञ्चयान् द्रव्यसंपादनानि कृत्वा कामभोगार्थं केवलविषय- idamadya mayā labdhamimaṃ prāpsye manoratham | idamastīdamapi me bhaviṣyati punardhanam || 13 || asau mayā hataḥ śatrurhaniṣye cāparānapi | īśvaro'hamahaṃ bhogī siddho'haṃ balavānsukhī || 14 || āḍhyo'bhijanavānasmi ko'nyo'sti sadṛśo mayā | yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ || 15 || anekacittavibhrāntā mohajālasamāvṛtāḥ | prasaktāḥ kāmabhogeṣu patanti narake'śucau || 16 || idaṃ dhanādikamadya mayā mayaiva labdhaṃ imaṃ ca manorathaṃ manasā uddiṣṭaṃ prāpsye lapsya eva | idaṃ ca mamaivāsti | idamapi dhanaṃ punarmamaiva bhaviṣyati ityevamādirarthāśānāmanuvādaḥ | asau śatruridānīṃ mayaiva hataḥ | evameva aparānapi madaniṣṭakāriṇo haniṣye | ahameva īśvarassarva-samarthaḥ | ahameva bhogī | ahameva siddhassaṃpannaḥ | ahaṃ balavān sukhī āḍhyo dhanādibhiśca pūrṇaḥ | abhijanavānuttamakulajāto'hamasmi | mayā sadṛśo'nyaḥ ko vā'sti | yakṣye dāsyāmi modiṣye iti sarvaṃ kartumahaṃ samartho'smītyasyānukaraṇam | ityevamajñānena vimohitā hyavivekamāpannāḥ | anekacitta- p. 316) vibhrāntāḥ uktairanekavidhaiścittairviśeṣeṇa bhrāntāḥ | mohajālasamāvṛtā moha eva jālaṃ bandhasādhanaṃ tena samāvṛtāstadantaḥ patitāḥ | kāmabhogeṣu indriyasukheṣu prasaktāḥ prakarṣeṇa saktāstadekaparāyaṇāḥ | etadṛśā ete āsuraprakṛtayo'ntato hyaśucau narake niraye patanti || 13-16 || ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ | yajante nāmayajñaiste dambhenāvidhipūrvakam || 17 ||
332 SK आत्मसंभाविता आत्मानं सर्वगुणविशिष्टतया आत्मनैव संभावयंतस्स्तब्धा अविधेयाः धनमानदान्विता धनेन मानेन अहङ्कारेण मदेन च अन्विता दम्भेन स्वस्य योग्यत्वादिख्यापनोद्देशेन नामयज्ञैराडम्बरप्रयुक्तनामोच्चारणरूपैर्यज्ञैराराधनैरविधि- ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ | māmātmaparadeheṣu pradviṣaṇto'bhyasūyakāḥ || 18 || ahaṃkāraṃ sarvottamatayā ātmanaḥ parijñānamahaṅkārastam | balaṃ śarīrādibalam | darpaṃ kāmaṃ krodhaṃ ca saṃśritāstānāśritya vartamānā ātmaparadeheṣu svaparaśarīreṣu sarvatra aṃtaryāmitayā vartamānaṃ māṃ pradviṣanto'palapaṃtaḥ | abhyasūyakā asūyāparavaśā ete dambhena nāmayajñairyajaṃte ityanenānvayaḥ || 18 || tānahaṃ dviṣataḥ krūrānsaṃsāreṣu narādhamān | kṣipābhyajasramaśubhānāsurīṣveva yoniṣu || 19 || āsurīṃ yonimāpannā mūḍhā janmani janmani | māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim || 20 || evāmāsurīprakṛtisvarūpamuktvā tadvatāṃ gatimāha | dviṣatatsanmārga- अशुभान् पापिनोऽजस्रं सर्वदा आसुरीष्वेव योनिषु जन्मसु क्षिपामि | एवमासुरीं योनिं जन्म आपन्नाः प्राप्तास्ते जन्मनि जन्मनि प्रतिजन्म मूढा मूर्खा भूत्वा हे प्. ३१७) कौन्तेय अर्जुन मां परमात्मानप्राप्यैव कदाप्यप्राप्य ततस्ततोऽप्य- trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ | kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet || 21 || āsurīsaṃpadaṃ saṅgṛhyāha | kāmaḥ krodho lobha itīdaṃ trividhaṃ narakasya dvāraṃ ātmano nāśanaṃ vināśakaṃ ca | idaṃ trayameva sarvānarthamūlaṃ | tasmāt kāraṇāt etattrayaṃ tyajet dūrato varjayet śivadhyānaparāyaṇo vivekī anyathā sarvanāśa eva saṃbhavet || 21 || etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ | ācāratyātmanaḥ śreyastato yāti parāṃ gatim || 22 ||
333 SK एतत्रयपरित्यागफलमप्याह - हे कौन्तेय अर्जुन तमोद्वारैर्नरकद्वार- hitamācarati ācaritumarho bhavati | evaṃ bhagavadārādhane bhagavadbhaktaśuśrūṣāyāṃ ca āsakto bhavati | tādṛśaḥ śreyasa ācaraṇena parāṃ gatiṃ amṛtasthitiṃ bhāvaliṅgaikyaṃ yāti prāpnoti anubhavatītyarthaḥ || 22 || yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ | na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim || 23 || tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau | jñātvā śāstravidhānoktaṃ karma kartumihārhasi || 24 || ātmano hitaṃ kathaṃ jñātumanubhavituṃ śakyamasmākamityatrāha | yo naraḥ śāstravidhikramamutsṛjya kāmakāratassvecchācārataḥ pravartate vyavaharati saḥ siddhiṃ puruṣārthasiddhiṃ nāvāpnoti | ata eva sukhamapi nāpnoti parāṃ gatiṃ sadgatiṃ ca nāpnoti | tasmāt te tava kāryākāryavyavasthitau idaṃ kāryaṃ idamakāryaṃ iti p. 318) nirṇaye śāstrameva pramāṇaṃ nānyat | ataśca śāstravidhānoktaṃ kṣatriyasya yuddhādikaṃ yatkarma tadeva kartumarhasi tvaṃ na tu svecchācārataḥ svadharma- सप्तदशाध्यायः यः शास्त्रविधिमुत्सृज्य वर्तते कानकारतः | न स सिद्धिमवाप्नोति न सुखं न परां गतिम् इति भगवतोक्ते तर्हि तेषां का गतिरिति जिज्ञामुरर्जुन उवाच - ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः | तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः || १ || ये तु केचन शास्त्रविधिं शास्त्रोक्तक्रमं उत्सृज्य परित्यज्य श्रद्धया आस्तिक्यबुद्ध्या अन्विता युक्ताः सन्त एव यजन्ते देवादीन् पूजयन्ति हे कृष्ण तेषां निष्ठा अवस्थानं का किंरूपम् ? सत्त्वं किं सत्त्वरूपम् ? आहो अथवा रजः रजोरूपम् ? अहो तमः तमोरूपम् ? श्रद्धयान्विता इत्युक्तत्वात् सात्विकत्वमपि भवितुमर्हतीति प्रष्टुरर्जुनस्याशयः || १ || त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा | सात्त्विकी राजसी चैव तामसी चेति तां शृणु || २ ||
334 SK प्रश्नस्योत्तरं श्रीभगवानुवाच | देहिनां प्राणिनां स्वभावजा सहजा सा श्रद्धा सात्विकी राजसी तामसी चेति त्रिविधा भवति | तां वक्ष्यमाणां शृणु || २ || प्. ३१९) सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत | श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः || ३ || हे भारत अर्जुन सर्वस्य हि प्राणिनः श्रद्धा सत्वानुरूपा तत्तदन्तः- śraddhāpi sahajata eva parasparavilakṣaṇā bhavatītyaśayaḥ | ayaṃ hi puruṣaḥ śraddhāmayaḥ | asyaiva vivaraṇamidam | yo yacchraddhaḥ yādṛśaśraddhāvān bhavati saḥ tādṛśaśraddhāmaya eva bhavati | sadā tadekacittasya tadbhāvāpattir-dṛśyata eva | yasya sarvāṇyapīndriyāṇi sarvadā paramātmānameva lakṣīkurvaṃti saḥ paramātmaniṣṭha eva bhavati tadīyaṃ manaśca tadekāsaktaṃ sat tadbhāvamevādhigacchati | nirmalaṃ mana eva śikhikarpūra iva mahādevasvarūpaṃ bhavatīti anubhavino vadaṃti || 3 || yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ | pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ || 4 || kathamayaṃ śraddhābhedo jñātuṃ śakyetetyatrāha | sātvikāḥ sātvika- यक्षरक्षांसि यजंते | अन्ये च तामसाः तामसश्रद्धावन्तो जनाः प्रेतान् भूतगणान् भूतप्रेतपिशाचादीन् प्रसिद्धान् यजंते | एवमेषां कार्येणैव तेषां श्रद्धायाः स्वरूपमपि अनुमेयमित्यर्थः | शरणास्त्वत्र उदाराशयभिव्यक्तवंतः | भूतप्रेतोपासनविषये तेषामभिप्रायो विलक्षणो वर्तते | मारीति लोके प्रथिताटिरिक्ता नास्त्येव वक्रेक्षणमेव मारी | विभिन्नरूपेण च भाषमाणा जिह्वैव मारी कथिता नयज्ञैः | स्मर्तव्यवस्त्वस्मरणं हि मारी ह्येतां च मारीं त्यजतः सुखं स्यात् | इति | एवं भूतादिशक्त्युपासनस्य अपरमर्थं परिकल्पयंतः शरणाः सच्चारित्र्यस्य प्रामुख्यतां वदन्तः सर्वेष्वपि वर्तमानस्य मार्याख्यदोषस्य विसर्जनार्थं वीर्यवत्तरया वाण्योपदिशन्ति || ४ || प्. ३२०) अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः | दम्भाहंकारसंयुक्ताः कामरागबलान्विताः || ५ ||
335 SK कर्षयन्तः शरीरस्थं भूतग्राममचेतसः | मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् || ६ || एवं श्रद्धाविभागमुक्त्वा प्रकृतस्यार्जुनप्रश्नस्योत्तरमाह | अशास्त्र- tapaḥ ye janā dambhāhaṅkārāsaṃyuktā dambhena ahaṅkāreṇa ca saṃyuktāḥ | kāmarāgabalānvitāḥ kāmaḥ kāmyamānasvargādiviṣayakecchā | rāgo nāma tadviṣayabhogābhilāṣarūpaḥ | evaṃ balaṃ haṭhāt kāryasādhanopayogi daihikaṃ balam | ebhiranvitāssaṃtaḥ tapastapyante | anye tu śarīrasthaṃ svaśarīre vidyamānaṃ bhūtagrāmaṃ karaṇasamudāyaṃ antaśśarīrasthaṃ antaryāmitvena taccharīrāntarvatinaṃ māṃ caiva karśayantaḥ kṛṣīkurvantaḥ | pīḍayanta iti bhāvaḥ | acetaso'vivekinastapyante tānāsuraniścayān asurasanbandhyugraniścayavato viddhi jānīhi | atrādyaślokena rajoniṣṭhāḥ dvitīyaślokena tamoniṣṭhāśca puruṣāḥ kathitāḥ | etadubhayavidhadoṣarahitā eva sātvikaniṣṭhā iti svataḥ siddhyatītyāśayaḥ || 5-6 || āhārastvapi sarvasya trividho bhavati priyaḥ | yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu || 7 || evaṃ niṣṭhāyā yathā traividhyaṃ tathā āhārādāvapi asti traividhyamiti prasaṅgādupadiśati | sarvasya jagataḥ āhāro'pi tattadanuguṇatayā priyastrividho bhavati | evameva yajñastapo dānaṃ ceti sarvaṃ tathaiva trividham teṣāmidaṃ vakṣyamāṇabhedaṃ śṛṇu || 7 || āyuḥ sattvabalārogyasukhaprītivivardhanāḥ | rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ || 8 || āyurjīvanam | sattvamantaḥkaraṇaśuddhiḥ | balaṃ kāryakarṇopayoga- p. 321) śaktiḥ | ārogyaṃ rogābhāvaḥ | sukhaṃ tṛptiḥ | prītistu saṃtoṣaḥ | eteṣāṃ vivardhanā vardhakāḥ | rasyā rasopetāḥ | snigdhāssnehayuktāḥ | sthirā dehe cirakālaṃ vartamānā hṛdyā hṛdayaṅgamāśca āhārāssātvikapriyāssātvika-janabhogyāḥ || 8 || kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ | āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ || 9 ||
336 SK कटुस्तिक्तः | अम्लो लवणः | अत्युष्णः | तीक्ष्णः | रूक्षः स्नेहरहितः | एतादृशो विदाहिनस्सन्तापजनकाः | दुःखशोकामयप्रदाः दुःखं पीडा भूतः आमयो व्यधिरेतत्प्रदा आहारा राजसस्य रजोगुणप्रकृतिकस्य शोकस्तत्फलक-शरीरस्य इष्टा भवन्ति || ९ || यातयामं गतरसं पूति पर्युषितं च यत् | उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् || १० || यातयामं मंदपक्वम् | गतरसं नीरसम् | पूति दुर्गंधम् | पर्युषितं परित्यक्तम् | उच्छिष्टं तुच्छमपरिशुद्धं च यद्भोजनं तत् तामसप्रियं तमोगुणप्रकृतिकस्य शरीरस्य प्रियं भवति || १० || अफलाकांङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते | यष्टव्यमेवेति मनः समाधाय स सात्त्विकः || ११ || अफलाकांक्षिभिः फलकांक्षारहितैर्नरैर्विधिदृष्टः शास्त्रोक्तो यज्ञो यष्टव्यमेवेति मनस्समाधाय ममेदं कर्तव्यमिति मनसि निर्णयेन य इज्यते क्रियते स यज्ञस्सात्विकः कथ्यते | विनैव फलापेक्षां देहेन्द्रियमनो- bhāvanayā yo gurudevapūjārūpo yajñaḥ kriyate sa sātvikassmṛtaḥ || 11 || abhisandhāya tu phalaṃ dambhārthamapi caiva yat | ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam || 12 || p. 322) he bharataśreṣṭha arjuna phalamabhisaṃdhāya phaloddeśena daṃbhārthaṃ kīrtyā vā yat ijyate kriyate taṃ yajñaṃ viddhi | kīrtipratiṣṭhākāṃkṣayā putrādyaihikaphalaprāptaye vā yo yajño bhagavadārādhanarūpaḥ āḍaṃbareṇa kriyate sa rājasaḥ kathyate || 12 || vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam | śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate || 13 || vidhihīnaṃ śāstrakramarahitam | asṛṣṭānnaṃ śivānubhavibhojanādirahitam | maṃtrahīnaṃ maṃtrarahitam | adakṣiṇaṃ dakṣiṇarahitam | śraddhāvirahitaṃ ca karmatāmasaṃ paricakṣate | etādṛśaṃ bhagavadārādhanaṃ nirarthakamanartha-kāri ca bhavet || 13 || devadvijaguruprājñapūjanaṃ śaucamārjavam | brahmacaryamahiṃsā ca śārīraṃ tapa ucyate || 14 ||
337 SK अथ तपस्त्रैविध्यमाह | देवा इन्द्रादयः | द्विजाः ब्रह्मज्ञानसाधकं प्रसादरूपं द्वितीयं जन्म प्राप्तवन्तः | गुरुस्तत्त्वोपदेष्टा आचार्यः | प्राज्ञो ब्रह्मज्ञानी | एतेषां पूजनं शौचं परिशुद्धिः | आर्जवं ऋजुत्वम् | ब्रह्मचर्यमिन्द्रियजयः | अहिंसा च शारीरं तप उच्यते | देहस्तु भगवत्पूजार्थमेव समागत इति शरणा अपि स्वानुभवं प्रमाणी-कृत्य वदंति | भगवद्भावनया जगत्प्रीणनमपि शारीरं तप एव | दीनदरिद्रानाथानां क्लेशपरिहारोऽपि तदेव | यदद्य क्रियते तत्सर्वमपि दैहिकं तप एव || १४ || अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् | स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते || १५ || अनुद्वेगकरं इतरस्य दुःखानुत्पादकं यद्वाक्यं सत्यं यथार्थं प्रियहितं च यदस्ति तदेव वाङ्मयं तप उच्यते | तथैव स्वाध्यायो वेदा- muktāphalasannibhaṃ syāt tathaiva tatsyānmaṇidīptitulyam | tathaiva tatsyātsphaṭikopamaṃ hi p. 323) tadeva cidrūpamakhaṇḍaliṅgam | hṛdantare sannihitaṃ ca liṅgaṃ syātsyāditīmāṃ pravadeddhi vācam | uktānurūpaṃ yadi karma na syāt devassadā naiti vaśaṃ narasya | atastu vākkāyakasāmarasyaṃ nirīkṣyate sajjanacātakaistu | iti | evaṃ trikaraṇaśuddhyā parahitārthaṃ yaducyate tadeva vāṅmayaṃ tapa ityanubhavibhirucyate | tādṛksarvābhayapradānaṃ bhagavatpriyaṃ sat vāṅmayaṃ tapa iti parikīrtitam | etadeva mānavasya hṛdayanairmalyamāvedayati || 15 || manaḥprasādaḥ saumyatvaṃ maunamātmavinigrahaḥ | bhāvasaṃśuddhirityetat tapo mānasamucyate || 16 || manaḥprasādo manasaḥ prasannatā | somyatvaṃ saumanasyam | maunaṃ vāksaṃyamahetubhūto manassaṃyamaḥ ātmavinigrahaḥ antaḥkaraṇajayaḥ | bhāvasaṃśuddhiḥ manobhāvasya pariśuddhatā | ityetat mānasaṃ tapa ucyate || 16 || śraddhayā parayā taptaṃ parastat trividhaṃ naraiḥ | aphalākāṃkṣibhiryuktaiḥ sātvikaṃ paricakṣate || 17 ||
338 SK एवं कायिकवाचिकमानसिकभेदेन तपस्त्रैविध्यमुक्त्वा इदानीं सात्विकादि- aphalākāṃkṣibhiḥ phalāpekṣārahitairyuktaiḥ samāhitairnarayairyat trividhaṃ kāyikaṃ vācikaṃ mānasikaṃ ca tapaḥ tat sātvikaṃ tapa iti paricakṣate vadanti jñāninaḥ | phalāpekṣāṃ vināpi śraddhayā kriyamāṇaṃ tapassātvikaṃ tapa ityarthaḥ || 17 || satkāramānapūjārthaṃ tapo dambhena caiva yat | kriyate tadiha proktaṃ rājasaṃ calamadhruvam || 17 || satkāramānapūjārthaṃ satkāraḥ puraskāraḥ | mānaḥ sammānanam | pūjā praṇāmārcanādiḥ | etaduddeśena dambhena pratiṣṭhākāmanādinā vā yattapaḥ uktatrividhataḥ kriyate tat tapaḥ rājasaṃ proktam | tacca calamadhruvaṃ ca proktaṃ | p. 324) calaṃ na sthiram | adhruvaṃ kādācitkaphalaṃ ca | satkārādyuddeśenaiva tapaḥkaraṇāt taduddeśaprāptau svayameva tadapi nivartetetyarthaḥ || 18 || mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ | parasyotsādanārthaṃ vā tattāmasamudāhṛtam || 19 || mūḍhagrāheṇa avivekamūlakāgraheṇa duramimānena ātmanaḥ pīḍayā ātmahiṃsanapurassaraṃ parasyotsādānārthaṃ itarahiṃsanārthaṃ vā yat tapaḥ kriyate tat tapaḥ tāmasamudāhṛtam | svaparahiṃsāphalakaṃ tapastāmasamityarthaḥ || 19 || dātavyamiti yaddānaṃ dīyate'nupakāriṇe | deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam || 20 || dātavyamiti | idaṃ mama kartavyamiti kartavyabhāvanayā anupakāriṇe pratyupa- सत्पात्रे च यद्दानं दीयते | फलं पचतीतिवत् प्रयोगः | दिनानाथे- yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ | dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam || 21 || yattu dānaṃ pratyupakārārthaṃ pratyupakāroddeśena vā phalamuddiśya vā puṇyādiphalaprāptyuddeśena parikliṣṭaṃ khedapurassaraṃ dīyate taddānaṃ rājasaṃ smṛtam || 21 || adeśakāle yaddānamapātebhyaśca dīyate | asatkṛtamavajñātaṃ tattāmasamudāhṛtam || 22 ||
339 SK अदेशकाले अदेशे अकाले च अपुण्यदेशे अपुण्यकाले चेत्यर्थः | अपात्रेभ्य असत्पात्रेभ्यश्च असंस्कृतं सत्काररहितं यथा तथा अवज्ञातं तिरस्कार-निन्दादिपूर्वकं वा यद्दानं क्रियते तत्तामसं दानमुदाहृतं कथितम् || २२ || प्. ३२५) ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः पुरा | ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा || २३ || यज्ञदानतपःप्रभृतीनां कर्तव्यप्रकारमुपदेष्टुमिच्छन् तत्पीठिकामाह | ब्रह्मणः परमशिवस्य ॐ तत्सदिति निर्देशः कथनं त्रिविधः त्रिप्रकारः स्मृतः शिवानुभविभिः कथितः | ब्राह्मणाः तन्नामानः वेदभागाः वेदा ॠगादयः यज्ञाअश्च भगवदाराधनानि पुरा सृष्ट्यारंभे तेन त्रिविधनिर्देशेनैव विहिताः सृष्टाः | ब्राह्मणाः वेदाः यज्ञाश्च परशिवस्य निकटसंबन्धवन्तः | अतः परशिवनिर्देशकैः ॐ तत्सदिति शब्दैरेव ते सृष्टा इत्यर्थः | वेदशब्देभ्य एवादौ देवादीनां चकार सः इत्यादौ वेदशब्देभ्य एव सकलजगत्सृष्टिः प्रसिद्धा || २३ || तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः | प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् || २४ || उक्तस्यार्थस्य प्रकृते प्रयोजनकथनम् | तस्मात् ॐ तत्सदितिशब्दस्य परमात्मनिर्देशरूपत्वादेव ब्रह्मवादिनां ब्रह्मवदनशीलानां ब्राह्मणानां विधानोक्ताश्शास्त्रोक्तास्सर्वा अपि यज्ञदानतपःक्रिया यज्ञो यागः दानं तपश्चेत्येताः क्रियास्सततं सर्वदा प्रवर्तन्ते आचार्यन्ते | उक्तशब्दत्रयोच्चारणपूर्वमेव सर्ववैदिककर्मसु ज्ञानिनां प्रवृत्तिर्दृश्यत इत्यर्थः || २४ || तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः | दानक्रियाश्च विविधाः क्रियन्ते मोक्षकांक्षिभिः || २५ || सामान्यन्यायमुक्त्वा विशेषन्यायमप्याह | तदिति परशिववाचकपदेन फलमनभिसंधाय फलोद्देशमन्तरा मोक्षकांक्षिभिर्मोक्षार्थिभिर्- dānakriyāśca kriyante anuṣṭhīyante | tattatkarmaṇo vihitaṃ phalamanuddiśya kevalaparamātmaprītyarthaṃ tanmūlamokṣāvāptaye ca kriyamāṇaṃ yajñādikaṃ sarvamapi tadeveti paraśivavācakapado- p. 326)
340 SK च्चारणपूर्वकं कर्तव्यमित्यर्थः || २५ || सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते | प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते || २६ || सच्छब्दस्य विनियोगं विवक्षुः प्रथमं तस्यैवार्थमाह | हे पार्थ अर्जुन सद्भावे समीचीनभावे | अस्यैव विवरणं साधुभाव इति | सद्भावो नाम साधुभाव एव | सत्पुरुषं निर्दिश्य साधुरयं इति लोके व्यवहारो दृश्यते | अतस्सद्भावे साधुभावे च सदित्ययं शब्दः प्रयुज्यते | तथा तद्वदेव प्रशस्ते उत्तमे कर्मणि च सच्छब्दः प्रयुज्यते | सत्पुरुष इतिवत् उत्तमं कर्मापि सत्पदेन लोके निर्दिश्यते || २६ || यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते | कर्म चैव तदर्थीयं सदित्येवाभिधीयते || २७ || यज्ञे तपसि दाने वा सदितिशब्दस्य स्थितिरूपयोग उच्यते | तेषां शास्त्रविहित- tadarthīyaṃ parameśvaratṛptiprayojanakaṃ karma ca tadvadeva satkarmatvāt sadityevābhidhīyate | tathā ca bhagavatprītyarthaṃ kriyamāṇānāṃ sarveṣāmapi satkarmaṇāṃ oṃ tatsaditi śabdatrayeṇa nirdeśaḥ kathitaḥ || 27 || ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ | teṣāṃ niṣṭhā tu kā? iti praśne śāstrakramamuddiśya kriyamāṇānāṃ rājasatāmasatvaṃ pratipādya prasaṅgāt yajñadānatapaḥprabhṛti sātvikādibhedaṃ copadiśya ante śraddhā-vihīnaṃ karma śāstracoditamapi naiva phalapradaṃ bhavedityupasaṃharati - aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat | asadityucyate pārtha na ca tatpretya no iha || 28 || aśraddhayā hutaṃ śraddhāṃ vinā yat hutaṃ homādikaṃ kṛtaṃ dattaṃ dānaṃ kṛtaṃ tapastaptamācaritaṃ yaccānyat stutinamaskārādikaṃ kṛtaṃ he pārtha arjuna tat p. 327) asadityucyate | asatkarmetyevocyate | asatkarma pretya maraṇāntaramapi na ca noddiṣṭaphalapradaṃ bhavet no iha atrāpi na phalati | ataśśāstravihitatvaṃ śraddhā ubhayamapyāvaśyakam | natvanyatareṇa phalaprāptirityarthaḥ || 28 || aṣṭādaśādhyāyaḥ
341 SK एवमुपदेष्टव्यं सर्वमुपदिष्टं भगवता अर्जुनाय | परन्तु मुख्यविषयाणां यत्र तत्र विक्षिप्तत्वात् सुलभतया मनस अवधानं न कर्तुं शक्यमिति सर्वशास्त्रसारोऽस्मिन्नध्याये उपदिश्यते | तदनुगुणतया च प्रश्नोपक्षेपार्थमर्जुन उवाच - संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् | त्यागस्य च हृषीकेश पृथक्केशिनिषूदन || १ || हे महाबाहो केशिनिषूदन हृषीकेश इति भक्त्यतिशयेन कृष्णं प्रति संबोधनत्रयम् | केशिनामकं कञ्चन असुरं कृष्णो निषूदितवानिति भागवते कथा श्रूयते | अतस्सः केशिनीषूदन इत्युच्यते | अहं संन्यासस्य त्यागस्य च पृथक् असङ्कीर्णतया तत्त्वं निष्कृष्टस्वरूपं वेदितुं ज्ञातु-मिच्छामि | किं संन्यासस्त्यागश्च एक एव ? उत भिन्नौ ? किं तर्हि तयोः स्वरूपमित्यादिकं ज्ञातुमिछामि | तदुपदिशेत्यर्थः || १ || काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः | सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः || २ || एवं पृष्टो भगवानुवाच | काम्यानां स्वर्गादिफलकाग्निहोत्रादिकाम्य- p. 328) karmaṇāṃ nyāsaṃ tyāgameva saṃnyāsaṃ kavayaḥ paṇḍitā vidurjānanti | vicakṣaṇāśca kecitpaṇḍitāssarvakarmaphalayāgaṃ sarveṣāṃ karmaṇāṃ phalatyāgamātrameva na tu karmāṇāmeva parityajanaṃ tyāgaṃ prāhuḥ | tathā ca kāmyakarmaṇāṃ tyāgassaṃnyāsaḥ teṣāṃ phalatyajanameva tyāga ityubhayorvailakṣaṇyamityarthaḥ || 2 || tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ | yajñadānatapaḥkarma na tyājyamiti cāpare || 3 || eke manīṣiṇaḥ paṇḍitāstu doṣavat bandharūpadoṣāpādakatvāt karma karmasāmānyamapi tyājyamiti prāhuḥ | apare ca vidvāṃso yajñadānatapaḥ karma yajñadānādirūpaṃ karma na tyājyaṃ sarvathā na tyaktumarhamiti prāhuḥ | deśahitadṛṣṭyā paraśivatuṣṭyai sakalaṃ karma ācaraṇīyameva || 3 || niścayaṃ śṛṇu me tatra tyāge bharatasattama | tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ || 4 ||
342 SK एवं पण्डितानामेव परस्परमभिप्रायभेदे कस्तर्हि सिद्धान्तः ? इति शङ्कायां भगवानाह | हे भरतसत्तम अर्जुन तत्र उक्तविषये निश्चयं मे मत्सकाशात् शृणु | हे पुरुषव्याघ्र पुरुषश्रेष्ठ अर्जुन त्यागो हि त्रिविधस्त्रिप्रकारस्स्मृतः || ४ || यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् | यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् || ५ || के ते प्रकारा इत्यत्र सात्विकराजसतामसभेदेन त्रैविध्यं नियतस्य तु संन्यासः इत्यादिना वक्ष्यन् प्राक् सिद्धांतं तावदाह | यज्ञो दानं तप इत्यादिकं यत्कर्म तत् न त्याज्यमेव न त्यक्तुमर्हं किन्तु तत्कर्म कार्यमेव | कुत इति चेत् यज्ञो दानं तपश्चेति एतानि कर्माणि मनीषिणां मनुष्याणां पावनानि पवित्राणि सर्वपापहराणि | अतो न त्याज्यानि तानि || ५ || प्. ३२९) एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च | कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् || ६ || हे पार्थ अर्जुन एतानि पुर्वोक्तानि कर्माणि सङ्गं तदीयासक्तिं फलानि तत्फलानि च त्यक्त्वा कर्तव्यान्येवेति मे मम निश्चितमुत्तमं मतं सिद्धांतः | एवं च सङ्गत्यागपूर्वकं कर्माचरणं आवश्यकमेवेति तेषां कर्मणां संपूर्णतस्त्यागो न युक्त एवेत्यर्थः || ६ || नियतस्य तु संन्यासः कर्मणो नोपपद्यते | मोहात्तस्य परित्यागस्तामसः परिकीर्तितः || ७ || एवं फलत्यागमन्तरा स्वरूपत एव नियतस्य स्वस्ववर्णाश्रमधर्मत्वेन नित्यप्राप्तस्य कर्मणस्संन्यासस्त्यागो नोपपद्यते न युज्यत एव | अतो मोहाद- duḥkhamityeva yatkarma kāyakleśabhayāttyajet | sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet || 8 || duḥkhaṃ kartuṃ kleśo bhavatītyeva kāraṇāt kāyakleśabhayāt kāyakleśo bhavatīti bhītyā yaḥ karma tyajet sa rājasaṃ tyāgaṃ kṛtvā tyāgaphalaṃ naiva labhet prāpnuyāt | ālasyādinā karmatyāgo rājasa ityarthaḥ || 8 || kāryamityeva yatkarma niyataṃ kriyate'rjuna | saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sātviko mataḥ || 9 ||
343 SK अथ सात्त्विकं त्यागमुपादेयमाह | हे अर्जुन नियतं शास्त्रतः नियमप्राप्तं कार्यमित्येव मम कर्तव्यमिदं इति भावनयैव केवलं सङ्गं बन्दुमित्रादिमोहं त्यक्त्वा फलानि कर्मफलसंबन्धं परित्यज्य यत्कर्म क्रियते स त्यागस्सात्विको मतः | फलसङ्गत्याग एव सात्विकत्यागः | कर्मणां पूर्णत्यागस्तु तामसः | आलस्यादिना तत्त्यागस्तु राजस इति त्यागत्रैविध्यमुक्तम् || ९ || प्. ३३०) न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते | त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः || १० || एतादृशसात्विकत्यागशीलं प्रशंसति | त्यागी उक्तसात्विकत्यागशीलोऽत एव सत्त्वसमाविष्टस्सत्त्वगुणसंपन्नो मेधावी बुद्धिमान् छिन्नसंशयः कर्तव्यत्वांशे संशयरहितः यः सः अकुशलं कर्मापि न द्वेष्टि कुशले कर्मण्यपि नानुषज्जते नासक्तो भवति | यतस्तस्य कुत्रापि सङ्गो न विद्यते फलापेक्षापि नास्ति अतस्तस्य सर्वमपि कर्म एकरूपमेव भवेत् || १० || न हि देहभृता शक्यं त्यक्तुं कर्माण्यशोषतः | यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते || ११ || पूर्णत्याग एव त्यागशब्दार्थः कुतो न स्यादित्यत्राह | देहभृता प्राणिमात्रेण अशेषतः पूर्णतः त्यक्तुं न हि शक्यम् | अन्ततः शरीररक्षणार्थं भोजनादीनां वा कर्मणामनिवार्यतैवेति सर्वानुभवसम्मतम् | अतो यस्तु कर्मफलत्यागी न तु कर्मत्यागी स एव त्यागित्यभिधीयते || अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् | भवत्यत्यागिनां प्रेत्य न संन्यासिनां क्वचित् || १२ || एवं सङ्गफलत्याग एव त्यागशब्दार्थ इत्युक्त्वा एतादृशं त्यागमकुर्वतां निन्दामप्याह | अत्यागिनां एवमुक्तत्यागमकुर्वतां तथैव कर्माण्याचरतां नराणां कर्मणः फलभूतमनिष्टं इष्टं मिश्रं वा फलं प्रेत्य मरणान्तरं भवत्येव | यतस्ते फलत्यागमकृतवन्तोऽतः फलं तैरवश्यमनुभवितव्यमेव | संन्यासिनां त्यागिनां तु क्वचिदपि एवं फलप्राप्तिर्न तु नैव संभवति | अतस्त्याग एव कर्तव्य इत्यर्थः || १२ ||
344 SK पञ्चैतानि महाबाहो कारणानि निबोध मे | सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् || १३ || एवं कर्मणां पूर्णत्यागः न कर्तुं शक्य एवेति न हि देहभृता शक्य- p. 331) mityādinā uktam | tatra karmaṇā kartṛtvasvarūpamāha | he mahābāho imāni vakṣyamāṇāni sarvakarmaṇāmapi siddhaye kāraṇāni sāṃkhye kṛtāṃte sāṃkhyasiddhānte proktāni me mama sakāśāt nibodha jānīhi | anukramaviruddhamanyato grahyaṃ iti nyāyena sāṃkhyamate uktatve'pi vedāntināmasmākamapyaviruddhatvāt tāni upādeyānyeva | na tu vṛthā dveṣaḥ kutrāpi kartavya iti sūcanāya sāṃkhye kṛtānte ityuktam || 13 || adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthakvidham | vividhāśca pṛthakceṣṭāḥ daivaṃ caivātra pañcamam || 14 || kāni tāni pañcetyatrāha | adhiṣṭhānaṃ śarīram | śarīraṃ hi sarvasya vyāpārasyādhārabhūtam | tacca pṛthagvidhaṃ nānāvidham | indriyāṇi hi ekādaśa | tathā pṛthagvidhā vilakṣaṇā vividhāśceṣṭāśśarīravyāpārāḥ | atraivaṃ kāryanirvartane daivaṃ caiva pañcamaṃ kāraṇamucyate || 14 || śarīravāṅmanobhiryatkarma prārabhate naraḥ | nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ || 15 || naro manuṣyaḥ śarīravāṅmanobhiḥ śarīreṇa vācā manasā vā yatkarma nyāyyaṃ dharmayuktaṃ tadviparītaṃ vā adharmarūpaṃ vā ārabhate | sarvavidhasyāpi karmaṇastasyaite pañca militvaiva hetavaḥ kāraṇabhūtāni | na tu eṣu ekamātraṃ kāraṇaṃ bhavet || 15 || tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ | paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ || 16 || tathā kāryanirvartanaviṣaye evaṃ sati evaṃ rītyā pañcabhirnirvartyamāne kārye yaḥ mūḍhaḥ ātmānaṃ kevalaṃ ātmānameva kartāraṃ paśyati jānāti saḥ durmatirduṣṭabuddhiyuktaḥ | ata eva na paśyati tattvaṃ naiva jānāti | pañcabhiḥ kriyamāṇe vyāpāre ātmānameva kartāraṃ paśyeccet saḥ mūḍha evetyarthaḥ || p. 332)
345 SK यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते | हत्वापि स इमाṁल्लोकान्न हन्ति न निबध्यते || १७ || विवेकिनः स्वरूपमाह | यस्य तु विवेकिनो भावः मनोभावः नाहंकृतः अहङ्कारयुक्तो न भवति यस्य च बुद्धिः तेषु कर्मसु न लिप्यते अहमेव कर्म करोमीति न सक्ता भवति स इमान् सर्वान् लोकान् हत्वापि हननकर्ता भवेच्चेदपि तान् न हन्त्येव | अत एव न निबध्यते | तत्प्रयुक्तबन्धपरवशो न भवति | केवलस्य आत्मनः कर्तृत्वाभावात् सः हननकर्तापि न भवति | अत एव तत्प्रयुक्तपापभागपि न भवतीत्यर्थः || १७ || ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना | करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः || १८ || कर्मसु मनुष्यस्य प्रवर्तककारणमाह | ज्ञानं ज्ञेयं परिज्ञाता ज्ञाता चेति कर्मचोदना कर्मविषयिणी चोदना प्रवृत्तिस्त्रिविधा त्रिप्रकारा | एतत् त्रितयं मिलित्वैव कर्मणां प्रवृत्तिर्भवति | एवं करणं कर्म कर्ता इत्यपि कर्मसंग्रहः कर्मणः संग्रहः क्रोडीकारस्त्रिविधः | एतेषु त्रितयेष्वेव कर्महेतुत्वं पर्याप्तमित्यर्थः || १८ || ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः | प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि || १९ || एवमेतादृशेषु ज्ञानादिषु सात्विकादिभेदानाह | ज्ञानं कर्म कर्ता योऽयं निर्दिष्टः सः गुणसंख्याने सत्वादिगुणमूलकतया गणने कृते भेदतः सत्त्वादिगुणत्रैविध्यात् त्रिधा प्रोच्यते | तान्यपि मया वक्ष्यमाणानि यथावत् शृणु || सर्वभूतेषु येनैकं भावमव्ययमीक्षते | अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् || २० || प्रथमं सात्विकज्ञानमाह | विभक्तेषु अव्यक्तादिस्थावरान्तत्वेन विभक्तेषु सर्वभूतेषु सर्ववस्तुष्वपि येन ज्ञानेन विभागरहितं एकं भावं समताभावं प्. ३३३) ईक्षते पश्यति जीवः तत् ज्ञानं सात्विकं विद्धि | एवं सर्वत्र समताभावनाहेतुभूतं ज्ञानं सात्विकमित्यर्थः || २० ||
346 SK पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् | वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् || २१ || यच्च ज्ञानं सर्वेषु भूतेषु सर्ववस्तुषु पृथग्विधान् परस्परविलक्षणान् नानाभावान् नानात्वानि | वैविध्यमित्यर्थः | पृथक्त्वेनैव यथावदेव पृथक्त्वेन वेत्ति तत् ज्ञानं राजसं विद्धि | यथा प्रतीयमानतयैव यत् ज्ञानं भवति तद्राजसमित्यर्थः || २१ || यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् | अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् || २२ || यत्तु ज्ञानं कृत्स्नवत् समस्तमप्येकस्मिन्नेव कार्ये सक्तं न त्वन्यं लेशतोऽपि स्पृशति तत्रैव परिसमाप्यते अहेतुकं समीचीनकारणं विनैव यदृच्छया च जायते | अत एवाल्पमेकस्मिन्नेव परिसमाप्तत्वात् | अतत्त्वार्थवत् अतत्त्वार्थविषयकं च तत् ज्ञानं तामसमुदाहृतम् || २२ || नियतं सङ्गरहितमरागद्वेषतः कृतम् | अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते || २३ || अथ कर्मणः सात्त्विकादिभेदमाह | नियतं शास्त्रनियमप्राप्तं सङ्ग- arāgadveṣataḥ rāgadveṣamantarā kṛtaṃ yatkarma tat sātvikamucyate || 23 || yattatkāmepsunā karma sāhaṃkāreṇa vā punaḥ | kriyate bahulāyāsaṃ tadrājasamāhṛtam || 24 || yattu karma kāmepsunā phalecchāvatā sāhaṅkāreṇa vā ahaṅkārayuktena p. 334) vā puruṣeṇa bahulāyāsaṃ bahuvidhakleśasahitaṃ yat karma kriyate tat karma rājasamudāhṛtam || 24 || anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam | mohādārabhyate karma yattattāmasamucyate || 25 || anubandhaṃ paścādbhāvi anarthaphalaṃ kṣayaṃ ātmana eva nāśaṃ hiṃsāṃ vā tena jāyamānāṃ svaparapīḍāṃ pauruṣaṃ ātmanaḥ śaktiṃ vā anapekṣya acintayitvā mohāt ajñānāt yatkarma ārabhyate tatkarma tāmasamucyate || 25 || muktasaṅgo'nahaṃ vādī dhṛtyutsāhasamanvitaḥ | siddhyasiddhyornirvikāraḥ kartā sātvika ucyate || 26 ||
347 SK अथ कर्तुस्त्रैविध्यमाह | मुक्तसङ्गः कर्मसु स्वकर्तृत्वसङ्गरहितः | अनहंवादी अहंङ्काररहितो धृत्युत्साहसमन्वितो धृत्या धैर्येणोत्सहेन च युक्तः | एवमेव सिद्ध्यसिद्ध्योः फलसिद्धावसिद्धौ वा निर्विकारो विकाररहित एकरूपतया वर्तमानः कर्ता सात्विक उच्यते || २६ || रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः | हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः || २७ || रागी आसक्तिमान् कर्मफलप्रेप्सुः कर्मफलापेक्षावान् लुब्धो लौभ्ययुक्तः | हिंसात्मकः परपीडास्वभावः | अशुचिरशुद्धः | हर्षशोकान्वितः फला- ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko'lasaḥ | viṣādī dīrghasūtrī ca kartā tāmasa ucyate || 28 || ayuktaḥ asamāhitaḥ prākṛto'saṃskṛtabuddhiḥ stabdho'vinītaḥ śaṭho mūrkhaḥ naiṣkṛtiko mātsaryavān alasaḥ prayatnaśūnyo viṣādī sadā duḥkhī dīrghasūtrī vilambena karmakaraśca kartā tāmasa ucyate || 28 || p. 335) buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu | procyamānamaśeṣeṇa pṛthaktvena dhanaṃjaya || 29 || atha buddherdhṛteśca sātvikādibhedaṃ pratijānīte | he dhanañjaya arjuna buddherdhṛteśca guṇataḥ satvādibhyastrividhabhedaṃ pṛthaktvena vilakṣaṇatvena aśeṣeṇa kṛtsnaśo mayā procyamānaṃ śṛṇu | ahaṃ vadiṣyāmi śṛṇviti bhagavānarjunaṃ vadati || 29 || pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye | bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī || 30 || he pārtha arjuna pravṛttiṃ bandhahetubhūtaṃ pravṛttimārgaṃ nivṛttiṃ mokṣa-hetubhūtaṃ nivṛttimārgaṃ evaṃ kāryākārye idaṃ kāryaṃ idamakāryamiti evaṃ bhayābhaye idaṃ bhayakāraṇaṃ idamabhayakāraṇamiti evameva sarvasyāpi phalabhūtaṃ bandhaṃ mokṣaṃ ca bandhasya mokṣasya ca svarūpaṃ yā buddhirvetti sā buddhiḥ sātvikī matā || 30 || yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca | ayathāvatprajānāti buddhiḥ sā pārtha rājasī || 31 ||
348 SK हे पार्थ अर्जुन धर्ममधर्मं कार्यमकार्यं वा अन्यद्वा उक्तं भया- yathā vartate tathā niṣkarṣeṇa na jānāti sā buddhiḥ rājasī || 31 || adharmaṃ dharmamiti yā manyate tamasāvṛtā | sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī || 32 || he pārtha yā tu buddhistamasā tamoguṇena āvṛttā ācchāditā adharmaṃ dharmamiti akāryaṃ kāryamityevaṃrītyā sarvānapyarthān viparītatayaiva jānāti sā buddhistāmasīti kathyate || 32 || dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ | yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī || 33 || p. 336) dhṛtibhedamāha | yayā dhṛtyā manaḥprāṇendriyakriyāssarvāḥ manasaḥ prāṇasya pañcavidhasya prāṇavāyoḥ indriyāṇāṃ cakṣurādīnāṃ ca sarvāḥ kriyāḥ tattadvyāpārān avyabhicāriṇyā avicchinnayā yayā dhṛtyā yogena yogabalena dhārayate vyavasthāpayati sā dhṛtiḥ sātvikī smṛtā || 33 || yayā tu dharmakāmārthāndhṛtyā dhārayate'rjuna | prasaṅgena phalākāṃkṣī dhṛtiḥ sā pārtha rājasī || 34 || he pārtha yayā dhṛtyā dharmakāmārthān mokṣavyatiriktapuruṣārthān prasaṅgena teṣvāsaktyā phalākāṃkṣī san phalāpekṣāviśiṣṭaḥ san dhārayate sā dhṛtī rājasī smṛtā || 34 || yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca | na vimuñcati durmedhāḥ dhṛtiḥ sā pārtha tāmasī || 35 || durmedhā durbuddhiḥ puruṣo yayā dhṛtyā svapnaṃ nidrāṃ bhayaṃ bhītiṃ śokaṃ manaso viṣādaṃ itarendriyāṇāṃ madamavalepaṃ ca na vimuñcati tatraivāsakto bhavati sā dhṛtistāmasī matā || 35 || sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha | abhyāsādramate yatra duḥkhāntaṃ ca nigacchati || 36 || atha sukhabhedaṃ pratijānīte | he bharatarṣabha arjuna idānīṃ trividhaṃ sukhaṃ me mattaḥ śṛṇu | yatra yasmin sukhe tadanubhave abhyāsāt abhyāsavaśāt ramate duḥkhāntaṃ duḥkhanāśaṃ ca nigacchati mānavaḥ tādṛśaṃ trividhasukha- यत्तदग्रे विषमिव परिणामेऽमृतोपमम् | तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् || ३७ ||
349 SK अग्रे आरम्भे पुरतः विषमिव दुःखमिव भयात् परिणामे अन्ते च प्. ३३७) अमृतोपमममृततुल्यं स्यात् आत्मबुद्धिप्रसादजं आत्मनो बुद्धेः प्रसादेन प्रसन्नतया जातन्तु यत्सुखं तत् सात्विकमभिधीयते || ३७ || विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् | परिणामे विषमिव तत्सुखं राजसं स्मृतम् || ३८ || यत्सुखमग्रे पूर्वमारम्भे विषयेन्द्रियसंयोगात् शब्दादिविषयाणां श्रोत्रादीन्द्रियाणां च सम्बन्धात् जातममृतोपमममृतसदृशं परिणामे च विषमिव दुःखमयमेव स्यात् तत्सुखमेव राजसं स्मृतम् || ३८ || यदग्रे चानुबन्धे च सुखं मोहनमात्मनः | निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् || ३९ || यत्तु सुखमग्रे आरम्भेऽनुबन्धे परिणामे च आत्मनो मोहजनकमेव निद्रा- na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ | sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāt tribhirguṇaiḥ || 40 || tathā ca sattvarajastamasāṃ bhedānuktvā teṣāṃ vyāptimāha | pṛthivyāṃ bhūloke divi deveṣu dyulokagateṣu deveṣu vā yatsattvameva prāṇijātamasti teṣvekamapi ebhistribhiḥ prakṛtijairguṇaissattvādibhirmuktaṃ varjitameva nāsti | prāṇijātasya sarvasyāpi triguṇasaṃbandha avarjanīya ityarthaḥ || 40 || evaṃ saṃsārasyāsya triguṇavyāptatvāt tadanuguṇavailakṣaṇasyāvarjanīya- अतस्तत्तत्कर्तव्यमेव एकैकोऽपि ज्ञात्वा तदनुगुणतया वर्तयित्वा बन्धात् मुक्तो भवेत् | अतो मानुषेष्वपि तत्तत्सत्वादिगुणभेदेन ब्राह्मणादिवर्णाश्रमधर्मास्सृष्टिसहजसिद्धाः | तदनुरूपान् धर्मान् ज्ञात्वा अनुष्ठाय साधको मुक्तो भवेदित्येतदर्थमेव वर्णधर्मान् प्रतिजानीते - प्. ३३८) ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप | कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः || ४१ || हे परन्तप अर्जुन ब्राह्मणक्षत्रियविशां शूद्राणाम् | विशो वैश्याः | एषामेव चतुर्णा कर्माणि कर्तव्यानि स्वभावप्रभवैर्गुणैः सहजसिद्धै- śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca | jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam || 42 ||
350 SK तत्र शमो मनोजयः | दमो बाह्येन्द्रियजयः | तपः प्रसिद्धम् | शौचमेव तु परिशुद्धिः | क्षान्तिस्सहना | आर्जवञ्च ऋजुत्वम् | ज्ञानं सात्विकं पूर्वमुक्तम् | विज्ञानं शास्त्राध्ययनजन्यमनेकविधं ज्ञानम् | अस्तिक्यमेव श्रद्धा | इतीदमेव कर्म स्वभावजं सहजसिद्धमेव ब्रह्मकर्म ब्राह्मणकर्म प्रोक्तम् || ४२ || शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् | दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् || ४३ || शौर्यं शूरभावः | तेजस्साहजिकः प्रभावः | धृतिर्धैर्यम् | दाक्ष्यमपि दक्षता | युद्धे रणरङ्गे अपलायनमपराङ्मुखत्वम् | दानमीश्वरभावो नियन्त्रणमपि चेति इदमेव स्वभावजं क्षात्रकर्म क्षात्रियस्य कर्म प्रोक्तम् || ४३ || कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् | परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् || ४४ || कृषिर्व्यवसायः गोरक्षणमेव पशुपालनं वाणिज्यमेव व्यापारः स्वभावजं वैश्यकर्म वैश्यस्य कर्म प्रोक्तम् | शूद्रस्य परिचर्यात्मक- tattatprakṛtibhedādeva brāhmaṇādivibhāgaḥ tatprayuktaḥ karmavibhāgaścāvarjanīya ityarthaḥ || 44 || sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ | svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu || 45 || p. 339) atha evamupadeśasya phalaṃ nirdiśati | sve sve karmaṇi ukte sve sve kartavye abhirata ābhimukhyena āsakto narassaṃsiddhiṃ mokṣaṃ labhate | svakarmanirataḥ svasya varṇāśramadharmaniṣṭho naraḥ siddhiṃ śivaikyarūpamokṣaṃ jīvitakāla eva yathā yena prakāreṇa vindati prāpnoti tameva prakāramadya vakṣyāmi śṛṇu || 45 || yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam | svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ || 46 ||
351 SK भूतानां सर्वप्राणिनां यतो यस्मान्मूलात् प्रवृत्तिः येन च वस्तुना परशिवाख्येन सर्वं जगत् ततं व्याप्तं तमेव परशिवं साधकः स्वकर्मणा स्वस्ववर्णधर्मानुष्ठानेन पूजयित्वा सिद्धिं विन्दति प्राप्नोति | तथा च वर्णाश्रमधर्मानुष्ठानमपि सर्वजगन्मूलभूतपरशिवार्चन- muktirbhavatyevetyatra na saṃśayasyāvakāśa ityarthaḥ || 46 || śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt | svabhāvaniyataṃ karma kurvannāpnoti kilviṣam || 47 || tasmāt svanuṣṭitāt samyaganuṣṭhitāt guṇayuktādapi paradharmāt svavarṇāśramavyatiriktāt dharmāt viguṇo'pi kiñcidguṇahīno'pi svadharmaḥ svasvavarṇāśramadharmatvena prāpto dharma eva śreyān śreṣṭhaḥ | upādeya ityarthaḥ | kuta ityatrāha svabhāvetyādi | sṛṣṭisahajasiddhasvabhāvānurūpaṃ karma kurvan puruṣaḥ kilviṣaṃ pāpaṃ nāpnoti na kadāpi prāpnoti paravarṇadharmastu paratvādeva āpātataḥ svahitatvena bhāsamāno'pi svasahajasiddhaguṇānanurūpatvāt apāyakāri bhavati || 47 || sahajaṃ karma kaunteya sadoṣamapi na tyajet | sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ || 48 || etadeva vivṛṇoti | he kaunteya arjuna svasvabhāvasiddhaṃ karma sadoṣamapi kiñcidviguṇatvena bhāsamānamapi na tyajen tāvatā na parityajet | hi yasmāt- किंचिंत्किंचिंन्मलदोषेण आवृता युक्ता एव | सर्वस्य वस्तुनस्त्रिगुण- p. 340) sattvarajastamasāṃ trayāṇāmapi sattvaguṇasya rajastamobhāgakṛtatayā sarvatrāpi kiṃcitkiṃcit nyūnatā tu sṛṣṭisahajaiva | atastāvanmātreṇa svadharmaṃ naro na kadāpi tyajediti bhāvaḥ | tatra dṛṣṭānto dhūmenāgniriveti | prakāśasvarūpa-syāpyagneḥ dhūmassahaja eva guṇastamo'dhīno dṛśyata evetyarthaḥ || 48 || asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ | naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati || 49 ||
352 SK अतस्स्वसहजं कर्म कुर्यादेवेत्याह | सर्वत्र सर्वेष्वपि विषयेषु असक्तबुद्धिरसक्ता अनासक्ता बुद्धिर्यस्य तादृक् सङ्गरहितः | जितात्मा जितान्तःकरणो विगतस्पृहः फलापेक्षारहितश्च सन् संन्यासेन उक्तरूपेण एतदध्यायारम्भोक्तेन फलत्यागरूपेण परमामुत्तमां नैष्कर्म्य- viguṇasyāpi svadharmasyāpi phalāpekṣāṃ vinā karaṇe tattvajñānasiddhir- शिवज्ञानोदयेन सर्वविधमलकर्महानिर्जायते || ४९ || सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे | समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा || ५० || एतादृशसिद्धेः फलमपि संक्षिप्याह | हे कौन्तेय ज्ञानस्य या परा निष्ठा काष्ठा तादृशीमेव सिद्धिं प्राप्तस्तु परशिवब्रह्म यथाप्नोति तत्प्रकारमपि समासेनैव संक्षेपेणैव मे मत्तो निबोध शृणु || ५० || बुद्ध्या विशुद्ध्या युक्तो धृत्यात्मानं नियम्य च | शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च || ५१ || विविक्तसेवी लघ्वाशी यतवाक्कायमानसः | ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः || ५२ || अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् | विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते || ५३ || विशुद्धया दोषरहितया बुद्ध्या युक्तस्सहितो ह्यात्मानं मनस्तु धृत्या प्. ३४१) दृढनिर्णयेन नियम्य दमनं कृत्वा शब्दादीन् ब्रह्मविषयान् युक्त्वा रागद्वेषादींश्च व्युदस्य निरस्य विविक्तसेवी एकान्तप्रियो लघ्वाशी अल्पाहारवान् यतवाक्कायमानसो नियमितशरीरवाङ्मनाः सदा ध्यान-योगपरश्च परमात्मध्यानपरो वैराग्यं परमात्मातिरिक्तविषये रागाभावं समुपाश्रितस्सम्यगुपाश्रितः अहङ्कारं स्वसामर्थ्यं दर्पमदकामक्रोधांश्च परिग्रहं बाह्योपकरणसंग्रहं च विमुच्य निर्ममो ममतारहितः अत एव शान्तो मनुष्यो ब्रह्मभयाय ब्रह्मभावाय कल्पते समर्थो भवति परशिवैक्यसुखमनुभवितुमर्हो भवति | तथा च ज्ञानस्य परा निष्ठा तु शिवैक्यानुभव एवेत्यर्थः || ५१-५३ ||
353 SK ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति | समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् || ५४ || ब्रह्मभूतः एतादृशशिवसामरस्यमापन्नस्तु प्रसन्नात्मा प्रसन्नचित्तस्सन् न कांक्षति सुखदुःखादिकमेव न गणयति | एतादृशस्तु सः सर्वेषु भूतेषु समस्समताभाववान् परामेव मद्भक्तिं भक्तेः परां काष्ठां निष्कामरूपिणीं शिवैक्यरूपकैवल्यसाधिकां श्रेष्ठां भक्तिं लभते | इतरविधास्तु भक्तयः सोपानरूपा ह्यैहिकफलसाधिकाः | परा भक्तिस्तु मुक्तस्य चिदाकाशरूपभावलिङ्गसामरस्यसंपादिकेति विशेषः | इयमेव भक्तिः षट्स्थलोपासनमार्गे समुपयुज्यते | सा च श्रद्धा- bhakteravasthāviśeṣāḥ mānaveṣu bhaktivikāsaṃ prakāśayanti | bhaktastu śraddhābhaktyā ārabhya niṣṭhādikrameṇa samarasabhakterācaraṇena hṛdayasthe prāṇaliṅge śirovirājamāne bhāvaliṅge ca samarasatayā vilīno bhutvā dagdhapaṭa iva loke nivasati | asmin viṣaye'dhikaṃ śaktiviśiṣṭādvaitadarśanasyottare bhāge'valokanīyam || 54 || bhaktyā māmabhijānāti yāvanyaścāsmi tattvataḥ | tato māṃ tattvato jñātvā viśate tadanantaram || 55 || tādṛśyā ca parayā bhaktyā ahaṃ tattvato yāvān yāvatpramāṇo yaśca p. 342) yādṛśaścāsmi tādṛśameva māmabhijānāti samyak jānāti bhaktaḥ | tadanantaraṃ māmeva tattvato jñātvā tata eva hetormāmeva viśate praviśati | bhaktyā tvanatyayā śakyaḥ iti pūrvamevoktam tathā ca jñānaniṣṭhāyāḥ parākāṣṭhā paraśivena sahaikībhāva evatyarthaḥ || 55 || sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ | matprasādādavāpnoti śāśvataṃ padamavyayam || 56 || tathā ca niṣkarṣatayā sarvamapi śāstrārthamupadiśya upasaṃhāraṃ āhatya etāvāneva sārāṃśa iti vaktumupakramate | sadā sarvakāle'pi madvyapāśrayo māmevāśritya vartamānassan sarvakarmāṇyapi kurvāṇassarvo'pi naro matprasādāt madanugrahādeva nityamavyayaṃ nāśarahitameva padamamṛta-sthānarūpaṃ mokṣamavāpnoti || 56 ||
354 SK चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः | बुद्धियोगमुपाश्रित्य मच्चितः सततं भव || ५७ || अतस्त्वमपि सर्वकर्माणि त्वया क्रियमाणानि चेतसा मनसा मयि परमेश्वरे संन्यस्यार्पयित्वा मत्परो मदेकपर एतादृशमेव बुद्धियोगं ज्ञानयोग-मुपाश्रित्यावलम्ब्य मच्चितो मदेकपरचित्तस्सन् सततं सदा भव वर्तस्व || मच्चितः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि | अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि || ५८ || एवमेव मच्चित्तस्त्वं मत्प्रसादादेव सर्वदुर्गाणि सर्वाण्यप्यनिष्टानि तरिष्यसि | अथ चेद्यदि च मयोक्तमिदमपि त्वमहङ्कारादहमपि सर्वज्ञ एवेति दुरहङ्कारात् न श्रोष्यसि तर्हि विनंक्ष्यसि नाशमवाप्स्यसि || ५८ || यदहंकारमाश्रित्य न योत्स्य इति मन्यसे | मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति || ५९ || भगवत्सङ्कल्पाननुसरणात् न तवेष्टसिद्धिरित्याह | अहंकारमाश्रित्य न योस्ये इति यच्च त्वं मन्यसे तदा एष ते व्यवसायो निश्चयः मित्थ्यैव प्. ३४३) भविष्यति | यतस्त्वां त्वत्प्रकृतिरेव नियोक्ष्यति कर्मानुष्ठानाय प्रेरयिष्यति | सर्वथा भवतो योद्धव्यतैव भविष्यतीत्यर्थः || ५९ || स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा | कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् || ६० || एतदेवाह - हे कौन्तेय अर्जुन | स्वभावजेन स्वेन कर्मणा निबद्धस्त्वं मोहादज्ञानात् यत्कर्तुमिदानीं नेच्छसि तदेव त्वमवश एव गत्यन्तराभावेन प्रकृतिवशङ्गतस्सर्वमपि कर्म प्रकृते प्रसक्तमिदं युद्धमवश्यं करिष्यसि || ६० || ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया || ६१ ||
355 SK कुत इत्यत्राह हे अर्जुन सर्वभूतानामपि ईश्वरः परमात्मा यन्त्रारूढानीव यन्त्रनिबद्धानीव सर्वभूतान्यपि सर्वान् जीवान् मायया स्वाचिन्त्यमायाशक्ता भ्रामयन् चालयन् हृद्देशे तिष्ठति | अतो न कोऽपि तमतिक्रम्य किञ्चिदपि कर्तुं शक्नोति | सर्वेऽपि व्यवहारास्तदिच्छानुरोधे-नैव सहजतया प्रवर्तन्ते | तदानीं यस्सन्तोषेण सहकारहस्तो भवति स एव सुखं विन्दते | अत एवेश्वरेच्छा बलीयसी स्मृता || ६१ || तमेव शरणं गच्छ सर्वभावेन भारत | तत्प्रसादात्परां शान्ति स्थानं प्राप्स्यसि शाश्वतम् || ६२ || अतस्त्वमपि तमेव परमात्मानं शरणं गच्छेत्याह | हे भारत अर्जुन तमेव तव हृदये वर्तमानं तव प्रेरकं परमात्मानं सर्वभावेन सर्वात्मना न केवलं बाह्यदृष्ट्या परन्त्वात्मना च शरणं गच्छ | तत्प्रसादादेव त्वं परां शान्तिं शाश्वतं स्थानं च प्राप्स्यसि | शान्तेर्नान्या गतिस्तव वर्तत इत्यर्थः || इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया | विमृश्यैतदशेषेण यथेच्छसि तथा कुरु || ६३ || ते तुभ्यं इत्येवंरीत्या गुह्याद्रहस्यादपि गुह्यतरं परमरहस्यं ज्ञानं मया शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नं इति भवता शरणकरणात् आख्यात- प्. ३४४) मुपदिष्टम् | एतन्मदुक्तमशेषेण संपूर्णतो विमृश्य पर्यालोच्य यथेच्छसि यथा ते रोचते तथा त्वं कुरु || ६३ || सर्वगुह्यतमं भूयः शृणु मे परमं वचः | इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् || ६४ || एवं वदन्नपि भगवान् कारुण्यात्पुनराह | सर्वगुह्यतमं सर्वेभ्योऽपि रहस्येभ्यः परमं रहस्य गंभीरतमं मे वचो भूयः पुनरुच्यमानं शृणु | त्वं मे दृढमिष्टोऽसि मम अतीव प्रियोऽसि इति कारणात् ततस्ते हितं वक्ष्यामि | त्वयि तूष्णीं स्थितेऽपि मया तथा स्त्थतुं न शक्यते | अत एव पुनश्चोपदिशामि | सावधानेन मनसा शृणु || ६४ || मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे || ६५ ||
356 SK किं तदित्यत्राह | त्वं सदा मन्मना भव | मदेकचित्तो भव | एवं मद्भक्तो भव | भीत्यादिनापि कंसादीनां तदेकचित्तत्वमासीत् | तन्निवारणयेद- namaskuru | evaṃ kurvan tvaṃ māmeva paramātmānameṣyasi prāpsyasi | idaṃ ca satyam | iti te pratijāne pratijñāṃ karomi | tvaṃ ca me mama priyaḥ | atastvatsamīpe na hyasatyaṃ vadeyamityarthaḥ || 65 || sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja | ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ || 66 || evaṃ madyajanādyaśaktau tvaṃ sarvadharmān bhavataḥ kartavyatvena prāptān sarvānapi prakṛtidharmān tyaktvā anuṣṭhātumaśaktau tadvarjayitvā māmekaṃ sarvalokeśvaraṃ sarvapāpaharamadvitīyamamūrtaparameśvaraṃ śaraṇaṃ vraja rakṣakatvena śaraṇāgato bhava | evaṃ kurvantaṃ tvā tvāṃ madaṃśamahameva sarveśvarassarvaśaktassarvapāpebhyo'śaktatāyāḥ svadharmatyāgamūlakasarva- प्. ३४५) मनीषिणाम् स्वधर्मे निरतः सिद्धिं यथा विन्दति इत्यादिषु स्वस्वाधिकार- puruṣaḥ paramātmānameva śaraṇaṃ gacchet | loke'pi svarakṣaṇā'śaktāḥ puruṣāḥ śaktaṃpuruṣāntaramāśritya ātmānaṃ saṃrakṣanti | tadvadeva svadharmācaraṇādau aśaktasya ātmano rakṣaṇaṃ cāpekṣamāṇasya puruṣasya bhagavāneva rakṣako bhavatītyarthaḥ | ayamevārthassarvaśāstrasārabhūta ityante upadeśādavagamyate | anenaiva ślokena gītāśāstropadeśaḥ parisamāpyate bhagavatā || 66 || idaṃ te nātapaskāya nābhaktāya kadācana | na cāśuśrūṣave vācyaṃ na ca māṃ yo'bhyasūyati || 67 || evaṃ karuṇayopadiṣṭamidaṃ śāstramapātre nopadeṣṭavyamiti kathayati | te tubhyaṃ proktamidaṃ śāstraṃ atapaskāya tapaśśaktirahitāya narāya na vācyam | evamabhaktāya mūrtāmūrtasvarūpiṇi mayi bhaktirahitāya tu kadācana kadāpi na vācyam | evamaśuśrūṣave śrotumicchārahitāya ādaraśūnyāya na vācyam | evameva yo māmabhyasūyati māṃ sāmānyamānavabuddhyā dṛṣṭvā asūyādikaṃ karoti tasmā api idaṃ na vācyam || 67 ||
357 SK य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति | भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः || ६८ || सत्पात्रे एतदुपदेष्टुः फलमाह | यो नरः इमं परमगुह्यं रहस्यतमं शास्त्रार्थं मद्भक्तेषु जनेष्वभिधास्यति वदिष्यति सः तावतैव मयि परां श्रेष्ठां भक्तिं कृत्वा तेन मामेव एष्यति प्राप्स्यति तदीयहृदये विराजमाने प्रकाशांरूपे मय्येव विलीयते | अत्र न संशयः | अन्यस्मै एतत्कथितवानपि मयि दृढां भक्तिं तत्फलतया मां च प्राप्नुयात् || ६८ || न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः | भविता न च मे तस्मादन्यः प्रियतरो भुवि || ६९ || तस्मादिदं शास्त्रं सत्पात्रे दत्तवतः पुरुषादन्यः कश्चिन्मनुष्यो मनुष्येषु प्. ३४६) मे प्रियकृदिष्टकृत् न च नैवास्ति | स एव मम प्रियकर्तेत्यर्थः | न तावन्मात्र-मेव परन्तु आगमिन्यपि काले भुवि लोके तस्मात् उक्तान्मनुष्यादन्यो मे प्रियतरो न च भविता नैव भविष्यति || ६९ || अध्येष्यते च य इमं धर्म्यं संवादमावयोः | ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः || ७० || धर्म्यं द्मर्मयुक्तमिममावयोस्संवादं परस्परसंभाषणरूपं गीताशास्त्रं योऽध्येष्यते तेन नरेण अहं तदीयज्ञानयज्ञेन इष्टः पूजितस्यां भवेयमिति मे मतिर्निश्चयः | श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः इति पूर्वमेवोक्तम् || श्रद्धावाननसूयश्च शृणुयादपि यो नरः | सोऽपि मुक्तः शुभाṁल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् || ७१ || अन्ततोऽध्ययनाऽकरणेऽपि स्वयमनध्ययनेऽपि अत्र श्रद्धावान् भक्तिमाननसूयश्च दोषाविष्करणबुद्धिरहितश्च य इदं शृणुयादपि सोऽपि मुक्तः पापेभ्यो विमुक्तः पुण्यकर्मणां सुकृतिनां शुभान् पुण्यान् लोकान् प्राप्नुयादेवेति निश्चयः || ७१ || कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा | कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय || ७२ ||
358 SK हे पार्थ धनञ्जय एतत् मदुपदिष्टं एकाग्रेण चेतसा त्वया कच्चित् श्रुतम् ? kṛtyākṛtyavivekabhramaḥ praṇaṣṭaḥ kaccit ? yuddhaṃ kuryāṃ vā na vā ? ityādisaṃśayastava galito vā ? || 72 || naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta | sthito'smi gatasandehaḥ kariṣye vacanaṃ tava || 73 || evaṃ bhagavanmukhādeva tattvopadeśaśravaṇāt naṣṭamoho'rjuna uvāca | he acyuta kṛṣṇa moho madīyo naṣṭaḥ | smṛtissamīcīnārthasmaraṇaṃ ca tvatprasādāt tvadanugrahāt labdhā | idānīṃ gatasandehassarvasaṃśayarahita- p. 347) ssthito'smi | tava vacanamevāhaṃ tvadadhīnassantoṣeṇa kariṣye anutiṣṭhāmi na tu prajñāvādān vadeyam || 73 || ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ | saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇaṃ || 74 || dharmakṣetre kimakurvata sañjaya iti pṛṣṭavate dhṛtarāṣṭrāya tatpravṛttaṃ udāntamanūdya sañjaya upasaṃharati | ityevaṃprakāraṃ vāsudevasya parāśaktirūpasya bhagavato mahātmanaḥ pārthasyārjunasya ca idamadbhutaṃ romaharṣaṇaṃ saṃvādaṃ ahamidānīmaśrauṣamiti ca uvāca || 74 || vyāsaprasādācchrutavānetadguhyamahaṃ param | yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam || 75 || kathaṃ bhavatā atraiva vidyamānena śrutamidaṃ gītāśāstramityatrāha | ahaṃ yogeśvarāt sakalayogānāmapi paramaprāpyāt kṛṣṇāt sākṣāt svayameva kathayataḥ etadguhyaṃ paraṃ yogaṃ vyāsaprasādāt vyāsamaharṣeranugraheṇa śrutavānasmīti sañjayo'vadat || 75 || rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam | keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ || 76 || he rājan dhṛtarāṣṭra keśavārjunayoḥ kṛṣṇārjunayorimamadbhutaṃ puṇyaṃ puṇyakaraṃ saṃvādaṃ saṃsmṛtya saṃsmṛtya muhurmuhurhṛṣyāmi | yadā yadā smarāmi tadā tadā harṣamagno bhaviṣyāmītyarthaḥ || 76 || tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ | viṣmayo me mahānrājanhṛṣyāmi ca punaḥ punaḥ || 77 ||
359 SK विशिष्य च हे राजन् धृतराष्ट्र तच्च अत्यद्भूतं हरेः श्रीकृष्णस्य रूपं विश्वरूपं अर्जुनाय प्रदर्शितं संस्मृत्य संस्मृत्य मे महान् विस्मय आश्चर्यं भवति | पुनः पुनरपि हृष्यामि च | मदीयहर्षस्य सीमैव नास्ति || ७७ || प्. ३४८) यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः | तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम || ७८ || किं बहुनोक्तेन | यत्र यस्मिन्पक्षे योगेश्वरः सकलयोगानामपि ईश्वरः परमप्राप्यः दयामयो भक्तानुग्रहपटुः श्रीकृष्णो वर्तते यत्र च पक्षे पार्थोऽर्जुनो निर्मलो दीक्षाबद्धश्च साधको वर्तते तत्रैव पक्षे श्रीस्सर्वा संपत् ध्रुवा स्थिरा नीतिश्च वर्तेत इति मम मतिर्निश्चयः | मम ध्रुवा दृढा मतिर्निश्चय इति वाऽन्वयः | यस्मिन् परमेश्वरज्ञानेन सह तत्कृपा-प्रसादसंपादिका क्रिया समुल्लसिता विराजते तत्र न केवलमैहिकसौख्यं परन्तु आमुष्मिकमपि सौख्यमेकस्मिन्नेव समये समुन्मिषतः | एवमिहपरमसुखशान्तिसाधकं कायकमहत्त्वप्रतिपादकं भक्तिवर्धकं गीताशास्त्रं मानवैस्सर्वैरपि तेषां कल्याणाय सम्यग् विज्ञायत इति दृढं विश्वस्यात्र विरम्यते || ७८ || पितुर्निदेशेन मया प्रणीतं श्रीवीरशैवानुगुणं हि भाष्यम् | गीतार्थबोधाय महेश्वरार्चासंलग्नचित्तेभ्य इदं महद्भ्यः || अष्टादशेऽब्दे गतिमभ्युपेयुषः पितुस्समाराधनकालनिर्मितम् | सदर्थकं भाष्यमदूषितात्मनः परत्र तुष्ट्यै भवतापितुर्नवम् || इति भगवद्गीतावीरशैवभाष्ये अष्टादशोऽध्यायस्समाप्तः ||
Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. bhagavadgītāvīraśaivabhāṣya [M00330].
Source