SK
श्रीशिवशिवासंवादोपनिबद्धं मेरुतन्त्रम् ओझोपख्य पण्डित रघुनाथशास्त्रिद्वारा संशोध्य टिप्पन्यादिभिः परिष्कृतम् खेमराज श्रीकृष्णदास प्रकाशन बम्ब-ई संस्करण सन् १९३५ || ॐ || || श्रीगणेशाय नमः || || श्रीगौरीशंकराभ्यां नमः || अथ मेरुतन्त्रं प्रारभ्यते | ययाऽसत्सदिवाभाति न च भाति कदापि सत् | यस्मिञ्ज्ञाते न सा भाति तस्यै तस्मै नमोनमः || १ || जलन्धरेण विजिते सुरासुरनरेऽखिले | सुक्ष्मरूपेण ते सर्वे महेशं शरणं गतः || २ || दिव्यन्यब्दसहस्राणि समाधिस्थं विलोक्य तम् | प्रार्थिता चार्चिता तैस्तु वामदक्षिणमार्गिभिः || ३ || अम्बा तदा बोधयुता नत्वा तं संव्यजिज्ञपत् | ध्यायन्ति विधिहर्याद्यास्त्वां त्वं ध्यायसि कं पुनः || ४ || मां वदन्ति परां शक्तिं त्वां वदन्ति परं शिवम् | आवयोरपि किं ध्येयं तत्त्वं मे कृपया वद || ५ || इति श्रुत्वा वचस्तस्वाः स्मित्वा किञ्चिन्महेश्वरः | उपवेश्य विधीन्द्रादीन्वाक्यमेतदुवाचह || ६ || सदाशिव उवाच | नराणां परमं वृद्धेरयुस्सौर्यश्शतं समाः | तदब्दं देवयोनीनां दिनमायुश्च तच्छतम् || ७ || वृद्ध्यते परमं तस्य मानं कलियुगस्य तत् | धर्मार्धं सार्धं सम्पूर्णं धर्मशास्त्र प्रमणतः || ८ || इदन्तु शैविविहतमैन्द्रायुर्मानवम्परम् | कृतिप्रमाणमब्दं तु समयः कायपूरकः || ९ || चतुर्दशेन्द्रसंस्थैव ब्रह्मणो दिनमुच्यते | प्. २) या ध्यायते महामाया मया तच्छ्वासनिर्गमः || १० || प्रपञ्चो ब्रह्मदिवसः कुम्भको रात्रिरस्य तु | एवं तस्या घटिकया वर्षमेकं विधेस्स्मृतम् || ११ || घटिशतमितं तस्या ब्रह्मा जीवति कीटवत् | पक्षमेकं सतीरुपं शुक्लं कृष्णं तु पार्वती || १२ || ऋतुमात्रं हरिर्जिवेद्वर्षमत्रमहं शिवः | एव सा शतवर्षा वै महाकालस्य गेहिनी || १३ || सर्पकञ्चुकवद्देहं त्यक्त्वात्यक्त्वा पुनर्युवा | महाकालस्सदा तिष्ठेत् समया विषयीकृतः || १४ || एवं श्रुत्वा वचस्तस्य देवी ब्रह्मा हरिः सुराः | अहंकारस्य विलयं कृत्वा भीता नताः पुनः || १५ ||