The Path of Mind Generation and Restraint

Cittotpādasaṃvaravidhikrama · Dईपंकरश्रीज्ञान [= Aतीश]: Cइत्तोत्पादसंवरविधिक्रम

The Path of Mind Generation and Restraint

Cittotpādasaṃvaravidhikrama

Dईपंकरश्रीज्ञान [= Aतीश]: Cइत्तोत्पादसंवरविधिक्रम

SK
Cइत्तोत्पादसंवरविधिक्रमः
SK
नमो मञ्जुश्रिये कुमारभूताय
SK
सर्वदुर्गतितो हीनं सर्वावरणवर्जितम् / बोधिचित्तं नमस्यामि सम्बुद्धपददायकम्
SK
सम्बुद्धं चापि सद्धर्म बोधिसत्त्वगणानपि / लिखामि बोधिसत्त्वानां यथावद् संवरक्रमम्
SK
तत्र प्रथमं सर्वबुद्ध-बोधिसत्त्ववन्दना-पूजादि-विधिपूर्वकम्, कल्याणमित्रे शास्तृसंज्ञाम् उत्पाद्य एवम् अध्येषितव्यम्- यथा पूर्वतथागतार्हत्-सम्यक्सम्बुद्धैः महाभूमिस्थितबोधिसत्त्वैश्च पूर्वम् अनुत्तरसम्यक्सम्बोधौ चित्तोत्पादः कृतः तथा एवं नाम्नो ममापि आचार्यो ऽनुत्तरसम्यक्सम्बोधौ चित्तम् उत्पादयेद् इति त्रिः वदेत् /
SK
एवम् अध्येष्य त्रिशरणगमनम्- समन्वाहर आचार्य / अहमेवंनामा एतत्कालप्रभृति यावद्बोधिमण्डं द्विपदानां श्रेष्ठं बुद्धं भगवन्तं शरणं गच्छामि / समन्वाहर आचार्य / अहमेवंनामा एतत्कालप्रभृति यावद्बोधिमण्डं धर्माणामुत्तमं शान्तविरागं धर्म शरणं गच्छामि / समन्वाहर आचार्य / अहमेवंनामा एतत्कालप्रभृति यावद्बोधिमण्डं गणानामुत्तमं आर्यबोधिसत्त्वावैवर्तिकबोधिसत्त्वसंघं शरणं गच्छामि इति त्रिः वदेत् /
SK
एवं विशिष्टं शरणगमनं कृत्त्वा भगवन्तं शाक्यमुनिं, दशदिशां सर्वबुद्धान् बोधिसत्त्वांश्च मनसा आलम्ब्य प्रणमनं यथालब्धं पूजादिकं च कुर्यात् / आचार्यम् सम्मुखं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य उत्कुटुकासनो ऽपि वा कृताञ्जलिः चित्तम् उत्पादयेत् /
SK
दशदिगवस्थिताः सर्वे बुद्धबोधिसत्त्वाः! माम् समन्वाहरत / आचार्य! समन्वाहर / अहमेवंनामा- अस्यां जातावन्यासु वा जातिष्वनवराग्रे वा दान-शील-भावनायं कुशलमूलं मया कृतं स्यात् कारितं क्रियमाणं वा अनुमोदितं भवेत् तैः कुशलमूलैः यथा पूर्वकैः तथागतार्हत्सम्यक्सम्बुद्धैः महाभूमिप्रविष्टैः महाबोधिसत्त्वैश्च अनुत्तरसंयक्सम्बोधौ चित्तमुत्पादितं तथा एवंनामा अहमपि एतत्कालप्रभृति यावद्बोधिमण्डं अनुत्तरसम्यक्महासम्बोधौ चित्तम् उत्पादयेयम् / अतीर्णान् सत्त्वान् तारयेयम् / अमुक्तसत्त्वान् मोचयेयम् / अनाश्वस्तान् आश्वासयेयम् / अपरिनिर्वृतान् परिनिर्वापयेयम् / एवं त्रिः वदेत् /
SK
तथैव आचार्याभावे ऽपि स्वयं बोधिचित्तोत्पादविधिः- तथागतशाक्यमुनिं दशदिक्सर्वतथागतांश्च मनसा विचिन्त्य वन्दना-पूजादिविधिं च कृत्वा अध्येषणासहितमाचार्यपदविरहितशरणगमनादिक्रमं पूर्ववद् निष्पादयेत् / एवं उत्पन्नचित्तः पुद्गलः बोधिचित्तवृद्ध्यर्थ अन्तशो दिवा त्रिवारं रात्रौ च त्रिवारं-
SK
बुद्धं च धर्मञ्च गणोत्तमं च यावद्धि बोधिं शरणं गतो ऽस्मि / दानादिकृत्यैश्च कृतैर्मयैभिः बुद्धो भवेयं जगतो हिताय
SK
इति बोधिचित्तमुत्पादयेत् / बोधिचित्तव्याघातकेभ्यश्चतुर्भ्यो र्धर्मेभ्यो व्यावृत्तो भवेत् / कतमे चत्वारः? गुरुदक्षिणीयविसंवादनम्, परेषु अकौकृत्यस्थानीयेषु कौकृत्योपादनम्, उत्पन्नचित्तेभ्यो बोधिसत्त्वेभ्यो द्वेषेण अवर्णभाषणम्, सर्वसत्त्वेषु मायाशाठ्याचरणञ्च /
SK
बोधिचित्ताव्याघातकान् चतुर्धर्मान् शिक्षेत / कतमांश्चतुरः? जीवितस्यापि हेतोः प्रजानन् अमृषावादम्, सर्वसत्त्वेषु अध्याशयविशुद्ध्या स्थितिः न मायाशाठ्येन, उत्पन्नचित्तेषु बोधिसत्त्वेषु
SK
शास्तृसंज्ञामुत्पाद्य दशसु दिक्षु सम्यग्गुणाख्यानम्, ये सत्त्वाः कुशले स्थापिताः तेषाम् अनुत्तरसम्यक्सम्बोधौ स्थापनं न तु श्रावकप्रत्येकबुद्धत्वेष्विति /
SK
विशेषेणाभिज्ञां शीघ्रं लब्धुकामो बोधिसत्त्वः आर्य-अवलोकितेश्वर-परिपृच्छा-सप्तधर्मक-नाम-महायानसूत्रं शिक्षेत / बोधिचित्तोत्पादानुशंसा तु ᳚गण्डव्यूहसूत्रा᳚-दिभ्यो ज्ञातव्या /
SK
तत्र प्रथमं विधिवद् उत्पन्नबोधिचित्तस्य बोधिसत्त्वस्य सर्वबोधिसत्त्वशीलशिक्षां सुशिक्षितुकामनया बोधिसत्त्वं बोधिसत्त्वसंवरस्थितं,बोधिसत्त्वसंवरविधिज्ञं बोधिसत्त्वसंवरप्रदानेन शिष्यानुग्रहसमर्थ कल्याणमित्रं नमस्कृत्य तच्चरणे निपत्य अध्येषणा- ᳚आचार्य! तवाहं बोधिसत्त्वशीलसंवरसमादानमाकांक्षाम्यादातुं तदर्हस्यनुपरोधेन मुहूर्तमस्माकमनुकम्पया दातुं श्रोतुञ्च᳚, ᳚इत्येवं त्रिवारं अध्येषितव्यम् /
SK
᳚कुलपुत्र! त्वं श्रृणु / त्वम् एवं सत्त्वान् अनुत्तीर्णान् उत्तार्य, अमुक्तान् मोचयित्वा, अनाश्वतान् आश्वास्य, अपरिनिर्वृत्तान् परिनिर्वाप्य, बुद्धवंशानुच्छेदम् इच्छसि? ततस्त्वं चित्तोत्पाददार्ढ्य समादानदार्ढ्यञ्च कुरु / ᳚न त्वन्यैः सह प्रतिस्पर्धाहेतवे / नान्यैर्बलाद् ग्राहितो ऽसि? एवं पृच्छेत् /
SK
तत्पश्चात् तथागतशाक्यमुनेः निषिक्तां प्रतिमां पटचित्रम् वा पुरतो ऽवस्थाप्य तथागतशाक्यमुन्यादीन् दशदिक्सर्वलोकधात्ववस्थितान् सर्वबुद्धबोधिसत्त्वान् पुरतो भावयेत् / यथाशक्ति बाह्यपञ्चपूजया पूजां वन्दनं च कुर्यात् /
SK
तदनन्तरं कल्याणमित्रम् उच्चासनस्थितं शास्तृसंज्ञया नमस्कृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य उत्कुटुकासनेन वापि कृताञ्जलिः कल्याणमित्रं बोधिसत्त्वसंवरग्रहणाय एवम् अध्येषयेत्-
SK
᳚आचार्यो बोधिसत्त्वशीलसंवरसमादानं मे शीघ्रं ददातु᳚ इत्येवं त्रिवारं कल्याणमित्रम् अध्येषेत / ततः कल्याणमित्र उपविष्ट उत्थितो वापि सः बोधिसत्त्वसंवरग्राहकं तं एवं परिपृच्छेत्- ᳚एवंनामा त्वं बोधिसत्त्वो ऽसि बोधौ च कृतप्रणिधानः / एवं पृष्टे सति तेन ग्राहकबोधिसत्त्वेनापि आमेति प्रतिज्ञातव्यम्᳚ /
SK
ततः ऽअक्षयाप्रमेयानुत्तरपुण्यमहानिधिभूतः सर्वबुद्धगुणरत्नाकरो बोधिसत्त्वसंवरो ऽचिरेण अधिगम्यतऽ इति चिन्तयन् चित्तप्रसादात् सहर्ष तूष्णीभूय कृताञ्जलिस्तिष्ठेत् /
SK
अथ स कल्याणमित्रः त्रिकालसर्वबोधिसत्त्वसर्वशिक्षापदानि सर्वञ्च शीलंसंवरशीलं , कुशलधर्मसङ्ग्राहकशीलं, सत्त्वार्थक्रियाशीलञ्च समासतः शिष्यम् अबबोध्य- ᳚सर्वबोधिसत्त्वशिक्षापदानि तानि च सर्वबोधिसत्त्वशीलानि किं मत्तः गृहीतुकामो ऽसि᳚ एवं शिष्यं पृच्छेत् / तस्मिन् तथा ᳚गृहीतुकामो ऽस्मि᳚ इति प्रतिज्ञाते सति बोधिसत्त्वसंवरो दातव्यः /
SK
त्वमेवंनामा भदन्त आयुष्मान् कुलपुत्रो वा मत् बोधिसत्त्व इत्येव संज्ञकात् ᳚सर्वाणि बोधिसत्त्वशिक्षापदानि सर्वञ्च बोधिसत्त्वशीलं संवरशीलं कुशलधर्मसंग्राहकशीलं सत्त्वार्थक्रियाशीलञ्च / यानि शिक्षापदानि यच्छीलमतीतानां सर्वबोधिसत्त्वानामभूत् / यानि शिक्षापदानि यच्छीलमनागतानां सर्वबोधिसत्त्वानां भविष्यति / यानि शिक्षापदानि यच्छीलमेतर्हि दशसु दिक्षु प्रत्युत्पन्नानां सर्वबोधिसत्त्वानां भवति / येषु शिक्षापदेशु यच्छीले ऽतीताः सर्वबोधिसत्त्वाः शिक्षितवन्तः / अनागताः सर्वबोधिसत्त्वाः शिक्षिष्यन्ते / प्रत्युत्पन्नाः सर्वबोधिसत्त्वाः शिक्षन्ते / तेन प्रतिगृह्णामीति प्रतिज्ञातव्यम्᳚ / एवम् आचार्येण त्रिवारं ᳚ग्रहीष्यसि किं᳚ इति उक्त्वा शिष्येण ᳚आम् सुगृहीष्यामि᳚ इति त्रिवारं अभिहिते संवरं समादद्यात् /
SK
ततः स कल्याणमित्रः शिष्याय बोधिसत्त्वसंवरं सत्त्वा दशदिक्सर्वबुद्धबोधिसत्त्वेभ्यः पञ्चाङ्गनमस्कारपूर्व कृताञ्जलिः एवं त्रिवारं वदेत्- ᳚प्रतीगृहीतमनेन एवंनाम्ना बोधिसत्त्वेन मम एवंनाम्नो बोधिसत्त्वस्यान्तिकाद् यावत् त्रिरपि बोधिसत्त्वशीलसंवरसमादानम् / सो ऽहमेवंनामात्मानं साक्षिभूतमस्यैतन्नाम्नो बोधिसत्त्वस्य परमार्याणां विपरोक्षाणामपि सर्वत्र सर्वसत्त्वाविपरोक्षबुद्धीनां दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुष्वारोचयाम्यस्मिन् बोधिसत्त्वशीलसंवरसमादानम्᳚ / इति त्रिवारं
SK
दशदिक्सबुद्धबोधिसत्त्वेभ्य उक्त्वा, नमस्कृत्य च गुरुशिष्यौ उत्तिष्ठेताम् /᳚
SK
तत उत्थाय कल्याणमित्रः बोधिसत्त्वसंवरग्राहकं बोधिसत्त्वम् एवं ब्रूयात्- ᳚एवंनाम बोधिसत्त्व! त्वं शृणु- इयं हि धर्मता / यदा बोधिसत्त्वेन बोधिसत्त्वसंवरसमादानकर्मवाचना परिसम्पाद्यते तदा दशदिक्सर्वबुद्धक्षेत्रेषु बुद्धबोधिसत्त्वेषु एतादृङ्निमित्तानि प्रादुर्भवन्ति / ते बुद्धबोधिसत्त्वा एवं कस्मिंश्चिद् बुद्धक्षेत्रे एवंनामा बोधिसत्त्व एवंनाम्नो बोधिसत्त्वाद् बोधिसत्त्वसंवरसमादानं गृह्णाति इति संजानन्ति᳚ / अतः ते भगवन्तो बुद्धा ते च बोधिसत्त्वा धर्मस्नेहात् पुत्रान् भ्रातृकानिव सन्दधते / तथा सन्धानात् पुण्यज्ञानसम्भारवृद्धिर्भविष्यतीति वक्तव्यम् /
SK
अथ तेन कल्याणमित्रेण स बोधिसत्त्व एवं वक्त्व्यः / एवंनामबोधिसत्त्व / त्वं शृणु / बोधिसत्त्वसंवरसमादानमिदं अश्रद्दधानानाम् अग्रे न वाच्यम् / यतो ऽश्रद्धेभ्यो बोधिसत्त्वसंवरप्रदर्शने अश्रद्दधाना सत्त्वास्ते बोधिसत्त्वसंवरं अश्रद्धया परित्यजन्ति / अतो यावद् बोधिसत्त्वो बोधिसत्त्वसंवरस्थितः पुण्यराशियुक्तो भवति तावद् अश्रद्धया स तेनैव अपुण्यराशिना च युक्तो भवति / यतो बोधिसत्त्वः सत्त्वान् सर्वदुःखेभ्यः परिरक्षति अन्यांश्च पापेभ्यो निवारयति / अतः सकुशलो बोधिसत्त्वो गोपायति /
SK
अथ शिक्षापदपाराजिकस्थानभूतान् संवरनाशहेतून् दर्शयित्वा दुष्कृतान् क्लिष्टाक्लिष्टान् अपि दर्शयेत् / कल्याणमित्रः समासतो ऽबोधिसत्त्वसंवरविंशकम्ऽ तथा बोधिसत्त्वभूमेः शीलपरिवर्त्तञ्च भाषेत /
SK
बोधिचित्तोत्पाद-बोधिसत्त्वसंवरविधिर्महाचार्यदीपङ्करश्रीज्ञान-कृतः समाप्तः //
SK
तेनैव भारतीयोपाध्यायेन महासंशोधकलोकचक्षुषा भिक्षु-कुशलमतिना (द्गे वै ब्लो ग्रोस्) चानूदितः //
SK
पुनस्तेनैव पण्डितेन लोकचक्षुषा भिक्षु-जयशीलेन (छुल् ख्रिम्स् र्ग्यल् व) च संशोध्य निर्णीतः //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Dīpaṃkaraśrījñāna [= Atīśa]: Cittotpādasaṃvaravidhikrama (sa_dIpaMkarazrIjJAna-cittotpAdasaMvaravidhikrama.htm).

Source