Extended Commentary on Jaimini's Mīmāṃsāsūtra

Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary · Jऐमिनीयन्यायमालाविस्तर अ मेत्रिचल् एxपोसितिओन् ओf Jऐमिनिऽस् Mईमांसासूत्र, wइथ् Mआधवऽस् प्रोसे चोम्मेन्तर्य्

Extended Commentary on Jaimini's Mīmāṃsāsūtra

Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary

Jऐमिनीयन्यायमालाविस्तर अ मेत्रिचल् एxपोसितिओन् ओf Jऐमिनिऽस् Mईमांसासूत्र, wइथ् Mआधवऽस् प्रोसे चोम्मेन्तर्य्

SK
ॐ तत्सद्ब्रह्मणै नमः
SK
श्रीमाधवप्रणीतो जैमिनीयन्यायमालाविस्तरः /
SK
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे / यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् // MJऐNय्_१.०.१ //
SK
युक्तिं मानवतीं विदन्स्थिरधृतिर्भेदे विशेषार्थभाग् आप्तोहः क्रमकृत्प्रयुक्तिनिपुणः श्लाध्यातिदेशोन्नतिः / नित्यस्फूर्त्यधिकारवान्गतसदाबाधः स्वतन्त्रेश्वरो जागर्ति श्रुतिमत्प्रसङ्गचरितः श्री बुक्कणक्ष्मापतिः // MJऐNय्_१.०.२ //
SK
यद्ब्रह्म प्रतिपाद्यते प्रगुणयत्तत्पञ्चमूर्तिप्रथां तत्रायं स्थितिमूर्तिमाकलयति श्री बुक्कणक्ष्मापतिः / विद्यातीर्थमुनिस्तदात्मनि लसन्मूर्तिस्त्वनुग्राहिका तेनास्य स्वगुणैरखण्डितरदं सार्वज्ञमुद्द्योतते // MJऐNय्_१.०.३ //
SK
इन्द्रस्याऽङ्गिरसो नलस्य सुमतिः शैब्यस्य मेधातिथिर् धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर्गौतमिः / प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः // MJऐNय्_१.०.४ //
SK
स खलु प्राज्ञजीवातुः सर्वशास्त्रविशारदः / अकरोज्जैमिनिमते न्यायमालां गरीयसीम् // MJऐNय्_१.०.५ //
SK
तां प्रशस्य सभामध्ये वीरश्रीबुक्कभूपतिः / कुरु विस्तरयस्यास्त्वमिति माधवमादिशत् // MJऐNय्_१.०.६ //
SK
स भव्याद्भारतीतीर्थयतीन्द्रचतुराननात् / कृपामव्याहतां लब्ध्वा परार्ध्यप्रतिमो ऽभवत् // MJऐNय्_१.०.७ //
SK
निर्माय माधवाचार्यो विद्वदानन्ददायिनीम् / जैमिनीयन्यायमालां व्याचष्टे बालबुद्धये // MJऐNय्_१.०.८ //
SK
न्यायमालाया आदौ स्वकीयग्रन्थत्वद्योतनाय स्वमुद्रारूपमनेकार्थगर्भे देवतानमस्कारप्रतिपादकं श्लोकं पठति -
SK
START MJऐNय् १,१.१
SK
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे / यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् // MJऐNय्_१,१.१ //
SK
START MJऐNय् १,१.२
SK
इष्टदेवतां नमस्कृत्य चिकीर्षितार्थपरिपालनाय पालके स्वामिनि विद्यमानं महिमानमनुस्मरति --
SK
युक्तिं मानवतीं विदन्स्थिरधृतिर्भेदे विशेषार्थभाग् आप्तोहः क्रमकृत्प्रयुक्तिनिपुणः श्लाध्यातिदेशोन्नतिः / नित्यस्फूर्त्यधिकारवान्गतसदाबाधः स्वतन्त्रेश्वरो जागर्ति श्रुतिमत्प्रसङ्गचरितः श्रीबुक्कणक्ष्मापतिः // MJऐNय्_१,१.२ //
SK
अत्र चिकीर्षिते धर्मशास्त्रे वर्तमानानां द्वादशानामध्यायानां ये प्रतिपाद्या अर्थाः, ये च नीतिशास्त्रोक्ता राजधर्माः, ते सर्वे ऽप्यस्मिन्भूपतावुपलभ्यन्ते | नीतिपक्षे - युक्तिर्योगः संधिः | सा च युक्तिर्मानवती | मानः सत्कारश्चतुर्षु सामभेददानदण्डेषूपायेषु प्रथम उपायः | वैरिणो बुद्धिभेदो द्वितीयः | एताभ्यां दानदण्डावप्युपलक्ष्येते | एतैश्चतुर्भिरूपायैर्विशेषेणार्थं धनं भजति प्राप्नोति | एतावता शत्रुक्षयः कथितः | अवशिष्टेन स्वराज्यप्रतिपालनप्रकारः प्रतिपद्यते -- आप्तेष्वमात्यप्रभृतिषु पुरुषेषु ऽअयमीदृशस्य व्यापारस्य योग्यो नान्यस्यऽ इत्येवमूहापोहकुशलः | ऽराजसभायामेते तपस्विनः पूज्या विप्रा दक्षिणभाग उपवेशनीयाः, एते च भृत्या वामभागेऽ इति क्रमं करोति तत्तद्ग्रामेष्वधिकृतान्पुरुषानुचितबुद्धिप्रदानेन प्रयोक्तुं निपुणः | समुद्रपर्यन्तत्वेनातिबहलस्य देशस्योन्नतिः समस्तवस्तुसंपत्तिः | सा च परराष्ट्रनिवासिभिः सकलप्रणिभिः श्लाघ्यते | ऽइदं कर्तव्यम्, इदं नऽ इत्येवं कार्याकार्यविषया स्फूर्तिस्तस्यामधिकारो ऽस्य राज्ञो नित्यः सर्वत्राप्रतिहतबुद्धित्वात् | गतो निवारितः सतां तपस्विनामाबाधो विघ्नो येनासौ गतसदाबाधः | देशान्तराधिपतीनां राज्ञामेतदधीनत्वेनापरप्रेष्यत्वादयं स्वतन्त्रः | जगदीश्वरस्य विद्यातीर्थमुनेर्भोगमूर्तित्वेनायमीश्वरः | यस्य सभायां गोष्ठीरूपः प्रसङ्गो वेदार्थविषयत्वेन श्रुतिमान् | यदीयं चरितमपि निरन्तरं वेदोक्तरहस्यार्थन्ध्यानरूपत्वेन श्रुतिमद्भवति सो ऽयं श्रुतिमत्प्रसङ्ग्चरितः | एवंविधो बुक्कभूपतिरन्तः परमेश्वरध्याने, बहिः प्रजापालने च नित्यं जागर्ति | यथा नीतिशास्त्रोक्तेषु सामभेदादिष्वयं कुशलस्तथा सर्वज्ञावतारत्वाद्धर्मशास्त्रोक्तेषु प्रमाणादिप्रसङ्गान्तेष्वध्यायार्थेषु कुशलः | ते चाध्यायार्था उपरिष्टात्प्रदर्श्यन्ते || MJऐNय्C_१,१.२ ||
SK
START MJऐNय् १,१.३
SK
राज्ञः सर्वज्ञत्वं सोपपत्तिकं प्रकटयति --
SK
यद्ब्रह्म प्रतिपाद्यते प्रगुणयत्तत्पञ्चमूर्तिप्रथां तत्रायं स्थितिमूर्तिमाकलयति श्री बुक्कणक्ष्मापतिः / विद्यातीर्थमुनिस्तदात्मनि लसन्मूर्तिस्त्वनुग्राहिका तेनास्य स्वगुणैरखण्डितपदं सार्व मुद्द्योतते // MJऐNय्_१,१.३ //
SK
सर्वासूपनिषत्सु प्रतीयमानं यत्परं ब्रह्म तदेव शैवागमेषु सृष्टिस्थितिसंहारनिरोधनानुग्रहलक्षणपञ्चकृत्य सिद्ध्यर्थमीशानतत्पुरुषाघोरवामदेवसद्योजातलक्षणानां पञ्चानां मूर्तीनां प्रथां प्रसिद्धिं विस्तारं वा प्रगुणयति प्रकटी करोतीति प्रतिपाद्यते | तत्र तासु मूर्तिष्वयं भूपालः स्थितिमूर्तिं धत्ते | तस्या मूर्तेरात्मनि लसन्विद्यातीर्थमुनिः कृत्स्नस्य जगतो ऽनुग्राहिका मूर्तिरित्युच्यते | यस्मादयं भूपो वेदान्तोक्तं परं ब्रह्म, यस्माच्चाऽगमोक्ता महेश्वरस्य स्थितिमूर्तिः, यस्माच्च श्रीविद्यातीर्थमुनिस्तदात्मनि संनिधाय प्रकाशते, तस्मात्सर्वज्ञत्वमस्य राज्ञ उत्कर्षेणाऽविद्व- दङ्गनागोपालमविवादेन प्रतिभासते || MJऐNय्C_१,१.३ ||
SK
START MJऐNय् १,१.४
SK
उक्तगुणोपेतस्य राज्ञो मन्त्रिणं नानापुराणप्रसिद्धदृष्टान्तैर्हितकारितया प्रशंसति --
SK
इन्द्रस्याङ्गिरसो नलस्य सुमतिः शैव्यस्य मेधातिथिर् धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर्गौतमिः / प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः // MJऐNय्_१,१.४ //
SK
START MJऐNय् १,१.५
SK
चिकीर्षितग्रन्थे श्रद्धातिशयमुत्पादयितुं कर्तृगौरवं प्रकटयति --
SK
श्रुतिस्मृतिसदाचारपालको माधवो बुधः / स्मार्तं व्याख्याय सर्वार्थं द्विजार्थं श्रौत उद्यतः // MJऐNय्_१,१.५ //
SK
सर्ववर्णाश्रमानुग्रहाय पुराणसारपाराशरस्मृतिव्याख्यादिना स्मार्तो धर्मः पूर्वेव्याख्यातः | इदानीं द्विजानां विशेषानु ग्रहाय श्रौतधर्मव्याख्यानाय प्रवृत्तः || MJऐNय्C_१,१.५ ||
SK
START MJऐNय् १,१.६
SK
ग्रन्थमारिप्सुर्गुरुमूर्त्युपाधिकं सकलवेदशास्त्रप्रवर्तकत्वेनात्रोचितेष्टदेवतारूपं परमेश्वरमादौ नमस्कृत्य श्रोतृप्रवृत्तिसिद्ध्यर्थं विषयप्रयोजने दर्शयंस्तं ग्रन्थं प्रतिजानीते --
SK
प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् / जैमिनीयन्यायमाला श्लोकैः संगृह्यते स्फुटम् // MJऐNय्_१,१.६ //
SK
जैमिनीप्रोक्तानि धर्मनिर्णायकान्यधिकरणानि न्यायाः | ते ऽस्य ग्रन्थस्य विषयः | पठितुं सुशकैः कतिपयैरेव श्लोकैस्तेषां स्फुटीभावः प्रयोजनम् | न्यायमाला संगृह्यत इति ग्रन्थनामनिर्देशपूर्विका प्रतिज्ञा || MJऐNय्C_१,१.६ ||
SK
START MJऐNय् १,१.७-८
SK
करिष्यमाणस्य ग्रन्थस्य प्रकारं दर्शयति --
SK
एको विषयसंदेहपूर्वपक्षावभासकः / श्लोको ऽपरस्तु सिद्धान्तवादी प्रायेण कथ्यते // MJऐNय्_१,१.७ //
SK
चत्वारो ऽवयवा एकश्लोकेनोक्ताः क्वचित्क्वचित् / यत्र क्वापि बहुश्लोकैरुच्यन्ते ऽतो न विस्तरः // MJऐNय्_१,१.८ //
SK
एकैकस्याधिकरणस्य विषयः, संदेहः, संगतिः, पूर्वपक्षः, सिद्धान्तश्चेति पश्चावयवाः | तत्र संगतिरनन्तरमेव व्युत्पादयिष्यमाणेन प्रकारेण प्रत्यधिकरणं स्वयमेवोहितुं शक्यते | अवशिष्टानां चतुर्णामवयवानां संग्राहकाः क्वचिद्भहवः श्लोकाः, क्वचिदेक इत्यावापोद्वापाभ्यामन्ततः प्रत्यधिकरणं श्लोकद्वित्वे संख्या पर्यवस्यति | अतो बहुत्वाद्बिभ्यता ग्रन्थगौरवशङ्का न कर्तव्या || MJऐNय्C_१,१.७ ||
SK
START MJऐNय् १,१.९
SK
तमेव ग्रन्थागौवरभावं स्फुटीकुर्वन्रूपकव्याजेन सुबोधत्वं दर्शयति --
SK
सर्वथापि सहस्रे द्वे नातिक्रामति संग्रहः / मीमांसासागरस्तेन क्रीडापुष्करिणी भवेत् // MJऐNय्_१,१.९ //
SK
श्लोकेन श्लोकाभ्यां श्लोकैर्वा यथासंभवं न्यायः संगृह्यताम् | सर्वथापिसहस्रन्यायसंग्रहरूपो ग्रन्थः श्लोकसहस्रद्वयपूर्तेरर्वागेव समांप्स्यते, न तु सहस्रद्वयमत्तिक्रामति | भाष्यटीकादीनां बहुत्वाद्दुरवगाहत्वाच्च मीमांसा सागरसभा पूर्वमासीत् | क्रियमाणेनानेन ग्रन्थेन दोषद्वयरहितेन राजपुत्राणां बालानां क्रीडार्थं निर्मितया नाभिदघ्न्या पुष्करिण्या समा भविष्यति | यद्यपि शास्त्रदीपिकादौ क्वचित्क्वचित्संग्रहश्लोको ऽस्ति, तथापि न सर्वत्र विद्यते | यत्रास्ति तत्रापि विषयसंशययोरेसंग्रहान्न श्लोकपाठमात्रेणाधिकरणमुपन्यसितुं शक्यते | अतो न क्वापि गतार्थत्वं शङ्कनीयम् || MJऐNय्C_१,१.९ ||
SK
START MJऐNय् १,१.१०
SK
संगतिं व्युत्पादयति -
SK
शास्त्रे ऽध्याये तथा पादे न्यायसंगतयस्त्रिधा / शास्त्रादिविषये ज्ञाते तत्तत्संगतिरूह्यताम् // MJऐNय्_१,१.१० //
SK
शास्त्रसंगितः, अध्यायसंगतिः, पादसंगतिश्चेति त्रिधा संगतिः | सा च शास्त्रादीनां त्रयाणामसाधरणे विषये ज्ञाते सति स्वयमेप्वोहितुं शक्या || MJऐNय्C_१,१.१० ||
SK
START MJऐNय् १,१.११-१२
SK
शास्त्रस्याध्यायानां चासाधारणं विषयं दर्शयति -
SK
धर्मो द्वादशलक्षण्या व्युत्पाद्यस्तत्र लक्षणैः / प्रमाणभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः // MJऐNय्_१,१.११ //
SK
अधिकारो ऽतिदेशश्च सामान्येन विशेषतः / ऊहो बाधश्च तन्त्रं च प्रसङ्गश्चोदिताः क्रमात् // MJऐNय्_१,१.१२ //
SK
लक्षणान्यध्यायाः | द्वादशानां लक्षणानां समाहारो द्वादशलक्षणी | तादृशस्य द्वादशलक्षणोपेतस्य शास्त्रस्य धर्मो विषयः | प्रमाणादयः प्रसङ्गान्ता द्वादश पदार्थाः क्रमाद्द्वादशानामध्यायानां विषयाः | प्रथमे ऽध्याये - विध्यर्थवादादिरूपं प्रमाणं निरूपितम् | द्वितीये-यागदानादि कर्मभेदः | तृतीये - प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम् | चतुर्थे - ऽगोदोहनस्य पुरुषार्थत्वप्रयुक्त्यानुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्याऽ इत्येवमादयः | पञ्चमे - क्रमनियतिविधेयत्वादयः | षष्ठे - ऽकर्तुरधिकारो नान्धादेःऽ इत्यादयः | सप्तमे -᳚समानषितरच्छयेनेन᳚इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नानुमितवचनेन च सांमान्यतो ऽतिदेशः | अष्टमे -᳚सौर्ये चरुं निर्वपेत्᳚इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेनाऽग्नेयपुरोडाशेतिकर्तव्यतैव, नान्यस्येत्येवमादिर्विशेषतो ऽतिदेशः | नवमे - प्रकृतौ᳚अग्नये जुष्टं निर्वपामि᳚इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ऽसूर्याय जुष्टं निर्वपामि ऽ इत्येवमाद्यूहः | दशमे - कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः | एकादशे - बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम् | द्वादशे - प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाषे ऽप्युपकार इत्यादिप्रसङ्गः || MJऐNय्C_१,१.११-१२ ||
SK
START MJऐNय् १,१.१३
SK
पादानामसाधारणं विषयं दर्शयति -
SK
विध्यर्थवादस्मृतयो नाम चेति चतुर्विधम् / प्रथमाध्यायगैः पादैश्चतुर्भिर्मानमीरितम् // MJऐNय्_१,१.१३ //
SK
प्रथमे पादे - विधिरूपं मानमीरितम् | द्वितीये - अर्थवादरूपम् | अर्थवादो मन्त्रस्याप्युपलक्षकः | तृतीये - स्मृतिरूपम् | स्मृतिराचारमप्युपलक्षयति | चतुर्थे - उभ्दिञ्चित्रादिनामरूपम् || MJऐNय्C_१,१.१३ ||
SK
START MJऐNय् १,१.१४
SK
उपोद्धातः कर्मभेदमानं तस्यापवादगीः / प्रयोगभेद इत्येते द्वितीयाध्यायपादगाः // MJऐNय्_१,१.१४ //
SK
द्वितीयाध्यायस्य प्रथमे पादे - आख्यातमेवापूर्वबोधकम्, अपूर्वसभ्दावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः | द्वितीये - धातुभेदपुनरुक्त्यादिभिः कर्मभेदः | तृतीये - रथन्तरादीनां कर्मभेदप्रामाण्यापवादः | चतुर्थे - नित्यकाम्ययोः प्रयोगयोर्भेदः || MJऐNय्C_१,१.१४ ||
SK
START MJऐNय् १,१.१५
SK
श्रुतिर्लिङ्गं च वाक्यादिविरोधप्रतिपत्तयः / अनारभ्योक्तिबह्वर्थस्वाम्यर्था अष्टपादगाः // MJऐNय्_१,१.१५ //
SK
तृतीयाध्यायस्य प्रथमे पादे - शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता | द्वितीये - लिङ्गम् | तृतीये - वाक्यप्रकरणादि | चतुर्थे - निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसभ्दावः | पञ्चमे - प्रतिपत्तिकर्माणि | षष्ठे - अनारभ्याधीतानि | सप्तमे - बहुप्रधानोपकारकप्रयाजादीनि | अष्टमे - याजमानानि || MJऐNय्C_१,१.१५ ||
SK
START MJऐNय् १,१.१६
SK
प्रधानस्य प्रयोक्तृत्वमप्रधानप्रयोक्तृता / फलचिन्ता जघन्याङ्गचिन्तेत्येते चतुर्थगाः // MJऐNय्_१,१.१६ //
SK
चतुर्थाध्यायस्य प्रथमे पादे - प्रधानभूताऽमिक्षा दध्यानयनस्य प्रयोजिकेस्यादि प्रधानप्रयोक्तृत्वं विचारितम् | द्वितीये तु -अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोदकमित्याद्यप्रधानप्रयोक्तृत्वम् | तृतीये - जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता | चतुर्थे - राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता || MJऐNय्C_१,१.१६ ||
SK
START MJऐNय् १,१.१७
SK
श्रुत्यादिभिः क्रमस्तस्य विशेषो वृद्ध्यवर्धने / श्रुत्यादेर्बलिता चेति पञ्चमाध्यायपादगाः // MJऐNय्_१,१.१७ //
SK
पञ्चमाध्यायस्य प्रथमे पादे - श्रुत्यर्थपाठादिभिः क्रमो निरूपितः | द्वितीये - वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः | तृतीये - पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः | चतुर्थे - क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः || MJऐNय्C_१,१.१७ ||
SK
START MJऐNय् १,१.१८
SK
अधिकारी तस्य धर्माः प्रतिनिध्यर्थलोपने / दीक्षा सत्रं देयुह्नी षष्ठे पादेष्वमी स्थिताः // MJऐNय्_१,१.१८ //
SK
षष्ठाध्यायस्य प्रथमे पादे - कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाधिकारी निरूपितः | द्वितीये - तत्राधिकारिणां प्रत्येकं कृत्स्न्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयो ऽधिकारिधर्मा उक्ताः | तृतीये - द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम् | चतुर्थे - पदार्थलोपनं विचारितम्, ऽअवत्तनाशे तत्याज्येन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्ऽ इत्यादिकम् | पञ्चमे - कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम् , ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम् | षष्ठे - तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम् | सप्तमे - पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः | अष्टमे - लौकिकाग्ना वुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः || MJऐNय्C_१,१.१८ ||
SK
START MJऐNय् १,१.१९
SK
प्रत्यक्षोक्त्यातिदेशो ऽस्य शेषः सामनिरूपणम् / नामलिङ्गातिदेशौ द्वौ सप्तमाध्यायपादगाः // MJऐNय्_१,१.१९ //
SK
सप्तमाध्यायस्य प्रथमे पादे - ऽसमानमितरच्छ्येनेनऽ इत्यादिप्रत्यक्षवचनातिदेशः | द्वितीये - रथन्तरशब्देन गानमात्राभिधायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य शेषो विचारितः | तृतीये - अग्निहोत्रनाम्नातिदेशः | चतुर्थे - निर्वापौषधद्रव्यादिलिङ्गातिदेशः || MJऐNय्C_१,१.१९ ||
SK
START MJऐNय् १,१.२०
SK
स्पष्टलिङ्गादथास्पष्टात्प्रबलादपवादतः / अतिदेशविशेषाः स्युरष्टमाध्यायपादगाः // MJऐNय्_१,१.२० //
SK
अष्टमाध्यायस्य प्रथमे पादे - स्पष्टेन लिङ्गेनातिदेशविशेषः | तद्यथा सौर्यचरार्वतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्यग्नियलिङ्गानि | द्वितीये तु-अस्पष्टैर्लिङ्गरतिदेशः | तद्यथा - वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तो ऽतिदिश्यते | तत्र लिङ्गमस्पष्टम् | शीघ्रं तद्बुद्ध्यनुत्पादनात् | तृतीये - प्रबलेन लिङ्गेनातिदेशः | तद्यथा - आभिचारिकष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयसायाग्नीषोमीयस्य विध्यन्तो ऽतिदिष्टः | प्रबलं च द्विदैवत्यत्वम् | शब्दोच्चारणमात्रेण सहसा प्रतिभासात् | क्रमस्तु विलम्बितप्रतीत्या दुर्बलः | चतुर्थे - दर्विहोमेष्वतिदेशो ऽपोद्यते || MJऐNय्C_१,१.२० ||
SK
START MJऐNय् १,१.२१
SK
ऊहारम्भो ऽथ सामोहो मन्त्रोहस्तत्प्रसङ्गतः / नवमाध्यायपादेषु चतुर्ष्वेते प्रकीर्तिताः // MJऐNय्_१,१.२१ //
SK
नवमाध्यायस्य प्रथमे पादे - उपोद्घातपूर्वकमूहविचारप्रारम्भः | तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः | अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्धातः | सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः | अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः | द्वितीये - सपरिकरः सामोहः | तृतीये - मन्त्रोहः | चतुर्थे - मन्त्रोहप्रसङ्गापतितो विचारः || MJऐNय्C_१,१.२१ ||
SK
START MJऐNय् १,१.२२
SK
द्वारलोपो ऽस्य विस्तारः कार्यैकत्वं समुच्चयः / ग्रहसामप्रकीर्णानि नञर्थश्चाष्टपादगाः // MJऐNय्_१,१.२२ //
SK
दशमाध्यायस्य प्रथमे पादे - बाधहेतुर्द्वारलोपो निरूपितः | तद्यथा - ऽस्वयङ्कृता वेदिर्भवति ऽइत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः | कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः | द्वितीये - संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः | तृतीये - बाधकारणं कार्यैकत्वम् | तद्यथा - प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम् | तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम् | ततो धेन्वागवाश्वादिदक्षिणा विकृतौ चोदकप्रप्ता बाध्यते | चतुर्थे - नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः | पञ्चमे - षोडशिग्रहः प्रकृतिगामी | स चाऽग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः | षष्ठे - ऽसाम तृचे गेयम् ऽ इत्यादिर्बाधप्रसङ्गागतः सामविचारः | सप्तमे - पश्वङ्गेषु - प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः | गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः | अष्टमे - ऽनानुयाजेषु ऽ इति पर्युदासः , ऽ न सोमे इत्यर्थवादः, ऽनातिरात्रे ऽ इति प्रतिषेधः ऽ इत्यादिर्बाधोपयुक्तो नञर्थविचारः || MJऐNय्C_१,१.२२ ||
SK
START MJऐNय् १,१.२३
SK
उपोद्घातस्तथा तन्त्रावापौ तन्त्रस्य विस्तृतिः / आवापविस्तृतिश्चैकादशाध्यायस्य पादगाः // MJऐNय्_१,१.२३ //
SK
एकादशाध्यायस्य प्रथमे पादे - तन्त्रस्योपोद्घातो वर्णितः | द्वितीये - तन्त्रावापौ संक्षेपेणोक्तौ | तृतीये - तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम् | चतुर्थे - तथैवाऽवापः प्रपञ्चितः || MJऐNय्C_१,१.२३ ||
SK
START MJऐNय् १,१.२४
SK
प्रसङ्गस्तन्त्रिनिर्णीतिः समुच्चयविकल्पने / द्वादशाध्यायपादार्था इति पादार्थसंग्रहः // MJऐNय्_१,१.२४ //
SK
द्वादशाध्यायस्य प्रथमे पादे - पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीमकर्मसु प्रसङ्गः, इत्यादिविचारः | द्वितीये - सवनीयपशोस्तन्त्रित्वम् , न तु सवनीयपुरोडाशानाम् | विकृतिस्तन्त्रिणी, न प्रकृतिः, अन्वारम्भणीया विकयतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः | तृतीये - त्वग्वाससोः समुच्चयः | आदारगतानामृजुत्वसमततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम् | चतुर्थे च - ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायगलयोर्विकल्प इत्यादिकं प्राधान्येन, प्राज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापदादत्वेनेत्युभयं चिन्तितम् | चतुर्थे च - ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, प्राज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापदादत्वेनेत्युभयं चिन्तितम् | तदेवं द्वादशाध्यायगतेषु षष्टिसंख्याकेषु पादेषु प्रतिपाह्या अर्था संगृहीताः || MJऐNय्C_१,१.२४ ||
SK
START MJऐNय् १,१.२५
SK
ननु यथोक्तेभ्यः पादार्थेभ्यो ऽप्यर्था बहवस्तत्तत्पादेषु विचार्यन्ते, तेषां कथं तत्तत्पादान्तर्भाव इत्याशङ्क्याऽह -
SK
उपोद्घातापवादाभ्यां प्रसङ्गानुप्रसङ्गतः / तत्तत्पादगतत्वेन विचारान्तरमुन्नयेत् // MJऐNय्_१,१.२५ //
SK
यथोक्तपादप्रतिपाद्यदन्येष्वर्थेषु यथोचितं कश्चिदुपोद्धातः, कश्चिदपवादः , कश्चित्प्रसङ्गपतितः, कश्चिदनुप्रसङ्गपतितः, इत्येवं पादान्तर्भाव उन्नेयः || MJऐNय्C_१,१.२५ ||
SK
START MJऐNय् १,१.२६
SK
ननु सन्त्वेवमध्यायानां पादानां च व्यवस्थिता अर्थाः / तदीयस्तु क्रमः कथमनगन्तव्य इत्यत आह -
SK
शास्त्रे पूर्वोत्तरीभावो ऽध्यायानामभिधास्यते / पादानां तु तमत्रैव लेशाद्व्यत्पादयामहे // MJऐNय्_१,१.२६ //
SK
एकस्मिन्नध्याये समाप्ति रस्ति , अध्यायान्तरारम्भे, तयोरध्याययोः पूर्वोपरी भावो वक्ष्यते || MJऐNय्C_१,१.२६ ||
SK
START MJऐNय् १,१.२७
SK
प्रथमाध्या गतामां पादानां पूर्वोत्तरीभाव उधृते सति तद्व्युत्पत्या पादान्तरेष्वपि तस्योत्पेक्षितु शक्यतया तमुदाहरति -
SK
विधिः माक्षामितिर्धर्मे तस्य शेषोर्ऽथवादगीः / वेदमूला स्मृतिर्नाम वाक्यांशो ऽमीप्वतः क्रमः // MJऐNय्_१,१.२७ //
SK
जिज्ञास्य वम प्रतिज्ञात धर्मे विविवाक्यं साक्षात्प्रमाणमिति तद्विचारः प्रथमे पादे युक्तः | अर्थवादवाक्य विविद्वारा प्रामण्यद्विध्यनन्तरभावित्वम् स्मृति वाक्यस्य सार्थवादविधिरूपवेदमूलतया प्रामाण्यादर्थवादोत्तरभावित्वम् | नामधेयस्य वाक्यैकदेशत्वेन पूर्वोक्तत्रिविधवाक्यविचारोत्तरकालीनत्वम् | अनेन न्यायेनोत्तराध्यायगतपादानां परस्परं क्रम उन्नेयः || MJऐNय्C_१,१.२७ ||
SK
START MJऐNय् १,१.२७*
SK
इत्थं शास्त्रस्याध्यायानां पादानां च क्रमविशेषविशिष्टानामसाधारणप्रतिपाद्यमर्थे निरूप्य तन्निर्णयफलं दर्शयति - ऊहित्वा संगतीस्तिस्त्रस्तथावान्तरसंगतिम् / ऊहेताऽक्षेपदृष्टान्तप्रत्युदाहरणादिकम् // MJऐNय्_१,१.२७* //
SK
शास्त्रादिप्रतिपाद्यार्थसंबन्धितयाधिकरणे योजिते सति तस्याधिकरणस्य शास्त्रसंगतिः, अध्यायसंगतिः, पादसंगतिश्चेति तिस्त्र ऊहिता भवन्ति | तद्यथा - प्रथमाध्यायस्य प्रथमपादस्य द्वितीयधिकरणे धर्मस्य लक्षणप्रमाणराहित्यं पूर्वपक्षीकृत्य तत्सद्भावः प्रतिपादितः | तस्याधिकरणस्य धर्मसंबन्धितया धर्मविचारशास्त्रे संगितः | प्रमाणविचाररूपत्वात्प्रथमाध्याये संगतिः | विधिवाक्यस्य प्रमाणत्वेनोपन्यासात्प्रथमपादे संगतिः | यथैतत्संगतित्रयमूहितम्, तथा पूर्वोत्तराधिकरणयोः परस्परमवान्तरसंगतिरूहनीया | सा चानेकरूपा - आक्षेपसंगतिः, दृष्टान्तसंगतिः, प्रत्युदाहरणसंगतिः, प्रासङ्गिकसंगितः, उपोद्घातसंगतिः, अपवादसंगति श्चेत्येवमादिरूपा || MJऐNय्C_१,१.२७* ||
SK
START MJऐNय् १,१.२८
SK
तासामाक्षेपादिसंगतीनामूहं व्युत्पादयति --
SK
पूर्वन्यायस्य सिद्धान्तयुक्तिं वीक्ष्य परे नये / पूर्वपक्षोक्तयुक्तिं च तत्राऽक्षेपादि योजयेत् // MJऐNय्_१,१.२८ //
SK
तदेतत्सर्वे योजयित्वा प्रदर्श्यते - प्रथमे ऽध्याये प्रथमपादस्य प्रथमाधिकरणगतो ऽधर्मविचारशास्त्र वैधम् ऽ इति सिद्धान्तः | ऽ अर्थज्ञानपेतावध्ययने नियमविधेः संभवात् ऽ इति तद्युक्तिः | द्वितीयाधिकरणे - ऽधर्मे लक्षणं प्रमाणं च नास्ति ऽ इति पूर्वपक्षः | ऽलौकिकाकारहीनत्वात्, प्रत्यक्षाद्यप्रवृत्तेश्च ऽ इति तद्युक्तिः | तया युक्त्या धर्मस्य लक्षणप्रमाणरहितत्वे सति नरविषाणसमो धर्म इति तद्विचारशास्त्रस्य विधेयत्वममुपपन्नमित्याक्षेपसंगतिः | यथा प्रथमाधिकरणे नियमविधिसंभवेन हेतुना विचारशास्त्रस्य विधेयत्वमुक्तम्, तथा द्वितीयाधिकरणे लौकिकाकारहीनत्वप्रत्यक्षाद्यप्रवृत्तिरूपेण हतुना धर्मे लक्षणप्रमाणे न स्त इति दृष्टान्तसंगतिः | यथा प्रथमाधिकरणसिद्धान्ते पूर्वोक्तयुक्तिरवलोक्यते, तथा द्वितीयाधिकरणे काञ्चिदपि युक्तिं न पश्याम इति प्रत्युदाहरणसंगतिः | एते दृष्टान्तप्रत्युदाहरणसंगती मन्दबुद्धिभिरपि सर्वत्रोत्प्रेक्षितुं शक्येते | पञ्चमाधिकरणे विधिवाक्यस्य निरपेक्षत्वात्प्रामाण्यं वर्णितम् | तस्य च वाक्यस्य शब्दर्थयोर्मध्ये शब्दकोटिनिविष्टत्वाद्वाक्य प्रसङ्गेन शब्दनित्यत्वं षष्ठाधिकरणे वर्ण्यत इति प्रासङ्गिकसंगतिः | सप्तमाध्यायस्य चतुर्थे पादे द्वितीयाधिकरणेन सौर्यादिविकृतिषु वैदिकमङ्गजातमुपदेष्टुं तदुपयोगित्वेन प्रथमाधिकरणे धर्मसापक्षत्वं साधितम् | तत्र प्रथमाधिकरणमुपोद्घातः | सेयमुत्तराधिकरणेन सह पूर्वाधिकरणस्योपोद्घातसंगतिः | प्रथमाध्यायस्य तृतीयपादस्य प्रथमाधिकरणे - अष्टकादिस्मृतेः प्रामाण्यमुक्तम् | द्वितीयाधिकरणे - सर्ववेष्टनस्मृतेः पूर्ववत्प्राप्तप्रामाण्यमपोद्यते | सेयमपवादसंगतिः | अनया दिशी सर्वत्र संगतिरूहनीया || MJऐNय्C_१,१.२८ ||
SK
(प्रथमे धर्मशास्त्रारम्भप्रतिज्ञाधिकरणे सूत्रम् )
SK
अथातो धर्मजिज्ञासा / Jऐम्_१,१.१ /
SK
START MJऐNय् १,१.२९-३१
SK
इत्थं संगतीर्व्युत्पाद्याथ प्रत्यधिकरणं विषयसंशयपूर्वपक्षसिद्धान्तांश्चतुरो ऽवयवान्तञ्जिघृक्षुः प्रथमाध्यायस्य प्रथमे पादे प्रथमाधिकरणं भट्टमतेनाऽरचयति -
SK
स्वाध्यायो ऽध्येय इत्यस्य विधानस्य प्रयुक्तितः / विचारशास्त्रं नाऽरभ्यमारभ्यं वेति संशयः // MJऐNय्_१,१.२९ //
SK
अर्थधीहेतुताधीतेलोकसिद्धावघातवत् / नियामकं न चैवातो वैधारम्भो न संभवी // MJऐNय्_१,१.३० //
SK
दर्शापूर्ववदस्त्यत्र क्रत्वपूर्वे नियामकम् / अर्थनिर्णायकं शास्त्रमत आरभ्यतां विधेः // MJऐNय्_१,१.३१ //
SK
ऽऽचोदनालक्षणोर्ऽथो धर्मः ऽऽ इत्यारभ्य᳚अन्वाहार्ये च दर्शनात्᳚इत्येतदन्तं जैमिनिप्रोक्तं सूत्रजातं धर्मविचारशास्त्रम् | तदेतस्य प्रथमाधिकरणस्य विषयः ऽस्वाध्यायो ऽध्येतव्यःऽ इत्यध्ययमविधिरक्षरग्रहणमात्रपर्यवसायीति केचिन्मन्यन्ते | अपरे त्वेवमाहुः - ऽअर्थज्ञानरूपदृष्टप्रयोजनायेदमध्ययनं विधीयते | अर्थज्ञानं विचारमन्तरेण न संभवति | ततो विधिर्विचारशास्त्रस्य प्रयोजकःऽ इति | तत्रैवं संशयः - ऽइदं विचारशास्त्रं विधिप्रयुक्त्या नाऽरम्भणीयम् , उताऽरम्भणीयम् ऽ इति | तत्र ऽ अर्थज्ञानायाध्ययनस्य विधिः ऽ इति वदन्वादी प्रष्टव्यः - किमन्त्यन्तमप्राप्तमध्ययनं विधीयते, किंवा पक्षे ऽप्राप्तमवघातवन्नियम्यते, इति | नाऽद्यः - ऽ विमतं वेदाध्ययनमर्थज्ञानहेतुः, अध्ययनत्वात् , भारताध्ययमवत् , इत्यनुमानेनैव विधिनिरपेक्षेण प्राप्तत्वात् | तर्ह्यस्तु द्वितीयः पक्षः | अवघातवन्नियमविधित्वसंभवात् | यथा नखैरवधातेन वा तण्डुलीनष्पत्तिसंभवात्पक्षे ऽप्राप्तो ऽवधातो विधिनावश्यं कर्तव्य इति नियम्यते, तथा लिखितपाठेन गुरुपूर्वकाध्ययनेन वार्ऽथज्ञानसंभवात्पक्षे ऽप्राप्तमध्ययनं विधिना नियम्यत इति चेत् | न | वैषम्यात् | अवघातनिष्पनैरेव तण्डुलैखान्तरापूर्वद्वारेण दर्शपूर्णमासौ परमापूर्वे जनयतः, नान्यथा | ततो दर्शपूर्णमासापूर्वमवघातस्य नियमहेतुः | अत्र तु लिखितपाठजन्येनैवार्थज्ञानेन क्रत्वनुष्ठानसिद्धेरध्ययनस्य नियमहेतुर्नास्ति | अतो द्विविधविध्यसंभवादर्थज्ञानहेतुविचारशास्त्रारम्भस्य वैधत्वं नास्ति | तर्हि श्रूयमाणस्य विधेः का गतिरिति चेत्, स्वर्गयाक्षरग्रहणमात्रं विधेयमिति वदामः | अश्रुतो ऽपि स्वर्गो विश्वजिन्न्यायेन कल्पनीयः | ᳚स स्वर्गःस्यात्सर्वान्प्रत्यविशेषात्᳚ [पू . मी. सू. ४.३.१५ ] इति सूत्रेण विश्वजित्यश्रूयमाणमप्यधिकारिणं संपादयितुं तद्विशेषणं स्वर्गफलं युक्त्या स्थावितम् | तद्वदध्ययने ऽप्यस्तु | एतदेवाभिप्रेत्योक्तम् - ऽऽ विनापि विधिना दृष्टलाभान्नहि तदर्थता | कल्प्यस्तु विधिसामर्थ्यात्स्वर्गो विश्वजिदादिवत् ऽऽ || इति | एवं च सति ऽवेदमधीत्य स्नायात् ऽ इति शास्त्रमनुगृह्यते | अस्मिञ्शास्त्रेवेदाध्ययनतमावर्तनयोर्नैरन्तर्ये प्रतीयते | त्वत्पक्षे तु - अधीते ऽपि वेदे धर्मविचारणाय गुरुकुल एवाधिवासः कर्तव्यः | तथा सति तन्नैपन्तर्ये बाध्यते | तस्माद्विचारशास्त्रस्यं वैधत्वाभावात्पाठमात्रेण धर्मसिद्धेः समावर्तनशास्त्राच्च धर्मविचारशास्त्रं नाऽरम्भणीयमिति पूर्वः पक्षः | अत्रोच्यते - यदुक्तम् - ऽलोकसिद्धत्वान्नाप्रप्तविधिः ऽ इति | ततथैवास्तु | नियमविधित्वं तु न वारयितुं शक्यम् | यथा दर्शपूर्णमासजन्यं परमापूर्वमवाचाता नियमविधित्वं तृ न वारयितुं शक्यम् | यथा दर्शपूर्णमासजन्यं परमापूर्वमववातानियमजन्यस्यावान्तरापूर्वस्य कल्पकं भविष्यति | नियमादृष्टानङ्गीकारे च श्रूयमाणे विधिरनर्थकः स्यात् | न च विश्वजिन्न्यायेन स्वर्गार्थत्वं युक्तम् | दृष्टफलेर्ऽथज्ञाने संभवत्यदृष्टस्य कल्पयितुमशक्यत्वात् | अत एवोक्तम् - ᳚लभ्यमाने फले दृष्टे नादृष्टपरिकल्पना | विधेस्तु नियमार्थत्वान्नाऽनर्थक्यं भविष्यति᳚ || इति ||
SK
नन्वेवमपि श्रुतव्याकरणाद्यङ्गस्याधीतवेदस्य पुरुषस्यार्थज्ञानसंभवाद्विचारशास्त्रस्य वैयर्थ्यमिति चेत् | न | ज्ञानमात्रसंभवे ऽपि निर्णयस्य विचाराधीनत्वात् | ऽअक्ताः शर्करा उपदधाति ऽ इत्यत्र ऽघृतेनैव, न तैलादिनाऽ इत्ययं निर्णयो व्याकरणेन निरुक्तेन निगमेन वा न सिध्यति | विचारशास्त्रं तु ऽ तेजो वै घृतम् ऽ इति वाक्यशेषादर्थे निर्णेष्यति | अतो विचारो वैधः | ऽ वेदमधीत्य स्नायात् ऽ इति शास्त्रं त्वध्ययनसमावर्तनयोः पूर्वापरीभावसमानकर्तृकत्वे एवाचष्टे, न त्वानन्तर्यम् | तस्माद्विधिवशादेव विचारशास्त्रमापम्भणीयमिति सिद्धान्तः || MJऐNय्C_१,१.२९-३१ ||
SK
START MJऐNय् १,१.३२-३४
SK
अस्मिन्नेवाधिकरणे गुरुमतमाह -
SK
अथवाध्यापनात्सिद्धेर्नैवास्त्यध्ययने विधिः / तेन पूर्वोत्तरौ पक्षौ प्रसाध्यावन्यहेतुभिः // MJऐNय्_१,१.३२ //
SK
विधेयाध्यापनं सिध्येद्वालस्यार्थधियं विना / तेन निर्विषयं शास्त्रं निष्फलं चेत्युपेक्ष्यताम् // MJऐNय्_१,१.३३ //
SK
स्वतः प्राप्तार्थबोधस्य विवक्षानपनोपनात् / विषयादि सुसंपादं शास्त्रमारभ्यते ततः // MJऐNय्_१,१.३४ //
SK
ऽअष्टवर्षे ब्राह्मंमुपनयीत, तमध्यापयीत ऽ इत्यध्यापनं विहितम् | न चात्र नियोज्याभावः | आचार्यत्वकामिनो नियोज्यत्वात् | ऽ उपनयीत ऽ इत्यनेनाऽचार्यकरणे᳚संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः᳚ [पा. सू. १.३.३६ ] इति पाणिनिसूत्रेण विहितेनाऽत्मनेपदेन नियोज्यविशेषणमाचार्यत्वं प्रतीयते | उपनयने यो नियोज्यः | स एवाध्यापने ऽपि | तयोरेकप्रयोजनत्वात् | एवं सत्याचार्यकर्तृकमध्यापनं माणवककर्तृकेणाध्ययनेन विना न सिध्यतीत्यध्यापनविश्विप्रत्युक्त्यैवाध्ययनानुष्ठानतिद्धेर्न विधिरभ्युपगन्तव्यः | श्रूयमाणं विधिवाक्यं नित्यानुवादत्वेनाप्युपपद्यते | ततो ऽध्ययन विधिमुपजीव्य पूर्वमुपन्यस्तौ पूर्वोत्तरपक्षावन्यथा वर्णनीयौ | विषयसंशययोस्तु नास्ति विप्रतिपत्तिः | विचारशास्त्रं विषयः | अवैधं वैधं वेति संशयः | तत्र वैधत्ववादी प्रष्टव्यः- विधेयमाचार्यकर्तृकमध्यापनं किं माणवकस्यार्थज्ञानमपि प्रयुञ्जीत किंवा पाठमात्रम् | नाऽद्यः | अन्तरेणाप्यर्थज्ञानमध्यापनसिद्धेः | पाठमात्रे तु विचारस्य विषयो न भवति | आपाततः प्रतीतः संदिग्धोर्ऽथो विषयः | तथा सति यत्रार्थप्रतीतिरेव नास्ति तत्र संदेहस्य का कथा | निर्णयो विचारस्य फलम | सो ऽपि विषयवद्दूरापेतः | अतो विषयप्रयोजनाभावाद्विचारशास्त्रं नाऽरम्भणीयमिति पूर्वः पक्षः | अत्रोच्यते - मा नामाध्यापनेनार्थावबोधः प्रयुज्यताम् | तथापि साङ्गवेदाध्यायिनो निगमनिरुक्तव्याकरणैर्व्युत्पन्नस्य पौरुषेयग्रन्थेष्विव वेदे ऽप्यर्थावबोधः स्वत एव प्राप्नोति | ननु यथा ऽविषं भुङ्क्ष्व ऽइत्यत्र प्रतीयमामनो ऽप्यर्थो न विवक्षितः, तथा वेदार्थस्याविषयाद्यभावस्तदवस्थ इति चेत | न | विवक्षाया अमनोदितुमषक्यत्वात् | विषभोजनवाकायस्याऽप्तप्रणीतत्वेन बाधो मा भ्रूदिति मुख्यार्थस्तत्र परित्यक्तः | वेदे तु - कुतो न विवक्षितार्थत्वम् | विवक्षिते च वेदार्थे यत्र यत्र पुरुषस्य संदेहः स सर्वो ऽपि विचारशास्त्रस्य विषयः | तन्निर्णयः प्रयोजनम् | ततो ऽध्यापनविधिप्रयुक्तेनाध्ययनेन बुध्यमानस्यार्थस्य विचार्थत्वाद्विचारशास्त्रस्य वैधत्वं सिद्धम् || MJऐNय्C_१,१.३२-३४ ||
SK
(द्वितीये धर्मलक्षणाधिकरणे सूत्रम् )
SK
चोदनालक्षणो ऽर्थो धर्मः / Jऐम्_१,१.२ /
SK
START MJऐNय् १,१.३५-३७
SK
द्वितीयाधिकरणं भट्टमतेनारचयति --
SK
विचारविषयो धर्मो लक्षणेन विवर्जितः / मानेनं वाथवोपेतस्वाभ्यामिति विचिन्त्यते // MJऐNय्_१,१.३५ //
SK
लौकिकाकारहीनस्य तस्य किं नाम लक्षणम् / मानशङ्का तु दूरे ऽत्र प्रत्यक्षाद्यप्रवर्तनात् // MJऐNय्_१,१.३६ //
SK
चोदमागस्य आकारो ह्यर्थत्वे सति लक्षणम् / अत एव प्रमाणं च चोदनैवात्र नो कुतः // MJऐNय्_१,१.३७ //
SK
लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिः | अत एवाऽहुः- ᳚मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणात्᳚इति | सजातीयविजातीयव्यावर्तको लक्ष्यगतः कश्चिल्लोकप्रसिद्ध आकारो लक्षणम् | तेन च लक्षणेन लक्ष्ये वस्तुनि संभावनाबुद्धौ जातायां प्रमातुमुद्युक्तः प्रमाणेन तदवगच्छति | तद्यथा - ऽ सास्नादिमती गौः ऽ इत्युपश्रुत्य चतुष्पात्सु जीवेषु तल्लक्षणलक्षितपदार्थमन्विष्य ऽइत्थ गौः ऽ इति चक्षुषावगच्छति | एवं च सत्यलौकिकत्वाद्धर्मस्य नास्ति लक्षणम् | तत्र कुतः प्रमातुमुद्योगः | कथञ्चित्तदुपयोगे ऽपि न तत्र प्रमाणसभ्दावः शाङ्कितुमपि शक्यः | न तावदत्र प्रत्यक्ष क्रमते | धर्मस्य रूपादिरहितत्वात् | अत एव व्याप्तिग्रहणाभावार्न्नानुमानम् | प्रत्यक्षाद्यनुमानमूलश्च शब्दस्य संगतिग्रहः | ततो व्युत्पत्त्यभावान्नाऽगमो ऽपि तत्र प्रवर्तते | तस्माद्धर्मो लक्षणप्रमाणरहित इति प्राप्ते ब्रूमः- मा भूच्चक्षुरादिगम्यो लौकिक आकारः | तथापि चोदनागम्यः स्वर्गफलसाधनत्वादिलक्षण आकारो ऽस्ति | ऽ तेन अर्थत्वे सति चोदनागम्यो धर्मः ऽ इति लक्षणं भवति | ऽअर्थो धर्मःऽ इत्युक्ते ब्रह्मणि चैत्यवन्दनादौ घटादौ चातिव्याप्तिः | तद्व्यवच्छेदाय ऽचोदनागम्यःऽ इत्युक्तम् | तावत्येवोक्ते विधिगम्ये ऽनर्थफलत्वेनानर्थरूपे श्येनाद्यभिचारकर्मण्यतिव्याप्तिः | तद्व्यवच्छेदाय ऽअर्थःऽ इत्युक्तम् | यद्यपि श्येनस्य शत्रुवधः फलम्, नतु नरकः, तथापि तस्य वधस्य नरकहेतुत्वाद्वधद्वारा श्येनो ऽनर्थः | न चैवमग्नीषोमीयपशुहिंसाया अपि वधत्वेन नरकहेतुत्वं स्यादिति शङ्कनीयम् | तस्याः क्रत्वङ्गत्वेन क्रतुफलस्वर्गव्यतिरेकेण फलान्तराभावात् | यतश्चोदनागम्यत्वे सत्यर्थत्वं धर्मलक्षणम् | अत एव गर्मे धर्मे गमकं विधिवाक्यं प्रमाणम् | यद्यपि प्रत्यक्षानुमानयोरविषयो धर्मः, तथापि प्रसिद्धेपदसमभिव्याहारेण व्युत्पत्तिः संभवति | तस्माल्लक्षणप्रमाणाभ्यामुपेतो धर्मः || MJऐNय्C_१,१.३५-३७ ||
SK
START MJऐNय् १,१.३८-४०
SK
अस्मिन्नेवाधिकरणे गुरुतममाह -
SK
यद्वा जिज्ञास्यवेदार्थः किं मन्त्राद्यवबोधितः / सिद्धार्थो ऽप्यथ विध्येकगम्यः कार्यार्थ एव वा // MJऐNय्_१,१.३८ //
SK
सिद्धे ऽपि पुत्रजन्मादौ व्युत्पत्तेरूपपत्तितः / मन्त्रादिगम्यसिद्धस्य वेदार्थत्वे ऽपि का क्षतिः // MJऐNय्_१,१.३९ //
SK
हर्षहेतुबहुत्वेन व्युत्पत्तिः पुत्रजन्मनि / दुर्लभा सुलभा कार्ये वेदार्थो ऽतः स एव हि // MJऐNय्_१,१.४० //
SK
᳚अथातो धर्मजिज्ञासा᳚ [पू.मी.सू.१.१.१ ] इत्यत्राथशब्देन कृत्स्न वेदाध्ययनानन्तर्यमुच्यते | अतःशब्देन कृत्स्नस्य वेदस्य विवक्षितार्थत्वं हेतू᳚क्रियते | उक्तशब्दद्वयानुसारेण धर्मशब्दो ऽपि कृत्स्नं वेदार्थमाचष्टे | ततः सूत्रे ऽवेदार्थो जिज्ञास्यः ऽ इति प्रतिज्ञा कृता | तत्र संशयः - किं मन्त्रार्थवादप्रतीतः सिद्धार्थो ऽपि वेदार्थो भवति, किंवा विधिवाक्यप्रतीतः कार्यार्थं एव वेदार्थः, इति | तत्र - ᳚लोकावगतसामर्थ्यः शब्दो वेदे ऽपि बोधकः᳚ इति ज्ञायेन व्युत्पत्त्यनुसारी वेदार्थो वर्णनीयः | व्युत्पत्तिश्च सिद्धार्थे ऽप्यस्ति | ऽपुत्रस्ते जातः ऽ इति वार्ताहरव्याहारजन्यं श्रोतुर्हर्षमनुमाय हर्षहेतौ पुत्रजन्मनि संगतिं प्रतिपद्यते | अतो मन्त्रार्थवादप्रतीतो ऽप्यर्थो वेदार्थ इति प्राप्ते ब्रूमः - पुत्रजन्मवद्धर्षहेतूनां धनलाभादीनां बहुत्वादस्य वाक्यस्कय पुत्रजन्मैवार्थ इति निर्णयो दुर्लभः | ऽगामानय ऽ इति वाक्ये तु गवानयनरूपां मध्यमबृद्धप्रवत्तिमवलोक्य संगतिग्रहणं सुलभम् | तस्मात्कार्यरूप एव वैदार्थ इति || MJऐNय्C_१,१.३८-४० ||
SK
(तृतीये धर्मप्रमाणपरीक्षाधिकरणे सूत्रम् )
SK
तस्य निमित्तपरीष्टिः / Jऐम्_१,१.३ /
SK
START MJऐNय् १,१.४१-४२
SK
तृतीयाधिकरणं भट्टमतेनारचयति -
SK
धर्मस्य ज्ञापकं मानं यदुक्तं चोदनात्मकम् / एतत्किं न परीक्ष्यं स्यात्किंवा सम्यक्परीक्ष्यताम् // MJऐNय्_१,१.४१ //
SK
मानोपदेशान्मेयस्य सिद्धत्वात्किं परीक्षया / मैवं विचारशास्त्रे ऽस्मिन्परीक्षोपेक्षते कुतः // MJऐNय्_१,१.४२ //
SK
स्पष्टोर्थः || MJऐNय्C_१,१.४१-४२ ||
SK
START MJऐNय् १,१.४३-४४
SK
अस्मिन्नेवाधिकरणे गुरूमतमाह -
SK
आदौ परीक्ष्यो वेदार्थश्चोदनामानताथवा / वेदार्थस्य प्रधानत्वात्प्रथमं तत्परीक्ष्यताम् // MJऐNय्_१,१.४३ //
SK
चोदनामानतैवात्र प्रथमं साध्यतां गता / अनपेक्षतया तस्य यतो मुख्यत्वमाश्रितम् // MJऐNय्_१,१.४४ //
SK
द्वितीयाध्यायाद्यैः कर्मभेदशेषशेषित्वादिरूपो वेदार्थः सूत्रकारेण परीक्षिष्यते | चोजनाप्रामाण्यं तु प्रथमाध्याये परीक्ष्यते | तदैतदयुक्तम् | कुतः | वेदार्थस्य प्रधानत्वेनाऽदौ परीक्ष्ययीत्वात् | प्रधानभागे हि वेदः | पुरूषार्थत्वेनानुष्ठेयत्वात् | प्रधाणं तु तद्वेवनाय प्रवृत्तं सत्तच्छेषतयान प्रधानमिति प्राप्ते ब्रूमः- अस्त्वनुष्ठानोपायो वेदार्थप्रमाणयोः प्रधानोत्सर्जतभावः | प्रमाणप्रमेयभावोपायौ तु प्रमाणस्यैव मुख्यत्वं निरपेक्षत्वात् | नहि स्वतः प्रमाण्यवादिनां मते सापेक्षया प्रमाणस्यास्ति | प्रमेयं तु सारेक्षम् | ऽमानावीना मेथसिद्धिः ऽ इत्युक्तत्वात् | तदेतन्मुख्यत्वमाश्रित्य सूत्रकारः प्रमाणपरीक्षामादौ चकारेति यज्यते | अयान्वत्प्रा अथान्यत्प्राधान्यमाश्रित्य धर्मविचार एवादौ कस्मान्न कृतः? | न कृतः - अपरीक्षितेन प्रमाणेन धर्मस्यासिद्धौ तद्विचारस्याऽश्रयासिद्धेः ||
SK
तदेवमधिकरणत्रये व्युत्पादनाय भाट्टप्राभाकरमतभेद उपन्यस्तः || MJऐNय्C_१,१.४३-४४ ||
SK
अथ प्रायेण भट्टमतमेवोपन्यस्यते - (चतुर्थे धर्मे प्रत्यक्षाद्यगम्यत्वाधिकरणे सूत्रम् ||)
SK
सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात् / Jऐम्_१,१.४ /
SK
START MJऐNय् १,१.४५-४६
SK
चतुर्थाधिकरणमारचयति -
SK
प्रत्यक्षादिभिरप्येष गम्यते विधिनैव वा / अक्षादीनां प्रमाणत्वान्मेयधर्मावभासिता // MJऐNय्_१,१.४५ //
SK
वर्तमानैकविषयमक्षं धर्मस्तु भाव्यसौ / अक्षमूलो ऽनुमानादिस्तेन विध्येकमेयता // MJऐNय्_१,१.४६ //
SK
अक्षं प्रत्यक्षम् / प्रत्यक्षादीनां प्रमाणत्वात्प्रमेयावभासकत्वं तावदविवादम् | धर्मश्च प्रमेयः, असंदिग्धाविपर्यस्तत्वे सति बुध्यमानत्वात्, घटादिवत् | तस्मात्प्रत्यक्षादिभिरप्येष धर्मो गम्यत इति प्राप्ते - ब्रूमः - धर्मस्य प्रमेयत्वे ऽपि प्रत्यक्षयोग्यता नास्ति, प्रत्यक्षस्य वर्तमानमात्रविषयत्वात् | यस्तु प्रत्यक्षस्यात्यन्तमविषयः, तत्रानुमानादीनां कैव कथा | क्वचित्प्रत्यक्षेण गृहीते व्याप्त्यादौ पश्चादनुमानादीनां प्रवृत्तिः | तस्माद्विधिनैव धर्मो गम्यते || MJऐNय्C_१,१.४५-४६ ||
SK
(पञ्चमे धर्मे विधिप्रामाण्याधिकरणे सूत्रम् ||)
SK
औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम् उपदेशो ऽव्यतिरेकश् चार्थे ऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् / Jऐम्_१,१.५ /
SK
START MJऐNय् १,१.४७-४८
SK
पञ्चमाधिकरणमारचयति -
SK
अबोधको बोधको वा न तावद्बोधको विधिः / शक्तेरलौकिके धर्मे ग्रहणं दुर्घटं यतः // MJऐNय्_१,१.४७ //
SK
समभिव्याहृते धर्मे शक्तिग्रहणसंभवात् / बोधकस्य विधेर्मात्वमनपेक्षतया स्थितम् // MJऐNय्_१,१.४८ //
SK
यथा धर्मे प्रत्यक्षादीनां प्रामाण्यं नास्ति, तथा विधेरपि नास्ति प्रामाण्यम् | शक्तिग्रहणपूर्वकं हि प्रामाण्यमाप्तवाक्यस्य लोके दृष्टम् | शक्तिश्च लोकप्रसिद्धे गवादौ गृह्यते | धर्मस्त्वलौकिकः | अतस्तत्र शक्तिग्रहणं दुर्घटम् | तस्माद्विधेरबोधकत्वान्न धर्मे प्रामाण्यमिति प्राप्ते - ब्रूमः - यथा ऽप्रभिन्नकमलोदरे मधूनि मधुकरः पिबतिऽ इत्यत्र मधुकरपदस्यार्थमजानन्नन्यपदार्थमवगत्य तत्यमभिव्याहारात् कमलस्य मध्यगते मधुपानं कुर्वति दृश्यमानभ्रमरे मधुकरशब्दस्य सङ्गतिं गृहीत्वा वाक्यार्थं प्रतिपद्यते, तथा ऽकारीर्या वृष्टिकामो यजेतऽ इत्यत्र लोकप्रसिद्धार्थवृष्ट्यादिपदसमभिव्याहारादलौकिकभावनायां विधेः सङ्गतिं गृहीत्वा विधिवाक्यार्थं पुरुषो बुध्यते | तस्मादबोधकत्वलक्षणमप्रामाण्यं नास्ति | न च संवादाभावादप्रामाण्यम्, समनन्तरभाविप्रतिनियतफले वृष्ट्यादौ संवादस्यापि संभवात् | अनियतदृष्टफले चित्रयागादौ, प्रतिनियतजन्मान्तरफले ज्योतिष्टोमादौ च संवादः कथमिति चेत्, एवं तर्हि स्वतःप्रामण्याभ्युपगमान्नास्ति क्वापि संवादाद्यपेक्षा | तस्मादबोधकत्वसापेक्षत्वयोरप्रामाण्यकारणयोरभावाद्विधेः स्वतःसिद्धं प्रामाण्यं नापह्नोतुं शक्यम् || MJऐNय्C_१,१.४७-४८ ||
SK
(षष्ठे शब्दनित्यताधिकरणे सूत्राणि ६-२३)
SK
कर्मैके तत्र दर्शनात् / Jऐम्_१,१.६ /
SK
अस्थानात् / Jऐम्_१,१.७ /
SK
करोति शब्दात् / Jऐम्_१,१.८ /
SK
सत्त्वान्तरे च यौगपद्यात् / Jऐम्_१,१.९ /
SK
प्रकृति विकृत्योश् च / Jऐम्_१,१.१० /
SK
वृद्धिश् च कर्तृभूम्नास्य / Jऐम्_१,१.११ /
SK
समं तु तत्र दर्शनम् / Jऐम्_१,१.१२ /
SK
सतः परमदर्शनं विषयानागमात् / Jऐम्_१,१.१३ /
SK
प्रयोगस्य परम् / Jऐम्_१,१.१४ /
SK
आदित्त्यवद्यौगपद्यम् / Jऐम्_१,१.१५ /
SK
वर्णान्तरम् अविकारः / Jऐम्_१,१.१६ /
SK
नादवृद्धिपरा / Jऐम्_१,१.१७ /
SK
नित्यस् तु स्याद् दर्शनस्य परार्थत्वात् / Jऐम्_१,१.१८ /
SK
सर्वत्र यौगपद्यात् / Jऐम्_१,१.१९ /
SK
संख्याभावात् / Jऐम्_१,१.२० /
SK
अनपेक्षत्वात् / Jऐम्_१,१.२१ /
SK
प्रख्याभावाच् च योगस्य / Jऐम्_१,१.२२ /
SK
लिङ्गदर्शनाच् च / Jऐम्_१,१.२३ /
SK
START MJऐNय् १,१.४९-५०
SK
षष्ठाधिकरणमारचयति -
SK
विध्यादिरूपो यः शब्दः सो ऽनित्यो ऽथाविनश्वरः / अनित्यो वर्णरूपत्वाद्वर्णे जन्मोपलम्भनात् // MJऐNय्_१,१.४९ //
SK
अबाधितप्रत्यभिज्ञाबलाद्वर्णस्य नित्यता / उच्चारणप्रयत्नेन व्यज्यते ऽसौ न जन्यते // MJऐNय्_१,१.५० //
SK
शब्दनित्यत्ववादिनो वैयाकरणास्तावदेवं मन्यन्ते - वर्णसमूहश्रवणानन्तरं ऽइदमेकं पदम्ऽ इति प्रत्ययो मानसप्रत्यक्षेणोत्पद्यते | तस्य च प्रत्ययस्य वर्णव्यतिरिक्तः कश्चित् स्फोटनामकः पदार्थो विषयः | स च नित्यः | स एव शब्दः, न तु वर्णा इति | तदेतन्नैयायिकादयो न सहन्ते | वर्णेष्वेवैकार्थावच्छेदोपाधिना पदैक्यबुद्धेरुपपत्तौ वर्णातिरिक्तस्फोटकल्पना निरर्थिका | तस्माद्वर्णानामेव शब्दत्वम् | वर्णाश्च प्रतिपुरुषं प्रत्युच्चारणं च जन्मविनाशवन्त उपलभ्यन्ते | तस्मादनित्यः शब्दः | तस्य च कारणदोषसंभवाद्विधेरप्रामाण्यमिति पूर्वः पक्षः ||
SK
बहुभिः पुरुषैः प्रत्येकं बहुकृत्व उच्चारिते गोशब्दे ऽत एवेमे गकारादयो वर्णाःऽ इत्यबाधितप्रत्यभिज्ञा जायते | तद्बलान्नित्या वर्णाः | न च वर्णानां जन्माभावे बहुकृत्व उच्चारणप्रयत्नो व्यर्थ इति शङ्कनीयम्, तत्प्रयत्नस्य व्यञ्जकत्वाङ्गीकारात् | एवं सति पुरुषभेदादुच्चारणभेदाश्च यथायोगमुदात्तादिभेदैः पटुमृदुत्वादिभेदैश्चोपेतान्ध्वनिविशेषानुत्पाद्य चरितार्था भविष्यन्ति | तस्मान्नित्ये शब्दे कारणदोषाभावान्नास्त्यप्रामाण्यम् || MJऐNय्C_१,१.४९-५० ||
SK
(सप्तमे वेदप्रत्यायकत्वाधिकरणे सूत्राणि २४-२६)
SK
उत्त्पत्तौ वावचनाः स्युर् अर्थस्यातन्निमित्तत्वात् / Jऐम्_१,१.२४ /
SK
तद्भूतानां क्रियार्थेन सामाम्नायो ऽर्थस्य तन्निमित्तत्त्वात् / Jऐम्_१,१.२५ /
SK
लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात् / Jऐम्_१,१.२६ /
SK
START MJऐNय् १,१.५१-५२
SK
सप्तमाधिकरणमारचयति -
SK
वेदवाक्यममानं स्यान्मानं वा नास्य मानता / पृथक्सङ्गत्यपेक्षायामनपेक्षत्ववर्जनात् // MJऐNय्_१,१.५१ //
SK
वेदे ऽपि लोकवन्नैव वाक्यार्थे सङ्गतिः पृथक् / ग्रहीतव्या ततो वाक्यं प्रमाणं नैरपेक्ष्यतः // MJऐNय्_१,१.५२ //
SK
यद्यपि वर्णानां नित्यत्वादेकार्थावच्छेदकस्य पदस्यापि वर्णरूपतयानित्यत्वाद्वर्णपदद्वारा वेदस्य कारणसापेक्षत्वं नास्ति, तथापि ऽअग्निहोत्रं जुहुयात्स्वर्गकामःऽ इत्यादिवाक्यस्य वाक्यार्थे सङ्गतिग्रहणमपेक्षितम् | तस्मान्नैरपेक्ष्याभावात्प्रामाण्यं नास्तीति प्राप्ते - ब्रूमः - लोके ऽगामानयऽ इत्यादिवृद्धप्रयोगे पदपदार्थयोरेव सङ्गतिर्गृह्यते | वाक्यं त्वाकाङ्क्षायोग्यतासन्निधिवशात् स्वार्थं प्रतिपादयतीत्यविवादम् | तथा वेदवाक्यस्यापि प्रत्यायकत्वादनपेक्षत्वेन प्रामाण्यमविरुद्धम् || MJऐNय्C_१,१.५१-५२ ||
SK
(अष्टमे वेदापौरुषेयत्वाधिकरणे सूत्राणि २७-३२)
SK
वेदांश् चैके सन्निकर्षं पुरुषाख्याः / Jऐम्_१,१.२७ /
SK
अनित्यदर्शनाच् च / Jऐम्_१,१.२८ /
SK
उक्तं तु शब्दपूर्वत्वम् / Jऐम्_१,१.२९ /
SK
आख्या प्रवचनात् / Jऐम्_१,१.३० /
SK
परन्तु श्रुतिसामान्यमात्रम् / Jऐम्_१,१.३१ /
SK
कृते वा विनियोगः स्यात् कर्मणः संबन्धात् / Jऐम्_१,१.३२ /
SK
START MJऐNय् १,१.५३-५४
SK
अष्टमाधिकरणमारचयति -
SK
पौरुष्यं न वा वेदवाक्यं स्यात्पौरुष्यता / काठकादिसमाख्यानाद्वाक्यत्वाच्चान्यवाक्यवत् // MJऐNय्_१,१.५३ //
SK
समाख्याध्यापकत्वेन वाक्यत्वं तु पराहतम् / तत्कर्त्रनुपलम्भेन स्यात्ततो ऽपौरुषेयता // MJऐNय्_१,१.५४ //
SK
ऽकाठकम्, कौथुमम्, तैत्तिरीयकम्ऽ इत्यादिसमाख्या तत्तद्वेदविषया लोके दृष्टा | तद्धितप्रत्ययश्च ऽतेन प्रोक्तम्ऽ [पाणि. सू. ४.३.१०१] इत्यर्थे वर्तते | तथा सति ऽव्यासेन प्रोक्तं वैयासिकं भारतम्ऽ इत्यादाविव पौरुषेयत्वं प्रतीयते | किञ्च ऽविमतं वेदवाक्यं पौरुषेयम्, वाक्यत्वात्, कालिदासादिवाक्यवत्ऽ इति प्राप्ते - ब्रूमः - अध्ययनसंप्रदायप्रवर्तकत्वेन समाख्योपपद्यते | कालिदासादिग्रन्थेषु तत्तत्सर्गावसाने कर्तार उपलभ्यन्ते | तथा वेदस्यापि पौरुषेयत्वे तत्कर्तोपलभ्येत | न चोपलभ्यते | अतो वाक्यत्वहेतुः प्रतिकूलतर्कपराहतः | तस्मादपौरुषेयो वेदः | तथा सति पुरुषबुद्धिदोषकृतस्याप्रामाण्यस्यानाशङ्कनीयत्वाद्विधिवाक्यस्य धर्मे प्रामाण्यं सुस्थितम् || MJऐNय्C_१,१.५३-५४ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य प्रथमः पादः //
SK
(अथ द्वितीयः पादः) (प्रथमे ऽर्थवादाधिकरणे सूत्राणि १-१८)
SK
आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते / Jऐम्_१,२.१ /
SK
शास्त्रदृष्टाविरोधाच् च / Jऐम्_१,२.२ /
SK
तथाफलाभावात् / Jऐम्_१,२.३ /
SK
अन्यानर्थक्यात् / Jऐम्_१,२.४ /
SK
अभागिप्रतिषेधाच् च / Jऐम्_१,२.५ /
SK
अनित्यसंयोगात् / Jऐम्_१,२.६ /
SK
विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः / Jऐम्_१,२.७ /
SK
तुल्यं च साम्प्रदायिकम् / Jऐम्_१,२.८ /
SK
अप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच् छब्दार्थस् त्व् अप्रयोगभूतस् तस्माद् उपपद्येत / Jऐम्_१,२.९ /
SK
गुणवादस् तु / Jऐम्_१,२.१० /
SK
रूपात् प्रायात् / Jऐम्_१,२.११ /
SK
दूरभूयस्त्वात् / Jऐम्_१,२.१२ /
SK
अपराधात् कर्तुश् च पुत्रदर्शनम् / Jऐम्_१,२.१३ /
SK
आकालिकेप्सा / Jऐम्_१,२.१४ /
SK
विद्याप्रशंसा / Jऐम्_१,२.१५ /
SK
सर्वत्वम् आधिकारिकम् / Jऐम्_१,२.१६ /
SK
फलस्य कर्मनिष्पत्तेस् तेषां लोकवत्परिमाणतः फलविशेषः स्यात् / Jऐम्_१,२.१७ /
SK
अन्त्ययोर् यथोक्तम् / Jऐम्_१,२.१८ /
SK
द्वितीयपादस्य प्रथमाधिकरणमारचयति -
SK
START MJऐNय् १,२.१-३
SK
वायुर्वा इत्येवमादेरर्थवादस्य मानता / न विधेये ऽस्ति धर्मे किं किंवासौ तत्र विद्यते // MJऐNय्_१,२.१ //
SK
विध्यर्थवादशब्दानां मिथोपेक्षापरिक्षयात् / नास्त्येकवाक्यता धर्मे प्रामाण्यं संभवेत्कुतः // MJऐNय्_१,२.२ //
SK
विध्यर्थवादौ साकाङ्क्षौ प्राशस्त्यपुरुषार्थयोः / तेनैकवाक्यता तस्माद्वादानां धर्ममानता // MJऐNय्_१,२.३ //
SK
काम्यपशुकाण्डे विध्यर्थवादौ श्रूयेते | ऽवायव्यं श्वेतमालभेत भूतिकामःऽ इति विधिः | ऽवायुर्वै क्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति, स एवैनं भूतिं गमयतिऽ इत्यर्थवादः | तत्र विधिवाक्यगता वायव्यादिशब्दा अर्थवादशब्दनैरपेक्ष्येणैव विशिष्टमर्थं विदधति | अर्थवादशब्दश्चेतरनैरपेक्ष्येणैव भूतार्थमन्वाचक्षते | ऽक्षिप्रगामी वायुः स्वोचितेन भागेन तोषितो भागप्रदायैश्वर्यं प्रयच्छतिऽ इत्युक्ते रामायणभारतादाविव वृत्तान्तः कश्चित् प्रतीयते, न त्वनुष्ठेयं किञ्चित् | अत एकवाक्यत्वाभावान्नास्त्यर्थवादस्य धर्मे प्रामाण्यमिति प्राप्ते - ब्रूमः - मा भूत्पदैकवाक्यता | वाक्यैकवाक्यता तु विद्यते | विधिवाक्यं तावत् पुरुषं प्रेरयितुं विधेयार्थस्य प्राशस्त्यमपेक्षते | अर्थवादवाक्यं च फलवदर्थावबोधपर्यवसिताध्ययनविधिपरिगृहीतत्वेन पुरुषार्थमपेक्षते | तत्र पुरुषार्थपर्यवसितविध्यपेक्षितं प्राशस्त्यं लक्षणावृत्त्या समर्पयदर्थवादवाक्यं विधिवाक्येन सहैकवाक्यतामापद्यते | ऽयतः क्षिप्रगामिस्वभावतया शीघ्रफलप्रदो वायुरस्य पशोर्देवता, ततः प्रशस्तमिमं वायव्यं पशुमालभेतऽ इति वाक्ययोरन्वयः | तस्मादर्थवादा धर्मे प्रमाणम् || MJऐNय्C_१,२.१-३ ||
SK
START MJऐNय् १,२.४
SK
अस्मिन्नेवाधिकरणेमतान्तरमनुसृत्य पूर्वोत्तरपक्षावाह -
SK
वादोक्तहेत्वपेक्षत्वान्न विधेर्मानतेति चेत् / सत्यन्वये स्तुतिद्वारा नापेक्षेति गुरुर्जगौ // MJऐNय्_१,२.४ //
SK
ऽयतो वायुः क्षिप्रमेव फलप्रदः, अतो वायव्यमालभेतऽ इत्येवमर्थवादोक्तं हेतुमपेक्ष्य विधिः पुरुषं नियुङ्क्ते | ततः सापेक्षत्वादप्रमाणमिति पूर्वपक्षः ||
SK
ऽविमतं कर्मानुष्ठेयम्, फलप्रददेवतोपेतत्वात्, राजसेवादिवत्ऽ इत्यनुमानं यद्यर्थवादे विवक्ष्यते, तदानीमागमप्रमाणस्य विधिवाक्यस्य प्रमाणान्तरसापेक्षत्वं स्यात् | न त्वेवं विवक्षितम् | किन्तु फलप्रददेवतातोषकत्वोपन्यासमुखेन कर्मप्राशस्त्यमुपलक्ष्यते | तथा सति ऽप्रशस्तं कर्मानुष्ठेयम्ऽ इत्यस्मिन्नर्थे सार्थवादस्य विदेः पर्यवसानादेकवाक्यता लभ्यते | तत्र कुतः सापेक्षत्वम् | तस्मात् विधिः प्रमाणम् इति सिद्धान्तः || MJऐNय्C_१,२.४ ||
SK
(द्वितीये विधिवन्निगदाधिकरणे सूत्राणि १९-२५)
SK
विधिर् वा स्याद् अपूर्वत्वाद् वादमात्रम ह्य् अनर्थकम् / Jऐम्_१,२.१९ /
SK
लोकवद् इति चेत् / Jऐम्_१,२.२० /
SK
न पूर्वत्वात् / Jऐम्_१,२.२१ /
SK
उक्तं तु वाक्यशेषत्वम् / Jऐम्_१,२.२२ /
SK
विधिश् चानर्थकः क्वचित् तस्मात् स्तुतिः प्रतीयेत तत्सामान्याद् इतरेषु तथात्वम् / Jऐम्_१,२.२३ /
SK
प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति / Jऐम्_१,२.२४ /
SK
विधौ च वाक्यभेदः स्यात् / Jऐम्_१,२.२५ /
SK
START MJऐNय् १,२.५-७
SK
द्वितीयाधिकरणमारचयति -
SK
ऊर्जो ऽवरुध्या इत्येष विधिवन्निगदो न किम् / यूपौदुम्बरतां स्तौति स्तौति वा तद्विधित्सया // MJऐNय्_१,२.५ //
SK
चतुर्थ्या फलतालाभाद्यूपौदुम्बरता फलम् / ऊर्जो ऽवरोधं कथयन्कथं स्तुतिपरो भवेत् // MJऐNय्_१,२.६ //
SK
अस्तुतौदुम्बरत्वस्याविधानात्कस्य तत्फलम् / अर्थद्वैधे वाक्यभेदस्तेन स्तावक एव सः // MJऐNय्_१,२.७ //
SK
इदमाम्नायते - ऽऔदुम्बरो यूपो भवति, ऊर्ग्वा उदुम्बरः, ऊर्क्पशवः, ऊर्जैवास्मा ऊर्जं पशूनाप्नोति, ऊर्जो ऽवरुध्यैऽ इति | अमृतशब्दाभिधेयो ऽत्यन्तसारभूतः सूक्ष्मो ऽन्नरसः ऊर्गुच्यते | उदुम्बररूपयोर्जा यजमानार्थमध्वर्युः पशुरूपामूर्जमाप्नोति | ततो यूपस्यौदुम्बरत्वमूर्जः सम्पादनाय भवतीत्यर्थः | अत्र ऽअवरुध्यैऽ इति तादर्थ्ये चतुर्थी | तया फलत्वं गम्यते | ऽधनलाभाय राजसेवाऽ इत्यादौ तद्दर्शनात् | न च फलपरस्य वचनस्य स्तावकत्वं युज्यते | अन्यथा स्वर्गकाम इत्यत्र स्वर्गशब्दस्यापि ज्योतिष्टोमस्तावकत्वप्रसङ्गादिति प्राप्ते - ब्रूमः - अयमूर्जो ऽवरोधः कस्य फलं स्यात् - किमविहितस्यौदुम्बरत्वस्य, उत विहितस्य | नाऽद्यः, अनुष्ठानमन्तरेण द्रव्यमात्रात् फलानुत्पत्तेः | द्वितीये किमत्र विधिः प्रत्यक्षः, उतोन्नेयः | नाऽद्यः, ऽऔदुम्बरो यूपो भवतिऽ इत्यत्र लिङ्प्रत्ययाश्रवणात् | द्वितीये स्तुत्या स उन्नेयः | न चात्र स्तुतिमङ्गीकरोषि | अथोच्येत - ऽविधानायौदुम्बरत्वं स्तूयते तत्फलं चावबोध्यतेऽ इति | तर्हि वाक्यं भिद्येत | ततः फलविधिवन्निगद्यमानमप्येतद्वाक्यं स्तावकमेव || MJऐNय्C_१,२.५-७ ||
SK
START MJऐNय् १,२.८
SK
अत्रैवगुरुमतेनपूर्वोत्तरपक्षावाह -
SK
आप्नोतीति विधित्वस्य वादत्वस्याप्यनिर्णयात् / न प्रमा चोदनेत्येतन् वादो ह्येकवाक्यतः // MJऐNय्_१,२.८ //
SK
ऊर्जं पशूनाप्नोति इत्यपूर्वार्थत्वाद्विधित्वं प्रतिभासते, लिङ्ङाद्यभावादर्थवादत्वम् | अतः सन्दिग्धत्वान्न प्रामाण्यं चोदनाया इति पूर्वपक्षः ||
SK
एकवाक्यत्वलाभेनार्थवादत्वं निर्णीयते | अतः प्रमाणं चोदना इति राद्धान्तः || MJऐNय्C_१,२.८ ||
SK
(तृतीये हेतुवन्निगदाधिकरणे सूत्राणि २६ - ३० )
SK
हेतुर् वा स्याद् अर्थवत्वोपपत्तिभ्याम् / Jऐम्_१,२.२६ /
SK
स्तुतिस् तु शब्दपूर्वत्वाद् अचोदना तस्य / Jऐम्_१,२.२७ /
SK
अर्थे स्तुतिर् अन्याय्येति चेत् / Jऐम्_१,२.२८ /
SK
अर्थस् तु विधिशेषत्वाद् यथा लोके / Jऐम्_१,२.२९ /
SK
यदि च हेतुर् अवतिष्ठेत निर्देशात् सामान्याद् इति चेद् अवस्था विधीनां स्यात् / Jऐम्_१,२.३० /
SK
तृतीयाधिकरणमारचयति -
SK
START MJऐNय् १,२.९-१०
SK
तेन ह्यन्नमिति प्रोक्तो वादो हेतुरुत स्तुतिः / हिना श्रुता हेतुतातः शूर्पमन्यच्च साधनम् // MJऐNय्_१,२.९ //
SK
शूर्पसाधनता श्रौती नाश्रौतैः सा विकल्प्यते / अतो निरर्थको हेतुः स्तुतिस्तस्मात्प्रवर्तिका // MJऐNय्_१,२.१० //
SK
इदमाम्नायेत - ऽशूर्पेण जुहोति तेन ह्यन्नं क्रियतेऽ अयमर्थवादो विधेये शूर्पे हेतुत्वेनान्वेति | हिशब्दस्य हेतुवायित्वात् | ऽ यस्मादन्नसाधनं, तस्माच्छूर्पेण होतव्यम् ऽ इत्युक्ते ऽ यद्यदन्नसाधनं दर्वीपिठरादिकं तेन सर्वेण होतव्यम् ऽ इति लभ्यते | ततः ऽ पिठरादयः शूर्पेण सह विकल्प्यन्ते ऽ इति प्राप्ते - ब्रूमः-- शूर्पस्य होमसाधनत्वं श्रौतम्, तृतीयया तदवगमात् | पिठरादीनां त्वानुमानिकम् | अतो ऽसमानबलत्वान्न विकल्पो युक्तः | ततो हेतुर्व्यर्थः | स्तुत्रिः प्ररोचनायोपयुक्ता, तस्मात्स्तुतित्वेनान्वयः || MJऐNय्C_१,२.९-१० ||
SK
(चतुर्थे मन्त्रलिङ्गाधिकरणे सूत्राणि ३१ - ५३ )
SK
तदर्थशास्त्रात् / Jऐम्_१,२.३१ /
SK
वाक्यनियमात् / Jऐम्_१,२.३२ /
SK
बुद्धिशास्त्रात् / Jऐम्_१,२.३३ /
SK
अविद्यमानवचनात् / Jऐम्_१,२.३४ /
SK
अचेतने ऽर्थबन्धनात् / Jऐम्_१,२.३५ /
SK
अर्थविप्रतिषेधात् / Jऐम्_१,२.३६ /
SK
स्वाध्यायवद्वचनात् / Jऐम्_१,२.३७ /
SK
अविज्ञेयात् / Jऐम्_१,२.३८ /
SK
अनित्यसंयोगान् मन्त्रार्थानर्थक्यम् / Jऐम्_१,२.३९ /
SK
अविशिष्टस् तु वाक्यार्थः / Jऐम्_१,२.४० /
SK
गुणार्थेन पुनः श्रुतिः / Jऐम्_१,२.४१ /
SK
परिसंख्या / Jऐम्_१,२.४२ /
SK
अर्थवादो वा / Jऐम्_१,२.४३ /
SK
अविरुद्धं परम् / Jऐम्_१,२.४४ /
SK
संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् / Jऐम्_१,२.४५ /
SK
अभिधाने ऽर्थवादः / Jऐम्_१,२.४६ /
SK
गुणाद् अप्रतिषेधः स्यात् / Jऐम्_१,२.४७ /
SK
विद्यावचनम् असंयोगात् / Jऐम्_१,२.४८ /
SK
सतः परमविज्ञानम् / Jऐम्_१,२.४९ /
SK
उक्तश् चानित्यसंयोगः / Jऐम्_१,२.५० /
SK
लिङ्गोपदेशश् च तदर्थवत् / Jऐम्_१,२.५१ /
SK
ऊहः / Jऐम्_१,२.५२ /
SK
विधिशब्दाश् च / Jऐम्_१,२.५३ /
SK
चतुर्थाधिकरणमारचयति -
SK
START MJऐNय् १,२.११-१२
SK
मन्त्रा उरु प्रथस्वेति किमदृष्टैकहेतवः / यागेषूत पुरोडाशप्रथनादेश्च भासकाः // MJऐNय्_१,२.११ //
SK
ब्राह्मणेनापि तद्भानान्मन्त्राः पुण्यैकहेतवः / न तद्भानस्य दृष्टत्वाद्दृष्टं वरमदृष्टतः // MJऐNय्_१,२.१२ //
SK
ऽउरु प्रथस्वऽ इत्ययं कश्चिन्मन्त्रः | तस्यायमर्थः - भोः पुरोडाश, स्वमुरुविपुलता यथा भवति तथा प्रसर ऽ इति | एवमादयो मन्त्रा यागप्रयोगेपूच्चार्यमाणा अदृष्टमेव जनयन्ति | नत्वर्थप्रकाशनाय तदुच्चारणम् | पुरोडाशप्रथन लक्षणस्यार्थस्य व्राह्मणवाक्येनापि भासनात् थ ऽउरु प्रथस्वेति पुरोडाशं प्रथयतिऽ इति हि ब्राह्मणवाक्यम् ,[इति चेत्ट | नैतद्युक्तम् | अर्थप्रत्यायनस्य दृष्टप्रयोजनस्कय संभवे सति केवलादृष्टस्य कल्पयितुमशक्यत्वात् | तस्माद्दृष्टमर्थानुस्मपणमेव यागप्रयोगे मन्त्रोच्चारणस्य प्रयोजनम् | ब्राह्मणवाक्येनाप्यर्थानुस्मरणसंभवे ऽमन्त्रेणैवानुस्मपणीयम् ऽ इति यो नियमः, तस्य दृष्टासंभवाददृष्टं प्रयोजनमस्तु || MJऐNय्C_१,२.११-१२ ||
SK
START MJऐNय् १,२.१३
SK
अत्रैव मतान्तरेण पूर्वोत्तरपक्षावाह -
SK
मन्त्रब्राह्मणयोर्यद्वा कलहो विनियोजने / न मन्त्रलिङ्गसिद्धार्थमनुवक्तीतरद्यतः // MJऐNय्_१,२.१३ //
SK
अस्य मन्त्रस्य लिङ्गेन विनियोगे ब्राह्मणवाक्यमविवक्षितार्थे स्यात् | वाक्येन विनियोग मन्त्रलिङ्गं न विवक्ष्येत | इत्युभयोर्विरोधादप्रामाण्यं चोदनाया इति पूर्वेः पक्षः | नायं विरोधः, प्रबलेन हि लिङ्गेन विनियोगसिद्धौ वाक्यस्यानुवादकत्वादिति - राद्धान्तः || MJऐNय्C_१,२.१३ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य द्वितीयः पादः
SK
अथ तृतीयः पादः
SK
(प्रथमे स्मृतिप्रामाण्याधिकरणे सूत्रे १-२)
SK
धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् / Jऐम्_१,३.१ /
SK
अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् / Jऐम्_१,३.२ /
SK
START MJऐNय् १,३.१-२
SK
तृतीयपादस्य प्रथमाधिकरणमारचयति -
SK
अष्टकादिस्मृतेर्धर्मे न मात्वं मानताथवा / निर्मूलत्वान्न मानं सा वेदार्थोक्तौ निरर्थता // MJऐNय्_१,३.१ //
SK
वैदिकैः स्मर्यमाणत्वात्संभाव्या वेदमूलता / विप्रकीर्णार्थसेक्षेपात्सार्थत्वादस्ति मानता // MJऐNय्_१,३.२ //
SK
᳚अष्टकाः कर्तव्याः᳚इत्यादि स्मृतिवाक्यं न धर्मे प्रमाणम , पौरुषेयवाक्यत्वे सति मूलप्रमाणरहितत्वात् , विप्रलम्भकवाक्यत्वात् | अथ मूलप्रमाणवत्त्वाय वेदार्थ एव स्मृतिरनर्था स्यात् | तदानीमनुवादकत्वादप्रामाण्यमिति प्राप्ते - ब्रूमः -- ऽ विमता स्मृतिर्वेदमूला, वैदिकमन्वादिप्रणीतस्मृतित्वात् , उपनयानाध्ययनादिस्मृतिवत् ऽ | न च वैयर्थ्ये शङ्कनीयम् | अस्मदादीनां प्रत्यक्षेषु परोक्षेषु चं नानावेदेषु विप्रकीर्णस्यानुष्ठेयार्थस्यैकत्र संक्षिप्यमाणत्वात् | तस्मादियं स्मृतिधर्मे प्रमाणम् || MJऐNय्C_१,२.१-२ ||
SK
START MJऐNय् १,३.३
SK
अस्मिन्नेव मतान्तरेण पूर्वोत्तरपक्षावाह -
SK
न मा स्मार्ताष्टङ्काङ्गत्वाद्यां जना इति मन्त्रगीः / तन्न स्मृतेर्मूलवेदे ऽनुमिते मात्वसंभवात् // MJऐNय्_१,३.३ //
SK
ऽयां जनाः प्रतिनन्दति ऽ इत्ययं मन्त्रोष्टकाश्राद्धस्याङ्गम् | तेच्च श्राद्धं स्मार्तम् | न हि तस्य प्रतिपादकं वेदवाक्यमुपलभामहे | तस्मादिदं मन्त्रवाक्यं न धर्मे प्रमाणमिति चेत् | न | तन्मूलस्य वेदस्यानुमेयत्वात् | अनुमानं च दर्शितम् | तस्मादसौ मन्त्रो धर्मे प्रमाणम् || MJऐNय्C_१,२.३ ||
SK
(द्वितीये श्रुतिप्राबल्याधिकरणे सूत्रम्)
SK
विरोधे त्व् अनपेक्ष्यं स्याद् असति ह्य् अनुमानम् / Jऐम्_१,३.३ /
SK
START MJऐNय् १,३.४-५
SK
द्वितीयाधिकरणमारचयति -
SK
औदुम्बरी वेष्टनीया सर्वेत्येषा स्मृतिर्मितिः / अमितिर्वेति संदेहे मितिः स्यादष्टकादिवत् // MJऐNय्_१,३.४ //
SK
औदुम्बरीं स्पृशन्गायेदिति प्रत्यक्षवेदतः / विरोधान्मूलवेदस्याननुमानादमानता // MJऐNय्_१,३.५ //
SK
ज्योतिष्टोमे सदोनामकस्य मण्डपस्य मध्ये काचिदौदुम्बरी शाखा निखन्यते | तस्याश्र्च वाससा वेष्टनं स्मर्यते- ऽ औदुम्बरी सर्वा वेष्टयितव्याऽ इति | सा स्मृतिः प्रमाणम्, अष्टकादिस्मृतिष्विव मूलवेदस्यानुमातुं शक्यत्वादिति प्राप्ते - ब्रूमः - ऽ औदुम्बरीं स्पृष्ट्वोद्गायेत् ऽ इति प्रत्यक्षेवदवचनेन स्पर्शो विधीयते | न च सर्ववेष्टने स्पर्शः संभवति | अतो मूलवेदानुमानं कालात्ययापदिष्टम | अतो विप्रलम्भकवाक्यवन्निर्मूला स्मृतिरप्रमाणम् || MJऐNय्C_१,२.४-५ ||
SK
START MJऐNय् १,३.६-७
SK
अस्मिन्नेवाधिकरणे मतान्तरमाह - प्रत्यक्षानुमितश्रुत्योर्यद्वा व्याघातदर्शनात् / अमात्वे शङ्किते बाधो ऽनुमानस्यात्र वर्ण्यते // MJऐNय्_१,३.६ //
SK
परप्रत्यक्षवेदो ऽत्र मूलं चेद्वेष्टनस्य तत् / अस्त्वेवमप्यनुष्ठानं स्वप्रत्यक्षानुरोधतः // MJऐNय्_१,३.७ //
SK
स्पर्शसर्ववेष्टनविषययोः प्रत्यक्षानुमितश्रुत्योः परस्परविरोधादुभयोरप्यप्रामाण्यमिति पूर्वपक्षः | अनुमानस्य कालात्ययापदिष्टतया विरुद्धश्रुत्यभावेन स्पर्शश्रुतिः स्वार्थे प्रमाणम् | यदि पुरुषान्तरप्रत्यक्षवेदः सर्ववेष्टनस्मृतेर्मूलमित्युच्यते, तर्हि मा भूत्तस्या अप्रामाण्यम् | तथापि परप्रत्यक्षात्स्वप्रत्यक्षस्याभ्यर्हितत्वेन स्पर्श एवात्रानुष्ठेयो नतु सर्ववेष्टनम् || MJऐNय्C_१,२.६-७ ||
SK
(तृतीये दृष्टमूलकस्मृत्यप्रामाण्याधिकरणे सूत्रम् ) /
SK
हेतुदर्शनाच् च / Jऐम्_१,३.४ /
SK
START MJऐNय् १,३.८-९
SK
तृतीयाधिकरणमारचयति -
SK
वैसर्जनाख्यहोमीयनाससो ग्रहणस्मृतिः / प्रमा न वा श्रुत्यबाधात्प्रमा स्यादष्टकादिवत् // MJऐNय्_१,३.८ //
SK
दृष्टलोभैकमूलत्वसंभवे श्रुत्यकल्पनात् / सर्ववेष्टनवद्वाधहीनाप्येषा न हि प्रमा // MJऐNय्_१,३.९ //
SK
ज्योतिष्टोम्ऽग्नीषोमीयस्य पशोस्तन्त्रे प्रक्रान्ते वैसर्जनहोमो विहितः | तत्र यजमानं पत्नीं पुत्रांश्र्च भ्रातॄंश्र्चाहतेन वाससा प्रच्छाद्य वाससो ऽन्ते स्त्रुग्दण्डमुपनिबध्य जुहोति | तस्मिन्वासस्येवं स्मर्यते - ऽ वैसर्जनहोमीयं वासो ऽध्वर्युर्गृह्णातिऽ इति | सेयं स्मृतिः सर्ववेष्टनस्मृतिवत्प्रत्यक्षश्रुत्या न बाध्यते | ततो ऽष्टकादिस्मृतिवत्प्रमाणमिति प्राप्ते - ब्रूमः- कदाचित्कश्र्चिदध्वर्युर्लोभादतद्वासो जग्राह | तन्मूलैवैषा स्मृतिरित्यपि कल्पना संभवति | दृष्टामुसारिणी चैषां कल्पना | दक्षिणया परिक्रीतानामृत्विजां लोभदर्शनात् | तथा सत्यस्याः स्मृतेरन्यथाप्युपपत्तावष्टकादिश्रुतिवन्न मूलश्रुतिः कल्पयितुं शक्यते | अतो बाधाभावे ऽपि मूलभेदाभावान्नेयं स्मृतिः प्रमाणम् || MJऐNय्C_१,२.८-९ ||
SK
(चतुर्थे पदार्थप्रबल्याधिकरणे सूत्राणि ५ - ७)
SK
शिष्टाकोपे ऽविरुद्धम् इति चेत् / Jऐम्_१,३.५ /
SK
न शास्त्रपरिमाणत्वात् / Jऐम्_१,३.६ /
SK
अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् / Jऐम्_१,३.७ /
SK
START MJऐNय् १,३.१०-११
SK
चतुर्थाधिकरणं भाष्यमतेनाऽरचयति -
SK
आचान्तेनेत्यमा मा वा स्मृतिरेषा न मा भवेत् / वेदं कृत्वेति यः श्रौतः क्रमस्तेन विरोधतः // MJऐNय्_१,३.१० //
SK
आचान्त्यादिः पदार्थो ऽत्र क्रमो धर्मः पदार्थगः / धर्मस्य धर्म्यपेक्षत्वादबाधादस्ति मानता // MJऐNय्_१,३.११ //
SK
ऽक्षुत आचामेत् ऽ इति विहितं पुरुषार्थमाचमनम् | यदा तु क्रतुमध्ये क्षुतादि निमित्तं प्रप्नोति तदा नैमित्तिकमाचमनं क्रत्वङ्गत्वेन स्मृत्या विधीयते | ऽ आचान्तेन कर्तव्यम् ऽ इति | सेयं स्मृतिर्न प्रमाणम् | कुतः | विरूद्धत्वात् | ऽवेदं कृत्वा वेदिं करोति ऽ इति श्रुतौ पूर्वकालवाचिना त्वाप्रत्ययेन क्रमः प्रतीयते | वेदो नाम दर्भमयं संमार्जनसाधनम् | वेदिराहवनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गुलखाता भूमिः | तयोर्मध्ये यदि क्षुतादिनिमित्तमाचमनं कुर्यात् , तदा श्रुत्युक्तं नैरन्तर्यं विरूध्येत | तस्माद्वेष्टनस्मृतिवदाचमनस्मृतिर्न प्रमाणमिति प्रप्ते - ब्रूमः- वेदवेद्यादिश्रुत्युक्तपदार्थवदाचमनादयः स्मृत्युक्ता अनुष्ठेयपदार्थाः | क्रमस्तु पदार्थनिष्ठो धर्मः | स च पदार्थानुपजीवति | तत उपजीव्यविरोधात्क्रम एव बाध्यते | नतु क्रमेणाऽचमनस्य बाधो ऽस्ति | तस्मादियं स्मृतिः प्रमाणम् | अस्मिन्नेव वार्तिककारः प्रकारान्तरेण विचारद्वयं चकार || MJऐNय्C_१,२.१०-११ ||
SK
START MJऐNय् १,३.१२
SK
तत्र प्रथमं विचारं दर्शयति -
SK
शाक्योक्ताहिंसनं धर्मो न वा धर्मः श्रुतत्वतः / न धर्मो नहि पूतं स्याद्गोक्षीरं श्र्वदृतौ धृतम् // MJऐNय्_१,३.१२ //
SK
ऽब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन रक्षेत् ऽ इति श्रुतावहिंसादिर्धर्मत्वेनोक्तः | स एव धर्मः शाक्येनाप्युक्तः | तस्माच्छाक्यस्मृतिर्धर्मे प्रमाणमिति चेत् | न | स्वरूपेण धर्मस्यापि गोक्षीरन्यायेन शाक्यसंबन्धे सत्यधर्मत्वप्रसङ्गात् | तदीयग्रन्थेनाहिंसादिर्नावगन्तव्यः | तस्मान्न सा स्मुतिर्धर्मे प्रमाणम् || MJऐNय्C_१,२.१२ ||
SK
START MJऐNय् १,३.१३
SK
विचारान्तरं दर्शयति - सदाचारो ऽप्रमा मा वा निर्मूलत्वादमानता / अष्टकादेरिवैतस्य समूलत्वात्प्रमाणता // MJऐNय्_१,३.१३ //
SK
होलाकोत्सवादिसदाचारस्य मूलभूतवेदाभावादप्रामाण्यमिति चेत् | न | वैदिकैः शिष्टैः परिगृहीतत्वेनाष्टकादिवद्वेदमूलत्वात् | अत एव मन्वादिभिर्ग्रन्थगौरवभयाद्विशेषाकारेणानुपदिष्टो ऽपि सदाचारः सामान्याकारेणोपदिष्टः | ᳚श्रुतिः स्मृतिः सदाचारः᳚इत्येवं धर्मे प्रमाणोपन्यासात् | तस्माच्छिष्टचार प्रमाणम् || MJऐNय्C_१,२.१३ ||
SK
(पञ्चमेशास्त्रप्रसिद्धार्थप्रामाण्याधिकरणे[आर्यम्लेच्छाधिकरणेटसूत्रे ८ - ९)
SK
तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् / Jऐम्_१,३.८ /
SK
शास्त्रस्था वा तन्निमित्तत्वात् / Jऐम्_१,३.९ /
SK
START MJऐNय् १,३.१४-१५
SK
पञ्चमाधिकरणमारचयति -
SK
यंवान्दिशब्दाः किं द्व्यर्था नो वार्ऽऽयम्लेच्छसाम्यतः / दीर्घशूकप्रियङ्ग्वाद्या द्वये ऽप्यर्था विकल्पिताः // MJऐNय्_१,३.१४ //
SK
यत्रान्या इति शास्त्रस्था प्रसिद्धिस्तु बलीयसी / शास्त्रीयधर्मे तेनात्र प्रियङ्ग्वादि न गृह्यते // MJऐNय्_१,३.१५ //
SK
ऽयवमयश्र्चरुर्भवति ऽ ऽवाराही उपानहावुपमुञ्चते ऽ इति श्रूयते | तत्र यव शब्दमार्या दीर्घशूकेषु प्रयुञ्जते वराहशब्दं च सूकरे | म्लेच्छास्तु यवशब्दं प्रियङ्गुषु , वराहशब्दं च कृष्णशकुनौ | तथा सति लोकव्यवहारेण निश्र्चेतव्येषु शब्दार्थेष्वार्यम्लेच्छप्रसिद्ध्योः समानबलत्वादुभयविधा अष्यर्था विकल्पेन स्वीकार्या इति प्रप्ते - ब्रूमः- शास्त्रीयधर्मावबोधे शास्त्रप्रसिद्धिर्बलीयसी | प्रत्यासन्नत्वादविच्छिन्नपारम्पर्यागतत्वाच्च | शास्त्रे यवविध्यर्थवाद एवं श्रूयते - ऽ यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोतिष्ठन्ति ऽ इति | इतरौषधिविनाशकाले ऽभिवृद्धिर्घशूकेषु दृश्यते, न तु प्रियङ्गुषु | तेषामितरौषधिपरिपाकात्पूर्वे पच्यमानत्वात् | वाराहोपानद्विध्यर्थवादश्र्चैवं भवति - ऽ वराहं गावो ऽनुधावन्ति ऽ इति | गवामनुधावनं शूकरे संभवति न तु कृष्णशकुनौ | तस्माद्दीर्घशूक्दिर्यवादिशब्दार्थः | अत्र वार्तिककारः पीलुशब्दमुदाजहार | तं च म्लेच्छा हस्तिनि प्रयुञ्जते, आर्यास्तु वृक्षे | तत्राविप्लुतव्यवहारस्यार्ऽऽयेषु संभवाद्वृक्ष एव पीलुशब्दार्थः || MJऐNय्C_१,२.१४-१५ ||
SK
START MJऐNय् १,३.१६
SK
अस्मिन्नेवाधिकरणे गुरुमतमाह -
SK
यवाद्यर्थानिर्णयेन तद्वाक्यं न प्रमेति चेत् / न शास्त्रस्य बलित्वेन तत्प्रसिद्ध्यार्ऽथनिर्णयात् // MJऐNय्_१,३.१६ //
SK
स्पष्टो ऽर्थः || MJऐNय्C_१,२.१६ ||
SK
START MJऐNय् १,३.१७-१८
SK
अस्मिन्नेवाधिकरणे वार्तिककारमतेन वर्णकान्तरमारचयति -
SK
यो मातुलविवाहादौ शिष्टाचारः स मा न वा / इतराचारवन्मात्वममात्वं स्मर्तबाधनात // MJऐNय्_१,३.१७ //
SK
स्मृतिमूलो हि सर्वत्र शिष्टाचारस्ततो ऽत्र च / अनुमेया स्मृतिः स्मृत्या बाध्या प्रत्यक्षया तु सा // MJऐNय्_१,३.१८ //
SK
केषुचिद्दक्षिणदेशेषु मातुलस्य दुहितरं शिष्टाः परिणयन्ति | सो ऽयमायारः प्रमाणं, शिष्टाचारत्वात् , होलाकाद्याचारवत् , इति चेत् | न | स्मृतिविरुद्धत्वेन कालात्ययापदिष्टत्वात् | तथा च स्मृतिः- ᳚मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च | समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्᳚ || इति | न च स्मृत्याचारयोर्मूलवैदानुमापकसाम्यात्समबलत्वमिति शङ्कनीयम् | होलाकादिसदाचारस्य मन्वादिस्मृतिवद्वेदानुमापकत्वायोगात् | नहीदानीन्तनाः शिष्टा मन्वादिवद्देशकालविप्रकृष्टं वेदं दिव्यज्ञानेन साक्षात्कर्तु शक्नुवन्ति | येन शिष्टचारो मूलवेदमनुमापयेत् | शक्नोति च यः कोपि शिष्टो यत्र क्वापि देशविशेषे कालविशेषे च यं कञ्चनापि होलाकाद्याचरस्य मूलभूतं स्मृतिग्रन्थमवलोकयितुम् | तस्माच्छिष्टाचारेण स्मृतिरेवानुमातुं शक्यते, नतु श्रुतिः | अनुमिता च स्मृतिर्विरूद्धया प्रत्यक्षया स्मृत्या बाध्यते | अत एवाऽहुः- ᳚आचारात्तु स्मृतिं ज्ञात्वा स्मृतिश्र्च श्रुतिकल्पमम् | तेन द्वयन्तरितं तेषां प्रामाण्यं विप्रकष्यते᳚ || इति | तस्मादीदृशस्याऽचारस्याप्रामाण्यमभ्युपेयम् || MJऐNय्C_१,२.१७-१८ ||
SK
START MJऐNय् १,३.१९
SK
तत्रैवापरं वर्णकमारचयति -
SK
लौकिको वाक्यगो वार्ऽथस्त्रिवृदादेः समत्वतः / उभौ विध्यर्थवादैकवाक्यत्वादस्त्विहान्तिमः // MJऐNय्_१,३.१९ //
SK
ऽत्रिवृद्वहिष्पवमानम्ऽ इति श्रुतौ विवृच्छब्दस्य त्रैगुण्यं लोकसिद्धोर्ऽथः | वाक्यशेषादृक्त्रयात्मकेषु त्रिषु सूक्तेष्ववस्थितानां बहिष्पवमानात्मकस्तोत्रनिष्पादनक्षमाणाम् ऽ उपास्मै गायता नरः ऽ -- इत्यादीनामृचां नवकमर्थः | तत्र धर्मनिणये वेदस्य प्रबलत्वे ऽपि पदपदार्थनिर्णये लोकवेदयोः समानबलत्वादुभावप्यर्थौ विकल्पेव ग्रहीतव्याविति चेत् | मैवम् | लौकिकार्थस्वीकारपक्षे विधिवाक्येर्ऽथस्त्रैगुण्यम्, अर्थवादवाक्ये स्तोत्रियाणामृचां नवकम् , इत्येवं विध्यर्थवादयोर्वैयधिकरण्यादेकवाक्यत्वं न स्यात् | अत एकवाक्यत्वाय स्तोत्रियाणां नवकमित्येव विधिवाक्ये नियतोर्ऽथः || MJऐNय्C_१,२.१९ ||
SK
(षष्ठे म्लेच्छप्रसिद्धार्थप्रामाण्याधिकरणे सूत्रम्)
SK
चोदितं तु प्रतीयेताविरोधात् प्रमाणेन / Jऐम्_१,३.१० /
SK
START MJऐNय् १,३.२०-२१
SK
षष्ठाधिकरणमारचयति -
SK
कल्प्यः पिकादिशब्दार्थो ग्राह्यो वा म्लेच्छरूढितः / कल्प्य आर्योष्वसिद्धत्वादनार्याणानमादरात् // MJऐNय्_१,३.२० //
SK
ग्राह्य म्लोच्छप्रसिद्धिस्तु विरोधादर्शने सति / पिकनेमादिशब्दानां कोकिलाद्यर्थता ततः // MJऐNय्_१,३.२१ //
SK
आर्याः पिकादिशब्दं न क्वाप्यर्थे प्रयुञ्जते, म्लेच्छाश्र्च न प्रमाणभूताः | तस्मान्निगमनिरूक्तव्याकरणैः पिकनेमादिशब्दानामर्थः कल्पनीय इति चेत् | मैवम् | आर्यप्रसिद्धिविरोधस्यादृष्टत्वेनेदृशे विशय म्लेच्छप्रसिद्धेरप्यादरणीयत्वात् | कल्प्यमानादब्यवस्थितादर्थाद्वरे म्लेच्छरूढिः | यत्रेदृश्या अपि रूढेरभावस्तत्र निरूक्तादयश्र्चरितार्थाः | तस्मादनार्य प्रसिद्ध्या पिकः कोकिलः, नेमशब्दोर्ऽधवाची , तामरसशब्दः पद्मवाची, इत्येवं द्रष्टव्यम् || MJऐNय्C_१,२.२०-२१ ||
SK
START MJऐNय् १,३.२२
SK
अस्मिन्नेवाधिकरणे गुरुमतमाह -
SK
अर्थाबोधादप्रमाणं पिकालम्भनचोदना / मैवं म्लेच्छप्रसिद्ध्यापि तब्दोधादविरुद्धया // MJऐNय्_१,३.२२ //
SK
स्पष्टो ऽर्थः || MJऐNय्C_१,२.२२ ||
SK
(सप्तमे कल्पसूत्रास्वतः प्रामाण्याधिकरणे सूत्राणि ११ - १४ ) /
SK
प्रयोगशास्त्रम् इति चेत् / Jऐम्_१,३.११ /
SK
नासंनियमात् / Jऐम्_१,३.१२ /
SK
अवाक्यशेषाच् च / Jऐम्_१,३.१३ /
SK
सर्वत्र च प्रयोगात् संनिधानशास्त्राच् च / Jऐम्_१,३.१४ /
SK
START MJऐNय् १,३.२३-२४
SK
सप्तमाधिकरणमारचयति -
SK
अपौरुषेयाः कल्पाद्याः कृत्रिमा वा न कृत्रिमाः / श्रुतिस्मत्योर्धर्मबुद्धेः स्वतो मात्वं यतः समम् // MJऐNय्_१,३.२३ //
SK
पुंनामोक्तेः पौरुषेयाः काठकाद्यसमत्वतः / तत्रोपलेभिरे केचिदापस्तम्बादिकर्तृताम् // MJऐNय्_१,३.२४ //
SK
बौधायनापस्तम्बा श्र्वलायनकात्यायनादिनामाङ्किताः कल्पर्सूत्रग्रन्थाः, निगमनिरुक्तादिषडङ्गग्रन्थाः, मन्वादिस्मृतयश्र्चाषौरुषेयाः, धर्मबुद्धिजनकत्वात्, वेदवत् | न च मूलप्रमाणसापेक्षत्वेन वेदवैषम्यमिति शङ्कनीयम् | उत्पन्नाया बुद्धेः स्वतः- प्रामाण्याङ्गीकारेण निरपेक्षत्वात् | मैवम् | उक्तानुमानस्य कालात्ययापदिष्टत्वात् | बौधायनसूत्रम् , आपस्तम्बसूत्रम्, इत्येवं पुरुषनाम्ना ते ग्रन्था उच्यन्ते | न च काठकादिसमाख्यवत्प्रवचननिमित्तत्वं युक्तम् | तद्ग्रन्थनिर्माणकाले तदानीन्तनैः कैश्र्चिदुपलब्धत्वात् | तच्चाविच्छिन्नपारम्पर्येणानुवर्तते | ततः कालिदासादिग्रन्थवत्पौरुषेयाः | तथापि वेदमूलत्वात्प्रमाणम् || MJऐNय्C_१,२.२३-२४ ||
SK
START MJऐNय् १,३.२५
SK
अत्रैव गुरुमतमाह -
SK
कल्पे सर्वतिथौ दर्शकार्यतोक्तेः श्रुतिर्न मा / न कल्पे साध्यवेदत्वप्रहाणाद्दुर्बलत्वतः // MJऐNय्_१,३.२५ //
SK
सर्वतिथौ दर्शयागकर्तव्यतां कल्पसूत्रकार आह -᳚सर्वासु तिथिष्वमावास्या कर्तव्या᳚इति | श्रुतिस्त्वमावास्यायामेव तिथौ कर्तव्यतां ब्रूते | ततः कल्पसूत्ररूपेंण वेदेन विरुद्धत्वादियं श्रुतिर्न मानमिति चेत् | मैवम् | कल्पस्य वेदत्वं नाद्यापि सिद्धम् | किन्तु यत्नेन साध्यम् | न च तत्साधयितुं शक्यम् | पौरुषेयत्वस्य समाख्यया तत्कर्तुरुपलम्भेन च साधितत्वात् | अतः कल्पसूत्रस्य दुर्बलतया न श्रुतेरप्रामाण्यम् || MJऐNय्C_१,२.२५ ||
SK
(अष्टमे होलाकाधिकरणे सूत्राणि १४ - २३)
SK
अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् / Jऐम्_१,३.१५ /
SK
अपि वा सर्वधर्मः स्यात् तन्न्यायत्वाद् विधानस्य / Jऐम्_१,३.१६ /
SK
दर्शनाद् विनियोगः स्यात् / Jऐम्_१,३.१७ /
SK
लिङ्गाभावाच् च नित्यस्य / Jऐम्_१,३.१८ /
SK
आख्या हि देशसंयोगात् / Jऐम्_१,३.१९ /
SK
न स्याद् देशान्तरेष्व् इति चेत् / Jऐम्_१,३.२० /
SK
स्याद्योगाख्या हि माथुरवत् / Jऐम्_१,३.२१ /
SK
कर्मधर्मो वा प्रवणवत् / Jऐम्_१,३.२२ /
SK
तुल्यं तु कर्तृधर्मेण / Jऐम्_१,३.२३ /
SK
START MJऐNय् १,३.२६
SK
अष्टमाधिकरणमाचरयति --
SK
होलाकादेर्व्यवस्था स्यात्साधारण्यमुताग्रिमः / देशभेदेन दृष्टत्वात्साम्यं मूलसमत्वतः // MJऐNय्_१,३.२६ //
SK
होलाकादिशिष्टाचाराणां हारीतादिस्मृतिविशेषाणां चानुष्ठातृपुरुषभेदेन व्यवस्थितं प्रामाण्यम् | कुतः | देशविशेषे तेषां दृष्टत्वात् | होलाकादयः प्राच्यैरेव क्रियन्ते | वसन्तोत्सवो होलाका | आह्नीनैबुकादयो दाक्षिणात्यै स्वस्वकुलागतं करञ्जार्कादिस्थावरदेवतापूजादिकमाह्नीनैबुकशब्देनोच्यते | उद्वृषभयज्ञादय उदीच्यैः | ज्येष्ठमासस्य पौर्णमास्यां बलीवर्दानभ्यर्च्य धावयन्ति सो ऽयमुद्वृषभयज्ञः | एवं हारीतादिस्मृतिः काचित्क्वचिद्देशविशेषे दृश्यते | तस्माद्व्यवस्थितं प्रामाण्यमिति चेत् | मैवम् | तन्मूलत्वेनानुमितस्य वेदस्य सर्वसाधारणत्वेन तेषामपि सर्वसाधारणत्वात् || MJऐNय्C_१,२.२६ ||
SK
START MJऐNय् १,३.२७
SK
अत्रैव गुरुमतमाह -
SK
प्राच्यादिपदयुक्तायाः श्रुतेरनुमितौ पदे / अर्थाबोधादमात्वं चेन्न सामान्यामुमानतः // MJऐNय्_१,३.२७ //
SK
प्राच्यादिभिर्व्यवस्थया होलाकादिष्वनुष्ठीयमानेषु तन्मूलश्रुतिरपि प्राच्यादिपदयुक्तैवानुमातव्या | तत्र प्राच्यादिपदस्यार्थो न बुध्यते | ये पुरुषाः कञ्चित्कालं प्राच्यां निवसन्ति , त एव कालान्तरे प्रतीच्यां निवसन्त उपलभ्यन्ते | तत्र श्रौतप्राच्यादिपदस्यार्थाबोधादप्रमाणं श्रुतिरिति चेत् | मैवम् | अनुष्ठानसामान्यस्य मूलश्रुतिकल्पकत्वात् | अतः प्राच्यादिपदराहित्ये सत्यर्थबोधादनुमिता श्रुतिः प्रमाणम् || MJऐNय्C_१,२.२७ ||
SK
(नवमे साधुपदप्रयुक्त्यधिकरणे सूत्राणि २४ - २९ )
SK
प्रयोगोत्पत्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् / Jऐम्_१,३.२४ /
SK
शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् / Jऐम्_१,३.२५ /
SK
अन्यायश् चानेकशब्दत्वम् / Jऐम्_१,३.२६ /
SK
तत्र तत्त्वम् अभियोगविशेषात् स्यात् / Jऐम्_१,३.२७ /
SK
तदशक्तिश् चानुरूपत्वात् / Jऐम्_१,३.२८ /
SK
एक देशत्वाच् च विभाक्तिव्यत्यये स्यात् / Jऐम्_१,३.२९ /
SK
START MJऐNय् १,३.२८-२९
SK
नवमाधिकरणमारचयति - गोगाव्यादिषु साधुत्वे प्रयोगे वा न कश्र्चन / नियमो ऽत्रास्ति बा नास्ति व्याकृतेर्मूलवर्जनात् // MJऐNय्_१,३.२८ //
SK
साधूनेव प्रयुञ्जीत गवाद्या एव साधवः / इत्यस्ति नियमः पूर्वपूर्वव्याकृतिमूलतः // MJऐNय्_१,३.२९ //
SK
व्याकरणाभिज्ञैः सास्नादिमद्वस्तुनि ऽगौः ऽ इत्येष शब्दः प्रयुज्यते | तदनभिज्ञैस्तु स्वस्वदेशीयभाषामनुसृत्य गावी, गोणी, गोपोतलिका, इत्येवमादयः शब्दः प्रयुज्यन्ते | तत्र - ऽईदृष एव शब्दः साधुः, नेदृशः ऽ -- इत्यस्मिन्नर्थे नियामकं नास्ति | तथा योगे ऽपि तन्नास्ति - ऽ ईदृश एव शब्दः प्रयोक्तव्यः , नेदृशः ऽ इति न तावद्वृद्धव्यवहारो नियामकः | तस्य सर्वेषु शब्देषु समानत्वात् | नापि व्याकरणस्मृतिर्नियामिका | तस्या निर्मूलत्वेनाप्रमाणत्वात् | न ह्यभियुक्तप्रयोगस्तन्मूलम | अन्योन्याश्रयत्वप्रसङ्गात् | व्याकरणस्मृतेः प्रामाण्यसिद्धौ तदनुसारेण प्रयोक्तॄणाममियुक्तत्वसिद्धिः | तत्सिद्धौ तत्प्रयोगमूलतया व्याकरणस्य प्रामाण्यम् | तस्मान्नास्ति साधुत्वप्रयोगयोर्नियमः , इति प्राप्ते -- ब्रूमः- ऽ साधूनेव प्रयुञ्जति, न त्वपभ्रंशान् ऽ इत्यस्ति नियमः | उभयत्र क्रमेण दोषगुणवादिनोर्वेदवाक्ययोः श्रवणात् | ᳚एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति᳚इति गुणवाक्यम् | ᳚तस्माद्ब्राह्मणेन न म्लेच्छितवै ऽ नापभाषितवै , म्लेच्छो ह वा एष यदपशब्दः᳚इति दोषवाक्यम् | यथा प्रयोगे नियमस्तथा साधुत्वे ऽपि नियमो द्रष्टव्यः - ऽगवाद्या एव साधवः, न तु गाव्यादयः ऽ इति | अस्मिन्नर्थे व्याकरणस्य नियामकत्वात् | न च निर्मूलत्वम् , पूर्वपूर्वव्याकरणस्य तन्मूलत्वात् | एतदेवाभिप्रेत्योक्तम् - ऽ तत्र यूपाधिकरणवद्व्याकरणपरम्परानादित्वादनुपालम्भः ऽ इति व्याकरण प्रामाण्यं वेदेनैव साक्षादुपन्यस्तम् | तथाऽचार्थवणिका आमनन्ति -᳚द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च | तत्रापरा - ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम᳚इति | तैत्तिरीयकब्राह्मणे ऽपि व्याकरणस्योपादेयता श्रूयते - ऽवाग्वै पराच्यव्याकृतावदत् | ते देवा इन्द्रमब्रुवन् - ऽइमां नो वाचं व्याकुरु, इति तामिन्द्रो मध्यतो ऽपक्रम्य व्याकरोत् | तस्मादियं व्याकृता वागुद्यते ऽ इति | व्याकर्तारश्र्च पाणिनिकात्यायनपतञ्जलयो मन्वादिसमानाः | तस्मात्साधूनामेव प्रयोगे गवादीनामेव साधुत्वे व्याकरणस्मृतिः प्रमाणम् || MJऐNय्C_१,२.२८-२९ ||
SK
START MJऐNय् १,३.३० अत्रैव गुरुमतमाह -
SK
अश्र्वालम्भनशास्त्रस्य दन्त्यतालव्यसंशयात् / अमात्वे ऽदन्त्यनिर्णीतिराप्तोक्तव्याकृतेर्बलात् // MJऐNय्_१,३.३० //
SK
᳚अश्र्वमालभेत᳚इत्यत्राकारवकारयोर्मध्यवर्तिनो वर्णस्य दन्त्यत्वे ऽ स्वं धनम् , तद्रहितं दरिद्रमालभेतऽ इत्यर्थो भवति | तालव्यत्वे तुरङ्गमवाचित्वम् | ततः संशयादप्रामाण्यमिति चेत् | न | व्याकरणानुसारेण᳚अशू व्याप्तौ᳚इत्यस्माद्धातोरौणादिके वप्रत्यये सति तालव्यत्वनिर्णयात् | तस्मादश्र्वालम्भनशास्त्रं प्रमाणम् || MJऐNय्C_१,२.३० ||
SK
(दशमे लोकवेदयोः शब्दैक्याधिकरण आकृत्यधिकरणे वा सूत्राणि ३० - ३५) /
SK
प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् / Jऐम्_१,३.३० /
SK
अद्रव्यशब्दत्वात् / Jऐम्_१,३.३१ /
SK
अन्यदर्शनाच् च / Jऐम्_१,३.३२ /
SK
आकृतिस् तु क्रियार्थत्वात् / Jऐम्_१,३.३३ /
SK
न क्रिया स्याद् इति चेदर्थान्तरे विधानं न द्रव्यम् इति चेत् / Jऐम्_१,३.३४ /
SK
तदर्थत्वात् प्रयोगस्याविभागः / Jऐम्_१,३.३५ /
SK
START MJऐNय् १,३.३१-३२
SK
दशमाधिकरणे प्रथमं वर्णकमाचरयति -
SK
लोके पदापदार्थौ यौ न तौ वेदे ऽथवात्र तौ / रूपभेदात्पदं भिन्नमुत्तानादिभिदा स्फुटा // MJऐNय्_१,३.३१ //
SK
वर्णैकत्वात्पदैकत्वं क्वाचित्की रूपभिन्नता / प्रायिकेण पदैक्येन तदर्थैक्यं तथाविधम् // MJऐNय्_१,३.३२ //
SK
वैदिकौ पदपदार्थौ लौकिकाभ्यां पदपदार्थाभ्यामन्यौ | कुतः | रूपभेदात् | पदे तावद्रूपभेदो दृश्यते | आत्मशब्द आकारादित्वेन लोके नियतः | वेदे तु क्वचिदाकाररहितः पठ्यते -᳚प्रयतं पुरूषं त्मना᳚इति | ऽब्राह्मणाः ऽ इति लोके | वेदे त्वन्यथा पठ्यते -᳚ब्राह्मणासः पितरः सोम्यासः᳚इति | अर्थभेदो ऽपि स्फुटः | उत्ताना वै देवगवा वहन्ति᳚इति श्रूयते - देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम्᳚इति | तस्मात् ऽ लोकवेदयोः पदपदार्थावन्यौ ऽ इति प्राप्ते - ब्रूमः- य एव लौकिकाः पदार्थाः, त एव वैदिकाः | तथा हि - वर्णानां तावन्नित्यत्वं प्रथमपादे साधितम् | यथा प्रयोक्तॄणां पुरुषाणां भेदे ऽप्येकैकस्य पुरुषस्य बहुकृत्व उच्चारणभेदे ऽपि ऽ त एवामी वर्णाः ऽ इति प्रत्यभिज्ञानाद्वर्णैक्यम् | तथा ऽ यानि लोके गवादिपदानि , तान्येव वेदे ऽधीयमानानि ऽ इत्यवाधितप्रत्यभिज्ञया पदैकत्वमभ्युपेयम् | ऽ त्मना, देवासः ऽ इत्यादिपदभेदस्तु क्वाचित्कः | नैतावता बहुतरप्रत्यभिज्ञावगतं पदैक्यमपोढुं शक्यम् | अन्यथा ऽसो ऽयं देवदत्तः ऽ इति प्रत्यभिज्ञातं देवदत्तैक्यमपि देशादिभेदमात्रेणापोद्येत | पदैक्ये चार्थैकत्वमवश्यंभावि | अन्यथा वेदे पृथग्व्युत्पत्त्यभावादबोधकत्वं प्रसज्येत | एतदेवाभिप्रेत्योक्तम् - ᳚लोकावगतसामर्थ्थः शब्दे वेदे ऽपि बोधकः᳚इति | स्वरुयूपाहवनीयान्दिशब्दानां तदर्थानां चालौकिकत्वे ऽपि प्रसिद्धपदसमभिव्याहाराद्व युप्तत्तिः संभवति | उत्तानवहनादिकं त्वर्थवादः | अस्तु वा तथावहनम् , तथाप्युत्तानादिशाब्दास्तदर्थाश्र्च लोकप्रसिद्धा एव | तस्माद्य एव लौकिकाः पदपदार्थास्त एव वैदिकाः || MJऐNय्C_१,२.३१-३२ ||
SK
START MJऐNय् १,३.३३-३४
SK
द्वितीयवर्णकमारचयति -
SK
व्यक्तिर्ंव्रीह्यादिशब्दार्थ आकृतिर्वा क्रियान्वयात् / व्यक्तिर्व्युत्पत्तिवेलायामाकृत्या सोपलक्ष्यते // MJऐNय्_१,३.३३ //
SK
शक्तिग्रहादियुक्तिभ्य आकृतेरर्थतोचिता / क्तियापर्यवसानाय व्यक्तिस्तत्रोपलक्ष्यताम् // MJऐNय्_१,३.३४ //
SK
᳚व्रीहीनवहन्ति᳚ ᳚पशुमालभेत᳚ ᳚गामानया᳚ ᳚ब्राह्मणो न हन्तव्यः᳚इत्यादिप्रयोगेषु व्रीह्यादिशब्दानां व्यक्तिरर्थः | कुतः | अवहननादिक्रियाभिर्व्यक्तेरन्वेतुं शक्यत्वात् | नह्याकृतिरवहन्तुमालब्धुमानेतुं वा योग्या | नन्वानन्त्यव्यभिचाराभ्यां न व्यक्तौ व्युत्पत्तिः संभवति | अनन्ता हि व्यक्तयः | अतीतानागतानामनेकदेशवर्तिनां गवामियत्ताया अनवधारणात् | किञ्च शुल्लव्यक्तौ व्युत्पन्नो गोशब्दः कृष्णव्यक्तौ प्रयुज्यमानः स्वार्थे व्यभिचरेत् | तत्र कथं व्युत्पत्तिरिति चेत् | एवं तर्हि व्युत्पत्तिकाले सा व्यक्तिराकृत्योपलक्ष्यतामिति प्राप्ते - ब्रूमः- अन्वयव्यतिरेकाभ्यामाकृतेः शक्तिग्रहणनिमित्तत्वाच्छाब्दार्थत्वं तस्या एवोचितम् | किञ्च गोशब्द उच्चारिते व्यक्तिवादिनः संशयो भवेत् | तस्मादाकृतेरेवाभिधेयत्वम् | यद्याकृताववहननादिक्रिया न पर्यवस्येत्तर्हि व्यक्तिस्तत्रोपलक्षणीया | किञ्च᳚श्योनर्चित्तं चिन्वीत᳚इत्यादावाकृतेरेव सादृश्यप्रतियोगितया कार्यान्वयो दृश्यते | तस्मात् - आकृतिः शब्दार्थः || MJऐNय्C_१,२.३३-३४ ||
SK
START MJऐNय् १,३.३५
SK
अत्रैव गुरुमतमाह -
SK
गवादिचोदना नो मा जातिव्यक्त्योरनिर्णयात् / आनन्त्यव्यभिचाराभ्यां न व्यक्तिरिति निर्णयः // MJऐNय्_१,३.३५ //
SK
स्पष्टो ऽर्थः || MJऐNय्C_१,२.३५ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य तृतीयः पादः
SK
(अथ चतुर्थः पादः)
SK
(प्रथम उद्भिदादिशब्दानां यागनामतया प्रामाण्याधिकरणे सूत्रम्)
SK
उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् / Jऐम्_१,४.१ /
SK
START MJऐNय् १,४.१-२
SK
चतुर्थपादस्य प्रथमाधिकरणं /
SK
वार्तिककारोन्नीतमारचयति -
SK
उद्भिदादिपदं धर्मे किममानमुत प्रमा / विध्यर्थवादमन्त्रांशेष्वनन्तर्भावतो न मा // MJऐNय्_१,४.१ //
SK
अन्तर्भावो विधावुद्भिदा यजेतेति दृश्यते / नामत्वेनान्वयो वाक्ये वक्ष्यते ऽतः प्रमैव तत् // MJऐNय्_१,४.२ //
SK
᳚उद्भिदा यदेत᳚ ᳚बलभिदा यजेत᳚ ᳚विश्वजिता यजेत᳚इत्येवं समाम्नायते | तत्रोद्भिदादिपदं न धर्मे प्रमाणम् | कुतः | प्रमाणत्वनोभिमतेषु त्रिषु वेदवेभागेष्वनन्तर्भावात् | तथा हि - विधिः साक्षात्प्रमाणम् | अर्थवादमन्त्रौ तु विध्यन्वयेन | तत्र न तावदुद्भिदादिपदं विधावन्तर्भवति | विध्यर्थरूपाया भावनाया अंशेषु भाव्यकरणेतिकर्तव्यतारूपेषु कस्याप्यवाचकत्वात् | नाप्यर्थवादत्वम् | स्तुतिबुद्धेरभावात् | नापि मन्त्रत्वम् | उत्तमपुरुषादीनां मन्त्रलिङ्गानामभावात् | तथा चोक्तम् - ᳚उत्तमामन्त्रणास्यन्तत्वान्तरूपाद्यभावतः | मन्त्रप्रसिद्ध्यभावाच्च मन्त्रतैषां न युज्यते᳚ || इति | ᳚अग्नये जुष्टं निर्वपामि᳚इत्युत्तमपुरुषः | ᳚अग्ने यशस्विन्यशसे समर्पय᳚इत्यामन्त्रणम् | ᳚उर्वी चासि, वस्वी चासि᳚इत्यस्यन्तरूपम् | ᳚इषे त्वा, ऊर्जे त्वा᳚इति त्वान्तरूपम् | आदिशब्देव - आशीर्देवताप्रतिपादनादयः | एवमाद्यनन्तर्भावादमानमिति चेत् | न | विध्यंशे करणे ऽन्तर्भावात् | यद्यपि लिङ्प्रत्ययेन समानपदोपात्तो यजिधात्वर्थः करणम् तथापि तस्य यजेर्नामत्वेनोद्भिदादिपदमन्वेति | तस्मात्प्रमाणम् || MJऐNय्C_१,४.१-२ ||
SK
START MJऐNय् १,४.३-४
SK
(द्वितीय उद्भिदादिशब्दानां यागनामधेयताधिकरणे सूत्रम् )
SK
अपि वा नामधेयं स्याद् यद् उत्पत्ताव् अपूर्वम् अविधायकत्वात् / Jऐम्_१,४.२ /
SK
द्वितीयाधिकारणमारचयति -
SK
गुणो ऽयं नामधेयं वा खनित्रे ऽस्य निरुक्तितः / ज्योतिष्टोमं समाश्रित्य पश्वर्थे गुणचोदना // MJऐNय्_१,४.३ //
SK
फलोद्भेदात्समानैषा निरुक्तिर्यागनाम्न्यपि / नामत्वमुचितं यागसामानाधिकरण्यतः // MJऐNय्_१,४.४ //
SK
᳚उद्भिदा यजेत पशुकामः᳚इत्यत्र तृतीयान्तेनोद्भित्पदेन योर्ऽथो विवक्षितः सो ऽयं यागे कश्चिद्गुणः स्यात् | ᳚दघ्नाजुहोति᳚इत्यनेन गुणविधिना समानत्वात् | अथोच्येत - ऽ दधिशब्दार्थो लोकप्रसिद्धः, उद्भिच्छब्दार्थस्त्वप्रसिद्धः ऽ इति | तन्न | रूढ्यभावे ऽप्यवयवार्थनिरुक्त्या तत्प्रसिद्धेः | ऽ उद्भिद्यते भूमिरनेन ऽ इति व्युत्पत्त्या खनित्रवाच्यसौ शब्दः | न चात्र पशुफलकः कश्चिद्यागो विधीयत इति वाच्यम् | पशूनां गुणफलत्वात् | यथा᳚गोदोहनेन पशुकामस्य᳚इत्यत्र पशवो गोदोहनगुणस्य फलम् | तथेह खनित्रगुणस्य फलमस्तु | यदि᳚चमसेनापः प्रणयेत्᳚इति विहितं प्रकृतमपां प्रणयनमाश्रित्य गोदोहनं विधीयते, तर्ह्यत्रापि᳚ज्योतिष्टोमेन यजेत ऽ इति विहितं प्रकृतं ज्योतिष्टोममाश्रित्य खनित्रं विधीयताम् | तस्माद्गुणविधिरिति प्राप्ते , ---- ब्रूमः- ᳚पशुकामो यजेत᳚इत्यस्य पदद्वयस्यायमर्थः-- ऽ पशुरुपं फलं यागेन कुर्यात् ऽ इति | तत्र ऽकेन यागेनऽ इत्यपेक्षायाम् ऽ उद्भिदा ऽ इति तृतीयान्तं पदं यागनामत्वेनान्वेति | ऽउद्भिद्यते पशुफलमनेन यागेन ऽ इति निरुक्त्या नामत्वमुद्भित्पदस्योपपद्यते | एवमपि गुणविधिनामधेयत्वयोः शब्दनिर्वचनसाम्यान्न निर्णय इति चेत् | मैवम् | सामानाधिकरण्यस्य निर्णायकत्वात् | ऽउद्भिन्नामकेन यागेन फलं कुर्यात् ऽ इत्युक्ते सामानाधिकरण्यं लभ्यते | गुणत्वे तु ऽ खनित्रेण साध्यो यो यागः, तेन ऽ- इत्येवं वैयधिकरण्यं स्यात् | यदि ऽखनित्रवता यागेन ऽ इति सामानाधिकरण्यं योज्येत तदा मत्वर्थलक्षणा प्रसज्येत | तस्मादुद्भिदादिपदं नामधेयम् | ऽ दध्ना जुहोति ऽ ऽ व्रीहिभिर्यजेत ऽ इत्यादिषु द्रव्यविशेषे दध्यादिशब्दानामत्यन्तरूढतया यागनामत्वासंभवादगत्या गुणत्वमाश्रितम् | ऽ सोमेन यजेत ऽ इत्यत्रापि ऽ अप्रसिद्धार्थनामधेयत्वकल्पनातो वरं प्रसिद्धार्थद्वारेण लक्षणाश्रयणम् ऽ इत्यभिप्रेत्य ऽ सोमद्रव्यवता यागेन ऽ इति मत्वर्थलक्षणा स्वीकृता | उद्भिच्छब्दस्य तु लोकप्रसिद्धार्थाभावादुक्तरीत्या नामत्वं युक्तम् | प्रयोजनं तु नाम्नः सर्वत्र व्यवहार एव | न ह्यन्तरेण नामधेयमृत्विग्वरणादिषु ऽ अनेनाहं यक्ष्ये ऽ इत्याख्यानोपायो लघुः कश्चिदस्ति | तस्मात् - उद्भिदादीकं नामधेयम् || MJऐNय्C_१,४.३-४ ||
SK
START MJऐNय् १,४.५
SK
अत्रैव गुरुमतमाह --
SK
लौकिके गणयागे ऽस्य विधेः सापेक्षतेति चेत् / निरुक्त्या श्रौतयागस्य नामत्वान्निरपेक्षता // MJऐNय्_१,४.५ //
SK
ऽउद्भिदा यजेत ऽ इत्ययं गुणविधिः | न चास्य कश्चिच्छ्रौत आश्रयो लभ्यते | ततो लौकिको मातृगणयागादिराश्रयत्वेनापेक्षणीयः | तस्मिन्योगे मैवम् | पूर्वोक्तनिरुक्त्या श्रौतयागनामत्वे सति निरपेक्षत्वात् || MJऐNय्C_१,४.५ ||
SK
START MJऐNय् १,४.६-७
SK
(तृतीये चित्रादिशब्दानां यागनामधेयताधिकरणे सूत्रम्)
SK
यस्मिन् गुणोपदेशः प्रधानतो ऽभिसम्बन्धः / Jऐम्_१,४.३ /
SK
तृतीयाधिकरणमारचयति --- यच्चित्रया यजेतेति तद्गुणो नाम वा भवेत् / चित्रस्त्रीत्वगुणो रूढेरग्नीषोमीयके पशौ // MJऐNय्_१,४.६ //
SK
द्वयोर्विधौ वाक्यभेदो वैशिष्ट्ये गौरवं ततः / स्यान्नाम पृष्ठाज्यबहिष्पवमानेषु तत्तथा // MJऐNय्_१,४.७ //
SK
᳚चित्रया यजेत पशुकामः᳚इत्याम्नायते | तत्र चित्राशब्दो नोद्भिच्छब्दवद्यौगिकः, किन्तु रूढ्या चित्रत्वं स्त्रीत्वं चाभिधत्ते | ततो न पूर्वन्यायेन नामत्वम् | तथा सति᳚अग्नीषोमीयं पशुमालभेत᳚इति विहितं पशुयागमात्रं ऽ यजेत ऽ इत्यनेन पदेनानूद्य तस्मिन्पशौ चित्रत्वस्त्रीत्वे गुणौ विधीयेते इति प्राप्ते --- ब्रूमः - चित्रत्वं स्त्रीत्वं चेति द्वावेतौ गुणौ | तयोर्द्वयोर्विधाने वाक्यं भिद्येत | तथा चोक्तम् -- ᳚प्राप्ते कर्मणि नानेको बिधातुं शक्यते गुणः | अप्राप्ते तु विधीयन्ते बहवो ऽप्येकयत्नतः᳚ || इति | अथ वाक्यभेदपिरहाराय गुणद्वयावीशीष्ट पशुद्रव्यरूपं कारकं विधीयते तदा गौरवं स्यात् | तस्माच्चित्राशब्दः पूर्ववद्यजिसामानाधिकरण्येन यागनामधेयं भवति | चित्रत्वं तु तस्य विलक्षणद्रव्यद्वारेणोपपद्यते | ऽ दधि, मधु, घृतम् , आपः, धानाः, तण्डुलाः, तत्संसृष्टं प्राजापत्यम् ऽ इति दध्यादीनि विचित्राणि प्रदेयद्रव्याणि षडाम्नातानि | त्रदेतच्चित्रानामकस्य यागस्योत्पत्तिवाक्यम् | यागस्वरूपभूतयोर्दध्यादिद्रव्यप्रजापतिदेवतयोरत्रोपदिश्यमानत्वात् | उत्पन्नस्य तस्य यागस्य ऽ चित्रया यजेत पशुकामः ऽ इत्येतत्फलवाक्यम् | एवं सति प्रकृतार्थो लभ्यते | अग्नीषोमीयपश्वनुवादेन गुणविधाने प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् | लिङ्प्रत्ययस्यानुवादकत्वाङ्गीकारान्मुख्यो विध्यर्थो बाध्येत | तस्माच्चित्रापदं नामधेयम् | यथा चित्राशब्दे नामधेयत्वम् | तथा बहिष्पवमानशब्दे, आज्यशब्दे, पृष्ठशब्दे च तन्नामधेयत्वं योजनीयम् | एवं हि श्रूयते -᳚त्रिवृद्धहिष्पवमानम्᳚ ᳚पञ्चदशान्याज्यानि᳚ ᳚सप्तदशानि पृष्ठानि᳚इति | अस्य वाक्यत्रयस्यार्थो विव्रियते - सामगानामुत्तराग्रन्थे तृचात्मकानि सूक्तान्याम्नातानि | तत्र᳚उपास्मै गायता नरः᳚इत्याद्यं सूत्रम् | ᳚दविद्युतत्या रुचा᳚इति द्वितीयम् | ᳚पावमानस्य ते कवे᳚इति तृतीयम् | ज्योतिष्टोमस्य प्रातः सवनानुष्ठाने तेषु त्रिषुं सूक्तेषु गायत्रं साम गातव्यम् | तदिदं सूक्तत्रयगानसाध्यं स्तोत्रं बहिष्पवमानमित्युच्यते तत्रावस्थितानामृचां पवमानार्थत्वात् | बहिः संबन्धाच्च | न खल्बिदं स्तोत्रमितरस्तोत्रवत्सदोनामकस्य मण्डपस्य मध्य औदुम्बर्याः स्तम्बशाखायाः संनिधौ प्रयुज्यते, किन्तु सदसो बहिः प्रसर्पद्भिः प्रयुज्यते | तस्य च बहिष्पवमानस्य त्रिवृन्नामकः स्तोमो भवति | तस्य च स्तोमस्य विधायकं ब्राह्मणवाक्कयमेवमाम्नायते ---᳚तिसृभ्यो हिं करोति स प्रथमया, तिसृम्यो हिं करोति स मध्यमया तिसृभ्यो हिं करोति स उत्तमया, उह्यती त्रिवृतो विष्टुतिः᳚इति | अयमर्थः --- ऽ सूक्तत्रयपठितानां नवानामृचां गानान्त्रिभिः पर्यायैः -कर्तव्यम् | तत्र प्रथमे पर्याये - त्रिषु सूक्तेष्वाद्यास्तुस्त्र क्रचः , द्वितीये पर्याये -- मध्यमाः, तृतीये पर्याये चोत्तमाः | तिसृभ्य इति तृतीयार्थे पञ्चमी | हिं करोति गायति ऽ इत्यर्थः | सेयं यथोक्तप्रकारोपेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः स्तुतिप्रकारविशेषः | तस्या विष्टुतेरुद्यती नाम, इति | एवं परिवर्तिनी कुलायिनीति द्वे विष्टुती | तयोः परिवर्तिन्येवमाम्नायते -᳚तिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिं करोति स पराचीभिः , तिसृभ्यो हिं करोति स पराचीभिः, परिवर्तिनी त्रिवृतो विष्टुतिः᳚इति | पराचीभिरनुक्रमेणाऽम्नाताभिरित्यर्थः | कुलायिन्येवमाम्नायते --᳚तिसृभ्यो हिं करोति स पराचीभिस्तिसृभ्यो हिं करोति, या मध्यमा सा प्रथमा, पोत्तमा सा मध्यमा, या प्रथमा सोत्तमा, तिसृभ्यो हिं करोति योत्तमा सा प्रथमा, या प्रथमा, सा मध्यमा या मध्यमा सोत्तमा, कुलायिनी त्रिवृत्तो विष्टुतिः᳚इति | अत्र प्रथमसूक्ते पाठक्रम एव | द्वितीये मध्यमोत्तमप्रथमाः | तृतीयेतूत्तमप्रथममध्यमा इत्येवं व्यत्ययेन मन्त्रा गातव्याः | तदिदं विष्टुतित्रयं विकल्पितम् | त्रिवृच्छब्दस्येदृशं स्तोमस्वरूपमर्थो, न तु त्रैगुण्यमिति पूर्वपादे निर्णीतम् | उत्तराग्रन्थे बहिष्पवमानसूक्तेभ्यस्त्रिभ्य ऊर्ध्वे चत्वारि सूक्तान्याम्नातानि --᳚अग्न आ याहि वीतये᳚इत्याद्यं सूक्तम् | ᳚आ नो मित्रावरुण᳚ --इति द्वितीयम् | ᳚आ याहि सुषुमा हि ते᳚ ---इति तृतीयम् | ᳚इन्द्राग्नी आ गतं सुतम्᳚ ---इति चतुर्थम् | तान्येतानि प्रातः सवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते | तन्निर्वचनं च श्रूयते --᳚यदाजिमीयुः, तदाज्यानामाज्यत्वम्᳚इति | तेष्वाज्यस्तोत्रेषु पञ्चदशनामकः स्तोमो भवति | तस्य स्तोमस्य विष्टुतिरेवमाम्नायते -᳚पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिं करोति स एकया स एकया स तिसृभिः᳚इति | एकं सूक्तं त्रिरावर्तनीयम् | तत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः | द्वितीयावृत्तौ मध्यमायाः | तृतीयावृत्तावृत्तमायाः | सो ऽयं पञ्चदशस्तोमः | उक्तेभ्यश्चतुर्भ्यः सूक्तेभ्य ऊर्ध्वमुत्तराग्रन्थे त्रीणि माध्यन्दिनपवमानसूक्तान्याम्नाय तत ऊर्ध्वे चत्वारि सूक्तान्याम्नातानि - तेषु᳚अभि त्वा शूर नोनुम᳚ -इत्याद्यम् ,᳚कया नश्चित्र आभुवत्᳚इति द्वितीयम् | ᳚तं वो दस्ममृतीषहम्᳚इति तृतीयम् | ᳚तरोभिर्वो विदद्वसुम्᳚इति चतुर्थम् | एतानि क्रमें रथन्तरवामदेव्यनौधसकालेयसामभिर्माध्यन्दिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते | ᳚स्पर्शनात्पृष्ठानि᳚इत्येव निरुक्तिर्द्रष्टव्या | तेषु स्तोत्रेषु सप्तदशस्तोमो भवति | तस्य स्तोमस्य विष्टुतिरेवमाम्नायते -᳚पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया, सप्तभ्यो हिं करोति स एकया स तिसृभिः स तिसृभिः᳚इति | अत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः , तृतीयावृत्तौ मध्यमोत्तमयोः सो ऽयं सप्तदशस्तोमः | अत्र त्रिष्वपि वाक्येषु त्रिवृत्पञ्चदशसप्तदशशब्दा गुणविधायकत्वेन संमताः | यदि बहिष्पवमानाज्यपृष्ठशब्दा अपि गुणविधायकाः स्युस्तदा प्रत्युदाहरणम् | गुणद्वयीवधानाद्वाक्यभेदः स्यात् | तस्माद्वहिष्पवमानादिशब्दाः स्तोत्रनामधेयानि | तैर्नामभिः कर्माण्यनूद्य त्रिवृदादिगुणा विधीयन्ते || MJऐNय्C_१,४.६-७ ||
SK
START MJऐNय् १,४.८-१२
SK
(चतुर्थे ऽग्निहोत्रादिशब्दानां यागनामधेयताधिकरणे (मत्प्रख्यन्याये) सूत्रम्)
SK
तत्प्रख्यं चान्यशास्त्रम् / Jऐम्_१,४.४ /
SK
चतुर्थाधिकरणमारचयति ---
SK
अग्निहोत्रं जुहोत्याघारमाघारयतीत्यमू / विधेयौ गुणसंस्कारावाहोस्वित्कर्मनामनी // MJऐNय्_१,४.८ //
SK
अग्नये होत्रमत्रेति बहुव्रीहिगतो ऽनलः / गुणो विधेयो नामत्वे रुपं न स्यात्क्षरद्घृते // MJऐNय्_१,४.९ //
SK
संस्क्रियाऽघारमाघारयतीत्युक्ता द्वितीयया / आघारेत्यग्निहोत्रेति यौगिके कर्मनामनी // MJऐNय्_१,४.१० //
SK
अग्निर्ज्योतिरिति प्राप्तो मन्त्राद्देवस्तथा घृतम् / चतुर्गृहीतवाक्योक्तं द्वितीयायास्त्वियं गतिः // MJऐNय्_१,४.११ //
SK
नासाधिते हि धात्वर्थे करणत्वं ततो ऽस्य सा / साध्यतां वक्ति संस्कारो नैवाऽशङ्क्यः क्रियात्वतः // MJऐNय्_१,४.१२ //
SK
᳚अग्निहोत्रं जुहोति᳚ ᳚आघारमाघारयति᳚इत्यत्राग्निहोत्रशब्दस्य कमनामत्वे द्रव्यदेवतयोरभावाद्यागस्य स्वरुपमेव न सिध्येत् | तस्मादग्निदेवतारूपोगुणो ऽनेन दर्विहोमे विधीयते | आघारशब्दश्च᳚घृ क्षरणदीप्त्योः᳚इत्यस्माद्धातोरुत्पन्नः क्षरद्घृतमातष्टे | तस्मिंश्च घृते द्वितीयाविभक्त्वा संस्कार्यत्वं प्रतीयते | तच्च संस्कृतं घृतमुपांशुयाजे (गे) द्रव्यं भवति | तस्मात् ऽ अग्निहोत्राघारशब्दौ गुणसंस्कारयोर्विधायकौ ऽ इति प्राप्ते --- ब्रूमः-᳚अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति, सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः᳚इति विहितेन मन्त्रेण प्राप्तत्वाद्देवता न विधेया | ततो ऽग्निसूर्यदेवताकस्य सायंप्रातः कालयोर्नियमेनानुष्ठेयस्य कर्मणः ऽ अग्निहोत्रम् ऽ इति यौगिकं नामधेयम् | योगश्च बहुव्रीहिणा दर्शितः | ᳚चतुर्गृहीतं वा एतदभूत्तस्याऽघारमाघार्यः᳚इत्यनेनैवाऽज्यद्रव्यस्य प्रप्ततया क्षरद्धृतसंस्कारस्याविधेयत्वादाघारशब्दो ऽपि यौगिकं कर्मनामधेयम् | ऽयस्मिन्कर्माणि नैरृतीं दिशमारभ्यैशानीं दिशमवधिं कृत्वा संतत्या घृतं क्षार्यते ऽ तस्य कर्मण एतंन्नाम | ननु नामधेयत्वे सति᳚उद्भिदा यजेत᳚ ᳚ज्योतिष्टोमेन यजेत᳚इत्यादाविव धात्वर्थेन करणेन सामानाधिकरण्याय ऽअग्निहोत्रेण जुहोति ऽ ऽआघारेणाऽघारयति ऽ इति तृतीयया भवितव्यम् | नैष दोषः | अनुष्ठानादूर्ध्वे चात्वर्थस्य सिद्धत्वाकारेण करणत्वे ऽपि ततः पूर्वे साध्यत्वाकारं वक्तुम् ऽअग्निहोत्रम् ऽ ऽ आघारम् ऽ इति द्वितीयाया युक्तत्वात् | न चात्र द्वितीयानुसारेण ऽव्रीहीन्प्रोक्षति ऽ इत्रयदाविद्य संस्कारः शङ्कनीयः | व्रीहिशब्दवदग्निहोत्राघारशब्दयोः प्रसिद्धद्रव्यवाचकत्वाभावेन क्रियावाचित्वाभ्युपगमात् | तस्मात् - अग्निहोत्राघारशब्दौ दर्विहोमोपांशुयाजयोर्गुणसंस्कारविधायिनौ न भवतः, किन्तु कर्मान्तरयोर्नामनी || MJऐNय्C_१,४.८-१२ ||
SK
START MJऐNय् १,४.१३-१५
SK
(पञ्चमे श्येनादिशब्दानां यागनामधेयताधिकरणे (तद्व्यपदेशन्याये) सूत्रम्)
SK
तद्व्यपदेशं च / Jऐम्_१,४.५ /
SK
पञ्चमाधिकरणमारचयति --
SK
श्येनेनाभिचरन्मर्त्यो यजेतेति श्रुतौ गुणः / विधीयते पक्षिरूपो नाम वा तस्य कर्मणः // MJऐNय्_१,४.१३ //
SK
श्योनेनेति गुणः काम्यः सौमिकः सोमबाधया / न चित्रावद्वाक्यभेदो रूढोश्चैवमनुग्रहः // MJऐNय्_१,४.१४ //
SK
यथा वै श्येन इत्युक्ता ह्युपमानोपमेयता / नैकस्मिंस्तेन गैंण्यास्य वृत्त्या स्यात्कर्मनामता // MJऐNय्_१,४.१५ //
SK
᳚श्येनेनाभिचरन्यजेत᳚इत्यत्र कर्मनामत्वे द्रव्यदेवतयोरभावाद्यागस्वरूपमपि न सिध्येत् | ततः सोमयागे नित्यं सोमद्रव्यं बाधित्वा सोमस्य स्थाने पक्षिद्रव्यरूपो गुणः काम्यो विधीयते | तथा सति श्येन शब्दस्य पक्षिणि लोकसिद्धा रूढिरनुगृह्यते | न च गुणविधित्वे चित्रायामिव वाक्यभेद आपादयितुं शक्यः | चित्रत्वस्त्रीत्ववद्गुणद्वयाभावादिति प्राप्ते -- ब्रूमः-᳚यथा वै श्योनो निपत्याऽदत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्याऽदत्ते यमभिचरति श्येनेन᳚इति वाक्येनोक्त उपमानोपमेयभावः पक्षिण्येकस्मिन्न युज्यते | तस्मात्पक्षिण उपमानस्य गुण उपमेये कर्मण्यस्तीति श्येवशब्दस्याभिचारकर्मनामत्वम् | ᳚संदंशेवनाभिचन्यजेत᳚ ᳚ | गवाभिचर्यमाणो यजेत᳚इत्यत्र संदंशगोशब्दयोर्नामत्वं श्येनशब्दवद्द्रष्टव्यम् | ᳚यथा संदंशेन दुरादानमादत्ते᳚ ᳚यथा गावो गोपायन्ति᳚इति वाक्यशेषाभ्यामुपमानोपमेयभावाभिधानात् || MJऐNय्C_१,४.१३-१५ ||
SK
START MJऐNय् १,४.१५*-१८
SK
(षष्ठे वाजपेयादिशब्दानां नामधेयताधिकरणे सूत्राणि) /
SK
नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् / Jऐम्_१,४.६ /
SK
तुल्यत्वात् क्रिययोर् न / Jऐम्_१,४.७ /
SK
ऐकशब्द्ये परार्थवत् / Jऐम्_१,४.८ /
SK
षष्ठाधिकरणमारचयति-
SK
यजेत वाजपेयेन स्वाराज्यार्थीत्यसौ गुणः / नाम वा गुणता तन्त्रयोगाद्गुणफलद्वये // MJऐNय्_१,४.१५* //
SK
साधारणयजेः कर्मकरणत्वेन तन्त्रता / त्रिकद्वयं विरुद्धं स्यात्तन्त्रतायां फलं प्रति // MJऐNय्_१,४.१६ //
SK
उपादेयविधेयत्वगुणत्वाख्यं त्रिकं यजेः / उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति // MJऐNय्_१,४.१७ //
SK
त्यक्त्वा तन्त्रं तदावृत्तौ वाक्यं भिद्यते तेन सः / वाजपेयेतिशब्दो ऽपि कर्मनामाग्निहोत्रवत् // MJऐNय्_१,४.१८ //
SK
᳚वाजपेयेन स्वाराज्यकामो यजेत᳚इत्यत्र वाजपेयशब्देन गुणो विधीयते | अन्नवाची वाजशब्दः | तच्चान्नं पेयं सुराद्रव्यम् | तच्चात्र गुणः | सुराग्रहाणामनुष्ठेयत्वात् | ननु गुणत्वे ऽ वाजपेयगुणवता यागेन स्वाराजं भावयेत् ऽ इति मत्वर्थलक्षणा प्रसज्येत | मैवम् | सकृदुच्चरितस्य, यजेत, इत्वाख्यातस्य वाजपेयगुणे स्वाराज्यफले च तन्त्रेण संबन्धाङ्गीकारात् | वाजपेयेन द्रव्येण स्वाराज्याय यजेत, इत्येवमुभयसंबन्धः | ननु गुणसंबन्धे सति वाजपेयगुणेन यागं कुर्यात्, इति यजेः कर्मकारकत्वं भवति, फलसंबन्धे तु ऽ यागेन स्वाराज्यं संपादयेत् ऽ इति करणकारकत्वम् | तत्कथं तदुभयसंबन्ध इति चेत् | नायं दोषः | यजेः साधारणत्वेन द्विरूपत्वसंभवात् | ऽ यजेत ऽ इत्यत्र प्रकृत्या याग उक्तः, प्रत्ययेन भावनोक्ता, तयोस्तु समभिव्याहारात्संबन्धमात्रं गम्यते | तच्च कर्मत्वकरणत्वयोः साधारणम् | न खलु तत्र कर्मत्वस्य करणत्वस्य वा साक्षादभिधायिका काचिदसाधारणी विभक्तिः श्रूयते | अतः साधारणस्य यजेरुभाभ्यां युगपत्संबन्धे सित यथोचितसंबन्धविशेषः पर्यवस्यति | एवं तन्त्रेण संबन्धाङ्गीकारे ऽ वाजपेयद्रव्येण यागं कुर्यात् ऽ इत्यर्थस्य लम्यमानत्वाद्गुणविधित्वे ऽपि नास्ति मत्वर्थलक्षणा | यद्युद्भिदादिष्वप्येवं गुणविधिः स्यात्, तर्हि तान्यपि वाक्यान्यत्रोदाहृत्य तदीयः सिद्धान्तः पुनराक्षिप्यतामिति प्राप्ते -- ब्रूमः- यजेस्तन्त्रेणोभयसंबन्धे सति विरुद्धत्रिकद्वयापत्तिः स्यात् | उपादेयत्वं, विधेयत्वं, गुणत्वं चेत्येकं त्रिकम् | उद्देश्यत्वम्, अनुवाद्यत्वं, मुख्यत्वं चेत्यपरं त्रिकम् | तत्रोद्देश्यत्वादयस्त्रयः स्वाराज्यफलनिष्ठा धर्माः | उपादेयत्वादयस्त्रयः साधनभूतयजिनिष्ठा धर्माः | फलमुद्दिश्य यजिरुपसर्जनम् | फलस्योद्देश्यत्वं नाम मानतापेक्षो विषयत्वाकारः | यजेरुपादेयत्वं नामानुष्ठीयमानताकारः | तावुभौ मनः शरीरोपाधिकौ धर्मौ | अनुवाद्यत्वविधेयत्वधर्मौ तु शब्दोपाधिकौ | ज्ञातस्य कथनमनुवादः | अज्ञातस्यानुष्ठेयत्वकथनं विधिः | फलयागयोः साध्यसाधनत्वरूपतया प्रधानत्वोपसर्जनत्वे | एवं सति फलतत्साधनयोः स्वाराज्ययागयोः स्वभावपर्यालोचनायां यथा फलस्योद्देश्यत्वादित्रिकं यागस्योपादेयत्वादित्रिकं व्यवतिष्ठते तथा यागस्य वाजपेयस्य च साध्यसाधनभावापर्यालोचनायां यागस्योद्देशत्वादित्रिकम्, वाजपेयद्रयस्योपादेयत्वादित्रिकं च पर्यवस्यति | ततो यागस्य फलद्रव्याभ्यां युगपत्संबन्धे सति विरुद्धं त्रिकद्वयमापद्यते | ननु तर्हि मा भूत्तन्त्रेणोभयसंबन्धः, पृथक्संबन्धाय यजिरावर्त्यतामिति चेत् | वाक्यभेदप्रसङ्गात् | ऽ द्रव्येण यागं कुर्यात् ऽ इत्येकं वाक्यम् | ऽ यागेन फलं कुर्यात् ऽ इत्यपरम् | तस्माद्वाजपेयशब्दो न गुणविधायकः, किन्तु यथेक्तं द्रव्यं निमित्तीकृत्याग्निहोत्रशब्दवत्कर्मनामधेयम् || MJऐNय्C_१,४.१५*-१८ ||
SK
START MJऐNय् १,४.१९-२०
SK
(सप्तम आग्नेयादीनामनामताधिकरणे सूत्रम्)
SK
तद्गुणास् तु विधायेर् अन्नविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः / Jऐम्_१,४.९ /
SK
सप्तमाधिकरणमारचयति --
SK
यदाग्नेयो ऽष्टाकपाल इति नाम गुणो ऽथवा / नामाग्निहोत्रवन्मैवं नामत्वे देवता नहि // MJऐNय्_१,४.१९ //
SK
मन्त्रो ऽपि नेह प्रत्यक्षस्तद्धिताद्देवताविधिः / देवद्रव्यविशिष्टस्य विधानादेकवाक्यता // MJऐNय्_१,४.२० //
SK
दर्शपूर्णमासयोः श्रूयते -᳚यदाग्नेयो ऽष्टाकपालो ऽमावास्यायाम्, पौर्णमास्यां चाच्युतो भवति᳚इति | तत्र यथाग्निहोत्रशब्दः ऽ अग्नये होत्रमत्र ऽ इत्यमुपर्थे निमित्तीकृत्य कर्मनामधेयम्, तथाऽग्नेयशब्दो ऽग्निसंबन्धं निमित्तीकृत्य कर्मनाम स्यादिति चेत् | मैवम् | नामत्वे देवताराहित्यप्रसङ्गात् | अग्निहोत्रे तु᳚अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति᳚इत्यनेन वचनेन विहितो मन्त्रः प्रत्यक्षविहित इति मान्त्रवर्णिकी देवता लभ्यते | इह तु न तादृशो मन्त्रो ऽस्ति | आग्नेयशब्दस्तु देवतां विधातुं शक्नोति | ऽ अग्निर्देवतास्य ऽ इत्रयस्मिन्नर्थे तद्धितस्योत्पन्नत्वात् | न च द्रव्यदेवतयोरुभयोर्गुणविधानाद्वाक्यभेद इति शङ्कनीयम् | कर्मणो ऽप्राप्तत्वेन गुणद्वयविशिष्टस्य कर्मण एकेन वाक्येन विधानात् | तस्मात् - आग्नेयशब्देन देवतागुणो विधीयते || MJऐNय्C_१,४.१९-२० ||
SK
START MJऐNय् १,४.२१
SK
अत्र गुरुपतमाह -
SK
यदाग्नेय इति प्रोक्तं न मानं विध्यसंभवात् / इति चेन्न विशिष्टार्थविधौ सत्यप्रमा कुतः // MJऐNय्_१,४.२१ //
SK
उदाहृतवाक्ये देवताराहित्यप्रसङ्गेन नामत्वाभावाद्गुणयोर्विधौ वाक्कयभेदाञ्च विध्यसंभवादप्रामाण्यमिति पूर्वपक्षः | गुणद्वयविशिष्टकर्मविधिसंभवात्प्रामाण्यमिति सिद्धान्तः || MJऐNय्C_१,४.२१ ||
SK
START MJऐNय् १,४.२२-२३
SK
(अष्टमे बर्हिरादिशब्दानां जातिवाचिताधिकरणे सूत्रम्)
SK
बर्हिराज्ययोर् असंस्कारे शब्दलाभाद् अतच्छब्दः / Jऐम्_१,४.१० /
SK
अष्टमाधिकरणमारचयति -
SK
वर्हिराज्यपुरोडाशशब्दाः संस्कारवाचिनः / जात्यर्था वा शास्त्ररूढेस्ते स्युः संस्कारवाचिनः // MJऐNय्_१,४.२२ //
SK
जातिं त्यक्त्वा न संस्कारे प्रयुक्ता लोकवेदयोः / विनापि संस्कृतिं लोके दृष्टत्वाज्जातिवाचिनः // MJऐNय्_१,४.२३ //
SK
दर्शपूर्णमासयोः श्रूयते -᳚बर्हिर्लुनाति᳚ ᳚आज्यं विलापयति᳚ ᳚पुरोडाशं पर्याग्नि करोति᳚ इति | अत्र बर्हिरादिशब्दानां शास्त्रे सर्वर्त्र संस्कृतेषु तृणादिषु प्रयोगात्, पील्वादिशब्देषु शास्त्रीयरूढिप्राबल्यस्योक्तत्वात्, यूपाहवनीयादिशब्दवत्संस्कारवाचिनो बर्हिरादिशब्दा इति चेत् | मैवम् | अन्वयव्यतिरेकाभ्यां जातिवाचित्वात् | यत्र यत्र बर्हिरादिशब्दप्रयोगः, तत्र तत्र जातिः ऽ इत्यस्या व्याप्तेर्लोके वेदे च नास्ति व्यभिचारः | संस्कारव्याप्तेर्लौकिकप्रयोगे व्यभिचारो दृश्यते | क्वचिद्देशविशेषे लौकिकव्यवहारो जातिमात्रमुपजीव्य विना संस्कारं ते शब्दाः प्रयुज्यन्ते - ऽ बर्हिरादाय गावो गताः ऽ इति, ऽ क्तय्यमाज्यम् ऽ इति, ऽ पुरोडाशेन मे माता प्रहेलकं ददाति ऽ इति च | तस्माज्जातिवाचिनः | प्रयोजनं तु᳚बर्हिषा यूपावटमवस्तृणाति᳚इत्यत्र विना संस्कारेण स्तरणसिद्धिः || MJऐNय्C_१,४.२२-२३ ||
SK
START MJऐNय् १,४.२४
SK
अत्र गुरुमतमाह -- बर्हिरादौ निमित्तस्कय दुर्वचत्वान्न मेति चेत् / जातेस्तत्र निमित्तत्वात्तद्युक्ता चोदना प्रमा // MJऐNय्_१,४.२४ //
SK
स्पष्टोर्ऽथः || MJऐNय्C_१,४.२४ ||
SK
START MJऐNय् १,४.२५-२६
SK
(नवमे प्रोक्षण्यादिशब्दानां यौगिकताधिकरणे सूत्रम्)
SK
प्रोक्षणीष्व् अर्थसंयोगात् / Jऐम्_१,४.११ /
SK
नवमाधिकरणमारचयति --
SK
प्रोक्षणीः संस्कृतिर्जातिर्योगो वा सर्वभूमिषु / तथोक्तेः संस्कृतिर्जातिः स्याद्रूढेः प्रबलत्वतः // MJऐNय्_१,४.२५ //
SK
अन्योन्याश्रयतो नाऽद्यो न जातिः कल्प्यशक्तितः / योगः स्यात्कॢप्तशक्तित्वात्कॢप्तर्व्याकरणाद्भवेत् // MJऐNय्_१,४.२६ //
SK
दर्शपूर्णमासयोः श्रूयते -᳚प्रोक्षणीरासादय᳚इति | तत्र प्रोक्षणीशब्दस्याभिमन्त्रणासादमादिसंस्कृतिः प्रवृत्तिनिमितम् | कुतः- सर्वेषु वैदिकप्रयोगप्रदेशेषु संस्कृतानामेवापां प्रोक्षणीशब्देनोच्यमानत्वादित्येकः पक्षः | लोके जलक्रीडायां ऽ प्रोक्षणीभिरुद्वेजिताः स्मः ऽ इत्यसंस्कृतास्वप्सु प्रयोगाद्वर्हिरादिशब्दवज्जातौ रूढत्वादुदकत्वजातिः प्रवृत्तिनिमित्तम् | न च ऽ प्रकर्षेणोक्ष्यत आभिः ऽ इति योगो ऽत्र शङ्कनीयः | रूढेः प्रबलत्वादिति पक्षान्तरम् | तत्र न तावत्संस्कारो युक्तः | अन्योन्याश्रयत्वात् | विहितेष्वभिमन्त्रणादिषु संस्कारेष्वनुष्ठितेषु पश्चात्संस्कृतास्वप्सु प्रोक्षणीशब्दप्रवृत्तिः | तत्प्रवृत्तौ सत्यां प्रोक्षणीशब्देनापो ऽमूद्याभिमन्त्रणसिद्धिरिति | नापि जातिपक्षो युक्तः | उदकजातौ प्रोक्षणी शब्दस्य वृद्धव्य वहारे पूर्वमकॢप्तत्वेनेतः परं शक्तेः कल्पनीयत्वात् | ततो गोशब्दवदश्वकर्णशब्दवच्च रूढो न भवति | योगस्तु व्याकरणेन कॢप्तः | सोपसर्गाद्धातोः करणे ल्युट्प्रत्ययेन व्युत्पादनात् | तस्मात् -- प्रोक्षणीशब्दो यौगिकः | घृतादेः प्रोक्षणत्वं प्रयोजनम् || MJऐNय्C_१,४.२५-२६ ||
SK
START MJऐNय् १,४.२७
SK
(दशमे निर्मन्थ्यशब्दस्य यौगिकताधिकरणे सूत्रम्)
SK
तथा निर्मन्थ्ये / Jऐम्_१,४.१२ /
SK
दशमाधिकरणमारचयति --
SK
रूढिर्योगो योगरूढिर्वा निर्मन्थ्यस्य वर्तनम् / आद्यौ पूर्ववदन्त्त्यो ऽचिरजातेर्नावनीतवत् // MJऐNय्_१,४.२७ //
SK
अग्निचयने श्रूयते -᳚निर्मन्थ्येनेष्टकाः पचन्ति᳚इति | तत्र निर्मन्थ्यशब्दस्य स्वार्थे कीदृशी वृत्तिः, इति संशये बर्हिरादिशब्दवल्लौकिकवैदिकसाधारण्यादूवह्निजातौ रूढिरित्येकः पक्षः | प्रोक्षणीशब्दवद्गूढेरकॢप्तत्वादरणिनिर्मन्थनजन्यसाच्च योग इति पक्षान्तरम् | लौकिकनिर्मन्थनेन चिरनिर्मन्थनेन च जन्यं वारयितुं योगरूढिः पङ्कजादिवदाश्रयणीया | आधानकाले निर्मथ्य गार्हपत्ये नित्यं धृतो ऽग्निश्चिरनिर्मथितः | चयनकाले निर्मथ्योखासु धृतो ऽग्निरचिरनिर्मथितः | सद्य एव लौकिकमथनेन जातो ऽग्निरचिरनिर्मथितः | तेनेष्टकाः पच्यन्ते | यथा पुराणमूतमयोर्घृतयोर्नवनीतजन्यत्वे समाने ऽपि योगरूढ्या नूतनमेव ऽ नावनीतम् ऽ इति व्यवह्रियते तद्वत् || MJऐNय्C_१,४.२७ ||
SK
START MJऐNय् १,४.२८-३१
SK
(एकादशे वैश्वदेवादिशब्दानां नामधेयताधिकरणे सूत्राणि १३ - १६)
SK
वैश्वदेवे विकल्प इति चेत् / Jऐम्_१,४.१३ /
SK
न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य / Jऐम्_१,४.१४ /
SK
मिथश् चानर्थसंबन्धः / Jऐम्_१,४.१५ /
SK
परार्थत्वाद् गुणानाम् / Jऐम्_१,४.१६ /
SK
एकादशाधिकरणमारचयति -
SK
चातुर्मास्याद्यपर्वप्रोक्ताग्नेयाद्यष्टकान्तिके / वैश्वदेवेति शब्दोक्तो गुणः संघस्य नाम वा // MJऐNय्_१,४.२८ //
SK
नामत्वे रूपराहित्यादविधिर्गुणता सतः / अग्न्यादिभिर्विकल्प्यन्ते विश्वदेवास्तु सप्तसु // MJऐNय्_१,४.२९ //
SK
अनूद्याष्टौ यजेतेति तत्संघे नाम वर्णितम् / अविधित्वे ऽप्यर्थवत्स्यान्नाम प्राक्प्रवणादिषु // MJऐNय्_१,४.३० //
SK
इज्यन्ते ऽत्र यजन्ते वा विश्वे देवा इतीदृशी / निरुक्तिर्न विकल्पः स्यादुत्पत्त्युत्पन्नशिष्टतः // MJऐNय्_१,४.३१ //
SK
चातुर्मास्ययागस्य चत्वारि पर्वाणि --- वैश्वदेवः , वरुणप्रघासः , साकमेधः , शुनासारीयश्चेति | तेषु प्रथमे पर्वण्यष्टौ यागा विहिताः --- आग्नेयमष्टाकपालं निर्वपति, सौम्यं चरुम्, सावित्रं द्वादशकपालम्, सारस्वतं चरुम्, पौष्णं चरुम् , मारुतं सप्तकपालकम्, वैश्वदेवीमामिक्षाम्, द्यावापृथिव्यमेककपालम्, इति | तेषामष्ठानां यागानां संनिधाविदमाम्नायते ---᳚वैश्वदेवेन यजेत᳚इति | तत्राऽग्नेयादीन्यागान् ऽ यजेत ऽ इत्यनूद्य वैश्वदेवशब्देन देवतारूपो गुणस्तेषु विधीयते | यद्यपि वैश्वदेव्यामिक्षायां विश्वे देवाः प्राप्ताः, तथाप्याग्नेयादिषु सप्तसु यागेष्वप्राप्तस्वाद्विधीयन्ते | तेष्वप्यग्न्यादिदेवताः सन्तीति चेत्, तर्हि गत्यभावात्तेषु देवता विकल्प्यन्ताम् | नामधेयत्वे तु नाममात्रस्याभिधेयत्वाद्द्रव्यदेवतयोरभावेन यागस्यात्र स्वरूपासंभवाच्छूयमाणो विधिरनर्थकः स्यात् -- तस्मात् ऽ गुणविधिः ऽ -- इति प्राप्ते - ऽ ब्रूमः- उत्पत्तिवाक्यैर्विहितानाग्नेयादीनष्टौ यागान् ऽयजेतऽ इत्यनूद्याष्टानां संघे वैश्वदेवशब्दो नामत्वेनोपवर्ण्यते | न च विधित्वासंभवे ऽपि नामोपदेशवैयर्थ्यम्, ऽप्राचीनप्रवणे वैश्वदेवेन यजेत ऽ इत्यादिषु वैश्वदेवशब्देनैकेनैवाष्टानां संघस्य व्यवहर्तव्यत्वात् | नामप्रवृत्तिनिमित्तभूता निरुक्तिर्द्विधा - आमिक्षायागे विश्वेषां देवानामिज्यमानतया तत्सहचरितार्थानां सर्वेषां छत्रिन्यायेन वैश्वदेवत्वम् | अथवा ऽ विश्वे देवा अष्टानां कर्तारः ऽ इति वैश्वदेवत्वम् | तथा च ब्राह्मणम् -᳚यद्विश्वे देवाः समयजन्त, तद्वैश्वदेवस्य वैश्वदेवत्वम्᳚इति | देवताविकल्पस्तु समानबलत्वाभावान्न युज्यते | आग्न्यादय उत्पत्तिशिष्टत्वात्प्रबलाः, विश्वे देवा उत्पन्नशिष्टत्वाददुर्बलाः | तस्मात् -- वैश्वदेवशब्दः कर्मनामधेयम् || MJऐNय्C_१,४.२८-३१ ||
SK
START MJऐNय् १,४.३२
SK
अत्र गुरुमतमाह --
SK
गुणनामत्वसंदेहादप्रमा चोदनेति चेत् / नोक्तन्यायेन संघस्य नामधेयत्वनिर्णयात् // MJऐNय्_१,४.३२ //
SK
स्पष्टोर्ऽथः || MJऐNय्C_१,४.३२ ||
SK
START MJऐNय् १,४.३३-३५
SK
(द्वादशे वैश्वानरे ऽष्टत्वाद्यर्थवादताधिकरणे सूत्राणि १७ - २२ )
SK
पूर्ववन्तो ऽविधानार्थास् तत्सामर्थ्यं समाम्नाये / Jऐम्_१,४.१७ /
SK
गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवत्तास्ति / Jऐम्_१,४.१८ /
SK
तच्छेषो नोपपद्यते / Jऐम्_१,४.१९ /
SK
अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् / Jऐम्_१,४.२० /
SK
कारणं स्याद् इति चेत् / Jऐम्_१,४.२१ /
SK
आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते / Jऐम्_१,४.२२ /
SK
द्वादशाधिकरणमारचयति --
SK
यद्द्वादशकपालेष्टेर्वैश्वानयां अनन्तरम् / श्रुतमष्टाकपालादि तद्गुणो नाम वा स्तुतिः // MJऐNय्_१,४.३३ //
SK
अन्तर्भावादष्टतादेर्नाम स्यादग्निहोत्रवत् / द्रव्यं द्रव्यान्तरे नो चेद्गुणस्तर्हि फले त्वसौ // MJऐNय्_१,४.३४ //
SK
वाक्यैक्यमुपसंहाराद्विस्पष्टं तत्तु बाध्यते / नानागुणविधौ तस्मादंशद्वारांशिसंस्तुतिः // MJऐNय्_१,४.३५ //
SK
काम्येष्टिकाण्डे श्रूयते -᳚वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते᳚ ᳚यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन्नवकपालस्त्रिवृतैवास्मिंस्तेजो दधाति, यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति, यदेकादशकपालस्त्रिष्टुमैवास्मिन्निन्द्रियं दधाति, यद्द्वादशकपालो जगत्यैवास्मिन्पशून्दधाति, यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रीयावी पशुमान्भवति᳚इति | अत्राष्टत्वादिसंख्यासामान्यात्पुरोडाशादीनां गायत्र्यादिरूपत्वकल्पना कृता | इष्टि विधायके वाक्ये येयं द्वादशसंख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात्ताः संख्या निमित्तीकृत्याग्निहोत्रशब्दवदष्टाकपालादिशब्दाः कर्मनामधेयानीत्येकः पक्षः | नात्र द्वादशकपालशब्दः संख्यापरः , किन्तु पुरोडोशद्रव्यपरः | ऽ द्वादशसु कपालेषु संस्कृतः ऽ इति व्युत्पत्तेः | एवमष्टाकपालादिशब्दा अपि | तथा सति द्रव्यस्य द्रव्यान्तरे ऽनन्तर्भावान्नामधेयस्य निमित्तं नास्तीति चेत् , एवं तर्हि पुरोडाशब्दव्यरूपो गुणो विधीयताम् | न चोत्पत्तिशिष्टद्वादशकपालपुरोडाशावरुद्धत्वादष्टकपालाद्रनवकाश इति वाच्यम् | ब्रह्मवर्चसादिफलाय तद्विध्युपपत्तेरित्यपरः पक्षः | अयमप्युपपन्नः | बहूनां गुणानां विधौ वाक्यभेदापत्तेः | न च भिन्नान्येवैतानि वाक्यानीति वाच्यम् | ᳚वैश्वानरं द्वादशकपालं निर्वपेत्᳚इति विहितस्य᳚यस्मिञ्जात एताम्᳚ -इत्युपसंहारेण वाक्यैकत्वावगमात् | तस्मादंशैरष्टाकपालादिभिरंशी द्वादशकपालः स्तूयते || MJऐNय्C_१,४.३३-३५ ||
SK
START MJऐNय् १,४.३६
SK
अत्र गुरुमतमाह --
SK
अगुणत्वादनामत्वादमन्त्रत्वादनन्वये / अष्टत्वाद्यप्रमाणं चेन्नार्थवादतयान्वयात् // MJऐNय्_१,४.३६ //
SK
उक्तरीत्या गुणत्वं नामत्वं च न संभवति | उत्तमपुरुषामन्त्रणाद्यभावान्नमन्त्रत्वम् | अतो ऽष्टाकपालदीनामनन्वयादप्रामाण्यं वाक्यस्येति चेत् | मैवम् | स्तावकत्वेनान्वयस्योक्तत्वात् || MJऐNय्C_१,४.३६ ||
SK
START MJऐNय् १,४.३७-३९
SK
(त्रयोदशे यजमानशब्दस्य प्रस्तरादिस्तुत्यर्थत्वाधिकरणे सूत्रम्)
SK
तत्सिद्धिः / Jऐम्_१,४.२३ /
SK
त्रयोदशाधिकरणमारचयति ---
SK
यजमानः प्रस्तरो ऽत्र गुणो वा नाम वा स्तुतिः / सामानाधिकरण्येन स्यादेकस्यान्यनामता // MJऐNय्_१,४.३७ //
SK
गुणो वा यजमानो ऽस्तु कार्ये प्रस्तरलक्षिते / अंशांशित्वाद्यभावेन पूर्ववन्नात्र संस्तुतिः // MJऐNय्_१,४.३८ //
SK
अर्थभेदादनामत्वं गुणश्वेत्प्रह्रियेत सः / यागसाधकताद्वारा विधेयप्रस्तरस्तुतिः // MJऐNय्_१,४.३९ //
SK
इदमाम्नायते -᳚यजमानः प्रस्तरः᳚इति | तत्र यजमानस्य प्रस्तरशब्दो नामधेयम्, प्रस्तरस्य वा यजमानशब्दो नामधेयम् | कुतः - ऽ उद्भिदा यानेन ऽ इत्यादाविव सामानाधिकरण्यादित्येकः पक्षः | गुणविधिरित्यपरः पक्षः | तदापि यजमानकार्ये जपादौ प्रस्तरस्याचेतनस्य सामर्थ्याभावाद्गुणत्वं नास्ति | प्रस्तरकार्ये स्त्रुग्धारणादौ यजमानस्य शक्तत्वाद्यजमानरूपो गुणो विधीयते | एवं सति पश्चाच्छ्रुतस्य प्रस्तरशब्दस्य कार्यलक्षकत्वे ऽपि प्रथमश्रुतो यजमानशब्दो मुख्यवृत्तिर्भवति | न चात्र पूर्वन्यायेन स्तुतिः संभवति | अष्टाकपालद्वादशकपालयोरिव प्रस्तरयजमानयोरंशांशित्वाभावात् | ᳚वायुर्वै क्षेपिष्ठा देवता᳚ऊर्जो ऽवरुध्यै᳚इत्यादिवत्स्तुतिरिति चेत् | न | क्षिप्रत्वादिधर्मवत्कस्यचिदुत्कर्षस्याप्रतीतेः | तस्मात् - ऽ नामगुणयोरन्यतरत्वम्᳚इति प्राप्ते , -- ब्रूमः- गोमहिषयोरिवार्थभेदस्यात्यन्तप्रसिद्धत्वान्नामत्वं न युक्तम् | गुणपक्षे तु - अग्नौ प्रहरणस्य प्रस्तरकार्यत्वाद्यजमाने प्रहृते सति कर्मलोपः स्यात् | तस्मात् - विधेयः प्रस्तरो यजमानशब्देन स्तूयते | यथा ऽ सिंहो देवदत्तः ऽ इत्यत्र सिंहगुणेन शौर्यादिनोपेतो देवदत्तः सिंहशब्देन स्तूयते, तथा यजमानगुणेन यागसाधनत्वेन युक्तः प्रस्तरो यजमानशब्देन स्तूयते | एवं᳚यजमान एककपालः᳚इत्यादिषु द्रष्टव्यम् || MJऐNय्C_१,४.३७-३९ ||
SK
START MJऐNय् १,४.४०
SK
(चतुर्दश आग्नेयादिशब्दानां ब्राह्मणादिस्तुत्यर्थताधिकरणे सूत्रम्)
SK
जातिः / Jऐम्_१,४.२४ /
SK
चतुर्दशाधिकरणमारचयति -
SK
आग्नेयो ब्राह्यणो ऽत्रापि पूर्ववत्सर्वनिर्णयः / द्वारं तु मुखजन्यत्वसाग्नेयत्वेन संस्तवे // MJऐNय्_१,४.४० //
SK
इदमाम्नायते -᳚आग्नेयो वै ब्राह्मणः᳚इति | अत्रात्यन्तप्रसिद्धार्थभेदादाग्नेयशब्दो न ब्राह्यणस्य नामधेयम् | नाप्यग्निदेवतारूपो गुणो विधीयते | ऽ आग्नेयं सूक्तम् ऽ ऽ आग्नेयं हविः, इत्येवं देवतातद्धितस्य सूक्तहविर्विषयत्वात् | नहि ब्राह्मणः सूक्तम्, नापि हविः | अतः संबन्धवाचितद्धितान्ताग्नेयशब्देन ब्राह्मणः स्तूयते | यद्यपि ब्राह्मणे नाग्निसंबन्धः, तथाप्यग्निसंबन्धो मुखजन्यत्वगुणो ब्राह्मणे विद्यते | तथा चाग्निब्राह्मणयोर्मुखजन्यत्वं क्वचिदर्थवादे समाम्नायते -᳚प्रजापतिरकामयत, प्रजाः सृजेत, इति | स मुखतस्त्रिवृतं निरमिमीत, तमग्निर्देवतान्वयुज्यत, गायत्री छन्दः, रथन्तरं साम, ब्राह्मणो मनुष्याणाम्, अजः पशूनाम्, तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त᳚इति | तस्मात् - आग्नेयशब्दः स्तावकः | एवम्᳚ऐन्द्रो राजन्यः᳚ ᳚वैश्यो वैश्वदेवः᳚इत्यादिषु द्रष्टव्यम् || MJऐNय्C_१,४.४० ||
SK
START MJऐNय् १,४.४१
SK
(पञ्चदशे यूपादिशब्दानां यजमानस्तुत्यर्थताधिकरणे सूत्रम्)
SK
सारूप्यात् / Jऐम्_१,४.२५ /
SK
पञ्चदशाधिकरणमारचयति -
SK
आदित्यो यूप इत्यत्र स्तुतिरादित्यशब्दतः / द्वारं चाक्षुषसारूप्यं घृताक्ते तैजसे ऽस्ति तत् // MJऐNय्_१,४.४१ //
SK
आदित्ये यच्चक्षुर्गम्यं तेजस्वित्वं तद्यूपे ऽप्यस्ति | घृताक्तस्य यूपस्य तेजस्वित्वाध्यवसायात् | ततः- आदित्यशब्देन यूपः स्तूयते | एवं᳚यजमानो यूपः᳚इत्यत्र चक्षुर्गम्यस्योर्ध्वत्वस्य समानत्वाद्यजमानशब्देन यूपः स्तूयते || MJऐNय्C_१,४.४१ ||
SK
START MJऐNय् १,४.४२-४४
SK
(षोडशे ऽपश्वादिशब्दानां गवादिप्रशंसार्थत्वाधिकरणे सूत्रम्)
SK
प्रशंसा / Jऐम्_१,४.२६ /
SK
षोडशाधिकरणमारचयति -
SK
पशवो ऽन्ये गवाश्वेभ्यो ऽपशवो वा इति श्रुतम् / अजादिष्वपशुत्वं यद्गुणो वादो ऽथवास्तु तत् // MJऐNय्_१,४.४२ //
SK
स्तुत्यभावाद्गुणस्तेषु पशुकार्यनिषेधनम् / अशक्यत्वान्निषेधस्य घटाद्यर्थाभिधायिना // MJऐNय्_१,४.४३ //
SK
पशवो ऽपशुशब्देन प्राशस्त्याभावसाम्यतः / लक्ष्यास्तत्र निमित्तं तु प्रशंसैव गवाश्वयोः // MJऐNय्_१,४.४४ //
SK
इदमाम्नायते --᳚अपशवो वा अन्ये गोश्वेभ्यः, पशवो गोअश्वाः᳚इति | तत्राजादिषु श्रूयमाणं यदपशुत्वं तस्यार्थवादत्वं न संभवति | पशुत्वनिषेधमात्रेण स्तुतेरप्रतिभानात् | ततः पशुकार्यनिषेधरुमो गुणो विधीयत इति चेत् | मैवम् | अजादिपशुविधिवैयर्थ्थप्रसङ्गेन निषेद्धुमशक्यत्वात् | अपशुशब्दः पशुव्यतिरिक्तं घटादिपदार्थजातमभिदधाति | तस्मिन्घटादौ गवाश्ववत्प्राशस्त्यं नास्ति | सो ऽयं प्राशस्त्याभावो ऽजादिषु पशुष्वस्तीत्यनेनाभिप्रायेण पशव एव सन्तो ऽप्यजादयो घटादिसाम्यादपशुशब्देन लक्ष्यन्ते | पूर्वत्र यजमानादिशब्दानां प्रस्तराद्यर्थेषु प्रवृत्तिनिमित्तम् | तत्प्रवृत्तिफलं प्रस्तरादिप्रशंसा | इह त्वपशुशब्दस्याजादिषु मवृत्तौ गवाश्वयोः प्रशंसैव निमित्तं फलं च | द्विप्रकारा प्रशंसा- वस्तूनिविद्यमानगुणोत्कर्ष एकः प्रकारः | स्तावकेन शब्देन संपादितो गुणोत्कर्षो ऽपरः प्रकारः | गवाश्वयोरजादिभ्य उत्कर्षो लोकसिद्धो यः सो ऽत्र निमित्तम् | ऽ अजादयः स्वभावतः पशवो ऽपि सन्तो गवाश्वौ प्रत्यपशवः संपन्नाः | ईदृशो गवाश्वयोर्महिमा ऽ इति स्तुतिफलम् | तस्मात् --᳚अपशवो वै᳚इत्ययमर्थवादः | अयमेव न्याय उदाहरणान्तरे ऽपि योजनीयः-᳚अयज्ञो वा एष यो ऽसाम᳚इत्येकमुदाहरणम् | ᳚असत्रं वा एतद्यच्छन्दोगम्᳚इत्यपरमुदाहरणम् | ᳚अग्निहोत्रदर्शपूर्णमासादिर्यज्ञो ऽपि सामहीनत्वादयज्ञो भवति | ईदृशः साम्नो महिमा | छन्दोगशब्देन चतुर्विशः, चतुश्चत्वारिंशः, अष्टचत्वारिंश इत्येते त्रयः स्तोमा उच्यन्ते | अक्षरसंख्यासाम्येन गायत्रीत्रिष्टुब्जगरीछन्दोभिर्गीयमानत्वात् | तेषां च विष्टुतिः सामब्राह्मणे द्रष्टव्या | अतः सत्रमपि चतुर्दशरात्रादिकं छन्दोगरहितत्वादसत्रं भवति | ईदृशश्छन्दोगानां महिमा | इत्येवं स्तावकत्वादर्थवादत्वम् || MJऐNय्C_१,४.४२-४४ ||
SK
START MJऐNय् १,४.४५-४८
SK
(सप्तदशे भूमाधिकरणे बाहुल्येन सृष्टिव्यपदेशाधिकरणे सूत्रम्)
SK
भूमा / Jऐम्_१,४.२७ /
SK
सप्तादशाधिकरणमारचयति ----
SK
सृष्टीरुपदधातीति ये मन्त्राः सृष्टिलिङ्गकाः / विधेयास्ते गुणत्वेन वादो वात्र गुणे विधिः // MJऐNय्_१,४.४५ //
SK
आख्यातेनाभिसंबन्धादविध्यन्तरयोगतः / लिङ्गप्रकरणप्राप्तेर्मन्त्राणां विध्यसंभवात् // MJऐNय्_१,४.४६ //
SK
ताननूद्येष्टकाधानं विदध्यात्स्तोष्यते यतः / यथासृष्टेत्यनेनातः सृष्टीरित्यर्थवादगीः // MJऐNय्_१,४.४७ //
SK
एकयास्तुवतेत्यादौ मन्त्रसंघे क्वचिन्नहि / सृष्टिशब्दस्तथाप्युक्तिः सृष्टिशब्देन भूमतः // MJऐNय्_१,४.४८ //
SK
अग्निचयने श्रूयते --᳚सृष्टीरुपदधाति᳚इति | सृष्टिशब्दोपेता मन्त्रा यासामिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय उच्यन्ते | ऽ सृष्टिमानासामुपधानो मन्त्रः ऽ इति विगृह्य᳚तद्वामासामुपधानः᳚ [पा. सू. ४.४.१२५] इत्यादिव्याकरणसूत्रसिद्धप्रक्रियया तन्निष्पादनात् | सृष्टिशब्दोपेताश्चोपधानमन्त्राः᳚एकयास्तुवत᳚इत्यस्मिन्ननुवाके समाम्नाताः | ᳚ब्रह्मासृज्यत, भूतान्यसृज्यन्त᳚इत्यादिना सृजतिधातोस्तेषु प्रयुक्तत्वात् | ते मन्त्रा अत्र सृष्टिशब्देनोपधाने गुणत्वेन विधीयन्ते | कुतः- ऽ उपदधाति ऽ इत्यनेनाऽख्यातेनाभिसंबन्धात् | न चार्थवादत्वमस्य संभवति | विध्यन्तरेण सहैकवाक्यत्वाभावादिति प्राप्ते, -- ब्रूमः- अग्निचयनप्रकरणे पठितत्वात्तेषां मन्त्राणां सामान्यतश्चयनसंबन्धो ऽवगन्यते | विशेषसंबन्धः सृजतिलिङ्गादवगन्तव्यः | तथासति प्राप्तत्वान्न ते मन्त्रा अत्र विधीयन्ते, किन्तु - तान्मन्त्राननूद्येष्टकोपधानं विधीयते | सृष्टिशब्देनानुवादस्तु वक्ष्यमाणार्थवादोपपत्त्यर्थः | ᳚यथासृष्टमेवावरून्धे᳚इति हि वक्ष्यर्माणोर्ऽथवादः | यदि विधिवाक्ये मन्त्राणामनुवादकः सृष्टिशब्दो न स्यात् , तदानीमर्थवादे सृष्टिशब्दप्रयोगाद्विध्यर्थवादयोर्वैयधिकरण्यभ्रमः स्यात् | तस्मान्मन्त्रानुवादी सृष्टीशब्दो न गुणविधायकः , किन्त्वर्थवादः | ननु प्रथममन्त्रे सृजतिधातुर्न प्रयुक्तः , किन्तु दधातिधातुः प्रयुक्तः | ᳚एकयास्तुवत᳚ ᳚प्रजाअधीयन्त᳚इति तत्पाठात् | बाढम् | तथापि द्वितीयतृतीयादिषु बहुषु मन्त्रेषु सृजतिधातुप्रयोगाद्धूमरूपं सादृश्यमस्ति | यत्र सर्वाणि वाक्यानि सृष्टिशब्दोपेतानि तत्र यथा सृष्टिशब्दप्रयोगः || MJऐNय्C_१,४.४५-४८ ||
SK
START MJऐNय् १,४.४९
SK
(अष्टादशे लिङ्गसमवायन्याये (प्राणभृदादिशब्दानां स्तुत्यर्थत्वाधिकरणे ) सूत्रम्)
SK
लिङ्गसमवायात् / Jऐम्_१,४.२८ /
SK
अष्टादशाधिकरणमारचयति --
SK
सृष्टिवत्प्राणभृत्तत्र सादृश्यं लिङ्गभूमतः / अत्रैकमन्त्रगो लिङ्गसमवायो विशिष्यते // MJऐNय्_१,४.४९ //
SK
᳚प्राणभृत उपदधाति᳚इत्यत्रापि सृष्टिन्यायेन मन्त्रविधिरिति पूर्वपक्षः | लिङ्गप्रकरणप्राप्तमन्त्रानुवादेनेष्टकोपधानविधिः | ᳚एतस्यैव प्राणान्दधाति᳚इत्यस्य वक्ष्यमाणार्थवादस्योपपत्तये प्राणभृच्छब्देन मन्त्रानुवादः | पूर्वत्र - द्वितीया - दिमन्त्रेषु सृष्टिलिङ्गानां बाहुल्यम् | इह तु - प्रथममन्त्र एव प्राणभृल्लिङ्गमाम्नायते -᳚अयं पुरोभुवस्तस्य प्राणो भौवायनः᳚इति | एकस्यैव मन्त्रस्य प्राणभृत्त्वे ऽपि ऽ छत्रिणो गच्छन्ति ऽ इतिवत्तत्सहचरिताः सर्वे मन्त्राः प्राणभृच्छब्देन लक्ष्यन्ते | तदेवं यजमानकार्यसिद्ध्यादयो गुणवृत्तिहेतवो निर्णीताः | तथा चोक्तम् --- ᳚तत्सिद्धिजातिसारूप्यप्रशंसालिङ्गभूमभिः | षड्भिः सर्वत्र शब्दानां गौणी वृत्तिः प्रकल्पिता᳚ || इति | || MJऐNय्C_१,४.४९ ||
SK
START MJऐNय् १,४.५०-५३
SK
(एकोनविंशे वाक्यशेषेण संदिग्धार्थनिरूपणाधिकरणे सूत्रम्)
SK
संदिग्धेषु वाक्यशेषात् / Jऐम्_१,४.२९ /
SK
एकोनविंशाधिकरणमारचयति ---
SK
शर्करा उपधत्ते ऽक्तास्तेजो वै घृतमत्र किम् / तैलादिनाञ्जिता अक्ता घृतेनैवाथवाञ्जनम् // MJऐNय्_१,४.५० //
SK
तैलादिनापि मुख्यत्वादसंजातविरोधनात् / अप्राप्तार्थत्वतश्चास्य विधेर्वादाद्बलित्वतः // MJऐNय्_१,४.५१ //
SK
सामान्यमननुष्ठेयं विशेषस्तु विधौ नहि / घृतेनैवाञ्जनं वाक्यशेषात्संदिग्धनिर्णयात् // MJऐNय्_१,४.५२ //
SK
अर्थवादगता चेयं स्तुतिर्घृतमुपेयुषी / बोधयन्ती विधेयत्वं घृतस्य गमयेद्विधिम् // MJऐNय्_१,४.५३ //
SK
᳚अक्ताः शर्करा उपदधाति᳚ ᳚तेजो वै घृतम्᳚इति श्रूयते | मृत्तिकामिश्राः क्षुदापाषाणाः शर्कराः | ताश्च घृततैलवसादीनामन्यतमेन द्रव्येणाञ्जनीयाः | कुतः | अञ्जनसामान्यबोधकस्य विधिवाक्यस्य घृतविशेषबोधकादर्थबादात्प्रबलत्वात् | तत्प्राबल्ये च मुख्यत्वादयस्त्रयो हेतवः | स्वार्थतया विधेर्मुख्यत्वम् , प्रथमश्रुतत्वाच्चासंजातविरोधित्वम् , अनधिगतार्थबोधकत्वादप्राप्तार्थत्वम्, अर्थवादस्तु - विधिस्तावकत्वान्न मुख्यः, चरमश्रुतत्वात्संजातविरोधी, ज्ञातार्थानुवादित्वात्प्राप्तार्थः | तस्मात् - ऽ येन केनाप्यञ्जनम् ऽ इति प्राप्ते, -- ब्रूमः- विधिवाक्येन किमञ्जनसाधनसामान्यं विधीयते, तद्विशेषो वा | नाऽद्यः | सामान्यस्याननुष्ठेयत्वात् | न द्वितीयः | घृततैलादिविशेषवाचकशब्दाभावात् | तत उक्तरीत्या प्रबलमपि विधिवाक्यमनुष्ठानयोग्ये विशेषे संदेहजनकतया निर्णयहेतुमर्थवादमपेक्षते, न तु तेन सह विरुध्यते | अर्थवादे ऽपि घृतस्य विधिर्नास्तीति चेत् | न | विधेरुन्नेयत्वात् | ऽ तेजो वै घृतम् ऽ इत्येवं तेजस्त्वेन घृतस्य स्तूयमानत्वाद्विधेयत्वं गम्यते | ᳚स्तूयते स विधीयते᳚इति न्यायात् | तेन च विधेयत्वेन विधायकः शब्दः कल्प्यते - घृतेनाक्ता इति | तस्मात् - घृतेनैवाञ्जनम् || MJऐNय्C_१,४.५०-५३ ||
SK
START MJऐNय् १,४.५४-५५
SK
(विंशे सामर्थ्येनाव्यवस्थितानां व्यवस्थाधिकरणे सूत्रम्)
SK
अर्थाद् वा कल्पनैकदेशत्वात् / Jऐम्_१,४.३० /
SK
विंशाधिकरणमारचयति --
SK
स्त्रुवेणाथ स्वधितिना हस्तेनावद्यतीत्यमी / आज्ये मांसे पुरोडाशे संकीर्णा वा व्यवस्थिताः // MJऐNय्_१,४.५४ //
SK
व्यवस्थापकराहित्यात्स्त्रूवाद्या अव्यवस्थिताः / व्यवस्थापकताशक्तेस्तद्वशेन व्यवस्थितिः // MJऐNय्_१,४.५५ //
SK
᳚स्त्रुवेणावद्यति᳚ ᳚स्वधितिनाद्यति᳚ ᳚हस्तेनावद्यति᳚इति श्रूयते | तत्रावदेयेष्वाज्यमांसपुरोडाशेषु हविःष्वमी स्त्रुवाद्या अवदानहेतवः संकीर्णाः | कुतः | व्यवस्थापकस्य शब्दस्याभावादिति चेत् | मैवम् | शक्तेर्व्यवस्थापकत्वात् | ᳚आख्यातानामर्थे ब्रुवतां शक्तिः सहकारिणी᳚ इति न्यायात् | ऽ कटे भुङ्क्ते ऽ ऽ कांस्यपात्र्यां भुङ्क्ते ऽ इत्यत्र लौकिकास्तत्तद्वस्तुशक्त्यनुसारेण व्यवस्थां कल्पयन्ति --ऽ कट आसीनः , ऽ कांस्यपात्र्यामोदनं निधाय ऽ इति | वेदे ऽपि -᳚अञ्जलिना सक्तून्प्रदाय जुहुयात्᳚इत्यत्र यद्यपि द्विहस्तसंयोगो ऽञ्जलिः, तथापि गुरुदेवतादिप्रसादनार्थाञ्जलिवन्निश्छिद्रसंयोगो न भवति | तादृशे ऽञ्जलौ सक्तूनामवकाशाभावात् | अतः सापर्थ्यात्संयुक्तप्रसृतिद्वयात्मको मध्यगतावकाशोपेतो ऽञ्जलिर्गृहीतः | एवमत्रापि द्रवद्रव्यस्याऽज्यस्य स्त्रुवो योग्यः, छेदनीयमांसस्य शस्त्रविशेषः स्वधितिः | संहतस्य पुरोडाशस्य हस्तः, इत्येनेन प्रकारेण स्त्रुवाद्या व्यवस्थिताः || MJऐNय्C_१,४.५४-५५ ||
SK
इति श्री माधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाधायायस्य चतुर्थः पादः
SK
समाप्तश्च प्रथमो ऽध्यायः
SK
श्रीः
SK
अथ द्वितीयो ऽध्यायः / (तत्र प्रथमः पादः)
SK
START MJऐNय् २,१.१
SK
प्रमाणमुपजीव्यत्वात्प्रथमे ऽध्याय ईरितम् / मानाधीनस्य धर्मस्य द्बितीये भेद उच्यते // MJऐNय्_२,१.१ //
SK
अनेन प्रथमद्वितीययोरध्याययोः पूर्वोत्तरभाव उपपादितः
SK
(प्रथमे ऽपूर्वस्याऽख्यातप्रितिपाद्यत्वाधिकरणे सूत्राणि १ - ४)
SK
भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेत एष ह्य् अर्थो विधीयते / Jऐम्_२,१.१ /
SK
सर्वेषां भावो ऽर्थ इति चेत् / Jऐम्_२,१.२ /
SK
येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगै / Jऐम्_२,१.३ /
SK
येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते तान्य् आख्यातानि तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य / Jऐम्_२,१.४ /
SK
START MJऐNय् २,१.२-३
SK
द्वितीयाध्यायस्य प्रथमे पादे प्रथमाधिकरणे प्रथमं वर्णकमारचयति -
SK
विधिवाक्ये पदैः सर्वैरपूर्वे प्रतिपाद्यते / प्रत्येकमथवैक्येन सर्वैस्तत्प्रतिपादनम् // MJऐNय्_२,१.२ //
SK
फलान्वयित्वात्सर्वेषां प्रधानान्वयलाभतः / लाघवादेकबोध्यत्वं तच्छेषस्तु पदान्तरम् // MJऐNय्_२,१.३ //
SK
विधिवाक्यमदृष्टार्थमखिलमत्रोदाहरणम | विधिवाक्ये यावन्ति पदानि सन्ति तानि सर्वाणि क्रियाकारकसंबन्धमनादृत्य प्रत्येकमपूर्वस्य प्रतिपादकानि | कुतः | अपूर्वस्य फलत्वेन सर्वेषां पदानां फलान्वयित्वात | अपूर्वप्रतिपादनाभावे ऽपि क्रियाकारकयोः परस्परान्वयो ऽस्त्येवेति चेत् | सत्यम् | तथापि प्रधानान्वयो लभ्येत | फलं हि प्रधानम् | पुरूषार्थतया साध्यमानत्वादिति प्राप्ते , ब्रूमः - अपूर्वस्यान्त्यन्तमदृष्टत्वादेककल्पनयैव वाक्यस्योपपत्तावनेककल्पने गौरवं स्यात् | तस्मादेकमपूर्वमेकेन शब्देन प्रतिपाद्यते | पदान्तरं तु तच्छेषतयान्वेति | ननु यस्य पदस्यार्थो ऽपूर्वस्य कल्पकस्तत्पदार्थस्य फलसाधनतया फलं प्रत्युपादेयत्वविधेयत्वगुणत्वान्यभ्युपगन्तव्यानि | तथा तस्यैव शेषभूतपदान्तरार्थे प्रत्युद्देश्यत्वानुवाद्यत्वप्रधानत्वानामपि प्राप्तत्वाद्विरुद्धत्रिकद्वयापत्तिरिति चेत् | मेवम् | ᳚उद्भिदा यजेत पशुकामः᳚ ᳚श्येनेनाभिचरन्यजेत᳚इत्यादावुद्भिदादिशब्दानां नामत्वेनात्वये सति यागसाधनवाचित्वाभावेन यजतावुद्देश्यत्वादित्रिकापादकत्वाभावात् | तस्मादेकमेव पदमपूर्वप्रतिपादकम् | न च धर्मभेदचिन्तां प्रस्तुता परित्यज्य किमित्यपूर्वे चिन्त्यत इति वाच्यम् | अपूर्वस्यैव धर्मत्वात् || MJऐNय्C_२,१.२-३ ||
SK
द्वितीयं वर्णकमारचयति --
SK
START MJऐNय् २,१.४-७
SK
द्रव्यादिशब्दतो ऽपूर्वधीर्भावार्थपदादुत / द्रव्यादीनां फलार्थत्वात्तच्छब्देन ह्यपूर्वधीः // MJऐNय्_२,१.४ //
SK
क्रियाद्वारमृते द्रव्यं फलेन नहि युज्यते / भावनावाचिनो ऽपूर्वमाख्यातादवगम्यते // MJऐNय्_२,१.५ //
SK
धात्वर्थव्यतिरेकेण भावना नेति चेन्न तत् / सर्वधात्वर्थसंबद्धः करोत्यर्थो हि भावना // MJऐNय्_२,१.६ //
SK
धात्वर्थः करणं तस्यां समानपदवर्णितः / द्रव्याद्युपकृतिर्दृष्टा धात्वर्थोत्पादनात्मिका // MJऐNय्_२,१.७ //
SK
इदमाम्नायते -᳚सोमेन यजेत᳚ ᳚हिरण्यमात्रेयाय ददाति᳚ ᳚तस्मात्सुवर्णे हिरण्यं धार्यम्᳚ ᳚श्येनेनाभिचरन्यजेत᳚ ᳚चित्रया यजेत पशुकामः᳚इत्यादि | तत्र सोमहिरण्यशब्दौ द्रव्यवाचिनौ, सुवर्णशब्दो गुणवाची, श्येनचित्राशब्दौ कर्मवाचिनौ | तैरेतैर्द्रव्यादिशब्दैरपूर्वे प्रत्येति कुतः | द्रव्यादीनां सिद्धरूपाणां साध्यं फलं प्रति साधनत्वसंभवात् | यागदानादिरूपस्तु भावार्थः स्वयमपि फलवत्साध्यरूपत्वान्न साधनं भवितुमर्हप्ति | ततो द्रव्यादीनां फलं प्रति करणत्वाद्द्रव्यादिशब्दा अपूर्वप्रत्यायका इति प्राप्ते - ब्रूमः- क्रियां विना द्रव्याणि फलं साधयितुं न क्षमन्ते | पचिक्रीयामन्तरेण काष्ठस्थाल्यादीनामोदनसाधकत्वादर्शनात् | अतो भावनावाचिना यजति ददातीत्याख्यातेनापूर्वे प्रतीयते | ननु धात्वर्थ एव भावना, तदन्या वा | न तावद्धात्वर्थः | तस्य तां प्रति करणत्वोक्तेः | न द्वितीयः | धात्वर्थव्यतिरिक्तायाः क्रियायादुर्लक्ष्यत्वादिति चेत् | मैवम् | सर्वधात्वर्थसंबद्धस्य करोतिरूपस्य लक्षयितुं शक्यत्वात् | तदुक्तमाचार्यैः- ᳚धात्वर्थव्यतिरेकेण यद्यप्येषा न लक्ष्यते | तथापि सर्वसामान्यरूपेणैवावगम्यते᳚इति | अन्यैरप्युक्तम् - ᳚सिद्धसाध्यस्वभावाभ्यां धात्वर्थो द्विविधस्तयोः | अन्योत्पादानुकूलात्मा भावना साध्यरूपिणी᳚इति | ऽ पचति ऽ इत्युक्ते ऽ पाकं करोत्रि ऽ इत्येतमर्थे सर्वे जनाः प्रतियन्ति | तत्र पाकः, पक्तिः पचनम्, इत्येतैः शब्दैर्व्यवह्रियमाणो लिङ्गकारकसंख्यायोग्यो धात्वर्थः सिद्धस्वभावः | ऽ करोति ऽ इत्यनेन व्यवह्रियमाणो लिङ्गाद्यपेतः साध्यस्वभावद्योतनायाऽख्यातप्रत्ययविधिः | स चाऽख्यातप्रत्ययार्थ ओदनोत्पत्तेरनुकूलः | ततो भवितुरोदनस्य प्रयोजकव्यापारत्वाण्णिजन्तेन भावनाशब्देनोच्यते - इति | अन्ये भावनापक्षा अयुक्ताः | प्रयत्नो भावनेति चेत् | न | ऽरथो गच्छतिऽ इत्यत्र तदभावप्रसङ्गात् | स्पन्द इति चेत् | न | मानसत्यागरूपे यजतावव्याप्तेः | उभयसाधारणमुदासीनत्वविच्छेदसामान्यं भावनेति चेत् | न | शब्दभावनायामव्याप्तिः न हि शब्दस्य विभोरचेतनस्य स्पन्दः प्रयत्नो वास्ति | लिङ् - लेट् - लोट्तव्यप्रत्ययमात्रगता शब्दभावना | सर्वाख्यातगतार्ऽथभावना | तदुक्तम् -- ᳚अभिधां भावनामाहुरन्यामेव लिङ्ङादयः | अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते᳚इति ||
SK
किंच स्पन्दादिवादिनो ऽपि न स्वरूपेण स्पन्दादीनां भावनात्वमाहुः, किंत्वन्योत्पादानुकूलं स्वरूपम् | तस्मादस्मदुक्तैव भावना | यथा ऽ पचति, इत्यत्रौदनफलोत्पत्त्यनुकूला, तथा ऽयजतिऽ इत्यत्र स्वर्गादिफलोत्पत्त्यनुकूला | तस्यां च फलभावनायां प्रत्ययवाच्यायामेकपदोपात्तत्वेन प्रत्यासम्नत्वात्प्रकृत्यर्थः करणम् , न तु द्रव्यादि | तस्य पदान्तरोपात्तत्वेन विप्रकृष्टत्वात् | साध्यरूपो ऽपि प्रकृत्यर्थः स्वसाधननिष्पादितः सञ्शक्नोति फलं साधयितुम् | द्रव्यादीनां तु प्रकृत्यर्थोत्पादनेन दृष्ट एवोपकारः | द्रव्यादिनिष्पादितेन धातुवाच्येन यागादिकरणेन स्वर्गादिफलोत्पत्तौ सत्यां येयमनुकूलव्यापारात्मा कृतिशब्दाभिधेया फलोत्पादना सेयं यज्यादिधातूनामन्यतमेव केनापि नाभिधीयते | सर्वधात्वर्थानुयायिस्वात् | अतो न भावनायाः प्रकृत्यर्थत्वमाशङ्कितुं शक्यम् | अस्तु तर्हि -- धात्वर्थसामान्यमेव भावनेति चेत् | न | प्रतिधात्वर्थे विलक्षणरूपत्वात् | अन्यद्धि पाकस्यौदनं प्रत्यानुकूल्यम् | अन्यच्च चलनस्य संयोगविभागौ प्रति | अन्यथा फलविभागानुपपत्तेः | भिन्नासु भावनाव्यक्तिषु भावनात्वसामान्यमनुवर्ततां नाम | नैतावताप्रकृत्यर्थसामान्यं तद्भवति | तस्माद्विशेषरूपात्सामान्यरूपाच्च यज्यादिधातुवाच्यादन्यैवाऽख्यातप्रत्ययवाच्या भावना | तथासति ऽयजेतऽ इत्यत्राऽख्यातस्य ऽभावयेत्ऽ इत्यर्थो भवति | तत्र ऽ किं भावयेत्, केन भावयेत्, कथं भावयेत्, इत्यकाङ्क्षायां ऽ स्वर्गे भावयेत् ऽ यागेन भावयेम्, अग्न्यन्वाधानप्रयाजावघातादिभिरुपकारं संपाद्य भावयेत् , इत्येवं भाज्यकरणेतिकर्तव्यतासमर्पणेनाऽकाङ्क्षापूरणात्प्रकरणाम्नातः सकलः शब्दसंदर्भो भावनावाचिन आख्यातस्यैव प्रपञ्चः | भाव्याद्यंशत्रयवती सेयमार्थी भावनेत्युच्यते | सा सर्वापि शब्दभावनाया भाव्या, विधायको लिङ्ङादिः करणम् | अर्थवादसंपादिता स्तुतिरितिकर्तव्यता | सेयं शब्दभावना लिङ्ङादिभिरेव गम्यते | ऽ अर्थभावनां सर्वैराख्यातप्रत्यैयर्गम्यत इत्युक्तम् | तस्यां चार्थभावनायां स्वर्गस्य भाव्यत्वं कमियोगादवगम्यते | प्रकृत्यर्थस्य करणत्वं तृतीयाश्रुत्या | तथा च श्रूयते -᳚दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत᳚ऽ चित्रया यजेत पशुकामः ऽ इति | तच्च करणत्वमपूर्वकल्पनामन्तरेण न संभवतीत्यभिधास्यते | तस्मादाख्यातप्रत्ययान्ताद्भावार्थपदादपूर्वे गन्यते | चिन्ताप्रयोजनं तु - ऽपूर्वपक्षे द्रव्याद्यपचारे प्रतिनिध्यभावः | सिद्धान्ते तु तत्सद्भावः ऽ इति || MJऐNय्C_२,१.४-७ ||
SK
(द्वितीये ऽपूर्वस्यास्तित्वाधिकरणे सूत्रम्)
SK
चोदना पुनर् आरम्भः / Jऐम्_२,१.५ /
SK
START MJऐNय् २,१.८-१०
SK
द्वितीयाधिकरणमारचयति -
SK
अपूर्वसदसद्भावसंशये सति नास्ति तत् / मानाभावात्फलं यागात्सिध्येच्छास्त्रप्रमाणतः // MJऐNय्_२,१.८ //
SK
क्षणिकस्य विनष्टस्य स्वर्गहेतुत्वकल्पनम् / विरुद्धं मान्तरेणातः श्रेयो ऽपूर्वस्य कल्पनम् // MJऐNय्_२,१.९ //
SK
अवान्तरव्यापृतिर्वा शक्तिर्वा यागजोच्यते / अपूर्वमिति तद्भेदः प्रक्रियातो ऽवगम्यताम् // MJऐNय्_२,१.१० //
SK
पूर्वाधिकरणे वर्णकाभ्यां यदिदमुक्तम् - ऽअपूर्वस्यैकमेव पदं प्रत्यायकम् ऽ तच्च ऽयजेतऽ इत्याख्यातान्तभावार्थपदम्, इति | तदनुपन्नम् | अपूर्वसद्भावेमानाभावात् | ऽ यजेत ऽ इत्याभ्यां प्रकृतिप्रत्ययाभ्यां करणभावनयोरभिधानात् | अपूर्वाभावे कालान्तरभाविस्वर्गसाधनत्वं विनश्वरस्य यागस्यानुपपन्नमिति चेत् | न | शास्त्रप्रामाण्येन तदुपपत्तेरिति प्राप्ते - ब्रूमः- ऽ दर्शपूर्णमासाभ्याम् ऽ इति तृतीयाश्रुत्या तावद्यागस्य स्वर्गसाधनत्वं प्रमितम् | तद्यथोपपद्यते तथावश्यं भवतापि कल्पनीयम् | तत्र किं यावत्फलं यागस्यावस्थानं कल्प्यते, किंवा विनष्टस्यापि स्वर्गोत्पादनम् | नाऽद्यः | यागे क्षणिकत्वस्य प्रत्यक्षसिद्धत्वात् | न द्वितीयः | मृतयोर्दंपत्योः पुत्रोत्पत्त्यदर्शनात् | अतो मानान्तरविरुद्धाद्भवदीयकल्पनादस्मदीयमविरूद्धमपूर्वकल्पनं ज्यायः | कल्पिते ऽप्यपूर्वे तस्यैव स्वर्गसाधनत्वाद्यागस्य स्वर्गसाधनत्वश्रुतिर्विरूध्येतेति चेत् | न | ऽ यागावान्तरव्यापारो ऽपूर्वम् ऽ इत्यङ्गीकारात् | न ह्युद्यमननिपतनयोरवान्तरव्यापारयोः सत्त्वे कुठारस्य साधनत्वमपैति | यदि व्यापारवतो यागस्य नाशे व्यापारे न तिष्ठेत्तर्हि यागजन्या काचिच्छक्तिरपूर्वमस्तु | शक्तिव्यवधाने ऽपि यागस्य साधनत्वमविरूद्धम् | औष्ण्यव्यवहिते ऽप्यग्नौ दाहकत्वाङ्गीकारात् | यथाङ्गारजन्यमौष्ण्यं शान्तेष्यप्यङ्गारेषु जले ऽनुवर्तते, तथा यागजन्यमपूर्वे नष्टे ऽपि यागे कर्र्तयात्मन्यवनुवर्तताम् | तस्मादस्त्यर्पूवम् | तद्विशेषस्तु संप्रदायसिद्धयागप्रक्रिययावगन्तव्यः | तथा हि - प्रक्रिया पूर्वाचार्यैरित्थं दर्शिता -᳚प्रथमं तावत्फलवाक्येन कर्मणः फलसाधनता बोद्यते - ऽ यागेन स्वर्गे कुर्यात् ऽ इति | ऽकथं विनश्वरेण फलं कर्तव्यम् ऽ इत्यपेक्षायाम् ऽ अपूर्वे कृत्वा ऽ इत्युच्यते | ऽ कथमपूर्वे क्रियते ऽ इत्यपेक्षायां ऽ यागानुष्ठानप्रकारेण ऽ इति | तच्चापूर्वे दर्शपूर्णमासयोरनेकविधम् - फलापूर्वम् | समुदायापूर्वम् ष उत्पत्त्यपूर्वम्, अङ्गापूर्वे चेति | येन स्वर्ग आरभ्यते तत्फलापूर्वम् | अमावास्यायां त्रयाणां यागानामेकः समुदायः, पौर्णमास्यामपरः, तयोर्भिन्नकालवर्तिनोः संहत्य फलापूर्वारम्भायोगात्तदारम्भाय समुदायद्वयजन्यमपूर्वद्वयं कल्पनीयम् | तयोरेकैकस्याऽ रम्भायैकैकसमुदायवर्तिनां त्रयाणां यागामां भिन्नक्षणवर्तित्वेन संघातापत्त्यभावाद्यागत्रयणन्यानि त्रीण्युत्पत्त्यपूर्वाणि कल्पनीयानि | तेषां चाङ्गेपकारमन्तरेणानिष्पत्तेरङ्गानां चानेकक्षणवर्तिनां संघातासंभवादङ्गापूर्वाणि कल्पनीयानि | तत्र त्वयं विभागः- संविपत्योपकारकाण्यवघातादीनि द्रव्यदेवतासंस्कारद्वारेण यागस्वरूपस्यैवातिशयाधानेन तदत्पत्त्यपूर्वनिष्पत्तौ व्याप्रियन्ते | तद्द्वारेण फलापूर्वे | आरादुपकारकाणि तु प्रयाजादीन्युत्पत्त्युपूर्वेभ्यः फलापूर्वनिष्पत्तौ साक्षादेव व्याप्रियन्ते | एवं प्रकारभेदे सत्यपि सर्वाण्यङ्गान्यपूर्वनिष्पत्तावनुग्राहकाणि - इत्येकरूपेणेत्थंभावेन स्वी क्रियन्ते | अनयैव दिशा सर्वत्रापूर्वप्रक्रियावगन्तव्या || MJऐNय्C_२,१.८-१० ||
SK
START MJऐNय् २,१.११-१२
SK
अत्र गुरुमतमाह -
SK
यागक्रिया सूक्ष्मरूपा परमाण्वात्मसंश्रिता / यावत्फलं नियोगाख्यं नापूर्वमिति चेन्न तत् // MJऐNय्_२,१.११ //
SK
मानहीनं क्रियासौक्ष्म्यं नियोगस्तु लिङादिना / अभिधेयः पृथग्यागादपूर्वे कार्यमस्त्यतः // MJऐNय्_२,१.१२ //
SK
गुरुणा यन्नियोगाख्यमपूर्वमभिप्रेयते तन्नास्ति | कुतः | अन्तरेणैव तदपूर्वे फलनिष्पत्तेः | न च यागनाशात्कथं फलसिद्धिरिति वाच्यम् | न हि यागक्रिया सर्वात्मना नश्यति, किंतु सूक्ष्मरूषत्वेनादृश्या सती स्वर्गदेहारम्भकेषु यागसंबन्धिद्रव्यगतपरमाणुषु यागकर्र्तयात्मनि वावस्थाय फलमारभत इति पूर्वपक्षः | नैतद्युक्तम् | उक्तेर्ऽथे प्रमाणाभावात् | न च नियोगे ऽपि प्रमाणाभावः शङ्कनीयः | वैदिकलिङादीनां तदभिधायकत्वात् | ततो धात्वर्थातिरिक्तं कालान्तरभाव्यकाम्यफलसाधनमपूर्वमत्वित || MJऐNय्C_२,१.११-१२ ||
SK
(तृतीये कर्मणां गुणप्रधानभावविभागाधिकरणे सूत्राणि ६ - ८)
SK
तानि द्वैधं गुणप्रधानभूतानि / Jऐम्_२,१.६ /
SK
यैर् द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् / Jऐम्_२,१.७ /
SK
यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् / Jऐम्_२,१.८ /
SK
START MJऐNय् २,१.१३-१४
SK
तृतीयाधिकरणमारचयति --
SK
अवघातादिनापूर्वमुत्पाद्यं विद्यते न वा / यजत्यादिवदस्त्येव वाक्यवैयर्थ्यमन्यथा // MJऐNय्_२,१.१३ //
SK
दृष्टे तुषविमोके तु नापूर्वे द्रव्यतन्त्रतः / स्याद्यजत्यादिवैषम्यं नियमापूर्वकृद्वचः // MJऐNय्_२,१.१४ //
SK
दर्शपूर्णमासयोः श्रूयते -᳚व्रीहीनवहन्ति᳚ ᳚तण्डुलान्पिनष्टि᳚इति | तत्र अक्धातपेषणे अपूर्वजनके, विहितधात्वर्थत्वात्, यजत्यादिघात्वर्थवत् ऽ | विपक्षे - विधिवाक्यवैयर्थ्यरूपो बाधकस्तर्को ऽवगन्तव्यः | तुषविमोकचूर्णत्वयोर्दृष्टप्रयोजनयोर्लोकसिद्धत्वेन तादर्थ्ये ऽवघातपेषणयोर्विधिर्र्व्यथः स्यात् | तस्मात् - अस्त्यपूर्वमिति प्राप्ते, ब्रूमः- दृष्टफले संभवत्यपूर्वे न कल्पनीयम् | यजत्यादिदृष्टान्तस्तु विषमः | तत्र हि क्रियाप्राधान्येन द्रव्यपारतन्त्र्याभावादपूर्वसाधनत्वं क्रियाया युक्तम् | इह तु ऽ व्रीहीन् ऽ इति कर्मकारकविभक्त्या व्रीहीणामीप्सिततमत्वेन प्राधान्यावगमाद्द्रव्यपरतन्त्रो ऽवघातो द्रव्य एवातिशयं कुर्यात्, न त्वपूर्वे जनयति | न च विधिवैयर्थ्यम् | नखनिर्भेदनादिना तुषविमोकसंभवे ऽपि ऽअवघातेनैवासौ कर्तव्यः ऽ इति यो नियमस्तस्य नियमस्यापूर्वहेतुत्वेन विधेयत्वात् | तस्मान्नास्त्यववातादिजन्यमपूर्नम् || MJऐNय्C_२,१.१३-१४ ||
SK
अत्र गुरुमतमाह -
SK
START MJऐNय् २,१.१५
SK
द्वितीयां सक्तुवद्भङ्क्त्वा नियोगे ऽन्वयितां क्रीया / साक्षादिति न मन्तव्यं दृष्टस्यात्रोपपत्तितः // MJऐNय्_२,१.१५ //
SK
᳚सक्तूञ्जुहोति᳚इत्यत्र द्रव्यप्राधान्यं परित्यज्य द्वितीयाया भङ्गं कृत्वा क्रियाप्राधान्याय᳚सक्तुभिर्जुहोति᳚इति तृतीयात्वेन विपरिणामो वक्ष्यते | तथा᳚व्रीहिभिरवहन्ति᳚इति विपरिणामेन प्रधानभूता क्रिया द्रव्यव्यवधानमन्तरेण साक्षादेव नियोगे ऽन्वेतव्येति चेत् | मैवम् | वैषम्यात् | तत्र᳚होमेन सक्तुषु संस्कारो न भवति᳚भस्मीभूतानामन्यत्र विनियोगासंभवात् , इत्यभिप्रेत्य संस्कारकर्मत्वं परित्यक्तम् | इह दृष्टस्तुषविमाकेसंस्कार उपपद्यते | वितुषाणां तेषां पुरोडाशे विनियोगसंभवात् || MJऐNय्C_२,१.१५ ||
SK
(चतुर्थे संमार्जनादीनामप्रधानताधिकरणे सूत्राणि ९ - १२) धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् / Jऐम्_२,१.९ /
SK
तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् / Jऐम्_२,१.१० /
SK
द्रव्योपदेश इति चेत् / Jऐम्_२,१.११ /
SK
न तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् / Jऐम्_२,१.१२ /
SK
START MJऐNय् २,१.१६-१७
SK
चतुर्थाधिकरणमारचयति --
SK
संमार्ष्ट स्त्रुच इत्यत्र किं प्रधानाख्यकर्मता / गुणकर्मत्वमथवा दृष्टाभावे ऽवघातवत् // MJऐNय्_२,१.१६ //
SK
गुणत्वं नहि संभाव्यं प्राधान्यं तु प्रयाजवत् / अदृष्टकल्पनेनापि गुणत्वं स्याद्द्वितीयया // MJऐNय्_२,१.१७ //
SK
दर्शपूर्णमासयोर्जुह्वादीनां दर्भैः संमार्जनमाम्नातम् -᳚स्त्रुचः संमार्ष्टि᳚इति | तत्र संमार्जनं प्रधानकर्म | कुतः | गुणकर्मलक्षणरहितत्वात्, प्रधानकर्मलक्षणयुक्तत्वाच्च | सूत्रकारो हि कर्मणां राशिद्वयं प्रतिज्ञाय तयोर्लक्षणं पृथक्सूत्रयामास-᳚तानि द्वैधं गुणप्रधानभूतानि᳚᳚यैस्तु द्रव्यं चिकीर्ष्यते, गुणस्तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात्᳚᳚यैस्तु द्रव्यं न चिकीर्ष्यते, तानि प्रधानभूतानि, द्रव्यस्य गुणभूतत्वात्᳚च्च्पू.मी.सू. २ | १ | ६ - ८ छ्तैति | यैः कर्मभिर्द्रव्यमुत्पादयितुं संस्कर्तु वेष्यते, तेषु कर्मसु गुणत्वम् | कुतः | तस्य कर्मणो द्रव्यप्रधानत्वात् | द्रव्यं प्रधानमस्य, इति बहुव्रीहिः | ᳚यूपं तक्षति᳚आहवनीयमादघाति᳚ इत्यादौ यूपाहवनीयादिद्रव्यमुत्पादयितुमिष्यते | ᳚व्रीहीनवहन्ति᳚ ᳚तण्डुलान्पिनष्टि᳚इत्यादौ व्रीह्यादिद्रव्यं संस्कर्तुमिष्टम् | प्रयाजादिषूक्तवैपरीत्यात्प्रधानकर्मत्वम् | एवं सत्यवघातेन यथा व्रीहीणां तुषविमोको दृष्टः संस्कारः, तथा संमार्जनेन जुह्वादिषु कंचिदतिशयं न पश्यामः | अतो ऽवघातवद्गुणकर्मत्वाभावात्प्रयाजादिवत्प्रधानकर्मत्वमिति प्राप्ते -- ब्रूमः- ऽस्त्रुचऽ इति द्वितीया कर्मकारके विहिता | कर्मत्वं चेप्सिततमत्वेसति भवति | ᳚कर्तुरीप्सिततमं कर्म᳚च्च्पा.सू. १ | ४ | ४९ छ्तैति कर्मसंज्ञाविधानात् | क्रतुसाधनत्वेन च स्त्रुचां युक्तमीप्सिततमत्वम् | अतः प्रधानभूताः स्त्रुचः | तथासति संमार्जनक्रियाया गुणकर्मत्वमवघातवद्भविष्यति | यदि स्त्रुक्षुदृष्टो ऽतिशयो न स्यात्, तर्ह्यपूर्वे कल्पनीयम् || MJऐNय्C_२,१.१६-१७ ||
SK
(पञ्चमे स्तोत्रादिप्राधान्याधिकरणे सूत्राणि १३ - २९)
SK
स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् / Jऐम्_२,१.१३ /
SK
अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् / Jऐम्_२,१.१४ /
SK
वशावद् वा गुणार्थं स्यात् / Jऐम्_२,१.१५ /
SK
न श्रुतिसमवायित्वात् / Jऐम्_२,१.१६ /
SK
व्यपदेशभेदाच् च / Jऐम्_२,१.१७ /
SK
गुणश् चानर्थकः स्यात् / Jऐम्_२,१.१८ /
SK
तथा याज्यापुरोरुचोः / Jऐम्_२,१.१९ /
SK
वशायाम् अर्थसमवायात् / Jऐम्_२,१.२० /
SK
यत्रेति वार्थवत्त्वात् स्यात् / Jऐम्_२,१.२१ /
SK
न त्वाम्नातेषु / Jऐम्_२,१.२२ /
SK
दृश्यते / Jऐम्_२,१.२३ /
SK
अपि वा श्रुतिसंयोगात् प्रकरणे स्तौतिशंसती क्रियोत्पात्तिं विदध्याताम् / Jऐम्_२,१.२४ /
SK
शब्दपृथक्त्वाच् च / Jऐम्_२,१.२५ /
SK
अनर्थकं च तद्वचनम् / Jऐम्_२,१.२६ /
SK
अन्यश् चार्थः प्रतीयते / Jऐम्_२,१.२७ /
SK
अभिधानं च कर्मवत् / Jऐम्_२,१.२८ /
SK
फलनिर्वृत्तिश् च / Jऐम्_२,१.२९ /
SK
START MJऐNय् २,१.१८-१९
SK
पञ्चमाधिकरणमारचयति -
SK
प्रौगं शंसतीत्यादौ गुणतोत प्रधानता / दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः // MJऐNय्_२,१.१८ //
SK
स्मृत्यर्थत्वे स्तौतिशंस्योर्धात्वोः श्रौतार्थबाधनम् / तेनादृष्टमुपेत्यापि प्राधान्यं श्रुतये मतम् // MJऐNय्_२,१.१९ //
SK
ज्योतिष्टोमे श्रूयते -᳚प्रौगं शंसति᳚ ᳚निष्केवल्यं शंसति᳚ ᳚आज्यैः स्तुवते᳚ ᳚पृष्टैः स्तुवते᳚प्रौगनिष्केवल्यशब्दौ शस्त्रविशेषनामनी | आज्यपृष्टशब्दौ तु व्याख्यातौ | अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रम् | प्रगीतमन्त्रसाध्यास्तुतिः स्तोत्रम् | तयोः स्तुतशस्त्रयोर्गुणकर्मत्वं युक्तम् | कुतः | तुषविमोकवद्दृष्टार्थलाभात् | षठ्यमानेषु मन्त्रेष्वनुस्मरणेन देवता संस्क्रियत इति प्राप्ते -- ब्रूमः- स्तोतव्याया देवतायाः स्तावकैर्गुणैः संबन्धकीर्तनं स्तौतिशंसतिधात्वोर्वाच्योर्ऽथः | यदि मन्त्रवाक्यानि गुणसंबन्धाभिधानपराणि , तदा धात्वोर्मुख्यार्थलाभाच्छ्रतिरनुगृहीता भविष्यति | यदा तु गुणद्वारेणानुस्मरणीयदेवतास्वरूप प्रकाशनपराणि मन्त्रवाक्यानि स्युः, तदा धात्वोर्मुख्योर्ऽथो न स्यात् | लोके हि ऽ देवदत्तश्चतुर्वेदाभिज्ञः ऽ इत्युक्ते स्तुतिः प्रतीयते | तस्य वाक्यस्य गुणसंबन्धपरत्वाभावात् | यदा तु देवदत्तरूपपरता ऽ यश्चतुर्वेदी तमानय, इत्यादौ, तत्र न स्तुतिप्रतीतिः | तस्य चतुर्वेदसंबन्धद्वारेण देवदत्तस्वरूपोपलक्षणपरत्वेन गुणसंबन्धपरत्वाभावात् | ततश्च - ऽ आज्यैर्देवं प्रकाशयेत् , ऽ पृष्टैर्देवं प्रकाशयेत्, इत्येवं विध्यर्थपर्यवसानाद्धात्वोर्मुख्यार्थो बाध्येत | ततो धातुश्रुतिमबाधितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमभ्युपेतव्यम् | तत्र दृष्टं प्रयोजनं नास्तीति चेत् | तर्ह्यपूर्वमस्तु || MJऐNय्C_२,१.१८-१९ ||
SK
(षष्ठे मन्त्राविधायकत्वाधिकरणे सूत्रे ३० - ३१)
SK
विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् / Jऐम्_२,१.३० /
SK
अपि वा प्रयोगसामर्थ्यान् मन्त्रो ऽभिधानवाची स्यात् / Jऐम्_२,१.३१ /
SK
START MJऐNय् २,१.२०-२१
SK
षष्ठाधिकरणमारचयति -
SK
देवांश्च याभिर्यजत इत्याख्यातं तु मन्त्रगम् / विधायकं न वान्येन समत्वात्तद्विधायकम् // MJऐNय्_२,१.२० //
SK
यच्छब्दादेः क्षीणशक्तिर्न विधिस्त्रिविधं ततः / आख्यातमभिधानं च प्रधानगुणकर्मणी // MJऐNय्_२,१.२१ //
SK
अयं मन्त्र आम्नायते -᳚देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह᳚इति | अयमर्थः- गोपतिर्यजमानो याभिर्गोभिर्देवान्यजते याश्च गा ब्राह्मणेभ्यो ददाति चिरमेव ताभिः सह परलोके ऽवतिष्ठते इति | तत्र यथा ब्राह्मणगतमाख्यातपदं प्रधानगुणकर्मणोरन्यन्तरस्य विधायकम्, तथा मन्त्रगतमपीति चेत् | मैवम् | यच्छब्दादिना विधिशक्तेः क्षीणत्वात् | सति हि यच्छब्दे तस्य वाक्यस्यानुवादकत्वं प्रतीयते, न तु विधायकत्वम् | ऽयच्छब्दादेः ऽ इत्यादिशब्देनोत्तमपुरुषामन्त्रणादयः | ऽ बर्हिर्देवसदनं दामि ऽ इत्युत्तमपुरूमः | ऽअग्नीदग्नीन्विहरऽ इत्यामन्त्रणम् | एवं ब्रह्मणे ऽपि - ऽ यस्योभयं हविरार्तिमार्च्छत् ऽ इत्युदाहरणीयम् | तस्मात् - ऽ आख्यातस्य प्रधानकर्मविधायत्वं, गुणविधायकत्वं वा ऽ इत्येवं द्वावेव प्रकारौ न भवतः, किंतु - ऽ अभिधायकत्वम् ऽ इत्यप्यस्ति तृतीयः प्रकारः | ततो न मन्त्रगताख्यातस्य विधायकत्वम् || MJऐNय्C_२,१.२०-२१ ||
SK
(सप्तमे मन्त्रनिर्वचनाधिकरणे सूत्रम्)
SK
तच्चोदकेषु मन्त्राख्या / Jऐम्_२,१.३२ /
SK
START MJऐNय् २,१.२२-२३
SK
सप्तमाधिकरणमारचयति --
SK
अहे बुधिण्य मन्त्रं म इति मन्त्रस्य लक्षणम् / नास्त्यस्ति वास्य नास्त्येतदव्याप्त्यादेरवारणात् // MJऐNय्_२,१.२२ //
SK
याज्ञिकानां समाख्यानं लक्षणं दोषवर्जितम् / ते ऽनुष्ठानस्मारकादौ मन्त्रशब्दं प्रयुञ्जते // MJऐNय्_२,१.२३ //
SK
आधान इदमाम्नायते -᳚अहे बुधिण्य मन्त्रं मे गोपाय᳚इति | तत्र मन्त्रस्य लक्षणं नास्ति, अव्याप्त्यतिव्याप्त्योर्वारयितुमशक्यत्वात् | ऽविहितार्थाभिधाय को मन्त्रः ऽ इत्युक्ते ऽ वसन्ताय कपिञ्जलानालभेत ऽ इत्यस्य मन्त्रस्य विधिरूपत्वादव्याप्तिः | ऽ मननहेतुर्मन्त्रः ऽ इत्युक्ते - ब्राह्मणे ऽतिव्याप्तिः | एवम् - ऽ असिपदान्तो मन्त्रः ऽ ऽ उत्तमपुरुषान्तो मन्त्रः ऽ इत्यादिलक्षणानां परस्परमव्याप्तिरिति चेत् | मैवम् | याज्ञिकसमाख्यानस्य निर्दोषलक्षणत्वात् | तच्च समाख्यानमनुष्ठानस्मारकादीनां मन्त्रत्वं गमयति | ऽ उरु प्रथस्व ऽ - इत्यादयो ऽनुष्ठानस्मारकाः | ऽअग्निमीले पुरोहितम् ऽ इत्यादयः स्तुतिरूपाः | ऽइषे त्वाऽ - इत्यादयस्त्वान्ताः | ऽअग्न आ याहि वीतये ऽ इत्यादय आमन्त्रणोपेताः | ऽ अग्नीदग्नीन्विहर ऽ - इत्यादयः प्रैषरूपाः | ऽ अधः स्विदासीदुपरि स्विदासीत् ऽ इत्यादयो विचाररूपाः | ऽ अम्बे अम्बिके अम्बालिके न मानयति कश्र्चन ऽ - इत्यादयः परिदेवनरूपाः | ऽ पृच्छामि त्वा परमन्तं पृथिव्याः ऽ इत्यादयः प्रश्नरूपाः | ऽवेदिमाहुः परमन्तं पृथिव्याः ऽ इत्यादय उत्तररूपाः | एवमन्यदप्युदाहर्तव्यर्म् | इदृशेष्वत्यन्तविजातीयेषु समाख्यानमन्तरेण नान्यः कश्चिदनुगतो धर्मो ऽस्ति, यस्य लक्षणत्वमुच्येत | लक्षणस्योपयोगश्च पूर्वाचार्यैर्दर्शितः- ᳚ऋषयो ऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः | लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः᳚ || इति | तस्मात् - अभियुक्तानाम् ऽ मन्त्रो ऽयम् ऽ इति समाख्यानं लक्षणम् || MJऐNय्C_२,१.२२ः२३ ||
SK
(अष्टमे ब्राह्मणनिर्वचनाधिकरणे सूत्रम्)
SK
शेषे ब्राह्मणशब्दः / Jऐम्_२,१.३३ /
SK
START MJऐNय् २,१.२४-२५
SK
अष्टमाधिकरणमारचयति --
SK
नास्त्येतद्ब्रह्मणेत्यत्र लक्षणं विद्यते ऽथवा / नास्तीयन्तो वेदभागा इति कॢप्तेरभावतः // MJऐNय्_२,१.२४ //
SK
मन्त्रश्च ब्राह्मणं चेति द्वौ भागौ तेन मन्त्रतः / अन्यद्ब्राह्मणमित्येतद्भवेद्ब्राह्मणलक्षणम् // MJऐNय्_२,१.२५ //
SK
चातुर्मास्येष्विदमाम्नायते - ऽ एतद्ब्राह्मणान्येव पञ्च हर्वीषि ऽ इति | तत्र - ब्राह्मणस्य लक्षणं नास्ति | कुतः | वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्वन्यभागेषु च लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्यत्वात् | पूर्वोक्तो मन्त्रभाग एकः | भागान्तराणि च कानिचित्पूर्वैरुदाहर्तु संगृहीतानि - ᳚हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः | परक्रिया पुराकल्पो व्यवधारणकल्फना | ᳚इति | ऽ तेन ह्मन्नं क्रियते ऽ इति हेतुः | ऽ तद्दधणे दधित्वम् ऽ इति निर्वचनम् | ऽ अमाध्या वै माषाः ऽ इति निन्दा | ऽवायुर्वै क्षेपिष्ठा देवताऽ इति प्रशंसा | ऽ तद्व्यचिकित्सज्जुहवानि , मा हौषम् ऽ इति संशयः | ऽ यजमानेन संमितौदुम्बरी भवति ऽ इति विधिः | ऽ भाषानेव मह्यं पचत ऽ इति परकृतिः | ऽ पुरा ब्राह्मणा अभैषुः ऽ इति पुराकल्पः | ऽ यावतो ऽश्चान्प्रतिगृह्णीयात्, तावतो वारुणांश्चतुष्कपालन्निर्वपेत् ऽ इति विशेषावधारणकल्पना | एवमन्यदप्युदाहार्यम् | न च ऽ हेत्वादीनामन्यतमं ब्राह्मणम्ऽइति लक्षणम् | मन्त्रेष्वपि हेत्वादिसद्भावात् | तथा हि - ऽ इन्दवोवामुशन्ति हि ऽ इति हेतुः | ऽ उदानिषुर्महीरीति तस्मादुदकमुच्यते ऽ इति निर्वचनम् | ऽमोघमन्नं विन्दते अप्रचेताः ऽ इति निन्दा | ऽ अग्निर्मूर्धा दिवः ककुत्पतिः ऽ इति प्रशंसा | ऽ अधः स्विदासीदुपरि स्विदासीत् ऽ इति संशयः | ऽ कपिञ्जलानालभेत ऽ इति विधिः | ऽ सहस्त्रमंयुतं ददत् ऽ इति परकृतिः | ऽ यज्ञेन यज्ञमयजन्त देवाः ऽ इति पुराकल्पः | ऽ इतिकरणबहुलं ब्राह्मणम् ऽ इति चेत् | न | ऽ इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेत् ऽ इत्यस्मिन्ब्रह्मणेन गातव्ये मन्त्रे अतिव्याप्तेः | ऽ इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणम् ऽ इति चेत् | न | ऽ राजा चिद्यं भगं भक्षीत्याह ऽ ऽ यो वा रक्षाः शुचिरस्मीत्याह ऽ इत्यनयोर्मन्त्रयोरतिव्याप्तेः | ऽ आख्यायिकारूपं ब्राह्मणम् ऽ इति चेत् | न | यमयमीसंवादसूक्तादावतिव्याप्तेः | तस्मात् - ऽ नास्ति ब्राह्मणस्य लक्षणम् ऽ इति प्राप्ते - ब्रूमः- ऽ मन्त्रब्राह्मणरूपौ द्वावेव वेदभागौ ऽ इत्यङ्गीकारान्मन्त्रलक्षणस्य पूर्वमभिहितत्वात् ऽ अवशिष्टो वेदभागो ब्राह्मणम् ऽ इत्येतल्लक्षणं भवति -- इति || MJऐNय्C_२,१.२४-२५ ||
SK
(नवम ऊहाद्यमन्त्रताधिकरणे सूत्रम्)
SK
अनाम्नातेष्व् अमन्त्रत्वमाम्नातेषु हि विभागः / Jऐम्_२,१.३४ /
SK
START MJऐNय् २,१.२६
SK
नवमाधिकरणमारचयति -
SK
ऊहप्रवरनाम्नां किं मन्त्रतास्त्यथवा न हि / मन्त्रास्तदेकवाक्यत्वान्न तल्लक्षणवर्जनात् // MJऐNय्_२,१.२६ //
SK
᳚अग्नये जुष्टं निर्वपामि᳚इत्यस्य सौर्ये चरौ ऽ सूर्याय जुष्टं निर्वपामि ऽ इत्येवं पदान्तरप्रक्षेप ऊहः | ऽ अदीक्षिष्टायं ब्राह्मणः ऽ इत्यस्य मन्त्रस्य शेषत्वेन प्रयोगकाले ब्राह्मणनामधेयविशेषं तदीयप्रवरं चैवं पठन्ति -᳚असौ देवदत्तो ऽमुष्य पुत्रो ऽमुष्य पौत्रो ऽमुष्य नप्तामुष्याः पुत्रो ऽमुष्याः पौत्रो ऽमुष्या नप्ता ऽ इति | ऽ आङ्गिरसबार्हस्पत्यभारद्वाजगोत्रः ऽ इति च | एतेषामूहप्रवरनामधेयानां मन्त्रत्वमस्ति | कुतः | मन्त्रेण सहैकवाक्यत्वादिति चेत् | मैवम् | याज्ञिकप्रसिद्धिरूपस्य मन्त्रलक्षणस्यैतेष्वभावात् | न ह्यध्येतार ऊहादीन्मन्त्रकाण्डे ऽवीयते | तस्मात् - नास्ति मन्त्रत्वम् || MJऐNय्C_२,१.२६ ||
SK
(दशम ऋग्लक्षणाधिकरणे सूत्रम्)
SK
तेषाम् ऋग्यत्रार्थवशेन पादव्यवस्था / Jऐम्_२,१.३५ /
SK
(एकादशे सामलक्षणाधिकरणे सूत्रम्)
SK
गीतिषु समाख्या / Jऐम्_२,१.३६ /
SK
(द्वादशे यजुर्लक्षणाधिकरणे सूत्रम्)
SK
शेषे यजुः शब्दाः / Jऐम्_२,१.३७ /
SK
START MJऐNय् २,१.२७
SK
दशमैकादशद्वादशाधिकरणमारचयति --
SK
नर्क्सामयजुषां लक्ष्म सांकर्यादिति शङ्किते / पादश्च गीतिः प्रश्लिष्टपाठ इत्यस्त्वसंकरः // MJऐNय्_२,१.२७ //
SK
इदमाम्नायते - ऽ अहे बुधिण्य मन्त्रं मे गोपाय यमृषयस्त्रैविदा विदुः | ऋचः सामानि, यजूंषि ऽ इति | ᳚त्रीन्वेदान्विदन्ति᳚इति त्रिविदः, त्रिविदां संबन्धिनो ऽध्येतारस्त्रैविदाः | ते च यं मन्त्रभागमृगादिरूपेण त्रिविधमाहुः, तं गोपाय, इति योजना | तत्र त्रिविधानामृक्समयजुषां व्यवस्थितं लक्षणं नास्ति | कुतः | सांकर्यस्य दुष्परिहरत्वात् | ऽअध्यापकप्रसिद्धेर्ह्यृग्वेदादिषु पठितो मन्त्र ऋगादिः ऽ इति हि लक्षणं वक्तव्यम् | तच्च संकीर्णम् | ऽदेवो वः सवितोत्पूनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः ऽ इत्ययं मम्त्रो यजुर्वेदे संप्रतिपन्नयजुषां मध्ये पठितः | न च तस्य यजुष्ट्वमास्ति | तद्ब्राह्मणे ऽ सावित्र्यर्चा ऽ इत्यृक्त्वेन व्यवहृतत्वात् | ऽ एतत्साम गायन्नास्ते ऽ इति प्रतिज्ञाय किंचित्साम यजुर्वेदे गीतम् | ऽ अक्षितमसि ऽ ऽ अच्युतमसि ऽ ऽ प्राणसंशितमसि ऽ इति त्रीणि यजूंषि सामवेदे समाम्नातानि | तथा गीयमानस्य साम्ना आश्रयभूता ऋचः सामवेदे समाम्नायन्ते | तस्मात् - नास्ति लक्षणम् - इति चेत् | न | पादादीनामसंकीर्णलक्षणत्वात् | ऽ पादेनार्थेन चोपेता वृत्तबद्धामन्त्रा ऋचः | गीतिरूपा मन्त्राः सामानि | वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषि ऽ इत्युक्ते न क्वापि संकरः || MJऐNय्C_२,१.२७ ||
SK
(त्रयोदशे निगदानां यजुष्ट्रवाधिकरणे सूत्राणि ३८ - ४५)
SK
निगदो वा चतुर्थं स्याद् धर्मविशेषात् / Jऐम्_२,१.३८ /
SK
व्यपदेशाच् च / Jऐम्_२,१.३९ /
SK
यजूंषि वा तद्रूपत्वात् / Jऐम्_२,१.४० /
SK
वचनाद् धर्मविशेषः / Jऐम्_२,१.४१ /
SK
अर्थाच् च / Jऐम्_२,१.४२ /
SK
गुणार्थो व्यपदेशः / Jऐम्_२,१.४३ /
SK
सर्वेषाम् इति चेत् / Jऐम्_२,१.४४ /
SK
न ऋग्व्यपदेशात् / Jऐम्_२,१.४५ /
SK
START MJऐNय् २,१.२८-२९
SK
त्रयोदशाधिकरणमारचयति -
SK
प्रोक्षणीरासादयेति निगदस्त्रिविधाद्बहिः / यजुर्वोच्चैस्त्वधर्मस्य भेदादस्य चतुर्थता // MJऐNय्_२,१.२८ //
SK
परप्रत्यायनार्थत्वादुच्चैस्त्वं यजुरेव सः / तल्लक्षणेन युक्तत्वात्रैविध्यमिति सुस्थितम् // MJऐNय्_२,१.२९ //
SK
ऽ प्रोक्षणीरासादय ऽ ऽ इध्मं बर्हिरुपसादय ऽ ऽ अग्नीदग्नीन्विहरऽ ऽ बर्हिः स्तृणीहि ऽ ऽइन्द्र आगच्छऽ ऽहरिव आगच्छऽ इत्यादयो निगदा आम्नाताः | परप्रत्यायनार्था मन्त्रा निगदः | एते च पूर्वोक्तेभ्य ऋग्यजुःसामभ्यो बहिर्भूताश्चतुर्थप्रकाराः | कुतः | पादगीत्कयोरृक्सामलक्षणयोरभावात् | प्रश्लिष्टपाठस्य यजुर्लक्षणस्य सत्त्वे ऽपि धर्मभेदेन यजुष्यन्तर्भावानुपपत्तेः | ऽ उपांशुयजुषा ऽ ऽ उच्चैर्निगदेन ऽ इति हि धर्मभेदः - इति प्राप्ते --- ब्रूमः- ऽ वहिर्ब्राह्मणा भोज्यन्ताम् ऽ ऽ पिरव्राजकास्त्वन्तः ऽ इत्यत्र सत्येव परिव्राजकानां ब्राह्मण्ये पूजानिमित्तो विशेषो यथा तथा निगदानां यजुर्लक्षणोपेतत्वेन यजुषामेव सतां परप्रत्यायननिमित्तमुच्चैस्त्वधर्मः | ततो मन्त्राणां त्रैविध्यं सुस्थितम् || MJऐNय्C_२,१.२८-२९ ||
SK
(चतुर्दश एकवाक्यत्वलक्षणाधिकरणे सूत्रम्)
SK
अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् / Jऐम्_२,१.४६ /
SK
START MJऐNय् २,१.३०-३१
SK
चतुर्दशाधिकरणमारचयति -
SK
देवस्य त्वेति वाक्यस्य भिन्नत्वमथवैकता / ऐक्यप्रयोजकस्यात्र दुर्बोधत्वेन भिन्नता // MJऐNय्_२,१.३० //
SK
विभागे सति साकाङ्क्षस्यैकार्थत्वं प्रयोजकम् / तस्माद्वाक्यैक्यमेतेन यजुरन्तो ऽवर्धायते // MJऐNय्_२,१.३१ //
SK
दर्शपूर्णमासयोराम्नायते - ᳚देवस्य त्वा सवितुः प्रसवे, अश्विनोर्बाहुभ्याम् , पूष्णो हस्ताभ्याम्, अग्नये जुष्टं र्निवपामि᳚इति | तत्र वाक्यानि भिन्नानि भवितुमर्हन्ति | कुतः | एकत्वनियामकस्य दुर्वोधत्वात् | अर्थैक्यं वाक्यैक्ये प्रयोजकमिति चेत् | न | एकस्मिन्पदे ऽतिव्याप्तेः | पदसमूहस्य वाक्यत्वे, समूहानामत्र बहूनां संभवाद्वाक्यभेदः स्यात् - इति चेत् | मैवम् | ऽ यद्विभागे साकाङ्क्षमविभागे चैकार्थम्, तदेकं वाक्यम् ऽ इति प्रयोजकस्य बोद्धुं शक्यत्वात् | ऽविभागे साकाङ्क्षम् ऽ इत्युक्ते ऽतिव्याप्तिः स्यात् | ᳚स्योनं ते सदनं कृणोमि घृतस्य धारया सुसेवं कल्पयामि, तस्मिन्सीदामृते प्रतितिठ व्रीहीणां मेध सुमनस्यमानः᳚इत्यत्र ऽतस्मिन्ऽ - इत्यादिपदसमूहस्य विभागे सति प्रकृतवाचितच्छब्दार्थनिर्णयाय पूर्वपदसमूहसाकाङ्कत्वमस्ति, अतस्तद्व्यवच्छेत्तुम् ऽएकार्थम् ऽ इत्युच्यते | नहि तत्रैकार्थत्वमस्ति | पूर्वसमूहस्य सदनकरणमर्थः, उत्तरसमूहस्य पुरोडाशप्रतिष्ठापनम् | स्योनं समीचीनम् | सुसेवं सुष्ठु सेवितुं योग्यम् | मेध सारभूतपुरोडाशेत्यर्थः | अत्र द्वयोः समृहयोर्वाक्यद्वयमुभयवादिसिद्धम् | तत् ऽ एकार्थम् ऽ इत्यनेन व्यावर्त्यते | ऽ एकार्थम् ऽ इत्युक्ते ऽतिव्याप्तिः स्यात् | ᳚भगो वां विभजतु, पूषा वां विभजतु᳚इत्यनयोर्विभजनमन्त्रत्वेन संमतयोः पदसमूबयोस्तात्पर्यविषयस्य द्रव्यविभागरूपस्यार्थस्यैकत्वात् , तद्रव्यवच्छेत्तुं ऽ विभागे साकाङ्क्षम् ऽ इत्युक्तम् | प्रकृते तु ऽ अग्नये जुष्टम् ऽ इत्यादिसमूहे पृथक्कृते पूर्वो ऽ देवस्य त्वा ऽइति समूहः साकाङ्क्षो भवति | एकीकृते तु कृत्स्नस्यैक एव निर्वापोर्ऽथः | एतेनैकवाक्यत्वनिर्णयेनानियतपरिमाणस्य यजुषो ऽवसानं निश्चेतुं शक्यम् || MJऐNय्C_२,१.३०-३१ ||
SK
(पञ्चदशे वाक्यभेदाधिकरणे सूत्रम्)
SK
समेषु वाक्यभेदः स्यात् / Jऐम्_२,१.४७ /
SK
START MJऐNय् २,१.३२-३३
SK
पञ्चदशाधिकरणमारचयति -
SK
इषे त्वादिर्मन्त्र एको भिन्नो वैकः क्रियापदे / असत्यर्थास्मारकत्वादेकादृष्टस्य कल्पनात् // MJऐNय्_२,१.३२ //
SK
छेदने मार्जने चैतौ विनियुक्तौ क्रियापदे / अध्याहृते स्मारकत्वान्मन्त्रभेदोर्ऽथभेदतः // MJऐNय्_२,१.३३ //
SK
᳚इषे त्वोर्जे त्वा᳚इति श्रूयते | सो ऽयं पदसमुदाय एको मन्त्रः | कुतः | अस्य मन्त्रस्यादृष्टत्वे त्वेकस्यैवादृष्टस्य कल्पने लाघवात् | न च᳚उरु प्रथस्व᳚इत्यादिमन्त्रवदनुष्ठेयार्थस्मारकत्वं संभवति | क्रियापदाभावेन तदर्थप्रतीत्यभावात् -- इति प्राप्ते, ब्रूमः- ऽ इषे त्वेति च्छिनत्ति, ऊर्जे त्वेत्यनुमार्ष्टि ऽ इति पलाशशाखायाश्छेदनमार्जनयोरेतौ विनियुक्तौ | ततस्तदमनुसारेण᳚छिनद्मि᳚इति क्रियापदे ऽध्याहृते सत्यनुष्ठेयार्थस्मारकत्वादर्थभेदेन वाक्यभेदाद्यजुर्मन्त्रभेदः | इष्यमाणायान्नाय भोः पलाशशाखे त्वा छिनद्मि ऽ ऽ ऊर्जे रसाय बलाय वा त्वामनुमार्ज्मि ऽ इत्यर्थभेदः | एवम्᳚आयुर्यज्ञेन कल्पताम्᳚ ᳚प्राणो यज्ञेन कल्पताम्᳚इत्यादौ कॢप्तिसामान्यरूपस्यार्थस्यैकत्वे ऽप्यायुरादिभिर्भिन्नत्वादर्थभेदवाक्य भेदयोः स्पष्टत्वात् , ऽ कॢप्तीर्वाचयति ऽ इति कॢप्तिबहुत्वस्य चोदितत्वाच्च यजुर्भेदो द्रष्टव्यः || MJऐNय्C_२,१.३२-३३ ||
SK
(षोडशे (सप्तदशे च) अनुषङ्गाधिकरणे सूत्रम्)
SK
अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् / Jऐम्_२,१.४८ /
SK
START MJऐNय् २,१.३४-३५
SK
षोडशाधिकरणमारचयति -
SK
या ते अग्ने रजेत्यध्याहारो यद्वानुषञ्जनम् / तनूरित्यन्यशेषत्वादध्याहारो ऽत्र लौकिकः // MJऐNय्_२,१.३४ //
SK
वेदाकाङ्क्षा पूरणीया वेदेनेत्यनुषञ्जनम् / अन्यशेषो ऽपिर् बुद्धस्थो लौकिकस्तु न तादृशः // MJऐNय्_२,१.३५ //
SK
ज्योतिष्टोमे उपसद्धोमेष्वेवमाम्नायते -- ᳚या ते अग्ने ऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठा | उग्रं वचो अपावधीत्वेषं वचो अपावधीत्स्वाहा | या ते अग्ने रजाशया, या ते अग्ने हराशया᳚इति | अयमर्थः- ऽ अयसा रजतेन हिरण्ये न च निर्मिता अग्नेस्तिस्त्रस्तनवः, तास्वाद्या येयमुक्ता तनुः सातिशयेन वृद्धं, गह्वरे तीक्ष्णे द्रव्ये लोहे ऽवस्थिता तया तन्वा क्षुत्पिपासे उपपातकम्, वीरहत्यादि महापतकं च हतवानस्मि ऽ इति | तथा च ब्राह्मणम्,᳚यदुग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेति | अशनायापिपासे हवा उग्रं वचः | एनश्च वैरहत्यं च त्वेषं वचः᳚इति | तत्र स्वाहान्तः प्रथमो मन्त्रः संपूर्णवाक्यत्वान्निशेषो ऽध्याहर्तव्यः | न हि ऽ तनूर्वर्षिष्ठा ऽ इत्यादिभागस्तयोरन्वेतुं योग्यः | तस्य प्रथममन्त्रशेषत्वात्, इति प्राप्ते, ब्रूमः- वैदिकयोर्मन्त्रयोराकाङ्क्षा वैदिकेनैव वाक्यशेषेण पूरणीया | ततः ऽ तनूर्वर्षिष्ठा ऽ इत्यादिभाग उत्तरयोर्मन्त्रयोरनुषज्यते | यद्यप्यसावन्यशेषः, तथापिर् बुद्धस्थः सन्कल्पनीयादध्याहारात्संनिकृष्यते | तस्मात् - अनुषङ्गः कर्तव्यः || MJऐNय्C_२,१.३४-३५ ||
SK
START MJऐNय् २,१.३६-३७
SK
सप्तदशाधिकरणमारचयति --
SK
नानुषङ्गो ऽनुषङ्गो वाच्छिद्रोणोत्यस्य शेषिणौ / चित्पतिस्त्वेत्यनाकाङ्क्षावतो नात्रानुषज्यते // MJऐNय्_२,१.३६ //
SK
करणत्वं क्रियापेक्षं क्रिया चैका पुनात्विति / मन्त्रत्रये ऽतस्तद्द्वारा सर्वशेषो ऽनुषज्यते // MJऐNय्_२,१.३७ //
SK
ज्योतिष्टोमे दीक्षाप्रकरणे पठ्यते -᳚चित्पतिस्त्वा पुनातु᳚ ᳚वाक्पतिस्त्वा पुनातु᳚ ᳚देवस्त्वा सविता पुनात्वाच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः᳚इति | तत्र तृतीयमन्त्रशेषः ऽ अच्छिद्रेण ऽ - इत्यादिभागः प्रथमद्वितीययोर्मन्त्रयोर्नानुषज्यते | कुतः | निराकाङ्क्षत्वात् | न हि᳚चित्पतिस्त्वा पुनातु᳚᳚वाक्पतिस्त्वा पुनातु᳚इत्यनयोः शेषिणोः संपूर्णवाक्ययोः काचिच्छेषाकाङ्क्षास्ति - इति प्राप्ते - ब्रूमः- ऽ मा भूच्छेषिणोराकाङ्क्षा, तथापि शेषस्याऽकाङ्क्षास्ति ऽ इति | ऽ पवित्रेण रश्मिभिः ऽ इत्युक्तं करणत्वं हि क्रियामपेक्षते | क्रिया च ऽ पुनातु ऽ इत्येषा त्रिष्वपि मन्त्रेष्वेका | तया क्रियया संबद्धः शेषः क्रियाद्वारा तृतीयमन्त्रे निरपेक्षे ऽपि यथान्वेति, तथा पूर्वयोरप्यन्वेतुमर्हति | तस्मात् - अस्त्यनुषङ्गः || MJऐNय्C_२,१.३६-३७ ||
SK
(अष्टादशे (सप्तदशे) व्यवेताननुषङ्गाधिकरणे सूत्रम्)
SK
व्यवायान् नानुषज्येत / Jऐम्_२,१.४९ /
SK
START MJऐNय् २,१.३८-३९
SK
अष्टादशा(सप्तदशा) धिकरणमारचयति -
SK
गच्छतामितिशब्दस्यामुषङ्गो ऽस्ति न वोपरि / सं यज्ञपतिरित्यत्र योग्यत्वात्सो ऽस्ति पूर्वबत् // MJऐNय्_२,१.३८ //
SK
तदेकवचनं मध्यमन्त्रे ऽङ्गानीत्यनेन हि / नान्वेति तद्व्यवायेन नोपर्यप्यनुषज्यते // MJऐNय्_२,१.३९ //
SK
अग्नीषोमीयपशौ श्रूयते --᳚सं ते अप्राणो वातेन गच्छताम्, समङ्गानि यजत्रैः, सं यज्ञपतिराशिषा᳚इति | अयमर्थः- ऽ भोः पशो तव प्राणो ऽ वातेन बाह्येन वायुना संगच्छताम्, तव हृदयाद्यङ्गानि यागविशेषैः संयुज्यन्ताम्, यज्ञपतिराशिषा संयुज्यताम् ऽ इति | तत्र᳚यज्ञपतिः᳚इत्यस्मिंस्तृतीये मन्त्रे ऽसम्ऽ इत्युपसर्गस्य क्रियापदाकाङ्क्षत्वात्प्रथममन्त्रगतस्य ऽ गच्छताम् ऽ इति पदस्यैकवचनान्तस्य यज्ञपतिशब्देनान्वेतुं योग्यत्वात्पूर्ववद्बुद्धिस्थत्वेन संनिहितत्वादाकाङ्क्षासंनिधियोग्यतानां सद्भावेन क्रियापदमनुषज्यते -- इति प्राप्ते , - ब्रूमः- मध्यममन्त्रे बहुवचनान्तेन ऽ अङ्गानि ऽ इत्यनेनान्वेतुमयोग्यत्वात्तद्व्यवायेन बुद्धिसंनिध्यभावान्नास्त्यनुषङ्गः | ततो द्वितीयतृतीयमन्त्रयोर्यथोचितं वाक्यशेषो ऽध्याहर्तव्यः || MJऐNय्C_२,१.३८-३९ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य प्रथमः पादः
SK
(अथ द्वितीयाध्यायस्य द्वितीयः पादः)
SK
(प्रथमे ऽङ्गापूर्वभेदाधिकरणे सूत्रम्)
SK
शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् / Jऐम्_२,२.१ /
SK
START MJऐNय् २,२.१-२
SK
द्वितीयपादस्य प्रथमाधिकरणमाचरयति --
SK
ददाति यजतीत्यादौ भावनैक्यमुतान्यता / आख्यातैक्यात्तदेकत्वं धातुभेदो ऽप्रयोजकः // MJऐNय्_२,२.१ //
SK
धातुभेदेन भिन्नत्वमाख्याते श्रूयते ततः / उत्पत्त्येकानुरक्तत्वाद्भिद्यन्ते भावना मिथः // MJऐNय्_२,२.२ //
SK
इहैकप्रकरणगतान्यपर्यायधातुनिष्पन्नान्याख्यातानि यजति, ददाति, जुहोति, इत्यादीन्युदाहरणम् | तानि चैवं श्रूयते --᳚सोमेन यजेत᳚᳚हिरण्यमात्रेयाय ददाति᳚ ᳚दाक्षिणानि जुहोति᳚इति | तेषु भावनावाचिन आख्यातस्यैकत्वाद्भावनाया एकत्वं युक्तम् | न च धातुभेदाद्भावनाभेदः | तद्वाचित्वाभावेन धातोस्तस्यामप्रयोजकत्वात् - इति प्राप्ते , ब्रूमः- अस्त्वाख्यातमेव भावनायाः प्रयोजकम् | तच्चाख्यार्त प्रतिधातु भिन्नम् | न हि बहूनां धातूनामुपर्येक आख्यातप्रत्ययः श्रूयते | नापि व्याकरणे धातुसमूहादेकमाख्यातं विहितम् | तत आख्यातानां बहूनामेकैकधातुविशेषामुरक्तत्वेनैवोत्पन्नानां भावनावाचित्वेन यागदानहोमभावनाः परस्परं भिद्यन्ते || १-२ ||
SK
START MJऐNय् २,२.३
SK
अत्र गुरुमतमाह -
SK
नियोगैकत्वतः शास्त्रमभिन्नमिति चेन्न तत् / धातुभेदाच्छास्त्रभेदे नियोगो भिद्यते बलात् // MJऐNय्_२,२.३ //
SK
ऽ कर्मभेदचिन्ता नाध्यायार्थः, किंतु शास्त्रभेदचिन्ता ऽ इति गुरोर्मतम् | तत्र ऽ यजेत, दद्यात्, जुहुयात् ऽ इत्येतेषु लिङ्प्रत्ययबाच्यस्य नियोगस्यैकत्वाधातूनां नियोगवाचकत्वाभावेनाप्रयोजकत्वादेकनियोगार्थे कृत्स्नं शास्त्रमेकम् - इति पूर्वपक्षः | प्रतिधातु लिङ्प्रत्ययस्य भिन्नत्वाद्धात्वर्थानुबन्धभेदेन तद्विशिष्टे नियोगे ऽपि भेदस्य वारयितुमशक्यतया नियोगानुसारि शास्त्रं भिन्नम् - इति सिद्धान्तः || MJऐNय्C_२,२.३ ||
SK
(द्वितीये समिदाद्यपूर्वभेदाधिकरणे सूत्रम्)
SK
एकस्यैवं पुनः श्रुतिर् अविशेषाद् अनर्थकं हि स्यात् / Jऐम्_२,२.२ /
SK
START MJऐNय् २,२.४-५
SK
द्वितीयाधिकरणमारचयति -
SK
समिधो यजतीत्यादावेकत्वमुत भिन्नता / धातुप्रत्यययोरैक्यादेकत्वं भिन्नता कुतः // MJऐNय्_२,२.४ //
SK
अभ्यासात्कर्मभेदो ऽत्र नामत्वान्न विधिर्गुणे / विधित्वं श्रुतितो भाति संनिधेरनुवादता // MJऐNय्_२,२.५ //
SK
दर्शपूर्णमासयोः श्रूयते -᳚समिधो यजति᳚ ऽतनूनपातं यजति ऽ ऽ इडो यजति ऽ᳚बर्हिर्यजति᳚᳚स्वाहाकारं यजति᳚इति | तत्र पञ्चकृत्वः श्रूयमाणे यजतिपदे पूर्वोक्तेषु ऽ यजति ददाति ऽ इत्यादिपदेष्विव धातुभेदो नास्ति, येन भावनाभेद आशङ्क्येत | तस्मादाख्यातैक्यप्रयुक्तं भावनैक्यमनिवार्यमिति चेत् | मैवम् | यजतिपदाभ्यासेन कर्मभेदावगमात् | कर्मैकत्वे ऽभ्यासो निरर्थकः स्यात् | अथोच्येत -- ऽ समिघो यजति ऽ इत्यनेन प्रथमश्रुतेन वाक्येन विहितं समिन्नामकं यागमुपरितनैश्र्चतुर्भिर्यजतिपदैरनूद्य तनूनपादादयो देवतारूपा द्रव्यरूपा वा गुणाश्चत्वारो विकल्पिता विधीयन्ते, ततो ऽनुवादार्थत्वान्नाभ्यासवैयर्थ्यम् --- इति | तन्न | तनूनपादादिशब्दानां यागनामत्वेन गुणविधित्वाभावात् | न तावदत्र देवताविधिः | चतुर्थीतद्धितयोरश्रवणात् | नापि द्रव्यविधिः, तृतीयान्तत्वाभावात् | ततः ऽ अग्निहोत्रं जुहोति ऽ इत्यादाविन द्वितीयान्तानां युक्तं नामत्वम् | यत्तु - चतुर्णामुपरितानां यजतिपदानामनुवादत्वम् | तदसत् | तेषां विधायकत्वात् | यथा ऽ समिधो यजति ऽ इत्यत्र यजतिपदे विधित्वं श्रुत्या प्रतीयते, तथान्येष्वपि चतुर्षु पदेषु विधित्वं श्रौतम् | अनुवादत्वं तु पुरोवादरूपस्य ऽ समिधो यजतिऽ इत्यस्य संनिधिनावगम्यते | संनिधिश्च श्रुतेर्दुर्बलः | विधित्वे च पूर्ववाक्यविहितस्य समिन्नामकस्य यागस्य पुनर्विधानायोगात्तनूनपादादिनामकानि यागान्तराणि विधीयन्ते | नन्वेवं सति संज्ञाभेदात्कर्मभेदः संपद्यते, नत्वभ्यासात् | तथासति वक्ष्यमाणेनाधिकरणेन संकीर्यते | मैवम् | वैषम्यात् | ऽ अथैष ज्योतिः ऽ इत्यस्मिन्वक्ष्यमाणोदाहरणे यागावगप्तात्प्रागेन संज्ञात्वावगमात्संज्ञायाः कर्मभेदहेतुत्वम् | इह तु विधायकैर्यजतिपदैर्यागेष्ववगतेषु, भेदे चाभ्यासादवगते, भिन्नानां यागानां समित्संज्ञाया अन्याः संज्ञा अपेक्षितः | इति तनूनपादादीनां संज्ञात्वं पश्चादवगम्यते | तस्मात् - अभ्यास एवात्र भेदहेतुः || MJऐNय्C_२,२.४-५ ||
SK
(तृतीय आघाराद्यग्नेयादीनामङ्गाङ्गिभावाधिकरणे सूत्राणि ३-८)
SK
प्रकरणं तु पौर्णमास्यां रूपावचनात् / Jऐम्_२,२.३ /
SK
विशेषदर्शनाच् च सर्वेषां समेषु ह्य् अप्रवृत्तिः स्यात् / Jऐम्_२,२.४ /
SK
गुणस् तु श्रुतिसंयोगात् / Jऐम्_२,२.५ /
SK
चोदना वा गुणानां युगपच्छास्त्राच् चोदिते हि तदर्थत्वात् तस्य तस्योपदिश्येत / Jऐम्_२,२.६ /
SK
व्यपदेशश् च तद्वत् / Jऐम्_२,२.७ /
SK
लिङ्गदर्शनाच् च / Jऐम्_२,२.८ /
SK
START MJऐNय् २,२.६-१०
SK
तृतीयाधिकरणमारचयति --
SK
एवं विद्वान्पौर्णमासीममावास्यामितीरितम् / कर्मान्यदुत पूर्वोक्तसमुदायानुवादकम् // MJऐNय्_२,२.६ //
SK
कर्मान्तरं स्यादभ्यासाद्ध्रौवं द्रव्यं हि देवता / वार्त्रघणीत्यादितो लभ्यानुवादस्तु न युज्यते // MJऐNय्_२,२.७ //
SK
वार्त्रघणीत्याज्यभागाङ्गव्यवस्थोक्तेर्न देवता / पौर्णेत्यनूद्यते पौर्णमासीयुक्तं त्रिकं तथा // MJऐNय्_२,२.८ //
SK
अमेत्यपि समूहस्य द्वित्वसिद्धिः प्रयोजनम् / सहस्थितिः पौर्णमास्यामित्युक्तिभ्यां त्रिके त्रिके // MJऐNय्_२,२.९ //
SK
विद्वद्वाक्यविधौ विध्यावृत्तिराग्नेयकादिना / विहितस्य फलित्वेन प्राधान्यमितरे गुणाः // MJऐNय्_२,२.१० //
SK
इदमाम्नायते ---- ऽ य एवं विद्वान्पौर्णमासीं यजते ऽ ऽ य एवं विद्वानमावास्यां यजते ऽ इति | अत्र यजतिना कर्मान्तरं विधीयते, न तु प्रकृता आग्नेयादयः षड्यागा अनूद्यन्ते | आग्नेयादयश्च कालसंयुक्तास्तस्मिन्प्रकरण एवमाम्नायन्ते - ऽ यदाग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां चाच्युतो भवति ऽ इति, ऽ तावब्रूतामग्नीषोमावाज्यस्यैव अनावुपांशु पौर्णमास्यां यजन् ऽ इति , ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत् ऽ इति, ऽ ऐन्द्रं दध्यमावास्यायाम्᳚इति, ऽ ऐन्द्रं पयो ऽमावास्यायाम् ऽ इति | एतेभ्यः प्रकृतेभ्यः षड्भ्य आग्नेयादिभ्यो विद्वद्वाक्यविहितस्य, कर्मणो ऽन्यत्वे सति पूर्वाधिकरणन्यायेन विध्यभ्यास उपपद्यते | न च कर्मान्तरे द्रव्यदेवतयोरभावः, ध्रौवाज्यसद्भावात् | अत एवोक्तम् ---- ᳚ध्रौवं साधारणं द्रव्यं देवता मान्त्रवर्णिकी | रूपवन्तौ ततो यागौ विधीयेते पृथक्तया᳚इति | ᳚सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यम्᳚इति ध्रौवस्य साधारणत्वं श्रुतम् | देवताया मान्त्रवर्णिकत्वमित्थमुन्नेतव्यम् --᳚तस्माद्वार्त्रघणी पौर्णमास्यामनूच्येते, वृधन्वती अमावास्यायाम्᳚एति वार्त्रघ्न्यौ वृधन्वत्यौ चर्चौ क्रमेण कालद्वयोपेते कर्मणि विधीयेते | तत्र --᳚अग्निर्वृत्राणि जङ्घनत्᳚इत्येको वार्त्रघ्रो मन्त्रः | ऽ त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा ऽ इत्यपरः | तयोरुक्तावग्नीषोमौ पौर्णमासदेवते | एवमन्तराम्नातयोर्वृधिधातुयुक्तयोर्मन्त्रयोरुक्तावग्नीषोमावमावस्यादेवते | आभ्यां द्रव्यदेवताभ्यां रूपवत्त्वाद्यागान्तरमत्र विधीयते | षड्यागानुवादत्वे तदनुवादेव विधेयान्तरस्य कस्यचिददर्शनाद्विद्वद्वाक्यमनर्थकं स्यात् | न केवलं तदानर्थक्यम्, किंतु᳚पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाममावास्यया यजेत ऽ इत्येतदपि व्यर्थ स्यात् | न चैतत्कालविधायकम्,᳚यदाग्नेयः᳚-- इत्याद्युत्पत्तिवाक्यैरेव तद्विधानात् | कर्मान्तरत्वे तु कालं विधास्यति | तस्मात्कर्मान्तरविधिः- इति प्राप्ते , ब्रूमः- आस्तां तावद्द्रव्यम् | देवता तु विधित्सितस्य कर्मान्तरस्य सर्वथा न लभ्यते | वार्त्रघ्न्योर्वृधन्वत्योश्चाऽज्यभागदेवताप्रतिपादकत्वात् | हौत्रे मन्त्रकाण्डे सानिधेनीरावाहननिगदं प्रयाजमन्त्रांश्चाऽम्नाय प्रयाजानन्तरभाविनोराज्यभागयोः क्रमे वार्त्रघ्न्यौ वृधन्वत्यौ चाऽम्नाते लिङ्गं चाग्निविषयं सोमविषयं च तत्रोपलभ्यते | ततो लिङ्गक्रमाभ्यामाज्यभागविषयत्वमवगम्यते | यत्तु -᳚वार्त्रघ्नी पौर्णमास्याम्᳚- इत्यादि वाक्यम्, तल्लिङ्गक्रमकॢप्तयोराज्यभागाघ्गयोर्मन्त्रयुगलयोः कालद्वये व्यवस्थामाचष्टे | न तु नूतनकर्माङ्गतामनयोर्विदधाति | अतो रूपराहित्याद्विद्वद्वाक्यं कर्मान्तरविधायकं न भवति , किं तर्हि - पूर्वप्रकृतेष्वाग्नेयादिषु षट्सु त्रिकरूपौ द्वौ समुदायावनुवदति | न च कालवाचिभ्यां पौर्णमास्यमावास्याशब्दाभ्यां यागानुवादानुपपत्तिः | तत्कालविहितयोर्यागत्रिकयोरुपलक्षितत्वात् | न चानुवादो व्यर्थः | समुदायद्वित्वसिद्धेस्तत्प्रयोजनत्वात् | तत्सिद्धौ च᳚दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत᳚इत्यस्मिन्फलवाक्ये षड्यागविवक्षया द्विवचननिर्देश उपपद्यते | यदप्युक्तम् - अनुवादपक्षे᳚पौर्णमास्याम्᳚इत्यादिवाक्यवैर्थ्यम् - इति | तदयुक्तम् | कालविधाना संभवे ऽप्येकस्य त्रिकस्य सहप्रयोगविधानात् | आग्नेयोपांशुयाजाग्नीषोमीयाणां त्रयाणां पौर्णमासीकालविहितानां सहप्रयोगः ऽ पोर्णमास्या ऽ इत्यनेन तृतीयैकवचनान्तेन विधीयते | एवमितरत्रापि | ननु - विद्वद्वाक्यस्य कर्मान्तरविधायकत्वाभावे ऽपि नानुवादकत्वम् | तस्य यागाविधायकत्वाभ्युपगमात् | ᳚आग्नेयो ऽष्टाकपालः᳚इत्यादिवाक्यानि तु विहितयागानुवादेन द्रव्यदेवतालक्षणगुणविधायकानि - इति चेत् | न | तथासत्येकेन वाक्येनानेकगुणविध्यसंभवात् | प्रतिगुणं पृथग्विधौ विध्यावृत्तिः प्रसज्येत | आग्नेयादिवाक्यानां विधायकत्वे तु विशिष्टविधित्वान्नास्ति विध्यावृत्तिदोषः | तस्मादाग्नेयादिवाक्यविहितानां विद्वद्वाक्यमनुवादकम् | किंचानुवादत्वमभ्युपगम्य कर्मान्तरविधिं वदतः प्रयोजादीनामाग्नेयादीनां च गुणप्रधानभावो न सिध्येत् | तथा हि -- ऽ समिधो यजति ऽ ऽ आघारमाघारयति ऽ इत्यादयः कालयोगरहिताः केचिद्विधय आम्नाताः | ऽ यदाग्नेयो ऽष्टाकपालो ऽमावास्यायां च पौर्णमास्यां च ऽ इत्यादयः कालयुक्ता अपरे | तेषामुभयेषां प्रकृतत्वात्᳚दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत᳚इति वाक्ये सर्वेषां फलसंबन्धो बोधनीयः | ऽदर्शपूर्णमासाभ्याम्, इति द्विवचनं बहुवचनत्वेन परिणेतव्यम् | विद्वद्वाक्यविहिते द्वे कर्मान्तरे प्रयाजादय आग्नेयादयश्चेति | एतेषु द्वित्वासंभवात् | सर्वेषां च फलसंबन्धे राजसूयगतेष्टिपशुसोमवत्समप्राधान्यात्प्रयाजादीनां गुणभावो न स्यात् | तदभावे चानङ्गत्वात्सौर्यादिविकृतिष्वाग्नेयादीनामिवातिदेशो न स्यात् | अनुवादपक्षे तु त्रिकयोः कालयोगेन दर्शपूर्णमासशब्दार्हत्वात् | समुदायद्वित्वेन द्विवचनार्हत्वाच्चाऽग्नेयादीनामेव फलसंबन्धेन प्राधान्यम् | प्रयाजादीनां तु गुणभाव इति न को ऽपि दोषः | तस्मात् -- विद्वद्वाक्यमनुवादकम् || MJऐNय्C_२,२.६-१० ||
SK
(चतुर्थ उपांशुयाजापूर्वताधिकरणे सूत्राणि ९ - १२)
SK
पौर्णमासीवद् उपांशुयाजः स्यात् / Jऐम्_२,२.९ /
SK
चोदना वाप्रकृतत्वात् / Jऐम्_२,२.१० /
SK
गुणोपबन्धात् / Jऐम्_२,२.११ /
SK
प्राये वचनाच् च / Jऐम्_२,२.१२ /
SK
START MJऐNय् २,२.११-१२
SK
चतुर्थाधिकरणमारचयति --
SK
उपांशुयाजमित्येषो ऽनुवादो ऽत्राथवा विधिः / विष्ण्वादिवाक्ये विस्पष्टविधेरस्यानुवादता // MJऐNय्_२,२.११ //
SK
जामित्वोक्तेरन्तराल उपांशुगुणके विधौ / सत्यर्थवादो विष्ण्वादिस्तद्रूपं ध्रौवमन्त्रतः // MJऐNय्_२,२.१२ //
SK
इदमाम्नायते -- ऽ जामि वा एतद्यज्ञस्य क्रियते | यदन्वञ्चौ पुरोडाशावपांशुयाजमन्तरा यजति | विष्णुरुपांशु यष्टव्यो ऽजामित्वाय | प्रजापतिरुपांशु यष्टव्यो ऽजीमत्वाय | अग्नीषोमावुपांशु यष्टव्यावजामित्वाय᳚इति | तत्र विष्ण्वादिवाक्येषु विहितस्य यागत्रयसमुदायस्यानुवादः- इति चेत् | मैवम् | आग्नेयाग्नीषोमीयपुरोडाशद्वयनैरवन्तर्यकृतस्य जामित्वदोषस्य वाक्योपक्रम उपन्यासात्परोडाशयोरन्तराले किंचिद्विधित्सितम् | न ह्यन्तरालगुणविशिष्टं विधेयं विष्ण्वादिवाक्येषु प्रतीयते | पूर्ववाक्ये तु तत्प्रतीयत इति विधायकं तद्वाक्यम् | न चात्र ऽयजतिऽ इति वर्तमानापदेशः शङ्कनीयः | पञ्चमलकारस्याऽश्रयणात् | अन्तरालकालवदुपांशुत्वगुणस्यापि विशेषणत्वात्तद्विशिष्टकर्मण उपांशुयाजनाप्रकत्वम् | सत्येवं गुणद्वयविशिष्टकर्मण्याद्येन वाक्येन विहिते विष्ण्वादिवाक्यमर्थवादः स्यात् | न चात्र विहितयागानुवादेन देवताविधिः शङ्कनीयः | समाधातव्येन जामित्वदोषेणोपक्रमात्, आजामित्वेन समाधानेनोपसंहाराच्च ऽ जामि वै ऽ इत्यादेः ऽ अजामित्वाय ऽ इत्यन्तस्य सर्वस्य महावाक्यस्यैकत्वप्रतीतेः | न खल्वेकस्मिन्वाक्ये विधेयबाहुल्यं संभवति | न चात्र विधित्सितस्योपांशुयाजस्य द्रव्याभावः | ध्रौवस्य तद्रद्रव्यत्वात् | नापि देवताया अभावः | नानाशाखासूपांशुयाजक्रमे पठितैर्वैष्णवप्राजापत्याग्नीषोमीयमन्त्रैर्विकल्पेन देवतात्रयस्य प्रतीयमानत्वात् | तस्मात् - यजतीत्येतद्विधायकम् || MJऐNय्C_२,२.११-१२ ||
SK
(पञ्चम आघाराद्यपूर्वताधिकरणे सूत्राणि १३-१६)
SK
आघाराग्निहोत्रम् अरूपत्वात् / Jऐम्_२,२.१३ /
SK
संज्ञोपबन्धात् / Jऐम्_२,२.१४ /
SK
अप्रकृतत्वाच् च / Jऐम्_२,२.१५ /
SK
चोदना वा शब्दार्थस्य प्रयोगभूतत्वात् तत्सन्निधेर् गुणार्थेन पुनः श्रुतिः / Jऐम्_२,२.१६ /
SK
START MJऐNय् २,२.१३-१४
SK
पञ्चमाधिकरणमारचयति --
SK
अग्निहोत्राघारवाक्यमनुवादो ऽथवा विधिः / अरूपत्वात्तु दध्यूर्ध्ववाक्येनोक्तमनूद्यते // MJऐNय्_२,२.१३ //
SK
गुण्यसिद्धौ न दध्यादिर्गुणो दुष्टा विशिष्टता / रूपं दध्यादिमन्त्राभ्यामतो ऽसौ गुणिनो विधिः // MJऐNय्_२,२.१४ //
SK
इदमाम्नायते - ऽ अग्निहोत्रं जुहोति ऽ ऽदधण जुहोति ऽ ऽपयसा जुहोतिऽ इति च | इदमपरमाम्नायत् - ऽआधारमाघारयतिऽ ऽऊर्ध्वमाघारयतिऽ ऽ ऋजुमाघारयतिऽ इति च | तत्राग्निहोत्रवाक्यं दध्यादिवाक्यविहितस्य कर्मसमुदायस्यानुवादः | आघारवाक्यं चोर्ध्वादिवाक्यविहितस्य | न त्वेद्वाक्यद्वयं कर्मविधायकम् | कुतः | द्रव्यदेवतालक्षणस्य यागरूपस्याभावात् - इति चेत् | तत्र वक्तव्यम् - किं दध्यादिवाक्येन गुणामात्रं विधीयते, किंवा गुणविशिष्टकर्म | नाऽद्यः | अग्निहोत्रादिवाक्यस्य त्वन्मते कर्मविधायकत्वाभावेन गुणिनः कस्यचिदसिद्धौ गुण्यनुवादपुरःसरस्य गुणमात्रविधानस्यासंभवात् | द्वितीये विधिगौरवं स्यात् | तच्च सत्यां गतावयुक्तम् | अतो ऽग्निहोत्रादिवाक्यं कर्मविधायकम् | तत्र द्रव्यं दध्यादिवाक्यैर्लभ्यते | देवता तु मान्त्रवर्णिकी | आघारे ऽप्येवं द्रव्यदेवते उन्नेतव्ये || MJऐNय्C_२,२.१३-१४ ||
SK
(षष्ठे पशुसोमापूर्वताधिकरणे सूत्राणि १७-२०)
SK
द्रव्यचोदना पशुसोमयोः प्रकरणे ह्य् अनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन / Jऐम्_२,२.१७ /
SK
अचोदकाश् च संस्काराः / Jऐम्_२,२.१८ /
SK
तद्भेदात् कर्मणो ऽभ्यासो द्रव्यपृथक्त्वाद् अनर्थकं हि स्याद् भेदो द्रव्यगुणीभावात् / Jऐम्_२,२.१९ /
SK
संस्कारस् तु न भिद्येत परार्थत्वाद् द्रव्यस्य गुणभूतत्वात् / Jऐम्_२,२.२० /
SK
START MJऐNय् २,२.१५-१६
SK
षष्ठाधिकरणमारचयति --
SK
यजत्यालभतीत्येतावनुवादौ विधी उत / गृह्णात्यवद्यतीत्याभ्यां विहितेर्ऽथे ऽनुवादिनौ // MJऐNय्_२,२.१५ //
SK
नानुवादो ऽपुरोवादे यज्यालभ्योरतो विधिः / ब्रह्मणे सोमसंस्कारो ऽवदाने पशुसंस्क्रिया // MJऐNय्_२,२.१६ //
SK
ऽ सोमेन यजेत ऽ इति श्रूयते | तत्र ऽ ऐन्द्रवायवं गृह्रणाति, मैत्रावरूणं गृह्रणाति ऽ इत्यादीन्यपि श्रुतानि | एवम् ऽ अग्निषोमीयं पशुमालभेत ऽ इति श्रूयते | तत्र ऽ हृदयस्याग्रे ऽवद्यति | अथ जिह्वायाः | अथ वक्षसः ऽ इत्यादीन्यपि श्रुतानि | तत्रैन्द्रवाय्वादिवाक्यैर्यागा विधीयन्ते | इन्द्रवाय्वादिप्रातिपदिकैर्देवतानार्ं, तद्धतेन सोमरसद्रव्यस्य च प्रतीयमानत्वात् | एतेषां ग्रहणवाक्यविहितानां यागानां समुदायः ऽ सोमेन यजेत ऽ इत्यनेनानूद्यते | तथावदानवाक्येषु हृदयादिद्रव्यं श्रुतम् | ततो द्रव्यविशिष्टा यागास्तत्र विधीयन्ते | तदनुवादेन पश्वालम्भवाक्ये ऽग्नीषोमरूपा देवता विधीयते | तस्मात् - अवदानवाक्यविहितानां यागानां समुदायः᳚पशुमालभेत᳚इत्यनेनानूद्यते - इति प्राप्ते -- ब्रूमः- सति हि पुरोवादे ऽनुवादो भवति | न चात्र पुरोवादो ऽस्ति | ऽसोमेन यजेत ऽ इत्यनेन प्रतीतस्यार्थस्य ग्रहणवाक्येष्वप्रतीतेः | नहि ग्रहणं यजनं भवति | नापि तद्धितप्रत्ययोक्तो रसः सोमलता | न च - तद्धितप्रत्ययः सर्वनामार्थे विहितः प्रकृतं ब्रूते, न तु रसम् - इति शङ्कनीयम् | ऽ धारया गृह्राति ऽ इति रसस्यैव प्रकृतत्वात् | तथा᳚पशुमालभेत᳚इत्यनेन प्रतीतोर्ऽथो नावदानवाक्येषु प्रतीयते | ततः पुरोवादाभावेनानुवादासंभवाद्यजत्यालभतिभ्यां कर्मणी विधीयेते | ग्रहणवाक्यैस्तु देवताविशिष्टः सोमसंस्कारो विधीयते | अवदानवाक्यैश्च पशुसंस्कारः || MJऐNय्C_२,२.१४-१६ ||
SK
(सप्तमे संख्याकृतकर्मभेदाधिकरणे सूत्रम्)
SK
पृथक्त्त्वनिवेशात् संख्यया कर्मभेदः स्यात् / Jऐम्_२,२.२१ /
SK
START MJऐNय् २,२.१७-२१
SK
सप्तमाधिकरणमारचयति --
SK
आहुतीस्तिस्त्र इत्यत्र कर्मैक्यमुत भिन्नता / एकत्वं सकृदाख्यातात्संख्यावृत्त्या प्रयाजवत् // MJऐNय्_२,२.१७ //
SK
आख्यातमात्रं नो मानं संख्यया बहुकर्मता / आवृत्त्यैकादशत्वं तु प्रयाजे गत्यभावतः // MJऐNय्_२,२.१८ //
SK
पशून्सप्तदश प्राजापत्यानित्यत्र भाष्यकृत् / विचारमाह पूर्वत्र क्रियात्रित्वस्फुटत्वतः // MJऐNय्_२,२.१९ //
SK
बहुत्वोपेतपशुभिर्देवयोगादभिन्नता / रूपस्य तेन कर्मैक्यं संख्या नात्र क्रियागता // MJऐNय्_२,२.२० //
SK
देवतासंगतस्यैव तद्धितार्थस्य पश्चिमः / बहुत्वसंगमो रूपसंख्यया तत्क्रियाभिदा // MJऐNय्_२,२.२१ //
SK
ऽ तिस्त्र आहुतीर्जुहोति ऽ इति श्रूयते | तत्र ऽ जुहोति ऽ इत्येतदाख्यातं ऽ समिधो यजति ऽ इत्यादिवन्नाभ्यस्तम्, किंतु सकृदेवाऽम्नातम् | तत एकमिदं कर्म | त्रित्वसंख्या तु तस्यैव कर्मण आवृत्त्या नेतव्या | यथा प्रयाजेष्वेकादशत्वसंख्या पञ्चानामेव प्रयाजानामावृत्त्या नीता, तद्वत् - इति प्राप्ते - ब्रूमः- किमिदमाख्यातं पदान्तरनिरपेक्षमेव कर्मैक्ये प्रमाणम्, उत पदान्तरान्वितम् | नाऽद्यः | वाक्यांशस्य पदमात्रस्य प्रमितिजनकत्वाभावात् | द्वितीये - त्रि -त्वसंख्यया विशेषितेनाऽख्यातेन कर्मबहुत्वं गम्यते | प्रयोजानां तु पूर्वमेव पञ्चसंख्यावरुद्धत्वादावृत्तिमन्तरेणैकादशत्वं दुःसंपादम् | इह त्वेतद्विधितः पूर्व कर्मण एकत्वसंख्यावरोधो नास्तीति वैषम्यम् | तदेतद्वृत्तिकारोदाहरणं भाष्यकारो नानुमन्यते | कर्मवाचिन आहुतिशब्दस्य विशेषणेन त्रिशब्देन कर्मबहुत्वस्य स्फुटतया पूर्वपक्षानुत्थानात् | इदं त्वत्रोदाहरणम् - ऽ सप्तदश प्राजापत्यान्पशूनालभते ऽ इति | अत्र ऽ प्रजापत्तिर्देवता येषां पशूनां ते प्राजापत्याः ऽ इति तद्धितव्युत्पत्तौ बहुत्वोपोताः पशव एकं द्रव्यम् | ततो द्रव्यैक्याद्देवतैक्याच्च यागस्य रूपमभिन्नमित्येकमिदं कर्म | या तु ऽसप्तदशऽ इति संख्या, सा पशुद्रव्यगता, न तु पूर्वोदाहृतत्रित्वसंख्येव क्रियागता | तस्मात् -- ऽन कर्मभेदमापादयति ऽ इति प्राप्ते - ब्रूमः- अत्र ऽ प्रजापतिर्देवता यस्य पशोः स प्राजापत्यः ऽ इति तद्धितान्तं प्रातिपदिकं व्युत्पाद्य पश्चात्तद्धितान्तप्रातिपादिकार्थस्य प्रजापतिदेवताविशिष्टपशोः कर्मत्वबहुत्वविवक्षायामुत्पन्ने इमे द्वितीयाविभक्तिबहुवचने | तत्र प्रथमभाविन्या द्वितीयाविभक्तेरेव तद्धितोत्पत्तिवेलायामन्वयो नास्ति, कुतः पश्चाद्भाविनो बहुवचनस्यान्वयः | एवं सति ऽ प्राजापत्यः ऽ इत्यनेन तद्धितान्तप्रातिपदिकनैकपशुद्रव्यमेकदेवतोपेतं यागस्य रूपं समर्प्यते | तादृशानां रूपाणां बहुत्वाय बहुवचनम् | बहुत्वविशेषश्च ऽ सप्तदशः ऽ इति निर्दिश्यते | तस्मात् - अत्र संख्यया कर्मभेदः | एवं च सति, अष्टमे वक्ष्यमाणं सप्तदशपशूनामैकादशिनपशुगणविकृतित्वमुपपद्यते || MJऐNय्C_२,२.१७-२१ ||
SK
(अष्टमे संज्ञाकृतकर्मभेदाधिकरणे सूत्रम्)
SK
संज्ञा चोत्पत्तिसंयोगात् / Jऐम्_२,२.२२ /
SK
START MJऐNय् २,२.२२-२३
SK
अष्टमाधिकरणमारचयति --
SK
अथैष ज्योतिरित्यत्र गुणो वा कर्म वा पृथक् / गुणः सहस्त्रदानात्मा ज्योतिष्टोमे ह्यनूदिते // MJऐNय्_२,२.२२ //
SK
अथेति प्रकृते छिन्न एतच्छब्दो ऽग्रगं वदेत् / संख्ययेवान्यकर्मत्वमिह नूतनसंज्ञया // MJऐNय्_२,२.२३ //
SK
᳚अथैष ज्योतिः, अथैष विश्वज्योतिः, अथैष सर्वज्योतिः, अनेन सहस्त्रदक्षिणेन यजेत ऽ इति श्रूयते | अत्र प्रकृतं ज्योतिष्टोपम् ऽएष ज्योतिः ऽ इत्यनूद्य तस्मिन्सहस्त्रदानलक्षणो गुणो विधीयते -- इति चेत् | न | प्रकृतस्य ज्योतिष्टोमस्य ऽ अथ ऽ इत्यनेन विच्छिन्नत्वात् | न चैवं सति ऽ अयैष ज्योतिः ऽ इत्युक्त एतच्छब्दो ऽनुपपन्न इति वाच्यम् | संनिहितवाचिनैतच्छब्देनातीतसंनिहितस्येवाऽगामिसंनिहितस्यापि परामर्शसंभवात् | आगामिसंनिहितश्च ज्योतिः शब्दार्थः | स च ज्योतिः शब्दो ऽती मपरामृशन्नपूर्वसंज्ञारूपत्वान्नूतनं किंचित्कर्माभिधत्ते | ततो यथा पूर्वत्र संख्यया कर्मभेदः, तथात्रापि संज्ञया कर्म भिद्यते | विश्वज्योतिः सर्वज्योतिः शब्दयोरप्ययं न्यायो द्रष्टव्यः || MJऐNय्C_२,२.२२-२३ ||
SK
(नवमे देवताभेदकृतकर्मभेदाधिकरणे सूत्रम्)
SK
गुणाश् चापूर्वसंयोगे वाक्योः समत्वात् / Jऐम्_२,२.२३ /
SK
START MJऐNय् २,२.२४-२५
SK
नवमाधिकरणमारचयति --
SK
गुणः कर्मान्तरं वा स्याद्वाजिभ्यो वाजिनं त्विति / गुणो देवाननूद्योक्तसमुच्चयविकल्पतः // MJऐNय्_२,२.२४ //
SK
आमिक्षोत्पत्तिशिष्टत्वात्प्रबला तत्र वाजिनम् / गुणो ऽप्रविश्य कर्मान्यत्कल्पयेद्वाजिदेवकम् // MJऐNय्_२,२.२५ //
SK
ऽतप्ते पयसि दध्यानयति , सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम् ऽ इति श्रूयते | घनीभूतः पयःपिण्ड आमिक्षा, जलं वाजिनम् | तत्र --- आमिक्षाद्रव्यभाजो ये विश्वे देवा उक्ताः, ते ऽवाजिभ्यःऽ इत्यनेनानूद्यन्ते | ऽवाजो ऽन्नमामिक्षारूपमेषामस्ति ऽ इति तन्निष्पत्तेः | ताननूद्य वाजिनद्रव्यरूपो गुणो विधीयते | तच्च द्रव्यमामिक्षाद्रव्येण सह समुच्चीनतां विकल्प्यतां वा, इति प्राप्ते -- ब्रूमः- उत्पत्तिशिष्टेनाऽमिक्षाद्रव्येणावरुद्धेवैश्वदेवयागे वाजिनद्रव्यस्योत्पन्नशिष्टस्य प्रवेशाभावाद्वाजिनं वाजिशब्दार्थस्य देवतान्तरमापादयति | ततो द्रव्यदेवतालक्षणस्य रूपस्य भिन्नत्वात्कर्मान्तरम् || MJऐNय्C_२,२.२४-२५ ||
SK
(दशम् द्रव्यविशेषानुक्तिकृतकर्मैक्याधिकरणे सूत्रम्)
SK
अगुणे तु कर्मशब्दे गुणस् तत्र प्रतीयेत / Jऐम्_२,२.२४ /
SK
START MJऐNय् २,२.२६
SK
दशमाधिकरणमारचयति--
SK
दधिहोमे ऽन्यकर्मत्वं गुणो वान्यत्तु पूर्ववत् / निर्गुणत्वादग्निहोत्रे युक्तो दध्यादिको गुणः // MJऐNय्_२,२.२६ //
SK
᳚दधण जुहोति᳚इति श्रूयते | तत्र -᳚अग्निहोत्रं जुहोति᳚इत्येतस्मात्प्रकृतात्कर्मणो ऽन्यद्दधिहोमरूपं कर्म - इति पूर्वन्यायेनावगम्यते | यथा पूर्वत्र वाजिनद्रव्येण कर्म भिद्यते, तथा दधिद्रव्येणेति चेत् | न | वैषम्यात् | यथा वैश्वदेवो याग आमिक्षागुणावरुद्धः, तथाग्निहोत्रं न गुणान्तरावरुद्धम् | प्रत्युत - निर्गुणत्वाद्गुणमाकाङ्क्षति | तस्मादयं गुणविधिः | एवं᳚पयसा जुहोति᳚इत्यादिषु द्रष्टव्यम् | पयोदध्यादीनां सर्वेषामुत्पन्नशिष्टतयां समबलत्वादेकैकेन द्रव्येणाग्निहोत्रनिष्पत्तेश्च व्रीहीयववद्विकल्पः || MJऐNय्C_२,२.२६ ||
SK
(एकादशे दध्यादिद्रव्यसफलत्वाधिकरणे सूत्रे २५ - २६ )
SK
फलश्रुतेस् तु कर्म स्यात् फलस्य कर्मयोगित्वात् / Jऐम्_२,२.२५ /
SK
अतुल्यत्वात् तु वाक्ययोर् गुणे तस्य प्रतीयेत / Jऐम्_२,२.२६ /
SK
एकादशाधिकरणमारचयति --
SK
START MJऐNय् २,२.२७-२८
SK
यद्दघ्नेन्द्रियकामस्य जुहुयादिति तत्पृथक् / गुणो वा भिद्यते कर्म धात्वर्थस्य फलित्वतः // MJऐNय्_२,२.२७ //
SK
मत्वर्थगौरवादिभ्यो नान्यत्कर्म फलाय तु / गुणे विधेये धात्वर्थो विहितत्वादनूद्यते // MJऐNय्_२,२.२८ //
SK
᳚दघ्नेद्रियकामस्य जुहुयात्᳚इति श्रूयते | तदिदं मकृतादग्निहोत्रादन्यत्कर्म | म त्वत्र विधिः | कुतः | ऽइन्द्रियकामस्यऽ इत्यक्तस्य फलस्य धात्वर्थ मन्तरेण द्रव्यमात्रादनिष्पत्तेः - इति चेत् | नैवम् | कर्मान्तरविधौ ऽदधमता होमेनोन्द्रियं भावयेत्ऽ इति मत्वर्थलक्षणा प्रसङ्गात् | गुणविशिष्टक्रियाविधौ, गौरवात् | प्रकृतहानामकृतप्रक्रियाप्रसङ्गाच्च | गुणमात्रं तु फलाय विधीयते | यद्यपि ऽदधण जुहोतिऽ इति प्राप्तम्, तथापि फलसंबन्धो न प्रप्तः | धात्वरथाभाते फलासंभव इति चेत् | न | ऽअग्निहोत्रं जुहोतिऽइति विहितस्य धात्वर्थस्यानूद्यमानत्वात् || MJऐNय्C_२,२.२७-२८ ||
SK
(द्वादशे वारवन्तीयादीनां कर्मान्तरताधिकरणे सूत्रम्)
SK
समेषु कर्मयुक्तं स्यात् / Jऐम्_२,२.२७ /
SK
START MJऐNय् २,२.२९-३१
SK
द्वादशाधिकरणमारचयति --
SK
उक्त्वाग्निष्टुतमेतस्य वारवन्तीयसाम हि / रेवतीष्वृक्षु कृत्वेति श्रुतं पशुफलाप्तये // MJऐNय्_२,२.२९ //
SK
रेवत्यादिगुणः कर्म पृथग्वा पूर्ववद्गुणः / रेवतीवारवन्तीयसंबन्धाख्यः पशुप्रदः // MJऐNय्_२,२.३० //
SK
साम्नो ऽत्र फलकर्मभ्यां संबन्धे वाक्यभिन्नता / तेनोक्तगुणसंयुक्तमन्यत्कर्मोच्यते फले // MJऐNय्_२,२.३१ //
SK
ऽ त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वृक्ष्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवचसकामो यजेत ऽ इत्यस्य संनिधौ श्रूयते - ऽ एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत ऽ इति | अस्यायमर्थः - ऽ अग्निष्टोमस्य विकृतिरूपः कश्चिदेकाहो ऽग्निष्टुन्नामकः | स च पृष्ठस्तोत्रे त्रिवृत्सोमयुक्ततया ऽत्रिवृत्ऽ इत्युच्यते | अग्निष्टोमोक्थादीनां सप्तानां सोमसंस्थानां मध्ये ऽग्निष्टोमसंस्थारूपत्वात् ऽ अग्निष्टोमः ऽ इत्यप्युच्यते | प्रकृतौ तृतीयसवन आर्भवपवमानस्योपरि यज्ञायज्ञीयं साम गीयते | तेन च साम्नाग्निष्टोमयागस्य समाप्यमानत्वात् ऽ अग्निष्टोमसाम ऽ इत्युच्यते | तच्च प्रकृतौ ऽयज्ञायज्ञा वो अग्नयः ऽ इत्याद्याग्नेयीष्वृक्षु गीयते | अस्मिंस्त्वग्निष्टुति ब्रह्मवर्चसकामेन वायव्यास्वृक्षु तत्साम गातव्यम् | तञ्च प्रकृताविवैकविंशस्तोमयुक्तम् | पशुकामत्य तु ऽ रेवतीर्नः सधमादःऽ- इत्यादिषु रेवतीष्वक्षु वारवन्तीयं साम गायेत्, इति | तत्र रेवतीनामृचां वारवन्तीयनामकेन साम्ना यः संबन्धः, सो ऽयं पशुफलायाग्निष्टुति विधीयते | ऽएतस्यैव ऽ इति प्रकृतपरामर्शकेनैतच्छब्देन, अन्यव्यावर्तकेनैवकारेण चाग्निष्टुतः समर्प्यमाणत्वात् | यथा पूर्वाधिकरण इन्द्रियफलाय प्रकृते ऽग्निहोत्रे दधिगुणो विहितः,तद्वत् | इति प्राप्ते, ब्रूमः- विषमो दृष्टान्तः | दधणे होमजनकत्वं न शास्त्रेण बोधनीयम् | तस्य लोकतो ऽवगन्तुं शक्यत्वात् | फलसंबन्ध एक एव शास्त्रबोध्य इति न तत्र वाक्यभेदः | इह तु - रेवत्युगाधारकवारवन्तीयसाम्नो ऽग्निष्टुत्कर्मसाधनत्वं फलसाधनत्वं चेत्युभयस्य शास्त्रैकबोध्यत्वाद्दुर्वारो वाक्यभेदः | तेन पशुफलकं यथोक्तगुणविशिष्टं कर्मान्तरमत्र विधीयते | एतच्छब्द एवकारश्च विधीयमानकर्मान्तरविषयतया योजनीयौ || MJऐNय्C_२,२.२९-३१ ||
SK
(त्रयोदशे सौभरनिधनयोः कामैक्याधिकरणे सूत्रे २८ - २९ )
SK
सौभरे पुरुषश्रुतेर् निधनं कामसंयोगः / Jऐम्_२,२.२८ /
SK
सर्वस्य वोक्तकामत्वात् तस्मिन् कामश्रुतिः स्यान् निधनार्था पुनः श्रुतिः / Jऐम्_२,२.२९ /
SK
START MJऐNय् २,२.३२-३५
SK
त्रयोदशाधिकरणमारचयति --
SK
वृष्टन्नस्वर्गकामानां सौभरं स्तोत्रमीरितम् / निधनान्यपि हीषूर्गू इति वृष्ट्यादिकाभिनाम् // MJऐNय्_२,२.३२ //
SK
फलान्तरं किं वृष्ट्यादि हीशादीनामुतोदिते / सौभरे फलसंभिन्ने निधनं विनियम्यते // MJऐNय्_२,२.३३ //
SK
फलान्तरं चतुर्थ्योक्तं वृष्टिकामाय हीषिति / सौभरस्य फलं वृष्टिहीषियुक्त्या विवर्धते // MJऐNय्_२,२.३४ //
SK
नोक्तवृष्ट्यन्नकामानामन्यत्वं प्रत्यभिज्ञया / नियमे ऽपि चतुर्थ्येषा तादर्थ्यादुपपद्यते // MJऐNय्_२,२.३५ //
SK
ऽ यो वृष्टिकामो यो ऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, सर्वे वै कामाः सौभरे ऽ इति समाम्नाय पुनः समाम्नातम् - हीषित वृष्टिकामाय निधनं कुर्यात्, ऊर्गित्यन्नाद्यकामाय, ऊ इति स्वर्गकामाय ऽ इति | सौभरं नाम सामविशेषः | निधनं नाम पञ्चभिः सप्तभिर्वा भागैरुपेतस्य साम्नो ऽन्तिमो भागः | तस्मिन्निधने हीषादयो विशेषाः सौभरसामसाध्यस्तोत्रफलेभ्यो वृष्ट्यादिभ्यो ऽन्यानि वृष्ट्र्यादिफलानि जनयितुं विधीयन्ते | कुतः | हीषादिविधिवाक्ये ऽवृष्टिकामाय ऽ इत्यादिना चतुर्थीश्रवणात् | तादर्थ्ये ब्रुवती [चतुर्थी] हीषादीनां वृष्ट्यादिकामपुरुषशेषत्वं गमयति | तच्छेषत्वं च पुरुषाभिलवितफलसाधनत्वे सत्युपपद्यते | ततः सौभरस्य हीषितिनिधनविशेषस्य च फलभूते द्वे वृष्टी भवतः | तदुभयमेलनान्महती वृष्टिः- इति प्राप्ते, ब्रूमः- सौभरविधौ यो वृष्ट्यादिकामः स एव हीषादिविधौ प्रत्यभिज्ञायते | ततः सौभरस्य फलभूता ये वृष्ट्यादयः, त एव हीषादिवाक्येष्वनूद्यन्ते, इति न फलान्तरम् | अथोच्येत - नूतनफलान्तराभावात्, हीषादीनां च नानाशाखाध्ययनादेव सौभरे प्राप्तत्वादनर्थको ऽयं विधिः- इति | तन्न | फलत्रयकामाणां त्रयाणामनियमेनैव हीषादिषु मध्ये यस्य कस्यचिन्निधनस्य प्राप्तौ विधेर्नियमार्थत्वात् | तादर्थ्य तु फलान्तराभावे ऽपि सौभरवाक्योक्तवृष्ट्यादिफलसाधने सौभरे हीषादीनां नियम्यमानत्वादुपपद्यते | तस्मात् - अयं निधनविशेषनियमनाविधिः || MJऐNय्C_२,२.३२-३५ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य द्वितीयः पादः
SK
(अथ द्वितीयाध्यायस्य तृतीयः पादः) (प्रथमे ग्रहाग्रताया ज्योतिष्टोमाङ्गताधिकरणे सूत्रे १-२)
SK
गुणस् तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूत्वात् / Jऐम्_२,३.१ /
SK
एकस्य तु लिङ्गभेदात् प्रयोजनार्थम् उच्येतैकत्वं गुणवाक्यत्वात् / Jऐम्_२,३.२ /
SK
START MJऐNय् २,३.१-३
SK
तृतीयपादस्य प्रथमाधिकरणमारचयति -- रथंतरं साम सोमे भवेत्तद्वद्बृहज्जगत् / ऐन्द्रवायवशुक्राग्रयणाग्राश्च ग्रहाः श्रुताः // MJऐNय्_२,३.१ //
SK
रथंतरादिसंयुक्तमन्यत्कर्माथवा गुणः / गायत्रादियुतात्पूर्वादन्यद्व्यावृत्तितो गुणैः // MJऐNय्_२,३.२ //
SK
सोमशब्दप्रकरणे ज्योतिष्टोमसमर्पके / ग्रहाग्रत्वं गुणस्तत्र व्यावृत्तिस्तु परस्परम् // MJऐNय्_२,३.३ //
SK
ज्योतिष्टोमप्रकरणे श्रूयते -᳚यदि रथंतरसामा सोमः स्यादैन्द्रवायबाग्रान्ग्रहान्गृह्णीयात् | यदि बृहत्सामा शुक्राग्रान् | यदि जगत्सामाऽग्रयणाग्रान्᳚इति | तत्र - सोमशब्देन सोमलतासाधनको यागो ऽऽभिधीयते | तस्मिंश्च यागे बाध्यंदिने सवने पृष्ठस्तोत्रे रथंतरबृहज्जगन्नामकानि सामानि विकल्पेन विहितानि | ᳚अभि त्वा शूर᳚- इत्येतस्यां योनावुत्पन्नं रथंतरम् | ᳚त्वामिद्धि हवामहे᳚- इत्येतस्यामुत्पन्नं बृहत् | जगतीछन्दस्कायामृच्युत्पन्नं जगत् | ऐन्द्रमायवः, मैत्रावरुणः, आश्विनः, शुक्रः, मन्थ्याग्रयणः, उक्थ्यः, ध्रुवः, इत्यादिनामका ग्रहाः प्रातःसवने गृह्यन्ते | दारुपात्रेषु सोमरतस्य ग्रहणाद्ग्रहा भवन्ति | सोमयागस्य रथंतरसामोपेतत्वपक्ष एतेषु ग्रहेष्वैन्द्रवायवः प्रथमं ग्रहीतव्यः | बृहत्सामोपेतत्वपक्षे शुक्रः | जगत्सामोपेतत्वपक्ष आग्रयणः प्राथमिकः- इति विषयवाक्यार्थः | तत्र प्रकृतो ज्योतिष्टोमो गायत्रादिसामोपेतः, तद्व्यावृत्त्यर्थमिह रथंतरादयो गुणाः कीर्त्यन्ते | तस्मात् - ऐन्द्रवायवादिगुणोपेतानि कर्मान्तराण्यत्र विधीयन्ते - इति प्राप्ते, ब्रूमः-᳚यदि रथंतरसामा सोमः स्यात्᳚इत्युक्तो यः सोमशब्दः, तेन प्रकरणेन चात्र ज्योतिष्टोमः समर्प्यते | समर्पिते तस्मिन्यथोक्तग्रहाग्रत्वं गुणो विधीयते | न च रथंतरादिगुणानुवादेन ज्योतिष्टोमस्य व्यावृत्तिः संभवति | तस्य प्रातः सवनादौ गायत्रादिसामोपेतत्वे ऽपि पृष्ठस्तोत्रे रथंतरादियोगस्यापि सद्भावात् | किं तर्हि व्यावर्त्यत इति चेत् | रथंतरबृहज्जगतां परस्परव्यावृत्तिः- इति वदामः | रथंतरादयः पृष्ठस्तोत्रे विकल्पिताः | तत्र रथंतरानुवादेनेतरौ पक्षौ व्यावर्त्येते | एवमितरत्रापि | तस्मात् - गुणविधिः | ननु यः प्रकृतो ज्योतिष्टोमः सो ऽन्येषां सो ऽन्येषां सोमयागानां प्रकृतिः | नहि प्रकृतौ जगत्यामुत्पन्नं साम विहितमस्ति | अत एव दशमाध्याये पञ्चमपादस्य पञ्चदशाधिकरणे प्रथमवर्णके᳚यदि जगत्तामा᳚इति वाक्योक्तमाग्रयणाग्रत्वं विकृतौ विषुवन्नामके मुख्ये ऽहनि व्यवस्थापितम् | षाढम्, तथापि नात्र कश्चिद्विरोधः | आग्रयणाग्रत्ववाक्यं न कर्मान्तरविधायकम्, किंतु ऽअन्येन विहिते सोमयागे यत्र जगत्साम संभवति तत्र गुणविधायकम् - ऽ इत्येतावन्मात्रस्यात्र प्रतिपाद्यत्वात् || MJऐNय्C_२,३.१-३ ||
SK
(द्वितीये ऽवेष्टेः क्रत्वन्तरताधिकारताधिकरणे सूत्रम्)
SK
अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते / Jऐम्_२,३.३ /
SK
START MJऐNय् २,३.४-६
SK
द्वितीयाधिकरणमारचयति --
SK
राजसूयं प्रकृत्येष्टिरवेष्ट्याख्या श्रुतात्र तु / विप्रक्षत्त्रियविड्भेदाद्धविषां व्यत्ययः क्रमे // MJऐNय्_२,३.४ //
SK
विप्रादेरनुवादः स्यात्प्रापणं वानुवादगीः / व्यत्ययाय त्रयाणां च राजत्वाप्राप्तिरस्ति हि // MJऐNय्_२,३.५ //
SK
न राज्ययोगाद्राजत्वं क्षत्रियत्वं तु तत्त्वतः / अप्राप्तप्रापणं तस्मान्न रथंतरतुल्यता // MJऐNय्_२,३.६ //
SK
राजसूयप्रकरणे काचिदिष्टिरवेष्टिनामिका श्रूयते - ᳚आग्नेयमष्टाकपालं निर्वपेत् , हिरण्यं दक्षिणा | ऐन्द्रमाकादशकपालम्, ऋषभो दक्षिणा | वैश्वदेवं चरुम् , पिशङ्गी प्रष्ठौही दाक्षिणा | मैत्रावरुणीमामिक्षाम्, वशा दक्षिणा | बार्हस्पत्यं चरुम्, शितिपृष्ठो दिक्षणां᳚इति | तस्यामेवेष्टौ हविषां क्रमव्यत्ययः श्रूयते -᳚यदि ब्राह्मणो यजेत, बार्हस्पत्यं मध्ये निधायाऽहुतिं हुत्वा तमभिघारयेत् | यदि राजन्य ऐन्द्रम् | यदि वैश्यो वैश्वदेवम्᳚इति | तत्र यथा पूर्वाधिकरणे - ऐन्द्रवायवाग्रत्वं व्यवस्थापयितुं यदिशब्दयुक्तेन वाक्येन रथंतरं निमित्तत्वेनानूदितम्, एवमत्रापि पञ्चमस्थाने श्रूयमाणं बार्हस्पत्यं चरुं मध्ये तृतीयस्थाने स्थापयितुं ऽयदि रादन्यःऽ इत्यनुवादः | वैश्वदेवस्य तु स्वत एव तृतीयस्थाने श्रवणात्तत्र मध्ये निधानविधिर्नित्यामुवादः | ननु राजकर्तृके राजसूये ब्राह्मणवैश्ययोः प्राप्त्यभावान्नानुवादो युक्तः- इति चेत् | न | तयोरपि राज्ययोगहेतुराजशब्दार्थत्वात्, इति प्राप्ते, - ब्रूमः- राजशब्दः क्षत्त्रियजातौ रूढः, न तु राज्ययोगस्तस्य प्रवृत्तिनिमित्तम् | प्रत्युत- राज्यशब्दस्य राजयोगः प्रवृत्तिनिमित्तम् | ऽराज्ञः कर्मऽ इति विगृह्य राजप्रातिपदिकस्योपरि | प्रत्ययविशेषविधानात् | ब्राह्यणवैश्ययोः प्रजापालनेन राज्यशब्द उपचरितः | तस्मात् - अवेष्टौ ब्राह्मणवैश्यौ पूर्वमप्राप्तावनेन वचनेन प्राप्येते | ननु राजसूयस्य राजकर्तृकत्वात्तदन्तर्गताया अवेष्टेरपि तथात्वात्तस्यां ब्राह्मणवैश्ययोः प्रापणमयुक्तम् - इति चेत् | मैवम् | अन्तरवेष्टौ तदसंभवे ऽपि राजसूयाद्बहिः प्रयुज्यमानायामवेष्टौ तत्संभवात् | तस्मात् - अत्र ब्राह्मणादिकर्तृकं यथोक्तगुणविशिष्टं कर्मान्तरं विधीयत इति न रथंतरादितुल्यत्वम् | यदिशब्दस्तु निपातत्वादनर्थकोर्ऽथान्तरवाची वेत्युन्नेयम् || MJऐNय्C_२,३.४-६ ||
SK
(तृतीय आधानस्य विधेयत्वाधिकरणे सूत्रम्)
SK
आधाने सर्वशेषत्वात् / Jऐम्_२,३.४ /
SK
START MJऐNय् २,३.७-९
SK
तृतीयाधिकरणमारचयति -
SK
वसन्ते विप्र आदध्यात्तत्रैवोपनयीत तम् / अनुवादः प्रापणं वानुवादः कालसिद्धये // MJऐNय्_२,३.७ //
SK
अन्तरेणाग्निविद्याभ्यां कर्मानुष्ठित्यसंभवात् / कॢप्ते आधानोपनीती प्राप्ता विप्रादयस्ततः // MJऐNय्_२,३.८ //
SK
लौकिकाग्नेः पुस्तकाञ्च तत्सिद्धेर्नास्ति कल्पनम् / कालविप्रादिसंयुक्तमतो ऽप्राप्तं विधीयते // MJऐNय्_२,३.९ //
SK
᳚वसन्ते ब्राह्मणो ऽग्नीनादधीत | ग्रीष्मे राजन्यः | शरदि वैश्यः᳚इति श्रूयते | ᳚वसन्ते ब्राह्मणमुपनयीत | ग्रीष्मे राजन्यम् | शरदि वैश्यम्᳚इति च | तत्र वसन्तादिकालविशेषं विधातुं ब्राह्मणादयो ऽनूद्यन्ते | न च तेषां प्राप्त्यभावः | क्रत्वनुष्ठानान्यथानुपपत्त्या कॢप्तत्वात् | न ह्याहुत्याधारभूतमग्निम्, अनुष्ठानप्रकारज्ञापिकां विद्यां च विना कर्मानुष्ठानं संभवति | अग्निश्च नाऽधानमन्तरेणास्तीति ब्राह्मणादिकर्तृकमाधानं कल्पयति, विद्या चोपनयनपूर्वकाध्ययनमन्तरेणा संभवन्ती ब्राह्मणाद्युपनयनं कल्पयति - इति तत्र प्राप्तिः- इति चेत् | मैवम् | लौकिकाग्नौ होतुं, पुस्तकपाठेनाधिगन्तुं च शक्यत्वेनाऽधानोपनयनयोरकल्पने ब्राह्मणादीनामप्राप्तेः | तस्मात् - वसन्तादिकालविशिष्टे ब्राह्मणादिकर्तृके आधानोपनयने अत्र विधीयेते || MJऐNय्C_२,३.७-९ ||
SK
(चतुर्थे दाक्षयणादीनां गुणताधिकरणे सूत्राणि ५-११)
SK
अयनेषु चोदनान्तरं संज्ञोपबन्धात् / Jऐम्_२,३.५ /
SK
अगुणाच् च कर्मचोदना / Jऐम्_२,३.६ /
SK
समाप्तं च फले वाक्यम् / Jऐम्_२,३.७ /
SK
विकारो वा प्रकरणात् / Jऐम्_२,३.८ /
SK
लिङ्गदर्शनाच् च / Jऐम्_२,३.९ /
SK
गुणात् संज्ञोपबन्धः / Jऐम्_२,३.१० /
SK
समाप्तिर् अविशिष्टा / Jऐम्_२,३.११ /
SK
START MJऐNय् २,३.१०-११ चतुर्थाधिकरणमारचयति - यद्दाक्षायणयज्ञेन स्वर्गकामो यजेत तत् / कर्मान्तरं गुणो वोक्तदर्शादौ फलसिद्धये // MJऐNय्_२,३.१० //
SK
गुणस्यास्याप्रसिद्धत्वात्कर्मभेदो ऽत्र संज्ञया / गुणो व्युत्पत्तिशेषाभ्यामावृत्त्याख्यो न नाम तत् // MJऐNय्_२,३.११ //
SK
दर्शपूर्णमासप्रकरणे श्रूयते -᳚दाक्षायणयज्ञेन स्वर्गकामो यजेत᳚इति | तत्र - दाक्षायणशब्दवाच्यस्य कस्यचिद्गुणस्य लोके प्रसिद्ध्यभावादुद्भिदादिवद्यणिसामानाधिकरण्येन कर्मनामत्वात् | ᳚अथैष ज्योतिः᳚इत्यादिवदर्पूवसंज्ञायां कर्मान्तरविधिः- इति चेत् | न | दाक्षायणशब्दस्याऽवृत्तिवाचकत्वात् | तच्च शब्दनिर्वचनाद्वाक्यशेषाद्वावगम्यते | तथा हि - ऽअयनम्ऽ इत्यावृत्तिरुच्यते | ऽदक्षस्येमे दाक्षाः, तेषामयनम्ऽ इति तन्निर्वचनम् | दक्ष उत्साही पुनः पुनरावृत्तावनलस इत्यर्थः | तदीयानां प्रयोगाणामावृत्तिर्दाक्षायणशब्दार्थः | तथा चाऽवृत्त्या युक्तः प्रकृतो दर्शपूर्णमासात्मको यज्ञो दाक्षायणयज्ञः | आवृत्तिप्रकारस्तु᳚द्वे पौर्णमास्यौ यजेत | द्वे अमावास्ये᳚इत्यादिवाक्यशेषादवगम्यते | ततो दध्यादिवत्प्रसिद्धार्थत्वाद्दर्शपूर्णमासयोः प्रकृतयोरयं स्वर्गफलसिद्द्यर्थमावृत्त्याख्यगुणविधिः, न तूद्भिदादिवत्कर्मनामधेयम् | एवं᳚साकंप्रस्थाप्येन यजेत पशुकामः᳚इत्यत्रापि द्रष्टव्यम् | अमावास्यायागे द्वौ द्वौ दोहौ संपाद्य चतसृणां दधिपयसोः कुम्भीनां सह प्रस्थापनं साकं प्रस्थाप्यः | तद्युक्तो यागः साकंप्रस्थाप्यः | तथासति प्रकृते दर्शयागो पशुफलाय साकंप्रस्थाप्याख्यो गुणो विधीयते || MJऐNय्C_२,३.१०-११ ||
SK
(पञ्चमे द्रव्यदेवतायुक्तानां यागान्तरताधिकरणे सूत्राणि १२ - १५)
SK
संस्कारश् चाप्रकरणे ऽकर्मशब्दत्वात् / Jऐम्_२,३.१२ /
SK
यावद् उक्तं वा कर्मणः श्रुतिमूलत्वात् / Jऐम्_२,३.१३ /
SK
यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एतेषां कर्मसम्बन्धात् / Jऐम्_२,३.१४ /
SK
लिङ्गदर्शनाच् च / Jऐम्_२,३.१५ /
SK
START MJऐNय् २,३.१२-१४
SK
पञ्चमाधिकरणमारचयति -
SK
वायव्यः श्वेत आलभ्यो भूत्यै सौर्ये चरुं तथा / निर्वपेद्बह्मतेजोर्थमीषामुष्टिनिरुप्तयोः // MJऐNय्_२,३.१२ //
SK
गुणौ श्वेतं चरुं किंवा यावत्कथितकर्मणी / फलार्थे अथवा यागे विशिष्टौ विहिताविह // MJऐNय्_२,३.१३ //
SK
श्वैत्यं वायुस्पृगीषायामाग्नेये च रविप्रभे / चरुर्गुणश्चरुः स्थाली निर्वापस्तु तदाश्रितः // MJऐNय्_२,३.१४ //
SK
फलाहानेर्न तत्किं तु यावच्चोदितकर्म तत् / द्रव्यादिरूपसंपत्तेरवार्या यागताऽर्थिकी // MJऐNय्_२,३.१५ //
SK
अनारभ्येदमाम्नायत् - ऽवायव्यं श्वेतमालभेत भूतिकामःऽ इति, ऽसौर्ये चरुं निर्वपेद्ब्रह्मवर्चसकामःऽ इति च | तथा -दर्शपूर्णमासयोरिदमाम्नायतेर् -᳚इषामालभेत᳚इति,᳚चतुरो मुष्टीन्निर्वपति᳚इति चर् | इषा शकटगतो लाङ्गलदण्डवद्दीर्घः काष्ठविशेषः | तस्या आलम्भः स्पर्शः | तमेतं दर्शपूर्णमासगतमीषालम्भमनूद्य तस्यामालभ्यायामीषायां श्वेतत्वगुणो विधीयते | तस्य च श्वेतकाष्ठस्य वायुना स्पृश्यमानत्वाद्वायव्यता संभवति | तथा - चतुर्मुष्टिनिर्वपणमनूद्य चरुर्गुणत्वेन विधीयते | चरुः स्थाली | सा च निर्वापस्याऽश्रयः | निरुप्तस्य हविष आग्नेयतया सूर्यवत्प्रभासंबन्धात्सौर्यवत् | भूतिब्रह्मवर्चसे फले च सर्वकामिकयोर्दर्शपूर्णमासयोः पूर्वसिद्धे एवानूद्येते | तस्मात् - गुणविधी - इत्येकः पूर्वपक्षः | नहि फलपदयोर्नित्यवच्छ्रुतयोः संभवत्प्रयोजनयोश्च पाक्षिकानुवादत्वम्, आनर्थक्यं वा युक्तम् | तस्मात् --गुणफलविशिष्टे कर्मान्तरे विधीयेते | तदापि यागस्याश्रवणादीलम्भनिर्वापयोरेव श्रवणाद्यावदुक्तकर्मविधिः- इति द्वितीयः पूर्वपक्षः | श्वेतपशुचरुद्रव्ययोः, वायुसूर्यदेवतयोश्च स्पष्टं प्रतीयमानतया रूपवतोर्यागयोरार्थिकयोर्वारयितुमशक्यत्वाद्द्रव्यदेवताविशिष्टयोर्यागयोर्विधिरभ्युपगन्तव्यः | ऽभूतिकामो वायव्येन श्वेतेन पशुना यजेतऽ ऽब्रह्मवर्चसकामः सौर्येण चरुणा यजेतऽ इत्येवंविधोर्ऽथसिद्धो विधिः | द्रव्यदेवतासंबन्धकल्पितस्य यागस्य लिङ्प्रत्ययेन कर्तव्यताविधावालम्भनिर्वापयोर्धात्वर्थयोः का गतिः- इति चेत् | ऽअनुवादःऽ इति ब्रूमः- इति सिद्धान्तः || MJऐNय्C_२,३.१२-१५ ||
SK
(षष्ठे वत्सालम्भादीनां संस्कारताधिकरणे सूत्रे १६-१७)
SK
विषये प्रायदर्शनात् / Jऐम्_२,३.१६ /
SK
अर्थवादोपपत्तेश् च / Jऐम्_२,३.१७ /
SK
START MJऐNय् २,३.१६
SK
षष्ठाधिकरणमारचयति -
SK
षत्सालम्भो यजिः स्पर्शो वा वायव्यादिवद्यजिः / स्पर्शः स्याद्देवराहित्यात्संस्कारः प्रायपाठतः // MJऐNय्_२,३.१६ //
SK
अग्निहोत्रदोहाधिकारे श्रूयते -᳚वत्समालभेत᳚इति | तत्र ऽविमतो वत्सालम्भो यजिः स्यात्, प्राणिद्रव्यकालम्भत्वात्, वायव्यालम्भवत्ऽ इति चेत् | न | देवताराहित्येन तद्वैषम्यात् | किंच - ऽअयं वत्सालम्भो ऽग्निहोत्राङ्गसंस्कारः, तत्प्राये पठितत्वात्, इतरसंस्कारवत्ऽ | तस्मात् - अये स्पर्शमात्रविधिः || MJऐNय्C_२,३.१६ ||
SK
(सप्तमे नैवारचरोराधानार्थताधिकरणे सूत्रम्)
SK
संयुक्तस् त्व् अर्थशब्देन तदर्थः श्रुतिसंयोगात् / Jऐम्_२,३.१८ /
SK
START MJऐNय् २,३.१७-१८
SK
सप्तमाधिकरणमारचयति -
SK
चरुर्भवति नैवार उपधत्ते चरुं त्विति / यागः स्यादुपधानं वा यागः शेषोक्तदैवतः // MJऐNय्_२,३.१७ //
SK
यागत्वानिश्चये शेषो नापेक्ष्यो ऽतो यजिः कुतः / किंतूपधानमात्रत्वं यावदुक्तं चरौ स्थितम् // MJऐNय्_२,३.१८ //
SK
अग्नौ श्रूयते - ऽनैवारश्चरुर्भवतिऽ इति, ऽचरुमुपदधातिऽ इति च | तत्र - नीवारचरुद्रव्यको यागो विधीयते | न चात्र देवताया अभावः | ऽबृहस्पतेवां एतदन्नं यद्मीवाराःऽ इति वाक्यशेषेण देवतासिद्धेः | उपधानं तु यागोपयुक्तस्य प्रतिपत्तिः स्विष्टकृदादिवत् - इति प्राप्ते, ब्रूमः- ऽयागविधौ निश्चिते सति पश्चाद्देवतायामपेक्षितायां वाक्यशेषबलाद्देवताकॢष्टिः, इह तु देवताकल्पनेन यागविधित्वनिश्चयः | इत्यन्योन्याश्रयः | तस्मात् - इहोपधानमात्रं विधीयते || MJऐNय्C_२,३.१७-१८ ||
SK
(अष्टमे पात्नीवतस्य पर्यग्निकरणगुणकत्वाधिकरणे सूत्रम्)
SK
पात्नीवते तु पूर्वत्वाद् अवच्छेदः / Jऐम्_२,३.१९ /
SK
START MJऐNय् २,३.१९-२१
SK
अष्टमाधिकरणमारचयति --
SK
पर्यग्निकृतः पात्नीवत उत्सृज्यत इत्यसौ / यागौ गुणो वा यागः स्यादन्वयाव्यवधानतः // MJऐNय्_२,३.१९ //
SK
प्रत्यभिज्ञातमालभ्यमनूद्योत्सर्गशब्दतः / गुणं पर्यग्निकृत्याख्यं वक्त्युत्तरनिवृत्तये // MJऐNय्_२,३.२० //
SK
न दुष्टा परिसंख्यात्र चोदकात्प्राग्विधौ सति / पर्यग्निकरणान्ताङ्गरीतिः कॢप्तोपकारतः // MJऐNय्_२,३.२१ //
SK
ऽत्वाष्ट्रं पात्नीवतमालभेतऽ इति प्रकृत्येदमाम्नातम्-ऽपर्याग्निकृतं पात्नीवतमुत्सृजन्तिऽ इति | तत्र पर्यग्निकृतशब्देन संस्कृतपशुद्रव्यस्य पात्नीवतशब्देन पत्नीवन्नामकदेवतासंबन्धस्य च प्रतीयमानत्वादमं यागविधिः | एवं सति पर्यग्निकृतपात्नीवतशब्दयोरव्यवहितान्वयो लभ्यते | सिद्धान्ते तु ऽपर्यग्निकृतमुत्सृजन्तिऽ इत्यन्वयं वाञ्छन्ति | तदा व्यवहितान्वयो दुर्वारः | तस्मात्-षायव्यपशुवद्यागविधिः- इति प्राप्ते, ब्रूमः- अनारभ्याधीतत्वान्नास्ति सयव्ये प्रकृतप्रत्यभिज्ञा | इह त्वालभ्यत्वेन प्रकृतः पशुः पात्नीवतशब्देन प्रत्यभिज्ञायते | तमनूद्य पर्यग्निकृतशब्दान्वितेन ऽउत्सृजन्तिऽ इत्याख्यातेन पर्यग्निकरणाख्यो गुणो विधीयते | न च प्रकृतिमतस्य पर्यग्निकरणस्य विकृतौ चोदकेन प्राप्तत्वादनर्थको ऽयं विधिरिधिवाच्यम् | उपरितनाङ्गाननुवृत्तेर्दिधिप्रयोजनत्वात् | नन्वेवं सति परिसंख्या स्यात् | सा च दोषत्रयदुष्टा | स्वार्थत्यागः, अन्यार्थस्वीकारः, प्राप्तवाधश्चेति त्रयो दोषाः | पर्यग्निकरणवाक्ये स्वार्थो बिधिस्त्यज्येत, अन्यार्थे निषेधः स्वी क्रियेत, चोदकप्राप्तान्युपरितनाङ्गानि बाध्येरन् | मैवम् | ऽपर्यग्निकरणोत्तरमावीन्यङ्गानि नानुष्ठेयानिऽ इत्येतस्याः परिसंख्याया अनङ्गीकारात् | कथं तर्हि तन्निवृत्तिः- ऽआर्थिकीऽ इति ब्रूमः | चोदकप्रवृत्तेः प्रागेवायं विधिः प्रवर्तते, प्रत्यक्षोपदेशस्य शीघ्रबुद्धिजनकतया कल्प्यातिदेशात्प्रबलत्वात् | तथासत्युपदिष्टैरेवाङ्गैर्निराकाङ्क्षायां विकृतौ चोदकस्याप्रवृत्यैवोपरितनान्यङ्गानि न प्राप्यन्ते | न चानेन न्यायेन पर्यग्निकरणात्प्राचीनानामप्य प्राप्तिरिति वाच्यम् | विधीयमानस्य पर्याग्निकरणस्य नूतनत्वे सत्युपकारकल्पनापत्त्या प्रकृतौ यत्कॢप्तोपकारं पर्यग्निकरणं, तदवस्थापन्नस्यैवात्र विधेयत्वात् | प्रकृतौ च प्राचीनाङ्गनन्तरमादिन एवोपकारः कॢप्त इत्यत्रापि तादृशस्यैव विधानात्पर्याग्निकरणान्ताङ्गरीतिः सिध्यति | एवं च सति ऽउत्सृजन्तिऽ इत्याख्यातेन यथोक्तपर्यग्निकरणविधावर्थसिद्ध उपरितनाङ्गोत्सर्गो धातुनानूद्यते | तदेग्मत्र गुणविधिः || MJऐNय्C_२,३.१९-२१ ||
SK
(नवमे, अदाभ्यादीनां ग्रहनामताधिकरणे सूत्रम्)
SK
अद्रव्यत्वात् कवेले कर्मशेषः स्यात् / Jऐम्_२,३.२० /
SK
START MJऐNय् २,३.२२-२३
SK
नवमाधिकरणमारचयति -
SK
यददाभ्यं गृहीत्वेति गृह्णात्यंशुमिति द्वयम् / तद्यागो वा गुणो यागः स्याददाभ्यांशुनामतः // MJऐNय्_२,३.२२ //
SK
ग्रहयोरेव नाम स्यादानन्तर्याद्विधिस्तयोः / गुणो ऽस्तस्य वाक्येन ज्योतिष्टोमाभिगामिना // MJऐNय्_२,३.२३ //
SK
अमारभ्य श्रूयते - ऽएष वै द्दविषा हविर्यजते, यो ऽदाभ्यं गृहीत्वा सोमाय यजतेऽ इति ऽपरा वा एतस्याऽयुः प्राण एति, य्ॐऽशुं गृह्णातिऽ इति च | तत्र- अदाभ्यशब्दस्य ज्योतिरादिवदपूर्वनामत्वात्तन्नामको यागो ऽयजतेऽ इत्याख्यातेन विधीयते | ऽअंशुमऽ इत्यत्र यजतेरवश्रवणे ऽपि नामविशेषबलादेवापूर्वयागविधिः | न चात्र द्रव्यदेवतयोरभावः | ग्रहणलिङ्गेन ज्योतिष्टोमविकृतित्वादगतौ तदीयविध्यन्तातिदेशेन तत्सिद्धेः - इति प्राप्ते, ब्रूमः- भवत्वदाभ्यांशुशब्दयोर्नामत्वम् | ते च नामनी ग्रहयोरेव स्याताम्, न तु यागयोः | ऽगृहीत्वाऽ इतिशब्दस्यानन्तरमेव पाठात् | यजतिस्तु व्यवहितः | तादृशो ऽपि यजिरंशुवाक्ये नास्ति | तस्माद्ग्रहयोरेवात्र विधिः | ग्रहणं च ज्योतिष्टोमगतस्य सोमरसस्य संस्काररूपो गुणः, ऐन्द्रवायवादिग्रहणसमानत्वात् | यद्यप्यत्र न प्रकृतो ज्योतिष्ठोमः, तथापि तत्संबन्धिग्रहणद्वारा वाक्यस्य ज्योतिष्टोभगामित्वम् | अत एव ऽसोमायादाभ्यं गृहीत्वाऽ इति निर्दिश्यते | अथवा-तैत्तिरीयाणां षष्ठकाण्डे षष्ठे प्रपाठके प्राकरणिकं विनियोजकं वाक्यं द्रष्टव्यम् | तस्मात्-ज्योतिष्टोमे गुणविधिः || MJऐNय्C_२,३.२२-२३ ||
SK
(दशमे अग्निचयनस्य संस्कारताधिकरणे सूत्राणि २१-२३)
SK
अग्निस् तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत / Jऐम्_२,३.२१ /
SK
द्रव्यं वा स्याच् चोदनायास् तदर्थत्वात् / Jऐम्_२,३.२२ /
SK
तत्संयोगात् क्रतुस् तदाख्यः स्यात् तेन धर्मविधानानि / Jऐम्_२,३.२३ /
SK
START MJऐNय् २,३.२४-२५
SK
दशमाधिकरणमारचयति-
SK
अग्निं चिनुत इत्यत्र यागो वा संस्कृतियंजिः / लिङ्गेन यागनामत्वाद्यजिमा चानुवादतः // MJऐNय्_२,३.२४ //
SK
रूढ्या द्रव्यस्य नामैतद्वहनेराधानवच्चितिः / संस्कारः संस्कृते वह्नावग्निष्टोमो विधीयते // MJऐNय्_२,३.२५ //
SK
ऽय एवं विद्वानग्निं चिनुतेऽ इत्येवं विधाय श्रूयते-ऽअथातो ऽग्निमाग्निष्टोमेनानुयजति,तमुक्थ्येन ऽतं षोडशिना, तमतिरात्रेण, इत्यादि | अत्र - अग्निशब्दो यागवाची | स्तोत्रशस्त्रादेः क्रतुलिङ्गस्य श्रूयमाणत्वात् | तच्च लिङ्गमेवं श्रूयते-ऽअग्नेः स्तोत्रं,अग्नेः शस्त्रम्ऽ इति, ऽषडुपसदो ऽग्निश्रित्यस्य भवन्तिऽ इति च | यदि लिङ्गं प्रापकापेक्षम्, तर्हि यजिना तदनुवादः प्रापके ऽस्तु | अग्निमग्निष्टोमेनानुयजतिऽ इत्यतेस्मिन्वाक्ये ऽअग्निं यजतिऽ इति यजिसामानाधिकरण्यात् ऽउपांशु यजतिऽ इतिवद्यागनामत्वम् | अथोच्येत - अनुशब्दस्याग्निशब्देनान्वयाद्यज्यन्वयो ऽग्निष्टोमस्य, इति | तथाप्यग्नेः पुरोयजने सत्यग्निष्टोमस्यानुयजनं संभवति | ऽदेवदत्तमनुगच्छति यज्ञदत्तःऽ इत्यत्र देवदत्ते पुरोगमनदर्शनात् | तस्मात् ऽअग्निं चिनुतेऽ इत्यत्राग्निनामको याग आख्यातेन विधीयते | चिनोतिस्तु ऽइष्टकाभिरग्निं चिनुतेऽ इति वाक्यप्राप्तस्य चयनस्य सोमयागविकृतित्वेन प्राप्तस्य ग्रहसमुदायस्येवानुवादः- इति प्राप्ते, ब्रूमः- अग्निशब्दो रूढ्या बह्निद्रव्यमाचष्टे | रूढिश्च कॢप्ततया लिङ्गादिकल्प्याद्यागवाचित्वा- द्बलीयसीति न यागनामत्वम् | न चात्र षागरुपमस्ति | द्रव्यदेतयोरसिद्धेः | अतः ऽअग्निमादधीतऽ इत्युक्ताधानत्वात् ऽअग्निं चिनुतेऽ इत्युक्तं चयनमग्निद्रव्यसंस्कारः | न च संस्कृतस्य विनियोगाभावः | ऽअग्निमग्निष्टोमेन यजतेऽ इत्यादिवाक्यैरग्निष्टोमादौ विनियोगात् | तस्मात्-संस्कारविधिः || MJऐNय्C_२,३.२४-२५ ||
SK
(एकादशे मासाग्निहोत्रादीनां क्रत्वन्तरताधिकरणे सूत्रम्)
SK
प्रकरणान्तरे प्रयोजनान्यत्वम् / Jऐम्_२,३.२४ /
SK
START MJऐNय् २,३.२६-२७
SK
एकादशाधिकरणमारचयति-
SK
मासं जुहोत्यग्निहोत्रं गुणो ऽन्यत्कर्म वा गुणः / अनूद्य प्राप्तकर्मात्र मासो ऽप्राप्तो विधीयते // MJऐNय्_२,३.२६ //
SK
उपसद्भिश्चरित्वेति नित्ये तासामसंभवात् / अनेकस्याविधेश्चान्यत्कर्म प्रकरणान्तरात् // MJऐNय्_२,३.२७ //
SK
कुण्डपायिनामयने श्रूयते-ऽउपसद्भिश्चरित्वाऽ ऽमासमग्निहोत्रं जुहोतिऽ ऽमासं दर्शपूर्णमासाभ्यां यजेतऽ इति | अत्र- प्राप्तं नित्याग्निहोत्रमनूद्य मासलक्षणो गुणो ऽप्राप्तत्वाद्विधीयते - इति चेत् | मैवम् | किं मास एव विधीयते,ऽउपसद्भिश्चरित्वाऽ इत्युक्तोपसदो ऽपि | नाऽद्यः | उपसदामपि नित्याग्निहोत्रप्राप्तिरहितानां त्वन्मते विधातव्यत्वात् | न द्वितीयः | प्राप्ते कर्मण्यनेकगुणविधौ वाक्यभेदापत्तेः | ननु मा भूत्तर्हि गुणविधिः | कर्मान्तरत्वे किं प्रमाणम् - इति चेत् | ऽप्रकरणान्तरम्ऽ- इति ब्रूमः | न सेतग्नित्याग्निहोत्रस्य प्रकरणम् | असंनिहितत्वात् | अयनस्य ह्येतत्प्रकरणम् | अयनमारभ्याधीतत्वात् | का तर्हि नित्याग्निहोत्रे गुणविधिशङ्का - इति चेत् | प्रकरणस्यासमर्पकत्वे ऽप्यग्निहोत्रशब्देनैतत्समर्पणादेषा शङ्का भवति | सा च वाक्यभेदापत्त्या निराकृता | तथा सति स्वतःसिद्धं प्रकरणभेदं निराकृत्य प्रकरणैक्यापादनेन गुणं विधापयितुं प्रवृत्तस्याग्निहोत्रशब्दस्य शक्तौ निरूद्धायां तदवस्थः प्रकरणभेदो नित्याग्निहोत्रादिदं कर्म भिनत्ति | अग्निहोत्रशब्दौ धर्मातिदेशार्थ इति सप्तमे वक्ष्यते | ननूपसन्मासाभ्यां विशिष्टमिदं कर्म विधीयते | ततो वाजिनन्यायेन गुणभेदात्कर्मभेदः, न प्रकरणभेदादिति चेत् | न | वैषम्यात् | ऽउपादेयतया विधेयो गुणो वाजिनम् | मासो न तथा इत्यपरं वैषम्यम् | परमार्थतस्त्वत्र प्रथमतरप्रतीतेन प्रकरणभेदेन सिद्धं कर्मभेदं गुणभेद उपोद्बलयति | ततः प्रकरणान्तरमेवात्र भेदहेतुः || MJऐNय्C_२,३.२६-२७ ||
SK
(द्वादशे, आग्नेयादिकाम्येष्ट्यधिकरणे सूत्रम्)
SK
फलं चाकर्मसंनिधौ / Jऐम्_२,३.२५ /
SK
START MJऐNय् २,३.२८-२९
SK
द्वादशाधिकरणमारचयति-
SK
अष्टाकपालमाग्नेयं रुक्कामः प्राकृते फलम् / कर्मान्यद्वा फलं भानात्पूर्वन्यायाप्रवेशनात् // MJऐNय्_२,३.२८ //
SK
मा भूद्भिन्नं प्रकरणं कर्मान्तरमसंनिधेः / अनारभ्याधीतमेतद्रूपं त्वन्यूनमीक्षते // MJऐNय्_२,३.२९ //
SK
अनारभ्य श्रूयते- ऽआग्नेयमष्टाकपालं निर्वपेद्रुक्कामःऽ इति | रुक्कामस्तेजस्कामः | अत्र - इष्टीनां प्रकृतिभूतदर्शपूर्णमासगतमाग्नेययागमनूद्य तत्र तेजस्कामरूपं फलं विधीयते | कुतः | वाक्येनाऽग्नेयफलसंबन्धस्य मासमानत्वात् | न च पूर्वोक्तमासाग्निहोत्रन्यायेन कर्मान्तरत्वम् | वैषम्यात् | तत्रायनमारभ्याधीतत्वादस्ति प्रकरणान्तरत्वम् | इह त्वनारभ्याधीतत्वेन प्रकरणमेव तावन्नास्ति, कुतो ऽत्र प्रकरणान्तरत्वम् | किंच मासो ऽनुपादेयः | अग्निहोत्रानुसारेण संपादयितुमशक्यत्वात् | फलं तूपादेयम्, दार्शपौर्णमासिकाग्नेयानुसारेण तेजसः कामयितुं शक्यत्वात् | तस्मात्-फलविधिः- इति प्राप्ते, ब्रूमः- प्रकरणान्तरत्वाभावे ऽप्यनारभ्याधीतत्वादसंनिधिरस्त्येव | स एवात्र कर्म भिनत्ति | न चात्र वाजिनन्यायेन कर्मभेदः, अष्टाकपालद्रव्याग्निदेवतात्मनो रूपस्योभयत्रैकविधत्वात् | यदि प्रकरणान्तरत्वमप्यसंनिधिकृतमित्यसंनिधिरेव मासाग्निहोत्रकर्मभेदहेतुः, तर्हि तस्यैवायं प्रपञ्चो ऽस्तु | फलं च मासवदनुपादेयम् | अन्यथा साधनवदफलत्वप्रसङ्गात् | कामना च विषयसौन्दर्यज्ञानात्स्वत एवोत्पद्यते | न तु विधिश्रवणात्संपद्यते | यद्यधिकरणयोर्न्यायभेदः, यदि वा न्यायैक्यम् | सर्वथा तेजस्कामेष्टिः कर्मान्तरम् | काम्येष्टिकाण्डपठितेषु ऽऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामःऽ इत्यादिष्वयमेव न्यायो द्रष्टव्यः || MJऐNय्C_२,३.२८-२९ ||
SK
(त्रयोदशे - अवेष्टेरन्नाद्यफलकत्वाधिकरणे सूत्रम्)
SK
संनिधौ त्व् अविभागात् फलार्थेन पुनः श्रुतिः / Jऐम्_२,३.२६ /
SK
START MJऐNय् २,३.३०-३२
SK
त्रयोदशाधिकरणमारचयति-
SK
यजोत्समे पौर्णमास्यां यावज्जीवं तथैतया / अन्नाद्यकाम इत्यादौ कर्मभेदौऽथवा गुणः // MJऐNय्_२,३.३० //
SK
विध्युपादानयोरैक्याद्देशादेरनुत्र्व्पत्तितः / आवश्यके कर्मविधौ तद्भेदः पुनरुक्तितः // MJऐNय्_२,३.३१ //
SK
देशादियोगस्याप्राप्तेर्विधिर्न ह्येकता तयोः / पुंशब्दयोर्व्यापृतित्वात्पुनरुक्त्वा त्वनूद्यते // MJऐNय्_२,३.३२ //
SK
दर्शपूर्णमासप्रकरणे देशकालनिमित्तान्याम्नायन्ते- ऽसमे यजेतऽ पौर्णमास्यां यजेतऽ ऽयावज्जीवं दर्शपूर्णमासाभ्यां यजेतऽ इति | अवेष्टिप्रकरणे फलमाम्नातम्-ऽएतयान्नाद्यकामं याजयंत्ऽ इति | आदिशब्देन संस्कारो गृहीतः | स च दर्शपूर्णमासप्रकरणे समाम्नातः-ऽशेषं स्विष्टकृते समवद्यतिऽ इति | तत्र-देशकालनिमित्तफलसंस्कारा अननुष्ठेयत्वादनुपादेयाः | अत एव न विधेयाः | उपादानविधिशब्दयोः पर्यायत्वात् | ततः-कर्मविधिः - इत्यवश्यमभ्युपेयम् | तत्र-प्रकरणिनो दर्शादेः पूर्वविहितस्यैवैभिर्वाक्यैः पुनर्विधाने ऽसमिधो यजतिऽ इत्यादिवदभ्यासादेव कर्मभेदः - इति प्राप्ते, ब्रूमः- देशादीनामविधेयत्वे ऽपि विहितकर्मणा सह तेषां संबन्धो विधीयताम् | स च कर्मवत्पूर्वे न विहित इत्यप्राप्तत्वाद्विधिमर्हति | यदुक्तम- उपादानविधिशब्दौ पर्यायौ - इति | तदसत् | ऽअप्रवृत्तप्रवर्तनं विधानम, तच्च पुरुषविषयः शब्दव्यापारः | अननुष्ठितस्यानुष्ठानमुपादानम, तच्च कर्माविषयः पुरुषव्यापारःऽ इति महान्भेदः | यो ऽपि-दर्शादीनां पुनर्विधिः सो ऽपि देशादिसंबन्धं विधातुं कर्मानुवादः - इति न कर्मभेदमावहति | समिधो ऽयजतिऽ इत्यादौ विधेयगुणान्तराभावेनानुवादांसभवात्पुनर्विधानं भेदहोतुः- इति वैषम्यम् || MJऐNय्C_२,३.३०-३२ ||
SK
(चतुर्दशे,आग्नेयद्विरुक्तेः स्तुत्यर्थताधिकरणे सूत्राणि २७-२९)
SK
आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत / Jऐम्_२,३.२७ /
SK
अविभागात् तु कर्मणां द्विरुक्तेर् न विधीयते / Jऐम्_२,३.२८ /
SK
अन्यार्था वा पुनः श्रुतिः / Jऐम्_२,३.२९ /
SK
START MJऐNय् २,३.३३-३४
SK
चतुर्दशाधिकरणमारचयति-
SK
दर्शपूर्णमासप्रोक्त आग्नेयः केवलो ऽप्यसौ / दर्शे यदिति वाक्याभ्यां कर्मान्यद्वानुवादगीः // MJऐNय्_२,३.३३ //
SK
अभ्यासादन्यकर्मत्वं दर्शेष्टौ द्विः प्रयुज्यताम् / एकत्वप्रत्यभिज्ञानादनूक्त्यैन्द्राग्नसंस्तुतिः // MJऐNय्_२,३.३४ //
SK
यदाग्नेयो ऽष्टाकपालो ऽमावस्यायां पौर्णमास्यां चाच्युतो भवति | इति कालद्वये विहितम् | ऽयदाग्नेयो ऽष्टाकपालो ऽमावास्यायां भवतिऽ इत्येकस्मिन्काले पुनर्विहितम् | तत्र - अविशेषपुनःश्रुतिलक्षणेनाभ्यासेन प्रयाजानामिव भेदः | तथा सत्याग्नेययागस्य दर्शकाले द्विःप्रयोगः- इति चेत् | न | प्रत्यभिज्ञानादाग्नेयस्यैकत्वे सत्येककालवाक्यस्यानुवादकत्वात् | न चानुवादो व्यर्थः | विधेयैन्द्राग्नस्तुत्यर्थत्वात् | यद्यप्याग्नेयो ऽष्टाकपालो ऽमावास्यायां भवति, तथापि न केवलेनाग्निना साधुर्भवति | इन्द्रसहितो ऽग्निः समीचीनतरः | तस्मात्--- ऽऐन्द्राग्नः कर्तव्यःऽ इति विधेयस्तुतिः | प्रयाजवैषम्यं तूक्तमेवानुसंधेयम् || MJऐNय्C_२,३.३३-३४ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालविस्तरे द्वितीयाध्यायस्य तृतीयः पादः
SK
(अथ द्वितीयाध्यायस्य चतुर्थः पादः)
SK
(प्रथमे यावज्जीविकाग्निहोत्राधिकरणे सूत्राणि १ - ७)
SK
यावज्जीविको ऽभ्यासः कर्मधर्मः प्रकरणात् / Jऐम्_२,४.१ /
SK
कर्तुर् वा श्रुतिसंयोगात् / Jऐम्_२,४.२ /
SK
लिङ्गदर्शनाच् च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकम् अन्यत् स्यात् / Jऐम्_२,४.३ /
SK
अपवर्गे च दर्शयति कालश् चेत् कर्मभेदः स्यात् / Jऐम्_२,४.४ /
SK
अनित्यत्वात् तु नैवं स्यात् / Jऐम्_२,४.५ /
SK
विरोधश् चापि पूर्ववत् / Jऐम्_२,४.६ /
SK
कर्तुस् तु नियमात् कालशास्त्रं निमित्तं स्यात् / Jऐम्_२,४.७ /
SK
START MJऐNय् २,४.१-२
SK
चतुर्थपादस्य प्रथमाधिकरणमारचयति-
SK
यावज्जीवं जुहोतीति धर्मः कर्मणि पुंसि वा / कालत्वात्कर्मधार्मो ऽतः काम्य एकः प्रयुज्यताम् // MJऐNय्_२,४.१ //
SK
न कालो जीवनं तेन निमित्तप्रविभागतः / काम्यप्रयोगो भिन्नः स्याद्यावज्जीवप्रयोगतः // MJऐNय्_२,४.२ //
SK
बह्वृचब्राह्मणे श्रूयते- ऽयावज्जीवमाग्निहोत्रं जुहोतिऽ इति | तत्रं यावज्जीवशब्दो मरणावधिकालपरः | तत्कालसंबन्धश्च प्रकृते काम्याग्निहोत्रे पूर्वमप्राप्तत्वात् ऽजुहोतिऽ इत्यनूदिते कर्मणि विधीयते | तथा सत्यस्य वाक्यस्य नित्यप्रयोगविधायकत्वाभावेन वाक्यान्तरविहितः काम्यप्रयोग एक एवाग्निहोत्रस्य पर्यवस्यति | स च काम्यप्रयोगो ऽभ्यसितव्यः | सकृदनुष्ठानस्य ऽअग्निहोत्रं जुहुयात्स्वर्गकामःऽ इत्यनेनैव सिद्धत्वात् | ऽयावज्जीवम्ऽ इत्यस्य कालविधेर्वैयर्थ्यप्रसङ्गात् | तस्मात्-अयं काम्यकर्मणो ऽभ्याससिद्धये कालरूपधर्मविधिः | इति प्राप्ते,- ब्रूमः- यावज्जीवशब्दो न कालस्य वाचकः, किंतु लक्षकः | वाच्यार्थस्तुकृत्स्नजीवनम् | न च-जीवनं कर्मधर्मत्वेन विधातुं शक्यम् | तस्य पुरुषधर्मत्वात् | तं च पुरुषधर्मे निमित्तीकृत्याग्निहोत्रप्रयोगो विधीयते | न च - अत्र कर्मभेदः | तद्धेतूनां शब्दान्तरादीनामभावात् | न च-अभ्यासस्तद्धेतुः | निमित्तविशेषसद्भावेनाविशेषपुनःश्रुतेरभावात् | अतः प्रयोगभेदः पर्यवस्यति | जीवनस्यात्र निमित्तत्वात् | सति निमित्ते नैमित्तिकस्य त्यागायोगान्नित्यत्वमर्थसिद्धम् | न च-जीवननिमित्तनैरन्तर्येण प्रयोगनैरन्तर्यापत्तिः | सायंप्रातःकालयोर्विहितत्वात् | तस्मात्-जीवनस्य पुरूषधर्मत्वान्नीत्यकाम्यप्रयोगौ भिन्नौ || MJऐNय्C_२,४.१-२ ||
SK
(द्वितीये सर्वशाखाप्रत्ययैककर्मताधिकरणे सूत्राणि ८ - ३२)
SK
नामरूपधर्मविशेषपुनरुक्तिनिन्दाशाक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात् / Jऐम्_२,४.८ /
SK
एकं वा संयोगरूपचोदनाख्याविशेषात् / Jऐम्_२,४.९ /
SK
न नाम्ना स्याद् अचोदनाभिधानत्वात् / Jऐम्_२,४.१० /
SK
सर्वेषां चैककर्म्यं स्यात् / Jऐम्_२,४.११ /
SK
कृतकं चाभिधानम् / Jऐम्_२,४.१२ /
SK
एकत्वे ऽपि परम् / Jऐम्_२,४.१३ /
SK
विद्यायां धर्मशास्त्रम् / Jऐम्_२,४.१४ /
SK
अग्नेयवत्पुनर्वचनम् / Jऐम्_२,४.१५ /
SK
अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् / Jऐम्_२,४.१६ /
SK
अर्थासन्निधेश् च / Jऐम्_२,४.१७ /
SK
न चैकं प्रतिशिष्यते / Jऐम्_२,४.१८ /
SK
समाप्तिवच् च संप्रेक्षा / Jऐम्_२,४.१९ /
SK
एकत्वे ऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि / Jऐम्_२,४.२० /
SK
प्रायश्चित्तं निमित्तेन / Jऐम्_२,४.२१ /
SK
प्रक्रमाद् वा नियोगेन / Jऐम्_२,४.२२ /
SK
समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत / Jऐम्_२,४.२३ /
SK
लिङ्गमविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्माद् द्वादशाहस्याहारव्यपदेशः स्यात् / Jऐम्_२,४.२४ /
SK
द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यतिष्ठेत तस्मान् नित्यानुवादः स्यात् / Jऐम्_२,४.२५ /
SK
विहितप्रतिषेधात् पक्षे ऽतिरेकः स्यात् / Jऐम्_२,४.२६ /
SK
सारस्वते विप्रतिषेधाद्यदेति स्यात् / Jऐम्_२,४.२७ /
SK
उपहव्ये ऽप्रतिप्रसवः / Jऐम्_२,४.२८ /
SK
गुणार्था वा पुनः श्रुतिः / Jऐम्_२,४.२९ /
SK
प्रत्ययं चापि दर्शयति / Jऐम्_२,४.३० /
SK
अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत / Jऐम्_२,४.३१ /
SK
विरोधिना त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात् / Jऐम्_२,४.३२ /
SK
START MJऐNय् २,४.३-४
SK
द्वितीयाधिकरणमारचयति -
SK
शाखाभेदात्कर्मभेदो न वा, कर्मात्र भिद्यते / दृष्टं काठकनामादि बहु भेदस्य कारणम् // MJऐNय्_२,४.३ //
SK
ग्रन्थद्वारादिना ह्येते युज्यन्ते भेदहेतवः / रूपादिप्रत्यभिज्ञानादभिन्नं कर्म गम्यते // MJऐNय्_२,४.४ //
SK
काठककाण्वमाध्यंदिनतैत्तिरीयादिशाखासु दर्शपूर्णमासाख्यं कर्माऽन्नातम् | तत्र शाखाभेदात्कर्म भिद्यते | कुतः | भेदकारणानां नामभेदादीनां बहूनामुपलम्भात् | काठक-काण्वादिको नामभेदः | कारीरीवाक्यान्यधीयानाः केचिच्छाखिनो भूमौ भोजनमाचरन्ति, शाखान्तरध्यायिनो नाऽचरन्ति, इति धर्मभेदः | एकस्यां शाखायामधीताः ऽइषे त्वाऽ इत्यादयो मन्त्राः, पलाशशाखाच्छेदादयः क्रियाश्च, शाखान्तरे ऽप्यधीयन्त इति पुनरुक्तिः | एवमशक्त्यादयो भेदहेतव उदाहार्याः | न ह्यल्पायुवा मनुष्येण सर्वशाखाध्ययनपूर्वकं कर्मानुष्ठानं कर्तु शक्यम् | तस्मात्-शाखाभेदेन कर्मभेदः | इति प्राप्ते- ब्रूमः- रूपाद्यभेदादेकं कर्म | आग्नेयाष्टाकपालादियागरूपं षदेवैकस्यां शाखायाम्, तदेवान्यत्राप्युपलभ्यते | ऽदर्शपूर्णमासाभ्यां यजेतऽ इति यागरूपः पुरूषव्यापारश्चैकविधः | ऽदर्शपूर्णमासौऽ इति कर्मनामाप्येकम् | ऽस्वर्गकामःऽ इति फलसंबधो ऽप्येकः | तस्मात्- अभिन्नं कर्म | पूर्वपक्षहेतवस्त्वन्यथा संगच्छन्ते | काठकादिकं ज्योतिरादिवन्न कर्मसाम, ऽकाठकेन यजेतऽ इत्यश्रवणात् | ऽकाठकवधीतेऽ इति प्रयोगाद्ग्रन्थनोमत्यवगन्तव्यम् | भूभोजनादिरध्ययनधर्मः | पुनरुक्तिरध्येतृभेदान्न दुष्यतिऽ | अल्पायुवापि शाखान्तरस्थोपसंहारन्यायेन कर्मानुष्ठातुं शक्यते | तस्मात्- अनन्यथासिद्धरूपप्रत्यभिज्ञानाच्छाखाभेदे ऽपि कर्म न भिद्यते || MJऐNय्C_२,४.३-४ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य चतुर्थः पादः
SK
द्वितीयो ऽध्यायस्य समाप्तः
SK
अथ तृतीयाध्यायस्य प्रथमः पादः /
SK
START MJऐNय् ३,१.१
SK
द्वितीये कर्मणां भेदे सिद्धेभिन्नक्रियास्वयम् / बुभुत्सितः शेषशेषिभावो ऽतो ऽत्राभिधीयते // MJऐNय्_३,१.१ //
SK
अनेन द्वितीयतृतीययोरध्याययोः पौर्वापर्ये निरूपितम् || MJऐNय्C_३,१.१ ||
SK
(प्रथमे प्रतिज्ञाधिकरणे सूत्रम् -)
SK
अथातः शेषलक्षणम् / Jऐम्_३,१.१ /
SK
START MJऐNय् ३,१.२-३
SK
तृतीयाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति--
SK
अशाब्दी शेषता शाब्दी वा न शाब्द्यप्रतीतितः / क्रियाकारकसंसर्गमात्रे व्युत्पत्तिसंभवात् // MJऐNय्_३,१.२ //
SK
गुणप्रधानभावेन संसर्गे ऽन्तर्भवत्यसौ / व्युत्पत्तिसंभवात्तत्र शाब्दता स्यात्क्रियादिवत् // MJऐNय्_३,१.३ //
SK
यदिदमस्मिंस्तृतीयाध्याये प्रतिपाद्यं शेषत्वम्, न तच्छाब्दम् | कुतः | केनापि शब्देन शेषत्वस्याप्रतीयमानत्वात् | व्युत्पन्नो हि शब्दः प्रत्यायकः | व्युत्पतिश्च न शेषशेषिभावे क्वचिद्दृष्टा | लोके सर्वत्र क्रियाकारकान्वयस्यैव व्युत्पत्तिप्रयोजकत्वदर्शनात् | अतः शेषताया अशब्दत्वान्नायमध्याय आरम्भणीय इति चेत् | मैवम् | अन्वये शेषशेषिभावस्यान्तर्भावात् | न हि गुणप्रधानभावमन्तरेणान्वयः संभवति | द्वयोर्गुणयोः परस्पराकाङ्क्षारहितत्वेनान्वययोग्यत्वाभावात् | एवं द्वयोः प्रधानयोरपि | अतो व्युत्पत्तिसंभवात्क्रियाकारकतदन्वया यथा शाब्दाः, तथा तदन्वयान्तर्गतः शेषशेषिभावो ऽपि शाब्दः | तस्मादयमध्याय आरम्भणीयः || MJऐNय्C_३,१.२-३ ||
SK
( द्वितीये शेषलक्षणाधिकरणे सूत्रम् -)
SK
शेषः परार्थत्वात् / Jऐम्_३,१.२ /
SK
START MJऐNय् ३,१.४
SK
द्वितीयाधिकरणमारचयति-
SK
स्वरूपहेतू न स्तो ऽत्र स्तो वा नैवानिरूपणात् / पारार्थ्ये शेषताहेतू रूपं तेनोपलक्षितम् // MJऐNय्_३,१.४ //
SK
न तावदत्र शेषत्वस्य स्वरूपं निरूपयितुं शक्यते | तथा हि-शेषत्वं नाम किम्-अविनाभूतत्वम्, प्रयोज्यत्वं वा, विध्यन्तविहितत्वं वा | नाऽद्यः | षडद्यागानामविनाभूतानां परस्परशेषत्वप्रसङ्गात् | न द्वितीयः | ऽपुरोडाशकपालेन तुषानुपवपतिऽ इत्यत्र तुषोपवापं प्रति शेषस्यापि कपालस्य तत्प्रयोज्यत्वाभावात् | न तृतीयः | बिध्यादिविहितस्य पलाशशाखाच्छेदस्य सत्यपि शेषत्वे विध्यन्तविहितत्वाभावात् | तस्मान्नास्ति शेषतायाः स्वरूपम् | नापि हेतुरस्ति | ऽविमतः शेषः, एवंत्वात्, इति कस्यचिद्धेतोरनिरूपणात्-इति प्राप्ते,- ब्रूमः- ऽविमतः प्रयाजादिः शेषः, परार्थत्वात्, भृत्यादिवत्ऽ इति हेतुः सुनिरूपः | अविनाभूतत्वादीनां लक्षणानां दुष्टत्वे ऽपि ऽपरार्थः शेषःऽ इति लक्षणस्यादुष्टत्वात् | तेन लक्षित आकारः स्वरूपम् | न च पारार्थ्यस्यैव हेतुत्वे लक्षणत्वे च सांकर्यम् | आकारभेदेन तद्भेदात् | दृष्टान्ते गृहीतव्याप्तिं सहायीकृत्य बोधक आकारो हेतुः |
SK
इतख्यावृत्त्या बोधक आकारो लक्षणम् | तस्माच्छेषताया हेतुस्वरूपे विद्येते || MJऐNय्C_३,१.४ ||
SK
(तृतीये शेषलक्ष्याधिकरणे सूत्राणि ३-६)
SK
द्रव्यगुणसंस्कारेषु बादरिः / Jऐम्_३,१.३ /
SK
कर्माण्यपि जैमिनिः फलार्थत्वात् / Jऐम्_३,१.४ /
SK
फलं च पुरुषार्थत्वात् / Jऐम्_३,१.५ /
SK
पुरुषश् च कर्मार्थत्वात् / Jऐम्_३,१.६ /
SK
START MJऐNय् ३,१.५-६
SK
तृतीयाधिकरणमारचयति-
SK
किं द्रव्यगुणसंस्कारमात्रं शेषो ऽथवा फलम् / पुमान्कर्म च पक्षो द्वावादेयौ मतभेदतः // MJऐNय्_३,१.५ //
SK
शेषत्वमुपकारित्वं द्रव्यादावाह बादरिः / पारार्थ्ये शेषता तच्च सर्वेष्वस्तीति जैमिनिः // MJऐNय्_३,१.६ //
SK
स्फ्यकपालादिकं द्रव्यम्, अरूणिमादिको गुणः, अवघातप्रोक्षणादिकः संस्कारः | एतेषु त्रिष्वेव शेषत्वम् | स्वर्गः फलम्, तत्कामी पुरुषः, दर्शपूर्णमासौ कर्म | न हि फलादीनां त्रयाणां शेषत्वमस्ति | उपकारित्वस्य शेषत्वलक्षणस्य फलादिष्वभावात् - इति बादरेर्मतम् | पारार्थ्ये लक्षणमभिप्रेत्य ऽफलादयो ऽपि शेषाःऽ इति जैमिनेर्मतम् | तथा च त्रीणि सूत्राणि पठ्यन्ते- ऽकर्माण्यपि जैमिनिः फलार्थत्वात्ऽ ऽफलं च पुरुषार्थत्वात्ऽ ऽपुरुषश्च कर्मार्थत्वात्ऽ इति | तत्रोपकारित्वमतिव्याप्तम् | प्रधानभूते ऽपि स्वामिनि गर्भदासोपकारित्वदर्शनात् | तस्माज्जैमिनिमतमेव मुख्यः सिद्धान्तः || MJऐNय्C_३,१.५-६ ||
SK
(चतुर्थे निर्वपणादीनां व्यवस्थितविषयताधिकरणे सूत्राणि ७ - १०)
SK
तेषाम् अर्थेन संबन्धः / Jऐम्_३,१.७ /
SK
विहितस् तु सर्वधर्मः स्यात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च / Jऐम्_३,१.८ /
SK
अर्थलोपाद् अकर्मे स्यात् / Jऐम्_३,१.९ /
SK
फलं तु सह चेष्टया शब्दार्थो ऽभावाद् विप्रयोगे स्यात् / Jऐम्_३,१.१० /
SK
चतुर्थाधिकरणमारचयति-
SK
START MJऐNय् ३,१.७-८
SK
श्रुता व्रीह्याज्यसांनाय्यधर्माः सांकर्यगामिनः / व्यवस्थिता वा सांकर्ये फलापूर्वेण संगतेः // MJऐNय्_३,१.७ //
SK
अवान्तरापूर्वसत्त्वात्साक्षात्तेनैव संगतौ / श्रुत्या व्यवस्थापितास्ते सा हि प्रकरणोत्तमा // MJऐNय्_३,१.८ //
SK
व्रीहिधर्मा अवघातप्रोक्षणादयः, आज्यधर्मा उत्पवनावेक्षणादयः, सांनाय्यधर्मा दोहनातञ्चनादयः | ते सर्वे फलहेतुतया दर्शपूर्णमासापूर्वेण संगच्छन्ते | अवान्तरापूर्वस्य कस्यचिदभावात् | एकेनैवापूर्वेण फलसिद्धावपूर्वान्तरस्य कल्पकाभावात् | फलापूर्वप्रयुक्त्या चानुष्ठीयमाना धर्मा यस्मिन्कस्मिन्नपि द्रव्ये ऽनुष्ठिताः फलापूर्वे जनयन्त्येव- इति सांकर्ये प्राप्ते, - ब्रूमः- आग्नेयादयः षड्यागा भिन्नक्षणवर्तिनो विनश्वराः संभूय फलापूर्वे जनयितुं न शक्नवन्ति | ततस्तज्जननसमर्थान्याग्नेयादिजन्यानि षडवान्तरापूर्वाणि कल्प्यानि | तेषु पुरोडाशद्रव्यकयागजन्यापूर्वे व्रीहिधर्माणां प्रयोजकं, प्रत्यासन्नत्वात् | फलापूर्वे तु तेन व्यवहितम् | एवम्-आज्यधर्माणां सांनाय्यधर्माणां च तत्तद्द्रव्यकयागजन्यावान्तरापूर्वेणैव साक्षात्संगतिः | तथासति तत्तदपूर्वप्रयुक्ताः संस्कारास्तत्तदपूर्वसाधनप्रकृतिद्रव्येष्वेव व्यवतिष्ठन्ते | ननु दर्शपूर्णमासप्रकरणमत्र संस्काराणां विनियोजकम् | तच्च सर्वप्रकृतिद्रव्यसाधारणमिति तदवस्थमेव सांकर्यम् | अथोच्येत-ऽतुषविमोकस्य व्रीहिष्वेव संभवात्तेष्ववाववातः, न त्वाज्यसांनाय्ययोः | एवं विलापनमाज्य एव | दोहनादिकं सांनाय्य एवऽ - इति | बाढम् | दृष्टार्थानां धर्माणां व्यवस्थितत्वे ऽप्यदृष्टार्थाः प्रोक्षणादयः संकीर्येरन-इति चेत् | मैवम् | ऽव्रीहीन्प्रोक्षतिऽ ऽआज्यमवेक्षतेऽ इत्यादिद्वितीयाश्रुत्या व्यवस्थापितत्वात् | श्रुतिश्च प्रकरणाद्बलीयसी | तस्माद्व्यवस्थिता धर्माः || MJऐNय्C_३,१.७-८ ||
SK
(पञ्चमे स्फ्यादीनां संयोगानुसारेण व्यवस्थितत्वाधिकरणे सूत्रम्)
SK
द्रव्यं चोत्पत्तिसंयोगात् तद् अर्थम् एव चोद्येत / Jऐम्_३,१.११ /
SK
START MJऐNय् ३,१.९-१०
SK
पञ्चमाधिकरणमारचयति-
SK
द्रव्यस्य स्फ्यकपालादेः सांकर्ये वा व्यवस्थितिः / यज्ञायुधत्वं सर्वेषां समं तेनात्र संकरः // MJऐNय्_३,१.९ //
SK
वाक्यस्योद्धननादेः स्याद्वैयर्थ्ये संकरे सति / अनुवादो ह्यायुधोक्तिर्व्यवस्था तेन पूर्ववत् // MJऐNय्_३,१.१० //
SK
दर्शपूर्णमासयोः श्रूयते - ऽस्फ्यश्च कपालानि चाग्निहोत्रहवणी च शूर्पे च कृष्णाजिनं च शम्या चोल्खलं च मुसलं च दृषच्चोषला चैतानि वै दश यज्ञायुधानिऽ इति | स्फ्यशब्देन खड्गाकारं काष्ठमुच्यते | तत्र-व्रीह्यादिद्रव्येष्ववघातादिसंस्काराणां सांकर्ये निराकृते ऽपि स्फ्यकपालादिद्रव्याणा मुद्धननपुरोडाशश्रवणाद्यङ्गक्रियासु सांकर्ये निराकर्तुमशक्यम् | येन केनापि द्रव्येण यस्यां कस्यांचित्क्रियायां कृतायामपि श्रूयमाणस्य यज्ञायुधत्वस्याविरोधात् | नह्यव्यवस्थामात्रेण यज्ञसाधनत्वमपैति - इति प्राप्ते, -- ब्रूमः- ऽस्फ्येनोद्धन्तिऽ ऽकपालेषु श्रपयतिऽ ऽअग्निहोत्रहवण्या हवींषि निर्वपतिऽ ऽशूर्पेंण विविनक्तिऽ ऽकृष्णाजिनमधस्तादुलूखलस्यावस्तृणातिऽ ऽशम्यया | दृषदमुपदधातिऽ ऽउलूखलमुसलाभ्यामवहन्तिऽ ऽदृषदुपलाभ्यां पिनष्टिऽ इत्येतेषां विशेषसंयोगबोधकानां वाक्यानां वैयर्थ्ये सांकर्यपक्षे प्रसज्येत | व्यवस्थापक्षे ऽपि संबन्धसामान्यबोधकं यज्ञायुधवाक्यमनर्थकम् - इति चेत् | न | उद्धननादिवाक्यसिद्धार्थानुवादत्वात् | न च वैपरीत्येनोद्धननादिवाक्यानामेवानुवादत्वमिति वाच्यम् | बहुवैयर्थ्यस्य जघन्यत्वात् | न चात्यन्तं यज्ञायुधानुवादस्य वैयर्थ्यम् | ऽयज्ञायुधानि संभरन्तिऽ इत्यासादनबिधानायोपयुक्तत्वात् | तस्मात् - अवघातादिसंस्कार इव स्फ्यकपालादिद्रव्याणि व्यवस्थितानि || MJऐNय्C_३,१.९-१० ||
SK
(षष्ठे, आरुण्यादिगुणानामसंकीर्णताधिकरणे सूत्रम् -)
SK
अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात् / Jऐम्_३,१.१२ /
SK
START MJऐNय् ३,१.११-१२
SK
षष्ठाधिकरणमारचयति-
SK
क्रीणात्यरुणयेत्येतत्संकीर्णे वा क्रयैकभाक् / क्रमेणानन्वयात्कीर्णः सर्वद्रव्येषु रक्तिमा // MJऐNय्_३,१.११ //
SK
द्रव्यद्वारा क्रये योगात्तद्भागे चान्वयः पुनः / साक्षात्क्रये गुणस्यार्थाद्द्रव्यं संनिहिते त्वसौ // MJऐNय्_३,१.१२ //
SK
ज्योतिष्टोमे श्रूयते - ऽअरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणातिऽ इति | तत्र - अरुणाशब्दो ऽरुणिमानं गुणमाचष्टे | गुणिविषयतया प्रयुज्यमानस्यापि ऽनागृहीतविशेषण विशिष्टेर् बुद्धःऽ इति न्यायेन गुणबोधकत्वात् | अन्वयव्यतिरेकाभ्यां गुणमात्रे तद्व्युत्पत्तेश्च | तस्य चारुणिमगुणस्य तृतीयाश्रुत्या सोमक्रयसाधनत्वं प्रतीयते तच्चानुपपन्नम् | अमूर्तस्य गुणस्य वासोहिण्याजिवत्क्रयसाधनत्वासंभवात् | ततस्तृतीयाश्रुतेर्विनियोजकत्वाभावेन प्रकरणस्यात्र विनियोजकत्वं वक्तव्यम् | प्रकरणं च ग्रहचमसाद्यखिलद्रव्येष्वरुणिमानं निवेशयति | न चानेन न्यायेन पिङ्गाक्ष्येकहायनीशब्दार्थयोरपि सर्वद्रव्यगामित्वं शङ्कनीयम् | तयोः शब्दयोर्द्रव्यवाचित्वात् | पिङ्गलवर्णे अक्षिणी यस्याः सा गौः पिङ्गाक्षी | एवमेकहायनी | यद्यप्येकगोवाचिनौ शब्दौ, तथापि विशेषणभूतधर्मभेदाच्छब्दद्वयम् | तच्च युगपत्प्रवृत्तं सद्धर्मद्वयविशिष्टं गोद्रव्यं क्रयसाधनत्वेन विदधाति | न चेतरद्द्रव्यमितरद्रव्ये निवेशयितुं शक्यम् | अरुणिमगुणस्तु द्रव्येषु विशेषणत्वेनान्वेतुं योग्यत्वात्तेषु निवेश्यते | तत्रैषाक्षरयोजना - ऽअरुणयाऽ इत्येतत्पृथग्वाक्यम् | तत्र तृतीयाश्रुत्या प्राकरणिकानि साधनद्रव्याणि सर्वाण्यनूद्य प्रातिपदिकेन गुणो विधीयते-ऽयानि ज्योतिष्टोम् साधनद्रव्याणि, तानि सर्वाण्यरुणानि कर्तव्यानिऽ इति | तस्मात् - गुणः संकीर्णः- इति प्राप्ते, - ब्रूमः- यद्यप्यमूर्ते गुणः, तथापि हायनवदक्षिवच्च गोद्रव्यमवच्छिनत्ति | तच्च द्रव्यं साधनमिति तद्द्वारा गुणस्य क्रयेणान्वयो भवति | एवं सति वाक्यभेदो न भविष्यति | ननु वाक्यभेदाभावे ऽपि लक्षणा दुर्वारा | गुणवाचिनः शब्दस्य गुणिद्रव्यपरत्वाङ्गीकारात् | मैवम् | गुस्यैवात्र तृतीयाश्रुत्या साधनत्वमुच्यते | तच्च द्रव्यद्वारमन्तरेण न संभवतीत्यर्थापत्त्या द्रव्यावच्छेदकत्वं कल्प्यते | तर्हि ग्रहचमसादिद्रव्यमप्यवच्छिद्यताम् - इति चेत् | न | तस्य द्रव्यस्य क्रयसाधनत्वाभावेन तदवच्छेदे गुणस्य श्रूयमाणक्रयसाधनत्वासिद्धेः | तर्हि - ऽवाससा क्रीणातिऽ ऽअजया क्रीणातिऽ इति वस्त्रादीनां क्रयसाधनत्वात्तदवच्छेदो ऽस्तु - इति चेत् | न | तेषां क्रयान्तरसाधनत्वात् | न हि तत्राग्निहोत्रे पयोदध्यादिविकल्पवत्क्रयानुवादेन वस्त्रादिद्रव्यविकल्पो विधीयते | अनुवाद्यस्य क्रयमात्रस्याग्निहोत्रवदन्यत्राविधानात् | ततो वस्त्रादिद्रव्यविशिष्टाः क्रयान्तरविधयः | नहि स्ववाक्यगतमेकहायनीद्रव्यमुपेक्ष्य वस्त्राद्यवच्छेदो युक्तः | तस्मात्क्रयेण साक्षादन्वितयोर्द्रव्यगुणयोः पश्चादर्थापत्त्या परस्परवच्छेदकत्वेनान्वयः | तथा सति ऽआरुण्यविशिष्टैकहायन्या क्रीणातिऽ इत्यर्थः पर्यवस्यति | तस्मात् - आरुण्यगुणः क्रयहेतुमेकहायनीमेव भजते || MJऐNय्C_३,१.११-१२ ||
SK
(सप्तमे ग्रहसंमार्जनाधिकरणे (ग्रहैकत्वन्याये) सूत्राणि १३ - १५)
SK
एकत्वयुक्तम् एकस्य श्रुतिसंयोगात् / Jऐम्_३,१.१३ /
SK
सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम् / Jऐम्_३,१.१४ /
SK
चोदिते तु परार्थत्वाद् यथाश्रुति प्रतीयेता / Jऐम्_३,१.१५ /
SK
START MJऐNय् ३,१.१३-१४
SK
सप्तमाधिकरणमारचयति -
SK
संमार्ष्टि ग्रहमित्येको ग्रहः शोध्य उताखिलः / एक उद्देश्यसंख्याया उपादेयवदादरात् // MJऐNय्_३,१.१३ //
SK
प्राधान्यात्तद्गुणावृत्तेरेकत्वमनपेक्षितम् / तद्विधौ वाक्यभेदो ऽतो द्रव्योक्त्या सर्वशोधनम् // MJऐNय्_३,१.१४ //
SK
सोमे श्रूयते- ऽदशापवित्रेण ग्रहं संमार्ष्टिऽ इति | दशापत्रित्रं वासःखण्डः | तत्र - यथा ऽपशुना यजेतऽ इत्यश्चोपादेयपशुगतमेकत्वं विवक्षितम्, तद्वद्द्देश्यग्रहगतमप्येकत्वं विवक्षितव्यम् | किंच ग्रहशब्दस्य जातिवाचित्वेन जातेः संस्कायत्वे सति तदाश्रयभूते यस्मिन्कस्मिन्नपि द्रव्ये ऽनुष्ठितेन संस्कारेण जातिः संस्कृता भवति | तस्मात् - एक एव ग्रहः शोधनीयः-इति प्राप्ते, - ब्रूमः- ऽग्रहम्ऽ इति द्वितीयया ग्रहस्योद्देश्यतया प्रयोजनवत्तया च प्राधान्यं गम्यते | ग्रहं प्रति गुणः संमार्गः | ऽप्रतिप्रधानं च गुण आवर्तनीयःऽ इति न्यायेन यावन्तो ग्रहाः सन्ति, ते संमार्जनीयाः | एवं निश्चये सति संमार्जयितव्यग्रहेयत्ताया अवुभुत्सितत्वादुद्देश्यगतमेकत्वं श्रूयमाणमप्यविवक्षितम् | अथोच्येत - नेदमुद्देश्यगतम्, किंतु द्वयं विधेयम्-इति | तन्न | वाक्यभेदापत्तेः | ऽग्रहं संसृज्यात्, तं चैकम्ऽ इत्येवं विधेयार्थभेदाद्वाक्यभेदः | ऽ पशुना यजेतऽ इत्यत्र तु यागं प्रति गुणभूतः पशुः | न हि ऽप्रतिगुणं प्रधानस्याऽवृत्तिःऽ इति कश्चिन्यायो ऽस्ति | तत इयत्ताया बुभुत्सितत्वाच्छ्रूयमाणमेकत्वं विवक्ष्यत इति वैषम्यम् | न च जातिः संस्कार्या | तस्या अभूर्तत्वात् | ततो जातिद्वारा द्रव्यलक्षको गुणशब्दः | तत्र चाऽवृत्तिरुक्ता | तस्मात्- सर्वे ग्रहाः संमार्जनीयाः || MJऐNय्C_३,१.१३-१४ ||
SK
(अष्टमे चमसादौ संमार्गाद्यप्रयोगाधिकरणे सूत्रे १६ - १७)
SK
संस्काराद् वा गुणानाम् अव्यवस्था स्यात् / Jऐम्_३,१.१६ /
SK
व्यवस्था वार्थस्य श्रुतिसंयोगात् तस्य शब्दप्रमाणत्वात् / Jऐम्_३,१.१७ /
SK
START MJऐNय् ३,१.१५-१६
SK
अष्टमाधिकरणमारचयति -
SK
चमसादि च संसृज्यान्नो वा तस्यास्ति मार्जनम् / एकत्ववद्ग्रहत्वस्याप्यनादरणसंभवात् // MJऐNय्_३,१.१५ //
SK
अबाधो ऽत्राऽदरे हेतुर्वाक्यभेदस्तु नैव हि / चमसादौ न संमार्गः श्रुत्या तद्विषयार्पणात् // MJऐNय्_३,१.१६ //
SK
ऽग्रहम्ऽ इत्यत्र प्रत्ययार्थभूतमेकत्वं यथा न विवक्षितम्, तथा प्रातिदिकार्थस्य ग्रहत्वस्याप्यविवक्षा संभाव्यते | ततो ग्रहशब्दस्य सोमपात्रोपलक्षकत्वाद्ग्रहाणामिव चमसानामपि संमार्गेण सोमावसेकनिर्हरणप्रयोजनसंभवाच्यमसादयो ऽपि मार्जनीयाः- इति प्राप्ते, - ब्रूमः- एकत्वं वाक्यभेदेन दुष्टत्वादविवक्षितम् | अदुष्टं तु ग्रहत्वं कुतो न विवक्ष्येत | ततः सत्यपि प्रयोजने प्रमाणाभावाच्चमसादौ नास्ति संमार्गः | न च विपयापेक्षया तत्कल्पनम् | ग्रहश्रुत्यैव तद्विषयसमर्पणात् | तस्मान्नास्ति संमार्गः || MJऐNय्C_३,१.१५-१६ ||
SK
(नवमे सप्तदशारत्नितायाः पशुधर्मताधिकरणे सूत्रम्)
SK
आनर्थक्यात्तदङ्गेषु / Jऐम्_३,१.१८ /
SK
START MJऐNय् ३,१.१७-१९
SK
नवमाधिकरणमारचयति -
SK
भवेत्सप्तदशारत्निर्वाजपेयस्य यूपकः / उन्मानं द्रव्यगं वाजपेयस्याङ्गं पशोरुत // MJऐNय्_३,१.१७ //
SK
आनन्तर्यात्प्रकरणात्कर्माङ्गं षोडशिन्यदः / ऊर्ध्वपात्रे खादिरे ऽग्ने संयुज्यान्वेति कर्मणा // MJऐNय्_३,१.१८ //
SK
यूपद्वारा पशोरङ्गं पशुद्वारा च कर्मणः / सौमिकत्वाद्वाजपेये यूपो नास्ति पशुं विना // MJऐNय्_३,१.१९ //
SK
वाजपेयप्रकरणे श्रूयते - ऽ सप्तदशारत्निर्वाजपेयस्य यूपो भवतिऽ इति | तत्र - यूपद्रव्यगतं सप्तदशारत्निशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणो ऽङ्गम् | सप्तदशारत्निशब्दवाजपेयशब्दयोरानन्तर्यात् | प्रकरणं चैवमनुगृह्यते | यदि कर्मणः साक्षादूर्ध्वमानं न संभवेत्, तर्हि वाजपेयगतं खादिरमूर्ध्वे यत्षोडशिपात्रं तस्मिन्नद उन्मानं प्रथमं संबध्य तद्द्वारा कर्मणान्वेति - इति प्राप्ते, - ब्रूमः- ऽसप्तदशारत्निर्यूपःऽ इति सामानाधिकरण्याद्यूपेन साक्षात्संबध्यते | तस्य यूपस्य पश्वङ्गत्वादुन्मानं यूपद्वारा पशोरङ्गं भवति | तस्यापि पशोर्वाजपेयाङ्गत्वात्पशुद्वारा कर्मणो ऽङ्गम् | यद्यपि वाजपेययूपशब्दयोरानन्तर्यमस्ति, तथापि वाजपेयस्य सोमयागतया साक्षाद्यूपसंबन्धाभावा- त्पशुव्यवधानमभ्युपेयम् | ऽवाजपेयस्यऽ इति षष्ठ्याः संबन्धमात्रवाचित्वेन व्यवहितसंबन्धमप्यसावभिधत्ते | ऽदेवदत्तस्य नप्ताऽ इति प्रयोगात् | यत्तु-सप्तदशारत्निवाजपेयशब्दयोरानन्तर्यम्, पञ्च प्रकरणम्ऽ तदुभयमप्यविरुद्धम् | पश्वङ्गत्वे ऽप्यन्ततो वाजपेयाङ्गत्वाङ्गीकारात् | किंच- पूर्वपक्षे यूपशब्देन षोडाशिपात्रं लक्षणीयम् | सिद्धान्ते तु नासौ देषः || MJऐNय्C_३,१.१७-१९ ||
SK
(दशमे, अभिक्रमणादीनां प्रयाजमात्राङ्गताधिकरणे सूत्रे १९ - २०)
SK
कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् / Jऐम्_३,१.१९ /
SK
साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण / Jऐम्_३,१.२० /
SK
START MJऐNय् ३,१.२०-२२
SK
दशमाधिकरणमारचयति -
SK
अभिक्रामं जुहोतीति युक्तं कर्त्राखिलस्य तत् / किंवा प्रयाजमात्रस्य कृत्स्नकर्तृयुतं भवेत् // MJऐNय्_३,१.२० //
SK
प्रयाजाभिक्रमणयोः क्रियात्वादुभयोरपि / मिथः संबन्धराहित्यान्मैवं ते ऽपि समत्वतः // MJऐNय्_३,१.२१ //
SK
कर्तृयोगाददोषश्चोत्समानेयं समाहितिः / ततः प्रयाजसांनिध्यात्तत्कर्त्रैवास्य संयुतिः // MJऐNय्_३,१.२२ //
SK
दर्शपूर्णमासयोः प्रयाजसमीपे श्रूयते- ऽअभिक्रामं जुहोतिऽ इति | तत्र होमकाले यदेतदाहवनीयमभितः संचरणं, तत्कृत्स्नदर्शपूर्णमासकर्त्रा संबध्यते, न तु प्रयाजमात्रकर्त्रा | कुतः | अभिक्रमणस्य क्रियारूपस्य कारकत्वाभावेन प्रयाञक्रियया संबन्धासंभवात् - इति चेत् | मैवम् | क्रियारूपत्वादेव दर्शपूर्णमासक्रिययापि संबन्धासंभवात् | अथोच्येत-अभिक्रमणं कर्तृकारकेण साक्षात्संबध्यते, तद्द्वारा कृत्स्नदर्शपूर्णमासकर्मणा संबध्यते- इति | तदेतत्समाधानं प्रयाजसंबन्धे ऽपि समानम् | अतः संनिधिबलात्प्रयाजकर्त्रा संबध्यते || MJऐNय्C_३,१.२०-२२ ||
SK
START MJऐNय् ३,१.२३-२४
SK
एतदेवाधिकरणं वार्तिककारमतेनाऽचरयति -
SK
यद्वा बलित्वं सांनिध्यादस्ति प्रकरणे ततः / दर्शादिप्रक्रियाधीते क्रमणे स्यात्तदङ्गता // MJऐNय्_३,१.२३ //
SK
अवान्तरप्रकरणं समिधो यजतीत्यतः / तन्मध्यपांठात्तस्याङ्गं तद्द्वारा दर्शशेषता // MJऐNय्_३,१.२४ //
SK
अस्मिन्नपि मते तावेव विषयसंशयौ | पूर्वोत्तरपक्षहेतुमात्रमन्यत् | प्रयाजसंनिधितो ऽपि दर्शपूर्णमासप्रकरणस्य प्रबलत्वात्प्राकरणिकेषु कृत्स्नेष्वप्यभिक्रमणं निविशते - इति पूर्वःपक्षः | ᳚समिधो यजति᳚इत्यारंभ्याऽम्नातमवान्तरप्रयाजप्रकरणम् | तन्मध्ये ऽभिक्रमणमाम्नातम् | तस्य चाभिक्रमणविधेरुभयतः प्रयाजविषयैर्वाक्यैः संदृष्टत्वादभिक्रमणं प्रयाजमात्रे निविशते - इति राद्धान्तः | अस्मिन्नपि पक्षे महाप्रकरणं न विरुध्यते | प्रयाजद्वारा दर्शपूर्णमासयोर्निवेशात् || MJऐNय्C_३,१.२३-२४ ||
SK
(एकादशे, उपवीतस्य प्राकरणिकाङ्गताधिकरणे सूत्रम्)
SK
संदिग्धे तु व्यवायाद् वाक्यभेदः स्यात् / Jऐम्_३,१.२१ /
SK
START MJऐNय् ३,१.२५-२६
SK
एकादशाधिकरणमारचयति-
SK
उपव्ययत इत्यस्य सामिधेन्यङ्गताथवा / दर्शाङ्गता प्रक्रियैषावान्तरातो ऽस्त्विहाग्रिमः // MJऐNय्_३,१.२५ //
SK
लिङ्गादग्नेरङ्गभूतैर्निवित्संज्ञकमन्त्रकैः / विच्छेदे सति दर्शाङ्गं महाप्रकरणोक्तितः // MJऐNय्_३,१.२६ //
SK
दर्शपूर्णमासप्रकरणे ऽविश्वरूपो वै त्वाष्ट्रः᳚- इत्यस्मिन्प्रपाठके सप्तमाष्टमयोरनुवाकयोः- सामिधेनीब्राह्मणमाम्नातम् | नवमे - निवित्संज्ञकानाम्᳚अग्ने महां असि ब्राह्मणभारतऽ - इत्यादीनां मन्त्राणां ब्राह्मणम् | दशमे - काम्याः सामिधेनीपक्षाः | एकादशे तु - उपवीतमेवं विहितम् - ऽनिवीतं मनुष्याणाम्, प्राचीनावीतं पितॄणाम्, उपवीतं देवानाम्, उपव्ययते देवलक्ष्ममेव तत्कुरुते᳚इति | तत्र - पूर्वन्यायेन सामिधेनीप्रकरणस्यावान्तरस्याङ्गीकारात्सामिधेन्यङ्गमुपवीतम् - इति चेत् | न | निविद्ब्राह्मणेन सामिधेनीप्रकरणस्य विच्छेदितत्वात् | न च - निविदामपि सामिधेन्यङ्गतया तत्प्रकरणपाठादविच्छेदकत्वम् - इति वाच्यम् | लिङ्गेन निविदामग्न्यङ्गत्वावगमात् | आहुत्यधिकरणभूतमग्निं संबोध्य᳚महानसि᳚-इत्यादिभिर्निविद्वाक्यैरग्नेरुत्साहजननाय तद्गुणा आवेद्यन्ते | अत एव निर्वचनमेवं श्रूयते -᳚निविद्भर्न्यवेदयेत्, तन्निविदां निवित्त्वम्᳚इति | ननु - ऽसम्यगिध्यते ऽग्निर्याभिऋग्भिस्ताः सामिधेन्यःऽ इति व्युत्पत्त्या ता अप्यत्र ज्वलनद्वारेणाग्न्यर्था एव - इति चेत् | सन्तु नाम | नैतावता परस्परमङ्गाङ्गिभावः | ननु विच्छिद्यतां सामिधेनीप्रकरणम्, निवित्प्रकरणेनोपवीतस्य निबिदङ्गत्वं स्यात् - इति चेत् | न | पूर्वोत्तरानुवाकयोर्निविदामश्रवणेन प्रकरणाभावात् | संनिधिना तदङ्गत्वम् - इति चेत् | न | काम्यसामिधेनीभिर्व्यवधानात् | न च काम्यसामिधेन्यङ्गता शङ्कनीया | संनिधितः प्रकरणस्य प्रबलत्वात् | तस्मात् - इह प्रयाजन्यायाभावान्महाप्रकरणेन दर्शपूर्णमासाङ्गमुपवीतम् || MJऐNय्C_३,१.२५-२६ ||
SK
(द्वादशे गुणानां मिथो ऽसंबन्धाधिकरणे सूत्रम्) /
SK
गुणानां च परार्थत्त्वाद् असम्बन्धः समत्वात् स्यात् / Jऐम्_३,१.२२ /
SK
START MJऐNय् ३,१.२७-२८
SK
द्वादशाधिकरणमारचयति -
SK
वैकङ्कतादिकं पात्रं पवमानहविःष्वथ / यज्ञे ऽखिले प्रकरणादाधाने ऽन्वितमत्र तत् // MJऐNय्_३,१.२७ //
SK
अनर्थकं तदङ्गेषु हविःष्वेवावतिष्ठते / नाऽधानहविषां साम्याद्वाक्याद्यज्ञे ऽखिले भवेत् // MJऐNय्_३,१.२८ //
SK
आधानप्रकरणे दारुपात्रं होमार्थे यज्ञार्थे च श्रूयते -᳚तस्माद्वारणो यज्ञावचरः स्यान्नत्वेतेन जुहुयात्, वैकङ्कतो यज्ञावचरः स्याज्जुहुयादेवैतेन᳚इति | यज्ञावचरो यज्ञप्रचारहेतुः | तत्र - वारणवैकङ्कतादिपात्रं प्रकरणबलादाधाने प्रथममन्वेति | एतेन पात्रेणाऽधाने प्रयोजनाभावादाधानाङ्गेषु पवमानहविःष्वेव तत्पात्रं निविशते | अस्ति हि पवमानहविषामाधानाङ्गत्वम् | तत्प्रकरणे पाठात् | ऽकृत्तिकास्वग्निमादधीतऽ इत्यस्मिन्प्रकरणे ऽप्रजापतिर्वाचः सत्यमपश्यत्ऽ इत्यस्मिन्ननुवाके ऽत्रीणि हवींषि निर्वपतिऽ इत्यादिना तानि विहितानि | ततो यथा सप्तदशारत्नित्वं वाजपेये साक्षादसंभवत्तदङ्गपशोरङ्गे निविशते, तद्वदिदमपि -- इति प्रापते, ब्रूमः- अग्निमुद्दिश्याऽधानं यथा विहितं, तथा पवमानहवींष्यपि | ऽयदाहवनीये जुह्वति तेन सो ऽस्वाभीष्टः प्रीतःऽ इत्याहवनीयोद्देशेन पवमानहविर्होमविधानात् | तस्मादग्निसंस्कारत्वेन समाम्नातानाप्राधानहविषां नास्ति परस्परमङ्गाङ्गिभावः | तथा सति प्रकरणस्य पात्रं प्रति विनियोजकत्वाभावात् | ऽवैकङ्कतो यज्ञावचरःऽ इति वाक्येन दर्शपूर्णमासादिसर्वयज्ञेषु तद्विनियुज्यते || MJऐNय्C_३,१.२७-२८ ||
SK
(त्रयोदशे वार्त्रघ्न्यधिकरणे सूत्रम् -)
SK
मिथश् चानर्थसंबन्धात् / Jऐम्_३,१.२३ /
SK
START MJऐNय् ३,१.२९-३१
SK
त्रयोदशाधिकरणमारचयति --
SK
वार्त्रघ्न्यौ पूर्णमासे स्तो वृधन्वत्यौ तु दर्शगे / इति प्रधानशेषत्वमुक्तं किंवा व्यवस्थितिः // MJऐNय्_३,१.२९ //
SK
क्रमेण प्रापिता मन्त्राश्चत्वारो ऽप्याज्यभागयोः / क्रमाद्वाक्यं बलीयो ऽत एषां दर्शादिशेषता // MJऐNय्_३,१.३० //
SK
न मुख्ये सोम एको ऽस्ति नाऽधारत्वादिकालयोः / दर्शादेरव्यवस्थित्याप्राप्तौ वाक्याद्व्यवस्थितिः // MJऐNय्_३,१.३१ //
SK
दर्शपूर्णमासप्रकरणे श्रूयते - ऽवार्त्रघ्नीऽ पूर्णमासे ऽनूच्येते, वृधन्वती अमावायायाम्ऽ इति | तत्र - इदं वार्त्रघ्नीयुगलं वृधन्वतीयुगलं च हौत्रकाण्ड आज्यभागयोः क्रमे ऽअग्निर्वृत्राणि जङ्घनम् -ऽ इत्यनुवाकेनाऽम्नातम् | उदाहृतेन तु ब्राह्मणवाक्येन दर्शपूर्णमासयागयोस्तद्विधिरवगम्यते | तत्र वाक्यस्य प्रबलत्वादेषां मन्त्राणां दर्शपूर्णमासयागाङ्गत्वम्, न त्वाज्यभागाङ्गत्वम् - इति प्राप्ते, - ब्रूमः- ऽअग्निर्वृत्राणि जङ्गनत्ऽ इत्याग्नेयी प्रथमा वार्त्रघ्नी, ऽत्वं सोमासि सत्पतिःऽ इति सौम्या द्वितीया वार्त्रघ्नी | ऽअग्निः प्रत्नेन जन्मनाऽ - इत्याग्नेयी प्रथमा बृधन्वती, ऽसोम गीर्भिष्ट्वा वयम्ऽ इति सौम्या द्वितीया वृधन्वती | तत्र मुख्ययोर्दर्शपूर्णमासयागयोराग्नेयपुरोडाशसद्भावादाग्नेयीद्वयस्य विकल्पेन पुरोनुवाक्यात्वं कथंचिद्भवतु | सौम्ययोस्तु तन्न संभवति | सोमदेवताया अभावात् | नह्यग्नीषोमीये ऽपि केवलः सोमो विद्यते | किंच ऽपूर्णमासे, अमावास्यायाम्ऽ इति सप्तमीभ्यामाधारत्वं गम्यते | तच्च यागवाचित्वे यागस्य मुख्यत्वान्न संभवति | कालस्य तूपसर्जनत्वात्तद्वाचित्वं युक्तम् | किंच - प्रयाजमन्त्रानुवादकस्यानन्तरमेवायमनुवाकः पठितः | स चाऽज्यभागयोरङ्गयोः क्रमः | न तु मुख्ययोदर्श पूर्णमासयोः | तस्मान्न मन्त्रचतुष्टयस्य मुख्ययागाङ्गत्वम, किं त्वाज्यभागाङ्गत्वम् | ननु - एतत्क्रमेणैव लब्धम् | तत्रापि ऽआग्नेये प्रथमाज्यभागे मन्त्रो ऽप्याग्नेयः | सौम्ये द्वितीये सौम्यःऽ इत्येषा व्यवस्था लिङ्गेनैव लभ्यते | बाढम् | तथापि ऽवार्त्रघ्नीयुगलं पौर्णमासीकाले, वृधन्वतीयुगलममावास्यायाम्ऽ इत्येषा व्यवस्था पूर्वनप्राप्ता ब्राह्मणवाक्येनाभिधीयते - इति न वैयर्थ्यम् || MJऐNय्C_३,१.२९-३१ ||
SK
(चतुर्दशे हस्तावनेजनादीनां कृत्स्नप्राकरणिकाङ्गताधिकरणे सूत्रे २४ - २५ )
SK
आनन्तर्यम् अचोदना / Jऐम्_३,१.२४ /
SK
वाक्यानां च समाप्तत्वात् / Jऐम्_३,१.२५ /
SK
START MJऐNय् ३,१.३२-३३
SK
चतुर्गशाधिकरणमारचयति -
SK
हस्तौ द्वाववनेनिक्ते स्तृणात्युलपराजिकाम् / दर्भास्तरण एवाङ्गं हस्तर्शुद्धरुताखिले // MJऐNय्_३,१.३२ //
SK
तन्मात्राङ्गत्वमत्र स्यादानन्तर्यात्मकात्क्रमात् / लिङ्गप्रकरणाभ्यां तु सर्वानुष्ठानशेषता // MJऐNय्_३,१.३३ //
SK
दर्शपूर्णमासप्रकरणे श्रूयते - ऽहस्ताववनेनिक्ते, ऽ ऽउलपराजिं स्तृणातिऽ इति | वेद्यामास्तरितुं संपादितस्तृणस्तम्ब उलपराजिः | तत्र - हस्तर्शुद्धदर्भास्तरणवाक्ययोर्नैरन्तर्येण पठितत्वात्क्रमप्रमाणेन हस्तर्शुद्धरास्तरणमात्रस्याङ्गम् - इति चेत् | मैवम् | अवनेजनं हस्तसंस्कारः | ऽसंस्कृतौ च हस्तौ सर्वानुष्ठानयोग्यौऽ इत्येतादृशं सामर्थ्यो लिङ्गम् | प्रकरणं च दर्शपूर्णमासयोः स्फुटम् | अतः प्रबलाभ्यां लिङ्गप्रकरणाभ्यां क्रमबाधात्सर्वशेषो हस्तर्शुद्धः | अयं न्यायो वाग्यमे ऽपि द्रष्टव्यः | स च वाग्यमो ज्योतिष्टोमप्रकरणे श्रुतः- ऽमुष्टी करोतिऽ ऽवाचं यच्छतिऽ इति | तदनन्तरमेवेदं श्रुतम् - ऽदीक्षितमावेदयतिऽ इति | आवेदनप्रकारश्चैवं श्रुतः- ऽअदीक्षिष्टायं ब्राह्मण इति त्रिरुपांश्वाह देवेभ्य एवैनं प्राह, त्रिरुच्चैरुभयेभ्य एवैनं देवमनुष्येभ्यः प्राहऽ इति | अत्र मुष्टीकरणवाङ्नियमाभ्यां हस्तजिह्वागतचापले निवारिते सति मनस एकाग्रस्य सर्वकर्मस्तु योग्यत्वं लिङ्गम् | तेन क्रमो बाध्यते || MJऐNय्C_३,१.३२-३३ ||
SK
(पञ्चदशे चतुर्धाकरणादीनामाग्नेयमात्राङ्गताधिकरणे सूत्रे २६-२७) /
SK
शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असंबन्धात् / Jऐम्_३,१.२६ /
SK
व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन संबन्धाल् लक्षणार्था गुणश्रुतिः / Jऐम्_३,१.२७ /
SK
START MJऐNय् ३,१.३४-३६
SK
पञ्चदशाधिकरणमारचयति -
SK
चतुर्धा कार्य आग्नेयः पुरोडाश इतीरितम् / चतुर्धाकरणं सर्वशेषो वाऽग्नेयमात्रगम् // MJऐNय्_३,१.३४ //
SK
उपलक्षणताऽग्नेये युक्तातः सर्वशेषता / अग्नीषोमीय ऐन्द्राग्ने यतो ऽस्त्वाग्नेयता ततः // MJऐNय्_३,१.३५ //
SK
नाऽग्नेयत्वं तयोर्मुख्यं केवलाग्न्यनुपाश्रयात् / तेनैकस्मिन्पुरोडाशे चतुर्धाकरणस्थितिः // MJऐNय्_३,१.३६ //
SK
दर्शपूर्णमासयोः श्रूयते - ऽआग्नेयं चतुर्धा करोतिऽ इति | तत्र -आग्नेयवदैन्द्राग्नाग्नीषोमीययोरपि पुरोडाशयोरग्निसंबन्धादाग्नेयशब्देन पुरोडाशत्रययुपलक्ष्यते | ततस्त्रयाणां शेषः- इति चेत् | मैवम् | नहि ऽआग्नेयःऽ इत्ययर्ं तद्धतः संबन्धमात्रे विहितः, किंतु द्देवतासंबन्धे | आग्निश्च केवलो द्विदैवत्ययोः पुरोडाशयोर्न देवता | ततो द्देवतैकदेशेन कृत्स्नदेवतोपलक्षणत्वादाग्नेयत्वं तयोर्न मुख्यमिति मुख्य एवाऽग्नेये चतुर्धाकरणं व्यवतिष्ठते || MJऐNय्C_३,१.३४-३६ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य प्रथमः पादः
SK
अथ तृतीयाध्यायस्य द्वितीयः पादः /
SK
अर्थाभिधानसामर्थ्यान् मन्त्रेषु शेषभावः स्यात् तस्माद् उत्पत्तिसम्बन्धो ऽर्थेन नित्यसंयोगात् / Jऐम्_३,२.१ /
SK
संस्कारकत्वाद् अचोदितेन स्यात् / Jऐम्_३,२.२ /
SK
START MJऐNय् ३,२.१-२
SK
द्वितीयपादे प्रथमाधिकरणमारचयति -
SK
देवोपसदनं बर्हिर्दामिगीर्मुख्यगौणयोः / तल्लिङ्गमर्थयोर्मन्त्रं नियुङ्क्ते मुख्य एव वा // MJऐNय्_३,२.१ //
SK
शब्दार्थत्वाद्द्वयोस्तत्र युज्यते विनियोजनम् / प्रथमावगतत्वेन मुख्ये तद्विनियम्यते // MJऐNय्_३,२.२ //
SK
᳚बर्हिर्देवसदनं दामिऽ इति लवनप्रकाशको मन्त्र आम्नातः | तत्र - लवनप्रकाशनसामर्थ्यलक्षणेन लिङ्गेनायं मन्त्रो लवनक्रियायां विनियुज्यते | लवितव्यं च बर्हिर्द्विविधम् - मुख्यं गौणं च | मुख्यं - कुशकाशादिदशविधदर्भरूपम् | गौणं तु -तत्सदृशं तृणान्तरम् | तस्मिन्बर्हिःशब्दस्य माणवके ऽग्निशब्दवद्गुणयोगेन प्रवृत्तत्वात् | तथा सति मुख्यवद्गौणस्यापि शब्दार्थत्वेन दर्भस्य तृणान्तरस्य च लवने मन्त्रविनियोगः- इति - प्राप्ते - ब्रूमः- मुख्यस्य शीघ्रप्रतीतत्वेन मुख्ये मन्त्रं विनियुज्य चरितार्थ लिङ्गं विलम्बप्रतीततया गौणप्रतीक्षां न करोति | तस्मात् - मुख्यस्यैव लवने मन्त्रो नियम्यते || MJऐNय्C_३,२.१-२ ||
SK
(द्वितीये (ऐन्द्रीन्याये) ऐन्द्र्या गार्हपत्ये विनियोगाधिकरणे सूत्रे ३-४) /
SK
वचनात् त्व् अयथार्थम् ऐन्द्री स्यात् / Jऐम्_३,२.३ /
SK
गुणाद् वाप्य् अभिधानं स्यात् सम्बन्धस्याशास्त्रहेतुत्वात् / Jऐम्_३,२.४ /
SK
द्वतीयाधिकरणमारचयति -
SK
START MJऐNय् ३,२.३-४
SK
ऐन्द्र्या निवेशनेत्यग्निं गार्हपत्यं भजेदिति / प्रकाश्ये मुख्य इन्द्रे वा गौणे मुख्ये ऽस्तु पूर्ववत् // MJऐNय्_३,२.३ //
SK
एकस्य गौणताध्नौव्ये मन्त्रस्यैवानुवादतः / गौणतातो ऽग्न्युपस्थाने मन्त्रः श्रुत्या नियुज्यते // MJऐNय्_३,२.४ //
SK
अग्निचयने - ऽनिवेशनः संगमनःऽ- इत्यादिका काचिदैन्द्री समाम्नाता | तस्या उत्तरार्धे ऽइन्द्रो न तस्थौऽ इति पठ्यमानत्वात् | तन्मन्त्रविषयं ब्राह्मणं चैवमाम्नायते - ऽनिवेशनः संगमनो वसूनामित्यैन्द्या गार्हपत्यमुपतिष्ठतेऽ इति | एतेन ब्राह्मणेन गार्हपत्योपस्थाने विनियुज्यमानो मन्त्रोर्ऽथे प्रकाशयन्मुख्यमिन्द्रं प्रकाशयति | मुख्यश्चेन्द्रः स्वर्गाधिपतिः सहस्त्राक्षः | तत्रेन्द्रशब्दस्य रूढत्वात् | गौणस्त्विन्द्रो गार्हपत्यः | तस्यैश्वर्ये गुणयोगन यज्ञसाधनत्वेन वा मुख्येन्द्रसदृशत्वात् | तत्र पूर्वान्यायेन शीघ्रप्रतीत्या मुख्येन्द्र मन्त्रेण प्रकाशिते सति मन्त्रब्राह्मणयोर्विसंवादं वारयितुं गार्हपत्यशब्देन मुख्येन्द्रो गार्हपत्यसमीपदेशो वा लक्षणीयः- इति प्राप्ते, ब्रूमः- इन्द्रगाहर्पत्यशब्दयोरन्यतस्य गौणत्वे ऽवश्यंभाविनि सति ब्राह्मणवाक्यस्य विधायकत्वादप्राप्तार्थत्वेन विधौ लक्षणाया अन्याय्यत्वात्प्राप्तार्थत्वेनानुवादको मन्त्र एवेन्द्रशब्देन वह्निं लक्षयिष्यति | ततो गार्हपत्यप्रकाशने समर्थमेव मन्त्रम् ऽऐन्द्र्याऽ इति तृतीयाश्रुतिर्गार्हपत्योपस्थाने विनियुङ्क्ते || MJऐNय्C_३,२.३-४ ||
SK
(तृतीये, आह्वानविनियोगाधिकरणे सूत्राणि ४-९) /
SK
तथाहवानम् अपीति चेत् / Jऐम्_३,२.५ /
SK
नकालविधिश् चोदितत्वात् / Jऐम्_३,२.६ /
SK
गुणाभावात् / Jऐम्_३,२.७ /
SK
लिङ्गाच् च / Jऐम्_३,२.८ /
SK
विधिकोपश् चोपदेशे स्यात् / Jऐम्_३,२.९ /
SK
START MJऐNय् ३,२.५-८
SK
तृतीयाधिकरणमारचयति -
SK
हविष्कृदेहीत्यामन्त्र्य त्रिरवघ्नन्समाह्वयेत् / विनियोगो ऽवघाते स्यादाह्वाने वावघातके // MJऐNय्_३,२.५ //
SK
ऐन्द्रीवन्मान्त्रमाह्वानं गौणं हन्तिर्वृथान्यथा / पाठेन प्रापितं त्रित्वं ह्वयतेरुपचारगीः // MJऐNय्_३,२.६ //
SK
त्रिरभ्यासो विधातव्यो नित्यप्राप्तेरभावतः / हन्तिना लक्ष्यते कालः प्राप्तो ऽसौ ह्वयतिस्तथा // MJऐNय्_३,२.७ //
SK
विनियोगे वाक्यभेदो लिङ्गादाह्वानशेषता / नैन्द्रीन्यायः श्रुत्यभावाद्बर्हिर्न्यायेन मुख्यगः // MJऐNय्_३,२.८ //
SK
दर्शपूर्णमासयोः श्रूयते - ऽहविष्कृदेहीति त्रिरवघ्नन्नाह्वयतिऽ इति | देवानामर्थे या हविः संपादयति सा हविष्कृत् | तामेनां संबोध्याध्वर्युः ऽएहिऽ इति ब्रूते | तथा चायं मन्त्रो ब्राह्मणेन व्याख्यायते - ऽहविष्कृदेहीत्याह या एव देवानां हविष्कृतस्तानाह्वयति ऽ इति | तमिमं मन्त्रमुच्चार्याध्वर्युस्त्रिवारमवघातं कुर्वन्नाह्वयतीत्यर्थः | अनेन वाक्येन मन्त्रो ऽवघाते विनियुज्यते | ननु -आह्वाने समर्थः, न त्ववघाते - इति चेत् | न | तस्यावघातलक्षकत्वात् | यथा पूर्वोदाष्ट्ताया मैच्यामुचीन्द्वशब्दो गौणः, तद्वत् ऽएहिऽ इति पदं मन्त्रगतत्वेनावघाते गौणं भविव्यति | अन्यथा मन्त्रब्राह्मणयोराह्वानपरत्वाच्छ्रूयमाणम् ऽअवघ्नन्ऽ इति पदमनर्थकं स्यात् | प्राप्तमवघातमुद्दिश्य मन्त्रस्य त्रित्वस्य च विधौ वाक्यभेदः- इति चेत् | न | त्रित्वस्य प्राप्तत्वेनानुवादकत्वात् | कस्यांचिच्छाखायामयं मन्त्रो मन्त्रकाण्डे त्रिवारमभ्यस्याऽम्नातः | आह्वयतिपदं तु ऽएहिऽ इतिवदवघातपरतयोपचरणीयम्-इति प्राप्ते - ब्रूमः- त्रिरभ्यासस्य नित्यवत्प्राप्तिः पाठमात्रेण न सिध्यति | कस्यांचिच्छालायां द्विःपाठात् | कस्यांचित्सकृत्पाठात् | अतो ऽसौ नित्यवद्विधीयते | न च ऽअवत्रन्ऽ इत्यस्य वैयर्थ्यम् | तस्य काललक्षकत्वात् | कालस्यापि विधौ वाक्यभेदः- इति चेत् | न | प्राप्तत्वात् | न ह्यवघाते सहायह्वानमन्यस्मिन्काले भवति | ततोर्ऽथप्राप्तः कालः | आह्वानमपि मन्त्रसामर्थ्यादेव प्राप्तत्वान्न विधेयम् | न हि ऽएहिऽ इति मन्त्रपाठ आह्वानमन्तरेणोपपद्यते | मन्त्रव्याख्यानं चोदहृतम् | तत्रायं वाक्यार्थः संपन्नः- ऽअवघातकाले यदाह्वानं तस्य त्रिरभ्यासः कर्तव्यःऽ इति | अत एव शाखान्तरे विस्पष्टमाह्वानानुवादेनाभ्यासो विधीयते | ऽत्रिराह्वयति त्रिःसत्या हि देवाःऽ इति | एवंसति मन्त्रस्यापि विनियोगे वाक्यभेदः स्यात् | लिङ्गेन त्वाह्वाने विनियुज्यते, नावघाते | न चैन्द्रीन्यायो ऽत्र प्रसरति | तृतीयाश्रुत्यभावात् | ऽबर्हिद्देवसदनं दामिऽ इत्यत्रोक्तेन तु न्यायेन मुख्य एवाऽह्वाने लिङ्गेन मन्त्रविनियोगः, न त्वववातरूपे गौणाह्वाने | तस्मात् - आह्वानशेषो ऽयं मन्त्रः || MJऐNय्C_३,२.५-८ ||
SK
(चतुर्थे - अग्निविहरणादिप्रकाशकमन्त्रविनियोगाधिकरणे सूत्रम्) /
SK
तथोत्थानविसर्जने / Jऐम्_३,२.१० /
SK
START MJऐNय् ३,२.९-११
SK
चतुर्थाधिकरणमारचयति -
SK
उत्तिष्ठन्प्रवदेदग्नदिग्नीनित्यादिकं तथा / कृणुत व्रतमित्येवं पठन्वाचं विमुञ्चति // MJऐNय्_३,२.९ //
SK
मन्त्रौ विधेयौ कालो वा मन्त्रावुत्थानमोकयोः / विनियोज्यौ न कालस्य लक्षणा युज्यते विधौ // MJऐNय्_३,२.१० //
SK
मन्त्रार्थानन्वयात्तत्र तद्विधिर्नैव शक्यते / अगत्या लक्षणाप्यस्तु तेन कालो विधीयते // MJऐNय्_३,२.११ //
SK
ज्योतिष्टोमे समामनन्ति - ऽउत्तिष्ठन्नन्वाहाग्नीदग्नीन्विहरऽ इति | तथा - ऽव्रतं कृणुतेति वाचं विसृजतिऽ इति | तत्र - आग्नीध्रं संबोध्याग्निविहरणादिप्रैषरूपो मन्त्रो ऽनेन वाक्येनोत्थानशेषतया विनियुज्यते | तथा- मुष्टिं कृत्वा नियमितवाचो दीक्षितस्य वाग्विमोके ऽव्रतं कृणुतऽ इति मन्त्रो विनियुज्यते | न चात्र पूर्वोक्तावघातशब्दवदुत्थानविमोकशब्दौ काललक्षकौ | तत्कालयोरवघातकालवदर्थप्राप्त्यभावेन विधेयत्वे सति लक्षणाया अन्याय्यत्वात् - इति प्राप्ते, ब्रूमः- अग्निविहरणप्रैषे पयःपानरूपव्रतसंपादनप्रैषे चान्वितावेतौ मन्त्रौ, न तूत्थाने वाग्विमोके च | अतो ऽसमर्थयोर्विनियोगासंभवादगत्या लक्षणामप्यङ्गीकृत्य कालो विधीयते || MJऐNय्C_३,२.९-११ ||
SK
(पञ्चमे - सूक्तवाकस्य प्रस्तरप्रहरणाङ्गताधिकरणं (प्रस्तरप्रहरणन्याये) सूत्राणि-- ११-१४) /
SK
सूक्तवाके च कालविधिः परार्थत्वात् / Jऐम्_३,२.११ /
SK
उपदेशो वा याज्याशब्दो हि नाकस्मात् / Jऐम्_३,२.१२ /
SK
सदेवतार्थस् तत्संयोगात् / Jऐम्_३,२.१३ /
SK
प्रतिपत्तिर् इति चेत् स्विष्टकृद्वदुभयसंस्कारः स्यात् / Jऐम्_३,२.१४ /
SK
START MJऐNय् ३,२.१२-१३
SK
पञ्चमाधिकरणमारचयति --
SK
प्रस्तरं सूक्तवाकेन प्रहरेदिति कालधीः / अङ्गाङ्गिता वा स्यात्कालो ऽजुपतेत्याद्यनन्वयात् // MJऐNय्_३,२.१२ //
SK
प्रहृतेरिष्टदेवार्थसंस्कारत्वात्तदन्वयः / संपाद्यो देवताद्वारा तृतीयाश्रुतितो ऽङ्गता // MJऐNय्_३,२.१३ //
SK
दर्शपूर्णमासयोराम्नायते - ऽसूक्तवाकेन प्रस्तरं प्रहरतिऽ इति | ऽइदं द्यावापृथिवी भद्रमभूत्ऽ इत्यादिको मन्त्रः सूक्तवाकः | तस्मिन्मन्त्रे ऽग्निं संबोध्य ऽत्वं सूक्तवागसिऽ इत्याम्नानात् | प्रस्तरो दर्भमुष्टिः, तस्य प्रहरणमग्नौ प्रक्षेपः | तत्र - ऽसूक्तवाकेनऽ इत्येतत्पदं कालं लक्षयति | होत्रा मन्त्रे ऽस्मिन्पठ्यमाने तत्पाठकाले ऽध्वर्युः प्रस्तरं प्रहेरत् | न त्वत्र प्रहरणे मन्त्रो ऽयं विनियोक्तुं शक्यः | पूर्वोक्तप्रैषमन्त्रवदत्रान्वयाभावात् | ऽअग्निरिदं हविरजुषतावीवृधत महो ज्यायो ऽकृतऽ- इत्यादिकं मन्त्रे पठ्यते | ऽपुरोडाशसेवया वृद्धोऽग्निस्तस्मिन्यजपाने तेजोबाहुल्यं कृतवान्ऽ इति तस्यार्थः | न चासौ प्रस्तरप्रहरणे ऽन्वेतुं शक्यः - इति प्राप्ते, - ब्रूमः- ऽसूक्तवाकेनऽ इति तृतीयाश्रुत्या प्रहरणे मन्त्रो विनियुज्यते | न चात्यन्तमन्वयाभावः | मन्त्रो ह्ययं पूर्वमिष्टानग्न्यादिदेवाननुस्मारयति | प्रस्तपप्रहरणं चेष्टदेवतासंस्कारः | अतो देवताद्वारा मन्त्रप्रहरणयोरन्वयान्मन्त्रो विनियुज्यते | ननु- प्रहरणं नाम प्रक्षेपमात्रम्, न तु देवतोद्देशेन प्रक्षेपः | यजिधातोरश्रवणात् | तथा सति देवतानामात्राभावात्तद्वारापि नान्वयः- इति चेत् | मैवम् | देवतानां सद्भावात् | अग्न्यादिदेवताप्रकाशकस्य सूक्तवाकस्य तृतीयाश्रुत्या प्रहरणाङ्गत्वं बोध्यते | यदि प्रकरणे ऽग्न्यादयो देवता भवेयुः, तदा तत्प्रकाशनेन दृष्टोर्ऽथो मन्त्रस्य लभ्येत | ततो देवताकल्पनेन तदुद्देशपूर्वकस्य प्रक्षेपस्य यागत्वं सिध्यति | तस्मात् -- देवताद्वारास्त्येवान्वयः || MJऐNय्C_३,२.१२-१३ ||
SK
षष्ठे -द्गसूक्तवाकानामर्थानुसारेण विनि-द्घसूत्राणि -- १५-१८) /
SK
योगाधिकरणे (सूक्तवाकन्याये) कृत्स्नोपदेशाद् उभयत्र सर्ववचनम् / Jऐम्_३,२.१५ /
SK
यथार्थं वा शेषभूतसंस्कारात् / Jऐम्_३,२.१६ /
SK
वचनाद् इति चेत् / Jऐम्_३,२.१७ /
SK
प्रकरणाविभागाद् उभे प्रति कृत्स्नशब्दः / Jऐम्_३,२.१८ /
SK
START MJऐNय् ३,२.१४-१५
SK
षष्ठाधिकरणमारचयति -
SK
प्रहृतेरखिलः सूक्तवाको ऽङ्गं स्याद्विभज्य वा / समाख्या कृत्स्नगा तेन विभक्तस्याङ्गता नहि // MJऐNय्_३,२.१४ //
SK
दर्शपूर्णिमयोर्देवाननुसृत्य विभज्यताम् / आख्यां लिङ्गेन बाधित्वा भागे नाम निरुच्यते // MJऐNय्_३,२.१५ //
SK
पूर्वोदाहृते मन्त्रे सूक्तवाकसमाख्या कृत्स्नमन्त्रविषया | याज्ञिकः कृत्स्ने तच्छब्दप्रयोगात् | ततः सर्वो ऽपि प्रहरणाङ्गम् - इति चेत् | न | लिङ्गेन समाख्याया बाधितत्वात् | तस्मिन्मत्रे पूर्णमासदेवताम्नानं कस्मिंश्चिद्भागे दृश्यते- ऽअग्नीषोमाविदं हविरजुषेताम्ऽ इति | भागान्तरे तु दर्शदेवताम्नानम्- ऽइन्द्राग्नी इदं हविरजुषेताम्ऽ इति, ऽइन्द्र इदं हविरजुवतऽ इति, ऽमहेन्द्र इदं हविरजुषतऽ इति च | इम्द्राग्नीन्द्रमहेन्द्राः पुरुषभेदेन दर्शे व्यवस्थिताः | तथा सति मन्त्रलिङ्गेन तत्तद्भागवत्तत्तत्काले व्यवतिष्ठते | सूक्तवाकशब्दश्च भागे यौगिकः | ऽसूक्तं वक्तिऽ इति तद्व्युत्पत्तेः | यागकाले तत्तन्मन्त्रेण सम्यगुक्तं देवं वक्तीत्यर्थः | अत एव ब्राह्मणेन व्याख्यातम्- ऽअग्निरिदं हविरजुवतेत्याह, यो आयाक्ष्म देवतास्ता अरीरधामेति बावैतदाहऽ इति | अरीरधामाऽराधितांस्तुष्टानकुर्मेत्यर्थः | तस्मादयं विभज्य विनियुज्यते || MJऐNय्C_३,२.१४-१५ ||
SK
(सप्तप्ते काम्ययाज्यानुवाक्यानां काम्यमात्राङ्गताधिकरणे सूत्रम्-) /
SK
लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समाम्नातम् / Jऐम्_३,२.१९ /
SK
START MJऐNय् ३,२.१६-१८
SK
सप्तमाधिकरणमारचयति-
SK
ऐन्द्राग्नादीष्टयः काम्या याज्या अप्युदिताः क्रमात् / काण्डयोस्ता यथालिङ्गं संचार्या नियमो ऽथवा // MJऐNय्_३,२.१६ //
SK
लिङ्गं क्रमसमाख्याभ्यां प्रबलं तद्वशादमूः / अकाम्यास्वपि संचार्या याज्याः सर्वत्र का क्षतिः // MJऐNय्_३,२.१७ //
SK
समाख्यानात्काण्डयोगः क्रमादिष्टिषु योजनम् / अपेक्षते देवमात्रं शक्तिः काम्यैकगास्ततः // MJऐNय्_३,२.१८ //
SK
काम्येष्टयस्तत्काण्डे क्रमेणाऽम्नाताः- ऽऐन्द्राग्नमेकादशकपालं निर्वपेत्, यस्य सजाता वीयुःऽ इत्यादिना | सजाता ज्ञातयः | वीयुर्विगता विप्रतिपन्ना इत्यर्थः | ऽइद्राग्नी रोचनऽ - इत्यादिके मन्त्रकाण्डे याज्यानुवाक्याः क्रमेणाऽम्नाताः | तत्र ऽइदं काम्ययाज्यानुवाक्याकाण्डम्ऽ इति याज्ञिकानां समाख्ययो ऽवगम्यते | तयोरिष्टिकाण्डमन्त्रकाण्डयोः प्रथमायामिष्टौ प्रथमपठिते याज्यानुवाक्ये इत्यादिव्यवस्था क्रमेण क्रियते | मन्त्रगतं त्वैन्द्राग्नलिङ्गं काम्यायां नित्यायां चैन्द्राग्नेष्टौ ते याज्यानुवाक्ये विनियुङ्क्ते | लिङ्गं च प्रबलमिति सर्वत्र तयोर्विनियोगः- इति प्राप्ते, - ब्रूमः- नात्र लिङ्गेन क्रमसमाख्ये बाधितुं शक्येते | उपजीव्यत्वात | इन्द्राग्निदेवतारूपमात्रप्रकाशनं लिङ्गम् | न च तावन्मात्रेण मन्त्रकर्मणोरङ्गाङ्गिभावः | ततः समाख्याबलान्मन्त्रकाण्डकर्मकाण्डयोः संबन्धावगतौ सामान्येन मन्त्रकर्मणोः संबन्धो ऽवगम्यते | विशेषतस्तु ऽअस्मिन्प्रथमे कर्मण्ययं मन्त्रः प्रथमःऽ इति क्रमादवगम्यते | ननु - ऽऐन्द्राग्नेष्टावैन्द्राग्नमन्त्रः, वैश्वानरेष्टौ वैश्वानरमन्त्रःऽ इत्येतादृशी विशेषो लिङ्गेनैवावगम्यते- इति चेत् | न | लिङ्गसाधारण्ये क्रमापेक्षणात् | ᳚ऐन्द्राग्नमेकादशकपालं निर्वपेद्भ्रातृव्यवान्᳚इति द्वितीयेष्टिरपि | तत्रैन्द्राग्नी पठितौ | मन्त्रकाण्डे ऽपि᳚इन्द्राग्नी नवतिम्᳚इत्यादिकमपरमैन्द्राग्नं याज्यानुवाक्यायुगलमाम्नातम् | न हि तत्र क्रममन्तरेण निर्णेतुं शक्यम् | न च क्रमेणैव तत्सिद्धेर्लिङ्गमप्रयोजकमिति वाच्यम् | क्वचिल्लिङ्गस्यैव व्यवस्थापकत्वात् | ऐन्द्राबार्हस्पत्येष्टिरकैवाऽम्नाता- ऽयं कामयेत राजन्यमनयोद्धो जायेत वृत्रान्घ्नंश्चरेत्-इति तस्मा एनमैन्द्राबार्हस्पत्यं चरुं निर्वपेत्ऽ इति | यं राजपुत्रं जायमानं प्रति राज्ञः पुरोहितस्य च काम एवं भवति- ऽअयं मातृगर्भे देवकृतविघ्नेन केनाप्यप्रतिबद्धो जायताम् | जातश्च शत्रून्मारयन्संचरेत्ऽ इति | तद्राजपुत्रार्थेयमिष्टिः | मन्त्रकाण्डे तदिष्टिक्रमे याज्यापुरोनुवाक्ये इन्द्राबृहस्पतिदेवताके द्विविधे आम्नाते | ऽइदं वामास्ये हविः- ऽ - इत्येकं युगलम् | ऽअस्मे इन्द्राबृहस्पतीऽ - इत्यादिकमपरम् | तयोः प्रथमयुगलस्य क्रमेण विनियोगे ऽपि द्वितीययुगलं लिङ्गेनैव विनियोक्तव्यम् | तस्मात्- क्रमसमाख्यासहकृतेन काम्येष्टिष्वेवैता याज्यानियम्यन्ते || MJऐNय्C_३,२.१६-१८ ||
SK
(अष्टमे, आग्नीध्नोपस्थाने प्राकृतानां मन्त्राणां विनियोगाधिकरणे सूत्राणि २०-२३) /
SK
अधिकारे च मन्त्रविधिर् अतदाख्येषु शिष्टत्वात् / Jऐम्_३,२.२० /
SK
तदाख्यो वा प्रकरणोपपत्तिभ्याम् / Jऐम्_३,२.२१ /
SK
अनर्थकश् चोपदेशः स्याद् असम्बन्धात् फलवता / Jऐम्_३,२.२२ /
SK
सर्वेषां चोपदिष्टत्वात् / Jऐम्_३,२.२३ /
SK
START MJऐNय् ३,२.१९-२०
SK
अष्टमाधिकरणमारचयति - आग्नेय्याऽग्नीध्रमित्यग्निदेवताका ऋचो ऽखिलाः / उपस्थाने प्रयोक्तव्याः प्रकृता एव ता उत // MJऐNय्_३,२.१९ //
SK
साधारण्येन शब्दोक्तेः सर्वाभिस्तदुपस्थितिः / विशेषे विधिसंक्रान्त्या प्रकृताभिरितीष्यताम् // MJऐNय्_३,२.२० //
SK
ज्योतिष्टोमे श्रूयते - ऽआग्नेय्याऽग्नीध्रमुपतिष्ठतेऽ इति | तत्र- आग्नीधनामकस्य मण्डपस्य यदुपस्थानं तत्, यया च कयाचिदृचा दाशतयीगतयाग्निसंबन्धिन्या कर्तव्यम् | ऽअग्निर्देवता यस्या ऋचः साऽग्नेयीऽ इति साधारणोक्तावृग्विशेषस्याप्रतीतेः- इति चेत् | मैवम् | क्रतुप्रकरणपठितानामाग्नेयीनामृचां क्रतुप्रयुक्तव्यापारसाधनत्वं प्रकरणादेवावगतम् | ऽको ऽसौ व्यापारःऽ इति विशेषबुभुत्सायाम् ऽआग्नीध्रोपस्यानरूपो ऽयम्, इति बोधयन्नयं विधिर्विशेषमात्रे संक्रामतीति लाघवम् | अप्रकृतानां क्रतूपयुक्तव्यापारसाधनत्वं तद्व्यापारविशेषष्चेत्युभयमनेन बोध्यत इति गौरवम् | तस्मात्प्रकृताभिराग्नेपीभिस्तदुपस्थानम् | एवम् ऽऐन्द्या सदो वैष्णव्या हविर्धानम्ऽ इत्यत्र सदोहविर्धाननामकयोर्मण्डपयोरुपस्थाने प्रकृतानामेवैन्द्रीणां वष्णैवीनां च प्रयोग इति द्रष्टव्यम् || MJऐNय्C_३,२.१९-२० ||
SK
(नवमे भक्षमन्त्राणां यथालिङ्गं ग्रहणादौ विनियोगाधिकरणे सूत्रे २४-२५) /
SK
लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य / Jऐम्_३,२.२४ /
SK
तस्य रूपोपदेशाभ्याम् अपकर्षो ऽर्थस्य चोदितत्वात् / Jऐम्_३,२.२५ /
SK
नवमाधिकरणमारचयति -
SK
भक्षेहीत्यनुवाको ऽयं सर्वो भक्षणगाम्युत / ग्रहणादौ यथायोगं विभज्य व्यवतिष्ठते // MJऐNय्_३,२.२१ //
SK
अविधेर्ग्रहणादीनां भक्षणे निखिलो ऽस्तु सः / अर्थाक्षिप्तेषु तेष्वेव यथालिङ्गं विभज्यते // MJऐNय्_३,२.२२ //
SK
ज्योतिष्टोमे हुतस्य सोमस्य शेषभक्षणं विहितम् | अत एवाऽम्नातम् - ऽअभिषुत्याऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि सोमं भक्षयन्तिऽ इति | तस्मिन्मक्षणे ग्रहणावेक्षणनिगरणसम्यग्जरणरूपाश्चत्वारो व्यापाराः सन्ति | मन्त्रच्च ऽभक्षेहिऽ- इत्याद्यनुवाके समाम्नातः | तत्र भक्षणं यथा साक्षाच्चोदितं, न तथा ग्रहणावेक्षणनिगरणसम्यग्जरणानि चोदितानि | न चाविहितेषु मन्त्रो विनियोगमर्हति | समाख्या तु ऽभक्षानुवाकःऽ इत्येवंरूपा भक्षणमात्रविषया | तस्मात्कृत्स्नस्याप्यनुवाकस्य भक्षण एव विनियोगः- इति प्राप्ते, - ब्रूमः- अविहितान्यपि ग्रहणादीन्यर्थाक्षिप्तानि | तद्व्यतिरेकेण भक्षणासंभवात् | अतस्तेष्वनुवाको यथालिङ्गं विभज्य विनियोक्तव्यः | तत्र ऽभक्षेहिऽ- इत्यारभ्य ऽअश्विनोस्त्वा बाहुभ्यां साध्यासम्ऽ | इत्यन्तो ग्रहणं प्रकाशयति | ऽएहिऽ इत्याह्वानस्य बाहुभ्यां स्वीकरवाणिऽ इत्येतस्य च दर्शनात् | ऽनृचक्षसंत्वा देव सोम सुचक्षा अवख्येषम्ऽ इत्ययं भागो ऽवेक्षणं प्रकाशयति | ऽशोभनचक्षुरहं मनुष्येषु मख्यातं त्वामवेक्षिषीयऽ इत्यभिधानात् | ऽहिन्व मे गात्राऽ- इत्यादिः ऽमा मे ऽवाङ्नाभिमतिगाःऽऐत्यन्तः सम्यग्जरणं प्रकाशयति | गात्रप्रीणनेनाधोभागे नाम्यतिक्रमणनिषेधेन च तदवगमात् | जरणं नार्थाक्षिप्तम्, तेन विनापि भक्षसिद्धेः- इति सेत् | न | जरणपर्यन्तस्यैव सार्थकभक्षणत्वात् | न च - जरणे पुरुषव्यापाराभावः | सम्यगुपवेशनादेर्जरणार्थत्वात् | ऽमन्द्राभिभूतिःऽ - इत्यादिः ऽभक्षयामिऽ इत्यन्तो भक्षणं प्रकाशयति | तस्मात्- लिङ्गेन समाख्यां बाधित्वा विनियोगः कर्तव्यः || MJऐNय्C_३,२.२१-२२ ||
SK
(दशमे मन्द्राभिभूतिरित्यादेरेकमन्त्रताधिकरणे सूत्रम् - )
SK
गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्यात् तयोर् एकार्थसंयोगात् / Jऐम्_३,२.२६ /
SK
START MJऐNय् ३,२.२३-२४
SK
दशमाधिकरणमारचयति-
SK
मन्द्रेति वसुमद्वेति द्वयं तर्पणभक्षयोः / विभक्तव्यमुताशेषं तृप्तिसंयुक्तभक्षणे // MJऐNय्_३,२.२३ //
SK
लिङ्गाद्विभागो मैवं नो तृप्तिर्भक्षणतो ऽन्यतः / लिङ्गस्यासंभवे वाक्यशेषात्सर्वे ऽस्तु भक्षणे // MJऐNय्_३,२.२४ //
SK
ऽमन्द्राभिभूतिःऽ - इत्यादिः ऽजुषाणा सोमस्य तृप्यतुऽ इत्यन्तो भागो हृष्टाया अरुचिमभिभवन्त्याः सोमं सेवमानाया जिह्वायास्तृप्तिं प्रकाशयति | ऽवसुमद्गणस्यऽ- इत्यादिः ऽभक्षयामिऽ इत्यन्तो भागो भक्षणप्रकाशकः | तत्र पूर्वबल्लिङ्गेन विभज्य विनियोगः- इति चेत् | मैवम् | न खलु तृप्तिर्भक्षणादन्येन व्यापारेण जायते | किं तर्हि-भक्षणामुनिष्पादिनी हि सा | तथा सति कस्मिन्व्यापारे तृप्तिप्रकाशको भागो विनियुज्येत | ततो लिङ्गेन विनियोगासंभवाद्भक्षणवाक्यस्य शेषस्तृप्तिप्रकाशकभागो भविष्यति | उपयुक्तश्च तत्रायं भागः | तृप्तिसहितभक्षणप्रकाशनेन पुरुषोत्साहजननात् | तस्मान्मन्द्रादिः सर्वो भक्षणे विनियुज्यते || MJऐNय्C_३,२.२३-२४ ||
SK
(एकादशे, इन्द्रपीतस्येत्यादिमन्त्राणां विनियोगाधिकरणे सूत्रे २७ -२८) /
SK
लिङ्गविशेषनिर्देशात् समानविधानेष्व् अनैन्द्राणाम् अमन्त्रत्वम् / Jऐम्_३,२.२७ /
SK
यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति / Jऐम्_३,२.२८ /
SK
START MJऐNय् ३,२.२५-२७
SK
एकादशाधिकरणमारचयति -
SK
इन्द्रपीतस्येति मक्षमन्त्रांशः किमिहैन्द्रके / केवले ऽन्यत्र वोहाच्च सर्वत्रोत यर्थाश्रुतम् // MJऐNय्_३,२.२५ //
SK
ऐन्द्र एव समर्थत्वात्तूष्णीमेवान्यभक्षणम् / ऊहो वान्येषु कर्मैक्ये ऽप्यस्त्यूहो भक्षभेदतः // MJऐNय्_३,२.२६ //
SK
इन्द्रेण यस्मिन्सवने सोमः पीत इतीरणात् / सवनस्थेषु सर्वेषु मन्त्रो ऽनूहेन पठ्यताम् // MJऐNय्_३,२.२७ //
SK
भक्षमन्त्रे कश्चिदंशः ऽइन्द्रपीतस्यऽ इत्येवंविधः श्रूयते | तत्र- ऽइन्द्रेण पूतस्य सोमस्य शेषं भक्षयामिऽ इत्यर्थो भवति | तथा सत्यस्य मन्त्रस्येन्द्रप्रदानशेषभक्षण एव समर्थत्वात्तत्रैवायं मन्त्रो विनियुज्यते, न तु मैत्रावरुणादिशेषभक्षणे | तस्मादमन्त्रकमेव तद्भक्षणम्, इत्येकः पूर्वपक्षः | ऽइन्द्रपीतस्यऽ इति पदस्यासमर्थत्वे ऽपि ऽमित्रावरुणपीतस्यऽ इत्येषमूहे सति सामर्थ्ये भविष्यति | ननु-आग्नेययागस्य प्रकृतित्वात्तद्वतस्य ऽअग्नये जुष्टम्ऽ | इति मन्त्रस्य विकृतौ सौर्ये चरौ ऽसूर्याय जुष्टम्ऽ इत्येवमूहः क्रियते | इह तु कर्मैक्यान्नोहः- इति चेत् | न | कर्मभेद इव भक्षभेदे ऽप्यूहितुं शक्यत्वात् | इति द्वितीयः पूर्वपक्षः | ऽइन्द्रपीतस्यऽ इत्यत्र बहुव्रीहिर्द्रष्टव्यः | तत्पुरूषत्वे ऽसमासस्यऽ (पा.सू. ६.१.१२३) इति सूत्रेणान्तोदात्तत्वप्रसङ्गात् | आद्युदात्तं ह्येतत्पदमाम्नातम् | इन्द्रप्रतिपादिकं तु स्वत आद्युदात्तम् | तथा सति ऽबहुव्रीहौ प्रकृत्या पूर्वपदम्ऽ[पा.सू. ६.२.१] इति सूत्रेण पूर्वपदप्रकृतिस्वरविधानात्समस्तपदमप्याद्युदात्तमेव संपद्यते | ऽइन्द्रेण पीतः सोमो यस्मिन्सवनेऽ इति विग्रहात्सवनपरत्वे सति ऽऐन्द्रभक्षण एवऽ इति नियन्तुमसमर्थत्वात्सर्वभक्षणेष्वनूहेनैवायं मन्त्रः प्रयोक्तव्य इति राद्धान्तः || MJऐNय्C_३,२.२५-२७ ||
SK
(द्वादशे, अभ्युन्नीतसोमभक्षणाधिकरणे सूत्राणि २९-३१) /
SK
पुनरभ्युन्नीतेषु सर्वेषाम् उपलक्षणं द्विशेषत्वात् / Jऐम्_३,२.२९ /
SK
अपनयाद् वा पूर्वस्यानुपलक्षणम् / Jऐम्_३,२.३० /
SK
ग्रहणाद् वापनयः स्यात् / Jऐम्_३,२.३१ /
SK
START MJऐNय् ३,२.२८-३०
SK
द्वादशाधिकरणमारचयति-
SK
ऊहपक्षे यदूह्यं तच्चिन्त्यते न्यायपञ्चके / इन्द्रे हुते ऽथ तच्छेषे होत्रकैश्चमसस्थिते // MJऐNय्_३,२.२८ //
SK
सोमो ऽभ्युन्नीय देवेभ्यो हुत्वा संभक्ष्यते तदा / इन्द्रो न लक्ष्यो लक्ष्यो वा न शेषे ऽन्यार्थता यतः // MJऐNय्_३,२.२९ //
SK
उन्नीत एव संबद्धो न पूर्वो देवतान्तरैः / अत इन्द्रस्य सिद्ध्यर्थे लक्ष्यो ऽसावितरैः सह // MJऐNय्_३,२.३० //
SK
पूर्वाधिकरणे यो ऽयमूहरूपो द्वितीयः पूर्वपक्षः, तत्प्रसंङ्गात्कृत्वाचिन्तारूपेण न्यायपञ्चकेनोहविषयश्चिन्त्यते | मैत्रावरुणब्राह्मणाच्छंसिपोत्रादय ऋत्विजो होत्रकाः | तेषां च सन्ति चमसाः | पात्रविशेषस्थिताः सोमरसाश्चमसाः | तैर्वषट्कारानुवषट्कारयोर्होतव्यम् | चमसानामैन्द्रत्वाद्धोतुर्वषट्कारे प्रथममिन्द्रो हुतः | अनन्तरं चमसस्थिते हुतशेषे पुनः सोमान्तरमभ्युन्नीय देवतान्तरेभ्यो होत्रका अनुवषट्कारे जुह्वति | तत्र मैत्रावरुणः ऽमित्रं वयं हवामहेऽ - इति मन्त्रेण मित्रावरुणौ यजति | ब्राह्मणाच्छंसी ऽइन्द्र त्वा वृषभं वयम्ऽ - इति मन्त्रेणेन्द्रं यजति | पोता ऽमरुतो यस्य हि क्षयेऽ- इति मन्त्रेण मरुतो यजति | एवं हुत्वा पश्चात्सोमो भक्ष्यते | तस्मिन्भक्षणे ऽमित्रावरुणपीतस्यऽ इति मन्त्र ऊहनीयः | तदानीम् ऽइन्द्रमित्रावरुणपीतस्यऽ इत्येवं मित्रावरुणाभ्यां सह नेन्द्र उपलक्षणीयः | कुतः | इन्द्रशेषे पुनरभ्युन्नीतस्य तेन सह मित्रावरुणाद्यर्थत्वे सति तस्य शेषस्येन्द्रसंबन्धराहित्यात् | पुनरुन्नीतस्यैवान्यार्थत्वम्, न पूर्वस्य- इति चेत् | न | उन्नयनकाले ऽमित्रावरुणाद्यर्थो ऽयम्ऽ इति संकल्पाभावात् | प्रदानकाले तु पूर्वशेषेण सहैव मित्रावरुणादिभ्यः प्रदीयते | तस्मात्- इन्द्रसंबन्धराहित्यान्नेन्द्रो लक्षणीयः- इति प्राप्ते - ब्रूमः- मा भूत्संकल्पः, तथाप्युन्नयनं करिष्यमाणं मैत्रावरुणादियागार्थमेव | न तु तस्य पूर्वानुष्ठितेन्द्रयागार्श्चत्वं संभवति | तस्मादुन्नीतो मित्रावरुणादिसंबद्धशेष इन्द्रसंबद्ध एवेत्युभयभक्षणे मित्रावरुणादिभिः सहेन्द्रो ऽप्युपलक्षणीयः || MJऐNय्C_३,२.२८-३० ||
SK
(त्रयोदशे पात्नीवतमक्षण इन्द्रादीनामनुपलक्षणाधिकरणे सूत्रे ३२-३३) /
SK
पात्नीवते तु पूर्ववत् / Jऐम्_३,२.३२ /
SK
ग्रहणाद् वापनीतं स्यात् / Jऐम्_३,२.३३ /
SK
START MJऐNय् ३,२.३१-३३
SK
त्रयोदशाधिकरणमारचयति -
SK
द्विदेवशेष आदित्यस्थाल्या आग्रयणाभिधाम् / स्थालीं प्राप्तस्ततः पात्नीवतस्य ग्रहणे सति // MJऐNय्_३,२.३१ //
SK
तद्भक्षणे द्विदेवाः किं सार्धे पात्नीवतेन ते / उपलक्ष्या न वा पूर्वन्यायेनास्तूपलक्षणम् // MJऐNय्_३,२.३२ //
SK
अन्य आग्रयणात्पात्नीवतो नैतस्य विद्यते / आकाङ्क्षा पूर्वदेवेषु पत्नीवानेव लक्ष्यते // MJऐNय्_३,२.३३ //
SK
ऐन्द्रवायवादयो द्विदेवत्याः | तेषां शेष आदित्यस्थालीमागच्छति, पुनरपि तस्याः स्थाल्या आग्रयणस्थालीमागच्छति | तस्या आग्रयणस्थाल्याः पात्नीवतो गृह्यते | तस्य पात्नीवतस्य भक्षण इन्द्रवाय्वादय उपलक्षणीयाः | पूर्वाधिकरणे यथा मित्रावरुणादिभिः सहेन्द्र उपलक्षितः, तद्वत् - इति प्राप्ते, - ब्रूमः- ऽयदुपांशु पात्रेण पात्नीवतमाग्रयणाद्गृह्णातिऽ इत्याग्रयणपात्रस्यापादानत्वश्रवणात्ततो निःसृतसोमरसस्य तत्संबन्धे ऽपेते सति पश्चात्पत्नीवद्देवतायै ग्रहणं भवति | तथा सत्यत्यन्तभिन्नस्य पात्नीवतस्य पूर्वदेवेष्वाकाङ्क्षा नास्ति | पुनरभ्यन्नीतस्तु सोम ऐन्द्रशेषेण संसृष्टः | तस्य संसृष्टस्य भक्षणे मैत्रावरुणादीनामिवेन्द्रस्यापि संबन्धो नापैतीति वैषम्यम् | तस्मात्पात्नीवतभक्षण इन्द्रवाध्वादयो नोपलक्षणीयाः || MJऐNय्C_३,२.३१-३३ ||
SK
(चतुर्दशे पात्नीवतशेषभक्षे त्वष्टुरनुपलक्षणीयताधिकरणे सूत्रे ३४-३५) /
SK
त्वष्टारं तूपलक्षयेत् / Jऐम्_३,२.३४ /
SK
अतुल्यत्वात् तु नैवं स्यात् / Jऐम्_३,२.३५ /
SK
START MJऐNय् ३,२.३४-३५
SK
चतुदर्शाधिकरणमारचयति-
SK
सह पत्नीवता त्वष्टा तद्ग्रहे लक्ष्यते न वा / सह त्वष्ट्रा पिबेत्युक्तेर्देवत्वात्सो ऽपि लक्ष्यते // MJऐNय्_३,२.३४ //
SK
सहत्वमात्रं त्वष्टुः स्यान्न पातृत्वमशब्दनात् / चोदनाया अभावाच्च न देवो ऽतो न लक्ष्यते // MJऐNय्_३,२.३५ //
SK
तस्मिन्नेव पात्नीवतग्रहे शेषभक्षणमन्त्रे पत्नीवता सह त्वष्टाप्युपलक्षणीयः | कुतः | त्वष्टुरपि तद्देवत्वात् | तच्च होममन्त्रादवगतम् | ऽअग्नी ३ इ पत्नीबन्त्सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहाऽ इत्यस्मिन्मन्त्रे पत्नीवन्तमग्निं प्लुतान्तेन संबोध्यऽत्वष्ट्रा देवेन सह पिबऽ इत्यभिधानात्पातृत्वेन पत्नीवत इव त्वष्टुस्तद्देवत्वम् | ततः- ऽपत्नीवत्त्वष्टृपीतस्यऽ इत्युपलक्षणम्-इति प्राप्ते - ब्रूमः- पानकाले सहावस्थानमात्रं त्वष्टुः ऽसजूःऽ इत्यनेन पदेन प्रतीयते, न तु पातृत्वम् | असंबोधितस्य त्वष्टुः ऽपिबऽ इत्यनेन शब्देन सामानाधिकरण्याभावात् | न च पातृसहभावमात्रेण पातृत्वम् - ᳚सहैव दशभिः पुत्रैर्भारं वहति गर्दग्री᳚ | इत्यत्र पुत्राणां वोढृत्वादर्शनात् | आस्तां मन्त्रः | विधिबलात्वष्टुर्देवत्वम् - इति चेत् | न | ऽपात्नीवतमाग्रयणाद्गृह्णाति᳚इत्यत्र त्वष्टुरप्रतीतेः | तस्मात् - अदेवत्वात्त्वष्टा नोपलक्षणीयः || MJऐNय्C_३,२.३४-३५ ||
SK
(पञ्चदशे पात्नीवतशेषभक्षे त्रिंशतामनुपलक्षणाधिकरणे सूत्रम्) /
SK
त्रिंशच् च परार्थत्वात् / Jऐम्_३,२.३६ /
SK
START MJऐNय् ३,२.३६-३७
SK
पञ्चदशाधिकरणमारचयति -
SK
पत्नीवन्तस्त्रयस्त्रिंशद्देवास्तान्मादयेत्यमी / लक्ष्या न वा याज्ययाक्तेर्देवत्वादुपलक्षणम् // MJऐNय्_३,२.३६ //
SK
एको ऽग्निर्यजमानेन मादितो ऽन्ये तु वह्निना / अतो ऽग्नेरेव देवत्वान्नान्येषामुपलक्षणम् // MJऐNय्_३,२.३७ //
SK
तस्यैव पात्नीवतग्रहस्य याज्यायामग्निं संबोध्य ऽपत्नीवन्नामधारिणस्त्रयस्त्रिंशद्देवान्मादयऽ इत्यभिधीयते - ऽपत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमावह मादयस्वऽ इति | अनुष्वधमनुप्रदानम् | अत्र हूयमानेन सोमरसेन मादनीयत्वात्रयस्त्रिंशतां तद्देवत्वम् | अत्तस्ते ऽपि भक्षणे लक्षणीयाः- इति चेत् | न | यजमानेन मादनीयस्याग्नेरेव तद्देवत्वात् | त्रयस्त्रिंशद्देवास्तु वह्निना माद्यन्त इति न तेषामत्र देवत्वम् | तस्मान्नोपलक्षणम् || MJऐNय्C_३,२.३६-३७ ||
SK
(षोडशे भक्षणे ऽनुवषट्कारदेवताया अनुपलक्षणाधिकरणे सूत्रम्) /
SK
वषट्कारश् च पूर्ववत् / Jऐम्_३,२.३७ /
SK
START MJऐNय् ३,२.३८-३९
SK
षोडशाधिकरणमारचयति-
SK
सोमस्याग्न इति प्रोक्तानुवषट्कारदेवता / लक्ष्या न वा देवतात्वाल्लक्ष्या त्रिंशद्विलक्षणा // MJऐNय्_३,२.३८ //
SK
प्रकृतौ विद्यमानो ऽग्निरनुद्देशदिलक्षितः / उद्देश्येन्द्रो लक्षितो ऽत्तो विकृतावपि तत्तथा // MJऐNय्_३,२.३९ //
SK
᳚सोमस्याग्ने वीही | त्यनुयजति᳚इति श्रूयते | तत्र-अनुवषट्कारस्य मान्त्रवर्णिको ऽग्निर्देवता | न च त्रयस्त्रिंशतामिव वह्नेरदेवतात्वम् | मन्त्रे वह्निं संबोध्य सोमपातृत्वामिधानात् | तस्मात्-अग्निर्लक्षणीयः- इति चेत् | न | प्रकृतावलक्षितत्वात् | ऐन्द्रश्वमसः प्रकृतिः | इतरे विकृतिरूपाः | तथा हि-ऐन्द्रश्च सोमो गृह्यते मीयते च | तेनैन्द्रोष्वेव सोमः, अनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्वेव | अनैन्द्रा अधर्मकाः | धर्मताकाङ्क्षाश्चोदकेन सधर्मका इति विकृतित्वम् | गृह्यमाणस्य मीयमानस्य च सोमस्यैन्द्रत्वम् ऽइन्द्राय त्वा वसुमतेऽ इत्यादिग्रहणमन्त्रादवगम्यते | तस्य प्रकृतिभूतस्येन्द्रचमसस्य भक्षणे ऽग्निरनुवषट्कारदेवो नोपलक्षितः | कुतः | ग्रहणे तदुद्देशाभावात् | इन्द्रस्तूद्देश्यत्वादुपलक्षितः | एवं विकृतावप्युद्देश्यदेवानामेवोलक्षणं न्याय्यम् | तस्मात्- अग्निर्नोपलक्ष्यः || MJऐNय्C_३,२.३८-३९ ||
SK
(सप्तदशे(कृत्वाचिन्तारूपे)अनैन्द्राणाममन्त्रकभक्षणाधि करणे सूत्रम्) /
SK
छन्दः प्रतिषेधस् तु सर्वगामित्वात् / Jऐम्_३,२.३८ /
SK
START MJऐNय् ३,२.४०-४१
SK
सप्तदशाधिकरणमारचयति -
SK
अमन्त्रपक्षमाश्रित्य कृत्वाचिन्तान्तरत्रयम् / ऊहो ऽस्ति नो वा सो ऽस्त्यत्र विकृतौ तस्य संभवात् // MJऐNय्_३,२.४० //
SK
सोमेनेति विधेः सर्वप्रदानेषु समत्वतः / अविकारे ऽप्यनूहो ऽतो नैन्द्रो निर्मन्त्रभक्षणम् // MJऐNय्_३,२.४१ //
SK
उक्ताभ्यः पञ्चम्यः कृत्वाचिन्ताभ्यः पूर्वस्मिन्नेवाधिकरणे यो ऽयम् ऽअनैन्द्रेष्वमन्त्रकं भक्षणम्ऽ इत्येवंरूपः प्रथमः पूर्वपक्षः, तमेव मनसि निधाय पुनः कृत्वाचिन्तानां त्रयमभिधीयते - अनैन्द्रपूक्तरीत्या विकृतित्वेनोहसंभवादरत्यूहः- इति चेत् | न | अनैन्द्रणां विकृतित्वासंभवात् | ऽसोमेन यजेतऽ इत्युत्पत्तिश्रुतः सोमः कर्मणो ऽङ्गम्, न तु प्रदानविशेषस्य कस्यचिदङ्गम् | स एव सोमः सर्वप्रदानेष्वभ्यस्यत इति सर्वाणि समप्रधानानि | अत ऐन्द्राणामनैन्द्रणां च प्रकृतिविकृतिभावासंभवान्नास्त्यत्रोहः | ऽइन्द्राय त्वा वसुमतेऽ इत्यादिमन्त्रो लिङ्गादैन्द्रविषयो ऽस्तु | नैतावता प्रकृतिविकृतिभावः सिध्यति | तस्मादुक्तमन्त्रस्य लिङ्गादैन्द्रविषयत्वादनैन्द्रेष्वमन्त्रकं भक्षणम् || MJऐNय्C_३,२.४०-४१ ||
SK
(अष्टादशे, ऐन्द्राग्नभक्षस्यामन्त्रकताधिकरणे सूत्रे - ३९ -४०)
SK
ऐन्द्राग्ने तु लिङ्गभावात् स्यात् / Jऐम्_३,२.३९ /
SK
एकस्मिन् वा देवतान्तराद् विभागवत् / Jऐम्_३,२.४० /
SK
START MJऐNय् ३,२.४२-४३
SK
अष्टादशाधिकरणमारचयति -
SK
समन्त्रकममन्त्रं वा स्यादैन्द्राग्नादिभक्षणम् / ऐन्द्राग्ने ऽतीन्द्रपीतत्वसंभवात्तत्समन्त्रकम् // MJऐNय्_३,२.४२ //
SK
न पानमशरीरस्य युक्तं दानं तु मिश्रगम् / मन्त्रो ऽयं तु न मिश्रार्हस्तस्मादेतदमन्त्रकम् // MJऐNय्_३,२.४३ //
SK
यदेतत् ऽऐन्द्राग्नं गृह्णातिऽ इति विहितं शेषभक्षणम्, तत्र- इन्द्राग्निभ्यां पीतः सोम इन्द्रेणापि पीतो भवतिऽ इति लेङ्गेनैव विनियोगात्समन्त्रकं भक्षणम् - इति चेत् | मैवम् | नवमाध्याये वक्ष्यमाणदेवताधिकरणन्यायेनाशरीरस्येन्द्रस्य पानासंभवात् | अथ- पतिशब्देन दानं विवक्ष्येत, तदानीम् ऽइन्द्राय दत्तः सोमःऽ इति मन्त्रार्थो भवति | न चात्र यजमान इन्द्रमुद्दिश्य ददौ, किंत्विन्द्राग्नी उद्दीश्य | तस्मात् ऽदानं मिश्रविषयम् | मन्त्रस्तु न मिश्रविषयःऽ इत्यमन्त्रकं भक्षणम् || MJऐNय्C_३,२.४२-४३ ||
SK
(एकोनविंशे ऽगायत्रच्छन्दसःऽ इत्यादिमन्त्रविनियोगाधिकरणे सूत्राणि ४१-४३) /
SK
छन्दश् च देवतावत् / Jऐम्_३,२.४१ /
SK
सर्वेषु वाभावाद् एकच्छन्दसः / Jऐम्_३,२.४२ /
SK
सर्वेषां वैकमन्त्र्यम् ऐतिशायनस्य भक्तिपावनत्वात् सवनाधिकारो हि / Jऐम्_३,२.४३ /
SK
START MJऐNय् ३,२.४४-४६
SK
एकोनविंशाधिकरणमारचयति -
SK
ऐन्द्रदाने ऽपि गायत्रमात्रयुक्ते ऽथवेतरैः / छन्दोभिरपि युक्ते स्यादाद्यो मन्त्रे तथोक्तितः // MJऐNय्_३,२.४४ //
SK
द्वयोः समो बहुव्रीहिरेकच्छन्दास्तु न क्वचित् / नानाच्छन्दस्यैन्द्र एव कृत्वाचिन्तेयमीरिता // MJऐNय्_३,२.४५ //
SK
सवनार्थेन्द्रपीतोक्तिरित्युद्घटनमीरितम् / तेन सर्वप्रदानेषु मन्त्रपाठो यथा स्थितः // MJऐNय्_३,२.४६ //
SK
तस्मिन्नेव भक्षमन्त्रे ऽगायत्रच्छन्दस इन्द्रपीतस्यऽ इति श्रूयते | ऽगायत्रमेव छन्दो यस्यऽ इति मन्त्रपदे समासाभिधानादेकच्छन्दोयुक्त ऐन्द्रे सोमे भक्षमन्त्रः- इति चेत् | मैवम् | बहुच्छन्दोयुक्ते ऽपि बहुव्रीहेः समानत्वात् | एवकारं परित्यज्य ऽगायत्रं छन्दो यस्यऽ इति विग्रहसंभवात् | एकच्छन्दस्कस्तु सोमो न क्वाप्यस्ति | तस्मान्नानाछन्दस्के सोम ऐन्द्रप्रदान एव मन्त्रः, नान्यत्र | तदेवं कृत्वाचिन्तात्रयं समाप्तम् | द्विविधकृत्वाचिन्तोद्घाटना तु प्रागेव सिद्धान्तिना दर्शिता || MJऐNय्C_३,२.४४-४६ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य द्वितीयः पादः
SK
अथ तृतीयाध्यायस्य तृतीयः पादः /
SK
(प्रथमे - उच्चैस्त्वादीनां वेदधर्मताधिकरणे सूत्राणि १-८) /
SK
श्रुतेर् जाताधिकारः स्यात् / Jऐम्_३,३.१ /
SK
वेदो वा प्रायदर्शनात् / Jऐम्_३,३.२ /
SK
लिङ्गाच् च / Jऐम्_३,३.३ /
SK
धर्मोपदेशाच् च न हि द्रव्येण संबन्धः / Jऐम्_३,३.४ /
SK
त्रयीविद्याख्या च तद्विद् धि / Jऐम्_३,३.५ /
SK
व्यक्तिक्रमे यथाश्रुतीति चेत् / Jऐम्_३,३.६ /
SK
न सर्वस्मिन् निवेशात् / Jऐम्_३,३.७ /
SK
वेदसंयोगान् न प्रकरणेन बाध्यते / Jऐम्_३,३.८ /
SK
START MJऐNय् ३,३.१-३
SK
तृतीयपादे प्रथमाधिकरणमारचयति-
SK
कर्तव्यमुच्चैः सामगर्भ्यामुपांशु यजुषेत्यमी / मन्त्राणां वाथ वेदानां धर्मा मन्त्रगता यतः // MJऐNय्_३,३.१ //
SK
विध्युद्देशे मन्त्रवाचिशब्दाः प्रोक्ता ऋगादयः / ऋग्वेदो ऽग्नेः समुत्पन्न इत्युपक्रमवेदगीः // MJऐNय्_३,३.२ //
SK
असंजातविरोधातस्तद्वशादुपसंहृतेः / नयने सति वाक्येन धर्माणां वेदगामिता // MJऐNय्_३,३.३ //
SK
ज्योतिष्टोमे श्रूयते- ऽउच्चैऋचा क्रियते | उपांशु यजुषा | उच्चैः साम्नाऽ इति | तत्र विधिवाक्ये मन्त्रवाचिनामृगादिशब्दानां प्रयोगान्मन्त्रधर्मा उच्चैस्त्वादयः | तथा सति यजुर्वेदोत्पन्ना अध्वर्युणा प्रयुज्यमाना अप्यृच उच्चैरेव पठितव्याः- इति चेत् | मैवम् | असंजातविरोधित्वेन प्रबलमुपक्रममनुसृत्य तद्वशेनोपसंहारस्य नैतव्यत्वात् | उपक्रमे हि वेदशब्दः श्रुतः- ऽत्रयो वेदा असृज्यन्त | अग्नेऋग्वेदः | वायोर्यजुर्वेदः | आदित्यात्सामवेदःऽ इति | अत उपक्रमगतवेदानुसारेण विध्युद्देशगतानामप्यृगादिशब्दानां वेदपरत्वे सत्यृचो ऽपि यजुर्वेदोत्पन्ना उपांशु पठनीयाः | ननु- उपक्रमो ऽत्रार्थवादत्वाद्दुर्बलः | उपसंहारो विध्युद्देशत्वात्प्रबलः- इति चेत् | बाढम् | लब्धात्मनो हि विध्युद्देशस्य प्राबल्यम् | इह तु प्रथमतो बुद्ध्यींत्पादक उपक्रमः | तदानीमलब्धात्मत्वान्न तस्य बाधकत्वम् | पश्चात्तु वाक्यैकत्वाय तदविरोधेनैवाऽत्मानं लप्स्यते | तदेवमुपक्रमोपसंहारैकवाक्यताबलेन निर्णयाद्वाक्यविनियोगो ऽयम् || MJऐNय्C_३,१.१-३ ||
SK
(द्वितीये-आधाने गानस्योपांशुताधिकरणे सूत्रम्) /
SK
गुणमुख्यव्यतिक्रमे तदर्थत्वान् मुख्येन वेदसंयोगः / Jऐम्_३,३.९ /
SK
START MJऐNय् ३,३.४-६
SK
द्वितीयाधिकरणमारचयति-
SK
यजुर्वेदस्थमाधानं तदङ्गं साम तत्र किम् / उच्चैरुपांशु वा गानमुच्चैः शीघ्रप्रतीतितः // MJऐNय्_३,३.४ //
SK
उत्पत्तेर्विनियोगो ऽत्र प्रबलो ऽनुसृतिर्यतः / मुख्यस्याङ्गेन कर्तव्या तस्माद्गान उपांशुता // MJऐNय्_३,३.५ //
SK
आधानस्यात्र मुख्यत्वं गानस्य गुणताथवा / विनियोगस्य मुख्यत्वमुत्पत्तेर्गुणतास्त्विह // MJऐNय्_३,३.६ //
SK
आधाने वामदेव्यादिसामान्यङ्गत्वेन विहितानि | तत्र- यद्यप्येतानि यजुर्वेदगतस्याऽधानस्याङ्गानि, तथापि सामवेदे तेषामुत्पन्नत्वात्, उत्पत्तेश्च शीघ्रबुद्धिहेतुत्वात्सामवेदधर्मेण गेयानि - इति चेत् | न | विनियोगस्य प्रबलत्वात् | स च यजुर्वेदे श्रुतः- ऽय एवं विद्वान्वामदेव्यं गायतिऽ इति | गुणेन हि मुख्यस्यानुसरणं न्याय्यम् | को गुणः, किं मुख्यम्- इति चेत् | अत्राङ्गित्वादाधानं मुख्यम्, सामगानमङ्गत्वेन गुणः | तथा साति ऽधर्मः शिरःऽ - इत्यादय आधानाङ्गभूता मन्त्रा यथोपांशु पठ्यन्ते, तथा सामान्यप्याधानानुसारेणोपांशु गेयानि | अथवा विनियोगो ऽनुष्ठापकविधित्वान्मुख्यः | उत्पत्तिविधिरतथाविधत्वाद्गुणः | तस्मात्- अत्र विनियोगवेदानुसारेणोपांशुगेयानि || MJऐNय्C_३,१.४-६ ||
SK
(तृतीये ज्योतिष्टोमस्य याजुर्वेदिकताधिकरणे सूत्रम् -) /
SK
भूयस्त्वेनोभयश्रुति / Jऐम्_३,३.१० /
SK
START MJऐNय् ३,३.७-८
SK
तृतीयाधिकरणमारचयति-
SK
ज्योतिष्टोमो यजुःसामवेदयोरस्ति तत्र किम् / उच्चैस्त्वमुत नीचैस्त्वं हेत्वभावादनिर्णयः // MJऐNय्_३,३.७ //
SK
यजुष्यधिगते द्रव्यदेवते तत्र तद्विधिः / तद्वशात्स्वरनिर्णीतेरुपांशु स्यादनुष्ठितिः // MJऐNय्_३,३.८ //
SK
ऽज्योतिष्टोमेन स्वर्गकामो यजेतऽ इत्येतद्वाक्यं वेदद्वये समाम्नातम् | तत्र-ऽको विधिः, कश्च गुणविधानायानुवादः, इति जिज्ञासायां नियामकहेतोरप्रतिमानात् ऽएतस्य वेदस्य धर्मो ऽनुष्ठेयःऽ इत्यनिर्णयः- इति चेत् | न | सोमद्रव्यस्य, इन्द्रवाय्वादिदेवतायाश्च यजुर्वेदे ऽधिगतत्वादङ्गबाहुल्यश्रवणाच्च तत्रैव विधिः, इति - उपांशुप्रयोगः || MJऐNय्C_३,१.७-८ ||
SK
(चतुर्थे प्रकरणस्य विनियोजकताधिकरणे सूत्रम् - )
SK
असंयुक्तं प्रकरणाद् इति कर्तव्यतार्थित्वात् / Jऐम्_३,३.११ /
SK
START MJऐNय् ३,३.९-१०
SK
चतुर्थाधिकरणमारचयति -
SK
न क्रत्वङ्गं प्रयाजादि क्रत्वङ्गं वा न चाङ्गता / प्रक्रियाया अमानत्वान्नैराकाङ्क्ष्येण वाक्ययोः // MJऐNय्_३,३.९ //
SK
प्रयाजादेः फले ऽपेक्षा कथंभावे ऽपि च क्रतोः / तेन प्रकरणाम्नानं तस्मादङ्गाङ्गिता तयोः // MJऐNय्_३,३.१० //
SK
सार्धपादद्वये विनियोजकत्वेनोक्तानि यानि श्रुतिलिङ्गवाक्यानि, तेभ्यो ऽतिरिक्तं प्रकरणनामकं किंचित्प्रमाणं न वेदे पश्यामः | नहि पदतत्सामर्थ्यान्वयैरसंतृष्टः कश्चिद्वेदभागः केनचिदाम्नायते | एकवाक्यतामापन्नो वाक्यसमूहः प्रकरणम-इति चेत् | न | वाक्ययोः सतोः पश्चादेकताक्यताया अभावात् | न हि ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ ऽसमिधो यजतिऽ इत्यनयोर्वाक्ययोः परस्पराकाङ्क्षास्ति, येन वाक्यैकवाक्यता कल्प्येत | तस्मात् - न प्रयाजादीनां दर्शपूर्णमासाङ्गत्वम्- इति प्राप्ते, - ब्रूमः- प्रयोजादयः फलहेतवः, पुरुषप्रवृत्तिरूपत्वात्, सेवादिवत् | दर्शपूर्णमासावुपकरणैरुपकार्यौ, करणत्वात्, प्रदीपोपकृतचक्षुर्वत् | तथा सति ऽकिं प्रयाजादेः फलम्, किंवा दर्शपूर्णमासयोरुपकरणम्ऽ इत्याकाङ्क्षायां संपन्नवाक्यैकवाक्यतारूपं प्रकरणम् | तेन च प्रयाजादीनामङ्गत्वं प्रतीयते || MJऐNय्C_३,१.९-१० ||
SK
(पञ्चमे क्रमस्य विनियोजकत्वाधिकरणे सूत्रम् - ) /
SK
क्रमश् च देशसामान्यात् / Jऐम्_३,३.१२ /
SK
START MJऐNय् ३,३.११-१४
SK
पञ्चमाधिकरणमारचयति-
SK
दब्धिर्नामेति मन्त्रो ऽङ्गमुपांशुयजतेर्न वा / साधारणत्वाल्लिङ्गादेर्मानाभावादनङ्गता // MJऐNय्_३,३.११ //
SK
मन्त्राणां कर्मणां चात्र क्रमेणाऽम्नानमीक्ष्यते / प्रक्रियावत्क्रमो मानं यथासंख्यं ततो ऽङ्गता // MJऐNय्_३,३.१२ //
SK
क्रमः समानदेशत्वं पाठादर्थाच्च पाठतः / यथासंख्यं संनिधिश्च यथासंख्यमुदाहृतम् // MJऐNय्_३,३.१३ //
SK
शुन्धत्वमिति सांनाय्यपात्राङ्गं संनिधेर्मतम् / पशुधर्मोर्ऽथसादेश्यादग्नीषोमीयतो भवेत् // MJऐNय्_३,३.१४ //
SK
दर्शपूर्णमासयोर्याजमाने - मन्त्रकाण्डे कश्चिन्मन्त्र आम्नायते-ऽदब्धिरस्यदब्धो भूयासम्, अमुं दभेयम्ऽ इति | अस्य मन्त्रस्योपांशुयाजाङ्गतायां श्रुतिवाक्ये न विद्येते | ब्राह्मणे विनियोगमनाम्नायार्थविवरणस्यैवाऽभ्नानात् | ऽएतया वै दब्ध्या देवा असुरानदभ्नुवन् | तयैव भ्रातृव्यं दभ्नोतिऽ इति ब्राह्मणम् | दब्धिर्धातुकमायुधम् | आग्नेयाग्नीषोमीययोरप्यनिष्टनिवारकत्वाल्लिङ्गं साधारणम् | प्रकरणं च त्रयाणामेकमेव | ततो मानाभावादयं मन्त्रो नोपांशुयाजाङ्गम् - इति प्राप्ते, - ब्रूमः- आध्वर्यवे काण्ड आग्नेयोपांशुयाजाग्नीषोमीयकर्माणि क्रमेणाऽम्नातानि | याजमाने च काण्डे तद्विषया मन्त्राः क्रमेणाऽम्नाताः- ऽअग्नेरहं देवयज्ययान्नादो भूयासम्ऽ, ऽदब्धिरस्यदब्धो भूयासममुं दभेयम्ऽ,ऽअग्निषोमयारेहं देवयज्यया वृत्रहा भूयासम्ऽ इति | तत्र यथा वाक्यद्वयानुसंधान संपन्नं प्रकरणं पृथक्प्रमाणम्, तथा प्रकरणद्वयानुसंधानसंपन्नः क्रमः कुतो न मानं स्यात् | न चास्य प्रकरणे ऽन्तर्भावः | द्वयोर्वाक्ययोरिव प्रकरणयोरेकवाक्यत्वाभावात् | तस्मात्क्रमप्रमाणेन मध्यवर्तिन उपांशुयाजस्य मध्यवर्ती मन्त्रो ऽङ्गम् | ऽसमानदेशत्वं क्रमःऽ इति क्रमस्य स्वरूपम् | तच्च द्विविधम्- पाठकृतमर्थकृतं च | तत्र पाठकृतमपि द्विविधम्- यथासंख्यं संनिधिश्चेति | तयोराद्यस्य दब्धिमन्त्र उदाहरणम् | ᳚शुन्धध्वं दैव्याय कर्मणे᳚-इत्ययं मन्त्रः शोधनीयेषु वस्तुषु साधारणोभासते | तत्र सांनाय्यपात्राणि कुम्भीशाखापवित्रादीन्यनन्तरेषु ऽमातरिश्वनःऽ- इत्यादिमन्त्रेष्ववभासन्त इति संनिधिना तत्पात्रप्रोक्षणे ऽशुन्धध्वम्ऽ इति मन्त्रो विनियुज्यते | अनुष्ठानसादेश्यान्पशुधर्माणामग्नीषो मीयाङ्गत्वम् | तदेवं क्रमस्य त्रैविध्यं द्रष्टव्यम् || MJऐNय्C_३,१.११-१४ ||
SK
(षष्ठे समाख्याया विनियोजकताधिकरणे सूत्रम् / )
SK
आख्या चैवं तदर्थत्वात् / Jऐम्_३,३.१३ /
SK
START MJऐNय् ३,३.१५-१६
SK
षष्ठाधिकरणमारचयति-
SK
वेदत्रयोक्तधर्माणामृत्विग्भिः संगतिस्त्रिभिः / अनियत्या नियत्या वा नियतिर्नानिरूपणात् // MJऐNय्_३,३.१५ //
SK
हौत्रत्वादिसमाख्यानं नियतेर्गमकं स्वतः / निर्बाधं चान्यवत्तच्च तेनात्र विनियोजकम् // MJऐNय्_३,३.१६ //
SK
याज्यापुरोनुवाक्यंपाठादयो धर्मा ऋग्वेदे प्रोक्ताः | दोहननिर्वापादयो यजुर्वेदे | आज्यस्तोत्रपृष्ठस्तोत्रादयः सामवेदे | तत्र ऽअस्यैवैते धर्माःऽ इति नियामकस्य दुर्निरूपत्वाद्येन केनाप्यृत्विजा यः को ऽपि धर्मैच्छयासंगच्छते- इति चेत् | मैवम् | ऽहौत्रम्, आध्वर्यवम्, औद्रात्रम्ऽ इति समाख्यानेन नियतिर्बोध्यते | न च समाख्यानस्य बाधकं किंचित्पश्यामः | तस्मादबोधकत्वबाधितत्वयोरप्रामाण्यकारणयोरभावाच्छ्रुति लिङ्गादिपञ्चकवत्प्रमाणेन समाख्यानेन धर्मा व्यवस्थाप्यन्ते || MJऐNय्C_३,१.१५-१६ ||
SK
(श्रुत्यादीनां पूर्वपूर्वबलीयस्त्वाधिकरणेषु [७-१२] सूत्रम्) /
SK
श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् / Jऐम्_३,३.१४ /
SK
START MJऐNय् ३,३.१७-१९
SK
सप्तमा(श्रुतिप्राबल्या)धिकरणमारचयति- ऐन्द्र्योपस्थीयतां वह्निरितीन्द्राग्न्योर्विकल्पनम् / समुच्चयो वोते शक्र एवाग्निः केवलो ऽथवा // MJऐNय्_३,३.१७ //
SK
विकल्पः श्रुतिलिङ्गाभ्यां गुणावृत्त्या समुच्चयः / श्रतिः शक्त्यनुसारेति शक्र एको ऽत्र लिङ्गतः // MJऐNय्_३,३.१८ //
SK
शक्तिरुक्ता श्रुतिः शीघ्रा लिङ्गं क्षुत्यनुमापकम् / नैराकाङ्क्ष्यात्मके बोधे श्रुत्याग्नौ केवले स्थितिः // MJऐNय्_३,३.१९ //
SK
ऽऐन्द्या गार्हपत्यमुपतिष्ठतेऽ इति श्रूयते | ऽकदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषेऽ इत्यसावृगैन्द्री | तत्रेन्द्रस्य प्रकाशनात् | ऽभो इन्द्र, कदाचिदपि घातको न भवसि | किंत्वाहुतिं दत्तवते यजमानाय प्रीयसेऽ इत्यर्थः | तत्र-इन्द्रप्रकाशनसामर्थ्यरूपाल्लिङ्गान्मन्त्रस्येन्द्रविषयक्रिया साधनत्वं गम्यते | यद्यसौ मन्त्र इन्द्रप्रधानकक्रियायाः साधको न भवेत्, तदानीमनेन मन्त्रेणेन्द्रप्रकाशनं व्यर्थे स्यात् | तस्मात् ऽएतन्मन्त्रकरणकक्रियां प्रतीन्द्रः प्रधानम्ऽ इत्येतादृशबुद्ध्यीं- त्पादनं लिङ्गविनियोगः | ऽकासौ क्रियाऽ इति विशेषजिज्ञासायाम् ऽऐन्द्योपतिष्ठतेऽ इत्यनेनाविरुद्धपद- द्वयरूपेण वाक्येनोपस्थानक्रियायां पर्यवसानं क्रियते | तथासति ऽऐन्द्रमन्त्रेणेन्द्रमुपतिष्ठेतऽ इत्ययमर्थः पर्यवस्यति | तथा ऽगार्हपत्यम्ऽ इति द्वितीयान्तपदरूपया श्रुत्या गार्हपत्यस्य प्राधान्यं गम्यते | तच्च गुणभूतां यत्किंचित्करणकक्रियामन्तरेण न संभवति | ततः ऽतादृशीं कांचित्क्रियां प्रति गार्ह्यत्यः प्रधानम्ऽ इत्येतादृशबुद्ध्यींत्पादनं श्रुतिविनियोगः | ऽऐन्द्या, उपतिष्ठतेऽ इति पदद्वयेन मन्त्रविशेषक्रियाविशेषयोः पर्यवसानं भवति | तथा सति ऽऐन्द्रेण मन्त्रेण गार्हपत्यमुपतिष्ठतेऽ इत्यर्थो भवति | तदेवं श्रुतिलिङ्गयोर्विरोधे सति प्रमाणत्वाविशेषाद्ब्रीहियववद्विकल्पः- इत्येकः पूर्वपक्षः | इन्द्रगार्हपत्ययोः प्रधानत्वाविशेषदुपस्थानस्य च गुणत्वात् ऽप्रतिप्रधानं गुणःऽ इति न्यायेनोपस्थानावृत्या श्रुतिलिङ्गयोः समुच्चयः- इति द्वितीयः पूर्वपक्षः | श्रुतिर्विनियुञ्जाना वस्तुसामथ्यमनुकृत्यैव विनियुङ्क्ते | अन्यथा ऽवह्निना सिञ्चेत्ऽ ऽवारिणा दहेत्ऽ इत्यपि विनियुज्येत | तत उपजीव्यत्वेन लिङ्गस्य प्रबलत्वादिन्द्र एव मन्त्रेणोपस्थेयः- इति तृतीयः पूर्वपक्षः | ऐन्द्रमन्त्रस्य गार्हपत्ये मुख्यवृत्त्या शक्त्यभावे ऽपि गौणवृत्त्या शक्तिरस्तीति ऽनिवेशनःऽ- इत्यस्मिन्नुदाहरणे पूर्वमेव दर्शितम् | तथा सति सामर्थ्याभावकृतप्रतिबन्धाभावान्निर्विघ्ना श्रुतिः शीघ्रं विनियुङ्क्ते, लिङ्गं तु विलम्बते | मन्त्रपदान्यादौ स्वाभिधेयमर्थे प्रतिपादयन्ति | तत ऊर्ध्व मन्त्रस्य सामर्थ्ये निरूप्यते | पश्चात्सामर्थ्यवशात्साधनत्ववाचिनी प्राधान्यवाचिनी च श्रुतिः कल्पते | सा च श्रुतिः ऽमन्त्रेणेन्द्रमुपतिष्ठेतऽ इति विनियुङ्क्ते | तथा सति प्रत्यक्षश्रुतौ स्वाभिधेयप्रतिपादनविनियोगयो र्मध्यवर्तिनौ सामर्थ्यनिरूपण- श्रुतिकल्पनव्यापारौ न स्त इति प्राबल्यात्तया लिङ्गं बाध्यते | न च - प्रत्यक्षश्रुतिविनियोगवेलायामलब्धात्मकत्वेनाप्राप्तं लिङ्गं कथं बाध्येत- इति शङ्कनीयम् | भविष्यत्प्रप्तिमतिबन्धस्यैवात्र बाधत्वात् | श्रुत्या विनियुक्तस्य मन्त्रस्य पुनर्विनियोगाकाङ्क्षाया अनुदयात्कथं विनियोजकं लिङ्गं प्राप्स्यति | तस्मात् - गार्हपत्योपस्थाने मन्त्रः प्रत्यक्षश्रुत्या विनियुज्यते || MJऐNय्C_३,१.१८-१९ ||
SK
START MJऐNय् ३,३.२०-२२
SK
अष्टमा (वाक्याद्यपेक्षया लिङ्गस्य प्राबल्या) धिकरणमारचयति-
SK
स्योनं त इति पूर्वार्ध तस्मिन्सीदेति चोत्तरम् / सदने सादने चायं सर्वै वार्ऽधे व्यवस्थिते // MJऐNय्_३,३.२० //
SK
तच्छब्दादेकवाक्यत्वे भवेदाद्यः श्रुतिं प्रति / लिङ्गस्य संनिकृष्टत्वाद्वाक्यबाधे व्यवस्थितिः // MJऐNय्_३,३.२१ //
SK
उदाहृतिरियं वाक्यबाधे न त्वैन्द्रियेत्यसौ / बाधादूर्ध्व निरर्थत्वादप्रामाण्यप्रसङ्गतः // MJऐNय्_३,३.२२ //
SK
दर्शपूर्णमासयोः श्रूयते- ऽस्योनं ते सदनं कृणोमि घृतस्य धारया सुपेवं कल्पयामि | तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेघ सुमनस्यमानःऽ इति | ऽभोः पुरोडाश, तव समीचीनं स्थानं करोमि | तच्च स्थानं घृतस्य धारया सुष्ठु सेवितुं योग्यं कल्पयामि | भो व्रीहिसारभूत, त्वं समाहितमनस्कस्तस्मिन्समीचीने स्थान उपविश | तत्र स्थिरो भवऽ इत्यर्थः | तत्र-ऽतस्मिन्ऽ इत्यनेन तच्छब्देन प्रकृतवाचिना पूर्वोत्तरार्धयोरेकवाक्यत्वे सति मन्त्रद्वयाभावात्सर्वो ऽप्ययं मन्त्रः स्थानकरणे ऽङ्गं स्यात् | मन्त्रविनियोजिका श्रुतिरेवं कल्पनीया- ऽसर्वेणानेन मन्त्रेण स्थानं कर्तव्यम्ऽ इति | तथा ऽसर्वेण मन्त्रेण पुरोडाशः स्थापनीयः, इत्यपि कल्पनीया | सदनाङ्गत्ववत्प्रतिष्ठापनाङ्गत्वस्यापि तद्वाक्यबोधितत्वात् | तथा सति सदनस्थापनयोरस्य मन्त्रस्य विकल्पः समुच्चयो वा निजेच्छया भविष्यति- इति प्राप्ते,- ब्रूमः- यदेतत्पूर्वोत्तरार्धयोः परस्परान्वयेन संपन्नमेकं वाक्यम्, तदेतदुत्तराधस्य सदनकरणे शक्तिमकल्पयित्वा कृत्स्नं मन्त्रं सदने विनियोक्तुं नार्हति | तथा पूर्वार्धस्य स्थापने शक्तिमकल्पयित्वा न तत्र प्रभवति | अतो लिङ्गकल्पनव्यवधानेन वाक्यं श्रुतिं प्रति विप्रकृष्यते | प्रत्यक्षं तु लिङ्गद्वयं संनिकृष्यते | तथा सति लिङ्गेन वाक्यबाधादर्थद्वयमुभयोर्व्यवस्थितम् | ननु-ऽऐन्द्या गार्हपत्यम् | इत्यत्रापि पदद्वयान्वयरूपस्य वाक्यस्य विनियोजकत्वप्रतीतेर्लिङ्गवाक्यविरोधाय तदेवोदाह्नियताम्- इति चेत् | न | तत्र लिङ्गेन वाक्ये बाधिते सत्येकैकपदस्यार्थप्रत्यायकत्वाभावेन श्रुतिकृतविनियोगस्याप्यसिद्धेरप्रामाण्यमेवोदाहृतस्य प्रसज्येत | इह तु महावाक्ये बाधिते ऽप्यवान्तरवाक्ययोरर्थप्रतीतौ लिङ्गविनियोगः सिध्यतीत्येतदेवोदाहरणम् || MJऐNय्C_३,१.२०-२२ ||
SK
START MJऐNय् ३,३.२३-२४
SK
नवमा(वाक्यस्य प्रकरणाद्यपेक्षया प्राबल्या)धिकरणमारचयति-
SK
अग्नीषोमाविदं हव्यमजुषेतामितीरितात् / अपच्छिद्येदमित्यादिः सर्वशेषो भवेन्न वा // MJऐNय्_३,३.२३ //
SK
प्रक्रियातो मवेन्मैवं प्रक्रियान्तरिता त्रिभिः / वाक्यं द्वयन्तरितं तेन भवेत्प्रकरणाद्बलि // MJऐNय्_३,३.२४ //
SK
सूक्तवाके श्रूयते- ऽअग्निषोमाविदं हविरजुषेताम्, अवीवृधेताम्, महोज्यायो ऽक्राताम् | इन्द्राग्नी इदं हविरजुषेताम्, अवीवृघेताम्, ऽमहो ज्यायो ऽक्राताम्ऽ इति | तत्र-देवतावाचकमग्नीषोमादिपदं पौर्णमास्यादिकाले यथादेवतं विभज्य प्रयोक्तव्यम्- इति पूर्वपादे निर्णीतम् | यत्तु ऽइदं हविःऽ- इत्यादिकमवशिष्टं पदजातं, तदग्नीषोममन्त्रगतमप्यमावास्यायामग्नीषोमपदपरित्यागेन पठनीयम् | एवम्- इन्द्राग्निमन्त्रगतमपि पौर्णमास्यामिन्द्राग्निपदपरित्यागेन पठनीयम् | तथा सत्येषां मन्त्रभागाणां सर्वशेषत्वबोधको दर्शपूर्णमासप्रकरणपाठो ऽनुगृह्यते- इति प्राप्ते, ब्रूमः- अग्नीषोममन्त्रशेषस्येन्द्राग्निपदान्वयाश्रवणात् | प्रकरणेन प्रथमे तदन्वयरूपं वाक्यं कल्पनीयम् | तेन च वाक्येनेन्द्रादिप्रकाशनसामर्थ्यरूपं लिङ्गं कल्प्यते | तच्च लिङ्गम् ऽअनेन मन्त्रभागेणेन्द्राग्निविषयक्रियानुष्ठेयाऽ इति विनियोजिकां तृतीयाश्रुतिं कल्पयति | ततः प्रकरणविनियोगयोर्मध्ये त्रिभिर्व्यवधानं भवति | अग्नीषोमपदान्वयरूपं तु वाक्यं श्रूयमाणत्वाल्लिङ्गश्रुतिभ्यामेव व्यवधीयते | तस्माद्वाक्येन प्रकरणस्य बाधितत्वात्तच्छेषस्तत्रैव व्यवतिष्ठते || MJऐNय्C_३,१.२३-२४ ||
SK
START MJऐNय् ३,३.२५-२६
SK
दशमा(प्रकरणस्य क्रमाद्यपेक्षया प्राबल्या)धिकरणमारचयति-
SK
राजसूये ऽभिषेच्याख्ययागे ये देवनादयः / तच्छेषास्ते ऽखिलार्था वा तच्छेषास्तस्य संनिधेः // MJऐNय्_३,३.२५ //
SK
राजसूयकथंभावानुवृत्तेः सर्वशेषता / कल्प्याकाङ्क्षाभिषेच्यस्य प्रक्रिया प्रबला ततः // MJऐNय्_३,३.२६ //
SK
राजसूये पश्विष्ठिसोमयागा बहवः प्रधानभूताः | तत्राभिषेचनीयाख्यः कश्चित्सोमयागः | तस्य संनिधौ देवनादयः श्रूयन्ते-ऽअक्षैर्दीव्यति | राजन्यं जिनाति | शौनःशेपमाख्यापयतिऽ इति | जिनाति जयति | बह्वृचब्राह्मणे समाम्नातं शुनः शेपविषयमुपाख्यानं शौनःशेपम् | तत्र संनिधिबलाद्देवनादयो ऽभिषेचनीयाङ्गम्- इति चेत् | मैवम् | राजसूयस्य कथंभावाकाङ्क्षायामनुवृत्तायां विहिता देवनादयः प्रकरणेन राजसूयशेषाः | राजसूयश्च बहुयागात्मक इति तत्रत्यसर्वयागशेषत्वम् | न चाभिषेचनीयस्य काचिदाकाङ्क्षा देवनादिष्वस्ति | ज्योतिष्टोमविकृतित्वेनातिदिष्टैः प्राकृताङ्गैरेव तदाकाङ्क्षानिवृत्तेः | संनिहितविधिबलादाकाङ्क्षोत्थाप्यते- इति चेत् | अत एवाऽकाङ्क्षारूपमवान्तरप्रकरणमादौ परिकल्प्य तद्द्वारा वाक्यलिङ्गश्रुतीकल्पनया संनिधिर्विप्रकृष्यते | राजसूयाकाङ्क्षारूपं तु महाप्रकरणं कॢप्तत्वादेकर्या कक्षया संनिकृष्यते | तस्मात्-प्रकरणेन संनिधिबाधात्सर्वशेषा देवनादयः || MJऐNय्C_३,१.२५-२६ ||
SK
START MJऐNय् ३,३.२७-२८
SK
एकादशा(क्रमस्य समाख्यापेक्षया प्राबल्या)धिकरणमारचयति-
SK
शुन्धध्वमिति मन्त्रो ऽङ्गं पौरोडाशिकशोधने / सांनाय्यपात्रशुद्धौ वा प्रथमो ऽस्तु समाख्यया // MJऐNय्_३,३.२७ //
SK
पौरोडाशिकमित्यत्र प्रकृत्या तद्धितेन वा / संनिध्यनुक्तितः कल्प्यः कॢप्तत्वाच्चरमः क्रमात् // MJऐNय्_३,३.२८ //
SK
ऽशुधध्वं दैव्याय कर्मणेऽ इत्ययं मन्त्रः ऽपौरोडाशिकम्ऽ इति याज्ञिकैःसमाख्याते काण्डे पठितत्वात्समाख्यया पुरोडाशकाण्डोक्तानामुलूखलजुह्वादीनामपि शोधने ऽङ्गम्- इति चेत् | मैवम् | ऽपौरोडाशिकम्ऽ इति समाख्यायां प्रकृतिः पुरोडाशमात्रमभिधत्ते | तद्धितप्रत्ययश्च काण्डम् | न चैतावता कृत्स्नपुरोडाशपात्राणां मन्त्रसंनिधिः प्रत्यक्षो भवति, किंत्वर्थापत्त्या कल्प्यते | यद्युक्तसंनिधिर्न स्यात्, तदा मन्त्रप्रतिपादकग्रन्थस्य पौरोडाशिकसमाख्या न स्यात् | न ह्यग्न्यसंनिहितानाम् ऽइषे त्वा-ऽ दिमन्त्राणामाग्नेयकाण्डसमाख्या भवति | संनिहितानां तु ऽयुञ्जानः प्रथमं मनःऽ- इत्यादिमन्त्राणां भवत्येषा समाख्या | तस्मात्- काण्डसमाख्यया संनिधिं परिकल्प्य तत्संनिध्यन्यथानुपपत्त्या परस्पराकाङ्क्षारूपं कृत्स्नं पात्रप्रकरणं कल्पयित्वा तद्द्वारा वाक्यलिङ्गश्रुतीः कल्पयित्वा तया श्रुत्या विनियोग इति समाख्याया विप्रकर्षः | सांनाय्यपात्राणां शोधने मन्त्रसंनिधिस्तु प्रत्यक्षः | इध्माबर्हिः संपादनस्य मुष्टिनिर्वापस्य चान्तरालं सांनाय्यपात्राणां देश उक्तः | मन्त्रश्वेध्माबर्हिर्निर्वापविषययोर्मन्त्रानुवाकयोमध्योमऽनुवाके पठ्यते | तेन च प्रत्यक्षसंनिधिना प्रकरणादीनां चतुर्णामेव कल्पनात्संनिधिः संनिकृष्यते | तस्मात्- क्रमेण समाख्यां बाधित्वा ऽसांनाय्यपात्रशोधनशेषो मन्त्रःऽ इत्ययं चरमः पक्षो ऽभ्युपेयः || MJऐNय्C_३,१.२७-२८ ||
SK
START MJऐNय् ३,३.२९-३०
SK
द्वादशा(बाधयोग्यता)धिकरणमारचयति-
SK
बाधो न युक्तो युक्तो वा प्राप्त्यप्राप्त्योर्न युज्यते / अप्रवृत्तं प्रसक्तं यद्धिया तस्यास्तु बाध्यता // MJऐNय्_३,३.२९ //
SK
प्रमाणतः प्रसक्तस्य बाधो दाशमिको ऽत्र तु / विभ्रमेण प्रसक्तस्य तस्मादप्रप्तबाधनम् // MJऐNय्_३,३.३० //
SK
प्राप्तस्य प्रवृत्तिरस्तीति न तन्निवारणं शक्यम् | अप्राप्तस्य बाधविषयत्वेनावस्थानमेव नास्ति | तस्मात्-न युक्तो बाधः- इति चेत् | मैवम् | बुद्ध्याविषयीकृतस्य वारयितुं शक्यत्वात् | न चैतदत्यन्तं प्रवृत्तम् | अनुष्ठानरूपफलपर्यवसानाभावात् | नाप्यत्यन्तमप्रवृत्तम् | तद्बुद्धेरुत्पन्नत्वात् | अतो नोक्तदोषद्वयम् | दशमे चोदकप्रमाणेनावबुद्धोर्ऽथो बाध्यत इति प्राप्तबाधः | इह तु पूर्वपूर्वप्रमाणविरुद्धैरुत्तरोत्तरैः प्रमाणाभासैरवबुद्धस्येत्यप्राप्तबाधः || MJऐNय्C_३,१.२९-३० ||
SK
(त्रयोदशे द्वादशोपसत्ताया अहीनाङ्गताधिकरणे(अहीनन्याये) सूत्रे-१५-१६) /
SK
अहीनो वा प्रकरणाद् गौणः / Jऐम्_३,३.१५ /
SK
असंयोगात् तु मुख्यस्य तस्माद् अपकृष्येत / Jऐम्_३,३.१६ /
SK
START MJऐNय् ३,३.३१-३३
SK
त्रयोदशाधिकरणमारचयति-
SK
तिस्त्र एव हि साह्ने स्युरहीने द्वादशेत्यतः / ज्योतिष्टोमे द्वादशत्वमथवाहगणे भवेत् // MJऐNय्_३,३.३१ //
SK
अस्तु प्रकरणादाद्यो नाहीमत्वं विरुध्यते / प्रकृतित्वान्न केनापि हीनो ऽतो ऽत्र विकल्प्यताम् // MJऐNय्_३,३.३२ //
SK
साह्लाद्भिन्नाहीनसंज्ञा रूढैपाहर्गणे भवेत् / षष्ठीश्रुत्या द्वादशत्वं प्रक्रियातो ऽपकृष्यताम् // MJऐNय्_३,३.३३ //
SK
ज्योतिष्टोमप्रकरणे श्रूयते-ऽतिस्त्र एव साह्नस्योपसदो द्वादशाहीनस्यऽ इति | एकेनाह्ना निष्पाद्यत्वात्साह्नो ज्योतिष्टोमः | दीक्षादिवसादूर्ध्वे सोमाभिषवदिवसात्पूर्व कर्तव्या होमा उपसदः | तासां द्वादशत्वं प्रकरणबलाज्ज्योतिष्टोमे निविशते | अहीनशब्दश्च तस्मिन्नेव कल्पते | ज्योतिष्टोमस्य निखिलसोमयागप्रकृतित्वेन सर्वेषामङ्गानां तत्रोपदेशे सति तदुपदेशविकलविकृतीनामिव हीनत्वाभावात् | अतो द्वादशत्वत्रित्वयोर्विकल्पः- इति प्राप्ते, - ब्रूमः- आवृत्तसोमयागरूपो द्विरात्रत्रिरात्रादिरहर्गणः | तस्मिन्नहीनशब्दो रूढः | यौगिकत्वे तु ऽन हीनःऽ इति विगृह्य समासे कृते सत्ययज्ञादिशब्दबदाद्युदात्तः स्यात् | मध्योदात्तस्त्वाम्नायते | रूढिश्च विग्रहनिरपेक्षत्वाच्छीप्रबुद्धिहेतुः | अतो ज्योतिष्टोमवाचिनः साह्नशब्दाद्भिन्नेयमहीनसंज्ञा ज्योतिष्टोमाद्भिन्नमहर्गणमभिधत्ते | तस्मिन्नहर्गणे षष्ठीश्रुत्या तदुक्तं द्वादशत्वं निवेश्यते | तत्सिद्धये प्रकरणादिदमपनेतव्यम् || MJऐNय्C_३,१.३१-३३ ||
SK
(चतुर्दशे कुलायादौ प्रतिपदौरुत्कर्षाधिकरणे सूत्राणि १७-१९) /
SK
द्वित्वबहुत्वयुक्तं वा चोदनात् तस्य / Jऐम्_३,३.१७ /
SK
पक्षेणार्थकृतस्येति चेत् / Jऐम्_३,३.१८ /
SK
न प्रकृतेर् एकसंयोगात् / Jऐम्_३,३.१९ /
SK
START MJऐNय् ३,३.३४-३६
SK
चतुर्दशाधिकरणमारचयति-
SK
युवं हीति द्वयोः कर्त्रोर्बहूनां चैत इत्यमूम् / कुर्यात्प्रतिपदं ज्योतिष्टोमे साहर्गणे ऽथवा // MJऐNय्_३,३.३४ //
SK
एकस्य शक्तिराहित्ये द्वाभ्यां बहुभिरेव वा / ज्योतिष्टोमस्य कार्यत्वात्प्रकृते ऽत्रैव सा भवेत् // MJऐNय्_३,३.३५ //
SK
यजमानस्य नानात्वं साक्षाद्विकृतिषु श्रुतम् / उत्कृष्य प्रतिपत्तेन कुलायादिषु नीयताम् // MJऐNय्_३,३.३६ //
SK
ज्योतिष्टोमे श्रूयते- ऽयुवं हि स्थः स्वर्पतीऽ- इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात् | एते असृग्रमिन्दवःऽ- इति बहुभ्यो यजमानेभ्यःऽ इति | स्तोत्रस्योपक्रमे पठनीयामृचं प्रतिपच्छब्दो ऽभिधत्ते | सा चोदाहृता प्रतिपत्प्रकरणाज्ज्योतिष्टोमे निविशते | न च तत्र यजमासद्वित्वबहुत्वयोरसंभवः | एकस्य यजमानस्य द्रव्यलाभादिना तदशक्तौ नित्यकर्मणः परित्यागासंभवेन द्वाभ्यां बहुभिर्वा तस्यावश्यकर्तव्यत्वात्- इति प्राप्ते, - ब्रूमः- यजमानद्वित्वं कुलायनामके यज्ञे साक्षादाम्नातम्-ऽएतेन राजपुरोहितौ सायुज्यकामौ यजेयाताम्ऽ इति | यजमानबहुत्वं सत्रेष्वाम्नातम्- ऽचतुर्विंशतिपरमाः सत्त्रमासीरन्ऽ इति | ततो द्विशब्दबहुशब्दरूपाभ्यां श्रुतिभ्यां प्रकरणं बाधित्वा कुलायादिषु यथोक्तप्रतिपदोरुत्कर्षः कर्तव्यः | न चाशक्तावपि यजमानद्वित्वबहुत्वे संभवतः | अशक्तेन स्वीकृतस्य पुरुषान्तरस्य प्रतिविधित्वे यजमानत्वाभावात् | ऽयजमानस्य प्रतिनिधिर्नास्तिऽ इति वक्ष्यते | यद्यन्यः पुरुषः स्वयमेव प्रवर्तते तदानीं स्वकीयमेव प्रयोगं कुर्यात्, नत्वशक्तस्य साहाय्यमाचरेत् | तस्मात्- श्रूयमाणस्य यजमानैकत्वस्य कालादिवदनुपादेयाङ्गत्वेन त्यक्तुमशक्यत्वान्न ज्योतिष्टोमे यजमानस्य द्वित्वबहुत्वे संभवतः || MJऐNय्C_३,१.३४-३६ ||
SK
(पञ्चदशे जाघन्या अनुत्कषार्धिकरणे सूत्राणि २०-२३) /
SK
जाघनी चैकदेशत्वात् / Jऐम्_३,३.२० /
SK
चोदना वापूर्वत्वात् / Jऐम्_३,३.२१ /
SK
एकदेश इति चेत् / Jऐम्_३,३.२२ /
SK
न प्रकृतेर् अशास्त्रनिष्पत्तेः / Jऐम्_३,३.२३ /
SK
START MJऐNय् ३,३.३७-३८
SK
पञ्चदशाधिकरणमारचयति-
SK
संयाजयन्ति जाघन्या पत्नीरेतत्पशावुत / दर्शादौ तत्पशौ युक्तं जाघन्याः समवायतः // MJऐNय्_३,३.३७ //
SK
जाघनी नाम भागो ऽसौ दर्शादौ समवैति हि / नोत्क्रष्टव्यं न संस्कार्या साधनत्वात्तृतीयया // MJऐNय्_३,३.३८ //
SK
दर्शपूर्णमासप्रकरणे श्रूयते-ऽजाघन्या पत्नीः संयाजयन्तिऽ इति | जाघनी पशोः पुच्छम् | पत्नीशब्दो ऽत्राऽहुतिचतुष्टयात्मकस्य कर्मणो नामधेयैकदेशः | अत एव श्रूयते-ऽपञ्च प्रयाजा इज्यन्ते, चत्वारः पत्नीसंयाजाःऽ इति | तत्र तृतीयाहुतौ देवपत्नीनां देवतात्वात्तद्द्वारा कर्मनाम्नः पत्नीसंयाजशब्दस्य प्रवृत्तिः | तत्र जाघनीमुद्दिश्य पत्नीसंयाजसंस्कारो विधीयते | जाघनी च पशौ समवेता न तु दर्शपूर्णमासयोः | अतः प्रकरणादुत्कृष्य पशौ निवेशनम्- इति प्राप्ते, - ब्रूमः- जाघनीशब्देन पशोर्भामो ऽभिधीयते | स च दर्शपूर्णमासयोः पशुयागत्वाभावे ऽपि क्रयादिना संपादयितुं शक्यते | न चात्र पशौ विद्यमानायां जाघन्यां पत्नीसंयाजैः संस्कार्यत्वम् | तृतीयया साधनत्वावगमात् | तस्मात्-न प्रकरणादुत्कर्षः || MJऐNय्C_३,१.३७-३८ ||
SK
(षोडशे संतर्दनस्य संस्थानिवेशाधिकरणे सूत्राणि २४-३१) /
SK
संतर्दनं प्रकृतौ क्रयणवदनर्थलोपात् स्यात् / Jऐम्_३,३.२४ /
SK
उत्कर्षो वा ग्रहणाद् विशेषस्य / Jऐम्_३,३.२५ /
SK
कर्तृतो वा विशेषस्य तन्निमित्तत्वात् / Jऐम्_३,३.२६ /
SK
क्रतुतो वार्थवादान् उपपत्तेः स्यात् / Jऐम्_३,३.२७ /
SK
संस्थाश् च कर्तृवद् धारणार्थाविशेषात् / Jऐम्_३,३.२८ /
SK
उक्थ्यादिषु वार्थस्य विद्यमानत्वात् / Jऐम्_३,३.२९ /
SK
अविशेषात् स्तुतिर् व्यर्थेति चेत् / Jऐम्_३,३.३० /
SK
स्याद् अनित्यत्वात् / Jऐम्_३,३.३१ /
SK
START MJऐNय् ३,३.३९-४०
SK
षोडशाधिकरणमारचयति-
SK
संतृद्येद्दीर्घसोमे तत्प्रकृतौ विकृताबुत / दीर्घस्य सोम इत्युक्ते प्रकृतावस्तु तर्दनम् // MJऐNय्_३,३.३९ //
SK
सामानाधिकरण्यस्य षष्ठीतो बलवत्त्वतः / दैर्ध्ययुक्तौक्थ्यसंस्थादावुत्कर्षो ऽन्यत्र बाधनात् // MJऐNय्_३,३.४० //
SK
ज्योतिष्टोमे श्रूयते- ऽदीर्घसोमे संतृद्येद्धृत्यैऽ इति | सोमयागविशेषो दीर्घसोमः | तस्मिन्सोमाभिषवाधारयोरधिषवणफलकयोः संतर्दनं कार्यम् | अन्योन्यवियोगेन शैथिल्यं मा भूदिति दृढसंश्लेषः संतर्दनम् | तदेतत्प्रकरणबलात्प्रकृतौ निविशते | न च तत्र दीर्घसोमत्वानुपपत्तिः | ऽदीर्घस्य सोमःऽ इत्येवं दीर्घशब्दस्य यजमानविशेषणत्वेनाप्युपपत्तेः- इति प्राप्ते- ब्रूमः- ऽषष्ठीसमासात्कर्मधारयो बलीयान्ऽ इति (निषादस्थपत्यधिकरणे) वक्ष्यते | तथा सति दीर्घत्वं सोमस्य धर्मः, न तु यजमानस्य | नन्वेवमपि प्रकृतिभूतस्य सोमस्येष्टिपश्वपेक्षया दीर्घत्वमस्त्येव - इति चेत् | न | सोमशब्देनैव तदवगतौ दीर्घशब्दस्य वैयर्थ्यात् | न हीष्टिपश्वपेक्षया ह्रस्वः कश्चित्सोमो ऽस्ति, यस्य व्यावृत्तये दीर्घशब्दः प्रयुज्येत | तस्मात्प्रकृतिरूपं ह्रस्वं सोयं व्यावर्तयितुमयं दीर्घशब्दः | विकृतिषूक्थ्यादिषु ग्रहाधिक्याद्दीर्घत्वम् | द्विरात्रादिषु चाऽवृत्त्या दीर्घत्वम् | तस्माद्वाक्येन प्रकरणं बाधित्वा विकृतिषु तन्निवेशः | प्रकृतौ तु दीर्घशब्दस्य बाधः पूर्वमुक्तः | संतर्दनबाधश्च साक्षाच्छ्रूयते- ऽहनू वा एते यज्ञस्य यदधिषवणे न संतृणत्ति, असंतृष्णे हि हन्ऽ इति | तस्मात्- न प्रकृतौ निवेशः || MJऐNय्C_३,१.३९-४० ||
SK
(सप्तदशे प्रवर्ग्यनिषेधाधिकरणे सूत्रे ३२-३३) /
SK
संख्यायुक्तं क्रतोः प्रकरणात् स्यात् / Jऐम्_३,३.३२ /
SK
नैमित्तिकं वा कर्तृसंयोगाल् लिङ्गस्य तन्निमित्तत्वात् / Jऐम्_३,३.३३ /
SK
START MJऐNय् ३,३.४१-४१
SK
सप्तदशाधिकरणमारचयति- न प्रवृञ्ज्यादाद्ययज्ञे क्रतौ सो ऽनुष्ठितावुत / प्रतिषेधः क्रतौ युक्त उक्ता ह्यस्याऽद्ययज्ञता // MJऐNय्_३,३.४१ //
SK
प्रवृणक्त्युपसद्भ्यः प्रागिति वाक्यात्क्रतौ विधेः / आद्यप्रयोगे प्राथम्यान्निषेधः क्वचिदेव सः // MJऐNय्_३,३.४२ //
SK
ज्योतिष्टोमे प्रवर्ग्याख्यं कर्म प्रकृत्य श्रूयते- ऽन प्रथमयज्ञे प्रवृञ्ज्यात्ऽ इति | सो ऽयं प्रतिषेधो ज्योतिष्टोमक्रतौ द्रष्टव्यःऽ न तु तदीयप्रथमप्रयोगे | कुतः | ऽएववाव प्रथमोऽ यज्ञो यज्ञानां यज्ज्योतिष्टोमःऽ इति तस्य प्रथमयज्ञत्वामिधानात्- इति चेत् मैवम् | ऽपुरस्तादुपसदां प्रवर्ग्ये प्रवृणक्तिऽ इति वाक्येन क्ततौ प्रवर्ग्यस्य विहितत्वात् | न च विधिनिषेधवाक्ययोः समानबलत्वादनिर्णयः | निषेधवाक्ये प्रथमशब्देन निषेधस्य प्रयोगपरत्वनिर्णयात् | प्रथमद्वितीयादिशब्दाः क्रियाया आवृत्तौ मुख्याः, तत्संबन्धाद्वस्तुषूपचर्यन्ते | प्रथममध्येतव्यत्वात्प्रथमं काण्डम्, तदनन्तरमध्येतव्यत्वाद्द्वितीयं काण्डम् | एवम्- आदावुत्पन्नत्वात्प्रथमः पुत्रः, तदनन्तरमुत्पन्नत्वाद्द्वितीयः | तथा सति प्रयोगक्रियाया आवृत्तिविशेषे प्रथमशब्दो मुख्यः | तदावृत्तिविषयतया यज्ञे लाक्षणिकः | त्वत्पक्षे ऽपि क्रतौ मुख्यो यज्ञशब्दः, प्रयोगे लाक्षणिकः स्यात्- इति चेत् | बाढम् | तथाप्यसंजातविरोधिनिलाक्षणिकत्वकल्पनाद्वरमुत्तर पदे तत्कल्पनम् | तस्माज्ज्योतिष्टोमस्य प्रथमप्रयोगे प्रवर्ग्यनिषेधः | ननु-सप्तसंस्थायुक्तस्य ज्योतिष्टोमस्य प्रथमसंस्थारूपो ऽग्निष्टोमः, तत्रायं निषेधः पर्यवस्यति | विधिश्च तत्र श्रूयते- अग्निष्टोमे प्रवृणक्तिऽ इति | एवं तर्ह्यधिकारिभेदेन विधिनिषेधयोर्व्यवस्थास्तु | तथा हि श्रूयते- ऽकामं तु यो ऽनूचानः स्यात्, तस्य प्रवञ्ज्यात्ऽ इति | तस्मात्- अनूचानव्यतिरिक्तकर्तृके ऽग्निष्टोमप्रथमप्रयोग एवायं निषेधः || MJऐNय्C_३,१.४१-४२ ||
SK
(अष्टादशे पौष्णपेषणस्य विकृतौ विनियोगाधिकरणे सूत्रम्-) /
SK
पौष्णं पेषणं विकृतौ प्रतीयेताचोदनात् प्रकृतौ / Jऐम्_३,३.३४ /
SK
START MJऐNय् ३,३.४३-४४
SK
अष्टादशाधिकरणमारचयति-
SK
प्रपिष्टभागः पूषेति प्रकृतौ विकृतावुत / इष्टिप्रकरणादेव प्रकृताविति युज्यते // MJऐNय्_३,३.४३ //
SK
संतर्दनादिवद्वाक्याद्विकृतौ पूषसंभवात् / सिद्धस्य पुनरप्युक्तिरधिकस्य विवक्षया // MJऐNय्_३,३.४४ //
SK
दर्शपूर्णमासप्रकरणे श्रूयत्- ऽतस्मात्पूषा प्रपिष्टभागो ऽदन्तको हिऽ इति | तत्र- दन्तरहितस्य पूष्णः पिष्टभागत्वं संतर्दनप्रतिपदादिवत्सिद्धम् | तथाप्युत्तरा | धिकरणे तस्मिन्नेव विषये विशेषं वक्तुमिह प्रस्तूयते || MJऐNय्C_३,१.४३-४४ ||
SK
(एकोनविंशे पौष्णपेषणस्य चरावेव निवेशाधिकरणे-सूत्राणि ३५-३८) /
SK
तत्सर्वार्थम् अविशेषात् / Jऐम्_३,३.३५ /
SK
चरौ वार्थोक्तं पुरोडाशे ऽर्थविप्रतिषेधात् पशौ न स्यात् / Jऐम्_३,३.३६ /
SK
चराव् अपीति चेत् / Jऐम्_३,३.३७ /
SK
न पक्तिनामत्वात् / Jऐम्_३,३.३८ /
SK
START MJऐNय् ३,३.४५-४६
SK
एकोनविंशाधिकरणमारचयति-
SK
चरौ पशौ पुरोडाशे चरावेवोत पेषणम् / विशेषादर्शनादेतत्सर्वेष्वपि विधीयते // MJऐNय्_३,३.४५ //
SK
प्राप्तत्वान्न पुरोडाशे हृदाद्याकारनाशनात् / न पशौ पारिशेष्येण चरावेव हि पेषणम् // MJऐNय्_३,३.४६ //
SK
ऽपौष्णं चरुमनुनिर्वपेत्ऽ इति चरुर्विहितः | ऽपौष्णं श्याममालमेतान्नकामःऽ इति पशुविधिः | ऽपशुमालभ्य पुरोडाशं निर्वपतिऽ इत्येतच्चोदकेन पौष्णपशौ प्राप्तम् | तत्र- ऽयद्देवत्यः पशुस्तद्देवत्यः पुरोडाशःऽ इति न्यायेन पुरोडाशस्य पूषा देवता | तत्र पूर्वोक्तं पेषणं विषयीकृत्योच्यमानाः संशयपूर्वोत्तरपक्षा विस्पष्टाः || MJऐNय्C_३,१.४५-४६ ||
SK
(विंशे पौष्णपेषणस्यैकदेवत्ये निवेशाधिकरणे सूत्राणि ३९-४६) /
SK
एकस्मिन्न् एकसंयोगात् / Jऐम्_३,३.३९ /
SK
धर्मविप्रतिषेधाच् च / Jऐम्_३,३.४० /
SK
अपि वा सद्वितीये स्याद् देवतानिमित्तत्वात् / Jऐम्_३,३.४१ /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,३.४२ /
SK
वचनात् सर्वपेषणं तं प्रति शास्त्रवत्वाद् अर्थाभावाद् विचराव् अपेषणं भवति / Jऐम्_३,३.४३ /
SK
एकस्मिन् वार्थधर्मत्वाद् ऐन्द्राग्नव् अदुभयोर् न स्याद् अचोदितत्वात् / Jऐम्_३,३.४४ /
SK
हेतुमात्रम् अदन्तत्वम् / Jऐम्_३,३.४५ /
SK
वचनं परम् / Jऐम्_३,३.४६ /
SK
START MJऐNय् ३,३.४७-४८
SK
विंशाधिकरणमारचयति-
SK
द्विदेवके ऽपि किं पिंष्यादुत पूषैकदैवके / द्विदेवके ऽपि तत्पूष्णः सत्त्वात्पेषणभागिनः // MJऐNय्_३,३.४७ //
SK
देवता विफलत्वेन पेषणं न प्रयोजयेत् / यागस्य तत्त्वे भागोक्तेर्न यागान्तरगामि तत् // MJऐNय्_३,३.४८ //
SK
राजसूये श्रूयते- ऽसौमापौष्णं चरुं निर्वपति, ऐन्द्रापौष्णं चरुम्ऽ इति | तत्र द्विदेवके ऽपि चरौ पिष्टभाजः पूष्णः सत्त्वात्तत्पेषणं पूषार्थे कर्तव्यम्- इति चेत् | तत्र वक्तव्यम्- किं पेषणस्य देवता प्रयोजिका, किंवा यागः | नाऽद्यः | यागमन्तरेण केवलदेवता फलजनकत्वाभावेन पेषणं प्रयोक्तुं न प्रभवति | पौष्णस्य यागस्य पेषणप्रयोजकत्वे तु तत्पेषणं द्विदेवके यागान्तरे गन्तुं नार्हति | - ऽपूषा प्रपिष्टभागःऽ इत्यत्र यागौ न श्रुतः- इति चेत् | मैवम् | भागशब्दान्यथानुपपत्त्या यागस्य कल्प्यत्वात् | नहि देवतात्वमन्तरेण पिष्टद्रव्यभाक्त्वं सिध्यति | सति च देवतात्वे द्रव्यदेवतयोर्लाभाद्यागः कल्प्यते | तस्मात्- एकदेवक्रयागस्य पेषणप्रयोजकत्वात्, न द्विदेवकयागे पेषणमस्ति || MJऐNय्C_३,१.४७-४८ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य तृतीयः पादः
SK
अथ तृतीयाध्यायस्य चतुर्थः पादः /
SK
(प्रथमे निवीतस्यार्थवादत्वाधिकरणे सूत्राणि १-९)
SK
निवीताम् इति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् / Jऐम्_३,४.१ /
SK
अपदेशो वार्थस्य विद्यमानतत्त्वात् / Jऐम्_३,४.२ /
SK
विधिस् त्व् अपूर्वत्वात् स्यात् / Jऐम्_३,४.३ /
SK
स प्रायात् कर्मधर्मः स्यात् / Jऐम्_३,४.४ /
SK
वाक्यशेषत्वात् / Jऐम्_३,४.५ /
SK
तत्प्रकरणे यत् तत् संयुक्तम् अविप्रतिषेधात् / Jऐम्_३,४.६ /
SK
तत्प्रधाने वा तुल्यवत् प्रसंख्यानाद् इतरस्य तदर्थत्वात् / Jऐम्_३,४.७ /
SK
अर्थवादो वा प्रकरणात् / Jऐम्_३,४.८ /
SK
विधिना चैकवाक्यत्वात् / Jऐम्_३,४.९ /
SK
START MJऐNय् ३,४.१-२
SK
चतुर्थपादस्य प्रथमाधिकरणमारचयति -
SK
निवीतं तु मनुष्याणां विधिर्वैषोर्ऽथवादकः / अपूर्वत्वात्प्रकरणान्नुः क्रतोर्वा विधीयते // MJऐNय्_३,४.१ //
SK
प्राप्तं निवीतं मर्त्येषु प्रायेणैतस्य दर्शनात् / उपवीतविधावेकवाक्यत्वादर्थवादता // MJऐNय्_३,४.२ //
SK
दर्शपूर्णमासप्रकरणे श्रूयते-ऽनिवीतं मनुष्याणाम् | प्राचीनापीतं पितॄणाम् | उपवीतं देवानाम् | उपव्ययते देवलक्ष्ममेव तत्कुरुतेऽ इति | तत्र- निवीतस्य पूर्वे मानान्तरेणाप्राहत्वा- द्विधेयत्वमभ्युपेतव्यम् | तच्च निवीतं ऽमनुष्याणाम्ऽ इति षष्ठ्या पुरुषार्थत्वेन विधीयते- इत्येकः पूर्वपक्षः | अस्मिन्पक्षे मनुष्यसंबन्धो द्विविधः- सुवर्णधारणवत्सर्वपुरुषस्यबन्धः, इत्येकः प्रकारः | ऽउपवीतप्राचीनावीतयोः क्रतुप्रवेशरहितयोः स्वतन्त्रदैविकपैतृककर्मणोरपि दर्शनात्तत्साहचर्येण स्वतन्त्र आचार्यातिथ्यादिमनुष्यविषये कर्मणि निवीतम्ऽ इत्यपरः प्रकारः | प्रकरणबलात्प्रयाजादिवद्यागधर्षः- इति द्वितीयः पूर्वपक्षः | अस्मिन्पक्षे मनुष्यग्रहणं कर्तृसंबन्धानुवादः | ऽषष्ठीश्रुतिप्रकरणयोरविरोधादुभयावलम्बनेन क्रतुसंबन्धिमनुष्यधर्मःऽ इति पक्षान्तरमुदेति | तच्च द्विविधम्-ऽलोहितोष्णीपादिवदृत्विग्धर्मः, इत्येकः प्रकारः | ऽक्रतावेव यन्मनुष्यप्रधानं कर्मान्वाहार्यदानादि, तद्धर्मत्वे सत्युपवीतसाहचर्यमप्यनुगृह्यतेऽ इत्यपरः | सर्वथापि निवीतं नार्थवादः- इति प्राप्ते, - ब्रूमः- अत्र प्रतीयमानं निवीतादिकं वासोविषयम्, न तु त्रिवृत्सूत्रविषयम् | ऽअजिनं वासो वा दक्षिणत उपवीयऽ इत्यनेन सदृशत्वात् | वस्त्रस्य च निवीतं सौकर्याय प्राप्तम् | चीनावीतोपवीतयोरवश्यमेकमेकस्मिन्पार्श्वे वस्त्रमधः पतेत् | अतः प्राप्तेर्ऽथे ऽमनुष्याणाम्ऽ इति षष्ठीश्रुतिर्न विधायिका | न च प्रकरणात्क्रत्वङ्गत्वेन विधिः | वाक्यभेदप्रसङ्गात् | उपवीतं तावद्विधीयते | अन्यथा ऽदेवलक्ष्ममेव तत्कुरुतेऽ इति प्रशंसाबैयर्थ्यापत्तेः | तस्मिंश्चोपवीत विधावर्थवादत्वेन निवीतप्राचीनावीतयोरेकवाक्यत्वसंभवे पृथग्विधानमयुक्तम् | नवीत प्राचीनावीते मनुष्यपितृविषयवत्त्वाद्दैविके कर्मण्ययोग्ये, उपवीतं तु योग्यम्- इति व्यतिरेक- मुखेण स्तावकं निवीतम् | तस्मात्-अर्थवादः || MJऐNय्C_३,१.१-२ ||
SK
(द्वितीये, उपवीतस्य दर्शपूर्णमासाङ्गताधिकरणे सूत्रे १०-११)
SK
उपवीतं लिङ्गदर्शनात् सर्वधर्मः स्यात् / Jऐम्_३,४.१० /
SK
न वा प्रकरणात् तस्य दर्शनम् / Jऐम्_३,४.११ /
SK
START MJऐNय् ३,४.३-४
SK
द्वितीयाधिकरणमारचयति-
SK
सर्वार्थमुत दर्शार्थमुपव्ययत इत्यदः / सर्वार्थमग्निहोत्रे स्यादुपवीतीति लिङ्गतः // MJऐNय्_३,४.३ //
SK
दर्शाद्यर्थे प्रकरणाल्लिङ्गे स्यात्सिद्धिरन्यथा / दोहं मृताग्निहोत्रस्य स्तोतुमेतदनूदितम् // MJऐNय्_३,४.४ //
SK
ऽयज्ञोपवीती हि देवेभ्यो दोहयतिऽ इत्येवमग्निहोत्रे यज्ञोपवीतस्य सिद्धवदनुवादेन लिङ्गेन सर्वकर्मार्थमुपवीतम्- इति चेत् | न | लिङ्गस्यान्यथोपपत्तेः | मृताग्निहोत्रं तस्मिन्दिने ऽन्येन हूयते | तत्र ऽप्राचीनावीती दोहयेत्ऽ इति विधाय तस्य स्तुतये ऽयज्ञेपवीतीऽ- इत्याद्यनूदितम् | अतो लिङ्गाभासेन बाधासंभवात्प्रकरणाद्दर्शपूर्णमाक्षाङ्गमुपवीत्रम् || MJऐNय्C_३,१.३-४ ||
SK
(तृतीये, उपवीतस्य विधित्वाधिकरणे सूत्रम्)
SK
विधिर् वा स्याद् अपूर्वत्वात् / Jऐम्_३,४.१२ /
SK
START MJऐNय् ३,४.५
SK
तृतीयाधिकरणमारचयति-
SK
उपव्याने ऽनुवादो वा विधिर्वाऽद्यो यतः स्मृतौ / प्राप्तं मैवमपूर्वत्वात्क्रतौ लेटा विधीयते // MJऐNय्_३,४.५ //
SK
ऽनित्योदकी नित्ययज्ञोपवीतीऽ इति स्मृत्या प्राप्तस्य ऽउपध्ययतेऽ इत्यवमनुवादः- इति चत् | मैवम् | पुरुषार्थस्य प्राप्तावपि क्रत्वर्थस्य प्राप्त्यभावात्पञ्चमलकारेण दर्शपूर्णमासाङ्गतया विधीयते || MJऐNय्C_३,१.५ ||
SK
(चतुर्थे-उपवीतोदगग्रत्वयोरनुवादताधिकरणे सूत्रे १३-१४)
SK
उदक्त्वं चापूर्वत्वात् / Jऐम्_३,४.१३ /
SK
सतो वा लिङ्गदर्शनम् / Jऐम्_३,४.१४ /
SK
START MJऐNय् ३,४.६-७
SK
चतुर्थाधिकरणमारचयति -
SK
उपवीती हि देवेभ्यः पुरोदञ्चो द्वयं विधिः / वादो वास्यान्यतो ऽप्राप्तेरपूर्वार्थो विधीयते // MJऐNय्_३,४.६ //
SK
हियच्छब्दद्वयाद्वादः स्मृत्युपव्यानतो द्वयम् / संप्राप्तं दक्षिणाग्रत्वप्राचीनावीतयोः स्तुतिः // MJऐNय्_३,४.७ //
SK
प्रेताग्निहोत्रे श्रूयते- ऽप्राचीनावीती दोहयेद्यज्ञोपवीती हि देवेभ्यो दोहयतिऽ इति | ऽये पुरोदञ्चो दर्भाः, तान्दक्षिणाग्रान्स्तृणीयात्ऽ इति | तत्र- मृतस्याग्निहोत्रे दोहने प्राचीनावीतम्, दर्भास्तरणे दक्षिणाग्रत्वं च यथा विधीयते, तथा मरणात्पूर्वे जीवतो ऽग्निहोत्रे दोहनाङ्गमुपवीतम्, दर्भास्तरणाङ्गमुत्तराग्रत्वं विधातव्यम् | ऽदेषेभ्यो यज्ञोपवीती दोहयेत्ऽ ऽमरणात्पुरा ये दर्भास्त उदञ्चः कार्याःऽ इति वचनव्यक्तिः | नह्येतदुभयमन्यतः प्राप्तम् | तस्मात्- अपूर्वार्थो विधीयताम्- इति चेत् | मैवम् | हिशब्देन यच्छब्देन चोभयत्रानुवादत्वप्रतीतेः | अस्ति च तयोः प्राप्तिः | ऽअग्रवन्त्युदगग्राणिऽ- इति स्मृत्या सर्वस्मिन्दैविके कर्मणि प्राप्तमुत्तराग्रत्वमनूद्य विधेयं दक्षिणाग्रत्वं स्तूयते | तथा- दर्शपूर्णमासयोः ऽउपव्ययतेऽ इत्यनेन विधिना प्राप्तं दैविकमुपवीतमनूद्य विधेयं प्राचीनावीतं स्तूयते | तस्माद्- अनुवादः || MJऐNय्C_३,१.६७ ||
SK
(पञ्चमे समिद्धारणस्य विधिताधिकरणे सूत्रम्)
SK
विधिस् तु धारणे ऽपूर्वत्वात् / Jऐम्_३,४.१५ /
SK
START MJऐNय् ३,४.८-९
SK
पञ्चमाधिकरणमारचयति-
SK
धारयत्युपरिष्टाद्धि देवेभ्य इति संस्तवः / विधिर्वाऽद्यो धृतेः पित्र्ये प्रोक्तायाः पूर्ववत्स्तुतिः // MJऐNय्_३,४.८ //
SK
ऊर्ध्व विधारणं प्राप्तं समिधो नान्यमानतः / अतो हि शब्दसंत्यागादपूर्वार्थो विधीयते // MJऐNय्_३,४.९ //
SK
प्रेताग्निहोत्र एवं श्रूयते-ऽअधस्तात्समिधं धारयन्ननुद्रवेत्, उपरि हि देवेभ्यो धारयतिऽ इति | अत्र- ऽपित्र्यं हविर्होतुं हस्ते धारयन्यदा मन्त्रं पठति, तदानीं स्त्रुग्दण्डस्याधस्तात्समिधं धारयेत्- इति यद्विधीयते, तदेतद्दैविकेनोपरिधारणेन स्तूयते | हिशब्देन पूर्वाधिकरण इवानुवादत्वप्रतीतेः- इति चेत् | मैवम् | दैविके हविषि स्त्रुग्दण्डस्योपरि समिद्धारणस्यापूर्वार्थत्वेन विधातव्यत्वात् | अनुवादत्वगमको हिशब्दऽसंभवादुपेक्षणीयः || MJऐNय्C_३,१.८-९ ||
SK
(षष्ठे दिग्विभागस्यार्थवादताधिकरणे सूत्रम्-)
SK
दिग्विभागश् च तद्वत् संबन्धस्यार्थहेतुत्वात् / Jऐम्_३,४.१६ /
SK
START MJऐNय् ३,४.१०-११
SK
षष्ठाधिकरणमारचयति-
SK
दिशं प्रतीचीं मनुजा व्यभजन्तेत्यसौ विधिः / वादो वात्र पुराकल्पस्तुत्यर्थो विधिमर्हति // MJऐNय्_३,४.१० //
SK
प्राचीनवंशवाक्योक्तेर्विधावस्यैकवाक्यतः / दिग्विभागोर्ऽथवादो ऽयमुपवीते निवीतवत् // MJऐNय्_३,४.११ //
SK
ज्योतिष्टोमे श्रूयते-ऽप्राचीनवंशं करोति | देवमनुष्या दिशो व्यभजन्तप्राचीं देवाः, दक्षिणां पितरः, प्रतीचीं मनुष्याः, उदीचीं रुद्राः, यत्प्राचीनवंशं करोति देवलोकमेव तद्यजमान उपावर्ततेऽ इति | तत्र- देवादीनां कर्मानधिकारान्न तत्र विधिशङ्का | ऽमनुष्याः प्रतीचीं विभजोयुःऽ इत्येवं विधिः स्यात् | कुतः | पुराकल्परूपेणार्थवादेन स्तूयमानत्वात् | पूर्वपुरुषाचरितत्वाभिधानं पुराकल्पः | ऽव्यभजन्तऽ इत्यनेन भूतार्थवाचिना तदभिधीयते | तस्मात्- विधिः- इति पूर्वपक्षः | यस्य मण्डपविशेषस्योपरिवंशाः प्रागग्रा भवन्ति स प्राचीनवंशः | तद्विध्येकवाक्यत्वावगमादर्थवादः | सायंकालीनाप्त्यांदौ प्रतीची प्राप्ता || MJऐNय्C_३,४.१०-११ ||
SK
(सप्तमे परुषि दितादीनामनुवादताधिकरणे सूत्रम्-)
SK
परुषि दितपूर्णघृतविदग्धं च तद्वत् / Jऐम्_३,४.१७ /
SK
START MJऐNय् ३,४.१२-१३
SK
सप्तमाधिकरणमारचयति-
SK
परुषि च्छिन्नमित्युक्त्या बर्हिषस्तु समूलताम् / घृतं दैवं मस्तु पित्र्यमित्युक्त्या नवनीतकम् // MJऐNय्_३,४.१२ //
SK
यो विदग्धः स इत्युक्त्या पुरोडाशस्य पक्वताम् / स्तौति पूर्वोत्तरौ पक्षौ योजनीयौ निवीतवत् // MJऐNय्_३,४.१३ //
SK
दर्शपूर्णमासयोः पिण्डपितृयज्ञे श्रूयते- ऽयत्परुषि दितं तद्देवानाम्, यदन्तरा तन्मनुष्याणाम्, यत्समूलं तत्पितॄणाम्, समूलं बर्हिर्भवति व्यावृत्यैऽ इति | परुः पर्व | दितं खण्डितम् | तथा ज्योतिष्टोमे दीक्षार्थाभ्यङ्गे श्रूयते- ऽघृतं देवानां, मस्तु पितॄणाम्, निष्पक्वं मनुष्याणाम्, तद्वा एतत्सर्वदेवत्यं यन्नवनीतम्, यन्नवनीतनाभ्यङ्क्ते सर्वा एव देवताः प्रीणातिऽ इति | मस्तु दधिभवं मण्डम् | निष्पक्वं शिरसिप्रक्षेप्तुमीषद्विलीनं नवनीतं तक्रं वा | दर्शपूर्णमासयोः पुरोडाशश्रपणे श्रूयते-᳚यो विदग्धः स नैऋतः, यो ऽशृतः स रौद्रः, यः शतः स दैवः, तस्मादविदहता श्रपयितव्यः स दैवत्वायऽऽ इति | विदग्धो ऽत्यन्तपक्वः | अशृतो ऽपक्वः | तत्र - वर्हिषि समूलच्छेदस्य, अभ्यङ्गे नवनीतस्य पुरोडाशे यथोचितपाकस्य च विधेयतया सर्वमवशिष्टं स्तावकम् | निवीतविचारस्यैवायं प्रपञ्चः | एवम् ऽयत्पूर्णे तन्मनुष्याणाम्ऽ इत्यत्रापि द्रष्टव्यम् | तच्च चातुर्मास्येषु महापितृयज्ञे ऽपितृभ्यो ऽग्निष्वात्तेभ्यो ऽभिवान्या गोर्दुग्धे मन्थम्ऽइत्यत्र वत्सरहिताया अभिदानीशब्दाभिधेयाया धेन्वा दुग्धे पिष्टं प्रक्षिप्य क्रियमाणे मन्थने श्रूयते- ऽयत्पूर्णे तन्मनुष्याणामुपरि, अर्धो देवानाम् , अर्धः पितृणाम, अर्ध उपमन्थति, अर्थो हि पितॄणाम्ऽ इति | तत्र पात्रस्याधोभागरूपेणार् धेन परिमिते दुग्धे मन्थनस्य कर्तव्यत्वात्सोर्ऽधो विधीयते | स च पूर्णादिवाक्येन स्तूयते || MJऐNय्C_३,४.१२
SK
(अष्टमे-अनृतवदननिषेधस्य क्रतुधर्मताधिकरणे सूत्रे-)
SK
अकर्म क्रतुसंयुक्तं संयोगान् नित्यानुवादः स्यात् / Jऐम्_३,४.१८ /
SK
विधिर् वा संयोगान्तरात् / Jऐम्_३,४.१९ /
SK
START MJऐNय् ३,४.१४-१६ अष्टमाधिकरणमारचयति-
SK
अनृतं न वदेद्वैधः पुंधर्मो वानुवैदगीः / सक्रतौ पुंसि शुद्धेवा क्रतौ यद्वा विधिः क्रतौ // MJऐNय्_३,४.१४ //
SK
अनृतोक्तैः पुमर्थत्वात्तन्निषेधस्तथाबिधः / स्मार्तानुबादः पुंस्क्रत्वोःअश्रुतिप्रक्रिययोवंशात् // MJऐNय्_३,४.१५ //
SK
नाऽख्याते पुरुषानुक्तिः क्रतावेव प्रयाजवत् / सत्योक्तिनियमादन्यः संयोगो ऽतः क्रतौ विधिः // MJऐNय्_३,४.१६ //
SK
दर्शपूर्णमासप्रकरणे श्रूयते- ऽनानृतं वदेत्ऽ इति | तत्र-पुरुषधर्मत्वेनायं प्रतिषेधो विधीयते | कुतः | प्रतियोगिनो ऽनृतवदनस्य पुरुषधर्मतया तन्निषेधस्यापि पुरुषधर्मत्वेनैव विधातव्यत्वात् | ऽवदेत्ऽ इत्याख्यातं तावत्कर्तृवाचकम् | तेनाऽख्यातेन कर्तृः प्रतीयमानत्वात् | पुरुषस्याऽख्यातप्रत्ययवाच्यत्वे सति प्रकृत्यर्थस्य वदनस्य पुरुषधर्मत्वं युक्तम् | ऽप्रकृतिप्रत्ययौ प्रत्ययार्थे सह ब्रूतः, तयोस्तु प्रत्ययः प्राधान्येनऽ इति शाब्दिकैरुद्धोषणात् | वदनस्य पुरुषधर्मत्वे तन्निषेधस्यापि पुरुषधर्मत्वं युक्तम् | अन्यथा भिन्नविषयत्वे बाधकत्वं न स्यात् | तस्मात्पुरूषवाचकाख्यातश्रुत्या प्रकरणं बाधित्वा पुरुषार्थो ऽयं प्रतिषेधो विधीयते | अस्त्येव स्मार्तः प्रतिषेधः- इति चेत् | तर्हि तस्यैतच्छ्रुतिवाक्यं मूलमस्तु | तस्मात्- पुरुषार्थः- इत्येकः पूर्वपक्षः | आख्यातश्रुतेः प्रकरणस्य चाविरोधाय क्रतुयुक्तपुरुषधर्मो ऽस्तु | नह्येतद्वाक्यं स्मृतेर्मूलम् | भिन्नविषयत्वात् | स्मृतिश्चोपनयनमारभ्याऽमरणं पुरुषस्यानृतं प्रतिषेधति | तन्मध्यपतितत्वात्क्रतावपि स्मार्तो निषेधः प्राप्त एव | तत उभयार्थो ऽप्ययं प्रतिषेधो न विधीयते, किंत्वनूद्यते- इति द्वितीयः पूर्वपक्षः | आख्यातेन भावनाभिधीयते | कर्ता तु तदविनाभूतोर्ऽथात्प्रतीयते | अतः श्रुत्यभावात्केवलेन प्रकरणेन प्रयाजादिवदारादुपकारकः क्रतावेव निविशते | न च तत्रापि विधीयते, किंतु सार्वत्रिकस्य निषेधस्य क्रतावपि प्राप्तत्वादनूद्यते- इति तृतीयः पूर्वपक्षः | ऽसत्यमेव वदेत्, नत्वनृतम्ऽ इति यो ऽयं स्मार्तानियमरूपः पुरुषार्थः संयोगः, तस्मादयमन्यः क्रत्वर्थः संयोगः | अतो ऽप्राप्तत्वाद्विधीयते | एतद्व्यतिक्रमे क्रतोरेव वैगुण्यम्, न तु पुरुषस्य प्रत्यवायः | अतो ऽत्र क्रतुगामि प्रायश्चित्तम् | पुरुषार्थनियमातिक्रमे तु पुरुषस्यैव प्रत्यवायो न क्रतोर्वैगुण्यम् | तत्र स्मार्ते प्रायश्चितम्- इति विशेषः || MJऐNय्C_३,४.१४-१६ ||
SK
(नवमे जञ्जभ्यमानधर्माणां प्रकरणे निवेशाधिकरणे सूत्राणि २०-२२)
SK
अहीनवत् पुरुषस् तदर्थत्वात् / Jऐम्_३,४.२० /
SK
प्रकरणविशेषाद् वा तद्युक्तस्य संस्कारो द्रव्यवत् / Jऐम्_३,४.२१ /
SK
व्यपदेशाद् अपकृष्येत / Jऐम्_३,४.२२ /
SK
START MJऐNय् ३,४.१७
SK
नवमाधिकरणमारचयति-
SK
जञ्जभ्यमानमन्त्रोक्तिः पुंसो धर्मः क्रतोरुत / वाक्यादाद्यः प्रक्रियया द्वितीयो ऽस्त्वविरुद्धया // MJऐNय्_३,४.१७ //
SK
दर्शपूर्णमासप्रकरणे श्रूयते-ऽप्राणो वै दक्षः | अपानः क्रतुः | तस्माज्जञ्जन्यमानो ब्रूयात्- मयि दक्षक्रतू-इति, प्राणापानावेवाऽस्मन्यधत्तऽ इति | गात्रविनामेन विदारितमुखः पुरुषो जञ्जभ्यमानः | तस्य वाक्यान्मन्त्रोक्तिः प्रतीयते | वाक्यं च प्रकरणाद्बलीयः | तस्मात्- केवलं पुंधर्मः- इति चेत् | मैवम् | क्रतावपि जञ्जभ्यमानपुरुषसंभवेन वाक्यप्रकरणयोर्विरोधाभावे सत्युभाभ्यां क्रतुयुक्तपुरुषसंस्कारत्वावगमात् || MJऐNय्C_३,४.१७ ||
SK
(दशमे-अवगोरणादीनां पुमर्थताधिकरणे सूत्रम्-) शंयौ च सर्वपरिदानात् / Jऐम्_३,४.२३ /
SK
START MJऐNय् ३,४.१८-१९
SK
दशमाधिकरणमारचयति-
SK
विप्रायावगुरेन्नेति क्रत्वर्थो वा पुमर्थता / फलवत्क्रतुसांनिध्यात्क्रत्वर्थः पूर्वमन्त्रवत् // MJऐNय्_३,४.१८ //
SK
यातनापरिहारस्य निषेधफलतोचिता / निषेधो ऽयं पुमर्थत्वात्प्रक्रियातो ऽपकृष्यताम् // MJऐNय्_३,४.१९ //
SK
दर्शपूर्णमासप्रकरणे श्रूयते- ऽयो ब्राह्मणायावगुरेत्तं शतेन यातयेत् | तस्माद्ब्राह्मणाय नावगुरेतऽ इति | तत्र- यथा पूर्वाधिकरणे मन्त्रपाठस्य फलरहितस्य फलवति क्रतावङ्गत्वं प्रकरणेनावगम्यते, एवमत्रापि ब्राह्मणावज्ञानिषेधस्य क्रत्वङ्गत्वम्- इति चेत् | न | वैषम्यात् | पूर्वत्र हि - आत्मनि माणापानधारणं मन्त्रोच्चारणफलं न संभवति | तस्य प्रागेव सिद्धत्वात् | इह तु- अवगोरणे शतसंवत्सरयातनामुपन्यस्यावगोरणनिषेधा- द्यातनापरिहारस्य निषेधफलत्वमुचितम् | तस्मात्- निषेधस्य केवलपुरुषार्थतया प्रकरणा दुत्कर्षो युक्तः || MJऐNय्C_३,४.१८-१९ ||
SK
(एकादशे मलवद्वासः संवादनिषेधाधिकरणे सूत्रे २४-२५)
SK
प्रागपरोधान् मलवद् वाससः / Jऐम्_३,४.२४ /
SK
अन्नप्रतिषेधाच् च / Jऐम्_३,४.२५ /
SK
START MJऐNय् ३,४.२०
SK
एकादशाधिकरणमारचयति-
SK
न संवदेत मलवद्वाससेत्यपि पूर्ववत् / पुमर्थः स्यात्क्रतौ क्वापि संवादस्याप्रसक्तितः // MJऐNय्_३,४.२० //
SK
दर्शपूर्णमासप्रकरणे श्रूयते- ऽमलवद्वासत्ता न संवेदतऽ इति | -अस्य निषेधस्य प्रकरणा त्क्रत्वङ्गत्वम्- इति चेत् | मैवम् | अप्रसक्तप्रतिषेधप्रसङ्गात् | यस्य व्रत्ये ऽहनि पत्न्वनालम्भुका भवति, तामपरुध्य यजेतऽ इति रजस्वलाया निःसारणेन क्रतौ तत्संवादस्याप्रसक्तिः | तस्मात्- केवलपुरुषार्थस्यास्य प्रकरणादुत्कर्षः || MJऐNय्C_३,४.२० ||
SK
(द्वादशे सुवर्णधारणादीनां पुरुषधर्मताधिकरणे सूत्राणि २६-३०)
SK
अप्रकरणे तु तद्धर्मस् ततो विशेषात् / Jऐम्_३,४.२६ /
SK
अद्रव्यत्वात् तु शेषः स्यात् / Jऐम्_३,४.२७ /
SK
वेदसंयोगात् / Jऐम्_३,४.२८ /
SK
द्रव्यसंयोगाच् च / Jऐम्_३,४.२९ /
SK
स्याद् वास्य संयोगवत् फलेन संबन्धस् तस्मात् कर्मैतिशायनः / Jऐम्_३,४.३० /
SK
START MJऐNय् ३,४.२१-२३
SK
द्वादशाधिकरणमारचयति-
SK
हिरण्यं वर्णवद्भार्ये क्रत्वङ्गं भरणं भवेत् / हिरण्यसंस्कृतिर्वात्र वर्णो वोत पुमर्थता // MJऐNय्_३,४.२१ //
SK
वैदिकत्वात्क्रतुस्मृत्या तदङ्गं कर्मकारके / प्राधान्यात्संस्कृतिवर्णो गुणो ऽस्तु विधिलाघवात् // MJऐNय्_३,४.२२ //
SK
अनारभ्य श्रुतत्वेन नियता न क्रतुस्मृतिः / अतः पुमर्थता स्वर्गः कल्प्यो ऽन्यद्वास्तु रात्रिवत् // MJऐNय्_३,४.२३ //
SK
अनारभ्य श्रूयते- ऽतस्मात्सुवर्णे हिरण्यं भार्यम् | सुवर्ण एव भवति | दुवर्णो ऽस्य भ्रातृव्यो भवतिऽ इति | तत्र-यदेतच्छोभनवर्णोपेतहिरण्यधारणं तस्य वैदिकक्रियारूपत्वेन क्रतुस्मारकत्वात्क्रत्वङ्गं धारणम्- इत्येकः पक्षः | क्रत्वङ्गत्वे ऽपि नाऽरादुपकारकम्, किंतु क्रतृगतं हिरण्यं धारणेन संस्क्रियते | ऽभार्यम्ऽ इत्यत्र ण्यत्प्रत्ययस्य कर्मणि विहितत्वेन कर्मकारकस्य हिरण्यस्य प्राधान्यावगमात् - इति द्वितीयः पक्षः | वर्णविशिष्टधारणविधाने गौरवाद्धारणसहितं हिरण्यमनूद्य शोभनवर्णमात्रं विधेयम्- इति तृतीयः पक्षः | त्रेधापि- क्रत्वर्थो विधिः, न तु पुरुषार्थः- इति प्राप्ते- ब्रूमः- यद्धिक्रतुप्रकरणे श्रुतम्, तस्यास्ति नियमेन क्रतुस्मारकत्वम् | इदं त्वनारभ्याधीतम् | न चात्र हिरण्यं जुह्वादिवत्क्रतावव्यभिचरितम्, येन क्रतुस्मृतिर्नियम्येत | ननु संस्कार्यत्वान्यथानुपपत्त्या क्रतुप्रवेशः स्यात् | नहि धारणेन संस्कृतस्य हिरण्यस्य लौकिकः कश्चिदुपयोगो ऽस्ति- इति चेत् | न | क्रतावप्युपयोगाभावात् | - क्रतूपयोगो ऽपि कल्प्यते- इति चेत् | न | ऽक्रतूपयोगित्वेन संस्कार्यत्वम्, तेन च क्रतूपयोगःऽ इत्यन्योन्याश्रयत्वात् | अतः क्रतौ नियन्तुमशक्यत्वात्पुरुषार्थमिदं धारणम् | न चात्र फलाभावः | विश्वजिन्न्यायेन स्वर्गस्य कल्प्यत्वात् | अथवा रात्रिसन्ने यथा वाक्यशेषेणार्थवादेन श्रुता प्रतिष्ठा कलत्वेन कल्पिता तथात्रापि ऽसुवर्ण एव भवति, दुर्र्वणो ऽस्य भ्रातृव्यःऽ इत्यर्थवादगतं फलमस्तु | तस्मात्- पुरुषार्थो धारणविधिः || MJऐNय्C_३,४.२१-२३ ||
SK
(त्रयोदशे जयादीनां वैदिककर्माङ्गताधिकरणे सूत्राणि ३१-३३)
SK
शेषाः प्रकरणे ऽविशेषात् सर्वकर्मणाम् / Jऐम्_३,४.३१ /
SK
होमास् तु व्यवतिष्ठेर् अन्नाहवनीयसंयोगात् / Jऐम्_३,४.३२ /
SK
शेषश् च समाख्यानात् / Jऐम्_३,४.३३ /
SK
START MJऐNय् ३,४.२४-२५
SK
त्रयोदशाधिकरणमारचयति-
SK
येनेर्त्सेत्कर्मणा तत्र जयाहोमे ऽखिलार्थता / वैदिकेष्वेव वा सर्वशेषो ऽसंकोचकत्वतः // MJऐNय्_३,४.२४ //
SK
होम आहवनीये स्यात्कृष्यादिषु न सो ऽस्ति हि / तेनानारभ्यपाठे ऽपि वैदिकेष्वेव ते जयाः // MJऐNय्_३,४.२५ //
SK
अनारभ्य श्रूयते- ऽयेन कर्मणेर्त्सेत् | तत्र जयां जुहुयात् | राष्ट्रभृतो जुहोति | अभ्यातानाञ्जुहोतिऽ इति | ईर्त्सेदृद्धिमिच्छेत् | ऽचित्तं च स्वाहाऽ इत्यादयो जयाः ऽऋताषाड्ऽ इत्यादयो राष्ट्रभृतः | ऽअग्निर्भूतानाम्ऽ- इत्यादयो ऽभ्यातानाः | तत्र- वैदिककर्मणेव लौकिककृष्यादिकर्मणाप्यृद्धेरिष्यमाणत्वात्, संकोचे कारणामावाज्जयादिहोमः सर्वशेषः- इति चेत् | मैवम् | ऽयदाहवनीये जुह्वति तेन सो ऽस्याभीष्टः प्रीतःऽ इति वाक्येन होममुद्दिश्याऽ हवनीयविधानात् | कृष्यादौ तदभावाद्वैदिकेष्वेव जयादिहोमः || MJऐNय्C_३,४.२४-२५ ||
SK
(चतुर्दशे वैदिकाश्वप्रतिग्रह इष्टिकर्तव्यताधिकरणे सूत्रे ३४-३५)
SK
दोषात् त्व् इष्टिर् लौकिके स्याच् छास्त्राद् धि वैदिक न दोषः स्यात् / Jऐम्_३,४.३४ /
SK
अर्थवादो वानुपपातत् तस्माद् यज्ञे प्रतीयेत / Jऐम्_३,४.३५ /
SK
START MJऐNय् ३,४.२६-२८
SK
चतुर्दशाधिकरणमारचयति-
SK
अश्वप्रतिग्रहेष्टिस्तु दातुरित्यभिधास्यते / दानद्वये लौकिके वा वैदिके वा भवेदियम् // MJऐNय्_३,४.२६ //
SK
अविशेषाद्द्वयोर्यद्वा न देयः केसरीत्यतः / निषेधाल्लौकिकात्तत्र प्रायश्चित्तिरियं भवेत् // MJऐNय्_३,४.२७ //
SK
न जलोदरहेतुत्वं प्रमितं लौकिके क्वचित् / वैदिके तु श्रुतं तस्मात्तत्प्रायश्चित्तये ऽत्र सा // MJऐNय्_३,४.२८ //
SK
इदमाम्नायते-ऽयावतो ऽश्वान्प्रतिगृह्णीयात्तावतो वारुणाश्चतुष्कपालान्निर्वपेत्ऽ इति | तत्र ऽप्रतिग्रहशब्दो दानपरःऽ इत्यनन्तरमेव वक्ष्यते | तत्र-विशेषाश्रवणाल्लौकिकवैदिकदानयोरुभयो रप्यसाविष्टिः- इत्येकः पक्षः | ऽन केतरिणो ददातिऽ इति स्मृत्या मित्रदायादादिभ्यः प्रीत्या क्रियमाणं लोकिकमश्वदानं निषिद्धम् | तदनुष्ठाने प्रायश्चित्तरूपेयामिष्टिः- इति द्वितीयः पक्षः | ऽवरुणो वा एतं गृह्णाति यो ऽश्वं प्रतिगृह्णातिऽ इत्यश्वदाने जलोदख्याधिरूपो दृष्टदोषो वरुणग्रहवाक्येनोच्यते | न च लौकिकस्याश्वदानस्य तद्धेतुत्वं प्रमितम् | वैदिकस्य तु जन्मान्तरविषयं दोषश्रवणम् | अतो वैदिकदाने सेष्टिः प्रायश्चित्तम् | अस्ति हि वैदिकमश्वदानम् | ऽवडवा दक्षिणाऽ इत्यादिश्रवणात् || MJऐNय्C_३,४.२६-२८ ||
SK
(पञ्चादशे दातुर्वारुणीष्ट्यधिकरणे सूत्रे ३६-३७)
SK
अचोदितं च कर्मभेदात् / Jऐम्_३,४.३६ /
SK
सा लिङ्गाद् आर्त्विजे स्यात् / Jऐम्_३,४.३७ /
SK
START MJऐNय् ३,४.२९-३०
SK
पञ्चदशाधिकरणमारचयति-
SK
यावतः प्रतिगृह्णीयादश्वांस्तावत्य इष्टयः / प्रतिग्रहीतुर्दातुर्वा स्यादाद्यो ऽस्तु यथाविधि // MJऐNय्_३,४.२९ //
SK
असंजातविरोध्यर्थवादाद्दातुः प्रजापतेः / इष्टिः श्रुता ततो दातुर्णिजर्थे ऽपि विधिं नयेत् // MJऐNय्_३,४.३० //
SK
पूर्वोदाहृते वाक्ये ऽप्रतिगृह्णीयात्ऽ इति विधिपदश्रवणात्प्रतिग्रहीतुरिष्टिः- इति चेत् | न | उपक्रमरूपेणार्थवादेन दातुस्तदिष्टिप्रतीतेः | उपक्रमश्चैवं श्रूयते- ऽप्रजापतिवरुणायाश्वमनयत्, स स्वां देवतामार्छत् | स पर्यदीर्यत, स एतं वारुणं चतुष्कपालमपश्यत्, तं निरवपत्, ततो वै स वरुणपाशादमुच्यतऽ इति | अनयद्वत्तवान् | स च दाता प्रजापतिः स्वकीयां वरुणदेवतां जलोदररोगप्रदां प्राप्तवान | तेन च रोगेण ग्रस्तः स प्रजापतिर्विदीर्णो भूत्वा रोगपरिहारायेष्टिं कृत्वा रोगादमुच्यत, इत्यत्र- दातुरिष्टिः- इत्यवगम्यते | असंजातविरोध्युपक्रमानुसारेण विधावकपदमपि ऽप्रतिग्राहयेत्ऽ इत्येवमन्तर्भावितणिजर्थपरतया व्याख्यैयम् || MJऐNय्C_३,४.२९-३० ||
SK
(षोडशे वैदिकपानव्यापदधिकरणे सूत्रे ३८-३९)
SK
पानव्यापच् च तद्वत् / Jऐम्_३,४.३८ /
SK
दोषात् तु वैदिके स्याद् अर्थाद् धि लौकिके न दोषः स्यात् / Jऐम्_३,४.३९ /
SK
START MJऐNय् ३,४.३१-३२
SK
षोडशाधिकरणमारचयति-
SK
सोमवामिचरुर्लोके वेदे वेन्द्रियसंक्षयः / दृष्टदोषो लोकिके ऽतो वमने विहितश्चरुः // MJऐNय्_३,४.३१ //
SK
अदोषो वमनायैव लोके पानं श्रुतौ पुनः / जरणाय ततो वान्तिदोषशान्त्यै भवेच्चरुः // MJऐNय्_३,४.३२ //
SK
इदमाम्नायते- ऽसौमेन्द्रं चरुं निर्वपेच्छ्यामाकं सोमवामिनःऽऽ इति | तत्र-लौकिके सोमवमने विहितो ऽयं चरुः | कुतः | ऽवि वा एष इन्द्रियेण वीर्येण व्यृध्यवे यः सोमं वमतिऽ इति दृष्टदोषमुपन्यस्य तच्छान्तये चरुविधानात् - इति चेत् | मैवम् | लोके धातुसाम्यार्थिनो वमनायैव सोमस्य पाने सति वमनस्य दोषहेतुस्वाभावात् | वेदे तु ऽहिन्व मे गात्रा हरिवःऽ इत्यनेन मन्त्रेण जरयितुं सोमः पीयते | तत्र वमनप्रायश्चित्तार्थो ऽयं चरुः || MJऐNय्C_३,४.३१-३२ ||
SK
(सप्तदशे सौमेन्द्रचरोर्यजमानपानव्यापद्विषयताधिकरणे सूत्राणि ४०-४२)
SK
तत्सर्वत्राविशेषात् / Jऐम्_३,४.४० /
SK
स्वामिनो वा तदर्थत्वात् / Jऐम्_३,४.४१ /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,४.४२ /
SK
START MJऐNय् ३,४.३३
SK
सप्तशाधिकरणमारचयति-
SK
ऋत्विजां वमने ऽप्येष कर्तुरेवोत वर्जनात् / विशेषस्याग्रिमो मैवं कर्तुरेव निरुप्तितः // MJऐNय्_३,४.३३ //
SK
ऽईदृशस्य सोमस्य वमने चरुःऽ इति विशेषस्याभावादृत्विजां यजमानस्य च वमने सर्वत्रासौ चरुः- इति चेत् | मैवम् | ऽयो वमति स निर्वपतिऽ इति निर्वप्तुर्वमनं चरुनिमित्तम् | निर्वप्ता च यजमानः | ऋत्वियो निर्वप्तृत्वे ऽधिकार्यन्तरत्वप्रसङ्गात् | तस्मात्- यजमानस्यैव वमने चरुविधिः || MJऐNय्C_३,४.३३ ||
SK
(अष्टादशे - आग्नेयाष्टाकपालचरोर्द्व्यवदानमा- त्रस्य होतव्यताधिकरणे सूत्राणि ४३-४७)
SK
सर्वप्रदानं हविषस् तदर्थत्वात् / Jऐम्_३,४.४३ /
SK
निरवदानात् तु शेषः स्यात् / Jऐम्_३,४.४४ /
SK
उपायो वा तदर्थत्वात् / Jऐम्_३,४.४५ /
SK
कृतत्वात् तु कर्मणः सकृत् स्याद् द्रव्यस्य गुणभूतत्वात् / Jऐम्_३,४.४६ /
SK
शेषदर्शनाच् च / Jऐम्_३,४.४७ /
SK
START MJऐNय् ३,४.३४
SK
अष्टादशाधिकरणमारचयति-
SK
यागे हविस्त्यजेत्कृत्स्नं को ऽप्यंशः शिष्यते ऽपि वा / देवार्थत्वाद्यजेत्सर्वे शिष्यते द्विरवत्ततः // MJऐNय्_३,४.३४ //
SK
ऽआग्नेयो ऽष्टाकपालःऽ इत्यत्र कृत्स्नो ऽपि पुरोडाशो ऽग्नये त्यक्तव्यः | तद्धितेन कृत्स्नस्याग्निदेवतासंबन्धावगतेः | त्यागमन्तरेणैतदनुपपत्तिः- इति चेत् | मैवम् | ऽद्विर्हविषो ऽवद्यतिऽ इत्यवदानद्वयं श्रूयते | अवदेयं चाङ्गुष्ठपर्वमावम् | तथा च कल्पसूत्रकारः- ऽआग्नेयस्य पुरोडाशस्य मध्यादङ्गुष्ठपर्वमात्रमवदानं तिरश्चीनमवद्यतिऽ इति | ततो हविषः सकाशादङ्गुष्ठपर्वद्वयमात्रं खण्डयित्वा त्यक्तव्यम् | इतरच्छेषणीयम् | देवतासंबन्धश्चांशद्वारेणाप्युपयुज्यते || MJऐNय्C_३,४.३४ ||
SK
अप्रयोजकत्वाद् एकस्मात् क्रियेरञ् शेषस्य गुणभूतत्वात् / Jऐम्_३,४.४८ /
SK
संस्कृतत्वाच् च / Jऐम्_३,४.४९ /
SK
सर्वेभ्यो वा कारणाविशेषात् संस्कारस्य तदर्थत्वात् / Jऐम्_३,४.५० /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,४.५१ /
SK
START MJऐNय् ३,४.३५
SK
एकोनविंशाधिकरणमारचयति-
SK
शेषात्स्विष्टकृदेकस्मात्सर्वेभ्यो वैकतः कृते / शास्त्रार्थसिद्धिःसर्वेभ्यः कार्यः संस्कारसाम्यतः // MJऐNय्_३,४.३५ //
SK
दर्शपूर्णमासयोः श्रूयते- ऽशेषात्स्विष्टकृते समवद्यतिऽ इति | तत्र-आग्नेयादीनां त्रयाणां हविषां मध्ये यस्य कस्यचिदेकस्य हविषः शेषादवदातव्यम् | तावतैव शास्त्रार्थानुष्ठानसिद्धः- इति चेत् | मैवम् | उपयुक्तं हविः संस्कर्तुमिदमवदीयते | संस्कारश्च सर्वेष्वपि हविःषु समानः | तस्मात्- सर्वेभ्यो हविःशेषेभ्यः स्विष्टकृदनुष्ठेयः || MJऐNय्C_३,४.३५ ||
SK
(विंशे प्राथमिकशेषात्स्विष्टकृदनुष्ठानाधिकरणे सूत्रे ५२-५३)
SK
एकस्माच् चेद् यथाकाम्यम् अविशेषात् / Jऐम्_३,४.५२ /
SK
मुख्याद् वा पूर्वकालत्वात् / Jऐम्_३,४.५३ /
SK
START MJऐNय् ३,४.३६
SK
विंशाधिकरणमारचयति-
SK
यदैकस्मात्तदा मुख्यनियातिर्नोत विद्यते / नाश्रुतेरस्ति मुख्यातिक्रमणे हेत्वभावतः // MJऐNय्_३,४.३६ //
SK
ऽएकस्मादेव हविःशेषात्स्विष्टकृत्ऽ इति यः पूर्वाधिकरणे पूर्वपक्षः, तस्मिन्पक्षे नियामकस्याश्रुतत्वात्- यस्मात्कस्माच्चिद्धविःशेषात्- इति प्राप्ते, - ब्रूमः- प्रथमातिक्रमे मानाभावात्प्रथमहविःशेषेणैव संस्कारासिद्धावितरत्र प्राप्त्यभावादस्ति नियतिः || MJऐNय्C_३,४.३६ ||
SK
(एकविंशे पुरोडाशविभागस्य भक्षार्थताधिकरणे सूत्राणि ५४-५७)
SK
भक्षाश्रवणाद् दानशब्दः परिक्रये / Jऐम्_३,४.५४ /
SK
तत्संस्तवाच् च / Jऐम्_३,४.५५ /
SK
भक्षार्थो वा द्रव्ये समत्वात् / Jऐम्_३,४.५६ /
SK
व्यादेशाद् दानसंस्तुतिः / Jऐम्_३,४.५७ /
SK
START MJऐNय् ३,४.३७-३८
SK
एकविंशाधिकरणमारचयति-
SK
इदं ब्रह्मण इत्यक्तिः क्रयार्था भक्षणाय वा / भक्षाश्रुतेः क्रयार्थातो यथेष्टं तैर्नियुज्यताम् // MJऐNय्_३,४.३७ //
SK
देवताय समस्तस्य कॢप्तत्वात्स्वामिता न हि / शेषस्य प्रतिपत्त्यर्थे भक्षणं तत्र युज्यते // MJऐNय्_३,४.३८ //
SK
चतुर्धाकृतपुरोडाशस्य भागान्यजमान एवं निर्दिशेत्- ऽइदं ब्रह्मणः, इदं होतुः, इदमध्वर्योः, इदमग्नीधः, इति | सो ऽयं निर्देश न भक्षणार्थः | भक्षणस्याश्रुतत्वात् | ततो भृतिदानेन तानृत्विजः परिक्रेतुमयं निर्देशः कृतः | क्रयश्च तदङ्गीकारानुसारेण स्वल्पेनाप्युपपद्यते | तस्मात्स्वकीया भागास्तैरिच्छयोपयोक्तुं शक्याः- इति प्राप्ते, - ब्रूमः- ऽअग्नेय जुष्टं निर्वपामिऽ इति कृत्स्नस्य हविषो देवतार्थे संकल्पितत्वेन तत्र यजमानस्य स्वामित्वाभावान्न युक्तः परिक्रयः | भक्षणं तु प्रतिपत्त्यर्थत्वाद्युक्तम् | अवशिष्टस्य यः को ऽप्युपयोगः प्रतिपत्तिः | पुरोडाशस्य भक्षणाहत्वाद्भक्षणेन कर्मकराणामृत्साहजननाच्च भक्षणार्थो ऽयं निर्देशो युज्यते || MJऐNय्C_३,४.३७-३८ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य चतुर्थः पादः
SK
अथ तृतीयाध्यायस्य पञ्चमः पादः /
SK
(प्रथमे प्रवाज्यादिभिः स्विष्टकृदादिशेषाननुष्ठानाधिकरणे सूत्राणि १-१२ )
SK
आज्याच् च सर्वसंयोगात् / Jऐम्_३,५.१ /
SK
कारणाच् च / Jऐम्_३,५.२ /
SK
एकस्मिन् समवत्तशब्दात् / Jऐम्_३,५.३ /
SK
आज्ये च दर्शनात् स्विष्टकृदर्थवदस्य / Jऐम्_३,५.४ /
SK
अशेषत्वात् तु नैवं स्यात् सर्वादानाद् अशेषता / Jऐम्_३,५.५ /
SK
साधारण्यान् न ध्रुवायां स्यात् / Jऐम्_३,५.६ /
SK
अक्तत्वाच् च जुह्वां तस्य च होमसंयोगात् / Jऐम्_३,५.७ /
SK
चमसवद् इति चेत् / Jऐम्_३,५.८ /
SK
न चोदनाविरोधाद् धविः प्रकल्पनाच् च / Jऐम्_३,५.९ /
SK
उत्पन्नाधिकारात् सति सर्ववचनम् / Jऐम्_३,५.१० /
SK
जातिविशेषात् परम् / Jऐम्_३,५.११ /
SK
अन्त्यम् अरेकार्थे / Jऐम्_३,५.१२ /
SK
START MJऐNय् ३,५.१-२
SK
पञ्चमपादस्य प्रथमाधिकरणमारचयति
SK
उपांशुयाजद्रव्येण शेषकार्ये भवेन्न वा / भवेद्धविर्भ्यः सर्वेभ्य इत्युक्त्या प्रापितत्वतः // MJऐNय्_३,५.१ //
SK
उक्ताज्यद्रव्यशेषस्तु भाव्युपस्तरणादिकृत् / अतो न प्रतिपत्त्यर्हः शेषकार्ये ततः कथम् // MJऐNय्_३,५.२ //
SK
ध्रौवादाज्याजुपांशुयाजार्थमवदाने कृते तच्छेषेण ध्रौवेण द्रव्येण स्विष्टकृदादिकं शेषकार्य कर्तव्यम् | कुतः | ऽतद्यत्सर्वेभ्यो हविर्भ्यः समवद्यतिऽ इति वाक्येन प्रापितत्वात्- इति चेत् | मैवम् | कृतार्थद्रव्यशेषो ह्युपयोगापेक्षः प्रतिपत्तिमर्हति | ध्रौवं त्वाज्यं न कृतार्थम् | तेन कर्तव्यानामुपस्तरणादीनां सद्भावात् | तस्मात् - न तेन शेषकार्ये भवति || MJऐNय्C_३,५.१-२ ||
SK
(द्वितीये साकंप्रस्थाय्ये शेषकर्माननुष्ठानाधिकरणे सूत्रम् -)
SK
साकंप्रस्थाय्ये स्विष्टकृद् इडं च तद्वत् / Jऐम्_३,५.१३ /
SK
START MJऐNय् ३,५.३-४
SK
द्वितीयाधिकरणमारचयति- आक्रामन्सह कुम्भीभिरस्ति शेषक्रिया न वा / जुह्वावदानात्प्रकृताविव शेषक्रियोचिता // MJऐNय्_३,५.३ //
SK
कुम्भीषु शेषासंसिद्धःसाकंप्रस्थाय्यकर्मणि / न स्विष्टकृदिडं कार्यमग्नीधः स्त्रुक्प्रदानतः // MJऐNय्_३,५.४ //
SK
ऽसाकंप्रस्थायीयेन यजेत पशुकामःऽ इति विहिते कर्मणि श्रूयते- ऽसह कुम्भीभिरभिक्रामन्नाहऽ इति | तत्र चतसृभिर्दधिपयःकुम्भीभिः सहाऽहवनीयदेशे ऽभिक्रमण मात्रं श्रुतम् | न तु तत्र कुम्भीभिर्होमः श्रुतः | तथा सत्यस्य कर्मणः सांनाय्यविकृत्तित्वाज्जुह्वा कुम्भीभ्यो ऽवदाय होतव्यम् | हुतशेषेण च स्विष्टकृदादिकं सांनाय्यशेषेणैव कर्तव्यम्- इति प्राप्ते, - ब्रूमः- नात्र कुम्भीषु हुतशेषः सिध्यति | सांनाय्यवज्जुह्वा तदवदानाभावात् | ऽअग्नीधे स्त्रुचौ प्रदाय सह कुम्भीभिरभिक्रामन्ऽ इत्युक्त्या जुहूपभृतोः प्रत्तत्वादभिक्रमणस्य होमार्थत्वाच्च कुम्भीभिरेव दधिपयसोर्होमे सति कुम्भीमात्रामवशिष्यते, न तु हविःशेषः | तत्र कुतः शेषकार्यम् || MJऐNय्C_३,५.३-४ ||
SK
(तृतीये सौत्रामण्यां शेषकर्माननुष्ठानाधिकरणे सूत्रे १४-१५)
SK
सौत्रामण्यां च ग्रहेषु / Jऐम्_३,५.१४ /
SK
तद्वच् च शेषवचनम् / Jऐम्_३,५.१५ /
SK
START MJऐNय् ३,५.५
SK
तृतीयाधिकरणमारचयति-
SK
सौत्रामण्यां ग्रहे स्विष्टकृदाद्यस्ति न वास्ति तत् / शेषणान्न सुराक्षीरयोरन्यत्रोपयोगतः // MJऐNय्_३,५.५ //
SK
सौत्रामणिनामके यागे श्रूयते - ऽपयोग्रहाः सुराग्रहाश्च गृह्यन्तेऽ इति | तत्र प्रकृतिगत सोमद्यहेष्विव शेषकार्ये स्विष्टकृदादिकमस्ति | न चात्र पूर्ववच्छेषाभावः | ऽउच्छिनष्टि, न सर्वे जुहोतिऽ इत्यवशेषयितव्यत्वश्रवणात्- इति चेत् | मैवम् | अवशिष्टस्यान्यत्रोपयोगश्रवणात् | ऽब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारम्ऽ इति श्रूयते | ऽयदि ब्राह्मणं न विन्देत, वल्मीकवपायामवनयेत्ऽ इति च | ऽशतातृणायामवनेयत्ऽ इति च | शतच्छिद्रा कुम्भी शतातृणा | तस्मात्- नास्ति स्विष्टकृदादिकम् || MJऐNय्C_३,५.५ ||
SK
(चतुर्थे सर्वपृष्ठेष्टौ स्विष्टकृदिडादीनां सकृदनुष्ठानाधिकरणे सूत्रे १६-१७)
SK
द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् / Jऐम्_३,५.१६ /
SK
अविभागाच् च शेषस्य सर्वान् प्रत्यविशिष्टत्वात् / Jऐम्_३,५.१७ /
SK
START MJऐNय् ३,५.६-७
SK
चतुर्थाधिकरणमारचयति-
SK
रथंतरादिभिर्मिन्ना इन्द्रास्तेषां न भिद्यते / पुरोडाशस्तत्र शेषकार्ये किं भिद्यते न वा // MJऐNय्_३,५.६ //
SK
भिद्यते कर्मणां भेदाच्चौद्दकैः पृथगुक्तितः / शेषस्य सर्वतुल्यत्वात्तत्कार्ये सकृदिष्यताम् // MJऐNय्_३,५.७ //
SK
ऽय इन्द्रियकामो वीर्यकामः स्यात्, तमेतया सर्वपृष्ठया याजयेत्ऽ इति विहितायामिष्टौ षडिन्द्रा एवं श्रूयन्ते- ऽइन्द्राय राथंतराय, इन्द्राय बार्हताय, इन्द्राय वैराजाय, इन्द्रायशाक्वराय, इन्द्राय रैवतायऽ इति | तत्र स्वरूपेणैको ऽपीन्द्रः पृष्ठस्तोत्रेषु षट्सु विहितानां षण्णां रथंतरादि साम्नां संबन्धेन विशेष्यमाणः षोठा भिद्यते | तासां सर्वासामिन्द्रदेवतानामेक एव पुरोडाशो विधीयते- ऽद्वादशकपालः पुरोडाशो भवति | वैश्वदेवत्वायऽ इति | तस्मिंश्च पुरोडाशे प्रोक्तदेवताभ्यः पृथक्पृथक्प्रदानाय बहुभ्यः प्रदेशेभ्यो ऽवदानं श्रूयते- ऽसमन्तं पर्यवद्यतिऽ इति | तत्र देवताभेदेन प्रदानभेदेन च कर्मणां भेदे सति पृथगतिदेशात्स्विष्टकृदिडादि शेषकार्ये षट्कृत्वः पृथक्कर्तव्यम् - इति चेत् | मैवम् | शेषस्यैकत्वेन तत्प्रतिपत्तेः पृथक्त्वासंभवात् | तस्मात्- सकृदेव कार्यम् || MJऐNय्C_३,५.६-७ ||
SK
(पञ्चमे - ऐन्द्रवायवग्रहे द्विःशेषमक्षणाधिकरणे सूत्रम्)
SK
ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् / Jऐम्_३,५.१८ /
SK
START MJऐNय् ३,५.८
SK
पञ्चमाधिकरणमारचयति-
SK
ऐन्द्रवायवशेषस्य सकृद्भक्ष उतासकृत् / पूर्वन्यायात्सकृत्प्राप्तौ द्विर्भक्षो वचनाद्भवेत् // MJऐNय्_३,५.८ //
SK
ज्योतिष्टोमे यो ऽयमैन्द्रवायवग्रहःऽ तत्र संस्कार्यस्य सोमस्यैकत्वात्सकृदेव शेषकार्यम्- इति चेत् | मैवम् | ऽद्विरैन्द्रवायवस्य भक्षयति, द्विर्ह्येतस्य वषट्करोतिऽ इति वचनाद्विर्भक्षणम् || MJऐNय्C_३,५.८ ||
SK
(षष्ठे सोमे शेषभक्षणाधिकरणे सूत्राणि १९-२१)
SK
सोमे ऽवचनाद् भक्षो न विद्यते / Jऐम्_३,५.१९ /
SK
स्याद् वान्यार्थदर्शनात् / Jऐम्_३,५.२० /
SK
वचनानि त्व् अपूर्वत्वात् तस्माद् यथोपदेशं स्युः / Jऐम्_३,५.२१ /
SK
START MJऐNय् ३,५.९
SK
षष्ठाधिकरणमारचयति -
SK
सोमेष्वभक्षो भक्षो वा न भक्षो ग्रहहोमतः / अल्पोक्तेरस्ति शेषो ऽस्य भक्षो ऽपूर्ववचोबलात् // MJऐNय्_३,५.९ //
SK
सोमयागेषु शेषभक्षो नास्ति, ऽयद्ग्रहाञ्जुहोतिऽ इति कृत्स्नग्रहेणाऽहुति श्रवणात्कुम्भीष्विव शेषाभावात्- इति चेत् | मैवम् | ऽअल्पं जुहोतिऽ इति विशेषवचनाच्छेषः सिध्यति | तद्भक्षणं त्वपूर्वार्थ प्रतिपादकवचनेभ्यो ऽवगम्यते | ऽआश्विनं भक्षयन्तिऽ द्विरैन्द्रवायवस्य भक्षयन्तिऽ ऽसदसि भक्षयन्तिऽ इत्यादीनि वचनान्यपूर्वार्थ प्रतिपादयन्ति | ततो भक्षविधानादस्ति सोमेषु भक्षः || MJऐNय्C_३,५.९ ||
SK
(सप्तमे चमसिनां शेषभक्षाधिकरणे सूत्रम्-)
SK
चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्त्वात् / Jऐम्_३,५.२२ /
SK
START MJऐNय् ३,५.१०
SK
सप्तमाधिकरणमारचयति-
SK
किं प्रैतु होतुश्र्चमस इत्यभक्षो ऽथ भक्षणम् / अभक्षो ऽनुक्तितो होतुश्र्वमसेत्याख्ययास्तु तत् // MJऐNय्_३,५.१० //
SK
ज्योतिष्टोमे श्रूयते- ऽप्रैतु होतुश्र्वमसः, प्र ब्रह्मणः, प्रोद्वातॄणां, प्र यजमानस्य, प्रयन्तु सदस्यानाम्ऽ इति | तत्र- वचनामावादभक्षः- इति चेत् | मैवम् | समाख्यागते चमसशब्दे भक्षणस्य प्रतीयमानत्वात् | ऽचम्वते भक्ष्यते सोमो ऽस्मिन्पात्रविशेषेऽ इति हि तद्व्युत्पत्तिः | तस्मात्-ःअस्ति तद्भक्षणम् || MJऐNय्C_३,५.१० ||
SK
(अष्टमे- उद्वातॄणां सह सुब्रह्मण्येन भक्षाधिकरणे सूत्राणि - २३-२६)
SK
उद्गातृचमसमेकः श्रुतिसंयोगात् / Jऐम्_३,५.२३ /
SK
सर्वे वा सर्वसंयोगात् / Jऐम्_३,५.२४ /
SK
स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः / Jऐम्_३,५.२५ /
SK
सर्वे तु वेदसंयोगात् कारणाद् एकदेशे स्यात् / Jऐम्_३,५.२६ /
SK
START MJऐNय् ३,५.११-१३
SK
अष्टमाधिकरणमारचयति -
SK
प्रोद्वातॄणामिति ह्येक उद्गाता भक्षयेदुत / सर्वे ऽपि किंवा सुब्रह्मण्येनोक्ताः सामगायिनः // MJऐNय्_३,५.११ //
SK
सहितास्तेन ते वाऽद्य उद्गातृश्रुतितो ऽखिलाः / बहुत्वाद्गानयोगेन तृतीयो रूढिबाधिते // MJऐNय्_३,५.१२ //
SK
योगे समाख्यया दण्डिन्यायादन्त्यो ऽत्र भाष्यगः / सदसि स्थित्यभावेन तृतीयो वातिंकोदितः // MJऐNय्_३,५.१३ //
SK
पूर्वोदाहृतवाक्ये ऽप्रोद्वातॄणाम्ऽ इत्यत्रैकस्यैव भक्षः | उद्वीथशब्दाभिधेयायाः सामभक्तेरु- द्गातर्युद्गातृप्रातिपदिकस्य रूढत्वात् - इत्येकः पूर्वपक्षः | ऽउद्गातॄणाम्ऽ इत्यस्य बहुत्वस्यैकस्मि न्नसंभवादुद्गात्रोपलक्षिताः षोडशर्त्विजः सर्वे ऽपि भक्षयेयुः- इति द्वितीयः | उद्गीथप्रस्तावप्रति हारान्तामभागानुद्वातृप्रस्तोतृप्रतिहर्तारः प्रयोगकाले गायन्ति | ऽउदुत्कर्षेण गायन्तिऽ इति योगेनोद्वातारस्त्रयो भक्षयेयुः- इति तृतीयः पक्षः | ऽरूढिर्योगमपहरतिऽ इति न्यायादेक एवोद्गाता | तेन च बहुवचनोपपत्तये प्रत्यासन्ना उपलक्ष्यन्ते | प्रत्यासत्तिश्च प्रस्तोतृप्रतिहर्त्रोरिव सुब्रह्मण्यस्याप्यस्ति | सामवेदाध्यायित्वेन सुब्रह्मण्याह्वानरूपे तदीयकर्मण्यप्यौद्गात्रसमाख्यायाः सत्त्वात् | तस्मात्- ऽसुब्रह्मण्येन सहिताश्चत्वारः सामगा भक्षयेयुःऽ- इत्ययमन्त्यः पक्षो भाष्यकारस्याभिमतः | वार्तिककारस्तु - सदसो भक्षणस्थानत्वात्सुब्रह्मण्यस्य सदस्यप्रवेशात्तेन विरहिता अवशिष्टाः सामगा भक्षयन्ति- इति तृतीयं पक्षमङ्गीचकार || MJऐNय्C_३,५.११-१३ ||
SK
(नवमे प्रावस्तुतो ऽपि सोमभक्षणाधिकरणे सूत्राणि २७-३०)
SK
ग्रावस्तुतो भक्षो न विद्यते ऽनाम्नानात् / Jऐम्_३,५.२७ /
SK
हारियोजने वा सर्वसंयोगात् / Jऐम्_३,५.२८ /
SK
चमसिनां वा संनिधानात् / Jऐम्_३,५.२९ /
SK
सर्वेषां तु विधित्वात् तदर्था चमसिश्रुतिः / Jऐम्_३,५.३० /
SK
START MJऐNय् ३,५.१४-१५
SK
नवमाधिकरणमारचयति-
SK
किं स्याच्चमसिनामेव हारियोजनभक्षणम् / सर्वेषां वाग्रिमस्तेषां पूर्ववाक्येण संनिधेः // MJऐNय्_३,५.१४ //
SK
लिप्सन्ते सर्व एवेति हारियोजनवाक्यतः / प्रावस्तुतो ऽप्यस्ति भक्षश्चमसित्वमकारणम् // MJऐNय्_३,५.१५ //
SK
ऽहरिरसि हारियोजनःऽ इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजनः | होतृब्रह्मादय श्चमसिमः | यस्तु चतुर्णो होतॄणां मध्ये चतुर्थो ग्रावस्तुन्नामके ऽस्ति, नासौ चमसी | तत्र चमसिनामेव हारियोजनभक्षणम् | कुतः-᳚यथाचमसमन्यांश्चमसांश्चमसिनो भक्षयन्ति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्तेऽ इत्यत्र पूर्ववाक्ये चमसिनां संनिहित्वेनोत्तरवाक्ये सर्वशब्देन तेषामेवाभिधातव्यत्वात् | अतो नास्ति ग्रावस्तुतस्तत्र भक्षः- इति प्राप्ते- ब्रूमः- अथशब्देनैवकारेण च चमसिमात्रशङ्कामपोद्य वाक्येन विहितस्य सर्वमक्षणस्य संनिधिमात्रेण संकोचायोगादस्ति ग्रावस्तुतो ऽपि भक्षः | तस्मात्- चमसित्वं न भक्षणे कारणम् || MJऐNय्C_३,५.१४-१५ ||
SK
(दशमे वषट्करणस्यभक्षनिमित्तताधिकरणे सूत्रम् -)
SK
वषट्काराच् च भक्षयेत् / Jऐम्_३,५.३१ /
SK
START MJऐNय् ३,५.१६-१७
SK
दशमाधिकरणमारचयति-
SK
आद्यमक्षो वषट्कर्तुर्विधिः प्राथम्य एव किम् / किंवा तद्युक्तभक्षे स्याद्वषट्कारनिमित्तके // MJऐNय्_३,५.१६ //
SK
अप्राप्तेरग्रिमो मैवं समासस्थित्यसंभवात् / विशिष्टस्य विधिस्तस्माद्वषट्कारो ऽपि कारणम् // MJऐNय्_३,५.१७ //
SK
ऽवषट्कर्तुः प्रथमभक्षःऽ इत्येवं श्रूयते | वषट्कर्ता होता | तस्य भक्षणं समाख्याया प्राप्तम् | प्राथम्यं त्वप्राप्तमिति तदेवात्र विधियते - इति चेत् | मैवम् | ऽप्रथमभक्षःऽ इत्यस्य समस्तपदत्वेन ऽयो भक्षः, स प्रथमःऽ इत्येयं विच्छिद्यान्वे तुमयोग्यत्वात्प्राथम्पविशिष्टभक्षणमत्र विधीयते | तस्मिन्भक्षणे वषट्कारः कारणम् || MJऐNय्C_३,५.१६-१७ ||
SK
(एकादशे होमाभिषवयोरपि भक्षनिमित्तताधिकरणे सूत्रम्-)
SK
होमाभिषवाभ्यां च / Jऐम्_३,५.३२ /
SK
START MJऐNय् ३,५.१८-१९
SK
एकादशाधिकरणमारचयति- आख्यावचोवषट्कारा एव किं भक्षहेतवः / किंवाभिषवहोमौ च तत्राऽद्यो ऽस्तूक्तया दिशा // MJऐNय्_३,५.१८ //
SK
हविर्धाने ऽभिषुत्याथ हुत्वा सदसि भक्षयेत् / इति श्रुतत्वतस्तौ च भक्षहेतू यथेत्तरे // MJऐNय्_३,५.१९ //
SK
ऽप्रैतु होतुश्चमसःऽ इत्यत्र समाख्या भक्षहेतुः | हारियोजने वाक्यम् | ऽवषट्कर्तुः प्रथमभक्षःऽ इत्यत्र वषट्कारः | इत्येवमुक्तत्वात्रय एव भक्षहेतवः- इति चेत् | मैवम् | ऽहविर्धाने ग्रावभिरभिषुत्याऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षान्भक्षयन्तिऽ इति श्रूयते | उत्तरवेद्याः प्रतीचीने सदसः प्राचीने मण्डले ऽमिषवः | उत्तरवेद्यां होमः | सदसि भक्षणम् | तत्र- अभिषवहोमयोर्वचनान्तरप्राप्तयोरविधेयतया तौ निमित्तत्वेनानूद्य भक्षणं विधीयते | तस्मात्- समाख्यादिवदेतयोरपि भक्षणहेतुत्वमस्ति || MJऐNय्C_३,५.१८-१९ ||
SK
(द्वादशे वषट्कर्त्रादीनां चमसे सोमभक्षाधिकरणे सूत्राणि ३३-३५)
SK
प्रत्यक्षोपदेशाच् चमसानाम् अव्यक्तः शेषे / Jऐम्_३,५.३३ /
SK
स्याद् वा कारणभावाद् अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात् / Jऐम्_३,५.३४ /
SK
चमसे चान्यदर्शनात् / Jऐम्_३,५.३५ /
SK
START MJऐNय् ३,५.२०-२१
SK
द्वादशाधिकरणमारचयति-
SK
हेतुसंघे विकल्पः किं बाधो वाथ समुच्चयः / साम्याद्विकल्पो बाध्यन्तां सावकाशाः समाख्यया // MJऐNय्_३,५.२० //
SK
नैव वाचनिकं बाध्यं भक्षणे ऽत्र विभागशः / सिद्धेविकल्पो नो युक्तः स्वीकार्यो ऽतः समुच्चयः // MJऐNय्_३,५.२१ //
SK
ऽप्रैतु होतुश्चमसः, प्र ब्रह्मणःऽ- इत्यत्र चिमसिषु समाख्या भक्षणे हेतुः | ऽवषट्कर्तुः प्रथमभक्षःऽ इत्यत्र वषट्कारो होतुर्भक्षहेतुः | ऽहविर्धाने ग्रावमिरभषुत्याऽहवनीये हुत्वा सदसि भक्षयन्तिऽ इत्यत्राभिषवसहितो होमो ऽध्वर्योर्भक्षहेतुः | तत्र चमसवषट्कारयोः संघो होतरि प्राप्तः | चमसाभिषवसंघो ऽध्वर्यौ प्राप्तः | तत्र हेतुद्वयस्य समानबलत्वाद्विकल्पे सत्यन्यतर निमित्तकृतमेवं भक्षणम्- इत्याद्यः पक्षः | वषट्कारादिहेतोश्चमसेतरग्रहे सावकाशत्वान्निरवकाशया चमसिसमाख्यया तद्बाधे सति चमसिषु पाक्षिकमपि वषट्कारादि हेतुकं भक्षणं नास्ति- इति द्वितीयः पक्षः | ऽवषट्कर्तुःऽ इत्यादिवाक्यस्य प्रबलत्वात्समाख्यया बाधो न युक्तः | मिरवकाशतया सापि प्रबला- इति चेत् | तर्हि प्रमाणद्वयेन पृथग्भक्षणे विहिते समुच्चयो ऽभ्युपेयः, न च व्रीहियववद्विकल्पः | तत्र पुरोडाशानिष्पादनस्य दृष्टप्रयोजनस्यैकत्वात् | इह तु नियमादृष्टार्थे भक्षणम् | तच्चादृष्टं यथावचनं द्विविधम् | तस्मात्समुच्चयः || MJऐNय्C_३,५.२०-२१ ||
SK
(त्रयोदशे होतुः प्रथमभक्षाधिकरणे सूत्राणि ३६-३९)
SK
एकपात्रे क्रमाद् अध्वर्युः पूर्वो भक्षयेत् / Jऐम्_३,५.३६ /
SK
होता वा मन्त्रवर्णात् / Jऐम्_३,५.३७ /
SK
वचनाच् च / Jऐम्_३,५.३८ /
SK
कारणानुपूर्व्याच् च / Jऐम्_३,५.३९ /
SK
START MJऐNय् ३,५.२२-२३
SK
त्रयोदशाधिकरणमारचयति-
SK
एकपात्रे किमध्वर्युरद्यात्पूर्वप्रुतेतरः / तद्धस्ते पात्रसंस्थानात्तस्य प्रथमभक्षणम् // MJऐNय्_३,५.२२ //
SK
पाहि होतेव नः पूर्वमिति मन्त्रेण पूर्वता / वषट्कर्तुस्तदुक्तेश्च न्यायबाध्यं वचो नहि // MJऐNय्_३,५.२३ //
SK
एकस्मिन्पात्रे वहनां क्वचिद्विहितं भक्षणम्- तत्र- अध्वर्युः प्रथमं भक्षयेत्पात्रसंनिधानात् - इति चेत् | मैवम् | लिङ्गवाक्याभ्यां होतुः प्रथममक्षावगमात् | ऽहोतेव नः प्रथमः पाहिऽ इति ऋत्विजो ऽध्वर्यु संबोध्यैवं प्रार्थयन्ते- ऽयथा होतास्मत्तः पूर्वे भक्षयित्वा शेषप्रदानेनास्मान्पालितवान्, तथा त्वमपि वाहिऽ इति | तदेतद्धोतुः प्रथमभक्षे लिङ्गम् | वाक्यं चैवमाम्नातम्- ऽवषट्कर्तुः प्रथमभक्षःऽ इति | तत्र विशिष्टविधानात्प्राथम्यमिप सिध्यति | न चैतद्वचनं पात्रसंनिधिरूपेण न्यायमात्रेण बाधितुं शक्यम् | तस्मात् - होता प्रथमं भक्षयेत् || MJऐNय्C_३,५.२२-२३ ||
SK
(चतुर्दशे भक्षस्यानुज्ञापूर्वकत्वाधिकरणे सूत्रम् -) वचनाद् अनुज्ञातभक्षणम् / Jऐम्_३,५.४० /
SK
START MJऐNय् ३,५.२४
SK
चतुर्दशाधिकरणमारचयति- नानुज्ञापूर्वको भक्षस्तत्पूर्वो वात्र लाघवात् / आद्यो नानुपहूतेन पेय इत्युक्तितो ऽन्तिमः // MJऐNय्_३,५.२४ //
SK
अनुज्ञाभक्षयोर्द्वयोरनुष्ठितौ गौरवाद्भक्षमात्रम् - इति चेत् | मैवम् | ऽतस्मात्सोमां नानुपहूतेन पेयःऽ इति वचनेनानुज्ञाया आवश्यकत्वात् || MJऐNय्C_३,५.२४ ||
SK
(पञ्चदशे वैदिकवचनेनानुज्ञापनाधिकरणे सूत्रम्)
SK
तदुपहूत उपह्वयस्वेत्य् अनेनानुज्ञापयेल् लिङ्गात् / Jऐम्_३,५.४१ /
SK
START MJऐNय् ३,५.२५
SK
पञ्चदशाधिकरणमारचयति-
SK
किमनुज्ञा लौकिकोक्त्या वेदोक्त्या वा यथा तथा / अविशेषादुपह्वानमन्त्रलिङ्गात्तु वैदिकी // MJऐNय्_३,५.२५ //
SK
ऽउपहूत उपह्वयस्यऽ- इत्ययं मन्त्रो लिङ्गेन मन्त्रमनुज्ञायां विनियुङ्क्ते | तस्मात्- वैदिकोक्त्या तदनुज्ञानम् || MJऐNय्C_३,५.२५ ||
SK
(षोडशे वैदिकवाक्येन प्रतिवचनाधिकरणे सूत्रम्-)
SK
तत्रार्थात् प्रतिवचनम् / Jऐम्_३,५.४२ /
SK
START MJऐNय् ३,५.२६-२७
SK
षोष्ठशाधिकरणमारचयति -
SK
उपह्वयस्वोपहूत इत्यशेषो द्वयोर्भवेत् / अनुज्ञानुज्ञापनयोरथवासौ विभज्यते // MJऐNय्_३,५.२६ //
SK
विभागकरणाभावादशेषश्र्चेन्न लिङ्गतः / उपह्वयेत्वनुज्ञप्तावनुज्ञाने तथेतरः // MJऐNय्_३,५.२७ //
SK
ऽउपहूत उपहूवयस्वऽ इत्यस्मिन्मन्त्रे मध्यमपुरुषेकवचनान्तो भागः पश्चात्पठितो ऽपि प्रश्चसमत्वात्प्रथमभाविन्यनुज्ञापने समर्थः | प्रथमैकवचनान्तस्तु प्रथमपठितो ऽप्युत्तरसमानत्वा त्पश्चाद्भाविन्यामनुज्ञायां समर्थः | तस्मात्- लिङ्गेन विभज्य विनियुज्यते || MJऐNय्C_३,५.२६-२७ ||
SK
(सप्तदशे- एकपात्राणामनुज्ञापनाधिकरणे सूत्रम् - )
SK
तदेकपात्राणां समवायात् / Jऐम्_३,५.४३ /
SK
START MJऐNय् ३,५.२८
SK
सप्तदशाधिकरणमारचयति-
SK
उपह्वानमशेषाणामुत स्यादेकपात्रिणाम् / अदृष्टहेतोराद्यः स्याद्दृष्टाधिक्यादितो ऽन्तिमः // MJऐNय्_३,५.२८ //
SK
अनुज्ञापनस्यादृष्टं प्रयोजनम् | तच्च विभिन्नपात्रेष्वपि समानम्- इति चेत् | न | दृष्टप्रयोजनस्य सद्भावात् | साधारणे वस्तुनि कथंचिद्भागाधिक्ये ऽपराधो भवति | अतो न्यूनाधिकत्वपरिहारनिमित्तमनुज्ञापनमेकपात्रिणामेव || MJऐNय्C_३,५.२८ ||
SK
(अष्टादशे स्वयंयष्टुर्भक्षास्तित्वाधिकरणे सूत्राणि ४४-४५)
SK
याज्यापनयेनापनीतो भक्षः प्रवरवत् / Jऐम्_३,५.४४ /
SK
यष्टुर् वा कारणागमात् / Jऐम्_३,५.४५ /
SK
प्रवृत्तत्वात् प्रवरस्यानपायः / Jऐम्_३,५.४६ /
SK
START MJऐNय् ३,५.२९-३०
SK
अष्टादशाधिकरणमारचयति-
SK
होतुर्याज्यापनीतौ किं न वषट्कारभक्षयोः / अपनीतिरुतापायो नापनीतिर्विभेदतः // MJऐNय्_३,५.२९ //
SK
यजमानेन यष्टव्यं न विनेष्टिर्वषट्कृतिम् / वषट्कारो याज्ययातः सहापैत्यदनं तथा // MJऐNय्_३,५.३० //
SK
ज्योतिष्टोम ऋतुयाजनामकेषु यागेष्वाम्नायते-᳚यजमानस्य याज्या सो ऽभिप्रेष्यति- होतरेतद्यज- इति, स्वयं वां निषद्य यजति᳚इति | हौत्रे काण्डे समाम्नाता याज्याः समाख्यया होतुः प्राप्ताः | तासु काचिद्याज्या होतुरपनीय यजमानस्य विधीयते | ततो यजमानः स्वेच्छया होतारं वा प्रेष्यति, स्वयं वा याज्यां पठति | तत्र त्वपाठपक्षे याज्या होतुरपनीयते, न तु वषट्कारभक्षावपनीयेते | तयोर्याज्यायामनन्तर्भावात् | अतो होता वषट्करोति भक्षयति च इति प्राप्ते, - ब्रूमः- ऽस्वयं वा निषद्य यजतिऽ इति पक्षस्वीकाराद्यजमानेन स्वयं यागः कर्तव्यः | स च यागो वषट्कारमन्तरेण न संभवति | ऽयाज्याया अधि वषट्करोतिऽ इति तद्विधानात् | ननु- यजमानो याज्यां पठतु, होता वषट्करोतु- इति चेत् | मैवम् | ऽअनवानं यजतिऽ इति याज्यावषट्कारयोर्मध्ये श्वासनिषेधेनैककर्तृकत्वावगमात् | अतो याज्यया सह वषट्कारो होतुरपैति | तदपाये वषट्कारनिमित्तो भक्षश्च होतुरपेत्य यजमाने निविशते || MJऐNय्C_३,५.२९-३० ||
SK
(एकोनविंशे फलचमसस्येज्याविकारताधिकरणे सूत्राणि ४७-५१)
SK
फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् / Jऐम्_३,५.४७ /
SK
इज्याविकारो वा संस्कारस्य तदर्थत्वात् / Jऐम्_३,५.४८ /
SK
होमात् / Jऐम्_३,५.४९ /
SK
चमसैश् च तुल्यकालत्वात् / Jऐम्_३,५.५० /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,५.५१ /
SK
START MJऐNय् ३,५.३१-३३
SK
एकोनविंशाधिकरणमारचयति-
SK
न्यप्रोधपिष्टं सोमस्य स्थाने क्षत्रियवैश्ययोः / भक्षमात्रे विकुर्यात्तत्सोमयागे ऽपि वा तथा // MJऐNय्_३,५.३१ //
SK
बिभक्षयिषया वाक्यमुपक्रम्योपसंहृतम् / भक्षं यच्छेदिति ततो विकारो भक्षमात्रगः // MJऐNय्_३,५.३२ //
SK
फलाख्यचमसेनासौ यजेतेति श्रुतत्वतः / इज्यायां च विकारो ऽस्ति यागार्था भक्षसंस्कृतिः // MJऐNय्_३,५.३३ //
SK
ज्योतिष्टोमे श्रूयते- ऽयदि राजन्यं वैश्यं वा याजयेत्, स यदि सोमं बिभक्षयिपेत्, न्यग्रोधस्तिभिनीराहृत्य ताः संपिष्य दधन्युन्मृज्य तमस्यै भक्षं प्रयच्छेत्, न सोमम्ऽ इति | स्तिभिन्यो मुकुलानि | तत्र- उपक्रमोपसंहारयोर्भक्षविषयत्वाद्भक्षमात्रे सोमः पिष्टेन विक्रियते - इति चेत् | मैवम् | ऽयदान्याश्चमसाञ्जुह्वति, अथैतस्य दर्भतरुणकेनोषहत्य जुहोतिऽ इति श्रुतम् | तत्र फलचमसरूपेण यथोक्तपिष्टेन यागमङ्गीकृत्य तरुणकगुणो विधीयते | किंच - इष्टद्रव्य संस्कारो हि भक्षः | स च यागमन्तरेणानुपपन्नः | तस्मात्- यागे ऽपि विकारः || MJऐNय्C_३,५.३१-३३ ||
SK
(विंशे ब्राह्मणानामेव राजन्यचमसानुप्रसर्पणाधिकरणे सूत्रे ५२-५३)
SK
अनुप्रसर्पिषु सामान्यात् / Jऐम्_३,५.५२ /
SK
ब्रह्मणा वा तुल्यशब्दत्वात् / Jऐम्_३,५.५३ /
SK
START MJऐNय् ३,५.३४-३५
SK
विंशाधिकरणमारचयति-
SK
राजसूये क्वचित्कर्तुश्चमसो दशभिर्जनैः / मक्ष्यः किं तत्र राजन्या भक्षका ब्राह्मणा उत // MJऐNय्_३,५.३४ //
SK
आद्यो भानात्संख्ययैकजैतेर्विप्राः शतं दश / चमसानद्युरित्युक्त्या राजपात्रं च विप्रगम् // MJऐNय्_३,५.३५ //
SK
राजसूये दशपेयनामके यागे श्रूयते- ऽदश दशैकैकं चमसमनुप्रसर्पन्तिऽ इति | तत्र यजमानस्य राजन्यस्य यश्चमसः, सो ऽयं राजन्यैरेव दशभिर्भक्षणीयः | कुतः | ऽदशऽ इति संख्याया जात्येकत्वप्रतिभानात् | तथा हि - दशपोयस्य ज्योतिष्टोमविकृत्वात्प्राकृतं धर्मजातं चोदकेन प्राप्तम् | प्रकृतौ च - यजमानचमसस्य भिन्नजातिभिर्भक्षणं नास्ति, इत्यत्रापि तथैव प्रप्तम् | यदि- अत्र ऽदशऽ इति विशेषो विधीयते, तर्हि प्राकृतं भक्षसंख्यामात्रं निवर्तताम्, नत्वेकजातित्वम् | तस्मात्- राजन्यो यजमानो ऽन्यै राजन्यैर्नवभिः सह भक्षयेत्- इति प्राप्ते,- ब्रूमः- प्रकृतितः प्राप्तेषु दशसु चमसेषु भक्षणायामुप्रसर्पतां पुरुषाणां ऽदश, दश, इति वीप्सया प्रतिचमसं दशसंख्यां विधायार्थसिद्धां शतसंख्यामनूद्य संख्येयानां सर्वेषां ब्राह्मण्यं विधीयते -ऽङ्घ शतं ब्राह्मणाः पिबन्तिऽ इति | तथा सति- यजमानस्यापि राजन्यस्य यत्र चमसभक्षो नास्ति, तत्र कुतो ऽन्ये राजन्या भक्षयेयुः | तस्मात् - ब्राह्मणा एव भक्षकाः || MJऐNय्C_३,५.३४-३५ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य पञ्चमः पादः
SK
अथ तृतीयाध्यायस्य षष्ठः पादः /
SK
(प्रथमे स्त्रुवादिषु खादिरतादिविधैः प्रकृतिगामिताधिकरणे सूत्राणि १-८ )
SK
सर्वार्थम् अप्रकरणात् / Jऐम्_३,६.१ /
SK
प्रकृतौ वाद्विरुक्तत्वात् / Jऐम्_३,६.२ /
SK
तद्वर्जं तु वचनप्राप्ते / Jऐम्_३,६.३ /
SK
दर्शनाद् इति चेत् / Jऐम्_३,६.४ /
SK
न चोदनैकार्थ्यात् / Jऐम्_३,६.५ /
SK
उत्पत्तिर् इति चेत् / Jऐम्_३,६.६ /
SK
न तुल्यत्वात् / Jऐम्_३,६.७ /
SK
चोदनार्थकार्त्स्न्यात् तु मुख्यविप्रतिषेधात् प्रकृत्यर्थः / Jऐम्_३,६.८ /
SK
START MJऐNय् ३,६.१-२
SK
षष्ठपादस्य प्रथमाधिकरणमारचयति-
SK
प्रकृतौ विकृतौ वा स्याद्यस्य पर्णेत्यसौ विधिः / प्रकृतावेव वा तुल्याद्वचनादुभयोरसौ // MJऐNय्_३,६.१ //
SK
जुहूमाश्रित्य पर्णत्वविधिः प्रकृतिमात्रगः / चोदकेनोभयप्राप्तेर्विकृतौ विधिनात्र किम् // MJऐNय्_३,६.२ //
SK
अनारभ्य श्रूयते- ऽयस्य पर्णमयी जूहूर्भवति, न स पापं श्लोकं शृणोतिऽ इति | तत्र- अव्यभिचरितक्रतुसंबन्धवतीं जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधीयते- ऽया जुहूः सा पर्णमयीऽ इति | वाक्यं च प्रकृतिविकृत्योस्तुल्यमेव प्रवर्तते | उभयत्राऽश्रयभूताया जुह्वाः सत्वात् | तस्मात्- प्रकृतिविकृत्योरूमयोरप्ययं विधिः- इति प्राप्ते, - ब्रूमः- किमयं विधिर्विकृतौ चोदकात्पूर्वे निविशते, पश्चाद्वा | नाऽद्यः | आश्रयभूताया जुह्वाश्चोदकमन्तरेणासंभवात् | द्वितीये तु पर्णत्वमपि जुह्वा सहैव चोदकेनातिदिश्यते | तत्र पुनर्विधिवैयर्थ्यादयं विधिः प्रकृतिमात्रगः | एवं ऽयस्य स्वादिरः स्त्रुबो भवतिऽ इत्युदाहरणीयम् || MJऐNय्C_३,६.१-२ ||
SK
(द्वितीये सामिधेनीनां सप्तदशसंख्याया विकृतिगामिताधिकरणे सूत्रम्-)
SK
प्रकरणविशेषात् तु विकृतौ विरोधि स्यात् / Jऐम्_३,६.९ /
SK
START MJऐNय् ३,६.३-४
SK
द्वितीयाधिकरणमारचयति-
SK
सामिधेनीः सप्तदश प्रकृतौ विकृतावुत / पूर्ववत्प्रकृतौ पाञ्चदश्येनैतद्विकल्प्यते // MJऐNय्_३,६.३ //
SK
विकृतौ साप्तदश्यं स्यात्प्रकृतौ प्रक्रियाबलात् / पाञ्चदश्यावरुद्धत्वादाकाङ्क्षाया निवृत्तितः // MJऐNय्_३,६.४ //
SK
अनारभ्य श्रूयते- ऽसप्तदश सामिधेनीरनुब्रूयात्ऽ इति | ऽप्रवो वाजा अभिद्यवऽ - इत्याद्या अग्निसमिन्धनार्था ऋचः सामिधेन्यः | तासां साप्तदश्यं पूर्वभ्यायेन प्रकृतिगतम् | यदि प्रकृतौ ऽपञ्चदश सामिधेनीरन्वाहऽ इति विधिः स्यात्, तर्हि पाञ्चदश्यसाप्तदश्ये विकल्पेयाताम्- इति प्राप्ते, - ब्रूमः- विकृतावेव साप्तदश्यं निविशते | प्रकृतौ पाञ्चदश्येनावरुद्धानां सामिधेनीनां संख्याकाङ्क्षाया अभावात् | न च - प्राञ्चदश्यसाप्तदश्यवाक्ययोः समानबलत्वादवरोधा भावः- इति शङ्कनीयम् | पाञ्चदश्ये प्रकरणानुग्रहस्याधिकत्वात् | तस्मात्- मित्रविन्दाध्वर कल्पादिविकृतौ साप्तदश्यमवतिष्ठते | न चात्र पूर्वन्यायो ऽस्ति | साप्तदश्यस्य चोदकप्राप्त्यभावेन पुनर्विधाने दोषाभावात् || MJऐNय्C_३,६.३-४ ||
SK
(तृतीये नैमित्तिकसाप्तदश्यस्य प्रकृतिगामिताधिकरणे सूत्रम्-)
SK
नैमित्तिकं तु प्रकृतौ तद्विकारः संयोगविशेषात् / Jऐम्_३,६.१० /
SK
START MJऐNय् ३,६.५-६
SK
तृतीयाधिकरणमारचयति-
SK
साप्तदश्यं तु वैश्यस्य विकृतौ प्रकृतावुत / पूर्ववच्चेन्न संकोचान्नित्ये नैमित्तिकोक्तितः // MJऐNय्_३,६.५ //
SK
गोदोहनेन प्रणयेत्कामीत्येतदुदाहरत् / भाष्यकारस्तदप्यस्तु न्यायस्यात्र समत्वतः // MJऐNय्_३,६.६ //
SK
ऽसप्तदशानुब्रूयाद्वैश्यस्यऽ इति विहितं वैश्यनिमित्तं साप्तदश्यं पूर्वन्यायेन विकृतिगतम्- इति चेत् | मैवम् | नैमित्तिकेनानेन वचनेन प्रकृतिगतस्य नित्यस्य पाञ्चदश्यस्य वैश्यव्यतिरिक्त विषयतया संकोचनीयत्वात् | नित्यं सामान्यरूपतया सावकाशत्वेन च दुर्बलम् | नैमित्तिकं तु विशेषरूपत्वनिरवकाशत्वाभ्यां प्रबलम् | तस्मात्- वैश्यनिमित्तकं साप्तदश्यं प्रकृताववतिष्ठते | अत्र भाष्यकारो ऽन्यदुदाजहार- ऽचमसेनापः प्रणयेव्गोदोहनेन पशुकामस्यऽ इति | तत्र- प्रकृतेश्चमसेनावरुद्धत्वाद्गोदोहनं विकृतौ- इति पूर्वपक्षः | कामनानिमित्तकेन गोदोहनेन नित्यस्य चमसस्य निष्कामविषयतया संकोचनीयत्वात्प्रकृतावेव गोदोहनम्- इति राद्धान्तः || MJऐNय्C_३,६.५-६ ||
SK
(चतुर्थे,- आधानस्य पवमानेष्ट्यनङ्गताधिकरणे सूत्राणि ११-१३)
SK
इष्ट्यर्थम् अग्न्याधेयं प्रकरणात् / Jऐम्_३,६.११ /
SK
न वा तासां तदर्थत्वात् / Jऐम्_३,६.१२ /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,६.१३ /
SK
START MJऐNय् ३,६.७-८
SK
चतुर्थाधिकरणमारचयति -
SK
आधानं पवमानादेरिष्टेरङ्गं न वा भवेत् / अग्नीनामिष्टिशेषत्वात्तद्द्वारास्य तदङ्गता // MJऐNय्_३,६.७ //
SK
अनारभ्य विधामात्तु नाङ्गं कस्यचिदाहितिः / अग्न्यर्थत्वात्तत्समेष्टिरग्नयस्त्वग्निहोत्रगाः // MJऐNय्_३,६.८ //
SK
इदमाम्नायते- ऽअग्नये पवमानायाष्टादशकपालं निर्वपत्, अग्नये पावकाय, अग्नये शुचयेऽ इति | ऽवसन्ते ब्राह्मणो ऽग्नीनादधीतऽ इति च | तत्र- आधानं पवमानादीष्टीनामङ्गं भवेत् | कुतः | दर्शपूर्णमासविकृतिषु पवमानादीष्टिषु चोदकप्राप्तानामाहवमनीयाद्यग्नीनामिष्ट्यङ्गत्वे सत्यग्निद्वारा तत्संस्काररूपस्याऽधानस्यापि तदङ्गताया अनिवार्यत्वात् - इति चेत् | मैवम् | न ह्येतदाधानं कस्यचित्क्रतोः प्रकरणे पठितम् | किंतु - अनारभ्याधीतम् | अतो न कस्याप्येतदङ्गम्, किंत्वाधानवदिष्टीनामप्यग्निसंस्कारार्थत्वात्परस्परं नास्त्यङ्गाङ्गिभावशङ्का | ननु- पवमानेष्ठ्यङ्गत्वाभावे ऽग्निसंस्कारवैयर्थ्यादग्निद्वारा तदङ्गत्वं युक्तम्- इति चेत् | न | संस्कृनामग्नीनामग्निहोत्राद्युत्तरक्रतुषु तत्तद्वाक्यैर्विनियोगावगमात् | तस्मात्- नाऽधानमङ्गम् || MJऐNय्C_३,६.७-८ ||
SK
(पञ्चमे,- आधानस्य सर्वार्थताधिकरणे सूत्रे १४-१५)
SK
तत्प्रकृत्यर्थं यथान्ये ऽनारभ्यवादाः / Jऐम्_३,६.१४ /
SK
सर्वार्थं वाधानस्य स्वकालत्वात् / Jऐम्_३,६.१५ /
SK
START MJऐNय् ३,६.९-१०
SK
पञ्चमाधिकरणमारचयति -
SK
आधानं किं प्रकृत्यर्थे वह्निमात्रेण वा युतम् / संस्कृताग्निप्रनाड्यैतत्पर्णवत्प्रकृतौ स्थितम् // MJऐNय्_३,६.९ //
SK
लौकिकाकारमात्रत्वे विफलत्वात्क्रतौ युतिः / पर्णस्याऽहवनीयादौ शास्त्रीये ऽस्तु स्वतन्त्रता // MJऐNय्_३,६.१० //
SK
अनारभ्याधीतं पर्णमयीत्वं यथा जुहूप्रनाड्या प्रकृतौ निविष्टम्, तथैवाग्निप्रनाड्या तत्संस्काररूपमाधानं प्रकृतौ निविशते- इति चेत् | मैवम् | वैषम्यात् | द्विविधो हि जुह्वा आकारः- लौकिकः शास्त्रीयश्च | अरत्निमात्रदैर्घ्य हसमुखत्वत्वग्बिलत्वादिरूपो दृश्यमानो लौकिकः | अपूर्वीयत्वाकारस्तु शास्त्रीयः | तयोरपूर्वीयत्वं क्रतुप्रवेशमन्तरेण नास्ति | तत्र यदि लौकिकाकारमात्रे पर्यवस्यति, तदा पर्णमयीत्वं विफलं भवेत् | काष्ठान्तरेणापि तदाकारस्य सुसंपादत्वात् | अचो ऽपूर्वीयत्वाय पर्णः क्रतौ प्रविष्टः | आहवनीयादीनां त्वेक एव शास्त्रीयाकारः | स च विङिबलादाधानेनैव जन्यते, नान्यथा | तस्मादाधानस्य क्रतुप्रवेशं विनैव शास्त्रीवाहवनीयाद्याकारसंपादनसमर्थ त्वादग्निहोत्रेण तत्संयुज्यते | तथा सति पर्णवैषम्यात्प्रकृतावप्रविश्याग्नीनुत्पाद्य क्रतुवत्स्वात त्र्येणावतिष्ठते | ततो लौकिकोपायसंपादितसुवर्णव्रीह्यादिवदाधानसंपादितानां स्वतन्त्राणा मेवाऽहवनीयाद्यग्नीनां पश्चाद्वाक्यैः क्रतुषु विनियोगो ऽस्तु || MJऐNय्C_३,६.९-१० ||
SK
(षष्ठे पवमानेष्टीनामसंस्कृते ऽग्नौ कर्तव्यताधिकरणे सूत्रे १६-१७)
SK
तासाम् अग्निः प्रकृतितः प्रयाजवत् स्यात् / Jऐम्_३,६.१६ /
SK
न वा तासां तदर्थत्वात् / Jऐम्_३,६.१७ /
SK
START MJऐNय् ३,६.११-१२
SK
षष्ठाधिकरणमारचयति-
SK
संस्कृते पवमानेष्ट्या वह्नौ सेष्टिर्न वेष्टयः / वह्नौ तत्संस्कृते कार्याश्चोदकस्यानुरोधतः // MJऐNय्_३,६.११ //
SK
चोदकः पवमानेष्टौ न तां प्रापयितुं प्रभुः / अनङ्गत्वेष्ट्यसिद्धिभ्यामिष्टयस्यदसंस्कृते // MJऐNय्_३,६.१२ //
SK
पावमानादीष्टिभिराहवनीयाद्यग्नयः संस्क्रियन्ते | संस्कृतेष्वग्निष्वग्निहोत्रदर्शपूर्णमासादि क्रतवःप्रवर्तन्ते | तथा सति- विमताः पवमानेष्टयस्ताभिरिष्टिभिः संस्कृते बह्नौ कर्तव्याः, इष्टित्वात्, इतरेष्टिवत् | चोदको ऽप्येवं | सत्यनुगृहीतो भवति | एताभिरिष्टिभिः संस्कृते बह्नौ प्रकृत्यनुष्ठानात्- इति प्राप्ते- ब्रूमः- यद्यपि पवमानेष्टिर्विकृतिः, तथापि चोदको न तस्यां पवमानेष्टौ पवमानेष्टि मतिदेष्टुं प्रभवति | प्रकृतौ प्रयाजादिवत्पवमानेष्टेरङ्गत्वाभावात् | किंच- ऽएतस्याः पवमानेष्टेः संस्कृताग्निसिद्ध्यर्थ पवमानेष्ट्यन्तराङ्गीकारे तत्रापि तथाऽ इत्यनवस्थायामिष्टिरेव न सिध्येत् | तस्मात्- ताभिरिष्टिभिरसंस्कृते वह्नौ पवमानेष्टयः कर्तव्याः || MJऐNय्C_३,६.११-१२ ||
SK
(सप्तमे- उपाकरणादीनामग्नीषोमीयधर्मताधिकरणे सूत्राणि १८-२७)
SK
तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् / Jऐम्_३,६.१८ /
SK
स्थानाच् च पूर्वस्य / Jऐम्_३,६.१९ /
SK
श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था / Jऐम्_३,६.२० /
SK
तेनोत्कृष्टस्य कालविधिर् इति चेत् / Jऐम्_३,६.२१ /
SK
नैकदेशत्वात् / Jऐम्_३,६.२२ /
SK
अर्थेनेति चेत् / Jऐम्_३,६.२३ /
SK
न श्रुतिविप्रतिषेधात् / Jऐम्_३,६.२४ /
SK
स्थानात् तु पूर्वस्य संस्कारस्य तदर्थत्वात् / Jऐम्_३,६.२५ /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,६.२६ /
SK
अचोदना वा गुणार्थेन / Jऐम्_३,६.२७ /
SK
START MJऐNय् ३,६.१३-१५
SK
सप्तमाधिकरणमारचयति -
SK
अग्नीषोमीयसवनीयानुबन्ध्यपशुष्वमी / उपाकरणमुख्यास्तु धर्माः साधारण न वा // MJऐNय्_३,६.१३ //
SK
ज्योतिष्टोमप्रकरणे पाठात्साधारण अमी / पशुधर्माग्रहात्सोमयागे ते स्युर्निरर्थकाः // MJऐNय्_३,६.१४ //
SK
अग्नीषोमीयधर्मत्वं तेषां स्थानात्प्रसिध्यति / द्वयोरितरयोः पश्र्वोः प्राप्यन्ते चोदकेन ते // MJऐNय्_३,६.१५ //
SK
अग्नीषोमीयः, सवनीयः, अनुबन्ध्यश्च, इत्येते त्रयः पशवो ज्योतिष्टोमप्रकरणे समाम्नाताः | पशुधर्माश्चोपाकरणपर्यग्निकरणादयस्तत्राऽम्नाताः | ऽप्रजापतेर्जायमानाःऽ ऽइमं पशुम्ऽ- इत्याभ्यामृग्भ्यां पशोरुपस्पर्शनमुपाकरणम् | दर्भज्वालया त्रिः प्रदक्षिणीकरणं पर्यग्निकरणम् | त एते धर्मास्त्रिष्वपि पशुषु साधारण्येन विधीयन्ते | त्रयाणामपि ज्योतिष्टोमप्रकरणपाठसाम्यात् | ननु ज्योतिष्ठोमस्य प्रकरणे पठितानेतान्धर्मान्स एव ग्रहीष्यति, न तु पशवः- इति चेत् | न | तस्य सोमयागत्वात् | सोमो ह्यभिषवादीन्धर्मानाका ङ्क्षति, न तु यूपनियोजनविशसनादीन् | तस्मात्- अङ्गिन्यनर्थकाः सन्तो ऽङ्गेषु निविशमाना अविशेषतस्त्रिष्वपि पशुष्ववतिष्ठन्ते- इति प्राप्ते- ब्रूमः- अस्त्यत्र विशेषः संनिधिलक्षणः | सौत्यनामकादह्नः प्राचीन औपवसथ्यनामके ऽह्नि धिष्ण्यनिर्माणादूर्ध्वमेते धर्मा आम्नाताः | अग्नीषोमीयस्यापि तदेव स्थानम् | सवनीयस्तु सौत्ये ऽहनि श्रूयते- ऽआश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाऽग्नेयं सवनीयं पशुमुपाकरोतिऽ इति | अनुबन्ध्यस्त्ववभृथान्ते समाम्नातः | ततः संनिधिना ते धर्मा अग्नीषोमीये संबध्यन्ते, सवनीयानुबन्ध्ययोस्तु चोदकादतिदिश्यन्ते || MJऐNय्C_३,६.१३-१५ ||
SK
(अष्टमे शाखाहरणादीनामुभयदोहधर्मताधिकरणे सूत्रे २८-२९)
SK
दोहयोः कालभेदाद् असंयुक्तं शृतं स्यात् / Jऐम्_३,६.२८ /
SK
प्रकरणविभागाद् वा तत्संयुक्तस्य कालशास्त्रम् / Jऐम्_३,६.२९ /
SK
START MJऐNय् ३,६.१६-१७
SK
अष्टमाधिकरणमारचयति-
SK
शाखाछेदादयो दोहे धर्माः सायं व्यवस्थिताः / प्रातश्च सन्ति वा सायं स्थानात्ते पूर्ववत्स्थिताः // MJऐNय्_३,६.१६ //
SK
आनर्थक्यप्रतिहतिः पूर्ववन्नेह विद्यते / बलिनो ऽतः प्रकरणात्प्रातर्दोहे ऽपि सन्ति ते // MJऐNय्_३,६.१७ //
SK
दर्शपूर्णमासंप्रकरणे - पलाशशाखाछेदनम्, तया शाखया वत्सापाकरणम्, इत्यादयो दोहधर्माः समाम्नाताः | दोहौ च द्वौ विद्येते-अमावास्यायां रात्रावेको दोहः | प्रतिपदि प्रातरपरो दोहः | तत्र पूर्वन्यायेन प्राथमिके सायंदोहे प्रथमश्रुतास्ते धर्मा व्यवतिष्ठन्ते- इति चेत् | मैवम् | वेषम्यात् | पूर्वत्र हि सोमे विशसनादिधर्माणामनन्वयात्प्रकरणमानर्थक्यप्रति हतम् | इह तु नास्त्यानर्थक्यप्रतिहतिः | ततः प्रकरणेन स्थानं बाधित्वा द्वयोर्दोहयोस्ते धर्मा अभ्युपेयाः || MJऐNय्C_३,६.१६-१७ ||
SK
(नवमे सादनादीनां सवनत्रयधर्मताधिकरणे सूत्रम्- )
SK
तद्वत् सवनान्तरे ग्रहाम्नानम् / Jऐम्_३,६.३० /
SK
START MJऐNय् ३,६.१८
SK
नवमाधिकरणमारचयति-
SK
ग्रहधर्माः सादनाद्याः प्रातःसवन एव ते / त्रिषु वा निश्चितस्थानादाद्यः पूर्ववदुत्तरः // MJऐNय्_३,६.१८ //
SK
ज्योतिष्टोमे प्रातःसवने सन्त्यैन्द्रवायवादयो ग्रहाः, माध्यंदिने सवने मरुत्वतीयादयः, तृतीयसवन आदित्यादयः | तत्र सादनसंमार्गादयो धर्माः प्रातःसवनीयग्रहसंनिधावाम्नायन्ते - ऽउपोप्ते ऽन्ये ग्रहाः साद्यन्ते, अनुपोप्ते ध्रुवःऽ इति | ऽदशापवित्रेण ग्रहं संमार्ष्टिऽ इति च | ध्रुवव्यतिरिक्तानां ग्रहाणामधस्तान्मृत्तिकोपवेशनं कृत्वा तत्र सादनम्, ध्रुवस्य तु न तथा | पूर्वाधिकरणे शाशाहरणादयः प्रधानयोर्दधिपयसोर्र्धमाः समाम्नाताः | तच्च दधि पूर्वोद्युः सायंदोहमन्तरेण न सिध्यतीति तत्सिद्ध्यर्थे केवलं सायं दुह्यते, न तु सायंदोहस्यासाधारण त्वेन धर्मैः सहैकस्मिन्देशे पाठो ऽस्तीति स्थानं न निश्चितम्, इह तु तन्निश्चितमिति प्रातःसवन एव ते धर्मा इति चेत् | मैवम् | सादनादीनां वाक्येन ग्रहधर्मत्वं, प्रकरणेन ज्योतिष्टोमधर्मत्वं चावगम्यते | तस्मिन्निश्चितमपि स्थानं वाक्यप्रकरणाभ्यां बाधित्वा त्रिषु सबनेषु सादनादयो ऽवतिष्ठन्ते || MJऐNय्C_३,६.१८ ||
SK
(दशमे रशनात्रिवृत्त्वादीनां सर्वपशुधर्मताधिकरणे सूत्रम्-)
SK
रशना च लिङ्गदर्शनात् / Jऐम्_३,६.३१ /
SK
दशमाधिकरणमारचयति-
SK
START MJऐNय् ३,६.१९-१८*
SK
एकत्रैवोत सर्वत्र रशनावेष्टनादयः / अग्नीषोमीय एवैते क्रमाल्लिङ्गादितो ऽन्तिमः // MJऐNय्C_३,६.१८* //
SK
अग्नीषोमीयपशुसंनिधौ रशनया यूपस्य वेष्टनम्, रशनायास्त्रिवृत्त्वं दर्भमयत्वं च, इत्यादयो धर्मा आम्नाताः- ऽपरिव्ययति, ऊर्ग्वै रशनाऽ इति, ऽत्रिषृद्भवतिऽ इति, ऽदर्भमयी भवितिऽ इति च | तत्र येयं रशना, ये च वेष्टनादयः, ते सर्वे संनिधेरवान्तरप्रकरणा द्वाग्नीषोमीय एव स्युः- इति चेत् | मैवम् | सवनीयपशावपि तत्सद्भावो लिङ्गादवगम्यते | ऽत्रिवृता यूपं परिनीयाऽग्नेयं सवनीयं पशुमुपाकरोतिऽ इति त्रिवृत्त्वपरिव्याणयोः सिद्धवदनुवादोलिङ्गम् | किंच तृतीयाश्रुत्या वाक्येन च परिव्याणस्य यूपधर्मता, न तु पशुधर्मता | यूपश्च त्रयाणां पशूनां तन्त्रम्, इति वक्ष्यते | तस्मात्- सर्वेषु पशुध्वेते धर्माः स्युः || MJऐNय्C_३,१.१८* ||
SK
(एकादशे, अंश्वदाभ्ययोरपि सादनादिधर्मवत्त्वाधिकरणे सूत्राणि ३२-३४)
SK
आराच् छिष्टम् असंयुक्तम् इतरैः संनिधानात् / Jऐम्_३,६.३२ /
SK
संयुक्तं वा तदर्थत्वाच् छेषस्य तन्निमित्तत्वात् / Jऐम्_३,६.३३ /
SK
निर्देशाद् व्यवतिष्ठेत / Jऐम्_३,६.३४ /
SK
START MJऐNय् ३,६.१९
SK
एकादशाधिकरणमारचयति -
SK
ग्रहधर्मा अनारभ्योक्तांश्वदाभ्यद्वयेन हि / विद्यन्ते वा प्रकरणादाद्यो वाक्यादिहान्तिमः // MJऐNय्_३,६.१९ //
SK
अनारभ्य द्वौ ग्रहौ श्रुतौ- ऽअंशुं गृह्णातिऽ इति, ऽअदाभ्यं गृह्णातिऽ इति च | तयोः सादनसंमार्गादयो ग्रहधर्मा न विद्यन्ते | कुतः | आरभ्याधीतेष्वैन्द्रवायवादिष्वेव प्रकरणेन व्यवस्थापितत्वात् - इति चेत् | मैवम् | ऽग्रहाः साद्यन्तेऽ इत्यादिवाक्येन ग्रहधर्मत्वावगमे तयोरपि ग्रहयोरनिवार्य त्वात् | न चैन्द्रवायवादयः प्रकरणिनः | ज्योतिष्ठोमो हि प्रकरणी | तस्मात्सन्ति तयोर्र्धमाः || MJऐNय्C_३,६.१९ ||
SK
(द्वादशे चित्रिण्यादीष्टकानामग्न्यङ्गताधिकरणे सूत्रम्-)
SK
अग्न्यङ्गम् अप्रकरणे तद्वत् / Jऐम्_३,६.३५ /
SK
START MJऐNय् ३,६.२०-२१
SK
द्वादशाधिकरणमारचयति-
SK
अखण्डादीष्टकाधर्माश्चित्रिण्यादिषु नोचिताः / सन्ति वा वाक्यमप्यत्रानारभ्योक्तं ततो न ते // MJऐNय्_३,६.२० //
SK
प्रकृतापूर्वसंबन्धात्तादृशादपि वाक्यतः / अखण्डत्वादयो ऽग्न्यर्थचित्रिण्यादिषु सन्ति ते // MJऐNय्_३,६.२१ //
SK
अनारभ्य श्रूयते- ऽचित्रिणीरुपदधातिऽ इति | अग्निप्रकरणे चेष्टकानां धर्माः श्रुताः- ऽअखण्डामकृष्णां कुर्यात्ऽ इति | पूर्वत्र- अंश्वदाभ्ययोरुत्पत्तिवाक्यस्यानारभ्याधीतत्वे ऽपि विनियोजकवाक्यं प्रकरणाधीतम् | चित्रिण्यादिनामकानां त्विष्टकाविशेषाणां विनियोजकं वाक्यमप्यनारभ्याघीतम् | तच्च चित्यन्तरे ताश्चित्रिणीर्विनियुङ्क्ते | अखण्डत्वादिधर्मास्तु षण्णां चितीनां मध्ये प्रथमचितावाम्नाताः | तस्मात्- ते चित्रिण्यादिषु नोचिताः- इति प्राप्ते, - ब्रूमः- यद्यप्युत्पत्तिविनियोजकवाक्ययोरन्यतरस्यापि प्रकरणपाठो नास्ति, तथापि ऽय एवं विद्वानग्निं चिनुतेऽ इति प्रकृतं यदेतदग्न्यपूर्वे तत्संबन्धित्वेनैवचित्रिण्यादयो ऽप्यप्रकरण पठितेनापि वाक्येन विनियुज्यन्ते | अखण्डत्वादयञ्चाग्निसाधनभूतेष्टकाधर्माः, न तु प्रथमचिति धर्माः | तस्मात्- अग्निसाधनभूतासु चित्रिण्यादीष्टकास्वपि ते सन्ति || MJऐNय्C_३,६.२०-२१ ||
SK
(त्रयोदशे- अभिषवादीनां सोममात्रधर्मताधिकरणे सूत्रम्-)
SK
नैमित्तिकम् अतुल्यत्वाद् असमानविधानं स्यात् / Jऐम्_३,६.३६ /
SK
START MJऐNय् ३,६.२२-२३
SK
त्रयोदशाधिकरणमारचयति-
SK
विधयो ऽभिषवाद्याः स्युः फलाख्ये चमसे न वा / नैमित्तिकस्य नित्येन तुल्यत्वादस्ति तद्विधिः // MJऐNय्_३,६.२२ //
SK
नित्ये कृतार्थाः संस्काराः पश्चाद्भाविनिमित्तजे / न विधेयाः किंतु तत्र प्राप्यन्तामतिदेशतः // MJऐNय्_३,६.२३ //
SK
न्यग्रोधमुकुलरूपस्य फलस्य पिष्टं चम्यते यत्र स फलचमसः | स च नैमित्तिकः | राजन्यवैश्यौ निमित्तीकृत्य विहितत्वात् | सोमस्तु नित्यः | उपाधिक्रममप्यनुपजीव्यैव ऽसोमेन यजेतऽ इति विहितत्वात् | तस्य च नित्वस्य सोमस्य यथा यागसाधनत्वम्, तथा फलचमसस्यापि तदस्ति | तस्मात् ऽसोममभिपुणोतिऽ ऽसोमं क्रीणातिऽ इत्यादयो यागद्रव्य संस्कारविधयः सोम इव फलचमसे ऽपि प्रवर्तन्ते- इति प्राप्ते, - ब्रूमः- नित्या अभिक्वादिसंस्कारा नित्यं सोमं संस्कार्य लब्ध्वा चरितार्थाः सन्तो नान्यं संस्कार्यमपेक्षन्ते | फलचमसस्तु सोयविकारत्वात्पश्चाद्भावी | ततो निरपेक्षाः संस्कारविधयो न तत्र प्रवर्तन्ते | न चैतावता संस्काराभावः | चोदकेन तत्सिद्धः | तस्मात्- सोममात्रसंबन्धिनो विधयः || MJऐNय्C_३,६.२२-२३ ||
SK
(चतुर्दशे प्रतिनिधिष्वपि मुख्यधर्मानुष्ठानाधिकरणे सूत्राणि ३७-३९)
SK
प्रतिनिधिश् च तद्वत् / Jऐम्_३,६.३७ /
SK
तद्वत्प्रयोजनैकत्वात् / Jऐम्_३,६.३८ /
SK
अशास्त्रलक्षणत्वाच्च / Jऐम्_३,६.३९ /
SK
START MJऐNय् ३,६.२४
SK
चतुर्दशाधिकरणमारचयति-
SK
नीवारादिप्रतिनिधेरतुल्यो वा विधिः समः / पुरेवातुल्यता साम्यमाकाराद्ब्रीहिता यतः // MJऐNय्_३,६.२४ //
SK
ऽव्रीहिभिर्यजेतऽ इति विहितानां व्रीहीणामसंभवे नीबाराः प्रतिनिधित्वेन स्वीकार्या इति वक्ष्यते | तत्र पूर्वन्यायेनावघातादिविधयो व्रीहिषु कृतार्थाः पश्चाद्भाविनि नीवारादौ न प्रवर्तन्ते- इति चेत् | मैवम् | व्रीहिशब्दो हि जातिविशेषेणाऽकारविशेषेण वोपेतं द्रव्यमाचष्टे | नीवारेषु जातितो व्रीहिशब्दार्थत्वाभावे ऽप्याकारतो व्रीहिशब्दार्थत्वेन ऽव्रीहीनवहन्तिऽ इति विधिः प्रवर्तते | यथा व्रीहिजातावेव समीचीनानां व्रीहीणामभावे जलवह्न्याद्युपघातेन सारविकलेष्वपि विधिः, तथा जातिविकलेष्वपि ब्रीहिषु मुख्यैकदेशरूपत्वाद्विधिरस्तु || MJऐNय्C_३,६.२४ ||
SK
(पञ्चदशे श्रुतेष्वपि प्रतिनिधिषु मुख्यधर्मानुष्ठानाधिकरणे सूत्रम्-)
SK
नियमार्था गुणश्रुतिः / Jऐम्_३,६.४० /
SK
START MJऐNय् ३,६.२५
SK
पञ्चदशाधिकरणमारचयति-
SK
पूतीकाभिषवो ऽतुल्यस्तुल्यो वा सोमतुल्यता / नास्ति नैमित्तिकत्वेन तुल्यः प्रतिनिधित्वतः // MJऐNय्_३,६.२५ //
SK
ऽयदि सोमं न विन्देत, पूति(ती) कानभिषुणुयात्ऽ इति श्रूयते | तत्र सोमाभावं निमित्तीकृत्य पूतीकलताखण्डानां विहितत्वात्फलचमसवन्नैमित्तिकत्वेन सोमाभिषवक्रयादिविधिः पूतीकेषु न तुल्यः- इति चेत् | मैवम् | नीवारबत्प्रतिनिधित्वात् | ननु- प्रतिनिधित्वे स्वयमेवोपादित्सितत्वाद्विधिर्नापेक्षितः | अत एव नीवारेषु विधिर्न श्रुतः- इति चेत् | न | विधेर्नियमार्थत्वस्य षष्ठे वक्ष्यमाणत्वात् | तस्मात्- अभिषवक्रयादिविधिः सोमपूतीकयोस्तुल्यः || MJऐNय्C_३,६.२५ ||
SK
(षोडशे दीक्षणीयादिधर्माणामग्निष्टोमाङ्गताधिकरणे सूत्राणि ४१-४७)
SK
संस्थास् तु समानविधानाः प्रकरणाविशेषात् / Jऐम्_३,६.४१ /
SK
व्यपदेशश् च तुल्यवत् / Jऐम्_३,६.४२ /
SK
विकारास् तु कामसंयोगे नित्यस्य समत्वात् / Jऐम्_३,६.४३ /
SK
अपि वा द्विरुक्तत्वात् प्रकृतेर् भविष्यन्तीति / Jऐम्_३,६.४४ /
SK
वचनात् तु समुच्चयः / Jऐम्_३,६.४५ /
SK
प्रतिषेधाच् च पूर्वलिङ्गानाम् / Jऐम्_३,६.४६ /
SK
गुणविशेषाद् एकस्य व्यपदेशः / Jऐम्_३,६.४७ /
SK
START MJऐNय् ३,६.२६-२७
SK
षोडशाधिकरणमारचयति-
SK
उक्थ्यादिषु समो दीक्षणीयाद्यङ्गविधिर्न वा / एकप्रकरणत्वेन फलवत्त्वाच्च तुल्यता // MJऐNय्_३,६.२६ //
SK
उक्थ्यादयः कामयोगाद्विकाराः प्रक्रिया ततः / अग्निष्टोमात्मके ज्योतिष्टोममात्रे च तद्विधिः // MJऐNय्_३,६.२७ //
SK
ज्योतिष्टोमः- स्वयमेको ऽपि समाप्तिभेदाद्भिद्यते | यज्ञायज्ञियस्तोत्रेण समाप्तौ ऽअग्निष्टोमःऽ इत्युच्यते | तस्मादपि स्तोत्रादूर्ध्वमुक्थ्यस्तोत्रेण समाप्तौ ऽउक्थ्यःऽ इत्युच्यते | एवं षोडश्यादयो ऽपि | तादृशस्य सप्तसंस्थावतो ज्योतिष्टोमस्य प्रकरणे दीक्षणीयेष्टिप्रायणीयेष्ट्यादीनामङ्गानां विधिराम्नातः | स च विधिर्ज्योतिष्टोमस्य प्रथमसंस्थाविशेषे ऽग्निष्टोमे यथा प्रवृत्तः, तथैवोक्थ्यादिष्वपि प्रवर्तते | कुतः | प्रकरणसंबन्धस्य समानत्वात् | किंच- यथाग्निष्टोमः फलत्वादङ्गविधिभिः संयुज्यते, एवमुक्थ्यादयो ऽपि | तेषां च फलमेवमाम्नायते-ऽपशुकाम उक्थ्यं गृह्णीयात्ऽ ऽषोडशिना वीर्यकामः स्तुवीतऽ ऽअतिरात्रेण प्रजाकामं याजयेत्ऽ इति | तस्मात् - सप्तस्वपि संस्थासु समानो ऽङ्गविधिः- इति प्राप्ते, - ब्रूमः- यदेतदुक्थ्यादीनां फलमुदाहृतम्, तत्तु तेषां विकारत्वं गमयति | ऽकाम्यो गुणः श्रूयमाणो नित्यमर्थ विकृत्य निविशतेऽ इति न्यायाद्यथा गोदोहनगुणो नित्यं चमससाधनकमपां प्रणयनं विकृत्य निविशते,एवमुक्थ्यगुणो नित्यामग्निष्टोमस्य संस्थां विकृत्य संस्थान्तरत्वं गमयति | ततो ऽग्निष्टोमस्य गुणविकारा उक्थ्यादय इति न सर्वसंस्थासाधारणं प्रकरणम्, किंतु - अग्निष्टोमस्यै वासाधारणम | ननु- ऽज्योतिष्टोमेन यजेतऽ इत्युक्तत्वाज्ज्योतिष्टोमस्येदं प्रकरणम्, न त्वग्निष्टोमसंस्थायाः- इति चेत् | बाढम् | असा ज्योतिष्टोमो न कदाचिदप्यग्निष्टोमं व्यभिचरति | उक्थ्यादीनामप्यन्तर्भाविताग्निष्टोमकत्वात् | उक्थ्यादींस्तु व्यभिचरति | विनापि तैरग्निष्टोमश्शायां ज्योतिष्टोमत्वसंभवात् | अतो ऽग्निष्टोमसंस्थस्य ज्योतिष्टोमस्येदं प्रकरणं सत्तत्रैव दीक्षणीयाद्यङ्गविधिं निवेशयति | उक्थ्यादिषु चोदकादङ्गान्यतिदिश्यन्ते || MJऐNय्C_३,६.२६-२७ ||
SK
इति श्रीमाधवीये जौमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य षष्ठ पादः
SK
अथ तृतीयाध्यायस्य सप्तमः पादः /
SK
(प्रथमे बर्हिरादीनां दर्शपौर्णमासतदङ्गोभयाङ्गताधिकरणे सूत्राणि १-५)
SK
प्रकरणविशेषाद् असंयुक्तं प्रधानस्य / Jऐम्_३,७.१ /
SK
सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् / Jऐम्_३,७.२ /
SK
आरादपीति चेत् / Jऐम्_३,७.३ /
SK
न तद्वाक्यं हि तदर्थत्वात् / Jऐम्_३,७.४ /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,७.५ /
SK
सप्तमपादस्य प्रथमाधिकरणमारचयति -
SK
START MJऐNय् ३,७.१-२
SK
मुख्याङ्गतैव वेद्यादेः प्रयाजाद्यङ्गतो ऽपि वा / तद्वाक्यं प्रक्रियायुक्तं मुख्याङ्गत्वस्य बोधकम् // MJऐNय्_३,७.१ //
SK
मुख्याङ्गस्यापि वेद्यादेः प्रयाजादिषु चाङ्गता / मुख्यार्थत्वात्प्रयाजादेः स्वापूर्वव्यवधानतः // MJऐNय्_३,७.२ //
SK
दर्शपूर्णमासयोः श्रूयते- ऽवेद्यां हवींष्यासादयतिऽ ऽबर्हिषि हवींष्यासादयतिऽ इति | तथा तद्धर्माः श्रूयन्ते- ऽवेदिं खनतिऽ ऽबर्हिर्लुनातिऽ इत्यादयः | मुख्यहवींष्याग्नेयपुरोडाशादीनि, अमुख्यहवींषि तु प्रयाजाद्यर्थानि | तत्र-स्वस्वधर्मसहितानि वेद्यादीनि प्रकरणबलान्मुख्यहविषा मेवाङ्गानि- ऽवेद्यां हवींष्यासादयतिऽ इति वाक्यात्सर्वहविरङ्गता- इति चेत् | न | प्रकरणेन वाक्यस्य संकोचनीयत्वात् | यदि वाक्यं प्रकरणनैरपेक्ष्येण स्वतन्त्रं स्यात्, तदा सादनमात्रपर्यवसानेन यागाभावे वैयर्थ्य स्यात् | सौमिकहीवषामप्येतद्वेद्यासादनं प्रसज्येत | तस्मात्- मुख्यहविरङ्गं वेद्यादिकम्- इति प्राप्ते- ब्रूमः- अस्तु वैयर्थ्यातिप्रसङ्गपरिहारेण प्रकृतापूर्वसाधनभूतहविःषु वेद्यादेरङ्गत्वम् | प्रयाजादिहवींष्यपि स्वकीयावान्तरापूर्वद्वारा मुख्यापूर्वसाधनान्येवेति तदङ्गत्वमपि वेद्यादेर्युक्तम् | एवं सति वाक्यस्यात्यन्तसंकोचो न भविष्यति || MJऐNय्C_३,७.१-२ ||
SK
(द्वितीये स्वामिसंस्काराणां प्रधानार्थताधिकरणे सूत्रम्)
SK
फलसंयोगात् तु स्वामियुक्तं प्रधानस्य / Jऐम्_३,७.६ /
SK
द्वितीयाधिकरणमारचयति- वपनाद्युपकारः किं द्वयोर्मुखाङ्गयोरुत / मुख्य एव द्वयोरस्तु कृत्स्नकर्तृगतत्वतः // MJऐNय्_३,७.३ //
SK
युक्तः शास्त्रीयसंस्कारो मुख्यस्य फलभोजिनः / विनापि संसकृतिं दृष्टं कर्तृत्वं तत्र नास्ति सः // MJऐNय्_३,७.४ //
SK
ज्योतिष्टोमे केशश्मश्रुवपनपयोव्रतादयो यजमानसंस्कारा आम्नाताः | ग्रहैः सोमहोमो ज्योतिष्टोमे मुख्यः | अग्नीषोमीयपश्वादिकमङ्गम् | तत्र-द्वयोर्मुख्याङ्गयोरेते वपनादय उपकुर्वन्ति | कुतः | कर्तृधर्मत्वात् | यजमानो हि कर्तृतया वपनादिभिः संस्क्रियते | कर्तृत्वं च यथा मुख्यं प्रति तस्य विद्यते, तथाङ्गं प्रत्यप्यस्ति | तस्मात्-उभयोरुपकारः- इति चेत् | मैवम् | द्वौ हि यजमानस्याऽकारौ- क्रियाकर्तृत्वम्, फलभोक्तृत्वं चेति | तयोरदृष्टः फलभोगः, क्रियानिष्पत्तिश्च दृष्टा | तथा सति- वपनादिकृतोपकारत्याप्यदृष्टत्वाद्भोक्तृशेषा वपनादयः फलभोगसाधने मुख्य एव पर्यवस्यन्ति | वपनादिसंस्काररहितैरप्यृत्विग्भिः कृषीवलादिभिश्च क्रिया निष्पाद्यमाना दृश्यते | ततस्तत्र कर्तृत्वाकारे वपनादिकृतः स उपकारो नास्ति | तस्मात्-अदृष्ट फलभोजिनो ऽस्य यजमानस्य यो ऽयमदृष्टरूपः शास्त्रीयः संस्कारः सो ऽयं मुख्ये कर्मणि युक्तो नाङ्गेषु | नात्र पूर्ववद्वाक्यमस्ति, येन परम्पराफलसाधनेष्वङ्गेषु वपनाद्युपकारः शङ्कयेत | प्रकरणं तु मुख्यस्यैव, न त्वङ्गानाम् | तस्मात्- न तेषूपकारः || MJऐNय्C_३,७.३-४ ||
SK
(तृतीये सौमिकवेद्यादीनामङ्गप्रधानोभयाङ्गताधिकरणे सूत्रे ७ / ९)
SK
चिकीर्षया च संयोगात् / Jऐम्_३,७.७ /
SK
तद्युक्ते तु फलश्रुतिस् तस्मात् सर्वचिकीर्षा स्यात् / Jऐम्_३,७.९ /
SK
START MJऐNय् ३,७.५-६
SK
तृतीयाधिकरणमारचयति-
SK
मुख्यार्था सौमिकी वेदिरुभयार्थोत मुख्यगा / चिकीर्षितत्वान्मुख्यस्य वेद्या तत्कृतिसंभवात् // MJऐNय्_३,७.५ //
SK
मुख्यपौष्कल्यहेतुत्वात्तदङ्गं च चिकीर्षितम् / मुख्यवत्तेन तद्वेदिरङ्गेष्वप्युपकारिणी // MJऐNय्_३,७.६ //
SK
दार्शिकीं वेदिं मध्ये ऽन्तर्भाव्य प्राचीनवंशो मण्डपो ऽवस्थितः | ततः पूर्वस्यां दिशि सदोहविर्धानादीनां पर्याप्तो भूभागविशेषः | तैः सदःप्रभृतिभिः सह सौमिकी वेदिरित्युच्यते | सेयं मुख्यस्य सोमयागस्यैवोपकारं करोति, न त्वमुख्यानामग्नीषोमीयाद्यङ्गानाम् | कुतः | मुख्यस्य चिकीर्षितत्वात् | न च - अङ्गान्यपि चिकीर्षितानि- इति वाच्यम् | चिकीर्षास्वरूपस्य वेदेनैवाभिहितत्वात् | एवं श्रूयते- ऽषट्त्रिंशत्प्रक्रमा प्राची, चतुर्विंशतिरग्रेण, त्रिंशज्जघनेन, इयति शक्ष्यामहेऽ इति | अस्यायमर्थः- श्रूयमाणेनानेन दैर्ध्यप्रमाणेन तिर्यक्प्रमाणद्वयेन च प्रमिते भूभागे फलहेतुसोमयागं कर्तु शक्ष्यामहेऽ इति निश्चित्य तथैव कुर्यात- इति | सेयं चिकीर्षा मुख्यविषया | ऽइयति शक्ष्यामहेऽ इति परिमाणस्य शक्तेश्चोपन्यासात् | अङ्गानां तु पशूनामिष्टीनां च सदोहविर्धानादि मण्टपनिरपेक्षाणां यथोक्तपरिमाणमन्तरेणाप्यनुष्ठातुं शक्यत्वात्स उपन्यासस्तत्र निरर्थकः | सोमस्य त्वनुष्ठानं यथोक्तवेद्यामेव संभवति, नत्वन्यत्र | तस्मात्- सा वेदिर्मुख्यस्यैवोपकरोति- इति प्राप्ते, - ब्रूमः- ऽइयति शक्ष्यामहेऽ इत्यत्र साङ्गप्रधानानुष्ठाने शक्तिरुक्ता | तादृशस्यैव फलं प्रति पुष्कलहेतुत्वात् | अतो मुख्याङ्गयोश्चिकीर्षायास्तुल्यत्वाद्वेदिरुभयार्था | न च- अत्र वपनादिसाम्यं शङ्कनीयम् | दृष्टोपयोगाभावस्य तत्रोक्तत्वात् | इह तु- हविरासादनादिर्दृष्ट उपयोगः | स च मुख्याङ्गयोः सम इत्युभयार्थत्वम् || MJऐNय्C_३,७.६ ||
SK
(चतुर्थे-अमिमर्शनस्याङ्गप्रधानोभयाङ्गताधिकरणे सूत्र ८ / १०)
SK
तथाभिधानेन / Jऐम्_३,७.८ /
SK
गुणाभिधानात् सर्वार्थम् अभिधानम् / Jऐम्_३,७.१० /
SK
START MJऐNय् ३,७.७-८
SK
चतुर्थाधिकरणमारचयति-
SK
चतुर्होत्रा पौर्णमासीं मृशेदाज्यादिमर्शने / मन्त्रो मुख्य उताङ्गे ऽपि मुख्ये तद्वाचिशब्दतः // MJऐNय्_३,७.७ //
SK
शब्दस्य कर्मवाचित्वात्तत्र मर्शनवर्जनात् / विभक्तिव्यत्यये मन्त्रो मुख्याङ्गहविषोर्द्वयोः // MJऐNय्_३,७.८ //
SK
दर्शपूर्णमासयोः श्रूयते- ऽचतुर्होत्रा पौर्णमासीमभिमृशेत्, पञ्चहोत्राभावास्याम्ऽ इति | पृथिवी होताऽ- इत्यादिको मन्त्रश्चतुर्होता | तस्मिन्मन्त्रे यज्ञाङ्गानां चतुर्णा श्रुतत्वात् | अथवा- तस्य मन्त्रस्याभिमानित्वेनाऽत्मभूतः कश्चित्पुरुषः प्रजापतिना चतुर्थारमामन्त्रितः प्रत्वुत्तरमुवाचेति स पुरुषश्चतुर्हूतः | तदीयनाम्ना मन्त्रो ऽपि ऽचतुर्हूतःऽ इत्युच्यते | ऽपूज्यानां प्रत्यक्षनामग्रहणमयुक्तम्ऽ इत्यभिप्रायेण हूतशब्दस्थाने होतृशब्दः पठ्यते | अयमर्थः सर्वो ऽपि तैत्तिरीयब्राह्मणे श्रूयते- ᳚आत्मन्नात्मन्नित्यामन्त्रयत | तस्मै चतुर्हूतः प्रत्यशृणोत् | स चतुर्हूतो ऽभवत् | चतुर्हूतो ह वै नामैषः | तं वा एतं चतुर्हूतं सन्तं ऽचतुर्होताऽ इत्याचक्षते परोक्षेण | परोक्षप्रिया इव हि देवः᳚इति | ऽअग्निर्होताऽ- इत्यादिको मन्त्रः पञ्चहोता | तत्राप्युक्तप्रकारो द्रष्टव्यः | - अत्र-यो ऽयमाज्यादिहविष उपस्पर्शनार्थो मन्त्रः, असौ मुख्य एव हविषि निविशते | पौर्णमास्यमावास्याशब्दयोर्मुख्यहविर्विषय त्वात्-इति प्राप्ते,- ब्रूमः- पौर्णमास्यभावास्यशब्दौ कर्मवाचिनौ, न तु हविर्वाचिनौ | न च कर्मणोरुपस्पर्शन संभवः | अथ कालविवक्षायां विभक्तिव्यत्ययेन सप्तम्यर्थो व्याख्यायेत, तदा कालसंबन्धस्य मुख्याङ्ग योरुभयोस्तुल्यत्वादुभयविधहविरुपस्पर्शने मन्त्रो विनियुज्यते || MJऐNय्C_३,७.७-८ ||
SK
(पञ्चमे दीक्षादक्षिणयोः प्रधानार्थताधिकरणे सूत्रे - ११-१२)
SK
दीक्षादक्षिणं तु वचनात् प्रधानस्य / Jऐम्_३,७.११ /
SK
निवृत्तिदर्शनाच् च / Jऐम्_३,७.१२ /
SK
START MJऐNय् ३,७.९-१०
SK
पञ्चमाधिकरणमारचयति-
SK
दण्डदीक्षा दक्षिणा तु शतं द्वादशमिर्युतम् / द्वयार्थमुत मुख्यार्थे सोमस्येत्युक्तिसंभवात् // MJऐNय्_३,७.९ //
SK
मुख्याङ्गद्वयगं मैवं पारम्पर्यविडम्बना / वचनस्य न युक्तातः प्रधानार्थमिदं स्थितम् // MJऐNय्_३,७.१० //
SK
ज्योतिष्टोमे दीक्षादक्षिणं श्रूयते- ऽदण्डेन दक्षियतिऽ इति, ऽतस्य द्वादशशतं दक्षिणाऽ इति च | तत्र दीक्षा मुख्याङ्गयोरुपकरोति, तथा दक्षिणापि | न च - दीक्षा सोमस्य, दक्षिणा सोमस्यऽ इति वाक्ये षष्ठ्या मुख्यसंबन्ध एवावगम्यते, न त्वङ्गसंबन्धः- इति वाच्यम् | दीक्षादक्षिणे सोमनैव साक्षात्संबध्नीताम्, स सोमः पुनरङ्गैः संबद्धैति परम्परया दीक्षादक्षिणयोरङ्गैरपि संबन्धो ऽस्ति | तस्मात्- उभयार्थे दीक्षादिकम्- इति प्राप्ते,- ब्रूमः- अव्यवहितसंबन्ध एव षष्ठ्या अभिधेयोर्ऽथः | तदसंभवे तु - परम्परासंबन्धः कथंचिद्गृह्यते | इह तु तत्संभवात्पारम्पर्य न युक्तम् | तस्मात्- प्रधानार्थ दीक्षादिकम् || MJऐNय्C_३,७.९-१० ||
SK
(षष्ठे - अन्तवैदेर्यूपानङ्गताधिकरणे सूत्रे १३-१४)
SK
तथा यूपस्य वेदिः / Jऐम्_३,७.१३ /
SK
देशमात्रं वा शिष्येनैकवाक्यत्वात् / Jऐम्_३,७.१४ /
SK
START MJऐNय् ३,७.११-१२
SK
षष्ठाधिकरणमारचयति -
SK
अन्तर्वेदि मिनोत्यर्ध यूपाङ्गमुत लक्षयेत् / देशं यूपाङ्गमावेन वेदिभागो ऽत्र चोद्यते // MJऐNय्_३,७.११ //
SK
बहिर्वेद्यर्धमित्येतद्वाक्यं भिद्येत तद्विधौ / मीयमानस्य यूपस्य तावान्देशो ऽत्र लक्ष्यते // MJऐNय्_३,७.१२ //
SK
अग्नीषोमीयपशौ ऽयूपं मिनोतिऽ इति प्रकृत्य श्रूयते- ऽअर्धमन्तर्वेदि मिनोति, अर्ध बहिर्वेदिऽ इति | ऽयूपं स्थापयितुं कियद्विस्तारवानवटो ऽपेक्षितःऽ इति बुभुत्सायां तन्निर्णयाय यूपमूलस्य स्थौल्यमङ्गुल्यादिभिर्मातव्यम् | तस्य च पीयमानस्य यूपस्य वेद्यभ्यन्तरभागो ऽलङ्गत्वेनं विधीयते- इति चेत् | मैवम् | यथा संस्कृतो वेद्यभ्यन्तरभागः ऽअर्धमन्तर्वेदिऽ इत्यनेन वाक्येन विधीयते, तद्वद संस्कृतो बहिर्भागो ऽबहिर्वेदिऽ- इत्यनेन वाक्येन विधातव्यः | ततो वाक्यं भिद्येत | यदा तु वेदेरभ्यन्तरबाह्यभागाभ्यामुपलक्षितो ऽसंस्कृतोऽ लौकिकदेश एवात्र यूपाङ्गत्वेन विधीयते, न तु संस्कृतवेदिभागः || MJऐNय्C_३,७.११-१२ ||
SK
(सप्तमे हविर्धानस्य सामिधेन्यनङ्गताधिकरणे सूत्राणि १५-१७)
SK
सामिधेनीस् तद् अन्वाहुर् इति हविर् धानयोर् वचनात् सामिधेनीनाम् / Jऐम्_३,७.१५ /
SK
देशमात्रं वा प्रत्यक्षं ह्य् अर्थकर्म सोमस्य / Jऐम्_३,७.१६ /
SK
समाख्यानं च तद्वत् / Jऐम्_३,७.१७ /
SK
START MJऐNय् ३,७.१३-१४
SK
सप्तमाधिकरणमारचयति -
SK
हविर्धाने स्थितो ब्रूयात्सामिधेनीरिहाङ्गता / हविर्धानस्य तास्वाहो तद्देशो ऽनेन लक्ष्यते // MJऐNय्_३,७.१३ //
SK
वाक्यात्स्यादङ्गता मैवं प्रकृत्या पश्चिमे ऽग्नितः / देशः प्राप्तो लाघवेन लक्ष्यः शकटसंनिधिः // MJऐNय्_३,७.१४ //
SK
ज्योतिष्टोमे श्रूयते- ऽउत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुःऽ - इति | हविर्धानमण्डपगतयोर् दक्षिणोत्तरभागावस्थितयोर्हविर्धाननामकयोः शकटयोर्मध्ये दक्षिणं शकटमत्र यत्तच्छब्दाभ्या मभिधीयते | तस्य समीपे सोमस्याभिषवः | ऽउतऽ इत्ययं शब्दो ऽथब्दार्थे वर्तते | ऽअथ यस्मिन्हविर्धाने सोममभिषुण्वन्ति, तस्मिन्सामिधेनीरनुब्रूयुःऽ | ऐह दक्षिणस्य हविर्धानस्य सामिधेनीष्वङ्गत्वं प्रतीयते | न चात्र पूर्ववद्वाक्यभेददोषः शङ्क्यः | अकवाक्यतायाः स्पष्टं प्रतिभासात्- इति प्राप्ते- ब्रूमः- सामिधेनीनामिष्ट्यङ्गतया दर्शपूर्णमासावत्र प्रकृतिः | प्रकृतौ चाऽहवनीयाग्नेः पश्चिमो देशः सामिधेनीनां स्थानम् | इहोत्तरवेदेराहवनीयत्वात्तदपेक्षया हविर्धानस्य पश्चिमदेशावस्थानात् | स देशश्चोदकेन प्राप्तः- इति न देशस्य सामिधेन्यङ्गत्वं विधातव्यम् | किंतु दक्षिणोत्तरहविर्धानसमीप देशयोरनियमेन प्राप्तौ- दक्षिणस्यैव हविर्धानस्य समीपदेशः- इति नियन्तुं हविर्धानेन संनिधिर्लक्ष्यते | तथा सति नियममात्रविधानाल्लाघवं भवति | त्वत्पक्षे त्वभिषवोपलक्षितस्य दक्षिणस्य हविर्धानस्या त्यन्तमप्राप्तं सामिधेन्यङ्गत्वं विधीयत इति गौरवम् | तस्माद्देशलक्षणा || MJऐNय्C_३,७.१३-१४ ||
SK
(अष्टमे- अङ्गानामन्यद्वारानुष्ठानाधिकरणे सूत्राणि १८-२०)
SK
शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् / Jऐम्_३,७.१८ /
SK
उत्सर्गे तु प्रधानत्वाच् छेषकारी प्रधानस्य तस्माद् अन्यः स्वयं वा स्यात् / Jऐम्_३,७.१९ /
SK
अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यग् आत्मनि / Jऐम्_३,७.२० /
SK
START MJऐNय् ३,७.१५-१६
SK
अष्टमाधिकरणमारचयति -
SK
यजमानेन कर्तव्यं निखिलं त्याग एव वा / कर्तृगामिफलश्रुत्या युज्यते सर्वकर्तृता // MJऐNय्_३,७.१५ //
SK
प्रयोजके ऽपि कर्तृत्वमस्ति नो चेत्क्रयो वृथा / कार्ये तेन त्यागमात्रमृत्विजो ऽन्यत्र कर्तृता // MJऐNय्_३,७.१६ //
SK
ऽस्वर्गकामो यजेतऽ इति स्वर्गभोक्तुर्यागकर्तुश्च सामानाधिकरण्यादेकत्वं गम्यते | पाणिनिश्च ऽस्वरितञितः कर्त्रभिप्राये क्रिमाफलेऽ[पा.सू.१.३.७२ ]इति सूत्रेण क्रियाफलस्य कर्तृगामित्वे सत्यात्मनेपदं विदधाति | अतः साङ्गकर्मानुष्ठानमन्तरेण फलासंभवान्निखिलं यजमानेन कर्तव्यम्- इति प्राप्ते- ब्रूमः- निखिलानुष्ठानाभावे ऽपि प्रयोजकतया यजमानस्य सर्वकर्तृत्वमस्ति | ऽषहूभिर्हलैः कर्षतिऽ इत्यत्र तथादर्शनात् | यदि स्वेनैव सर्वमनुष्ठीयेत, तदानीमृत्विणां परिक्रयो वृथा स्यात् | तस्मात् -यजमानेन त्यागमात्रं कार्यम् | अन्यत्र साङ्गप्रधाने क्रीतस्यर्त्विजो ऽनुष्ठानम् | तथा सति साक्षात्परम्परया च सर्वकर्तृत्वस्य यजमाने संभवात्तस्य फलं न विरुध्यते || MJऐNय्C_३,७.१५-१६ ||
SK
(नवमे परिक्रीतानामृत्विजां संख्याविशेषनियमाधिकरणे सूत्राणि २१-२४)
SK
तत्रार्थात् कर्तृपरिमाणं स्याद् अनियमो ऽविशेषात् / Jऐम्_३,७.२१ /
SK
अपि वा श्रुतिभेदात् प्रतिनामधेयं स्युः / Jऐम्_३,७.२२ /
SK
एकस्य कर्मभेदाद् इति चेत् / Jऐम्_३,७.२३ /
SK
नोत्पत्तौ हि / Jऐम्_३,७.२४ /
SK
START MJऐNय् ३,७.१७
SK
नवमाधिकरणमारचयति -
SK
न क्रीतकर्तृसंख्याया नियमो ऽसत्यस्ति वा न हि / अविशेषादस्ति यावत्कार्य तावन्त एव हि // MJऐNय्_३,७.१७ //
SK
ये यजमानेन क्रीताः कर्तार ऋत्विजः, तेषां संख्याविशेषो यद्यपि न श्रुतः | तथापि कार्यानुसारेण सो ऽवगन्तव्यः | ते च कार्यविशेषाः कर्तृसंयुक्ता एवं श्रूयन्ते- ऽपुरो ऽध्वर्युर्विभजति, प्रतिप्रस्थाता मन्थिनं जुहोति, नेष्ठा पत्नीमुदानयति, उन्नेता चमसानुन्नयति, प्रस्तोता प्रस्तौति, उद्गातोद्गायति, प्रतिहर्ता प्रतिहरति, सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति, होता प्रातरनुवाकमनुब्रूते, मैत्रावरूणः प्रेष्यति, अच्छावाको यजति, ग्रावस्तुद्ग्रावस्तोत्रीयमन्वाहऽ इति | एवं ब्रह्मब्राह्मणाच्छं स्याग्नीध्रपोतॄणां चतुर्णा कर्माण्युदाहार्याणि | तस्मात्- यावन्ति कर्याणि तावन्त ऋत्विजो वरीतव्याः || MJऐNय्C_३,७.१७ ||
SK
(दशमे चमसाध्वर्यूणां पृथक्त्वाधिकरणे सूत्रम्)
SK
चमसाध्वर्यवश् च तैर् व्यपदेशात् / Jऐम्_३,७.२५ /
SK
START MJऐNय् ३,७.१८
SK
दशमाधिकरणमारचयति -
SK
चमसाध्वर्यवो नान्य ऋत्विभ्यो ऽन्ये ऽथवाग्निमः / यौगिक्या संज्ञया मैवं षष्ठ्या तेभ्यो विभेदनात् // MJऐNय्_३,७.१८ //
SK
ज्योतिष्टोमे श्रूयते- ऽचमसाध्वर्यून्वृणीतेऽ इति | ये पूर्वत्र कार्यानुसारेणाध्वर्युप्रमुखा ऋत्विज उक्ताः, तेभ्यो न व्यतिरिक्ताश्चमसाध्वर्यवः | कुतः | यौगिकसंज्ञया तदभेदप्रतीतेः | त(य)था देवदत्त एव पचिक्रियायोगात्पाचको भवति, तथाध्वर्युप्रमुखा एव चमसयोगाच्चमसाध्वर्यवः- इति चेत् | मैवम् | मध्यतःकारिणां चमसाध्वर्यवः, होत्रकाणां, चमसाध्वर्यव इति अपठ्या भेदावभासात् | मध्यतःकारिणोर्ऽध्वयुहोत्रादयः | होत्रकाः प्रतिप्रस्थातृमौत्रावरुणादयः | तस्मादृत्विग्भ्यो ऽन्ये || MJऐNय्C_३,७.१८ ||
SK
(एकादशे चमसाध्वर्यूणां बहुत्वनियमाधिकरणे सूत्रम्)
SK
उत्पत्तौ तु बहुश्रुतेः / Jऐम्_३,७.२६ /
SK
START MJऐNय् ३,७.१९
SK
एकादशाधिकरणमारचयति -
SK
तान्वृणीतेति बहुता नास्ति वास्ति ग्रहैक्यवत् / नेति चेन्नात्र वैषम्यादुत्पत्तौ बहुताश्रुतेः // MJऐNय्_३,७.१९ //
SK
ऽचमसाध्वर्यून्वृणीतऽ इति यद्बहुत्वं श्रुतम्, तन्न विवक्षितम् | ग्रहैकत्ववदुद्देश्यगतत्वात्- इति चेत् | मैवम् | ग्रहवैषम्यात् | ऽग्रहं संमार्ष्टिऽ इत्येतद्ग्रहाणां नोत्पत्तिवाक्यम् | चमसाध्वर्यूणां त्वेतदेवोत्पत्तिवाक्यम् | ततस्तेषामुपादेयत्वात्तद्गतं बहुत्वं विवक्षितम् || MJऐNय्C_३,७.१९ ||
SK
(द्वादशे चमसाध्वर्यूणां दशसंख्यानियमाधिकरणे सूत्रम्-)
SK
दशत्वं लिङ्गदर्शनात् / Jऐम्_३,७.२७ /
SK
START MJऐNय् ३,७.२०
SK
द्वादशाधिकरणमारचयति -
SK
नेयत्तास्त्यस्ति वा तेषां न नियामकवर्जनात् / चमसानां दशत्वेन चमसाध्वर्यवो दश // MJऐNय्_३,७.२० //
SK
स्पष्टोर्ऽथः || MJऐNय्C_३,७.२० ||
SK
(त्रयोदशे शमितुरपृथक्त्वाधिकरणे सूत्रे २८-२९)
SK
शमिता च शब्दभेदात् / Jऐम्_३,७.२८ /
SK
प्रकरणाद् वोत्पत्त्यसंयोगात् / Jऐम्_३,७.२९ /
SK
START MJऐNय् ३,७.२१
SK
त्रयोदशाधिकरणमारचयति-
SK
तेभ्यो ऽन्यः शमितानन्यो वान्यः संज्ञापृथक्त्वतः / वरणाभावतो नान्यः संज्ञाभेदस्तु यौगिकः // MJऐNय्_३,७.२१ //
SK
ऽशमितार उपेत न यज्ञम्ऽ इत्यस्मिन्मन्त्रे श्रुतायाः शमितृसंज्ञायाः पृथक्त्यादुक्तेभ्यो ऽन्यः शमिता- इति चेत् | मैवम् | पृथग्वरणाभावात् | संज्ञाभेदस्तु पशुसंज्ञपनयोगादुपपद्यते | यद्यप्ययं मन्त्रो ऽध्वर्यु काण्डे पठितः, तथाप्यध्वर्योः परावृत्तिश्रवणादध्वर्युपुरुषाः प्रतिप्रस्थात्रादयः शमितारः | अत एव श्रूयते- ऽपरावर्तते ऽध्वर्युः पशोः संज्ञप्यमानात्ऽ इति || MJऐNय्C_३,७.२१ ||
SK
(चतुर्दशे- उपगस्यापृथक्त्वाधिकरणे सूत्रम्-)
SK
उपगाश् च लिङ्गदर्शनात् / Jऐम्_३,७.३० /
SK
START MJऐNय् ३,७.२२
SK
चतुर्दशाधिकरणमारचयति-
SK
अन्ये स्युरुपगातार उदितेभ्यो न वा यथा / लोके ऽत्रापि तथा मैवं नाध्वर्युरितिलिङ्गतः // MJऐNय्_३,७.२२ //
SK
यथा लोके मुख्येभ्यो गायकनायकादिभ्यो ऽन्ये पार्श्वस्था उपगातारः, तथात्रापि- इति चेत् | मैवम् | यद्युक्तेभ्यः पुरुषेभ्य उपगातारो ऽन्ये भवेयुः, तदानीमध्वर्योः प्रसक्त्यभावात् ऽनाध्वर्युरुपगायेत्ऽ इति प्रतिषेधो ऽनर्थकः स्यात् | तस्मादुक्तेष्वेव यौगिकः संज्ञाभेदः || MJऐNय्C_३,७.२२ ||
SK
(पञ्चदशे सोमविक्रेतुः पृथक्त्वाधिकरणे सूत्रम्-)
SK
विक्रयी त्वन्यः कर्मणो ऽचोदितत्वात् / Jऐम्_३,७.३१ /
SK
START MJऐNय् ३,७.२३
SK
पञ्चदशाधिकरणमारचयति-
SK
सोमविक्रय्येक एषु न वा वरणवर्जनात् / एकः क्रत्वर्थता नास्ति विक्रयस्येति भिद्यते // MJऐNय्_३,७.२३ //
SK
क्रय एव ज्योतिष्टोमाङ्गत्वेन श्रुतः, न विक्रयः | न चाविहितमृत्विजः कुर्वन्ति | तस्मादन्यो विक्रेता || MJऐNय्C_३,७.२३ ||
SK
(षोडशे ऽऋत्विक्ऽ इति नाम्नो ऽसर्वगामिताधिकरणे सूत्राणि ३२-३५)
SK
कर्मकार्यात् सर्वेषाम् ऋत्विक्त्वम् अविशेषात् / Jऐम्_३,७.३२ /
SK
न वा परिसंख्यानात् / Jऐम्_३,७.३३ /
SK
पक्षेणेति चेत् / Jऐम्_३,७.३४ /
SK
न सर्वेषाम् अधिकारः / Jऐम्_३,७.३५ /
SK
START MJऐNय् ३,७.२४-२५
SK
षोडशाधिकरणमारचयति-
SK
किमृत्विग्नाम सर्वेषु समानमुत केषुचित् / ऋतौ यजनमेतिषां तुल्यमित्यस्ति नाम तत् // MJऐNय्_३,७.२४ //
SK
सौम्याध्वरस्य सप्त स्युर्दश चेत्यादिसंख्यया / न सर्वेषां समं नाम केषांचिद्योगरूढितः // MJऐNय्_३,७.२५ //
SK
ऋत्विक्शब्दस्य प्रवृत्तिनिमित्तमृतौ यजनम | तच्च ब्रह्मादिष्विव चनसाध्वर्युप्वप्यस्ति | तस्मात्- सर्वेषामृत्विग्नाम समानम्- इति चेत् | मैवम् | संख्याश्रुतिविरोधात् | ऽसौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदशर्त्विजः, इति श्रूयते | तस्मात्- योगमनतिक्रम्य शास्त्रीयरूढिमप्याश्रित्य केषुचिदेवैतम्नानेत्यवगन्तव्यम् || MJऐNय्C_३,७.२४-२५ ||
SK
(सप्तदशे-द्गदीक्षादक्षिणावाक्योक्तब्रह्मादीनामेव सप्तदशर्त्विक्त्वाधिकरणेद्घ-सूत्रे ३६-३७)
SK
नियमस् तु दक्षिणाभिः श्रुतिसंयोगात् / Jऐम्_३,७.३६ /
SK
उक्त्वा च यजमानत्वं तेषां दीक्षाविधानात् / Jऐम्_३,७.३७ /
SK
START MJऐNय् ३,७.२६
SK
सप्तदशाधिकरणमारचयति-
SK
संख्याता अपि ये केचिन्नियता वाविशेषतः / आद्यो न दक्षिणादाने दीक्षायां च विशेषतः // MJऐNय्_३,७.२६ //
SK
ये सप्तदश संख्याताः, ते ब्रह्मादिषु चमसाध्वर्युषु च ये केचिदिच्छया ग्रहीतव्याः | विशेषस्याश्रवणात्- इति चेत् | मैवम् | दक्षिणावाक्ये दीक्षावाक्ये च विशेषश्रवणात् | ऽऋत्विग्भ्यो दक्षिणां ददातिऽ इत्युक्त्वा तद्विशेषः श्रूयते- ऽअग्नीधे ददातिऽ ऽ ब्रह्मणे ददातिऽ इत्यादिना | दीक्षावाक्यं च तत्र प्रकरणे ऽये यजमानास्त ऋत्विजःऽ इत्युक्त्वानन्तरमेव माम्नाद्यते- ऽअध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्वातारम्, ततो होतारम्, ततस्तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारमुद्गातुः, मैत्रावरुणं होतुः | ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति- अग्नीधं ब्रह्मणः, प्रतिहर्तारमुद्गातुः, अच्छावाकं होतुः | ततस्तमुन्नेता दीक्षयित्वा पादिनो दीक्षयति- पोतारं ब्रह्मणः, सुब्रह्मण्यमुद्गातुः, ग्रावस्तुतं होतुः | ततस्तमन्यो ब्राह्मणो दीक्षयतिऽ इति अस्यायमर्थः- ऽअध्वर्युर्यजुर्वेदप्रोक्तं करोति, तस्य पुरुषास्त्रयः-ब्राह्मणाच्छंसी, अग्नीत्, पोता चेति | उद्गातोद्गानं करोति, तस्य पुरुषास्त्रयः - प्रस्तोता, प्रतिहर्ता, सुब्रह्मण्यश्चेति | होता शंसनं करोति, तस्य पुरुषास्त्रयः- मैत्रावरुणः अच्छावाकः, ग्रावस्तुदिति | चतुर्षु वर्गेषु ये प्रथमास्ते दक्षिणां संपूर्णा प्राप्नुवन्ति | ये द्वितीयास्ते तदर्ध प्राप्नुवन्ति- इत्यर्धिनः | ये तृतीयास्ते तृतीयांशं प्राप्नुवन्ति- इति तृतीयिनः | ये चतुर्थास्ते चतुर्थमंशं प्राप्नुवन्ति- इति पादिनः | तामेतानुक्तक्रमेण स स पुरुषः संस्करोतिऽ इति | अत्र - दीक्षावाक्ये निर्दिष्टा अध्वर्युप्रभृतय ऋत्विजः षोडश, न तु चमसाध्वर्यवः- इति नियमो द्रष्टव्यः || MJऐNय्C_३,७.२६ ||
SK
(अष्टादशे - ऋत्विजां स्वामिसप्तदशत्वाधिकरणे सूत्रम्-)
SK
स्वामिसप्तदशाः कर्मसामान्यात् / Jऐम्_३,७.३८ /
SK
START MJऐNय् ३,७.२७
SK
अष्टादशाधिकरणमारचयति-
SK
सदस्ये यजमाने वा साप्तदश्यं वृतत्वतः / सदस्ये कुरुते किंचिन्नासौ स्वामिनि तत्त्वतः // MJऐNय्_३,७.२७ //
SK
अध्वर्युब्रह्मादिषु षोडशसु व्यवस्थितेषु सप्तदशसंख्यापूरकः कश्चिदृत्विगवैक्षितः | सो ऽत्र सदस्यो भविष्यति | सदस्यवस्थितः सदस्यः | न च तस्य वरणाभावः | केषांचिच्छाखायां तद्वरणस्याऽम्नातत्वात् | ततः साप्तदश्यं सदस्ये पर्यवसितम्- इति चेत् | मैवम् | असौ सदस्यः किंचिदपि न करोति | ऽसदस्य इदं कुर्यात्ऽ इति विध्यभावात् | न च विना क्रियामृतुयजननिमित्त ऋत्विक्शब्दस्तस्मिन्नवकल्पते | यजमानस्तु त्यागं करोतीति तस्मिन्नुपपद्यते | तस्मात्साप्तदश्यं यजमाने युक्तम् || MJऐNय्C_३,७.२७ ||
SK
(एकोनविंशे- आध्वर्यवादिष्वध्वर्य्वादीनां कर्तृतानियमाधिकरणे, (विंशे- अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे, च सूत्राणि ३९ - Jऐम्_३,७.४२)
SK
ते सर्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात् / Jऐम्_३,७.३९ /
SK
तत्संयोगात् कर्मणो व्यवस्था स्यात् संयोगस्यार्थवत्त्वात् / Jऐम्_३,७.४० /
SK
तस्योपदेशसमाख्यानेन निर्देशः / Jऐम्_३,७.४१ /
SK
तद्वच् च लिङ्गदर्शम् / Jऐम्_३,७.४२ /
SK
START MJऐNय् ३,७.२८
SK
एकोनविंशाधिकरणमारचयति-
SK
न कार्य नियतं तेषां नियतं वाग्रिमो यतः / शक्ताः केन किमित्यत्र नियतिः स्यात्समाख्यया // MJऐNय्_३,७.२८ //
SK
तेषामध्वर्युप्रभृतीनां कार्य न नियतम् | यतः सर्वे सर्वत्र शक्ताः | प्रकरणं च सर्वसाधारणत्वान्न नियामकम्- इति चेत्- मैवम् | समाख्याया नियामकत्वात् | यस्मिन्कर्मणि ऽआध्वर्यवम्ऽ इति समाख्या तत्कर्माध्वर्योः | एवमितरत्रापि || MJऐNय्C_३,७.२८ ||
SK
(विंशे - अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे- उक्तसूत्रैकदेशः- )
SK
अग्नयश्च (सर्वार्थाः) स्वकालत्वात् // MJऐNय्C_३,७.३१ //
SK
विशाधिकरणमारचयति-
SK
START MJऐNय् ३,७.२९
SK
प्रकृत्यर्थो ऽथ सर्वार्थो वह्निराद्यो ऽस्तु पर्णवत् / पर्णन्यायो ऽतिदिष्टे स्यादुपदिष्टे तु सर्वगः // MJऐNय्_३,७.२९ //
SK
यथा ऽयस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतिऽ इत्यसौ पर्णविधिः प्रकृत्यर्थः | एवमाधानस्याप्यनारभ्या धीतत्वादाहित आहवनीयाद्यग्निः प्रकृत्यर्थः- इति चेत्- मैवम् | वैषम्यात् | पर्णवाक्यात्पर्णताया यावत्क्रतुप्रवेशे जुहूर्द्वारम् | सा च जुहूः प्रकृतावेव विहिता विकृतिषु सर्वत्रातिदिश्यते | आहवनीयाद्यग्नेस्तु क्रप्तुप्रदेशे द्वारं होमः | स च क्वचित्प्रकृतावेव विहितः सन्विकृतावतिदिश्यते | तद्यथाप्रयाणनारिष्ठादिहोमाः | तादृशे विषये ऽयदाहवनीये जुह्वतिऽ इति वाक्येनाग्निः प्रकृतावेव विधीयते | विकृतौ तु होमेन सहातिदिश्यते | तस्मासत्र पर्णन्यायः | यस्तु होमो विकृतावुपदिश्यते | तद्यथा- सांग्रहण्यामिष्टावामनहोमः | तत्र द्वाररभूतस्य होमस्य विकृतावुपदिश्यमानतया द्वारिणो ऽपि प्रकृताविव विकृतावपि वाक्येन विधिर्धारयितुमशक्यः | तस्मात्- सर्वार्थो वह्निः || MJऐNय्C_३,७.२९ ||
SK
(एकविंशे समाख्याबाधनाधिकरणे सूत्राणि ४३-४५)
SK
प्रैषानुवचनं मैत्रावरुणस्योपदेशात् / Jऐम्_३,७.४३ /
SK
पुरोऽनुवाक्याधिकारो वा प्रैषसंनिधानात् / Jऐम्_३,७.४४ /
SK
प्रातर् अनुवाके च होतृदर्शनात् / Jऐम्_३,७.४५ /
SK
START MJऐNय् ३,७.३०-३१
SK
एकविंशाधिकरणमारचयति-
SK
यन्मैत्रावरुणः प्रेष्यत्यनु चाऽहेति बाधनम् / हौत्रादिकसमाख्यायास्तत्सर्वत्रोत कुत्रचित् // MJऐNय्_३,७.३० //
SK
आद्यो ऽस्तु वचनान्मैवं साहित्योक्त्युपलम्भनात् / प्रैषानुवचने यत्र सहिते तत्र बाधनम् // MJऐNय्_३,७.३१ //
SK
अग्नीषोमीयपशौ श्रूयते- ऽमैत्रावरुणः प्रेष्यति चानु चाऽहऽ इति | तदेतद्वाक्यं प्रैषानुवचनयोर्मैत्रावरुणकर्तृकतां विदधाति | तेन च वाक्येन समाख्या बाध्यते | ऽअग्नये समिध्यमानायानुब्रूहिऽ ऽयूपायाज्यमानायानुब्रूहिऽ इत्यादिप्रैषाणामध्वर्यु कर्तृकत्वदर्शनात्- ऽआध्वर्यवाः प्रैषाःऽ इत्यस्ति याज्ञिकानां समाख्या | तथा | ऽप्रवो बाजा अभिद्यवःऽ- ऽअञ्जन्ति त्वामध्वरे देवयन्तःऽ इत्याद्यनुवचनानां होतृकर्तृकत्वदर्शनात् | ऽअनुवचनानि हौत्राणिऽ- इति याज्ञिकसमाख्या | प्रैषानुवचने च द्विविधे- समस्ते व्यस्ते च | पूर्वोदाहृते व्यस्ते | ऽहोतापक्षदग्निं समिधम्ऽ- इत्याद्यनुवचनमन्त्रस्यान्ते ऽहोतर्यजऽ इति प्रैष आम्नातः | एते प्रैषानुवचने समस्ते | तेषु च व्यस्तसमस्तप्रैषानुवचनेषु सर्वत्र प्रबलेन वाक्येन समाख्यां बाधित्वा होतृकर्तृकत्वमध्वर्युकर्तृकत्वं च परित्यज्य मैत्रावरुणकर्तृकत्वमेवाभ्युपयेम्- इति प्राप्ते- अभिधीयते- ऽप्रेष्यति चानु चाऽहऽ इति चकारद्वयेन प्रैषानुवचनयोः समुच्चयो वाक्ये ऽस्मिन्नुपलभ्यते | ततः समुच्चित्रयोरेव समाख्याबाधनम् | व्यस्तयोस्तु यथासमाख्यं होत्रादिकर्तृकत्वमेवाभ्युपेयम् || MJऐNय्C_३,७.३०-३१ ||
SK
(द्वाविंशे चमसहोमे ऽध्वर्युचमसाध्वर्युकतृकताधिकरणे सूत्राणि ४६ -४९) चमसांश्चमसाध्वर्यवः समाख्यानात् / Jऐम्_३,७.४६ /
SK
अध्वर्युर् वा तन्न्यायत्वात् / Jऐम्_३,७.४७ /
SK
चमसे चान्यदर्शनात् / Jऐम्_३,७.४८ /
SK
अशक्तौ ते प्रतीयेरन् / Jऐम्_३,७.४९ /
SK
START MJऐNय् ३,७.३२-३३
SK
द्वाविंशाधिकरणमारचयति-
SK
चमसैश्चमसाध्वर्युर्जुहोत्यध्वर्युरेव वा / संज्ञाविशेषादाद्यो ऽस्तु मैवमध्वर्युसंज्ञया // MJऐNय्_३,७.३२ //
SK
विशेषस्यानपेक्षत्वात्तेनान्यस्या अपेक्षणात् / अध्वर्युर्जुहुयाच्छक्तेस्तदशक्तौ परो ऽपि वा // MJऐNय्_३,७.३३ //
SK
ऽचमसाध्वर्युःऽ इत्येवंविधसंज्ञाविशेषाच्चमसाध्वर्यव एव चमसैर्जुहुयुः - इति चेत् | मैवम् | अध्वर्युसंज्ञाया निरपेक्षत्वेन प्रबलत्वात् | केवलाध्वर्यौ चमसाध्वर्युषु चानुगतो ऽध्वर्युशब्दः सामान्यरूपः | चमसशब्दस्तु चमसाध्वर्युष्वेवेति विशेषरूपः | तं च विशेषमनपेक्ष्यैवाध्वर्युशब्द ऋत्विक्संज्ञारूपेण वर्तितुं प्रभवति | चमसशब्दस्तु सामान्यवाचिनमध्वर्युशब्दमपेक्ष्यैव पुरुषेषु संज्ञा भवति | तथा सति ऽआध्वर्यवो होमःऽ इत्यनयां निरपेक्षयां प्रबलया समाख्ययाध्वर्युरेव सत्यां शक्तौ चमसैर्जुहुयात् | ग्रहहोमव्यापृतत्वेन कदाचिदशक्तौ चमसाध्वर्यवो जुहुयुः || MJऐNय्C_३,७.३२-३३ ||
SK
(त्रयोविंशे श्येनवाजपेययोरनेककर्तृकताधिकरणे सूत्रे ५०-५१)
SK
वेदोपदेशात् पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः / Jऐम्_३,७.५० /
SK
तद्गुणाद् वा स्वधर्मः स्याद् अधिकारसामर्थ्यात् सहाङ्गैर् अव्यक्तः शेषे / Jऐम्_३,७.५१ /
SK
START MJऐNय् ३,७.३४-३५
SK
त्रयोविंशाधिकरणमारचयति-
SK
श्येन उद्गातृवेदोक्तो वाजपेयो यजुष्यम् / उद्गात्राध्वर्युणा कार्यौ यथाप्रकृति वाग्रिमः // MJऐNय्_३,७.३४ //
SK
आख्याविशेषादाख्यायाः पूर्वभावी हि चोदकः / प्रकृताविव कर्तारस्तत्तद्धर्मे व्यवस्थिताः // MJऐNय्_३,७.३५ //
SK
श्येनयागः सामवेदे समाम्नात इति तत्रत्याः सर्वे पदार्था उद्गात्रानुष्ठेयाः, बहिष्पवमानाज्यपृष्ठादिस्तोत्रेष्विवोद्गात्रत्व समाख्यायाः श्योने ऽपि समत्वात् | तथा- यजुर्वेदे समाम्नातो वाजपेयः सर्वो ऽप्यध्वर्युणैवानुष्ठेयः | समाख्यावशात्- इति प्राप्ते- ब्रूमः- श्येनवाजपेयौ हि ज्योतिष्टोमविकारौ | तत्र चोदकस्तत्तत्पदार्थेस्तैस्तैः पुरुषैरनुष्ठेयतया समर्पयति | अङ्गेष्वतिदिष्टेषु पष्चात्साङ्गप्रधानानुष्ठापकस्य प्रयोगवचनसाय प्रवृत्तिः | प्रयोगवचनाधीना तु समाख्यात्यन्तजघन्या | ततः प्रबलचोदकवशात्प्रकृताविव नानाविधाः कर्तारः स्वस्वधर्मेषु व्यवतिष्ठन्ते || MJऐNय्C_३,७.३४-३५ ||
SK
इति श्रीमाधवीय जैमिनीयन्यायमालविस्तरे तृतीयाध्यायस्य सप्तमः पादः
SK
अथ तृतीयाध्यायस्याष्टमः पादः /
SK
(प्रथमे क्रयस्य स्वामिकर्मताधिकरणे सूत्रम्- )
SK
स्वामिकर्म परिक्रयः कर्मणस् तदर्थत्वात् / Jऐम्_३,८.१ /
SK
START MJऐNय् ३,८.१-२
SK
अष्टमपादे प्रथमाधिकरणमारचयति-
SK
दक्षिणादिपरिक्रीतिऋत्विजः स्वामिनो ऽथवा / परिक्रयः समाख्यानादृत्विजः स्याद्यथेतरत् // MJऐNय्_३,८.१ //
SK
परिक्रयात्पुराध्वर्युहोत्रादीनामभावतः / परिक्रयणकर्तृत्वं यजमानस्य नर्त्विजः // MJऐNय्_३,८.२ //
SK
दक्षिणादानेन कर्मकराः परिक्रेतव्याः | तत्र हविस्त्यागव्यतिरिक्तं सर्वमार्त्विव्यम्- इति निर्णीतम् | दक्षिणा च द्वादशशतरूपाध्वर्युवेद उद्गातृवेदे च समाम्नातै | अन्वाहार्यदक्षिणाध्वर्युवेदे | ततः समाख्यया परिक्रतृत्वमृत्विजः- इति चेत् | मैवम् | ऋत्विजां परिक्रयणोत्तरकालीनानां तत्कर्तृत्वासंभवेन यजमानस्यैव तत्कर्तृत्वात् || MJऐNय्C_३,८.१-२ ||
SK
(द्वितीये वरदानस्याध्वर्युकर्मताधिकरणे सूत्रम्-)
SK
वचनाद् इतरेषां स्यात् / Jऐम्_३,८.२ /
SK
START MJऐNय् ३,८.३
SK
द्वितीयाधिकरणमारचयति-
SK
इष्टकावरदानं किं स्वामिनः स्यादुतर्त्विजः / स्वामिनः पूर्ववन्मैवमध्वर्योर्वचनादयम् // MJऐNय्_३,८.३ //
SK
ऽय एतामिष्टकामुपदध्यात्, स त्रीन्वारान्दद्यात्ऽ इत्युपधातुरध्वर्योर्गोत्रयदानं वाचनिकम् | नह्वस्ति वचनस्यातिभारः || MJऐNय्C_३,८.३ ||
SK
(तृतीये वपनादिसंस्काराणां याजमानताधिकरणे सूत्राणि ३- ८)
SK
संस्कारास् तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन् / Jऐम्_३,८.३ /
SK
याजमानास् तु तत्प्रधानत्वात् कर्मवत् / Jऐम्_३,८.४ /
SK
व्यपदेशाच् च / Jऐम्_३,८.५ /
SK
गुणत्वेन तस्य निर्देशः / Jऐम्_३,८.६ /
SK
चोदनां प्रति भावाच् च / Jऐम्_३,८.७ /
SK
अतुल्यत्वाद् असमानविधानाः स्युः / Jऐम्_३,८.८ /
SK
START MJऐNय् ३,८.४-५
SK
तृतीयाधिकरणमारचयति-
SK
संस्कारा वपनाद्याः किमध्वर्योः स्वामिनो ऽथवा / अध्वर्योस्तत्र शक्तत्वात्तद्वेदोक्तेश्च तस्य ते // MJऐNय्_३,८.४ //
SK
संस्कारैर्योग्यतां प्राप्य स्वकार्य कर्तुमृत्विजः / क्रीणात्यतः क्रिया तेषां संस्क्रिया यजमानगा // MJऐNय्_३,८.५ //
SK
ऽआप उन्दन्तु जीवसेऽ इत्याद्याः संस्कारमन्त्राः | तद्विधयश्चाध्वर्युवेदे समाम्नाताः- ऽकेशश्मश्रु वपतेऽ,ऽनखानि निकृन्ततेऽ इति | शक्तश्चाध्वर्युर्वपनादौ | तस्मात्- तस्याध्वर्योस्ते वपनादिसंस्काराः- इति चेत् | मैवम् | वपनादिसंस्कारा यजमानगतमालिन्यमपनीय यागयोग्यतामुत्पादयितुं क्रियन्ते | तथा च ब्राह्मणम्- ऽकेशश्मश्रु वपते | मृता वा एषा त्वगमेध्या यत्केशश्मश्रु | मुतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेधमुपैतिऽ इति | नह्यध्वयुवपनेन यजमानगता मृता त्वगपैति | योग्यस्य हि कर्माधिकार सति पश्चात्प्रयासरूपेषु व्यापारेषु स्वयमशक्तः सन्कर्मकरानृत्विजः परिक्रीणाति | लोके ऽपि रोगिणः स्वामिन औषधाद्यानयन एव भृत्यो जीवितदानेन परिक्रीयते | न तु तदौषधं भृत्यः सेवते | तस्मात्- इतरक्रियर्त्विजाम्, संस्कारस्तु यजमानस्य | क्वचित्तु | वचनादृत्विजामपि संस्कारो ऽस्तु || MJऐNय्C_३,८.४-५ ||
SK
(चतुर्थे तपसो याजमानताधिकरणे सूत्राणि ९-११)
SK
तपश् च फलसिद्धित्वाल् लोकवत् / Jऐम्_३,८.९ /
SK
वाक्यशेषश् च तद्वत् / Jऐम्_३,८.१० /
SK
वचनाद् इतरेषां स्यात् / Jऐम्_३,८.११ /
SK
START MJऐNय् ३,८.५*-६
SK
चतुर्थाधिकरणमारचयति-
SK
नाश्नाति द्वयहमित्येतत्तपः कस्य तयोर्द्वयोः / दुःखत्वाद्भोक्तृसंस्कारादध्वर्योर्युज्यते तपः // MJऐNय्_३,८.५* //
SK
फलान्तरायपापस्य नाशकत्वेन संस्कृतिः / लिङ्गात्तपः स्वामिगामि संस्कारान्तरवत्ततः // MJऐNय्_३,८.६ //
SK
ज्योतिष्ठोमे- ऽद्व्यहं नाश्नातिऽ ऽत्र्यहं नाश्नातिऽइत्यादिनोक्तं तपो ऽघ्वर्योर्युक्तम् | तस्य दुःखात्मकत्वेन परिक्रीतपुरुषैः कर्तुमुचितत्वात् | दुःखत्वादेव फलभोक्तृसंस्कारत्वाभावाद्यजमानस्य न युक्तम्- इति चेत् | मैवम् | भाविनः सुखरूपस्य फलस्य प्रतिबन्धकं दुःखजनकं यत्पापं तस्य नाशकत्वेन दुःखरूपस्यापि तपसः स्वामिसंस्कारत्वसंभवात् | अस्मिन्नर्थे वाक्यशेषगतं लिङ्गं कल्पसूत्रकारेणैवमुदाहृतम्- ऽयदा वै दीक्षितः कृशो भवति, अथ मेध्यो भवति | यदास्मिन्नन्तर्न किंचन भवति, अथ मेध्यो भवति | यदास्य कृष्णं चक्षुषोर्नश्यति, अथ मेध्यो भवति | यदास्य त्वचास्थि संधीयते, अथ मेध्यो भवति | पीत्वा दीक्षते, कृशो यजते | यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायतेऽ इति | न हि दुःखरूपं तपो विना दुःखप्रदं पापं नश्यति | यथा पाटनमन्तरेण विषव्रणानां नोपशान्तिः, तद्वत् | तस्मात्- वपनादिसंस्कारवत्तपो ऽपि यजमानस्यैव || MJऐNय्C_३,८.५-६ ||
SK
(पञ्चमे लोहितोष्णीषतादीनां सर्वर्त्विर्ग्धमताधिकरणे सूत्रम्-)
SK
गुणत्वाच् च वेदेन न व्यवस्था स्यात् / Jऐम्_३,८.१२ /
SK
START MJऐNय् ३,८.७-८
SK
पञ्चमाधिकरणमारचयति-
SK
हिरण्यमालिताद्यास्तु संस्कारा वचनान्मताः / ऋत्विजां ते यथाख्यानं कर्तव्या निखिलैरुत // MJऐNय्_३,८.७ //
SK
आद्य आख्यावशान्मैवं सर्वसंनिधिपाठतः / प्रतिमुख्यं गुणावृत्तेः कर्तव्या निखिलैरपि // MJऐNय्_३,८.८ //
SK
वाजपेये श्रूयते- ऽहिरण्यमालिन ऋत्विजः प्रचरन्तिऽ इति | श्येने श्रूयते- ऽलोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्तिऽ इति | यद्यपि हिरण्यमालित्वादीनां संस्कारत्वाद्यजमानविषयत्वं पूर्वन्यायेन प्राप्तम्, तथापि वचनादय मृत्विक्संस्कारः | तत्र हिरण्यमालित्वं यजुर्वेदोक्तत्वादध्वर्यूणामेव, लोहितोष्णीषादिकं सामवेदोक्तत्वादुद्गातॄणामेव इति समाख्यावशादभ्युपेयम्- इति चेत् | मैवम् | ऽहिरण्यमालिन ऋत्विजः प्रचरन्तिऽ इति सर्वेषामृत्विजां संनिधौ पठ्यमानो हिरण्यमालित्वसंस्कारः संनिधिना समाख्यां बाधित्वा सर्वैरप्यृत्विग्भिः संबध्यते | किंच- संरकार्यत्वादृत्विजां प्राधान्ये सति प्रतिप्रधानं गुणावृत्त्या सर्वेषामप्यृत्विजां हिरण्यमालित्वादिसंस्कारो ऽभ्युपतेव्यः || MJऐNय्C_३,८.७-८ ||
SK
(षष्ठे वृष्टिकामनाया याजमानताधिकरणे सूत्रे - १३-१४)
SK
तथा कामो ऽर्थसंयोगात् / Jऐम्_३,८.१३ /
SK
व्यपदेशाद् इतरेषां स्यात् / Jऐम्_३,८.१४ /
SK
START MJऐNय् ३,८.९-१०
SK
षष्ठाधिकरणमारचयति-
SK
वृष्टिकामी सदो नीचैर्मिनुयादिति कामना / अध्वर्योः स्वामिनो वाऽद्यो वाक्यान्मातुस्तदुच्यते // MJऐNय्_३,८.९ //
SK
परस्मैपदतो ऽध्वर्युव्यापारस्य परार्थता / प्रतीतातो वाक्यबाधे तपोवत्स्वामिनो ऽस्तु तत् // MJऐNय्_३,८.१० //
SK
ज्योतिष्ठोमे श्रूयते- ऽयदि कामयेत- वर्षुकः पर्जन्यः स्यात्- इति नीचैः सदो मिनुयात्ऽ इति | -यथा पुरस्तात्पश्चाच्चावस्थितौ हविर्धानप्राचीनवंशावुच्चैः, तथा सदो नोच्चं, किंतु नीचैः कार्यम्- इत्यर्थः | अत्र- वृष्टिकामनाध्वर्योर्युक्ता | ऽयः कामयेत्, स मिनुयात्ऽ इति वाक्येन कामयितृमात्रोरेकत्वावगमात् | मातृत्वं चाध्वर्योरित्यबिवादम् | तस्मात्- स कामयिता- इति चेत् | मैवम् | ऽमिनुयात्ऽ इति परस्मैपदेनाध्वर्युव्यापारफलस्य परगामिता प्रतीयते | ततो वृष्टिलक्षणफलस्य यजमानगामित्वात्परस्मैपदश्रुत्या वाक्यं बाधित्वा कामस्य यजमानकर्तृकत्वं द्रष्टव्यम् | - ऽयजमानकामितां वृष्टिं पर्जन्यः संपादयतुऽ इत्येव यो ऽध्वर्युः कामयते, स नीचैर्मिनुयात्, इति वाक्यं व्याख्येयम् | - ऽएवंविदुद्वाताऽत्मने वा यजमानाय वा यं कामं कामयते, तमागायतिऽ इति ऋत्विजो ऽपि कामः- इति चेत् | तर्हि तस्मिन्नुद्गीथोपासने वचनादृत्विजो ऽपि फलमस्तु || MJऐNय्C_३,८.९-१० ||
SK
(सप्तमे, आयुर्दा इत्यादिमन्त्राणां याजमानताधिकरणे- सूत्रे १५-१६)
SK
मन्त्राश् चाकर्मकरणास् तद्वत् / Jऐम्_३,८.१५ /
SK
विप्रयोगे च दर्शनात् / Jऐम्_३,८.१६ /
SK
START MJऐNय् ३,८.११
SK
सप्तमाधिकरणमारचयति-
SK
आयुर्दा इति मन्त्रोक्तिः कस्याध्वर्योः समाख्यया / तद्बाधे लिङ्गतः स्वामिगामिता कामबन्मता // MJऐNय्_३,८.११ //
SK
इदमाम्नायते-ऽआयुर्दा अग्ने ऽस्यायुर्मे देहिऽ इति | तस्यैतस्य मन्त्रस्य पाठो ऽध्वर्योर्यजमानस्य वा -इत्ययं संशयः ऽकस्यऽ इत्यनेन पदेन सूचितः | अस्मिन्मन्त्रे ऽआयुर्मे देहिऽ इति फलस्य स्वात्मसंबन्धः प्रतीयते | स च यजमानस्य युक्तः, नाध्वर्योः | तस्मात्- कामवन्मन्त्रो ऽपि याजमानः || MJऐNय्C_३,८.११ ||
SK
(अष्टमे द्व्याम्नातस्योभयप्रयोज्यताधिकरणे सूत्रम्-)
SK
द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात् / Jऐम्_३,८.१७ /
SK
START MJऐNय् ३,८.१२
SK
अष्ठमाधिकरणमारचयति-
SK
वाजस्य मेत्यमुं ब्रूयादेको द्वौ वा कृतार्थतः / एकः काण्डद्वये पाठादध्वर्युस्वामिनावुभौ // MJऐNय्_३,८.१२ //
SK
दर्शपूर्णमासयोः- ऽवाजस्य मा प्रसवेनऽ इत्ययं मन्त्रो ऽध्वर्युकाण्डे यजमानकाण्डे चाऽम्नातः | तत्रैकेन पठिते सति मन्त्रस्य चरितार्थत्वादितरस्तं न पठेत्- इति चेत् | मैवम् | काण्डान्तरपाठवैयर्य्थप्रसङ्गात् | तस्मादुभाभ्यां पठनीयः | तयोः पठतोराशयभेदो ऽस्ति | ऽअनेन मन्त्रेण प्रकाशितमर्थमनुष्ठास्यामिऽ इत्यध्वर्युर्मनुते | ऽअत्र न प्रमदिष्यामिऽ इति यजमानः || MJऐNय्C_३,८.१२ ||
SK
(नवमे- अभिज्ञस्यैव वाचयितव्यताधिकरणे सूत्रम्-)
SK
ज्ञाते च वाचनं न ह्य् अविद्वान् विहितो ऽस्ति / Jऐम्_३,८.१८ /
SK
START MJऐNय् ३,८.१३
SK
नवमाधिकरणमारचयति-
SK
वाचयेत्स्वामिनं ज्ञाज्ञौ वाचमीयौ ज्ञ एव वा / अविशेषादुभौ ज्ञस्य स्वामित्वाद्वाचयेदमुम् // MJऐNय्_३,८.१३ //
SK
वाजपेये श्रूयते-ऽकॢप्तीर्यजमानं वाचयतिऽ इति | ऽआर्युयज्ञेन कल्पताम्ऽ इत्यादयो मन्त्राः कॢप्तयः | तत्र- मन्त्रतदर्थाभिज्ञमनभिज्ञं चोभावपि वाचयेत् | ऽविद्वासं वाचयेत्ऽ इत्येवं विशेषस्याश्रवणात् | अनभिज्ञं तदैव शिक्षयित्वापि वाचयितुं शक्यत्वात्- इति चेत् | मैवम् | अध्ययनविधिबलादधीतवेदस्य विदितवेदार्थस्यैव यजमानत्वात् | तस्मात्- अभिज्ञमेव वाचयेतु || MJऐNय्C_३,८.१३ ||
SK
(दशमे द्वादशद्वंद्वानामाध्वर्यवत्वाधिकरणे सूत्रे १९-२०)
SK
याजमाने समाख्यानात् कर्माणि याजमानं स्युः / Jऐम्_३,८.१९ /
SK
अध्वर्युर् वा तदर्थो हि न्यायपूर्वे समाख्यानम् / Jऐम्_३,८.२० /
SK
START MJऐNय् ३,८.१४-१५
SK
दशमाधिकरणमारचयति-
SK
वत्सं चोपसृजेत्तद्वदुखां चाधिश्रयोदिति / द्वादशद्वंद्वकर्मैतत्स्वामिनो वेतरस्य वा // MJऐNय्_३,८.१४ //
SK
आद्यः पाठात्स्वामिकाण्डे तादर्थ्येन परिक्रयात् / महाकाण्डोक्तितो ऽन्त्यो ऽस्तु द्वंद्वतैवात्र कीर्त्यते // MJऐNय्_३,८.१५ //
SK
दर्शपूर्णमासयोर्याजमाने काण्डे श्रूयते- ऽद्वादश द्वंद्वानि दर्शपूर्णमासयोस्तानि संपाद्यानि- इत्याहुः- वत्सं चोपावसृजति, उखां चाधिश्रयतिऽ अयं च हन्ति, दृषदौ च समाहन्तिऽ इत्यादि | तत्र- पलाशशाखया वत्सापाकरणमेकं कर्म, दोहनेन संपादितं क्षीरं धारयितुं पिठरस्थापनमपरं कर्म, तदेतदुभवमेकं द्वंद्वम् | तथा व्रीहीणामवघातः, दृषदुपलयोः पाषाणान्तरेण समाघातः, इत्येतदुभयं द्वितीयं द्वंद्वम् | एवं द्वादश कर्मद्वंद्वान्यनुष्ठेयान्याम्नातानि | तेषां याजमाने काण्डे पठितत्वात्समाख्यया यजमानेन तान्यनुष्ठेयानि- इति प्राप्ते- ब्रूमः- यजमानस्य यानि कार्याणि, तान्यनुष्ठातुमेव परिक्रीता ऋत्विजः | किंच- यजुर्वेदे याजमानमिदमवान्तर काण्डम्, महाकाण्डं त्वाध्वर्यवमेव | तत्रैवैते वत्सापाकरणादयो धर्मा आम्नाताः | तस्मादर्ध्वयुरेव ताननुतिष्ठेत् | याजमाने तु काण्डे न येवामनुष्ठानप्रकारश्चोदितः, किंतु परिगणनया द्वंद्वतासंपादनमात्रमाम्नातम् | तेन यजमानस्तामानुपूर्वी मनसि निधायाध्वर्योरनुष्ठाने प्रमादराहित्यमनुसंधातुं प्रभवति | तस्मादध्वर्योरेवानुष्ठानम् || MJऐNय्C_३,८.१४-१५ ||
SK
(एकादशे होतुराध्वर्यवकरणानुष्ठातृत्वाधिकरणे सूत्रम्- )
SK
विप्रतिषेधे करणः समवायविशेषाद् इतरम् अन्यस् तेषां यतो विशेषः स्यात् / Jऐम्_३,८.२१ /
SK
START MJऐNय् ३,८.१६-१७
SK
एकादशाधिकरणमारचयति-
SK
यो होताध्वर्युरेव स्यादित्याध्वर्यवमाचरन् / हौत्रं कुर्यान्न वा त्यागहेत्वमावात्करोति तत् // MJऐNय्_३,८.१६ //
SK
होतैको युगपत्कर्मद्वयं कर्तु नहि प्रभुः / त्यजोच्चोदकतः प्राप्तं हौत्रं वाचनिकार्यकृत् // MJऐNय्_३,८.१७ //
SK
अग्नीषोमीयवशौ ऽपरिवीरसिऽ इत्यनेन करणमन्त्रेणाध्वर्युर्यूपस्य रशनया परिष्याणं करोति | तदानीं क्रियमाणं तत्परिव्यणं होता ऽयुवा सुवासाःऽ- इत्यनेन मन्त्रेणानुवदति | तदेतदुभयं चोदकपरम्परया कुण्डपायिनामयने प्राप्तम् | तत्राध्वर्योर्होतुश्च समास आम्नातः- ऽयो होता सो ऽध्वर्युःऽ इति | होतारमनूष्ठा ध्वर्युत्वविधानादध्वर्युकार्ये होत्रानुष्ठेयम् | ततः ऽपरिवीरसिऽ इत्यनेन करणमन्त्रेण होता यूपपरिव्याणं कुर्वीत | तदानीं स्वस्य चोदकतः प्राप्तं हौत्रमपि होता न त्यजेत् | नहि त्यागहेतुं कंचिन्निषेधं पश्यामः | तस्मात्क्रियमाणं तत्परिव्याणं ऽयुवा स्त्रुषासाःऽ इत्यनेन मन्त्रेण होतानुवदेत्- इति प्राप्ते- ब्रूमः- द्वयोरध्वर्युहोत्रोरुचितं कर्मद्वयमेको होता युगपत्कर्तु न शक्नोति | ततो ऽन्यतरस्यावश्यंभाविनि त्यागे चोदकतः प्राप्तं हौत्रमेव त्यजेत् | आद्वयव तु ऽयो होता सो ऽध्वर्युःऽ इत्यनेन प्रापितत्वादनुष्ठेयम् || MJऐNय्C_३,८.१६-१७ ||
SK
(द्वादशे प्रोक्षण्यासादनादीनामनाध्वर्यवताधिकरणे सूत्रम्- )
SK
प्रैषेषु च पराधिकारात् / Jऐम्_३,८.२२ /
SK
START MJऐNय् ३,८.१८
SK
द्वादशाधिकरणमारचयति -
SK
प्रोक्षण्यासादनं कुर्यादध्वर्युरितरो ऽथवा / आख्ययाऽद्यः सादयेति प्रेषितो ऽन्यो ऽस्तु लिङ्गतः // MJऐNय्_३,८.१८ //
SK
दर्शपूर्णमासयोः- प्रोक्षणीनां केनचित्पात्रेण वेद्यामातादनं श्रुतम् | तदेतद्यजुर्वेदोक्तत्वादाध्वर्यम्- इति चेत् | मैवम् | प्रैषमन्त्रविरोधप्रसङ्गात् | ऽप्रोक्षणीरासादय | इद्मावर्हिरुपतादव | अग्नीदग्नीन्विहर | वर्हिः स्तृणीहिऽ इत्यादिष्वाध्वर्यवेषु प्रैषमन्त्रेषु श्रूयमाणमाग्नींप्रसंबोधनं मध्यमपुरुषश्चान्येन तदनुष्ठाने सत्युपपद्यते | तस्मात्- नाऽध्वर्थवम् || MJऐNय्C_३,८.१८ ||
SK
(त्रयोदशे प्रैषमन्त्राणामाध्वर्यवत्वाधिकरणे सूत्रे २३-२४)
SK
अध्वर्युस् तु दर्शनात् / Jऐम्_३,८.२३ /
SK
गौणो वा कर्मसामान्यात् / Jऐम्_३,८.२४ /
SK
START MJऐNय् ३,८.१९
SK
त्रयोदशाधिकरणमारचयति-
SK
अग्नीत्प्रेष्यदुताध्वर्युरग्नीदस्त्वविरोधतः / आख्याविरोधादध्वर्युः प्रैषद्वारार्ऽथकृद्यतः // MJऐNय्_३,८.१९ //
SK
यथा प्रोक्षणीराग्नीध्र आसादयति, तथा प्रैषमन्त्रमप्याग्नीध्र एव पठतु | विरोधाभावात् - इति चेत् | मैवम् | आध्वर्यवसमाख्यायाः पूर्वोदाहृतसंबोधनमध्यमपुरुषयोश्च विरोधात् | न च - प्रोक्षण्यासादनादीनाम ध्वर्युकर्तृकत्वाभावे ऽपि समाख्याविरोधस्तदवस्थः- इति वाच्यम् | प्रैषद्वारा प्रयोजककर्तृत्वे ऽपि तदविरोधात् | तस्मात् - अध्वर्योरेव प्रैषमन्त्रः || MJऐNय्C_३,८.१९ ||
SK
(चतुर्दशे -द्गकरणमन्त्रेषु स्वामिफलस्याऽशासितव्यताधिकरणे (वर्चोन्याये)द्घसूत्राणि -- २५-२७)
SK
ऋत्विक् फलं करणेष्व् अर्थत्वात् / Jऐम्_३,८.२५ /
SK
स्वामिनो वा तदर्थत्वात् / Jऐम्_३,८.२६ /
SK
लिङ्गदर्शनाच् च / Jऐम्_३,८.२७ /
SK
START MJऐNय् ३,८.२०
SK
चतुर्दशाधिकरणमारचयति -
SK
ममाग्न इति कस्यात्र फलं लिङ्गेन वक्तृगम् / श्रुत्या स्वामिनि न क्रीते लिङ्गं तत्रोपचर्यताम् // MJऐNय्_३,८.२० //
SK
ऽममाग्ने वर्चो विहवेष्वस्तुऽ इत्ययमाहवनीयस्यान्वाधाने करणभूतो मन्त्रो ऽध्व- | र्पुणा पठ्यते | ऽविशिष्टं हवनं येषां यज्ञानां ते विहवास्तेषु वर्चस्तेजसोपलक्षितं यत्फलं तन्ममास्तुऽ इत्यनेन लिङ्गेन मन्त्रमुच्चारयितुरध्वर्योस्तत्फलम्- इति चेत् | मैवम् | ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इत्यात्मनेपदश्रुत्या साङ्गप्रधानफलस्य यजमानगामित्वं प्रतीयते | न च परिक्रीतस्याध्वर्योर्दक्षिणातिक्तफलसंबन्धो न्याय्यः | तस्मात्- श्रुतिन्यायाभ्यां विरुद्धं तल्लिङ्गं यजमानपरत्वेनोपचरणीयम् | ऽमदीययजमानस्य तद्वर्चो ऽस्तुऽ इति ह्युपचारः | तस्मात्- यजमानेन पाठ्येषु ऽआयुर्दा अग्ने ऽस्यायुर्मे देहिऽ इत्यादिषु क्रियमाणानुवादिषु प्रत्यगाशीर्मन्त्रेषु श्रुतं फलं यथा याजमानम्, तथैवाध्वर्युणा पाठ्येषु करणमन्त्रेषु श्रुतमपि फलं याजमानमेव || MJऐNय्C_३,८.२० ||
SK
(पञ्चदशे करणमन्त्रेषु कर्मार्थफलस्यर्त्विग्धर्मताधिकरणे सूत्रम् - )
SK
कर्मार्थं तु फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् / Jऐम्_३,८.२८ /
SK
START MJऐNय् ३,८.२१
SK
पञ्चदशाधिकरणमारचयति -
SK
मा मा संताप्तमित्येतत्कस्मिन्स्वामिनि पूर्ववत् / अध्वर्यावस्तु तत्तेन स्वामिकर्मोपयोगतः // MJऐNय्_३,८.२१ //
SK
दर्शपूर्णमासयोराघारहोमार्थमाज्यपूर्णौ स्त्रुक्स्त्रुवौ गृहीत्वा नाभिसमीपे हस्तेन धारयते | तत्रायं करणमन्त्रो ऽध्वर्युणा पठ्यते - ऽअग्नाविष्णू मा वामवक्रमिवं विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कुणुतम्ऽ इति | ऽभो स्त्रुक्स्त्रुवरूपावग्नाविष्णू युवां नाभिदेशे धारयन्नहमध्वर्युर्मा वामवक्रमिषं युवयोरतिक्रमं न कृतवानस्मि | युवां च मत्तो वियुक्तौ मा भवतम् | ततो मां देहधारिणं मा संताप्तं मम देहे संतापं ज्वरादिरूपं मा कुरुतम् | स्थानकृतौ युवामाघारहोमाय स्थानं कुरुतम्ऽ इत्यर्थः | तत्र पूर्वोक्तवर्चोन्यायेन संतापाभावो ऽपि यजमानस्यैव, न त्वध्वर्योः- इति चेत् | मैवम् | अध्वर्यावसंतप्ते सत्यविघ्नेन स्वामिनः कर्म समाप्यते | तस्मात् - अध्वयुर्गतो ऽपि संतापाभावो यजमानस्यैव फलम् - इति नात्र मच्छब्दस्योपचारः || MJऐNय्C_३,८.२१ ||
SK
(षोडशे भद्रमित्यस्योभयगामिताधिकरणे सूत्रम्- )
SK
व्यपदेशाच् च / Jऐम्_३,८.२९ /
SK
START MJऐNय् ३,८.२२
SK
षोडशाधिकरणमारचयति-
SK
भद्रं तन्नौ सहेत्येतत्कस्मिन्स्वामिनि युज्यते / द्वित्वश्रुत्या द्वयोरेतदध्वर्युयजमानयोः // MJऐNय्_३,८.२२ //
SK
ज्योतिष्टोमे हविर्धानमण्डपे सोमाभिषवाधारयोः फलकयोरधस्ताच्चतसृष्वाग्नेय्यादिविदिक्षु चत्वार उपरवनामका गर्ता अरत्निमात्रखाता अधोभागे परस्परं मिलिता ऊर्ध्वभागे परस्परं प्रादेशमात्रव्यवहिता वर्तन्ते | तेष्वेकस्मिन्नुपरवे यजमानो दक्षिणहस्तं प्रसारयति, तथैवाध्वर्युरन्यस्मिन्स्वहस्तं प्रसार्याधस्ताद्यजमानहस्तं गृह्णाति | तदा यजमानः ऽकिमत्रऽ इत्यनेन मन्त्रेण फलं पृच्छति | अध्वर्युश्च ऽभद्रम्-ऽ इत्यनेन मन्त्रेणोत्तरं ब्रूते | ततो यजमानः ऽतन्नौ सह - ऽ इत्यनेन मन्त्रेण तत्फलं स्वकीयत्वेन स्वी करोति | तस्मात्- यजमानस्यैव तत् - इति चेत् | मैवम् | ऽनौऽ इत्यनेन द्विवचनेन, ऽसहऽ इत्यनेन चोभयगामितयैव स्वीकारात् || MJऐNय्C_३,८.२२ ||
SK
(सप्तदशे द्रव्यसंस्कारस्याङ्गप्रधानार्थताधिकरणे सूत्रे - ३०-३१)
SK
द्रव्यसंस्कारः प्रकारणाविशेषात् सर्वकर्मणाम् / Jऐम्_३,८.३० /
SK
निर्देशात् तु विकृताव् अपूर्वस्यानधिकारः / Jऐम्_३,८.३१ /
SK
START MJऐNय् ३,८.२३-२४
SK
सप्तदशाधिकरणमारचयति-
SK
धर्माणां प्रकृतिस्थानां विकृतावतिदेशतः / प्राप्तिर्विशेषतो वाऽद्यो विशेषस्यानिरूपणात् // MJऐNय्_३,८.२३ //
SK
प्रकृतौ कार्यकृद्धर्मा विकृतौ स्युर्न चेतरे / यूपावटास्तृतिः कार्य न हि प्राकृतबर्हिषः // MJऐNय्_३,८.२४ //
SK
दर्शपूर्णमासयोर्वेदिधर्मा बर्हिर्र्धमाश्च हविरासादनादयो ऽङ्गप्रधानार्था इति पूर्वत्र निर्णीतम् | ते च धर्मा विकृतावतिद्दिश्यमाना नियामकाभावात्सर्वे ऽप्यतिदिश्यन्ताम्- इति प्राप्ते, - ब्रूमः- कार्यमत्र नियामकम् | प्रकृतौ हि हविरासादनं वेदिकार्यम् | तच्च विकृतावपि प्राप्यमाणं स्वसिद्धयेखननादीन्वेदिधर्मान्प्रापयति | यूपावटास्तरणरूपं तु कार्य न प्रकृतावस्ति | दर्शपूर्णमासयोर्यूपावटाभावात् | तर्च्चऽऽस्तरणकार्ये विकृतौ विधीयमानमप्यप्राकृतकार्यतया प्राकृताल्लंवनादीन्वर्हिः संस्कारान्न प्रापयन्ति | तस्मात्प्रकृतिगताः कार्यकृद्धर्मा एव विकृतौ प्राप्यन्ते || MJऐNय्C_३,८.२३-२४ ||
SK
(अष्टादशे पवित्रस्य परिभोजनीयबर्हिषा कर्तव्यताधिकरणे सूत्रम्)
SK
विरोधे च श्रुतिविशेषाद् अव्यक्तः शेषे / Jऐम्_३,८.३२ /
SK
START MJऐNय् ३,८.२५
SK
अष्टादशाधिकरणमारचयति -
SK
यद्वर्हिस्तत्पवित्रार्थ न वाऽद्यस्तस्य संभवात् / संस्कृतं स्तरणे क्षीणं पवित्रं त्वन्यतो भवेत् // MJऐNय्_३,८.२५ //
SK
दर्शपूर्णमासयोरामनन्ति- ऽसमावप्रच्छिन्नाग्नौ दर्मौ प्रादेशमात्रौ पवित्रे करोतिऽ इति | तत्र- यदेतद्वेदिस्तरणार्थ लवनसंस्कृतं बर्हिः, तेन पवित्रसंभवादास्तरणवत्पवित्रमपि बर्हिपः कार्यम् - इति चेत् | मैवम् | आस्तरण एव संस्कृतस्य सर्वस्य बर्हिष उपक्षीणत्वात् | न हि ऽवेदिं स्तृणातिऽ इति विहितस्य स्तरणस्याकस्माद्बर्हिरेकदेशे संकोचो युक्तः | तस्मात्- यथा यूपावटमसंस्कृतेन बर्हिषा स्तृणाति, तथा पवित्रनिष्पत्तिरपि शास्त्रीयलवनादिसंस्काररहितैः परिभोजनीयनामकैर्दर्भेः संपादनीया || MJऐNय्C_३,८.२५ ||
SK
(एकोनविंशे प्राकृतपुरोडाशादीनां निधानाधिकरणे सूत्रम्)
SK
अपनयस् त्व् एकदेशस्य विद्यमानसंयोगात् / Jऐम्_३,८.३३ /
SK
START MJऐNय् ३,८.२६-२७
SK
एकोनविंशाधिकरणमारचयति-
SK
पुरोडाशस्य शकलमैन्द्रवायवपात्रके / अवदध्यात्पुरोडाशो नवो ऽथ सवनीयकः // MJऐNय्_३,८.२६ //
SK
सिद्धस्य यजनार्तत्वान्नवं संपाद्य तत्क्रिया / सवनीयेन तत्कार्ये संस्कार्यत्वाद्द्वितीयया // MJऐNय्_३,८.२७ //
SK
ज्योतिष्टोमे श्रूयते - ऽपुरोडाशशकलमैन्द्रवायवस्य पात्रे निदधातिऽ इति | तत्र- स्त्रवनीयपुरोडाशस्य शकलं यद्यपि निष्पन्नम्, तथापि तस्य यजमार्थत्वेन संस्कृतबर्हिर्बदुपक्षयान्नूतनं कंचित्पुरोडाशं संपाद्य तदीयशफलस्यैन्द्रवायवपात्रप्रक्षेपक्रिया कर्तव्या - इति चेत् | मैवम् | सवनीयपुरोडाशशकलेनैतन्निधानं कर्तव्यम् | कुतः | संस्कार्यत्वात् | ऽशकलं निदधातिऽ इति द्वितीयया संस्कार्यत्वं गम्यते | इष्टशिष्टस्य हि प्रतिपत्तिरूपः संस्कारः | न चात्र कृत्स्नं यजनार्थम् | अवदानस्येयत्तपापुरोडाशभागस्यावशेषितत्वात् | यथात्र पूर्वसिद्धपुरोडाशशकलम्, तथाऽधाना आश्चिनपात्रेऽ ऽपयस्यां मैत्रावरुणपात्रेऽ इत्यत्रापि पूर्वशेषस्यैव प्रक्षेपः || MJऐNय्C_३,८.२६-२७ ||
SK
(विंशे ताम्येष्टिपूपांशुत्वधर्मस्य प्रधानार्थताधिकरणे सूत्रे -३४-३५)
SK
विकृतौ सर्वार्थः शेषः प्रकृतित्वात् / Jऐम्_३,८.३४ /
SK
मुख्यार्थो वाङ्गस्याचोदितत्वात् / Jऐम्_३,८.३५ /
SK
START MJऐNय् ३,८.२८-२९
SK
विंशाधिकरणमारचयति -
SK
काम्या उपांशु यष्ठव्याः किं तदङ्गप्रधानयोः / प्रधान एव वा नात्र विशेषोक्तिरतो द्वयोः // MJऐNय्_३,८.२८ //
SK
मुख्यानामेव काम्यत्वात्तेष्वेव परिचोदना / अङ्गानामतथाभावादुपांशुत्वं प्रधानगम् // MJऐNय्_३,८.२९ //
SK
इदमाम्नायते - ऽयज्ञाथर्वणं वै काम्या इष्टयः, ता उपांशु षष्टव्याःऽ इति | अथर्ववेदोक्तकर्मवद्यज्ञेषु काम्या इष्टयो गोम्याः | तस्मात्तासामुपांशुत्वं युक्तमित्यर्थः | यथा वेदिधर्माणां बर्हिर्र्धमाणां चाङ्गप्रधानयोः समानो विधिः, तथोपांशुत्वस्यापि | नह्यत्र कश्चिद्विशेष आम्नातः- इति चेत् | मैवम् | काम्यत्वस्यैवात्र विशेषनियामेकत्वात् | न त्वङ्गानां काम्यत्वमस्ति | करणपौष्कल्यसंपादकानां तेषां फले साक्षात्संबन्धाभावात् | ततः- साक्षात्फलसाधने प्रधान एवोपांशुत्वम् | अङ्गेषु तु तत्तद्वेदानुसारेण ध्वनिविशेषः || MJऐNय्C_३,८.२८-२९ ||
SK
(एकविंशे श्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि ३६-३८)
SK
संनिधानाविशेषाद् असंभवे तदङ्गानाम् / Jऐम्_३,८.३६ /
SK
आधाने ऽपि तथेति चेत् / Jऐम्_३,८.३७ /
SK
नाप्रकरणत्वाद् अङ्गस्यातन्निमित्तत्वात् / Jऐम्_३,८.३८ /
SK
START MJऐNय् ३,८.३०-३१
SK
एकविंशाधिकरणमारचयति -
SK
नवनीतं श्येन आज्यं मुख्ये ऽङ्गे वास्तु मुख्यगम् / विधेयमाज्यमप्रप्तं दृतिस्थनवनीतकम् // MJऐNय्_३,८.३० //
SK
मुख्यः सोमविकारो ऽङ्गे चोदकप्राप्तमाज्यकम् / अनूद्य दृतिसंस्थानं नवनीतगुणो विधिः // MJऐNय्_३,८.३१ //
SK
श्येने श्रूयते - ऽदृतिनवनीतमाज्यं भवतिऽ इति | दृतौ चिरं संगृहीतं नवनीतं यस्याऽज्यस्य प्रकृतिद्रव्यं तदेतदीदृशमाज्यं मानान्तरेण पूर्वमप्राप्तत्वात्प्रधानकर्मणि विधेयम्- इति चेत् | मैवम् | प्रधानश्येनस्य सोमयागविकारत्वेनाऽज्यापेक्षाया अभावात् | अङ्गेष्विष्टिविशेषेषु चोदकप्राप्तस्याऽज्यस्य प्रकृतिद्रव्यत्वेन यथोक्तनवनीतगुणो विधीयते || MJऐNय्C_३,८.३०-३१ ||
SK
(द्वाविंशे सर्वश्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि ३९-४१)
SK
तत्काले वा लिङ्गदर्शनात् / Jऐम्_३,८.३९ /
SK
सर्वेषां वाविशेषात् / Jऐम्_३,८.४० /
SK
न्यायोक्ते लिङ्गदर्शनम् / Jऐम्_३,८.४१ /
SK
START MJऐNय् ३,८.३२
SK
द्वाविंशाधिकरणमारचयति-
SK
सुत्याकालगताङ्गेषु गुणः सर्वेषु वोदितः / आद्यो वैशेषिकाङ्गत्वाद्वाक्यात्सर्वाङ्गसंगतिः // MJऐNय्_३,८.३२ //
SK
यो ऽयं श्येनस्याङ्गेषु दृतिनवनीतत्वगुणो विहितः सो ऽयं सुत्याकालीनेष्वेव सवनीयपशुतत्पुरोडाशरूपेष्वङ्गेषु, न तु कालान्तरवर्तिदीक्षणीयाद्यङ्गेषु | विमतो गुणः सुत्याकालीनाङ्गमात्रगः, श्येनवैशेषिकत्वात्, पशुसाहित्यवत् | यथा ऽसह पशूनालभतेऽ इति विहितं पशुसाहित्यं श्येन एव विशेषत्वेनोच्यमानं सुत्याकालीनेष्वेव सवनीयपशुष्ववस्थितम्, तथा - नवनीतमपि- इति प्राप्ते - ब्रूमः- ऽयदाज्यं तद्दृतिनवनीतम्ऽ इतिवाक्येन सर्वाङ्गताज्यविषयत्वप्रतीतावनुमानं कालात्ययापदिष्टम् | तस्मात्- सर्वेष्वङ्गेषु तन्नवनीतम् || MJऐNय्C_३,८.३२ ||
SK
(त्रयोविंशे सवनीयानां मांसमयताधिकरणे सूत्राणि ४२-४४)
SK
मांसं तु सवनीयानां चोदनाविशेषात् / Jऐम्_३,८.४२ /
SK
भक्तिर् असंनिधावन्याय्येति चेत् / Jऐम्_३,८.४३ /
SK
स्यात् प्रकृतिलिङ्गाद् वैराजवत् / Jऐम्_३,८.४४ /
SK
START MJऐNय् ३,८.३३-३४
SK
त्रयोविंशाधिकरणमारचयति -
SK
शाक्यायने पुरोडाशास्तरसा इति मांसता / सर्वत्र सवनीये वा सर्वत्र नवनीतवत् // MJऐNय्_३,८.३३ //
SK
तरसाः सवनीयाः स्युरिति तत्संनिधिः श्रुतः / पुरोडाशस्य मांसत्वं तेष्वेवातो नियम्यते // MJऐNय्_३,८.३४ //
SK
षट्त्रिंशत्सु संवत्सरेष्वनुष्ठेयं शाक्यायनम् | तत्र श्रूयते - संस्थितो ऽहनि गृहपतिर्मृगयां याति, स यान्मृगान्हन्ति, तेषां तरसाः सवमीयाः पुरोडाशा भवन्तिऽ इति | तत्र- यथा नवनीतं सर्वेष्वङ्गेषु निविष्टम्, तथा मांसत्वमपि सर्वेषु पुरोडाशेषु निविशते - इति चेत् | मैवम् | तदा हि ऽये पुरोडाशास्ते तरसाःऽ इति वचनव्यक्तौ व्यवहितान्वयः स्यात् | तरसशब्दपुरोडाशशब्दयोर्मध्ये सवनीयशब्देन व्यवधानात् | इह तु ऽतरसाः सवनीयाःऽ इत्यनयोः संनिधिः श्रूयते | तथा सति ऽये सवनीयास्ते तरसाःऽ इत्यनेन संनिध्यनुगृहीतेन वाक्येन मांसत्वं सवनीयपुरोडाशेष्वेव नियम्यते || MJऐNय्C_३,८.३३-३४ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्याष्टमः पादः
SK
समाप्तश्चायं तृतीयो ऽध्यायः
SK
अथ चतुर्थाध्यायस्य प्रथमः पादः /
SK
START MJऐNय् ४,१.१
SK
शेषशेषित्वसिद्धौ किं प्रयोज्यं किं प्रयोजकम् / इत्यपेक्षोदयाद्वक्ति चतुर्थ तप्रत्युक्तये // MJऐNय्_४,१.१ //
SK
अनेन तृतीय- चतुर्थयोरध्याययोः पूर्वोत्तरभाव उपपादितः || MJऐNय्C_४,१.१ ||
SK
(प्रथमे प्रतिज्ञाधिकरणे सूत्रम्-)
SK
अथातः क्रत्वर्थपुरुषार्थयोर् जिज्ञासा / Jऐम्_४,१.१ /
SK
START MJऐNय् ४,१.२-३
SK
चतुर्थाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति-
SK
चिन्ता न कार्या कार्या वा क्रत्वर्थपुरुषार्थयोः / अफलत्वान्न कर्तव्या प्रयुक्तौक्रियतामियम् // MJऐNय्_४,१.२ //
SK
क्वचिदेतद्विचारेण क्वचित्फलविधेर्वशात् / क्वचित्साक्षादिहाध्याये प्रयुक्तिर्बहुधोच्यते // MJऐNय्_४,१.३ //
SK
ऽक्रत्वर्थो ऽयम्, पुरुषार्थो ऽयम्ऽ इति विवेकस्य प्रयोजनं किमपि न पश्यामः | तस्मात्- काकदन्तविचारवदयं विचार उपेक्षणीयः- इति चेत् | मैवम् | तेन विचारेण प्रयुक्तेर्ज्ञातुं शक्यत्वात् | साक्षाद्वा परम्परया वा प्रयुक्तिनिर्णयोपयुक्तं सर्वमिह चिन्तनीयम् || MJऐNय्C_४,१.२-३ ||
SK
(द्वितीये क्रत्वर्थपुरुषार्थलक्षणाधिकरणे सूत्रम्-)
SK
यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तत्वात् / Jऐम्_४,१.२ /
SK
START MJऐNय् ४,१.४
SK
द्वितीयाधिकरणे प्रथमवर्णकमारचयति-
SK
क्रत्वर्थादेर्नास्ति वास्ति लक्ष्म नास्त्यनिरूपणात् / क्रतवे यस्तदर्थो ऽसाविति तस्य निरूपणम् // MJऐNय्_४,१.४ //
SK
ऽक्रतावनुष्ठेयः क्रत्वर्थःऽ इत्युक्ते गोदोहनादावतिव्याप्तिः | ऽपुरुषेणार्थ्यमानः पुरुषार्थःऽ इत्युक्ते प्रयाजादीनामप्यनुष्ठेयतया पुरुषेणार्थ्यमानत्वादतिव्याप्तिः | तस्मात्- तयोरद्रुष्टं लक्षणं दुर्निरूपम- इति चेत् | मैवम् | ऋतुस्वरूपपौष्कल्यायैव यो विधीयते स क्रत्वर्थः | प्रयाजादयस्तादृशाः | नहि प्रयाजादिमिः पुरुषस्य कश्चित्प्रीतिविशेष उत्पद्यते, येनैते पुरुषार्था भवेयुः | दर्शपूर्णमासक्रतुस्तु तैः प्रयाजादिभिः फलजननसामर्थ्यलक्षणं पौष्कल्यं प्राप्नोति | तस्मात्- ते क्रत्वर्थाः | पुरुषप्रीतये विधीयमानः पुरुषार्थः | दर्शपूर्णमासादयो गोदोहनादयश्च तादृशाः | न हि दर्शपूर्णमासाभ्या कस्यचित्क्रतोः पौष्कस्यं भवति | त्रयोरेव क्रतुत्वात् | नापि गोदोहनं क्रत्वर्थम् | तदभावे ऽपि चमसेन क्रतुपौष्कल्यसिद्धिः | तस्मात्- सुनिरूपणं तदुभयलक्षणम् || MJऐNय्C_४,१.४ ||
SK
START MJऐNय् ४,१.५
SK
द्वितीयवर्णकमारचयति-
SK
फलं विधेयं नो वाऽद्यो भावनांशत्वतो ऽन्यवत् / न भाव्यांशो विधेयः स्याद्रागात्तत्र प्रवर्तनात् // MJऐNय्_४,१.५ //
SK
ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इति स्वर्गः फलत्वेन श्रूयते | तत्र-विमतं फलं विधेयम्, भावनांशत्वात्, करणवत्, इतिकर्तव्यतावच्च - इति चेत् | मैवम् | अप्रवृत्तप्रवर्तनं हि विधानम् | फलं तु पुरुषः सौन्दर्य जामन्स्वयं रागादेव प्रवृत्तः- इति व्यर्थस्तत्र विधिः || MJऐNय्C_४,१.५ ||
SK
START MJऐNय् ४,१.६
SK
तृतीयवर्णकमारचयति-
SK
गोदोहनं द्वयार्थ स्याम्न वा भानाद्द्वयार्थता / अन्यथापि क्रतोः सिद्धिःकेवलं पुरुषाय तत् // MJऐNय्_४,१.६ //
SK
दर्शपूर्णमासयोः श्रूयते- ऽचमसेनापः प्रणयेद्गोदोहनेन पशुकामस्यऽ इति | तत्र- गोदोहनस्य क्रत्वर्थत्वं पुरुषार्थत्वं च, इत्याकारद्वयमस्ति पशुफलजनमेन पुरुषप्रीतिर्भाति, अपां प्रणयनेन क्रतुपौष्कल्यमपि भाति- इति चेत् | मैवम् | गोदोहनमन्तरेण फलासिद्धिर्भवतु पुरुषार्थत्वम् | क्रतुस्तु तदभावे ऽपि चमसेन सिध्यतीति न क्रत्वर्थता || MJऐNय्C_४,१.६ ||
SK
START MJऐNय् ४,१.७
SK
चतुर्थवर्णकमारचयति -
SK
द्रव्यार्णनं स्यात्क्रत्वर्थ पुमर्थ वा क्रताविदम् / नियतत्वात्पुमर्थत्वं दृष्टं क्रत्वर्थताऽर्थिकी // MJऐNय्_४,१.७ //
SK
ब्राह्मणस्य द्रव्यार्जने प्रतिग्रहयाजनाध्यापनान्येव नियतानि तत्र तत्र श्रुतानि, राजन्यस्य जयादिकम्, वैश्यस्य कृष्यादिकम्, शूद्रस्य सेवादिकम् | तच्च यदेतद्द्रव्यसंपादनं तदेतत्क्रत्वर्थम् | कुतः | अर्जनोपायानां नियतत्वात् | पुरुषप्रीतेस्तु येन केनापि द्रव्येण सिद्धत्वादर्जनोपायनियमस्तत्र निरर्थकः | क्रतौ तु नियमापूर्व परमापूर्वापयोगीति सार्थको नियमः- इति प्राप्ते | ब्रूमः- द्रव्यार्जने रागः प्रवर्तको दृष्ट इति न विधिरपेक्ष्यते | फलं च क्षुन्निवृत्त्यादिरूपं दृष्टमेव | अत एव स्मर्यते- ऽषण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका | याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः || इत | क्रत्वर्थत्वे तु जीवनाभावात्क्रतुरेव न सिध्येत् | पुरुषार्थतायां स्वैहिकप्रीतिकारिभोजनादिवत्क्रतोरामुष्मिकप्रीतिकारितया पुरुषार्थष्वन्तर्भावात्क्रत्वर्थताप्यार्थिकी सिध्यति | उपायनियमस्तूपायान्तरेषु प्रत्यवायविवक्षयोपपद्यते | तस्मात्- द्रव्यार्जनं पुरुषार्थम् || MJऐNय्C_४,१.७ ||
SK
(तृतीये प्रजापतिव्रतानां पुरुषार्थताधिकरणे सूत्राणि ३-६)
SK
तदुत्सर्गे कर्माणि पुरुषार्थाय शास्त्रस्यानतिशङ्क्यत्वान् न च द्रव्यं चिकीर्ष्यते तेनार्थेनाभिसम्बन्धात् क्रियायां पुरुषश्रुतिः / Jऐम्_४,१.३ /
SK
अविशेषात् तु शास्त्रस्य यथाश्रुति फलानि स्युः / Jऐम्_४,१.४ /
SK
अपि वा कारणाग्रहणे तदर्थम् अर्थस्यानभिसंबन्धात् / Jऐम्_४,१.५ /
SK
तथा च लोकभूतेषु / Jऐम्_४,१.६ /
SK
START MJऐNय् ४,१.८-९
SK
तृतीयाधिकरणमारचयति-
SK
नेक्षेतोद्यन्तमादित्यं क्रत्वर्थ तन्न वाग्रिमः / फलस्याकल्पनीयत्वात्क्रतौ प्राप्तं निषिध्यते // MJऐNय्_४,१.८ //
SK
व्रतोक्त्या पर्युदासत्वे संकल्पो ऽनीक्षणे ऽत्र सः / न क्रत्वङ्गसमानत्वात्पुमर्थः पापहानये // MJऐNय्_४,१.९ //
SK
अनारभ्य श्रूयते- ऽनेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचनऽ इति | अत्र नञ्पदमभिधावृत्त्या प्रतिषेधं ब्रूते, न तु पर्युदासम् | प्रतिषेधश्च प्राप्तिपूर्वकः | प्राप्तिश्च वैदिकस्य निपेधस्य वैदिकी प्रत्यासन्ना | तथा सति क्रतौ यत्राऽदित्येक्षणं विहितम्, तत्रायं निषेध उदयास्तमयोद्देशेन प्रवर्तते | एवं च सति फलं न कल्पनीयम् | पर्युदासमाश्रित्य पुरुषार्थत्वाङ्गीकारे ऽधिकारसिद्धये फलं कल्पनीयं स्यात् | तस्मात्- क्रत्वर्थो निषेधः- इति प्राप्ते- ब्रूमः- ऽतस्य व्रतम्ऽ इत्युपक्तम्य ऽनेक्षेतोद्यन्तमादित्यम्ऽ इत्याम्नातत्वादनीक्षणरूपं किंचिदनुष्ठेयम् | तच्च पर्युदासत्वे सत्यवकल्पते | ईक्षणस्याभावः प्रतिषेधपक्षे नञर्थः | पर्युदासपक्षे त्वीक्षणादितरः संकल्पो नञ्पदेन लक्ष्यते | स च संकल्पो ऽत्रानुष्ठेयव्रतत्वेन विधीयते | यद्यपीक्षणादितरे बहवो व्यापारा अनुष्ठानयोग्याः सन्ति, तथापि कायिकवाचिकव्यापारविशेषस्याप्रतीयमानत्वात्, मानसव्यापारस्यावर्जनीयत्वाच्च संकल्प एव परिशिष्यते | संकल्पनीयश्चार्थः प्रत्यासत्त्या धात्वर्थनिषेधः | तथा सतिऽउद्यन्तम्, अस्तं यन्तं चाऽदित्यं नेक्षिष्येऽ इत्येवंरूपः संकल्पो ऽत्रानुष्ठेयत्वेन विधीयते | न च तस्य संकल्पस्य क्रत्वङ्गत्वम् | तद्बोधकश्रुतिलिङ्गादिप्रमाणाभावात् | न च पुरुषार्थत्वे ऽपि प्रमाणाभावः | ऽएतावता हैनसा मुक्तो भवतिऽ इत्यनेन वाक्येनेक्षितुः पुरुषस्य प्रत्यवायसंबन्धमुपन्यस्य तत्प्रत्यवायनिवारणफलकस्यानीक्षणसंकल्पस्य विधानेन पुरुषार्थत्वावगमात् | क्रत्वङ्गत्वविवक्षायां तु क्रतुवैकल्यरूपो विपक्षबाध उपन्यस्येत | तस्मात्- अनीक्षणसंकल्पादीनि प्रजापतिव्रतानि पुरुषार्थानि || MJऐNय्C_४,१.८-९ ||
SK
(चतुर्थे यज्ञायुधानामनुवादताधिकरणे सूत्राणि ७-१०)
SK
द्रव्याणि त्व् अविशेषेणानर्थक्यात् प्रदीयेरन् / Jऐम्_४,१.७ /
SK
स्वेन त्वर्थेन सम्बन्धो द्रव्याणां पृथगर्थत्वात् तस्माद् यथाश्रुति स्युः / Jऐम्_४,१.८ /
SK
चोद्यन्ते चार्थकथासु / Jऐम्_४,१.९ /
SK
लिङ्गदर्शनाच् च / Jऐम्_४,१.१० /
SK
START MJऐNय् ४,१.१०-११
SK
चतुर्थाधिकरणमारचयति-
SK
दश यज्ञायुधानीति हविष्ट्वेन विधिर्न वा / आद्यो ऽप्राप्तेः पुरोडाशे समुच्चयविकल्पते // MJऐNय्_४,१.१० //
SK
सार्धमुत्पत्तिशिष्टेन विकल्पादिर्न युज्यते / स्फ्येनोद्धन्तीति यत्प्राप्तं तदत्रानूद्य संस्तवः // MJऐNय्_४,१.११ //
SK
दर्शपूर्णमासयोः- ऽस्फ्यश्च कपालानि च-ऽ इत्याद्युपक्रम्य ऽएतानि वै दशयज्ञायुधानिऽ इत्याम्नातम् | तानि चात्र हविष्ट्वेन विधीयन्ते | कुतः | मानान्तरैरप्राप्तत्वेनापूर्वार्थत्वात् | यदि तत्र पुरोडाशो हविर्भवत्, तदा तेन सहैतेषां समुच्चयो विकल्पो वास्तु- इति प्राप्ते, | ब्रूमः- ऽआग्नेयो ऽष्टाकपालःऽ इत्युत्पत्तिशिष्टेन पुरोडाशेन सह पश्चाच्छिष्टानामायुधानां विकल्पः समुच्चयो वा न संभवति | आयुधत्वं यज्ञसाधनत्वम् | तच्च ऽस्फ्येनोद्धन्ति, कपालेषु श्रपयतिऽ इत्यादिशास्त्रसिद्धमेवात्रानूद्य ऽयज्ञायुधानि संभरतिऽ इत्येष संभरणविधिः स्तूयते | तस्मात्- नास्ति हविष्ट्वम् || MJऐNय्C_४,१.१०-११ ||
SK
(पञ्चमे पश्वेकत्वाधिकरणे सूत्राणि ११-१६)
SK
तत्रैकत्वमयज्ञाङ्गम् अर्थस्य गुणभूतत्वात् / Jऐम्_४,१.११ /
SK
एकश्रुतित्वाच् च / Jऐम्_४,१.१२ /
SK
प्रतीयत इति चेत् / Jऐम्_४,१.१३ /
SK
नाशब्दं तत्प्रमाणत्वात् पूर्ववत् / Jऐम्_४,१.१४ /
SK
शब्दवत् तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथान्येषाम् / Jऐम्_४,१.१५ /
SK
तद्वच् च लिङ्गदर्शनम् / Jऐम्_४,१.१६ /
SK
START MJऐNय् ४,१.१२-१३
SK
पञ्चमाधिकरणमारचयति-
SK
पशुरालभ्य इत्यत्र पश्वैक्ये यजनाङ्गता / नास्त्यस्ति वाऽद्यः स्वपदे श्रुत्या पश्वङ्गतागतेः // MJऐNय्_४,१.१२ //
SK
आदौ स्वप्रत्ययोपात्त आसन्नतरकारके / योगः क्रतौ पशौ चेति क्रमे यागाङ्गतोचिता // MJऐNय्_४,१.१३ //
SK
ऽअग्नीषोमीयं पशुमालभेतऽ इत्यत्र पशोरेकत्वं यजनाङ्गं न भवति | तस्य श्रुत्या पशुसंबन्धावगमात् | ऽपशुम्ऽ इत्येतस्मिन्नेव पदे पशुतदेकत्वयोः श्रवणात्पदान्तरनैरपेक्ष्येण परस्परसंबन्धो ऽवगम्यते | यागस्तु ऽआलभेतऽ इत्यनेन पदान्तरेणोपात्तः | तत्र वाक्येन संबन्धावगतिः | वाक्याच्च श्रुतिर्बलीयसी | तत एकत्वस्य यागाङ्गत्वाभावाद्द्वाभ्यां बहुभिर्वा यागो ऽनुष्ठातुं शक्यते- इति प्राप्ते, ब्रूमः- ऽपशुम्ऽ इति पदं यद्यप्येकम्, तथापि प्रकृत्या पशुर्मिर्दिष्टः | प्रत्ययेन कारकत्वम्, एकत्वं च, इत्युभयं निर्दिष्टम् | तत एकत्वस्याऽसन्नतरे कारके प्रथमं संबन्धो भवति | कारकत्वं नाम क्रियाहेतुत्वम् | तथा सति कारकद्वारा क्रियायामपि संबन्धः प्रत्ययेनैवावगतः | क्रियाविशेषश्च संनिहितपदान्तरोपात्तो याग इति यजनाङ्गत्वमेकत्वस्य सिध्यति | तच्चैकत्वं स्वयममूर्ततया यागक्रियां निष्पादयितुमसमर्थ सत्तत्र समर्थे पशुद्रव्यं पश्चादवच्छिनत्ति | तत एकत्वस्य यागाङ्गत्वान्न द्वाभ्यां त्रिभिर्वा यागसिद्धिः | एवम्- ऽअनड्वाहौ युनक्तिऽ ऽवसन्ताय कपिञ्जलानालभतेऽ इत्यत्र द्वित्वबहुत्वयोर्विवक्षितत्वं द्रष्टव्यम् || MJऐNय्C_४,१.१२-१३ ||
SK
(षष्ठे पशुलिङ्गविवक्षाधिकरणे सूत्रम्-)
SK
तथा च लिङ्गम् / Jऐम्_४,१.१७ /
SK
START MJऐNय् ४,१.१४
SK
षष्ठाधिकरणमारचयति-
SK
न पुंलिङ्गे विवक्षा वा विवक्षानुपयोगतः / आद्यो ऽनुष्ठित्यपेक्षत्वात्संख्यावत्तद्विवक्ष्यताम् // MJऐNय्_४,१.१४ //
SK
ऽपशुमालभेतऽ इत्यत्र पशुपदे पुंलिङ्गमविवक्षितम् | कुतः | शब्दार्थविचारे ऽनुष्ठानविचारे च तदुपयोगादर्शनात् | अलिङ्गे ऽपि वृक्षपदार्थे पुंलिङ्गो वृक्षशब्दः प्रयुज्यते | तथा पुंव्यक्तावपि स्त्रीलिङ्गो मक्षिकाशब्दः प्रयुक्तः | ततो न लिङ्गस्य शब्दार्थत्वेन विवक्षास्ति | अनुष्ठानमपि पुंव्यक्तिस्त्रीव्यक्त्योः समानम् | एकत्वावच्छिन्नपशुत्वे वैषम्याभावात् | तस्मात्- अविवक्षितं लिङ्गम्- इति प्राप्ते,- ब्रूमः- यथा पशुत्वजातिः, यथा वा -तदेकत्वम्, वृद्धव्यवहारे ऽन्वयव्यतिरेकाभ्यामनन्यथासिद्धाभ्यां शब्दार्थः, तथा लिङ्गस्यापि कुतः शब्दार्थता न स्यात् | वृक्षमक्षिकाशब्दयोस्तु न वयमर्थतः साधुतां ब्रूमः, किंत्वभियुक्तप्रयोगमात्रबलेन साधुत्वम् | न चानुष्ठाने साम्यम् | अपुंस्पशौ विशेषसद्भावात् | ऽवाक्त आप्यायताम्ऽ इत्यादिभिर्मन्त्रैस्तत्तदवयवानामाप्यायमनकाले ऽमेढ्रं तु आध्यायताम्ऽ इति मन्त्रेण तदवयवस्याऽप्यायनश्रवणात् | तस्मात्-एकत्ववत्पुंलिङ्गमपि विवक्षितम् || MJऐNय्C_४,१.१४ ||
SK
(सप्तमे- आश्रयिणामदृष्टार्थताधिकरणे सूत्राणि १८-२०)
SK
आश्रयिष्व् अविशेषेण भावो ऽर्थः प्रतीयेत / Jऐम्_४,१.१८ /
SK
चोदनायां त्व् अनारम्भो विभक्तत्वान् न ह्य् अन्येन विधीयते / Jऐम्_४,१.१९ /
SK
स्याद् वा द्रव्यचिकीर्षायां भावो ऽर्थे च गुणभूतत्वाश्रयाद् विगुणीभावः / Jऐम्_४,१.२० /
SK
START MJऐNय् ४,१.१५-१६
SK
सप्तमाधिकरणमारचयति-
SK
स्विष्टकृत्संस्कृतौ क्षीण उतापूर्वोपयोग्यपि / प्रयोजनैक्यमेकस्मिन्युक्तं कर्मण्यतः क्षयः // MJऐNय्_४,१.१५ //
SK
मन्त्रेण देवसंस्कारः प्रक्षेपाठ्द्रव्यसंस्कृतिः / त्यागादपूर्वमुत्पन्नं प्रधानापूर्वगं च तत् // MJऐNय्_४,१.१६ //
SK
यो ऽयं स्विष्टकृद्यागः सो ऽयमुपयुक्तहविःसंस्कारः- इत्यविवादम् | तत्र संस्कारस्य दृष्टप्रयोजनत्वेनावश्यंभावे सति तावतैवोपक्षीणः स्विष्टकृद्यागो नापूर्वस्योपकरोति | न ह्येकस्मिन्कर्मणि प्रयोजनद्वयं युक्तम्- इति प्राप्ते, - ब्रूमः- कर्मण एकत्वे ऽप्यंशभेदात्प्रयोजनभेदो न विरुध्यते | मन्त्रपाठः, द्रव्यप्रक्षेपः, देवतोद्देशेन त्यागश्च, इति त्रय्ॐऽशाः | तत्र त्यागेन परमापूर्वोपयुक्तमवान्तरापूर्वमुत्पद्यते | तस्मात्- स्विष्टकृदुभयार्थः | एवम्- अन्त्यप्रयाजपशुपुरोडाशावप्युदहार्यै || MJऐNय्C_४,१.१५-१६ ||
SK
(अष्टमे प्रयुक्तिविचारप्रतिज्ञाधिकरणे सूत्रम्-)
SK
अर्थे समवैषम्यतो द्रव्यकर्मणाम् / Jऐम्_४,१.२१ /
SK
START MJऐNय् ४,१.१७
SK
अष्टमाधिकरणमारचयति- शेषत्वमुपरिग्रन्थे चिन्तनीयमुतेतरत् / शेषो मानान्न तस्यात्र प्रयुक्त्याख्यफलेरणात् // MJऐNय्_४,१.१७ //
SK
वक्ष्यमाणेष्वधिकरणेषु शेषत्वमेव चिन्ताविषयः | यथा - अतीतेष्वधिकरणेषु क्रतुशेषो ऽयम्, पुरुषशेषो ऽयम्, इति चिन्तितम्, तद्वत् | कुतः | उपरितनग्रन्थेन तत्र तत्र पर्णादीनां शेषत्वविचारस्य भासमानत्वात्- इति चेत् | मैवम् | शेषत्वस्य यत्प्रयुक्तिरूपं फलं तदेव प्राधान्येन विचार्यते | शेषत्वं तु तदुपयोगित्वेनेति न तद्विचारः प्रधानभूतः || MJऐNय्C_४,१.१७ ||
SK
(नवमे- आमिक्षाप्रयुक्तताधिकरणे (वाजिनन्याये) सूत्राणि २२-२४)
SK
एकनिष्पत्तेः सर्वं समं स्यात् / Jऐम्_४,१.२२ /
SK
संसर्गरसनिश्पत्तेरामिक्षा वा प्रधानं स्यात् / Jऐम्_४,१.२३ /
SK
मुख्यशब्दाभिसंस्तवाच् च / Jऐम्_४,१.२४ /
SK
START MJऐNय् ४,१.१८-१९
SK
नवमाधिकरणमारचयति-
SK
आमिक्षा वाजिनं च स्याद्दध्यानीतेः प्रयोजकम् / उताऽमिक्षैव सामर्थ्य द्वयोस्तुल्यं ततो ऽग्निमः // MJऐNय्_४,१.१८ //
SK
आमक्षी पय एवात्र तच्छब्दान्मन्त्रतो रसात् / प्रयोजिकैका प्रधान्यादनुनिष्पादि वाजिनम् // MJऐNय्_४,१.१९ //
SK
इदमाम्नायते- ऽतप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्ऽ इति | तत्र-पयसि दधिप्रक्षेपादामिक्षाद्रव्यं यथा निष्पद्यते, तथा वाजिनद्रव्यमपिऽ इति दध्यानयनस्य जनकत्वसामर्थ्यमुभयद्रव्यविषयं तुल्यमेव | तस्मात्- उभयमपि प्रयोजकम्- इति प्राप्ते,- ब्रूमः- ऽन द्रव्यान्तरमामिक्षा, किं तु पय एवऽ इति तच्छब्दादिभिरवगम्यते | ऽयस्मिन्पयसि दधिप्रक्षेपः, साऽमिक्षाऽ इति तच्छब्देन पयः परामृश्यते | आमिक्षायागस्य पुरोनुवाक्यायामेवमाम्नातम्- ऽजुपन्तां युज्यं पयःऽ इति | पयोरसश्च मधुर आमिक्षायामनुवर्तते, न तु वाजिने | ततः- प्राधान्येन पयसो वनीभावावस्थां जनयितुं दध्यानीतम्- इत्यामिक्षैव प्रयोजिका | अनुनिष्पाद्येव वाजिनम्, न तु प्रयोजकम् || MJऐNय्C_४,१.१८-१९ ||
SK
(दशमे गवानयनस्य पदकर्माप्रयुक्तताधिकरणे सूत्रम्-)
SK
पदकर्माप्रयोजकं नयनस्य परार्थत्वात् / Jऐम्_४,१.२५ /
SK
START MJऐNय् ४,१.२०-२१
SK
दशमाधिकरणमारचयति-
SK
सोमक्रयण्यानयने पदकर्म प्रयोजकम् / न वाऽद्यो ऽक्षाञ्जनस्यापि क्रयवत्संनिकर्षतः // MJऐNय्_४,१.२० //
SK
तृतीयया क्रयार्था गौस्तद्द्वाराऽनयनस्य च / तादर्थ्यत्तत्प्रयुक्तं तन्न प्रयोजकता पदे // MJऐNय्_४,१.२१ //
SK
ज्योतिष्टोमे सोमक्रय आघ्नायते- ऽएकहायन्या क्रीणातिऽ इति | सेवमेकहायनी गौर्यदा सोमं क्रेतुमानीयते, तदाध्वर्युस्तस्याः पृष्ठतो ऽनुगच्छति | तदप्याम्नातम्- ऽषट्पदान्यनुनिष्क्रामतिऽ इति | ततः सप्तमे पदे हिरण्यं निधाय हुत्वा तत्पदगतं रजो गृह्णीयात् | एतदपि श्रूयते- ऽसप्तमं पदमध्वर्युरञ्जलिना गृह्णातिऽ इति | तदेतद्रजः संगृह्य हविर्धानयोः शकटयोरक्षे तेन रजसां संयुक्तमञ्जनं प्रक्षिपेत् | एतदपि श्रुतम्-ऽयज्ञं वा एतत्संभरन्ति यत्सोमक्रयण्यै पदम्ऽ इति प्रस्तुत्य ऽयर्हि हविर्धाने प्राची प्रवर्तयेयुः, तर्हि तेनाक्षमुपाञ्ज्यात्ऽ इति | तत्र यथा क्रयः संनिकृष्टः, तथैव पदकर्माप्यक्षाञ्जनं संनिकृष्टम् | अथोच्येत- दध्यानयनमामिक्षया यथा संयुक्तम्, न तथाक्षाञ्जनं सोमक्रयण्यानयनेन संयुक्तम्- इति | तन्न | क्रये ऽपि तदसंयोगस्य तुल्यत्वात् | अथ- असंयुक्तो ऽपि क्रयो गवानयनेन निष्पद्यते | - तर्ह्यक्षाञ्जनमपि तेन निष्पद्यते- इति समानत्वात् | क्रयवत्पदकर्मापि सोमक्रयण्यानयनस्य प्रयोजकम्- इति प्राप्ते,- ब्रूमः- ऽएकहायन्या क्रीणातिऽ इति तृतीयाश्रुत्या गोः क्रयार्थता गम्यते | गोद्वारा तदानयनमपि क्रयार्थमेवेति क्रय एवाऽनयने प्रयोजकः | न च पदकर्मार्थत्वं गोर्वा तदानयनस्य वा क्वचिच्छ्रुतम् | तस्मात्- तदप्रयोजकम् || MJऐNय्C_४,१.२०-२१ ||
SK
(एकादशे कपालानां तुषोपवापाप्रयुक्तताधिकरणे सूत्रम् / )
SK
अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात् तदर्थो हि विधीयते / Jऐम्_४,१.२६ /
SK
START MJऐNय् ४,१.२२-२३
SK
एकादशाधिकरणमारचयति-
SK
श्रपणं तुषवापश्च कपालस्य प्रयोजकौ / उत श्चपणमेवाऽद्यो वापार्थत्वात्तृतीयया // MJऐNय्_४,१.२२ //
SK
पुरोडाशकपालेतिनाम्ना स्याच्छ्रपणार्थता / प्रयुक्तस्य प्रयुक्तिर्नो तस्य वापे प्रसञ्जनम् // MJऐNय्_४,१.२३ //
SK
ऽकपालेषु श्रपयतिऽ इति श्रपणं पुरोडाशस्य श्रुतम् | तथा- ऽपुरोडाशकपालेन तुषानुपवपतिऽ इति कपाले तुषधारणं श्रुतम् | ते च तुषाः सकपालाः ऽरक्षसां भागो ऽसिऽ इति मन्त्रेण नैऋत्यां दिश्यवस्थापनीयाः | तत्र श्रपणं यथा कपालसंपादस्य प्रयोजकम्, तथा तुषवापो ऽपि प्रयोजकः | ऽएकहायम्याऽ इति तृतीययैकहायनीनयनस्य यथा क्रयार्थत्वावगमः तथा ऽकपालेनऽ इति तृतीयया कपालस्य तुषवापार्थत्वावगमात्- इति चेत् | मैवम् | नात्र कपालमात्रस्य तुषोपवापसाधनत्वं श्रुतम् | किं तर्हि यत्कपालं पुरोडाशश्रपणायोपात्तमासादितं च, तस्य कपालस्य साधनत्वम् | एतच्च ऽपुरोडाशकपालेनऽ इति सविशेषणनाम्ना तद्विधानादवगम्यते | तथा सति प्रथम् श्रपणेन कपालं प्रयुज्यने | न च प्रयुक्तस्य पुनस्तुषवापेन प्रयुक्तिः संभवति | तस्मात्- श्रपणेनैव प्रयुक्तं कपालं तुषोपवापे ऽपि प्रसङ्गात्सिध्यति | ईदृशमेवाङ्गत्वं तृतीयाश्रुत्या बोध्यते || MJऐNय्C_४,१.२२-२३ ||
SK
(द्वादशे शकृल्लोहितयोः पशावप्रयोक्तृताधिकरणे सूत्रम्-)
SK
पशाव् अनालम्भाल् लोहितशकृतोर् अकर्मत्वम् / Jऐम्_४,१.२७ /
SK
START MJऐNय् ४,१.२४-२५
SK
द्वादशाधिकरणमारचयति-
SK
हृदादिः शकृदादिश्च पश्वालम्भप्रयोजकः / हृदादिरेव वाऽद्यो ऽस्तु प्रकृतत्वेन साम्यतः // MJऐNय्_४,१.२४ //
SK
हविषो वागशेषत्वाद्धृदादेर्हविरात्मनः / प्रयोजकत्वं तस्यैव नेतरस्यातथात्वतः // MJऐNय्_४,१.२५ //
SK
अग्नीषोमीयपशौ श्रुतम्-᳚हृदयस्याग्रे ऽवद्यति, अथ जिह्वायाः, अथ वक्षसः,᳚इति | तथान्यदपि श्रुतम्- ऽशकृत्संप्रविध्यतिऽ ऽलोहितं निरस्यतिऽ इति | तत्र हृदयादीनां शकृदादीनां च प्रकरणपाठसाम्यात्पशुसाध्यत्वसाम्याञ्च हृदयादिवच्छकृदादिकमपि पश्वालम्भस्य प्रयोजकम्- इति चेत् | मैवम् | पशुयागो हि हविःसाध्यः | हविष्ट्वं चात्तुं योग्यत्वाद्धृदयादीनामेव, नत्वयोग्ययोः शकृल्लोहितयोः | तस्मात्- हृदयादिरेव प्रयोजकः | शकृत्संप्रबेधो लोहितनिरसनं चेत्येतदुभयं शेषप्रतिपत्तिमात्रम् || MJऐNय्C_४,१.२४-२५ ||
SK
(त्रयोदशे पुरोडाशस्य स्विष्टकृदप्रयुक्तताधिकरणे सुत्राणि २८-३२)
SK
एकदेशद्रव्यश् चोत्पत्तौ विद्यमानसंयोगात् / Jऐम्_४,१.२८ /
SK
निर्देशात् तस्यान्यद् अर्थाद् इति चेत् / Jऐम्_४,१.२९ /
SK
न शेषसंनिधानात् / Jऐम्_४,१.३० /
SK
कर्मकार्यात् / Jऐम्_४,१.३१ /
SK
लिङ्गदर्शनाच् च / Jऐम्_४,१.३२ /
SK
START MJऐNय् ४,१.२६-२७
SK
त्रयोदशाधिकरणमारचयति-
SK
प्रयोजकः स्विष्टकृत्किं पुरोडाशोत्तरार्धयोः / यद्वा प्रयुक्तोपजीवी स्यादाद्यः स्वस्य सिद्धये // MJऐNय्_४,१.२६ //
SK
उत्तरार्धेतिशब्दस्य प्रकृताकाङ्क्षणे सति / अग्न्याद्यर्थ पुरोडाशमुपजीव्यैष वर्तताम् // MJऐNय्_४,१.२७ //
SK
दर्शपूर्णमासयोः श्रूयते- ऽउत्तरार्धात्स्विष्टकृते समवद्यतिऽ इति | सो ऽयं स्विष्टकृद्यागः कस्यचिन्नूतनस्य तदुत्तरार्धस्य च प्रयोजकः | तदुभयाभावे स्वसिद्ध्यभावात्- इति चेत् | मैवम् | उत्तरशब्दोर्ऽधशब्दश्च सर्वनामत्वाद्भागवाचित्वाच्च प्रकृतं कंचिद्भाणिनमाराभ्क्षकः | अग्न्यादिदेवतार्थः पुरोडाशः प्रकृता भागवांश्च | तस्मात्- तमेवोपजीव्य स्विष्टकृद्यागः प्रवर्तते | न त्वन्यस्य प्रयोजकः || MJऐNय्C_४,१.२६-२७ ||
SK
(चतुर्दशे- अभिघारणे शेषधारणतत्पात्रयोरननुष्ठानाधिकरणे सूत्राणि ३३-३९)
SK
अभिघारणे विप्रकर्षाद् अनुयाजवत् पात्रभेदः स्यात् / Jऐम्_४,१.३३ /
SK
न वापात्रत्वाद् अपात्रत्वं त्व् एकदेशत्वात् / Jऐम्_४,१.३४ /
SK
हेतुत्वाच् च सहप्रयोगस्य / Jऐम्_४,१.३५ /
SK
अभावदर्शनाच् च / Jऐम्_४,१.३६ /
SK
सति सव्यवचनम् / Jऐम्_४,१.३७ /
SK
न तस्येति चेत् / Jऐम्_४,१.३८ /
SK
स्यात् तस्य मुख्यत्वात् / Jऐम्_४,१.३९ /
SK
START MJऐNय् ४,१.२८-२९
SK
चतुर्दशाधिकरणमारचयति-
SK
अभिघार्य प्रयाजानां शेषेण हविरत्र किम् / शेषधारणतत्पात्रे कार्ये नो वाभिघारणम् // MJऐNय्_४,१.२८ //
SK
नान्यथा तेन ते कार्ये न कार्ये प्रतिपत्तितः / प्राजापत्यवपायाश्च न को ऽप्यर्थो ऽभिधारणात् // MJऐNय्_४,१.२९ //
SK
प्रकृतौ श्रुतम्- ऽप्रयाजशेषेण हवींष्यभिधारयतिऽ इति | तदेतद्विकृतावतिदिष्टम् | विकृतयश्च वाजपेयगताः पशवः | ते च द्विविधाः- क्रतुपशवः प्राजापत्यपशवश्चेति | ऽआग्नेयं पशुमालभतेऽ इत्यादिना विहिताः क्रतुपशवः | इतरे तु ऽसप्तदश प्राजापत्यान्पशूनालभतेऽ इति विहिताः | एते चोभयविधाः पशवः प्रातःसवने सहैवोपक्रम्यन्ते | ततः सर्वेषामर्थे सकृदेव प्रयाजा अनुष्ठीयन्ते | तत्र क्रतुपशूनां प्रातःसवन एवाऽलब्धव्यत्वात्तदीयहविषां प्रयाजशेषेणाभिधारणं निर्विघ्नमेव सिध्यति | प्राजापत्यपशूनां पर्यग्निकरणपर्यन्तमेव तदानीमनुष्ठानम् | आलम्भस्तु माध्यंदिने सवने, तत्कालविशेषस्य ऽब्रह्मसाम्न्यालभतेऽ इति विधानात् | तेषां च प्राजापत्यादीनां हविषामभिधारणार्थ प्रातःकालीनः प्रयाजशेषो धारयितव्यः | न चात्र जुह्वां तद्धारणं संभवति | क्रतुपश्वनुष्ठाने जुह्वाया व्यापृतत्वात् | अतः पात्रान्तरं संताद्य तस्मिन्नयं शेषो धारयितव्यः | अन्यथा प्राजापत्यहविषां प्रयाजशेषेणाभिधारणात्सिद्धिः | तस्मात्- शेषधारणतत्पात्रे संपादनीये- इति प्राप्ते- ब्रूमः- ते उभे न कर्तव्ये | कुतः | अभिधारणस्य शेषप्रतिपत्तिरूपत्वेन हविःसंस्कारकत्वाभावत्त् | न हि दृष्टे प्रतिपादने सत्यदृष्टार्थः संस्कारो युक्तः | दृष्टं च जुह्वा रिक्तीकरणम् | अन्यथा प्रयाजशेषोपेतायां जुह्वामाज्यभागार्थतया गृह्यमाणं संकीर्येत | ततो रिक्तीकरणरूपपप्रतिपत्त्यर्थमेव प्रकृतौ शेषेणाभिधारणम् | अस्तु वा तत्र हविःसंस्कारो ऽपि तथापि प्राजापत्यवपायामभिधारणं व्यर्थम् | रूक्षत्वनिवारणाय ह्यभिधार्यते | न च प्राजापत्यवपाया रूक्षतास्ति | ब्रह्मसाम्नैवतद्रूक्षताया निवारितत्वात् | अत एव- श्रूयते- ऽशम्या वा एतर्हि वपा यर्ह्यनभिधृता | ब्रह्म वै ब्रह्मसाम यद्ब्रह्मसाम्न्यालभते | तेनाशम्यास्तेनाभिधृताः इति | शम्या रूक्षैत्यर्थः | तस्मात्- शेषधारणतत्प्रात्रे न कर्तव्ये || MJऐNय्C_४,१.२८-२९ ||
SK
(पञ्चदशे समानयनस्याऽज्यधर्मप्रयोजकताधिकरणे सूत्रे ४०-४१)
SK
समानयनं तु मुख्यं स्याल् लिङ्गदर्शनात् / Jऐम्_४,१.४० /
SK
वचने हि हेत्वसामर्थ्ये / Jऐम्_४,१.४१ /
SK
START MJऐNय् ४,१.३०-३२
SK
पञ्चदशाधिकरणमारचयति-
SK
चतुर्थस्य प्रयाजस्य होमायौपभृतं घृतम् / जुह्वामानयतीत्यौपभृतं नैषां प्रयोजयेत् // MJऐNय्_४,१.३० //
SK
प्रयोजयेदुताऽनीतिः प्रयाजाद्यखिलार्थता / श्रुतौपभृत आज्ये ऽतो जौहवेन विकल्पनात् // MJऐNय्_४,१.३१ //
SK
न प्रयोजकता मैवं नियतार्थ तु जौहवम् / अतिहायेड इत्युक्ते चतुर्थे सा प्रयोजयेत् // MJऐNय्_४,१.३२ //
SK
दर्शपूर्णमासयोः श्रूयते-ऽअतिहायेडो बर्हिः प्रतिसमानयति जुह्वामौपभृतम्ऽ इति | अस्यायमर्थः- ऽपञ्चामां प्रयाजानां मध्ये तृतीयः प्रयाज इट् शब्देन बहुवचनान्तेनाभिधीयते | तं तृतीयं प्रयोजमतिक्रम्य बर्हिर्नामकं चतुर्थ प्रयाजं होतुमुपभृत्संज्ञकायां स्त्रुचि स्थितं घृतं जुह्वामानेतव्यम्ऽ इति | तदेतदानयनमुपभृत्याज्यग्रहणस्य न प्रयोजकम् | तथा हि- जुहूपभृद्ध्रुवासु तिसृषु स्त्रुक्ष्वाज्यग्रहणप्रकारस्तद्विनियोगश्चैवमाम्नायते- चतुर्जुह्वां गृह्णाति, अष्टावुपभृति, ऽ ऽचतुघ्रुवायां,ऽ यज्जुह्वां गृह्णाति, प्रयाजेभ्यस्तत्ऽ ऽ यदुपभृति प्रयाजामुयाजेभ्यस्तत्ऽ ऽसर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यम्ऽ इति | तत्र- जौहवं केवलप्रयाजार्थम् | औपभृतं तु प्रयाजानुयाजार्थामिति प्रयाजेषु जौहवमौपभृतं च विकल्पते | तथा सति यदा जौहवेन प्रयाजा इज्यन्ते तदानीमौपभृतस्याऽनयनमेव मास्ति, कुत आनयनस्य प्रयोजकत्वम् | यदा त्वौपभृतेन प्रयाजहोमः, तदानीमौपभृतस्यर्ध पञ्चप्रयाजार्थम्, इतरदनुयाजार्थम् | तयोः प्रयाजसाधनमर्थ प्रथमप्रयाजकाल एव जुह्वामानीतमिति न तस्य चतुर्थप्रयाजं प्रति समानयनं विधीयते | यत्त्वनुयाजार्थमितरदर्धमुपभृत्यवशिष्टम्, तन्मध्ये किंचिच्चतुर्थप्रयाजं प्रति समानेतव्यम् | तत्त्वनुयाजैरेव प्रयुक्तमिति न तस्याऽनयनं प्रयोजकम्- इति प्राप्ते- ब्रूमः- ऽयज्जौहवं तत्प्रयाजत्रितयार्थम्, यत्त्वौपभृतं तदवशिष्टप्रयाजद्वयार्थमनुयाजार्थ चऽ- इत्येवं वाक्यद्वयस्य व्यवस्थायां संभवन्त्यामष्टदोषग्रस्तो विकल्पो नाऽश्रयितुं शक्यः | यदा जौहवस्वीकारः, तदानीमौपभृतवाक्यस्य प्राप्तं प्रामाण्यं परित्यज्येत, अप्राप्तमप्रामाण्यं स्वी क्रियेत, पुनरपि कदाचिदौपभृतस्वीकारे त्यक्तं प्रामाण्यं स्वीक्रियेत, स्वीकृतमप्रामाण्यं परित्यज्येत, इत्यौपभृतवाक्ये चत्वारो दोषः | जौहववाक्ये ऽप्येवं चत्वारः, इत्यष्टौ दोषाः | यथोक्तव्यवस्था च ऽअतिहायेडऽ इतिवाक्यादध्यवसीयते | तथा सत्यौपभृतस्यानुयाजा यथा प्रयोजकाः, तथैव चतुर्थपञ्चमप्रयाजनिष्पादकमानयनमपि प्रयोजकमेव || MJऐNय्C_४,१.३०-३२ ||
SK
(षोडशे- औपभृतजौहवयोः क्रमेणोभयानुभयार्थताधिकरणे सूत्राणि ४२-४५)
SK
तत्रोत्पत्तिर् अविभक्ता स्यात् / Jऐम्_४,१.४२ /
SK
तत्र जौहवम् अनुयाजप्रतिषेधार्थम् / Jऐम्_४,१.४३ /
SK
औपभृतं तथेति चेत् / Jऐम्_४,१.४४ /
SK
स्याज् जुहूप्रतिषेधान् नित्यानुवादः / Jऐम्_४,१.४५ /
SK
START MJऐNय् ४,१.३३-३४
SK
षोडशाधिकरणमारचयति-
SK
जुहूपभृद्ध्रुवास्वाज्यं सर्वार्थ वा व्यवस्थितिः / सर्वार्थमविशेषात्स्यत्प्रयाजार्थ हि जौहवम् // MJऐNय्_४,१.३३ //
SK
प्रयाजानुयाजहेतुः स्यादौपभृतभाज्यकम् / ध्रौवमग्न्यार्थमित्येषा व्यवस्था वचनैर्मता // MJऐNय्_४,१.३४ //
SK
ऽचतुर्जुह्वां गृह्णातिऽ इत्यादिषु ग्रहणवाक्येषु ऽएतदर्थम्ऽ इति विशेषनियामकस्याश्रवणात्पात्रत्रयगतमाज्यं सर्वार्थम्- इति चेत् | मैवम् | ऽयज्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्ऽ - इत्यादिभिर्वाक्यैर्व्यवस्थावगमात् || MJऐNय्C_४,१.३३-३४ ||
SK
(सप्तदशे- उपभृति द्विचतुर्गृहीताचरणाधिकरणे सूत्राणि ४६-४८)
SK
तदष्टसंख्यं श्रवणात् / Jऐम्_४,१.४६ /
SK
अनुग्रहाच् च जौहवस्य / Jऐम्_४,१.४७ /
SK
द्वयोस् तु हेतुसामर्थयं श्रवणं च समानयने / Jऐम्_४,१.४८ /
SK
START MJऐNय् ४,१.३५-३६
SK
सप्तदशाधिकरणमारचयति-
SK
अष्टावुपभृतीत्यत्र किमष्टैकग्रहे विधिः / चतुर्द्वयग्रहे वाऽद्यः स्यादष्टश्रुतिमुख्यतः // MJऐNय्_४,१.३५ //
SK
चतुर्गृहीतं होमाङ्गं फलवत्त्वान्न बाध्यते / चतुर्द्वित्वं लक्ष्यते ऽतः सहानीत्यर्थयष्टता // MJऐNय्_४,१.३६ //
SK
ग्रहणवाक्ये ऽचतुर्जुह्वां गृह्णातिऽ इत्यत्र यथा चतुःसंख्याविशिष्टमेकं हविर्ग्रहणं विहितम्, तथैव ऽअष्टावुपभृतिऽ इत्यत्राप्यष्टसंख्याविशिष्टमेकं हविग्रहणं विधातव्यम्ऽ न तु चतुर्गृहीतद्वयम् | तथा सत्यष्टश्रुतेर्मुख्यत्वावगमात् | अष्टसंख्यावयवभूतयोर्द्वयोश्चतुःसंख्ययोर्विधाने सत्यष्टशब्दस्यावयवलक्षणा प्रसज्येत- इति प्राप्ते- ब्रूमः- प्रसज्यतां नाम लक्षण | मुख्यार्थस्वीकारे होमवाक्यविरोधापत्तेः | ऽचतुर्गृहीतं जुह्रोतिऽ इत्यनारभ्य श्रुतं वाक्यं होममात्रोद्देशेन चतुर्गृहीतं विदधाति | यद्यप्येतत्सर्वहोमविषयतया सामान्यरूपम्, औपभृतं तु प्रयाजानुयाजविषयतया विशेषरूपम्, तथापि होमस्य फलवत्त्वेन प्राधान्यात्, ग्रहणस्य होमार्थत्वेनोपसर्जनत्वात्, प्रधानानुसारेण चतुर्गृहीतमेव युक्तम्, न तूपसर्जनानुसारेणाष्टगृहीतम् | तस्मात्- उपभृति चतुर्गृहीतद्वयं विधीयते | तत्रैकं चतुर्गृहीतं हविश्चतुर्थपञ्चमप्रयाजार्थम् | अपरं त्वनुयाजार्थम् | नन्वेवं तर्हि चतुर्गृहीतस्यैव हविष्ट्वात् ऽचतुरुपभृतिऽ इत्येव विधातव्यम्, न तु ऽअष्टावुपभृतिऽ इति विधिर्युक्तः- इति चेत् | मैवम् | तथा सत्यनुयाजार्थ द्वितीयं चतुर्गृहीतं न सिध्येत् | अथ तदपि वाक्यान्तरेण विधीयते, तदानीमुपभृतः प्रथमेन चतुर्गृहीतेनावरुद्धत्वाद्द्वितीयस्मै पात्रान्तरमन्विष्येत | यदि ऽउपभृतिऽ इत्येव द्वितीयमपि चतुर्गृहीतं विधीयते, तदा चतुर्गृहीतद्वयस्य पृथगेवानुष्ठानादुपभृत्येकप्रयत्नेनाऽनयनं न सिध्येत् | अत उभयस्य समीपभूम्यानयनार्थम् ऽअष्टावुपभृतिऽ इत्युच्यते | तस्मात्साहित्यार्थमष्टशब्दप्रयोगे ऽपि इविष्ट्वसिद्धये चतुर्गृहीते अत्र विधीयेते || MJऐNय्C_४,१.३५-३६ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य प्रथमः पादः
SK
अथ चतुर्थाध्यायस्य द्वितीयः पादः /
SK
(प्रथमे स्वरोश्र्छेदनाद्यप्रयोजकताधिकरणे सूत्राणि १-६)
SK
स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात् / Jऐम्_४,२.१ /
SK
जात्यन्तराच् च शङ्कते / Jऐम्_४,२.२ /
SK
तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् / Jऐम्_४,२.३ /
SK
शकलश्रुतेश् च / Jऐम्_४,२.४ /
SK
प्रतियूपं च दर्शनात् / Jऐम्_४,२.५ /
SK
आदाने करोतिशब्दः / Jऐम्_४,२.६ /
SK
START MJऐNय् ४,२.१-२
SK
द्वितीये पादे प्रथमाधिकरणमारचयति-
SK
स्वरुं कुरुत इत्यत्र स्वरुर्यूपात्पृथक्छिदाम् / प्रयोजयोन्न वाऽद्यो ऽस्तु विशिष्टस्य विधानतः // MJऐNय्_४,२.१ //
SK
आद्यस्य यूपखण्डस्य स्वरुत्वाख्यविशेषणे / विहिते लाघवं तस्मादनुनिष्पन्न एव सः // MJऐNय्_४,२.२ //
SK
अग्नीषोमीयपशौ श्रूयते- ऽयूपस्य स्वरुं करोतिऽ इति | तत्र यूपो यथा छेदनस्य प्रयोजकः, तथा स्वरुरपि च्छेदनं प्रयोजयति | कुतः- ऽकरोतिऽ इत्यनेन विशिष्टविधिप्रतीतेः | करोतिधातोर्हि भावना मुख्योर्ऽथः | तत्र यूपशब्दोपलक्षितः स्वादिरवृक्षः करणम् | छेदनादिरितिकर्तव्यता, ऽछिम्नेन वृक्षेण स्वरुरुत्पादनीयःऽ इति विशिष्टविधिः | उत्पन्नस्य स्वरोर्विनियोग एवमाम्नातः- ऽस्वरुणा पशुमनक्तिऽ इति | तस्मात्- स्वरुश्छेदनस्य प्रयोजकः- इति प्राप्ते- ब्रूमः- ऽछिद्यमानस्य यूपस्य यः प्रथमं पत्तितः शकलः स स्वरुःऽ इति स्वरुत्वनाममात्रविधौ लाघवाद्यूपवत्स्वरुर्नच्छेदनस्य प्रयोजकः | किंतु यूपप्रयुक्ते छेदने स्वयमनुनिष्पद्यते || MJऐNय्C_४,२.१-२ ||
SK
(द्वितीये शाखाया आहार्यताधिकरणे सूत्रम् -)
SK
शाखायां तत्प्रधानत्वात् / Jऐम्_४,२.७ /
SK
START MJऐNय् ४,२.३
SK
द्वितीयाधिकरणमारचयति-
SK
प्राचीमाहरतीत्यत्र दिक्शाखा वास्तु दिक्श्रुतैः / आहार्यत्वं दिशो नास्ति शाखा तेनोपलक्ष्यते // MJऐNय्_४,२.३ //
SK
दर्शपूर्णमासयोः ऽयत्पलाशशाखया वत्सानवाकरोतिऽ इति पलाशशाखां प्रकृत्य श्रूयते- ऽयत्प्राचीमाहरेत्, देवलोकमभिजयेत्ऽ इति | तत्र प्राचीशब्दस्य दिग्वाचित्वाद्दिगाहरणं विधीयत इति चेत् | मैवम् | अशक्यत्वात् | अतो वृक्षस्य प्राची शाखात्रोपलक्ष्यते | तथा सति प्रकृतानुग्रहो भवति || MJऐNय्C_४,२.३ ||
SK
(तृतीये छेदनस्य शाखाप्रयुक्तताधिकरणे सूत्रे ८-९)
SK
शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् / Jऐम्_४,२.८ /
SK
श्रुत्यपायाच् च / Jऐम्_४,२.९ /
SK
START MJऐNय् ४,२.४-६
SK
तृतीयाधिकरणमारचयति-
SK
शाखां छित्त्वोपवेषं च मूले कुर्वीत शाखया / नुदेद्वत्साम्कपालानि स्थापयेदुपवेषतः // MJऐNय्_४,२.४ //
SK
द्वयं प्रयोजकं छित्तेर्वत्सापाकृतिरेव वा / आद्यो ऽग्रमूलयोरत्र विभज्य विनियोगतः // MJऐNय्_४,२.५ //
SK
उपवेषं करोतीति साकाङ्क्षो ऽन्यार्थमूलतः / पूर्यते ऽतो ऽनुनिष्पादी स तस्माद्युज्यते ऽन्तिमः // MJऐNय्_४,२.६ //
SK
दर्शपूर्णमासयोः श्रूयते- ऽमूलतः शाखां परिवास्योपवेषं करोतिऽ इति | येयं पलाशशाखां छित्त्वा वक्षादाहृता, तां पुनश्छित्त्वा मूलभागः प्रादेशपरिमित उपवेषः कार्यः | तयोरग्रमूलयोः शाखाभागयोः पृथग्विनियोग आम्नातः- ऽशाखया वत्सानपाकरोति | उपवेषेण कपालान्युपदधातिऽ इति | तदिदं कार्यद्वयं वृक्षच्छेदेन समाहृतया शाखया निष्पद्यते | तस्मात्- उभयमपि च्छेदनाहरणादेः प्रयोजकम्- इति चेत् | मैवम् | ऽउपवेषं करोतिऽ इत्युक्ते ऽकेन द्रव्येण इत्याकाङ्क्षायां ऽमूलतःऽ इति वक्तव्यम् | पुनरपि ऽकस्य मूलम्ऽ इत्याकाङ्क्षायां ऽवत्सापाकरणार्थ छिन्नायाः पलाशशाखाया मूलम्ऽ इत्याकाङ्क्षा पूरणीया | तस्माच्छेदने वत्सापाकरणमेव प्रयोजकम् | उपवेषस्त्वनुनिष्पादी | ननु-आद्यच्छेदने तथास्तु, द्वितीयच्छेदनस्योपवेषः प्रयोजकः | परिवासनसंपन्नेन मूलेनोपवेषकर्तव्यताविधानात् | अन्यथा ऽपरिवास्योपवेषं करोतिऽ इति समानकर्तृत्वपूर्वकालत्ववाचिनो स्थप्प्रत्ययस्यानुपपत्तेः, इति चेत् | मैवम् | परिवासनस्योपवेषसंबन्धो वाक्येन प्रतीयते | शाखासंबन्धस्तु ऽशाखाम्ऽ इति द्वितीयाश्रुत्या | पूर्वच्छिन्नाया अपि शाखायाः पुनर्मूलापादानकचश्छेदो ऽपेक्षितः | अन्यथा समूलां शाखां हस्तेनोद्यम्य वत्सापाकरणं दुःशकं स्यात् | अत एव ऽमूलतःऽ इत्यपादाने पञ्चमौ श्रुता | तथा सति प्रथमच्छेदनापादानभूतो वृक्षो ऽसंस्कृतत्वाद्यथा लौकिकः, तथा द्वितीयच्छेदनापादानभूतं मूलमपि लौकिककाष्ठम् | अवश्यमङ्गारेषु कपालोपधाने कस्यचित्काष्ठस्योपादानमर्थात्प्राप्तं तदेवात्र ऽउपवेषं करोतिऽ इत्यनूद्यते | शाखां परिवास्य परित्यक्ते मूले संनिहिते सति कपालोपधानार्थ काष्ठान्तरान्वेषणप्रयासो न कर्तव्यः- इति वाक्यार्थः | एवं च सति दोहनरहितायां पौर्णमास्यां वत्सापाकरणार्थायाः शाखाया अभावादुपवेषाय शाखाछेदो न कर्तव्यः || MJऐNय्C_४,२.४-६ ||
SK
(चतुर्थे शाखाप्रहरणस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि १०-१३)
SK
हरणे तु जुहोतिर् योगसामान्याद् द्रव्याणां चार्थशेषत्वात् / Jऐम्_४,२.१० /
SK
प्रतिपत्तिर् वा शब्दस्य तत्प्रधानत्वात् / Jऐम्_४,२.११ /
SK
अर्थे ऽपीति चेत् / Jऐम्_४,२.१२ /
SK
न तस्यानधिकाराद् अर्थस्य च कृतत्वात् / Jऐम्_४,२.१३ /
SK
START MJऐNय् ४,२.७-९
SK
चतुर्थाधिकरणमारचयति-
SK
प्रस्तरं शाखया सार्ध प्रहरेत्प्रहृतिस्त्वियम् / शाखाया अर्थकर्मत्वं प्रतिपत्तिरुतोचिता // MJऐNय्_४,२.७ //
SK
विहितः प्रस्तरे यागः शाखायाः साहचर्यतः / तथात्वादर्थकर्मत्वे हृतिः शाखां प्रयोजयेत् // MJऐNय्_४,२.८ //
SK
हरतिर्यागवाची नो प्रतिपत्तिस्ततो भवेत् / पौर्णमास्यां ततो नैव हृतिः शाखां प्रयोजयेत् // MJऐNय्_४,२.९ //
SK
दर्शपूर्णमासयोः श्रूयते- ऽसह शाखया प्रस्तरं प्रहरतिऽ इति | तत्र शाखाप्रहरणमर्थकर्म | कुतः | प्रहृतिशब्देन यागस्याभिधानात् | एतच्च ऽसूक्तवाकेन प्रस्तरं प्रहरतिऽ इत्येतद्वाक्यमुदाहृत्य विचारितम् | प्रस्तरप्रहरणस्य यागत्वे तत्साहचर्याच्छाखाप्रहरणमपि याग एवेत्यर्थकर्म स्यात् | अर्थाय क्रतुसाफल्यप्रयोजनाय क्रियमाणमर्थकर्म | ततः प्रहरणेन पौर्णमास्यामपि पलाशशाखा प्रयुज्यते- इति प्राप्ते, ब्रूमः- ऽसूक्तवाकेन प्रस्तरं प्रहरतिऽ इत्यत्र हरतिधातोर्यागवाचित्वं नोक्तम् | किंतु मान्त्रवर्णिकदेवतामुपलभ्य द्रव्यदेवताभ्यां यागः कल्पितः | शाखाप्रहरणे तु नास्ति देवता | ततो यागस्य कल्पयितुमशक्यतया हरतिधातुरत्र स्ववाच्यार्थपरित्यागमेवाऽचष्टे | तथा सति वत्सापाकरण उपयुक्तायाः पलाशशाखाया उपयोगान्तराभावाद्यागदेशे ऽवकाशलाभाय यत्र क्वाप्यवस्यं परित्यागे प्राप्ते शास्त्रेणाऽहवनीय एव त्यागो नियम्यते | अनेन च शास्त्रीयत्यागेन शाखायाः प्रतिपत्तिर्भवति | प्रतिपत्तिर्नाम संस्काररूपो दृष्टोर्ऽथः | यथा राज्ञा चर्वितस्य त्राम्बूलस्य सौवर्णे पतद्ग्रहे प्रक्षेपः, तद्वत् | ततः प्रहरणं प्रतिपत्तिकर्म | तेने च तदभावे ऽपि क्रतुवैकल्याभावात्, पौर्णमास्यां स्वसिद्धिहेतुभूतां शाखां न प्रयोजयति || MJऐNय्C_४,२.७-९ ||
SK
(पञ्चमे निनयनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रे १४-१५)
SK
उत्पत्त्यसंयोगात् प्रणीतानाम् आज्यवद् विभागः स्यात् / Jऐम्_४,२.१४ /
SK
संयवनार्थानां वा प्रतिपत्तिर् इतरासां तत्प्रधानत्वात् / Jऐम्_४,२.१५ /
SK
START MJऐNय् ४,२.१०-११
SK
पञ्चमाधिकरणमारचयति-
SK
प्रणीताभिस्तु संयौति वेद्यां निनयतीति किम् / अपां द्वे प्रापके किंवा हविःसंयवनं तथा // MJऐNय्_४,२.१० //
SK
अपः प्रणयतीत्युक्तेः समत्वादुभयार्थता / श्रुत्या संयवनार्थास्ता निनीतेः प्रतिप्रत्तिता // MJऐNय्_४,२.११ //
SK
दर्शपूर्णमासयोः श्रूयते- ऽअपः प्रणयतिऽ इति | चमसेन पात्रेण प्रणीतानां तासामपां | प्रयोजनमेवं श्रूयते- ऽप्रणीताभिर्हवींषि संयौतिऽ इति, ऽअन्तर्वेदि प्रणीता भिनयतिऽ इति च | हवींषि पुरोडाशार्थानि पिष्ठानि | तत्र हविःसंयवनं वेद्यां निनयनं चेत्यतदुभयमपां प्रणयनस्य प्रयोजकम् | कुतः | ऽअपः व्रजयतिऽ इत्यस्य प्रमयनोत्पत्तिवाक्यस्योभयत्र समानत्वात् | न ह्यस्मिन्वाक्ये संयवनस्य कश्चिद्विशेषसंबन्धः प्रतीयते- इति चेत् | मैवम् | विनियोगवाक्ये ऽप्रणीताभिःऽ इति तृतीयाश्रुत्या संयवनसाधनत्वावगमात्, संयवनमेव प्रयोजकम् | निनयनवाक्ये तु ऽप्रणीताःऽ इत्यनया द्वितीयया संस्कार्यत्वावगमान्निनयनं प्रतिपत्तिरूपः संस्कार इति न प्रणयनस्य प्रयोजकम् || MJऐNय्C_४,२.१०-११ ||
SK
(षष्ठे दण्डदानस्यार्थकर्मताधिकरणे सूत्राणि १६-१८)
SK
प्रासनवन् मैत्रावरुणाय दण्डप्रदानं कृतार्थत्वात् / Jऐम्_४,२.१६ /
SK
अर्थकर्म वा कर्तृसंयोगात् स्रग्वत् / Jऐम्_४,२.१७ /
SK
कर्मयुक्ते च दर्शनात् / Jऐम्_४,२.१८ /
SK
START MJऐNय् ४,२.१२-१३
SK
षष्ठाधिकरणमारचयति-
SK
मैत्रावरुणके दण्डदानस्य प्रतिपत्तिता / उतार्थकर्मताऽद्यो ऽस्तु धारणे कृतकृत्यतः // MJऐNय्_४,२.१२ //
SK
युक्तोपयुक्तसंस्कारादुपयोक्तव्यसंस्क्रिया / स्थित्वा प्रैषानुवचने दण्डो ऽपेक्ष्योर्ऽथकर्म तत् // MJऐNय्_४,२.१३ //
SK
ज्योतिष्टोमे श्रूयते- ऽक्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतिऽ इति | तदेतद्दण्डदानं प्रतिपत्तिकर्म | कुतः | दण्डस्य यजमानधारणेन कृतकृत्यत्वात् | यजमानो ह्यध्वर्युणा दीक्षासिद्धयर्थ दत्तं दण्डमासोमक्रयाद्धारयति | अत एवाऽम्नातम्- ऽदण्डेन दीक्षयतिऽ इति, ऽयद्दीक्षिताय दण्डं प्रयच्छतिऽ इति च | तस्मादुपयुक्तस्य दण्डस्य दानं प्रतिपत्तिः- इति चेत् | मैवम् | दण्डे भविष्यदुपयोगस्यापि सद्भावात् | यदा मैत्रावरुणः स्थित्वा प्रैषाननुवदति, तदानीमवलम्बनाय दण्डो ऽपेक्षितः | अत एवाऽम्नातम्- ऽदण्डीप्रैषानन्वाहऽ इति | तथा सति प्रतिपत्तिकर्मरूपादुपयुक्तसंस्कारादर्थकर्मरूप उपयोक्ष्यमाणसंस्कारः प्रशस्तः | उपयोजयितुमेव हि सर्वत्र संस्कारस्य प्रवृत्तिः | उपयुक्ते तु प्रतिपत्तिरूपस्य संस्कारस्याक्षरमात्रपर्यवसायित्वेन कार्ये पर्यवसानाभावादप्रशस्तत्वम् | तस्मात्- मैत्रावरुणसंस्काराय दण्डदानमर्थकर्म | तथा सति निरूढपशावसत्यपि दीक्षिते दण्डसंपादनस्यैतद्दानं प्रयोजकम् || MJऐNय्C_४,२.१२-१३ ||
SK
(सप्तमे प्रासनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रम्)
SK
उत्पत्तौ येन संयुक्तं तदर्थं तत्, श्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् प्रतिपत्तिः स्यात् / Jऐम्_४,२.१९ /
SK
START MJऐNय् ४,२.१४
SK
सप्तमाधिकरणमारचयति-
SK
चात्वाले कृष्णशृङ्गस्य प्रासो यः सोर्ऽथकर्म वा / प्रतिपत्तिः सार्थकत्वादाद्यो ऽन्त्यो ऽन्त्यो ऽस्तूपयोगतः // MJऐNय्_४,२.१४ //
SK
ज्योतिष्टोमे श्रूयते- ऽप्रत्तासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यतिऽ इति | यजमानेन दसा दक्षिणा ऋत्विग्भिर्यदा नीताः, तदा यजमानः स्वहस्ते धृतं कृष्णमृगस्य शृङ्गं चात्वालनामके गर्ते परित्यजेत् | सो ऽयं परित्यागोर्ऽथकर्म | कुतः | सप्रयोजनत्वात् | प्रतिपत्तितयापूर्वाभावेन निरर्थकः स्यात् | अतो ऽपूर्वलाभायार्थकर्मत्वम्- इति चेत् | मैवम् | ऽकृष्णविषाणया काण्डूयतेऽ इति तृतीयाश्रुत्या यजमानशिरःकण्डूतावुपयुक्तस्य विषाणस्य प्रतिपश्यपेक्षत्वात् | न च प्रतिपत्तावत्यन्तमपूर्वाभावः | ऽचात्वाल एव प्रासनम्ऽ इत्येवंविधस्य नियमस्य वैधत्वेन प्रासनक्रियाप्रयुक्तापूर्वाभावे ऽपि नियमापूर्वसद्भावात् | तस्मात्- प्रासनं प्रतिपत्तिकर्म || MJऐNय्C_४,२.१४ ||
SK
(अष्टमे- अवभृयगमनस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि २०-२२)
SK
सौमिके च कृतार्थत्वात् / Jऐम्_४,२.२० /
SK
अर्थकर्म वाभिधानसंयोगात् / Jऐम्_४,२.२१ /
SK
प्रतिपत्तिर् वा तन्न्यायत्वाद् देशार्थावभृथश्रुतिः / Jऐम्_४,२.२२ /
SK
START MJऐNय् ४,२.१५-१६
SK
अष्टमाधिकरणमारचयति-
SK
पात्रस्यावमृथे सोमलिप्तस्य नयनं तु किम् / साधनं प्रतिपत्तिर्वा यन्ति तेनेत्यतः श्रुतेः // MJऐNय्_४,२.१५ //
SK
प्राप्ता साधनता मैवं पुरोडाशहबिष्ट्वतः / पात्रस्य तदसंबन्धात्प्रक्षेपः प्रतिपत्तये // MJऐNय्_४,२.१६ //
SK
ज्योतिष्टोमे श्रूयते- ऽचतुर्गृहीतं वा एतद्यज्ञस्य यदृजीषम्, यद्ग्रावाणः, यदौदुम्वरी, यदधिषवणफलके, तस्माद्यत्किंचित्सोमलिप्तं द्रष्यम्, तेनावभृद्यं यन्तिऽ इति | निष्पीडितस्य सोमस्य नीरसो भाग ऋजीषम् | तदेतदृजीषग्रावादिकं सोमाभिषवादौ सोमेन लिप्यते | तस्य लिप्सस्य सर्वस्यावभृथसाधनत्वमभ्युपेयम् | कुतः | ऽतेनावमृथं यन्तिऽ इति तृतीयाश्रुत्यावभृथसाधनत्वावगमात् | तस्मात्सोमलिप्तं द्रव्यमवभृद्ये हविष्ट्वेन नीयते- इति चेत् | मैवम् | ऽवारुणेनकपालेनावभृथमवयन्तिऽ इत्यनेनोत्पत्तिवाक्यशिष्ठपुरोडाशहविषावरुद्धिऽवभृथे सोमलिप्तपात्रस्य हविष्ट्वेन संबन्धासंभवात् | तथा सत्यवभृथशब्देन तदर्थ देशं लक्षयित्वा तस्मिन्देशे सोमलिप्तस्य पात्रस्य नयनमत्र विधीयते | तच्च नयनं प्रतिपत्तये भवति | पात्रस्य पूर्वमुपयुक्तत्वात् | तस्मात्- एतत्प्रतिपत्तिकर्म || MJऐNय्C_४,२.१५-१६ ||
SK
(नवमे कर्तृदेशकालविधीनां नियमार्थताधिकरणे सूत्रे २३-२४)
SK
कर्तृदेशकालानाम् अचोदनं प्रयोगे नित्यसमवायात् / Jऐम्_४,२.२३ /
SK
नियमार्था वा श्रुतिः / Jऐम्_४,२.२४ /
SK
START MJऐNय् ४,२.१७-१८
SK
नवमाधिकरणमारचयति-
SK
समे यजेत देशादेरनुवादो ऽथवा विधिः / प्रयोगानुपपस्यैव प्राप्तत्वादनुवादता // MJऐNय्_४,२.१७ //
SK
समे वा विषमे वेति पाक्षिकत्वनिवृत्तये / अप्राप्तांशानुपातेन नियमो ऽत्र विधीयते // MJऐNय्_४,२.१८ //
SK
इदमाम्नायते- ऽसमे दर्शपूर्णमासाभ्यां यजेतऽ, ऽप्राचीनप्रवणे वैश्वदेवेन यजेतऽ ऽपौर्णमास्यां पौर्णमास्या यजेतऽ ऽअमावास्यायाममावास्यया यजेतऽ ऽपशुबन्धस्य यज्ञक्रतोः षडृत्विजःऽ ऽदर्शपूर्णमासयोर्यज्ञक्रत्वोश्चत्वार ऋत्विजःऽ ऽचातुर्मास्यानां यज्ञक्रतूनां पञ्चर्त्विजःऽ ऽअग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विक्ऽ ऽसौम्यस्याध्वरस्य यज्ञक्रतोःसप्तदर्शीत्वजःऽ ऽसोमेन यजेतऽ इति | क्रतुशब्दे मानस उपासने ऽपि वर्तते | ऽस क्रतुं कुर्क्षीत मनोमयः प्राणशरीरःऽ इत्यत्र क्रतुशब्देन ध्यानविधानात् | तद्व्यावृत्तये ऽयज्ञक्रतोःऽ इति विशेष्यते | तत्र देशकालकर्तृद्रव्याणि न विधीयन्ते, किंत्वनुश्रूयन्ते | कुतः | प्राप्तत्वात् | न हि देशादिभिर्विना प्रयोगः संभवति | अतोर्ऽथापत्त्या तत्प्राप्तिः- इति चेत् | मैवम् | अर्थापत्त्या पाक्षिकी समदेशादिप्राप्तिः | विषमदेशादीनामपि संभवात् | ततो यस्मिन्पक्षे प्राप्तिर्नास्ति तस्मिन्पक्षे समदेशादयो विधीयन्ते || MJऐNय्C_४,२.१७-१८ ||
SK
(दशमे द्रव्यगुणविधानस्य नियमार्थताधिकरणे सूत्रम्-)
SK
तथा द्रव्येषु गुणश्रुतिर् उत्पत्तिसंयोगात् / Jऐम्_४,२.२५ /
SK
START MJऐNय् ४,२.१९
SK
दशमाधिकरणमारचयति-
SK
श्वेतालम्भो ऽनुवादो वा श्वैत्यस्य विधिरग्रिमः / द्रव्यद्वारेण तत्प्रप्तेः पूर्ववत्तन्नियम्यते // MJऐNय्_४,२.१९ //
SK
इदमाम्नायते- ऽवायव्यं श्वैतमालभेत भूतिकामःऽ इति | तत्र श्वैत्यगुणस्य द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यविधिनैवाऽवर्जनीयतया तत्प्राप्तेरनुवादः श्वैत्यस्य- इति चेत् | मैवम् | पूर्वन्यायेन पाक्षिकत्वनिवृत्तये नियमविधित्वाङ्गीकारात् || MJऐNय्C_४,२.१९ ||
SK
(एकादशे- अवधातादिसंस्कारविधानस्य नियमार्थताधिकरणे सूत्रम्) संस्कारे च तत्प्रधानत्वात् / Jऐम्_४,२.२६ /
SK
START MJऐNय् ४,२.२०
SK
एकादशाधिकरणमारचयति-
SK
अवघाते ऽपि नियमो देशादाविव तेन सः / प्रधानेन प्रयुक्तः स्यात्संबन्धः प्रक्रियोक्तितः // MJऐNय्_४,२.२० //
SK
यथा देशकालकर्तृद्रव्याणां पक्षे प्राप्तौ नियमो विहितः, एवमवघातो ऽपि तण्डुलनिष्पत्त्यर्थ लोकतः प्राप्ते ऽपि पाक्षिकनखविदलनादिव्यावृत्तये नियम्यते | सति चावधतस्य विधौ प्रधानेनाऽग्नेयादियागेनासौ प्रयुज्यते | न चात्र संबन्धाभावादप्रयुक्तिरिति वाच्यम् | प्रधानयागप्रकरणपठितत्वेन संबन्धसिद्धिः | तस्मात्- अवघातादयो विधीयन्ते प्रधानेन प्रयुज्यन्ते च || MJऐNय्C_४,२.२० ||
SK
(द्वादशे यागहोमस्वरूपनिरूपणाधिकरणे सूत्रे २७-२८)
SK
यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् / Jऐम्_४,२.२७ /
SK
तदुक्ते श्रवणाज् जुहोतिर् आसेचनाधिकः स्यात् / Jऐम्_४,२.२८ /
SK
START MJऐNय् ४,२.२१-२३
SK
द्वादशाधिकरणमारचयति-
SK
अनिरूप्या निरूप्या वा यागहोमददातयः / त्यागादाद्यो यजिस्त्यागः प्रक्षेपो होम इष्यते // MJऐNय्_४,२.२१ //
SK
आकाङ्क्षा यागशब्दस्य त्यागेनैव निवर्तते / यागस्योपरि होमस्य विधेः क्षेपावसानता // MJऐNय्_४,२.२२ //
SK
स्वीयं द्रव्यं परित्यज्य परकीयं यथा भवेत् / तथा संपादनं दानं त्यागे ऽप्येषामियं भिदा // MJऐNय्_४,२.२३ //
SK
इदमाम्नायते- ऽसोमेन यजेतऽ अग्निहोत्रं जुहोतिऽ ऽहिरण्यमात्रेयाय ददातिऽ इति | तत्र याग-होम-दान-शब्दानामर्था न निरूपयितुं शक्यन्ते | त्रिष्वपि द्रव्यत्यागस्य सद्भावात् | ततो विधेयानामर्थानां प्रधानभूतानामनिर्णयात्, इतरत्र विध्यनुवादविवेकः पूर्वोक्तो व्यर्थः- इति चेत् | मैवम् | देवतामुद्दिश्य द्रव्यत्यागो यागः | त्यक्तस्य वह्नौ प्रक्षेपो होमः | स्वकीयद्रव्यस्य स्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनं दानम् | इति सुनिरूपा एते पदार्थाः | ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इतिविहितस्य यागस्योपरि ऽचतुरवत्तं जुहोतिऽ इति होमस्य विधानात् ऽत्यागमात्रात्मको यागः, प्रक्षेपाधिको होमःऽ इत्यवगम्यते | यत्र तु यजत्यादिपदं न श्रुतम्, किंतु ऽआग्नेयो ऽष्टाकपालःऽ इत्येतावदवे श्रुतम्, तत्राप्युद्देश्याया देवतायास्त्वजनीयद्रव्यस्य च श्रुतत्वादुद्देशत्वागरूपो यागो ऽथसिद्धः | तस्मात्- प्रधानविधेयानां यागादीनां सुनिरूपितत्वाद्विधिविवेको न व्यर्थः || MJऐNय्C_४,२.२१-२३ ||
SK
(त्रयोदशे बर्हिष आतिथ्यादिसाधारण्याधिकरणे सूत्रे २९-३०)
SK
विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात् / Jऐम्_४,२.२९ /
SK
अपि वोत्पत्तिसंयोगाद् अर्थसंबन्धो ऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् / Jऐम्_४,२.३० /
SK
START MJऐNय् ४,२.२४-२५
SK
त्रयोदशाधिकरणमारचयति-
SK
यदातिथ्याबर्हिरेतदुपसत्स्वतिदेशनम् / साधारण्यविधिर्वाऽद्यस्तदीयस्योपसंहृतेः // MJऐNय्_४,२.२४ //
SK
वर्हिः श्रुत्यैकताभानान्नातिदेशस्य लक्षणा / आतिथ्ययोपसद्भिश्व बर्हिरेतत्प्रयुज्यते // MJऐNय्_४,२.२५ //
SK
ज्योतिष्टोमे श्रूयते- ऽयदातिथ्यायां बर्हिः, तदुपसदाम्, तदग्नीषोमीयस्य चऽ इति | क्रीतं सोमं शकटे ऽवस्थाप्यप्राचीनवंशं प्रत्यानयने ऽभिमुखो यामिष्टिं निर्वपति सेयमातिथ्या | तत ऊर्ध्व त्रिषु दिनेष्वनुष्ठीयमाना उपसदः | औपवसथ्ये दिने ऽनुष्ठेयो ऽग्नीषोभीयः | तत्र- आतिथ्येष्टौ विहितं यद्बर्हिः, तद्यदि तस्या इष्टेराच्छिद्योपसत्सु विधीयेत, तदानीमातिथ्यायां विधानमनर्थकं स्यात् | यदि च तत्रोपयुक्तमितरत्र विधीयेत, तदा विनियुक्तविनियोगरूपो विरोधः स्यात् | तस्मात्- आतिथ्याबर्हिषो ये धर्मा अश्वबालत्वादयः, ते धर्मा उपसत्सूपसंह्रियन्ते- इत्यतिदेशपरं वाक्यम्- इति प्राप्ते, - ब्रूमः- बर्हिः शब्दस्य धर्मातिदेशत्वे लक्षणा प्रसज्येत | श्रुत्या तु बर्हिष आतिथ्योपसदग्नीषोमीयेष्येकत्वं प्रतिभाति | अतः साधारण्यमत्र विधेयम् | आतिथ्यार्थ यद्बर्हिरुपादीयते तन्न केवलमातिथ्यार्थम्, किंतूपसदर्थमग्नीषोमीयार्थ चोपादेयमिति विधिवाक्यस्यार्थः | तस्मात्- आतिथ्योपसदग्नीषोमीयास्त्रयो ऽप्यस्य बर्हिषः प्रयोजकाः || MJऐNय्C_४,२.२४-२५ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्ताध्यायस्य द्वितीयः पादः
SK
अथ चतुर्थाध्यायस्य तृतीयः पादः /
SK
(प्रथमे द्रव्यसंस्कारकर्मणां क्रत्वर्थताधिकरणे सूत्राणि - १-३)
SK
द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्यात् / Jऐम्_४,३.१ /
SK
उत्पत्तेश् चातत्प्रधानत्वात् / Jऐम्_४,३.२ /
SK
फलं तु तत्प्रधानायाम् / Jऐम्_४,३.३ /
SK
START MJऐNय् ४,३.१-२
SK
तृतीयपादे प्रथमाधिकरणमारचयति-
SK
जुह्वाः पर्णमयीत्वेन न पापश्रुतिरञ्जनात् / वैरिदृग्वृञ्जनं, वर्म प्रयाजैः, पुरुषाय किम् // MJऐNय्_४,३.१ //
SK
क्रतवे वाग्रिमो मानात्फलस्य न हि साध्यता / विभाति क्रतवे तस्मादर्थवादः फलं भवेत् // MJऐNय्_४,३.२ //
SK
इदमाम्नायते- ऽयस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतिऽ ऽयदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्तेऽ ऽयत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते, वर्म यजमानस्य भ्रातृव्याभिभूत्यैऽ इति | तत्र- यज्जुहूप्रकृतिभूतं पर्णद्रव्यम्, यश्चाञ्जनेन चक्षुषः संस्कारः, यच्च प्रयाजानुयाजरूपं वर्म तच्चि द्वयं पुरुषार्थत्वेन विधीयते | कुतः | पापश्लोकश्रवणादिराहित्यादेः पुरुषसंबन्धिफलस्य प्रतिभानात्- इति चेत् | मैवम् | फलं हि साध्यं भवति | न चात्र साध्यता प्रतिभासते | ऽन शृणोति वृङ्क्ते, वर्म क्रियते, इति वर्तमानत्वनिर्देशात् | अतः क्रत्वर्था एते विधवः | तत्र पर्णमयीत्वस्यानारभ्याधीतस्यापि वाक्येन क्रतुसंबन्धः | संस्कारवर्मणोस्तु प्रकरणेन क्रत्वर्थानां तु क्रतुनिष्पादनव्यतिरेकेण फलाकाङ्क्षाया अभावाद्वर्तमाननिर्देशस्व विपरिणामं कृत्वापि फलं कल्पयितुं न शक्यम् | तस्मात्- फलवत्त्वभ्रमहेतुः पापश्लोकश्रवणराहित्यादिरर्थवादः || MJऐNय्C_४,३.१-२ ||
SK
(द्वितीये नैमित्तिकानामनित्यार्थत्वाधिकरणे सूत्रम्-)
SK
नैमित्तिके विकारत्वात् क्रतुप्रधानम् अन्यत् स्यात् / Jऐम्_४,३.४ /
SK
START MJऐNय् ४,३.३-४
SK
द्वितीयाधिकरणमारचयति-
SK
मृन्मये प्रणयेत्कामी नित्ये ऽप्येतदुतेतरत् / आकाङ्क्षा संनिधिश्चास्ति तस्मान्नित्ये ऽपि मृन्मयम् // MJऐNय्_४,३.३ //
SK
कामार्थत्वादयोग्यत्वं सामान्यविहितेन च / आकाङ्क्षाया निवृत्तत्वान्नित्यार्थमितरद्भवेत् // MJऐNय्_४,३.४ //
SK
ऽअपः प्रणयतिऽ इति प्रणयनस्य नित्यप्योगे ऽपि मृन्मयपात्रमेव साधनम् | कृतः | नित्ये ऽपि पात्रत्वाऽफङ्क्षितत्वात् | न च लोकसिध्दं किंचित्पात्रमुपादीयते-इति वाच्यम् | औप्ते कर्मण्यत्यन्तमश्रुताच्छ्रुतस्य संनिहितत्वात्- इति प्राप्ते- ब्रूमः- कामार्थ मृन्मयमाम्नातम् | तच्च सति कामे योग्यम् | न हि पाक्षिकं कामं निमित्तीकृत्य प्रवृत्तं नित्यस्य योग्यं भवति | पात्राकाङ्क्षा तु सामान्यतो विहितेन निवर्तते | ऽअपः प्रणयतिऽइति हि पात्रविशेषमनुपन्यस्य विहितम् | वञ्चान्यथानुपर्पन्नं तत्पात्रं किंचित्सामान्येन कल्पयति | तस्मान्नित्यप्रयोगे तत्काम्यं मृन्मर्थ नान्वेति, किंत्वितरत्पात्रं यत्किंचिदुपादेयम् | -ऽचमसेनापः प्रणयेत् इति नित्ये पात्रं विधीयते-इति विधीयते | इति चेत् | तर्हि कृत्वाचिन्तास्तु || MJऐNय्C_४,३.३-४ ||
SK
(तृतीये-संयोगपृथक्त्वन्याये,दध्यादेर्नित्यनैमित्ति- कोभयार्थताधिकरणे सूत्राणि५-७)
SK
एकस्य तूभयत्वे संयोगपृथक्त्वम् / Jऐम्_४,३.५ /
SK
शेष इति चेत् / Jऐम्_४,३.६ /
SK
नार्थपृथक्त्वात् / Jऐम्_४,३.७ /
SK
START MJऐNय् ४,३.५
SK
तृतीयाधिकरणमाचरयति-
SK
दघ्ना त्विन्द्रियकामस्य नित्ये ऽन्यदुत तद्दधि / अन्यत्स्यात्पूर्ववन्मैवं संयोगस्य पृथक्त्वतः // MJऐNय्_४,३.५ //
SK
अग्निहोत्रे श्रूयते- ऽदध्नेन्द्रियकामस्य जुहुयात्ऽ इति | तत्र- दध्नः कान्यत्वान्नित्ये ऽग्निहोत्रे पूर्वन्यायेन तद्दधि न प्रयोक्तव्यम् | किंत्वन्यदेव किंचिद्द्रव्यम्- इति चेत् | मैवम् | ऽदध्ना जुहोतिऽ इत्यस्मिन्वाक्यान्तरे कामसंयोगमुपन्यस्य नित्यहोमसंयोगेन दधिविधानात् | तस्मात्- एकस्यापि दध्नो वाक्यद्वयेन नित्यत्वं काम्यत्वं चाविरुद्धम् | एवमग्नीषोमीयपशौ- ऽखादिरे बध्नातिऽ ऽखादिरं वीर्यकामस्य यूपं | कुर्वीतऽ इत्युदाहरणीयम् || MJऐNय्C_४,३.५ ||
SK
(चतुर्थे पयोव्रतादीनां क्रतुधर्मताधिकरणे सूत्रे ८-९)
SK
द्रव्याणां तु क्रियार्थानां संस्कारः क्रतुधर्मः स्यात् / Jऐम्_४,३.८ /
SK
पृथक्त्वाद्व्यवतिष्ठेत / Jऐम्_४,३.९ /
SK
START MJऐNय् ४,३.६
SK
चतुर्थाधिकरणमारचयति-
SK
पयो व्रतं ब्राह्मणस्य पुंसे तत्क्रतवे ऽथवा / पुंयोगादब्रिमो मैवं नैष्फल्यात्क्रतुशेषता // MJऐNय्_४,३.६ //
SK
ज्योतिष्टोमे दीक्षितस्यान्नभोजनाभावे व्रतमाम्नायते- ऽपयो व्रतं ब्राह्मणत्व, यवागू राजन्यस्य, आमिक्षा वैश्यस्यऽ इति | तत्र- ब्राह्मणादिपुरुषसंयोगादेतद्व्रतं पुरुषार्थम्- इति चेत्- मैवम् | इन्द्रियवीर्यादिवत्फलस्यात्रानुक्तत्वात् | क्रतुशेषत्वं तु प्रकरणादवगम्यते | ब्राह्मणादिपुरुषा द्रव्यविशेषव्यवस्थायै निमित्तत्वेनोपन्यस्यन्ते || MJऐNय्C_४,३.६ ||
SK
(पञ्चमे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनां सफलत्वाधिकरणे सूत्राणि १०-१२)
SK
चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्य् अशब्दं प्रतीयते / Jऐम्_४,३.१० /
SK
अपि वाम्नानसामर्थ्याच् चोदनार्थेन गम्येत, आर्थानां ह्य् अर्थवत्त्वेन वचनानि प्रतीयन्ते, अर्थतो ह्य् असमर्थानाम् आनन्तर्ये ऽप्य् असंबन्धस् तस्माच् छ्रुत्येकदेशः / Jऐम्_४,३.११ /
SK
वाक्यार्थश् च गुणार्थवत् / Jऐम्_४,३.१२ /
SK
START MJऐNय् ४,३.७
SK
पञ्चमाधिकरणमारचयति-
SK
नैवास्ति विश्वजिद्यागे फलमस्त्युत नाश्रुतेः / भाव्यापेक्षाद्विधेः कल्प्यं फलं पंसः प्रवृत्तये // MJऐNय्_४,३.७ //
SK
इदमाम्नायते- ऽविश्वजिता यजेतऽ इति | तत्र- फलस्याश्रुतत्वान्नास्ति विश्वजिद्यागे फलम्- इति चेत् | मैवम् | फलस्य कल्पनीयत्वात् | ऽविश्वजिन्नाम्ना यागेन कुर्यात्ऽ इत्युक्ता भावना भाव्यमपेक्षते | ऽकिं कुर्यात्ऽ इत्याङ्काक्षाया अनिवृत्तेः | अतो वाक्यपूरणाय किंचित्फलमवश्यमध्याहर्तव्यम् | अध्याहृते च तत्कामिनः पुरुषस्यात्र प्रवृत्त्या यागामुष्ठानं सिध्यति | अन्यथा निरधिकारत्वादनुष्ठाने विधिर्निरर्थकः स्यात् | तस्मात्- फलं कल्पनीयम् || MJऐNय्C_४,३.७ ||
SK
(षष्ठे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनामेकफलताधि- करणे सूत्रे १३-१४)
SK
तत्सर्वार्थम् अनादेशात् / Jऐम्_४,३.१३ /
SK
एकं वा चोदनैकत्वात् / Jऐम्_४,३.१४ /
SK
START MJऐNय् ४,३.८
SK
षष्ठाधिकरणमारचयति-
SK
सर्व फलमुतैकं स्यात्सर्वमस्त्वविशेषतः / एकेन तन्निराङ्क्षमतो ऽनेकं न कल्प्यते // MJऐNय्_४,३.८ //
SK
तस्मिन्विश्वजिति पशुपुत्रवीर्येन्द्रियादिकं सर्व फलत्वेन कल्पनीयम् | कुतः | ऽएतदेवास्य फलम्ऽ इत्यत्र विशेषहेतोरभावात्- इति चेत् | मैवम् | लाघवस्यैव विशेषहेतुत्वात् || MJऐNय्C_४,३.८ ||
SK
(सप्तमे विश्वजन्न्यायान्तर्गते विश्वजिदादीनां स्वर्गफलताधिकरणे सूत्रे १५-१६)
SK
स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात् / Jऐम्_४,३.१५ /
SK
प्रत्ययाच् च / Jऐम्_४,३.१६ /
SK
START MJऐNय् ४,३.९
SK
सप्तमाधिकरणमारचयति-
SK
एकं यत्किंचिदथवा नियतं न नियामकम् / तस्मादाद्यः सर्वपुंसामिष्टत्वात्स्वर्ग एव तत् // MJऐNय्_४,३.९ //
SK
विश्वजिति कल्प्यमानं यदेकं फलं तत् ऽइनमेवऽ इति नियामकं नास्ति | तस्मादिच्छया केनचित्कस्मिंश्चित्फले कल्प्यमानेर्ऽथात्सर्वफलत्वे गौरवमेव स्यात्- इति चेत् | मैवम् | स्वर्गस्य पश्वादिफलवद्दुःखमिश्रितत्वाभावात्, निरतिशयसुखत्वाच्च सर्वपुरुषाणामिष्टत्वात्स्वर्ग एव विश्वजितः फलम् || MJऐNय्C_४,३.९ ||
SK
(अष्टमे रात्रिसत्रन्याये रात्रिसत्रस्यार्ऽऽथवादिकफलकताधिकरणे सूत्राणि १७-१९)
SK
क्रतौ फलार्थवादमङ्गवत् कार्ष्णाजिनिः / Jऐम्_४,३.१७ /
SK
फलमात्रेयो निर्देशाद् अश्रुतौ ह्य् अनुमानं स्यात् / Jऐम्_४,३.१८ /
SK
अङ्गेषु स्तुतिः परार्थत्वात् / Jऐम्_४,३.१९ /
SK
START MJऐNय् ४,३.१०
SK
अष्टमाधिकरणमारचयति-
SK
स्वर्गाय वा प्रतिष्ठायै रात्रिसत्रमिहाऽदिमः / पूर्ववत्स्यात्प्रतिष्ठा च श्रुता तेनाश्रुताद्वरम् // MJऐNय्_४,३.१० //
SK
सत्रकाण्डे प्रत्येकं श्रूयते- ऽप्रतितिष्ठन्ति ह वा एते, य एता रात्रीरुपयन्तिऽ इति, ऽब्रह्मवर्चस्विनो ऽन्नादा भवन्ति, य एता उपयन्तिऽ इति च | द्वादशाहादूर्ध्वभाविनस्त्रयोदशरात्रचतुर्दशरात्रादयः सर्वे सत्रविशेषाः | त्रयोदशसंखायाकारात्रयो यस्मिन्सत्रविशेषे सो ऽयं त्रयोदशरात्राः, इति समुदायप्राधान्येनैकवचनान्ततया प्रायेण निर्देशो भवति | क्वचित्तु समुदाधिनां रात्रिशब्देनाऽम्नायते | तद्यथा- ऽत एता विशतिं रात्रीरपश्यत्ऽ इति तादृशे रात्रिसत्रे विश्वजिन्न्यायेन स्वर्गः फलत्वेन कल्पनीयः- इति प्राप्ते- ब्रूमः- अस्य रात्रिसत्रविधेः स्तावकेर्ऽथवादे प्रतिष्ठा श्रुता | सा चास्मिन्वाक्ये ऽत्यन्तमश्रुतात्स्वर्गात्प्रत्वासन्ना | तस्मात्- ऽप्रतिष्ठाकामो रात्रिसत्रं कुर्यात्ऽ इत्येवं प्रतिष्ठैव फलत्वेन कल्पनीया || MJऐNय्C_४,३.१० ||
SK
(नवमे काम्यानां यथोक्तकाम्यफलकत्वाधिकरणे सूत्राणि २०-२४)
SK
काम्ये कर्मणि नित्यः स्वर्गो यथा यज्ञाङ्गे क्रत्वर्थः / Jऐम्_४,३.२० /
SK
वीते च कारणे नियमात् / Jऐम्_४,३.२१ /
SK
कामो वा तत्संयोगेन चोद्यते / Jऐम्_४,३.२२ /
SK
अङ्गे गुणत्वात् / Jऐम्_४,३.२३ /
SK
वीते च नियमस् तदर्थम् / Jऐम्_४,३.२४ /
SK
START MJऐNय् ४,३.११
SK
नवमाधिकरणमारचयति-
SK
श्रुताश्रुते श्रुतं वैकं सौर्ये सर्वप्रवृत्तये / आद्यो मैवं श्रुतेनैव फलाकाङ्क्षानिवर्तनात् // MJऐNय्_४,३.११ //
SK
ऽसौर्य चरुं र्निवपेद्ब्रह्मवर्चसकामःऽ इत्यत्र ब्रह्मवर्चसं फलं श्रुतम् | स्वर्गो ऽश्रुतं फलम् | तदुभयमप्यभ्युपेयम् | तथा सति स्वर्गस्य सर्वैरपेक्ष्यमाणत्वात्सर्वेषां तत्र प्रवृत्तिर्लभ्येत- इति चेत् | मैवम् | श्रुतेन ब्रह्मवर्चसफलेनैव निराकाङ्क्षे विधिवाक्ये विश्वजिन्न्यायेन स्वर्गफलकल्पानाया असंभवात् | तस्मात् - श्रुतमेव फलम् || MJऐNय्C_४,३.११ ||
SK
(दशमे-दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्ण - मासादीनां सर्वकामार्थताधिकरणे सूत्रे २५-२६)
SK
सर्वकाम्यम् अङ्गकामैः प्रकरणात् / Jऐम्_४,३.२५ /
SK
फलोपदेशो वा प्रधानशब्दसंयोगात् / Jऐम्_४,३.२६ /
SK
START MJऐNय् ४,३.१२-१३
SK
दशमाधिकरणमारचयति-
SK
दर्शादिः सर्वकामेभ्यो ऽनुवादो वा फले विधिः / अङ्गोपाङ्गोदितः कामो विध्यभावादनूद्यते // MJऐNय्_४,३.१२ //
SK
उत्पत्तिचोदनासिद्धि आश्रित्य विधिभावने / फलसंयोगबोधेन भवेदेष फले विधिः // MJऐNय्_४,३.१३ //
SK
इदमाम्नीयते- ऽएकस्मै वा अन्या इष्टयः कामायाऽह्रियन्ते, सर्वेभ्यो दर्शपूर्णमासौऽ इति | ऽएकस्मै वा अन्ये यज्ञक्रतवः कामायाऽह्रियन्ते, सर्वेभ्यो ज्योतिष्टोमःऽ इति | तत्र- ऽसर्वेभ्यःऽ इत्यनेन वाक्येन दर्शपूर्णमासयोर्न फले विधिः | विधायकस्य लिङ्ङादेर्भावनावाचिन आख्यातस्य चाभावात् | अनुवादस्तु भविष्यति | सर्वकामानां प्राप्तत्वात् | न च- ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इति विधानात्स्वर्ग एव प्राप्तो न तु कामान्तरम्- इति वाच्यम् | अङ्गोपाङ्गकामानामपि प्राप्तत्वात् | सामिधेन्यो दर्शपूर्णमासयोरङ्गम् | तत्र कामाः श्रृयन्ते- ऽएकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्य, चतुर्विंशतिमनुब्रूयाद्ब्रह्मवर्चसकामस्यऽ इति | तथा सांनाय्ययागस्य दोहनमङ्गम् | तत्साधनं वत्सापाकरणमुपाङ्गम् | तत्र पलाशशाखाहरणे काम आम्नातः- ऽयः कामयेत- पशुमान्स्यात्- इति, बहुपर्णा तस्मै बहुशाखामाहरेत् | पशुमन्तमेवैनं करोतिऽ इति | त एते सर्वे कामा अनूद्यन्ते- इति प्राप्ते, ब्रूमः- मा भूतामस्मिन्वाक्ये विधिभावने | तथाप्युत्पत्तिवाक्यसिद्धिते आश्रित्य तादर्थ्यवाचिन्या चतुर्थ्या फलसंयोगो बोध्यते | तस्मात्- एष फले विधिः || MJऐNय्C_४,३.१२-१३ ||
SK
(एकादशे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां प्रतिफलं पृथगनुष्ठानाधिकरणे, योगसिद्धिन्याये च सूत्रे २७-२८)
SK
तत्र सर्वे ऽविशेषात् / Jऐम्_४,३.२७ /
SK
योगसिद्धिर् वार्थस्योत्पत्यसंयोगित्वात् / Jऐम्_४,३.२८ /
SK
START MJऐNय् ४,३.१४-१५
SK
एकादशाधिकरणमारचयति-
SK
ज्योतिष्टोमश्च सर्वार्थः सर्वे सकृदनुष्ठितेः / दद्यात्पृथक्प्रयोगाद्वा सकृत्तस्याविशेषतः // MJऐNय्_४,३.१४ //
SK
एकैकस्यानपेक्षस्य फलस्यैव हि साधनम् / चोदितं तेन कामास्ते पर्यायेण भवन्त्यमी // MJऐNय्_४,३.१५ //
SK
यथा दर्शपूर्णमासौ सर्वकामार्थौ, तथा ज्योतिष्टोमश्च सर्वकामार्थ इति पूर्वाधिकरणेनैव सिद्धम् | तत्रोभयत्र कामा नैमित्तिकाः | ज्योतिष्टोमादिस्वरूपं निचित्तम् | तच्च सर्वेषु कामेष्वविशिष्टम् | न हि निमित्तसाधारण्ये सति नैमित्तिकानां पर्यायो भवति | वह्निसामीप्ये सति दाहप्रकाशयोः पर्यायादर्शनात् | तस्माज्योतिष्टोमे सकृदनुष्ठिते सत्येकं फलं यथा निष्पद्यते, तथा फलान्तराणामपि वारयितुमशक्यत्वाद्युगपत्सर्वफलसिद्धिः- इति प्राप्ते- ब्रूमः- नहि ज्योतिष्टोयं निमित्तीकृत्य कामा विधीयन्ते | कामानामननुष्ठेयत्वात् | किं तर्हि- पुरुषस्य स्वत एव प्राप्तान्कामानुद्दिश्य तत्साधनत्वेनैव ज्योतिष्टोमो विधीयते | यद्यपि ऽसर्वेभ्यः कामेभ्यःऽ इति स्वर्गपश्वादिफलानामेकेनैव शब्देनोद्दिश्यमानत्वात्साहित्यं प्रतिभाति, तथापि न तदस्यि | उद्देश्यगतत्वेन साहित्यस्याविवक्षितत्वात् | न च शब्दतः साहित्यनियमाभावे ऽप्येककर्मफलत्वादर्थतः साहित्यम्- इति वाच्यम् | स्वर्गपश्वादीनां परस्परनिरपेक्षाणामेव फलत्वात् | तस्मादेकैकस्य फलस्य साधनत्वेन कर्म चोद्यते | अत एव ऽसर्वेभ्यःऽ इति निर्देशोपपत्तिः | अन्यथा हि साहित्यनियमान्मिलितमिदमेकमेव फलं संपन्नमिति सर्वशब्दो नोपपद्यते | तस्माद्यदा यत्फलं काम्यम्, तदा तत्सिद्ध्ये ज्योतिष्टोमः प्रयोक्तव्यः | एकमपि सद्वृष्ट्यादिफलं यदा यदा काम्यते, तदा तदा कारीरीष्टिः पुनः पुनः प्रयुज्यति | किमु वक्तव्यम्- फलभेदे प्रयोगभेदः- इति | तस्मात्प्रतिफलं पृथक्प्रयोगः || MJऐNय्C_४,३.१४-१५ ||
SK
द्वादशे-द्गकाम्यानामैहिकामुष्मिकफलवत्त्वा-द्घसूत्रे २७-२८) अधिकरणे वर्णकान्तरेण ते एव तत्र सर्वे ऽविशेषात् // MJऐNय्C_४,३.२७ //
SK
योगसिद्धिर्वार्ऽथस्योत्पत्त्यसंयोगित्वात् // MJऐNय्C_४,३.२८ //
SK
START MJऐNय् ४,३.१६-१७
SK
द्वादशाधिकरणमारचयति-
SK
चित्रया पशवो ऽमुष्मिन्नेव स्युर्नियता न वा / आद्यः स्वर्गेण तुत्यत्वाद्देहस्योत्पादकत्वतः // MJऐNय्_४,३.१६ //
SK
चित्रोत्पत्तौ तु नियमो न श्रतो नापि कल्पनम् / पुंस्प्रवृत्त्यादिनापेते प्रतिबन्धे भवेत्फलम् // MJऐNय्_४,३.१७ //
SK
काम्यकर्माण्येवं श्रूयन्ते - ऽचित्रया यजेत पशुकामःऽ ऐन्द्रमेकादशकपालं निवपेत्प्रजाकामःऽ इति | तत्र-यथा स्वर्गफलस्याऽमुष्मिकत्वं नियतम्, एवं पश्वादिफलस्यापि | यदि स्वर्गहेतुर्ज्योतिष्टोमो देहान्तरस्योत्पादकः, तर्हि चित्रादिरपि तथास्तु इति चेत् | मैवम् | वैषम्यात् | अस्मिन्देहे स्वर्गस्य भोक्तुप्रशक्यत्वादश्रुताप्यन्यदेहोस्पत्तिरर्थापत्त्या कल्प्यते | ऽचित्रया त्वन्यदेहो ऽवश्यमुत्पाद्यतेऽ इति नियमो न श्रुतः, नापि किंचित्तस्य कल्पकमस्ति | अनेनापि देहेन पश्वादिफलस्य भोक्तुं शक्यत्वात् | अस्मिन्देहे प्रतिग्रहादिदृष्टोपायमन्तरेण पश्वाद्यलाभाद्वैधचित्रादिफलमामुष्मिकमेव- इति चेत् | न | प्रतिग्रहादेः प्रतिबन्धनिवृत्तावुपयुक्तत्वात् | तस्मात्- असति प्रतिबन्धे फलमैहिकम्, सति त्वामुष्मिकम् || MJऐNय्C_४,३.१६-१७ //
SK
(त्रयोदशे सौत्रामण्यादीनां चयनाद्यङ्गताधिकरणे सूत्राणि २९-३१)
SK
समवाये चोदनासंयोगस्यार्थवत्वात् / Jऐम्_४,३.२९ /
SK
कालश्रुतौ काल इति चेत् / Jऐम्_४,३.३० /
SK
नासमवायात्प्रयोजनेन स्यात् / Jऐम्_४,३.३१ /
SK
START MJऐNय् ४,३.१८-१९
SK
त्रयोदशाधिकरणमारचयति-
SK
इष्ट्रवा तु वाजपेयेन बृहस्पतिसवं यजेत् / कालं वा बोधयेद्वाक्यमुताङ्मत्वस्य बोधकम् // MJऐNय्_४,३.१८ //
SK
क्त्वाश्रुत्या भाति कालो ऽत्र मैवमङ्गत्वबोधनम् / श्रुतेर्मुख्यं प्रक्रिया च तथा सत्यनुगृह्यते // MJऐNय्_४,३.१९ //
SK
इदमाम्नायते- ऽवाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतऽ इति | ऽआग्निं चित्वासौत्रामण्या यजेतऽ इति | तत्र- ऽइष्ट्वाऽ इति क्त्वाप्रत्ययो वाजपेयस्य पूर्वकालीनतां ब्रूते | तस्माद्वाक्यमिदं बृहस्पतिसवस्य वाजपेयोत्तरकालीनतां बोधयति- इति प्राप्ते, - ब्रूमः- बृहस्पतिसवस्थ वाजपेयाङ्गत्वबोधनमेव क्त्वाश्रुतेर्मुख्योर्ऽथः, | ऽसमानकर्तृकयोः पूर्वकालेऽ (३ | ४ | २१) इति (पाणिनि) सूत्रेण क्रियाद्वयस्यैककर्तृकतायां तद्विधानात् | यद्यपि सूत्रे ऽपूर्वकालेऽ इत्युक्तम्, तथापि तन्न नियतम् | ऽमुखं व्यादाय श्र्वपितिऽ इत्यत्र कालैक्ये ऽपि प्रयोगात् | वाजपेयप्रकरणमप्यङ्गत्वे ऽनुगृह्यते | अन्यथा त्वप्रकृते बृहस्पतितमे कालविधानात्प्रकरणं बाध्येत | अङ्गत्वे कर्मान्तरत्वेन प्रसिद्धबृहस्पतिसबन्धाभावात्तच्छब्दो ऽनुपपन्नः- इति चेत् | न | मासाग्निहोत्रन्यायेन तद्धर्मातिदेशार्थत्वात् | तस्मात्- वाक्यमिदमङ्गत्वबोधकम् | ऽअग्निंचित्वाऽ - इत्यत्राप्येवं योजनीयम् || MJऐNय्C_४,३.१८-१९ ||
SK
(चतुर्दशे बैमृधादेः पौर्णमास्याद्यङ्गताधिकरणे सूत्राणि ३२-३५)
SK
उभयार्थाम् इति चेत् / Jऐम्_४,३.३२ /
SK
न शब्दैकत्वात् / Jऐम्_४,३.३३ /
SK
प्रकरणाद् इति चेत् / Jऐम्_४,३.३४ /
SK
नोत्पत्तिसंयोगात् / Jऐम्_४,३.३५ /
SK
START MJऐNय् ४,३.२०-२१
SK
चतुर्दशाधिकरणमारचयति-
SK
संस्थाप्य पौर्णमासीं तामनु वैमृध ईरितः / द्वयोरङ्गमुतैकस्य द्वयोः स्यात्प्रक्रियावशात् // MJऐNय्_४,३.२० //
SK
उत्पत्तिवाक्यतः पूर्णमासं संयोगभासनात् / तस्यैवाङ्गं न दर्शस्य प्रक्रिया वाक्यबाधिता // MJऐNय्_४,३.२१ //
SK
दर्शपूर्णमासप्रकरणे श्रूयते- ऽसंस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपतिऽ इति | तत्र-इयं बैमृधोष्टिः प्रकरणबलात्प्रयाजादिवद्दर्शपूर्णमासयोरुभयोरप्यङ्गम्- इति चेत् | न | वाक्यस्य प्रबलत्वात् | न च- ऽसंस्थाप्यऽ इति पौर्णमास्याः समाप्त्यभिधानात्तदङ्गत्वमयुक्तम्- इति वाच्यम् | दर्शसाधारणाङ्गसमाप्त्यभिप्रायेण तदुपपत्तेः | तस्मात्- उत्पत्तिवाक्यात्, एककर्तृकत्ववाचिक्त्वाप्रत्ययाच्च पूर्णमासस्यैवाङ्गम् || MJऐNय्C_४,३.२०-२१ ||
SK
(पञ्चदशे - अनुयाजादीनामाग्निमारुतोर्ध्वकालताधिकरणे सूत्रम्)
SK
अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन संबन्धात् / Jऐम्_४,३.३६ /
SK
START MJऐNय् ४,३.२२-२३
SK
पञ्चदशाधिकरणमारचयति-
SK
किमाग्निमारुतादूर्ध्वमनुयाजैश्र्वरेदिति / अङ्गं कालो ऽथवाङ्गं स्यादतिपारार्थ्यमन्यथा // MJऐNय्_४,३.२२ //
SK
पुराग्निमारुतस्यास्य ज्ञाता सोमार्थता तथा / अनुयाजाश्र्व पश्वर्थाः संयोगः कालसिद्धये // MJऐNय्_४,३.२३ //
SK
ज्योतिष्टोमे श्रूयते -ऽआग्निमारुतादूर्ध्वमनुयाजैश्चरतिऽ इति | आग्निमारुतं नाम किंचिच्छस्त्रम् | अनुयाजाः ऽदेवं बर्हिःऽ- इत्यादिभिः पाशुकहौत्रकाण्डपठितैरेकादशभिर्मन्त्रैः साध्या होमाः | तत्र-ऽआग्निमारुतशस्त्रस्यानुयाजा अङ्गम्ऽ इत्येवमङ्गाङ्गिभावबोधनायायं संयोगः | यदि-अनुयाजानामयं कालोपदेशः स्यात्,तदानीमाग्निमारुतोपन्यासस्य स्वार्थो न कश्चित्- इत्यत्यन्तपारार्थ्य स्यात् | तस्मात्- बृहस्पतिसववत्, वैमृधवच्च, अनुयाजा अङ्गम्- इति प्राप्ते- ब्रूमः- इतरस्तोत्रशस्त्रवदाग्निमारुतशस्त्रस्य सोमाङ्गत्वं पूर्वमेवावगतम् | अग्नीषोमीयविकृतौ सवनीयपशावतिदेशतः प्राप्तानामेकादशानामनुयाजानामपि प्रधाणवत्पश्वङ्गत्वमवगतम् | ततः परस्परमङ्गाङ्गिभावासंभवात्कालोपदेशार्थो ऽयं संयोगः || MJऐNय्C_४,३.२२-२३ ||
SK
(षोडशे - सोमादीनां दर्शपूर्णमासोत्तरकालताद्यधिकरणे सूत्रम्)
SK
उत्पत्तिकालविशये कालः स्याद् वाक्यस्य तत्प्रधानत्वात् / Jऐम्_४,३.३७ /
SK
START MJऐNय् ४,३.२४-२५
SK
षोडशाधिकरणमारचयति-
SK
किं दर्शपूर्णमासाभ्यामिष्टवा सोमेन यागकः / अङ्गाङ्गिभावः कालो वा ह्यपारार्थ्याय चाङ्गता // MJऐNय्_४,३.२४ //
SK
दर्शादिलक्षिते काले सोमयागो विधीयते / स्वतन्त्रफलवत्वेन न युक्ताङ्गाङ्गिता तयोः // MJऐNय्_४,३.२५ //
SK
इदमाम्नायते- ऽदर्शपूर्णमासाभ्यामिष्ट्वा सोमन यजेतऽ इति | तत्र- उभयोराग्निमारुतानुयाजवदन्याधीनत्वाभावाद्दर्शपूर्णमासोक्तेः पारार्ध्यपरिहाराय सोमस्य दर्शपूर्णमासाङ्गत्वबोधको ऽयं संयोगः - इति चेत् | मैवम् | स्वतन्त्रफलवतः सोमस्याङ्गत्वासंभवात् | फलवत्संनिधावफलं तदङ्गं भवति, इति न्यायात् | न च- अत्र बृहस्पतिसबन्यायेन सोमधर्मकर्मफलं कर्मान्तरं विधीयते- इति शक्यं वक्तुम् | सोमशब्दस्य बृहस्पतिसवशब्दवश्वामत्वाभावेन धर्मातिदेशकत्वाभावात् | क्त्वाप्रत्ययस्त्वसत्यप्यङ्गाङ्गिभावे कर्त्रैक्यमात्रेणोपपद्यते | तस्माद्दर्शपूर्णमासशब्दस्य पारार्थ्यमभ्युपेत्यापि तदिष्ट्युपलक्षित उत्तरकाले सोमविधिरयम् | एतदेवाभिप्रेत्य रथत्वरूपमस्याऽम्नायते- ऽएष वै देवरथो यद्दर्शपूर्णमासौ | यो दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानामवस्यमिऽ इति | अवसनि निश्चिते | वरे मार्गे | ऽयथा रथेन क्षुण्णे मार्गे गन्तुः कण्टकपाषणादिबाधाराहित्येन सुखं भवति, तथा प्रथमं दर्शपूर्णमासाविष्टवत उत्तरकाले तदिष्टिविकृतिषु सोमाङ्गभूतदीक्षणीयप्रायणीयादिषु धर्मानुष्ठानं सुकरं भवतिऽ इत्यर्थः | तस्मात्कालार्थः संयोगः || MJऐNय्C_४,३.२४-२५ ||
SK
(सप्तदशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेः पुत्रगतफलकत्वाधिकरणे सूत्रे ३८-३९)
SK
फलसंयोगस् त्व् अचोदिते न स्याद् अशेषभूतत्वात् / Jऐम्_४,३.३८ /
SK
अङ्गानां तूपघातसंयोगो निमित्तार्थः / Jऐम्_४,३.३९ /
SK
START MJऐNय् ४,३.२६-२७
SK
सप्तदशाधिकरणमारचयति-
SK
पैश्वानरेष्ट्या पूतत्वं पितुः पुत्रस्य वाग्रिमः / कर्तुरेव फलं युक्तं कर्तृत्वं पितुरेव हि // MJऐNय्_४,३.२६ //
SK
जाते यस्मिन्निष्टिमेतां निर्वपेत्तस्य पूतत / तच्चेप्सितं पितुस्तेन पिता तत्र प्रवर्तते // MJऐNय्_४,३.२७ //
SK
काम्योष्टिकाण्डे ऽवैश्वानरं द्वादशकपालं निवषेत्पुत्रे जातेऽ इति प्रकृत्य श्रूयते- ऽयस्मिन्जात एतामिष्टिं निर्वपति पूत एव तेजख्यन्नाद इन्द्रियावी पशुनान्भवतिऽ इति | तत्र- पितुः प्रबुद्धस्य कर्तृत्वम्, न तु मुग्धस्य पुत्रस्य | ततो ऽनुष्ठानफलयोर्वैयधिकरण्यपरिहाराय पितुरेव पूतत्वादि फलम्- इति चेत् | मैवम् | ऽयस्मिञ्जाते निर्वपति स पूतःऽ इति वाक्येन फलस्य पुत्रसंबन्धावगमात् | न च- अत्र निष्फलस्य पितुरप्रवृत्तिः- इति वाच्यम् | पुत्रनिष्ठपूतत्वादेरीप्सितत्वेन स्वफलबुद्ध्याप्रवृत्तिसंभवात् | तस्मात्- पुत्रस्य पूतत्वादिकम् || MJऐNय्C_४,३.२६-२७ ||
SK
(अष्टादशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेर्जातकर्मोत्तरकालता- धिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्-)
SK
अङ्गानां तूपघातसंयोगो निमित्तार्थाः // MJऐNय्C_४,३.३१ //
SK
START MJऐNय् ४,३.२८-२९
SK
अष्टादशाधिकरणमारचयति-
SK
जन्मानन्तरमेवेष्टिर्जातकर्मणि वा कृते / निमित्तानन्तरं कार्य नैमित्तिकमतो ऽग्रिमः // MJऐNय्_४,३.२८ //
SK
जातकर्मणि निर्वृत्ते स्तनप्राशनदर्शनात् / प्रागेवेष्टौ कुमारस्य विपत्तेरूर्ध्वमस्तु सा // MJऐNय्_४,३.२९ //
SK
पुत्रजन्मनो वैश्वानरेष्टिनिमित्तित्वात्, नैमित्तिकस्य कालविलम्बायोगात्, जन्मानन्तरमेवोष्टिः- इति चेत् | मैवम् | स्तनप्राशनं तावज्जातकर्मानन्तरं विहितम् | यदि जातकर्मणः प्रागेव वैश्वानरेष्टिर्निरुप्येत, तदा स्तनप्राशनस्यात्यन्तविलम्बात्पुत्रो विपद्येत | तथा सति पूतत्वादिकमिष्टिफलं कस्य स्यात् | तस्मात्- न जन्मानन्तरम्, किंतु जातकर्मण ऊर्ध्व स्त्रेष्ठिः || MJऐNय्C_४,३.२८-२९ ||
SK
(एकोनविंशे-जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेराशौचापगमो- त्तरकालाताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्- ) अङ्गानां तूपघातसंयोगो निमित्तार्थः // MJऐNय्C_४,३.३९ //
SK
START MJऐNय् ४,३.३०
SK
एकोनविंशाधिकरणमारचयति-
SK
जातकर्मानन्तरं स्यादाशौचे ऽपगते ऽथवा / निमित्तसनिधेराद्यः कर्तृशुद्ध्यर्थमुत्तरः // MJऐNय्_४,३.३० //
SK
यद्यपि जातकर्मानन्तरमेव तदनुष्ठाने निमित्तभूतं जन्म संनिहितं भवति, तथाप्यशुधिना पित्रानुष्ठोयमानमङ्गविकलं भवेत् | जातकर्मणि तु विपत्तिपरिहाराय तात्कालिकी शुद्धिःशास्त्रेणैव दर्शिता | ततो मुख्यसंनिधेरवश्यं वाधिकत्वाच्छुद्धिलक्षणाङ्गवैकल्यं वारयितुमाशौचादूर्ध्वमिष्टिं कुर्यात् || MJऐNय्C_४,३.३० ||
SK
(विंशे सौत्रामण्याद्यङ्नानां स्वकालकर्तव्यताधिकरणे सूत्रे ४०-४१)
SK
प्रधानेनाभिसंयोगाद् अङ्गानां मुख्यकालत्वम् / Jऐम्_४,३.४० /
SK
अप्रवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात् / Jऐम्_४,३.४१ /
SK
START MJऐNय् ४,३.३१-३२
SK
विंशाधिकरणमारचयति-
SK
अग्निं चित्वा यजेत्सौत्रामण्येत्यङ्गेष्टिरीदृशी / अङ्गिकाले स्वकाले वा स्यादाद्यो ऽन्याङ्गवन्मतः // MJऐNय्_४,३.३१ //
SK
निर्वृत्ते चयनादौ तु कर्मान्तरविधानतः / स्वकाले चोदकप्राप्ते तदनुष्ठानमास्थितम् // MJऐNय्_४,३.३२ //
SK
ऽअग्निं चित्वा सौत्रामण्या यजेतऽ ऽवाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतऽ इत्यत्र सौत्रामणीबृहस्पतिसवयारेङ्गत्वं पूर्वमुक्तम् | तच्चाङ्गमङ्गिकाले ऽङ्गिना सह प्रयोक्तव्यम् | इतरेषामङ्गानां तथा प्रयुज्यमानत्वात्- इति चेत् | मैवम् | क्त्वाप्रत्ययेन पूर्वकालवाचिना साङ्गे चयनादौ निर्वृत्ते सति पश्चात्कर्मान्तरत्वेन सौत्रामण्यादेर्विहितत्वात् | यदि-अङ्गिना सहैकप्रयोगः स्यात्, तदा क्त्वाप्रत्ययप्रापितः पूर्वोत्तरकालविभागो बाध्येत | न हि- अङ्गिना सह प्रयोक्तव्यानामुखासंभरणादीनां चयने निर्वृत्ते पश्चाद्विधानं श्रुतम् - ततः पृथग्प्रयोगे ऽवश्यभाविनि सति स्वस्वचोदकप्रपिते तदनुष्ठानं युक्तम् | सौत्रामण्या इष्टिप्रकृतिकत्वात्पर्वकालश्चेदकप्राप्तः | चयनेन सहैकप्रयोगे तु पर्वण्युखासंभरणादिविधानादन्यस्मिन्दन सौत्रामणी व्रसज्येत | तथा बृहस्पतिसवस्य ज्योतिष्टोमविकृतित्वात्, वसन्तकालश्चोदकप्राप्तः | वाजपेयेन सह प्रयोगैक्ये शरदि वाजपेयस्य विहितत्वाद्बृहस्पतिसवो ऽपि शरदि प्रसज्येत | तस्मात्- अतिदिष्टे पर्वणि वसन्ते च तदनुष्ठानम् | ननु सर्वत्राङ्गापूर्वैः प्रधानापूर्व जनयितव्यम्, इह तु पूर्वकालीनेन साङ्गप्रधानानुष्ठानेन फलापूर्वस्य निष्पन्नत्वादुत्तरकालीनप्रङ्गं निरर्थकम्- इति चेत् | न | तस्यैवापूर्वस्यानेनाङ्गेन प्राबल्यदशायाः कल्पनीयत्वात् | तस्मात्- नाङ्गिनः काले ऽनुष्ठानम्, किंतु स्वकाले- इति स्थितम् || MJऐNय्C_४,३.३१-३२ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य तृतीयः पादः
SK
अथ चतुर्थाध्यायस्य चतुर्थ पादः /
SK
(प्रथमे राजसूयेज्यानां देवनाद्यङ्गकत्वाधिकरणे सूत्रे १-२)
SK
प्रकरणशब्दसामान्याच् चोदनानाम् अनङ्गत्वम् / Jऐम्_४,४.१ /
SK
अपि वाङ्गमनिज्याः स्युस् ततो विशिष्टत्वात् / Jऐम्_४,४.२ /
SK
START MJऐNय् ४,४.१-२
SK
चतुर्थपादे प्रथमाधिकरणमारचयति-
SK
राजसूये ऽनुमत्यादि देवनादि च ते उभे / मुख्ये उतैकमुख्यत्वं स्यादाद्यः प्रक्रियैक्यतः // MJऐNय्_४,४.१ //
SK
यागानां राजसूयत्वादङ्गित्वं फलवत्त्वतः / देवनाद्यफलं यत्तदङ्गं फलवतो यजेः // MJऐNय्_४,४.२ //
SK
राजसूयप्रकरणे यागरूपा अनुमत्यादयो बहवः श्रुताः- ऽअनुमत्यै पुरोडाशमष्टाकपालं निर्वपतिऽ ऽनैऋतमेककपालम्ऽ ऽआदित्यं चरु निर्वपतिऽ ऽआग्नावैष्णवमेकादशकपालम्ऽ इत्यादयः | यथैता इष्टयः, तथा पशवो ऽपि श्रुताः- ऽआदित्यां मल्हां गर्भिणीमालभते, ऽ ऽमारुतीं पृश्रिम्ऽ ऽप्रष्ठौहीमश्विभ्याम्ऽ इत्यादि | मल्हा मणिला गलस्तनयुक्तेत्यर्थः | तस्या अदितिर्देवता | पृश्रिरल्पतनुः | तस्या मरुतो देवता | यावता वयसा वर्षत्रयरूपेण पृष्ठे भारं वोढुं शक्तिर्भवति, तावद्वयस्का प्रष्ठौही | तस्या आश्विनौ देवता | एवमभिषेचनीयदशपेयादयः सोमयागाः श्रुताः | तथा ऽवल्मीकवपायां होमःऽ इत्यादयो दर्विहोमाः | यथैत इष्टिपशुसोमदर्विहोमाश्चतुर्विधा यागरूपाः, एवमयागरूपा अपि द्यूतादयः श्रुताः- ऽप्रष्ठौहीं दीव्यतिऽ ऽअक्षैर्दीव्यतिऽ ऽराजन्यं जिनातिऽ ऽशौनः शेपमा ख्यापयतिऽ इत्यादयः | तत्र यागा यथा मुख्याः, तथा देवनादीनामपि मुख्यत्वं युक्तम् | प्रकरणपाठस्योभयत्र समानत्वात्- इति प्राप्ते, ब्रूमः- ऽराजा स्वाराज्यकामो राजसूयेन यजेतऽ इत्यत्राऽख्यातवाच्यायां भावनायां धातुवाच्यो यागः करणम् | राजसूयशब्दश्चाप्रसिद्धार्थत्वाद्यागसामानाधिकरण्येन तन्नामधेयं भवति | तथा सति ऽराजसूयेन यागेन स्वाराज्यं भावयेत्ऽ इति वाक्यार्थपर्यवसानादनुमत्यादीनां यागानामेव फलवत्त्वादङ्गित्वम्, तत्संनिधौ श्रूयमाणमफलं देवनादिकं यागाङ्गम् || MJऐNय्C_४,४.१-२ ||
SK
(द्वितीये देवनस्य कृत्स्नराजसूयाङ्गताधिकरणे सूत्रे ३-४)
SK
मध्यस्थं यस्य तन्मध्ये / Jऐम्_४,४.३ /
SK
सर्वासां वा समत्वाच् चोदनातः स्यान् न हि तस्य प्रकरणं देशार्थम् उच्यते मध्ये / Jऐम्_४,४.४ /
SK
START MJऐNय् ४,४.३
SK
द्वितीयाधिकरणमारचयति- एकस्यैवाभिषेच्यस्य तदङ्गं निखिलस्य वा / राजसूयस्यापकर्षादाद्यः प्रक्रिययोत्तरः // MJऐNय्_४,४.३ //
SK
यदेतत्-देवनादिकमङ्गम्- इत्युक्तम्, तदेतभिषेचनीयस्य सोमयागस्यैकस्यैवाङ्गम् | कुतः | अपकर्षात् | यद्यपि- अभिषेचनीयविधेरूर्ध्वे तत्संनिधौ देवनादयः समाम्नाताः, तथापि- अभिषेचनीयमध्वे ते ऽपकृष्यन्ते | ऽमाहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यतेऽ इति वाक्येन राज्ञो यजमानस्याभिषेको माध्यंदिनसवने स्तोत्रकाले ऽपकृष्यते | तस्मिन्नपकृष्टे सति ततः पूर्वमाम्नातानां देवनादीनामर्थसिद्धो ऽपकर्षः | ततो माहेन्द्रस्तोत्रादिवदभिषेचनीयप्रयोगान्तः पातित्वाद्देवनादिकमभिषेचनीय स्वैवाङ्गम्- इति प्राप्ते,- ब्रूमः- किं तदङ्गत्वे संनिधिः प्रमाणम्, किंवा प्रयोगपरिकल्पितमवान्तर प्रकरणम् | उभयथापि प्रत्यक्षस्य महाप्रकरणस्य प्रबलत्वाद्देवनादिकं राजसूयस्याङ्गम् | राजसूयशब्दश्चानुमत्यादीन्सर्वान्यागानभिधत्ते | तस्मात्सर्वेषामेतदङ्गम् | अनुष्ठानं तु राजसूयमध्ये क्वचिदपेक्षितमिति वचनबलादभिषेचनीयगतमाहेन्द्रस्तोत्रकाले तदनुष्ठीयते || MJऐNय्C_४,४.३ ||
SK
(तृतीये सौम्यादीनामुपसत्कालकत्वाधिकरणे सूत्रे ५-६)
SK
प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् / Jऐम्_४,४.५ /
SK
अपि वा कालमात्रं स्याद् अदर्शनाद् विशेशस्य / Jऐम्_४,४.६ /
SK
START MJऐNय् ४,४.४-५
SK
तृतीयाधिकरणमारचयति-
SK
किं पुरस्तादुपसदां सौम्येन प्रचरेदिति / अङ्गाङ्गिभावः कालो वा वाक्यादाद्यः प्रतीयते // MJऐNय्_४,४.४ //
SK
पुरस्तादिति कालो ऽत्र भाति कालविधिस्ततः / नाङ्गं कस्यापि सौम्यादि प्रधानमितरेष्टिवत् // MJऐNय्_४,४.५ //
SK
राजसूये संसृच्छब्दवाच्यान्याग्नेयाष्टाकपालादीनि | तेष्वष्टमनवमदशमानि सौम्य- त्वाष्ट्र-वैष्णवानि | तद्विषयमिदं वाक्यमाम्नायते- ऽपुरस्तादुपसदां सौम्येन प्रचरन्ति, अन्तरा त्वाष्ट्रेण, उपरिष्टाद्वैष्णवेनऽ इति | यो ऽयं राजसूये सोमयागः, तस्मिन्नतिदिष्टानामुपसदामादिमध्यावसानेषु सौम्यादीनां त्रयाणामनुष्ठानमनेन वाक्येन चोद्यते | ततो वाक्यात्सौम्यादीन्युपसदामङ्गानि- इति प्राप्ते, ब्रूमः- ऽउपसदाम्ऽ इति षष्ठ्याः कालवाचिना ऽपुरस्तात्ऽ इति शब्देनान्वयात् | सौम्यादीनां कालविशेषसंबन्धपरमिदं वाक्यम्, न त्वङ्गाङ्गिभावपरम् | ततो न कस्याप्यङ्गं सौम्यादिकम्, किंतु- अनुमत्यादिवत्प्रधानम् || MJऐNय्C_४,४.४-५ ||
SK
(चतुर्थे- आमनहोमानां सांग्रहण्यङ्गताधिकरणे सूत्रम्-)
SK
फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात् / Jऐम्_४,४.७ /
SK
START MJऐNय् ४,४.६
SK
चतुर्थाधिकरणमारचयति-
SK
मुख्यताऽमनहोमस्य सांग्रहण्यङ्गताथवा / मुख्यत्वमविरुद्धत्वात्फलाय स्यात्तदङ्गता // MJऐNय्_४,४.६ //
SK
काम्येष्टिकाण्डे श्रूयते- ऽवैश्वदेवीं सांग्रहणीं निर्वपेद्प्रामकायः ऽ इति | तत्र- आमनहोमाः श्रुताः- ऽआमनस्य- आमनस्य देवाः- इति तिस्त्र आहुतीजुहोतिऽ इति | त एत आमनहोमाः सांग्रहण्येष्ट्या सह समप्रधानभूताः | न हि तेषां मुख्यत्वे कश्चिद्विरोधो ऽस्ति | दृष्टं ह्याग्नेयादिष्वनुमत्यादिषु च बहूनां मुख्यत्वम्- इति चेत् | मैवम् | ऽदर्शपूर्णमासाभ्यां स्वर्गकामःऽ इति वाक्येन ऽस्वाराज्यकामो राजसूयेनऽ इति वाक्येन च यथा बहूनां फलसंबन्धावगमः, तथाऽमनहोमानाम् | फलसंबन्धाभावे सति प्राधान्यायोगात् | ऽसांग्रहणीं निर्वपेद्ग्रामकामःऽ इति वाक्यं तु सांग्रहण्याः संनिधावाम्नाता अफला आमनहोमास्तदङ्गम् || MJऐNय्C_४,४.६ ||
SK
(पञ्चमे दधिग्रहस्य नित्यताधिकरणे सूत्राणि ८-११)
SK
दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् / Jऐम्_४,४.८ /
SK
नित्यश् च ज्येष्ठशब्दात् / Jऐम्_४,४.९ /
SK
सार्वरूप्याच् च / Jऐम्_४,४.१० /
SK
नित्यो वा स्याद् अर्थवादस् तयोः कर्मण्य् असंबन्धाद् भङ्गित्वाच् चान्तरायस्य / Jऐम्_४,४.११ /
SK
START MJऐNय् ४,४.७-८
SK
पञ्चमाधिकरणमारचयति-
SK
नित्यनैमित्तिकत्वे वा नित्यतैव दधिग्रहे / देवान्तरायाज्ज्यैष्ठ्याच्च स्यादस्योभयरूपता // MJऐNय्_४,४.७ //
SK
निमित्तत्वद्योतिनो ऽत्र यदिशब्दादयो न हि / अतो ऽस्य न निमिसत्वं केवला नित्यतोचिता // MJऐNय्_४,४.८ //
SK
ज्योतिष्टोमे श्रूयते- ऽयां वै कांचिदध्वर्युयजमानश्च देवतामन्तरीतः, तस्या आवृश्च्येते | यत्प्राजापत्यं दधिग्रहं गृह्णाति, शमयत्येवैनाम्ऽ इति सो ऽयं दधिग्रहो नित्यो नैमित्तिकश्चेत्युभयात्मकः | कुतः | आकारद्वयसाधकसद्भावात् | देवतान्तरायेण तद्देवताक्षोभनुपन्यस्य ग्रहेण शमनाभिधानात् | अन्तरायो निमित्तम्, ग्रहो नैमित्तिक इति प्रतिभाति | तथा ज्येष्ठत्वमाम्नातम्- ऽज्येष्ठो वा एष ग्रहाणाम्ऽ इति | ज्येष्ठत्वं नाम पशस्तत्वम् | तच्च नित्यत्वे सत्युपपद्यते | नैमित्तिकस्य पाक्षिकत्वादप्रशस्तत्वम् | तस्मात्- हेतुद्वयबलादुभयात्मकः- इति चेत् | मैवम् | देवतान्तरायस्य निमित्तत्वाभावात् | निमित्तत्वे यदिशब्द उपबध्येत, सप्तमी वा श्रूयते | यच्छब्दो वान्तरायकर्त्रोरध्वर्युयजमानयोः सामानाधिकरण्येन प्रयुज्येत | ऽयदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान्गरहान्गृह्णीयात्ऽ ऽभिन्ने जुहोति, यो वै संवत्सरमुख्यमभृत्वाग्निं चिनुतेऽ इत्यादिषु संप्रतिपन्ननिमित्तेषु तद्दर्शनात् | तस्मात्- केवलनित्यत्वमेव दधिग्रहस्योचितम् | देवतास्त्रोभतत्समाधानोपन्यासो विधेयदधिग्रहस्तुतयेर्ऽथवादः || MJऐNय्C_४,४.७-८ ||
SK
(षष्ठे वैश्वानरस्य नैमित्तिकत्वाधिकरणे सूत्रे १२-१३)
SK
वैश्वानरश् च नित्यः स्यान् नित्यैः समानसंख्यत्वात् / Jऐम्_४,४.१२ /
SK
पक्षे वोत्पन्नसंयोगात् / Jऐम्_४,४.१३ /
SK
START MJऐNय् ४,४.९
SK
षष्ठाधिकरणमारचयति-
SK
नित्यो नौमित्तिको वा स्याद्यागो वैश्वानरश्चितौ / नित्यः पुरेव यच्छब्दादविरोधाच्च पश्चिमः // MJऐNय्_४,४.९ //
SK
अग्निचयने श्रूयते-ऽयो वै संवत्सरमुख्यमभृत्वाग्निं चिनुते | यथा सामिनर्भो विपद्यते, तादृगेव तदार्तिमार्छेत् | वैश्वानरं द्वादशकपालं पुरस्तान्निर्वपेत्ऽ इति | उखा पिठरः | तामुखाम् ऽयञ्जानः प्रथमं मनःऽ इत्यादिप्रपाठकाम्नातैर्मन्त्रैः संपाद्य, तस्यामुखायामग्निं निधाय, षडुद्यामे द्वादशोद्यामे वा शिक्ये तामुखामवस्थाप्य, तच्छिक्यं स्वकण्ठे बद्ध्वा, तमुख्यमग्निं संवत्सरं भृत्वा पश्चादिष्टकाभिरग्निश्चेतव्यः | अभरणे त्वपूर्णगर्भपातवद्विनाशः स्यात् | ततो वैश्वानरेष्टिं चयनात्प्रागेव कुर्यात्, इत्यर्थः | अत्राप्यन्तरायवाक्यवदभरणवाक्यस्यार्थवादत्वान्नित्या वैश्वानरेष्टिः- इति चेत् | मैवम् | ऽयः पुमानभृत्वाग्निं चिनुते, स निवपेत्ऽ इति कर्तृसमानाधिकृतयच्छब्दबलादभरणेष्टयोर्निमित्तनैमित्तिक भावाबभासात् | किंच दधिग्रहस्य नित्वस्य पाक्षिकत्वरूपं नैमित्तिकत्वं विरुद्धम् | इह तु नित्यत्वे प्रमाणभावादेकमेव नैमित्तिकत्वमित्वविरोधः || MJऐNय्C_४,४.९ ||
SK
(सप्तमे षष्ठाचितेर्नैमित्तिकत्वाधिकरणे सूत्राणि १४-१८)
SK
षट्चितिः पूर्ववत्त्वात् / Jऐम्_४,४.१४ /
SK
ताभिश् च तुल्यसंख्यानात् / Jऐम्_४,४.१५ /
SK
अर्थवादोपपत्तेश् च / Jऐम्_४,४.१६ /
SK
एकचितिर् वा स्याद् अपवृक्ते हि चोद्यते निमित्तेन / Jऐम्_४,४.१७ /
SK
विप्रतिषेधात् ताभिः समानसंख्यम् / Jऐम्_४,४.१८ /
SK
START MJऐNय् ४,४.१०
SK
सप्तमाधिकरणमारचयति-
SK
नित्या षष्ठी चितिर्नो वा पञ्चापेक्षत्वतो ऽग्निमः / अपवृक्तावप्रतिष्ठानिमित्तीकृतितो ऽन्तिमः // MJऐNय्_४,४.१० //
SK
अग्नौ श्रूयते- ऽसंवत्सरो वा एनं प्रतिष्ठायै नुदते, यो अग्निं चित्वा न प्रतितिष्ठति, पञ्च पूर्वाश्चितयो भवन्ति, अथ षष्ठीं चितिं चिनुतेऽ इति | लाङ्गलेन कृष्टे व्याममात्रे भूप्रदेशे नानाविधाभिरिष्टिकाभिः पक्ष्याकारेण स्थानं निष्पाद्यते, सेयं चितिः | तादृश्यः पञ्च चितयः पूर्वाः क्रियन्ते | ततः षष्ठी चितिः | तत्र ऽषण्णां पूरणी षष्ठीऽ इति व्युत्पत्तौ पूर्वाः पञ्च चितूरपेक्षत्रे | अन्यथा षट्संख्यापूरकत्वासंभवात् | तस्मात्- एकप्रयोगनियमादितरचितिवन्नित्या- इति चेत् | मैवम् | ऽअग्निं चित्वाऽ इति पूर्वाभिरेव पञ्चमिश्चित्यस्याग्निचयनस्य समाप्तौ स्त्रत्यां पश्चात्- ऽयो ऽत्र न प्रतितिष्ठति, असौ षष्ठीं चिनुतेऽ इति कर्तृसमानाधिकृतेन यच्छब्देनाप्रतिष्ठां निमित्तीकृत्त्य विधानात्षष्ठी नैमित्तिकी | ततः- पञ्चचितिको नित्यो ऽग्निः, नैमित्तिकस्त्वेकचितिकः, इति प्रयोगैक्यम् | पूरणप्रत्ययस्त्वभिधानापेक्षयोपपद्यते | ऽपूर्वाः पञ्च चितयो ऽभिहिताः | अथाभिधास्यमानां षष्ठीं चितिं चिनुते, इति वचनव्यक्तिः || MJऐNय्C_४,४.१० ||
SK
(अष्टमे पिण्डपितृयज्ञस्यानङ्गताधिकरणे सूत्राणि १९-२१) पितृयज्ञः स्वकालत्वाद् अनङ्गं स्यात् / Jऐम्_४,४.१९ /
SK
तुल्यवत् प्रसङ्ख्यानात् / Jऐम्_४,४.२० /
SK
प्रतिषिद्धे च दर्शनात् / Jऐम्_४,४.२१ /
SK
START MJऐNय् ४,४.११
SK
अष्टमाधिकरणमारचयति-
SK
क्रत्वङ्गं स्यान्न वा पिण्डपितृयज्ञः क्रतौ हि सः / अमाषास्योक्तितो मैवं तत्कालोक्तेः पुमर्थता // MJऐNय्_४,४.११ //
SK
इदमाम्नायते- ऽअमावास्यायामपराह्णे पिण्डपितृयच्चेन चरन्तिऽ इति | तत्र-अमावास्याशब्दवाच्ये कर्मणि विधीयमानत्वादयं पिण्डपितृयज्ञः क्रत्वङ्गम्- इति चेत् | मैवम् | अमावास्याशब्दस्य कालवाचित्वात् | कर्मणि त्वयं शब्दो लाक्षणिकः | न च - वाक्येन क्तत्वङ्गत्वाभावे ऽपि प्रकरणेन तद्भेवत्- इति वाच्यम् | तस्यानारभ्याधीतत्वात् | तस्मात्- अयं पुरुषार्थः || MJऐNय्C_४,४.११ ||
SK
(नवमे रशनाया यूपाङ्गताधिकरणे सूत्राणि २२-२४)
SK
पश्वङ्गं रशना स्यात् तदागमे विधानात् / Jऐम्_४,४.२२ /
SK
यूपाङ्गं वा तत्संस्कारात् / Jऐम्_४,४.२३ /
SK
अर्थवादश् च तदर्थवत् / Jऐम्_४,४.२४ /
SK
START MJऐNय् ४,४.१२
SK
नवमाधिकरणमारचयति-
SK
रज्जुर्हितीया पश्वर्था यूपार्था वान्वयात्पशौ / पश्वर्था त्रिवृत्रा यूपं परिवीयेति यूपगा // MJऐNय्_४,४.१२ //
SK
ज्योतिष्टोमे श्रूयते- ऽआश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाऽग्नेयं सबनयिं पशुमुपाकरोतिऽ इति | तत्र- सवनीयपशोरग्नीषोमीयविकृतित्वाच्चोदकप्राप्तं यूपपरिव्याणं कालोपलक्षणार्थमनूद्य परिव्याणोत्तरकाले त्रिवृद्रशनोपलक्षितपशोरुपाकरणं विधीयते | ततो ऽत्र रशनायाः पश्वन्वयात्पशुबन्धनेन पशोरितस्ततो ऽपक्रमणनिवारणरूपदृष्टार्थ लाभाच्च पश्वर्था रशना- इति चेत् | मैवम् | ऽत्रिवृताऽ इति तृतीयया ऽयूपम्ऽ इति द्वितीयया च शेषशेषिभावावनमात्, अव्यवहितान्वयलाभाच्च रशना यूपार्था | कालस्तु ऽआश्विनं ग्रहं गृहीत्वा ऽ इत्यनेनैवोपलक्षितः | पश्वनपक्रमणवद्यूपदार्ड्यमपि दृष्टमेव प्रयोजनम् | न च- परिव्याणेन दोर्ढ्य चोदकादेव सिद्धम् - इति वाच्यम् | तस्मिन्सिद्धिसति पुवर्विधानादेव द्वितीयया रशनया परिव्याणान्तराङ्गीकारात् | तस्मात् - इयं द्वितीया रशना यूपार्था || MJऐNय्C_४,४.१२ ||
SK
( दशमे स्वरोः पश्वङ्गताधिकरणे सूत्राणि २५-२८)
SK
स्वरुश्चाप्य् एकदेशत्वात् / Jऐम्_४,४.२५ /
SK
निष्क्रयश् च तदङ्गवत् / Jऐम्_४,४.२६ /
SK
पश्वङ्गं वा तदर्थः स्यात् / Jऐम्_४,४.२७ /
SK
भक्त्या निष्क्रयवादः स्यात् / Jऐम्_४,४.२८ /
SK
START MJऐNय् ४,४.१३
SK
दशमाधिकरणमारचयति- स्वरुर्यूपे पशौ वाङ्गं यूपस्येत्युक्तितो ऽग्रिमः / स्वरुणा पशुमञ्ज्यादित्युक्तेः पश्वङ्गता स्फुटा // MJऐNय्_४,४.१३ //
SK
अग्नीषोमीयपशौ श्रूयते - ऽयूपस्य स्वरुं करोतिऽ ऽस्वरुणा पशुमनक्तिऽ इति | तत्र - स्वरोर्यूपसंबन्धभिधानाद्यूपाङ्गत्वम् - इति चेत् | मैवम् | ऽस्वरुणा पशुम्ऽ इति तृतीयया द्वितीयया चाङ्गाङ्गिभावावगतौ संवन्धसामान्यवाचिन्याः षष्ठ्या यूपीयच्छेदनजन्यत्वाभिप्रायेणापि नेतुं शक्यत्वात् | तस्मात्- स्वरुः पश्वङ्गम् || MJऐNय्C_४,४.१३ ||
SK
(एकादशे - आघारादीनामङ्गताधिकरणे सूत्राणि २९-३८)
SK
दर्शपूर्णमासयोर् इज्याः प्रधानान्य् अविशेषात् / Jऐम्_४,४.२९ /
SK
अपि वाङ्गानि कानिचिद् येष्व् अङ्गत्वेन संस्तुतिः सामान्यो ह्य् अभिसंबन्ह्दः / Jऐम्_४,४.३० /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_४,४.३१ /
SK
अवशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् / Jऐम्_४,४.३२ /
SK
नानुक्ते ऽन्यार्थदर्शनं परार्थत्वात् / Jऐम्_४,४.३३ /
SK
पृथक्त्वे त्व् अभिधानयोर् निवेशः श्रुतितो व्यपदेशाच् च तत्पुनर्मुख्यलक्षणं यत्फलवत्वं तत्संनिधाव् असंयुक्तं तदङ्गं स्याद् भागित्वात् कारणस्याश्रुतश् चान्यसंबन्धः / Jऐम्_४,४.३४ /
SK
गुणाश् च नामसंयुक्ता विधीयन्ते नाङ्गेषूपपद्यन्ते / Jऐम्_४,४.३५ /
SK
तुल्या च कारणश्रुतिर् अन्यैर् अङ्गाङ्गिसंबन्धः / Jऐम्_४,४.३६ /
SK
उत्पत्ताव् अभिसंबन्धस् तस्माद् अङ्गोपदेशः स्यात् / Jऐम्_४,४.३७ /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_४,४.३८ /
SK
START MJऐNय् ४,४.१४
SK
एकादशाधिकरणमारचयति-
SK
आघारादेश्च मुख्यत्वं न वाऽग्नेयादिवत्तु तत् / षण्मुख्या नामतः सिद्धाःशेषा अन्ये ऽङ्गसंस्तुतेः // MJऐNय्_४,४.१४ //
SK
दर्शपूर्ण मासयोराघाराज्यभागप्रयाजानुयाजादयः कालसंयोगमन्तरेणाऽम्नाताः | आग्नेयादयः षड्यागाः कालसंयोगेन चोदिताः | तत्र - आग्नेयादीनां यथा प्राधान्यमङ्गीकृतम्, तथैवाऽघारादीनामप्यङ्गीकर्तव्यम् | यथा राजसूये परस्परविलक्षणानामिष्टिपशुसोमानां बहूनां समप्राधान्यम्, तद्वत् | एकप्रकरणपाठश्चोभयत्रापि समानः | तस्मात् - आघारादीनामाग्नेयादीनां च समप्रधान्यम् - इति प्राप्ते - ब्रूमः- ऽराजा स्वाराज्यकामो राजसूयेन यजेतऽ इत्यत्र राजसूयशब्दो राजसंबन्धात्प्रवर्तमानो राजकर्तृकाणामेकप्रकरण पठितानां सर्वेषां यागानां नामधेयं भवति | दर्शपूर्णमासशब्दौ तु कालवाचिनौ सन्तौ कालसंयोगेन विहितानामेवाऽग्नेयादीनां षण्णां यागानां नामधेयतां प्रतिपद्येते | ततः ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इति वाक्येन तन्नामधेयवशादाग्नेयादयः षडेव यागाः फलसंबन्धित्वेन प्रतीयमाना मुख्याः | अन्ये त्वाज्यभागाघारादयस्तन्नामरहिता निष्फला आग्नेयादीनां शेषाः | एवं सत्यङ्गत्वेन स्तुतिरुपपद्यते | ऽचक्षुषी वा एते यज्ञस्य, यदाज्यभागौऽ इत्याज्यभागौ यज्ञशरीरस्याङ्गिनो ऽङ्गत्वेन स्तूयेते | ऽयत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतश्चज्ञाय क्रियतेऽ इति यज्ञशरीरोपकारकवर्मत्वेन प्रयाजानुयाजाः स्तूयन्ते | एवमाघारादिषूदाहार्यम् | एतच्च सति सादृश्ये संभवति | तस्मात् - आधारादीनां नास्ति मुख्यत्वम् || MJऐNय्C_४,४.१४ ||
SK
(द्वादशे ज्येतिष्टोमे दीक्षणीयादीनामङ्गताधिकरणे सूत्राणि ३९-४१)
SK
ज्योतिष्टोमे तुल्यान्य् अविशिष्टं हि कारणम् / Jऐम्_४,४.३९ /
SK
गुणानां तूत्पत्तिवाक्येन संबन्धात् कारणश्रुतिस् तस्मात् सोमः प्रधानं स्यात् / Jऐम्_४,४.४० /
SK
तथा चान्यार्थदर्शनम् / Jऐम्_४,४.४१ /
SK
START MJऐNय् ४,४.१५
SK
द्वादशाधिकरणमारचयति-
SK
मुख्या न वा दीक्षणीया मुख्या स्यात्सोमसाम्यतः / ज्योर्तिषि यस्य स्तोमाः स्युरिति सोमैकमुख्यता // MJऐNय्_४,४.१५ //
SK
ऽज्योतिष्टोमेन स्वर्गकामो यजेतऽ इत्यस्य प्रकरणे- ऐन्द्रवायवग्रहादयः सोमयागाः, दीक्षणीयादीष्टयः, अग्नीषोयादि पशवः, अग्नीषोयादिपशवः, आम्नाताः | तत्र - आग्नेयादिपक्षपातिदर्शपूर्णमासनामवज्ज्योतिष्टोमनाम्नः सोमपक्षपाते हेत्वभावेन राजसूयनामवत्प्रकृतसर्वयागसाधारणत्वात्, सोमसमानानां दीक्षणीयादीनामप्यस्ति मुख्यत्वम्- इति चेत् | मैवम् | सोमयागपक्षपाते हेतुसद्भावात् | ऽज्योर्तीषि स्तोमा यस्य यज्ञस्य सो ऽयं ज्योतिष्टोमःऽ इति हि तद्व्युत्पत्तिः | अत एव ब्राह्मणम् - ऽत्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, एतानि वाय तानि ज्योतिंषि य एतस्य स्तोमाःऽ इति | स्तोमानां ज्योतिष्ट्वं यज्ञप्रकाशकत्वम् | न चेष्टयः पशवो वा त्रिवृदादिस्तोमयुक्ताः प्रतिभासन्ते | तस्मात् - ज्योतिष्टोमनाम्ना सोमयागानामेव फलसंबन्धावगमादफला इष्टिपशवो न मुख्या इति सोमयागानामेव प्राधान्यम् || MJऐNय्C_४,४.१५ ||
SK
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य चतुर्थपादः
SK
चतुर्थो ऽध्यायश्च समाप्तः //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhava: Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary (sa_mAdhava-jaiminIyanyAyamAlAvistara.htm).

Source