SK᳚चित्रया यजेत पशुकामः᳚इत्याम्नायते | तत्र चित्राशब्दो नोद्भिच्छब्दवद्यौगिकः, किन्तु रूढ्या चित्रत्वं स्त्रीत्वं चाभिधत्ते | ततो न पूर्वन्यायेन नामत्वम् | तथा सति᳚अग्नीषोमीयं पशुमालभेत᳚इति विहितं पशुयागमात्रं ऽ यजेत ऽ इत्यनेन पदेनानूद्य तस्मिन्पशौ चित्रत्वस्त्रीत्वे गुणौ विधीयेते इति प्राप्ते --- ब्रूमः - चित्रत्वं स्त्रीत्वं चेति द्वावेतौ गुणौ | तयोर्द्वयोर्विधाने वाक्यं भिद्येत | तथा चोक्तम् -- ᳚प्राप्ते कर्मणि नानेको बिधातुं शक्यते गुणः | अप्राप्ते तु विधीयन्ते बहवो ऽप्येकयत्नतः᳚ || इति | अथ वाक्यभेदपिरहाराय गुणद्वयावीशीष्ट पशुद्रव्यरूपं कारकं विधीयते तदा गौरवं स्यात् | तस्माच्चित्राशब्दः पूर्ववद्यजिसामानाधिकरण्येन यागनामधेयं भवति | चित्रत्वं तु तस्य विलक्षणद्रव्यद्वारेणोपपद्यते | ऽ दधि, मधु, घृतम् , आपः, धानाः, तण्डुलाः, तत्संसृष्टं प्राजापत्यम् ऽ इति दध्यादीनि विचित्राणि प्रदेयद्रव्याणि षडाम्नातानि | त्रदेतच्चित्रानामकस्य यागस्योत्पत्तिवाक्यम् | यागस्वरूपभूतयोर्दध्यादिद्रव्यप्रजापतिदेवतयोरत्रोपदिश्यमानत्वात् | उत्पन्नस्य तस्य यागस्य ऽ चित्रया यजेत पशुकामः ऽ इत्येतत्फलवाक्यम् | एवं सति प्रकृतार्थो लभ्यते | अग्नीषोमीयपश्वनुवादेन गुणविधाने प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् | लिङ्प्रत्ययस्यानुवादकत्वाङ्गीकारान्मुख्यो विध्यर्थो बाध्येत | तस्माच्चित्रापदं नामधेयम् | यथा चित्राशब्दे नामधेयत्वम् | तथा बहिष्पवमानशब्दे, आज्यशब्दे, पृष्ठशब्दे च तन्नामधेयत्वं योजनीयम् | एवं हि श्रूयते -᳚त्रिवृद्धहिष्पवमानम्᳚ ᳚पञ्चदशान्याज्यानि᳚ ᳚सप्तदशानि पृष्ठानि᳚इति | अस्य वाक्यत्रयस्यार्थो विव्रियते - सामगानामुत्तराग्रन्थे तृचात्मकानि सूक्तान्याम्नातानि | तत्र᳚उपास्मै गायता नरः᳚इत्याद्यं सूत्रम् | ᳚दविद्युतत्या रुचा᳚इति द्वितीयम् | ᳚पावमानस्य ते कवे᳚इति तृतीयम् | ज्योतिष्टोमस्य प्रातः सवनानुष्ठाने तेषु त्रिषुं सूक्तेषु गायत्रं साम गातव्यम् | तदिदं सूक्तत्रयगानसाध्यं स्तोत्रं बहिष्पवमानमित्युच्यते तत्रावस्थितानामृचां पवमानार्थत्वात् | बहिः संबन्धाच्च | न खल्बिदं स्तोत्रमितरस्तोत्रवत्सदोनामकस्य मण्डपस्य मध्य औदुम्बर्याः स्तम्बशाखायाः संनिधौ प्रयुज्यते, किन्तु सदसो बहिः प्रसर्पद्भिः प्रयुज्यते | तस्य च बहिष्पवमानस्य त्रिवृन्नामकः स्तोमो भवति | तस्य च स्तोमस्य विधायकं ब्राह्मणवाक्कयमेवमाम्नायते ---᳚तिसृभ्यो हिं करोति स प्रथमया, तिसृम्यो हिं करोति स मध्यमया तिसृभ्यो हिं करोति स उत्तमया, उह्यती त्रिवृतो विष्टुतिः᳚इति | अयमर्थः --- ऽ सूक्तत्रयपठितानां नवानामृचां गानान्त्रिभिः पर्यायैः -कर्तव्यम् | तत्र प्रथमे पर्याये - त्रिषु सूक्तेष्वाद्यास्तुस्त्र क्रचः , द्वितीये पर्याये -- मध्यमाः, तृतीये पर्याये चोत्तमाः | तिसृभ्य इति तृतीयार्थे पञ्चमी | हिं करोति गायति ऽ इत्यर्थः | सेयं यथोक्तप्रकारोपेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः स्तुतिप्रकारविशेषः | तस्या विष्टुतेरुद्यती नाम, इति | एवं परिवर्तिनी कुलायिनीति द्वे विष्टुती | तयोः परिवर्तिन्येवमाम्नायते -᳚तिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिं करोति स पराचीभिः , तिसृभ्यो हिं करोति स पराचीभिः, परिवर्तिनी त्रिवृतो विष्टुतिः᳚इति | पराचीभिरनुक्रमेणाऽम्नाताभिरित्यर्थः | कुलायिन्येवमाम्नायते --᳚तिसृभ्यो हिं करोति स पराचीभिस्तिसृभ्यो हिं करोति, या मध्यमा सा प्रथमा, पोत्तमा सा मध्यमा, या प्रथमा सोत्तमा, तिसृभ्यो हिं करोति योत्तमा सा प्रथमा, या प्रथमा, सा मध्यमा या मध्यमा सोत्तमा, कुलायिनी त्रिवृत्तो विष्टुतिः᳚इति | अत्र प्रथमसूक्ते पाठक्रम एव | द्वितीये मध्यमोत्तमप्रथमाः | तृतीयेतूत्तमप्रथममध्यमा इत्येवं व्यत्ययेन मन्त्रा गातव्याः | तदिदं विष्टुतित्रयं विकल्पितम् | त्रिवृच्छब्दस्येदृशं स्तोमस्वरूपमर्थो, न तु त्रैगुण्यमिति पूर्वपादे निर्णीतम् | उत्तराग्रन्थे बहिष्पवमानसूक्तेभ्यस्त्रिभ्य ऊर्ध्वे चत्वारि सूक्तान्याम्नातानि --᳚अग्न आ याहि वीतये᳚इत्याद्यं सूक्तम् | ᳚आ नो मित्रावरुण᳚ --इति द्वितीयम् | ᳚आ याहि सुषुमा हि ते᳚ ---इति तृतीयम् | ᳚इन्द्राग्नी आ गतं सुतम्᳚ ---इति चतुर्थम् | तान्येतानि प्रातः सवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते | तन्निर्वचनं च श्रूयते --᳚यदाजिमीयुः, तदाज्यानामाज्यत्वम्᳚इति | तेष्वाज्यस्तोत्रेषु पञ्चदशनामकः स्तोमो भवति | तस्य स्तोमस्य विष्टुतिरेवमाम्नायते -᳚पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिं करोति स एकया स एकया स तिसृभिः᳚इति | एकं सूक्तं त्रिरावर्तनीयम् | तत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः | द्वितीयावृत्तौ मध्यमायाः | तृतीयावृत्तावृत्तमायाः | सो ऽयं पञ्चदशस्तोमः | उक्तेभ्यश्चतुर्भ्यः सूक्तेभ्य ऊर्ध्वमुत्तराग्रन्थे त्रीणि माध्यन्दिनपवमानसूक्तान्याम्नाय तत ऊर्ध्वे चत्वारि सूक्तान्याम्नातानि - तेषु᳚अभि त्वा शूर नोनुम᳚ -इत्याद्यम् ,᳚कया नश्चित्र आभुवत्᳚इति द्वितीयम् | ᳚तं वो दस्ममृतीषहम्᳚इति तृतीयम् | ᳚तरोभिर्वो विदद्वसुम्᳚इति चतुर्थम् | एतानि क्रमें रथन्तरवामदेव्यनौधसकालेयसामभिर्माध्यन्दिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते | ᳚स्पर्शनात्पृष्ठानि᳚इत्येव निरुक्तिर्द्रष्टव्या | तेषु स्तोत्रेषु सप्तदशस्तोमो भवति | तस्य स्तोमस्य विष्टुतिरेवमाम्नायते -᳚पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया, सप्तभ्यो हिं करोति स एकया स तिसृभिः स तिसृभिः᳚इति | अत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः , तृतीयावृत्तौ मध्यमोत्तमयोः सो ऽयं सप्तदशस्तोमः | अत्र त्रिष्वपि वाक्येषु त्रिवृत्पञ्चदशसप्तदशशब्दा गुणविधायकत्वेन संमताः | यदि बहिष्पवमानाज्यपृष्ठशब्दा अपि गुणविधायकाः स्युस्तदा प्रत्युदाहरणम् | गुणद्वयीवधानाद्वाक्यभेदः स्यात् | तस्माद्वहिष्पवमानादिशब्दाः स्तोत्रनामधेयानि | तैर्नामभिः कर्माण्यनूद्य त्रिवृदादिगुणा विधीयन्ते || MJऐNय्C_१,४.६-७ ||