Analysis of the Principles of Sāṃkhya Sāṃkhyatattvavivecana a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras.
Sआंख्यतत्त्वविवेचन अ चोम्मेन्तर्य् ओन् थे Tअत्त्वसमास, अन् अब्स्त्रच्त् ओf Sआंख्य फिलोसोफ्य् इन् (२३-) २५ सूत्रस्.
1 SK सांख्यतत्त्वविवेचनम् श्रीषिमानन्दविरचितम् /
1 SK रघुनन्दनसुतेनेदमिष्टिकापुरवासिना / कान्यकुब्जद्विजाग्र्येण षिमानन्देन तन्यते
2 SK सांख्योपज्ञ नमस्तुभ्यं कपिलाय महात्मने / पञ्चविंशतितत्त्वानां तत्त्वज्ञानप्रवर्तकः
3 SK दुःखत्रयाभिभूतस्य शान्तिर्मे स्यात् कुतस्त्विह / तथोपदिश जन्मादि यथा न स्यात् कृपानिधे
4 SK एवं पृष्टो मुनिः प्राह निर्विण्णाय कृपानिधिः / पञ्चविंशतिसूत्राणि व्याख्यातानि महात्मभिः
6 SK बबन्धुः कवयः काव्ये व्याचिख्युः कवयः परे / सांख्यशास्त्रस्य याथार्थ्यं तदेवेदं विविच्यते //
5 SK षिमानन्देन मन्देन कुक्षिम्भरिशतादिना
8 SK अष्टौ प्रकृतयः || Tअत्स्_१ ||
9 SK प्रकृतिर्बुद्ध्यहंकारौ तन्मात्रैकादशेन्द्रियम् / भूतानि चेति सामान्याच्चतुर्विंशतिरेव ते //
10 SK एतेष्वेव धर्मधर्म्यभेदेन गुणकर्मसामान्यानामन्तर्भावः | प्रकृतित्वं च साक्षात्परम्परयाखिलविकारोपादानत्वम् | व्युत्पत्तिस्तु प्रकृष्टा परिणामरूपा आकृतिरस्या इति | सा च साम्यावस्थयोपलक्षितसत्त्वादिद्रव्यत्रयरूपा | साम्यावस्था च शान्तघोरमूढादिरूपाणामपि असमुदायवद्रूपत्वेपि अतिशयैः समुदायवद्भिरविरोधेन वर्तमानत्वं सामान्यात्मना गुणभावो ऽतिशयात्मना प्राधान्यं विशेषात्मना वैषम्यमित्यतो न्यूनाधिकभावेनासंहतावस्था ऽकार्यावस्थेति यावत् | महदादिकं तु कार्यसत्त्वादिकं न कदाप्यकार्यावस्थं भवतीति तद्व्यावृत्तिः | वैषम्यावस्थायामपि प्रकृतित्वसिद्धये उपलक्षितमित्युक्तं सत्त्वादिगुणवती प्रकृतिः सत्त्वाद्यनतिरिक्तत्वात् तथा च सूत्रं सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वादिति सत्त्वादीनां प्रकृतिस्वरूपत्वं न तु प्रकृतिधर्मत्वम् | गुणेभ्य एव सर्वकार्योपपत्तौ तदन्यप्रकृतिकल्पनावैयर्थ्यात् | सूत्रभाष्याभ्यामपि तथोक्तत्वात् | यत्तु प्रकृतेर्गुणा इतिवत् वनस्य वृक्षा इतिवत् व्यष्टिसमष्ट्यभिप्रायेणेति सत्त्वं रजस्तम इति प्रकृतेरभवन् गुणा इति च न सत्त्वादीनां प्रकृतिकार्यत्ववचनं गुणनित्यतावाक्यविरोधेन महत्तत्त्वकारणीभूतकार्यसत्त्वादिपरम् | महदादिसृष्टिर्गुणवैम्यात् | तच्च सजातीयसंवलनेन गुणान्तरव्यावृत्तप्रकाशादिफलोपहितः सत्त्वादिव्यवहारयोग्यः परिणाम इति सत्त्वादिव्यवहारो वैषम्य एवेत्याह श्रुतिः यथा तम एवेदमग्र आसीत् तत्परे स्यात् परेणेरितं विषमत्वं(१) प्रत्ययाद्वै रजसो(२) रूपं तद्रजः खल्वीरितं विषमत्वं प्रत्ययाद्वै सत्त्वस्य(३) रूपमिति सत्त्वादित्रयं च सत्त्वादिस्वरूपमिति सत्त्वादित्रयं च सुखप्रकाशलाघवप्रसादादिगुणकतया संयोगविभागादिमत्तयानाश्रितत्वोपादानत्वादिना द्रव्यत्वे ऽपि पुरुषोपकारत्वात् पुरुषबन्धकत्वाच्च गुणशब्देनोच्यते इन्द्रियादिवत् गुणानां सुखदुःकमोहात्मकप्रवादस्तु धर्मधर्म्यभेदात् मनसः सङ्कल्पात्मकत्ववत् तत्र सत्त्वं सुखप्रसादप्रकाशाद्यनेकधर्मकमपि प्रधानतस्तु सुखात्मकमुच्यते | एवं रजो ऽपि दुःखकालुष्यप्रवृत्याद्यनेकधर्मकं प्राधान्यतस्तु दुःखात्मकमुच्यते | एवं तमो ऽपि मोहावरणस्तम्भनाद्यनेकधर्मकं प्राधान्यतस्तु मोहात्मकमुच्यते | सतो भावः सत्त्वं धर्मप्राधान्येनोत्तमं पुरुषोपकरणं रागयोगाद्रजो मध्यमम् | तमोधर्मावरणयोगादधमं सत्त्वादीन्यसंख्यव्यक्तयः प्रतिक्षणपरिणामित्वात् लघुत्वादिधर्मैरन्योन्यं साधर्म्यं वैधर्म्यं च गुणानामसंख्यातमिति सूत्रात् | एकदानेकपुरुषादिसृष्टिश्रवणाच्च एकैकव्यक्तित्वे विभुत्वं स्यात् तथा च संयोगवैचित्र्याभावादनन्तवैचित्र्यं कार्याणां न स्यात् | द्रव्यान्तरस्यावच्छेदकीभूतस्याभावाच्च | तस्मादसंख्यातान्येव सत्त्वादीनि त्रित्वकथनं तु विभाजकोपाधित्रयेणैव वैशेषिकाणां नवद्रव्यवचनवत् सत्त्वादीनि च यथायोग्यमणुविभुपरिमाणकानि इतरथा रजसश्चलस्वभावत्ववचननिरोधः स्यात् | आकाशकारणस्य विभुत्वौचित्यात् सर्वकारणद्रव्यविभुत्वे कार्यपरिच्छेदासम्भव इति ||
11 SK शब्दस्पर्शविहीनं तद्रूपादिभिरसंहतम् / त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् //
12 SK इत्याद्युक्तेर्न परमाण्वादावन्तर्भावः प्रकृतेरिति / अथैवमपि प्रकृतेरणुविभुसाधारणसत्त्वाद्यनेकव्यक्तिरूपत्वे अपरिच्छिन्नत्वैकत्वाक्रियत्वसैद्धान्तक्षतिरिति चेन्न कारणद्रव्यत्वस्वरूपप्रकृतित्वेनैवापरिच्छिन्नत्ववचनाद्गन्धत्वेन गन्धानां पृथिवीव्यापकतावत् आकाशादिप्रकृतीनां विभुत्वेनैव प्रकृतिविभुत्वसिद्धान्तोपपत्तेश्च | तथा पुरुषभेदेन सर्गभेदेन च भेदाभावस्यैव एकशब्दार्थत्वात् | अजामेकामितिश्रुतेस्तथावगमात् | तथाध्यवसायो ऽभिमानादिक्रियाराहित्यस्यैवाक्रियशब्दार्थत्वादित्यन्यथा श्रुतिस्मृतित्युक्तस्य प्रकृतिक्षोभस्यानुपपत्तेरिति | तत्रायं प्रयोगः सुखदुःखमोहात्मकमहदादिकार्यं सुखदुःखमोहात्मकद्रव्यकार्यं सुखदुःखमोहात्मकत्वात् वस्त्रादिकार्यशय्यावदिति प्रकृतौ प्रमाणम् | बाह्यवस्तुषु सुखादिकमुत्तमत्वादिकमेव घटरूपमितिवच्चन्दनसुखं स्त्रीसुखमित्यादिप्रत्ययाच्चेति दिक् |
13 SK अव्यक्तबुद्ध्यहङ्कारास्तन्मात्राणां च पञ्चकम् / अष्टौ प्रकृतयस्त्वेताः सप्त च व्यक्ततामियात् //
14 SK अव्यक्तप्रकृतिजन्यत्वात् अव्यक्तानीति चोच्यते / व्यज्यन्ते च यथा लोके घटाद्या न तथा हि तत् //
15 SK अव्यक्तं प्रकृतिर्माया प्रधानं ब्रह्म कारणम् / अव्याकृतं तमःपुष्पं क्षेत्रमक्षरनामकम् //
16 SK बहुधात्मकादिनामानि तस्यामी ते जगुर्बुधाः / व्यज्यते नेन्द्रियैर्यस्मादव्यक्तमत उच्यते / अनादिमध्यनिधनान्निरङ्गत्वेन तत् तथा //
18 SK अशब्दमस्पर्शमरूपमव्ययं यथा च नित्यं रसगन्धवर्जितम् / अनादिमध्यं महतः परं ध्रुवम् प्रधानमेतत् प्रवदन्ति सूरयः // इति
19 SK तस्मादलिङ्गकं सूक्ष्मं तथा प्रसवधर्मिकम् / एकं साधारणं तत्र कार्यं कस्यापि नेतरे //
20 SK बुद्धिर्महान् मनो ब्रह्मा मतिः ख्यातिरपूर्वकम् / प्रज्ञा भूतिर्धृतिर्ज्ञानं सन्ततिः स्मृतिरित्यपि //
21 SK हैरण्यगर्भ्या बुद्धेस्तु महतो नाम सूचितम् / गुणेभ्यः क्षोभ्यमाणेभ्यस्त्रयो वेदा विजज्ञिरे //
22 SK एका मूर्त्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः / इति विष्णुरेवादिसर्गेषु स्वयंभूर्भवति प्रभुः //
23 SK अत्र सत्त्वाद्यंशत्रयेण महतो देवतात्रयोपाधित्वात्तदविवेकेन तिस्र इति | सात्त्विकांशात् प्रधानात् तु महत्तत्त्वमजायत इति महत्त्वस्य प्राधान्येन चाध्यवसायो वृत्तिर्महदहंकारमनस्त्रितयात्मकस्यान्तःकरणवृक्षस्य महत्तत्त्वं बीजावस्था तदुक्तं सांख्यसूत्रे इदमेव महत्तत्त्वमंशतो रजस्तमःसंभेदेन परिणतं सत् व्यष्टिजीवानामुपाधिरधर्मादियुक्तं क्षुद्रमपि भवति महदुपरागाद्विपरीतमिति | महतस्त्रिगुणस्वरूपत्वाद्देहस्य देहिना कालरूपविष्णुना क्षोभ्यदशायां गुणरूपोपाधिप्राधान्यादविवेके ब्रह्मविष्णुशिवत्वं तत्र महान् सुषुप्त्यभिमानी शिवस्तदुपाधिस्तमःकार्यरूपी तत्र स्वप्नाभिमानी विष्णुस्तदुपाधिः कार्यसत्त्वं तत्र जाग्रदभिमानी ब्रह्मा तदुपाधिः कार्यरजः तत्र समुदायसमुन्नयनन्यायेन समष्टेर्व्यष्ट्यनन्यत्वान्मशकादिरपि विष्णुरेवेति भावः | सृष्टिस्तु महदादिक्रमेणैव न तु भूतादिक्रमेणेति ||
24 SK सा च कौर्मे भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह / आकाशसुषिरं तस्मादुत्पन्नं शब्दलक्षणम् //
25 SK आकाशं तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह / वायुरुत्पद्यते तस्मात्तस्य स्पर्शो गुणो मतः //
26 SK इत्यादि नन्वेवं चेदाकाशादीनां केवलं विकृतित्वं कथं तत्र आकाशादीनां स्पर्शादितन्मात्रेषु अहंकारोपष्टम्भमात्रेण कारणत्वस्य पुराणादिषूक्तत्वात् |
27 SK न पुमान् स्थाणुरेवायं बुद्धिरध्यवसायिनी / पुरुषाधिष्ठितात् सर्वगताज्जाता प्रधानता //
28 SK चिच्छक्तिर्यादृशी तादृग् वृत्तिः सत्त्वविमिश्रिता / रजोगुणस्वरूपा यत् त्रिवृत्करणतः श्रुतेः //
29 SK ज्ञानं धर्मश्च वैराग्यमैश्वर्यं सत्त्वतो ह्यमी / अनैश्वर्यमवैराग्यमधर्मो ऽज्ञानमेव तु //
30 SK तमसश्चापि ते ज्ञेया बुद्धेर्भेदा इतीरिताः / ज्ञानं तत्त्वावबोधो ऽयं धर्मः श्रुत्युक्तपालनम् //
31 SK वैराग्यमर्थानासक्तिरैश्वर्यमणिमादिकम् / तत्तद्विपर्ययेणैव तामसं तच्चतुष्टयम् //
32 SK ज्ञानेन मोक्षो धर्मेण गतिरूर्ध्वा भवेदिति / वैराग्येनाक्षरलय ऐश्वर्येणाहता गतिः //
33 SK एवमेषाष्टधा शक्तिर्व्याख्याता बुद्धिसञ्ज्ञिता / प्रधानविकृतिस्त्वेषाहंकारप्रकृतिश्च सा //
34 SK मूलप्रकृतिरित्यादि कविभिश्च निरूपितम् / एको ऽहंकार इत्येतज्जिज्ञासा चेद्विभावय //
35 SK यो ऽहंशब्दं करोत्येष अभिमान इति स्मृतः / स्पृशे ऽहं रसये वाहं स्वामी चाहं मया हृतः //
36 SK इत्यादि नाम यस्यासीत्तस्य भेदा अमी शृणु / वैकारिकस्तैजसोपि भूतादिः सानुमानकः //
37 SK निरनुमानश्च पञ्चैते भेदास्तस्य प्रकीर्त्तिताः / वैकारिकः सात्त्विको ऽयं भूतादिस्तामसः स्मृतः //
38 SK तैजसो राजसो ज्ञेयस्तस्मात् तन्मात्रपञ्चकम् / एकादशेन्द्रियगणः सात्त्विकादभिजायते //
39 SK देवतास्त्वभिमानिन्यस्तैजसादपि चोच्यते / तदेव कथमेवं चेत् त्रिवृत्करणहेतुतः //
40 SK शब्दतन्मात्रमित्येतत् शब्द एवोपलभ्यते / न तूदात्तनिषादादिभेदस्तस्योपलभ्यते //
41 SK स्पर्शतन्मात्रमेवैतत् स्पर्श एवोपलभ्यते / न तु शीतमृदुत्वादिविशेषस्तस्य लभ्यते //
42 SK रूपतन्मात्रमेवं वै रसतन्मात्रमप्यथ / गन्धतन्मात्रमेतेषु विशेषो नोपलभ्यते //
43 SK तन्मात्राण्यविशेषाणि सूक्ष्मभूतानि चोच्यते / भोग्यानि शान्तघोरानि प्रकृत्या ऽणव एव च //
44 SK कुर्वद्रूपात् प्रकृतयः संख्यया ऽष्टौ प्रकीर्त्तिताः //
45 SK षोडश विकाराः || Tअत्स्_२ ||
46 SK एकादशैवेन्द्रियाणि महाभूतानि पञ्च च / विकाराः षोडशैवैते न तु प्रकृतिताजुषः //
47 SK श्रोत्रं त्वक् चक्षूषी जिह्वा घ्राणं ज्ञानेन्द्रियं त्विदम् / वाक्पाणिपायूपस्थपादाः कर्मेन्द्रियं मतम् //
48 SK स्वं स्वं कर्म प्रकुर्वन्ति ज्ञानं चेति यथैषितम् / उभयात्मकं मनश्चैव संकल्पादिस्वरूपवत् //
49 SK करणानीन्द्रियाणीति वैकारिकमयं रयः / पदानि नियतानीत्यक्षाणीत्यभिधीयते //
50 SK पृथिवीजलतेजांसि वायुराकाश इत्यपि / महाभूतानि पञ्चैव धारणाद्युपकारतः //
51 SK आपः संग्रहभावेन चतुर्णामुपकारिकाः / तेजः पाचकभावेन वायुर्वहनभावतः //
52 SK शब्दादिपञ्चगुणवत्पृथ्वी पञ्चगुणा मता / आपः शब्दादिसहिताः गन्धेन रहितास्तथा //
53 SK तेजः शब्दस्पर्शवत् रूपवत् श्वसने पुनः / शब्दश्च स्पर्श इत्येवमाकाशे शब्द एव तु //
54 SK न तु विग्रहभूतानि विशेषाकृतयस्तथा / विकाराः शान्तघोराख्यमूढाः त्रिविधकीर्त्तिताः //
55 SK पुरुषः || Tअत्स्_३ ||
56 SK पुरि शयनात् प्रमाणात् पूरणात् पुरुवृत्तितः / स चानादिः सर्वगतश्चेतनो निर्गुणो ऽपरः //
57 SK द्रष्टा भोक्ता क्षेत्रविदमलो ऽप्रसवधर्मकः / सूक्ष्मो नित्यो ह्यनादिस्त्वमध्यनिधनो ऽपि सः //
58 SK सर्वमाप्तमनेनेति तस्मात् सर्वगतस्तु सः / सुखोपलब्धिमत्त्वाच्च चेतनो निर्गुणस्तथा //
59 SK सत्त्वादिगुणराहित्यात् परः परतया स्मृतः / दृश्यप्रकृतिसम्बन्धात् द्रष्टा भोक्ता ऽनुभावनात् //
60 SK क्षेत्रे गुणगतं वेत्ति क्षेत्रज्ञ इति कीर्त्तितः / शुभाशुभादिसंसर्गाभावादमल ईष्यते //
61 SK निर्बीजत्वात् प्रसूते च नेत्यप्रसवधर्मकः / निरङ्गत्वातीन्द्रियत्वात् सूक्ष्मो नित्यः सदातनात् //
62 SK एवं सांख्यः स पुरुषो व्याख्यातः पूर्वसूरिभिः / जीवो जन्तुः पुमानात्मा पुरुषः पूजको नरः //
63 SK क्षेत्रज्ञश्चाक्षरः प्राणः कोय एषः स ज्ञस्तथा / अज एतानि नामानि सांख्ये पुरुषसञ्ज्ञिते //
64 SK एवम्, पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः / मुण्डी जटी शिखी वापि मुच्यते नात्र संशयः //
65 SK अयं कर्ता ऽथवा ऽकर्त्ता पुरुषः प्रकृतेः परः / शुभाशुभानि कर्त्ता चेत् कुर्याद्वृत्तित्रयं विना //
66 SK लोकदृष्टगुणानां चेत् कर्तृता धर्मिता कथम् //
67 SK साहित्यं यमनियमनिषेचनप्रसंख्यानात् / ज्ञानैश्वर्यविकारप्रकाशने सात्त्विकी वृत्तिः //
68 SK रागः क्रोधो लोभः परपरिवादो निन्दा तुष्टिः / विकृताकृतपारुष्यं प्रख्यातैषा रजोबुद्धिः //
69 SK उन्मादमदविषादा नास्तिक्यं स्त्रीप्रसङ्गिता / निद्रालस्यं नैर्घृण्यं त्वशौचमिति तामसी वृत्तिः //
70 SK एतद्वृत्तित्रयं दृष्ट्वा गुणानां कर्तृता ऽथवा / अकर्ता पुरुषः सिद्ध इति सिद्धान्त इष्यते //
71 SK प्रवर्त्तमानप्रकृतेरिमान् गुणान् रजस्तमोभ्यां विपरीतदर्शनात् / आत्मानमाच्छाद्य स आत्मने तद् अहङ्करोमीत्यबुधो ऽवमन्यते //
72 SK बालाग्रकुक्षीकरणासमर्थः सर्वं मयेदं कृतमित्यमन्यत / उन्मत्तवद्भाव्यत इत्यबोधः अहो विधे पण्डितमानिनः कः //
73 SK तदुक्तं गीतासु प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः / अहङ्कारविमूढात्मा कर्ता ऽहमिति मन्यते //
74 SK अनादित्वान्निर्गुणत्वात् परमात्मा ऽयमव्ययः / शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते //
75 SK प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः / यः पश्यति सदा ऽ; ऽत्मानमकर्तारं स पश्यति // इत्यादि / स एकः पुरुषः किं वा नानेति च विचारय / सुखदुःखमोहसङ्करविशुद्धजन्ममरणानाम् / नानात्वात् पुरुषबहुत्वं सिद्धं लोकाश्रमवर्णभेदाच्च //
76 SK यद्येकः पुरुषः स्याद् बुद्धिहानिः प्रसज्यते / एकस्मिन् सुखिते सर्वे सुखिनः स्युरतः परम् / एकस्मिन् दुःखिते सर्वे दुःखिताः स्युरिति क्रमात् //
77 SK अतो बहुत्वं संसिद्धं बहवः पुरुषाः स्मृताः / आकृतिगर्भाशयभावसङ्गतिशरीरविभागाल्लिङ्गबहुत्वात् सांख्याचार्याः कपिलासुरिपञ्चशिखपतञ्जलिप्रभृतयः पुरुषबहुत्वं वर्णयन्ति | वेदवादिन आचार्या हरिहरहिरण्यगर्भव्यासादय एकमात्मानं, तथा च श्रुतिः | पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् | उतामृतत्वस्येशानो यदन्येनातिरोहति / तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः //
78 SK तदेव शुक्रं तद्ब्रह्म ता आपः स प्रजापतिः / तदेव सत्यममृतं स मोक्षः सा परा गतिः //
79 SK तदक्षरं तत्सवितुर्वरेण्यं यस्मात् परं नापरमस्ति किञ्चित् / यस्मान्नाणीयो न ज्यायो ऽस्ति किञ्चित् //
80 SK वृक्ष इव स्तम्भो दिवि तिष्ठत्येकः तेनेदं पूर्णं पुरुषेण / सर्वतः पाणिपादं तत् सर्वतो ऽक्षिशिरोमुखम् //
81 SK सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति / सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् //
82 SK सर्वस्य पशुमीशानं सर्वस्य शरणं महत् / सर्वतः सर्वसत्त्वानि सर्वात्मा सर्वसम्भवः //
83 SK सर्वं विलीयते यस्मिन् तद्ब्रह्म मुनयो विदुः / एक एव हि भूतात्मा भूते भूते व्यवस्थितः //
84 SK एकधा बहुधा चैव दृश्यते जलचन्द्रवत् / स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च //
85 SK वसत्येको महानात्मा येन सर्वमिदं ततम् // इत्यादि /
86 SK त्रैगुण्यम् || Tअत्स्_४ ||
87 SK सत्त्वं रजस्तम इति गुणाः भावेण्यस्त्रैगुण्यम् / प्रसादो लाघवं सङ्गः प्रसङ्गात् प्रीतिरार्जवम् //
88 SK तुष्टिस्तितिक्षा सत्त्वस्य रूपं साक्षात् सुखावहम् / शोकस्तम्भद्वेषतापखेदभोगाभिमानिता //
89 SK रजोरूपाण्यनेकानि बहुदुःखप्रदानि वै / तमो नामाच्छादनादि बीभत्सावरणादि च //
90 SK दैन्यगौरवनिद्रादिप्रमादालस्यलक्षणम् / मोहात्मकमनन्तं तदेवं त्रैगुण्यमीरितम् / सत्त्वं प्रकाशकं विद्याद्रजो विद्यात् प्रवर्त्तकम् //
91 SK विनाशकं तमो विद्यात् त्रैगुण्यं नाम सञ्ज्ञितम् /
93 SK साम्यावस्था गुणानां या प्रकृतिः सा स्वभावतः / कालक्षोभेण वैषम्यात् क्षेत्रे परयुते पुरा //
94 SK बुद्धिस्ततश्चाहङ्कारस्त्रिविधो ऽपि व्यजायत / तन्मात्राणीन्द्रियाणि महाभूतानि च क्रमात् //
95 SK एवं क्रमेणैवोत्पत्तिः सञ्चरः परिकीर्त्तितः /
96 SK प्रतिसंचरः || Tअत्स्_६ ||
97 SK व्युत्क्रमेणैव लीयन्ते तन्मात्रे भूतपञ्चकम् / तन्मात्राणीन्द्रियाणि अहङ्कारे विलीयते //
98 SK अहङ्कारो ऽथ बुद्धौ तु बुद्धिरव्यक्तसञ्ज्ञके / अव्यक्तं न क्वचिल्लीनं प्रतिसञ्चर इति स्मृतः //
99 SK अध्यात्मम् अधिभूतम् अधिदैवतं च || Tअत्स्_७ ||
100 SK बुद्ध्याहङ्कारमनसी श्रोत्रं त्वक् चक्षुषी तथा / जिह्वा घ्राणं पादपायूपस्थमध्यात्मसञ्ज्ञितम् //
101 SK यत्तु मोक्षधर्मे आदौ मन अहङ्कारात् जायते वृत्तयस्चताः //
102 SK शब्दरागात् श्रोत्रमस्य जायते भावितात्मनः / रूपरागात् तथा चक्षुर्घ्राणं गन्धजिधृक्षया //
103 SK इत्यादिनेन्द्रियाणां मनोवृत्तिरागादिकार्यत्वं तद्वेदान्तरीत्यैवेति मन्तव्यम् | अधिभूतम् |
104 SK यथाक्रमेण बोद्धव्यमभिमन्तव्यमेव च / सङ्कल्पितव्यं श्रोतव्यं स्प्रष्टव्यं द्रष्टव्यमेव च //
105 SK रसयितव्यं घ्रातव्यं गन्तव्यमुत्स्रष्टव्यं च / आनन्दयितव्यमित्येवमधिभूतं प्रकीर्तितम् //
106 SK अधिदैवतं च / ब्रह्मा रुद्रश्चन्द्रमाश्च आकाशो वायुरेव च / सूर्यो वरुण इन्द्रश्च विष्णुमित्रं तथैव च //
107 SK अनेनैव क्रमेणेदं संप्रोक्तमधिदैवतम् / चत्वारि यो वेदयते यथा च- क्षुषा स्वरूपाण्यधिदैवतं वा / विमुक्तयाथागतदोषसङ्गो- गुणांस्तु भुङ्क्ते न गुणैः स युज्यते //
108 SK पञ्चाभिबुद्धयः || Tअत्स्_८ ||
109 SK इच्छाभिर्बुद्धिर्विज्ञेया आभिमुख्येन कर्मणः / इदं मे कार्यमित्येषो ऽध्यवसायः करोम्यहम् //
110 SK इच्छा वाञ्छा ऽथ सङ्कल्पो मनसः कर्म चेष्यते / एवमेताश्च पञ्चाभिबुद्धयः परिकीर्तिताः //
111 SK पञ्च कर्मयोनयः || Tअत्स्_९ ||
112 SK धृतिः श्रद्धा सुखेच्छा विविदिषा तदभावकौ / सामान्यतः समुद्दिष्टाः पञ्चैते कर्मयोनयः //
113 SK वाचि कर्मणि संकल्पे प्रतीतिर्याभिरज्यते / तन्निष्ठस्तत्प्रतिष्ठश्च धृतेरेतद्धि लक्षणम् //
114 SK अनसूया ब्रह्मचर्यं यजनं याजनं तपः / प्रतिग्रहश्च होमश्च श्रद्धाया लक्षणं स्मृतम् //
115 SK सुखं सुखार्थी सेवेत विद्या कर्म तपांसि च / प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्त्तिता //
116 SK विषधूममूर्छितवद् विविदिषा ध्यानिनां प्रज्ञायोनिः / एकत्वं च पृथक्त्वं च नित्यं वेदमचेतनम् //
117 SK सूक्ष्मसत्कार्यसंक्षोभ्यं ज्ञेया विविदिषा हि सा / कार्यकरणक्षमकरी विविदिषा प्राकृती वृत्तिः //
118 SK धृतिः श्रद्धा विविदिषा सुखा चेति चतुष्टयम् / ज्ञेयं बन्धो विविदिषा मोक्षाय परिकल्पिता / कर्मयोनिस्वरूपो ऽयं विशिष्य परिकीर्त्तितः //
119 SK पञ्च वायवः || Tअत्स्_१० ||
120 SK प्राणो ऽपानः समानश्च उदानो व्यान एव च / इत्येते वायवः पञ्च शरीरेषु शरीरिणाम् //
121 SK मुखनासाधिचारी यः प्राणनात् प्राण उच्यते / नाभेरधिचरत्येवोपानये ऽपान इष्यते //
122 SK हृद्यधिष्ठाननयनात् समान इति कीर्तितः / कण्ठादूर्ध्वावगमनादुदान इति च स्मृतः //
123 SK सन्ध्यधिष्ठानतो व्यानो विक्षेपणविजृम्भणात् /
124 SK पञ्च कर्मात्मानः || Tअत्स्_११ ||
125 SK वैकारिकादयः पूर्वं यथाक्रममुदाहृताः / शुभं वा ऽशुभमूढौ च शुभमूढा ऽशुभमूढके //
126 SK यथाक्रमं च कर्त्तारस्तत्तत्कर्म समीरितम् /
127 SK पञ्चपर्वाविद्या || Tअत्स्_१२ ||
128 SK तमो मोहो महामोहस्तामिस्रश्चान्धतामिस्रः //
129 SK अष्टकौ तौ तमौ मोहौ प्रकृत्यष्टकनिष्ठितौ / आत्मज्ञानाभिमान्येयं प्राप्त्याद्यैश्वर्यमानिता //
130 SK निर्वृत्ते विषये दृष्टे पञ्चानुश्रविके तथा / मोहो ऽहमभिमानो यो महामोहो दशात्मकः //
131 SK अष्टैश्वर्ये दशविषये सिद्धतामिस्र उच्यते / विषादः सो ऽन्धतामिस्रो मरणे प्रतिपद्यते //
132 SK अविद्या पञ्चपर्वैषा भिन्ना द्वाषष्टिभेदतः /
133 SK अष्टाविंशतिधाशक्तिः || Tअत्स्_१३ ||
134 SK जडत्वकुष्टिकुब्जत्वरूपताघ्राणत्वमूकत्वसुपङ्गुताश्च / कुणिर्गुदावर्त्ति च षण्ढता च उन्माद इत्येष निरूपितो ऽयम् //
135 SK एकादशेन्द्रियवधो बाधिर्यादिस्वरूपतः / बुद्धेर्वधः सप्तदश तुष्टिसिद्धिविपर्ययः //
136 SK नास्ति प्रधानमिति या प्रतिपत्तिरजम्भिका / न महानित्यसलिला नायाच्छा चानहंकृतौ //
137 SK न वा ऽस्त्यदृष्टिस्तन्मात्रपञ्चकं भूतकारणम् / सर्वमेवेदं ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्येति / यथा वेदान्तिनां तद्वत् सांख्यानामीदृशी मतिः //
138 SK असुता विषयार्जने प्रवृत्तिः सुतरा परिरक्षणे प्रवृत्तिः / क्रयदोषमपश्यतो धने प्रवृत्तिः असुनेत्रा परिकीर्त्त्यते हि सांख्यैः //
139 SK अकुर्मरीचिकाभोगशक्तिर्हिंसाद्यपश्यतः / अनुत्तम्भाम्भसिका दोषभोगादम्भः प्रवर्त्तनम् //
140 SK नवधा कथिता ह्येते तत्र तुष्टिर्विपर्ययाः / कथ्यन्ते सिद्धयो ह्यष्टौ ते ऽमी सिद्धिविपर्ययाः //
141 SK नानात्वमूहमानस्य सिद्धमेकमतारकम् / विपरीतग्रहः शब्दश्रवणादसुतारकम् //
142 SK नानात्वज्ञो मुक्त इति श्रुत्वैकज्ञो न मुक्तिभाक् / अतारयन्तमज्ञानासदच्छास्त्रनिवेशतः / दुःखितस्याप्यनुद्वेगादप्रमोदा हि संसृतौ //
143 SK अप्रमुदं तदज्ञानप्रमुदितमप्रमोदमानं वा / असम्यग्वचनादप्युपरोधेन वा गुरौ //
144 SK अभाग्यस्य न सिद्धिः स्यात् ज्ञाने तत् समुदीरितम् / स्निग्धसंसर्गतो ज्ञानोत्तराज्ञानमरम्यकम् //
145 SK व्याख्याताः पूर्वरीत्याष्टावेते सिद्धिविपर्ययाः / अष्टाविंशतिधा ऽशक्तिर्व्याख्यातोभययोगतः //
146 SK नवधा तुष्टिः || Tअत्स्_१४ ||
147 SK प्रकृतौ परमात्मत्वं प्रतिपद्यैव तुष्टिभाक् //
148 SK माध्यस्थ्यमवलम्बेत अम्भः सा तुष्टिरुच्यते / बुद्धौ च परमात्मत्वे तुष्टिः सा सलिला स्मृता //
149 SK अहंकारे यदा सा स्यादायाच्छा इति शब्धिता / तन्मात्रेषु यदा सा स्यात् तुष्टिर्दृष्टिर्निगद्यते //
150 SK आध्यात्मिकाश्चतस्रस्तु तुष्टयः प्रभवन्ति हि / मोक्षस्तास्वपि नास्त्येव तत्त्वज्ञानाद्यथोदिता //
151 SK अर्थानामर्जने दुःखमर्जितानां च रक्षणे / त्यागे दुःखं क्षये दुःखं धिगर्थं दुःखभाजनम् // इति
152 SK दोषदर्शनसन्तुष्टः परब्रह्मैव मोक्षभाक् / सुतेयं पञ्चमी तुष्टिस्तत्त्वज्ञानाद्यभावतः //
153 SK रक्षणे सुतरा षष्ठी सप्तमी क्षयदर्शनात् / सुनेत्रा सङ्गदोषा चाष्टमी कुर्मरीचिका //
154 SK अर्थे हिंसादिदोषेण निवृत्तिश्च समस्करी / तुष्टिस्तु नवमी प्रोक्ता ह्युत्तमाम्भसिका तव //
155 SK अष्टधा सिद्धिः || Tअत्स्_१५ ||
156 SK ज्ञानं यद्दूरमुत्पन्नं ताराख्या प्रथमा हि सा / शब्दमात्रेण भूतेषु सुतारा ज्ञानमिष्यते //
157 SK ज्ञानमध्ययनेनैव तारयन्ती तृतीयका / अध्यात्मदुःखापनयात् प्रमोदेत्यभिधीयते //
158 SK भौतिकक्लेशहरणात् प्रमुदा सिद्धिरुच्यते / आधिदैवक्लेशहरणात् ज्ञानमुत्पद्यते नृणाम् //
159 SK प्रमोदमानेत्याख्याता षष्ठी सिद्धिः स्वयं सताम् / स्निग्धसंसर्गनाशात्तु रम्यका सप्तमी स्मृता //
160 SK प्रमुदा चाष्टमी सिद्धिः परिचर्यादिना गुरोः / इत्येताः सिद्धयो ह्यष्टौ व्याख्याताः ज्ञानसाधिकाः //
161 SK दश मूलिकार्थाः || Tअत्स्_१६ ||
162 SK अस्तित्वमेकत्वयथार्थवत्त्वे पारार्थ्यमन्यत्वमकर्तृकत्वम् / योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः //
163 SK एषा सा दशमूलिका ऽर्थगणना सङ्घातपारार्थ्यतः सिद्धा सा पुरुषास्तिता परिणतेर्भेदस्य तत्कारणम् / अस्त्यव्यक्तमनन्तमेकमिति च प्रेमाविषादात्मकं नानापायपरार्थता त्रिगुणतो ऽन्यत्वस्य सिद्धिस्तथा //
164 SK विपर्यासादकर्तृत्वं योगः पुरुषदर्शनात् / प्राप्ते शरीरभेदे तु चरितार्थत्वदर्शनात् //
165 SK जन्मादिकरणान्तानां भेदान्नाना हि ते स्मृताः / चक्रभ्रमिवत् शेषवृत्तिः सिद्धार्थाः दश मूलिकाः //
166 SK सप्तत्या प्रागुपदिष्टाः पञ्चाशत् प्रत्यया इमे / दशषष्टिपदार्थैस्तु षष्टितन्त्र इतीर्यते //
167 SK अनुग्रहसर्गः || Tअत्स्_१७ ||
168 SK ब्रह्मानुग्रहमसृजद्रूपतन्मात्रतः पृथक् / उत्पाद्यानुग्रहध्यानात् प्राक्तनाधारवर्जनात् //
169 SK चतुर्दशविधो भूतसर्गः || Tअत्स्_१८ ||
170 SK अष्टविकल्पं दैवं पैशाचं राक्षसं तद्वत् / गान्धर्वमैन्द्रं ब्राह्मं च सौम्यं ब्राह्म्यमथाष्टकम् //
171 SK देवयोनय एवैते तिर्यग्योनिस्तु पञ्चधा / मृगपशुपक्षिसरीसृपस्थावरमिति भेदसम्भिना //
172 SK मानुष्यकं चैकविधं ब्राह्मणादिचाण्डालान्तम् / पशवो गवादिमूषान्ताः पक्षिणो गरूडादिकाः //
173 SK मशकान्ता मृगाश्चापि सिंहादि च शिवान्तिकाः / शेषादि अलगर्दान्ताः सर्पाः पर्वतभूतृणाः //
174 SK स्थावरा भौतिकः सर्ग एतत्संसारमण्डलम् //
175 SK त्रिविधो बन्धः || Tअत्स्_१९ ||
176 SK प्रकृतिबन्धः प्रकृतिलयः परत्वेनाभिमन्यतः / संन्यासिनामिन्द्रियेषु लयो वैकारिको ऽपरः //
177 SK गृहीणां दक्षिणाबन्धो वदान्यत्वाभिमानिनाम् / इत्येषस्त्रिविधो बन्धस्त्रिविधो मोक्ष उच्यते //
178 SK त्रिविधो मोक्षः || Tअत्स्_२० ||
179 SK ज्ञानोद्रेकादुपरतेश्च धर्माधर्मक्षयो भवेत् / धर्माधर्मक्षयाच्चाथ कैवल्यमिति गीयते //
180 SK तदुक्तम् / आद्यो हि मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात् / कृत्स्नक्षयात् तृतीयस्तु व्याख्यातं मोक्षलक्षणम् //
181 SK त्रिविधं प्रमाणम् || Tअत्स्_२१ ||
182 SK दृष्टमनुमानमाप्तवचनं चैतत् प्रमाणकम् / पञ्चेन्द्रियाणि प्रत्यक्षं वृष्टिर्मेघोदयेन तु //
183 SK अनुमानमिन्द्रो देवानां राजाशब्दः प्रमापकः //
184 SK आगमे ऽपि, स्वकर्मभिर्विनिर्मुक्तो रागद्वेषविवर्जितः //
185 SK ज्ञानवान् शीलसम्पन्नः सो ऽपि ज्ञेयश्च तादृशः //
186 SK त्रिविधं दुःखम् || Tअत्स्_२२ ||
187 SK दुःखं तु त्रिविधं प्रोक्तमध्यात्ममधिभूतकम् / आधिदैवं च तत्रापि प्रथमं द्विविधं स्मृतम् //
188 SK शारीरं मानसं चेति वातकामादिदोषजम् / भूतेभ्यो मानुषादिभ्यो जातं स्यादाधिभौतिकम् //
189 SK देवेभ्यः शीतवातादिभवं स्यादाधिदैविकम् / एतत् समासतः प्रोक्ता सूत्रव्याख्या यथामति //
190 SK प्रक्रियां च प्रवक्ष्यामि पौराणिकहिताय वै //
191 SK एतत् परम्परया याथातथ्यम् || Tअत्स्_२३ ||
192 SK एतत् सर्वं ज्ञात्वा कृतकृत्यः स्यात् || Tअत्स्_२४ ||
193 SK न पुनस्त्रिविधेन दुःखेनाभिभूयते || Tअत्स्_२५ ||
194 SK महान् अहंकारः पञ्च तन्मात्राणि अव्यक्तसंज्ञानि भवन्ति महच्छब्देन हैरण्यगर्भो बुद्धिरुच्यते | प्रधानं मूलमव्यक्तसंज्ञम् | ज्ञः पुरुषः | एतानि पञ्चविंशतितत्त्वानि | तत्र प्रधानं कारणमेव न कार्यम् | महदादयः सप्त पूर्वपूर्वस्य कार्याणि उत्तरोत्तरस्य कारणानि | इन्द्रियाण्येकादश पञ्च महाभूतानि कार्याण्येव न कारणानि | पुरुषस्तु न कार्यं न वा कारणम् | तदुक्तम् मूलप्रकृतिरित्यादि | महान् अहंकारः पञ्च तन्मात्राणि सप्त प्रकृतिविकृतयः | प्रधानाद् बुद्धिर्जायत इति प्रधानविकारः सैवाहङ्कारं जनयतीति प्रकृतिः अहङ्कारो ऽपि बुद्धेर्जायत इति विकृतिः सो ऽपि एकादशेन्द्रियाणि पञ्च तन्मात्राणि जनयतीति प्रकृतिः ||
195 SK तत्र शब्दतनमात्रमहंकाराज्जायत इति विकृतिस्तस्मादाकाशं जायत इति शब्दतन्मात्रं प्रकृतिः | तथा स्पर्शतन्मात्रमहंकाराज्जायत इति विकृतिः तदेव वायुं जनयतीति प्रकृतिः | एवं रूपतन्मात्रमहंकाराज्जायत इति विकृतिः तदेव तेजो जनयतीति प्रकृतिः | रसतन्मात्रमहङ्काराज्जायत इति विकृतिस्तदेवाम्भो जनयतीति प्रकृतिः | तथा गन्धतन्मात्रमहंकाराज्जायत इति विकृतिः तदेवावनिं जनयतीति प्रकृतिः ||
196 SK एतानि पञ्च तन्मात्राणि सूक्ष्मभूतानि स्थूलभूतानां कारणानि षोडशकश्च विकारः | पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि एकादशं मनः पञ्च महाभूतानि एष षोडशको गणो विकार एव न प्रकृतिः | पुरुषस्तु नोभयमित्यर्थः ||
197 SK प्रत्यक्षानुमानशब्दरूपं त्रिविधं प्रमाणम् | तत्र प्रत्यक्षं तावत् श्रोत्रादिपञ्चकं लोकोचितशब्दादिगुणग्राहकम् | अनुमानं चाप्रत्यक्षार्थग्राहकं धूमादि | शब्दस्तावत् त्रिविधो भवति वागिन्द्रियविषयः श्रोत्रविषयो बुद्धिमात्रविषयश्च | तेषु कण्ठताल्वादिस्थलावच्छिन्नः शब्दो वागीन्द्रियविषयः तत्कार्यत्वात् वागिन्द्रियव्यवहितश्रोत्रस्थश्च शब्दतः शब्दः श्रोत्रस्य विषयस्तद्ग्राह्यत्वात् | घट इत्यादिपदानि तु बुद्धिमात्रस्य विषयः वक्ष्यमाणयुक्त्या बुद्धिमात्रग्राह्यत्वात् ||
198 SK तानि पदान्येवार्थस्य करणत्वात् स्फोट इत्युच्यते | तद्दि पदं वागिन्द्रियोच्चार्यप्रत्येकवर्णेभ्यो ऽतिरिक्तं वर्णानामाशुतरविनाशितया मेलनाभावेनैकं पदमिति व्यवहारगोचरत्वासम्भवात् अर्थस्मारकत्वासम्भवाच्च | अस्य च स्फोटस्य कारणमेकः प्रयत्नविशेषः प्रयत्नभेदेनोच्चारणे सति एकपदव्यवहाराभावादर्थाप्रत्ययाच्च तस्य च स्फोटस्य व्यञ्जक आनुपूर्वीविशिष्टतया अन्त्यवर्णप्रत्ययः अतश्च बुद्धेरेव स्फोटग्राहकत्वम् आनुपूर्व्या बुद्ध्यैव ग्रहणसम्भवेन सामानाधिकरण्यप्रत्यासत्त्यैवानुपूर्वीप्रत्ययस्य स्फोटाख्यपदाभिव्यक्तिहेतुत्वे लाघवात् | अत एव स्फोटः श्रोत्रेण ग्रहीतुं न शक्यते घोत्तरटत्वादिररूपिण्या आनुपूर्व्याः श्रोत्रेण ग्रहणासम्भवात् आशुतरविनाशितया वर्णानां मेलनासम्भवात् पूर्वपूर्ववर्णसंस्काराणां तत्स्मृतीनां चान्तःकरणनिष्ठानामन्तःकरणसहकारित्वस्यैवौचित्यादिति |
199 SK स्यादेतत् स्फोटव्यञ्जकस्यानुपूर्वीविशिष्टचरमवर्णस्यैव पदत्वमर्थप्रत्यायकत्वं वा ऽस्तु अलं स्फोटेन तद्धेतोरेव तदस्त्विति न्यायात् | एतदेव सांख्यसूत्रेणोक्तं प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्द इति | एकत्वप्रत्ययो ऽप्यानुपूर्वीविशिष्टचरमवर्णस्यैकत्वेनोपपद्यते ||
200 SK अत्रोच्यते | एवं सत्यवयव्युच्छेदप्रसङ्गः | असमवायिकारणसंयोगविशेषावच्छिन्नानामवयवानामेव जलाद्याहरणहेतुत्वकल्पनायां लाघवात् तद्धेतोरेव तदस्त्विति न्यायसाम्यात् एको घट इत्यादिप्रत्ययानामप्येकं वनमित्यादिप्रत्ययवदुपपत्तेः | अथ परमाणूनां तत्संयोगानां चातीन्द्रियतया तद्रूपत्वे ऽवयविनः प्रत्यक्षानुपपत्तिरित्यादिकमवयविसाधकमिति चेत् तुल्यं स्फोटे ऽपि आनुपूर्व्याः क्षणाद्यतीन्द्रियघटिततया आनुपूर्वीविशिष्टचरमवर्णात्मकत्वे पदस्य प्रत्यक्षानुपपत्तिरित्यादिकं स्फोटसाधकमिति | अपि च स्फोटशब्दो ऽस्माभिः श्रुतिप्रमाणेनैव स्वर्गादिवत् कल्प्यते इत्यतस्तत्र लौकिकप्रमाणाभावे ऽपि न क्षतिः ||
201 SK तथाहि प्रणवस्याकारोकारमकाररूपमात्रात्रयं ब्रह्मादिदेवतात्रयात्मकमुक्त्वा प्रणवं देवतात्रयातिरिक्तपरब्रह्मात्मकं चतुर्थमात्रां श्रुतय आमनन्ति | सा चतुर्थी मात्रा वर्णत्रयादतिरिक्तः स्फोट एव सम्भवति सैव चार्द्धमात्रेत्युच्यते राशिवदविभक्तयोर्वर्णपदयोर्वर्णा एकमर्द्धं पदं चान्यदर्द्धमित्युपपद्यते | यथा चावयवेभ्यो विविच्यावयवी न व्यवहार्यो भवति एवमेव प्रत्येकवर्णेभ्यो विविच्य पदमुच्चारयितुं न शक्यत इति | अतः स्मर्यते ᳚अर्द्धमात्रा स्थिता नित्या यानुच्चार्या विशेषत᳚ इति ||
202 SK ननु स्यादेवमर्द्धमात्रोपपत्तिः | नादबिन्दोस्तु किं स्वरूपम् उच्यते | प्रणवे उच्चार्यमाणे शङ्खनादवेणुनादादिवद्यः स्वरविशेषो भवति स नादः या च नादस्योपरमावस्था अतिसूक्ष्मा सा शून्यतुल्यतया बिन्दुरुच्यत इति | तस्मादवयवेभ्यो ऽवयवीव वर्णेभ्यो ऽतिरिक्तं पदं तदेव स्फोट इति सिद्धम् | नन्वेवं वाक्यमपि स्फोटः स्यादिति चेन्न बाधकाभावे सतीष्यतामिति दिक् ||
203 SK शब्दस्तावत् यथोदेष्टृपुरुषवाक्यलक्षणः इन्द्रो देवराडित्यादिः | अर्थापत्तिसम्भवाभावैतिह्यप्रतिभोपमानानि यदि प्रमाणानि तर्ह्यत्रैवान्तर्भाव्यानि न पृथक् | प्रकृतिपुरुषौ विद्यमानावपि नोपलभ्येते सूक्ष्मत्वात् यथाकाशे धूमोष्मनीहारपरमाणवः सन्तो ऽपि नोपलभ्यन्ते | महदादिकार्यदर्शनेन तत्कारणमिव प्रधानमनुमीयते | त्रिगुणप्रधानजन्यं महदादिकार्यं किञ्चित्प्रकृतिसदृशं किञ्चिद्विकृतिसदृशं लोके उभयथा पुत्त्ररूपकार्यदर्शनात् | तच्च कार्यं सत् नासत् न सदसत् नानिर्वचनीयम् अत्यन्तासत्त्वे सिकताभ्यो ऽपि तैलमुत्पद्येत | अन्यौ च पक्षौ विरुद्धावेव अव्यक्तसञ्ज्ञं प्रधानं स्वतन्त्रं व्यापि नित्यं च व्यक्तसञ्ज्ञं कार्यमस्वतन्त्रमव्यापि अनित्यं च | पुरुषः स्वतन्त्रो व्यापी नित्यश्च | त्रयाणां लोकानां कारणं प्रधानं तच्चैकं लाघवात् | प्रलयकाले महदादिकार्यं प्रधाने लीयते | तच्च प्रधानं सत्त्वरजस्तमोमयम् | गुणत्रयसाम्यावस्था प्रकृतिः | प्रधानमचेतनं पुरुषस्तु चेतनः | व्यक्तप्रधानविलक्षणः शुद्धो गुणरहितः | कार्यस्य सुखदुःखमोहजनकत्वेन तत्र कारणीभूतानि सत्त्वरजस्तमांसि अनुमेयानि | दृष्टं च यथाक्रमं भर्तृसपत्नीविटेषु सुखदुःखमोहजनकत्वं कामिन्याः | त्रिगुणमये ऽपि कार्ये यदा सत्त्वमुद्रिक्तं भवति जनादृष्टात् तदा रजस्तमसी अभिभूय स्वकार्यं सुखं जनयति | एवं यदा रज उद्रिक्तं भवति तदा सत्त्वतमसी अभिभूय स्वकार्यं जनयति दुःखम् | एवं यदा तम उद्रिक्तं भवति तदा सत्त्वरजसी अभिभूय स्वकार्यं मोहं जनयति ||
204 SK दुःखं त्रिविधम् आध्यात्मिकाधिभौतिकाधिदैविकभेदात् | तथाहि तत्र आध्यात्मिकं द्विरूपं शारीरं मानसं चेति | शारीरं तावत् वातपित्तश्लेष्मविपर्ययकृतं ज्वरातीसारादि | मानसं तु प्रियवियोगाप्रियसंयोगादिजम् | आधिभौतिकं तु चतुर्द्धाभूतग्रामनिमित्तं पशुपक्षिमृगमनुष्यसरीसृपदंशयूकामत्कुणस्थावरेभ्यो जरायुजाण्डजस्वेदजोद्भिज्जेभ्यो जायते | दिवः प्रभवति तद्दैवं तदधिकृत्य यज्जायते तदाधिदैविकं शीतोष्णवातवर्षाशनिपातजम् | समुदिततन्तवः पटमिव गुणसमुदायात्मकं प्रधानम् महदादिकार्यं जनयति | एकरसमपि यथा आकाशसलिलं वाप्यादौ पतितं सत् वाप्यादिसंश्लेषात् रसान्तरमापद्यते तथा एकरूपादपि प्रधानाद्देवादयः क्रमेण सुखिनो दुःखिनो अत्यन्तमूढाश्च भवन्ति | तथा सत्त्वौत्कट्याद्रजस्तमसोरौदासीन्याद्देवाः अत्यन्तं सुखिनः | रजस औत्कट्यात् सत्त्वतमसोरौदासीन्यान्मनुष्याः अत्यन्तं दुःखिनः | तमस औत्कट्यात् सत्त्वरजसोरौदासीन्यात्तिर्यञ्चः अत्यन्तं मूढाः | महदादिसङ्घातः भोक्तृसापेक्षः भोग्यत्वात् पर्यङ्कवत् | महदादिसङ्घः पराधीनः अचेतनत्वात् मालावत् | एवं पुरुषो ऽनुमीयते | स च नाना जन्ममरणकरणानां प्रत्येकं भेदात् | अयमर्थः | एकस्य मरणे सर्वे म्रियेरन् यद्येक एव आत्मा स्यात् एकस्य च जन्मनि सर्वे जायेरन् एकस्य करणवैकल्ये सर्वे करणवैकल्यवन्तः स्युः | न चैवं दृश्यते तस्मान्नाना | पञ्चविंशतितत्त्वगोचरसम्यग्ज्ञानात् पुरुषस्य कैवल्यं भवति | तच्चान्यत्वं प्रधानादिभेद इति यावत् | अविवेकात् संसारः विवेकात् कैवल्यम् | अर्थतः अख्यातिवादाङ्गीकारः | अत एव इदं रजतमिति ज्ञानं न भ्रमः किंतु स्वरूपतः अर्थतश्च अविविक्तं ज्ञानद्वयम् | यस्य यादृशमिदं रजतमिति रजतज्ञानविषयीभूतं तस्य तादृशमेव जगदिति निर्णयः ||
205 SK अत एव वस्तुतस्तात्त्विको ऽन्यथाभावः परिणाम इत्येव लक्षणलक्षितः परिणामो ऽङ्गाकृतः स च पुरुषः प्रतिशरीरं नानेत्यत्रादि स्म अविकारित्वात् | वस्तुतो ऽकर्त्ता मुक्तवत् साक्षिवदुदासीनः | सत्त्वरजस्तमांसि कर्त्ःणि कर्माण्यपि भवन्ति | अकर्त्ता ऽपि पुरुषः कर्त्तेव व्यवह्रियते | अचोरश्चोरैः सह धृतश्चोर एव | गुणाभेदात् प्रकृतिः कर्त्री न पुरुषः | दर्शनशक्तिमतः क्रियाशक्तिरहितस्य पुरुषस्य प्रधानेन सह संयोगः महदादिभूतपर्यन्तं प्रधानं द्रष्टुम् | दर्शनशक्तिरहितस्य क्रियाशक्तिमतः प्रधानस्यापि पुरुषेण संयोगः मोक्षार्थं पुरुषस्य भिन्नत्वेन व्यक्ताव्यक्तपुरुषज्ञाने जाते प्रधानस्य मोक्षो भवति | नित्यसुखोपलब्धिर्मोक्ष इति चेदुपलब्धेरपि नित्यानित्यविवेकग्रस्तत्वादसारम् | न च नित्यसुखगोचरस्याविद्यादियत्किञ्चिदावरणभङ्ग एव पुरुषार्थो वाच्यः सुखानुभवस्यैव पुरुषार्थत्वाच्चैतन्यनित्यत्वेनावरणस्यापि असम्भवाच्च | मोक्षे परमानन्दश्रुतिस्मृतयस्तु मोक्षशास्त्रपरिभाषामात्रा |
206 SK दुःखमेवास्ति न सुखं यस्मात् तदुपलभ्यते / दुःखार्त्तस्य प्रतीकारे सुखसञ्ज्ञा विधीयते //
207 SK दुःखं कामसुखापेक्षा सुखं दुःखात्ययः स्मृतः //
208 SK इत्यादिस्मृतिभिर्दुःखनिवृत्तिरेव सुखत्वेन परिभाषिता | सांख्यसूत्रमपि दुःखनिवृत्तिर्गौण इति विमुक्तिप्रशंसा मन्दानामिति च | आनन्दावाप्तिस्तु गौणमोक्षो ब्रह्मलोके भवति इति पश्चात् कृतार्थयोः प्रधानपुरुषयोर्वियोगो भवति अन्धपङ्गुसंयोगवत् | तथाहि एकः पङ्गुरपरश्चान्धः द्वावप्येतौ दुष्टे पथि गच्छन्तौ महता सार्थेन सह दैवाद्बन्धुभिः परित्यक्तौ यथायोगं गमनशक्तिदर्शनशक्तिरहितौ दर्शनार्थं गमनार्थं च संयुक्तौ भवतः | तथा चान्धेन पङ्गुः स्कन्धमारोपितस्तद्दर्शितमार्गेणान्धो याति पङ्गुश्चान्धस्कन्धारूढः सन् याति | पश्चात् स्वस्वदेशप्राप्त्यनन्तरं कृतार्थौ सन्तौ वियुक्तौ भवतः | तथा च प्रधानं पुरुषस्य मोक्षं कृत्वा निवर्त्तते | पुरुषो न प्रवर्त्तते नापि निवर्त्तते | द्रष्टा भोक्ता च पुरुषः | भोगश्चिदवसानता लक्षणः | न क्रियावेशात्मा स च पुरुषः अनाद्यविवेकात् संसरति | सच्छास्त्रश्रवणेन गुर्वनुग्रहेण च निर्विचिकित्सो विवेकज्ञाने जाते मुच्यते | प्रकृतिपुरुषसंयोगात् संसारः सञ्जायते | स्त्रीपुरुषसंयोगादपत्यमिव प्रकृतेर्महत्तत्वं जायते | महत्तत्वादहङ्कारो जायते | स च त्रिविधः वैकारिको भूतादिस्तैजसश्च | यो हि वैकरिकः स एव सात्त्विकः यो भूतादिः स एव तामसः | यो हि तैजसः स एव राजसः तत्र वैकारिकादहङ्कारादेकादशेन्द्रियाणि तदभिमानिन्यो देवताश्च जायन्ते | भूतादेश्चाहंकारात् तन्मात्राणि जायन्ते तैजसादहंकारादेकादशेन्द्रियगणस्तन्मात्रपञ्चकं च जायते | एतद्गणद्वयस्य यथासंख्यं वैकारिकाद्भूतादेश्चाहंकाराज्जातत्वात् कथं पुनरुत्पत्तिरुच्यत इति चेच्छृणु |
209 SK यदा रजस्तमसी अभिभूय सत्त्वगुण उत्कटो वैकरिकसञ्ज्ञां लभमानो ऽहंकारो ऽप्रवृत्तिधर्मा तैजसाहंकारं सहायीकृत्य प्रवृत्तिधर्माण्येकादशेन्द्रियाणि जनयति तदा तानि स्वसाहाय्यच्छलमधिगम्य तैजसस्वरूपेणापि कृतानीत्युच्यते | यदा च सत्त्वरजसी अभिभूय तमोगुणोत्कटो भूतादिस्तैजसाहंकारस्य रूपं सहायीकृत्य तन्मात्रपञ्चकं प्रवृत्तिधर्मकं करोति तदा तत्तन्मात्रपञ्चकं स्वसाहाय्येनैव तैजसेनापि कृतमित्युच्यते तस्मात् प्रवृत्तिधर्मकात् तत्तन्मात्रपञ्चकाद् भूतपञ्चकमुत्पद्यते | एष परिणामक्रमः | वैकारिकादेकादशेन्द्रियाणि भूतादेस्तन्मात्रपञ्चकमिति ||
210 SK अयमर्थः | वैकारिकस्य भूतादेश्च स्वस्वप्रवृत्तिधर्मककार्यद्वयस्य यथासंख्यं जनने तैजसाहंकारस्य साहाय्यम् | तैजसाहंकारस्य साहाय्यकरणादेव एतद्गणद्वयलक्षणककार्यस्य प्रवृत्तिधर्मकत्वम् | बुद्धिजनकानीन्द्रियाणि बुद्धीन्द्रियाणि तानि चक्षुःश्रोत्रघ्राणरसनत्वगिन्द्रियाणि | तेषां च विषयाः रूपशब्दगन्धरसस्पर्शाः | कर्म कुर्वन्तीति कर्मेन्द्रियाणि तानि च वाक्पाणिपादपायूपस्थानि | तेषां च विषयाः वाग्वदनादानगमनोत्सर्गानन्दाः | मनो बुद्धीन्द्रियं कर्मेन्द्रियं च यतो बुद्धीन्द्रियाणां वृत्तिं संकल्पयति कर्मेन्द्रियाणां च अत उभयात्मकं मनः | मनो ऽपि विभु धर्माधर्मवासनाश्रयतः प्रतिपुरुषमन्तःकरणं नित्यमाकाशवत् | न च प्रकृतिधर्मा एव सन्त्वदृष्टादय इति वाच्यम् अन्यनिष्ठादृष्टादिभिरन्यत्र सुखदुःखाद्युत्पादे ऽतिप्रसङ्गात् | तच्च नाणु संभवति योगिनां सर्वावच्छेदेन एकदा ऽखिलसाक्षात्कारासम्भवात् | न च योगिनां योगजधर्म एव प्रत्यासत्तिः स्यात् संयोगसंयुक्तसमवायादिलौकिकप्रत्यासत्त्यैवोपपत्तौ सन्निकर्षान्तरकल्पने मानाभावात् गौरवाच्च अन्योन्यव्यभिचाराच्च | साक्षात्कारेष्ववान्तरजातिकल्पने जातिसाङ्कर्यात् अतिगौरवाच्च | योगिमते सर्वार्थग्रहणसमर्थस्यान्तःकरणस्य तमआख्यावरणभङ्ग एव योगजधर्मादिभिः क्रियते सुषुप्तौ तमसो वृत्तिप्रतिबन्धकत्वसिद्धेरिति नाप्यन्तःकरणं मध्यमपरिमाणमात्रं सम्भवति प्रलये विनाशेनादृष्टाद्याधारतानुपपत्तेः अतः परिशेषतो ऽन्तःकरणं विभ्वेव सिद्यति तदुक्तम् |
211 SK चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् / द्वाभ्यां शून्यतमं विद्धि चिदाकाशं वरानने //
212 SK स्यादेतत् | अन्तःकरणस्य विभुत्वे परिच्छिन्नवृत्तिलाभस्यावरणेनोपपत्तावपि लोकान्तरगमनादिकं नोपपद्यते | अत एव सांख्यसूत्रम् ᳚न व्यापकं मनः करणत्वा᳚दिति | तद्गतिश्रुतेरिति वेति किं चैवं सति लाघवात् चैतन्यस्यैवावरणकल्पनमुचितं किमर्थं विभ्वन्तःकरणं परिकल्प्यते तत्र ज्ञानप्रतिबन्धकमावरणं कल्प्यते ||
213 SK अत्रोच्यते | गतिश्रुतिस्तावत् आत्मनीवान्तःकरणे ऽपि प्राणेन्द्रियाद्युपाधिनोपपद्यते कार्यकारणरूपेणान्तःकरणद्वैतात् | कार्यान्तःकरणस्य स्वतो ऽपि गतिरुपपद्यते कार्यकारणरूपेणान्तःकरणद्वैतं च सांख्यैरप्येष्टव्यम् केवलकार्यत्वे ऽन्तःकरणधर्मत्वं धर्मादीनामिति सांख्यसूत्रानुपपत्तेः | केवलनित्यत्वे च महदाद्युत्पत्तिसूत्रानुपपत्तेः यत्तूक्तं चैतन्यस्यैवावरणकल्पनं युक्तमिति तदयुक्तम् | कूटस्थचैतन्यस्य ज्ञानप्रतिबन्धरूपावरणासम्भवात् | न च चैतन्यस्यार्थसम्बन्ध एव प्रतिबिम्बादिरूपे प्रतिबन्धकं कल्पनीयमिति वाच्यम् एवमप्यात्मदर्शनानुपपत्तेः करणद्वारं विना स्वस्मिन् प्रतिबिम्बादिरूपेण स्वस्वसम्बन्धासम्भवात् | अपि च इच्छाकृत्याद्याधारतया ऽन्तःकरणे सिद्धे स्वप्नादावन्तर्दृश्यमानघटादयो ऽपि तस्यैव परिणामाः कल्प्यन्ते कार्यकारणयोः सामानाधिकरण्यौचित्यात् | एवं च घटाद्याकारपरिणताश्चैतन्ये भासन्ते तदविभागेनैव बाह्यघटादिकं भासते ऽतस्तादृशपरिणामप्रतिबन्धकमेवावरणं तत्रैव युक्तं किञ्च बाह्यकरणस्यावरणदर्शनेनान्तरावरणस्यापि करणनिष्ठत्वं चानुमीयते आत्मनो ऽनावृतत्वं श्रुतिस्मृतिभ्यां चेति |
214 SK नन्वन्तःकरणस्य विभुत्वे सति कथं कार्यत्वं स्यादिति चेन्न विभ्व्या अपि आकशप्रकृतेः कार्याकाशरूपपरिच्छिन्नपरिणामवद् गुणान्तरसम्भेदेनान्तःकरणप्रकृतेरपि परिच्छिन्नान्तःकरणरूपपरिणामोपपत्तिः श्रुतिस्मृतिप्रामाण्याच्चैतदिष्यत इति दिक् ||
215 SK मनसः सङ्कल्पो विषयः | एतान्येकादश वैकृताहंकाराज्जातानि इत्यवादि स्मैव बुद्धिप्रतिबिम्बितमर्थं पुरुष उपलभते | तदुक्तं बुद्धिस्थमर्थं पुरुषश्चेतयते | अहं धर्मं करिष्यामीत्यध्यवसायो बुद्धेर्लक्षणम् | धर्मो ज्ञानं विरागः ऐश्वर्यमेतत् सात्त्विकबुद्धेः | तद्विपरीतमविरागादि तामसम् ||
216 SK पञ्चविंशतितत्त्वैरेव जगद्व्याप्तं न न्यूनैर्नाधिकैश्च वत्सविवृद्धिनिमित्तं क्षीरस्येव अज्ञस्यापि प्रधानस्य पुरुषमोक्षार्थं प्रवृत्तिरुचितैव | लिङ्गशरीरं तु बुद्ध्यहंकारमनोबुद्धीन्द्रियकर्मेन्द्रियपञ्चतन्मात्राणामष्टादशानां समुदायः त्रयोविंशतितत्त्वमध्ये पञ्चभूतानि वर्जयित्वा अहंकारं च बुद्धौ प्रवेश्य सप्तदशकं लिङ्गशरीरसञ्ज्ञं भवति वह्नेरिन्धनवदात्मनो ऽभिव्यक्तिस्थानवात् | तच्च सर्वपुरुषाणां सर्गादावुत्पद्य प्राकृतप्रलयपर्यन्तं तिष्ठति तेन चैवेह लोकपरलोकयोः संसरणं जीवानां भवति | प्राणश्च बुद्धेरेव वृत्तिभेद इत्यतो न लिङ्गशरीरात् पृथङ् निर्दिश्यते तस्य च लिङ्गशरीरस्य सूक्ष्माणि पञ्च भूतानि आश्रयश्चित्रादिवदाश्रयं विना परमसूक्ष्मस्य लोकान्तरगमनासम्भवात् ||
217 SK इदं च लिङ्गशरीरमादौ स्वयंभुव उपाधिभूतमेकमेव जायते तस्यैव विराडाख्यवक्ष्यमाणस्थूलशरीरवत् ततश्च व्यष्टिजीवानामुपाधिभूतानि व्यष्टिलिङ्गशरीराणि तदंशभूतानि ततो विभज्यन्ते | पितुर्लिङ्गशरीरात् पुत्त्रलिङ्गशरीरवत् | तदुक्तं सूत्रकारेण | व्यक्तिभेदः कर्मविशेषादिति मनुनाप्युक्तम् |
218 SK तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् / सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे // इति /
219 SK षण्णामिति षडिन्द्रियं समस्तलिङ्गशरीरोपलक्षकम् तथा च स्वयम्भूः स्वलिङ्गशरीरावयवान् सूक्ष्मानल्पान् आत्ममात्रासु स्वांशचेतनेषु संयोज्य सर्वप्राणिनः ससर्ज्जेत्यर्थ इति लिङ्गशरीरम् | स्थूलशरीरोत्पत्तिस्तु दशगुणितमहत्तत्त्वमध्ये ऽहंकारस्तस्यापि दशगुणितस्य मध्ये व्योम्नो ऽपि दशगुणितस्य मध्ये वायुर्वायोरपि दशगुणितस्य मध्ये तेजस्तेजसो ऽपि दशगुणितस्य मध्ये जलं जलस्यापि दशगुणितस्य मध्ये पृथिवी समुत्पद्यते सैव च स्थूलशरीरस्य बीजं तदेव च पृथिवीरूपं बीजमण्डरूपेण परिणमते तस्यापि दशगुणिताण्डरूपस्य पृथिव्यावरणस्य मध्ये चतुर्दशभुवनात्मकं स्वयम्भुवः स्थूलशरीरं तत्संकल्पादेवोत्पद्यते तेनैव शरीरेण स्वयम्भूर्नारायण इत्युच्यते | तदुक्तं मनुना स्वयम्भुवं प्रकृत्य |
220 SK सो ऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः / अप एव ससर्जादौ तासु वीर्यमवासृजत् //
221 SK तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् / तस्मिन् यज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः //
222 SK स वै शरीरी प्रथमः स वै पुरुष उच्यते / आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तत //
223 SK आपो नारा इति प्रोक्ता आपो वै नरसूनवः / ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः // इत्यादिनेति /
224 SK तत एव चादिपुरुषात् व्यष्टिपुरुषाणां विभागादन्ते च तत्रैव लयात् स एव चैक आत्मेति श्रुतिस्मृत्योर्व्यवह्रियते अतो न व्यवहारपरतया नारायण एव सर्वभूतानामात्मेत्यादिश्रुतिस्मृतिविरोध इति | ततश्च स नारायणो विराट्शरीरी स्वनाभिकमलकर्णिकास्थानीयस्य सुमेरोरुपरि चतुर्मुखाख्यं स्वयंभुवं सृष्ट्वा तद्द्वारान्यानपि व्यष्टिशरीरिणः स्थावरान्तान् ससर्ज तदुक्तम् -
225 SK तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह / क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः // इति /
226 SK यत्तु शेषशायिनो नारायणस्य नाभिकमलश्रोत्रचक्षुरादिभ्यश्चतुर्मुखस्याविर्भावः श्रूयते तद्दैन्यन्दिनसर्गेष्वेव कल्पभेदेन मन्तव्यम् | दैनन्दिनप्रलयेष्वेव हि नारायणशरीरे प्रविश्यैकीभूय सुप्तानां देवानां चतुर्मुखादिक्रमेणाविर्भावः शेषशायिनः सकाशात् घटते न त्वादिसर्गेषु दैनन्दिनप्रलय एव लीलाविग्रहेण शयनादिति ||
227 SK तदेवं संक्षेपतश्चतुर्विंशतितत्त्वानि तेषां सृष्टिक्षयं प्रयोजनं चोक्तम् | तत्र यद्यस्माज्जायते तस्य तदा ऽ; ऽपूरणेनैव स्थितिः ततस्तस्य संहारो ऽपि तत्रैव भवति | तथा च भारते |
228 SK यद्यस्माज्जायते तत्त्वं तच्च तत्र प्रलीयते / लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् // इति /
229 SK एते च सृष्टिस्थितिसंहाररूपाः स्थूला एव परिणामाश्चतुर्विंशतितत्त्वानां कूटस्थपुरुषविवेकाय प्रदर्शिताः सूक्ष्मा अप्यन्ये प्रतिक्षणपरिणामा एतेषां स्मर्यन्ते |
230 SK नित्यदाह्यङ्गभूतानि भवन्ति न भवन्ति च / कालेनालक्ष्यवेगेन सूक्ष्मत्वात् तन्न गृह्यते // इति /
231 SK अतस्तु सर्वं जडवस्तु परमार्थतः सर्वदैवासदुच्यते | ततश्च तस्माद्विरज्य आत्मैव परमार्थसत्यो दुःखभीरुभिर्द्रष्टव्यः तदुक्तम् |
232 SK अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् / महाहंकारविटप इन्द्रियाङ्कुरकोटरः //
233 SK महाभूतप्रशाखश्च विशेषप्रतिशाखवान् / सदापर्णः सदापुष्पः शुभाशुभफलोदयः //
234 SK आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः / एतज्ज्ञात्वा च तत्त्वेन ज्ञानेन परमासिना //
235 SK कृत्वा चाक्षरतां प्राप्य जहाति मृत्युजन्मनी // इति /
236 SK तदुक्तं - इन्द्रियाणीन्द्रियार्थाश्च नोपसर्पन्त्यतः खलु / हीनश्च करणैर्देही न देहं पुनरर्हति //
237 SK तस्मात्सर्वात्मकाद्रागाज्जायन्ते सर्वजन्तवः // इति /
238 SK नरकादौ विशेषरागाभावे ऽपि सामान्यरागसत्त्वाद्रागस्य कर्मसहकारित्वं विषाकारम्भे तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्येति श्रुतावभिमानरागद्वेषादिजन्यस्य विष्यवासनाख्यसङ्गसामान्यस्यैव जन्मादिविषाकारम्भे सहकारित्वसिद्धेः |
239 SK यत्र यत्र मनो देही धारयेत् सकलं धिया / स्नेहाद् द्वेषाद् गुणाद्वापि याति तत्तत्सरूपताम् // इति स्मृतेः / सो ऽयं प्रतिनिवृत्ताक्षो गुरुदर्पणबोधितः / स्वतो ऽन्यां विक्रियां मौढ्यादस्थितामञ्जसैक्षत //
240 SK अथासौ प्रकृतिर्नाहमियं हि कलुषात्मिका / शुद्धबुद्धस्वभावो ऽहमिति त्यजति तां विदन् //
241 SK एवं देहेन्द्रियादिभ्यः शुद्धत्वेनात्मनि स्मृते / निखिला सविकारेयं त्यक् तप्राया हि चर्मवत् //
242 SK नन्वनात्मन्यात्मबुद्धिरूपा या ऽविद्या तस्याः कथमात्मविशेष्यकविवेकज्ञाननाश्यत्वं प्रकारादिभेदादिति चेत् न तादृशाविद्याया अनात्मविशेष्यकविवेकद्वारेणात्मविशेष्यकविवेकनाश्यत्वादिति | यच्च योगेन निर्विकल्पकमात्मज्ञानं जायते | तद्विवेकज्ञानद्वारैव मोक्षकारणं भवति न तु साक्षात् | अविद्यानिवर्तकत्वाभावात् अहं गौरः कर्त्ता सुखी दुःखीत्यादिज्ञानमेव ह्यविद्या संसारानर्थहेतुतया श्रुतिस्मृतिन्यायसिद्धा तस्याश्च निवर्त्तिका नाहं गौर इत्यादिरूपा विवेकख्यातिरेव भवति समाने विषये ग्राह्याभावत्वप्रकारकग्राह्याभावज्ञानत्वेनैव विरोधात् अन्यथा मुक्तिनिर्विकल्पकस्यापि इदं रजतमिति ज्ञानविरोधित्वापत्तेः | किञ्च यथोक्ताभावज्ञाने ग्राह्यज्ञानविरोधित्वस्यावश्यकतया निर्विकल्पज्ञानस्य भ्रमनिवर्तकत्वं न पृथक् कल्प्यते गौरवात् ||
243 SK अपि च अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्तीत्यादिश्रुत्या विवेकोपदेशापेक्षयोत्तम उपदेशो नास्तीत्युच्यते ||
244 SK क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा / भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् //
245 SK इति गीतावाक्यैश्च विवेकज्ञानस्यैव मोक्षहेतुत्वमुच्यते ऽतो विवेकज्ञानमेव साक्षादविद्यानिवृत्त्या मोक्षहेतुः | योगेन केवलत्मसाक्षात्कारस्तु योग्यानुपलब्धिविधयोपाध्यादिगतधर्माभावमुपाध्यादिभेदं च ग्राहयति ततो ऽविद्यानिवृत्तिरिति | एतेन सर्वभूतेषु समताज्ञानम् आत्मनः सर्वात्मकत्वादिज्ञानं च श्रुतिस्मृत्योर्गीयमानं विवेकज्ञानस्यैव शेषभूतं सर्वदर्शनेषु मन्तव्यम् | ज्ञानान्तराणां साक्षादभिमानानिवर्तकत्वात् ब्रह्ममीमांसायां त्वयं विशेषो यत्परमात्मविवेकशेषत्वम् | सांख्यशास्त्रे तु सामान्यात्मविवेकशेषत्वमिति दिक् ||
246 SK विवेकख्यातेस्त्वविद्यानाशकत्वमेव न तु शुक्तिरजतविवेकदर्शिन इव पुनर्भ्रमदर्शनात् प्रतिबन्धकत्वं दृष्टान्ते पटलकामादिदोषबाहुल्यात् पुनरुज्जीवनं भ्रमस्य | अत्र च अनात्मन्यात्माभिमाने ऽनादिवासनैव दोषः सर्वास्तिकसंमतः जातमात्रस्याभिमाने दोषान्तरानुपलब्धेः सा मिथ्याज्ञानवासना यदा विवेकख्यातिपरम्पराजन्यदृढवासनयोन्मूलिता तदैव विवेकसाक्षात्कारनिष्ठोच्यते तत्पूर्वमवश्यं वासनालेशतो मिथ्यांशस्य कस्याप्यात्मनि भानात् तस्यां च विवेकख्यातिनिष्ठायां जातायां न पुनरभिमानः सम्भवति वासनाख्यदोषाभावादिति | यदि तु बुद्धिपुरुषयोरन्योन्यप्रतिबिम्बनादिकमविवेककारणं दोष इष्यते तदा तु तं दोषं बाधित्वैव विवेकसाक्षात्कार उदित इति न तस्य पुनर्भ्रमहेतुत्वं फलबलेन योगजधर्मासहकृतस्यैव तस्य दोषत्वकल्पनासम्भवादिति | यद्यपि विवेकप्रतियोगिपदार्थानामान्त्याद्विशेषरूपेण विवेकग्रहो न सम्भवति तथापि दृश्यत्वपरिणामित्वादिरूपैः सामान्यविवेकग्रहसम्भवात् प्रकृत्यादिपदार्थानां विशिष्टज्ञानाभावे ऽपि सामान्यतो विवेकख्यातेर्मोक्षहेतुत्वम् | तदुक्तम् |
247 SK घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा / देहद्रष्टा तदा देही नाहमित्यादिरूपतः // इति /
248 SK आत्मा वा अरे द्रष्टव्य इत्यत्र तु न आत्मनो दृश्यत्वं वृत्तिव्याप्यत्वे ऽपि फलव्याप्यत्वरूपं यत्तु बौद्धैरपि सुखदुःखादिमत्त्वेनापि बुद्धिरनुभूयमाना स्वप्रकाशतया चैतन्यव्याप्या न भवति यथा वेदान्तिनामहमित्यनुभूयमानो ऽप्यात्मा चैतन्याख्यफलव्याप्यो न भवतीत्युच्यते तन्निःप्रमाणत्वादुपेक्ष्यम् | तत्प्रधानादिसर्गे उत्पद्यते | अधर्मवशात् पश्वादौ धर्मवशाद्देवादौ संसरति | अतत्त्वज्ञानादेव धर्माधर्मोपरञ्जितं प्रलयकाले प्रधाने लीयते | यद्यपि प्रधानपुरुषौ विभू तथापि प्रकृतिरेव लिङ्गव्यवस्थां करोति | लिङ्गं सूक्ष्मैः परमाणुभिस्तन्मात्रैरुपचितं मानुषादिषु व्यवतिष्ठते नटवत् यथा नटः स्वरूपेण एको ऽपि वेषान्तरेण नानारूपः तथा लिङ्गमुदरान्तः प्रविश्य हस्ती स्त्री पुमानिति भवति पञ्चविपर्ययसंज्ञा भवति यथा तमो मोहो महामोहस्तामिश्रो ऽन्धतामिश्र इति | धर्मेण प्राजापत्याद्यूर्ध्वलोकप्राप्तिः | अधर्मेण पश्वादिप्राप्तिरज्ञानेन बन्धः पञ्चविंशतितत्त्वज्ञानेनापवर्गः | तच्च तत्त्वज्ञानं गुरोः सकाशात् शास्त्रश्रवणेनैतादृशं जायते | तथाहि प्रधानादन्यः पुरुषः अन्या बुद्धिः अन्यो ऽहंकारः अन्यानि तन्मात्राणि इन्द्रियाणि पञ्चमहाभूतानि चेति | सर्वं कार्यं त्रिगुणात्मकमपि उद्रिक्तगुणापेक्षया सात्त्विकादिशब्दव्यपदेशभाक् चेतनः पुरुषः नानायोनिषु जरामरणकृतं दुःखं चेतयते प्राप्नोतीत्यर्थः | यावत् तत्त्वज्ञानेन लिङ्गशरीरं न निवर्त्तते तावत् स्थूलं शरीरं प्रतिजन्म नूतनं जायते नश्यति च | स्वप्रयोजनाभावे ऽपि प्रत्युपकारनिरपेक्षं सुमित्रवत् प्रधानं महदादिविषयभूतपर्यन्तं कार्यं पुरुषस्य भोगाय मोक्षाय चारभते प्रकृतिः पुरुषस्य भेदेन बुद्ध्यहंकारादि दर्शयित्वा निवर्त्तते | यथा नर्त्तकी शृङ्गारादिरसैर्हास्यादिभावैश्च निबद्धगीतादीनि रङ्गस्य दर्शयित्वा निवर्त्तते कृतार्थत्वात् तद्वत् | किञ्च प्रकृतिर्गुणवती अगुणस्य पुंसः जगद्योनिभावेन सुखदुःखमोहात्मकेन शब्दादिविषयभावेन वेत्येवंविधैरुपकारैरनुपकारिणः पुरुषस्योपकुर्वती पश्चादात्मानं प्रकाश्य अहमन्या त्वमन्य इति निवर्तते सुमित्रवत् आत्मनः प्रत्युपकारं नेच्छति |
249 SK सर्गस्य नेश्वरः कारणं न स्वभावो न कालः कालो ऽपि योगिनां क्षणरूप एव न तु न्यायवैशेषिकयोरिवात्मवदखण्डो नित्य एको लाघवात् स एव तत्तदुपाद्यवच्छिन्नः सन् क्षणमुहूर्तादिवत्सरान्तं व्यवहारं करोतीति | न तु क्षणनामा पृथक् पदार्थो ऽस्तीति ||
250 SK सांख्यैस्तु दिक्कालावाकाशादिभ्य इति सूत्रितं महाकालो वा क्षणादिर्वा पृथक् पदार्थो नास्ति किन्त्वाकाशमेवोपाधिभिर्विशिष्टं क्षणादिमहाकालान्तव्यवहारं कुरुते इति मन्यते | तदेतन्मतद्वयमप्यसमञ्जसमित्याह योगी स्थिरेण केनाप्युपाधिना महाकालाकाशाभ्यां क्षणव्यवहारस्यासम्भवात् | तथाहि उत्तरदेशसंयोगावच्छिन्ना परमाण्वादिक्रिया अन्यद्वा एतादृशं किञ्चिन्महाकालाकाशयोः क्षणरूपतायामुपाधिः परैरिष्यते तत्र उक्तं संयोगविशिष्टक्रियादिकं चेत् विशेष्यविशेषणतत्सम्बन्धमात्रं तर्हि त्रयाणामपरैः स्थिरत्वाभ्युपगमात् न तैः क्षणव्यवहारः सम्भवति यदि च तत्तेभ्यो ऽतिरिक्तमिष्यते न तु तन्महाकाल आकाशं वा तेनैव क्षणव्यवहारोपपत्तौ तदवच्छिन्नस्यान्यस्य क्षणव्यवहारहेतुत्वकल्पनावैयर्थ्यात् स च विशिष्टादिरास्थिरः क्षणः प्रकृतेरेवातिभङ्गुरः परिणामविशेष इत्यतो न प्रकृतिपुरुषातिरिक्तत्वापत्तिः | तस्यैव क्षणस्य प्रचयविशेषैर्मुहूर्ताहोरात्रादिर्द्विपरार्द्धान्तव्यवहारो भवति नत्वखण्डो महाकालो ऽस्ति प्रमाणाभावात् अद्यत्यादिव्यवहारः क्षणप्रचयेनैव कालनित्यत्वश्रुतिस्मृतयस्तु प्रवाहनित्यतापरा इति तस्मादावश्यकत्वात् क्षणात्मक एव कालो नाखण्डो महाकालो ऽस्ति नाप्याकाशं कालव्यवहारहेतुरिति किं तु प्रधानम् | पुरुषो न बध्यते न मुच्यते नापि संसरतीति किं तु नानाश्रया प्रकृतिरेव तथेति सर्वं समञ्जसम् ||
251 SK इति कान्यकुब्जश्रीषिमानन्ददीक्षितविरचितं सांख्यतत्त्वविवेचनं समाप्तम् ||
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Ṣimānanda: Sāṃkhyatattvavivecana a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras. (sa_SimAnanda-sAMkhyatattvavivecana.htm).
Source