Garland of Birth Stories Jātakamālā
Jआतकमाला
1 SK आर्यशूरविरचिता बोधिसत्त्वावदानमालापरपर्याया
3 SK ओम् नमः श्रीसर्वबुद्धबोधिसत्त्वेभ्यः //
4 SK श्रीमन्ति सद्गुणपरिग्रहमङ्गलानि कीर्त्यास्पदान्यनवगीतमनोहराणि / पूर्वप्रजन्मसु मुनेश्चरिताद्भु तानि भक्त्या स्वकाव्यकुसुमाञ्जलिनार्चयिष्ये // Jम्_१.१ //
5 SK श्लाध्यैरमीभिरभिलक्षितचिन्हभूतैरादेशितो भवति यत्सुगतत्वमार्गः / स्यादेव रूक्षमनसामपि च प्रसादो धर्म्याः कथाश्च रमणीयतरत्वमीयुः // Jम्_१.२ //
6 SK लोकार्थमित्यभिसमीक्ष्य करिष्यते ऽयं श्रुत्यार्षयुक्त्यविगुणेन पथा प्रयत्नः / लोकोत्तमस्य चरितातिशयप्रदेशैः स्वं प्रातिभं गमयितुं श्रुतिवल्लभत्वम् // Jम्_१.३ //
7 SK स्वार्थोद्यतैरपि परार्थचरस्य यस्य नैवान्वगम्यत गुणप्रतिपत्तिशोभा / सर्वज्ञ इत्यवितथाक्षरदीप्तकीर्ति मूर्ध्ना नमे तमसमं सहधर्मसंघम् // Jम्_१.४ //
9 SK सर्वसत्त्वेष्वकारणपरमवत्सलस्वभावः सर्वभूतात्मभूतः पूर्वजन्मस्वपि स भगवानिति बुद्धे भगवति परः प्रसादः कार्यः // तद्यथानुश्रूयते - रत्नत्रयगुरुभिः प्रतिपत्तिगुणाभिराधितगुरुभिर्गुणप्रविचयगुरुभिरस्मद्गुरुभिः परिकीर्त्यमानमिदं भगवतः पूर्वजन्मावदानम् /
10 SK बोधिसत्त्वः किलायं भगवान्भूतः प्रतिज्ञातिशयसदृशैर्दानप्रियवचनार्थचर्याप्रभृतिभिः प्रज्ञापरिग्रहनिरवद्यैः कारूण्यनिस्यन्दैर्लोकमनुगृह्णन् स्वधर्माभिरत्युपनतशुचिवृत्तिन्युदितोदिते महति ब्राह्मणकुले जन्मपरिग्रहं चकार / स कृतसंस्कारक्रमो जातकर्मादिभिरभिवर्धमानः (Vऐद्य २) प्रकृतिमेधावित्वात्सानाथ्यविशेषाज्ज्ञानकौतूहलादकौसीद्याच्च नचिरेणैवाष्टादशसु विद्यास्थानेषु स्वकुलक्रमाविरुद्धासु च सकलासु कलास्वाचार्यकं पदमवाप /
11 SK स ब्रह्मवद् ब्रह्मविदां बभूव राजेव राज्ञां बहुमानपात्रम् / साक्षात्सहस्राक्ष इव प्रजानां ज्ञानार्थिनामर्थचरः पितेव // Jम्_१.५ //
12 SK तस्य भाग्यगुणातिशयसमावर्जितो महां ल्लाभसत्कारयशोविशेषः प्रादुरभूत् / धर्माभ्यासभावितमतिः कृतप्रव्रज्यापरिचयस्तु बोधिसत्त्वो न तेनाभिरेमे /
13 SK स पूर्वचर्यापरिशुद्धबुद्धिः कामेषु दृष्ट्वा बहुदोषजातम् / गार्हस्थ्यमस्वास्थ्यमिवावधूय कंचिद्वनप्रस्थमलंचकार // Jम्_१.६ //
14 SK स तत्र निःसङ्गतया तया (च) प्रज्ञावदातेन शमेन चैव / प्रत्यादिदेशेव कुकार्यसङ्गाद्विश्लिष्टशिष्टोपशमं नृलोकम् // Jम्_१.७ //
15 SK मैत्रीमयेण प्रशमेन तस्य विस्यन्दिनेवानुपरीतचित्ताः / परस्परद्रोहनिवृत्तभावास्तपस्विवद् व्यालमृगा विचेरुः // Jम्_१.८ //
16 SK आचारशुद्ध्या निभृतेन्द्रियत्वात्संतोषयोगात्करुणागुणाच्च / असंस्तुतस्यापि जनस्य लोके सो ऽभूत् प्रियस्तस्य यथैव लोकः // Jम्_१.९ //
17 SK अल्पेच्छभावात्कुहनानभिज्ञस्त्यक्तस्पृहो लाभयशःसुखेषु / स देवतानामपि मानसानि प्रसादभक्तिप्रवणानि चक्रे // Jम्_१.१० //
18 SK श्रुत्वाथ तं प्रव्रजितं मनुष्या गुणैस्तदीयैरवबद्धचित्ताः / विहाय बन्धूंश्च परिग्रहांश्च तच्छिष्यतां सिद्धिमिवोपजग्मुः // Jम्_१.११ //
19 SK शीले शुचाविन्द्रियभावनायां स्मृत्यप्रमोषे प्रविविक्ततायाम् / मैत्र्यादिके चैव मनःसमाधौ यथाबलं सो ऽनुशशास शिष्यान् // Jम्_१.१२ //
20 SK अथ कदाचित्स महात्मा परिनिष्पन्नभूयिष्ठे पृथूभूते शिष्यगणे प्रतिष्ठापिते ऽस्मिन्कल्याणे वर्त्मन्यवतारिते नैष्क्रम्यसत्पथं लोके संवृतेष्विवापायद्वारेषु राजमार्गीकृतेष्विव सुगतिमार्गेषु दृष्टधर्मसुखविहारार्थं तत्कालशिष्येणाजितेनानुगम्यमानो योगानुकूलान् पर्वतदरीनिकुञ्जाननुविचचार /
21 SK अथात्र व्याघ्रवनितां ददर्श गिरिगह्वरे / प्रसूतिक्लेशदोषेण गतां निस्पन्दमन्दताम् // Jम्_१.१३ //
22 SK परिक्षामेक्षणयुगां क्षुधा छाततरोदरीम् / आहारमिव पश्यन्तीं बालान्स्वतनयानपि // Jम्_१.१४ //
23 SK स्तन्यतर्षादुपसृतान्मातृविस्रम्भनिर्व्यथान् / रोरूयितरवैः क्रूरैर्भर्त्सयन्तीं परानिव // Jम्_१.१५ //
24 SK बोधिसत्त्वस्तु तां दृष्ट्वा धीरो ऽपि करुणावशात् / चकम्पे परदुःखेन महीकम्पादिवाद्रिराट् // Jम्_१.१६ //
25 SK महत्स्वपि स्वदुःखेषु व्यक्तधैर्याः कृपात्मकाः / मृदुनाप्यन्यदुःखेन कम्पन्ते यत्तदद्भुतम् // Jम्_१.१७ //
26 SK अथ स बोधिसत्त्वः ससंभ्रमाम्रेडितपदं स्वभावातिशयव्यञ्जकं करुणाबलसमाहिताक्षरं शिष्यमुवाच - वत्स वत्स
27 SK पश्य संसारनैर्गुण्यं मृग्येषा स्वसुतानपि / लङ्घितस्नेहमर्यादा भोक्तुमन्विच्छति क्षुधा // Jम्_१.१८ //
28 SK अहो बतातिकष्टेयमात्मस्नेहस्य रोद्रता / येन मातापि तनयानाहारयितुमिच्छति // Jम्_१.१९ //
29 SK आत्मस्नेहमयं शत्रुं को वर्धयितुमहति / येन कुर्यात् पदन्यासमीदृशेष्वपि कर्मसु // Jम्_१.२० //
30 SK तच्छीघ्रमन्विष्यतां तावत्कुतश्चिदस्याः क्षुद्दुःखप्रतीकारहेतुर्यावन्न तनयानात्मानं चोपहन्ति / अहमपि चैनां प्रयतिष्ये साहसादस्मान्निवारयितुम् / स तथेत्यस्मै प्रतिश्रुत्य प्रक्रान्तस्तदाहारान्वेषणपरो बभूव / अथ बोधिसत्त्वस्तं शिष्यं सव्यपदेशमतिवाह्य चिन्तामापेदे -
31 SK संविद्यमाने सकले शरीरे कस्मात्परस्मान्मृगयामि मांसम् / यादृच्छिकी तस्य हि लाभसंपत् कार्यात्ययः स्याच्च तथा ममायम् // Jम्_१.२१ //
33 SK निरात्मके भेदिनि सारहीने दुःखे कृतध्ने सतताशुचौ च / देहे परस्मायुपयुज्यमाने न प्रीतिमान्यो न विचक्षणः सः // Jम्_१.२२ //
34 SK स्वसौख्यसङ्गेन परस्य दुःखमुपेक्ष्यते शक्तिपरिक्षयाद्वा / न चान्यदुःखे सति मे ऽस्ति सौख्यं सत्यां च शक्तौ किमुपेक्षकः स्याम् // Jम्_१.२३ //
35 SK सत्यां च शक्तौ मम यद्युपेक्षा स्यादाततायिन्यपि दुःखमग्ने / कृत्वेव पापं मम तेन चित्तं दह्येत कक्षं महताग्निनेव // Jम्_१.२४ //
36 SK तस्मात्करिष्यामि शरीरकेण तटप्रपातोद्गतजीवितेन / संरक्षणं पुत्रवधाच्च मृग्या मृग्याः सकाशाच्च तदात्मजानाम् // Jम्_१.२५ //
38 SK सदर्शनं लोकहितोत्सुकानामुत्तेजनं मन्दपराक्रमाणाम् / संहर्षणं त्यागविशारदानामाकर्षणं सज्जनमानसानाम् // Jम्_१.२६ //
39 SK विषादनं मारमहाचमूनां प्रसादनं बुद्धगुणप्रियाणाम् / व्रीडोदयंस्वार्थपरायणानां मात्सर्यलोभोपहतात्मनां च // Jम्_१.२७ //
40 SK श्रद्धापनं यानवराश्रितानां विस्मापनं त्यागकृतस्मयानाम् / विशोधनं स्वर्गमहापथस्य त्यागप्रियाणामनुमोदि नॄणाम् // Jम्_१.२८ //
41 SK कदा नु गात्रैरपि नाम कुर्यां हितं परेषामिति यश्च मे ऽभूत् / मनोरथस्तत्सफलीक्रियां च संबोधिमग्र्यामपि चाविदूरे // Jम्_१.२९ //
43 SK न स्पर्धया नैव यशो ऽभिलाषान्न स्वर्गलाभान्न च राज्यहेतोः / नात्यन्तिके ऽप्यात्मसुखे यथायं ममादरो ऽन्यत्र परार्थसिद्धेः // Jम्_१.३० //
44 SK तथा ममानेन समानकालं लोकस्य दुःखं च सुखोदयं च / हर्तुं च कर्तुं च सदास्तु शक्तिस्तमः प्रकाशं च यथैव भानोः // Jम्_१.३१ //
45 SK दृष्टे गुणे ऽनुस्मृतिमागतो वा स्पष्टः कथायोगमुपागतो वा / सर्वप्रकारं जगतो हितानि कुर्यामजस्रं सुखसंहितानि // Jम्_१.३२ //
46 SK एवं स निश्चित्य परार्थसिद्ध्यै प्राणात्यये ऽप्यापतितप्रमोदः / मनांसि धीराण्यपि देवतानां विस्मापयन्स्वां तनुमुत्ससर्ज // Jम्_१.३३ //
47 SK अथ सा व्याघ्री तेन बोधिसत्त्वस्य शरीरनिपातशब्देन समुत्थापितकौतूहलामर्षा विरम्य स्वतनयवैशसोद्यमात्ततो नयने विचिक्षेप / दृष्टै व च बोधिसत्त्वशरीरमुद्गतप्राणं सहसाभिसृत्य भक्षयितुमुपचक्रमे / अथ स तस्य शिष्यो मांसमनासाद्यैव प्रतिनिवृत्तः कुत्रोपाध्याय इति विलोकयंस्तद्बोधिसत्त्वशरीरमुद्गतप्राणं तया व्याघ्रयुवत्या भक्ष्यमाणं दर्दश / स (Vऐद्य ६) तत्कर्मातिशयविस्मयात्प्रतिव्यूढशोकदुःखावेगस्तद्गुणाश्रयबहुमानमिवोद्गिरन्निदमात्मगतं ब्रुवाणः शोभेत /
48 SK अहो दयास्य व्यसनातुरे जने स्वसौख्यनैःसङ्ग्यमहो महात्मनः / अहो प्रकर्षं गमिता स्थितिः सतामहो परेषां मृदिता यशःश्रियः // Jम्_१.३४ //
49 SK अहो पराक्रान्तमपेतसाध्वसं गुणाश्रयं प्रेम परं प्रदर्शितम् / अहो नमस्कारविशेषपात्रतां प्रसह्य नीतास्य गुणातनुस्तनुः // Jम्_१.३५ //
50 SK निसर्गसौम्यस्य वसुंधराधृतेरहो परेषां व्यसनेष्वमर्षिता / अहो मदीया गमिता प्रकाशतां खटुङ्कता विक्रमसंपदानया // Jम्_१.३६ //
51 SK अनेन नाथेन सनाथतां गतं न शोचितव्यं खलु सांप्रतं जगत् / पराजयाशङ्कितजातसंभ्रमो ध्रुवं विनिश्चासपरो ऽद्य मन्मथः // Jम्_१.३७ //
52 SK सर्वथा नमो ऽस्त्वस्मै महाभागाय सर्वभूतशरण्यायातिविपुलकारुण्यायाप्रमेयसत्त्वाय भूतार्थबोधिसत्त्वाय महासत्त्वायेति / अथ स तमर्थं सब्रह्मचारिभ्यो निवेदयामास /
53 SK तत्कर्मविस्मितमुखैरथ तस्य शिष्यैर्गन्धर्वयक्षभुजगैस्त्रिदशाधिपैश्च / माल्याम्बराभरणचन्दनचूर्णवर्षैश्छन्ना तदस्थिवसुधा वसुधा बभूव // Jम्_१.३८ //
54 SK तदेवं सर्वसत्त्वेष्वकारणपरमवत्सलस्वभावः सर्वभूतात्मभूतः पूर्वजन्मस्वपि स भगवानिति बुद्धे भगवति परः प्रसादः कार्यः / जातप्रसादैश्च बुद्धे भगवति परा प्रीतिरुत्पादयितव्या / एवमायतनगतो नः प्रसाद इत्येवमप्युन्नेयम् / तथा सत्कृत्य धर्मः श्रोतव्यः / एवं दुष्करशतसमुदानीतत्वात् करुणावर्णे ऽपि वाच्यमेवं स्वभावातिशयस्य निष्पादिका परानुग्रहप्रवृत्तिहेतुः करुणेति /
55 SK इति व्याघ्रीजातकं प्रथमम्
57 SK दुष्करशतसमुदानीतो ऽयमस्मदर्थं तेन भगवता सद्धर्म इति सत्कृत्य श्रोतव्यः / तद्यथानुश्रूयते-
58 SK बोधिसत्त्वभूतः किलायं भगवानपरिमितकालाभ्यासात्सात्मीभूतोपचितपुण्यकर्मा कदाचिच्छिबीनां राजा बभूव / स बाल्यात्प्रभृत्येव बृद्धोपासनरतिर्विनयानुरक्तो ऽनुरक्तप्रकृतिः प्रकृतिमेधावित्वादनेकविद्याधिगमविपुलतरमतिरुत्साहमंत्रप्रभाव[प्रभुत्व]शक्तिदैवसंपन्नः स्वा इव प्रजाः प्रजाः पालयति स्म /
59 SK तस्मिंस्त्रिवर्गानुगुणा गुणौघाः संहर्षयोगादिव संनिविष्टाः / समस्तरूपा विबभुर्न चासुर्विरोधसंक्षोभविपन्नशोभाः // Jम्_२.१ //
60 SK विडम्बनेवाविनयोद्धतानां दुर्मेधसामापदिवातिकष्टा / अल्पात्मनां या मदिरेव लक्ष्मीर्बभूव सा तत्र यथार्थनामा // Jम्_२.२ //
61 SK उदारभावात्करुणागुणाच्च वित्ताधिपत्याच्च स राजवर्यः / रेमे ऽर्थिनामीप्सितसिद्धिहर्षादक्लिष्टशोभानि मुखानि पश्यन् // Jम्_२.३ //
62 SK अथ स राजा दानप्रियत्वात्समन्ततो नगरस्य सर्वोपकरणधनधान्यसमृद्धा दानशालाः कारयित्वा स्वमाहात्म्यानुरूपं यथाभिप्रायसंपादितं सोपचारं मनोहरमनतिक्रान्तकालसुभगं दानवर्षं कृतयुगमेघ इव ववर्ष / अन्नमन्नार्थिभ्यः, पानं पानार्थिभ्यः, शयनासनवसनभोजनगन्धमात्यरजतसुवर्णादिकं तत्तदर्थिभ्यः / अथ तस्य राज्ञः प्रदानौदार्यश्रवणाद्विस्मितप्रमुदितहृदया नानादिगभिलक्षितदेशनिवासिनः पुरुषास्तं देशमुपजग्मुः /
63 SK परीत्य कृत्स्नं मनसा नृलोकमन्येष्वलब्धप्रणयावकाशाः / तमर्थिनः प्रीतमुखाः समीयुर्महाह्रदं वन्यगजा यथैव // Jम्_२.४ //
64 SK अथ स राजा समन्ततः समापततो लाभाशाप्रमुदितमनसः पथिकजननेपथ्यप्रच्छादितशोभस्य वनीपकजनस्य
65 SK विप्रोषितस्येव सुहृज्जनस्य संदर्शनात्प्रीतिविजृम्भिताक्षः / याच्ञां प्रियाख्यानमिवाभ्यनन्दद्दत्त्वा च तुष्टयार्थिजनं जिगाय // Jम्_२.५ //
66 SK दानोद्भवः कीर्तिमयः सुगन्धस्तस्यार्थिनां वागनिलप्रकीर्णः / मदं जहारान्यनराधिपानां गन्धद्विपस्येव परद्विपानाम् // Jम्_२.६ //
67 SK अथ कदाचित्स राजा दानशालाः समनुविचरंस्तृप्तत्वादर्थिजनस्य प्रविरलं याचकजनसंपातमभिसमीक्ष्य दानधर्मस्यानुत्सर्पणान्न तुष्टिमुपजगाम /
68 SK तर्ष विनिन्ये ऽर्थिजनस्तमेत्य न त्वर्थिनः प्राप्य स दानशौण्डः / न ह्यस्य दानव्यवसायमर्थी याच्ञाप्रमाणेन शशाक जेतुम् // Jम्_२.७ //
69 SK तस्य बुद्धिरभवत् - अतिसभाग्यास्ते सत्पुरुषविशेषा ये विस्रम्भनिर्यन्त्रणप्रणयमर्थिभिः स्वगात्राण्यपि याच्यन्ते / मम पुनः प्रत्याख्यानरूक्षाक्षरवचनसंतर्जित इवार्थिजनो धनमात्रके ऽप्रगल्भप्रणयः संवृत्त इति /
70 SK अथ क्षितीशस्य तमत्युदारं गात्रेष्वपि स्वेषु निवृत्तसङ्गम् / विज्ञाय दानाश्रयिणं वितर्कं पतिप्रिया स्त्रीव मही चकम्पे // Jम्_२.८ //
71 SK अथ शक्रो देवेन्द्रः क्षितितलचलनादकम्पिते विविधरत्नप्रभोद्भासिनि सुमेरौ पर्वतराजे किमिदमिति समुत्पतितवितर्कस्तस्य राज्ञ इमं वितर्कातिशयं धरणीतलचलननिमित्तमवेत्य विस्मयावर्जितहृदयश्चिन्तामापेदे /
72 SK दानातिहर्षोद्धतमानसेन वितर्कितं किं स्विदिदं नृपेण / आबध्य दानव्यवसायकक्ष्यां स्वगात्रदानस्थिरनिश्चयेन // Jम्_२.९ //
73 SK तन्मीमांसिष्ये तावदेनमिति / अथ तस्य राज्ञः पषंदि निषण्णस्यामात्यगणपरिवृतस्य समुचितायां कृतायामर्थिजनस्य कः किमिच्छतीत्याह्वानावघोषणायामुद्धाट्यमानेषु कोशाध्यक्षाधिस्थितेषु (Vऐद्य ९) मणिकनकरजतधननिचयेषु विश्लेष्यमाणासु पुटासु विविधवसनपरिपूर्णगर्भासु समुपावर्त्यमानेषु विनीतविविधवाहनस्कन्धप्रतिष्ठितयुगेषु विचित्रेषु यानविशेषेषु प्रवृत्तसंपाते ऽर्थिजने शक्रो देवानामिन्द्रो वृद्धमन्धं ब्राह्मणरूपमभिनिर्माय राज्ञश्चक्षुःपथे प्रादुरभवत् / अथ तस्य राज्ञः कारूण्यमैत्रीपरिभावितया धीरप्रसन्नसौम्यया प्रत्युद्गत इव परिष्वक्त इव च दृष्ट्या केनार्थ इत्युपनिमन्त्र्यमाणः क्षितिपानुचरैर्नृपतिसमोपमुपेत्य जयाशीर्वचनपुरःसरं राजानमित्युवाच -
74 SK दूरादपश्यन्स्थविरो ऽभ्युपेतस्त्वच्चक्षुषो ऽर्थी क्षितिपप्रधान / एकेक्षणेनापि हि पङ्कजाक्ष गम्येत लोकाधिप लोकयात्रा // Jम्_२.१० //
75 SK अथ स बोधिसत्त्वः सममिलषितमनोरथप्रसिद्ध्या परं प्रीत्युत्सवमनुभवन् किस्विदिदं सत्यमेवोक्तं ब्राह्मणेन स्यादुत विकल्पाभ्यासान्मयैवमवधारितमिति जातविमर्शश्चक्षुर्याच्ञाप्रियवचनश्रवणतृषितमतिस्तं चक्षुर्याचनकमुवाच -
76 SK केनानुशिष्टस्त्वमिहाभ्युपेतो मां याचितुं ब्राह्मणमुख्य चक्षुः / सुदुस्त्यजं चक्षुरिति प्रवादः संभावना कस्य मयि व्यतीता // Jम्_२.११ //
77 SK अथ स ब्राह्मणवेषधारी शक्रो देवेन्द्रस्तस्य राज्ञ आशयं विदित्वोवाच -
78 SK शक्रस्य शक्रप्रतिमानुशिष्ट्या त्वां याचितुं चक्षुरिहातगो ऽस्मि / संभावनां तस्य ममैव चाशां चक्षुःप्रदानात्सफलीकुरुष्व // Jम्_२.१२ //
79 SK अथ स राजा शक्रसंकीर्तनान्नुनमस्य ब्राह्मणस्य भवित्री देवतानुभावादनेन विधिना चक्षुःसंपदिति मत्वा प्रमोदविशदाक्षरमेनमुवाच -
80 SK येनाभ्युपेतो ऽसि मनोरथेन तमेष ते ब्राह्मण पूरयामि / आकाङ्क्षमाणाय मदेकमक्षि ददामि चक्षुर्द्वयमप्यहं ते // Jम्_२.१३ //
81 SK स त्वं विबुद्धनयनोत्पलशोभितास्यः संपश्यतो व्रज यथाभिमतं जनस्य / स्यात् किं नु सो ऽयमुत नेति विचारदोलालोलस्य सो ऽयमिति चोत्थितविस्मयस्य // Jम्_२.१४ //
82 SK अथ तस्य राज्ञो ऽमात्याश्चक्षुःप्रदानावसायमवेत्य ससंभ्रमावेगविषादव्यथितमनसो राजानमूचुः -
83 SK दानातिहर्षादनयमसमीक्ष्याहितोदयम् / प्रसीद देव मा मैवं न चक्षुर्दातुमर्हसि // Jम्_२.१५ //
84 SK एकस्यार्थे द्विजस्यास्य मा नः सर्वान्पराकृथाः / अलं शोकाग्निना दग्धुं सुखं संवर्धिताः प्रजाः // Jम्_२.१६ //
85 SK धनानि लक्ष्मीप्रतिबोधनानि श्रीमन्ति रत्नानि पयस्विनीर्गाः / रथान् विनीतांश्च युजः प्रयच्छ मदोर्जितश्रीललितान् द्विपान्वा // Jम्_२.१७ //
86 SK समुच्चरन्नूपुरनिस्वनानि शरत्पयोदाभ्यधिकद्युतीनि / गृहाणि सर्वर्तुसुखानि देहि मा दाः स्वचक्षुर्जगदेकचक्षुः // Jम्_२.१८ //
87 SK विमृश्यतामपि च तावन्महाराज /
88 SK अन्यदीयं कथं नाम चक्षुरन्यत्र योज्यते / अथ देवप्रभावो ऽयं त्वच्चक्षुः किमपेक्ष्यते // Jम्_२.१९ //
90 SK चक्षुषा किं दरिद्रस्य पराभ्युदयसाक्षिणा / धनमेव यतो देहि देव मा साहसं कृथाः // Jम्_२.२० //
91 SK अथ स राजा तानमात्यान्सानुनयमधुराक्षरमित्युवाच -
92 SK अदाने कुरुते बुद्धिं दास्यामीत्यभिधाय यः / स लोभपाशं प्रभ्रष्टमात्मनि प्रतिमुञ्चति // Jम्_२.२१ //
93 SK दास्यामीति प्रतिज्ञाय यो ऽन्यथा कुरुते मनः / कार्पण्यानिश्चितमतेः कः स्यात्पापतरस्ततः // Jम्_२.२२ //
94 SK स्थिरीकृत्यार्थिनामाशां दास्यामीति प्रतिज्ञया / विसंवादनरूक्षस्य वचसो नास्ति निष्कृतिः // Jम्_२.२३ //
95 SK यदपि चेष्टं देवतानुभावादेव चक्षुरस्य किं न संभवतीत्यत्र श्रूयताम् -
96 SK नैककारणसाध्यत्वं कार्याणां ननु दृश्यते / कारणान्तरसापेक्षः स्याद्देवो ऽपि विधिर्यतः // Jम्_२.२४ //
97 SK तन्न मे दानातिशयव्यवसाये विध्नाय व्यायन्तुमर्हन्ति भवन्त इति / अमात्या ऊचुः - धनधान्यरत्नानि देवो दातुमर्हति न स्वचक्षुरिति विज्ञापितमस्माभिः / तन्न देवं वयमतीर्थे प्रतारयामः / राजोवाच -
98 SK यदेव याच्येत तदेव दद्यान्नानीप्सितं प्रीणयतीह दत्तम् / किमुह्यमानस्य जलेन तोयैर्दास्याम्यतः प्रार्थितमर्थमस्मै // Jम्_२.२५ //
99 SK अथ तस्य राज्ञो दृढतरविस्रम्भप्रणयः स्नेहावेगादनपेक्षितोपचारो ऽमात्यमुख्यस्तं राजानमित्युवाच - मा तावद् भोः
100 SK या नाल्पेन तपःसमाधिविधिना संप्राप्यते केनचिद् यामासाद्य च भूरिभिर्मखशतैः कीर्ति दिवं चाप्नुयात् / संप्राप्तामतिपत्य तां नृपतितां शक्रर्द्धिविस्पर्धिनीं किं दृष्ट्वा नयने प्रदित्सति भवान्को ऽयं कुतस्त्यो विधिः // Jम्_२.२६ //
101 SK लब्धावकाशस्त्रिदशेषु यज्ञैः कीर्त्या समन्तादवभासमानः / नरेन्द्रचूडाद्युतिरञ्जिताङ्घ्रिः किं लिप्समानो नु ददासि चक्षुः // Jम्_२.२७ //
102 SK अथ स राजा तममात्यं सानुनयमित्युवाच -
103 SK नायं यत्नः सार्वभौमत्वमाप्तुं नैव स्वर्गं नापवर्गं न कीर्तिम् / त्रातुं लोकानित्ययं त्वादरो मे याच्ञाक्लेशो मा च भूदस्य मोघः // Jम्_२.२८ //
104 SK अथ स राजा नीलोत्पलदलशकलरुचिरकान्ति नयनमेकं वैद्यपरिदृष्टेन विधिना शनकैरक्षतमुत्पाट्य परया प्रीत्या चक्षुर्याचनकाय प्रायच्छत् / अथ शक्रो देवेन्द्रस्तादृशमृद्ध्यभिसंस्कारं चक्रे यथा ददर्श स राजा सपरिजनस्तत्तस्य चक्षुश्चक्षुःस्थाने प्रतिष्ठितम् / अथोन्मिषितैकचक्षुषं चक्षुर्याचनकमभिवीक्ष्य स राजा परमेण प्रहर्षेण समापूर्णहृदयो द्वितीयमप्यस्मै नयनं प्रायच्छत् /
105 SK ततः स राजा नयने प्रदाय विपद्मपद्माकरतुल्यवक्त्रः / पौरैरसाधारणतुष्टिरासीत्समग्रचक्षुर्ददृशे द्विजैश्च // Jम्_२.२९ //
106 SK अन्तःपुरे ऽथ मनुजाधिपतेः पुरे च शोकाश्रुभिर्वसुमती सिषिचे समन्तात् / शक्रस्तु विस्मयमवाप परां च तुष्टिं संबोधये नृपमकम्प्यमतिं समीक्ष्य // Jम्_२.३० //
107 SK अथ शक्रस्य विस्मयावर्जितहृदयस्यैतदभवत् -
108 SK अहो धृतिरहो सत्त्वमहो सत्त्वहितैषिता / प्रत्यक्षमपि कर्मेदं करोतीव विचारणाम् // Jम्_२.३१ //
109 SK तन्नायमाश्चर्यसत्त्वश्चिरमिमं परिक्लेशमनुभवितुमर्हति / यतः प्रयतिष्ये चक्षुरस्योपायप्रदर्शनादुत्पादयितुम् / अथ तस्य राज्ञः क्रमात्संरूढनयनव्रणस्यावगीतप्रतनूभूतान्तःपुरपौरजानपदशोकस्य प्रविवेककामत्वादुद्यानपुष्करिण्यास्तीरे कुसुमभरावनतरुचिरतरुवरनिचिते मृदुसुरभिशिशिरसुखपवने मधुकरगणोपकूजिते पर्यङ्केण निषण्णस्य शक्रो देवेन्द्रः पुरस्तात्प्रादुरभवत् / क एष इति च राज्ञा पर्यनुयुक्तो ऽव्रवीत् -
110 SK शक्रो ऽहमस्मि देवेन्द्रस्त्वत्समीपमुपागतः /
111 SK राजोवाच / स्वागतम् / आज्ञाप्यतां केनार्थ इति / स उपचारपुरःसरमुक्तो राजानं पुनरुवाच -
112 SK वरं वृणीष्व राजर्षे यदिच्छसि तदुच्यताम् // Jम्_२.३२ //
113 SK अथ स राजा प्रदानसमुचितत्वादनभ्यस्तयाच्ञाकार्पण्यमार्गो विधृत्य विस्मयशौटीर्यमेनमुवाच -
114 SK प्रभूतं मे धनं शक्र शक्तिमच्च महद् बलम् / अन्धभावात्त्विदानीं मे मृत्युरेवाभिरोचते // Jम्_२.३३ //
115 SK कृत्वापि पर्याप्तमनोरथानि प्रीतिप्रसादाधिकलोचनानि / मुखानि पश्यामि न याचकानां यत्तेन मृत्युर्दयितो ममेन्द्र // Jम्_२.३४ //
116 SK शक्र उवाच - अलमलमनेन ते व्यवसायेन / सत्पुरुषा एवेदृशान्यनुप्राप्नुवन्ति / अपि च पृच्छामि तावद् भवन्तम् /
117 SK इमामवस्थां गमितस्य याचकैः कथं नु ते संप्रति तेषु मानसम् / प्रचक्ष्व तत्तावदलं निगूहितुं व्रजेश्च संप्रत्यपनीय तां यथा // Jम्_२.३५ //
118 SK राजोवाच - को ऽयमस्मान् विकत्थयितुमत्रभवतो निर्बन्धः? अपि च देवेन्द्र श्रूयताम् -
119 SK तदैव चैतर्हि च याचकानां वचांसि याच्ञानियताक्षराणि / आशीर्मयाणीव मम प्रियाणि यथा तथोदेतु ममैकमक्षि // Jम्_२.३६ //
120 SK अथ तस्य राज्ञः सत्याधिष्ठानबलात् पुण्योपचयविशेषाच्च वचनसमनन्तरमेवेन्द्रनीलशकलाक्रान्तमध्यमिव नीलोत्पलदलसदृशमेकं चक्षुः प्रादुरभवत् / प्रादुर्भूंते च तस्मिन्नयनाश्चर्ये प्रमुदितमनाः स राजा पुनरपि शक्रमुवाच -
121 SK यश्चापि मां चक्षुरयाचतैकं तस्मै मुदा द्वे नयने प्रदाय / प्रीत्युत्सवैकाग्रमतिर्यथासं द्वितीयमप्यक्षि तथा ममास्तु // Jम्_२.३७ //
122 SK अथाभिव्याहारसमनन्तरमेव तस्य राज्ञो विस्पर्धमानमिव तेन नयनेन द्वितीयं चक्षुः प्रादुरभवत् /
123 SK ततश्चकम्पे सधराधरा धरा व्यतीत्य वेलां प्रससार सागरः / प्रसक्तगम्भीरमनोज्ञनिस्वनाः प्रसस्वनुर्दुंन्दुभयो दिवौकसाम् // Jम्_२.३८ //
124 SK प्रसादरम्यं ददृशे वपुर्दिशां रराज शुद्ध्या शरदीव भास्करः / परिभ्रमच्चन्दनचूर्णरञ्जितं पपात चित्रं कुसुमं नभस्तलात् // Jम्_२.३९ //
125 SK समाययुर्विस्मयफुल्ललोचना दिवौकसस्तत्र सहाप्सरोगणाः / ववौ मनोज्ञात्मगुणः समीरणो मनस्सु हर्षो जगतां व्यजृम्भत // Jम्_२.४० //
126 SK उदीरिता हर्षपरीतमानसैर्महर्द्धिभिर्भूंतगणैः सविस्मयैः / नृपस्य कर्मातिशयस्तवाश्रयाः समन्ततः शुश्रुविरे गिरः शुभाः // Jम्_२.४१ //
127 SK अहो बतौदार्यमहो कृपालुता विशुद्धता पश्य यथास्य चेतसः / अहो स्वसौख्येषु निरुत्सुका मतिर्नमो ऽस्तु ते ऽभ्युद्गतधैर्यविक्रम // Jम्_२.४२ //
128 SK सनाथतां साधु जगद्गतं त्वया पुनर्विबुद्धेक्षणपङ्कजश्रिया / अमोघरूपा बत पुण्यसञ्चयाश्चिरस्य धर्मेण खलूर्जितं जितम् // Jम्_२.४३ //
129 SK अथ शक्रः साधु साध्वित्येनमभिसंराध्य पुनरुवाच -
130 SK न नो न विदितो राजंस्तव शुद्धाशयाशयः / एवं नु प्रतिदत्ते ते मयेमे नयने नृप // Jम्_२.४४ //
131 SK समन्ताद्योजनशतं शैलैरपि तिरस्कृतम् / द्रष्टुमव्याहता शक्तिर्भविष्यत्यनयोश्च ते // Jम्_२.४५ //
132 SK इत्युक्त्वा शक्रस्तथैव चान्तर्दधे / अथ बोधिसत्त्वो विस्मयपूर्णमनोभिर्मन्दमन्दनिमेषप्रविकसितनयनैरमात्यैरनुयातः पौरैश्चाभिवीक्ष्यमाणो जयाशीर्वचनपुरःसरैश्च ब्राह्मणैरभिनन्द्यमानः पुरवरमुच्छ्रितध्वजविचित्रपताकं प्रवितन्यमानाभ्युदयशोभमभिगम्य पर्षदि निषण्णः सभाजनार्थमभिगतस्यामात्यप्रमुखस्य ब्राह्मणवृद्धपौरजानपदस्यैवमात्मोपनायिकं धर्मं देशयामास -
133 SK को नाम लोके शिथिलादरः स्यात् कर्तुं धनेनार्थिजनप्रियाणि / दिव्यप्रभावे नयने ममेमे प्रदानपुण्योपनते समीक्ष्य // Jम्_२.४६ //
134 SK अनेकशैलान्तरितं योजनानां शतादपि / अदूरस्थितविस्पष्टं दृश्यं पश्यामि सर्वतः // Jम्_२.४७ //
135 SK परानुकम्पाविनयाभिजाताद्दानात्परः को ऽभ्युदयाभ्युपायः / यन्मानुषं चक्षुरिहैव दत्त्वा प्राप्तं मया ऽमानुषदिव्यचक्षुः // Jम्_२.४८ //
136 SK एतद्विदित्वा शिबयः प्रदानैर्भोगेन चार्थान् सफलीकुरुध्वम् / लोके परस्मिन्निह चैष पन्थाः कीर्तिप्रधानस्य सुखोदयस्य // Jम्_२.४९ //
137 SK धनस्य निःसारलघोः स सारो यद्दीयते लोकहितोन्मुखेन / निधानतां याति हि दीयमानमदीयमानं निधनैकनिष्ठम् // Jम्_२.५० //
138 SK तदेवं दुष्करशतसमुदानीतो ऽयमस्मदर्थं तेन भगवता सद्धर्म इति सत्कृत्य श्रोतव्यः / तथागतमाहात्म्ये पूर्ववच्च करुणावर्णे ऽपि वाच्यम् - इहैव पुण्यफलप्रदर्शने चैवं सत्कृत्योपचितानि पुण्यानीहैव पुष्पमात्रमात्मप्रभावस्य कीर्तिसंततिमनोहरं प्रदर्शयन्तीति //
139 SK इति शिबिजातकं द्वितीयम् /
140 SK ३. Kउल्माषपिण्डीजातकम्
141 SK चित्तप्रसादोद्गतं पात्रातिशयप्रतिपादितं च नाल्पकं नाम दानमस्ति विपाकमहत्त्वात् / तद्यथानुश्रूयते -
142 SK बोधिसत्त्वभूतः किलायं भगवान्कोशलाधिपतिर्बभूव / तस्योत्साहमन्त्रप्रभू [त्वशक्तिसम्पत्प्रभृतीनां प्रकर्षिणामपि राजगुणानां विभूतिमतिशिश्ये दैवसम्पद्गुणशोभा /
143 SK गुणास्तस्याधिकं रेजुर्दैवसमपद्विभूषणाः / किरणा इव चन्द्रस्य शरदुन्मीलितश्रियः // Jम्_३.१ //
144 SK तत्याज दृप्तानपि तस्य शत्रून् रक्तेव रेमे तदपाश्रितेषु / इत्यास तस्यान्यनराधिपेषु कोपप्रसादानुविधायिनी श्रीः // Jम्_३.२ //
145 SK धर्मात्मकत्वान्न च नाम तस्य परोपतापाशिवमास चेतः / भृत्यानुरागस्तु तथा जजृम्भे द्विषत्सु लक्ष्मीर्न यथास्य रेमे // Jम्_३.३ //
146 SK सो ऽनन्तरातीतां स्वजातिमनुसस्मार / तदनुस्मरणाच्च समुपजातसंवेगो विशेषवत्तरं श्रमणब्राह्मणकृपणवनीपकेभ्यः सुखहेतुनिदानं दानमदाच्छीलसंवरमनवरतं पुपोष पोषधनियमं च पर्वदिवसेषु समाददे / अभीक्ष्णं च राजा पर्षदि स्वस्मिंश्चान्तःपुरे पुण्यप्रभावोद्भावनाल्लोकं श्रेयसि नियोक्तुकामः प्रतीतहृदयो गाथाद्वयमिति नियतार्थं बभाषे -
147 SK न सुगतपरिचर्या विद्यते स्वल्पिकापि प्रतनुफलविभूतिर्यच्छ्रुतं केवलं प्राक् / तदिदमलवणायाः शुष्करूक्षारूणायाः फलविभवमहत्त्वं पश्य कुल्माषपिण्ड्याः // Jम्_३.४ //
148 SK रथतुरगविचित्रं मत्तनागेन्द्रनीलं बलमकृशमिदं मे मेदिनी केवला च / बहु धनमनुरक्ता श्रीरुदाराश्च दाराः फलसमुदयशोभां पश्य कुल्माषपिण्ड्याः // Jम्_३.५ //
149 SK तममात्या ब्राह्मणवृद्धाः पौरमुख्याश्च कौतूहलाधूर्णितमनसो ऽपि न प्रसहन्ते स्म पर्यनुयोक्तुं किमभिसमीक्ष्य महाराजो गाथाद्वयमिदमभीक्ष्णं भाषत इति / अथ तस्य राज्ञो वाग्नित्यत्वादव्याहततरप्रणयप्रसरा देवी समुत्पन्नकौतूहला संकथाप्रस्तावागतं पर्षदि पर्यपृच्छदेनम् /
150 SK नियतमिति नरेन्द्र भाषसे हृदयगतां मुदमुद्गिरन्निव / भवति मम कुतूहलाकुलं हृदयमिदं कथितेन तेन ते // Jम्_३.६ //
151 SK तदर्हति श्रोतुमयं जनो यदि प्रचक्ष्व तत्किं न्विति भाषसे नृप / रहस्यमेवं च न कीर्त्यते क्वचित्प्रकाशमस्माच्च मयापि पृच्छ्यते // Jम्_३.७ //
152 SK अथ स राजा प्रीत्यभिस्निग्धया दृष्ट्या समभिवीक्ष्य देवीं स्मितप्रविकसितवदन उवाच -
153 SK अविभाव्य निमित्तार्थं श्रुत्वोद्गारमिमं मम / न केवलं तवैवात्र कौतूहलचलं मनः // Jम्_३.८ //
154 SK समन्तमप्येतदमात्यमण्डलं कुतूहलाघूर्णितलोलमानसम् / पुरं च सान्तःपुरमत्र तेन मे निशम्यतां येन मयैवमुच्यते // Jम्_३.९ //
155 SK सुप्तप्रबुद्ध इव जातिमनुस्मरामि यस्यामिहैव नगरे भृतको ऽहमासम् / शीलान्वितो ऽपि धनमात्रसमुच्छ्रितेभ्यः कर्माभिराधनसमर्जितदीनवृत्तिः // Jम्_३.१० //
156 SK सो ऽहं भृतिं परिभवश्रमदैन्यशालां त्राणाशयात्स्वयमवृत्तिभयाद्विविक्षुः / भिक्षार्थिनश्च चतुरः श्रमणानपश्यं वश्येन्द्रियाननुगतानिव भिक्षुलक्ष्म्या // Jम्_३.११ //
157 SK तेभ्यः प्रसादमृदुना मनसा प्रणम्य कुल्माषमात्रकमदां प्रयतः स्वगेहे / तस्याङ्करोदय इवैष यदन्यराजचूडाप्रभाश्चरणरेणुषु मे निषक्ताः // Jम्_३.१२ //
158 SK तदेतदभिसन्धाय मयैवं देवि कथ्यते / पुण्येन च लभे तृप्तिमर्हतां दर्शनेन च // Jम्_३.१३ //
159 SK अथ सा देवी प्रहर्षविस्मयविशालाक्षी सबहुमानमुदीक्षमाणा राजानमित्युवाच / उपपन्नरूपः पुण्यानामयमेवंविधो विपाकाभ्युदयविशेषः / पुण्यफलप्रत्यक्षिणश्च महाराजस्य यदयं पुण्येष्वादरः / तदेवमेव पापप्रवृत्तिविमुखः पितेव प्रजानां सम्यक्परिपालनसुमुखः पुण्यगणार्जनाभिमुखः /
160 SK यशःश्रिया दानसमृद्धया ज्वलन्प्रतिष्ठिताज्ञः प्रतिराजमूर्धसु / समीरणाकुञ्चितसागराम्वरां चिरं महीं धर्मनयेन पालय // Jम्_३.१४ //
161 SK राजोवाच - किं ह्येतद्देवि न स्यात्?
162 SK सो ऽहं तमेव पुनराश्रयितुं यतिष्ये श्रेयःपथं समभिलक्षितरम्यचिह्नम् / लोकः प्रदित्सति हि दानफलं निशम्य दास्याम्यहं किमिति नात्मगतं निशम्य // Jम्_३.१५ //
163 SK अथ स राजा देवीं देवीमिव श्रिया ज्वलन्तीमभिस्निग्धमवेक्ष्य श्रीसम्पत्तिहेतुकुतूहलहृदयः पुनरुवाच -
164 SK चन्द्रलेखेव ताराणां स्त्रीणां मध्ये विराजसे / अकृथाः किं नु कल्याणि कर्मातिमधुरोदयम् // Jम्_३.१६ //
165 SK देव्युवाच - अस्ति देव किञ्चिदहमपि पूर्वजन्मवृत्तिं समनुस्मरामीति / कथय कथयेदानीमिति च सादरं राज्ञा पर्यनुयुक्तोवाच -
166 SK बाल्ये ऽनुभूतमिव तत्समनुस्मरामि दासी सती यदहमुद्धृतभक्तमेकम् / क्षीणास्रवाय मुनये विनयेन दत्त्वा सुप्तेव तत्र समवापमिह प्रबोधम् // Jम्_३.१७ //
167 SK एतत्स्मरामि कुशलं नरदेव येन त्वन्नाथतामुपगतास्मि समं पृथिव्या / क्षीणास्रवेषु न कृतं तनु नाम किञ्चिदित्युक्तवानसि यथैव मुनिस्तथैव // Jम्_३.१८ //
168 SK अथ स राजा पुण्यफलप्रदर्शनात्पुण्येषु समुत्पादितबहुमानामभिप्रसन्नमनसं पर्षदं विस्मयैकाग्रामवेत्य नियतमीदृशं किञ्चित्समनुशशास -
169 SK अल्पस्यापि शुभस्य विस्तरमिमं दृष्ट्वा विपाकश्रियः स्यात्को नाम न दानशीलविधिना पुण्यक्रियातत्परः / नैव द्रष्टुमपि क्षमः स पुरुषः पर्याप्तवित्तो ऽपि सन् यः कार्पण्यतमिस्रयावृतमतिर्नाप्नोति दानैर्यशः // Jम्_३.१९ //
170 SK त्यक्तव्यं विवशेन यन्न च तथा कस्मैचिदर्थाय यत् तन्न्यायेन धनं त्यजन्यदि गुणं कञ्चित्समुद्भावयेत् / को ऽसौ तत्र भजेत मत्सरपथं जानन्गुणानां रसं प्रीत्याद्या विविधाश्च कीर्त्यनुसृता दानप्रतिष्ठागुणाः // Jम्_३.२० //
171 SK दानं नाम महानिधानमनुगं चौराद्यसाधारणं दानं मत्सरलोभदोषरजसः प्रक्षालनं चेतसः / संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं दानं नैकसुखोपधानसुमुखं सन्मित्रमात्यन्तिकम् // Jम्_३.२१ //
172 SK विभवसमुदयं वा दीप्तमाज्ञागुणं वा त्रिदशपुरनिवासं रूपशोभागुणं वा / यदभिलषति सर्वं तत्समाप्नोति दानाद् इति परिगणितार्थः को न दानानि दद्यात् // Jम्_३.२२ //
173 SK सारादानं दानमाहुर्धनानाम् ऐश्वर्याणां दानमाहुर्निदानम् / दानं श्रीमत्सज्जनत्वावदानं बाल्यप्रज्ञैः पांसुदानं सुदानम् // Jम्_३.२३ //
174 SK अथ सा पर्षत्तस्य राज्ञस्तद्ग्राहकं वचनं सबहुमानमभिनन्द्य प्रदानादिप्रतिपत्त्यभिमुखी बभूव /
175 SK तदेवं चित्तप्रसादोद्गतं पात्रातिशयप्रतिपादितं च नाल्पकं नाम दानमस्ति विपाकमहत्त्वादिति प्रसन्नचित्तेनानुत्तरे पुण्यक्षेत्र आर्यसंघे दानं ददता परा प्रीतिरुत्पादयितव्या / अदूरे ममाप्येवंविधा अतो विशिष्टतराश्च सम्पत्तय इति /
176 SK इति कुल्माषपिण्डीजातकं तृतीयम् /
178 SK अत्ययमप्यविगणय्य दित्सन्ति सत्पुरुषाः / केन नाम स्वस्थेन न दातव्यं स्यात्? तद्यथानुश्रूयते -
179 SK बोधिसत्त्वभूतः किलायं भगवान्भाग्यातिशयगुणादुत्थानसम्पदा चाधिगतविपुलधनसमृद्धिरविषमव्यवहारशीलत्वाल्लोके बहुमाननिकेतभूत उदाराभिजनवाननेकविद्याकलाविकल्पाधिगमविमलतरमतिर्गुणमाहात्म्याद्राज्ञा समुपहृतसम्मानः प्रदानशीलत्वाल्लोकसाधारणविभवः श्रेष्ठी बभूव /
180 SK अर्थिभिः प्रीतहृदयैः कीर्त्यमानमितस्ततः / त्यागशौर्योन्नतं नाम तस्य व्याप दिशो दश // Jम्_४.१ //
181 SK दद्यान्न दद्यादिति तत्र नासीद्विचारदोलाचलमानसो ऽर्थी / ख्यातावदाने हि बभूव तस्मिन्विस्रम्भधृष्टप्रणयो ऽर्थिवर्गः // Jम्_४.२ //
182 SK ना ऽसौ जुगोपात्मसुखार्थमर्थं न स्पर्धया लोभपराभवाद्वा / सत्त्वार्थिदुःखं न शशाक सोढुं नास्तीति वक्तुं च ततो जुगोप // Jम्_४.३ //
183 SK अथ कदाचित्तस्य महासत्त्वस्य भोजनकाले स्नातानुलिप्तगात्रस्य कुशलोदारसूदोपकल्पिते समुपस्थितेवर्णगन्धरसस्पर्शादिगुणसमुदिते विचित्रे भक्ष्यभोज्यादिविधौ तत्पुण्यसम्भाराभिवृद्धिकामो ज्ञानाग्निनिर्दग्धसर्वक्लेशेन्धनः प्रत्येकबुद्धस्तद्गृहमभिजगाम भिक्षार्थी / समुपेत्य च द्वारकोष्ठके व्यतिष्ठत /
184 SK अशङ्किताचञ्चलधीरसौम्यमवेक्षमाणो युगमात्रमुर्व्याः / तत्रावतस्थे प्रशमाभिजातः स पात्रसंसक्तकराग्रपद्मः // Jम्_४.४ //
185 SK अथ मारः पापीयान्बोधिसत्त्वस्य तां दानसम्पदममृष्यमाणस्तद्विध्नार्थमन्तरा च तं भदन्तमन्तरा च द्वारदेहलीं प्रचलज्वालाकरालोदरमनेकपौरुषमतिगम्भीरं भयानकदर्शनं सप्रतिभयनिर्घोषं नरकमभिनिर्ममे विस्फुरद्भिरनेकैर्जनशतैराचितम् / अथ बोधिसत्त्वः प्रत्येकबुद्धं (Vऐद्य २१) भिक्षार्थिनमभिगतमालोक्य पत्नीमुवाच - भद्रे स्वयमार्याय पर्याप्तं पिण्डपातं देहीति / सा तथेति प्रतिश्रुत्य प्रणीतं भक्ष्यभोज्यमादाय प्रस्थिता / नरकमालोक्य द्वारकोष्ठकसमीपे भयविषादचञ्चलाक्षी सहसा न्यवर्तत / किमेतदिति च भर्त्रा पर्यनुयुक्ता समापतितसाध्वसापिहितकण्ठी तत्कथञ्चित्तस्मै कथयामास / अथ बोधिसत्त्वः कथमयमार्यो मद्गृहादनवाप्तभिक्ष एव प्रतियास्यतीति ससम्भ्रमं तत्तस्याः कथितमनादृत्य स्वयमेव च प्रणीतं भक्ष्यभोज्यमादाय तस्य महात्मनः पिण्डपातं प्रतिपादयितुकामो द्वारकोष्ठकसमीपमभिगतस्तमतिभीषणमन्तरा नरकं ददर्श / तस्य किं स्विदिदमिति समुत्पन्नवितर्कस्य मारः पापीयान्भवनभित्तेर्विनिःसृत्य संदृश्यमानदिव्याद्भूतवपुरन्तरिक्षे स्थित्वा हितकाम इव नामाब्रवीत् - गृहपते महारौरवनामायं महानरकः /
186 SK अर्थिप्रशंसावचनप्रलुब्धा दित्सन्ति दानव्यसनेन ये ऽर्थान् / शरत्सहस्राणि बहूनि तेषामस्मिन्निवासो ऽसुलभप्रवासः // Jम्_४.५ //
187 SK अर्थस्त्रिवर्गस्य विशेषहेतुस्तस्मिन्हते केन हतो न धर्मः / धर्मं च हत्वार्थनिबर्हणेन कथं नु न स्यान्नरकप्रतिष्ठः // Jम्_४.६ //
188 SK दानप्रसङ्गेन च धर्ममूलं घ्नता त्वयार्थं यदकारि पापम् / त्वामत्तुमभ्युद्गतमेतदस्माज्ज्वालाग्रजिह्वं नरकान्तकास्यम् // Jम्_४.७ //
189 SK तत्साधु दानाद्विनियच्छ बुद्धिमेवं हि सद्यःपतनं न ते स्यात् / विचेष्टमानैः करुणं रुदद्भिर्मा दातृभिर्गाः समताममीभिः // Jम्_४.८ //
190 SK प्रतिग्रहीता तु जनो ऽभ्युपैति निवृत्तदानापनयः सुरत्वम् / तत्स्वर्गमार्गावरणाद्विरम्य दानोद्यमात्संयममाश्रयस्व // Jम्_४.९ //
191 SK अथ बोधिसत्त्वो नूनमस्यैतद्दुरात्मनो मम दानविघ्नाय विचेष्टितमित्यवगम्य सत्त्वावष्टम्भधीरं विनयमधुराविच्छेदं नियतमित्यवोचदेनम् /
192 SK अस्मद्धितावेक्षणदक्षिणेन विदर्शितो ऽयं भवतार्यमार्गः / युक्ता विशेषेण च दैवतेषु परानुकम्पानिपुणा प्रवृत्तिः // Jम्_४.१० //
193 SK दोषोदयात्पूर्वमनन्तरं वा युक्तं तु तच्छान्तिपथेन गन्तुम् / गते प्रयासं ह्युपचारदोषैर्व्याधौ चिकित्साप्रणयो विघातः // Jम्_४.११ //
194 SK इदं च दानव्यसनं मदीयं शङ्के चिकित्साविषयव्यतीतम् / तथा ह्यनादृत्य हितैषितां ते न मे मनः सङ्कचति प्रदानात् // Jम्_४.१२ //
195 SK दानादधर्मं च यदूचिवांस्त्वमर्थं च धर्मस्य विशेषहेतुम् / तन्मानुषी नेयमवैति बुद्धिर्दानादृते धर्मपथो यथार्थः // Jम्_४.१३ //
196 SK निधीयमानः स नु धर्महेतुश्चौरैः प्रसह्याथ विलुप्यमानः / ओघोदरान्तर्विनिमग्नमूर्तिर्हुताशनस्याशनतां गतो वा // Jम्_४.१४ //
197 SK यच्चात्थ दाता नरकं प्रयाति प्रतिग्रहीता तु सुरेन्द्रलोकम् / विवर्धितस्तेन च मे त्वया ऽयं दानोद्यमः संयमयिष्यतापि // Jम्_४.१५ //
198 SK अनन्यथा चास्तु वचस्तवेदं स्वर्गं च मे याचनका व्रजन्तु / दानं हि मे लोकहितार्थमिष्टं नेदं स्वसौख्योदयसाधनाय // Jम्_४.१६ //
199 SK अथ स मारः पापीयान्पुनरपि बोधिसत्त्वं हितैषीव धीरहस्तेनोवाच -
200 SK हितोक्तिमेतां मम चापलं वा समीक्ष्य येनेच्छसि तेन गच्छ / सुखान्वितो वा बहुमानपूर्वं स्मर्तासि मां विप्रतिसारवान्वा // Jम्_४.१७ //
201 SK बोधिसत्त्व उवाच - मर्ष मर्षयतु भवान् /
202 SK कामं पतामि नरकं स्फुरदुग्रवह्निं ज्वालावलीढशिथिलावनतेन मूर्ध्ना / न त्वर्थिनां प्रणयदर्शितसौहृदानां सम्मानकालमवमाननया हरिष्ये // Jम्_४.१८ //
203 SK इत्युक्त्वा बोधिसत्त्वः स्वभाग्यबलावष्टम्भाज्जानानश्च निरत्ययतां दानस्य निवारणैकरसमवधूय स्वजनपरिजनं साध्वसानभिभूतमतिरभिवृद्धदानाभिलाषो नरकमध्येन प्रायात् /
204 SK पुण्यानुभावादथ तस्य तस्मिन्नपङ्कजं पङ्कजमुद्बभूव / अवज्ञयेवावजहास मारं यच्छुक्लया केशरदन्तपङ्कत्या // Jम्_४.१९ //
205 SK अथ बोधिसत्त्वः पद्मसंक्रमेण स्वपुण्यातिशयनिर्जातेनाभिगम्य प्रत्येकबुद्धं प्रसादसंहर्षापूर्णहृदयः पिण्डपातमस्मै प्रायच्छत् /
206 SK मनःप्रसादप्रतिबोधनार्थं तस्याथ भिक्षुर्वियदुत्पपात / वर्षञ्ज्वलंश्चैव स तत्र रेजे सविद्युदुद्द्योतपयोदलक्ष्म्या // Jम्_४.२० //
207 SK अवमृदितमनोरथस्तु मारो द्युतिपरिमोषमवाप्य वैमनस्यात् / तमभिमुखमुदीक्षितुं न सेहे सह नरकेण ततस्तिरोबभूव // Jम्_४.२१ //
208 SK तत्किमिदमुपनीतम्? एवमत्ययमप्यविगणय्य दित्सन्ति सत्पुरुषाः / केन नाम स्वस्थेन न दातव्यं स्यात्? न सत्त्ववन्तः शक्यन्ते भयादप्यगतिं गमयितुमित्येवमप्युन्नेयम् /
209 SK इति श्रेष्ठिजातकं चतुर्थम् /
210 SK ५. Aविषह्यश्रेष्ठिजातकम्
211 SK न विभवक्षयावेक्षया समृद्ध्याशया वा प्रदानवैधुर्यमुपयान्ति सत्पुरुषाः / तद्यथानुश्रूयते -
212 SK बोधिसत्त्वभूतः किलायं भगवांस्त्यागशीलकुलविनयश्रुतज्ञानाविस्मयादिगुणसमुदितो धनदायमानो विभवसंपदा सर्वातिथित्वादनुपरतदानसत्रो लोकहितार्थप्रवृत्तो दायकश्रेष्ठः श्रेष्ठी बभूव मात्सर्यादिदोषाविषह्यो ऽविषह्य इति प्रकाशनामा /
213 SK इष्टार्थसंपत्तिविमर्शनाशात् प्रीतिप्रबोधस्य विशेषहेतुः / यथार्थिनां दर्शनमास तस्य तथार्थिनां दर्शनमास तस्य // Jम्_५.१ //
214 SK देहीति याच्ञानियतार्थमुक्तो नास्तीति नासौ गदितुं शशाक / हृतावकाशा हि बभूव चित्ते तस्यार्थसक्तिः कृपया महत्या // Jम्_५.२ //
215 SK तस्यार्थिभिर्निर्ह्रियमाणसारे गृहे बभूवाभ्यधिकप्रहर्षः / विवेद स ह्युग्रघनाननर्थानकारणक्षिप्रविरागिणो ऽर्थान् // Jम्_५.३ //
216 SK भवन्ति लोकस्य हि भूयसार्था लोभाश्रयाद् दुर्गतिमार्गसार्थाः / परात्मनोरभ्युदयावहत्वादर्थास्तदीयास्तु बभुर्यथार्थाः // Jम्_५.४ //
217 SK अथ तस्य महासत्त्वस्य यथाभिलषितैरक्लिष्टैः शिष्टोपचारविभूषणैर्विपुलैरर्थविसर्गैर्याचनकजनं समन्ततः संतर्पयतः प्रदानौदार्यश्रवणाद्विस्मयावर्जितमनाः शक्रो देवेन्द्रः प्रदानस्थिरनिश्चयमस्य जिज्ञासमानः प्रत्यहं धनधान्यरत्नपरिच्छदजातं तत्तदन्तर्धापयामास / अपि नामायं विभवपरिक्षयाशङ्कयापि मात्सर्याय प्रतार्येतेति / प्रदानाधिमुक्तस्य तु पुनर्महासत्त्वस्य
218 SK यथा यथा तस्य विनेशुरर्थाः सूर्याभिसृष्ट इव तोयलेशाः / तथा तथैनान् विपुलैः प्रदानैर्गृहात्प्रदीप्तादिव निर्जहार // Jम्_५.५ //
219 SK अथ शक्रो देवेन्द्रस्त्यागपरायणमेव तं महासत्त्वमवेत्य प्रक्षीयमाणविभवसारमपि विस्मिततरमतिस्तस्यैकरात्रेण सर्वं विभवसारमन्तर्धापयामासान्यत्र रज्जुकुण्डलाद्दात्राच्चैकस्मात् / अथ बोधिसत्त्वः प्रभातायां रजन्यां यथोचित्तं प्रतिविबुद्धः पश्यति स्म धनधान्यपरिच्छदपरिजनविभवशून्यं निष्कूजदीनं स्वभवनं राक्षसैरिवोद्वासितमनभिरामदर्शनीयं, किमिति च समुत्थितवितर्कः समनुविचरंस्तद्रज्जुकुण्डलकं दात्रं च केवलमत्र ददर्श / तस्य चिन्ता प्रादुरभवत् - यदि तावत् केनचिद्याचितुमनुचितवचसा स्वविक्रमोपार्जितोपजौविना मद्गृहे प्रणय एवं दर्शितः सूपयुक्ता एवमर्थाः / अथ त्विदानीं मद्भाग्यदोषादुच्छ्रयमसहमानेन केनचिदनुपयुक्ता एव विद्रुतास्तत्कष्टम् /
220 SK चलं सौहृदमर्थानां विदितं पूर्वमेव मे / अर्थिनामेव पीडा तु दहत्यत्र मनो मम // Jम्_५.६ //
221 SK प्रदानसत्कारसुखोचिताश्चिरं विविक्तमर्थैरभिगम्य मद्गृहम् / कथं भविष्यन्ति नु ते ममार्थिनः पिपासिताः शुष्कमिवागता ह्रदम् // Jम्_५.७ //
222 SK अथ स बोधिसत्त्वः स्वधैर्यावष्टम्भादनास्वादितविषाददैन्यस्तस्यामप्यवस्थायामनभ्यस्तयाच्ञाक्रमत्वात् परान् याचितुं परिचितानपि न प्रसेहे / एवं दुष्करं याचितुमिति च तस्य भूयसी याचनकेष्वनुकम्पा बभूव / अथ स महात्मा याचनकजनस्वागतादिक्रियावेक्षया स्वयमेव तद्रज्जुकुण्डलकं दात्रं च प्रतिगृह्य प्रत्यहं तृणविक्रयोपलब्धया विभवमात्रयार्थिजनप्रणयसम्माननां चकार / अथ शक्रो देवेन्द्रस्तस्येमामविषादितां परमे ऽपि दारिद्र्ये प्रदानाभिमुखतां चावेक्ष्य सविस्मयबहुमानः संदृश्यमानदिव्याद्भुतवपुरन्तरिक्षे स्थित्वा दानाद्विच्छन्दयंस्तं महासत्त्वमुवाच - गृहपते
223 SK सुहृन्मनस्तापकरीमवस्थामिमामुपेतस्त्वमतिप्रदानैः / न दस्युभिर्नैव जलानलाभ्यां न राजभिः संह्रियमाणवित्तः // Jम्_५.८ //
224 SK तत्त्वां हितावेक्षितया ब्रवीमि नियच्छ दाने व्यसनानुरागम् / इत्थंगतः सन्नपि चेन्न दद्या यायाः पुनः पूर्वसमृद्धिशोभाम् // Jम्_५.९ //
225 SK शश्वत् कृशेनापि परिव्ययेण कालेन दृष्ट्वा क्षयमर्जनानाम् / चयेन वल्मीकसमुच्छ्रयांश्च वृद्ध्यर्थिनः संयम एव पन्थाः // Jम्_५.१० //
226 SK अथ बोधिसत्त्वः प्रदानाभ्यासमाहात्म्यं विदर्शयञ्छक्रमुवाच -
227 SK अनार्यमार्येण सहस्रनेत्र सुदुष्करं सुष्ठ्वपि दुर्गतेन / मा चैव तद्भून्मम शक्र वित्तं यत्प्राप्तिहेतोः कृपणाशयः स्याम् // Jम्_५.११ //
228 SK इच्छन्ति याच्ञामरणेन गन्तुं दुःखस्य यस्य प्रतिकारमार्गम् / तेनातुरान् कः कुलपुत्रमानी नास्तीति शुष्काशनिनाभिहन्यात् // Jम्_५.१२ //
229 SK तन्मद्विधः किं स्विदुपाददीत रत्नं धनं वा दिवि वापि राज्यम् / याच्ञाभितापेन विवर्णितानि प्रसादयेन्नार्थिमुखानि येन // Jम्_५.१३ //
230 SK मात्सर्यदोषोपचयाय यः स्यान्न त्यागचित्तं परिबृंहयेद्वा / स त्यागमेवार्हति मद्विधेभ्यः परिग्रहच्छद्ममयो विघातः // Jम्_५.१४ //
231 SK विद्युल्लतानृत्तचले धने च साधारणे नैकविघातहेतौ / दाने निदाने च सुखोदयानां मात्सर्यमार्यः क इवाश्रयेत // Jम्_५.१५ //
232 SK तद्दर्शिता शक्र मयि स्वतेयं हिताभिधानादनुकम्पितो ऽस्मि / स्वभ्यस्तहर्षं तु मनः प्रदानैस्तदुत्पथे केन धृतिं लभेत // Jम्_५.१६ //
233 SK न चात्र मन्योरनुवृत्तिमार्गे चित्तं भवानर्हति संनियोक्तुम् / न हि स्वभावस्य विपक्षदुर्गमारोढुमल्पेन बलेन शक्यम् // Jम्_५.१७ //
234 SK शक्र उवाच - गृहपते पर्याप्तविभवस्य परिपूर्णकोशकोष्ठागारस्य सम्यक्प्रवृत्तविविधविपुलकर्मान्तस्य विरूढायतेर्लोके वशीकृतैश्वर्यस्यायं क्रमो नेमां दशामभिप्रपन्नस्य / पश्य -
235 SK स्वबुद्धिविस्पन्दसमाहितेन वा यशो ऽनुकूलेन कुलोचितेन वा / समृद्धिमाकृष्य शुभेन कर्मणा सपत्नतेजांस्यभिभूय भानुवत् // Jम्_५.१८ //
236 SK जने प्रसङ्गेन वितस्य सद्गतिं प्रबोध्य हर्षं ससुहृत्सु बन्धुषु / अवाप्तसंमानविधिर्नृपादपि श्रिया परिष्वक्त इवाभिकामया // Jम्_५.१९ //
237 SK अथ प्रदाने प्रविजृम्भितक्रमः सुखेषु वा नैति जनस्य वाच्यताम् / अजातपक्षः खमिवारुरुक्षया विघातभाक्केवलया तु दित्सया // Jम्_५.२० //
238 SK यतो धनं संयमनैभृताश्रयादुपार्ज्यतां तावदलं प्रदित्सया / अनार्यताप्यत्र च नाम का भवेन्न यत्प्रदद्या विभवेष्वभाविषु // Jम्_५.२१ //
239 SK बोधिसत्त्व उवाच - अलमतिनिर्बन्धेनात्रभवतः /
240 SK आत्मार्थः स्याद्यस्य गरीयान् परकार्यात् तेनापि स्याद्देयमनादृत्य समृद्धिम् / नैति प्रीतिं तां हि महत्यापि विभूत्या दानैस्तुष्टिं लोभजयाद्यामुपभुङ्क्ते // Jम्_५.२२ //
241 SK नैति स्वर्गं केवलया यच्च समृद्ध्या दानेनैव ख्यातिमवाप्नोति च पुण्याम् / मात्सर्यादीन्नाभिभवत्येव च दोषांस्तस्या हेतोर्दानमतः को न भजेत // Jम्_५.२३ //
242 SK त्रातुं लोकान्यस्तु जरामृत्युपरीतानप्यात्मानं दित्सति कारुण्यवशेन / यो नास्वादं वेत्ति सुखानां परदुःखैः कस्तस्यार्थस्त्वद्गतया स्यादपि लक्ष्म्या // Jम्_५.२४ //
244 SK संपत्तिरिव वित्तानामध्रुवा स्थितिरायुषः / इति याचनकं लब्ध्वा न समृद्धिरवेक्ष्यते // Jम्_५.२५ //
245 SK एको रथश्च भुवि यद्विदधाति वर्त्म तेनापरो व्रजति धृष्टतरं तथान्यः / कल्याणमाद्यमिममित्यवधूय मार्गं नासत्पथप्रणयने रमते मनो मे // Jम्_५.२६ //
246 SK अर्थश्च विस्तरमुपैष्यति चेत्पुनर्मे हर्ता मनांसि नियमेन स याचकानाम् / एवंगते ऽपि च यथाविभवं प्रदास्ये मा चैव दाननियमे प्रमदिष्म शक्र // Jम्_५.२७ //
247 SK इत्युक्ते शक्रो देवेन्द्रः समभिप्रसादितमनाः साधु साध्वित्येनमभिसंराध्य सबहुमानस्निग्धमवेक्षमाण उवाच -
248 SK यशःसपत्नैरपि कर्मभिर्जनः समृद्धिमन्विच्छति नीचदारुणैः / स्वसौख्यसङ्गादनवेक्षितात्ययः प्रतार्यमाणश्चपलेन चेतसा // Jम्_५.२८ //
249 SK अचिन्तयित्वा तु धनक्षयं त्वया स्वसौख्यहानिं मम च प्रतारणाम् / परार्थसंपादनधीरचेतसा महत्त्वमुद्भावितमात्मसंपदः // Jम्_५.२९ //
250 SK अहो बतौदार्यविशेषभास्वतः प्रमृष्टमात्सर्यतमिस्रता हृदः / प्रदानसंकोचविरूपतां गतं धने प्रनष्टे ऽपि न यत्तदाशया // Jम्_५.३० //
251 SK न चात्र चित्रं परदुःखदुःखिनः कृपावशाल्लोकहितैषिणस्तव / हिमावदातः शिखरीव वायुना न यत्प्रदानादसि कम्पितो मया // Jम्_५.३१ //
252 SK यशः समुद्भावयितुं परीक्षया धनं तवेदं तु निगूढवानहम् / मणिर्हि शोभानुगतो ऽप्यतो ऽन्यथा न संस्पृशेद्रत्नयशोमहार्घताम् // Jम्_५.३२ //
253 SK यतः प्रदानैरभिवर्ष याचकान् ह्रदान् महामेघ इवाभिपूरयन् / धनक्षयं नाप्स्यसि मत्परिग्रहादिदं क्षमेथाश्च विचेष्टितं मम // Jम्_५.३३ //
254 SK इत्येनमभिसंराध्य शक्रस्तच्चास्य विभवसारमुपसंहृत्य क्षमयित्वा च तत्रैवान्तर्दधे /
255 SK तदेवं न विभवक्षयावेक्षया समृद्ध्याशया वा प्रदानवैधुर्यमुपयान्ति सत्पुरुषा इति /
256 SK इत्य् अविषह्यश्रेष्ठिजातकं पञ्चमम् /
258 SK तिर्यग्गतानामपि सतां महात्मनां शक्त्यनुरूपा दानप्रवृत्तिर्दृष्टा / केन नाम मनुष्यभूतेन न दातव्यं स्यात्? तद्यथानुश्रूयते -
259 SK कस्मिंश्चिदरण्यायतनप्रदेशे मनोज्ञवीरुत्तृणतरुगहननिचिते पुष्पफलवति वैडूर्यनीलशुचिवाहिन्या सरिता विभूषितपर्यन्ते मृदुशाद्वलास्तरणसुखसंस्पर्शदर्शनीयधरणीतले तपस्विजनविचरिते बोधिसत्त्वः शशो बभूव /
260 SK स सत्त्वयोगाद्वपुषश्च संपदा बलप्रकर्षाद्विपुलेन चौजसा / अतर्कितः क्षुद्रमृगैरशङ्कितश्चचार तस्मिन्मृगराजलीलया // Jम्_६.१ //
261 SK स्वचर्माजिनसंवीतः स्वतनूरुहवल्कलः / मुनिवत्तत्र शुशुभे तुष्टचित्तस्तृणाङ्कुरैः // Jम्_६.२ //
262 SK तस्य मैत्र्यवदातेन मनोवाक्कायकर्मणा / आसुर्जृम्भितदौरात्म्याः प्रायः शिष्यमुखा मृगाः // Jम्_६.३ //
263 SK तस्य गुणातिशयसंभृतेन स्नेहगौरवेण विशेषवत्तरमवबद्धहृदयास्तु ये सहाया बभूवुरुद्रः शृगालो वानरश्च, ते परस्परसंबन्धनिबद्धस्नेहा इव बान्धवा अन्योन्यप्रणयसंमाननाविरूढसौहार्दा इव च सुहृदः संमोदमानास्तत्र विहरन्ति स्म / तिर्यक्स्वभावविमुखाश्च प्राणिषु दयानुवृत्त्या लौल्यप्रशमाद्विस्मृतस्तेयप्रवृत्त्या धर्माविरोधिन्या च यशो ऽनुवृत्त्या पटुविज्ञानत्वाद्विनियमधीरया च सज्जनेष्टया चेष्टया देवतानामपि विस्मयनीया बभूवुः /
264 SK सुखानुलोमे गुणबाधिनि क्रमे गुणानुकूले च सुखोपरोधिनि / नरो ऽपि तावद्गुणपक्षसंश्रयाद्विराजते किम्वथ तिर्यगाकृतिः // Jम्_६.४ //
265 SK अभूत्स तेषां तु शशाकृतिः कृती परानुकम्पाप्रतिषद्गुरुर्गुरुः / स्वभावसंपच्च गुणक्रमानुगा यशो यदेषां सुरलोकमप्यगात् // Jम्_६.५ //
266 SK अथ कदाचित् स महात्मा सायाह्नसमये धर्मश्रवणार्थमभिगतैः सबहुमानमुपास्यमानस्तैः सहायैः परिपूर्णप्रायमंडलमादित्यविप्रकर्षाद्व्यवदायमानशोभं रूप्यदर्पणमिव त्सरुविरहितमीषत्पार्श्वापवृत्तबिम्बं शुक्लपक्षचतुर्दशीचन्द्रमसमुदितमभिसमीक्ष्य सहायानुवाच -
267 SK असावापूर्णशोभेन मण्डलेन हसन्निव / निवेदयति साधूनां चन्द्रमाः पोषधोत्सवम् // Jम्_६.६ //
268 SK तद्व्यक्तं श्वः पञ्चदशी / यतो भवद्भिः पोषधनियममभिसंपादयद्भिर्न्यायोपलब्धेनाहारविशेषेण कालोपनतमतिथिजनं प्रतिपूज्य प्राणसंधारणमनुष्ठेयम् / पश्यन्तु भवन्तः /
269 SK यत्संप्रयोगा विरहावसानाः समुच्छ्रयाः पातविरूपनिष्ठाः / विद्युल्लताभङ्गरलोलमायुस्तेनैव कार्यो दृढमप्रमादः // Jम्_६.७ //
270 SK दानेन शीलाभरणेन तस्मात् पुण्यानि संवर्धयितुं यतध्वम् / विवर्तमानस्य हि जन्मदुर्गे लोकस्य पुण्यानि परा प्रतिष्ठा // Jम्_६.८ //
271 SK तारागणानामभिभूय लक्ष्मीं विभाति यत्कान्तिगुणेन सोमः / ज्योतींषि चाक्रम्य सहस्ररश्मिर्यद्दीप्यते पुण्यगुणोच्छ्रयः सः // Jम्_६.९ //
272 SK दृप्तस्वभावाः सचिवा नृपाश्च पुण्यप्रभावात् पृथिवीश्वराणाम् / सदश्ववृत्त्या हतसर्वगर्वाः प्रीता इवाज्ञाधुरमुद्वहन्ति // Jम्_६.१० //
273 SK पुण्यैर्विहीनाननुयात्यलक्ष्मीर्विस्पन्दमानानपि नीतिमार्गे / पुण्याधिकैः सा ह्यवभर्त्स्यमाना पर्येत्यमर्षादिव तद्विपक्षान् // Jम्_६.११ //
274 SK दुःखप्रतिष्ठादयशो ऽनुबद्धादपुण्यमार्गादुपरम्य तस्मात् / श्रीमत्सु सौख्योदयसाधनेषु पुण्यप्रसङ्गेषु मतिं कुरुध्वम् // Jम्_६.१२ //
275 SK ते तथेत्यस्यानुशासनां प्रतिगृह्याभिवाद्य प्रदक्षिणीकृत्य चैनं स्वान्स्वानालयानभिजग्मुः / अचिरगतेषु च तेषु सहायेषु स महात्मा चिन्तामापेदे /
276 SK अतिथेरभ्युपेतस्य संमानं येन तेन वा / विधातुं शक्तिरस्त्येषामत्र शोच्यो ऽहमेव तु // Jम्_६.१३ //
277 SK अस्मद्दन्ताग्रविच्छिन्नाः परितिक्तास्तृणाङ्कराः / शक्या नातिथये दातुं सर्वथा धिगशक्तिताम् // Jम्_६.१४ //
278 SK इत्यसामर्थ्यदीनेन को न्वर्थो जीवितेन मे / आनन्दः शोकतां यायाद्यस्यैवमतिथिर्मम // Jम्_६.१५ //
279 SK तत्कुत्रेदानीमिदमतिथिपरिचर्यावैगुण्ये निःसारं शरीरकमुत्सृज्यमानं कस्यचिदुपयोगाय स्यादिति विमृशन्स महात्मा स्मृतिं प्रतिलेभे / अये /
280 SK स्वाधीनसुलभमेतन्निरवद्यं विद्यते ममैव खलु / अतिथिजनप्रतिपूजनसमर्थरूपं शरीरधनम् // Jम्_६.१६ //
282 SK समधिगतमिदं मयातिथेयं हृदय विमुञ्च यतो विषाददैन्यम् / समुपनतमनेन सत्करिष्याम्यहमतिथिप्रणयं शरीरकेण // Jम्_६.१७ //
283 SK इति विनिश्चत्य स महासत्त्वः परममिव लाभमधिगम्य परमप्रीतमनास्तत्रावतस्थेः /
284 SK वितर्कातिशये तस्य हृदये प्रविजृम्भिते / आविश्चक्रे प्रसादश्च प्रभावश्च दिवौकसाम् // Jम्_६.१८ //
285 SK ततः प्रहर्षादिव साचला चला मही बभूवानिभृतार्णवांशुका / वितस्तनुः खे सुरदुन्दुभिस्वना दिशः प्रसादाभरणाश्चकाशिरे // Jम्_६.१९ //
286 SK प्रसक्तमन्दस्तनिताः प्रहासिनस्तडित्पिनद्धाश्च घनाः समन्ततः / परस्पराश्लेषविकीर्णरेणुभिः प्रसक्तमेनं कुसुमैरवाकिरन् // Jम्_६.२० //
287 SK समुद्वहन्धीरगतिः समीरणः सुगन्धि नानाद्रुमपुष्पजं रजः / मुदा प्रविद्धैरविभक्तभक्तिभिस्तमर्चयामास कृशांशुकैरिव // Jम्_६.२१ //
288 SK तदुपलभ्य प्रमुदितविस्मितमनोभिर्देवताभिः समन्ततः परिकीर्त्यमानं तस्य वितर्काद्भूतं शक्रो देवेन्द्रः समापूर्यमाणविस्मयकौतूहलेन मनसा तस्य महासत्त्वस्य भावजिज्ञासया द्वितीये ऽहनि गगनतलमध्यमभिलङ्घमाने पटुतरकिरणप्रभावे सवितरि प्रस्फुलितमरीचिजालवसनासु भास्वरातपविसरावगुण्ठितास्वनालोकनक्षमासु दिक्षु संक्षिप्यमाणच्छायेष्वभिवृद्धचीरीविरावोन्नादितेषु वनान्तरेषु विच्छिद्यमानपक्षिसंपातेषु धर्मक्लमापीतोत्साहेष्वध्वगेषु शक्रो देवानामधिपतिर्ब्राह्मणरूपो भूत्वा मार्गप्रनष्ट इव क्षुत्तर्षश्रमविषाददीनकण्ठः सस्वरं प्ररुदन्नातिदूरे तेषां विचुक्रोश /
289 SK एकं सार्थात्परिभ्रष्टं भ्रमन्तं गहने वने / क्षुच्छ्रमक्लान्तदेहं मां त्रातुमर्हन्ति साधवः // Jम्_६.२२ //
290 SK मार्गामार्गज्ञाननिश्चेतनं मां दिक्संमोहात्क्वापि गच्छन्तमेकम् / कान्तारे ऽस्मिन्धर्मतर्षक्लमार्तं मा भैः शब्दैः को नु मां ह्लादयेत // Jम्_६.२३ //
291 SK अथ ते महासत्त्वास्तस्य तेन करुणेनाक्रन्दितशब्देन समाकम्पितहृदयाः ससंभ्रमा द्रुततरगतयस्तं देशमभिजग्मुः / मार्गप्रनष्टाध्वगदीनदर्शनं चैनमभिसमीक्ष्य समभिगम्योपचारपुरःसरं समाश्वासयन्त ऊचुः -
292 SK कान्तारे विप्रनष्टो ऽहमित्यलं विभ्रमेण ते / स्वस्य शिष्यगणस्येव समीपे वर्तसे हि नः // Jम्_६.२४ //
293 SK तदद्य तावदस्माकं परिचर्यापरिग्रहात् / विधायानुग्रहं सौम्य श्चो गन्तासि यथेप्सितम् // Jम्_६.२५ //
294 SK अथोद्रस्तस्य तूष्णींभावादनुमतमुपनिमन्त्रणमवेत्य हर्षसंभ्रमत्वरितगतिः सप्त रोहितमत्स्यान्समुपनीयावोचदेनम् -
295 SK मीनारिभिर्विस्मरणोज्झिता वा त्रासोत्प्लुता वा स्थलमभ्युपेताः / खेदप्रसुप्ता इव सप्त मत्स्या लब्धा मयैतान्निवसेह भुक्त्वा // Jम्_६.२६ //
296 SK अथ शृगालो ऽप्येनं यथोपलब्धमन्नजातमुपसंहृत्य प्रणामपुरःसरं सादरमित्युवाच -
297 SK एका च गोधा दघिभाजनं च केनापि संत्यक्तमिहाध्यगच्छम् / तन्मे हितावेक्षितयोपयुज्य वने ऽस्तु ते ऽस्मिन्गुणवास वासः // Jम्_६.२७ //
298 SK इत्युक्त्वा परमप्रीतमनास्तदस्मै समुपजहार /
299 SK अथ वानरः परिपाकगुणादुपजातमार्दवानि मनःशिलाचूर्णरञ्जितानीवातिपिञ्जराण्यतिरक्तबन्धनमूलानि पिण्डीगतान्याम्रफलान्यादाय साञ्जलिप्रग्रहमेनमुवाच -
300 SK आम्राणि पक्वान्युदकं मनोज्ञं छाया च सत्संगमसौख्यशीता / इत्यस्ति मे ब्रह्मविदां वरिष्ठ भुक्त्वैतदत्रैव तवास्तु वासः // Jम्_६.२८ //
301 SK अथ शशः समुपसृत्यैनमुपचारक्रियानन्तरं सबहुमानमुदीक्षमाणः स्वेन शरीरेणोपनिमन्त्रयामास -
302 SK न सन्ति मुद्गा न तिला न तण्डुला वने विवृद्धस्य शशस्य केचन / शरीरमेतत्त्वनलाभिसंस्कृतं ममोपयुज्याद्य तपोवने वस // Jम्_६.२९ //
303 SK यदस्ति यस्येप्सितसाधनं धनं स तन्नियुङ्क्ते ऽर्थिसमागमोत्सवे / न चास्ति देहादधिकं च मे धनं प्रतीच्छ सर्वस्वमिदं यतो मम // Jम्_६.३० //
305 SK अन्यस्यापि वधं तावत्कुर्यादस्मद्विधः कथम् / इति दर्शितसौहार्दे कथा कैव भवद्विधे // Jम्_६.३१ //
306 SK शश उवाच - उपपन्नरूपमिदमासन्नानुक्रोशे ब्राह्मणे / तदिहैव तावद्भवानास्तामस्मदनुग्रहापेक्षया यावत्कुतश्चिदात्मानुग्रहोपायमासादयामीति / अथ शक्रो देवानामिन्द्रस्तस्य भावमवेत्य तप्ततपनीयवर्णं स्फुरत्प्रतनुज्वालं विकीर्यमाणविस्फुलिङ्गप्रकरं निर्धूममङ्गारराशिमभिनिर्ममे / अथ शशः समन्ततो ऽनुविलोकयंस्तमग्निस्कन्धं ददर्श / दृष्ट्वा च प्रीतमनाः शक्रमुवाच - समधिगतो ऽयं मयात्मानुग्रहोपायः / तदस्मच्छरीरोपयोगात्सफलामनुग्रहाशां मे कर्तुंमर्हसि / पश्य महाब्राह्मण / देयं च दित्साप्रवणं च चित्तं भवद्विधेनातिथिना च योगः / नावाप्तुमेतद्धि सुखेन शक्यं तत्स्यादमोघं भवदाश्रयान्मे // Jम्_६.३२ //
307 SK इत्यनुनीय स महात्मा संमाननादरादतिथिप्रियतया चैनमभिवाद्य,
308 SK ततः स तं वह्निमभिज्वलन्तं निधिं धनार्थी सहसैव दृष्ट्वा / परेण हर्षेण समारुरोह तोयं हसत्पद्ममिवैकहंसः // Jम्_६.३३ //
309 SK तद्दृष्ट्वा परमविस्मयावर्जितमतिर्देवानामधिपतिः स्वमेव वपुरास्थाय दिव्यकुसुमवर्षपुरःसरीभिर्मनःश्रुतिसुखाभिर्वाग्भिरभिपूज्य तं महासत्त्वं कमलपलाशलक्ष्मीसमृद्धाभ्यां भासुराङ्गलीभूषणालंकृताभ्यां पाणिभ्यां स्वयमेव चैनं परिगृह्य त्रिदशेभ्यः संदर्शयामास / पश्यन्त्वत्रभवन्तस्त्रिदशालयनिवासिनो देवाः, समनुमोदन्तां चेदमतिविस्मयनीयं कर्मावदानमस्य महासत्त्वस्य /
310 SK त्यक्तं बतानेन यथा शरीरं निःशङ्कमद्यातिथिवत्सलेन / निर्माल्यमप्येवमकम्पमाना नालं परित्यक्तुमधीरसत्त्वाः // Jम्_६.३४ //
311 SK जातिः क्वेयं तद्विरोधि क्व चेदं त्यागौदार्यं चेतसः पाटवं च / विस्पष्टो ऽयं पुण्यमन्दादराणां प्रत्यादेशो देवतानां नृणां च // Jम्_६.३५ //
312 SK अहो बत गुणाभ्यासवासितास्य यथा मतिः / अहो सद्वृत्तवात्सल्यं क्रियौदार्येण दर्शितम् // Jम्_६.३६ //
313 SK अथ शक्रस्तत्कर्मातिशयविख्यापनार्थं लोकहितावेक्षी शशबिम्बलक्षणेन वैजयन्तस्य प्रासादवरस्य सुधर्मायाश्च देवसभायाः कूटागारकर्णिके चन्द्रमण्डलं चाभ्यलंचकार /
314 SK सम्पूर्णे ऽद्यापि तदिदं शशबिम्बं निशाकरे / छायामयमिवादर्शे राजते दिवि राजते // Jम्_६.३७ //
315 SK ततः प्रभृति लोकेन कुमुदाकरहासनः / क्षणदातिलकश्चन्द्रः शशाङ्क इति कीर्त्यते // Jम्_६.३८ //
316 SK ते ऽप्युद्रशृगालवानरास्ततश्च्युत्वा देवलोक उपपन्नाः कल्याणमित्रं समासाद्य //
317 SK तदेवं तिर्यग्गतानामपि महासत्त्वानां शक्त्यनुरूपा दानप्रवृत्तिर्दृष्टा / केन नाम मनुष्यभूतेन न दातव्यं स्यात्? तथा तिर्यग्गता अपि गुणवात्सल्यात् संपूज्यन्ते सद्भिरिति गुणेष्वादरः कार्य इत्येवमप्युन्नेयम् /
318 SK इति शशजातकं षष्ठम् /
320 SK तपोवनस्थानामप्यलंकारस्त्यागशौर्यं प्रागेव गृहस्थानामिति / तद्यथानुश्रूयते -
321 SK बोधिसत्त्वभूतः किलायं भगवांल्लोकहितार्थं संसाराध्वनि वर्तमानश्चारित्रगुणविशुद्ध्यभिलक्षितं क्षितितलतिलकभूतमन्यतमं महद् ब्राह्मणकुलं गगनतलमिव शरदमलपरिपूर्णमण्डलश्चन्द्रमाः समुत्पतन्नेवाभ्यलंचकार / स यथाक्रमं श्रुतिस्मृतिविहितानवाप्य जातकर्मादीन् संस्कारानधीत्य साङ्गान्वेदान्कृत्स्नं च कल्पं व्याप्य विद्यायशसा मनुष्यलोकं गुणप्रियैर्दातृभिरभ्यर्थ्य प्रतिगृह्यमाणविभवत्वात् परां धनसमृद्धिमभिजगाम /
322 SK स बन्धुमित्राश्रितदीनवर्गान्संमाननीयानतिथीन्गुरूंश्च / प्रह्लादयामास तथा समृद्ध्या देशान्महामेध इवाभिवर्षन् // Jम्_७.१ //
323 SK विद्वत्तया तस्य यशः प्रकाशं तत्त्यागशौर्यादधिकं चकाशे / निशाकरस्येव शरद्विशुद्धं समग्रशोभाधिककान्ति बिम्बम् // Jम्_७.२ //
324 SK अथ स महात्मा कुकार्यव्यासङ्गदोषसंबाधं प्रमादास्पदभूतं धनार्जनरक्षणप्रसङ्गव्याकुलमुपशमविरोधिव्यसनशरशतलक्ष्यभूतमपर्यन्तकर्मान्तानुष्ठानपरिग्रहश्रममतृप्तिजनकं कृशास्वादं गार्हस्थ्यमवेत्य तद्दोषविविक्तसुखां च धर्मप्रतिपत्त्यनुकूलां मोक्षधर्मारम्भाधिष्ठानभूतां प्रव्रज्यामनुपश्यन् महतीमपि तां धनसमृद्धिमपरिक्लेशाधिगतां लोकसंनतिमनोहरां तृणवदपास्य तापसप्रव्रज्याविनयनियमपरो बभूव / प्रव्रजितमपि तं महासत्त्वं यशःप्रकाशत्वात् पूर्वसंस्तवानुस्मरणात् संभावितगुणत्वात् प्रशमाभिलक्षितत्वाच्च श्रेयो ऽर्थी जनस्तद्गुणगणावर्जितमतिस्तथैवाभिजगाम / स तं गृहिजनसंसर्गं प्रविवेकसुखप्रमाथिनं व्यासङ्गविक्षेपान्तरायकरमबहुमन्यमानः प्रविवेकाभिरामतया दक्षिणसमुद्रमध्यावगाढमिन्द्रनीलभेदाभिनीलवर्णैरनिलबलाकलितैरूर्मिमालाविलासैराच्छुरितपर्यन्तं सितसिकतास्तीर्णभूमिभागं पुष्पफलपल्लवालंकृतविटपैर्नानातरुभिरुपशोभितं विमलसलिलाशयप्रतीरं काराद्वीपमध्यासनादाश्रमपदश्रिया संयोजयामास /
325 SK सुतनुस्तपसा तत्र स रेजे तपसातनुः / नवचन्द्र इव व्योम्नि कान्तत्वेनाकृशः कृशः // Jम्_७.३ //
326 SK प्रशमनिभृतचेष्टितेन्द्रियो व्रतनियमैकरसो वने वसन् / मुनिरिति तनुबुद्धिशक्तिभिर्मृगविहगैरपि सो ऽन्वगम्यत // Jम्_७.४ //
327 SK अथ स महात्मा प्रदानोचितत्वात्तपोवने ऽपि निवसन् कालोपनतमतिथिजनं यथासंनिहितेन मूलफलेन शुचिना सलिलेन हृद्याभिश्च स्वागताशीर्वादपेशलाभिस्तपस्विजनयोग्याभिर्वाग्भिः संपूजयति स्म / अतिथिजनोपयुक्तशेषेण च यात्रामात्रार्थमभ्यवहृतेन तेन वन्येनाहारेण वर्तयामास /
328 SK तस्य तपःप्रकर्षात् प्रविसृतेन यशसा समावर्जितहृदयः शक्रो देवेन्द्रः स्थैर्यजिज्ञासया तस्य महासत्त्वस्य तस्मिन्नरण्यायतने तापसजनोपभोगयोग्यं मूलफलमनुपूर्वेण सर्वमन्तर्धापयामास / बोधिसत्त्वो ऽपि ध्यानप्रसृतमानसतया संतोषपरिचयादनधिमूर्च्छितत्वादाहारे स्वशरीरे चानभिष्वङ्गान्न तमन्तर्धानहेतुं मनसि चकार / स तरुणानि तरुपर्णान्यधिश्राय तैराहारप्रयोजनमभिनिष्पाद्यातृष्यमाण आहारविशेषानुत्सुकः स्वस्थमतिस्तथैव विजहार /
329 SK न क्वचिद् दुर्लभा वृत्तिः संतोषनियतात्मनाम् / कुत्र नाम न विद्यन्ते तृणपर्णजलाशयाः // Jम्_७.५ //
330 SK विस्मिततरमनास्तु शक्रो देवेन्द्रस्तस्य तेनावस्थानेन स्थिरतरगुणसंभावनस्तत्परीक्षानिमित्तं तस्मिन्नरण्यवनप्रदेशे निदाघकालानिलवत्समग्रं वीरुत्तृणतरुगणं पर्णसमृद्ध्या वियोजयामास / अथ बोधिसत्त्वः प्रत्यार्द्रतराणि शीर्णपर्णानि समाहृत्य तैरुदकस्विन्नैरनुत्कण्ठितमतिर्वर्तमानो ध्यानसुखप्रीणितमनास्तत्रामृततृप्त इव विजहार /
331 SK अविस्मयः श्रुतवतां समृद्धानाममत्सरः / संतोषश्च वनस्थानां गुणशोभाविधिः परः // Jम्_७.६ //
332 SK अथ शक्रस्तेन तस्याद्भुतरूपेण संतोषस्थैर्येण समभिवृद्धविस्मयः सामर्ष इव तस्य महासत्त्वस्य व्रतकाले हुताग्निहोत्रस्य परिसमाप्तजप्यस्यातिथिजनदिदृक्षया व्यवलोकयतो ब्राह्मणरूपमास्थायातिथिरिव नाम भूत्वा पुरस्तात्प्रादुरभूत् / स प्रीतमनाः समभिगम्य चैनं बोधिसत्त्वः स्वागतादिप्रियवचनपुरःसरेणाहारकालनिवेदनेनोपनिमन्त्रयामास / तूष्णींभावात्तु तस्याभिमतमुपनिमन्त्रणमवेत्य स महात्मा
333 SK दित्साप्रहर्षविकसन्नयनास्यशोभः स्निग्धैर्मनःश्रुतिसुखैरभिनन्द्य वाक्यैः / कृच्छ्रोपलब्धमपि तच्छ्रपणं समस्तं तस्मै ददौ स्वयमभूच्च मुदेव तृप्तः // Jम्_७.७ //
334 SK स तथैव प्रविश्य ध्यानागारं तेनैव प्रीतिप्रामोद्येन तमहोरात्रमतिनामयामास //
335 SK अथ शक्रस्तस्य द्वितीये तृतीये चतुर्थे पञ्चमे ऽपि चाहनि तथैव व्रतकाले पुरतः प्रादुरभूत् / सो ऽपि चैनं प्रमुदिततरमनास्तथैव प्रतिपूजयामास /
336 SK दानाभिलाषः साधूनां कृपाभ्यासविवर्धितः / नैति संकोचदीनत्वं दुःखैः प्राणान्तिकैरपि // Jम्_७.८ //
337 SK अथ शक्रः परमविस्मयाविष्टहृदयस्तपःप्रकर्षादस्य प्रार्थनामात्रापेक्षं त्रिदशपतिलक्ष्मीसंपर्कमवगम्य समुत्पतितभयाशङ्कः स्वमेव वपुर्दिव्याद्भुतशोभमभिप्रपद्य तपःप्रयोजनमेनं पर्यपृच्छत् /
338 SK बन्धून्प्रियानश्रुमुखान्विहाय परिग्रहान्सौख्यपरिग्रहांश्च / आशाङ्कुशं नु व्यवसृज्य कुत्र तपःपरिक्लेशमिमं श्रितो ऽसि // Jम्_७.९ //
339 SK सुखोपपन्नान्परिभूय भोगांच्छोकाकुलं बन्धुजनं च हित्वा / न हेतुनाल्पेन हि यान्ति धीराः सुखोपरोधीनि तपोवनानि // Jम्_७.१० //
340 SK वक्तव्यमेतन्मयि मन्यसे चेत्कौतूहलं नो ऽर्हसि तद्विनेतुम् / किं नाम तद्यस्य गुणप्रवेशवशीकृतैवं भवतो ऽपि बुद्धिः // Jम्_७.११ //
341 SK बोधिसत्त्व उवाच - श्रूयतां मार्ष यन्निमित्तो ऽयं मम प्रयत्नः /
342 SK पुनः पुनर्जातिरतीव दुःखं जराविपद्वयाधिविरूपताश्च / मर्तव्यमित्याकुलता च बुद्धेर्लोकानतस्त्रातुमिति स्थितो ऽस्मि // Jम्_७.१२ //
343 SK अथ शक्रो देवेन्द्रो नायमस्मद्गतां श्रियमभिकामयत इति समाश्वासितहृदयः सुभाषितेन तेन चाभिप्रसादितमतिर्युक्तमित्यभिपूज्य तदस्य वचनं वरप्रदानेन बोधिसत्त्वमुपनिमन्त्रयामास -
344 SK अत्र ते तापसजनप्रतिरूपे सुभाषिते / ददामि काश्यप वरं तद्वृणीष्व यदिच्छसि // Jम्_७.१३ //
345 SK अथ बोधिसत्त्वो भवभोगसुखेष्वनास्थः प्रार्थनामेव दुःखमवगच्छन्सात्मीभूतसंतोषः शक्रमुवाच -
346 SK दातुमिच्छसि चेन्मह्यमनुग्रहकरं वरम् / वृणे तस्मादहमिमं देवानां प्रवरं वरम् // Jम्_७.१४ //
347 SK दारान्मनो ऽभिलषितांस्तनयान्प्रभुत्व मर्थानभीप्सितविशालतरांश्च लब्ध्वा / येनाभितप्तमतिरेति न जातु तृप्तिं लोभानलः स हृदयं मम नाभ्युपेयात् // Jम्_७.१५ //
348 SK अथ शक्रस्तया तस्य संतोषप्रवणमानसतया सुभाषिताभिव्यञ्जितया भूयस्या मात्रया संप्रसादितमतिः पुनर्बोधिसत्त्वं साधु साध्विति प्रशस्य वरेणोपच्छन्दयामास -
349 SK अत्रापि ते मुनिजनप्रतिरूपे सुभाषिते / प्रतिप्राभृतवत्प्रीत्या प्रयच्छाम्यपरं वरम् // Jम्_७.१६ //
350 SK अथ बोधिसत्त्वः क्लेशवियोगस्यैव दुर्लभतामस्य प्रदर्शयन्वरयाच्ञापदेशेन पुनरप्यस्मै धर्मं देशयासास -
351 SK ददासि मे यदि वरं सद्गुणावास वासव / वृणे तेनेममपरं देवेन्द्रानवरं वरम् // Jम्_७.१७ //
352 SK अर्थादपि भ्रंशमवाप्नुवन्ति वर्णप्रसादाद्यशसः सुखाच्च / येनाभिभूता द्विषतेव सत्त्वाः सद्वेषवह्निर्मम दूरतः स्यात् // Jम्_७.१८ //
353 SK तच्छ्रुत्वा शक्रो देवानामधिपतिर्विस्मयवशात् साधु साध्वित्येनमभिप्रशस्य पुनरुवाच -
354 SK स्थाने प्रव्रजितान्कीर्तिरनुरक्तेव सेवते / तद्वरं प्रतिगृह्णीष्व मदत्रापि सुभाषिते // Jम्_७.१९ //
355 SK अथ बोधिसत्त्वः क्लेशप्रातिकूल्यात् क्लिष्टसत्त्वसंपर्कविगर्हां व्रतिसंप्रतिग्रहापदेशेन कुर्वन्नित्युवाच -
356 SK शृणुयामपि नैव जातु बालं न च वीक्षेय न चैनमालपेयम् / न च तेन निवासखेददुःखं समुपेयां वरमित्यहं वृणे त्वाम् // Jम्_७.२० //
358 SK अनुकम्प्यो विशेषेण सतामापद्गतो ननु / आपदां मूलभूतत्वाद्बाल्यं चाधममिष्यते // Jम्_७.२१ //
359 SK करुणाश्रयभूतस्य बालस्यास्य विशेषतः / कृपालुरपि सन्कस्मान्न दर्शनमपीच्छसि // Jम्_७.२२ //
360 SK बोधिसत्त्व उवाच - अगत्या मार्ष / पश्यत्वत्रभवान् /
361 SK कथंचिदपि शक्येत यदि बालश्चिकित्सितुम् / तद्धितोद्योगनिर्यत्नः कथं स्यादिति मद्विधः // Jम्_७.२३ //
362 SK इत्थं चैष चिकित्साप्रयोगस्यापात्रमिति गृह्यताम् /
363 SK सुनयवदनयं नयत्ययं परमपि चात्र नियोक्तुमिच्छति / अनुचितविनयार्जवक्रमो हितमपि चाभिहितः प्रकुप्यति // Jम्_७.२४ //
364 SK इति पण्डितमानमोहदग्धे हितवादिष्वपि रोषरूक्षभावे / रभसे विनयाभियोगमान्द्याद्वद कस्तत्र हितार्पणाभ्युपायः // Jम्_७.२५ //
365 SK इत्यगत्या सुरश्रेष्ठ करुणाप्रवणैरपि / बालस्याद्रव्यभूतस्य न दर्शनमपीष्यते // Jम्_७.२६ //
366 SK तच्छ्रुत्वा शक्रः साधु साध्वित्येनमभिनन्द्य सुभाषिताभिप्रसादितमतिः पुनरुवाच -
367 SK न सुभाषितरत्नानामर्घः कश्चन विद्यते / कुसुमाञ्जलिवत्प्रीत्या ददाम्यत्रापि ते वरम् // Jम्_७.२७ //
368 SK अथ बोधिसत्त्वः सर्वावस्थासुखतां सज्जनस्य प्रदर्शयञ्छक्रमुवाच -
369 SK वीक्षेय धीरं शृणुयां च धीरं स्यान्मे निवासः सह तेन शक्र / संभाषणं तेन सहैव भूयादेतं वरं देववर प्रयच्छ // Jम्_७.२८ //
370 SK शक्र उवाच - अतिपक्षपात इव खलु ते धीरं प्रति / तदुच्यतां तावत् /
371 SK किं नु धीरस्तवाकार्षीद्वद काश्यप कारणम् / अधीर इव येनासि धीरदर्शनलालसः // Jम्_७.२९ //
372 SK अथ बोधिसत्त्वः सज्जनमाहात्म्यमस्य प्रदर्शयन्नुवाच - श्रूयतां मार्ष, येन मे धीरदर्शनमेवाभिलषते मतिः /
373 SK व्रजति गुणपथेन च स्वयं नयति परानपि तेन वर्त्मना / वचनमपि न रूक्षमक्षमां जनयति तस्य हितोपसंहितम् // Jम्_७.३० //
374 SK अशठविनयभूषणः सदा हितमिति लम्भयितुं स शक्यते / इति मम गुणपक्षपातिनी नमति मतिर्गुंणपक्षपातिनि // Jम्_७.३१ //
375 SK अथैनं शक्रः साधूपपन्नरूपमिदमिति चाभिनन्द्य समभिवृद्धप्रसादः पुनर्वरेणोपनिमन्त्रयामास -
376 SK कामं संतोषसात्मत्वात्सर्वत्र कृतमेव ते / मदनुग्रहबुद्ध्या तु ग्रहीतुं वरमर्हसि // Jम्_७.३२ //
377 SK उपकाराशया भक्त्या शक्त्या चैव समस्तया / प्रयुक्तस्यातिदुःखो हि प्रणयस्याप्रतिग्रहः // Jम्_७.३३ //
378 SK अथ तस्य परामुपकर्तुकामतामवेक्ष्य बोधिसत्त्वस्तत्प्रियहितकामतया प्रदानानुतर्षप्राबल्यमस्मै प्रकाशयन्नुवाच -
379 SK त्वदीयमन्नं क्षयदोषवर्जितं मनश्च दित्साप्रतिपत्तिपेशलम् / विशुद्धशीलाभरणाश्च याचका मम स्युरेतां वरसंपदं वृणे // Jम्_७.३४ //
380 SK शक्र उवाच - सुभाषितरत्नाकरः खल्वत्रभवान् / अपि च -
381 SK यदभिप्रार्थितं सर्वं तत्तथैव भविष्यति / ददामि च पुनस्तुभ्यं वरमस्मिन्सुभाषिते // Jम्_७.३५ //
383 SK वरं ममानुग्रहसंपदाकरं ददासि चेत्सर्वदिवौकसां वर / न माभ्युपेयाः पुनरित्यभिज्वलन्निमं वरं दैन्यनिसूदनं वृणे // Jम्_७.३६ //
384 SK अथ शक्रः सामर्षवदेनमतिविस्मयमान उवाच - मा तावद्भोः
385 SK जपव्रतेज्याविधिना तपःश्रमैर्जनो ऽयमन्विच्छति दर्शनं मम / भवान्पुनर्नेच्छति केन हेतुना वरप्रदित्साभिगतस्य मे सतः // Jम्_७.३७ //
386 SK बोधिसत्त्व उवाच - अलं ते मन्युप्रणयेन / समनुनेष्याम्यहमत्रभवन्तं देवराज न ह्यसावदाक्षिण्यानुवृत्तिर्न चाप्यबहुमानविचेष्टितमसमवधानकाम्यता वा भवति भवताम् / किं तु
387 SK निरीक्ष्य ते रूपममानुषाद्भुतं प्रसन्नकान्ति ज्वलितं च तेजसा / भवेत्प्रमादस्तपसीति मे भयं प्रसादसौम्यादपि दर्शनात्तव // Jम्_७.३८ //
388 SK अथ शक्रः प्रणम्य प्रदक्षिणीकृत्य चैनं तत्रैवान्तर्दधे / प्रभातायां च रजन्यां बोधिसत्त्वः शक्रप्रभावोपहृतं प्रभूतं दिव्यमन्नपानं ददर्श / शक्रोपनिमन्त्रणाहूतानि चानेकानि प्रत्येकबुद्धशतानि व्यायताबद्धपरिकरांश्च परिवेषणसज्जाननेकांश्च देवकुमारान् /
389 SK तेनान्नपानविधिना स मुनिर्महर्षीन् संतर्पयन्मुदमुदारतरामवाप / वृत्त्या च तापसजनोचितयाभिरेमे ध्यानाप्रमाणनियमेन शमेन चैव // Jम्_७.३९ //
390 SK तदेवं तपोवनस्थानामप्यलंकारस्त्यागशौर्यं प्रागेव गृहस्थानामिति त्यागशौर्येणालंकर्तव्य एवात्मा सत्पुरुषेणेति / दानपतिसंप्रहर्षणायामप्युन्नेयं लोभद्वेषमोहबाल्यविगर्हायां कल्याणमित्रसंपर्कगुणे संतोषकथायां तथागतमाहात्म्ये च / एवं पूर्वजन्मस्वपि सुभाषितरत्नातिशयाकरः स भगवान् प्रागेव संबुद्ध इति /
391 SK इत्यगस्त्यजातकं सप्तमम् /
393 SK न परदुःखातुराः स्वसुखमवेक्षन्ते महाकारुणिकाः / तद्यथानुश्रूयते -
394 SK बोधिसत्त्वः किल स्वमाहात्म्यकारुण्याभिप्रपन्नो जगत्परित्राणाध्याशयः, प्रदानदमनियमसौरत्यादिभिर्लोकानुग्रहानुकूलैर्गुणातिशयैरभिवर्धमानः सर्वसत्त्वमैत्रमना मैत्रबलो नाम राजा बभूव /
395 SK दुःखं सुखं वा यदभूत्प्रजानां तस्यापि राज्ञस्तदभूत्तथैव / अतः प्रजारक्षणदक्षिणो ऽसौ शस्त्रं च शास्त्रं च पराममर्श // Jम्_८.१ //
396 SK नरेन्द्रचूडाधृतशासनस्य तस्य त्वलङ्कारवदास शस्त्रम् / विस्पष्टरूपं ददृशे च शास्त्रं नयेषु लोकस्य हितोदयेषु // Jम्_८.२ //
397 SK विनिग्रहप्रग्रहयोः प्रवृत्तिर्धर्मोपरोधं न चकार तस्य / हिताशयत्वान्नयनैपुणाच्च परीक्षकस्येव पितुः प्रजासु // Jम्_८.३ //
398 SK तस्यैवं धर्मेण प्रजाः पालयतः सत्यत्यागोपशमप्रज्ञादिभिश्च परहितपरिणामनात्सविशेषोदात्तक्रमैर्बोधिसम्भारविधिभिरभिवर्धमानस्य कदाचित्कस्मिंश्चिदपराधे यक्षाणामधिपतिना स्वविषयात्प्रव्राजिता ओजोहाराः पञ्च यक्षाः परवधदक्षास्तद्विषयमभिजग्मुः / व्यपगतसर्वोपद्रवत्वाच्च नित्यप्रवृत्तविविधोत्सवं परया सम्पदा समुपेतरूपं प्रमुदिततुष्टपुष्टजनमभिसमीक्ष्य तद्विषयं तन्निवासिनां पुरुषाणामोजांस्यपहर्तुं तेषामभिलाषो बभूव /
399 SK ते परेणापि यत्नेन सम्प्रवृत्ताः स्वकर्मणि / नैव तद्विषयस्थानां हर्तुमोजः प्रसेहिरे // Jम्_८.४ //
400 SK तस्य प्रभावातिशयान्नृपस्य ममेति यत्रैव बभूव बुद्धिः / सैवास्य रक्षा परमास तस्मादोजांसि हर्तुं न विषेहिरे ते // Jम्_८.५ //
401 SK यदा च परमपि प्रयत्नं कुर्वन्तो नैव शक्नुवन्ति स्म कस्यचिद्विषयनिवासिनो जनस्यौजो ऽपहर्तुमथ तेषां परस्परमवेक्ष्यैतदभूत् / किं नु खल्विदं मार्षाः /
402 SK अस्मत्प्रभावप्रतिघातयोग्या विद्यातपःसिद्धिमया विशेषाः / न सन्ति चैषामथ चाद्य सर्वे व्यर्थाभिधानत्वमुपागताः स्मः // Jम्_८.६ //
403 SK अथ ते यक्षा ब्राह्मणवर्णमात्मानमभिनिर्माय समनुचरन्तो ददृशुः प्रत्यरण्यचरमन्यतमं गोपालकं सशाद्वले छायाद्रुममूले सोपानत्कं संनिषण्णं सपल्लवैर्वनतरुकुसुमैर्विरचितां मालामुद्वहन्तं दक्षिणतो विन्यस्तदण्डपरशुमेकाकिनं रज्जुवर्तनव्यापृतं प्रक्ष्वेडितविलासेन गायन्तमासीनम् / समुपेत्य चैनमूचुः - थथथददकाकाकाका / भो गवां संरक्षाधिकृत एवं विविक्ते निर्जनसम्पाते ऽस्मिन्नरण्ये विचरन्नेवमेकाकी कथं न बिभेषीति / स तानालोक्याब्रवीत् - कुतो वा भेतव्यमिति / यक्षा ऊचुः - किं त्वया न श्रूतपूर्वा यक्षराक्षसानां पिशाचानां वा निसर्गरौद्रा प्रकृतिरिति?
404 SK सहायमध्ये ऽपि हि वर्तमानो विद्यातपःस्वस्त्ययनैरुपेतः / येभ्यः कथञ्चित्परिमोक्षमेति शौर्यादवज्ञातभयो ऽपि लोकः // Jम्_८.७ //
405 SK तेभ्यो नृमेदःपिशिताशनेभ्यः कथं भयं ते ऽस्ति न राक्षसेभ्यः / विविक्तगम्भीरभयानकेषु सहायहीनस्य वनान्तरेषु // Jम्_८.८ //
406 SK इत्युक्ते स गोपालकः प्रहस्यैनानुवाच -
407 SK जनः स्वस्त्ययनेनायं महता परिपाल्यते / देवेन्द्रेणाप्यशक्यो ऽयं किं पुनः पिशिताशनैः // Jम्_८.९ //
408 SK तेन गेह इवारण्ये रात्रावपि यथा दिवा / जनान्त इव चैको ऽपि निर्भयो विचराम्यहम् // Jम्_८.१० //
409 SK अथैनं ते यक्षाः कुतूहलप्राबल्यात्सादरमुत्साहयन्त इवोचुः - तत्कथय कथय तावद्भद कीदृशो ऽयं युष्माकं स्वस्त्ययनविशेष इति / स तान्प्रहसन्नुवाच - श्रूयतां यादृशो ऽयमस्माकमत्यद्भूतः स्वस्त्ययनविशेषः /
410 SK कनकगिरिशिलाविशालवक्षाः शरदमलेन्दुमनोज्ञवक्त्रशोभः / कनकपरिघपीनलम्बबाहुर्वृषभनिभेक्षणविक्रमो नरेन्द्रः // Jम्_८.११ //
411 SK ईदृशो ऽस्माकं स्वस्त्ययनविशेषः / इत्युक्त्वा सामर्षविस्मयस्तान् यक्षानवेक्षमाणः पुनरुवाच - आश्चर्यं बतेदम् /
412 SK एवं प्रकाशो नृपतिप्रभावः कथं नु वः श्रोत्रपथं न यातः / अत्यद्भुतत्वादथवा श्रुतो ऽपि भवत्सु विप्रत्ययतो न रूढः // Jम्_८.१२ //
413 SK शङ्के गुणान्वेषणविक्लवो वा देशी जनो ऽसावकुतूहलो वा / विवर्जितो भाग्यपरिक्षयाद्वा कीर्त्या नरेन्द्रस्य यतो ऽभ्युपैत // Jम्_८.१३ //
414 SK तदस्ति वो भाग्यशेषं यत्तादृशाद्देशकान्तारादिहागताः स्थ / यक्षा ऊचुः - भद्रमुख कथय किंकृतो ऽयमस्य राज्ञः प्रभावो यदस्यामानुषा न प्रसहन्ते विषयवासिनं जनं हिंसितुमिति / गोपालक उवाच - स्वमाहात्म्याधिगतः प्रभावो ऽयमस्माकं महाराजस्य / पश्यत महाब्राह्मणाः
415 SK मैत्री तस्य बलं ध्वजाग्रशबलं त्वाचारमात्रं बलं नासौ वेत्ति रूषं न चाह परुषं सम्यक् च गां रक्षति / धर्मस्तस्य नयो न नीतिनिकृतिः पूजार्थमर्थः सताम् इत्याश्चर्यमयो ऽपि दुर्जनधनं गर्वं च नालम्बते // Jम्_८.१४ //
416 SK एवमादिगुणशतसमुदितो ऽयमस्माकं स्वामी / तेनास्य न प्रसहन्ते विषयनिवासिनं जनं हिंसितुमुपद्रवाः / अपि च / कियदहं वः शक्ष्यामि वक्तुम् / नृपतिगुणश्रवणकौतूहलैस्तु भवद्भिर्नगरमेव युक्तं प्रवेष्टुं स्यात् / तत्र हि भवन्तः स्वधर्मानुरागाद्व्यवस्थितार्यमर्यादं नित्यक्षेमसुभिक्षत्वात्प्रमुदितसमृद्धमनुद्धतोदात्तवेषमभ्यागतातिथिजनविशेषवत्सलं नृपतिगुणाक्षिप्तहृदयं तत्कीर्त्याश्रयाः स्तुतीर्मङ्गलमिव स्वस्त्ययनमिव च प्रहर्षादभ्यस्यन्तं जनं दृष्ट्वा राज्ञो गुणविस्तरमनुमास्यन्ते / सत्यां च गुणबहुमानोद्भावनायां तद्दिदृक्षया यूयमवश्यं तद्गुणप्रत्यक्षिणो भविष्यथेति /
417 SK अथ ते यक्षाः स्वप्रभावप्रतिघातात्तस्मिन्नाजनि सामर्षहृदया भावप्रयुक्तयापि युक्तया तया तद्गुणकथया नैव मार्दवमुपजग्मुः /
418 SK प्रायेण खलु मन्दानाममर्षज्वलितं मनः / यस्मिन्वस्तुनि तत्कीर्त्या तद्विशेषेण दह्यते // Jम्_८.१५ //
419 SK प्रदानप्रियतां तु समभिवीक्ष्य तस्य राज्ञस्ते यक्षास्तदपकारचिकीर्षवः समभिगम्य राजानं सन्दर्शनकाले भोजनमयाचन्त / अथ स राजा प्रमुदितमनास्तदधिकृतान्पुरुषान्समादिदेशक्षिप्रमभिरुचितं भोजनं ब्राह्मणेभ्यो दीयतामिति / अथ ते यक्षाः समुपहृतं राजार्हमपि भोजनं हरिततृणमिव व्याघ्रा नैव प्रत्यगृह्णन्नैवंविधं भोजनं वयमश्नीम इति / तच्छ्रुत्वा स राजा समभिगम्यैनानब्रवीत् - अथ कीदृशं भोजनं युष्माकमुपशेते? यावत्तादृशमन्विष्यतामिति / यक्षा ऊचुः -
420 SK प्रत्यग्रोष्माणि मांसानि नराणां रुधिराणि च / इत्यन्नपानं पद्माक्ष यक्षाणामक्षतव्रत // Jम्_८.१६ //
421 SK इत्युक्त्वा दंष्ट्राकरालवदनानि दीप्तपिङ्गल केकररौद्रनयनानि स्फुटितचिपिटविरूपघोणानि ज्वलदनलकपिलकेशश्मश्रूणि सजलजलधरान्धकाराणि विकृतभीषणानि स्वान्येव वपूंषि प्रत्यपद्यन्त / समभिवीक्ष्य चैनान्स राजापिशाचाः खल्विमे न मानुषास्तेनास्मदीयमन्नपानं नाभिलषन्तीति निश्चयमुपजगाम /
422 SK अथ तस्य नरेन्द्रस्य प्रकृत्या करुणात्मनः / भूयसी करुणा तेषु समभूच्छुद्धचेतसः // Jम्_८.१७ //
423 SK करुणैकतानहृदयश्च तान्यक्षाननुशोचन्नियतमीदृशमर्थं चिन्तयामास /
424 SK दयावतस्तावदिदमन्नपानं सुदुर्लभम् / प्रत्यहं च तदन्वेष्यं किन्नु दुःखमतः परम् // Jम्_८.१८ //
425 SK निर्दयस्याप्यशक्तस्य विघातैकरसः श्रमः / शक्तस्याप्यहिताभ्यासात् किंस्वित्कष्टतरं ततः // Jम्_८.१९ //
426 SK एवंविधाहारपरायणानां कारूण्यशून्याशिवमानसानाम् / प्रत्याहमेषां दहतां स्वमर्थं दुःखानि यास्यन्ति कदा नु नाशम् // Jम्_८.२० //
427 SK तत्कथमिदानीमहमेषामीदृशाहारसम्पादनादेकाहमपि तावत्परहिंसाप्राणविघातं कुर्याम्?
428 SK न हि स्मराम्यर्थितयागतानामाशाविपर्यासहतप्रभाणि / हिमानिलम्लापितपङ्कजानां समानदैन्यानि मुखानि कर्तुम् // Jम्_८.२१ //
430 SK स्वतः शरीरात्स्थिरपीवराणि दास्यामि मांसानि सशोणितानि / अतो ऽन्यथा को हि मम क्रमः स्यादित्यागतेष्वर्थिषु युक्तरूपः // Jम्_८.२२ //
431 SK स्वयंमृतानां हि निरूष्मकाणि भवन्ति मांसानि विशोणितानि / प्रियाणि चैषां न हि तानि सम्यग् बुभुक्षया पीडितविग्रहाणाम् // Jम्_८.२३ //
432 SK जीवतो ऽपि च कुतो ऽहमन्यस्मान्मांसमादास्ये मामभिगम्य चैते तथैव क्षुत्तर्षपरिक्षामनयनवदना निष्फलाशाप्रणयत्वादधिकतरविघातातुरमनसः कथं नाम प्रतियास्यन्ति? तदिदमत्र प्राप्तकालम् /
433 SK दुष्टव्रणस्येव सदातुरस्य कडे(ले)वरस्यास्य रुजाकरस्य / करोमि कार्यातिशयोपयोगादत्यर्थरम्यं प्रतिकारखेदम् // Jम्_८.२४ //
434 SK इति विनिश्चित्य स महात्मा प्रहर्षोद्गमस्फीतीकृतनयनवदनशोभः स्वं शरीरमुपदर्शयंस्तान्यक्षानुवाच -
435 SK अमूनि मांसानि सशोणितानि धृतानि लोकस्य हितार्थमेव / यद्यातिथेयत्वमुपेयुरद्य महोदयः सो ऽभ्युदयो मम स्यात् // Jम्_८.२५ //
436 SK अथ ते यक्षा जानन्तो ऽपि तस्य राज्ञस्तमध्याशयमत्यद्भुतत्वादश्रद्दधाना राजानमूचुः -
437 SK अर्थिनात्मगते दुःखे याच्ञादैन्येन दर्शिते / ज्ञातुमर्हति दातैव प्राप्तकालमतः परम् // Jम्_८.२६ //
438 SK अथ राजा - अनुमतमिदमेषामिति प्रमुदितमनाः सिरामोक्षणार्थं वैद्या आज्ञाप्यन्तामिति समादिदेश / अथ तस्य राज्ञो ऽमात्याः स्वमांसशोणितप्रदानव्यवसायमवेत्य सम्भ्रमामर्षव्याकुलहृदया व्यक्तमीदृशं कञ्चिदर्थं स्नेहवशादूचुः - नार्हति देवः प्रदानहर्षातिशयादनुरक्तानां प्रजानां हिताहितक्रममनवेक्षितुम् / न चैतदविदितं देवस्य / यथा -
439 SK यद्यत्प्रजानामहितोदयाय तत्तत्प्रियं मानद राक्षसानाम् / परोपरोधार्जितवृत्तितुष्टिरेवंस्वभावानघ जातिरेषाम् // Jम्_८.२७ //
440 SK सुखेष्वसक्तश्च बिभर्षि देव राज्यश्रमं लोकहितार्थमेव / स्वमांसदानव्यवसायमस्मात्स्वनिश्चयोन्मार्गमिमं विमुञ्च // Jम्_८.२८ //
441 SK असंशयं न प्रसहन्त एते त्वद्वीर्यगुप्तं नरदेव लोकम् / अनर्थपाण्डित्यहतास्तथा हि नयेन वाञ्छन्त्यनयं प्रजानाम् // Jम्_८.२९ //
442 SK मेदोवसाद्यैस्त्रिदशा मखेषु प्रीतिं हुताशाभिहुतैर्व्रजन्ति / सत्कारपूतं भवदीयमन्नं सम्पन्नमेषां किल नैव रुच्यम् // Jम्_८.३० //
443 SK कामं नास्मद्विधजनाधेयबुद्धयो देवपादाः / स्वकार्यानुरागस्त्वयमस्मानेवमुपचारपथाद् भ्रंशयति / पञ्चानाममीषामर्थे सकलं जगदनर्थीकर्तव्यमिति को ऽयं धर्ममार्गो देवस्य? अपि च / किंकृतेयमस्मास्वेवं निष्प्रणयता, केन वास्माकं स्वाम्यर्थे विनियोज्यमानानि विनिगूढपूर्वाणि मांसशोणितानि यदपरिक्षीणेष्वेवामीषु स्वानि देवो दातुमिच्छतीति / अथ स राजा तानमात्यानुवाच -
444 SK संविद्यमानं नास्तीति ब्रूयादस्मद्विधः कथम् / न दास्यामीत्यसत्यं वा विस्पष्टमपि याचितः // Jम्_८.३१ //
445 SK धर्मव्यवस्थासु पुरःसरः सन् स्वयं व्रजेयं यदि कापथेन / अस्मद्गताचारपथानुगानां भवेदवस्था मम का प्रजानाम् // Jम्_८.३२ //
446 SK यतः प्रजा एव समीक्षमाणः सारं शरीरादहमुद्धरिष्ये / कश्च प्रभावो जगदर्थसाधुर्मात्सर्यहार्याल्पहृदो मम स्यात् // Jम्_८.३३ //
447 SK यदपि चास्मत्प्रेमबहुमानावर्जितं प्रणयविस्रम्भगर्भमभिधीयते भवद्भिः - किंकृतेयमस्मास्वेवं निष्प्रणयता यदपरिक्षीणेष्वेव नो मांसशोणितेषु स्वानि देवो दातुमिच्छतीति / अत्र वो ऽनुनेष्यामि / न खलु मे युष्मासु प्रतिहतविषयः प्रणयमार्गो विस्रम्भविरहात्परिशङ्कागहनदुरवगाहो वा / किन्तु -
448 SK धने तनुत्वं क्रमशो गते वा भाग्यानुवृत्त्या क्षयमागते वा / विजृम्भमाणप्रणयः सुहृत्सु शोभेत न स्फीतधनः कृशेषु // Jम्_८.३४ //
449 SK विवर्धितेष्वर्थिजनार्थमेव संविद्यमानेषु च मे बृहत्सु / गात्रेषु मांसोपचयोन्नतेषु युष्मास्वपि स्यात्प्रणयो विरूपः // Jम्_८.३५ //
450 SK असंस्तुतानामपि न क्षमेय पीडां कथं कैव कथा भवत्सु / स्वान्येव मांसानि यतो ऽस्मि दित्सुर्मां चैव याचन्त इमे न युष्मान् // Jम्_८.३६ //
451 SK तदलमस्मदतिस्नेहाद्धर्मविघ्ननिःसाध्वसतया / अनुचितः खल्वयमत्रभवतामस्मदर्थिषु समुदाचारः / मीमांसितव्यमपि च तावदेतत्स्यात् -
452 SK स्वार्थमन्नादि दित्सन्तं कथं स्यात्प्रतिषेधयन् / साधुवृत्तिरसाधुर्वा प्रागेवैवंविधं विधिम् // Jम्_८.३७ //
453 SK तदलमनेनात्र वो निर्बन्धेन / न्यायोपपरीक्षया क्रियतामस्मत्साचिव्यसदृशमुन्मार्गावरणं मनसः / अनुमोदनानुगुणवचसः खल्वत्रभवन्तः शोभेरन्नेवमधीरनयनाः / कुतः -
454 SK नैकोपयोगस्य धनस्य तावन्न प्रत्यहं याचनका भवन्ति / एवंविधस्त्वर्थिजनो ऽधिगन्तुं न देवताराधनयापि शक्यः // Jम्_८.३८ //
455 SK एवंविधे चार्थिजने ऽभ्युपेते देहे विनाशिन्यसुखास्पदे च / विमर्शमार्गो ऽप्यनुदात्तता स्यान्मात्सर्यदैन्यं तु परा तमिस्रा // Jम्_८.३९ //
456 SK तन्न मा वारयतुमर्हन्त्यत्रभवन्त इत्यनुनीय स राजा स्वां पर्षदमाहूय वैद्यान्पञ्च सिराः स्वशरीरे मोक्षयित्वा तान् यक्षानुवाच -
457 SK धर्मकर्मणि साचिव्यं प्रीतिं च परमां मम / भवन्तः कर्तुमर्हन्ति देयस्यास्य प्रतिग्रहात् // Jम्_८.४० //
458 SK ते तथेत्युक्त्वाञ्जलिपुटैरेव राज्ञो रक्तचन्दनरसाभिताम्रं रुधिरं पातुमुपचक्रमिरे /
459 SK स पीयमानक्षतजः क्षितीशः क्षपाचरैर्हेमवपुश्चकाशे / सन्ध्यानुरक्तैर्जलभारनम्रैः पयोधरैर्मेरुरिवोपगूढः // Jम्_८.४१ //
460 SK प्रीतिप्रकर्षाद्धृतिसम्पदा च वपुर्गुणादेव च तस्य राज्ञः / मम्लौ न गात्रं न मुमूर्छ चेतः संचिक्षिपे न क्षतजं क्षरद्वा // Jम्_८.४२ //
461 SK विनीततर्षक्लमास्तु ते यक्षाः पर्याप्तमनेनेति राजानमूचुः -
462 SK अनेकदुःखायतने शरीरे सदा कृतध्ने ऽपि नराधिपस्य / गते ऽर्थिसंमाननसाधनत्वं हर्षानुकूलं ग्रहणं बभूव // Jम्_८.४३ //
463 SK अथ स राजा हर्षप्रबोधादधिकतरनयनवदनप्रसादो नीलोत्पलदलनीलविमलपत्रं रत्नप्रभोद्भासुररुचिरत्सरुं निशितं निस्त्रिंशमादाय स्वमांसानि च्छित्त्वा तेभ्यः प्रायच्छत् /
464 SK ह्रियमाणावकाशं तु दानप्रीत्या पुनः पुनः / न प्रसेहे मनस्तस्य च्छेददुःखं विगाहितुम् // Jम्_८.४४ //
465 SK आकृष्यमाणं शितशस्रपातैः प्रीत्या पुनर्दूंरमपास्यमानम् / खेदालसत्वादिव तस्य दुःखं मनःसमुत्सर्पणमन्दमासीत् // Jम्_८.४५ //
466 SK स प्रीतिमानेव निशाचरांस्तान्सन्तर्पयन्स्वैः पिशितैस्तथासीत् / क्रूराणि तेषामपि मानसानि येनासुराविष्कृतमार्दवानि // Jम्_८.४६ //
467 SK धर्मप्रियत्वात्करुणावशाद्वा त्यजन् परार्थे प्रियमात्मदेहम् / द्वेषाग्निदग्धान्यपि मानसानि प्रसादसौवर्ण्यनवानि कुर्यात् // Jम्_८.४७ //
468 SK अथ ते यक्षास्तं राजानं स्वमांसोत्कर्तनपरं तथैवास्खलितवदनप्रसादमविकम्प्यमानं मांसच्छेदवेदनाभिरभिवीक्ष्य प्रसादं विस्मयं चोपजग्मुः /
469 SK आश्चर्यमद्भुतमहो बत किंस्विदेतत् सत्यं न वेति समुदीर्णविचारहर्षाः / राजन्यमर्षमुपमृद्य मनःप्रसादं तत्संस्तुतिप्रणतिभिः प्रथयाम्बभूवुः // Jम्_८.४८ //
470 SK अलमलं देव विरम्यतां स्वशरीरपीडाप्रसङ्गात् / सन्तर्पिताः स्मस्तवानयाद्भुतया याचनकजनमनोहरया प्रतिपत्त्येति ससम्भ्रमाः सप्रणामं विनिवार्य राजानं प्रसादाश्रुपरिषिक्तवदनाः सबहुमानमुदीक्षमाणाः पुनरूचुः -
471 SK स्थाने भक्तिवशेन गच्छति जनस्त्वत्कीर्तिवाचालतां स्थाने श्रीः परिभूय पङ्कजवनं त्वत्संश्रयश्लाघिनी / व्यक्तं शक्रसनाथतामपि गता त्वद्वीर्यगुप्तामिमां द्यौः पश्यत्युदितस्पृहा वसुमतीं नो चेदहो वञ्च्यते // Jम्_८.४९ //
472 SK किं बहुना? एवंविधजनाभ्युपपन्नः सभाग्यः खलु मनुष्यलोकः / युष्मदायासाभ्यनुमोदनात्तु वयमेवात्र दग्धाः / भवद्विधजनापश्रयाच्छक्यमित्थङ्गतैरप्यात्मानं समुद्धर्तुमिति स्वदुष्करप्रतीघाताशया भवन्तं पृच्छामः -
473 SK अनादृत्य सुखप्राप्तामनुरक्तां नृपश्रियम् / किं तदत्यद्भुतं स्थानं पथानेन यदीप्ससि // Jम्_८.५० //
474 SK सर्वक्षितिपतित्वं नु धनेशत्वमथेन्द्रताम् / ब्रह्मभूयं विमोक्षं वा तपसानेन वाञ्छसि // Jम्_८.५१ //
475 SK अस्य हि व्यवसायस्य न दूरतरमीप्सितम् / श्रोतव्यं चैतदस्माभिर्बक्तुमर्हति नो भवान् // Jम्_८.५२ //
476 SK राजोवाच - श्रूयतां यदर्थो ऽयं ममाभ्युद्यमः /
477 SK प्रयत्नलभ्या यदयत्ननाशिनी न तृप्तिसौख्याय कुतः प्रशान्तये / भवाश्रया सम्पदतो न कामये सुरेन्द्रलक्ष्मीमपि किम्वथेतराम् // Jम्_८.५३ //
478 SK न चात्मदुःखक्षयमात्रकेण मे प्रयाति सन्तोषपथेन मानसम् / अमूननाथानभिवीक्ष्य देहिनः प्रसक्ततीव्रव्यसनश्रमातुरान् // Jम्_८.५४ //
479 SK अनेन पुण्येन तु सर्वदर्शितामवाप्य निर्जित्य च दोषविद्विषः / जरारुजामृत्युमहोर्मिसङ्कुलात्समुद्धरेयं भवसागराज्जगत् // Jम्_८.५५ //
480 SK अथ ते यक्षाः प्रसादसंहर्षिततनुरुहाः प्रणम्य राजानमूचुः - उपपन्नरूपमेवंविधस्य व्यवसायातिशयस्येदं कर्म / तन्न दूरे भवद्विधानामभिप्रायसम्पद इति निश्चितमनसो विज्ञापयामः -
481 SK कामं लोकहितायैव तव सर्वो ऽयमुद्यमः / स्वहितात्यादरं त्वेषां स्मर्तुमर्हसि नस्तदा // Jम्_८.५६ //
482 SK अज्ञानाच्च यदस्माभिरेवमायासितो भवान् / स्वमप्यर्थमपश्यद्भिर्मृष्यतामेव तच्च नः // Jम्_८.५७ //
483 SK आज्ञामपि च तावन्नस्त्वमनुग्रहपद्धतिम् / सचिवानामिव स्वेषां विस्रब्धं दातुमर्हसि // Jम्_८.५८ //
484 SK अथ स राजा प्रसादमृदूकृतहृदयान्मत्वैनानुवाच - उपकारः खल्वयं नायासो ममेत्यलमत्र वो ऽक्षमाशङ्कया / अपि च -
485 SK एवंविधे धर्मपथे सहायान्किं विस्मरिष्याम्यधिगम्य बोधिम् / युष्माकमेव प्रथमं करिष्ये विमोक्षधर्मामृतसंविभागम् // Jम्_८.५९ //
486 SK अस्मत्प्रियं चाभिसमीक्षमाणैर्हिंसा भवद्भिर्विषवद्विवर्ज्या / लोभः परद्रव्यपरिग्रहेषु वाग्गर्हिता मद्यमयश्च पाप्मा // Jम्_८.६० //
487 SK अथ ते यक्षास्तथेत्यस्मै प्रतिश्रुत्य प्रणम्य प्रदक्षिणीकृत्य चैनं तत्रैवान्तर्दधिरे / स्वमांसशोणितप्रदाननिश्चयसमकालमेव तु तस्य महासत्त्वस्य /
488 SK विकम्पमाना बहुधा वसुन्धरा विधूर्णयामास सुवर्णपर्वतम् / प्रसस्वनुर्दुन्दुभयश्च तद्गता द्रुमाश्च पुष्पं ससृजुर्विकम्पनात् // Jम्_८.६१ //
489 SK तदभ्रवद्व्योमनि मारुतेरितं पतत्रिसेनेव वितानवत्क्वचित् / विसृत्य माला ग्रथितेव कुत्रचित्समं समन्तान्नृपतेर्व्यकीर्यत // Jम्_८.६२ //
490 SK निवारयिष्यन्निव मेदिनीपतिं समुद्धतावेगतया महार्णवः / जलैः प्रकृत्यभ्यधिकक्रमस्वनैः प्रयाणसौजस्कवपुर्व्यरोचत // Jम्_८.६३ //
491 SK किमेतदित्यागतसम्भ्रमस्ततः सुराधिपस्तत्र विचिन्त्य कारणम् / नृपात्ययाशङ्किततूर्णमाययौ नृपालयं शोकभयाकुलाकुलम् // Jम्_८.६४ //
492 SK तथागतस्यापि तु तस्य भूपतेर्मुखप्रसादात्सविशेषविस्मयः / उपेत्य तक्तर्म मनोज्ञया गिरा प्रसादसंहर्षवशेन तुष्टुवे // Jम्_८.६५ //
493 SK अहो प्रकर्षो बत सज्जनस्थितेरहो गुणाभ्यासनिधेरुदारता / अहो परानुग्रहपेशला मतिस्त्वदर्पणान्नाथवती बत क्षितिः // Jम्_८.६६ //
494 SK इत्यभिप्रशस्यैनं शक्रो देवेन्द्रः सद्यःक्षतरोहणसमर्थैर्दिव्यैर्मानुष्यकैरोषधिविशेषैर्निर्वेदनं यथापौराणं शरीरं कृत्वा दाक्षिण्यविनयोपचारमधुरं प्रतिपूजितस्तेन राज्ञा स्वमावासं प्रतिजगाम /
495 SK तदेवं परदुःखातुरा नात्मसुखमवेक्षन्ते महाकारुणिका इति / को नाम धनमात्रके ऽप्यपेक्षां नोत्स्रष्टुमर्हतीति दायकजनसमुत्तेजनायां वाच्यम् / करुणावर्णे ऽपि तथागतमाहात्म्ये सत्कृत्य धर्मश्रवणे च / यच्चोक्तं भगवता ऽबहुकरः खल्वेते पञ्चका भिक्षवः ऽ इति स्यादेतत्सन्धाय / तेन हि समयेन ते पञ्च यक्षा बभूवुः / तेषां भगवता यथाप्रतिज्ञातमेव प्रथमं धर्मामृतसंविभागः कृत इति /
496 SK इति मैत्रीबलजातकमष्टमम् /
498 SK न बोधिसत्त्वचरितं सुखमनुमोदितुमप्यल्पसत्त्वैः प्रागेवाचरितुम् / तद्यथानुश्रूयते -
499 SK सात्मीभूतेन्द्रियजयः पराक्रमनयविनयसंपदा समधिगतविजयश्रीर्वृद्धोपासननियमात् त्रय्यान्वीक्षिक्योरुपलब्धार्थतत्त्वः स्वधर्मकर्मानुरक्ताभिरनुद्विग्नसुखोचिताभिरनुरक्ताभिः प्रकृतिभिः प्रकाश्यमानदण्डनीतिशोभः सम्यक्प्रवृत्तवार्त्ताविधिः संजयो नाम शिबीनां राजा बभूव /
500 SK गुणोदयैर्यस्य निबद्धभावा कुलाङ्गनेवास नराधिपश्रीः / अतर्कणीयान्यमहीपतीनां सिंहाभिगुप्तेव गुहा मृगाणाम् // Jम्_९.१ //
501 SK तपस्सु विद्यासु कलासु चैव कृतश्रमा यस्य सदाभ्युपेताः / विशेषयुक्तं बहुमानमीयुः पूजाभिराविष्क्रियमाणसाराः // Jम्_९.२ //
502 SK तस्य राज्ञः प्रतिपत्त्यनन्तरं प्रथितगुणगणनिरन्तरो विश्वंतरो नाम पुत्रो युवराजो बभूव / [अयमेव भगवाञ्छाक्यमुनिस्तेन समयेन /]
503 SK युवापि वृद्धोपशमाभिरामस्तेजस्व्यपि क्षान्तिसुखस्वभावः / विद्वानपि ज्ञानमदानभिज्ञः श्रिया समृद्धो ऽप्यवलेपशून्यः // Jम्_९.३ //
504 SK दृष्टप्रयामासु च दिक्षु तस्य व्याप्ते च लोकत्रितये यशोभिः / बभूव नैवान्ययशोलवानां प्रसर्तुमुत्साह इवावकाशः // Jम्_९.४ //
505 SK अमृष्यमाणः स जगद्गतानां दुःखोदयानां प्रसृतावलेपम् / दानेषुवर्षी करुणोरुचापस्तैर्युद्धसंरम्भमिवाजगाम // Jम्_९.५ //
506 SK स प्रत्यहमभिगतमर्थिजनमभिलषिताधिकैरक्लिष्टैरर्थविसर्गैः प्रियवचनोपचारमनोहरैरतीव प्रह्लादयामास / पर्वदिवसेषु च पोषधनियमप्रशमविभूषणः शिरःस्नातः शुक्लक्षौमवासा (Vऐद्य ५६) हिमगिरिशिखरसंनिकाशं मदलेखाभ्यलंकृतमुखं लक्षणविनयजवसत्त्वसंपन्नं गन्धहस्तिनं समाज्ञातमौपवाह्यं द्विरदवरमभिरुह्य समन्ततो नगरस्याभिनिविष्टान्यर्थिजननिपानभूतानि स्वानि सत्त्रागाराणि प्रत्यवेक्षते स्म / तथा च प्रीतिविशेषमभिजगाम /
507 SK न हि तां कुरुते प्रीतिं बिभूतिर्भवनाश्रिता / संक्रम्यमाणार्थिजने सैव दानप्रियस्य याम् // Jम्_९.६ //
508 SK अथ कदाचित्तस्यैवंविधं दानप्रसङ्गं प्रमुदितहृदयैरर्थिभिः समन्ततो विकीर्यमाणमुपलभ्यान्यतमो भूम्यनन्तरस्तस्य राजा शक्यमयमभिसंधातुं दानानुरागवशगत्वादिति प्रतर्क्य द्विरदवरापहरणार्थं ब्राह्मणांस्तत्र प्रणिदधे / अथ ते ब्राह्मणा विश्वंतरस्य स्वानि सत्त्रागाराणि प्रत्यवेक्षमाणस्य प्रमोदादधिकतरनयनवदनशोभस्य जयाशीर्वादमुखराः समुच्छ्रिताभिप्रसारितदक्षिणाग्रपाणयः पुरस्तात् समतिष्ठन्त / स ततो विनिगृह्य द्विरदवरमुपचारपुरःसरमभिगमनप्रयोजनमेनान् पर्यपृच्छदाज्ञाप्यतां केनार्थ इति / ब्राह्मणा ऊचुः -
509 SK अमुष्य तव नागस्य गतिलीलाविलम्बिनः / गुणैरर्थित्वमायाता दानशौर्याच्च ते वयम् // Jम्_९.७ //
510 SK कैलासशिखराभस्य प्रदानादस्य दन्तिनः / कुरुष्व तावल्लोकानां विस्मयैकरसं मनः // Jम्_९.८ //
511 SK इत्युक्ते बोधिसत्त्वः प्रीत्या समापूर्यमाणहृदयश्चिन्तामापेदे / चिरस्य खलूदारप्रणयसुमुखमर्थिजनं पश्यामि / कः पुनरर्थ एवंविधेन द्विरदपतिनैषां ब्राह्मणानाम्? व्यक्तमयं लोभेर्ष्याद्वेषपर्याकुलमनसः कस्यापि राज्ञः कार्पण्यप्रयोगः /
512 SK आशाविघातदीनत्वं तन्मा भूत्तस्य भूपतेः / अनादृत्य यशोधर्मौ यो ऽस्मद्धित इवोद्यतः // Jम्_९.९ //
513 SK इति विनिश्चित्य स महात्मा त्वरितमवतीर्य द्विरदवरात् प्रतिगृह्यतामिति समुद्यतकाञ्चनभृङ्गारस्तेषां पुरस्तादवतस्थे /
514 SK ततः स विद्वानपि राजशास्त्रमर्थानुवृत्त्या गतधर्ममार्गम् / धर्मानुरागेण ददौ गजेन्द्रं नीतिव्यलीकेन न संचकम्पे // Jम्_९.१० //
515 SK तं हेमजालरुचिराभरणं गजेन्द्रं विद्युत्पिनद्धमिव शारदमभ्रराशिम् / दत्त्वा परां मुदमवाप नरेन्द्रसूनुः संचुक्षुभे च नगरं नयपक्षपातात् // Jम्_९.११ //
516 SK अथ द्विरदपतिप्रदानश्रवणात् समुदीर्णक्रोधसंरम्भाः शिबयो ब्राह्मणवृद्धा मन्त्रिणो योधाः पौरमुख्याश्च कोलाहलमुपजनयन्तः संजयं राजानमभिगम्य ससंभ्रमामर्षसंरम्भात् परिशिथिलोपचारयन्त्रणमूचुः - किमियं देव राज्यश्रीर्विलुप्यमानैवमुपेक्ष्यते? नार्हति देवः स्वराज्योपप्लवमेवमभिवर्धमानमुपेक्षितुम् / किमेतदिति च सावेगमुक्ता राज्ञा पुनरेवमूचुः - कस्माद् देवो न जानीते निषेव्य मत्तभ्रमरोपगीतं यस्याननं दानसुगन्धि वायुः / मदावलेपं परवारणानामायासदुःखेन विना प्रमार्ष्टि // Jम्_९.१२ //
517 SK यत्तेजसाक्रान्तबलप्रभावाः संसुप्तदर्पा इव विद्विषस्ते / विश्वंतरेणैष गजः स दत्तो रूपी जयस्ते ह्रियते ऽन्यदेशम् // Jम्_९.१३ //
518 SK गावः सुवर्णं वसनानि भोज्यमिति द्विजेभ्यो नृप देयरूपम् / यस्मिञ्जयश्रीर्नियता द्विपेन्द्रे देयः स नामेत्यतिदानशौर्यम् // Jम्_९.१४ //
519 SK नयोत्पथेनैनमिति व्रजन्तं कथं समन्वेष्यति राजलक्ष्मीः / नोपेक्षणं देव तवात्र युक्तं पुरायमानन्दयति द्विषस्ते // Jम्_९.१५ //
520 SK तच्छ्रुत्वा स राजा पुत्रप्रियत्वात् किंचित्तानेव प्रत्यप्रीतमनाः कार्यानुरोधात् सावेगवदेवमित्युक्त्वा समनुनेष्यञ्छिबीनुवाच - जाने दानप्रसङ्गव्यसनितां नीतिक्रमानपेक्षां विश्वंतरस्य न चैष क्रमो राज्यधुरि संनियुक्तस्य / दत्तं त्वनेन स्वं हस्तिनं वान्तकल्पं कः प्रत्याहरिष्यति? अपि तु तथाहमेव करिष्ये यथा दाने मात्रां ज्ञास्यति विश्वंतरः / तदलमत्र वः संरम्भेणेति / शिबय ऊचुः - न खलु महाराज परिभाषामात्रसाध्यो ऽस्मिन्नर्थे विश्वंतर इति / संजय उवाच - अथ किमन्यदत्र मया शक्यं कर्तुम्?
521 SK दोषप्रवृत्तेर्विमुखस्य यस्य गुणप्रसङ्गा व्यसनीक्रियन्ते / बन्धो वधो वात्मसुतस्य तस्य किं निष्क्रयः स्याद् द्विरदस्य तस्य // Jम्_९.१६ //
522 SK तदलमत्र वः संरम्भेण / निवारयिष्याम्यहमतो विश्वन्तरमिति / अथ शिबयः समुदीर्णमन्यवो राजानमूचुः -
523 SK को वा वधं बन्धनताडनं वा सुतस्य ते रोचयते नरेन्द्र / धर्मात्मकस्त्वेष न राज्यभारक्षोभस्य सोढा करुणामृदुत्वात् // Jम्_९.१७ //
524 SK सिंहासनं तेजसि लब्धशब्दास्त्रिवर्गसेवानिपुणा भजन्ते / धर्मानुरागान्नयनिर्व्यपेक्षस्तपोवनाध्यासनयोग्य एषः // Jम्_९.१८ //
525 SK फलन्ति कामं वसुधाधिपानां दुर्नीतिदोषास्तदुपाश्रितेषु / सह्यास्त एषां तु तथापि दृष्टा मूलोपरोधान्न तु पार्थिवानाम् // Jम्_९.१९ //
526 SK किमत्र वा वह्वभिधाय निश्चयस्त्वयं शिबीनां त्वदभूत्यमर्षिणाम् / प्रयातु वङ्कं तपसो ऽभिवृद्धये नृपात्मजः सिद्धनिषेवितं गिरिम् // Jम्_९.२० //
527 SK अथ स राजा स्नेहप्रणयविस्रम्भवशादनयापायदर्शिना हितोद्यतेन तेन जनेन परिनिष्ठुरमित्यभिधीयमानः प्रकृतिकोपाद् व्रीडावनतवदनः पुत्रवियोगचिन्तापरिगतहृदयः सायासमभिनिश्वस्य शिबीनुवाच - यद्येष भवतां निर्बन्धस्तदेकमप्यहोरात्रमस्य मृष्यताम् / प्रभातायां रजन्यामभिप्रेतं वो ऽनुष्ठाता विश्वन्तर इति / एवमस्त्विति च प्रतिगृहीतानुनयः शिबिभिः स राजा क्षत्तारमुवाच - गच्छेमं वृत्तान्तं विश्वन्तराय निवेदयेति / स तथेति प्रतिश्रुत्य शोकाश्रुपरिषिक्तवदनो विश्वन्तरं स्वभवनगतमुपेत्य शोकदुःखावेगात् सस्वरं रुदन् पादयोरस्य न्यपतत् / अपि कुशलं राजकुलस्येति च ससंभ्रमं विश्वन्तरेणानुयुक्तः समवसीदन्नविशदपदाक्षरमेनमुवाच - कुशलं राजकुलस्येति / अथ कस्मादेवमधीरो ऽसीति च पुनरनुयुक्तो विश्वन्तरेण क्षत्ता बाष्पवेगोपरुध्यमानगद्गदकण्ठः श्वासविस्खलितलुलिताक्षरं शनैरित्युवाच -
528 SK सान्त्वगर्भामनादृत्य नृपाज्ञामप्यदक्षिणाः / राष्ट्रात्प्रव्राजयन्ति त्वां कुपिताः शिबयो नृप // Jम्_९.२१ //
529 SK विश्वन्तर उवाच - मां शिबयः प्रव्राजयन्ति कुपिता इति कः संबन्धः?
530 SK रमे न विनयोन्मार्गे द्वेष्मि चाहं प्रमादिताम् / कुत्र मे शिबयः क्रुद्धा यन्न पश्यामि दुष्कृतम् // Jम्_९.२२ //
531 SK क्षत्तोवाच - अत्युदारतायाम् /
532 SK अलोभशुभ्रा त्वयि तुष्टिरासील्लोभाकुला याचकमानसेषु / दत्ते त्वया मानद वारणेन्द्रे धैर्याणि कोपस्त्वहरच्छिबीनाम् // Jम्_९.२३ //
533 SK इत्यतीताः स्वमर्यादां रभसाः शिबयस्त्वयि / येन प्रव्राजिता यान्ति पथा तेन किल व्रज // Jम्_९.२४ //
534 SK अथ बोधिसत्त्वः कृपाभ्यासरूढां याचनकजनवत्सलतां धैर्यातिशयसंपदं च स्वामुद्भावयन्नुवाच - चपलस्वभावाः खलु शिबयो ऽनभिज्ञा इव चास्मत्स्वभावस्य /
535 SK द्रव्येषु बाह्येषु क एव वादो दद्यामहं स्वे नयने शिरो वा / इमं हि लोकार्थमहं बिभर्मि समुच्छ्रयं किम्वथ वस्त्रवाह्यम् // Jम्_९.२५ //
536 SK यस्य स्वगात्रैरपि यावकानां वचांसि संपूजयितुं मनीषा / भयान्न दद्यात्स इति प्रतर्कः प्रकाशना बालिशचापलस्य // Jम्_९.२६ //
537 SK कामं मां शिबयः सर्वे घ्नन्तु प्रव्राजयन्तु वा / न त्वेवाहं न दास्यामि गच्छाम्येष तपोवनम् // Jम्_९.२७ //
538 SK अथ बोधिसत्त्वो विप्रियश्रवणविक्लवमुखीं पत्नीमुवाच - श्रुतो ऽत्रभवत्या शिबीनां निश्चयः? मद्र्युवाच - श्रुतो ऽयं देव / विश्वन्तर उवाच -
539 SK तद्यदस्ति धनं किंचिदस्मत्तो ऽधिगतं त्वया / निधेहि तदनिन्द्याक्षि यच्च ते पैत्रिकं धनम् // Jम्_९.२८ //
540 SK मद्र्युवाच - कुत्रैतद्देव निदधामीति? विश्वन्तर उवाच -
541 SK शीलवद्भ्यः सदा दद्या दानं सत्कारशीभरम् / तथा हि निहितं द्रव्यमहार्यमनुगामि च // Jम्_९.२९ //
542 SK प्रियं श्वशुरयोः कुर्याः पुत्रयोः परिपालनम् / धर्ममेवाप्रमादं च शोकं मद्विरहात्तु मा // Jम्_९.३० //
543 SK तच्छ्रुत्वा मद्री संतप्तहृदयापि भर्तुरधृतिपरिहारार्थमनादृत्य शोकदैन्यमित्युवाच -
544 SK नैष धर्मो महाराज यद्याया वनमेककः / तेनाहमपि यास्यामि येन क्षत्रिय यास्यसि // Jम्_९.३१ //
545 SK त्वदङ्गपरिवर्तिन्या मृत्युरुत्सव एव मे / मृत्योर्दुःखतरं तत्स्याज्जीवेयं यत्त्वया विना // Jम्_९.३२ //
546 SK नैव च खलु मे देव वनवासो दुःख इति प्रतिभाति / तथा हि -
547 SK निर्दुर्जनान्यनुपभुक्तसरित्तरूणि नानाविहंगविरुतानि मृगाकुलानि / वैडूर्यकुट्टिममनोहरशाद्वलानि क्रीडावनाधिकसुखानि तपोवनानि // Jम्_९.३३ //
549 SK अलंकृताविमौ पश्यन्कुमारौ मालभारिणौ / क्रीडन्तौ वनगुल्मेषु न राज्यस्य स्मरिष्यसि // Jम्_९.३४ //
550 SK ऋतुप्रयत्नरचिता वनशोभा नवा नवाः / वने त्वां रमयिष्यन्ति सरित्कुञ्जाश्च सोदकाः // Jम्_९.३५ //
551 SK चित्रं विरुतवादित्रं पक्षिणां रतिकाङ्क्षिणाम् / मदाचार्योपदिष्टानि नृत्तानि च शिखण्डिनाम् // Jम्_९.३६ //
552 SK माधुर्यानवगीतं च गीतं मधुपयोषिताम् / वनेषु कृतसंगीतं हर्षयिष्यति ते मनः // Jम्_९.३७ //
553 SK आस्तीर्यमाणानि च शर्वरीषु ज्योत्स्नादुकूलेन शिलातलानि / संवाहमानो वनमारुतश्च लब्धाधिवासः कुसुमद्रुमेभ्यः // Jम्_९.३८ //
554 SK चलोपलप्रस्खलितोदकानां कला विरावाश्च सरिद्वधूनाम् / विभूषणानामिव संनिनादाः प्रमोदयिष्यन्ति वने मनस्ते // Jम्_९.३९ //
555 SK इत्यनुनीयमानः स दयितया वनप्रयाणपर्युंत्सुकमतिरर्थिजनापेक्षया महाप्रदानं दातुमुपचक्रमे /
556 SK अथेमां विश्वन्तरप्रव्राजनप्रवृत्तिमुपलभ्य राजकुले तुमुल आक्रन्दशब्दः प्रादुरभूत / शोकदुःखावेगान्मूर्च्छापरीत इवार्थिजनो मत्तोन्मत्त इव च तत्तद्बहुविधं विललाप /
557 SK छायातरोः स्वादुफलप्रदस्य च्छेदार्थमागूर्णपरश्वधानाम् / धात्री न लज्जां यदुपैति भूमिर्व्यक्तं तदस्या हतचेतनत्वम् // Jम्_९.४० //
558 SK शीतामलस्वादुजलं निपानं बिभित्सतामस्ति न चेन्निषेद्धा / व्यर्थाभिधाना बत लोकपाला विप्रोषिता वा श्रुतिमात्रकं वा // Jम्_९.४१ //
559 SK अधर्मो बत जागर्ति धर्मः सुप्तो ऽथवा मृतः / यत्र विश्वन्तरो राजा स्वस्माद्राज्यान्निरस्यते // Jम्_९.४२ //
560 SK को ऽनर्थपटुसामर्थ्यो याच्ञानूर्जितवृत्तिषु / अस्मास्वनपराधेषु वधाभ्युद्यमनिष्ठुरः // Jम्_९.४३ //
561 SK अथ बोधिसत्त्वो नैकशतसहस्रसंख्यं मणिकनकरजतपरिपूर्णकोशं विविधधनधान्यनिचयवन्ति कोशकोष्ठागाराणि दासीदासयानवाहनवसनपरिच्छदादि च सर्वमर्थिभ्यो यथार्हमतिसृज्य, शोकदुःखाभिभूतधैर्ययोर्मातापित्रोश्चरणावभिप्रणम्य सपुत्रदारः स्यन्दनवरमभिरुह्य पुण्याहघोषेणैव महतो जनकायस्याक्रन्दितशब्देन पुरवरान्निरगच्छत् / अनुरागवशगमनुयायिनं च जनं शोकाश्रुपरिक्लिन्नवदनं प्रयत्नाद्विनिवर्त्य स्वयमेव रथप्रग्रहान् प्रतिगृह्य येन वङ्कः पर्वतस्तेन प्रायात् / व्यतीत्य चाविक्लवमतिरुद्यानवनरुचिरमालिनं पुरवरोपचारमनुपूर्वेण प्रविरलच्छायद्रुमं विच्छिद्यमानजनसंपातं प्रविचरितमृगगणसंबाधदिगालोकं चीरीविरावोन्नादितमरण्यं प्रत्यपद्यत /
562 SK अथैनं यदृच्छयाभिगता ब्राह्मणा रथवाहांस्तुरगानयाचन्त /
563 SK स वर्तमानो ऽध्वनि नैकयोजने सहायहीनो ऽपि कलत्रवानपि / प्रदानहर्षादनपेक्षितायतिर्ददौ द्विजेभ्यश्चतुरस्तुरंगमान् // Jम्_९.४४ //
564 SK अथ बोधिसत्त्वस्य स्वयमेव रथधुर्यतामुपगन्तुकामस्य गाढतरं परिकरमभिसंयच्छमानस्य रोहितमृगरूपिणश्चत्वारो यक्षकुमाराः सुविनीता इव सदश्वाः स्वयमेव रथयुगं स्कन्धप्रदेशैः प्रत्यपद्यन्त / तांस्तु दृष्ट्वा हर्षविस्मयविशालतराक्षीं मद्रीं बोधिसत्त्व उवाच -
565 SK तपोधनाध्यासनसत्कृतानां पश्य प्रभावातिशयं वनानाम् / यत्रैवमभ्यागतवत्सलत्वं संरूढमूलं मृगपुंगवेषु // Jम्_९.४५ //
567 SK तवैवाहमिमं मन्ये प्रभावमतिमानुषम् / रूढो ऽपि हि गुणाभ्यासः सर्वत्र न समः सताम् // Jम्_९.४६ //
568 SK तोयेषु ताराप्रतिबिम्बशोभा विशेष्यते यत्कुमुदप्रहासैः / कौतूहलाभिप्रसृता इवेन्दोर्हेतुत्वमत्राग्रकराः प्रयान्ति // Jम्_९.४७ //
569 SK इति तयोरन्योन्यानुकूल्यात्परस्परं प्रियं वदतोरध्वानं गच्छतोरथापरो ब्राह्मणः समभिगम्य बोधिसत्त्वं रथवरमयाचत /
570 SK ततः स्वसुखनिःसङ्गो याचकप्रियबान्धवः / पूरयामास विप्रस्य स रथेन मनोरथम् // Jम्_९.४८ //
571 SK अथ बोधिसत्त्वः प्रीतमना रथादवतार्य स्वजनान्निर्यात्य रथवरं ब्राह्मणाय जालिनं कुमारमङ्केनादाय पद्भ्यामेवाध्वानं प्रत्यपद्यत / अविमनस्कैव च मद्री कृष्णाजिनां कुमारीमङ्केनादाय पृष्ठतो ऽन्वगच्छदेनम् /
572 SK निमन्त्रयामासुरिव द्रुमास्तं हृद्यैः फलैरानमिताग्रशाखाः / पुण्यानुभावादभिवीक्षमाणाः शिष्या विनीता इव च प्रणेमुः // Jम्_९.४९ //
573 SK हंसांसविक्षोभितपङ्कजानि किञ्जल्करेणुस्फुटपिञ्जराणि / प्रादुर्बभूवुश्च सरांसि तस्य तत्रैव यत्राभिचकाङ्क्ष वारि // Jम्_९.५० //
574 SK वितानशोभां दधिरे पयोदाः सुखः सुगन्धिः प्रववौ नभस्वान् / परिश्रमक्लेशममृष्यमाणा यक्षाश्च संचिक्षिपुरस्य मार्गम् // Jम्_९.५१ //
575 SK इति बोधिसत्त्व उद्यानगत इव पादचारविनोदनसुखमनुभवन्मार्गपरिखेदरसमनास्वाद्य सपुत्रदारः प्रान्त एव तु वङ्कपर्वतमपश्यत् / तत्र च पुष्पफलपल्लवालंकृतस्निग्धविविधरुचिरतरुवरनिचितं मदमुदितविहंगबहुविधरुतविनदं प्रवृत्तनृत्तबर्हिगणोपशोभितं प्रविचरितनैकमृगकुलं कृतपरिकरमिव विमलनीलसलिलया सरिता कुसुमरजो ऽरुणसुखपवनं तपोवनं वनचरकादेशितमार्गः प्रविश्य विश्वकर्मणा शक्रसंदेशात् स्वयमभिनिर्मितां मनोज्ञदर्शनां सर्वर्तुसुखां तत्र प्रविविक्तां पर्णशालामध्यावसत् /
576 SK तस्मिन्वने दयितया परिचर्यमाणः शृण्वन्नयत्नमधुरांश्च सुतप्रलापान् / उद्यानसंस्थ इव विस्मृतराज्यचिन्तः संवत्सरार्धमधिकं स तपश्चचार // Jम्_९.५२ //
577 SK अथ कदाचिन्मूलफलार्थं गतायां राजपुत्र्यां पुत्रयोः परिपालननिमित्तमाश्रमपदमशून्यं कुर्वाणे राजपुत्रे मार्गरेणुपरुषीकृतचरणप्रजङ्घः परिश्रमक्षामनयनवदनो दण्डकाष्ठावबद्धस्कन्धावसक्तकमण्डलुर्ब्राह्मणः पत्न्याः परिचारकानयनार्थं समर्पितदृढसंदेशस्तं देशमुपजगाम / अथ बोधिसत्त्वश्चिरस्यार्थिजनं दृष्ट्वा ऽभिगतं मनःप्रहर्षात् समुपजायमाननयनवदनप्रसादः प्रत्युद्गम्य स्वागतादिप्रियवचनपुरःसरं प्रवेश्य चैनमाश्रमपदं कृतातिथिसत्कारमागमनप्रयोजनमपृच्छत् / अथ स ब्राह्मणो भार्यानुरागादुत्सारितधैर्यलज्जः प्रतिग्रहमात्रसज्जो नियतमर्थमीदृशमुवाच -
578 SK आलोको भवति यतः समश्च मार्गो लोको ऽयं व्रजति ततो न दुर्गमेण / प्रायो ऽस्मिञ्जगति तु मत्सरान्धकारेणान्ये न प्रणयपदानि मे वहन्ति // Jम्_९.५३ //
579 SK प्रदानशौर्योदितया यशःश्रिया गतं च गन्तव्यमशेषतस्तव / अतो ऽस्मि याच्ञाश्रममभ्युपेयिवान्प्रयच्छ तन्मे परिचारकौ सुतौ // Jम्_९.५४ //
580 SK इत्युक्ते बोधिसत्त्वो महासत्त्वः
581 SK दानप्रीतौ कृताभ्यासः प्रत्याख्यातुमशिक्षितः / ददामीत्यवदद् धृष्टं दयितौ तनयावपि // Jम्_९.५५ //
582 SK स्वस्त्यस्तु / तत्किमिदानीमास्यत इति च ब्राह्मणेनाभिहितः स महासत्त्वः प्रदानकथाश्रवणोत्पतितविषादविप्लुताक्षयोः सुतयोः स्नेहावेगादवलम्बमानहृदयो बोधिसत्त्व उवाच -
583 SK दत्तावेतौ मया तुभ्यं किं तु मातानयोर्गता / वनं मूलफलस्यार्थे सायमद्यागमिष्यति // Jम्_९.५६ //
584 SK तया दृष्टावुपाघ्रातौ मालिनावभ्यलंकृतौ / इहैकरात्रं विश्रम्य श्वो नेतासि सुतौ मम // Jम्_९.५७ //
585 SK ब्राह्मण उवाच - अलमनेनात्रभवतो निर्बन्धेन /
586 SK गौणमेतद्धि नारीणां नाम वामा इति स्थितम् / स्याच्चैव दानविघ्नस्ते तेन वासं न रोचये // Jम्_९.५८ //
587 SK बोधिसत्त्व उवाच - अलं दानविघ्नशङ्कया / सहधर्मचारिणी मम सा / यथा वात्रभवते रोचते / अपि च महाब्राह्मण,
588 SK सुकुमारतया बाल्यात्परिचर्यास्वकौशलात् / कीदृशीं नाम कुर्यातां दासप्रीतिमिमौ तव // Jम्_९.५९ //
589 SK दृष्ट्वा त्वित्थंगतावेतौ शिबिराजः पितामहः / अद्धा दद्याद्यदिष्टं ते धनं निष्क्रयमेतयोः // Jम्_९.६० //
590 SK यतस्तद्विषयं साधु त्वमिमौ नेतुमर्हसि / एवं ह्यर्थेन महता धर्मेण च समेष्यसि // Jम्_९.६१ //
591 SK (ब्राह्मण उवाच) - न शक्ष्याम्यहमाशीविषदुरासदं विप्रियोपायनेन राजानमभिगन्तुम् /
592 SK आच्छिन्द्यान्मदिमौ राजा दण्डं वा प्रणयेन्मयि / यतो नेष्याम्यहमिमौ ब्राह्मण्याः परिचारकौ // Jम्_९.६२ //
593 SK अथ बोधिसत्त्वो यथेष्टमिदानीमित्वपरिसमाप्तार्थमुक्त्वा सानुनयमनुशिष्य तनयौ परिचर्यानुकूल्ये प्रतिग्रहार्थमभिप्रसारिते ब्राह्मणस्य पाणौ कमण्डलुमावर्जयामास /
594 SK तस्य यत्नानुरोधेन पपाताम्बु कमण्डलोः / पद्मपत्राभिताम्राभ्यां नेत्राभ्यां स्वयमेव तु // Jम्_९.६३ //
595 SK अथ स ब्राह्यणो लाभातिहर्षात् संभ्रमाकुलितमतिर्बोधिसत्त्वतनयापहरणत्वरया संक्षिप्तपदमाशीर्वचनमुक्त्वा निर्गम्यतामित्याज्ञाकर्कशेन वचसा कुमारावाश्रमपदान्निष्क्रामयितुमारेभे / अथ कुमारौ वियोगदुःखातिभारव्यथितहृदयौ पितरमभिप्रणम्य बाष्पोपरुध्यमाननयनावूचतुः -
596 SK अम्बा च तात निष्क्रान्ता त्वं च नौ दातुमिच्छसि / यावत्तामपि पश्यावस्ततो दास्यति नौ भवान् // Jम्_९.६४ //
597 SK अथ स ब्राह्मणः पुरा मातानयोरागच्छति, अस्य वा पुत्रस्नेहात् पश्चात्तापः संभवतीति विचिन्त्य पद्मकलापमिवानयोर्हस्तानाबध्य लतया संतर्जयन्विचेष्टमानौ पितरं प्रति व्यावर्तितवदनौ प्रकृतिसुकुमारौ कुमारौ प्रचकर्ष / अथ कृष्णाजिना कुमार्यपूर्वदुःखोपनिपातात् सस्वरं रुदती पितरमुवाच -
598 SK अयं मां ब्राह्मणस्तात लतया हन्ति निर्दयः / न चायं ब्राह्मणो व्यक्तं धार्मिका ब्राह्मणाः किल // Jम्_९.६५ //
599 SK यक्षो ऽयं ब्राह्मणच्छद्मा नूनं हरति खादितुम् / नीयमानौ पिशाचेन तात किं नावुपेक्षसे // Jम्_९.६६ //
600 SK अथ जाली कुमारो मातरमनुशोचयन्नुवाच -
601 SK नैवेदं मे तथा दुःखं यदयं हन्ति मां द्विजः / नापश्यमम्बां यत्त्वद्य तद्विदारयतीव माम् // Jम्_९.६७ //
602 SK रोदिष्यति चिरं नूनमम्बा शून्ये तपोवने / पुत्रशोकेन कृपणा हतशावेव चातकी // Jम्_९.६८ //
603 SK अस्मदर्थे समाहृत्य वनान्मूलफलं बहु / भविष्यति कथं न्वम्बा दृष्ट्वा शून्यं तपोवनम् // Jम्_९.६९ //
604 SK इमे नावश्वकास्तात हस्तिका रथकाश्च ये / अतो ऽर्धं देयमम्बायै शोकं तेन विनेष्यति // Jम्_९.७० //
605 SK वन्द्यास्मद्वचनादम्बा वार्या शोकाच्च सर्वथा / दुर्लभं हि पुनस्तात तव तस्याश्च दर्शनम् // Jम्_९.७१ //
606 SK एहि कृष्णे मरिष्यावः को न्वर्थो जीवितेन नौ / दत्तावावां नरेन्द्रेण ब्राह्मणाय धनैषिणे // Jम्_९.७२ //
607 SK इत्युक्त्वा जग्मतुः /
608 SK अथ बोधिसत्त्वस्तेनातिकरुणेन तनयप्रलापेनाकम्पितमतिरपि क इदानीं दत्त्वानुतापं करिष्यतीति निष्प्रतीकारेण शोकाग्निना विनिर्दह्यमानहृदयो विषवेगमूर्च्छापरिगत इव समुपरुध्यमानचेतास्तत्रैव निषसाद / शीतलानिलव्यजनप्रतिलब्धसंज्ञश्च निष्कूजमिवाश्रमपदं तनयशून्यमभिवीक्ष्य बाष्पगद्गदसंनिरुद्धकण्ठ इत्यात्मगतमुवाच -
609 SK पुत्राभिधाने हृदये समक्षं प्रहरन्मम / नाशङ्कत कथं नाम धिगलज्जो बत द्विजः // Jम्_९.७३ //
610 SK पत्तिकावनुपानत्कौ सौकुमार्यात्क्लमासहौ / यास्यतः कथमध्वानं तस्य च प्रेष्यतां गतो // Jम्_९.७४ //
611 SK मार्गश्रमपरिम्लानौ को ऽद्य विश्रामयिष्यति / क्षुत्तर्षदुःखाभिहतौ याचिष्येते कमेत्य वा // Jम्_९.७५ //
612 SK मम तावदिदं दुःखं धीरतां कर्तुमिच्छतः / का त्ववस्था मम तयोः सुतयोः सुखवृद्धयोः // Jम्_९.७६ //
613 SK अहो पुत्रवियोगाग्निर्निर्दहत्येव मे मनः / सतां तु धर्मं संस्मृत्य को ऽनुतापं करिष्यति // Jम्_९.७७ //
614 SK अथ मद्री विप्रियोपनिपातशंसिभिरनिष्टेर्निमित्तैरुपजनितवैमनस्या मूलफलान्यादाय क्षिप्रतरमागन्तुकामापि व्यालमृगोपरुध्यमानमार्गा चिरतरेणाश्रमपदमुपजगाम / उचितायां च प्रत्युद्गमनभूमावाक्रीडास्थाने च तनयावपश्यन्ती भृशतरमरतिवशमगात् /
615 SK अनीप्सिताशङ्कितजातसंभ्रमा ततः सुतान्वेषणचञ्चलेक्षणा / प्रसक्तमाह्वानमसंपरिग्रहं तयोर्विदित्वा व्यलपच्छुचातुरा // Jम्_९.७८ //
616 SK समाजवद्यत्प्रतिभाति मे पुरा सुतप्रलापप्रतिनादितं वनम् / अदर्शनादद्य तयोस्तदेव मे प्रयाति कान्तारमिवाशरण्यताम् // Jम्_९.७९ //
617 SK किं नु खलु तौ कुमारौ -
618 SK क्रीडाप्रसङ्गश्रमजातनिद्रौ सुप्तौ नु नष्टौ गहने वने वा / चिरान्मदभ्यागमनादतुष्टौ स्यातां क्वचिद् बालतया निलीनौ // Jम्_९.८० //
619 SK रुवन्ति कस्माच्च न पक्षिणो ऽप्यमी समाकुलास्तद्वधसाक्षिणो यदि / तरंगभङ्गैरविनीतकोपया हृतौ नु किं निम्नगयातिवेगया // Jम्_९.८१ //
620 SK अपीदानीं मे वितथा मिथ्याविकल्पा भवेयुः / अपि राजपुत्राय सपुत्राय स्वस्ति स्यात् / अप्यनिष्टनिवेदिनां निमित्तानां मच्छरीर एव विपाको भवेत् / किं नु खल्विदमनिमित्तापवृत्तप्रहर्षमरतितमिस्रयावच्छाद्यमानं विद्रवतीव हृदयम् / विस्रस्यन्त इव मे गात्राणि / व्याकुला इव दिग्विभागाः / भ्रमतीव चेदं परिध्वस्तलक्ष्मीकं वनमिति /
621 SK अथानुप्रविश्याश्रमपदमेकान्ते निक्षिप्य मूलफलं यथोपचारपुरःसरं भर्तारमभिगम्य क्व दारकाविति पप्रच्छ / अथ बोधिसत्त्वो जानानः स्नेहदुर्बलतां मातृहृदयस्य दुर्निवद्यत्वाच्च विप्रियस्य नैनां किंचिद्वक्तुं शशाक /
622 SK जनस्य हि प्रियार्हस्य विप्रियाख्यानवह्निना / उपेत्य मनसस्तापः सघृणेन सुदुष्करः // Jम्_९.८२ //
623 SK अथ मद्री व्यक्तमकुशलं मे पुत्रयोः, यदयमेवं तूप्णींभूतः शोकदैन्यानुवृत्त्यैवेत्यवधार्य समन्ततः क्षिप्तचित्तेव विलोक्याश्रमपदं तनयावपश्यन्ती सबाष्पगद्गदं पुनरुवाच -
624 SK दारकौ च न पश्यामि त्वं च मां नाभिभाषसे / हता खल्वहं कृपणा विप्रियं हि न कथ्यते // Jम्_९.८३ //
625 SK इत्युक्त्वा शोकाग्निना परिगतहृदया छिन्नमूलेव लता निपपात / पतन्तीमेव चैनां परिगृह्य बोधिसत्त्वस्तृणशयनमानीय शीताभिरद्भिः परिषिच्य प्रत्यागतप्राणां समाश्वासयन्नुवाच -
626 SK सहसैव न ते मद्रि दुःखमाख्यातवानहम् / न हि संभाव्यते धैर्यं मनसि स्नेहदुर्बले // Jम्_९.८४ //
627 SK जरादारिद्र्यदुःखार्तो ब्राह्मणो मामुपागमत् / तस्मै दत्तौ मया पुत्रौ समाश्वसिहि मा शुचः // Jम्_९.८५ //
628 SK मां पश्य मद्रि मा पुत्रौ परिदेवीश्च देवि मा / पुत्रशोकसशल्ये मे प्रहार्षीरिव मा हृदि // Jम्_९.८६ //
629 SK याचितेन कथं शक्यं न दातुमपि जीवितम् / अनुमोदस्व तद् भद्रे पुत्रदानमिदं मम // Jम्_९.८७ //
630 SK तच्छ्रुत्वा मद्री पुत्रविनाशशङ्काव्यथितहृदया पुत्रयोर्जीवितप्रवृत्तिश्रवणात् प्रतनूभूतशोकक्लमा भर्तुरधृतिपरिहारार्थं प्रमृज्य नयने सविस्मयमुदीक्षमाणा भर्तारमुवाच - आश्चर्यं / किं बहुना
631 SK नूनं विस्मयवक्तव्यचेतसो ऽपि दिवौकसः / यदित्यलब्धप्रसरस्तव चेतसि मत्सरः // Jम्_९.८८ //
632 SK तथा हि दिक्षु प्रसृतप्रतिस्वनैः समन्ततो दैवतदुन्दुभिस्वनैः / प्रसक्तविस्पष्टपदाक्षरं नभस्तवैव कीर्तिग्रथनादरादभूत् // Jम्_९.८९ //
633 SK प्रकम्पिशैलेन्द्रपयोधरा धरा मदादिवाभूदभिवृद्धवेपथुः / दिवः पतद्भिः कुसुमैश्च काञ्चनैः सविद्युदुद्योतमिवाभवन्नभः // Jम्_९.९० //
634 SK तदलं शोकदैन्येन दत्त्वा चित्तं प्रसादय / निपानभूतो लोकानां दातैव च पुनर्भव // Jम्_९.९१ //
635 SK अथ शक्रो देवेन्द्रः क्षितितलचलनादाकम्पिते विविधरत्नप्रभोद्भासिनि सुमेरौ पर्वतराजे किमिदमिति समुत्पन्नविमर्शो विस्मयोत्फुल्लनयनेभ्यो लोकपालेभ्यः पृथिवीकम्पकारणं विश्वन्तरपुत्रदानमुपलभ्य प्रहर्षविस्मयाघूर्णितमनाः प्रभातायां तस्यां रजन्यां ब्राह्मणरूपी विश्वन्तरमर्थिवदभ्यगच्छत् / कृतातिथिसत्कारश्च बोधिसत्त्वेन केनार्थ इत्युपनिमन्त्रितो भार्यामेनमयाचत -
636 SK महाह्रदेष्वम्भ इवोपशोषं न दानधर्मः समुपैति सत्सु / याचे ततस्त्वां सुरसन्निभा या भार्यामिमामहंसि तत्प्रदातुम् // Jम्_९.९२ //
637 SK अविमना एव तु बोधिसत्त्वस्तथेत्यस्मै प्रतिशुश्राव / ततः स वामेन करेण मद्रीमादाय सव्येन कमण्डलुं च / न्यपातयत्तस्य जलं कराग्रे मनोभुवश्चेतसि शोकवह्निम् // Jम्_९.९३ //
638 SK चुकोप मद्री न तु नो रुरोद विवेद सा तस्य हि तं स्वभावम् / अपूर्वदुःखातिभरातुरा तु तं प्रेक्षमाणा लिखितेव तस्थौ // Jम्_९.९४ //
639 SK तद् दृष्ट्वा परमविस्मयाक्रान्तहृदयः शक्रो देवानामिन्द्रस्तं महासत्त्वमभिष्टुवन्नुवाच -
640 SK अहो विकृष्टान्तरता सदसद्धर्मयोर्यथा / श्रद्धातुमपि कर्मेदं का शक्तिरकृतात्मनाम् // Jम्_९.९५ //
641 SK अवीतरागेण सता पुत्रदारमतिप्रियम् / निःसङ्गमिति दातव्यं का नामेयमुदात्तता // Jम्_९.९६ //
642 SK असंशयं त्वद्गुणरक्तसंकथैः प्रकीर्यमाणेषु यशस्सु दिक्षु ते / तिरोभविष्यन्त्यपरा यशःश्रियः पतंगतेजस्सु यथान्यदीप्तयः // Jम्_९.९७ //
643 SK तस्य ते ऽभ्यनुमोदन्ते कर्मेदमतिमानुषम् / यक्षगन्धर्वभुजगास्त्रिदशाश्च सवासवाः // Jम्_९.९८ //
644 SK इत्युक्त्वा शक्रः स्वमेव वपुरभिज्वलदास्थाय शक्रो ऽहमस्मीति च निवेद्यात्मानं बोधिसत्त्वमुवाच -
645 SK तुभ्यमेव प्रयच्छामि मद्रीं भार्यामिमामहम् / व्यतीत्य न हि शीतांशुं चन्द्रिका स्थातुमर्हति // Jम्_९.९९ //
646 SK तन्मा चिन्तां पुत्रयोर्विप्रयोगाद्राज्यभ्रंशान्मा च संतापमागाः / सार्धं ताभ्यामभ्युपेतः पिता ते कर्ता राज्यं त्वत्सनाथं सनाथम् // Jम्_९.१०० //
647 SK इत्युक्त्वा शक्रस्तत्रैवान्तर्दधे / शक्रानुभावाच्च स ब्राह्मणो बोधिसत्त्वतनयौ शिबिविषयमेव संप्रापयामास / अथ शिबयः संजयश्च शिबिराजस्तदतिकरुणमतिदुष्करं च बोधिसत्त्वस्य कर्म श्रुत्वा समाक्लेदितहृदया ब्राह्मणहस्तान्निष्क्रीय बोधिसत्त्वतनयौ प्रसाद्यानीय च विश्वन्तरं राज्य एव प्रतिष्ठापयामासुः /
648 SK तदेवमत्यद्भुता बोधिसत्त्वचर्येति तदुन्मुखेषु सत्त्वविशेषेषु नावज्ञा प्रतीघातो वा करणीयः / तथागतवर्णे सत्कृत्य धर्मश्रवणे चोपनेयम् /
649 SK इति विश्वन्तरजातकं नवमम् /
651 SK न कल्याणाशयाः पापप्रतारणामनुविधीयन्त इत्याशयशुद्धौ प्रयतितव्यम् / तद्यथानुश्रूयते -
652 SK बोधिसत्त्वः किल स्वपुण्यप्रभावोपनतामानतसर्वसामन्तां प्रशान्तस्वपरचक्राद्युपद्रवत्वादकण्टकामसपत्नामेकातपत्रां दायाद्यक्रमागतां पृथिवीं पालयामास /
653 SK नाथः पृथिव्याः स जितेन्द्रियारिर्भुंक्तावगीतेषु फलेष्वसक्तः / प्रजाहितेष्वाहितसर्वभावो घर्मैककार्यो मुनिवद् बभूव // Jम्_१०.१ //
654 SK विवेद लोकस्य हि स स्वभावं प्रधानचर्यानुकृतिप्रधानम् / श्रेयः समाधित्सुरतः प्रजासु विशेषतो धर्मविधौ ससञ्जे // Jम्_१०.२ //
655 SK ददौ धनं शीलविधिं समाददे क्षमां निषेवे जगदर्थमैहत / प्रजाहिताध्याशयसौम्यदर्शनः स मूर्तिमान्धर्म इव व्यरोचत // Jम्_१०.३ //
656 SK अथ कदाचित्तद्भुजाभिगुप्तमपि तं विषयं सत्त्वानां कर्मवैगुण्यात्प्रमादवशगत्वाच्च वर्षकर्माधिकृतानां देवपुत्राणां दुर्वृष्टिपर्याकुलता क्वचित्क्वचिदभिदुद्राव / अथ स राजा व्यक्तमयं मम प्रजानां वा धर्मापचारात्समुपनतो ऽनर्थ इति निश्चितमतिः संरूढहिताध्याशयत्वात्प्रजासु तद्दुःखममृष्यमाणो धर्मतत्त्वज्ञसंमतान्पुरोहितप्रमुखान्ब्राह्मवृद्धान्मतिसचिवांश्च तदुद्धरणोपायं पप्रच्छ / अथ ते वेदविहितमनेकप्राणिशतवधारम्भभीषणं यज्ञविधिं सुवृष्टिहेतुं मन्यमानास्तस्मै संवर्णयामासुः / विदितवृत्तान्तस्तु स राजा यज्ञविहितानां प्राणिवैशसानां करुणात्मकत्वान्न तेषां तद्वचनं भावेनाभ्यनन्दत् / विनयानुवृत्त्या चैनान्प्रत्याख्यानरूक्षाक्षरमनुक्त्वा प्रस्तावान्तरेणैषां तां कथां तिरश्चकार / ते पुनरपि तं राजानं धर्मसंकथाप्रस्तावलब्धावसरा गाम्भीर्यावगूढं तस्य भावमजानाना यज्ञप्रवृत्तये समनुशशासुः -
657 SK कार्याणि राज्ञां नियतानि यानि लाभे पृथिव्याः परिपालने च / नात्येति कालस्तव तानि नित्यं तेषां क्रमो धर्मसुखानि यद्वत् // Jम्_१०.४ //
658 SK त्रिवर्गसेवानिपुणस्य तस्य प्रजाहितार्थं धृतकार्मुकस्य / यज्ञाभिधाने सुरलोकसेतौ प्रमादतन्द्रेव कथं मतिस्ते // Jम्_१०.५ //
659 SK भृत्यैरिवाज्ञा बहु मन्यते ते साक्षादियं सिद्धिरिति क्षितीशैः / श्रेयांसि कीर्तिज्वलितानि चेतुं यज्ञैरयं ते रिपुकाल कालः // Jम्_१०.६ //
660 SK कामं सदा दीक्षित एव च त्वं दानप्रसङ्गान्नियमादराच्च / वेदप्रसिद्धैः क्रतुभिस्तथापि युक्तं भवेन्मोक्तुमृणं सुराणाम् // Jम्_१०.७ //
661 SK स्विष्ट्याभितुष्टानि हि दैवतानि भूतानि वृष्ट्या प्रतिमानयन्ति / इति प्रजानां हितमात्मनश्च यशस्करं यज्ञविधिं जुषस्व // Jम्_१०.८ //
662 SK तस्य चिन्ता प्रादुरभवत् - अतिदुर्न्यस्तो बतायं परप्रत्ययहार्यपेलवमतिरमीमांसको धर्मप्रियः श्रद्दधानो जनो यत्र हि नाम -
663 SK य एव लोकेषु शरण्यसम्मतास्त एव हिंसामपि धर्मतो गताः / विवर्तते कष्टमपायसङ्कटे जनस्तदादेशितकापथानुगः // Jम्_१०.९ //
664 SK को हि नामाभिसम्बन्धो धर्मस्य पशुहिंसया / सुरलोकाधिवासस्य दैवतप्रीणनस्य वा // Jम्_१०.१० //
665 SK विशस्यमानः किल मन्त्रशक्तिभिः पशुर्दिवं गच्छति तेन तद्वधः / उपैति धर्मत्वमितीदमप्यसत्परैः कृतं को हि परत्र लप्स्यते // Jम्_१०.११ //
666 SK असत्प्रवृत्तेरनिवृत्तमानसः शुभेषु कर्मस्वविरूढनिश्चयः / पशुर्दिवं यास्यति केन हेतुना हतो ऽपि यज्ञे स्वकृताश्रयाद्विना // Jम्_१०.१२ //
667 SK हतश्च यज्ञे त्रिदिवं यदि व्रजेन्ननु व्रजेयुः पशुतां स्वयं द्विजाः / यतस्तु नायं विधिरीक्ष्यते क्वचिद्वचस्तदेषां क इव ग्रहीष्यति // Jम्_१०.१३ //
668 SK अतुल्यगन्धर्द्धिरसौजसं शुभां सुधां किलोत्सृज्य वराप्सरोधृताम् / मुदं प्रयास्यन्ति वपादिकारणाद्वधेन शोच्यस्य पशोर्दिवौकसः // Jम्_१०.१४ //
669 SK तदिदमत्र प्राप्तकालमिति विनिश्चित्य स राजा यज्ञारम्भसमुत्सुक इव नाम तत्तेषां वचनं प्रतिगृह्यावोचदेनन् - सनाथः खल्वहमनुग्रहवांश्च यदेवं मे हितावहितमनसो ऽत्रभवन्तः / तदिच्छामि पुरुषमेधसहस्रेण यष्टुम् / अन्विष्यतां तदुपयोग्यसम्भारसमुदानयनार्थं यथाधिकारममात्यैः / परीक्ष्यतां सत्रागारनिवेशनयोग्यो भूमिप्रदेशस्तदनुगुणश्च तिथिकरणमुहूर्तनक्षत्रयोग इति /
670 SK अथैनं पुरोहित उवाच - ईप्सितार्थसिद्धये स्नातु तावन्महाराज एकस्य यज्ञस्य समाप्ताववभृथे / अथोत्तरेषामारम्भः करिष्यते क्रमेण / युगपत्पुरुषपशवः सहस्रशो हि परिगृह्यमाणा व्यक्तमुद्वेगदोषाय प्रजानां ते स्युरिति / अस्त्येतदिति ब्राह्मणैरुक्तः स राजा तानुवाच - अलमत्रभवतां प्रकृतिकोपाशङ्कया / तथा हि संविधास्ये यथोद्वेगं मे प्रजा न यास्यन्तीति / अथ स राजा पौरजानपदान्संनिपात्याव्रवीत् - इच्छामि पुरुषमेधसहस्रेण यष्टुम् / न च मयार्हः कश्चिदकामः पुरुषः पशुत्वे नियोक्तुमदुष्टः / तद्यं यमतः प्रभृति वो द्रक्ष्यामि व्यवधूतप्रमादनिद्रेण विमलेन चारचक्षुषा शीलमर्यादातिवर्तिनमस्मदाज्ञां परिभवन्तं तं तं स्वकुलपांसनं देशकण्टकमहं यज्ञपशुनिमित्तमादास्य इत्येतद्वो विदितमस्त्विति / अथ तेषां मुख्यतमाः प्राञ्जलयो भूत्वैनमूचुः -
671 SK सर्वाः क्रियास्तव हितप्रवणाः प्रजानां तत्रावमाननविधेर्नरदेव को ऽर्थः / ब्रह्मापि ते चरितमभ्यनुमन्तुमर्हः साधुप्रमाण परमत्र भवान्प्रमाणम् // Jम्_१०.१५ //
672 SK प्रियं यदेव देवस्य तदस्माकमपि प्रियम् / अस्मत्प्रियहितादन्यद् दृश्यते न हि ते प्रियम् // Jम्_१०.१६ //
673 SK इति प्रतिगृहीतवचनः पौरजनापदैः स राजा जनप्रकाशेनाडम्बरेण प्रत्ययितानमात्यान्पापजनोपग्रहणार्थं जनपदं नगराणि च प्रेषयामास समन्ततश्च प्रत्यहमिति घोषणाः कारयामास /
674 SK अभयमभयदो ददाति राजा स्थिरशुचिशीलधनाय सज्जनाय / अविनयनिरतैः प्रजाहितार्थं नरपशुभिस्तु सहस्रशो यियक्षुः // Jम्_१०.१७ //
675 SK तद्यः कश्चिदतः प्रभृत्यविनयश्लाघानुवृत्त्युद्भवात् सामन्तक्षितिपार्चितामपि नृपस्याज्ञामवज्ञास्यति / स स्वैरेव विषह्य यज्ञपशुतामापादितः कर्मभिर् यूपाबद्धतनुर्विषादकृपणः शुष्यञ्जनैर्द्रक्ष्यते // Jम्_१०.१८ //
676 SK अथ तद्विषयनिवासिनः पुरुषा यज्ञपशुनिमित्तं दुःशीलपुरुषान्वेषणादरं तमन्ववेक्ष्य राज्ञस्तां च घोषणामतिभीषणां प्रत्यहमुपश्रृण्वन्तः पापजनोपग्रहावहितांश्च राजपुरुषान्समन्ततः समापततो ऽभिवीक्ष्य त्यक्तदौःशील्यानुरागाः शीलसंवरसमादानपरा वैरप्रसङ्गपराङ्मुखाः परस्परप्रेमगौरवसुमुखाः प्रशान्तविग्रहविवादा गुरुजनवचनानुवर्तिनः संविभागविशारदाः प्रियातिथयो विनयनैभृत्यश्लाघिनः कृत इव युगे बभूवुः /
677 SK भयेन मृत्योः परलोकचिन्तया कुलाभिमानेन यशो ऽनुरक्षया / सुशुक्लभावाच्च विरुढया ह्रिया जनः सः शीलामलभूषणो ऽभवत् // Jम्_१०.१९ //
678 SK यथा यथा धर्मपरो ऽभवज्जनस्तथा तथा रक्षिजनो विशेषतः / चकार दुःशीलजनाभिमार्गणामतश्च धर्मान्न चचाल कश्चन // Jम्_१०.२० //
679 SK स्वदेशवृत्तान्तमथोपशुश्रुवानिमं नृपः प्रीतिविशेषभूषणः / चरान्प्रियाख्यानकदानविस्तरैः सन्तर्पयित्वा सचिवान्समन्वशात् // Jम्_१०.२१ //
680 SK परा मनीषा मम रक्षितुं प्रजा गताश्च ताः सम्प्रति दक्षिणीयताम् / इदं च यज्ञाय धनं प्रतर्कितं यियक्षुरस्मीति यथाप्रतर्कितम् // Jम्_१०.२२ //
681 SK यदीप्सितं यस्य सुखेन्धनं धनं प्रकाममाप्नोतु स तन्मदन्तिकात् / इतीयमस्मद्विषयोपतापिनी दरिद्रता निर्विषया यथा भवेत् // Jम्_१०.२३ //
682 SK मयि प्रजारक्षणनिश्चयस्थिते सहायसम्पत्परिवृद्धसाधने / इयं जनार्तिर्मदमर्षदीपनी मुहुर्मुंहुर्मे ज्वलतीव चेतसि // Jम्_१०.२४ //
683 SK अथ ते तस्य राज्ञः सचिवाः परममिति प्रतिगृह्य तद्वचनं सर्वेषु ग्रामनगरनिगमेषु मार्गविश्रामप्रदेशेषु च दानशालाः कारयित्वा यथासन्दिष्टं राज्ञा प्रत्यहमर्थिजनमभिलषितैरर्थविसर्गैः सन्तर्पयामासुः /
684 SK अथ विहाय जनः स दरिद्रतां सममवाप्तवसुर्वसुधाधिपात् / विविधचित्रपरिच्छदभूषणः प्रविततोत्सवशोभ इवाभवत् // Jम्_१०.२५ //
685 SK प्रमुदितार्थिजनस्तुतिसञ्चितं प्रविततान नृपस्य दिशो यशः / तनुतरङ्गविवर्धितविस्तरं सर इवाम्बुजकेसरजं रजः // Jम्_१०.२६ //
686 SK इति नृपस्य सुनीतिगुणाश्रयात्सुचरिताभिमुखे निखिले जने / समभिभूतबलाः कुशलोच्छ्रयैर्विलयमीयुरसङ्गमुपद्रवाः // Jम्_१०.२७ //
687 SK अविषमत्वसुखा ऋतवो ऽभवन्नवनृपा इव धर्मपरायणाः / विविधसस्यधरा च वसुन्धरा सकमलामलनीलजलाशया // Jम्_१०.२८ //
688 SK न जनमभ्यरुजन्प्रबला रुजः पटुतरं गुणमोषधयो दधुः / ऋतुवशेन ववौ नियतो ऽनिलः परिययुश्च शुभेन पथा ग्रहाः // Jम्_१०.२९ //
689 SK न परचक्रकृतं समभूद्भयं न च परस्परजं न च दैविकम् / नियमधर्मपरे निभृते जने कृतमिवात्र युगं समपद्यत // Jम्_१०.३० //
690 SK अथैवं प्रवृत्तेन धर्मयज्ञेन राज्ञा प्रशमितेष्वर्थिजनदुःखेषु सार्धमुपद्रवैः प्रमुदितजनसम्बाधायामभ्युदयरम्यदर्शनायां वसुन्धरायां नृपतेराशीर्वचनाध्ययनसव्यापारे लोके वितन्यमाने समन्ततो राजयशसि प्रसादावर्जितमतिः कश्चिदमात्यमुख्यो राजानमित्युवाच - सुष्ठु खल्विदमुच्यते -
691 SK उत्तमाधममध्यानां कार्याणां नित्यदर्शनात् / उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः // Jम्_१०.३१ //
692 SK इति / देवेन हि पशुवैशसवाच्यदोषविरहितेन धर्मयज्ञेन प्रजानामुभयलोकहितं सम्पादितमुपद्रवाश्च प्रशमं नीता दारिद्र्यदुःखानि च शीले प्रतिष्ठापितानाम् / किं बहुना? सभाग्यास्ताः प्रजाः /
693 SK लक्ष्मेव क्षणदाकरस्य विततं गात्रे न कृष्णाजिनं दीक्षायन्त्रणया निसर्गललिता चेष्टा न मन्दोद्यमः / मूर्ध्नश्छत्रनिभस्य केशरचना शोभा तथैवाथ च त्यागैस्ते शतयज्वनो ऽप्यपहृतः कीर्त्याश्रयो विस्मयः // Jम्_१०.३२ //
694 SK हिंसाविषक्तः कृपणः फलेप्सोः प्रायेण लोकस्य नयज्ञ यज्ञः / यज्ञस्तु कीर्त्याभरणः समस्ते शीलस्य निर्दोषमनोहरस्य // Jम्_१०.३३ //
695 SK अहो प्रजानां भाग्यानि यासां गोपायिता भवान् / प्रजानामपि हि व्यक्तं नैवं स्याद् गोपिता पिता // Jम्_१०.३४ //
697 SK दानं नाम धनोदये सति जनो दत्ते तदाशावशः स्याच्छीले ऽपि च लोकपंक्त्यभिमुखः स्वर्गे च जातस्पृहः / या त्वेषा परकार्यदक्षिणतया तद्वत्प्रवृत्तिस्तयोर् नाविद्वत्सु न सत्त्वयोगविधुरेष्वेषा समालक्ष्यते // Jम्_१०.३५ //
698 SK तदेवं कल्याणाशया न पापप्रतारणामनुविधीयन्त इत्याशयशुद्धौ प्रयतितव्यम् /
699 SK इति प्रजाहितोद्योगः श्रेयःकीर्तिसुखावहः / यन्नृपाणामतो नालं तमनादृत्य वर्तितुम् // Jम्_१०.३६ //
700 SK एवं राजापवादे ऽपि वाच्यम् / धर्माभ्यासः प्रजानां भूतिमावहतीति भूतिकामेन धर्मानुवर्तिना भवितव्यमित्येवमप्युन्नेयम् / न पशुहिंसा कदाचिदभ्युदयाय दानदमसंयमादयस्त्वभ्युदयायेति तदर्थिना दानादिपरेण भवितव्यमित्येवमपि वाच्यम् / लोकार्थचर्याप्रवणमतिरेवं पूर्वजन्मस्वपि भगवानिति तथागतवर्णे ऽपि वाच्यम् /
701 SK इति यज्ञजातकं दशमम् /
703 SK आपदपि महात्मनामैश्वर्यसम्पद्वा सत्त्वेष्वनुकम्पां न शिथिलीकरोति / तद्यथानुश्रूयते -
704 SK बोधिसत्त्वः किलानल्पकालस्वभ्यस्तपुण्यकर्मा सात्मीभूतप्रदानदमसंयमकरुणः परहितनियतक्रियातिशयः कदाचिच्छक्रो देवानामिन्द्रो बभूव /
705 SK सुरेन्द्रलक्ष्मीरधिकं रराज तत्संश्रयात्स्फीततरप्रभावा / हर्म्ये सुधासेकनवाङ्गरागे निषक्तरूपा शशिनः प्रभेव // Jम्_११.१ //
706 SK यस्याः कृते दितिसुता रभसागतानि दिङ्नागदन्तमुसलान्युरसाभिजग्मुः / सौभाग्यविस्तरसुखोपनतापि तस्य लक्ष्मीर्न दर्पमलिनं हृदयं चकार // Jम्_११.२ //
707 SK तस्य दिवस्पृथिव्योः सम्यक्परिपालनोपार्जितां सर्वलोकानुव्यापिनीं कीर्तिसम्पदं तां च लक्ष्मीमत्यद्भुताममृष्यमाणा दैत्यगणाः कल्पनाटोपभीषणतरद्विरदरथतुरगपदातिना क्षुभितसागरघोरनिर्घोषेण जाज्वल्यमानविविधप्रहरणावरणदुर्निरीक्ष्येण महता बलकायेन युद्धायैनमभिजग्मुः /
708 SK धर्मात्मनो ऽपि तु स तस्य पराबलेपः क्रीडाविघातविरसं च भयं जनस्य / तेजस्विता नयपथोपनतः क्रमश्च युद्धोद्भवाभिमुखतां हृदयस्य चक्रुः // Jम्_११.३ //
709 SK अथ स महासत्त्वस्तुरगवरसहस्रयुक्तमभ्युच्छ्रितार्हद्वसनचिह्नरुचिरध्वजं विविधमणिरत्नदीप्तिव्यवभासितमतिज्वलद्वपुषं कल्पनाविभागोपनियतनिशितज्वलितविविधायुधविराजितोभयपार्श्वं पाण्डुकम्बलिनं हैमं रथवरमभिरुह्य महता हस्त्यश्वरथपदातिविचित्रेण देवानीकेन परिवृतस्तदसुरसैन्यं समुद्रतीरान्त एव प्रत्युज्जगाम /
710 SK अथ प्रववृते तत्र भीरूणां धृतिदारणः / अन्योन्यायुधनिष्पेषजर्जरावरणो रणः // Jम्_११.४ //
711 SK तिष्ठ नैवमितः पश्य क्वेदानीं मन्न मोक्ष्यसे / प्रहरायं न भवसीत्येवं ते ऽन्योन्यमार्दयन् // Jम्_११.५ //
712 SK ततः प्रवृत्ते तुमुले स्फूर्जत्प्रहरणे रणे / पटहध्वनिनोत्क्रुष्टैः स्फुटतीव नभस्तलम् // Jम्_११.६ //
713 SK दानगन्धोद्धतामर्षेष्वापतत्सु परस्परम् / युगान्तवाताकलितशैलभीमेषु दन्तिषु // Jम्_११.७ //
714 SK विद्युल्लोलपताकेषु प्रसृतेषु समन्ततः / रथेषु पटुनिर्घोषेषूत्पाताम्बुधरेष्विव // Jम्_११.८ //
715 SK पात्यमानध्वजच्छत्रशस्त्रावरणमौलिषु / देवदानववीरेषु शितैरन्योन्यसायकैः // Jम्_११.९ //
716 SK अथ प्रतप्तासुरशस्त्रसायकैर्भयात्प्रदुद्राव सुरेन्द्रवाहिनी / रथेन विष्टभ्य बलं तु विद्विषां सुरेन्द्र एकः समरे व्यतिष्ठत // Jम्_११.१० //
717 SK अभ्युदीर्णं त्वासुरं बलमतिहर्षात्पटुतरोत्क्रुष्टक्ष्वेडितसिंहनादमभिपतितमभिसमीक्ष्य मातलिर्देवेन्द्रसारथिः स्वं च बलं पलायनपरमवेत्यापयानमत्र प्राप्तकालमिति मत्वा देवाधिपतेः स्यन्दनमावर्तयामास / अथ शक्रो देवेन्द्रः समुत्पततो रथेषाग्राभिमुखान्यभिघातपथागतानि शाल्मलीवृक्षे गरुडनीडान्यपश्यत् / दृष्ट्वैव च करुणया समालम्ब्यमानहृदयो मातलिं संग्राहकमित्युवाच -
718 SK अजातपक्षद्विजपोतसङ्कुला द्विजालयाः शाल्मलिपादपाश्रयाः / अमी पतेयुर्न यथा रथेषया विचूर्णिता वाहय मे रथं तथा // Jम्_११.११ //
719 SK मातलिरुवाच - अमी तावन्मार्ष समभियान्ति नो दैत्यसंघा इति / शक्र उवाच - ततः किम्? परिहरैतानि सम्यग्गरुडनीडानीति / अथैनं मातलिः पुनरुवाच -
720 SK निवर्तनादस्य रथस्य केवलं शिवं भवेदम्बुरुहाक्ष पक्षिणाम् / चिरस्य लब्धप्रसरा सुरेष्वसावभिद्रवत्येव तु नो द्विषच्चमूः // Jम्_११.१२ //
721 SK अथ शक्रो देवेन्द्रः स्वमध्याशयातिशयं सत्त्वविशेषं च कारुण्यविशेषात् प्रकाशयन्नुवाच -
722 SK तस्मान्निवर्तय रथं वरमेव मृत्युर्दैत्याधिपप्रहितभीमगदाभिघातैः / धिग्वाददग्धयशसो न तु जीवितं मे सत्त्वान्यमूनि भयदीनमुखानि हत्वा // Jम्_११.१३ //
723 SK अथ मातलिस्तथेति प्रतिश्रुत्य तुरगसहस्रयुक्तं स्यन्दनमस्य निवर्तयामास /
724 SK दृष्टावदाना रिपवस्तु तस्य युद्धे समालोक्य रथं निवृत्तम् / भयद्रुताः प्रस्खलिताः प्रणेमुर्वाताभिनुन्ना इव कालमेघाः // Jम्_११.१४ //
725 SK भग्ने स्वसैन्ये विनिवर्तमानः पन्थानमावृत्य रिपुध्वजिन्याः / सङ्कोचयत्येव मदावलेपमेको ऽप्यसम्भाव्यपराक्रमत्वात् // Jम्_११.१५ //
726 SK निरीक्ष्य भग्नं तु तदासुरं बलं सुरेन्द्रसेनाप्यथ सा न्यवर्तत / बभूव नैव प्रणयः सुरद्विषां भयद्रुतानां विनिवर्तितुं यतः // Jम्_११.१६ //
727 SK सहर्षलज्जैस्त्रिदशैः सुराधिपः सभाज्यमानो ऽथ रणाजिराच्छनैः / अभिज्वलच्चारुवपुर्जयश्रिया समुत्सुकान्तःपुरमागमत् पुरम् // Jम्_११.१७ //
728 SK एवं स एव तस्य संग्रामस्य विजयो बभूव / तस्मादुच्यते -
729 SK पापं समाचरति वीतघृणो जघन्यः प्राप्यापदं सघृण एव तु मध्यबुद्धिः / प्राणात्यये ऽपि तु न साधुजनः स्ववृत्तिं वेलां समुद्र इव लङ्घयितुं समर्थः // Jम्_११.१८ //
730 SK तदेवं देवराज्यं प्राणानपि परित्यज्य दीर्घरात्रं परिपालितानि भगवता सत्त्वानि / तेष्विह प्राज्ञस्याघातो न युक्तरूपः प्रागेव विप्रतिपत्तिरिति प्राणिषु दयायत्तेनार्येण भवितव्यम् / तथा हि धर्मो ह वै रक्षति धर्मचारिणमित्यत्राप्युन्नेयम् / तथागतवर्णे सत्कृत्य धर्मश्रवणे चेति /
731 SK इति शक्रजातकमेकादशम् /
733 SK आत्मलज्जयैव सत्पुरुषा नाचारवेलां लङ्घयन्ति / तद्यथानुश्रूयते -
734 SK बोधिसत्त्वः किल कस्मिंश्चिदनुपक्रुष्टगोत्रचारित्रे स्वधर्मानुवृत्तिप्रकाशयशसि विनयाचारश्लाघिनि महति ब्राह्मणकुले जन्मपरिग्रहं चकार / स यथाक्रमं गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मादिभिः कृतसंस्कारक्रमो वेदाध्ययननिमित्तं श्रुताभिजनाचारसम्पन्ने गुरौ प्रतिवसति स्म /
735 SK तस्य श्रुतग्रहणधारणपाटवं च भक्त्यन्वयश्च सततं स्वकुलप्रसिद्धः / पूर्वे वयस्यपि शमाभरणा स्थितिश्च प्रेमप्रसादसुमुखं गुरुमस्य चक्रुः // Jम्_१२.१ //
736 SK वशीकरणमन्त्रा हि नित्यमव्याहता गुणाः / अपि द्वेषाग्नितप्तानां किं पुनः स्वस्थचेतसाम् // Jम्_१२.२ //
737 SK अथ तस्याध्यापकः सर्वेषामेव शिष्याणां शीलपरीक्षानिमित्तं स्वाध्यायविश्रामकालेष्वात्मनो दारिद्र्यदुःखान्यभीक्ष्णमुपवर्णयामास /
738 SK स्वजने ऽपि निराक्रन्दमुत्सवे ऽपि हतानन्दम् / धिक्प्रदानकथामन्दं दारिद्र्यमफलच्छन्दम् // Jम्_१२.३ //
739 SK परिभवभवनं श्रमास्पदं सुखपरिवर्जितमत्यनूर्जितम् / व्यसनमिव सदैव शोचनं धनविकलत्वमतीव दारुणम् // Jम्_१२.४ //
740 SK अथ ते तस्य शिष्याः प्रतोदसंचोदिता इव सदश्वा गुरुस्नेहात्समुपजातसंवेगाः सम्पन्नतरं प्रभूततरं च भैक्षमुपसंहरन्ति स्म / स तानुवाच - अलमनेनात्रभवतां परिश्रमेण / न भैक्षोपहाराः कस्यचिद्दारिद्र्यक्षामतां क्षपयन्ति / अस्मत्परिक्लेशामर्षिभिस्तु भवद्भिरयमेव यत्नो धनाहरणं प्रति युक्तः कर्त्तुं स्यात् / कुतः?
741 SK क्षुधमन्नं जलं तर्षं मन्त्रवाक्सागदा गदान् / हन्ति दारिद्र्यदुःखं तु सन्तत्याराधनं धनम् // Jम्_१२.५ //
742 SK शिष्या ऊचुः - किं करिष्यामो मन्दभाग्या वयं यदेतावान्नः शक्तिप्रयामः / अपि च
743 SK भैक्षवद्यदि लभ्येररन्नुपाध्याय धनान्यपि / नेदं दारिद्र्यदुःखं ते वयमेवं सहेमहि // Jम्_१२.६ //
744 SK प्रतिग्रहकृशोपायं विप्राणां हि धनार्जनम् / अप्रदाता जनश्चायमित्यगत्या हता वयम् // Jम्_१२.७ //
745 SK अध्यापक उवाच - सन्त्यन्ये ऽपि शास्रपरिदृष्टा धनार्जनोपायाः / जरानिष्पीतसामर्थ्यास्तु वयमयोग्यरूपास्तत्प्रतिपत्तौ / शिष्या ऊचुः - वयमुपाध्याय जरयानुपहतपराक्रमाः / तद्यदि नस्तेषां शास्त्रविहितानामुपायानां प्रतिपत्तिसहतां मन्यसे, तदुच्यताम् / यावदध्यापनपरिश्रमस्यानृण्यं ते गच्छाम इति / अध्यापक उवाच - तरुणैरपि व्यवसायशिथिलहृदयैर्दुरभिसम्भवाः खल्वेवंविधा धनार्जनोपायाः / यदि त्वयमत्र भवतां निर्बन्धः / तच्छ्रुयतां साधुः कतम एको धनोपार्जनक्रमः /
746 SK आपद्धर्मः स्तेयमिष्टं द्विजानामापच्चान्त्या निःस्वता नाम लोके / तस्माद् भोज्यं स्वं परेषामदुष्टैः सर्वं चैतद् ब्राह्मणानां स्वमेव // Jम्_१२.८ //
747 SK कामं प्रसह्यापि धनानि हर्तुं शक्तिर्भवेदेव भवद्विधानाम् / न त्वेष योगः स्वयशो हि रक्ष्यं शून्येषु तस्माद्व्यवसेयमेव // Jम्_१२.९ //
748 SK इति मुक्तप्रग्रहास्तेन ते छात्राः परममिति तत्तस्य वचनमयुक्तमपि युक्तमिव प्रत्यश्रौषुरन्यत्र बोधिसत्त्वात् /
749 SK स हि प्रकृतिभद्रत्वात्तन्नोत्सेहे ऽनुमोदितुम् / कृत्यवत्प्रतिपन्नं तैर्व्याहन्तुं सहसैव तु // Jम्_१२.१० //
750 SK व्रीडावनतवदनस्तु बोधिसत्त्वो मृदु विनिश्वस्य तूष्णीमभूत् /
751 SK अथ स तेषामध्यापको बोधिसत्त्वमवेक्ष्य तं विधिमनभिनन्दन्तमप्रतिक्रोशन्तं निविष्टगुणसम्भावनस्तस्मिन्महासत्त्वे किं नु खल्वयमव्यवसितत्वान्निःस्नेहतया वा मयि स्तेयं न प्रतिपद्यते, उताधर्मसंज्ञयेति समुत्पन्नविमर्शस्तत्स्वभावव्यक्तीकरणार्थं बोधिसत्त्वमुवाच - भो महाब्राह्मण
752 SK अमी द्विजा मद्व्यसनासहिष्णवः समाश्रिता वीरमनुष्यपद्धतिम् / भवाननुत्साहजडस्तु लभ्यते न नूनमस्मद्व्यसनेन तप्यते // Jम्_१२.११ //
753 SK परिप्रकाशे ऽप्यनिगूढविस्तरे मयात्मदुःखे वचसा विदर्शिते / कथं नु निःसम्भ्रमदीनमानसो भवानिति स्वस्थवदेव तिष्ठति // Jम्_१२.१२ //
754 SK अथ बोधिसत्त्वः ससम्भ्रमो ऽभिवाद्योपाध्यायमुवाच - शान्तं पापम् / न खल्वहं निःस्नेहकठिनहृदयत्वादपरितप्यमानो गुरुदुःखैरेवमवस्थितः, किन्त्वसम्भवादुपाध्यायप्रदर्शितस्य क्रमस्य / न हि शक्यमदृश्यमानेन क्वचित्पापमाचरितुम् / कुतः? रहो ऽनुपपत्तेः /
755 SK नास्ति लोके रहो नाम पापं कर्म प्रकुर्वतः / अदृश्यानि हि पश्यन्ति ननु भूतानि मानुषान् // Jम्_१२.१३ //
756 SK कृतात्मानश्च मुनयो दिव्योन्मिषितचक्षुषः / तानपश्यन्रहोमानी बालः पापे प्रवर्तते // Jम्_१२.१४ //
757 SK अहं पुनर्न पश्यामि शून्यं क्वचन किञ्चन / यत्राप्यन्यं न पश्यामि नन्वशून्यं मयैव तत् // Jम्_१२.१५ //
758 SK परेण यच्च दृश्येत दुष्कृतं स्वयमेव वा / सुदृष्टतरमेतत्स्याद् दृश्यते स्वयमेव यत् // Jम्_१२.१६ //
759 SK स्वकार्यपर्याकुलमानसत्वात्पश्येन्न वान्यश्चरितं परस्य / रागार्पितैकाग्रमतिः स्वयं तु पापं प्रकुर्वन्नियमेन वेत्ति // Jम्_१२.१७ //
760 SK तदनेन कारणेनाहमेवं व्यवस्थित इति / अथ बोधिसत्त्वः समभिप्रसादितमनसमुपाध्यायमवेत्य पुनरुवाच -
761 SK न चात्र मे निश्चयमेति मानसं धनार्थमेवं प्रतरेद्भवानपि / अवेत्य को नाम गुणागुणान्तरं गुणोपमर्दं धनमूल्यतां नयेत् // Jम्_१२.१८ //
762 SK स्वाभिप्रायं खलु निवेदयामि -
763 SK कपालमादाय विवर्णवाससा वरं द्विषद्वेश्मसमृद्धिरीक्षिता / व्यतीत्य लज्जां न तु धर्मवैशसे सुरेन्द्रतार्थे ऽप्युपसंहृतं मनः // Jम्_१२.१९ //
764 SK अथ तस्योपाध्यायः प्रहर्षविस्मयाक्षिप्तहृदय उत्थायासनात्सम्परिष्वज्यैनमुवाच - साधु साधु पुत्रक साधु साधु महाब्राह्मण प्रतिरूपमेतत्ते प्रशमालङ्कृतस्यास्य मेधाविकस्य /
765 SK निमित्तमासाद्य यदेव किञ्चन स्वधर्ममार्गं विसृजन्ति बालिशाः / तपःश्रुतज्ञानधनास्तु साधवो न यान्ति कृच्छ्रे परमे ऽपि विक्रियाम् // Jम्_१२.२० //
766 SK त्वया कुलं सममलमभ्यलङ्कृतं समुद्यता नभ इव शारदेन्दुना / तवार्थवत्सुचरितविश्रुतं श्रुतं सुखोदयः सफलतया श्रमश्च मे // Jम्_१२.२१ //
767 SK तदेवमात्मलज्जयैव सत्पुरुषा नाचारवेलां लङ्घयन्तीति ह्रीबलेनार्येण भवितव्यम् / एवं ह्रीपरिखासम्पन्न आर्यश्रावको ऽकुशलं प्रजहाति कुशलं च भावयतीत्येवमादिषु सूत्रेषूपनेयम् / ह्रीवर्णप्रतिसंयुक्तेषु लोकाधिपतेयेषु चेति /
768 SK इति ब्राह्मणजातकं द्वादशम् /
769 SK १३. Uन्मादयन्तीजातकम्
770 SK तीव्रदुःखातुराणामपि सतां नीचमार्गनिष्प्रणयता भवति स्वधैर्यावष्टम्भात् / तद्यथानुश्रूयते -
771 SK सत्यत्यागोपशमप्रज्ञादिभिर्गुंणातिशयैर्लोकहितार्थमुद्यच्छमानः किल बोधिसत्त्वः कदाचिच्छिबीनां राजा बभूव साक्षाद्धर्म इव विनय इव पितेव प्रजानामुपकारप्रवृत्तः /
772 SK दोषप्रवृत्तेर्विनियम्यमानो निवेश्यमानश्च गुणाभिजात्ये / पित्रेव पुत्रः क्षितिपेन तेन ननन्द लोकद्वितये ऽपि लोकः // Jम्_१३.१ //
773 SK समप्रभावा स्वजने जने च धर्मानुगा तस्य हि दण्डनीतिः / अधर्म्यमावृत्य जनस्य मार्गं सोपानमालेव दिवो बभूव // Jम्_१३.२ //
774 SK धर्मान्वयं लोकहितं स पश्यंस्तदेककार्य्ॐ नरलोकपालः / सर्वात्मना धर्मपथे ऽभिरेमे तस्योपमर्दं च परैर्न सेहे // Jम्_१३.३ //
775 SK अथ तस्य राज्ञः पौरमुख्यस्य दुहिता श्रीरिव विग्रहवती साक्षाद्रतिरिवाप्सरसामन्यतमेव परया रूपलावण्यसंपदोपेता परमदर्शनीया स्त्रीरत्नसंमता बभूव /
776 SK अवीतरागस्य जनस्य यावत्सा लोचनप्राप्यवपुर्बभूव / तावत्स तद्रूपगुणावबद्धां न दृष्टिमुत्कम्पयितुं शशाक // Jम्_१३.४ //
777 SK अतश्च तस्या उन्मादयन्तीत्येव बान्धवा नाम चक्रुः /
778 SK अथ तस्याः पिता राज्ञः संविदितं कारयामासस्त्रीरत्नं ते देव विषये प्रादुर्भूतम् / यतस्तत्प्रतिग्रहं विसर्जनं वा प्रति देवः प्रमाणमिति / अथ स राजा स्त्रीलक्षणविदो ब्राह्मणान् समादिदेशपश्यन्त्वेनां तत्रभवन्तः किमसावस्मद्योग्या न वेति / अथ तस्याः पिता तान्ब्राह्मणान् स्वभवनमभिनीयोन्मादयन्तीमुवाच - भद्रे स्वयमेव ब्राह्मणान् परिवेषयेति / सा तथेति प्रतिश्रुत्य यथाक्रमं ब्राह्मणान् परिवेषयितुमुपचक्रमे / अथ ते ब्राह्मणाः
779 SK तदाननोद्वीक्षणनिश्चलाक्षा मनोभुवा संह्रियमाणधैर्याः / अनीश्वरा लोचनमानसानामासुर्मदेनेव विलुप्तसंज्ञाः // Jम्_१३.५ //
780 SK यदा च नैव शक्नुवन्ति स्म प्रतिसंख्यानधीरनिभृतमवस्थातुं, कुत एव भोक्तुम् / अथैषां चक्षुष्पथादुत्सार्य स्वां दुहितरं स गृहपतिः स्वयमेव ब्राह्मणान् परिवेष्य विसर्जयामास / अथ तेषां बुद्धिरभवत् - कृत्यारूपमिव खल्विदमतिमनोहरमस्या दारिकाया रूपचातुर्यम् / यतो नैनां राजा द्रष्टुमप्यर्हति कुतः पुनः पत्नीत्वं गमयितुम् / अनया हि रूपशोभया नियतमस्योन्मादितहृदयस्य धर्मार्थकार्यप्रवृत्तेर्विस्रस्यमानोत्साहस्य राजकार्यकालातिक्रमाः प्रजानां हितसुखोदयपथमुपपीडयन्तः पराभवाय स्युः /
781 SK इयं हि संदर्शनमात्रकेण कुर्यान्मुनीनामपि सिद्धिविघ्नम् / प्रागेव भावार्पितदृष्टिवृष्टेर्यूनः क्षितीशस्य सुखे स्थितस्य // Jम्_१३.६ //
782 SK तस्मादिदमत्र प्राप्तकालमिति यथाप्रस्तावमुपेत्य राज्ञे निवेदयामासुः - दृष्टास्माभिर्महाराज सा कन्यका / अस्ति तस्या रूपचातुर्यमात्रकमपलक्षणोपघातनिःश्रीकं तु / यतो नैनां द्रष्टुमप्यर्हति देवः, किं पुनः पत्नीत्वं गमयितुम् /
783 SK कुलद्वयस्यापि हि निन्दिता स्त्री यशो विभूतिं च तिरस्करोति / निमग्नचन्द्रेव निशा समेघा शोभां विभागं च दिवस्पृथिव्योः // Jम्_१३.७ //
784 SK इति श्रुतार्थः स राजा - अपलक्षणा किलासौ, न च मे कुलानुरूपेति तस्यां विनिवृत्ताभिलाषो बभूव / अनर्थितां तु विज्ञाय राज्ञः स गृहपतिस्तां दारिकां तस्यैव राज्ञो ऽमात्यायाभिपारगाय प्रायच्छत् /
785 SK अथ कदाचित्स राजा क्रमागतां कौमुदीं स्वस्मिन्पुरवरे निषक्तशोभां द्रष्टुमुत्सुकमना रथवरगतः सिक्तसंमृष्टरथ्यान्तरापणमुच्छ्रितविचित्रध्वजपताकं समन्ततः पुष्पोपहारशबलभूमिभागधवलं प्रवृत्तनृत्तगीतहास्यलास्यवादित्रं पुष्पधूपचूर्णवासमाल्यासवस्नानानुलेपनामोदप्रसृतसुरभिगन्धि प्रसारितविविधरुचिरपण्यं तुष्टपुष्टोज्ज्वलतरवेषपौरजानपदसंबाधराजमार्गं पुरवरमनुविचरंस्तस्यामात्यस्य भवनसमीपमुपजगाम / अथोन्मादयन्त्यपलक्षणा किलाहमित्यनेन राज्ञावधूतेति समुत्पन्नामर्षा राजदर्शनकुतूहलेन नाम संदृश्यमानरूपशोभा विद्युदिव घनशिखरं (Vऐद्य ८६) हर्म्यतलमवभासयन्ती व्यतिष्ठत / शक्तिरस्येदानीमस्त्वपलक्षणादर्शनादविचलितधृतिस्मृतिमात्मानं धारयितुमिति / अथ तस्य राज्ञः पुरवरविभूतिदर्शनकुतूहलप्रसृता दृष्टिरभिमुखस्थितायां सहसैव तस्यामपतत् / अथ स राजा -
786 SK प्रकाममन्तःपुरसुन्दरीणां वपुर्विलासैः कलितेक्षणो ऽपि / अनुद्धतो धर्मपथानुरागादुद्योगवानिन्द्रियनिर्जये ऽपि // Jम्_१३.८ //
787 SK विपुलधृतिगुणो ऽप्यपत्रपिष्णुः परयुवतीक्षणविक्लवेक्षणो ऽपि / उदितमदनविस्मयः स्त्रियं तां चिरमनिमेषविलोचनो ददर्श // Jम्_१३.९ //
788 SK कौमुदी किं न्वियं साक्षाद्भवनस्यास्य देवता / स्वर्गस्त्री दैत्ययोषिद्वा न ह्येतन्मानुषं वपुः // Jम्_१३.१० //
789 SK इति विचारयत एव तस्य राज्ञस्तद्दर्शनावितृप्तनयनस्य स रथस्तं देशमतिवर्तमानो न मनोरथानुकूलो बभूव / अथ स राजा शून्यहृदय इव तद्गतैकाग्रमनाः स्वभवनमुपेत्य मन्मथाक्षिप्तधृतिः सुनन्दं सारथिं रहसि पर्यपृच्छत् -
790 SK सितप्राकारसंवीतं वेत्सि कस्य नु तद्गृहम् / का सा तत्र व्यरोचिष्ट विद्युत्सित इवाम्बुदे // Jम्_१३.११ //
791 SK सारथिरुवाच - अस्ति देवस्याभिपारगो नामामात्यमुख्यः / तस्य तद्गृहं तस्यैव च सा भार्या किरीटवत्सस्य दुहिता उन्मादयन्ती नामेति / तदुपश्रुत्य स राजा परभार्येति वितानीभूतहृदयश्चिन्तास्तिमितनयनो दीर्घमुष्णमभिनिश्वस्य तदर्पितमनाः शनैरात्मगतमुवाच -
792 SK अन्वर्थरम्याक्षरसौकुमार्यमहो कृतं नाम यथेदमस्याः / उन्मादयन्तीति शुचिस्मितायास्तथा हि सोन्मादमिवाकरोन्माम् // Jम्_१३.१२ //
793 SK विस्मर्तुंमेनामिच्छामि पश्यामीव च चेतसा / स्थितं तस्यां हि मे चेतः सा प्रभुत्वेन तत्र वा // Jम्_१३.१३ //
794 SK परस्य नाम भार्यायां ममाप्येवमधीरता / तदुन्मत्तो ऽस्मि संत्यक्तो लज्जयेवाद्य निद्रया // Jम्_१३.१४ //
795 SK तस्या वपुर्विलसितस्मितवीक्षितेषु संरागनिश्चलमतेः सहसा स्वनन्ती / कार्यान्तरक्रमनिवेदनधृष्टशब्दा विद्वेषमुत्तुदति चेतसि नालिका मे // Jम्_१३.१५ //
796 SK इति स राजा मदबलविचलितधृतिर्व्यवस्थापयन्नप्यात्मानमापाण्डुकृशतनुः प्रध्यानविनिश्वसितविजृम्भणपरः प्रव्यक्तमदनाकारो बभूव /
797 SK धृत्या महत्यापि निगुह्यमानः स भूपतेस्तस्य मनोविकारः / मुखेन चिन्तास्तिमितेक्षणेन कार्श्येन च व्यक्तिमुपाजगाम // Jम्_१३.१६ //
798 SK अथेङ्गिताकारग्रहणनिपुणमतिरभिपारगो ऽमात्यस्तं राज्ञो वृत्तान्तं सकारणमुपलभ्य स्नेहात्तदत्ययाशङ्को जानानश्चातिबलतां मदनस्य रहसि राजानं संविदितं समुपेत्य कृताभ्यनुज्ञो विज्ञापयामास -
799 SK अद्यार्चयन्तं नरदेव देवान्साक्षादुपेत्याम्बुरुहाक्ष यक्षः / मामाह नावैषि नृपस्य कस्मादुन्मादयन्त्यां हृदयं निविष्टम् // Jम्_१३.१७ //
800 SK इत्येवमुक्त्वा सहसा तिरो ऽभूद्विमर्शवानित्यहमभ्युपेतः / तच्चेत्तथा देव किमेतदेवमस्मासु ते निष्प्रणयत्वमौनम् // Jम्_१३.१८ //
801 SK तत्प्रतिग्रहीतुमेनामर्हति मदनुग्रहार्थं देव इति / अथ राजा प्रत्यादेशाल्लज्जावनतवदनो मदनवशगतो ऽपि स्वभ्यस्तधर्मसंज्ञत्वादविक्लवीभूतधैर्यः प्रत्याख्यानविशदाक्षरमेनमुवाच - नैतदस्ति / कुतः?
802 SK पुण्याच्च्युतः स्याममरो न चास्मि विद्याच्च नः पापमिदं जनो ऽपि / तद्विप्रयोगाच्च मनो ज्वलंत्स्वां वह्निः पुरा कक्षमिव क्षिणोति // Jम्_१३.१९ //
803 SK यच्चोभयोरित्यहितावहं स्याल्लोके परस्मिन्निह चैव कर्म / तद्यस्य हेतोरबुधा भजन्ते तस्यैव हेतोर्न बुधा भजन्ते // Jम्_१३.२० //
804 SK अभिपारग उवाच - अलमत्र देवस्य धर्मातिक्रमाशङ्कया /
805 SK दाने साहाय्यदानेन धर्म एव भवेत्तव / दानविघ्नात्त्वधर्मः स्यात्तां मत्तो ऽप्रतिगृह्णतः // Jम्_१३.२१ //
806 SK कीर्त्युपरोधावकाशमपि चात्र देवस्य न पश्यामि / कुतः?
807 SK आवाभ्यामिदमन्यश्च क एव ज्ञातुमर्हति / जनापवादादाशङ्कामतो मनसि मा कृथाः // Jम्_१३.२२ //
808 SK अनुग्रहश्चैष मम स्यान्न पीडा / कुतः?
809 SK स्वाम्यर्थचर्यार्जितया हि तुष्ट्या निरन्तरे चेतसि को विघातः / यतः सुकामं कुरु देव काममलं मदुत्पीडनशङ्कया ते // Jम्_१३.२३ //
810 SK राजोवाच - शान्तं पापम् /
811 SK व्यक्तमस्मदतिस्नेहान्न त्वयैतदपेक्षितम् / यथा दाने न सर्वस्मिन्साचिव्यं धर्मसाधनम् // Jम्_१३.२४ //
812 SK यो मदर्थमतिस्नेहात्स्वान् प्राणानपि नेक्षते / तस्य बन्धुविशिष्टस्य सख्युर्भार्या सखी मम // Jम्_१३.२५ //
813 SK तदयुक्तं मामतीर्थे प्रतारयितुम् / यदपि चेष्टं नैतदन्यः कश्चिज्ज्ञास्यतीति, किमेवमिदमपापं स्यात्?
814 SK अदृश्यमानो ऽपि हि पापमाचरन्विषं निषेव्येव कथं समृध्नुयात् / न तं न पश्यन्ति विशुद्धचक्षुषो दिवौकसश्चैव नराश्च योगिनः // Jम्_१३.२६ //
816 SK श्रद्दधीत क एतच्च यथासौ तव न प्रिया / तां परित्यज्य सद्यो वा विघातं न समाप्नुयाः // Jम्_१३.२७ //
818 SK सपुत्रदारो दासो ऽहं स्वामी त्वं दैवतं च मे / दास्यामस्यां यतो देव कस्ते धर्मव्यतिक्रमः // Jम्_१३.२८ //
819 SK यदपि चेष्टं प्रिया ममेयमिति किम्?
820 SK मम प्रिया कामद काममेषा तेनैव दित्सामि च तुभ्यमेनाम् / प्रियं हि दत्त्वा लभते परत्र प्रकर्षरम्याणि जनः प्रियाणि // Jम्_१३.२९ //
821 SK यतः प्रतिगृह्णात्वेवैनां देव इति / राजोवाच - मा मैवम् / अक्रम एषः / कुतः?
822 SK अहं हि शस्त्रं निशितं विशेयं हुताशनं विस्फुरदर्चिषं वा / न त्वेव धर्मादधिगम्य लक्ष्मीं शक्ष्यामि तत्रैव पुनः प्रहर्तुम् // Jम्_१३.३० //
823 SK अभिपारग उवाच - यद्येनां मद्भार्येति देवो न प्रतिग्रहीतुमिच्छत्ययमहमस्याः सर्वजनप्रार्थनाविरुद्धवेश्याव्रतमादिशामि / तत एनां देवः प्रतिगृह्णीयादिति / राजोवाच - किमुन्मत्तो ऽसि?
824 SK अदुष्टां संत्यजन्भार्यां मत्तो दण्डमवाप्नुयाः / स धिग्वादास्पदीभूतः परत्रेह च धक्ष्यसे // Jम्_१३.३१ //
825 SK तदलमकार्यनिर्बन्धितया / न्यायाभिनिवेशी भवेति / अभिउपारग उवाच -
826 SK धर्मात्ययो मे यदि कश्चिदेवं जनापवादः सुखविप्लवो वा / प्रत्युद्गमिष्याम्युरसा तु तत्तत्त्वत्सौख्यलब्धेन मनःसुखेन // Jम्_१३.३२ //
827 SK त्वत्तः परं चाहवनीयमन्यं लोके न पश्यामि महीमहेन्द्र / उन्मादयन्ती मम पुण्यवृद्ध्यै तां दक्षिणामृत्विगिव प्रतीच्छ // Jम्_१३.३३ //
828 SK राजोवाच - काममस्मदतिस्नेहादनवेक्षितात्महिताहितक्रमो मदर्थचर्यासमुद्योगस्तवायम् / अत एव तु त्वां विशेषतो नोपेक्षितुमर्हामि / नैव खलु लोकापवादनिःशङ्केन भवितव्यम् / पश्य,
829 SK लोकस्य यो नाद्रियते ऽपवादं धर्मानपेक्षः परतः फलं वा / जनो न विश्वासमुपैति तस्मिन्ध्रुवं च लक्ष्म्यापि विवर्ज्यते सः // Jम्_१३.३४ //
831 SK मा ते रोचिष्ट धर्मस्य जीवितार्थे व्यतिक्रमः / निःसंदिग्धमहादोषः ससन्देहकृशोदयः // Jम्_१३.३५ //
833 SK निन्दादिदुःखेषु परान्निपात्य नेष्टा सतामात्मसुखप्रवृत्तिः / एको ऽप्यनुत्पीड्य परानतो ऽहं धर्मे स्थितः स्वार्थधुरं प्रपत्स्ये // Jम्_१३.३६ //
834 SK अभिपारग उवाच - स्वाम्यर्थं भक्तिवशेन चरतो मम तावदत्र क एवाधर्मावकाशः स्याद्देवस्य वा दीयमानामेनां प्रतिगृह्णतः / यतः सनैगमजानपदाः शिबयः किमत्राधर्म इति ब्रूयुः / तत् प्रतिगृह्णात्वेवैनां देव इति / राजोवाच - अद्धा मदर्थचर्याप्रणयिमतिर्भवान् / इदं त्वत्र चिन्तयितव्यम् - सनैगमजानपदानां वा शिबीनां तव मम वा को ऽस्माकं धर्मवित्तम इति / अथाभिपारगः ससंभ्रमो राजानमुवाच -
835 SK बृद्धोपसेवासु कृतश्रमत्वाच्छ्रुताधिकारान्मतिपाटवाच्च / त्रिवर्गविद्यातिशयार्थतत्त्वं त्वयि स्थितं देव बृहस्पतौ च // Jम्_१३.३७ //
836 SK राजोवाच - तेन हि न मामत्र प्रतारयितुमर्हसि / कुतः? नराधिपानां चरितेष्वधीनं लोकस्य यस्मादहितं हितं च / भक्तिं प्रजानामनुचिन्त्य तस्मात्कीर्तिक्षमे सत्पथ एव रंस्ये // Jम्_१३.३८ //
837 SK जिह्मं शुभं वा वृषभप्रचारं गावो ऽनुगा यद्वदनुप्रयान्ति / उत्क्षिप्तशङ्काङ्कशनिर्विघट्टं प्रजास्तथैव क्षितिपस्य वृत्तिम् // Jम्_१३.३९ //
838 SK अपि पश्यतु तावद्भवान् /
839 SK आत्मानमपि चेच्छक्तिर्न स्यात्पालयितुं मम / का न्ववस्था जनस्यास्य मत्तो रक्षाभिकाङ्क्षिणः // Jम्_१३.४० //
840 SK इति प्रजानां हितमीक्षमाणः स्वं चैव धर्मं विमलं यशश्च / नेच्छामि चित्तस्य वशेन गन्तुमहं हि नेता वृषवत्प्रजानाम् // Jम्_१३.४१ //
841 SK अथाभिपारगो ऽमात्यस्तेन राज्ञो ऽवस्थानेन प्रसादितमनाः प्रणम्य राजानं प्राञ्जलिरित्युवाच -
842 SK अहो प्रजानामतिभाग्यसम्पद्यासां त्वमेवं नरदेव गोप्ता / धर्मानुरागो हि सुखानपेक्षस्तपोवनस्थेष्वपि मृग्य एव // Jम्_१३.४२ //
843 SK महच्छब्दो महाराज त्वय्येवायं विराजते विगुणेषु गुणोक्तिर्हि क्षेपरूक्षतराक्षरा // Jम्_१३.४३ //
844 SK विस्मयो ऽनिभृतत्वं वा किं ममैतावता त्वयि / समुद्र इव रत्नानां गुणानां यस्त्वमाकरः // Jम्_१३.४४ //
845 SK तदेवं तीव्रदुःखातुराणामपि सतां नीचमार्गनिष्प्रणयता भवति स्वधैर्यावष्टम्भात् स्वभ्यस्तधर्मसंज्ञत्वाच्चेति धैर्यधर्माभ्यासे च योगः कार्य इति /
846 SK इत्युन्मादयन्तीजातकं त्रयोदशम् /
848 SK धर्माश्रयं सत्यवचनमप्यापदं नुदति प्रागेव तत्फलमिति धर्मानुवर्तिना भवितव्यम् / तद्यथानुश्रूयते -
849 SK बोधिसत्त्वभूतः किल महासत्त्वः परमनिपुणमतिर्नौसारथिर्बभूव / धर्मता ह्येषा बोधिसत्त्वानां प्रकृतिमेधावित्वाद्यदुत यं यं शास्त्रातिशयं जिज्ञासन्ते कलाविशेषं वा तस्मिंस्तस्मिन्नधिकतरा भवन्ति मेधाविनो जगतः / अथ स महात्मा विदितज्योतिर्गतित्वाद्दिग्विभागेष्वसम्मूढमतिः परिविदितनियतागन्तुकौत्पातिकनिमित्तः कालाकालक्रमकुशलो मीनतोयवर्णभौमप्रकारशकुनिपर्वतादिभिश्चिह्नैः सूपलक्षितसमुद्रदेशः स्मृतिमान्विजिततन्द्रीनिद्रः शीतोष्णवर्षादिपरिखेदसहिष्णुरप्रमादी धृतिमानाहरणापहरणकुशलत्वादीप्सितं देशं प्रापयिता वणिजामासीत् / तस्य परमसिद्धयात्रत्वात्सुपारग इत्येव नाम बभूव / तदध्युषितं च पत्तनं सुपारगमित्येवाख्यातमासीत् / यदेतर्हि सूपारगमिति ज्ञायते / सो ऽपि मङ्गलसम्मतत्वाद् वृद्धत्वे ऽपि सांयात्रिकैर्यात्रासिद्धिकामैर्वहनमभ्यर्थनसत्कारपुरःसरमारोप्यते स्म /
850 SK अथ कदाचिद्भरुकच्छादभिप्रयाताः सुवर्णभूमिवणिजो यात्रासिद्धिकामाः सुपारगं पत्तनमुपेत्य तं महासत्त्वं वहनारोहणार्थमभ्यर्थयामासुः / स तानुवाच -
851 SK जराज्ञया संह्रियमाणदर्शने श्रमाभिपातैः प्रतनूकृतस्मृतौ / स्वदेहकृत्ये ऽप्यवसन्नविक्रमे सहायता का परिशङ्क्यते मयि // Jम्_१४.१ //
852 SK वणिज ऊचुः - विदितेयमस्माकं युष्मच्छरीरावस्था / सत्यपि च वः पराक्रमासहत्वे नैव वयं कर्मविनियोगेन युष्मानायासयितुमिच्छामः / किं तर्हि?
853 SK त्वत्पादपङ्कजसमाश्रयसत्कृतेन मङ्गल्यतामुपगता रजसा त्वियं नौः / दुर्गे महत्यपि च तोयनिधावमुष्मिन् स्वस्ति व्रजेदिति भवन्तमुपागताः स्मः // Jम्_१४.२ //
854 SK अथ स महात्मा तेषामनुकम्पया जराशिथिलशरीरो ऽपि तद्वहनमारुरोह / तदधिरोहणाच्च प्रमुदितमनसः सर्व एव ते वणिजो बभूवुर्नियतमस्माकमुत्तमा यात्रासिद्धिरिति / क्रमेण चावजगाहिरे विविधमीनकुलविचरितमनिभृतजलकलकलारावमनिलबलविलासप्रविचलिततरङ्गं बहुविधरत्नैर्भूमिविशेषैरर्पितरङ्गं फेनावलीकुसुमदामविचित्रमसुरबलभुजगभवनं दुरापपातालमप्रमेयतोयं महासमुद्रम् /
855 SK अथेन्द्रनीलप्रकराभिनीलं सूर्यांशुतापादिव खं विलीनम् / समन्ततो ऽन्तर्हिततीरलेखमगाधमम्मोनिधिमध्यमीयुः // Jम्_१४.३ //
856 SK तेषां तत्रानुप्राप्तानां सायाह्नसमये मृदूभूतकिरणचक्रप्रभावे सवितरि महदौत्पातिकं परमभीषणं प्रादुरभूत् /
857 SK विभिद्यमानोर्मिविकीर्णफेनश्चण्डानिलास्फालनभीमनादः / नैभृत्यनिर्मुक्तसमग्रतोयः क्षणेन रौद्रः समभूत् समुद्रः // Jम्_१४.४ //
858 SK उत्पातवाताकलितैर्महद्भिस्तोयस्थलैर्भीमरयैर्भ्रमद्भिः / युगान्तकालप्रचलाचलेव भूमिर्बभूवोग्रवपुः समुद्रः // Jम्_१४.५ //
859 SK विद्युल्लतोद्भासुरलोलजिह्वा नीला भुजङ्गा इव नैकशीर्षाः / आवव्रुरादित्यपथं पयोदाः प्रसक्तभीमस्तनितानुनादाः // Jम्_१४.६ //
860 SK घनैर्घनैरावृतरश्मिजालः सूर्यः क्रमेणास्तमुपारुरोह / दिनान्तलब्धप्रसरं समन्तात्तमो घनीभावमिवाजगाम // Jम्_१४.७ //
861 SK धाराशरैराच्छुरितोर्मिचक्रे महोदधावुत्पततीव रोषात् / भीतेव नौरभ्यधिकं चकम्पे विषादयन्ती हृदयानि तेषाम् // Jम्_१४.८ //
862 SK ते त्रासदीनाश्च विषादमूका धीराः प्रतीकारससम्भ्रमाश्च / स्वदेवतायाचनतत्पराश्च भावान्यथा सत्त्वगुणं विवव्रुः // Jम्_१४.९ //
863 SK अथ ते सांयात्रिकाः पवनबलचलितसलिलवेगवशगया नावा परिभ्रम्यमाणा बहुभिरप्यहोभिर्नैव कुतश्चित्तीरं ददृशुर्न च यथेप्सितानि समुद्रचिह्नानि / अपूर्वैरेव तु समुद्रचिह्नैरभिवर्धमानवैमनस्या भयविषादव्याकुलतामुपजग्मुः / अथैतान् सुपारगो बोधिसत्त्वो व्यवस्थापयन्नुवाच - अनाश्चर्यं खलु महासमुद्रमध्यमवगाढानामौत्पातिकक्षोभपरिक्लेशः / तदलमत्रभवतां विषादानुवृत्त्या / कुतः?
864 SK नापत्प्रतीकारविधिर्विषादस्तस्मादलं दैन्यपरिग्रहेण / धैर्यात्तु कार्यप्रतिपत्तिदक्षाः कृच्छ्राण्यकृच्छ्रेण समुत्तरन्ति // Jम्_१४.१० //
865 SK विषाददैन्यं व्यवधूय तस्मात्कार्यावकाशं क्रियया भजध्वम् / प्राज्ञस्य धैर्यज्वलितं हि तेजः सर्वार्थसिद्धिग्रहणाग्रहस्तः // Jम्_१४.११ //
866 SK तद्यथाधिकारावहिता भवन्तु भवन्तः / इति ते सांयात्रिकास्तेन महात्मना धीरीकृतमनसः कूलदर्शनोत्सुकमतयः समुद्रमवलोकयन्तो ददृशुः पुरुषविग्रहानामुक्तरूप्यकवचानिवोन्मज्जतो निमज्जतश्च / सम्यक् चैषामाकृतिनिमित्तमुपधार्य सविस्मयाः सुपारगाय न्यवेदयन्त - अपूर्वं खल्विदमिह महासमुद्रे चिह्नमुपलभ्यते / एते खलु
867 SK आमुक्तरूप्यकवचा इव दैत्ययोधा घोरेक्षणाः खुरनिकाशविरूपघोणाः / उन्मज्जनावतरणस्फुरणप्रसंगात् क्रीडामिवार्णवजले ऽनुभवन्ति के ऽपि // Jम्_१४.१२ //
868 SK सुपारग उवाच - नैते मानुषा अमानुषा वा / मीनाः खल्वेते / यतो न भेतव्यमेभ्यः / किन्तु -
869 SK सुदूरपमकृष्टाः स्मः पत्तनद्वितयादपि / खुरमाली समुद्रो ऽयं तद्यतध्वं निवर्तितुम् // Jम्_१४.१३ //
870 SK चण्डवेगवाहिना सलिलनिवहेनैकान्तहरेण च पाश्चात्त्येन वायुना समाक्षिप्तया नावा न ते सांयात्रिकाः शेकुर्विनिवर्तितुम् / अथावगाहमानाः क्रमेण रूप्यप्रभावभासितमनीलफेननिचयपाण्डुरमपरं समुद्रमालोक्य सविस्मयाः सुपारगमूचुः -
871 SK स्वफेनमग्नैरिव को ऽयमम्बुभिर्महार्णवः शुक्लदुकूलवानिव / द्रवानिवेन्दोः किरणान्समुद्वहन्समन्ततो हास इव प्रसर्पति // Jम्_१४.१४ //
872 SK सुपारग उवाच - कष्टम् / अतिदूरं खल्ववगाह्यते /
873 SK क्षीरार्णव इति ख्यात उदधिर्दधिमाल्यसौ / क्षमं नातः परं गन्तुं शक्यते चेन्निवर्तितुम् // Jम्_१४.१५ //
874 SK वणिज ऊचुः - न खलु शक्यते विलम्बयितुमपि वहनं कुत एव सन्निवर्तयितुमतिशीघ्रवाहित्वाद्वहनस्य प्रतिकूलत्वाच्च मारुतस्येति / अथ व्यतीत्य तमपि समुद्रं सुवर्णप्रभानुरञ्जितप्रचलोर्मिमालमग्निज्वालकपिलसलिलमपरं समुद्रमालोक्य सविस्मयकौतूहलास्ते वणिजः सुपारगं पप्रच्छुः -
875 SK बालार्कलक्ष्म्येव कृताङ्गरागैः समुन्नमद्भिः सलिलैरनीलैः / ज्वलन्महानग्निरिवावभाति को नाम तस्माच्च महार्णवो ऽयम् // Jम्_१४.१६ //
877 SK अग्निमालीति विख्यातः समुद्रो ऽयं प्रकाशते / अतीव खलु साधु स्यान्निवर्तेमहि यद्यतः // Jम्_१४.१७ //
878 SK इति स महात्मा नाममात्रमकथयत्तस्य सरित्पतेर्न तोयवैवर्ण्यकारणं दीर्घदर्शित्वात् / अथ ते सांयात्रिकास्तमपि समुद्रमतीत्य पुष्परागेन्द्रनीलप्रभोद्योतितसलिलं परिपक्वकुशवननिकाशवर्णं समुद्रमालोक्य कौतूहलजाताः सुपारगं पप्रच्छुः -
879 SK परिणतकुशपर्णवर्णतोयः सलिलनिधिः कतमो न्वयं विभाति / सकुसुम इव फेनभक्तिचित्रैरनिलजवाकलितैस्तरङ्गभङ्गैः // Jम्_१४.१८ //
880 SK सुपारग उवाच - भोः सार्थवाहा निवर्तनं प्रति यत्नः क्रियताम् / न खल्वतः क्षमते परं गन्तुम् /
881 SK कुशमाली समुद्रो ऽयमत्यङ्कश इव द्विपः / प्रसह्यासह्यसलिलो हरन्हरति नो रतिम् // Jम्_१४.१९ //
882 SK अथ ते वाणिजकाः परेणापि यत्नेन निवर्तयितुमशक्नुवन्तस्तमपि समुद्रमतीत्य वंशरागवैडूर्यप्रभाव्यतिकरहरितसलिलमपरं समुद्रमालोक्य सुपारगमपृच्छन् -
883 SK मरकतहरितप्रभैर्जलैर्वहति नवामिव शाद्वलश्रियम् / कुमुदरुचिरफेनभूषणः सलिलनिधिः कतमो ऽयमीक्ष्यते // Jम्_१४.२० //
884 SK अथ स महात्मा तेन वणिग्जनस्य व्यसनोपनिपातेन दह्यमानहृदयो दीर्घमुष्णमभिनिश्वस्य शनैरुवाच -
885 SK अतिदूरमुपेताः स्थ दुःखमस्मान्निवर्तितुम् / पर्यन्त इव लोकस्य नलमाल्येष सागरः // Jम्_१४.२१ //
886 SK तच्छ्रुत्वा ते वाणिजका विषादोपरुध्यमानमनसो विस्रस्यमानगात्रोत्साहा निश्वसितमात्रपरायणास्तत्रैव निषेदुः / व्यतीत्य च तमपि समुद्रं सायाह्नसमये विलम्बमानरश्मिमण्डले सलिलनिधिमिव प्रवेष्टुकामे दिवसकरे समुद्वर्तमानस्येव सलिलनिधेरशनीनामिव च सम्पततां वेणुवनानामिव चाग्निपरिगतानां विस्फुटतां तुमुलमतिभीषणं श्रुतिहृदयविदारणं समुद्रध्वनिमश्रौषुः / श्रुत्वा च सन्त्रासवशगाः स्फुरन्मनसः सहसैवोत्थाय समन्ततो ऽनुविलोकयन्तो ददृशुः प्रपात इव श्वभ्र इव च महति तमुदकौघं निपतन्तम् / दृष्ट्वा च परमभयविषादविह्वलाः सुपारगमुपेत्योचुः
887 SK निर्भिन्दन्निव नः श्रुतीः प्रतिभयश्चेतांसि मथ्नन्निव क्रुद्धस्येव सरित्पतेर्ध्वनिरयं दूरादपि श्रूयते / भीमे श्वभ्र इवार्णवस्य निपतत्येतत्समग्रं जलं तत्को ऽसावुदधिः किमत्र च परं कृत्यं भवान्मन्यते // Jम्_१४.२२ //
888 SK अथ स महात्मा ससम्भ्रमः कष्टं कष्टमित्युक्त्वा समुद्रमालोकयन्नुवाच -
889 SK यत्प्राप्य न निवर्तन्ते मृत्योर्मुखमिवामुखम् / अशिवं समुपेताः स्थ तदेतद्वडवामुखम् // Jम्_१४.२३ //
890 SK तदुपश्रुत्य ते वाणिजका वडवामुखमुपेता वयमिति त्यक्तजीविताशा मरणभयविक्लवीभूतमनसः
891 SK सस्वरं रुरुदुः केचिद्विलेपुरथ चुक्रुशुः / न किञ्चित्प्रत्यपद्यन्त केचित्त्रासविचेतसः // Jम्_१४.२४ //
892 SK विशेषतः केचिदभिप्रणेमुर्देवेन्द्रमार्तिप्रहतैर्मनोभिः / आदित्यरुद्रांश्च मरुद्वसूंश्च प्रपेदिरे सागरमेव चान्ये // Jम्_१४.२५ //
893 SK जेपुश्च मन्त्रानपरे विचित्रानन्ये तु देवीं विधिवत्प्रणेमुः / सुपारगं केचिदुपेत्य तत्तद्विचेष्टमानाः करुणं विलेपुः // Jम्_१४.२६ //
894 SK आपद्गतत्रासहरस्य नित्यं परानुकम्पागुणसम्भृतस्य / अयं प्रभावातिशयस्य तस्य तवाभ्युपेतो विनियोगकालः // Jम्_१४.२७ //
895 SK आर्ताननाथाञ्छरणागतान्नस्त्वं त्रातुमावर्जय धीर चेतः / अयं हि कोपाद्वडवामुखेन चिकीर्षति ग्रासमिवार्णवो ऽस्मान् // Jम्_१४.२८ //
896 SK नोपेक्षितुं युक्तमयं जनस्ते विपद्यमानः सलिलौघमध्ये / नाज्ञां तवात्येति महासमुद्रस्तद्वार्यतामप्रशमो ऽयमस्य // Jम्_१४.२९ //
897 SK अथ स महात्मा महत्या करुणया समापीड्यमानहृदयस्तान्वाणिजकान्व्यवस्थापयन्नुवाच - अस्त्यत्रापि नः कश्चित्प्रतिकारविधिः प्रतिभाति / तत्तावत्प्रयोक्ष्ये / यतो मुहूर्तं धीरास्तावद् भवन्तु भवन्त इति / अथ ते वाणिजका अस्त्यत्रापि किल प्रतीकारविधिरित्याशया समुपस्तम्भितधैर्यास्तदवहितमनसस्तूष्णींबभूवुः /
898 SK अथ सुपारगो बोधिसत्त्व एकांसमुत्तरासङ्गं कृत्वा दक्षिणेन जानुमण्डलेनाधिष्ठाय नावं समावर्जितसर्वभावः प्रणम्य तथागतेभ्यस्तान्सांयात्रिकानामन्त्रयते स्म - श्रृण्वन्त्वत्रभवन्तः सांयात्रिकाः सलिलनिधिव्योमाश्रयाश्च देवविशेषाः
899 SK स्मरामि यत आत्मानं यतः प्राप्तो ऽस्मि विज्ञताम् / नाभिजानामि सञ्चिन्त्य प्राणिनं हिंसुतुं क्वचित् // Jम्_१४.३० //
900 SK अनेन सत्यवाक्येन मम पुण्यबलेन च / वडवामुखमप्राप्य स्वस्ति नौर्विनिवर्तताम् // Jम्_१४.३१ //
901 SK अथ तस्य महात्मनः सत्याधिष्ठानबलात्पुण्यतेजसा सह सलिलजवेन स मारुतो व्यावर्तमानस्तां नावं निवर्तयामास / निवृत्तां तु तां नावमभिसमीक्ष्य ते वाणिजकाः परमविस्मयप्रहर्षोद्धतमानसा निवृत्ता नौरिति प्रणामसभाजनपुरःसरं सुपारगाय न्यवेदयन्त / अथ स महात्मा तान्वाणिजकानुवाच - स्थिरीभवन्तु भवन्तः / शीघ्रमारोप्यन्तां शीतानि / इति च तेन समादिष्टाः प्रमोदादुद्भूतबलोत्साहास्ते तदधिकृतास्तथा चक्रुः /
902 SK अथ मुदितजनप्रहासनादा प्रविततपाण्डुरशीतचारुपक्षा / सलिलनिधिगता रराज सा नौर्गतजलदे नभसीव राजहंसी // Jम्_१४.३२ //
903 SK निवृत्तायां तु तस्यां नाव्यनुकूलसलिलमारुतायां विमानलीलया स्वेच्छयैव चाभिप्रयातायां नातिश्यामीभूतसन्ध्याङ्गरागासु प्रवितन्यमानतमोवितानास्वालक्षितनक्षत्रभूषणासु दिक्षु किञ्चिदवशेषप्रभे दिवसकरमार्गे प्रवृत्तक्षणदाधिकारे सुपारगस्तान्वाणिजकानुवाच - भोः सार्थवाहा नलमालिप्रभृतिभ्यो यथादृष्टेभ्यः समुद्रेभ्यो वालुकाः पाषाणाश्च वहनमारोप्यन्तां यावत्सहते / एवमिदं यानपात्रं निर्घातभरीक्रान्तं न च पार्श्वानि दास्यति, मङ्गलसम्मताश्चैते वालुकापाषाणा नियतं लाभसिद्धये वो भविष्यन्तीति / अथ ते सांयात्रिकाः सुपारगप्रेमबहुमानावर्जितमतिभिर्देवताभिरनुप्रदर्शितेभ्यः स्थलेभ्य आदाय वालुकापाषाणबुद्ध्या वैडूर्यादीनि रत्नानि वहनमारोपयामासुः / तेनैव चैकरात्रेण सा नौर्भरुकच्छमुपजगाम /
904 SK अथ प्रभाते रजतेन्द्रनीलवैडूर्यहेमप्रतिपूर्णनौकाः / स्वदेशतीरान्तमुपागतास्ते प्रीत्या तमानर्चुरुदीर्णहर्षाः // Jम्_१४.३३ //
905 SK तदेवं धर्माश्रयं सत्यवचनमप्यापदं नुदति प्रागेव तत्फलमिति धर्मानुवर्तिना भवितव्यम् / कल्याणमित्राश्रयवर्णे ऽपि वाच्यमेवं कल्याणमित्राश्रिताः श्रेयः प्राप्नुवन्तीति /
906 SK इति सुपारगजातकं चतुर्दशम् /
908 SK शीलवतामिहैवाभिप्रायाः कल्याणाः समृध्यन्ति प्रागेव परत्रेति शीलविशुद्धौ प्रयतितव्यम् / तद्यथानुश्रूयते -
909 SK बोधिसत्त्वः किल कस्मिंश्चिन्नातिमहति कह्लारतामरसकमलकुवलयविभूषितरुचिरसलिले हंसकारण्डवचक्रवाकमिथुनोपशोभिते तीरान्तरुहतरुकुसुमावकीर्णे सरसि मत्स्याधिपतिर्बभूव / स्वभ्यस्तभावाच्च बहुषु जन्मान्तरेषु परार्थचर्यायास्तत्रस्थो ऽपि परहितसुखप्रतिपादनव्यापारो बभूव /
910 SK अभ्यासयोगाद्धि शुभाशुभानि कर्माणि सात्म्येन भवन्ति पुंसाम् / तथाविधान्येव यदप्रयत्नाज्जन्मान्तरे स्वप्न इवाचरन्ति // Jम्_१५.१ //
911 SK इष्टानामिव च स्वेषामपत्यानामुपरि निविष्टहार्दो महासत्त्वस्तेषां मीनानां दानप्रियवचनार्थचर्यादिक्रमैः परमनुग्रहं चकार /
912 SK अन्योन्यहिंसाप्रणयं नियच्छन्परस्परप्रेम विवर्धयंश्च / योगादुपायज्ञतया च तेषां विस्मारयामास स मत्स्यवृत्तम् // Jम्_१५.२ //
913 SK तत्तेन सम्यक्परिपाल्यमानं वृद्धिं परां मीनकुलं जगाम / पुरं विनिर्मुक्तमिवोपसर्गैर्न्यायप्रवृत्तेन नराधिपेन // Jम्_१५.३ //
914 SK अथ कदाचित्सत्त्वानां भाग्यसम्पद्वैकल्यात्प्रमादाच्च वर्षाधिकृतानां देवपुत्राणां न सम्यग्देवो ववर्ष / अथासम्यग्वर्षिणि देवे तत्सरः फुल्लकदम्बकुसुमगौरेण नवसलिलेन न यथापुरमापुपूरे / क्रमेण चोपगते निदाघकालसमये पटुतरदीप्तिभिः खेदालसगतिभिरिव च दिनकरकिरणैस्तदभितप्तया च धरण्या ज्वालानुगतेनेव च ह्लादाभि लाषिणा मारुतेन तर्षवशादिव प्रत्यहमापीयमानं तत्सरः पल्वलीबभूव /
915 SK निदाघकाले ज्वलितो विवस्वाञ्ज्वालाभिवर्षीव पटुश्च वायुः / ज्वरातुरेवाशिशिरा च भूमिस्तोयानि रोषादिव शोषयन्ति // Jम्_१५.४ //
916 SK अथ बोधिसत्त्वो वायसगणैरपि परितर्क्यमाणं प्रागेव सलिलतीरान्तचारिभिः पक्षिगणैर्विषाददैन्यवशगं विस्पन्दितमात्रपरायणं मीनकुलमवेक्ष्य करुणायमानश्चिन्तामापेदे / कष्टा बतेयमापदापतिता मीनानाम् /
917 SK प्रत्यहं क्षीयते तोयं स्पर्धमानमिवायुषा / अद्यापि च चिरेणैव लक्ष्यते जलदागमः // Jम्_१५.५ //
918 SK अपयानक्रमो नास्ति नेताप्यन्यत्र को भवेत् / अस्मद्व्यसनसंकृष्टाः समायान्ति च नो द्विषः // Jम्_१५.६ //
919 SK अस्य निःसंशयमिमे तोयशेषस्य संक्षयात् / स्फुरन्तो भक्षयिष्यन्ते शत्रुभिर्मम पश्यतः // Jम्_१५.७ //
920 SK तत्किमत्र प्राप्तकालं स्यादिति विमृशन्स महात्मा सत्याधिष्ठानमेकमार्तायनं ददर्श / करुणया च समापीड्यमानहृदयो दीर्घमुष्णमभिनिश्वस्य नभः समुल्लोकयन्नवाच -
921 SK स्मरामि न प्राणिवधं यथाहं सञ्चिन्त्य कृच्छ्रे परमे ऽपि कर्तुम् / अनेन सत्येन सरांसि तोयैरापूरयन्वर्षतु देवराजः // Jम्_१५.८ //
922 SK अथ तस्य महात्मनः पुण्योपचयगुणात्सत्याधिष्ठानबलात्तदभिप्रसादितदेवनागयक्षानुभावाच्च समन्ततस्तोयाबलम्बिबिम्बा गम्भीरमधुरनिर्घोषा विद्युल्लतालङ्कृतनीलविपुलशिखरा विजृम्भमाणा इव प्रविसर्पिभिः शिखरभुजैः परिष्वजमाना इव चान्योन्यमकालमेघाः कालमेघाः प्रादुरभवन् /
923 SK दिशां प्रमिण्वन्त इव प्रयामं शृङ्गैर्वितन्वन्त इवान्धकारम् / नभस्तलादर्शगता विरेजुश्छाया गिरीणामिव कालमेघाः // Jम्_१५.९ //
924 SK संसक्तकेकैः शिखिभिः प्रहृष्टैः संस्तूयमाना इव नृत्तचित्रैः / प्रसक्तमन्द्रस्तनिता विरेजुर्धीरप्रहासादिव ते घनौघाः // Jम्_१५.१० //
925 SK मुक्ता विमुक्ता इव तैर्विमुक्ता धारा निपेतुः प्रशशाम रेणुः / गन्धश्चचारानिभृतो धरण्यां विकीर्यमाणो जलदानिलेन // Jम्_१५.११ //
926 SK निदाघसम्पर्कविवर्धितो ऽपि तिरोबभूवार्ककरप्रभावः / फेनावलीव्याकुलमेखलानि तोयानि निम्नाभिमुखानि सस्रुः // Jम्_१५.१२ //
927 SK मुहुर्मुहुः काञ्चनपिञ्जराभिर्भाभिर्दिगन्ताननुरञ्जयन्ती / पयोदतूर्यस्वनलब्धहर्षा विद्युल्लता नृत्तमिवाचचार // Jम्_१५.१३ //
928 SK अथ बोधिसत्त्वः समन्ततो ऽभिप्रसृतैरापाण्डुभिः सलिलप्रवाहैरापूर्यमाणे सरसि धारानिपातसमकालमेव विद्रुते वायसाद्ये पक्षिगणे प्रतिलब्धजीविताशे च प्रमुदिते मीनगणे प्रीत्याभिसार्यमाणहृदयो वर्षनिवृत्तिसाशङ्कः पुनः पुनः पर्जन्यमाबभाषे -
929 SK उद्गर्ज पर्जन्य गभीरधीरं प्रमोदमुद्वासय वायसानाम् / रत्नायमानानि पयांसि वर्षन्संसक्तविद्युज्ज्वलितद्युतीनि // Jम्_१५.१४ //
930 SK तदुपश्रुत्य शक्रो देवानामिन्द्रः परमविस्मितमनाः साक्षादभिगम्यैनमभिसंराधयन्नुवाच -
931 SK तवैव खल्वेष महानुभाव मत्स्येन्द्र सत्यातिशयप्रभावः / आवर्जिता यत्कलशा इवेमे क्षरन्ति रम्यस्तनिताः पयोदाः // Jम्_१५.१५ //
932 SK महत्प्रमादस्खलितं त्विदं मे यन्नाम कृत्येषु भवद्विधानाम् / लोकार्थमभ्युद्यतमानसानां व्यापारयोगं न समभ्युपैमि // Jम्_१५.१६ //
933 SK चिन्तां कृथा मा तदतः परं त्वं सतां हि कृत्योद्वहने ऽस्मि धुर्यः / देशो ऽप्ययं त्वद्गुणसंश्रयेण भूयश्च नैवं भवितार्तिवश्यः // Jम्_१५.१७ //
934 SK इत्येवं प्रियवचनैः संराध्य तत्रैवान्तर्दधे / तच्च सरः परां तोयसमृद्धिमवाप /
935 SK तदेवं शीलवतामिहैवाभिप्रायाः कल्याणाः समृध्यन्ति प्रागेव परत्रेति शीलविशुद्धौ प्रयतितव्यम् /
936 SK इति मत्स्यजातकं पञ्चदशम् /
937 SK १६. Vअर्तकापीतकजातकम्
938 SK सत्यपरिभावितां वाचमग्निरपि न प्रसहते लङ्घयितुमिति सत्यवचने ऽभियोगः करणीयः / तद्यथानुश्रूयते -
939 SK बोधिसत्त्वः किलान्यतमस्मिन्नरण्यायतने वर्तकापोतको भवति स्म / स कतिपयरात्रोद्भिन्नाण्डकोशः प्रविरोक्ष्यमाणतरुणपक्षः परिदुर्बलत्वादलक्ष्यमाणाङ्गप्रत्यङ्गप्रदेशः स्वमातापितृप्रयत्नरचिते तृणगहनोपगूढे गुल्मलतासंनिश्रिते नीडे संबहुलैर्भ्रातृभिः सार्धं प्रतिवसति स्म / तदवस्थो ऽपि चापरिलुप्तधर्मसंज्ञत्वान्मातापितृभ्यामुपहृतान्प्राणिनो नेच्छति स्माभ्यवहर्तुम् / यदेव त्वस्य तृणबीजन्यग्रोधफलाद्युपजह्रतुर्मातापितरौ तेनैव वर्तयामास / तस्य तया रूक्षाल्पाहारतया न कायः पुष्टिमुपययौ / नापि पक्षौ सम्यक्प्रविरुरोहतुः / इतरे तु वर्तकापोतका यथोपनीतमाहारमभ्यवहरन्तो बलवन्तः सञ्जातपक्षाश्च बभूवुः / धर्मता ह्येषा यदुत -
940 SK धर्माधर्मनिराशङ्कः सर्वाशी सुखमेधते / धर्म्यां तु वृत्तिमन्विच्छन्विचिताशीह दुःखितः // Jम्_१६.१ //
941 SK [अपि चोक्तं भगवता - सुजीवितमह्रीकेणेति गाथाद्वयम् /
942 SK सुजीवितमह्रीकेण ध्वाङ्क्षेणाशुचिकर्मणा / प्रस्कन्दिना प्रगल्भेन सुसंक्लिष्टं तु जीवितम् // Jम्_१६.२ //
943 SK ह्रीमता त्विह दुर्जीवं नित्यं शुचिगवेषिणा / संलीनेनाप्रगल्भेन शुद्धाजीवेन जीवता // Jम्_१६.३ //
944 SK इति गाथाद्वयमेतदार्यस्थाविरीयकनिकाये पठ्यते / तेषामेवमवस्थानां नातिदूरे महान्वनदावः प्रतिभयप्रसक्तनिनदो विजृम्भमाणधूमराशिर्विकीर्यमाणज्वालावलीलोलविस्फुलिङ्गः सन्त्रासनो वनचराणामनयो वनगहनानां प्रादुरभवत् /
945 SK स मारुताधूर्णितविप्रकीर्णैर्ज्वालाभुजैर्नृत्तविशेषचित्रैः / वल्गन्निव व्याकुलधूमकेशः सस्वान तेषां धृतिमाददानः // Jम्_१६.४ //
946 SK चण्डानिलास्फालनचञ्चलानि भयद्रुतानीव वने तृणानि / सो ऽग्निः ससंरम्भ इवाभिपत्य स्फुरत्स्फुलिङ्गप्रकरो ददाह // Jम्_१६.५ //
947 SK भयद्रुतोद्भ्रान्तविहङ्गसार्थं परिभ्रमद्भीतमृगं समन्तात् / धूमौघमग्नं पटुवह्निशब्दं वनं तदार्त्येव भृशं ररास // Jम्_१६.६ //
948 SK क्रमेण चोत्पीड्यमान इव स वह्निः पटुना मारुतेन तृणगहनानुसारी तेषां नीडसमीपमुपजगाम / अथ ते वर्तकापोतका भयविरसव्याकुलविरावाः परस्परनिरपेक्षाः सहसा समुत्पेतुः / परिदुर्बलत्वादसञ्जातपक्षत्वाच्च बोधिसत्त्वस्तु नोत्पतितुं प्रयत्नं चकार / विदितात्मप्रभावस्त्वसंभ्रान्त एव स महासत्त्वः सरभसमिवोपसर्पन्तमग्निं सानुनयमित्युवाच -
949 SK व्यर्थाभिधानचरणो ऽस्म्यविरूढपक्षस्त्वत्सम्भ्रमाच्च पितरावपि मे प्रडीनौ / त्वद्योग्यमस्ति न च किञ्चिदिहातिथेयमस्मान्निवर्तितुमतस्तव युक्तमग्ने // Jम्_१६.७ //
950 SK इत्युक्ते सत्यपरिभावितवचसा तेन महासत्त्वेन -
951 SK उदीर्यमाणो ऽप्यनिलेन सो ऽग्निर्विशुष्कसंसक्ततृणे ऽपि कक्षे / नदीमिव प्राप्य विवृद्धतोयां तद्वाचमासाद्य शशाम सद्यः // Jम्_१६.८ //
952 SK अद्यापि तं हिमवति प्रथितं प्रदेशं दावाग्निरुद्धतशिखो ऽपि समीरणेन / मन्त्राभिशप्त इव नैकशिरा भुजङ्गः सङ्कोचमन्दलुलितार्चिरुपैति शान्तिम् // Jम्_१६.९ //
953 SK तत्किमिदमुपनीतमिति? उच्यते -
954 SK वेलामिव प्रचलितोर्मिफणः समुद्रः शिक्षां मुनीन्द्रविहितामिव सत्यकामः / सत्यात्मनामिति न लङ्घयितुं यदाज्ञां शक्तः कृशानुरपि सत्यमतो न जह्यात् // Jम्_१६.१० //
955 SK तदेवं सत्यवचनपरिभावितां वाचमग्निरपि न प्रसहते लङ्घयितुमिति सत्यवचने ऽभियोगः करणीयः / तथागतवर्णे ऽपि वाच्यमिति /
956 SK इति वर्तकापोतकजातकं षोडशम् /
958 SK अनेकदोषोपसृष्टमतिकष्टं मद्यपानमिति साधवः परमप्यस्माद्वारयन्ति प्रागेवात्मानमिति / तद्यथानुश्रूयते -
959 SK बोधिसत्त्वः किल करुणातिशयपरिभावितमतिः परहितसुखोपपादनपरः पुण्यां प्रतिपदमुद्भावयन्दानदमसंयमादिभिः कदाचिच्छक्रा देवानामिन्द्रो बभूव / स प्रकर्षिणामपि दिव्यानां विषयसुखानां निकामलाभी सन्नपि करुणावशगत्वान्नैव लोकार्थचर्यासमुद्योगशिथिलं मनश्चकार /
960 SK प्रायेण लक्ष्मीमदिरोपयोगाज्जागर्ति नैवात्महिते ऽपि लोकः / सुरेन्द्रलक्ष्म्यापि तु निर्मदो ऽसावभूत्परार्थेष्वपि जागरूकः // Jम्_१७.१ //
961 SK अनेकतीव्रव्यसनातुरेषु सत्त्वेषु बन्धुष्विव जातहार्दः / धैर्यात्स्वभावज्ञतयाश्रितश्च नासौ विसस्मार परार्थचर्याम् // Jम्_१७.२ //
962 SK अथ कदाचित्स महात्मा मनुष्यलोकमवलोकयन्ननुकम्पासमावर्जितेन मैत्रस्निग्धेन स्वभावमहता चक्षुषा ददर्श सर्वमित्रं नाम राजानमकल्याणमित्रसंपर्कदोषात् सपौरजानपदं मद्यपानप्रसङ्गाभिमुखम् / तत्र चास्यादोषदर्शितामवेक्ष्य महादोषतां च मद्यपानस्य स महात्मा महत्या करुणया समापीड्यमानहृदयश्चिन्तामापेदे / कष्टा बतेयमापदापतिता लोकस्य /
963 SK प्रमुखस्वादु पानं हि दोषदर्शनविक्लवान् / श्रेयसो ऽपहरत्येव रमणीयमिवापथम् // Jम्_१७.३ //
964 SK तत्किमत्र प्राप्तकालं स्यात्? भवतु दृष्टम् /
965 SK प्रधानभूतस्य विचेष्टितानि जनो ऽनुकर्तुं नियतस्वभावः / इत्यत्र राजैव चिकित्सनीयः शुभाशुभं तत्प्रभवं हि लोके // Jम्_१७.४ //
966 SK इति विनिश्चित्य स महासत्त्वस्तप्तकाञ्चनवर्णमापरुषोद्ग्रथितजटाविटपधरं वल्कलाजिनसंवीतमोजस्वि ब्राह्मं वपुरभिनिर्माय सुरापूर्णं च वामपार्श्वस्थं नातिबृहन्तं कुम्भं सर्वमित्रस्य राज्ञः (Vऐद्य १०५) परिषदि संनिषण्णस्य प्रस्तावोपनतासु प्रवृत्तासु सुरासवशीधुमैरेयमधुकथासु पुरतो ऽन्तरिक्षे प्रादुरभूत् / विस्मयबहुमानावर्जितेन च प्राञ्जलिना तेन जनेनाभ्युत्थाय प्रत्यर्च्यमानः सजल इव जलधरो गम्भीरमभि दन्नुच्चैरुवाच -
967 SK पुष्पमालाहसत्कण्ठमिमं भरितमाकण्ठम् / अवतंसकृताकुम्भं क्रेतुमिच्छति कः कुम्भम् // Jम्_१७.५ //
968 SK सवलयमिव पुष्पमालया प्रविततयानिलकम्पलीलया / किसलयरचनासमुत्कटं घटमिममिच्छति कः क्रयेण वः // Jम्_१७.६ //
969 SK अथैनं स राजा विस्मयावर्जितकौतूहलः सबहुमानमीक्षमाणः कृताञ्जलिरुवाच -
970 SK दीप्त्या नवार्क इव चारुतया शशीव संलक्ष्यसे च वपुषान्यतमो मुनीनाम् / तद्वक्तुमर्हसि यथा विदितो ऽसि लोके संभावना हि गुणतस्त्वयि नो विचित्रा // Jम्_१७.७ //
972 SK पश्चादपि ज्ञास्यसि यो ऽहमस्मि घटं त्विदं क्रेतुमितो घटस्व / न चेद् भयं ते परलोकदुःखादिहैव तीव्रव्यसनागमाद्वा // Jम्_१७.८ //
973 SK राजोवाच - अपूर्वः खल्वयमत्रभवतः पश्य विक्रयारम्भः /
974 SK गुणसंवर्णनं नाम दोषाणां च निगूहनम् / प्रसिद्ध इति लोकस्य पण्यानां विक्रयक्रमः // Jम्_१७.९ //
975 SK युक्तो वानृतभीरूणां त्वद्विधानामयं विधिः / न हि कृच्छ्रे ऽपि संत्यक्तुं सत्यमिच्छन्ति साधवः // Jम्_१७.१० //
976 SK तदाचक्ष्व महाभाग पूर्णः कस्य घटो न्वयम् / किं वा विनिमये प्राप्यमस्मत्तस्त्वादृशैरपि // Jम्_१७.११ //
977 SK शक्र उवाच - श्रूयतां महाराज
978 SK नायं तोयदविच्युतस्य पयसः पूर्णो न तीर्थाम्भसः कैञ्जल्कस्य सुगन्धिनो न मधुनः सर्पिर्विशेषस्य वा / न क्षीरस्य विजृम्भमाणकुमुदव्यभ्रेन्दुपादच्छवेः पूर्णः पापमयस्य यस्य तु घटस्तस्य प्रभावं शृणु // Jम्_१७.१२ //
979 SK यत्पीत्वा मददोषविह्वलतया स्वतन्त्रश्चरन् देशेष्वप्रपतेष्वपि प्रपतितो मन्दप्रभावस्मृतिः / भक्ष्याभक्ष्यविचारणाविरहितस्तत्तत्समास्वादयेत् तत्संपूर्णमिमं गतं क्रयपथं क्रीणीत कुम्भाधमम् // Jम्_१७.१३ //
980 SK अनीशः स्वे चित्ते विचरति यया संहृतमतिर् द्विषां हासायामं समुपजनयन्गौरिव जडः / सदोमध्ये नृत्येत्स्वमुखपटहेनापि च यया क्रयार्हा सेयं वः शुभविरहिता कुम्भनिहिता // Jम्_१७.१४ //
981 SK पीत्वोचितामपि जहाति यथात्मलज्जां निर्ग्रन्थवद्वसनसंयमखेदमुक्तः / धीरं चरेत्पथिषु पौरजनाकुलेषु सा पश्यतामुपगता निहितात्र कुम्भे // Jम्_१७.१५ //
982 SK यत्पीत्वा वमथुसमुद्गतान्नलिप्ता निःशङ्कैः श्वभिरवलिह्यमानवक्त्राः / निःसंज्ञा नृपतिपथिष्वपि स्वपन्ति प्रक्षिप्तं क्रयसुभगं तदत्र कुम्भे // Jम्_१७.१६ //
983 SK उपयुज्य यन्मदबलादबला विनिबन्धयेदपि तरौ पितरौ / गणयेच्च सा धनपतिं न पतिं तदिदं घटे विनिहितं निहितम् // Jम्_१७.१७ //
984 SK यां पीतवन्तो मदलुप्तसंज्ञा वृष्ण्यन्धका विस्मृतबन्धुभावाः / परस्परं निष्पिपिषुर्गदाभिरुन्मादनी सा निहितेह कुम्भे // Jम्_१७.१८ //
985 SK यत्र प्रसक्तानि कुलानि नेशुर्लक्ष्मीनिकेतान्युदितोदितानि / उच्छेदनी वित्तवतां कुलानां सेयं घटे क्रय्यतयाधिरूढा // Jम्_१७.१९ //
986 SK अनियतरुदितस्थितविहसितवाग्जडगुरुनयनो ग्रहवशग इव / परिभवभवनं भवति च नियतं यदुपहतमतिस्तदिदमिह घटे // Jम्_१७.२० //
987 SK प्रवयसो ऽपि यदाकुलचेतनाः स्वहितमार्गसमाश्रयकातराः / बहु वदन्त्यसमीक्षितनिश्चयं क्रयपथेन गतं तदिदं घटे // Jम्_१७.२१ //
988 SK यस्या दोषात्पूर्वदेवाः प्रमत्ता लक्ष्मीमोषं देवराजादवाप्य / त्राणापेक्षास्तोयराशौ ममज्जुस्तस्याः पूर्णं कुम्भमेतं वृणीत // Jम्_१७.२२ //
989 SK ब्रूयादसत्यमपि सत्यमिव प्रतीतः कुर्यादकार्यमपि कार्यमिव प्रहृष्टः / यस्या गुणेन सदसत्सदसच्च विद्याच्छापस्य मूर्तिरिव सा निहितेह कुम्भे // Jम्_१७.२३ //
990 SK उन्मादविद्यां व्यसनप्रतिष्ठां साक्षादलक्ष्मीं जननीमघानाम् / अद्वैतसिद्धां कलिपद्धतिं तां क्रीणीत घोरां मनसस्तमिस्त्राम् // Jम्_१७.२४ //
991 SK परिमुषितमतिर्यया निहन्यादपि पितरं जननीमनागसं वा / अविगणितसुखायतिर्यतिं वा क्रयविधिना नृप तामितो गृहाण // Jम्_१७.२५ //
992 SK एवंविधं मद्यमिदं नरेन्द्र सुरेति लोके प्रथितं सुराभ / न पक्षपातो ऽस्ति गुणेषु यस्य स क्रेतुमुद्योगमिदं करोतु // Jम्_१७.२६ //
993 SK निषेव्य यद्दुश्चरितप्रसक्ताः पतन्ति भीमान्नरकप्रपातान् / तिर्यग्गतिं प्रेतदरिद्रतां च को नाम तद्द्रष्टुमपिव्यवस्येत् // Jम्_१७.२७ //
994 SK लघुरपि च विपाको मद्यपानस्य यः स्यान्मनुजगतिगतानां शीलदृष्टीः स हन्ति / ज्वलितदहनरौद्रे येन भूयो ऽप्यवीचौ निवसति पितृलोके हीनतिर्यक्षु चैव // Jम्_१७.२८ //
995 SK शीलं निमीलयति हन्ति यशः प्रसह्य लज्जां निरस्यति मतिं मलिनीकरोति / यन्नाम पीतमुपहन्ति गुणांश्च तांस्तांस्तत्पातुमर्हसि कथं नृप मद्यमद्य // Jम्_१७.२९ //
996 SK अथ सा राजा तैस्तस्य हृदयग्राहकैर्हेतुमद्भिर्वचोभिरवगमितमद्यपानदोषो मद्यप्रसङ्गादपवृत्ताभिलाषः शक्रमित्युवाच -
997 SK स्निग्धः पिता विनयभक्तिगुणाद् गुरुर्वा यद्वक्तुमर्हति नयानयविन्मुनिर्वा / तावत्त्वया स्वभिहितं हितकाम्यया मेतत्कर्मणा विधिवदर्चयितुं यतिष्ये // Jम्_१७.३० //
998 SK इदं च तावत्सुभाषितप्रतिपूजनमर्हति नो ऽत्रभवान् प्रतिग्रहीतुम् /
999 SK ददामि ते ग्रामवरांश्च पञ्च दासीशतं पञ्च गवां शतानि / सदश्वयुक्तांश्च रथान्दशेमान्हितस्य वक्ता हि गुरुर्ममासि // Jम्_१७.३१ //
1000 SK यद्वा मयान्यत्करणीयं तत्संदेशादर्हत्यत्रभवान्भूयो ऽपि मामनुग्रहीतुम् /
1002 SK अर्थो ऽस्ति न ग्रामवरादिना मे सुराधिपं मामभिगच्छ राजन् / संपूजनीयस्तु हितस्य वक्ता वाक्प्रग्रहेण प्रतिपन्मयेन // Jम्_१७.३२ //
1003 SK अयं हि पन्था यशसः श्रियश्च परत्र सौख्यस्य च तस्य तस्य / अपास्य तस्मान्मदिराप्रसङ्गं धर्माश्रयान्मद्विषयं भजस्व // Jम्_१७.३३ //
1004 SK इत्युक्त्वा शक्रस्तत्रैवान्तर्दधे / स च राजा सपौरजानपदो मद्यपानाद्विरराम /
1005 SK तदेवमनेकदोषोपसृष्टमतिकष्टं मद्यपानमिति साधवः परमस्माद्वारयन्ति प्रागेवात्मानमिति / एवं लोकहितः पूर्वजन्मस्वपि स भगवानिति तथागतवर्णे ऽपि वाच्यम् /
1006 SK इति कुम्भजातकं सप्तदशम् /
1008 SK शीलप्रशमप्रतिपक्षसंबाधं गार्हस्थ्यमित्येवमात्मकामा न रोचयन्ते / तद्यथानुश्रूयते -
1009 SK बोधिसत्त्वः किल कस्मिंश्चिदिभ्यकुले श्लाघनीयवृत्तचारित्रसंपन्ने प्रार्थनीयसंबन्धे कुलोद्भवानां निपानभूते श्रमणब्राह्मणानां कोशकोष्ठागारनिर्विशेषे मित्रस्वजनानामभिगमनीये कृपणवनीपकानामुपजीव्ये शिल्पिजनस्यास्पदभूते लक्ष्म्या दत्तानुग्रहसत्कारे राज्ञो लोकाभिसंमते जन्म प्रतिलेभे / स कालानामत्ययेनाभिवृद्धः कृतश्रमो लोकाभिमतेषु विद्यास्थानेष्वपरोक्षबुद्धिर्विविधविकल्पाश्रयासु कलासु जननयनकान्तेन च वपुषा धर्माविरोधिन्या च लोकज्ञतया स्वजन इव लोकस्य हृदयेषु पर्यवर्तत /
1010 SK न हि स्वजन इत्येव स्वजनो बहु मन्यते / जनो वा जन इत्येव स्वजनाद् दृश्यते ऽन्यथा // Jम्_१८.१ //
1011 SK गुणदोषाभिमर्शात्तु बहुमानावमानयोः / व्रजत्यास्पदतां लोकः स्वजनस्य जनस्य वा // Jम्_१८.२ //
1012 SK कृतप्रव्रज्यापरिचयत्वात्तु तस्य महासत्त्वस्य
1013 SK पर्येष्टिदुःखानुगतां विदित्वा गृहस्थतां धर्मविरोधिनीं च / सुखोदयत्वं च तपोवनानां न गेहसौख्येषु मनः ससञ्जे // Jम्_१८.३ //
1014 SK स मातापित्रोः कालक्रियया संविग्नहृदयस्तमनेकशतसहस्रसंख्यं गृहविभवसारं मित्रस्वजनकृपणश्रमणब्राह्मणेभ्यो यथार्हमतिसृज्य प्रवव्राज / सो ऽनुपूर्वेण ग्रामनगरनिगमराष्ट्रराजधानीष्वनुविचरन्नन्यतमनगरमुपश्रित्य कस्मिंश्चिद्वनप्रस्थे निवसति स्म / स ध्यानगुणाभ्यासात् सात्मीभूतेनाकृतकेनेन्द्रियप्रसादेन श्रुतिहृदयाह्लादिना च विद्वत्तासूचकेनानुत्सिक्तेन विगतलाभाशाकार्पण्यदैन्येन विनयौजस्विना यथार्हमधुरोपचारसौष्ठवेन धर्माधर्मविभागनिपुणेन च वचसा प्रव्रजिताचारशीभरया (च) सज्जनेष्टया चेष्टया तत्राभिलक्षितो बभूव / कौतूहलिना च जनेन समुपलब्धकुलप्रव्रज्याक्रमः सुष्ठुतरं लोकसंमतस्तत्राभूत् /
1015 SK आदेयतरतां यान्ति कुलरूपगुणाद् गुणाः / आश्रयातिशयेनेव चन्द्रस्य किरणाङ्कराः // Jम्_१८.४ //
1016 SK अथास्य तत्राभिगमनमुपलभ्य पितृवयस्यः समभिगम्य चैनं गुणबहुमानात् कुशलपरिप्रश्नपूर्वकं चास्मै निवेद्यात्मानं पितृवयस्यतां च संकथाप्रस्तावागतमेनं स्नेहादुवाच - चापलमिव खल्विदमनुवर्तितं भदन्तेनानपेक्ष्य कुलवंशमस्मिन् वयसि प्रव्रजता /
1017 SK आराध्यते सत्प्रतिपत्तिमद्भिर्धर्मो यदायं भवने वने वा / श्रीमन्ति हित्वा भवनान्यतस्त्वं कस्मादरण्येषु मतिं करोषि // Jम्_१८.५ //
1018 SK परप्रसादार्जितभैक्षवृत्तिरगण्यमानः खलवज्जनेन / कुचेलभृद्बन्धुसुहृद्विहीनो वनान्तभूमावपविद्धकायः // Jम्_१८.६ //
1019 SK मूर्तं दरिद्रत्वमिवोपगुह्य कथं नु शोकस्य वशं प्रयासि / इमामवस्थां हि तवेक्षमाणा द्विषो ऽपि बाष्पापिहितेक्षणाः स्युः // Jम्_१८.७ //
1020 SK तदेहि पित्र्यं भवनं तवेदं श्रुतार्थसारं भवतापि नूनम् / संपादयेथा निवसंस्त्वमत्र धर्मं च सत्पुत्रमनोरथं च // Jम्_१८.८ //
1021 SK लोकप्रवादः खल्वपि चैषः
1022 SK परकर्मकरस्यापि स्वे निपानसुखा गृहाः / किं पुनः सुखसंप्राप्ताः समृद्धिज्वलितश्रियः // Jम्_१८.९ //
1023 SK अथ बोधिसत्त्वः प्रविवेकसुखामृतरसपरिभावितमतिस्तत्प्रवणहृदयः समुपलब्धविशेषो गृहवनवासयोः कामोपभोगनिमन्त्रणायां तृप्त इव भोजनकथायामसुखायमान उवाच -
1024 SK इदं स्नेहोद्गतत्वात्ते काममल्पात्ययं वचः / सुखसंज्ञां तु मा कार्षीः कदाचिद्गृहचारके // Jम्_१८.१० //
1025 SK गार्हस्थ्यं महदस्वास्थ्यं सधनस्याधनस्य वा / एकस्य रक्षणायासादितरस्यार्जनश्रमात् // Jम्_१८.११ //
1026 SK यत्र नाम सुखं नैव सधनस्याधनस्य वा / तत्राभिरतिसंमोहः पापस्यैव फलोदयः // Jम्_१८.१२ //
1027 SK यदपि चेष्टं गृहस्थेनापि शक्यमयमाराधयितुं धर्म इति काममेवमेतत् / अतिदुष्करं तु मे प्रतिभाति धर्मप्रतिपक्षसंबाधत्वाच्छ्रमबाहुल्याच्च गृहस्य / पश्यतु भवान् /
1028 SK गृहा नानीहमानस्य न चैवावदतो मृषा / न चानिक्षिप्तदण्डस्य परेषामनिकुर्वतः // Jम्_१८.१३ //
1029 SK तदयं गृहसुखावबद्धहृदयस्तत्साधनोद्यतमतिर्जनः /
1030 SK यदि धर्ममुपैति नास्ति गेहमथ गेहाभिमुखः कुतो ऽस्य धर्मः / प्रशमैकरसो हि धर्ममार्गो गृहसिद्धिश्च पराक्रमक्रमेण // Jम्_१८.१४ //
1031 SK इति धर्मविरोधदूषितत्वाद् गृहवासं क इवात्मवान् भजेत / परिभूय सुखाशया हि धर्मं नियमो नास्ति सुखोदयप्रसिद्धौ // Jम्_१८.१५ //
1032 SK नियतं च यशःपराभवः स्यादनुतापो मनसश्च दुर्गतिश्च / इति धर्मविरोधिनं भजन्ते न सुखोपायमपायवन्नयज्ञाः // Jम्_१८.१६ //
1033 SK अपि च, सुखो गृहवास इति श्रद्धागम्यमिदं मे प्रतिभाति /
1034 SK नियतार्जनरक्षणादिदुःखे वधबन्धव्यसनैकलक्ष्यभूते / नृपतेरपि यत्र नास्ति तृप्तिर्विभवैस्तोयनिधेरिवाम्बुवर्षैः // Jम्_१८.१७ //
1035 SK सुखमत्र कुतः कथं कदा वा परिकल्पप्रणयं न चेदुपैति / विषयोपनिवेशने ऽपि मोहाद् व्रणकण्डूयनवत्सुखाभिमानः // Jम्_१८.१८ //
1036 SK बाहुल्येन च खलु ब्रवीमि -
1037 SK प्रायः समृद्ध्या मदमेति गेहे मानं कुलेनापि बलेन दर्पम् / दुःखेन रोषं व्यसनेन दैन्यं तस्मिन्कदा स्यात्प्रशमावकाशः // Jम्_१८.१९ //
1038 SK अतश्च खल्वहमत्रभवन्तमनुनयामि -
1039 SK मदमानमोहभुजगोपलयं प्रशमाभिरामसुखविप्रलयम् / क इवाश्रयेदभिमुखं विलयं बहुतीव्रदुःखनिलयं निलयम् // Jम्_१८.२० //
1040 SK संतुष्टजनगेहे तु प्रविविक्तसुखे वने / प्रसीदति यथा चेतस्त्रिदिवे ऽपि तथा कुतः // Jम्_१८.२१ //
1041 SK परप्रसादार्जितवृत्तिरप्यतो रमे वनान्तेषु कुचेलसंवृतः / अधर्ममिश्रं तु सुखं न कामये विषेण संपृक्तमिवान्नमात्मवान् // Jम्_१८.२२ //
1042 SK इत्यवगमितमतिः स तेन पितृवयस्यो हृदयग्राहकेण वचसा बहुमानमेव तस्मिन्महासत्त्वे सत्कारप्रयोगविशेषेण प्रवेदयामास /
1043 SK तदेवं शीलप्रशमप्रतिपक्षसंबाधं गार्हस्थ्यमित्येवमात्मकामाः परित्यजन्तीति / लब्धास्वादाः प्रविवेके, न कामेष्वावर्तन्त इति प्रविवेकगुणकथायामप्युपनेयम् /
1044 SK इत्यपुत्रजातकमष्टादशम् /
1046 SK प्रविवेकसुखरसज्ञानां विडम्बनेव विहिंसेव च कामाः प्रतिकूला भवन्ति / तद्यथानुश्रूयते -
1047 SK बोधिसत्त्वः किल कस्मिंश्चिन्महति गुणप्रकाशयशसि वाच्यदोषविरहिते ब्राह्मणकुले जन्मपरिग्रहं चकार / तस्य यत्र कनीयांसः षडपरे भ्रातरस्तदनुरूपगुणाः स्नेहबहुमानगुणान्नित्यानुगुणा बभूवुः, सप्तमी च भगिनी / स कृतश्रमः साङ्गेषु सोपवेदेषु वेदेषु समधिगतविद्यायशाः संमतो जगति दैवतवन्मातापितरौ परया भक्त्या परिचरन्नाचार्य इव पितेव तान्भ्रातॄन्विद्यासु विनयन्नयविनयकुशलो गृहमावसति स्म / स कालक्रमान्मातापित्रोः कालक्रियया संविग्नहृदयः कृत्वा तयोः प्रेतकृत्यानि व्यतीतेषु शोकमयेष्विव केषुचिदेव दिवसेषु तान्भ्रातॄन् संनिपात्योवाच -
1048 SK एष लोकस्य नियतः शोकातिविरसः क्रमः / सह स्थित्वापि सुचिरं मृत्युना यद्वियोज्यते // Jम्_१९.१ //
1049 SK तत्प्रव्रजितुमिच्छामि श्रेयःश्लाध्येन वर्त्मना / पुरा मृत्युरिपुर्हन्ति गृहसंरक्तमेव माम् // Jम्_१९.२ //
1050 SK यतः सर्वानेव भवतः सम्बोधयामि / अस्त्यत्र ब्राह्मणकुले धर्मेण यथाधिगता विभवमात्रा / शक्यमनया वर्तितुम् / तत्सर्वैरेव भवद्भिः परस्परं स्नेहगौरवाभिमुखैः शीलसमुदाचारेष्वशिथिलादरैर्वेदाध्ययनपरैर्मित्रातिथिस्वजनप्रणयवत्सलैर्धमपरायणैर्भूत्व सम्यग्गृहमध्यावस्तव्यम् /
1051 SK विनयश्लाघिभिर्नित्यं स्वाध्यायाध्ययनोद्यतैः / प्रदानाभिरतैः सम्यक्परिपाल्यो गृहाश्रमः // Jम्_१९.३ //
1052 SK एवं हि वः स्याद्यशसः समृद्धिर्धर्मस्य चार्थस्य सुखास्पदस्य / सुखावगाहश्च परो ऽपि लोकस्तदप्रमत्ता गृहमावसेत // Jम्_१९.४ //
1053 SK अथास्य भ्रातरः प्रव्रज्यासङ्कीर्तनाद्वियोगाशङ्काव्यथितमनसः शोकाश्रुदुर्दिनमुखाः प्रणम्यैनमूचुः - नार्हत्यत्रभवान्पितृवियोगशोकशल्यव्रणमसंरूढमेव नो घट्टयितुमपरेण दुःखाभिनिपातक्षारेण /
1054 SK अद्यापि तावत्पितृशोकशल्यक्षतानि रोहन्ति न नो मनांसि / तत्साध्विमां संहर धीर बुद्धिं मा नः क्षते क्षारमिहोपहार्षीः // Jम्_१९.५ //
1055 SK अथाक्षमं वेत्सि गृहानुरागं श्रेयःपथं वा वनवाससौख्यम् / अस्माननाथानपहाय गेहे कस्माद्वनं वाञ्छसि गन्तुमेकः // Jम्_१९.६ //
1056 SK तद्यात्रभवतो गतिः सास्माकम् / वयमपि प्रव्रजाम इति /
1058 SK अनभ्यासाद्विवेकस्य कामरागानुवर्तिनः / प्रपातमिव मन्यन्ते प्रव्रज्यां प्रायशो जनाः // Jम्_१९.७ //
1059 SK इति मया निगृह्य नाभिहिताः स्थ प्रव्रज्याश्रयं प्रति जानतापि गृहवनवासविशेषम् / तदेतच्चेदभिरुचितं भवतामेव प्रव्रजाम इति / ते सप्तापि भ्रातरो भगिन्यष्टमाः स्फीतं गृहविभवासारमश्रुमुखं च मित्रस्वजनबन्धुवर्गं विहाय तापसप्रव्रज्यया प्रव्रजिताः / तदनुरक्तहृदयश्चैनान्सहाय एको दासी दासश्चानुप्रव्रजिताः / ते ऽन्यतरस्मिन्महत्यरण्यायतने ज्वलितमिव विकसितकमलवनशोभया विहसदिव च फुल्लकुमुदवनैरनिभृतमधुकरगणममलनीलसलिलं महत्सरः संनिश्रित्य प्रविविक्तमनोज्ञासु च्छयाद्रुमसमुपगूढास्वसंनिकृष्टविनिविष्टासु पृथक्पृथक्पर्णशालासु व्रतनियमपरा ध्यानानुयुक्तमनसो विजह्नः / पञ्चमे पञ्चमे दिवसे बोधिसत्त्वसमीपं धर्मश्रवणार्थमुपजग्मुः / स चैषां ध्यानोपदेशप्रवृत्तां कामादीनवदर्शनीं संवेजनीयां प्रविवेकसन्तोषवर्णबहुलां कुहनलपनकौसीद्यादिदोषविगर्हणीमुपशमप्रसादपद्धतिं तां तां धर्म्यां कथां चकार / सा चैनान् दासी बहुमानानुरागवशा तथैब परिचचार / सा तस्मात्सरसो बिसान्युद्धृत्य महत्सु पद्मिनीपर्णेषु शुचौ तीरप्रदेशे समान्विन्यस्य च भागान्काष्ठसंघट्टनशब्देन कालं निवेद्यापक्रामति स्म / ततस्तेषामृषीणां कृतजपहोमविधीनां यथावृद्धमेकैको ऽभिगम्य ततो बिसभागमेकैकं यथाक्रममादाय स्वस्यां स्वस्यां पर्णशालायां विधिवत्परिभुज्य ध्यानाभियुक्तमतिर्विजहार / त एवं प्रवृत्ता नैव परस्परं ददृशुरन्यत्र धर्मश्रवणकालात् /
1060 SK तेषामेवंविधेन निरवद्येन शीलवृत्तसमुदाचारेण प्रविवेकाभिरत्या ध्यानप्रवणमानसतया च सर्वत्र यशः समुपश्रुत्य शक्रो देवानामिन्द्रस्तत्परीक्षानिमित्तं तत्राभिजगाम / तच्चैषां ध्यानाभिमुखत्वं कुकार्येष्वप्रसङ्गमनुत्कण्ठां प्रशमाभिरामं चावस्थानमवेक्ष्य स्थिरतरगुणसम्भावनस्तत्परीक्षानिमित्तमवहितमना बभूव /
1061 SK अनुत्सुको वनान्तेषु वसञ्छमपरायणः / आरोपयति साधूनां गुणसम्भावनां हृदि // Jम्_१९.८ //
1062 SK अथ द्विपकलभदशनपाण्डुकोमलानि समुद्धृत्य प्रक्षाल्य च बिसानि मरकतहरितप्रभेषु पद्मिनीपत्रेषु कमलदलकेसरोपहारालंकृतान्विरचय्य समान्भागान्काष्ठसंघट्टनशब्देन निवेद्य कालं तेषामृषीणामपसृतायां तस्यां दास्यां बोधिसत्त्वपरीक्षार्थं शक्रो देवानामिन्द्रः प्रथममेव बिसभागमन्तर्धापयामास /
1063 SK प्रवर्तने हि दुःखस्य तिरस्कारे सुखस्य च / धैर्यप्रयामः साधूनां विस्फुरन्निव गृह्यते // Jम्_१९.९ //
1064 SK अथ बोधिसत्त्वो ऽभिगतः प्रथमे बिसभागस्थाने बिसभागविरहितं पद्मिनीपत्रं परिव्याकुलीकृतोपहारमभिसमीक्ष्य गृहीतः केनापि मे बिसप्रत्यंश इत्यवधृतमतिरपेतचेतःसंक्षोभसंरम्भस्तत एव प्रतिनिवृत्य प्रविश्य पर्णशालायां यथोचितं ध्यानविधिमारेभे / वैमनस्यपरिहार्थं चेतरेषामृषीणां तमर्थं न निवेदयामास / इतरे त्वस्य भ्रातरो नूनमनेन गृहीतः प्रत्यंश इति मन्यमाना यथोचितानेव स्वान्स्वाननुक्रमेण बिसभागानादाय यथास्वं पर्णशालासु परिभुज्य ध्यायन्ति स्म / एवं द्वितीये तृतीये चतुर्थे पञ्चमे च दिवसे शक्रस्तस्य तं बिसप्रत्यंशमुपनिदधे / बोधिसत्त्वो ऽपि च महासत्त्वस्तथैव निःसंक्षोभप्रशान्तचित्तो बभूव /
1065 SK मनःसंक्षोभ एवेष्टो मृत्युर्नायुःक्षयः सताम् / जीवितार्थे ऽपि नायान्ति मनःक्षोभमतो बुधाः // Jम्_१९.१० //
1066 SK अथापराह्णसमये धर्मश्रवणार्थमृषयस्ते यथोचित्तं बोधिसत्त्वस्य पर्णशालां समभिगता ददृश्वांसश्चैनं कृशतरशरीरं परिक्षामकपोलनयनं परिम्लानवदनशोभमसम्पूर्णस्वरगाम्भीर्यं परिक्षीणमप्यपरिक्षीणधैर्यप्रशमगुणमभिनवेन्दुप्रियदर्शनमुपेत्योपचारपुरःसरं ससम्भ्रमाः किमिदमिति कार्श्यनिमित्तमेनमपृच्छन् / तेभ्यो बोधिसत्त्वस्तमर्थं यथानुभूतं निवेदयामास / अथ ते तापसाः परस्परमीदृशमनाचारमसम्भावयन्तस्तत्पीडया च समुपजातसंवेगाः कष्टं कष्टमित्युक्त्वा व्रीडावनतवदनाः समतिष्ठन्त / शक्रप्रभावाच्च समावृतज्ञानगतिविषयाः कुत इदमिति न निश्चयमुपजग्मुः / अथ बोधिसत्त्वस्यानुजो भ्राता स्वमावेगमात्मविशुद्धिं च प्रदर्शयञ्छपथातिशयमिमं चकार -
1067 SK समृद्धिचिह्नाभरणं स गेहं प्राप्नोतु भार्यां च मनो ऽभिरामाम् / समग्रतामेतु च पुत्रपौत्रैर्बिसानि ते ब्राह्मण यो ह्यहार्षीत् // Jम्_१९.११ //
1069 SK मालाः स्रजश्चन्दनमंशुकानि बिभ्रद्विभूषाश्च सुताभिमृष्टाः / कामेषु तीव्रां स करोत्वपेक्षां बिसान्यहार्षीद्द्विजमुख्य यस्ते // Jम्_१९.१२ //
1071 SK कृष्याश्रयावाप्तधनः कुटुम्बी प्रमोदमानस्तनयप्रलापैः / वयो ऽप्यपश्यन्रमतां स गेहे बिसानि यस्ते सकृदप्यहार्षीत् // Jम्_१९.१३ //
1073 SK नराधिपैर्भृत्यविनीतचेष्टैरभ्यर्च्यमानो नतलोलचूडैः / कृत्स्नां महीं पातु स राजवृत्त्या लोभादहार्षीत्तव यो बिसानि // Jम्_१९.१४ //
1075 SK पुरोहितः सो ऽस्तु नराधिपस्य मन्त्रादिना स्वस्त्यययेन युक्तः / सत्कारमाप्नोतु तथा च राज्ञस्तवापि यो नाम बिसान्यहार्षीत् // Jम्_१९.१५ //
1077 SK अध्यापकं सम्यगधीतवेदं तपस्विसम्भावनया महत्या / अर्चन्तु तं जानपदाः समेत्य बिसेषु लुब्धो न गुणेषु यस्ते // Jम्_१९.१६ //
1079 SK चतुःशतं ग्रामवरं समृद्धं लब्ध्वा नरेन्द्रादुपयातु भोक्तुम् / अवीतरागो मरणं स चैतु लोभं बिसेष्वप्यजयन्न यस्ते // Jम्_१९.१७ //
1081 SK स ग्रामणीरस्तु सहायमध्ये स्त्रीनृत्तगीतैरुपलाप्यमानः / मा राजतश्च व्यसनानि लब्ध बिसार्थमात्मार्थमशीशमद्यः // Jम्_१९.१८ //
1083 SK विद्योतमानां बपुषा श्रिया च पत्नीत्वमानीय नराधिपस्ताम् / योषित्सहस्राग्रसरीं करोतु यस्त्वद्विधस्यापि बिसान्यहार्षीत् // Jम्_१९.१९ //
1085 SK एकाकिनी सा समतीत्य साधून्स्वादूपभोगे प्रणयं करोतु / सत्कारलब्धां मुदमुद्वहन्ती बिसान्यपश्यत्तव या न धर्मम् // Jम्_१९.२० //
1086 SK अथ तत्र धर्मश्रवणार्थं समागतास्तद्वनाध्युषिता यक्षद्विरदवानरास्तां कथामुपश्रुत्य परां व्रीडां संवेगं चोपजग्मुः / अथ यक्ष आत्मविशुद्धिप्रदर्शनार्थमिति शपथमेषां पुरतश्चकार -
1087 SK आवासिकः सो ऽस्तु महाविहारे कचङ्गलायां नवकर्मिकश्च / आलोकसन्धिं दिवसैः करोतु यस्त्वय्यपि प्रस्खलितो बिसार्थम् // Jम्_१९.२१ //
1089 SK षड्भिर्दृढैः पाशशतैः स बन्धं प्राप्नोतु रम्याच्च वनाज्जनान्तम् / तीक्ष्णाङ्कशाकर्षणजा रुजश्च यस्ते मुनिश्रेष्ठ बिसान्यहार्षीत् // Jम्_१९.२२ //
1091 SK स पुष्पमाली त्रपुघृष्टकण्ठो यष्टया हतः सर्पमुखं परैतु / वैकक्ष्यबद्धश्च वसेद् गृहेषु लौल्यादहार्षीत्तव यो बिसानि // Jम्_१९.२३ //
1092 SK अथ बोधिसत्त्वस्तान्सर्वानेवानुनयविनीताक्षरं शान्तिगाम्भीर्यसूचकमित्युवाच -
1093 SK यो नष्टमित्याह न चास्य नष्टमिष्टान्स कामानधिगम्य कामम् / उपैतु गेहाश्रित एव मृत्युं भवत्सु यः शङ्कत ईदृशं वा // Jम्_१९.२४ //
1094 SK अथ शक्रो देवेन्द्रस्तेन तेषां कामोपभोगप्रातिकूल्यसूचकेन शपथातिशयेन समुत्पादितविस्मयबहुमानः स्वेनैव वपुषाभिज्वलता तानृषीनभिगम्य सामर्षवदुवाच - मा तावद्भोः /
1095 SK यत्प्राप्तिपर्युत्सुकमानसानां सुखार्थिनां नैति मनांसि निद्रा / यान्प्राप्तुमिच्छन्ति तपःश्रमैश्च तान्केन कामानिति कुत्सयध्वे // Jम्_१९.२५ //
1096 SK बोधिसत्त्व उवाच - अनन्तादीनवा मार्ष कामाः / संक्षेपतस्तु श्रूयतां यदभिसमीक्ष्य कामान्न प्रशंसन्ति मुनयः /
1097 SK कामेषु बन्धमुपयाति वधं च लोकः शोकं क्लमं भयमनेकविधं च दुःखम् / कामार्थमेव च महीपतयः पतन्ति धर्मोपमर्दरभसा नरकं परत्र // Jम्_१९.२६ //
1098 SK यत्सौहृदानि सहसा विरसीभवन्ति यन्नीतिशाठ्यमलिनेन पथा प्रयान्ति / कीर्त्या वियोगमसुखैः परतश्च योगं यत्प्राप्नुवन्ति ननु कारणमत्र कामाः // Jम्_१९.२७ //
1099 SK इति हीनविमध्यमोत्तमानामिह चामुत्र च यद्वधाय कामाः / कुपितान्भुजगानिवात्मकामा मुनयस्तानिति शक्र नाश्रयन्ते // Jम्_१९.२८ //
1100 SK अथ शक्रो देवानामिन्द्रस्तस्य तद्वचनं युक्तमित्यभिनन्द्य तेन चैतेषामृषीणां माहात्म्येनाभिप्रसादितमनास्तेभ्यः स्वमपराधमाविश्चकार /
1101 SK गुणसम्भावनाव्यक्तिर्यत्परीक्ष्योपलभ्यते / मया विनिहितान्यस्मात्परीक्षार्थं बिसानि वः // Jम्_१९.२९ //
1102 SK तत्सनाथं जगद्दिष्टया मुनिभिस्तथ्यकीर्तिभिः / विशुद्धिः स्थिरचारित्रे तदेतानि बिसानि ते // Jम्_१९.३० //
1103 SK इत्युक्त्वा तानि बिसानि बोधिसत्त्वस्य समुपजहार / अथ बोधिसत्त्वस्तदस्यासमुदाचारधाष्टर्यं तेजस्विनिभृतेन वचसा प्रत्यातिदेश -
1104 SK न बान्धवा नैव वयं सहाया न ते नटा नापि विडम्बकाः स्मः / कस्मिन्नवष्टभ्य नु देवराज क्रीडापथेनैवमृषीनुपैषि // Jम्_१९.३१ //
1105 SK इत्युक्ते शक्रो देवेन्द्रः ससम्भ्रमापास्तकुण्डलकिरीटविद्युद्भासुरवदनः सबहुमानमभिप्रणम्यैनं क्षमयामास -
1106 SK उक्तप्रयोजनमिदं चापलं मम निर्मम / पितेवाचार्य इव च क्षन्तुमर्हति तद्भवान् // Jम्_१९.३२ //
1107 SK निमीलितज्ञानबिलोचनानां स्वभाव एष स्खलितुं समे ऽपि / क्षमां च तत्रात्मवतां प्रपत्तुमतो ऽप्यदश्चेतसि मा स्म कार्षीः // Jम्_१९.३३ //
1108 SK इति क्षमयित्वा शक्रस्तत्रैवान्तर्दधे /
1109 SK तदेवं प्रविवेकसुखरसज्ञानां विडम्बनेव विहिंसेव च कामाः प्रतिकूला भवन्ति / [तच्चेदं जातकं भगवान्व्याकार्षीत् -
1110 SK अहं शारद्वतीपुत्रो मौद्गल्यायनकाश्यपौ / पूर्णानिरुद्धावानन्द इत्यासुर्भ्रातरस्तदा // Jम्_१९.३४ //
1111 SK भगिन्युत्पलवर्णासीद्दासी कुब्जोत्तराभवत् / चित्रो गृहपतिर्दासो यक्षः सातागिरिस्तदा // Jम्_१९.३५ //
1112 SK पारिलेयो ऽभवन्नागो मधुदातैव वानरः / कालोदायी च शक्रो ऽभूद्धार्यतामिति जातकम् // Jम्_१९.३६ //
1113 SK इति बिसजातकमेकोनविंशतितमम् /
1115 SK अभूतगुणसंभावना प्रतोदसंचोदनेव भवति साधूनामिति गुणसंपादने प्रयतितव्यम् / तद्यथानुश्रूयते -
1116 SK बोधिसत्त्वः किल श्रुतकुलविनयमहानक्षुद्रनिपुणमतिरविषमव्यवहाररतिरनेकशास्त्राभ्यासादालक्षितवचनसौष्ठबः करुणानुवृत्त्या समन्ततो विस्यन्दमानधनसमृद्धिर्महाप्रदानैर्महाधनत्वाद् गृहपतिरत्नसंमतो ऽन्यतमस्य राज्ञः श्रेष्ठी बभूव /
1117 SK स प्रकृत्यैव धर्मात्मा श्रुतादिगुणभूषणः / अभूत्प्रायेण लोकस्य बहुमानैकभाजनम् // Jम्_२०.१ //
1118 SK अथ कदाचित्तस्मिन्महासत्त्वे राजकुलमभिगते केनचिदेव करणीयेन तस्य श्वश्रूर्दुहितरमवलोकयितुं तद्गृहमभिजगाम / कृताभ्यागमनसत्कारा च संकथाप्रस्तावागतं स्वां दुहितरं बोधिसत्त्वभार्यां रहसि कुशलपरिप्रश्नपूर्वकं पर्यपृच्छत्कच्चित्त्वां तात भर्ता नावमन्यते / कच्चिद्वा वेत्ति परिचर्यागुणम् / न वा दुःखशीलतया प्रबाधत इति / सा व्रीडावनतवदना लज्जा ऽप्रगल्भं शनकैरुवाच - यादृशो ऽयं शीलगुणसमुदाचारेण, प्रव्रजितो ऽपि दुर्लभः क इदानीं तादृशः / अथ सा तस्या माता जरोपहतश्रुतिस्मृतित्वाल्लज्जासंकुचिताक्षरं तनयया तद्वचनमभिधीयमानं न सम्यगुपधारयामात / प्रव्रजितसंकीर्तनात्तु प्रव्रजितो मे जामातेति निश्चयमुपजगाम / सा सस्वरमभिरुदिता स्वां दुहितरमनुशोचन्ती दुःखावेगवशात्परिदेवनपरा बभूव / कीदृशस्तस्य शीलगुणसमुदाचारो य एवमनुरक्तं स्वं जनमपहाय प्रव्रजितः? किं वा तस्य प्रव्रज्यया?
1119 SK तरुणस्य वपुष्मतः सतः सुकुमारस्य सुखोचितात्मनः / क्षितिपाभिमतस्य तस्य वै वनवासे प्रणता मतिः कथम् // Jम्_२०.२ //
1120 SK स्वजनादनवाप्य विप्रियं जरया वोपहृतां विरूपताम् / कथमेकपदे रुजं विना विभवोद्गारि गृहं स मुक्तवान् // Jम्_२०.३ //
1121 SK विनयाभरणेन धीमता प्रियधर्मेण परानुकम्पिना / कथमभ्युपपन्नमीदृशं स्वजने निष्करुणत्वचापलम् // Jम्_२०.४ //
1122 SK श्रमणद्विजमित्रसंश्रितान्स्वजनं दीनजनं च मानयन् / शुचिशीलधनः किमाप्नुयान्न स गेहेषु वने यदीप्सति // Jम्_२०.५ //
1123 SK अपराधविवर्जितां त्यजन्ननुकूलां सहधर्मचारिणीम् / यतिधर्मपरः स नेक्षते किमिमं धर्मपथव्यतिक्रमम् // Jम्_२०.६ //
1124 SK धिगहो बत दैवदुर्नयाद्यदि भक्तं जनमेवमुज्झताम् / न घृणापथमेति मानसं यदि वा धर्मलवो ऽपि सिध्यति // Jम्_२०.७ //
1125 SK अथ सा बोधिसत्त्वस्य पत्नी तेन मातुः करुणेनाकृतकेन परिदेवितेन पतिप्रव्रज्याभिसंबन्धेन स्त्रीस्वभावाद् व्यथितहृदया ससंभ्रमा विषादविक्लवमुखी शोकदुःखाभिनिपातसंक्षोभाद्विस्मृतकथाप्रस्तावसंबन्धा प्रव्रजितो मे भर्तेति मद्व्यवस्थापनार्थमम्बा गृहमिदमभिगता विप्रियश्रवणादिति निश्चयमुपेत्य सपरिदेवितं सस्वरं रुदती मोहमुपजगाम बाला / तदुपश्रुत्य गृहजनः परिजनवर्गश्च शोकदुःखावेगादाक्रन्दनं चकार / तच्छ्रुत्वा प्रातिवेश्यमित्रस्वजनबन्धुवर्गः संश्रितजनो ब्राह्मणगृहपतयश्च तस्य गृहपतेरनुरागवशानुगाः प्रायशश्च पौरास्तद्गृहमभिजग्मुः /
1126 SK प्रायेण लोकस्य बभूव यस्मात्तुल्यक्रमो ऽसौ सुखदुःखयोगे / अतो ऽस्य लोको ऽप्यनुशिक्षयेव तुल्यक्रमो ऽभूत्सुखदुःखयोगे // Jम्_२०.८ //
1127 SK अथ बोधिसत्त्वो राजकुलात् स्वभवनसमीपमुपगतः साक्रन्दशब्दं स्वभवनमवेत्य महतश्च जनकायस्य संनिपातं स्वं पुरुषमन्वादिदेश ज्ञायतां किमेतदिति / स तं वृत्तान्तमुपलभ्य समुपेत्यास्मै निवेदयामास -
1128 SK उत्सृज्य भवनं स्फीतमार्यः प्रव्रजितः किल / इति श्रुत्वा कुतो ऽप्येष स्नेहादेवंगतो जनः // Jम्_२०.९ //
1129 SK अथ स महासत्त्वः प्रकृत्या शुद्धाशयः प्रत्यादिष्ट इव तेन वचसा समुपजातव्रीडसंवेगश्चिन्तामापेदे / भद्रा बत मयि जनस्य संभावना /
1130 SK श्लाघनीयामवाप्यैतां गुणसंभावनां जनात् / गृहाभिमुख एव स्यां यदि किं मम पौरुषम् // Jम्_२०.१० //
1131 SK स्याद्दोषभक्तिः प्रथिता मयैवं गुणेष्ववज्ञाविरसा च वृत्तिः / यायामतः साधुजने लघुत्वं कि जीवितं स्याच्च तथाविधस्य // Jम्_२०.११ //
1132 SK संभावनामस्य जनस्य तस्मात्क्रियागुणेन प्रतिपूजयामि / असत्परिक्लेशमयं विमुञ्चंस्तपोवनप्रेमगुणेन गेहम् // Jम्_२०.१२ //
1133 SK इति विचिन्त्य स महात्मा तत एव प्रतिनिवृत्य राज्ञः प्रतिहारयामास - श्रेष्ठी पुनर्द्रष्टुमिच्छति देवमिति / कृताभ्यनुज्ञश्च प्रविश्य यथोपचारं राजसमीपमुपजगाम / किमिदमिति च राज्ञा पर्यनुयुक्तो ऽब्रवीत् - इच्छामि प्रव्रजितुम्, तदभ्यनुज्ञातुमर्हति मां देव इति /
1134 SK अथैनं स राजा ससंभ्रमावेगः स्नेहादित्युवाच -
1135 SK मयि स्थिते बन्धुसुहृद्विशिष्टे त्वं केन दुःखेन वनं प्रयासि / यन्नापहर्तुं प्रभुता मम स्याद्धनेन नीत्या बलसंपदा वा // Jम्_२०.१३ //
1136 SK अर्थो धनैर्यदि गृहाण धनानि मत्तः पीडा कुतश्चिदथ तां प्रतिषेधयामि / मां याचमानमिति बन्धुजनं च हित्वा किं वा त्वमन्यदभिवीक्ष्य वनं प्रयासि // Jम्_२०.१४ //
1137 SK इति स महात्मा सस्नेहबहुमानमभिहितो राज्ञा सानुनयमेनमुवाच -
1138 SK पीडा कुतस्त्वद्भुजसंश्रितानां धनोदयावेक्षणदीनता वा / अतो न दुःखेन वनं प्रयामि यमर्थमुद्दिश्य तु तं निबोध // Jम्_२०.१५ //
1139 SK दीक्षामुपाश्रित इति प्रथितो ऽस्मि देव शोकाश्रुदुर्दिनमुखेन महाजनेन / इच्छामि तेन विजनेषु वनेषु वस्तुं श्रद्धेयतामुपगतो ऽस्मि गुणाभिपत्तौ // Jम्_२०.१६ //
1140 SK राजोवाच - नार्हति भवाञ्जनप्रवादमात्रकेणास्मान् परित्यक्तुम् / न हि भवद्विधानां जनप्रवादसंपादनाभिराध्या गुणविभूतिस्तदसंपादनविराध्या वा /
1141 SK स्वेच्छाविकल्पग्रथिताश्च तास्ता निरङ्कुशा लोककथा भ्रमन्ति / कुर्वीत यस्ता हृदये ऽपि तावत्स्यात्सो ऽपहास्यः किमुत प्रपत्ता // Jम्_२०.१७ //
1142 SK बोधिसत्त्व उवाच - मा मैवं महाराज / न हि कल्याणो जनप्रवादो नानुविधेयः / पश्यतु देवः,
1143 SK कल्याणधर्मेति यदा नरेन्द्र संभावनामेति मनुष्यधर्मा / तस्या न हीयेत नरः सधर्मा ह्रियापि तावद्धुरमुद्वहेत्ताम् // Jम्_२०.१८ //
1144 SK संभावनायां गुणभावनायां संदृश्यमानो हि यथा तथा वा / विशेषतो भाति यशःप्रसिद्ध्या स्यात्त्वन्यथा शुष्क इवोदपानः // Jम्_२०.१९ //
1145 SK गुणप्रवादैरयथार्थवृद्धैर्विमर्शपाताकुलितैः पतद्भिः / विचूर्णिता कीर्तितनुर्नराणां दुःखेन शक्नोति पुनः प्रसर्तुम् // Jम्_२०.२० //
1146 SK तद्वर्जनीयान्परिवर्जयन्तं परिग्रहान्विग्रहहेतुभूतान् / क्रोधोच्छिरस्कानिव कृष्णसर्पान्युक्तो ऽसि मां देव न संनिषेद्धुम् // Jम्_२०.२१ //
1147 SK स्नेहेन भक्तिज्ञतया च कामं युक्तो विधिर्भृत्यजने तवायम् / वित्तेन तु प्रव्रजितस्य किं मे परिग्रहक्लेशपरिग्रहेण // Jम्_२०.२२ //
1148 SK इत्यनुनीय स महात्मा तं राजानं कृताभ्यनुज्ञस्तेन तत एव वनाय प्रतस्थे /
1149 SK अथैनं सुहृदो ज्ञातयः संश्रिताश्चाभिगम्य शोकाश्रुपरिप्लुतनयनाः पादयोः संपरिष्वज्य निवारयितुमीषुः / केचिदञ्जलिप्रग्रहपुरःसरं मार्गमस्यावृत्य समवातिष्ठन्त / सपरिष्वङ्गसंगतानुनयमपरे गृहाभिमुखमेनं नेतुमीषुः / यत्किञ्चनकारिताक्षेपकर्कशाक्षरमन्ये प्रणयादेनमूचुः / मित्रस्वजनापेक्षाकारुण्यप्रदर्शनमपरे ऽस्य प्रचक्रुः / गृहाश्रम एव पुण्यतम इत्येवमन्ये श्रुतियुक्तिसंग्रथितं ग्राहयितुमीहां चक्रिरे / तपोवनवासदुःखतासंकीर्तनैः कार्यशेषपरिसमाप्त्या याच्ञया परलोकफलसंदेहकथाभिस्तैस्तैश्च वार्त्ताविशेषैर्निवर्तयितुमेनं व्यायच्छन्त / तस्य तान् प्रव्रज्याश्रयविमुखान् वनगमननिवारणधीरमुखान् नयनजलार्द्रमुखान् सुहृदो ऽभिवीक्ष्य व्यक्तमिति चिन्ता बभूव -
1150 SK सुहृत्प्रतिज्ञैः सुहृदि प्रमत्ते न्याय्यं हितं रूक्षमपि प्रयोक्तुम् / रूढः सतामेष हि धर्ममार्गः प्रागेव रूच्यं च हितं च यत्स्यात् // Jम्_२०.२३ //
1151 SK वनाद् गृहं श्रेय इदं त्वमीषां स्वस्थेषु चित्तेषु कथं नु रुढम् / यन्निर्विशङ्का वनसंश्रायान्मां पापप्रसङ्गादिव वारयन्ति // Jम्_२०.२४ //
1152 SK मृतो मरिष्यन्नपि वा मनुष्यश्च्युतश्च धर्मादिति रोदितव्यम् / कया नु बुद्ध्या वनवासकामं मामेव जीवन्तममी रुदन्ति // Jम्_२०.२५ //
1153 SK मद्विप्रयोगस्त्वथ शोकहेतुर्मया समं किं न वने वसन्ति / गेहानि चेत्कान्ततराणि मत्तः को न्वादरो बाष्पपरिव्ययेन // Jम्_२०.२६ //
1154 SK अथ त्विदानीं स्वजनानुरागः करोति नैषां तपसे ऽभ्यनुज्ञाम् / सामर्थ्यमासीत्कथमस्य नैव ब्यूढेष्वनीकेष्वपि तत्र तत्र // Jम्_२०.२७ //
1155 SK दृष्टावदानो व्यसनोदयेषु बाष्पोद्गमान्मूर्त इवोपलब्ध / संरूढमूलो ऽपि सुहृत्स्वभावः शाठ्यं प्रयात्यत्र विनानुवृत्त्या // Jम्_२०.२८ //
1156 SK निवारणार्थानि सगद्गदानि वाक्यानि साश्रूणि च लोचनानि / प्रणामलोलानि शिरांसि चैषां मानं समानस्य यथा करोति // Jम्_२०.२९ //
1157 SK स्नेहस्तथैवार्हति कर्तुमेषां श्लाध्यामनुप्रव्रजने ऽपि बुद्धिम् / मा भून्नटानामिव वृत्तमेतद् व्रीडाकरं सज्जनमानसानाम् // Jम्_२०.३० //
1158 SK द्वित्राणि मित्राणि भवन्त्यवश्यमापद्गतस्यापि सुनिर्गुणस्य / सहाय एको ऽप्यतिदुर्लभस्तु गुणोदितस्यापि वनप्रयाणे // Jम्_२०.३१ //
1159 SK ये मे हरन्ति स्म पुरःसरत्वं रणेषु मत्तद्विपसंकटेषु / नानुव्रजन्त्यद्य वनाय ते मां किंस्वित्स एवास्मि त एव चेमे // Jम्_२०.३२ //
1160 SK स्मरामि नैषां विगुणं प्रयातुं स्नेहस्य यत्संक्षयकारणं स्यात् / सुहृज्जनस्यैवमियं स्थितिर्मे कच्चिद्भवेत्स्वस्तिनिमित्ततो ऽस्मात् // Jम्_२०.३३ //
1161 SK ममैव वा निर्गुंणभाव एष नानुव्रजन्त्यद्य वनाय यन्माम् / गुणावबद्धानि हि मानसानि कस्यास्ति विश्लेषयितुं प्रभुत्वम् // Jम्_२०.३४ //
1162 SK ये वा प्रकाशानपि गेहदोषान्गुणान्न पश्यन्ति तपोवने वा / निमीलितज्ञानविलोचनांस्तान्किमन्यथाहं परितर्कयामि // Jम्_२०.३५ //
1163 SK परत्र चैवेह च दुःखहेतून्कामान्विहातुं न समुत्सहन्ते / तपोवनं तद्विपरीतमेते त्यजन्ति मां चाद्य धिगस्तु मोहम् // Jम्_२०.३६ //
1164 SK यैर्विप्रलब्धाः सुहृदो ममैते न यान्ति शान्तिं निखिलाश्च लोकाः / तपोवनोपार्जितसत्प्रभावस्तानेव दोषान्प्रसभं निहन्मि // Jम्_२०.३७ //
1165 SK इति स परिगणय्य निश्चितात्मा प्रणयमयानि सुहृद्विचेष्टितानि / अनुनयमधुराक्षरैर्वचोभिर्विशदमपास्य तपोवनं जगाम // Jम्_२०.३८ //
1166 SK तदेवमभूतगुणसंभावना प्रतोदसंचोदनेव भवति साधूनामिति गुणसंपादने प्रयतितव्यम् / यतो भिक्षुरित्युपासक इति गुणतः संभाव्यमानेन साधुना तद्भावसाधुभिर्गुणैरभ्यलंकर्तव्य एवात्मा / एवं दुर्लभा धर्मप्रतिपत्तिसहाया इत्येवमप्युन्नेयम् /
1167 SK // इति श्रेष्ठिजातकं विंशतितमम् //
1168 SK २१. Cउड्डबोधिजातकम्
1169 SK क्रोधविनयाच्छत्रूनुपशमयति, वर्धयत्येव त्वन्यथा / तद्यथानुश्रूयते -
1170 SK बोधिसत्त्वः किल महासत्त्वः कस्मिंश्चिन्महति ब्राह्मणकुले गुणाभ्यासमाहात्म्यादतिवृद्धयशसि प्रतिनियतसमृद्धिगुणे राजसत्कृते दैवतसंमते लोकस्य जन्म प्रतिलेमे / कालानामत्ययेनाभिवृद्धः कृतसंस्कारकर्मा श्रुतगुणाभ्यासादचिरेणैव विद्वत्सदस्सु प्रकाशनामा बभूव /
1171 SK कीतिर्विद्वत्सदस्स्वेव विदुषां प्रविजृम्भते / रत्नज्ञेष्विव रत्नानां शूराणां समरेष्विव // Jम्_२१.१ //
1172 SK अथ स महात्मा प्रव्रज्याकृतपरिचयत्वात्पूर्वजन्मसु स्वभ्यस्तधर्मसंज्ञत्वात्प्रज्ञावदातमतित्वच्च न गेहे रतिमुपलेभे / स कामान् विग्रहविवादमदवैरस्यप्राचुर्याद्राजचौरोदकदहनविप्रियदायादसाधारणत्वादतृप्तिजनकत्वादनेकदोषायतनत्वाच्च सविषमिवान्नमात्मकामः परित्यज्य संहृतकेशश्मश्रुशोभः काषायविवर्णवासाः परित्यक्तगृहवेषविभ्रमः प्रव्रज्याविनयनियमश्रियमशिश्रियम् / तदनुरागवशगा चास्य पत्नी केशानवतार्याहार्यविभूषणोद्वहननिर्व्यापारशरीरा स्वरूपगुणशोभाविभूषिता काषायवस्त्रसंवीततनुरनुप्रवव्राज / अथ बोधिसत्त्वस्तपोवनानुगमनव्यवसायमस्य विद्त्वा तपोवनाध्यासनायोग्यतां च स्त्रीसौकुमार्यस्यावोचदेनां - भद्रे दर्शितस्त्वयायमस्मदनुरागस्वभावः / तदलमस्मदनुगमनं प्रत्यनेन व्यवसायेन ते / यत्रैव त्वन्याः प्रव्रजिताः प्रतिवसन्ति तत्र भवत्यास्ताभिरेव सार्ध प्रतिरूपं वस्तुं स्यात् / दुरभिसंभवानि ह्यरण्यायतनानि / पश्य -
1173 SK शमशानशून्यालयपर्वतेषु वनेषु च व्यालमृगाकुलेषु / निकेतहीना यतयो वसन्ति यत्रैव चास्तं रविरभ्युपैति // Jम्_२१.२ //
1174 SK ध्यानोद्यमादेकचराश्च नित्यं स्त्रिदर्शनादप्यपवृत्तभावाः / निवर्तितुं तेन मतिं कुरुष्व को ऽर्थस्तबानेन परिभ्रमेण // Jम्_२१.३ //
1175 SK सा नियतमेनमनुगमनकृतनिश्चया बाष्पोपरुध्यमाननयना किंचिदीदृशं प्रत्युवाच -
1176 SK यदि मे श्रमबुद्धिः स्यत्तवानुगमनोत्सवे / किमित्येवं प्रपद्येय दुःख तव च विप्रियम् // Jम्_२१.४ //
1177 SK यत्तु नैव समर्थास्मि वर्तितुं रहिता त्वया / इत्याज्ञातिक्रममिमं त्वं मम क्षन्तुमर्हसि // Jम्_२१.५ //
1178 SK इति सा द्वित्रिरप्युच्यमानायदा नेच्छति स्म निवर्तितुम्, ततो बोधिसत्त्व उपेक्षानिभृतमतिरस्यां बभूव /
1179 SK स तयानुगम्यमानश्चक्रवाक इव चक्रवाक्या ग्रामनगरनिगमाननुविचरन् कदाचित्कृतभक्तकृत्यः कस्मिंश्चित्प्रविविक्ते श्रिमति नानातरुगहनोपशोभिते घनप्रच्छाये कृतोपकार इव क्वचित्क्वचिद्दिनकरकिरणचन्द्रकैर्नानुकुसुमरजो ऽवकीर्णधरणितले शुचौ वनोद्देशे ध्यानविधिमनुष्ठाय सायान्हसमये व्युत्थाय समाधेः पांसुकूलानि सिव्यति स्म / सापि प्रव्रजिता तस्यैव नातीदूरे वृक्षमूलमुपशोभयमाना देवतेव स्वेन वपुषः प्रभावेण विराजमाना तदुपदिष्टेन मनस्कारविधिना ध्यायति स्म /
1180 SK अथ तत्रत्यो राजा वसन्तकालजनिताभ्यधिककिसलयशोभानि भ्रमद्भ्रमरमधुकरीगणोपकूजितानि प्रमत्तकोकिलकुलकिलकिलानि प्रहसितकमलकुवलयालंकृताभिलषणियजलाशयानि विविधकुसुमसंमोदगन्धाधिवासितसुखपवनान्युपवनानि समनुविचरंस्तं देशमुपजगाम /
1181 SK विचित्रपुष्पस्तबकोज्ज्वलानि कृतच्छदानीव वसन्तलक्ष्म्या / वाचालपुंस्कोकिलबर्हिणानि सरोरुहाकीर्णजलाशयानि // Jम्_२१.६ //
1182 SK समुद्भवत्कोमलशाद्वलानि वनानि मत्तभ्रमरारुतानि / आक्रीडभूतानि मनोभवस्य द्रष्टुं भवत्येव मनःप्रहर्षः // Jम्_२१.७ //
1183 SK अथ स राजा सविनयमभिगम्य बोधिसत्त्वं कृतप्रतिसंमोदनकथस्तत्रैकान्ते न्वषिदत / स तां प्रव्रजितामतिमनोहरदर्शनामभिवीक्ष्य तस्या रूपशोभया समाक्षिप्यमागहृदयो नूनमस्येयं सहधर्मचारिणीत्यवेत्य लोलस्वभवत्वात्तदपहरणोपायं विममर्श /
1184 SK श्रुतप्रभावः स तपोधनानां शापार्चिषः क्रोषहुताशनस्य / संक्षिप्तधैर्यो ऽपि मनोभवेन नास्मिन्नवज्ञारभसो बभूव // Jम्_२१.८ //
1185 SK तस्य बुद्धिरभवत् - तपःप्रभावमस्य ज्ञात्वा शक्यमत्र तद्युक्तं प्रवर्तितुं नान्यथा / यद्ययमस्यां संरागवक्तव्यमतिर्व्यक्तमस्मिन्न तपःप्रभावो ऽस्ति / अथ वीतरागः स्यान्मन्दापेक्षो वा (Vऐद्य १३०) ततो ऽस्मिन् संभाव्यं तपःप्रभवमाहात्म्यम् / इति विचिन्त्य स राजा तपह्प्रभावजिज्ञासया बोधिसत्त्वं हितैषिवदुवाच - भोः प्रव्रजित प्रचुरधूर्तसाहसिकपुरुषे ऽस्मिंल्लोके न युक्तमत्रभवतो निराक्रन्देषु वनेष्वेवं प्रतिरूपयानया सहधर्मचारिण्या सह विचरितुम् / अस्यां हि ते कश्चिदपराध्यमानो नियतस्मानप्युपक्रोशभाजनीकुर्यात् / पश्य
1186 SK एवं विविक्तेषु तपःकृशं त्वां धर्मेण सार्धं परिभूय कश्चित् / इमां प्रसह्यापहरेद्यदा ते शोकात्परं किं बत तत्र कुर्याः // Jम्_२१.९ //
1187 SK रोषप्रसङ्गो हि मनःप्रयाथी धर्मोपमर्दाद्यशसश्च हन्ता / वसत्वियं तेन जनान्त एव स्त्रीसंनिकर्षेण च किं यतीनाम् // Jम्_२१.१० //
1188 SK बोधिसत्त्व उवाच - युक्तमाह महाराजः / अपि तु श्रूयतां यदेवंगते ऽर्थे प्रपद्येय -
1189 SK स्यादत्र मे यः प्रतिकूलवर्ती दर्पोद्भवादप्रतिसंख्यया वा / व्यक्तं न मुच्येत स जीवतो मे धाराधनस्येव धनस्य रेणुः // Jम्_२१.११ //
1190 SK अथ स राजा तीव्रापेक्षो ऽयमस्यां तपःप्रभावहीन इत्यवज्ञाय तं महासत्त्वं तदपायनिराशङ्कः कामरागवशगः स्त्रीसंदर्शनाधिकृतान् पुरुषान् समादिदेश - गच्छतैतां प्रव्रजितामन्तःपुरं प्रवेशयतेति / तदुपश्रुत्य सा प्रव्रजिता व्यालमृगाभिद्रुतेव वनमृगी भयविषादविक्लवमुखी बाष्पोपरुध्यमाननयना गद्गदायमानकण्ठी तत्तदार्तिवशाद्विललाप -
1191 SK लोकस्य नामार्तिपराजितस्य परायणं भूमिपतिः पितेव / स एव यस्य त्वनयाबहुः स्यादाक्रन्दनं कस्य नु तेन कार्यम् // Jम्_२१.१२ //
1192 SK भ्रष्टाधिकारा बत लोकपाला न सन्ति वा मृत्युवशं गता वा / न त्रातुमार्तानिति ये सयत्ना धर्मो ऽपि मन्ये श्रुतिमात्रमेव // Jम्_२१.१३ //
1193 SK किं वा सुरैर्मे भगवान् यदेवं मद्भागधेयैर्धृतमौन एव / परो ऽपि तावन्नौ रक्षणीयः पापात्मभिर्विप्रतिकृष्यमाणः // Jम्_२१.१४ //
1194 SK नश्येति शापाशनिनाभिमृष्टः स्याद्यस्य शैलः स्मरनीयमूर्तिः / इत्थंगतायामपि तस्य मौनं तथापि जीवामि च मन्दभाग्या // Jम्_२१.१५ //
1195 SK पापा कृपापाततरा न वाहमेवंबिधामापदमभ्युपेता / आर्तेषु कारूण्यमयी प्रवृत्तिस्तपोधनानां किमयं न मार्गः // Jम्_२१.१६ //
1196 SK शङ्के तवाद्यापि तदेव चित्ते निवर्त्यमानास्मि न यन्निवृत्ता / तवाप्रियेणापि मयेप्सितं यदात्मप्रियंहा तदिदं कथं मे // Jम्_२१.१७ //
1197 SK इति तां प्रव्रजिता करुनविलापाक्रन्दितरुदितमात्रपरायणां ते राजसमादिष्टाः पुरुषा यानमारोप्य पश्यत एव तस्य महसत्त्वस्यान्तःपुराय निन्युः / बोधिसत्त्वो ऽपि प्रतिसंख्यानबलात्प्रतिनुद्य क्रोधबलं तथैब पांसुकूलानि निःसंक्षोभः प्रशान्तचेताः सीव्यति स्म / अथैनं स राजोवाच -
1198 SK अमर्षरोषाभिनिपातिताक्षरं तदुच्चकैर्गर्जितमूर्जितं त्वया / हृतां च पश्यन्नपि तां वराननामशक्तिदीनप्रशमो ऽस्यवस्थितः // Jम्_२१.१८ //
1199 SK तद्दर्शय स्वां भुजयो रुषं वा तेजस्तपःसंश्रयसंभृतं वा / आत्मप्रमाणग्रहणानभिज्ञो व्यर्थप्रतिज्ञो ह्यधिकं न भाति // Jम्_२१.१९ //
1200 SK बोधिसत्त्व उवाच - अव्यर्थप्रतिज्ञमेव मां विद्धि महाराज /
1201 SK यो ऽभून्ममात्र प्रतिकूलवर्ती विस्पन्दमानो ऽपि स मे न मुक्तः / प्रसह्य नीतः प्रशमं मया तु तस्माद्यथार्थैव मम प्रतिज्ञा // Jम्_२१.२० //
1202 SK अथ स राजा तेन बोधिसत्त्वस्य धैर्यातिशयव्यञ्जकेन प्रशमेन समुत्पादिततपस्विगुणसंभावनश्चिन्तामापेदे - अन्यदेवानेन ब्राह्मणेनाभिसंधाय भाषितम्, तदपरिज्ञायास्माभिश्चापलकृतमिदमिति जातप्रत्यवमर्शो बोधिसत्त्वमुवाच -
1203 SK को ऽन्यस्तवाभूत्प्रतिकूलवर्ती यो विस्फुरन्नेव न ते विमुक्तः / रेणुः समुद्यन्निव तोयदेन कश्चोपनीतः प्रशमं त्वयात्र // Jम्_२१.२१ //
1205 SK शृणु महाराज जाते न दृश्यते यस्मिन्नजाते साधु दृश्यते / अभून्मे स न मुक्तश्च क्रोधः स्वाश्रयबाधनः // Jम्_२१.२२ //
1206 SK येन जातेन नन्दन्ति नराणामहितैषिणः / सो ऽभून्मे न विमुक्तश्च क्रोधः शात्रवनन्दनः // Jम्_२१.२३ //
1207 SK उत्पद्यमाने यस्मिंश्च सदर्थं न प्रपद्यते / तमन्धीकरणं राजन्नहं क्रोधमशीशमम् // Jम्_२१.२४ //
1208 SK येनाभिभूतः कुशलं जहाति प्राप्तादपि भ्रश्यत एव चार्थात् / तं रोषमुग्रग्रहवैकृताभं स्फुरन्तमेवानयमन्तमन्तः // Jम्_२१.२५ //
1209 SK काष्ठाद्यथाग्निः परिमथ्यमानादुदेति तस्यैव पराभवाय / मिथ्याविकल्पैः समुदीर्यमाणस्तथा नरस्यात्मवधाय रोषः // Jम्_२१.२६ //
1210 SK दहनमिव विजृम्भमाणरौद्रं शमयति यो हृदयज्वरं न रोषम् / लघुरयमिति हीयते ऽस्य कीर्तिः कुमुदसखीव शशिप्रभा प्रभाते // Jम्_२१.२७ //
1211 SK परजनदुरितान्यचिन्तयित्वा रिपुमिव पश्यति यस्तु रोषमेव / विकसति नियमेन तस्य कीर्तिः शशिन इवाभिनवस्य मण्डलश्रीः // Jम्_२१.२८ //
1212 SK इयमपरा च रोषस्य महादोषता -
1213 SK न भात्यलंकारगुणान्वितो ऽपि क्रोधाग्निना संहृतवर्णशोभः / सरोषशल्ये हृदये च दुःखं महार्हशय्याङ्कगतो ऽपि शेते // Jम्_२१.२९ //
1214 SK विस्मृत्य चात्मक्षमसिद्धिपक्षं रोषात्प्रयात्येव तदुत्पथेन / निहीयते येन यशो ऽर्थसिद्ध्या तामिस्रपक्षेन्दुरिवात्मलक्ष्म्या // Jम्_२१.३० //
1215 SK रोषेण गच्छत्यनयप्रपातं निवार्यमाणो ऽपि सुहृज्जनेन / प्रायेण वैरस्य जडत्वमेति हिताहितावेक्षणमन्दबुद्धिः // Jम्_२१.३१ //
1216 SK क्रोधाच्च सात्मीकृतपापकर्मा शोचत्यपायेषु समाशतानि / अतः परं किं रिपवश्च कुर्युस्तीव्रापकारोद्धतमन्यवो ऽपि // Jम्_२१.३२ //
1217 SK अन्तःसपत्नः कोपो ऽयं तदेवं विदितं मम / तस्यावलेपप्रसरं कः पुमान् मर्षयिष्यति // Jम्_२१.३३ //
1218 SK अतो न मुक्तः कोपो मे विस्फुरन्नपि चेतसि / इत्यनर्थकरं शत्रुं को ह्युपेक्षितुमर्हति // Jम्_२१.३४ //
1219 SK अथ स राजा तेन तस्याद्भुतेन प्रशमगुणेन हृदयग्राहकेण च वचसाभिप्रसादितमतिरुवाच -
1220 SK अनुरूपः शमस्यास्य तवायं वचनक्रमः / बहुना तु किमुक्तेन वञ्चितास्त्वददर्शिनः // Jम्_२१.३५ //
1221 SK इत्यभिप्रशस्यैनमभिसृत्यैवास्य पादयोन्र्यपतत् अत्ययदेशनां च चक्रे / तां च प्रव्रजितां क्षमयित्वा व्यवसर्जयत्, परिचारक चात्मानं बोधिसत्त्वस्य निर्यातयामास /
1222 SK तदेवं क्रोधविनयाच्छत्रूनुपशमयति, वर्धयत्येव त्वन्यथा, इति क्रोधविनये यत्नः कार्यः / एवमवैरेण वैराणि शाम्यन्ति, संयमतश्च वैरं न चीयते / एवं चोभयोरर्थं चरत्यक्रोधन इत्येवमादिषु क्षमानुशंसाप्रतिसंयुक्तेषु सूत्रेषु वाच्यम् / क्रोधादीनवकथायां तथागतमाहात्म्ये चेति /
1223 SK // इति चुड्डबोधिजातकमेकविंशतितमम् //
1225 SK विनिपातगतानामपि सतां वृत्तं नालमनुगन्तुमसत्पुरुषाः, प्रागेव सुगतिस्थानाम् / तद्यथानुश्रूयते -
1226 SK बोधिसत्त्वः किल मानसे महासरसि नैकशतसहस्रसंख्यस्य महतो हंसयूयस्याधिपतिर्धृतराष्ट्रो नाम हंसराजो बभूव / तस्य नयानयपरिज्ञाननिपुणमतिर्विप्रकृष्टगोचरस्मृतिप्रभावः श्लाघनीयकुलतिलकभूतो दाक्ष्यदाक्षिण्यविनयभूषणः स्थिरशुचिशीलवृत्तचारित्रशूरः खेदसहिष्णुरप्रमादी समरवीवधविशारदः स्वाम्यनुरागसुमुखः सुमुखो नाम सेनापतिर्बभूव [आर्यानन्दस्थविरस्तेन समयेन] / तौ परस्परप्रेमगुणाश्रयाज्ज्वलिततरप्रभावावार्यशिष्यमुख्याविव परिशेषं शिष्यगणं पितृज्येष्ठपुत्राविव च श्रेष्ठशेषं पुत्रगणं तद्धंसयूथमुभयलोकहितोदयेष्वर्थेषु सम्यग्निवेशयमानौ तत्प्रत्यक्षिणां देवनागयक्षविद्याधरतपस्विनां परं विस्मयमुपजह्रतुः /
1227 SK तावासतुर्हंसगणस्य तस्य श्रेयःशरीरोद्वहनैककार्यौ / नभोगतस्येव विहंगमस्य पक्षौ शरीरोद्वहनैककार्यौ // Jम्_२२.१ //
1228 SK एवं ताभ्यां तदनुगृह्यमाणं हंसयूथं जगदिवं धर्मार्थविस्तराभ्यां परां वृद्धिमवाप / तेन च तत्सरः परां शोभां बभार /
1229 SK कलनूपुरनादेन हंसयूथेन तेन तत् / पुण्डरीकवनेनेव रेजे संचारीणा सरः // Jम्_२२.२ //
1230 SK क्वचित्प्रविसृतैर्हंसैः क्वचिद्विषमसंहतैः / छिन्नाभ्रलवचित्रस्य जहार नभसः श्रियम् // Jम्_२२.३ //
1231 SK अथ तस्य हंसाधिपतेः सर्वसत्त्वहितसुमुखस्य च सेनापतेर्गुणातिशयप्रभावविस्मितमनसः सिद्धर्षिविद्याधरदैवतगणास्तयोः कीर्त्याश्रयाभिः कथाभिस्तत्र तत्राभिरेमिरे /
1232 SK उत्तप्तचामीकरसंनिकाशं श्रीमद्वपुर्व्यक्तपदाक्षरा वाक् / धर्माभिजातो विनयो नयश्च कावप्यमू केवलहंसवेषौ // Jम्_२२.४ //
1233 SK गुणप्रकाशैरपमत्सरैः सा कीर्तिस्तयोर्दिक्षु वितन्यमाना / श्रेद्धेयतामित्यगमन्नृपाणां सदस्सु यत्प्राभृतवच्चचार // Jम्_२२.५ //
1234 SK तेन च समयेन ब्रह्मदत्तो नामान्यतमो वाराणस्यां राजा बभूव / स तां हंसाधिपतेः ससेनाधिपतेर्गुणातिशयाश्रयां कथां प्रात्ययिकामात्यद्विजवृद्धैः सदसि संस्तूयमानामसकृदुपश्रुत्य तयोर्दर्शनं प्रत्यभिवृद्धकौतूहलो नैकशास्त्राभ्यासनिपुणमतीन् सचिवानुवाच - परिमृश्यतां तावद्भोः प्रसृतनिपुणमतयः कश्चिदुपायो येन नास्तौ हंसवर्यौ दर्शनपथमपि तावदुपगच्छेतामिति / अथ ते ऽमात्याः स्वैः स्वैर्मतिप्रभावैरनुसृत्य नीतिपथं राजानमूचुः -
1235 SK सुखाशा देव भूतानि विकर्षति ततस्ततः / सुखहेतुगुणोत्कर्षश्रुतिस्तावानयेद्यतः // Jम्_२२.६ //
1236 SK तद्यादृशे सरभि तावभिरतरूपावनुश्रूयेते तदुत्कृष्टरगुणशोभमिह सरः कस्मिंश्चिदरण्यप्रदेशे कारयितुमर्हति देवः, प्रत्यहं च सर्वपक्षिणामभयप्रदानघोषणाम् / अपि नाम कौतूहलोत्पादिन्या सुखहेतुगुणातिशयश्रुत्या ताविहाकृष्येयाताम् / पश्यतु देवः,
1237 SK प्रायेण प्राप्तिविरसं सुखं देव न गण्यते / परोक्षत्वात्तु हरति श्रुतिरम्यं सुखं मनः // Jम्_२२.७ //
1238 SK अथ स राजा अस्त्वेतदित्यल्पेन कालेन नातिसंनिकृष्टं नगरोपवनस्य मानससरसः प्रतिस्पर्धिगुणविभवं पद्मोत्पलकुमुदपुण्डरीकसौगन्धिकतामरसकल्हारसमूपगूढं विमलसलिलमतिमनोहरं महत्सरः कारयामास -
1239 SK द्रुमैः कुसुमसंछनैश्चलत्किसलयोज्ज्वलैः / तत्प्रेक्षार्थमिवोत्पत्रैः कृततीरपरिग्रहम् // Jम्_२२.८ //
1240 SK विहसद्भिरिवाम्भोजैस्तरंगोत्कम्पकम्पिभिः / विलोभ्यमानाकुलितभ्रमद्भ्रमरसंकुलम् // Jम्_२२.९ //
1241 SK ज्योत्स्नासंवाहनोन्निर्दैर्विचित्रकुमुदैः क्वचित् / तरुच्छायापरिच्छिन्नैश्चन्द्रिकाशकलैरिव // Jम्_२२.१० //
1242 SK तरंगाङ्गलिसंक्षिप्तैः कमलोत्पलरेणुभिः / अभ्यलंकृततीरान्तं हेमसूत्रैरिव क्वचित् // Jम्_२२.११ //
1243 SK चित्रैः पद्मोत्पलदलैस्तत्र तत्र सकेसरैः / श्रियं प्रविततां बिभ्रदुपहारमयीमिव // Jम्_२२.१२ //
1244 SK प्रसन्नस्तिमिताम्बुत्वाद्व्यक्तचित्रवपुर्गुणैः / व्योम्नीव परिधावद्भिर्मीनवृन्दैरलंकृतम् // Jम्_२२.१३ //
1245 SK विच्छिन्नमुक्ताहाराभिः क्वचिद् द्विरदशीकरैः / उपलास्फालनोत्कीर्णमूर्मिचूर्णामिवोद्वहत् // Jम्_२२.१४ //
1246 SK विद्याधरवधूस्नानैर्मदसेकैश्च दन्तिनाम् / रजोभिः कुसुमानां च सवासमिव कुत्रचित् // Jम्_२२.१५ //
1247 SK ताराणां चन्द्रदाराणां सामान्यमिव दर्पणम् / मुदितद्विजसंकीर्ण तद्रुतप्रतिनादितम् // Jम्_२२.१६ //
1248 SK तदेवंविधं सरः कारयित्वा सर्वपक्षिगणस्य चानावृतसुखोपभोग्यमेतद्दत्त्वा प्रत्यहं सर्वपक्षिणा विश्वासनार्थमित्यभयदानघोषणां कारयामास -
1249 SK एष पद्मोत्पलदलच्छन्नतोयमिदं सरः / ददाति राजा पक्षिभ्यः प्रीत्या साभयदक्षिणम् // Jम्_२२.१७ //
1250 SK अथ कदाचित्संहृतमेघान्धकारयवनिकासु शरद्गुणोपहृदशोभास्वालोकनक्षमासु दिक्षु प्रबद्धकमलवनशोभेषु प्रसन्नसलिलमनोहरेषु सरस्सु परं कान्तियौवनमुपगते प्रचेयकिरण इव चन्द्रमसि विविधसस्यसंपद्विभूषणधरायां वसुंधरायां प्रवृत्ते हंसतरुणजनसंपाते मानसात्सरसः शरत्प्रसन्नानि दिगन्तराण्यनुविचरदनुपूर्वेणान्यतमं हंसमिथुनं तस्मादेव हंसयूथात्तस्य राज्ञो विषयमुपजगाम / तत्र च पक्षिगणकोलाहलोन्नादितमनिभृतमधुकरगणं तरंगमालाविचरणकृतव्यापारैः सुखशिशिरैर्मृदुभिरनिलैः समन्ततो विक्षिप्तमाणकमलकुवलयरेणुगन्धं ज्वलदिव विकचैः कमलैर्हसदिव विकसितैः कुमुदैस्तत्सरो ददर्श / तस्य मानससरःसमुचितस्यापि हंसमिथुनस्य तामतिमनोहरां सरसः श्रियमभिवीक्ष्य प्रादुरभूत् - अहो बत तदपि हंसयूथमिहागच्छेदिति /
1251 SK प्रायेण खलु लोकस्य प्राप्य साधारणं सुखम् / स्मृतिः स्नेहानुसारेण पूर्वमेति सुहृज्जनम् // Jम्_२२.१८ //
1252 SK अथ तत्र तद्धंसमिथुनं यथाकामं विहृत्य प्रवृत्ते जलदसमये विद्युद्विस्फुरितशस्त्रविक्षेपेषु नातिघनविच्छिन्नान्धकाररूपेषु समभिवर्तमानेषु दैत्यानीकेष्विव जलधरवृन्देषु परिपूर्णबर्हकलापशोभेषु प्रसक्तकेकानिनादोत्क्रुष्टैर्जलधरविजयमिव संराधयत्सु नृत्तप्रवृत्तेषु चित्रेषु बर्हिगणेषु वाचालतामुपगतेषु स्तोकशुकनिषु प्रविचरत्सु कदम्बसर्जार्जुनकेतकीपुष्पगन्धाधिवासितेषु सुखशिशिरेषु काननविनिश्चसितेष्विवानिलेषु मेघदशनपंक्तिष्विवालक्ष्यमाणरूपासु बलाकायुवतिषु गमनौत्सुक्यमृदुनिकूजितेषु प्रयाणव्याकुलेषु हंसयूथेषु तद्धंसमिथुनं मानसमेव सरः प्रत्याजगाम / समुपेत्य च हंसाधिपतिसमीपं प्रस्तुतासु दिग्देशकथासु तं तस्य सरसो गुणविशेषं वर्णयामास - अस्ति देव दक्षिणेन हिमवतो वाराणस्यां ब्रह्मदत्तो नाम नराधिपतिः / तेनात्यद्भूतरूपशोभमनिर्वर्ण्यगुणसौन्दर्यं महत्सरः पक्षिभ्यः स्वच्छन्दसुखोपभोग्यं दत्तम् / (Vऐद्य १३८) अभयं च प्रत्यहमवघुष्यते / रमन्ते चात्र पक्षिणः स्वगृह इव प्रहीनभयाशङ्का / तदर्हति देवो व्यतीतासु वर्षासु तत्र गन्तुमिति / तच्छ्रुत्वा सर्व एव ते हंसास्तत्संदर्शनसमुत्सुका बभूवुः /
1253 SK अथ भोधिसत्त्वः सुमुखं सेनापतिं प्रशनव्यक्ताकारं प्रततं ददर्श, कथं पश्यसीति चावोचत् / अथ सुमुखः प्रणम्यैनमुवाच - न प्राप्तं तत्र देवस्य गमनमिति पश्यामि / कुतः? अमूनि तावल्लोभनीयानि मनोहराण्यामिषभूतानि रूपाणि / न च नः किंचिदिह परिहीयते / कृतकमधुरोपचारवचनप्रच्छन्नतीक्ष्णदौरात्म्यानि च प्रायेण पेलवघृणानि शठानि मानुषहृदयानि / पश्यतु स्वामी,
1254 SK वाशितार्थस्वहृदयः प्रायेण मृगपक्षिणः / मनुष्याः पुनरेकीयास्तद्विपर्ययनैपुणाः // Jम्_२२.१९ //
1255 SK उच्यते नाम मधुरं स्वनुबन्धि निरत्ययम् / वणिजो ऽपि हि कुर्वन्ति लाभसिद्ध्याशया व्ययम् // Jम्_२२.२० //
1256 SK यतो नैतावता देव विस्रम्भः क्षमते क्वचित् / कार्यार्थमपि न श्रेयः सात्ययापनयः क्रमः // Jम्_२२.२१ //
1257 SK यदि त्ववश्यमेव तत्र गन्तव्यम्, गत्वानुभूय च तस्य सरसो गुणविभूतिरसं न नस्तत्र चिरं विचरितुं क्षमं निवासाय वा चित्तमभिनामयितुमिति पश्यामि / अथ बोधिसत्त्वः प्राप्तायां विमलचन्द्रक्षत्रताराविभूषणायां रजन्यां शरदि तेन हंसयूथेन वाराणसीसरःसंदर्शनं प्रत्यभिवृद्धकौतूहलेन तदभिगमनार्थं पुनः पुनर्विज्ञाप्यमानस्तेषां हंसानामनुवृत्त्या सुमुखप्रमुखेण महता हंसगणेन परिवृत्तश्चन्द्रमा इव शरदभृवृदेन तत्राभिजगाम /
1258 SK दृष्ट्वैव लक्ष्मी सरसस्तु तस्य तेषां प्रहर्षाकुलविस्मयानाम् / चित्रप्रकारा रुचिसंनिवेशास्तत्संश्रये तुल्यगुणा बभूवुः // Jम्_२२.२२ //
1259 SK यन्मानसादभ्यधिकं बभूव तैस्तैरवस्थातिशयैः सरस्तत् / अतश्चिरं तद्गतमानसानां न मानसे मानसमास तेषाम् // Jम्_२२.२३ //
1260 SK तत्र ते तामभयघोषणामुपलभ्य स्वच्छन्दतां च पक्षिगणस्य तस्य च सरसो विभूत्सा प्रमुदितहृदयास्तत्रोद्यानयात्रामिवानुभवन्तः परां प्रीतिसंपदमुपजग्मुः /
1261 SK अथ तस्मिन् सरस्यधिकृताः पुरुषास्तेषां हंसानां तत्रागमनं राज्ञे प्रत्यवेदयन्त - यादृशगुणरूपौ (Vऐद्य १३९) देव तौ हंसवर्यावनुश्रूयेते तदृशावेव [हंसवर्यौ]कनकावदातरुचिरपत्रौ तपनीयोज्ज्वलतरवदनचरणशोभावधिकतरप्रमाणौ सुसंस्थितदेहौ नैकहंसशतसहस्रपरिवारौ देवस्य सरः शोभयितुमिवानुप्राप्ताविति / अथ स राजा शाकुनिककर्मणि प्रसिद्धप्रकाशनैपुणं शाकुनिकगणे समन्विप्य तद्ग्रहणार्थं सादरमन्वादिदेश / स तथेति प्रतिश्रुत्य तर्योर्हंसयोर्गोचरविहारप्रदेशं सम्यगुपलभ्य तत्र तत्र दृढान्निगूढान् पाशान् न्यदधात् / अथ तेषां हंसानां विश्वासादपायनिराशङ्कानां प्रमोदोद्धतमनसां विचरतां स हंसाधिपतिः पाशेन चरणे न्यबध्यत /
1262 SK विस्मृतात्ययशङ्कानां सूक्ष्मैर्विश्वासनक्रमैः / विकरोत्येव विश्रम्भः प्रमादापनयाकरः // Jम्_२२.२४ //
1263 SK अथ बोधिसत्त्वो मा भूदन्यस्यापि कस्यचित्तत्रैवंविधो व्यसनोपनिपात इति रुतविशेषेण सप्रतिभयतां सरसः प्रकाशयामास / अथ ते (हंसा) हंसाधिपतिबन्धाद्व्यथितहृदया भयविरसव्याकुलविरावाः परस्परनिरपेक्षा हतप्रवीरा इव सैनिका दिवं समुत्पेतुः / सुमुखस्तु हंससेनाधिपतिर्हंसाधिपतिसमीपानैव विचचाल /
1264 SK स्नेहावबद्धानि हि मानसानि प्राणत्ययं स्वं न विचिन्तयन्ति / प्राणात्ययाद् दुःखतरं यदेषां सुहृज्जनस्य व्यसनार्तिदैन्यम् // Jम्_२२.२५ //
1265 SK अथैनं बोधिसत्त्व उवाच -
1266 SK गच्छ गच्छैव सुमुख क्षमं नेह विलम्बितुम् / साहाय्यस्यावकाशो हि कस्तवेत्थंगते मयि // Jम्_२२.२६ //
1268 SK नैकान्तिको मृत्युरिह स्थितस्य न गच्छतः स्यादजरामरत्वम् / सुखेषु च त्वां समुपास्य नित्यमापद्गतं मानद केन जह्याम् // Jम्_२२.२७ //
1269 SK स्वप्राणतन्तुमात्रार्थं त्यजतस्त्वां खगाधिप / धिग्वादवृष्ट्यावरणं कतमन्मे भविष्यति // Jम्_२२.२८ //
1270 SK नैष धर्मो महाराज त्यजेयं त्वां यदापदि / या गतिस्तव सा मह्यं रोचते विहगाधिप // Jम्_२२.२९ //
1272 SK का नु पाशेन बद्धस्य गतिरन्या महानसात् / सा कथं स्वस्थचित्तस्य मुक्तस्याभिमता तव // Jम्_२२.३० //
1273 SK पश्यस्येवं कमर्थं वा त्वं ममात्मन एव वा / ज्ञातीनां वावशेषाणामुभयोर्जीवितक्षये // Jम्_२२.३१ //
1274 SK लक्ष्यते च न यत्रार्थस्तमसीव समासमम् / तादृशे संत्यजन् प्राणान् कमर्थं द्योतयेद्भवान् // Jम्_२२.३२ //
1276 SK कथं नु पततां श्रेष्ठ धर्मे ऽर्थं न समीक्षसे / धर्मो ह्युपचितः सम्यगावहत्यर्थमुत्तमम् // Jम्_२२.३३ //
1277 SK सो ऽहं धर्मं च संपश्यन् धर्माच्चार्थं समुत्थितम् / तव मानद भक्त्या च नाभिकाङ्क्षामि जीवितम् // Jम्_२२.३४ //
1279 SK अद्धा धर्मः सतामेष यत्सखा मित्रमापदि / न त्यजेज्जीवितस्यापि हेतोर्धर्ममनुस्मरन् // Jम्_२२.३५ //
1280 SK तदर्चितस्त्वया धर्मो भक्तिर्मयि च दर्शिता / याच्ञ्जामन्त्यां कुरुष्वेमां गच्छैवानुमतो मया // Jम्_२२.३६ //
1281 SK अपि चैवंगते कार्ये यदूनं सुहृदां मया / तत्त्वया मतिसंपन्न भवेत्परमसंभृतम् // Jम्_२२.३७ //
1282 SK परस्पप्रेमगुणादिति संजल्पतोस्तयोः / प्रत्यदृश्यत नैषादः साक्षान्मृत्युरिवापतन् // Jम्_२२.३८ //
1283 SK अथ तौ हंसवर्यौ निषादमापतन्तमालोक्य तूष्णीं बभूवतुः / स च तद्धंसयूथं विद्रुतमालोक्य नूनमत्र कश्चिद्वद्ध इति निश्चितमतिः पाशस्थानान्यनुविचरंस्तौ हंसवर्यौ ददर्श / स तद्रूपशोभया विस्मितमना बद्धाविति मन्यमानस्तत्समापन्नौ पाशावुद्घट्टयामास / अथैकं बद्धमबद्धेनेतरेण स्वस्थेनोपास्यमानमवेक्ष्य विस्मिततरहृदयः सुमुखमुपेत्योवाच -
1284 SK अयं पाशेन महता द्विजः संहृतविक्रमः / व्योम नास्मत्प्रपद्येत मय्यप्यन्तिकमागते // Jम्_२२.३९ //
1285 SK अवद्धस्त्वं पुनः स्वस्थः सज्जपत्ररथी बली / कस्मात्प्राप्ते ऽपि मय्येवं वेगान्न भजसे नभः // Jम्_२२.४० //
1286 SK तदुपश्रुत्य सुमुखः प्रव्यक्ताक्षरपदविन्यासेन स्वभाववर्णनाधैर्यगुणौजस्विना स्वरेण मानुषीं वाचमुवाच -
1287 SK शक्तिस्थः सन्न गच्छामि यदिदं तत्र कारणम् / अयं पाशपरिक्लेशं विहंगः प्राप्तवानिति // Jम्_२२.४१ //
1288 SK अयं पाशेन महता संयतश्चरणे त्वया / गुणैरस्यतु बद्धो ऽहमतो दृधतरैर्हृदि // Jम्_२२.४२ //
1289 SK अथ स नैषादः परमविस्मितमतिः संहृषिततनूरुहः सुमुखं पुनरुवाच -
1290 SK त्यक्त्वैनं मद्भयदन्ये दिशो हंसाः समश्रिताः / त्वं पुनर्न त्यजस्येनं को न्वयं भवतो द्विज // Jम्_२२.४३ //
1292 SK राजा मम प्राणसमः सखा च सुखस्य दाता विषमस्थितश्च / नैवोत्सहे येन विहातुमेनं स्वजीवितस्याप्यनुरक्षणार्थम् // Jम्_२२.४४ //
1293 SK अथ सुमुखः प्रसादविस्मयावर्जितमानसं तं नैषादमवेत्य पुनरुवाच -
1294 SK अप्यस्माकमियं भद्र संभाषा स्यात्सुखोदया / अप्यस्मान् विसृजन्नद्य धर्म्यां कीर्तिमवाप्नुयाः // Jम्_२२.४५ //
1296 SK नैव ते दुःखमिच्छामि न च बद्धो भवान् मया / स त्वं गच्छ यथाकामं पश्य बन्धूंश्च नन्दय // Jम्_२२.४६ //
1298 SK नो चेदिच्छसि मे दुःखं तत्कुरुष्व ममार्थनाम् / एकेन यदि तुष्टो ऽसि तत्त्यजैनं गृहाणं माम् // Jम्_२२.४७ //
1299 SK तुल्यारोहपरीणाहौ समानौ वयसा च नौ / विद्धि निष्क्रय इत्यस्य न ते ऽहं लाभहानये // Jम्_२२.४८ //
1300 SK तदङ्ग समवेक्षस्व गृद्धिर्भवतु ते मयि / मां बध्नातु भवान् पूर्वं पश्चान्मुञ्चेद द्विजाधिपम् // Jम्_२२.४९ //
1301 SK तावानेव च लाभस्ते कृता स्यान्मम चार्थना / हंसयूथस्य च प्रीतिर्मैत्री तेन तथैव च // Jम्_२२.५० //
1302 SK पश्यन्तु तावद्भवता विमुक्तं हंसाधिपं हंसगणाः प्रतीताः / विरोचमानं नभसि प्रसन्ने दैत्येन्द्रनिर्मुक्तमिवोडुराजम् // Jम्_२२.५१ //
1303 SK अथ स नैषादः क्रूरताभ्यसकठिनहृदयो ऽपि तेन तस्य जीवितनिरपेक्षेण स्वाम्यनुरागश्लाघिना कृतज्ञतागुनौजस्विना धैर्यमाधुर्यालंकृतवचसा समावर्जितहृदयो विस्मयगौरववशाट्समानीताञ्जलिः सुमुखमुवास - साधु साधु महाभाग
1304 SK मानुषेष्वप्ययं धर्म आश्चर्यो दैवतेषु वा / स्वाम्यर्थंत्यजता प्राणान् यस्त्वयात्र प्रदर्शितः // Jम्_२२.५२ //
1305 SK तदेष ते विमुचामि राजनमनुमानयन् / को हि प्राणाप्रियतरे तवास्मिन् विप्रियं चरत् // Jम्_२२.५३ //
1306 SK इत्युक्त्वा स नैषादस्तस्य नृअप्तेः संदेशमनादृत्य हंसराजं समनुमानयन् दयासुमुखं पाशान्मुमोच /
1307 SK अथ सुमुखः सेनापतिर्हंसराजविमोक्षात्परमानन्दितहृदयः प्रीत्यभिस्निग्धमुदीक्षमाणो नैषादमुवाच -
1308 SK यथा सुहृन्नन्दन नन्दितो ऽस्मि त्वयाद्य हंसाधिपतेर्विमोक्षात् / एवं सुहृज्ज्ञातिगणेन भद्र शरत्सहस्त्राणि बहूनि नन्द // Jम्_२२.५४ //
1309 SK तन्मा तवायं विफलः श्रमो भूदादाय मां हंसगणाधिपं च / स्वस्थावबद्धावधिरोप्य काचमन्तःपुरे दर्शय भूमिपाय // Jम्_२२.५५ //
1310 SK असंशयं प्रीतमनाः स राजा हंसाविपं सानुचरं समीक्ष्य / दास्यत्यसंभावितविस्तराणि धानानि ते प्रीतिविवर्धनानि // Jम्_२२.५६ //
1311 SK अथ नैषादस्तस्य निर्बन्धात् पश्यतु तावदत्यद्भुतमिदं हंसयुतं स राजेति कृत्वा ते हंसमुख्यौ काचेनादय स्वस्थावबद्धौ राज्ञे दर्शयामास /
1312 SK उपायनाश्चर्यमिदं द्रष्टुमर्हसि मानद / ससेनापतिरानीतः सो ऽयं हंसपतिर्मया // Jम्_२२.५७ //
1313 SK अथ स राजा प्रहर्षविस्मयापूर्णमतिर्दृष्ट्वा ती हंसप्रधानी काञ्चनपुञ्जाविवश्रियाभिज्वलन्मनोहररूपौ तं नैषादमुवाच -
1314 SK स्वस्थावबद्धावमुकौ विहंगौ भूमिचारिणः / तव हस्तमनुप्राप्तौ कथं कथय विस्तरम् // Jम्_२२.५८ //
1315 SK इत्युक्ते स नैषादः प्रणम्य राजानमुवाच -
1316 SK निहिता बहवः पाशा मया दारुणदारुणाः / विहगाक्रिडदेशेषु पल्वलेषु सरस्सु च // Jम्_२२.५९ //
1317 SK अथ विस्रम्भनिःशङ्को हंसवर्यश्चरन्नयम् / परिच्छन्नेन पाशेन चरणे समबध्यत // Jम्_२२.६० //
1318 SK अबद्धस्तमुपासीनो मामयं समयाचत / आत्मानं तिष्क्रयं कृत्वा हंसराजस्य जीवितम् // Jम्_२२.६१ //
1319 SK विसृजन्मानुषीं वाचं विस्पष्टमधुराक्षराम् / स्वजीवितपरित्यागाद्याच्ञामप्यूर्जितक्रमाम् // Jम्_२२.६२ //
1320 SK तेनास्य वाक्येन सुपेशलेन स्वाम्यर्थधीरेण च चेष्टितेन / तथा प्रसन्नो ऽस्मि यथास्य भर्ता मया समं क्रूरतयैव मुक्तः // Jम्_२२.६३ //
1321 SK अथ विहगपतेरयं विमोक्षान्मुदितमतिर्बहुधा वदन् प्रियाणि / त्वदभिंगम इति न्ययोजयन्मां विफलगुरुः किल मा मम श्रमो भूत् // Jम्_२२.६४ //
1322 SK तदेवमतिधार्मिकः खगवराकृतिः को ऽप्यसौ ममापि हृदि मार्दवं जनितवान् क्षणेनैव यः / खगाधिपतिमोक्षणं कृतमनुस्मरन् मत्कृते सहाधिपतिनागतः स्वयमयं च ते ऽन्तःपुरम् // Jम्_२२.६५ //
1323 SK तदुपश्रुत्य स राजा सप्रमोदविस्मयेन मनसा विविधरत्नप्रभोद्भासुरसुरुचिरपादं परार्ध्यास्तरणरचनाभिरामं श्रिमत्सुखोपाश्रयसाटोपमुपहितपादपीठं राजाध्यासनयोग्यं काञ्चनमासनं हंसराजाय समादिदेशः, अमात्यमुख्याध्यासनयोग्यं च वेत्रासनं सुमुखाय /
1324 SK अथ बोधिसत्त्वः काल इदानीं प्रतिसंमोदितुमिति नूपुरारावमधुरेण स्वरेण राजानमाबभाषे -
1325 SK द्युतिकान्तिनिकेतने शरीरे कुशलं ते कुशलार्ह कच्चिदस्मिन् / अपि धर्मशरीरमव्रणं ते विपुलैरुच्छ्वसितीव वाक्प्रदानैः // Jम्_२२.६६ //
1326 SK अपि रक्षणदीक्षितः प्रजानां समयानुग्रहविग्रहप्रवृत्त्या / अभिवर्धयसे स्वकीर्तिशोभमनुरागं जगतो हितोदयं च // Jम्_२२.६७ //
1327 SK अपि शुद्धतयोपधास्वसक्तैरनुरक्तैर्निपुणक्रियैरमात्यैः / समवेक्षयसे हितं प्रजानां न च तत्रासि परोक्षबुद्धिरेव // Jम्_२२.६८ //
1328 SK नयविक्रमसंहृतप्रतापैरपि सामन्तनृपैः प्रयाच्यमानः / उपयासि दयानुवृत्तिशोभां न च विश्वासमयीं प्रमादनिद्राम् // Jम्_२२.६९ //
1329 SK अपि धर्मसुखार्थनिर्विरोधास्तव चेष्टा नरविर सज्जनेष्टाः / वितता इव दिक्षु कीर्तिसिद्ध्या रिपुभिर्निश्वसितैरसत्क्रियन्ते // Jम्_२२.७० //
1330 SK अथैनं स नृपतिः प्रमोदादभिव्यज्यमानेन्द्रियप्रसादः प्रत्युवाच -
1331 SK अद्य मे कुशलं हंस सर्वत्र च भविष्यति / चिराभिलषितः प्राप्तो यदयं सत्समागमः // Jम्_२२.७१ //
1332 SK त्वयि पाशवशं प्राप्ते प्रहर्षद्धतचापलः / कचिन्नायमकारिषीत्ते दण्डेनाभिरुजन् रुजम् // Jम्_२२.७२ //
1333 SK एवं ह्यमीषां जाल्मानां पक्षिणां व्यसनोदये / प्रहर्षाकुलिता बुद्धिरापतत्येव कल्मषम् // Jम्_२२.७३ //
1335 SK क्षेममासीन्महाराज सत्यामप्येवमापदि / न चायं किंचिदस्मासु शत्रुवत्प्रत्यपद्यत // Jम्_२२.७४ //
1336 SK अबद्धं बद्धवदयं मत्स्नेहात्सुमुखं स्थितम् / दृष्ट्वाभाषत साम्नैव सकौतूहलविस्मयः // Jम्_२२.७५ //
1337 SK सूनृतैरस्य वचनैरथावर्जितमानसः / मामयं व्यमुचत्पाशाद्विनयदनुमानयन् // Jम्_२२.७६ //
1338 SK अतश्च सुमुखेनेदं हितमस्य समीहितम् / इहागमनमस्मकं स्यदस्यापि सुखोदयम् // Jम्_२२.७७ //
1340 SK आकाङ्क्षिताभिगमयोः स्वागतं भवतोरिह / अतीव प्रीणितश्चास्मि युष्मत्संदर्शनोत्सवात् // Jम्_२२.७८ //
1341 SK अयं च महतार्थेन नैषादो ऽद्य समेष्यति / उभयेषां प्रियं कृत्वा महदर्हत्ययं प्रियम् // Jम्_२२.७९ //
1342 SK इत्युक्त्वा स राजा तं नैषादं महता धनविस्तरप्रदानेन समान्य पुनर्हंसराजमुवाच -
1343 SK इमं स्वमावासमुपागतौ युवां विसृज्यतां तन्मयि यन्त्रणाव्रतम् / प्रयोजनं येन यथा तदुच्यतां भवत्सहाया हि विभूतयो मम // Jम्_२२.८० //
1344 SK अशङ्कितोक्तैः प्रणयाक्षरैः सुहृत् करोति तुष्टिं विभवस्थितस्य याम् / न तद्विधां लम्भयते स तां धनैर्महोपकारः प्रणयः सुहृत्स्वतः // Jम्_२२.८१ //
1345 SK अथ स राजा सुमुखसंभाषणकुतूहलहृदयः सविस्मयभिवीक्ष्य सुमुखमुवाच -
1346 SK अलब्धगाधा नवसंस्तवे जने न यान्ति कामं प्रणयप्रगल्भताम् / वचस्तु दाक्षिण्यसमाहिताक्षरं न ते न जल्पन्त्युपचारशीभरम् // Jम्_२२.८२ //
1347 SK संभाषणेनापि यतः कर्तुमर्हति नो भवान् / साफल्यं प्रणयाशायाः प्रीतेश्चोपचयं हृदि // Jम्_२२.८३ //
1348 SK इत्युक्ते सुमुखो हंससेनापतिर्विनयादभिप्रणम्यैनमुवाच -
1349 SK महेन्द्रकल्पेन सह त्वया संभाषणोत्सवः / इति दर्शितसौहार्दे कस्य नातिमनोरथः // Jम्_२२.८४ //
1350 SK संभाषमाणे तु नराधिपे च सौहार्दरम्यं विहगाधिपे च / तत्संकथामध्यमुपेत्य धार्ष्ट्यान्नन्वक्रमः प्रेष्यजनस्य वक्तुम् // Jम्_२२.८५ //
1351 SK न हेय्ष मार्गो विनयभिजातस्तं चैव जानन् कथमभ्युपेयाम् / तूष्णीं महाराज यतः स्थितो ऽहं तन्मर्षणीयं यदि मर्षणीयम् // Jम्_२२.८६ //
1352 SK इत्युक्ते स राजा सप्रहर्षविस्मयवदनः संराधयन् सुमुखमुवाच -
1353 SK स्थाने भवद्गुणकथा रमयन्ति लोकं स्थाने ऽसि हंसपतिना गमितः सखित्वम् / एवंविधं हि विनयं नयसौष्ठवं च नैवाकृतात्महृदयानि समुद्वहन्ति // Jम्_२२.८७ //
1354 SK तदियं प्रस्तुता प्रीतिर्विच्छिद्येत यथा न नः / तथैव मयि विस्रम्भ अजर्यं ह्यार्यसंगतम् // Jम्_२२.८८ //
1355 SK अथ बोधिसत्त्वस्तस्य राज्ञः परां प्रीतिकामतामवेत्य स्नेहप्रवृत्तिसुमुखतां च संराधयन्नवोचदेनम् -
1356 SK यत्कृत्यं परमे मित्रे कृतमस्मासु तत्त्वया / संस्तवे हि नवे ऽप्यस्मिन् स्वमाहात्म्यानुवर्तिना // Jम्_२२.८९ //
1357 SK कश्च नाम महाराज नावलम्ब्येत चेतसि / संमानविधिनानेन यस्त्वयास्मासु दर्शितः // Jम्_२२.९० //
1358 SK प्रयोजनं नाम कियत्किमेव वा मदाश्रयं मानद यत्त्वमीक्षसे / प्रियातिथित्व गुणवत्सलस्य ते प्रवृत्तमभ्यासगुणादिति ध्रुवम् // Jम्_२२.९१ //
1359 SK न चित्रमेतत्त्वयि वा जितात्मनि प्रजाहितार्थं धृतपार्थिवव्रते / तपःसमाधानपरे मुनाविव स्वभाववृत्त्या हि गुणास्त्वयि स्थिताः // Jम्_२२.९२ //
1360 SK इति प्रशंसासुभगाः सुखा गुणा न दोषदुर्गेषु वसन्ति भूतयः / इमां विदित्वा गुणदोषधर्मतां सचेतनः कः स्वहितोत्पथं भचेत् // Jम्_२२.९३ //
1361 SK न देशमाप्नोति पराक्रमेण तं न कोशवीर्येण न नितीसंपदा / श्रमव्ययाभ्यां नृपतिर्विनैव यं गुणाभिजातेन पथधिगच्छति // Jम्_२२.९४ //
1362 SK सुराधिपश्रीरपि वीक्षते गुणान् गुणोदितानेव परैति संनति / गुणेभ्य एव प्रभवन्ति कीर्तयः प्रभावमाहात्म्यमिति श्रितं गुणान् // Jम्_२२.९५ //
1363 SK अमर्षदर्पोद्भवकर्कशान्यपि प्ररूढवैरस्थिरमत्सराण्यपि / प्रसादयन्त्येव मनांसि विद्विषां शशिप्रकाशाधिककान्तयो गुणाः // Jम्_२२.९६ //
1364 SK तदेवमेव क्षितिपाल पालयन् महीं प्रतापानतदृप्तपार्थिवाम् / अमन्दशोभैर्विनयदिभिर्गुणैर्गुणानुरागं जगतं प्रबोधय // Jम्_२२.९७ //
1365 SK प्रजाहितं कृत्यतमं महीपतेस्तदन्य पन्था ह्युभयत्र भूतये / भवेच्च तद्राजनि धर्मवत्सले नृपस्य वृत्तं हि जनो ऽनुवर्तते // Jम्_२२.९८ //
1366 SK प्रशाधि धर्मेण वसुंधरामतः करोतु रक्षां त्रिदशाधिपश्च ते / त्वदन्तिकात्संश्रितभावनादपि स्वयूथ्यदुःखं तु विकर्षतीव माम् // Jम्_२२.९९ //
1367 SK अथ स राजा समभिनन्द्य तत्तस्य वचनं सपर्षत्कः संमानप्रियवचनप्रयोगपुरःसरं तौ हंसमुख्यौ विससर्ज / अथ बोधिसत्त्वः समुत्पत्य विमलखड्गाभिनीलं शरत्प्रसन्नशोभं गगनतलं प्रतिबिम्बेनेवानुगम्यमानः सुमुखेन हंससेनापतिना समुपेत्य हंसयूथं संदर्शनादेव परेण प्रहर्षेण संयोजयामास /
1368 SK कालेन चोपेत्य नृपं स हंसः परानुकम्पव्यसनी सहंसः / जगाद धर्मं क्षितिपेन तेन प्रत्यर्च्यमानो विनयानतेन // Jम्_२२.१०० //
1369 SK तदेवं विनिपातगतानामपि सतां वृत्तं नालमनुगन्तुमसत्पुरुषाः प्रागेव सुगतिष्ठानामिति / एवं कल्याणी वागुभयहितावहा भवतीति कल्याणवचनप्रशंसायामप्युपनेयम् / कल्याणमित्रवर्णे ऽपि वाच्यम्, एवं कल्याणमित्रवतां कृच्छ्रे ऽप्यर्थाः संसिध्यन्तीति / स्थविरार्यानन्दपूर्वसभागप्रदर्शने च, एवमयं स्थविरः सहचरितचरणो बोधिसत्त्वेन चिरकालाभ्यस्तप्रेमबहुमानो भवतीति /
1370 SK // इति हंसजातकं द्वाविशतितमम् //
1372 SK असत्कृतानामपि सत्पुरुषाणां पूर्वोपकारिष्वनुकम्पा न शिथिलीभवति कृतज्ञत्वात् क्षमासात्म्याच्च / तद्यथानुश्रूयते -
1373 SK बोधिसत्त्वभूतः किलायं भगवान् महाबोधिर्नाम परिव्राजको बभूव / स गृहस्थभाव एव परिविदितक्रमव्यायामो लोकाभिमतानां विद्यास्थानानां कृतज्ञानकौतूहलश्चित्रासु च कलासु प्रव्रज्याश्रयाल्लोकहितोद्योगाच्च विशेषवत्तरं धर्मशास्त्रेष्ववहितमतिस्तेष्वाचार्यकं पदमवाप / स कृतपुण्यत्वाज्ज्ञानमाहात्म्याल्लोकज्ञतया प्रतिपत्तिगुणसौष्ठवाच्च यत्र यत्र गच्छति स्म तत्र तत्रैव विदुषां विद्वत्प्रियाणां च राज्ञां ब्राह्मणगृहपतीनामन्यतीर्थिकानां च प्रव्रजितानामभिगमनीयो भावनीयश्च बभूव /
1374 SK गुणा हि पुण्याश्रयलब्धदीप्तयो गताः प्रियत्वं प्रतिपत्तिशोभया / अपि द्विषद्भ्यः स्वयशोनुरक्षया भवन्ति सत्कारविशेषभागिनः // Jम्_२३.१ //
1375 SK अथ स महात्मा लोकानुग्रहार्थमनुविचरन् ग्रामनगरनिगमजनपदराष्ट्रराजधाणीरन्यतमस्य राज्ञो विषायान्तरमुपजागाम / श्रुतगुनविस्तरप्रभवस्तु स राजा तस्यागमनं दूरत एवोपलभ्य प्रीतमना रमणीये स्वस्मिन्नुद्यानवनप्रदेशे तस्यावसथं कारयामास / अभ्युद्गमनादिसत्कारपुरःसरं चैनं प्रवेश्य स्वविषयं शिष्य इवाचार्यं परिचरणपर्युपासनविधिना संमानयामास /
1376 SK विभूतिगुणसंपन्नमुपेतः प्रणयाद् गृहम् / गुनप्रियस्य गुनवानुत्सवातिशयो ऽतिथिः // Jम्_२३.२ //
1377 SK बोधिसत्त्वो ऽपि चैनं श्रुतिहृदयह्लादिनीभिर्धर्म्याभिः कथाभिः श्रेयोमार्गमनुप्रतिपादयमानः प्रत्यहमनुजग्राह /
1378 SK अदृष्टभक्तिष्वपि धर्मवत्सला हितं विवक्षन्ति परानुकम्पिनः / क एव वादः शुचिभाजनोपमे हितार्थिनि प्रेमगुणोत्सुके जने // Jम्_२३.३ //
1379 SK अथ तस्य राज्ञो ऽमात्या लब्धविद्वत्संभावना लब्धसंमानाश्च सदस्याः प्रत्यहमभिवर्धमानसत्कारां बोधिसत्त्वस्य गुणसमृद्धिमीर्ष्योपहतबुद्धित्वान्न सेहिरे /
1380 SK स्वगुणातिशयोदितैर्यशोभिर्जगदावर्जनदृष्टशक्तियोगः / रचनागुनमत्रसत्कृतेषु ज्वलयत्येव परेष्वमर्षवह्निम् // Jम्_२३.४ //
1381 SK प्रसह्य चैनं शास्त्रकथास्वभिभवितुमशक्ता धर्मप्रसङ्गममृष्यमाणाश्च राज्ञस्तेन तेन क्रमेण राजानं बोधिसत्त्वं प्रति विग्राहयामासुः - नार्हति देवो बोधिपरिव्राजके विश्वासमुपगन्तुम् / व्यक्तमयं देवस्य गुणप्रियतां धर्माभिमुखतां चोपलभ्य व्यसनप्रतारणश्लक्ष्णठमधुरवचनः प्रवृत्तिसंचारणहेतुरभूतः कस्यापि प्रत्यर्थिनो राज्ञो निपुणः प्रणिधिप्रयोगः / तथा हि धर्मात्मको नाम भूत्वा देवमेकान्तेन कारुण्यप्रवृत्तौ ह्रीदैन्ये च समनुशास्ति, अर्थकामोपरोधिषु च क्षत्रधर्मबाह्येष्वासन्नापनयेषु धर्मसमादानेषु दयानुवृत्त्या च नाम ते कृत्यपक्षमाश्वासनविधिनोपगृणीते प्रियसंस्तवश्चान्यराजदूतैः / न चायमविदितवृत्तान्तो राजशास्त्राणाम् / अतः साशङ्कान्यत्र नो हृदयानीति / अथ तस्य राज्ञः पुनः पुनर्भेदोपसंहितं हितमिव बहुभिरुच्यमानस्य बोधिसत्त्वं प्रति परिशङ्कासंकोचितस्नेहगौरवप्रसरमन्यादृशं चित्तमभवत् /
1382 SK पैसुन्यवज्राशनिसंनिपाते भीमस्वने चाशनिसंनिपाते / विस्रम्भवान्मानुषमात्रधैर्यः स्यान्निर्विकारो यदि नाम कश्चित् // Jम्_२३.५ //
1383 SK अथ स राजा विस्रम्भविरहन्मन्दीभुतप्रेमबहुमानस्तस्मिन् महासत्त्वे न यथापूर्वं सत्कारप्रयोगसुमुखो बभूव / बोधिसत्त्वो ऽपि शुद्धस्वभावत्वात् बहुकार्यव्यासङ्गा राजान इति तन्मनसि चकार / तत्समीपवर्तिनां तु विनयोपचारशैथिल्यसंदर्शनाद्विरक्तहृदयमवेत्य राजानं समादाय त्रिदण्डादुण्डिकाद्यां परिव्राजकभाण्डिकां प्रक्रमणसव्यापारः समभवत् / तदुपश्रुत्य स राजा सावशेषस्नेहतया दाक्षिण्यविनयनुवृत्त्या चैनमभिगम्य प्रदर्शितसंभ्रमो विनिवर्तयितुकाम इव तमुवाच -
1384 SK अस्मनकस्मादपहाय कस्माद्गन्तव्य एव प्रणता मतिस्ते / व्यलीकशङ्काजनकं नु किंचिद् दृष्टं प्रमादस्खलितं त्वया नः // Jम्_२३.६ //
1385 SK अथैनं बोधिसत्त्व उवाच -
1386 SK नाकस्मिको ऽयं गमनोद्यमो मे नासत्क्रियामात्रकरूक्षिकत्वात् / अभजनत्वं तु गतो ऽसि शाठ्याद्धर्मस्य तेनाहमितो व्रजामि // Jम्_२३.७ //
1387 SK अथास्य सरभसभषितमतिविवृतवदनमभिद्रवन्तं वल्लभं श्वानं तत्रागतमभिप्रदर्शयन् पुनरुवाच - अयं चात्र महाराज अमानुषः साक्षिनिर्देशो दृश्यताम् /
1388 SK अयं हि पूर्वं पटुचाटुकर्मा भूत्वा मयि श्वा भवतो ऽनुवृत्त्या / आकारगुप्त्यज्ञतया त्विदानीं त्वद्भावसूचां भषितैः करोति // Jम्_२३.८ //
1389 SK त्वत्तः श्रुतं किंचिदनेन नूनं मदन्तरे भक्तिविपत्तिरुक्षम् / अतो ऽनुवृत्तं ध्रुवमित्यनेन त्वत्प्रीतिहेतोरनुजीविवृत्तम् // Jम्_२३.९ //
1390 SK अथ स राजा तत्प्रत्यदेशाद् व्रीडावनामितवदनस्तेन चास्य मतिनैपुण्येन समावर्जितमतिर्जातसंवेगो नेदानीं शाठ्यानुवृत्तिकाल इति बोधिसत्त्वमभिप्रणम्योवाच -
1391 SK त्वदाश्रया कचिदभूत्कथैषा संप्रस्तुता नः सदसि प्रगल्भैः / उपेक्षिता कार्यवशान्मया च तत्क्षम्यतां तिष्ठ च साधु मा गाः // Jम्_२३.१० //
1392 SK बोधिसत्त्व उवाच - नैव खल्वहं महाराज असत्कारप्रकृतत्वादक्षमया वा प्रणुद्यमाणो गच्छामि / न त्वयं महाराज अवस्थानकाल इति न तिष्ठामि / पश्यतु भवान् /
1393 SK विमध्यभावादपि हीनशोभे यायां न सत्कारविधौ स्वयं चेत् / सङ्गादगत्या जडताबलाद्वा नन्वर्धचन्द्राभिनयोत्तरः स्याम् // Jम्_२३.११ //
1394 SK प्राप्तक्रमो ऽयं विधिरत्र तेन यास्यामि नाप्रीत्यभितप्तचित्तः / एकावमानाभिहता हि सत्सु पूर्वोपकारा न समीभवन्ति // Jम्_२३.१२ //
1395 SK अस्निग्धभावस्तु न पर्युपास्यस्तोयार्थिन शुष्क इवोदपानः / प्रयत्नसाध्यापि ततो ऽर्थसिद्धिर्यस्माद्भवेदाकलुषा कृशा च // Jम्_२३.१३ //
1396 SK प्रसन्न एव त्वभिगम्यरूपः शरद्विशुद्धाम्बुमहाह्रदाभः / सुखार्थिनः क्लेशपराङ्मुखस्य लोकप्रसिद्धः स्फुट एष मार्गः // Jम्_२३.१४ //
1397 SK भक्त्युन्मुखाद्यो ऽपि पराङ्मुखः स्यात्पराङ्मुखे चाभिमुखत्वदीनः / पूर्वोपकारस्मरणालसो वा नराकृतिश्चिन्त्यविनिश्चयः सः // Jम्_२३.१५ //
1398 SK असेवना चात्युपसेवना च याच्ञाभियोगाश्च दहन्ति मैत्रीम् / रक्ष्यं यतः प्रीत्यवशेषमेतन्निवासदोषादिति यामि तावत् // Jम्_२३.१६ //
1399 SK राजोवाच - यद्यवश्यमेव गन्तव्यमिति निश्चितात्रभवतो मतिः, तत्पुनरपीदानीमिहागमनेनास्माननुग्रहीतुमर्हति भवान् / असेवनादपि हि प्रीतिरनुरक्षितव्यैव / बोधिसत्त्व उवाच - बह्वन्तरायो महाराज बहूपद्रवप्रत्यर्थिकत्वाल्लोकसंनिवेश इति न शक्यमेतदवधारणया प्रतिज्ञातुमागमिष्यामीति / सति त्वागमनकारणसाकल्ये ऽपि नाम पुनर्भवन्तं पश्येम / इत्यनुनीय स माहत्मा तं राजानं कृताभ्यनुज्ञासत्कारस्तेन राज्ञा तद्विषयात्प्रचक्राम / स तेन गृहिजनसंस्तवेनाकुलितहृदयो ऽन्यतमदरण्यायतनमुपश्रित्य ध्यानाभियुक्तमतिस्तत्र विहरन्नचिरेणेव चत्वारि ध्यानानि पञ्चाभिज्ञाः प्रतिलेभे /
1400 SK तस्य समस्वादितप्रशमसुखरसस्य स्मृतिरनुकम्पनुसारिणी तं राजानं प्रति प्रादुरभूत् - का नु खलु तस्य राज्ञो ऽवस्थेति / अथैनं ददर्श तैरमात्यैर्यथाभिनिविष्टानि दृष्टिगतानि प्रैत् प्रतार्यमाणम् / कश्चिदेनममात्यो दुर्विभाव्यहेतुभिर्निदर्शनैरहेतुवादं प्रति प्रचकर्ष -
1401 SK कः पद्मनालदलकेसरकर्णिकानां संस्थानवर्णरचनामृदुतादिहेतुः / पत्राणि चित्रयति को ऽत्र पतत्रिणां वा स्वाभाविकं जगदिदं नियतं तथैव // Jम्_२३.१७ //
1402 SK अपर इश्वरकारणमस्मै स्वबुद्धिरुचितमुपवर्णयामास -
1403 SK नाकस्मिकं भवितुमर्हति सर्वमेतदस्त्यत्र सर्वमधि कश्चिदनन्त एकः / स्वेच्छाविशेषनियमाद्य इमं विचित्रं लोकं करोति च पुनश्च समीकरोति // Jम्_२३.१८ //
1404 SK सर्वमिदं पूर्वकर्मकृतं सुखासुखम् / न प्रयत्नसामर्थ्यमस्तीत्येवमन्य एनं विग्राहयामास -
1405 SK एवं करिष्यति कथं नु समानकालं भिन्नाश्रयान् बहुविधानमितांश्च भावान् / सर्वं तु पूर्वकृतकर्मनिमित्तमेतत् सौख्यप्रयत्ननिपुणो ऽपि हि दुःखमेति // Jम्_२३.१९ //
1406 SK अपर उच्छेदवादकथाभिरेनं कामभोगप्रसङ्ग एव प्रतारयामास -
1407 SK दारूणि नैकविधवर्णगुणाकृतीनि कर्मात्मकानि न भवन्ति भवन्ति चैव / नष्टानि नैव च यथा पुनरुद्भवन्ति लोकस्तथायमिति सौख्यपरायणः स्यात् // Jम्_२३.२० //
1408 SK अपर एनं क्षत्रविद्यापरिदृष्टेषु नीतिकौटिल्यप्रसङ्गेषु नैर्घृण्यमलिनेषु धर्मविरोधिष्वपि राजधर्मो ऽयमिति समनुशशास -
1409 SK छायाद्रुमेष्विव नरेषु कृताश्रयेषु तावत्कृतज्ञचरितैः स्वयशः परीप्सेत् / नार्थो ऽति यावदुपभोगनयेन तेषां कृत्ये तु यज्ञ इव ते पशवो नियोज्याः // Jम्_२३.२१ //
1410 SK इति ते ऽमात्यास्तं राजानं तेन तेन दृष्टिकृतोन्मार्गेण नेतुमीषुः /
1411 SK अथ बोधिसत्त्वः पापजनसंपर्कवशात्परप्रत्ययनेयबुद्धित्वाच्च दृष्टिकृतप्रपाताभिमुखमवेक्ष्य राजानं तदनुकम्पासमावर्जितहृदयस्तन्निवर्तनोपायं विममर्श /
1412 SK गुणाभ्यासेन साधूनां कृतं तिष्ठति चेतसि / भ्रश्यत्यपकृतं तस्माज्जलं पद्मदलादिव // Jम्_२३.२२ //
1413 SK अथ बोधिसत्त्वः इदमत्र प्राप्तकालमिति विनिश्चित्य स्वस्मिन्नाश्रमपदे महान्तं वानरमभिनिर्माय ऋद्धिप्रभावात्तस्य चर्मापनीय शेषमन्तर्धापयामास / स तन्निर्मितं महद्वानरचर्म (Vऐद्य १५४) बिभ्रत्तस्य नृपतेर्भवनद्वारे प्रादुरभूत् / निवेदिताभ्यागमनश्च दौवारिकैर्यथाक्रममायुधीयगुप्तपर्यन्ताममात्यद्विजयोधदूपपौरमुख्याभिकीर्णां विनीतधीरोदात्तवेषजनां सासियष्टिभिः प्रतिहारैरधिष्ठितप्रद्वारां सिंहासनावश्तितनराधिपामनाकुलां राजपर्षदमवजगाहे / प्रत्युद्गमनादिविधिना चातिथिजनोपचारेण प्रतिपूज्यमानः कृतप्रतिसंमोदनकथासत्कारासनाभिनिर्हारश्च तेन राज्ञा कौतूहलानुवृत्त्या वानरचर्मप्रतिलम्भं प्रत्यनुयुक्तः - केनेदमार्याय वानरचर्मोपनयता महतानुग्रहेणात्मा संयोजित इति /
1414 SK बोधिसत्त्व उवाच - मयैवेदं महाराज स्वयमधिगतं नान्येन केनचिदुपहृतम् / कुशतृणमात्रास्तीर्णायां हि पृथिव्यां स्वभावकठिनायां निषण्णेन स्वपता वा प्रतप्यमानशरीरेण न सुखं धर्मविधिरनुष्ठियते / अयं च मयाश्रमपदे महान् वानरो दृष्टः / तस्य मे बुद्धिरभवत् - उपपन्नं बत मे धर्मसाधनमिदमस्य वानरस्य चर्म / शक्यमत्र निषण्णेन स्वपता वा परार्ध्यास्तरणास्तीर्णेभ्यो राजशयनेभ्यो ऽपि निवृत्तस्पृहेण स्वधर्मविधिरनुष्ठातुमिति मया तस्येदं चर्म प्रगृहीतम् / स च प्रशमित इति / तच्छ्रुत्वा स राजा दाक्षिण्यविनयानुवृत्त्या न बोधिसत्त्वं किंचित्प्रत्युवाच / सव्रीडहृदयस्तु किंचिदवाङ्मुखो बभूव /
1415 SK अथ ते ऽमात्याः पूर्वमपि तस्मिन् महासत्त्वे सामर्षहृदया लब्धवचनावकाशत्वात्प्रविकसितवदना राजानमूदीक्ष्य बोधिसत्त्वमुपदर्शयन्त ऊचुः - अहो भगवतो धर्मनुरागैकरसा मतिः / अहो धैर्यम् / अहो व्यवसायसाधुसामर्थ्यम् / आश्रमपदमभिगत एव महान्नाम वानर एकाकिना तपःक्षामशरीरेण प्रशमित इत्याश्चर्यम् / सर्वथा तपःसिद्धिरस्तु / अथैनानसंरब्ध एव बोधिसत्त्वः प्रत्युवाच - नार्हन्त्यत्रभवन्तः स्ववादशोभानिरपेक्षमित्यस्मान् विगर्हितुम् / न ह्ययं क्रमो विद्वद्यशः समुद्भाबयितुम् / पह्स्यन्त्वत्रभवन्तः -
1416 SK स्ववादघ्नेन वचसा यः परान् विजुगुप्सते / स खल्वात्मवधेनेव परस्याकिर्तीमिच्छति // Jम्_२३.२३ //
1417 SK इति स महात्मा तानमात्यान् सामान्येनोपालभ्य प्रत्येकशः पुनरुपालब्धुकामस्तमहेतुवादिनमामन्त्र्योवाच -
1418 SK स्वाभाविकं जगदिति प्रविकथसे त्वं तत्त्वं च तद्यदि विकुत्सयसि किमस्मान् / शाखामृगे निधनमापतिते स्वभावात् पापं कृतो मम यतः सुहतो मयायम् // Jम्_२३.२४ //
1419 SK अथ पापमस्ति मम तस्य वधान्ननु हेतुतस्तदिति सिद्धमिदम् / तदहेतुवादमिदमुत्सृज वा वद वात्र यत्तव न युक्तमिव // Jम्_२३.२५ //
1420 SK यदि पद्मनालरचनादि च यत्तदहेतुकं ननु सदैव भवेत् / सलिलादीबीजकृतमेव तु तत् सति तत्र संभवति न ह्यसति // Jम्_२३.२६ //
1421 SK अपि चायुष्मन्, सम्यगुपधारय तावत्,
1422 SK न हेतुरस्तीति वदन् सहेतुकं ननु प्रतिज्ञा स्वयमेव हापयेत् / अथापि हेतुप्रणयालसो भवेत् प्रतिज्ञया केवलयास्य किं भवेत् // Jम्_२३.२७ //
1423 SK एकत्र क्वचिदनवेक्ष्य यश्च हेतुं तेनैव प्रवदति सर्वहेत्वभावम् / प्र्त्यक्षं ननु तदवेत्य हेतुसारं तद्द्वेषी भवति विरोधदुष्टवाक्यः // Jम्_२३.२८ //
1424 SK न लक्ष्यते यदि कुहचिच्च कारणं कथं नु तद् दृढमसदेव भाषसे / न दृश्यते सदपि हि कारणान्तराद्दिनात्यये विमलविवार्कमण्डलम् // Jम्_२३.२९ //
1426 SK सुखार्थमिष्टान् विषयान् प्रपद्यसे निषेवितुं नेच्छसि तद्विरोधिनः / नृपस्य सेवां च करोषि तत्कृते न हेतुरस्तीति च नाम भाषसे // Jम्_२३.३० //
1427 SK तदेवमपि चेद्भावाननुपश्यस्यहेतुकान् / अहेतोर्वानरवधे सिद्धे किं मां विगर्हसे // Jम्_२३.३१ //
1428 SK इति स महात्मा तमहेतुवादिनं विशदैर्हेतुभिर्निष्प्रतिभं कृत्वा तमीश्वकारणिकममन्त्रयोवाच - (Vऐद्य १५६) आयुष्मानप्यस्मान् नार्हत्येव विगर्हितुम् / ईश्वरः सर्वस्य हि ते कारणमभिमतः / पश्य -
1429 SK कुरुते यदि सर्वमीश्वरो ननु तेनैव हतः स वानरः / तव केयममैत्रचित्तता परदोषान् मयि यन्निषिञ्चसि // Jम्_२३.३२ //
1430 SK अथ वानरवीरवैशसं न कृतं तेन दयानुरोधिना / बृहदित्यवघुष्यते कथं जगतः कारणमीश्वरस्त्वया // Jम्_२३.३३ //
1431 SK अपि च भद्र सर्वमीश्वरकृतमिति पश्यतः -
1432 SK ईश्वरे प्रसादाशा का स्तुतिप्रणामाद्यैः / स स्वयं स्वयंभूस्ते यत्करोति तत्कर्म // Jम्_२३.३४ //
1433 SK त्वत्कृताथ यदीज्या न त्वसौ तदकर्ता / आत्मनो हि विभूत्या यः करोति स कर्जा // Jम्_२३.३५ //
1434 SK ईश्वरः कुरुते चेत्पापकान्यखिलानि / तत्र् अभक्तिनिवेशः कं गुणं नु समीक्ष्य // Jम्_२३.३६ //
1435 SK तान्यधर्मभयाद्वा यद्ययं न करोति / तेन वक्तुमयुक्तं सर्वमीश्वरसृष्टम् // Jम्_२३.३७ //
1436 SK तस्य चेश्वरता स्याद्धर्मतः परतो वा / धर्मतो यदि न प्रागीश्वरः स ततो ऽभूत् // Jम्_२३.३८ //
1437 SK दासतैव च सा स्याद्या क्रियेत परेण / स्यादथापि न हेतोः कस्यनेश्वरता स्यत् // Jम्_२३.३९ //
1438 SK एवमपि तु गते भक्तिरागादविगणितयुक्तायुक्तस्य -
1439 SK यदि कारणमीश्वर एव विभुर्जगतो निखिलस्य तवाभिमतः / ननु नार्हसि मय्यधिरोपयितुं विहितं विभुना कपिराजवधम् // Jम्_२३.४० //
1440 SK इति स महात्मा तमीश्वकारणिकं सुश्लिष्टैर्हेतुभिर्मूकतामिवोपनीय तं पूर्वकर्मकृतवादिनमामन्त्रणासौष्ठवेनाभिमुखीकृत्योवाच - भवानप्यस्मान्न शोभते विकुत्सयमानः / सर्वं हि ते पूर्वकर्मकृतमित्यभिमानः / तेन च त्वां ब्रवीमि -
1441 SK स्यात्सर्वमेव यदि पूर्वकृतप्रभावाच्छाखामृगः सुहत एव मयैष तस्मात् / दग्धे हि पूर्वकृतकर्मदवाग्निनास्मिन् पापं किमत्र मम येन विगर्हसे माम् // Jम्_२३.४१ //
1442 SK अथास्ति पापं मम वानरं घ्नतः कृतं मया तर्हि न पूर्वकर्मणा / यदिष्यते कर्म च कर्महेतुकं न कश्चिदेवं सति मोक्षमेष्यति // Jम्_२३.४२ //
1443 SK भवेच्च सौख्यं यदि दुःखहेतुषु स्थितस्य दुःखं सुखसाधनेषु वा / अतो ऽनुमीयेत सुखासुखं ध्रुवं प्रवर्तते पूर्वकृतैकहेतुकम् // Jम्_२३.४३ //
1444 SK न दृष्टमेवं च यतः सुखासुखं न पूर्वकर्मैकमतो ऽस्य कारणम् / भवेदभावश्च नवस्य कर्मणस्तदप्रसिद्धौ च पुरातनं कुतः // Jम्_२३.४४ //
1445 SK पूर्वकर्मकृतं सर्वमथैवमपि मन्यसे / वानरस्य वधः कस्मान्मत्कृतः परिकल्प्यते // Jम्_२३.४५ //
1446 SK इति स महात्मा निरनुयोज्यैर्हेतुभिस्तस्य मौनव्रतमिवोपदिश्य तमुच्छेदवादिनं स्मितपूर्वकमुवाच - आयुष्मतः को ऽयमत्यादरो ऽस्मद्विगर्हायां यदि तत्त्वमुच्छेदवादं मन्यसे?
1447 SK लोकः परो यदि न कश्चन किं विवर्ज्यं पापं शुभं प्रति च किं बहुमानमोहः / स्वच्छन्दरम्यचरितो ऽत्र विचक्षणः स्यादेवं गते सुहत एव च वानरो ऽयम् // Jम्_२३.४६ //
1448 SK जनवादभयादथाशुभं परिवर्ज्यं शुभमार्गसंश्रयात् / स्ववचःप्रतिलोमचेष्टितैर्जनवादानपि नातियात्ययम् // Jम्_२३.४७ //
1449 SK स्वकृतान्तपथागतं सुखं न समाप्नोति च लोकशङ्कया / इति निष्फलवादविभ्रमः परमो ऽयं ननु बालिशाधमः // Jम्_२३.४८ //
1451 SK दारूणि नैकविधवर्णगुणाकृतीनि कर्मात्मकानि न भवन्ति भवन्ति चैव / नष्टानि नैव च यथा पुनरुद्भवन्ति लोकस्तथायमिति को ऽत्र च नाम हेतुः // Jम्_२३.४९ //
1452 SK उच्छेदवादवात्सल्यं स्यादेवमपि ते यदि / विगर्हणीयः किं हन्ता वानरस्य नरस्य वा // Jम्_२३.५० //
1453 SK इति स महासत्त्वस्तमुच्छेदवादिनं विस्पष्टशोभेनोत्तरक्रमेण तूष्णींभावपरायणं कृत्वा तं क्षत्रविद्याविदग्धममात्यमुवाच - भवानप्यस्मान् कस्मादिति विकुत्सयते यदि न्याय्यमर्थशास्त्रपरिदृष्टं विधिं मन्यसे?
1454 SK अनुष्ठेयं हि तत्रेष्टमर्थार्थं साध्वसाधु वा / अथोद्धृत्य किलात्मानमर्थैर्धर्मं करिष्यते // Jम्_२३.५१ //
1455 SK अतस्त्वां ब्रवीमि -
1456 SK प्रयोजनं प्राप्य न चेदवेक्ष्यं स्निग्धेषु बन्धुष्वपि साधुवृत्तम् / हते मया चर्मणि वानरे ऽस्मिन् का शास्त्रदृष्टे ऽपि नये विगर्हा // Jम्_२३.५२ //
1457 SK दयावियोगादथ गर्हणीयं कर्मेदृशं दूःखफलं च दृष्टम् / यत्राभ्यनुज्ञातमिदं न तन्त्रे प्रपद्यसे केन मुखेन तत्त्वम् // Jम्_२३.५३ //
1458 SK इयं विभूतिश्च नयस्य यत्र तत्रानयः किदृशविभ्रमः स्यात् / अहो प्रगल्भैः परिभूय लोकमुन्नीयते शास्त्रपथैरधर्मः // Jम्_२३.५४ //
1459 SK अदृष्टमेवाथ तवैतदिष्टं शास्त्रे किल स्पष्टपथोपदिष्टम् / शास्त्रप्रसिद्धेन नयेन गच्छन् न गर्हणीयो ऽस्मि कपेर्वधेन // Jम्_२३.५५ //
1460 SK इति स महात्मा जितपर्षत्कान् परिचितप्रागल्भ्यानपि च तानमात्यान् प्रसह्याभिभूय समावर्जितहृदयां च सराजिकां पर्षदमवेत्य तेषां वानरवधहृल्लेखविनयनार्थं राजानमाबभाषे - नैव च खल्वहं महाराज प्राणिनं वानरं हतवान् / निर्माणविधिरयम् / निर्मितस्य हि वानरस्येदं चर्म मया गृहीतमस्यैव कथाक्रमस्य प्रस्तावार्थम् / तदलं मामन्यथा प्रतिग्रहीतुम् / इत्युक्त्वा तमृद्ध्याभिसंस्कारं प्रतिसंहृत्य परया च मात्रयाभिप्रसादितमानसं राजानं सपर्षत्कमवेत्योवाच -
1461 SK संपश्यन् हेतुतः सिद्धिं स्वतन्त्रः परलोकवित् / साधुप्रतिज्ञः सघृणः प्राणिनं को हनिष्यति // Jम्_२३.५६ //
1463 SK अहेतुवादी परतन्त्रदृष्टिरनास्तिकः क्षत्रनयानुगो वा / कुर्यान्न यन्नाम यशोलवार्थं तन्न्यायवादी कथमभ्युपेयात् // Jम्_२३.५७ //
1464 SK दृष्टिर्नरश्रेष्ठ शुभाशुभा वा सभागकर्मप्रतिपत्तिहेतुः / दृष्ट्यन्वयं हि प्रविकल्प्य तत्तद्वाग्भिः क्रियाभिश्च विदर्शयन्ति // Jम्_२३.५८ //
1465 SK सद्दृष्टिरस्माच्च निषेवितव्या त्याज्या त्वसद्दृष्टिरनर्थवृष्टिः / लभ्यश्च सत्संश्रयिणा क्रमो ऽयमसज्जनाद्दूरचरेण भुत्वा // Jम्_२३.५९ //
1466 SK असंयताः संयतवेषधारिणश्चरन्ति कामं भुवि भिक्षुराक्षसाः / विनिर्दहन्तः खलु बालिशं जनं कुदृष्टिभिर्दृष्टिविषा इवोरगाः // Jम्_२३.६० //
1467 SK अहेतुवादादिविरूक्षवाशितं शृगालवत्तत्र विशेषलक्षणम् / अतो न तानर्हति सेवितुं बुधश्चरेत्तदर्थं तु पराक्रमे सति // Jम्_२३.६१ //
1468 SK लोके विरूढयशसापि तु नैव कार्या कार्यार्थमप्यसदृशेन जनेन मैत्री / हेमन्तदुर्दिनसमागमदूषितो हि सौभाग्यहानिमुपयाति निशाकरो ऽपि // Jम्_२३.६२ //
1469 SK तद्वर्जनाद् गुणविवर्जयितुर्जनस्य संसेवनाच्च गुणसेवनपण्डितस्य / स्वां किर्तिमुज्ज्वलय संजनयन् प्रजानां दोषानुरागविलयं गुणसौहृदं च // Jम्_२३.६३ //
1470 SK त्वयि च चरति धर्म भूयसायं नृलोकः सुचरितसुमुखः स्यात्स्वर्गमार्गप्रतिष्ठः / जगदिदमनुपाल्यं चैवमभ्युद्यमस्ते विनयरुचिरमार्गं धर्ममस्माद्भजस्व // Jम्_२३.६४ //
1471 SK शीलं विशोधय समर्जय दातृकीर्तिं मैत्रं मनः कुरु जने स्वजने यथैव / धर्मेण पालय महीं चिरमप्रमादादेवं समेष्यसि सुखं त्रिदिवं यशश्च // Jम्_२३.६५ //
1472 SK कृषिप्रधानान् पशुपालनोद्यतान् महीरुहान् पुष्पफलान्वितानिव / अपालयञ्जानपदान् बलिप्रदान् नृपो हि सर्वौषधिभिर्विरुध्यते // Jम्_२३.६६ //
1473 SK विचित्रपण्यक्रयविक्रयाश्रयं वणिग्जनं पौरजनं तथा नृपः / न पाति यः शुल्कपथोपकारिणं विरोधमायाति स कोशसंपदा // Jम्_२३.६७ //
1474 SK अदृष्टदोषं युधि दृष्टविक्रमं तथा बलं यः प्रथितास्रकौशलम् / विमानयेद् भूपतिरध्युपेक्षया ध्रुवं विरुद्धः स रणे जयश्रिया // Jम्_२३.६८ //
1475 SK तथैव शीलश्रुतयोगसाधुषु प्रकाशमाहात्म्यगुणेषु साधुषु / चरन्नवज्ञामलिनेन वर्त्मना नराधिपः स्वर्गसुखेर्विरुध्यते // Jम्_२३.६९ //
1476 SK द्रुमद्यथामं प्रचिनोति यः फलं स हन्ति बीजं न रसं च विन्दति / अधर्म्यमेवं बलिमुद्धरन्नृपः क्षिणोति देशं न च तेन नन्दति // Jम्_२३.७० //
1477 SK यथा तु संपूर्णगुणो महोरुहः फलोदयं पाकवशात्प्रयच्छति / तथैव देशः क्षितिपाभिरक्षितो युनक्ति धर्मार्थसुखैर्नराधिपम् // Jम्_२३.७१ //
1478 SK हितानमात्यान्निपुणार्थदर्शिनः शुचीनि मित्राणि जनं स्वमेव च / बधान चेतस्सु तदिष्टया गिरा धनैश्च संमाननयोपपादितैः // Jम्_२३.७२ //
1479 SK तस्माद्धर्मं त्वं पुरस्कृत्य नित्यं श्रेयःप्राप्तौ युक्तचेताः प्रजानाम् / रागद्वेषोन्मुक्तया दण्डनीत्या रक्षंल्लोकानात्मनो रक्ष लोकान् // Jम्_२३.७३ //
1480 SK इति स महात्मा तं राजानं दृष्टिकृतकापथाद्विवेच्य समवतार्य च सन्मार्गं सपर्षत्कं तत एव गगनतलं समुत्पत्य प्राञ्जलिना तेन जनेन सबहुमानप्रणतेन प्रत्यर्च्यमानस्तदेवारण्यायतनं प्रतिजगाम /
1481 SK तदेवमसत्कृतानामपि सत्पुरुषाणां पूर्वोपकारिष्वनुकम्पा न शिथिलीभवति कृतज्ञत्वात्क्षमासात्म्याच्च / इति नासत्कारमात्रकेण पूर्वकृतं विस्मर्तव्यम् / एवं स भगवाननभिसंबुद्धो ऽपि परवादानभिभूय सत्त्वविनयं कृतवानिति बुद्धवर्णे ऽपि वाच्यम् / एवं मिथ्यादृष्टिरननुयोगक्षमानुपाश्रयत्वादसेव्या चेति मिथ्यादृष्टिविगर्हायामप्युपनेयम् / विपर्ययेण सम्यग्दृष्टिप्रशंसायामिति /
1482 SK // इति महाबोधिजातकं त्रयोविंशतितमम् /
1483 SK २४. Mअहाकपिजातकम् नात्मदुःखेन तथा सन्तः संतप्यन्ते यथापकारिणां कुशलपक्षहान्या / तद्यथानुश्रूयते -
1484 SK बोधिसत्त्वः किल श्रीमति हिमवत्पार्श्वे विविधधातुरुचिरचित्राङ्गरागे नीलकौशेयप्रावारकृतोत्तरासङ्ग इव वनगहनलक्ष्म्या प्रयत्नरचितैरिवानेकवर्णसंस्थानविकल्पैर्वैषम्यभक्तिचित्रैर्विभूषिततटान्तदेशे प्रविसृतनैकप्रस्रवणजले गम्भीरकन्दरान्तरप्रपातसंकुले पटुतरमधुकरनिनादे मनोज्ञमारुतोपवीज्यमानविचित्रपुष्पफलपादपे विद्याधराक्रीडभुते महाकायः कपिरेकचरो बभुव / तदवस्थमपि चैनमपरिलुप्तधर्मसंज्ञं कृतज्ञमक्षुद्रस्वभावं धृत्या महत्या समन्वितमनुरागवशादिव करुणा नैव मुमोच /
1485 SK सकानना साद्रिवरा ससागरा गता विनाशं शतशो वसुंधरा / युगान्तकाले सलिलानलानिलैर्न बोधिसत्त्वस्य महाकृपालुता // Jम्_२४.१ //
1486 SK अथ स महात्मा तापस इव वनरुपर्णफलमात्रवृत्तिरनुकम्पमानस्तेन तेन विधिना गोचरपतितान् प्राणिनस्तमरण्यप्रदेशमध्यवसति स्म /
1487 SK अथान्यतमः पुरुषो गां प्रनष्टामन्वेषितुं कृतोद्योगः समन्ततो ऽनुविचरन् मार्गाप्रनष्टो दिग्भागसंमूढमतिः परिभ्रमंस्तं देशमुपजगाम / स क्षुत्पिपासाधर्मश्रमपरिम्लानतनुर्दौर्मनस्यवह्निना चान्तःप्रदीप्यमानो विषादातिभारादिवान्यतमस्मिन् वृक्षमूले निषण्णो ददर्श परिपाकवशाद्विच्युतानि परिपिञ्जराणि कतिचित्तिन्दुकीफलानि / स तान्यास्वाद्य क्षुत्परिक्षामतया परमस्वादूनि मन्यमानस्तत्प्रभवान्वेषणं प्रत्यभिवृद्धोत्साहः समन्ततो ऽनुविलोकयन् ददर्श प्रपाततटान्तविरूढं परिपक्कफलानमितपिञ्जराग्रशाखं तिन्दुकीवृक्षम् / स तत्फलतृष्णयाकृष्यमाणस्तं गिरितटमधिरुह्य तस्य तिन्दुकीवृक्षस्य फलिनिं शाखां प्रपाताभिनतामध्यारुरोह फललोभेन चास्याः प्रान्तमुपजगाम /
1488 SK शाखाथ सा तस्य महीरुहस्य भारातियोगान्नमिता कृशत्वात् / परश्वधेनेव निकृत्तमूला सशब्दभङ्गं सहसा पपात // Jम्_२४.२ //
1489 SK स तया सार्धं महति गिरिदुर्गे समन्ततः शैलभित्तिपरिक्षिप्ते कूप इव न्यपतत् / पर्णसंचयगुणात्त्वस्य गाम्भीर्याच्च सलिलस्य न किंचिदङ्गमभज्यत / स तस्मादुत्तीर्य सलिलात्समन्ततः परिसर्पन्न कुतश्चिदुत्तरणमार्गं ददर्श / स निस्प्रतीकारं मर्तव्यमिह मया नचिरादिति विस्रस्यमानजीविताशः शोकाश्रुपरिषिक्तदीनवदनस्त्रीव्रेण दौर्मनस्यशल्येन प्रतुद्यमानः कातरहृदयस्तत्तदार्तिवशाद् विललाप् /
1490 SK कान्तारे दुर्गे ऽस्मिजनसंपातरहिते निपतितं माम् / यत्नादपि परिमृगयन् मृत्योरन्यः क इव पश्येत् // Jम्_२४.३ //
1491 SK बन्धुजनमित्रवर्जितमेकनिपानीकृतं मशकसंघैः / अवपाताननमग्नं मृगमिव को ऽभ्युद्धरिष्यति माम् // Jम्_२४.४ //
1492 SK उद्यानकाननविमानसरिद्विचित्रं ताराविकीर्णमणिरत्नविराजिताभ्रम् / तामिस्रपक्षरजनीव घनान्धकारा कष्टं जगन्मम तिरस्कुरुते ऽन्तरात्रिः // Jम्_२४.५ //
1493 SK इति स पुरुषस्तत्तद्विलपंस्तेन सलिलेन तैश्च सहनिपतितैस्तिन्दुकफलैर्वर्तयमानः कतिचिद्दिनानि तत्रावसत् /
1494 SK अथ स महाकपिराहारहेतोस्तद्वनमनुविचरन्नाहूयमान् इव मारुताकम्पिताभिस्तस्य तिन्दुकीवृक्षस्याग्रशाखाभिस्तं प्रदेशमभिजगाम / अभिरुह्य चैनं तत्प्रपातमवलोकयन् ददर्श तं पुरुषं क्षुत्परिक्षामनयनवदनं परिपाण्डुकृशदीनगात्रं पर्युत्सुकं तत्र विचेष्टमानम् / स तस्य परिद्यूनतया समावजितानुकम्पो महाकपिर्निक्षिप्ताहारव्यापारस्तं पुरुषं प्रततं बिक्षमाणो मानुषीं वाचमुवाच -
1495 SK मानुषाणामगम्ये ऽस्मिन् प्रपाते परिवर्तसे / वक्तुमहंसि तत्साधु को भवाहिन वा कुतः // Jम्_२४.६ //
1496 SK अथ स पुरुषस्तं महाकपिमार्ततया समभिप्रणम्योद्वीक्षमाणः साञ्जलिरुवाच -
1497 SK मानुषो ऽस्मि महाभाग प्रनष्टो विचरन् वने / फलार्थी पादपादस्मादिमामापदमागमम् // Jम्_२४.७ //
1498 SK तत्सुहृद्वन्धुहीनस्य प्राप्तस्य व्यसनं महत् / नाथ वानरयूथानां ममापि शरणं भव // Jम्_२४.८ //
1499 SK तच्छ्रुत्वा स महासत्त्वः परां करुणामुपजगाम /
1500 SK आपद्गतो बन्धुसुहृद्विहीनः कृताञ्जलिर्दीनमुदीक्षमाणः / करोति शत्रूनपि सानुकम्पानाकम्पयत्येव तु सानुकम्पान् // Jम्_२४.९ //
1501 SK अथैनं बोधिसत्त्वः करुणायमाणस्तत्कालदुर्लभेन स्निग्धेन वचसा समाश्वासयामास -
1502 SK प्रपातसंक्षिप्तपराक्रमो ऽहमबान्धवो वेति कृथाः शुचं मा / यद्बन्धुकृत्यं तव किंचिदत्र कर्तास्मि तत्सर्वमलं भयेन // Jम्_२४.१० //
1503 SK इति स महासत्त्वस्तं पुरुषमाश्वास्य ततश्चास्मै तिन्दुकान्यपराणि च फलानि समुपहृत्य तदुद्धरणयोग्यया पुरुषभारगुर्व्या शिलयान्यत्र योग्यां चकार / ततश्चात्मनो बलप्रमाणमवगम्य शक्तो ऽहमेनमेतस्मात्प्रपातादुर्द्धर्तुमिति निश्चितमतिरवतीर्य प्रपातं करुणया परिचोद्यमानस्तं पुरुषमुवाच -
1504 SK एहि पृष्ठं ममारुह्य सुलग्नो ऽस्तु भवान् मयि / यावदभ्युद्धरामि त्वां स्वदेहात्सारमेव च // Jम्_२४.११ //
1505 SK असारस्य शरीरस्य सारो ह्येष मतः सताम् / यत्परेषां हितार्थेषु साधनीक्रियते बुधैः // Jम्_२४.१२ //
1506 SK स तथेति प्रतिश्रुत्याभिप्रणस्य चैनमध्यारुरोह /
1507 SK अथाभिरूढः स नरेण तेन भरातियोगेन विहन्यमानः / सत्त्वप्रकर्षादविप्रन्नधैर्यः परेण दुःखेन तमुज्जहार // Jम्_२४.१३ //
1508 SK उद्धृत्य चैनं परमप्रतीतः खेदात्परिव्याकुलखेलगामी / शिलातलं तोयधराभिनीलं विश्रामहेतोः शयनीचकार // Jम्_२४.१४ //
1509 SK अथ बोधिसत्त्वः शुद्धस्वभावतया कृतोपकारत्वाच्च तस्मात्पुरुषादपायनिराशङ्को विस्रम्भादेनमुवाच -
1510 SK अव्याहतव्यालमृगप्रवेशे वनप्रदेशे ऽत्र समन्तमार्गे / खेदप्रसुप्तं सहसा निहन्ति कश्चित्पुरा मां स्वहितोदयं च // Jम्_२४.१५ //
1511 SK यतो भवान् दिक्षुं विकीर्णचक्षुः करोतु रक्षां मम चात्मनश्च / दृढं श्रमेणास्मि परीतमूर्तिस्तत्स्वप्तुमिच्छामि मुहूर्तमात्रम् // Jम्_२४.१६ //
1512 SK अथ स मिथ्याविनयप्रगल्भः - स्वपितु भवान् यथाकामं सुखप्रबोधाय, स्थितो ऽहं त्वत्संरक्षणायेत्यस्मै प्रतिशुश्राव / अथ स पुरुषस्तस्मिन् महासत्त्वे श्रमबलान्निद्रावशमुपगते चिन्तामशिवामापेदे -
1513 SK मूलैः प्रयत्नातिशयाधिगम्यैर्वन्यैर्यदृच्छाधिगतैः फलैर्वा / एवं परिक्षीणतनोः कथं स्याद्यात्रापि तावत्कुत एव पुष्टिः // Jम्_२४.१७ //
1514 SK इदं च कान्तारमसुप्रतारं कथं तरिष्यामि बलेन हीनः / पर्याप्तरूपं त्विदमस्य मांसं कान्तारदुर्गोत्तरणाय मे स्यात् // Jम्_२४.१८ //
1515 SK कृतोपकारो ऽपि च भक्ष्य एव निसर्गयोगः स हि तादृशो ऽस्य / आपत्प्रसिद्धश्च किलैष धर्मः पाथेयतामित्युपनेय एषः // Jम्_२४.१९ //
1516 SK यावच्च विस्रम्भसुखप्रसुप्तस्तावन्मया शक्यमयं निहन्तुम् / इमं हि युद्धाभिमुखं समेत्य सिंहो ऽपि संभाव्यपराजयः स्यात् // Jम्_२४.२० //
1517 SK तन्नायं विलम्बितुं मे काल इति विनिश्चित्य स दुरात्मा लोभदोषव्यामोहितमतिरकृतज्ञो विपन्नधर्मसंज्ञः प्रनष्टकारुण्यसौम्यस्वभावः परिदुर्बलो ऽप्यकार्यातिरागान्महतीं शिलामुद्यम्य तस्य महाकपेः शिरसि मुमोच /
1518 SK शिलाथ सा दुर्बलविह्वलेन कार्यातिरागात्त्वरितेन तेन / अत्यन्तनिद्रोपगमाय मुक्ता निद्राप्रवासाय कपेर्बभूव // Jम्_२४.२१ //
1519 SK सर्वात्मना सा न समाससाद मूर्धानमस्मान्न विनिस्पिपेष / कोट्येकदेशेन तु तं रुजन्ती शीला तले साशनिवत्पपात // Jम्_२४.२२ //
1520 SK शीलाभिघातादवभिन्नमूर्धा वेगादवप्लुत्य च बोधिसत्त्वः / केनाहतो ऽस्मीति ददर्श नान्यं तमेव तु ह्रीतमुखं ददर्श // Jम्_२४.२३ //
1521 SK वैलक्ष्यपीतप्रभमप्रगल्भं विषाददैन्यात्परिभिन्नवर्णम् / त्रासोदयादागतकङ्ठशोषं स्वेदार्द्रमुद्वीक्षितुमप्यशक्तम् // Jम्_२४.२४ //
1522 SK अथ स महाकपिरस्यैव तत्कर्मेति निस्चितमतिः स्वमभिघातदुःखमचिन्तयित्वा तेन तस्यात्महितनिरपेक्षेणातिकष्टेन कर्मणा समुपजातसंवेगकारुण्यः परित्यत्तक्रोधसंरम्भदोषः सबास्पयनयनस्तं पुरुषमवेक्ष्य समनुशोचन्नुवाच -
1523 SK मानुषेण सता भद्र त्वयेदं कृतमीदृशम् / कथं नाम व्यवसितं प्रारब्धं कथमेव वा // Jम्_२४.२५ //
1524 SK मदभिद्रोहसंरब्धं त्वं नामापतितं परम् / विनिवारणशौटीरविक्रमो रोद्धुमर्हसि // Jम्_२४.२६ //
1525 SK दुष्करं कृतवानस्मीत्यभून्मानोन्नतिर्मम / त्वयापविद्धा सा दुरमतिदुष्करकारिणा // Jम्_२४.२७ //
1526 SK परलोकादिवानीतो मृत्योर्वक्त्रान्तरादिव / प्रपातादुद्धृतो ऽन्यस्मादन्यत्र पतितो ह्यसि // Jम्_२४.२८ //
1527 SK धिगहो बत दुर्वृत्तमज्ञानमतिदारुणम् / यत्पातयति दुःखेषु सुखाशाकृपणं जगत् // Jम्_२४.२९ //
1528 SK पातितो दुर्गतावात्मा क्षिप्तः शोकानलो मयि / निमीलिता यशोलक्ष्मीर्गुणमैत्री विरोधिता // Jम्_२४.३० //
1529 SK गत्वा धिग्वादलक्षत्वं हता विश्वसनीयता / का नु खल्वर्थनिस्पत्तिरेवमाकाङ्क्षिता त्वया // Jम्_२४.३१ //
1530 SK दुनोति मां नैव तथा त्वियं रुजा यथैतदेवात्र मनः क्षिणोति माम् / गतो ऽस्मि पापे तव यन्निमित्ततां न चाहमेनस्तदपोहितुं प्रभुः // Jम्_२४.३२ //
1531 SK संदृश्यमानवपुरेव तु पार्श्वतो मां तत्साध्वनुव्रज दृढं ह्यसि शङ्कनीयः / यावद्बहुप्रतिभयाद्गहनादितस्त्वां ग्रामान्तपद्धतिमनुप्रतिपादयामि // Jम्_२४.३३ //
1532 SK एकाकिनं क्षामशरीरकं त्वां मार्गनभिज्ञं हि वने भ्रमन्तम् / कश्चित्समासाद्य पुरा करोति त्वत्पीडणाद्व्यर्थपरिश्रमं माम् // Jम्_२४.३४ //
1533 SK इति स महात्मा तं पुरुषमनुशोचञ्जनान्तमानीय प्रतिपाद्य चैनं तन्मार्गं पुनरुवाच -
1534 SK प्राप्तो जनान्तमसि कान्त वनान्तमेतत् कान्तारदुर्गभयमुत्सृज गच्छ साधु / पापं च कर्म परिवर्जयितुं यतेथा दुःखो हि तस्य नियमेन विपाककालः // Jम्_२४.३५ //
1535 SK इति स महाकपिस्तं पुरुषमनुकम्पया शिष्यमिवानुशिष्य तमेव वनप्रदेशं प्रतिजगाम /
1536 SK अथ स पुरुषस्तदतिकस्टं पापं कृत्वा पश्चात्तापवह्निना संप्रदीप्यमानचेतामहता कुष्ठव्याधिना रूपान्तरमुपनीतः किलासचित्रच्छविः प्रभिद्यमानव्रणविस्रवार्द्रगात्रः परमदुर्गन्धशरीरः सद्यः समपद्यत / स यं यं देशमभिजगाम ततस्तत एवैनमतिबीभत्सविकृततरदर्शनं मानुष इत्यश्रद्धेयरूपं भिन्नदीनस्वरमभिवीक्ष्य पुरुषाः साक्षदयं पाष्मेति मन्यमानाः समुद्यतलोष्टदण्डा निर्भर्त्सनपरुषवचसः प्रवासयामासुः / अथैनमन्यतमो राजा मृगयामनुविचरन् प्रेतमिवारण्ये परिभ्रमन्तं प्रक्षीणमलिनवसनं नातिप्रच्छन्नकौपीनमतिदुर्दशनमभिवीक्ष्य ससाध्वसकौतूहलः पप्रच्छ -
1537 SK विरूपिततनुः कुष्ठैः किलासशबलच्छविः / पाण्डुः कृशतनुर्दीनो रजोरूक्षशिरोरुहः // Jम्_२४.३६ //
1538 SK कस्त्वं प्रेतः पिशाचो वा मूर्तः पाष्माथ पूतनः / अनेकरोगसंघातः कतमो वासि यक्ष्मणाम् // Jम्_२४.३७ //
1539 SK स तं दीनेन कण्ठेन समभिप्रणमन्नुवाच - मानुसो ऽस्मि महाराज, नामानुष इति / तत्कथमिमामवस्थामनुप्राप्तो ऽसीति च पर्यनुयुक्तो राज्ञा तदस्मै स्वं दुश्चरितमाविष्कृत्योवाच -
1540 SK मित्रद्रोहस्य तस्येदं पुष्पं तावदुपस्थितम् / अतः कष्ठतरं व्यक्तं फलमन्यद्भविष्यति // Jम्_२४.३८ //
1541 SK तस्मान्मित्रेष्वभिद्रोहं शत्रुवद् द्रष्टुमर्हसि / भावस्निग्धमवेक्षस्व भावस्निग्धं सुहृज्जनम् // Jम्_२४.३९ //
1542 SK मित्रेष्वमित्रचरितं परिगृह्य वृत्तमेवंबिधां समुपयान्ति दशामिहैव / लोभादिदोषमलिनीकृतमानसानां मित्रद्रुहां गतिरतः परतो ऽनुमेया // Jम्_२४.४० //
1543 SK वात्सल्यसौम्यहृदयस्तु सुहृत्सु कीर्तिं विश्वासभावमुपकारसुखं च तेभ्यः / प्राप्नोति संनतिगुणं मनसः प्रहर्षं दुर्धर्षतां च पिरुभिस्त्रिदशालयं च // Jम्_२४.४१ //
1544 SK इमं विदित्वा नृप मित्रपक्षे प्रभावसिद्धी सदसत्प्रवृत्त्योः / भजस्व मार्ग सुजनाभिपन्नं तेन प्रयातमनुयाति भूतिः // Jम्_२४.४२ //
1545 SK तदेवं नात्मदुःखेन तथा सन्तः संतप्यन्ते यथापकारिणां कुशलपक्षहान्या / इति तथागतमाहात्म्ये वाच्यम् / सत्कृत्य धर्मश्रवणे क्षान्तिकथायां मित्रानभिद्रोहे पापकर्मादिनवप्रदर्शने चेति /
1546 SK इति महाकपिजातकं चतुविंशतितमम् /
1548 SK जिघांसुमप्यापद्गतमनुकम्पन्त एव महाकारूणिका नोपेक्षन्ते / तद्यथानुश्रूयते -
1549 SK बोधिसत्त्वः किलान्यतमस्मिन्नरण्यवनप्रदेशे निर्मानुषसंपातनीरवे विविधमृगकुलाधिवासे तृणगहननिमग्नमूलवृक्षक्षुपबहुले पथिकयानवाहनचरणैरविन्यस्तमार्गसिमान्तलेखे सलिलमार्गवल्मीकश्वभ्रविषमभूभागे बलजववर्णसत्त्वसंपन्नः संहननवत्कायोपपन्नः शरभो मृगो बभूव / स कारुण्याभ्यासादनभिद्रुग्धचित्तः सत्त्वेषु तृणपर्णसलिलमात्रवृत्तिः संतोषगुणादरण्यवासनिरतमतिः प्रविवेककाम इव योगी तमरण्यप्रदेशमभ्यलंचकार /
1550 SK मृगाकृतिर्मानुषधीरचेतास्तपस्विवत्प्राणिषु सानुकम्पः / चचार तस्मिन् स वने विविक्ते योगीव संतुष्टमतिस्तृणाग्रैः // Jम्_२५.१ //
1551 SK अथ कदाचिदन्यतमो राजा तस्य विषयस्याधिपतिस्तुरगवराधिरूढः सज्यचापबाणव्यग्रपाणिर्मृगेष्वस्त्रकौशलमात्मनो जिज्ञासमानः संरागवशाज्जवेन मृगाननुपतन्नुत्तमजवेन वाजिना दूरादपसृतहस्त्यश्वरथपदातिकायस्तं प्रदेशमुपजगाम / दूरदेव चालोक्य तं महासत्त्वं हन्तुमुत्पतितनिश्चयः समुत्कृष्टनिशितसायको यतः स महात्मा तेन तुरगवरं संचोदयामास / अथ बोधिसत्त्वः समालोक्यैव तुरगवरगतं सायुधमभिपतन्तं तं राजानं शक्तिमानपि प्रत्यवस्थातुं निवृत्तसाहससंरम्भत्वात्परेण जवातिशयेन समुत्पपात / सो ऽनुगम्यमानस्तेन तुरंगमेणानुमार्गागतं महच्छ्वभ्रं गोष्पदमिव जवेन लङ्घयित्वा प्रदुद्राव / अथ तुरगवरस्तेनैव मार्गेण तं शरभमनुपतन्नुत्तमेन जवप्रमाणेन तच्छ्वभ्रमासाद्य लङ्गयितुमनध्यवसितमतिः सहसा व्यतिष्ठत /
1552 SK अथाश्वपृष्ठादुद्गीर्णः सायुधः स महीपतिः / पपात महति स्वभ्रे दैत्ययोध इवोदधौ // Jम्_२५.२ //
1553 SK निबद्धचक्षुः शरभे स तस्मिन् संलक्षयामास न तं प्रपातम् / विस्रम्भदोषाच्चलितासनो ऽथ द्रुताश्ववेगोपरमात्पपात // Jम्_२५.३ //
1554 SK अथ बोधिसत्त्वस्तुरगखुरशब्दप्रशमात्किं नु खलु प्रतिनिवृत्तः स्यादयं राजेति समुत्पन्नवितर्कः पश्चादावर्जितावदनः समालोकयन् ददर्श तमश्वमनारोहकं तस्मिन् प्रपातोद्देशे ऽवस्थितम् / तस्य बुद्धिरभवत् - नियतमत्र प्रपाते निपतितः स राजा / न ह्यत्र किंचिद्विश्रमहेतोः संश्रयणीयरूपं घनप्रच्छायं वृक्षमूलमस्ति नीलोत्पलदलनीलविमलसलिलमवगाहयोग्यं वा सरः / न चैव व्यालमृगानुविचरितमरण्यवनमवगाढेन यत्र क्वचिदुपसृज्य तुरगवरं (Vऐद्य १७०) विश्रम्यते मृगया वानुष्ठियते / न चात्र किंचित्तृणगहनमपि तद्विधं यत्र निलीनः स्यात् / तद्व्यक्तमात्र श्वभ्रे निपतितेन तेन राज्ञा भवितव्यमिति / ततः स महात्मा निश्चयमुपेत्य वधके ऽपि तस्मिन् परां करुणामुपजगाम /
1555 SK अद्यैव चित्रध्वजभूषणेन विभ्राजमानावरणायुधेन / रथाश्वपत्तिद्विरदाकुलेन वादित्रचित्रध्वनिना बलेन // Jम्_२५.४ //
1556 SK कृतानुयात्रो रुचिरातपत्रः परिस्फुरच्चामरहारशोभः / देवेन्द्रवत्प्राञ्जलिभिर्जनौघैरभ्यर्चितो राजसुखान्यवाप्य // Jम्_२५.५ //
1557 SK अद्यैव मग्नो महति प्रपाते निपातवेगादभिरुग्णगात्रः / मुर्छान्वितः शोकपरायणो वा कष्टं बत क्लेशमयं प्रपन्नः // Jम्_२५.६ //
1558 SK किणाङ्कितानीव मनांसि दुःखैर्न हीनवर्गस्य तथा व्यथन्ते / अदृष्टदुःखान्यतिसौकुमार्याद्यथोत्तमानां व्यसनागमेषु // Jम्_२५.७ //
1559 SK न चायमतः शक्ष्यतेइ स्वयमुत्तर्तुम् / यद्यपि सावशेषप्राणस्तन्नायमुपेक्षितुं युक्तमिति वितर्कयन् स महात्मा करुणया समाकृष्यमाणहृदयस्तं प्रपाततटान्तमुपजगाम / ददर्श चैनं तत्र रेणुसंसर्गान्मृदितवारबाणशोभं व्याकुलितोष्णीषवसनसंनाहं प्रपातपतननिघातसंजानीताभिर्वेदनाभिरापीड्यमानहृदयमापतितवैतान्यं विचेष्टमानम् /
1560 SK दृष्ट्वाय तं तत्र विचेष्टमानं नराधिपं बाष्पपरीतनेत्रः / कृपावशाद्विस्मृतशत्रुसंज्ञस्तद्दुःखसामान्यमुपाजगाम // Jम्_२५.८ //
1561 SK उवाच चैनं विनयाभिजातमुद्भावयन् साधुजनस्वभावम् / आश्वासयन् स्पष्टपदेन साम्ना शिष्टोपचारेण मनोहरेण // Jम्_२५.९ //
1562 SK कच्चिन्महाराज न पीडितो ऽसि प्रपातपातालमिदं प्रपन्नः / कच्चिन्न ते विक्षतमत्र गात्रं कच्चिद्रुजस्ते तनुतां गच्छन्ति // Jम्_२५.१० //
1563 SK नामानुषश्चास्मि मनुष्यवर्य मृगो ऽप्यहं त्वद्विषयान्तवासी / वृद्धमस्त्वदीयेन तृणोदकेन विस्रम्भमित्यर्हसि मय्युपेतुम् // Jम्_२५.११ //
1564 SK प्रपातपातादधृतिं च मा गाः शक्तो ऽहमुद्धर्तुमितो भवन्तम् / विस्रम्भितव्यं मयि मन्यसे चेत्तत्किप्रमाज्ञापय यावदैमि // Jम्_२५.१२ //
1565 SK अथ स राजा तेन तस्याद्भतेनाभिव्याहारेण विस्मयावर्जितहृदयः संजायमानव्रीडो नियतमिति चिन्तामापेदे -
1566 SK दृष्टावदाने द्विषति का नामास्य दया मयि / मम विप्रतिपत्तिश्च केयमस्मिन्ननागसि // Jम्_२५.१३ //
1567 SK अहो मधुरतीक्ष्णेन प्रत्यादिष्टो ऽस्मि कर्मणा / अहमेव मृगो गौर्वा को ऽप्ययं शरभाकृतिः // Jम्_२५.१४ //
1568 SK तदर्हत्ययं प्रणयप्रतिग्रहसंपूजनमिति विनिश्चित्यैनमुवाच -
1569 SK वारबाणावृतमिदं गात्रं मे नातिविक्षतम् / प्रपातनिष्पेषकृताः सह्या एव च मे रुजः // Jम्_२५.१५ //
1570 SK प्रपातपनक्लेशान्न त्वहं पीडितस्तथा / इति कल्याणहृदये त्वयि प्रस्खलनाद्यथा // Jम्_२५.१६ //
1571 SK आकृतिप्रत्ययाद्यच्च दृष्टो ऽसि मृगवन्मया / अविज्ञाय स्वभावं ते तच्च मा हृदये कृथाः // Jम्_२५.१७ //
1572 SK अथ शरभस्तस्य राज्ञः प्रीतिसूचकेन तेनाभिव्याहारेणानुमतमुद्धरणमवेत्य पुरुषभारगुर्व्या शीलया तदुद्धरणयोग्यां कृत्वा विदितात्मबलप्रमाणस्तं नृपतिमुद्धर्तुं व्यवसितमतिरवतीर्य तं प्रपातं सविनयमभिगम्योवाच -
1573 SK मद्गात्रसंस्पर्शमिमं मुहूर्तं कार्यानुरोधात्त्वमनुक्षमस्व / यावत्करोमि स्वहिताभिपत्त्या प्रीतिप्रसादाभिमुखं मुखं ते // Jम्_२५.१८ //
1574 SK तदारोहतु मत्पुष्ठं महाराजः सुलग्नश्च मयि भवत्विति / स तथेति प्रतिश्रुत्यैनमश्ववदारुरोह /
1575 SK ततः समभ्युन्नतपूर्वकायस्तेनाधिरूढः स नराधिपेन / समुत्पतन्नुत्तमसत्त्ववेगः खे तोरणव्यालकवद् बभासे // Jम्_२५.१९ //
1576 SK उद्धृत्य दुर्गादथ तं नरेन्द्रं प्रीतः समानीय तुरंगमेण / निवेद्य चास्मै स्वपुराय मार्गं वनप्रयाणाभिमुखो बभूव // Jम्_२५.२० //
1577 SK अथ स राजा कृतज्ञत्वात्तेन तस्य विनयमधुरेणोपचारेण समावर्तितहृदयः संपरिष्वज्य शरभमुवाच -
1578 SK प्राणा अमी मे शरभ त्वदीयाः प्रागेव यत्रास्ति मम प्रभुत्वम् / तदर्हसि द्रष्टुमिदं पुरं मे सत्यां रुचौ तत्र च ते ऽस्तु वासः // Jम्_२५.२१ //
1579 SK व्याधाभिकीर्णे सभये वने ऽस्मिन् शीतोष्णवर्साद्युपसर्गदुःखे / हित्वा भवन्तं मम नन्वयुक्तमेकस्य गेहाभिमुखस्य गन्तुम् // Jम्_२५.२२ //
1580 SK तदेहि गच्छाव इति / अथैनं बोधिसत्त्वः सविनयमधुरोपचारं संराधयन् प्रत्युवाच -
1581 SK भवद्विधेष्वेव मनुष्यवर्य युक्तः क्रमो ऽयं गुणवत्सलेषु / अभ्यासयोगेन हि सज्जनस्य स्वभावतामेव गुणा व्रजन्ति // Jम्_२५.२३ //
1582 SK अनुग्रहीतव्यमवैषि यत्तु वनोचितं मां भवनाश्रयेण / तेनालमन्यद्धि सुखं नराणामन्यादृशं जात्युचितं मृगाणाम् // Jम्_२५.२४ //
1583 SK चिकीर्षिते ते यदि मत्प्रियं तु व्याधव्रतं वीर विमुञ्च तस्मात् / तिर्यक्त्वभवाज्जडचेतनेषु कृपैव शोच्येषु मृगेषु युक्ता // Jम्_२५.२५ //
1584 SK सुखाश्रये दुःखविनोदने च समानचित्तानवगच्छ सत्त्वान् / इत्यात्मनः स्यादनभीप्सितं यन्न तत्परेष्वाचरितुं क्षमं ते // Jम्_२५.२६ //
1585 SK कीर्तिक्षयं साधुजनाद्विगर्हां दुःखं च पापप्रभवं विदित्वा / पापं द्विषत्पक्षमिवोद्धरस्व नोपेक्षितुं व्याधिरिव क्षमं ते // Jम्_२५.२७ //
1586 SK लक्ष्मीनिकेतं यदपाश्रयेण प्राप्तो ऽसि लोकाभिमतं नृपत्वम् / तान्येव पुण्यानि विवर्धयेथा न कर्शनीयो ह्युपकारिपक्षः // Jम्_२५.२८ //
1587 SK कालोपचारसुभगैर्विपुलैः प्रदानैः शीलेन साधुजनसंगतनिश्चयेन / भूतेषु चात्मनि यथा हितबुद्धिसिद्ध्या पुण्यानि संचिनु यशः सुखसाधनानि // Jम्_२५.२९ //
1588 SK इति स महात्मा तं राजानं दृढं सांपरायिकेष्वर्थेष्वनुगृह्य संप्रतिगृहीतवचनस्तेन राज्ञा सबहुमानमभिवीक्ष्यमाणस्तमेव वनान्तं प्रविवेश /
1589 SK तदेवं जिघांसुमप्यापद्गतमनुकम्पन्त एव महाकारूणिका नोपेक्षन्त इति करुणावर्णे ऽपि वाच्यम् / तथागतमहात्म्ये सत्कृत्य धर्मश्रवणे / अवैरेण वैरप्रशमननिदर्शने च क्षान्तिकथायामप्युपनेयम् / एवं तिर्यग्गतानामपि महात्मनां वधकेष्वपि सानुक्रोधा प्रवृत्तिर्दृष्टा / को मनुष्यभूतः प्रव्रजितप्रतिज्ञो वा सत्त्वेष्वनुक्रोशविकलं शोभेतेति प्राणिषु सानुक्रोशेनार्येण भवितव्यम् /
1590 SK इति शरभजातकं पञ्चविंशतितमम् /
1592 SK परदुःखमेव दुःखं साघूनाम् / तद्धि न सहन्ते नात्मदुःखम् / तद्यथानुश्रूयते -
1593 SK बोधिसत्त्वः किल सालबकुलपियालहिन्तालतमालनक्तमालविदुलनिचुलक्षिपबहुले शिंशपातिनिशशमीपलाशशाककुशवंशशरवणगहने कदम्बसर्जार्जुनधवखदिरकुटजनिचिते विविधवल्लीप्रतानावगुण्ठितबहुतरुविटपे रुरुपृषतसृमरचमरगजगवय महिषहरिणन्यङ्कुवराहद्वीपितरक्षुव्याघ्रवृकसिंहर्क्षादिमृगविचरिते मनुष्यसंपातविरहिते महत्यरण्यवनप्रदेशे तत्पकाञ्चनोज्ज्वलवर्णः सुकुमाररोमा नानाविधपद्मरागेन्द्रनीलमरकतवैडूर्यरुचिरवर्णबिन्दुविद्योतितविचित्रगात्रः स्निग्धाभिनीलविमलविपुलनयनो मनीमयैरिवापरुषप्रभैर्विषाणक्षुरप्रदेशैः परमदर्शनीयरूपो रत्नाकर इव पादचारी रुरुमृगो बभूव / स जानानः स्वस्य वपुषो ऽतिलोभनीयतां तनुकारुण्यतां च जनस्य निर्जनसंपातेषु वनगहनेष्वभिरेमे, पटुविज्ञानत्वाच्च तत्र तत्र व्याधजनविरचितानि यन्त्रकूटवागुरापाशावपातलेपकाष्ठनिवापभोजनानि सम्यक् परिहरन्ननुगामिनं च मृगसार्थमवबोधयन्नाचार्य इव पितेव च मृगाणामाधिपत्यं चकार / रूपविज्ञानसंपत्तिः क्रियासौष्ठवसंस्कृता / स्वहितान्वेषिणि जने कुत्र नाम न पूज्यते // Jम्_२६.१ //
1594 SK अथ स कदाचिन्महात्मा तस्मिन् वनगहने वासोपगतस्तत्समीपवाहिन्या नवाम्बुपुर्णया महवेगया नद्या ह्रियमाणस्य पुरुषस्याक्रन्दितशब्दं शुश्राव /
1595 SK ह्रियमाणमनाथमप्लवं सरितोदीर्णजलौघवेगया / अभिधावत दीनवत्सलाः कृपणं तारयितुं जवेन माम् // Jम्_२६.२ //
1596 SK न विलम्बितुमत्र शक्यते श्रमदोषविधेयबाहुना / न च गाधमवाप्यते क्वचित्तदयं मां समयो ऽभिधावितुम् // Jम्_२६.३ //
1597 SK अथ बोधिसत्त्वस्तेन तस्य करुणेनाक्रन्दितशब्देन हृदिव समभिहन्यमानो मा भैर्मा भैरिति जन्मशताभ्यस्तां भयविषाददैन्यश्रमापनोदिनीमाम्रेडिताभिनिष्पीडितस्पष्टपदामुच्चैर्मानुषीं वाचं विसृजंस्तस्माद्वनगहनाद्विनिष्पपात् / दूरत एव च तं पुरुषमिष्टमिवोपायनमानीयमानं सलिलौघेन ददर्श /
1598 SK ततस्तदुत्तारणनिश्चितात्मा स्वं प्राणसंदेहमचिन्तयित्वा / स तां नदीं भीमरयां जगाहेविमोक्षोभयन् वीर इवारिसेनाम् // Jम्_२६.४ //
1599 SK आवृत्य मार्ग वपुषाथ तस्य मामाश्रयस्वेति तमभ्युवाच / त्रासातुरत्वाच्छ्रमविह्वलाङ्गः स पृष्ठमेवाधिरुरोह तस्य // Jम्_२६.५ //
1600 SK संसाद्यमानो ऽपि नरेण तेन विवर्त्यमानो ऽपि नदीरयेण / सत्त्वोच्छ्रयादस्खलितोरुवीर्यः कूलं ययौ तस्य मनोनुकूलम् // Jम्_२६.६ //
1601 SK प्रापय्य तीरमथ तं पुरुषं परेण प्रीत्युद्गमेन विनिवर्तितखेददुःखम् / स्वेनोष्मणा समपनीय च शीतमस्य गच्छेति तं स विससर्ज निवेद्य मार्गम् // Jम्_२६.७ //
1602 SK अथ स पुरुषः स्निग्धबान्धवसुहृज्जनदुर्लभेन तेन तस्याद्भुतेनाभ्युपपत्तिसौमुखेयन् समावर्जितहृदयस्तया चास्य रूपशोभया समुत्थाप्यमानविस्मयबहुमानः प्रणम्यैनं तत्तत्प्रियमुवाच -
1603 SK आ बाल्यात्संभृतस्नेहः सुहृद्वान्धव एव वा / नालं कर्तुमिदं कर्म मदर्थे यत्कृतं त्वया // Jम्_२६.८ //
1604 SK त्वदीयास्तदिमे प्राणास्त्वदर्थे यदि नाम मे / स्वल्पे ऽपि विनियुज्येरन् स मे स्यदत्यनुग्रहः // Jम्_२६.९ //
1605 SK तदाज्ञासंप्रदानेन कर्तुमर्हस्यनुग्रहम् / विनियोगक्षमत्वं मे भवान् यत्रावगच्छति // Jम्_२६.१० //
1606 SK अथैनं बोधिसत्त्वः संराधयान् प्रत्युवाच -
1607 SK न चित्ररूपा सुजने कृतज्ञता निसर्गसिद्धैव हि तस्य सा स्थितिः / जगत्तु दृष्ट्वा समुदीर्णविक्रियं कृतज्ञताप्यद्य गुणेषु गण्यते // Jम्_२६.११ //
1608 SK यतस्त्वां ब्रवीमि कृतमिदमनुस्मरता भवता नायमर्थः कस्मैचिन्निवेद्यः ईदृशेनास्मि सत्त्वविशेषेणोत्तारित इति / आमिषभूतमतिलोभनीयमिदं हि मे रूपम् / पश्य / तनुघृणानि बहुलौल्यादनिभृतानि च प्रायेण मानुषहृदयानि /
1609 SK तदात्मनि गुणांश्चैव मां च रक्षितुमर्हसि / न हि मित्रेष्वभिद्रोहः क्वचिद्भवति भूतये // Jम्_२६.१२ //
1610 SK मा चैवमुच्यमानो मन्युप्रणयविरसं हृदयं कार्षिः / मृगा हि वयमनभ्यस्तमानुसोपचारशाठ्याः / अपि च /
1611 SK तत्कृतं वञ्चनादक्षैर्मिथ्याविनयपण्डितैः / येन भावविनीतो ऽपि जनः साशङ्कमीक्ष्यते // Jम्_२६.१३ //
1612 SK तदेतत्प्रियं भवता संपाद्यमानमिच्छामीति / स तथेति प्रतिश्रुत्य प्रणम्य प्रदक्षिणीकृत्य च तं महासत्त्वं स्वगृहमभ्यजगाम /
1613 SK तेन खलु समयेन तत्रान्यतमस्य राज्ञो देवी सत्यस्वप्ना बभूव / सा यं यमातिशयिकं स्वप्नं ददर्श, स तथैवाभवत् / सा कथाचिन्निद्रावशमुपगता प्रत्युषसमये स्वप्नं पश्यति स्म सर्वरत्नसमाहारमिव श्रिया ज्वलन्तं सिंहासनस्थं रुरुमृगं सराजिकया पर्षदा परिवृतं विस्पष्टाक्षरपदन्यसेन मानुषेण वचसा धर्मं देशयन्तम् / विस्मया क्षिप्तहृदया च भर्तुः प्रबोधपटहध्वनिना सह सा व्यबुध्यत / यथाप्रस्तावं च समुपेत्य राजानं लब्धप्रसरप्रणयसंमाना -
1614 SK सा मिस्मयोत्फुल्लतरेक्षणश्रीः प्रीत्या समुत्कम्पिकपोलशोभा / उपायनेनेव नृपं ददर्श तेनाद्भुतस्वप्ननिवेदनेन // Jम्_२६.१४ //
1615 SK निवेद्य च तं स्वप्नातिशयं राज्ञे सादरं पुनरुवाच -
1616 SK तत्साधु तावत्किर्यतां मृगस्य तस्योपलम्भं प्रति देव यत्नः / अन्तःपुरं रत्नमृगेण तेन तारामृगेणेव नभो विराजेत् // Jम्_२६.१५ //
1617 SK अथ स राजा दृष्टप्रत्ययस्तस्याः स्वप्नदर्शनस्य प्रतिगृह्य तद्वचनं तत्प्रियकाम्यया रत्नमृगाधिगमलोभाच्च तस्य मृगस्यान्वेषणार्थं सर्वं व्याधगणं समादिदेश / प्रत्यहं च पुरवरे गोषणामिति कारयामास -
1618 SK हेमच्छविर्मणिशतैरिव चित्रगात्रः ख्यातो मृगः श्रुतिषु दृष्टचरश्च कैश्चित् / यस्तं प्रदर्शयति तस्य ददाति राजा ग्रामोत्तमं परिदशा रुचिराः स्त्रियश्च // Jम्_२६.१६ //
1619 SK अथ स पुरुषस्तां घोषणां पुनः पुनरुपश्रुत्य -
1620 SK दारिद्र्यदुःखगणनपरिखिन्नचेताः स्मृत्वा च तं रुरुमृगस्य महोपकारम् / लोभेन तेन च कृतेन विकृष्यमाणो दोलायमानहृदयो विममर्श तत्तत् // Jम्_२६.१७ //
1621 SK किं नु खलु करोमि? गुणं पश्याम्युत धनसमृद्धिम्? कृतमनुपालयाम्युत कुटुम्बतन्त्रम्? परलोकमुद्भावयाम्यथेयमम्? सद्वृत्तमनुगच्छाम्युताहो लोकवृत्तम्? श्रियमनुगच्छाम्युताहोस्वित्साधुदयितां श्रियम्? तदात्वं पश्याम्युतायतिमिति / अथास्य लोभाकुलितमतेरेवमभूत् - शक्यमधिगतविपुलधनसमृद्धिना स्वजनमित्रातिथिप्रणयिजनसंमाननपरेण सुखान्यनुभवता परो ऽपि लोकः संपादयितुम् / इति निश्चितमतिर्विस्मृत्य तं रुरुमृगस्योपकारं समुपेत्य राजानमुवाच - अहं देव तं मृगवरमधिवासं चास्य जानामि / तदाज्ञापय कस्मै प्रदर्शयाम्येनमिति / तच्छ्रुत्वा स राजा प्रमुदितमनाः - ममैवैनं भद्र प्रदर्शयेत्युक्त्वा मृगयाप्रयाणानुरूपं वेषमास्थाय महता बलकायेन परिवृतः पुरवरान्निर्गम्य तेन पुरुषेणादेश्यमानमार्गस्तं नदीतीरमुपजगाम / परिक्षिप्य च तद्वनगहनं समग्रेण बलकायेन धन्वी हस्तावापि व्यवसिताप्तपुरुषपरिवृतः स राजा तेनैव पुरुषेणादेश्यमानमार्गस्तद्वनगहनमनुप्रविवेश / अथ स पुरुषस्तं रुरुमृगं विश्वस्तस्थितमालोक्य प्रदर्शयामास राज्ञे - अयमयं देव स मृगवरः / पश्यत्वेनं देवः, प्रयत्नश्च भवत्विति /
1622 SK तस्योन्नामयतो बाहुं मृगसंदर्शनादरात् / प्रकोष्ठान्न्यपतत्पाणिर्विनिकृत्त इवासिना // Jम्_२६.१८ //
1623 SK आसाद्य वस्तूनि हि तादृशानि क्रियाविशेषैरभिसंस्कृतानि / लब्धप्रयामाणि विपक्षमान्द्यात्कर्माणि सद्यः फलतां व्रजन्ति // Jम्_२६.१९ //
1624 SK अथ स राजा तत्प्रदर्शितेन मार्गेण रुरुसंदर्शनकुतूहले नयने विचिक्षेप /
1625 SK वने ऽथ तस्मिन्नवमेघनीले ज्वलत्तनुं रत्ननिधानलक्ष्म्या / गुणैरुरुं तं स रुरुं ददर्श शातह्नदं वह्निमिवाभ्रमक्षे // Jम्_२६.२० //
1626 SK तद्रूपशोभाहृतमानसो ऽथ स भूमिपस्तद्ग्रहणातिलोभात् / कृत्वा धनुर्बाणविदष्टमौर्वि बिभित्सया चैनमुपारुरोह // Jम्_२६.२१ //
1627 SK अथ बोधिसत्त्वः समन्ततो जनकोलाहलमुपश्रुत्य व्यक्तं समन्तात्परिवृत्तो ऽस्मीति निश्चितमतिर्व्यद्धुकाममुपारूढं चावेत्य राजानं नायमपयानकाल इति विदित्वा विशदपदाक्षरेण मानुषेण वचसा राजानमाबभाषे -
1628 SK तिष्ठ तावन्महाराज मा मां व्यात्सीर्नरर्षभ / कौतूहलमिदं तावद्विनोदयितुमर्हसि // Jम्_२६.२२ //
1629 SK अस्मिन्निर्जनसंपाते निरतं गहने वने / असावत्र मृगो ऽस्तीति को नु ते मां न्यवेदयत् // Jम्_२६.२३ //
1630 SK अथ स राजा तस्याद्भूतेन मानुषेणाभिव्याहारेण भृशतरमावर्जितहृदयस्तमस्मै पुरुषं शराग्रेण निर्दिदेश - अयमस्यात्यद्भुतस्य नो दर्शयितेति / अथ बोधिसत्त्वस्तं पुरुषं प्रत्यभिज्ञाय विगर्हमाण उवाच - कष्टं भोः /
1631 SK सत्य एव प्रवादो ऽयमुदकौघगतं किल / दार्वेव वरमुद्धतु नाकृतज्ञमतिं जनम् // Jम्_२६.२४ //
1632 SK परिश्रमस्य तस्येयमोदृशी प्रत्युपक्रिया / आत्मनो ऽपि न दृष्टो ऽयं हितस्यापनयः कथम् // Jम्_२६.२५ //
1633 SK अथ स राजा किं नु खल्वयमेवं विजुगुप्सत इति समुत्पन्नकौतूहलः सावेगस्तं रुरुमुवाच -
1634 SK अनिर्भिन्नार्थगम्भीरमनारभ्यविगर्हितम् / त्वदिदं समुपश्रुत्य साकम्पमिव मे मनः // Jम्_२६.२६ //
1635 SK मृगातिशय तद्ब्रूहि कमारभ्येति भाषसे / मनुष्यममनुष्यं वा पक्षिणं मृगमेव वा // Jम्_२६.२७ //
1637 SK नायं विगर्हादर एव राजन् कुत्सार्हमेतत्त्ववगम्य कर्म / नायं पुनः कर्तुमिति व्यवस्येत्तीक्ष्णाक्षरं तेन मयैवमुक्तम् // Jम्_२६.२८ //
1638 SK को हि क्षते क्षारमिवावसिञ्चेद् रूक्षाक्षरं विस्खलितेषु वाक्यम् / प्रिये तु पुत्रे ऽपि चिकित्सकस्य प्रवर्तते व्याधिवशाच्चिकित्सा // Jम्_२६.२९ //
1639 SK यमुह्यमानं सलिलेन हारिणा कृपवशदभ्युपपन्नवाहनम् / ततो भयं मां नृवरेदमागतं न खल्वसत्संगतमस्ति भूतये // Jम्_२६.३० //
1640 SK अथ स राजा तं पुरुषं तीक्ष्णया दृष्ट्या निर्भर्त्सनरूक्षमवेक्ष्योवाच - सत्यमरे रे पुरा त्वमनेनैवमापन्नो ऽभ्युद्धृत इति? अथ स पुरुषः समापतितभयविषादस्वेदवैवर्ण्यदैन्यो ह्रीमन्दं सत्यमित्यवोचत् / अथ स राजा धिक् त्वामित्येनमवभर्त्य्सयन् धनुषि शरं संधायाब्रवीत् - मा तावद्भोः
1641 SK एवंविधेनापि परिश्रमेण मृदूकृतं यस्य न नाम चेतः / तुल्याकृतीनामयशोध्वजेन किं जीवतानेन नराधमेन // Jम्_२६.३१ //
1642 SK इत्युक्त्वा मुष्टिमाबध्य तद्वधार्थं धनुः प्रचकर्ष / अथ बोधिसत्त्वः करुणया महत्या समुपरुध्यमानहृदयस्तदन्तरा स्थित्वा राजानमुवाच - अलमलं महाराज हतं हत्वा /
1643 SK यदेव लोभद्विषतः प्रतारणां विगर्हितामप्ययमभ्युपेयिवान् / हतस्तदेवेह यशःपरिक्षयाद् ध्रुवं परत्रापि च धर्मसंक्षयात् // Jम्_२६.३२ //
1644 SK असह्यदुःखोदयपीतमानसाः पतन्ति चैवं व्यसनेषु मानुषाः / प्रलोभ्यमानाः फलसम्पदाशया पतंगमूर्खा इव दीपशोभया // Jम्_२६.३३ //
1645 SK अतः कृपामत्र कुरूष्व मा रुषं यदीप्सितं चैवमनेन किंचन / किरुष्व तेनैनमवन्ध्यसाहसं स्थितं त्वदाज्ञाप्रवणं हि मे शिरः // Jम्_२६.३४ //
1646 SK अथ स राजा तेन तस्यापकारिण्यपि सदयत्वेनाकृतकेन च तत्प्रत्युपकारादरेण परमविस्मितमतिर्जातप्रसादः सबहुमानमुदीक्षमाणस्तं रुरुवरमुवाच - साधु साधु महाभाग
1647 SK प्रत्यक्षोग्रापकारे ऽपि दया यस्येयमीदृशी / गुणतो मानुषस्त्वं हि वयमाकृतिमानुषाः // Jम्_२६.३५ //
1648 SK येनानुकम्प्यस्तु तवैष जाल्मो हेतुश्च नः सज्जनदर्शनस्य / ददामि तेनेप्सितमर्थमस्मै राज्ये तवास्मिंश्च यथेष्टचारम् // Jम्_२६.३६ //
1649 SK रुरुरुवाच - प्रतिगृहीतो ऽयं मयावन्ध्यो महाराजप्रसादः / तदाज्ञापय यावदिह संगमनप्रयोजनेन तवोपयोगं गच्छाम इति /
1650 SK अथ स राजा तं रुरुं गुरुमिव रथवरमारोप्य महता सत्कारेण पुरवरं प्रवेश्य कृतातिथिसत्कारं महति सिंहासने निवेश्य समुत्साहयमानः सान्तःपुरो ऽमात्यगणपरिवृतः प्रीतिबहुमानसौम्यमुदीक्षमाणो धर्मं पप्रच्छ -
1651 SK धर्मं प्रति मनुष्याणां बहुधा बुद्धयो गताः / निश्चयस्तव धर्मे तु यथा तं वक्तुमर्हसि // Jम्_२६.३७ //
1652 SK अथ बोधिसत्त्वस्तस्य राज्ञः सपर्षत्कस्य स्फुटमधुरचित्राक्षरेण वचसा धर्मं देशयामास -
1653 SK दयां सत्त्वेषु मन्ये ऽहं धर्मं संक्षेपतो नृप / हिंसास्तेयनिवृत्त्यादिप्रभेदं विविधक्रियम् // Jम्_२६.३८ //
1655 SK आत्मनीव दया स्याच्चेत्स्वजने वा यथा जने / कस्य नाम भवेच्चित्तमधर्मप्रणयाशिवम् // Jम्_२६.३९ //
1656 SK दयावियोगात्तु जनः परमामेति विक्रियाम् / मनोवाक्कायविस्पन्दैः स्वजने ऽपि जने यथा // Jम्_२६.४० //
1657 SK धर्मार्थी न त्यजेदस्माद् दयामिष्टफलोदयाम् / सुवृष्टिरिव सस्यानि गुणान् सा हि प्रसूयते // Jम्_२६.४१ //
1658 SK दयाक्रान्तं चित्तं न भवति परद्रोहरभसं शुचौ तस्मिन् वाणी व्रजति विकृतं नैव च तनुः / विवृद्धा तस्यैवं परहितरुचिः प्रीत्यनुसृतान् प्रदानक्षान्त्यादीञ्जनयति गुणान् कीर्त्यनुगुणान् // Jम्_२६.४२ //
1659 SK दयालुर्नोद्वेगं जनयति परेषामुपशमाद् दयावान् विश्वास्यो भवति जगतां बान्धव इव / न संरम्भक्षोभः प्रभवति दयाधीरहृदये न कोपाग्निश्चित्ते ज्वलति हि दयातोयशिशिरे // Jम्_२६.४३ //
1660 SK संक्षेपेण दयामतः स्थिरतया पश्यन्ति धर्मं बुद्धाः को नामास्ति गुणः स साधुदयितो यो नानुयातो दयाम् / तस्मात्पुत्र इवात्मनीव च दयां नीत्वा प्रकर्षं जने सद्वृत्तेन हरन्मनांसि जगतां राजत्वमुद्भावय // Jम्_२६.४४ //
1661 SK अथ स राजा समभिनन्द्य तत्तस्य वचनं सयौरजानपदो धर्मपरायणो बभूव / अभयं च सर्वमृगपक्षिणां दत्त्वान् /
1662 SK तदेवं परदुःखमेव दुःखं साधूनाम् / तद्धि न सहन्ते नात्मदुःखमिति / करुणावर्णे ऽपि वाच्यम् / सज्जनमाहात्म्ये खलजनकुत्सायामप्युपनेयमिति /
1663 SK // इति रुरुजातकं षडिंवशतितमम् //
1665 SK द्विषतामपि मानसान्यावर्जयन्ति सद्वृत्तानुवर्तिनः / तद्यथानुश्रूयते -
1666 SK बोधिसत्त्वः किल श्रीमति हिमवत्कुक्षौ विविधरसविर्यविपाकगुणैर्बहुभिरोषधिविशेषैः परिगृहीतभूमिभागे नाणाविधपुष्पफलपल्लवपत्रविटपरपरचनैर्महीरुहशतैराकीर्णे स्फटिकदलामलसलिलप्रस्रवणे विविधपक्षिगणनादनादिते वानरयूथाधिपतिर्बभूव / तदवस्थमपि चैनं त्यागकारुण्याभ्यासात्प्रतिपक्षसेवाविरोधितानीवेर्ष्यामात्सर्यक्रौर्याणि नोपजग्मुः / स तत्र महान्तं न्यग्रोधपादपं पर्वतशिखरमिव व्योमोल्लिखन्तमधिपतिमिव तस्य वनस्य मेघसंघातमिव प्रत्यन्धकारविटपमाकीर्णपर्णतया तालफलाधिकतरप्रमाणैः परमस्वादुभिर्मनोज्ञवर्णगन्धैः फलविशेषैरानम्यमानशाखं निश्रित्य विजहार /
1667 SK तिर्यग्गतानामपि भाग्यशेषं सतां भवत्येव सुखाश्रयाय / कर्तव्यसंबन्धि सुहृज्जनानां विदेशगानामिव वित्तशेषम् // Jम्_२७.१ //
1668 SK तस्य तु वनस्पतेरेका शाखा तत्समीपगां निम्नगामभि प्रणताभवत् / अथ बोधिसत्त्वो दीर्घदर्शित्वात्तद्वानरयूथं समनुशशास - अस्यां न्योग्रोधशाखायामफलायामकृतायां न वः केन चिदन्यतः फलमुपभोक्तव्यमिति /
1669 SK अथ कदाचित्तस्यां शाखायां पिपीलिकाभिः पर्णपुटावच्छादितं तरुणत्वान्नातिमहदेकं फलं न ते वानरा ददृशुः / तत्क्रमेणाभिवर्धमानं वर्णगन्धरसमार्दवोपपन्नं परिपाकवशाच्छिथिलबन्धनं तस्यां नद्यां निपपात / अनुपूर्वेण वाह्यमान नदीस्त्रोतसा ऽन्यतमस्य राज्ञः सान्तःपुरस्य तस्यां नद्यां सलिलक्रीडामनुभवतो जालकरण्डकपार्श्वे व्यासज्यत /
1670 SK तत्स्नानमाल्यासववासगन्ध संश्लेषसंपिण्डितमङ्गनानाम् / विसर्पिणा स्वेन तिरश्चकार घ्राणाभिरामेण गुणोदयेन // Jम्_२७.२ //
1671 SK तद्गन्धमत्ताः क्षाणमङ्गनास्ता दीर्घीकृतोच्छ्वासविकुञ्चिताक्ष्यः / भुत्वाथ कौतूहलचञ्चलानि विचिक्षिपुर्दिक्षु विलोचनानि // Jम्_२७.३ //
1672 SK कऊतुहलप्रसृतलोलतरनयनास्तु ता योषितस्तन्न्यग्रोधफलं परिपक्वतालफलाधिकतरप्रमाणं जालकरण्डकपार्श्वतो विलग्नमवेक्ष्य किमिदमिति तदावर्जितनयनाः समप्द्यन्त सह राज्ञा / अथ स राजा तत्फलमानाय्य प्रात्ययिकवैद्यजनपरिदृष्टं स्वयमास्वादयामास /
1673 SK अद्भूतेन रसेनाथ नृपस्तस्य विसिष्मिये / अद्भूतेन रसेनेव प्रयोगगुणहारिणा // Jम्_२७.४ //
1674 SK अपूर्ववर्णगन्धाभ्यां तस्याकलितविस्मयः / ययौ तद्रससंरागात्परां विस्मयविक्रियाम् // Jम्_२७.५ //
1675 SK अथ तस्य राज्ञः स्वादुरसभोजनसमुचितस्यापि तद्रससंरागवशगस्यैतद भवत् -
1676 SK यो नाम नामूनि फलानि भुङ्क्ते स कानि राज्यस्य फलानि भुङ्क्ते / यस्यान्नमेतत्तु च एव राजा विनैव राजत्वपरिश्रमेण // Jम्_२७.६ //
1677 SK स तत्प्रभवान्वेषणकृतमतिः स्वबुद्ध्या विममर्शव्यक्तमयं तरुवर इतो नातिदूरे नदीतीरसंनिविष्टश्च यस्येदं फलं तथा ह्यनुपहतवर्णगन्धरसमदीर्घकालसलिलसंपर्कादपरिक्षतमजर्जरं च यतः शक्यमस्य प्रभवो ऽधिगन्तुमिति निश्चयमुपेत्य तद्रसतृष्णया आकृष्यमाणो विरम्य जलक्रीडायाः सम्यक् पुरवरे स्वे रक्षाविधानं संदिश्य यात्रासज्जेन महता बलकायेन परिवृतस्तां नदीमनुससार / क्रमेण चोत्सादयन् सश्वापदगणानि वनगहनानि समनुभवं श्चत्राणि रसान्तराणि पश्यन्नकृत्रिमरमणीयशोभानि वनान्तराणि संत्रासयन् पटहरसितैरवन्यगजमृगान् मानुषजनदुर्गमं तस्य वनस्पतेः समीपमुपजगाम /
1678 SK तं मेघवृन्दमिव तोयभरावसन्नमासन्नशैलमपि शैलवदीक्ष्यमाणम् / दूराद्ददर्श नृपतिः स वनस्पतीन्द्रमुल्लोक्यमानमधिराजमिवान्यवृक्षैः // Jम्_२७.७ //
1679 SK परिपक्वसहकारफलसुरभितरेण च निर्हारिणा अतिमनोज्ञेन गन्धेन प्रत्युद्गत इव तस्य पादपस्य अयं स वनस्पतिरिति निश्चयमुपजगाम / समुपेत्य चैनं ददर्श तत्फलोपभोगव्यापृतैरनेकवानरशतैराकीर्णविटपम् /
1680 SK अथ स राजा समभिलषितार्थविप्रलोपिनस्तान् वानरान् प्रत्यभिक्रुद्धमतिः - हत हतैतान् / विध्वंसयत विनाशयत सर्वान् वानरजाल्मानिति सपरुषाक्षरं स्वान् पुरुषानादिदेश / अथ ते राजपुरुषाः सज्यचापबाणव्यग्रकराग्रा वानरावभर्त्सनमुखराः समुद्यतलोष्टदण्डशस्त्राश्चापरे (Vऐद्य १८४) परदुर्गमिवाभिरोद्धुकामास्तं वनस्पतिमभिसस्रुः / अथ बोधिसत्त्वस्तुमुलं तद्राजबलमनिलजवाकलितमिवार्णवजलमनिभृतकलकलारावमभिपतदालोक्याशनिवर्षेणेव समन्ततो विकीर्यमाणं तरुवरं शरलोष्टदण्डशस्त्रवर्षेण भयविरसविरावमात्रपरायणं च विकृतदीनमुखमुन्मुखं वानरगणमवेक्ष्य महत्या करुणया समाक्रम्यमाणचेतास्त्यक्तविषाददैन्यसंत्रासः समाश्वास्य तद्वानरयूथं तत्परित्राणव्यवसितमतिरभिरुह्य तस्य वनस्पतेः शिखरं तत्समासन्नं गिरितटं लङ्घयितुमियेष / अथानेकप्रस्कन्दनक्रमप्राप्यमपि तं गिरितटं स महासत्त्वः स्ववीर्यातिशयात्खग इवाधिरुरोह /
1681 SK द्वाभ्यामपि लङ्घनक्रमाभ्यां गम्यं नैव तदन्यवानराणाम् / वेगेन यदन्तरं तरस्वी प्रतताराल्पमिवैकविक्रमेण // Jम्_२७.८ //
1682 SK कृपयाभिविवर्धितः स तस्य व्यवसायः पटुतां जगाम शौर्यात् / स च यत्नविशेषमस्य चक्रे मनसैवाथ जगाम यत्नतैक्ष्ण्यात् // Jम्_२७.९ //
1683 SK अधिरुह्य च गिरेरुच्चतरं तातप्रदेशं तदन्तरालाधिकप्रमाणया महत्या विरूढया ऽशिथिलमूलया दृढया वेत्रलतया गाढमाबध्य चरणौ पुनस्तं वनस्पतिं प्रचस्कन्दः / विप्रकृष्टत्वात्तु तस्यान्तरालस्य चरणबन्धनव्याकुलत्वाच्च स महासत्त्वः कथंचित्तस्य वनस्पतेरग्रशाखां कराभ्यां समाससाद /
1684 SK ततः समालम्ब्य दृढं स शाखामातत्य तां वेत्रलतां च यत्नात् / स्वसंज्ञया यूथमथादिदेश द्रुमादतः शिघ्रमभिर्पयायात् // Jम्_२७.१० //
1685 SK अथ ते वानरा भयातुरत्वादपयानमार्गमासाद्य चपलतरगतयस्तदाक्रमणनिर्विशङ्कास्तया स्वस्त्यपचक्रमुः /
1686 SK भयातुरैस्तस्य तु वानरैस्तैराक्रम्यमाणं चरणैः प्रसक्तम् / गात्रं ययौ स्वैः पिशितैर्वियोगं न त्वेव धैर्यातिशयेन चेतः // Jम्_२७.११ //
1687 SK तद्दृष्ट्वा स राजा ते च राजपुरुषाः परां विस्मयवक्तव्यतामुपजग्मुः /
1688 SK एवंविधा विक्रमबुद्धिसम्पदात्मानपेक्षा च दया परेषु / आश्चर्यबुद्धिं जनयेच्छ्रुतापि प्रत्यक्षतः किं पुनरीक्ष्यमाणा // Jम्_२७.१२ //
1689 SK अथ स राजा तान् पुरुषान् समादिदेशभयोद्भ्रान्तवानरगणचरणक्षोभितक्षतशरीरश्चिरमेकक्रमावस्थानाच्च दृढं परिश्रान्तो व्यक्तमयं वानराधिपतिः न चाय मतः शक्ष्यति स्वयमात्मानं संहर्तुम्, तच्छ्रीघ्रमस्याधः पटवितानं वितत्य वित्रलतेयं च न्यग्रोधशाखा शाराभ्यां युगपत्प्रच्छिद्येतामिति / ते तथा चक्रुः / अथैनं स राजा शनकैर्वितानादवतार्य मुर्छया व्रणवेदनाक्लमोपजातया समाक्रम्यमाणचेतसं मृदुनि शयनीये संवेशयामास / सद्यःक्षतप्रशमनयोग्यैश्च सर्पिरादिभिरस्य व्रणान्यभ्यज्य मन्दीभूतपरिश्रमं समाश्वस्तमेनमभ्युपगम्य स राजा सकौतूहलविस्मयबहुमानः कुशलपरिप्रश्नपूर्वकमुवाच -
1690 SK गत्वा स्वयं संक्रमताममीषां स्वजीविते त्यक्तदयेन भुत्वा / समुद्धृता ये कपयस्त्वयेमे को नु त्वमेषां तव वा क एते // Jम्_२७.१३ //
1691 SK श्रोतुं वयं चेदिदमर्हरूपास्तत्तावदाचक्ष्व कपिप्रधान / न ह्यल्पसौहार्दनिबन्धनानामेवं मनांसि प्रतरन्ति कर्तुम् // Jम्_२७.१४ //
1692 SK अथ बोधिसत्त्वस्तस्य राज्ञस्तदभ्युपपत्तिसौमुख्यं प्रतिपूजयन्नात्मनिवेदनमनुगुणेन क्रमेण चकार -
1693 SK एभिर्मदाज्ञाप्रतिपत्तिदक्षैरारोपितो मय्यधिपत्वभारः / पुत्रेष्विवैतेस्ष्ववबद्धहार्दस्तं वोढुमेवाहमभिप्रपन्नः // Jम्_२७.१५ //
1694 SK इयं महाराज समं ममैभिः संबन्धजातिश्चिरकालरूढा / समानजातित्वमयी च मैत्री ज्ञातेयजाता सहवासयोगात् // Jम्_२७.१६ //
1695 SK तच्छ्रुत्वा स राजा परं विस्मयमुपेत्य पुनरेनमुवाच -
1696 SK अधिपार्थममात्यादि न तदर्थं महीपतिः / इति कस्मात्स्वभृत्यार्थमात्मानं त्यक्तवान् भवान् // Jम्_२७.१७ //
1697 SK बोधिसत्त्व उवाच - काममेवं प्रवृत्ता, महाराज, राजनीतिः / दुरनुवर्त्या तु मां प्रतिभाति / असंस्तुतस्याप्यविषह्यतीव्रमुपेक्षितुं दुःखमतीव दुःखम् / प्रागेव भक्त्युन्मुखमानसम्य गतस्य बन्धुप्रियतां जनस्य // Jम्_२७.१८ //
1698 SK इदं च दृष्ट्वा व्यसनार्तिदैन्यं शाखामृगान् प्रत्यभिवर्धमानम् / स्वकार्यचिन्तावसरोपरोधि प्रादुद्रुवन्मां सहसैव दुःखम् // Jम्_२७.१९ //
1699 SK आनम्यमानानि धनूंसि दृष्ट्वा विनिष्पतद्दीप्तशिलीमुखानि / भीमस्वनज्यान्यविचिन्त्य वेगादस्मात्तरोः शैलमिमं गतो ऽस्मि // Jम्_२७.२० //
1700 SK वैशेषिकत्रासपरीतचित्तैराकृष्यमाणो ऽहमथ स्वयूथ्यैः / आलक्षितायामगुणां सुमूलां स्वपादयोर्वेत्रलतां निबध्य // Jम्_२७.२१ //
1701 SK प्रास्कन्दमस्मात्पुनरेव शैलादिमं द्रुमं तारयितुं स्वयूथ्यान् / ततः कराभ्यां समवापमस्य प्रसारितं प्रसारितं पाणिमिवाग्रशाखाम् // Jम्_२७.२२ //
1702 SK समातताङ्गं लतया तया च शाक्षाग्रहस्तेन च पादपस्य / अमी मदध्याक्रमणे विशङ्का निश्रित्य मां स्वस्ति गताः स्वयूथ्याः // Jम्_२७.२३ //
1703 SK अथ स राजा प्रमोद्यजातं तस्यामप्यवस्थायां तं महासत्त्वमवेक्ष्य परं विस्मयमुद्वहन् पुनरेनमुवाच -
1704 SK परिभूयात्मनः सौख्यं परव्यसनमापतत् / इत्यात्मनि समारोप्य प्राप्तः को भवता गुणः // Jम्_२७.२४ //
1706 SK कामं शरीरं क्षितिप क्षतं मे मनः परस्वास्थ्यमुपागतं तु / अकारि येषां चिरमाधिपत्यं तेषां मयार्तिर्विनिवर्तितेति // Jम्_२७.२५ //
1707 SK जित्वाहवे विद्विषतः सदर्पान् गात्रेष्वलंकारवदुद्वहन्ति / वीरा यथा विक्रमचिह्नशोभां प्रीत्या तथेमां रुजमुद्वहामि // Jम्_२७.२६ //
1708 SK प्रणामसत्कारपुरःसरस्य भक्तिप्रयुक्तस्य समानजात्यैः / एश्वर्यलब्धस्य सुखक्रमस्य संप्राप्तामानृण्यमिदं मयाद्य // Jम्_२७.२७ //
1709 SK तन्मां तपत्येष न दुःखयोगः सुहृद्वियोगः सुखविप्लवो वा / क्रमेण चानेन अमभ्युपेतो महोत्सवाभ्यागम एष मृत्युः // Jम्_२७.२८ //
1710 SK पूर्वोपकारानृणतात्मतुष्टिः संतापशान्तिर्विमलं यशश्च / पूजा नृपान्निर्भयता च मृत्योः कृतज्ञभावाद् ग्रहणं च सत्सु // Jम्_२७.२९ //
1711 SK एते गुणाः सद्गुणवासवृक्ष प्राप्ता मयैतद् व्यसनं प्रपद्य / एषां विपक्षांस्तु समभ्युपैति दयाविहीनो नृपतिः श्रितेषु // Jम्_२७.३० //
1712 SK गुणैर्विहीनस्य विपन्नकीर्तेर्दोषोदयैरावसथीकृतस्य / गतिर्भवेत्तस्य च नम कान्या ज्वालाकुलेभ्यो नरकानलेभ्यः // Jम्_२७.३१ //
1713 SK तद्दर्शितो ऽयं गुणदोषयोस्ते मया प्रभावः प्रथितप्रभाव / धर्मेण तस्मादनुशाधि राज्यं स्त्रीचञ्चलप्रेमगुणा हि लक्ष्मीः // Jम्_२७.३२ //
1714 SK युग्यं बलं जानपदानमात्यान् पौराननाथाञ्छ्रमणान् द्विजातीन् / सर्वान् सुखेन प्रयतेत योक्तुं हितानुकूलेन पितेव राजा // Jम्_२७.३३ //
1715 SK एवं हि धर्मार्थयशःसमृद्धिः स्यात्ते सुखायेह परत्र चैव / प्रजानुकम्पार्जितया त्वमस्माद्राजर्षिलक्ष्म्या नरराज राज // Jम्_२७.३४ //
1716 SK इति नृपमनुशिष्य शिस्यवद् बहुमतवाक्प्रयतेन तेन सः / रुगभिभवनसंहृतक्रियां तनुमपहाय ययौ त्रिविष्टपम् // Jम्_२७.३५ //
1717 SK तेदेवं द्विषतामपि मनांस्यावर्जयन्ति सद्वृत्तानुवर्तिनः, इति लोकं समावर्जयितुकामेन सद्वृत्तानुवर्तिना भवितव्यम् / न समर्थास्तथा स्वार्थमपि प्रतिपत्तुं सत्त्वा यथा परार्थं प्रतिपन्नवान् स भगवानिति तथागतवर्णे ऽपि वाच्यम् / सत्कृत्य धर्मश्रवणे करुणावर्णे राजाववादे च / एवं राज्ञा प्रजासु दयापन्नेन भवितव्यम् / कृतज्ञकथायामप्युपनेयम् / एवं कृतज्ञाः सन्तो भवन्तीति /
1718 SK // इति महाकपिजातकं सप्तविंशतितमम् //
1720 SK सात्मीभूतक्षमाणां प्रतिसंख्यानमहतां नाविषह्यं नाम किंचिदस्ति / तद्यथानुश्रूयते -
1721 SK बोधिसत्त्वः किलानेकदोषव्यसनोपसृष्टमर्थकामप्रधानत्वादनौपशमिकं रागद्वेषमोहामर्षसंरम्भमदमानमात्सर्यादिदोषरजसामापातं पातनं ह्रीधर्मपरिग्रहस्यायतन लोभासद्ग्राहस्य कुकार्यसंबाधत्वात्कृशवकाशं धर्मस्यावेत्य गृहवासं परिग्रहविषयपरिवर्जनाच्च तद्दोषविवेकसुखां प्रव्रज्यामनुपश्यन् शीलश्रुतप्रशमविनयनियमानसस्तापसो बभूव / तमस्खलितसमादानं क्षान्तिवर्णवादिनं तदनुरूपधर्माख्यानक्रमं व्यतीत्य स्वे नामगोत्रे क्षान्तिवादिनमित्येव लोकः स्वबुद्धिपूर्वकं संजज्ञे /
1722 SK एश्वर्यविद्यातपसां समृद्धिर्लब्धप्रयामश्च कलासु सङ्गः / शरीरवाक्चेष्टितविक्रियाश्च नामापरं संजनयन्ति पुंसाम् // Jम्_२८.१ //
1723 SK जानन् स तु क्षान्तिगुणप्रभावं तेनात्मवल्लोकमलंकरिष्यन् / चकार यत्क्षान्तिकथाः प्रसक्तं तत्क्षान्तिवादीति ततो विजज्ञे // Jम्_२८.२ //
1724 SK स्वभावभूता महती क्षमा च परापकारेष्वविकारधीरा / तदर्थयुक्ताश्च कथाविशेषाः कीर्त्या मुनिं तं प्रथयांबभूवुः // Jम्_२८.३ //
1725 SK अथ स महात्मा प्रविविक्तरमणीयं समर्तुसुलभपुष्पफलं पद्मोत्पलालंकृतविमलसलिलाशयमुद्यानरम्यशोभं वनप्रदेशमध्यासनात्तपोवनमङ्गल्यतामानिनाय /
1726 SK निवसन्ति हि यत्रैव सन्तः सद्गुणभूषणाः / तन्मङ्गल्यं मनोज्ञं च तत्तीर्थं तत्तपोवनम् // Jम्_२८.४ //
1727 SK स तत्र बहुमन्यमानस्तदध्युषितैर्देवताविशेषैरभिगम्यमानश्च श्रेयोभिलाषिणागुणवत्सलेन जनेन क्षान्तिप्रतिसंयुक्ताभिः श्रुतिहृदयल्हादिनीभिर्धर्म्याभिः कथाभिसतस्य जनकायस्य परमनुग्रहं चकार / अथ कदाचित्ततस्त्यो राजा ग्रीष्मकालप्रभावादभिलषणीयतरां सलिलक्रीडां प्रति समुत्सुकमतिरुद्यानगुणातिशयनिकेतभूतं तं वनप्रदेशं सान्तःपुरः समभिजगाम /
1728 SK स तद्वनं नन्दनरम्यशोभमाकीर्णमन्तःपुरसुन्दरीभिः / अलंचकारेव चरन् विलासी विभूतिमत्या ललितानुवृत्त्या // Jम्_२८.५ //
1729 SK विमानदेशेषु लतागृहेषु लतागृहेषु पुष्पप्रहासेषु महीरुहेषु / तोयेषु चोन्मीलितपङ्कजेषु रेमे स्वभावातिशयैर्वधूनाम् // Jम्_२८.६ //
1730 SK माल्यासवस्नानविलेपनानां संमोदगन्धाकुलितैर्द्विरेफैः / ददर्श कासांचिदुपोह्यमाना जातस्मितस्त्रासविलासशोभाः // Jम्_२८.७ //
1731 SK प्रत्यग्रशोभैरपि कर्णपूरैः पर्याप्तमाल्यैरपि मूर्धजैश्च / तृप्तिर्यथासीत्कुसुमैर्न तासां तथैव नासां ललितैर्नृपस्य // Jम्_२८.८ //
1732 SK विमानदेशेषु विषज्यमाना विलम्बमानाः कमलाकरेषु / ददर्श राजा भ्रमरायमाणाः पुष्पद्रुमेषु प्रमदाक्षिमालाः // Jम्_२८.९ //
1733 SK मदप्रगल्भान्यपि कोकिलानां रुतानि नृत्यानि च बर्हिणानाम् / द्विरेफगीतानि च नाभिरेजुस्तत्राङ्गनाजल्पितनृत्तगीतैः // Jम्_२८.१० //
1734 SK पयोदधीरस्तनितैर्मृदङ्गैरुदीर्णकेकास्ततबर्हचक्राः / नता इव स्वेन कलगुणेन चक्रुर्मयूराः क्षितिपस्य सेवाम् // Jम्_२८.११ //
1735 SK स तत्र सान्तःपुर उद्यानवनविहारसुखं प्रकाममनुभूय क्रीडाप्रसङ्गपरिखेदान्मदपरिष्वङ्गाच्च श्रीमति विमानप्रदेशे महार्हशयनीयवरगतो निद्रावशमुपजगाम / अथ ता योषितः प्रस्तावान्तरगतमवेत्य राजानं वनशोभाभिराक्षिप्यमाणहृदयास्तद्दर्शनावितृप्ता यथाप्रीतिकृतसमवायाः समाकुलभूषणतिनादसंमिश्रकलप्रलापाः समन्ततः प्रसस्रुः /
1736 SK ताश्च्छत्रवालव्यजनासनाद्यैः प्रेष्याधृतैः काञ्चनभक्तिचित्रैः / एश्वर्यचिह्नैरनुगम्यमानाः स्त्रियः स्वभावानिभृतं विचेरुः // Jम्_२८.१२ //
1737 SK ताः प्राप्य रूपाणि महीरुहाणां पुष्पाणि चारूणि च पल्लवानि / प्रेष्याप्रयत्नानतिपत्य लोभादालेभिरे स्वेन पराक्रमेण // Jम्_२८.१३ //
1738 SK मार्गोपलब्धान् कुसुमाभिरामान् गुल्मांश्चलत्पल्लविनश्च वृक्षान् / पर्याप्तपुष्पाभरणस्रजो ऽपि लोभादनालुप्य न ता व्यतीयुः // Jम्_२८.१४ //
1739 SK अथ ता वनरमणीयतयाक्षिप्यमाणहृदया राजयोषितस्तद्वनमनुविचरन्त्यः क्षान्तिवादिन आश्रमपदमुपजग्मुः / विदिततपःप्रभावमाहात्म्यास्तु तस्य मुनेः स्त्रीजनाधिकृता राज्ञो वाल्लभ्याद् दुरासदत्वाच्च तासां नैनास्ततो वारयितुं प्रसेहिरे / अभिसंस्काररमणीयतरया चाश्रमपदश्रिया समाकृष्यमाणा इव ता योषितः प्रविश्याश्रमपदं ददृशुस्तत्र तं मुनिवरं प्रशमसौम्यदर्शनमतिगाम्भीर्यातिशयाद् दुरासदमभिज्वलन्तमिव तपःश्रिया ध्यानाभियोगादुदारविषयसंनिकर्षे ऽप्यक्षुभितेन्द्रियनैभृत्यशोभं साक्षाद्धर्ममिव मङ्गल्यं पुण्यदर्शनं वृक्षमूले बद्धासनमासीनम् / अथ ता राजस्त्रियस्तस्य तपस्तेजसाक्रान्तसत्त्वाः संदर्शनादेव त्यक्तविभ्रमविलासौद्धत्या विनयनिभृतमभिगम्यैनं पर्युपासांचक्रिरे / स तासां स्वागतादिप्रियवचनपुरःसरमतिथिजनमनोहरमुपचारविधिं प्रवर्त्य तत्परिप्रश्नोपपादितप्रस्तावाभिः स्त्रीजनसुखग्रहणार्थाभिर्दृष्टान्तवतीभिः कथाभिर्धर्मातिथ्यमासां चकार /
1740 SK अगर्हितां जातिमवाप्य मानूषीमनूनभावं पटुभिस्तथेन्द्रियैः / अवश्यमृत्युर्न करोति यः शुभं प्रमादभाक्प्रत्यहमेष वञ्च्यते // Jम्_२८.१५ //
1741 SK कुलेन रूपेण वयोगुणेन वा बलप्रकर्षेण धनोदयेन वा / परत्र नाप्नोति सुखानि कश्चन प्रदानशीलादिगुणैरसंस्कृतः // Jम्_२८.१६ //
1742 SK कुलादिहीनो ऽपि हि पापनिःस्पृहः प्रदानशीलादिगुणाभिपत्तिमान् / परत्र सौख्यैरभिसार्यते ध्रुवं घनागमे सिन्धुजलैरिवार्णवः // Jम्_२८.१७ //
1743 SK कुलस्य रूपस्य वयोगुणस्य वा बलप्रकर्षस्य धनोच्छ्रयस्य वा / इहाप्यलंकारविधिर्गुणादरः समृद्धिसूचैव तु हेममालिका // Jम्_२८.१८ //
1744 SK अलंक्रियन्ते कुसुमैर्महीरुहास्तडिद्गुणैस्तोयविलम्बिनो घनाः / सरांसि मत्तभ्रमरैः सरोरुहैर्गुणैर्विशेषाधिगतैस्तु देहिनः // Jम्_२८.१९ //
1745 SK अरोगतायुर्धनरूपजातिभिर्निकृष्टमध्योत्तमभेदचित्रता / जनस्य चेयं न खलु स्वभावतः पराश्रयाद्वा त्रिविधा तु कर्मणः // Jम्_२८.२० //
1746 SK अवेत्य चैवं नियतां जगत्स्थितिं चलं विनाशप्रवणं च जीवितम् / जहीत पापानि शुभक्रमाशयादयं हि पन्था यशसे सुखाय च // Jम्_२८.२१ //
1747 SK मनःप्रदोषस्तु परात्मनोर्हितं विनिर्दहन्नग्निरिव प्रवर्तते / अतः प्रयत्नेन स पापभीरुणा जनेन वर्ज्यः प्रतिपक्षशंश्रयात् // Jम्_२८.२२ //
1748 SK यथा समेत्य ज्वलितो ऽपि पावकस्तटान्तसंसक्तजलां महानदीम् / प्रशान्तिमायातिमनोज्वलस्तथा श्रितस्य लोकद्वितयक्षमां क्षमाम् // Jम्_२८.२३ //
1749 SK इति क्षान्त्या पापं परिहरति तद्धेत्वभिभवाद् अतश्चायं वैरं न जनयति मैत्र्याश्रयबलात् / प्रियः पूज्यश्चास्माद्भवति सुखभागेव च ततः प्रयात्यन्ते च द्यां स्वगृहमिव पुण्याश्रयगुणात् // Jम्_२८.२४ //
1750 SK अपि च भवत्यः क्षान्तिर्नामैषा -
1751 SK शुभस्वभावातिशयः प्रसिद्धः पुण्येन कीर्त्या च परा विवृद्धिः / अतोयसंपर्ककृता विशुद्धिस्तैस्तैर्गुणौघैश्च परा समृद्धिः // Jम्_२८.२५ //
1752 SK परोपरोधेषु सदानभिज्ञा व्यवस्थितिः सत्त्ववतां मनोज्ञा / गुणाभिनिर्वार्तितचारुसंज्ञा क्षमेति लोकार्थकरी कृपाज्ञा // Jम्_२८.२६ //
1753 SK अलंक्रिया शक्तिसमन्वितानां तपोधनानां बलसपदग्र्या / व्यापाददावानलवारिधारा प्रेत्येह च क्षान्तिरनर्थशान्तिः // Jम्_२८.२७ //
1754 SK क्षमामये वर्मणि सज्जनानां विकुण्ठिता दुर्जनवाक्यबाणाः / प्रायः प्रशंसाकुसुमत्वमेत्य तत्कीर्तिमालावयवा भवन्ति // Jम्_२८.२८ //
1755 SK हन्तीति या धर्मविपक्षमायां प्राहुः सुखं चिव विमोक्षमायाम् / तस्मान्न कुर्यात्क इव क्षमायां प्रयत्नमेकान्तहितक्षमायाम् // Jम्_२८.२९ //
1756 SK इति स महात्मा तासां धर्मातिथ्यं चकार /
1757 SK अथ स राजा निद्राक्लमविनोदनात्प्रतिविबुद्धः सावशेषमदगुरुनयनो मदनानुवृत्त्या कुत्र देव्य इति शयनपालिकाः सभ्रूक्षेपं पर्यपृच्छत् / एता देव वनान्तराण्युपशोभयमानास्तद्विभूतिं पश्यन्तीति चोपलभ्य शयनपालिकाभ्यः स राजा देवीजनस्य विस्रम्भनिर्यन्त्रणहसितकथितद्रवविचेष्टितदर्शनोत्सुकमतिरुत्थाय शयनाद्युवतिधृतच्छत्रव्यजनोत्तरीयखङ्गः सकञ्चुकैर्वेत्रदण्डपाणिभिरन्तपुरावचरैः कृतानुयात्रस्तद्वनमनुविचचार / स तत्र युवतिजनानैभृत्यविरचितां विविधकुसुमस्तबकपल्लवनिकप्रपद्धतिं ताम्बूलरसरागविचित्रामनुसरंस्तदाश्रमपदमभिजगाम / दृष्टैव तु स राजा क्षान्तिवादिनं तमृषिवरं देविजनपरिवृतं पूर्ववैरानुशयदोषान्मदपरिभ्रमितस्मृतित्वादीर्ष्यापराभूतमतित्वाच्च परं कोपमुपजगाम / प्रतिसंख्यानबलवैकल्याच्च (Vऐद्य १९४) भ्रष्टविनयोपचारसौष्ठवः संरम्भपाप्माभिभवादापतितस्वेदवैवर्ण्यवेपथुर्भ्रूभङ्गजिह्मविवृत्तस्थिराभिताम्रनयनो विरक्तकान्तिलावण्यशोभः प्रचलत्कनकवलयौ परिमृद्नन् साङ्गलिविभूषणौ पाणी तमृषिवरमधिक्षिपंस्तत्तदुवाच / हंहो -
1758 SK अस्मत्तेजः खलीकृत्य पश्यन्नन्तःपुराणि नः / मुनिवेषप्रतिच्छन्नः को ऽयं वैतंसिकायते // Jम्_२८.३० //
1759 SK तच्छ्रुत्वा वर्षवराः ससंभ्रमावेगा राजनमूचुः - देव मा मैवम् / चिरकालसंभृतव्रतनियमतपोभावितात्मा मुनिरयं क्षान्तिवादी नामेति / उपहताध्याशयत्वात्तु स राजा तत्तेषां वचनमप्रतिगृह्णन्नुवाच - कष्टं भोः
1760 SK चिरात्प्रभृति कोलो ऽयमेवमेतेन वञ्च्यते / कुहनाजिह्मभावेन तापसाकुम्भसात्मना // Jम्_२८.३१ //
1761 SK तदयमस्य तापसनेपथ्यावच्छादितं मायशाठ्यसंभृतं कुहकस्वभावं प्रकाषयामीत्युक्त्वा प्रतिहारीहस्तादसिमादाय हन्तुमुत्पतितनिश्चयस्तमृषिवरं सपत्नवचभिजगाम / अथ ता देव्यः परिजननिवेदिताभ्यगमनमालोक्य राजानं क्रोधसंक्षिप्तसौम्यभावं वितानीभूतहृदयाः ससंभ्रमावेगचञ्चलनयनाः समुत्थायाभिवाद्य च तमृषिवरं समुद्यताञ्जलिकुड्मलाः शरन्नलिन्य इव समुद्गतैकपङ्कजाननमुकुला राजानमभिजग्मुः /
1762 SK तत्तासां समुदाचारलीलाविनयसौष्ठम् / न तस्य शमयामास क्रोधाग्निज्वलितं मनः // Jम्_२८.३२ //
1763 SK लब्धतरप्राणप्रसरास्तु ता देव्यः ससंरम्भविकारसमुदाचाररूक्षक्रमं सायुधमभिपतन्तं तमुदीक्ष्य राजानं तमृषिवरं प्रति विवर्तिताभिनिविस्टदृष्टिं समावृण्वत्य ऊचुः - देव मा मा खलु साहसं कार्षीः / क्षान्तिवादी भगवानयमिति / प्रदुष्टभावात्तु स राजा समावर्जितभावा नूनमनेनेमा इति सुष्ठुतरं कोपमुपेत्य स्फुटरं भ्रूभङ्गैरसूयासमावेशतीक्ष्णैस्तिर्यगवेक्षितैस्तत्तासां प्रणयप्रागल्भ्यमवभर्त्स्य सरोषमवेक्षमाणः स्त्रीजनाधिकृताञ्छिरःकम्पादाकम्पमानकुण्डलमुकुटविटपस्ता योषितो ऽभिवीक्षमाण उवाच -
1764 SK वदत्येव क्षमामेष न त्वेनां प्रतिपद्यते / तथा हि योषित्संपर्कतृष्णा न क्षान्तवानयम् // Jम्_२८.३३ //
1765 SK वागन्यथान्यैव शरीरेचेष्टा दुष्टाशयं मानसमन्यथैव / तपोवने को ऽयमसंयतात्मा दम्भव्रताडम्बरधीरमास्ते // Jम्_२८.३४ //
1766 SK अथ ता देव्यस्तस्मिन् राजनि क्रोधसंरम्भकर्कशहृदये प्रत्याहतप्रणयाः प्रजानानाश्च तस्य राज्ञश्चण्डतां दुरनुनेयतां च वैमनस्यदैन्याक्रान्तमनसः स्त्रीजनाधिकृतैर्भयविषादव्याकुलितैर्हस्तसंज्ञाभिरपसार्यमाणा व्रीडावनतवदनास्तमृषिवर्यं समनुशोचन्त्यस्ततो ऽपचक्रमुः /
1767 SK अस्मन्निमित्तमपराधविवर्जिते ऽपि दान्ते तपस्विनि गुणप्रतिते ऽप्यमुष्मिन् / को वेत्ति कामपि विवृत्य विकारलीलं केनापि यास्यपि पथा क्षितिपस्य रोषः // Jम्_२८.३५ //
1768 SK क्षितीशवृत्तिं प्रतिलब्धकीर्तिं तनुं मुनेरस्य तपस्तनुं च / अमून्यनागांसि च नो मनांसि तुल्यं हि हन्यादपि नाम राजा // Jम्_२८.३६ //
1769 SK इति तासु देवीष्वनुशोचितविनिःश्वसितमात्रपरायणास्वपयातासु स राजा तमृषीवरं संतर्जयन् रोषवशन्निष्कृष्य खङ्गं स्वयमेव च्छेत्तुमुपचक्रमे / निर्विकारधीरमसंभ्रान्तस्वस्थचेष्टितं च तं महासत्त्वमासाद्यमानमप्यवेक्ष्य संरम्भितरमेनमुवाच -
1770 SK दाण्डाजिनिकतानेन प्रकर्षं गमिता यथा / उद्वहन् कपटाटोपं मुनिवन्मामपीक्षते // Jम्_२८.३७ //
1771 SK अथ बोधिसत्त्वः क्षान्तिपरिचयादविचलितधृतिस्तेनासत्कारप्रयोगेण तं राजानं रोषसंरम्भविरूपचेष्टितं भ्रष्टविनयोपचारश्रियं विस्मृतात्महिताहितपथमागतविस्मयः क्षणमभिवीक्ष्य करूणायमानः समुनेष्यन्नियतमीदृशं किंचिदुवाच -
1772 SK भाग्यापराधजनितो ऽप्यपमानयोगः संदृश्यते जगति तेन न मे ऽत्र चिन्ता / दूःखं तु मे यदुचिताभिगतेसु वृत्तिर्वाचापि न त्वयि मया क्रियते यथार्हम् // Jम्_२८.३८ //
1774 SK असत्प्रवृत्तान् पथि संनियोक्ष्यता भवद्विधानां जगदर्थकारिणाम् / न युक्तरूपं सहसा प्रवर्तितुं विमर्शमार्गो ऽप्यनुगम्यतां यतः // Jम्_२८.३९ //
1775 SK अयुक्तवत्साध्वपि किंचिदीक्ष्यते प्रकाशते ऽसाध्वपि किंचिदन्यथा / न कार्यतत्त्वं सहसैव लक्ष्यते विमर्शमप्राप्य विशेषहेतुभिः // Jम्_२८.४० //
1776 SK विमृश्य कार्यं त्ववगम्य तत्त्वतः प्रपद्य धर्मेण च नीतिवर्त्मना / महान्ति धर्मार्थसुखानि साधयजनस्य तैरेव न हीयते नृपः // Jम्_२८.४१ //
1777 SK विनीय तस्मादतिचापलान्मति यशस्यमेवार्हसि कर्म सेवितुम् / अभिप्रथन्ते ह्यभिलक्षितात्मनामदृष्टपूर्वाश्चरितेष्वतिक्रमाः // Jम्_२८.४२ //
1778 SK तपोवने त्वद्भुजवीर्यरक्षिते परेण यन्नाम कृतं न मर्षयेः / हितक्रमोन्माथि यदार्यगर्हितं स्वयं महीनाथ कथं व्यवस्यसि // Jम्_२८.४३ //
1779 SK स्त्रियो ऽभियाता यदि ते ममाश्रमं यदृच्छयान्तःपुररैक्षिभिः सह / व्यतिक्रमस्तत्र च नो भवेत्कियान् रुषायदेवं गमितो ऽसि विक्रियाम् // Jम्_२८.४४ //
1780 SK अथाप्ययं स्यादपराध एव मे क्षमा तु शोभेत तथापि ते नृप / क्षमा हि शक्तस्य परं विभूषणं गुणानुरक्षानिपूनत्वसूचनात् // Jम्_२८.४५ //
1781 SK कपोललोलद्युतिनीलकुण्डले न मौलिरत्नद्युतयः पृथग्विधाः / तथाभ्यलंकर्तुमलं नृपान्यथा क्षमेति नैनामवमन्तुमर्हसि // Jम्_२८.४६ //
1782 SK त्यजाक्षमां नित्यमसंश्रयक्षमां क्षमामिवारक्षितुमर्हसि क्षमाम् / तपोधनेष्वभ्युदिता हि वृत्तयः क्षितीश्वराणां बहुमानपेशलाः // Jम्_२८.४७ //
1783 SK इत्यनुनीयमानो ऽपि स राजा तेन मुनिवरेणानार्जवोपहतमतिस्तमन्यथैवाभिशङ्कमानः पुनरुवाच -
1784 SK न तापसच्छद्म बिभर्ति चेद्भवान् स्थितो ऽसि वा स्वे नियमव्रते यदि / क्षमोपदेशव्यपदेशसंगतं किमर्थमस्मादभयं प्रयाचसे // Jम्_२८.४८ //
1785 SK बोधिसत्त्व उवाच - श्रूयतां महाराज यदर्थो ऽयं मम प्रयत्नः /
1786 SK अनागसं प्रव्रजितमवधीद् ब्राह्मणं नृपः / इति ते मत्कृते मा भूद्यशो वाच्यविजर्जरम् // Jम्_२८.४९ //
1787 SK मर्तव्यमिति भूतानामयं नैयमिको विधिः / इति मे न भयं तस्मात्स्वं वृत्तं चनुपश्यतः // Jम्_२८.५० //
1788 SK सुखोदर्कस्य धर्मस्य पीडा मा भुत्तथैव तु / क्षमामित्यवदं तुभ्यं श्रेयोभिगमनक्षमाम् // Jम्_२८.५१ //
1789 SK गुणानामाकरत्वाच्च दोषाणां च निवारणात् / प्राभृतातिशयप्रीत्या कथयामि क्षमामहम् // Jम्_२८.५२ //
1790 SK अथ स राजा सूनृतान्यपि तान्यनादृत्य तस्य मुनेर्वचनकुसुमानि सासूयं तमृषिवरमुवाच - द्रक्ष्याम इदानीं ते क्षान्त्यनुरागमित्युक्त्वा निवारणार्थमिषदभिप्रसारितमभ्युच्छ्रितप्रतनुदीर्घाङ्गलिं तस्य मुनेर्दक्षिणं पाणिं निशितेनासिना कमलमिव नालदेशाद् व्ययोजयत् /
1791 SK छिन्ने ऽग्रहस्ते ऽपि तु तस्य नासीद्दुःखं तथा क्षान्तिदृढव्रतस्य / सुखोचितस्याप्रतिकारघोरं छेत्तुर्यथागामि समीक्ष्य दुःखम् // Jम्_२८.५३ //
1792 SK अथ बोधिसत्त्वः कष्टमतिक्रान्तो ऽयं स्वहितमर्यादामपात्रीभूतो ऽनुनयस्येति वैद्य प्रत्याख्यातमानुरमिवैनं समनुशोचंस्तूष्णींबभूव / अथैनं स राजा संतर्जयन् पुनरुवाच -
1793 SK एवं चाच्छिद्यमानस्य नाशमेष्यति ते तनुः / मुञ्च दम्भव्रतं चेदं खलबुद्धिप्रलम्भनम् // Jम्_२८.५४ //
1794 SK बोधिसत्त्वस्त्वनुनयाक्षममेनं विदित्वायं च नामास्य निर्बन्ध इति नैनं किंचिदुवाच / अथ स राजा तस्य महात्मनो द्वितीयं पाणिभूमौ बाहु कर्णनासं चरणौ तथैव निचकर्त /
1795 SK पतति तु निशिते ऽप्यसौ शरीरे न मुनिवरः स शुशोच नो चुकोप / परिविदितशरीरयन्त्रनिष्ठः परिचितया च जने क्षमानुवृत्त्या // Jम्_२८.५५ //
1796 SK गात्रच्छेदे ऽप्यक्षतक्षान्तिधीरं चित्तं तस्य प्रेक्षमाणस्य साधोः / नासीद् दुःखं प्रीतियोगान्नृपं तु भ्रष्टं धर्माद्विक्ष्य संतापमाप // Jम्_२८.५६ //
1797 SK प्रतिसंख्यानमहतां न तथा करुणात्मनाम् / बाधते दुःखमुत्पन्नं परानेव यथाश्रितम् // Jम्_२८.५७ //
1798 SK घोरं तु तत्कर्मः नृपः स कृत्वा सद्यो ज्वरेणानुगतो ऽग्निनेव / विनिर्गतश्चोपवनान्तदेशाद् गां चावदीर्णां सहसा विवेश // Jम्_२८.५८ //
1799 SK निमग्ने तु तस्मिन् राजनि भीमशब्दमवदीर्णायां वह्निज्वालाकुलायां समुद्भूते महति कोलाहले समन्ततः प्रक्षुभिते व्याकुले राजकुले तस्य राज्ञो ऽमात्या जानानास्तस्य मुनेस्तपःप्रभावमाहात्म्यं तत्कृतं च राज्ञो धरणीतलनिमज्जनं मन्यमानाः पुरायमृषिवरस्तस्य राज्ञो दोषात्सर्वमिदं जनपदं निर्दहतीति जातभयाशङ्काः समभिगम्य तमृषिवरमभिप्रणम्य क्षमयमाणाः कृताञ्जलयो विज्ञापयामासुः -
1800 SK इमामवस्थां गमितो ऽसि येन नृपेणे मोहादतिचापलेन / शापानलस्येन्धनतां स एव प्रयातु ते मा पुरमस्य क्षाक्षीः // Jम्_२८.५९ //
1801 SK स्त्रीबालवृद्धातुरविप्रदीनाननागसो नार्हसि दग्धुमत्र / तत्साधु देशं क्षितिपस्य तस्य स्वं चैव धर्मं गुणपक्ष रक्ष // Jम्_२८.६० //
1802 SK अथैतान् बोधिसत्त्वः समाश्वासयन्नुवाच - मा भैष्ट आयुष्मन्तः /
1803 SK सपाणिपादमसिना कर्णनासमनागसः / छिन्नवान् यो ऽपि तावन्मे वने निवसत सतः // Jम्_२८.६१ //
1804 SK कथं तस्यापि दुःखाय चिन्तयेदपि मद्विधः / चिरं जीवत्वसौ राजा मा चैनं पापमागमत् // Jम्_२८.६२ //
1805 SK मरणव्याधिदुःखार्ते लोभद्वेषवशीकृते / दग्धे दुश्चरितैः शोच्ये कः कोपं कर्तुमर्हति // Jम्_२८.६३ //
1806 SK स्याल्लभ्यरूपस्तु यदि क्रमो ऽयं मय्येव पच्येत तदस्य पापम् / दुःखानुबन्धो हि सुखोचितानां भवत्यदीर्घो ऽप्यविषह्यतीक्ष्णः // Jम्_२८.६४ //
1807 SK त्रातुं न शक्यस्तु मया यदेवं विनिर्दहन्नात्महितं स राजा / उत्सृज्य तामात्मगतामशक्तिं राज्ञे करिष्यामि किमित्यसूयाम् // Jम्_२८.६५ //
1808 SK ऋते ऽपि राज्ञो मरणादिदुःखं जातेन सर्वेण निषेवितव्यम् / जन्मैव तेनात्र न मर्षणीयं तन्नास्ति चेत्किं च कुतश्च दुःखम् // Jम्_२८.६६ //
1809 SK कल्पाननल्पान् बहुधा विनष्टं शरीरकं जन्मपरंपरासु / जह्यां कथं तत्प्रलये तितिक्षां तृणस्य हेतोरिव रत्नजाटम् // Jम्_२८.६७ //
1810 SK वने वसन् प्रव्रजितप्रतिज्ञः क्षमाभिधायी नचिरान्मरिष्यन् / किमक्षमायां प्रणयं करिष्ये तद्भैष्ट मा स्वस्ति च वो ऽस्तु यात् // Jम्_२८.६८ //
1811 SK इति स मुनिवरो ऽनुशिष्य तान् सममुपनीय च साधुशिष्यताम् / अविचलितधृतिः क्षमाश्रयात्समधिरुरोह दिवं क्षमाश्रयात् // Jम्_२८.६९ //
1812 SK तदेवं सात्मीभूतक्षमाणां प्रतिसंख्यानमहतां नाविषह्यं नामास्तीति क्षान्तिगुणसंवर्णने मुनिमुपनीय वाच्यम् / चापलाक्षान्तिदोषनिदर्शने राजानमुपनीय कामादिनवकथायामपि वाच्यम् - एवं कामहेतोर्दुश्चरितमासेव्य विनिपातभागिनो भवन्तीति / संपदामनित्यतासंदर्शने चेति /
1813 SK // इति क्षान्तिजातकमष्टाविंशतितमम् //
1815 SK मिथ्यादृष्टिपरमाण्यवद्यानीति विशेसानुकम्प्याः सतां दृष्टिव्यसनगताः / तद्यथानुश्रूयते -
1816 SK बोधिसत्त्वः किलायं भगवान् ध्यानाभ्यासोपचितस्य कुशलस्य कर्मणो विपाकप्रभावाद् ब्रह्मलोके जन्म प्रतिलेभे / तस्य तन्महदपि ध्यानविशेषाधिगतं ब्राह्मं सुखं पूर्वजन्मसु कारुण्यपरिचयान्नैव परहितकरणव्यापारनिरुत्सुकं मनश्चकार /
1817 SK विषयसुखेनापि परां प्रमादवक्तव्यतां व्रजति लोकः / ध्यानसुखैरपि तु सतां न तिरस्क्रियते परहितेच्छा // Jम्_२९.१ //
1818 SK अथ कदाचित्स महात्मा करुणाश्रयभूतं विविधदूःखव्यसनशतोपसृष्टमुत्क्लिष्टव्यापादविहिंसाकामधातुं कामधातुं व्यलोकयन् ददर्श विदेहराजमङ्गदिन्नं नाम कुमित्रसंपर्कदोषादसन्मनस्कारपरिचयाच्च मिथ्यादृष्टिगहने परिभ्रमन्तम् / नास्ति परलोकः, कुतः शुभशुभानां कर्मणां विपाक इत्येवं स निश्चयमुपेत्य प्रशान्तधर्मक्रियौत्सुक्यः प्रदानशीलादिसुकृतप्रतिपत्तिविमुखः संरूढपरिभवबुद्धिर्धार्मिकेष्वश्रद्धारूक्षमतिर्धर्मशास्त्रेषु परिहासचित्तः पर्लोककथासु शिथिलविनयोपचारगौरवबहुमानः श्रमणब्राह्मणेषु कामसुखपरायणो बभूव /
1819 SK शुभाशुभं कर्म सुखासुखोदयं ध्रुवं परत्रेति विरूढनिश्चयः / अपास्य पाप यतते शुभाश्रयो यथेष्टमश्रद्धतया तु गम्यते // Jम्_२९.२ //
1820 SK अथ स महात्मा देवर्षिस्तस्य राज्ञस्तेन दृष्टिव्यसनोपनिपातेनापायिकेन लोकानर्थाकरभूतेन समावर्जितानुकम्पस्तस्य राज्ञो विषयसुखाकलितमतेः श्रीमति प्रविविक्ते विमानदेशे ऽवतिष्ठमानस्याभिज्वलन् ब्रह्मलोकात्पुरस्तात्समवततार / अथ स राजा तमग्निस्कन्धमिव ज्वलन्तं विद्युत्समूहमिव चावभासमानं दिनकरकीरणसंघातमिव च परया दीप्त्या विरोचमानमभिवीक्ष्य तत्तेजसाभिभूतमतिः ससंभ्रमः प्राञ्जलिरेन प्रत्युत्थाय सबहुमानमुदीक्षमाण इत्युवाच -
1821 SK करोति ते भूरिव संपरिग्रहं नभो ऽपि पद्मोपमपाद पादयोः / विभासि सौरीमिव चोद्वहन् प्रभां विलोचनानन्दनरूप को भवान् // Jम्_२९.३ //
1823 SK जित्वा दृप्तौ शास्त्रवमुख्याविव संख्ये रागद्वेषौ चित्तसमादानबलेन / ब्राह्मं लोकं ये ऽभिगता भूमिप तेषां देवर्षीणामन्यतमं मां त्वमवेहि // Jम्_२९.४ //
1824 SK इत्युक्ते स राजा स्वागतादिप्रियवचनपुरःसरं पाद्यार्घ्यसत्कारमस्मै समुपहृत्य सविस्मयमेनमभिवीक्षमाण उवाच - आश्चर्यरूपः खलु ते महर्षे ऋद्धिप्रभावः /
1825 SK प्रासादभित्तिष्वविषज्यमानश्चंक्रम्यसे व्योम्नि यथैव भूमौ / शतह्रदोन्मेषसमृद्धदीप्ते प्रचक्ष्व तत्केन तवेयमृद्धिः // Jम्_२९.५ //
1827 SK ध्यानस्य शीलस्य च निर्मलस्य वरस्य चैवेन्द्रियसंवरस्य / सात्मीकृतस्यान्यभवेषु राजन्नेवंप्रकारा फलसिद्धिरेषा // Jम्_२९.६ //
1828 SK राजोवाच - किं सत्यमेवेदमस्ति परलोक इति? ब्रह्मोवाच - आम / अस्ति महाराज परलोकः / राजोवाच - कथं पुनरिदं मार्ष शक्यमस्माभिरपि श्रद्धातुं स्यात्? बोधिसत्त्व उवाच - स्थूलमेतन्महाराज प्रत्यक्षादिप्रमाणयुक्तिग्राह्यमाप्तजननिदर्शितक्रमं परीक्षाक्रमगम्यं च / पश्यतु भवान् /
1829 SK चन्द्रार्कनक्षत्रविभूषणा द्यौस्तिर्यग्विकल्पाश्च बहुप्रकाराः / प्रत्यक्षरूपः परलोक एष मा ते ऽत्र संदेहजडा मतिर्भूत् // Jम्_२९.७ //
1830 SK जातिस्मराः सन्ति च तत्र तत्र ध्यानाभियोगात्स्मृतिपाटवाच्च / अतो ऽपि लोकः परतो ऽनुमेयः साक्ष्यं च नन्वत्र कृतं मयैव // Jम्_२९.८ //
1831 SK यद्बुद्धिपूर्वैव च बुद्धिसिद्धिर्लोकः परो ऽस्तीति ततो ऽप्यवेहि / आद्या हि या गर्भगतस्य बुद्धिः सानन्तरं पूर्वकजन्मबुद्धेः // Jम्_२९.९ //
1832 SK ज्ञेयावबोधं च वदन्ति बुद्धिं जन्मादिबुद्धेर्विषयो ऽस्ति तस्मात् / न चैहिको ऽसौ नयनाद्यभावात्सिद्धौ यदियस्तु परः स लोकः // Jम्_२९.१० //
1833 SK पित्र्यं स्वभावं व्यतिरिच्य दृष्टः शीलादिभेदश्च यतः प्रजानाम् / नाकस्मिकस्यास्ति च यत्प्रसिद्धिर्जात्यन्तराभ्यासमयः स तस्मात् // Jम्_२९.११ //
1834 SK पटुत्वहीने ऽपि मतिप्रभावे जडप्रकारेष्वपि चेन्द्रियेषु / विनोपदेशात्प्रतिपद्यते यत्प्रसूतमात्रः स्तनपानयत्नम् // Jम्_२९.१२ //
1835 SK आहारयोग्यासु कृतश्रमत्वं तद्दर्शयत्यस्य भवान्तरेषु / अभ्याससिद्धिर्हि पटुकरोति शिक्षागणं कर्मसु तेषु तेषु // Jम्_२९.१३ //
1836 SK तत्र चेत्परलोकसंप्रत्ययापरिचयात्स्यादियमाशङ्का भवतः -
1837 SK यत्संकुचन्ति विकसन्ति च अप्ङ्कजाति कामं तदन्यभवचेष्टिसिद्धिरेषा / नो चेत्तदिष्टमथ किं स्तनपानयत्नं जात्यन्तरीयकपरिश्रमजं करोषि // Jम्_२९.१४ //
1838 SK सा चाशङ्का नानुविधेया नियमानियमदर्शनात्प्रयत्नानुपपत्त्युपपत्तिभ्यां च /
1839 SK दृष्टो हि कालनियमः कमलप्रबोधे संमीलने च न पुनः स्तनपानयत्ने / यत्नश्च नास्ति कमले स्तनपे तु दृष्टः सूर्यप्रभाव इति पद्मविकासहेतुः // Jम्_२९.१५ //
1840 SK तदेवं महाराज सम्यगुपपरीक्षमाणेन शक्यमेतच्छ्रद्धातुम् - अस्ति परलोक इति / अथ स राजा मिथ्यादृष्टिपरिग्रहाभिनिविष्टबुद्धित्वादुपचितपापत्वाच्च तां परलोककथां श्रुत्वा असुखायमान उवाच - भो महर्षे,
1841 SK लोकः परो यदि न बालविभीषिकैषा ग्राह्यं मयैतदिति वा यदि मन्यसे त्वम् / तेनेह नः प्रदिश निष्कशतानि पञ्च तत्ते सहस्रमहमन्यभवे प्रदास्ये // Jम्_२९.१६ //
1842 SK अथ बोधिसत्त्वस्तदस्य प्रागल्भ्यपरिचयनिर्विशङ्कं मिथ्यादृष्टिविषोद्गारभूतमसमुदाचारवचनं युक्तेनेव क्रमेण प्रत्युवाच -
1843 SK इहापि तावद्धनसंपदर्थिनः प्रयुञ्जते नैव धनं दुरात्मनि / न घस्मरे नानिपुणे न चालसे गतं हि यत्तत्र तदन्तमेति तत् // Jम्_२९.१७ //
1844 SK यमेव पश्यन्ति तु सव्यपत्रपं शमाभिजातं व्यवहारनैपुणम् / ऋणं प्रयच्छन्ति रहो ऽपि तद्विधे तदर्पणं ह्यभ्युदयावहं धनम् // Jम्_२९.१८ //
1845 SK क्रमश्च तावद्विध एव गम्यतामृणप्रयोगे नृप पारलौकिके / त्वयि त्वसद्दर्शनदुष्टचेष्टिते धनप्रयोगस्य गतिर्न विद्यते // Jम्_२९.१९ //
1846 SK कुदृष्टिदोषप्रभवैर्हि दारुणैर्निपातितं त्वां नरके स्वकर्मभिः / विचेतसं निष्कसहस्रकारणाद्रुजातुरं कः प्रतिचोदयेत्ततः // Jम्_२९.२० //
1847 SK न तत्र चन्द्रार्ककरैर्दिगङ्गना विभान्ति संक्षिप्ततमो ऽवगुण्ठनाः / न चैव तारागणभूषणं नभः सरः प्रबुद्धैः कुमुदैरिवेक्ष्यते // Jम्_२९.२१ //
1848 SK परत्र यस्मिन्निवसन्ति नास्तिका घनं तमस्तत्र हिमश्च मारुतः / करोति यो ऽस्तीन्यपि दारयन् रुजं तमात्मवान् कः प्रविशेद्धनेप्सया // Jम्_२९.२२ //
1849 SK धनान्धकारे पटुधूमदुर्दिने भ्रमन्ति केचिन्नरकोदरे चिरम् / स्ववध्रचीरप्रविकर्षणातुराः परस्परप्रस्खलनार्तनादिनः // Jम्_२९.२३ //
1850 SK विशीर्यमाणैश्चर्णैर्मुहुर्महुर्ज्वलत्कुकूले नरके तथापरे / दिशः प्रधावन्ति तदुन्मुमुक्षया न चान्तमायान्त्यशुभस्य नायुषः // Jम्_२९.२४ //
1851 SK आतक्ष्य तक्षाण इवापरेषां गात्रानि रौद्रा विनियम्य याम्याः / निस्तक्ष्णुवन्त्येव शिताग्रशस्त्राः सार्द्रेषु दारुष्विव लब्धहर्षाः // Jम्_२९.२५ //
1852 SK समुत्कृत्तसर्वत्वचो वेदनार्ता विमांसीकृताः केचिदप्यस्थिशेषाः / न चायान्ति नाशंधृता दुष्कृतैः स्वैस्तथा चापरे खण्डशश्छिद्यमानाः // Jम्_२९.२६ //
1853 SK ज्वलितपृथुखलीनपूर्णवक्त्राः स्थिरदहनासु महीष्वयोमयीषु / ज्वलनकपिलयोक्त्रतोत्रवश्याश्चिरमपरे वलतो रथान् वहन्ति // Jम्_२९.२७ //
1854 SK संघातपर्वतसमागमपिष्टदेहाः / केचित्तदाक्रमणचूर्णितमूर्तयो ऽपि / दुःखे महत्यविकले ऽपि च नो म्रियन्ते यावत्परिक्षयमुपैति न कर्म पापम् // Jम्_२९.२८ //
1855 SK द्रोणिषु केचिज्ज्वलनोज्ज्वलासु लौहैर्महद्भिर्मुसलैर्ज्वलद्भिः / समानि पञ्चापि समाशतानि संचूर्ण्यमाना विसृजन्ति नासून् // Jम्_२९.२९ //
1856 SK तीक्ष्णायसज्वलितकण्टककर्कशेषु तप्तेषु विद्रुमनिभेष्वपरे द्रुमेषु / पाट्यन्त ऊर्ध्वमध एव च कृष्यमाणाः क्रूरै रवैरपुरुषैः पुरुषैर्यमस्य // Jम्_२९.३० //
1857 SK ज्वलितेषु तप्ततपनीयनिभेष्वङ्गारराशिषु महत्स्वपरे / उपभुञ्जते स्वचरितस्य फलं विस्पन्दितारसितमत्रबलाः // Jम्_२९.३१ //
1858 SK केचित्तीक्ष्णैः शङ्कशतैराततजिह्वा ज्वालामालादीप्ततरायां वसुधायाम् / रारट्यन्ते तीव्ररुजाविष्टशरीराः प्रत्याय्यन्ते ते च तदानीं परलोकम् // Jम्_२९.३२ //
1859 SK आवेष्ट्यन्ते लोहपट्टैर्ज्वलद्भिर्निष्काथ्यन्ते लोहकुम्भीष्वथान्ये / केचित्तीक्ष्णैः शस्त्रवर्षैः क्षताङ्गा निस्त्वङ्मांसा व्यालसंघैः क्रियन्ते // Jम्_२९.३३ //
1860 SK केचित्क्लान्ता वह्निसंस्पर्शतीक्ष्णं क्षारं तोयं वैतरण्यां विशन्ति / संशीर्यन्ते यत्र मांसानि तेषां नो तु प्राणा दुष्कृतैर्धार्यमाणा // Jम्_२९.३४ //
1861 SK अशुचिकुणपमभ्युपेयिवांसो ह्रदमिव दाहपरिश्रमार्तचित्ताः / अतुलमनुभवन्ति तत्र दुःखं क्रिमिशतजर्जरितास्थिभिः शरीरैः // Jम्_२९.३५ //
1862 SK ज्वलनपरिगता ज्वलच्छरीराश्चिरमपरे ऽनुभवन्ति दाहदुःखम् / ज्वलनपरिगतायसप्रकाशाः स्वकृतधृता न च भस्मसाद्भवन्ति // Jम्_२९.३६ //
1863 SK पाट्यन्ते क्रकचैर्ज्वलद्भिरपरे केचिन्निशातैः क्षुरैः केचिन्मुद्गरवेगपिष्टशिरसः कूजन्ति शोकातुराः / पच्यन्ते पृथुशूलभिन्नवपुषः केचिद्विधूमे ऽनले पाय्यन्ते ज्वलिताग्निवर्णमपरे लौहं रसन्तो रसम् // Jम्_२९.३७ //
1864 SK अपरे श्वभिर्भृशबलैः शबलैरभिपत्य तीक्ष्णदशनैर्दशनैः / परिलुप्तमांसतनवस्तनवः प्रपतन्ति दीनविरुता विरुताः // Jम्_२९.३८ //
1865 SK एवंप्रकारमसुखं निरयेषु घोरं प्राप्तो भविष्यति (भवान्) स्वकृतप्रणुन्नः / शोकातुरं श्रमविषादपरीतचित्तं याचेदृणं क इव नाम तदा भवन्तम् // Jम्_२९.३९ //
1866 SK लौहीषु दुर्जनकलेवरसंकुलासु कुम्भीष्वभिज्वलितवह्निदुरासदासु / प्रक्वाथवेगवशगं विवशं भ्रमन्तं याचेदृणं क इव नाम तदा भवन्तम् // Jम्_२९.४० //
1867 SK यच्चायसज्वलितकिलनिबद्धदेहं निर्धूमवह्निकपिले वसुधातले वा / निर्दह्यमानवपुषं करुणं रुदन्तं याचेदृणं क इव नाम तदा भवन्तम् // Jम्_२९.४१ //
1868 SK प्राप्तं पराभवं तं दुःखानि महान्ति कस्तदानुभवन्तम् / याचेदृणं भवन्तं प्रतिवचनमपि प्रदातुमप्रभवन्तम् // Jम्_२९.४२ //
1869 SK विशस्यमानं हिममारुतेन वा निकूजितव्ये ऽपि विपन्नविक्रमम् / विदार्यमाण भृशमार्तिनादिनं परत्र कस्त्वार्हति याचितुं धनम् // Jम्_२९.४३ //
1870 SK विहिंस्यमान पुरुषैर्यमस्य वा विचेष्टमानं ज्वलिते ऽथवानले / श्ववायसैर्व्याहृतमांसशोणितं परत्र कस्त्वा धनयाच्ञया तुदेत् // Jम्_२९.४४ //
1871 SK वधविकर्तनताडनपाटनैर्दहनतक्षणपेषाणभेदनैः / विशसनैर्विविधैश्च सदातुरः कथमृणं प्रतिदास्यसि मे तदा // Jम्_२९.४५ //
1872 SK अथ स राजा, तां निरयकथामतिभीषणां समुपश्रुत्य जातसंवेगस्त्यक्तमिथ्यादृष्ट्यनुरागो लब्धसंप्रत्ययः परलोके, तमृषिवरं प्रणम्योवाच -
1873 SK निशम्य तावन्नरेषु यातनां भयादिदं विद्रवतीव मे मनः / कथं भविष्यामि न तां समेयिवान् वितक्रवह्निर्दहतीव मां पुनः // Jम्_२९.४६ //
1874 SK मया ह्यसद्दर्शननष्टचेतसा कुवर्मना यातमदीर्घदर्शिना / तदत्र मे साधुगतिर्गतिर्भवान् परायणं त्वं शरणं च मे मुने // Jम्_२९.४७ //
1875 SK यथैव मे दृष्टितमस्त्वयोद्धृतं दिवाकरेणेव समुद्यता तमः / तथैव मार्गं त्वमृषे प्रचक्ष्व मे भजेय येनाहमितो न दुर्गतिम् // Jम्_२९.४८ //
1876 SK अथैनं बोधिसत्त्वः संविग्नमानसमृजूभूतदृष्टिं धर्मप्रतिपत्तिपात्रभूतमवेक्ष्य पितेव पुत्रमाचार्य इव च शिष्यमनुकम्पमान इति समनुशशास -
1877 SK सुशिष्यवृत्त्या श्रमणद्विजेषु पूर्वे गुणप्रेम यथा विचक्रुः / नृपाः स्ववृत्त्या च दयां प्रजासु कीर्तिक्षमः स त्रिदिवस्य पन्थाः // Jम्_२९.४९ //
1878 SK अधर्ममस्माद् भृशदुर्जयं जयन् कदर्यभावं च दुरुतरं तरन् / उपैहि रत्नातिशयोज्ज्वलं ज्वलन् दिवस्पतेः काञ्चनगोपुरं पुरम् // Jम्_२९.५० //
1879 SK मनस्यसद्दर्शनसंस्तुते ऽस्तु ते रुचिस्थिरं सज्जनसंमतं मतम् / जहीहि तं बालिशरञ्जनैजनैः प्रवेदितो ऽधर्मविनिश्चयश्च यः // Jम्_२९.५१ //
1880 SK त्वया हि सद्दर्शनसाधुनाधुना नरेन्द्र वृत्तेन यियासता सता / यदैव चित्ते गुणरूक्षता क्षता तदैव ते मार्गकृतास्पदं पदम् // Jम्_२९.५२ //
1881 SK कुरुष्व तस्माद् गुणसाधनं धनं शिवां च लोके स्वहितोदयां दयाम् / स्थिरं च शीलेन्द्रियसंवरं वरं परत्र हि स्यादशिवं न तेन ते // Jम्_२९.५३ //
1882 SK स्वपुण्यलक्ष्म्या नृप दीप्तयाप्तया सुकृत्सु शुक्लत्वमनोज्ञयाज्ञया / चरात्मनो ऽर्थप्रतिसंहितं हितं जगद्व्यथां कीर्तिमनोहरं हरन् // Jम्_२९.५४ //
1883 SK त्वमत्र सन्मानससारथी रथी स्व एव देहो गुणसूरथो रथः / अरूक्षताक्षो दमदानचक्रवान् समन्वितः पुण्यमनीषयेषया // Jम्_२९.५५ //
1884 SK यतेन्द्रियाश्वः स्मृतिरश्मिसंपदा मतिप्रतोदः श्रुतिविस्तरायुधः / ह्रयुपस्करः संनतिचारुकूबरः क्षमायुगो दाक्षगतिर्धृतिस्थिरः // Jम्_२९.५६ //
1885 SK असद्वचःसंयमनादकूजनो मनोज्ञवाङ् मन्दगभीरनिस्वनः / अमुक्तसंधिर्नियमाविखण्डनादसत्क्रियाजिह्मविवर्जनार्जवः // Jम्_२९.५७ //
1886 SK अनेन यानेन यशःपताकिना दयानुयात्रेण शमोच्चकेतुना / चरन् परात्मार्थममोहभास्वता न जातु राजन्निरयं गमिष्यसि // Jम्_२९.५८ //
1887 SK इति स महात्मा तस्य राज्ञस्तदसद्दर्शनान्धकारं भास्वरैर्वचनकिरणैर्व्यवधूय प्रकाश्य चास्मै सुगतिमार्गं तत्रैवान्तर्दधे / अथ स राजा समुपलब्धपरलोकवृत्तान्ततत्त्वः प्रतिलब्धसम्यग्दर्शनचेताः सामात्यपौरजानपदो दानदमसंयमपरायणो बभूव /
1888 SK तदेवं मिथ्यादृष्टिपरमाण्यवद्यानीति विशेषेणानुकम्प्याः सतां दृष्टिव्यसनगताः / एवं सद्धर्मश्रवणं परिपूर्णां श्रद्धां परिपूरयतीत्येवमप्युपनेयम् / एवं परतो धर्मश्रवणं सम्यग्दृष्ट्युत्पादप्रत्ययो भवतीत्येवमप्युपनेयम् / एवमासादनामपि सन्तस्तद्धितोपदेशेन प्रतिनुदन्ति क्षमापरिचयान्न पारुष्येणेति सत्प्रशंसायां क्षामावर्णे ऽपि वाच्यम् / संवेगादेवमाशु श्रेयोभिमुखता भवतीति संवेगकथायामपि वाच्यमिति /
1889 SK // इति ब्रह्मजातकमेकोनत्रिंशत्तमम् //
1891 SK परहितोदर्कं दुःखमपि साधवो लाभमिव बहु मन्यन्ते / तद्यथानुश्रूयते -
1892 SK बोधिसत्त्वः किल अन्यतमस्मिन् नागवने पुष्पफलपल्लवालक्षितशिखरैरलंकृत इव तत्र तरुवरतरुणैर्विविधवीरुत्तरुतृणपिहितभूमिभागे वनरामणीयकनिबद्धहृदयैरनुत्कण्ठितमध्यास्यमान इव पर्वतस्थलैराश्रयभूते वनचराणां गम्भीरविपुलसलिलाशयसनाथे महता निर्वृक्षक्षुपसलिलेन कान्तारेण समन्ततस्तिरस्कृतजनान्ते महाकाय एकचरो हस्ती बभूव /
1893 SK स तत्र तरुपर्णेन बिसेन सलिलेन च / अभिरेमे तपस्वीव संतोषेण शमेन च // Jम्_३०.१ //
1894 SK अथ कदाचित्स महासत्त्वस्तस्य वनस्य पर्यन्ते विचरन् यतस्तत्कान्तारं ततो जनशब्दमुपशुश्राव / तस्य चिन्ता प्रादुरभूत् - किं नु खल्विदम्? न तावदनेन प्रदेशेन कश्चिद्देशान्तरगामी मार्गो ऽस्ति / एवं महत्कान्तारं च व्यतीत्य मृगयापि न युज्यते प्रागेव महासमारम्भपरिखेदमस्मत्सयूथ्यग्रहणम् /
1895 SK व्यक्तं त्वेते परिभ्रष्टा मार्गाद्वा मूढदैशिका / निर्वासिता वा क्रुद्धेन राज्ञा स्वेनानयेन वा // Jम्_३०.२ //
1896 SK तथा ह्यमनोजस्को नष्टहर्षोद्धवद्रवः / केवलार्तिबलः शब्दः श्रूयते रुदतामिव // Jम्_३०.३ //
1897 SK तज्ज्ञास्यामि तावदेनमिति स महासत्त्वः करुणया समाकृष्यमाणो यतः स जननिर्घोषो बभूव ततः प्रससार / विष्पष्टतरविलापं च विषाददैन्यविरसं तमाक्रन्दितशब्दमुपशृण्वन् कारुण्यपर्युत्सुकमनाः स महात्मा द्रुततरं ततो ऽभ्यगच्छत् / निर्गम्य च तस्माद्वनगहनान्निर्वृक्षक्षुपत्वात्तस्य देशस्य दूर एवावलोकयन् ददर्श सप्तमात्राणि पुरुषशतानि क्षुत्तर्षपरिश्रममन्दानि तद्वनमभिमुखानि प्रार्थयमानानि / ते ऽपि च पुरुषास्तं महासत्त्वं ददृशुर्जङ्गममिव हिमगिरिशिखरं हीनारपुञ्जमिव शरद्वलाहकमिव पवनबलावर्जितमभिमुखमायान्तम् / दृष्ट्वा च विषाददैन्यपरीता हन्तेदानीं नष्टा वयमिति भयग्रस्तमनसो ऽपि क्षुत्तर्षपरिश्रमविहतोत्साहा नापयानप्रयत्नपरा बभूवुः /
1898 SK ते विषादपरीतत्वात्क्षुत्तर्षश्रमविह्वलाः / नापयानसमुद्योगं भये ऽपि प्रतिपेदिरे // Jम्_३०.४ //
1899 SK अथ बोधिसत्त्वो भीतानवेत्यैतान् - मा भैष्ट, भैष्ट न वो भयमस्ति मत्त इति समुच्छ्रितेन स्निग्धाभिताम्रपृथुपुष्करेण करेण समाश्वासयन्नभिगम्य करुणायमाणः पप्रच्छ - के ऽत्रभवन्तः? केन चेमां दशामनुप्राप्ताः स्थ?
1900 SK रजःसूर्यांशुसंपर्काद्विवर्णाकृतयः कृशाः / शोकक्लमार्ताः के यूयमिह चाभिगताः कुतः // Jम्_३०.५ //
1901 SK अथ ते पुरुषास्तस्य तेन मानुषेणाभिव्याहारेणाभयप्रदानाभिव्यञ्जकेन चाभ्युपपत्तिसौमुख्येन प्रत्यागतहृदयाः समभिप्रणम्यैनमूचुः -
1902 SK कोपोत्पातानिलेनेह क्षिप्ताः क्षितिपतेर्वयम् / पश्यतां शोकदीनानां बन्धूनां द्विरदाधिप // Jम्_३०.६ //
1903 SK अस्ति नो भाग्यशेषस्तु लक्ष्मीभिमुखी ध्रुवम् / सुहृद्वन्धुविशिष्टेन यद् दृष्टा भवता वयम् // Jम्_३०.७ //
1904 SK निस्तीर्णामापदं चेमां विद्मस्त्वद्दर्शनोत्सवात् / स्वप्ने ऽपि त्वद्विधं दृष्ट्वा को हि नापदमुत्तरेत् // Jम्_३०.८ //
1905 SK अथैनान् स द्विरदवर उवाच - अथ कियन्तो ऽत्रभवन्त इति? मनुष्या ऊचुः -
1906 SK सहस्रमेतद्वसुधाधिपेन त्यक्तं नृणामत्र मनोज्ञगात्र / अदृष्टदुःखा बहवस्ततस्तु क्षुत्तर्षशोकाभिभवाद्विनष्टाः // Jम्_३०.९ //
1907 SK एतानि तु स्युर्द्विरदप्रधान सप्तावशेषाणि नृणां शतानि / निमज्जतां मृत्युमुखे तु येषां मूर्तस्त्वमाश्वास इवाभ्युपेतः // Jम्_३०.१० //
1908 SK तच्छ्रुत्वा तस्य महासत्त्वस्य कारुण्यपरिचयादश्रूणि प्रावर्तन्त / समनुशोचंश्चैनान्नियतमीदृशं किं चिदुवाच - कष्टं भोः /
1909 SK घृणाविमुक्ता बत निर्व्यपत्रपा नृपस्य बुद्धिः परलोकनिर्व्यथा / अहो तडिच्चञ्चलया नृपश्रिया हृतेन्द्रियाणां स्वहितानवेक्षिता // Jम्_३०.११ //
1910 SK अवैति मन्ये न स मृत्युमग्रतः शृणोति पापस्य न वा दुरन्तताम् / अहो बतानाथतमा नराढिपा विमर्शमान्द्याद्वचनक्षमा न ये // Jम्_३०.१२ //
1911 SK देहस्यैकस्य नामर्थे रोगभूतस्य नाशिनः / इदं सत्त्वेषु नैर्घृण्यं धिगहो बत मूढताम् // Jम्_३०.१३ //
1912 SK अथ तस्य द्विरदपतेस्तान् पुरुषान् करुणास्निग्धमवेक्षमाणस्य चिन्ता प्रादुरभूत् एवममी क्षुत्तर्षश्रमपीडिताः परिदुर्बलशरीरा निरुदकमप्रच्छायमनेकयोजनायानं कान्तारमपथ्यादनाः कथं व्यतियास्यन्ति? नागवने ऽपि च किं तदस्ति येनैषामेकाहमपि तावदपरिक्लेशेन वार्ता स्यात्? शक्येयुः पुनरेते मदीयानि मांसानि पाथेयतामुपनीय दृतिभिरिव च ममान्त्रैः सलिलमादाय कान्तारमेतन्निस्तरितुं नान्यथा /
1913 SK करोमि तदिदं देहं बहुरोगशतालयम् / एषां दुःखपरीतानामापदुत्तरणप्लवम् // Jम्_३०.१४ //
1914 SK स्वर्गमोक्षसुखप्राप्तिसमर्थं जन्म मानुषम् / दुर्लभं च तदेतेषां मैवं विलयमागमत् // Jम्_३०.१५ //
1915 SK स्वगोचरस्तस्य ममाभ्युपेता धर्मेण चेमे ऽतिथयो भवन्ति / आपद्गता बन्धुविवर्जिताश्च मया विशेषेण यतो ऽनुकम्प्याः // Jम्_३०.१६ //
1916 SK चिरस्य तावद्वहुरोगभाजनं सदातुरत्वाद्विविधश्रमाश्रयः / शरीरसंज्ञो ऽयमनर्थविस्तरः परार्थकृत्ये विनियोगमेष्यति // Jम्_३०.१७ //
1917 SK अथैनमन्ये क्षुत्तर्षश्रमधर्मदुःखातुरशरीराः कृताञ्जलयः साश्रुनयनाः समभिप्रणम्यार्ततया हस्तसंज्ञाभिः पानीयमयाचन्त /
1918 SK त्वं नो बन्धुरबन्धूनां त्वं गतिः शरणं च नः / यथा वेत्सि महाभाग तथा नस्त्रातुमर्हसि // Jम्_३०.१८ //
1919 SK इत्येनमन्ये सकरुणमूचुः / अपरे त्वेनं धीरतरमनसः सलिलप्रदेशं कान्तारदुर्गोत्तारणाय च मार्गं पप्रच्छुः -
1920 SK जलाशयः शीतजला सरिद्वा यद्यत्र वा नैर्झरमस्ति तोयम् / छायाद्रुमः शाद्वलमण्डलं वा तन्नोद् विपानामधिप प्रचक्ष्व // Jम्_३०.१९ //
1921 SK कान्तारं शक्यमेतच्च निस्तर्तुं मन्यसे यतः / अनुकम्पां पुरस्कृत्य तां दिशं साधु निर्दिश // Jम्_३०.२० //
1922 SK संबहुलानि हि दिनान्यत्र नः कान्तारे परिभ्रमताम् / तदर्हसि नः स्वामिन्निस्तारयितुमिति /
1923 SK अथ स महात्मा तैः करुणैः प्रयाचितैस्तेषां भृशतरमाक्लेदितहृदयो यतस्तत्कान्तारं शक्यं निस्तर्तु बभूव, तत एसां पर्वतस्थलं संदर्शयन्नभ्युच्छ्रितेन भुजगवरभोगपीवरेण करेणोवाच - अस्य पर्वतस्थलस्याधस्तात्पद्मोत्पलालंकृतविमलसलिलमस्ति महत्सरः / तदनेन मार्गेण गच्छत / तत्न च व्यपनीतघर्मतर्षक्लमास्तस्यैव नातीदूरे ऽस्मात्पर्वतस्थलात्पतितस्य हस्तिनः शरीरं द्रक्ष्यथ / तस्य मांसानि पाथेयतामानीय दृतिभिरिव तस्यान्त्रैः सलिलमुपगृह्यानयैव दिशा यातव्यम् / एवमल्पकृच्छ्रेण कान्तारमिदं व्यतियास्यथ / इति स महात्मा तान् पुरुषान् समाश्वासनपूर्वकं ततः प्रस्थाप्य ततो द्रुततरमन्येन मार्गेण तद्गिरिशिखरमारुह्य तस्य जनकायस्य निस्तारणापेक्षया स्वशरीरं ततो मुमुक्षुर्नियतमिति प्रणिधिमुपबृंहयामास -
1924 SK नायं प्रयत्नः सुगतिं ममाप्तुं नैकातपत्रां मनुजेन्द्रलक्ष्मीम् / सुखप्रकर्षैकरसां न च द्यां ब्राह्मीं श्रियं नैव न मोक्षसौख्यम् // Jम्_३०.२१ //
1925 SK यत्वस्ति पुण्यं मम किंचिदेवं कान्तारमग्नं जनमुज्जिहीर्षोः / संसारकान्तारगतस्य तेन लोकस्य निस्तारयिता भवेयम् // Jम्_३०.२२ //
1926 SK इति विनिश्चित्य स महात्मा प्रमोदादगणितप्रपातनिष्पेषमरणदुःखं स्वशरीरं तस्माद् गिरितटाद्यथोद्देशं मुमोच -
1927 SK रेजे ततः स निपतञ्छरदीव मेघः पर्यस्तबिम्ब इव चास्तगिरेः शशाङ्कः / तार्क्ष्यस्य पक्षपवनोग्रजवापविद्धं शृण्गं गिरेरिव च तस्य हिमोत्तरीयम् // Jम्_३०.२३ //
1928 SK आकम्पयन्नथ धरां धरणीधरांश्च मारस्य च प्रभुमदाध्युषितं च चेतः / निर्घातपिण्डितरवं निपपात भूमावावर्जयन् वनलता वनदेवताश्च // Jम्_३०.२४ //
1929 SK असंशयं तद्वनसंश्रयास्तदा मनस्सु विस्फारितविस्मयाः सुराः / विचिक्षिपुर्व्योम्नि मुदोत्तनूरुहाः समुच्छ्रितैकाङ्गुलिपल्लवान् भुजान् // Jम्_३०.२५ //
1930 SK सुगन्धिभिश्चन्दनचूर्णरञ्जितैः प्रसक्तमन्ये कुसुमैरवाकिरन् / अतान्तवैः काञ्चनभक्तिराजितैस्तमुत्तरीयैरपरे विभूषणैः // Jम्_३०.२६ //
1931 SK स्तवैः प्रसादग्रथितैस्तथापरे समुद्यतैश्चाञ्जलिपद्मकुड्मलैः / शिरोभिरावर्जितचारुमौलिभिर्नमस्किर्याभिश्च तमभ्यपूजयन् // Jम्_३०.२७ //
1932 SK सुगन्धिना पुष्परजोविकर्षणात्तरंगमालारचनेन वायुना / तमव्यजन् केचिदथाम्बरे ऽपरे वितानमस्योपदधुर्घनैर्घनैः // Jम्_३०.२८ //
1933 SK तमर्चितुं भक्तिवशेन केचन व्यरासयन् द्यां सुरदुन्दुभिस्वनैः / अकालजैः पुष्पफलैः सपल्लवैर्व्यभूषयंस्तत्र तरूनथापरे // Jम्_३०.२९ //
1934 SK दिशः सरत्कान्तिमयीं दधुः श्रियं रवेः कराः प्रांशुतरा इवाभवन् / मुदाभिगन्तुं तमिवास चार्णवः कुतूहलोत्कम्पितवीचिविभ्रमः // Jम्_३०.३० //
1935 SK अथ ते पुरुषाः क्रमेण तत्सरः समुपेत्य तस्मिन् विनीतधर्मतर्षक्लमा यथाकथितं तेन महात्मना तदविदूरे हस्तिशरीरं नचिरमृतं ददृशुः / तेषां बुद्धिरभवत् - अहो यथायं सदृशस्तस्य द्विरदपतेर्हस्ती /
1936 SK भ्राता नु तस्यैष महाद्विपस्य स्याद् बान्धवो वान्यतमः सुतो वा / तस्यैव खल्वस्य सिताद्रिशोभं संचूर्णितस्यापि विभाति रूपम् // Jम्_३०.३१ //
1937 SK कुमुदश्रीरिवैकस्य ज्योत्स्ना पुञ्जीकृतेव च / छायेव खलु तस्येयमादर्शतलसंश्रिता // Jम्_३०.३२ //
1938 SK अथ तत्रैकेषां निपुणतरमनुपश्यतां बुद्धिरभवत् - यथा पश्यामः स एव खल्वयं दिग्वारेणेन्द्रप्रतिस्पर्धिरूपातिशयः कुञ्जरवर आपद्गतानामबन्धुसुहृदामस्माकं निस्तारणापेक्षया गिरितटादस्मान्निपतित इति /
1939 SK यः स निर्घतवदभूत्कम्पयन्निव मेदिनीम् / व्यक्तमस्यैव पततः स चास्माभिर्ध्वनिः श्रुतः // Jम्_३०.३३ //
1940 SK एतद्वपुः खलु तदेव मृणालगौरं चन्द्रंशुशुक्लतनुजं तनुबिन्दुचित्रम् / कूर्मोपमाः सितनखाश्चरणास्त एते वंशः स एव च धनुर्मधुरानतो ऽयम् // Jम्_३०.३४ //
1941 SK तदेव चेदं मदराजिराजितं सुगन्धिवाय्वायतपीणमाननम् / समुन्नतं श्रिमदनर्पिताङ्कशं शिरस्तदेतच्च बृहच्छिरोधरम् // Jम्_३०.३५ //
1942 SK विषाणयुग्मं तदिदं मधुप्रभं सदर्पचिह्नं तटरेणुनारुणम् / आदेशयन् मार्गमिमं च येनः स एष दीर्घाङ्गलिपुष्करः करः // Jम्_३०.३६ //
1943 SK आश्चर्यमत्यद्भुतरूपं बत खल्विदम् /
1944 SK अदृष्टपूर्वान्वयशीलभक्तिषु क्षतेषु भाग्यैरपरिश्रुतेष्वपि / सुहृत्त्वमस्मासु बतेदमीदृशं सुहृत्सु वा बन्धुषु वास्य कीदृशम् // Jम्_३०.३७ //
1945 SK सर्वथा नमो ऽस्त्वस्मै महाभागाय /
1946 SK आपत्परीतान् भयशोकदीनानस्मद्विधानभ्युपपद्यमानः / को ऽप्येष मन्ये द्विरदावभासः सिषत्सतामुद्वहतीव वृत्तम् // Jम्_३०.३८ //
1947 SK क्व शिक्षितो ऽसावतिभद्रतामिमामुपासितः को न्वमुना गुरुर्वने / न रूपशोभा रमते विना गुणैर्जनो यदित्याह तदेतदीक्ष्यते // Jम्_३०.३९ //
1948 SK अहो स्वभावातिशयस्य संपदा विदर्शितानेन यथार्हभद्रता / हिमाद्रिशोभेन मृतो ऽपि खल्वयं कृतात्मतुष्टिर्हसतीव वर्ष्मणा // Jम्_३०.४० //
1949 SK तत्क इदानीमस्य स्निग्धबान्धवसुहृत्प्रतिविशिष्टवात्सल्यस्यैवमभ्युपपत्तिसुमुखस्य स्वैः प्राणैरप्यस्मदर्थमुपकर्तुमभिप्रवृत्तस्याटिसाधुवृत्तस्य मांसमुपभोक्तुं शक्ष्यति? युक्तं त्वस्माभिः पूजाविधिपूर्वकमग्निसत्कारेणास्यानृण्यमुपगन्तुमिति / अथ तान् बन्धुव्यसन् एव शोकानुवृत्तिप्रवणहृदयान् साश्रुनयनान् गद्गदायमानकण्ठानवेक्ष्य कार्यान्तरमवेक्षमाणा धीरतरमनस ऊचुरन्ये - न खल्वेवमस्माभिरयं द्विरदवरः संपूजितः सत्कृतो वा स्यात् / अभिप्रायसंपादनेन त्वयमस्माभिर्युक्तः पूजयितुमिति पश्यामः /
1950 SK आस्मन्निस्तारणापेक्षी स ह्यसंस्तुतबान्धवः / शरीरं त्यक्तवानेवमिष्टमिष्टतरातिथिः // Jम्_३०.४१ //
1951 SK अभिप्रायमतस्त्वस्य युक्तं समनुवर्तितुम् / अन्यथा हि भवेद्व्यर्थो ननु तस्यायमुद्यमः // Jम्_३०.४२ //
1952 SK स्नेहादुद्यतमातिथ्यं सर्वस्वं तेन खल्विदम् / अप्रतिग्रहणाद्व्यर्थां कुर्यात्को न्वस्य सत्क्रियाम् // Jम्_३०.४३ //
1953 SK गुरोरिव यतस्तय वचसः संप्रतिग्रहात् / सत्क्रियां कर्तुमर्हामः क्षेममात्मन एव च // Jम्_३०.४४ //
1954 SK निस्तीर्य चेदं व्यसनं समग्रैः प्रत्येकशो वा पुनरस्य पूजा / करिष्यते नागवरस्य सर्वं बन्धोरतीतस्य यथैव कृत्यम् // Jम्_३०.४५ //
1955 SK अथ ते पुरुषाः कान्तारनिस्तारणापेक्षया तस्य द्विरदपतेरभिप्रायमनुस्मरन्तस्तद्वचनमप्रतिक्षिप्य तस्य महासत्त्वस्य मांसान्यादाय दृतिभिरिव च तदन्त्रैः सलिलं तत्प्रदर्शितया दिशा स्वस्ति तस्मात्कान्ताराद्विनिर्ययुः /
1956 SK तदेवं परिहितोदर्कं दुःखमपि साधवो लाभमिव बहु मन्यन्ते, इति साधु जनप्रशंसायां वाच्यम् / तथागतवर्णे ऽपि, सत्कृत्य धर्मश्रवणे च भद्रप्रकृतिनिष्पादनवर्णे ऽपि वाच्यम् - एवं भद्रा प्रकृतिरभ्यस्ता जन्मान्तरेष्वनुवर्तत इति / त्यागपरिचयगुणनिदर्शने ऽपि वाच्यम् - एवं द्रव्यत्यागपरिचयादात्मस्नेहपरित्यागमप्यकृच्छ्रेण करोतीति / यच्चोक्तं भगवत परिनिर्वाणसमये समुपस्थितेषु दिव्यकुसुमवादित्रादिषु - न खलु पुनरानन्द एतावता तथागतः सत्कृतो भवतीति, तच्चैवं निदर्शयितव्यम् / एवमभिप्रायसंपादनात्पूजा कृता भवति न गन्धमाल्याद्यभिहारेणेति /
1957 SK // इति हस्तिजातकं त्रिंशत्तमम् //
1959 SK श्रेयः समाधत्ते यथातथाप्युपनतः सत्संगम इति सज्जनापाश्रयेण श्रेयो ऽर्थिना भवितव्यम् / तद्यथानुश्रूयते -
1960 SK बोधिसत्त्वभूतः किलायं भगवान् यशःप्रकाशवंशे गुणपरिग्रहप्रसङ्गात्सात्मीभूतप्रजानुरागे प्रतापानतदृप्तसामन्ते श्रीमति कौरव्यराजकुले जन्म प्रतिलेभे तस्य / गुणशतकिरणमालिनः सोमप्रियदर्शनस्य सुतस्य सुतसोम इत्येवं पिता नाम चक्रे / स शुक्लपक्षचन्द्रमा इव प्रतिदिनमभिवर्धमानकान्तिलावण्यः कालक्रमादवाप्य साङ्गेषु सोपवेदेषु च वेदेषु वैचक्षण्यं दृष्टक्रमः सोत्तरकलानां कलानां लोक्यानां लोकप्रेमबहुमाननिकेतभूतः सम्यगभ्युपपत्तिसौमुख्यादभिवर्धमानादरात्परिपालननियमाच्च बन्धुरिव गुणानां बभूव /
1961 SK शीलश्रुतत्यागदयादमानां तेजःक्षमाधीधृतिसंनतीनाम् / अनुन्नतिह्रीमतिकान्तिकीर्तिदाक्षिण्यमेधाबलशुक्लतानाम् // Jम्_३१.१ //
1962 SK तेषां च तेषां स गुणोदयानामलंकृतानामिव यौवनेन / विशुद्धतौदार्यमनोहराणां चन्द्रः कलानामिव संश्रयो ऽभूत् // Jम्_३१.२ //
1963 SK अतश्चैनं स राजा लोकपरिपालनसामर्थ्यादक्षुद्रभद्रप्रकृतित्वाच्च यौवराज्यविभूत्या संयोजयामास /
1964 SK विद्वत्तया त्वासुरतीव तस्य प्रियाणि धर्म्याणि सुभाषितानि / आनर्च पूजातिशयैरतस्तं सुभाषितैरेनमुपागमद्यः // Jम्_३१.३ //
1965 SK अथ कदाचित्स महात्मा कुसुममासप्रभावविरचितकिसलयलक्ष्मीमाधुर्याणि प्रविकसत्कुसुममनोज्ञप्रहसितानि प्रविततनवशाद्वलकुथास्तरणसनाथधरणीतलानि कमलोत्पलदलास्तीर्णनिर्मलनीलसलिलानि भ्रमद्भ्रमरमधुकरीगणोपगीतान्यनिभृतपरभृतबर्हिगणानि मृदुसुरभिशिशिरसुखपवनानि मनःप्रसादोद्भावनानि नगरोपवनान्यनुविचरन् अन्यतममुद्यानवनं नातिमहता बलकायेन परिवृतः क्रीडार्थमुपनिर्जगाम /
1966 SK स तत्र पुंस्कोकिलनादिते वने मनोहरोद्यानविमानभूषिते / चचार पुष्पानतचित्रपादपे प्रियासहायः सुकृतीव नन्दने // Jम्_३१.४ //
1967 SK गीतस्वनैर्मधुरतूर्यरवानुविद्धैर्नृत्यैश्च हावचतुरैर्ललिताङ्गहारैः / स्त्रीणां मदोपहृतया च विलासलक्ष्म्या रेमे स तत्र वनचारुतया तया च // Jम्_३१.५ //
1968 SK तत्रस्थं चैनमन्यतमः सुभाषिताख्यायी ब्राह्मणः समभिजगाम / कृतोपचारसत्कारश्च तद्रूपशोभापहृतमनास्तत्रोपविवेश / इति स महासत्त्वो यौवनानुवृत्त्या पुण्यसमृद्धिप्रभावोपनतं क्रीडाविधिमनुभवंस्तदागमनादुत्पन्नबहुमान एव तस्मिन् ब्राह्मणे सुभाषितश्रवणादनवाप्तागमनफले सहसैवोत्पतितं गीतवादित्रस्वनोपरोधि क्रिडाप्रसङ्गजनितप्रहर्षोपहन्तृ प्रमदाजनभयविषादजननं कोलाहलमुपश्रुत्य ज्ञायतां किमेतम्दिति सादरमन्तः पुरावचरान् समादिदेश / अथास्य दौवारिका भयविषाददिनवदनाः ससंभ्रमं द्रुततरमुपेत्य न्यवेदयन्त - एष स देव पुरुषादः कल्माषवादः सौदासः साक्षादिवान्तको नरशतकदनकरणपरिचयाद्राक्षसाधिकक्रूरतरमतिरतिमानुषबलवीर्यदर्पो रक्षःप्रतिभयरौद्रमूर्तिमूर्तिमानिव जगत्संत्रास इति एवाभिवर्तते / विद्रुतं च नस्तत्संत्रासग्रस्तधैर्यमुद्भ्रान्तरथतुरगद्विरदव्याकुलयोधं बलम् / यतः प्रतियत्नो भवतु देवः, प्राप्तकालं वा संप्रधार्यतामिति / अथ सुतसोमो जानानो ऽपि तानुवाच - भोः क एष सौदासो नाम? ते तं प्रोचुः - किमेतद्देवस्य न विदितं यथा सुदासो नाम राजा बभूव / स मृगयानिर्गतो ऽश्वेनापहृतो वनगहनमनुप्रविष्टः सिंह्या सार्धं योगमगमत् / आपन्नसत्त्वा च सा सिंही संवृत्ता / कालान्तरेण च कुमारं प्रसुषुवे / स वनचरैर्गृहीतः सुदासायोपनीतः / अपुत्रो ऽहमिति च कृत्वा सुदासेन संवर्धितः / पितरि च सुरपुरमुपगते स्वं राज्यं प्रतिलेभे / स मातृदोषादामिषेष्वभिसक्तः / इदमिदं रसवरं मांसमिति स मानुषं मांसमास्वाद्य स्वपौरानेव च हत्वा हत्वा भक्षयितुमुपचक्रमे / अथ पौरास्तद्वधायोद्योगं चक्रुः / यतो ऽसौ भीतः सौदासो नररुधिरपिशितबलिभुग्भ्यो भुतेभ्य उपशुश्राव - अस्मात्संकटान्मुक्तो ऽहं राज्ञां कुमारशतेन भूतयज्ञं करिष्यामीति / सो ऽयं तस्मात्संकटान्मुक्तः / प्रसह्य प्रसह्य चानेन राजकुमारापहरनं कृतम् / सो ऽयं देवमप्यपहर्तुंमायातः / श्रुत्वा देवं प्रमाणमिति /
1969 SK अथ स बोधिसत्त्वः पूर्वमेव विदितशीलदोषविभ्रमः सौदासस्य कारुण्यात्तच्चिकित्सावहितमतिराशंसमानश्चात्मनि तच्छीलविकृतप्रशमनसामर्थ्यं प्रियाख्यान इव च सौदासाभियाननिवेदने प्रीतिं प्रतिसंवेदयन्नियतमित्युवाच -
1970 SK राज्याच्च्युते ऽस्मिन्नरमांसलोभादुन्मादवक्तव्य इवास्वतन्त्रे / त्यक्तस्वधर्मे हतपुण्यकीर्तौ शोच्यां दशामित्यनुवर्तमाने // Jम्_३१.६ //
1971 SK को विक्रमस्यात्र ममावकाश एवंगताद्वा भयसंभ्रमस्य / अयत्नसंरम्भपराक्रमेण पाप्मानमस्य प्रसभं निहन्मि // Jम्_३१.७ //
1972 SK गत्वापि यो नाम मयानुकम्प्यो मद्गोचरं स स्वयमब्युपेतः / युक्तं मयातिथ्यमतो ऽस्य कर्तुमेवं हि सन्तो ऽतिथिषु प्रवृत्ताः // Jम्_३१.८ //
1973 SK तद्यथाधिकारमत्रावहिता भवन्ति भवन्तः / इति स तानन्तः पुरावचराननुशिष्य विषादविपुलतरपारिप्लवाक्षमागद्गदविलुलितकङ्ठं मार्गावरणसोद्यममाश्वासनपूर्वकं विनिवर्त्य युवतिजनं यतस्तत्कोलाहलं ततः प्रससार / दृष्ट्वैव च व्यायताबद्धमलिनवसनपरिकरं वल्कलपट्टविनियतं रेणुपरुषप्रलम्बव्याकुलशिरोरुहे प्ररुढश्मश्रुजालावनद्धान्धकारवदनं रोषसंरम्भव्यावृत्तरौद्रनयनमुद्यतासिमचर्माणं सौदासं विद्रवदनुपतन्तं राजबलं विगतभयसाध्वसः समाजुहाव - अयमहमरे सुतसोमः / इत एव निवर्तस्व / किमनेन कृपणजनकदनकरणप्रसङ्गेनेति / तत्समाह्वानशब्दाकलितदर्पस्तु सौदासः सिंह इव ततो न्यवर्तत / निरावरणप्रहरणमेकाकिनं प्रकृतिसौम्यदर्शनमभिवीक्ष्य च बोधिसत्त्वमहमपि त्वामेव मृगयामीत्युक्त्वा निविशङ्क सहसा संरम्भद्रुततरमभिसृत्यैनं स्कन्धमारोप्य प्रदुद्राव / बोधिसत्त्वो ऽपि चैनं संरम्भदर्पोद्धतमानसं ससंभ्रमाकुलितमतिं राजबलविद्रावणादुपरूढप्रहर्षावलेपं साभिशङ्कमवेत्य नायमस्यानुशिष्टिकाल इत्युपेक्षांचक्रे / सौदासो ऽप्यभिमतार्थप्रसिद्ध्या परमिव लाभभधिगम्य प्रमुदितमनाः स्वमावासदुर्गं प्रविवेश /
1974 SK हतपुरुषकलेवराकुलं रुधिरसमुक्षितरौद्रभूतलम् / पुरुषमिव रुषावभर्त्सयत्स्फुटदहनैरशिवैः शिवारुतैः // Jम्_३१.९ //
1975 SK गृध्रध्वाङ्क्षाध्यासनरूक्षारुणपर्णैः कीर्णं वृक्षैर्नैकचिताधूमविवर्णैः / रक्षःप्रेतानर्तनबिभत्समशान्तं दूराद् दृष्टं त्रासजडैः सार्थिकनेत्रैः // Jम्_३१.१० //
1976 SK समवतार्य च तत्र बोधिसत्त्वं तद्रूपसंपदा विनिबध्यमाननयनः प्रततं वीक्षमाणो विशश्राम / अथ बोधिसत्त्वस्य सुभाषितोपायनाभिगतं ब्राह्मणमकृतसत्कारं तदुद्यानविनिवर्तनप्रतीक्षिणमाशावबद्धहृदयमनुस्मृत्य चिन्ता प्रादुरभूत् - कष्टं भोः
1977 SK उभाषितोपायनवानाशया दुरमागतः / स मं हृतमुपश्रुत्य विप्रः किं नु करिष्यति // Jम्_३१.११ //
1978 SK आशाविघाताग्निपरीतचेता वैतान्यतीव्रेण परिश्रमेण / विनिश्वसिष्यत्यनुशोच्य वा मां स्वभाग्यनिन्दां प्रतिपत्स्यते वा // Jम्_३१.१२ //
1979 SK इति विचिन्तयतस्तस्य महासत्त्वस्य तदीयदुःखाभितप्तमनसः कारुण्यपरिचयादश्रूणि प्रावर्तन्त / अथ सौदासः साश्रूनयनमभिवीक्ष्य बोधिसत्त्वं समभिप्रहसन्नुवाचमा तवद्भोः /
1980 SK धीर इत्यसि विख्यातस्तैस्तैश्च बहुभिर्गुणैः / अथ चास्मद्वशं प्राप्य त्वमप्यश्रूणि मुञ्चसि // Jम्_३१.१३ //
1981 SK सुष्ठु खल्विदमुच्यते -
1982 SK आपत्सु विफलं धैर्यं शोके श्रुतमपार्थकम् / न हि तद्विद्यते भूतमाहतं युअन्न कम्पते // Jम्_३१.१४ //
1983 SK इति / तत्सत्यं तावद् ब्रूहि -
1984 SK प्राणान् प्रियानथ धनं सुखसाधनं वा बन्धून्नराधिपतितामथवानुशोचन् / पुत्रप्रियं पितरमश्रुमुखान् सुतान् वा स्मृत्वेति साश्रूनयनत्वमुपागतो ऽसि // Jम्_३१.१५ //
1986 SK न प्राणान् पितरौ न चैव तनयान् बन्धून्न दारान्न च नैवैश्वर्यसुखानि संस्मृतवतो बाष्पोद्गमो ऽयं मम / आशावांस्तु सुभाषितैरभिगतः श्रुत्वा हृतं मां द्विजो नैराश्येन स दह्यते ध्रुवमिति स्मृत्वास्मि सास्रेक्षणः // Jम्_३१.१६ //
1987 SK तस्माद्विसर्जयितुमर्हसि तस्य यावदाशाविघातमथितं हृदयं द्विजस्य / संमाननाम्बुपरिषेकनविकरोमि तस्मात्सुभाषितमधूनि च संबिभर्मि // Jम्_३१.१७ //
1988 SK प्राप्यैवमानृण्यमहं दिव्जस्य गन्तास्मि भूयो ऽनृणतां तवापि / इहागमात्प्रीतिकृतक्षणाभ्यां निरीक्ष्यमाणो भवदीक्षणाभ्याम् // Jम्_३१.१८ //
1989 SK मा चापयातव्यनयो ऽयमस्येत्येवं विशङ्काकुलमानसो भूः / अन्यो हि मार्गो नृप मद्विधानामन्यादृशस्त्वन्यजनाभिपन्नः // Jम्_३१.१९ //
1991 SK इदं त्वया ह्यादृतमुच्यमानं श्रद्धेयतां नैव कथंचिदेति / को नाम मृत्योर्वदनाद्विमुक्तः स्वस्थः स्थितस्तत्पुनरभ्युपेयाम् // Jम्_३१.२० //
1992 SK दुरुत्तरं मृत्युभयं व्यतीत्य सुखे स्थितः श्रीमति वेश्मनि स्वे / किं नाम तत्कारणमस्ति येन त्वं मत्समीपं पुनरभ्युपेयाः // Jम्_३१.२१ //
1993 SK बोधिसत्त्व उवाच - कथमेवं महदपि ममागमनकारणमत्रभवान्नाबभुध्यते? ननु मया प्रतिपन्नमागमिष्यामीति / तदलं मां खलजनसमतयैवं परिशङ्कितुम् / सुतसोमः खल्वहम् /
1994 SK लोभेन मृत्योश्च भयेन सत्यं सत्यं यदेके तृणवत्त्यजन्ति / सतां तु सत्यं वसु जीवितं च कृच्छ्रे ऽप्यतस्तन्न परित्यजन्ति // Jम्_३१.२२ //
1995 SK न जीवितं यत्सुखमैहिकं वा सत्याच्च्युतं रक्षति दुर्गतिभ्यः / सत्यं विजह्यादिति कस्तदर्थं यच्चाकरः स्तुतियशःसुखानाम् // Jम्_३१.२३ //
1996 SK संदृश्यमानव्यभिचारमार्गे त्वदृष्टकल्याणपराक्रमे वा / श्रद्धेयतां नैति शुभं तथा च किं वीक्ष्य शङ्का तव मय्यपीति // Jम्_३१.२४ //
1997 SK त्वत्तो भयं यदि च नाम ममाभविष्यत् सङ्गः सुखेषु करुणाविकलं मनो वा / विख्यातरौद्रचरितं ननु वीरमानी त्वामुद्यतप्रहरणावरणो ऽभ्युपैष्यम् // Jम्_३१.२५ //
1998 SK त्वत्संस्तवस्त्वयमभीप्सित एव मे स्यात् तस्य द्विजस्य सफलश्रमतां विधाय / एष्याम्यहं पुनरपि स्वयमन्तिकं ते नास्मद्विधा हि वितथां गिरमुद्गिरन्ति // Jम्_३१.२६ //
1999 SK अथ सौदासस्तद् बोधिसत्त्ववचनं विकल्पितमिवामृष्यमाणश्चिन्तामापेदे - सुष्ठु खल्वयं सत्यवादितया च धर्मिकतया च विकत्थते / तत्पश्यामि तावदस्य सत्यानुरागं धर्मप्रियतां च / किं च तावन्ममानेन नष्टेनापि स्यात्? अस्ति हि मे स्वभुजवीर्यप्रतापाद्वशीकृतं शतमात्रं क्षत्रियकुमाराणाम् / तैर्यथोपयाचितं भूतयज्ञं करिष्यामीति विचिन्त्य बोधिसत्त्वमुवाच - तेन हि गच्छ / द्रक्ष्यामस्ते सत्यप्रतिज्ञतां धार्मिकतां च /
2000 SK गत्वा कृत्वा च तस्य त्वं द्विजस्य यदभीप्सितम् / शीघ्रमायाहि यावत्ते चितां सज्जीकरोम्यहम् // Jम्_३१.२७ //
2001 SK अथ बोधिसत्त्वस्तथेत्यस्मै प्रतिश्रुत्य स्वभवनमभिगतः प्रतिनन्द्यमानः स्वेन जनेन तमाहूय ब्राह्मणं तस्माद् गाथाचतुष्टयं शुश्राव / तच्छ्रुत्वा सुभाषिताभिप्रसादितमनाः स महासत्त्वः संराधयन् प्रियवचनसत्कारपुरःसरं साहस्रिकीं गाथां कृत्वा समभिलषितेनार्थेन तं ब्राह्मणं प्रतिपूजयामास / अथैनं तस्य पिता अस्थानातिव्ययनिवारणोद्यतमतिः प्रस्तावक्रमागतं सानुनयमित्युवाच - तात सुभाषितप्रतिपूजने साधु मात्रां ज्ञातुमर्हसि / महाजनः खलु ते भर्तव्यः, कोशसंपदपेक्षिणी च राजश्रीः / अतश्च त्वां ब्रवीमि -
2002 SK शतेन संपूजयितुं सुभाषितं परं प्रमाणं न ततः परं क्षमम् / अतिप्रदातुर्हि कियच्चिरं भवेद्धनेश्वरस्यापि धनेश्वरद्युतिः // Jम्_३१.२८ //
2003 SK समर्थमर्थः परमं हि साधनं न तद्विरोधेन यतश्चरेत्प्रियम् / नराधिपं श्रीर्न हि कोशसंपदा विवर्जितं वेशवधूरिवेक्षते // Jम्_३१.२९ //
2005 SK अर्घप्रमाणं यदि नामं कर्तुं शक्यं भवेद्देव सुभाषितानाम् / व्यक्तं न ते वाच्यपथं व्रजेय तन्निष्क्रयं राज्यमपि प्रयच्छन् // Jम्_३१.३० //
2006 SK श्रुत्वैव यन्नाम मनः प्रसादं श्रेयो ऽनुरागः स्थिरतां च याति / प्रज्ञा विवृद्ध्या वितमस्कतां च क्रय्यं ननु स्यादपि तत्स्वमांसैः // Jम्_३१.३१ //
2007 SK दीपः श्रुतं मोहतमःप्रमाथी चौराद्यहार्यं परमं धनं च / संमोहशत्रुव्यथनाय शस्त्रं नयोपदेष्टा परमश्च मन्त्री // Jम्_३१.३२ //
2008 SK आपद्गतस्याप्यविकारि मित्रमपीडनीशोकरुजश्चिकित्सा / बलं महद्दोषबलावमर्दि परं निधानं यशसः श्रियश्च // Jम्_३१.३३ //
2009 SK सत्संगमे प्राभृतशीभरस्य सभासु विद्वज्जनरञ्जनस्य / परप्रवादद्युतिभास्करस्य स्पर्धावतां कीर्तिमदापहस्य // Jम्_३१.३४ //
2010 SK प्रसन्ननेत्राननवर्णरागैरसंस्कृतैरप्यतिहर्षलब्धैः / संराद्ननव्यग्रकराग्रदेशैर्विख्याप्यमानातिशयक्रमस्य // Jम्_३१.३५ //
2011 SK विस्पष्टहेत्वर्थनिदर्शनस्य विचित्रशास्त्रागमपेशलस्य / माधुर्यसंस्कारमनोहरत्वादक्लिष्टमाल्यप्रकरोपमस्य // Jम्_३१.३६ //
2012 SK विनीतदीप्तप्रतिभोज्ज्वलस्य प्रसह्य कीर्तिप्रतिबोधनस्य / वाक्सौष्ठवस्यापि विशेषहेतुर्योगात्प्रसन्नार्थगतिः श्रुतश्रीः // Jम्_३१.३७ //
2013 SK श्रुत्वा च वैरोधिकदोषमुक्तं त्रिवगमार्गं समुपाश्रयन्ते / श्रुतानुसारप्रतिपत्तिसारास्तरन्त्यकृच्छ्रेण च जन्मदुर्गम् // Jम्_३१.३८ //
2014 SK गुणैरनेकैरिति विश्रुतानि प्राप्तान्यहं प्राभृतवच्छ्रुतानि / शक्तः कथं नाम न पूजयमाज्ञां कथं वा तव लङ्घयेयम् // Jम्_३१.३८ //
2015 SK यास्यामि सौदाससमीपमस्मादर्थो न मे राज्यपरिश्रमेण / निवृत्तसंकेतगुणोपमर्दे लभ्यश्च यो दोषपथानुवृत्त्या // Jम्_३१.४० //
2016 SK अथैनं पिता स्नेहात्समुत्पतितसंभ्रमः सादरमुवाच - तवैव खलु तात हितावेक्षिणा मयैवमभिहितम् / तदलमत्र ते मन्युवशमनुभवितुम् / द्विषन्तस्ते सौदासवर्शं गमिष्यन्ति / अथापि प्रतिज्ञातं त्वया तत्समीपोपगमनम्, अतः सत्यानुरक्षी तत्संपादयितुमिच्छसि, तदपि ते नाहमनुज्ञास्यामि / अपातकं हि स्वप्राणपरिरक्षानिमित्तं गुरुजनार्थं चानृतमार्गो वेदविहित इति / तत्परिहारश्रमेण तव को ऽर्थः? अर्थकामाभ्यां च विरोधिदृष्टं धर्मसंश्रयमनयमिति व्यसनमिति च राज्ञां प्रचक्षते नीतिकुशलाः / तदलमनेनास्मन्मनस्तापिना स्वार्थनिरपेक्षेण ते निर्बन्धेन / अथाप्ययशस्यं मार्ष धर्मविरोधि चेति प्रतिज्ञाविसंवादनमनुचितत्वान्न व्यवस्यति ते मतिः, एवमपीदं त्वद्विमोक्षणार्थं समुद्यक्तं सज्जमेव नो हस्त्यश्वरथपत्तिकायं संपन्नमनुरक्तं कृतास्त्रशूरपुरुषमनेकसमरनीराजितं महन्महौघभीमं बलम् / तदनेन परिवृतः समभिगम्यैनं वशमानय, अन्तकवशं वा प्रापय / एवमव्यर्थप्रतिज्ञता संपादिता स्यादात्मरक्षा चेति / बोधिसत्त्व उवाच - नोत्सहे देव अन्यथा प्रतिज्ञातुमन्यथा कर्तुं शोच्येषु वा व्यसनपङ्कनिमग्नेषु नरकाभिमुखेषु सुहृत्सु स्वजनपर्तियक्तेष्वनाथेषु च तद्विधेषु प्रहर्तुम् /
2018 SK दुक्षरं पुरुषादो ऽसावुदारं चाकरोन्मयि / मद्वचःप्रत्ययाद्यो मां व्यसृजद्वशमागतम् // Jम्_३१.४१ //
2019 SK लब्धं तत्कारणाच्चेदं मया तात सुभाषितम् / उपकारी विशेषेण सो ऽनुकम्प्यो मया यतः // Jम्_३१.४२ //
2020 SK अलं चात्र देवस्य मदत्ययाशङ्कया / का हि तस्य शक्तिरस्ति मामेवमभिगतं विहिंसितुमिति / एवमनुनीय च महत्मा पितरं विनिवारणसोद्यमं च विनिवर्त्य प्रणय्यिजनमनुरक्तं च बलकायमेकाकी विगतभयदैनयः सत्यानुरक्षी लोकहितार्थं सौदासमभिविनेष्यंस्तन्निकेतमभिजगाम /
2021 SK दूरादेवावलोक्य सौदासस्तं महासत्त्वमतिविस्मयादभिवृद्धबहुमानप्रसादश्चिराभ्यासविरूढक्रुरतामलिनमतिरपि व्यक्तमिति चिन्तामापेदे - अहहहह
2022 SK आश्चर्याणां बताश्चर्यमद्भुतानां तथाद्भतम् / सत्यौदार्यं नृपस्येदमतिमानुषदैवतम् // Jम्_३१.४३ //
2023 SK मृत्युरौद्रस्वभावं मां विनीतभयसंभ्रमः / इति स्वयमुपेतो ऽयं ही धैर्यं साधु सत्यता // Jम्_३१.४४ //
2024 SK स्थाने खल्वस्य विख्यातं सत्यवादितया यशः / इति प्राणान् स्वराज्यं च सत्यार्थं यो ऽयमत्यजत् // Jम्_३१.४५ //
2025 SK अथ बोधिसत्त्वः समभिगम्यैनं विस्मयबहुमानावर्जितमानसमुवाच -
2026 SK प्राप्तं सुभाषितधनं प्रतिपूजितो ऽर्थी प्रीतिं मनश्च गमितं भवतः प्रभावात् / प्राप्तस्तदस्म्ययमशान यथेप्सितं मां यज्ञाय वा मम पशुव्रतमादिश त्वम् // Jम्_३१.४६ //
2028 SK नात्येति कालो मम खादितुं त्वां धूमाकुला तावदियं चितापि / विधूमपक्वं विशितं च हृद्यं शृण्मस्तदेतानि सुभाषितानि // Jम्_३१.४७ //
2029 SK बोधिसत्त्व उवाच कस्तवार्थ इत्थंगतस्य सुभाषितश्रवनेन?
2030 SK इमामवस्थामुदरस्य हेतोः प्राप्तो ऽसि संत्यक्तघृणः प्रजासु / इमाश्च धर्मं प्रवदन्ति गाथाः समेत्यधर्मेण यतो न धर्मः // Jम्_३१.४८ //
2031 SK रक्षोविकृतवृत्तस्य संत्यक्तार्यपथस्य ते / नाष्ति सत्यं कुतो धर्मः किं श्रुतेन करिष्यसि // Jम्_३१.४९ //
2032 SK अथ सौदासस्तामवसादनाममृष्यमाणः प्रत्युवाच - मा तावद्भोः
2033 SK को ऽसौ नृपः कथय यो न समुद्यतास्त्रः क्रीडावने वनमृगीदयितान्निहन्ति / त्द्वन्निहन्मि मनुजान् यदि वृत्तिहेतोराधर्मिकः किल ततो ऽस्मि न ते मृगघ्नाः // Jम्_३१.५० //
2035 SK धर्मे स्थिता न खलु ते ऽपि नमन्ति येषां भीतद्रुतेष्वपि मृगेषु शरासनानि / तेभ्यो ऽपि निन्द्यतम एव नराशनस्तु जात्युच्छ्रिता हि पुरुषा न च भक्षणीयाः // Jम्_३१.५१ //
2036 SK अथ सौदासः परिकर्कशाक्षरमप्यभिधीयमानो बोधिसत्त्वेन तन्मैत्रीगुणप्रभावादभिभूतरौद्रस्वभावः सुखायमान एव तद्वचनमभिप्रहसन्नुवाच - भोः सुतसोम
2037 SK मुक्तो मया नाम समेत्य गेहं समन्ततो राज्यविभूतिरम्यम् / यन्मत्समीपं पुनरागतस्त्वं न नीतिमार्गे कुशलो ऽसि तस्मात् // Jम्_३१.५२ //
2038 SK बोधिसत्त्व उवाच - नैतदस्ति / अहमेव तु कुशलो नीतिमार्गे यदेनं न प्रतिपत्तुमिच्छामि /
2039 SK यं नाम प्रतिपन्नस्य धर्मादैकान्तिकी च्युतिः / न तु प्रसिद्धिः सौख्यस्य तत्र किं नाम कौशलम् // Jम्_३१.५३ //
2041 SK ये नीतिमार्गप्रतिपत्तिधीराः प्रायेण ते प्रेत्य पतन्त्यपायान् / अपास्य जिह्मानिति नीतिमार्गान् सत्यानुरक्षी पुनरागतो ऽस्मि // Jम्_३१.५४ //
2042 SK अतश्च नीतौ कुशलो ऽहमेव त्यक्त्वानृतं यो ऽभिरतो ऽस्मि सत्ये / न तत्सुनीतं हि वदन्ति रज्ज्ञा यन्नानुबध्नन्ति यशःसुखार्थाः // Jम्_३१.५५ //
2044 SK प्राणान् प्रियान् स्वजनमश्रुमुखं च हित्वा राज्याश्रयाणि च सुखानि महोहराणि / कामर्थसिद्धिमनुपश्यसि सत्यवाक्ये तद्रक्षणार्थमपि मां यदुपागतो ऽसि // Jम्_३१.५६ //
2045 SK बोधिसत्त्व उवाच - बहवः सत्यवचनाश्रया गुणातिशयाः / संक्षेपस्तु श्रूयताम् -
2046 SK मल्यश्रियं हृद्यतयातिशेते सर्वान् रसान् स्वादुतया च सत्यम् / श्रमादृते पुण्यगुणप्रसिद्ध्या तपांसि तीर्थाभिगमश्रमांश्च // Jम्_३१.५७ //
2047 SK कीर्तेर्जगद्व्याप्तिकृतक्षणाया मार्गस्त्रिलोकाक्रमणाय सत्यम् / द्वारं प्रवेशाय सुरालयस्य संसारदुर्गोत्तरणाय सेतुः // Jम्_३१.५८ //
2048 SK अथ सौदासः साधु युक्तमित्यभिप्रणम्यैनं सविस्मयमभिवीक्षमाणः पुनरुवाच -
2049 SK अन्ये न रा मद्वशगा भवन्ति दैन्यार्पणात्त्रासविलुप्तधैर्यः / संत्यज्यसे त्वं तु न धैर्यलक्ष्म्या मन्ये न ते मृत्युभयं नरेन्द्र // Jम्_३१.५९ //
2051 SK महतापि प्रयत्नेन यच्छक्त्यं नातिवर्तितुम् / प्रतीकारासमर्थेन भयक्लैब्येन तत्र किम् // Jम्_३१.६० //
2052 SK इति परिगणितलोकस्थितयो ऽपि तु कापुरुषाः
2053 SK पापप्रसङ्गादनुतप्यमानाः शुभेषु कर्मस्वकृतश्रमश्च / आशङ्कमानाः परलोकदुःखं मर्तव्यसंत्रासजडा भवन्ति // Jम्_३१.६१ //
2054 SK तदेव कर्तुं न तु संस्मरामि भवेद्यतो मे मनसो ऽनुतापः / सात्मीकृतं कर्म च शुक्लमस्माद्धर्मस्थितः को मरणाद्विभीयात् // Jम्_३१.६२ //
2055 SK न च स्मराम्यर्थिजनोपयानं यन्न प्रहर्षाय ममार्थिनां वा / इति प्रदानैः समवाप्ततुष्टिर्धर्मे स्थितः को मरणाद्बिभीयात् // Jम्_३१.६३ //
2056 SK चिरं विचिन्त्यापि च नैव पापे मनःपदन्यासमपि स्मरामि / विशोधितस्वर्गपथो ऽहमेवं मृत्योः किमर्थं भयमभ्युपेयाम् // Jम्_३१.६४ //
2057 SK विप्रेषु बन्धुषु सुहृत्सु समाष्रितेषु दीने जने यदिषु चाश्रमभूषणेषु / न्यस्तं मया बहु धनं ददता यथार्हं कृत्यं च यस्य यदभूत्तदकारि तस्य // Jम्_३१.६५ //
2058 SK श्रीमन्ति कीर्तनशतानि निवेशितानि / सत्राजिराश्रमपदानि सभाः प्रपाश्च / मृत्योर्न मे भयमतस्तदवाप्ततुष्टेर्यज्ञाय तत्समुपक्ल्पय भौङ्क्ष्व वा माम् // Jम्_३१.६६ //
2059 SK तदुपश्रुत्य सौदासः प्रसादाश्रुव्याप्तनयनः समुद्भियमानरोमाञ्चपिटको विस्मृतपापस्वभावतामिस्रः सबहुमानमवेक्ष्य बोधिसत्त्वमुवाच - शान्तं पापम् /
2060 SK अद्याद्विषं स खलु हाहहलं प्रजानन्नाशीविषं प्रकुपितं ज्वलदायसं वा / मूर्धापि तस्य शतधा हृदयं च यायाद् यस्त्वद्विधस्य नृपपुंगव पापमिच्छेत् // Jम्_३१.६७ //
2061 SK तदर्हति भवांस्तान्यपि मे सुभाषितानि वक्तुम् / अनेन हि ते वचनकुसुमवर्षेणाभिप्रसादितमनसः सुष्टुतरमभिवृद्धं च तेषु मे कौतूहलम् / अपि च भोः /
2062 SK दृष्ट्वा मे चरितच्छायावैरूप्यं धर्मदर्पणे / अपि नामागतावेगं स्यन्मे धर्मोत्सुकं मनः // Jम्_३१.६८ //
2063 SK अथैनं बोधिसत्त्वः पत्रीकृताशयं धर्मश्रवणप्रवणमानसमवेत्योवाच - तेन हि धर्मार्थिना तदनुरूपसमुदाचारसौष्ठवेन धर्मः श्रोतुं युक्तम् / पश्य /
2064 SK नीचैस्तरासनस्थानद्विबोध्य विनयश्रियम् / प्रीत्यर्पिताभ्यां चक्षुर्भ्यां वाङ्मध्वास्वादयन्निवि // Jम्_३१.६९ //
2065 SK गौरवावर्जितैकाग्रप्रसन्नामलमानसः / सत्कृत्य धर्मं शृणुयाद्भिषग्वाक्यमिवातुरः // Jम्_३१.७० //
2066 SK अथ सौदासः स्वेनोत्तरीयेण समास्तीर्योच्चैस्तरं शिलातलं तत्र चाधिरोप्य बोधिसत्त्वं स्वयमनास्तरितायमुपविश्य भूमौ बोधिसत्त्वस्य पुरस्तादाननोद्वीक्षणव्यापृतनिरीक्षणरतं महासत्त्वमुवाच - ब्रूहीदानीं मार्षेति / अथ बोधिसत्त्वो नवाम्भोधरनिनदमधुरेण गम्भीरेणापूरयन्निव तद्वनं व्यापिना स्वरेणोवाच /
2067 SK यदृच्छयाप्युपानीतं सकृत्सज्जनसंगतम् / भवत्यचलमत्यन्तं नाभ्यासक्रममीक्षते // Jम्_३१.७१ //
2068 SK तदुपश्रुत्य सौदासः साधु साध्विति स्वशिरः प्रकम्प्याङ्गलीवीक्षेपं बोधिसत्त्वमुवाच - ततस्ततः?
2069 SK अथ बोधिसत्त्वो द्वितीयां गाथामुदाजहार -
2070 SK न सज्जनाद् दुरचरः क्वचिद्भवेद्भजेत साधून् विनयक्रमानुगः / स्पृशन्त्ययत्नेन हि तत्समीपगं विसर्पिणस्तद्गुणपुष्परेणवः // Jम्_३१.७२ //
2072 SK सुभाषितान्यर्चयता साधो सर्वात्मना त्वया / स्थाने खलु नियुक्तो ऽर्थः स्थाने नावेक्षितः श्रमः // Jम्_३१.७३ //
2073 SK ततस्ततः? बोधिसत्त्व उवाच -
2074 SK रथा नृपाणां मणिहेमभूषणा व्रजन्ति देहाश्च जराविरूपताम् / सतां तु धर्मं न जराभिवर्तते स्थिरानुरागा हि गुणेषु साधवः // Jम्_३१.७४ //
2075 SK अमृतवर्षं खल्विदम् / अहो संतर्पिताः स्मः / ततस्ततः? बोधिसत्त्व उवाच -
2076 SK नभश्च दुरे वसुधातलाच्च पारादवारं च महार्णवस्य / अस्ताचलेन्द्रादुदयस्ततो ऽपि धर्मः सतां दूरतरे ऽसतां च // Jम्_३१.७५ //
2077 SK अथ सौदासः प्रसादविस्मयाभ्यामावर्जितप्रेमबहुमानो बोधिसत्त्वमुवाच -
2078 SK चित्राभिधानातिशयोज्ज्वलार्था गाथास्त्वदेता मधुरा निशम्य / आनन्दितस्तत्प्रतिपूजनार्थं वरानहं ते चतुरो ददामि // Jम्_३१.७६ //
2079 SK तद् वृणीष्व यद्यन्मत्तो ऽभिकाङ्क्षसीति /
2080 SK अथैनं बोधिसत्त्वः सविस्मयबहुमान उवाच कस्त्वं वरप्रदानस्य?
2081 SK यस्यास्ति नात्मनयपि ते प्रभुत्वमकार्यसंरागपराजितस्य / स त्वं वरं दास्यसि कं परस्मै शुभप्रवृतेरपवृत्तभावः // Jम्_३१.७७ //
2082 SK अहं च देहीति वरं वदेयं मनश्च दित्साथिशिलं तव स्यात् / तमत्ययं कः सघृणो ऽभ्युपेयादेतावदेवालमलं यतो नः // Jम्_३१.७८ //
2083 SK अथ सौदासः किंचिद् व्रीडावनतवदनो बोधिसत्त्वमुवाच - अलमत्रभवतो मामेवं विशङ्कितुम् /
2084 SK प्राणानपि परित्यज्य दास्याम्येतानहं वरान् / विस्रब्धं तद् वृणीष्व त्वं यद्यादिच्छसि भूमिप // Jम्_३१.७९ //
2085 SK बोधिसत्त्व उवाच - तेन हि
2086 SK सत्यवरतो भव विसर्जय सत्त्वहिंसां बन्दीकृतं जनमशेषमिमं विमुञ्च / अद्या न चैव नरवीर मनुष्यमांसमेतान् वराननवरांश्चतुरः प्रयच्छ // Jम्_३१.८० //
2088 SK ददामि पूर्वान् भवते वरांस्त्रीनन्यं चतुर्थं तु वरं वृणीष्व / अवैषि किं न त्वमिदं यथाहमीशो विरन्तुं न मनुष्यमांसात् // Jम्_३१.८१ //
2089 SK बोधिसत्त्व उवाच - हन्त तवैतत्संवृत्तम् / ननूक्तं मया कस्त्वं वरप्रदानस्येति? अपि च भोः?
2090 SK सत्यव्रतत्वं च कथं स्यदहिंसकता च ते / अपरित्यजतो राजन् मनुष्यपैशिताशिताम् // Jम्_३१.८२ //
2092 SK ननूक्तं भवता पूर्वं दास्याम्येतानहं वरान् / प्राणानपि परित्यज्य तदिदं जायते ऽन्यथा // Jम्_३१.८३ //
2093 SK अहिंसकत्वं च कुतो मांसार्थं ते घ्नतो नरान् / सत्येवं कतमे दत्ता भवता स्युर्वरास्त्रयः // Jम्_३१.८४ //
2095 SK त्यक्त्वा राज्यं वने क्लेशो यस्य हेतुर्ताधृतो मया / हतो धर्मः क्षता कीर्तिस्त्यक्ष्यामि तदहं कथम् // Jम्_३१.८५ //
2096 SK बोधिसत्त्व उवाच - अत एव तद्भवांस्त्यक्तुमर्हति /
2097 SK धर्मादर्थात्सुखात्कीर्तेभ्रष्टो यस्य कृते भवान् / अनर्थायतनं तादृक्कथं न त्यक्तुमर्हसि // Jम्_३१.८६ //
2098 SK दत्तानुशयिता चेयमनौदार्यहते जने / नीचत सा कथं नाम त्वामप्यभिभवेदिति // Jम्_३१.८७ //
2099 SK तदलं ते पाप्मानमेवानुभ्रामितुम् / अवबोद्धुमर्हस्यात्मानम् / सौदासः खल्वत्रभवान् /
2100 SK वैद्येक्षितानि कुशलैरुपकल्पितानि ग्राम्याण्यनूपजलजान्यथ जाङ्गलानि / मांसानि सन्ति कुरु तैर्हृदयस्य तुष्टिं निन्दावहाद्विरम साधु मनुष्यमांसात् // Jम्_३१.८८ //
2101 SK तूर्यस्वनान सजलतोयदनादधीरान् गीतस्वनं च निशि राज्यसुखं च तत्तत् / बन्धून् सुतान् परिजनं च मनोनुकूलं हित्वा कथं नु रमसे ऽत्र वने विविक्ते // Jम्_३१.८९ //
2102 SK चित्तस्य नार्हसि नरेन्द्र वशेन गन्तुं धर्मार्थयोरनुपरोधपथं भजस्व / एंको नृपान् युधि विजित्य समस्तसैन्यान् मा चित्तविग्रहविधौ परिकातरो भूः // Jम्_३१.८० //
2103 SK लोकः परो ऽपि मनुजाधिप नन्ववेक्ष्यस्तस्मात्प्रियं यदहितं च न तन्निषेव्यम् / यत्स्यात्तु कीर्त्यनुपरोधि मनोज्ञमार्गं तद्विप्रियं सदपि भेषजवद्भजस्व // Jम्_३१.९१ //
2104 SK अथ सौदासः प्रसादाश्रुव्याप्तनयनो गद्गदायमानकङ्ठः समभिसृत्यैव बोधिसत्त्वं पादयोः संपरिष्वज्योवाच -
2105 SK गुणकुसुमरजोभिः पुण्यगन्धिः समन्ताज्जगदिदमवकीर्णं कारणे त्वद्यशोभिः / इति विचरति पापे मृत्युदूतोग्रवृत्तौ त्वमिव हि क इवान्यः सानुकम्पो मयि स्यात् // Jम्_३१.९२ //
2106 SK शस्ता गुरुश्च मम दैवतमेव च त्वं मूर्ध्ना वचांस्यहममूनि तवार्चयामि / भोक्ष्ये न चैव सुतसोम मनुष्यमांसं यन्मां यथा वदसि तच्च तथा करिष्ये // Jम्_३१.९३ //
2107 SK नृपात्मजा यङनिमित्तमाहृता मया च ये बन्धनखेदपीडिताः / हतत्विषः शोकपरीतमानसास्तदेहि मुञ्चाव सहैव तानपि // Jम्_३१.९४ //
2108 SK अथ बोधिसत्त्वस्तथेत्यस्मै प्रतिश्रुत्य यत्र ते नृपसुतास्तेनावरुद्धास्तत्रैवाभिजगाम / दृष्टै व च ते नृपसुताः सुतसोमं हन्त मुक्ता वयमिति परं हर्षमुपजग्मुः /
2109 SK विरेजिरे ते सुतसोमदर्शनान्नरेन्द्रपुत्राः स्फुटहासकान्तयः / शरन्मुखे चन्द्रकरोपबृहिता विजृम्भमाणाः कुमुदाकरा इव // Jम्_३१.९५ //
2110 SK अथैनानभिगम्य बोधिसत्त्वः समाश्वासयन् प्रियवचनपुरःसरं च प्रतिसंमोद्य सौदासस्याद्रोहाय शपथं कारयित्वा बन्धनाद्विमुच्य सार्धं सौदासेन तैश्च नृपतिपुत्रैरनुगम्यमानः स्वं राज्यमुपेत्य यथार्हकृतसंस्कारांस्तान् राजपुत्रान् सौदासं च स्वेषु स्वेषु राज्येषु प्रतिष्ठापयामास /
2111 SK तदेवं श्रेयः समाधत्ते यथातथाप्युपनतः सत्संगम इति श्रेयो ऽर्थिना सज्जनसमाश्रयेण भवितव्यम् / एवमसंस्तुतहृत्पूर्वजन्मस्वप्युपकारपरत्वाद् बुद्धो भगवानिति तथागतवर्णे ऽपि वाच्यम् / एवं सद्धर्मश्रवणं दोषापचयाय गुणसमाधानाय च भवतीति सद्धर्मश्रवणे ऽपि वाच्यम् / श्रुतप्रशंसायामपि वाच्यम् - एवमनेकानुशंसं श्रुतमिति / सत्यकथायामपि वाच्यम् - एवं सज्जनेष्टं पुण्यकीर्त्याकरं सत्यवचनमित्येवं स्वप्राणसुखेश्वर्यनिरपेक्षाः सत्यमनुरक्षन्ति सत्पुरुषा इति / सत्यप्रशंसायामप्युपनेयं करुणावर्णे ऽपि चेति /
2112 SK // इति सुतसोमजातकमेकत्रिंशत्तमम् //
2114 SK राजलक्ष्मीरपि श्रेयोमार्गं नावृणोति संविग्नमानसानामिति संवेगपरिचयः कार्यः / तद्यथानुश्रूयते -
2115 SK बोधिसत्त्वभूतः किलायं भगवान् व्याधिजरामरणप्रियविप्रयोगादिव्यसनशतोपनिपातं दुःखितमनाथमत्राणमपरिणायकं लोकमवेक्ष्य करुणया समुत्साह्यमानस्तत्परित्राणव्यवसितमतिरतिसाधुस्वभावस्तत्तत्संपादयमानो विमुखस्यासंस्तुतस्यापि च लोकस्य हितं सुखविशेष च कदाचिदन्यतमस्मिन् राजकुले प्रजानुरागसौमुख्यादस्खलिताभिवृद्ध्या च समृद्ध्या समानतदृप्तसामन्तया चाभिव्यज्यमानमहाभाग्ये विनयश्लाघिनि जन्म प्रतिलेभे / स जायमान एव तद्राजकुलं तत्समानसुखदुःखं च पुरवरं परयाभ्युदयश्रिया सम्योजयामास /
2116 SK प्रतिग्रहव्याकुलतुष्टविप्रं मदोद्धताभ्युज्ज्वलवेषभृत्यम् / अनेकतूर्यस्वनपूर्णकूजमानन्दनृत्तानयवृत्ताभावम् // Jम्_३२.१ //
2117 SK संसक्तगीतद्रवहासनादं परस्पराश्लेषविवृद्धहर्षम् / नरैः प्रियाख्यानकदानतुष्टैराशास्यमानाभ्युदयं नृपस्य // Jम्_३२.२ //
2118 SK विघट्टितद्वारविमुक्तबन्धनं समुछ्रिताग्रध्वजचित्रचत्वरम् / विचूर्णपुष्पासवसिक्तभूतलं बभार रम्यां पुरमुत्सवश्रियम् // Jम्_३२.३ //
2119 SK महागृहेभ्यः प्रविकीर्यमाणैर्हिरण्यवस्त्राभरणादिवर्षैः / लोकं तदा व्याप्तुमिवोद्यता श्रीरुन्मत्तगङ्गाललितं चकार // Jम्_३२.४ //
2120 SK तेन च समयेन तस्य राज्ञो जाता जाताः कुमारा म्रियन्ते स्म / स तं विधिममानुषकृतमिति मन्यमानस्तस्य तनयस्य रक्षार्थं मणिकाञ्चनरजतभक्तिचित्रे श्रीमति सर्वायसे प्रसूतिभवने भूतविद्यापरिदृष्टेन वेदविहितेन च क्रमेण विहितरक्षोध्नप्रतीकारे समुचितैश्च कौतुकमङ्गलैः कृतस्वस्त्ययनपरिग्रहे जातकर्मादिसंस्कारविधिं संवर्धनं च कारयामास / (Vऐद्य २३४) तमपि च महासत्त्वं सत्त्वसंपत्तेः पुण्योपचयप्रभावात्सुसंविहितत्वाच्च रक्षाया नामानुषाः प्रसेहिरे / स कालक्रमादवाप्तसंस्कारकर्मा श्रुताभिजनाचारमहद्भ्यो लब्धविद्वद्यशःसंमाननेभ्यः प्रशमविनयमेधागुणावर्जितेभ्यो गुरुभ्यः समधिगतानेकविद्यः प्रत्यहमापूर्यमाणमूर्तिर्यौवनकान्त्या निसर्गसिद्धेन च विनयानुरागेण परं प्रेमास्पदं स्वजनस्य जनस्य च बभूव /
2121 SK असंस्तुतमसंबन्धं दुरस्थमपि सज्जनम् / जनो ऽन्वेति सुहृत्प्रीत्या गुणश्रीस्तत्र करणम् // Jम्_३२.५ //
2122 SK हासभूतेन नभसः शरद्विकचरश्मिना / संबन्धसिद्धिर्लोकस्य का हि चन्द्रमसा सह // Jम्_३२.६ //
2123 SK अथ स महासत्त्वः पुण्यप्रभावसुखोपनतैर्दिव्यकल्पैरनल्पैरपि च विषयैरुपलाल्यमानः स्नेहबहुमानसुमुखेन च पित्रा विश्वासननिर्विशङ्कं दृश्यमानः कदाचित्स्वस्मिन् पुरवरे प्रविततरमणीयशोभां कलक्रमोपनतां कौमुदीविभूतिं दिदृक्षुः कृताभ्यनुज्ञः पित्रा काञ्चनमणिरजतभक्तिचित्रालंकारं समुच्छ्रितनानाविधरागप्रचलितोज्ज्वलपताकध्वजं हैमभाण्डाभ्यलंकृतविनीतचतुरतुरंगं दक्षदाक्षिण्यनिपुणशुचिविनीतधीरसारथिं चित्रोज्ज्वलवेषप्रहरणावरणानुयात्रं रथवरमधिरुह्य मनोङतूर्यस्वनपुरःसरस्तत्पुरवरमनुविचरंस्तद्दर्शनाक्षिप्तहृदयस्य कौतूहललोलचक्षुषः स्तुतिसभाजनाञ्जलिप्रग्रहप्रणामाशीर्वचनप्रयोगसव्यापरस्योत्सवरम्यतरवेषरचनस्य पौरजानपदस्य समुदयशोभामालोक्य लब्धप्रहर्षावकाशे ऽपि मनसि कृतसंवेगपरिचयत्वात्पूर्वजन्मसु स्मृतिं प्रतिलेभे /
2124 SK कृपणा बत लोकस्य चलत्वविरसा स्थितिः / यदियं कौमुदीलक्ष्मीः स्मर्तव्यैव भविष्यति // Jम्_३२.७ //
2125 SK एवंविधायां च जगत्प्रवृत्तावहो यथा निर्भयता जनानाम् / यन्मृत्युनाधिष्ठितसर्वमार्गा निःसंभ्रमा हर्षमनुभ्रमन्ति // Jम्_३२.८ //
2126 SK अवार्यवीर्येष्वरिषु स्थितेषु जिघांसया व्याधिजरान्तकेषु / अवश्यगम्ये परलोकदुर्गे हर्षावकाशो ऽत्र सचेतसः कः // Jम्_३२.९ //
2127 SK स्वनानुकृत्येव महार्णवानां संरम्भरौद्राणि जलानि कृत्वा / मेघास्तडिद्भासुरहेममालाः संभूय भूयो विलयं व्रजन्ति // Jम्_३२.१० //
2128 SK तटैः समं तद्विनिबद्धमूलान् हृत्वा तरूंल्लब्धजवैः पयोभिः / भवन्ति भूयः सरितः क्रमेन शोकोपतापादिव दिनरूपाः // Jम्_३२.११ //
2129 SK हृत्वापि शृङ्गाणि महीधराणां वेगेन वृन्दानि च तोयदानाम् / विघूर्ण्य चोद्वर्त्य च सागराम्भः प्रयाति नाश पवनप्रभावः // Jम्_३२.१२ //
2130 SK दिप्तोद्धतार्चिर्विकसत्स्फुलिङ्गः संक्षिप्य कक्षं क्षयमेति वह्निः / क्रमेण शोभाश्च वनान्तराणामुद्यन्ति भूयश्च तिरोभवन्ति // Jम्_३२.१३ //
2131 SK कः संप्रयोगो न वियोगनिष्ठः काः संपदो या न विपत्परैति / जगत्प्रवृत्ताविति चञ्चलायामप्रत्यवेक्ष्यैव जनस्य हर्षः // Jम्_३२.१४ //
2132 SK इति स परिगणयन् महात्मा संवेगाद्व्यावृत्तप्रमोदौद्धवेन मनसा रमणीयेष्वपि पुरवरविभूषार्थमभिप्रसारिषु लोकचित्रेष्वविषज्यमानबुद्धिः क्रमेण स्वभवनमनुप्राप्तमेवात्मानमपश्यत् / तदभिवृद्धसंवेगश्च विषयसुखेष्वनास्थो धर्म एकः शरणमिति तत्प्रतिपत्तिनिश्चितमतिर्यथाप्रस्तावमभिगम्य राजानं कृताञ्जलिस्तपोवनगमनायानुज्ञामयाचत -
2133 SK प्रव्रज्यासंश्रयात्कर्तुमिच्छामि हितमात्मनः / कृतां तत्राभ्यनुज्ञां च त्वयानुग्रहपद्धतिम् // Jम्_३२.१५ //
2134 SK तच्छ्रत्वा प्रियतनयः स तस्य राजा दिग्धेन द्विरद इवेषुणाभिविद्धः / गम्भीरो ऽप्युदधिरिवानिलावधूतस्तच्छोकव्यथितमनाः समाचकम्पे // Jम्_३२.१६ //
2135 SK निवारयिष्यन्नथ तं स राजा स्नेहात्पष्वज्य सबाष्पकण्ठः / उवाच कस्मात्सहसैव तात संत्यक्तुमस्मान् मतिमित्यकार्षीः // Jम्_३२.१७ //
2136 SK त्वदप्रियेणात्मविनाशहेतुः केनायमित्याकलितः कृतान्तः / शोकाश्रुपर्याकुललोचनानि भवन्तु कस्य स्वजनाननानि // Jम्_३२.१८ //
2137 SK अथापि किंचित्परिशङ्कितं वा मयि व्यलीकं समुपश्रुतं वा / तद्ब्रूहि यावद्विरमामि तस्मात्पश्यामि न त्वात्मनि किंचिदीदृक् // Jम्_३२.१९ //
2139 SK इत्यभिस्नेहसुमुखे व्यलीकं नाम किं त्वयि / विप्रियेण समर्थः स्यान्मामासादयितुं च कः // Jम्_३२.२० //
2140 SK अथ किं तर्हि नः परित्युअक्तुमिच्छसीति चाभिहितः साश्रुनयनेन राज्ञा स महासत्त्वस्तमुवाच - मृत्युभयात् / पश्यतु देवः,
2141 SK यामेव रात्रिं प्रथमामुपैति गर्भे निवासं नरवीर लोकः / ततः प्रभृत्यस्खलितप्रयाणः स प्रत्यहं मृत्युसमीपमेति // Jम्_३२.२१ //
2142 SK नीतौ सुयुक्तो ऽपि बले स्थितो ऽपि नात्येति कश्चिन्मरणं जरां वा / उपद्रुतं सर्वमितीदमाभ्यां धर्मार्थमस्माद्वनमाश्रयिष्ये // Jम्_३२.२२ //
2143 SK व्यूढान्युदीर्णनरवाजिरथद्विपानि सैन्यानि दर्परभसाः क्षितिपा जयन्ति / जेतुं कृता तरिपुमेकमपि त्वशक्तास्तन्मे मतिर्भवति धर्ममभिप्रपत्तुम् // Jम्_३२.२३ //
2144 SK हृष्टाश्वकुञ्जरपदातिरथैरनीकैर्गुप्ता विमोक्षमुपयानि नृपा द्विषद्भ्यः / सार्धं बलैरतिबलस्य तु मृत्युशत्रोर्मन्वादयो ऽपि विवशा वशमभ्युपेताः // Jम्_३२.२४ //
2145 SK संचूर्ण्य दन्तमुसलैः पुरगोपुराणि मत्ता द्विपा युधि रथांश्च नरान् द्वीपांश्च / नैवान्तकं प्रतिमुखाभिगतं नुदन्ति वप्रान्तलब्धविजयैरपि तैर्विषाणैः // Jम्_३२.२५ //
2146 SK दृढचित्रवर्मकवचावरणान् युधि दारयन्त्यपि विदूरचरान् / इषुभिस्तदस्त्रकुशला द्विषतश्चिरवैरिणं न तु कृतान्तमरिम् // Jम्_३२.२६ //
2147 SK सिंहा विकर्तनकरैर्नखरैर्द्विपानां कुम्भाग्रमग्नशिखरैः प्रशमय्य तेजः / भित्त्वैव च श्रुतमनांसि रवैः परेषां मृत्युं समेत्य हतदर्पबलाः स्वपन्ति // Jम्_३२.२७ //
2148 SK दोषानुरूपं प्रणयन्ति दण्डं कृतापराधेषु नृपाः परेषु / महापराधे यदि मृत्युशत्रौ न दण्डनीतिप्रवणा भवन्ति // Jम्_३२.२८ //
2149 SK नृपाश्च सामादिभिरप्युपायैः कृतपराधं वशमानयन्ति / रौद्रश्चिराभ्यासदृढावलेपो मृत्युः पुनर्नानुनयादिसाध्यः // Jम्_३२.२९ //
2150 SK क्रोधानलज्वलितघोरविषाग्निगर्भैर्दंष्ट्राङ्करैरभिदशन्ति नरान् भुजंगाः / दंष्टव्ययत्नविधुरास्तु भवन्ति मृत्यौ वध्ये ऽपि नित्यमपकारविधानदक्षे // Jम्_३२.३० //
2151 SK दष्टस्य कोपरभसैरपि पन्नगैश्च मन्त्रैर्विषं प्रशमयन्त्यगदैश्च वैद्याः / आशीविषस्त्वतिवीषो ऽयमरिष्टदंष्ट्रो मन्त्रगदादिभिरसाध्यबलः कृतान्तः // Jम्_३२.३१ //
2152 SK पक्षानिलैर्ललितमीनकुलं व्युदस्य मेघौघभीमरसितं जलमर्णवेभ्यः / सर्पान् हरन्ति विततग्रहणाः सुपर्णा मृत्युं पुनः प्रमथितुं न तथोत्सहन्ते // Jम्_३२.३२ //
2153 SK भीतद्रुतानपि जवातिशयेन जित्वा संसाद्य चैकभुजवज्रविलासवृत्त्या / व्याघ्राः पिबन्ति रुधिराणि वने मृगाणां नैवंप्रवृत्तिपटवस्तु भवन्ति मृत्यौ // Jम्_३२.३३ //
2154 SK दष्ट्राकरालमपि नाम मृगः समेत्य वैयाघ्रमाननमुपैति पुनर्विमोक्षम् / मृत्योर्मुखं तु पृथुरोगजरार्तिदंष्ट्रं प्राप्तस्य कस्य च पुनः शिवतातिरस्ति // Jम्_३२.३४ //
2155 SK पिबन्ति नॄणां विकृतोग्रविग्रहा शौजसायूंषि दृढग्रहा ग्रहाः / भवन्ति तु प्रस्तुतमृत्युविग्रहा विपन्नदर्पोत्कटतापरिग्रहाः // Jम्_३२.३५ //
2156 SK पूजारतद्रोहकृते ऽभ्युपेतान् ग्रहान्नियच्छन्ति स सिद्धविद्याः / तपोबलस्वस्त्ययनौषधैश्च मृत्युग्रहस्त्वप्रतिवार्यं एव // Jम्_३२.३६ //
2157 SK मायाविधिज्ञाश्च महासमाजे जनस्य चक्षुंषि विमोहयन्ति / को ऽपि प्रभावस्त्वयमन्तकस्ययद्भ्राम्यते तैरपि नास्य चक्षुः // Jम्_३२.३७ //
2158 SK हत्वा विषाणि च तपोबलसिद्धमन्त्रा व्याधीन्नृणामुपशमय्य च वैद्यवर्याः / धन्वन्तरिप्रभृतयो ऽपि गता विनाशं धर्माय मे नमति तेन मतिर्वनान्ते // Jम्_३२.३८ //
2159 SK आविर्भवन्ति च पुनश्च तिरोभवन्ति गच्छन्ति वानिलपथेन महीं विशन्ति / विद्याधरा विविधमन्त्रबलप्रभावा मृत्युं समेत्य तु भवन्ति हतप्रभावाः // Jम्_३२.३९ //
2160 SK दृप्तानपि प्रतिनुदन्त्यसुरान् सुरेन्द्रा दृप्तानपि प्रतिनुदन्त्यसुराः सुरांश्च / मानाधिरूढमतिभिः सुमुदीर्णसैन्यैस्तैः संहतैरपि तु मृत्युरजय्य एव // Jम्_३२.४० //
2161 SK इमामवेत्याप्रतिवार्यरौद्रतां कृतान्तशत्रोर्भवने न मे मतिः / न मन्युना स्नेहपरिक्षयेण वा प्रयामि धर्माय तु निश्चितो वनम् // Jम्_३२.४१ //
2162 SK राजोवाच - अथ वने तव क आश्वासः एवमप्रतिक्रिये मृत्युभये सति धर्मपरिग्रहे च /
2163 SK किं त्वा वने न समुपैष्यति मृत्युशत्रुर्धर्मे स्थिताः किमृषयो न वने विनष्टाः / सर्वत्र नाम नियतः क्रम एष तत्र को ऽर्थो विहाय भवनं वनसंश्रयेण // Jम्_३२.४२ //
2165 SK कामं स्थितेषु भवने च वने च मृत्युर्धर्मात्मकेसु विगुणेषु च तुल्यवृत्तिः / धर्मात्मनां भवति न त्वनुतापहेतुधर्मश्च नाम वन एव सुख प्रपत्तुम् // Jम्_३२.४३ //
2167 SK प्रमादमदकन्दर्पलोभद्वेषास्पदे गृहे / तद्विरुद्धस्य धर्मस्य को ऽवकाशपरिग्रहः // Jम्_३२.४४ //
2168 SK विकृष्यमाणो बहुभिः कुकर्मभिः परिग्रहोपार्जनरक्षणाकुलः / अशान्तचेता व्यसनोदयागमैः कदा गृहस्थः शममार्गमेष्यति // Jम्_३२.४५ //
2169 SK वने तु संत्यक्तकुकार्यविस्तरः परिग्रहक्लेशविवर्जितः सुखी / शमैककार्यः परितुष्टमानसः सुखं च धर्मं च यशांसि चार्च्छति // Jम्_३२.४६ //
2170 SK धर्मश्च रक्षति नरं न धनं बलं वा धर्मः सुखाय महते न विभुतिसिद्धिः / धर्मात्मनश्च मुदमेव करोति मृत्युर्न ह्यस्ति दुर्गतिभयं निरतस्य धर्मे // Jम्_३२.४७ //
2171 SK क्रियाविशेषश्च यथा व्यवस्थितः शुभस्य पापस्य च भिन्नलक्षणः / तथा विपाको ऽप्यशुभस्य दुर्गतिश्चित्रस्य धर्मस्य सुखाश्रया गतिः // Jम्_३२.४८ //
2172 SK इत्यनुनीय स महात्मा पितरं कृताभ्यनुज्ञः पित्रा तृणवदपास्य राज्यलक्ष्मीं तपोवनाश्रयं चकार / तत्र च ध्यानान्यप्रमाणानि चोत्पाद्य तेषु च प्रतिष्ठाप्य लोकं ब्रह्मलोकमधिरोह /
2173 SK तदेवं संविग्नमनसां राजलक्ष्मीरपि श्रेयोमार्गं नावृणोतीति संवेगपरिचयः कार्यः / मरणसंज्ञावर्णे ऽपि वाच्यम् - एवमाशुमरणसंज्ञा संवेगाय भवतीति / तथा मरणानुस्मृतिवर्णे ऽनित्यताकथायामप्युपनेयम् - एवमनित्याः सर्वसंस्कारा इति / तथा सर्वलोके ऽनभिरतिसंज्ञायाम् - एवमनाश्वासिकं संस्कृतमिति / एवमत्राणो ऽयमसहायश्च लोक इत्येवमपि वाच्यम् / एवं वने धर्मः सुखं प्रतिपत्तुं न गेह इत्येवमप्युन्नेयम् /
2174 SK // इति अयोगृहजातकं द्वात्रिंशत्तमम् //
2176 SK सति क्षन्तव्ये क्षमा स्यान्नासतीत्यपकारिणामपि साधवो लाभमिव बहु मन्यन्ते / तद्यथानुश्रूयते -
2177 SK बोधिसत्त्वः किलान्यतमस्मिन्नरण्यप्रदेशे पङ्कसंपर्कात्परुषवपुर्णीलमेघविच्छेद इव पादचारी वनमहिषवृषो बभूव / स तस्यां दुर्लभधर्मसंज्ञायां संमोहबहुलायामपि तिर्यग्गतौ वर्तमानः पटुविज्ञानत्वान्न धर्मचर्यानिरुद्योगमतिर्बभूव /
2178 SK चिरानुवृत्त्येवः निबद्धभावा न तं कदाचित्करुणा मुमोच / को ऽपि प्रभाव स तु कर्मणो वा तस्यैव वा यत्स तथा बभूव // Jम्_३३.१ //
2179 SK अतश्च नूनं भगवानवोचदचिन्त्यतां कर्मविपाकयुक्तेः / कृपात्मकः सन्नपि यत्स भेजे तिर्यग्गतिं तत्र च धर्मसंज्ञाम् // Jम्_३३.२ //
2180 SK विना न कर्मास्ति गतिप्रबन्धः शुभं न चानिष्टविपाकमस्ति / स धर्मसंज्ञीपि तु कर्मलेशांस्तांस्तान् समासाद्य तथा तथासीत् // Jम्_३३.३ //
2181 SK अथान्यतमो दुष्टवानरस्तस्य कालान्तराभिव्यक्तां प्रकृतिभद्रतां दयानुवृत्त्या च विगतक्रोधसंरम्भतामवेत्य नास्माद्भयमस्तीति तं महासत्त्वं तेन तेन विहिंसाक्रमेण भृशतरमबाधत /
2182 SK दयामृदुषु दुर्जनः पटुतरावलेपोद्भवः परां व्रजति विक्रियां न हि भयं ततः पश्यति / यतस्तु भयशङ्कया सुकृशयापि संस्पृश्यते विनीत इव नीचकैश्चरति तत्र शान्तोद्धवः // Jम्_३३.४ //
2183 SK स कदाचित्तस्य महासत्त्वस्य विस्रब्धप्रसुप्तस्य निद्रावशाद्वा प्रचलायतः सहसैवोपरि निपतति स्म / द्रुममिव कदाचिदेनमधिरुह्य भृशं संचालयामास / क्षुधितस्यापि कदाचिदस्य मार्गमावृत्य व्यतिष्ठत / काष्थेणाप्येनमेकदा श्रवणयोर्घट्टयामास / सलिलावगाहनसमुत्सुकस्याप्यस्य कदाचिच्छिरः समभिरुह्य पाणिभ्यां नयने समावव्रे / अप्येनमधिरुह्य समुद्यतदण्डः (Vऐद्य २४२) प्रसह्यैव वाहयन् यमस्य लीलामनुचकार / बोधिसत्त्वो ऽपि महसत्त्वः सर्वं तदस्याविनयचेष्टितमुपकारमिव मन्यमानो निःसंक्षोभसंरम्भमन्युर्मर्षयामास /
2184 SK स्वभाव एव पापानां विनयोन्मार्गसंश्रयः / अभ्यासात्तत्र च सतामुपकार इव क्षमा // Jम्_३३.५ //
2185 SK अथ किलान्यतमो यक्षस्तमस्य परिभवममृष्यमानो भावं वा जिज्ञासमानस्तस्य महासत्त्वस्य तेन दुष्टकपिना वाह्यमानं तं महिषवृषभं मार्गे स्थित्वेदमुवाचमा तावद्भोः किं परिक्रीतो ऽस्यनेन दुष्टकपिना? अथ द्यूते पराजितः? उताहो भयमस्मात्किंचिदाशङ्कसे? उताहो बलमात्मगतं नावेषि यदेवमनेन परिभूय वाह्यसे? ननु भोः
2186 SK वेगाविद्धं त्वद्विषाणाग्रवज्रं वज्रं भिन्द्याद्वज्रवद्वा नगेन्द्रान् / पादाश्चेमे रोषसंरम्भमुक्ता मज्जेयुस्ते पङ्कवच्छैलपृष्ठे // Jम्_३३.६ //
2187 SK इदं च शैलोपमसंहतस्थिरं समग्रशोभं बलसंपदा वपुः / स्वभावसौजस्कनिरीक्षितोर्जितं दुरासदं केसरिणो ऽपि ते भवेत् // Jम्_३३.७ //
2188 SK मथान धृत्वा तदिमं क्षुरेण वा विषाणकोट्या मदमस्य वोद्धर / किमस्य जालमस्य कपेरशक्तवत्प्रबाधनादुःखमिदं तितिक्षसे // Jम्_३३.८ //
2189 SK असज्जनः कुत्र यथा चिकित्स्यते गुणानुवृत्त्या सुखशीलसौम्यया / कटुष्णरूक्षाक्षि हि यत्र सिद्धये कफात्मको रोग इव प्रसर्पति // Jम्_३३.९ //
2190 SK अथ बोधिसत्त्वस्तं यक्षमवेक्षमाणः क्षमापक्षपतितमरूक्षाक्षरमित्युवाच -
2191 SK अवैम्येनं चलं नूनं सदा चाविनये रतम् / अत एव मया त्वस्य युक्तं मर्षयितुं ननु // Jम्_३३.१० //
2192 SK प्रतिकर्तुमशक्तस्य क्षमा का हि बलीयसि / विनयाचारशीरेषु क्षन्तव्यं किं च साधुषु // Jम्_३३.११ //
2193 SK शक्त एव तितिक्षते दुर्बलस्खलितं यतः / वरं परिभवस्तस्मान्न गुणानां पराभवः // Jम्_३३.१२ //
2194 SK असत्क्रिया हीनबलाश्च्च नाम निर्देशकालः परमो गुणानाम् / गुणप्रियस्तत्र किमित्यपेक्ष्य स्वधैर्यभेदाय पराक्रमेत // Jम्_३३.१३ //
2195 SK नित्यं क्षमायाश्च ननु क्षमायाः कालः परायत्तया दुरापः / परेण तस्मिन्नुपपादिते च तत्रैव कोपप्रण कोपप्रणक्रमः कः // Jम्_३३.१४ //
2196 SK स्वां धर्मपीडामविचिन्त्य यो ऽयं मत्पापशुद्ध्यर्थिमिव प्रवृत्तः / न चेत्क्षमामप्यहमत्र कुर्यामन्य कृतघ्नो बत कीदृशः स्यात् // Jम्_३३.१५ //
2197 SK यक्ष उवाच - तेन हि न त्वमस्याः कचाचित्प्रबाधनाया मोक्ष्यसे -
2198 SK गुणेष्वबहुमानस्य दुर्जनस्याविनीतताम् / क्षमानैर्भृत्यमत्यक्त्वा कः संकोचयितुं प्रभुः // Jम्_३३.१६ //
2200 SK परस्य पीडाप्रणयेन यत्सुखं निवारणं स्यादसुखोदयस्य वा / सुखार्थिनस्तन्न निषेवितुं क्षमं न तद्विपाको हि सुखप्रसिद्धये // Jम्_३३.१७ //
2201 SK क्शमाश्रयादेवमसौ मयर्थतः प्रबोध्यमानो यदि नावगच्छति / निवारयिष्यन्ति त एनमुत्पथादमर्षिणो यानयमभ्युपैष्यति // Jम्_३३.१८ //
2202 SK असत्क्रियां प्राप्य च तद्विधाज्जनान्न मादृशे ऽप्येवमसौ करिष्यति / न लब्धदोषो हि पुनस्तथाचरेदतश्च मुक्तिर्मम सा भविषय्ति // Jम्_३३.१९ //
2203 SK अथ यक्षस्तं महासत्त्वं प्रसादविस्मयबहुमानावर्जितमतिः साधु साध्विति सशिरःप्रकम्पाङ्गलिविक्षेपमभिसंराध्य तत्तत्प्रियमुवाच -
2204 SK कुतस्तिरश्चामियमीदृशी स्थितिर्गुणेष्वसौ चादरविस्तरः कुतः / कयापि बुद्ध्या त्विदमास्थितो वपुस्तपोवने को ऽपि भवांस्तपस्यति // Jम्_३३.२० //
2205 SK इत्येनमभिप्रशस्य तं चास्य दुष्टवानरं पृष्ठादवधूय समादिश्य चास्य रक्षाविधानं तत्रैवान्तर्दधे /
2206 SK तदेवं सति क्षन्तव्ये क्षमा स्यान्नासतीत्यपकारिणमपि साधवो लाभमिव बहु मन्यन्ते इति क्षान्तिकथायां वाच्यम् / एवं तिर्यग्गतानां बोधिसत्त्वानां प्रतिसंख्यानसौष्ठवं दृष्टम् / को नाम मनुष्यभूतः प्रव्रजितप्रतिज्ञो वा तद्विकलः शोभेत? इत्येवमपि वाच्यम् / तथगतवर्णे सत्कृत्य धर्मश्रवणे चेति /
2207 SK इति महिषजातकं त्रयस्त्रिंशत्तमम् //
2209 SK प्रोत्साह्यमानो ऽपि साधुर्नालं पापे प्रवर्तितुमनभ्यासात् / तद्यथानुश्रूयते -
2210 SK बोधिसत्त्वः किलान्यतमस्मिन् वनप्रदेशे नानाविधरागरुचिरचित्रपत्रः शतपत्रो बभूव / करुणापरिचयाच्च तदवस्थो ऽपि न प्राणिहिंसाकलुषां शतपत्रवृत्तिमनुववर्त /
2211 SK बालैः प्रवालैः स महीरुहाणां पुष्पाधिवासैर्मधुभिश्च ह्यद्यैः / फलैश्च नानारसगन्धवर्णैः संतोषवृत्तिं विभरांचकार // Jम्_३४.१ //
2212 SK धर्मं परेभ्यः प्रवदन् यथार्हमार्तान् यथाशक्ति समुद्धरंश्च / निवारयंश्चाविनयादनार्यानुद्भावयामास परार्थचर्याम् // Jम्_३४.२ //
2213 SK इति परिपाल्यमानस्तेन महासत्त्वेन तस्मिन् वनप्रदेशे सत्त्वकायः साचार्यक इव बन्धुमानिव सविद्य इव राजन्वानिव सुखमभ्यवर्धत /
2214 SK दयामहत्त्वात्परिपाल्यमानो वृद्धिं यथासौ गुणतो जगाम / स सत्त्वकायो ऽपि तथैव तेन संरक्ष्यमाणो गुणवृद्धिमाप // Jम्_३४.३ //
2215 SK अथ कदाचित्स महासत्त्वः सत्त्वानुकम्पया वनान्तराणि समनुविचरंस्तीव्रवेदनाभिभवाद्विचेष्टमानं दिग्धविद्धमिवान्यतमस्मिन् वनप्रदेशे रेणुसंपर्कव्याकुलमलिनके सरसटं सिहं ददर्श / समभिगम्य चैनं करुणया परिचोद्यमानः पप्रच्छ - किमिदं मृगराज? बाढं खल्वकल्यशरीरं त्वां पश्यामी /
2216 SK द्विपेषु दर्पातिरसानुवृत्त्या जवप्रसङ्गादथवा मृगेषु / कृतं तवास्वास्थ्यमिदं श्रमेण व्याधेषुणा वा रुजया कयाचित् // Jम्_३४.४ //
2217 SK तद् ब्रूहि वाच्यं मयि चेदिदं ते यदेव वा कृत्यमिहोच्यतां तत् / ममास्ति या मित्रगता च शक्तिस्तत्साध्यसौख्यस्य भवान् सुखी च // Jम्_३४.५ //
2218 SK सिंह उवाच - साधो पक्षिवर न मे श्रमजातमिदमस्वास्थ्यं रुजया व्याधेषुणा वा / इदं त्वस्थिशकलं गलान्तरे विलग्नं शल्यमिव मां भृशं दुनोति / न ह्येनच्छक्नोम्य भ्यवहर्तुमुद्गरितुं वा / तदेष कालः सुहृदाम् / यथेदानीं जानासि, तथा मां सुखिनं कुरुष्वेति /
2219 SK अथ बोधिसत्त्वः पटुविज्ञानत्वाद्विचिन्त्य शल्योद्धरणोपायं तद्वचनविष्कम्भप्रमाणं काष्ठमादाय तं सिंहमुवाच - या ते शक्तिस्तया सम्यक् तावत्स्वमुखं निर्व्यादेहीति / स तथा चकार / अथ बोधिसत्त्वस्तदस्य काष्ठं दन्तपाल्योरन्तरे सम्यग्निवेश्य प्रविश्य चास्य गलमूलं तत्तिर्यगवस्थितिमस्थिशकलं वदनाग्रेणाभिहृत्यैकस्मिन् प्रदेशे समुत्पादितशैथिल्यमितरस्मिन् परिगृह्य पर्यन्ते विचकर्ष / निर्गच्छन्नेव तत्तस्य वदनविष्कम्भणकाष्ठं निपातयामास /
2220 SK सुदृष्टकर्मा निपुणो ऽपि शल्यहृन्न तत्प्रयत्नादपि शल्यमुद्धरेत् / यदुज्जहारानभियोगसिद्धया स मेधया जन्मशतानुबद्धया // Jम्_३४.६ //
2221 SK उद्धृत्य शल्येन सहैव तस्य दुःखं च तत्संजनितां शुचं च / प्रीतः स शल्योद्धरणाद्यथासीत् प्रीतः सशल्योद्धरणात्तथासीत् // Jम्_३४.७ //
2222 SK धर्मता ह्येषा सज्जनस्य /
2223 SK प्रसाध्य सौख्यं व्यसनं निवर्त्य वा सहापि दुःखेन परस्य सज्जनः / उपैति तां प्रीतिविशेषसंपदं न यां स्वसौख्येषु सुखागतेष्वपि // Jम्_३४.८ //
2224 SK इति स महासत्त्वस्तस्य तद्दुःखमुपशमय्य प्रीतहृदयस्तमामन्त्र्य सिंहं प्रतिनन्दितस्तेन यथेष्टं जगाम /
2225 SK अथ स कदाचित्प्रविततरुचिरचित्रपत्रः शतपत्रः परिभ्रमन् किंचित्क्वचित् तद्विधमाहारजातमनासाद्य क्षुदग्निपरिगततनुस्तमेव सिंहमचिरहस्तस्य हरिणतरुणस्य मांसमुपभुञ्जानं तद्रुधिरानुरञ्जितवदननखरकेसराग्रं संध्याप्रभासमालब्धं शरन्मेघविच्छेदमिव ददर्श /
2226 SK कृतोपकारो ऽपि तु न प्रसेहे वक्तुं स याच्ञाविरसाक्षरं तम् / विशारदस्यापि हि तस्य लज्जा तत्कालमौनव्रतमादिदेश // Jम्_३४.९ //
2227 SK कार्यानुरोधात्तु तथापि तस्य चक्षुष्पथे ह्रीविधुरं चचार / स चानुपश्यन्नपि तं दुरात्मा निमन्त्रणामप्यकरोन्न तस्य // Jम्_३४.१० //
2228 SK शिलातले बीजमिव प्रकीर्णं हुतं च शान्तोष्मणि भस्मपुञ्जे / समप्रकारं फलयोगकाले कृतं कृतघ्ने विदुले च पुष्पम् // Jम्_३४.११ //
2229 SK अथ बोधिसत्त्वो नूनमयं मां न प्रत्यभिजानीत इति निर्विशङ्कतरः समभिगम्यैनमर्थिवृत्त्या प्रयुक्तयुक्ताशीर्वादः संविभागमयाचत -
2230 SK पथ्यमस्तु मृगेन्द्राय विक्रमार्जितवृत्तये / अर्थिसंमानमिच्छामि त्वद्यशःपुण्यसाधनम् // Jम्_३४.१२ //
2231 SK इत्याशीर्वादमधुरमप्युच्यमानो ऽथ सिंहः क्रौर्यमात्सर्यपरिचयादनुचितार्यवृत्तिः कोपाग्निदीप्तयातिपिङ्गलया दिधक्षन्निव विवर्तितया दृष्ट्या बोधिसत्त्वमीक्षमाण उवाच - मा तवद्भोः /
2232 SK दयाक्लैब्यं न यो वेद खादन विस्फुरतो मृगान् / प्रविश्य तस्य मे वक्त्रं यज्जीवसि न तद्बहु // Jम्_३४.१३ //
2233 SK मां पुनः परिभूयैवमासादयसि याच्ञया / जीवितेन नु खिन्नो ऽसि परं लोकं दिदृक्षसे // Jम्_३४.१४ //
2234 SK अथ बोधिसत्त्वस्तेन तस्य रूक्षाक्षरक्रमेण प्रत्याख्यानवचसा समुपजातव्रीडस्तत्रैव नभः समुत्पपात / पक्षिणो वयमित्यर्थतः पक्षविस्फारणशब्देनैनमुक्त्वा प्रचक्राम /
2235 SK अथान्यतमा वनदेवता तस्य तमसत्कारमसहमाना धैर्यप्रयामजिज्ञासया वा समुत्पत्य तं महासत्त्वमुवाच - पक्षिवर, कस्मादिममसत्कारमस्य दुरात्मनः कृतोपकारः / सन् संविद्यमानायां शक्तावपि मर्षयसि? को ऽर्थः कृतघ्नेनानेनैवमुपेक्षितेन?
2236 SK शक्तस्त्वमस्य नयने वदनाभिघाताद् विस्फूर्जितः प्रमथितुं बलशालिनो ऽपि / दंष्ट्रान्तरस्थमपि चामिषमस्य हर्तुं तन्मृष्यते किमयमस्य बलावलेपः // Jम्_३४.१५ //
2237 SK अथ बोधिसत्त्वस्तथाप्यसत्कारविप्रकृतः प्रोत्साह्यमानो ऽपि तया वनदेवतया स्वां प्रकृतिभद्रतां प्रदर्शयन्नुवाच - अलमलमनेन क्रमेण / नैष मार्गो ऽस्मद्विधानाम् / आर्ते प्रवृत्तिः साधूनां कृपया न तु लिप्सया / तामवैतु परो मा वा तत्र कोपस्य को विधिः // Jम्_३४.१६ //
2238 SK वञ्चना सा च तस्यैव यन्न वेत्ति कृतं परः / को हि प्रत्युपकारार्थी तस्य भूयः करिष्यति // Jम्_३४.१७ //
2239 SK उपकर्ता तु धर्मेण परतस्तत्फलेन च / योगमायाति नियमादिहापि यशसः शिर्या // Jम्_३४.१८ //
2240 SK कृतश्चेद्धर्म इत्येव कस्तत्रानुशयः पुनः / अथ प्रत्युपकारार्थमृणदानं न तत्कृतम् // Jम्_३४.१९ //
2241 SK उपकृतं किल वेत्ति न मे परस्तदपकारमिति प्रकरोति यः / ननु विशोध्य गुणैः स यशस्तनुं द्विरदवृत्तिमभिप्रतिपद्यते // Jम्_३४.२० //
2242 SK न वेत्ति चेदुपकृतमातुरः परो न योक्ष्यते ऽपि स गुणकान्तया श्रिया / सचेतसः पुनरथ को भवेत्क्रमः समुच्छ्रितं प्रमथितुमात्मनो यशः // Jम्_३४.२१ //
2243 SK इदं त्वत्र मे युक्तरूपं प्रतिभाति -
2244 SK यस्मिन् साधूपचीर्णे ऽपि मित्रधर्मो न लक्ष्यते / अनिष्ठुरमसंरब्धमपयायाच्छनैस्ततः // Jम्_३४.२२ //
2245 SK अथ सा देवता तत्सुभाषितप्रसादितमनाः साधु साध्विति पुनरुक्तमभिप्रशस्य तत्तत्प्रियमुवाच -
2246 SK ऋते जटावल्कलधारणश्रमाद्भवानृषिस्त्वं विदितायतिर्यतिः / न वेषमात्रं हि मुनित्वसिद्धये गुणैरुपेतस्त्विह तत्त्वतो मुनिः // Jम्_३४.२३ //
2247 SK इत्यभिलक्ष्य प्रतिपूज्यैनं तत्रैवान्तर्दधे /
2248 SK तदेवं प्रोत्साह्यमानो ऽपि साधुर्नालं पापे प्रवर्तितुमनभ्यासादिति सज्जनप्रशंसायां वाच्यम् / एवं क्षान्तिकथायामप्युपनेयम् - एवं क्षमापरिचयान्न वैरबहुलो भवति, नावद्यबहुलो बहुजनप्रियो मनोङश्चेति / एवं प्रतिसंख्यानबहुलाः स्वां गुणशोभामनुरक्षन्ति पण्डिता इति प्रतिसंख्यानवर्णे वाच्यम् / तथागतमाहात्म्ये च भद्रप्रकृत्यभ्यासवर्णे च - एवं भद्रप्रकृतिरभ्यस्ता तिर्यग्गतानामपि न निवर्तत इति /
2249 SK // इति शतपत्रजातकं चतुस्त्रिंशत्तमम् //
2250 SK // कृतिरियमार्यशूरपादानाम् //
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Āryaśūra: Jātakamālā (sa_AryazUra-jAtakamAlA.htm).
Source