Seventy Verses on Emptiness
Śūnyatāsaptati
Śऊन्यतासप्तति
SKस्वोपज्ञवृत्त्या समन्विता उत्पादस्थितिभङ्गास्तिनास्तिहीनसमोत्तमम् / लौकिकव्यवहारात्तु बुद्धेनोक्तं न तत्त्वतः
SKआत्मा कश्चिन्न चानात्मा ह्यात्मानात्मेतरश्च न / वाच्यः सर्वः स्वभावेन शून्यो निर्वाणसदृशः
SKहेतुप्रत्ययसामग्रयां सर्वस्यां वा पृथक् पृथक् / सर्वभावस्वभावो न तस्माच्छून्यं हि विद्यते
SKभावो नोत्पद्यते भावान् नाभावो ऽविद्यमानतः / सदसन्न विरोधान्न स्थितिभङ्गौ ह्यजातितः
SKन जायते यदा जातं नाजातमपि जायते / जाताजाताच्च नैवं हि जायमानो ऽपि जायते
SKफले स्यात् फलवान् हेतुः नास्तित्वे ऽहेतुना समः / सदसत्त्वे विरोधित्वं त्रैकाल्ये नोपपद्यते
SKनैकत्वे ऽनेकवृत्तिर्न नो ऽनेकत्वे हि नैकता / तत्प्रतीत्यसमुत्पन्नभावास्ते ह्यनिमित्तकाः
SKद्वादशाङ्गो ह्यनुत्पादः समुत्पादः प्रतीत्यजः / एकचित्ते न तद् युक्तं बहुष्वपि न युज्यते
SKआत्मा नास्ति न चानात्मा नित्यानित्ये दुःखं सुखम् / शुचिर्नाशुचिरप्यस्ति विपर्यासा न सन्त्यतः
SKतदभावे न चाविद्या विपर्यासचतुष्कजा / तदभावान्न संस्काराः स्युः शेषा अपि तादृशाः
SKसंस्कारे ऽसत्यविद्या न नैव स तदभावतः / परस्परं हेतुभूते स्वभावेन न सिध्यतः
SKस्वयं स्वभावतो ऽसिद्धं परंस्तज्जनयेत् कथम् / अतो ऽसिद्धपरैस्तैर्न जन्येरन् प्रत्ययैः परे
SKपिता पुत्रो न पुत्रो ऽपि पितान्योन्यं न तौ विना / तथा न युगपत्तौ हि द्वादशाङ्गं तथैव च
SKप्रतीत्य विषयान् स्वप्ने न स्याद् दुःखं सुखं यथा / विषयो न तथैवापि तं प्रतीत्य प्रतीत्यजः
SKस्वभावाद्धि न भावाश्चेदुत्तमाधममध्यमाः / नानात्वे ऽसति हेतुभ्यो ऽभिनिर्वृत्तिर्न सिध्यति
SKभावाः स्वभावतः सिद्धा नो ऽप्रतीत्य प्रतीत्य सत् / निःस्वभावाः कुतो भावाः स्वभावो ऽपि नस्थाप्यते
SKस्वभावपरभावौ वा भङ्गो ऽभावे ऽपि वा कुतः / स्वभावपरभावौ चाभावस्ते ऽतो विपर्ययाः
SKशून्यत्वे सति नोत्पादो निरोधो ऽपि न विद्यते / स्वभावशून्यतायां हि कुतः स्यादुदयव्ययौ
SKअभावे ऽसति भावो न भावाभावौ न चैकदा / ऋते भावं न चाभावो भावो ऽभावः सदा भवेत्
SKन स्वतो नापि परतो ऽभावो भावं विना न हि / अत एव न भावो ऽस्त्यभावो न तदभावतः
SKसति भावे शाश्वतत्वं व्युच्छेदस्तदभावतः / उभयं हि सतो भावाद् भावो ऽतो नाभ्युपेयते
SKसन्तानात्तन्न सन्तानं भावो निर्वर्त्य नश्यति / सिध्यतीदं न सन्तानोच्छेददोषश्च पूर्ववत्
SKदृष्ट्वा निर्वृत्तिमार्गोक्तिः शून्यत्वान्नोदयव्ययौ / अदो ऽन्योन्यविरोधाद्धि विरुद्धानं च दर्शनात्
SKयद्युत्पादनिरोधौ न निर्वाणं किन्निरोधतः / न निर्वाणमनुत्पादानिरोधौ यौ स्वभावतः?
SKनिरोधो यदि निर्वाणं ह्युच्छेदः शाश्वतो ऽन्यथा / तस्माद् भावो न चाभावो ऽप्यनुत्पादानिरोधता
SKकाचित्स्थितिर्हि निर्वाणमभावो ऽपि च तद् भवेत् / अभावे ऽपि हि तन्नैवाभावाभावे ऽपि तच्च न
SKन स्वतो लक्षणं लक्ष्याल्लक्ष्यं सिध्यति लक्षणात् / नाप्यन्योन्यमसिद्धस्यासिद्धो नैव हि साधकः
SKएतेन कारणं कार्यं वेदनावेदकादयः / दृश्यद्रष्ट्रादिकाः सर्वे के ऽपि चोक्ता अशेषतः
SKअस्थितेश्च मिथः सिद्धेः स्वतो ऽसिद्धेश्च सम्प्लवात् / भावाभावाच्च त्रैकाल्यमसन्मात्रं विकल्पना
SKउत्पादस्थितिभङ्गा न त्रयं संस्कृतलक्षणम् / तस्मान्न विद्यते किञ्चित्संस्कृतं नाप्यसंस्कृतम्
SKभग्नो न भज्यते ऽभग्नो ऽप्यस्थितस्य न च स्थितिः / स्थितस्यापि स्थितिर्नासन् संश्चाप्युत्पद्यते न हि
SKन सन्नासन्न सदसन्नैको नानेक इत्यपि / संस्कृतो ऽसंस्कृतः सर्वे कोटिष्वास्वेव ते गताः
SKअस्ति कर्मस्वकत्वं हि कर्मकर्मफलं तथा / कर्मणो ऽविप्रणाशश्च दिदेश भगवान् गुरुः
SKअनिरुद्धमनुत्पन्नं कर्मोक्तं निःस्वभावकम् / आत्मग्रहाद्धि तज्जातं जनको ऽपि विकल्पतः
SKयदि स्वभावतः कर्म तज्जः कायो ऽपि शाश्वतः / विपाकदुःखवन्न स्यात्, स्यादात्मैवापि कर्म च
SKकर्म प्रत्ययजं किञ्चिनास्त्यप्रत्ययजं न च / मायावत्सर्वसंस्काराः गन्धभुक्पुर्मरीचिवत्
SKक्लेशकारणकं कर्म संस्काराः क्लेशकर्मतः / कर्महेतुश्च कायो ऽपि त्रयं शून्यं स्वभावतः
SKकर्मण्यसति कर्ता न द्वयाभावे न तत्फलम् / तदभावे न भोक्ता स्यादसत्त्वाच्च विविक्तता
SKयो ऽपश्यत्कर्मशून्यत्वं सम्यग्ज्ञानेन कम न / कर्मण्यसति कर्मभ्यः समुत्पन्ना न सन्ति वै
SKनिर्मिमीते यथा ऋद्ध्या भगवांश्च तथागतः / तेन निर्मितकेनापि ह्यन्यो निर्मीयते पुनः
SKबुद्धनिर्मितकः शून्यः का तन्निर्मितके कथा / यत्किञ्चित्कल्पनामात्रसत्त्वं तच्चोभयोस्तथा
SKकर्ता निर्मितकेनेव कर्म निर्मितसदृशम् / शून्यं स्वभावतो यत्सत् कल्पनामात्रमेव तत्
SKकर्मकर्ता न निर्वाणं यदि कर्म स्वभावतः / इष्टानिष्टफलं न स्यात्तद्भावो यदि नास्ति वै
SKसच्चाप्यस्ति ह्यसच्चापि सदसच्चापि विद्यते / सुगमा न हि बुद्धानामाभिप्रायिकदेशना
SKरूपं चेद् भूततो जातं तद्रूपं स्यादतत्त्वतः / स्वभावान्न हि तन्नापि परतस्तदभावतः
SKएकस्मिन्न चतुःसत्त्वं सन्नैकं हि चतुर्ष्वपि / असच्चतुर्महाभूतापेक्षं रूपं क्व सिध्यति
SKलिङ्गादिति न तल्लिङ्गमत्यन्ताग्रहणान्ननु / हेतुप्रत्ययजं सत्त्वे न लिङ्गं नेति युज्यते
SKरूपस्य ग्रहणं चेत् स्यात्स्वस्वभावग्रहो भवेत् / असन्निमित्तया बुद्ध्या ह्यसद्रूपग्रहः कथम्
SKबुद्ध्या क्षणिकया रूपं नाप्यते क्षणिकं यदा / तदानागतरूपं चातीतं किमिव गृह्यते
SKकदापि वर्णसंस्थाने यदा नैव पृथक् पृथक् / नैकग्रहो हि भिन्नानां ह्युभे रूपं प्रसिध्यतः
SKन रूपे नापि मध्ये हि चक्षुर्बुद्धिर्न चक्षुषोः / चक्षुः प्रतीत्य रूपं च विपर्यासो विकल्पना
SKचक्षुः पश्यति नात्मानं रूपं पश्येन्नु तत्कथम् / चक्षुर्निरात्मकं रूपं शेषाण्यायतनान्यपि
SKचक्षुः स्वभावतः शून्यं शून्यञ्च परभावतः / शून्यं तथैव रूपञ्च शेषाण्यायतनान्यपि
SKसंस्पर्शेन सहैकं स्यात्तदान्येषां हि शून्यता / शून्यं नापेक्षते ऽशून्यं ह्यशून्यं चापि शून्यताम्
SKनास्ति स्वभावसंयोगः त्रिकमस्थितमप्यसत् / तत्स्वभावात्मसंस्पर्शो नास्त्यतो वेदनापि सत्
SKअन्तरायतनं प्राप्य विज्ञानं बाह्यमेव वा / जायते ऽतो न विज्ञानं शून्यं मायामरीचिवत्
SKविज्ञेयापेक्षयोत्पादाद्विज्ञानं नास्ति सद् ध्रुवम् / ज्ञातुश्चाविद्यमानत्वमसत्त्वाज्ज्ञानज्ञेययोः
SKकश्चिन्नित्यो ह्यनित्यो वानित्यं सर्वं च नास्ति वा / भावे नित्यं ह्यनित्यं वा कथङ्कारं तथा भवेत्
SKरागो द्वेषश्च मोहो हि चेष्टानिष्टविपर्ययैः / प्रत्ययजा ह्यतो रागो द्वेषो मोहश्च न स्वतः
SKयस्मिन् रागो भवेत्तस्मिन् द्वेषमोहौ यतस्ततः / विकल्पतो हि जायन्ते नो विकल्पो ऽपि तत्त्वतः
SKये विकल्प्या न ते सन्ति कल्प्याभावे क्व कल्पनम् / प्रत्ययैर्जनितत्त्वाद्धि शून्ये कल्प्यककल्पने
SKचतुर्विपर्ययै र्जाता नाविद्या तत्त्वदर्शनात् / तदभावे न संस्काराः स्युः शेषा अपि तादृशाः
SKयद्यत्प्रतीत्य यज्जातं तदभावे न तत्ततः / भावाभावाश्च संस्कारासंस्काराः शान्तनिर्वृताः
SKहेतुप्रत्ययजा भावाः कल्प्यन्ते ये च तत्वतः / प्रोक्ता शास्त्रा ह्यविद्या सा द्वादशाङ्गं ततो भवेत्
SKभावशून्यत्वसज्ज्ञानान्नाविद्या तत्त्वदर्शनात् / सो ह्यविद्यानिरोधो ऽतो द्वादशाङ्गं निरुध्यते
SKमायामरीचिगन्धर्वपुरबुद्बुदफेनवत् / संस्काराः स्वप्नसंकाशा विद्यन्ते ऽलातचक्रवत्
SKभावः स्वभावतः कश्चिन्नात्राभावो ऽपि विद्यते / हेतुप्रत्ययतो जातो भावो ऽभावश्च शून्यकः
SKसर्वभावस्वभावानां शून्यत्वादुपदिष्टवान् / सर्वे प्रतीत्यजा भावा इत्यतुल्यस्तथागतः
SKतन्मात्रः परमार्थो हि भगवान् बुद्ध उक्तवान् / लोकवर्तनमाश्रित्य सर्वं नाना यथार्थतः
SKलोकभासनभङ्गो न धर्मः कश्चिन्न तत्त्वतः / भीतो ऽज्ञो ऽकल्पनिर्हारे सौगते वचने त्वतः
SKइदम्प्रतीत्य चास्तीदं न रोधो लोकपद्धतेः / प्रतीत्यजः स निःसत्त्वः सन्त्येते निश्चयः कथम्
SKतत्त्वान्वीक्षारतः श्राद्ध उक्ते कुत्रापि न स्थितः / प्राप्य युक्त्या नयं शान्तः भावाभावप्रहाणतः
SKइदम्प्रत्ययताज्ञानात् दृष्टिजालविनिर्गतः / अस्पृष्टं याति निर्वाणं रागप्रतिघमोहहः
SKशून्यतासप्ततेर्वृत्तिः आचार्यनागार्जुनपादकृता समाप्ता //