SKनमः सर्वबुद्धबोधिसत्त्वेभ्यः
SKसर्वातीताद्यबुद्धानां जनकत्वात् पितरौ तथा / भक्त्या साधनधर्माश्च वाक्चित्ताभ्यां मुदा नतः
SKअचिन्त्यां महतीं बोधिं जिघृक्षुश्चेदनुत्तराम् / बोधेः साधननिष्ठत्वात् साधनं सारतो भजेत्
SKस च त्रिशरणं गत्त्वा निवार्य सकलाशुभान् / अधिशीलं भजेच्छुद्धं बोधिचित्तस्य वाहनम्
SKआश्रित्य कशया भूयस् ताडयन् मरणस्मृतेः / भवमार्ग महाभीतिं क्रामेतैनं च सत्वरम्
SKअभयबुद्धभूप्राप्तः प्रणिधानपदे स्थितः / सत्त्वसंवरमाधाय षट् च पारमितादिकाः
SKसत्त्वचर्याश्चरेत्तद्वत् तत्प्रज्ञोपायसङ्ग्रहम् / शिक्षेतास्थितनिर्वाणं तत्सारो द्विविधस्तथा
SKरागद्रर्यरहितो नित्यं पावकार्थी तथारणिम् / भावयेत् सततं भक्त्या बुद्धः शीघ्रं ततो भवेत्
SKपरार्थ मणिवन्नित्यम् अनाभोगं करोति सः / महायानस्य शिक्षेयुः धन्याः साधनसङ्ग्रहम्
SKचित्तं सुधालवैः रक्तं बुद्धय्शुद्धौ च दुःस्पृशम् / एतत्सङ्ग्रहपुण्येन जगद् यातु महापथम्
SKबुद्धभूमिमहं चाप्त्वा भवेयं लोकनायकः // १० अ ब //
SKऽअतिसंक्षिप्तमहायानपथसाधनंऽ महाचार्यदीपङ्करश्रीज्ञानविरचितं समाप्तम् //
SKभारतस्य तेनैव उपाध्याय-पण्डितेन लोकचक्षुषा भिक्षुणा कल्याणमतिना (द्गे वहि ब्लो ग्रोस्) च अनूद्य निर्णीतम् //