SK|| श्रीः || महानयप्रकाशः (प्. १) यस्याः क्रमाक्रमपदोज्झितवृत्तिरूपः (-पदोजत्सितनृ-) साक्षाद् विराजतितरां (-* रां) क्रमभूमिकान्तः | तां कामपि प्रगहनानुभवैकरूपां देवीं नमाम्यपटटङ्कमयप्रतिष्ठाम् || १/१ || विचक्षणैर्यद्यपि सम्ययुक्तो महार्थचक्रक्रमसम्प्रदायः | प्रकुर्वते हन्त तथापि युक्त्या यथान्वितः स्वानुभवाविलुप्तः || १/२ || स्वात्मस्वरूपमनिकेतनमप्रमेयं स्वाभासमच्छमविलुप्तमतिस्वतन्त्रम् | विश्वात्मकं तदतिवर्ति च यत् तदस्य मिथ्याविकल्पजनितौ किल बन्धमोक्षौ || १/३ || एवंविधं यदघिगन्तुमिहात्मतत्त्वम् मिथ्याविकल्पविभवोद्दलनं च सम्यक् | युक्तिं महानयमयीं न विहाय शक्यं सर्वोत्तमोत्तमतमो हि ततो महार्थः || १/४ || (प्. २) तस्यास्य सम्प्रति यथास्थितलोकयात्रा- रूपस्य सर्वविषयप्रतिपत्तियुक्त्या | उन्मील्यते कथनपूजनसंक्रमात्मा नित्याविलुप्तविभवो गुरुसम्प्रदायः || १/५ || इदमनुभवसारयुक्तिगर्भं गुरुमुखमुद्गतसंशयावसानम् | झटिति परपदाप्तयेऽन्तरं हृदि परिमृश्य निधीयते महद्भिः || १/६ || अतितीव्रंशक्तिपातादारूढे शाम्भवे समावेशे | स्वानन्दामृतरूपं जीवन्मुक्तेः प्रकल्पते विश्वम् || १/७ || अतिमात्रमध्यमृदुताभेदेनापि प्रवर्तमानस्य | सूक्ष्मेक्षिकाप्रकारो विलसति तस्यातिशक्तिपातस्य || १/८ ||
SKअनिदंप्रथमतया यद्विश्वगतं व्यापकं निजं रूपम् | अनुपाययोगयुक्त्या गुरुमुखदृष्टेन सम्प्रदायेन || १/९ || सर्वानुभवदशायां यदलुप्तः सर्वदा भवेत् पृथक् | तस्य स्वभावविलसद्विश्वमयस्य स्वरूपकिरणस्य || १/१० || सोऽयं पुराणाधिष्ठानः क्रमः क्रमविवर्जितः | महार्थस्य परा निष्ठा गलितस्वपरस्थितेः || १/११ || पुराणस्यादिसिद्धस्य यदधिष्ठानमात्मनः | गीतं पुराणाधिष्ठानं भाषयातु (-तत्) तदुत्तमम् (तू-) || १/१२ || युक्तिचर्यादिविक्षेपवासनाक्षोभवर्जितः | अनुपायक्रमः सोऽयं यस्य रूढः स (रूढस्य) योगिराट् || १/१३ || (प्. ३) सर्वावरणनिर्मुक्तो हानादानपदोज्झितः | स्थितये स्वस्वरूपस्य नान्यत् किञ्चिदपेक्षते || १/१४ || निर्विकल्पविकल्पादिसंविदोघसमाश्रया | या चितिस्तन्मयस्पर्शात् (चित-) परानन्दचमत्कृतिः (-तेः) || १/१५ || सा भूतव्योम वामेशी गुरुदृक्पातसाहसात् | पीठक्रमादौ सर्वत्र विशुद्धिस्तस्य जायते || १/१६ || अनपह्नवनीयस्य विश्वस्यास्य यथोदयः | स्थितिनाशौ स्वभावस्य स्वरूपे च विलेपनम् || १/१७ || निरावरणता चापि यथास्मिन् सति जायते | परानन्दचमत्कारचन्द्रिकाच्छान्तचेतसः || १/१८ || अत्र सर्वत्र विषये निर्विकल्पः प्रवर्तते | गुरुप्रसादाद् यज्ज्ञानं * * * * किलोच्यते || १/१९ ||
SKमहातिव्रतमे * * * * स्वानुभवस्थिते | कथनादिक्रमातीता विशुद्धिस्तत्र काशते || १/२० || महातीव्रतमे चास्मिन् प्रवृत्ते गुरुशासनात् | दृष्टादृष्टादिसङ्केतकथामात्रा प्रकाशते || १/२१ || प्रकाशन्ते (-ते) महातीव्रे व्यवहारदशासु याः (-दरासु याः) | प्रत्येकविषयावृत्त्या बहिरन्तर्मुखोदयाः || १/२२ || संविद्देव्यो महाव्योमसंघादित्रोटिताश्शलाः(?) | तासां पूजनविच्छित्त्या स्वरूपं सम्प्रकाशते || १/२३ || विकल्पवासनाशून्यप्ररूढस्वात्मसंविदः (-रूढस्सा-) | प्रथते कस्यचिज्ज्ञानमनपेक्षितसाधनम् || १/२४ || (प्. ४) उद्रिक्तनिर्विकल्पांशं मन्दमन्दविकल्पतः | प्रथते कस्यचिज्ज्ञानं सङ्केतादिकथाश्रयात् || १/२५ || पूजनादिक्रमापेक्षं संस्थिते (स्वं-) * * कस्यचित् | विकल्पसामनन्तर्यान्निर्विकल्पः प्रवर्तते || १/२६ || अप्रवृत्तस्य * * * शक्तिपातस्य या स्थितिः | अतिमात्रादिभेदेन ततोऽयमुदितः (-मुचितः) क्रमः || १/२७ || परधारासमारूढमाहेश्वर्यप्रदर्शकः | शक्तिपातक्रमो योऽयं महातीव्रतमादिकः || १/२८ || नान्यत्र स तथोद्दिष्ट इत्यतो गुरुगौरवात् | महानयक्रमे पूर्वं महाशब्दोऽर्थयुक्तिभाक् (उहाशब्दो-)|| १/२९ || कुलकौलादिकाम्नायशाक्तत्रिकमतादिषु | सरहस्यप्रप्रञ्चेषु स्वरूपस्थितिहेतुषु || १/३० ||
SKसिद्धान्ततन्त्रभेदेषु नान्योपायात्मकेषु च | स्थितेष्वपि च सोल्लेखो व्यापको हि महानयः || १/३१ || पौर्वापर्यपरिक्षीणा ये महार्थार्थिनः किल | अस्ति नान्या गतिस्तेषां विकल्पग्राससाहसात् || १/३२ || सुप्रबुद्धोऽनपेक्षोऽत्र प्रबुद्धोऽपेक्षते पुनः | सङ्केतादिकथामात्रं तथा चक्रप्रपूजनम् || १/३३ || दृष्टनष्टादि सङ्केतकथामात्रस्य मर्म यत् | तत् प्रपञ्चितमन्यत्र यदतः साम्प्रतं मनाक् || १/३४ || एतत्पूजनमक्रमक्रममयं पीठक्रमोपक्रमः चक्रोल्लासविभागयुक्तिघटनासत्सम्प्रदायोज्ज्वलः | (वक्रोल्लास- - घटनं-) (प्. ५) मा गाल्लुप्तमिहेदृशं (गा * * मिहे) गुरुमुखं कालक्रमादित्यतः सम्यक् * * * * * * * नवशादस्माभिरुन्मील्यते || १/३५ || इति श्रीमहानयप्रकाशे सर्ववैलक्षण्यप्रतिपादनो नाम प्रथमोल्लासः || अथ द्वितीय-उल्लासः | (प्. ५) परमरहस्या * * * गुरुवरमुखसम्प्रदायसद्बीजम् | पीठक्रमस्वरूपं नत्वा सन्तन्यते प्रथमम् || २/१ || यथास्थितं समाश्रित्य भूतभावात्मकं जगत् | पीठक्रमस्य संस्थानं कथ्यते हृदयङ्गमम् || २/२ || देवीचक्रस्य यः स्फारः पीठक्रमतया स्थितः | यागादिक्रमरूपेण रज्ज्ञप्तिर्गुरुणोच्यते || २/३ || प्राधान्येन स्थितो लोके व्यवहारः क्रियात्मकः | अतः पीठक्रमज्ञप्तिस्तन्मुखेनैव कथ्यते || २/४ ||
SKअनेनैवाशयेनादौ चरुप्राशनपूर्वकः | गुरुणा सम्प्रदायस्य भाजनं क्रियते पशुः || २/५ || पीठश्मशानक्षेत्रेशमेलयागात्मको हि यः | पीठक्रमोऽत्र पीठेभ्यो व्योमेश्वर्यादयः क्रमात् || २/६ || यः शून्यप्राणधीबुद्धिकर्मेन्द्रियचयात्मकः | कायो यश्च जडत्वेन बाह्येन विषयात्मना || २/७ || व्योम्न आरभ्य पृथिवीपर्यन्तेन व्यवस्थितः | अनन्तानुभवाधारसिद्धयोगिनिषेवितः || २/८ || (प्. ६) एतत्सङ्केतकस्थानमाश्रिताश्चिन्मरीचयः | दृश्यन्ते प्रकटं यस्मादसौ पीठक्रस्ततः || २/९ || कर्मेन्द्रियात्मनो यागाच्छून्यान्तं यावदास्थितः | उद्योगादिक्रमः काये बहिः पृथ्व्याद्यनुक्रमात् || २/१० || पूर्वं पूर्वं महाव्याप्तिरत्र सर्वत्र वर्तते | आश्रयाश्रयिभावश्चाप्यविभिन्नतया स्थितः || २/११ || निशावरणरूपत्वादनन्तत्वादनाकुला | पीठस्वरूपे (-रूपं) व्योमेशि विश्रान्तिः सर्वसंविदाम् || २/१२ || अन्तश्शून्यात्मना काये सैव पठितया स्थिता | यः कर्मेन्द्रियपर्यन्तः संवित्स्फारस्तदाश्रयः || २/१३ || पातादारभ्य पृथिवीपर्यन्तं यज्जडात्मकम् | एतस्यैवाश्रयत्वेन नभः पीठकला बहिः || २/१४ || अकालकलिते व्योम्नि स्पन्दमाना तु या चिति | कालदाहैकभूः सैषा श्मशानं खेचरी मता || २/१५ ||
SKअपवेद्ये सुषुप्तेषु प्राणः स्पन्दनशक्तिमान् | कालं ग्रसति देहान्तः श्मशानं स तथा स्मृतः || २/१६ || वेद्यस्य कलनारूपे (-रूपं) कालस्त्वपि समाप्यते | कालग्रसनशीलत्वात् त्वक् श्मशानं तु सा बहिः || २/१७ || एतद्रूपं परं क्षेत्रं प्रकाशानन्दभूमिगम् | पालये * * * * भ्यां भूपरि क्षेत्रपस्ततः || २/१८ || बुद्धिप्रमाता देहान्तः शून्यप्राणमयं यतः | क्षेत्रं पालयते तेन क्षेत्रेशश्चैव (-शवस्यै) तन्मयः || २/१९ || (प्. ७) बाह्येऽपि विषये तेजस्त्वङ् नभोमण्डलात्मकम् | क्षेत्रं पालयते तेन तदात्मत्वेन सैव तत् || २/२० || विश्वाभासमयं ज्ञानं यद्गतं परसंविदि | सामरस्यात्मना सैषा मेलः संहारभक्षिणी || २/२१ || आभासानां स संहारो या प्रकाशान्तरास्थितिः | सामरस्यात्मना सैषा प्रत्यावृत्त्या समन्ततः || २/२२ || भक्षयन्त्यान्तरस्पर्शादतः संहारभक्षिणी | विषयाभोगसम्भूतचमत्कारोपबृंहितम् || २/२३ || बुद्धीन्द्रियाभासमयं ज्ञानं यत्रोपशाम्यति | बीजभावात्मना मेलः स्निग्धो यः प्रत्यगात्मना || २/२४ || अ * वता बहिर्येयं प्रतिबिम्बग्रहक्षमा | साम्यान्तररसास्वादमेलावात्मानुभूयते || २/२५ || वासनावेधसंस्कारसामरस्यात्मना स्थितिः | आहन्यमाने रभसात् परतर्पणहेतुतः || २/२६ ||
SKपूर्णान्तरमहारावद्रावणादलिकुलाकुला (-द्रावणा * लि-) | निरावरणदुर्ल्लक्ष्यस्वविश्रान्तिपदोन्मुखी(म्?) || २/२७ || आद्ययागमयी (आद्यगाय-) ये (यो) यं गभीरोदारभूमिका | रौद्ररौद्रेश्वरी यागस्तस्मादिष्टो गुरूत्तमैः || २/२८ || अलंग्रासंक्रमः सोऽयं महासाहसजन्मभूः | अधिकप्रियमेलावाद्धठमेलोपलक्षणः || २/२९ || अन्तःकायेऽपि ये भावा ह्युक्ताः कर्मेन्द्रियैः स्फुटाः | तत्क्षणे विस्मृतिस्तेषामाकाङ्क्षायाः परिक्षयात् || २/३० || (प्. ८) सान्तरीयकविश्रान्तिर्योऽयं यागः स्वसाक्षितः | अत्रानुगुण्यमेतस्या देव्याः सञ्चेत्यते स्फुटम् || २/३१ || दृश्यते यत् तया पृथ्वी (बहिः पृथिवी) तत्तत्कर्मव्यपाश्रया | स यागो यत्र भावानां विश्रान्तिः समनन्तरम् || २/३२ || इत्थं श्मशानतारूपचिज्जडात्मप्रमेयता (स्माश्यानता- -म्)| पीठक्रमेण संश्रित्य देवीचक्रं विजृम्भते || २/३३ || सर्वयापकरूपत्वात् तथा प्रत्यक्षवेदनात् | सर्वाद्यन्तप्रतिष्ठानादेतत् सर्वोत्तमत्वतः || २/३४ || सर्वंसहस्वभावत्वात् परानुग्रहहेतुतः | प्रकर्षनुतिमात्रत्वात् पीठं प्रणवसंज्ञितम् || २/३५ || महाचक्रक्रमो योऽयं कथ्यमानो यथायथम् | अत्रान्तर्नेत्रनाथस्य प्रकटानुभवोऽभवत् (न्) || २/३६ ||
SKततो ध्यातं (ध्यानं) तु तत्पीठं सर्वपीठोत्तमं बहिः | योगिनीसिद्धसंसेव्यमुत्तरस्यां दिशि स्थितम् || २/३७ || धामक्रमस्यापि वपुरन्तरेव निरूपितम् | सर्वज्ञानाश्रयत्वेन लोकयात्राप्रतिष्ठितम् || २/३८ || यत्र यत्र पतन्त्येता अन्तर्वा यदि वा बहिः | संविद्देव्यो व्याप्तिसारास्तद्धाम परिकीर्तितम् || २/३९ || यदि काचिदिहान्यास्ति सूक्ष्मा संशयकालिमा (-ता) | प्रमेयलोचनादग्रे सा स्वयं विनिवर्तते || २/४० || प्रत्यक्षकायविषयानुभवैकनिष्ठः पीठक्रमस्य कथितो गुरुसम्प्रदायः | (प्. ९) अत्रैव दत्तहृदया विलयं नयन्ति मिथ्याविकल्पजनितं भवमोक्षजालम् || २/४१ || इति श्रीमहानयप्रकाशे पीठस्वरूपनिरूपणं नाम द्वितीयोल्लासः || २ || अथ तृतीय उल्लासः | (प्. ९) उदयावभासकालग्रासादीनां (* *) [-स] स्वरूपविश्रान्तिः | आकुञ्चनप्रसारणवशतो (-कारणवशतो) यत्रास्ति तत्पदं नत्वा || ३/१ || आमूलविश्वविभवप्रस्पन्दनयुक्तिसुन्दरोदारम् | प्रातीतिकस्वरूपं ब्रूमो व्योमेश्वरीचक्रम् || ३/२ || पीठक्रमे यत् प्रकटं रश्मिचक्रं प्रतिष्ठितम् | आ मूलात् तस्य संस्थानं कथ्यते संविदात्मना (-विदुन्मना) || ३/३ || शब्दादिपञ्चवर्गात्मविश्वं हि यदिदं स्थितम् | न शक्यं तदपह्नोतुं स्वसंवेदनसिद्धितः || ३/४ ||
SKसंवेदनाद् बहिर्भावेनास्य सिद्धिः कथञ्चन | ज्ञानात्मतां विना यस्माद् बाह्यतापि न सिध्यति || ३/५ || अतो बाह्यात्मता लोके शरीरापेक्षया स्थिता | संवेदनं पृथक् तस्य (* *) सर्वज्ञेनापि दुष्करम् || ३/६ || अतः संवेदनायत्ता सत्ता विश्वस्य सर्वतः | ज्ञानाधिकत्वात् सिद्धेस्तु न माया नापि वासना || ३/७ || (प्. १०) दिग्देशकालाकारादिकलातङ्कविवर्जितम् (-काला * रादि-) | कल्प्यविश्वात्मकत्वेऽपि (कत्प-) तदुत्तीर्णतया स्थितम् || ३/८ || ननु विश्वमयी संवित् सर्वस्यानुभवात् स्थिता | तदुत्तीर्णस्वरूपायास्तस्या नानुभवस्तदा || ३/९ || प्रथैव चेत् कथं विश्वं चिन्मात्रं हि प्रशेक्ष्यति (प्रथेष्यति) | निरावरणरूपायाश्चितो विश्वात्मता कुतः || ३/१० || नीलप्रकारो नीलात्मा प्रकाशातिशयो न चेत् | नीलप्रकारो नैव स्यादात्मसंवित्प्रथाबलात् (स्यादाद्ध-) || ३/११ || तस्मान्नीलप्रकाशो यः स नीलातिशयात्मकः | नीलाभिन्नप्रथासिद्धा नीलताप्यनुभूयते || ३/१२ || तस्याः प्रथैकरूपत्वे नीलनिह्नवसम्भवः | प्रथाबहिष्ट्वेऽप्येषैव न्यायोक्तिर्यदतः पृथक् || ३/१३ || वासनाहेतुवैचित्र्याद् (-चित्र्या) विश्ववैचित्र्यसङ्गतिः (-गति) | नतु शुद्धस्वरूपायाः प्रथाया एव जृम्भणात् || ३/१४ || प्रकाशमानं विश्वं तदित्युक्तिरुपपद्यते | प्रकाश एव विश्वं तु सर्वानुभववासितम् || ३/१५ ||
SKविश्वोत्तीर्णप्रकाशस्तु स्वतन्त्रो नानुभूयते | यदतः स्वप्रथोऽप्येष सिद्धो विश्वनियन्त्रितः || ३/१६ || अत्रोच्यते यदुक्तं तु विश्वोत्तीर्णचितिः कथम् | सञ्चेत्यते समाविश्य विश्वानुभवभूमिकाम् || ३/१७ || नीलानुभवकाले हि नीलरूषणयोज्झिता | निर्विकल्पपराहन्तास्वरूपा प्रथते प्रथा || ३/१८ || (प्. ११) सविकल्पदशात्वेऽपि सुखनीलादिसंविदाम् | विशेषानुभवो नास्ति विवादोऽन्तर्बहिष्ठया || ३/१९ || तथैव नीलानुभवादभिन्नोऽपि तदुज्झितः | अन्तर्मुखप्रकाशो यः पराहन्तात्मकः स्थितः || ३/२० || हेवाकात् केवलं सोऽन्यैस्तत्त्वज्ञैरुपलभ्यते | अन्यथा नीलसंवित्तिरपि नैव प्रसिध्यति || ३/२१ || आभासं न विना यस्मात् सत्ता संविद इष्यते | आभासोऽपि कथं सिध्येत् किल संवेदनं विना || ३/२२ || अन्योन्यापेक्षया हीत्थं नीलसंविन्न सिध्यति | आभासनिरपेक्षात्र द्रष्टव्या संविदः स्थितः || ३/२३ || परतन्त्रस्वतन्त्रत्वे तत्राकिञ्चित्करे यतः | नीलानुभवसंसिद्धिं न समर्थयितुं क्षमे || ३/२४ || सिद्धेः प्राक् परतन्त्रत्वं समं नीलप्रकाशयोः | सिद्धे रूपे स्वतन्त्रत्वं समं नीलप्रकाशयोः || ३/२५ || अथ नीलं परापेक्षां (-पेक्षं) प्रथयेन्न (प्रथयान्न) प्रथा पुनः | स्वयम्प्रथनशीलत्वान्नीलमात्मन्यपेक्षते || ३/२६ ||
SKपरतन्त्रमतो नीलं स्वतन्त्रा तु प्रथा मता | परतन्त्रस्वतन्त्रत्वे तत्राकिञ्चित्करे कथम् || ३/२७ || ज्ञातमेतद् यथा नीलमुत्पन्नमपि हेतुतः | प्रकाशापेक्षया (प्रकाशयापे-) ह्यक्तं परतन्त्रं न रूपतः || ३/२८ || नीलं नीलात्मके रूपे स्वतन्त्रं न प्रथात्मके | प्रकाशस्तु प्रथामात्रादतिरिक्तो न विद्यते || ३/२९ || (प्. १२) तावन्मात्रे प्रकाशस्य नीलापेक्षा न युज्यते | नीलात्मनि तु नीलस्य प्रथापेक्षास्ति (प्रथाकेपक्षास्ति) सर्वथा || ३/३० || नीलात्मकं हि नीलस्य रूपं सिद्धं स्वहेतुतः | न प्रकाशात्मकमपि प्रायशोऽन्धादिदर्शनात् || ३/३१ || प्रकाशरूपे तूत्पन्ने स्वपरप्रथनात्मके | यथानुभवसंसिद्धौ सर्वापेक्षा निवर्तते || ३/३२ || नीलं तर्हि स्वसिद्ध्यर्थं (स्वसिद्धा-) न प्रकाशमपेक्षते | प्रकाशस्तूपलम्भार्थं नीलमात्मन्यपेक्षते || ३/३३ || पारतन्त्र्यं प्रकाशस्य सुतरामित्थमुल्लसेत् | आभासरहिता यस्मान्नैतस्योत्पत्तिरिष्यते || ३/३४ || ननु (नतु) नीलप्रकाशे यः (या) प्रकाशांशो व्यवस्थितः | तस्य स्वरूपसत्तार्थं नीलापेक्षा कथं भवेत् || ३/३५ || स्वरूपलाभः पूर्वस्मात् प्रथांशात् कारणात्मकात् | नीलापेक्षा न तत्रास्ति स्वस्फुरत्त्वेन संविदः || ३/३६ ||
SKनीलांशस्य प्रथार्थत्वे (-त्वं) प्रथापेक्षास्ति वस्तुतः | तदेतद्धि स्वतन्त्रत्वं परतन्त्रत्वलक्षणम् || ३/३७ || इत्थं किमेतदुक्तं स्यात् सोपाधि निरुपाधि वा | प्रकाशस्य निजं रूपमथवाप्युभयात्मकम् || ३/३८ || सोपाधि चेदुपाधेश्च तस्य चान्योन्यसंश्रयात् | उभयासिद्धितो रूपं सिध्येत् सोपाधिकं कथम् || ३/३९ || अथानुपाधि तद्रूपमुपाधेः प्रथनं कथम् | परस्यापरनिष्ठत्वादेवं दुष्येज्जगत्स्थितिः || ३/४० || (प्. १३) अथोभयात्मकं रूपं सोपाध्यपि तदुज्झितम् | तथा सर्वं समीचीनमिति चेत् तर्हिचेत्य (-चप्त्य)ताम् || ३/४१ || तत्रानुपाधि यद्रूपं तस्यानुभवनं कथम् | स्वसंवेदनरूपायां निर्विकल्पभुवि स्थितम् || ३/४२ || नचापलापः कर्तव्यः पूर्वदोषप्रसङ्गतः | नचानुपाधिरूपस्य नीलांशत्वेन वेदनम् || ३/४३ || पराहन्तात्मकं तस्मात् तदसाङ्केतिकं मतम् | प्रत्यक्षभेदः कथितो यः स्वसंवेदनात्मकः || ३/४४ || तत्राशयो नचेदेष तद्भेदः किन्निबन्धनः | ननु रक्तोदकन्यायाद् (-यो) भवतोऽपि स्मृतिः कथम् || ३/४५ || रक्तोदकात्मकं रूपमेकमेव हि तात्त्विकम् | विकल्पस्तु स्वशिल्पेन तद्भिनत्ति (तद्भुनर्ति) विशेषतः || ३/४६ || तद्वन्नीलप्रकाशात्मरूपञ्चाखण्डतः (-माखण्ड्यतः) स्थितम् | विकल्पशिल्पतस्तत्र केवलं खण्डनं स्थितम् || ३/४७ ||
SKअविभागात्मकाद् भासात् तादृशादेव कारणात् | कार्यस्य तादृशस्यैव प्रबन्धेन प्रवर्तनम् || ३/४८ || अन्योन्याश्रयताद्यास्तु दोषा वैकल्पिका मताः | सम्भवेयुः कथं तत्र निर्विकल्पप्रतिष्ठितौ || ३/४९ || ज्ञातं किन्त्वेष विगुणो [द्वि-] न्यायो नीलप्रकाशयोः | विरोधात् तावदेकत्वं स्याज्जडाजडयोः कथम् || ३/५० || निरंशस्वप्रकाशश्च प्रकाशस्तात्त्विको मतः | साङ्गश्चान्यप्रथाधीनोऽप्यभ्यासस्तात्त्विको [-भासस्तात्त्विको] मतः || ३/५१ || (प्. १४) सर्वथैक्येऽन्य * * * सत्यासत्यत्वहानितः | एकानेकस्वभावत्वात् स्वभावो न निरुध्यते || ३/५२ || स्वभावविनिरोधस्तु बाधितोऽनुभवेन यत् | तत् स्वसिद्धप्रकाशोऽन्यव्य (-शोऽन्यद्वय)वस्थाहेतुतामियात् || ३/५३ || अखण्ड्योऽपि तदेष्टव्योऽभेदो नीलप्रकाशयोः | ततो रक्तोदकन्यायोऽसङ्गतोऽत्र कथं भवेत् || ३/५४ || अन्यच्च नीलप्रथयोरभेदे वास्तवे कथम् | आभासविगमादच्छान्मुक्तिभूता प्रथा भवेत् || ३/५५ || अनादिकप्रवाहात्मा * * * * * * * * | * * * * * * * * मायाभासप्रतिष्ठितेः || ३/५६ || ज्ञातृत्वकर्तृत्वकर्तृतासारं * * * * * | * * * * * * * * * * * * * * * * || ३/५७ || प्रथावासनयोश्चान्या सामग्री नास्ति वास्तवी | प्रकाशविगमेऽपि स्याद् यद्धेतोर्वासनाक्षयः || ३/५८ ||
SKतन्मुक्तिकाले यस्तज्ज्ञैराभासोच्छेद इष्यते | नस्वप्राप्तास्य (?) विकलस्वहेतोरविरामतः || ३/५९ || तत्रोपादानशुद्द्यादि यत्किञ्चित् परिकल्प्यते | न तत् सर्वज्ञताबीजं युक्तितः पर्यवस्यति || ३/६० || तस्मात् सोपाधिकं ज्ञानं परस्परसमाश्रयात् | तादात्म्येऽपि कथं नाम प्रतिष्ठामधिगच्छति || ३/६१ || प्रकाशस्य च चिन्मात्ररूपं यत् स्वप्रतिष्ठितम् | तदुपाधिं प्रति कथं मात्रयापि प्रसर्पति || ३/६२ || (प्. १५) प्रतीतौ यच्च नारूढं तादात्म्येऽपि न तद् भवेत् | प्रतीतिभाजनं यद्वन्मणिरौप्यादिकैरलम् || ३/६३ || अनेनैवाशयेनोक्तो युक्तितत्त्वविचक्षणैः | प्रकाशार्थोपरक्तोऽपि स्फटिकादि जालोमपम्(?) [जडोपमः] || ३/६४ || ननु नीलप्रथाकाले नीलात्मातिरयोऽधिकः | अपह्नोतुं कथं शक्यः परतन्त्रमय(ः?)प्रथः || ३/६५ || अधिकश्चेत् कथं भाति भाति चेदधिकः कथम् | भासते चाधिकञ्चेति परस्परमसङ्गतम् || ३/६६ || प्रकाश एव तर्हि स्यान्निरुपाधिर्निरञ्जनः | एवञ्च नानानुभवमयी नश्येज्जगत्स्थितिः || ३/६७ || अत्रोच्यते यदधिकं भानात् तत्तावत्प्रथमयुक्तिकः(?) | * * * * * * * * तत्र त्वित्थं समर्थना || ३/६८ || यदा स्वोल्लेखविभवः प्रथया जगदुद्गमः | अनवच्छिन्नरूपत्वं तदा तस्य निजं प्रति || ३/६९ ||
SKचिदुल्लेखमयं (वि- -लं) विश्वं चिदुल्लेखे प्रतिष्ठितम् | चिदुल्लेखादनधिकं लोकयात्राप्रसाधकम् || ३/७० || उल्लेखश्च विमर्शात्मा स्वाभासमयनिर्मितः | इयं सा वस्तुनः सिद्धिस्तात्त्विकी विदुषां मता || ३/७१ || सेयं स्फुरत्ता बोधस्य महासत्तास्वरूपिणी | स्वोल्लेखकर्तृतासारा प्रत्यक्षानुभवात् स्थिता || ३/७२ || एतत् (* तत्) स्वोल्लेखविभवमयं विश्वं स्वभावतः | स्वतन्त्रत्वादनुन्भग्नमुन्मग्नमिव भासयेत् || ३/७३ || (प्. १६) अखण्डविषयानन्दमयादनुभवाच्च (-विषया * द) तत् | सामरस्येन सर्वत्र स्थितंचिन्मात्रसारतः (स्थितश्चि-) || ३/७४ || दिग्देशकालवैचित्र्यभेदाद् भागवताद् यदि | तदात्मवर्तिनि ज्ञाने भेदः स्यात् तत्प्रथा कथम् || ३/७५ || प्रथासामर्थ्यतः (-* ) तस्मात् तद्भेदो न व्यवस्थितः | नवांशांशिकया भेद आभासेऽप्यनुभूयते || ३/७६ || तिलराशिवदज्ञानात् सङ्गतत्वेन वासनात् | अतः प्रथैकरूपत्वमाभासस्य (प्रशेथक-) व्यवस्थितम् || ३/७७ || अन्यच्च चित्रविज्ञानमेतदेवावभासते (-मेतमेवा-) | तत्प्रपञ्चो विभिन्नोऽपि तद्रूपं ज्ञातुमक्षमः (ज्ञे-) || ३/७८ || न च व्यस्तः समस्तो वा तत्स्वरूपस्य भेदकः | तथात्वानुभवासिद्धेः समं तत्प्रथनं कथम् || ३/७९ ||
SKतद्वद् विश्वमयी संविदेका चेत् तत्प्रथा कथम् | तन्नियन्त्रणया चास्या एकत्वं परिहीयते || ३/८० || विश्वावेशेऽपि तत्संवित् तत्तद्रूपणयोज्झिता (-टा रूप-) [रूषण-] | अखण्डानुभवात्मत्वात् सामरस्यतया स्थिता || ३/८१ || अपटाटङ्कता सेयं गम्भीरोदारता तथा | इदं तद् दुर्घटैश्वर्यमसामान्यस्वभावकम् || ३/८२ || संविदा भासमाने च रूपे भ्रान्तिर्न विद्यते | अन्यावष्टम्भतोऽन्यस्य प्रथनं भ्रान्तिरिष्यते || ३/८३ || न स्वभासप्रथा भ्रान्ता स्वसंवेदनसिद्धितः | स्वसंवेदनसिद्धत्वं न कथञ्चन बाधितम् || ३/८४ || (प्. १७) बहिश्चन्द्रद्वयाभावात् तद्बाधोत्तरकालिका | ननु द्विचन्द्रानुभवे प्रथामात्रैकजीविते || ३/८५ || स्वसंवेदनरूपस्य यदि बाधा भवेत् ततः | तदेकमयरूपत्वाद् भवेद् भाधापि बाधिता || ३/८६ || तस्मान्निजोल्लेखमयं स्वस्वसंवेदनात्मकम् | संविद्देवी जगच्चित्रं निर्मिमीते स्वभित्तिकम् || ३/८७ || विवर्तपरिणामादि न किञ्चित् संविदोऽधिकम् | यदसत्यादिकलनावशाद् विश्वस्य सम्भवः || ३/८८ || नचापि विश्ववैचित्र्यं तस्य स्याद् वासनात्मकम् | यथर्द्धि प्रातिर्यादि(?)गम्भीरोदारसंविदः || ३/८९ || उल्लिख्यमानं तद्रूपं नाम्ना (ना *) नावैचित्र्यशोभितम् (*-) | फेनवत् संविदुद्बुद्धं तत्सामर्थ्याद् विजृम्भते || ३/९० ||
SKईदृक् स्वातन्त्र्यमाश्रित्य् संविदः पारमार्थिकम् | प्रमेयजातमखिलं स्थितं शक्यसमर्थनम् || ३/९१ || प्रत्यक्षरूपमाश्रित्य विषयानुभवात्मकम् | महानयस्यानुगुणं चिद्रूपं प्रतिपादितम् || ३/९२ || बहुवक्तव्यता यस्मात् प्रमेयस्यास्य वर्तते | अतो विरम्यतेऽस्माभिर्दिङ्मात्रं तु प्रकाशितम् || ३/९३ || संविदः साश्रयाः काश्चित् काश्चनापि निराश्रयाः | तत्रापि तासां वैचित्र्यं सविकल्पाविकल्पतः || ३/९४ || तत्रापि बहुवैचित्र्यं नियतानियतात्मकम् | ज्ञानज्ञेयप्रपञ्चश्च तत्रापि बहुभूमिकः || ३/९५ || (प्. १८) श्रद्धाश्रद्धाक्रियाजालफलानुगुणयोगतः | तत्रापि स्वर्गनरकाद्यनन्तमतिविभ्रमाः (-नतिवि-) || ३/९६ || अतात्त्विका बन्धमोक्षविभेदा अपि तत्र च | अनन्तलोकसंस्थान (ः?) प्रभवाश्च तथाविधाः || ३/९७ || तथाश्यानं (-द्यन्म) मनोभूमिमतिक्रम्यातिवर्तते (* नो-) | आश्यानसंविदंशस्य (आद्या-) तदेतत् स्फूर्जितं मतम् || ३/९८ || अविकल्पनिजाभोगविमर्शात्ममयं च तत् | स्वच्छैकरूपस्वच्छन्दचिद्रसाश्यानतामयम् || ३/९९ || क्रमाक्रमपदावेशि प्रतिभारूषणादिके | अनन्तागाधगम्भीरे संविद्रूपे निमज्जति || ३/१०० || विश्वात्मकं तदन्यच्च रूपमेतद् यदीशितुः | अस्तिनास्तिव्यतिक्रान्तं सर्वाश्रयनिराश्रयम् || ३/१०१ ||
SKअप्रकाशप्रकाशात्माप्यसमञ्जसमञ्जसम् (-सा) | परां शक्तिं विना तस्य स्थितस्यापि स्वभावतः || ३/१०२ || चिच्चमत्कारविश्रान्तिवैक्लव्यादप्रतिष्ठितेः (-तेः) | असत्कल्पत्वमित्यस्य (असङ्कल्प *-) तदपेक्षित्वमिष्यते || ३/१०३ || महेशस्यात्मविश्रान्तिः पराहन्तात्मिका हि या | तस्या - अपि परावस्थाभाति (-याति) सूक्ष्मप्रभेदतः || ३/१०४ || तद्देवीधाम यत्रासौ (या-) कान्दिशीको विभुर्भवेत् | भावाभावौ प्रकाशेऽन्तः प्रतिष्ठामधिगच्छतः || ३/१०५ || स चापि सकलापेक्षाशून्यायां चिच्चमत्कृतौ | तारतम्यादिकलनावासनावेधदूरगे || ३/१०६ || (प्. १९) परविश्रान्तिपर्यन्ते सापि विश्राम्यति स्वतः | परप्रकाशविश्रान्तिदशायामपि यत् स्थिताः || ३/१०७ || वासनावेधसंस्कारा भावाभावोभयात्मकाः | अतस्तामसनीकृत्य या विश्रान्तिरनुत्तरा || ३/१०८ || सा देवी कथ्यते तस्या नयोऽसौ देवतानयः | यत्रापटे परिक्षीणोऽपि (परिक्षीणा-) टङ्कोऽसौ नयस्ततः || ३/१०९ || या कालग्रासविश्रान्तिस्तद्रूपं परमेशितुः | या तु विश्रान्तिविश्रान्तिस्तद्देवीरूपमिष्यते || ३/११० || इत्थं सूक्षेक्षितारूपो (सूक्ष्मि-) भेदो यत् परमेशयोः | ऐक्येऽपि दर्शितं सम्यक् प्रतीतिपरिशुद्धये || ३/१११ || इत्थं संवेदनापेक्षा रूपे ज्ञप्तौ च सर्वथा | विश्वस्येति कथं पूर्वमुत्पत्तिरिति संशयम् (-ये) || ३/११२ ||
SKछेत्तुं व्योमेश्वरीचक्रं स्फुटमत्र प्रकाश्यते | निरावरणचित्सिन्धौ (-द्धौ) स्फुरत्तासारसुन्दरम् || ३/११३ || परप्रकाशविश्रान्तिर्यत्र विश्राम्यति स्वयम् | तद्देवीरूपमत्रान्तः प्रथमस्पन्दनात्मना || ३/११४ || पञ्चाकाशमयं चक्रं विश्वबीजं तथोदितम् | सर्वापेक्षाविरहितं स्वोच्चलत्तास्वरूपकम् || ३/११५ || तत्रापि चान्यत् संवित्खमन्येषां नभसां परम् | तन्मयं च तदुत्तीर्णं व्यापकत्वेन वर्तते || ३/११६ || प्रथमप्रतिभारूपा व्योमेशी सेयमुच्यते | खेचर्यादिस्वरूपं यत् तदस्या - एव जृम्भितम् || ३/११७ || (प्. २०) प्रत्येकं सामरस्येन देवीपञ्चकमञ्चितम् | स्वातन्त्र्योल्लासकोद्रेकप्राधान्यात् पृथगुच्यते || ३/११८ || शब्दाद्यनुभवस्थाने संवित् स्पन्दादिरूपणी | प्रत्येकं सूक्ष्मया वृत्त्या स्वौचित्येनानुभूयते || ३/११९ || इत्थं प्रत्येकविषये पञ्चानुभवबृंहितम् | सामरस्यात्मना सर्वं देवीचक्रं प्रकाशते || ३/१२० || एवं पञ्चात्मकं विश्वं सिद्धं स्वानुभवेन यत् | पञ्चाकाशतया पूर्वं तदुक्तं संविदात्मना || ३/१२१ || परप्रकाशप्राधान्याच्चिदाद्यं शक्तिपञ्चकम् | परविश्रान्तिविश्रान्तिप्राधान्यात् त्विदमिष्यते || ३/१२२ || व्यापकत्वं च नित्यत्वं पूर्णत्वं सर्ववेदिता (म्?) | सर्वकर्तृत्वमित्येतत् शक्तिपञ्चकलक्षणम् || ३/१२३ ||
SKस्वरूपलाभो विश्वस्य पूर्वं ज्ञप्तिस्ततः परम् | ज्ञानाधिकत्वात् सिद्धेस्तु स तु चिन्मात्रलक्षणः || ३/१२४ || इत्थं विश्वस्य संस्थानं प्रथमं संविदात्मना | पश्वात्मकेन स्फुरितं परशक्तिस्वभावतः || ३/१२५ || स्वप्रकाशात्मकानन्दस्फूर्तिबिन्दुक्रमात्मकः (-मूर्ति-) | चक्रपञ्चकविष्फारो व्योमेश्यादिमयः स्थितः || ३/१२६ || अक्रमोऽपि क्रमात्मायमुपदेशभुवि स्थितः | तत् तत् प्रतीतिवैचित्र्यविभागप्रतिपादनात् || ३/१२७ || तदेव संविदो रूपं पञ्चात्मत्वेन संस्फुरत् | सामरस्यात्मना पूर्वं व्योमेशीचक्रमुच्यते || ३/१२८ || (प्. २१) गुरोः स्वरूपमेतच्च सर्वावरणभेदकम् | परस्वरूपविश्रान्तिसमावेशनतत्परम् || ३/१२९ || एतस्य ज्ञप्तिमात्रेण देहाद्यावरणक्षयः | पूजनेन तु संरूढिरतः पूज्यतमं हि तत् || ३/१३० || निश्शेषविश्वविभवप्रतिपत्तिहेतुर्- व्योमेश्वरीप्रथमचक्रनिरूपणेन | लब्धावधानवशतः (लब्ध्वा-) कृतिनो भजन्त आद्यन्तवर्जितपदं परमात्मनिष्ठाः || ३/१३१ || इति श्रीमहानयप्रकशे व्योमेश्वरीचक्रनिरूपणं नाम तृतीयोल्लासः || अथ चतुर्थ उल्लासः | (प्. २१) नानानुभवविलासप्रसरणबीजस्वरूपमविभिन्नम् (-बीजं-) | ज्ञात्वा स्वयुक्तिगर्भं प्रकाशचक्रक्रमं तनुमः || ४/१ ||
SKपञ्चात्मकं स्वचक्रं यत् प्रथितं संविदात्मना | ज्ञानक्रियात्मकत्वेन प्रत्येकं तद् द्विधा मतम् || ४/२ || बुद्धिकर्मेन्द्रियव्रातौ स्थितौ ज्ञानक्रियात्मना | दशधाप्याप्तिसारत्वात् तयोरपि परिस्फुटम् || ४/३ || आश्रये बुद्धिमनसी स्थिते सामान्यरूपतः | एवं द्वादशकं यत्र प्रकाशकलिलात्मकम् || ४/४ || अविभिन्नतयोत्पन्ननिर्विकल्पमयप्रथम् | प्रकाशचक्रपूज्यं * * * द्वादशधा स्थितम् || ४/५ || (प्. २२) संवित्कदम्बकगुहास्थितं (-बकल-) सिद्धनिषेवितम् | प्रकाशमात्रप्राधान्यादन्वर्थं नामतः स्थितम् || ४/६ || प्रमाणसृष्टिप्रवणा अत्र संविन्मरीचयः | अवधानधनैर्ज्ञेया (-नैव्येया) द्वादशात्मावशुद्धये || ४/७ || संमूर्च्छितप्रकाशात्मा मरीचीनामयं चयः | देशकालक्रियारूपकलासृष्टिलयावनिः || ४/८ || मासराश्यादिरूपोऽपि द्वादशात्मानुभूयते | कालक्रमो बहिस्तत्तद्भावभावकसंवृतः || ४/९ || प्रमाणसृष्टिसंरम्भलम्पटासु (-रभंलप-) मरीचिषु | बहिर्मुखास्वहङ्कारो निलीनोऽत्र व्यवस्थितः || ४/१० || अन्तःस्पन्दप्रधानत्वात् खे निरावरणात्मनि | चरन्त्या एव विष्फारः खेचर्या द्वादशात्मना || ४/११ || ज्ञानक्रियासामरस्यमयशक्तिस्वभावतः (-ञ्च) | तदाकारमयत्वेन (आ *-) पूर्वं विश्वस्य सम्भवः || ४/१२ ||
SKततः प्रमाणरूपेण द्वादशात्मतयोदयः | ज्ञानक्रियासामरस्यात् (स्यं-) किञ्चिदुद्रेकलक्षणः || ४/१३ || अत्र दत्तावधानानां देशकालक्रियात्मनः | कालक्रमस्य सहसा ग्रासो भवति योगिनाम् || ४/१४ || स्वभावावरकत्वेन (*-) ये लोकस्य व्यवस्थिताः | ज्ञानिनः स्वस्वरूपस्य विष्फारस्तैस्तु तन्यते || ४/१५ || अतः कालक्रमस्यास्य द्वादशात्मा य उद्भवः | स एवं सन्निविष्टान्तत्(?)ग्रासेन सहसावनिः || ४/१६ || (प्. २३) इति कथितमुदारयुक्तियोगा- दनुभवभूमिगतं प्रकाशचक्रम् | गुरुवरमुखसम्प्रदायगम्यं परमसमाधिमतामतन्द्रितं स्यात् || ४/१७ || इति श्रीमहानयप्रकाशे प्रकाशचक्रनिरूपणं नाम चतुर्थोल्लासः || अथ पञ्चम उल्लासः | (प्. २३) स्वात्मप्रमेयमयनिर्मितपूर्णभावा- दिच्छानुरूपविभवेन समुल्लसन्त्यः | चिद्रश्मयो न च चमत्कृतयो हि यस्मिन्- नानन्दचक्रमधुना तदिदं प्रवच्मः || ५/१ || प्रकाशचक्रं यत् पूर्वं प्रमाणाद् विनिरूपितम् | विषयाभोगविभवा प्रसृतेच्छास्य पूर्यते (प्रपूर्यते) || ५/२ || तन्मात्राभूतरूपं च संविदाश्यानतामयम् | पञ्चात्मकं यद्विषयस्वरूपमनुभूयते (यद्विषय * रूप) || ५/३ || तत्र संविन्मरीचीनां बुद्धिकर्मेन्द्रियात्मनाम् | विषयाभोगनिर्ज्ञातनिर्विकल्पप्रतिष्ठिते || ५/४ ||
SKऐकध्याद् बुद्धिमनसोर्य एकादशधोद्यमः | षोडशात्मा स सञ्जातो विषयाभोगपूरणात् || ५/५ || आनन्दचक्रं तदिदं षोडशात्मतया स्थितम् | चिन्मरीचिचमत्कारप्रमेयोल्लेखदन्तुरम् || ५/६ || (प्. २४) स्वस्वरूपापरित्यागात् प्रमेयीकरणं हि यत् | स्वात्मनो दुर्घटैश्वर्यप्रतिपादनलक्षणम् || ५/७ || अनेन परिपूर्णत्वादिच्छाभोग्यस्य सर्वतः | महानन्दप्रधानत्वाच्चक्रमानन्दसंज्ञितम् || ५/८ || अत्रापि दत्तचित्ता ये भवन्ति ज्ञानशालिनः | विषया एव एतेषां भवेत् संवित्स्वरूपभूः || ५/९ || अत्र विश्वस्वरूपस्य सर्वाकारं समापनात् | चर्वणात्मापि संहारो नान्तरीयतयोदितः || ५/१० || सामरस्यक्रियोद्रेकान्निष्पन्नेऽन्तर्जगद्भरे | विषयाभोग औत्सुक्यं मरीचीनां निवर्तते || ५/११ || चिच्छक्तिभूतायामस्यामिच्छात्मन्युदितो (-या * * मिच्-) भुवि | चरन्त्या एव विष्फारो भूमय्याः षोडशात्मकः || ५/१२ || आनन्दचक्रस्य यथोपपत्ति प्रदर्शितं स्वानुभवस्वरूपम् | समाधिलाभाय सदैव भूयाद् भावोपभोगेन महाजनस्य || ५/१३ || इति श्रीमहानयप्रकाशे आनन्दचक्रनिरूपणं नाम पञ्चमोल्लासः || अथ षष्ठ उल्लासः |
SK(प्. २४) यत्रावृत्तिवशेन विश्वविभवोल्लासोपभोगात्मनां रश्मीनां विलयो ह्यकृत्रिमतमेऽहङ्काररूपे भवेत् | तत्तत्कालकलाकलापकबलव्यापारपारङ्गमं ध्यात्वा सम्प्रति मूर्तिचक्रमुचितं व्या *? न्यते (युक्तिभिः) || ६/१ || (प्. २५) आनन्दचक्रं यदिदं षोडशात्म निर्रुपितम् | विश्रान्तिरुदिता (-चिरा) तस्य प्रत्यावृत्त्या प्रमातरि || ६/२ || अतः प्रमातृरूपस्य मूर्ततात्रानुभूयते | अहङ्कारस्य सकलप्रयोगार्थदशात्मनः || ६/३ || बहिर्मुखमरीचीनां प्राधान्ये सति यो भवेत् | अव्यक्तरूपोऽहङ्कारः स मूर्तोऽत्र स्फुटं स्थितः || ६/४ || प्रमाणरूपः प्रथमं द्वादशात्मा यतः स्थितः | कालसृष्टिमयः स्फारो (स्फुरा) मरीचीनां चिदुत्कटः || ६/५ || विषयाभोगरूपेण कामेनास्य प्रपूर्यते | बहिर्मुखे वा यदतः कालकामात्मकं जगत् || ६/६ || निष्पन्ने जगतो रूपे कालकामक्रमात्मके | विषयाभोगविष्फारविषण्णासु मरीचिषु || ६/७ || प्रत्यावृत्त्या स्वस्वरूपमेलनाभासतत्परः | सप्तदशः (-श) षोडशानां मरीचीनां विनायकः || ६/८ || प्रमातृरूपोऽहङ्कारो मूर्तत्वेन समुत्थितः | सप्तदशात्म तदिदं मूर्तिचक्रं विमृश्यताम् || ६/९ || कामोपभोगकालात्मग्राससाहसतत्परम् | तत्तत्प्रतीतिवैचित्र्यवासनालयभूमिगम् || ६/१० ||
SKपूर्वं बहिर्मुखात्मा यो मरीचीनां चयो भवेत् | इदानीं स समापन्नो मातृमेलावभाजनम् [-मेलाप-] || ६/११ || कालसृष्टिमयं मानं (भानं) मेयं कामक्रियात्मकम् | एतद् द्वयं यत्र लीनं सामरस्येन वर्तते || ६/१२ || (प्. २६) बीजभावात्मना सैषा कालग्रासप्रनालिका | आवासनेन (अव-) सहसा मूर्तिचक्रेऽनुभूयते || ६/१३ || कालात् कामस्य विष्फारः कामात् कालस्तु वर्धते | इति विश्वक्रमे हेतू कालकामौ न तात्त्विकौ || ६/१४ || कामात्मतां विना कालः कथं स्यात् कलनात्मकः | कलनात्मकतावर्ज्यं कथं कामस्य सम्भवः || ६/१५ || अतः (* *) परस्परापेक्षौ कालकामौ न तात्त्विकौ | अकालकलिताद् रूपादकामाच्च समुत्थितौ || ६/१६ || तयोः कबलनं यत्र प्रत्यावृत्त्या भवेत् स्फुटम् | तद् विश्वग्रासरसिकं स्वरूपं परमेशितुः || ६/१७ || एतत् प्रमेयानुगमात् कालकाममयं (* यं) द्वयम् | बाह्यं ददाह शिखिनां स्थूलरूपधरो हरः || ६/१८ || तदित्थं यो ह्यहङ्कारो निर्माता कालकामयोः | प्रत्यावृत्त्या स एवान्तः संहर्ता कालकामयोः || ६/१९ || अहङ्कारस्य मूर्तत्वप्राधान्यान्मूर्तिसंज्ञितम् | चक्रं सप्तदशमयक्रममेलपसुन्दरम् || ६/२० || तत्तादृशाद् विचित्रत्वात् प्रतीतीनां स्वभावतः | नामसंस्थानयोर्भेदं प्रति चक्रं प्रवर्तते || ६/२१ ||
SKस्वसिद्धरूपप्राधान्यात् तत्र सिद्धतया स्थितेः (स्थितिः) | निर्मेययोगतः शक्तेर्योगिनीत्वेन सम्भवः || ६/२२ || परं रहस्यं कथितं किञ्चित् किञ्चित् क्वचित् क्वचित् | सर्वं सभयभीरुत्वान्नैकत्रैव प्रकाश्यते || ६/२३ || (प्. २७) महानयप्रकाशेऽस्मिन् ये पूर्वापरवेदिनः | हस्तामलकवत् तेषां वस्तुतत्त्वं प्रकाशते || ६/२४ || इत्थं विश्वस्य संस्थानं प्रमात्रन्तं निरूपितम् | गुरुदृक्पातपात्राणां संशयत्रासविच्छिदे || ६/२५ || यथाक्रमं मानमेयमातृरूपतया बहिः | खचक्रात् प्रसृतं विश्वं परशक्तिस्वभावतः || ६/२६ || स्तोत्रकारस्येदमेव स्थितं चेतसि यज्जगौ | संवित् स्तोत्रैः समालोकप्रमाणार्थप्रमातृतः (-तृदः) || ६/२७ || प्रत्यावृत्त्या वितन्वत्याः संहारस्यापि भक्षणम् | देव्याः संहारभक्षिण्याः स्फार एष सुसङ्गतः || ६/२८ || मूर्तिचक्रवरसम्प्रदायतः कालघट्टनमयी समन्ततः | संविदत्र परमार्थयोगिनां भासतामसमसाहसावनिः || ६/२९ || इति श्रीमहानयप्रकाशे मूर्तिचक्रनिरूपणं नाम षष्ठोल्लासः || अथ सप्तम उल्लासः (प्. २७) अविकल्पविकल्पसंविदां सकलं वृन्दमनुज्झितक्रमम् | उदयादिमयं (-मया) यदन्तरे हठपाकेन गलत्यनारतम् || ७/१ ||
SKअनुभूय गुरुप्रसादतः परविश्रान्तिदशामनुत्तराम् | तदिदं समुदायपूर्वकं किल वृन्दक्रमचक्रमुच्यते || ७/२ || प्रत्यक्षानुभवं श्रित्वा भूतभावमयं जगत् | पीठक्रमदृशा पूर्वं गुरुणा प्रतिपादितम् || ७/३ || (प्. २८) अन्यहेतुनिरासेन तस्य मूलात् समुद्भवः | खचक्रात्मतयोन्मग्नः पञ्चात्माथ प्रकाशितः || ७/४ || स्वप्रकाशकरान्तस्थस्फुटज्ञानक्रियात्मकः | प्रमाणात्मा द्वादशधा ततोऽपि प्रतिपादितः || ७/५ || ततोऽपि दुर्घटैश्वर्यपारिपूर्ण्यचमत्कृतेः | आनन्दाख्यः षोडशधा प्रमेयात्मा निरूपितः || ७/६ || ततो बहिर्मुखैश्वर्यतृप्तेरुपरमे सति | स्वप्रतिष्ठतया सृष्टिसंहारात्मा व्यवस्थितः || ७/७ || प्रत्यावृत्त्यात्मतश्चापि यत्र सर्वं प्रलीयते | मातुः सप्तदशस्यास्य मूर्तत्वेन समुद्भवः || ७/८ || तदित्थं सर्वजन्तूनां व्यवहारदशाक्रमे | सिद्धोऽपि यो बहिर्भावः सर्वः सर्वविदात्मकः || ७/९ || मेयमानप्रमात्रात्म बहिः सिद्धमपीह यत् | तत् प्रकाशं विना सिध्येन्न कथञ्चन कस्यचित् || ७/१० || अतः प्रकाशनिष्पत्त्या निष्पत्तिर्यस्यकस्यचित् | परस्यापरनिष्ठत्वान्नत्वैक्यं चिज्जडात्मनोः || ७/११ || अतो यद् विश्ववैचित्र्यं [-चित्यं] जडात्मैवानुभूयते | स्वोल्लेखरेखासंस्थानं तत् स्वतन्त्रं चिदात्मकम् || ७/१२ ||
SKपराकाशात् स्पन्दनत इच्छातोऽथ यथाक्रमम् | इन्द्रियद्वारतः पश्चाद् भावाभासः प्रवर्तते || ७/१३ || बहिःसिद्धेऽपि विषये प्रमातॄणां स्वभावतः | तदत्र यावद् गुरुणा विश्वस्योदयसंस्थितिः || ७/१४ || (प्. २९) संहृतिः स्वस्वभावश्च स्वसाक्षित्वेन दर्शितः | अतः सर्वत्र चक्राणां स्वरूपप्रतिपादनम् || ७/१५ || महानुभावाधिष्ठानात् सामरस्यं प्रवर्तते | आरघट्टघटीयन्त्रन्यायेनैतावतः सदा || ७/१६ || जगतः सृष्टिसंहारौ (-संसारौ) भावाभावमयौ स्थितौ | अने(क)क्रमयोगेनाप्याक्षिप्ते (अने * - -ते) * * गोचरम् || ७/१७ || विचित्रसृष्टिसंहारप्रबन्धः परिवर्तते | शून्यादारभ्य देहान्तं सङ्कोचात्मा हि योऽग्रतः || ७/१८ || स संसारो विमुक्तिस्तु तत्स्वरूपविपर्ययः | तदत्र यावत् संसारस्तत्तद्रूपतया स्थितः || ७/१९ || * * * समुद्धर्षाभ्यां सङ्कोचस्य व्यवस्थितेः | न भावत्यागतो मुक्तिर्नापि भावोपभोगतः || ७/२० || भावनालम्बनान्नापि (भावनाशाल-) शून्यमात्रोपलम्भतः | अनाग्रहादाग्रहाद्वा कस्यचिन्नापि तात्त्विकी || ७/२१ || असङ्कोचापटात्मा सा विमुक्तिः पारमार्थिकी | यदपेक्षावशात् सर्वाः संसारोन्या(?) विमुक्तयः || ७/२२ || एतदात्मनि विश्वस्य स्वस्वरूपविलापनम् | सङ्कोचदलनाभ्यासाद् वासनालयभूमिगम् || ७/२३ ||
SKनिरावरणताहेतोरतस्तत्प्रतिपत्तये | वृन्दक्रमस्य संस्थानं कथ्यते गुर्वनुग्रहात् || ७/२४ || स्वविमर्शावधानेनाप्याकालाग्नि शिवावधि | विश्वस्य भावः सहसा स्वस्वरूपे विचीयते || ७/२५ || (प्. ३०) महानयमहायानवेदान्ताद्वयवादिनः | सदृशाः प्रतिपाद्यन्ते चार्वाकाद्वयवादिभिः || ७/२६ || ये हस्तिमशकन्यायादर्थादर्थास्तु भेदिनः | तैर्जडा विप्रलम्यन्ते सदृशैरभिधायकैः (-सायतैः) || ७/२७ || अतो नास्तिकतातत्त्वं चित्ते कृत्वा दुरात्मभिः | महानयोपदेशेन पात्येते स्वपरावधः || ७/२८ || सर्वोत्कृष्टस्वभावस्य शिवस्यापि महात्मनः | स्थितः सङ्कोचसंस्कारः का कथान्येषु जन्तुषु || ७/२९ || अतो नित्यावधानेन स्वस्वरूपमयस्थितेः | सर्वाग्रहग्राहवशाज्जीवन्मुक्तिः प्रकाशते || ७/३० || तच्चावधानं विषयिस्वरूपपरिशीलनात् | अविकल्पविकल्पात्मस्थैर्यरूपतया पुनः || ७/३१ || विकल्पशृङ्खलाबद्धो हेतुकार्यात्मको हि यः | नानाविधाग्रहग्रन्थिवासनावेधबृंहितः (-जहितः) || ७/३२ || न शक्योऽसावपह्नोतुं किल प्रत्यात्मवेदनात् | अतः संहाररूपोऽयं * * * * विना कथम् || ७/३३ || सहसा ग्रसितुं शक्यः संवादैरेव पेशलैः | तस्मात् स्वरूपदार्ढ्येन सर्वावरणभेदिना || ७/३४ ||
SKपरावधानरूपेण स्थातव्यं परयोगिना | अतो विश्वस्य संस्थाने यन्मुखेन यदागतम् || ७/३५ || तन्मुखेनैव तत् तस्य हठपाकेन लीयते | विश्वं प्रकाशाधीनत्वात् तन्मयत्वाच्च वस्तुतः || ७/३६ || (प्. ३१) संवित्स्वरसवाहित्वाच्छून्यं स्थापयितुं यथा | तथैव हठपाकेन प्रत्यावृत्तिक्रमात्मना || ७/३७ || निरावरणतां नेतुं शक्यं संस्थानशीलनात् | एतस्मिन् विदिते सम्यङ्मुक्तिः संसारभूमितः (-नाम्) || ७/३८ || अन्यथा मुक्तिरूपं तु संसारस्यापरो विधिः | यथास्थितस्य विश्वस्य यथैवानुभवे स्थिते || ७/३९ || सङ्कोचसंस्थानलयाज्जिवन्मुक्तिः प्रकाशते | यथैव पश्यन्ति विश्वं तथैव परिवर्तते || ७/४० || संवित्स्वातन्त्र्यतस्त्यक्तसर्वोपायकदर्थनम् | अतो विमर्शरूपोऽयं कथनात्मा प्रकाशते || ७/४१ || सत्सम्प्रदायो गुरुणा सर्वावरणभेदकः | मूर्तिचक्रे ह्यहङ्कारः प्रमात्रात्मा य उत्थितः || ७/४२ || स्वात्मसङ्कोचसंहारपूर्वे स हठपाकतः | भावसंस्काररूपस्य रश्मिवृन्दस्य सर्वतः || ७/४३ || तिष्ठतो बीजभावेन मातृमेलावरूपिणः (मात्र-) | निर्विकल्पविकल्पांशान् भावाभावद्वयानुगान् || ७/४४ || विनिर्भिद्य विनिर्भिद्य संहरत्यान्तरानपि | निर्विकल्पविकल्पांशाः प्रायः सङ्कलनावशात् || ७/४५ ||
SKसम्भवन्ति चतुष्षष्टिः प्रतीतीनां स्वभावतः | तत्रापि ज्ञेयसंस्काराभिज्ञरूपाः प्रतीतयः || ७/४६ || सम्भवन्ति चतुष्षष्टिः सोपानक्रमयोगतः | अन्या - अपिच तन्निष्ठा हठपाकैकलम्पटाः || ७/४७ || (प्. ३२) ज्ञातृभोगस्वरूपिण्यस्तत्संख्या एव वस्तुतः | ज्ञातृभोगस्वरूपाणां मरीचीनां कदम्बकम् || ७/४८ || प्रत्येकं हठपाकेन ग्रसितुं तत्र वर्तते | तच्च स्फुटास्फुटत्वेन वर्ततेऽनुभवादपि || ७/४९ || ज्ञेयसंस्काररूपाणां (ज्ञेयं-) प्रतीतीनामनुक्रमात् | आसां सर्वप्रतीतीनां परविश्रान्तिलक्षणम् || ७/५० || न क्षणं च्यवते रूपं यस्याः सा पारमार्थिकी | सर्वोत्तीर्णा सर्वमयी सर्वसर्वात्मकप्रथा || ७/५१ || अविभिन्ना विभिन्नेव या काचित् पारमेश्वरी | व्यपदेशातिगा तस्याः स्वस्वरूपमयस्थितेः || ७/५२ || पञ्चषष्टिप्रतीतित्वमुपचारेण गीयते | रौद्रेश्वर्या अयं स्फारः प्राधान्येन व्यवस्थितः || ७/५३ || संस्कारहठपाकात्मा ग्रासव्यापारपारगः | संहारभक्षिणीरूपाद् व्योमेश्यन्तं हि यत् स्थितम् || ७/५४ || चक्रसंस्थानमेतस्य निजचक्रक्रमान्तरे | निर्विभज्य स्वकं रूपं हठपाकक्रियात्मकम् (कः?) || ७/५५ || प्रत्यावृत्त्या स्वस्वरूपे निरावरणसुन्दरे | इच्छासंस्कारविरहे क्षीणा विश्राम्यति स्वतः || ७/५६ ||
SKपरधारासमारूढसामरस्यावसानभूः | एषा कृशतनुर्देवी सर्वेच्छाविलयावनिः || ७/५७ || अनपायपदप्राप्त्यै कैश्चिदेवाभ्युपास्यते | यां (*) यां (या) स्वचक्रे चक्रेशी तां तामाविश्य युक्तितः || ७/५८ || (प्. ३३) रौद्रेश्वरी सर्वचक्राण्यामूलाद् ग्रसति स्वयम् | अतो वृन्दक्रमे सर्वमुपादेयतया स्थितम् || ७/५९ || प्रमेयजातं सङ्कोचकलाविच्छेदनक्षमम् | मुद्रामन्त्रनिरीहादिप्रमेयप्रतिपादनात् || ७/६० || कथनात्मा सम्प्रदायो निष्ठामत्र परां गतः | कथनात् संशयच्छेदः पूजनं परिपूर्णता || ७/६१ || सङ्क्रमात् सामरस्यस्य परा निष्ठा प्रवर्तते | अतोऽत्र सावधानेन हृदयेन विमृश्यताम् || ७/६२ || चतुष्षष्टिमरीचीनां संस्थानं हृदयङ्गमम् | प्रत्यक्षानुभवात् (* * वात्) सर्वं स्वात्मा भवति योगिनाम् || ७/६३ || अतो गुरुमुखात् तद्यत् प्रत्यक्षेणानुभूयते | विषयाभोगसंस्काररूपो यः कामसम्भवः || ७/६४ || कालेनासाद्यते भूयः स तद् बीजक्रमात्मना | तद्भोगेनापि कालस्य तृप्तेरुपरमे सति || ७/६५ || यथाक्रमं स्वस्वरूपहानिः संजायते स्फुटम् | तदित्थं प्रथमः कालः कामं सृष्ट्वा ततः क्रमात् || ७/६६ || प्रत्यावृत्त्या तु तद्ग्रासात् स्वं स्वं रूपं ग्रसत्यपि | तदेतद् वस्तुतः सर्वं मरीचीनां विजृम्भितम् || ७/६७ ||
SKअक्रमाणां क्रमाभासरूपमप्रत्यक्षतः स्थितम् | तत्र कालस्य या सृष्टिर्द्वादशात्मा निरूपिता || ७/६८ || प्रत्यावृत्तिक्रमोन्माना मूर्ताहङ्कारमेलनात् | त्रयोदशात्मतां प्राप्ता सा विश्रान्तिपदोन्मुखी || ७/६९ || (प्. ३४) त्रयोदशानां रूपाणां प्रत्येकमुदयादिभिः | पञ्चात्मिका पञ्चषष्टिस्तत एता मरीचयः || ७/७० || अन्त्या क्रमाक्रमोत्क्रान्त्या विश्रान्तिरिति गीयते | चतुष्षष्टिमरीचीनां सामरस्यावसानभूः || ७/७१ || उदयादिमयोल्लासद्वादशात्ममरीचयः | तन्मयोल्लासपरमाहङ्कारानुगमूर्तयः || ७/७२ || प्रतिभावं प्रवर्तन्ते हठग्रसनलम्पटाः | भावानुभवभूमौ हि स्तिमितिव्यन्तरात्मनि || ७/७३ || सर्वेन्द्रियमरीचीनां चक्रं युगपदुल्लसेत् | यस्या यस्या यत्र यत्र रूपादावधिकारिता || ७/७४ || तस्यास्तस्यास्तत्र तत्र स्वोद्रेकः केवलं स्थितः | तन्निलीनत्वमन्यासामित्येकोऽनुभवो नचेत् || ७/७५ || कथं स्याद्रूपलावण्यविकासाढ्यपरस्त्रियाम् | अभिलाषस्तथाह्येष प्रायः स्पर्शेन्द्रियात्मकः || ७/७६ || नचात्र रूपलावण्यविलासः स्पर्शनात्मकः | एवं वचनमाधुर्यं तथाङ्गश्वाससौरभम् || ७/७७ || अधरामृतपानं च सर्वं स्यात् तच्च निष्फलम् | तदित्थं सर्वरश्मीनां सर्वसर्वात्मतामयम् || ७/७८ || प्रमातृपरितोषात्मसामरस्यव्यवस्थितम् | स एष परमो वीरः पराहङ्कारलक्षणः || ७/७९ ||
SKयुगपत् सर्वरश्मीनां परं द्रावणलक्षणम् | आद्ययागं समासाद्य सामरस्येन वर्तते || ७/८० || (प्. ३५) चक्रेश्वरः स एवायमाद्ययागादनन्तरम् | चतुष्षष्टिमयेनान्तः शक्तिचक्रेण सङ्गतः || ७/८१ || निर्विकल्पविकल्पात्मसंस्कारान् पशुरूपिणः | गगलनक्षमा ततोऽपि परिविश्रामविलीना(?) || ७/८२ || हठेनाहन्ति रभसात् स्वचक्रपरितृप्तये | मध्ये च परमामोदचमत्काररसात्मिका (पर * -) || ७/८३ || मदिरा जृम्भते कापि विभस * कलक्रियः | कान्दिशीकत्वमायाति परशक्तावसावपि (-त्सावपि) || ७/८४ || वीरसिंहासनस्थेयं देवी (-वीं) परममङ्गला (-लाम्) | चलनान्मोहरूपस्य क्रमणात् परसंविदः || ७/८५ || गुरुः सकलचक्राणां क्रमाक्रमपदोज्झितः | उद्द्योतातिक्रमश्चापि (उद्योगातिक *श्चापि) द्वैविध्येन व्यवस्थितः || ७/८६ || पराकाशस्पन्दनेच्छादृक्क्रियात्मा बहिर्मुखः | एकस्तद्व्युक्रमात्मान्यः पराकाशप्रतिष्ठितः || ७/८७ || बहिर्मुखत्वेऽपीच्छातश्चर्वणं तत्त्रयात्मनः | कामसंसर्गतस्तस्य प्रत्यावृत्त्या (+त्म)समन्ततः || ७/८८ || ज्ञानक्रियातः कालस्य ग्रासो विश्रान्तिरप्यथ (-*) | विषयाभोगनिर्ज्ञातनिर्विकल्पेऽपि यत् स्फुटम् || ७/८९ || कालग्रसनविश्रान्ती सर्वेषां भवतः क्षणम् | अन्तर्मुखत्वे तूद्द्योताद् भावामर्शक्रियात्मकात् || ७/९० ||
SKआरभ्य चिति विश्रान्तिपर्यन्तं पञ्चकं स्थितम् | एवं बहिर्मुखाभावावसरे ह्युदयादिकम् || ७/९१ || (प्. ३६) व्योमेश्वरीक्रमाद् यावद् रौद्रेशीपञ्चकं स्थितम् | तद् (*) बहिर्विश्वमाश्रित्या * * * थ क्रियात्मनः || ७/९२ || विमर्शात् परमाकाशपर्यन्तमपि तत् स्थितम् | * * * * समाश्रित्य पूर्वं पीठक्रमात्मना || ७/९३ || यागादिभेदरूपेण तज्ज्ञप्तिर्गुरुणा कृता | ततो विश्वस्य संस्थानमामूलात् प्रतिपादितम् || ७/९४ || मानमेयप्रमात्रात्ममूर्तिचक्रान्तमित्यतः | इदानीं येन रूपेण सर्वाकारं विलीयते || ७/९५ || यथास्थितक्रमेणैव तद् बृन्दं प्रतिपाद्यते | सामरस्ये प्रवृत्तेऽपि ज्ञानमेलापलक्षणे (-मेलाव-) || ७/९६ || वासनावेधसंस्काराः कालग्रासेऽपि यत् स्थिताः | अतः क्रियां विना तेषां हि (न) निर्हरणं भवेत् || ७/९७ || चिद्विमर्शस्वरूपेण स्वात्मयागमयात्मना | अलं ग्रासप्रवृत्तेन क्रियावेशेन तत्त्वतः || ७/९८ || भूय - उन्मज्जनं न स्यादेषामिति विशेषतः | रौद्रेश्वरीमयः स्फारः परानुग्रहभूमिकः || ७/९९ || मिथ्याभिमानरूपो (-विमान-) यः संसारोऽत्र विलीयते | निस्संस्कारप्रकामात्मा पराशक्तिः प्रवर्तते || ७/१०० || अस्या एव ततो देव्या अपि प्राधान्यमिष्यते | निरावरणता (-णं *) यस्मादतः सञ्जायते स्फुटम् || ७/१०१ ||
SKपूर्वं या ज्ञेयसंस्कारभित्तिरूपाः प्रतीतयः | सोपानक्रमरूपेण चतुष्षष्टिर्निरूपिताः || ७/१०२ || (प्. ३७) स्वचक्रे पशुरूपाणां तासां धामत्रयात्मनाम् | चिद्विमर्शस्वरूपेण हठपाकेन गालनम् || ७/१०३ || क्रियते चरुचर्यादिप्रक्रमानुभवात् स्थिरम् (-रः) | तत्र रौद्रेश्वरीरूपं प्रथमं षोडशात्मनः || ७/१०४ || मेयसंस्कारचक्रस्य विषयाभोगरूपिणः | निरावरणतां नेतुं प्रवृत्तं चिद्विमर्शतः (-कः) || ७/१०५ || कामस्वरूपमामूलादत्र ग्रस्तं समन्ततः | अहङ्कारेण सिद्धत्वं श्रित्वा तत्तन्मरीचिनाम् || ७/१०६ || संहारभक्षिणीरूपं ज्ञानं सिद्धमयात्मताम् | आविश्य मेयसंस्कारचक्रं तत्र प्रलीयते || ७/१०७ || ततः कालस्वभावस्य द्वादशात्ममयस्थितेः | मानसंस्कारचक्रस्य प्रत्यावृत्तिक्रमात्मनः || ७/१०८ || अविकल्पविकल्पाभ्यां चतुर्विंशतिरूपतः | मननत्राणधर्माभ्यां मन्त्रसिद्धमयात्मताम् (-नाम्) || ७/१०९ || आविश्य तत्स्वरूपस्य विकल्पोपक्रमो लयः | भूचरीरूपमाविश्य क्रियतेऽनुभवात्मना || ७/११० || ततो विकल्परूपस्य निर्विकल्पप्रतिष्ठितेः | मेलापसिद्धतां (मेलाव-) श्रित्वा कालग्रासो हि तन्यते || ७/१११ || द्वादशात्मक्रमोन्मग्नमेलापानन्तरं (-मेलावा-) ततः | तन्मात्ररूपसंस्कारास्तथान्तःकरणत्रयम् || ७/११२ ||
SKअष्टाविह विशिष्यन्ते शाक्ता अव्यक्तमूर्तयः | तद्विनिर्हरणाद्युक्तं शाक्तमष्टात्मकं हठात् || ७/११३ || (प्. ३८) खेचरीरूपमाविश्य सूक्ष्मकालांशभेदकम् (-कः) | सूक्ष्मेक्षिताप्रकारेण परं तन्मात्ररूपिणः || ७/११४ || एकस्य कामसंस्कारवेधस्याप्यस्ति (-न्ति) संभवः | तथैव चान्तःकरणत्रयसंस्कारभूमिगः || ७/११५ || अनुवेधोऽस्ति यस्याप्युद्युगाप्यत्र संलयः (?) | चक्ररूपं शाम्भवं * तञ्चक्रं क्रमतः स्थितम् || ७/११६ || श्रेयसः पररूपस्य शंस्वभावतया यतः | भवनं शाम्भवं तेन चक्रमेतत् प्रकीर्तितम् || ७/११७ || व्योमेश्वरी स्वस्वरूपे प्रत्यावृत्तिक्रमात्मना | रौद्रेशीरूपमाविश्य कालग्रासादनन्तरम् || ७/११८ || स्वकृत्यं सकलं कृत्वा सम्यग् विश्राम्यति स्वतः | तदत्र सर्वसंस्कारचक्रमक्रमरूपिणा || ७/११९ || ज्ञातृभोगस्वरूपेण चतुष्षष्टिमयात्मना | स्फुटास्फुटत्वभिन्नेन मेयाभ्यासाद् यथायथम् || ७/१२० || मेयमानप्रमातृत्वं विचित्रक्रमरूपतः | चतुष्षष्टिमयं मेयं सर्वाकारं (-*) रसिष्यते (-स्यते) || ७/१२१ || मुद्रामन्त्रात्मकोऽत्रैव सम्प्रदायोऽनुवर्तते | प्रसङ्गादिह तस्यापि स्वरूपं प्रतिपाद्यते || ७/१२२ || स्वरूपज्ञापनारूपं मुद्रासंस्थानमिष्यते | स्वविमर्शात्मना त्राणमिष्यते मन्त्रलक्षणम् || ७/१२३ ||
SKनानानुभवरूपासु व्यवहारदशास्वपि | एतद् द्वयं व्याप्तिसारं स्फुटं प्रत्यक्षतः स्थितम् || ७/१२४ || (प्. ३९) अद्याप्यभिन्नरूपत्वात् परोक्षमिव वर्तते | यत्परिज्ञानवशतो भवो भवति मुक्तिभूः || ७/१२५ || मुद्रामन्त्रौ बिन्दुनादौ निरीहात्मा तदाश्रयः | अविभागेन वर्तन्ते सर्वानुभवभूमिषु || ७/१२६ || करङ्किणी क्रोधिनी च भैरवी लेलिहानिका | खेचरी चेति मुद्रायाः पञ्चात्मकतया स्थितिः || ७/१२७ || यो ज्ञानमन्त्रमेलापशाक्तशाम्भवभेदतः (-मेलाव-) | क्रमस्तस्य यथासंख्यमेताभिः सर्वथान्वयः || ७/१२८ || मुद्रामन्त्रनिरीहाणां धामवर्णचिदात्मनाम् | अन्योन्याव्यभिचारेण सामरस्यादभिन्नता || ७/१२९ || क्रमे सर्वज्ञपर्यन्तं प्रत्यक्षा कापि या स्थिता | यत्परिज्ञानवशतः कायवङ्मनसाश्रयम् || ७/१३० || सङ्कोचसंस्कारलयात् सर्वाकारं विशुध्यते | आणवादिसमावेशत्रयव्यापकरूपता || ७/१३१ || यत्रापि भिन्नानुभवात् स्वरूपस्थितये भवेत् | यादिकर्मादिकल्म(?)त्रयमक्रमतो लयम् || ७/१३२ || यत्प्रसादेन यत्स्फारात् त्र्युट्यते कालघट्टनम् | इच्छानिर्हरणात् सृष्टमाकालाग्नि शिवावधि || ७/१३३ || मेयमद्याप्यनुन्मग्नप्रथाकथनरूपतः | केषाञ्चिदेव सङ्क्रान्ता मुखान्मुखमनुक्रमात् || ७/१३४ ||
SKमहार्थकथनं यस्या विना यादृशतादृशम् | यां विनापि नयस्यास्य वैलक्षण्यं न जायते || ७/१३५ || (प्. ४०) सैषा रहस्यरूपत्वान्मुखाम्नायैकगोचरा | लिपौ पातयितुं शक्त्या न सम्यग्वदते मनाक् (*) || ७/१३६ || कटाक्षीक्रियते (* टा-) बुद्धौ तज्ज्ञानं सूक्ष्मदर्शिनाम् | प्रत्यक्षानुभवादस्या भेदग्रासो हि यत्नतः || ७/१३७ || अवर्णाकारसंस्थानां प्रमातॄणां स्वभावतः | अपटाटङ्कसङ्केतात् कायसंस्थानतः स्थिता (-तम्) || ७/१३८ || कायसंस्थानरूपा च मुद्रा सार्वत्रिकी मता | करङ्कानुभवात्मत्वात् प्रथमं साकरंकिणी (-रकिंकिणी)|| ७/१३९ || ततः करङ्करूपस्य स्वात्मन्याधारतावशात् | संरभात् क्रोधिनीरूपमसावाश्रित्य वर्तते || ७/१४० || ततोऽपि तत्स्वरूपस्य सान्तर्विपरिवर्तिनः | यथायथं सम्भरणाद् भैरवीति प्रकीर्तिता || ७/१४१ || ततोऽपि वासनारूपपुर्यष्टकविलापनात् | महाविलयरूपत्वाल्लेलिहानेति कथ्यते || ७/१४२ || ततश्चापि स्वस्वरूपे (* स्व-) प्रतिष्ठामभ्युपेयुषि | निरावरणरूपत्वात् खेचरीरूपमास्थिता || ७/१४३ || इयं सा परमा मुद्रा ह्यापातालाच्छिवावधि | तर्पयित्वा जगत्कृत्स्नं निजसंस्थानतः स्थिता || ७/१४४ || एवंविधं हि यत् स्थानं जङ्गमस्थावरात्मकम् | वाचकात्मस्वरूपान्तरध्यस्तं मन्त्ररूपतः || ७/१४५ ||
SKआपाद्यते परामर्शात् स्वरूपत्राणयोगतः | अवर्णमयवाक् कल्प * * कारतया स्थितः || ७/१४६ || (प्. ४१) अवर्णात्मा महामन्त्रो विश्वावरणतत्परः | निजस्वरूपटङ्कान्तपञ्चमुद्रात्मकं जगत् || ७/१४७ || आकृष्य घट्टयत्युञ्चैरनाहतहतोज्झितः | भेदप्रपञ्चोपशमः परामर्शान्तकोटिगः (-शः) || ७/१४८ || एतद् द्वयं संविदन्तः सामरस्यतया स्थितम् | निरीहरूपे विश्रान्तिः परविश्रान्तिलक्षणे || ७/१४९ || वाच्यवाचकसंस्थानं वस्तुतः संविदेव हि | निरावरणता यस्मात् स्थिता तत्रापि वस्तुतः || ७/१५० || परस्परापेक्षतया कालकामौ न तात्त्विकौ | नचापि न स्थितौ यस्मात् प्रतीतिपथि वर्तते || ७/१५१ || निरावरणत्वञ्चि तदेवचितो यथा (?) | स्वसंवेदनसंसिद्धं तद्वदेवानयोर्न किम् || ७/१५२ || आमुखाद् भासमानं तु यद्रूपमनयोः स्थितम् | केशोण्डुकाभाससमं तन्निरावरणं पुनः || ७/१५३ || अपरामर्शदोषेण केवलं ह्यनयोः स्थितिः | परामर्शः पुनर्देवी परानुग्रहभूमिका || ७/१५४ || परामर्शे प्रवृत्ते तु शालनं यदि वा स्थितिः | अनयोः समतामेति योगिनः प्रति वस्तुतः || ७/१५५ || एतद्रूपपरिज्ञानद्वयघट्टनसम्भवा | निरीहात्मा संविदेव प्रथतेऽनुपयोगिनः || ७/१५६ ||
SK(प्. ४२) मुद्रामन्त्रनिरीहाणां धामवर्णचिदात्मनाम् | ऐकध्यमनया भङ्ग्या प्रतिभावं व्यवस्थितम् || ७/१५७ || मुद्रा स्वरूपकथनं मन्त्ररूपं च पूजनम् | संक्रामश्च (-ञ्च) निरीहात्मा त्रयमेकतयाप्यदः || ७/१५८ || पञ्चशून्यात्मकाकाशपिण्डरूपतया विभुः | संवित्संस्थानमाश्रित्या (-आश्रित्य) वर्णात्माजो (-* जो) विराजते || ७/१५९ || षोडशस्वररूपत्वमस्यान्तः प्रकटं स्थितम् | अपटाटङ्कसङ्केतात् केवलं न विभाव्यते || ७/१६० || एतत्प्रभावाद् व्युत्थाने समाधिर्योगिनां भवेत् | अनुकार्यानुकरणसमानप्रतिपत्तितः || ७/१६१ || एकस्वभावा (-वः) सर्वासु लिपिष्वेव विभुस्थितिः | अन्ये वर्णा विभिद्यन्ते यथा नायं पुनस्तथा || ७/१६२ || एकस्वरूपं मुद्रायाः करङ्कात्मतया स्थितम् | आक्षितेः शिवपर्यन्तं महासामान्यलक्षणम् || ७/१६३ || तथैव वर्णराजस्य महामन्त्रस्वरूपिणः (-णिम्) | सर्ववाचकसामान्यध्वनिरूपतया स्थितम् || ७/१६४ || ७/ तथा खचक्ररूपायाः संविदोऽनुगमः स्थितः | निरीहात्मतयाप्येतद्द्वयविश्रान्तिलक्षणः || ७/१६५ || तदिदं धारणाध्यानसमाधीनां स्वभावतः | व्युत्थानेऽपि स्थितं साक्षात् त्रयमेकत्र संयमः || ७/१६६ || एतत् परिज्ञानवशाद् विक्षेपो नास्ति वस्तुतः | एतद्रूपापरिज्ञानात् का न विक्षेपभूमयः || ७/१६७ ||
SK(प्. ४३) तदेतत् परमं गुह्यं योगिनीनां मुखे स्थितम् | मुखागमम्लानभयादुद्घाट्य प्रतिपादितम् || ७/१६८ || एतत्प्रकटनाज्जातो योऽपराधो महान् मम | मरीचिमण्डलं तन्मे क्षम्यतां गुर्वनुग्रहात् || ७/१६९ || पञ्चपिण्डस्वरूपस्य (पण्ड-) सूक्ष्मप्राणक्रमात्मनः | अस्यैव वर्णराजस्य लिपिसंस्थानमन्यथा || ७/१७० || आश्रित्य परमा संविन्मुण्डदण्डतया (-न्मण्ड-) स्थिता | हृत्संविदुत्थरूपाया वर्णारणिमयात्मनः || ७/१७१ || ध्वनन्त्याः परमं नादं महासामान्यवाचकम् | अधः कुण्डलिनीस्रोतोमहावर्तफणाहतेः || ७/१७२ || स्वस्फारध्वनिरूपस्य (-राध्वान-) निष्पत्त्या रचितास्थितेः | प्रत्यावृत्त्या तु यद्धाममेयसंहरणात्मनः || ७/१७३ || अमाकलान्तं पश्यन्त्यास्ततोऽपि परमे पदे | बिन्दुशून्यात्मनि स्थानान्निरावरणता ततः || ७/१७४ || मुण्डनं ज्ञानरूपेण दण्डनं च क्रियात्मना | मुण्डदण्डक्रमौ तेन मतौ ज्ञानक्रियात्मकौ || ७/१७५ || शिरःप्रदेशे मुण्डात्मा ज्ञानेन्द्रियमयाश्रयः | कर्मेन्द्रियस्फारमयो (-धो) दण्डात्मा तु ततोऽपरः || ७/१७६ || आद्यो व्योमेश्वरीस्पन्दरूपो विश्वोदयोन्मुखः (विश्व-) | अन्यो रौद्रेश्वरीस्फारमयो विश्वविलापकः || ७/१७७ || कस्यापि पिण्डनाथस्य देहसंस्थानरूपिणी | व्याप्तिसारा स्थिता मुद्रा पञ्चप्राणक्रियात्मिका || ७/१७८ ||
SK(प्. ४४) सूक्ष्मप्राणक्रमोल्लासपिण्डनाथानुसन्धितः | महाप्रभावाज्जायन्ते योगिनामक्रमोदयाः || ७/१७९ || प्रत्यक्षानुभवात् सोऽयमुत्तमः पिण्डवर्णराट् | योगिनां मुख्यविश्रान्तिश्चिदानन्दाय (मुद्द्य-) कल्पते || ७/१८० || परस्थूलक्रमौ प्रायो व्याप्तिसारौ व्यवस्थितौ | सूक्ष्मक्रमप्रभावानामाकारो योगिनां मतः || ७/१८१ || अतोऽत्र पिण्डनाथस्याप्युपयोगो व्यवस्थितः | धामवर्णचिदैकाग्र्यमस्याप्यनुभवस्थितम् || ७/१८२ || आलिङ्ग्यकायं (-* कां) ग्रसितुं यदा कालः प्रवर्तते | तदा भोगविनाशाय तदा कालोपि (-वि) कल्प्यते || ७/१८३ || वाच्यवाचकविच्छेदमयप्राणक्रमात्मना | अक्रमोच्चाररूपेण चित्प्रकाशः प्रकाशते || ७/१८४ || अक्रमोच्चाररूपस्य क्रमात्मायं व्यवस्थितः | अदूरविप्रकर्षेण सामान्यात्मतया पुनः || ७/१८५ || इत्थं स्वानुभवं त्यक्त्वा ये सङ्ख्यामात्रपूरणात् | यथाकथञ्चिच्चक्राणां ग्रन्थ्याधारकलादिभिः || ७/१८६ || वर्णक्रमान्त्यैरन्यैश्च प्रकारैरसमञ्जसैः | स्वरूपं बोधयन्त्युच्चैः तेऽपि (के-) न (*) ज्ञानशालिनः || ७/१८७ || नातः क्रमादयोऽप्यत्र ये तज्ज्ञैः प्रतिपादिताः | आणवत्वात् (अन-) प्रपञ्चस्य नास्माभिस्ते प्रपञ्चिताः || ७/१८८ ||
SKआमूलाद् विलसति शाकिनीक्रमेऽस्मिन् शक्ता * द्विगलितसंशयोदयो यः | (प्. ४५) भव्यानामनुभवनिष्ठसम्प्रदायः स्वानन्दामृतरसतृप्तये स भूयात् || ७/१८९ || इति श्रीमहानयप्राकशे बृन्दचक्रनिरूपणं नाम सप्तमोल्लासः || अथाष्टम उल्लासः | स्वात्मज्ञानप्रवणं महाप्रभावप्रवर्तनोपायम् | सृष्टिस्थितिसंहारस्वरूपनिष्ठक्रमं तनुमः || ८/१ || प्रत्यभिज्ञागम्यरूपप्रथनात्मगुरूदयः | बृन्दक्रमान्तैः स्फुरितः सर्वसंशयभेदकः || ८/२ || अतो बृन्दक्रमस्यान्ते पूज्यते गुरुसन्ततिः | आत्मरूपपरिज्ञाने परानुग्रहकारिणी || ८/३ || अत आत्मपरिज्ञाने सम्पन्ने निर्विकल्पकः | विकल्पवासनाविद्धः पूजनात्मा प्रवर्तते || ८/४ || पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा | निर्विकल्पे महाव्योम्नि सा पूजा ह्यादरालया || ८/५ || इति पूजास्वरूपस्य तत्त्वतः प्रतिपादनात् | स्वसङ्कोचकलालोपे निर्विकल्पं हि पूजनम् || ८/६ || पञ्चाकाशस्वरूपस्य खचक्रस्यानुरूपतः | योन्यादिपञ्चरूपेण पूजनात्मा यतः स्थितः || ८/७ || तत्र योनिर्महासत्ताविश्रान्तिः सर्वसंविदाम् | महायोनिस्वरूपस्य पिकायात्मतयोदिता (?) || ८/८ || (प्. ४६) प्रमेयभूमिकावर्तशङ्खयोनितयोदिता | प्रत्यावृत्तिक्रमाद् भूयः स्वरूपपदरूपिणी || ८/९ ||
SKपद्मयोनितया ख्याता ततोऽपि परमे पदे | निजविश्रान्तिमापन्नो दिव्ययोनितयोदिता || ८/१० || इति संक्षेपतस्तत्त्वं पञ्चवाहक्रमस्य यत् | तन्निर्विकल्पतारूपसृष्ट्यात्मा पूजनोदयः || ८/११ || युगनाथप्रसादेन सर्वदास्य स्थितिर्यतः | अतस्तदात्मकत्वेन स्थित्यात्मा पूजनक्रमः || ८/१२ || तत्र व्योमेश्वरीरूपं खगेन्द्रात्मतया स्थितम् | पञ्चाकाशस्वभावस्य निरावरणतामयम् (निशा-) || ८/१३ || मानमेयमयस्वाङ्गसङ्कोचप्रसरक्षमम् | खेचरीभूचरीरूपं कूर्मनाथतयोदितम् || ८/१४ || प्रत्यावृत्त्या प्रमेयस्य महासंहाररूपकृत् | संहारभक्षिणीरूपं मेषनाथतयोदितम् || ८/१५ || भावात्ममयरूपत्वात्मच्छन्द इति वस्तुतः | रौद्ररौद्रेश्वरीरूपं श्रीमच्छन्दतयोदितम् || ८/१६ || तदित्थं युगनाथानां व्याप्तिसारतया स्थितम् | अदृष्टविग्रहाविष्टं व्योमेश्वर्यादिपञ्चकम् || ८/१७ || अविकल्पकविज्ञानस्थैर्येण तदनन्तरम् | देवतारूपमासाद्य स्वस्वातन्त्र्यविजृम्भणात् || ८/१८ || मनसः खण्डनोद्युक्ता एकादश मरीचिकाः | बुद्ध्याद्या एष संहारः प्रधानः पूजनक्रमः || ८/१९ || (प्. ४७) सर्गावतारसंहारचक्राणामित्थमिष्यते | पूजनात्मस्वरूपाणां क्रमोऽयं निर्विकल्पकः || ८/२० || अत्राधिरूढवृत्तीनां व्युत्थानावसरेऽपि यत् | कालग्रासो भवेन्नित्यं नानानुभवभूमिषु || ८/२१ ||
SKअतः पूजनरूपोऽयमात्मज्ञानतया स्थितः | उपदेशतरोः पुष्पं चिदामोदमनोहरम् || ८/२२ || ततोऽपि सर्ववृत्तिनां कालग्रासपुरस्सरम् (कलि-) | निरावरणविश्रान्तिः सङ्क्रमात्मा प्रवर्तते || ८/२३ || कथनादेव येषां तद्विश्रान्तिर्जायते परा (पराम्) | सृष्टिस्थितिसंहारचक्रापेक्षां न कुर्वते || ८/२४ || वृन्दक्रमानन्तरं तैरनाख्यं चक्रमिष्यते | सृष्ट्यादिचक्रत्रितयं तन्मते नैव पूज्यते || ८/२५ || अस्मन्मतेऽपि तदपि परिपूर्णार्थमिष्यते | एतत् समारूढिवशात् प्रभावो हि प्रवर्तते || ८/२६ || एतद्विमर्शसम्भूतवीरावल्यादितर्पणात् | आसीद्वामनवीर्यस्य यद्विष्णुस्तम्भनादिकम् || ८/२७ || पूजनात् खेचरत्वं हि सिद्धसूत्रेषु गद्यते | आत्मज्ञानात् प्रवर्तन्ते यथेच्छमणिमादयः || ८/२८ || कथने (कथं न) पूजने चैव सङ्क्रामेऽपि स्वभावतः | प्रत्येकमस्ति त्रैविध्यमुद्रेकाद् भेद इष्यते || ८/२९ || आत्मज्ञानसमुद्यतैरिति निजैर्भावानुभासात्मकैः संविन्मज्जनसारतामुपगतैः सृष्ट्यादिभिः पूजनैः | (प्. ४८) सम्पूर्णामलसुन्दरामृतमयस्फारासवानन्दिताः कालग्रासचरूपहाररसिका नन्दन्तु योगिव्रजाः || ८/३० || इति महानयप्रकाशे सृष्ट्यादिचक्रनिरूपणं नाम अष्टमोल्लासः || अथ नवम उल्लासः |
SKयत्सर्गस्थितिसंहृतिक्रममयैश्चक्रैरुपारूपितं न (*) स्वस्माच्च्यवते मनागपि पदाद्विश्रान्तिलाभात्मिकात् | आविश्याथ तदक्रमक्रमकलोत्तिर्णप्रथं साम्प्रतं तत् सङ्क्राममनाख्यचक्रमुचितैर्युक्तिक्रमैर्दृश्यते || ९/१ || इत्थं गुर्वात्मदेवानां कथनादिकमात्मना | लोलीभावस्थितं नित्यं सर्वानुभवभूमिषु || ९/२ || अभेदेऽपि (-दोऽपि) किलोद्रेकादेतेषां भेद इष्यते | तमाश्रित्यानुरूपेण प्रमेयं प्रतिपाद्यते || ९/३ || प्रायो हि मैथुने मद्ये मांसे च परिदृश्यते | आसक्तिः सर्वजन्तूनां विशेषात् कस्यचित् क्वचित् || ९/४ || यदि तत्त्यागसंरम्भः पूर्वं तेषां विधीयते | उपदेशो न स मनागपि चित्ते प्ररोहति || ९/५ || जन्मान्तरशताब्यस्ता विषयेषु मतिर्नृणाम् | जरद्गौरिव सस्येभ्यः सा हि दुःखेन वार्यते || ९/६ || इति संवादतस्तेषां परित्यागो हि दुष्करः | अभ्यसूयन्ति ते यस्मादुपदेशकराय च || ९/७ || (प्. ४९) यथास्थितोपभोगात्मपूर्वं यत्तूपदिश्यते | तत्राधिरूढिर्लोकस्य श्रद्धापूर्वं प्रजायते || ९/८ || प्रथैकरूपाभावाच्च निर्ह्वियन्ते(??) ततः कथम् | प्रथाया भावपर्यन्तं रूपं तद् भिद्यते कथम् || ९/९ || भेदश्चेद् कल्प्यते तर्हि कल्पनेयं न सत्यभूः | स्फुरणादेव वै तेषां गालनं नापि तात्त्विकम् || ९/१० ||
SKतच्च कल्पैरसङ्ख्येयैर्बहुदुष्करचर्यया | नचास्ति स्फुरणाभावो (स्फुर *-) ह्यन्यस्यानुपलम्भतः || ९/११ || अभावमात्रं नास्त्येव स्याच्चेत् तद् भाति सर्वदा | तस्मात् तत्त्वमतत्त्वं वा न भावेन विना भवेत् || ९/१२ || स्वसाम्राज्यवशाद् भानं सतत्त्वातत्त्वयोः समम् | हानोपादानकलनातन्त्रे त्वित्थं समर्थना || ९/१३ || यथास्थितस्य तस्यातः स्वरूपमुपपद्यते | एतत्परिज्ञानमयी जीवन्मुक्तिर्निगद्यते || ९/१४ || एकं स्वरूपरूपं हि मेयमानप्रमातृतः | सर्गावतारसंहारमयिराक्रम्य वर्तते || ९/१५ || स्वस्वरूपानुगुण्येन प्रत्येकं कलनावशात् | सृष्टिस्थित्यादिभिर्भेदैश्चतुर्धा अपि ताः स्थिताः || ९/१६ || कालग्रासान्तमुदयाच्चतुर्धा विहितो हि यः | तस्य विश्रान्तिरेकैव ततो देव्यस्त्रयोदश (देव्यात्र-) || ९/१७ || अनाख्यचक्रप्राधान्यात् (अन्या-) पूजनीयतया स्थिताः | तासामन्त्या स्वविश्रान्तिर्महाविलयभूः परा || ९/१८ || (प्. ५०) सर्गावतारसंहाराः क्रमात्मानो व्यवस्थिताः | अनाख्यमक्रममपि क्रमात्मैव तदाश्रयात् || ९/१९ || अक्रमात्मपरामर्शात् क्रमारूषणरूपिणः | कालस्य सहसा ग्राससङ्क्रमादित्थमिष्यते (ग्रा *-) || ९/२० || यस्मिन् यस्मिन् हि विषये संक्रामन्ति मरीचयः | तत्र तत्र ह्यनायासादनाख्यस्फुरणं स्थितम् || ९/२१ ||
SKउद्योगेनावभासश्चेत् कथं सक्तस्य सम्भवे | अचर्वितोऽवभासः स्यात् तदमृष्टतया कथम् || ९/२२ || तत् सर्गस्थितिसंहाररूपे यो यः क्रमः स्थितः | तत्र तत्राक्रमत्वेन अनाख्यं प्रथमं स्थितम् || ९/२३ || अत्रान्तरेऽपि विश्रान्तिः क्रमाक्रमपदोज्झिता | कालोपाधेरनाक्रम्य नान्तरीयतया स्थिता || ९/२४ || नो चेद् भावान्तरे संवित् प्रसरेत् कथमन्यथा | तद्रूपमात्रावष्टम्भात् परिच्छिन्नात्मरूपतः || ९/२५ || नीले तावत् स्थितं भानं भानं च किल (तिल) चर्वणे | अक्रमेण स्थितं नो चेन्नीलसंविन्न सिध्यति || ९/२६ || आदौ नीलं ततो भानं ततश्च यदि चर्वणम् | अन्योन्यपरिहारेण नीलसंविन्न तद् भवेत् || ९/२७ || कालक्रमात्मा कथितः क्रमश्चान्योन्यवर्जनात् | नैवं काचित् प्रतीतिः स्याद्विविधांशाभभेदतः || ९/२८ || तन्निरंशविदां (-दं) भोगमयानाख्यानुभावतः | सर्वानुभवसंसिद्धौ लोकयात्रा प्रतिष्ठिता || ९/२९ || (प्. ५१) आमुखाद् भासमानश्च क्रमो योऽयं व्यवस्थितः | यथानुभवमेतस्य भेदेऽनाख्यं स्फुटं स्थितम् || ९/३० || तत्र मेयस्वरूपस्य चतुर्धा भेदसम्भवः | आदावकलितोल्लासस्तत्सम्भोगस्ततः परम् || ९/३१ || ततोऽपि चर्वणं तत्र विरामस्तदनन्तरम् | एवं मानस्वरूपेऽपि चतुर्धा भेदसम्भवः || ९/३२ ||
SKस्वौचित्येन परिज्ञेयो मातृरूपे तथैव च | अत्र सर्वत्र विश्रान्तिरेकैव निरुपाधिका || ९/३३ || आसां द्वादशदेवीनां परामर्शबलात् स्फुटम् | विकल्पवासनाशून्यं निर्विकल्पं प्रवर्तते || ९/३४ || ये तु योषिद्व्यसनिनस्तन्मुखेनैव ते क्रमात् | कालग्रासपदे सम्यक् प्रविशन्ति निराश्रये || ९/३५ || केचिद् दर्शनमात्रेण तथाङ्गस्पर्शनात् परे | द्वीन्द्रियोत्पत्तितश्चान्ये विश्राम्यन्ति निराश्रये || ९/३६ || इत्थं योषिद्व्यसनिनां तिस्रोऽनुभवभूमिकाः | दृश्यन्ते कालविलये विश्रान्तिर्निरुपाधिका || ९/३७ || सृष्ट्यसृष्ट्यादिभेदेन (सृष्टि-) चतस्रोऽनाख्यदेवताः | प्रमेयभूमिमाश्रित्य कालग्रासपराः स्थिताः || ९/३८ || क्षेपार्थस्य कलेर्धातोरन्वर्थानुगमात् स्फुटम् | कालीशब्दश्चतसृणां देवीनां वाचकः स्थितः || ९/३९ || क्षेपो बहिर्मुखेच्छात्मयोषित्सम्भोगजन्मनि | प्रवृत्तेस्ता (-ता) स्तम्यादिवशात् कालग्रासः (-मयः) स्थितः || ९/४० || (प्. ५२) एवं मद्यव्यसनिनो ये केचिज्जन्तवः स्थिताः | तेषां तदाश्रयेणैव कालग्रासोऽभिधीयते || ९/४१ || तस्यापि दर्शनस्पर्शपानयोगवतः (-ता) स्फुटम् | उद्रेकात् कर्षतो दृष्टः कालग्रासस्य सम्भवः || ९/४२ || प्रविष्टेऽन्तः शीधुरसे (-सं) भेदनिर्हरणात्मके | स्थैर्यमेति चमत्कारो विना विषयसङ्गतिम् || ९/४३ ||
SKप्रतिबिम्बमहाभोगमध्यभूमिविकासतः | प्रमाणभूमिमाश्रित्य चतस्रः कालिकाः स्थिताः || ९/४४ || शब्दसङ्ख्यानवृत्तेश्च कलेर्धातोः किलार्थतः | स्थितिसृष्ट्यादिभेदेन चतुर्धा कालिकोदयः || ९/४५ || एवं मांसव्यसनिनामन्तरास्वादभूमिनाम् | प्रमातृरूपमाविश्य चतस्रः कालिकाः स्थिताः || ९/४६ || गतार्थस्य कलेर्धातोरर्थस्यानुगमादिमाः | दर्शनस्पर्शसम्भोगविरामोद्रेकता मताः || ९/४७ || संहारसृष्ट्यादिमयश्चतुर्धायं क्रमः स्थितः | स्त्रीमद्यमांसभोगेषु चमत्कारानुवृत्तितः || ९/४८ || कालग्रासो व्यसनिनां कञ्चित्कालं स्फुटं स्थितः (-तम्) | एतत् परिकरस्त्वन्यो भाववर्गो व्यवस्थितः || ९/४९ || युक्त्यानयैव तत्रापि कालग्रसमयी स्थितिः | अनेनैवाशयेनैव परब्रह्मोपलब्धये || ९/५० || ललनामधुमांसानि पूज्याग्राणि विशेषतः | तदित्थं सर्वभावानां सर्वानुभवभूमिषु || ९/५१ || (प्. ५३) महार्थदृष्ट्या सुगमः कालग्रासोऽप्ययत्नतः | सम्यग्वस्तुविचारेण (सम्यग-) भावानामास्वभावतः (-नाम-) || ९/५२ || लब्धबोधोदयानन्दं (-बोधो *-) वन्दे संस्थानमात्मनः | इति सिद्धमुखाम्नाययुक्त्या नैवास्ति वस्तुतः || ९/५३ || वस्तुस्वभावो यत्रायं कालः स्यात् कलनात्मकः | स्वविष्फारमयं सर्वमिदं संस्थानमात्मनः || ९/५४ ||
SKइति बोधोदयानन्दात् कः कालो ग्रस्यते हि यः | तद्ग्राससंरम्भपरा याश्च द्वादश कालिकाः || ९/५५ || इत्थं विचार्यमाणानां न किञ्चिदिति निश्चयात् | एकैव चिदचिद्भोगभोगनिर्भोगलक्षणा || ९/५६ || विश्रान्तिः परमा देवी कालोपाधिविवर्जिता | सविकल्पाविकल्पानां सर्वासा संविदालयः || ९/५७ || क्रमाक्रमपदोत्तीर्णा (क्रमात्-) तदाभोगात्मिकापि या | अचला स्पन्दरहिता सर्वस्पन्दोपभोगिनी || ९/५८ || प्रत्यक्षभूता सर्वस्याप्यद्यापि विविधैर्मुखैः | तथा पूजनसङ्क्रामैरुपायैरुपलक्षिता || ९/५९ || आसां द्वादशदेवीनां स्वरूपविलयावनिः | त्रयोदशीति या देवी कथ्यते ह्युपचारतः || ९/६० || उपादेयतया सैव परोपास्यतया स्थिता | त्रयोदशीनां देवीनां स्वौचित्यार्थानुसारतः | अभिधानानि (-न्नि) वर्तन्ते हृदयङ्गमयुक्तितः || ९/६१ || एतासामभिधानेन या मन्त्राक्षरमालिकाः | कालिकाक्रमदृष्टत्वादुपचारेण ताः स्थिताः || ९/६२ || (प्. ५४) मेलापदर्शने (मेलाव-) ह्यत्र प्रत्यक्षज्ञानगोचरे | कथं मन्त्रस्य सद्भावः स प्रत्यक्षोऽपि वा कथम् || ९/६३ || अवर्णराजप्रत्यक्षः कायानुभवभूमिकः | पञ्चपिण्डात्मकोऽपि स्यात् सूक्ष्मप्रत्यक्षदर्शिनः || ९/६४ || नान्यानि मन्त्रवर्णानि प्रत्यक्षानीव सर्वथा | उपचारेण तद्वृत्तिकालिका क्रमगोचरा || ९/६५ ||
SKतत्तद्विकल्पसम्भूतवासनावेधसंक्षयात् | सर्वाकाङ्क्षाविरहिता विश्रान्तिर्जायते परा || ९/६६ || इत्थमुत्थानविषये भावानुभवभूमिषु | प्रत्यक्षः सर्वजन्तूनां स्थितोऽसौ (स्थितो *) पूजनक्रमः || ९/६७ || अन्यैरावरकत्वेन ये भावाः परिवर्जिताः | तैरेव ज्ञानिनामित्थं जाज्वलीति परा चितिः || ९/६८ || एतदर्थानुसारेण स्तोत्रभट्टारके मया | स्फुटं ये विवृताः श्लोकास्तत् * * * * * * * * || ९/६९ ½ || || शुभं भूयात् || # END OF FILE #