13 SK ०१००१ सम्यग्-ज्ञान-पूर्विका सर्व-पुरुष-अर्थ-सिद्धिर् इति तद् व्युत्पाद्यते. ०१००२ द्विविधं सम्यग्-ज्ञानम्. ०१००३ प्रत्यक्षम् अनुमानं च इति. ०१००४ तत्र प्रत्यक्षं कल्पना अपोढम् अभ्रान्तम्. ०१००५ अभिलाप-संसर्ग-योग्य-प्रतिभासा प्रतीतिः कल्पना. ०१००६ तया रहितं तिमिर-आशुभ्रमण-नौयान-संक्षोभ-आद्य्-अनाहित-विभ्रमं ज्ञानं प्रत्यक्षम्. ०१००७ तत् चतुर्विधम्. ०१००८ इन्द्रिय-ज्ञानम्. ०१००९ स्व-विषय-अनन्तर-विषय-सहकारिणा इन्द्रिय-ज्ञानेन समनन्तरप्रत्ययेन जनितं तन् मनोविज्ञानम्. ०१०१० सर्व-चित्त-चैत्तानाम् आत्म-संवेदनम्. ०१०११ भूत-अर्थ-भावना-प्रकर्ष-पर्यन्तजं योगिज्ञानं च इति. ०१०१२ तस्य विषयः स्वलक्षणम्. ०१०१३ यस्य अर्थस्य संनिधान-असंनिधानाभ्यां ज्ञान-प्रतिभास-भेदस् तत् स्वलक्षणम्. ०१०१४ तद् एव परमार्थसत्. ०१०१५ अर्थक्रियासामर्थ्य-लक्षणत्वाद् वस्तुनः. ०१०१६ अन्यत् सामान्यलक्षणम्. ०१०१७ सो अनुमानस्य विषयः. ०१०१८ तद् एव च प्रत्यक्षं ज्ञानं प्रमाण-फलम्. ०१०१९ अर्थ-प्रतीति-रूपत्वात्. ०१०२० अर्थ-सारूप्यम् अस्य प्रमाणम्. ०१०२१ तद्-वशाद् अर्थ-प्रतीति-सिद्धेर् इति. ०२००१ अनुमानं द्विविधा. ०२००२ स्वार्थं परार्थं च. ०२००३ तत्र स्वार्थं त्रिरूपाल् लिङ्गाद् यद् अनुमेये ज्ञानं तद् अनुमानम्. ०२००४ प्रमाण-फल-व्यवस्था अत्र अपि प्रत्यक्ष-वत्. ०२००५ त्रैरूप्यं पुनर् लिङ्गस्य अनुमेये सत्त्वम् एव, सपक्ष एव सत्त्वम्, असपक्षे च असत्त्वम् एव निश्चितम्. ०२००६ अनुमेयो अत्र जिज्ञाषित-विशेषो धर्मी. ०२००७ साध्य-धर्म-सामान्येन समानो अर्थः सपक्षः. ०२००८ न सपक्षो असपक्षः. ०२००९ ततो अन्यस् तद्-विरुद्धस् तद्-अभावश् च इति. ०२०१० त्रिरूपाणि च त्रीण्य् एव लिङ्गानि. ०२०११ अनुपलब्धिः स्वभावः कार्यं च इति. ०२०१२ तत्र अनुपलब्धिर् यथा, न प्रदेश-विशेषे क्वचिद् घटः, उपलब्धि-लक्षण-प्राप्तस्य अनुपलब्धेर् इति ०२०१३ उपलब्धि-लक्षण-प्राप्तिर् उपलम्भ-प्रत्यय-अन्तर-साकल्यं स्वभाव-विशेषश् च. ०२०१४ यः स्वभावः सत्स्व् अन्येषु उपलम्भ-प्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभाव-विशेषः. ०२०१५ स्वभावः स्व-सत्ता-मात्र-भाविनि साध्य-धर्मे हेतुः. ०२०१६ यथा वृक्षो अयं शिंशपात्वाद् इति. ०२०१७ कार्यं यथा वह्निर् अत्र धूमाद् इति. ०२०१८ अत्र द्वौ वस्तु-साधनौ. एकः प्रतिषेध-हेतुः ०२०१९ स्वभावप्रतिबन्धे हि सत्य् अर्थो अर्थं गमयेत्. ०२०२० तद्-अप्रतिबद्धस्य तद्-अव्यभिचार-नियम-अभावात्. ०२०२१ स च प्रतिबन्धः साध्ये अर्थे लिङ्गस्य. ०२०२२ वस्तुतस् तादात्म्यात् तदुत्पत्तेश् च. ०२०२३ अतद्-स्वभावस्य अतदुत्पत्तेश् च तत्र अप्रतिबद्ध-स्वभावत्वात्. ०२०२४ ते च तादात्म्य-तदुपत्ती स्वभाव-कार्ययोर् एव इति ताभ्याम् एव वस्तु-सिद्धिः. ०२०२५ प्रतिषेध-सिद्धिर् अपि यथोक्ताया एव अनुपलब्धेः. ०२०२६ सति वस्तुनि तस्या असम्भवात्. ०२०२७ अन्यथा च अनुपलब्धि-लक्षण-प्राप्तेषु देश-काल-स्वभाव-विप्रकृष्टेष्व् अर्थेष्व् आत्म-प्रत्यक्ष-निवृत्तेर् अभाव-निश्चय-अभावात्. ०२०२८ अमूढ-स्मृति-संस्कारस्य अतीतस्य वर्तमानस्य च प्रतिपत्तृ-प्रत्यक्षस्य निवृत्तिर् अभाव-व्यवहार-प्रवर्तनी. ०२०२९ तस्या एव अभाव-निश्चयात्. ०२०३० सा च प्रयोग-भेदाद् एकदश-प्रकारा. ०२०३१ स्वभाव-अनुपलब्धिर् यथा, न अत्र धूम उपलब्धि-लक्षण-प्राप्तस्य अनुपलब्धिर् इति. ०२०३२ कार्य-अनुपलब्धिर् यथा, न इह अप्रतिबद्ध-सामर्थ्यानि धूम-कारणानि सन्ति धूम-अभावाद् इति. ०२०३३ व्यापक-अनुपलब्धिर् यथा, न अत्र शिंशपा, वृक्ष-अभावाद् इति. ०२०३४ स्वभाव-विरुद्ध-उपलब्धिर् यथा, न अत्र शीत-स्पर्शो वह्नेर् इति. ०२०३५ विरुद्ध-कार्य-उपलब्धिर् यथा, न अत्र शीत-स्पर्शो धूमाद् इति. ०२०३६ विरुद्ध-व्याप्त-उपलब्धिर् यथा, न धूम-भावी भूतस्य अपि भावस्य विनाशः, हेत्व्-अन्तर-अपेक्षणाद् इति. ०२०३७ कार्य-विरुद्ध-उपलब्धिर् यथा, न इह अप्रतिबद्ध-सामर्थ्यानि शीत-कारणानि सन्ति, वह्नेर् इति. ०२०३८ व्यापक-विरुद्ध-उपलब्धिर् यथा, न अत्र तुषार-स्पर्शो वह्नेर् इति. ०२०३९ कारण-अनुपलब्धिर् यथा, न अत्र धूमो वह्न्य्-अभावाद् इति. ०२०४० कारण-विरुद्ध-उपलब्धिर् यथा, न अस्य रोम-हर्ष-आदि-विशेषाः, संनिहित-दहन-विशेषत्वाद् इति. ०२०४१ कारण-विरुद्ध-कार्य-उपलब्धिर् यथा, न रोम-हर्ष-आदि-विशेष-युक्त-पुरुषवान् अयं प्रदेशः, धूमाद् इति. ०२०४२ इमे सर्वे कार्य-अनुपलब्ध्य्-आदयो दश-अनुपलब्धि-प्रयोगाः स्वभाव-अनुपलब्धौ संग्रहम् उपयान्ति. ०२०४३ पारंपर्येण अर्थान्तर-विधि-प्रतिषेधायां प्रयोग-भेदे अपि. ०२०४४ प्रयोग-दर्शन-अभ्यासात् स्वयम् अप्य् एवं व्यवच्छेद-प्रतीतिर् भवति इति स्वार्थे अप्य् अनुमाने अस्याः प्रयोग-निर्देशः. ०२०४५ सर्वत्र च अस्याम् अभाव-व्यवहार-साधन्याम् अनुपलब्धौ येषां स्वभाव-विरुद्ध-आदीनाम् उपलब्ध्या कारण-आदीनाम् अनुपलब्ध्या च प्रतिषेध उक्तस् तेषाम् उपलब्धि-लक्षण-प्राप्तानाम्. ०२०४५ एव उपलब्धिर् अनुपलब्धिश् च वेदितव्या. ०२०४६ अन्येषां विरोध-कार्यकारणभाव-सिद्धेः. ०२०४७ प्रमाण-निवृत्तव् अप्य् अर्थ-अभाव-असिद्धेर् इति. ०३००१ त्रिरूप-लिङ्ग-आख्यानं परार्थम् अनुमानम्. ०३००२ कारणे कार्य-उपचारात्. ०३००३ तद् द्विविधम्. ०३००४ प्रयोग-भेदात्. ०३००५ साधर्म्य-वैधर्म्य-वचन इति. ०३००६ न अनयोर् अर्थतः कश्चिद् भेदः. ०३००७ अन्यत्र प्रयोग-भेदात्. ०३००८ तत्र साधर्म्यवत् प्रयोगः: यद् उपलब्धि-लक्षण-प्राप्तं सन्न् न उपलभ्यते सो असद्-व्यवहार-विषयः सिद्धः, यथा अन्यः कश्चिद् दृष्टः शश-विषाण-आदिः. न उपलभ्यते च कश्चित् प्रदेश-विशेष उपलब्धि-लक्षण-प्राप्तो घट इत्य् अनुपलब्धि-प्रयोगः. ०३००९ तथा स्वभावहेतोः प्रयोगः: यत् सत् तत् सर्वम् अनित्यम्, यथा घट-आदिर् इति शुद्धस्य स्वभावहेतोः प्रयोगः. ०३०१० यद् उत्पत्तिमत् तद् अनित्यम् इति स्वभावभूत-धर्म-भेदेन स्वभावस्य प्रयोगः. ०३०११ यत् कृतकं तद् अनित्यम् इत्य् उपाधि-भेदेन. ०३०१२ अपेक्षित-पर-व्यापारो हि भावः स्वभाव-निष्पत्तौ कृतक इति. ०३०१३ एवं प्रत्यय-भेदभेदित्व-आदयो अपि द्रष्टव्याः. ०३०१४ सन्न् उत्पत्तिमान् कृतको वा शब्द इति पक्ष-धर्म-उपदर्शनम्. ०३०१५ सर्व एते साधन-धर्मा यथास्वं प्रमाणैः. सिद्ध-साधन-धर्म-मात्र-अनुबन्ध एव साध्य-धर्मो अवगन्तव्याः. ०३०१६ तस्य एव तत्. ०३०१७ स्वभावस्य च हेतुत्वात्. ०३०१८ वस्तुतस् तयोस् तादात्म्यम्. ०३०१९ तन्-निष्पत्ताव् अनिष्पन्नस्य तत्-स्वभावत्व-अभावात्. ०३०२० व्यभिचार-सम्भवाच् च. ०३०२१ कार्यहेतोः प्रयोगः: यत्र धूमस् तत्र अग्निः, यथा महानस-आदौ. अस्ति च इह धूम इति. ०३०२२ इह अपि सिद्ध एव कार्यकारणभावे कारणे साध्ये कार्यहेतुर् वक्तव्यः. ०३०२३ वैधर्म्यवतः प्रयोगः: यत् सद् उपलब्धि-लक्षण-प्राप्तं तद् उपलभ्यत एव, यथा नील-आदि-विशेषः. न च एवम् इह उपलब्धि-लक्षण-प्राप्तस्य सत उपलब्धिर् घटस्य इत्य् अनुपलब्धि-प्रयोगः. ०३०२४ असत्य् अनित्यत्वे न अस्त्य् एव सत्त्वम् उत्पत्तिमत्त्वं कृतकत्वं वा. संश् च शब्द उत्पत्तिमान् कृतको वा इति स्वभावहेतोः प्रयोगः. ०३०२५ असत्य् अग्नौ न भवत्य् एव धूमः. अत्र च अस्ति धूम इति कार्यहेतोः प्रयोगः. ०३०२६ साधर्म्येण अपि हि प्रयोगे अर्थाद् वैधर्म्य-गतिर् इति. ०३०२७ असति तस्मिन् साध्येन हेतोर् अन्वय-अभावात्. ०३०२८ तथा वैधर्म्येण अप्य् अन्वय-गतिः. ०३०२९ असति तस्मिन् साध्य-अभावे हेत्व्-अभावस्य असिद्धेः. ०३०३० न हि स्वभावप्रतिबन्धे असत्य् एकस्य निवृत्तव् अपरस्य नियमेन निवृत्तिः. ०३०३१ स च द्विप्रकारः सर्वस्य. तादात्म्य-लक्षणस् तदुत्पत्ति-लक्षणश् च इत्य् उक्तम्. ०३०३२ तेन हि निवृत्तिं कथयता प्रतिबन्धो दर्शनीयः. तस्मात् निवृत्ति-वचनम् आक्षिप्त-प्रतिबन्ध-उपदर्शनम् एव भवति. यच् च प्रतिबन्ध-उपदर्शनं तद् एव अन्वय-वचनम् इत्य् एकेन अपि वाक्येन अन्वय-मुखेन व्यतिरेक-मुखेन वा प्रयुक्तेन सपक्ष-असपक्षयोर् लिङ्गस्य सदसत्त्व-ख्यापनं कृतं भवति इति न अवश्यं वाक्य-द्वय-प्रयोगः. ०३०३३ अनुपलब्धाव् अपि: यत् सद् उपलब्धि-लक्षण-प्राप्तं तद् उपलभ्यत एव इत्य् उक्ते, अनुपलभ्यमानं तादृशम् असद् इति प्रतीतेर् अन्वय-सिद्धेः. ०३०३४ द्वयोर् अप्य् अनयोः प्रयोगयोर् न अवश्यं पक्ष-निर्देशः. ०३०३५ यस्मात् साधर्म्यवत्-प्रयोगे अपि यद् उपलब्धि-लक्षण-प्राप्तं सन् न उपलभ्यते सो असद्-व्यवहार-विषयः. न उपलभ्यते च अत्र उपलब्धि-लक्षण-प्राप्तो घट इत्य् उक्ते सामर्थ्याद् एव न इह घट इति भवति. ०३०३६ तथा वैधर्म्यवत्-प्रयोगे अपि: यः सद्-व्यवहार-विषय उपलब्धि-लक्षण-प्राप्तः, स उपलभ्यत एव. न तथा अत्र तादृशो घट उपलभ्यत इत्य् उक्ते सामर्थ्याद् एव न इह सद्-व्यवहार-विषय इति भवति. ०३०३७ कीदृशः पुनः पक्ष इति निर्देश्यः. ०३०३८ स्वरूपेण एव स्वयम् इष्टो अनिराकृतः पक्ष इति. ०३०३९ स्वरूपेण इति साध्यत्वेन इष्टः. ०३०४० स्वरूपेण एव इति साध्यत्वेन एव इष्टो न साधनत्वेन अपि. ०३०४१ यथा शब्दस्य अनित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्दे असिद्धत्वात् साध्यम्. न पुनस् तद् इह साध्यत्वेन एव इष्टम्, साधनत्वेन अभिधानात्. ०३०४२ स्वयम् इति वादिना. ०३०४३ यस् तदा साधनम् आह. ०३०४४ एतेन यद्य् अपि क्वचिच् शास्त्रे स्थितः साधनम् आह: तच् शास्त्रकारेण तस्मिन् धर्मिण्य् अनेक-धर्म-अभ्युपगमे अपि यस् तदा तेन वादिना धर्मः स्वयं साधयितुम् इष्टः, स एव साध्यो न इतर इत्य् उक्तं भवति. ०३०४५ इष्ट इति यत्र अर्थे विवादेन साधनम् उपन्यस्तं तस्य सिद्धिम् इच्छता सो अनुक्तो अपि वचनेन साध्यः. ०३०४६ तद् अधिकरणत्वाद् विवादस्य. ०३०४७ यथा परार्थश् चक्षुर्-आदयः संघातत्वाच् शयन-आसन-आद्य्-अङ्ग-वद् इति. अत्र आत्म-अर्था इत्य् अनुक्ताव् अप्य् आत्म-अर्थता साध्या. तेन न उक्त-मात्रम् एव साध्यम् इत्य् उक्तं भवति. ०३०४८ अनिराकृत इति, एतल्-लक्षण-योगे अपि यः साधयितुम् इष्टो अप्य् अर्थः प्रत्यक्ष-अनुमान-प्रतीति-स्व-वचनैर् निराक्रियते, न स पक्ष इति प्रदर्शन-अर्थम्. ०३०४९ तत्र प्रत्यक्ष-निराकृतो यथा, अश्रावणः शब्द इति. ०३०५० अनुमान-निराकृतो यथा, नित्यः शब्द इति. ०३०५१ प्रतीति-निराकृतो यथा, अचन्द्रः शशी इति. ०३०५२ स्व-वचन-निराकृतो यथा, न अनुमानं प्रमाणम्. ०३०५३ इति चत्वारः पक्षाभासा निराकृता भवन्ति. ०३०५४ एवं सिद्धस्य, असिद्धस्य अपि साधनत्वेन अभिमतस्य, स्वयं वादिना तदा साधयितुम् अनिष्टस्य, उक्त-मात्रस्य च विपर्ययेण साध्यः. तेन एव स्वरूपेण अभिमतो वादिन इष्टो अनिराकृतः पक्ष इति पक्ष-लक्षणम् अनवद्यं दर्शितं भवति. ०३०५५ त्रिरूपलिङ्ग-आख्यानं परार्थ-अनुमानम् इत्य् उक्तम्. तत्र त्रयाणां रूपाणाम् एकस्य अपि रूपस्य अनुक्तौ साधनाभासः. ०३०५६ उक्ताव् अप्य् असिद्धौ सन्देहे वा प्रतिपाद्य-प्रतिपादकयोः. ०३०५७ एकस्य रूपस्य धर्मि-सम्बन्धस्य असिद्धौ सन्देहे वा असिद्धो हेत्वाभासाः. ०३०५८ यथा, अनित्यः शब्द इति साध्ये चाक्षुषत्वम् उभय-असिद्धम्. ०३०५९ चेतनास् तरव इति साध्ये सर्व-त्वग्-अपहरणे मरणं प्रतिवाद्य्-असिद्धम्, विज्ञान-इन्द्रिय-आयुर् निरोध-लक्षणस्य मरणस्य अनेन अभ्युपगमात्, तस्य च तरुष्व् असम्भवात्. ०३०६० अचेतनाः सुख-आदय इति साध्ये उत्पत्तिमत्वं वा सांख्यस्य स्वयं वादिनो असिद्धम्. ०३०६१ तथा स्वयं तद्-आश्रयणस्य वा सन्देहे असिद्धः. ०३०६२ यथा बाष्प-आदि-भावेन सन्दिह्यमानो भूत-संघातो अग्नि-सिद्धाव् उपदिश्यमानः सन्दिग्ध-असिद्धः. ०३०६३ यथा इह निकुञ्जे मयूरः केकायिताद् इति. ०३०६४ तद्-आपात-देश-विभ्रमे. ०३०६५ धर्म्य्-असिद्धाव् अप्य् असिद्धः, यथा सर्वगत आत्मा इति साध्ये सर्वत्र उपलम्भमान-गुणत्वम्. ०३०६६ तथा एकस्य रूपस्य असपक्षे असत्त्वस्य असिद्धाव् अनैकान्तिको हेत्वाभासः. ०३०६७ यथा शब्दस्य अनित्यत्व-आदिके धर्मे साध्ये प्रमेयत्व-आदिको धर्मः सपक्ष-विपक्षयोः सर्वत्र एकदेशे वा वर्तमानः. ०३०६८ तथा, अस्य एव रूपस्य सन्देहे अप्य् अनैकान्तिक एव. ०३०६९ यथा असर्वज्ञः कश्चिद् विवक्षितः पुरुषो राग-आदिमान् वा साध्ये वक्तृत्व-आदिको धर्मः सन्दिग्ध-विपक्ष-व्यावृत्तिकः. ०३०७० सर्वज्ञो वक्ता न उपलभ्यते इत्य् एवंप्रकारस्य अनुपलम्भस्य अदृश्य-आत्म-विषयत्वेन सन्देह-हेतुत्वात्. ततो असर्वज्ञ-विपर्ययाद् वक्तृत्व-आदेर् व्यावृत्तिः सन्दिग्धा. ०३०७१ वक्तृत्व-सर्वज्ञत्वयोर् विरोध-अभावाच् च यः सर्वज्ञः स वक्ता न भवति इत्य् अदर्शने अपि व्यतिरेको न सिध्यति सन्देहात्. ०३०७२ द्विविधो हि पदार्थानां विरोधः. ०३०७३ अविकल-कारणस्य भवतो अन्यभावे अभावाद् विरोध-गतिः. ०३०७४ शीत-उष्ण-स्पर्श-वत्. ०३०७५ परस्पर-परिहार-स्थित-लक्षणतया वा भाव-अभाव-वत्. ०३०७६ स च द्विविधो अपि विरोधो वक्तृत्व-सर्वज्ञत्वयोर् न सम्भवति. ०३०७७ न च अविरुद्ध-विधेर् अनुपलब्धाव् अप्य् अभाव-गतिः. ०३०७८ राग-आदीनां वचन-आदेश् च कार्यकारणभाव-असिद्धेः. ०३०७९ अर्थान्तरस्य च अकारणस्य निवृत्तौ न वचन-आदेर् निवृत्तिः. ०३०८० इति सन्दिग्ध-व्यतिरेको अनैकान्तिको वचन-आदिः. ०३०८१ द्वयो रूपयोर् विपर्यय-सिद्धौ विरुद्धः. ०३०८२ कयोर् द्वयोः. ०३०८३ सपक्षे सत्त्वस्य, असपक्षे च असत्त्वस्य, यथा कृतकत्वं प्रयत्नानन्तरीयकत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः. ०३०८४ अनयोः सपक्षे असत्त्वम्, असपक्षे च सत्त्वम् इति विपर्यय-सिद्धिः. ०३०८५ एतौ च साध्य-विपर्यय-साधनाद् विरुद्धौ. ०३०८६ ननु च तृतीयो अपि इष्ट-विघात-कृद् विरुद्धः. ०३०८७ यथा परार्थाश् चक्षुर्-आदयः संघातत्वाच् शयन-आसन-आद्य्-अङ्ग-वद् इति. ०३०८८ तद् इष्ट-संहत-पारार्थ्य-विपर्यय-साधनाद् विरुद्धः. ०३०८९ स इह कस्मान् न उक्तः. ०३०९० अनयोर् अन्तर्भावात्. ०३०९१ न ह्य् अयम् आभ्यां साध्य-विपर्यय-साधनत्वेन भिद्यते. ०३०९२ न हि इष्ट-उक्तयोः साध्यत्वेन कश्चिद् विशेष इति. ०३०९३ द्वयो रूपयोर् एकस्य असिद्धाव् अपरस्य च सन्देहे अनैकान्तिकः. ०३०९४ यथा वीत-रागः कश्चित् सर्वज्ञो वा, वक्तृत्वाद् इति. व्यतिरेको अत्र असिद्धः, सन्दिग्धो अन्वयः. ०३०९५ सर्वज्ञ-वीत-रागयोर् विप्रकर्षाद् वचन-आदेस् तत्र सत्त्वम् असत्त्वं वा सन्दिग्धम्. ०३०९६ अनयोर् एव द्वयो रूपयोः सन्देहे अनैकान्तिकः. ०३०९७ यथा सात्मकं जीवच्छरीरं प्राण-आदिमत्त्वाद् इति. ०३०९८ न हि सात्मक-निरात्मकाभ्याम् अन्यो राशिर् अस्ति यत्र अयं प्राण-आदिर् वर्तते. ०३०९९ आत्मनो वृत्ति-व्यवच्छेदाभ्यां सर्व-संग्रहाद्. ०३१०० न अप्य् अनयोर् एकत्र वृत्ति-निश्चयः. ०३१०१ सात्मकत्वेन अनात्मकत्वेन वा प्रसिद्धे प्राण-आदेर् असिद्धेः. ०३१०२ तस्माज् जीवच्छरीर-सम्बन्धी प्राण-आदिः सात्मकाद् अनात्मकाच् च सर्वस्माद् व्यावृत्तत्वेन असिद्धेस् ताभ्यां न व्यतिरिच्यते. ०३१०३ न तत्र अन्वेति. ०३१०४ एकात्मन्य् अप्य् असिद्धेः. ०३१०५ न अपि सात्मकाद् अनात्मकाच् च तस्य अन्वय-व्यतिरेकयोर् अभाव-निश्चयः. ०३१०६ एक-अभाव-निश्चयस्य अपर-भाव-निश्चय-नान्तरीयकत्वात्. ०३१०७ अन्वय-व्यतिरेकयोर् अन्योन्य-व्यवच्छेद-रूपत्वात्. तत एव अन्वय-व्यतिरेकयोः सन्देहाद् अनैकान्तिकाः. ०३१०८ साध्य-इतरयोर् अतो निश्चय-अभावात्. ०३१०९ एवम् एषां त्रयाणां रूपाणाम् एकैकस्य द्वयोर् द्वयोर् वा रूपयोर् असिद्धौ सन्देहे वा यथायोगम् असिद्ध-विरुद्ध-अनैकान्तिकास् त्रयो हेत्वाभासाः. ०३११० विरुद्धाव्यभिचार्य् अपि संशय-हेतुर् उक्तः. स इह कस्मान् न उक्तः. ०३१११ अनुमान-विषये असम्भवात्. ०३११२ न हि सम्भवो अस्ति कार्य-स्वभावयोर् उक्त-लक्षणयोर् अनुपलम्भस्य च विरुद्धतायाः. ०३११३ न च अन्यो अव्यभिचारी. ०३११४ तस्माद् अवस्तु-दर्शन-बल-प्रवृत्तम् आगम-आश्रयम् अनुमानम् आश्रित्य तद्-अर्थ-विचारेषु विरुद्धाव्यभिचारी साधन-दोष उक्तः. ०३११५ शास्त्रकाराणाम् अर्थेषु भ्रान्त्या विपरीत-स्वभाव-उपसंहार-सम्भवात्. ०३११६ न ह्य् अस्य सम्भवो यथावस्थित-वस्तु-स्थितिष्व् आत्म-कार्य-अनुपलम्भेषु. ०३११७ तत्र उदाहरणम्: यत् सर्व-देश-अवस्थितैः स्व-सम्बन्धिभिर् युगपद् अभिसम्बध्यते तत् सर्वगतम्, यथा आकाशम्. अभिसम्बध्यते च सर्व-देश-अवस्थितैः स्व-सम्बन्धिभिर् युगपत् सामान्यम् इति. ०३११८ तत्-सम्बन्धि-स्वभाव-मात्र-अनुबन्धिनी तद्-देश-संनिहित-स्वभावता. ०३११९ न हि यो यत्र न अस्ति तद्-देशम् आत्मना व्याप्नोति इति स्वभावहेतु-प्रयोगः. ०३१२० द्वितीयो अपि प्रयोगः: यद् उपलब्धि-लक्षण-प्राप्तं सन् न उपलभ्यते न तत् तत्र अस्ति. तद् यथा, क्वचिद् अविद्यमानो घटः. न उपलभ्यते च उपलब्धि-लक्षण-प्राप्तं सामान्यं व्यक्त्य्-अन्तरालेष्व् इति. अयम् अनुपलम्भः स्वभावश् च परस्पर-विरुद्ध-अर्थ-साधनाद् एकत्र संशयं जनयतः. ०३१२१ त्रिरूपो हेतुर् उक्तः. तावता च अर्थ-प्रतीतिर् इति न पृथग् दृष्टान्तो नाम साधन-अवयवः कश्चिद्. तेन न अस्य लक्षणं पृथग् उच्यते गत-अर्थत्वात्. ०३१२२ हेतोः सपक्ष एव सत्त्वम् असपक्षाच् च सर्वतो व्यावृत्ती रूपम् उक्तम् अभेदेन. पुनर् विशेषेण कार्य-स्वभावयोर् उक्त-लक्षणयोर् जन्म-तन्-मात्र-अनुबन्धौ दर्शनीय-अवक्तौ. तच् च दर्शयता, यत्र धूमस् तत्र अग्निः, असत्य् अग्नौ न क्वचिद् धूमो यथा महानस-इतरयोः, यत्र कृतकत्वं तत्र अनित्यत्वम्, अनित्यत्व-अभावो कृतकत्व-असम्भवो यथा घट-आकाशयोः, इति दर्शनीयम्. न ह्य् अन्यथा सपक्ष-विपक्षयोः सदसत्त्वे यथोक्त-प्रकारे शक्ये दर्शयितुम्. तत् कार्यता-नियमः कार्य-लिङ्गस्य स्वभाव-लिङ्गस्य च स्वभावेन व्याप्तिः. अस्मिंश् च अर्थे दर्शिते दर्शित एव दृष्टान्तो भवति. एतावान् मात्र-रूपत्वात् तस्य इति. ०३१२३ एतेन एव दृष्टान्त-दोषा अपि निरस्ता भवन्ति. ०३१२४ यथा नित्यः शब्दो अमूर्तत्वात्. कर्म-वत् परमाणु-वद् घट-वद् इति. एते दृष्टान्ताभासाः साध्य-साधन-धर्म-उभय-विकलाः. ०३१२५ तथा सन्दिग्ध-साध्य-धर्म-आदयश् च, यथा राग-आदिमान् अयं वचनाद् रथ्या-पुरुष-वत्. मरण-धर्मो अयं पुरुषो राग-आदिमत्त्वाद् रथ्या-पुरुष-वत्. असर्वज्ञो अयं राग-आदिमत्वाद् रथ्या-पुरुष-वद् इति. ०३१२६ तथा अनन्वयो अप्रदर्शित-अन्वयश् च, यथा यो उक्ता स राग-आदिमान्, इष्ट-पुरुष-वत्. अनित्यः शब्दः कृतकत्वाद् घट-वद् इति. ०३१२७ तथा विपरीत-अन्वयः, यद् अनित्यं तत् कृतकम् इति. ०३१२८ साधर्म्येण दृष्टान्त-दोषाः. ०३१२९ वैधर्म्येण अपि, परमाणु-वत् कर्म-वत् आकाश-वद् इति साध्य-आद्य्-अव्यतिरेकिणः. ०३१३० तथा सन्दिग्ध-साध्य-व्यतिरेक-आदयः, यथा असर्वज्ञाः कपिल-आदयो अनाप्ता वा अविद्यमान-सर्वज्ञता-आप्तता-लिङ्गभूत-प्रमाण-अतिशय-शासनत्वाद् इति. अत्र वैधर्म्य-उदाहरणम्, यः सर्वज्ञ आप्तो वा स ज्योतिर्-ज्ञान-आदिकम् उपदिष्टवान्, यथा ऋषभ-वर्धमान-आदिर् इति. तत्र असर्वज्ञता अनाप्तयोः साध्य-धर्मयोः सन्दिग्धो व्यतिरेकः. ०३१३१ सन्दिग्ध-साधन-व्यतिरेको यथा, न त्रयीविदा ब्राह्मणेन ग्राह्य-वचनः कश्चिद् विवक्षितः पुरुषो राग-आदिमत्त्वाद् इति. अत्र वैधर्म्य-उदाहरणम्, ये ग्राह्य-वचना न ते राग-आदिमन्तः. तद् यथा गौतम-आदयो धर्म-शास्त्राणां प्रणेतार इति. गौतम-आदिभ्यो राग-आदिमत्त्वस्य साधन-धर्मस्य व्यावृत्तिः सन्दिग्धा. ०३१३२ सन्दिग्ध-उभय-व्यतिरेको यथा, अवीत-रागाः कपिल-आदयः, परिग्रह-आग्रह-योगाद् इति. अत्र वैधर्म्येण उदाहरणम्, यो वीत-रागो न तस्य परिग्रह-आग्रहः, यथा ऋषभ-आदेर् इति. ऋषभ-आदेर् अवीत-रागत्व-परिग्रह-आग्रह-योगयोः साध्य-साधन-धर्मयोः सन्दिग्धो व्यतिरेकः. ०३१३३ अव्यतिरेको यथा, अवीत-रागो अयं वक्तृत्वात्. वैधर्म्येण उदाहरणम्, यत्र अवीत-रागत्वं न अस्ति न स वक्ता, यथा उपल-खण्ड इति. यद्य् अप्य् उपल-खण्डाद् उभयं व्यावृत्तं तथा अपि सर्वो वीत-रागो न वक्ता इति व्याप्त्या व्यतिरेक-असिद्धेर् अव्यतिरेकः. ०३१३४ अप्रदर्शित-व्यतिरेको यथा, अनित्यः शब्दः, कृतकत्वाद् आकाश-वद् इति वैधर्म्येण. ०३१३५ विपरीत-व्यतिरेको यथा, यद् अकृतकं तन् नित्यं भवति इति. ०३१३६ न ह्य् एभिर् दृष्टान्ताभासाइर् हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षे च सर्वत्र असत्त्वम् एव निश्चयेन शक्यं दर्शयितुं विशेष-लक्षणं वा. तद् अर्थापत्त्या एषां निरासो द्रष्टव्यः. ०३१३७ दूषणा न्यूनता-आद्य्-उक्तिः. ०३१३८ ये पूर्वं न्यूनता-आदयः साधन-दोषा उक्तास् तेषाम् उद्भावनं दूषणम्. तेन पर-इष्ट-अर्थ-सिद्धि-प्रतिबन्धात्. ०३१३९ दूषणाभासास् तु जातयः. ०३१४० अभूत-दोष-उद्भावनानि जात्य्-उत्तराणि इति.