The Essence of Logic

Nyāyabindu · Nयायबिन्दु

The Essence of Logic

Nyāyabindu

Nयायबिन्दु

SK
Exप्लनतोर्य् Rएमर्क्स्
SK
A नुम्बेर् ओf fइवे fइगुरेस् अत् थे लेfत् सिदे इन्दिचतेस् थे लोचतिओन् ओf थे केय् wओर्द् इन् थे बसिच् तेxत्स्. Iन् थे चसे ओf थे SV, थे HB अन्द् थे VN, थे fइर्स्त् थ्रेए fइगुरेस् इन्दिचते थे पगे नुम्बेर्, अन्द् थे लस्त् त्wओ इन्दिचते थे लिने नुम्बेर् (fओर् एxअम्प्ले, SV१६०२६=SV १६०,२६; HB०२३१४=HB २३,१४; VN०६११०=VN ६१,१०). Iन् थे चसे ओf थे PV अन्द् थे NB, थे सेचोन्द् fइगुरे इन्दिचतेस् थे छप्तेर् नुम्बेर् अन्द् थे लस्त् थ्रेए fइगुरेस् इन्दिचते थे करिक ओर् सुत्र नुम्बेर् (fओर् एxअम्प्ले, PV०२२३२=PV, थे Pरमनसिद्धि-छप्तेर् व्.२३२; NB०३०१५=NB, थे Pअरर्थनुमन-छप्तेर् सुत्र १५. Iन् थे चसे ओf थे SP, थे लस्त् त्wओ fइगुरेस् इन्दिचते थे करिक नुम्बेर् (fओर् एxअम्प्ले, SP०००१५=SP, व्.१५).
SK
३. Iन् थिस् दतबसे, सेन्तेन्चेस् अरे अर्तिfइचिअल्ल्य् दिविदेद् इन्तो wओर्द्-उनित्स्, अल्थोउघ् थेय् इन्वोल्वे अ फोनेतिच् fउसिओन् ओर् उनिओन् इन् थे बसिच् तेxत्स्. Fउर्थेर्, चोम्पोउन्द् wओर्द्स् अरे दिविदेद् इन्तो थेइर् स्होर्तेस्त् चोन्स्तितुतिवे एलेमेन्त्स् (wए उसे अ ह्य्फेन् तो इन्दिचते थत् ह्य्फेनतेद् एलेमेन्त्स् ओरिगिनल्ल्य् fओर्म् अ चोम्पोउन्द् wओर्द्) wइथ् थे fओल्लोwइन्ग् एxचेप्तिओन्स्:
SK
३.१. Tहे प्रेfइxएस् अ-, दुर्-, निह्- रेमैन् उन्दिविदेद्, इर्रेस्पेच्तिवे ओf अत्तछ्मेन्त् तो wओर्द्स् ओर् चोम्पोउन्द् wओर्द्स्.
SK
३.२. Sउffइxएस् मकिन्ग् अन् अद्वेर्ब्, fओर् एxअम्प्ले -वत्, -वस, अरे दिविदेद्. Bउत् सुffइxएस् मकिन्ग् अ पोस्सेस्सिवे अद्जेच्तिवे, fओर् एxअम्प्ले -वत्, -मत्, रेमैन् उन्दिविदेद्, अन्द् तेर्म्स् सुछ् अस् अ नुमेरल्+ -ध/-विध/-प्रकर रेमैन् अल्सो उन्दिविदेद्.
SK
३.३. Cओम्पोउन्द् wओर्द्स् wइथ् थे सुffइxएस् -त/-त्व ओर् -भव/-भुत fउन्दमेन्तल्ल्य् रेमैन् उन्दिविदेद्. Fओर् एxअम्प्ले: कर्यकरनभव/-भुत/-त.
SK
३.४. Cओम्पोउन्द् wओर्द्स् wइथ् एवम्-, तत्-, तथ-, पर-, यथ-, सु-, स्व- इन् थे wओर्धेअद् fउन्दमेन्तल्ल्य् रेमैन् उन्दिविदेद्. Fओर् एxअम्प्ले: एवम्जतिय, तदुत्पत्ति, तथक्र्त, परतन्त्र, यथर्थ, यथस्वम्, सुज्ननत्व, स्वभव.
SK
३.५. Sओमे चोम्पोउन्द् wओर्द्स् wहिछ् अरे रेगर्देद् अस् तेर्मिनोलोग्य् रेमैन् अल्सो उन्दिविदेद्. Fओर् एxअम्प्ले: अग्निहोत्र, अयोगव्यवच्छेद, अर्थपत्ति, पदर्थ, परमर्थ, प्रसज्यप्रतिसेध, विरुद्धव्यभिचरिन्, समनन्तरप्रत्यय, सम्तनपरिनम, समन्यलक्सन, स्वभवप्रतिबन्ध.
SK
४. Tहोसे तेर्म्स् wहोसे wओर्धेअद् इस् सुब्जेच्त् तो थे Sअन्धि रुलेस् (fओर् एxअम्प्ले, -द् धेतु-) अरे चितेद् इन् थेइर् ओरिगिनल् fओर्म् (fओर् एxअम्प्ले, -द् *हेतु-) fओर् थे सके ओf उसिन्ग् थिस् दतबसे तो मके अन् KWIC इन्देx.
SK
१. Aउगुस्त्. १९९७ / Tसुकुब Mओतोइ ONO
SK
Nओते: Tहिस् दतबसे इस् qउइते अ तेन्ततिवे ओने, अन्द् I मुस्त् अद्मित् थत् थेरे अरे अ लोत् ओf एर्रोर्स् अन्द् देfएच्त्स् इन् थिस् वेर्सिओन्. I wओउल्द् अप्प्रेचिअते इत् वेर्य् मुछ् इf थे उसेर् wओउल्द् पोइन्त् ओउत् अन्य् एर्रोर्स् इन् थिस् वेर्सिओन् सो थत् wए चन् मके अ बेत्तेर् नेw वेर्सिओन् इन् थे fउतुरे.
SK
E-मैल्: ओनोलोगोस्.त्सुकुब.अच्.ज्प्
SK
०१००१ सम्यग्-ज्ञान-पूर्विका सर्व-पुरुष-अर्थ-सिद्धिर् इति तद् व्युत्पाद्यते. ०१००२ द्विविधं सम्यग्-ज्ञानम्. ०१००३ प्रत्यक्षम् अनुमानं च इति. ०१००४ तत्र प्रत्यक्षं कल्पना अपोढम् अभ्रान्तम्. ०१००५ अभिलाप-संसर्ग-योग्य-प्रतिभासा प्रतीतिः कल्पना. ०१००६ तया रहितं तिमिर-आशुभ्रमण-नौयान-संक्षोभ-आद्य्-अनाहित-विभ्रमं ज्ञानं प्रत्यक्षम्. ०१००७ तत् चतुर्विधम्. ०१००८ इन्द्रिय-ज्ञानम्. ०१००९ स्व-विषय-अनन्तर-विषय-सहकारिणा इन्द्रिय-ज्ञानेन समनन्तरप्रत्ययेन जनितं तन् मनोविज्ञानम्. ०१०१० सर्व-चित्त-चैत्तानाम् आत्म-संवेदनम्. ०१०११ भूत-अर्थ-भावना-प्रकर्ष-पर्यन्तजं योगिज्ञानं च इति. ०१०१२ तस्य विषयः स्वलक्षणम्. ०१०१३ यस्य अर्थस्य संनिधान-असंनिधानाभ्यां ज्ञान-प्रतिभास-भेदस् तत् स्वलक्षणम्. ०१०१४ तद् एव परमार्थसत्. ०१०१५ अर्थक्रियासामर्थ्य-लक्षणत्वाद् वस्तुनः. ०१०१६ अन्यत् सामान्यलक्षणम्. ०१०१७ सो अनुमानस्य विषयः. ०१०१८ तद् एव च प्रत्यक्षं ज्ञानं प्रमाण-फलम्. ०१०१९ अर्थ-प्रतीति-रूपत्वात्. ०१०२० अर्थ-सारूप्यम् अस्य प्रमाणम्. ०१०२१ तद्-वशाद् अर्थ-प्रतीति-सिद्धेर् इति. ०२००१ अनुमानं द्विविधा. ०२००२ स्वार्थं परार्थं च. ०२००३ तत्र स्वार्थं त्रिरूपाल् लिङ्गाद् यद् अनुमेये ज्ञानं तद् अनुमानम्. ०२००४ प्रमाण-फल-व्यवस्था अत्र अपि प्रत्यक्ष-वत्. ०२००५ त्रैरूप्यं पुनर् लिङ्गस्य अनुमेये सत्त्वम् एव, सपक्ष एव सत्त्वम्, असपक्षे च असत्त्वम् एव निश्चितम्. ०२००६ अनुमेयो अत्र जिज्ञाषित-विशेषो धर्मी. ०२००७ साध्य-धर्म-सामान्येन समानो अर्थः सपक्षः. ०२००८ न सपक्षो असपक्षः. ०२००९ ततो अन्यस् तद्-विरुद्धस् तद्-अभावश् च इति. ०२०१० त्रिरूपाणि च त्रीण्य् एव लिङ्गानि. ०२०११ अनुपलब्धिः स्वभावः कार्यं च इति. ०२०१२ तत्र अनुपलब्धिर् यथा, न प्रदेश-विशेषे क्वचिद् घटः, उपलब्धि-लक्षण-प्राप्तस्य अनुपलब्धेर् इति ०२०१३ उपलब्धि-लक्षण-प्राप्तिर् उपलम्भ-प्रत्यय-अन्तर-साकल्यं स्वभाव-विशेषश् च. ०२०१४ यः स्वभावः सत्स्व् अन्येषु उपलम्भ-प्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभाव-विशेषः. ०२०१५ स्वभावः स्व-सत्ता-मात्र-भाविनि साध्य-धर्मे हेतुः. ०२०१६ यथा वृक्षो अयं शिंशपात्वाद् इति. ०२०१७ कार्यं यथा वह्निर् अत्र धूमाद् इति. ०२०१८ अत्र द्वौ वस्तु-साधनौ. एकः प्रतिषेध-हेतुः ०२०१९ स्वभावप्रतिबन्धे हि सत्य् अर्थो अर्थं गमयेत्. ०२०२० तद्-अप्रतिबद्धस्य तद्-अव्यभिचार-नियम-अभावात्. ०२०२१ स च प्रतिबन्धः साध्ये अर्थे लिङ्गस्य. ०२०२२ वस्तुतस् तादात्म्यात् तदुत्पत्तेश् च. ०२०२३ अतद्-स्वभावस्य अतदुत्पत्तेश् च तत्र अप्रतिबद्ध-स्वभावत्वात्. ०२०२४ ते च तादात्म्य-तदुपत्ती स्वभाव-कार्ययोर् एव इति ताभ्याम् एव वस्तु-सिद्धिः. ०२०२५ प्रतिषेध-सिद्धिर् अपि यथोक्ताया एव अनुपलब्धेः. ०२०२६ सति वस्तुनि तस्या असम्भवात्. ०२०२७ अन्यथा च अनुपलब्धि-लक्षण-प्राप्तेषु देश-काल-स्वभाव-विप्रकृष्टेष्व् अर्थेष्व् आत्म-प्रत्यक्ष-निवृत्तेर् अभाव-निश्चय-अभावात्. ०२०२८ अमूढ-स्मृति-संस्कारस्य अतीतस्य वर्तमानस्य च प्रतिपत्तृ-प्रत्यक्षस्य निवृत्तिर् अभाव-व्यवहार-प्रवर्तनी. ०२०२९ तस्या एव अभाव-निश्चयात्. ०२०३० सा च प्रयोग-भेदाद् एकदश-प्रकारा. ०२०३१ स्वभाव-अनुपलब्धिर् यथा, न अत्र धूम उपलब्धि-लक्षण-प्राप्तस्य अनुपलब्धिर् इति. ०२०३२ कार्य-अनुपलब्धिर् यथा, न इह अप्रतिबद्ध-सामर्थ्यानि धूम-कारणानि सन्ति धूम-अभावाद् इति. ०२०३३ व्यापक-अनुपलब्धिर् यथा, न अत्र शिंशपा, वृक्ष-अभावाद् इति. ०२०३४ स्वभाव-विरुद्ध-उपलब्धिर् यथा, न अत्र शीत-स्पर्शो वह्नेर् इति. ०२०३५ विरुद्ध-कार्य-उपलब्धिर् यथा, न अत्र शीत-स्पर्शो धूमाद् इति. ०२०३६ विरुद्ध-व्याप्त-उपलब्धिर् यथा, न धूम-भावी भूतस्य अपि भावस्य विनाशः, हेत्व्-अन्तर-अपेक्षणाद् इति. ०२०३७ कार्य-विरुद्ध-उपलब्धिर् यथा, न इह अप्रतिबद्ध-सामर्थ्यानि शीत-कारणानि सन्ति, वह्नेर् इति. ०२०३८ व्यापक-विरुद्ध-उपलब्धिर् यथा, न अत्र तुषार-स्पर्शो वह्नेर् इति. ०२०३९ कारण-अनुपलब्धिर् यथा, न अत्र धूमो वह्न्य्-अभावाद् इति. ०२०४० कारण-विरुद्ध-उपलब्धिर् यथा, न अस्य रोम-हर्ष-आदि-विशेषाः, संनिहित-दहन-विशेषत्वाद् इति. ०२०४१ कारण-विरुद्ध-कार्य-उपलब्धिर् यथा, न रोम-हर्ष-आदि-विशेष-युक्त-पुरुषवान् अयं प्रदेशः, धूमाद् इति. ०२०४२ इमे सर्वे कार्य-अनुपलब्ध्य्-आदयो दश-अनुपलब्धि-प्रयोगाः स्वभाव-अनुपलब्धौ संग्रहम् उपयान्ति. ०२०४३ पारंपर्येण अर्थान्तर-विधि-प्रतिषेधायां प्रयोग-भेदे अपि. ०२०४४ प्रयोग-दर्शन-अभ्यासात् स्वयम् अप्य् एवं व्यवच्छेद-प्रतीतिर् भवति इति स्वार्थे अप्य् अनुमाने अस्याः प्रयोग-निर्देशः. ०२०४५ सर्वत्र च अस्याम् अभाव-व्यवहार-साधन्याम् अनुपलब्धौ येषां स्वभाव-विरुद्ध-आदीनाम् उपलब्ध्या कारण-आदीनाम् अनुपलब्ध्या च प्रतिषेध उक्तस् तेषाम् उपलब्धि-लक्षण-प्राप्तानाम्. ०२०४५ एव उपलब्धिर् अनुपलब्धिश् च वेदितव्या. ०२०४६ अन्येषां विरोध-कार्यकारणभाव-सिद्धेः. ०२०४७ प्रमाण-निवृत्तव् अप्य् अर्थ-अभाव-असिद्धेर् इति. ०३००१ त्रिरूप-लिङ्ग-आख्यानं परार्थम् अनुमानम्. ०३००२ कारणे कार्य-उपचारात्. ०३००३ तद् द्विविधम्. ०३००४ प्रयोग-भेदात्. ०३००५ साधर्म्य-वैधर्म्य-वचन इति. ०३००६ न अनयोर् अर्थतः कश्चिद् भेदः. ०३००७ अन्यत्र प्रयोग-भेदात्. ०३००८ तत्र साधर्म्यवत् प्रयोगः: यद् उपलब्धि-लक्षण-प्राप्तं सन्न् न उपलभ्यते सो असद्-व्यवहार-विषयः सिद्धः, यथा अन्यः कश्चिद् दृष्टः शश-विषाण-आदिः. न उपलभ्यते च कश्चित् प्रदेश-विशेष उपलब्धि-लक्षण-प्राप्तो घट इत्य् अनुपलब्धि-प्रयोगः. ०३००९ तथा स्वभावहेतोः प्रयोगः: यत् सत् तत् सर्वम् अनित्यम्, यथा घट-आदिर् इति शुद्धस्य स्वभावहेतोः प्रयोगः. ०३०१० यद् उत्पत्तिमत् तद् अनित्यम् इति स्वभावभूत-धर्म-भेदेन स्वभावस्य प्रयोगः. ०३०११ यत् कृतकं तद् अनित्यम् इत्य् उपाधि-भेदेन. ०३०१२ अपेक्षित-पर-व्यापारो हि भावः स्वभाव-निष्पत्तौ कृतक इति. ०३०१३ एवं प्रत्यय-भेदभेदित्व-आदयो अपि द्रष्टव्याः. ०३०१४ सन्न् उत्पत्तिमान् कृतको वा शब्द इति पक्ष-धर्म-उपदर्शनम्. ०३०१५ सर्व एते साधन-धर्मा यथास्वं प्रमाणैः. सिद्ध-साधन-धर्म-मात्र-अनुबन्ध एव साध्य-धर्मो अवगन्तव्याः. ०३०१६ तस्य एव तत्. ०३०१७ स्वभावस्य च हेतुत्वात्. ०३०१८ वस्तुतस् तयोस् तादात्म्यम्. ०३०१९ तन्-निष्पत्ताव् अनिष्पन्नस्य तत्-स्वभावत्व-अभावात्. ०३०२० व्यभिचार-सम्भवाच् च. ०३०२१ कार्यहेतोः प्रयोगः: यत्र धूमस् तत्र अग्निः, यथा महानस-आदौ. अस्ति च इह धूम इति. ०३०२२ इह अपि सिद्ध एव कार्यकारणभावे कारणे साध्ये कार्यहेतुर् वक्तव्यः. ०३०२३ वैधर्म्यवतः प्रयोगः: यत् सद् उपलब्धि-लक्षण-प्राप्तं तद् उपलभ्यत एव, यथा नील-आदि-विशेषः. न च एवम् इह उपलब्धि-लक्षण-प्राप्तस्य सत उपलब्धिर् घटस्य इत्य् अनुपलब्धि-प्रयोगः. ०३०२४ असत्य् अनित्यत्वे न अस्त्य् एव सत्त्वम् उत्पत्तिमत्त्वं कृतकत्वं वा. संश् च शब्द उत्पत्तिमान् कृतको वा इति स्वभावहेतोः प्रयोगः. ०३०२५ असत्य् अग्नौ न भवत्य् एव धूमः. अत्र च अस्ति धूम इति कार्यहेतोः प्रयोगः. ०३०२६ साधर्म्येण अपि हि प्रयोगे अर्थाद् वैधर्म्य-गतिर् इति. ०३०२७ असति तस्मिन् साध्येन हेतोर् अन्वय-अभावात्. ०३०२८ तथा वैधर्म्येण अप्य् अन्वय-गतिः. ०३०२९ असति तस्मिन् साध्य-अभावे हेत्व्-अभावस्य असिद्धेः. ०३०३० न हि स्वभावप्रतिबन्धे असत्य् एकस्य निवृत्तव् अपरस्य नियमेन निवृत्तिः. ०३०३१ स च द्विप्रकारः सर्वस्य. तादात्म्य-लक्षणस् तदुत्पत्ति-लक्षणश् च इत्य् उक्तम्. ०३०३२ तेन हि निवृत्तिं कथयता प्रतिबन्धो दर्शनीयः. तस्मात् निवृत्ति-वचनम् आक्षिप्त-प्रतिबन्ध-उपदर्शनम् एव भवति. यच् च प्रतिबन्ध-उपदर्शनं तद् एव अन्वय-वचनम् इत्य् एकेन अपि वाक्येन अन्वय-मुखेन व्यतिरेक-मुखेन वा प्रयुक्तेन सपक्ष-असपक्षयोर् लिङ्गस्य सदसत्त्व-ख्यापनं कृतं भवति इति न अवश्यं वाक्य-द्वय-प्रयोगः. ०३०३३ अनुपलब्धाव् अपि: यत् सद् उपलब्धि-लक्षण-प्राप्तं तद् उपलभ्यत एव इत्य् उक्ते, अनुपलभ्यमानं तादृशम् असद् इति प्रतीतेर् अन्वय-सिद्धेः. ०३०३४ द्वयोर् अप्य् अनयोः प्रयोगयोर् न अवश्यं पक्ष-निर्देशः. ०३०३५ यस्मात् साधर्म्यवत्-प्रयोगे अपि यद् उपलब्धि-लक्षण-प्राप्तं सन् न उपलभ्यते सो असद्-व्यवहार-विषयः. न उपलभ्यते च अत्र उपलब्धि-लक्षण-प्राप्तो घट इत्य् उक्ते सामर्थ्याद् एव न इह घट इति भवति. ०३०३६ तथा वैधर्म्यवत्-प्रयोगे अपि: यः सद्-व्यवहार-विषय उपलब्धि-लक्षण-प्राप्तः, स उपलभ्यत एव. न तथा अत्र तादृशो घट उपलभ्यत इत्य् उक्ते सामर्थ्याद् एव न इह सद्-व्यवहार-विषय इति भवति. ०३०३७ कीदृशः पुनः पक्ष इति निर्देश्यः. ०३०३८ स्वरूपेण एव स्वयम् इष्टो अनिराकृतः पक्ष इति. ०३०३९ स्वरूपेण इति साध्यत्वेन इष्टः. ०३०४० स्वरूपेण एव इति साध्यत्वेन एव इष्टो न साधनत्वेन अपि. ०३०४१ यथा शब्दस्य अनित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्दे असिद्धत्वात् साध्यम्. न पुनस् तद् इह साध्यत्वेन एव इष्टम्, साधनत्वेन अभिधानात्. ०३०४२ स्वयम् इति वादिना. ०३०४३ यस् तदा साधनम् आह. ०३०४४ एतेन यद्य् अपि क्वचिच् शास्त्रे स्थितः साधनम् आह: तच् शास्त्रकारेण तस्मिन् धर्मिण्य् अनेक-धर्म-अभ्युपगमे अपि यस् तदा तेन वादिना धर्मः स्वयं साधयितुम् इष्टः, स एव साध्यो न इतर इत्य् उक्तं भवति. ०३०४५ इष्ट इति यत्र अर्थे विवादेन साधनम् उपन्यस्तं तस्य सिद्धिम् इच्छता सो अनुक्तो अपि वचनेन साध्यः. ०३०४६ तद् अधिकरणत्वाद् विवादस्य. ०३०४७ यथा परार्थश् चक्षुर्-आदयः संघातत्वाच् शयन-आसन-आद्य्-अङ्ग-वद् इति. अत्र आत्म-अर्था इत्य् अनुक्ताव् अप्य् आत्म-अर्थता साध्या. तेन न उक्त-मात्रम् एव साध्यम् इत्य् उक्तं भवति. ०३०४८ अनिराकृत इति, एतल्-लक्षण-योगे अपि यः साधयितुम् इष्टो अप्य् अर्थः प्रत्यक्ष-अनुमान-प्रतीति-स्व-वचनैर् निराक्रियते, न स पक्ष इति प्रदर्शन-अर्थम्. ०३०४९ तत्र प्रत्यक्ष-निराकृतो यथा, अश्रावणः शब्द इति. ०३०५० अनुमान-निराकृतो यथा, नित्यः शब्द इति. ०३०५१ प्रतीति-निराकृतो यथा, अचन्द्रः शशी इति. ०३०५२ स्व-वचन-निराकृतो यथा, न अनुमानं प्रमाणम्. ०३०५३ इति चत्वारः पक्षाभासा निराकृता भवन्ति. ०३०५४ एवं सिद्धस्य, असिद्धस्य अपि साधनत्वेन अभिमतस्य, स्वयं वादिना तदा साधयितुम् अनिष्टस्य, उक्त-मात्रस्य च विपर्ययेण साध्यः. तेन एव स्वरूपेण अभिमतो वादिन इष्टो अनिराकृतः पक्ष इति पक्ष-लक्षणम् अनवद्यं दर्शितं भवति. ०३०५५ त्रिरूपलिङ्ग-आख्यानं परार्थ-अनुमानम् इत्य् उक्तम्. तत्र त्रयाणां रूपाणाम् एकस्य अपि रूपस्य अनुक्तौ साधनाभासः. ०३०५६ उक्ताव् अप्य् असिद्धौ सन्देहे वा प्रतिपाद्य-प्रतिपादकयोः. ०३०५७ एकस्य रूपस्य धर्मि-सम्बन्धस्य असिद्धौ सन्देहे वा असिद्धो हेत्वाभासाः. ०३०५८ यथा, अनित्यः शब्द इति साध्ये चाक्षुषत्वम् उभय-असिद्धम्. ०३०५९ चेतनास् तरव इति साध्ये सर्व-त्वग्-अपहरणे मरणं प्रतिवाद्य्-असिद्धम्, विज्ञान-इन्द्रिय-आयुर् निरोध-लक्षणस्य मरणस्य अनेन अभ्युपगमात्, तस्य च तरुष्व् असम्भवात्. ०३०६० अचेतनाः सुख-आदय इति साध्ये उत्पत्तिमत्वं वा सांख्यस्य स्वयं वादिनो असिद्धम्. ०३०६१ तथा स्वयं तद्-आश्रयणस्य वा सन्देहे असिद्धः. ०३०६२ यथा बाष्प-आदि-भावेन सन्दिह्यमानो भूत-संघातो अग्नि-सिद्धाव् उपदिश्यमानः सन्दिग्ध-असिद्धः. ०३०६३ यथा इह निकुञ्जे मयूरः केकायिताद् इति. ०३०६४ तद्-आपात-देश-विभ्रमे. ०३०६५ धर्म्य्-असिद्धाव् अप्य् असिद्धः, यथा सर्वगत आत्मा इति साध्ये सर्वत्र उपलम्भमान-गुणत्वम्. ०३०६६ तथा एकस्य रूपस्य असपक्षे असत्त्वस्य असिद्धाव् अनैकान्तिको हेत्वाभासः. ०३०६७ यथा शब्दस्य अनित्यत्व-आदिके धर्मे साध्ये प्रमेयत्व-आदिको धर्मः सपक्ष-विपक्षयोः सर्वत्र एकदेशे वा वर्तमानः. ०३०६८ तथा, अस्य एव रूपस्य सन्देहे अप्य् अनैकान्तिक एव. ०३०६९ यथा असर्वज्ञः कश्चिद् विवक्षितः पुरुषो राग-आदिमान् वा साध्ये वक्तृत्व-आदिको धर्मः सन्दिग्ध-विपक्ष-व्यावृत्तिकः. ०३०७० सर्वज्ञो वक्ता न उपलभ्यते इत्य् एवंप्रकारस्य अनुपलम्भस्य अदृश्य-आत्म-विषयत्वेन सन्देह-हेतुत्वात्. ततो असर्वज्ञ-विपर्ययाद् वक्तृत्व-आदेर् व्यावृत्तिः सन्दिग्धा. ०३०७१ वक्तृत्व-सर्वज्ञत्वयोर् विरोध-अभावाच् च यः सर्वज्ञः स वक्ता न भवति इत्य् अदर्शने अपि व्यतिरेको न सिध्यति सन्देहात्. ०३०७२ द्विविधो हि पदार्थानां विरोधः. ०३०७३ अविकल-कारणस्य भवतो अन्यभावे अभावाद् विरोध-गतिः. ०३०७४ शीत-उष्ण-स्पर्श-वत्. ०३०७५ परस्पर-परिहार-स्थित-लक्षणतया वा भाव-अभाव-वत्. ०३०७६ स च द्विविधो अपि विरोधो वक्तृत्व-सर्वज्ञत्वयोर् न सम्भवति. ०३०७७ न च अविरुद्ध-विधेर् अनुपलब्धाव् अप्य् अभाव-गतिः. ०३०७८ राग-आदीनां वचन-आदेश् च कार्यकारणभाव-असिद्धेः. ०३०७९ अर्थान्तरस्य च अकारणस्य निवृत्तौ न वचन-आदेर् निवृत्तिः. ०३०८० इति सन्दिग्ध-व्यतिरेको अनैकान्तिको वचन-आदिः. ०३०८१ द्वयो रूपयोर् विपर्यय-सिद्धौ विरुद्धः. ०३०८२ कयोर् द्वयोः. ०३०८३ सपक्षे सत्त्वस्य, असपक्षे च असत्त्वस्य, यथा कृतकत्वं प्रयत्नानन्तरीयकत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः. ०३०८४ अनयोः सपक्षे असत्त्वम्, असपक्षे च सत्त्वम् इति विपर्यय-सिद्धिः. ०३०८५ एतौ च साध्य-विपर्यय-साधनाद् विरुद्धौ. ०३०८६ ननु च तृतीयो अपि इष्ट-विघात-कृद् विरुद्धः. ०३०८७ यथा परार्थाश् चक्षुर्-आदयः संघातत्वाच् शयन-आसन-आद्य्-अङ्ग-वद् इति. ०३०८८ तद् इष्ट-संहत-पारार्थ्य-विपर्यय-साधनाद् विरुद्धः. ०३०८९ स इह कस्मान् न उक्तः. ०३०९० अनयोर् अन्तर्भावात्. ०३०९१ न ह्य् अयम् आभ्यां साध्य-विपर्यय-साधनत्वेन भिद्यते. ०३०९२ न हि इष्ट-उक्तयोः साध्यत्वेन कश्चिद् विशेष इति. ०३०९३ द्वयो रूपयोर् एकस्य असिद्धाव् अपरस्य च सन्देहे अनैकान्तिकः. ०३०९४ यथा वीत-रागः कश्चित् सर्वज्ञो वा, वक्तृत्वाद् इति. व्यतिरेको अत्र असिद्धः, सन्दिग्धो अन्वयः. ०३०९५ सर्वज्ञ-वीत-रागयोर् विप्रकर्षाद् वचन-आदेस् तत्र सत्त्वम् असत्त्वं वा सन्दिग्धम्. ०३०९६ अनयोर् एव द्वयो रूपयोः सन्देहे अनैकान्तिकः. ०३०९७ यथा सात्मकं जीवच्छरीरं प्राण-आदिमत्त्वाद् इति. ०३०९८ न हि सात्मक-निरात्मकाभ्याम् अन्यो राशिर् अस्ति यत्र अयं प्राण-आदिर् वर्तते. ०३०९९ आत्मनो वृत्ति-व्यवच्छेदाभ्यां सर्व-संग्रहाद्. ०३१०० न अप्य् अनयोर् एकत्र वृत्ति-निश्चयः. ०३१०१ सात्मकत्वेन अनात्मकत्वेन वा प्रसिद्धे प्राण-आदेर् असिद्धेः. ०३१०२ तस्माज् जीवच्छरीर-सम्बन्धी प्राण-आदिः सात्मकाद् अनात्मकाच् च सर्वस्माद् व्यावृत्तत्वेन असिद्धेस् ताभ्यां न व्यतिरिच्यते. ०३१०३ न तत्र अन्वेति. ०३१०४ एकात्मन्य् अप्य् असिद्धेः. ०३१०५ न अपि सात्मकाद् अनात्मकाच् च तस्य अन्वय-व्यतिरेकयोर् अभाव-निश्चयः. ०३१०६ एक-अभाव-निश्चयस्य अपर-भाव-निश्चय-नान्तरीयकत्वात्. ०३१०७ अन्वय-व्यतिरेकयोर् अन्योन्य-व्यवच्छेद-रूपत्वात्. तत एव अन्वय-व्यतिरेकयोः सन्देहाद् अनैकान्तिकाः. ०३१०८ साध्य-इतरयोर् अतो निश्चय-अभावात्. ०३१०९ एवम् एषां त्रयाणां रूपाणाम् एकैकस्य द्वयोर् द्वयोर् वा रूपयोर् असिद्धौ सन्देहे वा यथायोगम् असिद्ध-विरुद्ध-अनैकान्तिकास् त्रयो हेत्वाभासाः. ०३११० विरुद्धाव्यभिचार्य् अपि संशय-हेतुर् उक्तः. स इह कस्मान् न उक्तः. ०३१११ अनुमान-विषये असम्भवात्. ०३११२ न हि सम्भवो अस्ति कार्य-स्वभावयोर् उक्त-लक्षणयोर् अनुपलम्भस्य च विरुद्धतायाः. ०३११३ न च अन्यो अव्यभिचारी. ०३११४ तस्माद् अवस्तु-दर्शन-बल-प्रवृत्तम् आगम-आश्रयम् अनुमानम् आश्रित्य तद्-अर्थ-विचारेषु विरुद्धाव्यभिचारी साधन-दोष उक्तः. ०३११५ शास्त्रकाराणाम् अर्थेषु भ्रान्त्या विपरीत-स्वभाव-उपसंहार-सम्भवात्. ०३११६ न ह्य् अस्य सम्भवो यथावस्थित-वस्तु-स्थितिष्व् आत्म-कार्य-अनुपलम्भेषु. ०३११७ तत्र उदाहरणम्: यत् सर्व-देश-अवस्थितैः स्व-सम्बन्धिभिर् युगपद् अभिसम्बध्यते तत् सर्वगतम्, यथा आकाशम्. अभिसम्बध्यते च सर्व-देश-अवस्थितैः स्व-सम्बन्धिभिर् युगपत् सामान्यम् इति. ०३११८ तत्-सम्बन्धि-स्वभाव-मात्र-अनुबन्धिनी तद्-देश-संनिहित-स्वभावता. ०३११९ न हि यो यत्र न अस्ति तद्-देशम् आत्मना व्याप्नोति इति स्वभावहेतु-प्रयोगः. ०३१२० द्वितीयो अपि प्रयोगः: यद् उपलब्धि-लक्षण-प्राप्तं सन् न उपलभ्यते न तत् तत्र अस्ति. तद् यथा, क्वचिद् अविद्यमानो घटः. न उपलभ्यते च उपलब्धि-लक्षण-प्राप्तं सामान्यं व्यक्त्य्-अन्तरालेष्व् इति. अयम् अनुपलम्भः स्वभावश् च परस्पर-विरुद्ध-अर्थ-साधनाद् एकत्र संशयं जनयतः. ०३१२१ त्रिरूपो हेतुर् उक्तः. तावता च अर्थ-प्रतीतिर् इति न पृथग् दृष्टान्तो नाम साधन-अवयवः कश्चिद्. तेन न अस्य लक्षणं पृथग् उच्यते गत-अर्थत्वात्. ०३१२२ हेतोः सपक्ष एव सत्त्वम् असपक्षाच् च सर्वतो व्यावृत्ती रूपम् उक्तम् अभेदेन. पुनर् विशेषेण कार्य-स्वभावयोर् उक्त-लक्षणयोर् जन्म-तन्-मात्र-अनुबन्धौ दर्शनीय-अवक्तौ. तच् च दर्शयता, यत्र धूमस् तत्र अग्निः, असत्य् अग्नौ न क्वचिद् धूमो यथा महानस-इतरयोः, यत्र कृतकत्वं तत्र अनित्यत्वम्, अनित्यत्व-अभावो कृतकत्व-असम्भवो यथा घट-आकाशयोः, इति दर्शनीयम्. न ह्य् अन्यथा सपक्ष-विपक्षयोः सदसत्त्वे यथोक्त-प्रकारे शक्ये दर्शयितुम्. तत् कार्यता-नियमः कार्य-लिङ्गस्य स्वभाव-लिङ्गस्य च स्वभावेन व्याप्तिः. अस्मिंश् च अर्थे दर्शिते दर्शित एव दृष्टान्तो भवति. एतावान् मात्र-रूपत्वात् तस्य इति. ०३१२३ एतेन एव दृष्टान्त-दोषा अपि निरस्ता भवन्ति. ०३१२४ यथा नित्यः शब्दो अमूर्तत्वात्. कर्म-वत् परमाणु-वद् घट-वद् इति. एते दृष्टान्ताभासाः साध्य-साधन-धर्म-उभय-विकलाः. ०३१२५ तथा सन्दिग्ध-साध्य-धर्म-आदयश् च, यथा राग-आदिमान् अयं वचनाद् रथ्या-पुरुष-वत्. मरण-धर्मो अयं पुरुषो राग-आदिमत्त्वाद् रथ्या-पुरुष-वत्. असर्वज्ञो अयं राग-आदिमत्वाद् रथ्या-पुरुष-वद् इति. ०३१२६ तथा अनन्वयो अप्रदर्शित-अन्वयश् च, यथा यो उक्ता स राग-आदिमान्, इष्ट-पुरुष-वत्. अनित्यः शब्दः कृतकत्वाद् घट-वद् इति. ०३१२७ तथा विपरीत-अन्वयः, यद् अनित्यं तत् कृतकम् इति. ०३१२८ साधर्म्येण दृष्टान्त-दोषाः. ०३१२९ वैधर्म्येण अपि, परमाणु-वत् कर्म-वत् आकाश-वद् इति साध्य-आद्य्-अव्यतिरेकिणः. ०३१३० तथा सन्दिग्ध-साध्य-व्यतिरेक-आदयः, यथा असर्वज्ञाः कपिल-आदयो अनाप्ता वा अविद्यमान-सर्वज्ञता-आप्तता-लिङ्गभूत-प्रमाण-अतिशय-शासनत्वाद् इति. अत्र वैधर्म्य-उदाहरणम्, यः सर्वज्ञ आप्तो वा स ज्योतिर्-ज्ञान-आदिकम् उपदिष्टवान्, यथा ऋषभ-वर्धमान-आदिर् इति. तत्र असर्वज्ञता अनाप्तयोः साध्य-धर्मयोः सन्दिग्धो व्यतिरेकः. ०३१३१ सन्दिग्ध-साधन-व्यतिरेको यथा, न त्रयीविदा ब्राह्मणेन ग्राह्य-वचनः कश्चिद् विवक्षितः पुरुषो राग-आदिमत्त्वाद् इति. अत्र वैधर्म्य-उदाहरणम्, ये ग्राह्य-वचना न ते राग-आदिमन्तः. तद् यथा गौतम-आदयो धर्म-शास्त्राणां प्रणेतार इति. गौतम-आदिभ्यो राग-आदिमत्त्वस्य साधन-धर्मस्य व्यावृत्तिः सन्दिग्धा. ०३१३२ सन्दिग्ध-उभय-व्यतिरेको यथा, अवीत-रागाः कपिल-आदयः, परिग्रह-आग्रह-योगाद् इति. अत्र वैधर्म्येण उदाहरणम्, यो वीत-रागो न तस्य परिग्रह-आग्रहः, यथा ऋषभ-आदेर् इति. ऋषभ-आदेर् अवीत-रागत्व-परिग्रह-आग्रह-योगयोः साध्य-साधन-धर्मयोः सन्दिग्धो व्यतिरेकः. ०३१३३ अव्यतिरेको यथा, अवीत-रागो अयं वक्तृत्वात्. वैधर्म्येण उदाहरणम्, यत्र अवीत-रागत्वं न अस्ति न स वक्ता, यथा उपल-खण्ड इति. यद्य् अप्य् उपल-खण्डाद् उभयं व्यावृत्तं तथा अपि सर्वो वीत-रागो न वक्ता इति व्याप्त्या व्यतिरेक-असिद्धेर् अव्यतिरेकः. ०३१३४ अप्रदर्शित-व्यतिरेको यथा, अनित्यः शब्दः, कृतकत्वाद् आकाश-वद् इति वैधर्म्येण. ०३१३५ विपरीत-व्यतिरेको यथा, यद् अकृतकं तन् नित्यं भवति इति. ०३१३६ न ह्य् एभिर् दृष्टान्ताभासाइर् हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षे च सर्वत्र असत्त्वम् एव निश्चयेन शक्यं दर्शयितुं विशेष-लक्षणं वा. तद् अर्थापत्त्या एषां निरासो द्रष्टव्यः. ०३१३७ दूषणा न्यूनता-आद्य्-उक्तिः. ०३१३८ ये पूर्वं न्यूनता-आदयः साधन-दोषा उक्तास् तेषाम् उद्भावनं दूषणम्. तेन पर-इष्ट-अर्थ-सिद्धि-प्रतिबन्धात्. ०३१३९ दूषणाभासास् तु जातयः. ०३१४० अभूत-दोष-उद्भावनानि जात्य्-उत्तराणि इति.

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Dharmakīrti: Nyāyabindu (sa_dharmakIrti-nyAyabindu.htm).

Source