प्. ४७) अगम्यागमकर्तारो गम्यागमनमानसाः | मुखे त्रीणि च विन्दन्ति त्रिधामा हंस उच्यते || ४ || परं गुह्यतमं विद्धि ह्यस्ततन्द्री निराश्रयः | सोमरूपकला सूक्ष्मा विष्णोस्तत् परमं पदम् || ५ || उत्तमाधिकारिणां तदवगतिः भवत्येव | मन्दमध्यमानां तदवगतिः कथमित्यत्र साधनान्युपदिशति- यतेति | हे स्वाज्ञलोक, यदि त्वं मदुपदेशप्रभवस्वज्ञानतः स्वपदं प्राप्तुमिहसे तदा मदुक्तसाधनसंपन्नो भूत्वा विष्णोस्तत् परमं पदं यास्यसीत्यन्वयः | आहारस्य च भागौ द्वौ तृतीयमुदकस्य च | वायोः संचरणार्थाय चतुर्थमवशेषयेत् || इति येनाहारो यतो नियतः स त्वमादौ यताहारो भव, आहारशुद्धौ तत्त्वशुद्धिः इत्यादि श्रुतेः | कामालाभजः क्रोधो येन जितः स त्वं जितक्रोधो भव | स्वविकल्पितेन्द्रियेन्द्रियार्थेषु सङ्गो येन जितः स त्वं जितसङ्गो जितेन्द्रियवर्गो भव | शीतोष्णादिद्वन्द्वो यस्मान्निर्गतः स त्वं निर्द्वन्द्वो भव | शरीरत्रये अहंकारो यस्मान्निर्गतः स त्वं निरहंकारो भव | स्वातिरिक्तविषय भोगानशितुमिच्छा आशीः यस्मान्निर्गता स त्वं निराशीः भव | प्राणमात्रधारणानुकूलपरिग्रहेतरपरिग्रहो येनागृहीतः स त्वम् अपरिग्रहो भव || ३ || स्वज्ञैकदेशिनो यत्पदं विन्दन्ति तत्पदमादावुपास्स्वेत्याह- आगम्येति | केवलस्वाज्ञ[ज्ञा]गम्ये स्वाविद्यापदारोपाधिकरणे विश्वविराडोत्रादौ तद्भावाभावितधिया अगमनं कुर्वन्तीति अगम्यागमकर्तारः, स्वाज्ञदृष्टिगम्ये स्वाविद्यापदतत्कार्ये येषां मानसं गमनं न भजति ते हि गम्यागमनमानसाः
SK
प्. ४८) शबलब्रह्मशरणाः स्वज्ञैकदेशिनः | नेत्रस्थं जागरितं विद्यात् दक्षिणाक्षिमुखे विश्वः इति श्रुतिसिद्धे मुखे जाग्रज्जाग्रदादौ व्यष्टिसमष्टितदुभयैक्याधिकरणतया विश्वविश्वादिविराड्विराडाद्योत्रोत्रादिभेदेन त्रीणि त्रीणि रूपाणि, चशब्दात् तत्तत्तुर्यरूपाण्यपि, स्वाभेदेन विन्दन्ति जानन्ति | एवं त्रीणि धामानि यस्य सोऽयं त्रिधामा हंस उच्यते | स्वज्ञानतः स्वभजत्स्वात्मानं हन्तीति हंसः परमेश्वर इत्यर्थः || ४ || तमेतं हंसं सोऽहमित्युपास्य तत्प्रसादतो हि अस्ता तन्द्री जामिता यस्य सः त्वम् अस्ततन्द्री सन् स्वात्मेतराश्रयाभावात् निराश्रयो भूत्वा यन्मयोच्यते तत्सर्वापवादाधिकरणतया जाग्रज्जाग्रदादिकलनायाः परम् अनधिकारिणे अवक्तव्यत्वात् गुह्यतं ब्रह्म अधिष्ठेयसापेक्षाधिष्ठानतापाये निष्प्रतियोगिकस्वमात्रमिति विद्धि जानीहि | किं तदित्यत आह- सोमेति | उमया स्वविद्यया सहितमुनिसम्यग्ज्ञानविदिता कला चिन्मात्ररूपिणी सोमरूपकला निर्विशेषतया सूक्ष्मा, सैव, स्वाज्ञदृष्टिविकल्पितव्याप्यप्रसक्तौ, व्यापकभावमापन्नस्य विष्णोः सम्यग्ज्ञदृष्ट्या व्याप्यव्यापकतापह्नवसिद्धं यत् तत् परमं निष्प्रतियोगिकनिरतिशयं तन्मात्रतया पद्यत इति पदं स्वमात्रमवशिष्यत इत्यर्थः || ५ || परवस्तुन एव सविशेषत्वादिभावाः त्रिवक्त्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जितम् | निश्चलं निर्विकल्पं च निराकारं निराश्रयम् || ६ || उपाधिरहितं स्थानं वाङ्मनोऽतीतगोचरम् | स्वभावं भावसंग्राह्यमसंघातं पदाच्युतम् || ७ || प्. ४९) अनानानन्दनातीतं दुष्प्रेक्ष्यं मुक्तमव्ययम् | चिन्त्यमेवंविनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् || ८ || तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् | अचिन्त्यं चिन्मयात्मानं यद्व्योम परमं स्थितम् || ९ || अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितम् | न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च || १० || सर्वं च न परं शून्यं न परं न परात्परम् | अचिन्त्यमप्रबुद्धं च न सत्यं न परं विदुः || ११ ||
SK
मुनीनां संप्रयुक्तं च न देवा न परं विदुः | लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् || १२ || शीतोष्णो क्षुत्पिपासे च संकल्पकविकल्पकम् | न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसंचयम् || १३ || न भयं न सुखं दुःखं तथा मानावमानयोः | एतद्भावविनिर्मुक्तं तद्ब्रह्म ब्रह्म तत्परम् || १४ || तदेव स्वाज्ञादिदृष्ट्या सविशेषतां तत्प्रतियोगिकनिर्विशेषतां, परमार्थदृष्ट्या निष्प्रतियोगिकनिर्विकल्पतां च भजतीव भातीत्याह- त्रिवक्त्रमिति | विश्वतैजसप्राज्ञभेदेन त्रिवक्त्रं, विराट्सूत्रादिभेदेन त्रिगुणं, स्थानं मुक्तप्राप्यत्वात्, ओत्रनुज्ञात्रनुज्ञाभेदेन ब्रह्मविष्ण्वीशभेदेन वा त्रिधातुं, वस्तुत उक्तत्रिवक्त्रादिस्वरूपविवर्जितं, चलविकल्पाकृत्याश्रयवैरल्यात्
SK
प्. ५०) निश्चलं निर्विकल्पं च निराकारं निराश्रयम् || ६ || उपाधिरहितं निरुपाधिकत्वात् | स्थानम् उक्तार्थम् | वाङ्मनोऽतीततुर्यतया गोचरम् | स्वयमेव भवतीति स्वभावम् | भावरूपेणैव सम्यग्ग्राह्यं सन्मात्रत्वात् | असंघातं करणग्रामबाह्यत्वात् | स्वस्वभावादच्युतम् || ७ || नानानन्दनो जीवः स न भवतीति अनानानन्दनः साक्षी तद्भावादप्यतीतम् | दुष्प्रेक्ष्यं मुक्तमव्ययम् इति पदत्रयं व्याख्यातम् | सदा अव्ययतया चिन्त्यम् | चिन्तितस्य सविशेषप्रसक्तौ एवंविनिर्मुक्तम्, केनाप्यचिन्त्यत्वात् | अशाश्वतविश्वाभावात् शाश्वतम् | अध्रुवमायापायात् ध्रुवम् | सर्वप्रकारेणापि च्युत्यभावात् अच्युतम् || ८ || यदेवंभूतं तद्ब्रह्मणः स्वरूपम् | तत् प्रत्यग्रूपेण सर्वात्मानं विराजमधिकृत्य भवतीति अध्यात्मम् | तदेव विष्णोः स्वरूपमपि | तदेव तत्परायणं मुक्तप्राप्यनारायणत्वात् | निर्विशेषात्मना अचिन्त्यम् | अन्तःकरणाभावात् | चिन्मयात्मानम् इति, विभक्तिलिङ्गच्यत्ययः छान्दसः, चिन्मयात्मकम् | यद्व्योम चिदाकाशत्वात् | परमं व्याख्यातम् | स्थितं सत्तामात्रत्वात् || ९ || अत एव अशून्यम् | पूर्णत्वात् स्वातिरिक्तशून्यभावम् | तुशब्दोऽवधारणार्थः | शून्यभावमापन्नस्वातिरिक्तादप्यतीतं निष्प्रतियोगिकत्वात् | प्रत्यगादिरूपेण हृदि स्थितम् | तस्य प्रत्यक्त्वे त्रिपुटी स्यादित्यत आह- नेति | स्वातिरेकेण न ध्यानं च न च ध्याता न ध्येयः | स्वावशेषतया ध्येय एव च || १० || स्वातिरेकेण यदि सर्वं प्रसक्तं तदा न च सर्वम् अस्ति | यदि स्यात् तदा स्वस्मात् परं शून्यम् | अत एव न परम् अस्ति | सापेक्षपरात् परम् अपि स्वयं न भवति | स्वातिरेकेण चिन्तितुं बोद्धुं द्रष्टुम् अशक्यतया मुनयः अचिन्त्यमप्रबुद्धं च न सत्यं न परं विदुः || ११ || यत्परम् अतिरिक्तं नेति नुनीनाम्- तृतीयार्थे षष्ठी- मुनिभिः यत् संप्रयुक्तम् अवधृतं तत्र देवाः सूक्ष्मबुद्ध्योऽपि ततः परम् अस्तीति न विदुः | लोभमित्यादौ लिङ्गव्यत्ययो द्रष्टव्यः | न हि तत्र लोभमोहाद्यन्तःकरणवृत्तयः
SK
शीतोष्णादिद्वन्द्वं क्षुत्पिपासादिषडूर्मयः संकल्पविकल्पादिमानसवृत्तयः ब्रह्मादिकुलप्रसूतोऽस्मीति दर्पश्च बन्धमोक्षादिग्रन्थिसंचयश्च मानावमानवृत्तयो वा विद्यन्ते | यत् एतत् सर्वभावविनिर्मुक्तं प्. ५१) स्वातिरिक्तसामान्यापह्नवसिद्धं तत् ब्रह्म | ब्रह्म तत्परं स्वमात्रमवशिष्यत इत्यर्थः || १२- १४ || परब्रह्मावगतिसाधनं पञ्चदशाङ्गयोगः यमो हि नियमस्त्यागो मौनं देशश्च कालतः | आसनं मूलबन्धश्च देहसाग्यं च दृक्स्थितिः || १५ || प्राणसंयमनं चैव प्रत्याहारश्च धारणा | आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् || १६ || यद्येवं ब्रह्म निष्प्रतियोगिकं तदा तदवगत्युपायवैरल्यमाशङ्क्य यदि ते तदवगतीच्छा विद्यते तदा तदवगतिसाधनतया पञ्चदशाङ्गयोग उच्यते- यमोहीति | इत्थं पञ्चदशयोगाङ्गानि सूत्रितानि || १५-१६ || पञ्चदशाङ्गानां लक्षणानि सर्वं ब्रह्मेति वै ज्ञानादिन्द्रियग्रामसंयमः | यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः || १७ || सजातीयप्रवाहश्च विजातीयतिरस्कृतिः | नियमो हि परानन्दो नियमात् क्रियते बुधैः || १८ || त्यागः प्रपञ्चरूपस्य सच्चिदात्मावलोकनत् | त्यागो हि महतां पूज्यः सद्यो मोक्षप्रदायकः || १९ || यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह | यन्मौनं योगिभिर्गम्यं तद्भवेत् सर्वदा जडैः || २० || प्. ५२) वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते | प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः || २१ || इति वा तद्भवेन्मौनं सर्वं सहजसंज्ञितम् | गिरा मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् || २२ || आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते | येनेदं सततं व्याप्तं स देशो विजनः स्मृतः || २३ || कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः | कालशब्देन निर्दिष्टं ह्यखण्डानन्दमद्वयम् || २४ || सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् | आसनं तद्वीजानीयादन्यत् सुखविनाशनम् || २५ ||
स्वात्ममन्त्राभ्यासस्य ब्रह्माप्त्यन्तरायनिरसनद्वारा निष्प्रतियोगिकब्रह्ममात्रपदप्रापकत्वात् यत एवम् अतः बन्धमोक्षभ्रममुमुक्षुः इममेव अहं ब्रह्मास्मीति मन्त्रं सदा अभ्यसेदित्याह- स्वात्ममन्त्रमिति | स्पष्टोऽयमर्थः || ५९-७४ || इतिशब्दः अध्यायपरिसमाप्त्यर्थः || इति तृतीयोऽध्यायः || ३ || चतुर्थोऽध्यायः जीवन्मुक्तिः- प्रत्यगभिन्नब्रह्मभावापत्तिः कुमारः परमेश्वरं पप्रच्छ जीवन्मुक्तविदेहमुक्तयोः स्थितिमनुब्रूहीति | स होवाच परः शिवः | चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः | आत्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते || १ || देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् | ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते || २ || प्. ७५) आनन्दघनरूपोऽस्मि परानन्दघनोऽस्म्यहम् | यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः | परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते || ३ || यस्य किंचिदहं नास्ति चिन्मात्रेणावतिष्ठते | चैतन्यमात्रो यस्यान्तश्चिन्मात्रैकस्वरूपवान् || ४ || सर्वत्र पूर्णरूपात्मा सर्वत्रात्मावशेषकः | आनन्दरतिव्यक्तः परिपूर्णश्चिदात्मकः || ५ || शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः | नित्यानन्दः प्रसन्नात्मा ह्यन्यचिन्ताविवर्जितः || ६ || किंचिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते | न मे चित्तं न मे बुद्धिर्नाहंकारो न चेन्द्रियम् || ७ || न मे देहः कदाचिद्वा न मे प्राणादयः क्वचित् | न मे माया न मे कामो न मे क्रोधः परोऽस्म्यहम् || ८ || न मे किंचिदिदं वापि न मे किंचित् क्वचिज्जगत् | न मे दोषो न मे लिङ्गं न मे चक्षुर्न मे मनः || ९ || न मे श्रोत्रं न मे नासा न मे जिह्वा न मे करः | न मे जाग्रन्न मे स्वप्नं न मे कारणमण्वपि || १० || न मे तुरीयमिति यः स जीवन्मुक्त उच्यते | इदं सर्वं न मे किंचिदयं सर्वं न मे क्वचित् || ११ || प्. ७६) न मे कालो न मे देशो न मे वस्तु न मे मतिः | न मे स्नानं न मे संध्या न मे दैवं न मे स्थलम् || १२ ||
SK
न मे तीर्थं न मे सेवा न मे ज्ञानं न मे पदम् | न मे बन्धं न मे जन्म न मे वाक्यं न मे रविः || १३ || न मे पुण्यं न मे पापं न मे कार्यं न मे शुभम् | न मे जीव इति स्वात्मा न मे किंचिज्जात्त्रयम् || १४ || न मे मोक्षो न मे द्वैतं न मे वेदो न मे विधिः | न मेऽन्तिकं न मे दूरं न मे बोधो न मे रहः || १५ || न मे गुरुर्न मे शिष्यो न मे हीनो न चाधिकः | न मे ब्रह्मा न मे विष्णुर्न मे रुद्रो न चन्द्रमाः || १६ || न मे पृथ्वी न मे तोयं न मे वायुर्न मे वियत् | न मे वहिर्न मे गोत्रं न मे लक्ष्यं न मे भवः || १७ || न मे ध्याता न मे ध्येयं न मे ध्यानं न मे मनुः | न मे शीतं न मे चोष्णं न मे तृष्णा न मे क्षुधा || १८ || न मे मित्रं न मे शत्रुर्न मे मोहो न मे जयः | न मे पूर्वं न मे पश्चान्न मे चोर्ध्वं न मे दिशः || १९ || न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि | ने मे मन्तव्यमीषद्वा न मे ध्यातव्यमण्वपि || २० || न मे भोक्तव्यमीषद्वा न मे स्मर्तव्यमण्वपि | न मे भोगो न मे रागो न मे यागो न मे लयः || २१ || प्. ७७) न मे मौर्ख्यं न मे शान्तं न मे बन्धं न मे प्रियम् | न मे मोदः प्रमोदो वा न मे स्थूलं न मे कृशम् || २२ || न मे दीर्घं न मे ह्रस्वं न मे वृद्धिर्न मे क्षयम् | अध्यारोपापवादौ वा न मे चैकं न मे बहु || २३ || न मे आन्ध्यं न मे मान्द्यं न मे पट्टिदमण्वपि | न मे मांसं न मे रक्तं न मे मेदो न मे ह्यसृक् || २४ || न मे मज्जा न मेऽस्थिर्वा न मे त्वग्धातुसप्तकम् | न मे शुक्लं न मे रक्तं न मे नीलं न मे पृथक् || २५ || न मे तापो न मे लोभो मुख्यं गौणं न मे क्वचित् | न मे भ्रान्तिर्न मे स्थैर्यं न मे गुह्यं न मे कुलम् || २६ || न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे नयः | न मे व्रतं न मे ग्लानिर्न मे शोष्यं न मे सुखम् || २७ || न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् | न मे तुभ्यं न मे मह्यं न मे त्वं च न मे त्वहम् || २८ ||
SK
न मे जरा न मे बाल्यं न मे यौवनमण्वपि | अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः || २९ || चिदहं चिदहं चेति स जीवन्मुक्त उच्यते | ब्रह्मैवाहं चिदेवाहं परो वाहं न संशयः || ३० || स्वयमेव स्वयं हंसः स्वयमेव स्वयं स्थितः | स्वयमेव स्वयं पश्येत् स्वात्मराज्ये सुखे वसेत् || ३१ || प्. ७८) स्वात्मानन्दं स्वयं भोक्ष्येत् स जीवन्मुक्त उच्यते | स्वयमेवैकवीरोऽग्रे स्वयमेव प्रभुः स्मृतः | स्वस्वरूपे स्वयं स्वप्स्ये स जीवन्मुक्त उच्यते || ३२ || कुमारः स्वपितुः परमेश्वरस्य मुख्यतः अखण्डैकरसचिन्मात्रज्ञानं तदनुभवं च यथावदवगम्य तदान्तरालिकमुख्यफलरूपजीवन्मुक्तिविदेहमुक्तिस्वरूपमवगन्तु शिवं पृच्छतीत्याह- कुमार इति | तदङ्गीकृत्य क्रमेण जीवन्मुक्तविदेहमुक्तलक्षणं स होवाच | तत्र जीवन्मुक्तलक्षणमुच्यते- चिदात्मेति | पराग्भावग्रासप्रत्यग्भावस्थितिः जीवन्मुक्तिः प्रत्यगभिन्नब्रह्मभावापत्तिर्वेति वक्ष्यमाणजीवन्मुक्तिपर्यायसमुदायार्थः || १-४ || आनन्दात्मन्येव रतिः यस्य सोऽयं आनन्दरतिः || ५ || अन्यचिन्ताविवर्जितः स्वान्यस्य मृग्यत्वात् || ६-९ || देहत्रयवैलक्षण्यवदवस्थाचतुष्टयवैलक्षण्यमाह- न मे जाग्रदिति || १०-१४ || ने मे विधिः न निषेधोऽपीत्यर्थः || १५-३१ || स्वयमेव प्रभुः ईश्वरत्वात् | चिदात्माहं परात्माहम् इत्येतावता ग्रन्थेन ब्रह्मविदादिचतुर्भेदभिन्नजीवन्मुक्तलक्षणमभिहितम् | प्रायशः इयं तेजोबिन्दूपनिषत् विध्यादिविदेहमुक्त्यन्तमहावाक्यरत्नावलीप्रभालोचने प्रसक्तानुप्रसक्त्या व्याख्याता नेह पुनः पदशो व्याख्यायते ग्रन्थविस्तरभयादिति || ३२ || विदेहमुक्तिः- निष्प्रतियोगिकस्वमात्रब्रह्ममात्रावस्थानम् ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी | स्वच्छरूपो महामौनी वैदेही मुक्त एव सः || ३३ || सर्वात्मा समरूपात्मा शुद्धात्मा त्वहमुत्थितः | एकवर्जित एकात्मा सर्वात्मा स्वात्ममात्रकः || ३४ ||
तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः | क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः || ६ || अखण्डैकरसो वाहमानन्दोऽस्मीति वर्जितः | सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः || ७ || प्. ८७) आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः | सच्चिदानन्दहीनो य एषैवात्मा सनातनः || ८ || स निर्देष्टुमशक्यो यो वेदवाक्यैरगम्यगः | यस्य किंचिद्बहिर्नास्ति किंचिदन्तः कियन्न च || ९ || यस्य लिङ्गं प्रपञ्चं वा ब्रह्मैवात्मा न संशयः | नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः || १० || नामरूपादिकं नास्ति भोज्यं वा भोगभुक् च वा | सद्वासद्वा स्थितिर्वापि यस्य नास्ति क्षराक्षरम् || ११ || गुणं वा विगुणं वापि स म आत्मा न संशयः | यस्य वाच्यं वाचकं वा श्रावणं मननं च वा || १२ || गुरुशिष्यादिभेदं वा देवलोकाः सुरासुराः | यत्र धर्ममधर्मं वा शुद्धं वाशुद्धमण्वपि || १३ || यत्र कालमकालं वा निश्चयः संशयो न हि | यत्र मन्त्रममन्त्रं वा विद्याविद्ये न विद्यते || १४ || द्रष्टृदर्शनदृश्यं वा ईषन्मात्रं कलात्मकम् | कुमारेण साकम् ऋभुर्नाम ब्रह्ममानसपुत्रः सोऽपि शिवमुखतः अखण्डैकरसचिन्मात्रज्ञानतदनुभवतदान्तरालिक-मुख्यफलात्मकजीवन्मुक्तिविदेहमुक्त्योः इयत्तामवगम्य कृतकृत्यपदं गतः खलु | तं कदाचित् निदाघो नाम मुनिः समस्तवेदशास्त्रपुराणेतिहासादिषु आत्मानात्मानौ स्त इति श्रूयते तयोः इयत्ताजिज्ञासया पृष्टवानित्याह श्रुतिः- निदाघ इति | तत्प्रश्नमङ्गीकृत्य
SK
प्. ८८) स होवाच | किं तत् इत्यत्र सर्ववाच इति | सर्ववाचोऽवधिः अशब्दत्वात् | सर्वचिन्तावधिः प्रतीचश्चिन्तादिवृत्तिग्रासत्वात् | स्वाज्ञादिदृष्ट्या सर्वकारणकार्यात्मा || १ || सर्वनादमयः नादतज्जवेदशास्त्रसिद्धान्तार्थत्वात् | स्वाज्ञसमर्पितसर्ववर्जितचिन्मात्रः || २ || स्वानुभूतिध्यानादिविषयस्य सविशेषता स्यादित्यत आह- सर्वेति || ३-४ || तत्त्वंपदवाक्यार्थ आत्मेत्यत आह- महावाक्येति || ५ || क्षराक्षरविहीनः क्षराक्षरकलनाविरलपरमाक्षरत्वात् || ६-८ || परमात्मनो व्याविद्धनानापदवाक्यार्थत्वेन महावाक्यात्मसच्चिदानन्दशब्दतद्वाच्यार्थवर्जितत्वात् स निर्देष्टुमिति | कर्मकाण्डगोचरवेदवाक्यैः साक्षादगम्यतां गच्छतीति अगम्यगः || ९-१४ || अनात्मनः सर्वस्य मिथ्यात्वम् अनात्मेति प्रसङ्गो वा अनात्मेति मनोऽपि वा || १५ || अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु | सर्वसंकल्पशून्यत्वात् सर्वकार्यविवर्जनात् || १६ || केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु | देहत्रयविहीनत्वात् कालत्रयविवर्जनात् || १७ || जीवत्रयगुणाभावात् तापत्रयविवर्जनात् | लोकत्रयविहीनत्वात् सर्वमात्मेति शासनात् || १८ || चित्ताभावाच्चिन्तनीयं देहाभावाज्जरा न च | पादाभावाद् गतिर्नास्ति हस्ताभावात् क्रिया न च || १९ || मृत्युर्नास्ति जनाभावाद् बुद्ध्यभावात् सुखादिकम् | धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च || २० || प्. ८९) अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि | एकाभावे द्वितीयं न न द्वितीये न चैकता || २१ || सत्यत्वमस्ति चेत् किंचिदसत्त्वं न च संभवेत् | असत्यत्वं यदि भवेत् सत्यत्वं न घटिष्यति || २२ || शुभं यद्यशुभं विद्धि अशुभाच्छुभमिष्यते | भयं यद्यभयं विद्धि ह्यभयाद्भयमापतेत् || २३ || बन्धत्वमस्ति चेन्मोक्षो बन्धाभावे क्व मोक्षता | मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च || २४ || त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न | इदं यदि तदेवास्ति तदभावादिदं न च || २५ ||
SK
अस्तीति चेन्नास्ति तदा नास्ति चेदस्ति किंचन | कार्यं चेत् कारणं किंचित् कार्याभावे न कारणम् || २६ || द्वैतं यदि तदाद्वैतं द्वैताभावेऽद्वयं न च | दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न || २७ || अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च | पूर्णत्वमस्ति चेत् किंचिदपूर्णत्वं प्रसज्यते || २८ || तस्मादेतत् क्वचिन्नास्ति त्वं चाहं वा इमे इदम् | नास्ति दृष्टान्तिकं सत्ये नास्ति दार्ष्टान्तिकं ह्यजे || २९ || प्. ९०) परं ब्रह्माहमस्मीति स्मरणस्य मनो न हि | ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् || ३० || चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु | इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं क्वचित् || ३१ || चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा | न प्रपञ्चं न चित्तादि नाहंकारो न जीवकः || ३२ || मायाकार्यादिकं नास्ति माया नास्ति भयं न हि | कर्ता नास्ति क्रिया नास्ति श्रवणं मननं न हि || ३३ || समाधिद्वितयं नास्ति मातृमानादि नास्ति हि | अज्ञानं चापि नास्त्येव ह्यविवेकं कदाचन || ३४ || अनुबन्धचतुष्कं न संबन्धत्रयमेव न | न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि || ३५ || न भूमिर्न जलं नाग्निर्न वायुर्न च खं क्वचित् | न देवा न च दिक्पाला न वेदा न गुरुः क्वचित् || ३६ || न दूरं नान्तिकं नालं न मध्यं न क्वचित् स्थितम् | नाद्वैतं द्वैतसत्यं वा ह्यसत्यं वा इदं न च || ३७ || बन्धमोक्षादिकं नास्ति सद्वासद्वा सुखादि वा | जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति च लौकिकम् || ३८ || सर्वं ब्रह्मेति नास्त्येव ब्रह्मेत्यपि च नास्ति हि | चिदित्येवेति नास्त्येव चिदहंभाषणं न हि || ३९ || प्. ९१) अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित् | वाचा यदुच्यते किंचिन्मनसा मनुते क्वचित् || ४० || बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते न हि | योगियोगादिकं नास्ति सदा सर्वं सदा न च || ४१ || अहोरात्रादिकं नास्ति स्नानध्यानादिकं न हि | भ्रान्तिरभ्रान्ति नास्त्येव नास्त्यनात्मेति निश्चिनु || ४२ ||
देहोऽहमिति संकल्पः सत्यजीवः स एव हि | देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् || ९५ || देहोऽहमिति संकल्पो महापापमिति स्फुटम् | देहोऽहमिति या बुद्धिस्तृष्णा दोषामयः किल | यत्किंचिदपि संकल्पं तापत्रयमितीरितम् || ९६ || कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालनानास्वरूपम् | यत्किंचेदं सर्वसंकल्पजालं तत्किंचेदं मानसं सोम्य विद्धि || ९७ || मन एव जगत् सर्वं मन एव महारिपुः | मन एव हि संसारो मन एव जगत्त्रयम् || ९८ || मन एव महद्दुःखं मन एव जरादिकम् | मन एव हि कालं च मन एव मलं तथा || ९९ || मन एव हि संकल्पो मन एव हि जीवकः | मन एव हि चित्तं च मनोऽहंकार एव च || १०० || मन एव महबन्धं मनोऽन्तःकरणं च तत् | मन एव हि भूमिश्च मन एव हि तोयकम् || १०१ || मन एव हि तेजश्च मन एव मरुन्महान् | मन एव हि चाकाशं मन एव हि शब्दकम् || १०२ || प्. १००) स्पर्शं रूपं रसं गन्धं कोशाः पञ्च मनोभवाः | जाग्रत्स्वप्नसुषुप्त्यादि मनोमयमितीरितम् || १०३ || दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः | दृश्यं जडं द्वन्द्वजातमज्ञानं मानसं स्मृतम् || १०४ || संकल्पमेव यत्किंचित् तत्तन्नास्तीति निश्चिनु | नास्ति नास्ति जगत् सर्वं गुरुशिष्यादिकं न हि || १०५ || इत्युपनिषत् || स्वाज्ञदृष्टिप्रसक्तस्वातिरिक्तानर्थनिदानं किम् इत्याशङ्क्य सर्वानर्थहेतुः संकल्प एवेत्याह- देह इति | संकल्पमित्यादि विभक्तिव्यत्ययः || ८९-९६ || संकल्पमूलं किमित्यत्र कामम् इत्यादि || ९७-१०४ || स्वाविद्यापदतत्कार्यजातं मन एवेत्यर्थः | इत्युपनिषच्छब्दः अध्यायपरिसमाप्त्यर्थः || १०५ || इति पञ्चमोऽध्यायः || ५ || षष्ठोऽध्यायः सर्वस्य सच्चिदानन्दत्वम् ऋभुः- सर्वं सच्चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् | सच्चिदानन्दमद्वैतं सच्चिदानन्दमव्ययम् || १ || सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् | सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् || २ ||
SK
सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् | प्. १०१) यद्यत् स्वाज्ञदृष्टिविकल्पितं नामरूपविकल्पजालं तत्तत् स्वज्ञदृष्ट्या सच्चिदानन्दमयम् | परमार्थदृष्ट्या ब्रह्ममात्रातिरिक्तप्रसक्तिरेव नास्ति | यदि स्वाज्ञादिदृष्ट्या अस्ति नास्तीति प्रसक्तं तदा तत् असदेव | स्वातिरिक्तासदपह्नवसिद्धं निष्प्रतियोगिकब्रह्ममात्रमवशिष्यते इत्येतत्प्रपञ्चनाय षष्ठाध्याय आरभ्यते- ऋभुरिति || १-२ || सर्वस्य ब्रह्मत्वम् न मनोबुद्ध्यहंकारचित्तसंघातका अमी || ३ || न त्वं नाहं न चान्यं वा सर्वं ब्रह्मैव केवलम् | न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् || ४ || न मध्यं नादि नान्तं वा न सत्यं न निबन्धनम् | न दुःखं न सुखं भावं न मया प्रकृतिस्तथा || ५ || न देहं न मुखं घ्राणं न जिह्वा न च तालुनी | न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वासा एव च || ६ || न स्वेदमस्थि मांसं च न रक्तं न च मूत्रकम् | न दूरं नान्तिकं नाङ्गं नोदरं न किरीटकम् || ७ || न हस्तपादचलनं न शास्त्रं न च शासनम् | न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः || ८ || तुर्यातीतं न मे किंचित् सर्वं सच्चिन्मयं ततम् | नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् || ९ || न विश्वस्तैजसः प्राज्ञो विराट्सूत्रात्मकेश्वराः | न गमागमचेष्टा च न नष्टं न प्रयोजनम् || १० || प्. १०२) त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यामेध्यकं तथा | न पीनं न कृशं क्लेदं न कालं देशभाषणम् || ११ || न सर्वं न भयं द्वैतं न वृक्षतृणपर्वताः | न ध्यानं योगसंसिद्धिर्न ब्रह्मक्षत्रवैश्यकम् || १२ || न पक्षी न मृगो नाङ्गी न लोभो मोह एव च | न मदो न च मात्सर्यं कामक्रोधादयस्तथा || १३ || न स्त्रीशूद्रविडालादि भक्ष्यभोज्यादिकं च यत् | न प्रौढहीनौ नास्तिक्यं न वार्तावसरोऽस्ति हि || १४ || न लौकिको न लोको वा न व्यापारो न मूढता | न भोक्ता भोजनं भोज्यं न मातृमानमेयकम् || १५ ||
SK
न शत्रुमित्रपुत्रादिर्न माता न पिता स्वसा | न जन्म न मृतिर्बृद्धिर्न देहोऽहमिति भ्रमः || १६ || न शून्यं नापि चाशून्यं नान्तःकरणसंसृतिः | न रात्रिर्न दिवा नक्तं न ब्रह्मा न हरिः शिवः || १७ || न वारपक्षमासादि वत्सरं न च चञ्चलम् | न ब्रह्मलोको वैकुण्ठं न कैलासो न चान्यकः || १८ || न स्वर्गं न च देवेन्द्रो नाग्निलोको न चाग्निकः | न यमो यमलोको वा न लोका लोकपालकाः || १९ || न भूर्भुवःस्वस्त्रैलोक्यं न पातालं न भूतलम् | नाविद्या न च विद्या च न माया प्रकृतिर्जडा || २० || प्. १०३) न स्थिरं क्षणिकं नाशं न गतिर्न च धावनम् | न ध्यातव्यं न मे स्नानं न मन्त्रो न जपः क्वचित् || २१ || न पदार्थं न पूजार्हं नाभिषेकं न चार्चनम् | न पुष्पं न फलं पत्रं गन्धपुष्पादि धूपकम् || २२ || न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि | न प्रार्थना पृथग्भावो न हविर्नाग्निवन्दनम् || २३ || न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् | न गायत्री न वा संधिर्न मनस्यं न दुःस्थितिः || २४ || न दुराशा न दुष्टात्मा न चण्डालो न पौल्कसः | न दुःसहं दुरालापं न किरातो न कैतवम् || २५ || न पक्षपातं पक्षं वा न विभूषणतस्करौ | न च डम्भो डाम्भिको वा न हीनो नाधिको नरः || २६ || नैकं द्वयं त्रयं तुर्यं न महत्त्वं न चाल्पता | न पूर्णं न परिच्छिन्नं न काशी न ब्रतं तपः || २७ || न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता | न स्त्री न योषिन्नो वृद्धा न कन्या न वितन्तुता || २८ || न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः | न महावाक्यमैक्यं वा नाणिमादिविभूतयः || २९ || सर्वं चैतन्यमात्रत्वात् सर्वदोषः सदा न हि | सर्वं सन्मात्ररूपत्वात् सच्चिदानन्दमात्रकम् || ३० || प्. १०४) ब्रह्मैव सर्वं नान्योऽस्ति तदहं तदहं तथा | तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् || ३१ ||
SK
ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः | ब्रह्मैवाहं न मे बुद्धिर्ब्रह्मैवाहं न चेन्द्रियम् || ३२ || ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः | ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेदभूः || ३३ || ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः | ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परः || ३४ || इदम् ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः | कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् || ३५ || एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् | दोषो ब्रह्म गुणो ब्रह्म दमः शान्तं विभुः प्रभुः || ३६ || लोको ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः | पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् || ३७ || जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् | सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् || ३८ || स्वयं ब्रह्म न संदेहः स्वस्मादन्यन्न किंचन | सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् || ३९ || नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किंचन | सच्चिदानन्दब्रह्मातिरेकेण न मन इत्यादि || ३-२९ || न मनोबुद्ध्यहंकार इत्यारभ्य अणिमादिविभूतयः इत्यन्तं यद्यत् प्. १०५) स्वाज्ञदृष्ट्यारोपितं स्वज्ञदृष्ट्या ब्रह्मातिरिक्तं नेत्यपोदितं च तत्तत् सर्वमित्यादि || ३०-३९ || ब्रह्मणः निष्प्रतियोगिकस्वमात्रत्वम् अणुमात्रलसद्रूपमणुमात्रमिदं जगत् || ४० || अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् | अणुमात्रमचिन्त्यं वा चिन्त्यं वा ह्यणुमात्रकम् || ४१ || ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् | आनन्दं परमानन्दमन्यत् किंचिन्न किंचन || ४२ || चैतन्यमात्रम्ॐकारं ब्रह्मैव सकलं स्वयम् | अहमेव जगत् सर्वमहमेव परं पदम् || ४३ || अहमेव गुणातीतः अहमेव परात्परः | अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः || ४४ || अहमेवाखिलाधार अहमेव सुखात्सुखम् | आत्मनोऽन्यज्जगन्नास्ति आत्मनोऽन्यत् सुखं न च || ४५ ||