SKपञ्चदशमाह्निकम् ᳚ विवेक ᳚ यः परमेशसपर्याक्रियोपदेशांकुशेन भवकरिणम् | कृतवाननतिबलमतिबलमस्मि नतः फणभृदाभरणम् || इदानी नित्यकर्माद्यात्मकं यजनं निरूपयितुं द्वितीयार्धेन प्रतिजानीते-- अथैतदुपयोगाय यागस्तावन्निरूप्यते | एतदुपयोगायेति एतस्य प्रक्रान्तस्य दीक्षोपक्रमस्य उपयोगाय तत्संपत्त्यर्थम्--इत्यर्थः | दीक्षायां हि नित्याद्यात्म यजनमुपक्रमोपयोगित्वादङ्गमेतदानन्तर्येण तत्संपत्तेः | यथोक्तम्� ङित्याह्निके समाप्ते तु कुर्यान्नैमित्तिकं बुधः |᳚ इति || ननु दीक्षैव नाम किंप्रयोजना यदुपक्रमोपयोगायापि अङ्गतया यजनमुच्येत?--इत्याशङ्क्याह-- तत्र दीक्षैव भोगे च मुक्तौ चायात्युपायताम् || १५-१ || स्वयं संस्कारयोगाद्वा तदङ्गं तत्प्रदर्श्यते | स्वयमिति साक्षादनन्यापेक्षत्वेन--इत्यर्थः | संस्कारयोगादिति ज्ञानाद्यधिकृतत्वापादनात्मनः | तत्र दीक्षा लोकधर्मिणः साधकस्य भोगे, निर्बीजस्य च पुत्रकस्य मोक्षे स्वयमुपायः, शिवधर्मिणश्च भोगे, सबीजकस्य च पुत्रकस्य मोक्षे संस्कारयोगादुपायः | अनयोर्हि दीक्षया संस्कारे कृते योगज्ञानादावधिकारो जायते येन भुक्तिमुक्ती स्याताम् | तदिति एवं भुक्तिमुक्त्युपायत्वाद्धेतोः || एतदेव ससंवादं दर्शयति-- यो यत्राभिलषेद्भोगान् स तत्रैव नियोजितः || १५-२ || सिद्धिभाङ्मन्त्रशक्त्येति श्रीमत्स्वायंभुवे विभुः | योग्यतावशतो यत्र वासना यस्य तत्र सः || १५-३ || योज्यो न च्यवते तस्मादिति श्रीमालिनीमते | वदन्भोगाद्युपायत्वं दीक्षायाः प्राह नो गुरुः || १५-४ || श्रीमत्सूक्ष्मस्वायम्भुवादाविति गुरुर्वदन् दीक्षाया भोगाद्युपायत्वं नः प्राह�इति समन्वयः | श्रीमालिनीमते इति प्रक्रान्ते | यदुक्तं तत्र ᳚योग्यतावशसञ्जाता यस्य यत्रैव वासना | स तत्रैव नियोक्तव्यो दीक्षाकाले विचक्षणैः || यो यत्र योजितस्तत्त्वे स तस्मान्न निवर्तते |᳚ (१२|४१) इति ||४ || एवं भोगे दीक्षायाः स्वयमुपायतामभिधाय मोक्षेऽप्याह-- न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे |
SKन च योगाधिकारित्वमेकमेवानया भवेत् || १५-५ || अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया | इत्यस्मिन्मालिनीवाक्ये साक्षान्मोक्षाभ्युपायता || १५-६ || दीक्षायाः कथिता प्राच्यग्रन्थेन पुनरुच्यते | पारम्पर्येण संस्कृत्या मोक्षभोगाभ्युपायता || १५-७ || नन्वत्र ᳚मुक्तिश्च शिवदीक्षया᳚ इत्युत्तरेणैव ग्रन्थेन दीक्षायाः साक्षान्मोक्षोपायत्वमुक्तम्, प्राच्येन पुनर्योगादावधिकारित्वमिति कथमिह एतदविशेषेणैव उक्तम् ?--इत्याशङ्क्याह--प्राच्येत्यादि | पारम्पर्येणेति दीक्षया हि संस्कारः, ततो योगादावधिकारस्ततो योगसिद्ध्या मुक्तिर्मन्त्रसिद्ध्या च भुक्तिरित्युक्तं मोक्षभोगाभ्युपायतेति | तेन केषाञ्चन संस्कारद्वारेण दीक्षा मुक्तौ भुक्तौ च हेतुरित्युक्तं स्यात् ||७ || न केवलमेतदत्रैवोक्तं यावच्छास्त्रान्तरेष्वपि--इत्याह-- येषामध्यवसायोऽस्ति न विद्यां प्रत्यशक्तितः | सुखोपायमिदं तेषां विधानमुदितं गुरोः || १५-८ || इति श्रीमन्मतङ्गाख्ये ह्युक्ता मोक्षाभ्युपायता | येषामज्ञत्वेन असामर्थ्यात् सम्यग्ज्ञानस्वभावां विद्यां प्रति मोक्षोपायतायामध्यवसायो निश्चयो नास्ति तेषामिदं गुरुकर्तृकं क्रियाप्रधानं विधानं सुखोपायमुदितम्, एवमनायासमेवैषां मोक्षः स्यादिति | एतच्छ्रीमन्मतङ्गशास्त्रादावपि उक्तम् || ननु इह पुंसां ज्ञानक्रियावरणकारिद्रव्यात्ममलकार्यमज्ञानम्, तच्च कारणभूते तस्मिन्ननिवर्तिते न निवर्तते पटलाद्यनिवृत्तावन्धानामिव आन्ध्यम् | तद्विनिवर्तने चक्रियैव शक्ता, न ज्ञानं तस्य द्रव्यविनिवर्तने सामर्थ्यादृष्टेः | न हि चक्षुषोर्वैद्यव्यापारमन्तरेण पटलोऽयमिति ज्ञानादेव तद्विनिवृत्तिः स्यात् | क्रियैव आवरणापगमे साक्षादुपायो न ज्ञानमित्येतत्कथमुक्तम्?--इत्याशङ्क्य आह-- सम्यग्ज्ञानस्वभावा हि विद्या साक्षाद्विमोचिका || १५-९ ||
SKइह मलो नाम न किञ्चन द्रव्यम्, अपि तु अज्ञानं तच्च ज्ञानोदयादेव निवर्तत इत्युपपादितं प्राग् बहुशः | तत् स्वविरुद्धमज्ञानं विनिवर्तयत् सम्यग्ज्ञानमेव पुंसां साक्षान्मोक्षहेतुरिति युक्तमुक्तं साक्षान्मोचिकां विद्यां प्रति अकुशलानां क्रिया सुखमुपाय इति || ९ || नच एतदस्माभिः स्वोपज्ञमेव व्याख्यातम्--इत्याह-- उक्तं तत्रैव तत्त्वानां कार्यकारणभावतः | हेयादेयत्वकथने विद्यापाद इति स्फुटम् || १५-१० || तत्र श्रीमन्मतङ्गशास्त्रे एव विद्यापादे तत्त्वानां कार्यकारणभावमवलम्ब्य हेयोपादेयत्वाभिधानप्रस्तावे ङ प्रक्रियापरं ज्ञानं.......................... |᳚ (स्व. ११|१९९) इत्याद्युक्तन्यायेन इति एतत् सर्वं स्फुटं सन्देहविपर्यासरहितत्वादपरिम्लानमुक्तम्, किं ग्रन्थविस्तरेण, तत एव अवधार्यम्--इत्यर्थः | यदुक्तं तत्र-- ᳚विवेको यत्र तत्त्वानां कार्यकारणभेदतः | यथावदुदितं वस्तु हेयं चैवोपवर्ण्यते || विद्यापादः स विज्ञेयः.................... |᳚ (२|९) इति उद्दिश्य ᳚पाश्यः पाशयिता पाशास्त्रयमेतद्व्यवस्थितम् | साध्यसाधनभावोक्त्या यथा तत्प्रकटं भवेत् || तथा सम्यक्प्रवक्तव्यं तावद्विद्यावधार्यताम् |᳚ (६|३) इत्यादिप्रश्नोत्तरद्वारेण अनेकप्रकारम् || १० || ननु यद्येवं विद्यैव साक्षान्मोचिका, तत्किं क्रियादिपादत्रयोपात्तेन दीक्षादिना ? --इत्याशङ्क्याह� तत्राशक्तास्तु ये तेषां दीक्षाचर्यासमाधयः | ननु एवं शदाशिवपदं योगाच्चर्यातो वाऽथ दीक्षया | प्राप्यते चित्तभेदेन मोक्षो वाऽथ चतुष्टयम् ||᳚ (मत. २६|६३) इत्याद्युक्त्या ज्ञानादेश्चतुष्टयादपि अविशेषेणैव मुक्तिः स्यात्, तत्कथं ज्ञानस्य तद्वतो वा गुरोरपि सर्वत्रैव उत्तमत्वम् ?-- इत्याशङ्क्य आह-- ते विद्यापूर्वका यस्मात्तस्माज्ज्ञान्युत्तमोत्तमः || १५-११ || विद्यापूर्वका इति--ज्ञात्वा हि अनुष्ठानं भवेत्--इति भावः ||११ ||
SKननु इह समनन्तरोक्तयुक्त्या दीक्षामन्तरेण योगज्ञानादावधिकार एव न भवेत्--इति ज्ञानं दीक्षापूर्वकमिति वक्तव्यं प्रत्युत कथमेतदन्यथोक्तम् ?--इत्याशङ्क्य आह-- ज्ञानं च शास्त्रात्तच्चापि श्राव्यो नादीक्षितो यतः | अतोऽस्य संस्क्रियामात्रोपयोगो दीक्षया कृतः || १५-१२ || नादीक्षितः श्राव्य इति, संस्क्रियामात्रोपयोग इति च | यदुक्तम्-- ᳚अदीक्षितानां पुरतो नोच्चरेच्छिवपद्धतिम् |᳚ इति, शमयी संस्कृतो ह्येवं वाचनेऽस्यार्हता भवेत् | श्रवणेऽध्ययने होमे पूजनादौ तथैव च || चर्याध्यानविशुद्धात्मा लभते पदमैश्वरम् |᳚ (स्वटं. ४|७९) इति च ||१२ || ननु अस्य दीक्षया संस्कारमात्रोपयोग एव भवेत्--इति कस्मादुक्तं यदयमनया योजनिकाबलात् तत्तत्पदमवाप्यासादयेत् ?--इत्याशङ्क्य आह-- यत्र तत्रास्तु गुरुणा योजितोऽसौ फलं पुनः | स्वविज्ञानोचितं याति ज्ञानीत्युक्तं पुरा किल || १५-१३ || स्वविज्ञानोचितमिति अकृतशिवतत्त्वयोजनिकोऽपि हि समयी तथा तथा ज्ञानमभ्यस्यंस्तदैकात्म्यं यायात्--इत्याशयः | पुरेति चतुर्थाह्निकादौ ||१३ || तीव्रशक्तिपातपवित्रितस्य पुनस्तत्संस्कारोपयोगोऽपि नास्ति--इत्याह-- यस्य त्वीशप्रसादेन दिव्या काचन योग्यता | गुरोः शिशोश्च तौ नैव प्रति दीक्षोपयोगिता || १५-१४ || ननु एवंविधौ गुरुशिष्यौ प्रति दीक्षाया यद्युपयोगो नास्ति, तत् ज्ञानादावनयोरधिकार एव कथङ्कारं स्यात्?--इत्याशङ्क्य आह-- ज्ञानमेव तदा दीक्षा श्रीत्रैशिकनिरूपणात् | ज्ञानमिति अर्थात्सांसिद्धिकम् | यदुक्तं तत्र-- ᳚एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी | दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता ||᳚ (परात्री. २५) इत्युपक्रम्य श सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः |᳚ इति || तद्वानेव च सर्वशास्त्रेषु परमुत्तमोऽधिकारीत्युक्तः--इत्याह-- सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते || १५-१५ || इति श्रीमालिनीनीत्या यः सांसिद्धिकसंविदः | स उत्तमाधिकारी स्याज्ज्ञानवान् हि गुरुर्मतः || १५-१६ ||
SKसांसिद्धिकसंविद इति स्वतःप्रवृत्तसत्तर्कः--इत्यर्थः | यदुक्तं प्राक्-- ᳚यस्य स्वतोऽयं सत्तर्कः सवैत्रैवाधिकारवान् | अभिषिक्तः स्वसंवित्तिदेवीभिर्दीक्षितश्च सः || स एव सर्वाचार्याणां मध्ये मुख्यः प्रकीर्तितः |᳚ (४|४३) इति ||१६ || तच्चास्य ज्ञानं सर्वविषयमागमेषूक्तम्--इत्याह-- आत्मने वा परेभ्यो वा हितार्थी चेतयेदिदम् | इत्युक्त्या मालिनीशास्त्रे तत्सर्वं प्रकटीकृतम् || १५-१७ || इत्युक्त्येति | यदुक्तं तत्र-- ᳚एतत्सर्वं परिज्ञेयं योगिना हितमिच्छता | आत्मनो वा परेषां वा नान्यथा तदवाप्यते ||᳚ इति | तदिति सांसिद्धिकं ज्ञानम् | सर्वमिति समस्तविद्यादिपादचतुष्टयविषयम्--इत्यर्थः | यदस्य तावदात्मनि ज्ञानमेवोपयुक्तमित्युक्तप्रायम् | परे पुनर्विचित्रा इति तदाशयभेदमधिकृत्य क्रियादि सर्वमेव अपेक्षते येन अस्य तदनुग्रहः सिद्ध्येत् | यदभिप्रायेणैव ᳚विद्यापादार्थकुशलः क्रियापादधृतक्रमः | योगपादकृताभ्यासश्चर्यापादानुवर्तकः || गुरुर्दीक्षां प्रकुर्वीत........................ | इत्यादि अन्यत्र उक्तम् ||१७ || ननु परे विचित्रा इत्यत्र किं प्रमाणम् ?--इत्याशङ्क्य आह-- ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे | दीक्षायोग्या योगयोग्या इति श्रीकैरणे विधौ || १५-१८ || यदुक्तं तत्र-- ᳚ये यथा संस्थितास्तार्क्ष्य तथैवेशः प्रसादकृत् | केचिच्चात्र क्रियायोग्यास्तेषां मुक्तिस्तथैव सा || ज्ञानयोग्यास्तथा चान्ये चर्यायोग्यास्तथापरे | एवं येषां यथा प्रोक्तो मोक्षस्तेनैव तस्य तु ||᳚ इति ||१८ || एवमिदमियता सिद्धम्--इत्याह-- तत्रोक्तलक्षणः कर्मयोगज्ञानविशारदः | उत्तरोत्तरताभूम्युत्कृष्टो गुरुरुदीरितः ||१९ || तदुक्तम्� ᳚गरीयान्कर्मिणो योगी स च ज्ञानवतः शिशुः |᳚ इति ||१९ || स एव च परं दीक्षाकर्मण्यधिकृतः--इत्याह-- स च प्रागुक्तशक्त्यन्यतमपातपवित्रितम् | परीक्ष्य पृष्ट्वा वा शिष्यं दीक्षाकर्म समाचरेत् || १५-२० ||
SKवा विकल्पे | परीक्षया ह्यस्य बुभुक्षुता मुमुक्षुता वा साक्षान्न लक्षितेति किमसि बुभुक्षुर्मुमुक्षुर्वेति तं गुरुः पृच्छेदित्यधिकृत्य दीक्षाकर्म कुर्यात् ||२० || इह ᳚दीक्षा स्वतन्त्रेऽभिहिता......................... |᳚ इति दृशा श्रीस्वच्छन्दशास्त्र एव प्राधान्येन दीक्षाया लक्षणमुक्तम्, तद्वयमपि सर्वतस्तदर्थोपस्कृतत्वेनैव अत्र तामभिदध्म इति कटाक्षयितुं प्रमुख एव तत् संवादयति� उक्तं स्वच्छन्दशास्त्रे च शिष्यं पृच्छेद्गुरुः स्वयम् | फलं प्रार्थयसे यादृक्तादृक्साधनमारभे || १५-२१ || वासनाभेदतः साध्यप्राप्तिर्मन्त्रप्रचोदिता | यादृगिति भुक्तिरूपम् मुक्तिरूपम् वा | साधनं दीक्षाविधिम् | वासना शिष्याणां बुभुक्षुर्मुमुक्षुर्वा अस्मीति, गुरोश्च एवंविधामेव दीक्षामस्मै करोमीति चैतसिकोऽनुसन्धानविशेषः | साध्यं भुक्तिमुक्तिर्वा || ननु मन्त्रादिभेदादपि तद्भेदोऽस्तु?--इत्याशङ्क्य आह-- मन्त्रमुद्राध्वद्रव्याणां होमे साधारणा स्थितिः || १५-२२ || वासनाभेदतो भिन्नं शिष्याणां च गुरोः फलम् | न हि मन्त्रादीनां भुक्तौ मुक्तौ वा कश्चिदतिशयः--इत्याशयः || अत एव च शिष्याणां भेदः--इत्याह-- साधको द्विविधः शैवधर्मा लोकोज्झितस्थितिः || १५-२३ || लोकधर्मी फलाकांक्षी शुभस्थश्चाशुभोज्झितः | द्विधा मुमुक्षुर्निर्बीजः समयादिविवर्जितः || १५-२४ || बालबालिशवृद्धस्त्रीभोगभुग्व्याधितादिकः | अन्यः सबीजो यस्येत्थं दीक्षोक्ता शिवशासने || १५-२५ || विद्वद्द्वन्द्वसहानां तु सबीजा समयात्मिका | दीक्षानुग्राहिका पाल्या विशेषसमयास्तु तैः || १५-२६ || तत्र बुभुक्षुः साधकः | स च द्विविधः शिवधर्मी लोकधर्मी च | मुमुक्षुः पुत्रकः | स च द्विविधो निर्बीजः, सबीजश्च | सबीज एव कृताभिषेक आचार्यः --इति विभागः | समयित्वं पुनरेतत्पदप्राप्तियोग्यतापात्रमिति नासौ पृथगिह उक्तः | यथोक्तम्-- ᳚......................षमयी राजपुत्रवत् |᳚ इति |
SKसमयादिविवर्जित इति बालादीनां तत्परिपालनासामर्थ्यात् | समयात्मिकेति विद्वदादीनां तत्परिपालने सामर्थ्यात् | अत एव उक्तं तैस्तु विशेषसमयाः पाल्या इति | तदुक्तं तत्र शाधका द्विविधास्तत्र शिवधर्म्येकतः स्थितः | शिवमन्त्रविशुद्धाध्वा साध्यमन्त्रनियोजितः || ज्ञानवांश्चाभिषिक्तश्च मन्त्राराधनतत्परः | त्रिविधायास्तु सिद्धेर्वै सोऽत्रार्हः शिवसाधकः || द्वितीयो लोकमार्गस्थ इष्टापूर्तविधौ रतः | कर्मकृत्फलमाकाङ्क्षञ्शुभैकस्थोऽशुभोज्झितः || तस्य कार्यं सदा मन्त्रैरशुभांशविनाशनम् |᳚ (४|८६) इति, ᳚मुमुक्षुर्द्विविधः प्रोक्तो निर्बीजो बीजवान्पुनः | बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनाम् || तेषां निर्बीजिका दीक्षा समयादिविवर्जिता | विद्वद्द्वन्द्वसहानां तु सबीजा कीर्तिता प्रिये || दीक्षानुग्राहिका तेषां समयाचारसंयुता | विशेषसमयाचारा मन्त्राख्ये ये प्रकीर्तिताः || तेऽत्र पाल्याः प्रयत्नेन मोक्षसिद्धिमभीप्सता | सबीजा सा तु विज्ञेया पुत्रकाचार्ययोः स्थिता ||᳚ (स्व. ४|९०) इति च ||२६ || ननु एषां दीक्षया किं कार्यम् ? सा च कस्य कीदृशी ?-- इत्याशङ्क्य आह-- अभावं भावयेत्सम्यक्कर्मणां प्राच्यभाविनाम् | मुमुक्षोर्निरपेक्षस्य प्रारब्ध्रेकं न शोधयेत् || १५-२७ || साधकस्य तु भूत्यर्थमित्थमेव विशोधयेत् | शिवधर्मिण्यसौ दीक्षा लोकधर्मापहारिणी || १५-२८ || अधर्मरूपिणामेव न शुभानां तु शोधनम् | लोकधर्मिण्यसौ दीक्षा मन्त्राराधनवर्जिता || १५-२९ || प्राच्यभाविनामिति प्राच्यानि दीक्षायाः प्रागिह जन्मान्तरे च उपार्जितानि, भावीनि दीक्षानन्तरमिह करिष्यमाणानि | निरपेक्षस्येति साधकवद्भोगौन्मुख्याभावात्| फलदानोन्मुखस्य वर्तमानस्य पुनः का गतिः ?--इत्याशङ्क्य आह--प्रारब्ध्रेकं न शोधयेदिति तस्य भोगेनैव अतिवाहनात् | तदुक्तम्-- ᳚......................येनेदं तद्धि भोगतः |᳚
SKइति | साधकस्य च इत्थमेव कर्मशोधनं किन्तु तत् भूत्यर्थम्, तस्य हि भोगौन्मुख्यात् तद्वासनाधिवासितमेव चेतः, अत एव अत्र अनेन वासनाभेदात्फलभेद इति प्रतिज्ञातोऽपि अर्थो निर्वाहितः | यदुक्तम्-- शाधकस्य तु भूत्यर्थं प्राक्कर्मेत्थं तु शोधयेत् | प्राक्कर्मगामि चैकस्थं भावयित्वा तु दीक्षयेत् ||᳚ (४|१४२) इति | अत्र च उद्योतकृता यत् इत्थमिति अपास्य एकमिति पठित्वा देहारम्भिशुभाशुभकर्ममध्यादेकमशुभमपि अस्य शोधयेदिति व्याख्यातं तदुपेक्ष्यम्, आरब्धकार्यदेहारम्भिकर्मोच्छेदाशक्यत्वस्य प्रागुपपादितत्वात् क्वचिदप्येवमनाम्नातत्वाच्च | अत एव श्रीमृगेन्द्रायामपि ᳚एवमेव क्रियायोगाद्भौतिक्यपि परापरा | किन्तु देहावियोगार्थं प्रारब्धं कर्म देहिनः || शैवसाधनसाध्येन सन्धाय परिपालयेत् | सानुबन्धं दहेदन्यत्.......................... ||᳚ इत्यादि उक्तं ग्रन्थकृता | औचित्याच्च अत्र अस्माभिरयं पाठो रक्षितः | तेन इत्थमिति वक्ष्यमाणप्रकारेण, स च द्वितीयार्धोक्त इति | लोकधर्मापहारिणीति मन्त्राराधनादिपरत्वात् | अधर्मरूपिणामिति प्राक्तनानामागामिनां च, न तु देहारम्भिणां ᳚प्रारब्ध्रेकं न शोधयेत्᳚ इत्यस्य सर्वविषयत्वात् | तदुक्तम्-- ᳚प्राक्तनागामिकस्यापि अधर्मक्षयकारिणी |᳚ इति | सद्योनिर्वाणदायां च यद्यपि देहारंभिणामपि कर्मणां शोधकत्वं वक्ष्यते, तथापि आसन्नमरणस्यैव इयं कार्येति तेषामारब्धकार्याणामत्र न शोधनम्, अपि तु कृतकार्याणां क्षीणप्रायाणामिति तत्रापि एतत् न निर्विषयतां यायात् || २९ || एवमतोऽस्य किं स्यात् ?--इत्याशङ्क्य आह-- प्रारब्धदेहभेदे तु भुङ्क्तेऽसावणिमादिकम् | भुक्त्वोर्ध्वं याति यत्रैष युक्तोऽथ सकलेऽकले || १५-३० || इह असौ यत्र क्वचन ᳚यो यत्राभिलषेद्भोगान्.................... |᳚ इत्याद्युक्तनीत्या सकले यथाभिमते भुवनेश्वरादौ, अथ च शुभकर्मभोगान्ते मुमुक्षुरकले शिवे योजितस्तदेव पदं गच्छेत् | यदुक्तम्-- ᳚लोकधर्मिणमारोप्य मते भुवनभर्तरि |
SKतद्धर्मापादनं कुर्याच्छिवे वा मुक्तिकाङ्क्षणम् ||᳚ इति || ३० || एवं भोगदीक्षां निर्णीय, मोक्षदीक्षामपि निर्णयति-- समयाचारपाशं तु निर्बीजायां विशोधयेत् | दीक्षामात्रेण मुक्तिः स्याद्भक्त्या देवे गुरौ सदा || १५-३१ || सद्योनिर्वाणदा सेयं निर्बीजा येति भण्यते | अतीतानागतारब्धपाशत्रयवियोजिका || १५-३२ || दीक्षामात्रेणेति न तु नित्याद्यनुष्ठानेन, तत्र बालादेरसामर्थ्यात्, अत एव प्राक् समयादिविवर्जितः--इत्युक्तम् | अस्यां परं देवगुरुभक्तिमात्रमेव आवश्यकसमय इति उक्तम्--भक्त्या देवे गुराविति | सेयं निर्बीजदीक्षा न केवलं सद्योनिर्वाणदा यावदतीतानागतारब्धपाशत्रयवियोजिका सती सद्योनिर्वाणदेति च भण्यते--इति संबन्धः || उभयरूपयापि अनया किं भवेत् ? --इत्याशङ्क्य आह-- दीक्षावसाने शुद्धस्य देहत्यागे परं पदम् | शुद्धस्येति किञ्चित्कालमवस्थितस्य सतो न वा || सबीजायां पुनर्देहत्यागेऽपि अयं विशेष--इत्याशङ्क्य आह-- देहत्यागे सबीजायां कर्माभावाद्विपद्यते || १५-३३ || समयाचारपाशं तु दीक्षितः पालयेत्सदा | इह समयपरिपालनात्मिकायां सबीजायां दीक्षायां देहत्यागेऽपि समयपरिपालनाख्यं यत् कर्म, तस्य अभावादननुष्ठानाद्विपद्यते कञ्चित्कालम् ᳚आज्ञाविलङ्घनाद्देवि क्रव्यादत्वं शतं समाः |᳚ इत्यादिनीत्या शिवमय्याः स्वसत्तातो भ्रंशित्वा क्रव्यादत्वमियात् | तत् सबीजदीक्षया दीक्षितो निर्बीजदीक्षावदशोधितं समयाचारपाशं पालयेत् तदनुष्ठानपर एव भवेत्, यथा अयं सदैव शिवसत्तापत्त्यनुप्राणितः स्यात् || एवं श्रीस्वच्छन्दशास्त्रप्रक्रियया दीक्षाया दीक्ष्यस्य च तत्त्वमभिधाय, प्रक्रान्तं दीक्षाकर्मसमाचारमेव प्रस्तौति-- एवं पृष्ट्वा परिज्ञाय विचार्य च गुरुः स्वयम् || १५-३४ || उचितां संविधित्सुस्तां वासनां तादृशीं श्रयेत् |
SKतदेवं गुरुः स्वयमेव शिष्यं पृष्ट्वा किं बुभुक्षुर्मुमुक्षुर्वाऽसीति, तदुक्तं बुभुक्षुत्वं मुमुक्षुत्वं परिज्ञाय तदेव च तीव्रमन्दादिरूपतया विचार्य तामुचितां बुभुक्ष्वादिरूपां योग्यां दीक्षां सम्यक् विधातुमिच्छुस्तादृशीं तदनुगुणां वासनां श्रयेत् येन अनयोस्तदुचितैव तत्तत्फलसंपत्तिः स्यात् || ननु परं प्रति एवं प्रयत्नेन अस्य किं स्यात् ?--इत्याशङ्क्य आह-- आयातशक्तिपातस्य दीक्षां प्रति न दैशिकः || १५-३५ || अवज्ञां विदधीतेति शंभुनाऽऽज्ञा निरूपिता | यदुक्तम्� ङ चावज्ञा क्रियाकाले संसारोद्धरणं प्रति | मन्त्रदीक्षाव्रतादेशे शिष्यध्रुङ् नारकी भवेत् ||᳚ इति || न केवलमनानुगुण्यमत्र अस्य गुरुणा कार्यं यावदानुगुण्यमपि-- इत्याह-- स्वधनेन दरिद्रस्य कुर्याद्दीक्षां गुरुः स्वयम् || १५-३६ || अपि दूर्वाम्बुभिर्यद्वा दीक्षायै भिक्षते शिशुः | यदुक्तम्� श्वधनेनापि कर्तव्या क्षीणवित्ते शिशावपि᳚ || इति | ननु गुरुरपि यदि अधन एव स्यात् तदा अनयोः का गतिः?--इत्युक्तम्- -अपिदूर्वाम्बुभिः--इति, यदभिप्रायेणैव तत्र तत्र ᳚.....................वित्तशाठ्यं न कारयेत् |᳚ इत्यादि उक्तम् | तीव्रशक्तिपातवान्वा भिक्षित्वापि दीक्षार्थं धनमादद्यात्--इत्याह--यद्वेत्यादि || ननु परोपघातं विना धनार्जनं न सिध्येदित्येवंदोषवतो धनस्य कथं नाम यागादौ योग्यत्वं स्यात्?--इत्याशङ्क्य आह-- भिक्षोपात्तं निजं वाऽथ धनं प्राग्गुरवे शिशुः || १५-३७ || दद्याद्येन विशुद्धं तद्यागयोग्यत्वमश्नुते | निजमिति पितृक्रमाद्यागतम् || एवमादौ शिष्याणां तत्तद्भेदभिन्नतया योग्यतालक्षणमौचित्यं परीक्ष्य, स्नानभेदादि प्रतिपादयितुं पीठिकाबन्धमारचयति-- तत्रादौ शिवतापत्तिस्वातन्त्र्यावेश एव यः || १५-३८ || स एव हि गुरुः कार्यस्ततोऽसौ दीक्षणे क्षमः | न च एतदशक्यानुष्ठानम्--इत्याह-- शिवतावेशिता चास्य बहूपाया प्रदर्शिता || १५-३९ || क्रमिका बाह्यरूपा तु स्नानन्यासार्चनादिभिः | प्रदर्शिता--इति अर्थादक्रमिका, क्रमिका तु दर्श्यते--इति शेषः ||
SKननु यद्येककस्य स्नानादेः शिवतावेशं प्रति उपायत्वं तत्किमेभिर्बहुभिरुपदिष्टैः ?--इत्याशङ्क्याह� बह्वीषु तासु तास्वेष क्रियासु शिवतां हृदि || १५-४० || संदधद् दृढमभ्येति शिवभावं प्रसन्नधीः | शिवीभूतो यद्यदिच्छेत्तत्तत्कर्तुं समीहते || १५-४१ || शिवाभिमानितोपायो बाह्यो हेतुर्न मोक्षदः | ततोऽस्य शिवतावेश एव दृढोऽभिमानः समीहितसिद्धिप्रदः-- इत्याह-- शिवोऽयं शिव एवास्मीत्येवमाचार्यशिष्ययोः || १५-४२ || हेतुतद्वत्तया दार्ढ्याभिमानो मोचको ह्यणोः | न च एतत् न्यायत एव सिद्धं यावदागमतोऽपि--इत्याह-- नाध्यात्मेन विना बाह्यं नाध्यात्मं बाह्यवर्जितम् || १५-४३ || सिध्येज्ज्ञानक्रियाभ्यां तद्द्वितीयं संप्रकाशते | श्रीब्रह्मयामले देव इति तेन न्यरूपयत् || १५-४४ || तद्द्वितीयमिति अध्यात्मलक्षणम् ||४४ || ननु भवतु एवं तथापि स्नानं नाम अशुद्धेः प्रतिपक्षः सा च शिवाभिमानिताभाजो न भवेदेवेति किं तेन?--इत्याशङ्क्य आह-- श्रीमदानन्दशास्त्रे च नाशुद्धिः स्याद्विपश्चितः | किन्तु स्नानं सुवस्त्रत्वं तुष्टिसञ्जननं भवेत् || १५-४५ || इति देवो न्यरूपयत्--इति प्राच्येन संबन्धः | तुष्टिः स्वस्वरूपौन्मुख्येन परानन्दचमत्कारः || अत एव स्नायतां यथायथं देहादिप्रमातृतागुणीभावेन निर्यत्नमेव परस्यां संविदि समावेशः स्यात्--इत्याह-- तत्र प्रसिद्धदेहादिमातृनिर्मलताक्रमात् | अयत्नतोऽन्तरन्तः स्यान्नैर्मल्यं स्नायतां ततः || १५-४६ || तत इति स्नानात् ||४६ || ननु स्नानं नाम जलादिना बाह्येन आसेचनम् कथं च तेन एवं भवेत्?--इत्याशङ्क्य आह� स्नानं च देवदेवस्य यन्मूर्त्यष्टकमुच्यते | तत्रैवं मन्त्रदीप्तेऽन्तर्मलदाहे निमज्जनम् || १५-४७ || मलदाहे इति तन्निमित्तम् | अत्र हेतुर्मन्त्रदीप्ते इति, अन्यथा हि गोपाला अपि गोरजोऽन्तर्गमागमादि कुर्वते, मत्स्या अपि जलेऽन्तरा वसन्तीत्यविशेषेण सर्वेषां स्वरसत एवं स्नानं सिद्ध्येत् || ४७ || एतदेव पृथ्व्यादिक्रमेण निरूपयति-- तत्रेष्टमन्त्रहृदयो गोरजोऽन्तः पदत्रयम् |
SKगत्वागत्य भजेत्स्नानं पार्थिवं धृतिदायकम् || १५-४८ || अस्त्रमन्त्रितमृद्धूतमलः पञ्चाङ्गमन्त्रितैः | जलैर्मूर्धादिपादान्तं क्रमादाक्षालयेत्ततः || १५-४९ || निमज्जेत्साङ्गमूलाख्यं जपन्नातन्मयत्वतः | उत्थायाशेषसज्ज्योतिर्देवतागर्भमम्बरे || १५-५० || सूर्यं जलेन मालिन्या तर्पयेद्विश्वतर्पकम् | इष्टेति यथाभिमतमन्त्रानुसन्धानपरः--इत्यर्थः | मन्त्रितेति सप्तकृत्वः | धूतमल इति अर्थात् संहारक्रमेण | पञ्चेति अस्त्रस्य मलस्नाने नियुक्तत्वात् | तदुक्तम्� ᳚जलस्नानेऽपि चास्त्रेण मृदं सप्ताभिमन्त्रिताम् |᳚ इति, ᳚मलस्नानाय संहारक्रमेणोद्धूलयेत्तनुम् | विद्याङ्गैः पञ्चभिः पश्चाच्छिरःप्रभृति गुण्ठयेत् || अभिषेकं प्रकुर्वीत मूलेनैव षडङ्गिना |᳚ (मा.वि. ८|६) इति च मूलं च अत्र परेति गुरवः | मूर्धादिपादान्तमिति आदिशब्देन वक्त्रहृद्गुह्यानां ग्रहणम्; यद्वक्ष्यति-- ᳚कवक्त्रहृद्गुह्यपदे......................... |᳚ (५४) इति | जलेन सूर्यं तर्पयेदिति तत्संमुखमञ्जलिक्षेपेण उपस्थानं कुर्यात्--इत्यर्थः | अत्र हेतुरशेषसज्ज्योतिर्देवतागर्भमिति विश्वतर्पकमिति च || विश्वतर्पकत्वमेव प्रपञ्चयति-- देवान्पितॄन्मुनीन्यक्षान् रक्षांस्यन्यच्च भौतिकम् || १५-५१ || सर्वं संतर्पयेत्प्राणो वीर्यात्मा स च भास्करः | ततो जपेत्परामेकां प्रागुक्तोच्चारयोगतः || १५-५२ || आ तन्मयत्वसंवित्तेर्जलस्नानमिदं मतम् | अग्न्युत्थं भस्म शस्त्रेण जप्त्वा मलनिवर्हणम् || १५-५३ || कवक्त्रहृद्गुह्यपदे पञ्चाङ्गैर्भस्म मन्त्रितम् | भस्ममुष्टिं साङ्गमूलजप्तां मूर्ध्नि क्षिपेत्ततः || १५-५४ || हस्तपादौ जलेनैव प्रक्षाल्याचमनादिकम् | तर्पणं जप इत्येवं भस्मस्नानं हि तैजसम् || १५-५५ || गोरजोवत्यनुद्रिक्ते वायौ ह्लादिनि मन्त्रवाक् | गत्यागतिप्रयोगे वा वायव्यं स्नानमाचरेत् || १५-५६ || अमले गगने व्यापिन्येकाग्रीभूतदृष्टिकः | स्मरन्मन्त्रं यदासीत काऽन्या निर्मलता ततः || १५-५७ || यदि वा निर्मलाद् व्योम्नः पतता वारिणा तनुम् |
SKस्पर्शयेन्मन्त्रजपयुङ् नाभसं स्नानमीदृशम् || १५-५८ || एवं सोमार्कतेजःसु शिवभावेन भावनात् | निमज्जन्धौतमालिन्यः क्व वा योग्यो न जायते || १५-५९ || आत्मैव परमेशानो निराचारमहाह्रदः | विश्वं निमज्ज्य तत्रैव तिष्ठेच्छुद्धश्च शोधकः || १५-६० || स हि भास्कर एव देवादि सर्वं जन्तुजातं संतर्पयेत्, तेन संतर्पितेन सर्वं तर्पितं भवेत्--इत्यर्थः, यद्विशेषानुपादानात्सर्वस्य अयं वीर्यात्मा प्राणः समस्तमिदं विश्वमेतदनुप्राणितमेव--इत्यर्थः | चो हेतौ | तत इति सूर्योपस्थानानन्तरम् | एकामिति एकाक्षराम् | एतच्च आचमनाघमर्षमार्जनसामान्यन्यासपूर्वं कर्तव्यम् | यथोक्तम्-- ᳚आचम्य मार्जनं कुर्याद्विद्यया भूरिवर्णया | न्यासं कृत्वा तु सामान्यमघमर्षं द्वितीयया | उपस्थानं च मालिन्या जपेच्चैकाक्षरां पराम् | इति | (मा.वि. ८|८) अग्नीति शिवाग्निः जप्त्वेति सप्तधा | मन्त्रितमिति मन्त्रितं कृत्वा | गोरजोवतीति स्पष्टः पाठः | मन्त्रेति अस्त्रं परापरा च | तदुक्तम्-- ᳚रजसा गोद्युतेनैव वायव्यं स्नानमाचरेत् | महास्त्रमुच्चरन्गच्छेद्ध्यानयुक् पदसप्तकम् || तदेव पुनरागच्छेदनुस्मृत्य परापराम् |᳚ इति | निर्मलतेत्यनेन अत्र उपयोग उक्तः | एवमिति--गत्यागतिप्रयोगादिना | योग्यः इति--अधिकारी | महाह्रदः इति--स्नानौचित्यादुक्तम् | शोधक इति--परदृगवलोकना अन्यस्यापि ||६० || एतदेव अधिकावापेन उपसंहरति-- इति स्नानाष्टकं शुद्धावुत्तरोत्तरमुत्तमम् | सर्वत्र पश्चात्तं मन्त्रमेकीभूतमुपाहरेत् || १५-६१ || सर्वत्रेति--स्नानाष्टकेऽपि | तमिति--प्राक् सूर्यादौ न्यस्तम् | एकीभूतमिति --स्वात्मना | यथोक्तम्-- शूर्यादेर्मन्त्रमादाय गच्छेदस्त्रमनुस्मरन् |᳚ इति ||६१ || एवं स्नानाष्टकेन अस्य किं स्यात्?--इत्याशङ्क्य आह-- धृत्याप्यायमलप्लोषवीर्यव्याप्तिमृजिस्थितीः | अभेदं च क्रमादेति स्नानाष्टकपरो मुनिः || १५-६२ || ननु क्षित्यादयो जडाः कथमेवं फलमादध्युः?--इत्याशङ्क्य आह-- एता ह्यनुग्रहात्मानो मूर्तयोऽष्टौ शिवात्मिकाः |
SKस्वरूपशिवरूपाभ्यां ध्यानात्तत्तत्फलप्रदाः || १५-६३ || स्वरूपेति शिवैकरूपत्वे हि आसामष्टकत्वमेव न भवेत्--इत्यर्थः ||६३ || न केवलमेतत् स्नानादेव एवं भवेत्, यावदेतदर्चातोऽपि--इत्याह-- अनेन विधिनार्चायां कन्दाधारादियोजनाम् | कुर्वन्व्याससमासाभ्यां धरादेस्तत्फलं भजेत् || १५-६४ || अनेन स्वरूपशिवरूपाभ्यां ध्यानाद्यात्मना विधिना धरादेः संक्षेपविस्तराभ्यामर्चानिमित्तं कन्दाधारादौ योजनां कुर्वंस्तासां धरादिमूर्तीनां संबन्धि धृत्यादिफलं भजेत् तल्लभते--इत्यर्थः ||६४ || ननु सर्वत्र विना मन्त्रैरर्चा न भवेदित्युक्तम् | मन्त्राश्च पराहंप्रकाशमया इति को नाम एषामेवं फले विशेषः ?-- इत्याशङ्कामागमार्थप्रदर्शनेन उपशमयति-- तथाहि योगसञ्चारे मन्त्राः स्युर्भुवि पार्थिवाः | आप्ये आप्या यावदमी शिवे शिवमया इति || १५-६५ || अध्वमध्यावस्थानां च एषां प्रतिनियतफलत्वम्--इत्याशयः || ६५ || अत्रापि एतत् प्रकारान्तरेण उक्तम्--इत्याह-- श्रीनिर्मर्यादशास्त्रेऽपि तदित्थं सुनिरूपितम् | धरादेश्च विशेषोऽस्ति वीरसाधकसंमतः || १५-६६ || रणरेणुर्वीरजलं वीरभस्म महामरुत् | श्मशानारण्यगगनं चन्द्रार्कौ तदुपाहितौ || १५-६७ || आत्मा निर्धूतनिःशेषविकल्पातङ्कसुस्थितः | स्नानार्चादावित्युपास्यं वीराणां विग्रहाष्टकम् || १५-६८ || इत्थमिति वक्ष्यमाणेन प्रकारेण, स च धरादेरित्यादिना उक्तः | वीरजलं शिवाम्बु--वीरभस्म श्मशानाग्न्युत्थम् | महामरुत्-- श्मशानरजोवती वात्या ||६८ || न केवलमेतदेव स्नानाष्टकं वीराणामुक्तम्, यावदन्यत्र नवमं मद्यस्नानमपि--इत्याह-- श्रीमत्त्रिशिरसि प्रोक्तं मद्यशीधुसुरादिना | सुस्वादुना प्रसन्नेन तनुना सुसुगन्धिना || १५-६९ || कन्दलादिगतेनान्तर्बहिः संस्कारपञ्चकम् | कृत्वा निरीक्षणं प्रोक्ष्य ताडनाप्यायगुण्ठनम् || १५-७० || मन्त्रचक्रस्य तन्मध्ये पूजां विप्रुट्प्रतर्पणम् | तेनात्मसेकः कलशमुद्रया चाभिषेचनम् || १५-७१ || देवतातर्पणं देहप्राणोभयपथाश्रितम् |
SKसर्वतीर्थतपोयज्ञदानादिफलमश्नुते || १५-७२ || मद्यस्नाने साधकेन्द्रो मुमुक्षुः केवलीभवेत् | मद्यशीधुसुरादिनेति--मद्यं मृद्वीकादिप्रभवमनेकप्रकारं मद्यादिशब्दव्यपदेश्यम्, शीधुरैक्षवः, सुरा विभीतकादिकृता, आदिशब्दात् तत्प्रकाराणां वारुण्यादीनां परिग्रहः | यदाहुरायुर्वेदविदः-- ᳚मार्द्वीकं मधु विज्ञेयं........................... |᳚ इति, ᳚............................शीधुस्त्विक्षुरसेन तु |᳚ इति, ङातितीव्रमदा लघ्वी पथ्या वैभीतकी सुरा ||᳚ इति, ᳚प्रसन्ना वारुणी ज्ञेया परिस्रुन्मदिरा तथा | कादम्बरी घनसुरा तदधो जगलः स्मृतः ||᳚ इति च | तनुनेति--लघुना | अन्तर्बहिरिति--तद्रूपेत्यर्थः | तेन निरीक्षणमन्तारूपम्, प्रोक्षणं तु बहीरूपमिति | तदुक्तं तत्र ङिरीक्षणं मन्त्रदृशा प्रोक्षणं चार्घवारिणा || ताडनं चास्त्रराजेन नेत्रेणाप्यायनं तथा || गुण्ठनं कवचेनापि........................ | इति | कलशमुद्रयेति तस्याश्च शंहतांगुलिकौ पाणी पृष्ठार्धेन्दूदराहितौ | सुश्लिष्टमूलावंगुष्ठौ कुम्भमुद्रा प्रकीर्तिता ||᳚ अन्यत्र लक्षणम् | उक्तम्--च तत्र शिञ्चेत्तु विग्रहं तेन बद्ध्वा मुद्रां तु कालशीम् | कृत्वाभिषेकं विधिवत्तर्पयेन्मन्त्रदेवताः ||᳚ इति || मद्यस्नानमेव च केवलीभावे कस्मात् निमित्तम् ?--इत्याशङ्क्य आह-- यतः शिवमयं मद्यं सर्वे मन्त्राः शिवोद्भवाः || १५-७३ || शिवशक्त्योर्न भेदोऽस्ति शक्त्य्युस्थास्तु मरीचयः | तासामानन्दजनकं मद्यं शिवमयं ततः || १५-७४ || प्रबुद्धे संविदः पूर्णे रूपेऽधिकृतिभाजनम् | अधिकृतिभाजनमिति प्रबुद्धपूर्णसंविद्रूपतया केवलीभवेत्-- इत्यर्थः || ननु अन्येषामयमाशयः--यत् ᳚आदौ स्नानं प्रकुर्वीत सर्वकिल्बिषनाशनम् |᳚ इति फलश्रुतेः स्नानं न यजनाङ्गमिति; यदाहुः-- ᳚फलवत्संनिधावफलं तदङ्गम्᳚ इति अयुक्तमेतत्?--इत्याह-- मन्त्रध्यानसमाधानभेदात्स्नानं तु यन्न तत् || १५-७५ || युक्तं स्नानं यतो न्यासकर्मादौ योग्यतावहम् |
SKअस्य स्नानाष्टकस्यास्ति बाह्यान्तरतया द्विता || १५-७६ || यत् पुनर्मन्त्रध्यानादेर्भेदमाश्रित्य ततो भिन्नं न यजनाङ्गं स्नानमित्युच्यते, तत् न युक्तम्, यतः स्नानम्-- श्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि |᳚ इति दृशा मन्त्रन्यासादावधिकारलक्षणां योग्यतामावहति तदाधानेन यजनोपकारकमेव--इत्यर्थः | न च सर्वात्मनैव अफलमङ्गमिति नियमः ᳚गोदोहनेन पशुकामस्य प्रणयेत्᳚ इति अङ्गस्यापि फलश्रुतिदर्शनादङ्गिन्यपि विश्वजिदादौ फलादर्शनात् ||७६ || तत्र एतत् बाह्यतया निरूपितमिति आन्तरतयापि अभिधत्ते-- आन्तरं तद्यथोर्ध्वेन्दुधारामृतपरिप्लवः | यतो रन्ध्रेर्ध्वगाः सार्धमंगुलं व्याप्य संस्थिताः || १५-७७ || मूर्तयोऽष्टावपि प्रोक्ताः प्रत्येकं द्वादशान्ततः | ऊर्ध्वेन्द्विति--द्वादशान्तस्थस्य शिवचन्द्रमसः | अत्र हेतुर्यत इत्यादि || ननु एतद्युगपदेव स्नानाष्टकं कार्यं न वा?--इत्याशङ्क्य आह-- एषामेकतमं स्नानं कुर्याद्वित्र्यादिशोऽपि वा || १५-७८ || एकतममिति देशकालाद्यनुसारम् ||७८ || एतदुपसंहृत्य अन्यदवतारयति-- इति स्नानविधिः प्रोक्तो भैरवेणामलीकृतौ | स्नानानन्तरकर्तव्यमथेदमुपदिश्यते || १५-७९ || तदेव आह� भावं प्रसन्नमालोच्य व्रजेद्यागगृहं ततः | ननु यागवेश्मैव कुत्र कार्यम्--इत्याशङ्कां गर्भीकृत्य अनुजोद्देशोद्दिष्टं स्थानकल्पनाख्यं प्रमेयमवतारयति� पर्वताग्रनदीतीरैकलिङ्गादि यदुच्यते || १५-८० || तद्बाह्यमिह तत्सिद्धिविशेषाय न मुक्तये | आभ्यन्तरं नगाग्रादि देहान्तःप्राणयोजनम् || १५-८१ || साधकानामुपायः स्यात्सिद्धये न तु मुक्तये | पीठस्थानं सदा यागयोग्यं शास्त्रेषु भण्यते || १५-८२ || तच्च बाह्यान्तराद्रूपाद्बहिर्देहे च सुस्फुटम् | यदीति स्थाने इहेति स्पष्टः पाठः | ननु एतत् त्रिविधमेव स्थानमुत अन्यदपि ? --इत्याशङ्क्य आह--पीठेत्यादि || किमत्र प्रमाणम् ?--इत्याशङ्क्य आह-- यतः श्रीनैशसञ्चारे परमेशो न्यरूपयत् || १५-८३ || तदेव अर्थद्वारेण आह--
SKतस्येच्छा पीठमाधारो यत्रस्थं सचराचरम् | अग्र्यं तत्कामरूपं स्याद्बिन्दुनादद्वयं ततः || १५-८४ || नादपीठं पूर्णगिरिर्दक्षिणे वामतः पुनः | पीठमुड्डयनं बिन्दुर्मुख्यं पीठत्रयं त्विदम् || १५-८५ || ज्ञेयं सङ्कल्पनारूपमर्धपीठमतः परम् | शाक्तं कुण्डलिनी वेदकलं च त्र्युपपीठकम् || १५-८६ || देवीकोट्टोज्जयिन्यौ द्वे तथा कुलगिरिः परः | लालनं बैन्दवं व्याप्तिरिति संदोहकत्रयम् || १५-८७ || पुण्ड्रवर्धनवारेन्द्रे तथैकाम्रमिदं बहिः | नवधा कथितं पीठमन्तर्बाह्यक्रमेण तत् || १५-८८ || क्षेत्राष्टकं क्षेत्रविदो हृदम्भोजदलाष्टकम् | प्रयागो वरणा पश्चादट्टहासो जयन्तिका || १५-८९ || वाराणसी च कालिङ्ग कुलूता लाहुला तथा | उपक्षेत्राष्टकं प्राहुर्हृत्पद्माग्रदलाष्टकम् || १५-९० || विरजैरुडिका हाला एला पूः क्षीरिका पुरी | मायाख्या मरुदेशश्च बाह्याभ्यन्तररूपतः || १५-९१ || हृत्पद्मदलसन्धीनामुपसन्दोहकाष्टता | जालन्धरं च नैपालं कश्मीरा गर्गिका हरः || १५-९२ || म्लेच्छदिग्द्वारवृत्तिश्च कुरुक्षेत्रं च खेटकम् | द्विपथं द्वयसङ्घट्टात् त्रिपथं त्रयमेलकात् || १५-९३ || चतुष्पथं शक्तिमतो लयात्तत्रैव मन्वते | नासान्ततालुरन्ध्रन्तमेतद्देहे व्यवस्थितम् || १५-९४ || भ्रूमध्यकण्ठहृत्संज्ञं मध्यमं तदुदाहृतम् | नाभिकन्दमहानन्दधाम तत्कौलिकत्रयम् || १५-९५ || पर्वताग्रं नदीतीरमेकलिङ्गं तदेव च | किं वाऽतिबहुना सर्वं संवित्तौ प्राणगं ततः || १५-९६ || ततो देहस्थितं तस्माद्देहायतनगो भवेत् | न च अस्याः पीठमिति संज्ञामात्रमित्युक्तमाधार इति यत्रस्थं सचराचरमिति च | तदुक्तं तत्र� ᳚तस्येच्छा या स्मृता शक्तिः पीठत्वं समुपागता | पीठमाधारभूतं स्यात्तत्रस्थं सचराचरम् || तेन पीठाभिधानं तु शक्तेर्नैमित्तिकं स्मृतम् |᳚ इति | अग्र्यमिति मुख्यम्, अत एव कामस्य इच्छाया रूपमित्युक्तम् | तत इति अग्र्यात् कामरूपात् | तदुक्तं तत्र� ᳚ततः पीठद्बयं जातं बिन्दुनादमयं प्रिये |
SKवामे बिन्दुर्विनिर्दिष्टो दक्षिणे नाद उच्यते || अग्रपीठं तु पूर्वोक्तं शाक्तं तु परमेश्वरि | एवं पीठत्रयं जातं कामरूपादि यत्स्मृतम् || अग्र्यं तत्कामरूपं स्याद्दक्षे पूर्णगिरिः स्मृतः | उड्डियानाभिधानं तु उत्तरे तु तृतीयकम् ||᳚ इति | ᳚ज्ञेयसङ्कल्पनारूपमर्धपीठमतः परम् |᳚ इति अर्धं ङवधा कथितं पीठमन्तर्बाह्यक्रमेण तत् |᳚ इत्युपसंहारविरुद्धमनागमिकं चेत्यनार्षत्वादुपेक्ष्यम् | वेदकलः चतुष्कलो बिन्दुः | त्र्युपपीठकमिति--त्रयाणामुपपीठानां समाहारः | तदुक्तं तत्र� ᳚शक्तेः शाक्तं महापीठं कौण्डलीपदमध्यगम् | बिन्दोस्तु बैन्दवं पीठं चतुष्कलमगोलकम् || नादजं व्याप्त्यधो ज्ञेयं द्विरन्ध्रस्योर्ध्वगं प्रिये | उपपीठत्रयं ह्येतद्बाह्यतः शृणु नामतः || देवीकोट्टं स्मृतं शाक्तं बिन्दुश्चोज्जयिनी स्मृता | कौलो गिरिः स्मृतो मध्ये व्यापिन्या व्याप्त्यधोगतिः ||᳚ इति | व्याप्तिः शक्तिः प्रसरस्थानमिति | संदोहकेति-- उपपीठनिःष्यन्दप्रायत्वात् | तदुक्तं तत्र� ᳚पुनः संदोहसंज्ञास्तु त्रयस्त्वेते वरानने | ललनागर्तकं शाक्तं बैन्दवं पुटमध्यतः || नादजं व्याप्तिमध्यस्थं त्रयस्त्वेते समासतः | पुण्ड्रवर्धनसंज्ञस्तु ललनायामुदाहृतः || वारेन्द्रं बैन्धवं ज्ञेयमेकाम्रं व्याप्तिसंज्ञितम् |᳚ इति नवधेति त्रयाणां पीठोपपीठसंदोहानां त्रैविध्यात् | पुरीति राजपुरी | मायाख्येति--मायापुरी | तदुक्तं तत्र-- ᳚क्षेत्राष्टकं तु पत्राणि हृत्पद्मस्य वरानने | उपक्षेत्रा दलाग्राणि संदोहा दलसन्धयः || चतुर्विंशतिरेवं स्यात्....................... |᳚ इत्युपक्रम्य नामोद्देशेन ᳚खेटकं च कुरुक्षेत्रं संदोहा वीरनायकाः |᳚
SKइत्यन्तम् | द्वयेति--वामदक्षनाडीलक्षणस्य | त्रयेति--मध्यशक्त्या सह | शक्तिमत इति--आत्मनः | नासान्तेति--नासायाः शक्तेरन्तो व्याप्त्यादिशब्दव्यपदेश्यं प्रसरस्थानम् | रन्धेर्ति--ब्रह्मरन्ध्रस्य अन्तश्चूलिकाग्रम् | मध्यममिति--आणवम् | कौलिकमिति--शाक्तम्, अर्थादाद्यं--शाम्भवम् | तदेवेति--नासान्तादित्रिप्रकारमपि | तदुक्तं तत्र-- ᳚द्विपथं वामदक्षाभ्यां नाड्योर्वाहः परो मतः | त्रिपथं परया प्रोक्तं तदेव तु विशिष्यते || यत्तत्पूर्वं समाख्यातं व्याप्त्यधः पिण्डमुत्तमम् | चतुष्पथं तु तत्रैकं द्वितीयं तालुमध्यतः || तृतीयं चूलिकाग्रे तु त्रिकं तत्तु विजानत | भ्रूमध्ये तु परं प्रोक्तं चतुष्पथमतः परम् ||᳚ इत्यादि अनेकप्रकारम् | ननु एतत् शास्त्रान्तरेष्वपि-- ᳚प्रयागो नाभिसंस्थस्तु वरणा हृत्प्रदेशतः | कुलाद्रिः कण्ठसंस्थस्तु भीमनादस्तु तालुकः || बिन्दुस्थाने जयन्त्याख्यं नादाख्ये तु चरित्रकम् | एकाम्रं शक्तिमध्ये तु ज्ञातव्यं विदितात्मकैः || गुरुवक्रगतं प्रोक्तं कोटिवर्षं तथाष्टमम् |᳚ इत्यादिना अन्यथा उक्तं, तत्किमनेन एवंविधेन उपदिष्टेन स्यात्; तात्पर्यमेव अत्र किञ्चिदुच्यताम्, बाढम्--इत्याह--किं वेत्यादि | ततः प्राणगमिति संविदः प्रथमं प्राणे परिणामात् | तस्मादिति--देहे एव पीठादेरवस्थानात् हेतोः || ननु यदि एवं स्वदेहायतनगेनैव भाव्यं किं तद्बाह्यस्य पीठादेर्वचनेन?--इत्याशङ्क्य आह� बाह्ये तु तादृशान्तःस्थयोगमार्गविशारदाः || १५-९७ || देव्यः स्वभावाज्जायन्ते पीठं तद्बाह्यमुच्यते | देव्यो हि स्वभावत एव समनन्तरोक्तव्याप्त्या आन्तरज्ञानयोगादिवैचक्षण्यात् बाह्ये जायन्ते बहिरनुग्रहनिमित्तमभिव्यक्तिमासादयन्तीति पीठं बाह्यमुच्यते तथाभिधातुमुचितम्--इत्यर्थः || ननु देव्यश्चेदेवं, तावता बहिः पीठत्वं कुतस्त्यम् ?-- इत्याशङ्कां दृष्टान्तप्रदर्शनेन उपशमयति� यथा स्वभावतो म्लेच्छा अधर्मपथवर्तिनः || १५-९८ || तत्र देशे नियत्येत्थं ज्ञानयोगौ स्थितौ क्वचित् |
SKयथा स्वभावतो म्लेच्छानामधर्मपरत्वात् तद्देशे एव नियमेन इत्थमधर्म एवं सर्वजनविषयतया वर्तते, तथा ज्ञानयोगशालित्वात् देवीनां तदभिव्यक्तिस्थाने क्वचित्पीठादावेव, नतु सर्वत्र, ज्ञानयोगादीति युक्तमुक्तम्--तत्पीठमुच्यते इति || ननु एवं तत्र चेत् ज्ञानयोगादि स्थितं तावता अन्येषां किं भवेत्?- -इत्याशङ्कामुपशमयितुं दृष्टान्तयति-- यथा चातन्मयोऽप्येति पापितां तैः समागमात् || १५-९९ || तथा पीठस्थितोऽप्येति ज्ञानयोगादिपात्रताम् | अतन्मयो निष्पापः, ज्ञानयोगादिबहिष्कृतश्च | तैः--पापिभिः, पीठस्थितैश्च || ननु पीठादेर्बर्हिभ्रमणात् यदि एवं ज्ञानयोगादि सिद्ध्येत् तत्किमन्तरनुसन्धानेन?--इत्याशङ्क्य आह-- मुख्यत्वेन शरीरेऽन्तः प्राणे संविदि पश्यतः || १५-१०० || विश्वमेतत्किमन्यैः स्याद्बर्हिभ्रमणडम्बरैः | शरीरादेश्च यथायथमान्तरत्वं विवक्षितम् | स च अयं पीठादेर्बुभुक्ष्वेकविषयो भेद--इत्याह-- इत्येवमन्तर्बाह्ये च तत्तच्चक्रफलार्थिनाम् || १५-१०१ || स्थानभेदो विचित्रश्च स शास्त्रे संख्ययोज्झितः | स्थानभेद इति अत्र च्छेदः | स चेति--स्थानभेदः | शास्त्रे--इति शैवे || तदेव दर्शयति� श्रीवीरावलिहृदये सप्त स्थानानि शक्तिकमलयुगम् || १५-१०२ || सुरपथचतुष्पथाख्यश्मशानमेकान्तशून्यवृक्षौ च | इति निर्वचनगुणस्थित्युपचारदृशा विबोध एवोक्तः || १५-१०३ || तदधिष्ठिते च चक्रे शरीरे बहिरथो भवेद् यागः | शक्तीति--तदुदयस्थानं जन्माधारः | सुरपथेति--सुराणां ब्रह्मविष्णुरुद्राणां त्रित्वात् त्रिपथम् | शून्येति-- अन्याभावादेकवृक्षः | यदुक्तम्-- ᳚एकवृक्षः शिवः प्रोक्तः...................... |᳚ इति | निर्वचनेनेति--यतो विबोध एव अनुग्राह्याणां वरणात्पाशानां च क्षपणात् वृक्ष उक्तः | गुणस्थितीति अन्यवैविक्त्यादेकान्त इव एकान्तः | उपचारेति� ᳚तथाप्यस्य परं स्थानं हृत्पङ्कजसमुद्गकम् |᳚
SKइत्युक्त्या तात्स्थ्यात् हृत्कमलं ᳚मञ्चाः क्रोशान्ति᳚ इतिवत् |एवमन्यत्रापि ज्ञेयम् |तदधिष्ठित इति तच्छब्देन विबोधपरामर्शः | अत एव बोधस्य सर्वत्र अविशेषात् तदैकात्म्यापत्तिरूपायां मुक्तौ न काचित् स्थानभेदकल्पना�इत्याह -- मुक्तये तन्न यागस्य स्थानभेदः प्रकल्प्यते || १५-१०४ || देशोपाया न सा यस्मात् सा हि भावप्रसादतः | न च एतत् न्यायैकशरणम्--इत्याह-- उक्तं च श्रीनिशाचारे सिद्धिसाधनकाङ्क्षणाम् || १५-१०५ || स्थानं मुमुक्षुणा त्याज्यं सर्पकञ्चुकवत्त्विदम् | मुक्तिर्न स्थानजनिता यदा श्रोत्रपथं गतम् || १५-१०६ || गुरोस्तत्त्वं तदा मुक्तिस्तद्दार्ढ्याय तु पूजनम् | इदमिति--नियतं पीठाद्यात्म स्थानम् | यदुक्तम् तत्र-- ᳚कथितं पूर्वमेवं यन्मया तुभ्यं वरानने | सिद्धिसाधनकं ह्येतद्विधानं सिद्धिकाङ्क्षणाम् || मोक्षार्थी सर्वमेतत्तु सर्पकञ्चुकवत्त्यजेत् | मुक्तस्तेनैव कालेन यदा श्रोत्रपथं गतम् || गुरोर्वक्त्राद्विनिर्यातं ज्ञानं परमदुर्लभम् | सकृज्ज्ञात्वा स्वसंवित्तिं किमन्यत्तु जिगीषति ||᳚ इति || ननु निरधिकरणस्तावद्यागो न भवेदिति मुमुक्षुणापि स्थानभेदोऽवश्याश्रयणीयः, तत्कथमेतदुक्तं मुक्तये यागस्य न स्थानभेद इति ? --इत्याशङ्क्य आह-- यत्र यत्र हृदम्भोजं विकासं प्रतिपद्यते || १५-१०७ || तत्रैव धाम्नि बाह्येऽन्तर्यागश्रीः प्रतितिष्ठति | ननु तत्रापि पीठादिगमनेन सौकर्यं किं न स्यात्?--इत्याशङ्क्य आह-- नान्यत्रगत्या मोक्षोऽस्ति सोऽज्ञानग्रन्थिकर्तनात् || १५-१०८ || तच्च संविद्विकासेन श्रीमद्वीरावलीपदे | तदिति--अज्ञानग्रन्थिकर्तनम् | नच स्वोपज्ञमेवोक्तम्--इत्युक्तम्-- श्रीमद्वीरावलीपदे इति || गुरूणां पुनरयमाशयो यदुभयत्रापि भावप्रसाद एव निमित्तम्--इत्याह-- गुरवस्तु विमुक्तौ वा सिद्धौ वा विमला मतिः || १५-१०९ || हेतुरित्युभयत्रापि यागौको यन्मनोरमम् | यत् मनोरमं तत् यागौक इति विधिः | अत एव तत्र तत्र अविशेषेणैव ᳚तत्रादौ यागसदनं शुभक्षेत्रे मनोरमम् |᳚ इति, तथा
SK᳚एकान्ते विजने रम्ये..................... |᳚ इति, तथा ᳚.....................यत्र वा रमते मनः |᳚ इति उक्तम् || ननु तत्तद्देशकालादिसामग्रीवशेन सा सा सिद्धिः समुन्मिषतीति सर्वत्र उक्तम्, तत्कथं तत्र भाववैमल्यमेव निमित्ततां यायात् ?-- इत्याशङ्क्य आह-- नियतिप्राणतायोगात्सामग्रीतस्तु यद्यपि || १५-११० || सिद्धयो भाववैमल्यं तथापि निखिलोत्तमम् | ननु देशादौ निखिलेऽपि उपकरणजाते सति अस्यैव कस्मादुत्तमत्वम्?-- इत्याशङ्क्य आह-- विमलीभूतहृदयो यत्तत्र प्रतिबिम्बयेत् || १५-१११ || साध्यं तदस्य दार्ढ्येन सफलत्वाय कल्पते | तत्रेति--विमलीभूते हृदये | तदिति--साध्यम् || किमत्र प्रमाणम् ?--इत्याशङ्क्य आह-- उक्तं श्रीसारशास्त्रे च निर्विकल्पो हि सिध्यति || १५-११२ || क्लिश्यन्ते सविकल्पास्तु कल्पोक्तेऽपि कृते सति | महाजनैरपि एतत् परिगृहीतम्--इत्याह-- ᳚तदाक्रम्य बलं मन्त्रा᳚ ᳚अयमेवोदयः स्फुटः᳚ || १५-११३ || इत्यादिभिः स्पन्दवाक्यैरेतदेव निरूपितम् | यदुक्तं तत्र� ᳚तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः | प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् || तत्रैव संप्रलीयन्ते शान्तरूपा निरञ्जनाः | सहाराधकचित्तेन तेनैते शिवधर्मिणः ||(२|१-२) इति उपक्रम्य अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि | तदात्मतासमापत्तिरिच्छतः साधकस्य या || इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः | इयं निर्वाणदीक्षा च शिवसद्भावदायिनी ||᳚ (२|६-७) इति || एतदेव उपसंहरति-- तस्मात्सिद्ध्यै विमुक्त्यै वा पूजाजपसमाधिषु || १५-११४ || तत्स्थानं यत्र विश्रान्तिसुन्दरं हृदयं भवेत् | एवं स्थानकल्पनमभिधाय, सामान्यन्यासभेदमासूत्रयति-- यागौकः प्राप्य शुद्धात्मा बहिरेव व्यवस्थितः || १५-११५ || न्यासं सामान्यतः कुर्याद्बहिर्यागप्रसिद्धये | तदेव आह� मातृकां मालिनीं वाऽथ द्वितयं वा क्रमाक्रमात् || १५-११६ || सृष्ट्यप्ययद्वयैः कुर्यादेकैकं सङ्घशो द्विशः |
SKक्रमाक्रमादिति--आदौ मातृका, ततो मालिनी, तद्विपर्ययो वा | अप्ययः संहारः | एकैकमिति--सृष्ट्याद्यन्यतमरूपतया | सङ्घश इति-- सृष्ट्यादित्रैरूप्येण | द्विशो--मातृकामालिनीगतत्वेन || एतदेव विभजति� ललाटवक्रे दृक्कर्णनासागण्डरदौष्ठगे || १५-११७ || द्वये द्वये शिखाजिह्वे विसर्गान्तास्तु षोडश | दक्षान्ययोः स्कन्धबाहुकरांगुलिनखे कचौ || १५-११८ || वर्गौ टतौ क्रमात्कट्यामूर्वादिषु नियोजयेत् | पवर्गं पार्श्वयोः पृष्ठे जठरे हृद्यथो नव || १५-११९ || त्वग्रक्तमांससूत्रास्थिवसाशुक्रपुरोगमान् | इत्येष मातृकान्यासो मालिन्यास्तु निरूप्यते || १५-१२० || द्वये द्वये इति--दृगादौ दक्षवामरूपेण | रदादौ तु--अध ऊर्ध्वक्रमेण | क्रमादिति--दक्षवामजङ्घारूपात् | ऊर्वादीति-- आदिशब्दात्पादांगुलिनखग्रहणम् | पार्श्वयोरिति--दक्षवामयोः | सूत्राणि--स्नायवः | तदुक्तम्-- ᳚अ ललाटे द्वितीयं च वक्रे संपरिकल्पयेत् | इ ई नेत्रद्वये दत्त्वा उ ऊ कर्णद्वये न्यसेत् || ऋ ऋ नासापुटे तद्वत् ऌ ॡ गण्डद्वये न्यसेत् | ए ए अध ऊर्ध्वदन्तेषु ओऔकारौ तथोष्ठयोः || अं शिखायां विसर्गेण जिह्वां संपरिकल्पयेत् | दक्षिणस्कन्धदोर्दण्डकरांगुलिनखेषु च || कवर्गं विन्यसेद्वामे तद्वच्चाद्यमनुक्रमात् | टताद्यौ पूर्ववद्वर्गौ नितम्बोर्वादिषु न्यसेत् || पाद्यं पार्श्वद्वये पृष्ठे जठरे हृद्यनुक्रमात् | त्वग्रक्तमांससूत्रेषु यवर्गं परिकल्पयेत् || शाद्यमस्थिवसाशुक्रप्राणकोशेषु पञ्चकम् |᳚ इति | एतद्वाच्याश्च पञ्चाशद्रुद्रा एकीकाराह्निके वक्ष्यन्ते इति तत एव अवधार्याः | मालिनीन्यासमेव निरूपयति-- न शिखा ऋ ऋ ऌ ॡ च शिरोमालाऽथ मस्तकम् | नेत्राणि चोर्ध्वेऽधोऽन्ये ई घ्रणं मुद्रे णु णू श्रुती || १५-१२१ || बकवर्गैआ वक्रदन्तजिह्वागिरि क्रमात् | वभयाः कण्ठदक्षादिस्कन्धयोर्भुजयोर्डढौ || १५-१२२ || ठो हस्तयोर्झञौ शाखा ज्रटौ शूलकपालके | प हृच्छलौ स्तनौ क्षीरमा स जीवो विसर्गयुक् || १५-१२३ || प्राणो हवर्णः कथितः षक्षावुदरनाभिगौ |
SKमशान्ता कटिगुह्योरुयुग्मगा जानुनी तथा || १५-१२४ || एएकारौ तत्परौ तु जङ्घे चरणगौ दफौ | शिरोमाला कपालारम्भिका | मस्तकमिति--तन्मध्यम् | ऊर्ध्वे इति-- ललाटे | अन्ये इति--दक्षवामे | णु णू श्रुती मुद्रे इति आर्थः क्रमः, तेन णकारः कर्णौ, तद्भूषणमुकार ऊकारश्च | यच्छ्रीसिद्धातन्त्रम्- - ᳚झसप्तमौ स्थितौ कर्णौ तयोर्मुद्रे तु ईपरौ |᳚ इति | आ इति--अकारस्य बहुवचने रूपम् | आदिना वामः स्कन्धः, तेन दक्षिणे स्कन्धे भ, वामे य | भुजयोः दक्षवामयोः | शाखा-- दक्षवामकरांगुलयः | ज्रेति--दण्डेन सह शूलम्, तेन शूलस्य दण्डे रेफः, शिखासु जकारः | स च उत्तानो येन साक्षात् शूलत्वं स्यात् | यच्छ्रीसिद्धातन्त्रे� ᳚दक्षिणे च करे ज्ञेयं शूलं दण्डे पसप्तमः | उत्तानस्तु प्रदातव्यः खकारस्य तु सप्तमः || साक्षाच्छूलं भवेदेव युक्तं शृङ्गैस्त्रिभिः प्रिये |᳚ इति | जीव इति--आत्मा सामान्यप्राणात्मा च | तयोश्च अभेदादेकतया निर्देशः, तेन साक्षादात्मनि सकारः, प्राणात्मनि तु विसर्गः | प्राण इति--विशिष्टः | मशान्ता इति--मकारशकारानुसारतकाराः | जान्वादि--दक्षादिक्रमेण | तत्परौ ओऔकारौ | एतद्वाच्याश्च पञ्चाशत् नादिन्यादिफेत्कारिकान्ताः शक्तयस्तत्र तत्र उक्ताः | तथा च श्रीत्रिशिरोभैरवः-- ङादिनी तु शिखाग्रस्था नकाराक्षरसंज्ञिता | ऋ ऋ ऌ ॡ निवृत्त्याद्या मालिका शिरसि स्थिता || थ शिरोग्रं सती देवी ध नेत्रे प्रियदर्शना | रि गुह्यशक्तिर्नासास्था व्याप्तास्ते नेत्रमध्यतः || व्यापयित्वा स्थिता देवी च तृतीयं च लोचनम् | चामुण्डा परमेशानी ललाटस्था विराजते || बकारो वदनं तस्या वज्रिणी शक्तिरव्यया | कवर्गो दशनास्तीक्ष्णाः कङ्कटा कालिका शिवा || घोरघोषा शिविराख्या कवर्गे संप्रकीर्तिताः | मायादेवी इ जिह्वा तु अ वाग्वागीश्वरी मता || नारायणी ण कर्णौ तु तयोरु ऊ च भूषणम् | मोहनी च तथा प्रज्ञा व कण्ठशिखिवाहनी || लामा विनायिकी देवी डढौ बाहुद्वयं विभोः | पूर्णिमा हस्तदेशस्था ठकाराख्या विभोर्मता ||
SKझङ्कारी कुन्दना चैव झञावङ्गुलयः क्रमात् | कापालिनी वामकरे टकारः परमेश्वरी || दीपनी शूलदण्डश्च रेफः सम्यगुदाहृतः | ज जयन्ती भवेच्छूलं देवदेव्या महेश्वरि || भीषणी वायुवेगा च स्कन्धयोरुभयोर्भयौ | पावनी तु प हृल्लग्ना उदरं षश्च लम्बिका || संहारिका क्षकारोऽयं नाभौ देवस्तु भैरवि | छगली पूतना चेति स्तनौ छलौ प्रकीर्तितौ || आ मोटरी तद्गतं तु क्षीरमा परिकीर्तितम् | परमात्मा सकारोऽयं ह प्राणः शक्तिरम्बिका || इच्छाशक्तिर्विसर्गाख्या व्याप्य प्राणात्मनि स्थिता | म नितम्बं महाकाली श गुह्यं कुसुमायुधा || शुक्रा देवी भवेच्छुक्रमनुस्वारस्तु भैरवी | तारा तकार ऊरुस्था ए ए ज्ञानक्रिये उभे || जानुनी संस्थिते देवि भैरव्यास्तु महात्मनः | गायत्री चैव सावित्री ओ औ जङ्घे प्रकीर्तिते || दहनी दक्षपादस्था वामे फेत्कारिका दफौ |᳚ इति | एतच्च श्रीमतभट्टारकादावपि सृष्टिसंहारभङ्ग्या उभयथा विभज्य उक्तमिति स्वयमेव ततोऽपि अवधार्यम्, ग्रन्थविस्तरभयात्तु प्रातिपद्येन न संवादितम् || तस्या एव उपसंहारगर्भं स्वरूपमाचष्टे-- इत्येषा मालिनी देवी शक्तिमत्क्षोभिता यतः || १५-१२५ || कृत्यावेशात्ततः शाक्ती तनुः सा परमार्थतः | इति एवमुक्ता एषा भगवती यतः शक्तिमता ᳚बीजमत्र शिवः........................... |᳚ (मा. वि. ३|१२) इत्युक्त्या वाच्यवाचकयोरभेदादवर्गेण क्षोभिता विसंष्ठुलतां स्वसांमुख्यं च आपादिता, ततः कृतिक्रियाकर्मण्यावेशात् सा परमार्थतः शाक्ती तनुर्बहिरुल्लिलसिषायोगादुन्मग्ननिजस्वरूपा-- इत्यर्थः || अत एव अस्याः सिसृक्षाभिमुख्यात् निखिलसिद्ध्यादिवितरणे परं सामर्थ्यम्--इत्याह-- अन्योन्यं बीजयोनीनां क्षोभाद्वैसर्गिकोदयात् || १५-१२६ || कां कां सिद्धिं न वितरेत्किं वा न्यूनं न पूरयेत् | तदुक्तम्� ᳚अथान्यत्संप्रवक्ष्यामि मालिन्याः कर्म चोत्तमम् | वश्यविद्वेषणोच्चाटस्तोत्रस्तम्भनमारणम् || ध्यानमात्राद्भवेद्देवि युञ्जतो यस्य सुव्रते |᳚ इति, तथा
SK᳚प्रायश्चित्तेषु सर्वेषु जपेन्मालामखण्डिताम् | भिन्नां वाप्यथवाभिन्नां व्यतिक्रमबलाबलात् || सकृज्जपात्समारभ्य यावल्लक्षत्रयं प्रिये |᳚ (मा.वि. १३|१८) इति || ननु बीजयोनीनामनेकप्रकारः शास्त्रेषु क्षोभ उक्तः, तत् कथमस्या एव एवं सामर्थ्यमित्युच्यते ?--इत्याशङ्क्य आह-- योनिबीजार्णसाङ्कर्यं बहुधा यद्यपि स्थितम् || १५-१२७ || तथापि नादिफान्तोऽयं क्रमो मुख्यः प्रकीर्तितः | मुख्यत्वमेव दर्शयति-- फकारादिसमुच्चारान्नकारान्तेऽध्वमण्डलम् || १५-१२८ || संहृत्य संविद्या पूर्णा सा शब्दैर्वर्ण्यते कथम् | अतः शास्त्रेषु बहुधा कुलपुत्तलिकादिभिः || १५-१२९ || भेदैर्गीता हि मुख्येयं नादिफान्तेति मालिनी | इह खलु परा परमेश्वरी संवित् प्रथमं प्रतियोग्यभावमवभासयन्ती परनादैकवृत्तितामश्नुवाना विश्वमवबिभासयिषुः सञ्जीवनीबीजचतुष्टयासूत्रणद्वारेण सकलमेव भावजातं सञ्जीवयन्त्यपि परामर्शसारतया नादे एव विश्रान्तिमाश्रयन्ती पुनरुद्वेष्टनभङ्ग्या स्थूलान्त्यनादप्रथनपुरःसरं राववर्णोच्चारक्रमेण निषेधपरामर्शैकरूपे शून्यात्मनि निखिलमिदमध्वमण्डलमुपसंहरन्ती स्वात्ममात्रविश्रान्तेः परानपेक्षतया पूर्णतामवलम्बमाना सदसदादिपदव्यपदेशपात्रतामसहमाना विकल्पयितुं न शक्यते इति इयं शास्त्रान्तरेषु कुलपुत्तलिकादिभिर्भेदैर्बहुधा गीतापि नादिफान्तस्वरूपा मालिनी मुख्या तत्तदनेकप्रकारबीजयोन्यात्मकक्षोभान्तरविलक्षणा--इत्यर्थ || ननु भवतु नाम एवम्, मातृकामालिन्योः पुनरेवं शब्दप्रवृत्तौ किं निमित्तम्?--इत्याशङ्क्य आह� शब्दराशेर्भैरवस्य याऽनुच्छूनतयान्तरी || १५-१३० || सा मातेव भविष्यत्त्वात्तेनासौ मातृकोदिता | मालिनी मालिता रुद्रैर्धारिका सिद्धिमोक्षयोः || १५-१३१ || फलेषु पुष्पिता पूज्या संहारध्वनिषट्पदी | संहारदानादानादिशक्तियुक्ता यतो रलौ || १५-१३२ || एकत्वेन स्मरन्तीति शम्भुनाथो निरूचिवान् |
SKया नाम पूर्णप्रकाशात्मनः शब्दराशेर्भगवतो बहिरौन्मुख्याभावादान्तरी प्रमात्रैकात्म्यमापन्ना शक्तिः, सा तत्तद्भेदप्रथात्मनोऽनुच्छूनतया भविष्यत्त्वात् मातृतुल्येत्यसौ इवार्थे कनो विधानात् मातृका उदिता तच्छब्दव्यपदेश्या--इत्यर्थः | माल्यते धार्यते रुद्रैरात्मतया स्वीक्रियते, मलते भुक्तिमुक्तिस्वरूपे धत्ते इति कर्मणि कर्तरि च ᳚मल मल्ल धारणे᳚ इत्यस्य, तत्तद्वश्यादिफलनिमित्तं सञ्जातमाला, मालाशब्दस्य पुष्पमालायां रूढस्य अवयवे समुदायोपचारेण पुष्पवाचित्वात्पुष्पिणी--इत्यर्थः | अनयैव व्युत्पत्त्या पूजोपकरणभूता माला विद्यते यस्याः, सा पूज्येति माशब्दध्वननीयस्य संहारस्य अलिनी विमर्शिका, माशब्दवाच्यं संहारं राति लाति वा तच्छीला ᳚रा दाने᳚ ᳚ला आदाने᳚ इत्यनयोः || ननु अनयोः पञ्चाशतोऽपि वर्णानामविशेषात्कोऽयं भेदो नाम?-- इत्याशङ्क्य आह� शब्दराशिर्मालिनी च शिवशक्त्यात्मकं त्विदम् || १५-१३३ || एकैकत्रापि पूर्णत्वाच्छिवशक्तिस्वभावता | तुर्ह्यर्थे | ननु यदि एवं तत् कथं ᳚वाचकत्वेन सर्वापि शंभोः शक्तिश्च शस्यते |᳚ (मा.वि. ३|१२) इत्यादि उक्तम् ?--इत्याशङ्क्य आह--एकैकत्रापीत्यादि | किन्तु मालिन्यां शाक्तस्य स्वभावस्योद्रेको येनोक्तम्-- ᳚परमार्थतः सा शाक्ती तनुः᳚ इति | ᳚कां कां सिद्धिं न वितरेत्किं वा न्यूनं न पूरयेत्᳚ इति च || अत एव सर्वमन्त्रारणिस्वभावया मन्त्रान्तराणामपि उद्दीपनं क्रियते--इत्याह-- तेन भ्रष्टे विधौ वीर्ये स्वरूपे वाऽनया परम् || १५-१३४ || मन्त्रा न्यस्ताः पुनर्न्यासात्पूर्यन्ते तत्फलप्रदाः | तेन शक्त्यात्मत्वेन हेतुना निजनिजतन्त्रप्रसिद्धविद्याभ्रंशेऽपि तन्त्रान्तरीया मन्त्रा न्यस्ताः सकलमन्त्रतेजःसंदीपिकया अनया मालिन्या भगवत्या पुनर्न्यासात् तत्तत्फलप्रदाः परं पूर्यन्ते स्वाम्नायाम्नातफलदानोन्मुखाः संपाद्यन्ते--इत्यर्थः || न च अस्मदुपज्ञमेव एतत्--इत्याह-- उक्तं श्रीपूर्वतन्त्रे च विशेषविधिहीनिते || १५-१३५ || न्यस्येच्छाक्तशरीरार्थं भिन्नयोनिं तु मालिनीम् |
SKविशेषणमिदं हेतौ हेत्वर्थश्च निरूपितः || १५-१३६ || यथेष्टफलसिद्ध्यै चेत्यत्रैवेदमभाषत | तदुक्तं तत्र� ᳚यथेष्टफलसंसिद्ध्यै मन्त्रतन्त्रानुवर्तिनाम् | विशेषविधिहीनेषु न्यासकर्मसु मन्त्रवित् || न्यस्येच्छाक्तशरीरार्थं भिन्नयोनिं तु मालिनीम् | (३|१५) इति | इदमिति विशेषविधिहीनत्वलक्षणम् | निरूपित इति ᳚भ्रष्टे विधौ᳚ इत्यादिना | न केवलमेतदेव अत्र उक्तं यावदन्यदपि--इत्याह-- यथेत्यादि | इदमिति वक्ष्यमाणम् || तदेव आह-- साञ्जना अपि ये मन्त्रा गारुडाद्या न ते परम् || १५-१३७ || मालिन्या पूरिताः सिद्ध्यै बलादेव तु मुक्तये | तस्मात्फलेप्सुरप्यन्यं मन्त्रं न्यस्यात्र मालिनीम् || १५-१३८ || न्यस्येज्जप्त्वापि च जपेदयत्नादपवृक्तये | पूरिता इतिपुनर्न्यासात् || एवं प्रसङ्गापतितं मालिन्या वीर्यातिशयं निरूप्य प्रकृतमेव आह-- इत्येवं मातृकां न्यस्येन्मालिनीं वा क्रमाद् द्वयम् || १५-१३९ || सिद्धिमुक्त्यनुसाराद्वा वर्णान्वा युगपद् द्वयोः | अक्षह्नीं नफह्रीमेतौ पिण्डौ सङ्घाविहानयोः || १५-१४० || वाचकौ न्यास एताभ्यां कृते न्यासेऽथवैककः | एष चाङ्गतनुब्रह्मयुक्तो वा तद्विपर्ययः || १५-१४१ || सामुदायिकविन्यासे पृथक् पिण्डाविमौ क्रमात् | अक्रमादथवा न्यस्येदेकमेवाथ योजयेत् || १५-१४२ || सिद्धिमुक्त्यनुसारादिति--सृष्टिसंहारक्रमेण | युगपदिति-- अनक्षफेत्यादिरूपतया | सङ्घाविति--प्रत्याहारयुक्त्या गर्भीकृतनिखिलवर्णत्वात् | कृते न्यासे इति--मन्त्रान्तरैः | एकक इति--मन्त्रान्तरन्यासपरिहारात् | एष इति--मालिन्यादिन्यासः | तनुर्मूर्तिः, अङ्गादि च अत्र श्रीसिद्धातन्त्राद्युक्तम् | तद्विपर्ययो वेति--अङ्गाद्ययोगात् | सामुदायिकेति--मातृकामालिनीमेलनेन | पृथगिति--न तु वर्णवत् मिश्रीकरणेन ||१४२ || ननु किमेवं क्रियाडम्बरेण?--इत्याशङ्क्य आह-- क्रियया सिद्धिकामो यः स क्रियां भूयसीं चरेत् | अनीप्सुरपि यस्तस्मै भूयसे स्वफलाय सा || १५-१४३ || यस्तु ध्यानजपाभ्यासैः सिद्धीप्सुः स क्रियां परम् |
SKसंस्कृत्यै स्वेच्छया कुर्यात् प्राङ्नयेनाथ भूयसीम् || १५-१४४ || मुमुक्षुरथ तस्मै वा यथाभीष्टं समाचरेत् | शिवतापत्तिरेवार्थो ह्येषां न्यासादिकर्मणाम् || १५-१४५ || अत्र द्वितीयार्धं हेतुः | अनीप्सुरिति--फलमात्राकांक्षित्वात् | तस्मायिति--भूयसे फलाय | यः पुनर्ध्यानादिना सिद्धिमाप्तुमिच्छुः, स ज्ञानित्वादेव कामचारेण संक्षिप्तां भूयसीं वा क्रियां परं संस्कृत्यै योग्यताधानाय कुर्यात् | यद्वा समनन्तरोक्तरीत्या भूयसीमेव क्रियां कुर्यात् येन परं संस्कृतत्वमेव स्यात् | अथशब्दः पक्षान्तरसमुच्चये, तेन मुमुक्षुरपि संस्कारार्थं स्वेच्छया क्रियां कुर्यात्, यद्वा संस्कृतेरपि मोक्षपर्यवसायित्वात् तस्मै मोक्षायैव संक्षेपविस्ताराभ्यां यथाभीष्टं समाचरेत् यत एषां तथा क्रियमाणानां न्यासादिकर्मणां शिवतापत्तिरेव अर्थः पार्यन्तिकं फलम्--इत्यर्थः ||१४५ || एतदुपसंहृत्य अर्घपात्रविधिमभिधत्ते-- एवं न्यासं विधायार्घपात्रे विधिमुपाचरेत् | उक्तनीत्यैव तत्पश्चात् पूजयेन्न्यस्तवाचकैः || १५-१४६ || तदेव आह-- यतः समस्तभावानां शिवात्सिद्धिमयादथो | पूर्णादव्यतिरेकित्वं कारकाणामिहार्चया || १५-१४७ || सिद्धिमयादिति पूर्णादिति च बुभुक्षुमुमुक्षुविषयतया उक्तम् ||१४७ || ननु तदैव नियतानां यष्ट्रदीनां शिवाव्यतिरेकभावनेन कोऽर्थः, उत्तरकालं हि सर्वत्र तद्व्यतिरेकेणैव प्रतिभासः?-- इत्याशङ्क्य आह-- समस्तं कारकव्रातं शिवाभिन्नं प्रदर्शितम् | पूजोदाहरणे सर्वं व्यश्नुते गमनाद्यपि || १५-१४८ || पूजोदाहृतौ हि निखिलं कारकव्रातं शिवाभिन्नं प्रदर्शितम् | तत् सर्वं लौकिकमपि गमनादि व्यश्नुते तत्रापि शिवाभिन्नतयैव व्याप्तिं कुर्यात्--इत्यर्थः ||१४८ || ननु यजिक्रियायां कारकाणामेवमभ्यस्यमानः शिवाव्यतिरेकः कथं लौकिक्यां गमनादिक्रियायामपि स्यात्?--इत्याशङ्कां दृष्टान्तप्रदर्शनेन उपशमयितुमाह-- यथा हि वाहकटकभ्रमस्वातन्त्र्यमागतः | अश्वः संग्रामरूढोऽपि तां शिक्षां नातिवर्तते || १५-१४९ ||
SKननु एवं किं स्यात्?--इत्याशङ्क्य आह-- तथार्चनक्रियाभ्यासशिवीभावितकारकः | गच्छंस्तिष्ठन्नपि द्वैतं कारकाणां व्यपोज्झति || १५-१५० || तथैक्याभ्यासनिष्ठस्याक्रमाद्विश्वमिदं हठात् | संपूर्णशिवताक्षोभनरीनर्तदिव स्फुरेत् || १५-१५१ || यद्गुरवोऽपि--इत्याह-- उवाच पूजनस्तोत्रे ह्यस्माकं परमो गुरुः | अहो स्वादुरसः कोऽपि शिवपूजामयोत्सवः || १५-१५२ || षट्त्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल्लसत्यलम् | क्षोभ इति--सम्पूर्णतालक्षणः || अतश्च एवमनुशीलयतां शिवतावेशादन्यत् फलं नास्ति--इत्याह-- तदेतादृक्पूर्णशिवविश्वावेशाय येऽर्चनम् || १५-१५३ || कुर्वन्ति ते शिवा एव तान्पूर्णान्प्रति किं फलम् | ननु क्रियामात्रादेव कथमेवं स्यात्?--इत्याशङ्क्य आह-- विनापि ज्ञानयोगाभ्यां क्रिया न्यासार्चनादिका || १५-१५४ || इत्थमैक्यसमापत्तिदानात्परफलप्रदा | इत्थमिति--शिवीभावापत्तिभावनाक्रमेण || न केवलमियं मुमुक्षोरेव अभीष्टं फलं प्रददाति, यावत् बुभुक्षोरपि--इत्याह-- साधकस्यापि तत्सिद्धिप्रदमन्त्रैकतां गतम् || १५-१५५ || विश्वं व्रजदविघ्नत्वं स्वां सिद्धिं शीघ्रमावहेत् | व्रजदविघ्नत्वमिति सर्वस्य संविदेकरूपत्वात् || एतां दशामधिरूढस्य हि किञ्चिदपि साधनं नोपादेयम्�तदागम इत्याह-- उक्तं च परमेशेन न विधिर्नार्चनक्रमः || १५-१५६ || केवलं स्मरणात्सिद्धिर्वाञ्छितेति मतादिषु | मतादिषु इति श्रीसिद्धामतादौ || प्रकृतमेव उपसंहरति-- तदेवं तन्मयीभावदायिन्यर्चाक्रिया यतः || १५-१५७ || समस्तकारकैकात्म्यं तेनास्याः परमं वपुः | तेनेति--तन्मयीभावदायित्वेन || तदैकात्म्यमेव विभजति-- यष्ट्रधारस्य तादात्म्यं स्थानशुद्धिविधिक्रमात् || १५-१५८ || यष्टृयाज्यतदाधारकरणादानसम्प्रदाः | न्यासक्रमेण शिवतातादात्म्यमधिशेरते || १५-१५९ || स्थानशुद्धिर्विघ्नोत्सारणादिना ||१५९ ||
SKननु यष्टा तावत् कर्ता अभिधीयते, याज्यं च ᳚देवतोद्देशेन द्रव्यत्यागो यागः᳚ इत्याद्युक्तेरिज्यते देवतायै त्यज्यते इति पुष्पादिद्रव्यं कर्म, तयोः कर्तृकर्मणोराधारश्च यागवेश्म व्यक्ताव्यक्तादि च, संप्रदा च ᳚यागः प्रदानं देवता᳚ इत्यादिनीत्या देवताभ्यः संप्रदानम् | आदानं करणं वा पुनः किमुच्यते ?--इत्याशङ्क्य आह-- अर्घपात्रमपादानं तस्मादादीयते यतः | यच्च तत्स्थं जलाद्येतत्करणं शोधनेऽर्चने || १५-१६० || जलादीति आदिशब्दात् सुरादि, अनेन च द्रव्याणां योग्यत्वं निरूपयितुं प्रक्रान्तम् || १६० || ननु कथं तत्स्थेनैव जलादिना शोधनं स्यात्?--इत्याशङ्क्य आह-- अर्घपात्राम्बुविप्रुड्भिः स्पृष्टं सर्वं हि शुध्यति | शिवार्ककरसंस्पर्शात्काऽन्या शुद्धिर्भविष्यति || १५-१६१ || न च एतन्न्यायत एव सिद्धम्--इत्याह-- ऊचे श्रीपूर्वशास्त्रे तदर्घपात्रविधौ विभुः | तदेव आह-- न चासंशोधितं वस्तु किञ्चिदप्युपकल्पयेत् || १५-१६२ || तेन शुद्धं तु सर्वं यदशुद्धमपि तच्छुचि | ननु नीलादिवत् प्रतिभासविकारकारित्वाभावात् न शुद्ध्यशुद्धी नाम कश्चित् भावधर्मः--इत्युक्तं प्राग्बहुशः, तदशुद्धतैव का यदपसारणेनापि शुद्धता स्यात् ? --इत्याशङ्क्य आह� अशुद्धता च विज्ञेया पशुतच्छासनाशयात् || १५-१६३ || ननु कथं पराभिप्रायेण परस्य एवंरूपत्वं स्यात्?--इत्याशङ्क्य आह-- स्वतादवस्थ्यात्पूर्वस्मादथवाऽप्युपकल्पितात् | भावानां हि पूर्वस्मादशुद्धादर्घपात्राम्बुविप्रुडादिनां कल्पितात् शुद्धाद्वा रूपात् स्वस्य आत्मनस्तादवस्थ्यमुभयथापि अविशेष एव-- इत्यर्थः || ननु यदि नाम शुद्धावशुद्धौ वा भावानामविशिष्टमेव रूपं तत् कुतस्तद्विभागोऽवसीयते?--इत्याशङ्क्य आह-- तेन यद्यदिहासन्नं संविदश्चिदनुग्रहात् || १५-१६४ || कियतोऽपि तदत्यन्तं योग्यं यागेऽत्र जीववत् | कियत इति--अल्पकात् || एवं संविदोऽपि दूरमशुद्धम्--इत्याह-- अनेन नययोगेन यदासत्तिविदूरते || १५-१६५ || संविदेति तदा तत्र योग्यायोग्यत्वमादिशेत् | एवं च
SKश्वदेहावस्थितं द्रव्यं रसायनवरं शुभम् |᳚ इत्याद्युक्त्या संविदासन्नत्वात् सारादिशब्दव्यपदेश्यममृतं यागयोग्यतया गुरूणामभिमतम्--इत्याह-- वीराणामत एवेह मिथः स्वप्रतिमामृतम् || १५-१६६ || तत्तद्यागविधाविष्टं गुरुभिर्भावितात्मभिः | मिथः स्वप्रतिमामृतमिति--मिथः परस्परस्य संयुक्ततया आत्मीयायाः षडरमुद्रारूपायाः प्रतिमायाः संबन्धि अमृतमुभयसामरस्यसमुत्थः कुण्डगोलकाख्यो द्रव्यविशेषः-- इत्यर्थः | अत्र च वीराणामिति भावितात्मभिरिति चानेन विशिष्टाधिकारिविषयत्वमुक्तम् || एवं संविदुद्रेचकमेव वस्तु अर्चने योग्यम्--इत्याह-- उन्मज्जयति निर्मग्नां संविदं यत्तु सुष्ठु तत् || १५-१६७ || अर्चायै योग्यमानन्दो यस्मादुन्मग्नता चितः | अतश्च इदं सिद्धम्--इत्याह-- तेनाचिद्रूपदेहादिप्राधान्यविनिमज्जकम् || १५-१६८ || आनन्दजननं पूजायोग्यं हृदयहारि यत् | यदभिप्रायेणैव ᳚या या संविदुदारा यो योऽप्यानन्दसुन्दरो भावः | जगति यदद्भुतरूपं तत्तद्देव्यास्तवाकारः ||᳚ इत्यादि अन्यैरुक्तम् || अत एव आनन्दातिश्मायकारिणो मद्यादेरेव सर्वशास्त्रेषु परं माहात्म्यमुक्तम्--इत्याह-- अतः कुलक्रमोत्तीर्णत्रिकसारमतादिषु || १५-१६९ || मद्यकादम्बरीशीधुद्रव्यादेर्महिमा परम् | आदिशब्देन मांसमैथुनादि | तदुक्तम्-- ङ नद्यो मधुवाहिन्यो न पलं पर्वतोपमम् | स्त्रीमयं न जगत्सर्वं कुतः सिद्धिः कुलागमे ||᳚ इति || ननु यदि एवं तत् कथं श्रुतिस्मृत्यादौ मद्यादेरशुद्धत्वमुक्तम्?-- इत्याह-- लोकस्थितिं रचयितुं मद्यादेः पशुशासने || १५-१७० || प्रोक्ता ह्यशुद्धिस्तत्रैव तस्य क्वापि विशुद्धता | ननु लोकस्थितिमेव रचयितुं मद्यादेरत्र अशुद्धिरुक्ता न तत्त्वत इत्येव कुतः ?--इत्याशङ्क्य उक्तम्--तत्रैव तस्य क्वापि विशुद्धतेति | क्वापीति--सौत्रामण्याम् || न केवलं मद्यादेर्लोकस्थितावशुद्धस्यापि शुद्धिरुक्ता, यावदन्यदप्येवंप्रकारं बहुतरम्--इत्याह-- पञ्चगव्ये पवित्रत्वं सोमचर्णनपात्रयोः || १५-१७१ ||
SKविधिश्चावभृथस्नानं हस्ते कृष्णविषाणिता | न पत्न्या च विना यागः सर्वदैवततुल्यता || १५-१७२ || सुराहुर्तिब्रह्मसत्रे वपान्त्रहृदयाहुतिः | चर्णनम् अभिषवः | कृष्णविषाणितेति--कृष्णस्य कृष्णसारस्य विषाणं कण्डूयनादौ विनियुक्तमस्यास्तीति | सर्वदैवततुल्यतेति शाब्दी हि देवता वेदवादिनाम्, न तत्र विशेषः श्रूयते इति | यत् श्रुतिः� ᳚कृष्णविषाणया कण्डूयतीति, पत्नीयजमानावादधीयातामिति, सुराग्रहाञ्जुह्वतीति, ब्रह्मणो ब्रह्मणमालभेतेति, वपया प्रातःसवेन चरन्तीति, हृदयस्याग्रेऽवद्यतीति च ||᳚ ननु मायापदनिरूढेषु पाशवेषु शास्त्रेषु अद्वयनयोचितं कथमेवं स्यात्?--इत्याशङ्क्य आह� पाशवेष्वपि शास्त्रेषु तददर्शि महेशिना || १५-१७३ || घोरान्ध्यहैमननिशामध्यगाचिरदीप्तिवत् | ननु पाशवे शासने शुद्ध्यशुद्ध्योर्विभाग उक्तः, इह तु तदविभाग इति किमनयोः कल्पयोर्युज्येत?--इत्याशङ्क्य आह-- भक्ष्यो हंसो न भक्ष्योऽसाविति विप्रतिपत्तिषु || १५-१७४ || स्मार्तीषु विजयत्येको यः शिवाभेदशुद्धिकः | भक्ष्य इति--यत् श्रुतिः-- ᳚हंसो वृको वृषदंशस्ते एन्द्राः |᳚ इति | अभक्ष्य इति--यत्स्मृतिः-- ᳚कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् |᳚ इति अभक्ष्यप्रकरणे | विप्रतिपत्तिष्विति--श्रुतेः || तद्विजये निमित्तमाह-- अज्ञत्ववेदादर्शित्वरागद्वेषादयो ह्यमी || १५-१७५ || मुनीनां वचसि स्वस्मिन्प्रामाण्योन्मूलनक्षमाः | ननु किं नाम एषामज्ञत्वादि यत् स्ववचः प्रामाण्योन्मूलनायामपि क्षमते ?--इत्याशङ्क्य आह� वेदेऽपि यदभक्ष्यं तद्भक्ष्यमित्युपदिश्यते || १५-१७६ || वेदेऽपि हि प्रदर्शितदृशा स्मृत्यादिनिषिध्यमानं हंसादि भक्ष्यतया श्रूयते इत्येषां वेदादर्शित्वं तदज्ञानं तन्नान्तरीयकं रागादि चेति अप्रमाणमेव तद्वचः ||१७६ || ननु एवमपि भक्ष्यत्वाभक्ष्यत्वयोः समुच्चयविकल्पौ स्याताम्?-- इत्याशङ्क्य आह� न विधिप्रतिषेधाख्यधर्मयोरेकमास्पदम् |
SKअथ अश्वमेधादावेव राजन्यादिनैव तद्भक्ष्यमन्यथा तु अभक्ष्यमित्युच्यते, तर्हि विषयभेदेन व्यवस्थायां शुद्ध्यशुद्धिविभागो न दुष्यति--इत्याह-- अथ तत्र न तद्भक्ष्यं तदा तेन तथा ततः || १५-१७७ || एवं विषयभेदान्नो शिवोक्तेर्बाधिका श्रुतिः | तत्रेति--अश्वमेधादन्यत्र | तथेति--भक्ष्यम् | तत इति--श्रुतेः || ननु मा भूद्विषयभेदे शिवोक्तेः श्रुतिर्बाधिका समाने तु विषये को बाधविरोधः ?--इत्याशङ्क्य आह� क्वचिद्विषयतुल्यत्वाद्बाध्यबाधकता यदि || १५-१७८ || तद्बाध्या श्रुतिरेवेति प्रागेवैतन्निरूपितम् | प्रागिति चतुर्थाह्निके | यदुक्तम् तत्र-- ᳚वैदिक्या बाधितेयं चेद्विपरीतं न किं भवेत् | सम्यक्चेन्मन्यसे बाधो विशिष्टविषयत्वतः || अपवादे न कर्तव्यः सामान्यविहिते विधौ | शुद्ध्यशुद्धी च सामान्यविहिते तत्त्वबोधिनि || पुंसि ते बाधिते एव तथा चात्रेति वर्णितम् | (२३१) इति || प्रकृतं ब्रूमहे कृत्वा न्यासं देहार्घपात्रयोः || १५-१७९ || सामान्यमर्घपात्राम्भोविप्रुड्भः प्रोक्ष्य चाखिलम् | यागोपकरणं पश्चाद्बाह्ययागं समाचरेत् || १५-१८० || प्रकृतमिति--प्रक्रान्तं बाह्ययागादि | सामान्यमिति--विशिष्टस्य वक्ष्यमाणत्वात् |--बाह्ययागमिति--बहिरर्चेत्यनुजोद्देशोद्दिष्टम् ||१८० || तदेव आह-- प्रभामण्डलके खे वा सुलिप्तायां च वा भुवि | त्रिशूलार्कवृषान्दिक्स्था मातरः क्षेत्रपं यजेत् ||१८१ || योगिनीश्च पृथङ्मन्त्रैर्ॐनमोनामयोजितैः | एकोच्चारेण वा बाह्यपरिवारेतिशब्दिताः ||१८२ || तारो नाम चतुर्थ्यन्तं नमश्चेत्यर्चने मनुः | प्रभामण्डले इति--आयतनादौ | खे इति--स्वदेहादौ | भुवीति-- स्थण्डिलादौ | एकोच्चारेणेति--संक्षिप्तदीक्षादौ || बाह्ययागमुपसंहरंस्तदनन्तरोद्दिष्टं द्वारान्तरमभिधत्ते-- एवं बहिः पूजयित्वा द्वारं प्रोक्ष्य प्रपूजयेत् || १५-१८३ || त्रिशिरःशासनादौ च स दृष्टो विधिरुच्यते | गणेशलक्ष्म्यौ द्वारोर्ध्वे दक्षे वामे तयोः पुनः || १५-१८४ || मध्ये वागीश्वरीं दिण्डिमहोदरयुगं तथा |
SKक्रमात्स्वदक्षवामस्थं तथैतेन क्रमेण च || १५-१८५ || एकैकं पूजयेत्सम्यङ् नन्दिकालौ त्रिमार्गगाम् | कालिन्दीं छागमेषास्यौ स्वदक्षाद् द्वाःस्थशाखयोः || १५-१८६ || अधोदेहल्यनन्तेशाधारशक्तीश्च पूजयेत् | द्वारमध्ये सरस्वत्या महास्त्रं पूजयेदमी || १५-१८७ || पद्माधारगताः सर्वेऽप्युदिता विघ्ननाशकाः | पूजने पूर्ववन्मन्त्रो दीपकद्वयकल्पितः || १५-१८८ || अर्घपुष्पसमालम्भधूपनैवेद्यवन्दनैः | पूजां कुर्यादिहार्घश्चाप्युत्तमद्रव्ययोजितः || १५-१८९ || एकोच्चारेण वा कुर्याद् द्वाःस्थदैवतपूजनम् | रहस्यपूजां चेत्कुर्यात्तद्बाह्यपरिवारकम् || १५-१९० || द्वाःस्थांश्च पूजयेदन्तर्देवाग्रे कल्पनाक्रमात् | क्षिप्त्वास्त्रजप्तं कुसुमं ज्वलद्वेश्मनि विघ्ननुत् || १५-१९१ || प्रविश्य शिवरश्मीद्धदृशा वेश्मावलोकयेत् | दिशोऽस्त्रेण च बघ्नीयाच्छादयेद्वर्मणाखिलाः || १५-१९२ || तत्रोत्तराशाभिमुखो मुमुक्षुस्तादृशाय वा | विशेत्तथा ह्यघोराग्निः पाशान्प्लुष्यति बन्धकान् || १५-१९३ || स विधिरिति--द्वारपूजालक्षणः, तमेवाह--गणेशेत्यादि | तदुक्तं तत्र-- शंपूज्य द्वार ऊर्ध्वे तु गणेशं दक्षिणे तथा | वामे श्रियं च वागीशीं मध्ये सञ्चिन्त्य पूजयेत् ||᳚ इति | स्वेति--साधकाभिप्रायेण | एतेनेति--दक्षवामात्मनैव, द्वाराभिप्रायेण पुनरत्र विपर्ययः | तदुक्तं तत्र-- ᳚ततो मूले उत्तरतो नन्दिरुद्रं च जाह्नवीम् | महाकालं सदंष्ट्रं च यमुनां चैव दक्षिणे ||᳚ इति | अध इति--अधरोडम्बरे | द्वारमध्ये इति--ऊर्ध्वोडम्बरे | उत्तमद्रव्ययोजित इति--न तु अष्टभिरङ्गैः | एकोच्चारेणेति--ॐ सर्वद्वारपालेभ्यो नमः इति | कल्पनाक्रमादिति--न तु तन्त्रप्रक्रियावत्साक्षात् | क्षिप्त्वेति--अर्थात् नाराचमुद्रया | शिवरश्मीद्धदृक्त्वं परवृत्त्यवलम्बनात् | अवलोकयेदिति-- गुणाधानाय, पुनः प्रवेशरोधाय दिशो बध्नीयात् छादयेच्चेति उक्तम् | तादृशायेति--मुमुक्षवे अर्थात् दीक्षाकाले, बुभुक्षुविषयं पुनरेतदन्यथेति अर्थसिद्धम् | यदुक्तम्--
SK᳚पूर्वास्यः सौम्यवक्त्रो वा................. |᳚ (मा.वि. ८|१८) इति ||१९३ || ननु अस्मिन् संविदद्वयवादे दिगेव नाम का यस्या अपि उत्तरादिविभागो भवेत् ?--इत्याशङ्क्य आह-- यद्यप्यस्ति न दिङ्नाम काचित्पूर्वापरादिका | प्रत्ययो हि न तस्याः स्यादेकस्या अनुपाहितेः || १५-१९४ || अनेन च प्रवेशानन्तर्येण दिक्स्वरूपमुपक्रान्तम् | ननु उक्तमेव हि काणादैः-- ᳚केवलवृक्षादिप्रत्ययविलक्षणपूर्वादिप्रत्ययानुमेया दिगस्ति |᳚ इति | सा च एका सर्वत्र तत्प्रत्ययाविशेषात् | ननु यद्येवं तत् कथमनुपाहितरूपाया एकस्यास्तस्याः पूर्वापरादिको भेदो भवेत्?-- इत्याह--पूर्वेत्यादि ||१९४ || अथ उपाधिरेव तादृक् कश्चिदस्तु यः पूर्वादिव्यवहार्य इत्युच्यते, तदुपाधिसंज्ञितं वस्त्वन्तरमेव तथा स्यात् न दिङ् नाम पूर्वादिप्रत्ययपात्रतामनुभवेत्--इत्याह-- उपाधिः पूर्वतादिष्ट इति चेत्तत्कृतं दिशा | एवमपि अस्मत्समीहितस्य पूर्वादिव्यवहारस्य सिद्धेरस्तु एतदिति चेत् न-- इत्याह-- उपाधिमात्रं तु तथा वैचित्र्याय कथं भवेत् || १५-१९५ || तथेति--दिक्पौर्वापर्याद्यात्मना ||१९५ || ननु तर्हि भावस्वभावाधिकदिक्कालापह्नववादिभिः सौगतैरेव जितम्- -इत्याह-- तस्मात्संवित्प्रकाशोऽयं मूर्त्याभासनभागतः | पूर्वादिदिग्विभागाख्यवैचित्र्योल्लेखदुर्मदः || १५-१९६ || एतदेव उत्तरमवरोहक्रमेण विभज्य दर्शयति-- तत्र यद्यत्प्रकाशेन सदा स्वीकरणे क्षमम् | तदेवोर्ध्वं प्रकाशात्म स्पर्शायोग्यमधः पुनः || १५-१९७ || किञ्चित्प्रकाशता मध्यं ततो वै दिक्समुद्भवः | किञ्चित्प्रकाशयोग्यस्य संमुखं प्रसरत्पुरः || १५-१९८ || पराङ्मुखं तु तत्पश्चादिति दिग्द्वयमागतम् | प्रकाशः संमुखं वस्तु गृहीत्वोद्रिक्तरश्मिकः || १५-१९९ || यत्र तिष्ठेद्दक्षिणं तत्प्रकाशस्यानुकूल्यतः | दक्षिणस्य पुरःस्संस्थं वाममित्युपदिश्यते || १५-२०० || तत्प्रकाशितमेयेन्दुस्पर्शसौम्यं तदेव हि | इह खलु पर प्रकाशवपुषः परमेश्वरस्यापि श यदास्ते चिदाह्लादमात्रानुभवतल्लयः |
SKतदेच्छा तावती तावज्ज्ञानं तावत्क्रिया हि सा |᳚ (शिडृ. १|३) इत्यादिनीत्या परापरतदुभयदशावेशभाजः परांशे विश्वस्य प्रकाशैकमयत्वादूर्ध्वत्वम्, अपरांशे प्रकाशस्पर्शायोग्यत्वादधस्त्वम्, तदुभयांशे कथंचित्प्रकाशाप्रकाशसंस्पर्शात् दशान्तरालतया मध्यत्वं यत एव दिशां समुद्भव इति | तत्र किञ्चित्प्रकाशौन्मुख्ययोग्यतया प्रस्फुरत् विश्वं पुरः प्रमुखे अञ्चतीति प्राचीत्युच्यते, किञ्चिदप्रकाशसंस्पर्शात्तु तदेव विमुखमिव पराञ्चतीति पश्चादिति चेति तावदनपह्नवनीयं दिग्द्वयम् | स एव किञ्चित्प्रकाशः स्वसंस्पृष्टं विश्वमवमृश्य यस्मिन्नात्मनि स्वप्रकाशमये पारिपूर्ण्योचिते वर्तते, सैव प्रकाशानुगुण्याद्दक्षिणा दिगिति; किञ्चिदप्रकाशः पुनः कथंचिदुद्रिक्तः तथाविधप्रकाशांशसमस्कन्धतया तदादिष्ट इव मेयप्राधान्यादैन्दवसंस्पर्शाप्यायिततया प्रकाशप्रातिकूल्यवमनात् वामाभिधानभाजनम् || ननु एवमौत्तराधर्ययोगात् मध्यविभागाच्च परशिवपदे, तदौचित्याच्च उत्तरदशास्वपि षडेव दिशः स्युः?--इत्याशङ्क्य आह-- एवमाशाचतुष्केऽस्मिन्मध्यविश्रान्तियोगतः || १५-२०१ || चतुष्कमन्यत्तेनाष्टौ दिशस्तत्तदधिष्ठिताः | चतुष्कमन्यदिति-- पूर्वदक्षिणदक्षिणापरापरोत्तरोत्तरपूर्वलक्षणम् | तत्तदधिष्ठिता इति तेन तेन संमुखपराङ्मुखोद्रिक्तानुद्रिक्तप्रकाशाप्रकाशांशेन अधिष्ठिताः स्वात्मनि विश्रान्तिसारतया अवमृष्टाः--इत्यर्थः || अमुष्यैव दिग्विभागस्य शास्त्रलोकप्रसिद्धस्तद्विभागः प्रपञ्च इत्युपसंहारदिशा प्रदर्शयति-- एवं प्रकाशमात्रेऽस्मिन्वरदे परमे शिवे || १५-२०२ || दिग्विभागः स्थितो लोके शास्त्रेऽपि च तथोच्यते | तदेवमयं दिग्विभागोऽस्मिन्प्रकाशैकरूपे परानुग्रहपरे परमेश्वरे श्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् | अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्त्तते ||(रि.प्र. १|५|१०) इत्याद्युक्तयुक्त्या स्वात्ममयतया स्थितः सन् शास्त्रे लोके च तथोच्यते तावत्पर्यन्तमूर्ध्वादिशब्दव्यपदेशपात्रतया प्रस्फुरितः--इत्यर्थः ||
SKतत्र शास्त्रीयं दिग्विभागमाह-- क्रमात्सदाशिवाधीशः पञ्चमन्त्रतनुर्यतः || १५-२०३ || ईशन्रघोरवामाख्यसद्योऽधोभेदतो दिशः | शिवशक्तिदशानन्तरं भगवान् पञ्चमन्त्रतनुः सदाशिवनाथो भवति यस्मादीशन्रदिवक्रभेदतः षोढा दिशः समुल्लसन्ति--इति वाक्यार्थः || एतदेव विभजति-- ईश ऊर्ध्वं प्रकाशत्वात्पूर्वं वक्त्रं प्रसारि यत् || १५-२०४ || पुरुषो दक्षिणाचण्डो वामा वामस्तु सौम्यकः | पराङ्मुखतया सद्यः पश्चिमा परिभाष्यते || १५-२०५ || पातालवक्त्रमधरमप्रकाशतया स्थितेः | यत् यस्मादीशः प्रकाशैकरूपत्वादूर्ध्वा दिगुच्यते, तत्पुरुषः प्रकाशौन्मुख्येन प्रसरणात् पूर्वा, अघोरः प्रसृतप्रकाशोद्रेकानुकूल्याद्दक्षिणा, वामदेवस्तत्प्रातिकूल्यात् मेयेन्दुसंस्पर्शप्रधाना वामा उत्तरा, सद्योजातः प्रकाशवैमुख्यात् पश्चिमा, पिचुवक्त्रं प्रकाशसंस्पर्शायोग्यत्वादधरा चेति || ननु अत्र भूतव्याप्त्या वक्त्रभेदः समाम्नातः, तत् क इव अयं षोढा तद्विभागः?--इत्याशङ्क्य आह-- खमरुद्वह्निजलभूखानि वक्त्राण्यमुष्य हि || १५-२०६ || मुख्यत्वेन खमेवोर्ध्वं प्रकाशमयमुच्यते | तदेव मुख्यतोऽधस्तादप्रकाशं यतः स्फुटम् || १५-२०७ || तमःप्रकाशाश्रय्ॐ हि आकाशः--इत्याशयः || ननु विरोधिनोः प्रकाशाप्रकाशयोरेकनिषेधे तदितरविधेर्नान्तरीयकत्वात् कोऽवकाशो दिक्चतुष्टयस्य?-- इत्याशङ्क्य आह-- मध्ये तु यत्प्रकाशं तन्न प्रकाश्यं न चेतरत् | प्रकाशत्वाद्दिश्यमानमतोऽस्मिन्दिक्चतुष्टयम् || १५-२०८ || मध्ये पुनर्न प्रकाशो नापि तदभावः, किन्तु किञ्चित्प्रकाशविषयीकृतं प्रकाश्यं तत एव संमुखप्रसरणाद्युपाधिवैचित्र्यात् भेदेन परामृश्यमानमिति स्थित एव अत्र पूर्वादिदिग्विभाग इति || २०८ || प्रकृतमेव उपसंहरति-- पञ्चमन्त्रतनुर्नाथ इत्थं विश्वदिगीश्वरः | इत्थमिति वक्त्रव्याप्त्या प्रागुक्तमध्यविश्रान्तियोग्यतया च || एतदेव कारणान्तरेषु अतिदिशति-- ततोऽपीशस्तथा रुद्रो विर्ष्णुब्रह्मा तथा स्थितः || १५-२०९ || तथेति--सादाशिवेन क्रमेण ||२०९ ||
SKननु तथेति किं सर्वातिदेश एव? न--इत्याह-- ऊर्ध्वाभिव्यक्त्ययोग्यत्वाद्विष्णोर्धातुश्च पञ्चमम् | न वक्त्रं तौ भेदमयौ सृष्टिस्थितिप्रभू यतः || १५-२१० || भेदप्रधानतया परसंविदद्वयपरामर्शकौशलशून्यतया-- इत्याशयः || २१० || ननु एवं पञ्चवक्त्रायोगे तन्मूलो दिग्विभाग एव न स्यात्?--इत्याशङ्क्य आह-- दिग्विभागस्तु तज्जोऽस्ति वदनानां चतुष्टयात् | ऊर्ध्ववक्त्राभावेऽपि तत्समुत्थ ऊर्ध्वाधरात्मा वदनचतुष्टयनान्तरीयकतया दिग्विभेदो विद्यते इति युक्त एव अतिदेशः || ननु वदनचतुष्टयापेक्षयापि दिग्विभागो भवेत्, तदधराधरस्य पूर्वपूर्वत्र अवस्थानादूर्ध्ववक्रयोगिनि रुद्रादौ ब्रह्मविष्ण्वोरपि संभवात् किं तद्वदनचतुष्टयनान्तरीयको दिग्विभागः, उत पञ्चमवक्त्रोदञ्चितः?--इत्याशङ्क्य आह-- पञ्चमस्य युजित्वे तौ परित्यक्तनिजात्मकौ || १५-२११ || परित्यक्तनिजात्मकाविति--तदेकलीनौ--इत्यर्थः ||२११ || एवं शास्त्रीयं दिग्विभागमभिधाय, लौकिकमपि अभिधत्ते-- ततो ब्रह्माण्डमध्येऽपि ज्ञानशक्तिर्विभो रविः | दिशां विभागं कुरुते प्रकाशघनवृत्तिमान् || १५-२१२ || तदेव दर्शयति-- तथाहि विषुवद्योगे यतः पूर्वं प्रदृश्यते | तत्पूर्वं यत्र तच्छाया तत्पश्चिममुदाहृतम् || १५-२१३ || तस्मिञ्जिगमिषोरस्य यत्सव्यं तत्तु दक्षिणम् | तत्रैष चण्डतेजोभिर्भाति जाज्वल्यमानवत् || १५-२१४ || तत्पुरोवर्ति वामं तु तद्भासा खचितं मनाक् | तत एव हि सोम्यं तन्न चापि ह्यप्रकाशकम् || १५-२१५ || यत्रासावस्तमभ्येति तत्पश्चिममिति स्थितिः | तत्रैव पश्चिमे येषां प्राक्प्रकाशावलोकनम् || १५-२१६ || तदेव पूर्वमेतेषां यथाध्वनि निरूपितम् | प्रदृश्यते इति--रविः | तस्मिन्निति--गमनेच्छाविषये पश्चिमे | तेनापि अत्र गच्छतो यत् सव्यं तत्तेजःसंपत्त्यानुकूल्यात् दक्षिणं तच्छब्दव्यपदेश्यम्--इत्यर्थः | अत एव उक्तं तत्रैष जाज्वल्यमानवद्भाति क्रमात् क्रमं तेजः प्रकर्षातिशयात् | अत एव परशिवदशायामपि
SK᳚प्रकाश उद्रिक्तरश्मिको यत्र तिष्ठते |᳚ (श्लो. १५|११९) इत्यादि उक्तम् | तत्पुरोवर्त्तीति--तस्य दक्षिणस्य पुरोवर्ति समस्कन्धतया स्थितम्--इत्यर्थः | तत इति--मनाक् तद्भासा खचितत्वात् | तत्रैवेति--सूर्यास्तमयस्थाने | येषामिति-- द्वीपान्तरवासिनाम् | अत एव अन्येषामपि प्राग्भावो यः सुराष्ट्रणाम्, मालवानां स दक्षिण इति व्यत्ययदर्शनं संमतम् | अध्वनीति भुवनाध्वनि | तदुक्तं तत्र-- शर्वेषामुत्तरो मेरुर्लोकालोकस्तु दक्षिणः |᳚ (८|११०) इति || ननु यदि एवं पश्चिमापि दिक् पूर्वा भवेत् पूर्वापि पश्चिमा | तत् ᳚आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः | श्रेयः प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते पराङ्मुखः ||᳚ इत्याद्युक्त्या प्रतिनियतफलप्रदत्वमासां कथं सङ्गच्छते?-- इत्याशङ्क्य आह-- सा सा दिक्च तथा तस्य फलदापि विपर्यये || १५-२१७ || विचित्रे फलसंपत्तिः प्रकाशाधीनिका यतः | एवं पश्चिमपूर्वाद्यात्मनि विचित्रेऽपि विपर्यये सा सा पूर्वापरादिरूपा च दिक् तस्य तत्तद्द्वीपनिवासिनो जनस्य तथा प्रतिनियतत्वेन फलप्रदा यतः प्रकाशमात्राधीनफलसंपत्तिस्तत्स्फारसारा च दिगिति || ननु पर एव प्रकाशो दिग्विभागासूत्रणाय प्रगल्भते इति उक्तं तत् कथं रविरपि तथा कुर्यात्?--इत्याशङ्क्य आह-- इत्थं सूर्याश्रया दिक्स्यात्सा विचित्रापि तादृशी || १५-२१८ || अधिष्ठिता महेशेन चित्रतद्रूपधारिणा | इत्थमुक्तेन प्रकारेण सूर्याश्रयापि दिक् संभाव्यते यतः प्रतिनियतरूपत्वाभावात् चित्रा तादृशी सूर्याश्रयापि परसूक्ष्मस्थूलात्मतया चित्रं तासां दिशां रूपं धारयता महेश्वरेण अधिष्ठिता परप्रकाशभित्तिलग्नैव--इत्यर्थः || न केवलं विभोर्ज्ञानशक्तिरूपं रविमधिकृत्य दिशः प्रविभज्यन्ते, यावत् संकुचितात्मस्वभावं साधकमपि--इत्याह-- किं वातिबहुना योऽसौ यष्टा तत्संमुखादितः || १५-२१९ || दिशोऽपि प्रविभज्यन्ते प्राक्सव्योत्तरपश्चिमाः | अत्रापि परमेश्वर एव अधिष्ठाता--इत्याह-- स्वानुसारकृतं तं च दिग्विभागं सदा शिवः || १५-२२० ||
SKअधितिष्ठत्यर्कमिव स विचित्रवपुर्यतः | न केवलमेतत्परमेश्वर एव अधितिष्ठति, यावत् तच्छक्त्यंशरूपः शक्रादिर्लोकपालवर्गोऽपि--इत्याह-- स्वोत्था अपि दिशः स्वेशाः शक्राद्या ह्यधिशेरते || १५-२२१ || ते हि प्रकाशशक्त्यंशाः प्रकाशानुविधायिनः | न केवलं स्वोत्था एव दिश एवं यावत् सौर्योऽपीति अपिना कटाक्षितम् || प्रकाशशक्त्यंशत्वमेव एषां दर्शयति-- प्रकाशस्य यदैश्वर्यं स इन्द्रो यत्तु तन्महः || १५-२२२ || सोऽग्निर्यन्तृत्वभीमत्वे यमो रक्षस्तदूनिमा | प्रकाश्यं वरुणस्तच्च चाञ्चल्याद्वायुरुच्यते || १५-२२३ || भावसञ्चययोगेन वित्तेशस्तत्क्षये विभुः | अदृष्टविग्रहोऽनन्तो ब्रह्मोर्ध्वे वृंहको विभुः || १५-२२४ || प्रकाशस्यैव शक्त्यंशा लोकपास्तेन कीर्तिताः | ᳚इदि परमैश्वर्ये᳚ इत्यस्य इन्द्र इति | यन्तृत्वं यमयतीतिव्युत्पत्त्या यमः | तदूनिमा इति--तस्य प्रकाशस्य प्रकाशोद्रेकादूनिमा गुणीभावः--इत्यर्थः | अत एव उक्तम्--प्रकाश्यं वरुण इति | तदिति- -प्रकाश्यम् | तत्क्षये इति-- तस्य भावसञ्चयस्य क्षये-- स्वरूपप्राधान्ये--इत्यर्थः | अदृष्टविग्रह इति--अधोऽवस्थानात् | प्रकाशशक्त्यंशत्वादेव च एषां परानुग्रहकर्तृत्वम्�इत्याह लोकपा इत्यादि || ननु परमशिवात्प्रभृति सदाशिवादिक्रमेण तत्तदाश्रयावलम्बनादनियतरूपा दिगिति उक्तम्, तत् वयं पुनः कतरां तामाश्रयामहे ?--इति न जानीमः--इत्याशङ्क्य आह-- इत्थं स्वाधीनरूपापि दिक्सौरी तूपदिश्यते || १५-२२५ || तत्र सर्वो हि निष्कम्पं प्रकाशत्वं प्रपद्यते | इत्थमुक्तेन प्रकारेण प्रतिनियतत्वाभावात् स्वतन्त्ररूपापि दिक् सौरी एव उपदिश्यते--ग्राह्यतया उच्यते यतः सर्वोऽयं लोकस्तत्र निष्कम्पं प्रकाशत्वं प्रपद्यते दृढं प्रतिपत्तिभाग्भवेत्--इत्यर्थः || ननु दिशामिन्द्रादयोऽधिष्ठातार इति उक्तम् | ते च पारमेश्वरैन्द्य्रदिशक्तिस्वभावाः | ताश्च व्यापिका इति कथमासां नियतदिगाधिपत्येन तदुचितफलप्रदत्वं स्यात्?--इत्याशङ्कां दृष्टान्तोपदर्शनेन उपशमयति--
SKसर्वगोऽप्यनिलो यद्वद्व्यजनेनोपवीजितः || १५-२२६ || प्रबुद्धः स्वां क्रियां कुर्याद् घर्मनिर्णोदनादिकाम् | तद्वत्सर्वगताः सर्वा एन्द्य्रद्याः शक्त्यः स्फुटम् || १५-२२७ || साधकाश्वाससंबुद्धास्तत्तत्स्वेष्टफलप्रदाः | साधकाश्वाससंबुद्धा इति--इयमेव पूर्वा दिगित्येवमाद्यात्मना साधकस्य आश्वासेन संबुद्धा नैयत्येन अभिव्यक्ताः--इत्यर्थः || न केवलमियं सूर्याश्रया दिगैन्द्य्रद्याभिः पारमेश्वरीभिः शक्तिभिरेव अधिष्ठिता तत्फलप्रदा, यावत् कारणपञ्चकेनापि-- इत्याह-- एवं सौरी दिगीशानब्रह्मविष्ण्वीशसौशिवैः || १५-२२८ || अधिष्ठिता समाश्वासदार्ढ्यात्तत्तत्फलप्रदा | ईशानो रुद्रः | ईश ईश्वरः || ननु यष्टापि यत्संमुखः, सा पूर्वा दिगिति उक्तम्; तदस्य उत्तराभिमुखत्वं न कदाचिदपि भवेदिति ᳚उत्तराशाभिमुखो विशेत्᳚ (श्लो. १९३) इति कथमुक्तम्?--इत्याशङ्क्य आह-- साधको यञ्च वा क्षेत्रं मण्डलं वेश्म वा भजेत् || १५-२२९ || स्थितस्तदनुसारेण मध्यीभवति शङ्करः | यत् नाम हि क्षेत्रादि यष्टा भजेत्, तत्र परप्रकाशात्मा शङ्करः साधकाभिप्रायमाश्रित्य स्थितो मध्यीभवति तत्कार्यकारितया मध्यतामेति--इत्यर्थः | चित्प्रकाश एव हि मध्यमिति उच्यते यतः सर्वत एव इतरप्रविभागः प्रवर्तते || अत एव आह-- स हि सर्वमधिष्ठाता माध्यस्थ्येनेति तस्य यः || १५-२३० || सौरः प्रकाशस्तत्पूर्वमित्थं स्याद्दिग्व्यवस्थितिः | सर्वमिति--पूर्वापरादि | यथाहि लङ्घयितुमिष्टापि स्वच्छाया पुरः पुर एव भवति, तथा पूर्वादितया अभिमतोऽपि परमेश्वरो मध्यतामेव एति--इत्यभिप्रायः | तस्येति--सर्वाधिष्ठातुः शङ्करस्य | सौर इति- -सूर्योदयरूपः--इत्यर्थः || अतश्च ᳚पूर्वास्यः सौम्यवक्त्रो वा................. |᳚ (मा.वि. ८|१८) इति युक्तमुक्तम्--इत्याह-- तन्मध्यस्थितनाथस्य ग्रहीतुं दक्षिणं महः || १५-२३१ || उदङ्मुखः स्यात् पाश्चात्त्यं ग्रहीतुं पूर्वतोमुखः | एतच्च मुमुक्षुबुभुक्षुविषयमिति अनन्तरमेव दर्शितम् | तदुक्तम्--
SK᳚प्रागाशास्थे भोगदायि पश्चाद्वक्त्रं तु संमुखम् | सौम्यास्ये भैरवीयं तु संसारप्लोषभीषणम् ||᳚ इति || ननु एवमुपविश्य किं कुर्यात्?--इत्याशङ्क्य आह-- उपविश्य निजस्थाने देहशुद्धिं समाचरेत् || १५-२३२ || निजेति--मुमुक्षुतादिसमुचिते ||२३२ || अनेन च दिक्स्वरूपानन्तरोद्दिष्टं देहप्राणादिशोधनमुपक्रान्तम् | तदेव आह-- अंगुष्ठाग्रात्कालवह्निज्वालाभास्वरमुत्थितम् | अस्त्रं ध्यात्वा तच्छिखाभिर्बहिरन्तर्दहेत्तनुम् || १५-२३३ || ननु अत्र दाहो नाम किमुच्यते?--इत्याशङ्क्य आह-- दाहश्च ध्वंस एवोक्तो ध्वंसकं मन्त्रसंज्ञितम् | तेजस्तथाभिलापाख्यस्वविकल्परसोम्भितम् || १५-२३४ || ध्वंस एवेति--नतु काष्ठवत् भस्मीभावः | मन्त्रसंज्ञितं च तेजः कीदृक्--इत्याह--तथेति--तत्तत्क्रमिकवर्णात्मका येऽभिलापाः शब्दाः, तदाख्यस्य स्वस्य प्रमातृस्वातन्त्र्यात्मनो विकल्पस्य यो रसो जीवितायमानत्वेन सारभूतो विमर्शस्तेन उम्भितम् तदेकघटितम्-- इत्यर्थः || २३४ || ननु ध्वंसो नाम अभावः, स च न दृश्यमानस्य देहस्य लक्ष्यते | तत् कथं तनुं दहेदिति प्रत्यक्षविरुद्धमुक्तम्?--इत्याशङ्क्य आह-- तेन मन्त्राग्निना दाहो देहे पुर्यष्टके तथा | देहपुर्यष्टकाहन्ताविध्वंसादेव जायते || १५-२३५ || तेनेति--एवंविधेन ||२३५ || ननु सत्यपि अहन्ताया विध्वंसे न देहस्य दाहं पश्यामस्तत्सद्भावस्य प्रत्यक्षसिद्धत्वात्?--इत्याशङ्क्य आह-- नहि सद्भावमात्रेण देहोऽसावन्यदेहवत् | अहन्तायां हि देहत्वं सा ध्वस्ता तद्दहेद् ध्रुवम् || १५-२३६ || अयं च अत्र प्रयोगः--असौ विवादास्पदीभूतः साधकदेहो देहो न भवति अहन्तानास्पदत्वात् | यत् यदीयाहन्तानास्पदीभूतः, स तस्य देहो न भवति अहन्तानास्पदत्वात् | यत् यदीयाहन्तानास्पदं, तत् तदीयदेहो न भवति यथा अन्यदेहः | यो यद्देहः, स तदहन्तास्पदं यथा पामरदेहः | अयं च देहो न अस्य अहन्तास्पदम्, तस्मात् न देह इति ||२३६ ||
SKएवमनात्मस्वभावे देहादौ तदनुवेधमपि अवधूय पराहंपरामर्शमये सत्यरूपे चिदात्मनि विश्राम्येत् ?--इत्याह-- तद्देहसंस्कारभरो भस्मत्वेनाथ यः स्थितः | तं वर्मवायुनाधूय तिष्ठेच्छुद्धचिदात्मनि || १५-२३७ || तत्र अस्य विश्रान्त्या किं स्यात्?--इत्याशङ्क्य आह-- तस्मिन्ध्रुवे निस्तरङ्गे समापत्तिमुपागतः | संविदः सृष्टिधर्मित्वादाद्यामेति तरङ्गिताम् || १५-२३८ || सैव मूर्तिरिति ख्याता तारसद्बिन्दुहात्मिका | सैवेति--आद्या तरङ्गिता | मूर्तिरिति--देहप्राणाद्यात्मनः परिमितस्य मातुः शुद्धशरीसृष्ट्युदये ᳚मूर्छा मोहसमुच्छ्रययोः᳚ इति पाठादपरिमितीकरणात्मकसमुच्छ्रयप्राप्तिः | यदुक्तम्� ᳚अनन्तो भैरवोच्छ्रयो मूर्तिरेषा परा मता | यस्यास्तु न्यासमात्रेण अणुत्वं प्रविलीयते ||᳚ इति | तारः प्रणवः, सद्बिन्दुहात्मिकेति--हमितिरूपेत्यर्थः | तदुक्तम्- - ᳚ततोऽस्य योजयेच्छक्तिं सोऽहमित्यपराजिताम् |᳚ इति || इदानीं विशेषन्यासवैचित्र्यमभिधातुमाह-- ततो नवात्मदेवेन न्यासस्तत्त्वोदयात्मकः || १५-२३९ || अङ्गवक्त्राणि तस्यैव स्वस्थानेषु नियोजयेत् | अथ मातृकया प्राग्वत्तत्तत्त्वस्फुटतात्मकः || १५-२४० || त्रितत्त्वन्यासता चास्य पृष्ठे कक्ष्यात्रयागते | ततोऽघोराष्टकन्यासः शिरस्तच्चरणात्मकम् || १५-२४१ || ततोऽपि शिवसद्भावन्यासः स्वाङ्गस्य संयुतः | इत्थं कृते पञ्चकेऽस्मिन्यत्तन्मुख्यतया भवेत् || १५-२४२ || उपास्यमर्च्यं तत्साङ्गं षष्ठे न्यासे नियोजयेत् | तेनात्र न्यासयोग्योऽसौ भगवान्रतिशेखरः || १५-२४३ || ऊर्ध्वे न्यास्यो नवाख्यस्य मुख्यत्वेऽन्योन्यधामता | तत्त्वोदयात्मक इति--न्यासफलमुक्तम् | त्रितत्त्वेति-- शिवविद्यात्मलक्षणम्, अन्यथा हि एतन्मते श्रीरतिशेखरभैरवस्य न्यासविधौ विवर्जितत्वं न स्यात् | अस्य पृष्ठे इति--मातृकान्यासस्य उपरि | कक्ष्यात्रयागते इति--शिखाहृत्पादलक्षणकक्ष्यात्रयमागत्य--इत्यर्थः | अत्र पक्षे च ᳚.......................ंऊर्त्यङ्गसंयुताः |᳚ (श्लो. २४७)
SKइति--मूर्तिः सत्ता सद्भाव इत्यर्थः | ऊर्ध्वे इति न्यासपञ्चकस्य | ननु य एव मुख्यतया उपास्यः स एव षष्ठे न्यासे योज्य इति उक्तम्, तत् कथमिह इदानीमेव तत्र रतिशेखरो न्यास्य इति उच्यते ?--इत्याशङ्क्य आह--नवाख्यस्येत्यादि--तेन प्रथमन्यासस्थाने रतिशेखरो योज्यः, षष्ठे तु नवात्मेति || एवमियमेव अन्यत्रापि वार्त्ता--इत्याह-- एवं भैरवसद्भावनाथे मुख्यतया यदि || १५-२४४ || उपास्यता तत्तत्स्थाने प्राङ्न्यास्यो रतिशेखरः | न च एतत् स्वोपज्ञमेव अस्माभिरुक्तम्--इत्याह-- इत्थं श्रीपूर्वशास्त्रे मे सम्प्रदायं न्यरूपयत् || १५-२४५ || शम्भुनाथो न्यासविधौ देवो हि कथमन्यथा | न्यासे विवर्ज्यतेऽमुष्मिन्नङ्गान्यप्यस्य सन्ति हि || १५-२४६ || शम्भुनाथ इति--श्रीलक्ष्मणगुप्तमते हि अन्यथा न्यासविधिः-- इत्याशयः | श्रीशम्भुनाथस्य पुनरेवं न्यासाभिधाने कोऽभिप्रायः?--इत्याशङ्क्य आह--देवो हीत्यादि | देवो रतिशेखरः कथं विवर्ज्यते इति वर्जयितुं न न्याय्यः?--इत्याशङ्क्य उक्तम्-- अङ्गान्यप्यस्य सन्ति हीति-- श्रीभैरवसद्भावादिभैरवान्तरसमानन्यायत्वात् -- इत्यभिप्रायः ||२४६ || श्रीलक्ष्मणगुप्तः पुनरेतदन्यथा व्याचख्यौ--इत्याह-- मूर्तिः सृष्टिस्त्रितत्त्वं चेत्यष्टौ मूर्त्यङ्गसंयुताः | शिवः साङ्गश्च विज्ञेयो न्यासः षोढा प्रकीर्तितः || १५-२४७ || अस्योपरि ततः शाक्तं न्यासं कुर्याच्च षड्विधम् | मूर्तिः साङ्गवक्त्रो नवात्मा शाक्तन्यासे यदुपरि साङ्गवक्त्रा परापरा | सृष्टिर्मातृका यदुपरि मालिनी | त्रितत्त्वं भैरवसद्भावरतिशेखरनवात्मरूपं यदुपरि परादित्रितयम् | अष्टावघोराद्या यदुपरि अघोर्याद्यष्टकम् | मूर्त्यङ्गेति-- मूर्तेर्नवात्मनोऽङ्गानि यदुपरि विद्याङ्गपञ्चकम् | शिवो भैरवसद्भावः साङ्गवक्त्रो यदुपरि साङ्गवक्त्रो मातृसद्भावः | एतच्च उभयथापि उपसंहरति--न्यासः षोढा प्रकीर्तित इति | न्यासशब्दः काकाक्षिन्यायेन योज्यः | अस्येति शाम्भवस्य न्यासस्य || तदेव आह-- परापरां सवक्त्रां प्राक्ततः प्रागिति मालिनीम् || १५-२४८ ||
SKपश्चात्परादित्रितयं शिखाहृत्पादगं क्रमात् | ततः कवक्त्रकण्ठेषु हृन्नाभीगुह्यऊरुतः || १५-२४९ || जानुपादेऽप्यघोर्याद्यं ततो विद्याङ्गपञ्चकम् | ततस्त्वावाहयेच्छक्तिं मातृसद्भावरूपिणीम् || १५-२५० || योगेश्वरीं परां पूर्णां कालसङ्कर्षिणीं ध्रुवाम् | यदा पुनरेतदेव शास्त्रानुसारेण साधयितुमिष्टं तदा अयं विशेषः--इत्याह-- अङ्गवक्त्रपरीवारशक्तिद्वादशकाधिकाम् || १५-२५१ || साध्यानुष्ठानभेदेन न्यासकाले स्मरेद् गुरुः | ननु अस्मिन्दर्शने त्रिकमेव परमार्थ इति किमनेन चतुर्थेन रूपेण उपदिष्टेन?--इत्याशङ्क्य आह-- परैव देवीत्रितयमध्ये याऽभेदिनी स्थिता || १५-२५२ || सानवच्छेदचिन्मात्रसद्भावेयं प्रकीर्तिता | सारशास्त्रे यामले च देव्यास्तेन प्रकीर्तितः || १५-२५३ || मूर्तिः सवक्त्रा शक्तिश्च शक्तित्रयमथाष्टकम् | पञ्चाङ्गानि परा शक्तिर्न्यासः शाक्तोऽपि षड्वधः || १५-२५४ || यामलोऽयं महान्यासः सिद्धिमुक्तिफलप्रदः | प्रकीर्तितेति--अर्थात् भगवता श्रीकण्ठनाथेन | देव्या इति प्रष्टृत्वेन स्थितायाः | यदभिप्रायेणैव प्राक् ᳚तत्सारं तच्च हृदयं स विसर्गः परः प्रभुः | देव्यायामलशास्त्रे सा कथिता कालकर्षिणी || महाडामरके यागे श्रीपरामस्तके स्थिता | श्रीपूर्वशास्त्रे सा मातृसद्भावत्वेन वर्णिता ||᳚ (३|७१) इत्यादि उक्तम् | अत एव शाक्तोऽपि न्यासः षोढा--इत्याह--तेनेत्यादि | तेन परादेव्या एव अनवच्छिन्नचिन्मात्ररूपतया पृथगुपदेशेन हेतुना शाक्तोऽपि न्यासः षड्वधः प्रकीर्तितः�इति संबन्धः | मूर्तिरिति- -तात्स्थ्यात् परापराशक्तिर्मालिनी || ननु अयं शैवः शाक्तो वा न्यासः किमिति यौगपद्येनैव?--क्रियते इत्याशङ्क्य आह-- मुक्त्येकार्थी पुनः पूर्वं शाक्तं न्यासं समाचरेत् || १५-२५५ || यदुक्तम्-- ᳚वामो वायं विधिः कार्यो मुक्तिमार्गावलम्बिभिः |᳚ इति ||२५५ || अत्रैव व्याख्यानान्तरमपि अस्ति--इत्याह-- गुरवस्त्वाहुरित्थं यन्न्यासद्वयमुदाहृतम् | मुमुक्षुणा तु पादादि तत्कार्यं संहृतिक्रमात् || १५-२५६ || न च अत्रैव अयं क्रमः--इत्याह--
SKयावन्तः कीर्तिता भेदाः शंभुशक्त्यणुवाचकाः | तावत्स्वप्येषु मन्त्रेषु न्यासः षोढैव कीर्तितः || १५-२५७ || किन्त्वावाह्यस्तु यो मन्त्रः स तत्राङ्गसमन्वितः | षष्ठः स्यादिति सर्वत्र षोढैवायमुदाहृतः || १५-२५८ || इह नाम केचन शांभवादिभेदभिन्नास्तन्त्रान्तरीया मन्त्राः | तेषामपि अयमेव वीर्यरूपतया उक्तेन क्रमेण न्यासः कार्यः, किन्तु य एव यत्र उपास्यत्वेन आवाह्यो मन्त्रः, स एव षष्ठे स्थाने योज्यो येन अयं सर्वत्र शास्त्रे तत्तदभीष्टफलप्रदः षोढैव न्यास उक्तः स्यात् | यदभिप्रायेण अनन्तरमेव ᳚तेन भ्रष्टे विधौ वीर्ये स्वरूपे वाऽनया परम् |᳚ मन्त्रा न्यस्ताः पुनर्न्यासात्पूर्यन्ते तत्फलप्रदाः ||(श्लो. १३५) इति उक्तम् ||२५८ || ननु एवं स्वात्मनि भैरवीभावः कृतो भवेत् भैरवस्य संनिधिनिमित्तमवश्यप्रदर्शनीया मुद्राः, यत् ᳚एता मुद्रा महादेवि भैरवस्य प्रदर्शयेत् | आवाहने पूजनान्ते तथा चैव विसर्जने ||᳚ इत्यादि उक्तं तत् किमावाहनादाविह तद्दर्शनं कार्यं न वा?--इत्याशङ्क्य आह� मुद्राप्रदर्शनं पश्चात्कायेन मनसा गिरा | मनसेति ᳚....................ंउद्राख्याः शिवशक्तयः |᳚ इत्याद्यनुसंधानमयेन--इत्यर्थः | यदुक्तम्-- ᳚मनोजा गुरुवक्त्रस्था वाग्भवा मन्त्रसंभवा | देहोद्भवाङ्गविक्षेपैर्मुदेर्यं त्रिविधा स्मृता ||᳚ इति || ननु इह देशशुद्धिमात्रं कर्तुं प्रक्रान्तं, तच्च एकतरेणापि न्यासेन सिध्येदिति अस्य षोढात्वे कोऽभिप्रायः ?--इत्याशङ्क्य आह-- पञ्चावस्था जाग्रदाद्याः षष्ठ्यनुत्तरनामिका || १५-२५९ || षट्कारणषडात्मत्वात्षटित्रशत्तत्त्वयोजनम् | एवं षोढामहान्यासे कृते विश्वमिदं हठात् || १५-२६० || देहे तादात्म्यमापन्नं शुद्धां सृष्टिं प्रकाशयेत् | एवमपि षण्णामवस्थानां प्रत्येकं षट्कारणाधिष्ठानेन षडात्मतया षटित्रशत्तत्त्वयोगानुसन्धानेन--इत्यर्थः | यदुक्तमनेनैव अन्यत्र--
SK᳚तत्र च पञ्च अवस्था जाग्रदाद्याः, षष्ठी च अनुत्तरा नाम स्वभावदशानुसन्धेयेति षोढा न्यासो भवति, तत्र कारणानां ब्रह्मविष्णुरुद्रेश्वरसदाशिवानाश्रितरूपाणां प्रत्येकमधिष्ठानात् षटित्रशत्तत्त्वकलापस्य लौकिकतत्त्वोत्तीर्णस्य भैरवभट्टारकाभेदवृत्तेर्न्यासे पूर्णत्वात् भैरवीभावः |᳚ इति || का नाम अस्याः शुद्धता?--इत्याशङ्क्य आह-- मूर्तिन्यासात्समारभ्य या सृष्टिः प्रसृताऽत्र सा || १५-२६१ || अभेदमानीय कृता शुद्धा न्यासबलक्रमात् | इह ᳚तस्मिन्ध्रुवे निस्तरङ्गे समापत्तिमुपागतः | संविदः सृष्टिधर्मित्वादाद्यामेति तरङ्गिताम् || सैव मूर्तिरिति ख्याताः..................... |᳚ (तं.आ. २३८) इत्याद्युपक्रमेण मूर्तिन्यासात् प्रभृति साधकदेहस्य या सृष्टिः प्रसृता, सा अत्र न्यासबलक्रमादभेदमानीय कृता शुद्धा भैरवीभावावष्टम्भस्वभावा--इत्यर्थः || अतश्च देहदाहानन्तरमेव यष्टा तदुत्तीर्णे शुद्धचिदात्मनि शिवे रूढ इति किमस्य पुनः शुद्धदेहसृष्ट्येति चोदयन्तो दूरं निरस्ता-- इत्याह-- तेन येऽचोदयन्मूढाः पाशदाहविधूनने || १५-२६२ || कृते शान्ते शिवे रूढः पुनः किमवरोहति | इति ते दूरतो ध्वस्ताः परमार्थं हि शांभवम् || १५-२६३ || न विदुस्ते स्वसंवित्तिस्फुरत्तासारवर्जिताः | शांभवपरमार्थावेदनमेव उपपादयति-- न खल्वेष शिवः शान्तो नाम कश्चिद्विभेदवान् || १५-२६४ || सर्वेतराध्वव्यावृत्तो घटतुल्योऽस्ति कुत्रचित् | ननु यदि एवंविधो न शिवस्तत्कतरः?--इत्याशङ्क्य आह-- महाप्रकाशरूपा हि येयं संविद्विजृम्भते || १५-२६५ || स शिवः शिवतैवास्य वैश्वरूप्यावभासिता | विजृम्भते इति--विश्वेन रूपेण अवभासते--इत्यर्थः | एतावदेव हि शिवस्य शिवत्वं यत् तेन तेन रूपेण अवभासते इति उक्तं वैश्वरूप्यावभासितैव अस्य शिवतेति || एवंस्वभावत्वादेव च अस्य न अत्र परापेक्षा--इत्याह-- तथाभासनयोगोऽतः स्वरसेनास्य जृम्भते || १५-२६६ ||
SKननु यदि एवं भेदेनैव अयमवभासते, तत् सदैव संसारः स्यात्, न तु कदाचिदपि कैवल्यम् ?--इत्याशङ्क्य आह-- भास्यमानोऽत्र चाभेदः स्वात्मनो भेद एव च | अत्रेति--स्वारसिके तथाभासने || एतन्निबन्ध एव च बन्धमोक्षविभागः--इत्याह-- भेदे विजृम्भिते माया मायामातुर्विजृम्भते || १५-२६७ || अभेदे जृम्भतेऽस्यैव मायामातुः शिवात्मता | ननु कथमस्य मायाप्रमातृत्वे सति अभेदो यन्नान्तरीयकं शिवात्मत्वं स्यात् ?--इत्याशङ्क्य आह-- मायाप्रमाता तद्रूपविकल्पाभ्यासपाटवात् || १५-२६८ || शिव एव तदभ्यासफलं न्यासादि कीर्तितम् | ननु यदि एवं तत् किमनेन न्यासादिना?--इत्याशङ्क्य आह-- तदभ्यासफलमिति तदभ्यास एवं फलं प्रयोजनमस्य--इत्यर्थः || ननु एवमभ्यासमात्रादेव कथं शिवत्वं भवेत्?--इत्याशङ्कां गर्भीकृत्य दृष्टान्तयति-- यथाहि दुष्टकर्मास्मीत्येवं भावयतस्तथा || १५-२६९ || तथा शिवोऽहं नान्योऽस्मीत्येवं भावयतस्तथा | यथाहि दुष्टं कर्म करोमीत्येवं भावयतस्तथा दुष्टकर्मत्वं भवेत्, न तु सुकृतकर्मत्वं तथा ᳚शिवोऽहमद्वितीयोऽहम्᳚ इत्यादि भावयतस्तथा शिवत्वमेव--इत्यर्थः || ननु प्राग्विकल्पाभ्यासपाटवात् निर्विकल्पकता भवतीत्युक्तं, तत् कथमिह शिवत्वं भवेदित्युच्यते?--इत्याशङ्क्य आह-- एतदेवोच्यते दार्ढ्यं विमर्शहृदयङ्गमम् || १५-२७० || शिवैकात्म्यविकल्पौघद्वारिका निर्विकल्पता | एतदेव शिवोऽहमित्याद्यात्मकविकल्पाभ्यासस्वभावभावनापर्यन्तोपरतं शिवत्वं निर्विकल्पताविमर्शैकसतत्त्वं दार्ढ्यं च उच्यते सर्वत्र तथा अभिधीयते--इत्यर्थः || एतदेव व्यतिरेकद्वारेण दर्शयति-- अन्यथा तस्य शुद्धस्य विमर्शप्राणवर्तिनः || १५-२७१ || कथं नामाविमृष्टं स्याद्रूपं भासनधर्मणः | यदि हि एतदविकल्पात्मपरामर्शमयं शिवत्वं भावनालभ्यं न भवेत्, तत् विकल्पकलङ्कोन्मुक्तस्य सहजविमर्शात्मनः स्वप्रकाशस्य तस्य कथं नाम अविमृष्टं रूपं स्यात् सततविमृष्टं भवेत्-- इत्यर्थः ||
SKयदि हि एवं न भवेत्, तत् देहादिप्रमातारोऽपि कथं न शिवात्मना प्रस्फुरेयुः--इत्याह-- तेनातिदुर्घटघटास्वतन्त्रेच्छावशादयम् || १५-२७२ || भानपि प्राणबुद्ध्यादिः स्वं तथा न विकल्पयेत् | तेन शिवत्वस्य भावनालभ्यत्वेन हेतुना भानान्यथानुपपत्त्या शिवात्मना भानपि अयं देहादिः प्रमाता तत्तद्दुर्घटकारिपरमेश्वरेच्छामहिम्ना तथा शिवात्मना स्वं न विकल्पयेत् विमृशेत्--इत्यर्थः | घटनं घटेति भिदादित्वादङ् || ननु अस्य मा भूदेवं परामर्शः प्रत्युत विपरीतपरामर्शयोगोऽस्ति- -इत्याह-- प्रत्युतातिस्वतन्त्रात्मविपरीतस्वधर्मताम् || १५-२७३ || विनाश्यनीशायत्तत्वरूपां निश्चित्य मज्जति | आयत्तत्वं पारतन्त्र्यम् || एवं शिवत्वस्य भावनालभ्यत्वमेव युक्तमिति उपसंहरति-- ततः संसारभागीयतथानिश्चयशातिनीम् || १५-२७४ || नित्यादिनिश्चयद्वारामविकल्पां स्थितिं श्रयेत् | तथेति--विपरीतस्वधर्मतया, अत एव उक्तम्--नित्यादिनिश्चयद्वारामिति, आदिशब्दादीशत्वानायत्तत्वादि || ननु सर्वैरेव ᳚करणेन नास्ति कृत्यं क्वापि भावनयाऽपि वा |᳚ (शिडृ. ७|६) इत्यादि उक्तं तत् किमिह भावनापर्यवसायिन्यासादिना अभिहितेन?-- इत्याशङ्क्य आह-- ये तु तीव्रतमोद्रिक्तशक्तिनिर्मलताजुषः || १५-२७५ || न ते दीक्षामनुन्यासकारिणश्चेति वर्णितम् | वर्णितमिति--द्वितीयाह्निके || एवमेतत् प्रसङ्गादभिधाय प्रकृतमेव आह-- एवं विश्वशरीरः सन्विश्वात्मत्वं गतः स्फुटम् || १५-२७६ || न्यासमात्रात् तथाभूतं देहं पुष्पादिनार्चयेत् | पृथङ्मन्त्रैर्विस्तरेण संक्षेपान्मूलमन्त्रतः || १५-२७७ || धूपनैवेद्यतृप्त्याद्यैस्तथा व्याससमासतः | पृथगिति--अङ्गवक्रादिभेदेन || ननु इदं न्यासादि सर्वं करकार्यं तत् करेण तावत् केन एतत् क्रियते ?--इति न जानीमः--इत्याशङ्क्य आह-- संसारवामाचारत्वात्सर्वं वामकरेण तु || १५-२७८ || कुर्यात्तर्पणयोगं च दैशिकस्तदनामया | वामः संसारविपरीतो लोकबहिष्कृतो मुक्त्यनुगुणो रहस्य आचारः || अत एव आगमोऽप्येवम्--इत्याह--
SKवामशब्देन गुह्यं श्रीमतङ्गादावपीरितम् || १५-२७९ || यदुक्तम्--तत्र ᳚रहस्योक्त्या स्मृतं वामं पत्युस्तेजः क्रियात्मकम् |᳚ (मटं.१|४|२५) इति उपक्रम्य ᳚यतस्तस्मात्स भगवान् वामगुह्यः प्रभाष्यते |᳚ (मटं.१|४|२८) इति | आदिशब्देन श्रीनन्दिशिखादि | यदुक्तम्--तत्र-- ᳚वामं गुह्यं समाख्यातममृतं खेचरीप्रियम् | रहस्यं सर्वभूतानां वामशब्देन कीर्त्यते ||᳚ इति ||२७९ || न केवलमत्रैव वामशब्दस्य रहस्यार्थाभिधायित्वं यावदन्यत्रापि- -इत्याह-- वामाचारपरो मन्त्री यागं कुर्यादिति स्फुटम् | श्रीमद्भर्गशिखाशास्त्रे तथा श्रीगमशासने || १५-२८० || यदुक्तम्--तत्र-- ᳚वामाचारपरो मन्त्री ततो यागं समाचरेत् |᳚ इति | ननु भवतु नाम एतत्, तर्पणं तु वामकरानामिकया कार्यमित्यत्र किं प्रमाणम् ?--इत्याशङ्क्य आह--तथेत्यादि ||२८० || तदेव पठति-- सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् | तत्फलं कोटिगुणितमनामातर्पणात्प्रिये || १५-२८१ || अनामेति अर्थादङ्गुष्ठयुक्ता | तदुक्तं तत्रैव-- ᳚वामपाणौ जपन्त्याश्च तुम्बरोश्चापि मेलके | दातव्यं विप्रुषामात्रमुपर्युपरि कल्पितम् ||᳚ इति | श्रीसङ्कर्षणीयामले-- ᳚इत्येतत्परमानन्दं महासर्वमनुत्तमम् | योगिनीवल्लभं भद्रे अर्घपात्रे प्रपूजयेत् || तेनैकविप्रुषामात्रतर्पणं सर्वदा स्मृतम् | वामहस्तेन कर्तव्यमनामांगुष्ठयोगतः ||᳚ इति | नवनित्याविधानेऽपि-- ᳚अंगुष्ठानामिकाभ्यां तु तर्पयेत्परमेश्वरीः |᳚ इति | अन्यत्र पुनर्मध्यमांगुष्ठयोगेनापि तर्पणमुक्तम् | तथा च द्वादशसाहस्रे श्रीमदानन्देश्वरे-- ᳚दिव्यं तेजः सुगन्धाढ्यं प्रददेत्मातृमण्डले | मध्यमांगुष्ठयोगेन वामहस्तेन भैरवि || तदा सिद्धिं लभेताशु तन्त्रोक्तां नात्र संशयः |᳚ इति | भूतक्षोभेऽपि-- ᳚मुद्रां कापालिनीं बद्ध्वा दक्षहस्तेन साधकः | पात्रं तदुपरि स्थाप्यं मध्यमांगुष्ठयोगतः || क्षिप्त्वैकं विप्रुषं वक्त्रे तर्पयेद्देवतागणम् |᳚ इति | श्रीपञ्चामृतेऽपि-- ᳚तर्जनी शत्रुविजये मध्यमा तर्पणे स्मृता |
SKअनामा शोषणे योज्या कनीया हीनकर्मसु || तस्मात्सर्वप्रयत्नेन मध्यमाङ्गुष्ठयोगतः | तर्पयेद्देवदेवेशं मातृचक्रं विशेषतः | सर्वकर्मसु सामर्थ्यान्मध्यमा तु प्रशस्यते ||᳚ इति | तथा ᳚अङ्गुष्ठो भैरवः साक्षाच्चामुण्डा मध्यमा भवेत् | उभयोः सङ्गमो ह्येष सर्वसिद्धिकरः परः ||᳚ इति | तदेवं यत् शास्त्रमधिकृत्य साधकस्य मद्यसंस्कारश्चिकीर्षितः, तदनुसारेणैव तर्पणमपि तेन कार्यम्-- इति विषयविभागः ||२८१ || ननु एवं वामशब्दस्य रहस्यार्थाभिधायित्वं सिद्धं वामकरत्वे पुनः किं प्रमाणम् ?--इत्याशङ्क्य आह-- श्रीमन्नन्दिशिखायां च श्रीमदानन्दशासने | तदुक्तं स्रुक्च पूर्णायां स्रुवश्चाज्याहुतौ भवेत् || १५-२८२ || शेषं वामकरेणैव पूजाहोमजपादिकम् | इह पूर्णायामाज्याहुतौ स्रुक् स्रुवश्च अर्थादुभाभ्यां कराभ्यां ग्राह्यौ | यदुक्तम्-- ᳚पूर्णाहुतिप्रयोगं तु कथयाम्यधुना तव | ऋजुकाय ऋजुग्रीवः समपादो व्यवस्थितः || नाभिस्थाने स्रुचो मूलमुत्तानाग्रमुखं समम् | स्रुच्युपरि स्रुवं देवि कृत्वा चैवमधोमुखम् || पुष्पं दत्त्वा स्रुगग्रे तु दर्भेण सहितौ करौ | मुष्टिना चैव हस्ताभ्यां गृहीत्वा यत्नतोऽपि च || अग्रतो दक्षिणं हस्तं वामं वै पृष्ठतः प्रिये | मुष्टिभ्यां संगृहीत्वा वै उत्तानकरयोगतः ||᳚ इति | अन्यत् पुनः शिष्टं पूजादिकं कर्म वामकरेणैव कार्यं भवेत्--इति वाक्यार्थः || ननु एवं देहस्य यजनेन किं स्यात् ?--इत्याशङ्क्य आह-- एवमानन्दसंपूर्णं सर्वौन्मुख्यविवर्जितम् || १५-२८३ || यागेन देहं निष्पाद्य भावयेत शिवात्मकम् | ननु कथमिदमनात्मरूपं देहादि शिवात्मकतया भावनीयम्?-- इत्याशङ्क्य आह-- गलिते विषयौन्मुख्ये पारिमित्ये विलापिते || १५-२८४ || देहे किमवशिष्येत शिवानन्दरसादृते | अतश्च एवमभ्याससहितः साधकः शिव एव भवेत्--इत्याह-- शिवानन्दरसापूर्णं षटित्रशत्तत्त्वनिर्भरम् || १५-२८५ || देहं दिवानिशं पश्यन्नर्चयन्स्याच्छिवात्मकः |
SKननु यदि एवं देहदर्शनादिनैव साधकस्य शिवैकात्म्यमुदियात्, तत् किमस्य बाह्येन लिङ्गादिना स्यात् ? बाढम्--इत्याह-- विश्वात्मदेहविश्रान्तितृप्तस्तल्लिङ्गनिष्ठितः || १५-२८६ || बाह्यं लिङ्गव्रतक्षेत्रचर्यादि नहि वाञ्छति | यस्य पुनरेवं विश्रान्तिर्न स्यात्, तं प्रति एतत् बाह्यमुच्यते--इत्याह-- तावन्मात्रात्त्वविश्रान्तेः संविदः कथिताः क्रियाः || १५-२८७ || उत्तरा बाह्ययागान्ताः साध्या त्वत्र शिवात्मता | ननु आसां बाह्यानां क्रियाणामपि कथनेन कोऽर्थः?--इत्याशङ्क्य उक्तम्--साध्या त्वत्र शिवात्मतेति | तुर्हेतौ || इदानीं विशेषन्यासवैचित्र्यानन्तरोद्दिष्टं विशेषार्घपात्रमभिधातुमाह-- ततोऽर्घपात्रं कर्तव्यं शिवाभेदमयं परम् || १५-२८८ || आनन्दरससंपूर्णं विश्वदैवततर्पणम् | यथैव देहे दाहादिपूजान्तं तद्वदेव हि || १५-२८९ || अर्घपात्रेऽपि कर्तव्यं समासव्यासयोगतः | आनन्दरसो मद्यादिरूपः || ननु स्वात्मनोऽर्घपात्रस्य वा पूजायामुपयुक्तं द्रव्यजातं कस्मादिह न उक्तम्?--इत्याशङ्कां प्रदर्श्य दूषयति-- कानि द्रव्याणि यागाय को न्वर्घ इति नोदितम् || १५-२९० || सिद्धिकामस्य तत्सिद्धौ साधनैव हि कारणम् | मुक्तिकामस्य नो किञ्चिन्निषिद्धं विहितं च नो || १५-२९१ || यदेव हृद्यं तद्योग्यं शिवसंविदभेदने | कृत्वार्घपात्रं तद्विप्रुट्प्रोक्षितं कुसुमादिकम् || १५-२९२ || कृत्वा च तेन स्वात्मानं पूजयेत्परमं शिवम् | इह खलु पूजादिनिमित्तं नियतं किञ्चित् द्रव्यं न उदितं यतः सिद्धिकामस्य तावत् तस्यां शान्त्यादिरूपतया नियतायां सिद्धौ संपादनैव प्रतिनियतद्रव्योपयोगे कारणं यत् शान्तिमारभमाणेन साधकेन सितमेव, नतु रक्तं द्रव्यादि उपादेयम्, एवं वश्यादौ रक्तमेव नतु सितमिति; मुक्तिकामस्य तु न किञ्चिदपि विहितं निषिद्धं वेति तं प्रति कतरत् द्रव्यमभिदध्मो यतस्तस्य यदेव हृदयहारि तदेव शिवसंविदैकात्म्यापत्तिरूपायां मुक्तावुपायः--इति ||
SKननु अन्यैः ᳚कृत्वार्घपात्रम्᳚ इत्यादि उपक्रम्य ᳚तस्थैः कुसुमैः स्वमभ्यर्च्य चात्मानम्᳚ इत्यादिदृशा अर्घपात्रसंभूतैरेव कुसुमैः स्वात्मादिपूजनं कार्यमिति उक्तं तत् कथमिह तद्विप्रुट्प्रोक्षितेन अवान्तरेण कुसुमादिना तदभिधीयते?--इत्याशङ्क्य आह-- अर्घपात्रार्चनादत्तपुष्पसङ्कीर्णताभयात् || १५-२९३ || नार्घपात्रेऽत्र कुसुमं कुर्याद्देवार्चनाकृते | अर्घपात्रे तदमृतीभूतमम्ब्वेव पूजितम् || १५-२९४ || मन्त्राणां तृप्तये यागद्रव्यशुद्ध्यै च केवलम् | एवं देहं पूजयित्वा प्राणधीशून्यविग्रहान् || १५-२९५ || अन्योन्यतन्मयीभूतान् पूजयेच्छिवतादृशे | तदिति--अर्घपात्रे देवाद्यर्चननिमित्तं कुसुमानामकार्यत्वात् | यदुक्तम्- - ᳚द्रव्यमम्बु समाख्यातं कुलोच्छुष्मादिभेदगम् |᳚ इति | अन्योन्यतन्मयीभूतानिति--परस्परावियोगात् || कथं च एषां प्राणादीनां त्रयाणामपि विग्रहाणां पूजा कार्या?--इत्याशङ्क्य आह-- तत्र प्राणाश्रये न्यासे बुद्ध्या विरचिते सति || १५-२९६ || शून्याधिष्ठानतः सर्वमेकयत्नेन पूज्यते | इह संकुचितो हि आत्मा शून्यप्रमातृतावलम्बनद्वारेण बुद्धिमधिष्ठाय प्राणे षोढा न्यासं विदध्यादिति त्रयाणामपि अपृथक्प्रयत्नं पूजा सिध्येत्--इति वाक्यार्थः || पूजनं च अध्वन्यासपुरःसरमेव अत्र स्यादिति मनोयागमुपक्रममाणः प्रथममासनपक्षं दर्शयितुं प्राणे तत्तत्तत्त्वविभागोट्टङ्कनेन अध्वानमेव न्यसितुं निरूपयति-- न्यस्येदाधारशक्तिं तु नाभ्यधश्चतुरंगुलाम् || १५-२९७ || धरां सुरोदं तेजश्च मेयपारप्रतिष्ठितेः | पोतरूपं मरुत्कन्दस्वभावं विश्वसूत्रणात् || १५-२९८ || प्रत्येकमंगुलं न्यस्येच्चतुष्कं व्योमगर्भकम् | ईषत्समन्तादमलमिदमामलसारकम् || १५-२९९ || ततो दण्डमनन्ताख्यं कल्पयेल्लम्बिकावधि | तन्मात्रादिकलान्तं तदूर्ध्वे ग्रन्थिर्निशात्मकः || १५-३०० || तत्र मायामये ग्रन्थौ धर्माधर्माद्यमष्टकम् | वह्निप्रागादि, माया हि तत्सूतिर्विभवस्तु धीः || १५-३०१ || मायाग्रन्थेरूर्ध्वभूमौ त्रिशूलाधश्चतुष्किकाम् |
SKशुद्धविद्यात्मिकां ध्यायेच्छदनद्वयसंयुताम् || १५-३०२ || तच्च तत्त्वं स्थितं भाव्यं लम्बिकाब्रह्मरन्ध्र्योः | आधारशक्तिरिच्छात्मा पर्यन्तवर्त्तिनी पारमेश्वरी धारिका शक्तिर्यस्यां धरादि विश्वमाधिर्यते | यदुक्तम्-- ᳚यदिदं हि पृथिव्यादि क्रमेणाधारयोगि तत् | पर्यन्ते धृतिरूपायां शिवशक्तौ व्यवस्थितम् || सा सर्वतत्त्वसविधे प्रथमांशे व्यवस्थिता | पर्यन्तभागिन्याधारशक्तिः शास्त्रेषु कथ्यते ||᳚ इति | पोतस्य समुत्तरणरूपत्वात् पारप्रतिष्ठानमुचितं तेजसश्च निखिलमेयपरिच्छित्तौ सहकारित्वमिति उक्तम्--मेयपारप्रतिष्ठितेरिति | विश्वसूत्रणादिति--मरुदेव हि ᳚प्राक् संवित्प्राणे परिणता |᳚ इति रीत्या प्रथमं विश्वमासूत्रयेत्--इत्याशयः | व्योमगर्भकमिति-- व्यापकतया व्योम्नः सर्वान्तरालवर्तित्वात् | इदमाधारशक्तिभित्त्यनुस्यूतं धरादिकमा प्रकाश्यरूपत्वादीषत् तत्त्वेऽपि परमेश्वरशक्तिस्वभावतया च समन्तादमलं सकलधारणसामर्थ्ययोगि सारभूततया च सारकमिति उक्तम्-- आमलसारकमिति | तदुक्तम्-- ᳚आदावाधारशक्तिं तु नाभ्यधश्चतुरंगुलम् | धरां सुरोदं पोतं च कन्दश्चेति चतुष्टयम् || एकैकांगुलमेतत् स्याच्छूलस्यामलसारकम् |᳚ (मा.वि. ८|५५) इति | अनन्ताख्यमिति--तद्रुद्राधिष्ठितत्वात् | लम्बिकावधीति-- तालुरन्ध्रन्तम् | वह्निप्रागादीति | यदुक्तम्-- ᳚धर्मं ज्ञानं च वैराग्यमैश्वर्यं च क्रमान्न्यसेत् | सितरक्तपीतकृष्णा आग्नेयादीशदिग्गताः || पादकाः सिंहरूपास्ते त्रिनेत्रा भीमविक्रमाः |᳚ (स्व. २|६२) इति | ᳚अधर्माज्ञानावैराग्यमनैश्वर्यं तु प्राग्दिशः | उत्तरान्तं निवेश्यं तु गात्रकाः सितवर्णकाः ||᳚ (स्व. २|६४) इति च | ननु धर्मादयोऽष्टौ बुद्धिधर्माः तत् कथमिह मायायामुच्यन्ते?--इत्याशङ्क्य उक्तम्--माया हि तत्सूतिर्विभवस्तु धीरिति | चतुष्किकामिति--चतुरश्रपीठिकाप्रायमसूरकरूपाम् | छदनद्वयेति--अधः स्वरूपाच्छादकं मायारूपं छदनम्, ऊर्ध्वे तु मायाच्छादकं विद्यारूपम् | तदुक्तम्--
SKश्मृताधश्छदनं माया विद्या तूत्तरमेव हि |᳚ इति | लम्बिकाब्रह्मरन्ध्र्योरिति--अर्थात् मध्ये | यदुक्तम्-- ᳚कखलम्बिकयोर्मध्ये तत्तत्त्वमनुचिन्तयेत् |᳚ (मा.वि. ८|६१) इति || ननु किमेतदागमत एव सिद्धमुत अन्यत्रापि तल्लिङ्गमस्ति?--इत्याशङ्क्य आह� प्रकाशयोगो ह्यत्रैवं दृक्श्रोत्ररसनादिकः || १५-३०३ || दक्षान्यावर्ततो न्यस्येच्छक्तीनां नवकद्वयम् | विद्यापद्मेऽत्र तच्चोक्तमपि प्राग्दर्श्यते पुनः || १५-३०४ || वामा ज्येष्ठा रौद्री काली कलबलविकरिके बलमथनी | भूतदमनी च मनोन्मनिका शान्ता शक्रचापरुचिरत्र स्यात् || १५-३०५|| विभ्वी ज्ञप्तिकृतीच्छा वागीशी ज्वालिनी तथा वामा | ज्येष्ठा रौद्रीत्येताः प्राग्दलतः कालदहनवत्सर्वाः || १५-३०६ || दलकेसरमध्येषु सूर्येन्दुदहनत्रयम् | निजाधिर्पैब्रह्मविष्णुहरैश्चाधिष्ठितं स्मरेत् || १५-३०७ || शुद्धविद्याविजृम्भितमेव हि आलोचनात्मकं निर्विकल्पकं ज्ञानमिति उक्तमसकृत्, अत एव लोकस्य अत्र अभिघातवैचित्र्यादिन्द्रियवधवैचित्र्यमिति सौश्रुताः | दक्षान्यावर्तत इति दक्षिणावर्तेन वामादिनवकम्, विभ्व्यादिनवकं न्यस्येत्--इत्यर्थः | विद्याशब्देन अत्र तद्दशाधिशायी ईश्वर उच्यते | अत्रेति-- ब्रह्मरन्ध्रधः | यदुक्तम्-- ᳚पद्माकृति कखतत्त्वमैश्वरं चिन्तयेत्ततः | कर्णिकाकेसरोपेतं सबीजं विकसत्सितम् || पूर्वपत्रादितः पश्चाद्वामादिनवकं न्यसेत् | वामा ज्येष्ठा च रौद्री च काली चेति तथापरा || कलविकरणी चैव बलविकरणी तथा | बलप्रमथनी चान्या सर्वभूतदमन्यपि || मनोन्मनी च मध्ये तु भानुमार्गेण विन्यसेत् | विभ्वादिनवकं चान्यद्विलोमात्परिकल्पयेत् || विभुर्ज्ञानी क्रिया चेच्छा वागीशी ज्वालिनी तथा | वामा ज्येष्ठा च रौद्री च सर्वाः कालानलप्रभाः || (मा.वि. ८|६६) इति | प्रागिति--भुवनाध्वनि | पुनर्दर्श्यते इति--प्रतीतिदार्ढ्याय | शक्रचापेति--यदुक्तम्-- ᳚वामां पूर्वदले न्यस्येत्........................ |᳚ (स्व. २|६८) इति उपक्रम्य
SK᳚शक्रचापनिभं देवि ध्यातव्यं शक्तिमण्डलम् |᳚ (स्व. २|७१) इति | प्राग्दलत इति--उपरीति शेषः ||३०७ || ननु मायान्तर्वर्तिनो ब्रह्मादय इति कथमेषां तद्दशाधिशायित्वं स्यात्?--इत्याशङ्क्य आह-- मायोत्तीर्णं हि यद्रूपं ब्रह्मादीनां पुरोदितम् | आसनं त्वेतदेव स्यान्नतु मायाञ्जनाञ्जितम् || १५-३०८ || पुरेति--भुवनाध्वनि ||३०८ || ईश्वरसदाशिवयोः पुनर्मायोत्तीर्णमेव सदातनं रूपमस्तीति अनयोरिह अविशेषेणैव न्यासः--इत्याह-- रुद्रोर्ध्वे चेश्वरं देवं तदूर्ध्वे च सदाशिवम् | न्यस्येत्स च महापेर्त इति शास्त्रेषु भण्यते || १५-३०९ || अधिष्ठात्रधिष्ठेययोरभेदोपचारादत्र रुद्रशब्देन माया उच्यते | स इति--सदाशिवः || ३०९ || तस्य च महत्त्वे प्रेतत्वे च किं निमित्तम्?--इत्याशङ्क्य आह-- समस्ततत्त्वव्याप्तृत्वान्महाप्रेतः प्रबोधतः | प्रकर्षगमनाच्चैष लीनो यन्नाधरं व्रजेत् || १५-३१० || समस्तानि तत्त्वानि शक्त्यन्तानि पञ्चत्रिंशत् अतश्च सदाशिवोऽत्र अनाश्रितभट्टारक उच्यते | अयं हि तस्यैव परं रूपमिति सर्वत्र उद्धोष्यते | प्रबोधत इति--प्रकर्षेणैति गच्छति बुध्यत इति | प्रकर्षगमनादिति--प्रकृष्टमूर्ध्वं स्थानं गच्छतीति यतोऽयं प्राप्तो न अधरं गच्छेत् परमेव शिवमुपाश्रयति--इत्यर्थः ||३१० || ननु सर्व एव शुद्धविद्यादशामधिशयानो न अधरं पदमासादयतीति सर्वत्र उक्तं, तत् कथमसावेव प्रेतः?-- इत्याशङ्क्य आह-- विद्याविद्येशिनः सर्वे ह्युत्तरोत्तरतां गताः | सदाशिवीभूय ततः परं शिवमुपाश्रिताः || १५-३११ || सर्व एव हि मन्त्रमन्त्रेश्वरादयो ङिर्वात्यनन्तनाथस्तद्धामाविशति सूक्ष्मरुद्रस्तु |᳚ इत्यादिदृशा उत्तरोत्तरतां गताः सन्तः सदाशिवतामासाद्य अनन्तरं परं शिवमुपाश्रिता इति एषामन्तरा अस्ति अधराधरपदस्पर्शः ||३११ || अयं पुनरेवं न--इत्याह-- अतः सदाशिवो नित्यमूर्ध्वदृग्भास्वरात्मकः | कृशो मेयत्वदौर्बल्यात्प्रेतोऽट्टहसनादितः || १५-३१२ ||
SKअतोऽधरपदागमनात् हेतोरयं सदाशिवः परप्रकाशोन्मुखतया नित्यमूर्ध्वदृक्, अत एव प्रकाशैकरूपतया भास्वरात्मकः, अत एव मेयसंस्कारस्यापि अपचयात् कृशः, अत एव नादामर्शतया प्रहसद्रूपत्वेन प्रेतस्तत्सदृशः--इत्यर्थः | स हि अट्टहासवशेन सञ्जातनाद इव लोके सदा भवेदिति भावः | यदुक्तम्-- ᳚रिश्वरं च महाप्रेतं प्रहसन्तं सचेतनम् | कालाग्निकोटिवपुषं...................... ||᳚ (मा.वि. ८|६८) इति ||३१२ || एवमियता वामदक्षिणोभयात्मकतन्त्रान्तरसंसिद्धमासनमुक्तम्, इदानीं तु तदुत्तीर्णव्याप्तिकत्रिकार्थसंसूचकमासनक्रममभिधातुमाह-- तस्य नाभ्युत्थितं मूर्धरन्ध्रत्रयविनिर्गतम् | नादान्तात्म स्मरेच्छक्तिव्यापिनीसमनोज्ज्वलम् || १५-३१३ || अरात्रयं द्विषट्कान्तं तत्राप्यौन्मनसं त्रयम् | पङ्कजानां सितं सप्तत्रिंशदात्मेदमासनम् || १५-३१४ || तस्य सदाशिवात्मनो महापेर्तस्य, नाभेस्तदवस्थाया जन्माधारभूमेरारभ्य, उत्थितम् शक्तिव्यापिनीसमनालक्षणेन शून्यात्मना मूर्धरन्ध्रत्रयेण विनिर्गतम्, अत एव त्रिवलयात्मकत्वात् नादान्तात्मकमरात्रयं द्विषट्कान्तं स्मरेत् द्वादशान्तपर्यन्तप्राप्तं ध्यायेत्--इत्यर्थः | नाभ्युत्थितमित्यनेन च स्वरसत एव इदं सर्वेषां नित्योदितमिति प्रकाशितम् | औन्मनसमिति- -अत्र हि गलितत्वेऽपि भेदस्य कथंचित्संस्कारमात्रेण अस्ति अवस्थानम् | सितमिति--एषणीयाद्युपरागशून्यत्वात् | अत एव उक्तम्-- ᳚उन्मनातः परं तत्त्वमनाख्यं यत्प्रकाशते |᳚ इति | सप्तत्रिंशदात्मेति--सप्तत्रिंशत् तत्त्वानि सप्तत्रिंशत्तत्त्वात्मकं सप्तत्रिंशं तत्त्वं वा आत्मा प्रमातृरूपतया भित्तिभूतः पारमार्थिकः स्वभावो यस्य, तत् तथोक्तम् | इयत्पर्यन्तं हि सर्वतत्त्वानां भेदप्राणतया प्रमेयरूपत्वेन परस्मिन्प्रमातरि विश्रान्तिर्भवेदिति भावः | तदुक्तम्� ᳚तस्य नाभ्युत्थितं शक्तिशूलशृङ्गत्रयं स्मरेत् | कखत्रयेण निर्यातं द्वादशान्तावसानकम् || चिन्तयेत्तस्य शृङ्गेषु शाक्तं पद्मत्रयं ततः |
SKसर्वाधिष्ठायकं शुक्लमित्येतत्परमासनम् ||᳚ (मा.वि. ८|७०) इति ||३१४ || ननु प्राक् पूजकस्य तावत् षोढान्यासक्रमेण षट्त्रिंशत्तत्त्वमयत्वमेव कार्यमिति उक्तं, पूज्यस्यापि एवं वक्ष्यते इति अधस्पदतास्पदस्यापि एतद्रूपत्वमेव उच्यमानं कथङ्कारं सङ्गच्छतां नाम?--इत्याशङ्क्य आह-- अत्र सर्वाणि तत्त्वानि भेदप्राणानि यत्ततः | आसनत्वेन भिन्नं हि संविदो विषयः स्मृतः || १५-३१५ || एतान्येव तु तत्त्वानि लीनानि परभैरवे | तादात्म्येनाथ सृष्टानि भिदेर्वाच्यत्वयोजने || १५-३१६ || श्रीमद्भैरवबोधैक्यलाभस्वातन्त्र्यवन्ति तु | एतान्येव तु तत्त्वानि पूजकत्वं प्रयान्त्यलम् || १५-३१७ || आसनत्वेनेति--अर्थादुक्तानि| संविद इति--पूर्वं सप्तत्रिंशदात्मतया उक्तायाः | विषय इति--आलम्बनमाश्रय आधार इति यावत् | भिदेव सृष्टानीति--यदुक्तम्-- श्वातन्त्र्यान्मुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः | प्रभुरीशादिसङ्कल्पैर्निर्माय व्यवहारयेत् ||᳚ (रि.प्र. १|४७) इति | अर्च्यत्वयोजने इति--पूज्यत्वयोगनिमित्तम्--इत्यर्थः | बोधैक्यलाभेति--अत्र हि अशुद्धदेहदाहादिपुरःसरीकारेण शुद्धशरीरोत्पादाभिनिवेशस्यैव तरतमभावो भवेत् --इति भावः ||३१७ || एतदेव अधिकावापेन उपसंहरति-- पूजकः परतत्त्वात्मा पूज्यं तत्त्वं परापरम् | सृष्टत्वादपरं तत्त्वजालमासनतास्पदम् || १५-३१८ || ननु यदि एवमपरं तत्त्वजालमासनत्वेन उक्तं तत् कथमिति एतत्परमासनमिति आसनस्य परत्वमिह अभिहितम् ?--इत्याशङ्कां गर्भीकृत्य अन्यस्मात् शास्त्रगणादस्य उत्कर्षं प्रतिपादयति-- विद्याकलान्तं सिद्धान्ते वामदक्षिणशास्त्रयोः | सदाशिवान्तं समनापर्यन्तं मतयामले || १५-३१९ || उन्मनान्तमिहाख्यातमित्येतत्परमासनम् | अर्चयित्वासनं पूज्या गुरुपङ्क्तस्तु भाविवत् || १५-३२० || भाविवदिति--यद्वक्ष्यति-- ᳚गणपतिगुरुपरमाख्याः परमेष्ठी पूर्वसिद्धवाक्क्षेत्रपतिः | इति सप्तकमाख्यातं गुरुपङ्क्तविधौ प्रपूज्यमस्मद्गुरुभिः ||᳚ (१८|१०) इति ||३२० ||
SKआसनार्चने च तन्त्रान्तरीयमवशिष्टं किञ्चिद्वक्तुमाह-- तत्रासने पुरा मूर्तिभूतां सार्धाक्षरां द्वयीम् | न्यस्येद् व्याप्तृतयेत्युक्तं सिद्धयोगीश्वरीमते || १५-३२१ || तत्र एवमुक्ते आसने पुरा अग्रकोटावौन्मनसे पङ्कजत्रये पूज्यतया मूर्तिभूतामपि सार्धाक्षरां द्वयीमपराभट्टारिकामधस्तनसमस्ताध्वगर्भीकारात्मना व्यापकत्वेन न्यस्येत् --तद्वाचकतया योजयेत्--इत्यर्थः ||३२१ || तत्रत्यमेव ग्रन्थमर्थद्वारेण पठति-- सदाशिवं महापेर्तं मूर्तिं सार्धाक्षरां यजेत् | परत्वेन परामूर्ध्वे गन्धपुष्पादिभिस्त्विति || १५-३२२ || विद्यामूर्तिमथात्माख्यां द्वितीयां परिकल्पयेत् | यदुक्तं तत्र-- ᳚ऊर्ध्वतश्च भवेत्पद्मं विद्येश्वरदलच्छदम् | रिश्वरं कर्णिकामूले सादाख्यं प्रेतरूपिणम् || सार्धाक्षरद्वयीं देका मूर्तिभूतां प्रदापयेत् | स्वमन्त्रोच्चारमार्गेण अङ्गषट्कसमन्विताम् || उर्ध्वतस्तु परादेका परत्वेन प्रदापयेत् | ततस्तु गन्धपुष्पैस्तु दीपधूपपवित्रकैः || वस्त्रै रत्नादिभिर्भक्त्या पूजयेत विधानवित् |᳚ इति | अत्र च सार्धाक्षरामिति पठित्वा द्वयीं मातृकां मालिनीं च न्यस्येदिति न वाच्यम् | एवं हि अत्र औन्मनसस्य पङ्कजत्रयस्य वाचकमभिहितं स्यात् | ᳚अथात्माख्यां द्वितीयां परिकल्पयेत्᳚ इत्यत्र च तृतीयां चतुर्थीं वेति पाठो भवेत्, सिद्धातन्त्रे च सैकार्णेत्यादिना वक्ष्यमाणेन ग्रन्थेन च पौनरुक्त्यं प्रसजेदिति अलं गुर्वागमसंप्रदायशून्यैः सह संलापेन || इदानीं सर्वस्यैव मन्त्रचक्रस्य पूजामभिधातुमाह-- मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम् || १५-३२३ || नवात्मानं वामतस्तद्देवीवद्भैरवत्रयम् | मध्ये परां पूर्णचन्द्रप्रतिमां दक्षिणे पुनः || १५-३२४ || परापरां रक्तवर्णां किञ्चिदुग्रां न भीषणाम् | अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम् || १५-३२५ || प्राग्वद्द्विधात्र षोढैव न्यासो देहे यथा कृतः | ततः साङ्कल्पिकं युक्तं वपुरासां विचिन्तयेत् || १५-३२६ || कृत्यभेदानुसारेण द्विचतुःषड्भुजादिकम् |
SKकपालशूलखट्वाङ्गवराभयघटादिकम् || १५-३२७ || वामदक्षिणसंस्थानचित्रत्वात्परिकल्पयेत् | प्राग्वदिति--नवात्मपरादिक्रमेण | साङ्कल्पिकमिति--सङ्कल्पः साधकसंबन्ध्याशयविशेषः, अत एव उक्तम्--कृत्यभेदानुसारेणेति | वामदक्षिणेति--तेन वामे कपालं दक्षिणे शूलमित्यादिसंनिवेशचित्रत्वम् || ननु एवमासां कृत्यभेदानुसारेण परिकल्पयेदिति कस्मादुक्तम्?-- इत्याशङ्क्य आह-- वस्तुतो विश्वरूपास्ता देव्यो बोधात्मिका यतः || १५-३२८ || अनवच्छिन्नचिन्मात्रसाराः स्युरपवृक्तये | सर्वं ततोऽङ्गवक्त्रादि लोकपालास्त्रपश्चिमम् || १५-३२९ || मध्ये देव्यभिधा पूज्या त्रयं भवति पूजितम् | तत इति--वपुश्चिन्तनाद्यनन्तरम् | ननु एतत् मध्ये एव कस्मात्पूज्यम्?-- इत्याशङ्क्य उक्तं--त्रयं भवति पूजितमिति | अत्र हि कृतं पूजनं सर्वत्रापि भवेत्--इति भावः | तदुक्तम्� ᳚एवं मध्ये सदा पूजां शूलपद्मस्य कारयेत् |᳚ इति || देव्यभिन्नत्वमेव एषां दर्शयति-- ततो मध्यगतात्तस्माद् बोधराशेः सदैवतात् || १५-३३० || अङ्गादि निःसृतं पूज्यं विस्फुलिङ्गात्मकं पृथक् | तत इति देव्यभिन्नतया एषां पूज्यत्वात् || ननु एतत् मध्यगाया एव देव्याः कस्मादभिन्नतया पूज्यत्वेन उक्तम्?-- इत्याशङ्क्य आह-- मध्यगा किल या देवी सैव सद्भावरूपिणी || १५-३३१ || कालसङ्कर्षिणी घोरा शान्ता मिश्रा च सर्वतः | सिद्धातन्त्रे च सैकार्णा परा देवीति कीर्तिता || १५-३३२ || सेति--मध्यगा देवी ||३३२ || न केवलमेकार्णैव मध्यगा परा देवी, यावन्मातृकेति मालिनीति चोच्यते--इत्याह-- परा तु मातृका देवी मालिनी मध्यगोदिता | अत्रैव अर्थद्वारेण श्रीसिद्धातन्त्रग्रन्थं पठति-- मध्ये न्यस्येत्सूर्यरुचिं सर्वाक्षरमयीं पराम् || १५-३३३ || तस्याः शिखाग्रे त्वैकार्णां तस्याश्चाङ्गादिकं त्विति | यदुक्तं तत्र-- ᳚मध्यमे विन्यसेद्देका सर्वाक्षरमयीं शुभाम् | स्फुरत्सूर्यायुतप्रख्यां द्योतयन्तीमिदं जगत् || तस्याः शिखाग्रे विन्यस्येत्परामेकाक्षरां शुभाम् | उत्कृष्टस्फटिकप्रख्यां समन्तादमृतस्रवाम् ||
SKआप्यायनकरीं देका परां सिद्धिप्रदायिकाम् | न्यस्त्वा तस्याः शिखाग्रे तु ततोऽङ्गानि प्रकल्पयेत् ||᳚ इति || ननु एतत् मध्ये एव पूज्यमिति किमागमत एव सिद्धमुत अत्र युक्तिरपि काचित् स्यात् ?--इत्याशङ्क्य आह-- ततो विश्वं विनिष्क्रान्तं पूजितं दक्षिणोत्तरे || १५-३३४ || स्यादेव पूजितं तेन सकृन्मध्ये प्रपूजयेत् | ततो मध्यत एव विनिष्क्रान्तमिदं तत्तन्मन्त्राद्यात्मकं विश्वमर्थात् तत्र पूजितं तत्स्फारमात्रात्मनि उत्तरे दक्षिणेऽपि पूजितं स्यादेवेति मध्ये एव सकृत्पूजयेत्--इति वाक्यार्थः || न केवलं श्रीसिद्धातन्त्रे एव सद्भावरूपिण्या मध्यगाया देव्या एवंरूपत्वमुक्तं, यावदन्यत्रापि--इत्याह-- श्रीदेव्यायामले चोक्तं यागे डामरसंज्ञिते || १५-३३५ || तदेव पठति-- नासाग्रे त्रिविधं कालं कालसङ्कर्षिणी सदा | मुखस्था श्वासनिःश्वासकलनी हृदि कर्षति || १५-३३६ || पूरकैः कुम्भकैर्धत्ते ग्रसते रेचकेन तु | कालं संग्रसते सर्वं रेचकेनोत्थिता क्षणात् || १५-३३७ || इच्छाशक्तिः परा नाम्ना शक्तित्रितयबोधिनी | याज्या कर्षति यत्सर्वं कालाधारप्रभञ्जनम् || १५-३३८ || इह खलु मुखस्था कालसङ्कर्षिणी भगवती सदा पार्श्ववाहद्वयात्मश्वासनिः--श्वाससङ्कलनेन हृदि मध्यधाम्नि नासायाः शक्तेरग्रे त्रिविधं प्राणापानोदानलक्षणं कालं कर्षति तेन रूपेण सञ्चारयति | यतो रेचकेन संहरति, पूरकेण प्रवेशं ददाति, कुम्भकेन धारयति, ऊर्ध्वरेचकेन च तत्तत्कारणपदोल्लङ्घनक्रमेण उत्थिता सती सर्वं कालं क्षणादेव सम्यगनवच्छिन्नमेव स्वरूपतापादनक्रमेण संहरतीति | ᳚.................षेच्छायाः प्रथमा तुटिः |᳚ इत्युक्त्या परा इयमिच्छाशक्तिरिच्छाद्यात्मनः शक्तित्रितयस्य उत्पत्तिभूः प्रक्रान्तेन कासङ्कर्षिणीलक्षणेन नाम्ना याज्या यदियं सर्वं प्राणादिपञ्चकात्मकं कालाधारं प्रभञ्जनं कर्षयति अन्तर्बहीरूपतया समुल्लासयति--इत्यर्थः | यदुक्तं तत्र-- ᳚अयं पथद्वये कालः स्थूलश्चरति योगिनाम् |
SKसव्यापसव्ये मध्ये च शक्तित्रयविभूषितः || सा ग्रसेत् त्रिविधं कालं कालसङ्कर्षिणी तथा |᳚ इति, ᳚कालसङ्कर्षिणी नाम्ना कालं मुखबिले स्थितम् | श्वासनिःश्वासकलनी तस्य सङ्कर्षणं हृदि || पूरकेण समन्तात्तु कुम्भकेन च धारयेत् | रेचकेनोत्थिता देवी कालं संग्रसते क्षणात् ||᳚ इति, ᳚इच्छाशक्तिः परा नाम्ना शक्तित्रितयबोधिनी | याज्या कर्षयते सर्वं कालाधारप्रभञ्जनम् ||᳚ इति च ||३३८ || इदानीमुक्तस्य पूज्यचक्रस्य सङ्कलनाक्रमेण आसनात् प्रभृति स्वदर्शनसमुचितं सतत्त्वमभिधत्ते-- इह किल दृक्कर्मेच्छाः शिव उक्तास्तास्तु वेद्यखण्डनके | स्थूले सूक्ष्मे क्रमशः सकलप्रलयाकलौ भवतः || १५-३३९ || शुद्धा एव तु सुप्ता ज्ञानाकलतां गताः प्रबुद्धास्तु | प्रविभिन्नकतिपयात्मकवेद्यविदो मन्त्र उच्यन्ते || १५-३४० || भिन्ने त्वखिले वेद्ये मन्त्रेशास्तन्महेशास्तु | भिन्नाभिन्ने तदियान् सुशिवान्तोऽध्वोदितः पेर्ते || १५-३४१ || ता एव गलति भेदप्रसरे क्रमशो विकासमायान्त्यः | अन्योन्यासङ्कीर्णास्त्वरात्रयं गलितभेदिकास्तु ततः || १५-३४२ || पद्मत्रय्यौन्मनसी तदिदं स्यादासनत्वेन | उक्ता इति--मुख्यतः | सूक्ष्मे इति--प्रलयाकलो वेद्यभागस्य संस्कारमात्रावशेषत्वात्--शुद्धा इति-- कथंचिद्वेद्यकालुष्यापगमात् | सुप्ता इति--अप्रबुद्धाः | कतिपयात्मकेति--नतु अखिलम्, तथात्वे हि आसां मन्त्रेशत्वं स्यात् | भिन्नाभिन्ने इति--इदन्ताया अहन्तायां विश्रान्तेः | इयानिति--अर्थात् भेदप्रधानः | गलतीति --नतु गलिते, तथात्वे हि आसां पद्मत्रयत्वं न स्यात् | विकासमायान्त्य इति--शूलस्य विवृताकारत्वात् | अत एव उक्तम्--अन्योन्यासङ्कीर्णा इति || ननु एवमिच्छाज्ञानक्रियाणामासनतया आधारत्वमेव उक्तं स्यात्, आधेयस्तु किं तदतिरिक्तः पूज्यतया उपगन्तव्यो न वा ?--इत्याशङ्क्य आह-- ता एवान्योन्यात्मकभेदावच्छेदनाजिहासुतया || १५-३४३ || किल शक्तितद्वदादिप्रभिदा पूज्यत्वमायाताः |
SKता एव दृक्कर्मेच्छाः परस्परव्यावृत्तिरूपभेदसंस्पर्शपरिजिहीर्षव इति शक्त्यादित्रितयात्मना पूज्यदशामधिशेरते--इति वाक्यार्थः || ननु आसामात्मत्वेऽपि सकलादौ प्रस्फुटतया तथात्वं न लक्षितम्, इह तु स्फुटमेव तत् लक्ष्यते इत्यत्र किं निमित्तम् ?--इत्याशङ्क्य आह-- भेदगलनाद्यकोटेरारभ्य यतो निजं निजं रूपम् || १५-३४४ || बिभ्रति तास्तु त्रित्वं तासां स्फुटमेव लक्ष्येत | संभाव्यवेद्यकालुष्ययोगतोऽन्योन्यलब्धसङ्करतः || १५-३४५ || प्राक् प्रस्फुटं त्रिभावं नागच्छन्नत्र तु तथा न | भेदगलनाद्यकोटेरिति--अरात्रयात्मिकायाः | अन्योन्यलब्धसङ्करत इति- -वेद्यकालुष्यवशेन हि आसां परस्परस्य परभागो न भवेत्--इति भावः | प्रागिति--सकलादौ प्रमातरि || एवमासामत्यन्तमेव भेदग्लपनेनापि त्रित्वं न स्यात्--इत्याह-- अन्योन्यात्मकभेदावच्छेदनकलनसंग्रसिष्णुतया | स्वातन्त्र्यमात्रसारा संवित्सा कालकर्षिणी कथिता || १५-३४६ || एता अन्योन्यात्मकत्वेन भेदसंस्पर्शकलनस्य सम्यक् गन्धमात्रपरिहारेण अपि ग्रसनशीलतया गर्भीकृतेच्छाद्यवान्तरस्वरूपत्वात् स्वातन्त्र्यमात्रसारा परप्रमातृ रूपा संवित् कालकर्षिणी कथिता सर्वत्र तथा व्यपदिश्यते--इत्यर्थः | तेन आसामन्योन्यासङ्कीर्णत्वे गलद्भेदतायामरात्रयत्वम्, गलितभेदतायां पद्मत्रयत्वम्, अन्योन्यात्मकत्वे गलद्भेदतायां शक्त्यादित्रयत्वम्, गलितभेदतायां तु एवंरूपत्वमिति ||३४६ || न केवलमियं भेदावच्छेदनात्मनः कालस्य ग्रसिष्णुतया एवमुक्ता यावत् बहिःसङ्कर्षणादपि--इत्याह-- सैव च भूयः स्वस्मात्सङ्कर्षति कालमिह बहिष्कुरुते | सङ्कर्षिणीति कथिता मातृष्वेतेषु सद्भावः || १५-३४७ || ननु इह अनन्तरमेव ᳚मध्यगा किल या देवी सैव सद्भावरूपिणी | कालसङ्कर्षिणी................................... ||᳚ (३३२) इत्यादि उक्तम्, तदत्र मातृसद्भावशब्दस्य अपि प्रवृत्तौ किं निमित्तम्?- -इत्याशङ्क्य आह-- तत्त्वं सत्ता प्राप्तिर्मातृषु मेयोऽनया संश्च |
SKविश्वजननीषु शक्तिषु परमार्थो हि स्वतन्त्रतामात्रम् || १५-३४८ || सैव च एतेषु समनन्तरोक्तेषु सकलादिषु सप्तसु मातृषु सता पारमार्थिकेन रूपेण भवनं तत्त्वं, सतो भावः सत्ता प्रमातृतात्मत्वस्वरूपप्रतिलम्भात् प्राप्तिश्चेति | तथा अनया परामर्शमात्रसारया संविदा मातृषु जडोऽपि मेयो भावः सन् विश्रान्त इति | तथा सैव आसां स्वातन्त्र्यशक्तावेव विश्रान्तेरुक्तत्वात् विश्वसूतिहेतुभूतासु मातृषु इच्छादिशक्तिषु स्वतन्त्रतामात्ररूपः परमार्थ इति || ३४८ || ननु एतदपि आसनवदिच्छाद्यात्मकमेवेति कथं नाम पूज्यं स्यात्?-- इत्याशङ्क्य आह-- एषणविदिक्रियात्मकमेतत्पूज्यं यतोऽनवच्छिन्नम् | यस्मिन्सर्वावच्छेददिशोऽपि स्युः समाक्षिप्ताः || १५-३४९ || अनवच्छिन्नमिति--विशुद्धविमर्शमयप्रकाशरूपम्--इत्यर्थः | यस्मिन्निति--एषणविदिक्रियात्मनि अनवच्छिन्ने रूपे | समाक्षिप्ता इति-- अकिञ्चित्कर्यः-- इत्यर्थः ||३४९ || ननु प्रकाशमात्रस्यैव पूज्यत्वमस्तु, किं विमर्शरूपतया?-- इत्याशङ्क्य आह-- अविकल्पमिह न याति हि पूज्यत्वं....... पूज्यत्वं न यातीति--निर्विमर्शस्य प्रकाशस्य जडप्रायत्वात् || ननु अत्र भवतु विमर्शमयत्वं तत्र तु किं विशुद्धतया?-- इत्याशङ्क्य आह� ................ण च विकल्प एकत्र | बहवो धर्मास्तस्माद् यो धर्मस्तावतो धर्मान् || १५-३५० || आक्षिपति तत्र रूढः सर्वोत्कृष्टोऽधरस्थितास्त्वन्ये | विमर्श एव हि आश्यानतया भेदप्राणत्वादविशुद्धतामधिशयानो विकल्प इति उच्यते | स च यदाभासविमर्शनशीलस्तदतिरिक्तमाभासान्तरं ᳚तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात् | तन्निश्चयनमुक्तो हि विकल्पो घट इत्ययम् ||᳚ (रि.प्र. १|६|३)
SKइत्यादिनीत्या न स्पृशत्येव | तदिच्छाज्ञानक्रियादिसकलधर्माविभागस्वभावं रूपमेकैकधर्मपरामर्शिना विकल्पेन कथं परामृश्यते इति न विकल्पात्मकाविशुद्धविमर्शमयप्रकाशदशावेशिपूज्यत्वं युज्यते | तस्मात् यैव विशुद्धविमर्शमयस्वातन्त्र्यलक्षणा शक्तिरिच्छाज्ञानक्रियाद्यनन्तभेदभिन्नाः शक्तीराक्षिप्य वर्तते तत्रैव विश्राम्यन् परः प्रकाशः सर्वोत्कृष्टतया पूज्यः | अन्ये तत्तदवच्छेदभाजः प्रकाशाः पुनरपकृष्टतया अधरस्थिता आसनदशामधिशेरते--इत्यर्थः || एतच्च गुरुशास्त्रसंप्रदायेन अस्माभिरुक्तम्--इत्याह-- इति भैरवपरपूजातत्त्वं श्रीडामरे महायागे || १५-३५१ || स्वयमेव सुप्रसन्नः श्रीमान् शंभुर्ममादिक्षत् | ननु भवतु नाम एवं तत्रापि मनोयागे एव किमङ्गादि मध्ये पूज्यमुत सर्वत्रापि?--इत्याशङ्क्य आह-- बाह्ययागे तु पद्मानां त्रितयेऽपि प्रपूजयेत् || १५-३५२ || अस्त्रान्तं परिवारौघमिति नौ दैशिकागमः | कथञ्च एतत्?--इत्याशङ्क्य आह-- अग्नीशरक्षोवाय्वन्तदिक्षु विद्याङ्गपञ्चकम् || १५-३५३ || शक्त्यङ्गानि शिवाङ्गानि तथैवात्र पुनर्द्वये | अस्त्रं न्यस्येच्चतुर्दिक्कं मध्ये लोचनसंज्ञकम् || १५-३५४ || पत्राष्टकेऽष्टकयुगमघोरादेः स्वयामलम् | तथा द्वादशकं षट्कं चतुष्कं मिश्रितं द्विशः || १५-३५५ || सर्वशो द्विगुणादीत्थमावृतित्वेन पूजयेत् | लोकपालांस्ततः सास्त्रान्स्वदिक्षु दशसु क्रमात् || १५-३५६ || इत्थं त्रिशूलपर्यन्तदेवीतादात्म्यवृत्तितः | तिष्ठन्नत्रार्पयन्विश्वं तर्पयेद्देवतागणम् || १५-३५७ || ततो जपं प्रकुर्वीत प्रतिमन्त्रं द्विपञ्चधा | अन्तोऽन्तकः, तद्दिक् दक्षिणा | यदुक्तम्-- ᳚विद्याङ्गपञ्चकं पश्चादाग्नेय्यादिषु विन्यसेत् | अग्नीशरक्षोवायूनां दक्षिणे च यथाक्रमम् ||᳚ (मा.वि. ८|७६)
SKइति | तथैव आग्नेय्यादिक्रमेण | अत्र द्वये इति--शक्तिशिवाङ्गलक्षणे | चतुर्दिक्कमिति--पूर्वं हि दक्षिणस्यामेव दिशि--इति व्यतिरेकार्थः | मध्ये लोचनसंज्ञकमिति--सर्वशेषः | मिश्रितमिति--यामलरूपतया | द्विश इति--द्वौ वारौ, तेन द्वादशकस्य द्विगुणत्वे चतुर्विशतिरित्यादिः क्रमः | सर्वश इति--सर्वेण अष्टकाद्यात्मना प्रकारेण यत् यत् पूज्यं तत् तत् द्विगुणरूपमेव--इत्यर्थः | एतच्च प्रागेव संवादितम् | सास्त्रानिति हस्तगतास्त्रान् यदुक्तम्-- ᳚लोकपाला भवन्त्येवं ह्रस्वास्त्राः संप्रकीर्तिताः | तेषां हस्तगताः पूज्या............................ ||᳚ इति | त्रिशूलपर्यन्तदेवीति--विश्रान्तिस्थानत्वात् मातृसद्भावरूपा | द्विपञ्चधेति--दशधा || एतदेव व्याप्तिमुखेन अपि घटयति-- एकैकस्य त्र्यात्मकत्वादभेदाच्चापि सर्वशः || १५-३५८ || एकैकस्मिन्मन्त्रे त्रितयं प्रत्येकमन्तः कृतत्रितयमस्तीति प्रतिमन्त्रं सार्वात्म्यात् नवत्वं स्वरूपस्थित्यविभागात्मना च एकत्वमिति दशधात्वम् || ३५८ || नाभिहृत्कण्ठतालूर्ध्वकुण्डे ज्वलनवत्स्मरन् | मन्त्रचक्रं तत्र विश्वं ज्वह्वन्संपादयेद्धुतिम् || १५-३५९ || दीक्षाकर्मणि कर्तव्ये दीक्षां येनाध्वना गुरुः | चिकीर्षुर्देह एवादौ भूयस्तं मुख्यतोऽर्पयेत् || १५-३६० || ज्वलनवदिति--अतिदीप्तया | तदुक्तम्-- ᳚...............................जपं पश्चात्समारभेत् | स्वरूपे तल्लयो भूत्वा एकैकां दशधा स्मरेत् || ज्वलत्पावकसङ्काशां ध्यात्वा स्वाहान्तमुच्चरेत् | सकृदेकैकशो मन्त्री होमकर्मप्रसिद्धये ||᳚ (मा.वि. ८|७८) इति | दीक्षाकर्मणीति--न तु नित्यमात्रे | येनेति--तत्त्वाद्यन्यतमेन | तमिति--शोध्यतया अभिमतमध्वानम् ||३६० || ननु एवं कृते किं स्यात्?--इत्याशङ्क्य आह-- द्वादशान्तमिदं प्राग्रं त्रिशूलं मूलतः स्मरन् | देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत् || १५-३६१ || मूलाधाराद् द्विषट्कान्तव्योमाग्रापूरणात्मिका | खेचरीयं खसञ्चारस्थितिभ्यां खामृताशनात् || १५-३६२ ||
SKइदमुक्तसतत्त्वं मूलाधारादारभ्य द्वादशान्तं यावदतितीक्ष्णमूलप्रान्तकोटिविनिविष्टदेवीचक्रं त्रिशूलमनुध्यायन् निरावरणपदविश्रान्त्या त्यक्तक्रमः खेचरतां व्रजेत् परबोधगगनचारी भवेत्--इत्यर्थः | यदियमेव मूलाधारादारभ्य तालुभ्रूमध्यब्रह्मरन्ध्रलक्षणेषु खेषु सम्यक् दण्डाकारतया ऊर्ध्वचरणात्, तत्रैव निरोधात्मना च अवस्थानेन द्वादशान्ते चतुश्चतुरंगुलीनव्याप्त्या स्थितानां शक्तिव्यापिनीसमनात्मनां व्योम्नामापूरणात्मिका तदैकात्म्यमापन्ना, अत एव खामृतस्य परबोधानन्दस्य चरेर्भक्षणार्थतया चरणात् खेचरी तदाख्या महामुद्रा--इत्यर्थः | यदुक्तम्-- ᳚बद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं न्यसेत् | दण्डाकारं तु तं तावन्नयेद्यावत्कखत्रयम् || निगृह्य तत्र तत्तूर्णं पूरयेत्खत्रयेण तु | एतां बद्ध्वा महावीरः खे गतिं प्रतिपद्यते ||᳚ (मा.वि. ७|१५) इति | अतश्च इत्थं त्रिशूलव्याप्तिमजानानस्य खेचरीमुद्राबन्धेऽपि नैव परस्वरूपलाभो भवेत्--इति अत्र तात्पर्यम् | यदुक्तम्-- ᳚इत्थमेतदविज्ञाय शक्तिशूलं वरानने | वद्ध्वापि खेचरीं मुद्रां नोत्पतत्यवनीतलात् ||᳚ (मा.वि. ८|८१) इति ||३६२ || अत्रैव देवीत्रयप्राधान्येन अपि व्याप्तिं दर्शयति-- अमुष्माच्छाम्भवाच्छूलाद्ध्रसयेच्चतुरंगुलम् | शाक्ते ततोऽप्याणवे तत्त्रिशूलत्रितयं स्थितम् || १५-३६३ || अमुष्मादिति--पराप्राधान्येन द्वादशान्तावस्थितात्, शाक्ते इति-- ब्रह्मरन्ध्रदष्टांगुलान्तव्याप्तिके परापराप्रधाने, ततोऽपि आणवे तत् चतुरंगुलं ह्रासयेदिति संबन्धः | तेन ब्रह्मरन्ध्रेपरि चतुरंगुलान्तमपराप्रधानमाणवं शूलम् | तदुक्तम्-- ᳚इत्येतच्छाम्भवं प्रोक्तमष्टान्तं शाक्तमिष्यते | तुर्यान्तमाणवं विद्यादिति शूलत्रयं मतम् ||᳚ (मा.वि. ८|८२) इति ||३६३ || एवमपि अस्य किं स्यात्?--इत्याशङ्क्य आह-- तत्त्रिशूलत्रयोर्ध्वोर्ध्वदेवीचक्रार्पितात्मकः | किं किं न जायते किं वा न वेत्ति न करोति वा || १५-३६४ || किं किं न जायते इति--विश्वात्मक एव संपद्यते--इत्यर्थः ||३६४ ||
SKअत्रैव पृथग्यागे विशेषान्तरमाह-- एकैकामथवा देका मन्त्रं वा पद्मगं यजेत् | यामलैक्याङ्गवक्त्रादिसदसत्ताविकल्पतः || १५-३६५ || मन्त्रमिति--नवात्माद्यन्यतमम् | तच्च अत्र पद्मं दलव्याप्तपार्श्वाराद्वयमासनत्वेन चिन्त्यम् | यागश्च अत्र यामलक्रमेण, एकवीरतया वा, अङ्गवक्त्रादियोगेन, तदयोगेन वा,--इति विकल्पार्थः ||३६५ || एवं ᳚....................शिवो भूत्वा शिवं यजेत् |᳚ इत्यादिदृशा प्राणादावात्मनि शिवीभावं भावयित्वा बाह्ययागं कुर्यात्--इत्याह-- इत्थं प्राणाद् व्योमपदपर्यन्तं चेतनं निजम् | शिवीभाव्यार्चनायोगात्ततो बाह्यं विधिं चरेत् || १५-३६६ || इत्थमिति--अन्तर्यागक्रमेण | व्योमेति--शून्यम् ||३६६ || ननु अन्तश्चेत् यागः कृतः, तत् किं बाह्येन?--इत्याशङ्क्य आह-- बहिर्यागस्य मुख्यत्वे सिद्ध्यादिपरिकल्पिते | अन्तर्यागः संस्क्रियायै ह्यन्यथार्चयिता पशुः || १५-३६७ || यस्तु सिद्ध्यादिविमुखः स बहिर्यजति प्रभुम् | अन्तर्महायागरूढ्यै तयैवासौ कृतार्थकः || १५-३६८ || मुख्यत्वे हेतुः सिद्ध्यादिपरिकल्पते इति--संस्क्रियायै इति--प्राणादेः | अन्यथेति--यदुक्तम्-- ᳚अकृत्वा मानसं यागं योऽन्यं यागं समारभेत् | अशिवः स तु विज्ञेयो न मोक्षाय विधीयते ||᳚ (स्व. ३|३२) इति | तयैवेति--अन्तर्महायागरूढ्या | देहस्य हि न्यासादिना शिवी भावो वृत्तः, प्राणबुद्धिशून्यानां तु अन्तर्यागेनेति किमवशिष्यते यद्बाहिर्यागेन कार्यमिति ||३६८ || इह आरुरुक्षूणां बाह्यक्रमेण आन्तरीयवृत्तिरूढिर्जायते इति क्षेत्रग्रहाद्युपक्रमं बाह्ययागं वक्तुमाह-- कृत्वान्तर्यागमादाय धान्याद्यस्त्रेण मन्त्रितम् | दिक्षु क्षिपेद् विघ्ननुदे संहृत्यैशीं दिशं नयेत् || १५-३६९ || निरीक्षणं प्रोक्षणं च ताडनाप्यायने तथा | विगुण्ठनं च संस्काराः साधारास्त्रिशिरोमते || १५-३७० || गोमूत्रगोमयदधिक्षीराज्यं मन्त्रयेन्मुखैः | ऊर्ध्वान्तैरङ्गषट्केन कुशाम्ब्वेतेन चोक्षयेत् || १५-३७१ || भूमिं शेषं च शिष्यार्थं स्थापयेत्पञ्चगव्यकम् | पञ्च गव्यानि यत्रास्मिन्कुशाम्बुनि तदुच्यते || १५-३७२ ||
SKपञ्चगव्यं जलं शास्त्रे बाह्याशुद्धिविमर्दकम् | लौकिक्यामविशुद्धा हि मृदितायामथान्तरीम् || १५-३७३ || अशुद्धिं दग्धुमास्थेयं मन्त्रादि यदलौकिकम् | अत्र च ᳚तिला लाजा यवाश्चैव दूर्वाः सिद्धार्थकाः शुभाः | कुसुमानि च शुक्लानि ससुगन्धीनि भूरिशः || रिषच्चन्दनपङ्केन मिश्रोऽयं विकिरः शुभः |᳚ इति धान्यादि ज्ञेयम् | मन्त्रितमिति--सप्तधा | यदुक्तम्-- ᳚शिवाम्भसास्त्रयुक्तेन विकिराण्यभिमन्त्रयेत् | सप्तकृत्वोऽस्त्रमन्त्रेण स्थित्वा मध्ये तु प्राग्दिशः || ऊर्ध्वाधो विकिरेद्धान्यान्यस्त्रभूतानि चिन्तयेत् | चामरेण सुशुभ्रेण अस्त्रमन्त्रेण संहरेत् || एशान्यभिमुखान्येव नैरृताद्यावदैश्वरम् |᳚ इति | साधारा इति--सर्वकर्मसु | संवादितं च एतत् स्नानप्रकरणे | मन्त्रयेदिति--अर्थात् पृथक्-पृथक् पात्रस्थम् | ऊर्ध्वान्तेरिति--तेन गोमूत्रं सद्योजातेन, यावदीशानेन आज्यम्--इति क्रमः | एतेनेति-- गोमयादिसंयोजितेन | भूमिमित्यनेन पञ्चगव्यानन्तरं भूगणेशास्त्राणां पूजनमुपक्रान्तम् | पञ्चगव्यशब्दं व्युत्पादयति--पञ्चगव्यानीत्यादि | गोभ्यो हितानि गव्यानि पञ्चगव्यानि समाहृतानि विद्यन्ते यस्मिन् कुशाम्बुनि, तत् तथेति | आस्थेयमिति-- अनुसन्धातव्यम्--इत्यर्थः || अत एव आह-- फादिनान्तां स्मरेद्देका पृथिव्यादिशिवान्तगाम् || १५-३७४ || संहारक्रमस्य हि आन्तरीमशुद्धिं दग्धुमौचित्यमिति एवमुक्तम् || ३७४ || पुष्पाञ्जलिं क्षिपेन्मध्ये धूपगन्धासवादि च | तथैव दद्याद्यागौकोमध्ये तेनाशु विग्रहम् || १५-३७५ || समस्तं देवताचक्रमधिष्ठातृ प्रकल्प्यते | अनन्तनाले धर्मादिपत्रे सद्वैद्यकर्णिके || १५-३७६ || षडुत्थे गन्धपुष्पाद्यैर्गणेशं ह्यैशगं यजेत् | उत्थितं विघ्नसंश्यान्त्यै पूजयित्वा विसर्जयेत् || १५-३७७ || ............................................ ............................................ | ततः कुम्भं परामोदिद्रवद्रव्यप्रपूरितम् || १५-३७८ || पूजितं चर्चितं मूलमनुना मन्त्रयेच्छतम् | असिना कर्करीं पूर्वमस्त्रयागो न चेत्कृतः || १५-३७९ ||
SKतमैशान्यां यजेत्कुम्भं वामस्थकलशान्वितम् | ततः सौरदिगाश्रित्या सास्त्रांल्लोकेश्वरान्यजेत् || १५-३८० || गन्धपुष्पोपहाराद्यैर्विधिना मन्त्रपूर्वकम् | ततः शिष्योऽसिकलशीहस्तो धारां प्रपातयन् || १५-३८१ || गुरुणा कुम्भहस्तेनानुव्रज्यो वदता त्विदम् | भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये || १५-३८२ || सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया | त्र्यक्षरे निरृतिप्राये नाम्नि भोःशब्दमेककम् || १५-३८३ || अपासयेद्यतो मन्त्रश्छन्दोबद्धोऽयमीरितः | तत एश्यां दिशि स्थाप्यः स कुंभो विकिरोपरि || १५-३८४ || दक्षिणे चास्त्रवार्धानी स्थाप्या कुंभस्य सांप्रतम् | दद्यादित्यत्र च्छेदः | तेनेति--पुष्पाञ्जलिक्षेपादिना हेतुना | तदुक्तम्-- ᳚वास्तुयागं ततः कुर्यान्मालिन्युच्चारयोगतः | पुष्पैरञ्जलिमापूर्य फकारादि समुच्चरन् || ध्यात्वा शक्त्यन्तमध्वानं नकारान्ते विनिक्षिपेत् |᳚ (मा.वि. ८|८९) इति | सद्वैद्यकर्णिके इति--सती शुद्धविद्यैव वैद्यं कर्णिका यत्र तस्मिन्विद्यापद्मरूपे--इत्यर्थः | षडुत्थे इति--यदुक्तम्-- ᳚दत्त्वानन्तं तथा धर्मं ज्ञानं वैराग्यमेव च | एश्वर्यं कर्णिकां चेति षडुत्थमिदमासनम् ||᳚ (८|९३) इति | एशगमिति-- ᳚...........................एशीं दिशं नयेत् |᳚ (३६९) इति तत्रैव कर्मणः प्रक्रान्तत्वात् | उत्थितमिति-- विघ्नौघनिवारणोद्युक्तत्वात् | तदुक्तम्-- ᳚गौ(गाम्) इत्यनेन विघ्नेशं गन्धधूपादिभिर्यजेत् | तस्याङ्गानि गकारेण षड्दीर्घह्रस्वयोगतः || त्रिनेत्रमुदितं ध्यात्वा गजास्यं वामनाकृतिम् |᳚ (८|९२) इति | सिद्धिकामस्येति--न मुमुक्षोः | यदुक्तम्-- ᳚..............षिद्धिकामस्तु महास्त्रमनुपूजयेत् |᳚ (८|९२) इति | आशेति--आशासु सास्त्रेण मात्रष्टकेन आवृतं युक्तम्-- इत्यर्थः | तदुक्तम्-- ᳚अस्योपरि न्यसेद्ध्यात्वा खड्गखेटकधारिणम् | विकरालं महादंष्ट्रं महोग्रं भ्रुकुटीमुखम् || स्वार्णैरेवाङ्गषट्कसमोपेतं दिङ्मातृपरिवारितम् | स्वार्णैरेवाङ्गषट्कं तु फट्कारपरिदीपितम् || तद्रूपमेव सञ्चिन्त्य ततो मात्रष्टकं न्यसेत् |
SKइन्द्राणीं पूर्वपत्रे तु सवज्रां युगपत्स्मरेत् || आग्नेयीं शक्तिहस्तां च याम्यां दण्डकरां ततः | नैरृतीं वारुणीं चैव वायका च विचक्षणः || खड्गपाशध्वजैर्युक्तां चिन्तयेद्युगपत् प्रिये | कौबेरीं मुद्गरकरामीशानीं शूलसंयुताम् ||᳚ (८|९८) इति | पश्चादिति--अस्त्रयागस्य | होमोऽपि अत्र तत्संख्याक एव अर्थाक्षिप्तः | यदुक्तम्-- ᳚आदौ च कलशं कुर्यात्सहस्रादिकमान्त्रितम् | सहस्रं होमयेत्तत्र ततो जप्त्वा विसर्जयेत् || शतमष्टोत्तरं पूर्णं............................... |᳚ (८|१००) इति | तत इति--अस्त्रकलशपूजाद्यनन्तरम् | परामोदीति�अनेन प्राधान्यात् मताद्युक्तम् | चर्चितमिति--चूतपल्लवादिभिः | असिना कर्करीं शतं मन्त्रयेत्--इति संबन्धः | तदुक्तम्-- ᳚तत्रादौ कुम्भमादाय हेमादिमयमव्रणम् | सर्वरत्नौषधीगर्भं गन्धाम्बुपरिपूरितम् || चूतपल्लववक्त्रं च स्रक्सूत्रकृतकण्ठकम् | रक्षोघ्नतिलकाक्रान्तं सितवस्त्रयुगावृतम् || शताष्टोत्तरसञ्जप्तं मूलमन्त्रप्रपूजितम् | वार्धान्यपि तथाभूता किन्तु सास्त्रेण पूजिता ||᳚ (८|१०३) इति | न चेत्कृत इति--मुमुक्षुविषये | तत्र हि तदेव कर्करीत्वेन पूज्यं भवेत्--इति भावः | वामस्थकलशेति--यदुक्तम्-- ᳚वामभागे तु कुम्भस्य........................ |᳚ (स्व. ३|७७) इत्यादि उपक्रम्य शंप्रोक्ष्य च शिवाम्भोभिर्वार्धानीं मङ्गलान्विताम् | कुम्भवच्चर्चयित्वा तमासनस्योपरि न्यसेत् ||᳚ (स्व. ३|७८) इत्यन्तम् | धारां प्रपातयन्निति--सौरदिगाश्रित्या पूर्वादिक्रमेण | इदमिति--वक्ष्यमाणम् | निरृतिप्राये इति--तेन नैरृते भोरित्यादि पठनीयम् | छन्दोबद्ध इति--छन्दोभङ्गे हि मन्त्र एव अयं न भवेदिति भावः | दक्षिणे इति--कुम्भस्य | तदुक्तम्-- ङीत्वा तत्रासने पूर्वं मूर्तिभूतं घटं न्यसेत् | तस्य दक्षिणदिग्भागे वार्धानीं विनिवेशयेत् ||᳚ (८|१०७) इति || ननु एवं कुम्भपूजनेन किं स्यात्?--इत्याशङ्क्य आह-- कुम्भस्थाम्बुसमापत्तिवृंहितं मन्त्रवृन्दकम् || १५-३८५ || तेजोमात्रात्मना ध्यातं सर्वमाप्याययेद्विधिम् |
SKअतः कुम्भे मन्त्रगणं सर्वं संपूजयेद् गुरुः || १५-३८६ || पूर्वेण विधिनास्त्रं च कर्कर्यां विघ्ननुद्यजेत् | मध्येगृहं ततो गन्धमण्डले पूजयेद् गुरुः || १५-३८७ || त्रिकं यामलतैक्याभ्यामेकं वा मन्त्रदैवतम् | सर्वं विधिमिति--वक्ष्यमाणम् | अत इति--सर्वविध्याप्यायकारित्वात् | पूर्वेण विधिनेति--षोढान्यासादिना | मध्येगृहमिति--गृहमध्ये ब्रह्मस्थाने--इत्यर्थः | तदुक्तम्-- ᳚गन्धमण्डलकं कृत्वा ब्रह्मस्थाने विचक्षणः | तत्र संपूजयेत्षट्कं त्रिकं वाप्येकमेव वा ||᳚ (८|१०९) इति || इदानीं वह्निकार्यमभिधातुमुपक्रमते-- अग्निकार्यविधानाय ततः कुण्डं प्रकल्पयेत् || १५-३८८ || शुद्धमन्त्रादिसञ्जल्पसङ्कल्पोत्थमपूर्वकम् | एवं मण्डलपूजानन्तरमग्निकर्म विधातुमद्वयमयतया शुद्धस्य अत एव मन्त्रादिरूपस्य ᳚क्रिया कुण्डलिनी कुण्डं...................... |᳚ इत्याद्यनुसंध्यात्मनः सञ्जल्पस्य प्ररोहात्मकात् सङ्कल्पादुत्थितम् | अत एव अलौकिकत्वादपूर्वं कुण्डं प्रकल्पयेत् बहिरेवमनुसन्दध्यात्-- इत्यर्थः || ननु सर्वत्रैव कुण्डस्य उल्लेखसेककुट्टनाद्यात्मना संस्कारजातेन बहिः प्रकल्पनमुक्तम्, इह पुनरेवं कस्मादभिधीयते ?--इत्याशङ्क्य आह-- शिवस्य या क्रियाशक्तिस्तत्कुण्डमिति भावनात् || १५-३८९ || परमः खलु संस्कारो विनाप्यन्यैः क्रियाक्रमैः | एतदेव अन्यत्र अपि अतिदिशति-- एवं देहे स्थण्डिले वा लिङ्गे पात्रे जलेऽनले || १५-३९० || पुष्पादिषु शिशौ मुख्यः संस्कारः शिवतादृशे | किमत्र प्रमाणम्?--इत्याशङ्क्य आह-- उक्तं श्रीयोगसञ्चारे तथाहि परमेशिना || १५-३९१ || तदेव पठति-- चतुर्दशविधे भूते पुष्पे धूपे निवेदने | दीपे जपे तथा होमे सर्वत्रैवात्र चण्डिका || १५-३९२ || जुहोति जपति प्रेद्धे पूजयेद्विहसेद् व्रजेत् | आहारे मैथुने सैव देहस्था कर्मकारिणी || १५-३९३ || प्रेद्धे इति--दीप्यते--इत्यर्थः | एवं परैव संवित् तेन तेन रूपेण परिस्फुरतीति सर्वत्र अनुसन्धातव्यम्--इति अत्र तात्पर्यम् ||३९३ ||
SKयेषां पुनरेवं संवित्प्ररोहो नास्ति, तान्प्रति अयं बाह्यः क्रियाक्रमः--इत्याह-- तादृशीं ये तु नो रूढां संवित्तिमधिशेरते | अक्रमात्तत्प्रसिद्ध्यर्थं क्रमिको विधिरुच्यते || १५-३९४ || एवं चैषां सिद्धिः स्यात्--इत्याह-- अहं शिवो मन्त्रमयः सङ्कल्पा मे तदात्मकाः | तज्जं च कुण्डवह्न्यादि शिवात्मेति स्फुटं स्मरेत् || १५-३९५ || अत एव हि तत्रापि दार्ढ्यादार्ढ्यावलोकनात् | क्रियमाणे कृते वापि संस्क्रियाल्पेतरापि वा || १५-३९६ || तत्रापीति--क्रमिके विधौ | अल्पतरेति--उक्तं च एतत् प्राक्-- ᳚क्रियया सिद्धिकामो यः स क्रियां भूयसीं चरेत् |᳚ (१४३) इत्यादि बहुप्रकारम् ||३९६ || एतदेव दृष्टान्तमुखेन हृदयङ्गमयति-- यथा हि कश्चित्प्रतिभादरिद्रोऽभ्यासपाटवात् | वाक्यं गृह्णाति कोऽप्यादौ तथात्राप्यवबुध्यताम् || १५-३९७ || तत्र कुण्डस्य तावत्संस्कारानाह-- उल्लेखसेककुट्टनलेपचतुर्मार्गमक्षवृतिपरिकलनम् | स्तरपरिधिविष्टरस्थितिसंस्कारा दशास्त्रतः कुण्डगताः || १५- ३९८|| उल्लेखः खननम् | सेकः आप्यायनम् | कुट्टनं निविडतापादनम् | लेपः समीकरणम् | समध्यग्रन्थि दार्भमासनं विष्टरः ||३९८ || अन्यत् स्वयमेव विषमत्वात् व्याचष्टे-- मध्यग्रहणं दर्भद्वयेन कुशसंवृतिश्च भित्तीनाम् | प्राङ्मुखरेखात्रितयोर्ध्वरेखिकाः कुशसमावृतिश्च बहिः || १५-३९९ || शस्तलताश्चतुरश्रं दशलोकेशार्चनासनविधिश्च | सद्मासादनमस्त्राग्नितेजसा रक्षणं च कुण्डस्य || १५-४०० || भूमेः शिवाग्निधृत्यै शक्तिर्विघ्नापसारणं चार्थाः | ततस्तु पूजिते कुण्डे क्रियाशक्तितया स्फुटम् || १५-४०१ || मातृकां मालिनीं वापि न्यस्येत्सङ्कल्परूपिणीम् |
SKदर्भद्वयेन प्रागुदङ्मुखेन चतुष्पथाकारेण चतुर्मार्गम् | कुण्डभित्तीनामन्तरूर्ध्वमुखैः कुशैः परितः संवरणमक्षवाटः | कुशाग्रेण पूर्वापरायतरेखात्रयमध्ये दक्षिणोत्तरायता रेखा वज्रीकरणम् | कुण्डबहिस्तेजःपुञ्जमयैः कुशैरास्तरणं स्तरः | पूर्वादिदिक्पूज्यानां ब्रह्मविष्णुसदाशिवशिवानामाधारशक्तिरूपाः शस्ता यज्ञकर्मवृक्षोत्था हस्तमात्राः सत्वचश्चतस्रः शाखाः परिधयः | तत्र द्वे पूर्वानने, द्वे सौम्यानने याभिः कुण्डबहिश्चतुरश्रसंनिवेशो जायते | एषां यथायोगं प्रयोजनमाह--दशेत्यादि | लोकेशेति उपलक्षणं, तेन ब्रह्मादीनामपि | तदुक्तम्-- ᳚..........................ब्रह्माणं पूर्वविष्टरे |᳚ (स्व. २|२२०) इति | सद्मासादनमिति--वागीश्या हि गुप्त्यर्थमावरकप्रायमक्षवाटेन गृहं परिकल्प्यते इत्येतदस्य प्रयोजनम् | रक्षणमिति--अस्त्रमन्त्रस्य | शिवाग्निधृत्यै शक्तिरिति-- उल्लेखादीनां चतुर्णां वज्रीकरणस्य च | विघ्नापसारणं-- स्तराणाम् | दशेत्यनेन निरीक्षणादीनां पञ्चानां संस्काराणां नेह परिगणनम्--इति कटाक्षितम् | ते हि सर्वकर्मसु साधारणा इति उक्तम् | पूजिते इति--᳚ॐ क्रियाशक्त्यात्मने कुण्डाय नमः᳚ इति प्रयोगेण | सङ्कल्परूपिणीमिति-- वागीश्वरीरूपाम् || अत एव आह-- सङ्कल्पदेव्या यत्सृष्टिधाम त्र्यश्रं क्रियात्मकम् || १५-४०२ || ज्ञानशुक्रकणं तत्र त्रिः प्रक्षोभ्य विनिक्षिपेत् | सा च१ अर्थादृतुमती | तदुक्तम्-- ङीलोत्पलदलाभासामृतुमच्चारुलोचनाम् | ध्यात्वा चैवंविधां देका स्थापयेत्कुण्डमध्यतः ||᳚ इति | तन्न्यासे च ᳚ओ ह्रीं भगवति मालिनि इदं स्थानमधितिष्ठ नमः᳚ इति, ᳚ॐ भगवन् शब्दराशे इदं स्थानमधितिष्ठ नमः᳚ इति च प्रयेगः | त्र्यश्रं सृष्टिधामेति वह्निजननानुगुण्यादुक्तम् | त्रिः प्रक्षोभ्येति--कुण्डबाह्ये योनिक्षोभार्थम् | यदुक्तम्-- ᳚.........................विद्याम्ॐ ह्रीमिति न्यसेत् | शिवमोमिति विन्यस्य संपूज्य द्वितयं पुनः || ताम्रपात्रे शरावे वा आनयेज्जातवेदसम् |
SKशिवशुक्रमिति ध्यात्वा विद्यायोनौ विनिक्षिपेत् ||᳚ (८|११३) इति| तथा ᳚ध्रुवेण कुण्डबाह्ये तु त्रिधा भ्रम्यावतारयेत् |᳚ इति || एतदेव व्याप्तिगर्भीकारेण प्रपञ्चयति-- इच्छातः क्षुभितं ज्ञानं विमर्शात्मक्रियापदे || १५-४०३ || रूढं ज्ञत्वादिपञ्चाङ्गविस्पष्टं जाज्वलीत्यलम् | इह परानन्दोल्लासचमत्कारमयादौत्सुक्यात् जातक्षोभं सत् ज्ञानं स्वविमर्शनमात्रसारायां स्वातन्त्र्यलक्षणायां क्रियायां विश्रान्तं शर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः | स एवाहं शैवधर्मा इति दार्ढ्याच्छिवो भवेत् ||᳚ इति भङ्ग्या सर्वज्ञत्वादिभिरनन्तशक्तित्वस्य स्वतन्त्रतयैव स्वीकारात् पञ्चभिर्गुणैर्विस्पष्टं जाज्वलीति सर्वपरप्रमातृतयैव प्रस्फुरति--इत्यर्थः | अथ च परस्पराभिषङ्गानुबन्धिनोऽभिलाषादुल्लसितं वीर्यरूपं सङ्कल्परूपिण्या वागीश्वर्याः क्रियात्मके सृष्टिधामनि अलं प्राप्तप्ररोहं सत् सर्वज्ञत्वादिरूपैः पञ्चभिर्विद्याङ्गैः संस्कार्यतया परामृष्टं जाज्वलीति गर्भाधानक्रमेण नामकरणपर्यन्तं बहिः सिद्धिमियात्-- इत्यर्थः || अत एव आह-- तेनाङ्गपञ्चकैरेव हुतिं दद्यात्सकृत्सकृत् || १५-४०४ || जन्माद्यखिलसंस्कारशुद्धोऽग्निस्तावता भवेत् | जन्मादीति जन्मन आदिर्गर्भाधानादिरखिलसंस्कारस्तच्च आदिर्यस्य नामकरणादेरिति एकशेषः, तेन गर्भाधानपुंसवनसीमन्तोन्नयन जातकर्मनामकरणाख्यस्यसंस्कारपञ्चकस्य च अनेन सिद्धिरिति | तदुक्तम्-- ᳚ततस्त्वाहुतयः पञ्चविद्याङ्गैरेव होमयेत् | जननादि ततः कर्म सर्वमेवं कृते कृतम् ||᳚ (८|११४) इति || ननु एतावतैव कथमेवं स्यात्?--इत्याशङ्क्य आह-- पञ्चाङ्गमेव पृथ्व्यादिरूपं कठिनतादिकाः || १५-४०५ || शक्तीर्दधद्वह्निगताः कुर्याद् गर्भादिकाः क्रियाः | ननु अन्येऽपि वक्त्राभिघारादयः संस्कारविशेषा अवशिष्यन्ते इति किमिह ते न उक्ताः?--इत्याशङ्क्य तत्पूर्णतासंपत्त्यर्थमाह-- ततोऽखिलाध्वसद्देवीचक्रगर्भां परापराम् || १५-४०६ || स्मरन्पूर्णाहुतिवशात्पूरयेदग्निसंस्क्रियाः |
SKपूरणे हेतुरखिलाध्वसद्देवीगर्भामिति || एवं संस्कृतेऽग्नौ शिवत्वमापादयितुमाह-- तथा मन्त्रेशयुक्सत्यसङ्कल्पमहसा ज्वलन् || १५-४०७ || वह्निस्तच्छिवसङ्कल्पतादात्म्याच्छिवतात्मकः | तथा पूर्वोक्तेन प्रकारेण मन्त्रैरीशेन च युक्तस्य तदैक्यमापन्नस्य आचार्यस्य यः सङ्कल्पितार्थसंपत्त्या सत्यः शिवो भवति एवमात्मा सङ्कल्पः, तस्य महसा माहात्म्येन ज्वलन् यथायथमुत्कर्षासादनेन दीप्यन् वह्निस्तेन सङ्कल्प्यमानेन शिवेन तादात्म्याच्छिवात्मकस्तद्धर्मैव भवेत्--इत्यर्थः || एतच्च अस्माभिर्गुरुपरम्परोपनतमभिहितमिति विवेचनयोग्यम्--इत्याह-- इत्येतत्संस्क्रियातत्त्वं श्रीशंभुर्मे न्यरूपयत् || १५-४०८ || मयापि दर्शितं शुद्धबुद्धयः प्रविविञ्चताम् | अत एव अत्र विप्रतिपन्ना दूरं निरस्ताः--इत्याह-- तेनात्र ये चोदयन्ति यथा बालस्य संस्क्रिया || १५-४०९ || वह्नौ वह्नेस्तथान्यत्रेत्यनवस्थैव संस्कृतेः | ते निरुत्थानविहता नयेऽस्मिन्गुरुदर्शने || १५-४१० || अन्यत्रेति--अन्यस्मिन् वह्नौ | अनवस्थेति--अन्योऽपि हि वह्निः किमसंसकृतः संस्कृतो वा | अत्र असंस्कृतत्वे अस्य होमायोग्यत्वम् | संस्कारोऽपि अस्य किं स्वत्र परत्र वा | स्वत्र चेत् प्रथममेव तथा अस्तु किं वह्न्यन्तरापेक्षणेन, परत्र तु पुनरेवं चिन्तायामपर्यवसानमेवेति | निरुत्थानविहता इति--न हि अस्मिन्नये वह्न्यन्तरापेक्षा काचिदस्ति युज्यते वा--इति भावः ||४१० || इदानीमनन्तरकरणीयमाह-- जातेऽग्नौ संस्कृते शैवे शब्दराशिं च मालिनीम् | पितरौ पूजयित्वा स्वं शुद्धं धाम विसर्जयेत् || १५-४११ || शुद्धाग्नेर्भागमादाय चर्वर्थं स्थापयेत्पृथक् | एवमपि दृढप्रतिपत्तिपवित्रीकृतान्प्रति बाह्यसंस्कारनिरपेक्षतया वह्निं संस्कर्तुं युक्त्यन्तरमाह-- अथवाग्नेः शिखां वामप्राणेनादाय हृज्जुषा || १५-४१२ || चिदग्निनैक्यमानीय क्षिपेद्दक्षेण संस्कृताम् |
SKशिखामिति--अर्थादसंस्कृताम् | आदायेति--पूरकभङ्ग्या | क्षिपेदिति-- रेचकयुक्त्या | संस्कृतामिति--हृज्जुषा चिदग्निना सामरस्यापत्तेः | यदुक्तम्-- ᳚ज्वलितस्याथवा वह्नेश्चितिं वामेन वायुना | आकृष्य हृदि संकुम्भ्य दक्षिणेन पुनः क्षिपेत् || पूर्णां च पूर्ववद्दद्याच्छिवाग्नेरपरो विधिः |᳚ (८|११७) इति || ननु एवमभिधाने कोऽभिप्रायः?--इत्याशङ्क्य आह-- शिव इत्यभिमानेन दृढेन हि विलोकनम् || १५-४१३ || सर्वस्य संस्क्रिया तत्त्वं तत्तस्मै यद्यतोऽमलम् | अत्रैव शास्त्रान्तरपक्षमपि आह-- नवाहुतीरथो दद्यान्नवात्मसहितेन तु || १५-४१४ || शिवाग्नये तारपूर्वं स्वाहान्तं संस्क्रिया भवेत् | शिवचैतन्यसामान्यव्योमरूपेऽनले ततः || १५-४१५ || प्राग्वदाधारमाधेयं देवीचक्रं च योजयेत् | तारः प्रणवः | तत इति--एवं संस्कारानन्तरम् || ननु अग्नावेव संस्कारहोमः स्रुवादिभिः कार्यः, तत् प्रथममेषामेव संस्कारः कस्मात् न कृतः?--इत्याह-- स्रुवं स्रुचं च संपश्येदधोवक्त्रौ क्रमाद् गुरुः || १५-४१६ || शिवशक्तितयाभ्यर्च्यौ तथेत्थं संस्क्रियानयोः | संपश्येदिति--परदृष्ट्या | एतच्च प्रोक्षणादीनां चतुर्णामपि उपलक्षणम्, ते हि सर्वकर्मसु साधारणा इत्युक्तम् | अधोमुखाविति-- सृष्ट्युन्मुखताभिप्रायेण | इत्थमिति अधोवक्त्रतया संदर्शनादिक्रमेण | तदुक्तम्-- ᳚................ष्थापयेत्तावधोमुखौ |᳚ (स्व. २|२३१) इति, ᳚.......ष्रुक्शक्तिस्तु स्रुवः शिवः |᳚ इति || ननु अनयोरन्यत्र बहुप्रकारं संस्कारजातमुक्तम्, श्रीपूर्वशास्त्रे पुनस्तन्नामापि न स्पृष्टं येन निरीक्षणाभ्यर्चनमात्रमेव तत्संस्कारनिमित्तमिह उक्तमिति किमेतत्?--इत्याशङ्क्य आह-- तत्त्वसंदर्शनान्नान्यत्संस्कारस्यास्ति जीवितम् || १५-४१७ || इति वक्तुं स्रुवादीशः श्रीपूर्वे न समस्करोत् |
SKइह स्रुक्स्रुवादीनां होमयोग्यत्वमाधातुं हि तत्र तत्र संस्कारजातमुक्तम् | तच्च एतावतैव सिद्धं किमनेन | अस्मद्दर्शने हि शिवतापत्तिरेव परमः संस्कारः | स च अर्घपात्रविप्रुट्प्रोक्षणादिनैव सिध्येदिति उक्तं प्राग् बहुशः | यदागमोऽपि-- ᳚कर्तव्या यस्य संशुद्धिरन्यस्याप्यत्र वस्तुनः | तस्यानेनैव मार्गेण प्रकर्तव्या विजानता ||᳚ (मा.विटं.८|५१) इति | एवमाज्यादावपि ज्ञेयम् | अतश्च अत्र शास्त्रान्तरादिह न किञ्चिदपि अपेक्षणीयम्, अर्घपात्रविप्रुट्प्रोक्षणादिनैव संस्कारसिद्धेस्तदपेक्षाया एव अभावात् | अन्यथा हि सर्वमेव अपेक्षणीयमिति अपर्यवसितमेव अनुष्ठानं स्यात् | यदाहुः-- ङ च शास्त्रान्तरे कर्तुं युक्तं शास्त्रान्तरश्रुतम् | शास्त्रस्यान्यानपेक्षत्वात्पुंबुद्धिप्रभवं हि तत् || सापेक्षत्वेऽप्यपेक्षैव मानं यावदपेक्षते | तावदेवान्यतः कार्यं नान्यत्स्यादनवस्थितेः ||᳚ इति | एवमग्निगमधिवसानमभिधाय तर्पणमाह-- ततस्तिलैर्मृगीं मध्यानामांगुष्ठवशाद् गुरुः || १५-४१८ || कृत्वा मूलं तर्पयेत शतेनाज्यस्रुवैस्तथा | अङ्गवक्त्रं षडंशेन शेषांश्चापि दशांशतः || १५-४१९ || सहस्रादिकहोमोऽपि तृप्त्यै वित्तानुसारतः | मृगीं कृत्वेति | यदुक्तम्-- ᳚अंगुष्ठाग्रसमासक्ते मध्यानामे महेश्वरि | तर्जनी च कनिष्ठा च प्रोच्छिर्ते विरले कृते || मृगी नाम महामुद्रा............................... |᳚ इति | न च होमस्य शतिकत्वमेव नियम इत्याह--सहस्रेत्यादि | अत एव तत्र तत्र ᳚.........................वित्तशाठ्यं न कारयेत् |᳚ इति उक्तम् || ननु यदि शतिकेनैव होमेन तर्पणं सिध्येत्, तत् किं वित्तक्षयकारिणा सहस्रादिकेन?--इत्याशङ्क्य आह-- सति वित्तेऽपि लोभादिग्रस्तो बाह्यप्रधानताम् || १५-४२० || प्रथयंश्चिद्गुणीभावाच्छक्तिपातं न विन्दति | बाह्यप्रधानता प्रथयन्निति बाह्येधनादावाग्रहात् | यथोक्तम्-- ᳚विभवे सति यो लोभान्न कुर्याद्विधिविस्तरम् | नासौ फलमवाप्नोति जातुचित्परमेश्वरि ||᳚
SKइति | ननु एतावतैव शक्तिपातं न विन्दति इत्यत्र किं प्रमाणम्?-- इत्याशङ्क्य आह-- उक्तं स्वच्छन्दतन्त्रे तद्दीक्षितोऽपि न मोक्षभाक् || १५-४२१ || इह तावत् कृतमकृतं न भवतीति अविवादः | तत् सलोभादेर्दीक्षायां कृतस्य कर्मणः किं फलं स्यात् ?-- इत्याशङ्कते-- ननु यत्तस्य दीक्षायां कृतं कर्मास्य किं फलम् | एतदेव प्रतिविधत्ते-- तत्राहुर्गमशास्त्रज्ञा वामाशक्तिमयास्तदा || १५-४२२ || मन्त्रा बध्नन्ति तं सम्यग्भवकारामहागृहे | तदेति बाह्यप्रधानतायां चिद्गुणीभावे सति--इत्यर्थः || ननु यदि एषां वामा शक्तिरेवं फलदायिनी, तदुदितापि ज्येष्ठा शक्तिः किं व्यर्थैव स्यात्?--इत्याशङ्क्य आह-- या त्वनुग्राहिका शक्तिस्तेषां सा गुरुदीपिता || १५-४२३ || शोधयेत स्वशास्त्रस्थनिष्कामोल्लङ्घनक्रियाम् | या पुनस्तेषां वृत्तदीक्षाणामनुग्राहिका शक्तिः, सा गुरुणा कर्मयोगज्ञानैरुत्तेजिता सती स्वत्र दीक्षाद्यनुष्ठाननिमित्तमात्मीयतां प्रापिते शास्त्रे स्थितस्य विधिनिषेधात्मनः समयस्य निष्काममनिच्छापूर्वं क्रियमाणमुल्लङ्घनं शोधयेत, तथात्वेऽपि ᳚तस्मादकृतविघातात्कञ्चित्कालं पिशाचवरराजः | भूत्वा विमलात्मासौ व्रजति च समतां परेशेन ||᳚ इत्यादिदृशा स्वरूपाभिव्यक्तिपर्यवसानैव स्यात् बाह्यप्रधानतया चिद्गुणीभावेन, वामाशक्त्यधिष्ठाने तु मूलत एव स्वरूपस्य तिरोहितत्वात् न किञ्चिदपि कुर्यादिति युक्तमुक्तम्-- ᳚.......ऌओभादिग्रस्तः शक्तिपातं न विन्दति |᳚ (४२१) इति | उक्तं च प्राक् श हि भेदैकवृत्तित्वं शिवज्ञाने श्रुतेऽप्यलम् | नोज्झतीति दृढं वामाधिष्ठितस्तत्पशूत्तमः || शिवेनैव तिरोभाव्य स्थापितो नियतेर्बलात् | कथङ्कारं पतिपदं प्रयातु परतन्त्रितः ||᳚ (१३|३१६) इति | एवं होमान्ते तत्पूर्णतासंपत्तये पूर्णाहुतिर्दातव्या इति तत्प्रयोगमाह-- तत ऊर्ध्वाधरन्यासादन्योन्यौन्मुख्यसुन्दरम् || १५-४२४ || स्रुक्स्रुवं शिवशक्त्यात्मादायाज्यामृतपूरितम् | समचित्तप्राणतनुरैकात्म्यविधियोगतः || १५-४२५ || वामं स्रुग्दण्डगं हस्तं दक्षिणं सोपयामकम् |
SKकण्ठाधोगं विनिक्षिप्य दृढमापीड्य यत्नवान् || १५-४२६ || अधः कुर्यात्स्रुचं प्राणमूर्ध्वोर्ध्वं संनियोजयन् | यावद् द्विषट्कपर्यन्ते बोधाग्नौ चन्द्रचक्रतः || १५-४२७ || स्रुगग्रात्परमं ह्लादि पतेदमृतमुत्तमम् | तावद्वह्नौ मन्त्रमुखे वौषडन्तां हुतिं क्षिपेत् || १५-४२८ || ऊर्ध्वाधरन्यासादिति शिवशक्त्यात्मेति च यथायोगम्, तेन स्रुगूर्ध्वं स्रुवः | यदुक्तम्-- ङाभिस्थाने स्रुचो मूलमुत्तानाग्रमुखं समम् | स्रुच्युपरि स्रुवं देवि कृत्वा चैवमधोमुखम् ||᳚ इति | अत एव शक्तिशिवात्मकत्वादनयोरन्योन्यौन्मुख्यमुचितं येन प्रेक्षितफलसंपत्तिः | अत एव अन्योन्यौन्मुख्येन परस्परस्वरूपानुप्रवेशात् स्रुगेकगामित्वेऽपि अविशेषेण उक्तम्-- आज्यामृतपूरितमिति | एवमेवंविधं स्रुक्स्रुवमादाय पराद्वयानुसन्धानादैकध्यापन्नदेहप्राणबुद्ध्यादिराचार्यः स्रुग्वदुत्तानं वामं हस्तं स्रुचो दण्डमूलगं दक्षिणं च सोपयामं स्रुववदधोमुखं स्रुवस्यैव कण्ठादधो वेदिकाकारमग्रपीठं गतं तत्प्रान्तश्लिष्टं कृत्वा एवंसंनिवेशाभ्यां हस्ताभ्यां दृढमापीड्य यत्नवान् सावधानः प्राणं हृदयादारभ्य ऊर्ध्वोर्ध्वं सम्यक् तत्तत्पदोल्लङ्घनक्रमेण नियोजयन्नाज्यधारापातमनुसन्धाय स्रुचं शनैः शनैरधः कुर्यात् यावत् द्वादशान्तावस्थिते विश्वप्लोषकारिणी बोधाग्नौ चेतनालक्षणायाः स्रुचःपरां काष्ठामधितिष्ठतश्चक्राकारतया परमं ह्लादि अत एव उत्तमममृतं पतेत् बोधाग्न्युपोद्बोधकतया प्रसरेत्, तावत् तदेकमयतानुसन्धानेन सर्वमन्त्राणां तत्तद्द्रव्यकवलीकारकरणतया मुखे बाह्ये वह्नौ तृप्त्याधायकतया वौषडन्तां हुतिं क्षिपेत् पूर्णाहतिं दद्यात्--इत्यर्थः | उपयाम ऊर्ध्वग्रन्थिर्ज्ञानखङ्गतया प्रतीतो वेण्याकारो दार्भः संनिवेशः | यदाहुः-- ᳚दर्भाणां तालमानेन कृता षटित्रशता दलैः | सप्तजप्ता शिवास्त्रेण वेणी बोधासिरुत्तमः ||᳚ इति ||४२८ || ननु एवमभिसन्धाने क इव अभिप्रायः ?--इत्याशङ्क्य आह-- य ऊर्ध्वे किल संबोधः कुण्डे स प्रतिबिम्बितः |
SKवह्निः प्राणः स्रुक्स्रुवौ च स्नेहः सङ्कल्पचिद्रसः || १५-४२९ || इत्थं ज्ञात्वादितः कुण्डस्रुक्स्रुवाज्यमनून्भृशम् | द्वादशान्तविबोधाग्नौ रुद्ध्वा पूर्णाहुतिं क्षिपेत् || १५-४३० || यः किल ऊर्ध्वे स्थितः संबोधः, सोऽर्थादधः कुण्डे प्रतिबिम्बितो वह्निः, यश्च एवंविधः प्राणस्तौ स्रुक्स्रुवौ, यश्च एवं भेदपरामर्शात्मा चिद्रसः, स स्नेह इत्यनुसन्धाय प्रथमं कुण्डादीन् द्वादशान्तविबोधाग्नौ भृशं रुद्ध्वा बिम्बप्राये तत्र तत्र आरोहक्रमेण सामरस्यं प्रापय्य पूर्णाहुतिं क्षिपेत् यथा प्रतिबिम्बप्रायाणां बाह्यानामेषामधोऽध एवं अवस्थितिः स्यात् ||४३० || ननु बिम्बस्य ऊर्ध्वोर्ध्वमवस्थाने प्रतिबिम्बस्य अधोऽधः स्थितिर्भवेदिति कोऽयं नयः ?--इत्याशङ्का गर्भीकृत्य दृष्टान्तयति-- यथा यथा हि गगनमुत्पतेत्कलहंसकः | जले बिम्बं ब्रुडत्यस्य तथेत्यत्राप्ययं विधिः || १५-४३१ || बिम्बमिति--प्रतिबिम्बरूपम् ||४३१ || एवमनुसन्धाने प्रकारान्तरमाह-- स्वाभाविकं स्थिरं चैव द्रवं दीप्तं चलं नभः | माया बिन्दुस्तथैवात्मा नादः शक्तिः शिवस्तथा || १५-४३२ || इत्थं व्याप्यव्यापकतो विभेद्याभ्यन्तरान्तरम् | तदधःस्थानि पृथ्व्यादिमूलान्तानि तथा पुमान् || १५-४३३ || अविद्यारागनियतिकालमायाकलास्तथा | अणुर्विद्या तदीशेशौ सादाख्यं शक्तिकुण्डली || १५-४३४ || व्यापिनी समनौन्मन्यं ततोऽनामनि योजयेत् | रेचकस्थो मध्यनाडीसन्धिविद् गुरुरित्यदः || १५-४३५ || प्रोक्तं त्रैशिरसे तन्त्रे परयोजनवर्णने | इह खलु पारमेश्वरी स्वरूपगोपनाकारा मायाख्या शक्तिर्व्यापकत्वात् ज्ञत्वकर्तृत्वाद्यात्मकं स्वाभाविकं रूपं व्याप्य आच्छाद्य आस्ते इति एतत्सङ्कोचितः सकलादिरात्मा व्यापकत्वात् स्थिरं पार्थिवं रूपमित्थं वक्ष्यमाणेन क्रमेण व्याप्ता आस्ते | बिन्दुश्च आप्यायकत्वात् द्रवमाप्यम्, नादश्च दीप्तमाग्नेयम्, स्पर्शप्रधाना शक्तिश्च चलं वायवीयम्, निरावरणत्वाच्छिवश्च नाभसमिति | एतत् ᳚पृथिव्यापस्तथा तेजो वायुराकाशमेव च |
SKपञ्चैतानि तु तत्त्वानि यैर्व्याप्तमखिलं जगत् ||᳚ इत्यादिदृशा पृथिव्यादिशक्तिपर्यन्तपञ्चत्रिंशत्तत्त्वगर्भीकारेण मध्यनाडीसन्धिवित् तन्मर्मज्ञः, अत एव ऊर्ध्वरेचकस्थो गुरुः ᳚.........................षट्त्यागात्सप्तमे लयः |᳚ (स्व. ४|२६७) इति भङ्ग्या तत्तत्पदोल्लङ्घनेन आभ्यन्तरादाभ्यन्तरमूर्ध्वमूर्ध्वं विभेद्य अनन्तरमनामनि अनाख्ये द्वादशान्तावस्थिते परमशिवे समनन्तरोक्तयुक्त्या योजयेदिति | एवं श्रीत्रिशिरोभैरवे योजनिकाप्रकरणे विभज्य उक्तम् || एवमेतत् प्रसङ्गादभिधाय चरुसंसिद्धिं वक्तुमाह-- ततः प्राक्स्थापितान्यस्तमन्त्रसंस्कृतवह्निना || १५-४३६ || चरुः साध्योऽथवा शिष्यैर्होमेन समकालकः | चरौ च वीरद्रव्याणि लौकिकान्यथवेच्छया || १५-४३७ || चरुसिद्धौ समस्ताश्च क्रिया हृन्मन्त्रयोगतः | ततश्चरुं समादाय गुरुराज्येन पूरिताम् || १५-४३८ || स्रुचं स्रुवं वा कृत्वैव भुक्तिमुक्त्यनुसारतः | देवानामथ शक्तीनां यन्त्राणां तु त्रयं त्रयम् || १५-४३९ || सप्तमं मातृसद्भावं क्रमादेकैकशः पठन् | स्वा इत्यमृतवर्णेन वह्नौ हुत्वाज्यशेषकम् || १५-४४० || चरौ हेत्यग्निरूपेण जुहुयात्तत्पुनः पुनः | तत इति--तर्पणानन्तरम् | अन्यस्तमन्त्रेति यदुक्तम्-- ᳚आप्याश्चरुपुरोडाशाः पञ्चसंस्कारसंस्कृते | अनाहृतशिवे वह्नौ होमस्त्वावाहिते शिवः ||᳚ इति | अतश्च शुद्धाग्नेरिति तत्र उक्तम् | साध्य इति--स्वयमाचार्येण | होमेन समकालक इति--शिष्याणां होमादावव्यग्रत्वात् | वीरद्रव्याणि--सारादिरूपाणि | लौकिकानि--क्षीरतण्डुलादिरूपाणि | इच्छयेति--वीराणामवीराणां वा | समस्ताः क्रिया--इति-- स्थाल्यादिग्रहणतदभिमन्त्रणदर्वीविघट्टनाद्याः | अमृतवर्णेनेति--सवयोराप्यायकारित्वात् | अग्निरूपेणेति--हस्य शिवाभिधायितया प्रमातृरूपत्वात् | पुनः पुनरिति--इत्थं प्रत्याहुति प्रयोगः कार्यः--इत्यर्थः | एवं हि अग्नौ स्वा इति सोमभागः सोमात्मनि चरौ, हा इति अग्निभागश्च न्यस्तो भवेत् येन उभयमपि अग्नीषोमात्मकं संपद्यते इति | यच्छ्रुतिः--
SK᳚यो ह वै तद्धविरग्नीषोमाभ्यां जुहोति तस्यैतदमृतीभवति |᳚ इति || अत एव आह-- भोज्यभोजकचर्वग्न्योरित्थमेकानुसन्धितः || १५-४४१ || स्वाहाप्रत्यवमर्शात्स्यात्समन्त्रादद्वयं परम् | परमद्वयमिति--अग्नीषोमैकात्म्यापत्तेः || ननु एवं भोज्यभोजकयोः साम्यमेव उक्तं स्यादिति किमेतत्?-- इत्याशङ्क्य आह-- एष संपातसंस्कारश्चरोर्भोक्ता ह्यधिष्ठितः || १५-४४२ || भोग्यस्य परमं सारं भोग्यं नर्नर्ति यत्नतः | परमं सारमिति भोग्यस्य भोक्तरि विश्रामात्, अत एव नर्नर्ति क्षोभात्मना परिस्फुरतीति उक्तम् || संपातशब्दस्य अन्वर्थतां दर्शयति-- सममेकानुसन्धानात्पाततो भोक्तृभोग्ययोः || १५-४४३ || अन्योऽन्यत्र च संपातात्सङ्गमाच्चेत्थमुच्यते | अत्र तुल्यकालार्थत्वं च अवयवार्थः, सङ्गमार्थत्वं तु समुदायार्थः || एवं संस्कृतं चरुं षोढा विभजति-- स्थण्डिले कुम्भकर्कर्योर्भागं भागं निवेदयेत् || १५-४४४ || भागेनाग्नौ मन्त्रतृप्तिर्द्वयं शिष्यात्मनोरथ | इत्थं विहितकर्तव्यो विज्ञाप्येशं तदीरितः || १५-४४५ || शक्तिपातक्रमाच्छिष्यान्संस्कर्तु निःसरेद् बहिः | तत्रैषां पञ्चगव्यं च चरुं दशनमार्जनम् || १५-४४६ || तस्य पातः शुभः प्राचीसौम्यैशाप्योर्ध्वदिग्गतः | अशुभोऽन्यत्र तत्रास्त्रहोमोऽप्यष्टशतं भवेत् || १५-४४७ || नेत्रमन्त्रितसद्वस्त्रबद्धनेत्रानचञ्चलान् | अनन्यहृदयीभूतान्बलादित्थं निरोधतः || १५-४४८ || मुक्तारत्नादिकुसुमसंपूर्णाञ्जलिकान् गुरुः | प्रवेश्य स्थण्डिलोपाग्र उपवेश्यैव जानुभिः || १५-४४९ || प्रक्षेपयेदञ्जलिं तं तैः शिष्यैर्भावितात्मभिः | अञ्जलिं पुनरापूर्य तेषां लाघवतः पटम् || १५-४५० || दृशोर्निवारयेत्सोऽपि शिष्यो झटिति पश्यति | उक्तं च ᳚हृदयेन चरोः सिद्धिर्याज्ञिकैः क्षीरतण्डुलैः | संपातं सप्तभिर्मन्त्रैस्ततः षड्भागभाजितम् || शिवाग्निगुरुशिष्याणां वार्धानीकुम्भयोः समम् |᳚ (मा.विटं. ८|१२२) इति | विज्ञाप्येति ᳚गुरुत्वेन त्वयैवाहमाज्ञप्तः परमेश्वर |
SKअनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः || तदेते तद्विधाः प्राप्तास्त्वमेषां कुर्वनुग्रहम् | मदीयां तनुमाविश्य येनाहं त्वत्समो भवे(भवन्) ||(९|३८) इति | तदीरित इति--कुरु एवमिति प्रोक्त इति | तत्रेति--बहिः, दद्यादिति शेषः | तस्येति--दशनमार्जनस्य | तत्रेति--अशुभे | तदुक्तम्-- ᳚ऊर्ध्वाननं यदा तिष्ठेद्राज्यं मोक्षमवाप्नुयात् | अधोमुखे तु मरणं हृदयेन शतं हुनेत् || पूर्वस्यां योगसंसिद्धिराग्नेय्यां व्याधिमादिशेत् | याम्यायां मरणं विद्यान्नैरृत्यां कलहो भवेत् || वारुण्यां धनसंपुष्टिर्वायव्योच्चाटनं भवेत् | सौम्यायां सिद्धिमाप्नोति मोक्षमीशानगोचरे ||᳚ इति | अनेन च दन्तसंस्कार उक्तः | तैरिति--एवं प्रवेशितैः प्रयोज्यकर्तृभिः | लाघवत इति--यथा अस्य झटित्येव स्थण्डिलदर्शनं भवेत्--इति भावः || एवमस्य किं स्यात् ?--इत्याशङ्क्य आह-- झटित्यालोकिते मान्त्रप्रभावोल्लासिते स्थले || १५-४५१ || तदावेशवशाच्छिष्यस्तन्मयत्वं प्रपद्यते | एतदेव दृष्टान्तोपदर्शनेन हृदयङ्गमयति-- यथा हि रक्तहृदयस्तांस्तान्कान्तागुणान्स्वयम् || १५-४५२ || पश्यत्येवं शक्तिपातसंस्कृतो मन्त्रसन्निधिम् | स्वयमिति, नतु उपायान्तरापेक्षणेन, तथात्वे हि झटित्येव तद्दर्शनमस्य न स्यात् || ननु लावण्यादयः कान्तागुणा दृश्या इति ताननुरक्तहृदयः पश्यन्तां नाम, मन्त्राः पुनरदृश्यत्वात् संनिहितत्वेऽपि कथमर्वाग्दृशां चक्षुरादीन्द्रियगोचरतामासादयेयुः?-- इत्याशङ्क्य आह-- चक्षुरादीन्द्रियाणां हि सहकारिणि तादृशे || १५-४५३ || सत्यत्यन्तमदृष्टे प्रागपि जायेत योग्यता | चक्षुरादीन्द्रियाणां हि तादृशे शक्तिपातलक्षणे सहकारिणि सति प्रागत्यन्तमदृष्टेऽपि अनुभवसंस्काराभावाद्विकल्पस्य ज्ञानस्य अविषयेऽपि मन्त्रादौ दृशिक्रियाकरणायां योग्यता जायेत तथा संभावनीयम्--इत्यर्थः || किमत्र प्रमाणम् ?--इत्याशङ्क्य आह-- कृतप्रज्ञा हि विन्यस्तमन्त्रं देहं जलं स्थलम् || १५-४५४ || प्रतिमादि च पश्यन्तो विदुः सांनिध्यसंनिधी |
SKएवं स्वसंवेदनमपि अपह्नुवानान्प्रति आह-- न्यस्तमन्त्रांशुसुभगात्किञ्चिद्भूतादिमुद्रिताः || १५-४५५ || त्रस्यन्तीवेति तत्तच्चिदक्षैस्तत्सहकारिभिः | लोके हि मन्त्रन्यासाविष्कृततेजः सौभाग्यादाचार्यादेर्भूतादिमुद्रिता जन्तवस्त्रस्यन्त इव दृश्यन्ते इति | एवं तेन शक्तिपातादिना सहकृतैरिन्द्रियैस्तस्य तस्य संनिधानासंनिधानादेश्चित् चेतनवदेवं भवेत्--इत्यर्थः | इयता च मन्त्रावेशलक्षणः पार्यन्तिकसंस्कार उक्तः || इदानीं शिवहस्तविधिमभिधत्ते-- ततः स दक्षिणे हस्ते दीप्तं सर्वाध्वपूरितम् || १५-४५६ || मन्त्रचक्रं यजेद्वामपाणिना पाशदाहकम् | तं शिष्यस्य करं मूर्घ्नि देहन्यस्ताध्वसंततेः || १५-४५७ || न्यस्येत्क्रमेण सर्वांङ्गं तेनैवास्य च संस्पृशेत् | ननु एतत्प्रकृते श्रीपूर्वशास्त्रे न उक्तमिति कुत आनीतम्?-- इत्याशङ्क्य आह-- उक्तं दीक्षोत्तरे चैतज्ज्वालासंपातशोभिना || १५-४५८ || दत्तेन शिवहस्तेन समयी स विधीयते | सायुज्यमीश्वरे तत्त्वे जीवतोऽधीतियोग्यता || १५-४५९ || ज्वालासंपातेति--मन्त्रतेजः सांनिध्यात् | यदुक्तम्-- ᳚शिवहस्ते विभुं ध्यात्वा मन्त्रग्रामं सुजाज्वलम् |᳚ (स्व. ३|१४२) इति | ईश्वरे इति विद्यातत्त्वोर्ध्ववर्तिनि, न तु पृथ्वीतत्त्वाधःस्थिते कालाग्निरुद्रे, तथाश्रुतेरदर्शनात् | अत्र च उद्द्योतकृदेव कृतश्रम इति किमिह तेन उक्तेन तत एव अवधार्यम् | अधीतिः अध्ययनम् | तदुक्तम्- - शमयी संस्कृतो ह्येवं वाचनेऽस्यार्हता भवेत् | श्रवणेऽध्ययने होमे पूजनादौ तथैव च || चर्याध्यानविशुद्धात्मा लभते पदमैश्वरम् |᳚ (स्व. ४|७९) इति ||४५९ || न केवलमेतदत्रैव उक्तं यावदन्यत्रापि--इत्याह-- श्रीदेव्यायामले तूक्तमष्टारान्तस्त्रिशूलके | चक्रे भैरवसन्नाभावघोराद्यष्टकारके || १५-४६० || बाह्यापरे परानेमौ मध्यशूलपरापरे | ज्वालाकुलेऽरुणे भ्रम्यन्मातृप्रणवभीषणे || १५-४६१ || चिन्तिते तु बहिर्हस्ते संदृष्टे समयी भवेत् | पाशस्तोभाद्यस्तु सद्य उच्चिक्रमिषुरस्य तम् || १५-४६२ ||
SKप्राणैर्वियोजकं मूर्ध्नि क्षिपेत्संपूज्य तद्बहिः | अनेन शिवहस्तेन समयी भवति स्फुटम् || १५-४६३ || इह अघोराद्यष्टकाधिष्ठितारकस्य प्रत्यरं सर्वतः परिभ्रमत्फेङ्कारविकरालस्य भैरवत्रयभूषितनाभेरराबाह्यनेमिलक्षणस्थानद्वयप्रतिबिम्बिता- परापरादेवीकस्य सिन्दूरारुणस्य अत एव ज्वालाकुलस्य अष्टारस्य चक्रस्य अन्तर्मध्यशृङ्गावस्थितपरापरे त्रिशूले चिन्तिते बहिरन्तरेवंविधे हस्ते सम्यक् परश्रेयःप्रधानतया दृष्टे पाशस्तोभात्समयी भवेत् तावतैव अस्य समयदीक्षा सिध्येत्-- इत्यर्थः | न केवलमनेन समयदीक्षैव भवेत्, यावत् निर्वाणदीक्षाऽपि--इत्याह--यस्त्वित्यादि | यः पुनरुक्रान्तुमिच्छुस्तं बहिः प्राणोचिते क्षेत्रादौ संपूज्य अस्य तमेव शिवहस्तं प्राणैर्वियोजकं मूर्घ्नि क्षिपेत् तत्संस्पर्शादेव अस्य सद्योनिर्वाणदीक्षा भवेत्--इत्यर्थः | यदुक्तम्--तत्र ᳚अष्टारं चक्रमालिख्य नाभिनेमिसमन्वितम् | अरकैश्चान्तरालैश्च त्रिशूलोपरिलाञ्छितम् ||᳚ इति | उपक्रम्य ᳚....................णाभिस्थं भैरवं न्यसेत् |᳚ इति, ᳚अघोराद्यष्टकं पूज्यं......................... |᳚ इति, ᳚अराष्टकस्थितास्तास्तु....................... |᳚ इति, शिन्दूरारुणसङ्काशा शूलस्था तु परापरा | अपरा तु परा देवी बाह्यनेमिसमाश्रिता |᳚ इति, ᳚चक्रभैरवमध्यस्थं भ्रमणमरुणप्रभम् |᳚ इति, ᳚करे ध्यात्वा महाचक्रं ज्वालामालासमाकुलम् | वामपादं न्यसेत्तत्र शूलदण्डे समन्ततः | अरकेषु च सर्वत्र युक्तं दक्षिणजानुना |᳚ इति, ᳚दर्शनात्स्तोभमायाति स्पर्शनान्मिर्यते ध्रुवम् |᳚ इति च ||४६३ || ननु एवं समयित्वेन अस्य किं स्यात् ?--इत्याशङ्क्य आह-- तस्यैव भाविविधिवत्तत्त्वपाशवियोजने | पुत्रकत्वं स च परे तत्त्वे योज्यस्तु दैशिकैः || १५-४६४ || स एव मन्त्रजातिज्ञो जपहोमादितत्त्ववित् | निर्वाणकलशेनादौ तत ईश्वरसंज्ञिना || १५-४६५ || अभिषिक्तः साधकः स्याद्भोगान्तेऽस्य परे लयः |
SKभावीति--षोडशाह्निकादौ | स इति--पुत्रकः | स एवेति--समयी | भाविविधिवत् तत्त्वपाशवियोजने कृते सतीति अत्रापि संबन्धनीयम्, एवमुत्तरत्रापि | जातीति--नमः स्वाहादीनाम् | निर्वाणेति-- निर्वाणदायी अत्र शिव उच्यते | साधकस्य हि शिवे योजनिकायां कृतायामपि सदाशिवपदे भोगार्थमवस्थानम्, अत एव आह-- भोगान्तेऽस्य परे लय इति || एतैर्गुणैः समायुक्तो दीक्षितः शिवशासने || १५-४६६ || चतुष्पात्संहिताभिज्ञस्तन्त्राष्टादशतत्परः | दशतन्त्रातिमार्गज्ञ आचार्यः स विधीयते || १५-४६७ || पृथिवीमादितः कृत्वा निर्वाणान्तेऽस्य योजनाम् | अभिषेकविधौ कुर्यादाचार्यस्य गुरूत्तमः || १५-४६८ || एतैरिति--मन्त्रतन्त्रज्ञत्वाद्यैः | निर्वाणान्ते इति--परमशिवपदे, अधिकारार्थं | पुनरपरशिवे शिवे अस्य अवस्थानम् | यदुक्तम्� ᳚अधिकारार्थमाचार्ये परापरपदे स्थितिः | शिवत्वे साधकानां तु विद्याद्दीक्षां सदाशिवे || पुत्रके परमे तत्त्वे समयिन्यैश्वरे तथा |᳚ इति ||४६८ || ननु एवमभिहिते समयिनः किमुक्तं स्यात् ?--इत्याशङ्क्य आह-- एतैर्वाक्यैरिदं चोक्तं समयी राजपुत्रवत् | सर्वत्रैवाधिकारी स्यात्पुत्रकादिपदत्रये || १५-४६९ || राजपुत्रो हि यथा राज्यादावधिकृतस्तथा अयमपि पुत्रकादौ समयी | समयिदीक्षापूर्वकमेव सर्वा दीक्षा उक्ताः || ४६९ || पुत्रकाचार्ययोरविशेषेऽपि परतत्त्वयोजनिका कथञ्चिद्भेदमभिधत्ते- - पुत्रको दैशिकत्वे तु तुल्ययोजनिको भवेत् | अधिकारी स न पुनः साधने भिन्नयोजने || १५-४७० || स इति--पुत्रकः | साधने इति--दीक्षाप्रतिष्ठादौ यदर्थमेव आचार्यस्य परापरपदे स्थितिरभिहिता--इत्याह--भिन्नयोजने इति ||४७० || ननु समयिनोऽपि पूर्वभाविनी लिङ्गोद्धारदीक्षा संभवति, तत् समयी राजपुत्रवदित्येव कस्मादिह उक्तम् ?--इत्याशङ्क्य आह-- एतत्तन्त्रे समय्यादिक्रमादाप्तोत्तरक्रियः | आचार्यो न पुनर्बौद्धवैष्णवादिः कदाचन || १५-४७१ || एवं प्रसङ्गान्निर्णीतं प्रकृतं तु निरूप्यते |
SKशिवहस्तविधिं कृत्वा तेन संप्लुष्टपाशकम् || १५-४७२ || शिष्यं विधाय विश्रान्तिपर्यन्तं ध्यानयोगतः | ततः कुम्भेऽस्त्रकलशे वह्नौ स्वात्मनि तं शिशुम् || १५-४७३ || प्रणामं कारयेत्पश्चाद्भूतमातृबलिं क्षिपेत् | आचार्य इति उपलक्षणम्, तेन साधकोऽपि | यद्वक्ष्यति-- ᳚प्राग्लिङ्गिनां मोक्षदीक्षा साधिकारविवर्जिता | साधकाचार्यतामार्गे न योग्यास्ते पुनर्भुवः ||᳚ (२२|२९) इति | अत एव अनन्तरमेव उक्तम्-- ᳚.......................डीक्षितः शिवशासने |᳚ (४६७) इति | तेनेति--शिवहस्तेन || इदानीं शय्यां कल्पयितुमाह-- ततः शङ्करमभ्यर्च्य शय्यामस्त्राभिमन्त्रिताम् || १५-४७४ || कृत्वास्यां शिष्यमारोप्य न्यस्तमन्त्रं विधाय च | शिष्यहृच्चक्रविश्रान्तिं कृत्वा तद्द्वादशान्तगः || १५-४७५ || भवेत्क्षीणकलाजालः स्वरद्वादशकोदयात् | ततः प्रवेशप्रचितकलाषोडशकोज्ज्वलः || १५-४७६ || संपूर्णस्वात्मचिच्चन्द्रो विश्राम्येद्धृदये शिशोः | स्वयं व्युत्थानपर्यन्तं द्वादशान्तं ततो व्रजेत् || १५-४७७ || पुनर्विशेच्च हृच्चक्रमित्थं निद्राविधिक्रमः | स्वरद्वादशकं सूर्यकलारूपम् | इत्थमिति--शिष्यात्मनोरेवं प्राणप्रवेशनिर्गमलक्षणेन उक्तेन प्रकारेण--इत्यर्थः || ननु एवं सति किं स्यात् ?--इत्याशङ्क्य आह-- आयातनिद्रः शिष्योऽसौ निर्मलौ शशिभास्करौ || १५-४७८ || हृच्चक्रे प्रतिसंधत्ते बलात्पूर्णकृशात्मकौ | ननु अतोऽपि किं स्यात् ?--इत्याशङ्क्य आह-- हठनिर्मलचन्द्रार्कप्रकाशः सत्यमीक्षते || १५-४७९ || स्वप्नं भाविशुभान्यत्वस्फुटीभावनकोविदम् | किमत्र प्रमाणम्?--इत्याशङ्क्य आह-- उक्तं च पूर्णां च कृशां ध्यात्वा द्वादशगोचरे || १५-४८० || प्रविश्य हृदये ध्यायेत्सुप्तः स्वाच्छन्द्यमाप्नुयात् | आयातनिद्रे च शिशौ गुरुरभ्यर्च्य शङ्करम् || १५-४८१ || चरुं भुञ्जीत ससखा ततोऽद्याद्दन्तधावनम् | स्वप्याच्च मन्त्ररश्मीद्धहृच्चक्रार्पितमानसः || १५-४८२ || प्रातर्गुरुः कृताशेषनित्योऽभ्यर्चितशङ्करः | शिष्यात्मनोः स्वप्नदृष्टावर्थौ वित्ते बलाबलात् || १५-४८३ ||
SKस्वदृष्टं बलवन्नान्यत्संबोधोद्रेकयोगतः | बोधसाम्ये पुनः स्वप्नसाम्यं स्याद् गुरुशिष्ययोः || १५-४८४ || देवाग्निगुरुतत्पूजाकारणोपस्करादिकम् | हृद्या स्त्री मद्यपानं चाप्याममांसस्य भक्षणम् || १५-४८५ || रक्तपानं शिरश्छेदो रक्तविण्मूत्रलेपनम् | पर्वताश्वगजप्रायहृद्ययुग्याधिरोहणम् || १५-४८६ || यत्प्रीत्यै स्यादपि प्रायस्तत्तच्छुभमुदाहृतम् | तं ख्यापयेत्तुष्टिवृद्ध्यै ह्लादो हि परमं फलम् || १५-४८७ || अतोऽन्यदशुभं तत्र होमोऽष्टशतकोऽस्त्रतः | अशुभं नाशुभमिति शिष्येभ्यो कथयेद् गुरुः || १५-४८८ || रूढां हि शङ्कां विच्छेत्तुं यत्नः सङ्घटते महान् | येषां तु शङ्काविलयस्तेषां स्वप्नवशोत्थितम् || १५-४८९ || शुभाशुभं न किञ्चित्स्यात्.................. उक्तमिति--श्रीविज्ञानभैरवे | तत्र च पीनां च दुर्बलां चैवेति पाठः | चरुमिति--प्रागात्मनः कृते परिस्थापितम् | वित्ते इति-- विचारयति--इत्यर्थः | अनेन च स्वप्नस्य विचारणमुपक्रान्तम् | अन्यदिति--शिष्यदृष्टम् | स्वप्नसाम्यमिति--न तु बलाबलत्वम् | प्राय इति--न हि शिरश्छेदादेः प्रीतिकारित्वमस्ति--इति भावः | तमिति-- शुभं स्वप्नम् | अत इति--उक्तात्स्वप्नात् | अन्यदिति--विपरीतं पक्वमांसाशनादि | यदुक्तम्-- ᳚एतदेवान्यथाभूतं दुःस्वप्न इति कीर्त्यते | पक्वमांसाशनाभ्यङ्गगर्तादिपतनादिकम् ||᳚ इति | अस्त्रत इति--अस्त्रेण | अशुभाकथने द्वितीयार्धं हेतुः | तेषामिति--विलीनशङ्कानाम्, नहि निर्विकल्पस्य शुभाशुभविभाग एव भवेत्--इति भावः || त्रैगुण्यात्मकत्वाच्च एते स्वप्नेऽपि वैचित्र्यभाजो भवन्ति--इत्याह-- .............ष्युश्चेत्थं चित्रतावशात् | स्फुटं पश्यति सत्त्वात्मा राजसो लिङ्गमात्रतः || १५-४९० || न किञ्चित्तामसस्तस्य सुखदुःखाच्छुभाशुभम् | ननु इह तामसः किञ्चिदपि न पश्येत्, तत् कुतोऽस्य शुभाशुभनिश्चयः?--इत्याशङ्क्य उक्तम्�तस्य सुखदुःखाच्छुभाशुभमिति || ननु इह तामसस्य दीक्षाकर्मणि अधिकार एव कुतस्त्यः?-- इत्याशङ्कां प्रदर्श्य निराकरोति--
SKनन्वत्र तामसो नाम कथं योग्यो विधौ भवेत् || १५-४९१ || मैव मा विग्रहं कश्चित् क्वचित्कस्यापि वै गुणः | वैशब्दोऽवधारणे, स च सर्वत्र संबन्धनीयः | गुण इति-- अर्थादुद्रिक्तः || एतदेव दर्शयति-- सर्वसात्त्विकचेष्टोऽपि भोजने यदि तामसः || १५-४९२ || किं ततः सोऽधमः किंवाप्युत्कृष्टस्तद्विपर्ययः | तत इति--भोजनमात्रे तामसत्वात् | तद्विपर्यय इति--सर्वत्र तामसत्वे, भोजनमात्रे एव सात्त्विक इति || एतदेव प्रकृते योजयति-- आयातशक्तिपातोऽपि दीक्षितोऽपि गुणस्थितेः || १५-४९३ || विचित्रात्मा भवेदेव मुख्ये त्वर्थे समाहितः | गुणस्थितेरिति--प्राकृतस्य देहस्य कञ्चित्कालमवस्थानात् | मुख्ये इति-- दीक्षालक्षणे || इदानीं सामयं कर्म अभिधातुमाह-- ततो गुरुः शिशोर्मन्त्रपूर्वकं देवतार्चनम् || १५-४९४ || देशयेत्स च तत्कुर्यात्संस्कुर्यात्तं ततो गुरुः | हृदादिचक्रषट्कस्थान्ब्रह्मादीन् षट् समाहितः || १५-४९५ || स्पृशेच्छिशोः प्राणवृत्त्या प्रत्येकं चाष्ट संस्क्रियाः | हृदयादिद्विषट्कान्तं बोधस्पर्शपवित्रितः || १५-४९६ || तत इति--देवार्चनोपदेशाद्यनन्तरम् | तदेव आह--हृदादीत्यादि, हृदादीनि चक्राणि हृदयकण्ठतालुभ्रूमध्यललाटब्रह्मरन्ध्रलक्षणानि षट् | प्रत्येकमिति एवं हि अष्टानां षड्भर्गुणनादष्टचत्वारिंशत् संस्कारा भवन्ति--इत्यर्थः | बोधस्पर्शपवित्रित इति-- ᳚.....................षट्त्यागात्सप्तमे लयः |᳚ (४|२६७) इति दृष्ट्या द्वादशान्तावस्थितस्य परप्रमातृवपुषो बोधस्य स्पर्शेन, न तु साक्षात् तल्लयेन, पवित्रितस्तदनुविद्धायमानः कृतः--इत्यर्थः | यद्वक्ष्यति-- ᳚आपादितद्विजत्वस्य द्वादशान्ते निजैक्यतः | स्पर्शमात्रान्न विश्रान्त्या झटित्येवावरोहतः || रुद्रांशापादनं येन समयी संस्कृतो भवेत् |᳚ (तं.आ. १५-५२१) इति ||४९६ || एतावतैव च अस्य संस्कारान्तरसिद्धिः--इत्याह-- आहारबीजभावादिदोषध्वंसाद्भवेद् द्विजः | वसुवेदाख्यसंस्कारपूर्ण इत्थं द्विजः स्थितः || १५-४९७ || आदिशब्दात् देशः | यदुक्तम्--
SK᳚बीजाहारे तथा देशभावशुद्धौ द्विजो भवेत् |᳚ (स्व. ४|६८) इति | तत्र आहारदोषः श्रुतिस्मृत्युक्तप्रक्रियया तदनिर्वाहात्, बीजदोषो ᳚ब्रह्मण्यं बीजशुद्ध्या स्यात्सा च स्त्रीषु व्यवस्थिता | तासां च चपलं चेतश्चण्डालेष्वपि धावति ||᳚ इति || दृष्ट्या वास्तव्याया बीजशुद्धेरसंभाव्यमानत्वात्, भावदोषोऽसत्यानार्जवादियोगात्, देशदोषो म्लेच्छादिसंपर्कात् | वसवोऽष्टौ, वेदाश्चत्वारः, तेन अष्टचत्वारिंशता संस्कारैः संस्कृतः--इत्यर्थः ||४९७ || तानेव आह-- गर्भाधानं पुंसवनं सीमन्तो जातकर्म च | नाम निष्क्रामणं चान्नप्राशश्चूडा तथाष्टमी || १५-४९८ || व्रतबन्धैष्टिके मौज्जीभौतिके सौमिकं क्रमात् | गोदानमिति वेदेन्दुसंस्क्रिया ब्रह्मचर्यतः || १५-४९९ || प्रत्युद्वाहः पञ्चदशः सप्त पाकमखास्त्वतः | अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणीद्वयम् || १५-५०० || चैत्री चाश्वयुजी पश्चात् सप्तैव तु हविर्मखाः | आधेयमग्निहोत्रं च पौर्णमासः सदर्शकः || १५-५०१ || चातुर्मास्यं पशूद्बन्धः सौत्रामण्या सह त्वमी | अग्निष्टोमोऽतिपूर्वोऽथ सोक्थ्यः षोडशिवाजपौ || १५-५०२ || आप्तोर्यामातिरात्रौ च सप्तैताः सोमसंस्थिताः | हिरण्यपादादिमखः सहस्त्रेण समावृतः || १५-५०३ || अष्टत्रिंशस्त्वश्वमेधो गार्हस्थ्यमियता भवेत् | वानस्थ्यपारिव्राज्ये च चत्वारिंशदमी मताः || १५-५०४ || दया क्षमानसूया च शुद्धिः सत्कृतिमङ्गले | अकार्पण्यास्पृहे चात्मगुणाष्टकमिदं स्मृतम् || १५-५०५ || निष्क्रामणम् आदित्यदर्शनम् | व्रतबन्धः उपनयनम् | एष्टिकादिः वेदपाठकालानुष्ठेयं व्रतचतुष्टयम् | वेदाध्ययनान्ते उपाध्यायाय गोमिथुनदानेन उपलक्षितमात्मनः केशादिवपनं गोदानम् | वेदाश्चत्वारः, इन्दुरेकः ᳚ततो भवति गोदानं तच्चतुर्दशकं प्रिये |᳚ (स्व. १०|३९६)
SKइति | अत इति--उद्वाहानन्तरम् | श्राद्धं--मृतपित्रादिविषयम् | आग्रायणीद्वयं शरद्वसन्तयोर्नवान्नयागरूपम् |अतिपूर्व इति-- अत्यग्निष्टोमः | आदिशब्दः प्रकारे, तेन हिरण्यपादो दशप्रकारश्चैत्ययज्ञः--इत्यर्थः | सहस्रेणेति--एकैकस्य शतसमावृतत्वात् | तदुक्तम्-- ᳚हिरण्यपादः प्रथमस्तथा गुह्यहिरण्यधृत् | हिरण्यमेढ्रे हिरण्यनाभिर्हिरण्यगर्भ एव च || हिरण्यश्रोत्रो हिरण्यत्वग्घिरण्याक्षस्तथैव च | हिरण्यजिह्वस्तच्छृङ्गो दश यज्ञाः प्रकीर्तिताः || शतेन तु वृतं चात्र एकैकं तु विजानते |᳚ (स्व. १०|४०६) इति | वानस्थ्यमिति वानप्रस्थ्यम् | दया परानुकम्पा | क्षान्तिः अपकारिषु शक्तत्वेऽपि अप्रतिक्रिया | सत्कृतिः अनायासमनुष्ठानाच्छोभनं करणम् | मङ्गलम् प्रशस्तवस्त्वासेवनम् | आत्मेति--आत्मसंनिकृष्टस्य अन्तःकरणवर्गस्य, न तु साक्षादेव आत्मनः, तस्य चिदेकरूपत्वात् ||५०५ || अत्रैव संस्कारान्तराणामपि अन्तर्भावं दर्शयति-- मेखला दण्डमजिनत्र्यायुषे वह्न्युपासनम् | संध्या भिक्षेति संस्काराः सप्त सप्त व्रतानि च || १५-५०६ || भौतेशपाशुपत्ये द्वे गाणेशं गाणपत्यकम् | उन्मत्तकासिधाराख्यघृतेशानि चतुर्दश || १५-५०७ || एते तु व्रतबन्धस्य संस्कारा अङ्गिनः स्मृताः | पारिव्राज्यस्य गर्भे स्यादन्त्येष्टिरिति संस्कृतः || १५-५०८ || द्विजो भवेत्ततो योग्यो रुद्रांशापादनाय सः | एतान्प्राणक्रमेणैव संस्कारान्योजयेद् गुरुः || १५-५०९ || अथवाहुतियोगेन तिलाद्यैर्मन्त्रपूर्वकैः | त्र्यायुषं भस्मपुण्ड्रकम् | व्रतबन्धस्य अङ्गिन इति | यदुक्तम्-- ङवमो व्रतबन्धस्तु स चाङ्गी परिकीर्तितः |᳚ (स्व. १०|३८८) इति | एतानिति--अष्टचत्वारिंशत् || मन्त्रपूर्वकैरित्युक्तिं स्फुटयति-- प्रणवो हृदयं नाम शोधयाम्यग्निवल्लभा || १५-५१० || एवं क्रमेण मूर्धाद्यैरङ्गैरेतत्पुनः पुनः | हृदयमिति--विद्याङ्गसंबन्धि | तेन प्रतिसंस्कारं विद्याङ्गपञ्चकेन आह--श्रुतिपञ्चकमेवमूहेन दातव्यमिति उक्तम्-- एतत्पुनः पुनरिति ||
SKननु अयं द्विजत्वापत्त्या रुद्रांशापादनाय योग्यो भवेदिति कस्मादुक्तम्?--इत्याशङ्क्य आह-- यतश्चिद्धर्म एवासौ शान्त्याद्यात्मा द्विजन्मता || १५-५११ || तेन रुद्रतया संवित्तत्क्रमेणैव जायते | येन असौ द्विजन्मता नाम ᳚शान्तो दान्तो जितक्रोध...................... |᳚ इत्यादिदृष्ट्या शान्त्याद्यात्मकत्वादुद्भवन्त्याश्चितः समुपचितिरूप एव धर्मः, तेन यथायथमुपचितत्वेन हेतुना द्विजत्वापादनप्रथनमेव संवित् रुद्रतया जायते तदंशापादनयोग्योऽयं भवेत्--इति भावः || एतदेव दृष्टान्तमुखेन हृदयङ्गमयति-- यथा हेमादिधातूनां पाके क्रमवशाद्भवेत् || १५-५१२ || रजतादि तथा संवित्संस्कारे द्विजतान्तरे | यथा हि हेमाद्युत्पत्तिनिमित्तानां द्रव्यविशेषाणां पाके क्रियमाणे रजताद्यापत्तिक्रमेण तथाभावो भवेत्, तथैव संविदि संस्क्रियमाणायां द्विजतान्तरे तदासादनपुरःसरीकारेण रुद्रांशापत्तिर्भवेत्--इत्यर्थः || ननु अविप्लुतात् ब्रह्मणादविप्लुतायां ब्रह्मण्यां जातो द्विज इति उच्यते, तत् कथमेतदुक्तम् ?--इत्याशङ्क्य आह-- योनिर्न कारणं तत्र शान्तात्मा द्विज उच्यते || १५-५१३ || ननु केन एवमुक्तम्?--इत्याशङ्क्य आह-- मुनिना मोक्षधर्मादावेतच्च प्रविवेचितम् | यदुक्तं तेन-- ᳚येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या | गतिज्ञः सर्वभूतानां तं देवा ब्रह्मणं विदुः || अभयं सर्वभूतेम्यः सर्वेषामभयं यतः | सर्वभूतात्मभूतो यस्तं देवा ब्रह्मणं विदुः ||᳚ इति || ᳚शूद्रोऽपि शीलसंपन्नो गुणवान्ब्रह्मणो भवेत् | पञ्चेन्द्रियार्णवं घोरं यदि शूद्रोऽपि तीर्णवान् || तस्मै दानं प्रदातव्यमप्रमेयं युधिष्ठिर | न जातिर्दृश्यते राजन्गुणाः कल्याणकारकाः ||᳚ इति || न च एतदनेनैव उक्तम्--इत्याह-- मुकुटादिषु शास्त्रेषु देवेनापि निरूपितम् || १५-५१४ || तदुक्तं तत्र-- ᳚शिवधर्मानुयायी च श्रद्दधानः शिवात्मकः | शिवे ज्ञाने गुरौ भक्तः प्रीतः सब्रह्मचारिषु || अनसूयुर्दृष्टतत्त्वः संस्कृतश्च शिवाध्वरे | अन्त्यजातोऽपि हीनाङ्गः साधकः स च मोक्षभाक् ||
SKएभिर्गुणैर्वियुक्तात्मा ब्रह्मणोऽपि न मोक्षभाक् | द्विजोऽपि मायी त्याज्यस्तु म्लेच्छो ग्राह्यो ह्यमायकः || स प्रियस्तु महेशस्य चतुर्वेदो न दाम्भिकः | शिवद्वेषी पापकर्मा शिवधर्मादिदूषकः || ब्रह्मणेन कृतं पापं शूद्रेण सुकृतं कृतम् | किं तत्र कारणं जातिर्धर्माधर्मेषु शस्यते ||᳚ इत्यादि बहुप्रकारम् ||५१४ || ननु एतत् स्मृत्यादिशास्त्रान्तरविरोधात् कथं घटते?--इत्याशङ्क्य आह-- संविदो देहसंभेदात्सदृशात्सदृशोदयात् | भूमाभिप्रायतः स्मार्ते द्विजन्मा द्विजयोः सुतः || १५-५१५ || संविदो हि देहसंभेदमवलम्ब्य सदृशादविप्लुतात् सदृशस्य अविप्लुत स्यैव उदयात् हेतोः स्मृतिशास्त्रे बाहुल्याभिप्रायेण द्विजयोः सुतो द्विजन्मेति स्मृतः ||५१५ || ननु कुतोऽत्र भूम्ना एतदुक्तम्?--इत्याशङ्क्य आह-- अन्त्यजातीयधीवादिजननीजन्मलाभतः | उत्कृष्टचित्ता ऋषयः किं ब्रह्मण्येन भाजनम् || १५-५१६ || धीवेति--धीवरी | ऋषय इति--व्यासादयः ||५१६ || अनेनैव आशयेन अस्मद्दर्शने न जात्यादिपरिग्रहः--इत्याह-- अत एवार्थसत्तत्त्वदेशिन्यस्मिन्न दिश्यते | रहस्यशास्त्रे जात्यादिसमाचारो हि शाम्भवे || १५-५१७ || ननु यदि एवं तत् स्मृत्यादावपि एवमेव कस्मात् न उक्तम्?--इत्याशङ्क्य आह-- पाशवानि तु शास्त्राणि वामशक्त्यात्मकान्यलम् | सृष्ट्यादिसिद्धये शंभोः शङ्का तत्फलकॢप्तये || १५-५१८ || सृष्ट्यादिर्लोकव्यवहारः | शङ्केति-- ᳚जातिशङ्का द्रव्यशङ्का........................ |᳚ इत्येवमादिना उक्ता | तत्फलं स्वर्निरयादि || एवमेतत् प्रसङ्गादभिधाय प्रकृतमेव आह-- आपादितद्विजत्वस्य द्वादशान्ते निजैक्यतः | स्पर्शमात्रान्न विश्रान्त्या झटित्येवावरोहतः || १५-५१९ || रुद्रांशापादनं येन समयी संस्कृतो भवेत् | न विश्रान्त्येति--एवं हि परमशिवे एव योजना कृता भवेत्--इति भावः || ननु एवं संस्कृतत्वे अस्य किं स्यात्?--इत्याशङ्क्य आह-- अधीतौ श्रवणे नित्यं पूजायां गुरुसेवने || १५-५२० || समय्यधिकृतोऽन्यत्र गुरुणा विभुमर्चयेत् | अन्यत्रेति--नैमित्तिकादौ | यथोक्तम्--
SKङित्यादित्रितयं कुर्याद् गुरुः साधक एव च | नित्यमेवं द्वयं चान्यद्यावज्जीवं शिवाज्ञया ||᳚ इति || ननु अस्य किं श्रोतव्यमध्येतव्यं वा ?--इत्याशङ्कां गर्भीकृत्य समयान् वक्तुमुपक्रमते-- तमापादितरुद्रांशं समयान् श्रावयेद् गुरुः || १५-५२१ || अष्टाष्टकात्मकान्देव्यायामलादौ निरूपितान् | अवादोऽकरणं गूढिः पूजा तर्पणभावने || १५-५२२ || हननं मोहनं चेति समयाष्टकमष्टधा | स्वभावं मन्त्रतन्त्राणां समयाचारमेलकम् || १५-५२३ || असत्प्रलापं परुषमनृतं नाष्टधा वदेत् | अफलं चेष्टितं हिंसां परदाराभिमर्शनम् || १५-५२४ || गर्वं दम्भं भूतविषव्याधितन्त्रं न चाचरेत् | स्वं मन्त्रमक्षसूत्रं च विद्यां ज्ञानस्वरूपकम् || १५-५२५ || समाचारान्गुणान्क्लेशान्सिद्धिलिङ्गानि गूहयेत् | गुरुं शास्त्रं देववह्नी ज्ञानवृद्धांस्त्रियो व्रतम् || १५-५२६ || गुरुवर्गं यथाशक्त्या पूजयेदष्टकं त्विदम् | दीनान्क्लष्टान्पितॄन्क्षेत्रपालान्प्राणिगणान् खगान् || १५-५२७ || श्माशानिकं भूतगणं देहदेवीश्च तर्पयेत् | शिवं शक्तिं तथात्मानं मुद्रां मन्त्रस्वरूपकम् || १५-५२८ || संसारभुक्तिमुक्तीश्च गुरुवक्त्रात्तु भावयेत् | रागं द्वेषमसूयां च सङ्कोचेर्ष्याभिमानिताः || १५-५२९ || समयप्रतिभेत्तंस्तदनाचारांश्च घातयेत् | पशुमार्गस्थितान्क्रूरान्द्वेषिणः पिशुनाञ्जडान् || १५-५३० || राज्ञश्चानुचरान्पापान्विघ्नकर्तंश्च मोहयेत् | शाकिन्यः पूजनीयाश्च ताश्चेत्थं श्रीगमोदिताः || १५-५३१ || साहसं द्विगुणं यासां कामश्चैव चतुर्गुणः | लोभश्चाष्टगुणस्तासां शङ्क्यं शाकिन्य इत्यलम् || १५-५३२ || कुलाम्नायस्थिता वीरद्रव्यबाह्यास्तु ये न तैः | पशुभिः सह वस्तव्यमिति श्रीमाधवे कुले || १५-५३३ || देवताचक्रगुर्वग्निशास्त्रं साम्यात्सदार्चयेत् | अनिवेदितमेतेभ्यो न किञ्चिदपि भक्षयेत् || १५-५३४ || एतद्द्रव्यं नापहरेद् गुरुवर्गं प्रपूजयेत् | स च तद्भ्रतृभार्यातुक्प्रायो विद्याकृतो भवेत् || १५-५३५ || न योनिसंबन्धकृतो लौकिकः स पशुर्यतः |
SKतस्याभिष्वङ्गभूमिस्तु गुर्वाराधनसिद्धये || १५-५३६ || अर्च्य्ॐ न स्वमहिम्ना तु तद्वर्गो गुरुवत्पुनः | गुरोर्निन्दां न कुर्वीत तस्यै हेतुं न चाचरेत् || १५-५३७ || न च तां शृणुयान्नैनं कोपयेन्नाग्रतोऽस्य च | विनाज्ञया प्रकुर्वीत किञ्चित्तत्सेवनादृते || १५-५३८ || लौकिकालौकिकं कृत्यं क्रोधं क्रीडां तपो जपम् | गुरूपभुक्तं यत्किञ्चिच्छय्यावस्त्रासनादिकम् || १५-५३९ || नोपभुञ्जीत तत्पद्भ्यां न स्पृशेत् किन्तु वन्दयेत् | तत्रत्यमेव एषामष्टाष्टकात्मकत्वं दर्शयति--अवाद इत्यादिना | समयस्तत्तद्रहस्ययागरूपः, आचारस्तत्समुचिता क्रिया | नाचरेदिति-- न कुर्यात्--इत्यर्थः | विद्यां पाण्डित्यादिरूपां स्वोत्कर्षपरतया | ज्ञानस्वरूपं तत्त्वपरिज्ञानम् | व्रतं स्वकं मुद्रादि | प्राणिगणा गवादयः | न किञ्चिदिदमिति संसारस्य भावनम् | प्रज्वलनात्मको द्वेषः | गुणेषु दोषारोपणमसूया | परोत्कर्षासहनमीर्ष्या | द्विगुणमिति स्त्र्यन्तराभिप्रायेण | स चेति गुरुवर्गः | तुगिति--तनयः | यत् निघण्टुः ᳚तुक् तोकं तनयः᳚ (२|२) इति | स इति--योनिसंबन्धकृतः | तदभिष्वङ्गभूमित्वमर्चने हेतुः | तस्यै--गुरुनिन्दायै | तामिति--गुरुनिन्दाम् | एनमिति--गुरुम्, तत्सेवनं हि विनैव तदाज्ञां भवेत्--इति भावः || ननु कस्मादेवं गुर्वाराधने भरः?--इत्याशङ्क्य आह-- श्रीमत्त्रैशिरसेऽप्युक्तं कृच्छ्रचान्द्रायणादिभिः || १५-५४० || अरण्ये काष्ठवत्तिष्ठेदसिधाराव्रतोऽपि सन् | नियमस्थो यमस्थोऽपि तत्पदं नाश्नुते परम् || १५-५४१ || गुर्वाराधनसक्तस्तु मनसा कर्मणा गिरा | प्राप्नोति गुरुतस्तुष्टात् पूर्णं श्रेयो महाद्भुतम् || १५-५४२ || हिमपातैर्यथा भूमिश्छादिता सा समन्ततः | मारुतश्लेषसंयोगादश्मवत्तिष्ठते सदा || १५-५४३ || यमादौ निश्चले तद्वद्भाव एकस्तु गृह्यते | गुरोस्त्वाराधितात्पूर्णं प्रसरज्ज्ञानमाप्यते || १५-५४४ || सर्वतोऽवस्थितं चित्त्वं ज्ञेयस्थं यस्य तत्कथा | सद्य एव नयेदूर्ध्वं तस्मादाराधयेद् गुरुम् || १५-५४५ ||
SKश्रीसारेऽप्यस्य संभाषात्पातकं नश्यति क्षणात् | तस्मात्परीक्ष्य यत्नेन शास्त्रोक्त्या ज्ञानलक्षणैः || १५-५४६ || शास्त्राचारेण वर्तेत तेन सङ्गं तथा कुरु | स्नेहाज्जातु वदेज्ज्ञानं लोभान्न ह्रियते हि सः || १५-५४७ || तेन तुष्टेन तृप्यन्ति देवाः पितर एव च | उत्तीर्य नरकाद्यान्ति सद्यः शिवपुरं महत् || १५-५४८ || भुङ्क्ते तिष्ठेद्यत्र गृहे व्रजेच्छिवपुरं तु सः | इति ज्ञात्वा सदा पित्र्ये श्राद्धे स्वं गुरुमर्चयेत् || १५-५४९ || भुञ्जीत स स्वयं चान्यानादिशेत्तत्कृते गुरुः | यो दीक्षितस्तु श्राद्धादौ स्वतन्त्रं विधिमाचरेत् || १५-५५० || तस्य तन्निष्फलं सर्वं समयेन च लङ्घ्यते | सैद्धान्तिकार्पितं चण्डीयोग्यं द्रव्यं विवर्जयेत् || १५-५५१ || शाकिनीवाचकं शब्दं न कदाचित्समुच्चरेत् | स्त्रियः पूज्या विरूपास्तु वृद्धाः शिल्पोपजीविकाः || १५-५५२ || अन्त्या विकारिताङ्ग्यश्च वेश्याः स्वच्छन्दचेष्टिताः | तथा च श्रीगमे प्रोक्तं पूजनीयाः प्रयत्नतः || १५-५५३ || निराचाराः सर्वभक्ष्या धर्माधर्मविवर्जिताः | स्वच्छन्दगाः पलाशिन्यो लम्पटा देवता इव || १५-५५४ || वेश्याः पूज्यास्तद्गृहं च प्रयागोऽत्र यजेत्क्रमम् | स्त्रीषु तन्नाचरेत्किञ्चिद्येन ताभ्यो जुगुप्सते || १५-५५५ || अतो न नग्नास्ताः पश्येन्नचापि प्रकटस्तनीः | वृद्धायाः संस्थिताया वा न जुगुप्सेत मुद्रिकाम् || १५-५५६ || वैकृत्यं तत्र सौरूप्यं मेलकं न प्रकाशयेत् | देवमूर्तिं शून्यतनुं पूजयेत्त्रिपथादिषु || १५-५५७ || सर्वपर्वसु सामान्यविशेषेषु विशेषतः | पूजा गुरोरनध्यायो मेलके लोभवर्जनम् || १५-५५८ || न जुगुप्सेत मद्यादि वीरद्रव्यं कदाचन | न निन्देदथ वन्देत नित्यं तज्जोषिणस्तथा || १५-५५९ || उपदेशाय न दोषा हृदयं चेन्न विद्विषेत् | विजातीयविकल्पांशोत्पुंसनाय यतेत च || १५-५६० || गुरोः शास्त्रस्य देवीनां नाम मन्त्रे यतस्ततः | अर्चातोऽन्यत्र नोच्चार्यमाहूतं तर्पयेत्ततः || १५-५६१ || आगतस्य च मन्त्रस्य न कुर्यात्तर्पणं यदि | हरत्यर्धशरीरं तदित्यूचे भगवान्यतः || १५-५६२ ||
SKश्रीमदूर्मौ च देवीनां वीराणां चेष्टितं न वै | प्रथयेन्न जुगुप्सेत वदेन्नाद्रव्यपाणिकः || १५-५६३ || श्रीपूर्वं नाम वक्तव्यं गुरोर्द्रव्यकरेण च | गुर्वादीनां न लङ्घ्या च छाया न तैर्थिकैः सह || १५-५६४ || जल्पं कुर्वन्स्वशास्त्रार्थं वदेन्नापि च सूचयेत् | नित्याद्विशेषपूजां च कुर्यान्नैमित्तिके विधौ || १५-५६५ || ततोऽपि मध्ये वर्षस्य ततोऽपि हि पवित्रके | अन्यस्तमन्त्रो नासीत सेव्यं शास्त्रान्तरं च नो || १५-५६६ || अप्ररूढं हि विज्ञानं कम्पेतेतरभावनात् | गृहोपस्करणास्त्राणि देवतायागयोगतः || १५-५६७ || अर्च्यानीति न पद्भ्यां वै स्पृशेन्नापि विलङ्घयेत् | गुरुवर्गे गृहायाते विशेषं कञ्चिदाचरेत् || १५-५६८ || दीक्षितानां न निन्दादि कुर्याद् विद्वेषपूर्वकम् | उपदेशाय नो दोषः स ह्यविद्वेषपूर्वकः || १५-५६९ || न वैष्णवादिकाधःस्थदृष्टिभिः संवसेदलम् | सहभोजनशय्याद्यैर्नैषां प्रकटयेत्स्थितिम् || १५-५७० || उक्तं श्रींमाधवकुले शासनान्तरसंस्थितान् | वेदोक्तिं वैष्णवोक्तिं च तैरुक्तं वर्जयेत्सदा || १५-५७१ || भाव एक इति--तत्रैव सावधानत्वात् निश्चलः--इत्यर्थः | ज्ञानस्य प्रसरद्रूपत्वे हेतुस्तस्य सर्वतोऽवस्थितं चित्त्वं ज्ञेयस्थमिति | न केवलं तदुपदेशादेवं भवेत्, यावत् तत्संभाषणमात्रादपि-- इत्याह--तत्कथेति | संस्थिताया मृतायाः | तत्रेति--मुद्रिकायाम् | तज्जोषिणो--वीरद्रव्यरतान् | उपदेशायेति ᳚क्व मद्यं क्व शिवे भक्तिः᳚ इत्यादेः | अत्र हि उपदेश्याशयसंतोषणमात्रं फलम् | वर्षमध्ये इति यदाकदाचन सामग्री भवेत्--इति भावः | शास्त्रान्तरमिति--स्वशास्त्रविरुद्धम् | गृहोपस्करणानि--चुल्ल्यादीनि | तैरिति--वेदादिस्थितैः || अत्र हेतुः-- अकुलीनेषु संपर्कात्तत्कुलात्पतनाद्भयम् | एकपात्रे कुलाम्नाये तस्मात्तान्परिवर्जयेत् || १५-५७२ || प्रमादाच्च कृते सख्ये गोष्ठ्यां चक्रं तु पूजयेत् | श्रीमदूर्मौ च कथितमागमान्तरसेवके || १५-५७३ || गुर्वन्तररते मूढे देवद्रव्योपजीवके |
SKशक्तिहिंसाकरे दुष्टे संपर्कं नैव कारयेत् || १५-५७४ || न विकल्पेन दीक्षादौ व्रजेदायतनादिकम् | उक्तास्थाशिथिलत्वे यन्निमित्तं नैव तच्चरेत् || १५-५७५ || शासनस्थान्पुराजात्या न पश्येन्नाप्युदीरयेत् | न च व्यवहरेत्सर्वाञ्छिवाभेदेन केवलम् || १५-५७६ || सद्विद्यैः साकमासीत ज्ञानदीप्त्यै यतेत च | नासंस्कृतां व्रजेत्तज्जं विफलत्वं नचानयेत् || १५-५७७ || मेलकार्धनिशाचर्या जनवर्जं च तन्नहि | मांसादिदाहगन्धं च जिघ्रेद्देवीप्रियो ह्यसौ || १५-५७८ || गुर्वाज्ञां पालयन्सर्वं त्यजेन्मन्त्रमयो भवेत् | शास्त्रपूजाजपध्यानविवेकस्तदुपक्रियाः || १५-५७९ || अकुर्वन्निष्फलां नैव चेष्टेत त्रिविधां क्रियाम् | मन्त्रतन्त्रैर्न वादं च कुर्यान्नो भक्षयेद्विषम् || १५-५८० || समयानां विलोपे च गुरुं पृच्छेदसन्निधौ | तद्वर्गं निजसन्तानमन्यं तस्याप्यसंनिधौ || १५-५८१ || तेनोक्तमनुतिष्ठेच्च निर्विकल्पं प्रयत्नतः | यतः शास्त्रादिसंबोधतन्मयीकृतमानसः || १५-५८२ || शिव एव गुरुर्नास्य वागसत्या विनिःसरेत् | शिवस्य स्वात्मसंस्कृत्यै प्रह्वीभावो गुरोः पुनः || १५-५८३ || ह्लादायेत्युभयार्थाय तत्तुष्टिः फलदा शिशोः | गुर्वायत्तैकसिद्धिर्हि समय्यपि विबोधभाक् || १५-५८४ || तद्बोधबहुमानेन विद्याद् गुरुतमं गुरुम् | अतः संप्राप्य विज्ञानं यो गुरौ बाह्यमानवान् || १५-५८५ || नासौ विज्ञानविश्वस्तो नासत्यं भ्रष्ट एव सः | ज्ञानानाश्वस्तचित्तं तं वचोमात्रेण शास्त्रितम् || १५-५८६ || भक्तं च नार्चयेज्जातु हृदा विज्ञानदूषकम् | तादृक् च न गुरुः कार्यस्तं कृत्वापि परित्यजेत् || १५-५८७ || मुख्यबुद्ध्या न संपश्येद्वैष्णवादिगतान्गुरुन् | तथा च श्रीमदूर्म्याख्ये गुरोरुक्तं विशेषणम् || १५-५८८ || गुर्वाज्ञा प्राणसंदेहे नोपेक्ष्या नो विकल्प्यते | कौलदीक्षा कौलशास्त्रं तत्त्वज्ञानं प्रकाशितम् || १५-५८९ || येनासौ गुरुरित्युक्तो ह्यन्ये वै नामधारिणः | श्रीमदानन्दशास्त्रे च तथैवोक्तं विशेषणम् || १५-५९० || यस्माद्दीक्षा मन्त्रशास्त्रं तत्त्वज्ञानं स वै गुरुः |
SKतिष्ठेदव्यक्तलिङ्गश्च न लिङ्गं धारयेत् क्वचित् || १५-५९१ || न लिङ्गिभिः समं कैश्चित्कुर्यादाचारमेलनम् | केवलं लिङ्गिनः पाल्या न बीभत्स्या विरूपकाः || १५-५९२ || श्रीमद्रात्रिकुले चोक्तं मोक्षः शङ्कापहानितः | अशुद्धवासनस्यैषा मोक्षवार्तापि दुर्लभा || १५-५९३ || न लिखेन्मन्त्रहृदयं श्रीमन्मालोदितं किल | तदङ्गादुद्धरेन्मन्त्रं न तु लेखे विलेखयेत् || १५-५९४ || अतत्त्वेऽभिनिवेशं च न कुर्यात्पक्षपाततः | जातिविद्याकुलाचारदेहदेशगुणार्थजान् || १५-५९५ || ग्रहान्ग्रहानिवाष्टौ द्राक्त्यजेद् गह्वरर्शितान् | तथा श्रीनिशिचारादौ हेयत्वेनोपदर्शितान् || १५-५९६ || ब्रह्मणोऽहं मया वेदशास्त्रोक्तादपरं कथम् | अनुष्ठेयमयं जातिग्रहः परनिरोधकः || १५-५९७ || एवमन्येऽप्युदाहार्याः कुलगह्वरवर्त्मना | तानिति--वेदादिस्थितान् | विकल्पेनेति--संशयेन | असंदिग्धचित्तस्तु वक्ष्यमाणनीत्या व्रजेदेव--इत्याशयः | पुराजातिर्ब्रह्मणादिलक्षणा | शिवाभेदेन पश्येदित्यादिः संबन्धः | यथोक्तम्� ᳚प्राग्जात्युदीरणाद्देवि प्रायश्चित्ती भवेन्नरः | दिनत्रयं तु रुद्रस्य पञ्चाहं केशवस्य च || पितामहस्य पक्षैकं नरके पच्यते तु सः ||᳚ (स्व. ४|५४५) इति, ᳚ब्रह्मणाः क्षत्रिया वैश्याः शूद्रा वै वीरवन्दिते | आचार्यत्वे नियुक्ता ये सर्वे ते तु शिवाः स्मृताः ||᳚ (स्व. ४|४१४) इति च | असंस्कृतामकृतदीक्षां व्रजेत् सङ्गच्छेत् | तज्जमिति-- कुण्डगोलकादि | सर्वं त्यजेदिति यथा तदाज्ञा पालिता भवेत्--इति भावः | पृच्छेदिति--प्रायश्चित्तम् | अन्यमिति--गुर्वन्तरम् | तस्येति-- निजसन्तानस्य | तेनेति--अन्येन | शिवस्य हि नमस्कारे न शिवे कश्चित् विशेषः, अपि तु नमस्कर्तुरात्मनि; गुरौ पुनस्तथाभावे स्वात्मसंस्कारेऽपि तदाह्लादो भवेदेवेति उक्तमुभयार्थाय--इति | कृत्वापीति--प्रमादात् | नो विकल्प्यते इति--किं कार्या न वेति || ननु जात्यादौ ग्रहतया निरूपणं कस्मात् कृतम् ?--इत्याशङ्क्य आह-- अतत्स्वभावे ताद्रूप्यं दर्शयन्नवशेऽपि यः || १५-५९८ ||
SKस्वरूपाच्छादकः सोऽत्र ग्रहो ग्रह इवोदितः | एतदेव प्रपञ्चयति-- संवित्स्वभावे नो जातिप्रभृतिः कापि कल्पना || १५-५९९ || रूपं सा त्वस्वरूपेण तद्रूपं छादयत्यलम् | या काचित्कल्पना संवित्तत्त्वस्याखण्डितात्मनः || १५-६०० || सङ्कोचकारिणी सर्वः स ग्रहस्तां परित्यजेत् | श्रीमदानन्दशास्त्रे च कथितं परमेष्ठिना || १५-६०१ || निरपेक्षः प्रभुर्वामो न शुद्ध्या तत्र कारणम् | देवीतृप्तिर्मखे रक्तमांसैर्नो शौचयोजनात् || १५-६०२ || द्विजान्त्यजैः समं कार्या चर्चान्तेऽपि मरीचयः | अविकारकृतस्तेन विकल्पान्निरयो भवेत् || १५-६०३ || सर्वदेवमयः कायः सर्वप्राणिष्विति स्फुटम् | श्रीमद्भिर्नकुलेशाद्यैरप्येतत्सुनिरूपितम् || १५-६०४ || शरीरमेवायतनं नान्यदायतनं व्रजेत् | तीर्थमेकं स्मरेन्मन्त्रमन्यतीर्थानि वर्जयेत् || १५-६०५ || विधिमेनं सुखं ज्ञात्वा विधिजालं परित्यजेत् | समाधिर्निश्चयं मुक्त्वा न चान्येनोपलभ्यते || १५-६०६ || इति मत्वा विधानज्ञः संमोहं परिवर्जयेत् | मन्त्रस्य हृदयं मुक्त्वा न चान्यत्परमं क्कचित् || १५-६०७ || इति मत्वा विधानज्ञो मन्त्रजालं परित्यजेत् | नैवेद्यं प्राशयेन्नद्यास्तच्छेषं च जले क्षिपेत् || १५-६०८ || तैर्भुक्ते न भवेद्दोषो जलजैः पूर्वदीक्षितैः | ननु अत्र समयशब्दस्य प्रवृत्तौ किं निमित्तम्?--इत्याशङ्क्य आह-- अवश्यपालनीयत्वात्परतत्त्वेन सङ्गमात् || १५-६०९ || ज्ञानप्राप्त्यभ्युपायत्वात्समयास्ते प्रकीर्तिताः | एवं संश्राव्य समयान्देवं संपूज्य दैशिकः || १५-६१० || विसर्जयेत्स्वचिद्व्योम्नि शान्ते मूर्तिविलापनात् | यदि पुत्रकदीक्षास्य न कार्या समनन्तरम् || १५-६११ || तदाभिषिञ्चेत्सास्त्रेण शिवकुम्भेन तं शिशुम् | आत्मानं च ततो यस्माज्जलमूर्तिर्महेश्वरः || १५-६१२ || मन्त्रयुङ्नखिलाप्यायी कार्यं तदभिषेचनम् |
SKअस्य च अवश्यपरिपालनीयतारूपता रूढ्या | समयन्ति सङ्गच्छन्ते परं तत्त्वमनेनेति, सम्यगयनं ज्ञानमस्मादिति च व्युत्पत्त्या समयशब्दः प्रवृत्तः--इत्यर्थः | न कार्येति कार्यायां पुनरभिषेको न भवेत्--इति भावः || आह्निकार्थमेव प्रथमार्धेन उपसंहरति इति समयदीक्षणमिदं प्रकाशितं विस्तराच्च संक्षेपात् || १५-६१३ || विस्तरादिति--अर्थात् | संक्षेपादिति--ग्रन्थत इति शिवम् || ६१३ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके समयदीक्षाप्रकाशनं नाम पञ्चदशमाह्निकम् ||१५ || नित्यनिमित्तादिबहुप्रकारकर्मप्रपञ्चपञ्चमुखः | पञ्चदशमाह्निकमिदं व्यपञ्चयज्जयरथाभिख्यः || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते समयदीक्षाप्रकाशनं नाम पञ्चदशमाह्निकं समाप्तम् || १५ || षोडशमाह्निकम् ᳚ विवेकः ᳚ प्रणमामि निखिलपाशप्रवाहसंभेदभेदबलभद्रम् | बलभद्रं प्राणाश्वप्रचारचातुर्यपूर्णबलम् || इदानीं समयदीक्षानन्तरं भाविनीं पुत्रकदीक्षां निरूपयितुं द्वितीयार्धेन प्रतिजानीते-- अथ पुत्रकत्वसिद्ध्यै निरूप्यते शिवनिरूपितोऽत्र विधिः | तमेवाह� यदा तु समयस्थस्य पुत्रकत्वे नियोजनम् | गुरुकत्वे साधकत्वे वा कर्तुमिच्छति दैशिकः || १६-१ || तदाधिवासं कृत्वाह्नि द्वितीये मण्डलं लिखेत् | सामुदायिकयागेऽथ तथान्यत्र यथोदितम् || १६-२ || सामुदायिकमेव यागं निरूपयति-- षडष्टतद्द्विगुणितचतुर्विंशतिसंख्यया | चक्रपञ्चकमाख्यातं शास्त्रे श्रीपूर्वसंज्ञिते || १६-३ || द्वात्रिंशत्तद्द्विगुणितं श्रीमत्त्रैशिरसे मते | असंख्यचक्रसंबन्धः श्रीसिद्धादौ निरूपितः || १६-४ || अत्र चोभयत्रापि त्रिशूलाब्जमेव मण्डलमुचितम्--इत्याह-- तस्माद्यथातथा यागं यावच्चक्रेण संमितम् | पूजयेद्येन तेनात्र त्रिशूलत्रयमालिखेत् || १६-५ || त्रिशूलत्रितये देवीत्रयं पर्यायवृत्तितः | मध्यसव्यान्यभेदेन पूर्णं संपूजितं भवेत् || १६-६ ||
SKवर्तना मण्डलस्याग्रे संक्षेपादुपदेक्ष्यते | आलिख्य मण्डलं गन्धवस्त्रेणैवास्य मार्जनम् || १६-७ || कृत्वा स्नातो गुरुः प्राग्वन्मण्डलाग्रेऽत्र देवताः | बाह्यगाः पूजयेद् द्वारदेशे च द्वारदेवताः || १६-८ || मण्डलस्य पुरोभागे तदैशानदिशः क्रमात् | आग्नेय्यन्तं गणेशादीन् क्षेत्रपान्तान्प्रपूजयेत् || १६-९ || गणपतिगुरुपरमाख्याः परमेष्ठी पूर्वसिद्धवाक्क्षेत्रपतिः | इति सप्तकमाख्यातं गुरुपङ्क्तविधौ प्रपूज्यमस्मद्गुरुभिः || १६-१० || तत आज्ञां गृहीत्वा तु पुष्पधूपादिपूजितम् | पूज्यमाधारशक्त्यादि शूलमूलात्प्रभृत्यलम् || १६-११ || शिवान्तं सितपद्मान्ते त्रिशूलानां त्रये क्रमात् | पर्यायवृत्तित इति--क्रमेण | अग्र इति--एकत्रिंशाह्निके | बाह्यगा देवता इति--बाह्यपरिवारः | पूर्वसिद्ध इति--एतद्दर्शनावतारक आद्यो विच्छिन्नसंतानः, यस्तु अद्यतनः प्रतिनियतप्रक्रान्तशास्त्रनिष्ठो विशिष्टो गुरुक्रमः स न बाह्यपूजायां पूज्य इत्यनेन कटाक्षितम्, यद्वा विशिष्टायामेव गुरुपङ्क्तौ पूज्यायामेतदादीतरमपि प्रपूज्यमिति | वागिति--वागीश्वरी || अत्रैव गुणप्रधानभावेन सभैरवस्य देवीत्रयस्यावस्थितिं दर्शयितुमाह-- मध्यशूले मध्यगः स्यात्सद्भावः परया सह || १६-१२ || वामे चापरया साकं नवात्मा दक्षगं परम् | त्रिशूले दक्षिणे मध्यशृङ्गस्थो रतिशेखरः || १६-१३ || स्यात्परापरया साकं दक्षे भैरवसत्परे | वामे त्रिशूले मध्यस्थो नवात्मापरया सह || १६-१४ || स्यात्परे परया साकं वामारे संश्च भैरवः | वाम इति--मध्यापेक्षया | परमिति--अन्यदवशिष्टं रतिशेखरपरापरलक्षणम् | दक्षिण इति--साधकापेक्षया | दक्ष इति--तत्रैव, अर्थादवशिष्टायामरायाम् | वाम इति-- साधकापेक्षयैव | पर इति--अन्यस्मिन्नवशिष्टे वामारे | संश्च भैरव इति--सद्भावभैरवश्च--इत्यर्थः | चः पूर्वापेक्षया | येषां पुनः श्यात्परे परया साकं वामारे संश्च भैरवः |᳚ इत्यर्धं नास्ति, तैः पूर्वतो दक्षे भैरवसत्पर इत्येव योज्यम् |
SKश्यात्परापरया साकं वामारे रतिशेखरः |᳚ इत्येवं तु गतार्थत्वादुपेक्ष्यमेव | एवं मध्यशूले परायाः प्राधान्यम्, दक्षिणे परापरायाः, वामे चापरायाः, इतरद्देवीद्वयं पुनरङ्गतया सर्वत्र पार्श्वयोरित्युक्तं स्यात् | एवमपि परादेव्या एव त्रिशूलत्रयेऽपि साक्षादवस्थानमन्ययोः पुनः श्लिष्टतया न तथा--इत्यन्यवैलक्षण्येन प्राधान्यात् तस्या एव सर्वगतत्वम् || अत एवाह-- इत्थं सर्वगतत्वे श्रीपरादेव्याः स्थिते सति || १६-१५ || यागो भवेत्सुसंपूर्णस्तदधिष्ठानमात्रतः | एकशूलेऽप्यतो यागे चिन्तयेत्तदधिष्ठितम् || १६-१६ || अविधिज्ञो विधानज्ञ इत्येवं त्रीशिकोदितम् | ततो मध्ये तथा दक्षे वामे शृङ्गे च सर्वतः || १६-१७ || लोकपालास्त्रपर्यन्तमेकात्मत्वेन पूजयेत् | परत्वेन च सर्वासां देवतानां प्रपूजयेत् || १६-१८ || श्रीमन्तं मातृसद्भावभट्टारकमनामयम् | ततोऽपि भोगयागेन विद्याङ्गं भैरवाष्टकम् || १६-१९ || यामलं चक्रदेवीश्च स्वस्थाने पूजयेद् बहिः | लोकपालानस्त्रयुतान् गन्धपुष्पासवादिभिः || १६-२० || पूजयेत्परया भक्त्या वित्तशाठ्यविवर्जितः | ततः कुम्भास्त्रकलशीमण्डलस्थानलात्मनाम् || १६-२१ || पञ्चानामनुसन्धानं कुर्यादद्वयभावनात् | ये तु तामद्वयव्याप्तिं न विन्दन्ति शिवात्मिकाम् || १६-२२ || मन्त्रनाडीप्रयोगेण ते विशन्त्यद्वये पथि | सुसंपूर्ण इति--पूरणप्रधानत्वात् अस्याः | अत इति-- तदधिष्ठानमात्रेणैव यागस्य पूर्णतापत्तेः | त्रीशिकाग्रन्थश्च बहुशो व्याख्यातचरः | स्वस्थान इति-- अग्नीशादिरूपे | तत इति--मण्डलपूजानन्तरम् | अद्वयभावनादिति-- अहमेव सर्वत्रावस्थित इत्येवंरूपात् | न विन्दन्ति इति-- एवमद्वयपरामर्शानुदयात् || तमेव मन्त्रनाडीप्रयोगमाह-- स्वदक्षिणेन निःसृत्य मण्डलस्थस्य वामतः || १६-२३ || प्रविश्यान्येन निःसृत्य कुम्भस्थे कर्करीगते | वह्निस्थे च क्रमेणेत्थं यावत्स्वस्मिन्स्ववामतः || १६-२४ || मूलानुसन्धानबलात्प्राणतन्तूम्भने सति | इत्थमैक्यस्फुरत्तात्मा व्याप्तिसंवित्प्रकाशते || १६-२५ ||
SKततो विशेषपूजां च कुर्यादद्वयभाविताम् | अन्येनेति--दक्षिणेन | इत्थमिति--उक्तेन दक्षिणवामाभ्यां निर्गमनप्रवेशलक्षणेन प्रकारेण--इत्यर्थः | स्ववामत इति-- अर्थात्प्रविशेत् | प्राणतन्तूम्भने सतीति--स्वात्ममण्डलादीनां परस्परस्य प्राणसंमीलना (या) म्--इत्यर्थः, अन्यथा हि कथमैक्यस्फुरत्तात्मायं प्रयोगः सिद्ध्येत्--इत्यर्थः || नन्वत्रापि अद्वयभावेन कोऽर्थः?--इत्याशङ्क्याह-- यच्छिवाद्वयपीयूषसंसिक्तं परमं हि तत् || १६-२६ || तेनार्घपुष्पगन्धादेरासवस्य पशोरथ | या शिवाद्वयतादृष्टिः सा शुद्धिः परमीकृतिः || १६-२७ || ननु अर्घपुष्पादेः पूजायामुपयोगादस्तु नामैवं परमीकृतिः, पशोः पुनरनया कोऽर्थः ?--इत्याशङ्कां गर्भीकृत्य मण्डलात्मैक्यानुसन्धानानन्तर्येणोद्दिष्टं निवेद्यानां पशूनां विस्तारमभिधातुमाह-- निवेदयेद्विभोरग्रे जीवान्धातूंस्तदुत्थितान् | सिद्धानसिद्धान्व्यामिश्रान्यद्वा किंचिच्चराचरम् || १६-२८ || जीवन्तीति जीवाः पशवः | सिद्धानिति--पक्वान् | न केवलं पश्वादि चरमेवात्र निवेद्यं यावदचरमपि--इत्याह--यद्वा किंचिच्चराचरमिति ||२८ || जीवानिति बहुवचनाक्षिप्तं पशुबहुत्वमभिधत्ते-- दृष्टप्रोक्षितसंद्रष्टृप्रालब्धोपात्तयोजितः | निर्वापितो वीरपशुः सोऽष्टधोत्तरतोत्तमः || १६-२९ || यथोत्तरं न दातव्यमयोग्येभ्यः कदाचन | शिवोपयुक्तं हि हविर्न सर्वो भोक्तुमर्हति || १६-३० || उत्तरतोत्तम इति--यथोत्तरमुत्कृष्टः--इत्यर्थः ||३० || ननु किमेवमस्य हविषो माहात्म्यं यत्सर्वो न भोक्तुमर्हतीत्युक्तम्?-- इत्याशङ्क्याह-- यस्तु दीक्षाविहीनोऽपि शिवेच्छाविधिचोदितः | भक्त्याश्नाति स संपूर्णः समयी स्यात्सुभावितः || १६-३१ || भक्त्याशने हेतुः शिवेच्छाविधिचोदित इति | यदुक्तम्-- ᳚तस्यैव तु प्रसादेन भक्तिरुत्पद्यते नृणाम् |᳚ इति | अत एव लौल्यादिना भुक्ते प्रत्यवायो भवेत्--इति भावः || ३१ || एतदेव यथोद्देशं पश्वष्टकं लक्षयति-- दृष्टोऽवलोकितश्चैव किरणेद्धदृगर्पणात् |
SKप्रोक्षितः केवलं ह्यर्घपात्रविप्रुड्भिरुक्षितः || १६-३२ || संद्रष्टा दर्शिताशेषसम्यक्पूजितमण्डलः | प्रालब्ध उक्तत्रितयसंस्कृतः सोऽपि धूनयेत् || १६-३३ || कम्पेत प्रस्रवेत्स्तब्धः प्रलीनो वा यथोत्तरम् | उपात्तो यागसान्निध्ये शमितः शस्त्रमारुतैः || १६-३४ || योजितः कारणत्यागक्रमेण शिवयोजनात् | निर्वापितः कृताभ्यासगुरुप्राणमनोऽर्पणात् || १६-३५ || दक्षिणेनाग्नि सौम्यकलाजालविलापनात् | केवलमिति--अवलोकनपरिहारेण | उक्तत्रितयसंस्कृत इति-- अवलोकनप्रोक्षणमण्डलदर्शनलक्षणेन उक्तेन त्रितयेन संस्कृतः कृतसंस्कारः--इत्यर्थः | यथोत्तरमित्यवलोकने धूननम्, प्रोक्षणे कम्पनम्, मण्डलदर्शने प्रस्रवणम्, यद्वा निश्चेष्टस्तरतमभावेन गलितनिखिलेन्द्रियवृत्तिश्च भवेत्--इत्यर्थः | शस्त्रमारुतैरित्यत्र वेगवत्त्वप्रतिपादनार्थं मारुतेन निरूपणम् | आत्मनश्च दक्षिणेन प्राणाग्नि सौम्यस्यापानात्मनः पाशवस्य कलाजालस्य विलापनमवलम्ब्य प्राणमनोजयादौ कृताभ्यासेन गुरुणा प्राणमनसोरर्पणात् पाशवप्राणाद्येकीकारेणावस्थानान्निवेदितो यः पशुः, स निर्बीजकरणार्न्निर्वापित उच्यते--इत्यर्थः || एतदेव प्रपञ्चयति-- तथा ह्यादौ परं रूपमेकीभावेन संश्रयेत् || १६-३६ || तस्मादाग्नेयचारेण ज्वालामालामुपाविशेत् | पशोर्वामेन चन्द्रांशुजालं तापेन गालयेत् || १६-३७ || नाभिचक्रेऽथ विश्राम्येत्प्राणरश्मिगणैः सह | परो भूत्वा स्वशक्त्यात्र जीवं जीवेन वेष्टयेत् || १६-३८ || स्वचित्सूर्येण संताप्य द्रावयेत कलां कलाम् | ततो द्रुतं कलाजालं प्रापय्यैकत्वमात्मनि || १६-३९ || समस्ततत्त्वसंपूर्णमाप्यायनविधायिनम् | उन्मूलयेत संरम्भात्कर्मबद्धममुं रसात् || १६-४० || तत उन्मूलनोद्वेष्टयोगाद्वामं परिभ्रमन् | कुण्डल्यमृतसंपूर्णस्वकप्राणप्रसेवकः || १६-४१ || वामावर्तक्रमोपात्तहृत्पद्मामृतकेसरः | हृत्कर्णिकारूढिलाभादोजोधातुं विलापितम् || १६-४२ || शुद्धसोमात्मकं सारमीषल्लोहितपीतलम् | आदाय करिहस्ताग्रसदृशे प्राणविग्रहे || १६-४३ ||
SKनिःसृत्य झटिति स्वात्मवाममार्गेण संविशेत् | आप्याययन्नपानाख्यचन्द्रचक्रहृदम्बुजे || १६-४४ || स्थितं तद्देवताचक्रं तेन सारेण तर्पयेत् | इह तावदात्मनि निग्रहादिसामर्थ्यान्यथानुपपत्त्या पररूपतां संश्रित्य वह्निज्वालामुचा स्वदक्षिणेन निर्गत्य पशोर्वामेन प्रविश्य तदपानचन्द्रसंबन्धि कलाजालं स्वप्राणाग्नितापेन द्रावयित्वा तन्नाभिचक्र एव निखिलप्राणक्रोडीकारेण स्वावष्टम्भ एव तिष्ठन् स्वमहिम्ना तज्जीवं स्वजीवेन वेष्टयित्वा स्वचिदग्नितापेन तत्कलाजालं विलाप्य संपूर्णरूपतयाप्यायकारित्वादात्मनि एकतां प्रापय्यादरसंरम्भेण तदमुं कर्मबन्धादुद्वेष्टनक्रमेणोन्मूलयित्वा वामावर्तेन परिभ्रमन् आसादितहृत्पद्मामृतमयकर्णिकादेशोऽत एव कन्दकुण्डलिन्यमृतापूरितस्वप्राणभस्त्र आचार्यो हृत्कर्णिकायामेव प्ररोहं भजन्नीषल्लोहितपीतलमत एव शुद्धसोमात्मकं स्वप्राणवह्निना विलापितमोजोधातुलक्षणं सारं कुटिलकुञ्चिताकारकरिहस्ताग्रसदृशेन प्राणेनाकृष्य शीघ्रमेव तद्दक्षिणेन निर्गत्य स्ववामेन प्रविश्य स्वात्मानमाप्याययन्नेवमाहृतेन तेन सारेण हृदम्बुजस्थितं देवताचक्रं तर्पयेत् तदेकसमरसं कुर्यात्--इत्यर्थः || न केवलमेवमोजोधातुमेवाहरेत्, यावदन्यानपि--इत्याह-- अनेन विधिना सर्वान्रसरक्तादिकांस्तथा || १६-४५ || धातून्समाहरेत्सङ्घक्रमादेकैकशोऽथवा | केवलं त्वथवाग्नीन्दुरविसङ्घट्टमध्यगम् || १६-४६ || ज्योतीरूपमथ प्राणशक्त्याख्यं जीवमाहरेत् | अग्नीन्दुरविसङ्घट्टमध्यगमिति-- प्राणापानोदानसङ्घट्टात्मकहृत्पद्म (मध्य) मध्यासीनम्-- इत्यर्थः || नन्वेवमाहृतैरेभिः किं कुर्यात्?--इत्याशङ्क्याह-- जीवं समरसीकुर्याद्देवीचक्रेण भावनात् || १६-४७ || तदेव तर्पणं मुख्यं भोग्यभोक्त्रात्मतैव सा | ननु किमेतत्समन्त्रकं कार्यं न वा?--इत्याशङ्क्याह-- अग्निसंपुटफुल्लार्णत्र्यश्रकालात्मको महान् || १६-४८ || पिण्डो रक्तादिसारौघचालनाकर्षणादिषु |
SKअग्निः रेफः, फुल्लार्णः फकारः, त्र्यश्रमेकारः, कालो मकारः, एवं फ्रेम् | तदुक्तम्-- ᳚क्रोधो वह्निपुटान्तस्थस्त्र्यश्रकालविभेदितः | सेयं रक्तादिसारौधकर्षणे क्षुरिका मता ||᳚ इति || नन्विदं कियता कालेन कियता वा जपेन सिद्ध्येत् ?--इत्याशङ्क्याह-- इत्थं विश्रान्तियोगेन घटिकार्धक्रमे सति || १६-४९ || आवृत्तिशतयोगेन पशोर्निर्वापणं भवेत् | अत्र च प्राक्कोटावभ्यास उपादेयः--इत्याह-- कृत्वा कतिपयं कालं तत्राभ्यासमनन्यधीः || १६-५० || यथा चिन्तामणौ प्रोक्तं तेन रूपेण योगवित् | निःशङ्कः सिद्धिमाप्नोति गोप्यं तत्प्राणवत्स्फुटम् || १६-५१ || चिन्तामणाविति तत्त्वार्थचिन्तामणौ | तेनेति--कृताभ्यासेन | निःशङ्क इति--यदुक्तम्-- ङिःशङ्कः सिद्धिमायाति शङ्कां तेनात्र वर्जयेत् | अलीककरुणाबुद्धिरवीरो हि विनश्यति ||᳚ इति | गोप्यमिति--लोकविरुद्धत्वात् ||५१ || एतदेव परोक्षदीक्षायामप्यतिदिशति-- परोक्षेऽपि पशावेवं विधिः स्याद्योजनं प्रति | प्रवेशितो यागभुवि हतस्तत्रैव साधितः || १६-५२ || चक्रजुष्टश्च तत्रैव स वीरपशुरुच्यते | तत्रैवेति--यागभुवि | जुष्टः उपभुक्तः || ननु रणापणादौ व्यापादितोऽपि पशुर्यागादौ निवेदनीयस्तत्कथमस्याष्टधात्वमेवोक्तम् ?--इत्याशङ्क्याह� यस्त्वन्यत्रापि निहतः सामस्त्येनांशतोऽपि वा || १६-५३ || देवाय विनिवेद्येत स वै बाह्यपशुर्मतः | अत्रैव क्रमेण फलं निर्दिशति-- राज्यं लाभोऽथ तत्स्थैर्यं शिवे भक्तिस्तदात्मता || १६-५४ || शिवज्ञानं मन्त्रलोकप्राप्तिस्तत्परिवारता | तत्सायुज्यं पशोः साम्याद्बाह्यादेर्वीरधर्मणः || १६-५५ || पुष्पादयोऽपि तल्लाभभागिनः शिवपूजया | लाभ इति--धरादेः | तत्परिवारतेति--तत्सामीप्यम् | एवं बाह्यपशोः राज्यम्, इष्टस्य--लाभः, यावद्वीरपशोर्मन्त्रसायुज्यमिति || नन्वेवं शिवपूजनया पशुपुष्पादेश्चराचरस्यापि कस्मात्तल्लाभभागित्वं भवेत् ?--इत्याशङ्क्याह-- एकोपायेन देवेशो विश्वानुग्रहणात्मकः || १६-५६ || यागनैवानुगृह्णाति किं किं यन्न चराचरम् |
SKअतश्च पशुवेदनादि हिंस्रं कर्मेति न संभावनीयम्--इत्याह-- तेनावीरोऽपि शङ्कादियुक्तः कारुणिकोऽपि च || १६-५७ || न हिंसाबुद्धिमादध्यात्पशुकर्मणि जातुचित् | तेन--पश्वाद्यनुग्रहणेन हेतुना शङ्कादियोगादवीरः सविकल्पः कारुणिकोऽपि वा आचार्यो यागादौ पशुकर्मणि कदाचिदपि न हिंसाबुद्धिमादध्यात् नैवं संभावयेत्--इत्यर्थः | नहि नाम विहितत्वादियं हिंसैव स्यात् | यदाहुः-- ङह्यग्निष्टोमीयहिंसा हिंसैव भवति |᳚ इति | यागादन्यत्र पुनरियं हिंसैव निषिद्धत्वात् | यदागमः-- ङ हठेन पशुं हन्यान्नार्तिभावे कदाचन | नचोद्देशेन सुभगे यागपूर्वं विधानवित् ||᳚ इति | ङ विवाहे पशुं हन्यान्नचात्मार्थे कदाचन | यागकाले महादेवि नेष्टबन्धुसमागमे || क्रीडार्थे न पशुं हन्याद्विना यागाद्वरानने | यागकाले ददेद्यो हि मातृणां तर्पणाय च || एकैके तु सकृद्दत्ते पूर्वोक्तेन विधानतः | जपकोटिसहस्रस्य पूजायुतशतस्य च || तत्फलं प्राप्नुयात्सद्यः पशुयागे कृते सति |᳚ इति च | स्मृतिरपि ᳚यावन्ति पशुलोमानि तावत्कृत्वो ह मारणम् | वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ||᳚ (मनु ४|३८) इति || ननु भवत्वेवं, तथापि पशोः प्रथममिदं मारणं नाम महदप्रियम्?--इत्याशङ्क्याह-- पशोर्महोपकारोऽयं तदात्वेऽप्यप्रियं भवेत् || १६-५८ || व्याधिच्छेदौषधतपोयोजनात्र निदर्शनम् | तत्कालं पशोरप्रियमपि भवत् मारणमनुग्रहलक्षणो महानयमुपकारो यत्र व्याधिच्छेदादि निदर्शनम् | औषधं-- क्षारादि, तपः--कृच्छ्रदि | यदागमः-- ᳚तेषामनुग्रहार्थाय पशूनां तु वरानने | मोचयन्ति हि पापेभ्यः पाशौघांश्छेदयन्ति तान् | पशूनामुपयुक्तानां नित्यमूर्ध्वगतिर्भवेत् |᳚ (नेट. २०|९) इति | श्रुतिरपि-- ᳚पशुर्वै नीयमानः स मृत्युं प्रापश्यत् स देवान्नान्वकामयतेत्थं तं देवा अब्रुवन्नेहि स्वर्गं त्वा लोकं गमयिष्यामः |᳚ इति || ननु यद्येवं मारणादेव मुक्तिः स्यात्, तत्कृतं दीक्षादिना ?-- इत्याशङ्कां शमयितुमागमं संवादयति--
SKश्रीमन्मृत्युञ्जये प्रोक्तं पाशच्छेदे कृते पशोः || १६-५९ || मलत्रयवियोगेन शरीरं न प्ररोहति | धर्माधर्मौघविच्छेदाच्छरीरं च्यवते किल || १६-६० || तेनैतन्मारणं नोक्तं दीक्षेयं चित्ररूपिणी | रूढपाशस्य यः प्राणैर्वियोगो मारणं हि तत् || १६-६१ || इयं तु योजनैव स्यात्पशोर्देवाय तर्पणे | धर्माधर्मौघेति--शरीराम्भकस्य | तदुक्तं तत्र-- ᳚मूलच्छेदेन हि पशोर्जिघांसन्ति मलत्रयम् | मलत्रयवियुक्तस्य शरीरं न प्ररोहति || दीक्षावद्योजनं तस्य पशोर्नैव हि घातनम् | व्यापकेन स्वरूपेण स्वशक्तिविभवेन च || त्रोटयन्ति पशोः पाशाञ्छरीरं येन नश्यति | शरीरेण प्रनष्टेन मोक्षणं नहि मारणम् || दृढप्ररूढपाशस्य बद्धस्य पुरुषस्य यः | वियोगस्तु शरीरेण मारणं तद्विदुर्बुधाः ||᳚ (नेट. २०) इति || एतदेवोपसंहरति-- तस्माद्देवोक्तिमाश्रित्य पशून्दद्याद्बहूनिति ||६२ || एवं ᳚..........................पशूंश्च प्रोक्षयेद्बहून् |᳚ इत्यादिकां देवोक्तिमाश्रित्य बहून् नवप्रकारान् पशून् दद्यात् निवेदयेत्--इति सिद्धम् || ६२ || ननु ᳚एकजन्मा द्विजन्मा वा सप्तजन्मा समुद्भवेत् |᳚ इत्याद्युक्त्या जन्मभेदेनापि पशूनामुत्तमादिरूपत्वमस्तीत्यादि, तदिह कस्मान्नोक्तम् ?--इत्याशङ्क्याह-- निवेदितः पुनः प्राप्तदेहो भूयो निवेदितः | षट्कृत्व इत्थं यः सोऽत्र षड्जन्मा पशुरुत्तमः || १६-६३ || निवेदित इति तत्तमन्त्रसंस्कारद्वारेणापादितपरतत्त्वैकात्म्यः-- इत्यर्थः | पुनःप्राप्तदेह इति--कथञ्चित्संपत्त्ययोगात् ||६३ || उत्तमत्वमेवास्य दृष्टान्तोपदर्शनेन द्रढयति-- यथा पाकक्रमाच्छुद्धं हेम तद्वत्स कीर्तितः | कां सिद्धिं नैव वितरेत्स्वयं किं वा न मुच्यते || १६-६४ || अत एवास्य परं स्वपरोपकारकत्वम्--इत्याह--कां सिद्धिमित्यादि || ६४ || एतदेवागमेन संवादयति-- उक्तं त्वानन्दशास्त्रे यो मन्त्रसंस्कारवांस्त्यजेत् | समयान्कुत्सयेद्देवीर्दद्यान्मन्त्रान् विना नयात् || १६-६५ || दीक्षामन्त्रादिकं प्राप्य त्यजेत्पुत्रादिमोहितः |
SKततो मनुष्यतामेत्य पुनरेवं करोत्यपि || १६-६६ || इत्थमेकादिसप्तान्तजन्मासौ द्विविधो द्विपात् | चतुष्पाद्वा पशुर्देवीचरुकार्थं प्रजायते || १६-६७ || दात्रर्पितोऽसौ तद्द्वारा याति सायुज्यतः शिवम् | एवमिति--समयत्यागादि | तद्द्वारेति--दात्रर्पणप्रणालिकया--इत्यर्थः || तदेवं देवीचरुकार्थमेवास्योत्पत्तेस्तदन्यत्र विनियोगो न कार्यः-- इत्याह-- इति संभाव्य चित्रं तत्पशूनां प्रविचेष्टितम् || १६-६८ || भोग्यीचिकीर्षितं नैव कुर्यादन्यत्र तं पशुम् | भोग्यीचिकीर्षितमिति--यागादौ देवीनां भोक्तुभिपेर्तम्--इत्यर्थः | अन्यत्रेति--यागात् || ननु यागयोग्यपशुविषये भवतु नामैवम्, अयोग्यस्तु ढौकितोऽपि ततोऽपसारणीयोऽन्यत्र च स्वेच्छया विनियोज्य एव, तन्नायं नियमो भोग्यीचिकीर्षितं पशुं नान्यत्र कुर्यादिति ?--इत्याशङ्क्याह� नापि नैष भवेद्योग्य इति बुद्ध्वापसारयेत् || १६-६९ || तं पशुं किन्तु काङ्क्षा चेद्विशेषे तं तु ढौकयेत् | इह ङ शण्ठं च पशुं दद्यात्क्षीणगात्रं न चैव हि | नातिवृद्धं नातिबालं स्त्रीपशुं नैव भैरवि ||᳚ इत्याद्युक्तस्वरूप एष पशुर्यागयोग्यो न भवेदिति बुद्ध्वापि तं पशुं प्रक्रान्ताद्यागान्नापसारयेत्, प्रत्युत ᳚शृङ्गी युवा च पूर्णाङ्ग एकवर्णः शुभाननः | महिषाजाविकश्चैव त्रिविधो यागसिद्धये ||᳚ इत्याद्युक्ते विशेषे चेदाकाङ्क्षा तत्तं विशिष्टमपि पशुं ढौकयेत् येनाकाङ्क्षापरिपूर्तिः स्यात् | तेन यावन्त एव पशवो यागे ढौकितास्तावन्त एव दातव्याः, नतु योग्या एव--इत्युक्तं स्यात् || अत एवाह-- तावतस्तान्पशून्दद्यात्तथाचोक्तं महेशिना || १६-७० || तावत इति--विशेषाकाङ्क्षापारिपूर्ण्यपर्यन्तान् || एवं पशोः सामस्त्येन विशेषमभिधायांशतोऽप्यभिधत्ते-- पशोर्वपामेदसी च गालिते वह्निमध्यतः | अर्पयेच्छक्तिचक्राय परमं तर्पणं मतम् || १६-७१ || हृदन्त्रमुण्डांसयकृत्प्रधानं विनिवेदयेत् | कर्णिकाकुण्डलीमज्जपर्शुं मुख्यतरं च वा || १६-७२ || ततोऽग्नौ तर्पणं कुर्यान्मन्त्रचक्रस्य दैशिकः |
SKतन्निवेद्य च देवाय ततो विज्ञापयेत्प्रभुम् || १६-७३ || यकृत् कृष्णमांसं प्रधानत्वेन विनिवेदयेत् | कर्णिका लिङ्गिका | कुण्डली परा मण्डलिका | मज्जा अस्थिवसा | पर्शवः पार्श्वनाड्यः | तर्पणमिति प्राग्वत् ||७३ || किं विज्ञापयेत्--इत्याह-- गुरुत्वेन त्वयैवाहमाज्ञातः परमेश्वर | साक्षात्स्वप्नोपदेशाद्यैर्जपैर्गुरुमुखेन वा || १६-७४ || अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः | तदेते तद्विधाः प्राप्तास्त्वमेभ्यः कुर्वनुग्रहम् || १६-७५ || समावेशय मां स्वात्मरश्मिभिर्यदहं शिवः | एवं भवत्विति ततः शिवोक्तिमभिनन्दयेत् || १६-७६ || शिवाभिन्नमथात्मानं पञ्चकृत्यकरं स्मरेत् | स्वात्मनः करणं मन्त्रान्मूर्तिं चानुजिघृक्षया || १६-७७ || ततो बद्ध्वा सितोष्णीषं हस्तयोरर्चयेत्क्रमात् | अन्योन्यं पाशदाहाय सुद्धतत्त्वविसृष्टये || १६-७८ || तेजोरूपेण मन्त्रांश्च शिवहस्ते समर्चयेत् | गर्भावरणगानङ्गपरिवारासनोज्झितान् || १६-७९ || आत्मानं भावयेत्पश्चादेककं जलचन्द्रवत् | कृत्योपाधिवशाद्भिन्नं षोढाभिन्नं तु वस्तुतः || १६-८० || अथेति--तदाज्ञालाभानन्तरम् | अनेन चाग्नितृप्त्यनन्तरोद्दिष्टं स्वस्य स्वभावस्य दीपनमपि उपक्रान्तम् | मन्त्रान् करणं स्थूलसूक्ष्मतया परापररूपां मूर्तिं च स्मरेदित्येष संबन्धः | सितोष्णीषमिति-- नवात्मना सप्तजप्तम् | अन्योन्यमिति--दक्षिणेन वामं वामे (न) च दक्षिणम्--इत्यर्थः | पाशदाहकत्वमेवोपोद्बलयितुं तेजोरूपेणेत्युक्तम् | गर्भावरणगानिति--मूलमन्त्रतद्वक्त्ररूपान्--इत्यर्थः | यथोक्तम्-- ᳚ब्रह्मपञ्चकसंयुक्तः शिवेनाधिष्ठितः शुभः | पाशच्छेदकरः क्षेमी शिवहस्तः प्रकीर्तितः ||᳚ इति | एककमिति--अनन्यापेक्षत्वादसहायम्--इत्यर्थः | जलचन्द्रवदिति� यथाहि वस्तुत एक एव चन्द्रस्तत्तज्जलाधारादिलक्षणादुपाधिभेदात् नाना भवेत्, तथा यमपीत्यर्थः ||८० || अस्य षोढाभिन्नत्वमेव दर्शयितुं तत्प्रतिपादकमागमग्रन्थं तात्पर्यतो व्याचष्टे-- मण्डलस्थोऽहमेवायं साक्षी चाखिलकर्मणाम् |
SKशुद्धा हि द्रष्ट्टता शम्भोर्मण्डले कल्पिता मया || १६-८१ || होमाधिकरणत्वेन वह्नावहमवस्थितः | यदात्मतेद्धा मन्त्राः स्युः पाशप्लोषविधावलम् || १६-८२ || साक्षित्वमेव शुद्धेत्यादिना निर्णीतम् | शुद्धेति--नतु कर्तृत्वमिश्रा | यदात् मतेद्धा इति-- गृहीतवह्न्याकारपरमेश्वरावेशवशोन्मिषितदीप्तय इत्यर्थः ||८२ || ननु किं नामैषां पाशप्लोषसामर्थ्यम्?--इत्याशङ्क्याह-- सामान्यतेजोरूपान्तराहूता भुवनेश्वराः | तर्पिताः श्राविताश्चाणोर्नाधिकारं प्रतन्वते || १६-८३ || आ यागान्तमहं कुम्भे संस्थितो विघ्नशान्तये | सामान्यरूपता येन विशेषाप्यायकारिणी || १६-८४ || शिष्यदेहे च तत्पाशशिथिलत्वप्रसिद्धये | स हि स्वेच्छावशात्पाशान्विधुन्वन्निव वर्तते || १६-८५ || साक्षात्स्वदेहसंस्थोऽहं कर्तानुग्रहकर्मणाम् | ज्ञानक्रियास्वतन्त्रत्वाद्दीक्षाकर्मणि पेशलः || १६-८६ || सामान्यतेजोरूपान्तरिति-- गर्भीकृतधामत्रयपारमेश्वरतेजःस्वभावमन्त्रैकात्म्यमापादिताः --इत्यर्थः | आह्वानादि च--वक्ष्यमाणम् | अधिकारः--स्वभुवनादौ प्रतिबन्धः | कुम्भ इति--अर्थात् कर्कर्यां च, अन्यथा हि अस्य षोढाभिन्नत्वं न स्यात् | अत्र हि विघ्नशान्तिमात्रात्मतयावस्थितः समग्रा एव विशिष्टाः क्रियाः पालयेदित्युक्तम्�सामान्यरूपता विशेषाप्यायकारिणीति | स्वेच्छावशादिति--नह्यस्य मलपरिपाकादि अपेक्षणीयं किञ्चिदित्युक्तं प्राक् बहुशः | पेशल इति समर्थः ||८६ || ननु कथमस्य देहादियोगात् पारिमित्येऽप्येवं भवेत् ?--इत्याशङ्क्य दृष्टान्तयति-- भिन्नकार्याकृतिव्रातेन्द्रियचक्रानुसन्धिमान् | एको यथाहं वह्न्यादिषड्रूपोऽस्मि तथा स्फुटम् || १६-८७ || एवमालोच्य येनैषोऽध्वना दीक्षां चिकीर्षति | अनुसंहितये शिष्यवर्जं पञ्चसु तं यजेत् || १६-८८ || यथा हि एक एवाहमनेकव्यापारे तत्तदाकारविशेषे च ᳚मनःषष्ठानीन्द्रियाणि...................... |᳚ (भ.गी. १५|७)
SKइत्युक्तेरिन्द्रियाणां षट्के य एवाहं पश्यामि, स एवाहं शृणोमीत्येवमनुसन्धिमत्त्वेन सर्वजनसाक्षिकं द्रष्ट्रदिरूपतया षोढा भवामि इत्येवं मण्डलवह्न्यादावपि--इति वाक्यार्थः | येनेति--तत्त्वकलादीनामन्यतमेन ||८८ || नन्वत्रानुसन्धानेन किं स्यात् ?--इत्याशङ्क्याह-- अनुसन्धिबलान्ते च समासव्यासभेदतः | कुर्यादत्यन्तमभ्यस्तमन्यान्तर्भावपूरितम् || १६-८९ || ततोऽपि चिन्तया भूयोऽनुसन्दध्याच्छिवात्मताम् | अत्यन्तमिति | एवं हि अस्खलितमेव कर्म सिद्ध्येत्--इत्याशयः | अनुसन्दध्यादिति अर्थादात्मन्येव || एतमेवागमग्रन्थं व्याचक्षाणः प्रपञ्चयति-- अहमेव परं तत्त्वं न च तद्धटवत् क्वचित् || १६-९० || महाप्रकाशस्तत्तेन मयि सर्वमिदं जगत् | न च तत्केनचिद्बाह्यप्रतिबिम्बवदर्पितम् || १६-९१ || कर्ताहमस्य तन्नान्याधीनं च मदधिष्ठितम् | इत्थंभूतमहाव्याप्तिसंवेदनपवित्रितः || १६-९२ || मत्समत्वं गतो जन्तुर्मुक्त इत्यभिधीयते | तदिति--घटवन्नियतरूपत्वाभावात् | तेनेति--महाप्रकाशरूपत्वेन पूर्णे हि रूपे सर्वस्यैव सद्भावो भवेत्--इति भावः | तदिति-- केनचिद्बाह्येन बिम्बेनानर्पितत्वात् | अत एव न तदन्याधीनं यतो मदधिष्ठितं मय्येव विश्रान्तम्--इत्यर्थः | यदागमः-- ᳚अधिष्ठाता च कर्ता च सर्वस्याहमवस्थितः |᳚ इति | मत्समत्वगमने हेतुरित्थमित्यादि | यदभिप्रायेणैव-- ᳚मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः | स्वरूपं चात्मनः संविन्नान्यत्................. ||᳚ (तं.आ. १|१५६) इत्यादि प्रागुक्तम् || ननु पौनःपुन्येनैवंभावनया किं स्यात्?-- इत्याशङ्क्याह-- तापनिर्घर्षसेकादिपारम्पर्येण वह्निताम् || १६-९३ || यथायोगोलको याति गुरुरेवं शिवात्मताम् | ततः पुरःस्थितं यद्वा पुरोभावितविग्रहम् || १६-९४ || परोक्षदीक्षणे यद्वा दर्भाद्यैः कल्पिते मृते | शिष्ये वीक्ष्यार्च्य पुष्पाद्यैर्न्यसेदध्वानमस्य तम् || १६-९५ || येनाध्वना मुख्यतया दीक्षामिच्छति दैशिकः |
SKपुरःस्थितमिति--साक्षाद्वीक्षणे | परोक्षेति--देशान्तरस्थतया | मृत इति--मरणे सति--इत्यर्थः || मुख्यतामेव दर्शयति-- तं देहे न्यस्य तत्रान्तर्भाव्यमन्यदिति स्थितिः || १६-९६ || अनेन च शिष्यदेहेऽध्वन्यासविधिरुक्तः || ९६ || इदानीं तु शोध्यशोधकयोर्वैचित्र्यमभिधत्ते-- शोध्याध्वनि च विन्यस्ते तत्रैव परिशोधकम् | न्यसेद्यथेप्सितं मन्त्रं शोध्यौचित्यानुसारतः || १६-९७ || क्वचिच्छोध्यं त्वविन्यस्य शोधकन्यासमात्रतः | स्वयं शुद्ध्यति संशोध्यं शोधकस्य प्रभावतः || १६-९८ || यथेप्सितमिति--गुरोः शिष्यस्य वा | शोध्यौचित्यानुसारत इति-- ᳚योजयेन्नेश्वरादूर्ध्वं पिवन्यादिकमष्टकम् |᳚ (मा. वि. ९|७३) इत्याद्युक्तं शोध्यानुगुण्यमनुसृत्य--इत्यर्थः | प्रभावत इति-- यदुक्तम्-- ᳚अचिन्त्या मन्त्रशक्तिर्वै परमेशमुखोद्भवा |᳚ (स्व. ४|१५१) इति ||९८ || तत्र शोध्यस्यैव तावद्वैचित्र्यमभिधातुमाह-- अपरं परापरं च परं च विधिमिच्छया | तद्योजनानुसारेण श्रित्वा न्यासः षडध्वनः || १६-९९ || तद्योजनेति--तच्छब्देन अपरादिविधिपरामर्शः ||९९ || कथं चास्य देहन्यासः--इत्याह-- ललाटान्तं वेदवसौ रन्ध्रन्तं रसरन्ध्रके | वसुखेन्दौ द्वादशान्तमित्येष त्रिविधो विधिः || १६-१०० || क्रमेण कथ्यते दृष्टः शास्त्रे श्रीपूर्वसंज्ञिते | वेदवसाविति--चतुरशीतावंगुलानाम् | रसरन्ध्रक इति--षण्णवतौ | वसुखेन्दाविति--अष्टोत्तरे शते || तमेव तत्त्वोपक्रममाह-- तत्र तत्त्वेषु विन्यासो गुल्फान्ते चतुरंगुले || १६-१०१ || धरा जलादिमूलान्तं प्रत्येकं द्व्यंगुलं क्रमात् | रसश्रुत्यंगुलं नाभेरूर्ध्वमित्थं षडंगुले || १६-१०२ || पुंसः कलान्तं षट्तत्त्का प्रत्येकं त्र्यंगुले क्षिपेत् | अष्टादशांगुलं त्वेवं कण्ठकूपावसानकम् || १६-१०३ || सदाशिवान्तं मायादिचतुष्कं चतुरंगुले | प्रत्येकमित्यब्धिवसुसंख्यमालिकदेशतः || १६-१०४ || शिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम् | सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् || १६-१०५ ||
SKजलात् ध्यन्तं सार्धयुग्मं मूलं त्र्यंगुलमित्यतः | द्वादशांगुलताधिक्याद्विधिरेष परापरः || १६-१०६ || जलात् ध्यन्तं त्र्यंगुले चेदव्यक्तं तु चतुष्टये | तच्चतुर्विंशत्याधिक्यात्परोऽप्यष्टशते विधिः || १६-१०७ || रसश्रुतीति--जलादिमूलान्तं तत्त्वत्रयोविंशतेर्द्वङ्गुलत्वात् षट्चत्वारिंशदंगुलम्--इत्यर्थः | नाभेरूर्ध्वं षडंगुल इति-- तत्पर्यन्तम्--इत्यर्थः | एवमिति--षण्णां प्रत्येकं त्र्यंगुलत्वात् | प्रत्येकं चतुरंगुलम् इति येन चतुर्णां चतुरंगुलतया षोडशांगुलानि भवन्तीति | अब्धिवस्विति--चतुरशीतिः | आ अलिकदेशत इति--ललाटदेशान्तमित्यर्थः | अत्रैव जलाद् बुद्ध्यन्तं तत्त्वद्वाविंशतेः प्रत्येकमर्धस्य सकलस्य चांगुलस्य द्वयस्य चाधिक्यात् परापरे परे च विधौ द्वादश चतुर्विंशतिश्चांगुलानि अधिकीभवन्तीति षण्णवतिरष्टोत्तरं शतं चांगुलानां भवतीत्युक्तं जलाद्ध्यन्तमिति | यदुक्तम्-- ᳚अपरोऽयं विधिः प्रोक्तः परापरमतः शृणु | पूर्ववत्पृथिवीतत्त्वं विज्ञेयं चतुरंगुलम् || सार्धद्व्यंगुलमानानि धिषणान्तानि लक्षयेत् | प्रधानं त्र्यंगुलं ज्ञेयं शेषं पूर्ववदादिशेत् || परेऽपि पूर्ववत्पृथ्वी त्र्यंगुलान्यपराणि च | चतुष्पर्वप्रधानञ्च शेषं पूर्ववदाश्रयेत् ||᳚ (मा.वि. ६|२७) इति ||१०७ || नन्वेवं त्रिविधमाने किं प्रमाणम् ?--इत्याशङ्क्याह-- त्रिविधोन्मानकं व्यक्तं वसुदिग्भ्यो रविक्षयात् | मयतन्त्रे तथाचोक्तं तत्तत्स्वफलवाञ्छया || १६-१०८ || वसुदिग्भ्य इति--अष्टोत्तराच्छतात् | रविक्षयादिति आवर्तनीयम् | तेन द्वादशानां द्वादशानामंगुलानां क्षयात्--इत्यर्थः ||१०८ || एवं सामस्त्येन तत्त्वानां न्यासमभिधाय, व्यस्तत्वेनाप्याह-- नवपञ्चचतुस्त्र्येकतत्त्वन्यासे स्वयं धिया | न्यासं प्रकल्पयेत्तावत्तत्त्वान्तर्भावचिन्तनात् || १६-१०९ || कलापञ्चकवेदाण्डन्यासोऽनेनैव लक्षितः |
SKतत्र नवतत्त्वन्यासे प्रकृतिः पञ्चाशत्सु अंगुलेषु, पुरुषस्त्रिषु, नियतिर्नवसु, कालः षट्सु, मायाविद्येशसदाशिवाः चतुर्षु चतुर्षु, शिवस्तु व्यापकतयेति | पञ्चतत्त्वन्यासे तु धरा चतुर्षु अंगुलेषु, जलं षट्चत्वारिंशत्सु, तेजो द्वाविंशतिषु, वायुर्द्वादशसु, आकाशो व्यापकतयेत्यपरोऽयं विधिः | यदुक्तम्-- ᳚अधुना पञ्च तत्त्वानि यथा देहे तथोच्यते | नाभेरूर्ध्वं तु यावत्स्यात्पर्वषष्ट्कमनुक्रमात् || धरातत्त्वेन गुल्फान्तं व्याप्तं शेषमिहाम्बुना | द्वाविंशतिश्च पर्वाणि तदूर्ध्वं तेजसा वृतम् || तस्माद् द्वादश पर्वाणि वायुव्याप्तिरुदाहृता | आकाशान्तं परं शान्तं सर्वेषां व्यापकं स्मरेत् ||᳚ (मा. वि. ६|९) इतरत्र विधिद्वये तु जलतत्त्व एव द्वादश द्वादशांगुलान्यधिकीभवन्ति इति विकल्पनीयम् | पृथ्वीप्रकृतिमायाशक्तिलक्षणचतुस्तत्त्वन्यासेऽपि एवमेव विधिः | त्रितत्त्वन्यासे तु आत्मतत्त्वं द्वासप्ततिष्वंगुलेषु, विद्यातत्त्वं द्वादशसु, शिवतत्त्वं तु व्यापकतयेति | तदुक्तम्-- ᳚त्रिखण्डे कण्ठपर्यन्तमात्मतत्त्वमुदाहृतम् | विद्यातत्त्वमतोर्ध्वं तु शिवतत्त्वं तु पूर्ववत् ||᳚ (मा.वि. ६|१०) इति | तावतामिति--अवशिष्टानाम् | अनेनेति--पञ्चचतुस्तत्त्वन्यासेनैव || नन्वस्तु एवं त्रिविधं मानम्, ललाटाद्यन्तं त्रेधावस्थानमस्येति कुतस्त्यम् ?--इत्याशङ्क्याह-- उक्तं च त्रिशिरस्तन्त्रे स्वाधारस्थं यथास्थितम् || १६-११० || द्वादशांगुलमुत्थानं देहातीतं समं ततः | द्वासप्ततिर्दश द्वे च देहस्थं शिरसोऽन्ततः || १६-१११ || पादादारभ्य सुश्रोणि अनाहतपदावधि | इह पादादारभ्य शिरसोऽन्ते नादान्तपदं यावत् ललाटपर्यन्तं द्वासप्ततिर्दश द्वे च चतुरशीतिरंगुलानि देहस्थमपरं मानम्-- इत्यर्थः | एवं यथास्थितमपरं मानमवलम्ब्य स्वाधारे मुण्डव्योम्नि स्थितं ब्रह्मरन्ध्रन्तं द्वादशांगुलमुत्थानं षण्णवत्यंगुलं परापरं मानमिति यावत् | ततोऽपि देहातीतं द्वादशान्तं यावत् समं द्वादशांगुलमेवोत्थानं येनाष्टोत्तरं शतमंगुलानां परं मानं स्यात् ||
SKननु देहस्यैवं माने वक्तुमुपक्रान्ते कथं तदतीतेऽपि तदुच्येत्?-- इत्याशङ्क्याह-- देहातीतेऽपि विश्रान्त्या संवित्तेः कल्पनावशात् || १६-११२ || देहत्वमिति तस्मात्स्यादुत्थानं द्वादशांगुलम् | इति निर्णेतुमत्रैतदुक्तमष्टोत्तरं शतम् || १६-११३ || परस्याः संविदो हि देहातीतेऽपि विश्रान्त्या काल्पनिकं देहत्त्वमस्तीति तस्मात् ब्रह्मरन्ध्रदपि द्वादशाङ्गलमुत्थानं देहतयैव स्यादिति निर्णेतुमेतदत्र श्रीत्रिशिरोभैरवे परमष्टोत्तरशतात्मकमुक्तम्-- इत्यर्थः || ११३ || एवं तात्त्वं न्यासमभिधाय, भौवनमप्याह-- पुरन्यासोऽथ गुल्फान्तं भूः पुराण्यत्र षोडश | तस्मादेकांगुलव्याप्त्या प्रत्येकं लकुलादितः || १६-११४ || द्विरण्डान्तं त्र्यंगुलं तु च्छगलाण्डमथाब्धिषु | देवयोगाष्टके द्वे हि प्रत्येकांगुलपादतः || १६-११५ || इति प्रधानपर्यन्तं षट्चत्वारिंशदंगुलम् | षट्पञ्चाशत्पुराणीत्थं प्राग्धरायां तु षोडश || १६-११६ || ततोऽप्यर्धांङ्गुलव्याप्त्या षट्पुराण्यंगुलत्रये | चत्वारि युग्म एकस्मिन्नेकं च पुरमंगुले || १६-११७ || सरागे पंस्पुराणीशसंख्यानीत्थं षडंगुले | क्रोधेशपुरमेकस्मिन्द्वये चाण्डमियं च वित् || १६-११८ || संवर्तज्योतिषोरेवं कलातत्त्वगयोः क्रमात् | शूरपञ्चान्तपुरयोर्नियतौ चैकयुग्मता || १६-११९ || षोडशेति--चतुर्षु अङ्गुलेषु प्रत्येकमङ्गुलचतुर्भागव्याप्त्या | द्विरण्डान्तमिति--एकोनचत्कारशम् | छगलाण्डमिति--चत्कारशत्तमम् | अब्धिष्विति--चतुर्षु अङ्गुलेषु | एषामत्र विभागः प्रत्येकाङ्गुलपादत इति | षोडशेति--पुराणि अर्थादङ्गुलान्यपि चत्वारि | षट् पुराणीति--पुंस्तत्त्वगतानि | चत्वारीति-- प्रचण्डादिसंबन्धीनि | युग्म इति--अङ्गुलद्वये | एकमिति-- एकशिवसंबन्धि | ईश्वरसंख्यानीति एकादश | एकस्मिन्निति--अङ्गुले | द्वय इति--अङ्गुलयोः | चाण्डमिति-- चण्डसंबन्धि | विदिति--विद्या | एवमिति--संवर्तपुरमेकाङ्गुलं, ज्योतिष्पुरं द्व्यङ्गुलम् | एकयुग्मतेति--शूरपुरमेकाङ्गुलम्, पञ्चान्तकपुरं--द्व्यङ्गुलम् || ११९ ||
SKविद्यादौ त्रये चागमोऽपि एतामेव व्याख्यां सहते इति दर्शयितुमाह-- श्रीपूर्वशास्त्रे तच्चोक्तं परमेशेन शंभुना | उत्तरादिक्रमाद्द्व्येकभेदो विद्यादिके त्रये || १६-१२० || विद्यादौ हि तत्त्वत्रये द्वे द्वे पुरे, तत्र उत्तरमूर्ध्वगं पुरं द्व्यंगुलमधस्तनं त्वेकांगुलमिति प्रतितत्त्वं त्रीण्यंगुलानि यावत्त्रिष्वेतेषु नवेति || १२० || ननु कथमत्रैषां व्यत्ययेनोपदेशः ?--इत्याशङ्क्याह-- असारत्वात्क्रमस्यादौ नियतिः परतः कला | अथवान्योन्यसंज्ञाभ्यां तत्त्वयोर्व्यपदेश्यता || १६-१२१ || एकवीरशिखेशश्रीकण्ठाः काले त्रयस्त्रये | कालस्य पूर्वं विन्यासो नियतेरभिधीयते || १६-१२२ || अथवान्योन्यसंज्ञाभिर्व्यपदेशो हि दृश्यते | एतदेवोपोद्बलयितुं पुनरप्युक्तं--कालस्येत्यादि || एतदेव सञ्चिनोति-- एवं पुमादिषट्तत्त्वी विन्यस्ताष्टादशांगुले || १६-१२३ || ततोऽप्यंगुष्ठमात्रान्तं मायातत्त्वस्थमष्टकम् | प्रत्येकमर्धांङ्गुलतः स्यादंगुलचतुष्टये || १६-१२४ || इत्थं द्व्यक्ष्णि पुराण्यष्टाविंशतिः पुरुषान्निशि | पुरत्रयं द्वयोस्त्र्यंशन्यूनाङ्गुलमिति क्रमात् || १६-१२५ || द्वयोर्द्वयं पञ्चपुरी वैद्यीये चतुरंगुले | तत एशपुराण्यष्टौ चतुष्केऽर्धांङ्गुलक्रमात् || १६-१२६ || ततस्त्रीणि द्वये द्वे च द्वयोरित्थं चतुष्टये | सादाशिवं पञ्चकं स्यादित्थं वस्वेककं रवौ || १६-१२७ || इत्थमिति--अष्टादशानां चतुर्णां च एकीकारात्मना प्रकारेण-- इत्यर्थः | द्व्यक्ष्णीति द्वाविंशतावंगुलयोः | अंगुलद्वये हि षोडशधा विभक्ते प्रतिपुरं भागद्वयं मानमित्युक्तम्-- त्र्यंशन्यूनांगुलमिति क्रमादिति | त्रीणीति--पुराणि | द्वय इत्यंगुलयोः | तच्च त्र्यंशन्यूनांगुलमानेनेत्यपेक्षणीयम् | वस्वेककमिति--अष्टादश पुराणि | रवावित्यंगुलद्वादशके ||१२७ || एतदेवोभयथापि सङ्कलयति-- षोडशकं रसविशिखं वसुद्विकं वसुशशीति पुरवर्गाः | वेदा रसाब्धि युग्माक्षि च रवयस्तत्र चांगुलाः क्रमशः || १६-१२८ ||
SKरसविशिखमिति षट्पञ्चाशत् | वसुद्विकम् अष्टाविंशतिः | वसुशशी इत्यष्टादश | वेदाः चत्वारः | रसाब्धीति षट्चत्वारिंशत् | युग्माक्षि द्वाविंशतिः | रवयो द्वादश ||१२८ || एवं चेदं सिद्धम्--इत्याह-- अष्टादशाधिकशतं पुराणि देहेऽत्र चतुरशीतिमिते | विन्यस्तानि तदित्थं शेषे तु व्यापकं शिवं तत्त्वम् || १६-१२९ || इति विधिरपरः कथितः परापराख्यो रसश्रुतिस्थाने | अष्टशरं संख्यानं खमुनिकृतं तत्परे विधौ ज्ञेयम् || १६-१३० || रसश्रुतिस्थान इति षट्चत्वारिंशदात्मनि | अष्टशरमिति अष्टपञ्चाशत्--द्वादशानामाधिक्यात् | खमुनीति-- चतुर्विंशतेराधिक्यात् ||१३० || ननु कथं चात्र द्वादशानां चतुर्विशतेर्वा अंगुलानामाधिक्यम् ?-- इत्याशङ्क्याह-- लकुलादेर्योगाष्टकपर्यन्तस्यात्र भुवनपूगस्य | अधिकीकुर्याद् गणनावशेन भागं विधिद्वये क्रमशः || १६-१३१ || भुवनपूगस्येति--षट्पञ्चाशदात्मनः | भागमिति--परापरे विधौ किञ्चिदंशाधिकपञ्चभागलक्षणम् | परे तु किञ्चिदंशन्यूनार्धांङ्गुललक्षणम् ||१३१ || एवं भुवनाध्वनो न्यासमभिधाय पदाध्वनोऽप्याह-- अपरादिविधित्रैतादथ न्यासः पदाध्वनः | पूर्वं दशपदी चोक्ता स्वतन्त्रा न्यस्यते यदा || १६-१३२ || तयैव दीक्षा कार्या चेत्तदेयं न्यासकल्पना | तत्त्वादिमुख्यतायोगाद्दीक्षायां तु पदावली || १६-१३३ || तत्तत्त्वाद्यनुसारेण तत्रान्तर्भाव्यते तथा | स्वप्रधानत्वयोगे तु दीक्षायां पदपद्धतिम् || १६-१३४ || न्यस्येत्क्रमेण तत्त्वादिवदनानवलोकिनीम् | पूर्वमिति--एकादशाह्निकादौ | स्वतन्त्रेति--प्रधाना | तत्रेति-- तत्त्वादौ | तथेति--दशधात्वेन | स्वप्रधानत्वयोग एवोपोद्बलितस्तत्त्वादिवदनानवलोकिनीमिति || तदेवाह-- चतुर्ष्वष्टासु चाष्टासु दशस्वथ दशस्वथ || १६-१३५ || दशस्वथो पञ्चदशस्वथ वेदशरेन्दुषु | धरापदान्नवपदीं मातृकामालिनीगताम् || १६-१३६ || योजयेद् व्याप्तृ दशमं पदं तु शिवसंज्ञितम् | धरापदं वर्जयित्वा पञ्च यानि पदानि तु || १६-१३७ ||
SKविधिद्वयं स्यान्निक्षिप्य द्वादश द्वादशांगुलान् | वेदाः चत्वारः | शरेन्दवः पञ्चदश | तत्र संहारक्रमेण एकाक्षरं चतुरक्षरं द्वयम्, पञ्चाक्षरं त्रयम्, एकं च द्व्यक्षरम्, त्र्यक्षरं चेति नवपद्याः विभागः | तदुक्तम्-- ᳚चतुरंगुलमाद्यं तु द्वे चान्येऽष्टांगुले पृथक् || दशांगुलानि त्रीण्यस्मादेकं पञ्चदशांगुलम् | चतुर्भिरधिकैश्चान्यद् व्यापकं नवमं महत् ||᳚ (मा.वि. ६|२०) इति | अत्र च चतुर्भिरंगुलैरन्यदष्टमं द्व्यक्षरं पदम्, अधिकैरवशिष्टैः पञ्चदशभिरंगुलैश्च नवमं त्र्यक्षरम्, महत्षोडशाक्षरं दशमं च व्यापकमिति व्याख्यानायोक्तम्-- वेदशरेन्दुष्विति शिवसंज्ञितं दशमं पदं व्याप्त्रिति च | यत्पुनरनेन पञ्चिकायां व्याख्यातम्--त्र्यधिकैश्चतुर्भिः सप्तांगुलव्याप्त्या अष्टमं पदं पारिशिष्ट्यात् द्वादशांगुलव्याप्त्या च नवममिति, तत् तत्त्वक्रमसाम्यापादनहेवाकिनां केषाञ्चन मतमिति | नहि सर्वसर्विकया एतदापादयितुं पार्यते इति किमशक्यार्थाभिनिवेशेन | तथाहि--भौवने न्यासे द्व्यंगुलत्वेऽपि च्छगलाण्डभुवनस्य त्र्यंगुलत्वमुक्तं कथं सङ्गच्छताम् | भुवनानि हि तत्त्वैर्व्याप्यन्ते, न तु तानि तैः | नाप्येषां नियततत्त्वगतत्वेनावस्थितेः तत्त्वान्तरेषु अवस्थानं वक्तुं न्याय्यमित्यलं बहुना | पञ्चेति षट्चत्वारिंशदंगुलगतानि | निक्षिप्येत्यर्थात् तेष्वेव पञ्चसु पदेषु || एतदेवान्यत्राप्यतिदिशति-- मन्त्राध्वनोऽप्येष एव विधिर्विन्यासयोजने || १६-१३८ || व्याप्तिमात्रं हि भिद्येतेत्युक्तं प्रागेव तत्तथा | प्रागिति--एकादशाह्निकादौ || इदानीं वर्णाध्वानमभिधातुमाह-- वर्णाध्वनोऽथ विन्यासः कथ्यतेऽत्र विधित्रये || १६-१३९ || एकं चतुर्षु प्रत्येकं द्वयोरंगुलयोः क्रमात् | त्रयोविंशतिवर्णी स्यात् षड्वर्ण्येकैकशस्त्रिषु || १६-१४० || प्रत्येकमथ चत्वारश्चर्तुष्विति विलोमतः | मालिनीमातृकार्णाः स्युर्व्याप्तृ शैवं रसेन्दुतः || १६-१४१ || वर्जयित्वाद्यवर्णं तु तत्त्ववत्स्याद्रवीन्रवीन् |
SKतां त्रयोविंशतौ वर्णेष्वप्यन्यत्स्याद्विधिद्वयम् || १६-१४२ || एकमिति क्ष ह च यद्वक्ष्यति विलोमत इति | एकैकश इति त्रिष्विति--येन त्रिषु षोढा गणनादष्टादशांगुलानि भवन्ति | एवं चतुर्ष्वपि चतुर्धा गणनात् षोडशांगुलानि स्युः--इत्युक्तम्--प्रत्येकं चतुर्षु चत्वार इति | रसेन्दुत इति षोडशार्णरूपम्--इत्यर्थः | अन्यद्विधिद्वयं स्यात्--इति समन्वयः | तत्त्ववदिति--यदुक्तम्-- समनन्तरमेव ᳚जलाद्ध्यन्तं सार्धयुग्मं.................... |᳚ (१०६) इत्यादि ||१४२ || अत एव श्रीपूर्वशास्त्रे तत्त्वेषु एवैतदादावुपदिष्टम्, अनन्तरं तु तदेव पदादावतिदिष्टम्--इत्याह-- श्रीपूर्वशास्त्रे तेनादौ तत्त्वेषूक्तं विधित्रयम् | अतिदिष्टं तु तद्भिन्नाभिन्नवर्णद्वये समम् || १६-१४३ || तत्रत्यमेवातिदेशवाक्यं पठति-- द्विविधोऽपि हि वर्णानां षड्वधो भेद उच्यते | तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः || १६-१४४ || उपदेशातिदेशाभ्यां यदुक्तं तत्पदादिषु | भूयोऽतिदिष्टं तत्रैव शास्त्रेऽस्मद्धृदयेश्वरे || १६-१४५ || मातृकामालिनीगतत्वेन द्विविधोऽपि वर्णानां यो भेदः प्रत्येकं वर्णपदमन्त्रव्याप्त्या षड्विध उच्यते, स पूर्वोक्तक्रमेण तत्त्वमार्गविधिना वस्तुतो ज्ञातव्यः--इति वाक्यार्थः | अस्मद्धृदयेश्वर इत्यनेन अत्रैव विश्रान्तिस्थानत्वं कटाक्षितम् ||१४५|| तदेवाह-- पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः | त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना || १६-१४६ || उक्तं तत्पदमन्त्रेषु कलास्वथ निरूप्यते | पदादीनां ᳚पादाधः पञ्च भूतानि.................... |᳚ (मा.वि. ६|२) इत्यादिसूत्राण्यनुसृत्य तत्त्वाद्युक्तवर्त्मना परपरापरापरत्वेन त्रिभेदभिन्नत्वं विदध्यात्--इत्यर्थः | उक्तमित्यनन्तरमेव || तदेवाह-- चतुर्षु रसवेदे द्वाविंशतौ द्वादशस्वथ || १६-१४७ || निवृत्त्याद्याश्चतस्रः स्युर्व्याप्त्री स्याच्छान्त्यतीतिका | द्वितीयस्यां कलायां तु द्वादश द्वादशांगुलान् || १६-१४८ || क्रमात्क्षिप्त्वा विधिद्वैतं परापरपरात्मकम् |
SKचतुरण्डविधिस्त्वादिशब्देनेह प्रगृह्यते || १६-१४९ || कलाचतुष्कवत्तेन तस्मिन्वाच्यं विधित्रयम् | द्वितीयस्यामिति--षट्चत्वारिंशदंगुलगतायाम् | आदिशब्देनेति-- श्रीपूर्ववाक्यगतेन || एवं शोध्यवैचित्र्यमुपसंहरन् शोधकवैचित्र्यमभिधातुमाह-- एवं षड्वधमध्वानं शोध्यशिष्यतनौ पुरा || १६-१५० || न्यस्यैकतममुख्यत्वान्न्यस्येच्छोधकसंमतम् | शोधकसंमतमिति--शोधकतयाभिमतं मन्त्रविशेषम्--इत्यर्थः || तदेवाह-- अध्वन्यासनमन्त्रौघः शोधको ह्येक आदितः || १६-१५१ || शब्दराशिर्मालिनी च समस्तव्यस्ततो द्विधा | एकवीरतया यद्वा षट्कं यामलयोगतः || १६-१५२ || पञ्चवक्त्री शक्तितद्वद्भेदात्षोढा पुनर्द्विधा | एकाकियामलत्वेनेत्येवं सा द्वादशात्मिका || १६-१५३ || षडङ्गी सकलान्यत्वाद् द्विविधा वक्त्रवत्पुनः | द्वादशत्वेन गुणिता चतुर्विंशतिभेदिका || १६-१५४ || अघोराद्यष्टके द्वे च तृतीयं यामलोदयात् | मातृसद्भावमन्त्रश्च केवलः श्रुतिचक्रगः || १६-१५५ || एकद्वित्रिचतुर्भेदान्त्रयोदशभिदात्मकः | एकवीरतया सोऽयं चतुर्दशतया स्थितः || १६-१५६ || तत्रासनमन्त्रौघस्तावत् अध्वनि तद्योजनान्यथानुपपत्त्या प्रथममेकः शोधकः, शब्दराशिश्च व्यस्तसमस्ततया द्विप्रकारः, एवं मालिन्यपीति चत्वारो भेदाः | एकवीरतयेति�एककस्य स्वस्वरूपमात्रविश्रान्तिमयत्वात् | यामलयोगत इति�परस्परौन्मुख्ये चमत्कारतारतम्यात्, येन षण्णां क्षुब्धाक्षुब्धतया द्वादश | एषामेव षण्णां वक्त्रैरेकाकितया यामलतया वा गृहीतैर्द्वादश | एतदङ्गानामेव द्वादशधात्वे सकलनिष्कलतया चतुर्विंशतिः | तृतीयमित्यष्टकम्, तेनात्र अष्टकत्रयम् | केवल इति--निरुपाधित्वात्, अत एव सर्वत्रानाख्यतयोक्तः | श्रुतीति--चत्वारि सृष्ट्यादीनि चक्राणि, तेन सृष्ट्यनाख्यादितया चतुष्प्रकारः ||१५६ || न चायमेतावन्मात्रभेद एव--इत्याह-- अनामसंहृतिस्थैर्यसृष्टिचक्रं चतुर्विधम् | देवताभिर्निजाभिस्तन्मातृसद्भाववृंहितम् || १६-१५७ ||
SKइत्थं शोधकवर्गोऽयं मन्त्राणां सप्ततिः स्मृता | षडर्धशास्त्रेषु श्रीमत्सारशास्त्रे च कथ्यते || १६-१५८ || अघोराद्यष्टकेनेह शोधनीयं विपश्चिता | अथवैकाक्षरामन्त्रैरथवा मातृकाक्रमात् || १६-१५९ || भैरवीयहृदा वापि खेचरीहृदयेन वा | भैरवेण महादेवि त्वथ वक्त्राङ्गपञ्चकैः || १६-१६० || येन येन हि मन्त्रेण तन्त्रेऽस्मिन्नुद्भवः कृतः | तेनैव दीक्षयेन्मन्त्री इत्याज्ञा पारमेश्वरी || १६-१६१ || एवं शोधकभेदेन सप्ततिः कीर्तिता भिदः | शोध्यन्यासं विना मन्त्रैरेतैर्दीक्षा यदा भवेत् || १६-१६२ || तदा सप्ततिधा ज्ञेया जननादिविवर्जिता | मन्त्रैरिति बहुवचनात् परादिसंबन्धिभिस्त्रिभिः--इत्यर्थः | भैरवीयहृदेति--मातृसद्भावमन्त्रेण | खेचरीहृदयेनेति-- पिण्डनाथेन | भैरवेणेति--नवात्माद्यन्यतमेन | येन येनोद्भवः कृत इति--य एवाभीप्सितः--इत्यर्थः || एवं शोध्यशोधकवैचित्र्यमभिधाय तन्महिमोपनतां दीक्षाभिदमभिधातुमाह-- शोध्यभेदोऽथ वक्तव्यः संक्षेपात्सोऽपि कथ्यते || १६-१६३ || शोध्यभेदमेवाह-- एकत्रिपञ्चषट्त्रिंशद्भेदात्तात्त्वश्चतुर्विधः | पञ्चैकभेदाच्चाध्वानस्तथैवाण्डचतुष्टयम् || १६-१६४ || एवं दशविधं शोध्यं त्रिंशद्धा तद्विधित्रयात् | शोध्यशोधकभेदेन शतानि त्वेकविंशतिः || १६-१६५ || अत्रापि न्यासयोगेन शोध्येऽध्वनि तथाकृतेः | शतैकविंशतिभिदा जननाद्युज्झिता भवेत् || १६-१६६ || जननादिमयी तावत्येवं शतदृशि श्रुतिः | स्यात्सप्तत्यधिका सापि द्रव्यविज्ञानभेदतः || १६-१६७ || द्विधेति पञ्चाशीतिः स्याच्छतान्यधिकखाब्धिका | भोगमोक्षानुसन्धानाद् द्विविधा सा प्रकीर्तिता || १६-१६८ || अशुभस्यैव संशुद्ध्या शुभस्याप्यथ शोधनात् | द्विधा भोगः शुभे शुद्धिः कालत्रयविभेदिनि || १६-१६९ || एकद्विसामस्त्यवशात्सप्तधेत्यष्टधा भुजिः | गुरुशिष्यक्रमात्सोऽपि द्विधेत्येवं विभिद्यते || १६-१७० || प्रत्यक्षदीक्षणे यस्माद् द्वयोरेकानुसन्धितः |
SKतादृग्दीक्षाफलं पूर्णं विसंवादे तु विप्लवः || १६-१७१ || परोक्षमृतदीक्षादौ गुरुरेवानुसन्धिमान् | क्रियाज्ञानमहिम्ना तं शिष्यं धाम्नीप्सिते नयेत् || १६-१७२ || अविभिन्ने क्रियाज्ञाने कर्मशुद्धौ तथैव ते | अनुसन्धिः पुनर्भिन्नः कर्म यस्मात्तदात्मकम् || १६-१७३ || श्रीमत्स्वच्छन्दशास्त्रे च वासनाभेदतः फलम् | शिष्याणां च गुरोश्चोक्तमभिन्नेऽपि क्रियादिके || १६-१७४ || भोगस्य शोधकाच्छोध्यादनुसन्धेश्च तादृशात् | वैचित्र्यमस्ति भेदस्य वैचित्र्यप्राणता यतः || १६-१७५ || पञ्चेति--तत्त्वाध्वावशिष्टाः, शोध्यशोधकभेदेनेति--त्रिंशतः शोध्यानां सप्तत्या शोधकैर्भेदेनेह | सप्ततीति--प्रागुक्ता शोधकसंबन्धिनी | एवं सप्तत्यधिकानि द्वाचत्वारिंशच्छतानि | द्रव्येति--अनेन क्रिया लक्ष्यते | खम् शून्यम्, अब्धयश्चत्वारः, तेन चत्वारिंशदधिकानि पञ्चाशीतिः शतानि | अशुभस्यैवेति-- लोकधर्मिणः | शुभस्यापीति--शिवधर्मिणः | सप्तधेति--शुभस्य हि शुद्धावतीतवर्तमानभाविभेदादेकैकभेदास्त्रयः, अतीतवर्तमानातीतवर्तमानभावित्वेन द्विकभेदा अपि त्रयः, सामस्त्येन चैक इति | अष्टधेति--अशुभस्य शुद्ध्या सह | सोऽपीति-- गुरुः | एवं विभिद्यत इति--वक्ष्यमाणेन क्रमेण | विसंवाद इति� द्वयोरपि भिन्नानुसन्धानात्मनि | गुरुरेवेति--शिष्यस्य दिगन्तरस्थत्वात् मृतत्वाच्च | तथैवेति--अभिन्ने | तदात्मकमिति--अनुसन्ध्यनुप्राणितम् ||१७५ || तत्र शोधकवैचित्र्यमेव दर्शयति-- तथाहि वक्त्रैर्यस्याध्वा शुद्धस्तैरेव योजितः | भोक्तुमिष्टे क्वचित्तत्त्वे स भोक्ता तद्बलान्वितः || १६-१७६ || शुभानां कर्मणां चात्र सद्भावे भोगचित्रता | तादृगेव भवेत्कर्मशुद्धौ त्वन्यैव चित्रता || १६-१७७ || भोगश्च सद्य उत्क्रान्त्या देहेनैवाथ सङ्गतः | तदैवाभ्यासतो वापि देहान्ते वेत्यसौ चतुः || १६-१७८ || प्राक्तनाष्टभिदा योगाद् द्वात्रिंशद्भेद उच्यते | मोक्ष एकोऽपि बीजस्य समयाख्यस्य तादृशम् || १६-१७९ || बालादिकं ज्ञातशीघ्रमरणं शक्तिवर्जितम् |
SKवृद्धं वोद्दिश्य शक्तं वा शोधनाशोधनाद् द्विधा || १६-१८० || सद्य उत्क्रान्तितस्त्रैधं सा चासन्नमृतौ गुरोः | कार्येत्याज्ञा महेशस्य श्रीमद्गह्वरभाषिता || १६-१८१ || दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् | उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् || १६-१८२ || पञ्चत्रिंशदमी भेदा गुरोर्वा गुरुशिष्ययोः | उक्तद्वैविध्यकलनात्सप्ततिः परिकीर्तिताः || १६-१८३ || एतैर्भेदैः पुरोक्तांस्तान्भेदान्दीक्षागतान्गुरुः | हत्वा वदेत्प्रसंख्यानं स्वभ्यस्तज्ञानसिद्धये || १६-१८४ || शोध्यवैचित्र्यं च शुभानामित्यादिना प्रकाशितम् | तदैवेति--दीक्षासामनन्तर्येण | अभ्यासत इति--मन्त्राराधनक्रमेण | द्वात्रिंशद्भेद इति--चतुर्णामष्टभिर्गुणनात् | शक्तमिति-- विद्वदादिरूपम् | सेति सद्य उत्क्रान्तिः | उक्तेति--᳚गुरुशिष्यक्रमात्सोऽपि द्विधेत्येवं विभिद्यते᳚ इत्यादिना || एतदेव विभज्य दर्शयति-- पञ्चाशीतिशती या चत्वारिंशत्समुत्तारा कथिता | तां सप्तत्या भित्त्वा दीक्षाभेदान्स्वयं कलयेत् || १६-१८५ || पञ्चकमिह लक्षाणां च सप्तनवतिः सहस्रपरिसंख्या | अष्टौ शतानि दीक्षाभेदोऽयं मालिनीतन्त्रे || १६-१८६ || भित्त्वेति--गुणयित्वा || १८६ || एवमुक्तान्मुख्यभेदान् सङ्कलयन् भेदान्तराण्यप्यत्र सन्ति--इत्याह-- सप्ततिधा शोद्धृगणस्त्रिंशद्धा शोध्य एकतत्त्वादिः | साण्डः षडध्वरूपस्तथेतिकर्तव्यता चतुर्भेदा || १६-१८७ || द्रव्यज्ञानमयी सा जननादिविवर्जिताथ तद्युक्ता | पञ्चत्रिंशद्धा पुनरेषा भोगापवर्गसन्धानात् || १६-१८८ || यस्माद् द्वात्रिंशद्धा भोगः शुभशुद्ध्यशुद्धिकालभिदा | मोक्षस्त्रेधा द्विगुणा सप्ततिरितिकार्यताभेदाः || १६-१८९ || द्विगुणेति--गुरुशिष्यगतादनुसन्धानभेदात् || भेदान्तराणां सद्भावं दर्शयति-- शोधनशोध्यविभेदादितिकर्तव्यत्वभेदतश्चैषा | दीक्षा बहुधा भिन्ना शोध्यविहीना तु सप्ततिधा || १६-१९० || मन्त्राणां सकलेतरसाङ्गनिरङ्गादिभेदसङ्कलनात् | शोध्यस्य च तत्त्वादेः पञ्चदशाद्युक्तभेदपरिगणनात् || १६-१९१ ||
SKभेदानां परिगणना न शक्यते कर्तुमित्यसङ्कीर्णाः | भेदाः सङ्कीर्णाः पुनरन्ये भूयस्त्वकारिणो बहुधा || १६-१९२ || शोधकशोध्यादीनां द्वित्रादिविभेदसद्भावात् | इतरो--निष्कलः | उक्तेति--दशमाह्निके | असङ्कीर्णा भेदा इति-- अर्थादुक्ताः | द्वित्रादीति--देवीद्वयेन त्रयेण वेत्यादेः || नन्वेवं भेदकथनेन किं स्यात् ?--इत्याशङ्क्याह-- भोगे साध्ये यद्यद् बहु कर्तव्यं तदाश्रयेन्मतिमान् || १६-१९३ || कारणभूयस्त्वं किल फलभूयस्त्वाय किं चित्रम् | अपवर्गे न तु भेदस्तेनास्मिन्वासनादृढत्वजुषा || १६-१९४ || अल्पाप्याश्रयणीया क्रियाऽथ विज्ञानमात्रे वा | अस्मद्गुरवः पुनरेतन्न मन्यन्ते--इत्याह-- अभिनवगुप्तगुरुः पुनराह हि सति वित्तदेशकालादौ || १६-१९५ || अपवर्गेऽपि हि विस्तीर्णकर्मविज्ञानसंग्रहः कार्यः | एतदेवोपपादयति-- चिद्वृत्तेर्वैचित्र्याच्चाञ्चल्येऽपि क्रमेण सन्धानात् || १६-१९६ || तस्मिंस्तस्मिन्वस्तुनि रूढिरवश्यं शिवात्मिका भवति | तत्त्वमिदमेतदात्मकमेतस्मात्प्रोद्धृतो मया शिष्यः || १६-१९७ || इत्थं क्रमसंवित्तौ मूढोऽपि शिवात्मको भवति | क्रमिकतथाविधशिवतानुग्रहसुभगं च दैशिकं पश्यन् || १६-१९८ || शिशुरपि तदभेददृशा भक्तिबलाच्चाभ्युपैति शिवभावम् | यद्यपि विकल्पवृत्तेरपि मोक्षं दीक्षयैव देहान्ते || १६-१९९ || शास्त्रे प्रोवाच विभुस्तथापि दृढवासना युक्ता | शास्त्र इति--श्रीनिशाटनादौ | तच्च प्रथमाह्निकादौ बहूक्तम् || अत्र चान्येषामभिप्रायान्तरमाह-- मोक्षेऽप्यस्ति विशेषः क्रियाल्पभूयस्त्वजः सलोकादिः || १६-२०० || इति केचित्तदयुक्तं स विचित्रो भोग एव कथितः स्यात् | ननु यद्येवं न युक्तं तत् कतरः पक्ष आश्रयणीयः?-- इत्याशङ्क्याह-- संस्कारशेषवर्तनजीवितमध्येऽस्य समयलोपाद्यम् || १६-२०१ || नायाति विघ्नजालं क्रियाबहुत्वं मुमुक्षोस्तत् | यस्मात् सबीजदीक्षा संस्कृतपुरुषस्य समयलोपाद्ये || १६-२०२ || भुक्ते भोगान्मोक्षो नैव निर्बीजदीक्षायाम् | इति केचिन्मन्यन्ते युक्तं तच्चापि यत्स्मृतं शास्त्रे || १६-२०३ ||
SKअत्रैव हेतुर्यत्स्मृतं शास्त्रे इति ||२०३ || तदेवाह-- समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः || १६-२०४ || एतदेव निगमयति� तस्माद् गुरुशिष्यमतौ शिवभावनिरूढिवितरणसमर्थम् | क्रमिकं तत्त्वोद्धरणादि कर्म मोक्षेऽपि युक्तमतिविततम् || १६-२०५ || स्वभ्यस्तज्ञानस्य गुरोः पुरनेवं न कश्चिन्नियमः--इत्याह-- यस्तु सदा भावनया स्वभ्यस्तज्ञानवान्गुरुः स शिशोः | अपवर्गाय यथेच्छं यं कञ्चिदुपायमनुतिष्ठेत् || १६-२०६ || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह-- एवं शिष्यतनौ शोध्यं न्यस्याध्वानं यथेप्सितम् | शोधकं मन्त्रमुपरि न्यस्येत्तत्त्वानुसारतः || १६-२०७ || तत्त्वानुसारत इति--शोध्याध्वोपलक्षणम् | अनेन च तत्तन्मन्त्रात्मकः परो न्यास आसूत्रितः ||२०७ || तदेवाह-- द्वयोर्मातृकयोस्तत्त्वस्थित्या वर्णक्रमः पुरा | कथितस्तं तथा न्यस्येत्तत्तत्तत्त्वविशुद्धये || १६-२०८ || द्वयोरिति--शब्दराशिमालिन्योः ||२०८ || ननु ᳚.......................ऽध्वा बन्धस्य कारणम् |᳚ इत्याद्युक्त्या वर्णाध्वापि अविशेषाद्बन्धक एव तत् कथमिहास्य शोध्यत्वेऽपि शोधकत्वमुच्यते ?--इत्याशङ्क्याह-- वर्णाध्वा यद्यपि प्रोक्तः शोध्यः पाशात्मकस्तु सः | मायीयः शोधकस्त्वन्यः शिवात्मा परवाङ्मयः || १६-२०९ || ननु एकस्यैव शोध्यत्वे शोधकत्वे च किं प्रमाणम् ?--इत्याशङ्क्याह-- उवाच सद्योज्योतिश्च वृत्तौ स्वायम्भुवस्य तत् | बाढमेको हि पाशात्मा शब्दोऽन्यश्च शिवात्मकः || १६-२१० || तस्मात्तस्यैव वर्णस्य युक्ता शोधकशोध्यता | अस्मदागमोऽप्येवम्--इत्याह-- श्रीपूर्वशास्त्रे चाप्युक्तं ते तैरालिङ्गिता इति || १६-२११ || सद्योजातादिवक्त्राणि हृदाद्यङ्गानि पञ्च च | षट्कृत्वो न्यस्य षट्त्रिंशन्न्यासं कुर्याद्धरादितः || १६-२१२ || परापराया वैलोम्याद्धरायां स्यात्पदत्रयम् | ततो जलादहङ्कारे पञ्चाष्टकसमाश्रयात् || १६-२१३ || पदानि पञ्च धीमूलपुंरागाख्ये त्रये त्रयम् | एकं त्वशुद्धवित्कालद्वये चैकं नियामके || १६-२१४ || कलामायाद्वये चैकं पदमुक्तमिह क्रमात् |
SKविद्येश्वरसदाशक्तिशिवेषु पदपञ्चकम् || १६-२१५ || एकोनविंशतिः सेयं पदानां स्यात्परापरा | यदुक्तं तत्र-- श तया संप्रबुद्धः सन्योनिं विक्षोभ्य शक्तिभिः | तत्समानश्रुतीन्वर्णांस्तत्संख्यानसृजत्प्रभुः || ते तैरालिङ्गिताः सन्तः सर्वकामफलप्रदाः |᳚ (मा.विटं.३|२८) इति | एवमेक एव वर्णः शिवात्मकतयाऽनुध्यातः शोधकोऽन्यथा तु शोध्यः--इत्यत्र तात्पर्यम् | षट्कृत्व इति--शक्तीनां शक्तिमतां च संबन्धीनि प्रतितत्त्वं संमील्य--इत्यर्थः | वैलोम्यादिति-- दीक्षायां हि संहारक्रम एवोचितः, तेनागमे सृष्टिक्रमेणाभिधानेऽपि एवमेव न्यासः कार्यः--इत्याशयः | पदत्रयमिति--फट् हः हुं सार्धैकैकार्णरूपम् | पञ्चेति--फट् रर रुरु हे पिव इति सार्धद्विद्व्येकद्विवर्णात्मकानि | पुंरागेति--पुंसा सहिते रागतत्त्वे--इत्यर्थः | त्रयमिति--वम भीषणे भीमे इति द्वित्रिद्व्यक्षरम् | एकमिति--घोरमुखीति चतुरर्णम् | एकमिति--हः इत्येकाक्षरम् | एकमिति--घोररूपे इति चतुरक्षरम् | क्रमादिति--तेन रूपे इति कलायाम्, घोर इति मायायाम् | पदपञ्चैकमिति हुं परमघोरे ह्रीः अघोरे ओम् इत्येकपञ्चैकत्र्येकात्मकम् | तत्र विद्यायां पदमेकम्, ईश्वरे चैकम्, सदाशिवे द्वयम्, शक्तिशिवयोश्चैकम्--इति विभागः | अत्रैव वर्णविभागमाह-- सार्धं चैकं चैकं सार्धं द्वे द्वे शशी दृगथ युग्मम् || १६-२१६ || त्रीणि दृगब्धिश्चन्द्रः श्रुतिः शशी पञ्च विधुमहश्चन्द्राः | एकान्नविंशतौ स्यादक्षरसंख्या पदेष्वियं देव्याः || १६-२१७ || हल्द्वययुतवसुचित्रगुपरिसंख्यातस्ववर्णायाः | मूलान्तं सार्धवर्णं स्यान्मायान्तं वर्णमेककम् || १६-२१८ || शक्त्यन्तमेकमपरान्यासे विधिरुदीरितः | मायान्तं हल्ततः शक्तिपर्यन्ते स्वर उच्यते || १६-२१९ || निष्कले शिवतत्त्वे वै परो न्यासः परोदितः | परापरापदान्येव ह्यघोर्याद्यष्टकद्वये || १६-२२० || मन्त्रास्तदनुसारेण तत्त्वेष्वेतद्द्वयं क्षिपेत् | पिण्डाक्षराणां सर्वेषां वर्णसंख्या विभेदतः || १६-२२१ ||
SKअव्यक्तान्तं स्वरे न्यस्य शेषं शेषेषु योजयेत् | बीजानि सर्वतत्त्वेषु व्याप्तृत्वेन प्रकल्पयेत् || १६-२२२ || पिण्डानां बीजवन्न्यासमन्ये तु प्रतिपेदिरे | अकृते वाऽथ शोध्यस्य न्यासे वस्तुबलात् स्थितेः || १६-२२३ || शोधकन्यासमात्रेण सर्वं शोध्यं विशुध्यति | मह इति--सोमसूर्याग्निलक्षणानि त्रीणि | हल्द्वययुतेति--हल्द्वयेन अनच्कटकारद्वयेन युता अधिका इत्यर्थः | वसुचित्रग्विति-- अष्टात्रिंशत् | यदुक्तम्-- ङिष्कले पदमेकार्णं त्र्यर्णैकार्णमिति द्वयम् | सकले तु परिज्ञेयं पञ्चैकार्णद्वयं द्वये || चतुरेकाक्षरे द्वे च मायादित्रितये मते | चतुरक्षरमेकं च कालादिद्वितये मतम् || रञ्जके द्व्यर्णमुद्दिष्टं प्रधाने त्र्यर्णमिष्यते | बुद्धौ देवाष्टकव्याप्त्या पदं द्व्येकद्विद्व्यक्षराणि तु | विद्यापदानि चत्वारि सार्धवर्णं च पञ्चमम् || एकैकसार्धवर्णानि त्रीणि तत्त्वे तु पार्थिवे |᳚ (मा.वि. ४|२३) इति | मूलान्तमिति--प्रकृत्यन्तमण्डद्वयव्यापकम्--इत्यर्थः | एककं वर्णमिति--चतुष्कलम् | एकमिति--मायाबीजम् | हलिति-- प्रकरणादमृतबीजम् | एवं स्वरोऽपि औकारः | पर इति--विसर्गः | तदुक्तम्-- शार्धेनाण्डद्वयं व्याप्तमेकैकेन पृथग्द्वयम् | अपरायाः समाख्याता व्याप्तिरेषा विलोमतः || सार्णेनाण्डत्रयं व्याप्तं त्रिशूलेन चतुर्थकम् | सर्वातीतं विसर्गेण पराया व्याप्तिरिष्यते ||᳚ (मा.वि. ४|२५) इति | तदनुसारेणेति--परापरापदानामेव समनन्तरोक्तां तत्तत्तत्त्वव्याप्तिमनुसृत्य--इत्यर्थः | तदुक्तम्-- ᳚परापराङ्गसंभूता योगिन्योऽष्टौ महाबलाः | पञ्च षट् पञ्च चत्वारि द्वित्रिद्व्यर्णाः क्रमेण तु || ज्ञेयाः सप्तैकादशार्णा एकार्धार्णद्वयान्विताः |᳚ (मा.वि. ३|६०) इति | पिण्डाक्षराणामिति--नवात्मादीनाम् | संख्या--नवादिका | स्वर इति--उकारे | शेषम्--पुरुषादि | शेषेषु--यादिषु | बीजानीति-- पिण्डपदविलक्षणानि एकाक्षरादीनि | बीजवदिति--पिण्डानामपि प्रतितत्त्वं व्याप्तृतया न्यासः कार्यः--इत्यर्थः ||
SKअन्यस्तमपि शोध्यं केवलेनैव शोधकन्यासेन शुद्ध्यतीत्यत्र किं प्रमाणम्?--इत्याशङ्क्याह-- श्रीमन्मृत्युञ्जयादौ च कथितं परमेष्ठिना || १६-२२४ || तदेवाह-- अधुना न्यासमात्रेण भूतशुद्धिः प्रजायते | नन्वेतदत्र देहशुद्ध्यर्थमुक्तमिति कथमिह सङ्गच्छताम् ?-- इत्याशङ्क्याह-- देहशुद्धर्थमप्येतत्तुल्यमेतेन वस्तुतः || १६-२२५ || अन्यप्रकरणोक्तं यद्युक्तं प्रकरणान्तरे | ज्ञापकत्वेन साक्षाद्वा तत्किं नान्यत्र गृह्यते || १६-२२६ || मालिनीमातृकाङ्गस्य न्यासो योऽर्चाविधौ पुरा | प्रोक्तः केवलसंशोद्धृमन्त्रन्यासे स एव तु || १६-२२७ || त्रिपदी द्वयोर्द्वयोः स्यात्प्रत्येकमथाष्टसु श्रुतिपदानि | दिक्चन्द्रचन्द्ररसरविशरशरदृग्दृङ्मृगाङ्कशशिगणने || १६-२८ || अंगुलमाने देव्या अष्टादश वैभवेन पदमन्यत् | अपरं मानमिदं स्यात् केवलशोधकमनुन्यासे || १६-२२९ || तुर्यपदात्पदषट्के मानद्वितयं परापरपराख्यम् | द्वादशकं द्वादशकं तत्त्वोपरि पूर्ववत्त्वन्यत् || १६-२३० || वस्तुत इति--शोध्यशोधकात्मनो न्यासस्य साम्यात् | साक्षादिति--विधायकत्वेन | किं नान्यत्र गृह्यते इति--अपि तु गृह्यते एव--इत्यर्थः | अङ्गस्येति--तत्स्वरूपस्य--इत्यर्थः | केवलेति-- शोध्यपरिहारेण, शोध्यसंमीलनायां तु प्रागन्यथोक्त एव वर्णादिक्रमेण न्यासः | स एवेति--न्यासः तत्क्रम इति यावत् | त्रिपदीति--संहारक्रमेण | द्वयोर्द्वयोरिति--अङ्गुलयोः, तेन षडङ्गुलाः | अष्टस्विति अङ्गुलेषु | श्रुतीति--चत्वारि, तेन द्वात्रिंशत् | दिगिति--दश, चन्द्र इति एकः, रसेति षट्, रवीति द्वादश, शरेति पञ्च, दृगिति द्वयम् | अष्टादशेति--पदानि | वैभवेनेति व्यापकतया, यदुक्तम्-- ᳚व्यापकं पदमन्यच्च...................... |᳚ (६|२४) इति | केवलेति--शोध्यपरिहारेण | तुर्यपदादित्यारभ्य | पदषट्क इति--यत्राष्टाङ्गुलानि चत्वारि, दशांगुलमेकमेकाङ्गुलं चैकमिति | उपरीति--तेनात्र प्रतिपदमङ्गुलयोर्द्वयं द्वयमधिकीभवति-- इत्यर्थः ||२३० ||
SKनन्वस्याः समनन्तरमेव तत्त्वक्रमेण पदानां न्यास उक्तस्तत्कथमिह एतदिदानीमेवान्यथाभिधीयते ?--इत्याशङ्क्याह-- केवलशोधकमन्त्रन्यासाभिप्रायतो महादेवः | तत्त्वक्रमोदितमपि न्यासं पुनराह तद्विरुद्धमपि च || १६-२३१ || महादेवो हि शोध्यानां षट्त्रिंशत्तत्त्वानां क्रमेण तन्न्यासपुरःसरीकारेण उदितमपि शोधकमन्त्रन्यासाभिप्रायेण पुनस्तद्विरुद्धमपि एकान्नविंशतेः पदानां न्यासमाह तदन्यथात्वेनापि अकथयत्--इत्यर्थः ||२३१ || तदेव पठति-- निष्कले पदमेकार्णं यावत्त्रीणि तु पार्थिवे | इत्यादिना तत्त्वगतक्रमन्यास उदीरितः || १६-२३२ || पुनश्च मालिनीतन्त्रे वर्गविद्याविभेदतः | द्विधा पदानीत्युक्त्वाख्यन्न्यासमन्यादृशं विभुः || १६-२३३ || उदीरित इति--चतुर्थपटले, तच्च समनन्तरमेव संवादितम् | उक्त्वेति-- षष्ठे पटले | यदुक्तं तत्र-- ᳚पदानि द्विविधान्यत्र वर्गविद्याविभेदतः | तेषां तन्मन्त्रव्याप्तिर्यथेदानीं तथा शृणु ||᳚ (तं.आ. ६|१९) इति| अन्यादृशमिति--तत्त्वक्रमन्यासविपरीतम्--इत्यर्थः ||२३३ || तदेवाह-- एकैकं द्व्यंगुलं ज्ञेयं तत्र पूर्वं पदत्रयम् | अष्टांगुलानि चत्वारि दशांगुलमतः परम् || १६-२३४ || द्व्यंगुले द्वे पदे चान्ये षडंगुलमतः परम् | द्वादशांगुलमन्यच्च द्वेऽन्ये पञ्चांगुले पृथक् || १६-२३५ || पदद्वयं चतुष्पर्व तथान्ये द्वे द्विपर्वणी | पदत्रयमेकैकं द्व्यंगुलमिति षडंगुलाः | अष्टांगुलानीत्यत्रापि एकैकमिति संबन्धनीयम् | द्व्यंगुले द्वे पदे इति--एकैकं पदमेकांगुलम्--इत्यर्थः | पृथगिति--एकैकं पञ्चांगुलम्-- इत्यर्थः, अन्यथा हि प्रत्येकं सार्धद्वयांगुलत्वं स्यात् | पदद्वयं चतुष्पर्वेति--प्रत्येकं द्विपर्वत्वात् | द्वे द्विपर्वणी इति-- प्रत्येकमेकपर्व--इत्यर्थः || एतदेवोपसंहरति-- एवं परापरादेव्याः स्वतन्त्रो न्यास उच्यते || १६-२३६ ||
SKस्वतन्त्र इति--तत्त्वन्यासाद्यनपेक्षत्वात् | पूर्वं हि शोध्यं तत्त्वादि विन्यस्यैतन्न्यास इत्यस्य तत्पारतन्त्र्यम्, इह तु तत्परिहारेण स्वातन्त्र्येणैवास्या न्यास इति विषयभागः | यदभिप्रायेणैव� ᳚अपरं मानमिदं स्यात्केवलशोधकमनुन्यासे |᳚ इत्याद्युक्तम् | अतश्च शोध्यपारतन्त्र्यात् स्वातन्त्र्याच्च द्वैविध्येनोक्तस्यास्य न्यासस्य एकैकद्व्यंगुलमिति पठित्वा पूर्वस्य पदत्रयस्य चतुरंगुलत्वं, पदद्वयस्य च प्रत्येकं द्व्यंगुलत्वम्, अन्यच्च षडंगुलमेव, प्राच्येन सह तु द्वादशांगुलत्वम्, पदद्वयस्य दशांगुलत्वेऽपि एकस्य त्र्यंगुलत्वम्, अपरस्य च सप्तांगुलत्वं द्विविधस्य च पदद्वयस्य प्रत्येकं चतुरंगुलत्वं द्व्यंगुलत्वं चेत्याद्यभिधाय पूर्वापरानुसारितया उभयपक्षमीलनयांगुलव्यत्यासेन व्याख्यायामार्षपाठपरित्यागः कष्टकल्पना पुनर्वचनानुपयोगः श्रीमद्गुरुव्याख्यातिक्रमश्चेति दोषाः ||२३६ || नन्वेवं देवीद्वयस्यापि न्यासः कस्मान्नोक्तः ?--इत्याशङ्क्याह-- विद्याद्वयं शिष्यतनौ व्याप्तृत्वेनैव योजयेत् | इति दर्शयितुं नास्य पृथङ्न्यासं न्यरूपयत् || १६-२३७ || नन्वेवं शोधकस्य द्विविधेन न्यासेन किं स्यात् ?--इत्याशङ्कां गर्भीकृत्य फलाविशेषेऽपि प्रक्रियामात्रस्यैव वैचित्र्यम्--इत्याह-- एवं शोधकमन्त्रस्य न्यासे तद्रश्मियोगतः | पाशजालं विलीयेत तद् ध्यानबलतो गुरोः || १६-२३८ || शोध्यतत्त्वे समस्तानां योनीनां तुल्यकालतः | जननाद्भोगतः कर्मक्षये स्यादपवृक्तता || १६-२३९ || पाशजालमिति--षडध्वरूपं, तच्चार्थादन्यस्तम् | तत्त्व इत्युपलक्षणं तेन षडध्वन्यपि | न्यासश्चार्थसिद्धः ||२३९ || नन्वेवमस्याणोर्युगपदनेकशरीरगतत्वेन भोक्तृत्वेऽपि किमन्योन्यस्यानुसन्धानमस्ति न वा ?--इत्याशङ्क्याह-- देहैस्तावद्भिरस्याणोश्चित्रं भोक्तुरपि स्फुटम् | मनोऽनुसन्धिर्नो विश्वसंयोगप्रविभागवत् || १६-२४० ||
SKइहास्याणोः संकुचितस्यात्मनस्तावद्भिर्मन्त्रबलोपनतैर्युगपद- वस्थितैरनेकैर्देहैस्तत्तत्कर्मवैचित्र्यारब्धतया चित्रं नानाकारं भोक्तुरपि मानसमनुसन्धानं स्फुटं नास्ति, य एवाहमन्यस्मिन् देहे भुक्तवान् स एवाहमस्मिन्नपि इत्येवमात्मकमस्य ज्ञानं नोदियात्-- इत्यर्थः | अत्रैव निदर्शनम्--विश्वसंयोगप्रविभागवदिति | यथाहि आत्मनो व्यापकत्वात् स्थितेषु विश्वेन भावव्रातेन संयोगविभागेषु अनेन संयुक्तोऽस्मि, अनेन च विभक्तोऽस्मीत्येवं नानुसन्धानं तथेहापि--इत्यर्थः ||२४० || ननु असिद्धोऽयं दृष्टान्तो यदस्य व्यापकत्वात् तत्रापि एवमनुसन्धिरस्तु ?--इत्याशङ्क्याह-- नियत्या मनसो देहमात्रे वृत्तिस्ततः परम् | नानुसन्धा यतः सैकस्वान्तयुक्ताक्षकल्पिता || १६-२४१ || मनसो हि नियतिशक्तिनियन्त्रणया देहमात्र एवानुसंधानात्मा वृत्तिः न तु ततोऽन्यत्र, यतः सा तदीया वृत्तिर्युगपज्ज्ञानानुदयादेकेन चक्षुराद्यन्यतमेन ᳚आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन |᳚ (न्याषू.भा. १|१|४) इत्यादिनीत्या स्वान्तयुक्तेन इन्द्रियेण कल्पिता तदधीना--इत्यर्थः ||२४१ || इन्द्रियाणां च नियतवृत्ति ज्ञानमिति कुतस्तदुल्लङ्घनेनापि देहान्तरादौ मनोऽनुसन्दध्यादत एवाह-- प्रदेशवृत्ति च ज्ञानमात्मनस्तत्र तत्र तत् | भोग्यज्ञानं नान्यदेहेष्वनुसन्धानमर्हति || १६-२४२ || भोग्यज्ञानमिति--नीलसुखादिविषयं वेदनम्--इत्यर्थः ||२४२ || ननु यद्येवं तद्योगिनां प्रातिभज्ञानादावतीन्द्रियार्थविषयं ज्ञानं कस्मादुदियात्?--इत्याशङ्क्याह-- यदा तु मनसस्तस्य देहवृत्तेरपि ध्रुवम् | योगमन्त्रक्रियादेः स्याद्वैमल्यं तद्विदा तदा || १६-२४३ || तस्येति--बाह्येन्द्रियाधीनवृत्तेरपि, तद्विदेति� तस्यातीन्द्रियस्याप्यर्थस्य विदा ज्ञानम्--इत्यर्थः ||२४३ || एतत्प्रकृतेऽपि योजयति-- यथामलं मनो दूरस्थितमप्याशु पश्यति | तथा प्रत्ययदीक्षायां तत्तद्भुवनदर्शनम् || १६-२४४ || जननादिवियुक्तां तु यदा दीक्षां चिकीर्षति |
SKतदास्मादुद्धरामीति युक्तमूहप्रकल्पनम् || १६-२४५ || यदा शोध्यं विना शोद्धृन्यासस्तत्रापि मन्त्रतः | जननादिक्रमं कुर्यात्तत्त्वसंश्लेषवर्जितम् || १६-२४६ || एकाकिशोद्धृन्यासे च जननादिविवर्जने | तच्छोद्धृसंपुटं नाम केवलं परिकल्पयेत् || १६-२४७ || तत्तद्भुवनदर्शनमिति--तीव्रशक्तिपातभाजो हि कस्यचित् तेषु तेषु भुवनेषु अनेकदेहविषयमपि अनुसन्धानं स्यात्--इत्यर्थः | युक्तमिति--जननादेरचिकीर्षितत्वात् | कुर्यादिति-- अर्थादनुल्लिखितविशेषतया, अत एवोक्तम्--तत्त्वसंश्लेषवर्जितमिति ||२४७ || एवं यथेप्सितशोद्धृसंपुटितं शिष्यनाम कल्पयित्वा किं कुर्यात्?-- इत्याशङ्क्याह-- द्रव्ययोगेन दीक्षायां तिलाज्याक्षततण्डुलम् | तत्तन्मन्त्रेण जुहुयाज्जन्मयोगवियोगयोः || १६-२४८ || तत्तन्मन्त्रेणेति--शोद्धृसंपुटितशिष्यनामलक्षणेन | जन्मयोगवियोगयोरिति--वस्तुतस्तन्निमित्तम्--इत्यर्थः ||२४८ || विज्ञानदीक्षायां पुनरेवं कर्तव्यं किञ्चिन्नास्ति--इत्याह-- यदा विज्ञानदीक्षां तु कुर्याच्छिष्यं तदा भृशम् | तन्मन्त्रसञ्जल्पबलात् पश्येदा चाविकल्पकात् || १६-२४९ || तन्मन्त्रेति--तस्य शोद्धृत्वेनाभीप्सितस्य मन्त्रस्य--इत्यर्थः | चो भिन्नक्रमो हेतौ, तेन तदा चेति | आ अविकल्पकादिति साक्षात्कारात्मनिर्विकल्पकविश्रान्तिपर्यन्तम्--इत्यर्थः ||२४९ || ननु शब्दात्मा सञ्जल्पः कथमविकल्पके विश्राम्येत् ?--इत्याशङ्क्याह- - विकल्पः किल सञ्जल्पमयो यत्स विमर्शकः | मन्त्रात्मासौ विमर्शश्च शुद्धोऽपाशवतात्मकः || १६-२५० || नित्यश्चानादिवरदशिवाभेदोपकल्पितः | तद्योगाद्दैशिकस्यापि विकल्पः शिवतां व्रजेत् || १६-२५१ || विकल्पस्य हि सञ्जल्पः स्वरूपं यदसौ क्षेत्रज्ञस्वातन्त्र्यात्मकत्वात्पराम्रष्ट्टस्वभावः | असौ सञ्जल्प एव च मन्त्रात्मा यन्नान्तरीयकश्च विमर्शो निर्विकल्पैकरूपत्वाच्छुद्धः, अत एव� शोऽयमैश्वरो भावः पशोरपि |᳚ इत्यादिनयेन अपाशवतात्मकः, अत एव नित्यः | श्वभावमवभासस्य......................... |᳚ (रि.प्र. १|५|११)
SKइत्यादिनीत्या तदवियुक्तस्वरूपः--इत्यर्थः | ननु कथमेवंविधविमर्शयोगित्वं सञ्जल्पात्मनः स्थूलस्य विकल्पस्य स्यात्?--इत्याशङ्क्योक्तम्--अनादिवरदशिवाभेदोपकल्पित इति | मन्त्रयितुश्चेतःस्वरूपानुप्रवेशादेव विकल्पोऽपि शिवतां व्रजेदविकल्पक एव विश्राम्येत्--इत्यर्थः ||२५१ || न चैतद्युक्तित एव सिद्धम्--इत्याह-- श्रीसारशास्त्रे तदिदं परमेशेन भाषितम् | तदेव पठति� अर्थस्य प्रतिपत्तिर्या ग्राह्यग्राहकरूपिणी || १६-२५२ || सा एव मन्त्रशक्तिस्तु वितता मन्त्रसन्ततौ | या नाम अर्थालोचनात्मिका ग्राह्यग्राहकरूपिणी अङ्गुलिशिरोनिर्देशप्रख्यतदामर्शमयी अविकल्पकस्वभावा प्राथमिकी प्रतिपत्तिः, सैव सर्वेषां मन्त्राणामनवच्छिन्ना प्रमात्रेकात्मनि अन्तर्गुप्ततया समुच्चरद्रूपा शक्तिः सत्ता--इत्यर्थः || एवं चेदमनेनोक्तं स्यादित्याह-- परामर्शस्वभावेत्थं मन्त्रशक्तिरुदाहृता || १६-२५३ || परामर्शो द्विधा शुद्धाशुद्धत्वान्मन्त्रभेदकः | स च शुद्धाशुद्धरूपतया द्विधा मन्त्रान्भेदयति--इत्याह-- परामर्श इत्यादि || एतच्चागमोक्त्यैव विभजति-- उक्तं श्रीपौष्करेऽन्ये च ब्रह्मविष्ण्वादयोऽण्डगाः || १६-२५४ || प्राधानिकाः साञ्जनास्ते सात्त्वराजसतामसाः | तैरशुद्धपरामर्शात्तन्मयीभावितो गुरुः || १६-२५५ || वैष्णवादिः पशुः प्रोक्तो न योग्यः पतिशासने | ये मन्त्राः शुद्धमार्गस्थाः शिवभट्टारकादयः || १६-२५६ || श्रीमन्मतङ्गादिदृशा तन्मयो हि गुरुः शिवः | तन्मय इति-- शुद्धपरामर्शात्मशिवभट्टारकादिमन्त्रैकात्म्यमापन्नः-- इत्यर्थः || ननु भवतु नाम विकल्पस्य क्षेत्रज्ञस्वातन्त्र्योल्लिखितसञ्जल्पयोगाद्विमर्शकत्वं तद्योग एवास्य पुनः प्रथमतरं कुतस्त्यः ?--इत्याह-- ननु स्वतन्त्रसञ्जल्पयोगादस्तु विमर्शिता || १६-२५७ || प्राक्कुतः स विमर्शाच्चेत्कुतः सोऽपि निरूपणे | आद्यस्तथाविकल्पत्वप्रदः स्यादुपदेष्टृतः || १६-२५८ || यः संक्रान्तोऽभिजल्पः स्यात्तस्याप्यन्योपदेष्टृतः |
SKअथोच्यते विमर्शादसाविति, तत्सोऽपि कुत?--इत्याह--विमर्शाच्चेत्, कुतः सोऽपीति | एवं हि विकल्पस्य सञ्जल्पयोगाद्विमर्शः, तस्माच्च सञ्जल्पयोग इत्यन्योन्याश्रयं भवेत्--इति भावः | तदिदमत्रावधार्यम्--इत्याह--निरूपण इत्यादि, निरूपणे हि उत्तमवृद्धलक्षणादुपदेष्टुः--सकाशात् आद्यः कश्चिन्मूलभूतो विमर्शः समनन्तरोक्तविकल्परूपतादायी भवेत् यः किल उपदेश्ये प्रतिसंक्रान्तः सञ्जल्पात्मकतां यायात् यद्योगादपि विकल्पस्य पराम्रष्टृत्वं स्यात् | नन्वेवमुपदेष्टुरप्यसौ कुतस्त्यः?-- इत्याशङ्क्योक्तम्--तस्याप्यन्योपदेष्टृत इति || एवं हि मूलक्षतिकारिणी इयमनवस्था परापतेत् ?--इत्याशङ्क्याह-- पूर्वपूर्वक्रमादित्थं य एवादिगुरोः पुरा || १६-२५९ || सञ्जल्पो ह्यभिसंक्रान्तः सोऽद्याप्यस्तीति गृह्यताम् | इत्थं हि यथानुपूर्वमुपदेष्ट्टक्रममवलम्ब्य सहजविमर्शात्मनः परमेशितुरादिगुरोः सकाशाद्य एव प्राथमिकः सञ्जल्पोऽभितः समन्ताद्यथोत्तरमुपदेश्येषु संक्रान्तः, स एव प्रतिसंक्रान्तवृत्तितया अनुवर्तमानोऽद्यापि मायाप्रमातृपर्यन्तमस्तीति गृह्यतां नैवं काचिदनवस्था-- इत्यर्थः || एवं च तन्माहात्म्योपनतो यः कश्चन वैकल्पिको व्यवहारः, सोऽपि ध्रुवं तदात्मैव--इत्याह-- यस्तथाविधसञ्जल्पबलात्कोऽपि स्वतन्त्रकः || १६-२६० || विमर्शः कल्प्यते सोऽपि तदात्मैव सुनिश्चतः | एवमादिगुरोः प्रभृति प्रवृत्त एक एवेयत्कालपर्यन्तं प्रतिसङ्कान्तवृत्तितयानुवर्तमानस्तत्तदभिजल्पवपुषा स्फुरतीति सिद्धम् || ननु यद्येवं, तद्यत्र शब्दात् शब्दान्तरे व्युत्पत्तौ परामर्शभेदोऽस्ति, तत्र किं प्रतिपत्तव्यम् ?--इत्याशङ्क्याह-- घटकुम्भ इतीत्थं वा यदि भेदो निरूप्यते || १६-२६१ || सोऽप्यन्यकल्पनादायी ह्यनादृत्यः प्रयत्नतः | पणायते करोतीति विकल्पस्योचितौ स्फुटम् || १६-२६२ || करपाण्यभिजल्पौ तौ सङ्कीर्येतां कथं किल |
SKयदि नाम घटविमर्शात्कुम्भविमर्श इत्येवं प्रकारः परामर्शस्य भेदो निरूप्यते, तदसौ स्वोचितप्राच्यविमर्शपरित्यागात्कल्पनान्तरकारितया प्रयत्नेनापि परिहार्यः | नहि करपाणिशब्दौ करोत्यादानमिति करः, पणायते द्यूतादिना व्यवहरतीति पाणिश्चेति सङ्कल्पयितुं स्फुटमुचितौ कदाचिदपि सङ्कीर्येतामेकपरामर्शाभिजल्पात्मतां भजते--इत्यर्थः || ननु यद्येवं, तत्संभवन्ती अपि शब्दाच्छब्दान्तरे व्युत्पत्तिः कथमपह्नूयते ?--इत्याशङ्क्याह-- शब्दाच्छब्दान्तरे तेन व्युत्पत्तिर्व्यवधानतः || १६-२६३ || व्यवहारात्तु सा साक्षाच्चित्रोपाख्याविमर्शिनी | तेन सञ्जल्पासाङ्कर्येण हेतुना व्यवधानतः स्वोचितप्राच्यविमर्शसंनिधापनद्वारेण शब्दाच्छब्दान्तरे घटाभिजल्पादिव कुम्भाभिजल्पे व्युत्पत्तिरवबोधः, वृद्धव्यवहारात्पुनर्नानाकारशब्दसंदर्भकारितया सा साक्षादव्यवधानेनैव तत्र सर्वेषां व्युत्पत्तिः-- इत्यर्थः || एवमिदमत्र वस्तुसतत्त्वं पर्यवसितम्--इत्याह-- तद्विमर्शोदयः प्राच्यस्वविमर्शमयः स्फुरेत् || १६-२६४ || यावद्बालस्य संवित्तिरकृत्रिमविमर्शने | तत् तस्मात् वृद्धपरम्परायातस्वात्मीयविमर्शमय एव घटादेर्विमर्शस्योदयः स्फुरेद्यावदनधिगतशब्दार्थव्युत्पत्तेर्बालस्यापि शब्दसंसर्गायोगात् अकृत्रिमे स्वसंवित् विमर्शने, तेन का वार्ता तद्व्युत्पत्तिभाजो जनस्य-- इत्यर्थः || अत एव च एतद्वैलक्षण्यं मन्त्राणां येन तत्र परमेश्वरस्यादरः--इत्याह-- तेन तन्मन्त्रशब्दार्थविशेषोत्थं विकल्पनम् || १६-२६५ || शब्दान्तरोत्थाद्भेदेन पश्यता मन्त्र आदृतः | यच्चापि बीजपिण्डादेरुक्तं प्राग्बोधरूपकम् || १६-२६६ || तत्तस्यैव कुतोऽन्यस्य तत्कस्मादन्यकल्पना |
SKतेन शब्दान्तराणां तत्तत्प्राच्यस्वविमर्शमयतया स्फुरणेन हेतुना, शब्दान्तरोत्थाद्विकल्पनात् तेभ्यः सहजानवच्छिन्नविमर्शरूपेभ्यो मन्त्रशब्दार्थविशेषेभ्यः समुत्थितं विकल्पनं भेदेन वैलक्षण्येन पश्यता साक्षात्कुर्वता भगवता मन्त्र आदृतः परमोपादेयतयोपदिष्टः--इत्यर्थः | तच्छब्दान्तराणां परविमर्शात्मकत्वेऽपि वृद्धव्यवहारपरम्परया यथायथमवरोहक्रमेण स्थूलेन सञ्जल्पात्मना रूपेणादि उदय इत्युक्तम् | मन्त्राणां पुनरनादिगुरोः प्रभृत्यद्यापि अनवच्छिन्नसहजपरामर्शात्मकत्वमविशिष्टमेवेति | अत एव यच्चापि प्राक् ᳚बीजपिण्डात्मकं सर्वं संविदः स्पन्दनात्मताम् | विदधत्............................................ ||᳚ (तं.आ. ७|२) इत्यादिना बीजपिण्डादेर्बोधरूपत्वमुक्तं तत्तस्यैव न तु शब्दान्तराणामपि, तेषां यथायथं स्थूलरूपत्वापत्तेरुक्तत्वात् | तत् तस्मादनवच्छिन्नबोधरूपे बीजपिण्डादौ कस्मादन्यस्य तत्तदुपदेष्ट्टपरम्परापतितस्य विमर्शान्तरस्य कल्पना, नास्त्यत्र सञ्जल्पनान्तरतुल्यकक्ष्यत्वम्--इत्यर्थः || अनेनैवाभिप्रायेण सर्वत्र शास्त्रे गुरोर्मन्त्रतन्त्रविशारदत्वमेव मुख्यं लक्षणमुक्तम्--इत्याह-- एतदर्थं गुरोर्यत्नाल्लक्षणे तत्र तत्र तत् || १६-२६७ || लक्षणं कथितं ह्येष मन्त्रतन्त्रविशारदः | तदेवं सर्वात्मना मन्त्रार्थपरिशीलनपरेणैव गुरुणा भाव्यम्-- इत्याह-- तेन मन्त्रार्थसंबोधे मन्त्रवार्तिकमादरात् || १६-२६८ || ऊहापोहप्रयोगं वा सर्वथा गुरुराचरेत् | ननु यद्येवंविधो गुरुर्न स्यात्, तदा किं कार्यम्?--इत्याशङ्क्याह-- मन्त्रार्थविदभावे तु सर्वथा मन्त्रतन्मयम् || १६-२६९ || गुरुं कुर्यात् .......... मन्त्रतन्मयमिति--मन्त्रैकात्म्यमापन्नम्--इत्यर्थः || अत एवाह-- ...........टदभ्यासात्तत्सङ्कल्पमयो ह्यसौ | ननु दृढनिरूढमन्त्रार्थभावनाभाजो गुरोरपि अन्योऽभिजल्पो मन्त्रसमानमहिमैव, तत्कथमुक्तं मन्त्राणां सञ्जल्पान्तरतुल्यकक्ष्यत्वं नास्ति ?--इत्याशङ्क्याह--
SKतत्समानाभिसञ्जल्पो यदा मन्त्रार्थभावनात् || १६-२७० || गुरोर्भवेत्तदा सर्वसाम्ये को भेद उच्यताम् | ननु असिद्धं सर्वसाम्यं, मन्त्रेतरस्य हि अभिजल्पस्य भिन्नैवानुपूर्वी ?--इत्याशङ्क्याह-- अंशेनाप्यथ वैषम्ये न ततोऽर्थक्रिया हि सा || १६-२७१ || वैषम्य इति--आनुपूर्व्यादिना मन्त्राद्भेदे | तत इति--अभिसञ्जल्पात् | सेति--मन्त्रकार्या || २७१ || यस्तु सत्यपि भेदे कीटगोमयाभ्यामिव कीटं मन्त्रसञ्जल्पाभ्यामपि एकामेवार्थक्रियां पश्यति, स शिव एव--इत्याह-- गोमयात्कीटतः कीट इत्येवं न्यायतो यदा | सञ्जल्पान्तरतोऽप्यर्थक्रियां तामेव पश्यति || १६-२७२ || तदैष सत्यसञ्जल्पः शिव एवेति कथ्यते | सत्यसञ्जल्पत्वमेव दर्शयति-- स यद्वक्ति तदेव स्यान्मन्त्रो भोगापवर्गदः || १६-२७३ || अनेनैवाभिप्रायेण भगवता ᳚कथा जपः᳚ (शिषू. ३|२७) इत्यासूत्रितम् ||२७३ || अस्माकं पुनर्नायं पक्षः--इत्याह-- नैषोऽभिनवगुप्तस्य पक्षो मन्त्रार्पितात्मनः | योऽर्थक्रियामाह भिन्नां कीटयोरपि तादृशोः || १६-२७४ || तत्तन्मन्त्रसतत्त्वानुभवनिभालनोद्युक्तस्य श्रीमतोऽभिनवगुप्तस्य पुनरेतन्न मतं यतस्तादृशोः कीटगोमयप्रभवयोरपि कीटयोर्भिन्नामर्थक्रियामाह--तत्र कार्यभेदमभ्युपागमात्-- इत्यर्थः ||२७४ || ननु यद्येवं तद्विनापि मन्त्रं मन्त्रार्थभावनातारतम्यभाजः सञ्जल्पमात्रादेव तत्सिद्धिर्भवन्ती कथमपह्नूयते?--इत्याशङ्क्याह- - मन्त्रार्पितमनाः किञ्चिद्वदन्यत्तु विषं हरेत् | तन्मन्त्र एव मन्त्रार्पितमना इति मन्त्रवीर्य एव कृतानुसन्धिः--इत्यर्थः | किञ्चिदिति--श्लोकगाथादि | यदुक्तं प्राक्� श्लोकगाथादि यत्किञ्चिदादिमान्त्ययुतं यतः | तस्माद्विदंस्तथा सर्वं मन्त्रत्वेनैव पश्यति || (तं.आ. ३|२२५) इति || ननु मन्त्रार्पितमनस्त्वेनैव यदि विषहरणादि सिद्ध्येत् तदप्रयोजकेन यस्य कस्यचन शब्दस्य वचनेन किं स्यात् बाढम् ?--इत्याह-- तन्मन्त्र एव शब्दः स परं तत्र घटादिवत् || १६-२७५ || एतदेव दृष्टान्तमुखेनापि हृदयङ्गमयति--
SKकान्तासंभोगसञ्जल्पसुन्दरः कामुकः सदा | तत्संस्कृतोऽप्यन्यदेष कुर्वन्स्वात्मनि तृप्यति || १६-२७६ || तथा तन्मन्त्रसञ्जल्पभावितोऽन्यदपि ब्रुवन् | अनिच्छुरपि तद्रूपस्तथा कार्यकरो ध्रुवम् || १६-२७७ || तृप्यतीति--तत्संभोगचमत्कारसारतया स्वात्मनि विश्राम्यति-- इत्यर्थः | अन्यदपि ब्रुवन्निति, एवं ह्यन्यवचनेनैव मन्त्रसञ्जल्परूपतायामनिच्छुरपि तद्रूपः सतताभ्यासवशान्मन्त्रैकमय एव--इत्यर्थः | अत एव तथा मन्त्रानुगुण्येनैव कार्यकर इत्युक्तम् || २७७ || ननु मन्त्रसञ्जल्पेच्छाविरहेऽपि कथं तन्मयतयैवास्यावभासो भवेत्?--इत्याशङ्क्याह-- विकल्पयन्नप्येकार्थं यतोऽन्यदपि पश्यति | पर्वतं विकल्पयतो हि प्रमातुर्घटदर्शनं भवेत्--इति भावः || एतदागमोक्त्या समर्थयति-- विषापहारिमन्त्रादीत्युक्तं श्रीपूर्वशासने || १६-२७८ || तथा च तत्र-- ᳚तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि | न संस्पृश्येत तद्दोषैः पद्मपत्रविवाम्भसा || विषापहारिमन्त्रादिसंनद्धो भक्षयन्नपि | विषं न मुह्यते तेन तद्वद्योगी महामतिः ||᳚ (मा.विटं. १८|८१) इति | अत्रायमर्थः--यत् भक्षयन्नपि विषं यथा जांगुलिकः स्वरूपावस्थितमेवात्मानं पश्यति, तथा भुञ्जानोऽपि विषयान् महामतिर्योगी निश्चलचित्ततया परमेव तत्त्वमिति || २७८ || यत्तूक्तमेवमेव वदन्मन्त्रार्थनिष्ठो यद्विषं हरेत्, तन्मन्त्रस्यैव विजृम्भितम्, न तु तन्नान्तरीयकस्यापि शब्दस्येति | तत्रैव पक्षान्तरमाह-- यदि वा विषनाशेऽपि हेतुभेदाद्विचित्रता | धात्वाप्यायादिकानन्तकार्यभेदाद्भविष्यति || १६-२७९ || हेतुभेदादिति--मन्त्रशब्दाद्यात्मनः | विषनाशे हि मन्त्रवत् सञ्जल्पोऽपि धात्वाप्यायपुष्ट्याद्यन्यतमं कार्यं कुर्यादिति ||२७९ || एवं मन्त्राणां सत्तामभिधाय प्रयोजनमप्याह-- तदेवं मन्त्रसञ्जल्पविकल्पाभ्यासयोगतः | भाव्यवस्तुस्फुटीभावः सञ्जल्पह्रासयोगतः || १६-२८० ||
SKतदेवमुक्तेन क्रमेण मान्त्रयोः शब्दविमर्शयोरभ्यासतारतम्येन सञ्जल्परूपतादिगुणीभावात् स्वाभिन्नस्य भाव्यमानस्य मन्त्रदेवतात्मनो वस्तुनः स्फुटीभावः साक्षात्कारो भवेत्-- इत्यर्थः || नन्वस्य मान्त्रं सञ्जल्पमभ्यस्यतो भाव्यवस्तुसाक्षात्कारः कथं स्यात्?--इत्याशङ्क्याह-- वस्त्वेव भावयत्येष न सञ्जल्पमिमं पुनः | गृह्णाति भासनोपायं भाते तत्र तु तेन किम् || १६-२८१ || ननु यद्येवं तत्किमस्य सञ्जल्पोपादानेन ?--इत्याशङ्क्याह--इममित्यादि | तेन किमिति--उपेये हि लब्धे पुनरुपायस्य किं प्रयोजनम्--इत्यभिप्रायः || एतदेवोपसंहारभङ्ग्या प्रतिपादयति-- एवं सञ्जल्पनिर्ह्रासे सुपरिस्फुटतात्मकम् | अकृत्रिमविमर्शात्म स्फुरेद्वस्त्वविकल्पकम् || १६-२८२ || ननु अविकल्पकेऽपि ᳚कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः | अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ||᳚ इत्याद्युक्त्या सदेव न भायादित्यत्रापि वस्त्वेव स्फुरेदिति कस्मादुक्तम् ?- -इत्याशङ्क्याह-- निर्विकल्पा च सा संविद्यद्यथा पश्यति स्फुटम् | तत्तथैव तथात्मत्वाद्वस्तुनोऽपि बहिःस्थितेः || १६-२८३ || बहिरपि हि वस्तुनस्तदधीनैव सत्ता--इत्यर्थः ||२८३ || शिवाभेदभाजो गुरोस्तु विशेषेण यथार्थसङ्कल्पता--इत्याह-- विशेषतस्त्वमायीयशिवताभेदशालिनः | मोक्षेऽभ्युपायः सञ्जल्पो बन्धमोक्षौ ततः किल || १६-२८४ || मोक्षेऽभ्युपाय इत्यर्थात् शिष्यस्य | ननु शर्वो विकल्पः संसारः.................. |᳚ इत्युक्त्या सङ्कल्पस्य बन्धकत्वं स्यात् प्रत्युत मोक्षाभ्युपायत्वमिहास्य कस्मादुक्तम् ?--इत्याशङ्क्याह--बन्धमोक्षौ ततः किलेति | इह अमायीयशिवताभेदशालिनो गुरोः सङ्कल्पादेव बन्धमोक्षौ स्यातां किन्तु इयान् विशेषो यद्भेदमयतायां बन्धोऽन्यथा तु मोक्ष इति ||२८४ || ननु एवमपि अविकल्पकपर्यन्तीभूतादेवास्मादेतन्न्याय्यं न तु अन्यथा, तत्कथं सञ्जल्पमात्रादेव मोक्षो भवेत् ?--इत्याशङ्क्याह-- विकल्पेऽपि गुरोः सम्यगभिन्नशिवताजुषः | अविकल्पकपर्यन्तप्रतीक्षा नोपयुज्यते || १६-२८५ ||
SKनोपयुज्यत इत्यत्र गुरोः शिवाभेदमयत्वं हेतुः ||२८५ || न च एतद्युक्तिमात्रसिद्धमेव--इत्याह-- तद्विमर्शस्वभावा हि सा वाच्या मन्त्रदेवता | महासंवित्समासन्नेत्युक्तं श्रीगमशासने || १६-२८६ || मन्त्रो हि स्वत एवाविल्पकसंवित्स्वभावः--इति भावः ||२८६ || एवं परसंवित्समासन्नत्वादेव मन्त्रादयस्तदायत्ताः सिद्धिं साधयितुं शक्नुवन्तीति दृष्टान्तप्रदर्शनपुरःसरीकारेणाभिधातुमाह-- निकटस्था यथा राज्ञामन्येषां साधयन्त्यलम् | सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः पराम् || १६-२८७ || परां सिद्धिमिति--मोक्षलक्षणाम् | यदुक्तम्-- ᳚अधमा वश्यदा सिद्धिर्मध्यमा खेचरत्वदा | संसारभयविच्छेददायिनी सिद्धिरुत्तमा ||᳚ इति ||२८७ || एतच्चास्मच्छास्त्रेऽप्युक्तम्--इत्याह-- उक्ताभिप्रायगर्भं तदुक्तं श्रीमालिनीमते | तदेवाह-- मन्त्राणां लक्षणं कस्मादित्युक्ते मुनिभिः किल || १६-२८८ || कस्मादिति--योगविषये हि प्रश्ने कृते किमिति मन्त्रलक्षणमुक्तम्�इति भावः | यदुक्तम्-- ᳚योगमार्गविधिं देव्या पृष्टेन परमेष्ठिना | तत्प्रतिज्ञावताप्युक्तं किमर्थं मन्त्रलक्षणम् ||᳚ (मा.विटं. ४|२) इति ||२८८ || एवं मुनिप्रश्नं निर्णेतुकामः कार्तिकेयो योगाङ्गतयैव एतदुक्तम्-- इत्यभिधातुमाह-- योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुना | तद्वस्तु ज्ञेयमित्युक्तं हेयत्वादिप्रसिद्धये || १६-२८९ || तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यदुपवर्णितम् | सबीजयोगसंसिद्ध्यै मन्त्रलक्षणमप्यलम् || १६-२९० || न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे | क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते || १६-२९१ || द्विविधा सा प्रकर्तव्या तेन चैतदुदाहृतम् | न च योगाधिकारित्वमेकमेवानया भवेत् || १६-२९२ || अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया | एतच्च प्राग्व्याख्यानेनैव गतार्थमिति नेह पुनर्विभज्य व्याख्यातम् || तात्पर्यगत्या तु ग्रन्थकृदेव व्याख्यातुमाह-- अनेनैतदपि प्रोक्तं योगी तत्त्वैक्यसिद्धये || १६-२९३ || मन्त्रमेवाश्रयेन्मूलं निर्विकल्पान्तमादृतः |
SKमन्त्राभ्यासेन भोगं वा मोक्षं वापि प्रसाधयन् || १६-२९४ || तत्राधिकारितालब्ध्यै दीक्षां गृह्णीत दैशिकात् | आदृत इत्यनेनास्य तदेकतानत्वमुक्तम् | तत्रेति--मन्त्राश्रयणादौ || अतश्चास्य मन्त्रादिमाहात्म्यात्सर्वं भुक्तिमुक्त्याद्यपि सिद्ध्येत्--इत्याह- - तेन मन्त्रज्ञानयोगबलाद्यद्यत्प्रसाधयेत् || १६-२९५ || तत्स्यादस्यान्यतत्त्वेऽपि युक्तस्य गुरुणा शिशोः | युक्तस्येति--योजितस्य--इत्यर्थः, अनेन च योजिकादेर्भेदोऽप्यासूत्रितः || ननु गुरुणा चेदन्यतत्त्वे योजितः, तत्कथमस्य स्वबलादेव अन्यथा भुक्तिर्मुक्तिर्वा स्यात् ?--इत्याशङ्क्याह-- दीक्षा ह्यस्योपयुज्येत संस्क्रियायां स संस्कृतः || १६-२९६ || स्वबलेनैव भोगं वा मोक्षं वा लभते बुधः | अत एव च दीक्षायां कृतोऽपि समय्यादिनियमो न स्यात्--इत्याह-- तेन विज्ञानयोगादिबली प्राक् समयी भवन् || १६-२९७ || पुत्रको वा न तावान्स्यादपि तु स्वबलोचितः | तावानिति समयी पुत्रको वा || ननु ज्ञानयोगादौ दुर्बलस्य का वार्त्ता?--इत्याशङ्क्याह-- यस्तु विज्ञानयोगादिवन्ध्यः सोऽन्धो यथा पथि || १६-२९८ || दैशिकायत्त एव स्याद्भोगे मुक्तौ च सर्वथा | ननु ज्ञानयोगादिवन्ध्यस्य दैशिकोऽपि किं कुर्यात् ?--इत्याशङ्क्याह-- दीक्षा च केवला ज्ञानं विनापि निजमान्तरम् || १६-२९९ || मोचिकैवेति कथितं युक्त्या चागमतः पुरा | पुरेति--पञ्चदशाह्निकादौ || दीक्षोचितमेव ज्ञानयोगाद्यधितिष्ठतः पुनः किं स्यात् ?-- इत्याशङ्क्याह-- यस्तु दीक्षाकृतामेवापेक्ष्य योजनिकां शिशुः || १६-३०० || स्फुटीभूत्यै तदुचितं ज्ञानं योगमथाश्रितः | सोऽपि यत्रैव युक्तः स्यात्तन्मयत्वं प्रपद्यते || १६-३०१ || यत्रैव युक्त इत्यर्थाद् गुरुणा ||३०१ || अतश्चायं गुर्वधीनसिद्धिरेव--इत्याह-- गुरुदीक्षामन्त्रशास्त्राधीनसर्वस्थितिस्ततः | एवमेतत्पुत्रकादिविषयमभिधाय साधकविषयमपि अभिधत्ते-- दुष्टानामेव सर्वेषां भूतभव्यभविष्यताम् || १६-३०२ || कर्मणां शोधनं कार्यं बुभुक्षोर्न शुभात्मनाम् |
SKयः पुनर्लौकिकं भोगं राज्यस्वर्गादिकं शिशुः || १६-३०३ || त्यक्त्वा लोकोत्तरं भोगमीप्सुस्तस्य शुभेष्वपि | बुभुक्षोरिति--लोकधर्मिणः साधकस्य | शुभेष्वपीति--शोधनं कार्यमिति प्राच्येन संबन्धः || अत्रापि क्रियाज्ञानयोः प्राधान्येऽयं विशेषः--इत्याह-- तत्र द्रव्यमयीं दीक्षां कुर्वन्नाज्यतिलादिकैः || १६-३०४ || कर्मास्य शोधयामीति जुहुयाद्दैशिकोत्तमः | ज्ञानमय्यां तु दीक्षायां तद्विशुद्ध्यति सन्धितः || १६-३०५ || गुरोः स्वसंविद्रूढस्य बलात्तत्प्रक्षयो भवेत् | यदास्याशुभकर्माणि शुद्धानि स्युस्तदा शुभम् || १६-३०६ || स्वतारतम्याश्रयणादध्वमध्ये प्रसूतिदम् | तदिति--कर्म | सन्धित इति--अनुसन्धानात् | अस्येति--लोकधर्मिणः || शुभकर्मोपभोगे तु योजनिकास्थानमेवासादयेत्--इत्याह-- शुभपाकक्रमोपात्त फलभोगसमाप्तितः || १६-३०७ || यत्रैष योजितस्तत्स्थो भाविकर्मक्षये कृते | तत्स्थ इत्यर्थात् भवेत् | क्षये कृते इत्युपभोगादेव, नहि लोकधर्मिणः शुभकर्मशोधनमाम्नातम्--इत्याशयः || भाविशुभकर्माप्रक्षये पुनरस्य तत्र तत्रोपभोग एव--इत्याह-- भाविनां चाद्यदेहस्थदेहान्तरविभेदिनाम् || १६-३०८ || अशुभांशविशुद्धौ स्याद्भोगस्यैवानुपक्षयः | अद्यदेहेति--दीक्षोत्तरकालभाविनाम् || अत एवास्य न कुत्रचिदपि दुःखोपभोगो भवेत्--इत्याह-- भुञ्जानस्यास्य सततं भोगान्मायालयान्ततः || १६-३०९ || न दुःखफलदं देहाद्यध्वमध्येऽपि किञ्चन | मायालयान्तत इति--मायालयान्तं यावत्--इत्यर्थः || मायालये वृत्ते पुनरस्य किं स्यात्?--इत्याशङ्क्याह-- ततो मायालये भुक्तसमस्तसुखभोगकः || १६-३१० || निष्कले सकले वैति लयं योजनिकाबलात् | आह्निकार्थमेव श्लोकस्य प्रथमार्धेनोपसंहरति-- इति प्रमेयं कथितं दीक्षाकाले गुरोर्यथा || १६-३११ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके प्रमेयप्रकाशनं नाम षोडशमाह्निकम् || १६ ||
SKइतीत्थमेतत्प्रमेयमिहोक्तं यथा येन प्रकारेण काले शक्तिपातावसरे गुरोर्दीक्षा कार्या भवेदिति शुभम् || ३११ || श्रीमद्गुरुमहिमोदितशोधकशोध्योभयानुसन्धानः | षोडशमाह्निकमेतद् व्यवृणोदिह जयरथाभिख्यः || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते प्रमेयप्रकाशनं नाम षोडशमाह्निकं समाप्तम् || १६ || सप्तदशमाह्निकम् ᳚ विवेकः ᳚ निजशक्तिजनितकर्मप्रपञ्चसञ्चारचातुरीविभवम् | भवतरणबलप्रदतां समावहन्तं बलप्रदं नौमि || इदानीमत्रैव द्वितीयार्धेन महाप्रयोजनामितिकर्तव्यतां वक्तं प्रतिजानीते-- अथ भैरवतादात्म्यदायिनीं प्रक्रियां ब्रुवे | तामेवाह-- एवं मण्डलकुम्भाग्निशिष्यस्वात्मसु पञ्चसु || १७-१ || गृहीत्वा व्याप्तिमैक्येन न्यस्याध्वानं च शिष्यगम् | कर्ममायाणुमलिनत्रयं बाहौ गले तथा || १७-२ || शिखायां च क्षिपेत्सूत्रग्रन्थियोगेन दैशिकः | कुम्भेत्यत्रैव अर्थात् कर्कर्यप्यन्तर्गता येनोक्तं पञ्चस्विति | सूत्रग्रन्थियोगेनेति--तद्रूपतया--इत्यर्थः | यदुक्तम्-- ᳚आगन्तु सहजं शाक्तं बद्ध्वादौ पाशपञ्जरम् | बाहुकण्ठशिखाग्रेषु त्रिवृत्त्रिगुणतन्तुना ||᳚ इति || एषां च ग्रन्थिरूपतया प्रक्षेपे कोऽभिप्रायः ?--इत्याशङ्क्याह-- तस्यातद्रूपताभानं मलो ग्रन्थिः स कीर्त्यते || १७-३ || इतिप्रतीतिदार्ढ्यार्थं बहिर्ग्रन्थ्युपकल्पनम् | तस्य पूर्णप्रकाशात्मनः परस्य ब्रह्मणो यदतद्रूपतया भानम् संकुचितात्मतया प्रथनम्, स एव स्वरूपस्य तिरोधायकत्वान्मल इति प्रतिरोधकत्वाच्च ग्रन्थिः--इत्युच्यते | एतदेव द्रढयितुं बहिःपाशसूत्रादावेवं ग्रन्थीनामुपकल्पनम् || एवमप्येतद्बाह्वादावेव कस्मादुक्तम्?--इत्याशङ्क्याह-- बाहू कर्मास्पदं विष्णुर्मायात्मा गलसंश्रितः || १७-४ || अधोवहा शिखाणुत्वं तेनेत्थं कल्पना कृता | मायात्मेति--तद्गर्भेऽस्याधिकारात् | अधोवहेति-- प्राणशक्तेर्हृदयान्तं ततः प्रसरणात् ||
SKनन्वेवमपि सूत्रस्य त्रिस्त्रिगुणीकरणे कोऽर्थः?--इत्याशङ्क्याह-- नरशक्तिशिवाख्यस्य त्रयस्य बहुभेदताम् || १७-५ || वक्तुं त्रिस्त्रिगुणं सूत्रं ग्रन्थये परिकल्पयेत् | इदं हि नरशक्तिशिवात्मकमेव सर्वम्--इति भावः || अत्रैव शास्त्रान्तरीयप्रक्रिययापि व्याप्तिं दर्शयितुमाह-- तेजोजलान्नत्रितयं त्रेधा प्रत्येकमप्यदः || १७-६ || श्रुत्यन्ते केऽप्यतः शुक्लकृष्णरक्तं प्रपेदिरे | श्रुत्यन्त इति | यदुक्तम्--छान्दोग्योपनिषदि श्वेतकेतूपदेशे-- ᳚एकस्मात्परब्रह्मणस्तेजोऽजायत, तत आपस्ताभ्योऽन्नं तदेकैकं त्रिधा समभवत्, तत्राग्नेर्लोहितशुक्लकृष्णानि रूपाण्यभवन्, यल्लोहितं तत्तेजः, यच्छुक्लं तदापः, यत्कृष्णं तदन्नमिति |᳚ अत इति--तेजोजलान्नत्रितयस्यैवंरूपत्वात् | इह साक्षाद्भोगाधारे शरीरे पाशच्छेदादौ क्रियमाणे दाहशोषादयः संभाव्येरन्निति तत्प्रतिकृतिप्राये मुख्यदेहगतानन्तपाशादिसूचनात् तदुच्छेदोपायतया च त्राणात्सूत्रशब्दवाच्येऽस्मिन् पाशच्छेदादि कार्यम्--इति पाशसूत्रार्थः | यदागमः-- ᳚द्वितीयः सूत्रदेहस्तु पाशा यत्र स्थितास्त्विमे | बध्याश्छेद्यास्तथा दाह्याः सूत्रस्थाने न विग्रहे ||᳚ इति || एवं सूत्रकॢप्तिमभिधाय तत्त्वशुद्धिमाह-- ततोऽग्नौ तर्पिताशेषमन्त्रे चिद्व्योममात्रके || १७-७ || सामान्यरूपे तत्त्वानां क्रमाच्छुद्धिं समाचरेत् | सामान्यरूपे चिद्व्योममात्रके इति तत्सात्करणमेव हि नाम अस्मद्दर्शने शुद्धिः--इत्याशयः || तदेवाह-- तत्र स्वमन्त्रयोगेन धरामावाहयेत्पुरा || १७-८ || इष्ट्वा पुष्पादिभिः सर्पिस्तिलाद्यैरथ तर्पयेत् | तत्तत्त्वव्यापिकां पश्चान्मायातत्त्वाधिदेवताम् || १७-९ || मायाशक्तिं स्वमन्त्रेणावाह्याभ्यर्च्य प्रतर्पयेत् | तत्तत्त्वेति--तस्य धराख्यस्य तत्त्वस्य | मायाशक्तिमिति-- वागीश्वरीरूपाम् | स्वमन्त्रेणेति--ॐ ह्रीमिति || ननु धरादेस्तत्त्ववर्गस्य प्राक् मातृकामालिन्युभयगतं वर्णजातं मन्त्रत्वेनोक्तं तत्कतरदत्र मन्त्रतयाभिमतम् ?--इत्याशङ्क्याह-- आवाहने मातृकार्णं मालिन्यर्णं च पूजने || १७-१० ||
SKकुर्यादिति गुरुः प्राह स्वयपाप्यायनद्वयात् | पूजन इति--अर्थात् तर्पणादावपि | मातृकाया हि जगज्जननीत्वात् स्वरूपपृथाकारित्वमुचितम्, मालिन्याश्च विश्वस्य स्वात्मनि धारणादाप्यायकारित्वमित्युक्तम्--स्वरूपाप्यायनद्वयात्--इति || एतदेवेह द्वयं दर्शयति-- तारो वर्णोऽथ संबुद्धिपदं त्वामित्यतः परम् || १७-११ || उत्तमैकयुतं कर्मपदं दीपकमप्यतः | तुभ्यं नाम चतुर्थ्यन्तं ततोऽप्युचितदीपकम् || १७-१२ || इत्यूहमन्त्रयोगेन तत्तत्कर्म प्रवर्तयेत् | तारः प्रणवः | वर्णो मातृकायाः यथा धरायां क्षः | संबुद्धीति--धरे इत्यादि | उत्तमेति--आवाहयामीति | दीपकं नमः | नामेति--धरादेः | उचितेति--पूजादौ नमः, होमे स्वाहेत्यादि || नन्वत्रावाहनोपक्रमं कस्मात्पूजाद्युक्तम्?--इत्याशङ्क्याह-- आवाहनानन्तरं हि कर्म सर्वं निगद्यते || १७-१३ || नन्वावाहनमेव नाम किमुच्यते यदानन्तर्येणापि पूजादि स्यात्?-- इत्याशङ्क्याह-- आवाहनं च संबोधः स्वस्वभावव्यवस्थितेः | भावस्याहंमयस्वात्मतादात्म्यावेश्यमानता || १७-१४ || आवाहनं हि नाम स्वस्वभावव्यवस्थित्या सिद्धस्य भावस्य संबोधः शिद्धस्याभिमुखी भावमात्रं संबोधनं विदुः |᳚ इत्यादिनीत्या पूर्णाहंपरामर्शस्वभावे स्वात्मनि एकात्म्येनावेश्यमानता अभिमुखीभावमात्रं, नत्वावेश एव, तथात्वे हि शैवी दशैवं स्यात्, न तु शाक्ती--इत्यभिप्रायः ||१४ || अत एवाह-- शाक्ती भूमिश्च सैवोक्ता यस्यां मुख्यास्ति पूज्यता | ननु शाक्त्यामेव भूमौ कस्मान्मुख्यतया पूज्यता अस्ति?-- इत्याशङ्क्याह-- अभातत्वादभेदाच्च नह्यसौ नृशिवात्मनोः || १७-१५ || अभातत्वादिति--जाड्यात्--इत्यर्थः | अभेदादिति-- पूज्यपूजकादिविभागस्य विगलनात् | यदभिप्रायेणैव ङ पुंसि न परे तत्त्वे शक्तौ मन्त्रान्नियोजयेत् |᳚ इत्याद्युक्तम् || १५ || ननु यद्येवं तज्जडानां धरादीनां कथं पूजादि युज्येत्?-- इत्याशङ्क्याह-- जडाभासेषु तत्त्वेषु संवित्स्थित्यै ततो गुरुः | आवाहनविभक्तिं प्राक् कृत्वा तुर्यविभक्तितः || १७-१६ ||
SKनमस्कारान्ततायोगात्पूर्णां सत्तां प्रकल्पयेत् | एतदेवोपपादयति-- ततः पूर्णस्वभावत्वं तद्रूपोद्रेकयोगतः || १७-१७ || ध्येयोद्रेको भवेद् ध्यातृप्रह्वीभाववशाद्यतः | नमस्कारे हि नमस्कर्तृगुणीभावेन नमस्कार्यस्यैव मुख्यत्वं भवेत्� इति भावः || एवमागमान्तरमप्येवमेव व्याख्येयमित्यस्मद्गुरवः--इत्याह-- आवाह्येष्ट्वा प्रतर्प्येति श्रीस्वच्छन्दे निरूपितम् || १७-१८ || अनेनैव पथा नेयमित्यस्मद्गुरवो जगुः | ननु भेदाभेदमयत्वात् परापरा शाक्ती दशा, शैवी पुनरभेदमयत्वात् परा, तत्कथमत्र पूज्यता नास्तीत्युक्तम् ?-- इत्याशङ्क्याह-- परत्वेन तु यत्पूज्यं तत्स्वतन्त्रचिदात्मकम् || १७-१९ || अनवच्छित्प्रकाशत्वान्न प्रकाश्यं तु कुत्रचित् | ननु यद्येवं तत्कथमात्मा ज्ञातव्यो मन्तव्यो निदिध्यासितव्यश्चेत्याद्युच्यते?--इत्याशङ्क्याह-- तस्य ह्येतत्प्रपूज्यत्वध्येयत्वादि यदुल्लसेत् || १७-२० || तस्यैव तत्स्वतन्त्रत्वं यातिदुर्घटकारिता | अत एव पूज्यत्वादेरमुख्यत्वात् नात्राह्वानाद्युपयोगः?--इत्याह-- संबोधरूपे तत्तस्मिन् कथं संबोधना भवेत् || १७-२१ || प्रकाशनायां वै न स्यात्प्रकाशस्य प्रकाशता | तत् तस्मात् पूज्यत्वादेस्तत्स्वातन्त्र्यविजृम्भामात्रत्वात् तस्मिन् संबोधनक्रियाकर्तृत्वात्मनि शिवे संबोधना कथं भवेत् संबोध्यमानता अस्य न न्याय्या | नहि परकर्तृकायां प्रकाशनायां प्रकाशस्य प्रकाशतैव स्यात्, किन्तु प्रकाश्यमानता- -इत्यर्थः || ननु यद्येवं, तद्देवमावाहयामीत्याह्वानादौ स्थिते किं प्रतिपत्तव्यम् ?--इत्याशङ्क्याह-- संबोधनविभक्त्यैव विना कर्मादिशक्तिताम् || १७-२२ || स्वातन्त्र्यात्तं दर्शयितुं तत्रो(त्रा)हमिममाचरेत् | देवमावाहयामीति ततो देवाय दीपकम् || १७-२३ || प्राग्युक्त्या पूर्णतादायि नमःस्वाहादिकं भवेत् | एवमत्राप्यूहस्य संभवाद्यथौचित्यं दीपकयोजना कार्या--इत्याह-- तत इत्यादि || ननु नमस्कारादेः सर्वस्यैव दीपकस्य किं पूर्णतादायित्वमुत न?-- इत्याशङ्क्याह-- नुतिः पूर्णत्वमग्नीन्दुसङ्घट्टाप्यायता परम् || १७-२४ ||
SKआप्यायकं च प्रोच्छालं वौषडादि प्रदीपयेत् | अग्नीन्दुसङ्घट्ट इति--यदुक्तं--प्राक्-- श्वा इत्यामृतवर्णेन....................... |᳚ इति ᳚..............ःएत्यग्निरूपेण.............. |᳚ इति || परं स्वाहेति | प्रोच्छालमिति अतोऽप्यस्याधिक्येनाप्यायकारित्वमित्यर्थः | यदागमः-- वौषडाप्यायने शस्तम्..................... | इति || २४ || नन्वेवमविशेषेणैव सर्वत्र किमूहः कार्यो न वा?--इत्याशङ्क्याह-- तत्र बाह्येऽपि तादात्म्यप्रसिद्धं कर्म चोद्यते || १७-२५ || यदि कर्मपदं तन्नो गुरुरभ्यूहयेत् क्वचित् | तादात्म्येति ताद्रूप्येण लोके विश्रुतम्--इत्यर्थः | चोद्यत इति-- विधीयते--इत्यर्थः || एतदेवोपपादयति-- अनाभासिततद्वस्तुभासनाय नियुज्यते || १७-२६ || मन्त्रः किं तेन तत्र स्यात्स्फुटं यत्रावभासि तत् | तेन प्रोक्षणसंसेकजपादिविधिषु ध्रुवम् || १७-२७ || तत्कर्माभ्यूहनं कुर्यात्प्रत्युत व्यवधातृताम् | मन्त्र इति--कर्मपदाभ्यूहरूपः | तदिति--ऊहनीयं कर्म | तेनेति-- कर्मणो बहिःस्वयमवभासमानत्वेन हेतुना | प्रोक्षणादि हि बहिस्तथात्वेनैव स्फुटमवभातीति भावः, अतः प्रोक्षणं करोमीत्याद्युक्त्या अत्यभ्यूहनं न कार्यम्--इति तात्पर्यार्थः || बहिस्तथात्मतानवभासे पुनरेतत्कार्यम्--इत्याह-- बहिस्तथात्मताभावे कार्यं कर्मपदोहनम् || १७-२८ || तृप्तावाहुतिहुतभुक्पाशप्लोषच्छिदादिषु | तेन तर्पणं करोमि, अर्चां करोमीत्यादिरूहः कार्यः | नहि तृप्त्यादि बहिस्ताद्रूप्येण प्रोक्षणादिवत् किञ्चिदवभाति--इति भावः | हुतभुक्पाशप्लोषेति--हुतभुजि पाशानां प्लोषादौ--इत्यर्थः || न च अवयविप्राये बहिस्तथात्मतयानवभासने कर्मण्यप्यभ्यूहनं कार्यम्--इत्याह-- यत्रोद्दिष्टे विधौ पश्चात्तदनन्तैः क्रियात्मकैः || १७-२९ || अंशैः साध्यं न तत्रोहो दीक्षणादिविधिष्विव | तदिति--उद्दिष्टविधिलक्षणं वस्तु | क्रियात्मकैरनन्तैरंशैरिति-- गर्भाधानादिभिः | दीक्षणादिविधिष्विवेति--नहि दीक्षां करोमि प्रतिष्ठां करोमि वेत्येक एवायमूहो भवितुमर्हति--इत्यर्थः ||
SKएवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह-- ततः शिष्यस्य तत्तत्त्वस्थानेऽस्त्रेण प्रताडनम् || १७-३० || कृत्वाऽथ शिवहस्तेन हृदयं परिमर्शयेत् | ततः स्वनाडीमार्गेण हृदयं प्राप्य वै शिशोः || १७-३१ || शिष्यात्मना सहैकत्वं गत्वादाय च तं हृदा | पुटितं हंसरूपाख्यं तत्र संहारमुद्रया || १७-३२ || कुर्यादात्मीयहृदयस्थितमप्यवभासकम् | शिष्यदेहस्य तेजोभी रश्मिमात्रावियोगतः || १७-३३ || तत इति--वागीशीतर्पणानन्तरम् | तत्तत्त्वेति�तस्याहूतस्य धरादेर्गुल्फादौ स्थानेऽस्त्रेण ताडनम् | स्वेति--गुरोर्दक्षिणेन, शिष्यस्य वामेन | गत्वेति--अर्थात् हृदय एव | हृदेति--हृन्मन्त्रेण | संहारमुद्रयेति--यदुक्तम्-- ᳚प्रसार्य दक्षिणं पाणिं कनिष्ठादिक्रमाच्छनैः | आकृष्य बन्धयेन्मुष्टिमङ्गुष्ठेन प्रपीडयेत् || मुद्रा संहारिणी प्रोक्ता.......................... |᳚ इति | आत्मीयहृदयस्थितमिति--काकाक्षिन्यायेन योज्यम्, तेनात्मीयहृदयस्थितमपि रश्मिमात्रावियोगतस्तेजोभिः शिष्यदेहस्यावभासकं चिन्तयेत् येन चित्प्रकाशस्ततो वियुक्तो न भवेत् ||३३ || नन्वेवमात्मीयहृदयानयनेन शिष्यात्मनः कोऽर्थः?-- इत्याशङ्क्याह-- स्वबन्धस्थानचलनात् स्वतन्त्रस्थानलाभतः | स्वकर्मापरतन्त्रत्वात् सर्वत्रोत्पत्तिमर्हति || १७-३४ || तेनात्महृदयानीतं प्राक्कृत्वा पुद्गलं ततः | मायायां तद्धरातत्त्वशरीराण्यस्य संसृजेत् || १७-३५ || मायायामिति--वागीशीरूपायाम् ||३५ || कथञ्च अस्य सृष्टिः?--इत्याह-- तत्रास्य गर्भाधानं च युक्तं पुंसवनादिभिः | गर्भनिष्क्रामपर्यन्तैरेकां कुर्वीत संस्क्रियाम् || १७-३६ || जननं भोगभोक्तृत्वं मिलित्वैकाथ संस्क्रिया | ततोऽस्य तेषु भोगेषु कुर्यात्तन्मयतां लयम् || १७-३७ || ततस्तत्तत्त्वपाशानां विच्छेदं समुपाचरेत् | संस्काराणां चतुष्केऽस्मिन्नपरां च परापराम् || १७-३८ || मन्त्राणां पञ्चदशकं परां वा योजयेत्क्रमात् |
SKआदिना सीमन्तोन्नयनादि, तेनैतदवान्तरसंस्कारगर्भीकारेण गर्भाधानमेव मुख्यः संस्कार इति | अस्मिंश्चतुष्टक इति-- गर्भाधानभोगभोक्तृत्वतल्लयपाशविच्छेदलक्षणे | वाशब्दः समुच्चये || मन्त्रपञ्चदशकमेव विभजति-- पिबन्याद्यष्टकं शस्त्रादिकं षट्कं परा तथा || १७-३९ || इति पञ्चदशैते स्युः क्रमाल्लीनत्वसंस्कृतौ | अत्रैव होममन्त्रान् दर्शयति अपरामन्त्रमुक्त्वा प्रागमुकात्मन इत्यथ || १७-४० || गर्भाधानं करोमीति पुनर्मन्त्रं तमेव च | स्वाहान्तमुच्चरन्दद्यादाहुतित्रितयं गुरुः || १७-४१ || परं परापरामन्त्रममुकात्मन इत्यथ | जातस्य भोगभोक्तृत्वं करोम्यथ परापराम् || १७-४२ || अन्ते स्वाहेति प्रोच्चार्य वितरेत्तिस्र आहुतीः | उच्चार्य पिबनीमन्त्रममुकात्मन इत्यथ || १७-४३ || भोगे लयं करोमीति पुनर्मन्त्रं तमेव च | स्वाहान्तमाहुतीस्तिस्रो दद्यादाज्यतिलादिभिः || १७-४४ || एष एव वमन्यादौ विधिः पञ्चदशान्तके | पूर्वं परात्मकं मन्त्रममुकात्मन इत्यथ || १७-४५ || पाशच्छेदं करोमीति परामन्त्रः पुनस्ततः | हुं स्वाहा फट् समुच्चार्य दद्यात्तिस्रोऽप्यथाहुतीः || १७-४६ || संस्काराणां चतुष्केऽस्मिन्ये मन्त्राः कथिता मया | तेषु कर्मपदात्पूर्वं धरातत्त्वपदं वदेत् || १७-४७ || ततो धरातत्त्वपतिमामन्त्र्येष्ट्वा प्रतर्प्य च | शिवाभिमानसंरब्धो गुरुरेवं समादिशेत् || १७-४८ || तत्त्वेश्वर त्वया नास्य पुत्रकस्य शिवाज्ञया | प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम् || १७-४९ || ततो यदि समीहेत धरातत्त्वान्तरालगम् | पृथक् शोधयितुं मन्त्री भुवनाद्यध्वपञ्चकम् || १७-५० || अपरामन्त्रतः प्राग्वत्तिस्रस्तिस्रस्तदाहुतीः | दद्यात्पुरं शोधयामीत्यूहयुक्तं प्रसन्नधीः || १७-५१ ||
SKतमेवेति--अपरासत्कम् | कर्मपदादिति--गर्भाधानमित्येवंलक्षणात्, तेन अपरामन्त्रः अमुकात्मनो धरातत्त्वे गर्भाधानं करोमि अपरामन्त्रः स्वाहेत्यादिरूप ऊहः | तत इति-- संस्कारचतुष्ट्यानन्तरम् | आमन्त्र्येति--मन्त्रान्तरस्यावचनात् अपरामन्त्रेण | यद्वक्ष्यति-- ᳚मायान्तशुद्धौ सर्वाः स्युः क्रिया ह्यपरया सदा |᳚ (श्लो. १३९) इति | एवमादेशे शिवाभिमानसंरब्धत्वं हेतुः | तत इति-- तत्त्वशोधनानन्तरम् | अपरामन्त्रत इति--अपरामन्त्रमाश्रित्य-- इत्यर्थः | प्राग्वदित्यनेन ऊहान्तरवत् सर्वमेवाक्षिप्तम् ||५१ || एतदेवान्यत्राप्यतिदिशति-- एवं कलामन्त्रपदवर्णेष्वपि विचक्षणः | तिस्रस्तिस्रो हुतीर्दद्यात् पृथक् सामस्त्यतोऽपि वा || १७-५२ || ततः पूर्णाहुतिं दत्त्वा परया वौषडन्तया | अपरामन्त्रतः शिष्यमुद्धृत्यात्महृदं नयेत् || १७-५३ || पृथगिति--एकैकध्येन | सामस्त्यत इति--इतराध्वपञ्चकं शोधयामीति | उद्धृत्येत्यर्थाच्छोधितात् तत्त्वात् | आत्महृदमिति-- गुरोः ||५३ || अत्रैव मतान्तरं दर्शयति-- यदा त्वेकेन शुद्धेन तदन्तर्भावचिन्तनात् | न पृथक् शोधयेत्तत्त्वनाथसंश्रवणात्परम् || १७-५४ || तदा पूर्णां वितीर्याणुमुत्क्षिप्यात्मनि योजयेत् | तात्स्थ्यात्मसंस्थ्ययोगाय तयैवापरयाहुतीः || १७-५५ || सकर्मपदया दद्यादिति केचित्तु मन्वते | अन्ये तु गुरवः प्राहुर्भावनामयमीदृशम् || १७-५६ || नात्र बाह्याहुतिर्देया दैशिकस्य पृथक् पुनः | दद्याद्वा यदि नो दोषः स्यादुपायः स भावने || १७-५७ || एवं प्राक्तनतात्स्थ्यात्मसंस्थत्वे योजयेद् गुरुः | ततः शिष्यहृदं नेयः स आत्मा तावतोऽध्वनः || १७-५८ || शुद्धस्तद्दार्ढ्यसिद्ध्यै च पूर्णा स्यात्परया पुनः | महापाशुपतं पूर्वं विलोमस्य विशुद्धये || १७-५९ || जुहोमि पुनरस्त्रेण वौषडन्त इति क्षिपेत् | पुनः पूर्णां ततो मायामभ्यर्च्याथ विसर्जयेत् || १७-६० || धरातत्त्वं विशुद्धं सज्जलेन शुद्धरूपिणा | भावयेन्मिश्रितं वारि शुद्धियोग्यं ततो भवेत् || १७-६१ ||
SKएकेनेति--तत्त्वाद्यन्यतमेनाध्वना | न शोधयेदिति--अर्थात् इतराध्वपञ्चकम् | तयैवेति--प्रक्रान्तया | आहुतीरिति--तिस्रः | सकर्मपदयेति--अमुकात्मानमात्मस्थं करोमीति | अत्रेति-- तात्स्थ्यात्मस्थत्वकरणे | दैशिकस्येति--कर्तुः | स इति-- बाह्याहुतिलक्षणः प्रकारः | प्राक्तनेति-- ᳚ततः स्वनाडीमार्गेण...................... |᳚ (श्लो. १७|३१) इत्यादिनोक्ते | तत इति--आत्महृन्नयनानन्तरम् | शिष्यहृदं नेय इति-- तत्स्थः कार्यः--इत्यर्थः | तावत इति--धरात्मनः | तद्दार्ढ्येति� तच्छब्देन शुद्धपरामर्शः | यदुक्तम्-- ᳚शिष्यमुत्क्षिप्य चात्मस्थं तद्देहस्थं तु कारयेत् | आहुतीनां त्रयं दद्याद्दत्त्वा पूर्णाहुतिं बुधः || महापाशुपतास्त्रेण विलोमादिविशुद्धये |᳚ (मा.वि. ९|६८) इति | जलेनेति--जलतत्त्वेन | तत इति--धरातत्त्वस्य जलतत्त्वेन मिश्रणया भावनात् || ६१ || तदेव सामान्येनातिदिशन् शुद्ध्यशुद्धी विभजति-- तथा तत्तत्पुरातत्त्वमिश्रणादुत्तरोत्तरम् | सर्वा शिवीभवेत्तत्त्वावली शुद्धान्यथा पृथक् || १७-६२ || तथेति--उक्तेन प्रकारेण | अन्यथेति--अशुद्धा | पृथगिति-- शिवादतिरिक्तं हि वस्तु पाश एव--इत्याशयः | यदुक्तं प्राक्-- ᳚पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते |᳚ (८|२९२) इति ||६२ || अत एवाह-- पृथक्त्वं च मलो मायाभिधानस्तस्य संभवे | कर्मक्षयेऽपि नो मुक्तिर्भवेद्विद्येश्वरादिवत् || १७-६३ || मायेति--यदुक्तम्� ᳚भिन्नवेद्यप्रथात्रैव मायाख्यं...................... |᳚ (रि.प्र. ३|२|५) इति ||६३ || एतच्च सर्वमेव प्रागुक्तं तत्त्वान्तरेष्वतिदिशति-- ततोऽपि जलतत्त्वस्य वह्नौ व्योम्नि चिदात्मके | आह्वानाद्यखिलं यावत्तेजस्यस्य विमिश्रणम् || १७-६४ || एवं क्रमात्कलातत्त्वे शुद्धे पाशं भुजाश्रितम् | छिन्द्यात्कला हि सा किञ्चित्कर्तृत्वोन्मीलनात्मिका || १७-६५ || कर्माख्यमलजृम्भात्मा तं च ग्रन्थिं स्रुगग्रगम् | पूर्णाहुत्या समं वह्निमन्त्रतेजसि निर्दहेत् || १७-६६ ||
SKएवमिति--पूर्वोक्तेनैव क्रमेण | ननु कलातत्त्वशुद्ध्यनन्तरं भुजाश्रितस्य पाशस्य छेदे कोऽभिप्रायः?--इत्याशङ्क्याह--कलेत्यादि | तमिति--भुजाश्रितपाशसूत्रगतम् ||६६ || ननु सर्वगं मान्त्रं तेज इति किं वह्निमात्राश्रयणेन?-- इत्याशङ्क्याह-- मन्त्रो हि विश्वरूपः सन्नुपाश्रयवशात्तथा | व्यक्तरूपस्ततो वह्नौ पाशप्लोषविधायकः || १७-६७ || तथेति--वह्नितया | पाशप्लोषो हि तस्यानुगुण्यम्--इत्यभिप्रायः || ६७ || ननु अमूर्तस्यास्य को नाम प्लोषः?--इत्याशङ्क्याह-- प्लुष्टो लीनस्वभावोऽसौ पाशस्तं प्रति शम्भुवत् | परमेशमहातेजःशेषमात्रत्वमश्नुते || १७-६८ || अत्रैव ऊहं दर्शयति-- कर्मपाशेऽत्र होतव्ये पूर्णयास्य शुभाशुभम् | अशुभं वा भवद्भूतं भावि वाथ समस्तकम् || १७-६९ || दहामि फट्त्रयं वौषडिति पूर्णां विनिक्षिपेत् | एवं मायान्तसंशुद्धौ कण्ठपाशं च होमयेत् || १७-७० || पूर्णस्य तस्य मायाख्यं पाशभेदप्रथात्मकम् | दहामि फट्त्रयं वौषडिति पूर्णां क्षिपेद् गुरुः || १७-७१ || निर्बीजा यदि कार्या तु तदात्रैवापरां क्षिपेत् | पूर्णां समयपाशाख्यबीजदाहपदान्विताम् || १७-७२ || अशुभमिति--लोकधर्मिविषयतया | अत्रैवेति--कण्ठपाशहोमे | अपरामिति--द्वितीयाम् | समयेति--समयपाशाख्यबीजं दहामीति || ७२ || ननु निर्बीजदीक्षायां कथमिहाविशेषेणैव समयपाशदाह उक्तो यत्र तु गुरुदेवादौ भक्तिरपि समयत्वेनाम्नाता ?--इत्याशङ्क्याह-- गुरौ देवे तथा शास्त्रे भक्तिः कार्यास्य नह्यसौ | समयः शक्तिपातस्य स्वभावो ह्येष नो पृथक् || १७-७३ || अस्य निर्बीजदीक्षादीक्षितस्य गुर्वादौ भक्तिः कार्यत्वेन संभवति, न पुनरसौ समयः, यत् ᳚तस्यैव तु प्रसादेन भक्तिरुत्पद्यते नृणाम् |᳚ (म.भार.) इत्यादिनीत्या शक्तिपातस्यैव एष स्वभावो न पृथक् ततोऽतिरिक्तमेतत्, न किंचित्--इत्यर्थः ||७३ || शुद्धाध्वशुद्धौ हि विशेषं दर्शयितुमाह-- मायान्ते शुद्धिमायाते वागीशी या पुराभवत् | माया शक्तिमयी सैव विद्याशक्तित्वमश्नुते || १७-७४ ||
SKतच्छुद्धविद्यामाहूय विद्याशक्तिं नियोजयेत् | एवं क्रमेण संशुद्धे सदाशिवपदेऽप्यलम् || १७-७५ || शिखां ग्रन्थियुतां छित्त्वा मलमाणवकं दहेत् | तदुक्तम्-- ᳚ततस्तच्छोध्ययोनीनां व्यापिनीं योनिमानयेत् | मायान्तेऽध्वनि तामेव शुद्धे विद्यां विचक्षणः ||᳚ (मा.वि. ९|५७) इति | ग्रन्थियुक्तामिति नतु प्राग्वद्ग्रन्थिमात्रम् || नन्वत्राणवं मलं दहेदित्येव कस्मादुक्तं यद्भेदप्रथात्मा मायीयोऽपि मलोऽत्र संभाव्य एव?--इत्याशङ्क्याह-- यतोऽधिकारभोगाख्यौ द्वौ पाशौ तु सदाशिवे || १७-७६ || इत्युक्त्याणवपाशोऽत्र मायीयस्तु निशावधिः | शिष्यो यथोचितं स्नायादाचामेद्दैशिकः स्वयम् || १७-७७ || आणवाख्ये विनिर्दग्धे ह्यधोवाहिशिखामले | उक्त्येति--मतङ्गादौ | यथोचितमिति-- ᳚गृहस्थानां जलेनैव नैष्ठिकानां तु भस्मना |᳚ इति | अधोवाहिशिखेति--तत्प्रधाने--इत्यर्थः, अत एव प्राक् ᳚अधोवहा शिखाणुत्वं..................... |᳚ (श्लो. १७|५) इत्याद्युक्तम् || एवं पाशदाहमभिधाय योजनिकामाह-- ततः प्रागुक्तसकलप्रमेयं परिचिन्तयन् || १७-७८ || शिष्यदेहादिमात्मीयदेहप्राणादियोजितम् | कृत्वात्मदेहप्राणादेर्विश्वमन्तरनुस्मरेत् || १७-७९ || उक्तप्रक्रियया चैवं दृढबुद्धिरनन्यधीः | प्राणस्थं देशकालाध्वयुगं प्राणं च शक्तिगम् || १७-८० || तां च संविद्गतां शुद्धां संविदं शिवरूपिणीम् | शिष्यसंविदभिन्नां च मन्त्रवह्न्याद्यभेदिनीम् || १७-८१ || ध्यायन् प्राग्वत्प्रयोगेण शिवं सकलनिष्कलम् | द्व्यात्मकं वा क्षिपेत्पूर्णां प्रशान्तकरणेन तु || १७-८२ || शक्तिगमिति--कालशक्तिगतम्--इत्यर्थः | द्व्यात्मकमिति-- सकलनिष्कलोभयस्वभावम्--इत्यर्थः | प्रागुक्तेति उक्तप्रक्रिययेति प्राग्वदिति च--अनेन षोडशपञ्चदशाह्निकादौ एतद्विस्तरेणोक्तमिति स्मारितम्, अत एव एतदस्माभिरपि ग्रन्थविस्तरभयान्नेह वितानितम् ||८२|| न च एतदस्मदुपज्ञमेव--इत्याह-- उक्तं त्रैशिरसे तन्त्रे सर्वसंपूरणात्मकम् | मूलादुदयगत्या तु शिवेन्दुपरिसंप्लुतम् || १७-८३ ||
SKजन्मान्तमध्यकुहरमूलस्रोतःसमुत्थितम् | शिवार्करश्मिभिस्तीव्रैः क्षुब्धं ज्ञानामृतं तु यत् || १७-८४ || तेन संतर्पयेत्सम्यक् प्रशान्तकरणेन तु | यन्नाम जन्माधारद्वादशान्तहृदयान्येव मुख्याधिष्ठानस्थानत्वात् अववरकप्रायाणि कुहराणि यस्यैवंविधादाद्यशक्तिपरिस्पन्दात्मनो मूलस्रोतसः समुत्थितम्, अत एव मूलाधारादूर्ध्वंगमनेन शिवात्मनः प्राणादित्यस्य तीक्ष्णाभिः कलाभिः क्षुब्धं बहिर्मुखीभूतं सत् द्वादशान्तःस्थेन शिवेन्दुना परितः संप्लुतं स्वात्ममयतामापादितम्, अत एव सर्वपूरणात्मकं ᳚प्राक् संवित्प्राणे परिणता |᳚ इति नीत्या परसंविदाद्यविजृम्भात्मकं ज्ञानमेवामृतं तेन, सम्यक् प्रशान्तेन मनसा अर्थादुक्तस्वरूपं मन्त्रचक्रं संतर्पयेत्-- पूर्णाहुतिप्रक्षेपेण स्वस्वरूपपरिनिष्ठितं कुर्यात्--इत्यर्थः || ननु करणस्य प्रशान्तत्वं नाम किमुच्यते?--इत्याशङ्क्याह-- शून्यधामाब्जमध्यस्थप्रभाकिरणभास्वरः || १७-८५ || आधेयाधारनिःस्पन्दबोधशास्त्रपरिग्रहः | जन्माधेयप्रपञ्चैकस्फोटसङ्घट्टघट्टनः || १७-८६ || मूलस्थानात्समारभ्य कृत्वा सोमेशमन्तगम् | खमिवातिष्ठते यावत्प्रशान्तं तावदुच्यते || १७-८७ || इह खलु आचार्यः शून्यधाम्नि मूलाधारे ᳚कोणत्रयान्तराश्रितनित्योन्मुखमण्डलच्छदे कमले |᳚ (२९|१५०)
SKइति वक्ष्यमाणनीत्या यदब्जं तन्मध्यस्थितायाः प्रभायाः शक्तेः किरणैर्भास्वरस्तद्रश्मिसंस्पर्शोत्तेजितः, अत एव प्राणादावाधेये जन्मस्थानादावाधारे च निःस्पन्दस्य एकेनैव रूपेण वर्तमानस्य शक्तिप्रबोधोदितस्य बोधस्य शास्त्रेण तदुक्तयुक्त्या कृतपरिग्रहः, अत एवोक्तरूपयोर्जन्माधारप्राणलक्षणयोराधाराधेययोः प्रपञ्चस्यैकेन अनाहतध्वन्यात्मनः स्फोटस्य सङ्घट्टेन तत्सामरस्येन घट्टनं ग्रासः तत्कारीत्यर्थः, अत एव मूलाधारादुदेत्य शनैः शनैः प्राणार्कग्रस्तमपानचन्द्रं द्वादशान्तगं कृत्वा यावत् आ समन्तात् खमिव तिष्ठते, तावत्प्रशान्तमुच्यते ग्राह्यग्राहकविभागविगलनात् उन्मनीभावमापन्नम्--इत्यर्थः || एतच्च अस्मच्छास्त्रेऽप्युक्तम्--इत्याह-- उक्तं श्रीपूर्वशास्त्रे च स्रुचमापूर्य सर्पिषा | कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रमनुस्मरन् || १७-८८ || शिवं शक्तिं तथात्मानं शिष्यं सर्पिस्तथानलम् | एकीकुर्वञ्छनैर्गच्छेद् द्वादशान्तमनन्यधीः || १७-८९ || तत्र कुम्भकमास्थाय ध्यायन्सकलनिष्कलम् | तिष्ठेत्तावदनुद्विग्नो यावदाज्यक्षयो भवेत् || १७-९० || मूलमन्त्रमिति--दित्सितम् | कुम्भकमास्थायेति--महाव्योमात्मनि, तत्र शिवशक्तिभ्यां नरात्मकमन्यत्सर्वं सामरस्यं प्रापय्य--इत्यर्थः | सकलनिष्कलमिति--योजनिकौचित्यात् | अनुद्विग्न इति-- पूर्णसंवित्स्वभावस्वात्ममात्रविश्रान्त-- इत्यर्थः || ९० || एवं सति किं स्यात्?--इत्याह-- एवं युक्तः परे तत्त्वे गुरुणा शिवमूर्तिना | न भूयः पशुतामेति दग्धमायानिबन्धनः || १७-९१ || भोगदीक्षायां पुनरियान् विशेषः--इत्याह-- देहपाते पुनः प्रेप्सेद्यदि तत्त्वेषु कुत्रचित् | भोगान् समस्तव्यस्तत्वभेदैरन्ते परं पदम् || १७-९२ || तदा तत्तत्त्वभूमौ तु तत्संख्यायामनन्यधीः | पुनर्योजनिकां कुर्यात्पूर्णाहुत्यन्तरेण तु || १७-९३ || मुक्तिप्रदा भोगमोक्षप्रदा वा या प्रकीर्तिता | दीक्षा सा स्यात्सबीजत्वनिर्बीजात्मतया द्विधा || १७-९४ || बाले निर्ज्ञातमरणे त्वशक्ते वा जरादिभिः |
SKकार्या निर्बीजिका दीक्षा शक्तिपातबलोदये || १७-९५ || निर्बीजायां सामयांस्तु पाशानपि विशोधयेत् | कृतनिर्बीजदीक्षस्तु देवाग्निगुरुभक्तिभाक् || १७-९६ || इयतैव शिवं यायात् सद्यो भोगान् विभुज्य वा | समस्तेति--सायुज्ये हि भोगानां सामस्त्यं सालोक्यादौ तु व्यस्तत्वमिति | तत्संख्यायामिति--तस्य सम्यक् प्रथितायामभीप्सितायाम्--इत्यर्थः | सद्य इति दीक्षानन्तरम् | भोगान् विभुज्येति--देहपाते || ननु शिवं यायादित्यत्र उक्त एव योजनिकाक्रमः किं निमित्तमुतान्यदपि किंचित्?--इत्याशङ्क्याह-- श्रीमद्दीक्षोत्तरे चोक्तं चारे षट्त्रशदंगुले || १७-९७ || तत्त्वान्यापादमूर्धान्तं भुवनानि त्यजेत्क्रमात् | तुटिमात्रं निष्कलं तददेहं तदहंपरम् || १७-९८ || शक्त्या तत्र क्षिपाम्येनमिति ध्यायंस्तु दीक्षयेत् | तदिति--परब्रह्मस्वरूपमित्यर्थः, अत एव निष्कलमिति अदेहमिति चोक्तम् | अहंपरमिति--अहंपरामर्शस्वभावम्--इत्यर्थः || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह-- सबीजायां तु दीक्षायां समयान्न विशोधयेत् || १७-९९ || विशेषस्त्वयमेतस्यां यावज्जीवं शिशोर्गुरुः | शेषवृत्त्यै शुद्धतत्त्वसृष्टिं कुर्वीत पूर्णया || १७-१०० || कथं चात्र शुद्धतत्त्वसृष्टिं कुर्यात्?--इत्याशङ्क्याह-- अभिन्नाच्छिवसंबोधजलधेर्युगपत्स्फुरत् | पूर्णां क्षिपंस्तत्त्वजालं ध्यायेद्भारूपकं सृतम् || १७-१०१ || शिवसंबोधजलधेः सृतं तत्त्वजालं ध्यायेत्--इति संबन्धः ||१०१ || अत्रैव मतान्तराण्युद्दिशति-- विशुद्धतत्त्वसृष्टिं वा कुर्यात्कुम्भाभिषेचनात् | तथा ध्यानबलादेव यद्वा पूर्णाभिषेचनैः || १७-१०२ || अभिषेचनैरिति बहुवचनात् ध्यानबलमपि संगृहीतं, तेन सामस्त्येनायं पक्षः || १०२ || शुद्धत्वमेवैषां दर्शयति-- पृथिवी स्थिररूपास्य शिवरूपेण भाविता | स्थिरीकरोति तामेव भावनामिति शुद्ध्यति || १७-१०३ || जलमाप्यायत्येनां तेजो भास्वरतां नयेत् | मरुदानन्दसंस्पर्शं व्योम वैतत्यवमावहेत् || १७-१०४ || एवं तन्मात्रवर्गोऽपि शिवतामय इष्यते |
SKपरानन्दमहाव्याप्तिरशेषमलविच्युतिः || १७-१०५ || शिवे गन्तृत्वमादानमुपादेयशिवस्तुतिः | शिवामोदभरास्वाददर्शनस्पर्शनान्यलम् || १७-१०६ || तदाकर्णनमित्येवमिन्द्रियाणां विशुद्धता | सङ्कल्पाध्यवसामानाः प्रकाशो रक्तिसंस्थिती || १७-१०७ || शिवात्मत्वेन यत्सेयं शुद्धता मानसादिके | नियमो रञ्जनं कर्तृभावः कलनया सह || १७-१०८ || वेदनं हेयवस्त्वंशविषये सुप्तकल्पता | इत्थं शिवैक्यरूढस्य षट्कञ्चुकगणोऽप्ययम् || १७-१०९ || शुद्ध एव पुमान् प्राप्तशिवभावो विशुद्ध्यति | विद्येशादिषु तत्त्वेषु नैव काचिदशुद्धता || १७-११० || इत्येवं शुद्धतत्त्वानां सृष्ट्या शिष्योऽपि तन्मयः | भवेद्ध्येतत्सूचितं श्रीमालिनीविजयोत्तरे || १७-१११ || शुद्ध्यतीति--शुद्धा भवति--इत्यर्थः | एनामिति--शिवरूपतया भावनाम् | आवहेदिति--अर्थाद्भावनायाः | एवमिति--शिवभावनाया एव स्थिरीकरणादिना | आस्वादस्य रसनेन्द्रियव्यापारत्वेऽपि आमोदशब्दसंनिधेर्घ्रणेन्द्रियव्यापारत्वमपि ज्ञेयमित्यभिधालक्षणाभ्यामास्वादशब्दो व्याख्येयः | इन्द्रियाणामिति--आनन्देन्द्रियादीनाम् | मानोऽभिमानोऽहङ्कारव्यापारः | प्रकाश इति--एतद्धि सत्त्वरजस्तमसां क्रमेण रूपं--यत्तत्साम्यं प्रकृतिः | नियमादि चात्र शिवैक्यरूढतया व्याख्येयम् | सुप्तकल्पतेति--अनवकॢप्तिपरता- -इत्यर्थः | एवमेषां शिवैकविश्रान्तत्वमेव नाम शुद्धत्वमित्यत्र तात्पर्यम्, अत एवानेन तत्त्वानामशुद्धत्वेऽपि शुद्धतया सृष्टेरध्वभेदोऽपि कटाक्षितः | न च एतदस्माभिरनागमिकमुक्तम्-- इत्याह--ह्येतदित्यादि | सूचितमिति--इन्द्रियमात्रपरत्वेनाभिधानात् ||१११ || तदेव शब्दार्थाभ्यां पठति-- बन्धमोक्षावुभावेताविन्द्रियाणि जगुर्बुधाः | निगृहीतानि बन्धाय विमुक्तानि विमुक्तये || १७-११२ || निगृहीतत्वं विमुक्तत्वं च स्वयमेव भगवान् व्याचष्टे-- एतानि व्यापके भावे यदा स्युर्मनसा सह | मुक्तानि क्वापि विषये रोधाद् बन्धाय तानि तु || १७-११३ || इत्येवं द्विविधो भावः शुद्धाशुद्धप्रभेदतः |
SKइन्द्रियाणां समाख्यातः सिद्धयोगीश्वरे मते || १७-११४ || यदुक्तं तत्र-- ᳚एतानि व्यापके भावे यदा स्युर्मनसा सह | विमुक्तानीति विद्वद्भिर्ज्ञातव्यानि तदा प्रिये || यदा तु विषये क्वापि प्रदेशान्तरवर्तिनि | संस्थितानि तदा तानि बद्धानीति प्रचक्षते ||᳚ (मा.विटं. १५|४५) इति ||११४ || गुरुभिरपि एवमेवोक्तम्--इत्याह-- श्रीमान् विद्यागुरुस्त्वाह प्रमाणस्तुतिदर्शने | अत्रैव मन्त्राणां विनियोगे नियममभिधातुमाह-- समस्तमन्त्रैर्दीक्षायां नियमस्त्वेष कथ्यते || १७-११५ || मायान्तशुद्धौ सर्वाः स्युः क्रिया ह्यपरया सदा | द्व्यात्मया सकलान्ते तु निष्कले परयैव तु || १७-११६ || ईशान्ते च पिबन्यादि सकलान्तेऽङ्गपञ्चकम् | इत्येवंविधिमालोच्य कर्म कुर्याद् गुरूत्तमः || १७-११७ || सर्वाः क्रिया इत्यनुक्तमन्त्राः | द्व्यात्मयेति--परापरया | यदुक्तम्-- ᳚मायान्तमार्गसंशुद्धौ दीक्षाकर्मणि सर्वतः | क्रियास्वनुक्तमन्त्रासु योजयेदपरां बुधः || विद्यादिसकलान्ते च तद्वदेव परापराम् | योजयेच्चेश्वरादूर्ध्वं पिबन्यादिकमष्टकम् || न चापि सकलादूर्ध्वमङ्गषट्कं विचक्षणः | निष्कले परया कार्यं यत्किञ्चिद्विधिचोदतम् ||᳚ इति ||११७ || भुवनाध्वप्राधान्येन उक्तामाहुतिसंख्यामितराध्वसु अधिकावापेनातिदिशति-- पुराध्वनि हुतीनां या संख्येयं तत्त्ववर्णयोः | तामेव द्विगुणीकुर्यात्पदाध्वनि चतुर्गुणाम् || १७-११८ || क्रमान्मन्त्रकलामार्गे द्विगुणा द्विगुणा क्रमात् | यावत्त्रितत्त्वसंशुद्धौ स्याद्विंशतिगुणा ततः || १७-११९ || प्रतिकर्म भवेत्षष्टिराहुतीनां त्रितत्त्वके | एकतत्त्वे शतं प्राहुराहुतीनां तु साष्टकम् || १७-१२० || येयं संख्येति--प्रागुक्ता त्र्यादिरूपा | द्विगुणीकुर्यादिति-- तत्त्वाध्वनि भुवनादीनामन्तर्भावात् यावद्भुवनाध्वापेक्षया कलाध्वनि षोडशगुणा संख्या भवेत्--इति भावः | षष्टिरिति-- आहुतीनां त्रयस्य विंशत्या गुणनात् | प्राहुरिति--अर्थात् प्रतिकर्म ||१२० || न च सर्वत्राविशेषेणैवायमातिदेशः--इत्याह-- विलोमकर्मणा साकं याः पूर्णाहुतयः स्मृताः |
SKतासां सर्वाध्वसंशुद्धौ संख्यान्यत्वं न किञ्चन || १७-१२१ || एतदेव प्रथमार्धेनोपसंहरति-- इत्येषा कथिता दीक्षा जननादिसमन्विता || १७-१२२ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके विक्षिप्तदीक्षाप्रकाशनं नाम सप्तदशमाह्निकम् || १७ || जननादिसमन्वितेति--विस्तृता--इत्यर्थः, इति शिवम् || १२२ || दीक्षाकर्मणि साक्षाद्वैचक्षण्यं कटाक्षयन् गुरुतः | सप्तादशाह्निकेऽस्मिञ्जयरथनामा व्यधत्त विवृतिमिमाम् || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते विक्षिप्तदीक्षाप्रकाशनं नाम सप्तदशमाह्निकं समाप्तम् || १७ || अष्टादशमाह्निकम् ᳚ विवेकः ᳚ ऋतधामानमनन्तं बलावहं तं बलावहं वन्दे | जगदिदममन्दमखिलं स्वमहिम्ना योऽनुगृह्णाति || इदानीं द्वितीयार्धेन संक्षिप्तां दीक्षां वक्तुमाह-- अथ संक्षिप्तदीक्षेयं शिवतापत्तिदोच्यते | तदेवाह-- न रजो नाधिवासोऽत्र न भूक्षेत्रपरिग्रहः | यत्र तत्र प्रदेशे तु पूजयित्वा गुरुः शिवम् || १८-१ || अध्वानं मनसा ध्यात्वा दीक्षयेत्तत्त्वपारगः | जननादिविहीनां तु येन येनाध्वना गुरुः || १८-२ || कुर्यात्स एकतत्त्वान्तां शिवभावैकभावितः | मनसेति--न तु पाशसूत्रादिकल्पनेन | तत्त्वपारग इति--न तु अतत्त्वपारगः, नहि तस्य एवंविधे कर्मणि अधिकार एव भवेत्--इति भावः | यद्वक्ष्यति-- ᳚यथा यथा च स्वभ्यस्तज्ञानस्तन्मयतात्मकः | गुरुस्तथा तथा कुर्यात्संक्षिप्तं कर्म नान्यथा ||᳚ (तं.आ. १८|८) इति || एवं जननादिविहीनत्वमभिधाय मन्त्रभेदमाह-- परामन्त्रस्ततोऽस्येति तत्त्वं संशोधयाम्यथ || १८-३ || स्वाहेति प्रतितत्त्वं स्याच्छुद्धे पूर्णाहुतिं क्षिपेत् | एवं मन्त्रान्तरैः कुर्यात्समस्तैरथवोक्तवत् || १८-४ || परासंपुटितं नाम स्वाहान्तं प्रथमान्तकम् | शतं सहस्रं साष्टं वा तेन शक्त्यैव होमयेत् || १८-५ || ततः पूर्णेति संशोध्यहीनमुत्तममीदृशम् |
SKदीक्षाकर्मोदितं तत्र तत्र शास्त्रे महेशिना || १८-६ || शक्त्यैवेति--यथाशक्ति, तेन देशकालाद्यनुसारं शतहोमः सहस्रहोमो वा कार्यः--इत्यभिप्रायः | संशोध्यहीनमिति--नह्यत्र मनसापि अध्वन्यासादि किञ्चित्कार्यम्--इत्यर्थः | तत्र तत्रेति-- किरणादौ | यदुक्तं तत्र-- ᳚दीक्षामन्यां प्रवक्ष्यामि शिवतत्त्वसमायुताम् | आदौ प्रणवसंयुक्तां शिवमन्त्रेऽणुवाचकम् || नाम कृत्वा ततः शंभुः संपुटीकृत्य होमयेत् | एवं साहस्रिको होमः पाशत्रयवियोजकः || जननादिवियोगेन दीक्षेयं दुर्लभा खग |᳚ इति ||६ || अत्रापि मन्त्रभेदमाह-- प्रत्येकं मातृकायुग्मवर्णैस्तत्त्वानि शोधयेत् | यदि वा पिण्डमन्त्रेण सर्वमन्त्रेष्वयं विधिः || १८-७ || युग्मेति--मातृकामालिनीरूपस्य | अयं विधिरिति--यथोदितोहरूपः ||७ || न च एतद् गुरुमात्रकार्यम्--इत्याह-- यथा यथा च स्वभ्यस्तज्ञानस्तन्मयतात्मकः | गुरुस्तथा तथा कुर्यात् संक्षिप्तं कर्म नान्यथा || १८-८ || ननु विस्तृतायां दीक्षायां स्वभ्यस्तज्ञानत्वं गुरोरुपादेयम्, संक्षिप्तायां किं तेन?--इत्याशङ्कां गर्भीकृत्यागममेव संवादयति-- श्रीब्रह्मयामले चोक्तं संक्षिप्तेऽपि हि भावयेत् | व्याप्तिं सर्वाध्वसामान्यां किन्तु यागे न विस्तरः || १८-९ || याग इति--यजिक्रियारूपायामितिकर्तव्यतायाम्--इत्यर्थः || ९ || ननु यद्येवं तद्बहुवित्तव्ययायाससाध्येन विस्तृतेन कर्मणा कोऽर्थः?--इत्याशङ्क्याह-- अतन्मयीभूतमिति विक्षिप्तं कर्म सन्दधत् | क्रमात्तादात्म्यमेतीति विक्षिप्तं विधिमाचरेत् || १८-१० || आह्निकार्थमेवोपसंहरति-- संक्षिप्तो विधिरुक्तोऽयं कृपया यः शिवोदितः | दीक्षोत्तरे कैरणे च तत्र तत्रापि शासने || १८-११ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके संक्षिप्तदीक्षाप्रकाशनं नाम अष्टादशमाह्निकम् || १८ || इति शिवम् || ११ || संक्षिप्तमोक्षदीक्षाकर्मप्रावीण्यसोत्कर्षः | व्याकार्षीदष्टादशाह्निकमेतज्जयरथाख्यः ||
SKइति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते संक्षिप्तदीक्षाप्रकाशनं नाम अष्टादशमाह्निकं समाप्तम् || १८ || एकोनविंशमाह्निकम् ᳚ विवेकः ᳚ भवभेदविभवसंभवसंभेदविभेदबलवन्तम् | बलवन्तं नौमि विभुं दारुणरूपग्रहाग्रहतः || इदानीं श्लोकार्धेन सद्योनिर्वाणदीक्षां निरूपयितुं प्रतिजानीते-- अथ सद्यःसमुत्क्रान्तिप्रदा दीक्षा निरूप्यते | ननु यदधिकारेणायं ग्रन्थः प्रवृत्तस्तत्र तावदियं स्फुटाक्षरं नोक्ता, तदिहास्या निरूपणेन कोऽर्थः?-- इत्याशङ्क्याह-- तत्क्षणाच्चोपभोगाद्वा देहपाते शिवं व्रजेत् | इत्युक्त्या मालिनीशास्त्रे सूचितासौ महेशिना || १९-१ || न च एतत्स्वोपज्ञमेवास्माभिरुक्तम्--इत्याह-- देहपाते समीपस्थे शक्तिपातस्फुटत्वतः | आसाद्य शाङ्करीं दीक्षां तस्माद्दीक्षाक्षणात्परम् || १९-२ || शिवं व्रजेदित्यर्थोऽत्र पूर्वापरविवेचनात् | व्याख्यातः श्रीमतास्माकं गुरुणा शम्भुमूर्तिना || १९-३ || समीपस्थ इति द्वित्र्यादिक्षणभाविनि || ३ || एवमपि शक्तिपातस्य वैचित्र्यं दर्शयति-- यदा ह्यासन्नमरणे शक्तिपातः प्रजायते | तत्र मन्देऽथ गुर्वादिसेवयायुः क्षयं व्रजेत् || १९-४ || अथवा बन्धुमित्रादिद्वारा सास्य विभोः पतेत् | पूर्वं वा समयी नैव परां दीक्षामवाप्तवान् || १९-५ || आप्तदीक्षोऽपि वा प्राणाञ्जिहासुः क्लेशवर्जितम् | अन्त्यान्गुरुस्तदा कुर्यात्सद्यौत्क्रान्तिदीक्षणम् || १९-६ || आयुः क्षयं व्रजेदिति--तत्क्षये समयी संभाव्यमानः--इत्यर्थः | सेति--शक्तिः, तेन आसन्नमरणस्य गुरुसेवया स्वयमेवमसामर्थ्ये बन्धुमित्राद्यभ्यर्थनया लक्षितपारमेश्वरशक्तिपातस्य सद्य उत्क्रान्तिदीक्षा कार्या--इति तात्पर्यम् | समयीत्यर्थात् मध्ये शक्तिपाते, आप्तदीक्षे इति--अर्थात् तीव्रे | अन्त्यानिति यियासून्-- इत्यर्थः ||६ || न च असमय एवैषामेतत्कार्यम्--इत्याह-- नत्वपक्वमले नापि शेषकार्मिकविग्रहे | कुर्यादुत्क्रमणं श्रीमद्गह्वरे च निरूपितम् || १९-७ ||
SKदृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् | उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् || १९-८ || अपक्वमल इति--अनायातशक्तिपातः--इत्यर्थः | शेषकार्मिकविग्रह इति--अनासन्नमरण इति यावत् | नच एतद्युक्तिमात्रसिद्धमेव--इत्याह-- श्रीमद्गह्वर इति || ८ || न च अयमासन्नमरणत्वाभिधानपर एवागमः--इत्याह-- विशेषणविशेष्यत्वे कामचारविधानतः | पूर्वोक्तमर्थजातं श्रीशम्भुनात्र निरूपितम् || १९-९ || यदा हि शिष्यस्य विशेष्यत्वं जराग्रस्तत्वादेश्च विशेषणत्वं तदा शिष्यस्य प्राप्तसमयादिदीक्षस्य सद्यःसमुत्क्रान्तिदीक्षेति पूर्वं वा समयीत्याद्युक्तं भेदद्वयम्, व्यत्यये तु जराग्रस्तस्य सतः शिष्यत्वे गुर्वादिसेवयेत्याद्युक्तं भेदद्वयमित्युक्तम् | अत्र श्रीशम्भुना पूर्वोक्तमर्थजातं निरूपितमिति ||९ || एवमेतदुचितं कालमपेक्ष्य क्षुरिकादिन्यासमभिधत्ते-- विधिं पूर्वोदितं सर्वं कृत्वा समयशुद्धितः | क्षुरिकामस्य विन्यस्येज्ज्वलन्तीं मर्मकर्तरीम् || १९-१० || एतन्न्यासश्चास्मदागम एवोक्तः--इत्याह-- कृत्वा पूर्वोदितं न्यासं कालानलसमप्रभम् | संहृतिक्रमतः सार्धं सृक्छिन्दियुगलेन तु || १९-११ || आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापनीम् | पूरयेद्वायुना देहमंगुष्ठान्मस्तकान्तकम् || १९-१२ || तमुत्कृष्य ततोऽंगुष्ठादूर्ध्वान्तं वक्ष्यमाणया | कृन्तेन्मर्माणि रन्ध्रन्तात् कालरात्र्या विसर्जयेत् || १९-१३ || अनेन क्रमयोगेन योजितो हुतिवर्जितः | समय्यप्येति तां दीक्षामिति श्रीमालिनीमते || १९-१४ || वक्ष्यमाणयेति--त्रिंशाह्निके | हुतिवर्जित इति--अनुसन्धानमात्रेण-- इत्यर्थः || १४ || अत्रैव पक्षान्तरं दर्शयति-- षोडशाधारषट्चक्रलक्ष्यत्रयखपञ्चकात् | क्वचिदन्यतरत्राथ प्रागुक्तपशुकर्मवत् || १९-१५ || प्रविश्य मूलं कन्दादेश्छिन्दन्नैक्यविभावनात् | पूर्णाहुतिप्रयोगेण स्वेष्टे धाम्नि नियोजयेत् || १९-१६ || क्वचिदिति--एकत्र | अन्यतरत्रेति--ग्रन्थिद्वादशकादौ | तदुक्तम्-- ᳚मेढ्रस्याधः कुलो ज्ञेयो मध्ये तु विषसंज्ञकः |
SKमूले तु शाक्तः कथितो बोधनादप्रवर्तकः || अग्निसंज्ञस्ततश्चोर्ध्वे अंगुलानां चतुष्टये | नाभ्यधः पवनाधारो नाभावेव घटाभिधः || नाभिहृत्पद्ममार्गे तु सर्वकामाभिधो मतः | सञ्जीवन्यभिधानोऽन्यो हृत्पद्मोदरमध्यगः || वक्षःस्थले स्थितः कूर्मो गले लोलाभिधः स्मृतः | लम्बकस्य स्थितश्चोर्ध्वे सुधासारः सुधात्मकः || तस्यैव मूलमाश्रित्य सौम्यः सौम्यकलाश्रितः | भ्रूमध्ये गगनाभोगो विद्याकमलसंज्ञितः || रौद्रस्तालुतलाधारो रुद्रशक्त्या त्वधिष्ठितः | चिन्तामण्यभिधानोऽन्यश्चतुष्पथनिवासकः || ब्रह्मरन्ध्रस्य वै ह्यूर्ध्वे तुर्याधारस्य मस्तके | नाड्याधारः परः सूक्ष्मो घनव्याप्तिप्रबोधकः ||᳚ इति || ᳚खमनन्तं तु जन्माख्ये नाभौ व्योम द्वितीयकम् | तृतीयं तु हृदि स्थाने चतुर्थं बिन्दुमध्यतः || नादाख्यं तु समुद्दिष्टं षट्चक्रमधुनोच्यते | जन्माख्ये नाडिचक्रं तु नाभौ मायाख्यमुत्तमम् || हृदिस्थं योगिचक्रं तु तालुस्थं भेदनं स्मृतम् | बिन्दुस्थं दीप्तिचक्रं तु नादस्थं शान्तमुच्यते || अन्तर्लक्ष्यं बहिर्लक्ष्यं मध्यलक्ष्यं तृतीयकम् |᳚ इति च | प्रागिति--षोडशाह्निके | पूर्णाहुतिप्रयोगेणेति-- तद्वदित्यर्थः || १६ || अत्रैव प्राधान्येनापि पक्षान्तरमाह-- ज्ञानत्रिशूलं संदीप्तं दीप्तचक्रत्रयोज्ज्वलम् | चिन्तयित्वामुना तस्य वेदनं बोधनं भ्रमम् || १९-१७ || दीपनं ताडनं तोदं चलनं च पुनः पुनः | कन्दादिचक्रगं कुर्याद्विशेषेण हृदम्बुजे || १९-१८ || द्वादशान्ते ततः कृत्वा बिन्दुयुग्मगते क्षिपेत् | निर्लक्ष्ये वा परे धाम्नि संयुक्तः परमेश्वरः || १९-१९ || न तस्य कुर्यात्संस्कारं कञ्चिदित्याह गह्वरे | देवः किमस्य पूर्णस्य श्राद्धाद्यैरिति भावितः || १९-२० ||
SKज्ञानं परा संविदेव, तदेव तत्तदाधारादिभेदनात् त्रिशूलम् | चक्रत्रयेत्यरात्रयरूपेण परादिना | अमुनेति--ज्ञानत्रिशूलेन | भ्रमं वामादिक्रमेणावर्तनम् | तोदं प्रेरणम् | विशेषेणेति तद्धि मुख्यं जीवस्याधिष्ठानम् | बिन्दुयुग्मगत इति--प्राणापानत्रोटरूप इत्यर्थः | तस्येति प्राप्तपारमेर्श्वर्यस्य || २० || न च एतदस्मच्छास्त्र एवोक्तम्--इत्याह-- श्रीमद्दीक्षोत्तरे त्वेष विधिर्वह्निपुटीकृतः | हंसः पुमानधस्तस्य रुद्रबिन्दुसमन्वितः || १९-२१ || शिष्यदेहे नियोज्यैतदनुद्विग्नः शतं जपेत् | उत्क्रम्योर्ध्वनिमेषेण शिष्य इत्थं परं व्रजेत् || १९-२२ || वह्निः रेफः | हंसः ह | पुमान् म | तस्येति--वह्निपुटीकृतस्य हंसस्य | रुद्रः ऊकारः रह्रम् | एतदिति--पिण्डाक्षरम् ||२२ || एतदेव शास्त्रान्तरेऽपि अतिदिशति-- एष एव विधिः श्रीमत्सिद्धयोगीश्वरीमते | नच अयोगिनोऽत्राधिकारः--इत्याह-- इयमुत्क्रामणी दीक्षा कर्तव्या योगिनो गुरोः || १९-२३ || अनभ्यस्तप्राणचारः कथमेनां करिष्यति | वक्ष्यमाणां ब्रह्मविद्यां सकलां निष्कलोम्भिताम् || १९-२४ || कर्णेऽस्य वा पठेद्भूयो भूयो वाप्यथ पाठयेत् | स्वयं च कर्म कुर्वीत तत्त्वशुद्ध्यादिकं गुरुः || १९-२५ || मन्त्रक्रियाबलात्पूर्णाहुत्येत्थं योजयेत्परे | एवं शरीरगं चारमभिधाय ब्रह्मविद्याविधिमभिधातुमाह-- वक्ष्यमाणामित्यादि | वक्ष्यमाणामिति--त्रिंशे (आह्निके)| निष्कलोम्भितामिति--निष्कलया पञ्चाक्षरया विद्ययोम्भितां प्रतिवाक्यं संपुटिताम्--इत्यर्थः || ननु समनन्तरमेवोक्तं यदयोगिना गुरुणा नेयं कार्या तत्कथमेतदिदानीमेवोच्यते ?--इत्याशङ्क्याह-- योगाभ्यासमकृत्वापि सद्य उत्क्रान्तिदां गुरुः || १९-२६ || ज्ञानमन्त्रक्रियाध्यानबलात्कर्तुं भवेत्प्रभुः | अत्र च ज्ञानादिसद्भावेऽपि ब्रह्मविद्याया एव प्राधान्यम्--इत्याह-- अनयोत्क्रम्यते शिष्यो बलादेवैककं क्षणम् || १९-२७ || कालस्योल्लङ्घ्य भोगो हि क्षणिकोऽस्यास्तु किं ततः | सद्य उत्क्रान्तिदा चान्या यस्यां पूर्णाहुतिं तदा || १९-२८ ||
SKदद्याद्यदास्य प्राणाः स्युर्ध्रुवं निष्क्रमणेच्छवः | एककं क्षणमिति--यत्क्षणादन्तरं स्वारसिकमेव अस्य मरणं भवेत्--इति भावः | ननु ᳚...........................येनेदं तद्धि भोगतः |᳚ इत्युक्त्या तक्षणभाविनोऽपि कर्मणो भोगं विनास्य कथङ्कारं प्रक्षयः स्यात्?--इत्याशङ्क्याह--भोग इत्यादि | किं तत इति-- स्थितेनापि क्षीणप्रायेण तेन न कश्चिदर्थः | तदा दद्यादिति येनास्य तत्कालमेव प्राणा निर्यान्ति--इत्यर्थः, अतश्च एकैकस्यापि कालक्षणस्य नात्र उल्लङ्घनं भवेत्--इति भावः || क्रियादिपरिहारेणापि ब्रह्मविद्याया एवात्र साधनत्वमस्ति--इत्याह-- विनापि क्रियया भाविब्रह्मविद्याबलाद् गुरुः || १९-२९ || कर्णजापप्रयोगेण तत्त्वकञ्चुकजालतः | निःसारयन्यथाभीष्टे सकले निष्कले द्वये || १९-३० || तत्त्वे वा यत्र कुत्रापि योजयेत्पुद्गलं क्रमात् | यत्र कुत्रापीत्यनेन यथाभीष्टत्वमेव उपोद्बलितम् || न केवलं क्रियादेरेव परिहारेण अत्र अस्याः साधनत्वं यावद् गुरोरपि--इत्याह-- समयी पुत्रको वापि पठेद्विद्यामिमां तथा || १९-३१ || तथेति--यथा मुमूर्षुरिमां शृणुयात्--इत्यर्थः || एवमस्य किं स्यात्?--इत्याशङ्क्याह-- तत्पाठात्तु समय्युक्तां रुद्रांशापत्तिमश्नुते | तुशब्दो हेतौ, एतावता अस्य समयदीक्षा भवेत्--इत्यर्थः || ननु कथमनयोर्गुरुवदेतत्पाठो न्याय्यः?--इत्याशङ्क्याह-- एतौ जपे चाध्ययने यस्मादधिकृतावुभौ || १९-३२ || नाध्यापनोपदेशे वा स एषोऽध्ययनादृते | नच अयमनयोरध्ययनादन्यः पाठः--इत्याह--स एषोऽध्ययनादृते इति | नशब्दः पूर्वतः संबन्धनीयः || ननु यदि नाम नायमुपदेशादिरूपः पाठस्तत्कथमस्य समयदीक्षा कृता भवेदित्युक्तम् ?--इत्याशङ्क्याह-- पठतोस्त्वनयोर्वस्तुस्वभावात्तस्य सा गतिः || १९-३३ || एतदेव दृष्टान्तोपदर्शनेन हृदयङ्गमयति-- यथा निषिद्धभूतादिकर्मा मन्त्रं स्मरन्स्वयम् | आविष्टेऽपि क्वचिन्नैति लोपं कर्तृत्ववर्जनात् || १९-३४ || यथा च वाचयञ्शास्त्रं समयी शून्यवेश्मनि |
SKन लुप्यते तदन्तःस्थप्राणिवर्गोपकारतः || १९-३५ || निषिद्धेति--यदुक्तम्-- ᳚मन्त्रवादो न कर्तव्य इतिकर्तृत्ववर्जनात् |᳚ इति | नहि एवं करोमीत्यत्र अस्य कश्चिदभिमानः--इत्यर्थः | शून्येत्यनेन जनवैविक्त्यमेवात्रास्याभिपेर्तमित्युक्तम् | उपकारत इति-- शास्त्राणां हि श्रवणमात्रत एव पापक्षयो भवेत्--इति भावः | तदुक्तम्-- ᳚गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः | शरणागतघाती च मित्रविस्रम्भघातकः || दुष्टः पापसमाचारो मातृहा पितृहा तथा | श्रवणादस्य भावेन मुच्यन्ते सर्वपातकैः ||᳚ इति ||३५ || एतदेव प्रकृते योजयति-- तथा स्वयं पठन्नेष विद्यां वस्तुस्वभावतः | तस्मिन्मुक्ते न लुप्येत यतो किञ्चित्करोऽत्र सः || १९-३६ || नन्वस्य मा भूदेव कश्चिद्दोषः ᳚अदीक्षितानां पुरतो नोच्चरेच्छास्त्रपद्धतिम् |᳚ इति हि अस्ति समयः, तत्कथमिमां विद्यामेतदग्रे पठन्न प्रत्यवैति?-- इत्याह-- ननु चादीक्षिताग्रे स नोच्चरेच्छास्त्रपद्धतिम् || १९-३७ || एवं तर्हि नास्य कदाचिदपि पाठः प्राप्तः, अतः कुड्यादयोऽप्यदीक्षिताः किं न संनिहिता भवेयुः--इत्याह-- पर्युदासेन यः श्रोतुमवधारयितुं क्षमः || १९-३८ || स एवात्र निषिद्धो नो कुड्यकीटपतत्रिणः | अथेदमुच्यते यच्छास्त्रश्रवणादौ योग्यानां दीक्षितसदृशानामत्र निषेधो विवक्षितः, नतु कुड्यप्रायाणां जडानाम्--इत्याह-- अथेत्यादि || एवं तर्हि कुड्यप्रायस्य मुमूर्षोरग्रेऽपि पठतोऽस्य कः समयलङ्घनार्थः?--इत्याह-- तर्हि पाषाणतुल्योऽसौ विलीनेन्द्रियवृत्तिकः || १९-३९ || तस्याग्रे पठतस्तस्य निषेधोल्लङ्घना कथम् | नन्वेवं पाषाणप्रायस्यास्य किमेतत्पाठेन, मैवम्--इत्याह-- स तु वस्तुस्वभावेन गलिताक्षोऽपि बुध्यते || १९-४० || अक्षानपेक्षयैवान्तश्चिच्छक्त्या स्वप्रकाशया | प्राग्देहं किल तित्यक्षुर्नोत्तरं चाधितष्ठिवान् || १९-४१ || मध्ये प्रबोधकबलात् प्रतिबुध्येत पुद्गलः | ननु को नाम अत्र अस्य प्रबोधको यद्वलादन्तरा अयं प्रबोधमासादयेत्?--इत्याशङ्क्याह--
SKमन्त्राः शब्दमयाः शुद्धविमर्शात्मतया स्वयम् || १९-४२ || अर्थात्मना चावभान्तस्तदर्थप्रतिबोधकाः | तेनास्य गलिताक्षस्य प्रबोधो जायते स्वयम् || १९-४३ || स्वचित्समानजातीयमन्त्रामर्शनसंनिधेः | स्वयं प्रबोधो जायते इति--यद्वक्ष्यति-- ᳚यामाकर्ण्य महामोहविवशोऽपि क्रमाद् गतः | प्रबोधं वक्तृसांमुख्यमभ्येति रभसात्स्वयम् ||᳚ (३० आ.) इति || एतदेव दृष्टान्तमुखेनापि घटयति-- यथा ह्यल्पजवो वायुः सजातीयविमिश्रितः || १९-४४ || जवी तथात्मा संसुप्तामर्शोऽप्येवं प्रबुध्यते | सजातीयेति--तालवृन्तादिसमुत्थेन | एवमिति--मन्त्रामर्शनादिना || एवं तर्ह्यस्य अदीक्षिताग्रे मन्त्रपाठात् स्फुटमेवापतितः समयलोपः?--इत्याशङ्क्याह-- प्रबुद्धः स च सञ्जातो न चादीक्षित उच्यते || १९-४५ || दीक्षा हि नाम संस्कारो न त्वन्यत्सोऽस्ति चास्य हि | दीक्षा हि नाम मान्त्रः संस्कारः, स च अस्य प्रबोधान्यथानुपपत्त्या स्वरसत एव मन्त्रामर्शादिना सिद्ध इति को नामास्य समयलोपार्थः || एवं शास्त्रपाठादिनापि परोपकृतावस्य न कश्चित्समयलोपजन्मा दोषः--इत्याह-- अत एव निजं शास्त्रं पठति क्वापि सामये || १९-४६ || तच्छ्रुत्वा कोऽपि धन्यश्चेन्मुच्यते नास्य सा क्षतिः | सामय इति--समयिनि--इत्यर्थः || ननु एवमेतन्निर्विषयं वाक्यं स्यात् ?--इत्याशङ्क्याह-- शास्त्रनिन्दां मैष कार्षीद् द्वयोः पातित्यदायिनीम् || १९-४७ || इत्येवंपरमेतन्नादीक्षिताग्रे पठेदिति | अत्र च सविचिकित्सं परं स्वकञ्चुकानुप्रवेशेनैव प्रबोधयितुमाह-- यथा च समयी काष्ठे लोष्टे वा मन्त्रयोजनाम् || १९-४८ || कुर्वंस्तस्मिंश्चलत्येति न लोपं तद्वदत्र हि | काष्ठ इति--समिधादौ | लोष्ट इति--मृल्लिङ्गादावुपादेये | अत्रेति-- मुमूर्षौ || अत्रैव हेतुमाह-- यतोऽस्य प्रत्ययप्राप्तिपेर्प्सोः समयिनस्तथा || १९-४९ || प्रवृत्तस्य स्वभावेन तस्मिन्मुक्ते न वै क्षतिः | प्रत्ययो निजमन्त्रस्फारसंवादः ||
SKननु आचार्यस्य तावत् परानुग्रहे नास्ति काचित् क्षतिः, समयिपुत्रकयोस्तु प्रासङ्गिकत्वेनापीत्युक्तम्; साधकस्य पुनरत्र का वार्ता?--इत्याशङ्क्याह-- साधकस्तु सदा साध्ये फले नियतियन्त्रणात् || १९-५० || मक्षिकाश्रुतमन्त्रोऽपि प्रायश्चित्तौचितीं चरेत् | औचितीमिति--तीव्रमध्यादिभेदेन | अत एव श्वमन्त्रमक्षसूत्रं च गुरोरपि न दर्शयेत् |᳚ इत्याद्युक्तम् || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह-- इत्थं सद्यःसमुत्क्रान्तिर्योक्ता तामाज्ञया गुरोः || १९-५१ || समय्यादिरपि प्रोक्तकाले प्रोक्तार्थसिद्धये | स्वयं कुर्यात्समभ्यस्तप्राणचारगमागमः || १९-५२ || अकृताधिकृतिर्वापि गुरुः समयशुद्धये | अधस्तनपदावस्थो न तु ज्ञानेद्धचेतनः || १९-५३ || अकृतेति--यदुक्तम्-- ᳚अधिकारं न चेत्कुर्याद्विद्येशः स्यात्तनुक्षये |᳚ इति | ज्ञानेद्ध इति--परमाद्वयनिष्ठस्य हि ᳚मा किञ्चित्त्यज मा गृहाण.................... |᳚ इति नयेन विधिनिषेधाविषयत्वात् को नाम समयलोपस्य अवकाश एव-- इत्याशयः || ननु इयं सद्यःसमुत्क्रान्तिलक्षणा दीक्षा गुरुकार्येति नास्ति विमतिः, स्वयङ्कार्यतायां तु किं प्रमाणम् ?--इत्याशङ्क्याह-- इतीयं सद्य उत्क्रान्तिः सूचिता मालिनीमते | स्वयं वा गुरुणा वाथ कार्यत्वेन महेशिना || १९-५४ || तदेवाह-- सर्वं भोगं विरूपं तु मत्वा देहं त्यजेद्यदि | तदा तेन क्रमेणाशु योजितः समयी शिवः || १९-५५ || त्यजेदिति--स्वयम् | योजित इति--गुरुणा | यदुक्तं तत्र-- शर्वमप्यथवा भोगं मन्यमानो विरूपकम् | स्वशरीरं परित्यज्य शाश्वतं पदमृच्छति ||᳚ (१७|२५) इति ᳚अनेन क्रमयोगेन योजितः परमे पदे | समय्यपि महादेवि दीक्षोक्तं फलमश्नुते ||᳚ इति च || आह्निकार्थमेव प्रथमार्धेनोपसंहरति-- उक्तेयं सद्य उत्क्रान्तिर्या गोप्या प्राणवद् बुधैः || १९-५६ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके सद्यौत्क्रान्तिप्रकाशनं नाम एकान्नविंशमाह्निकम् || १९ || इति शिवम् || ५६ || सद्योनिर्वाणप्रदमान्त्रमहावीर्यलाभलुब्धेन |
SKएकोनविंशमाह्निकमेतत्किल जयरथेन निरणायि || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते सद्यौत्क्रान्तिप्रकाशनं नाम एकोनविंशमाह्निकं समाप्तम् || १९ || विंशमाह्निकम् ᳚ विवेकः ᳚ जयति विभुर्बलदाता मूढजनाश्वासदायि येन वपुः | बहिराद्यन्तवदपि मध्यशून्यमुल्लासितं सततम् || इदानीं द्वितीयार्धेन सप्रत्ययां दीक्षां वक्तुमाह-- अथ दीक्षां ब्रुवे मूढजनाश्वासप्रदायिनीम् || २०-१ || आश्वासः प्रत्ययः || १ || तदेवाह-- त्रिकोणे वह्निसदने वह्निवर्णोज्ज्वलेऽभितः | वायव्यपुरनिर्धूते करे सव्ये सुजाज्वले || २०-२ || बीजं किञ्चिद् गृहीत्वैतत्तथैव हृदयान्तरे | करे च दह्यमानं सच्चिन्तयेत्तज्जपैकयुक् || २०-३ || वह्निदीपितफट्कारधोरणीदाहपीडितम् | बीजं निर्बीजतामेति स्वसूतिकरणाक्षमम् || २०-४ || वह्निसदन इति--अर्थात् ऊर्ध्वमुखे | वह्निवर्णेति--रेफः | वायव्यपुरम्--षडश्रम्, अर्थात् यकारैर्लाञ्छितम् | सव्य इति-- दक्षिणे | बीजं किञ्चिदिति--धान्यादि | तज्जपैकयुगिति फट्कारोद्दीपितरेफावर्तनपरः--इत्यर्थः || ४ || स्वसूतिकरणाक्षमत्वमेव व्याचष्टे-- तप्तं नैतत्प्ररोहाय तेनैव प्रत्ययेन तु | मलमायाख्यकर्माणि मन्त्रध्यानक्रियाबलात् || २०-५ || दग्धानि न स्वकार्याय निर्बीजप्रत्ययं त्विमम् | स श्रीमान्सुप्रसन्नो मे शम्भुनाथो न्यरूपयत् || २०-६ || बीजस्याप्यत्र कार्या च योजना कृपया गुरोः | यतो दीक्षा सुदीप्तत्वात्स्थावराण्यपि मोचयेत् || २०-७ || स्वकार्यायेति--बध्यबन्धनाय | सुदीप्तत्वादिति--अदीप्तत्वे हि जङ्गमानामपि योजना असाध्या स्थावराणां का वार्त्ता-- इत्यभिप्रायः | तदुक्तम्-- ᳚ऋक्षपक्षितरक्ष्वादीन् स्थावराण्यपि मोचयेत् |᳚ इति ||७ || अत एवाह-- यो गुरुर्जपहोमार्चाध्यानसिद्धत्वमात्मनि | ज्ञात्वा दीक्षां चरेत्तस्य दीक्षा सप्रत्यया स्मृता || २०-८ || अवधूते निराचारे तत्त्वज्ञे नत्वयं विधिः | साचारैः क्रियते दीक्षा या दृष्टप्रत्ययान्विता || २०-९ ||
SKनिराचारेण दीक्षायां प्रत्ययस्तु न गद्यते | अयं विधिरिति--सप्रत्ययदीक्षालक्षणः | साचारैः क्रियाप्रधानैः | दृष्टः प्रत्ययो निर्बीजकरणादिः | निराचारेणेति--ज्ञानिना || एतदेव युक्त्यागमाभ्यामुपपादयति-- ज्ञानं स्वप्रत्ययं यस्मान्न फलान्तरमर्हति || २०-१० || ध्यानादि तु फलात्साध्यमिति सिद्धामतोदितम् | नार्हतीति--स्वप्रत्ययत्वादेव, फलादिति--निर्बीजकरणादिसाधनात् || एवमधिकारिपरीक्षामभिधाय तुलाविधिमभिधत्ते-- तुलाशुद्धिपरीक्षां वा कुर्यात्प्रत्यययोगिनीम् || २०-११ || यथा श्रीतन्त्रसद्भावे कथिता परमेशिना | ननु इयमस्मच्छास्त्रे नाभिहितेति किं शास्त्रान्तरप्रक्रियागौरवेण?-- इत्याशङ्क्याह-- श्रीपूर्वशास्त्रेऽप्येषा च सूचिता परमेशिना || २०-१२ || आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी | इत्येवं वदता शक्तितारतम्याभिधायिना || २०-१३ || ननु अत्र तुलादीक्षायाः कटाक्षीकरणे किमवस्थितम्?-- इत्याशङ्क्याह-- उद्भवो लघुभावेन देहग्रहतिरोहितेः | ननु कथमत्र देहग्रहतिरोधानम् ?--इत्याशङ्क्याह-- देहो हि पार्थिवो मुख्यस्तदा मुख्यत्वमुज्झति || २०-१४ || भाविलाघवमन्त्रेण शिष्यं ध्यात्वा समुत्प्लुतम् | मुख्यत्वमुज्झतीति--अशेषपाशक्षपणात् | भावीति--त्रिंशे | यद्वक्ष्यति-- ᳚लघुत्वेन तुलाशुद्धिः सद्यःप्रत्ययकारिणी | तारः शमरयैः पिण्डो नतिश्च चतुरर्णकम् || शाकिनीस्तोभनं मर्म हृदयं जीवितं त्विदम् |᳚ (तं.आ. ३०|९३-९४) इति | समुत्प्लुतमिति--पार्थिवदेहाभिमानन्यग्भावेन पराकाशरूपतामापन्नो येनायं तुलायां कुसुमसमानतामासादयेत् | यदुक्तम्--श्रीतन्त्रराजे- - ᳚आकाशतुल्यो भवति शिष्यः सन्दीक्षितस्तदा | भैरवो वा भवेत्सो वै दग्धसंसारबन्धनः || पश्चात्तुलामर्पयेत अश्मान्येवमपास्य तु | सप्तविंशतिपुष्पैश्च कृतां मालां समर्पयेत् || तत्समः साधको जायात्प्रहीणावरणो यदा |᳚ इति || ननु यथोक्तप्रक्रियामात्रेणैव किमेवं सप्रत्यया दीक्षा सिद्ध्येन्न वा?--इत्याशङ्क्याह--
SKकर्माणि तत्राशेषाणि पूर्वोक्तान्याचरेद् गुरुः || २०-१५ || अत्र च संस्कारस्याधिकारिपरीक्षानन्तरमुद्देशेऽपि उभयशेषत्ववचनाशयेन तुलाविध्यनन्तरमभिधानम् || १५ || एतदेवोपसंहरति-- उक्ता सेयं तुलाशुद्धिदीक्षा प्रत्यदायिनी | इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके तुलदीक्षाप्रकाशनं नाम विंशमाह्निकम् || २० || इति शिवम् || श्रीमद्गुरुवरशास्त्रस्वात्ममयप्रत्ययानुविद्धमतिः | एतज्जयरथनामा विंशतितममाह्निकं व्यवृणोत् || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते तुलादीक्षाप्रकाशनं नाम विंशमाह्निकं समाप्तम् || २० || एकविंशमाह्निकम् ᳚ विवेकः ᳚ भेदप्रथाविलापनबलेश्वरं तं बलेश्वरं वन्दे | यः सकलाकलयोरपि मितात्मताया निषेधमादध्यात् || इदानीं द्वितीयार्धेन परोक्षदीक्षायां कर्म निगदितुं प्रतिजानीते-- परोक्षसंस्थितस्याथ दीक्षाकर्म निगद्यते || २१-१ || परोक्षसंस्थितस्येति--देशकालाभ्याम् || १ || ननु इयमस्मच्छास्त्रे दीक्षा नोक्तेत्यास्तां प्रत्युत संनिहितैकविषयम् ᳚रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया | भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ||᳚ (मा.वि. १|४४) इत्यादि एतद्विरुद्धमुक्तम्, तत्कथमिह एतत्प्रतिज्ञातम्?--इत्याशङ्क्याह- - भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति | इत्यस्मिन्मालिनीवाक्ये प्रतिः सांमुख्यवाचकः || २१-२ || सांमुख्यं चास्य शिष्यस्य तत्कृपास्पदतात्मकम् | तत्कृपेति--तच्छब्देन गुरुः, सा च संनिहितासंनिहितयोरविशिष्टैव- -इत्याशयः || ननु भवत्वेवम्, ᳚तमाराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम् |᳚ (१|४५) इत्यादि सांनिध्यैकजीवितं कथमत्र सङ्गच्छताम् ?--इत्याशङ्क्याह- - तमाराध्येति वचनं कृपाहेतूपलक्षणम् || २१-३ || कृपाहेत्विति--तेन स्वयमेवमभावे बन्ध्वादिद्वारेणैतद्भवेत्--इति भावः || ३ || न केवलमेतदत एवावगतं यावदितोऽपि--इत्याह--
SKतत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते | इत्यस्यायमपि ह्यर्थो मालिनीवाक्यसन्मणेः || २१-४ || एतदर्थत्वमेव अस्य वाक्यस्य व्याचष्टे-- तत्क्षणादिति नास्यास्ति यियासादिक्षणान्तरम् | किंत्वेवमेव करुणानिघ्नस्तं गुरुरुद्धरेत् || २१-५ || आदिशब्दात् गमनतत्प्राप्तिक्षणादयः | न हि मृतस्य देशान्तरस्थितस्य वा एवं संभवेत्--इति भावः | एवमेवेति--स्वयं तदाराधनादिनिरपेक्षम्--इत्यर्थः | निघ्नः परवशः || ५ || के च अत्र अधिकारिणः?--इत्याशङ्क्याह-- गुरुसेवाक्षीणतनोर्दीक्षामप्राप्य पञ्चताम् | गतस्याथ स्वयं मृत्युक्षणोदिततथारुचेः || २१-६ || अथवाधरतन्त्रादिदीक्षासंस्कारभागिनः | प्राप्तसामयिकस्याथ परां दीक्षामविन्दतः || २१-७ || डिम्बाहतस्य योगेशीभक्षितस्याभिचारतः | मृतस्य गुरुणा यन्त्रतन्त्रादिनिहतस्य वा || २१-८ || भ्रष्टस्वसमयस्याथ दीक्षां प्राप्तवतोऽप्यलम् | क्षीणेति--चिरतरं गुरुसेविनः--इत्यर्थः | तदुक्तम्-- ङ प्राप्तोऽपि परां दीक्षां गुरुभक्तोऽपि यत्नतः | कालेनान्तरितो यस्मात्तस्य मोक्षः कथं भवेत् || किं वृथा तस्य संक्लेशो मोक्षमुद्दिश्य यः कृतः | किं किञ्चिद्विद्यते तस्य कर्म यन्मोक्षसाधनम् ||᳚ इत्युपक्रम्य ᳚गुरुभक्तस्य दान्तस्य सत्याचाररतस्य वै | मृतस्यापि परं स्कन्द दीक्षाकर्म विधीयते ||᳚ इति | मृत्युक्षणेति--तदैव हि अस्य गुरौ प्रसन्ने सद्यःसमुत्क्रान्तिदीक्षा भवेत्--इत्युक्तम्, अन्यथा तु इयम्--इति विभागः | अत एव दीक्षामप्राप्य पञ्चतां गतस्येति अत्रापि संबन्धनीयम् | अधरतन्त्रम्--वैदिकादि | परामिति--पुत्रकादिरूपाम् | डिम्बाहतस्येति-- शकटादिभिर्जडप्रायैर्मारितस्य--इत्यर्थः | अभिचारत इति-- विषादिना | यन्त्रं भूर्जपत्रादौ मारणानुगुणो मन्त्रसंनिवेशः, तन्त्रं तदनुगुणमेव पूजाहोमादि | तदुक्तम्-- ङगाग्राल्लुठिता ये च वृक्षान्निपतितास्तु ये | उद्बन्धनैर्मृता ये च शकटेन तु चूर्णिताः || अग्निना तु प्रदग्धा ये वेश्मपातात्तु ये मृताः | नदीकूपेष्वगाधेषु मृता ये पापकारिणः ||
SKमूढगर्भाश्च या नार्यो गर्भच्यावेन या मृताः | दान्तेन महिषेणापि दुष्टप्राणिमृताश्च ये || विषेण त्यक्तजीवा ये ये वै चात्मोपघातकाः | गोघ्नाश्चैव तु ब्रह्मघ्नाः पितृघ्ना मातृघातकाः || व्याधिभिश्च मृता ये तु लूताद्यैः सुरसुन्दरि | अन्यैर्बहुविधैः क्रूरैर्येषां संख्या न विद्यते ||᳚ इति | तथा ᳚अनाथलुप्तपिण्डानां तथा डिम्बाहतेष्वपि | कुविधौ च मृतानां तु दीक्षा मृतवती भवेत् ||᳚ इति | एतच्च दीक्षितादीक्षितविषयमपि भवेत्--इति सामान्येनोक्तम् | अलमिति--अत्यर्थं पुत्रकादिरूपतया--इत्यर्थः || ननु एवंविधाः सर्व एव मिर्यन्ते, तत्किमेषामविशेषेणैव मृतोद्धारीं दीक्षां गुरुः कुर्यान्न वा?--इत्याशङ्क्याह-- बन्धुभार्यासुहृत्पुत्रगाढाभ्यर्थनयोगतः || २१-९ || स्वयं तद्विषयोत्पन्नकरुणाबलतोऽपि वा | विज्ञाततन्मुखायातशक्तिपातांशधर्मणः || २१-१० || गुरुर्दीक्षां मृतोद्धारीं कुर्वीत शिवदायिनीम् | गाढेति--न तु उत्ताना | स्वयमिति--परप्रार्थनानिरपेक्षतया-- इत्यर्थः | बलत इति--न तु तन्मात्रादेव | तन्मुखेति-- बन्ध्वाद्यभ्यर्थनाद्वारेण--इत्यर्थः | अंशेति -- तीव्रमध्यमन्दाद्यपेक्षया | एवमेवंविधानामेषां बन्ध्वादिगाढाभ्यर्थनाद्यन्यथानुपपत्त्या आयातशक्तिपातत्वं निश्चित्य मृतोद्धारीं दीक्षां गुरुः कुर्यात्--इत्यत्र तात्पर्यम् | बन्ध्वादीनां च तदुद्दिधीर्षापरतया प्रार्थनादयो जायमानाः परमेश्वरशक्तिपातमूला एव न स्नेहमात्रमूलाः सर्वत्र तथादर्शनायोगात् | नच अत्र व्यधिकरणत्वं दोषो यदयस्कान्तायोगोलकस्पन्दनादिवत् भिन्नदेशान्यपि कारणेभ्यः कार्याणि भवन्ति दृश्यन्ते-- शा शक्तिरापतत्याद्या पुंसो जन्मन्यपश्चिमे | तन्निपातात् क्षरत्यस्य मलं संसारकारणम् || क्षीणे तस्मिन्यियासा स्यात्परं नैःश्रेयसं प्रति |᳚ इति | तथा ᳚तस्यैव तु प्रसादेन भक्तिरुत्पद्यते नृणाम् | यथा यान्ति परां सिद्धिं तद्भावगतमानसाः ||᳚ (म.भार.) इत्यादि संनिहितजीवदेकविषयमिति नेह कश्चिदनेन विरोधः ||
SKन चैतदस्माभिः स्वोपज्ञमेवोक्तम्--इत्याह-- श्रीमृत्युञ्जयसिद्धादौ यदुक्तम् परमेशिना || २१-११ || तदेवार्थतः पठति-- अदीक्षिते नृपत्यादावलसे पतिते मृते | बालातुरस्त्रीवृद्धे च मृतोद्धारं प्रकल्पयेत् || २१-१२ || विधिः सर्वः पूर्वमुक्तः स तु संक्षिप्त इष्यते | गुर्वादिपूजारहितो बाह्ये भोगाय सा यतः || २१-१३ || अधिवासचरुक्षेत्रं शय्यामण्डलकल्पने | नोपयोग्यत्र तच्छिष्यसंस्क्रियास्वप्नदृष्टये || २१-१४ || मन्त्रसंनिधिसंतृप्तियोगायात्र तु मण्डलम् | भूयोदिने च देवार्चा साक्षान्नास्योपकारि तत् || २१-१५ || यदुक्तम्-- ᳚अदीक्षिते तु नृपतौ तत्सुतेषु द्विजातिषु | भोगालसेषु वा देवि कर्मदोषैश्च विघ्निते || न चेष्टं न तपस्तप्तं न ध्यातं न प्रतिष्ठितम् | पातित्येन मृतानां तु येषां नरकसंस्थितिः || निदानैर्बहुभिर्देवि स्त्रीबालवृद्ध आतुरे | मृतेषूद्धरणार्थाय दीक्षार्थं परमेश्वरः || यष्टव्यः पूर्ववद्देवः........................ |᳚ (१८ अ.) इति | तत्र अदीक्षित इत्यनेन त्रयोऽधिकारिण उक्ता येषु आद्यं द्वयं तुर्यश्चेति | द्विजातिषु च इत्यनेन तृतीयः | पातित्येनेत्यादिना तु डिम्बाहतादिः, अन्यैस्तु भ्रष्टस्वसमय उक्तः | एषां हि असम्यक्प्रजापालनात् भोगासक्तत्वात् दैवदोषादिविघ्नितत्वात् तपश्चरणादेश्चाभावात् अवश्यसंभावनीयं भ्रष्टसमयत्वम् | अत्र चोन्मेषकृता क्लिष्टकल्पनया यत् व्याख्यातं तदाग्रहमात्रपरतयेत्युपेक्ष्यम् | सेति--संनिहितजीवद्विषया पूर्वोक्ता दीक्षा | मण्डलेति--शिष्यरक्षार्थं शय्यायां बहिः सर्वतोदिक्कं भस्मादिना रेखासंनिवेशः | यदुक्तम्-- ᳚भस्मना रोचनाद्यैश्च अस्त्रप्राकारचिन्तनम् |᳚ इति | नोपयोगीति--चरुशय्यादि हि शिष्यस्य संस्कारार्थं स्वप्नदर्शनार्थं वा, स एव च न संनिहित इति किमनेन--इत्यर्थः | मण्डलं देवार्चा चेत्येतत् पुनरुपयोगीति प्राच्येन संबन्धः | यदुक्तम्-- शर्वार्चनं स्थण्डिले स्यान्न च तत्राधिवासनम् |᳚
SKइति | न साक्षादिति--मन्त्रसंनिधिद्वारा पारम्पर्येण--इत्यर्थः, नहि अस्य स्वयमेव मण्डलदर्शनादि--इत्याशयः ||१५ || नचात्र मन्त्रसंनिधानाय एतदेव निमित्तम्--इत्याह-- क्रियोपकरणस्थानमण्डलाकृतिमन्त्रतः | ध्यानयोगैकतद्भक्तिज्ञानतन्मयभावतः || २१-१६ || तत्प्रविष्टस्य कस्यापि शिष्याणां च गुरोस्तथा | एकादशैते कथिताः संनिधानाय हेतवः || २१-१७ || उत्तरोत्तरमुत्कृष्टास्तथा व्यामिश्रणावशात् | क्रियादि ध्यानादि च अवलम्ब्य एकादश एते संनिधानाय हेतवः कथिताः--इति संबन्धः | एकेति--प्रधाना | कस्यापीति--प्रामादिकस्य | यदुक्तम्-- ᳚प्रमादात्तु प्रविष्टस्य विचारं नैव कारयेत् |᳚ इति | उत्तरोत्तरमिति--यथा क्रियात उपकरणमित्यादि | एते च समुदिता अप्युत्कृष्टाः--इत्याह--तथा व्यामिश्रणावशादिति || अत्रैव अस्पष्टं किंचिद्व्याचष्टे-- क्रियातिभूयसी पुष्पाद्युत्तमं लक्षणान्वितम् || २१-१८ || एकलिङ्गादि च स्थानं यत्रात्मा संप्रसीदति | मण्डलं त्रित्रिशूलाब्जचक्रं यन्मन्त्रमण्डले || २१-१९ || अनाहूतेऽपि दृष्टं सत्समयित्वप्रसाधनम् | यदुक्तम् मालिनीतन्त्रे सिद्धं समयमण्डलम् || २१-२० || येन संदृष्टमात्रेति सिद्धमात्रपदद्वयात् | आकृतिर्दीप्तरूपा या मन्त्रस्तद्वत्सुदीप्तिकः || २१-२१ || शिष्टं स्पष्टमतो नेह कथितं विस्तरात्पुनः | मात्रेति--पूजादिव्यवच्छेदात् || एवमेतत्प्रसङ्गादभिधाय प्रकृतमाह-- कृत्वा मण्डलमभ्यर्च्य तत्र देवं कुशैरथ || २१-२२ || गोमयेनाकृतिं कुर्याच्छिष्यवत्तां निधापयेत् | ततस्तस्यां शोध्यमेकमध्वानं व्याप्तिभावनात् || २१-२३ || प्रकृत्यन्तं विनिक्षिप्य पुनरेनं विधिं चरेत् | महाजालप्रयोगेण सर्वस्मादध्वमध्यतः || २१-२४ || चित्तमाकृष्य तत्रस्थं कुर्यात्तद्विधिरुच्यते | आकृतिमिति--द्वादशांगुलाम् | यदुक्तम्-- ᳚...........................विशेषात्तत्र चाकृतिः | कर्तव्या रजसावश्यं सदृशी द्वादशांगुला || कार्या वा गोमयाद्देवि कुशैर्वा स्नानशोधिता |᳚
SKइति | प्रकृत्यन्तमिति--अत ऊर्ध्वमाकर्षणीयः पुमानवस्थितः-- इत्याशयः | एनमिति --वक्ष्यमाणम् | एवमनेन मृतजीवद्विधिविभागानन्तरभावी महाजालोपदेश आसूत्रितः || तद्विधिमेव आह � मूलाधारादुदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन् व्याप्तुमीष्टे | यावद्धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं संछाद्याभीष्टजीवानयनमिति महाजालनामा प्रयोगः || २१-२५ || इह अयं महाजालनामा प्रयोगो यदाचार्यः शिवाहंभावस्वभावतया स्वात्मनि अवतिष्ठमानो मूलाधारात् जन्मस्थानादुदेत्य रेचकपूरककुम्भकाद्यवष्टम्भात् पौनःपुन्येन प्राणशक्तिं प्रबोध्य मूलकारणतया, तत एव प्रसृताः-- निखिलदेहव्यापकतया सुवितताः सार्धकोटित्रयात्मकत्वादनन्ता नाड्य एव ऊर्ध्वाधरगमागमनिमित्ततया स्पष्टप्रवाहात्मकनिमित्ततया च अध्वरूपो दण्डः तात्स्थ्यात्तदाकारः प्राणः तं, वीर्येण शाक्तेन बलेन, आक्रम्य स्वायत्तीकृत्य, हृदाद्युल्लङ्घनक्रमेण नासारन्ध्रग्रं प्राप्तं सन्तं विक्षिपन् बहिः सर्वतः प्रसारयन् यावत् विशेषानुपादानात् विश्वं व्याप्तुं प्रभवति, तावदेवाशुद्धाध्वमध्यवर्तित्वात् धूमप्रायेण बहलबहलेन स्वरश्मिनिकुरम्बेन सकलमेवाध्वानं संछाद्य गर्भीकृत्य शीघ्रमेव मत्स्यमिवाभीष्टं जीवमानयति-- प्राणकरणाद्येकीकारेणकर्षयति--इत्यर्थः | मायाबीजामर्शतश्च अयमेवंनामा यत्संहारक्रमेण पूर्वं दण्डं रेफं शाक्तपरिस्पन्दात्मना वीर्येण--हकारेण आक्रम्य, तदनु नासामीकारं परिगतं ज्योतीरूपेण शिखाजालकेन बिन्दुना संछाद्य अभीष्टं जीवमानयतीति | तदुक्तम्-- ङिष्कम्पः सकलः शान्तो ह्यहमेव परः शिवः | परमात्मा सर्वगतो जगद् व्याप्तं मयाखिलम् || एवं ध्यानगतः कुर्याद्रेचकं पूरकं ततः | कुम्भकान्ते रेचकेन निक्षिपेदखिलं शनैः || रेचकान्ते पुनः स्वान्तं द्वादशान्ते सशक्तिकम् | लक्षयेदंकुराकारां सर्वाण्डान्तरचारिणीम् || मायाबीजं समुच्चार्य चैतन्यं लिङ्गसंयुतम् |
SKशुद्धमम्बुकणाकारं यत्र स्रोतोऽन्तरे स्थितम् || गृहीत्वा तत्प्रयोगेण महाजालेन युक्तितः | गृहीतं हृदये स्थाप्यं बीजाभिख्यासमन्वितम् ||᳚ इति ||२५ || ननु किमयं परोक्षदीक्षायामेव लब्धावकाशो न वा ?-- इत्याशङ्क्याह-- एतेनाच्छादनीयं व्रजति परवशं संमुखीनत्वमादौ पश्चादानीयते चेत्सकलमथ ततोऽप्यध्वमध्याद् यथेष्टम् | आकृष्टावुद्धृतौ वा मृतजनविषये कर्षणीयेऽथ जीवे योगः श्रीशंभुनाथागमपरिगमितो जालनामा मयोक्तः || २१-२६ || एतेन जालनाम्ना प्रयोगेण यदाच्छादनीयमध्वचक्रं परवशमस्वतन्त्रं सदाक्रष्टुः सांमुख्यमेति, अनन्तरमपि एतेन तन्मध्यादेव सकलं चेत् जीवजातमथ यथाभीष्टमेकत्वमेवानीयते समाकृष्यते तदाकृष्टौ पशोरुद्धृतावुद्धारे शिष्यस्य, अथ मृतजीवनविषये परोक्षदीक्षायामाक्रष्टव्ये जीवे जालनामा श्रीमद्गुरुवचनादधिगतोऽयं प्रयोगो मयोक्तः परान्प्रत्युपदिष्टः-- इत्यर्थः || २६ || नन्वत्र पाशवानां गौरवाणां च प्राणादीनां कथङ्कारमेकीकारो भवेत्?--इत्याशङ्कां दृष्टान्तोपदर्शनेन निरवकाशयति-- चिरविघटिते सेनायुग्मे यथामिलते पुनर्हयगजनरं स्वां स्वां जातिं रसादभिधावति | करणपवनैर्नाडीचक्रैस्तथैव समागतैर्निजनिजरसादेकीभाव्यं स्वजालवशीकृतैः || २१-२७ || यथाहि चिरं विश्लिष्टेऽपि कटकद्वये पुनः सङ्घटिते हयादयो हयादिभिरेव निजनिजानुगुण्येन सङ्घटन्ते, तथैव जालप्रयोगमहिम्ना गौरवाः प्राणाद्याः पाशवैः प्रणाद्यैरेव-- इति पिण्डार्थः || २७ || ननु मृतः स्वर्निरयादौ स्वकर्मवशेन तां तां गतिमापद्यते इति कथमसावाकृष्यते ?--इत्याशङ्क्याह-- महाजालसमाकृष्टो जीवो विज्ञानशालिना | स्वःप्रेततिर्यङ्नरयांस्तदैवैष विमुञ्चति || २१-२८ || एतदेव दृष्टान्तोपदर्शनेन द्रढयति-- तज्ज्ञानमन्त्रयोगाप्तः पुरुषश्चैष कृत्रिमम् | योगीव साध्यहृदयात्तदा तादात्म्यमुज्झति || २१-२९ ||
SKयथाहि परपुरप्रवेशादौ साध्यैकात्म्यमापन्नोऽपि योगी साध्यहृदयात् तत् कृत्रिमं तादात्म्यं तदैवोज्झति, तथा तस्य जालप्रयोगे विदुषो गुरोः ज्ञानादिभिराप्तः समाकृष्टोऽयमपि जीवशब्दव्यपदेश्यः संकुचित आत्मा प्रेततिर्यगादेः--इति वाक्यार्थः || २९ || न च एतदपूर्वं किञ्चित्--इत्याह-- स्थावरादिदशाश्चित्रास्तत्सलोकसमीपताः | त्यजेच्चेति न चित्रं स एवं यः कर्मणापि वा || २१-३० || यः कर्मवशादपि तास्ताः परिगृहीता गतीस्त्यजेत् स महाजालसमाकृष्टः पुरुषश्चेदेवं, तदा किमिदमाश्चर्यस्थानम्-- इति वाक्यार्थः || ३० || मनुष्यजन्मनि पुनरयं विशेषः--इत्याह-- अधिकारिशरीरत्वान्मानुष्ये तु शरीरगः | न तदा मुच्यते देहाद्देहान्ते तु शिवं व्रजेत् || २१-३१ || ननु यद्येवं तदनेन संस्कारेण अस्य तत्र कश्चिद्विशेषो भवेन्न वा?--इत्याशङ्क्याह-- तस्मिन्देहे तु काप्यस्य जायते शाङ्करी परा | भक्तिरूहाच्च विज्ञानादाचार्याद्वाप्यसेवितात् || २१-३२ || असेवितादिति--नहि एतन्माहात्म्यादस्य अत्र अन्यत्किञ्चिदुपादेयम्-- इत्याशयः || ३२ || नन्वेवं तद्देहमत्यजतोऽस्य जीवस्येह अप्राप्तेः कस्य संस्कारः स्यादिति कृतं परोक्षदीक्षया ?--इत्याशङ्क्याह-- तद्देहसंस्थितोऽप्येष जीवो जालबलादिमम् | दार्भादिदेहं व्याप्नोति स्वाधिष्ठित्याप्यचेतयन् || २१-३३ || व्यापकस्वभावत्वान्न अस्य उभयत्राधिष्ठानं न भवेत्--इत्युक्तम्� व्याप्नोतीति | अचेतयन्नपीति--अख्यातिबलात् || ३३ || यद्वा गुरुबलात्तु मनुष्यदेहमपि एष त्यजेदेव--इत्याह-- योगमन्त्रक्रियाज्ञानभूयोबलवशात्पुनः | मनुष्यदेहमप्येष तदैवाशु विमुञ्चति || २१-३४ || ननु गृहीततत्तज्जन्मनो जीवस्यैवमुक्तम्, अगृहीतदेहस्य पुनः का वार्त्ता?--इत्याशङ्क्याह-- सुप्तकल्पोऽप्यदेहोऽपि यो जीवः सोऽपि जालतः | आकृष्टो दार्भमायाति देहं फलमयं च वा || २१-३५ || नन्वत्र कुशैर्गोमयेन वा देहस्य कल्पना कार्येत्यनन्तरमेवोक्तम्, तत्कथमिह अस्य फलमयत्वमप्युच्यते?--इत्याशङ्क्याह-- जातीफलादि यत्किञ्चित्तेन वा देहकल्पना |
SKप्रत्युत अत्र विशेषोऽस्ति--इत्याह-- अन्तर्बहिर्द्वयौचित्यात्तदत्रोत्कृष्टमुच्यते || २१-३६ || ननु यद्यत्र जीवः संनिधत्ते, तदस्य ज्ञानक्रिये कस्मान्न ?-- इत्याशङ्क्याह-- ततो जालक्रमानीतः स जीवः सुप्तवत्स्थितः | मनोविशिष्टदेहादिसामग्रीप्राप्त्यभावतः || २१-३७ || न स्पन्दते न जानाति न वक्ति न किलेच्छति | तादृशस्यैव संस्कारान् सर्वान् प्राग्वत्प्रकल्पयेत् || २१-३८ || निर्बीजदीक्षायोगेन सर्वं कृत्वा पुरोदितम् | विधिं योजनिकां पूर्णाहुत्या साकं क्षिपेच्च तम् || २१-३९ || दार्भादिदेहे मन्त्राग्नावर्पिते पूर्णया सह | मुक्तपाशः शिवं याति पुनरावृत्तिवर्जितः || २१-४० || सप्रत्यया त्वियं यत्र स्पन्दते दर्भजा तनुः | तत्र प्राणमनोमन्त्रार्पणयोगात्तथा भवेत् || २१-४१ || साभ्यासस्य तदप्युक्तं बलाश्वासि न तत्कृते | तादृशस्येति--सुप्तवदवस्थितस्य | तमिति--दार्भादिदेहम् | तदुक्तम्-- ᳚पश्चात् स्रुचं त्वाज्ययुतां प्रान्ते तत्प्रकृतिं कुरु | उत्थितां समपादस्थः.............................. ||᳚ इत्युपक्रम्य ᳚.........................टतः पूर्णां विनिक्षिपेत् | दहेत्तां प्रतिमामग्नौ परे धाम्नि नियोजयेत् | स गच्छेच्छिवसायुज्यं सत्यं सत्यं न संशयः ||᳚ इति | तदिति--स्पन्दनम् | तत्कृत इति--नहि दीक्ष्यस्य अयं कश्चित्संस्कारः--इत्याशयः || एतदेव जीवत्परोक्षदीक्ष्यदीक्षायामपि अतिदिशति-- मृतोद्धारोदितैरेव यथासंभूति हेतुभिः || २१-४२ || जीवत्परोक्षदीक्षापि कार्या निर्बीजिका तु सा | तस्यां दर्भाकृतिप्रायकल्पने जालयोगतः || २१-४३ || सङ्कल्पमात्रेणाकर्षो जीवस्य मृतिभीतितः | शिष्टं प्राग्वत्कुशाद्युत्थाकारविप्लोषवर्जितम् || २१-४४ || संभूतिः संभवः | यद्यपि अतिदेशबलादेव अस्यां निर्बीजत्वं सिद्धं तथापि जीवति सबीजत्वशङ्कापि कस्यचित् मा भूदत्यिक्तम्-- निर्बीजिका तु सेति | सङ्कल्पमात्रेणेति--न तु अत्र भरः कार्यः-- इत्यर्थः ||४४ || अयं च आम्नात एव विषये जालप्रयोगः सिद्ध्येन्न अन्यत्र--इत्याह-- पारिमित्यादनैश्वर्यात्साध्ये नियतियन्त्रणात् |
SKजालाकृष्टिर्विनाभ्यासं रागद्वेषान्न जायते || २१-४५ || यथाहि अभ्यासं विना जालाकृष्टिः क्रियमाणा न संपद्यते, तथा रागद्वेषाभ्यामपि | तथा प्रवृत्तो हि पुमान् नियतियन्त्रितं साध्यमर्थं कथमन्यथाकुर्यात्, यदयं संकुचितात्मरूपत्वादनीश्वरः | नच एतदिच्छानुविधायिनो भावा इत्युक्तं प्राक्, इह तु परमेश्वरतावेशात्तथाभावो भवत्येव | परमेश्वर एव हि गुरुशरीराधिष्ठानद्वारा अनुग्राह्याननुगृह्णाति, स च अचिन्त्यमहिमेति असकृदुक्तम् ||४५ || एवं जालोपदेशमादिश्य, संस्क्रियागणस्य बलाबलविचारमभिधातुमाह-- परोक्ष एवातुल्याभिर्दीक्षाभिर्यदि दीक्षितः | तत्रोत्तरं स्याद्बालवत्संस्काराय त्वधस्तनम् || २१-४६ || अतुल्याभिरिति--कुलतन्त्रप्रक्रियादिरूपाभिः अनेकपुत्राद्यभ्यर्थितैरुद्धार्यं प्रति बहुभिराचार्यैरेवंक्रियमाणानां दीक्षाणां संभाव्यमानतया हि एवमुक्तम् | उत्तरमिति--कौलिकं दीक्षादिकर्म | अधस्तनमिति-- तन्त्रोक्तम् ||४६ || तुल्यायां दीक्षायां पुनः क्रियमाणायां कि स्यादित्याशङ्क्याह-- भुक्तियोजनिकायां तु भूयोभिर्गुरुभिस्तथा | कृतायां भोगवैचित्र्यं हेतुवैचित्र्ययोगतः || २१-४७ || नन्वेवमत्रास्तु, मुक्तियोजनिकायां तु मुक्तौ वैचित्र्यायोगात् व्यर्थं हेतुवैचित्र्यं स्यादित्याशङ्क्याह-- परोक्षदीक्षणे मायोत्तीर्णे भोगाय योजयेत् | भोगानीप्सा दुर्लभा हि सती वा भोगहानये || २१-४८ || भोगायेति--न तु मोक्षाय | दुर्लभेति�भोगवासनाविच्छेदस्य असंभाव्यमानत्वात् | कस्यचिन्महात्मनस्तु भोगानीप्सा संभवन्ती मोक्षायैव भवेत्--इत्याह--सती वा भोगहानये इति ||४८ || ननु परोक्षदीक्षायां यद्येवं भोगायापि योजनिका क्रियते तत्कथं सत्यामपि भोगानीप्सायामस्य मोक्ष स्यात् ?--इत्याशङ्कायां ससंवादमेव समाधानमभिधत्ते-- उक्तं हि स्वान्यसंवित्त्योः स्वसंविद्बलवत्तरा | बाधकत्वे बाधिकासौ साम्यौदासीन्ययोस्तथा || २१-४९ ||
SKबलवत्तरेति--एवं हि कृतायामपि गुरुणा भुक्तियोजनिकायामस्य मुक्तिरेव भवेत् --इति भावः | अत एवोक्तम्--बाधिकेति | असाविति-- स्वसंवित् | साम्यौदासीन्ययोरिति--गुरुशिष्योभयसंविद्गतयोः | तथेति--बाधिकैव--इत्यर्थः ||४९ || अत्रैव गुर्वन्तरोपदिष्टं विशेषं दर्शयति-- श्रीमान् धर्मशिवोऽप्याह पारोक्ष्यां कर्मपद्धतौ | तदेवाह-- परोक्षदीक्षणे सम्यक् पूर्णाहुतिविधौ यदि || २१-५० || अग्निश्चिटिचिटाशब्दं सधूमं प्रतिमुञ्चति | धत्ते नीलाम्बुदच्छायां मुहुर्ज्वलति शाम्यति || २१-५१ || विस्तरो घोररूपश्च महीं धावति चाप्यधः | ध्वांक्षाद्यश्रव्यशब्दो वा तदा तं लक्षयेद् गुरुः || २१-५२ || ब्रह्महत्यादिभिः पापैस्तत्सङ्गश्चोपपातकैः | तदा तस्य न कर्तव्या दीक्षास्मिन्नकृते विधौ || २१-५३ || अस्मिन्निति--वक्ष्यमाणे ||५३ || तमेव विधिमाह-- नवात्मा फट्पुटान्तःस्थः पुनः पञ्चफडन्वितः | अमुकस्येति पापानि दहाम्यनु फडष्टकम् || २१-५४ || इति साहस्रिको होमः कर्तव्यस्तिलतण्डुलैः | अन्ते पूर्णा च दातव्या ततोऽस्मै दीक्षया गुरुः || २१-५५ || परयोजनपर्यन्तं कुर्यात्तत्त्वविशोधनम् | तत इति--एवंविध्यनन्तरम् | अमुमेव विधिं संनिहितस्य जीवतोऽप्यतिदिशति-- प्रत्यक्षेऽपि स्थितस्याणोः पापिनो भगवन्मयी || २१-५६ || शक्तिं प्राप्तवतो ज्येष्ठामेवमेव विधिं चरेत् | अत्रैव पक्षान्तरमाह-- यदि वा दैशिकः सम्यङ् न दीप्तस्तस्य तत्पुरा || २१-५७ || प्रायश्चित्तैस्तथा दानैः प्राणायामैश्च शोधनम् | कृत्वा विधिमिमां चापि दीक्षां कुर्यादशङ्कितः || २१-५८ || तस्येति--प्रत्यक्षेऽपि स्थितस्य अणोः ||५८ || तत्त्वज्ञस्य पुनरेतन्न किञ्चिदुपादेयम्--इत्याह-- सर्वथा वर्तमानोऽपि तत्त्वविन्मोचयेत्पशून् | इच्छयैव शिवः साक्षात्तस्मात्तं पूजयेत्सदा || २१-५९ || शाठ्यं तत्र न कार्यं च तत्कृत्वाधो व्रजेच्छिशुः | न पुनः कीर्तयेत्तस्य पापं कीर्तयिता व्रजेत् || २१-६० || निरयं वर्जयेत्तस्मादिति दीक्षोत्तरे विधिः |
SKसर्वथेति--येन केनचित्प्रकारेण | शाठ्यम् विचिकित्सा | वर्जयेदिति-- पापकीर्तनम् || आह्निकार्थमेवोपसंहरति-- एषा परोक्षदीक्षा द्विधोदिता जीवदितरभेदेन || २१-६१ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके परोक्षदीक्षाप्रकाशनं नाम एकविंशमाह्निकम् || २१ || इति शिवम् || निखिलजगदुद्दिधीर्षाहर्षाकुलमानसेनेयम् | व्याख्याह्निके व्यरच्यत किलैकविंशे जयरथेन || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते परोक्षदीक्षाप्रकाशनं नाम एकविंशमाह्निकं समाप्तम् || २१ || द्वाविंशमाह्निकम् ᳚ विवेकः ᳚ दुर्वृत्तजनकुसंस्कृतिसंहरणव्यावृतास्यतां दधतम् | देवममन्दं वन्दे वन्दनमानन्दनं जगताम् || १ || इदानीं द्वितीयार्धेन लिङ्गोद्धारदीक्षां वक्तुमाह-- लिङ्गोद्धाराख्यामथ वच्मः शिवशासनैकनिर्दिष्टाम् || २२-१ || एकेति--यदुक्तं प्राक्-- ᳚अत एवेह शास्त्रेषु शैवेष्वेव निरूप्यते | शास्त्रान्तरार्थानाश्वस्तान्प्रति सांस्कारिको विधिः || अतश्चात्युत्तमं शैवं योऽन्यत्र पतितः स हि | इहानुग्राह्य ऊर्ध्वोर्ध्वं नेतस्तु पतितः क्वचित् || अत एव हि सर्वर्ज्ञैब्रह्मविष्ण्वादिभिर्निजे | न शासने समाम्नातं लिङ्गोद्धारादि किञ्चन ||᳚ (१३|३५९) इति ||१ || ननु इयमस्मच्छास्त्रे दीक्षा किमुक्ता न वा ?--इत्याशङ्क्याह-- उक्तं श्रीमालिनीतन्त्रे किल पार्थिवधारणाम् | उक्त्वा यो योजितो यत्र स तस्मान्न निवर्तते || २२-२ || योग्यतावशसञ्जाता यस्य यत्रैव शासना | स तत्रैव नियोक्तव्यो दीक्षाकाले ततस्त्वसौ || २२-३ || फलं सर्वं समासाद्य शिवे युक्तोऽपवृज्यते | अयुक्तोऽप्यूर्ध्वसंशुद्धिं संप्राप्य भुवनेशतः || २२-४ || शुद्धः शिवत्वमायाति दग्धसंसारबन्धनः | उक्त्वा पुंधारणां चोक्तमेतद्वैदान्तिकं मया || २२-५ || कपिलाय पुरा प्रोक्तं प्रथमे पटले तथा | अनेन क्रमयोगेन संप्राप्तः परमं पदम् || २२-६ || न भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति | वैदान्तिकमिति--विज्ञानम् ||
SKननु इह लिङ्गोद्धारदीक्षावचने संदिहानं प्रति सागरं तर्तुकामस्य हिमवद्ववर्णनं किमिदमुच्यते ?--इत्याशङ्क्याह-- अतो हि ध्वन्यतेऽर्थोऽयं शिवतत्त्वाधरेष्वपि || २२-७ || तत्त्वेषु योजितस्यास्ति पुनरुद्धरणीयता | समस्तशास्त्रकथितवस्तुवैविक्त्यदायिनः || २२-८ || शिवागमस्य सर्वेभ्योऽप्यागमेभ्यो विशिष्टता | शिवज्ञानेन च विना भूयोऽपि पशुतोद्भवः || २२-९ || अत इति--वाक्यत्रयात् | अधरेष्विति, तत्त्वेष्विति--मायादशायामपि-- इत्यर्थः | एवमधरदर्शनस्थोऽपि आयातशक्तिपातः शैवागमप्रक्रियया भुवनेशादिवत् गुरुणा पुनरुद्धरणीय एव--इति कटाक्षितम् | तत्र च लिङ्गोद्धारदीक्षैव उपायः--इति सर्वत्रोक्तम् | समस्तानि शास्त्राणि कापिलादीनि, तत्र कथितं वस्तु प्रकृतिपुरुषविवेकादि, एवमपि एषां न मायातो मुक्तिरिति तदुक्तवस्तुवैविक्त्यदायित्वात् सर्वागमेभ्यः शैवागमस्यैव प्राधान्यम्, अतश्च तत एव साक्षात्परपदप्राप्तिः | दर्शनान्तरप्राप्तानां हि पुनरपि अधरपदप्राप्तिरेव--इत्युक्तं प्राग् बहुशः || ९ || तत्र च इयानपेक्षणीयः क्रमः--इत्याह-- क्रमश्च शक्तिसंपातो मलहानिर्यियासुता | दीक्षा बोधो हेयहानिरुपादेयलयात्मता || २२-१० || भोग्यत्वपाशवत्यागः पतिकर्तृत्वसंक्षयः | स्वात्मस्थितिश्चेत्येवं हि दर्शनान्तरसंस्थितेः || २२-११ || प्रोक्तमुद्धरणीयत्वं शिवशक्तीरितस्य हि | यियासुतेति--गुरुं प्रति | बोध इति--दीक्षानन्तरं श्रवणादावधिकारात् | हेयेति--मलकर्मादेः | उपादेयलयात्मतेति-- शिवशक्त्याद्येकविश्रान्तिमयत्वम्--इत्यर्थः | पाशवम् आणवं मलम् | कर्तृत्वेति--संसारं प्रति पेर्रणात्मकम् || एवमस्य आयातशक्तिपातस्य किं कार्यम्?--इत्याशङ्क्याह-- अथ वैष्णवबौद्धादितन्त्रान्ताधरवर्तिनाम् || २२-१२ || यदा शिवार्करश्म्योघैर्विकासि हृदयाम्बुजम् | लिङ्गोद्धृतिस्तदा पूर्वं दीक्षाकर्म ततः परम् || २२-१३ || प्राग्लिङ्गान्तरसंस्थोऽपि दीक्षातः शिवतां व्रजेत् | अन्तः सिद्धान्तः | उक्तं हि प्राक्--
SKश्वातन्त्र्यात्तु महेशस्य तेऽपि चेच्छिवतोन्मुखाः | द्विगुणा संस्क्रियास्त्येषां लिङ्गोद्धृत्याथ दीक्षया || दुष्टाधिवासविगमे पुष्पैः कुम्भोऽधिवास्यते | द्विगुणोऽस्य स संस्कारो नेत्थं शुद्धे घटे विधिः ||᳚ (१३|२८३) इति || तत्र लिङ्गोद्धृतौ तावदितिकर्तव्यतामाह-- तत्रोपवास्य तं चान्यदिने साधारमन्त्रतः || २२-१४ || स्थण्डिले पूजयित्वेशं श्रावयेत्तस्य वर्तनीम् | एष प्रागभवल्लिङ्गी चोदितस्त्वधुना त्वया || २२-१५ || प्रसन्नेन तदेतस्मै कुरु सम्यगनुग्रहम् | स्वलिङ्गत्यागशङ्कोत्थं प्रायश्चित्तं च मास्य भूत् || २२-१६ || अचिरात्त्वन्मयीभूय भोगं मोक्षं प्रपद्यताम् | एवमस्त्वित्यथाज्ञां च गृहीत्वा व्रतमस्य तत् || २२-१७ || अपास्याम्भसि निक्षिप्य स्नपयेदनुरूपतः | स्नातं संप्रोक्षयेदर्घपात्राम्भोभिरनन्तरम् || २२-१८ || पञ्चगव्यं दन्तकाष्ठं ततस्तस्मै समर्पयेत् | ततस्तं बद्धनेत्रं च प्रवेश्य प्रणिपातयेत् || २२-१९ || वर्तनी वृत्तम् | एवमस्त्वित्येनेन श्रावणार्थ एव अभ्यनुज्ञातः | स्नपयेदिति--तद्व्रतदोषनिवृत्त्यर्थम् | अनुरूपत इति-- दित्सितदर्शनौचित्येन--इत्यर्थः ||१९ || ननु इह के नाम साधारणा मन्त्राः, यन्मध्यादपि एकतमेन ईशं पूजयेत् ?--इत्याशङ्क्याह-- प्रणवो मातृका माया व्योमव्यापी षडक्षरः | बहुरूपोऽथ नेत्राख्यः सप्त साधारणा अमी || २२-२० || तेषां मध्यादेकतमं मन्त्रमस्मै समर्पयेत् | सोऽप्यहोरात्रमेवैनं जपेदल्पभुगप्यभुक् || २२-२१ || मन्त्रमस्मै समर्प्याथ साधारविधिसंस्कृते | वह्नौ तर्पिततन्मन्त्रे व्रतशुद्धिं समाचरेत् || २२-२२ || एनमिति--साधारणमेकतमं मन्त्रम् | अल्पभुगिति--अभुगिति च सामर्थ्यानुसारम् || २०-२२ || एवमस्य शोधनं कृत्वा पातकच्युतिमभिधातुमाह-- पूजितेनैव मन्त्रेण कृत्वा नामास्य संपुटम् | प्रायश्चित्तं शोधयामि फट्स्वाहेत्यूहयोगतः || २२-२३ || शतं सहस्रं वा हुत्वा पुनः पूर्णाहुतिं तथा | प्रयोगाद्वौषडन्तां च क्षिप्त्वाहूय व्रतेश्वरम् || २२-२४ ||
SKतारो व्रतेश्वरायेति नमश्चेत्येनमर्चयेत् | श्रावयेच्च त्वया नास्य कार्यं किञ्चिच्छिवाज्ञया || २२-२५ || ततो व्रतेश्वरस्तर्प्यः स्वाहान्तेन ततश्च सः | क्षमयित्वा विसृज्यः स्यात्ततोऽग्नेश्च विसर्जनम् || २२-२६ || तच्छ्रवणं च देवाय क्षमस्वेति विसर्जनम् | तारः प्रणवः | एनमिति--व्रतेश्वरम् || एवं लिङ्गोद्धृतिमभिधाय दीक्षाकर्म अभिधत्ते-- ततस्तृतीयदिवसे प्राग्वत्सर्वो विधिः स्मृतः || २२-२७ || अधिवासादिकः स्वेष्टदीक्षाकर्मावसानकः | प्रथमे दिने हि अस्य उपवासः, द्वितीये लिङ्गोद्धार इत्यक्तम्--तृतीय इति || ननु स्वेष्टा चेदस्य दीक्षा कार्या, तत्किमयमपि सर्वदीक्षाणामेव पात्रम्?--इत्याशङ्क्याह-- प्राग्लिङ्गिनां मोक्षदीक्षा साधिकारविवर्जिता || २२-२८ || साधकाचार्यतामार्गे न योग्यास्ते पुनर्भुवः | पुनर्भुवोऽपि ज्ञानेद्धा भवन्ति गुरुतास्पदम् || २२-२९ || मोक्षायैव न भोगाय भोगायाप्यभ्युपायतः | इत्युक्तवान्स्वपद्धत्यामीशानशिवदैशिकः || २२-३० || श्रीदेव्या यामलीयोक्तितत्त्वसम्यक्प्रवेदकः | अत्र अयोग्यत्वे पुनर्भवत्वं हेतुः | यदुक्तम्-- ङ ते मनुप्रयोक्तारः पुनर्भवतया स्थिताः |᳚ इति | ते च ᳚पुनर्भूश्चान्यलिङ्गो यः पुनः शैवे प्रतिष्ठितः |᳚ (२३|१०) इति | लक्षयिष्यमाणाः | ज्ञानेद्धा इति-- पराद्वयज्ञानोद्दीपितात्मनां कुत्र नाम नाधिकारो भवेत्--इति भावः | अभ्युपायत इति--भोगोपायभूतशास्त्रप्रक्रियाद्यनुसारेण-- इत्यर्थः | न च एतदनेन निर्मूलमेवोक्तम्--इत्याह--श्रीदेव्या इत्यादि || एवंसंस्कृतस्यास्योपदेष्टव्यम्--इत्याह-- गुर्वन्तस्याप्यधोदृष्टिशायिनः संस्क्रियामिमाम् || २२-३१ || कृत्वा रहस्यं कथयेन्नान्यथा कामिके किल | कामिकाग्रन्थमेव पठति-- अन्यतन्त्राभिषिक्तेऽपि रहस्यं न प्रकाशयेत् || २२-३२ || न केवलमेवमधरदर्शनस्थस्यैव कार्यं यावत् स्वदर्शनस्थस्यापि-- इत्याह-- स्वतन्त्रस्थोऽपि गुर्वन्तो गुरुमज्ञमुपाश्रितः | तत्र पश्चादनाश्वस्तस्तत्रापि विधिमाचरेत् || २२-३३ || अत्रेति--अज्ञे गुरौ ||३३ ||
SKनन्वस्य अज्ञगुर्वाश्रयणात् गुणः कश्चिन्मा भूत्, दोषः कुतस्त्यो येन लिङ्गोद्धृतिरपि स्यात्?--इत्याशङ्क्याह-- अज्ञाचार्यमुखायातं निर्वीर्यं मन्त्रमेष यत् | जप्तवान्स गुरुश्चात्र नाधिकार्युक्तदूषणात् || २२-३४ || ततोऽस्य शुद्धिं प्राक्कृत्वा ततो दीक्षां समाचरेत् | चो ह्यर्थे | उक्तदूषणादिति--अज्ञत्वलक्षणात् || एवमेतद्दर्शनैक्येनाभिधाय, तद्भेदेनाप्याह-- अधोदर्शनसंस्थेन गुरुणा दीक्षितः पुरा || २२-३५ || तीव्रशक्तिवशात्पश्चाद्यदा गच्छेत्स सद्गुरुम् | तदाप्यस्य शिशोरेवं शुद्धिं कृत्वा स सद्गुरुः || २२-३६ || दीक्षादिकर्म निखिलं कुर्यादुक्तविधानतः | अधोदर्शनसंस्थेनेति--यथा सैद्धान्तिकेन भैरवस्रोतसि || ननु एषां ᳚ते दीक्षायां न मीमांस्या ज्ञानकाले विचारयेत् |᳚ (२३|२१) इत्यादिवक्ष्यमाणनीत्या दीक्षा तावदेवमेव क्रियताम्, उपदेशस्तु अविचार्यैव कथं कार्यः ?--इत्याशङ्क्याह-- प्राप्तोऽपि सद्गुरुर्योग्यभावमस्य न वेत्ति चेत् || २२-३७ || विज्ञानदाने तच्छिष्यो योग्यतां दर्शयेन्निजाम् | सर्वथा त्वब्रुवन्नेष बुर्वाणो वा विपर्ययम् || २२-३८ || अज्ञो वस्तुत एवेति तत्त्यक्त्वेत्थं विधिं चरेत् | अब्रुवन्निति--आत्मनि योग्यतादर्शनानुगुणम् | विपर्ययमिति-- यदयोग्यताज्ञापनाय पर्यवस्यति--इत्यर्थः | वस्तुत एवेति--न तु विलयशक्त्याद्याघ्रतत्वात् | तदिति--योग्यभावावेदनम् | ननु मा भूदस्य योग्यभावदर्शनं प्रत्युत अयोग्यतापि दृश्यते इति तिरोहितप्रायस्य अस्य कथमुक्तो विधिः कार्यः ?--इत्याशङ्क्याह-- न तिरोभावशङ्कात्र कर्तव्या बुद्धिशालिना || २२-३९ || अधःस्पृक्त्वं तिरोभूतिर्नोर्ध्वोपायविवेचनम् | तिरोभूतत्वे हि अस्य ऊर्ध्वोपायविवेके स्पृहैव न भवेत्--इतिभावः || एतदेव प्रपञ्चयति-- सिद्धान्ते दीक्षितास्तन्त्रे दशाष्टादशभेदिनि || २२-४० || भैरवीये चतुःषष्टौ तान्पशून्दीक्षयेत् त्रिके | सिद्धवीरावलीसारे भैरवीये कुलेऽपि च || २२-४१ || पञ्चदीक्षाक्रमोपात्ता दीक्षानुत्तरसंज्ञिता | एतच्च त्रयोदशाह्निक एव विचारितमिति तत एव अवधार्यम् ||
SKएतदेव प्रकृते विश्रमयति-- तेन सर्वोऽधरस्थोऽपि लिङ्गोद्धृत्यानुगृह्यते || २२-४२ || न केवलमयोग्ये गुरौ गुर्वन्तरमाश्रयेत्, यावद्योग्येऽपि--इत्याह-- योऽपि हृत्स्थमहेशानचोदनातः सुविस्तृतम् | शास्त्रज्ञानं समन्विच्छेत्सोऽपि यायाद् बहून् गुरून् || २२-४३ || तद्दीक्षाश्चापि गृह्णीयादभिषेचनपश्चिमाः | ज्ञानोपोद्वलिकास्ता हि तत्तज्ज्ञानवता कृताः || २२-४४ || ननु गुरुपरित्यागे ᳚गुरोरवज्ञया मृत्युर्दारिद्र्यं मन्त्रवज्ञया | गुरुमन्त्रपरित्यागात्सिद्धोऽपि नरकं व्रजेत् ||᳚ इत्यादिदृष्ट्या प्रत्यवाय आम्नातः, तत्कथमेवमुक्तम्?--इत्याशङ्कां गर्भीकृत्य आगममेव संवादयति-- उक्तं च श्रीमते शास्त्रे तत्र तत्र च भूयसा | आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् || २२-४५ || विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं त्विति | अत्र च इयान् विशेषो यत् पूर्वगुर्वाज्ञया गुर्वन्तरं व्रजेदिति | तदुक्तम्-- ᳚किन्तु गुर्वाज्ञया गच्छेत्तं गुरुं न परित्यजेत् | न सिद्धिस्तद्गुरुत्यागात्कोटिजापाद्भवेदपि ||᳚ इति || ननु एषां गुरूणां मध्ये भूयसा किमेवं कस्यचित् कश्चिद्विशेषोऽस्ति न वा ?--इत्याशङ्क्याह-- गुरूणां भूयसां मध्ये यतो विज्ञानमुत्तमम् || २२-४६ || प्राप्तं सोऽस्य गुरुर्दीक्षा नात्र मुख्या हि संविदि | अत्र संविदीति--सामानाधिकरण्यम् || एतदाराधनपरेणैव च अनेन भाव्यम्--इत्याह-- सर्वज्ञाननिधानं तु गुरुं संप्राप्य सुस्थितः || २२-४७ || तमेवाराधयेद्धीमांस्तत्तज्जिज्ञासनोन्मुखः | इयता च गुर्वन्तरगमने शङ्कोच्छेदः कटाक्षीकृतः || अथ प्रथमार्धेन प्रकृतार्थगर्भीकारेण प्रकरणार्थमुपसंहरति-- इति दीक्षाविधिः प्रोक्तो लिङ्गोद्धरणपश्चिमः || २२-४८ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके लिङ्गोद्धारप्रकाशनं नाम द्वाविंशमाह्निकम् || २२ || इति शिवम् || ४८ || अधराधरपरदर्शननिराकृतिस्वावमर्शसामर्शः | द्वाविंशमाह्निकमिदं निरणैषीज्जयरथाभिख्यः ||
SKइति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते लिङ्गोद्धारप्रकाशनं नाम द्वाविंशमाह्निकं समाप्तम् || २२ || त्रयोविंशमाह्निकम् ᳚ विवेकः ᳚ आस्थाय भैरववपुर्निजाकृतेः संविभागेन | विदधातु वः स भद्रं सर्वत इह सर्वतोभद्रः ||१ || इदानीं द्वितीयार्धेन अभिषेकविधिमभिधातुमुपक्रमते-- अथाभिषेकस्य विधिः कथ्यते पारमेश्वरः || २३-१ || तमेवाह-- यैषा पुत्रकदीक्षोक्ता गुरुसाधकयोरपि | सैवाधिकारिणी भोग्यतत्त्वयुक्तिमती क्रमात् || २३-२ || स्वभ्यस्तज्ञानिनं सन्तं बुभूषुमथ भाविनम् | योग्यं ज्ञात्वा स्वाधिकारं गुरुस्तस्मै समर्पयेत् || २३-३ || यैषेति--सबीजा, अभिषेकाच्चानयोरधिकारः, स च परीक्ष्य दातव्यः इति आचार्यस्य तावत् परीक्षां कर्तुमारभते-- क्रमादित्यादिना, क्रमादिति--श्रुतचिन्तादिप्रमुखमित्यर्थः | एतच्च सर्वत्र संबन्धनीयम् | बुभूषुमिति--भाविनमिति�च स्वभ्यस्तज्ञानितायाम् || २-३ || ननु अभिषेकादेव तावदधिकारो भवेदिति सर्वत्रोक्तम्, तदिहापि अभिषेक एव विधीयतां किं स्वभ्यस्तज्ञानित्वादिचिन्तया ?-- इत्याशङ्क्याह-- यो नैवं वेद नैवासावभिषिक्तोऽपि दैशिकः | समय्यादिक्रमेणेति श्रीमत्कामिक उच्यते || २३-४ || यो न वेदाध्वसन्धानं षोढा बाह्यान्तरस्थितम् | स गुरुर्मोचयेन्नेति सिद्धयोगीश्वरीमते || २३-५ || सर्वलक्षणहीनोऽपि ज्ञानवान् गुरुरिष्यते | ज्ञानप्राधान्यमेवोक्तमिति श्रीकचभार्गवे || २३-६ || पदवाक्यप्रमाणज्ञः शिवभक्त्येकतत्परः | समस्तशिवशास्त्रार्थबोद्धा कारुणिको गुरुः || २३-७ || समय्यादिक्रमेण असावभिषिक्तोऽपि दैशिको न भवेत्--इति संबन्धः | एवमनेकशास्त्रार्थसंवादनेन गुरोः स्वभ्यस्तज्ञानित्वे सर्वत्र अविगीतत्वं प्रकाशितम् || ७ || एवमपि एवंविधा गुरवो न कार्याः--इत्याह-- न स्वयंभूस्तस्य चोक्तं लक्षणं परमेशिना | अभक्तो जीवितधिया कुर्वन्नीशानधिष्ठितः || २३-८ ||
SKपश्वात्मना स्वयंभूष्णुर्नाधिकारी स कुत्रचित् | भस्मांकुरो व्रतिसुतो दुःशीलातनयस्तथा || २३-९ || कुण्डो गोलश्च ते दुष्टा उक्तं देव्याख्ययामले | पुनर्भूश्चान्यलिङ्गो यः पुनः शैवे प्रतिष्ठितः || २३-१० || पश्वात्मनेति--न तु परमेश्वरावेशशालितया--इत्यर्थः | पुनर्भूश्च दुष्ट इति�प्राच्येन संबन्धः ||८-१० || अस्मद्दर्शने तु ज्ञानवत्त्वमन्तरेण न कश्चिदयं नियमः--इत्याह-- श्रीपूर्वशास्त्रे न त्वेष नियमः कोऽपि चोदितः | यथार्थतत्त्वसङ्घज्ञस्तथा शिष्ये प्रकाशकः || २३-११ || यः पुनः सर्वतत्त्वानि वेत्तीत्यादि च लक्षणम् | तथेति--यथार्थमेव | यदुक्तं तत्र-- ᳚यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः | स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः || स्पृष्टाः संभाषितास्तेन दृष्टाश्च प्रीतचेतसा | नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि || ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः | ते यथेष्टं फलं प्राप्य प्रयान्ति (गच्छन्ति) परमं पदम् ||᳚ (२|१२) इति || ननु इहापि समानन्यायत्वात् तन्त्रान्तरोक्तो नियमः कस्मान्नानुषज्यते ?--इत्याशङ्क्याह-- योगचारे च यद्यत्र तन्त्रे चोदितमाचरेत् || २३-१२ || तथैव सिद्धये सेयमाज्ञेति किल वर्णितम् | आचरेदिति--अर्थात् तत्रैव | यदुक्तम्-- ᳚क्रियादिभेदभेदेन तन्त्रभेदो यतः स्मृतः | तस्माद्यत्र यदेवोक्तं तत्कार्यं नान्यतन्त्रतः ||᳚ इति | न केवलं शास्त्रान्तरेषु कुलाचारादिगतत्वेनैव गुरोरेवं नियमः, यावत् ᳚काणो विद्वेषजननः खल्वाटश्चार्थनाशनः |᳚ इति ᳚काञ्चिकोसलकर्णाटाः कलिङ्गाः कामरूपजाः | कुंकुणोद्भवकावीरीकच्छदेशसमुद्भवाः || एते वर्ज्यास्तथान्येऽपि राष्टिर्यान्परिवर्जयेत् |᳚ इत्यादिदृष्ट्या देहदेशगतत्वेनापि || अस्मच्छास्त्रे पुनः कस्मादयं नियमो नोक्तः ?--इत्याशङ्क्याह-- यस्तु कर्मितयाचार्यस्तत्र काणादिवर्जनम् || २३-१३ || यतः कारकसामग्र्यात्कर्मणो नाधिकः क्वचित् | देव्या यामलशास्त्रे च काञ्च्यादिपरिवर्जनम् || २३-१४ || तद्दृष्टदोषात्क्रोधादेः सम्यक्ज्ञातर्यसौ कुतः |
SKदृष्टदोषादिति--सन्तापादिलक्षणात् | यदुक्तम्-- शन्तापं क्रोधने विद्याच्चञ्चले चपलाः श्रियः |᳚ इति | काञ्च्यादिदेशजन्मा हि जनः स्वभावत एव कामक्रोधादिभाग्भवेत्--इति भावः | असाविति--क्रोधादिः, सम्यग्ज्ञाता हि आत्मवदेव सर्वभूतानि पश्यति--इत्याशयः || न च एतदस्माभिः स्वोपज्ञमेवोक्तम्--इत्याह-- गुरवस्तु स्वयंभ्वादि वर्ज्यं यद्यामलादिषु || २३-१५ || कर्म्यभिप्रायतः सर्वं तदिति व्याचचक्षिरे | गुरुवश्च यत्किञ्चन स्वयंभ्वादि देव्या यामलादौ वर्जनीयतयोक्तम् तत्सर्वं कर्म्यभिप्रायेण,--इति व्याचचक्षिरे व्याख्यातवन्तः-- इत्यर्थः || तस्मात् ज्ञानवत्त्वमेव मुख्यं लक्षणमाश्रयणीयम्--इत्याह-- अतो देशकुलाचारदेहलक्षणकल्पनाम् || २३-१६ || अनादृत्यैव संपूर्णज्ञानं कुर्याद्गुरुर्गुरुम् | अत्रैव इतिकर्तव्यतामाह-- प्राग्वत्संपूज्य हुत्वा च श्रावयित्वा चिकीर्षितम् || २३-१७ || ततोऽभिषिञ्चेत्तं शिष्यं चतुःषष्ट्या ततः सकृत् | तन्मन्त्ररसतोयेन पूर्वोक्तविधिना गुरुः || २३-१८ || विभवेन सुविस्तीर्णं ततस्तस्मै वदेत्स्वकम् | सर्वं कर्तव्यसारं यच्छास्त्राणां परमं रहः || २३-१९ || चतुःषष्ट्येति--अर्थात्कलशैः | सकृदिति--एकेन | अनेन च ज्ञानस्यैव प्राधान्यात् क्रियायाः अनवकॢप्तिः प्रकाशिता, येन श्रीपूर्वशास्त्रे स्वकण्ठोक्तोऽपि अभिषेकविधिरिह वितत्य नोक्तः || कर्तव्यसारमेव अभिधत्ते-- अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः | ननु प्राक् दीक्षाकालमपहाय अभिषेकावसर एव अस्य कस्मात् परीक्षा क्रियते ?--इत्याशङ्कां निरवकाशयितुमागममेव संवादयति-- उक्तं ज्ञानोत्तरे चैतद् ब्रह्मणाः क्षत्रिया विशः || २३-२० || नपुंसकाः स्त्रियः शूद्रा ये चान्येऽपि तदर्थिनः | ते दीक्षायां न मीमांस्या ज्ञानकाले विचारयेत् || २३-२१ || ज्ञानमूलो गुरुः प्रोक्तः सप्तसत्रीं प्रवर्तयेत् | प्रोक्त इति--समनन्तरमेव | ननु का नाम सप्तसत्री, तां च असौ कथं प्रवर्तयेत् ?--इत्याशङ्क्याह-- दीक्षा व्याख्या कृपा मैत्री शास्त्रचिन्ता शिवैकता || २३-२२ ||
SKअन्नादिदानमित्येतत्पालयेत्सप्तसत्रकम् | अभिषेकविधौ चास्मै करणीखटिकादिकम् || २३-२३ || सर्वोपकरणव्रातमर्पणीयं विपश्चिते | सोऽभिषिक्तो गुरुं पश्चाद्दक्षिणाभिः प्रपूजयेत् || २३-२४ || तदुक्तम्-- ङिर्भर्त्स्यैवं विधानेन अभिषेकं प्रदापयेत् |᳚ इत्याद्युपक्रम्य ᳚उष्णीषमुकुटाद्यांश्च छत्रपादुकमासनम् | हस्त्यश्वशिविकाद्यांश्च राज्याङ्गानि विशेषतः || करणीं कर्तरीं खट्का स्रुक्स्रुवौ दर्भपुस्तकम् | अक्षसूत्रादिकं दत्त्वा चतुराश्रमसंस्थितः || दीक्ष्यानुग्रहमार्गेण दीक्षा व्याख्या त्वया सदा | अद्यप्रभृति कर्तव्येत्यधिकारः शिवाज्ञया ||᳚ इत्यादि ᳚गुरुं सम्पूजयेच्छिष्यो यथाविभवविस्तरैः |᳚ इत्यन्तम् ||२४ || नन्वेवमभिषेकमस्मै दत्त्वा गुरुणा अनन्तरं कथं वर्तितव्यम् ?-- इत्याशङ्क्याह-- ज्ञानहीनो गुरुः कर्मी स्वाधिकारं समर्प्य नो | दीक्षाद्यधिकृतिं कुर्याद्विना तस्याज्ञया पुनः || २३-२५ || इत्येवं श्रावयेत्सोऽपि नमस्कृत्याभिनन्दयेत् | तस्येति--स्वयमभिषिक्तस्य | अयं च श्लोकः क्वचित् ᳚पालयेत्सप्तसत्रकम्᳚ इत्यनन्तरं भ्रमात् लेखकैर्लिखित इति तदुपेक्ष्यम् || ज्ञानिनः पुनरयं विशेषः--इत्याह-- ततः प्रभृत्यसौ पूर्वो गुरुस्त्यक्ताधिकारकः || २३-२६ || यथेच्छं विचरेद् व्याख्यादीक्षादौ यन्त्रणोज्झितः | कुर्वन्न बाध्यते यस्माद्दीपाद्दीपवदीदृशः || २३-२७ || सन्तानो नाधिकारस्य च्यवोऽकुर्वन्न बाध्यते | प्राक् च कुर्वन्विहन्येत सिद्धातन्त्रे तदुच्यते || २३-२८ || पूर्व इति--आद्यो ज्ञानी--इत्यर्थः | कुर्वन्नकुर्वन् न बाध्यते इत्यनेन यन्त्रणोज्झितत्वमेवोपोद्बलितम् | दीपाद्दीपवदिति--नहि दीपान्तरं जनयतो दीपस्य प्रकाशकतायां कश्चिद्विशेषः--इत्याशयः | च्यवः प्रच्यवः | प्राक्--अत्यक्ते अधिकारे || तत्रत्यमेव ग्रन्थं पठति-- यथार्थमुपदेशं तु कुर्वन्नाचार्य उच्यते | न चावज्ञा क्रियाकाले संसारोद्धरणं प्रति || २३-२९ || न दीक्षेत गुरुः शिष्यं तत्त्वयुक्तस्तु गर्वतः | योऽस्य स्यान्नरके वास इह च व्याधितो भवेत् || २३-३० ||
SKय इति--अवज्ञावान् गर्वितश्च | अस्येति--एवंविधस्य || ३० || इदानीमस्य आचार्यस्य विद्याव्रतमभिधत्ते-- प्राप्ताभिषेकः स गुरुः षण्मासान्मन्त्रपद्धतिम् | सर्वां तन्त्रोदितां ध्यायेज्जपेच्चातन्मयत्वतः || २३-३१ || यदैव तन्मयीभूतस्तदा वीर्यमुपागतः | छिन्द्यात्पाशांस्ततो यत्नं कुर्यात्तन्मयतास्थितौ || २३-३२ || सर्वां मन्त्रपद्धतिमिति देवीत्रयं, भैरवचतुष्टयम्, अघोराद्यष्टकं च | यदुक्तम्-- ᳚आचार्योऽपि च षण्मासं मौनी प्रतिदिनं जपेत् | दश पञ्च च ये मन्त्राः पूर्वमुक्ता मया तव || पूर्वन्यासेन संनद्धस्त्रिकालं वह्निकार्यकृत् | ध्यायेत्पूर्वोदितं शूलं ब्रह्मचर्यं समाश्रितः || कृत्वा पूर्वोदितं यागं त्रिशूलपरिमण्डलम् | अभिषिञ्चेत्तदात्मानमादावन्ते च दैशिकः || एवं चीर्णव्रतो भूत्वा मन्त्री मन्त्रविदुत्तमः | निग्रहानुग्रहं कर्म कुर्वन्न प्रतिहन्यते ||᳚ (मा.वि. १०|३५) इति ||३२ || एवं मन्त्रपद्धतिं जपतस्तन्मयतास्थितौ युक्तिमाह-- हृच्चक्रादुत्थिता सूक्ष्मा शशिस्फटिकसंनिभा | लेखाकारा नादरूपा प्रशान्ता चक्रपङ्क्तगा || २३-३३ || द्वादशान्ते निरूढा सा सौषुम्ने त्रिपथान्तरे | तत्र हृच्चक्रमापूर्य जपेन्मन्त्रं ज्वलत्प्रभम् || २३-३४ || चक्षुर्लोमादिरन्ध्रैघवहज्ज्वालौर्वसंनिभम् | सौषुम्नेत्यनेन पिङ्गलापि लक्ष्यते | तत्रेति--प्राणशक्तौ द्वादशान्ते निरूढायां सत्याम्, हृच्चक्रमिति--गमागमाभ्यां, तेन हृच्चक्रादारभ्य हृच्चक्रं यावच्चेति ज्ञेयम् | चक्षुरादिरन्ध्रैघेभ्यो वहज्ज्वालत्वादेव वडवाग्नितुल्यम्-- अत्यन्तदीप्तम्--इत्यर्थः | अत एवोक्तम्--ज्वलत्प्रभमिति || गमागमावेव मन्त्रस्य दर्शयति-- यावच्छान्तशिखाकीर्णं विश्वाज्यप्रविलापकम् || २३-३५ || तदाज्यधारासंतृप्तमानाभिकुहरान्तरम् | एवं मन्त्रा मोक्षदाः स्युर्दीप्ता बुद्धाः सुनिर्मलाः || २३-३६ || शान्ते द्वादशान्ते सर्ववृत्तिसंक्षयात्, अत एवोक्तम्-- विश्वाज्यप्रविलापकमिति | नाभीत्यनेन सामीप्यात् हृच्चक्रं लक्ष्यते | एवमिति--प्राणशक्तितया उच्चारात् || ३६ ||
SKएवं मन्त्रस्य प्राणशक्तेश्च एक्ये सिद्धे कुत्र नाम चक्राधारादौ जप्यमानोऽस्य मन्त्रः स्ववीर्याक्रमणात्मकं महत्त्वं यायात् ?-- इत्याह-- मूलकन्दनभोनाभिहृत्कण्ठालिकतालुगम् | अर्धेन्दुरोधिकानादतदन्तव्यापिशक्तिगम् || २३-३७ || समनोन्मनशुद्धात्मपरचक्रसमाश्रितम् | यत्र यत्र जपेच्चक्रे समस्तव्यस्तभेदनात् || २३-३८ || तत्र तत्र महामन्त्र इति देव्याख्ययामले | तदन्तः--नादान्तः | परचक्रम्-- ᳚......................उन्मन्यन्ते परः शिवः |᳚ इति निरूपितम् | क्रमस्य च अत्र अविवक्षणात् क्वचिदक्रमेणापि अभिधानम् | जपेदित्यर्थात् मन्त्रम्, यस्य तत्तच्चक्राधाराधिगतत्वं विशेषणतया उपात्तम् | समस्तव्यस्तभेदनादिति--समस्तत्वं व्यस्तत्वं च अवलम्ब्य--इत्यर्थः || प्रकृतमेवोपसंहरति-- विद्याव्रतमिदं प्रोक्तं मन्त्रवीर्यप्रसिद्धये || २३-३९ || तच्च तादात्म्यमेवेति यदुक्तं स्पन्दशासने | तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः || २३-४० || प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् | तदिति--व्रतम् | तादात्म्यमेवेति--मन्त्रेण || एवं च कृतविद्याव्रतस्यैव अस्य सप्तसत्र्यामधिकारः--इत्याह-- कृतविद्याव्रतः पश्चाद्दीक्षाव्याख्यादि सर्वतः || २३-४१ || कुर्याद्योग्येषु शिष्येषु नायोग्येषु कदाचन | योग्यायोग्यपरीक्षायां च अस्य उदाहरणदिशा युक्तिं दर्शयति-- रहस्ये योजयेद्विप्रं परीक्ष्य विपरीततः || २३-४२ || आचाराच्छक्तिमप्येव नान्यथेत्यूर्मिशासने | विपरीतत आचारादिति--श्रुतिस्मृतिविरुद्धात् मद्यपानादेः | एवमिति-- विपरीतादेव आचारात् लोकविरुद्धात् निधुवनादेः, इतरथा हि लोभलौल्यादिना प्रवर्तयेतामित्युक्तं नान्यथेति || एवं परानुग्रहव्यग्रतया नित्याद्यपि अयं संक्षेपेण कुर्यात्-- इत्याह-- नित्याद्यल्पाल्पकं कुर्याद्यदुक्तं ब्रह्मयामले || २३-४३ || चीर्णविद्याव्रतः सर्वं मनसा वा स्मरेत् प्रिये | ननु अयं परीक्षणपरोऽपि प्रमादात् कस्मिंश्चिदयोग्यतामजानान एव दीक्षां कुर्वाणः किं दुष्यति न वा ?--इत्याशङ्क्याह--
SKदेहसंबन्धसंछन्नसार्वज्ञ्यो दम्भभाजनम् || २३-४४ || अविदन्दीक्षमाणोऽपि न दुष्येद्दैशिकः क्वचित् | ज्ञात्वा त्वयोग्यतां नैनं दीक्षेत प्रत्यवायिताम् || २३-४५ || अवेदने देहसंबन्धसंछन्नसार्वज्ञ्यं हेतुः | दीक्षेतेति-- लोभादिना || ४५ || एवमपि दीक्षितस्य ज्ञानदानादौ पौनःपुन्येन परीक्षां कुर्यात्-- इत्याह-- बुद्ध्वा ज्ञाने शास्त्रसिद्धिगुरुत्वादौ च तं पुनः | भूय एव परीक्षेत तत्तदौचित्यशालिनम् || २३-४६ || तत्र तत्र नियुञ्जीत न तु जातु विपर्ययात् | परीक्षेत इत्यत्र च्छेदः | तत्र तत्रेति--ज्ञानशास्त्रादौ | विपर्ययादिति--तत्तदौचित्यशालित्वविलक्षणात् || ननु एवं जिज्ञासान्यथानुपपत्त्या नूनमस्य पारमेश्वरमधिष्ठानमस्ति, तदेव च योग्यत्वमुच्यते इति किमन्येन योग्यत्वायोग्यत्वपरीक्षणेन ?--इत्याशङ्कते-- ननु तद्वस्त्वयोग्यस्य तत्रेच्छा जायते कुतः || २३-४७ || तदीशाधिष्ठितेच्छैव योग्यतामस्य सूचयेत् | तत्रेति--ज्ञानादौ || एतदेवाभ्युपगम्य प्रतिविधत्ते-- सत्यं कापि प्रबुद्धासाविच्छा रूढिं न गच्छति || २३-४८ || विद्युद्वत्पापशीलस्य यथा पापापवर्जने | ननु परमेश्वराधिष्ठानात् प्रबुद्धापि एवमिच्छा कथं न प्ररोहं गच्छेत्?--इत्याशङ्क्याह-- रूढ्यरूढी तदिच्छाया अपि शंभुप्रसादतः || २३-४९ || अत एव नायं प्रबुद्धायामपि तत्रेच्छायां तदप्ररोहात् ज्ञानादौ पात्रम्--इत्याह-- अप्ररूढतथेच्छाकस्तत एव न भाजनम् | यः सम्यग्ज्ञानमादाय गुरुविश्वासवर्जितः || २३-५० || लोकं विप्लावयेन्नास्मिञ्ज्ञाते विज्ञानमर्पयेत् | विप्लावयेदिति--विरुद्धाचरणात् | एवमस्मिन्नप्ररूढेच्छाकत्वादयोग्यतया ज्ञाते विज्ञानमेव नार्पयेत्-- इत्याह--नास्मिन्नित्यादि || यः पुनरेवं ज्ञानार्पणकाले न ज्ञातस्तदुत्तरकालं तु ज्ञातस्तस्य ज्ञानापहरणमेव कुर्यात्--इत्याह-- अज्ञातेऽपि पुनर्ज्ञाते विज्ञानहरणं चरेत् || २३-५१ || एतदेव मतेर्हरणमाह-- पुनःपुनर्यदा ज्ञातो विश्वासपरिवर्जितः | तदा समग्रतो ध्यायेत्स्फुरन्तं चन्द्रसूर्यवत् || २३-५२ ||
SKततो निजहृदम्भोजबोधाम्बरतलोदिताम् | स्वर्भानुमलिनां ध्यायेद्वामां शक्तिं विमोहनीम् || २३-५३ || वामाचारक्रमेणैनां निःसृतां साध्यगामिनीम् | चिन्तयित्वा तया ग्रस्तप्रकाशं तं विचिन्तयेत् || २३-५४ || अनेन क्रमयोगेन मूढबुद्धेर्दुरात्मनः | विज्ञानमन्त्रविद्याद्याः प्रकुर्वन्त्यपकारिताम् || २३-५५ || पुनः पुनरिति--अत्रापि यथा अन्यथाभावो न भवेत्--इति भावः | वामाचार इति--संहारक्रमेण--इत्यर्थः | तदुक्तम्-- ङ्यायेन ज्ञानमादाय पश्चान्न प्रतिपद्यते | तदा तस्य प्रकुर्वीत विज्ञानापहृतिं बुधः || ततस्तं दीप्तमालोक्य तदंगुष्ठाग्रतः क्रमात् | नयेत्तेजः समाहृत्य द्वादशान्तमनन्यधीः || अथवा सूर्यबिम्बाभं ध्यात्वा विच्छेद्यमग्रतः | स्वर्भानुरूपया शक्त्या ग्रस्तं तमनुचिन्तयेत् || अनेन विधिना तस्य मूढबुद्धेर्दुरात्मनः | विज्ञानमन्त्रविद्याद्या न कुर्वन्त्युपकारिताम् || अपराधसहस्रैस्तु महाकोपसमन्वितः | विधिमेनं प्रकुर्वीत क्रीडार्थं न तु जातुचित् ||᳚ (मा.वि. १८|६६) इति ||५५ || ननु आत्मनो ज्ञानक्रिये रूपं तदात्मनो ज्ञानापहरणात् नाश एव स्यात्, नहि अस्माकं काणादादिवत् आत्मज्ञानयोः गुणगुणिभावोऽभिमत इति कथमेतदस्मदागमेऽभिहितम् ?-- इत्याशङ्कते-- ननु विज्ञानमात्मस्थं कथं हर्तुं क्षमं भवेत् | अतो विज्ञानहरणं कथं श्रीपूर्व उच्यते || २३-५६ || एतदेव प्रतिविधत्ते-- उच्यते नास्य शिष्यस्य विज्ञानं रूढिमागतम् | तथात्वे हरणं कस्मात्पूर्णयोग्यत्वशालिनः || २३-५७ || नहि एतज्ज्ञानमस्य शिष्यस्य रूढिमागतम् शुद्धतामुपागतम्-- इत्यर्थः | रूढ्युपगमे हि परे पूर्णे धाम्नि एक्यात्म्यापत्तिसहिष्णुतया श्लाघमानस्य ज्ञानस्य कथङ्कारं हरणमेव स्यात्, एवं हि आत्मनो नाश एव भवेत्--इत्युक्तप्रायम् || ५७ || नन्वस्योपदेशस्तावत् वृत्त इति किमिति न ज्ञानं रूढिमागतम्?-- इत्याशङ्क्याह-- किंत्वेष वामया शक्त्या मूढो गाढं विभोः कृतः | स्वभावादेव तेनास्य विद्याद्यमपकारकम् || २३-५८ ||
SKननु विलयशक्त्याघ्रतत्वादस्य स्वभावत एव चेत् विद्याद्यमपकारकं तत् गुरुः किमर्थं विज्ञानापहरणं कुर्यात् ?--इत्याशङ्क्याह-- गुरुः पुनः शिवाभिन्नः सन्यः पञ्चविधां कृतिम् | कुर्याद्यदि ततः पूर्णमधिकारित्वमस्य तत् || २३-५९ || अतो यथा शुद्धतत्त्वसृष्टिस्थित्योर्मलात्यये | योजनानुग्रहे कार्यचतुष्केऽधिकृतो गुरुः || २३-६० || शिवाभेदेन तत्कुर्यात्तद्वत्पञ्चममप्ययम् | तिरोभावाभिधं कृत्यं तथासौ शिवतात्मकः || २३-६१ || अत इति--पञ्चकृत्यकारित्वेन पूर्णाधिकारित्वात् | तदिति-- कार्यचतुष्कम् | एवं कृत्यपञ्चककारित्वेन अस्य किं स्यात्?-- इत्याशङ्क्योक्तम्--तथासौ शिवतात्मकः इति || ६१ || एवं च श्रेयोरूपत्वादेव क्वचिदपि नायं कुप्येत्--इत्याह-- अत एव शिवे शास्त्रे ज्ञाने चाश्वासभाजनम् | गुरोर्मूढतया कोपधामापि न तिरोहितः || २३-६२ || अतः शिवात्मकत्वादेव गुरोर्भूतपूर्वगत्या शैवशास्त्रादौ आश्वासभाजनं मूढतया तिरोहितोऽपि शिष्यो न कोपधाम, नास्य गुरुणा कोपः कार्यः--इत्यर्थः ||६२ || ननु किमेतदुक्तं यद्यस्यैव गुरुः कुपितः स एव संसारी तिरोहितः इत्युच्यते--इत्याह-- गुरुर्हि कुपितो यस्य स तिरोहित उच्यते | सत्यमेवं स तु गुरुर्निखिलजगदुद्दिधीर्षापरतया परमकारुणिकः परमेश्वर एव, स च सत्यज्ञानमय इति कः कस्य कोपं कुर्यात्-- इत्याह-- संसारी स तु देवो हि गुरुर्न च मृषाविदः || २३-६३ || तत एव च शास्त्रादिदूषको यद्यपि क्रुधा | न दह्यतेऽसौ गुरुणा तथाप्येष तिरोहितः || २३-६४ || हिरवधारणे | मृषाविद इति--मिथ्याज्ञानरूपः--इत्यर्थः, तथात्वे भवेदेव कोपस्यावकाशः--इत्याशयः | तत इति-- मिथ्याज्ञानरूपत्वाभावादेव | तथापीति--वस्तुमहिम्नो दुर्लंध्यत्वात् ||६४ || तदेव अस्मद्गुरूणामपि मतम्--इत्याह-- अस्मद्गुर्वागमस्त्वेष तिरोभूते स्वयं शिशौ | न कुप्येन्न शपेद्धीमान् स ह्यनुग्राहकः सदा || २३-६५ || तुर्ह्यर्थे ||६५ ||
SKनहि अस्य स्वयमेव तिरोधित्सोरत्रान्यत्किञ्चित्कर्तव्यमवशिष्यते यदनेनापि कार्यम्--इत्याह-- ईशेच्छाचोदितः पाशं यदि कण्ठे निपीडयेत् | किमाचार्येण तत्रास्य कार्या स्यात्सहकारिता || २३-६६ || किं कार्या स्यादिति--नात्र सहकारिणा कश्चिदर्थः--इत्यर्थः || ६६ || ननु यद्येवं तच्छिवाभेदिनोऽस्य पञ्चविधकृत्यकारित्वं किं न खण्ड्येत?--इत्याशङ्क्याह-- शिवाभिन्नोऽपि हि गुरुरनुग्रहमयीं विभोः | मुख्यां शक्तिमुपासीनोऽनुगृह्णीयात्स सर्वथा || २३-६७ || यदुक्तं तत्र-- ᳚अनेन विधिना भ्रष्टो विज्ञानादपरेण न | शक्यो योजयितुं भूयो यावत्तेनैव नोद्धृतिः ||᳚ (मा.वि. १८|६७) इति ||६७ || ननु तर्हि किमर्थं विज्ञानापहरणं कुर्यादित्याद्युक्तम् ?-- इत्याशङ्क्याह-- स्वातन्त्र्यमात्रज्ञप्त्यै तु कथितं शास्त्र ईदृशम् | न कार्यं पततां हस्तालम्बः सह्यो न पातनम् || २३-६८ || एवमस्य कृपापरेणैव भाव्यम्--इत्याह-- अत एव स्वतन्त्रत्वादिच्छायाः पुनरुन्मुखम् | प्रायश्चित्तैर्विशोध्यैनं दीक्षेत कृपया गुरुः || २३-६९ || स्वतन्त्रत्वादिति--एतदेव हि नाम अस्याः स्वातन्त्र्यं यन्निगृहीतस्यापि पुनरनुग्रह इति || ६९ || ननु इतः पतितस्तिरोहित एव उच्यते इत्युक्तम्, एवमसौ ततोऽपि च इतराश्वस्ततया पतितस्तदुभयभ्रष्टत्वादिहापि कथमनुग्राह्यः स्यात् ?--इत्याशङ्क्याह-- ऊर्ध्वदृष्टौ प्रपन्नः सन्ननाश्वस्तस्ततः परम् | अधःशास्त्रं प्रपद्यापि न श्रेयः पात्रतामियात् || २३-७० || अधोदृष्टौ प्रपन्नस्तु तदनाश्वस्तमानसः | ऊर्ध्वशासनभाक् पापं तच्चोज्झेच्च शिवीभवेत् || २३-७१ || एतदेव दृष्टान्तोपदर्शनेन घटयति-- राज्ञे दुर्ह्यन्नमात्याङ्गभूतोऽपि हि विहन्यते | विपर्ययस्तु नेत्येवमूर्ध्वां दृष्टिं समाश्रयेत् || २३-७२ || अत एव अस्मच्छास्त्रमप्येवम्--इत्याह-- श्रीपूर्वशास्त्रे तेनोक्तं यावत्तेनैव नोद्धृतः | एतदेव तात्पर्यतो व्याचष्टे-- अत्र ह्यर्थोऽयमेतावत्पूर्वोक्तज्ञानवृंहितः || २३-७३ || गुरुस्तावत्स एवात्र तच्छब्देनावमृश्यते | अविप्रतिपत्तिद्योतकस्तावच्छब्दः ||
SKएवकारार्थमप्याह-- तादृक्स्वभ्यस्तविज्ञानभाजोर्ध्वपदशालिना || २३-७४ || अनुद्धृतस्य न श्रेय एतदन्यगुरूद्धृतेः | अत एवाम्बुजन्मार्कदृष्टान्तोऽत्र निरूपितः || २३-७५ || निरूपित इति--एतद्विवरण एव पञ्चिकायाम् | यदुक्तं तत्र-- ᳚दिवाकरकरासारविरहात्संकुचत्कजम् | सत्स्वप्यन्यग्रहमहःस्वेति नैव विकासिताम् || एवं शिष्यहृदम्भोजं गुरुपादविवर्जितम् | निमीलद्विकसत्येव पुनस्तत्पादपाततः ||᳚ इति ||७५ || ननु अस्य अन्योऽपि गुरुरस्तु तेनैव गुरुणा कोऽर्थः?--इत्याशङ्कां दृष्टान्तान्तरेणापि निरवकाशयति-- त्रिजगज्ज्योतिषो ह्यन्यत्तेजोऽन्यच्च निशाकृतः | ज्ञानमन्यत्त्रिकगुरोरन्यत्त्वधरवर्तिनाम् ||७६ || ननु एवमन्तरा चेदस्य गुरोः पिण्डपातो वृत्तः, तदा अनेन किं कार्यम्?--इत्याशङ्क्याह-- अत एव पुराभूतगुर्वभावो यदा तदा | तदन्यं लक्षणोपेतमाश्रयेत्पुनरुन्मुखः || २३-७७ || अस्य च अत्र लक्षणम्-- ᳚यः पुनः सर्वतत्त्वानि.................... |᳚ (मा.वि. २|१०) इत्यादिनोक्तम् ||७७ || तस्मिंस्तु जीवति तत्त्यागो न कार्यः--इत्याह-- सति तस्मिंस्तून्मुखः सन्कस्माज्जह्याद्यदि स्फुटम् | स्यादन्यतरगो दोषो योऽधिकारापघातकः || २३-७८ || एवमूर्ध्वशासनस्थ एव गुरुराश्रयणीयः--इति अत्र तात्पर्यम् | सति तु दोषे परस्परस्यापि त्यागः कार्यः--इत्याह--यदीत्यादि ||७८ || ननु किमत्र लौकिको दोषो ग्राह्यः शास्त्रीयो वा ?--इत्याशङ्क्याह-- दोषश्चेह न लोकस्थो दोषत्वेन निरूप्यते | अज्ञानख्यापनायुक्तख्यापनात्मा त्वसौ मतः || २३-७९ || शिष्यस्यापि तथाभूतज्ञानानाश्वस्तरूपता | मुख्यो दोषस्तदन्ये हि दोषास्तत्प्रभवा यतः || २३-८० ||
SKशास्त्रीयस्यैव दोषस्य स्वरूपं निरूपयति--अज्ञानेत्यादिना | अपिशब्दाद्गुरोरिति लभ्यते, तेन गुरोः शिष्यस्य च असौ मुख्यो दोषो मतः--इति संबन्धः | तत्र तावद् गुरोरज्ञानं ज्ञत्वेऽपि ख्यापयितुमसामर्थ्यम्, तत्त्वेऽपि अयुक्तस्य अर्थस्य ख्यापनमिति | अन्ये इति--गुरोरविहितानुष्ठानादयः, शिष्यस्य च गुर्वपरिग्रहादयः | हिर्वाक्यालङ्कारे ||८० || गुर्वपरिग्रहादेश्च ज्ञानानाश्वासहेतुकत्वमेव अन्वयव्यतिरेकाभ्यां दृष्टान्तमुखेन द्रढयति-- न ध्वस्तव्याधिकः को हि भिषजं बहु मन्यते | असूयुर्नूनमध्वस्तव्याधिः स्वस्थायते बलात् || २३-८१ || एवं ज्ञानसमाश्वस्तः किं किं न गुरवे चरेत् | नो चेन्नूनमविश्वस्तो विश्वस्त इव तिष्ठति || २३-८२ || तथाहि ध्वस्तव्याधिः सर्वो जनः त्वत्प्रसादोपनतप्राणा वयमित्येवं भिषजे बहुमानं कुर्यात्, तं प्रति असूयुरीर्ष्यावान् पुनर्निश्चितमध्वस्तव्याधिमस्वस्थमपि आत्मानं स्वस्थमिव बलात् मन्यते, तथा ज्ञानसमाश्वस्तः शिष्यो गुरवे किं नाम न आनुगुण्यमाचरेत्, ज्ञानं प्रति अनाश्वस्तस्तु वस्तुवृत्तेन अविश्वस्तोऽपि किं मम गुरुणा कार्यमिति विश्वस्त इव तिष्ठति स्वात्मन्येवं वृथाभिमानं विदध्यात्-- इत्यर्थः || ८१-८२ || ननु गुरोः शास्त्रीय एव दोषो ग्राह्यो न लौकिक इत्यत्र किं प्रमाणम्?- -इत्याशङ्क्याह-- अज्ञानादय एवैते दोषा न लौकिका गुरोः | इति ख्यापयितुं प्रोक्तं मालिनीविजयोत्तरे || २३-८३ || न तस्यान्वेषयेद्वृत्तं शुभं वा यदि वाऽशुभम् | स एव तद्विजानाति युक्तं चायुक्तमेव वा || २३-८४ || अकार्येषु यदा सक्तः प्राणद्रव्यापहारिषु | तदा निवारणीयोऽसौ प्रणतेन विपश्चिता || २३-८५ || विशेषणमकार्याणामुक्ताभिप्रायमेव यत् | तेनातिवार्यमाणोऽपि यद्यसौ न निवर्तते || २३-८६ || तदान्यत्र क्वचिद् गत्वा शिवमेवानुचिन्तयेत् | नान्वेषयेदिति--यदुक्तम्-- ᳚प्रपित्सायां समाचारं गुरोरन्वेषयेत यः | स सद्गुरुं समासाद्य शीघ्रं शिवमवाप्नुयात् || ऊर्ध्वं तत्पादपतनान्नास्य काञ्चन कालिकाम् |
SKगृह्णीयात्सा मलिनयेच्छिष्यस्यैवोज्ज्वलां धियम् ||᳚ इति | स एव विजानातीति--तस्यैव शास्त्रपारङ्गत्वात् | उक्ताभिप्रायमिति--प्राणद्रव्यापहारित्वस्य लौकिकत्वात् || ननु यद्येवमसौ कार्याकार्यविवेकं न जानीयात्, तत् ᳚गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः | उत्पथप्रतिपन्नस्य परित्यागो विधीयते ||᳚ इत्यादिदृशा तस्य परित्याग एव क्रियतां, किमन्यत्र गमनेन?-- इत्याशङ्क्याह-- न ह्यस्य स गुरुत्वे स्याद्दोषो येनोषरे कृषिम् || २३-८७ || कुर्याद् व्रजेन्निशायां वा स त्वर्थप्राणहारकः | तदीयाप्रियभीरुस्तु परं तादृशमाचरेत् || २३-८८ || यतस्तदप्रियं नैष शृणुयादिति भाषितम् | न च एतदस्मच्छास्त्र एवोक्तम्--इत्याह-- श्रीमातङ्गे तदुक्तं च नाधीतं भूमभीतितः || २३-८९ || भूमभीतित इति--ग्रन्थविस्तरभयात्--इत्यर्थः | तत् ततः स्वयमेव चर्यापादादेरनुसर्तव्यम् ||८९ || ननु यावत्तेनैव नोद्धृत इति किं गुर्वन्तरव्यवच्छेदपरमवधारणम्, उत स्वतो विवेकनिषेधपरमपि ?--इत्याशङ्क्याह-- यच्चैतदुक्तमेतावत्कर्तव्यमिति तद्ध्रुवम् | तीव्रशक्तिगृहीतानां स्वयमेव हृदि स्फुरेत् || २३-९० || यद्येवं, तत्कृतं गुरुणा?--इत्याशङ्क्याह-- उपदेशस्त्वयं मन्दमध्यशक्तेर्निजां क्रमात् | शक्तिं ज्वलयितुं प्रोक्तः सा ह्येवं जाज्वलीत्यलम् || २३-९१ || एतदेव दृष्टान्तयति-- दृढानुरागसुभगसंरम्भाभोगभागिनः | स्वोल्लासि स्मरसर्वस्वं दार्ढ्यायान्यत्र दृश्यते || २३-९२ || अन्यत्रेति--अदृढानुरागे ||९२ || ननु सर्वोऽयमणुवर्गः चित एव परिस्फुरति, सा च सर्वत्रापि अविशिष्टा, तत्कथमिदमसमञ्जसं दृष्टान्तितं यत् कस्यचित् स्वत एव एवंरूपत्वमुल्लसेत्, कस्यचिच्च अन्यत् ?--इत्याशङ्क्याह-- नन्वेष कस्माद् दृष्टान्तः किमेतेनाशुभं कृतम् | चित्स्पन्दः सर्वगो भिन्नादुपाधेः स तथा तथा || २३-९३ ||
SKएतदेवोत्तरयति--किमित्यादिना | ननु किं नामैतेन दृष्टान्तेन असमञ्जसीकृतम् | स हि चित्स्पन्दः सर्वत्र अविशिष्टोऽपि तत्तद्भिन्नोपाधिदौरात्म्यात् तथा तथा विचित्रतामाश्रयेत्--इत्यर्थः ||९३ || तामेव विचित्रतां दर्शयति-- भवेत्कोऽपि तिरोभूतः पुनरुन्मुखितोऽपि सन् | विनापि दैशिकात्प्राग्वत्स्वयमेव विमुच्यते || २३-९४ || सन्नपीति प्रागपि योज्यम् | प्राग्वदिति--त्रयोदशाह्निकादौ प्रोक्तक्रमेण- - इत्यर्थः || ९४ || ननु तिरोभूतोऽपि किं सांसिद्धिकज्ञानभाग्भवेत् ?--इत्याशङ्क्याह-- प्रकारस्त्वेष नात्रोक्तः शक्तिपातबलाद् गतः | असंभाव्यतया चात्र दृढकोपप्रसादवत् || २३-९५ || नहि अयमत्र तिरोभूते सांसिद्धिकलक्षणः प्रकार उक्तः, किन्तु प्रकरणात् संभवमात्राभिप्रायेण प्रदर्शितो यदयं तिरोभूतः शक्तिपातबलात् गतो मन्दमन्दप्रायशक्तिपातभाक्--इत्यर्थः | असंभावनीयं चैतत् | यथाहि राजादिना दृढतया कोपपात्रीकृतस्य कस्यचित् विना परोपरोधं समनन्तरमेव तदीयः प्रसादो न भवेत्, तथा अस्यापि विना दैशिकं कथङ्कारं स्वयमेव ज्ञानमाविर्भवेत् | इयता च विषयद्वारेण ज्ञानापहरणमेव विभक्तम् ||९५ || एतच्च गुरोरवश्यं पालनीयम्--इत्याह-- इत्येष यो गुरोः प्रोक्तो विधिस्तं पालयेद् गुरुः | अन्यथा न शिवं यायाच्छ्रीमत्सारे च वर्णितम् || २३-९६ || श्रीत्रिकसारोक्तमेव पठति-- अन्यायं ये प्रकुर्वन्ति शास्त्रार्थं वर्जयन्त्यलम् | तेऽर्धनारीशपुरगा गुरवः समयच्युताः || २३-९७ || अर्धनारीशपुरेति | यदुक्तं तत्र-- ᳚उपरिष्टाद् बिन्दुतत्त्वमीश्वरस्तत्र देवता | विधिः समयिनां तत्र कथितस्तव निश्चितम् || तदूर्ध्वे अर्धनारीशो महाभुवनसंकुलः | स्कन्दयामलतन्त्रे तु अनन्तः परिकीर्तितः || समयाचारभ्रष्टानामाचार्याणां यशस्विनि | निरोधकत्वे संतिष्ठेदित्याज्ञा पारमेश्वरी || अन्यायं ये प्रकुर्वन्ति ग्रन्थार्थं नार्थयन्ति ये | तेषां तत्र निवासस्तु अन्यायपथवर्तिनाम् ||᳚ इति ||९७ ||
SKएतच्च न केवलमत्रैवोक्तं यावदागमान्तरेष्वपि--इत्याह-- अन्यत्राप्यधिकारं च नेयाद्विद्येशतां व्रजेत् | अन्यत्र समयत्यागात्क्रव्यादत्वं शतं समाः || २३-९८ || यदुक्तम्-- ᳚अधिकारं न चेत्कुर्याद्विद्येशः स्यात्तनुक्षये |᳚ इति | तथा शमयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः |᳚ इति च ||९८ || अत्रैव वाक्यत्रये तात्पर्यतो विषयविभागमाचष्टे-- इयत्तत्रत्यतात्पर्यं सिद्धान्तगुरुरुन्नयः | भवेत्पिशाचविद्येशः शुद्ध एव तु तान्त्रिकः || २३-९९ || षडर्धदैशिकश्चार्धनारीशभुवनस्थितिः | उन्नय इति--उल्लङ्घितसमयः--इत्यर्थः | एतच्च उत्तरत्रापि योज्यम् | शुद्ध इति--साक्षाद्विद्येशरूपः | तान्त्रिको भैरवीयदर्शनादिनिष्ठः || अत्रापि विषयविभागमाह-- एषा कर्मप्रधानानां गुरूणां गतिरुच्यते || २३-१०० || ज्ञानिनां चैष नो बन्ध इति सर्वत्र वर्णितम् | इदानीं साधकत्वमभिधातुं तदभिषेके पूर्वोक्तं विधिमतिदिशति-- साधकस्याभिषेकेऽपि सर्वोऽयं कथ्यते विधिः || २३-१०१ || तत्रापि विशेषमाह-- अधिकारार्पणं नात्र न च विद्याव्रतं किल | साध्यमन्त्रार्पणं त्वत्र स्वोपयोगिक्रियाक्रमे || २३-१०२ || समस्तेऽप्युपदेशः स्यान्निजोपकरणार्पणम् | उपदेश इति | यदुक्तम्-- ᳚अनयोः कथयेज्ज्ञानं त्रिविधं सम्यगप्यलम् | स्वकीयाज्ञां ददेद्योगी स्वक्रियाकरणं प्रति ||᳚ इति | निजोपकरण इति | यदुक्तम्-- शाधकस्याधिकारार्थमक्षमालादि कल्पयेत् | मन्त्रकल्पाक्षसूत्रं च खटिकां छत्रपादुके || उष्णीषरहितं दत्त्वा प्रविश्य शिवसंनिधौ | साध्यमन्त्रं ददेत्पश्चात्पुष्पोदकसमन्वितम् ||᳚ इति || एतदेव प्रथमार्धेनोपसंहरति-- अभिषेकविधिर्निरूपितः परमेशेन यथा निरूपितः || २३-१०३ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके अभिषेकप्रकाशनं नाम त्रयोविंशमाह्निकम् || २३ || इति शिवम् || १०३ || श्रीसद्गुरुसेवारससनातनाभ्यासदुर्ललितवृत्तः | आह्निकमेतदमलमतिर्व्याकार्षीज्जयरथस्त्रयोविंशम् ||
SKइति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते अभिषेकप्रकाशनं नाम त्रयोविंशमाह्निकं समाप्तम् || २३ || चतुर्विंशमाह्निकम् ᳚ विवेकः ᳚ यः परमामृतकुम्भे धाम्नि परे योजयेद् गतासुमपि | जगदात्मभद्रमूर्तिदिशतु शिवं भद्रमूर्तिर्वः || १ || इदानीं द्वितीयार्धेन अन्त्येष्टिविधिमभिधातुमुपक्रमते-- अथ शाम्भवशासनोदितां सरहस्यां शृणुतान्त्यसंस्क्रियाम् || २४-१ || तत्र अधिकारिस्वरूपं तावन्निरूपयति-- सर्वेषामधरस्थानां गुर्वन्तानामपि स्फुटम् | शक्तिपातात्पुराप्रोक्तात्कुर्यादन्त्येष्टिदीक्षणम् || २४-२ || ऊर्ध्वशासनगानां च समयोपहतात्मनाम् | अन्त्येष्टिदीक्षा कर्तव्या गुरुणा तत्त्ववेदिना || २४-३ || अधरस्थानामिति--वैष्णवादीनाम् | शक्तिपातादिति-- बन्ध्वादिगाढाभ्यर्थनाद्वारकात् | पुरेति--मृतोद्धारदीक्षायाम् | ऊर्ध्वशासनगानामिति--शैवादीनाम् ||३ || किमत्र प्रमाणम् ?--इत्याशङ्क्याह-- समयाचारदोषेषु प्रमादात्स्खलितस्य हि | अन्त्येष्टिदीक्षा कार्येति श्रीदीक्षोत्तरशासने || २४-४ || अत्रैव इतिकर्तव्यतामाह-- यत्किञ्चित्कथितं पूर्वं मृतोद्धाराभिधे विधौ | प्रतिमायां तदेवात्र सर्वं शवतनौ चरेत् || २४-५ || अत्र च आगमान्तरीयो विशेषः--इत्याह-- श्रीसिद्धातन्त्रकथितो विधिरेष निरूप्यते | तमेवाह-- अन्तिमं यद्भवेत्पूर्वं तत्कृत्वान्तिममादिमम् || २४-६ || संहृत्यैकैकमिष्टिर्या सान्त्येष्टिर्द्वितयी मता | पूजाध्यानजपाप्लुष्टसमये न तु साधके || २४-७ || पिण्डपातादयं मुक्तः खेचरो वा भवेत्प्रिये | आचार्ये तत्त्वसंपन्ने यत्र तत्र मृते सति || २४-८ || अन्त्येष्टिर्नैव विद्येत शुद्धचेतस्यमूर्धनि |
SKइह यन्मन्त्रवर्णादि अन्तिमं तत् पूर्वं, यच्च आदिमं तदन्तिमं कृत्वा एकैकं संहृत्य संहारक्रमेणोच्चार्य येयमिष्टिः, सा अन्तादारभ्य अन्तं यावच्च इष्टिः--इत्यर्थः | सा च समयिपुत्रकयोरेव कार्या--इत्याह--द्वितयी मतेति | अमूर्धनीति-- मूर्धशब्दस्य देहोपलक्षकतया तदभिमानशून्ये--इत्यर्थः | अनयोश्च अन्त्येष्ट्यभावे विशेषणद्वारेण हेतूपन्यासः || न केवलं समयलोपोपहतानामेव एषा कार्या, यावदन्येषामपि-- इत्याह-- मन्त्रयोगादिभिर्ये च मारिता नरके तु ते || २४-९ || कार्या तेषामिहान्त्येष्टिर्गुरुणातिकृपालुना | न मण्डलादिकं त्वत्र भवेत् श्माशानिके विधौ || २४-१० || केचित्तदपि कर्तव्यमूचिरे प्रेतसद्मनि | पूजयित्वा विभुं सर्वं न्यासं पूर्ववदाचरेत् || २४-११ || संहारक्रमयोगेन चरणान्मूर्धपश्चिमम् | तथैव बोधयेदेनं क्रियाज्ञानसमाधिभिः || २४-१२ || क्रियाद्येव श्रीकुलगह्वरोक्त्या विभज्य दर्शयति-- बिन्दुना रोधयेत्तत्त्वं शक्तिबीजेन वेधयेत् | घट्टयेन्नाददेशे तु त्रिशूलेन तु ताडयेत् || २४-१३ || सुषुम्नान्तर्गतेनैव विसर्गेण पुनः पुनः | ताडयेत कलाः सर्वाः कम्पतेऽसौ ततः पशुः || २४-१४ || उत्क्षिपेद्वामहस्तं वा ततस्तं योजयेत्परे | प्रत्ययेन विना मोक्षो ह्यश्रद्धेयो विमोहितैः || २४-१५ || तदर्थमेतदुदितं न तु मोक्षोपयोग्यदः | इत्यूचे परमेशः श्रीकुलगह्वरशासने || २४-१६ || इह खलु आचार्यो बिन्दुना प्राणेन महाजालयोगक्रमेण आकृष्टं पाशवं तत्त्वमात्मानं स्वाभेदेन हृदि रोधयेत, तदनु मध्यधामानुप्रवेशेन तत एव प्रभृति ऊर्ध्वोर्ध्वाक्रमणतया शक्तिबीजेन अमृतार्णेन अनुविद्धं विदध्यात्, नाददेशे तदनु घट्टयेत् रौद्रग्रन्थिविभेदनेन स्पन्दं ग्राहयेत्, ततोऽपि त्रिशूलबीजेन ब्रह्मरंध्रन्तमास्फालयेत्, तदनु परिपूर्णं चान्द्रमसं रूपमुद्वहता सर्वातीतदशाधिशायिना विसर्गेण ᳚पुरुषे षोडशकले............................ |᳚
SKइत्याद्युक्त्या सर्वाः षोडशापि कलाः पुनः पुनस्ताडयेत-- स्वाविभेदेन आक्रमेत | येनासौ उद्धार्यपशुः कम्पते, वामं वा हस्तमुत्क्षिपेत् | ततः प्रत्ययोत्पादानन्तरं परे योजयेत् पूर्णसंविदात्मनि अस्य योजनिकां कुर्यात्-- इत्यर्थः || १६ || यदि नाम अस्य प्रत्ययस्य एकान्तो मोक्षोपयोगित्वं नास्ति, तत् किमेतेन ?-- इत्याशङ्क्याह-- साध्योऽनुमेयो मोक्षादिः प्रत्ययैर्यदतीन्द्रियः | अत्राप्यस्ति शास्त्रान्तरीयो विशेषः--इत्याह-- दीक्षोत्तरे च पुर्यष्टवर्गार्पणमिहोदितम् || २४-१७ || तदेवाह-- तद्विधिः श्रुतिपत्रेऽब्जे मध्ये देवं सदाशिवम् | ईशरुद्रहरिब्रह्मचतुष्कं प्राग्दिगादितः || २४-१८ || पूजयित्वा श्रुतिस्पर्शौ रसं गन्धं वपुर्द्वयम् | ध्यहंकृती मनश्चेति ब्रह्मादिष्वर्पयेत्क्रमात् || २४-१९ || एतेषां तर्पणं कृत्वा शतहोमेन दैशिकः | एषा सांन्यासिकी दीक्षा पुर्यष्टकविशोधनी || २४-२० || वपुरिति रूपम्, ब्रह्मादिषु क्रमादिषु क्रमादर्पयेदिति | तदुक्तम्-- ᳚कलाशुद्ध्यवसाने तु ब्रह्माणं कारणाधिपम् | स्वनामप्रणवाह्वानपूर्वं संतर्प्य चार्पयेत् || शब्दस्पर्शौ त्यजेदस्मिन्...................... |᳚ इति ᳚रसं पुर्यष्टकांशं तु अर्पयेद्विष्णवे सदा |᳚ इति ᳚प्रणवादि ततो रुद्रमावाह्यास्थाप्य पूजयेत् | ततोऽस्य विन्यसेद्देवि गन्धरूपे ध्रुवाहुतेः ||᳚ इति श्वनाम्ना प्रणवाद्येन ईशमावाह्य पूजयेत् | संपूज्य हुत्वा संतर्प्यं बुद्ध्यहंकृतिद्व्यंशकम् || सदाशिवमथावाह्य मूलमन्त्रं समुच्चरन् | मनः पुर्यष्टकांशं तु विन्यसेत्कारणेश्वरे ||᳚ इति च ||२० || एवमस्य संस्कारमभिधाय, तत्प्रयोजनमाह-- पुर्यष्टकस्याभावे च न स्वर्गनरकादयः | तथा कृत्वा न कर्तव्यं लौकिकं किञ्चनापि हि || २४-२१ || उक्तं श्रीमाधवकुले शासनस्थो मृतेष्वपि | पिण्डपातोदकास्रवादि लौकिकं परिवर्जयेत् || २४-२२ || चो हेतौ | तथेति--उक्तेन प्रकारेण || २२ || स्वशास्त्रविहितं कार्यमेव--इत्याह-- शिवं संपूज्य चक्रार्चां यथाशक्ति समाचरेत् | क्रमात्त्रिदशमत्रिंशत्रिंशवत्सरवासरे || २४-२३ ||
SKत्रीति--प्रथमचतुर्थयोरुपलक्षणम्, दशमेति--एकादशस्यापि || २३ || एतदेव प्रथमार्धेनोपसंहरति-- इत्युक्तोऽन्त्येष्टियागोऽयं परमेश्वरभाषितः || २४-२४ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके अन्त्येष्टिप्रकाशनं नाम चतुर्विंशमाह्निकम् || २४ || इति शिवम् || २४ || दीक्षावैचक्षण्यप्रथितजयो जयरथाभिख्यः | आह्निकमेतच्चतुरं कृतविवृति व्यरचयच्चतुर्विंशम् || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते अन्त्येष्टिप्रकाशनं नाम चतुर्विंशमाह्निकं समाप्तम् || २४ || पञ्चविंशमाह्निकम् ᳚ विवेकः ᳚ भीममधिष्ठाय वपुर्भवमभितो भावयन्निव यः | प्रभवति हृदि भक्तिमतां शिवप्रदोऽसौ शिवोऽस्तु सताम् || इदानीं द्वितीयार्धेन श्राद्धविधिमभिधातुमाह-- अथ श्राद्धविधिः श्रीमत्षडर्धोक्तो निगद्यते || २५-१ || ननु त्रिकदर्शने कुत्र नाम असौ श्राद्धविधिरुक्तः ?--इत्याशङ्क्याह- - सिद्धातन्त्रे सूचितोऽसौ मूर्तियागनिरूपणे | सूचित इति--न तु साक्षात् स्वकण्ठेनोक्तः | यदुक्तम्--तत्र ᳚मृतकस्य गृहे वाथ कर्तव्यं वीरभोजनम् |᳚ इति ᳚श्राद्धपक्षे तु दातव्यम्...................... |᳚ इति च || कस्य कदा कैश्चायं कार्यः ?--इत्याशङ्क्याह-- अन्त्येष्ट्या सुविशुद्धानामशुद्धानां च तद्विधिः || २५-२ || त्र्यहे तुर्येऽह्नि दशमे मासि मास्याद्यवत्सरे | वर्षे वर्षे सर्वकालं कार्यस्तत्स्वैः स पूर्ववत् || २५-३ || तत्र प्राग्वद्यजेद्देवं होमयेदनले तथा | अशुद्धानामिति--अन्त्येष्ट्यैव, न तु दीक्षादिना | तत्स्वैरिति--तस्य आत्मीयैः शिष्यपुत्रादिभिभिः--इत्यर्थः | स इति--श्राद्धविधिः || अत्रैव विधिविशेषमाह-- ततो नैवेद्यमेव प्राग्गृहीत्वा हस्तगोचरे || २५-४ || गुरुरन्नमयीं शक्तिं वृंहिकां वीर्यरूपिणीम् | ध्यात्वा तया समाविष्टं तं साध्यं चिन्तयेत्सुधीः || २५-५ || ततोऽस्य यः पाशव्ॐऽशो भोग्यरूपस्तमर्पयेत् | भोक्तर्येकात्मभावेन शिष्य इत्थं शिवीभवेत् || २५-६ ||
SKतया समाविष्टमिति--तदेकमयतामापन्नम्--इत्यर्थः | तमिति-- भोग्यरूपं पाशवमंशम् | इत्थमिति--पाशवरूपतापरित्यागात् भोक्त्रैकात्म्यापत्त्या--इत्यर्थः ||६ || एतदेव विभज्य दर्शयति-- भोग्यतान्या तनुर्देह इति पाशात्मका मताः | श्राद्धे मृतोद्धृतावन्तयागे तेषां शिवीकृतिः || २५-७ || अन्येति--वेद्यरूपतया भोक्तुरतिरिक्तेत्यर्थः ||७ || ननु दीक्षितः पिण्डपातादूर्ध्वं स्वरसत एव शिवीभवेदिति अस्य किमन्त्येष्ट्यादिभिः, तत्रापि समयलोपनिवृत्त्यर्थमेक एवास्तु विधिः, किमेभिर्बहुभिः ?--इत्याशङ्क्याह-- एकेनैव विधानेन यद्यपि स्यात्कृतार्थता | तथापि तन्मयीभावसिद्ध्यै सर्वं विधिं चरेत् || २५-८ || चरेदिति--मुमुक्षोः ||८ || बुभुक्षोस्तु क्रियाभ्यासभूमानौ फलभूमनि | हेतू ततो मृतोद्धारश्राद्धाद्यस्मै समाचरेत् || २५-९ || उक्तं च-- ᳚दीक्षाज्ञानविशुद्धानामन्त्येष्ट्याप्यमलात्मनाम् | तथापि कार्यमीशोक्तं श्राद्धं वै विधिपूरणम् ||᳚ इति | अनेन च श्राद्धादेः प्रयोजनमुक्तम् || ९ || ज्ञानिनस्तु एतन्न किञ्चिदपि उपादेयम्--इत्याह-- तत्त्वज्ञानार्कविध्वस्तध्वान्तस्य तु न कोऽप्ययम् | अन्त्येष्टिश्राद्धविध्यादिरुपयोगी कदाचन || २५-१० || ननु अयमाचारो दृश्यते यज्ज्ञानिनामपि मृतिदिनादौ महाजनाश्चक्रार्चादि प्रकुर्वन्ति, तत्किमेतदुक्तम् ?--इत्याशङ्क्याह-- तेषां तु गुरु तद्वर्गवर्ग्यसब्रह्मचारिणाम् | तत्सन्तानजुषामैक्यदिनं पर्वदिनं भवेत् || २५-११ || गुर्विति--पर्वदिनविशेषणम् | तद्वर्गः--पत्नीपुत्रादिः | वर्ग्यः-- पुत्रादीनामपि पुत्रादिः | एक्यदिनमिति--परमेशेन सायुज्यात् मृतिदिनम् ||११ || पर्वशब्दस्य अत्र प्रवृत्तौ निमित्तमाह-- यदा हि बोधस्योद्रेकस्तदा पर्वाह पूरणात् | आहेति--परमेश्वरः, तेन बोधं पूरयतीति पर्वेति || अतश्च एक्यदिनवत् तदीयं जन्मदिनमपि तत्सन्तानजुषां पर्व एव-- इत्याह-- जन्मैक्यदिवसौ तेन पर्वणी बोधसिद्धितः || २५-१२ || अत्रैव विशेषमाह-- पुत्रकोऽपि यदा कस्मैचन स्यादुपकारकः |
SKतदा मातुः पितुः शक्तेर्वामदक्षान्तरालगाः || २५-१३ || नाडीः प्रवाहयेद्देवायार्पयेत निवेदितम् | अपिशब्दात् न केवलं गुरुः साधको वा | मातुः पितुरिति-- गुरोस्तत्पत्न्या अपि || न च एतत्स्वोपज्ञमेवोक्तम्--इत्याह-- श्रीमद्भरुणतन्त्रे च तच्छिवेन निरूपितम् || २५-१४ || नाडीप्रवाहणे च युक्तिमाह-- तद्वाहकालापेक्षा च कार्या तद्रूपसिद्धये | स्वाच्छन्द्येनाथ तत्सिद्धिं विधिना भाविना चरेत् || २५-१५ || तासां वामादीनां नाडीनां ᳚विषुवद्वासरे प्रातर्दक्षा वहति नाडिका | सायमन्यान्तरा मध्या योगिनां तु निजेच्छया ||᳚ इत्याद्युक्तं स्वारसिकं वाहकालमपेक्ष्य, यद्वा स्वमहिम्नैव वक्ष्यमाणेन विधिना तत्सिद्धिं विधाय नाडीप्रवाहणं कुर्यात्-- इति तात्पर्यार्थः || १५ || अत्र च समय्यादेः सर्वस्य स्वशास्त्रोक्त एव विधिर्न्याय्यः, न लौकिकः--इत्याह-- यस्य कस्यापि वा श्राद्धे गुरुदेवाग्नितर्पणम् | स चक्रेष्टिः भवेच्छ्रैतो न तु स्यात्पाशवो विधिः || २५-१६ || श्रौतविध्यभावे पाशवत्वं हेतुः ||१६ || एवमपि अत्र साधकं बाधकं च प्रमाणं दर्शयितुमाह-- श्रीमौकुटे तथा चोक्तं शिवशास्त्रे स्थितोऽपि यः | प्रत्येति वैदिके भग्नघण्टावन्न स किञ्चन || २५-१७ || तथोक्तदेवपूजादिचक्रयागान्तकर्मणा | रुद्रत्वमेत्यसौ जन्तुर्भोगान्दिव्यान्समश्नुते || २५-१८ || भग्नघण्टावदिति--भग्ना हि घण्टा न स्वं कार्यं कुर्यात्, नापि लौहमित्युभयभ्रष्टतामेव आसादयेत्--इत्यर्थः | अत एवोक्तम्--न स किञ्चनेति || १८ || भाविना विधिनेति यदुक्तं तदेव दर्शयति-- अथ वच्मः स्फुटं श्रीमत्सिद्धये नाडिचारणम् | श्रीसिद्धयोगीश्वरीमतोक्तमेव ग्रन्थमर्थद्वारेण पठति-- या वाहयितुमिष्येत नाडी तामेव भावयेत् || २५-१९ || भावनातन्मयीभावे सा नाडी वहति स्फुटम् | यद्वा वाहयितुं येष्टा तदङ्गं तेन पाणिना || २५-२० || आपीड्य कुक्षिं नमयेत्सा वहेन्नाडिका क्षणात् |
SKयेति--मात्राद्युद्देशानुसारं वामाद्यन्यतमा | भावयेदिति--वहन्तीम् | यद्वेति--अयोगिविषयतया || एवं नाडीविधिमभिधाय, श्राद्धस्य भोगमोक्षदानहेतुत्वमस्ति--इत्याह-- एवं श्राद्धमुखेनापि भोगमोक्षोभयस्थितिम् || २५-२१ || कुर्यादिति शिवेनोक्तं तत्र तत्र कृपालुना | ननु दीक्षैव भोगमोक्षसाधिकेत्युक्तं तत् कथं श्राद्धाद्यात्मनः चर्यामात्रादपि एतत्स्यात् ?--इत्याशङ्क्याह-- शक्तिपातोदये जन्तोर्येनोपायेन दैशिकः || २५-२२ || करोत्युद्धरणं तत्तन्निर्वाणायास्य कल्पते | एतदेव उपपादयति-- उद्धर्ता देवदेवो हि स चाचिन्त्यप्रभावकः || २५-२३ || उपायं गुरुदीक्षादिद्वारमात्रेण संश्रयेत् | न च इयमस्मदुपज्ञैव युक्तिः अपितु आगमोऽप्येवम्--इत्याह-- उक्तं श्रीमन्मतङ्गाख्ये मुनिप्रश्नादनन्तरम् || २५-२४ || तत्र मुनिप्रश्नमेव तावदाह-- मुक्तिर्विवेकात्तत्त्वानां दीक्षातो योगतो यदि | चर्यामात्रात्कथं सा स्यादित्यतः सममुत्तरम् || २५-२५ || प्रहस्योचे विभुः कस्माद् भ्रन्तिस्ते परमेशितुः | सर्वानुग्राहकत्वं हि संसिद्धं दृश्यतां किल || २५-२६ || तदुक्तं तत्र-- ᳚मुक्तिर्विवेकात्तत्त्वानां क्ष्मादीनां प्रविचारतः | दीक्षातोऽन्या सुनिर्णीता क्रियापादकृतास्पदा || योगपादोत्थिता सिद्धा तृतीया सापि शस्यते | चर्यामात्रेण संसिद्धा चतुर्थी सा कथं भवेत् || प्रपत्तव्या शिवज्ञाने छिन्द्ध्यज्ञानांकुरं मम |᳚ इति | अत इति--प्रश्नानन्तरम् | सममिति--अनुगुणम् | दृश्यतामिति--नात्र कस्यचिद्विप्रतिपत्तिः--इत्यर्थः ||२६ || एतदेव दृष्टान्तोपदर्शनेनोपपादयति-- प्राप्तमृत्योर्विषव्याधिशस्त्रादि किल कारणम् | अल्पं वा बहु वा तद्वदनुध्या मुक्तिकारणम् || २५-२७ || मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु | इति ज्ञात्वा न सन्देह इत्थं कार्यो विपश्चिता || २५-२८ || इयतैव कथं मुक्तिरिति भक्तिं परां श्रयेत् || यथाहि आसन्नमरणस्य मृत्यौ विषादि अल्पं वा बहु वा कारणं साक्षादेतन्न कारणम् किन्तु भोगक्षय एव, तथा मुक्तावपि
SK᳚तस्यैव तु प्रसादेन भक्तिरुत्पद्यते नृणाम् |᳚ (म.भार.) इत्यादिदृष्ट्या शक्तिपातैकलक्षणा अनुध्या भक्तिः, एव मुख्यं कारणम् | अमूनि पुनः बाह्यलिङ्गानि दीक्षादीनि तथात्वादेव उपायमात्ररूपतया उपचरितानि--इत्यर्थः | अतश्च श्राद्धाद्यात्मनः चर्यामात्रादेव कथं मुक्तिः स्यादिति न संशयितव्यम् | किन्तु अत्र भक्तिरेव दार्ढ्येन आश्रयणीया येनैवं स्यात् | तदुक्तं तत्र-- ᳚एतस्मिन्नन्तरे नाथः प्रहस्योवाच विश्वराट् | किमत्र कारणं भ्रन्तेरनुध्यानविदर्शनात् || सर्वानुग्राहकत्वं हि संसिद्धं परमेष्ठिनः | प्राप्तकालस्य चिह्नानि दृश्यन्तेऽनेकधा यथा || विषरुक्शस्त्रपूर्वाणि न च तान्यत्र कारणम् | मृत्योर्भोगक्षयाभावात्तद्वदत्रापि निश्चितम् || अनुध्यानबलावेशाच्चर्याद्याः प्रकटीकृताः | मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु || निपाताद्यत्स्फुटं चिह्नं भक्तिरव्यभिचारिणी | तया शिष्यस्य सततमनिवारितवीर्यया || पुंसः प्रसन्नभावस्य शिवत्वं व्यक्तिमेति हि |᳚ इति || एतदेव प्रथमार्धेनोपसंहरति-- उक्तः श्राद्धविधिर्भ्रन्तिगरातङ्कविमर्दनः || २५-२९ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके श्राद्धप्रकाशनं नाम पञ्चविंशमाह्निकम् || २५ || इति शिवम् || २९ || निखिलशिवशासनोदितविविधविधानैकनिष्ठया सुधिया | निरणायि पञ्चविंशं किलाह्निकं जयरथेनैतत् || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते श्राद्धप्रकाशनं नाम पञ्चविंशमाह्निकं समाप्तम् || २५ || षड्विंशमाह्निकम् ᳚ विवेकः ᳚ भवति यदिच्छावशतः शिवपूजा विश्वलाञ्छनं विष्वक् | विश्वं जयति स सुमनाः प्रपन्नजनमोचने सुमनाः || १ || इदानीं द्वितीयार्धेन दीक्षितविषयां शेषवृत्तिं वक्तुमाह-- अथोच्यते शेषवृत्तिर्जीवतामुपयोगिनी || २६-१ || ननु इह ᳚दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि |᳚
SKइत्याद्युक्त्या दीक्षामात्रेणैव कार्तार्थ्यमिति किं शेषवृत्त्युपदेशेन ?--इत्याशङ्कां गर्भीकृत्य दीक्षाभेदोक्तिपुरःसरं तत्प्रयोजनं प्रदर्शयति-- दीक्षा बहुप्रकारेयं श्राद्धान्ता या प्रकीर्तिता | सा संस्क्रियायै मोक्षाय भोगायापि द्वयाय वा || २६-२ || एतदेव प्रपञ्चयति-- तत्र संस्कारसिद्ध्यै या दीक्षा साक्षान्न मोचनी | अनुसंधिवशाद्या च साक्षान्मोक्त्री सबीजिका || २६-३ || तयोभय्या दीक्षिता ये तेषामाजीववर्तनम् | वक्तव्यं पुत्रकादीनां तन्मयत्वप्रसिद्धये || २६-४ || तत्र एवं प्रकारचतुष्टयमध्यात् या संस्कारनिमित्तमुक्ता दीक्षा बुभुक्षुमुमुक्षुतालक्षणादनुसंधानविशेषात् साधकादेर्भोगस्य प्राधान्येन तद्व्यवहितत्वात् साक्षान्न मोचनी, या च पुत्रकादेर्भोगव्यवधानायोगात् साक्षान्मोक्त्री मोचिका--इत्यर्थः, सा च निर्बीजापि भवेदिति तद्व्यवच्छेदायोक्तम्--सबीजिकेति, नहि निर्बीजायां काचित् शेषवृत्तिरस्ति तस्यां सामयस्यापि पाशस्य शोधितत्वात् | वक्ष्यति च-- ᳚तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये |᳚ (१० श्लो.) इति | तया उक्तरूपया द्विप्रकारया दीक्षया ये पुत्रकादयो दीक्षितास्तेषामाजीवं वृत्तिर्वक्तव्या येनैषां निर्विघ्नमेव संविदैकात्म्यं सिद्ध्येत् || ३-४ || ननु इयं नाम शेषवृत्तिरुच्यते यद्भुक्तिमुक्तिनिमित्तं नित्यनैमित्तिकादेरनुष्ठानमिति, तदेतत्साधकः पुत्रको वा किमविशेषेणैव अनुतिष्ठेन्न वा ?--इत्याशङ्क्याह-- बुभुक्षोर्वा मुमुक्षोर्वा स्वसंविद्गुरुशास्त्रतः | प्रमाणाद्या संस्क्रियायै दीक्षा हि गुरुणा कृता || २६-५ || ततः स संस्कृतं योग्यं ज्ञात्वात्मानं स्वशासने | तदुक्तवस्त्वनुष्ठानं भुक्त्यै मुक्त्यै च सेवते || २६-६ || इह हि गुरुणा बुभुक्षोर्वा मुमुक्षोर्वा ᳚त्रिप्रत्ययमिदं ज्ञानं.............................. |᳚
SKइत्याद्युक्त्या स्वसंविद्गुरुशास्त्रलक्षणं प्रमाणमधिकृत्य संस्कारसिद्ध्यै या दीक्षा कृता, ततो दीक्षातः स बुभुक्षुर्मुमुक्षुर्वा स्वमात्मानं संस्कृतत्वात् स्वशासने भुक्तौ मुक्तौ वा योग्यं च ज्ञात्वा स्वशासनोक्तस्य नित्यादेरनुष्ठानं सेवते अविशेषेणैव कुर्यात्--इत्यर्थः ||५-६ || ननु एवं स्वपरामर्शो यस्य नास्ति, तं प्रति किं शेषवृत्तिर्वाच्या न वा ?--इत्याशङ्क्याह-- आचार्यप्रत्ययादेव योऽपि स्याद्भुक्तिमुक्तिभाक् | तत्प्रत्यूहोदयध्वस्त्यै ब्रूयात्तस्यापि वर्तनम् || २६-७ || एवं गुरुप्रत्ययवत् स्वप्रत्ययोऽपि यस्यास्ति, तस्यापि एषैव वार्त्ता-- इत्याह-- स्वसंविद्गुरुसंवित्त्योस्तुल्यप्रत्ययभागपि | शेषवृत्त्या समादेश्यस्तद्विघ्नादिप्रशान्तये || २६-८ || यः पुनरेकान्ततः परमेवापेक्षते नैव वा, तस्य किं शेषवृत्त्या-- इत्याह-- यः सर्वथा परापेक्षामुज्झित्वा तु स्थितो निजात् | प्रत्ययाद्योऽपि चाचार्यप्रत्ययादेव केवलात् || २६-९ || तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये | शेषवृत्तये इति--शेषवृत्तिं विधातुम्--इत्यर्थः || ननु यद्येवं, तत्किमनयोः काष्ठकुड्यादिवत् वर्तनमुत पामरवत्?-- इत्याशङ्क्याह-- क्रमात्तन्मयतोपायगुर्वर्चनरतौ तु तौ || २६-१० || तत्रैषां शेषवृत्त्यर्थं नित्यनैमित्तिके ध्रुवे | काम्यवर्जं यतः कामाश्चित्राश्चित्राभ्युपायकाः || २६-११ || तत्र नित्यो विधिः सन्ध्यानुष्ठानं देवताव्रजे | गुर्वग्निशास्त्रसहिते पूजा भूतदयेत्ययम् || २६-१२ || नैमित्तिकस्तु सर्वेषां पर्वणां पूजनं जपः | विशेषवशतः किञ्च पवित्रकविधिक्रमः || २६-१३ || आचार्यस्य च दीक्षेयं बहुभेदा विवेचिता | व्याख्यादिकं च तत्तस्याधिकं नैमित्तिकं ध्रुवम् || २६-१४ || तत्रादौ शिशवे ब्रूयाद् गुरुर्नित्यविधिं स्फुटम् | तद्योग्यतां समालोक्य वितताविततात्मनाम् || २६-१५ || मुख्येतरादिमन्त्राणां वीर्यव्याप्त्यादियोग्यताम् | दृष्ट्वा शिष्ये तमेवास्मै मूलमन्त्रं समर्पयेत् || २६-१६ ||
SKतन्मयतोपायगुर्वर्चनरताविति--स्वसंविद्देवीपरामर्शनपरत्वात् स्वगुरुभक्तेश्च | यदुक्तं प्राक्-- ᳚यस्य स्वतोऽयं सत्तर्कः स सर्वत्राधिकारवान् | अभिषिक्तः स्वसंवित्तिदेवीभिर्दीक्षितश्च सः ||᳚ (४|४३) इति शमयाचारपाशं तु निर्बीजायां विशोधयेत् | दीक्षामात्रेण मुक्तिः स्याद्भक्त्या देवे गुरौ सदा ||᳚ (१५|३१) इति च | कामानां चित्रत्वे चित्राभ्युपायत्वं हेतुः, अत एव नियतनिमित्तत्वाभावादेषामिह अनभिधानम् | अधिकमिति-- पुत्रकादेस्तत्रानधिकारात् | तद्योग्यतां समालोक्येति �योग्ये हि शिष्ये विततो विधिरुपदेष्टव्यो मुख्यो वा मन्त्रः समर्प्यः, अन्यस्मिंस्तु अन्यथेति ||१६ || अत एव आह-- तच्छास्त्रदीक्षितो ह्येष निर्यन्त्राचारशङ्कितः | न मुख्ये योग्य इत्यन्यसेवातः स्यात्तु योग्यता || २६-१७ || साधकस्य बुभुक्षोस्तु साधकीभाविनोऽपि वा | पुष्पपातवशात्सिद्धो मन्त्रोऽर्प्यः साध्यसिद्धये || २६-१८ || वितते गुणभूते वा विधौ दिष्टे पुनर्गुरुः | ज्ञात्वाऽस्मै योग्यतां सारं संक्षिप्तं विधिमाचरेत् || २६-१९ || तत्रैष नियमो यद्यन्मान्त्रं रूपं न तद्गुरुः | लिखित्वा प्रथयेच्छिष्ये विशेषादूर्ध्वशासने || २६-२० || निर्यन्त्र इति--निर्विकल्पः | अन्य इति--अमुख्यस्य मन्त्रस्य | साधकस्येति-- वृत्ततद्दीक्षस्य | साधकीभाविन इति--भावितद्दीक्षस्य | गुणभूत इति--अवितते | तत्रेति--एवं सारविध्याचरणे | ऊर्ध्वशासन इति-- त्रिककुलादौ || २० || एतदेव उपपादयति-- मन्त्रा वर्णात्मकास्ते च परामर्शात्मकाः स च | गुरुसंविदभिन्नश्चेत्संक्रामेत्सा ततः शिशौ || २६-२१ || लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सोऽत्र कल्पितः | सङ्केतबलतो नास्य पुस्तकात्प्रथते महः || २६-२२ || स चेति--परामर्शः | सेति--परामर्शमयी गुरुसंवित् | तत इति-- गुरुतः | निवीर्य इति--परामर्शकत्वाभावात् | स हि संविदभिन्न एव भवेत्--इति भावः ||२२ || ननु पुस्तकात् मन्त्रवीर्याकथने किं प्रमाणम्?--इत्याशङ्क्याह-- पुस्तकाधीतविद्याश्चेत्युक्तं सिद्धामते ततः |
SKएवं मन्त्राणां वीर्य एव भरबन्धः कार्य इति अत्र तात्पर्यम् || अत एव आह-- ये तु पुस्तकलब्धेऽपि मन्त्रे वीर्यं प्रजानते || २६-२३ || ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति | इति ज्ञात्वा गुरुः सम्यक् परमानन्दघूर्णितः || २६-२४ || तादृशे तादृशे धाम्नि पूजयित्वा विधिं चरेत् | तादृशे तादृशे धाम्नीति--योग्यशिष्योचिते इत्यर्थः || गुप्तिपरेण च अत्र गुरुणा भाव्यम्--इत्याह-- यथान्यशिष्यानुष्ठानं नान्यशिष्येण बुध्यते || २६-२५ || तथा कुर्याद् गुरुर्गुप्तिहानिर्दोषवती यतः | देवीनां त्रितयं शुद्धं यद्वा यामलयोगतः || २६-२६ || देवीमेकामथो शुद्धां वदेद्वा यामलात्मिकाम् | तत्र मन्त्रं स्फुटं वक्त्राद् गुरुणोपांशु चोदितम् || २६-२७ || अवधार्या प्रवृत्तेस्तमभ्यस्येन्मनसा स्वयम् | ततः सुशिक्षितां स्थानदेहान्तःशोधनत्रयीम् || २६-२८ || न्यासं ध्यानं जपं मुद्रां पूजां कुर्यात्प्रयत्नतः | दोषवतीति--यदभिप्रायेणैव ᳚गोपनात्सिद्धिमायाति............................ |᳚ इत्यादि अन्यत्रोक्तम् | शुद्धम्--केवलम् | स्फुटं--सशब्दम् | यदुक्तम्-- ᳚आत्मना श्रूयते यस्तु तमुपांशुं विजानते | परे शृण्वन्ति यं देवि सशब्दः स उदाहृतः ||᳚ (स्व. २|१४७) इति | आ प्रवृत्तेरिति--अनुष्ठानारम्भकालं यावत्--इत्यर्थः | सुशिक्षितामिति--पञ्चदशाह्निकोक्तयुक्त्या || इदानीं नित्यविधिं शिक्षयति-- तत्र प्रभाते संबुध्य स्वेष्टां प्राग्देवतां स्मरेत् || २६-२९ || कृतावश्यककर्तव्यः शुद्धो भूत्वा ततो गृहम् | आश्रित्योत्तरदिग्वक्त्रः स्थानदेहान्तरत्रये || २६-३० || शुद्धिं विधाय मन्त्राणां यथास्थानं निवेशनम् | मुद्राप्रदर्शनं ध्यानं भेदाभेदस्वरूपतः || २६-३१ || देहासुधीव्योमभूषु मनसा तत्र चार्चनम् | जपं चात्र यथाशक्ति देवायैतन्निवेदनम् || २६-३२ || तन्मयीभावसिद्धियर्थं प्रतिसन्ध्यं समाचरेत् | अन्ये तु प्रागुदक्पश्चाद्दश(क्ष)दिक्षु चतुष्टयीम् || २६-३३ || सन्ध्यानामाहुरेतच्च तान्त्रिकीयं न नो मतम् | स्वमतेन पुनराह--
SKयासौ कालाधिकारे प्राक् सन्ध्या प्रोक्ता चतुष्टयी || २६-३४ || तामेवान्तः समाधाय सान्ध्यं विधिमुपाचरेत् | सन्ध्याचतुष्टयीकृत्यमेकस्यामथवा शिशुः || २६-३५ || कुर्यात्स्वाध्यायविज्ञानगुरुकृत्यादितत्परः | एकस्यामिति--अन्यथा हि अस्य स्वाध्यायादिविप्रलोपो भवेत्--इति भावः || ननु कथं सन्ध्याचतुष्टयानुष्ठेयं कर्म एकस्यामेव सन्ध्यायां क्रियमाणं परिपूर्तिं यायात् ?--इत्याशङ्क्याह-- सन्ध्याध्यानोदितानन्ततन्मयीभावयुक्तितः || २६-३६ || तत्संस्कारवशात्सर्वं कालं स्यात्तन्मयो ह्यसौ | ततो यथेष्टकालेऽसौ पूजां पुष्पासवादिभिः || २६-३७ || स्थण्डिलादौ शिशुः कुर्याद्विभवाद्यनुरूपतः | सुशुद्धः सन्विधिं सर्वं कृत्वान्तरजपान्तकम् || २६-३८ || अर्घपात्रं पुरा यद्वद्विधाय स्वेष्टमन्त्रतः | तेन स्थण्डिलपुष्पादि सर्वं संप्रोक्षयेद् बुधः || २६-३९ || ततस्तत्रैव सङ्कल्प्य द्वारासनगुरुक्रमम् | पूजयेच्छिवताविष्टः स्वदेहार्चापुरःसरम् || २६-४० || ततस्तत्स्थण्डिलं वीध्रव्योमस्फटिकनिर्मलम् | बोधात्मकं समालोक्य तत्र स्वं देवतागणम् || २६-४१ || प्रतिबिम्बतया पश्येद्बिम्बत्वेन च बोधतः | एतदावाहनं मुख्यं व्यजनान्मरुतामिव || २६-४२ || तत इति--सन्ध्याद्यनुष्ठानानन्तरम् | स्थण्डिलादावित्यनेन स्थाण्डिली नित्यार्चेति प्रक्रान्तम् | आन्तरेत्यनेन मनोयागमकृत्वा बाह्ययागादावधिकार एव न भवेत्�इति कटाक्षितम् | पुरेति-- पञ्चदशाह्निकादौ | वीध्रम् विमलम् | तत्रेति--बोधात्मके स्थण्डिले | स्वमिति--आरिराधयिषितम् | बोध एव हि बहिः प्रतिफलितस्तथा तथा उच्छलित इत्युक्तम्--बिम्बत्वेनेति प्रतिबिम्बतयेति च | एतदिति प्रतिबिम्बभावात्मतया दर्शनम् ||४२ || दृष्टान्तमेव विभज्य दर्शयति-- सर्वगोऽपि मरुद्यद् व्यजनेनोपजीवितः (वीजितः) | अर्थकृत्सर्वगं मन्त्रचक्रं रूढेस्तथा भवेत् || २६-४३ || चतुष्कपञ्चाशिकया तदेतत्तत्त्वमुच्यते |
SKरूढेरिति--स्थण्डिलादावेवंप्ररोहात्--इत्यर्थः | तथेति--अर्थकृत् | चतुष्कपञ्चाशिकेति--सृष्ट्यादिप्रमेयचतुष्टयाभिधायिना एवंपरिमाणेन ग्रन्थविशेषेण--इत्यर्थः || न केवलमेतदत्रैवोक्तं यावदन्यत्रापि--इत्याह-- श्रीनिर्मर्यादशास्त्रे च तदेतद्विभुनोदितम् || २६-४४ || तदेव अर्थद्वारेण आह-- देवः सर्वगतो देव निर्मर्यादः कथं शिवः | आवाह्यते क्षम्यते वेत्येवं पृष्टोऽब्रवीद्विभुः || २६-४५ || वासनावाह्यते देवि वासना च विसृज्यते | परमार्थेन देवस्य नावाहनविसर्जने || २६-४६ || निर्मर्याद इति--निर्यन्त्रणः स्वतन्त्र इति यावत् || वासनात्मकत्वमेव अत्र दर्शयति-- आवाहितो मया देवः स्थण्डिले च प्रतिष्ठितः | पूजितः स्तुत इत्येवं हृष्ट्वा देवं विसर्जयेत् || २६-४७ || प्राणिनामप्रबुद्धानां सन्तोषजननाय वै | आवाहनादिकं तेषां प्रवृत्तिः कथमन्यथा || २६-४८ || कालेन तु विजानन्ति प्रवृत्ताः पतिशासने | अनुक्रमेण देवस्य प्राप्तिं भुवनपूर्विकाम् || २६-४९ || ज्ञानदीपद्युतिध्वस्तसमस्ताज्ञानसञ्चयाः | कुतो वानीयते देवः कुत्र वा नीयतेऽपि सः || २६-५० || स्थूलसूक्ष्मादिभेदेन स हि सर्वत्र संस्थितः | भुवनपूर्विकामिति-- ᳚.............................ंअते भुवनभर्तरि |᳚ (मृटं.) इत्याद्युक्तयोजनिकाबलात् तत्तत्तत्त्वभुवनासादनप्रक्रियात्मिकाम्-- इत्यर्थः || आवाहनानन्तरकर्तव्यमुपदेष्टुमाह-- आवाहिते मन्त्रगणे पुष्पासवनिवेदनैः || २६-५१ || धूपैश्च तर्पणं कार्यं श्रद्धाभक्तिबलोचितैः | दीप्तानां शक्तिनादादिमन्त्राणामासवैः पलैः || २६-५२ || रक्तैः प्राक् तर्पणं पश्चात् पुष्पधूपादिविस्तरैः | ननु आवाहनानन्तर्येण तर्पणमेव कार्यमित्यत्र कि प्रमाणम्?-- इत्याशङ्क्याह-- आगतस्य तु मन्त्रस्य न कुर्यात्तर्पणं यदि || २६-५३ || हरत्यर्धशरीरं स इत्युक्तं किल शम्भुना | ननु इह तर्पणार्थं द्रव्यादि उद्दिष्टम्, पूजादि पुनः कतरेण कार्यम्?--इत्याशङ्क्याह-- यद्यदेवास्य मनसि विकासित्वं प्रयच्छति || २६-५४ ||
SKतेनैव कुर्यात्पूजां स इति शम्भोर्विनिश्चयः | ननु यद्येवं तत्कथं शान्तिपुष्ट्याह-- साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः || २६-५५ || मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः | ननु एवं विधिविशेषे अत्र किं निमित्तम्?--इत्याशङ्क्याह-- कार्ये विशेषमाधित्सुर्विशिष्टं कारणं स्पृशेत् || २६-५६ || रक्तकर्पासतूलेच्छुस्तुल्यतद्बीजपुञ्जवत् | सन्ति भोगे विशेषाश्च विचित्राः कारणेरिताः || २६-५७ || तुल्येति--रक्तमेव || ५७ || मोक्षे पुनः कश्चिद्विशेषो नास्ति--इत्याह-- देशकालानुसन्धानगुणद्रव्यक्रियादिभिः | स्वल्पा क्रिया भूयसी वा हृदयाह्लाददायिभिः || २६-५८ || बाह्यैः सङ्कल्पजैर्वापि कारकैः परिकल्पिता | मुमुक्षोर्न विशेषाय नैःश्रेयसविधिं प्रति || २६-५९ || ननु कथं नाम अत्र स्वल्पा भूयसी वा क्रिया विशेषमाधातुं नोत्सहते?--इत्याशङ्क्याह-- नहि ब्रह्मणि शंसन्ति बाहुल्याल्पत्वदुर्दशाः | ननु विचित्रैः कारणैः परिकल्प्यमानापि क्रिया यदि अत्र न विशेषमाधत्ते तत्किमेषां प्राधान्येन हृदयाह्लाददायित्वमुक्तम् ?-- इत्याशङ्क्याह-- चितः स्वातन्त्र्यसारत्वात् तस्यानन्दघनत्वतः || २६-६० || क्रिया स्यात्तन्मयीभूत्यै हृदयाह्लाददायिभिः | तस्येति--स्वातन्त्र्यस्य || अत एव एषां चिदानन्दघनमेव रूपं पूजायोग्यम्--इत्याह-- शिवाभेदभराद्भाववर्गः श्च्योतति यं रसम् || २६-६१ || तमेव परमे धाम्नि पूजनायार्पयेद् बुधः | एतच्च मयैव अन्यत्र वितत्योक्तम्--इत्याह-- स्तोत्रेषु बहुधा चैतन्मया प्रोक्तं निजाह्निके || २६-६२ || एतदेवोच्चित्य दर्शयति-- अधिशय्य पारमार्थिकभावप्रसरप्रकाशमुल्लसति | या परमामृतदृक् त्वां तयार्चयन्ते रहस्यविदः || २६-६३ || कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालिता- मात्तैर्मानसतःस्वभावकुसुमैः स्वामोदसन्दोहिभिः | आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् || २६-६४ ||
SKनानास्वादरसामिमां त्रिजगतीं हृच्चक्रयन्त्रार्पिताम् ऊर्ध्वाध्यस्तविवेकगौरवभरान्निष्पीड्य निःष्यन्दितम् | यत्संवित्परमामृतं मृतिजराजन्मापहं जृम्भते तेन त्वां हविषा परेण परमे संतर्पयेऽहर्निशम् || २६-६५ || इति श्लोकत्रयोपात्तमर्थमन्तर्विभावयन् | येन केनापि भावेन तर्पयेद्देवतागणम् || २६-६६ || मुद्रां प्रदर्शयेत्पश्चान्मनसा वापि योगतः | वचसा मन्त्रयोगेन वपुषा संनिवेशतः || २६-६७ || कृत्वा जपं ततः सर्वं देवतायै समर्पयेत् | तच्चोक्तं कर्तृतातत्त्वनिरूपणविधौ पुरा || २६-६८ || ततो विसर्जनं कार्यं बोधैकात्म्यप्रयोगतः | कृत्वा वा वह्निगां मन्त्रतृप्तिं प्रोक्तविधानतः || २६-६९ || द्वारपीठगुरुव्रातसमर्पितनिवेदनात् | ऋतेऽन्यत्स्वयमश्नीयादगाधेऽम्भस्यथ क्षिपेत् || २६-७० || तयेति--परमामृतदृशा | आधारोऽत्र जन्माधारः | यन्त्रेत्यादिना-- अत्र लौकिकश्चाक्रिकवृत्तान्तोऽपि कटाक्षितः | एतच्च प्राग्व्याख्ययैव गतार्थमिति नेह प्रातिपद्येन व्याख्यातम् | श्लोकत्रयोपात्तमर्थमिति--परसंविद्विश्रान्तिलक्षणम् | पुरेति-- नवमत्रयोदशाह्निकादौ | अन्यदिति--मुख्यम् || ७० || अस्य अगाधाम्भःप्रक्षेपणकारणमाह-- प्राणिनो जलजाः पूर्वदीक्षिताः शम्भुना स्वयम् | विधिना भाविना श्रीमन्मीननाथावतारिणा || २६-७१ || भाविनेति--एकान्नत्रिंशाह्निकादौ वक्ष्यमाणेन || ७१ || अन्यभक्षणेन दोषः--इत्याह-- मार्जारमूषिकाद्यैर्यददीक्षैश्चापि भक्षितम् | तच्छङ्कातङ्कदानेन व्याधये नरकाय च || २६-७२ || तदुक्तम्-- भुक्तोज्झितं हि यच्चान्नमुच्छिष्टं गुरुदेवयोः | रक्षेन्निक्षेपवन्नित्यं न देयं यस्य कस्यचित् || गर्ते चाग्नौ जले कूपे प्रक्षिपेत्प्रयतात्मवान् | अदीक्षितैर्यदा भुक्तं मन्त्रसिद्धिर्विनश्यति || अभक्तैस्तस्करभयं लौकिको यदि भक्षयेत् | वैकल्यं जायते तस्य दुःखितोऽन्यैश्च पक्षिभिः || मकरैः पुत्रनाशः स्यान्मेषैस्तनयनाशनम् | वानरैर्बन्धनं देवि लीढं वा यदि वा भवेत् || खरोष्ट्र्योरेव दारिद्यं शुकैः शोकविवर्धनम् |
SKसुखसौभाग्यनाशः स्याल्लीढे मर्कटवाजिभिः || बिडालेन विलीढं स्याद् व्याधिराशु प्रवर्तते | कलहः शारिकाभिश्च कलविङ्कैर्विशेषतः || काकैर्विदेशगमनं चिल्लया मरणं भवेत् | आयुषोऽपि भवेद्धानिरुन्दुरो यदि भक्षयेत् || सारमेयो यदा भुङ्क्ते तदा व्याधिसमुद्भवः | गोभिर्विद्वेषणं जायेज्जम्बुकेभ्यो ध्रुवं वधः || व्यभिचारस्तु दाराणां वराहो यदि भक्षयेत् | चौरेभ्यस्तु भयं जायेन्नकुलस्तु यदा स्पृशेत् || दुष्टमानुषयोषिद्भिर्नास्तिकैरुपयुज्यते | तदा दुःखानि सर्वाणि प्राप्नुवन्त्यपि साधकाः ||᳚ इति ||७२ || ननु अत्र दीक्षितादीक्षितविभागो नाम विकल्पः, स च निर्विकल्पानां ज्ञानिनां न न्याय्य इति कथमविशेषेणैवैतदुक्तम् ?--इत्याशङ्क्य आह-- अतस्तत्त्वविदा ध्वस्तशङ्कातङ्कोऽपि पण्डितः | प्रकटं नेदृशं कुर्याल्लोकानुग्रहवाञ्छया || २६-७३ || अत इति--मार्जारादिभक्षणस्य एवं प्रत्यवायहेतुत्वात् | विदेति-- ज्ञानम् | प्रकटमिति--यथा न कश्चिदपि एवं पश्येत्--इत्यर्थः | तथात्वे हि सविकल्पोऽपि लोक एवमादध्यादिति शास्त्रीयो विधिरुत्सीदेत् | यद्वा अयं ज्ञानिनं प्रति विचिकित्सते शास्त्रविरुद्धमनेन अनुष्ठितमिति || ७३ || न च एतन्निर्मूलमेव उक्तम्--इत्याह-- श्रीमन्मतमहाशास्त्रे तदुक्तं विभुना स्वयम् | तदेव आह-- स्वयं तु शङ्कसङ्कोचनिष्कासनपरायणः || २६-७४ || भवेत्तथा यथान्येषां शङ्का नो मनसि स्फुरेत् | मार्जयित्वा ततः स्नानं पुष्पेणाथ प्रपूजयेत् || २६-७५ || पुष्पादि सर्वं तत्स्थं तदगाधाम्भसि निक्षिपेत् | तत इति नैवेद्यभक्षणाद्यनन्तरम् || आह्निकार्थमेवोपसंहरति-- उक्तः स्थण्डिलयागोऽयं नित्यकर्मणि शम्भुना || २६-७६ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके स्थण्डिलपूजाप्रकाशनं नाम षड्विंशमाह्निकम् || २६ || इति शिवम् || ७६ || श्रीमद्गुरुप्रसादासादितपूजासतत्त्वसुहितमतिः | षड्विंशमाह्निकमिदं व्याचक्रे जयरथाभिख्यः ||
SKइति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते स्थण्डिलपूजाप्रकाशनं नाम षड्विंशमाह्निकं समाप्तम् || २६ || सप्तविंशमाह्निकम् ᳚ विवेकः ᳚ देवं चक्रव्योमग्रन्थिगमाधारनाथमजम् | अपि परसंविद्रूढैः स्पृहणीयं स्पृहणमस्मि नतः || इदानीं द्वितीयार्धेन नित्यावशेषरूपां लिङ्गार्चां वक्तुमाह-- अथोच्यते लिङ्गपूजा सूचिता मालिनीमते || २७-१ || सूचितेति-- ᳚यजेदाध्यात्मिकं लिङ्गं यत्र लीनं चराचरम् |᳚ (१८|३) इत्यादिना ||१ || ननु अत्र कस्माल्लिङ्गपूजायाः साक्षादेव न अभिधानं कृतम् ?-- इत्याशङ्क्य आह-- एतेषामूर्ध्वशास्त्रोक्तमन्त्राणां न प्रतिष्ठितम् | बहिष्कुर्यात्ततो ह्येते रहस्यत्वेन सिद्धिदाः || २७-२ || ननु एषां बहिःप्रतिष्ठया किं स्यात् ?--इत्याशङ्क्य आह-- स्ववीर्यानन्दमाहात्म्यप्रवेशवशशालिनीम् | ये सिद्धिं ददते तेषां बाह्यत्वं रूपविच्युतिः || २७-३ || निमित्तान्तरमप्यत्रास्ति--इत्याह-- किञ्च चोक्तं समावेशपूर्णो भोक्त्रात्मकः शिवः | भोगलाम्पट्यभाग्भोगविच्छेदे निग्रहात्मकः || २७-४ || ननु निग्रहात्मकत्वेन अस्य किं स्यात् ?--इत्याशङ्क्य आह-- शान्तत्वन्यक्क्रियोद्भूतजिघत्सावृंहितं वपुः | स्वयं प्रतिष्ठितं येन सोऽस्याभोगे विनश्यति || २७-५ || स इति--स्वयंप्रतिष्ठाता ||५ || न च एतद्युक्तिमात्रशरणमेव--इत्याह-- उक्तं ज्ञानोत्तरायां च तदेतत्परमेशिना | शिवो यागप्रियो यस्माद्विशेषान्मातृमध्यगः || २७-६ || तस्माद्रहस्यशास्त्रेषु ये मन्त्रास्तान्बुधो बहिः | न प्रतिष्ठापयेज्जातु विशेषाद् व्यक्तरूपिणः || २७-७ || अत एव मृतस्यार्थे प्रतिष्ठान्यत्र योदिता | सात्र शास्त्रेषु नो कार्या कार्या साधारणी पुनः || २७-८ || अत एवेति--बहिःप्रतिष्ठानिषेधात् | अन्यत्रेति--श्रीमृत्युञ्जयादौ | यदुक्तम्-- ᳚प्रतिष्ठा वापि कर्तव्या दग्धपिण्डे श्मशानके |᳚ इति | साधारणीति--नेत्रमन्त्रादिना ||८ || एवमस्मद्दर्शने बहिःस्थिरप्रतिष्ठानिषेधात् चलैव कार्या--इत्याह- -
SKआ तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात् | पुत्रकः साधको व्यक्तमव्यक्तं वा समाश्रयेत् || २७-९ || प्रतिमा च अत्र पुत्रकादिभिः किं स्वयमेव कार्या न वा ?-- इत्याशङ्क्य आह-- पुत्रकैर्गुरुरभ्यर्थ्यः साधकस्तु स्वयं विदन् | यदि तत्स्थापयेन्नो चेत्तेनाप्यर्थ्यो गुरुर्भवेत् || २७-१० || गुरुश्चात्र निरोधाख्ये काल इत्थं विभौ वदेत् | जीवत्यस्मिन्फलान्तं त्वं तिष्ठेर्जीवावधीति वा || २७-११ || लिङ्गं च बाणलिङ्गं वा रत्नजं वाथ मौक्तिकम् | पौष्पमान्नमथो वास्त्रं गन्धद्रव्यकृतं च वा || २७-१२ || न तु पाषाणजं लिङ्गं शिल्प्युत्थं परिकल्पयेत् | धातूत्थं च सुवर्णोत्थवर्जमन्यद्विवर्जयेत् || २७-१३ || न चात्र लिङ्गमानादि क्वचिदप्युपयुज्यते | उदारवीर्यैर्मन्त्रैर्यद्भासितं फलदं हि तत् || २७-१४ || तस्यापि स्थण्डिलाद्युक्तविधिना शुद्धिमाचरेत् | मन्त्रार्पणं तथैव स्यान्निरोधस्तूक्तयुक्तितः || २७-१५ || अग्नौ च तर्पणं भूरिविशेषाद्दक्षिणा गुरोः | दीनादितृप्तिर्विभवाद्याग इत्यधिको विधिः || २७-१६ || सर्वेष्वव्यक्तलिङ्गेषु प्रधानं स्यादकल्पितम् | तथा च तत्र तत्रोक्तं लक्षणे पारमेश्वरे || २७-१७ || सूत्रे पात्रे ध्वजे वस्त्रे स्वयम्भूबाणपूजिते | नदीप्रस्रवणोत्थे च नाह्वानं नापि कल्पना || २७-१८ || पीठप्रसादमन्त्रांशवेलादिनियमो न च | व्यक्तं वा चित्रपुस्तादौ देवदारुसुवर्णजम् || २७-१९ || अथ दीक्षितसच्छिल्पिकृतं स्थापयते गुरुः | अथवा लक्षणोपेतमूर्धतत्कर्पराश्रितम् || २७-२० || पङ्क्तिचक्रकशूलाब्जविधिना तूरमाश्रयेत् | तल्लक्षणं ब्रुवे श्रीमत्पिचुशास्त्रे निरूपितम् || २७-२१ || तूरे योगः सदा शस्तः सिद्धिदो दोषवर्जिते | स्थापयेदिति--स्वयमेव | नो चेदिति--स्वयमज्ञत्वे सति--इत्यर्थः | अस्मिन्निति�साधके पुत्रके वा | फलान्तं जीवावधीति वा | यदुक्तम्-- ᳚आ तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात् |᳚
SKइति | वास्त्रमिति वस्त्रादावेव कृतसंनिवेशम् | न तु पाषाणजमिति-- तद्धि--स्थिरप्रतिष्ठायां योग्यमित्याकूतम् | अन्यद्विवर्जयेदिति--तेन सौवर्णमेव कार्यम्--इत्यर्थः | नात्र लिङ्गमानाद्युपयुज्यते इति, यदभिप्रायेणैव शिद्धैः संस्थापितानां तु न मानादि विचारयेत् |᳚ इत्यादि उक्तम् | तस्येति--लिङ्गस्य | उक्तेति-- ᳚जीवत्यस्मिन्फलान्तं त्वं तिष्ठेर्जीवावधीति वा |᳚ इति | भूरिविशेषादिति--न तु विशेषमात्रात् | अधिक इति--नित्यात् | सूत्र इति --अक्षसूत्रे | पात्र इति--महति | ध्वज इति--खट्वाङ्गादौ | वस्त्र इति--यागार्थं परिकल्पिते | मूर्धेति--अखण्डम् | चक्रकेति-- आवर्तक्रमेण | तदेव पठति तूर इत्यादि || दोषानेव अभिधत्ते-- जालकैर्जर्जरै रन्ध्रैर्दन्तैरूनाधिकै रुजा || २७-२२ || युक्ते च तूरे हानिः स्यात् तद्धीने याग उत्तमः | काम्य एव भवेत्तूरमिति केचित्प्रपेदिरे || २७-२३ || जालकैरिति--नवोद्भिन्नैः सूक्ष्मप्रायैः | जर्जरैरिति--तैरेव चिरोद्भिन्नैः | ऊनाधिकैरिति--द्वात्रिंशतः | रुजेति--क्लेदादिरूपया | तद्धीन इति--जालकादिरहिते | केचिदिति--प्राच्याः || २३ || स्वमतमाह-- गुरवस्तु विधौ काम्ये यत्नाद्दोषांस्त्यजेदिति | व्याचक्षते पिचुप्रोक्तं न नित्ये कर्मणीत्यदः || २७-२४ || श्रीसिद्धातन्त्र उक्तं च तूरलक्षणमुत्तमम् | एकादिकचतुष्खण्डे गोमुखे पूर्णचन्द्रके || २७-२५ || पद्मगोरोचनामुक्तानीरस्फटिकसंनिभे | एकादिपञ्चसद्रन्ध्रविद्यारेखान्विते शुभे || २७-२६ || न रूक्षवक्रशकलदीर्घनिम्नसबिन्दुके | श्लक्ष्णया वज्रसूच्यात्र स्फुटं देवीगणान्वितम् || २७-२७ || सर्वं समालिखेत्पूज्यं सर्वावयवसुन्दरम् | गोमुखेति--आकारसादृश्याय, पद्मेत्यादि च वर्णसादृश्याय उपात्तम् | सद्रन्धेर्ति--अत्ररन्ध्रणां सत्त्वं मद्यादिनिर्गमनहेतुत्वभावात् | विद्येति--चतुर्दश | यदुक्तं तत्र-- ᳚आदौ तावत्परीक्षेत कपालं लक्षणान्वितम् | एकखण्डे द्विखण्डे वा त्रिखण्डे वा सुशोभने | चतुष्खण्डे गोमुखे वा पूर्णचन्द्रसमप्रभे |
SKपद्माभे रोचनाभे वा नीराभे मौक्तिकप्रभे || प्रवालाभेन्द्रनीलाभे शुद्धस्फटिकसंनिभे | विद्यारेखासमायुक्ते एकरन्ध्रे द्विरन्ध्रके || त्रिचतुष्पञ्चके वाऽथ कर्तव्यं शुभलक्षणम् | रूक्षे जर्जरिते क्रूरे वक्रे दीर्घे कृशोदरि || बिन्दुभिः खचिते निम्ने न कदाचित् कृतिं कुरु | ज्ञात्वा लक्षणसंशुद्धं कपालं सार्वकामिकम् || तत्र चोर्ध्वपुटे कार्या प्रतिमा या मनःस्थिता | तुर्यांशे तु कृते क्षेत्रे तदन्ते वृत्तमालिखेत् || वृत्तान्ते तु पुनर्वृत्तं पुनर्मध्यं त्रिभागिकम् | तस्य मध्ये पुनः पद्मं ज्ञात्वा चक्रे यथा तथा || मध्ये देका च वा देवं योगिनीभिः परीवृतम् | श्लक्ष्णया वज्रसूच्या च कार्या चैवाङ्गकल्पना ||᳚ इत्यादि बहुप्रकारम् || एतदेव अन्यत्रापि अतिदिशति-- एतदेवानुसर्तव्यमर्घपात्रेऽपि लक्षणम् || २७-२८ || तथा च आगमोऽप्येवम्--इत्याह-- श्रीब्रह्मयामलेऽप्युक्तं पात्रं गोमुखमुत्तमम् | गजकूर्मतलं कुम्भवृत्तशक्तिकजाकृति || २७-२९ || शक्तिकजं गुह्यम् ||२९ || एवं लिङ्गस्वरूपं बहुधा व्याख्याय अक्षसूत्रं निरूपयति-- अक्षसूत्रमथो कुर्यात्तत्रैवाभ्यर्चयेत्क्रमम् | वीरधातुजलोद्भूतमुक्तारत्नसुवर्णजम् || २७-३० || अक्षसूत्रं क्रमोत्कृष्टं रौद्राक्षं वा विशेषतः | शतं तिथ्युत्तरं यद्वा साष्टं यद्वा तदर्धकम् || २७-३१ || तदर्धं वाथ पञ्चाशद्युक्तं तत्परिकल्पयेत् | वीरधातुः--महाशङ्खः | जलोद्भूतम्--पद्माक्षम् | तिथयः-- पञ्चदश | तदर्धं--चतुष्पञ्चाशत् | तदर्धं--सप्तविंशतिः || अत्रैव व्याप्तिं दर्शयति-- वक्त्राणि पञ्च चित्स्पन्दज्ञानेच्छाकृतिसङ्गतेः || २७-३२ || पञ्चधाद्यन्तगं चैक्यमित्युपान्त्याक्षगो विधिः | शक्तितद्वत्प्रभेदेन तत्र द्वैरूप्यमुच्यते || २७-३३ || ततो द्विगुणमाने तु द्विरूपं न्यासमाचरेत् | ततोऽपि द्विगुणे सृष्टिसंहृतिद्वितयेन तम् || २७-३४ || मातृकां मालिनीं वाऽथ न्यस्येत्खशरसंमिते | उत्तमे तु द्वयीं न्यस्येन्यस्य पूर्वं प्रचोदितान् || २७-३५ || दीक्षायां मुख्यतो मन्त्रांस्तान्पञ्चदश दैशिकः |
SKयदि वा तत्त्वभुवनकलामन्त्रपदार्णजैः || २७-३६ || संख्याभेदैः कृते सूत्रे तं तं न्यासं गुरुश्चरेत् | कृत्वाक्षसूत्रं तस्यापि सर्वं स्थण्डिलवद्भवेत् || २७-३७ || पूजितेन च तेनैव जपं कुर्यादतन्द्रितः | विधिरुक्तस्त्वयं श्रीमन्मालिनीविजयोत्तरे || २७-३८ || चक्रवद्भ्रमयन्नेतद्यद्वक्ति स जपो भवेत् | यदीक्षते जुहोत्येतद्बोधाग्नौ संप्रवेशनात् || २७-३९ || पञ्चधेति--वक्त्रपञ्चकस्य चिदादिशक्तिपञ्चकेन गुणनात् पञ्चविंशतिर्भवति--इत्यर्थः | एक्यमिति--उपाध्यतीतमेकं रूपम्-- इत्यर्थः | तद्धि द्विविधमादावुपाधीनामनुल्लासात् अन्ते च उपाधीनां प्रशमयोगत इति | एवं सप्तविंशतिः | उपान्त्येति-- पञ्चाशदक्षात्मनोऽन्त्यस्य अक्षसूत्रस्य समीपवर्तित्वात् | तत्रेति-- सप्तविंशतौ | द्विगुणमाने इति--चतुष्पञ्चाशदात्मनि | द्विरूपमिति-- शक्तिशक्तिमदात्मकम् | ततोऽपि द्विगुणे इति--अष्टोत्तरशतात्मनि | खशरेति--पञ्चाशत् | उत्तमे इति--पञ्चदशोत्तरशतात्मनि | द्वयीमिति--मातृकामालिनीरूपाम् | पूर्वमिति --सप्तदशाह्निके | यदुक्तं तत्र� ᳚पिबन्याद्यष्टकं चास्त्रादिकं षट्कं परा तथा |᳚ (तं.आ. १७|३९-४०) इति | पञ्चदश एते स्युरिति | यदि वेति--पक्षान्तरे | उक्त इति-- एकान्नविंशे पटले | यदुक्तं तत्र-- ᳚तदानेन विधानेन प्रकुर्यादक्षमालिकाम् | मणिमौक्तिकशङ्खादिपद्माक्षादिविनिर्मिताम् || हेमादिधातुजां वाथ शतार्धाक्षमितां बुधः | यथा स्वबाहुमात्रा स्याद्वलयाकृतितां गता || तां गृहीत्वा समालभ्य गन्धधूपाधिवासिताम् | पूजयित्वा कुलेशानं तत्र शक्तिं निवेशयेत् || प्रत्येकमुच्चरेद् बीजं पराबीजपुटान्तगम् | प्रस्फुरत्क्षान्तमेकस्मिन्नाद्यक्षे विनियोजयेत् || आद्यर्णं व्यापकं भूयः सर्वाधिष्ठायकं स्मरेत् | द्विविधेऽपि हि वर्णानां भेदे विधिरयं मतः || द्वितीये व्यापकं वर्णं द्वितीयं पूर्ववन्न्यसेत् | तृतीयादिषु वर्णेषु फान्तेष्वप्येवमिष्यते || ततः शक्तिमनुस्मृत्य सूत्राभामेकमानसः | अक्षमध्यगतां कुर्यादक्षसूत्रप्रसिद्धये ||
SKचक्रवद् भ्रमयन्नेतद्यदेवात्र प्रभाषते | तत्सर्वं मन्त्रसंसिद्ध्यै जपत्वेन प्रकल्पते || होमः स्यादीक्षिते तद्वद्दह्यमानेऽत्र वस्तुनि |᳚ (मा.विटं. १९|७४-८३) इति ||३९ || इदानीमुक्तेऽपि पात्रस्य लक्षणे तद्भेदोपदर्शनाय पक्षान्तरमाह-- अथवार्घमहापात्रं कुर्यात्तच्चोत्तरं परम् | नारिकेलमथो बैल्वं सौवर्णं राजतं च वा || २७-४० || तस्याप्येष विधिः सर्वः प्रतिष्ठादौ प्रकीर्तितः | तन्निष्कम्परसैः पूर्णं कृत्वास्मिन्पूजयेत्क्रमम् || २७-४१ || निष्कम्परसैरिति--वीरसन्धिभिः पञ्चामृतादिभिः--इत्यर्थः || ४१ || अत्र इतिकर्तव्यतामाह-- अधोमुखं सदा स्थाप्यं पूजितं पूजने पुनः | तत्पात्रमुन्मुखं तच्च रिक्तं कुर्यान्न तादृशम् || २७-४२ || पूजान्ते तद्रसापूर्णमात्मानं प्रविधाय तत् | अधोमुखं च संपूज्य स्थापयेत विचक्षणः || २७-४३ || पूजितमिति--पात्रविद्यादिना | पूजने इति--यथेष्टमन्त्रादेः | तादृशमिति--उन्मुखम् || ४२-४३ || तत्तच्छास्त्रोदितानि पूजाधारान्तराण्यपि दर्शयितुमाह-- खङ्गं कृपाणिकां यद्वा कर्तरीं मकुरं च वा | विमलं तत्तथा कुर्याच्छ्रीमत्कालीमुखोदितम् || २७-४४ || श्रीभैरवकुलेऽप्युक्तं कुलपर्वप्रपूजने | स्थण्डिलेऽग्नौ पटे लिङ्गे पात्रे पद्मेऽथ मण्डले || २७-४५ || मूर्तौ घटेऽस्त्रसङ्घाते पटे सूत्रेऽथ पूजयेत् | स्वेन स्वेनोपचारेण सङ्करं वर्जयेदिति || २७-४६ || स्वेन स्वेनेति--गृहस्थाद्युचितेन | यदुक्तम्-- ᳚गृहे गृहोद्भवैर्द्रव्यैः श्मशाने च तदुद्भवैः | विधिवत्पूजनं कार्यं शबलं न समाचरेत् ||᳚ इति ||४६ || ननु किमनेकैः स्थण्डिलादिभिः पूजाधारैः ?--इत्याशङ्कां गर्भीकृत्य विषयविभागं दर्शयति-- यथाप्सु शान्तये मन्त्रास्तद्वदस्त्रादिषु ध्रुवम् | शत्रुच्छेदादिकर्तारः काम्योऽतः सङ्करोज्झितः || २७-४७ || अत इति--एषां प्रतिनियतकारित्वात्, तेन शान्तिकामो जल एव पूजां विदध्यात्, न अस्त्रादाविति || ४७ || ननु एवमकामस्य पुनः किमेभिर्बहुभिः ?--इत्याशङ्क्य आह--
SKअकामस्य तु ते तत्तत्स्थानोपाधिवशाद् ध्रुवम् | पाशकर्तनसंशुद्धतत्त्वाप्यायादिकारिणः || २७-४८ || अथवा पुस्तकं तादृग्रहःशास्त्रक्रमोम्भितम् | सुशुद्धं दीक्षितकृतं तत्राप्येष विधिः स्मृतः || २७-४९ || अथवेति--पक्षान्तरे | तादृग्रहःशास्त्रक्रमोम्भितत्वेन च अस्य सर्वंसहत्वात् सर्वकर्मस्वपि आनुगुण्यं कटाक्षितम् | कृतमिति-- लिखितम् || ४८-४९ || एवं लिङ्गस्वरूपमभिधाय, पूजाभेदमभिधातुमाह-- इत्थं स्वयंप्रतिष्ठेषु यावद्यावत्स्थितिर्भवेत् | विभवैस्तर्पणं शुद्धिस्तावद्विच्छेदवर्जनम् || २७-५० || अत एव यदा भूरिदिनं मण्डलकल्पनम् | तदा दिने दिने कुर्याद्विभवैस्तर्पणं बहु || २७-५१ || प्रतिष्ठायां च सर्वत्र गुरुः पूर्वोदितं परम् | सतत्त्वमनुसन्धाय संनिधिं स्फुटमाचरेत् || २७-५२ || विच्छेदवर्जनमिति--विच्छेदं परिवर्ज्य अविच्छिन्नम्--इत्यर्थः | अत एवेति�अविच्छेदेन तर्पणादेः कार्यत्वात् ||५२ || ननु ᳚आ तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात् | पुत्रकः साधको व्यक्तमव्यक्तं वा समाश्रयेत् ||᳚ (तं.आ. २७-९) इत्याद्युक्त्या तत्तदभीष्टसिद्धिपर्यन्तं पुत्रकादीनां लिङ्गादिसमाश्रयणमुक्तम्, अनन्तरं पुनरेभिः किं कार्यम् ?-- इत्याशङ्क्य आह-- सिद्धे तु तन्मयीभावे फले पुत्रकसाधकैः | अन्यस्मै तद्द्वयादन्यतरस्मै तत्समर्प्यते || २७-५३ || तस्याप्येष विधिः सर्वस्तदलाभे तु सर्वथा | अगाधेऽम्भसि तत्क्षेप्यं क्षमयित्वा विसृज्य च || २७-५४ || इत्येष स्वप्रतिष्ठानविधिः शिवनिरूपितः | परप्रतिष्ठिते लिङ्गे बाणीयेऽथ स्वयंभुवि || २७-५५ || सर्वमासनपक्षे प्राङ् न्यस्य संपूजयेत्क्रमम् | एवं तत्समर्पणे योग्यश्चेत् कश्चिन्न लब्धः, तदा तैः किं कार्यम्?-- इत्याशङ्क्य आह--तदलाभ इति | स्वयम्भुवीति--अर्थाद्विधिर्निरूपित इति, तदेवाह--सर्वमिति || ननु स्वयम्भ्वादयो हि शुद्धादशुद्धाद् वा अध्वमध्यादवतीर्णाः, तत्कथमत्र इदं सर्वाध्वोत्तीर्णं संपूजयेत् ?--इत्याशङ्क्य आह--
SKशुद्धाशुद्धाध्वजाः सर्वे मन्त्राः सर्वः शिवान्तकः || २७-५६ || अध्वा चेहासने प्रोक्तस्तत्सर्वत्रार्चयेदिदम् | आवाहनविसृष्टी तु तत्र प्राग्वत्समाचरेत् || २७-५७ || न च एतद्युक्तिमात्रसिद्धमेव--इत्याह-- उक्तं तन्त्रेऽप्यघोरेशे स्वच्छन्दे विभुना तथा | अथवा प्रत्यहं प्रोक्तमानार्धार्धनियोगतः || २७-५८ || कृत्वेष्टं मण्डलं तत्र समस्तं क्रममर्चयेत् | प्रोक्तमानेति-- ᳚एवमस्य त्रिहस्तस्य....................... |᳚ इत्याद्यभिहितस्य त्रिहस्तत्वादेः || एतदेव उपसंहरति-- बहुप्रकारभिन्नस्य लिङ्गस्यार्चा निरूपिता || २७-५९ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके लिङ्गार्चाप्रकाशनं नाम सप्तविंशमाह्निकम् || २७ || इति शिवम् || ५९ || बहुभेदभङ्गिलिङ्गस्वरूपसंविन्निरूपणाचतुरः | सप्तविंशं व्यवृणोदाह्निकमेतज्जयरथाभिख्यः || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते लिङ्गार्चाप्रकाशनं नाम सप्तविंशमाह्निकं समाप्तम् || २७ || अष्टाविंशमाह्निकम् ᳚ विवेकः ᳚ समयविलोपविलुम्पनभीमवपुः सकलसम्पदां दुर्गम् | शमयतु निरर्गलं वो दुर्गमभवदुर्गतिं दुर्गः || इदानीं नित्यकर्म उपसंहरन् प्राप्तावसरं नैमित्तिकं वक्तुं प्रतिजानीते-- इति नित्यविधिः प्रोक्तो नैमित्तिकमथोच्यते || २८-१ || तत्र नैमित्तिकमेव लक्षयितुं परेषां नित्यद्वारेण तल्लक्षणस्य अतिव्याप्त्यादिदोषदुष्टत्वमाविष्करोति-- नियतं भावि यन्नित्यं तदित्यस्मिन्विधौ स्थिते | मुख्यत्वं तन्मयीभूतिः सर्वं नैमित्तिकं ततः || २८-२ || ननु यदि नाम यदेव नियतं भवेत्, तदेव नित्यं तत् नियतभावित्वान्यथानुपपत्त्या सर्वस्य तन्मयीभाव एव अहर्निशमापद्येत | स्नानादौ प्रवृत्तस्य हि तदा कदाचिदपि विरतिर्न स्यात् नियतभावित्वात् तस्य | न च एवमस्ति, तन्न किञ्चिदपि नित्यं भवेत्, अपि तु सर्वं नैमित्तिकमेव--इत्याह--सर्वं नैमित्तिकं तत इति || २ ||
SKअथोच्यते दिनादिकल्पनानियमेन नित्यतेति यथाशंसं सायंप्रातरादावेव सन्ध्यावन्दनादि--इत्याह-- दिनादिकल्पनोत्थे तु नैयत्ये सर्वनित्यता | दिनमासर्क्षवर्षादिनैयत्यादुच्यते तदा || २८-३ || एवं तर्हि सर्वत्र दिनादिकल्पनानैयत्यस्य भावात् सर्वमेव नित्यमुच्यते--इत्याह--सर्वेत्यादि ||३ || एवं परकृतं नैमित्तिकलक्षणं नित्यद्वारेण अपाकृत्य, स्वमतेन आह-- अशङ्कितव्यावश्यन्तासत्ताकं जातुचिद्भवम् | प्रमात्रनियतं प्राहुर्नैमित्तिकमिदं बुधाः || २८-४ || इदं हि बुधा नैमित्तिकं प्राहुः--तल्लक्षणं कथितवन्तः यदशङ्कितव्या निश्चिता अत एव प्रत्यवायजिहासावैवश्यात् अवश्यन्तया भाविनी सत्ता स्वरूपं यस्य तत्तथेति | ननु नित्यमपि एवमित्यत्रापि अतिव्याप्तिरेव ?--इत्याह--जातुचिद्भवम् --इति कादाचित्कमित्यर्थः | ननु नित्यस्यापि कालनैयत्यादेवंरूपत्वमेवेति पुनरपि तदवस्थ एव स दोषः ?--इत्याह--प्रमात्रनियतमिति | नित्यं हि समय्यादीनां चतुर्णामपि नियतम्, इदं तु केषांचिदेवेति | यदुक्तम्-- ङित्यादित्रितयं कुर्याद् गुरुः साधक एव च | नित्यमेव द्वयं चान्यद्यावज्जीवं शिवाज्ञया ||᳚ इति ||४ || एवं नैमित्तिकं लक्षयित्वा प्रसङ्गान्नित्यमपि लक्षयति-- सन्ध्यादि पर्वसंपूजा पवित्रकमिदं सदा | नित्यं नियतरूपत्वात्सर्वस्मिन् शासनाश्रिते || २८-५ || इदं हि स्नानसन्ध्यावन्दनादि नित्यं यदेतदस्मद्दर्शनस्थे सर्वस्मिन् समय्यादिके सदा नियतरूपमेवेति || ५ || न्यायबलोपनतश्च अयं प्रमात्रपेक्षो नित्यनैमित्तिकयोर्विभाग उक्तः, शास्त्रीयस्तु यथावचनमेव सर्वत्र प्रसिद्धः | तत्र नित्यविभागः प्रागेव सविस्तरमुक्तः, नैमित्तिकविभागस्तु इह प्रकान्त एव--इत्याह-- ज्ञानशास्त्रगुरुभ्रतृतद्वर्गप्राप्तयस्तथा | तज्जन्मसंस्क्रियाभेदाः स्वजन्मोत्सवसङ्गतिः || २८-६ || श्राद्धं विपत्प्रतीकारः प्रमोदोऽद्भुतदर्शनम् | योगिनीमेलकः स्वांशसन्तानाद्यैश्च मेलनम् || २८-७ || शास्त्रव्याख्यापुरामध्यावसानानि क्रमोदयः |
SKदेवतादर्शनं स्वाप्नमाज्ञा समयनिष्कृतिः || २८-८ || इति नैमित्तिकं श्रीमत्तन्त्रसारे निरूपितम् | त्रयोविंशतिभेदेन विशेषार्चानिबन्धनम् || २८-९ || संस्क्रिया--गुर्वभिषेकदिनम् | अभेदः--परमशिवेन एक्यात् तन्मृतिदिनम् | उत्सवः--लौकिको महीमानादिः | विपदः-- स्वशक्त्यपहारादिरूपायाः, प्रमोदः--हारितस्य पुनर्लाभादिना, अद्भुतस्य--विश्वक्षोभादेः | अनेन च विपत्प्रतीकारादिना चतुष्टयेन शिवरात्रिसंज्ञकमपि नैमित्तिकं संगृहीतम् | तत्र हि एतदेव भगवतोऽभवत्--इत्याम्नायः | तच्च साधारण्येनैव सर्वशास्त्रेषु आम्नातमिति नेह स्वकण्ठेनोक्तम् | स्वांशसन्तानः--स्वमठिकासब्रह्मचारी | क्रमेति- -प्रागुक्ततत्तच्चक्रात्मनः | स्वाप्नं देवतादर्शनमिति शुभस्वप्नदर्शनम्--इत्यर्थः | आज्ञा--स्वाभिषेकदिनम् | समयनिष्कृतिरिति--प्रायश्चित्ताचरणम्--इत्यर्थः | एवं नैमित्तिकस्य विभागमभिधाय प्रयोजनमप्याह--विशेषार्चानिबन्धनमिति ||९ || तदेवं सति प्राधान्यात् प्रथमं तावत् पर्वभेदानाह-- तत्र पर्वविधिं ब्रूमो द्विधा पर्व कुलाकुलम् | कुलाष्टककृतं पूर्वं प्रोक्तं श्रीयोगसञ्चरे || २८-१० || अब्धीन्दुमुनिरित्येतन्माहेश्या ब्रह्मसन्ततेः | प्रतिपत्पञ्चदश्यौ द्वे कौमार्या रसवह्नियुक् || २८-११ || अब्धिरक्षीन्दु वैष्णव्या एन्द्य्रस्त्वस्त्रं त्रयोदशी | वाराह्या रन्ध्ररुद्रौ द्वे चण्ड्या वस्वक्षियुग्मकम् || २८-१२ || द्वे द्वे तिथी तु सर्वासां योगेश्या दशमी पुनः | तस्या अप्यष्टमी यस्माद् द्वितिथिः सा प्रकीर्तिता || २८-१३ || अन्याश्चाकुलपर्वापि वैपरीत्येन लक्षितम् | कुलपर्वेति तद् ब्रूमो यथोक्तं भैरवे कुले || २८-१४ || हैडरे त्रिकसद्भावे त्रिककालीकुलादिके | योऽयं प्राणाश्रितः पूर्वं कालः प्रोक्तः सुविस्तरात् || २८-१५ || स चक्रभेदसञ्चारे काञ्चित् सूते स्वसंविदम् | स्वसंवित्पूर्णतालाभसमयः पर्व भण्यते || २८-१६ || पर्व पूरण इत्येव यद्वा पॄ पूरणार्थकः | पर्वशब्दो निरुक्तश्च पर्व तत्पूरणादिति || २८-१७ ||
SKहैडरेऽत्र च शब्दोऽयं द्विधा नान्तेतरः श्रुतः | पूर्वमिति--कुलपर्व | अब्धीन्दु--चतुर्दशी, मुनिः सप्तमी | ब्रह्मसन्ततेरिति--ब्रह्म्याः | रसवह्नियुगिति षष्ठीतृतीयायुग्मम् | अब्धिः--चतुर्थी, अक्षीन्दु द्वादशी | अस्त्रं--पञ्चमी | रन्ध्ररुद्रौ नवमी एकादशी च | वस्वक्षीति अष्टमी द्वितीया च | तस्या अपीति-- न केवलं चामुण्डायाः, तेन अष्टमी उभयोरपि साधारणीत्यर्थः | एवं यो यस्मिंस्तिथौ संभूतः, तत् तस्य कुलपर्व--इति भावः | यदुक्तम्-- ᳚यो यस्मिंस्तिथिसंभूतस्तस्य सा कुलदेवता |᳚ इति | वैपरीत्येनेति अशुभकरी--शुभकरीतिवत्, वस्तुतः अकुले अशरीरे शक्तौ वा भवेत्--इति भावः | पूर्वमिति--षष्ठाह्निके सप्तमाह्निके च | अस्मिन्नेवार्थे पर्वशब्दं व्युत्पादयति--पर्वेत्यादिना | तेन ᳚पर्व पूरणे᳚ इत्यस्य अचि पर्वशब्दोऽकारान्तः | ᳚पॄ पालनपूरणयोः᳚ इत्यस्य औणादिके वनिपि नकारान्तः पर्वञ्छब्दः | पूरणात्पर्व इति च निर्वचनम् | लक्ष्येऽप्येवम्--इत्याह-- हैडरेऽत्रेत्यादि | अत्रेति--भैरवकुलादौ | तदुक्तं तत्र-- ᳚पूजनात् कुलपर्वेषु........................ |᳚ इति, ᳚..................... कुलपर्वसु पूजनात् ||᳚ इति च || एतदभिज्ञाश्च सिद्धयोगिन्यादयोऽत्र पूजापराः--इत्याह-- तच्चक्रचारनिष्णाता ये केचित् पूर्णसंविदः || २८-१८ || तन्मेलकसमायुक्तास्ते तत्पूजापराः सदा | योऽप्यतन्मय एषोऽपि तत्काले स्वक्रमार्चनात् || २८-१९ || तद्योगिनीसिद्धसङ्घमेलकात् तन्मयीभवेत् | अतन्मय इति--चक्रचाराद्यनिष्णातः--इत्यर्थः || एतदेव दृष्टान्तयति-- यथा पेर्क्षणके तत्तद्द्रष्ट्टसंविदभेदिताम् || २८-२० || क्रमोदितां सद्य एव लभते तत्प्रवेशनात् | योगाभ्यासक्रमोपात्तां तथा पूर्णां स्वसंविदम् || २८-२१ || लभन्ते सद्य एवैतत्संविदैक्यप्रवेशनात् | तत्कालं चापि संवित्तेः पूर्णत्वात् कामदोग्धृता || २८-२२ || तेन तत्तत्फलं तत्र काले संपूजयाचिरात् |
SKयथा हि द्रष्टॄणां प्रेक्षणकादौ तावति अंशे भेदविगलनात् क्रमिकतया स्थिता अपि कस्यचित् तत्कालमनुप्रविष्टस्यापि सद्य एव अभिन्ना संविदुदेति, तथा प्रकृतेऽप्येवम् | पर्वादौ हि पूर्णायाः संविदः कामधेनुप्रख्यत्वं येन अचिरादेव तत्कालं पूजावशात् तत्तत्फलमुदियात् || ननु सिद्धयोगिन्यादीनां पर्वादौ संविदः पारिपूर्ण्यात् तत्तत्फलमस्तु, अन्येषां पुनरेतत्कथं स्यात्?--इत्याशङ्कां प्रशमयितुं दृष्टान्तयति-- यथा चिरोपात्तधनः कुर्वन्नुत्सवमादरात् || २८-२३ || अतिथिं सोऽनुगृह्णाति तत्कालाभिज्ञमागतम् | तथा सुफलसंसिद्धयै योगिनीसिद्धनायकाः || २८-२४ || यत्नवन्तोऽपि तत्कालाभिज्ञं तमनुगृह्णते | न च एतद्युक्तित एव सिद्धम्--इत्याह-- उक्तं च तत्र तेनेह कुले सामान्यतेत्यलम् || २८-२५ || यस्य यद्धृदये देवि वर्तते दैशिकाज्ञया | मन्त्रो योगः क्रमश्चैव पूजनात् सिद्धिदो भवेत् || २८-२६ || कुलाचारेण देवेशि पूज्यं सिद्धिविमुक्तये | ये पर्वस्वेषु देवेशि तर्पणं तु विशेषतः || २८-२७ || गुरूणां देवतानां च न कुर्वन्ति प्रमादतः | दुराचारा हि ते दुष्टाः पशुतुल्या वरानने || २८-२८ || अभावान्नित्यपूजाया अवश्यं ह्येषु पूजयेत् | अटनं ज्ञानशक्त्यादिलाभार्थं यत्प्रकीर्तितम् || २८-२९ || शक्तियागश्च यः प्रोक्तो वश्याकर्षणमारणम् | तत्सर्वं पर्वदिवसेष्वयत्नेनैव सिद्ध्यति || २८-३० || तत्सामान्यविशेषाभ्यां षोढा पर्व निरूपितम् | तत्रेति--हैडरे | षोढेति--सामान्यतया सामान्यसामान्यतया सामान्यविशेषतया विशेषतया विशेषविशेषतया विशेषसामान्यतया चेति || तदेव दर्शयति-- मासस्याद्यं पञ्चमं च श्रीदिनं परिभाष्यते || २८-३१ || उत्कृष्टत्वात् पर्वदिनं श्रीपूर्वत्वेन भाष्यते | समयो ह्येष यद्गुप्तं तन्नानुपपदं वदेत् || २८-३२ || तुर्याष्टमान्यभुवनचरमाणि द्वयोरपि | पक्षयोरिह सामान्यसामान्यं पर्व कीर्तितम् || २८-३३ || यदेतेषु दिनष्वेव भविष्यद्ग्रहभात्मकः | उभयात्मा विशेषः स्यात्तत्सामान्यविशेषता || २८-३४ ||
SKसा चैकादशधैकस्मिन्नैकस्मिन्विभुनोदिता | सजातीया तु सोत्कृष्टेत्येवं शम्भुर्न्यरूपयत् || २८-३५ || अनुपपदं न वदेदिति | यदुक्तं प्राक्-- ᳚श्रीपूर्वं नाम वक्तव्यं......................... |᳚ इति | अन्येति--नवमी, भुवनेति--चतुर्दशी, चरमेति--पञ्चदशी | सामान्यसामान्यमिति द्वयोरपि पक्षयोरनुगमात्, अत एव एकपक्षानुगामितया मासस्य आद्यं पञ्चमं चेति सामान्यतयैवोक्तम् | उभयात्मेति--एतद्दिनत्वेऽपि ग्रहादेर्विशेषस्य भावात् | सेति-- विशिष्टता | एकादशधेति--आश्वयुजशुक्लनवम्या भग्रहाद्यात्मनो विशेषस्याभावात् | यद्वक्ष्यति-- ᳚भग्रहसमयविशेषो नाश्वयुजे कोऽपि तेन तद्वर्जम् | वेलाभग्रहकलना कथितैकादशसु मासेषु ||᳚ इति | एकस्मिन्नेकस्मिन्निति--शास्त्रे | सजातीयेति--यथा मार्गशीर्षनवमी | सा हि सामान्यसामान्यपर्वत्वेऽपि अमुमपि विशेषमावहति, अत एव उत्कृष्टेत्युक्तम् | एवमिति--सामान्यविशेषतया विशेषतया च || ३५ || एतदेवात्र दर्शयति-- कृष्णयुगं वह्निसितं श्रुतिकृष्णं वह्निसितमिति पक्षाः | अर्केन्दुजीवचन्द्रा बुधयुग्मेन्द्वर्ककविगुरुविधु स्यात् || २८-३६ || परफल्गुश्चैत्रमघे तिष्यः प्राक्फल्गुकर्णशतभिषजः | मूलप्राजापत्ये विशाखिका श्रवणसंज्ञया भानि || २८-३७ || रन्ध्रे तिथ्यर्कपरे वसुरन्धेर् शशिवृषाङ्करसरन्ध्र्युगम् | प्रथमनिशामध्यनिशे मध्याह्नशरा दिनोदयो मध्यदिनम् || २८-३८ || प्रथमनिशेति च समयो मार्गशिरःप्रभृतिमासेषु | कन्यान्त्यजाथ वेश्या रागवती तत्त्ववेदिनी दूती || २८-३९ || व्याससमासात् क्रमशः पूज्याश्चक्रेऽनुयागाख्ये |
SKवह्नीति--त्रयः | श्रुतीति--चत्वारः | परफल्गुः उत्तरफल्गुनी | चैत्रम् चित्रा रक्ष एव राक्षस इतिवत् | प्राक्फल्गुः पूर्वफल्गुनी | कर्णः श्रवणः | प्राजापत्यम् रोहिणी | रन्ध्रे नवमीद्वयम् | तिथिः पञ्चदशी, अर्का द्वादशी, परा त्रयोदशी | वसुः अष्टमी | शशी प्रतिपत्, वृषाङ्का एकादशी, रसाः षष्ठी, शराः पञ्च | अत्र च मार्गशीर्षात् प्रभृति द्वादशसु मासेषु कृष्णपक्षादयः सर्व एव यथासंख्येन योज्याः | यथा मार्गशीर्षे मासि कृष्णपक्षे आदित्यवारे उत्तरफल्गुनीनक्षत्रे नवम्यां प्रथमनिशार्धप्रहरद्वये पर्वत्वमिति | एवमत्र रसवृषाङ्कार्कपराख्यस्य तिथीनां चतुष्टयस्य भग्रहाद्यात्मकत्वात् विशेषरूपत्वमेव | शिष्टस्य तु नवम्यादेरुभयात्मकत्वात् सामान्यविशेषरूपत्वमिति | यदुक्तम्-- ᳚कृष्णायां मार्गशीर्षस्य नवम्यां रजनीमुखे | आदित्योत्तरफल्गुन्योः पूर्वार्धप्रहरद्वयम् || पौषमासनवम्यां च कृष्णायामर्धरात्रगम् | चित्राचन्द्रमसोर्योगे द्वितीयं पर्व पार्वति || पूर्णायां पञ्चदश्यां च माघस्यार्धनिशागमे | योगे मघाबृहस्पत्योस्तृतीयं पर्व कौलिकम् || तिष्यचन्द्रमसोर्योगे द्वादश्यां फाल्गुने सिते | चतुर्थं पर्व कथितं नभोमध्यगते रवौ || बुधस्य पूर्वफल्गुन्या योगे मध्यगते रवौ | चैत्रशुक्लत्रयोदश्यां पञ्चमं पर्व चिन्तयेत् || वैशाखमासस्याष्टम्यां बुधश्रवणसङ्गमे | मध्याह्ने कृष्णपक्षे च षष्ठं पर्व वरानने || ज्येष्ठमास्यसिते पक्षे नवम्यां मध्यवासरे | चन्द्रवारुणयोर्योगे सप्तमं पर्व पार्वति || आषाढमासप्रतिपद्यर्के मध्याह्नगे सिते | मूलभास्करयोर्योगे पर्वाष्टममुदाहृतम् || श्रावणे रोहिणीशुक्रयोगे चैकादशेऽहनि | कृष्ण्पक्षे प्रभाते च नवमं पर्व भामिनि || विशाखाजीवसंयोगे षष्ठ्यां भाद्रपदे सिते | मध्याह्नसमये देवि दशमं पर्व कौलिकम् || या शुक्लनवमी मासि भवेदाश्वयुजे प्रिये | तस्यां तु ग्रहनक्षत्रवेलाकालो न गण्यते || एतदेकादशं पर्व कुलसिद्धिमहोदयम् |
SKकार्तिके मासि शुक्लायां नवम्यां रजनीमुखे || श्रवणेन्दुसमापत्तौ द्वादशं पर्व कीर्तितम् |᳚ इति | अन्त्यजेति--धीवरीमातङ्ग्याद्या | तत्त्ववेदिनीति--समयज्ञा | तदुक्तम्-- ᳚धीवरीचक्रपूजा च रात्रौ कार्या विधानतः | चक्रं संपूजयेद्देवि मातङ्गीकुलसंभवम् ||᳚ इति, ᳚शक्तयः समयज्ञाश्च दिनान्ते क्रीडयन्ति ताः |᳚ इति च || ननु इह पूजा नाम आदियागात् प्रभृति अनुयागपर्यन्तमुच्यते, सा च बहुकालनिर्वर्त्येति कथमसौ इयति समये पर्वसु सिद्ध्येत् ?--इत्याशङ्क्य आह-- सर्वत्र च पर्वदिने कुर्यादनुयागचक्रमतिशयतः || २८-४० || गुप्तागुप्तविधानादियागचर्याक्रमेण सम्पूर्णम् | अनुयागः किल मुख्यः सर्वस्मिन्नेव कर्मविनियोगे || २८-४१ || अनुयागकाललाभे तस्मात्प्रयतेत तत्परमः | मुख्य इति--आदियागो हि पूजोपकरणभूतद्रव्योपहरणरूपत्वादेतदङ्गम्--इति भावः, तेन पर्ववेलायामनुयाग एव भरः कार्यः--इति तात्पर्यम् || ननु कस्मादत्र आश्वयुजे मासि भग्रहादियोगो नोक्तः ?--इत्याशङ्क्य आह-- अग्रहसमयविशेषो नाश्वयुजे कोऽपि तेन तद्वर्जम् || २८-४२ || वेलाभग्रहकलना कथितैकादशसु मासेषु | अत एव अत्र विशेषविशेषवत्त्वम् || एवमन्यत्रापि विशेषविशेषत्वं दर्शयति-- फाल्गुनमासे शुक्लं यत्प्रोक्तं द्वादशीदिनं पर्व || २८-४३ || अग्रतिथिवेधयोगो मुख्यतमोऽसौ विशेषोऽत्र | अग्रतिथिः त्रयोदशी | तदुक्तम्-- ᳚फाल्गुने द्वादशी शुक्ला सोमतिथियुता भवेत् | सिद्धावप्यग्रतिथ्यंशे विशेषोऽत्र महानयम् ||᳚ इति || न केवलमत्रैव विशेषविशेषता, यावत् सर्वत्रापि--इत्याह-- दिवसनिशे किल कृत्वा त्रिभागशः प्रथममध्यमापरविभागः || २८-४४ || पूजाकालस्तत्र त्रिभागिते मुख्यतमः कालः | यदि सङ्घटेत वेला मुख्यतमा भग्रहौ तथा चक्रम् || २८-४५ || तद्याग आदियागस्तत्काम्यं पूजयैव पर्वसु सिद्ध्येत् | दिनवेलाभग्रहकल्पनेन तत्रापि सौम्यरौद्रत्वम् || २८-४६ || ज्ञात्वा साधकमुख्यस्तत्तत्कार्यं तदा तदा कुर्यात् |
SKइह किल पर्वतया अभिमतं दिनं निशां वा त्रिभागीकृत्य यथास्वं प्रथममध्यमापररूपभागत्रयान्यतरात्मा प्रत्यूषमध्याह्नप्रदोषलक्षणो यः पूजाकालः, तस्मिन्नपि त्रिभिर्विभक्ते यथास्वमेव प्रथमो मध्यमः परो वा मुख्यतमो यः पूजाकालः, तत्रैव पूज्यतया संमतं कन्यान्त्यजादीनां चक्रम् | वेला भग्रहादयश्च मुख्यतमा यदि सङ्घटन्ते, तत् तस्मिन् क्षणे क्रियमाणो याग आदियागः प्रधानं यजनम्--इत्यर्थः | तत्तस्माद्धेतोः पर्वसु विनापि योगं ज्ञानं वा पूजयैव काम्यं सिद्ध्येत्--अभीष्टसंपत्तिः स्यात्--इत्यर्थः | तत्रापीति-- विशेषविशेषात्मनि मुख्यतमेऽपि काले--इत्यर्थः | तत्तदिति-- शान्त्युच्चाटनादि || ननु अत्रैव विभाजितं पूजाकालमतिक्रम्य तिथ्यादि यदि स्यात्, तदा किं प्रतिपत्तव्यम् ?--इत्याशङ्क्य आह-- उक्तो योऽर्चाकालस्तं चेदुल्लङ्घ्य भग्रहतिथिः स्यात् || २८-४७ || तमनादृत्य विशेषं प्रधानयेत्सामयमिति केचित् | अत्रैव मतान्तरमाह-- नेति त्वस्मद्गुरवो विशेषरूपा हि तिथिरिह न वेला || २८-४८ || ननु अत्र तिथिरेव नाम का यस्या अपि विशेषत्वं स्यात् ?--इत्याशङ्क्य आह-- संवेद्यरूपशशधरभागः संवेदकार्ककरनिकरैः | यावान्यावति पूर्णः सा हि तिथिर्भग्रहैः स्फुटीभवति || २८-४९ || इह यत् ᳚प्रतिदिवसमेवमर्कात् स्थानविशेषेण शौक्ल्यपरिवृद्धिः | भवति शशिन.......................................... ||᳚ (वृषं. ४|४) इत्यादिज्योतिःशास्त्रोदितदृष्ट्या प्रमेयात्मनः शशिनो यावान् एकैककलारूपो भागः प्रमाणात्मनोऽर्कस्य करनिकरैर्यावति ऊनाधिकषष्टिघटिकात्मनि काले दृश्यभागे परभागे वा पूर्णः परिवृद्धशौक्ल्यः स्यात्, सा हि तिथिरुच्यते या भग्रहैः स्फुटीभवति विशिष्टतामासादयति--इत्यर्थः || ४९ || अतश्च तिथेरेव मुख्यत्वम्--इत्याह-- तस्मान्मुख्यात्र तिथिः सा च विशेष्या ग्रहर्क्षयोगेन | वेलात्र न प्रधानं युक्तं चैतत्तथाहि परमेशः || २८-५० || श्रीत्रिकभैरवकुलशास्त्रेषूचे न पर्वदिवसेषु |
SKवेलायोगं कञ्चन तिथिभग्रहयोगतो ह्यन्यम् || २८-५१ || चो हेतौ | एतच्च आगमतोऽपि उपपादयितुमाह--युक्तं चैतदित्यादि | तदुक्तं तत्र-- ᳚मासस्य मार्गशीर्षस्य या तिथिर्नवमी भवेत् | कृष्णपक्षे सूर्ययुक्ता उत्तराफल्गुनीयुता || तस्यां विशेषसंपूजा कर्तव्या साधकोत्तमैः |᳚ इत्यादि ᳚कार्तिकस्य तु मासस्य शुक्ला या नवमी भवेत् | चन्द्रश्रवणसंयोगे द्वादशं पर्व पूजयेत् ||᳚ इत्यन्तम् ||५१ || अतश्च तिथेरेव मुख्यतया पूज्यत्वम्--इत्याह-- भग्रहयोगाभावे तिथिस्तु पूज्या प्रधानरूपत्वात् | तुर्हेतौ | यत् स्मृतिरपि-- ᳚.......................टिथिं यत्नेन याजयेत् |᳚ इति | अनेन च अत्र पर्वणां विशिष्टत्वेऽपि सामान्यरूपत्वमुक्तम् || एतदेव शास्त्रान्तरप्रसिद्धन्यायगर्भं दृष्टान्तयति-- श्वेताभावे कृष्णच्छागालम्भं हि कथयन्ति || २८-५२ || मीमांसका हि श्वेतं छागमालभेतेति चोदितः पशुः, यदि पशुरुपाकृतः पलायेत, अन्यं तद्वर्णं तद्वयसमालभेतेत्यादौ यदि तद्वर्ण एव न प्राप्येत, तदा ᳚गुणाः प्रतिनिधीयन्ते च्छागादीनां न जातयः᳚ इत्यादिनयेन अतद्वर्णस्यापि छागस्यैव आलम्भं कथयन्ति--इति वाक्यार्थः | एवं प्रकृतेऽपि भग्रहवेलादिविशिष्टा तिथिश्चेत् न भवेत्, तत्केवलैव पर्वतया इयं ग्राह्येति ||५२ || नन्वत्र श्रीत्रिककुलादावनुक्तोऽपि भगवता वेलायोगः कथमूर्मिकुलादावभिधीयमानः सङ्गच्छताम् ?--इत्याशङ्क्य आह-- यत्पुनरूर्मिप्रभृतिनि शास्त्रे वेलोदितापि तत्काम्यम् | मुख्यतयोद्दिश्य विधिं तथा च तत्र पौषपर्वदिने || २८-५३ || कृत्वार्चनमर्धनिशि ध्यात्वा जप्त्वा बहिर्गतस्य यथा | आदेशः फलति तथा माघे चक्राद्वचः फलति || २८-५४ || अचिरादभीष्टसिद्धिः पञ्चसु मैत्री धनं च मेलापः | चक्रस्थाने क्रोधात् पाषाणस्फोटनेन रिपुनाशः || २८-५५ || सिद्धादेशप्राप्तिर्मार्गान्तं कथ्यते विभुना |
SKएतदेव दर्शयति--तथा चेत्यादिना | पञ्चस्विति काकाक्षिन्यायेन योज्यम्, तेन फाल्गुनादाषाढान्तं पञ्चसु अभीष्टसिद्धिः, श्रावणान्मार्गशीर्षान्तुं च पञ्चसु क्रमेण मैत्र्यादीनि | तदुक्तं तत्र पौषमासादिक्रमेण ᳚पूजा तत्रैव यत्नेन रात्र्यर्धसमये प्रिये | ध्यानयुक्तो भवेत्पश्चान्मन्त्रजप्यपरायणः || आदेशो जायते तस्य श्रुत्वासौ निष्क्रमेद् बहिः | तत्राभिवाञ्छितं भद्रे प्रापयेन्नात्र संशयः ||᳚ इति, ᳚रात्र्यर्धसमये मन्त्री विशेषात्तत्र पूजनात् | भ्रममाणस्य चक्रस्य वचनं यत्पतिष्यति || तदविघ्नेन देवेशि सप्ताहात् सफलं भवेत् |᳚ इति, ᳚दिनार्धे पूजनात्तत्र अभीष्टं सिद्ध्यतेऽचिरात् |᳚ इति, ᳚यां सिद्धिमभिवाञ्छेत सा तस्य अचिराद्भवेत् ||᳚ इति, ᳚प्रार्थितं सिद्ध्यते देवि........................... |᳚ इति, ᳚मनोवाञ्छितसिद्धर्थं चक्रं संपूजयेत्प्रिये | .....................टच्चक्रं पूज्य सिद्ध्यति ||᳚ इति, ᳚पूजां वै वासरारम्भे कुर्वतोऽत्र विधानतः | मैत्रीभावेन तिष्ठन्ति सर्वभूतानि तस्य च ||᳚ इति, ᳚मध्याह्ने पूजनात्तत्र सौभाग्यधनधान्यतः | वृद्धिर्भवति देवेशि................................. ||᳚ इति, ᳚मेलापकं तु सर्वत्र तस्मिन्पर्वे भविष्यति |᳚ इति, ᳚भूमावास्फोटयेत् क्रोधात्संज्ञया यस्य वै प्रिये | पाषाणे स्फुटयेत् देवि तस्य मूर्धा तु सप्तधा || स्फुटते तु महाभागे सत्यं नास्त्यत्र संशयः | निशि क्षेत्राटनाद्देवि सिद्धादेशमवाप्नुयात् ||᳚ इति च || ननु अत्र तिथौ भग्रहाद्यभावेऽपि भवन् वेलायोगः किमपेक्षणीयो न वा ?--इत्याशङ्क्य आह-- भग्रहयोगाभावे वेलां तु तिथेरवश्यमीक्षेत || २८-५६ || सा हि तथा स्फुटरूपा तिथेः स्वभावोदयं दद्यात् | एवं षडंशयोगिनि दिने तु महता विशेषेण अर्चनं कुर्यात्--इत्याह- - भग्रहतिथिवेलांशानुयायि सर्वाङ्गसुन्दरं तु दिनम् || २८-५७ || यदि लभ्येत तदास्मिन्विशेषतमपूजनं रचयेत् | सर्वाङ्गसुन्दरमित्यनेन अस्य अतीव दुर्लभत्वं प्रकाशितम् ||
SKननु काम्यमेव केवलमधिकृत्य यदि यागोऽभिप्रेतः, तदिह नैमित्तिकप्रकरणेऽपि अवश्यन्तया तद्योगः कस्मादुक्तः ?-- इत्याशङ्क्य आह-- न च काम्यमेव केवलमेतत्परिवर्जने यतः कथितः || २८-५८ || समयविलोपः श्रीमद्भैरवकुल ऊर्मिशास्त्रे च | दुष्टा हि दुराचाराः पशुतुल्याः पर्व ये न विदुः || २८-५९ || तदेवार्थद्वारेण पठति--दुष्टा हीत्यादि ||५९ || ननु एतावतैव केवलकाम्याधिकारेण एतन्नोक्तमिति कुतोऽवगतम् ?-- इत्याशङ्क्य आह-- न च काम्यस्याकरणे स्याज्जातु प्रत्यवायित्वम् | चो हेतौ || एवं पर्वविशेषमभिधाय चक्रचर्चां कर्तुमाह-- तत्रानुयागसिद्धर्थं चक्रयागो निरूप्यते || २८-६० || मूर्तियाग इति प्रोक्तो यः श्रीयोगीश्वरीमते | नित्यं नैमित्तिकं कर्म यदत्रोक्तं महेशिना || २८-६१ || सर्वत्र चक्रयागोऽत्र मुख्यः काम्ये विशेषतः | ज्ञानी योगी च पुरुषः स्त्री वास्मिन्मूर्तिसंज्ञके || २८-६२ || यागे प्रयत्नतो योज्यस्तद्धि पात्रमनुत्तरम् | तत्संपर्कात्पूर्णता स्यादिति त्रैशिरसादिषु || २८-६३ || तदिति--ज्ञान्यादि ||६३ || तदेव पठति-- तेन सर्वं हुतं चेष्टं त्रैलोक्यं सचराचरम् | ज्ञानिने योगिने वापि यो ददाति करोति वा || २८-६४ || दीक्षोत्तरेऽपि च प्रोक्तमन्नं ब्रह्मा रसो हरिः | भोक्ता शिव इति ज्ञानी श्वपचानप्यथोद्धरेत् || २८-६५ || सर्वतत्त्वमयो भूत्वा यदि भुङ्क्ते स साधकः | तेन भोजितमात्रेण सकृत्कोटिस्तु भोजिता || २८-६६ || अथ तत्त्वविदेतस्मिन्यदि भुञ्जीत तत् प्रिये | परिसंख्या न विद्येत तदाह भगवाञ्छिवः || २८-६७ || भोज्यं मायात्मकं सर्वं शिवो भोक्ता स चाप्यहम् | एवं यो वै विजानाति दैशिकस्तत्त्वपारगः || २८-६८ || तं दृष्ट्वा देवमायान्तं क्रीडन्त्योषधयो गृहे | निवृत्तमद्यैवास्माभिः संसारगहनार्णवात् || २८-६९ || यदस्य वक्त्रं संप्राप्ता यास्यामः परमं पदम् | अन्येऽपानभुजो ह्यूर्ध्वे प्राणोऽपानस्त्वधोमुखः || २८-७० || तस्मिन्भोक्तरि देवेशि दातुः कुलशतान्यपि | आश्वेव परिमुच्यन्ते नरकाद्यातनार्णवात् || २८-७१ ||
SKकरोतीति--अर्थात् सेवादि | कोटिरिति--अर्थात् ब्रह्मणानाम् | यदुक्तम्-- ᳚चतुर्वेदार्थविदुषां ब्रह्मणानां महात्मनाम् | आचार्ये भोजिते देवि कोटिर्भवति भोजिता ||᳚ इति | एतस्मिन्निति--चक्रयागे | अन्य इति--अतत्त्वपारगाः | अपानभुज इति--अधःपातदायिनीं भोग्यरूपतामेव अनुसन्दधानाः--इत्यर्थः | अत एवोक्तमपानस्त्वधोमुख इति | तदुक्तम्-- ᳚धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण |᳚ (सां. का.) इति | तस्मिन्निति प्राणभुजि तत्त्वपारगे || ७१ || ज्ञानिनश्च सर्वत्रैव अविगीतमुत्कृष्टत्वम्--इत्याह-- श्रीमन्निशाटनेऽप्युक्तं कथनान्वेषणादपि | श्रोत्राभ्यन्तरसंप्राप्ते गुरुवक्त्राद्विनिर्गते || २८-७२ || मुक्तस्तदैव काले तु यन्त्रं तिष्ठति केवलम् | सुरापः स्तेयहारी च ब्रह्महा गुरुतल्पगः || २८-७३ || अन्त्यजो वा द्विजो वाथ बालो वृद्धो युवापि वा | पर्यन्तवासी यो ज्ञानी देशस्यापि पवित्रकः || २८-७४ || तत्र संनिहितो देवः सदेवीकः सकिङ्करः | सुराप इत्यादिना अस्य महापातकित्वमपि अगण्यमेव--इति भावः || अतश्च ज्ञानिनमेव आश्रित्य मूर्तियागं कुर्यात्--इत्याह-- तस्मात्प्राधान्यतः कृत्वा गुरुं ज्ञानविशारदम् || २८-७५ || मूर्तियागं चरेत्तस्य विधिर्योगीश्वरीमते | विधिरिति--कर्म, अत एव अनेन चक्रार्चनमपि आसूत्रितम् || स च कदा कार्यो किंविधिश्च--इत्याह-- पवित्रारोहणे श्राद्धे तथा पर्वदिनेष्वलम् || २८-७६ || सूर्यचन्द्रोपरागादौ लौकिकेष्वपि पर्वसु | उत्सवे च विवाहादौ विप्राणां यज्ञकर्मणि || २८-७७ || दीक्षायां च प्रतिष्ठायां समयानां विशोधने | कामनार्थं च कर्तव्यो मूर्तियागः स पञ्चधा || २८-७८ || उत्सव इति--स्वगुरुजन्मदिनादौ || ७८ || पञ्चधात्वमेव दर्शयति-- केवलो यामलो मिश्रश्चक्रयुग्वीरसङ्करः | केवलः केवलैरेव गुरुभिर्मिश्रितः पुनः || २८-७९ || साधकाद्यैः सपत्नीकैर्यामलः स द्विधा पुनः | पत्नीयोगात् क्रयानीतवेश्यासंयोगतोऽथवा || २८-८० || चक्रिण्याद्याश्च वक्ष्यन्ते शक्तियोगाद्यथोचिताः |
SKतत्संयोगाच्चक्रयुक्तौ यागः सर्वफलप्रदः || २८-८१ || सर्वैस्तु सहितो यागो वीरसङ्कर उच्यते | सपत्नीकैरिति--अर्थात् गुर्वादिभिश्चतुर्भिरपि | पत्न्यो--विवाहिताः | वक्ष्यन्ते इति-- ᳚मातङ्गकृष्णसौनिककान्दुकचार्मिकविकोशिघातुविभेदाः | मात्स्यिकचाक्रिकसहितास्तेषां पत्न्यो नवात्र नवयागे ||᳚ इत्यादिना एकान्नत्रिंशाह्निके | चक्रयुक्त इति--चक्रयुक् | सर्वैरिति-- एवमुक्तैः पुंस्त्रीरूपैः || अत्रैव उपवेशने क्रमं दर्शयति-- मध्ये गुरुर्भवेत्तेषां गुरुवर्गस्तदावृतिः || २८-८२ || तिस्र आवृतयो बाह्ये समय्यन्ता यथाक्रमम् | पङ्क्तिक्रमेण वा सर्वे मध्ये तेषां गुरुः सदा || २८-८३ || तदा तद्गन्धधूपस्रक्समालम्भनवाससा | पूज्यं चक्रानुसारेण तत्तच्चक्रमिदं त्विति || २८-८४ || तदावृतिरिति--गुरुवर्गावरणम्--इत्यर्थः | सदेति--आवृतिक्रमे पङ्क्तिक्रमे वा | तत्तच्चक्रमिति--गुरुसाधकादिरूपं पूज्यतया संमतम् ||८४ || तदेव उदाहरति-- एकारके यथा चक्रे एकवीरविधिं स्मरेत् | द्व्यरे यामलमन्यत्र त्रिकमेवं षडस्रके || २८-८५ || षड्योगिनीः सप्तकं च सप्तारेऽष्टाष्टके च वा | अन्यद्वा तादृशं तत्र चक्रे तादृक्स्वरूपिणि || २८-८६ || ततः पात्रेऽलिसंपूर्णे पूर्वं चक्रं यजेत्सुधीः | आधारयुक्ते नाधाररहितं तर्पणं क्वचित् || २८-८७ || आधारेण विना भ्रंशो न च तुष्यन्ति रश्मयः | अन्यत्रेति--त्र्यरे | तादृशमिति--तत्तन्नियतसंख्याकम्--इत्यर्थः | पूर्वमिति--प्रथमं प्रधानं वा || एतदेव उपपादयति-- प्रेतरूपं भवेत्पात्रं शाक्तामृतमथासवः || २८-८८ || भोक्त्री तत्र तु या शक्तिः स शम्भुः परमेश्वरः | अणुशक्तिशिवात्मेत्थं ध्यात्वा संमिलितं त्रयम् || २८-८९ || ततस्तु तर्पणं कार्यमावृतेरावृतेः क्रमात् | प्रतिसञ्चरयोगेन पुनरन्तः प्रवेशयेत् || २८-९० || यावद्गुर्वन्तिकं तद्धि पूर्णं भ्रमणमुच्यते |
SKआवृतेरावृतेरिति--आवरणचतुष्टयस्यापि--इत्यर्थः | क्रमादिति--न तु अनन्तरोल्लङ्घनेन--इत्यर्थः | प्रतिसञ्चरः--प्रतीपं सञ्चरणम् | तद्धि पूर्णं भ्रमणमिति सृष्टिसंहारक्रमोभयात्मक एकः सञ्चारः--इत्यर्थः || तर्पणे च अत्र क्रममाह-- तत्रादौ देवतास्तर्प्यास्ततो वीरा इति क्रमः || २८-९१ || वीरश्च वीरशक्तिश्चेत्येवमस्मद्गुरुक्रमः | ततोऽवदंशान्विविधान् मांसमत्स्यादिसंयुतान् || २८-९२ || अग्रे तत्र प्रविकिरेत् तृप्त्यन्तं साधकोत्तमः | पात्राभावे पुनर्भद्रं वेल्लिताशुक्तिमेव च || २८-९३ || पात्रे कुर्वीत मतिमानिति सिद्धामते क्रमः | तदेव दर्शयति-- दक्षहस्तेन भद्रं स्याद्वेल्लिता शुक्तिरुच्यते || २८-९४ || दक्षहस्तस्य कुर्वीत वामोपरि कनीयसीम् | तर्जन्यंगुष्ठयोगेन दक्षाधो वामकांगुलीः || २८-९५ || निःसन्धिबन्धौ द्वावित्थं वेल्लिता शुक्तिरुच्यते | ये तत्र पानकाले तु बिन्दवो यान्ति मेदिनीम् || २८-९६ || तैस्तुष्यन्ति हि वेतालगुह्यकाद्या गभस्तयः | धारया भैरवस्तुष्येत् करपानं परं ततः || २८-९७ || प्रवेशोऽत्र न दातव्यः पूर्वमेव हि कस्यचित् | प्रमादात्तु प्रविष्टस्य विचारं नैव चर्चयेत् || २८-९८ || एवं कृत्वा क्रमाद्यागमन्ते दक्षिणया युतम् | समालम्भनताम्बूलवस्त्राद्यं वितरेद्बुधः || २८-९९ || रूपकार्धात् परं हीनां न दद्याद्दक्षिणां सुधीः | समयिभ्यः क्रमाद् द्विद्विगुणा गुर्वन्तकं भवेत् || २८-१०० || एष स्यान्मूर्तियागस्तु सर्वयागप्रधानकः | काम्ये तु संविधौ सप्तकृत्वः कार्यस्तथाविधः || २८-१०१ || दक्षहस्तेनेति--अर्थात् निविडोन्नतसंकुचितांगुलीकेन | तर्जन्यंगुष्ठयोगेनेति--अर्थात् वामकरसंबन्धिना, तेन वामोपरिस्थितां दक्षकनीयसीं तत्तर्जन्यंगुष्ठाभ्यामेव बद्धां कृत्वा अयं संनिवेशः स्यात् | तदुक्तम्-- ᳚अथ पात्रविधिर्नास्ति ततः कुर्यादमुं विधिम् | भद्रं वेल्लितशुक्तिर्वा पानं वै तत्र शस्यते || दक्षिणेन भवेद्भद्रं हस्तेन परमेश्वरि | द्वाभ्यां चैव तु कर्तव्या वेल्लिशुक्तिर्महाफला ||
SKदक्षिणे या कनिष्ठा तां कृत्वा वामस्य चोपरि | हस्तस्य तु वरारोहे तर्जन्यंगुष्ठयोगतः || कृत्वा वामस्य चांगुल्यो दक्षिणाधो व्यवस्थिताः | निःसन्धि वेल्लिशुक्तिं तु कृत्वा पानं प्रसिद्ध्यति ||᳚ इति | अत्रेति--चक्रयागे | रूपकम् दीनारः ||१०१ || सप्तकृत्वः करणे प्रयोजनमाह-- जानन्ति प्रथमं गेहं ततस्तस्य समर्थताम् | बलाबलं ततः पश्चाद्विस्मयन्तेऽत्र मातरः || २८-१०२ || ततोऽपि संनिधीयन्ते प्रीयन्ते वरदास्ततः | देवीनामथ नाथस्य परिवारयुजोऽप्यलम् || २८-१०३ || वल्लभो मूर्तियागोऽयमतः कार्यो विपश्चिता | रात्रौ गुप्ते गृहे वीराः शक्तयोऽन्योन्यमप्यलम् || २८-१०४ || असङ्केतयुजो योज्या देवताशब्दकीर्तनात् | अलाभे मूर्तिचक्रस्य कुमारीरेव पूजयेत् || २८-१०५ || काम्यार्थे तु न तां व्यङ्गां स्तनपुष्पवतीं तथा | प्रतिपच्छ्रुतिसंज्ञे च चतुर्थी चोत्तरात्रये || २८-१०६ || हस्ते च पञ्चमी षष्ठी पूर्वास्वथ पुनर्वसौ | सप्तमी तत्परा पित्र्ये रोहिण्यां नवमी तथा || २८-१०७ || मूले तु द्वादशी ब्रह्मे भूताश्विन्यां च पूर्णिमा | धनिष्ठायाममावस्या सोऽयमेकादशात्मकः || २८-१०८ || अर्कादित्रयशुक्रान्यतमयुक्तोऽप्यहर्गणः | योगपर्वेति विख्यातो रात्रौ वा दिन एव वा || २८-१०९ || योगपर्वणि कर्तव्यो मूर्तियागस्तु सर्वथा | यः सर्वान्योगपर्वाख्यान् वासरान् पूजयेत्सुधीः || २८-११० || मूर्तियागेन सोऽपि स्यात् समयी मण्डलं विना | इत्येष मूर्तियागः श्रीसिद्धयोगीश्वरीमते || २८-१११ || समर्थतामिति--यागादौ | बलाबलमिति--वीरकर्मसु सामर्थ्यमसामर्थ्यं च | विस्मयन्ते इति एवंविधा अपि मर्त्या भवन्तीत्याश्चर्यं मन्वते--इत्यर्थः | मातर इति--सर्वसंबन्धः | तदुक्तम्-- ᳚प्रथमे मूर्तियागे तु वेश्म जानन्ति साधके | द्वितीये तस्य सामर्थ्यं तृतीये तु बलाबलम् || चतुर्थे विस्मयं यान्ति देवि ता मातरः स्वयम् | पञ्चमे तस्य गत्वा तु विशन्ति गृहमध्यतः || षष्ठे तु प्रीतिमायान्ति सप्तमे तु वरप्रदाः | वाञ्छितं तस्य दास्यन्ति आयुरारोग्यसंपदः ||᳚
SKइति | देवताशब्दकीर्तनादसङ्केतयुजः कस्माच्चिदभिधानात् लौकिकशब्दव्यवहारशून्याः--इत्यर्थः, अत एवोक्तम्--गुप्त इति | श्रुतिसंज्ञ इति--श्रवणे | उत्तरात्रये इति--तदेकतमयुक्ते--इत्यर्थः | एवं पूर्वास्वपि ज्ञेयम् | तत्परेत्यष्टमी, पित्र्य इति--मघासु | ब्रह्म इति ᳚केन्द्रायाष्टधनेषु भूमितनयात्स्वात्मत्रिषु ब्रह्मणः |᳚ इति ब्रह्मणशब्देन जीवस्याभिधानात् तद्दैवते तिष्ये--इत्यर्थः | भूतेति--चतुर्दशी | अर्कादित्रयेति--अर्कश्च तदादि च त्रयं चन्द्रभौमबुधलक्षणम्--इत्यर्थः | एवमेतद्ग्रहपञ्चकादेकतमेन युक्तो यथोक्ततिथिनक्षत्रोपलक्षितोऽहर्गणो योगपर्वेति विख्यातस्तन्नाम--इत्यर्थः | यदुक्तम्-- ङवमी रोहिणीयोगे पुष्ये चैव चतुर्दशी | हस्ते च पञ्चमी ज्ञेया मूले तु द्वादशी भवेत् || श्रवणे प्रतिपत्सिद्धा चतुर्थी चोत्तरात्रये | पूर्वासु सिद्धिदा षष्ठी मघासु पुनरष्टमी || अश्विन्यां पूर्णिमा ज्ञेया वसुना सप्तमी स्मृता | धनिष्ठायाममावास्या ज्ञात्वा चैवं वरानने || सोमे शुक्रे तथादित्ये बुधे चैवाथ लोहिते | कर्तव्यं वारगणनम्................................ ||᳚ इति || १११ || एवं चक्रार्चनमभिधाय पवित्रकविधिमभिधातुमाह-- अथोच्यते शिवेनोक्तः पवित्रकविधिः स्फुटः | श्रीरत्नमालात्रिशिरःशास्त्रयोः सूचितः पुनः || २८-११२ || श्रीसिद्धाटनसद्भावमालिनीसारशासने | तत्र प्राधान्यतः श्रीमन्मालोक्तो विधिरुच्यते || २८-११३ || सूचित इति--श्रीसिद्धादौ साक्षादनभिधानात् | प्राधान्यत इति-- स्फुटत्वाविशेषेऽपि तदुत्पत्त्यादेरत्र आधिक्येन उक्तेः || ११३ || तदेव आह-- क्षीराब्धिमथनोद्भूतविषनिद्राविमूर्च्छितः | नागराजः स्वभुवने मेघकाले स्म नावसत् || २८-११४ || केवलं तु पवित्रोऽयं वायुभक्षः समाः शतम् | दिव्यं दशगुणं नाथं भैरवं पर्यपूजयत् || २८-११५ || व्यजिज्ञपच्च तं तुष्टं नाथं वर्षास्वहं निजे | पाताले नासितुं शक्तः सोऽप्येनं परमेश्वरः || २८-११६ || नागं निजजटाजूटपीठगं पर्यकल्पयत् |
SKततः समस्तदेवौघैर्धारितोऽसौ स्वमूर्धनि || २८-११७ || महतां महितानां हि नाद्भुता विश्वपूज्यता | तस्मान्महेशितुर्मूर्ध्नि देवतानां च सर्वशः || २८-११८ || आत्मनश्च पवित्रं तं कुर्याद्यागपुरःसरम् | दश कोट्यो न पूजानां पवित्रारोहणे समाः || २८-११९ || वृथा दीक्षा वृथा ज्ञानं गुर्वाराधनमेव च | विना पवित्राद्येनैतद्धरेन्नागः शिवाज्ञया || २८-१२० || तस्मात्सर्वप्रयत्नेन स कार्यः कुलवेदिभिः | पवित्रोऽयमिति तच्छब्दव्यपदेश्यः--इत्यर्थः | यदुक्तम्-- ᳚तेनास्म्याराधितो देवि पवित्रेण महात्मना |᳚ इति, ᳚पवित्रो नाम नागेन्द्रो ज्येष्ठो भ्रतास्ति वासुकेः |᳚ इति च | पवित्रेणेति पाठे तु पञ्चगव्यादिनेति--व्याख्येयम् | समाः शतं दशगुणमिति वर्षसहस्रम्--इत्यर्थः | तदुक्तम्-- ᳚दिव्यवर्षसहस्रं तु वायुभक्षो महाबलः |᳚ इति | कुर्यादिति--गुर्वादिः | दशेत्यादिना प्रयोजनमुक्तम् || कदा कार्यः--इत्याह-- आषाढशुक्लान्मिथुनकर्कटस्थे रवौ विधिः || २८-१२१ || कर्तव्यः सोऽनिरोधेन यावत्सा तुलपूर्णिमा | तुलोपलक्षितस्यान्त्यं कार्तिकस्य दिनं मतम् || २८-१२२ || कुलशब्दं पठन्तोऽन्ये व्याख्याभेदं प्रकुर्वते | मिथुनेत्याद्युपलक्षणम्, तेन सिंहादिस्थेऽपि | अनिरोधेनेति-- अविच्छेदेन--इत्यर्थः | तुलोपलक्षितस्येति--कार्तिके हि तुलागत एव रविर्भवेत्--इति भावः || तमेव व्याख्याभेदं दर्शयति-- नित्यातन्त्रविदः कृष्णं कार्तिकाच्चरमं दिनम् || २८-१२३ || कुलस्य नित्याचक्रस्य पूर्णत्वं यत्र तन्मतम् | यदुक्तम्-- ᳚दीपपर्वणि कर्त्तव्यं विधानमिदमुत्तमम् | कुलं शक्तिः समाख्याता सा च नित्या प्रकीर्तिता ||᳚ इत्याद्युपक्रम्य ᳚मध्यमे वा सदा देवि सर्वारिष्टनिवृत्तये | अनेन तु विधानेन नित्याचक्रं प्रपूजयेत् ||᳚ इत्यन्तम् || एवमेकीयं मतं प्रदर्श्य, अन्यदप्याह-- माघशुक्लान्त्यदिवसः कुलपर्वेति तन्मतम् || २८-१२४ || पूर्णत्वं तत्र चन्द्रस्य सा तिथिः कुलपूर्णिमा |
SKननु कुलपर्वत्वं चन्द्रस्य पूर्णत्वं तिथ्यन्तरेष्वप्यस्ति, तत् कथं माघपूर्णिमैव कुलपूर्णिमाशब्देनोच्यते?--इत्याशङ्क्य आह-- दक्षिणोत्तरगः कालः कुलाकुलतयोदितः || २८-१२५ || कुलस्य तस्य चरमे दिने पूर्णत्वमुच्यते | इह फाल्गुनमासादारभ्य संवत्सरस्य ऋतूनां च उदय इति श्रावणमासं यावत् षट् पूर्णिमा उत्तरायणम् | भाद्रपदादारभ्य च माघमासं यावत् षडेव पूर्णिमा दक्षिणायनम् | यतः कुलशब्दवाच्यस्य दक्षिणायनस्य माघान्त्यदिवसे पूर्णत्वमस्तीत्युक्तम् | यच्छ्रुतिः-- ᳚मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी |᳚ इति | तथा ᳚फाल्गुनपूर्णमास आधेय एतद्वा ऋतूनां मुखम् |᳚ इति || अतश्चेदमप्युक्तं भवति--इत्याह-- दक्षिणायनषण्मासकर्तव्यत्वमतो विधौ || २८-१२६ || पवित्रके प्रकाशत्वसिद्ध्यै कृष्णस्य वर्त्मनः | कृष्णस्येति--तमोरूपसमयलोपाद्यात्मनः || एवमेतत् प्रसङ्गादभिधाय प्रकृतमेव आह-- तदेतद्बहुशास्त्रोक्तं रूपं देवो न्यरूपयत् || २८-१२७ || एकेनैव पदेन श्रीरत्नमालाकुलागमे | तदत्र समये सर्वविधिसंपूरणात्मकः || २८-१२८ || पवित्रकविधिः कार्यः शुक्लपक्षे तु सर्वथा | बहु इति वैदिकात्प्रभृति--इत्यर्थः || ननु ङभस्यनभसोर्मध्ये पक्षयोः कृष्णशुक्लयोः |᳚ इत्याद्युक्त्या कृष्णपक्षेऽपि अयं विधिः कर्तव्यत्वेनोक्तः, तत्कथमिहान्यथोक्तम् ?--इत्याशङ्क्य आह-- पूरणं शक्तियोगेन शक्त्यात्म च सितं दलम् || २८-१२९ || दक्षिणायनसाजात्यात् तेन तद्विधिरुच्यते | एकद्वित्रिचतुःपञ्चषड्लतैकतमं महत् || २८-१३० || हेमरत्नाङ्कितग्रन्थि कुर्यान्मुक्तापवित्रकम् | सौवर्णसूत्रं त्रिगुणं सैकग्रन्थिशतं गुरौ || २८-१३१ || परे गुरौ तु त्र्यधिकमध्यब्धि परमेष्ठिनि | प्राक्सिद्धाचार्ययोगेश विषये तु रसाधिकम् || २८-१३२ || अष्टाधिकं शिवस्योक्तं चित्ररत्नप्रपूरितम् | विद्यापीठाक्षसूत्रादौ गुरुवच्छिववत् पुनः || २८-१३३ || वटुके कनकाभावे रौप्यं तु परिकल्पयेत् |
SKपाट्टसूत्रमथ क्षौमं कार्पासं त्रित्रितानितम् || २८-१३४ || तस्मान्नवगुणात् सूत्रात् त्रिगुणादिक्रमात् कुरु | चण्डांशुगुणपर्यन्तं ततोऽपि त्रिगुणं च वा || २८-१३५ || तेनाष्टादशतन्तूत्थमधमं मध्यमं पुनः | अष्टोत्तरशतं तस्मात् त्रिगुणं तूत्तमं मतम् || २८-१३६ || ग्रन्थयस्तत्त्वसंख्याताः षडध्वकलनावशात् | यद्वा व्याससमासाभ्यां चित्राः सद्गन्धपूरिताः || २८-१३७ || विशेषविधिना पूर्वं पूजयित्वार्पयेत्ततः | पवित्रकं समस्ताध्वपरिपूर्णत्वभावनात् || २८-१३८ || गुर्वात्मनोर्जानुनाभिकण्ठमूर्धान्तगं च वा | ततो महोत्सवः कार्यो गुरुपूजापुरसरः || २८-१३९ || तर्प्याः शासनगाः सर्वे दक्षिणावस्त्रभोजनैः | महोत्सवः प्रकर्तव्यो गीतनृत्तात्मको महान् || २८-१४० || चातुर्मास्यं सप्तदिनं त्रिदिनं वाप्यलाभतः | तदन्ते क्षमयेद्देवं मण्डलादि विसर्जयेत् || २८-१४१ || वह्निं च पश्चात्कर्तव्यश्चक्रयागः पुरोदितः | मासे मासे चतुर्मासे वर्षे वापि पवित्रकम् || २८-१४२ || सर्वथैव प्रकर्तव्यं यथाविभवविस्तरम् | सितं दलमिति--सितः पक्षः | उच्यते इति--अस्मच्छास्त्रे हि एवं श्रुतिरस्ति --इत्याशयः | परे गुराविति--परमगुरौ | अध्यब्धीति-- चतुरधिकमित्यर्थः | रसाः षट् | चित्ररत्नप्रपूरितमिति�अर्थात् ग्रन्थिस्थाने | पाट्टसूत्रमिति--अर्थात् रूप्याभावेऽपि | चण्डांशवो--द्वादश | ततोऽपि त्रिगुणमिति-- चतुर्विंशत्यधिकशतत्रयात्मकम्--इत्यर्थः | तन्त्विति--यत्र यादृशोऽभिमताः | षडध्वेति--तेन कलासंख्यया पञ्चग्रन्थयो यावद् भुवनसंख्यया अष्टादशोत्तरं शतम् व्यास समासाभ्यामिति- -तत्त्वसंख्यया व्यासः, कलासंख्यया तु समास--इत्यर्थः | चित्रा इति--कुंकुमाद्यरुणीकृतत्वात्, अत एवोक्तम्--सद्गन्धपूरिता इति | चातुर्मास्यमिति--चतुर्षु मासेषु--इत्यर्थः || सर्वथैव अस्य कर्तव्यत्वमुपोद्बलयति-- वित्ताभावे पुनः कार्यं काशैरपि कुशोम्भितैः || २८-१४३ || सति वित्ते पुनः शाठ्यं व्याधये नरकाय च | ननु
SK᳚अभावान्नित्यपूजाया अवश्यं ह्येषु पूजयेत् |᳚ इत्याद्युक्त्या नित्यलोपपूरणाय पर्वसु पूजनमुक्तं तत्किं पवित्रकेणापि ?--इत्याशङ्क्य आह-- नित्यपूजासु पूर्णत्वं पर्वपूजाप्रपूरणात् || २८-१४४ || तत्रापि परिपूर्णत्वं पवित्रकसमर्चनात् | नन्वेवं पवित्रकस्यापि लोपे किं स्यात् ?--इत्याशङ्क्य आह-- पवित्रकविलोपे तु प्रायश्चित्तं जपेत्सुधीः || २८-१४५ || सुशुद्धः सन्पुनः कुर्यादित्याज्ञा परमेशितुः | एवं श्रीरत्नमालायामुक्तं पवित्रकविधिमभिधाय, श्रीत्रिशिरोभैरवीयमप्याह-- अथ त्रिशिरसि प्रोक्तो लिख्यते तद्विधिः स्फुटः || २८-१४६ || तदेवाह-- त्रिप्रमेयस्य शैवस्य पञ्चपञ्चात्मकस्य वा | दशाष्टादशभेदस्य षट्स्रोतस इहोच्यते || २८-१४७ || त्रिप्रमेयस्येति--नरशक्तिशिवात्मकत्वात् | पञ्चपञ्चात्मकस्येति-- तन्त्रप्रक्रियया वक्त्रतया, विशेषप्रक्रियया वामेश्यादितया च एवंरूपस्य--इत्यर्थः | षट्स्रोतस इति--पिचुवक्त्रेण सह || १४७ || तत्र अधिकारिनिर्देशाय आह-- ये नराः समयभ्रष्टा गुरुशास्त्रादिदूषकाः | नित्यनैमित्तिकाद्यन्यपर्वसन्धिविवर्जिताः || २८-१४८ || अकामात् कामतो वापि सूक्ष्मपापप्रवर्तिनः | तेषां प्रशमनार्थाय पवित्रं क्रियते शिवे || २८-१४९ || श्रावणादौ कार्तिकान्ते शुक्लपक्षे शुभप्रदे | न तु दुःखप्रदे कृष्णे कर्तृराष्ट्रनृपादिषु || २८-१५० || सूक्ष्मेत्यनेन असंलक्षितत्वमुक्तम् | अत्रैव कालं निर्दिशति-- श्रावणादावित्यादिना || १५० || अस्यैव स्वरूपं निर्देष्टुमाह-- पाट्टसूत्रं तु कौशेयं कार्पासं क्षौममेव च | चातुराश्रमिकाणां तु सुभ्रुवा कर्तितोक्षितम् || २८-१५१ || त्रिधा तु त्रिगुणीकृत्य मानसंख्यां तु कारयेत् | अष्टोत्तरं तन्तुशतं तदर्धं वा तदर्धकम् || २८-१५२ || ह्रासस्तु पूर्वसंख्याया दशभिर्दशभिः क्रमात् | नवभिः पञ्चभिः सप्तविंशत्या वा शिवादितः || २८-१५३ || यादृशस्तन्तुविन्यासो ग्रन्थीन्कुर्यात्तु तावतः | चतुः समविलिप्तांस्तानथवा कुंकुमेन तु || २८-१५४ || व्यक्ते जानुतटान्तं स्याल्लिङ्गे पीठावसानकम् |
SKअर्चासु शोभनं मूर्ध्नि त्रितत्त्वपरिकल्पनात् || २८-१५५ || द्वादशग्रन्थिशक्तीनां ब्रह्मवक्त्रार्चिषामपि | कौशेयं--पट्टभेदः | चातुराश्रमिकाणामिति--समय्यादीनाम् | पूर्वसंख्याया इति--अष्टोत्तरशतादिरूपायाः | तत्र अष्टोत्तरशतात् दशभिर्दशभिर्ह्रासे अष्टानवतितन्तुकानि च पवित्रकाणि भवन्तीत्यादि ब्रूमः | व्यक्त इति--प्रतिमायाम् | लिङ्ग इति�अर्थादव्यक्ते व्यक्ताव्यक्ते च | अर्चास्विति--सर्वासु | तदुक्तं मये-- ᳚त्रितयं मूर्ध्नि कर्तव्यमात्मविद्याशिवात्मकम् |᳚ इति | शक्तीनामिति--अघोर्यादीनाम् | ब्रह्मवक्त्रार्चिषामिति-- अङ्गवक्त्राणाम्--इत्यर्थः | तदुक्तं तत्रैव� ᳚ब्रह्मवक्त्रैश्च सहितान्यङ्गानि प्रवदाम्यहम् |᳚ इति || विद्यापीठे चले लिङ्गे स्थण्डिले च गुरोर्गणे || २८-१५६ || घण्टायां स्रुक्स्रुवे शिष्यलिङ्गिषु द्वारतोरणे | स्वदेहे वह्निपीठे च यथाशोभं तदिष्यते || २८-१५७ || प्रासादे यागगेहे च कारयेन्नवरङ्गिकम् | वह्निपीठ इति--कुण्डे | नवरङ्गिकमिति--नानावर्णमित्यर्थः || अत्रैव ग्रन्थीन् निर्दिशति-- विद्यापीठे तु खशराः, प्रतिमालिङ्गपीठगम् || २८-१५८ || वसुवेदं, च घण्टायां शराक्ष्यष्टादश स्रुवे | वेदाक्षि स्रुचि, षट्त्रिंशत् प्रासादे, मण्डपे रविः || २८-१५९ || रसेन्दु स्नानगेहेऽब्धिनेत्रे ध्यानगृहे, गुरौ | सप्त, साधकगाः पञ्च, पुत्रके सप्त, सामये || २८-१६० || चत्वारोऽथान्यशास्त्रस्थे शिष्ये पञ्चकमुच्यते | लिङ्गिनां केवलो ग्रन्थिस्तोरणे दश कल्पयेत् || २८-१६१ || द्वारेष्वष्टौ ग्रन्थयः स्युः कृत्वेत्थं तु पवित्रकम् | पूजयित्वा मन्त्रजालं तत्स्थत्वात्मस्थते ततः || २८-१६२ || पवित्रकाणां संपाद्य कुर्यात्संपातसंस्क्रियाम् | ततः संवत्सरं ध्यायेद्भैरवं छिद्रसाक्षिणम् || २८-१६३ || दत्त्वा पूर्णाहुतिं देवि प्रणमेन्मन्त्रभैरवम् | ॐ समस्तक्रियादोषपूरणेश व्रतं प्रति || २८-१६४ || यत्किञ्चिदकृतं दुष्टं कृतं वा मातृनन्दन | तत्सर्वं मम देवेश त्वत्प्रसादात्प्रणश्यतु || २८-१६५ || सर्वथा रश्मिचक्रेश नमस्तुभ्यं प्रसीद मे |
SKअनेन दद्याद्देवाय निमन्त्रणपवित्रकम् || २८-१६६ || योगिनीक्षेत्रमातॄणां बलिं दद्यात्ततो गुरुः | पञ्चगव्यं चरुं दन्तकाष्ठं शिष्यैः समन्ततः || २८-१६७ || आचार्य निद्रां कुर्वीत प्रातरुत्थाय चाह्निकम् | ततो विधिं पूजयित्वा पवित्राणि समाहरेत् || २८-१६८ || दन्तकाष्ठं मृच्च धात्री समृद्धात्री सहाम्बुना | चतुःसमं च तैः सार्धं भस्म पञ्चसु योजयेत् || २८-१६९ || प्राग्दक्षपश्चिमोर्ध्वस्थवामवक्त्रेषु वै क्रमात् | पञ्चैतानि पवित्राणि स्थापयेच्चेशगोचरे || २८-१७० || कुशेध्म पञ्चगव्यं च शर्वाग्रे विनियोजयेत् | वामामृतादिसंयुक्तं नैवेद्यं त्रिविधं ततः || २८-१७१ || दद्यादसृक् तथा मद्यं पानानि विविधानि च | ततो होमो महाक्ष्माजमांसैस्तिलयुतैरथो || २८-१७२ || तिलैर्घृतयुतैर्यद्वा तण्डुलैरथ धान्यकैः | शर्कराखण्डसंयुक्तपञ्चामृतपरिप्लुतैः || २८-१७३ || मूलं सहस्रं साष्टोक्तं त्रिशक्तौ ब्रह्मवक्त्रकम् | अर्चिषां तु शतं साष्टं ततः पूर्णाहुतिं क्षिपेत् || २८-१७४ || ततोऽञ्जलौ पवित्रं तु गृहीत्वा प्रपठेदिदम् | अकामादथवा कामाद्यन्मया न कृतं विभो || २८-१७५ || तदच्छिद्रं ममास्त्वीश पवित्रेण तवाज्ञया | मूलमन्त्रः पूरयेति क्रियानियममित्यथ || २८-१७६ || वौषडन्तं पवित्रं च दद्याद्बिन्द्ववसानकम् | नादान्तं समनान्तं चाप्युन्मनान्तं क्रमात् त्रयम् || २८-१७७ || एवं चतुष्टयं दद्यादनुलोमेन भौतिकः | नैष्ठिकस्तु विलोमेन पवित्रकचतुष्टयम् || २८-१७८ || यत्किञ्चिद्विविधं वस्त्रच्छत्रालङ्करणादिकम् | तन्निवेद्यं दीपमालाः सुवर्णतिलभाजनम् || २८-१७९ || वस्त्रयुग्मयुतं सर्वसम्पूरणनिमित्ततः | भोजनीयाः पूजनीयाः शिवभक्तास्तु शक्तितः || २८-१८० || चतुस्त्रिद्व्येकमासादिदिनैकान्तं महोत्सवम् | कुर्यात्ततो न व्रजेयुरन्यस्थानं कदाचन || २८-१८१ || ततस्तु दैशिकः पूज्यो गामस्मै क्षीरिणीं नवाम् | दद्यात्सुवर्णरत्नादिरूप्यवस्त्रविभूषिताम् || २८-१८२ || वदेद्गुरुश्च संपूर्णो विधिस्तव भवत्विति |
SKवक्तव्यं देवदेवस्य पुनरागमनाय च || २८-१८३ || ततो विसर्जनं कार्यं गुप्तमाभरणादिकम् | नैवेद्यं गुरुरादाय यागार्थे तन्नियोजयेत् || २८-१८४ || चतुर्णामपि सामान्यं पवित्रकमिति स्मृतम् | नास्माद् व्रतं परं किञ्चित् का वास्य स्तुतिरुच्यते || २८-१८५ || शेषं त्वगाधे वार्योघे क्षिपेन्न स्थापयेत्स्थिरम् | खशराः पञ्चाशत् | वसुवेदम् अष्टाचत्वारिंशत् | शराक्षि पञ्चविंशत् | वेदाक्षि चतुर्विंशत् | रविः द्वादश | रसेन्दु षोडश | अब्धिनेत्रे चतुर्विंशत् | तदुक्तम्-- ᳚विद्यापीठे तु पञ्चाशत् प्रतिमालिङ्गपीठयोः | चत्वारिंशदथाष्टौ च घण्टायां पञ्चविंशतिः || अष्टादश स्रुवे ज्ञेयाः स्रुचि विंशच्चतुस्तथा | प्रासादे चैव षट्त्रिंशत् द्वादशैव तु मण्डपे || ध्यानगेहे चतुर्विंशत् षोडश स्नानमण्डपे | दैशिके सप्त दातव्याः साधके पञ्चकं ददेत् || पुत्रके सप्तकं दद्याच्चतुः समयिनां तथा | अन्यशास्त्रोदितानां च शिष्याणां पञ्चकं ददेत् || लिङ्गिनां केवलो ग्रन्थिस्तोरणेऽथ द्विपञ्चकम् | द्वारेषु अष्टकं दद्याद् ग्रन्थीनां मातृनायिके ||᳚ इति | तत्स्थत्वादि प्रागेव व्याख्यातम् | अनेनेति--श्लोकबद्धेन मन्त्रेण | आह्निकं च कुर्वीतेति प्राच्येन संबन्धः | तत इति--आह्निकानन्तरम् | विधिं पूजयित्वेति--गणेशादिविधिं विशेषेण इष्ट्वा--इत्यर्थः | यदुक्तम्-- ᳚......................विधिपूजां समाचरेत् | गणेशं प्रथमं पूज्य गुरुत्रयसमन्वितम् || सर्वावरणसंयुक्तं त्रिशिरोमातृनायकम् | पवित्राण्याहरेत्पश्चात्....................... ||᳚ इति | तैरिति--दन्तकाष्ठादिभिः सर्वैः | ᳚दन्तकाष्ठं तथा देवि पूर्ववक्त्रे नियोजयेत् | धात्रीं तु मृत्तिकायुक्तां दक्षिणे विनियोजयेत् || मृदमामलकैर्युक्तां पश्चिमे विनियोजयेत् | वारि चामलकैर्युक्तं चतुःसमसमन्वितम् | ऊर्ध्ववक्त्रस्य दातव्यं भस्म काष्ठमृदादिना || उत्तरस्य तु वक्त्रस्य दापयेच्चुम्बकोत्तमः |᳚
SKइति | एतानीति--दन्तकाष्ठादीनि | ईशगोचर इति--तत्कोणे | इदमिति-- वक्ष्यमाणम् | तदत्र सप्रणवोऽयं श्लोको यथाभिप्रेतो मूलमन्त्रः | पूरय क्रियानियमं वौषडित्यूहः | त्रयमिति तत्त्वकल्पनया, एवमित्याद्येन सह चतुष्टयमित्यत्र छेदः | पुनरागमनायेति-- ᳚ऊनाधिकं यद्विपरीतचेष्टं क्षमस्व सर्वं मम विश्वमूर्ते | प्रसीद देवेश नमोऽस्तु तुभ्यं प्रयाहि तुष्टः पुनरागमाय ||᳚ इति वक्तव्यम् | गुप्तमिति--यथा पामरादिरन्यो लोभादिवैवश्यं न जानीयात्, अत एवोक्तम्--यागार्थे तन्नियोजयेत् | कास्य स्तुतिरिति | यदुक्तम्-- ᳚एतद्देवि परं गुह्यं व्रतानामधिनायकम् | विपरीतविनाशाय कर्तव्यं चुम्बकादिभिः ||᳚ इत्युपक्रम्य कृच्छ्रचान्द्रायणेनैव वाजपेयाश्वमेधकैः | सौत्रामणिं चातिकृच्छ्रं सम्यङ्निर्वर्त्य यत्फलम् || तत्फलं कोटिगणितं पवित्रारोहणे कृते |᳚ इति || इदानीं कुलपर्वादावासूत्रितो नैमित्तिकविधिरुच्यते--इत्याह-- अथ नैमित्तिकविधिर्यः पुरासूत्रितो मया || २८-१८६ || स भण्यते तत्र कार्या देवस्यार्चा विशेषतः | चक्रयागश्च कर्तव्यः पूर्वोक्तविधिना बुधैः || २८-१८७ || तत्र यद्यन्निजाभीष्टभोगमोक्षोपकारकम् | पारम्पर्येण साक्षाद्वा भवेच्चिदचिदात्मकम् || २८-१८८ || तत्पूज्यं तदुपायाश्च पूज्यास्तन्मयताप्तये | तदुपायोऽपि संपूज्यो मूर्तिकालक्रियादिकः || २८-१८९ || चिदचिदात्मकमिति--आत्मप्राणादिरूपम्--इत्यर्थः | तदुपाया इति-- ज्ञानयोगादयः | मूर्तिः--लिङ्गादिरूपा, कालः--कुलपर्वादिः, क्रिया--स्नानध्यानादिरूपा || १८९ || ननु उपायत्वं नाम तदुपकरणमात्ररूपत्वमुच्यते, तस्यापि पूजया किं स्यात् ?--इत्याशङ्क्य आह-- उपेयसूतिसामर्थ्यमुपायत्वं तदर्चनात् | तद्रूपतन्मयीभावादुपेयं शीघ्रमाप्नुयात् || २८-१९० || इदं हि नाम उपायस्य उपायत्वं यदुपेयाविष्करणे परानपेक्षं समर्थत्वम् | तत् तस्य उपेयोपायस्यापि अर्चनात् ᳚......................षा पूजा ह्यादराल्लयः |᳚ (वि.भै. १४७ श्लो.)
SKइत्यादिनीत्या तत्रैव लयात् उपायेऽपि तदुपेये इव तन्मयीभावो भवेत् येन यथायथमधिरोहात् निर्विलम्बमुपेयमयतैव स्यात् ||१९० || अत एव आह-- यथा यथा च नैकट्यमुपायेषु तथा तथा | अवश्यंभावि कार्यत्वं विशेषाच्चार्चनादिके || २८-१९१ || विशेषादिति--लोके हि यावदुपायोपेययोरन्यत्वात् अन्यथाभावोऽपि संभाव्येत, इह पुनरुपेयमयतापत्तिरेव उपायत्वमित्यन्यथाभावाशङ्काया अपि नास्त्यवकाशः--इत्याशयः ||१९१ || अतश्च आत्मज्ञानस्य साक्षान्मोक्षाद्युपायत्वात् तदवाप्तिदिनं मुख्यं पर्व--इत्याह-- ज्ञानस्य कस्यचित्प्राप्तिर्भोगमोक्षोपकारिणः | यदा तन्मुख्यमेवोक्तं नैमित्तिकदिनं बुधैः || २८-१९२ || तदुपायः शास्त्रमत्र वक्ताप्यौपयिको गुरुः | तद्विद्योऽपि गुरुभ्रता संवादाज्ज्ञानदायकः || २८-१९३ || ननु इह पितरमुद्दिश्य भ्रत्रादिव्यवहारो न्याय्यः, तत्कथं गुरुमुद्दिश्यापि एवमुक्तम् ?--इत्याशङ्क्य आह-- गुरोः पत्नी तथा भ्रता पुत्र इत्यादिको गणः | न योनिसंबन्धवशाद्विद्यासंबन्धजस्तु सः || २८-१९४ || नन्वत्र कस्मान्न यौन संबन्धः ?--इत्याशङ्क्य आह-- वीर्यारुणपरीणामदेहाहन्ताप्रतिष्ठिताः | देहोपकारसन्ताना ज्ञातेये परिनिष्ठिताः || २८-१९५ || देहसन्तानः--पुत्रादिः, उपकारसन्तानः--सेवकादिः ||१९५ || अतश्च स्मृतिरपि युक्ता--इत्याह-- तथा च स्मृतिशास्त्रेषु सन्ततेर्दायहारिता | युक्तैव तावान्स ह्युक्तो भेदाद्दूरान्तिकत्वतः || २८-१९६ || ये तु त्यक्तशरीरास्था बोधाहम्भावभागिनः | बोधोपकारसन्तानद्वयात्ते बन्धुताजुषः || २८-१९७ || तावानिति--पुत्रपौत्रादिक्रमेण तथा तथा स्थितः--इत्यर्थः | स इति--पित्रादिः | दूरान्तिकत्वतो भेदादिति--पुत्रभ्रतृपुत्रादिलक्षणात् | यदभिप्रायेणैव ᳚अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत् |᳚ (मनु. ९|१८७) इत्यादि स्मृतम् | त्यक्तशरीरास्था इति देहादावनात्माभिमानिनः-- इत्यर्थः || १९७ || ननु अस्य कथं देहादावहम्भाव एव भ्रश्येत्, येन तत्र अनास्थापि स्यात् ? --इत्याशङ्क्य आह--
SKतत्रेत्थं प्राग्यदा पश्येच्छक्त्युन्मीलितदृक्किर्यः | इत्थमिति--वक्ष्यमाणेन प्रकारेण || तदेव आह-- देहस्तावदयं पूर्वपूर्वोपादाननिर्मितः || २८-१९८ || आत्मा विकाररहितः शाश्वतत्वादहेतुकः | पूर्वपूर्वेति--पितृपितामहादयः, अत एव कृतकत्वाद्विनश्वरः || ननु यदि आत्मा निर्विकारः, तत्कथं पूर्णोऽपि अपूर्णतां श्रयेत्, अपूर्णोऽपि पूर्णताम् ?--इत्याशङ्क्य आह-- स्वातन्त्र्यात् पुनरात्मीयादयं छन्न इव स्थितः || २८-१९९ || पुनश्च प्रकटीभूय भैरवीभावभाजनम् | ननु अस्य पुनः स्वत एव चेद्भैरवीभावो भवेत् तत्कृतमनया प्रक्रान्तया दर्शनव्यवस्थया; मलपरिपाकादिश्च हेतुर्न न्याय्य इत्युक्तम्, तत्कतरस्तावदत्र समुचित उपाय इति न जानीमः ?-- इत्याशङ्क्य आह-- तत्रास्य प्रकटीभावे भुक्तिमुक्त्यात्मके भृशम् || २८-२०० || य उपायः समुचितो ज्ञानसन्तान एष सः | समुचितोपायत्वमेव अस्य दर्शयति-- क्रमस्फुटीभवत्तादृक्सदृशज्ञानधारया || २८-२०१ || गलद्विजातीयतया प्राप्यं शीघ्रं हि लभ्यते | ननु एवं प्राप्यलाभेऽस्य किं स्यात्?--इत्याशङ्क्य आह-- एवं चानादिसंसारोचितविज्ञानसन्ततेः || २८-२०२ || ध्वंसे लोकोत्तरं ज्ञानं सन्तानान्तरतां श्रयेत् | इदमेव च अन्यैरितो बाह्यैराश्रयपरावृत्तिः--इत्युक्तम् || यद्यपि च विज्ञानसन्तानस्य कारणत्वमुक्तं तथापि सहकारित्वात् न तन्मुख्यमित्यत्र मुख्येन कारणान्तरेण भाव्यम्--इत्याह-- असंसारोचितोदारतथाविज्ञानसन्ततेः || २८-२०३ || कारणं मुख्यमाद्यं तद्गुरुविज्ञानमात्मगम् | मुख्यमिति उपादानरूपम्--इत्यर्थः || तदेव अस्य उपपादयति-- अत्यन्तं स्वविशेषाणां तत्रार्पणवशात् स्फुटम् || २८-२०४ || उपादानं हि तद्युक्तं देहभेदे हि सत्यपि | तत्रार्पणवशादिति--उपादानकारणं हि अनुगामि भवेत्--इति भावः || ननु देहभेदे सति अन्यस्य अन्यत्र कथं स्वविशेषार्पणं न्याय्यम्?-- इत्याशङ्क्य आह-- देहसन्ततिगौ भेदाभेदौ विज्ञानसन्ततेः || २८-२०५ || न तथात्वाय योगीच्छाविष्टशावशरीरवत् |
SKन तथात्वायेति--क्वचिदपि नानयोः प्रयोजकत्वम्--इत्यर्थः || न च अत्र कस्यचिद्विप्रतिपत्तिः--इत्याह-- योगिनः परदेहादिजीवत्तापादने निजम् || २८-२०६ || देहमत्यजतो नानाज्ञानोपादानता न किम् | नानाज्ञानेति--चक्षुरादीन्द्रियजानाम्--इत्यर्थः || प्रकृतमेव उपसंहरति-- तेन विज्ञानसन्तानप्राधान्याद्यौनसन्ततेः || २८-२०७ || अन्योन्यं गुरुसन्तानो यः शिवज्ञाननिष्ठितः | इत्थं स्थिते त्रयं मुख्यं कारणं सहकारि च || २८-२०८ || एककारणकार्यं च वस्त्वित्येष गुरोर्गणः | इत्थं स्थित इति--यौनसन्ततेर्गुणभावेन गुरुसन्ततेरेव प्राधान्ये न्याय्ये--इत्यर्थः || तदेव विभजति-- गुरुः कारणमत्रोक्तं तत्पत्नी सहकारिणी || २८-२०९ || यतो निःशक्तिकस्यास्य न यागेऽधिकृतिर्भवेत् | सहकारिणश्च कदाचिदसंभवेऽपि न काचित् क्षतिः--इत्याह-- अन्तःस्थोदारसंवित्तिशक्तेर्बाह्यां विनापि ताम् || २८-२१० || सामर्थ्यं योगिनो यद्वद्विनापि सहकारिणम् | एकजन्या भ्रतरः स्युस्तत्सदृग्यस्तु कोऽपि सः || २८-२११ || पुनः परम्परायोगाद्गुरुवर्गोऽपि भण्यते | मुख्य एष तु सन्तानः पूज्यो मान्यश्च सर्वदा || २८-२१२ || तत्सदृगिति--गुरुभ्रत्रादिसदृशः--इत्यर्थः || २१२ || इदानीं ᳚ज्ञानस्य कस्यचित्प्राप्तिः....................... |᳚ (१९२) इत्यादिना उपक्रान्तं नैमित्तिकदिनमुख्यत्वमेव निर्वाहयति-- गुर्वादीनां च सम्भूतौ दीक्षायां प्रायणेऽपि च | यदहस्तद्धि विज्ञानोपायदेहादिकारणम् || २८-२१३ || एवं स्वजन्मदिवसो विज्ञानोपाय उच्यते | तादृग्भोगापवर्गादिहेतोर्देहस्य कारणम् || २८-२१४ || दीक्षादिकश्च संस्कारः स्वात्मनो यत्र चाह्नि तत् | भवेज्जन्मदिनं मुख्यं ज्ञानसन्तानजन्मतः || २८-२१५ || स्वकं मृतिदिनं यत्तु तदन्येषां भविष्यति | नैमित्तिकं मृतो यस्माच्छिवाभिन्नस्तदा भवेत् || २८-२१६ ||
SKस्वजन्मेति--शिष्यादेः | इदमत्र तात्पर्यम् यदिह सर्वेषां स्वजन्मदिनं (तत्) तावन्मुख्यं नैमित्तिकम् | तथाहि--यदि अयं देहो नाभविष्यत्, तज्ज्ञानमपि नाभविष्यत् | एवं गुरुजन्मदिनमपि, तदभावे किं सतापि स्वजन्मदिनेन स्यात् | एतच्च दीक्षासंस्कारं विना सर्वं व्यर्थमिति तद्दिनमपि मुख्यमेव नैमित्तिकम् | तदपि विज्ञानसन्ततेरुत्पादात् जन्मदिनमेव | प्रायणदिनमपि एवमेव यदत्रापि शिवेनैकात्म्यापत्तिः | इयांस्तु विशेषो यदुभयमेतत् स्वपरयोरपि, इदं तु परस्यैवेति | एवं च दिनत्रयस्यापि विज्ञानोपायदेहादिकारणत्वं युक्तमेवोक्तमिति || २१६ || ननु मरणमेव नाम किमुच्यते यस्मिन्सति शिवाभेदोऽपि भवेत् ?-- इत्याशङ्कायां प्रसङ्गापतितं मरणस्वरूपमेव तावदभिधातुं प्रतिजानीते-- तत्र प्रसङ्गान्मरणस्वरूपं ब्रूमहे स्फुटम् | अनेन गुर्वादिजन्मदीक्षाप्रायणदिनार्चाप्रयोजनादिनिरूपणानन्तर्येण अनुजोद्देशोद्दिष्टमृतिपरीक्षणमपि उपक्रान्तम् || तदेव आह-- व्यापकोऽपि शिवः स्वेच्छाकॢप्तसङ्कोचमुद्रणात् || २८-२१७ || विचित्रफलकर्मौघवशात्तत्तच्छरीरभाक् | किं नाम च अस्य शरीरभाक्त्वमुच्येत ?--इत्याशङ्क्य आह-- शरीरभाक्त्वं चैतावद्यत्तद्गर्भस्थदेहगः || २८-२१८ || संवित्तेः शून्यरूढायाः प्रथमः प्राणनोदयः | तच्च शरीरभाक्त्वं संवित्तेरेतावत् यदस्याः शून्यदशामधिशयानाया बहिरुच्छलनादुदराकाशगर्भे वर्तमानं देहं गतः प्रथमः प्राणनोदयः ᳚प्राक् संवित् प्राणे परिणता |᳚ इति नयेन आद्यस्पन्दसंज्ञितया प्राणनामात्ररूपतया संवित् आश्यानतामाश्रिता--इत्यर्थः || ननु गर्भस्थ एव देहः कुतस्त्यो यद्गतत्वेन प्राथमिकः प्राणनोदयोऽपि स्यात् ?--इत्याशङ्क्य आह-- गर्भस्थदेहनिर्माणे तस्यैवेश्वरता पुनः || २८-२१९ || असङ्कोचस्य तन्वादिकर्ता तेनेश उच्यते |
SKतस्यैवेति--प्राथमिकस्यैव प्राणनोदयस्य | असङ्कोचस्येति-- अपरिगृहीतप्राणापानाद्यवच्छेदस्य--इत्यर्थः | यद्वशादेव अयं प्रावादुकानां प्रवादस्तनुकरणभुवनादिनिर्माता परमेश्वर इति || गृहीतसङ्कोचः पुनरयं जाड्याच्चेतनाधिष्ठेय एव--इत्याह-- स वाय्वात्मा दृढे तस्मिन्देहयन्त्रे चिदात्मना || २८-२२० || प्रेर्यमाणो विचरति भस्त्रायन्त्रगवायुवत् | अतः प्राग्गाढसंसुप्तोत्थितवत्स प्रबुध्यते || २८-२२१ || क्रमाद्देहेन साकं च प्राणना स्याद्बलीयसी | तत्रापि कर्मनियतिबलात्सा प्राणनाक्षताम् || २८-२२२ || गृह्णाति शून्यसुषिरसंवित्स्पर्शाधिकत्वतः | एवं क्रमेण संपुष्टदेहप्राणबलो भृशम् || २८-२२३ || भोगान्कर्मकृतान्भुङ्क्ते योन्ययोनिजदेहगः | स इति--प्रथमः प्राणोदयः | वाय्वात्मेति-- प्राणापानादिवायुपञ्चकात्मना गृहीतावच्छेदः--इत्यर्थः | अत इति--एवं वाय्वात्मनोऽस्य विचरणाद्धेतोः | स इति--गर्भस्थो देहः | तदुक्तं प्राक्-- शा प्राणवृत्तिः प्राणाद्यै रूपैः पञ्चभिरात्मसात् | देहं यत् कुरुते संवित्पूर्णस्तेनैष भासते ||᳚ (६|१४) इति | तत्रापीति--एवं बलीयस्त्वे सति--इत्यर्थः | अक्षताग्रहणे शून्येत्यादिहेतुः, शून्याश्चक्षुरादीन्द्रियाधिष्ठानरूपाः सुषीर्नाडीर्लभमानस्य संवित् स्पर्शस्य आधिक्यात् इन्द्रियनाडीषु प्राणनात्मनः संवित्स्पर्शस्य उद्रेकेण अवस्थानात्--इत्यर्थः | अत्रापि हेतुः कर्मनियतिबलादिति, यदभिप्रायेणैव शामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च |᳚ (सां.का. २९) इत्यादि अन्यैरुक्तम् | भुङ्क्ते इति--अर्थाद् गृहीतसङ्कोचः शिव एव || न च एतत्स्वोपज्ञमेव अस्माभिरुक्तम्--इत्याह-- उक्तं च गह्वराभिख्ये शास्त्रे शीतांशुमौलिना || २८-२२४ || यथा गृहं विनिष्पाद्य गृही समधितिष्ठति | तथा देही तनुं कृत्वा क्रियादिगुणवर्जितः || २८-२२५ || किञ्चित्स्फुरणमात्रः प्राग्निष्कलः सोऽपि शब्द्यते | स्फुटेन्द्रियादितत्त्वस्तु सकलात्मेति भण्यते || २८-२२६ || इत्यादि श्रीगह्वरोक्तं तत एव पठेद्बहु |
SKतत एव बहु पठेदिति--अस्माभिस्तु ग्रन्थविस्तरभयान्न पठितम्-- इत्यभिप्रायः | तदुक्तं तत्र-- ᳚ब्रह्मादिस्तम्बपर्यन्तं विश्वं तु सचराचरम् | मायातत्त्वसकाशात्तु सर्वमेव विनिःसृतम् || धर्माधर्मनिबद्धस्तु पिण्ड उत्पद्यते तदा | तत उत्पद्यते गन्धः शुक्रशोणितसंभवः || शुक्रान्मांसं ततो मेदो मज्जा चास्थीनि देहिनाम् | रक्तात्त्वक्स्नायुमांसं च धातुषट्कं भवेदिदम् || शुक्रं च शोणितं चैव अष्टधातुकमुच्यते | पश्चाद्भूतगणोपेतो देहो भवति देहिनाम् || यथा गृहं तु निष्पाद्य गृही पश्चात्तु तिष्ठति | एवं देहं विनिष्पाद्य देही तिष्ठति चेश्वरः || पुरुषः शून्यरूपस्तु निष्क्रियो गुणवर्जितः | किञ्चित्स्फुरणमात्रस्तु निष्कलः स हि कथ्यते || सकलः कलया युक्तः शान्तात्मा प्रभुरव्ययः | तन्मात्राणि च भूतानि इन्द्रियाणि दशैव तु || इन्द्रियार्था मनो बुद्धिस्तथाहङ्कार एव च | विज्ञेयः सकलो ह्येष शिवो देहे व्यवस्थितः || मानुषाणां पशूनां च सर्पाणां जलचारिणाम् | व्यापकोऽपि शिवाख्यो वै संसारे संव्यवस्थितः ||᳚ इत्यादि बहु || इह मरणस्य नान्तरीयकवृत्तित्वात् जन्माभिधानपूर्वं समुचितं वचनम्--इत्याह-- क्षये तु कर्मणां तेषां देहयन्त्रेऽन्यथागते || २८-२२७ || प्राणयन्त्रं विघटते देहः स्यात्कुड्यवत्ततः | तेषां तु कर्मणामिति--देहारम्भकाणाम् | तत इति--प्राणयन्त्रस्य विघटनात् || तद्विघटनमेव दर्शयति-- नाडीचक्रेषु सङ्कोचविकासौ विपरीततः || २८-२२८ || भङ्गः शोषः क्लिदिर्वातश्लेष्माग्न्यपचयोच्चयैः | इत्येवमादि यत्किञ्चित् प्राक्संस्थानोपमर्दकम् || २८-२२९ || देहयन्त्रे विघटनं तदेवोक्तं मनीषिभिः |
SKविपरीतत इति--संकुचितं हि नाडीचक्रं विकसति, विकसितं च संकुचतीति | अग्निः पित्तम्, तेन धातुत्रयस्यापि अपचयादत्यन्तं वा चयादस्य भङ्गादि भवेत् येन एतत् प्राग्रूपात्प्रच्युतिमेव आसादयेदेवम् | किं बहुना यदेव नाम हि किञ्चित् देहयन्त्रे प्राक्संस्थानोपमर्दकं तदेव मनीषिभिर्विघटनमित्युक्तं यल्लोके मरणमिति प्रसिद्धम् || न च एतावतैव अस्य संसारोच्छेदः--इत्याह-- तस्मिन्विघटिते यन्त्रे सा संवित्प्राणनात्मताम् || २८-२३० || गृह्णाति योनिजेऽन्यत्र वा देहे कर्मचित्रिते | स देहः प्रतिबुध्येत प्रसुप्तोत्थितवत्तदा || २८-२३१ || तस्यापि भोगतद्धानिमृतयः प्राग्वदेव हि | यन्त्र इति--देहे, वाशब्दादयोनिजेऽपि | प्रतिबुध्येतेत्यनेन अस्य सृष्टिरुक्ता | भोगतद्धानीति तत्प्राप्त्यप्राप्ती, एषैव च अस्य स्थितिः || एते च अस्य सृष्ट्यादयः कर्मबलोपनता इति नियत्याद्यपेक्षित्वात् तत्तद्वैचित्र्यभाजो भवन्ति--इत्याह-- विसृष्टिस्थितिसंहारा एते कर्मबलाद्यतः || २८-२३२ || अतो नियतिकालादिवैचित्र्यानुविधायिनः | अनुग्रहः पुनरस्य कर्मादि अनपेक्ष्यैव स्यात्--इत्याह-- अनुग्रहस्तु यः सोऽयं स्वस्वरूपे विकस्वरे || २८-२३३ || ज्ञप्त्यात्मेति कथं कर्मनियत्यादि प्रतीक्षते | ननु अनुग्रहस्यापि कर्मादिहेतुत्वे को दोषः?--इत्याशङ्क्य आह-- कर्मकालनियत्यादि यतः सङ्कोचजीवितम् || २८-२३४ || सङ्कोचहानिरूपेऽस्मिन्कथं हेतुरनुग्रहे | अनुग्रहश्च क्रमिकस्तीव्रश्चेति विभिद्यते || २८-२३५ || प्राक् चैष विस्तरात्प्रोक्त इति किं पुनरुक्तिभिः | यदुक्तं प्राक्-- ᳚यत्तु कस्मिंश्चन शिवः स्वेन रूपेण भासते | तत्रास्य नाणुगे तावदपेक्ष्ये मलकर्मणी || तथास्वरूपताहानौ तद्गतं हेतुतां कथम् | व्रजेन्मायानपेक्षत्वमत एवोपपादयेत् || तेन शुद्धः स्वप्रकाशः शिव एवात्र कारणम् |᳚ (१३|११६) इति | प्रागिति--शक्तिपातपरीक्षाह्निके || ननु एवंविधेन अनुग्रहेण अस्य किं स्यात् ?--इत्याशङ्क्य आह-- तेन दीक्षाशिवज्ञानदग्धसङ्कोचबन्धनः || २८-२३६ ||
SKदेहान्ते शिव एवेति नास्य देहान्तरस्थितिः | नन्वेवं देहान्तरानुत्पत्तौ दीक्षैव किं निमित्तमुत निमित्तान्तरमस्ति?--इत्याशङ्क्य आह-- येऽपि तत्त्वावतीर्णानां शङ्कराज्ञानुवर्तिनाम् || २८-२३७ || स्वयम्भूमुनिदेवर्षिमनुजादिभुवां गृहे | मृतास्ते तत्पुरं प्राप्य पुरेशैर्दीक्षिताः क्रमात् || २८-२३८ || मर्त्येऽवतीर्य वा नो वा शिवं यान्त्यपुनर्भवाः | तत्र स्वयम्भुवो द्वेधा केऽप्यनुग्रहतत्पराः || २८-२३९ || केऽपि स्वकृत्यायातांशस्थानमात्रोपसेविनः | येऽनुग्रहार्थमाज्ञप्तास्तेषु यो मिर्यते नरः || २८-२४० || सोऽनुग्रहं स्फुटं याति विना मर्त्यावतारतः | यस्तु स्वकार्यं कुर्वाणस्तत्स्थानं नाशतस्त्यजेत् || २८-२४१ || यथा गौरी तपस्यन्ती कश्मीरेषु गुहागता | तत्रैव वा यथा ध्यानोड्डारे नरहरिर्विभुः || २८-२४२ || वितस्तां नयतो दैत्यांस्त्रासयन्दृप्त उत्थितः | सालिग्रामे यथा विष्णुः शिवो वा स्वोपभोगिनः || २८-२४३ || तपस्यन्तौ बदर्यां च नरनारायणौ तथा | इत्येवमादयो देवाः स्वकृत्यांशस्थितास्तथा || २८-२४४ || आराधिताः स्वोचितं तच्छीघ्रं विदधते फलम् | स्वकृत्यांशस्थितानां च धाम्नि येऽन्तं व्रजन्ति ते || २८-२४५ || तत्र भोगांस्तथा भुक्त्वा मर्त्येष्ववतरन्त्यपि | मर्त्यावतीर्णास्ते तत्तदंशकास्तन्मयाः पुनः || २८-२४६ || तद्दीक्षाज्ञानचर्यादिक्रमाद्यान्ति शिवात्मताम् | स्थावराद्यास्तिर्यगन्ताः पशवोऽस्मिन्द्वये मृताः || २८-२४७ || स्वकर्मसंस्क्रियावेधात्तल्लोके चित्रताजुषः |
SKयद्यपि च अत्र पवित्रकविध्यनन्तरं तीर्थायतनचर्चनमुद्दिष्टं तथापि तत् मरणोपयोगित्वात् तत्परीक्षान्तरुपक्षिप्तमिति न कश्चित् पूर्वापरव्याघातः | अनुग्रहतत्परा इति--अबादिभ्यो हि तत्त्वेभ्यः परमेश्वराज्ञया पञ्चापि अष्टकानि अनुग्रहार्थमेव भुवमवतीर्णानि--इत्याशयः | स्फुटमिति--अनुग्रहार्थमेव एषामवतीर्णत्वात् | तपस्यन्तीत्यादिना एषां स्वकार्यावेदनं कृतम् | तत्रेति--तत्परेषु मर्त्येष्वप्यवतरन्तीति तेषां साक्षादनुग्रहकारित्वाभावात् | तत्तदंशका इति-- ब्रह्मविष्णुरुद्राद्यंशाः--इत्यर्थः | अस्मिन्द्वय इति--अनुग्रहार्थं स्वकार्यार्थं च अवतीर्णे || ननु यदि एवमत्र स्थावरादीनां सालोक्यं स्यात्, तन्मनुष्याणां का वार्त्ता?--इत्याशङ्क्य आह-- पुंसां च पशुमात्राणां सालोक्यमविवेकतः || २८-२४८ || पशुमात्राणामिति--अन्येषां पुनः सायुज्याद्यपि भवेत्--इति भावः ||२४८|| ननु एषां स्थावरादिवदेव किमविवेकः समस्ति न वा?--इत्याशङ्क्य आह-- अविवेकस्तद्विशेषानुन्मेषान्मौढ्यतस्तथा | तद्विशेषानुन्मेषादिति--राजसत्वात् पुंसाम् | मौढ्यत इति-- स्थावरादीनां तामसत्वात् || ननु अन्यत्र स्थावरादीनां ᳚येषां मृतानां चर्माणि यान्ति योगं शिवालये | वृक्षाणामपि दारूणि तेऽपि रुद्रा न संशयः ||᳚ इति दृशा रुद्रत्वमेव भवेत्--इत्युक्तम् | इह पुनरेषां सालोक्यं कस्मादभिहितम्?--इत्याशङ्क्य आह-- स्थावराद्यास्तथाभावमुत्तरोत्तरतां च वा || २८-२४९ || प्रपद्यन्ते न ते साक्षाद्रुद्रतां तां क्रमात्पुनः | तथाभावमिति--स्थावरादिरूपत्वम् | उत्तरोत्तरतामिति-- पुमादिरूपतासादनक्रमेण || अत एवम् आगमोऽप्येवम्--इत्याह-- हंसकारण्डवाकीर्णे नानातरुकुलाकुले || २८-२५० || इत्येतदागमेषूक्तं तत एव पुरे पुरे | क्षेत्रमानं ब्रुवे श्रीमत्सर्वज्ञानादिषूदितम् || २८-२५१ || लिङ्गाद्धस्तशतं क्षेत्रमाचार्यस्थापिते सति | स्वयम्भूते सहस्रं तु तदर्धमृषियोजिते || २८-२५२ || तत्त्ववित्स्थापिते लिङ्गे स्वयम्भूसदृशं फलम् | अतत्त्वविद्यदाचार्यो लिङ्गं स्थापयते तदा || २८-२५३ ||
SKपुनर्विधिर्भवेद्दोषो ह्यन्यथोभयदूषकः | ननु स्वयम्भ्वादीनां साक्षात्सन्निधेः क्षेत्रादिरूपत्वमस्तीति तद्गृहे मृतानां भवेदेवं को दोषः, मनुष्यादिप्रतिष्ठितानां लिङ्गानां पुनः कथमेवं युज्येत?--इत्याशङ्कां प्रशमयितुमागममेव संवादयति--क्षेत्रेत्यादिना | आचार्योऽत्र उत्कर्षी || अतत्त्ववित्त्वमेव दर्शयति-- अहमन्यः परात्मान्यः शिवोऽन्य इति चेन्मतिः || २८-२५४ || न मोचयेन्न मुक्तश्च सर्वमात्ममयं यतः | तस्मात्तत्त्वविदा यद्यत्स्थापितं लिङ्गमुत्तमम् || २८-२५५ || तदेवायतनत्वेन संश्रयेद्भुक्तिमुक्तये | तथा च आगमोऽप्येवम्-- इत्याह-- उक्तं श्रीरत्नमालायां ज्ञात्वा कालमुपस्थितम् || २८-२५६ || मोक्षार्थी न भयं गच्छेत्त्यजेद्देहमशङ्कितः | तीर्थायतनपुण्येषु कालं वा वञ्चयेत्प्रिये || २८-२५७ || अयोगिनामयं पन्था योगी योगेन वञ्चयेत् | वञ्चने त्वसमर्थः सन् क्षेत्रमायतनं व्रजेत् || २८-२५८ || तीर्थे समाश्रयात्तस्य वञ्चनं तु विजायते | ज्ञात्वेति-- ᳚यस्य वै स्नातमात्रस्य हृत्पादौ वाथ शुष्यतः | धूमो वा मस्तके नश्येद्दशाहं न स जीवति ||᳚ इत्याद्युक्तैस्तत्रत्यैरेव लक्षणैः | त्यजेदिति--उत्क्रान्त्यादिक्रमेण | उत्क्रान्त्यादावसमर्थः पुनस्तीर्थादावनशनादिना देहं त्यजेत्, येन अस्य पुनर्जन्ममरणायोगात् कालवञ्चनं सिध्येत्--इत्याह--तीर्थेत्यादि; अत एवाह--अयोगिनामयं पन्था इति | अनशनादिनापि देहं त्यक्तुमसमर्थेन क्षेत्रादि आश्रयणीयमेव यद्वशात्स्वारसिके देहापगमे कालवञ्चनं स्यात्--इत्याह--वञ्चनेत्विति | एकस्तुशब्दो हेतौ || इदमेव च अत्र नाभिधेयं यावदन्यदपि--इत्याह-- अनेन च धराद्येषु तत्त्वेष्वभ्यासयोगतः || २८-२५९ || तावत्सिद्धिजुषोऽप्युक्ता मुक्त्यै क्षेत्रोपयोगिता | धरादियोगिनां हि तद्धारणाक्रमेण तत्सिद्धिभाक्त्वं तावत् सिद्धं मुक्तिस्तु क्षेत्रोपसेवनाद्भवेदिति भावः || नन्वेवं क्षेत्रोपयोगः किमज्ञानामेव किं स्वित् ज्ञानिनामपि?-- इत्याशङ्क्य आह-- सम्यग्ज्ञानिनि वृत्तान्तः पुरस्तात्तूपदेक्ष्यते || २८-२६० ||
SKनन्वेवं ये न ज्ञानिनः, नापि पशवः, तेषां का वार्त्ता?-- इत्याशङ्क्य आह-- ते तदीशसमीपत्वं यान्ति स्वौचित्ययोगतः || २८-२६१ || योग्यतावशसञ्जाता यस्य यत्रैव वासना | स तत्रैव नियोक्तव्यः पुरेशाच्चोर्ध्वशुद्धिभाक् || २८-२६२ || इति श्रीपूर्वकथितं श्रीमत्स्वायम्भुवेऽपि च | यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः || २८-२६३ || सिद्धभाङ्मन्त्रसामर्थ्यादित्याद्यन्यत्र वर्णितम् | स्वौचित्येति--न तु क्षेत्रौचित्ययोगतः | अन्यत्र श्रीमत्स्वायम्भुवेऽपि च वर्णितमिति संबन्धः || क्षेत्रौचित्यात् पुनरेषां लोकधर्मिणां तत्सायुज्यमेव भवेत्--इत्याह- - ये तु तत्तत्त्वविज्ञानमन्त्रचर्यादिवर्तिनः || २८-२६४ || मृतास्ते तत्र तद्रुद्रसयुक्त्वं यान्ति कोविदाः | नन्वेवमपि एषां सर्वेषां किमविशेषेणैव रुद्रत्वेन अवतारः, उत न ?--इत्याशङ्क्य आह-- तेषां सयुक्त्वं यातानामपि संस्कारतो निजात् || २८-२६५ || तथा तथा विचित्रः स्यादवतारस्तदंशतः | संस्कारत इति--प्राक्कर्मवासनारूपात् || तथा च आगमोऽपि--इत्याह-- सिद्धान्तादौ पुराणेषु तथा च श्रूयते बहु || २८-२६६ || तुल्ये रुद्रावतारत्वे चित्रत्वं कर्मभोगयोः | नन्वेवमैकरूप्येऽपि रुद्रत्वस्य कथमेतद्युज्येत?--इत्याशङ्क्य आह-- अनेकशक्तिखचितं यतो भावस्य यद्वपुः || २८-२६७ || शक्तिभ्योऽर्थान्तरं नैष तत्समूहादृते भवेत् | यच्छब्दो हेतौ भिन्नक्रमः, तेन वपुःशब्दानन्तरं योज्यः, एवं तर्हि तत्तच्छक्त्यतिरिक्तं भावस्य रूपं पर्यवस्येत्?--इत्याशङ्क्य आह--शक्तिभ्योऽर्थान्तरं नैष इति | ततोऽर्थान्तरत्वे तु अस्य किं स्यात्?--इत्याशङ्क्य आह--तत्समूहादृते भवेदिति | यदनेकाभाससंमूर्छनात्मको भाव इति एष तदाभाससंमूर्छनामन्तरेण न किञ्चिदपि रूपं बिभृयात्-- इत्यस्मत्सिद्धान्तः || ननु अनेन प्रकृते किं स्यात् ?--इत्याशङ्क्य आह-- तेन शक्तिसमूहाख्यात् तस्माद्रुद्राद्यदंशतः || २८-२६८ || कृत्यं तदुचितं सिद्ध्येत् स्ॐऽशोऽवतरति स्फुटम् |
SKअतश्च अनेकाभासकदम्बतया उद्भासमानाद्रुद्रात् यस्मादेव आभासांशात् तत्तत्प्राक्कर्मानुगुणं कार्यं सिद्ध्येत्, स एव आभासांशः स्फुटमवतरति--तत्तद्रुद्ररूपतां साक्षाद् गृह्णीयात्--इत्यर्थः || अत्रैव अधिकारिभेदात् वैचित्र्यान्तरमपि दर्शयितुमाह-- ये चाधरप्राप्तदीक्षास्तदास्थानुज्झिताः परे || २८-२६९ || तत्त्वे मृताः काष्ठवत्तेऽधरेऽप्युत्कर्षभागिनः | ये तूज्झिततदुत्कर्षास्ते तदुत्तरभागिनः || २८-२७० || येऽप्यूर्ध्वतत्त्वदीक्षास्ते विना तावद्विवेकतः | प्राप्ताधरान्ता अपि तद्दीक्षाफलसुभागिनः || २८-२७१ || अत्यक्तास्था हि ते तत्र दीक्षायामपि शास्त्रितात् | विना विवेकादास्थां ते श्रिता लोकप्रसिद्धितः || २८-२७२ || ये च लोकधर्मिण एव अप्तत्त्वादावधरपदे प्राप्तयोजनिकास्तत्रैव च सादराः, परे तदुत्तरे तेजस्तत्त्वादौ तत्तत्त्वावतीर्णस्य अतिगुह्याष्टकादिमध्यादेकतरस्य स्थाने विनैव सन्धानं मृतास्ते तत्र अधरेऽपि उत्कर्षभागिनः तत्स्थानमृतसाधकान्तरवैलक्षण्येन भोगभाजो भवन्ति--इत्यर्थः | ये पुनरप्तत्त्वादावेव प्राप्तदीक्षाः, तत्र तथा अनादृतास्तेऽपि एवं मृतास्तदुत्तरे तेजस्तत्त्वादावेव भोगिनस्तत्पदमेव आसादयन्ति--इत्यर्थः | येऽपि तेजस्तत्त्वादावूर्ध्वे प्राप्तदीक्षास्ते मौढ्यादप्तत्त्वाद्यवतीर्णस्य स्वयम्भुवः संबन्धिनि अधरे स्थाने प्राप्तमृत्यवोऽपि तद्दीक्षाफलमेव सुष्ठु भजन्ते | यतस्ते तथाविधायामपि दीक्षायां बद्धास्था गतानुगतिकया प्रसिद्धिमात्रादेव अधरायतनादावास्थां श्रिताः | नहि एषामेवं शास्त्रीयो विवेकः समस्ति येन दीक्षोचितमेव स्थानमनुसरेयुः ||२७२ || एवमियता किं पर्यवसितम्?--इत्याशङ्क्य आह-- पशुमात्रस्य सालोक्यं सामीप्यं दीक्षितस्य तु | तत्परस्य तु सायुज्यमित्युक्तं परमेशिना || २८-२७३ || दीक्षितस्येति--लोकधर्मिदीक्षया | तत्परस्येति--एवं दीक्षितत्वेऽपि तत्तत्स्थानादौ मृतस्य || सिद्धान्तादावूर्ध्वोर्ध्वं दीक्षितस्य पुनस्तत्र अनास्थया तीर्थादि आश्रयतः सर्वं निरर्थकमेव भवेत्--इत्याह--
SKयस्तूर्ध्वशास्त्रगस्तत्र त्यक्तास्थः संशयेन सः | व्रजन्नायतनं नैव फलं किञ्चित्समश्नुते || २८-२७४ || उक्तं तद्विषयं चैतद्देवदेवेन यद्वृथा | दीक्षा ज्ञानं तथा तीर्थं तस्येत्यादि सविस्तरम् || २८-२७५ || तदुक्तम्-- ᳚दीक्षितः शिवसिद्धान्ते गुरुपूजादिकां क्रियाम् | कृत्वान्ते च व्रजेद्यस्तु तीर्थमायतनादि वा || वृथा दीक्षा वृथा ज्ञानं मन्त्राराधनमेव च | त्यक्तं तेनैव तत्सर्वं तीर्थमात्रफलेप्सुना ||᳚ इति ||२७५ || यस्तु तावदयोग्योऽपि तथास्ते स शिवालये | पश्चादास्थानिबन्धेन तावदेव फलं भजेत् || २८-२७६ || तावदयोग्य इति--आजीवम् | पश्चादिति--मृत्युसमय एव | तावदिति-- पूर्णम् || २७६ || ननु स्वयम्भ्वादीनामेव स्थाने मृतानामेवं भवेदिति कस्मादुक्तं यदन्यत्र अन्तर्वेद्यादावपि मरणस्थानत्वमभिहितम् ?--इत्याशङ्क्य आह-- नदीनगह्रदप्रायं यच्च पुण्यं न तन्मृतौ | उत्कृष्टं तन्मृतानां तु स्वर्गभोगोपभोगिता || २८-२७७ || ये पुनः प्राप्तविज्ञानविवेका मरणान्तिके | अधरायतनेष्वास्था श्रितास्तेऽत्र तिरोहिताः || २८-२७८ || निष्कृतिश्च एषां किमस्ति न वा?--इत्याशङ्क्य आह-- तज्ज्ञानदूषणोक्तं यत्तेषां स्यात्किल पातकम् | तत्तत्पुरेशदीक्षादिक्रमान्नश्येदिति स्थितिः || २८-२७९ || दीक्षायतनविज्ञानदूषिणो ये तु चेतसा | आचरन्ति च तत्तेऽत्र सर्वे निरयगामिनः || २८-२८० || ननु एते साक्षात् यदि आचरन्तो दृश्यन्त इति कुतस्तद्विशेष एषां ज्ञायेत ?--इत्याशङ्क्य आह-- ज्ञानायतनदीक्षादावास्थाबन्धपरिच्युतिः | व्यापारव्याहृतैर्ज्ञेया तान्यपि द्विविधानि च || २८-२८१ || इह द्विविधानि व्यापारव्याहृतानि संसारभागीयानि कैवल्यभागीयानि च | तत्र एषां क्वचिद्यथानुसन्धानं प्रवृत्तिः, क्वचिदयथानुसन्धानं क्वचिच्च निरनुसन्धानमिति | तत्र आद्यः स्पष्ट एव पन्था यथानुसन्धानं व्यापारादेर्भावात् | द्वितीयस्तु विपर्यस्तो व्यापारादेरनुसन्धानविपर्ययेण दर्शनात् | तृतीयस्तु नैवंविधः--इत्याह-- यानि जातुचिदप्येव स्वास्थ्ये नोदमिषन्पुनः |
SKअस्वास्थ्ये धातुदोषोत्थान्येव तद्भोगमात्रकम् || २८-२८२ || यानि संसारकैवल्यभागीयतया द्विविधानि, तानि व्यापारव्याहृतानि स्वास्थ्ये कदाचिदपि नोदितानि यथा ज्ञानिनः संसारभागीयानि अज्ञानिनस्तु कैवल्यभागीयानि, अस्वास्थ्ये पुनर्धातुदोषवशादुत्थितानि, तद्भोगमात्रकमेव तदानीमेषामेवंविधः प्राक्कर्मबलोपनतो भोग एव, न तु शुभाशुभकारि किञ्चित्--इत्यर्थः || २८२ || ननु कथं भोगमात्रकमेव एतदित्युक्तं यज्ज्ञानिनोऽपि अन्तश्च आत्तानां संसारवासनानामन्तरान्तरा दर्शनादज्ञानित्वं स्यात्, अज्ञानिनोऽपि ज्ञान्युचितानां संस्काराणामुदयात् ज्ञानित्वमिति?-- इत्याशङ्क्य आह-- धातुदोषाच्च संसारसंस्कारास्ते प्रबोधिताः | छिद्रगा अपि भूयिष्ठज्ञानदग्धा न रोहिणः || २८-२८३ || ये तु कैवल्यभागीयाः स्वास्थ्येऽनुन्मिषिताः सदा | अस्वास्थ्ये चोन्मिषन्त्येते संस्काराः शक्तिपाततः || २८-२८४ || भूयिष्ठेति--एषां हि बलवज्ज्ञानम्--इत्याशयः | अनुन्मिषिता इति-- अर्थादज्ञानिनः || २८४ || ननु स्वास्थ्याविशेषेऽपि ज्ञानिनां धातुदोषादेते संस्काराः प्रबुद्धाः, इतरेषां तु शक्तिपातत इति कुतस्त्योऽयं विशेषः ?-- इत्याशङ्क्य आह-- यतः सांसारिकाः पूर्वगाढाभ्यासोपसंस्कृताः | इत्यूचे भुजगाधीशस्तच्छिद्रेष्विति सूत्रतः || २८-२८५ || ये तु कैवल्यभागीयाः प्रत्ययास्ते न जातुचित् | अभ्यस्ताः संसृतेर्भावात्तेनैते शक्तिपाततः || २८-२८६ || न च एतदस्मदुपज्ञमेवेत्याह--इतीत्यादि | तच्छिद्रेष्विति, सूत्रत इति | ᳚तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः |᳚ (४|२७) इति सूत्रे--इत्यर्थः | सांसारिकाणां हि व्यापारादीनां जन्मान्तरीयो गाढाभ्यासोऽस्ति निमित्तं यद्वशादेषामुदयोऽपि स्यात्, इतरेषां तु संसारिषु अभ्यासो नास्ति, कादाचित्कश्च उदयो दृश्यते, तदत्र केनचित् निमित्तेन भाव्यम् | स च शक्तिपात एवेति युक्तमुक्तम्--एते संस्काराः शक्तिपातत इति || २८५-२८६ || ननु एवं ज्ञानिनोऽपि एते संस्कारास्तिरोधानशक्तिपातहेतुका एव सन्ति?--इत्याशङ्क्य आह-- व्यापारव्याहृतैस्तेन धातुदोषप्रकोपितैः |
SKअप्राप्तनिश्चयामर्शैः सुप्तमत्तोपमानकैः || २८-२८७ || विपरीतैरपि ज्ञानदीक्षागुर्वादिदूषकैः | तिरोभावो न विज्ञेयो हृदये रूढ्यभावतः || २८-२८८ || अप्राप्तनिश्चयामर्शैरिति--अन्यथाद्धित्वात् | रूढ्यभावत इति--अस्य हि अन्यत्र अस्ति दृढतरमभ्यासः--इति भावः ||२८८ || अतश्च अस्य अन्येऽपि सांसारिकाः संस्काराः सन्ति--इत्याह-- अत एव प्रबुद्धोऽपि कर्मोत्थान्भोगरूपिणः | यमकिङ्करसर्पादिप्रत्ययान्देहगो भजेत् || २८-२८९ || तर्हि अस्य किं नाम मुक्तत्वम्?--इत्याशङ्क्य आह-- नैतावता न मुक्तोऽसौ मृतिर्भोगो हि जन्मवत् | स्थितिवच्च ततो दुःखसुखाभ्यां मरणं द्विधा || २८-२९० || अतो यथा प्रबुद्धस्य सुखदुःखविचित्रताः | स्थितौ न घ्नन्ति मुक्तत्वं मरणेऽपि तथैव ताः || २८-२९१ || अत इति--जन्मादिवत् मरणस्यापि भोगविशेषात्मकत्वात् || २९१ || योगिनां पुनर्ज्ञानिभ्योऽपि मृतावतिशयः--इत्याह-- ये पुनर्योगिनस्तेऽपि यस्मिंस्तत्त्वे सुभाविताः | चित्तं निवेशयन्त्येव तत्तत्त्वं यान्त्यशङ्किताः || २८-२९२ || निवेशयन्तीति उत्क्रान्त्यादिनिमित्तम् | अशङ्किता इति मरणव्यथाद्य योगात् || २९२ || तथा च आगमोऽप्येवम्--इत्याह-- श्रीस्वच्छन्दे ततः प्रोक्तं गन्धधारणया मृताः | इत्यादि मालिनीशास्त्रे धारणानां तथा फलम् || २८-२९३ || यदुक्तम्-- ᳚धारणां गन्धतन्मात्रे प्राणांस्त्यक्त्वा तु योगिनः | ते यान्ति तादृशीं मूर्तिं धरित्र्याः परमां तनुम् ||᳚ (१०|७८८) इति | ᳚रसतन्मात्रमात्रे वै कृत्वा सम्यक् तु धारणाम् | अपां योनिं परां प्राप्ताः......................... ||᳚ (१०|७९९) इति च | श्रीपूर्वशास्त्रे तु द्वादशपटलात्प्रभृति वितत्य एतदुक्तमिति तत एव अवधार्यम् || २९३ || ननु मरणं चेद्योगिनामस्ति अवश्यम्, सुखदुःखाद्यात्मा तद्भोगोऽपि स्यात्; तत्किमेतदुक्तम् ?--इत्याशङ्क्य आह-- एतेषां मरणाभिख्यो भोगो नास्ति तु ये तनुम् | धारणाभिस्त्यजन्त्याशु परदेहप्रवेशवत् || २८-२९४ || ननु कियान् मरणाभिख्यो भोगो य एषां नास्ति--इत्याशङ्क्य आह--
SKएतावान्मृतिभोगो हि मर्मच्छिन्मूढताक्षगा | ध्वान्ताबिलत्वं मनसि तच्चैतेषु न विद्यते || २८-२९५ || तदिति--मर्मच्छिदादि ||२९५ || तदेव उपपादयति-- तथाहि मानसं यत्नं तावत्समधितिष्ठति | अहंरूढ्या परे देहे यावत्स्याद् बुद्धिसञ्चरः || २८-२९६ || प्राणचक्रं तदायत्तमपि सञ्चरते पथा | तेनैवातः प्रबुद्ध्येत परदेहेऽक्षचक्रकम् || २८-२९७ || यदि हि नाम स्वदेहं त्यजतो योगिनो मर्मसु वेदना, इन्द्रियेषु मोहः, मनसि तमोमयत्वं च अभविष्यत्, तदयं तत्प्रयत्ननिर्वर्त्यं परपुरप्रवेशादि एवं कथङ्कारमकरिष्यत् | मनःप्रयत्नाधीन एव हि योगिनः परदेहे बुद्धिप्राणादिसञ्चारः, येन अस्य तत्र अहन्ताप्ररोहः ||२९७ || ननु प्राणादेरिन्द्रियचक्रस्य मनोऽनुगामित्वमेव कस्मात् ?-- इत्याशङ्कां दृष्टान्तदिशा उपशमयति-- मक्षिका मक्षिकाराजं यथोत्थितमनूत्थिताः | स्थितं चानुविशन्त्येवं चित्तं सर्वाक्षवृत्तयः || २८-२९८ || एवं योगिनां देहापगमेऽपि अन्यवदिन्द्रियाणामन्तरा अस्तमयो नास्ति-- इत्याह-- अतोऽस्य परदेहादिसञ्चारे नास्ति मेलनम् | अक्षाणां मध्यगं सूक्ष्मं स्यादेतद्देहवत्पुनः || २८-२९९ || अत इति--मृतिभोगाभावात् | ननु एतस्मिन्नेव देहे गाढमर्मप्रहारमात्रेणेन्द्रियाणामन्तरा मेलनं भवेत्, कथं पुनस्तत्त्यागेन?--इत्याशङ्क्य उक्तम्--सूक्ष्मं स्यादेतद्देहवत्पुनरिति ||२९९ || एतदेव दृष्टान्तगर्भमुपसंहरति-- एवं परशरीरादिचारिणामिव योगिनाम् | तत्तत्तत्त्वशरीरान्तश्चारिणां नास्ति मूढता || २८-३०० || ते चापि द्विविधा ज्ञेया लौकिका दीक्षितास्तथा | पूर्वे शिवाः स्युः क्रमशः परे तद्भोगमात्रतः || २८-३०१ || दीक्षाप्यूर्ध्वाधरानेकभेदयोजनिकावशात् | भिद्यमाना योगिनां स्याद्विचित्रफलदायिनी || २८-३०२ || ते इति--योगिनः | लौकिका इति--पातञ्जलादिनिष्ठाः || ३०२ || एवं योगिनो मृतवृत्तान्तमभिधाय, ज्ञानिनोऽपि आह-- ये तु विज्ञानिनस्तेऽत्र द्वेधा कम्प्रेतरत्वतः | तत्र ये कम्प्रविज्ञानास्ते देहान्ते शिवाः स्फुटम् || २८-३०३ ||
SKएतदेव उपपादयति-- यतो विज्ञानमेतेषामुत्पन्नं न च सुस्फुटम् | विकल्पान्तरयोगेन न चाप्युन्मूलितात्मकम् || २८-३०४ || अतो देहे प्रमादोत्थो विकल्पो देहपाततः | नश्येदवश्यं तच्चापि बुध्यते ज्ञानमुत्तमम् || २८-३०५ || न च सुस्फुटमिति--देहबलोपनतेन विकल्पेन ग्लपनात् | विकल्पान्तरेति-- विरुद्धस्य || ३०५ || ननु देहपाते विकल्पस्य प्रशमोऽस्तु, प्रस्फुटज्ञानोदये तु को हेतुः ?- -इत्याशङ्क्य आह-- संस्कारकल्पनातिष्ठदध्वस्तीकृतमन्तरा | प्राप्तपाकं संवरीतुरपाये भासते हि तत् || २८-३०६ || ये तु स्वभ्यस्तविज्ञानमयाः शिवमयाः सदा | जीवन्मुक्ता हि ते नैषां मृतौ कापि विचारणा || २८-३०७ || प्राप्तपाकमिति--परां काष्ठामधिरूढम्--इत्यर्थः | संवरीतुरिति--पिधायकस्य देहस्य || ३०७ || ननु किं न ज्ञानिनां मृतौ विचारः, यत्तेऽपि तदा पामरवत् देहादिमया एव किं न वा?--इत्याशङ्क्य दृष्टान्तगर्भमाह-- यथाहि जीवन्मुक्तानां स्थितौ नास्ति विचारणा | सुखिदुःखिविमूढत्वे, मृतावपि तथा न सा || २८-३०८ || तथा च आगम--इत्याह-- श्रीरत्नमालाशास्त्रे तदुवाच परमेश्वरः | स्वशास्त्रे चाप्यहीशानो विश्वाधारधुरन्धरः || २८-३०९ || स्वशास्त्रे इति--आधारकारिकासु || ३०९ || तदेव क्रमेण पठति-- रथ्यान्तरे मूत्रपुरीषमध्ये चण्डालगेहे निरये श्मशाने | सचिन्तको वा गतचिन्तको वा ज्ञानी विमोक्षं लभतेऽपि चान्ते || २८- ३१०|| निरये इति--अपकृष्टस्थाने--इत्यर्थः || ३१० || एतदेव संक्षेपेण व्याचष्टे-- अपि चेति ध्वनिर्जीवन्मुक्ततामस्य भाषते | सचिन्ताचिन्तकत्वोक्तिरेतावत्संभवस्थितिम् || २८-३११ || न केवलमन्ते ज्ञानी विमोक्षं लभते, यावज्जीवन्नपि--इत्यर्थः | एतावदिति आसङ्गरहित इति यावत् || ३११ || इतरत्रापि तात्पर्यार्थं तावदाह-- तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजेद्देहम् | ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः || २८-३१२ || अनन्तकारिका चैषा प्राहेदं बन्धकं किल |
SKसुकृतं दुष्कृतं चास्य शङ्क्यं तच्चास्य नो भवेत् || २८-३१३ || ज्ञानिनो हि बन्धकं कर्म नास्तीत्यस्य तीर्थादौ मरणे न कश्चिद्विशेष--इत्यत्र तात्पर्यम् || ३१२-३१३ || तदेव पदशो व्याचष्टे-- अपिशब्दादलुप्तस्मृत्या वा संभाव्यते किल | मृतिर्नष्टस्मृतेरेव मृतेः प्राक् साऽस्तु किं तया || २८-३१४ || लिङ् च संभावनायां स्यादियत्संभाव्यते किल | स च कालध्वनिः प्राह मृतेर्मुक्तावहेतुताम् || २८-३१५ || इह मरणं तावत् नष्टस्मृतेरेव भवतीति संभवन्त्या अपि मरणात्प्राक् स्मृत्या न कश्चिदर्थः--इति | अपिशब्दादनष्टायां स्मृतौ संभावनापि अफलप्रायैव--इत्यर्थः | लिङ्ङति--परित्यजेदिति | इयत्संभाव्यते इति--ज्ञानी हि नष्टस्मृतिरनष्टस्मृतिर्वा यत्र तत्र देहं परित्यजतीति | मृतेर्मुक्तावहेतुतामिति--ज्ञानप्राप्त्यैव हि अयं मुक्तः, किमस्य स्मरणेन--इत्याशयः || ३१४-३१५ || ननु यद्येवं ज्ञानसमकालमेव मुक्तः, किं कैवल्यं यातीत्युक्तम्?-- इत्याशङ्क्य आह-- कैवल्यमिति चाशङ्कापदं याप्यभवत्तनुः | भेदप्रदत्वेनैषापि ध्वस्ता तेन विशोकता || २८-३१६ || आशङ्कापदमिति--ज्ञानसमकालमेव अयं किं मुक्तो न वेति | अत एव हतशोको निःशङ्कः--इत्युक्तम् ||३१६ || ननु किमिदमाशङ्कापदम्, नहि ज्ञानिनो देहादि किञ्चिद्बन्धकम्, यदुक्तम्-- शम्यग्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ | तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः ||᳚ (सां.का. ६७) इति?--इत्याशङ्क्य आह-- परदेहादिसंबन्धो यथा नास्य विभेदकः | तथा स्वदेहसंबन्धो जीवन्मुक्तस्य यद्यपि || २८-३१७ || अतश्च न विशेषोऽस्य विश्वाकृतिनिराकृतेः | शिवाभिन्नस्य देहे वा तदभावेऽपि वा किल || २८-३१८ || तथापि प्राच्यतद्भेदसंस्काराशङ्कनस्थितेः | अधुनोक्तं केवलत्वं यद्वा मात्रन्तराश्रयात् || २८-३१९ || तान्येनं न विदुर्भिन्नं तैः स मुक्तोऽभिधीयते |
SKइह ज्ञानिनः परदेहसंबन्धवत् स्वदेहसंबन्धो न बन्धको यतोऽस्य सति असति वा देहे शिवाभिन्नस्य विश्वाकारत्वे निराकारत्वे वा कश्चिद्विशेषो नास्ति यद्यपि, तथापि सति देहे भेदसंस्काराशङ्कापि संभाव्येति अधुना देहपातानन्तर्येण कैवल्यं यातीत्युक्तम् | अथवा जीवतोऽपि अस्य मुक्तदेहसद्भावात्प्रमात्रन्तराणां तदा न ज्ञानमधुना तु ज्ञानमिति || तथा च आगमोऽप्येवम्--इत्याह-- श्रीमत्त्रैशिरसेऽप्युक्तं सूर्येन्दुपुटवर्जिते || २८-३२० || जुगुप्साभावभङ्गस्थे सर्वतः स्तम्भवत्स्थिते | सर्वव्यापत्तिरहिते प्रमाणप्रत्ययातिगे || २८-३२१ || तस्मिन्बोधान्तरे लीनः कर्मकर्ताप्यनञ्जनः | प्रधानं घट आकाश आत्मा नष्टे घटेऽपि खम् || २८-३२२ || न नश्येत्तद्वदेवासावात्मा शिवमयो भवेत् | स्वतन्त्रोऽवस्थितो ज्ञानी प्रसरेत्सर्ववस्तुषु || २८-३२३ || तस्य भावो न चाभावः संस्थानं न च कल्पना | प्रधानं कार्यकारणाद्यारब्धं प्राधानिकं शरीरम्--इत्यर्थः, तेन शरीरघटयोरात्माकाशयोश्च तुल्यत्वमिति | यथा घटे नष्टे तदवच्छिन्नं खं न नश्यति, तथा शरीरे नष्टेऽपि आत्मा, किन्तु अनवच्छिन्नस्वस्वरूपमय एव भवेत् | तदसौ तत्तत्प्रतिनियतकर्मकारित्वेऽपि तस्मिन् परप्रमातृतया प्रख्याते, अत एव स्वप्रकाशत्वात् प्रमाणप्रत्ययातिगे तदप्रत्येये, अत एव सूर्येन्दुपुटवर्जिते प्रमाणप्रमेययुगलकानवच्छिन्ने, अत एव जुगुप्सा जुगुप्स्यं वस्तु तदभावरूपमजुगुप्स्यं च तयोर्भङ्गस्थे हेयोपादेयकल्पनानिर्मुक्ते, अत एव शर्वाःशक्तीश्चेतसा दर्शनाद्याः स्वे स्वे वेद्ये यौगपद्येन विष्वक् | क्षिप्त्वा मध्ये हाटकस्तम्भभूतस्तिष्ठन् विश्वाधार एकोऽवभासि ||᳚
SKइत्याद्युक्त्या सर्वतः स्तम्भवत्स्थिते, अत एव सदसदाद्यविकल्प्यत्वाच्छब्दसंस्पर्शासहिष्णौ निर्विकल्पात्मनि बोधान्तरे लीनत्वादनञ्जनो निरुपाधिचिदेकघनस्वस्वरूप एव-- इत्यर्थः | अतश्चैवं ज्ञाततत्त्वो ज्ञानी स्वातन्त्र्यमास्थितः सर्ववस्तुषु प्रसरेत् सर्वत्र एकात्म्येनैव तिष्ठेत् | नहि अस्य जन्ममरणादिलक्षणा काचिद्वास्तवी कल्पना अस्ति--इत्यर्थः || शास्त्रान्तराण्यपि एवम्--इत्याह-- एतदेवान्तरागूर्य गुरुर्गीतास्वभाषत || २८-३२४ || तदेव आह-- यं य वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् | तं तमेवैति कौन्तेय सदा तद्भावभावितः || २८-३२५ || तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च | तदेव व्याचिकीर्षुः पीठिकाबन्धं कर्तुं गीतार्थमेव तावत् संगृह्य अभिधत्ते यदेत्यादिना-- यदा सत्त्वे विवृद्धे तु प्रलीनस्त्वूर्ध्वगस्तदा || २८-३२६ || क्रमाद्रजस्तमोलीनः कर्मयोनिविमूढगः | यदा हि कस्यचिदाजन्माभ्यासात् सत्त्वरजस्तमसां मध्यात् यद्यदेव प्रलयसमये विवृद्धं भवति, तदा अस्य तदौचित्यादेव मनुष्यस्थावरादिरूपतया गतिः स्यात्--इति वाक्यार्थः--यद्गीतम्-- ᳚यदा सत्त्वे प्रवृत्ते तु प्रलयं याति देहभृत् | तदोत्तमविदां लोकानमलान्प्रतिपद्यते || रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते | तथा प्रलीनस्तमसि मूढयोनिषु जायते ||᳚ (भ.गी. १४|१५) इति || ननु अन्तकाले सत्त्वादिमयत्वेऽपि श्वासायासहिक्कागद्गदादिवैवश्येन सर्वेषां मूढतयैव भाव्यम्, तथात्वे च एषां कथमूर्ध्वगत्यादिसमुचिता देहान्तरसङ्गतिः सङ्गच्छताम् ?-- इत्याशङ्क्य आह-- तत्रेन्द्रियाणां संमोहश्वासायासपरीतता || २८-३२७ || इत्यादिमृतिभोगोऽयं देहे न त्यजनं तनोः | इह यन्नाम सत्यामपि तनौ इन्द्रियसंमोहादिः, सोऽयं गौण्या वृत्त्या देहत्यजनशब्दवाच्यो मृतिभोग उच्यते, न तु साक्षादेव देहत्यागः, तदानीमपि अस्य स्फुटत्वेनैव अवस्थानात् || ननु यद्येवं तद्देहस्य साक्षात्त्यागः पुनः कदा स्यात्?--इत्याशङ्क्य आह--
SKयस्त्वसौ क्षण एवैकश्चरमः प्राणनात्मकः || २८-३२८ || यदनन्तरमेवैष देहः स्यात्काष्ठकुड्यवत् | सा देहत्यागकालांशकला देहवियोगिनी || २८-३२९ || तत एव हि तद्देहसुखदुःखादिकोज्झिता | तस्यां यदेव स्मरति प्राक्संस्कारप्रबोधतः || २८-३३० || अदृष्टाभ्यासभूयस्त्वशक्तिपातादिहेतुकात् | तदेव रूपमभ्येति सुखिदुःखिविमूढकम् || २८-३३१ || यः पुनरयमेक एव एतदनन्तरं क्षणान्तरस्य अनुदयादसहायः, अत एव चरमः, अत एव प्राणापानादिविभागस्य त्रुटितत्वात्प्राणनात्मकस्तावत्संकुचितसंवित्स्वभावः क्षणो यदानन्तर्येणैव च देहस्य काष्ठलोष्टादिप्रमेयान्तरसमानकक्ष्यत्वमभिलक्ष्यते, सा साक्षात् देहत्यजनशब्दवाच्या सर्वजनसंलक्षणीया कालांशस्यापि अंशरूपा कला तद्दार्ढ्यबन्धप्रच्यावात् देहवियोगिनी, अत एव तन्नि बन्धनसुखादिकोज्झिता संकुचितसंविन्मात्ररूपा--इत्यर्थः | तस्यामेव च अन्त्यक्षणदशायां अदृष्टादिहेतुबलोपनतात् प्राक्संस्कारस्य प्रबोधात् यदेव सत्त्वादिप्रधानं किञ्चिद्देहान्तरासङ्गि स्मरति, तदेव अस्य प्रथमसंविदनुगृहीतं रूपं संपद्यते-- इत्यर्थः || ३३१ || एवमेतदज्ञविषयमभिधाय स्वभ्यस्तास्वभ्यस्तज्ञानिविषयतयापि अभिधत्ते-- यद्वा निःसुखदुःखादि यदि वानन्दरूपकम् | निःसुखदुःखादीति--विश्वोत्तीर्णसंविद्रूपम्--इत्यर्थः | आनन्दरूपकमिति पूर्णपरब्रह्मात्मकम्--इत्यर्थः | यदुक्तम्-- ङ दुःखं न सुखं यत्र न ग्राह्यं ग्राहकं न च | न चास्ति मूढभावोऽपि तदस्ति परमार्थतः ||᳚ (स्प.का. १|५) इति | ᳚आनन्दो ब्रह्मणो रूपम् |᳚ इति च || ननु स्मरणमात्रादेव अस्य कस्मादेवंरूपत्वापत्तिः स्यात् ?-- इत्याशङ्क्य प्रतिविधत्ते तदेवेत्यादिना-- कस्मादेति तदेवैष यतः स्मरति संविदि || २८-३३२ || इह अन्त्ये क्षणे हि अभ्यासभूयस्त्वादिना येनैव रूपेण अग्रे भवितव्यं तत्संस्कारस्यैव प्रबोधेन भाव्यम्, तद्वशात्तत्स्मरणं तत्स्मृत्या च तद्भावप्राप्तिर् इति || ३३२ ||
SKननु नित्याविलुप्तस्वरूपायाः संविदस्तावन्नास्ति प्रलीनत्वं तदधिष्ठेयत्वमेव देहत्वं तच्च नीलपीतादिभिरपि अविशिष्टं तत् कथमेवं देहस्यैव प्रलीनत्वमुच्यमानं सङ्गच्छतां येन स्मृत्यादिचिन्तापि स्यात् ?--इत्याशङ्क्य आह-- प्राक् प्रस्फुरेद्यदधिकं देहोऽसौ चिदधिष्ठितेः | इह यत् नीलाद्यपेक्षया प्रथमतरं चिदधिष्ठानवशात् सम्यगनधिकवृत्तित्वेऽपि दर्पणप्रतिबिंबवदधिकतया स्फुरति असौ देहः प्रमातृदशामधिशयानस्तच्छब्दव्यपदेश्यः स्यात्--इत्यर्थः || ननु एतावता प्रलीनतार्थः कः?--इत्याशङ्क्य आह-- यदेव प्रागधिष्ठानं चिता तादात्म्यवृत्तितः || २८-३३३ || सैवात्र लीनता प्रोक्ता सत्त्वे रजसि तामसे | यदेव हि चिता प्रागस्याधिष्ठानं सैव अत्र सत्त्वादि अधिकृत्य लीनता प्रोक्ता, किं नाम असमञ्जसमस्याः--इत्यर्थः | ननु इह निखिलमेव भावजातं चिदधिष्ठानवशात्सत्तामुपेयात्, अन्यथा हि न किञ्चिदपि चेत्येत, अतश्चिदधिष्ठानत्वमेव चेत् प्रलीनत्वम्, को विशेषो जीवनमरणयोः ?--इत्याशङ्क्य उक्तम्--तादात्म्यवृत्तित इति | इह देहादीनां संवित्तादात्म्यवृत्तित्वेऽपि तत्स्वातन्त्र्यादेव तदनात्मवृत्तितयेव आधिक्येन प्रस्फुरणं जीवनम्, अन्यथा तु प्रलीनत्वादिशब्दव्यपदेश्यं मरणम्--इति तात्पर्यार्थः || ननु आस्तामेतत्, देहस्य पुनः चिता नीलाद्यपेक्षया प्रागधिष्ठानमित्यत्र किं निबन्धनम् ?--इत्याशङ्क्य आह� नीलपीतादिके ज्ञेये यतः प्राक्कल्पितां तनुम् || २८-३३४ || अधिष्ठायैव संवित्तिरधिष्ठानं करोत्यलम् | अत एव संविदधिष्ठेयत्वाविशेषेऽपि नीलादिभ्योऽस्ति देहस्य विशेषः--इत्याह-- अतोऽधिष्ठेयमात्रस्य शरीरत्वेऽपि कुड्यतः || २८-३३५ || देहस्यास्ति विशेषो यत्सर्वाधिष्ठेयपूर्वता | ननु एवमपि संविदधिष्ठेयत्वाविशेषात् नीलादीनामपि कथं न प्रलीनत्वं प्रोक्तम् ?--इत्याशङ्क्य आह-- तादात्म्यवृत्तिरन्येषां तन्न सत्यपि वेद्यते || २८-३३६ || वेद्यानां किन्तु देहस्य नित्याव्यभिचरित्वतः |
SKतत् तस्मात् देहस्य चिता प्रागधिष्ठेयत्वादेर्हेतोरन्येषां नीलादीनां वेद्यानां संभवन्ती अपि वेदयितृस्वभावायां संविदि तादात्म्यवृत्तिर्न अनुभूयते तेषामिदन्तया परामर्शात् | देहस्य पुनर्वेद्यत्वेऽपि सा सर्वकालमव्यभिचारिणी अहन्तापरामर्शसहिष्णुतया प्रमातृरूपस्य अविच्युतेः || एवंरूपतायां च अत्र किं निमित्तम्?--इत्याशङ्क्य आह-- सा च तस्यैव देहस्य पूर्वमृत्यन्तजन्मना || २८-३३७ || स्मृत्या प्राच्यानुभवनकृतसंस्कारचित्रया | सेति--तादात्म्यवृत्तिः | तथात्वे हि पूर्वशरीरप्रायणान्त्ये क्षणे प्रागनुभवाहितसंस्कारसमुत्थं तस्य नित्याव्यभिचरितसंविद्रूपस्य देहस्यैव स्मरणं निमित्तम् | येनैव हि वस्तुना सदा भावितान्तःकरणः, तदेव मरणसमये स्मरति, तद्भावमेव च प्राप्नोतीति | अत एव ᳚...............टदेवैष यतः स्मरति संविदि |᳚ (३३२) इति अनन्तरमेव उक्तम् || अत एव अस्मद्गुरुभिरपि युक्तमेवोक्तम्--इत्याह-- युक्त्यानयास्मत्सन्तानगुरुणा कल्लटेन यत् || २८-३३८ || देहाविशेषे प्राणाख्यदार्ढ्यं हेतुरुदीरितम् | तद्युक्तमन्यथा प्राणदार्ढ्ये को हेतुरेकतः || २८-३३९ || देहत्वस्याविशेषेऽपीत्येष प्रश्नो न शाम्यति | यन्नाम श्रीमत्कल्लटपादैः ᳚देहनीलादीनां सर्वशरीरग्रहणम् |᳚ इत्याद्युक्त्या शरीरत्वाविशेषेऽपि देह एव तथात्वनिबन्धनम् ᳚प्राणाख्यनिमित्तदार्ढ्यम् |᳚ इत्याद्युक्त्या प्राणदार्ढ्यं निमित्तमुक्तं तदनया समनन्तरोक्त्या ᳚प्राक्संवित्प्राणे परिणता |᳚ इत्यादिसूत्रितया सर्वाधिष्ठेयपूर्वत्वादिलक्षणया युक्त्या न्याय्यम् | अन्यथा हि अविशेषेऽपि एकत्र प्राणदार्ढ्ये को हेतुरित्येष दुरुद्धर एव प्रश्नः स्यात् || ननु अस्तु अन्त्ये क्षणे स्मरणं भाविदेहहेतुत्वं तु तस्य कुतोऽवगतम्?--इत्याशङ्क्य आह-- स्मरन्निति शता हेतौ तद्रूपं प्रतिपद्यते || २८-३४० || ननु यदि यदेव स्मर्यते तदेव प्राप्यते, तर्हि तत्क्षणभावि नीलादिस्मरणमपि तथात्वनिबन्धनं स्यात् ?--इत्याशङ्क्य आह-- प्राक् स्मर्यते यतो देहः प्राक्चिताधिष्ठितः स्फुरन् |
SKतद्देहाख्यमेव प्राग्भाविरूपमसौ प्राप्नोति यदन्त्यक्षणे देह एव प्राक् नीलादिभ्यः पूर्वचिता अधिष्ठितः, अत एव स्फुरन् स्मर्यते स्मृतिविषयतामुपेयात्--इत्यर्थः || ननु तदा एवंविधस्य स्मरणस्य सद्भावे किं प्रमाणम्?--इत्याशङ्क्य आह-- अतः स्मरणमन्त्यं यत्तदसर्वज्ञमातृषु || २८-३४१ || न जातु गोचरो यस्माद्देहान्तरविनिश्चयः | अतो देहवियोगावस्थावस्थानात् देहान्तरासङ्गि यदेवंविधं स्मरणम्, तदसर्वज्ञमातृषु न गोचरो देहसंबन्धघटनेन अस्य प्रतिपादनवैफल्यादर्वाग्दृशः परे तत्कथमवबुद्ध्यन्ताम्-- इत्यर्थः | ननु किमिदमनुभवविरुद्धमभिधानं यदन्त्येऽपि क्षणे बन्धुप्रभृतेः शिशिरोदकपानादेर्वा दृश्यत एव स्मरणमिति ?--इत्याशङ्क्य आह-- यत्तु बन्धुप्रियापुत्रपानादिस्मरणं स्फुटम् || २८-३४२ || न तद्देहान्तरासङ्गि न तदन्त्यं यतो भवेत् | न तदन्त्यमिति अपितु उपान्त्यक्षणवर्ती मृतिभोगोऽयम्--इति भावः || ननु स्मरणमिव अनुभवोऽपि भाविदेहान्तरासङ्गे निमित्ततां यायात्; तथाहि--कश्चिन्मुनिः स्वसुतनिर्विशेषतया वर्धितं विपन्नजननीकमाश्रममृगपोतकं शवरशराघातविगतजीवितमवलोक्य महता दुःखेन तमेवानुशोचन् प्राणैर्विमुक्तो मृगीभावमभ्युवाहेति पुराविदः, तत् स्मरणस्यैव कथमेवंभाव उक्तः ?--इत्याशङ्क्य आह-- कस्यापि तु शरीरान्ते वासना या प्रभोत्स्यते || २८-३४३ || देहसत्त्वे तदौचित्याज्जायेतानुभवः स्फुटः | यथा पुराणे कथितं मृगपोतकतृष्णया || २८-३४४ || मुनिः कोऽपि मृगीभावमभ्युवाहाधिवासितः | इह यस्य कस्यचन यैव अनेकजन्माभ्यस्ता वासना शरीरान्ते प्रभोत्स्यते देहान्तरासङ्गनिमित्तं स्मरणरूपतया प्रबोधमेष्यति, तदनुगुणोऽस्य देहसद्भावेऽपि स्फुटोऽनुभवो भवेत्, यदभिप्रायेणैव विष्णुपुराणादौ मृगपोतकतृष्णया अधिवासितः कोऽपि मुनिर्मृगीभावमभ्युवाहेति आख्यानम् || एतदेव विविनक्ति-- तत्र सोऽनुभवो हेतुर्न जन्मान्तरसूतये || २८-३४५ || तस्यैतद्वासना हेतुः काकतालीयवत् स तु |
SKतस्येति जन्मान्तरस्य | एतद्वासनेति--शरीरान्ते प्रभोत्स्यमाना | स-- इत्यनुभवः || ननु यदि मृगीभावस्मरणमेव तद्देहासङ्गे निमित्तं तदवश्यं तत्पूर्वकत्वात् स्मरणस्य अनुभवोऽपि जन्मान्तरसूतये हेतुर्वाच्यः, अनुभवाहितविषयनियन्त्रणाविरहे हि यत्किञ्चन स्मर्येत नियमस्तु कुतस्त्यः ?--इत्याशङ्कते-- ननु कस्मात्तदेवैष स्मरति इत्याह-यत्सदा || २८-३४६ || अनुभवं विनापि भावनाद्वारं स्मृतेर्विषयनियमं दर्शयितुमाह-- तद्भावभावितस्तेन तदेवैष स्मरत्यलम् | यत् यस्मादेष सदा तद्भावभावितः, ततस्तदेव पर्याप्तं स्मरति�इति भगवानाह, कथितवान्--इत्यर्थः || ननु तद्भावभावनमपि अनुभव एव अभिहितो भवेत् ?--इत्याशङ्क्य आह- - एवमस्मि भविष्यामीत्येष तद्भाव उच्यते || २८-३४७ || ननु भविष्यद्विषयैव वासना भवेदिति कुतस्त्योऽयं नियमः?-- इत्याशङ्क्य आह-- भविष्यतो हि भवनं भाव्यते न सतः क्वचित् | न सत इति--भूतस्य हि अनुभवनमेव भवेत्, न भावनम्--इति भावः || तदेव व्यनक्ति-- क्रमात्स्फुटत्वकरणं भावनं परिकीर्त्यते || २८-३४८ || स्फुटस्य चानुभवनं न भावनमिदं स्फुटम् | ननु गाढमूढतया क्षणमपि भावनावकाशो येषां नास्ति तेषामन्त्यस्मरणाभावात् कथङ्कारं देहान्तरासङ्गः स्यात् ?-- इत्याशङ्क्य आह-- तदहर्जातबालस्य पशोः कीटस्य वा तरोः || २८-३४९ || मूढत्वेऽपि तदानीं प्राग्भावना ह्यभवत्स्फुटा | सा तन्मूढशरीरान्ते संस्कारप्रतिबोधनात् || २८-३५० || स्मृतिद्वारेण तद्देहवैचित्र्यफलदायिनी | तदहर्जातबालादीनां हि तदानीं मूढत्वेऽपि प्राग्जन्मनि सतताभ्यस्ततया स्फुटा भावना नूनमभवत्, अतस्तस्य प्रक्रान्तस्य मूढशरीरस्य अन्ते संस्कारप्रबोधोन्मिषितस्मरणद्वारेण सा भावना यथोचितदेहवैचित्र्यफलदायिनी भवेत्--इति वाक्यार्थः ||
SKनन्वत्र कथङ्कारं शरीरान्तरावस्थितत्वात् दूरव्यवहिता वासना प्रबोधमियात् येन तदुत्थायाः स्मृतेरपि तद्देहवैचित्र्यफलदायित्वं स्यात् ?--इत्याशङ्क्य आह-- देशादिव्यवधानेऽपि वासनानामुदीरितात् || २८-३५१ || आनन्तर्यैकरूपत्वात्स्मृतिसंस्कारयोरतः | तथानुभवनारूढ्या स्फुटस्यापि तु भाविता || २८-३५२ || भाव्यमाना न किं सूते तत्सन्तानसदृग्वपुः | इह देशकालव्यवधानेऽपि वासनानां ᳚देशकालव्यवहितानामप्यानन्तर्यम् |᳚ (यो. सू. ४|९) इत्यादिना उदीरितादानन्तर्यैकरूपत्वादवश्यं प्रबोधेन भाव्यम्, तद्वशाच्च स्मरणेनेति स्मृतिसंस्कारयोस्तत्तद्देहवैचित्र्यफलदायित्वं युक्तमेवोक्तम् | एवं तथानुभवेऽपि भावनैव प्रधानम्--इत्याह--अत इत्यादि | अतः एवमुक्ताद्भावनानुभवयोर्विभागात् हेतोः, तथा भावनोचितेन रूपेण अनुभवस्य दार्ढ्येन प्ररोहात्, स्फुटस्यापि वस्तुनो भविष्यत्ता पुनर्भाव्यमानैव भवेत् न अनुभूयमाना, भूतविषयत्वादनुभवस्य | सा च एवंविधा भाव्यमाना भविष्यत्ता स्वसन्तानानुगुणमेव देहान्तरं किं न सूते, नात्र काचिद्विप्रतिपत्तिः--इत्यर्थः || ननु यदि नाम अस्य भावनामात्रोपनत एव देहान्तरोदयः, तत् किं नाम शोकादिवत् भावयित्रेकगोचर एव असौ स्यात्, उत सर्वजनसंवेद्योऽपि?--इत्याशङ्क्य आह-- तत्तादृक्तादृशैर्बन्धुपुत्रमित्रादिभिः सह || २८-३५३ || भासतेऽपि परे लोके स्वप्नवद्वासनाक्रमात् | तत्तादृक् भावनोचितं तद्वपुर्वासनाक्रमात् स्वप्नवत् जन्मान्तरे तादृशैः प्राप्ततद्रूपानुगुणैरेव बन्ध्वादिभिः सहापि भासते सर्वजनसंवेद्यं स्यात्--इत्यर्थः || ननु विषमोऽयं दृष्टान्तः, स्वप्नेऽपि भासमाना अपि बन्ध्वादयस्तद्वृत्तान्तानभिज्ञा एव--इत्याह-- ननु मात्रन्तरैर्बन्धुपुत्राद्यैस्तत्तथा न किम् || २८-३५४ || वेद्यते........ तदिति--स्वाप्नं वस्तु | तथेति--स्वप्नद्रष्ट्टवत्-- इत्यर्थः | न किं वेद्यते इति--नैव ज्ञायते इति यावत् || अत्र आह-- ......क इदं प्राह स तावद्वेद वेद्यताम् |
SKननु क एवं वक्ति स स्वप्नद्रष्टा तावत् स्वाप्नस्य वस्तुनः सर्वजनवेद्यतां वेत्ति, ते तु विदन्तु मा वा विदन्निति || ननु स्वप्ने देशकालादिव्यवहितत्वादसहिता एव बन्ध्वादय इति कथमसौ तद्वेद्यतामपि जानीयात् यद्वा भ्रन्तिमात्रमेतत् | ननु तत्र भासन्ते चेत् बन्ध्वादयः, कथमसन्निहिताः | नहि भातमभातं भवेत् | एवं हि जाग्रत्यपि तेषामसन्निधिरेव स्यात् | अथ तत्र व्यापारव्याहारादेर्दर्शनात्तत्सद्भावे बलवदनुमानं प्रमाणमस्तीति चेत्, इहापि तत्समानम्--इत्याह-- व्यापारव्याहृतिव्रातवेद्ये मात्रन्तरव्रजे || २८-३५५ || स्वप्ने नास्ति स इत्येषा वाक्प्रमाणविवर्जिता | स इति--मात्रन्तरव्रजः | प्रमाणाविवर्जितेति--नहि तत्र तदसद्भावावेदकं किञ्चित्प्रमाणमस्ति--इत्याशयः | भ्रन्तित्वेऽपि स्वप्नस्य जाग्रदविशेष एव | जाग्रदपि भ्रन्तिरेवेत्यत्र सर्वे कृतश्रमा इत्यलम् || ननु एवमपि जाग्रत्स्वप्नयोर्दार्ढ्यादार्ढ्याभ्यां सत्यत्वमसत्यत्वं च सर्वत्र प्रसिद्धं कथमपह्नोतुं शक्यम् ?--इत्याशङ्क्य आह-- य एवैते तु दृश्यन्ते जाग्रत्येते मयेक्षिताः || २८-३५६ || स्वप्न इत्यस्तु मिथ्यैतत्तत्प्रमातृवचोबलात् | इत्येतदिति--एकत्वेन अभिमननम्--इत्यर्थः | तत्प्रमातृवचोबलादिति--ते हि जाग्रत्प्रमातारो मत्समक्षं ह्यः स्वप्ने भवद्भिः किं दृष्टमिति पृष्टा नेत्येव परं ब्रूयुरिति || ननु स्वप्ने तावत् बन्ध्वादयः केचित्, नहि अस्य ते द्वये सम्भवन्ति ?-- इत्याशङ्क्य आह-- यानपश्यमहं स्वप्ने प्रमातंस्ते न केचन || २८-३५७ || न शोचन्ति न चेक्षन्ते मामित्यत्रास्ति का प्रमा | ये हि बन्ध्वादयः प्रमातारः स्वप्ने दृश्यन्ते ते न केचनेत्यत्र का प्रमा तदसद्भावावेदकं किञ्चित्प्रमाणं नास्ति--इत्यर्थः, प्रत्युत तत्सत्तावेदकमनुमानमत्रोक्तम् ते च न मां शोचन्ति नेक्षन्ते चेत्यनेनार्थक्रियाकारिणोऽपि--इत्यावेदितम् || ननु अनुमानं प्रमाणम्, तच्च प्रमेयोपसर्जनम्, प्रमेयं च अत्र प्रमात्रन्तरलक्षणं नास्त्येवेति किमालम्बनं तदुदियात् ?-- इत्याशङ्क्य आह--
SKयतः सर्वानुमानानां स्वसंवेदननिष्ठितौ || २८-३५८ || प्रमात्रन्तरसद्भावः संविन्निष्ठो न तद्गतः | इह यतः शंविन्निष्ठा हि विषयव्यवस्थितिः |᳚ इत्यादिनीत्या सर्वानुमानानामर्थातिशयाधानाभावात् प्रमातर्येव फलवत्त्वात् तत्संविदुपारोहेणैव विश्रान्तिरिति प्रमीयमाणानां प्रमात्रन्तराणां सद्भावोऽपि अत्र तन्निष्ठ एव, न तु अनुमेयस्वरूपनिष्ठ इति किं तत्सत्त्वासत्त्वान्वेषणेन | एतच्च अन्यत्र अन्यैर्बहुशो वितानितमिति किमिह अप्राकरणिकप्रायेण अनेनेति आस्ताम् || न केवलमानुमानिक्येव प्रतीतिरेवम्, यावत् प्रात्यक्षी अपि--इत्याह-- घटादेरस्तिता संविन्निष्ठिता न तु तद्गता || २८-३५९ || तद्वन्मात्रन्तरेऽप्येषा संविन्निष्ठा न तद्गता | एतदनुमेयेऽपि अर्थे योजयति--तद्वदित्यादिना | एषेति--अस्तिता || यथाव्याख्यातमेव प्रशमयति-- तेन स्थितमिदं यद्यद्भाव्यते तत्तदेव हि || २८-३६० || देहान्ते बुध्यते नो चेत् स्यादन्यादृक्प्रबोधनम् | अन्यादृगिति--अनियतमेव--इत्यर्थः || भावनापेक्षामेव उपोद्बलयति-- तथाह्यन्त्यक्षणे ब्रह्मविद्याकर्णनसंस्कृतः || २८-३६१ || मुच्यते जन्तुरित्युक्तं प्राक्संस्कारबलत्वतः | असद्विषयायां सदातनायां भावनायां असद्गतिरेव भवति, तदपहस्तनाय सद्विषयायां च भावनायां अबलवत्यामपि बलवत्त्वापादनार्थम् ᳚अचिन्त्या मन्त्रशक्तिर्वै परमेशमुखोद्भवा |᳚ इत्याद्युक्त्या महाप्रभावाणां ब्रह्मविद्यानामन्त्ये क्षणे संस्कारार्थं भगवता उपदेशः कृतो येन अस्य मुक्तिरेव स्यात् || न च एतदशब्दार्थमेव उक्तम्--इत्याह-- निपाताभ्यामन्तशब्दात्स्मरणाच्छतुरन्त्यतः || २८-३६२ || पादाच्च निखिलादर्धश्लोकाच्च समनन्तरात् | लीन(य)शब्दाच्च सर्वं तदुक्तमर्थसतत्त्वकम् || २८-३६३ ||
SKतत्र ᳚वा᳚शब्दो वृक्षादीनां जन्मान्तरव्यवहितभावनोपक्षेपं द्योतयति, ᳚अपि᳚ शब्दश्च बलवत्त्वेऽप्यनुभवस्य अनवकॢप्तिम् | अन्तशब्दादिति--᳚अन्त᳚शब्द उपान्त्यादिक्षणव्यावर्तनपरः | स्मरणादिति--प्रकृतिरूपात् | शतुरिति--प्रत्ययरूपात् | अन्त्यतः पादादिति-- ᳚.......................षदा तद्भावभावितः |᳚ (८|६) इति | निखिलादिति--काकाक्षिवत् | अर्धश्लोकादिति-- ᳚तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च |᳚ (८|७) इति | अनेन हि सदैव सद्विषया भावना कार्या--इत्युक्तम् | लीने(ये)ति-- ᳚प्रलीन᳚ (य)शब्दगतात् | अनेन विभाव्यमानार्थैकतानत्वमुपोद्बलितम् || ३६३ || एतदर्थानभिज्ञैः पुनरेतदन्यथा व्याख्यायि--इत्याह-- अज्ञात्वैतत्तु सर्वेऽपि कुशकाशावलम्बिनः | यत्तदोर्व्यत्ययं केचित्केचिदन्यादृशं क्रमम् || २८-३६४ || भिन्नक्रमौ निपातौ च त्यजतीति च सप्तमीम् | व्याचक्षते तच्च सर्वं नोपयोग्युक्तयोजने || २८-३६५ || यत्तदोर्व्यत्ययमिति--यं यं भावमेति तं तं स्मरन्निति | अन्यादृशमिति--पाठत एव | भिन्नक्रमाविति--स्मरन्वापीति | सप्तमीति--अन्त्ये क्षणे कलेवरं त्यजति सतीति || ३६५ || ननु एवंविधं व्याख्यानमनूद्य, कस्मान्न दूषितम् ?--इत्याशङ्क्य आह-- न च तद्दर्शितं मिथ्या स्वान्तसम्मोहदायकम् | ननु किमियता स्वोत्पेर्क्षितेन मृतिसतत्त्वपरीक्षणेन ?--इत्याशङ्क्य आह-- तदित्थंप्रायणस्यैतत्तत्त्वं श्रीशम्भुनाथतः || २८-३६६ || अधिगम्योदितं तेन मृत्योर्भीतिर्विनश्यति | ननु कथं मृतिसतत्त्ववचनमात्रेण तद्भीतिः शाम्येत् ?-- इत्याशङ्क्य आह-- विदितमृतिसतत्त्वाः संविदम्भोनिधानाद् दचलहृदयवीर्याकर्षनिष्पीडनोत्थम् | अमृतमिति निगीर्णे कालकूटेऽत्र देवा यदि पिबथ तदानीं निश्चितं वः शिवत्वम् || २८-३६७ ||
SKएवमियत्तया तुलितमरणसतत्त्वा देवा मायाध्वनि व्यवहरन्तः परिमिताः प्रमातारः, स्वभावभूतत्वात् नित्याव्यभिचारिणः पराहंपरामर्शात्मनो वीर्यस्य परधाराधिरोहितया आकर्षणेन यन्निष्पीडनम् सारतया स्वीकारः, स्तद्वशेन संविदब्धेरुत्थितं यदमृतम् परानन्दचमत्कारमयं पूर्णत्वम्, तद्बुद्ध्या कालस्तत्तत्कलनाकारी समनान्तः पाशप्रपञ्चः, स एव अख्यातिरूपतया सत्यविपर्ययात्मा कूटस्तस्मिन्निगीर्णे स्वात्मसंवित्सात्कारेण पूर्णख्यातिमयतामापादिते, यदि अत्रैव मुक्तात्मनि अमृते पिबथ पानक्रियामारभध्वे, तत् नूनं तदानीमेव वः पूर्णसंविन्मयत्वं स्यात् किमनेन पुनः पुनरमृतपानेन-- इत्यर्थः | इदमत्र तात्पर्यम् --यदनवरतमेव संविदद्वैतमभ्यस्यतः प्रायणान्ते तदैकात्म्यापत्तिरेव स्यादिति को नाम महात्मनो मरणभयस्य अवकाश इति | अथ च मर्त्यभुवमवतीर्य वर्तमाना देवाः समुद्रान्मन्दरोदराकर्षणेन स्ववीर्यनिष्पीडनेन च उत्थितमिदममृतमेवेति सङ्कल्पेन कालकूटे भक्षिते यदि अमृतपानं कुरुध्वे, तन्निश्चितं तदानीं निगीर्णदुर्विषहविषेण शिवेनैव भगवता वस्तुल्यत्वं स्यादिति ||३६७ || एवं प्रसङ्गान्मरणस्वरूपमभिधाय, प्रकृतमेव आह-- उत्सवोऽपि हि यः कश्चिल्लौकिकः सोऽपि संमदम् | संविदब्धितरङ्गाभं सूते तदपि पर्ववत् || २८-३६८ || एतेन च विपद्ध्वंसप्रमोदादिषु पर्वता | व्याख्याता तेन तत्रापि विशेषाद्देवतार्चनम् || २८-३६९ || पुरक्षोभाद्यद्भुतं यत्तत्स्वातन्त्र्ये स्वसंविदः | दार्ढ्यदायीति तल्लाभदिने वैशेषिकार्चनम् || २८-३७० || संमदं सूते इति--स्वात्मविश्रान्त्युत्पादात् | तदपीति--अपिशब्दस्य न केवलं मृतिदिनं पर्ववद्भवेत्, यावदिदमपि- -इत्यर्थः | एतेनेति--संमदप्रसूतिलक्षणेन समानन्यायत्वेन हेतुना--इत्यर्थः | तल्लाभेति�तच्छब्देन संवित्स्वातन्त्र्यपरामर्शः || इदानीं मृतिपरीक्षानन्तरोद्दिष्टं योगिनीमेलकादि निर्देष्टुमाह-- योगिनीमेलको द्वेधा हठतः प्रियतस्तथा |
SKप्राच्ये च्छिद्राणि संरक्षेत्कामचारित्वमुत्तरे || २८-३७१ || स च द्वयोऽपि मन्त्रोद्धृत्प्रसङ्गे दर्शयिष्यते | प्राच्ये इति--हठमेलापे | उत्तरे इति--प्रियमेलापे | कामचारित्वं छिद्ररक्षणं वा न वेति, एतच्च हठप्रियशब्दाभ्यामेव गतार्थम् | द्वय इति--द्व्यवयवे--इत्यर्थः | मन्त्रोद्धृत्प्रसङ्गे इति--त्रिंशाह्निके || ननु भवत्वेवम्, नैमित्तिकत्वं तु अस्य कुतस्त्यम् ?--इत्याशङ्क्य आह-- योगिनीमेलकाच्चैषोऽवश्यं ज्ञानं प्रपद्यते || २८-३७२ || तेन तत्पर्व तद्वच्च स्वसन्तानादिमेलनम् | तेनेति--अवश्यंभाविना ज्ञानलाभेन | तद्वदिति--योगिनीमेलकवत् || ननु योगिनीमेलकादवश्यमेष ज्ञानमाप्नोतीति अवश्यतायां किं प्रमाणम्?--इत्याशङ्क्य आह-- संवित्सर्वात्मिका देहभेदाद्या सङ्कुचेत्तु सा || २८-३७३ || मेलकेऽन्योन्यसङ्घट्टप्रतिबिम्बाद्विकस्वरा | इह सर्वात्मकत्वेऽपि या संविद्देहभेदात् सङ्कोचप्राप्ता, सा मेलके सति अन्योन्यस्य सङ्घट्टेन प्रतिबिम्बात्परस्परं प्रतिसंक्रमणेन विकस्वरा सङ्कोचापहस्तनेन पूर्णा भवति--इत्यर्थः || ननु कथमेतावतैव अस्यां विकस्वरत्वं स्यात् ?--इत्याशङ्क्य आह-- उच्छलन्निजरश्म्योघः संवित्सु प्रतिबिम्बितः || २८-३७४ || बहुदर्पणवद्दीप्तः सर्वायेताप्ययत्नतः | यस्य कस्यचन बहिः प्रसरन्निन्द्रियमरीचिपुञ्जः तास्वेव अनेकदर्पणप्रख्यासु योगिन्यादिसम्बन्धिनीषु संवित्सु प्रतिबिम्बितत्वात् दीप्तः सर्वतो विकासमासादयन् यत्नं विनापि सर्वायेत सर्वाकारतां यायात्--इत्यर्थः || सर्वाकारत्वमेव च अस्याः परानन्दनिर्भरं पूर्णं रूपम्--इत्याह-- अत एव गीतगीतप्रभृतौ बहुपर्षदि || २८-३७५ || यः सर्वतन्मयीभावे ह्लादो नत्वेककस्य सः | अत इति--सर्वाकारत्वादेव अस्याः | सर्वतन्मयीभाव इति--तावत्यंशे सर्वेषां भेदविगलनात् || ननु ᳚प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च |᳚ इत्यादिनीत्या प्रत्येकमपि आनन्दनिर्भरैव संविदिति किं सर्वतन्मयीभावेन?--इत्याशङ्क्य आह--
SKआनन्दनिर्भरा संवित्प्रत्येकं सा तथैकताम् || २८-३७६ || नृत्तादौ विषये प्राप्ता पूर्णानन्दत्वमश्नुते | ननु एवमपि देहसङ्कोचाद्यविगलनात् कथमेषां पूर्णानन्दमयत्वं स्यात्?--इत्याशङ्क्य आह-- ईर्ष्यासूयादिसङ्कोचकारणाभावतोऽत्र सा || २८-३७७ || विकस्वरा निष्प्रतिघं संविदानन्दयोगिनी | येषां पुनरीर्ष्यादिसङ्कोचाभावो नास्ति, तेषां किं संविन्मयीभावो भवेन्न वा?--इत्याशङ्क्य आह-- अतन्मये तु कस्मिंश्चित्तत्रस्थे प्रतिहन्यते || २८-३७८ || स्थपुटस्पर्शवत्संविद्विजातीयतया स्थिते | अतन्मये इति--संविन्मयतामनापन्ने--इत्यर्थः | अत एव उक्तम्-- विजातीयतया स्थिते इति | स्थपुटस्पर्शवदिति--यथाहि निम्नोन्नतवस्तुनि निम्ने स्पर्शस्य प्रतिघातो भवेत्, तथा अत्रापि संविदः--इत्यर्थः || एवमेवंविधस्य मेलकादौ प्रवेश एव न दातव्यः--इत्याह-- अतश्चक्रार्चनाद्येषु विजातीयमतन्मयम् || २८-३७९ || नैव प्रवेशयेत्संवित्सङ्कोचननिबन्धनम् | प्रवेशाभावे संवित्सङ्कोचनिबन्धनत्वं हेतुः || एवं मेलकादावतन्मयस्य प्रवेशनिषेधात् तत्प्रवेशाभ्यनुज्ञानेऽपि विशेषावद्योतनाय तन्मया एव अत्र प्रवेशनीयाः--इत्याह-- यावन्त्येव शरीराणि स्वाङ्गवत्स्युः सुनिर्भराम् || २८-३८० || एकां संविदमाविश्य चक्रे तावन्ति पूजयेत् | शरीराणीत्यनेन शरीरिणामत्र वस्तुतः कश्चिद्भेदो नास्तीति सूचितम् | अत एव उक्तम्--एकां सुनिर्भरां संविदमाविश्येति स्वाङ्गवदिति च || ननु यदि नाम मेलकादावतन्मयः कश्चित्प्रमादात् प्रविष्टः, तदा किं प्रतिपत्तव्यम् ?--इत्याशङ्क्य आह-- प्रविष्टश्चेत्प्रमादेन सङ्कोचं न व्रजेत्ततः || २८-३८१ || प्रस्तुतं स्वसमाचारं तेन साकं समाचरेत् | एवमस्य कश्चिदुपकारः स्यान्न वा ?--इत्याशङ्क्य आह-- स त्वनुग्रहशक्त्या चेद्विद्धस्तत्तन्मयीभवेत् || २८-३८२ || वामाविद्धस्तु तन्निन्देत्पश्चात्तं घातयेदपि | तदिति--तत्रत्यं रहस्यचर्यादि | निन्देदिति--रिर्ष्यादिना | घातयेदिति-- एवं समयस्य आम्नानात् | यदुक्तम्-- शमयप्रतिभेत्तॄंस्तदनाचारांश्च घातयेत् |᳚
SKइति || न च एतदस्माभिः स्वोपज्ञमेवोक्तम्--इत्याह-- श्रीमत्पिचुमते चोक्तमादौ यत्नेन रक्षयेत् || २८-३८३ || प्रवेशं संप्रविष्टस्य न विचारं तु कारयेत् | एतच्च अतन्मयत्वेऽपि अधिकृतविषयं ज्ञेयम्, न अन्यथा--इत्याह-- लोकाचारस्थितो यस्तु प्रविष्टे तादृशे तु सः || २८-३८४ || अकृत्वा तं समाचारं पुनश्चक्रं प्रपूजयेत् | तादृशे इति--लोकाचारस्थिते | स इति--चक्राद्यर्चयिता | तमिति-- मेलकादावाम्नातम् | पुनरिति--तस्मिन्निर्गते, परेऽहनि वा || इदानीं क्रमप्राप्तं व्याख्याविधिं वक्तुं प्रतिजानीते-- अथ वच्मि गुरोः शास्त्रव्याख्याक्रममुदाहृतम् || २८-३८५ || देव्यायामलशास्त्रादौ तुहिनाभीशुमौलिना | तदेवाह-- कल्पवित्तत्समूहज्ञः शास्त्रवित्संहितार्थवित् || २८-३८६ || सर्वशास्त्रार्थविच्चेति गुरुर्भिन्नोऽपदिश्यते | तत्समूहेति--अनियता बहवः कल्पाः | शास्त्रं प्रतिनियतानेककल्पात्मकम् | संहिता--चतुष्पादा | सर्वशास्त्रेति-- चतुर्दश विद्यास्थानानीति पञ्चधा भिन्नो गुरुरपदिश्यते श्रीदेव्यायामले कथ्यते--इत्यर्थः | यदुक्तं तत्र-- ᳚आचार्यं संप्रवक्ष्यामि सर्वशास्त्रविशारदम् | चतुष्पात्संहिताभिज्ञः कल्पस्कन्धे विशारदः || शास्त्रैकल्पैकदेशे वा आचारचरणक्षमः |᳚ इति || ननु एवं व्याख्यायां कस्य अधिकारः ?--इत्याशङ्क्य आह-- यो यत्र शास्त्रे स्वभ्यस्तज्ञानो व्याख्यां चरेत्तु सः || २८-३८७ || नान्यथा तदभावश्चेत्सर्वथा सोऽप्यथाचरेत् | नान्य इति--अस्वभ्यस्तज्ञानः | अथ चेत्सर्वथा स्वभ्यस्तज्ञानो गुरुर्न स्यात्, तदा सोऽपि अस्वभ्यस्तज्ञानो व्याख्यां चरेत्, नैवं कश्चिद्दोष--इत्यर्थः || न केवलमत्रैवोक्तं यावदन्यत्रापि--इत्याह-- श्रीभैरवकुले चोक्तं कल्पादिज्ञत्वमीदृशम् || २८-३८८ || ननु एवमपि स्वभ्यस्तज्ञानतायामेव गुरोः सर्वत्र कस्माद्भरः ?-- इत्याशङ्क्य आह-- गुरोर्लक्षणमेतावत्सम्पूर्णज्ञानतैव या | तत्रापि याऽस्य चिद्बृत्तिकर्मिभित् साप्यवान्तरा || २८-३८९ ||
SKननु एवं तर्हि कर्मित्वमस्य न स्यात्?--इत्याशङ्क्य आह--तत्रेत्यादि | सम्पूर्णज्ञानतायामपि योऽस्य गुरोर्ज्ञानित्वकर्मित्वादिलक्षणो भेदः सोऽप्यवान्तररूपः--इत्यर्थः | एतच्च श्रीदेव्या यामले एव उक्तम्-- इत्याह-- देव्यायामल उक्तं तद् द्वापञ्चाशह्व आह्निके | तदेव अर्थद्वारेण आह-- देव एव गुरुत्वेन तिष्ठासुर्दशधा भवेत् || २८-३९० || दशधात्वमेव दर्शयति-- उच्छुष्मशवरचण्डगुमतङ्गघोरान्तकोग्रहलहलकाः | क्रोधी हुलुहुलुरेते दश गुरवः शिवमयाः पूर्वे || २८-३९१ || ते स्वांशचित्तवृत्तिक्रमेण पौरुषशरीरमास्थाय | अन्योन्यभिन्नसंवित्क्रिया अपि ज्ञानपरिपूर्णाः || २८-३९२ || सर्वेऽलिमांसनिधुवनदीक्षार्चनशास्त्रसेवने निरताः | अभिमानशमक्रोधक्षमादिरवान्तरो भेदः || २८-३९३ || अन्तकः यमः | यदुक्तं तत्र-- ᳚दश रुद्रा महाभागास्तन्त्रे गुरुवराः स्मृताः | इत्युपक्रम्य ᳚जटामुकुटधारी च लिङ्गार्चनरतः सदा || मद्यमांसरतो नित्यं मन्त्रसेवादृढव्रतः | स्वशक्तिं रमयेच्चापि शास्त्राधीती च यत्नतः || उच्छुष्मांशसमुद्भूतो दैशिकः शास्त्रपारगः | शवरांशसमुद्भूतस्तत्त्वमार्गावलम्बकः || गुप्ताचारक्रियो नित्यं गुप्तदाराभिमैथुनी | क्रोधनोऽतिप्रचण्डश्च मद्यमांसरतः सदा || चण्डांश्वंशो गुरुश्चैव दीक्षानुग्रहकृत्सदा | क्षमी आमिषलौली च यज्ञे पशुनिपातकः || मतङ्गांशसमुद्भूतो गुरुः शास्त्रार्थवेदकः | अभिमानी क्रोधनश्च मैथुनाभिरतः सदा || सुगूढोऽत्यन्तदक्षश्च घोरांशश्च गुरुः स्मृतः | जपहोमक्रियासक्तं लिङ्गाद्यभ्यर्चने रतम् || यमांशं गुरवः प्राहुर्दीक्षाकर्मणि निष्ठुरम् | धातुवादरसादीनि ओषध्यादिरसायनम् || नित्यं सेवेत्सदा योगी शिष्यानुग्रहतत्परः | उग्रांशो गुरुभिः प्रोक्तो योऽसौ हलहलः स्मृतः || क्रोधः सर्वत्र जायेत मानी योगरतः सदा | मन्यते तृणवत्सर्वं मत्तुल्यं नास्ति मन्यते || दुराराधो जनैः सर्वैः कष्टसेव्य उपासिभिः | शिष्यानुग्रहकृन्नित्यं क्रोधिन्ॐऽशः प्रकीर्तितः ||
SKदीक्षाकर्मणि निष्णातो मद्यमांसाशनः सदा | कुले हुलहुले जातो दैशिकः परिकीर्तितः || दशैते गुरवः प्रोक्ताः स्वतत्त्वज्ञानगर्विताः | ये तदंशसमुद्भूतास्तत्स्वभावानुचारिणः || तैस्तु येऽनुगृहीतास्तु ते तदाचारवर्तिनः |᳚ इत्यादि बहुप्रकारम् | एतच्च ग्रन्थविस्तरभयात् यथोपयोगमुच्चित्य उच्चित्य लिखितमिति तत एव यथाशयमनुसर्तव्यम् || ३९३ || एवमेवंविधो गुरुर्व्याख्यार्थमभ्यर्थनीयः--इत्याह-- इत्थं विज्ञाय सदा शिष्यः सम्पूर्णशास्त्रबोद्धारम् | व्याख्यायै गुरुमभ्यर्थयेत पूजापुरःसरं मतिमान् || २८-३९४ || सोऽपि स्वशासनीये परशिष्येऽपि वापि तादृशं शास्त्रम् | श्रोतुं योग्ये कुर्याद् व्याख्यानं वैष्णवाद्यधरे || २८-३९५ || करुणारसपरिपूर्णो गुरुः पुनर्मर्मधामपरिवर्जम् | अधमेऽपि हि व्याकुर्यात्सम्भाव्य हि शक्तिपातवैचित्र्यम् || २८-३९६ || अनेन व्याख्याविध्यनुषक्तः श्रुतविधिरपि आसूत्रितः | सोऽपीति-- गुरुः करुणावशेन वैष्णवादावधमेऽपि व्याख्यां कुर्यात्, किन्तु मर्मस्थानं वर्जयित्वा यदसौ साक्षादनायातशक्तिपात इति || ३९६ || अत्रैव इतिकर्तव्यतामाह-- लिप्तायां भुवि पीठे चतुरस्रे पङ्कजत्रयं कजगे | कुर्याद्विद्यापीठं स्याद्रसवह्न्यंगुलं त्वेतत् || २८-३९७ || मध्ये वागीशानीं दक्षोत्तरयोर्गुरून्गणेशं च | अधरे कजे च कल्पेश्वरं प्रपूज्यार्घपुष्पतर्पणकैः || २८-३९८ || सामान्यविधिनियुक्तार्घपात्रयोगेन चक्रमथ सम्यक् | सन्तर्प्य व्याख्यानं कुर्यात्सम्बन्धपूर्वकं मतिमान् || २८-३९९ || कजगे इति--पीठविशेषणम्, तेन अधस्तनपीठान्तरस्थपद्मोपरिवर्तिनि--इत्यर्थः | यदुक्तम्� ᳚......................पीठाधः पद्ममालिखेत् |᳚ इति | रसवह्नीति षट्त्रिंशत् | मध्ये इति मध्यपद्मे | अधरे इति पीठाधोवर्तिनि | यदुक्तं तत्र-- ᳚......................ंअध्ये वागीशिपूजनम् |᳚ दक्षिणे गुरवः पद्मे उत्तरे तु गणेश्वरः | पीठाधो यद्भवेत्पद्मं कल्पेशं तत्र पूजयेत् ||᳚ इति || ३९९ ||
SKसम्बन्धपूर्वकत्वमेव दर्शयन् व्याख्यानशैलीं शिक्षयति-- सूत्रपदवाक्यपटलग्रन्थक्रमयोजनेन सम्बन्धात् | अव्याहतपूर्वापरमुपवृह्य नयेत वाक्यानि || २८-४०० || मण्डूकप्लवसिंहावलोकनाद्यैर्यथायथं न्यायैः | अविहतपूर्वापरकं शास्त्रार्थं योजयेदसङ्कीर्णम् || २८-४०१ || तन्त्रावर्तनबाधप्रसङ्गतर्कादिभिश्च सन्न्यायैः | वस्तु वदेद्वाक्यज्ञो वस्त्वन्तरतो विविक्ततां विदधत् || २८-४०२ || यद्यद् व्याहृतिपदवीमायाति तदेव दृढतरैर्न्यायैः | बलवत्कुर्याद्दूष्यं यद्यप्यग्रे भविष्यत्स्यात् || २८-४०३ || पदेति--पदाद्यात्मा पदार्थः | ग्रन्थक्रमेति--विद्यादिपादरूपः | यदुक्तं तत्र-- ᳚पादिकश्चात्र संबन्ध अन्यः पाटलिकः प्रिये | पादार्थः सौत्रवाक्यार्थ एतत्सम्बन्धपञ्चकम् || चतुष्पात्संहिता यावत्तस्यां पादो यथोदितः | आदिमध्यावसानैश्च ग्राहयेदर्थसन्ततिम् || परस्पराविभेदेन अविरुद्धा यथा भवेत् | एवं पादगतं ज्ञात्वा व्यावर्ण्यं कुरुते गुरुः || यत्तत्पाटलिकं वस्तु पटलान्ते समर्पयेत् | अभिसन्ध्यान्यपटलमेतत्पाटलिकं स्मृतम् || यः पदार्थोऽभिगम्येत तत्पादार्थेन निश्चितम् | अपरस्परभेदेन व्याख्यानं कुरुते गुरुः || एष पादार्थिको नाम्ना अन्यत्सूत्रगतं शृणु | सूत्रे संगृहीतं वस्तु सुपरीक्ष्यार्थसन्ततिः || भेदभिन्ना तथात्रैव सूत्रेणान्येन सुन्दरि | एतत्सूत्रं विचार्येत वाक्येन परिनिष्ठितम् || संस्कृतैः शब्दविषयैर्नदीस्रोतःप्रवाहकैः | वातोर्मिवेगभङ्गेन व्याख्यां द्विपगतिं च वा || मण्डूकप्लुतिरेवात्र अथ सिंहावलोकितम् | ज्ञात्वा न्यायं तु शिष्यं हि तादृशेन प्रबोधयेत् || स्वरूपेणार्थविषयं पादभेदेन वाऽथवा | दैशिकः कुरुते व्याख्यां यादृशं तेन पृच्छितम् || तादृशं तस्य वक्तव्यं स्वाम्नायस्थितिपालनात् |᳚
SKइति | यागत्रयात्मकपौर्णमासाङ्गप्रयाजानुयाजवदेकमनेकसाधारणं तन्त्रम् | अवघातादेरिव यावद्द्रव्यमसकृत्प्रयुक्तिरावर्तनम् | चमसगोदोहनादिवदसक्तप्रतिषेधो बाधः | पशुपुरोडाशवत् परमध्यपातिनो निजतन्त्रनैरपेक्ष्येण परकीयेनैव तन्त्रेण सम्पादनं प्रसङ्गः | संशयनिर्णयान्तरालवर्ती भवितव्यतात्मकः प्रत्ययस्तर्कः | आदिशब्दादतिदेशादयः | सदिति-- मण्डूकप्लवादिलौकिकन्यायविलक्षणैः--इत्यर्थः | वस्त्वन्तरतो विविक्ततां विदधत्--इत्यनेन असङ्कीर्णत्वमेव उपोद्बलितम् | दूष्यं भविष्यत्स्यादिति--भावि दूष्यभावं भजेत्--इत्यर्थः || ४०३ || ननु यदुत्तरकालं दूष्यं तस्य आदौ बलवत्त्वाधानेन कोऽर्थः?-- इत्याशङ्क्य आह-- दृढरचितपूर्वपक्षप्रोद्धरणपथेन वस्तु यद्वाच्यम् | शिष्यमतावारोहति तदाशुसंशयविपर्ययैर्विकलम् || २८-४०४ || भाषा न्यायो वादो लयः क्रमो यद्यदेति शिष्यस्य | सम्बोधोपायत्वं तथैव गुरुराश्रयेद् व्याख्याम् || २८-४०५ || वाच्यं वस्तु समाप्य प्रतर्पणं पूजनं भवेच्चक्रे | पुनरपरं वस्तु वदेत्पटलादूर्ध्वं तु नो जल्पेत् || २८-४०६ || व्याख्यान्ते क्षमयित्वा विसृज्य सर्वं क्षिपेदगाधजले | शास्त्रादिमध्यनिधने विशेषतः पूजनं कुर्यात् || २८-४०७ || विशेषपूजनं कुर्यात्समयेभ्यश्च निष्कृतौ | भाषा--संस्कृतादिरूपा षोढा भिन्ना | न्यायः--प्रागुक्तो लौकिकः शात्रीयो वा | वाद--तत्त्वनिश्चयफलरूपः पक्षप्रतिपक्षपरिग्रहः | लयः--व्याख्येयवस्तुनिष्ठतल्लीनतात्मा व्याख्यानाभ्यासः | क्रमः--पाठार्थपरिपाटीविशेषः | वाच्यं वस्त्विति --मूलसूत्रादि | अपरं वस्त्विति--सूत्रान्तरम् | यदुक्तम्-- ᳚त्रीणि मूलानि सूत्राणि द्वे तदेकमथापि वा | व्याख्यायोपरमेदूर्ध्वं वदन्विघ्नैर्हि बाध्यते ||᳚ इति | ङ गच्छेत्पटलादूर्ध्वं........................... |᳚ इति च | समयेभ्यश्च निष्कृतावित्यनेन समयनिष्कृतिरिति प्रागुक्तं त्रयोविंशमपि नैमित्तिकं व्याख्यातुमुपक्रान्तमिति आवेदितम् ||
SKननु इदं कार्यमिदं न कार्यमिति शास्त्रीया नियन्त्रणा हि समयः | स च निर्विकल्पानां नास्तीति कथमेतदविशेषेण उक्तम् ?--इत्याशङ्क्य आह-- अविकल्पमतेर्न स्युः प्रायश्चित्तानि यद्यपि || २८-४०८ || तथाप्यतत्त्वविद्वर्गानुग्रहाय तथा चरेत् | नन्वेवमाचरणे किमस्य प्रमाणम्?--इत्याशङ्क्य आह-- श्रीपिचौ च स्मृतेरेव पापघ्नत्वे कथं विभो || २८-४०९ || प्रायश्चित्तविधिः प्रोक्त इति देव्या प्रचोदिते | सत्यं स्मरणमेवेह सकृज्जप्तं विमोचयेत् || २८-४१० || सर्वस्मात्कर्मणो जालात्स्मृतितत्त्वकलाविदः | तथापि स्थितिरक्षार्थं कर्तव्यश्चोदितो विधिः || २८-४११ || स्मृतेरिति--मन्त्रादेः | स्मृतितत्त्वकलाविदः--इत्यनेन ज्ञानित्वमेव उपोद्बलितम् | स्थितिरक्षार्थमिति--यदुक्तम्-- ᳚यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः | स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ||᳚ (भ.गी. ३|२१) इति ||४११ || अतत्त्ववेदिनो ये हि चर्यामात्रैकनिष्ठिताः | तेषां दोलायिते चित्ते ज्ञानहानिः प्रजायते || २८-४१२ || एवं च यद्ययं निर्विकल्पत्वादेव न संवृतिपरस्तदा अतत्त्वविद्भिः सह समाचारमेव न कुर्यात् | अथ कुर्यात्, प्रायश्चित्तमप्याचरेत्-- इत्याह-- तस्माद्विकल्परहितः संवृत्युपरतो यदि | शास्त्रचर्यासदायत्तैः सङ्करं तद्विवर्जयेत् || २८-४१३ || सङ्करं वा समन्विच्छेत्प्रायश्चित्तं समाचरेत् | यथा तेषां न शास्त्रार्थे दोलारूढा मतिर्भवेत् || २८-४१४ || संवृत्युपरत इति--संवृतिः गुप्तिः, तत उपरतः निवृत्तः इत्यर्थः| शास्त्रचर्यासदायत्तैरिति--सर्वकालं शास्त्रीयनियन्त्रणापरवशैः--इत्यर्थः | तेषामिति--अतत्त्वविदाम् || ४१४ || समयनिष्कृतिमेव उदाहरणदिशा उपदर्शयति-- यत्स्वयं शिवहस्ताख्ये विधौ सञ्चोदितं पुरा | शतं जप्त्वास्य चास्त्रस्य मुच्यते स्त्रीवधादृते || २८-४१५ || शक्तिनाशान्महादोषो नरकं शाश्वतं प्रिये | इति श्रीरत्नमालायां समयोल्लङ्घने कृते || २८-४१६ || कुलजानां समाख्याता निष्कृतिर्दुष्टकर्तरी | श्रीपूर्वे समयानां तु शोधनायोदितं यथा || २८-४१७ ||
SKमालिनी मातृका वापि जप्या लक्षत्रयान्तकम् | प्रतिष्ठितस्य तूरादेर्दर्शनेऽनधिकारिणा || २८-४१८ || प्रायश्चित्तं प्रकर्तव्यमिति श्रीब्रह्मयामले | यदिति--चोदनास्त्रम् | स्वयमिति--भगवता | पुरेति--द्वादशपटले, इदं हि तत्र चतुर्दशे पटले स्थितम् | एतच्च समनन्तराह्निके शिवहस्तप्रकरणे एव संवादयिष्यते इति नेह लिखितम् | स्त्रीवधादृते इति--यदुक्तम्-- ...................ष्त्रीवधे निष्कृतिः कुतः |᳚ इति | कुलजानामिति--अन्येषां हि ᳚अघोराष्टशतं जप्त्वा स्त्रीवधान्मुच्यते नरः |᳚ इत्यादि उक्तम् | समाख्यातेति--यदुक्तं तत्र-- ᳚अथ कश्चिदजानानो लङ्घनं समयस्य तु | कुरुते कुलजो देवि तस्य वक्ष्यामि निष्कृतिम् || शतं जप्त्वा महास्त्रस्य मुच्यते स्त्रीवधादृते | शक्तिनाशान्महादोषो नरकं शाश्वतं प्रिये ||᳚ इति | लक्षत्रयान्तकमिति--समयोल्लङ्घनबलं विचार्य | यदुक्तं तत्र-- ᳚प्रायश्चित्तेषु सर्वेषु जपेन्मालामखण्डिताम् | भिन्ना वाप्यथवाभिन्नां व्यतिक्रमबलाबलात् || सकृज्जापात्समारभ्य यावल्लक्षत्रयं प्रिये |᳚ इति | अनधिकारिणेति--अदीक्षितादिना, एतच्च आचार्यादिविषयम् | साधके हि अधिकारिणापि दृष्टे दोष एव | यदभिप्रायेण श्वमन्त्रमक्षसूत्रं च गुरोरपि न दर्शयेत् |᳚ इत्यादि उक्तम् || न केवलमेतदेव श्रीब्रह्मयामले कथितं यावदिदमपि- -इत्याह-- ब्रह्मघ्नो गुरुतल्पस्थो वीरद्रव्यहरस्तथा || २८-४१९ || देवद्रव्यहृदाकारप्रहर्ता लिङ्गभेदकः | नित्यादिलोपकृद् भ्रष्टस्वकमात्रापरिच्छदः || २८-४२० || शक्तिव्यङ्गत्वकृद्योगिज्ञानिहन्ता विलोपकः | नैमित्तिकानां लक्षादिक्रमाद् द्विगुणं जपेत् || २८-४२१ || व्रतेन केनचिद्युक्तो मितभुग्ब्रह्मचर्यवान् | दूतीपरिग्रहेऽन्यत्र गतश्चेत्काममोहितः || २८-४२२ || लक्षजापं ततः कुर्यादित्युक्तं ब्रह्मयामले |
SKआकारेति--व्यक्तम् | मात्रापरिच्छद इति-- व्रतोचिताक्षसूत्रयोगदण्डादिपरिकर इति यावत् | द्विद्विगुणमिति--तेन गुरुतल्पस्थे द्वे लक्षे, वीरद्रव्यहरे च चत्वारीत्यादिक्रमः | काममोहित इति--न तु रहस्यचर्यापरः || इदानीं श्रुतविध्यनन्तरोद्दिष्टं गुरुपूजाविधिमभिधातुमाह-- दीक्षाभिषेकनैमित्तविध्यन्ते गुरुपूजनम् || २८-४२३ || अपरेद्युः सदा कार्यं सिद्धयोगीश्वरीमते | पूर्वोक्तलक्षणोपेतः कविस्त्रिकसतत्त्ववित् || २८-४२४ || स गुरुः सर्वदा ग्राह्यस्त्यक्त्वान्यं तत्स्थितं त्वपि | कविरिति--सम्यग्वक्तेति यावत् | तत्स्थितमिति--तत्र त्रिकदर्शनादावेव स्थितं परिचितम्--इत्यर्थः || कथं च अत्र गुरुपूजनं कार्यम्--इत्याह-- मण्डले स्वस्तिकं कृत्वा तत्र हैमादिकासनम् || २८-४२५ || कृत्वार्चयेत तत्रस्थमध्वानं सकलान्तकम् | ततो विज्ञपयेद्भक्त्या तदधिष्ठितये गुरुम् || २८-४२६ || स तत्र पूज्यः स्वैर्मन्त्रैः पुष्पधूपार्घविस्तरैः | समालम्भनसद्वस्त्रैर्नैवेद्यैस्तर्पणैः क्रमात् || २८-४२७ || आशान्तं पूजयित्वैनं दक्षिणाभिर्यजेच्छिशुः | सर्वस्वमस्मै संदद्यादात्मानमपि भावितः || २८-४२८ || अतोषयित्वा तु गुरुं दक्षिणाभिः समन्ततः | तत्त्वज्ञोऽप्यृणबन्धेन तेन यात्यधिकारिताम् || २८-४२९ || सकलः--सदाशिवः, एतदन्तश्च अनेन आसनपक्षन्यास उक्तः | तदधिष्ठितये इति--तच्छब्देन सकलान्तासनपक्षपरामर्शः | स्वैरिति--आरिराधयिषितैः | आशान्तमित्यनेन अस्य भैरवावेशोन्मुखत्वं प्रकाशितम् | अधिकारितामिति-- मन्त्रमहेश्वरादिरूपत्वम् ||४२९ || किमत्र प्रमाणम् ?--इत्याशङ्क्य आह-- गुरुपूजामकुर्वाणः शतं जन्मानि जायते | अधिकारी ततो मुक्तिं यातीति स्कन्दयामले || २८-४३० || तस्मादवश्यं दातव्या गुरवे दक्षिणा पुनः | ननु गुरोः शोऽभिषिक्तो गुरुं पश्चाद्दक्षिणाभिः प्रयूजयेत् |᳚ इत्यादिना प्राक् दक्षिणादिदानमुक्तं तत्किमिहि अस्य पुनर्वचनेन?-- इत्याशङ्क्य आह-- पूर्वं हि यागाङ्गतया प्रोक्तं तत्तुष्टये त्विदम् || २८-४३१ ||
SKतज्जुष्टमथ तस्याज्ञा प्राप्याश्नीयात्स्वयं शिशुः | ततः प्रपूजयेच्चक्रं यथाविभवसम्भवम् || २८-४३२ || तज्जुष्टमिति--तदासेवितम्--इत्यर्थः ||४३२ || एतदेव व्यतिरेकमुखेनापि द्रढयति-- अकृत्वा गुरुयागं तु कृतमप्यकृतं यतः | तस्मात्प्रयत्नतः कार्यो गुरुयागो यथाबलम् || २८-४३३ || यथाबलमिति--वित्तशाठ्यादिवर्जम् || ४३३ || गुरुश्चेदसन्निहितः, तदा किं कार्यम् ?--इत्याशङ्क्य आह-- अतत्रस्थोऽपि हि गुरुः पूज्यः सङ्कल्प्य पूर्ववत् | तद्द्रव्यं देवताकृत्ये कुर्याद्भक्तजनेष्वथ || २८-४३४ || आह्निकार्थमेव उपसंहरति-- पर्वपवित्रप्रभृतिप्रभेदि नैमित्तिकं त्विदं कर्म | इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके पर्वपवित्रकादिप्रकाशनं नाम अष्टाविंशमाह्निकम् ||२८ || इदं कर्मेति--अर्थादुक्तमिति शिवम् || नित्यनिमित्ताद्यर्चाचर्चाचातुर्यचारुचरितेन | विवृतमिहाष्टाविंशं किलाह्निकं जयरथेनैतत् || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते पर्वपवित्रकादिप्रकाशनं नाम अष्टाविंशमाह्निकं समाप्तम् || २८ || एकोनत्रिंशमाह्निकम् ᳚ विवेकः ᳚ भद्राणि भद्रकालः कलयतु वः सर्वकालमतुलगतिः | अकुलपदस्थोऽपि हि मुहुः कुलपदमभिधावतीह प्रसभम् || इदानीं द्वितीयार्धेन रहस्यचर्चाविधिमभिधातुं प्रतिजानीते-- अथ समुचिताधिकारिण उद्दिश्य रहस्य उच्यतेऽत्र विधिः | रहस्य इति--कुलप्रक्रियायाम् | विधिरिति--यागः || एतदेव विभजति-- अथ सर्वाप्युपासेयं कुलप्रक्रिययोच्यते || २९-१ || तथा धाराधिरूढेषु गुरुशिष्येषु योचिता | कुलप्रक्रियया उपासेति--कुलयागः--इत्यर्थः | तथा धाराधिरूढेष्विति--अनेन परकाष्ठाप्राप्तनिर्विकल्पकदशाधिशायितया रूढप्रायतामभिदधता अधिकारिभेदोऽपि उपक्षिप्तः | अत्र च स्वकृतप्रतिज्ञासूत्रवार्तिकप्रायतामभिद्योतयितुमथशब्दस्य उपादानम् ||
SKननु कुलप्रक्रियायाः प्रक्रियान्तरेभ्यः किं नाम वैलक्षण्यं यदेवमधिकारिभेदोऽपि विवक्षितः ?--इत्याशङ्क्य आह-- उक्तं च परमेशेन सारत्वं क्रमपूजने || २९-२ || तदेव आह-- सिद्धक्रमनियुक्तस्य मासेनैकेन यद्भवेत् | न तद्वर्षसहस्रैः स्यान्मन्त्रौघैर्विविधैरिति || २९-३ || सिद्धक्रमेति--सिद्धानां कृतयुगादिक्रमेण अवतीर्णानां श्रीखगेन्द्रनाथादीनां क्रमे तत्परम्परागतायां कुलप्रक्रियायाम्- -इत्यर्थः | विविधैरिति--तत्तत्प्रक्रियान्तरोदितैः--इत्यर्थः | तदुक्तम्-- शिद्धान्तादिषु तन्त्रेषु ये मन्त्राः समुदाहृताः | वीर्यहीनास्तु ते सर्वे शक्तितेजोज्झिता यतः || कौलिकास्तु महामन्त्राः स्वभावाद्दीप्ततेजसः | स्फुरन्ति दिव्यतेजस्काः सद्यःप्रत्ययकारकाः ||᳚ इति || ३ || तत्र कुलप्रक्रिययेत्यत्र उक्तं कुलशब्दं तावद् व्याचष्टे-- कुलं च परमेशस्य शक्तिः सामर्थ्यमूर्ध्वता | स्वातन्त्र्यमोजो वीर्यं च पिण्डः संविच्छरीरकम् || २९-४ || सामर्थ्यमिति--लयोदयकारित्वम् | ऊर्ध्वतेति--सर्वेषां कारणतया उपरिवर्तित्वम् | स्वातन्त्र्यमिति--सर्वकर्तृत्वाद्यात्मकम् | पिण्ड इति-- विश्वस्य अत्र सामरस्येन अवस्थानात् | संविदिति--आत्मा | तदुक्तम्-- ᳚कुलं हि परमा शक्तिः ..................... |᳚ इति ᳚लयोदयश्चित्स्वरूपस्तेन तत्कुलमुच्यते |᳚ इति श्वभावे बोधममलं कुलं सर्वत्र कारणम् |᳚ इति शर्वकर्तृ विभु सूक्ष्मं तत्कुलं वरवर्णिनि |᳚ इति शर्वेशं तु कुलं देवि सर्वं सर्वव्यवस्थितम् | तत्तेजः परमं घोरं............................. ||᳚ इति ᳚शक्तिगोचरगं वीर्यं तत्कुलं विद्धि सर्वगम् |᳚ इति ᳚कुलं स परमानन्दः.......................... |᳚ इति ᳚कुलमात्मस्वरूपं तु........................... |᳚ इति ᳚कुलं शरीरमित्युक्तम्........................... |᳚ इति || ४ || एवं कुलशब्दं व्याख्याय विध्युपासादिशब्दोन्नीतं यागशब्दमपि व्याख्यातुमाह-- तथात्वेन समस्तानि भावजातानि पश्यतः | ध्वस्तशङ्कासमूहस्य यागस्तादृश एव सः || २९-५ ||
SKतथात्वेनेति--शिवशक्तिस्फारसारतया ||५ || तथा पश्यतस्तस्य यागोऽपि तादृश एवेति किमर्थमुक्तम् ?-- इत्याशङ्क्य आह-- तादृग्रूपनिरूढ्यर्थं मनोवाक्कायवर्त्मना | यद्यत्समाचरेद्वीरः कुलयागः स स स्मृतः || २९-६ || एवमुक्तसतत्त्वश्च अयं यागः किमाधारः ?--इत्याशङ्क्य आह-- बहिः शक्तौ यामले च देहे प्राणपथे मतौ | इति षोढा कुलेज्या स्यात्प्रतिभेदं विभेदिनी || २९-७ || यामले इति--आद्ययागाधिरूढे मिथुने | प्राणपथे इति--मध्यनाड्याम् | मताविति--बुद्धौ, तत्तदध्यवसायद्वारिकापि तत्सम्पत्तिर्भवेत्--इति भावः | प्रतिभेदं विभेदिनीति--यथा बहिरेव भूवस्त्राद्या विभेदाः || ७ || ननु एवमाधारभेदवदितिकर्तव्यतापि अत्र किं तन्त्रप्रक्रियातः किञ्चिद्विभिद्यते न वा ?--इत्याशङ्क्य आह-- स्नानमण्डलकुण्डादि षोढान्यासादि यन्न तत् | किञ्चिदत्रोपयुज्येत कृतं वा खण्डनाय नो || २९-८ || तेन यथेच्छमेतत्कुर्यात्--इत्यर्थः | यदुक्तम्-- ङास्यां मण्डलकुण्डादि किञ्चिदप्युपयुज्यते | न च न्यासादिकं पूर्वं स्नानादि च यथेच्छया ||᳚ इति || ८ || ननु अत्र बाह्यस्नानादावनवकॢप्तौ किं निमित्तम्?--इत्याशङ्क्य आह-- षण्मण्डलविनिर्मुक्तं सर्वावरणवर्जितम् | ज्ञानज्ञेयमयं कौलं प्रोक्तं त्रैशिरसे मते || २९-९ || इह शिवशक्तिसामरस्यात्मकं कुलज्ञानं षड्भर्मण्डलैः ᳚षट्चक्रेश्वरता नाथस्योक्ता त्रैशिरसे मते |᳚ (१|११४) इत्यादौ निरूपितैस्तत्रत्यैश्चक्रैर्विनिर्मुक्तं निष्प्रपञ्चम्, अत एव सर्वावरणवर्जितमत एव ज्ञानं बहिर्मुखं प्रमाणात्म वेदनम्, ज्ञेयं नीलसुखादि वेद्यं तन्मयम् | तत्स्फारसारमेव इदं सर्वं वेद्यवेदकादि, न तु तदतिरिक्तं किञ्चित्--इत्यर्थः | तदुक्तम्-- ᳚यावन्न वेदका एते तावद्वेद्याः कथं प्रिये | वेदकं वेद्यमेकं तु तत्त्वं नास्त्यशुचिस्ततः ||᳚ इति || ९ || अतश्च संविन्मात्रसारत्वात् सर्वस्य शुद्ध्यशुद्धी अपि वास्तवे न स्त इति कटाक्षयितुं तद्विभागोऽपि नेह अभिमतः--इत्याह--
SKअत्र यागे च यद्द्रव्यं निषिद्धं शास्त्रसन्ततौ | तदेव योजयेद्धीमान्वामामृतपरिप्लुतम् || २९-१० || तदुक्तम्-- ᳚द्रव्यैश्च लोकविद्विष्टैः शास्त्रार्थाच्च बहिष्कृतैः | विजुगुप्स्यैश्च निन्द्यैश्च पूजनीयस्त्वयं क्रमः ||᳚ इति || १० || ननु भवतु नाम अत्र शास्त्रादिबहिष्कृतं द्रव्यम्, मद्यसंस्पर्शनेन पुनरस्य कोऽर्थः ?--इत्याशङ्क्य आह-- श्रीब्रह्मयामलेऽप्युक्तं सुरा शिवरसो बहिः | तां विना भुक्तिमुक्ती नो पिष्टक्षौद्रगुडैस्तु सा || २९-११ || स्त्रीनपुंसकपुंरूपा तु पूर्वापरभोगदा | द्राक्षोत्थं तु परं तेजो भैरवं कल्पनोज्झितम् || २९-१२ || एतत्स्वयं रसः शुद्धः प्रकाशानन्दचिन्मयः | देवतानां प्रियं नित्यं तस्मादेतत्पिबेत्सदा || २९-१३ || शिवरस इति | तदुक्तम्-- शुरा च परमा शक्तिर्मद्यं भैरव उच्यते | आत्मा कृतो द्रवरूपो भैरवेण महात्मना ||᳚ इति | तां विना नो बहिर्भुक्तिमुक्ती इति | तदुक्तम्-- ङानेन रहितो मोक्षो नानेन रहिता गतिः | नानेन रहिता सिद्धिर्विशेषाद्भैरवागमे ||᳚ इति | ᳚येनाघ्रतं श्रुतं दृष्टं पीतं स्पृष्टं महेश्वरि | भोगमोक्षप्रदं तस्य........................... ||᳚ इति च | सा च द्विधा कृत्रिमा सहजा च | तत्र कृत्रिमा त्रिविधा पैष्टी क्षौद्री गौडी चेति, सहजस्तु एक एव द्राक्षोत्थो भैरवादिशब्दव्यपदेश्यः परमुत्कर्षभाक्--इत्याह--पिष्टेत्यादि | पुमपेक्षया च स्त्रीनपुंसकयोर्भोग्यत्वमेवेत्युक्तम्--पूर्वापरभोगदेति | कल्पनोज्झितमिति--स्त्रीनपुंसकादिरूपया प्रतिनियतया कल्पनया उज्झितं परप्रमात्रेकरूपम्--इत्यर्थः | तदुक्तम्-- ᳚पैष्टी गौडी तथा माध्वी कृत्रिमा तु सुरा स्मृता | स्त्रीपुंनपुंसकतया साधके भोगदायिका ||᳚ इति | ᳚मार्द्वीकः सहजस्त्वेकस्तत्तेजो भैरवात्मकम् | न स्त्री नपुंसकं वापि न पुमान् परमो विभुः ||᳚ इति | ᳚गौडी माध्वी तथा पैष्टी ऊर्ध्वे आनन्दभैरवः |᳚ इति | ᳚चतुरस्रस्त्वयं धर्मश्चतुर्युगसमो नयः | चतुर्णां चैव मद्यानामानन्दः शान्तितत्परः ||᳚ इति |
SKपरतेजस्त्वादेव च एतत् स्वयं पारतीयो रसस्तत्समानमाहात्म्यः-- इत्यर्थः | शुद्ध इति--तत्तदुपाधिभूतद्रव्यान्तरासंभिन्नः, तथात्वे हि अस्य नियत एव प्रभावो भवेत्--इति भावः | अत एव उक्तं प्रकाशानन्दचिन्मय इति | तदुक्तम्-- ᳚यथा भैरवचक्रेषु नायकः शिवभैरवः | देवताचक्रसन्दोहे यथा कालान्तकी परा || तथा सर्वरसेन्द्राणां नायकौ द्वावुदाहृतौ | मद्यभैरवनाथस्तु रसेन्द्रः पारतीयकः ||᳚ इति | देवतानां प्रियमिति | यदुक्तम्-- ᳚भैरवस्य प्रियं नित्यं बहु मातृगणस्य च |᳚ इति | तस्मादिति--एवंमाहात्म्यवत्त्वात्, न तु पशुवत् लौल्यादिना | यदुक्तम्-- ᳚अयष्ट्वा भैरवं देवमकृत्वा मन्त्रतर्पणम् | पशुपानविधौ पीत्वा वीरोऽपि नरकं व्रजेत् ||᳚ इति | पिबेदिति--विधिः | अत एव अपानात्प्रत्यवायोपि स्यात् | यदुक्तम्-- ᳚कुलाचारसमायुक्तो ब्रह्मणः क्षत्रियोऽपि वा | यदा मद्येन न स्पृष्टः प्रायश्चित्तं तदा चरेत् ||᳚ इति | ᳚मद्यमांसाधिवासेन मुखं शून्यं यदा भवेत् | तदा पशुत्वमायाति प्रायश्चित्तं समाचरेत् ||᳚ इति च | सदेति--यागावसरे, अन्यथा हि क्षणमपि मद्यपानविरतौ प्रत्यवायः प्रसजेत् | तेन ᳚दिनमेकं दिनार्धं वा तदर्धं चार्धमेव च | निवृत्तेरलिपानस्य प्रायश्चित्ती भवेन्नरः ||᳚ इति यागकालापेक्षयैव योज्यम् | यत् पुनः ᳚उत्तमं तु सदा पानं भवेत्पर्वसु मध्यमम् | अधमं मासमात्रेण मासादूर्ध्वं पशुर्भवेत् ||᳚ इत्यादि, तदापद्विषयतया उक्तम् | यत्तु ᳚मलयेन तु विप्राणां क्षत्त्राणां कुंकुमेन च | कर्पूरवारि वैश्यानां शूद्राणामलिना प्रिये ||᳚ इति | ᳚दीक्षाकाले तु विप्रस्य क्षत्रियस्य रणारुहे | वैश्यस्य क्षितिमाङ्गल्ये शूद्रस्यान्त्येष्टिकर्मणि ||᳚ इत्याद्युक्तं तददीक्षितविषयम्; किन्तु पूर्वत्र अस्मदुक्तार्चातर्पणश्रद्धालुविषयत्वमधिकम्, अन्यथा जातिभेदो दुर्वचः स्यात् | दीक्षाकाले इति--सौत्रामण्यादौ | अत एव ᳚यतः प्रभृति कालाच्च दैत्याचार्येण दूषितम् | ततः प्रभृति वर्णानां नामभेदः प्रदर्शितः ||
SKसौत्रामण्यां ब्रह्मणानां पानार्थं स्मृतमध्वरे | महाहवे क्षत्रियाणां वैश्यानां क्षितिकर्मणि || महोत्सवे तु बन्धूनां मित्राणां च समागमे || श्मशानान्ते च शूद्राणां विवाहे पुत्र जन्मनि | पानभेदमिदं भद्रे जन्तूनां मूढचेतसाम् | ये पुनः शाङ्करे तन्त्रे देवीतन्त्रे च दीक्षिताः || गुर्वाज्ञानिरता गुप्ता जपपूजापरायणाः | ज्ञानविज्ञानकुशला लौल्यान्न महिताशयाः | तेषां पुनर्द्विजानां तु न विरुद्धं सदा प्रिये ||᳚ इत्यादि उक्तम्, इत्यलमवान्तरेण | एवमियदनेन उपक्षिप्तं यत्--एवं शास्त्रादिबहिष्कृतं द्रव्यजातं सम्भृतमपि विना मद्यं न यागसम्पत्तौ निमित्तम्, मद्यं पुनरेककमेव विनापि एवं द्रव्यजातं तत्र निमित्तमिति, येनोक्तं वामामृतपरिप्लुतं तद्योजयेदिति | यदागमः� ᳚एकतश्चरवः सर्वे मद्यमेवैकमेकतः | चरुहीनोऽपि कुर्वीत मद्यहीनं न जातुचित् ||᳚ इति | ᳚एषामभावे द्रव्याणां नित्यं पूजा विधीयते | एकेन मद्यनाथेन विना तेनापि निष्फला ||᳚ इति | ᳚पुष्पधूपोपहारादि यदि न स्यात्सुलोचने | अलिना तर्पयेन्मन्त्रं.............................. ||᳚ इति | ᳚किमन्यैर्द्रव्यसङ्घातैर्देवि यागोपयोगिभिः | वामामृतेन चैकेन कलां नार्हन्ति षोडशीम् ||᳚ इति | ᳚अर्घं पुष्पं तथा धूपं दीपं नैवेद्यमेव च | वीरद्रव्यादि यत्किञ्चित्सर्वं मद्ये प्रतिष्ठितम् ||᳚ इति | ᳚मद्येनैकतमेनैव शक्तीशं शक्तिभिर्युतम् | यजेत्सान्निध्यकामस्तु सर्वदा सर्वथा प्रिये ||᳚ इति | ᳚अलिना रहितं यस्तु पूजयेत्पादुकाक्रमम् | योगिन्यस्तस्य सीदन्ति भक्षयन्ति रसामिषम् ||᳚ इति | ᳚मद्यरिक्तास्तु ये देवि न ते सिध्यन्ति पश्चिमे | थोहकासमते नित्यं कुलभ्रष्टाः स्वयंभुवः ||᳚ इति च | इह मद्याधीनमेव सर्वेषामनुष्ठानमिति अत्र आगमसंवादे भरोऽस्माभिः कृत इति न अस्मभ्यमभ्यसूययितव्यम् || १३ || एवमस्य प्राधान्येऽपि अवान्तरवस्त्वपेक्षया शास्त्रान्तरेऽन्यदपि किञ्चित्प्रधानतयोक्तम्--इत्याह-- श्रीमत्क्रमरहस्ये च न्यरूपि परमेशिना |
SKअर्घपात्रं यागधाम दीप इत्युच्यते त्रयम् || २९-१४ || रहस्यं कौलिके यागे तत्रार्घः शक्तिसङ्गमात् | भूवस्त्रकायपीठाख्यं धाम चोत्कर्षभाक् क्रमात् || २९-१५ || दीपा घृतोत्था गावो हि भूचर्यो देवताः स्मृताः | इति ज्ञात्वा त्रयेऽमुष्मिन्यत्नवान्कौलिको भवेत् || २९-१६ || तत्रेति--त्रयनिर्धारणे | अर्घ इति--कुण्डगोलकाख्यो द्रव्यविशेषः | शक्तिसङ्गमादिति--आद्ययागतया वक्ष्यमाणात् | कायपीठं स्वं परकीयं वा शिरः | तदुक्तम्-- शर्वासां देवतानां तु आधारः शिर इष्यते | देवीकोट्टं तु तत्स्थानं नित्यं तत्र प्रपूजयेत् ||᳚ इति--क्रमादुत्कर्षभागिति--तथा भुवो वस्त्रं तस्मान्मुण्डमिति | घृतोत्था इति--प्राधान्यात्, तेन तैलोत्था अपि | यदुक्तम्-- ᳚दीपान्कुर्याद्रक्तवर्तीन्घृततैलप्रपूरितान् |᳚ इति | प्राधान्य एव च अत्र हेतुर्गावो भूचर्यो देवताः स्मृता इति | यदुक्तम्-- ᳚लोकानुग्रहहेत्वर्थं ब्रह्म्याद्या देवता भुवि | चरन्त्यास्थाय गोरूपं तेन तद्द्रव्यमाहरेत् ||᳚ इति | यत्नवानिति--तत्सम्भरणे श्रद्धावान्भवेत्, नातो विचिकित्सितव्यम्- - इत्यर्थः || १६ || अस्मद्दर्शने हि अर्घस्यैव प्राधान्यमिति तदुचितान्येव द्रव्यान्तराण्यपि परमेश्वरः समादिक्षत्, तत् ततस्तेभ्यो वा न शङ्कितव्यम् | शङ्कैव हि महद्दूषणमित्युक्तं प्राग्बहुशः | तदाह-- तेनार्घपात्रप्राधान्यं ज्ञात्वा द्रव्याणि शम्भुना | यान्युक्तान्यविशङ्कोऽत्र भवेच्छङ्का हि दूषिका || २९-१७ || यानि द्रव्याणीति--रत्नपञ्चकादीनि | तदुक्तम्-- ᳚रेतो हराम्बु पुष्पं च क्षारं नालाज्यकं तथा | पौरुषं क्ष्माभवं छागं मीनजं शाकुनीयकम् || पलाण्डु लशुनं चैव द्रव्यद्वादशकं शुभम् |᳚ इति | अत्रेति--द्रव्यवचने || १७ || एवं कुलयागे पीठिकाबन्धं विधाय तत्क्रममेव निरूपयितुमुपक्रमते-- यागौको गन्धधूपाढ्यं प्रविश्य प्रागुदङ्मुखः | परया वाऽथ मालिन्या विलोमाच्चानुलोमतः || २९-१८ || दाहाप्यायमयीं शुद्धिं दीप्तसौम्यविभेदतः | क्रमेण कुर्यादथवा मातृसद्भावमन्त्रतः || २९-१९ ||
SKप्रविश्येति--देहलीमात्रपूजनपूर्वम् | विलोमादिति--संहारक्रमेण पादाभ्यां शिरोन्तम् | अनुलोमत इति--सृष्टिक्रमेण शिरस्तः पादान्तम् | दाहे दीप्ता आप्यायने सौम्या--इत्युक्तम्--क्रमेणेति || १८-१९ || नैमित्तिके पुनर्नित्याद्विशेषोऽस्ति--इत्याह-- दीक्षां चेत्प्रचिकीर्षुस्तच्छोध्याध्वन्यासकल्पनम् | ततः संशोध्यवस्तूनि शक्त्यैवामृततां नयेत् || २९-२० || शोध्योऽध्वा भुवनाद्यन्यतमः | तत इति--देहशुद्ध्याद्यनन्तरम् | संशोध्येति-- यागोपकरणभूतानामर्घपुष्पाद्यात्मनामसंशोधितत्वे हि यागयोग्यत्वं न भवेत्--इति भावः | शक्त्यैवेति--न पुनः प्राग्वदर्घपात्रविप्रुट्प्रोक्षणादिना ||२० || ननु अत्र मन्त्रत्रयमुद्दिष्टम्, तस्य पुनः कथं विनियोगः?-- इत्याशङ्क्य आह-- परासम्पुटगा यद्वा मातृसम्पुटगाप्यथो | केवला मालिनी यद्वा ताः समस्तेषु कर्मसु || २९-२१ || समस्तेषु कर्मसु एवंविधा मालिनी अर्थाद्योजनीया मुक्त्यर्थिना मातृसद्भावेन सम्पुटिता तदुभयार्थिना परया | केवलयोरपि परामातृसद्भावयोरेवमेव योजनमिति | तदुक्तम्-- ᳚परासम्पुटमध्यस्थां मालिनीं सर्वकर्मसु | योजयेत विधानज्ञः परां वा केवलां प्रिये ||᳚ इति | अत्र ग्रन्थकृता पराशब्देनैव मातृसद्भावोऽपि व्याकृतो यत् पराया एव असौ परतरं रूपमिति || २१ || ननु ᳚यत्किञ्चिन्मानसाह्लादि यच्च सौभाग्यवर्धनम् | तेनात्मानमलङ्कृत्य देवमभ्यर्चयेत्सदा ||᳚ इत्यादिना यत्किञ्चिदानन्दमयं द्रव्यजातं तत् पूजोपकरणतया योज्यमिति सर्वत्रोक्तमिति | इह पुनस्तज्जुगुप्स्यं कस्मादभिहितम्?-- इत्याशङ्क्य आह-- नन्दहेतुफलैर्द्रव्यैरर्घपात्रं प्रपूरयेत् | नन्दस्य आनन्दस्य हेतुभिः सुरादिभिः, फलैश्च कुण्डगोलकादिभिः | अत एव उक्तम्-- ᳚यस्य साराः पवित्रत्वे कुर्वन्त्यानन्दमुत्तमम् | सोऽनुध्यातस्मृतस्तन्त्रे भैरवेण भवच्छिदा ||᳚ इति | यश्च अत्र एतत्पूरणे सम्प्रदायः, स रहस्यत्वात् समयभङ्गभयाच्च न इह अस्माभिः प्रदर्शित इति | एतद्गुरुमुखादेव बोद्धव्यम् | तदुक्तम्--
SK᳚चरुकः सम्प्रदायश्च विज्ञानं मेलकं तथा | पूजाक्रमविधानं च योगिनीनां मुखे स्थितम् ||᳚ इति || ङन्वदिव्येन देहेन यद्यत्पूजाक्रमं जपम् | किञ्चित्कुर्यात्तु तत्तस्य सर्वं भवति निष्फलम् ||᳚ इत्याद्युक्तेरदिव्यवपुषा क्रियमाणं यागादि फलदायि न स्यादित्यत्र साधकेन स्वात्मनि भैरवीभावो भावयितव्यः--इत्याह-- तत्रोक्तमन्त्रतादात्म्याद्भैरवात्मत्वमानयेत् || २९-२२ || उक्ता मातृसद्भावादयः | वक्ष्यति हि-- ङाहमस्मि नचान्योऽस्ति केवलाः शक्तयस्त्वहम् | इत्येवं वासनां कुर्यात्सर्वदा स्मृतिमात्रतः ||᳚ (२९|६४) इति || २२ || इत्थमेवंभावनया च देहादौ ᳚अमूर्ता मूर्तिमाश्रित्य देव्यः पिण्डान्तरे स्थिताः | क्रीडन्ति विविधैर्भावैरुत्तमद्रव्यलिप्सया ||᳚ इत्याद्युक्त्या पूजालाम्पट्येन सर्वा एव करणेश्वर्याद्या देवताः संनिदधते इति आसाम् ᳚आगतस्य तु मन्त्रस्य न कुर्यात्तर्पणं यदि | हरत्यर्धशरीरं................................... ||᳚ इत्याद्युक्त्या तर्पणमवश्यं कार्यम्--इत्याह-- तेन निर्भरमात्मानं बहिश्चक्रानुचक्रगम् | विप्रुड्भरूर्ध्वाधरयोरन्तःपीत्या च तर्पयेत् || २९-२३ || तेनेति--भैरवात्मत्वानयनेन हेतुना | ऊर्ध्वाधरयोरिति� अर्थात्तिर्यगपि | तदुक्तम्-- ᳚अत ऊर्ध्वं तथा तिर्यग्दातव्या विप्रुषः प्रिये |᳚ इति | तद्बहिः सर्वतो विप्रुड्भरन्तश्च पानेन नानादेवताचक्रानुयातमात्मानं तर्पयेत्--इत्यर्थः || २३ || ननु एवमियतैव सिद्धः कुलयागः, किमन्यदवशिष्यते?--इत्याशङ्क्य आह-- तथा पूर्णस्वरश्म्योघः प्रोच्छलद्वृत्तितावशात् | बहिस्तादृशमात्मानं दिदृक्षुर्बहिरर्चयेत् || २९-२४ || तथा समनन्तरोक्तक्रमेण पूरितनिजकरणेश्वर्यादिदेवताचक्रः सन् स्वात्ममात्रविश्रान्तोऽपि यदा साधकः ᳚रासभी वडवा यद्वत्स्वधामानन्दमन्दिरम् | विकाससङ्कोचमयं प्रविश्य हृदि हृष्यति ||᳚ (५|५९)
SKइत्याद्युक्तभङ्ग्या विकसितेन्द्रियवृत्तिर्बहिरपि पूर्णमेव आत्मानं दिदृक्षुर्बहीरूपतयापि बिम्बप्रतिबिम्बन्यायेन परैव संविदवभासत इत्यनुसन्धत्ते, तदा बहिरर्चयेत् | तत्रापि अर्चाक्रमो न्याय्यः-- इत्यर्थः| यदाहुरस्मदादिगुरवः-- शाक्षान्भवन्मये नाथ सर्वस्मिन्भुवनान्तरे | किं न भक्तिमतां क्षेत्रे मन्त्रः क्वैषां न सिद्ध्यति ||᳚ (उष्तो.) इति || २४ || तच्च कुत्र?--इत्याशङ्क्य आह-- अर्कांगुलेऽथ तद्द्वित्रिगुणे रक्तपटे शुभे | व्योम्नि सिन्दूरसुभगे राजवर्त्तभृतेऽथवा || २९-२५ || नारिकेलात्मके काद्ये मद्यपूर्णेऽथ भाजने | यद्वा समुदिते रूपे मण्डलस्थे च तादृशि || २९-२६ || यागं कुर्वीत मतिमांस्तत्रायं क्रम उच्यते | अर्केति--द्वादश | व्योम्नीति--अर्थाद्भूगते | उक्तं च ᳚राजवर्तेन रजसा व्योमबिम्बं तु कारयेत् | लोहितां व्योमरेखां तु दद्यात्सिन्दूरकेण तु || विपर्ययेण वा कार्या शुक्ला वा व्योमरेखिका |᳚ इति | एवं न केवलं व्यस्तमेव भूवस्त्रकायपीठाख्यं धाम भवेत् यावत्समस्तमपि--इत्याह--यद्वा समुदिते रूपे इति | तेन भूपृष्ठे रक्तवस्त्रं तदुपरि च कायपीठशब्दाभिधेयं काद्यं तदनुकल्पात्मकं विश्वामित्रकपालं वेति | तादृशीति--समुदिते एव किन्तु मण्डलस्थे इति भूमावुह्यमानसन्निवेशं मण्डलं तत्र च क्वचिदपि आधारे रक्तवस्त्रं तदुपरि च काद्यमिति || तमेव क्रममाह-- दिश्युदीच्यां रुद्रकोणाद्वायव्यन्तं गणेश्वरम् || २९-२७ || वटुकं त्रीन् गुरुन्सिद्धान्योगिनीः पीठमर्चयेत् | प्राच्यां दिशि गणेशाध आरभ्याभ्यर्चयेत्ततः || २९-२८ || सिद्धचक्रं दिक्चतुष्के गणेशाधस्तनान्तकम् |
SKउदीच्यामिति--प्राजापत्यक्रमेण | गणेश्वरमिति--नैर्विघ्न्याय, स च अर्थात् सवल्लभः | एवं वटुकोऽपि | त्रीन् गुरुनिति-- गुरुपरमगुरुपरमेष्ठिनः | सिद्धानिति--अनादिसिद्धादीन् | योगिनीरिति- -अनादियोगिन्याद्याः | पीठमिति--जालन्धरं यतस्तत्सिद्धयोगिनीक्रमेण अस्य दर्शनस्य अवतारः | तेन मण्डलस्य बहिश्चतुरस्रे ईशानकोणे गणेशमर्चयेत्, ततो वटुकं गुरुत्रयं पीठमनादिसिद्धमनादियोगिनीं यावदधोऽधः पङ्क्तिक्रमेण वायव्यकोणान्तं दिव्यौघसिद्धौघमानवौघभेदेन त्रिविधमपि गुरुवर्गमिति | तदुक्तम्-- ᳚गणेशं पूजयित्वा तु द्वारि विघ्नप्रशान्तये | ततः स्वगुरुमारभ्य पूजयेद्गुरुपद्धतिम् ||᳚ इति | तथा ᳚गणेशं वटुकं सिद्धान् गुरुपङ्क्तिं तथैव च |᳚ इति | इदं च प्राङ्मुखं साधकमधिकृत्य उक्तं येन एतत् तस्य वामे पूजितं भवेत्--इति | उदङ्मुखस्य पुनरेतत्स्वापेक्षयैव योज्यं येन तद्वाम एव पूजितं भवेदिति | द्वारे पुनर्गणेशवटुकौ बहिश्चतुरस्र एव प्रथमतो वायव्यनैरृतकोणयोः पूज्याविति अर्थसिद्धं येन यागस्य दक्षवामभागगतौ स्याताम् | यद्गुरवः-- ᳚बाह्ये गणेशवटुकौ श्रुतिपूर्वकोणदक्षेतरद्वयगतौ... |᳚ इति | ततो गुरुपूजानन्तरं पूर्वस्यां दिशि बहिश्चतुरस्रे रुद्रकोणावस्थितस्य गणेशस्य अधस्तनादेकभागानन्तरभाविनो द्वितीयस्मात् चतुरस्रादारभ्य पूर्वादिक्रमेण आवर्तभङ्ग्या सौम्यदिशि गणेशस्य अधस्तनमेव स्थानं यावत्दिक्चतुष्टये अर्थादेतच्चतुरस्रसंलग्नचतुष्किकाचतुष्टये कृतादियुगक्रमावतीर्णं सिद्धचतुष्कमभ्यर्चयेत् वक्ष्यमाणक्रमेण पूजयेत्--इत्यर्थः | तदुक्तम्-- ᳚गणेशाधस्ततः सर्वं यजेन्मन्त्रकदम्बकम् | तत्पतीनां ततो वर्गं तत्रैव परिपूजयेत् ||᳚ इति || तदेव आह-- खगेन्द्रः सहविज्जाम्ब इल्लारि अम्बया सह || २९-२९ || वक्तष्टिर्विमलोऽनन्तमेखलाम्बायुतः पुरा | शक्त्या मङ्गलया कूर्म इल्लारि अम्बया सह || २९-३० || जैत्रो याम्ये ह्यविजितस्तथा सानन्दमेखलः |
SKकाममङ्गलया मेषः कुल्लारि अम्बया सह || २९-३१ || विन्ध्योऽजितोऽप्यजरया सह मेखलया परे | मच्छन्दः कुंकुणाम्बा च षड्युग्मं साधिकारकम् || २९-३२ || सौम्ये मरुत्त ईशान्तं द्वितीया पङ्क्तिरीदृशी | अमरवरदेवचित्रालिविन्ध्यगुडिका इति क्रमात्षडमी || २९-३३ || पुरेति--पूर्वस्याम् | याम्ये इति--दक्षिणे | अजरया सह मेखलयेति� अजरमेखलया सह--इत्यर्थः | परे इति--पश्चिमे | एवं पूर्वादिदिक्त्रये सिद्धस्तत्पत्नी सुतद्वयं चेति क्रमः | उत्तरस्यां पुनरयं विशेषः--इत्याह--षड्युग्ममिति | षण्णां पुत्रतत्पत्नीनां सम्बन्धि युग्मं तद्द्वादशकम्--इत्यर्थः | द्वितीयेति-- गुरुपङ्क्त्यपेक्षया | अनेन च दिक्चतुष्केऽपि पङ्क्तिक्रमेणैव पूजा कार्येति सूचितम् || तदेव द्वादशकमाह-- सिल्लारि एरुणया तथा कुमारी च बोधारि | समहालच्छी चापरमेखलया शक्तयः षडिमाः || २९-३४ || एरुणया अपरमेखलया च सह--इत्यर्थः ||३४ || साधिकारत्वमेव एषां व्यनक्ति-- एते हि साधिकाराः पूज्या येषामियं बहुविभेदा | सन्ततिरनवच्छिन्ना चित्रा शिष्यप्रशिष्यमयी || २९-३५ || चित्रत्वमेव अस्या दर्शयति-- आनन्दावलिबोधिप्रभुपादान्ताथ योगिशब्दान्ता | एता ओवल्ल्यः स्युर्मुद्राषट्कं क्रमात्त्वेतत् || २९-३६ || दक्षांगुष्ठादिकनिष्ठिकान्तमथ सा कनीयसी वामात् | द्विदशान्तोर्ध्वगकुण्डलिबैन्दवहृन्नाभिकन्दमिति छुम्माः || २९-३७ || शबराडबिल्लपट्टिल्लाः करबिल्लाम्बिशरबिल्लाः | अडबीडोम्बीदक्षिणबिल्लाः कुम्भारिकाक्षराख्या च || २९-३८ || देवीकोट्टकुलाद्रित्रिपुरीकामाख्यमट्टहासश्च | दक्षिणपीठं चैतत्षट्कं घरपल्लिपीठगं क्रमशः || २९-३९ || ओवल्ल्यः--ज्ञानप्रवाहाः | क्रमादिति--मुद्राछुम्माविषयम् | बिन्दोरिदं बैन्दवं भ्रूमध्यसंज्ञं स्थानम् | शबरेति-- पुलिन्दाख्यम् | अम्बीति--अम्बिल्लम् | दक्षिणेति--दक्षिणावर्तम् | कुलाद्रीति--कौलगिरिः | त्रिपुरीति--त्रिपुरोत्तरम् | कामेति--कामरूपम् | तदुक्तं श्रीकुलक्रीडावतारे-- ᳚तेषां मुद्राश्च छुम्माश्च पल्ली ओवल्लयस्था |
SKपीठक्रमो घराश्चैव पित्रा विभजता तथा || इत्युपक्रम्य ᳚बोधिश्चामरपादानां प्रभुश्च वरदेवके | चित्रः पादश्च संकप्रोक्ती ह्यलिरानन्दसंज्ञकः || विन्ध्यपादश्च योगी तु गुडिकावलिरेव च |᳚ इति | दक्षहस्तस्य चांगुष्ठादारभ्य च कनिष्ठिकाम् | वामस्य यावन्मुद्रा वै षट्सु विस्तरतः शृणु || अंगुष्ठो ज्येष्ठपुत्रस्य द्वितीयस्य तु तर्जनी | मध्यमा वै तृतीयस्य चतुर्थस्याप्यनामिका || पञ्चमस्य कनिष्ठा वै षष्ठस्य च कनिष्ठिका | इति | छुम्मकाः संप्रवक्ष्यामि कुलाम्नाये यथा स्थिताः | अतीतं प्रथमस्यापि द्वितीयस्य तु कुण्डली || भ्रूमध्ये वै तृतीयस्य सङ्घट्टश्च चतुर्थके | नाभिस्तु पञ्चमस्यैव जन्माधारस्तु षष्ठके || इति | षण्णां वै राजपुत्राणां घरपल्लिक्रमं शृणु | अमरस्य तु पट्टिल्लः दक्षिणावर्तपल्लिका || वरदेवे करबिल्लं पल्ली कुम्भारिका भवेत् | अम्बिल्लं चैव चित्रस्य बिल्लं पल्ली सुमध्यमे || अलिनाथे पुलिन्देति अडबी पल्लिरुच्यते | शरबिल्लं विन्ध्यनाथे पल्ली चाक्षरसंज्ञिता || गुडिकानाथपादानामडबिल्लं घरं प्रिये | डोम्बी पल्ली च निर्दिष्टा........................ || इति | त्रिपुरोत्तरे निकेतं सिद्धिस्थानं च तद्विदुः | अमरस्य वरारोहे वरदेवस्य कामरू || चित्रस्य अट्टहासं वै देवीकोट्टमलेस्तथा | दक्षिणं चैव विन्ध्यस्य गुडिका कौलगिर्यता ||᳚ इति || ३९ || ननु किमेवमोवल्ल्याद्युपदेशेन ?--इत्याशङ्क्य आह-- इति सङ्केताभिज्ञो भ्रमते पीठेषु यदि स सिद्धीप्सुः | अचिराल्लभते तत्तत्प्राप्यं यद्योगिनीवदनात् || २९-४० || एवं मुद्रादिवृत्तं जानानस्य हि साधकस्य तत्तत्सिद्धिकामतया पीठेषु परिभ्रम्यतस्तत्तन्मुद्रादिप्रदर्शनक्रमेण योगिन्यो निजां निजां सन्ततिं ज्ञात्वा क्षिप्रमेव निखिलसिद्धिप्रदा भवन्ति-- इत्यर्थः | यदुक्तम्-- ᳚यो यस्याः सन्ततेर्नाथः सा मुद्रा तस्य कीर्तिता | प्रसार्य हस्तं सन्दर्श्य नामाक्षरसमन्विताः || क्रमेण तेन ज्ञास्यन्ति स्वकीयां कुलसन्ततिम् |
SKऊर्ध्वं प्रदर्शयेद्यस्तु तस्य स्वं तु प्रदर्शयेत् || कौण्डिल्यादिषु सर्वेषु यो यस्य च निदर्शयेत् | अनेन सन्ततिज्ञा वै ज्ञास्यन्ति च निजं कुलम् ||᳚ इति || ४० || एवं साधिकारं राजपुत्रषट्कमभिधाय निरधिकारमपि अभिधत्ते-- भट्टेन्द्रवल्कलाहीन्द्रगजेन्द्राः समहीधराः | ऊर्ध्वरेतस एते षडधिकारपदोज्झिताः || २९-४१ || ननु अधिकार एव कः?--इत्याशङ्क्य आह-- अधिकारो हि वीर्यस्य प्रसरः कुलवर्त्मनि | तदप्रसरयोगेन ते प्रोक्ता ऊर्ध्वरेतसः || २९-४२ || अधिकारो हि नाम वीर्यस्य मन्त्रमुद्रासम्बन्धिनः स्फारस्य, चरमधातोश्च, कुलवर्त्मनि शैष्ये मध्यनाड्यादौ देहमार्गे शाक्ते च आद्याधारे, प्रसरः सङ्क्रमणम्, स एव एषां नास्तीति एते ऊर्ध्वरेतसः प्रोक्ताः स्वात्ममात्रविश्रान्तिसतत्त्वा एव--इत्यर्थः || ४२ || ननु श्रीदेवीपञ्चशतिकादौ-- ङिष्क्रियानन्दनाथश्च ज्ञानदीप्त्या सहैकतः | विद्यानन्दश्च रक्ता च द्वितीयं कथितं तव || शक्त्यानन्दो महानन्दा तृतीयं सिद्धपूजितम् | शिवानन्दस्तथा ज्ञेया समया तच्चतुर्थकम् ||᳚ इत्याद्युक्त्या अन्येऽपि सपत्नीका गुरव उक्तास्तद्वदिहापि कथं नोच्यन्ते?--इत्याशङ्क्य आह-- अन्याश्च गुरुतत्पत्नयः श्रीमत्कालीकुलोदिताः | अनात्तदेहाः क्रीडन्ति तैस्तैर्देहैरशङ्किताः || २९-४३ || प्रबोधिततथेच्छाकैस्तज्जे कौलं प्रकाशते | तथारूपतया तत्र गुरुत्वं परिभाषितम् || २९-४४ || ते विशेषान्न संपूज्याः स्मर्तव्या एव केवलम् | ततोऽभ्यन्तरतो वायुवह्न्योर्मातृकया सह || २९-४५ || मालिनी क्रमशः पूज्या ततोऽन्तर्मन्त्रचक्रकम् |
SKये च अन्ये शास्त्रान्तरोदिताः सपत्नीका गुरवः प्रतिनियतदेहानुपग्रहादनात्तदेहा अत एव अनन्यसंविदितत्वादशङ्किताः परपुरप्रवेशयुक्त्या प्रबोधितक्रीडाविषयेच्छावद्भिस्तैस्तैः स्त्रीपुंससम्बन्धिभिर्देहैः क्रीडन्ति सम्भोगलीलामनुभवन्ति, येन तादृशमेलकात् जाते सङ्क्रमणक्रमेण गर्भ एव निःसरणकाल एव वा तदुत्तरकालं वा कौलज्ञानं प्रकाशते यत एवंविधमेव एषां गुरुत्वमिति शास्त्रीयः समयोऽयं श्रीरहस्यराजिकायोगिनीभिः स्वभावाद्भगवत्याः प्रसादेन दृष्टं विग्रहाज्ज्ञानं लब्धम्, ताभिः स्वकुले गर्भस्थानां सङ्क्रामितम्, ताभिर्गर्भात् दृष्टम्, जातमात्राभिश्च अन्याभिर्दृष्टम्, अन्याभिः सप्तविंशतेः समानामन्ते दृष्टमिति | तदमूर्तत्वादिह ते केवलं स्मर्तव्या एव, न तु विशेषात् सम्पूज्याः पूर्वगुरुभिस्तथा नोपदिष्टाः-- इत्यर्थः | यद्वा विश्वयोन्याद्या व्याख्येयाः | यदुक्तमनेनैव-- ᳚विश्वं जगद्भावमथो प्रजापतिकुलं ततः | योनिशब्दान्तकं प्रोक्तं गुरूणां पञ्चकं त्विदम् || वीर्यं क्षोभो बीजं सृष्टिः सर्ग इतीमाः शक्तय उक्ताः | अत्युत्साहः शक्तिश्च क्षमसङ्गतिरुच्छला प्रकॢप्तिः || ता एताः किल शक्तयो निजगुरुस्फारैः समं बाह्यकं देहं कञ्चिदपि क्वचिज्जगृहिरे नैव स्वतन्त्रोदयः | इच्छामात्रबलेन यत्किल यदा द्वन्द्वं समध्यासते तत्र क्रीडितलालसाः परपदज्ञानं फलं तत्त्वतः ||᳚ इति | तत इति--द्वितीयस्मात् चतुरस्रात् | अभ्यन्तरत इति--व्योम्नि | क्रमश इति�तेन वायुकोणादारभ्य वह्निकोणं यावदुपर्युपरि क्रमेण मातृका पूज्या, मालिनी तु वह्नेर्वाय्वन्तमधोऽधः क्रमेणेति सिद्धम् | तत इति--मातृकामालिनीपूजानन्तरम् | अन्तरिति�यागमध्यवर्तिनि कर्णिकास्थानीये त्रिकोणे | तत्र पूर्वदक्षिणवामकोणेषु सभैरवं परादिदेवीत्रयम्, मध्ये च कुलेश्वरमिति | यद्वक्ष्यति-- शम्पूज्य मध्यमपदे कुलेशयुग्मं त्वरात्रये देवीः |᳚ (१२३) इति || एवं च अत्र अन्वर्थतामभिधास्यन्कुलेश्वर्या मुख्यतया पूजायां विनियोगमाह--
SKमन्त्रसिद्धप्राणसंवित्करणात्मनि या कुले || २९-४६ || चक्रात्मके चितिः प्रभ्वी प्रोक्ता सेह कुलेश्वरी | सा मध्ये श्रीपरा देवी मातृसद्भावरूपिणी || २९-४७ || पूज्याऽथ तत्समारोपादपराथ परापरा | एकवीरा च सा पूज्या यदि वा सकुलेश्वरा || २९-४८ || या नाम परादिमन्त्रसिद्धाद्यात्मतया प्राणबुद्धिकरणात्मतया च चक्रात्मके कुले पूज्यसमूहे पूजकशरीरे च विश्रान्तिधामत्वात् प्रभ्वी पूर्णस्फुरत्तामात्रसतत्त्वा चितिः प्रोक्ता, सैव इह कुलेश्वरीत्वात् तच्छब्दव्यपदेश्या--इत्यर्थः | तत्समारोपादिति प्रत्येकमभिसम्बन्धः | तेन पुष्पपाताद्यनुसारं या यस्य आराधयितुमिष्टा, सा तेन तथा पूज्या--इत्यभिप्रायः || ४८ || ननु एकवीरक्रमात् यामलक्रमेण पूजायां को विशेषः?--इत्याशङ्क्य आह-- प्रसरेच्छक्तिरुच्छूना सोल्लासो भैरवः पुनः | सङ्घट्टानन्दविश्रान्त्या युग्ममित्थं प्रपूजयेत् || २९-४९ || महाप्रकाशरूपायाः संविदो विस्फुलिङ्गवत् | यो रश्म्योघस्तमेवात्र पूजयेद्देवतागणम् || २९-५० || यदा हि भैरवोन्मुखी शक्तिः प्रसरेत् भैरवश्च पुनः शक्त्युन्मुखः, तदा इत्थं परस्परौन्मुख्यात् तयोः सङ्घट्टेन समापत्त्या योऽयमानन्दः स्वात्मचमत्कारस्तद्विश्रान्त्या युग्मं प्रपूजयेत् | ᳚आनन्देनैव सम्पन्ने ब्रह्मावस्थः स्वयं स्थितः |᳚ इत्याद्युक्त्या चिदानन्दैकघनपरब्रह्मस्वरूपमात्रसतत्त्वं यामलमनुसन्दध्यात्--इत्यर्थः | तमेवेति--न तु ततोऽतिरिक्तम्-- इत्यर्थः || ५० || तदेव आह-- अन्तर्द्वादशकं पूज्यं ततोऽष्टाष्टकमेव च | चतुष्कं वा यथेच्छं वा का सङ्ख्या किल रश्मिषु || २९-५१ || द्वादशकमिति--सृष्टिदेव्यादि, एकीकाराह्निके वक्ष्यमाणं वा | चतुष्कमिति--सिद्धादि, जयादि वा | यथेष्टमिति-- निजानुष्ठानावस्थितम् || ५१ ||
SKननु रश्मयस्तावदनन्ता इत्युक्तम् | तासां च शास्त्रान्तरेषु बहुप्रकारं निर्देश इति निर्निबन्धनमेव उपेक्षायां सर्वस्य तथाभावप्रसङ्गादनवस्थितमेव तदनुष्ठानं स्यादिति किमेतच्छास्त्राविहितमन्तर्द्वादशकं पूज्यमित्यादि उक्तम् ? सत्यमेवं किन्तु गुर्वन्तराणामयमाशय इत्येवमेतत् सन्दर्शितम् | तस्मात् मुख्यया वृत्त्या स्वकण्ठोक्तमष्टकद्वयमेव यामलक्रमेण सम्पूज्यम्--इत्याह- - माहेशी वैरिञ्ची कौमारी वैष्णवी चतुर्दिक्कम् | एन्द्री याम्या मुण्डा योगेशीरीशतस्तु कोणेषु || २९-५२ || पवनान्तमघोरादिकमष्टकमस्मिन्नथाष्टके क्रमशः | सङ्घट्टानन्ददृशा सम्पूज्यं यामलीभूतम् || २९-५३ || अष्टाष्टकेऽपि हि विधौ नानानामप्रपञ्चिते बहुधा | विधिरेष एव विहितस्तत्संख्या दीपमाला स्यात् || २९-५४ || क्रमश इति--त्र्यस्राद्बहिरष्टदले पद्मे पूर्वदक्षिणपश्चिमोत्तरेषु दलेषु अघोरादिसहितं माहेश्यादिचतुष्कं तदितरेषु अपि ईशात् वह्न्यन्तं सभौमादिकमैन्द्य्रदिचतुष्कं पूजयेत् | यदुक्तम्� ᳚पूर्वयाम्यापरादिक्षु माहेश्यादिचतुष्टयम् | इन्द्राणीपूर्वकं तद्वदैशादग्निदलान्तगम् ||᳚ इति, ᳚ततो वीराष्टकं पश्चाच्छक्त्युक्तविधिना यजेत् |᳚ इति च | अत्र ᳚क्षेत्रेऽष्टधा विभक्ते मध्ये भागद्वयाद्भ्रद्रमस्यान्तः | त्र्यस्रं कुर्यात्तदनु त्रिधा विभक्ते समन्ततो भागे || वसुदलमम्भोजमथो भागेन नभश्चतुष्किकाश्च चतुः | वेदास्रे दिक्षु ततो भागाः श्रुतिभावगामिन्यः || पार्श्वाभ्यामेवमिदं कुलक्रमे मण्डलं सचतुरस्रम् |᳚ इति मण्डलसंग्रहः | बहुधा नानानामप्रपञ्चिते इति-- कुलशास्त्राणामानन्त्यात् तन्नाम्नामपि नानात्वात् | नहि पूर्वाचार्याणामेतदिह पूज्यत्वेन अभिहितं येन परम्परया नैयत्येन तैर्नाम्नामपरिग्रहः स्यात्, किन्तु व्याप्तिमात्रप्रदर्शनाशयेनेति यथारुचि तन्नामानि ग्राह्याणीति | यदुक्तमनेनैव अन्यत्र-- ᳚अष्टकसप्तकस्य तु यथारुचीतरकुलशास्त्रेभ्यः | नामानीति तत्तत् कुलशास्त्रेभ्यो ग्राह्या नि ||᳚ इति |
SKअत्र च अष्टकसप्तकेत्यभिधानादष्टाष्टकमिह पूज्यतया सम्मतमित्येव संलक्षितम् | एवं हि अष्टकस्य पृथगावरणक्रमेण पूजनीयत्वं न स्यात् यथात्वे च श्रुतिविरोध इत्यलं बहुना | एष एवेति--यामललक्षणः | इह यावत्-- ᳚आवाहिते मन्त्रगणे पुष्पासवनिवेदितैः | धूपैश्च तर्पणं कार्यं श्रद्धाभक्तिबलोदितम् || दीप्तानां शक्तिनाथादिमन्त्राणामासवैः पलैः | रक्तैः प्राक्तर्पणं पश्चात्पुष्पधूपादिविस्तरः ||᳚ इत्याद्युक्त्या अवश्यकार्यं कुलक्रमे तर्पणम् | तत्र च महापशुप्रतिनिधित्वात् दीपचरोरेव प्राधान्यमिति प्रथमं तदेव उपहर्तव्यतया अभिधत्ते--तत्संख्या दीपमाला स्यादिति | तत्सङ्ख्येत्यनेन अष्टाष्टव्याप्तेरत्र आसूत्रणं कृतम् | एतच्च अभिषेकविषयमिति || ५४ || अत्र प्रकारान्तरमाह-- श्रीरत्नमालाशास्त्रे तु वर्णसंख्याः प्रदीपकाः | वर्णाश्च मुख्यपूज्याया विद्याया गणयेत्सुधीः || २९-५५ || तदुक्तं तत्र-- ᳚प्रदोषे विलीने मन्त्री दीपान्दद्याद्वरानने | वर्णसङ्ख्यान्वरारोहे चतुर्दिक्षु गतान्न्यसेत् ||᳚ इति | ᳚अथातः संप्रवक्ष्यामि मालिन्या यजनं परम् |᳚ इत्युपक्रान्तत्वात् मुख्यपूज्या मालिनीति तद्वर्णसङ्ख्यायाः पञ्चाशद्दीपा उक्ताः | तेन यावदक्षरा मूलविद्या तत्र, तावत्संख्या दीपाः कार्या इति सिद्धम् || ५५ || एवमियता सिद्धपत्नीकुलक्रममभिधाय, अर्चाप्रकारासूत्रणाय अत्र ससंवादं मतान्तरमपि अभिधातुमाह-- पीठक्षेत्रादिभिः साकं कुर्याद्वा कुलपूजनम् | यथा श्रीमाधवकुले परमेशेन भाषितम् || २९-५६ || श्रीमाधवकुले इति--श्रीतन्त्रराजभट्टारकग्रन्थैकदेशभूते-- इत्यर्थः | अत्र हि केषाञ्चन गुरूणां श्रीदेव्यायामलश्रीमाधवकुलार्थसम्मेलनया सम्प्रदायः समस्तीति श्रीमाधवकुलोक्तवक्ष्यमाणक्रमेण पीठादियुक्तं वा कुलक्रमपूजनं कार्यमित्युपक्षिप्तम् | तदेव आह� सृष्टिसंस्थितिसंहारानामक्रमचतुष्टयम् | पीठश्मशानसहितं पूजयेद्भोगमोक्षयोः || २९-५७ || भोगमोक्षयोरिति--तन्निमित्तम्--इत्यर्थः | तदुक्तं तत्र--
SKशृष्टिक्रमं तु प्रथममवतारं द्वितीयकम् | संहारं तु तृतीयं स्यादनाख्येयं चतुर्थकम् ||᳚ इति उपक्रम्य श कालकुलसम्भूतो भावनां भावयेत्स्फुटम् |᳚ इति | ᳚पीठक्रमेण चाम्नायं सङ्कर्षण्या त्वधिष्ठितम् | तैर्विना न भवेत्सिद्धिस्तत्पदं कथयामि ते |᳚ इति च | श्रीदेव्यायामले हि देवीत्रयं श्रीसङ्कर्षणी चेति चतुष्टयम् || ५७ || तत्र देहे पीठानां पदमभिधत्ते-- आत्मनो वाऽथवा शक्तेश्चक्रस्याथ स्मरेदिमम् | न्यस्यत्वेन विधिं देहे पीठाख्ये पारमेश्वरम् || २९-५८ || इममिति--वक्ष्यमाणम् ||५८ || तमेव आह-- अट्टहासं शिखास्थाने चरित्रं च करन्ध्रके | श्रुत्योः कौलगिरिं नासारन्ध्र्योश्च जयन्तिकाम् || २९-५९ || भ्रुवोरुज्जयिनीं वक्त्रे प्रयागं हृदये पुनः | वाराणसीं स्कन्धयुगे श्रीपीठं विरजं गले || २९-६० || एडाभीमुदरे हालां नाभौ कन्दे तु गोश्रुतिम् | उपस्थे मरुकोशं च नगरं पौण्ड्रवर्धनम् || २९-६१ || एलापुरं पुरस्तीरं सक्थ्यूर्वोर्दक्षिणादितः | कुड्याकेशीं च सोपानं मायापूक्षीरके तथा || २९-६२ || जानुजङ्घे गुल्फयुग्मे त्वाम्रतनृपसद्मनी | पादाधारे तु वैरिञ्चीं कालाग्न्यवधिधारिकाम् || २९-६३ || अट्टहासमिति--न्यस्यत्वेन स्मरेत्--इति पूर्वेण सम्बन्धः | एवमुत्तरत्रापि | शिखास्थाने इति--प्राणशक्तिविश्रान्त्यवस्थित्यात्मनि द्वादशान्ते--इत्यर्थः | वक्त्रे इति--आस्ये | हालामिति--अलिपुरम् | यदुक्तम्� ङाभिदेशे त्वलिपुरं कन्दोर्ध्वे परमेश्वरि |᳚ इति | गोश्रुतिमिति--गोकर्णम् | सक्थ्यूर्वोरिति जानुजङ्घे इति गुल्फयुग्मे इति च सर्वत्र दक्षिणत इति सम्बन्धनीयम् | तेन दक्षिणे सक्थ्नि नगरं वामे पौण्ड्रवर्धनं दक्षिणे ऊरावेलापुरं वामे पुरस्तीरं दक्षिणे जानुनि कुड्याकेशीं वामे सोपानं दक्षिणजङ्घायां मायापुरीं वामायां तु क्षीरकं दक्षिणे गुल्फे आम्रतकेश्वरं वामे तु राजगृहमिति | तदुक्तं तत्र-- ᳚दक्षिणे सक्थ्नि नगरं वामे स्यात् पौण्ड्रवर्धनम् | वामोरौ तु पुरस्तीरमेलापुरं तु दक्षिणे ||
SKकुड्याकेशी दक्षजानौ सोपानं चोत्तरे स्मृतम् | क्षीरकं वामजङ्घायां वामपुर्यपि दक्षिणे | आम्रतकेश्वरं गुल्फे वामे राजगृहं शुभम् ||᳚ इति | वैरिञ्चीमिति--ब्रह्माणीम्, श्रीशैलाख्यं तु तत्पीठम्-- इत्यर्थः | तदुक्तं श्रीकुलक्रमोदये-- ᳚श्रीशैले संस्थिता ब्रह्मी..................... | इत्यादि उपक्रम्य पादाधारस्थिता ब्रह्मी......................... |᳚ इति ||६३ || न च अत्र तात्स्थ्येन अवस्थातव्यं किन्तु अहमेव पीठस्तदधिष्ठात्र्यः शक्त्यश्चेति अनुसन्धातव्यं येन सिद्धिः स्यात्--इत्याह-- नाहमस्मि नचान्योऽस्ति केवलाः शक्तयस्त्वहम् | इत्येवं वासनां कुर्यात्सर्वदा स्मृतिमात्रतः || २९-६४ || तदुक्तं तत्र-- ङाहमस्मि नचान्योऽस्ति केवलाः शक्तयस्त्विति | क्षणमप्यत्र विश्रामं सहजं यदि भावयेत् | तदा स खेचरो भूत्वा योगिनीमेलनं लभेत् ||᳚ इति || ६४ || ननु देशकालव्रतादिनियन्त्रणया सिद्धिर्भवेदिति सर्वत्र उक्तम् | तत् कथमत्र अनुसन्धिमात्रेणैव एवं स्यात् ?--इत्याशङ्क्य आह-- न तिथिर्न च नक्षत्रं नोपवासो विधीयते | ग्राम्यधर्मरतः सिद्ध्येत्सर्वदा स्मरणेन हि || २९-६५ || ग्राम्यधर्मरतः इति--तद्वृत्तिः--इत्यर्थः | एतच्च प्रथमाह्निके एव उक्तमिति तत एवावधार्यम् || ६५ || ननु किं नाम तच्चक्रं यस्यापि न्यस्यत्वेन पीठाख्योऽयं विधिर्विवक्षितः?--इत्याशङ्क्य आह-- मातङ्गकृष्णसौनिककार्मुकचार्मिकविकोषिधातुविभेदाः | मात्स्यिकचाक्रिकदयितास्तेषां पत्न्यो नवात्र नवयागे || २९-६६ || कृष्णः कज्जलो डोम्ब इति यावत् | विकोषी ध्वजी कल्यपालः | धातुविभेदः अस्थिभेत्ता कापालिकः | तदुक्तं तत्र-- ᳚मातङ्गी कज्जली सौनी कार्मुकी चर्मकारिणी | ध्वजिनी चास्थिदलनी धीवरी चक्रिणी प्रिये ||᳚ इति | नवयागे इति--नवानां चक्राणां यजने--इत्यर्थः | तदुक्तं तत्र-- ङवयागरता देव्यः पूजयन्ति यथेश्वरम् | तद्वत्पूजा प्रकर्तव्या नवधा नवचक्रगा ||᳚ इति || ६६ || तद्गृहाण्येव च सङ्केतस्थानतया पीठानि--इत्याह--
SKसङ्गमवरुणाकुलगिर्यट्टहासजयन्तीचरित्रकाम्रककोट्टम् | हैमपुरं नवमं स्यान्मध्ये तासां च चक्रिणी मुख्या || २९-६७ || यदुक्तं तत्र-- ᳚मातङ्गीवेश्म सुभगे प्रयागं परिकीर्तितम् | कज्जली वरुणाख्यं तु सौनी कुलगिरिः प्रिये | कार्मुकी चाट्टहासं च जयन्ती चर्मकारिणी | चरित्रं ध्वजिनी प्रोक्तमेकाम्रस्थिविदारणी || देवीकोट्टं धीवरी तु हिरण्यपुरमेव च | नवमं चक्रिणीपीठं यत्सुरैरपि दुर्लभम् ||᳚ इति | तासामिति--मातङ्ग्यादीनाम् || ६७ || मुख्यत्वमेव अस्या दर्शयति-- बीजं सा पीडयते रसशल्कविभागतोऽत्र कुण्डलिनी | अध्युष्टपीठनेत्री कन्दस्था विश्वतो भ्रमति || २९-६८ || इष्ट्वा चक्रोदयं त्वित्थं मध्ये पूज्या कुलेश्वरी | सङ्कर्षिणी तदन्तान्ते संहाराप्यायकारिणी || २९-६९ || एकवीरा चक्रयुक्ता चक्रयामलगापि वा | अत्र हि सा कन्दे निखिलजगदुत्पत्तिमूलभूते प्रकाशात्मनि परप्रमातरि आभिमुख्येन वर्तमाना, अत एव गर्भीकृतविश्वत्वात् कुण्डलिनीरूपा पराशक्तिर्यदा स्वस्वातन्त्र्यात् भेदप्रथामवबिभासयिषुरध्युष्टपीठे नेत्री देहादिप्रमातृतामवलम्बमाना विश्वतो भ्रमति-- तत्तन्नीलसुखाद्यात्मतया परितः स्फुरति, तदा पुनरपि आत्मन्येव विश्वं विश्रमयितुमुद्यच्छन्ती रसशल्कविभागतो बीजं पीडयते-- देहादिप्रमातृतान्यक्कारक्रमेण परसंविद्रसमुत्कर्षयन्ती विश्वकारणं मायां तिरस्करोति--इत्यर्थः | अन्यच्च सैव कन्दाधारस्था प्राणकुण्डलिनीरूपा बीजम्-- पुष्पादिनिमित्तमुपभुक्तमाहारादि, रसकिट्टादिरूपतया परिणामयति येन देहाधारं प्रेरयन्ती विश्वतो भ्रमति सर्वतो नाडीचक्रादौ प्राणनात्मतया अवतिष्ठते--इत्यर्थः | अथ च बहिः सा चाक्रिकी सार्धत्रिहस्तप्रायपरिमाणं चक्रं प्रेरयन्ती तन्मध्यस्था विश्वतः सर्वतोदिक्कं भ्रमति येन सर्वतोदिक्कं भ्रमणादेव कुण्डलिनी बीजं तिलादि रसशल्कविभागतः पीडयते तैलपिण्याकविभागासादनपर्यन्तं निष्पीडयति--इत्यर्थः | तदुक्तम्-- ङवमी चक्रिणी या सा भ्रमन्ती विश्वमध्यगा |
SKसर्वं बीजं पीडयन्ती रसशल्कविभागतः || सा च कुण्डलिनी नाम कन्दवेष्टविनिर्गता |᳚ इति | चक्रोदयमिति--उदितं चक्रम्--इत्यर्थः | सङ्कर्षिणी-- सप्तदशाक्षरा | यदुक्तं श्रीदेव्यायामले-- ङाशार्णं च नितम्बं च प्राणं शूलार्धयोजितम् | नितम्बं प्राणमुद्धृत्य क्षीरवर्णेन संयुतम् || त्रिलोचनं कर्णवर्णं बाहुदक्षिणयोजितम् || दन्तार्णं तृतीयोद्धृत्य दक्षजानुसुसंस्थितम् | गुह्यकण्ठे निवेश्येत शूलदण्डं तु जिह्वयोः || शिरोमालार्णद्वितीयं हस्तयोर्योजितं पुनः | नेत्रं तथैव परत उत्तमाङ्गं तथैव च || वामपादं कपालस्थं पञ्चधा योजयेत्ततः | त्रिदशैरपि सम्पूज्या विद्या सप्तदशाक्षरा || कालसङ्कर्षिणी नाम्ना............................ |᳚ इति | इयमेव च विद्या श्रीमाधवकुलेऽपि ᳚मोहिनी काल आत्मा च वीरनाथेति योजयेत् | इत्यादिना मदीयभूषणैर्युक्तं पञ्चधारार्धमुद्धरेत् |᳚ इत्यन्तेन उक्ता येनायमेव गुर्वाम्नायः | तदन्तान्ते इति--तस्य चक्रस्य अन्तः अराप्रायः, तस्यापि अन्ते पूर्णाहंपरामर्शात्मनि विश्रान्तिधामनि--इत्यर्थः | तदुक्तम्-- ᳚एवं चक्रोदयं ज्ञात्वा मध्ये ज्ञा कालकृन्तनी | तस्यान्तान्ते तु या आस्ते सा तु सङ्कर्षिणी स्मृता ||᳚ इति | चक्रयामलगेति--चक्रे यत् यामलं, तद्गता यामलक्रमेण चक्रयुक्ता--इत्यर्थः || अत्र कथं पीठानि साहित्येन पूज्यानि?--इत्याशङ्क्य आह-- ईशेन्द्राग्नियमक्रव्यात्कवायूदक्षु हासतः || २९-७० || त्रिकं त्रिकं यजेदेतद्भाविस्वत्रिकसंयुतम् | एवमीशानकोणे अट्टहासश्चरित्रं कुलगिरिश्चेति त्रयं यजेद्यावदुदीच्यामाम्रतकेश्वरे राजगृहं श्रीपर्वतश्चेति त्रयमिति | न च एतदेकैकं पीठं केवलमेव यजेत्--इत्याह-- भाविस्वत्रिकसंयुतमिति, भावीति--वक्ष्यमाणम् || तदेव आह-- हृत्कुण्डली भ्रुवोर्मध्यमेतदेव क्रमात् त्रयम् || २९-७१ || श्मशानानि क्रमात्क्षेत्रभवं सद्योगिनीगणम् | यजेदिति पूर्वेण अत्र सम्बन्धः | क्षेत्रभवमियत्तत्पीठजातम्-- इत्यर्थः | तदुक्तम्--
SK᳚.........................ॠइशकोणादितः क्रमात् | पूर्वदक्षिणवारुण्यः सौम्या याश्च दिशः प्रिये ||᳚ इति, ᳚श्मशानं हृत्प्रदेशः स्यात्कल्पवृक्षस्तु कुण्डली | भ्रूमध्यं योगिनीक्षेत्रं ज्ञातव्यं योगिनीकुले ||᳚ इति च || कृतायां पूजायां नैवेद्येनैव अवश्यभाव्यम्--इत्याह-- वस्वंगुलोन्नतानूर्ध्ववर्तुलान् क्षाममध्यकान् || २९-७२ || रक्तवर्तीञ्श्रुतिदृशो दीपान्कुर्वीत सर्पिषाम् | श्रुतिदृश इति--चतुर्विंशतिः | तदुक्तम्-- ᳚चतुर्विंशतिदीपांश्च चतुर्दिक्षु प्रदापयेत् | पिष्टात्मकाश्च आधारमध्यक्षामाः सुवर्तुलाः || अष्टांगुलप्रमाणस्थाः शोभनाश्चतुरंगुलाः | घृतदीपेन संयुक्ता रक्तवर्त्युपरिस्थिताः ||᳚ इति || अत्रैव पक्षान्तरमाह-- यत्किञ्चिदथवा मध्ये स्वानुष्ठानं प्रपूजयेत् || २९-७३ || अद्वैतमेव न द्वैतमित्याज्ञा परमेशितुः | सिद्धान्तवैष्णवाद्युक्ता मन्त्रा मलयुतास्ततः || २९-७४ || तावत्तेजोऽसहिष्णुत्वान्निर्जीवाः स्युरिहाद्वये | यत्किञ्चिदिति--अभीष्टम् | तदुक्तम्-- ᳚यो यस्मिन्मन्त्रयोगेन तन्त्राचारपदे स्थितः |᳚ इत्युपक्रम्य श्वक्रमं तु यजेन्मध्ये द्वैताचारं तु वर्जयेत् ||᳚ इत्युक्त्वा शिद्धान्तवैष्णवबौद्धा वेदान्ताः स्मार्तदर्शनाः | ते प्रयत्नेन वा वर्ज्या यस्मात्ते पशवः स्मृताः || अद्वैतद्रवसंपर्कात्सन्निधानं त्यजन्ति ते | पराङ्मुखत्वमायान्ति निर्जीवा जीववर्जिताः ||᳚ इति || अतश्च तदुपकरणजातमपहाय इहत्यमेव तदाश्रयणीयं येन विनायासं सिद्धिः स्यात्--इत्याह-- कलशं नेत्रबन्धादि मण्डलं स्रुक्स्रुवानलम् || २९-७५ || हित्वात्र सिद्धिः सन्मद्ये पात्रे मध्ये कृशां यजेत् | अहोरात्रमिमं याग कुर्वतश्चापरेऽहनि || २९-७६ || वीरभोज्ये कृतेऽवश्यं मन्त्राः सिद्ध्यन्त्ययत्नतः | पीठस्तोत्रं पठेदत्र यागे भाग्यावहाह्वये || २९-७७ || अपरेऽहनीति--प्रभातायां रात्रौ--इत्यर्थः | तदुक्तम्-- ᳚कलशं नेत्रबन्धं च मण्डलादि विवर्जयेत् | तैर्विहीने भवेत्सिद्धिरग्निना स्रुक्स्रुवादिभिः || मद्यपूर्णेषु भाण्डेषु पूर्वोक्तेषु गणाम्बिके |
SKरसायनमयोक्तेषु मध्ये पूज्या कृशोदरी ||᳚ इत्यादि उपक्रम्य ᳚पूर्वाह्णे वाऽपराह्णे वा अहोरात्रं वियोगतः | पीठस्तोत्रं पठेद्रात्रौ जपं कुर्यात्समाहितः || प्रभाते विमले प्रोक्तं वीरभोज्यं तु कारयेत् | महाभाग्योदयो जायेद्राज्येऽन्ते खेचरो भवेत् ||᳚ इति || ७७ || यद्वा मण्डलादिपरिहारेण चक्रमेव पूजयेत्--इत्याह-- मूर्तीरेवाथवा युग्मरूपा वीरस्वरूपिणीः | अवधूता निराचाराः पूजयेत्क्रमशो बुधः || २९-७८ || मूर्त्तीरेवेति--एवकारेण केवलाः शक्तीः | वीरस्वरूपिणीरिति-- केवला एकवीराः | अवधूताः--निर्विकल्पाः || ७८ || ननु केवलशक्तिपक्षे पूजा कथङ्कारं परिपूर्तिमियात्?--इत्याशङ्क्य आह-- एक एवाथ कौलेशः स्वयं भूत्वापि तावतीः | शक्तीर्यामलयोगेन तर्पयेद्विश्वरूपवत् || २९-७९ || अथ स्वयमेक एव भूत्वा गुरुः कुलेश्वरैकात्म्यात् कौलेशः, अत एव विश्वरूप इव तावतीर्बह्वीरपि शक्तीर्यामलयोगेन तर्पयेत् सङ्घट्टानन्दसामरस्यमयतया स्वात्मविश्रान्तिमात्रसतत्त्वाः कुर्यात्--इत्यर्थः || ७९ || ननु इह कस्मात् ᳚उदगयने शुभवारे स्थिरलग्ने स्थापनाधिवासः स्यात् |᳚ इत्यादिवत् प्रतिनियतः कालः कुलयागे नोक्तः ?--इत्याशङ्क्य आह-- क्रमो नाम न कश्चित्स्यात्प्रकाशमयसंविदि | चिदभावो हि नास्त्येव तेनाकालं तु तर्पणम् || २९-८० || इह शकृद्विभातोऽयमात्मा |᳚ इति न्यायेन महाप्रकाशमयी संविदनिदंप्रथमतया प्रवृत्ता अनुपरतेन रूपेण आभासते, न तु विद्युदुद्द्योतवदन्तरान्तरा विच्छेदेनेति न अत्र क्रमो नाम कश्चिद्विद्यते, भेदाश्रयत्वात्तस्य | अतश्च तदेकजीवितः कालोऽपि अत्र नास्तीति अकालमेव तर्पणमुक्तम् | यो हि यत्र न प्रपतति, स कथं तत्र अवच्छेदकतामियात्--इत्याशयः || ८० || अत एव देशक्रमोऽपि अत्र नास्ति--इत्याह-- अत्र क्रमे भेदतरोः समूलमुन्मूलनादासनपक्षचर्चा | पृथङ् न युक्ता परमेश्वरो हि स्वशक्तिधाम्नीव विशंश्रमीति || २९- ८१ || स्वशक्तिधाम्नीति-- ᳚शक्त्योऽस्य जगत्कृत्स्नं.................... |᳚
SKइत्याद्युक्त्या हि सर्वं स एवेति को नाम तदतिरिक्तो देशोऽस्ति योऽपि अस्य आसनतां गच्छेत् || एवमर्चाविधिमभिधाय, तत्सङ्गतमेव जपस्वरूपं निर्णयति-- ततो जपः प्रकर्तव्यस्त्रिलक्षादिविभेदतः | उक्तं श्रीयोगसञ्चारे स च चित्रस्वरूपकः || २९-८२ || त्रिलक्षादिविभेदवत्त्वे अस्य किं प्रमाणम्?--इत्याशङ्क्य उक्तम्--उक्तं श्रीयोगसञ्चारे इति | तदेव पठति--स च चित्रस्वरूपकः || ८२ || चित्रस्वरूपत्वमेव अस्य दर्शयति-- उदये सङ्गमे शान्तौ त्रिलक्षो जप उच्यते | आस्ये गमागमे सूत्रे हंसाख्ये शैवयुग्मके || २९-८३ || पञ्चलक्षा इमे प्रोक्ता दशांशं होममाचरेत् | नेत्रे गमागमे वक्त्रे हंसे चैवाक्षसूत्रके || २९-८४ || शिवशक्तिसमायोगे षड्लक्षो जप उच्यते | नेत्रे गमागमे कर्णे हंसे वक्त्रे च भामिनि || २९-८५ || हस्ते च युग्मके चैव जपः सप्तविधः स्मृतः | नेत्रे गमागमे कर्णावास्यं गुह्यं च गुह्यकम् || २९-८६ || शतारेषु च मध्यस्थं सहस्रारेषु भामिनि | जप एष रुद्रलक्षो होमोऽप्यत्र दशांशतः || २९-८७ || नेत्रे गमागमे कर्णौ मुखं ब्रह्मबिलान्तरम् | स्तनौ हस्तौ च पादौ च गुह्यचक्रे द्विरभ्यसेत् || २९-८८ ||
SKउदये इति--प्राणशक्त्युदयस्थाने जन्माधारे | सङ्गमे इति-- नानानाडिसंभेदभाजि हृदये | शान्ताविति--प्राणनिरोधाय युगपद्गाढावधानात्मके--इत्यर्थः | गमागमे इति-- प्राणापानप्रवाहरूपे | सूत्रे इति--अक्षनाडीचक्रसूत्राणां भुवि | हंसाख्ये इति--आत्मावभासके हृदये | युग्मके इति-- शिवशक्तिसमायोगात्मनि जन्माधारे, द्वादशान्ते वा | गुह्यं जन्माधारः | गुह्यकमिति--गुहायां भवं गुह्यं रन्ध्रम्, तेन उपलक्षितं कम् करन्ध्रम् ब्रह्मबिलमिति यावत् | शतारेष्विति सहस्रारेष्विति एवमादिकासु असङ्ख्यासु बह्वीषु नाडीषु | मध्यमं स्थानम् हृदयं नाभिश्च--इत्यर्थः | अत्रापि होम इति--अपिशब्देन सर्वत्र दशांशो होमः कार्य इति आवेदितम् | गुह्यचक्रे इति� योगिनीवक्त्राजवक्त्रापरपर्यायौ जन्माधारद्वादशान्तौ | जप एष षोडशलक्ष इति प्राग्रीत्या कल्पनीयम् | यत एवमादिषु स्थानेषु प्राणो रद्विभ्रमेत्--इति सर्वशेषः || ८८ || एतत् स्वयमेव व्याचष्टे-- यत्र यत्र गतं चक्षुर्यत्र यत्र गतं मनः | हंसस्तत्र द्विरभ्यस्यो विकासाकुञ्चनात्मकः || २९-८९ || यत्र यत्र वक्त्रादौ स्थाने चक्षुर्मनो वा गतम्, यत्रैव असावनुसन्धत्ते योगी; तत्रैव हंसो हानसमादानधर्मा प्राणो विकासाकुञ्चनात्मकत्वात् द्विरभ्यस्यो निर्गमप्रवेशपर एव--इत्यर्थः | तेन अस्य एवमुक्तानामास्यादीनामपमार्गाणां निरोधे अनुसन्धातव्यं येन सर्वतो रुद्धः सन् गत्यन्तराभावान्मध्यधामैव असावनुप्रविशतीति | अत्र हि प्रविष्टस्य एकात्म्येन मन्त्रमुञ्चारयन्योगी तां तामासादयेत् सिद्धिम् | यदुक्तमन्यत्र-- ᳚जपेत्तु प्राणसाम्येन ततः सिद्ध्यरहो भवेत् |᳚ इति | एतदधिगमायैव च षोडशलक्षो जपः कार्यः इत्येवमादि उक्तम् | यत्तु लक्षाणां यथायथं न्यूनत्वमुक्तं तत्र योगिनामनुसन्धानतारतम्यं निमित्तम् || ८९ || एवमपमार्गनिरोधात् मध्यधामनि एव प्ररोहं प्राप्तः प्राणः संविद्रूपोद्रेकात् विश्वात्मकतामेव यायात् | तदाह-- स आत्मा मातृका देवी शिवो देहव्यवस्थितः |
SKस देहव्यवस्थितोऽपि हंसः प्राप्तमन्त्रदेवतैकात्म्यः सन् आत्मा संकुचिताणुरूपः | ᳚शक्तिस्तु मातृका ज्ञेया सा च ज्ञेया शिवात्मिका |᳚ इत्याद्युक्त्या मातृका देवी पारमेश्वरी शक्तिः शिवश्च नरशक्तिशिवात्मतया स एव परिस्फुरेत्--इत्यर्थः || अत एव मन्त्रस्य प्राप्ततदैकात्म्यस्य प्राणस्य आत्मनश्च मन्त्रयितुर्न न कञ्चिदपि भेदमनुसन्दध्यात्--इत्याह-- अन्यः सोऽन्योऽहमित्येवं विकल्पं नाचरेद्यतः || २९-९० || यो विकल्पयते तस्य सिद्धिमुक्ती सुदूरतः | अथ षोडशलक्षादिप्राणचारे पुरोक्तवत् || २९-९१ || ᳚पृथङ्मन्त्रः पृथङ्मन्त्री न सिद्ध्यति कदाचन | ज्ञानमूलमिदं सर्वमन्यथा नैव सिद्ध्यति ||᳚ इत्यनेनैव अभिप्रायेण सर्वशास्त्रेषु ᳚..............................एकान्ते जपमारभेत् |᳚ इत्यादि उक्तम् || ९१ || मुख्यया वृत्त्या हि विकल्पविगम एव एकान्त उच्यते | तदाह-- शुद्धाशुद्धविकल्पानां त्याग एकान्त उच्यते | तत्रस्थः स्वयमेवैष जुहोति च जपत्यपि || २९-९२ || जपः सञ्जल्पवृत्तिश्च नादामर्शस्वरूपिणी | तदामृष्टस्य चिद्वह्नौ लयो होमः प्रकीर्तितः || २९-९३ || आमर्शश्च पुरा प्रोक्तो देवीद्वादशकात्मकः | द्वे अन्त्ये संविदौ तत्र लयरूपाहुतिक्रिया || २९-९४ || दशान्यास्तदुपायायेत्येवं होमे दशांशताम् | श्रीशम्भुनाथ आदिक्षत् त्रिकार्थाम्भोधिचन्द्रमाः || २९-९५ || श च द्वादशधा तत्र सर्वमन्तर्भवेद्यतः |᳚ (४|१२३) इति | तत्रेति--द्वादशकमध्यात् | द्वे अन्त्ये संविदाविति-- परप्रमातृस्वातन्त्र्यशक्तिरूपे | एते एव च अस्मद्दर्शने श्वतन्त्रो बोधः परमार्थः᳚ इत्याद्युक्त्या विश्रान्तिस्थानमित्येवमुक्तं तदुपायायेति, मेयमानादिसोपानक्रमेण परप्रमातरि विश्रान्तेरुक्तत्वात् | एतच्च शाक्तोपायाह्निक एव विभज्य उक्तमिति तत एव अवधार्यम् | एवमत्र होमस्य दशांशतायामयमभिप्रायः-- इत्यस्मद्गुरवः || ९५ || एवं जपहोमपर्यन्तमर्चाविधिमभिधाय दौतं विधिमभिधातुमुपक्रमते-- साकं बाह्यस्थया शक्त्या यदा त्वेष समर्चयेत् |
SKतदायं परमेशोक्तो रहस्यो भण्यते विधिः || २९-९६ || ङित्योदिता परा शक्तिर्यद्यप्येषा तथापि तु | बाह्यचर्याविहीनस्य दुष्प्रापः कौलिको विधिः ||᳚ इत्याद्युक्त्या बाह्यचर्यया तावदवश्यभाव्यम् | तत्रापि च दूतीमन्तरेण न काचित्तत्सम्पत्तिः--इत्याह--बाह्यस्थया शक्त्या साकमिति | तदुक्तम्-- ᳚कर्तव्या सर्वतो दूतिर्दूतिहीनो न सिद्धिभाक् |᳚ इति | तथा ᳚ब्रह्मणस्य यथा पत्नी तया सह यजेन्मखे | एवं दूतिः कुलाचार्ये ज्ञेया नित्योदिते कुले ||᳚ इति || ९६ || ननु सर्वत्र अविशेषेणैव भगवदाराधकस्य ᳚अदाम्भिको गुरौ भक्तो ब्रह्मचारी जितेन्द्रियः | शिवूजापरो मौनी मद्यमांसपराङ्मुखः ||᳚ इत्यादि लक्षणमुक्तम् | तत्कथमिह बाह्यस्थया शक्त्या सह समर्चयेदित्युक्तम्?--इत्याशङ्कां परमेश्वरोक्त्यैव निरवकाशयन्नमुष्य विधेः पीठिकाबन्धं करोति-- उक्तं श्रीयोगसञ्चारे ब्रह्मचर्ये स्थितिं भजेत् | ननु ब्रह्मैव नाम किं यदाचरणेऽपि स्थितिं भजेत्?--इत्याशङ्क्य आह-- आनन्दो ब्रह्म परमं तच्च देहे त्रिधा स्थितम् || २९-९७ || उपकारि द्वयं तत्र फलमन्यत्तदात्मकम् | ᳚आनन्दो ब्रह्मणो रूपं............................ |᳚ इति | परममित्यनेन अस्य अवश्यसेव्यत्वमुक्तम् | तच्च न केवलं परब्रह्मादिविभेदमात्मनि एव स्थितं यावदनात्मरूपे बाह्यशरीरादावपि--इत्याह--देहे इति | तत्रेति--त्रयाणां मध्यात् | द्वयमिति--मद्यमांसलक्षणम् | अन्यदिति--मैथुनम् | मद्यमांसपानाशनप्रवर्धितधातुर्हि रममाण आनन्दमियादित्युक्तम्-- उपकारीति फलमिति च | अत एव तदात्मकमिति सर्वशेषत्वेन उक्तम् | तच्छब्देन च अत्र आनन्दपरामर्शः || एवमेषां ब्रह्ममयत्वादेतदनुष्ठाता ब्रह्मचारीत्युच्यते--इत्याह-- ओष्ठ्यान्त्यत्रितयासेवी ब्रह्मचारी स उच्यते || २९-९८ || ओष्ठ्यः पवर्गः, तस्य अन्त्यो मकारस्तत्त्रितयम्--मद्यमांसमैथुन लक्षणम् || ९८ || ननु ङ मांसभक्षणे दोषो न मद्ये न च मैथुने | प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ||᳚ (मनु. ५|५६)
SKइत्याद्युक्त्या मांसादिनिवृत्तौ शास्त्रं प्रयोजकं न तत्प्रवृत्तौ, तस्याः स्वारसिकत्वात् | नहि मलिनः स्नायात् बुभुक्षितोऽश्नीयादित्यादौ क्वचिच्छास्त्रमुपयुक्तम् | तत्किमेतदुक्तम्?--इत्याशङ्क्य आह-- तद्वर्जिता ये पशव आनन्दपरिवर्जिताः | आनन्दकृत्त्रिमाहारास्तद्वर्जं चक्रयाजकाः || २९-९९ || द्वयेऽपि निरये यान्ति रौरवे भीषणे त्विति | इह ये केचन कुलप्रक्रियामनुप्रविष्टा अपि तत्र विहितमपि एतत् लोभेन विचिकित्सया वा चक्रयागादौ स्वस्मै परस्मै वा न ददति, ते पशव एव यतः परब्रह्मात्मभूतेन तदुद्भूतेन आनन्देन परिवर्जिता देहादावेव गृहीतात्माभिमानाः--इत्यर्थः | तदुक्तम्-- ᳚कुलाम्नायेषु ये सक्ता एभिर्द्रव्यैर्बहिष्कृताः | पशवस्ते समुद्दिष्टा न तैस्तु सह वर्तनम् ||᳚ इति | येऽपि स्वयं गर्धवशादानन्दकृतस्त्रीन् मानाहरन्ति-- मकारत्रयमुपभुञ्जते, चक्रं पुनर्लोभादिना तद्वर्जं यजन्ते; तेऽपि पशव एवेति प्राच्येन सम्बन्धः | तदुक्तम्-- ᳚विना गुरुं विना देवं मूढवत्परमेश्वरि | मद्यमांसाशिनो नित्यं पशवस्ते न सशयः ||᳚ इति | एवं द्वयेऽपि ते विहितस्य अकरणादविहितस्य च करणाद्भीषणे रौरवे नरके यान्ति तत्र यातनासहस्राणि अनुभवन्ति--इत्यर्थः | एवमेतत् कुलमार्गानुप्रविष्टेन सर्वथा स्वात्मानन्दव्यञ्जकतामात्रपरतया सेव्यं न तु तद्गर्धेन | तथात्वे हि अस्य लौकिकेभ्यः को विशेषः स्यात् | यदाहुः-- ᳚ब्रह्मण्यानन्दाख्यं रूपमतो यत्समाश्रयवशेन | लभ्यत एव तदखिलं समाहरेद्विषयगर्धनिर्मुक्तः || कामान्मोहाद्विषयाव्यतिरिक्तभावसंरूढात् | प्रसरत्यानन्दो यः सोऽपि पशूनामपीह साधारः || चिन्मात्रात्परत्वे संवित्तेर्व्यञ्जको हि यो विषयः | योग्यात्मना विभाति च भोक्तुः स्वात्मन्यभेदतः सततम् | उक्तः स एव विषयो भिन्नश्चाभेदितां समायातः |᳚ इति, ᳚अपरिच्युतस्वरूपैरपृथग्भूतापि विषयसंवित्तिः | भुज्यत एव त एते वीरव्रतिनो महाक्रमारूढाः | लक्षस्थो जपरूढो नियमरतो ब्रह्मचर्यशान्तमनाः |
SKसङ्घट्टेऽपि च रूढो महामनस्वी सुशान्तवपुः || अतिमार्गविनयकथितैः समयाधर्मैश्च संग्रहो यस्य | योऽपि महासंबुद्धः संविन्मय एव सर्वदा स्वस्थः || स्वात्मानुभूतिसिद्ध्यै विषयस्पर्शी न लौल्यभावनया | पशुभावनाविमुक्तः स ह्यभियुक्तो महामार्गे || यः सावधानवृत्तिः स्वात्मनि मध्येऽपि लोकयात्रायाम् | वामाचारविधावपि भवत्यसौ पालने सदास्खलितः || यश्चरमधातुसर्गे समयलवस्यान्तरे स्वसंवृत्त्या | सर्वासां वृत्तीनां प्रत्यस्तमनाश्चेतसो झटिति || आनन्दसंविदुदयो रूपं तद्ब्रह्मणः समाख्यातम् |᳚ इति च || ननु अत्र मद्यमांसासेवनं सुकरमिति आस्तामेतत् | इतरत् तु अमर्त्यानामपि दुष्करं किं पुनर्दौर्भाग्यभाजां मर्त्यानाम् | तस्मात् ᳚ततस्तत्रानयेद्दूतीं मदघूर्णितलोचनाम् | बिम्बोष्ठीं चारुदशनां सभ्रूभङ्गाननां शुभाम् || त्रस्तबालमृगाभासनयनां चारुहासिनीम् | स्फुरद्भ्रमरसङ्घातनिभसत्केशपाशिकाम् || कामकार्मुकसङ्काशभ्रूभङ्गतरलेक्षणाम् | द्रवच्चामीकराकारसवर्णां निस्तरङ्गिणीम् || कर्णाभरणसच्चित्रशोभाशतसुशोभनाम् | सत्कम्बुनिभसत्कण्ठवरभूषणभूषिताम् || गजकुम्भनिभोद्दामस्तनभारावनामिताम् | सुवृत्तोपचिताकारबाहुकन्दलिमण्डिताम् || सत्पञ्चफणसङ्काशकरशाखाविराजिताम् | स्फुरद्रत्नशिखाचित्रकोर्मिकांगुलिशोभिताम् || पूर्णेन्दुवरलावण्यवदनां चित्तहारिणीम् | हरिहेतिमहासिंहपिपीलवरमध्यगाम् || त्रिवलिश्रेणिसद्बिम्बजघनालसगामिनीम् | रम्भाकरिकराकारवरोरुवरजङ्घिकाम् || सत्कामरथचक्राभगुल्फपादसुशोभनाम् || प्रलम्बहेमाभरणहारावलिविराजिताम् | स्फुरन्मञ्जीरझाङ्काररशनामुखरस्वनाम् || पारिहार्यभणत्कारवलयध्वानमन्थराम् | मत्तनागेन्द्रसङ्काशगतिं गम्भीरनाभिकाम् || हंसगद्गदवाग्वंशसदृशां शुभभाषिणीम् | केयूरसूत्रिकामोदिपुष्पस्रग्दामभूषिताम् || महापञ्चफणापीडताम्बूलवरलालसाम् | नृत्तगीतससीत्कारलीलाकुट्टमितावृताम् || निस्तरङ्गां सवर्णां च देव्येकार्पितमानसाम् |
SKलोभमोहपरिक्षीणचेतसं चित्स्वभाविकाम् || भैरवैकचमत्कारचर्वणैकस्वरूपिणीम् | सा दूतिर्मोहनीमुद्रा जगत्यस्मिंश्चराचरे ||᳚ इति | श्रीतन्त्रराजभट्टारके-- शुभगा सत्यशीला च दैशिकाज्ञानुवर्तिनी | प्रियवादिनी सुस्वरूपा सात्त्विका सङ्गवर्जिता || भैरवाचारसम्पन्ना अमृतानां च सस्पृहा | सदैवाद्वैतनिरता अभ्यासस्था दृढव्रता || पुत्रवत्पश्यते सर्वान्न जुगुप्सेत्प्रसन्नधीः | सदाचारकुलोत्पन्ना अप्रसूता सुकेशिनी || मद्यकामत्तमृद्वङ्गी शुक्राढ्या चारुहासिनी | सुस्निग्धा च विनीता च सदातिथ्यसुभाविता || मन्त्रार्पितस्वरूपा च निर्मला निरहङ्कृतिः | पारम्पर्यक्रमस्था तु लोकाचारानुवर्तिनी || नित्ये नैमित्तिके चैव क्रमपर्वसु वर्तिनी | कामतन्त्रक्रियानिष्ठा जानाना देवतर्पणम् || सन्तुष्टा सर्वभावेषु.............................. |᳚ इति श्रीत्रिशिरोभैरवे च प्रोक्तलक्षणा बाह्या शक्तिरप्राप्यैव | नहि एवंविधाः सर्वे गुणा एकत्र सङ्घटमानाः क्वचित् कदाचित् दृष्टाः | यदाहुः-- ᳚.............क्व नु पुनः सर्वत्र सर्वे गुणाः |᳚ इति | अनेवं विधा च दूतिः परिहरणीया | यदुक्तम्-- ᳚अदूतिको वरं यागो न तु दुर्दूतिदूषितः |᳚ इति | न च अत्र विषभक्षणवाक्यवददूतिकत्वे तात्पर्यम् | तददूतिको यागो न कार्यः, दूतिश्च एवंविधा न प्राप्येत्यशक्त्यानुष्ठानमेतत् ?--इत्याशङ्क्य आह-- शक्तेर्लक्षणमेतावत्तद्वतो ह्यविभेदिता || २९-१०० || तादृशीं तेन तां कुर्यान्नतु वर्णाद्यपेक्षणम् | हीनाया अपि शक्तेरनेका सिद्धिः स्यात् | यदुक्तम्-- ᳚यदि लक्षणहीना स्यात् दूती वै साधकात्मनाम् | वीरैकचित्ता निष्कम्पा सर्वकर्मसु गम्यते ||᳚ इति | वर्णाः--मातङ्गाद्याः | आदिशब्दात् वयःप्रभृति लक्षणजातम् | शक्तेर्लक्षणमेतत्--तद्वदभेदः | ततोऽनपेक्ष्यं वयोजात्यादि | अत एव तत्तादात्म्यमेव अवलम्ब्य अस्याः सर्वत्र तत्तद्भेदभिन्नत्वमुक्तम् || तदाह-- लौकिकालौकिकद्व्यात्मसङ्गात्तादात्म्यतोऽधिकात् || २९-१०१ || कार्यहेतुसहोत्था सा त्रिधोक्ता शासने गुरोः |
SKसाक्षात्परम्परायोगात्तत्तुल्येति त्रिधा पुनः || २९-१०२ || इह खलु गुरोः शासने अस्मद्दर्शने सा एवंविधा शक्तिर्जन्या जनिका सहजा चेति मुख्यया वृत्त्या त्रिविधा उक्ता यतोऽत्र अस्या लौकिकात् यौनादलौकिकात् ज्ञानीयाच्च सम्बन्धादधिकं तादात्म्यम् | अन्यत्र हि ज्ञानीय एव सङ्ग इति तत्र तथा न तादात्म्यमिति | एवञ्च अस्याः शक्तेः साक्षात् पारम्पर्येण वा द्वैधे षड्वधत्वम् | तदुक्तम्-- ᳚कार्यहेतुसहोत्थत्वात् त्रैधं साक्षादथान्यथा |᳚ इति | पारम्पर्ययोगो यथा कार्याया अपि कार्या हेतोरपि हेतुः सहोत्थाया अपि कार्या चेति | अत एव अत्र आसां तत्तुल्यत्वमुक्तम् | ननु श्वपत्नी भगिनी माता दुहिता वा सुभा सखी |᳚ इत्याद्युक्त्या स्वपत्न्यपि अत्र कस्मात् न परिगणिता यत् तत्रापि अस्ति लौकिकालौकिकतया द्व्यात्मसङ्गः | तत् कथमिह अस्याः षड्वधत्वमेव उक्तम् ? सत्यम्, किन्तु अत्र लौकिकवत् रिरंसया न प्रवृत्तिः, अपि तु वक्ष्यमाणदृशा अनवच्छिन्नपरसंवित्स्वरूपावेशसमुत्कतयेत्येवंपरमेतदुक्तम् | स्वपत्न्यां हि रिरंसासम्भवनाया अपि अवकाशः स्यात् | यदुक्तम्-- ᳚दूतीं कुर्यात्तु कार्यार्थी न पुनः काममोहितः |᳚ इति, श्थित्यर्थं रमयेत्कान्तां न लौल्येन कदाचन ||᳚ इति, ᳚शिवशक्त्यात्मकं रूपं भावयेच्च परस्परम् | न कुर्यान्मानका बुद्धिं रागमोहादिसंयुताम् || ज्ञानभावनया सर्वं कर्तव्यं साधकोत्तमैः |᳚ इति च | अत्रैव शास्त्रान्तरविरोधोऽपि परिहृतः | तत्रापि हि रिरंसापरिहारेण कार्यार्थितया एवमाम्नातम् | यत्स्मृतिः-- ᳚घृतेनाभ्यज्य गात्राणि तैलेनापि घृतेन वा | मुखान्मुखं परिहरन् गात्रैर्गात्राण्यसंस्पृशन् || कुले तदवशेषे च सन्तानार्थं न कामतः | नियुक्तो गुरुभिर्गच्छेद्भ्रतुर्भार्यां यवीयसः ||᳚ इति | एवञ्च निर्विकल्पवृत्तीनां महात्मनां ज्ञानिनामेव अधिकारो येषां स्ववृत्तिप्रतिक्षेपेण संविदद्वैते एव किमेकाग्रीभूतं चेतो न वेति प्रत्यवेक्षामात्रे एव अनुसन्धानम् | यदभिप्रायेणैव ङ चर्या भोगतः प्रोक्ता ख्याता कामसुरूपिणी |
SKस्वचित्तप्रत्यवेक्षातः स्थिरं किं वा चलं मनः ||᳚ इत्यादि उक्तम् || १०२ || न च एतदस्मदुपज्ञमेव--इत्याह-- श्रीसर्वाचारहृदये तदेतदुपसंहृतम् | षडेताः शक्तयः प्रोक्ता भुक्तिमुक्तिफलप्रदाः || २९-१०३ || ᳚वेगवत्यथ संहारी त्रैलोक्यक्षोभणी तथा | अर्धवीरासना चैव वक्त्रकौला तु पञ्चमी ||᳚ इत्यादि तु अवान्तरभेदप्रायं प्रत्येकं सम्भवदपि आनन्त्यादिह न परिगणितम् || १०३ || ननु एतदास्ताम्, ᳚बाह्यस्थया शक्त्या साकं समर्चयेत्᳚ इत्येव कस्मादुक्तम् ?--इत्याशंक्य आह-- द्वाभ्यां तु सृष्टिसंहारौ तस्मान्मेलकमुत्तमम् | द्वाभ्यां शक्तिशक्तिमद्भ्याम् हेतुभूताभ्यां हि सङ्घट्टवेलायां परस्परौन्मुख्येन मुख्येन स्वस्वरूपविश्रान्त्या सृष्टिसंहारौ | तस्मादुभयमयी स्थितिस्तदुल्लासस्तु तुर्यांशे इति एवं तत्स्वरसत एव यदुदेति तत इदं मेलकमुत्तमं परपदापत्तिदायित्वात् तादात्म्यकरम्-- इत्यर्थः || कथं च एतत् कार्यम्--इत्याह-- तामाहृत्य मिथोऽभ्यर्च्य तर्पयित्वा परस्परम् || २९-१०४ || अन्तरङ्गक्रमेणैव मुख्यचक्रस्य पूजनम् | अभ्यर्च्येति--अर्थात् शक्तिशक्तिमत्पदे | पूजनमिति--अर्थात् कार्यम् || ननु कोऽसावान्तरः क्रमः, किञ्च तत् मुख्यं चक्रम्?--इत्याशङ्क्य आह-- यदेवानन्दसन्दोहि संविदो ह्यन्तरङ्गकम् || २९-१०५ || तत्प्रधानं भवेच्चक्रमनुचक्रमतोऽपरम् | अतोऽपरमिति तथा न आनन्दसन्दोहि--इत्यर्थः || चक्रशब्दस्य च प्रवृत्तौ किं निमित्तम् ?--इत्याशङ्क्य आह-- विकासात्तृप्तितः पाशोत्कर्तनात्कृतिशक्तितः || २९-१०६ || चक्रं कसेश्चकेः कृत्या करोतेश्च किलोदितम् || कसी विकासे, चक तृप्तौ, कृती च्छेदने, डुकृञ् करणे,--इति धातुचतुष्टयार्थान्वयादत्र चक्रशब्दः | तेन विकसति, चकति, कृन्तति, करोतीति चक्रम् || ननु ᳚आनन्दजननं पूजायोग्यं हृदयहारि यत् |᳚ इत्यादिनीत्या पूजोपयोगिनो द्रव्यजातस्य आनन्दसन्दोहित्वं लक्षणं सर्वत्र उक्तम् | इह पुनर्मुख्यचक्रादेः पूज्यस्यैव कथं तदुच्यते?-- इत्याशङ्क्य आह--
SKयागश्च तर्पणं बाह्ये विकासस्तच्च कीर्त्यते || २९-१०७ || बहिरपि यागो नाम तर्पणमुच्यते | तच्च चितो नैराकाङ्क्ष्योत्पादात् विकासः समुच्छलद्रूपत्वम्--इत्यर्थः || १०७ || ननु बहिस्तर्पणमेव कुतः स्याद्यतोऽपि चितो विकासः समुदियात्?-- इत्याशङ्क्य आह-- चक्रानुचक्रान्तरगाच्छक्तिमत्परिकल्पितात् | प्राणगादप्यथानन्दस्यन्दिनोऽभ्यवहारतः || २९-१०८ || गन्धधूपस्रगादेश्च बाह्यादुच्छलनं चितः | तेन शक्तिमत्परिकल्पितात् ᳚तेन निर्भरमात्मानं बहिश्चक्रानुचक्रगम् | विप्रुड्भिरूर्ध्वाधरयोरन्तः प्रीत्या च तर्पयेत् ||᳚ इत्यादिनीत्या चक्रानुचक्रान्तरगात्पानाद्यात्मनः ᳚शून्योद्भवो भवेद्वायुर्मेढ्रस्योत्थापनं भवेत् | वायुमेढ्रसमायोगात्.......................... ||᳚ इत्यादिदृशा प्राणगात् तत्पेर्रणात्मनो गन्धधूपस्रगादेर्बाह्यात् च आनन्दस्यन्दिनोऽभ्यवहारात् चित उच्छलनं विकासः स्यात्--इत्यर्थः || एवं मुख्यचक्रैकात्म्यमाप्तुमनुचक्रेषु तर्पणं कार्यम्--इत्याह-- इत्थं स्वोचितवस्त्वंशैरनुचक्रेषु तर्पणम् || २९-१०९ || कुर्वीयातामिहान्योन्यं मुखचक्रैकताकृते | स्वोचितं वस्तु रूपाद्यन्यतमम्, अनुचक्रेष्विति--चक्षुरादीन्द्रियरूपेषु; अथ च स्वोचितं--वस्तु आलिङ्गनपरिचुम्बनादि | तदुक्तम्-- ᳚किं पूज्यं पूजकः कोऽसावाह्वानं कीदृशं भवेत् | किं पुष्पं धूपचरुकं को मन्त्रो जप एव च || किं कुण्डं भवति ह्यग्निः काष्ठं किं चाज्यमेव वा | कः समाधिः महेशान इति ब्रूहि त्रिलोचन ||᳚ इति उपक्रम्य ᳚योषितश्चैव पूज्यन्ते पुरुषश्चैव पूजकः | आह्वानं तु तयोः प्रीतिः पुष्पं च करजक्षतम् || धूपमालिङ्गनं प्रोक्तं चरु तनुकृतं भवेत् | मन्त्रः प्रियाया वाग्जालं जपश्चाप्यधरामृतम् || भगं कुण्डं स्रुवं लिङ्गमग्निश्चैव भगांकुरः | आज्यं च भजते बीजमित्युक्तं भैरवागमे || शब्दःस्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः | उत्क्षेपानन्दकाले तु पञ्चधा वस्तुसन्ततिः || स समाधिः महेशानि ज्ञात्वा शिवमवाप्नुयात् |᳚ इति ||
SKननु अनुचक्रतर्पणात् कथं मुख्यचक्रैकात्म्यं स्यात् ?--इत्याशङ्कां गर्भीकृत्य आगममेव अत्र संवादयति-- उक्तं च त्रिशिरस्तन्त्रे विमलासनगोचरः || २९-११० || अक्षषट्कस्य मध्ये तु रुद्रस्थानं समाविशेत् | इह अनुचक्रात्मनां निखिलानां चक्राणां मध्ये तत्संक्षोभे यथोचितमर्थजातमाहरन्नपि विमलं तदासङ्गाभावात् वैवश्यकलङ्कोन्मुक्तं यदासनमवस्थानं तन्निष्ठः सन् स्वस्वरूपविश्रान्त्या तत्क्षोभोपसंहारात् रुद्रस्थानं समाविशेत् मुख्यचक्रात्मकपरप्रमातृदशावेशभाग्भवेत्--इत्यर्थः || एतदेव प्रपञ्चयति-- निजनिजभोगाभोगप्रविकासिनिजस्वरूपपरिमर्शे || २९-१११ || क्रमशोऽनुचक्रदेव्यः संविच्चक्रं हि मध्यमं यान्ति | यत् निजनिजेन रूपाद्यन्यतमालोचनात्मना भोगाभोगेन बहिरुच्छलद्रूपतया प्रविकासनशीलस्य निजस्य प्रमातृरूपस्य स्वरूपस्य परिमर्शे स्वात्मचमत्कारोल्लासे सति यथायथं दृगाद्यनुचक्रदेव्यो मध्यमं सर्वसंविद्विश्रान्तिस्थानतया मुख्यं परमानन्दमयप्रमातृसतत्त्वं संविच्चक्रं यान्ति--तत्रैव विश्रान्तिमासादयन्ति--इत्यर्थः || ननु एवं तत्तदर्थग्रहणकाले सर्वेषामविशेषेणैव मुख्यचक्रैकात्म्यं सेत्स्यतीति किमेतदुपदेशेन?--इत्याशङ्क्य आह-- स्वस्थतनोरपरस्य तु ता देहाधिष्ठितं विहाय यतः || २९-११२ || आसत इति तदहंयुर्नो पूर्णो नापि चोच्छलति | तदितरस्य पुनः स्वस्थतनोरेवंपरामर्शशून्यतया तटस्थप्रायता दृगाद्यनुचक्रदेव्यो यतो देहाधिष्ठितं विहाय आसते--तत्र उदासीनत्वमालम्बन्ते, ततस्तत्र देहे एव अहंयुः--गृहीताभिमानो नो पूर्णः सर्वाकाङ्क्षासंक्षयादुपरतेन्द्रियवृत्तिः, नापि च उच्छलति साकाङ्क्षत्वेऽपि दृगादीन्द्रियवृत्त्यौदासीन्यात् बहिरुन्मुखो न भवेदुभयभ्रष्ट एव असौ--इत्यर्थः || ननु एवमनुचक्रदेवीनां मुख्यचक्रविश्रान्त्या अनयोः किं स्यात्?-- इत्याशङ्क्य आह-- अनुचक्रदेवतात्मकमरीचिपरिपूरणाधिगतवीर्यम् || २९-११३ || तच्छक्तिशक्तिमद्युगमन्योन्यसमुन्मुखं भवति |
SKदृगादिदेवीरूपाभिर्मरीचिभिः ᳚येन येनाक्षमार्गेण यो योऽर्थः प्रतिभासते | स्वावष्टम्भबलाद्योगी तद्गतस्तन्मयो भवेत् ||᳚ इत्यादिनीत्या यत् परिपूरणम्, तेन लब्धनिजावष्टम्भं सत् तदेवमुक्तरूपं शक्तिशक्तिमद्युगलमन्योन्यसंमुखं भवति-- सङ्घट्टमासादयेत्--इत्यर्थः || ननु एवमपि अस्य किं स्यात् ?--इत्याशङ्क्य आह-- तद्युगलमूर्ध्वधामप्रवेशसंस्पर्शजातसङ्क्षोभम् || २९-११४ || क्षुभ्नात्यनुचक्राण्यपि तानि तदा तन्मयानि न पृथक्तु | सङ्घट्टवेलायां हि ऊर्ध्वधामनि परानन्दमये योगिनीवक्त्रात्मनि मुख्यचक्रे समावेशतारतम्यात् जातः सम्यक् देहाद्यभिमानन्यग्भावेन क्षोभः पूर्णतालक्षणः स्वात्मचमत्कारातिशयो यस्य, एवंविधं तत् शक्तिशक्तिमल्लक्षणं युगलमनुचक्राण्यपि क्षुभ्नाति तदेकमयतयैव परामृशेत् ?--इत्यर्थः || ननु देहाद्यभिमानन्यग्भावेन तत्र समाविष्टस्य क इव अनुचक्रार्थः?--इत्याशङ्क्य उक्तम्--तानि तदा तन्मयानि न पृथक् तु इति | अथ च अत्र परस्पराहननालिङ्गनपरिचुम्बनादिलक्षणः क्षोभः || एवमत्र परस्या एव संविदः समुदयः स्यात्?--इत्याशङ्क्य आह-- इत्थं यामलमेतद्गलितभिदासङ्कथं यदेव स्यात् || २९-११५ || क्रमतारतम्ययोगात्सैव हि संविद्विसर्गसङ्घट्टः | तद्ध्रुवधामानुत्तरमुभयात्मकजगदुदारसानन्दम् || २९-११६ || नो शान्तं नाप्युदितं शान्तोदितसूतिकारणं परं कौलम् | विसर्गसङ्घट्ट इति--सङ्घट्टरूपो विसर्गः--इत्यर्थः | उभयात्मकेति--शिवशक्तिसामरस्यमयजगदानन्दरूपम्--इत्यर्थः | शान्तमिति--विश्वोत्तीर्णम् | उदितमिति--विश्वमयम् | परं कौलमिति-- शान्तोदितादिशब्दव्यपदेश्यत्वायोगादतीव रहस्यरूपम् --इत्यर्थः | अथ च क्षेपस्य असम्पत्तेर्न शान्तं स्वस्वरूपविश्रान्त्या च न उदितं किन्तु एतदवस्थाद्वयहेतुभूतमनवच्छिन्नसंविन्मात्रसतत्त्वम्-- इत्यर्थः || एतदावेशे च अवश्यमवधातव्यम्--इत्याह-- अनवच्छिन्नपदेप्सुस्तां संविदमात्मसात्सदा कुर्यात् || २९-११७ ||
SKअनवच्छिन्नं परमार्थतो हि रूपं चितो देव्याः | कथञ्च अत्र आवेशः सिद्ध्येत् ?--इत्याशङ्क्य आह-- ईदृक्तादृक्प्रायप्रशमोदयभावविलयपरिकथया || २९-११८ || अनवच्छिन्नं धाम प्रविशेद्वैसर्गिकं सुभगः | ईदृक्तादृक्प्राययोः स्वानुभवमात्रैकरूपत्वात् तथा व्यपदेष्टुमशक्ययोः प्रशमोदययोः शान्तोदितयोः रूपयोर्यौ भावविलयावुत्पत्त्यनुत्पत्ती, तत्र ᳚भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् | तदा तन्मध्यभावेन विकसत्यतिभावना ||᳚ (वि.भै. ६२) इति भङ्ग्या परितः समन्तादामर्शनेन वैसर्गिकमनवच्छिन्नं धाम सुभगः प्रविशेत्--पूर्णपरसंविदात्मसंवित्साक्षात्कारोऽस्य सिद्ध्येत्--इत्यर्थः || ननु भवतु एवम्, शान्तोदितयोस्तु रूपयोरुदय एव कथं भवेत्; किं शक्तिगतत्वेनैव, किमुत शक्तिमद्गतत्वेनैव?--इत्याशङ्क्य आह-- शान्तोदितात्मकं द्वयमथ युगपदुदेति शक्तिशक्तिमतोः || २९-११९ || ᳚अथ᳚ शब्दः प्रतिवचने ||११९ || इयान्पुनरत्र विशेषः--इत्याह-- रूपमुदितं परस्परधामगतं शान्तमात्मगतमेव | उदितं हि रूपं शक्तिशक्तिमतोरन्योन्यमौन्मुख्यानतिवृत्तेः स्वस्वमुख्यचक्राख्यधामैक्यक्रोडीकरणेन परिस्फुरेत् | शान्तं पुनरात्मगतमेव, तथात्वे हि स्वात्मन्येव परं विश्रान्तिरुदियात् || ननु एवं शक्तिशक्तिमतोरुक्तमैकात्म्यं किं न हीयेत?--इत्याशङ्क्य आह-- उभयमपि वस्तुतः किल यामलमिति तथोदितं शान्तम् || २९-१२० || वस्तुतो हि अपरित्यक्तैकात्म्यमपि इदं शक्तिशक्तिमल्लक्षणमुभयं शान्ततायामात्मनि विश्राम्येत्, न तु परस्परस्य भेदाभिसन्धानेनेति | तथा आत्मगतत्वेन शान्तं रूपमुदितमुक्तम्--इत्यर्थः || १२० || एवमपि अनयोरयं विशेषः--इत्याह-- शक्तिस्तद्वदुचितां सृष्टिं पुष्णाति नो तद्वान् | शान्तोदितात्मकोभयरूपपरामर्शसाम्ययोगेऽपि || २९-१२१ ||
SKशान्तोदितात्मनो रूपद्वयस्य य एवं परामर्शः, तत्र साम्ययोगेऽपि शक्तिरेव पुनस्तद्वदुचितां शक्तिमदानुगुण्येन उल्लसितां सृष्टिं पुष्णाति गर्भं जनयेत्, न शक्तिमान्--इति ततोऽस्या विशेषः-- इत्यर्थः || १२१ || ततश्च गर्भधारणादेव अस्याः सर्वत्र शास्त्रे प्रविकस्वरमध्यधामत्वमुक्तम्--इत्याह-- प्रविकस्वरमध्यपदा शक्तिः शास्त्रे ततः कथिता | यदभिप्रायेणैव ᳚तिष्ठेत्संवत्सरं पूर्णं साधको नियतव्रतः | सिद्धिर्भवति या तस्य सा दिनैकेन योषिताम् ||᳚ इत्यादि अन्यत्र उक्तम् || अतश्च इयमेव ज्ञानसङ्क्रमणे योग्या--इत्याह-- तस्यामेव कुलार्थं सम्यक् सञ्चारयेद्गुरुस्तेन || २९-१२२ || तद्द्वारेण च कथितक्रमेण सञ्चारयेत नृषु | तेनेति--प्रविकस्वरमध्यत्वेन हेतुना--इत्यर्थः | तद्द्वारेणेति-- शक्तिमुखेन | नृणां हि मध्यपदप्रविकासो नास्ति--इत्याशयः | यदभिप्रायेणैव श्त्रीमुखे निक्षिपेत्प्राज्ञः स्त्रीमुखाद् ग्राहयेत्प्रिये |᳚ इति, श्त्रीमुखाच्च भवेत्सिद्धिः सुसिद्धं तासु तत्पदम् |᳚ इति च उक्तम् || एतच्च गुरुभिरपि उक्तम्--इत्याह-- स्वशरीराधिकसद्भावभावितामिति ततः प्राह || २९-१२३ || श्रीमत्कल्लटनाथः प्रोक्तसमस्तार्थलब्धये वाक्यम् | श्रीकल्लटनाथो हि समनन्तरमेव प्रोक्तं शक्तिलक्षणात्प्रभृति समस्तमर्थं संग्रहीतुं स्वशरीरादपि स्वारसिकमध्यधामप्रविकस्वरतया अधिकेन, अत एव सता भावेन भाविताम्--संस्कृतां शक्तिं गुरुः कुर्यादिति वाक्यं प्राह--इति वाक्यार्थः || एवमेतत् प्रसङ्गादभिधाय प्रकृतमेव आह-- तन्मुख्यचक्रमुक्तं महेशिना योगिनीवक्त्रम् || २९-१२४ || तत्रैष सम्प्रदायस्तस्मात्संप्राप्यते ज्ञानम् | तत् उक्तेन प्रकारेण भगवता महेश्वरेण पिचुवक्त्राद्यपरपर्यायं योगिनीवक्त्रमेव मुख्यचक्रमुक्तम् | तत्रैव एष उक्तो वक्ष्यमाणो वा सम्प्रदायोऽनुष्ठेयो यतस्तस्मात् ज्ञानं संप्राप्यते परसंवित्समावेशोऽस्य जायते--इत्यर्थः || ननु अतः कीदृक् ज्ञानमाप्यते इत्युच्यताम्?--इत्याशङ्क्य आह--
SKतदिदमलेख्यं भणितं वक्त्राद्वक्त्रस्थमुक्तयुक्त्या च || २९-१२५ || वक्त्रं प्रधानचक्रं स्वां संविल्लिख्यतां च कथम् | अलेख्यमिति--विकल्पयितुमशक्यम्--इत्यर्थः || ननु एतत् वक्त्राद्वक्त्रस्थं तत् कथमलेख्यमित्युक्तम्?--इत्याशङ्क्य आह--उक्तेत्यादि | वक्त्रं च ᳚वक्त्रं हि नाम तन्मुख्यं चक्रमुक्तं महेशिना | योगिनीवक्त्रं..................................... ||᳚ इत्याद्युक्तयुक्त्या प्रधानचक्रमुच्यते इति तदुभयसङ्घट्टे जायमाना स्वा अनुभूतिमात्रस्वभावा संवित् कथं लिख्यतामिति || कथमेतदुक्तम् ?--इत्याशङ्क्य आह-- अथ सृष्टे द्वितयेऽस्मिन् शान्तोदितधाम्नि येऽनुसन्दधते || २९-१२६ || प्राच्यां विसर्गसत्तामनवच्छिदि ते पदे रूढाः | ᳚अथ᳚शब्दः प्रतिवचने | तेन शान्तोदितत्वेन द्विप्रकारे अस्मिन् समनन्तरोक्तसतत्त्वे श्वातन्त्र्यान्मुक्तमात्मानं......................... |᳚ (१|५|१६) इत्यादिदृष्ट्या सृष्टे स्वसमुल्लासिते धाम्नि ये प्राच्यां ᳚...........शान्तोदितसूतिकारणं परं कौलम् |᳚ (११६) इत्याद्युक्त्या एतदवस्थाद्वयोदयहेतुभूतां तत्सङ्घट्टमयीं विसर्गसत्तामनुसन्दधते--तत्स्फारसारमेवेदं सर्वमित्यामृशन्ति, ते अनवच्छिन्ने पदे रूढाः--पूर्णे पदे विश्रान्ता--इत्यर्थः || एवमेतत् मुमुक्षुविषयमभिधाय, बुभुक्षुविषयमपि आह-- ये सिद्धिमाप्तुकामास्तेऽभ्युदितं रूपमाहरेयुरथो || २९-१२७ || तेनैव पूजयेयुः संविन्नैकट्यशुद्धतमवपुषा | ये पिण्डस्थैर्यादिरूपां सिद्धिमाप्तुकामाः ते तदभ्युदितं रूपं कुण्डगोलकादिशब्दव्यपदेश्यमाहरेयुः | अथ तेनैव अभ्युदितेन रूपेण ᳚आनन्दो ब्रह्मणो रूपं...................... |᳚ इति श्रुतेरानन्दमयतया संविन्नैकट्यात् ᳚तस्माद्यत्संविदो नातिदूरे तच्छुद्धमाहरेत् |᳚ इति नीत्या शुद्धतमवपुषा पूजयेयुः--देवीचक्रं तर्पयेयुः-- इत्यर्थः || कथञ्च अत्र आहरणादि स्यात् ?--इत्याशङ्क्य आह-- तदपि च मिथो हि वक्त्रात्प्रधानतो वक्त्रगं यतो भणितम् || २९-१२८|| अजरामरपददानप्रवणं कुलसंज्ञितं परमम् |
SKतदपि च अभ्युदितं रूपं यतः श्वदेहावस्थितं द्रव्यं रसायनवरं शुभम् |᳚ इत्यादिदृशा देहे एव अवस्थानात् कुलसंज्ञितमत एव परमम्, अत एव ᳚शिवः प्रशस्यते नित्यं पूजाख्यं त्रिदशार्चितम् | येन प्राशितमात्रेणामरो भवति मानवः || अथवा मिश्रितं देवि भुङ्क्ते यः सततं नरः | वलीपलितनिर्मुक्तो योगिनीनां प्रियो भवेत् ||᳚ इत्यादिनयेन अजरामरपददानप्रवणं प्रधानतो वक्त्रात् योगिनीवक्त्रात् मिथः परस्परस्य, वक्त्रगं भणितम् सर्वशास्त्रेषु उक्तम्--इत्यर्थः | एतद्धि योगिनीवक्त्रात् स्ववक्त्रे, ततः शक्तिवक्त्रे, ततः स्ववक्त्रे, ततोऽपि अर्घपात्रादौ निक्षिपेत्--इति गुरवः | यदागमोऽपि ᳚विद्राव्य गोलकं तत्र कुण्डं च तनुमध्यमे | तत्स्थं गृह्य महाद्रव्यं मुखेन तनुमध्यमे || तद्वक्त्रगं ततः कृत्वा पुनः कृत्वा स्ववक्त्रगम् | पात्रं प्रपूरयेत्तेन महाल्यम्बुविमिश्रितम् || तेनार्घपात्रं कुर्वीत सर्वसिद्धिफलप्रदम् ||᳚ इति, ᳚वक्त्राद्वक्त्रप्रयोगेण समाहृत्य महारसम् | तेन सन्तर्पयेच्चक्रं देवतावीरसंयुतम् ||᳚ इति, ᳚ततो दूतीं क्षोभयित्वा यस्येच्छा संप्रवर्तते | तदुत्थं द्रव्यनिचयं प्राशयेच्च परस्परम् ||᳚ इति, ᳚उभयोत्थेन वीर्येण मन्त्रविद्यां यजेत्तथा |᳚ इति || एवमेतत् ज्ञानिविषयमभिधाय, कर्मिविषयमपि आह-- येऽप्यप्राप्तविबोधास्तेऽभ्युदितोत्फुल्लयागसंरूढाः || २९-१२९ || तत्परिकल्पितचक्रस्थदेवताः प्राप्नुवन्ति विज्ञानम् | अप्राप्तविबोधा इति--अप्ररूढज्ञानाश्चर्यामार्गनिष्ठाः--इत्यर्थः || तत्रैव चक्रस्थानां देवतानां परिकल्पनां दर्शयति-- ते तत्र शक्तिचक्रे तेनैवानन्दरसमयेन बहिः || २९-१३० || दिक्षु चतसृषु प्रोक्तक्रमेण गणनाथतः प्रभृति सर्वम् | संपूज्य मध्यमपदे कुलेशयुग्मं त्वरात्रये देवीः || २९-१३१ || बाह्ये प्रत्यरमथ किल चतुष्कमिति रश्मिचक्रमर्कारम् | अष्टकमष्टाष्टकमथ विविधं संपूजयेत्क्रमेण मुनिः || २९-१३२ ||
SKशक्तिचक्रे इति--शक्तेः संबन्धिनि योगिनीवक्त्रात्मनि मुख्यचक्रे-- इत्यर्थः | तेनैवेति--अभ्युदितेन रूपेण | प्रोक्तेति-- नित्यार्चाभिधानावसरे | अर्कारमिति--द्वादशारम् || १३२ || न केवलमेतत् शक्तिचक्रे एव पूज्यं यावत्स्वस्मिन्नपि--इत्याह-- निजदेहगते धामनि तथैव पूज्यं समभ्यस्येत् | ननु सङ्घट्टाभ्युदितोभयात्मकं विसर्गमनुसन्दधतामनवच्छिदि पदे प्ररोहो विज्ञानप्राप्तिश्च भवेदित्युक्तम्, शान्तात्मनि विसर्गे पुनः प्ररूढानां का गतिः ?--इत्याशङ्क्य आह-- यत्तच्छान्तं रूपं तेनाभ्यस्तेन हृदयसंवित्त्या || २९-१३३ || शान्तं शिवपदमेति हि गलिततरङ्गार्णवप्रख्यम् | एतीति अभ्यस्तशान्तरूपः | शान्तत्वमेव स्फुटीकृतम्-- गलिततरङ्गार्णवप्रख्यमिति || ननु एवं च अस्य किं स्यात् ?--इत्याशङ्क्य आह-- तच्छान्तपदाध्यासाच्चक्रस्थो देवतागणः सर्वः || २९-१३४ || तिष्ठत्युपरतवृत्तिः शून्यालम्बी निरानन्दः | उपरतवृत्तिरिति--सर्वभावसंक्षायात्, अत एव उक्तम्--शून्यालम्बीति, अत एव ᳚........................णिरालम्बः परः शिवः |᳚ इति दृशा शिवपदविश्रान्त्या निरानन्दः || न केवलं मध्यचक्रस्थ एव देवतागण एवमास्ते, यावदनुचक्रस्थोऽपि--इत्याह-- योऽप्यनुचक्रदृगादिस्वरूपभाक् सोऽपि यत्तदायत्तः || २९-१३५ || तेनानन्दे मग्नस्तिष्ठत्यानन्दसाकींङ्क्षः | अनुचक्रदृगादिस्वरूपभागिति--अर्थात् देवतागणः | तदायत्त इति-- मुख्यचक्रस्थदेवतागणवशः | तेनेति--तदायत्तत्वेन || ननु एवमनुचक्रदेवतागणोऽपि निरानन्दे एव पदे विश्रान्तोऽस्तु, किमस्य आनन्दसाकाङ्क्षत्वेन?--इत्याशङ्क्य आह-- परतत्स्वरूपसङ्घट्टमन्तरेणैष करणरश्मिगणः || २९-१३६ || आस्ते हि निःस्वरूपः स्वरूपलाभाय चोन्मुखितः | एष दृगाद्यात्मा करणदेवतागणो हि परे�स्वानन्दनिर्भरतया सर्वोत्कृष्टे, तस्मिन् समनन्तरोक्तसतत्त्वे प्रमात्रात्मनि संविद्रूपे विश्रान्तिं विना निःस्वरूपो निजनिजार्थाहरणादावक्षमः स्वरूपं लब्धुमुन्मुखितश्च आस्ते आनन्दसाकाङ्क्षो भवेत्--इत्यर्थः ||
SKएवंविधश्च अयं करणरश्मिगणः किं कुर्यात्?--इत्याशङ्क्य आह-- रणरणकरसान्निजरसभरितबहिर्भावचर्वणवशेन || २९-१३७ || विश्रान्तिधाम किञ्चिल्लब्ध्वा स्वात्मन्यथार्पयते | एष करणरश्मिगणो हि अभिलाषाभिष्वङ्गात् निजरसभरितानां स्वसंविन्मयतयैव बहिरवभासितानां भावानां यत् चर्वणम् रक्तिः, तद्वशेन स्वावमर्शरूपं किञ्चित् विश्रान्तिधाम लब्ध्वा अनन्तरमर्थात् चर्वितमेव भावजातं स्वात्मनि अर्पयते ङिजनिजभोगाभोगप्रविकासिनिजस्वरूपपरिमर्शे | क्रमशोऽनुचक्रदेव्यः संविच्चक्रं हि मध्यमं यान्ति ||᳚ (११२) इत्यादिदृशा प्रमात्रात्मनि मुख्ये संविच्चक्रे विश्रान्तिं भजते-- इत्यर्थः || ननु एवं तद्विश्रान्त्या अस्य किं स्यात्?--इत्याशङ्क्य आह-- तन्निजविषयार्पणतः पूर्णसमुच्छलितसंविदासारः || २९-१३८ || अनुचक्रदेवतागणपरिपूरणजातवीर्यविक्षोभः | चक्रेश्वरोऽपि पूर्वोक्तयुक्तितः प्रोच्छलेद्रभसात् || २९-१३९ || चक्राणां हि विश्रान्तिधामत्वादीश्वरः प्रमातापि निजनिजविषयार्पणवशादनुचक्रदेवतागणेन यत् परिपूरणं तेन जातवीर्यविक्षोभो व्यक्तनिजावष्टम्भः, अत एव पूर्णसमुच्छलितसंविदासारः पूर्वम् ᳚अनुचक्रदेवतात्मकमरीचिपरिपूरणधिगतवीर्यम् | तच्छक्तिशक्तिमद्युगमन्योन्यसमुन्मुखं भवति ||᳚ (११३) इत्याद्युक्तयुक्तितो रभसात् प्रोच्छलेत्--सहसैव बहिरुन्मुखः स्यात्-- इत्यर्थः || १३९ || प्रकृतमेव उपसंहरति-- त्रिविधो विसर्ग इत्थं सङ्घट्टः प्रोदितस्तथा शान्तः | त्रिषु प्रकारेषु विसर्गशब्दस्य प्रवृत्तौ निमित्तं दर्शयति-- विसृजति यतो विचित्रः सर्गो विगतश्च यत्र सर्ग इति || २९-१४० || यत इति हेतौ ||१४० || न च एतदस्मदुपज्ञमेव--इत्याह-- श्रीतत्त्वरक्षणे श्रीनिगमे त्रिशिरोमते च तत्प्रोक्तम् | तत्र ᳚तत्त्वरक्षाविधानेऽतो विसर्गत्रैधमुच्यते |᳚ इत्यादिना तत्त्वरक्षाविधानस्य प्राक्संवादितत्वात् तद्ग्रन्थमनुक्त्व, श्रीगमशास्त्रं संवादयति-- कुण्डं शक्तिः शिवो लिङ्गं मेलकं परमं पदम् || २९-१४१ ||
SKद्वाभ्यां सृष्टिः संहृतिस्तद्विसर्गस्त्रिविधो गमे | कुण्डम्--भगवच्छक्तिरुदितं रूपम्, शिवः शान्तम्, मेलकम् सङ्घट्टः | तत्रोदितत्वादेव शक्त्या सृष्टेः, शान्तत्वादेव शिवेन संहारस्य, परमं पदमित्युक्त्या सङ्घट्टेन सर्वावच्छेदविरहादनाख्यस्य च उदय इत्ययं गमशास्त्रे त्रिविधो विसर्गः || एवं गमशास्त्रं संवादयित्वा श्रीत्रिशिरोभैरवमपि संवादयति-- स्रोतोद्वयस्य निष्ठान्तमूर्ध्वाधश्चक्रबोधनम् || २९-१४२ || विश्रामं च समावेशं सुषीणां मरुतां तथा | गतभेदं च यन्त्राणां सन्धीनां मर्मणामपि || २९-१४३ || द्वासप्ततिपदे देहे सहस्रारे च नित्यशः | गत्यागत्यन्तरा वित्ती सङ्घट्टयति यच्छिवः || २९-१४४ || तत्प्रयत्नात्सदा तिष्ठेत्सङ्घट्टे भैरवे पदे | उभयोस्तन्निराकारभावसंप्राप्तिलक्षणम् || २९-१४५ || मात्राविभागरहितं सुस्फुटार्थप्रकाशकम् | इह नित्यमूर्ध्वाधोवर्तिनां चक्राणां सुषीणां यन्त्राणां सन्धीनां मर्मणां मरुतां च गतभेदमत एव दक्षवामवाहात्मनः स्रोतोद्वयस्य निष्ठान्तं मध्यधामविश्रान्तिपर्यन्तं बोधनं विश्रामं समावेशं च विधाय, द्वासप्ततिपदे सहस्रारे देहे ᳚द्वासप्ततिसहस्राणि नाडीनां नाभिचक्रके |᳚ इत्याद्युक्त्या तावन्नाडिसम्भिन्ने नाभिदेशे प्राणापानत्रोटनेन अन्तरा गृहीतशिवावेशः शान्तोदितात्मिके वित्ती यत् सङ्घट्टयति तदुभयमेलनादिस्वरूपे प्रोन्मुखो भवेत्, ततः पूर्णसंविद्रूपे सङ्घट्टे पदे सर्वकालं प्रयत्नतस्तिष्ठेत्--तत्रैव सावधानो भवेत्--इत्यर्थः | यतस्तदुभयोः शान्तोदितलक्षणयो रूपयोः प्रतिनियतपदे सकलाकाराद्यवच्छेदशून्यत्वात् निराकारत्वापत्तिसतत्त्वमत एव निरंशत्वात् मात्राविभागरहितमत एव सुस्फुटस्य स्वानुभवमात्रैकरूपस्य अर्थस्य प्रकाशकम् अभिव्यञ्जकम्--इत्यर्थः || अत्रैव च दार्ढ्यं कार्यम्--इत्याह-- अभ्यस्येद्भावसंवित्तिं सर्वभावनिवर्तनात् || २९-१४६ || सूर्यसोमौ तु संरुध्य लयविक्षेपमार्गतः |
SKसर्वेभ्यश्चक्रादिभ्यो भावेभ्यो निवर्त्य दक्षवाममार्गाभ्यां प्राणापानौ निरुध्य मध्यधाम्नि सर्वभावानुस्यूतां तत्सङ्घट्टमयीं प्रमातृरूपां संवित्तिमभ्यस्येत्--तदामर्शपर एव स्यात्--इत्यर्थः | वित्तीरिति पाठे तु शान्तोदितात्मिका एवेति व्याख्येयम् || तदेवमत्र त्रिविधेऽपि विसर्गे समावेशभाजां यः कश्चन स्वारसिकः परामर्शः परिस्फुरति तदेव परं मन्त्रवीर्यम्--इत्याह-- एवं त्रिविधविमर्शावेशसमापत्तिधाम्नि य उदेति || २९-१४७ || संवित्परिमर्शात्मा ध्वनिस्तदेवेह मन्त्रवीर्यं स्यात् | तत्रैवोदिततादृशफललाभसमुत्सुकः स्वकं मन्त्रम् || २९-१४८ || अनुसन्धाय सदा चेदास्ते मन्त्रोदयं स वै वेत्ति | यः कश्चिदेवंविसर्गावेशशाली सङ्घट्टवेलायामुदितमनुभवमात्रैकगोचरत्वात्तादृशं वक्तुमशक्यं यदानन्दनिर्भरं फलं तल्लाभे समुत्सुकः सन्नभीष्टं मन्त्रं सदा, न तु क्षणमात्रं, तत्रैव संवित्परामर्शात्मनि अहञ्चमत्कारमये ध्वनावनुसन्धाय चेदास्ते, स तत्र मन्त्रोदयं वेत्ति--उदितोऽस्य मन्त्रः स्यात्--इत्यर्थः || भूयो भूयश्च अत्रैव भावनापरेण भाव्यं येन मध्यचक्रे एव एकाग्र्यं सिद्ध्येत्--इत्याह-- अत्रैव जपं कुर्यादनुचक्रैकत्वसंविदागमने || २९-१४९ || युगपल्लक्षविभेदप्रपञ्चितं नादवृत्त्यैव | ᳚क्रमशोऽनुचक्रदेव्यः संविच्चक्रं हि मध्यमं यान्ति |᳚ (११२) इत्यादिदृशा युगपदनुचक्रदेवीनामेकत्वेन मुख्यचक्ररूपायां संविदि यदागमनं विश्रान्तिस्तन्निमित्तमत्रैव संवित्परामर्शात्मनि उदीयमाने मन्त्रे नादामर्शमात्रमयतया ᳚उदये सङ्गमे शान्तौ त्रिलक्षो जप उच्यते |᳚ इत्याद्युक्तेन लक्षविभेदेन प्रपञ्चितं जपं कुर्यात्--भूयो भूयोऽनुसन्धानं विदध्यात्--इत्यर्थः || इदमेव च मुद्राणामपि परं वीर्यमिति अन्यत्र उक्तम्--इत्याह-- श्रीयोगसञ्चरेऽपि च मुद्रेयं योगिनीप्रिया परमा || २९-१५० || कोणत्रयान्तराश्रितनित्योन्मुखमण्डलच्छदे कमले | सततावियुतं नालं षोडशदलकमलकलितसन्मूलम् || २९-१५१ ||
SKमध्यस्थनालगुम्फितसरोजयुगघट्टनक्रमादग्नौ | मध्यस्थपूर्णसुन्दरशशधरदिनकरकलौघसङ्घट्टात् || २९-१५२ || त्रिदलारुणवीर्यकलासङ्गान्मध्येऽंकुरः सृष्टिः | कोणत्रयान्तर्वर्ति नित्योन्मुखं सदैव प्रविकस्वरं यत् ᳚त्रिदलं भगपद्म तु ............................ |᳚ इत्याद्युक्त्या मण्डलच्छदं त्रिदलं पौस्नं स्त्रैणं वा भगकमलं तत्र आप्यायकारितया सतवियुतं ᳚यद्रेतः स भवेच्चन्द्रः.......................... |᳚ इत्याद्युक्त्या षोडशदलेन चान्द्रमसेन कमलेन कलितम्, अत एव आनन्दनिर्भरत्वात् सत्, अत एव वक्ष्यमाणरूपायाः सृष्टेर्मूलम् उत्पत्तिधाम, यत् मध्यनाडीरूपं नालम्, ᳚अम्बुवाहा भवेद्वामा मध्यमा शुक्रवाहिनी | दक्षस्था रक्तवाहा च........................ ||᳚ इत्युक्त्या मध्यस्थेन तेन नालेन गुम्फितमुम्भितं यत् स्त्रीपुंससंबन्धि सरोजयुगं तस्य परस्परसङ्घर्षक्रमेण, तन्मध्यस्थयोः पूर्णयोरविकलयोः, अत एव आनन्दमयतया सुन्दरयोरेतोरजोरूपयोः शशधरदिनकरयोः कलानां सङ्घट्टात् ᳚शुचिर्नामाग्निरुद्भूतः सङ्घट्टात्सूर्यसोमयोः |᳚ इत्युक्त्या अग्नौ प्रमात्रेकरूपे समुल्लसिते त्रिदलस्य कमलस्य मध्ये रजोरेतःकलानां सङ्गात् यश्चित्प्रसरात्मा विश्वगर्भीकारसहिष्णुरंकुरः, सा सृष्टिर्बहिरपि तथावभासते- -इत्यर्थः | तदुक्तम्-- ᳚भगे लिङ्गे स्थितो वह्निरन्तरे भास्करः स्थितः | ऊर्ध्वे विप्रः स्थितः सोमः सङ्घट्टान्निष्क्रमेद्रसः ||᳚ इति, ᳚तत्पीठं शाकिनीचक्रे सा सृष्टिः सचराचरे | तत्क्षेत्रं बीजराजस्य ऋतुकालोद्भवस्य तु || रजःपुष्पोपभोगस्य कुलस्यैवाकुलस्य च | कर्णिकामध्यवर्तिनं हाटकं हाटकेश्वरम् || शक्तिपद्मान्तरे लीनमद्वैतं परमं शिवम् |᳚ इति च || ननु एवं मुद्रया बद्धया अस्य किं स्यात् ?--इत्याशङ्क्य आह-- इति शशधरवासरपतिचित्रगुसङ्घट्टमुद्रया झटिति || २९-१५३ || सृष्ट्यादिक्रममन्तः कुर्वंस्तुर्ये स्थितिं लभते | सङ्घट्टेत्यनेन अस्याः षडरसंनिवेशभाक्त्वमुक्तम् ||
SKएवं मन्त्रवीर्यातिदेशद्वारकं मुद्रास्वरूपमभिधाय, परस्परस्य लोलीभावं दर्शयितुं पुनस्तद्वीर्यमपि मन्त्रेषु अतिदेष्टुमाह-- एतत्खेचरमुद्रावेशेऽन्योन्यस्य शक्तिशक्तिमतोः || २९-१५४ || पानोपभोगलीलाहासादिषु यो भवेद्विमर्शमयः | अव्यक्तध्वनिरावस्फोटश्रुतिनादनादान्तैः || २९-१५५ || अव्युच्छिन्नानाहतरूपैस्तन्मन्त्रवीर्यं स्यात् | एतस्यां षडरमुद्रालक्षणायां खेचरीमुद्रायामावेशे शक्तिशक्तिमतोरन्योन्यस्य पानोपभोगादौ यो विमर्शात्मा अनुभवः समुदियात्, तदव्यक्ताद्यष्टभेदभिन्नपरनादामर्शस्वभावं मान्त्रं वीर्यं स्यात् || अत्रैव पौनःपुन्येन भावनातस्तल्लाभो भवेत्--इत्याह-- इति चक्राष्टकरूढः सहजं जपमाचरन् परे धाम्नि || २९-१५६ || यद्भैरवाष्टकपदं तल्लभतेऽष्टककलाभिन्नम् | अष्टककलेति--अष्टभिरर्धचन्द्रादिभिरुन्मनान्ताभिः कलाभिर्भिन्नम् भेदितम्--इत्यर्थः || ननु किं नाम चक्राष्टकं यदारूढोऽपि जपमाचरेत्?--इत्याशङ्क्य आह-- गमनागमनेऽवसितौ कर्णे नयने द्विलिङ्गसंपर्के || २९-१५७ || तत्संमेलयोगे देहान्ताख्ये च यामले चक्रे | गमनागमने प्राणसहिते अपाने--इत्यर्थः | अवसितावध्यवसाये बुद्धाविति यावत् | संपर्कः--स्पर्शमात्रम् | तत्संमेलनयोगे इति तयोर्द्वयोर्लिङ्गयोः संमेलनयोगे सङ्घट्टावसरे--इत्यर्थः | देहान्ताख्ये इति--द्वादशान्ते | यामले चक्रे इति--सर्वशेषः || ननु अत्र किं नाम भैरवाष्टकस्य पदं यदपि अर्धचन्द्रादिभिरष्टाभिः कलाभिर्भिन्नं स्यात्?--इत्याशङ्क्य आह-- कुचमध्यहृदयदेशादोष्ठान्तं कण्ठगं यदव्यक्तम् || २९-१५८ || तच्चक्रद्वयमध्यगमाकर्ण्य क्षोभविगमसमये यत् | निर्वान्ति तत्र चैवं योऽष्टविधो नादभैरवः परमः || २९-१५९ || ज्योतिर्ध्वनिसमीरकृतः सा मान्त्री व्याप्तिरुच्यते परमा | कुचमध्यहृदयदेशादारभ्य ओष्ठपुटपर्यन्तं शक्तेः कण्ठान्तः ᳚यत्तदक्षरमक्षोभ्यं प्रियाकण्ठोदितं परम् | सहजं नाद इत्युक्तं तत्त्वं नित्योदितं जपः ||᳚ इति
SKङित्यानन्दरसास्वादाद्धा हेति गलकोटरे | स्वयंभूः सुखदोच्चारः कामतत्त्वस्य वेदकः ||᳚ इत्यादिनिरूपितस्वरूपं यदव्यक्तप्रायं हाहेत्यक्षरद्वयमुदेति, तत् परस्परसङ्घट्टात्मनः क्षोभस्य विगमसमये योगिनीवक्त्रात्ममुख्यचक्रान्तर्विश्रान्तं परामृश्य यत् सर्वे निर्वान्ति विश्रान्तिं भजन्ते, तत्रैव निर्वाणात्मनि पदे य एवमव्यक्तादिरूपतया अष्टविधः, अत एव अर्धचन्द्रादिकलाष्टकोल्लसितः, अत एव परमो नादभैरवः; सा परमा मान्त्री व्याप्तिः सर्वत्र उच्यते--इति वाक्यार्थः | ज्योतिः अर्धचन्द्रः, ध्वनिः नादः, समीरः स्पर्शात्मा शक्तिः, अधस्तु चन्द्रेणैव व्याप्तमिति अर्थसिद्धम् || अत्र च किं तत् भैरवाष्टकं का च मान्त्री व्याप्तिः?--इत्याशङ्क्य आह-- सकलाकलेशशून्यं कलाढ्यखमले तथा क्षपणकं च || २९-१६० || अन्तःस्थं कण्ठ्योष्ठ्यं चन्द्राद्व्याप्तिस्तथोन्मनान्तेयम् | एषां च शक्तिशक्तिमत्सामरस्यवेलायामुदयात् तदन्यतरव्यपदेशायोगात् नपुंसकत्वमेव उचितमिति तल्लिङ्गेन निर्देशः || एवंव्याप्तिभावनादस्य सर्वत्रैव परभैरवीभावो भवेत्--इत्याह-- एवं कर्मणि कर्मणि यत्र क्वापि स्मरन् व्याप्तिम् || २९-१६१ || सततमलेपो जीवन्मुक्तः परभैरवीभवति | एवंविधे च मेलकावसरे गृहीतजन्मा परमुत्कृष्टः--इत्याह-- तादृङ्मेलककलिकाकलिततनुः कोऽपि यो भवेद्गर्भे || २९-१६२ || उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं रुद्रः | श्रीवीरावलिशास्त्रे बालोऽपि च गर्भगो हि शिवरूपः || १६३ || ननु ᳚इत्येवं देवदेवेशि आदियागस्तवोदितः |᳚ इतिदृशा आदियागशब्दस्य अत्र प्रवृत्तौ किं निमित्तम्?--इत्याशङ्क्य आह-- आदीयते यतः सारं तस्य मुख्यस्य चैष यत् | मुख्यश्च यागस्तेनायमादियाग इति स्मृतः || २९-१६४ || तत्र तत्र च शास्त्रेऽस्य स्वरूपं स्तुतवान् विभुः | श्रीवीरावलिहार्देशखमतार्णववर्तिषु || २९-१६५ || श्रीसिद्धोत्फुल्लमर्यादाहीनचर्याकुलादिषु |
SKसारमिति--संवित्तत्त्वात्मकममृतलक्षणं च | तेन आदिश्च असौ याग इति, आदेर्मुख्यचक्रस्य याग इति च | अत एव अस्य सर्वागमेषु परमुत्कर्षः--इत्याह--तत्रेत्यादि | हार्देशः हृदयभट्टारकः, खेमतम् खेचरीमतम्, अर्णवः योन्यर्णवः, तद्वर्तिषु�अर्थात् ग्रन्थैकदेशेषु | उत्फुल्लेति--उत्फुल्लकमतम् | मर्यादाहीनम् निर्मर्यादशास्त्रम् | यथोक्तम्-- ᳚एष ते कौलिको यागः सद्यो योगविभूतिदः | आख्यातः परमो गुह्यो द्वैतिनां मोहनः परम् || वीराणां दुःखसुखदं लीलया भुक्तिमुक्तिदम् | योगसन्धाप्रयोगेण पूजाह्नि हवनं स्मृतम् || पशुमार्गस्थितानां तु मूढानां पापकर्मणाम् | अप्रकाश्यं सदा देवि यथा किञ्चिन्महाधनम् || न चात्र परमो यागः स्वभावस्थो महोदयः | न कुण्डं नाग्नियजनं नाहुत्याचारमण्डलम् || आवाहनं न चैवात्र न चैवात्र विसर्जनम् | न मूर्तियागकरणं नान्यदासनमेव च || व्रतचर्याविनिर्मुक्तं बहिर्द्रव्यविवर्जितम् | स्वानन्दामृतसंपूर्णं महदानन्दसिद्धिदम् || केवलं चात्मसत्तायां सर्वशक्तिमयं शिवम् | सर्वाकारं निराकारमात्मयोनिं परापरम् || भावयेत्तन्महायोगी पूजयेच्चक्रनायकम् | एतद्रहस्यं परमं गुह्यं चोत्तमयोजितम् || संस्फुरत्कौलिकाम्नायं त्वत्स्नेहादद्य योजितम् | सुगुप्तं कारयेन्नित्यं न देयं वीरवत्सले || द्वैतिनां स्वल्पबुद्धीनां लोभोपहतचेतसाम् | मायिनां क्रूरसत्त्वानां जिज्ञासूनां न चैव हि || पृथिवीमपि यो दत्त्वा मूकवत्क्ष्मातले वसेत् | तदा सिद्ध्यति मन्त्रज्ञः सिद्धमेलापकं लभेत || सर्वामयविनिर्मुक्तो देहेनानेन सिद्ध्यति | अनेन योगमार्गेण नानृतं प्रवदाम्यहम् ||᳚ इति || इह विद्यामन्त्रमुद्रामण्डलात्मतया चतुष्पीठं तावच्छास्त्रम् | तत्र मन्त्रमुद्रात्मनः पीठद्वयस्य संप्रदाय उक्तः | इदानीमत्रैव अवशिष्टस्य विद्यामण्डलात्मनोऽपि अस्य संप्रदायं निरूपयति-- युग्मस्यास्य प्रसादेन व्रतयोगविवर्जितः || २९-१६६ || सर्वदा स्मरणं कृत्वा आदियागैकतत्परः |
SKशक्तिदेहे निजे न्यस्येद्विद्यां कूटमनुक्रमात् || २९-१६७ || ध्यात्वा चन्द्रनिभं पद्ममात्मानं भास्करद्युतिम् | विद्यामन्त्रात्मकं पीठद्वयमत्रैव मेलयेत् || २९-१६८ || अस्य उक्तस्य मन्त्रमुद्रात्मनः पीठयुग्मस्य प्रसादादनुसन्धानमात्रेणैव व्रतयोगादिनिरपेक्षः सर्वकालमादियागपरायणो गुरुः शाक्तं पद्ममानन्दनिर्भरत्वात् चन्द्रनिभमात्मानं विकासाधायकतया भास्करद्युतिमनुध्याय शाक्ते निजे देहे क्रमादभीप्सितां शक्तिप्रधानां विद्यां, शिवप्रधानं कूटं मन्त्रं च न्यस्येत् येन अत्रैव समनन्तरोक्तयुक्त्यनुसन्धानतारतम्यात् विद्यामन्त्रात्मकमपि पीठद्वयं मीलितं स्यात् || १६८ || एतच्च अस्माभिरतिरहस्यत्वात् निर्भज्य नोक्तमिति स्वयमेव अवधार्यम्-- इत्याह-- न पठ्यते रहस्यत्वात्स्पष्टैः शब्दैर्मया पुनः | कुतूहली तूक्तशास्त्रसंपाठादेव लक्षयेत् || २९-१६९ || अत्रैव मण्डलात्मतामपि अभिधातुमाह-- यद्भजन्ते सदा सर्वे यद्वान् देवश्च देवता | तच्चक्रं परमं देवीयागादौ संनिधापकम् || २९-१७० || देह एव परं लिङ्गं सर्वतत्त्वात्मकं शिवम् | देवताचक्रसञ्जुष्टं पूजाधाम तदुत्तमम् || २९-१७१ || तदेव मण्डलं मुख्यं त्रित्रिशूलाब्जचक्रखम् | अत्रैव देवताचक्रं बहिरन्तः सदा यजेत् || २९-१७२ || स्वस्वमन्त्रपरामर्शपूर्वं तज्जन्मभी रसैः | आनन्दबहुलैः सृष्टिसंहारविधिना स्पृशेत् || २९-१७३ || यद्वानिति--आद्याधारवान् | देवता चेति--अर्थात् तद्वती | चक्रमिति-- मुख्यं चक्रम् | अत एव उक्तम्--परममिति त्रित्रिशूलाब्जचक्रखमिति ᳚त्रित्रिशूलेऽत्र सप्तारे श्लिष्टमात्रेण मध्यतः | पद्मानामथ चक्राणां व्योम्नां वा सप्तकं भवेत् ||᳚ (३१|२८) इति वक्ष्यमाणनीत्या तद्रूपम्--इत्यर्थः | स्वस्वेति--अभीप्सितस्य | तज्जन्मभिरिति--मुख्यचक्रोद्गतैः कुण्डगोलकादिभिः | सृष्टिसंहारविधिनेति--शान्तोदितक्रमेण--इत्यर्थः || १७३ || एवञ्च अस्य किं स्यात्?--इत्याशङ्क्य आह-- तत्स्पर्शरभसोद्बुद्धसंविच्चक्रं तदीश्वरः |
SKलभते परमं धाम तर्पिताशेषदैवतः || २९-१७४ || अनुयागोक्तविधिना द्रव्यैर्हृदयहारिभिः | तथैव स्वस्वकामर्शयोगादन्तः प्रतर्पयेत् || २९-१७५ || अनुयागोक्तविधिनेति--यदुक्तं प्राक्-- ᳚यद्यदेवास्य मनसि विकासित्वं प्रयच्छति | तेनैव कुर्यात् पूजां स इति शम्भोर्विनिश्चयः ||᳚ (२६|५५) इत्यादि उपक्रम्य ᳚शिवाभेदभराद्भाववर्गश्च्योतति यं रसम् | तमेव परमे धाम्नि पूजनायार्पयेद् बुधः ||᳚ (२६|६१) इति ||१७५ || एतच्च आदरातिशयमवद्योतयितुं प्राक्संवादितेनापि निजस्तोत्रैकदेशेन संवादयति-- कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालिता- मात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः | आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् || २९-१७६ || न च एवमस्माभिः स्वोपज्ञमेवोक्तम्--इत्याह-- श्रीवीरावल्यमर्यादप्रभृतौ शास्त्रसञ्चये | स एष परमो यागः स्तुतः शीतांशुमौलिना || २९-१७७ || एष इति देहविषयः, यदभिप्रायेणैव श्वदेह एवायतनं नान्यदायतनं व्रजेत् |᳚ इत्यादि अन्यत्र उक्तम् ||१७७ || एतच्च देहे इव प्राणेऽपि कार्यम्--इत्याह-- अथवा प्राणवृत्तिस्थं समस्तं देवतागणम् | पश्येत्पूर्वोक्तयुक्त्यैव तत्रैवाभ्यर्चयेद्गुरुः || २९-१७८ || कथं च अत्र पूजनं कार्यम्--इत्याह-- प्राणाश्रितानां देवीनां ब्रह्मनासादिभेदिभिः | करन्ध्रैर्विशतापानचान्द्रचक्रेण तर्पणम् || २९-१७९ || ब्रह्मेति--ब्रह्मरन्ध्रम् ||१७९ || एवञ्च अस्य किं स्यात् ?--इत्याशङ्क्य आह-- एवं प्राणक्रमेणैव तर्पयेद्देवतागणम् | अचिरात्तत्प्रसादेन ज्ञानसिद्धीरथाश्नुते || २९-१८० || यद्वा किमनात्मरूपैर्देहादिभिः, संविन्निष्ठतयैव देवीचक्रं तर्पयेत्--इत्याह-- संविन्मात्रस्थितं देवीचक्रं वा संविदर्पणात् | विश्वाभोगप्रयोगेण तर्पणीयं विपश्चिता || २९-१८१ || संविदर्पणादिति व्याख्यातं विश्वाभोगप्रयोगेणेति, अत एव विपश्चितेति उक्तम् || १८१ ||
SKननु विपश्चितोऽपि सति देहादौ संविन्मात्रस्थितं देवीचक्रं कथं तर्पणीयम्--इत्याह-- यत्र सर्वे लयं यान्ति दह्यन्ते तत्त्वसञ्चयाः | तां चितिं पश्य कायस्थां कालानलसमप्रभाम् || २९-१८२ || यत्र सर्वे सकलाद्याः प्रमातारो भूतभावाद्यात्मकानि प्रमेयाणि च तदेकसाद्भावं यान्ति तामशेषविश्वसंहारकारित्वात् कालानलसमप्रभां कायस्थां चितिं पश्य, सत्यपि देहादौ चिदेव एका सर्वतः परिस्फुरति--इत्यर्थः || १८२ || एतदेव स्फुटयति-- शून्यरूपे श्मशानेऽस्मिन् योगिनीसिद्धसेविते | क्रीडास्थाने महारौद्रे सर्वास्तमितविग्रहे || २९-१८३ || स्वरश्मिमण्डलाकीर्णे ध्वंसितध्वान्तसन्ततौ | सर्वैर्विकल्पैर्निर्मुक्ते आनन्दपदकेवले || २९-१८४ || असंख्यचितिसंपूर्णे श्मशाने चितिभीषणे | समस्तदेवताधारे प्रविष्टः को न सिद्ध्यति || २९-१८५ || अस्मिन्नसङ्ख्याभिः सुखदुःखाद्यात्मिकाभिश्चितिभिः संपूर्णे, अत एव संसारयातनादायितया महारौद्रे, अत एव परिहरणीयत्वादिना श्मशानप्राये शरीरे प्रविष्टः अन्तर्मुखीभूतः को न सिद्ध्यति-- इति संबन्धः | कीदृशे च अस्मिन् ? अन्तर्मुखी भावादेव तत्र अहन्ताविगलनात् शून्यरूपे, अत एव सर्वेषां सकलादीनामस्तमितविग्रहे, अत एव ध्वंसितध्वान्तसन्ततौ प्रध्वस्तभेदान्धकारे, अत एव सर्वैर्विकल्पैर्निर्मुक्ते, अत एव स्वस्मिन्नेव, न तु बाह्ये, रश्मिमण्डलेन चक्षुरादीन्द्रियदेवतावर्गेण आकीर्णे, अत एव योगिनीसिद्धसेविते समस्तदेवताधारे, अत एव ᳚क्रीडन्ति विविधैर्भावैर्देव्यः पिण्डान्तरस्थिताः |᳚ इति आसामेव क्रीडास्थाने, अत एव सर्वदेवतासङ्केतस्थानतया श्मशाने, अत एव सर्वसंहारकारिण्या प्रमात्रेकरूपया चित्या भीषणे, अत एव आनन्दपदकेवले स्वात्ममात्रविश्रान्ते--इत्यर्थः || १८५ || न च एतदस्मदुपज्ञमेव--इत्याह-- श्रीमद्वीरावलीशास्त्रे इत्थं प्रोवाच भैरवी | अत्र संवित्क्रमश्चर्यामयः कटाक्षितोऽपि अतिरहस्यत्वात् निर्भज्य भेदेन नोक्त इति न विद्वद्भिरस्मभ्यमभ्यसूयितव्यम् ||
SKएवं दौतविध्यनुषक्तं रहस्योपनिषत्क्रममुपसंहरन् दीक्षाविधिमवतारयति-- इत्थं यागं विधायादौ तादृशौचित्यभागिनम् || २९-१८६ || लक्षैकीयं स्वशिष्यं तं दीक्षयेत्तादृशि क्रमे | लक्षैकीयमिति बहुशः परीक्षौचित्यलब्धम्, अत एवोक्तं स्वशिष्यमिति, तादृशौचित्यभागिनमिति | तादृशीति एवंनिरूपितस्वरूपे || तदेव आह-- रुद्रशक्त्या तु तं प्रोक्ष्य देवाभ्याशे निवेशयेत् || २९-१८७ || भुजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् | तयैवास्यार्पयेत्पुष्पं करयोर्गन्धदिग्धयोः || २९-१८८ || निरालम्बौ तु तौ तस्य स्थापयित्वा विचिन्तयेत् | रुद्रशक्त्याकृष्यमाणौ दीप्तयांकुशरूपया || २९-१८९ || ततः स स्वयमादाय वस्त्रं बद्धदृशिर्भवेत् | स्वयं च पातयेत्पुष्पं तत्पाताल्लक्षयेत्कुलम् || २९-१९० || ततोऽस्य मुखमुद्धाट्य पादयोः प्रणिपातयेत् | हस्तयोर्मूर्ध्नि चाप्यस्य देवीचक्रं समर्चयेत् || २९-१९१ || रुद्रशक्तिः परया मातृसद्भावेन वा संपुटिता मालिनी | प्रदीपयेदिति--हृद्गतशक्तिपुञ्जस्य अंगुलिद्वारनिःसृतस्य आकर्षणक्रमेण उत्तेजयेत्--इत्यर्थः | तयैवेति--रुद्रशक्त्या | निरालम्बाविति--विगलितसांसारिककृत्रिमनिजशक्तिकत्वात् निर्जीवप्रायौ--इत्यर्थः | अंकुशरूपयेति--आकर्षणौचित्यात् | तत इति--भुजयोः रुद्रशक्त्याकृष्यमाणत्वेन चिन्तनात् हेतोः | लक्षयेदिति--एवं हि अस्य स्वकुलमनायासेन सिद्ध्येदिति | प्रणिपातयेदिति--शक्तिरेव || १९१ || देवीचक्रं च अत्र कथमर्चयेत् ?--इत्याशङ्क्य आह-- आकर्ष्याकर्षकत्वेन प्रेर्यप्रेरकभावतः | हस्तयोर्हि प्रेर्यत्वेन देवीचक्रमभ्यर्चयेत् मूर्ध्नि च प्रेरकत्वेन | यतस्तदाकर्षणीयं तच्च आकर्षकम् | एवं हि मूर्ध्नि पूजितस्य देवीचक्रस्य सामर्थ्येन आकृष्टं हस्तद्वयम् | तत्रैव पाततः शिवहस्ततां यायादिति | यदुक्तम्-- ᳚ततोऽस्य मस्तके चक्रं हस्तयोश्चार्च्य योगवित् | तद्धस्तौ प्रेरयेच्छक्त्या यावन्मूर्धान्तमागतौ || शिवहस्तविधिः प्रोक्तः सद्यःप्रत्ययकारकः |᳚ इति ||
SKयदा पुनरेवं शिवहस्तविधिर्न सिद्ध्येत्, तदा शास्त्रान्तरीयं क्रममनुतिष्ठेत्--इत्याह-- उक्तं श्रीरत्नमालायां नाभिं दण्डेन संपुटम् || २९-१९२ || वामभूषणजङ्घाभ्यां नितम्बेनाप्यलङ्कृतम् | शिष्यहस्ते पुष्पभृते चोदनास्त्रं तु योजयेत् || २९-१९३ || यावत्स स्तोभमायातः स्वयं पतति मूर्धनि | शिवहस्तः स्वयं सोऽयं सद्यः प्रत्ययकारकः || २९-१९४ || अनेनैव प्रयोगेण चरुकं ग्राहयेद्गुरुः | शिष्येण दन्तकाष्ठं च तत्पातः प्राग्वदेव तु || २९-१९५ || नाभिः क्षः | दण्ड रेफः, तेन संपुटमूर्ध्वाधः संभिन्नम्-- इत्यर्थः | वामभूषणम् ऊ | वामजङ्घा औ | नितम्बं म् | स च अर्थाद्बिन्दुरूपः | तेन रक्ष्त्रौं | स इति--शिवहस्तः | तदुक्तं तत्र� ᳚मूलदण्डं समुद्धृत्य नाभिस्थं वर्णमुद्धरेत् | शूलदण्डासनस्थं तु वामभूषणसंयुतम् || वामजङ्घासमायुक्तं नितम्बालंकृतं प्रिये | दिव्यास्त्रमेतत्परमं नापुण्यो लभते स्फुटम् ||᳚ इति उपक्रम्य ᳚शिवहस्ते महेशानि इदं कूटं तु योजयेत् | यावत् स्तुभ्यत्यसौ देवि स्वयमेव चलत्यसौ ||᳚ इति | सद्यः प्रत्ययकारक इति--यत्रैव शरीरचक्रे झटिति हस्तः पतति, तत्रैव अभ्यासपरो भवेत्--इति गुरवः | अनेनैवेति-- आकर्ष्याकर्षकभावलक्षणेन | चरुकमिति--अर्थात् देवीभ्योऽग्रे दापयित्वा | शिष्येणेति--प्रयोज्यकर्तरि तृतीया | प्राग्वदेवेति-- पञ्चदशाह्निकोक्तवत् || १९५ || ननु एकेनैव नेत्रपटग्रहाद्यात्मना करस्तोभेन अस्य शक्त्यावेशो लक्षित इति किं पुनस्तद्वचनेन ?--इत्याशङ्क्य आह-- करस्तोभो नेत्रपटग्रहात् प्रभृति यः किल | दन्तकाष्ठसमादानपर्यन्तस्तत्र लक्षयेत् || २९-१९६ || तीव्रमन्दादिभेदेन शक्तिपातं तथाविधम् | तत्रेति--एवंविधे करस्तोभे | तथाविधमिति--तीव्रमन्दादिभेदम् | अयमत्र आशयः--यदा हि यत्रैव चक्रे पुष्पपातो वृत्तस्तत्रैव प्रणामः, तत्रैव चरुदानम्, तत एव तद्ग्रहणमित्यादि; तदा तीव्रः शक्तिपातो लक्षणीयः, अन्यथा तु मन्दः इति | तदुक्तम्--
SK᳚एतेषां चलनान्मन्त्री शक्तिपातं परीक्षयेत् | मन्दतीव्रादिभेदेन मन्दतीव्रादिकं बुधः ||᳚ इति || एवमियता अस्मद्दर्शने समयिदीक्षोक्ता--इत्याह-- इत्येष समयी प्रोक्तः श्रीपूर्वे करकम्पतः || २९-१९७ || न च एतदिह अपूर्वतया उक्तम्--इत्याह-- समयी तु करस्तोभादिति श्रीभोगहस्तके | यच्छ्रीपञ्चाशिका शमयी तु करस्तोभान्मुद्रया पुत्रको भवेत् |᳚ इत्यादि || अत्रैव प्रक्रियान्तरमाह-- चर्वेव वा गुरुर्दद्याद्वामामृतपरिप्लुतम् || २९-१९८ || निःशङ्कं ग्रहणाच्छक्तिगोत्रो मायोज्झितो भवेत् | सकम्पस्त्वाददानः स्यात् समयी वाचनादिषु || २९-१९९ || कालान्तरेऽध्वसंशुद्ध्या पालनात्समयस्थितेः | सिद्धिपात्रमिति श्रीमदानन्देश्वर उच्यते || २९-२०० || चर्विति--रत्नपञ्चाद्यात्मकम् | यदुक्तम्-- ᳚देहस्थं तु चरुं वक्ष्ये यत्सुरैरपि दुर्लभम् | शिवाम्बु रेतो रक्तं च नालाज्यं विश्वनिर्गमः || अतो विधानपूर्वं तु देहस्थं ग्राहयेच्चरुम् |᳚ इति | शक्तिगोत्र इति--ब्रह्म्याद्यंशकरूपः--इत्यर्थः | अत एव निःशङ्कं ग्रहणात् मायोज्झितः साक्षात्कृताविकल्पनिरुपायसंवित्तत्त्वो भवेत्--इत्यर्थः | अत एव चरुभोजनादेरनुपायपरिकरत्वं प्राक् संवादितम् | सशङ्कः पुनरेतदाददानो वाचनश्रवणादौ समयी योग्यः स्याद्येन उत्तरकालं तत्तच्छास्त्रीयसमयपरिपालनसूचिततीव्रशक्तिपातः षड्विधस्य अध्वनः सम्यक् पुत्रकदीक्षा क्रमेण शुद्ध्या मोक्षलक्ष्मीलक्षणायाः सिद्धेर्भाजनं भवेत् | न च एतत् स्वोपज्ञमेव उक्तम्--इत्याह--श्रीमदानन्देश्वर उच्यते इति || २९-२०० || एवं समयिदीक्षामभिधाय, पुत्रकदीक्षां वक्तुमुपक्रमते-- यदा तु पुत्रकं कुर्यात्तदा दीक्षां समाचरेत् | इह तावत् ᳚वेधदीक्षां विना दीक्षां यो यस्य कुरुते प्रिये | द्वावेतौ नरकं यात इति शाक्तस्य निश्चयः ||᳚ इत्याद्युक्त्या विना आवेशं शिष्यस्य दीक्षा न कार्येति प्रथममावेश एव उत्पादनीयो येन अस्य दीक्षायोग्यत्वे ज्ञाते गुरुस्तत्प्रक्रियामनुतिष्ठेत्, अन्यथा पुनर्दीक्षार्हत्वाभावात् स त्याज्य एव | यद्वक्ष्यते--
SK᳚यस्य त्वेवमपि स्यान्न तमत्रोपलवत्त्यजेत् |᳚ (२९|२११) इति || समावेशः सर्वशास्त्रेषु अविगानेन उक्त इति दर्शयितुं श्रीरत्नमालायामुक्तं तल्लक्षणं तावदर्थगत्या अभिधत्ते-- उक्तं श्रीरत्नमालायां नादिफान्तां ज्वलत्प्रभाम् || २९-२०१ || न्यस्येच्छिखान्तं पतति तेनात्रेदृक् क्रमो भवेत् | तेनेति--एवंविधेन न्यासेन हेतुना | पततीति-- देहाद्यात्मग्रहपरिहारेण रुद्रशक्तिमेव आविशति--इत्यर्थः | तदुक्तं तत्र-- ᳚ततो न्यस्येत्तु शिष्यस्य मालिनीं जगदम्बिकाम् | ज्वलज्ज्वलनसङ्काशां पादाद्यावच्छिखान्तकम् || नादिफान्तसमुच्चारात् पातयेद्विह्वलेन्द्रियम् | एषा दीक्षा महादेवी मालिनीविजये प्रिये ||᳚ इति | तेनेति--काकाक्षिवद्योज्यम्, तत् तेनेति--पातेन हेतुना | अत्रेति पुत्रकदीक्षायाम् | ईदृक्--वक्ष्यमाणः || तमेव आह-- प्रोक्षितस्य शिशोर्न्यस्तप्रोक्तशोध्याध्वपद्धतेः || २९-२०२ || ऋजुदेहजुषः शक्तिं पादान्मूर्धान्तमागताम् | पाशान्दहन्तीं संदीप्तां चिन्तयेत्तन्मयो गुरुः || २९-२०३ || उपविश्य ततस्तस्य मूलशोध्यात् प्रभृत्यलम् | अन्तशोध्यावसानान्तां दहन्तीं चिन्तयेत्क्रमात् || २९-२०४ || एवं सर्वाणि शोध्यानि तत्त्वादीनि पुरोक्तवत् | दग्ध्वा लीनां शिवे ध्यायेन्निष्कले सकलेऽथवा || २९-२०५ || योगिना योजिता मार्गे सजातीयस्य पोषणम् | कुरुते निर्दहत्यन्यद्भिन्नजातिकदम्बकम् || २९-२०६ || तन्मय इति--दीप्तशक्तिमयः | तत इति--उत्थानानन्तरम् | मूलशोध्यमादिशोध्यं यथा कलाध्वनि निवृत्तिः, अन्तशोध्यं यथा अत्रैव शान्त्यतीता | एवमिति --मूलशोध्यादारभ्य अन्तशोध्यावसानम् | पुरेति--तत्त्वदीक्षाप्रकरणे | निष्कले इति--पुत्रकाद्यपेक्षया | सकले इति--साधकोद्देशेन | मार्गे इति--मध्यधाम्नि | सजातीयम्-- चैतन्यम् | भिन्नजातीयाः--मलाद्याः || २०६ || ननु एवमस्य किं फलम्?--इत्याशङ्क्य आह-- अनया शोध्यमानस्य शिशोस्तीव्रादिभेदतः | शक्तिपाताच्चितिव्योमप्राणनान्तर्बहिस्तनूः || २९-२०७ || आविशन्ती रुद्रशक्तिः क्रमात्सूते फलं त्विदम् |
SKआनन्दमुद्भवं कम्पं निद्रां घूर्णिं च देहगाम् || २९-२०८ || एवमस्य दग्धपाशस्य शिष्यस्य तीव्रतीव्रात् शक्तिपातात् चितिं साक्षादात्मानमाविशन्ती रुद्रशक्तिरानन्दं सूते यावत् मन्दमन्दात् शक्तिपातात् देहमाविशन्ती घूर्णिम् | यतः चितावानन्दरूपत्वादानन्दस्य औचित्यम्, शून्यात्मनि व्योम्नि अवकाशवत्त्वादुद्भवस्य, प्राणात्मनि वायौ तत्कारित्वात् कम्पस्य, अन्तस्तनौ बुद्धिपुर्यष्टके तत्तन्मायीयवृत्तिनिरोधात् निद्रायाः, बहिस्तनावहन्तावष्टम्भभङ्गात् घूर्णिरिति | एवं हि साक्षादस्य दीक्षा वृत्तेति गुरोराश्वासो भवेत्--इति भावः || २०८ || एवमस्य स्तोभितपाशतया शिवे एव योजनिका जातेति तदैव देहपातः प्रसजेत् ?--इत्याशङ्क्य आह-- एवं स्तोभितपाशस्य योजितस्यात्मनः शिवे | शेषभोगाय कुर्वीत सृष्टिं संशुद्धतत्त्वगाम् || २९-२०९ || शेषस्य--एतद्देहारम्भकस्य कर्मणः | सृष्टिमिति--अर्थादेतद्देह गतामेव || २०९ || एवमपि यदि एतच्चिह्नानुदयात् मन्दशक्तिपातवतः कस्यचित् न अयमेवमावेशो जायते, तदा एवमस्य संस्कारान्तरं कुर्यात्--इत्याह-- अथवा कस्यचिन्नैवमावेशस्तद्दहेदिमम् | बहिरन्तश्चोक्तशक्त्या पतेदित्थं स भूतले || २९-२१० || यस्य त्वेवमपि स्यान्न तमत्रोपलवत्त्यजेत् | युगपदेव ऊर्ध्वाधो वमदग्निपुञ्जस्य ऊर्ध्वमुखस्य त्रिकोणस्य अन्तरुपवेशितं सर्वतो रेफवलितं ज्वालाकलापमय्या शक्त्या बहिरन्तश्च दहेत्--इति गुरवः | स्यान्नेति--आवेशः | उपलवदिति-- अनायातशक्तिपातत्वात् निबिडजडिमानम्--इत्यर्थः || एवं परित्यक्तो हि शिष्यः संसारे एव मज्जनोन्मज्जनानि कुरुते इति तदनुजिघृक्षापरतया गुरुतः शास्त्रतश्च सिद्धमप्रतिहतं दीक्षान्तरं वक्तुमाह-- अथ सप्रत्ययां दीक्षां वक्ष्ये तुष्टेन धीमता || २९-२११ || शंभुनाथेनोपदिष्टां दृष्टां सद्भावशासने | सद्भावशासने इति--श्रीतन्त्रसद्भावे || तामेव आह-- सुधाग्निमरुतो मन्दपरकालाग्निवायवः || २९-२१२ || वह्निसौधासुकूटाग्निवायुः सर्वे सषष्ठकाः |
SKएतत्पिण्डत्रयं स्तोभकारि प्रत्येकमुच्यते || २९-२१३ || सुधा सः, अग्निः रः, मरुत् यः, एवंस्र्यं; मन्दः डकारः, तत्परः फणभृच्छब्दवाच्यः ढकारः, (कालः ) प्राणशमनोऽन्तकः मः, अग्निः रः, वायुः यः, एवं ड्ढ्म्य्रं; वह्निः रः, (सौधः ) सोमः सः, असुः प्राण हः, कूटम् क्षः, अग्निः रः, वायुः यः, एवं रस्ह्क्ष्यूई | अत्र समाहारे द्वन्द्वः | सर्वे इति त्रयोऽपि पिण्डाः | सषष्ठका इति--ऊकारासनस्था अर्थात् बिन्द्वादिलाञ्छिताश्च | प्रत्येकमिति--व्यस्तम्--इत्यर्थः | तदुक्तं तत्र-- ᳚अथैवमपि यस्य स्यान्नावेशः कश्मलात्मनः | तं पिण्डत्रितयादेकेनोद्बोधपदका नयेत् || सोमानलानिलैरेकं पिण्डमादौ समुद्धरेत् | फणभृत्प्राणशमनशिखिवायुयुतं परम् || शिखिसोमासुकूटाग्निसमीरैश्च तृतीयकम् | षष्ठासनानि सर्वाणि तिलकाङ्कानि सुन्दरि || त्रिभिरेभिर्भवेद्व्यस्तैः शक्त्यावेशः शरीरगः |᳚ इति || २१३ || अत्रैव इतिकर्तव्यतामाह-- शक्तिबीजं स्मृतं यच्च न्यस्येत्सार्वाङ्गिकं तु तत् | हृच्चक्रे न्यस्यते मन्त्रो द्वादशस्वरभूषितः || २९-२१४ || जपाकुसुमसङ्काशं चैतन्यं तस्य मध्यतः | वायुना पेर्रितं चक्रं वह्निना परिदीपितम् || २९-२१५ || तद्ध्यायेच्च जपेन्मन्त्रं नामान्तरितयोगतः | निमेषार्धात्तु शिष्यस्य भवेत्स्तोभो न संशयः || २९-२१६ ||
SKशक्तिबीजं श्लिष्टतया त्रिकोणबीजमीकारो डम्बरशब्दवाच्या माया च | सार्वाङ्गिकं न्यस्येदिति--एतद्बीजद्वयमध्ये दीक्ष्यं चिन्तयेत्--इत्यर्थः | मन्त्र इतिसर्वमन्त्र सामान्यात्मा हकारः | तस्येति--षण्ठवर्जं स्वरद्वादशकसंभिन्नत्वात् चक्राकारतया अवस्थितस्य मन्त्रस्य | तच्चक्रमिति--दीक्ष्यस्य बहिरन्तश्च चिन्तितं वाग्भवादिनिखिलमन्त्रकदम्बकम्--इत्यर्थः | तेन एतत् वायुना यकारेण, वह्निना रेफेण च बहिः सर्वतो वेष्टितं ध्यायेत् येन एवमुद्दीपितं सत् स्तोभाविर्भावनप्रागल्भ्यमियात् | मन्त्रमिति-- पिण्डत्रयमध्यादेकतमम् | नामान्तरितयोगतः इति तेन आदौ मन्त्रः, ततो दीक्ष्यनाम, पुनर्मन्त्र इति | तदुक्तं तत्र-- ᳚त्रिकोणकं डम्बरं च न्यस्येत्सर्वाङ्गसङ्गतम् | द्वादशस्वरसंभिन्नं हृच्चक्रे मन्त्रनायकम् || उदयादित्यसङ्काशं जीवं तेन च चालयेत् | दीपयेदनलेनैव वायुनापि प्रबोधयेत् || मन्त्रेणान्तरितं नाम जपेच्छिष्यस्य भामिनि | आवेशमायाति ततस्तत्क्षणादेव तत्परः ||᳚ इति || २१६ || एवञ्च अस्य कीदृगनुभवः--इत्याह-- आत्मानं प्रेक्षते देवि तत्त्वे तत्त्वे नियोजितः | यावत्प्राप्तः परं तत्त्वं तदा त्वेष न पश्यति || २९-२१७ || अनेन क्रमयोगेन सर्वाध्वानं स पश्यति | प्रेक्षते इति--अर्थात् यथायथं शुद्धम् | न पश्यतीति-- द्रष्ट्रेकस्वभाव एव भवेत्--इत्यर्थः || न केवलमस्य स्वात्मनि एव प्रत्ययनिमित्तमेवमनुभवो जायते, यावत् स्वपरयोरपि--इत्याह-- अथवा सर्वशास्त्राण्यप्युद्ग्राहयति तत्क्षणात् || २९-२१८ || सर्वशास्त्राणीति--अर्थाददृष्टश्रुतानि || २९-२१८ || यदि नाम च प्रतिनियतभोगेच्छुः कोऽपि स्यात्, तदा अस्य तादृशीमेव दीक्षां कुर्यात्--इत्याह-- पृथक्तत्त्वविधौ दीक्षां योग्यतावशवर्तिनः | तत्त्वाभ्यासविधानेन सिद्धयोगी समाचरेत् || २१९ || इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तने | कुलक्रमेष्टिरादेश्या पञ्चावस्थासमन्विता || २९-२२० ||
SKयोग्यता कस्यचित् पृथ्वीतत्त्वे एव भुवनेशत्वे वाञ्छा, कस्यचित् तु सदाशिवत्वे | तत्त्वाभ्यासविधानेनेति--तत्तद्धारणाद्यात्मना-- इत्यर्थः | शेषवर्तने इति--शेषवृत्तिनिमित्तम्--इत्यर्थः || २२० || पञ्चावस्थासमन्वितमेव व्याचष्टे-- जाग्रदादिषु संवित्तिर्यथा स्यादनपायिनी | कुलयागस्तथादेश्यो योगिनीमुखसंस्थितः || २९-२२१ || अनपायिनीति-- ᳚................ण सावस्था न या शिवः |᳚ (स्प. का. ३|२) इति भङ्ग्या प्रवृत्ता अविरतरूपा--इत्यर्थः || २२१ || तदेव आह-- सर्वं जाग्रति कर्तव्यं स्वप्ने प्रत्येकमन्त्रगम् | निवार्य सुप्ते मूलाख्यः स्वशक्तिपरिबृंहितः || २९-२२२ || तुर्ये त्वेकैव दूत्याख्या तदतीते कुलेशिता | स्वशक्तिपरिपूर्णानामित्थं पूजा प्रवर्तते || २९-२२३ || इह खलु जाग्रदाद्यवस्थासु यथायथं भेदस्य हानिरभेदस्य च उदय इति जाग्रदवस्थायां निखिलमेव मन्त्रजातं पूजनीयतया योज्यम्; स्वप्नावस्थायामपि एवम्, किन्तु प्रत्येकमारिराधयिषितमेकमेव परादिमन्त्रमधिकृत्य--इत्यर्थः | सुषुप्तावस्थायां तु सर्वं परिवारभूतं मन्त्रजातमपास्य परादिशक्तित्रययोगिभैरवत्रयं कुलेश्वरौ च इत्येव पूज्यम्, एवं तुर्येऽपि एकैव कुलेश्वरी, तुर्यातीते च कुलेश्वर एवेति || २२२-२२३ || एतदेव अन्यत्रापि अतिदिशति-- पिण्डस्थादि च पूर्वोक्तं सर्वातीतावसानकम् | अवस्थापञ्चकं प्रोक्तभेदं तस्मै निरूपयेत् || २९-२२४ || पूर्वेति--दशमाह्निके | प्रोक्तभेदमिति--योगिज्ञानिविषयतया | तस्मायिति--एवं संदीक्षिताय मुमुक्षवे || २२४ || इदानीं दीक्षानन्तरोद्दिष्टं साधकाचार्ययोरभिषेकमपि आह-- साधकस्य बुभुक्षोस्तु सम्यग्योगाभिषेचनम् | तत्रेष्ट्वा विभवैर्देवं हेमादिमयमव्रणम् || २९-२२५ || दीपाष्टकं रक्तवर्तिसर्पिषापूर्य बोधयेत् | कुलाष्टकेन तत्पूज्यं शङ्खे चापि कुलेश्वरौ || २९-२२६ || आनन्दामृतसंपूर्णे शिवहस्तोक्तवर्त्मना | तेनाभिषिञ्चेत्तं पश्चात् स कुर्यान्मन्त्रसाधनम् || २९-२२७ || आचार्यस्याभिषेकोऽयमधिकारान्वितः स तु |
SKकुर्यात्पिष्टादिभिश्चास्य चतुष्षष्टिं प्रदीपकान् || २९-२२८ || अष्टाष्टकेन पूज्यास्ते मध्ये प्राग्वत् कुलेश्वरौ | शिवहस्तोक्तयुक्त्यैव गुरुमप्यभिषेचयेत् || २९-२२९ || योगेति--तत्प्रधानम्--इत्यर्थः | तत्रेति--योगाभिषेचने | शङ्खे इति-- महाशङ्खे | शिवहस्तोक्तवर्त्मनेति--शक्त्याकर्षणात्मना क्रमेण | तेनेति--शङ्खेन | स इति--बुभुक्षुः साधकः | पिष्टादिभिरिति-- आदिशब्दात् वल्मीकमृदादि | प्राग्वदिति--शङ्खगतत्वेन || २२९ || एवमभिषेकेण अनयोः किं स्यात् ?--इत्याशङ्कां निराचिकीर्षुरागममेव पठति-- अभिषिक्ताविमावेवं सर्वयोगिगणेन तु | विदितौ भवतस्तत्र गुरुर्मोक्षप्रदो भवेत् || २९-२३० || अत्रैव तुर्यपादस्य तात्पर्यतोऽर्थं व्याख्यातुमाह-- तात्पर्यमस्य पादस्य स सिद्धीः संप्रयच्छति | गुरुर्यः साधकः प्राक्स्यादन्यो मोक्षं ददात्यलम् || २९-२३१ || अनयोः कथयेज्ज्ञानं त्रिविधं सर्वमप्यलम् | स्वकीयाज्ञां च वितरेत् स्वक्रियाकरणं प्रति || २९-२३२ || इदमत्र तात्पर्यं यत्--अनयोर्मध्यात् यः पूर्वं साधकः सन् गुरुः, स परेभ्यः सिद्धीरेव ददाति; अन्यः प्रथममेव यो गुरुः, सोऽत्यर्थं प्रकर्षेण सिद्धिदानपुरःसरीकारेण मोक्षमपि-- इत्यर्थः | यद्यपि सबीजदीक्षादीक्षितस्य मुमुक्षोरेव आचार्यत्वमाम्नातं, तथापि तत् कर्मिविषयम्; इदं तु ज्ञानिविषयमिति न कश्चिद्विरोधः | त्रिविधम्-- आणवशाक्तशांभवरूपम् | स्वक्रिया--दीक्षादिका || एतदेव आन्तरेण क्रमेणापि अभिधत्ते-- षट्कं कारणसंज्ञं यत्तथा यः परमः शिवः | साकं भैरवनाथेन तदष्टकमुदाहृतम् || २९-२३३ || प्रत्येकं तस्य सार्वात्म्यं पश्यंस्तां वृत्तिमात्मगाम् | चक्षुरादौ संक्रमयेद्यत्र यत्रेन्द्रिये गुरुः || २९-२३४ || स एव पूर्णैः कलशैरभिषेकः परः स्मृतः | विना बाह्यैरपीत्युक्तं श्रीवीरावलिभैरवे || २९-२३५ ||
SK(षट्कं ) ब्रह्मा विष्णुः रुद्र ईश्वरः सदाशिवोऽनाश्रिशिवश्चेति | परमशिव इति--षट्त्रशः | भैरवनाथः सप्तत्रिंशादिशब्दव्यवहार्यं पूर्णं रूपम् | तत् यदेतस्य अष्टकस्य प्रत्येकं सार्वात्म्येन चतुष्षष्टिका वृत्तिरवभासते, तामात्मगां विधाय यत्र यत्र चक्षुरादाविन्द्रिये स्वेन्द्रियप्रणालिकया अभिषेच्यस्य गुरुः संक्रमयेत्--तदैक्या पत्तिं कुर्यात्; स एव विना बाह्यं संविद्रसापूरितत्वात् पूर्णैरान्तरैः कलशैर्बाह्यवैलक्षण्यात् परोऽभिषेकोऽस्मद्गुरुभिः स्मृतः-- अनुष्ठेयतया अभिसंहितः--इत्यर्थः || एवमभिषेकविधिमभिधाय, तत् पुरोद्दिष्टं वेधस्वरूपं निर्णेतुकामस्तद्दीक्षां वक्तुमुपक्रमते-- सद्य एव तु भोगेप्सोर्योगात्सिद्धतमो गुरुः | कुर्यात्सद्यस्तथाभीष्टफलदं वेधदीक्षणम् || २९-२३६ || योगात्सिद्धतम इति--स्वभ्यस्तयोगोऽत्र अधिकृतः--इत्यर्थः | यद्वक्ष्यति-- शा चाभ्यासवता कार्या................. |᳚ (२९|२३७) इति | वेधेति--मध्यमप्राणशक्त्या ऊर्ध्वोर्ध्वक्रमणेन चक्राधारादीनां भेदनम् | यद्वक्ष्यति-- ᳚..........................येनोर्ध्वोर्ध्वप्रवेशतः | शिष्यस्य चक्रसंभेदप्रत्ययो जायते ध्रुवः ||᳚ (२९|२३७) इति | यदभिप्रायेणैव-- ᳚आत्मानं मणिमाश्रित्य शक्तिं न्यस्येत्तु हेरुकम् | पाशविश्लेषकरणं वेध इत्यभिसंज्ञितम् ||᳚ इत्यादि उक्तम् || २३६ || तदेव आह-- वेधदीक्षा च बहुधा तत्र तत्र निरूपिता | सा चाभ्यासवता कार्या येनोर्ध्वोर्ध्वप्रवेशतः || २९-२३७ || शिष्यस्य चक्रसंभेदप्रत्ययो जायते ध्रुवः | येनेति--अभ्यासवत्त्वेन || एवंविधेन अस्य किं स्यात् ?--इत्याशङ्क्य आह-- येनाणिमादिका सिद्धिः ........ अन्यथा पुनरूर्ध्वोर्ध्वप्रवेशाभावे विघ्नादिभाजनत्वं भवेत्-- यदागमः--इत्याह-- ...........श्रीमालायां च चोदिता || २९-२३८ || ऊर्ध्वचक्रदशाऽलाभे पिशाचावेश एव सा | यदुक्तं तत्र-- ᳚अधोऽवस्था यदा ऊर्ध्वं सङ्क्रमन्ति वरानने | सैव मोक्षपदावस्था सैव ज्ञानस्य भाजनम् ||
SKऊर्ध्वचक्रगतावस्था यदाधः संभवन्ति च | तदा पैशाच आवेशः स वै विघ्नस्य कारणम् ||᳚ इति || बहुधेत्युक्तं निरूपयति-- मन्त्रनादबिन्दुशक्तिभुजङ्गमपरात्मिका || २९-२३९ || षोढा श्रीगह्वरे वेधदीक्षोक्ता परमेशिना | तदुक्तं तत्र-- ᳚मन्त्रवेधं तु नादाख्यं बिन्दुवेधमतः परम् | शाक्तं भुजङ्गवेधं तु परं षष्ठमुदाहृतम् ||᳚ इति | षोढात्वे च अत्र अध्वशुद्धिगर्भीकारः कारणम् | यदुक्तम्-- ᳚षोढा वे वेधबोधेन अध्वानं शोधयेत्प्रिये |᳚ इति || तत्रत्यमेव ग्रन्थमर्थतः शब्दतश्च पठति-- ज्वालाकुलं स्वशास्त्रोक्तं चक्रमष्टारकादिकम् || २९-२४० || ध्यात्वा तेनास्य हृच्चक्रवेधनान्मन्त्रवेधनम् | स्वेति--अनुष्ठेयतया | तेनेति--अष्टारकादिना | हृच्चक्रेति--तात्स्थ्यात् चेत्यसङ्कोचित आत्मा लक्ष्यते | यदुक्तम्-- ᳚ज्वालाकुलं ततो ध्यात्वा अष्टारं चक्रमुत्तमम् | द्वादशारमथो वापि स्वशास्त्रविधियोगतः || परचित्तं वेधनीयं मन्त्रवेध उदाहृतः |᳚ इति || एतदेव क्रमान्तरेणापि आह-- आकारं नवधा देहे न्यस्य संक्रमयेत्ततः || २९-२४१ || न्यासयोगेन शिष्याय दीप्यमानं महार्चिषम् | पाशस्तोभात्ततस्तस्य परतत्त्वे तु योजनम् || २९-२४२ || इति दीक्षोत्तरे दृष्टो विधिर्मे शंभुनोदितः | नादोच्चारेण नादाख्यः सृष्टिक्रमनियोगतः || २९-२४३ || नादेन वेधयेच्चित्तं नादवेध उदीरितः | बिन्दुस्थानगतं चित्तं भ्रूमध्यपथसंस्थितम् || २९-२४४ || हृल्लक्ष्ये वा महेशानि बिन्दुं ज्वालाकुलप्रभम् | तेन संबोधयेत्साध्यं बिन्द्वाख्योऽयं प्रकीर्तितः || २९-२४५ || शाक्तं शक्तिमदुच्चाराद्गन्धोच्चारेण सुन्दरि | शृङ्गाटकासनस्थं तु कुटिलं कुण्डलाकृतिम् || २९-२४६ || अनुच्चारेण चोच्चार्य वेधयेन्निखिलं जगत् | एवं भ्रमरवेधेन शाक्तवेध उदाहृतः || २९-२४७ ||
SKनवधेति--रन्ध्रभेदात् | देहे इति--अर्थात् स्वकीये | न्यासयोगेन त्यक्तात् नवधैव दीप्यमानम् | महार्चिषमित्यनेन अस्य पाशस्तोभने सामर्थ्यं दर्शितम् | नादोच्चारेणेति--नादशब्देन दीर्घात्मनादबीजम् | सृष्टीति--नादिफान्तलक्षणा | नादेनेति--अनच्ककलात्मना स्वयमुच्चरद्रूपेण | तदुक्तम्-- ङादं दीर्घं समुच्चार्य नादं नादे समाक्रमेत् | नादिफान्तं समुच्चार्य वर्णाध्वानं विशोधयेत् || नादेन वेधयेद्देवि नादवेध उदाहृतः |᳚ इति | बिन्दुस्थानगतत्वमेव भ्रूमध्येत्यादिना व्याख्यातम् | चित्तमिति-- शिष्यस्य संबन्धि, तच्च अर्थात् बिन्द्वाविष्टम् | बिन्दुमिति--अर्थात् भावयित्वा | तदुक्तम्-- ᳚भ्रूमध्ये हृदये वाथ कन्दे वा बिन्दुभावनात् | आविश्य शिष्यचित्तं तु बिन्दुभेदेन वेधयेत् ||᳚ इति | यच्च ᳚गुरुर्मत्तगन्धसङ्कोचनादुत्प्लवतेऽतिभीमः᳚ ?--इत्यादिदृशा गन्धस्य मत्तगन्धस्य निष्पीडनादियुक्तिबलोपनतेन ऊर्ध्वं चारेण मध्यशक्तेर्द्वादशान्तावस्थिते शिवात्मनि शक्तिमति उच्चैश्चरणसामरस्यमासाद्य जन्माधारे सततोदितत्वात् शृङ्गाटकासनस्थं प्राणशक्त्यभेदितया कुण्डलाकृतिं कुटिलमनच्कमनुच्चारेण उच्चार्य स्वयमुच्चरद्रूपत्वादुच्चारप्रयत्ननिरपेक्षतया स्वपरयोः स्वारसिके एव उच्चारेऽवधाय निखिलमपि जगद्वेधयेत्, असौ तत्तत्स्थानगत्या भ्रमं दधानः शाक्तो वेधः उक्तः || २४७ || अथ एतदनुषक्तं भुजङ्गवेधमभिधातुमाह-- सा चैव परमा शक्तिरानन्दप्रविकासिनी | जन्मस्थानात्परं याति फणपञ्चकभूषिता || २९-२४८ || परमिति--द्वादशान्तावस्थितं शक्तिमन्तम् | तदुक्तम्-- ᳚एवं पञ्चफणा देवी निर्गताधरमण्डलात् |᳚ इत्युपक्रम्य ᳚गता सा परमाकाशं परं निवार्णमण्डलम् ||᳚ इति || २४८ || फणपञ्चकभूषितत्वमेव प्रपञ्चयति-- कलास्तत्त्वानि नन्दाद्या व्योमानि च कुलानि च | ब्रह्मादिकारणान्यक्षाण्येव सा पञ्चकात्मिका || २९-२४९ || एवं पञ्चप्रकारा सा ब्रह्मस्थानविनिर्गता | ब्रह्मस्थाने विशन्ती तु तडिल्लीना विराजते || २९-२५० ||
SKप्रविष्टा वेधयेत्कायमात्मानं प्रतिभेदयेत् | एवं भुजङ्गवेधस्तु कथितो भैरवागमे || २९-२५१ || तावद्भावयते चित्तं यावच्चित्तं क्षयं गतम् | क्षीणे चित्ते सुरेशानि परानन्द उदाहृतः || २९-२५२ || कलाः--शान्त्यतीताद्याः पञ्च | तत्त्वानि--पृथिव्यादीनि | नन्दाद्याः--तिथयः | व्योमानि--जन्मनाभिहृद्बिन्दुस्थानानि | कुलानि-- महाकौलकौलाकुलकुलाकुलाख्यानि | ब्रह्मादिकारणानि-- सदाशिवान्तानि | अक्षाणि--बुद्धीन्द्रियाणि कर्मेन्द्रियाणि च | ब्रह्मस्थानेति--जन्माधारात्, ब्रह्मस्थाने इति--द्वादशान्ते, एतदुभयमपि हि अस्य मुख्यमधिष्ठानम्--इत्यभिप्रायः | कायमिति-- चक्राधारादिरूपम् | ननु कायवेधेन आत्मनः किं स्यात् ?--इत्युक्तम्-- आत्मानं प्रतिभेदयेदिति | उक्तं च-- ᳚भुजङ्गकुटिलाकारा अधो नाभेर्व्यवस्थिता | प्रबुद्धा फणिवद्गच्छेत् फणापञ्चकभूषिता || पञ्चकात् पञ्चकं यावद्वेधं भुजङ्गसंज्ञितम् | इति | क्षीणे इति विकल्परूपतापरित्यागात् | परानन्द इति निर्विकल्पकचमत्कारात्मा || २५२ || अत एव अस्य सर्वतो भेदविगलनम्--इत्याह-- नेन्द्रियाणि न वै प्राणा नान्तःकरणगोचरः | न मनो नापि मन्तव्यं न मन्ता न मनिक्रिया || २९-२५३ || सर्वभावपरिक्षीणः परवेध उदाहृतः | प्रकारान्तरेणापि अस्य बहुधात्वं दर्शयति-- मनुशक्तिभुवनरूपज्ञापिण्डस्थाननाडिपरभेदात् || २९-२५४ || नवधा कलयन्त्यन्ये वेदं गुरवो रहस्यविदः | एतदेव क्रमेण लक्षयति-- मायागर्भाग्निवर्णौघयुक्ते त्र्यश्रिणि मण्डले || २९-२५५ || ध्यात्वा ज्वालाकरालेन तेन ग्रन्थीन् विभेदयेत् | पुष्पैर्हन्याद्योजयेच्च परे मन्त्राभिधो विधिः || २९-२५६ || नाड्याविश्यान्यतरया चैतन्यं कन्दधामनि | पिण्डीकृत्य परिभ्रम्य पञ्चाष्टशिखया हठात् || २९-२५७ || शक्तिशूलाग्रगमितं क्वापि चक्रे नियोजयेत् | शक्त्येति शाक्तो वेधोऽयं सद्यः प्रत्ययकारकः || २९-२५८ || आधारान्निर्गतया शिखया ज्योत्स्नावदातया रभसात् | अंगुष्ठमूलपीठक्रमेण शिष्यस्य लीनया व्योम्नि || २९-२५९ ||
SKदेहं स्वच्छीकृत्य क्षादीनान्तान् स्मरन्पुरोक्तपुर्योघान् | निजमण्डलनिर्ध्यानात्प्रतिबिम्बयते भुवनवेधः || २९-२६० || भ्रूमध्योदितबैन्दवधामान्तः काञ्चिदाकृतिं रुचिराम् | तादात्म्येन ध्यायेच्छिष्यं पश्चाच्च तन्मयीकुर्यात् || २९-२६१ || इति रूपवेध उक्तः सा चेहाकृतिरुपैति दृश्यत्वम् | अन्ते तत्सायुज्यं शिष्यश्चायाति तन्मयीभूतः || २९-२६२ || विज्ञानमष्टधा यद् घ्रणादिकबुद्धिसंज्ञकरणान्तः | तत् स्वस्वनाडिसूत्रक्रमेण सञ्चारयेच्छिष्ये || २९-२६३ || अभिमानदार्ढ्यबन्धक्रमेण विज्ञानसंज्ञको वेधः | हृदयव्योमनि सद्यो दिव्यज्ञानार्कसमुदयं धत्ते || २९-२६४ || पिण्डः परः कलात्मा सूक्ष्मः पुर्यष्टको बहिः स्थूलः | छायात्मा स पराङ्मुख आदर्शादौ च संमुखो ज्ञेयः || २९-२६५ || इति यः पिण्डविभेदस्तं रभसादुत्तरोत्तरे शमयेत् | तत्तद्गलने क्रमशः परमपदं पिण्डवेधेन || २९-२६६ || यद्यद्देहे चक्रं तत्र शिशोरेत्य विश्रमं क्रमशः | उज्ज्वलयेत्तच्चक्रं स्थानाख्यस्तत्फलप्रदो वेधः || २९-२६७ || नाड्यः प्रधानभूतास्तिस्तोऽन्यास्तद्गतास्त्वसंख्येयाः | एकीकारस्ताभिर्नाडीवेधोऽत्र तत्फलकृत् || २९-२६८ || अभिलषितनाडिवाहो मुख्याभिश्चक्षुरादिनिष्ठाभिः | तद्बोधप्राप्तिः स्यान्नाडीवेधे विचित्रबहुरूपा || २९-२६९ || लांगूलाकृतिबलवत् स्वनाडिसंवेष्टितामपरनाडीम् | आस्फोट्य सिद्धमपि भुवि पातयति हठान्महायोगी || २९-२७० || परवेधं समस्तेषु चक्रेष्वद्वैतमामृशन् | परं शिवं प्रकुर्वीत शिवतापत्तिदो गुरुः || २९-२७१ ||
SKमाया मायाबीजम् | अग्निवर्णाः रेफाः त्र्यश्रिणीति-- अर्थादूर्ध्वमुखे | ध्यात्वेति--अर्थात् तदन्तरुपविष्टं शिष्यम् | तेनेति--त्र्यश्रेण मण्डलेन | अन्यतरयेति-- सुषुम्णादिनाडित्रयमध्यादेकया | पिण्डीकृत्येति--सर्वत उपसंहृत्य | परिभ्रम्येति�तत्रैव दक्षिणावर्तक्रमेण महता वेगेन | पञ्च कर्मेन्द्रियाणि, अष्टौ बुद्धीन्द्रियपञ्चकमन्तः करणत्रयं च | शक्तीति--शक्तिव्यापिनीसमनालक्षणम् | क्वापीति--यथाभीष्टे | प्रत्ययः--आवेशलक्षणः | शिखयेति--तद्रूपया शक्त्या | ज्योत्स्नावदातयेत्यनेन अस्याः प्रकाशकत्वं नैर्मल्यं च आवेदितम् | एतदौचित्यादेव च देहं स्वच्छीकृत्येति उक्तम् | व्योम्नीति--द्वादशान्ते | तच्च लीनत्वमंगुष्ठामूलपीठाद्वा अनुसन्धातव्यम् | अंगुष्ठमूलक्रमेणेति--क्षादीनान्तानिति संहारक्रमेण | पुरेति-- अष्टमाह्निकादौ | निजमण्डलम्--स्वशरीरम् | प्रतिबिम्बयते इति-- शिष्यमपि तथाविधमेव कुर्यात्--इत्यर्थः | काञ्चिदिति-- यथेष्टदेवतारूपाम् | किञ्च अत्र फलम्?--इत्याशङ्क्य आह--सा चेत्यादि | अष्टधात्वमेव स्फुटयति --घ्रणेत्यादिना | अन्तरिति-- अन्तःकरणत्रयम् | हृदयेति--सर्वनाडीनामभिव्यक्तिस्थानत्वात् | पिण्डः शरीरम् | कलेति--कञ्चुकपञ्चकोपलक्षणम् | य इति-- त्रिविधोद्दिष्टः | उत्तरोत्तरे इति--स्थूलः सूक्ष्मे, सूक्ष्मश्च परे इति | क्रमश इति--यथायथं दार्ढ्येन--इत्यर्थः | अत्र च अन्तरा परिकल्पितं ᳚छायात्मा स पराङ्मुख आदर्शादौ च संमुखो ज्ञेयः |᳚ इति अर्धमसङ्गतत्वादन्तर्गडुप्रायमिति उपेक्ष्यम् | यथास्थितव्याख्यानहेवाकिनामेतत्तु सङ्गतिं यदि उपेयात् तदास्ताम्; अस्माकं पुनरियती नास्ति दृष्टिः | चक्रमिति-- आधारादीनामुपलक्षणम् क्रमशः इति--नाडीचक्रादेरारभ्य | उज्ज्वलयेदिति--संविदुन्मुखतया दीप्तीकुर्यात्--इत्यर्थः | तत्फलेति-- उज्ज्वलीकरणात्मा | तद्गता इति--तच्छायाप्रायत्वात् | ताभिरिति-- अन्याभिरसङ्ख्येयाभिर्नाडीभिः | तत्फलम्--एकीकारलक्षणम् | किमत इति--न मन्तव्यमीत्याह अभिलषितेत्यादि | लांगूलाकृतीत्यनेन
SKयथा कश्चिन्महाप्राणी स्वपुच्छास्फोटनेन तर्वादि पातयति, तथा अयमपि | परमिति--कटाक्षितम् | महायोगीति--शिवतापत्तिदो गुरुरिति च सर्वशेषत्वेन ज्ञेयम् || २७१ || एतच्च आगमेऽपि एवमुक्तम्--इत्याह-- श्रीमद्वीरावलिकुले तथा चेत्थं निरूपितम् | तदेव आह-- अभेद्यं सर्वथा ज्ञेयं मध्यं ज्ञात्वा न लिप्यते || २९-२७२ || तद्विभागक्रमे सिद्धः स गुरुर्मोचयेत् पशून् | इह अयोगिभिः भेत्तुमशक्यम्, अत एव योगाभ्यासादिक्रमेण अवश्यज्ञातव्यं मध्यम्--मध्यप्राणशक्तिम्, ज्ञात्वा� तत्तच्चक्रादिभेदनेन निरर्गलं प्रवहन्तीमनुभूय, यो न लिप्यते-- प्राणापानोभयवाहनिमग्नो न भवेत्, अत एव तत्र मध्यशक्तावनन्तरोक्ते मन्त्राद्यात्मनि विभागक्रमे दार्ढ्येन लब्धानुभवः; स तात्त्विकार्थोपदेष्टा पशून् मोचयेत्-- तत्तच्चक्राधारादिभ्य उन्मज्जयेत्--इत्यर्थः || कथञ्च एतत् गुरुः कुर्यात्--इत्याह-- गुरोरग्रे विशेच्छिष्यो वक्त्रं वक्त्रे तु वेधयेत् || २९-२७३ || रूपं रूपे तु विषयैर्यावत्समरसीभवेत् | स्वाग्रोपविष्टस्य हि शिष्यस्य गुरुर्वक्त्रे ᳚.........................शैवी मुखमिहोच्यते |᳚ (वि.भै.श्लो. २०) इत्याद्युक्त्या तन्मध्यशक्तौ स्वां मध्यशक्तिं तदीयरूपे तद्ग्रहके चक्षुरिन्द्रिये स्वं चक्षुरिन्द्रियरूपमेतदुपलक्षितेषु तत्तदिन्द्रियान्तरेष्वपि स्वेन्द्रियान्तराणि वेधयेत् तन्निमित्तं प्रयुञ्जीत, यावद्विषयीक्रियमाणैरेभिः समरसीभवेत्-- तदैकात्म्यमासादयेत्--इत्यर्थः || ननु एवमपि किं स्यात् ?--इत्याशङ्क्य आह-- चित्ते समरसीभूते द्वयोरौन्मनसी स्थितिः || २९-२७४ || उभयोश्चोन्मनोगत्या तत्काले दीक्षितो भवेत् | शशिभास्करसंयोगे जीवस्तन्मयतां व्रजेत् || २९-२७५ || दीक्षित इति--अर्थात् शिष्यः | यतस्तदात्मा शशिभास्करयोः प्राणापानयोः मध्यशक्तौ सम्यक् स्वस्वरूपत्रोटनेन सामरस्यात्मनि योगे सति तन्मयतां व्रजेत्--तदैकमध्यमासादयेत्--इत्यर्थः ||२७५ || एतच्च कारणानामपि आशंसास्पदम्--इत्याह-- अत्र ब्रह्मादयो देवा मुक्तये मोक्षकाङ्क्षिणः |
SKननु एवं कस्मात्?--इत्याशङ्क्य आह-- निरुध्य रश्मिचक्रं स्वभोगमोक्षावुभावपि || २९-२७६ || ग्रसते यदि तद्दीक्षा शार्वीयं परिकीर्तिता | यदि नाम अयमेवंविधो गुर्वादिः स्वं मनःप्रभृति रश्मिचक्रं निरुध्य उभौ परस्परव्यावृत्तौ भोगमोक्षावपि ग्रसते भोगेऽपि मुक्तस्तदियं पारमेश्वरी दीक्षा परिकीर्तिता जीवन्मुक्तिप्रदत्वेन प्रख्याता--इत्यर्थः || अत एव आह-- स एष मोक्षः कथितो निःस्पन्दः सर्वजन्तुषु || २९-२७७ || अग्नीषोमकलाघातसङ्घातात् स्पन्दनं हरेत् | निःस्पन्द इति--सर्वदशास्वपि अविचलद्रूपः--इत्यर्थः | एवं दीक्षितो हि प्रमाणप्रमेयमयप्राणापानात्मनोरग्नीषोमयोः कलानां पौनःपुन्येन आघातात्स्वरूपापोहनेन प्रमातृरूपे एव विश्रान्त्या स्पन्दनं हरेत्--बहिर्मुखतां शमयेत्--इत्यर्थः || एवञ्च अस्य कथं स्यात् ?--इत्याशङ्क्य आह-- बाह्यं प्राणं बाह्यगतं तिमिराकारयोगतः || २९-२७८ || निर्यातं रोमकूपैस्तु भ्रमन्तं सर्वकारणैः | मध्यं निर्लक्ष्यमास्थाय भ्रमयेद्विसृजेत्ततः || २९-२७९ || सङ्घट्टोत्पाटयोगेन वेधयेद् ग्रन्थिपञ्चकम् | सङ्घट्टवृत्तियुगलं मध्यधाम विचिन्तयेत् || २९-२८० || नात्मव्योमबहिर्मन्त्रदेहसंधानमाचरेत् | दीक्षेयं सर्वजन्तूनां शिवतापत्तिदायिका || २९-२८१ || इह बहिः प्रसरणशीलमपि प्रमेयात्मकत्वात् बाह्यमपानं प्राणं च तद्विश्रान्त्युन्मुखत्वात् मध्यम्, अत एव रोमकूपात्मनाडिद्वारैः सर्वतः प्रसरद्रूपम् ङहि भेदात्परं दुःखं तमो नाद्वयसंवृतेः |᳚
SKइत्याद्युक्त्या तिमिराकारं प्रमातृरूपमवलम्ब्य ब्रह्मादिभिः कारणैरधिष्ठितेषु स्थानेषु उर्ध्वं गतिरोधात् भ्रमन्तमपि ध्येयान्तरपरित्यागाश्रयणेन यत्रैव भ्रमयेत्; तथा भ्रमणानन्तरं च विसृजेत् येन प्राणापानयोः सङ्घट्टस्य ऊर्ध्वगतयोगेन तत्तत्कारणाधिष्ठितं ग्रन्थिपञ्चकं वेधयेत् यथा समरसीभूतप्राणापानयुग्मं मध्यधाम विचिन्तयेत् �तत्रैव बद्धावधानो भवेत् येन परिमितात्मनो व्योम्नः--शून्यस्य बहिः-- बाह्यस्य नीलादेः प्रतिबिम्बधारणात् गुप्तभाषिण्या बुद्धेर्देहस्य च सन्धानं न आचरेदात्मन्येव साक्षात्कारमनुभवेत् येन अस्या दीक्षायाः शिवतापत्तिदायित्वमुक्तम् || २८१ || एवं बहुविधां वेधदीक्षामभिधाय तदितिकर्तव्यताशेषमपि आह-- दीक्षान्ते दीपकान् पक्त्वा समस्तैः साधकैः सह | चरुः प्राश्यः कुलाचार्यैर्महापातकनाशनः || २९-२८२ || इति श्रीरत्नमालायामूनाधिकविधिस्तु यः | स एव पातकं तस्य प्रशमोऽयं प्रकीर्तितः || २९-२८३ || न च एतत् स्वमनीषिकया अभिहितम्--इत्युक्तम्--इति श्रीरत्नमालायाम्--इति | तदुक्तं तत्र-- ᳚दीक्षान्ते दीपकाः कार्याः पचित्वा साधकैः सह | चरुः प्राश्यः कुलाचार्यैर्महापातकनाशनः ||᳚ इति | ननु ᳚यावन्न सर्वे तत्त्वज्ञास्तावद्दीपं न दर्शयेत् |᳚ इत्युक्तनयेन अतत्त्वविदां तावदेवं चरुप्राशन निषिद्धम्, तत्त्वविदां च पापस्पर्शाशङ्कापि नास्ति; तत् किमभिप्रेत्य अत्र महापातकनाशन इति उक्तम्?--इत्याशङ्क्य आह--ऊनेत्यादि || २८३ || अत्रैव पूर्णतानिमित्तमितिकर्तव्यतान्तरमपि आह-- परेऽहनि गुरोः कार्यो यागस्तेन विना यतः | न विधिः पूर्णतां याति कुर्याद्यत्नेन तं ततः || २९-२८४ || येन येन गुरुस्तुष्येत्तत्तदस्मै निवेदयेत् | न विधिः पूर्णतां यातीत्यनेन अस्य यागाङ्गत्वमुक्तम्, न तु तत्तुष्टि कारित्वम् || कश्च अत्र विधिर्विवक्षितो यस्य अनेन पूर्णता स्यात्--इत्याह-- चक्रचर्यान्तरालेऽस्या विधिः सञ्चार उच्यते || २९-२८५ || अलिपात्रं सुसंपूर्णं वीरेन्द्रकरसंस्थितम् |
SKअवलोक्य परं ब्रह्म तत्पिबेदाज्ञया गुरोः || २९-२८६ || तर्पयित्वा तु भूतानि गुरवे विनिवेदयेत् | अस्या इति--दीक्षायाः | वीरेन्द्रः--आचार्यः || एतदेव अत्र शिक्षयति-- कृत्वा भुवि गुरुं नत्वादाय संतर्प्य खेचरीः || २९-२८७ || स्वं मन्त्रं तच्च वन्दित्वा दूतीं गणपतिं गुरुन् | क्षेत्रपं वीरसङ्घातं गुर्वादिक्रमशस्ततः || २९-२८८ || वीरस्पृष्टं स्वयं द्रव्यं पिवेन्नैवान्यथा क्वचित् | कृत्वा भुवीति--अर्थादात्मानम्, तेन भुवि पतित्वा गुरोः प्रणामः कार्यः--इत्यर्थः | तच्च अलिपात्रं वन्दित्वा आदायेति योज्यम् | वीरस्पृष्टमिति--गुर्वादिक्रमेण सर्वेषां पीतशेषम्--इत्यर्थः || एतच्च तत्त्वज्ञैरेव सामयिकैः सह कार्यं, न अन्यैः--इत्याह-- परब्रह्मण्यवेत्तारोऽगमागमविवर्जिताः || २९-२८९ || लोभमोहमदक्रोधरागमायाजुषश्च ये | तैःसाकं न च कर्तव्यमेतच्छेर्योर्थिनात्मनि || २९-२९० || कदा च एतत्कार्यम् ?--इत्याशङ्क्य आह-- यागादौ यागमध्ये च यागान्ते गुरुपूजने | नैमित्तिकेषु प्रोक्तेषु शिष्यः कुर्यादिमं विधिम् || २९-२९१ || प्रोक्तेष्विति--अष्टाविंशाह्निके ||२९१ || आह्निकार्थमेव श्लोकार्धेन उपसंहरति-- इति रहस्यविधिः परिचर्चितो गुरुमुखानुभवैः सुपरिस्फुटः | इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके रहस्यविधिप्रकाशनं नाम एकोनत्रिंशमाह्निकम् || २९ || इति शिवम् || श्रीमद्गुरुपदेशप्रक्रमसङ्कान्तकौलिकानुभवः | एकान्नत्रिंशमिदं जयरथनामाह्निकं व्यवृणोत् || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते रहस्यविधिप्रकाशनं नाम एकोनत्रिंशमाह्निकं समाप्तम् || २९ || त्रिंशमाह्निकम् ᳚ विवेकः ᳚ सहजपरामर्शात्मकमहावीर्यसौधधौततनुम् | अभिमतसाधकसाधकमनोऽनुगं तं मनोऽनुगं नौमि || इदानीं द्वितीयार्धेन मन्त्रान् निरूपयितुमाह-- अथ यथोचितमन्त्रकदम्बकं त्रिककुलक्रमयोगि निरूप्यते | ननु किमनेन निरूपितेन?--इत्याशङ्क्य आह--
SKतावद्विमर्शानारूढधियां तत्सिद्धये क्रमात् || ३०-१ || तावान्--पूर्णः | तत्सिद्धये इति-- पूर्णाहंविमर्शारोहसंपत्त्यर्थम्--इत्यर्थः || १ || ननु कथमनेन तत् स्यात् ?--इत्याशङ्क्य आह-- प्रतिबुद्धा हि ते मन्त्रा विमर्शैकस्वभावकाः | ननु विमर्शस्वभावत्वं नाम कर्तुरेव संभवतीत्युक्तं प्राक् बहुशः, मन्त्राश्च करणरूपा इति कथमेषामेवं न्याय्यम्?-- इत्याशङ्क्य आह-- स्वतन्त्रस्यैव चिद्धाम्नः स्वातन्त्र्यात् कर्तृतामयाः || ३०-२ || ननु यदि एवं तत् कथमाचार्यस्य दीक्षानुग्रहादौ कर्तृत्वं घटते?--इत्याशङ्क्य आह-- यमाविशन्ति चाचार्यं तं तादात्म्यनिरूढितः | स्वतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम् || ३०-३ || ननु यदि एवं, तत् करणमन्तरेण एषां कर्तृत्वमेव कथं घटते?--इत्याशङ्क्य उक्तम्--यान्ति करणान्यपि कर्तृतामिति | मन्त्रा हि कर्तृतां यान्त्यपि करणानि अजहत्कर्तृभावां करणतामधिशेरते--इत्यर्थः || ३ || इदानी मन्त्राणामेव स्वरूपं निरूपयति-- आधारशक्तौ ह्रीं पृथ्वीप्रभृतौ तु चतुष्टये | क्ष्लां क्ष्का वं क्षमिति प्राहुः क्रमाद्वर्णचतुष्टयम् || ३०-४ || हं नाले यं तथा रं लं वं धर्मादिचतुष्टये | ऋं ऋं ऌं ॡं चतुष्के च विपरीतक्रमाद्भवेत् || ३०-५ || ॐ औं हस्त्रयमित्येतद्विद्यामायाकलात्रये | अनुस्वारविसर्गौ च विद्येशेश्वरतत्त्वयोः || ३०-६ || कादिभान्ताः केसरेषु प्राणोऽष्टस्वरसंयुतः | सबिन्दुको दलेष्वष्टस्वथ स्वं नाम दीपितम् || ३०-७ || शक्तीनां नवकस्य स्याच्छषसा मण्डलत्रये | सबिन्दुकाः क्ष्मं प्रेते जूं शूलशृङ्गेषु कल्पयेत् || ३०-८ || पृथगासनपूजायां क्रमान्मन्त्रा इमे स्मृताः | संक्षेपपूजने तु प्रागाद्यमन्त्यं च बीजकम् || ३०-९ || आदायाधारशक्त्यादिशूलशृङ्गान्तमर्चयेत् | अग्निमारुतपृथ्व्यम्बुसषष्ठस्वरबिन्दुकम् || ३०-१० || रतिशेखरमन्त्रोऽस्य वक्त्राङ्गं ह्रस्वदीर्घकैः | अग्निप्राणाग्निसंहारकालेन्द्राम्बुसमीरणाः || ३०-११ || सषष्ठस्वरबिन्द्वर्धचन्द्राद्याः स्युर्नवात्मनः |
SKपृथ्वीप्रभृताविति--धरायां सुरोदे पोते कन्दे च | तेन आधारशक्तौ मायाबीजम्, अन्यत्र तु नाभिर्वामस्तनक्षीराभ्यां कण्ठनासाभ्यां युक्ता केवला च, पोते तु कण्ठः तेजश्च सर्वत्रेति | नाले इति--दण्डे, तेन अत्र सौजाः प्राणः | विपरीते इति- -अधर्मादौ, तेन अत्र ओजःसंभिन्नमन्तःस्थानां चतुष्टयं नपुंसकानां च | विद्येति--चतुष्किकारूपमसूरकमयी, मायेति-- अधश्छादनरूपा, कलेति--ऊर्ध्वच्छादनरूपा | विद्याया एव ईश्वरतत्त्वं सन्निकृष्टोपरितनभूमिका, तेन अत्र जङ्घाद्वयं सविसर्गः प्राणश्चेति | विद्येशेति--विद्येश्वराधिष्ठानस्थानं पद्माकारमीश्वरतत्त्वम्, ईश्वरेति--सदाशिवः; कर्णिकायां हि शुद्धावरणादिरूपा व्याप्तिः--इति भावः | कादिभान्ता इति-- चतुर्विंशतिः, तेन प्रतिकेसरमेकैको वर्णः | प्राणः हकारः | आअ इरि ऊउ एए इत्यष्टौ स्वराः | अथेति नवकस्येति च उक्तेरिदमापतितं यत् कर्णिकायामपि प्राण एव नवमस्वरभिन्न इति | तदुक्तम्-- ᳚केसरेषु भकारान्ता हं हां हिं हीं च हं तथा | हूं हें हैं ह्ॐ दलेष्वेवं स्वसंज्ञाभिश्च शक्तयः ||᳚ इति | मण्डलत्रये इति--अर्थादधिष्ठातृसहिते, तेन आग्नेये मण्डले गुह्यं सौरे उदरं चान्द्रे जीव इति | प्रेते च ओजःसंभिन्ने नाभिकटी | शूलशृङ्गेषु च सबिन्दुदण्डं शूलम् | आद्यमिति आधारशक्तिवाचकं मायाबीजम् | अन्त्यमिति--शूलारवाचकं जूङ्कारं, तेन ह्रीं जूं आसनपक्षाय नमः--इत्यूहः | अग्निः रेफः, मारुतः य, पृथ्वी ल, अम्बु व, षष्ठः स्वरः ऊकारः | अ इ उ ए ओ इति पञ्च ह्रस्वाः | आ ई ऊ ए औ अः इति षट् दीर्घाः | एवमापाते एव वचनादन्यत्रापि अङ्गवक्त्राणामियमेव वार्त्ता--इति आवेदितम् | अग्निः रेफः, प्राणः ह, अग्निः रेफः, संहारः क्ष, कालो म, इन्द्रः ल, अम्बुः व, समीरणो य, षष्ठः स्वर ऊकारः || बिन्द्वादीनां च अन्यत्र अन्यथा व्यपदेशः--इत्याह-- बिन्दुनादादिका व्याप्तिः श्रीमत्त्रैशिरसे मते || ३०-१२ || क्षेपाक्रान्तिचिदुद्बोधदीपनस्थापनान्यथ |
SKतत्संवित्तिस्तदापत्तिरिति संज्ञाभिशब्दिता || ३०-१३ || एतावती महाव्याप्तिर्मूर्तित्वेनात्र कीर्तिता | बिन्दोरेव च अर्धचन्द्रनिरोधिकान्ता व्याप्तिरिति अत्र तदनन्तरमेव नादस्य वचनम् | एवं बिन्दोः ᳚.....................बिन्दुश्चैवेश्वरः स्वयम् |᳚ (स्व. ४|२६४) इत्युक्तेरीश्वरतायां ᳚रिश्वरो बहिरुन्मेषो......................... |᳚ (रि. प्र. ३|१|३) इत्युक्त्या बहिरुल्लसनमेव सतत्त्वमिति क्षेप इति उक्तम् | नादस्य च-- ᳚.................णादे वाच्यः सदाशिवः |᳚ (स्व. ४|२६५) इति ᳚..................णिमेषोऽन्तः सदाशिवः |᳚ (रि.प्र. ३|१|३) इति च उक्त्या बहिरुल्लसितस्य विश्वस्य अन्तराक्रमणमेव रूपमिति आक्रान्तिरिति | एवमपि इदन्तानिमज्जनादहन्तोन्मज्जनात्मनि नादान्ते प्रमातृरूपायाः संविद एव प्रबोध इति चिदुद्बोध इति | एवं बुद्धायाः संविदः शक्तिदशायामुद्रेकः, व्यापिन्यां कथञ्चिदुद्रेकेऽपि तथैव अवस्थानम्, यावद्योगिनां समनापदे तत्साक्षात्कारः, उन्मनाभूमौ च तदैकात्म्यमित्येवमुक्तम् | एतावतीति--उन्मनैकात्म्यापत्तिपर्यन्ता | यदुक्तं तत्र-- ᳚क्षेपमाक्रमणं चैव चिदुद्बोधं च दीपनम् | स्थापनं चैव संवित्तिस्तदापत्तिस्तथैव च || कारणक्रमयोगेन शास्त्रेऽस्मिन् सुरसुन्दरि | आधाराधेयभावेन मूर्तिः सप्तविधा स्मृता ||᳚ इति उपक्रम्य ᳚क्षेपस्तु कथितो बिन्दुराक्रान्तिर्नाद उच्यते | चिदुद्बोधः परावस्था दीपनं शक्तिरुच्यते || स्थापनं व्यापिनी प्रोक्ता संवित्तिः समना स्मृता | उन्मना च तदापत्तिरित्येषा मूर्तिरुच्यते ||᳚ इति || न केवलमियं मूर्तेरेव एतावती व्याप्तिः, यावत् मन्त्रदीपकतया अभिमतस्य नमस्कारस्य अपि--इत्याह-- परिणामस्तल्लयश्च नमस्कारः स उच्यते || ३०-१४ || एष त्र्यर्णोज्झितोऽधस्ताद्दीर्घैः षड्भः स्वरैर्युतः | षडङ्गानि हृदादीनि वक्त्राण्यस्य च कल्पयेत् || ३०-१५ || क्षयरवलबीजैस्तु दीप्तैर्बिन्दुविभूषितैः | झकारसंहृतिप्राणाः सषष्ठस्वरबिन्दुकाः || ३०-१६ || एष भैरवसद्भावश्चन्द्रार्धादिविभूषितः |
SKमातृकामालिनीमन्त्रौ प्रागेव समुदाहृतौ || ३०-१७ || ओङ्कारोऽथ चतुर्थ्यन्ता संज्ञा नतिरिति क्रमात् | गणेशादिषु मन्त्रः स्याद्बीजं येषु न चोदितम् || ३०-१८ || नामाद्यक्षरमाकारबिन्दुचन्द्रादिदीपितम् | सर्वेषामेव बीजानां तच्चतुर्दशषष्ठयुक् || ३०-१९ || आमन्त्रितान्यघोर्यादित्रितयस्य क्रमोदितैः | बीजैर्विसर्गिणी माया हुं हकारो विसर्गवान् || ३०-२० || पुनर्देवीत्रयस्यापि क्रमादामन्त्रणत्रयम् | द्वितीयस्मिन्पदेऽकार एकारस्येह च स्मृतः || ३०-२१ || ततः शक्तिद्वयामन्त्रो लुप्तं तत्रान्त्यमक्षरम् | हेऽग्निवर्णावुभौ पञ्चस्वरयुक्तौ परो पृथक् || ३०-२२ || अकारयुक्तावस्त्रं हुं ह विसर्गो पुनः शरः | तारेण सह वस्वग्निवर्णार्धार्णद्वयाधिका || ३०-२३ || एषा परापरादेव्या विद्या श्रीत्रिकशासने | पञ्चषट्पञ्चवेदाक्षिवह्निनेत्राक्षरं पदम् || ३०-२४ || अघोर्यादौ सप्तके स्यात् पिबन्याः परिशिष्टकम् | प्रत्येकवर्णगोऽप्युक्तः सिद्धयोगीश्वरीमते || ३०-२५ || देवताचक्रविन्यासः स बहुत्वान्न लिप्यते | माया विसर्गिणी हुं फट् चेति मन्त्रोऽपरात्मकः || ३०-२६ || परायास्तूक्तसव्याप्तिर्जीवः सहचतुर्दशः | सानेकभेदा त्रिशिरःशास्त्रे प्रोक्ता महेशिना || ३०-२७ || स्वरूपतो विभिन्नापि रचनानेकसंकुला | इयमेतावती व्याप्तिरेव जातितया सर्वत्र प्रसिद्धो नमस्कार उच्यते यदसौ नमस्कर्तुर्देहादिप्रमातृताहारात् चित्प्रमातृतादानेन तात्कर्म्यात् परिणाम इव परिणामः | एवमपि अस्य तत्त्वादप्रच्यावो न संभाव्यः--इत्याह--तल्लयश्चेति | त्र्यर्णोज्झित इति--व य ऊ इत्येभिर्हीनः | बीजैरिति-- ह्रस्वपञ्चकसंभिन्नैराकाशवायुवह्निजलपृथ्वीरूपैः | दीप्तैरिति--ओकारादीनामकारादीनां ह्रस्वानामाग्नेयस्वभावत्वात् तेजोमयैरिति प्राच्याः, सरेफैरिति श्रीमल्लक्ष्मणगुप्तपादाः | यदागमः-- ᳚षड्विंशकं परं बीजं रेफयुक्तं सबिन्दुकम् | पूर्ववक्त्रं महेशस्य देवीनां चैव पार्वति | मान्तान्तं तु सबिन्दुञ्च सरेफं भैरवाकृति | दक्षिणं तद्भवेदास्यं देवदेवीगणस्य तु ||
SKपुनरैन्द्रं महाबीजमष्टाविंशतिमं शुभम् | सरेफं बिन्दुसंयुक्तं पश्चिमं वदनं शुभम् || वारुणं च परं बीजमग्निबीजेन भेदितम् | बिन्दुमस्तकसंभिन्नं वदनं चोत्तरं शुभम् |᳚ इति || झकारो दक्षिणांगुलितया अभिमतः, संहृतिः क्ष, प्राणः ह | षष्ठ स्वरः ऊकारः | प्रागिति--पञ्चदशाह्निके | न चोदितमिति-- श्रीपूर्वशास्त्रे, तेन ॐ गणेशाय नम इत्यादिः प्रयोगः | नामाद्यक्षरमिति--गणेशस्य गेति वागीश्वर्या वेति, तेन ॐ गं गणेशाय नमः, ॐ, वां वागीश्वर्यै नम इत्यादिः प्रयोगः | तदिति--नामाद्यक्षरम् | चतुर्दशः औकारः, षष्ठः स्वरः ऊकारः, तेन गूं (गणेशाय नमः) इति | अघोरे घोररूपे इति | क्रमोदितैर्बीजैरिति--अर्थादन्ते उपलक्षितानि | विसर्गिणीत्युक्तेर्माया अत्र बिन्दुरहिता | तेन अघोरे ह्रीः परमघोरे कवचबीजं घोररूपे हः इति | पुनरामन्त्रणत्रयमिति घोरमुखि भीमे भीषणे इति, किन्तु अत्र द्वितीयस्मिन्नामन्त्रणपदे एकारस्थाने अकारः कार्यो येन अस्य भीमेति रूपं स्यात् | शक्तिद्वयामन्त्र इति वमनि पिवनि इति | अन्त्यमिति- -नीत्यक्षरम्, तेन वम पिव इति | ततोऽपि दक्षजानुयुतः प्राणः, अग्निवर्णाविति--रेफद्वयम् | पञ्चमःस्वर उकारः | पराविति-- अग्निवर्णावेव, अस्त्रमिति--फट्, ततः कवचबीजं, सविसर्गः प्राणश्च पुनःशर इति द्वितीयमस्त्रम् | तारेणेति--प्रथममवस्थितेन प्रणवेन | वस्वग्नीति अष्टत्रिंशत् | अर्धार्णेति--अनच्कष्टकारः | तदुक्तं त्रिशिरोभैरवे-- ᳚एवं परापरा देवी पदाष्टकविभूषिता | अष्टत्रिंशाक्षरा सैषा प्रोद्धृता परमेश्वरी || अर्धाक्षरद्वयं चास्या ज्ञातव्यं तत्त्ववेदिभिः |᳚ इति || पञ्चेति--यथा ॐ अघोरे ह्रीः इति अघोर्याः | वेदेति चत्वारः | अक्षीति द्वयम् | वह्नीति त्रयम् | नेत्रेति द्वयम् | परिशिष्टकमिति सार्धार्णद्वयमेकादशाक्षरं पदम् | यदुक्तम्-- ᳚परापराङ्गसंभूता योगिन्योऽष्टौ महाबलाः | पञ्च षट् पञ्च चत्वारि द्वित्रिद्व्यर्णाः क्रमेण तु ||
SKज्ञेयाः सप्तैकादशार्णा एकार्धार्णद्वयान्विता |᳚ (मा.वि. ३|६०) इति | देवताचक्रेति--चत्वारिंशत्संख्याकस्य | यदुक्तं तत्र-- ᳚प्रणवे भैरवो देवः कर्णिकायां व्यवस्थितः | अकारे उत्फुल्लनयना घोकारे पीनपयोधरा || रेकारे त्वष्टृरूपा तु ह्रीःकारे व्याघ्ररूपिका | पकारे सिंहरूपा तु रकारे पाननिरता || ततश्चैव क्रमायाता मकारे राक्षसी तथा | घोकारे मांसभक्षी तु रेकारे तु रणाशिनी || रेतोवहा च हुङ्कारे घोकारे निर्भया स्मृता | रकारे घोरदशना रूकारे तु अरुन्धती || क्रमेणैतास्तु विन्यस्य पेकारे प्रियवादिनी | हःकारे उग्ररूपा तु घोकारे नग्नरूपिणी || रकारे रक्तनेत्री तु मुकारे चण्डरूपिणी | खिकारे पक्षिरूपा तु भीकारे भरणोज्ज्वला || मकारे मारणी प्रोक्ता भीकारे च शिवा स्मृता | विन्यस्यैताः क्रमायाताः षकारे शाकिनी स्मृता || णेकारे यन्त्रलेहा तु वकारे वशकारिका | मकारे कालदमना पिकारे पिङ्गली स्मृता || वकारे वर्धनी चैव हेकारे हिमशीतला | रुक्मिणी च रुकारेण रुकारेण हलायुधा || वह्निरूपा रकारेण तेजोरूपा रकारजा | फकारे योनिरूपा तु टकारे पररूपिणी || हुङ्कारे हुतवहाख्या हःकारे वरदायिका | फकारेण महारौद्रा टकारे पाशदायिका ||᳚ इति | बहुत्वादिति--ग्रन्थविस्तरभयात्, प्रक्रान्ते श्रीपूर्वशास्त्रे हि एतत्पूजनं न आम्नातम्--इत्याशयः | अपरात्मक इति अपरासंबन्धी-- इत्यर्थः | यदुक्तम्-- ᳚अघोरान्तं न्यसेदादौ प्राणं बिन्दुयुतं पुनः | वाममुद्रान्वितं न्यस्य पाद्यं काद्येन पूर्ववत् ||᳚ (मा.वि. ३|५१) इति | उक्तेति--पूर्वम् | जीवः स | चतुर्दशः औ | स्वरूपाविभेदेऽपि अनेकप्रकारताप्रवचने रचनानेकसंकुलेति विशेषणद्वारेण हेतुः || एतदेव शब्दान्तरद्वारेण पठति-- जीवः प्राणस्थ एवात्र प्राणो वा जीवसंस्थितः || ३०-२८ || जीव इति अर्थात् सचतुर्दशः | प्राणाः ह ह | तदुक्तं तत्र-- ᳚पराशक्तिस्तु सावित्र्या इच्छया च नियोजितः | जीवः प्राणस्थ एवात्र प्राणो वा जीवसंस्थितः ||᳚ इति || तेन स्हौः ह्सौः वेति ||
SKअनयोश्च आधाराधेयभावविपर्ययस्य अभिप्रायं प्रकटयन् विशेषणमेव प्रकाशयति-- आधाराधेयभावेन अविनाभावयोगतः | हंसं चामृतमध्यस्थं कालरुद्रविभेदितम् || ३०-२९ || भुवनेशशिरोयुक्तमनङ्गद्वययोजितम् | दीप्ताद्दीप्ततरं ज्ञेयं षट्चक्रक्रमयोजितम् || ३०-३० || प्राणं दण्डासनस्थं तु गुह्यशक्तीच्छया युतम् | परेयं वाचिकोद्दिष्टा महाज्ञानस्वरूपतः || ३०-३१ || स्फुटं भैरवहृज्ज्ञानमिदं त्वेकाक्षरं परम् | अमृतं केवलं खस्थं यद्वा सावित्रिकायुतम् || ३०-३२ || शून्यद्वयसमोपेतं पराया हृदयं परम् | युग्मयोगे प्रसिद्धं तु कर्तव्यं तत्त्ववेदिभिः || ३०-३३ || अन्येऽप्येकाक्षरा ये तु एकवीरविधानतः | गुप्ता गुप्ततरास्ते तु अङ्गाभिजनवर्जिताः || ३०-३४ || यष्टव्याः साधकेन्द्रैस्तु कुलस्थाः सिद्धिदायकाः | कुलक्रमविधानेन सूक्ष्मविज्ञानयोगतः || ३०-३५ || अनुष्ठेयाः सदा देवि स्त्रिया वा पुरुषेण वा | सकारो दीर्घषट्केन युक्तोऽङ्गान्याननानि तु || ३०-३६ || स्यात् स एव परं ह्रस्वपञ्चस्वरखसंयुतः | ओङ्कारैः पञ्चभिर्मन्त्रो विद्याङ्गहृदयं भवेत् || ३०-३७ || प्रणवश्चामृते तेजोमालिनी स्वाहया सह | एकादशाक्षरं ब्रह्मशिरस्तन्मालिनीमते || ३०-३८ || वेदवेदनि हूं फट् च प्रणवादियुता शिखा | वज्रिणे वज्रधराय स्वाहेत्योङ्कारपूर्वकम् || ३०-३९ || एकादशाक्षरं वर्म पुरुष्टुतमिति स्मृतम् | तारो द्विजिह्वः खशरस्वरयुग्जीव एव च || ३०-४० || नेत्रमेतत्प्रकाशात्म सर्वसाधारणं स्मृतम् | तारः श्लीं पशु हुं फट् च तदस्त्रं रसवर्णकम् || ३०-४१ || लरटक्षवयैर्दीर्घैः समयुक्तैः सबिन्दुकैः | इन्द्रादयस्तदस्त्राणि ह्रस्वैर्विष्णुप्रजापती || ३०-४२ || स्मृतौ तुर्यद्वितीयाभ्यां ह्रस्वाभ्यां पद्मचक्रके | नमः स्वाहा तथा वौषट् हं वषट् फट् च जातयः || ३०-४३ || अङ्गेषु क्रमशः षट्सु कर्मस्वथ तदात्मिकाः | जपे होमे तथाप्याये समुच्चाटेऽथ शान्तिके || ३०-४४ || अभिचारे च मन्त्राणां नमस्कारादिजातयः |
SKअक्षिषण्मुनिवर्गेभ्यो द्वितीयाः सह बिन्दुना || ३०-४५ || योन्यर्णेन च मातॄणां सद्भावः कालकर्षिणी | आद्योज्झितो वाप्यन्तेन वर्जितो वाथ संमतः || ३०-४६ || जीवः प्राणपुटान्तःस्थः कालानलसमद्युतिः | अतिदीप्तस्तु वामांघिर्रभूषितो मूर्ध्नि बिन्दुना || ३०-४७ || दक्षजानुगतश्चायं सर्वमातृगणार्चितः | अनेन प्राणिताः सर्वे ददते वाञ्छितं फलम् || ३०-४८ || सद्भावः परमो ह्येष मातॄणां भैरवस्य च | तस्मादेनं जपेन्मन्त्री य इच्छेत्सिद्धिमुत्तमाम् || ३०-४९ || रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः | यस्मादेषा परा शक्तिर्भेदेनान्येन कीर्तिता || ३०-५० || यावत्यः सिद्धयस्तन्त्रे ताः सर्वाः कुरुते त्वियम् | अङ्गवक्त्राणि चाप्यस्याः प्राग्वत्स्वरनियोगतः || ३०-५१ || दण्डो जीवस्त्रिशूलं च दक्षांगुल्यपरस्तनौ | नाभिकण्ठौ मरुद्रुद्रौ विसर्गः सत्रिशूलकः || ३०-५२ || सर्वयोगिनिचक्राणामधिपोऽयमुदाहृतः | अस्याप्युच्चारणादेव संवित्तिः स्यात्पुरोदिता || ३०-५३ || महाचण्डेति तु योगेश्वऋ इत्यष्टवर्णकम् | नवार्णेयं गुप्ततरा सद्भावः कालकर्षिणी || ३०-५४ || श्रीडामरे महायागे परात्परतरोदिता | सुधाच्छेदकषण्ठाद्यैर्बीजं छेदकमस्वरम् || ३०-५५ || अध्यर्धार्णा कालरात्रिः क्षुरिका मालिनीमते | शतावर्तनया ह्यस्या जायते मूर्ध्नि वेदना || ३०-५६ || एवं प्रत्ययमालोच्य मृत्युजिद् ध्यानमाश्रयेत् | नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम् || ३०-५७ || द्विर्दण्डाग्नी शूलनभःप्राणाश्छेत्त्रनलौ तथा | कूटाग्नी सविसर्गाश्च पञ्चाप्येतेऽथ पञ्चसु || ३०-५८ || व्योमस्विति शिवेनोक्तं तन्त्रसद्भावशासने | छेदिनी क्षुरिकेयं स्याद्यया योजयते परे || ३०-५९ || बिन्द्विन्द्वनलकूटाग्निमरुष्ठस्वरैर्युतम् | आपादतलमूर्धान्तं स्मरेदस्त्रमिदं ज्वलत् || ३०-६० || कुञ्चनं चांगुलीनां तु कर्तव्यं चोदनं ततः | जान्वादिपरचक्रान्तं चक्राच्चक्रं तु कुञ्चयेत् || ३०-६१ || कथितं सरहस्यं तु सद्योनिर्वाणकं परम् | अथोच्यते ब्रह्मविद्या सद्यः प्रत्ययदायिनी || ३०-६२ ||
SKशिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् | सर्वेषामेव भूतानां मरणे समुपस्थिते || ३०-६३ || यया पठितयोत्क्रम्य जीवो याति निरञ्जनम् | अविनाभावेति--शक्तिशुद्धात्मनोरैकात्म्यात् | यदुक्तं तत्र-- ᳚अविनाभावतो देवि शक्तेः शुद्धात्मना सह | शिवं शक्तिं विजानीयात्प्राणः शुद्धात्मसंज्ञकः || एकरूपतया ज्ञेयावाधाराधेययोगतः |᳚ इति || अन्त्यस्य च अस्य बीजस्य ᳚हृदयार्णं नितम्बार्णं दक्षजानुगतं प्रिये | सा देवी स शिवस्तच्च विश्वं तस्यान्यविस्तरः | ग्रन्थकोटिसहस्राणामेतत् सारं विचिन्तयेत् || प्रभावोऽस्या न शक्येत वक्तुं कल्पशतैरपि |᳚ इत्यादिना श्रीदेवीपञ्चशितके माहात्म्यमुक्तम् | अत्र च श्रीमदोजराजस्य पाठव्यत्ययात् मतान्तरमिति तद्गुरव एव प्रमाणम् | हंसः ह, अमृतं स, कालरुद्रः ऊ, भुवनेशः औ, अनङ्गद्वयम् विसर्गः, स्ह्सूः | षट्चक्रेति--षडवयवत्वात् | प्राणः ह, दण्डः रेफः, गुह्यशक्तिः ई इच्छा अः, एवं ह्रींः | अमृतं स, खेति आकाशबीजम् ह, एवं स्ह | बिन्दुरत्र अविनाभावित्वादाक्षेप्यः | यद्वेति पक्षान्तरे | सावित्रिका औ, तेन शून्यद्वयं विसर्गः, एवं सौः | युग्मयागो यामलम् | यद्यपि च एतत् ᳚..........................जीवः सहचतुर्दशः |᳚ (२७ श्लो.) इत्यादिना समनन्तरमेव उद्धृतं तथापि पुनः श्रीत्रिशिरोभैरवग्रन्थशय्यानुगुण्यादुक्तम्--इति न कश्चिद्दोषः | अन्ये इति-- ᳚जीवः प्राणस्थ.............................. |᳚ (श्लो. २८) इत्यादिना उक्ताः | अभिजनेति--वक्त्रैः | स एवेति--सकारः | खेति-- बिन्दुः | तदुक्तम्-- ᳚जीवो दीर्घस्वरैः षड्भः पृथग्जातिसमन्वितः | विद्यात्रयस्य गात्राणि ह्रस्वैर्वक्त्राणि पञ्चभिः ||᳚ (मा.वि. ३|६१) इति ||
SKअत्र च शिखायां कवचबीजमिति श्रीत्रिशिरोभैरवानुयायिनः, चतुष्कलमिति श्रीदेव्यायामलोपजीविनः, अस्मद्गुरवस्तु द्वितीयमेव पक्षमामनन्ति यदिह श्रीपूर्वशास्त्रानुदितस्यापि नेत्रमन्त्रस्य श्रीत्रिशिरोभैरवीयं मतमपहाय श्रीदेव्यायामलप्रक्रमेणाभिधानात् तदर्थ एव विवक्षित इति | तथाच त्रिशिरोभैरवः-- गायत्रीं पञ्चधा कृत्वा शुक्रया तु समन्विताम् | हृदयायेति मन्त्रोऽयं सर्वज्ञो हृदयं परम् || वागीशीं केवलां गृह्य नितम्बं तु समालिखेत् | निवृत्तिस्थं तु तं कृत्वा तारा तु तदनन्तरम् || द्विधायोज्य ज्ञानशक्त्या युक्ता शूलं समुद्धरेत् | दण्डेन रहितं कृत्वा गायत्र्या तु समन्वितम् || महाकाली पयोयुक्ता मायाशक्त्या तु पूतना | नादिनी जिह्वया युक्ता परमा कण्ठसंयुता || पयोन्वितां तु तां कृत्वा अम्बिका पयसा युता | शिरस्त्रिशिरनाथस्य तृप्तियुक्तमुदाहृतम् || ज्ञानशक्तिस्तु कण्ठस्था दहनीं केवलां न्यसेत् | द्विधायोज्य समालिख्य नादिनी तदनन्तरम् || मायया तु समायुक्ता मोहिनी अम्बिकायुता | शुक्रादेव्या समायुक्ता फेङ्कारी तदनन्तरम् || कपालं चैव तस्यान्ते स्वरार्धेन विवर्जितम् | अनादिबोधसंज्ञा तु शिखा प्रोक्ता सुरेश्वरि || शिखिनीं केवलां दद्याज्जयन्ती दण्डसंयुता | जिह्वायुक्ता तु संयोज्या दृग्युक्ता च जनार्दनी || शिखिनी केवलोद्धार्या त्रिशूलं दण्डसंयुतम् | प्रियदर्शन्यतो दण्डः पयसा तु समन्वितः || वायुवेगा तु परमा शिखिनी पयसा युता | अम्बिका पयसा युक्ता अभेद्यं कवचं विदुः || चामुण्डा परमा शक्तिरम्बिका च ततोद्धरेत् | सावित्र्या सहिताः सर्वा बिन्दुना समलंकृताः || नेत्रत्रयं तु देवस्य आख्यातं तव सुव्रते | कुसुमा पूतना चैव गुह्यशक्तिसमन्विता || शुक्रया मस्तकोपेता हृदयं केवलं ददेत् | गुह्यं मोहनयाभेद्य अम्बिका बिन्दुसंयुता || प्रज्ञाशक्तिसमारूढा फेङ्कारी तु कपालिनीम् | भिन्नां तु योजयेच्चाशु अस्त्रं भानुसमप्रभम् || महापाशुपतं ख्यातं सर्वासिद्धिविनाशनम् |᳚ इति || श्रीदेव्यायामलमपि--
SK᳚पञ्चधा हृदयं चास्य आदिवर्णं तु यत्स्मृतम् | वागर्णं च नितम्बं च शिरोमालाद्यसंस्थितम् || ऊरुं दक्षिणजानुस्थं द्विधा कृत्वा समन्ततः | परतस्तूद्धरेद्वर्णं शूलमोकारदीपितम् || नितम्बं क्षीरयुक्तं तु शिरोमालातृतीयकम् | नि स्वाहा शिर आख्यातं प्रणवादिविभूषितम् || प्रणवं कण्ठवर्णं च दक्षजानुनियोजितम् | द्विधा कृत्वा ततः पश्चात् सव्यपादं च मध्यतः || सव्यपादं ततोद्धृत्य जिह्वार्णेन शिखा युता | अपरान्त्यद्वयं योज्य शिखा वज्रिण उद्धरेत् | कण्ठार्णं च त्रिशूलं च नेत्रे परत उद्धरेत् | क्षीरार्णे शूलदण्डं च स्वाहान्ते कवचोऽग्रतः || प्रणवं शूलवर्णं तु कर्णपूरेण भूषितम् | दक्षिणेन नितम्बाढ्यमात्मा योज्यो विसर्गवान् || नेत्रं देव्या भवेदेतन्मृत्युञ्जयकरं परम् | श्लीं पशुं प्रणवाद्यं च प्राणं परत एव च || युक्तं च सर्वतः कुर्याद्वामश्रवणभूषणे | शिखान्ताद्योजयेद्वर्णमस्त्रं परमदारुणम् || इति || तारः प्रणवः, द्विजिह्वो ज, ख बिन्दुः, शरस्वरः उ, जीवः सविसर्गः स | रसेति--षट्, टकारो हि अनचकत्वादिह न गणितः | दीर्घैरिति--प्रागुक्तदीर्घषट्कयुक्तैः, कुबेरेशानयोस्तु षष्ठेन द्वितीयेन च दीर्घेण संभिन्नो सकारमकाराविति उक्तं सूमायुक्तैरिति | ह्रस्वैरिति--दीर्घानुगुणैः | यदुक्तम्-- ᳚पूतना शूलदण्डस्तु कपालं नाभिरेव च | शिखिनी वायुवेगा च परमा च नितम्बकः || विज्ञेयाश्च महादेवि दीर्घयुक्ताः सबिन्दुकाः | मन्त्रास्तु लोकपालानां तदस्त्रा दीर्घवर्जिताः ||᳚ इति || तुर्यद्वितीयाभ्यामिति--रिकाराकाराभ्याम् | ह्रस्वाभ्यामिति-- इकाराकाराभ्यां ᳚तद्वन्नासापयोभ्यां तु कल्प्यौ विष्णुप्रजापती | स्वरावाद्यतृतीयौ तु वाचकौ पद्मचक्रयोः ||᳚ इति | षट्स्विति काकाक्षिन्यायेन योज्यम् | कर्मणामपि हि षड्विधत्वमेव विविक्षितम् | तदात्मिका इति--क्रमरूपा--इत्यर्थः | तदात्मकत्वमेव दर्शयति--जपे इत्यादिना | अक्षीति--द्वितीयः कवर्गः | द्वितीया इति-- खफराः | योन्यर्णेन एकारेण | एव पञ्चपिण्डनाथः | यदुक्तम्--
SK᳚दन्तपङ्क्त्या द्वितीयं तु वामपादं तथैव च | अधो दण्डनियुक्तं तु दक्षजानुसमायुतम् || तिलकेन समाक्रान्तं सर्वसिद्धिप्रदायकम् |᳚ इति || आद्येति--खकारेण, तेन फ्रें इति | अन्त्येनापीति--न केवलमाद्येन खकारेण यावदन्त्येन रेफेणापि--इत्यर्थः, तेन फें इति | जीवः स | प्राणयोः हकारयोः पुटम् | कालानलः र | वामाङ्घ्रः फ | अतिदीप्तोऽधोवर्तिना रेफेण | दक्षजानुः ए | स्वरेति ह्रस्वदीर्घभेदेन | दण्डः र | जीवः स | त्रिशूलम् ज | दक्षांगुलिः भ | अपरो दक्षापेक्षया वामः स्तनः ल | नाभिः क्ष | कण्ठः व | मरुत् य | रुद्रः ऊ | विसर्गः अः | त्रिशूलम् औ | अष्टमश्च अत्र वर्णः शपठाद्य इति सहितया आवेदितम् | तदुक्तम्-- ᳚कालं सर्वगतं चैव दारणाक्रान्तमस्तकम् | तृतीयाद्यं तरङ्गं च डाकिनीमर्मसंयुतम् || पवनं नवमे युक्तं तस्मात्सप्तममेयुतम् | लक्ष्मीबीजं ततोद्धृत्य उदधीशसमन्वितम् || सोमात्सप्तममुद्धृत्य नववर्णा कुलेश्वरी |᳚ इति || कालः म | सर्वगतः ह | दारणा आ | तृतीयाद्यम् च | तरङ्गं ण, डाकिनीमर्म ड | पवनः य | नवमः ओ | तस्मादिति एकारात् सप्तमो ग, ए एकारः | लक्ष्मीबीजं श, उदधीशः व | सोमात् ( अवर्णात्) सप्तमः ऋ | नववर्णेयमिति | ᳚.....................षद्भावः कालकर्षिणी |᳚ (श्लो. ४६) इत्युक्त्या सद्भावादिभ्य एकतमेन सह--इत्यर्थः | इयता च अनयोः पिण्डयोः पिण्डनाथेन समव्याप्तिकत्वमावेदितम् | परात्परतरेति-- यदुक्तं तत्र-- ᳚या सा सङ्कर्षिणी देवी परातीता व्यवस्थिता |᳚ इति || सुधा स, छेदकम् क, शण्ठाद्यम् ऋ, छेदकमस्वरमिति अनच्कककारमेवं स्कृक् | तदुक्तम्-- ᳚जीवमादिद्विजारूढं शिरोमालादिसंयुतम् | कृत्वा ततोऽग्रे कुर्वीत द्विजमाद्यमजीवकम् || इत्येषा कथिता कालरात्रिर्मर्मनिकृन्तनी | नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम् || शतार्धोच्चारयोगेन जायते मूर्ध्नि वेदना | एवं प्रत्ययमालोच्य मृत्युजिद् ध्यानमाश्रयेत् ||᳚ (मा. वि. १७|३१) इति ||
SKदण्डः र, अग्निः र, तौ च द्विः; तेन ररः ररः | प्राणः ह, नभः क्ष, शूलम् ज, एवं ह्क्ष्जः | छेत्ता क, अनलः र एवं क्रः | कूटम् क्ष, अग्निः र, एवं क्ष्रः | बिन्दुः, इन्दुः स, अनलः र, कूटम् क्ष, अग्निः र, मरुत् य, षष्ठः स्वरः ऊ, एवं स्रक्ष्यूई || सद्यः प्रत्ययदायित्वमेव अस्या दर्शयति-- या ज्ञानिनोऽपि संपूर्णकृत्यस्यापि श्रुता सती || ३०-६४ || प्राणादिच्छेदजां मृत्युव्यथां सद्यो व्यपोहति | यामाकर्ण्य महामोहविवशोऽपि क्रमाद्गतः || ३०-६५ || प्रबोधं वक्तृसांमुख्यमभ्येति रभसात्स्वयम् | परमपदात्त्वमिहागाः सनातनस्त्वं जहीहि देहान्तम् || ३०-६६ || पादांगुष्ठादि विभो निबन्धनं बन्धनं ह्युग्रम् | आर्यावाक्यमिदं पूर्वं भुवनाख्यैः पदैर्भवेत् || ३०-६७ || गुल्फान्ते जानुगतं जत्रुस्थं बन्धनं तथा मेढेर् | जहिहि पुरमग्र्यमध्यं हृत्पद्मात्त्वं समुत्तिष्ठ || ३०-६८ || एतावद्भिः पदैरेतदार्यावाक्यं द्वितीयकम् | हंस हयग्रीव विभो सदाशिवस्त्वं परोऽसि जीवाख्यः || ३०-६९ || रविसोमवह्निसङ्घट्टबिन्दुदेहो हहह समुत्क्राम | तृतीयमार्यावाक्यं प्राक्संख्यैरेकाधिकैः पदैः || ३०-७० || हंसमहामन्त्रमयः सनातनस्त्वं शुभाशुभापेक्षी | मण्डलमध्यनिविष्टः शक्तिमहासेतुकारणमहार्थः || ३०-७१ || कमलोभयविनिविष्टः प्रबोधमायाहि देवतादेह | आर्यावाक्यमिदं सार्धं रुद्रसंख्यपदेरितम् || ३०-७२ || निःश्वासे त्वपशब्दस्य स्थानेऽस्त्युप इति ध्वनिः | अज्ञानात्त्वं बद्धः प्रबोधितोत्तिष्ठ देवादे! || ३०-७३ || एतत्पञ्चममार्यार्धवाक्यं स्यात्सप्तभिः पदैः | व्रज तालुसाह्वयान्तं ह्यौडम्बरघट्टितं महाद्वारम् || ३०-७४ || प्राप्य प्रयाहि हंहो हंहो वा वामदेवपदम् | आर्य्यावाक्यमिदं षष्ठं स्याच्चतुर्दशभिः पदैः || ३०-७५ || ग्रन्थीश्वर परमात्मन् शान्त महातालुरन्ध्रमासाद्य | उत्क्रम हे देहेश्वर! निरञ्जनं शिवपदं प्रयाह्याशु || ३०-७६ || आर्यावाक्यं सप्तमं स्यात्तच्चतुर्दशभिः पदैः |
SKप्रभञ्जनस्त्वमित्येवं पाठो निःश्वासशासने || ३०-७७ || आक्रम्य मध्यमार्गं प्राणापानौ समाहृत्य | धर्माधर्मौ त्यक्त्वा नारायण याहि शान्तान्तम् || ३०-७८ || आर्यावाक्यमिदं प्रोक्तमष्टमं नवभिः पदैः | हे ब्रह्मन्! हे विष्णो! हे रुद्र! शिवोऽसि वासुदेवस्त्वम् || ३०-७९ || अग्नीषोमसनातनमृत्पिण्डं जहिहि हे महाकाश! | एतद्भुवनसंख्यातैरार्य्यावाक्यं प्रकीर्तितम् || ३०-८० || सनात्म त्रिपिण्डमिति महाकोशमिति स्थितम् | पदत्रयं तु निःश्वासमुकुटोत्तरकादिषु || ३०-८१ || अंगुष्ठमात्रममलमावरणं जहिहि हे महासूक्ष्म! | आर्य्यावाक्यमिदं षड्भिः पदैर्दशममुच्यते || ३०-८२ || अलं द्विरिति सूक्ष्मं चेत्येवं श्रीमुकुटोत्तरे | पुरुषस्त्वं प्रकृतिमयैर्बद्धोऽहङ्कारतन्तुना बन्धैः || ३०-८३ || अभवाभव! नित्योदित! परमात्मंस्त्यज सरागमध्वानम् | एतत्त्रयोदशपदं स्यादार्यावाक्यमुत्तमम् || ३०-८४ || ह्रींहूंमन्त्रशरीरमविलम्बमाशु त्वमेहि देहान्तम् | आर्यार्धवाक्यमेतत्स्याद् द्वादशं षट्पदं परम् || ३०-८५ || तदिदं गुणभूतमयं त्यज स्व षाट्कोशिकं पिण्डम् | स्यात् त्रयोदशमार्यार्धं पदैः सप्तभिरीदृशम् || ३०-८६ || मा देहं भूतमयं प्रर्गृह्यतां शाश्वतं महादेहम् | आर्यार्धवाक्यं तावद्भिः पदैरेतच्चतुर्दशम् || ३०-८७ || मण्डलममलमनन्तं त्रिधा स्थितं गच्छ भित्त्वैतत् | आर्यार्धवाक्यमष्टाभिः पदैः पञ्चदशं त्विदम् || ३०-८८ || सकलेयं ब्रह्मविद्या स्यात्पञ्चदशभिः स्फुटैः | वाक्यैः पञ्चाक्षरैस्त्वस्या निष्कला परिकीर्त्यते || ३०-८९ || प्रतिवाक्यं ययाद्यन्तयोजिता परिपठ्यते |
SKभुवनाख्यैरिति--चतुर्दशभिः | एतावद्भिरिति--चतुर्दशभिरेव | प्राक्संख्यैरेकाधिकैरिति--पञ्चदशभिः | रुद्रसंख्यैरिति-- एकादशभिः | उपैतीति--तेन अत्र शुभाशुभोपेक्षीति पाठः | निःश्वासशासने इति--तत्र हि उत्क्रम हे देहेश प्रभञ्जनस्त्वं प्रयाह्याशु--इति पाठः, पदप्रविभागस्तु अविशिष्ट एव | नवभिरिति--समाहृत्येत्यस्य एकत्वेन इष्टेः | भुवनसंख्यातैरिति-- चतुर्दशभिः | अग्नीषोमसनातनमृत्पिण्डेति एकमेव पदम् | आर्य्यावाक्यमिति�अर्थात् नवमम् | पदत्रयमिति--निःश्वासादौ हि अग्नीषोमसनात्म त्रिपिण्डञ्जहिहि हे महाकोशमिति पाठः, तेन अत्र पञ्चदश पदानि�इति सिद्धम् | आर्यावाक्यमिति--अर्थादर्धम् | द्विरिति-- द्वौ वारौ, तेन अत्र अंगुष्ठमात्रमलमलमावरणं जहिहि हे महासूक्ष्ममिति पाठः | आर्यावाक्यमिति--अर्थादेकादशम् | तावद्भिरिति--सप्तभिः | पञ्चदशभिर्वाक्यैरिति, आर्याभिस्तु द्वादशभिः सार्धाभिः || निष्कलामेव ब्रह्मविद्यां निर्दिशति-- तारो माया वेदकलो मातृतारो नवात्मकः || ३०-९० || इति पञ्चाक्षराणि स्युःप्रोक्तव्याप्त्यनुसारतः | बिन्दुप्राणामृतजलं मरुत्षष्ठस्वरान्वितम् || ३०-९१ || एतेन शक्त्युच्चारस्थबीजेनालभ्यते पशुः | कृतदीक्षाविधिः पूर्वं ब्रह्मघ्नोऽपि विशुद्ध्यति || ३०-९२ || लघुत्वेन तुलाशुद्धिः सद्यः प्रत्ययकारिणी | तारः शमरयैः पिण्डो नतिश्च चतुरर्णकम् || ३०-९३ || शाकिनीस्तोभनं मर्म हृदयं जीवितं त्विदम् | षष्ठप्राणत्रिकूटोर्ध्वबाहुशूलाख्यबिन्दुभिः || ३०-९४ || अनच्कनासाधोवक्त्रचन्द्रखण्डैश्च मण्डितम् | हृदयं भैरवाख्यं तु सर्वसंहारकारकम् || ३०-९५ || वेदकलः--चतुष्कलः | मातृतारः--फ्रेङ्कारः |
SKनवात्मा-- बिन्दुप्राणदण्डनाभिनितम्बवामस्तनकण्ठवामस्कन्धवामकर्णाभर् अणाक्षरारब्धः | एतच्च सार्धमार्याद्वादशकमवमृष्टप्रागुक्तार्थसतत्त्वस्य स्वयमवगन्तुं शक्यत्वात् ग्रन्थविस्तरभयाच्च न प्रातिपद्येन व्याख्यातमिति न विद्वद्भिरस्मभ्यमसूयितव्यम् | बिन्दुः शून्यम्, प्राणः ह, अमृतम् स, जलम् व, मरुत् य, षष्ठस्वरः ऊ; प्राणः ह, त्रिकूटः क्ष, ऊर्ध्वबाहुः झ, शूलम् औ, बिन्दुः शून्यम्, अनच्कौ नादः, नासा शक्तिरधोवक्त्रश्चन्द्रखण्डः अर्धचन्द्रः; एवं हूर्क्ष्झूं || ९५ || सर्वसंहारकत्वमेव अस्य दर्शयति-- अग्निमण्डलमध्यस्थभैरवानलतापिताः | वशमायान्ति शाकिन्यः स्थानमेतेन चेद्दहेत् || ३०-९६ || विसर्जयेत्ताः प्रथममन्यथा च्छिद्रयन्ति ताः | ह्रीं क्लीं व्लें क्लें एभिर्वर्णैर्द्वादशस्वरभूषितैः || ३०-९७ || प्रियमेलापनं नाम हृदयं सम्पुटं जपेत् | प्रत्येकमथवा द्वाभ्यां सर्वैर्वा विधिरुत्तमः || ३०-९८ || वशमायान्तीति--हठेन मेलापं कुर्वति--इत्यर्थः | प्रथममितिमेलापसामनन्तर्येण--इत्यर्थः | एभिर्वर्णैरिति-- मायाबीजकामराजाभ्यां वामस्तनदक्षजानुबिन्दुसंभिन्नाभ्यां कण्ठादिदन्ताभ्यां चेत्येवंरूपैः | प्रत्येकमिति--यथा क्लं व्लं क्लं ह्रीं क्लं व्लं क्लं इति | द्वाभ्यामिति--यथा व्लां क्लां ह्रीं क्लीं व्लां क्लां इति, ह्रिं क्लिं व्लिं क्लिं ह्रीं क्लीं व्लें क्लें क्लिं व्लिं क्लिं ह्रिं इति | एवं स्वरान्तरभूषितत्वेऽपि ज्ञेयम् ||९८ || अत्रैव गुर्वागमौ दर्शयति-- तुलामेलकयोगः श्रीतन्त्रसद्भावशासने | य उक्तः शम्भुनाथेन स मया दर्शितः क्रमात् || ३०-९९ || अथ वित्तविहीनानां प्रपन्नानां च तत्त्वतः | देशकालादिदोषेण न तथाध्यवसायिनाम् || ३०-१०० || प्रकर्तव्या यथा दीक्षा श्रीसन्तत्यागमोदिता | कथ्यते हाटकेशानपातालाधिपचोदिता || ३०-१०१ || तदेव आह-- श्रीनाथ आर्य भगवन्नेतत्त्रितयं हि कन्द आधारे | वरुणो मच्छन्दो भगदत्त इति त्रयमिदं हृदये || ३०-१०२ ||
SKधर्मादिवर्गसंज्ञाश्चत्वारः कण्ठदेशगाः पूज्याः | ह्रींश्रींपूर्वाः सर्वे सम्बोधजुषश्च पादशब्दान्ताः || ३०-१०३ || मूर्धतले विद्यात्रयमुक्तं भाव्यथ मनोऽभियोगेन | कुसुमैरानन्दैर्वा भावनया वापि केवलया || ३०-१०४ || गुरुणा तत्त्वविदा किल शिष्यो यदि मोक्षमात्रकृतहृदयः | मोक्षैकदानचतुरा दीक्षा सेयं परोपनिषदुक्ता || ३०-१०५ || एतद्दीक्षादीक्षित एतद्विद्यात्रयं स्मरन् हृदये | बाह्यार्चादि विनैव हि व्रजति परं धाम देहान्ते || ३०-१०६ || धर्मादिवर्गेति--धर्मार्थकाममोक्षलक्षणचतुर्वर्गः, तेन धर्मनाथः, अर्थनाथः, कामनाथः, मोक्षनाथ इति; सम्बोधः आमन्त्रणम्, तेन ह्रीं श्रीं श्रीनाथपादेत्यादिः क्रमः | उक्तमिति- -परापराद्यात्मकम् | भावीति--वक्ष्यमाणम् | अथेति--विकल्पे | मनोऽभियोगेनेति--अनुसन्धानदार्ढ्येन--इत्यर्थः | आनन्दैरिति -- तत्कारिभिः सुरादिभिः | परं धामेत्यनेन अस्या मुमुक्षुविषयत्वमेव निर्वाहितम् || एतदेव विद्यात्रयं निर्दिशति-- प्रणवो माया बिन्दुर्वर्णत्रयमादितः कुर्यात् | पदपञ्चकस्य संबोधनयुक्तस्याग्निदयितान्ते || ३०-१०७ || प्रणवः ॐ, माया ह्रींम्, बिन्दुश्चतुष्कलतया हूई | अग्निदयिता स्वाहा || १०७ || पदपञ्चकमेव निर्दिशति-- सिद्धसाधनि तत्पूर्वं शब्दब्रह्मस्वरूपिणि | समस्तबन्धशब्देन सहितं च निकृन्तनि || ३०-१०८ || बोधनि शिवसद्भावजनन्यामन्त्रितं च तत् | पञ्चाष्टरन्ध्रत्र्यष्टार्णक्रमेण पदपञ्चकम् || ३०-१०९ || खपञ्चार्णा परब्रह्मविद्येयं मोक्षदा शिवा | अनुत्तरेच्छे घान्तश्च सत्रयोदशसुस्वरः || ३०-११० || अस्य वर्णत्रयस्यान्ते त्वन्तःस्थानां चतुष्टयम् | वर्गाद्यश्वौ त्र्यस्रबिन्दुयुक् पान्तोऽर्णत्रयादतः || ३०-१११ || महाहाटकशब्दाद्यमीश्वरीत्यर्णसप्तकम् | आमन्त्रितं क्षमस्वेति त्र्यर्णं पापान्तकारिणि || ३०-११२ || षडर्णं पापशब्दादिविमोहनिपदं ततः | पापं हन धुन द्विर्द्विर्दशार्णं पदमीदृशम् || ३०-११३ || पञ्चम्यन्तं षडर्णं स्याद्रुद्रशक्तिवशादिति |
SKतत एकाक्षरं यत्तद्विसर्गब्रह्म कीर्तितम् || ३०-११४ || तदनच्कतकारेण सहैकीभावतः पठेत् | रन्ध्रब्धिवर्णा विद्येयं दीक्षाविद्येति कीर्तिता || ३०-११५ || मायार्णञ्च परे ब्रह्मे चतुर्विद्ये पदत्रयम् | अष्टार्णमथ पञ्चार्णं योगधारिणिसंज्ञितम् || ३०-११६ || आत्मान्तरात्मपरमात्मरूपं च पदत्रयम् | एकारान्तं बोधनस्थं दशार्णं परिकीर्तितम् || ३०-११७ || रुद्रशक्तीति वेदार्णं स्याद्रुद्रदयितेऽथ मे | पापं दहदहेत्येषा द्वादशार्णा चतुष्पदी || ३०-११८ || सौम्ये सदाशिवे युग्मं षट्कं बिन्द्विषुसावहा | सार्धवर्णचतुष्कं तदित्येषा समयापहा || ३०-११९ || विद्या सार्धार्णखशरसंख्या सा पारमेश्वरी | पदपञ्चकस्यैव वर्णविभागमपि आह--पञ्चेत्यादि | रन्धेर्ति नव | खपञ्चार्णेति पञ्चाशद्वर्णाः, एवं ॐ ह्रीं हूई बोधनि ॐ ह्रीं हूई शिवसद्भावजननि स्वाहा | अनुत्तरः अ, इच्छा इ | घान्तः ङ | त्रयोदशः स्वरः ओ | अन्तःस्था यरलवाः | वर्गाद्यः अ | अश्वः ण | त्र्यस्रम् ए बिन्दुयुक् पान्तः फं, एवं फें | विसर्गब्रह्म स, रन्ध्रब्धीति एकान्नपञ्चाशत् | एवं ऐङोयरलवाणफें महाहाटकेश्वरि क्षमस्व पापान्तकारिणि पापविमोहनि पापं हन हन धुन धुन रुद्रशक्तिवशात् सत् | मायार्णम् हीम् ह्रीं | एकारान्तं बोधनस्थमिति तेन आत्मे अन्तरात्मे परमात्मे इति | चतुष्पदीति--दह दहेति एकमेव हि पदम् | युग्मम्--पदयोः | षट्कम्-- वर्णानाम् | बिन्दुः हूई | इषुः फट् | सावहा स्वाहा | खशरेति पञ्चाशत् | सार्धार्णं ट् | एवं ह्रीं परे ब्रह्मे चतुर्विद्ये योगधारिणि आत्मे अन्तरात्मे परमात्मे रुद्रशक्तिरुद्रदयिते मे पापं दह दह सौम्ये सदाशिवे हूई फट् स्वाहा-- एतच्च अस्माकं गुरुभिरुपदिष्टम्--इत्याह-- एतद्विद्यात्रयं श्रीमद्भूतिराजो न्यरूपयत् || ३०-१२० || यः साक्षादभजच्छ्रीमाञ्श्रीकण्ठो मानुषीं तनुम् | ननु इह मन्त्राणां स्वरूपं दर्शितम्, वीर्यं पुनः कस्मात् न उक्तम्?--इत्याशङ्क्य आह-- अत्र वीर्यं पुरैवोक्तं सर्वत्रानुसरेद्गुरुः || ३०-१२१ ||
SKअर्थबीजप्रवेशान्तरुच्चाराद्यनुसारतः | नहि तत्किञ्चनाप्यस्ति यत्पुरा न निरूपितम् || ३०-१२२ || निष्फला पुनरुक्तिस्तु नास्मभ्यं जातु रोचते | ननु अनेकप्रकारं हि तद्वीर्यं तत् केन प्रकारेण एतद्?--इत्याशङ्क्य आह--अर्थेत्यादि || एतदेव अर्धेन उपसंहरति-- इत्येवं मन्त्रविद्यादिस्वरूपमुपवर्णितम् || ३०-१२३ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके मन्त्रादिप्रकाशनं नाम त्रिंशमाह्निकम् || ३० || इति शिवम् || श्रीमद्गुरूपदेशासादितमान्त्रस्वरूपपरितृप्तः | एतज्जयरथनामा निरणैषीदाह्निकं त्रिंशम् || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते मन्त्रादिप्रकाशनं नाम त्रिंशमाह्निकं समाप्तम् || ३० || एकत्रिंशमाह्निकम् ᳚ विवेकः ᳚ विद्यामायाप्रकृतित्रिप्रकृतिकमध्वसप्तकारमिदम् | विश्वत्रिशूलमभितो विकासयञ्जयति कौशिकः शंभुः || इदानीं तात्पर्यतो मण्डलस्वरूपं वक्तुमुपक्रमते-- अथ मण्डलसद्भावः संक्षेपेणाभिधीयते | तत्र तावत् चतुरस्रसिद्धिमाह-- साधयित्वा दिशं पूर्वां सूत्रमास्फालयेत्समम् || ३१-१ || तदर्धयित्वा मध्यप्राक्प्रतीचीष्वङ्कयेत्पुनः | ततोऽप्यर्धतदर्धार्धमानतः पूर्वपश्चिमौ || ३१-२ || अङ्कयेत्तावता दद्यात् सूत्रेण भ्रमयुग्मकम् | मत्स्यसन्धिद्वयं त्वेवं दक्षिणोत्तरयोर्भवेत् || ३१-३ || तन्मध्ये पातयेत्सूत्रं दक्षिणोत्तरसिद्धये | यदि वा प्राक्पराक्तुल्यसूत्रेणोत्तरदक्षिणे || ३१-४ || अङ्क्येदपरादङ्कात् पूर्वादपि तथैव ते | मत्स्यमध्ये क्षिपेत्सूत्रमायतं दक्षिणोत्तरे || ३१-५ || मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्ततः | सूत्राभ्यां दिग्द्वयोत्थाभ्यां मत्स्यः स्यात्प्रतिकोणगः || ३१-६ || मत्स्येषु वेदाः सूत्राणीत्येवं स्याच्चतुरस्रकम् |
SKविषुवच्छङ्कुच्छायादिना पूर्वामर्थात् पश्चिमां च दिशं सायं प्रातश्च साधयित्वा जिघृक्षितचतुर्हस्तादिक्षेत्रसाम्येन पूर्वपश्चिमदिगायतं सूत्रं दद्यात् | तच्च सममर्धयित्वा मध्ये पूर्वस्यां पश्चिमायां च दिशि अङ्कयेत्--रेखात्रयेण चिह्नयेत्-- इत्यर्थः | तदनन्तरमपि सकलसूत्रापेक्षया चतुर्भागात्मनोऽर्धस्य अष्टभागात्मनस्तदर्धस्य षोडशभागात्मनस्तदर्धस्य च मानमवलम्ब्य पूर्वपश्चिमावङ्कयेत्--दिग्द्वये बहिर्गत्या तत्र तत्र रेखाषट्कं दद्यात्--इत्यर्थः | ततोऽपि तावता पूर्वपश्चिमदिग्द्वयीयतत्तदर्धद्वयमानेन सूत्रेण तत्र तत्र अङ्कस्थाने वामं दक्षिणं च परिस्थाप्य क्रमेण दक्षिणस्यामुत्तरस्यां च दिशि भ्रमयुग्मं दद्यात् येन तत्र काकपक्षाकृति मत्स्यसन्धिद्वयं स्यात् | तस्य मत्स्यसन्धिद्वयस्य मध्ये च पातितेन दक्षिणोत्तरायतेन सूत्रेण तद्दिग्द्वयसिद्धिः | यदि वेति--अत्रैव पक्षान्तरोपक्रमः | प्राक्पराक्तुल्येति--सकलेन--इत्यर्थः | अपरादङ्कात् पूर्वादपीति--अनेन अङ्केन सर्वशेषत्वेन शिक्षाया वचनम् | तथैवेति --अनन्तरोक्तवत् | एवञ्च मध्यमधिकृत्य दिक्चतुष्टयसिद्धिनिमित्तभूतं सूत्रद्वयं चतुर्हस्तादिरूपतया अभिमतस्य क्षेत्रस्य अर्धमानेन दिक्षु अङ्कयेत्--सर्वतः साम्यमुत्पादयितुं तत्र रेखाचतुष्टयं कुर्यात्--इत्यर्थः | ततो दिक्चतुष्टयगतेभ्योऽङ्केभ्यश्च दिग्द्वयोत्थाभ्यां सूत्राभ्यां प्रतिकोणगो मत्स्यः स्यात् यथा पूर्वदक्षिणाभ्यामाग्नेये, पूर्वोत्तराभ्यामैशाने, पश्चिमदक्षिणाभ्यां नैरृते, पश्चिमोत्तराभ्यां वायव्ये चेति | तेषु च प्रतिकोणगेषु चतुर्षु मत्स्येषु वेदाश्चत्वारि सूत्राणि दद्यात्--इति चतुरस्रसिद्धिः || ननु प्रतिशास्त्रमनेकानि मण्डलानि सन्ति, इह पुनः केषां सद्भावोऽभिधीयते? --इत्याशङ्कां गर्भीकृत्य स्वशास्त्राधिकारेण एषामानैक्येऽपि प्रधानभूतप्रतिनियतमण्डलाश्रयेण बहुप्रकारमुक्तानां शूलवर्तनानां कारणभूतं ᳚प्रधाने हि कृतो यत्नः फलवान् भवति |᳚
SKइत्याशयेन श्रीत्रिकसद्भावदर्शितं त्रित्रिशूलं मण्डलं प्रथमं वक्तुं प्रतिजानीते� एकस्मात्प्रभृति प्रोक्तं शतान्तं मण्डलं यतः || ३१-७ || सिद्धातन्त्रे मण्डलानां शतं तत्पीठ उच्यते | यत्तन्मध्यगतं मुख्यं मण्डलानां त्रयं स्मृतम् || ३१-८ || मध्यशूलं त्रित्रिशूलं नवशूलमिति स्फुटम् | तत्र शूलविधानं यदुक्तम् भेदैरनन्तकैः || ३१-९ || तद्योनि मण्डलं ब्रूमः सद्भावक्रमदर्शितम् | तत्पीठ इति--मण्डलपीठे | तन्मध्येति�तच्छब्देन मण्डलशतपरामर्शः | उक्तमिति--अर्थात् सिद्धातन्त्रे एव | यदुक्तम्-- ᳚अधुना मण्डलं पीठं कथ्यमानं शृणु प्रिये | मण्डलानां शतं प्रोक्तं सिद्धातन्त्रे वरानने || तेषां नामानि वक्ष्यामि शृणुष्वैकाग्रमानसा | मण्डलानां वरोरोहे शतं यावदनुक्रमात् ||᳚ इति उपक्रम्य ᳚हाहारावं घनं रुद्धं सामयं चित्रकण्टकम् |᳚ इत्यादि ᳚मध्यशूलं त्रित्रिशूलं नवशूलं तथैव च ||᳚ इति मध्यम् ᳚अध्वमेधसमायुक्तं मण्डलानां शतं मतम् |᳚ इत्यन्तम् || तदेव आह-- वेदाश्रिते चतुर्हस्ते त्रिभागं सर्वतस्त्यजेत् || ३१-१० || भागैः षोडशभिः सर्वं तत्तत्क्षेत्रं विभाजयेत् | चतुर्हस्ते इति--षण्णवत्यंगुलात्मनि | त्रिभागमिति-- द्वात्रिंशदंगुलानि | सर्वत इति--चतुर्दिक्कम्, तेन प्रतिदिक्कं षोडश षोडश अंगुलानि त्यजेत्--द्वाराद्यर्थमवस्थापयेत्-- इत्यर्थः | तत् तस्मात् त्रिभागस्य त्यागात् हेतोस्तदवशिष्टं वक्ष्यमाणत्रित्रिशूलवर्तनोपयोगि सर्वं क्षेत्रं षोडशभिर्भागैर्विभजेत् चतुरंगुलानि षट्पञ्चाशदधिकं शतद्वयं ( २५६) कोष्ठकानि कार्याणि--इत्यर्थः | समस्ते हि क्षेत्रे चतुर्विंशतिधा विभक्ते षट्सप्तत्यधिकं शतपञ्चकं ( ५७६) कोष्ठकानि भवन्ति यतः प्रतिदिक्कं द्वाराद्यर्थं भागचतुष्टयस्य त्यागात् विंशत्यधिकं शतत्रयं ( ३२०) कोष्ठकानि अवशिष्यन्ते--इति तात्पर्यार्थः || तत्र त्रिशूलवर्तनामेव कर्तुमुपक्रमते-- ब्रह्मसूत्रद्वयस्याथ मध्यं ब्रह्मपदं स्फुटम् || ३१-११ ||
SKकृत्वावधिं ततो लक्ष्यं चतुर्थं सूत्रमादितः | ततस्तिर्यग्व्रजेत् सूत्रं चतुर्थं तदनन्तरे || ३१-१२ || कोष्ठे चेन्दुद्वयं कुर्याद् बहिर्भागार्धभागतः | तयोर्लग्नं ब्रह्मसूत्रात्तृतीये मर्मणि स्थितम् || ३१-१३ || कोष्ठकार्धेऽपरं चेति युग्ममन्तर्मुखं भवेत् | ब्रह्मसूत्राद् द्वितीयस्मिन् हस्ते मर्मणि निश्चलम् || ३१-१४ || कृत्वा पूर्णेन्दुयुगलं वर्तयेत विचक्षणः | ब्रह्मसूत्रगतात् षष्ठात् तिर्यग्भागात्तृतीयके || ३१-१५ || कृत्वार्धकोष्ठके सूत्रं पूर्णचन्द्राग्रलम्बितम् | भ्रमयेदुन्मुखं खण्डचन्द्रयुग्वह्निभागगम् || ३१-१६ || तिर्यग्भागद्वयं त्यक्त्वा खण्डेन्दोः पश्चिमात्ततः | कोणं यावत्तथा स्याच्च कुर्यात् खण्डं भ्रमद्वयम् || ३१-१७ || सुतीक्ष्णकुटिलाग्रं तदेकं शृङ्गं प्रजायते | द्वितीयस्मिन्नपि प्रोक्तः शृङ्ग एष विधिः स्फुटः || ३१-१८ || मध्यशृङ्गेऽथ कर्तव्ये तृतीये ऊर्ध्वकोष्ठके | चतुर्थार्धे च चन्द्रार्धद्वयमन्तर्मुखं भवेत् || ३१-१९ || तच्च पूर्णेन्दुमेकं प्राग्वर्तितं प्राप्नुयाद्यथा | अन्योन्यग्रन्थियोगेन बद्धारत्वं प्रजायते || ३१-२० || एवं द्वितीयपार्श्वेऽस्य खण्डेन्दुद्वयवर्तनात् | मध्याभ्यां गण्डिका श्लिष्टा पराभ्यामग्रतो नयेत् || ३१-२१ || सूत्रं पार्श्वद्वये येन तीक्ष्णं स्यान्मध्यशृङ्गगम् | पार्श्वद्वयाधरे पश्चाद्ब्रह्मसूत्रं द्वितीयकम् || ३१-२२ || अवधानेन संग्राह्यमाचार्येणोहवेदिना | भवेत्पश्चान्मुखो मन्त्री तस्मिंश्च ब्रह्मसूत्रके || ३१-२३ || मध्यशृङ्गं वर्जयित्वा सर्वः पूर्वोदितो विधिः |
SKतत इति--अवधितया कृतात् ब्रह्मपदादारभ्य--इत्यर्थः | सूत्रमिति-- न तु कोष्ठकम् | आदित इति--ऊर्ध्वक्रमेण | तत इति--लक्ष्यीकृतात् चतुर्थात् सूत्रात् | तिर्यगिति पार्श्वगत्या | तदनन्तरे इति-- तत्समीपवर्तिनि--इत्यर्थः, तेन चतुर्थसूत्रात्मनि मर्मस्थाने वामहस्तं निवेश्य ब्रह्मसूत्रापेक्षया चतुर्थस्य तन्मर्मोपरिवर्तिनः कोष्ठकस्य अर्धादारभ्य तदधस्तनकोष्ठकं यावत् बहिः, न तु अन्तर्भागार्धभागमानमवलम्ब्य इन्दुद्वयं भ्रमगत्या कुर्यात् | ब्रह्मसूत्रात् तृतीये मर्मणि स्थितमिति--तदाश्रित्य स्थितम्--इत्यर्थः, तेन तृतीये मर्मणि दक्षिणं हस्तं निवेश्य कोष्ठके तदर्धे च वामेन हस्तेन भ्रमणादन्तर्मुखम्, न तु बहिर्मुखम्, तयोः समनन्तरवर्तितयोश्चन्द्रयोः संश्लिष्टमन्यच्च चन्द्रद्वयं कुर्यात् | ब्रह्मसूत्रापेक्षयैव च द्वितीयस्मिन् मर्मणि वामहस्तं दृढं निधाय अर्थादाद्येन्दुद्वयसंलग्नमन्यदपि पूर्णम्, न तु अनन्तरवर्तितेन्दुवदर्धमिन्दुयुगलम्, वर्तनीयम् | तेन ब्रह्मसूत्रादूर्ध्वगत्या द्वितीयभागान्तं नयेत् येन अत्र वक्ष्यमाणक्रमेण गण्डिकासंश्लेषः स्यात् | अत एव विचक्षण इति उक्तम् | ब्रह्मसूत्रगतादिति--ब्रह्मपदमवधिं कृत्वा स्थितात्-- इत्यर्थः | षष्ठात् भागादिति, सूत्रात् पुनः सप्तमात् | तृतीयके इति--ऊर्ध्वगत्या | पूर्णेति--पाश्चात्त्यद्वितीयचन्द्रापेक्षया | यद् वक्ष्यति--खण्डेन्दोः पश्चिमादिति, तेन द्वितीयार्धककोष्ठकसूत्रपृष्ठे दक्षिणं हस्तं निवेश्य अन्तःस्थपूर्णचन्द्राग्रादारभ्य उन्मुखम् ऊर्ध्वमुखं वह्न्युप (ल) क्षितत्रित्वविशिष्टभागपर्यन्तं सूत्रं भ्रमयेत् | कथम्--इत्याह--खण्डचन्द्रयुगिति; खण्डचन्द्रेण युज्यते सोऽत्रास्ति तदाकारमिति यावत् | ततोऽपि तृतीयादर्धकोष्ठकात् तिर्यग्भागद्वयं त्यक्त्वा अर्थात् तद्द्वितीयभागसूत्रार्धपृष्ठे दक्षिणं हस्तं निवेश्य पश्चिमात् पुनः खण्डेन्दोरारभ्य तत्सूत्रसमनन्तरवर्तितखण्डेन्दुप्रान्तकोटिरूपं कोणं यावच्च भ्रमयेत् येन भ्रमणं तथा खण्डचन्द्रयुक्
SKस्यादित्येवं खण्डम्, न तु पूर्णम्, भ्रमद्वयं कुर्यात् येन सुतीक्ष्णकुटिलाग्रं शृङ्गं स्यात् | तत इति आद्यादिति च पाठे तु ततः पश्चिमात् खण्डेन्दोरारभ्य आद्यात् प्रथमवर्तितात् खण्डचन्द्रात् ग्रामात्पूर्वमितिवत् कोणं यावत् --इति व्याख्येयम्, न तु पूर्ववाक्ये चन्द्रयुगिति, चन्द्रयुग्ममुत्तरत्र च पश्चिमादाद्याच्च खण्डेन्दोः खण्डं भ्रमद्वयं कुर्यादित्यादिना इन्दुद्वयस्यैव वर्तनीयतया प्रक्रान्तत्वादाद्यशब्दस्य परामर्शनीयत्वाभावादानर्थक्यात् च | एतदेव शृङ्गान्तरेऽपि अतिदिशति द्वितीयस्मिन्नित्यादिना, अत्र तु पाणिविनिवेश एव अन्यथा�इति विशेषः | एवं पार्श्वशृङ्गद्वयवर्तनामभिधाय मध्यशृङ्गवर्तनामपि आह-- मध्येत्यादि | तृतीयेति--ब्रह्मसूत्रापेक्षया | ऊर्ध्वेति--न तु तिर्यक् | अन्तर्मुखमिति--न तु बहिर्मुखम् | तदिति--अर्धचन्द्रद्वयम् | एकमिति-- एकमेकं, तेन पूर्णेन्दुद्वयमपि--इत्यर्थः | अत्रैव प्रयोजनमाह-- यथेत्यादि | एतदेव पार्श्वान्तरेऽपि अतिदिशति एवमित्यादिना | अस्येति-- मध्यशृङ्गस्य | श्लिष्टेति--ऊर्ध्वाधरमेलनया | नयेदिति -- क्षेत्रान्तम् | एवं पूर्वक्षेत्रे वर्तनामभिधाय परत्रापि वक्तुमुपक्रमते पार्श्वेत्यादिना | द्वितीयकमिति--अपरार्धगतत्वात् ऊहवेदिनेति--अतिदेशाद्यर्थावधारणनैपुण्यात् | एवञ्च अनेन किं कार्यम्--इत्याह--भवेदित्यादि | मध्यशृङ्गं वर्जयित्वेति, तत्स्थाने दण्डस्य वर्तयिष्यमाणत्वात् || इदानीं दक्षिणोत्तरपार्श्वयोः शृङ्गवर्तनामाह-- ततो यदुन्मुखं खण्डचन्द्रयुग्मं पुरोदितम् || ३१-२४ || ततो द्वयेन कर्तव्या गण्डिकान्तः सुसङ्गता | द्वयेनाग्रगसूत्राभ्यां मध्यशृङ्गद्वयं भवेत् || ३१-२५ || पुरेति--पूर्वशूलवर्तनावसरे | सुसङ्गतेति--पार्श्वशृङ्गयोः ||२५ || एवमत्र त्रिशूलत्रयं वर्तयित्वा तदधोवर्ति पद्माद्यपि वर्तयितुमाह- - अधो भागविवृद्ध्यास्य पद्मं वृत्तचतुष्टयम् | ततश्चक्रं षोडशारं द्वादशारं द्विधाथ तत् || ३१-२६ || मध्ये कुलेश्वरीस्थानं व्योम वा तिलकं च वा |
SKपद्मं वाथ षडरं वा वियद्द्वादशकं च वा || ३१-२७ || त्रित्रिशूलेऽत्र सप्तारे श्लिष्टमात्रेण मध्यतः | पद्मानामथ चक्राणां व्योम्नां वा सप्तकं भवेत् || ३१-२८ || मिश्रितं वाथ सङ्कीर्णं समासव्यासभेदतः | अधोऽस्येति--शूलस्य, दण्डस्य तु उपरिष्टात् | तस्य हि अध एव अवस्थानमुचितम् | अत एव एषां शूलेन अन्तराच्छादनम्, एभिस्तु दण्डस्येति | अत एव उक्तम्-- ᳚...............पञ्च तद्भागाः पद्मपीठतिरोहिताः |᳚
SKइति | भागवृद्ध्येति--एकद्व्यादिक्रमेण | द्विधा तदिति-- चतुर्विंशत्यरम्, तेन आदौ द्वादशारं ततः षोडशार चतुर्विशत्यरं चेति | तिलकमिति--बिन्दुमात्रकम् | श्लिष्टमात्रेणेति--न तु आच्छादकत्वेन | वाशब्दो विकल्पे | सङ्करोऽत्र समस्तत्वे पद्मचक्रव्योम्नां व्यस्तत्वे वा पद्मचक्रयोः पद्मव्योम्नोश्चक्रव्योम्नोर्वा एकस्मिन्नरे | स्थितिमिश्रत्वं तु पृथगरेषु अवस्थानम् | तेन एकस्मादारभ्य षड्यावत् द्विकेषु परत्र तदेककेषु षट् प्रकाराः | एवं त्रिकाणामेककैः सह षडेव | एवं द्विकानामपि त्रिकैः सह षट् | त्रयाणां मिश्रतायामेकस्य पञ्चधा स्थितावेकत्र त्रिकं एकत्र द्विकं पञ्चसु एककानि--इति एकः, एकत्र एककमेकत्र त्रिकं पञ्चसु द्विकानि--इति द्वितीयः, एकत्र एककं एकत्र द्विकं पञ्चसु त्रिकाणीति तृतीयः--इति त्रयः | चतुर्धा स्थितौ तु एकत्र त्रिकं द्वयोर्द्विके चतुर्षु एककानि--इति एकः, एकत्र द्विकं द्वयोर्द्विके चतुर्षु एककानीति एकः, एकत्र द्विकं द्वयोस्त्रिके चतुर्षु एककानि --इति द्वितीयः, एकत्र एककं द्वयोर्द्विके चतुर्षु त्रिकाणि--इति तृतीयः, एकत्र एककं द्वयोस्त्रिकं चतुर्षु द्विकानि--इति चतुर्थः, एकत्र त्रिकं द्वयोरेकके चतुर्षु द्विकानीति पञ्चमः, एकत्र द्विकं द्वयोरेकके चतुर्षु त्रिकाणि--इति षष्ठ इति षट् | त्रिधा स्थितौ तु द्वयोर्द्विके द्वयोस्त्रिके त्रिषु एककानि--इति एकः, द्वयोर्द्विके द्वयोरेकके त्रिषु त्रिकाणि--इति द्वितीयः, द्वयोस्त्रिके द्वयोरेकके त्रिषु द्विकानि--इति तृतीयः--इति त्रयः | द्वयोस्त्रिधा स्थितौ तु एकत्र एककं त्रिषु द्विकानि त्रिषु त्रिकाणि--इति एकः, एकत्र द्विकं त्रिषु एककानि त्रिषु त्रिकाणि--इति द्वितीयः, एकत्र त्रिकं त्रिषु द्विकानि त्रिषु एककानि--इति तृतीयः इति त्रय एवेत्येवं त्रयस्त्रिंशत् | आदौ पद्मं, तदनु चक्रम्, आदौ वा चक्रं, तदनु पद्ममित्यादिरूपेण क्रमव्यत्ययादिना सङ्करादौ द्विकान्येव अरासप्तके मिश्रीक्रियन्ते इति विशेषाभिधानेऽनेकप्रकारप्रसङ्गादेकः प्रकारः | एवं त्रिकाणामपि क्रमव्यत्ययेन
SKसङ्कीर्णतायामेक इति पञ्चत्रिंशत् | एषामेव अरासप्तके स्थितिनैयत्येन सप्तभिर्गुणने पञ्चचत्वारिंशदधिकं शतद्वयं भवति | केवलानि पद्मानि चक्राणि व्योमानि वा सर्वत्रेति त्रयः प्रकाराः, त्रयमपि सर्वत्र चेत्येकः, द्विकान्यपि सर्वत्रेति प्रकारोऽपि विशेषाभिधानेऽनेकप्रकारप्रसङ्गात् द्विकत्वसामान्यादेक एवेत्यमिश्रभेदा अरासप्तकेऽपि एकरूपत्वात् विशेषाभावात् पञ्चेति सार्धं शतद्वयम् | एषु च प्रकारेषु त्रिकादीनां क्रमव्यत्ययादिना सङ्करे त्रिकद्विकैकानां च मिश्रतायामनेकप्रकारोदयादानन्त्यमिति न तत्परिगणनम् || इदानीं सर्वतोऽवस्थापितं त्रिभागरूपं क्षेत्रं ग्रहीतुमाह-- ततः क्षेत्रार्धमानेन क्षेत्रं तत्राधिकं क्षिपेत् || ३१-२९ || ततस्त्रिशूलपद्मचक्रादिवर्तनानन्तरं तत्र षोडशभागविभक्ते चतुःषष्ट्यंगुलात्मनि परिगृहीते क्षेत्रे अधिकं क्षेत्रं क्षिपेत्-- चिकीर्षितदण्डद्वारादिवर्तनार्थं गृह्णीयात्--इत्यर्थः | ननु अधिकं नाम अत्र किं प्राक् सर्वतस्त्यक्तक्षेत्राभिप्रायेणैव विवक्षितमुत अन्यथापि ?--इत्याशङ्क्य आह--क्षेत्रार्धमानेनेति-- त्रिशूलादिवर्तनार्थं परिगृहीतस्य क्षेत्रस्य द्वात्रिंशदंगुलात्मकं भागाष्टकरूपं यदर्धं तन्मानेन-- इत्यर्थः | तेन प्रतिदिक्कं षोडशांगुलाश्चत्वारो भागाश्च भवन्ति--इति भावः || २९ || एवमधिके क्षेत्रे क्षिप्ते किं कार्यम्--इत्याह-- तत्र दण्डः स्मृतो भागः षडरामलसारकः | सुतीक्ष्णाग्रः सुरक्ताभः क्षणादावेशकारकः || ३१-३० || या सा कुण्डलिनी देवी तरङ्गाख्या महोर्मिणी | सा षडश्रेण कन्दाख्ये स्थिता षड्देवतात्मिका || ३१-३१ || अष्टभागैश्च विस्तीर्णो दीर्घश्चापि तदर्धतः | ततो द्वाराणि कार्याणि चित्रवर्तनया क्रमात् || ३१-३२ || भाग इति--आयामात् दण्डामलसारयेरित्येव व्याप्तिमाह--या सेत्यादि | षडश्रेणेति--उपलक्षिते | षड्देवतात्मिकेति--यदुक्तम्-- ᳚हाहारावा महारावा घोरघोषा भयङ्करी | फेङ्कारिणी महाज्वाला कन्दे षड्रसलम्पटाः ||᳚
SKइति | अष्टभागैरिति--भागशब्दोऽंगुलवचनः, तेन द्वाभ्यां भागाभ्याम्--इत्यर्थः | विस्तीर्ण इति--अर्थादमलसारकः | तदर्धत इति--चतुर्भिरंगुलैः | तत इति--दण्डवर्तनानन्तरम् || ३२ || चित्रामेव वर्तनां दर्शयति-- वेदाश्रायतरूपाणि यदि वा वृत्तमात्रतः | दण्डद्वारवर्तना च अग्रत एव भविष्यतीति न इह विभज्य व्याख्यातम् || इदानीं शृङ्गवर्तनामेव भेदमुखेन निर्दिशति-- स्पष्टशृङ्गमथो कुर्याद्यदि वा वैपरीत्यतः || ३१-३३ || उन्मुखं चन्द्रयुग्मं वा भङ्क्त्वा कुर्याच्चतुष्टयम् | कुटिलो मध्यतः स्पष्टोऽधोमुखः पार्श्वगः स्थितः || ३१-३४ || उत्तानोऽर्धोऽसमः पूर्णः श्लिष्टो ग्रन्थिगतस्तथा | चन्द्रस्येत्थं द्वादशधा वर्तना भ्रमभेदिनी || ३१-३५ || अन्तर्बहिर्मुखत्वेन सा पुनर्द्विविधा मता | स्पष्टशृङ्गमिति--मध्यशृङ्गवत् पूर्वदिगाभिमुख्येन भागत्रयेण वर्तितम् | वैपरीत्यत इति--प्रागिव अस्पष्टम् | उन्मुखं चन्द्रयुग्ममिति- -चतुर्थमर्मसंलग्नतया वर्तितम् | भङ्क्त्वेति--द्विधा विधाय | चतुष्टयमिति--अर्थात् चन्द्राणाम् | मध्यतः कुटिल इति--अन्तरपि अर्धचन्द्राकारः | मध्यतः स्पष्ट इति--प्राग्वर्तिताकार एव | मध्यत इति--काकाक्षिवत् | अधोमुख इति--बहिः कथञ्चिल्लम्बमानार्धचन्द्राग्र--इत्यर्थः | पार्श्वग इति-- स्पष्टशृङ्गवत् दक्षिणोत्तराभिमुख्येन वर्तितः | उत्तान इति-- ऊर्ध्वमुखः | अर्धोऽसम इति--अर्धेन असम एकचन्द्रात्मा रेखाप्रायः | पूर्ण इति--वैलक्षण्यात् | श्लिष्ट इति--मूलात्प्रभृति अन्योन्यासङ्गेन वर्तितः | ग्रन्थिगत इति-- अर्धचन्द्रप्रान्तकोटिसंश्लेषेणैव वर्तितः | सेति--द्वादशधा वर्तना || एषामपि भेदानां यदि भेदः क्रियते, तत् मण्डलानामनन्तो भेदोदयः--इत्याह-- तद्भेदान्मण्डलानां स्यादसङ्ख्यो भेदविस्तरः || ३१-३६ || पीठवीथीबहिर्भूमिकण्ठकर्णकपोलतः | शोभोपशोभासंभेदाद्गुणरेखाविकल्पतः || ३१-३७ || स्वस्तिकद्वितयाद्यष्टतयापर्यन्तभेदतः | भावाभावविकल्पेन मण्डलानामनन्ता || ३१-३८ ||
SKततो रजांसि देयानि यथाशोभानुसारतः | सिन्दूरं राजवर्तं च खटिका च सितोत्तमा || ३१-३९ || उत्तमानि रजांसीह देवतात्रययोगतः | परा चन्द्रसमप्रख्या रक्ता देवी परापरा || ३१-४० || अपरा सा परा काली भीषणा चण्डयोगिनी | तथाहि प्राग्व्याकृति प्रथमप्रकारषट्के एव सरूपाणामेव द्विकानां सरूपैरेव एककैर्मिश्रणे पद्मचक्रयोरेकस्मादरादारभ्य षट् यावत् परत्र पद्मेन चक्रेण व्योम्ना वा सह स्थितावष्टादश | एवं पद्मव्योम्नोरष्टादश, चक्रव्योम्नोश्च अष्टादशेति चतुष्पञ्चाशत् प्रकाराः | एषामरासप्तकनैयत्येन सप्तभिर्गुणने अष्टसप्तत्यधिकं शतत्रयं जायते | तेषामपि द्वारभेदात् द्वाभ्यां गुणने षट्पञ्चाशदधिकानि सप्त शतानि जायन्ते | तेषामपि चन्द्रभेदात् चतुर्विंशत्या गुणेन चतुश्चत्वारिंशदधिकशतोपेतानि अष्टादश सहस्राणि | तेषामपि पीठभावाभावाभ्यामष्टाशीत्यधिकशतद्वयोपेतानि षट्त्रंशत् सहस्राणि | तेषामपि वीथीभावाभावाभ्यां षट्सप्तत्यधिकशतपञ्चकोपेतानि द्वासप्ततिः सहस्राणि--इत्येवं विकल्पान्तरैस्तिस्रः कोटय एकसप्ततिर्लक्षाणि अष्टपञ्चाशत् सहस्राणि द्वादशाधिकानि नव शतानि च जायन्ते | अत्रैव च एकत्र पद्मचक्रे, एकत्र पद्मव्योमनी, एकत्र चक्रव्योमनी, एकत्र पद्मम्, एकत्र चक्रम्, परत्र व्योमेत्यादिना समस्तव्यस्तविरूपद्विकैकमिश्रणेन उत्पन्नभेदानामरानैयत्यादिना समनन्तरोक्तवत् सप्तादिभिर्गुणने कियती संख्येति कष्टश्रीधर एव प्रष्टव्यः | तत इति-- द्वारवर्तनानन्तरम् | कालीति--कृष्णापि || अत एव अस्य इयत् माहात्म्यम्--इत्याह-- दृष्ट्वतन्मण्डलं देव्यः सर्वा नृत्यन्ति सर्वदा || ३१-४१ || अनर्चितेऽप्यदीक्षेण दृष्टे दीक्ष्येत मातृभिः | एवं मण्डलानन्ततामुपपाद्य प्रसङ्गात् रजोदानादि निरूप्य अनन्तभेदत्वेऽपि त्रिशूलस्यैव इह प्राधान्यात् तदाश्रयेण मुख्यान् भेदान् संक्षेपतः परिगणयति-- किं वातिबहुनोक्तेन त्रित्रिशूलारसप्तकाः || ३१-४२ || शूलयागाः षट् सहस्राण्येवं सार्धशतद्वयम् |
SKयद्वा किमनेन मण्डलानन्त्यप्रतिपादनेन ᳚त्रित्रिशूलेऽत्र सप्तारे........................... |᳚ (३१|२८) इत्यादिना उपक्षिप्तं प्रकाराणां सार्धं शतद्वयमेवमुक्तदिशा अर्धसप्तकावलम्बनेन चन्द्रभेदात् चतुर्विंशत्या संगुण्य षट् सहस्राणि शूलयागाः--इति वाक्यार्थः | ᳚शूलानि स्युः षट् सहस्राण्यूनं सार्धशतद्वयात् |᳚ इति | ऊनमिति--ऊना इति वा अपपाठ एव, अनन्वितत्वात्, तृतीयास्थाने पञ्चम्यनुपपत्तेः | किञ्च अत्र सार्धं शतद्वयं गुण्यम्, अरासप्तकावलम्बनलब्धाश्चन्द्रभेदाश्चतुर्विंशतिर्गुणकाः, गुणितराशिश्च षट् सहस्राणि | तदेतदूनपदपाठे गुण्याकथनात् निर्मूलतामियात् | नहि अत्र गुण्यं किञ्चित् प्रागपि उक्तमस्तीति आस्तामेतत् | प्रायश्च अयं श्लोकः ᳚ततो रजांसि देयानि........................... |᳚ (३९ श्लो.) इत्यतः पूर्वं न्याय्यो येन सर्वं सङ्गतं स्यात् || ननु एवं माहात्म्यमस्य कुतस्त्यम्?--इत्याशङ्क्य आह-- या सा देवी परा शक्तिः प्राणवाहा व्यवस्थिता || ३१-४३ || विश्वान्तः कुण्डलाकारा सा साक्षादत्र वर्तिता | तत्त्वानि तत्त्वदेव्यश्च विश्वमस्मिन्प्रतिष्ठितम् || ३१-४४ || एतदेव अंशतो दर्शयति-- अत्रोर्ध्वे तन्तुमात्रेण तिस्रः शूलरगाः स्थिताः | आसनत्वेन चेच्छाद्या भोगमोक्षप्रसाधिकाः || ३१-४५ || तास्तु मोक्षैककामस्य शूलाराविद्धमध्यकाः | तस्मादेनं महायागं महाविभवविस्तरैः || ३१-४६ || पूजयेद्भूतिकामो वा मोक्षकामोऽपि वा बुधः | अस्य दर्शनमात्रेण भूतवेतालगुह्यकाः || ३१-४७ || पलायन्ते दश दिशः शिवः साक्षात्प्रसीदति | मन्दशक्तिबलाविद्धोऽप्येतन्मण्डलपूजनात् || ३१-४८ || सततं मासषट्केन त्रिकज्ञानं समश्नुते | यत्प्राप्य हेयोपादेयं स्वयमेव विचार्य सः || ३१-४९ || देहान्ते स्याद्भैरवात्मा सिद्धिकामोऽथ सिद्ध्यति | तन्तुमात्रेणेति--विकस्वरेण रूपेण--इत्यर्थः | तुरवधारणे, तेन ता एव इच्छाद्याः--इत्यर्थः | शूलाराविद्धमध्यका इति-- औन्मनसपद्मत्रयरूपा इति यावत् | तदुक्तं प्राक्--
SK᳚एता एव तु गलिते भेदप्रसरे क्रमशो विकासमायान्त्यः | अन्योन्यासङ्कीर्णास्त्वरात्रयं गलितभेदिकास्तु ततः || पद्मत्रय्यौन्मनसी तदिदं स्यादासनत्वेन |᳚ (१५|३४१) इति | तस्मादिति--परशक्त्यधिष्ठानादेर्हेतोः || न केवलमस्य एवं माहात्म्यं यावदेतदभिज्ञस्यापि--इत्याह-- मण्डलस्यास्य यो व्याप्तिं देवतान्यासमेव च || ३१-५० || वर्तनां च विजानाति स गुरुस्त्रिकशासने | तस्य पादरजो मूर्ध्नि धार्यं शिवसमीहिना || ३१-५१ || अत्र सृष्टिस्थितिध्वंसान् क्रमात् त्रीनपि पूजयेत् | तुर्यं तु मध्यतो यद्वा सर्वेषु परिपूरकम् || ३१-५२ || अत्रेति--त्रिशूलत्रये | मध्यत इति--कुलेश्वरीस्थाने | सर्वेष्विति-- त्रिष्वपि क्रमेषु || ५२ || एतदतिदेशद्वारकमेव यागान्तरमाह-- चतुस्त्रिशूलं वा गुप्तदण्डं यागं समाचरेत् | तत्र तत् पूजयेत्सम्यक् स्फुटं क्रमचतुष्टयम् || ३१-५३ || गुप्तदण्डमिति--तत्स्थाने हि अस्य मध्यशृङ्गं भवेत्--इति भावः | अस्य च इयानेव पूर्वस्मात् विशेषः || ५३ || एतच्च अस्मत्कथितमागमान्तरेष्वपि उक्तम्--इत्याह-- इत्येतत्कथितं गुप्ते षडर्धहृदये परे | षट्के प्रोक्तं सूचितं श्रीसिद्धयोगीश्वरीमते || ३१-५४ || अग्रतः सूत्रयित्वा तु मण्डलं सर्वकामदम् | महाशूलसमोपेतं पद्मचक्रादिभूषितम् || ३१-५५ || द्वारे द्वारे लिखेच्छूलं वर्जयित्वा तु पश्चिमम् | कोणेष्वपि च वा कार्यं महाशूलं द्रुमान्वितम् || ३१-५६ || अमृताम्भोभवारीणां शूलाग्रे तु त्रिकं त्रिकम् | शूल इत्थं प्रकर्तव्यमष्टधा तत् त्रिधापि वा || ३१-५७ || एवं संसूचितं दिव्यं खेचरीणां पुरं त्विति | गुप्ते रहस्यरूपे शास्त्रे | षडर्धहृदये इति त्रिकहृदये | सूचितमिति न तु साक्षादुक्तम् | तत्रत्यमेव ग्रन्थमाह--अग्रत इत्यादि | पश्चिमं वर्जयित्वेति--पूजाधिकरणतया यदस्ति ᳚पश्चिमं विवृतं कार्यम्......................... |᳚ इति | अमृताम्भोभवारीणामिति अमृताम्भोभवश्चन्द्रः, तस्य अरीणां पद्मानाम्--इत्यर्थः | अष्टधेति त्रिधेति--चतुरेकशूलाभिप्रायेण ||
SKन केवलमेतदत्रैव उक्तं यावदन्यत्रापि--इत्याह-- स्थानान्तरेऽपि कथितं श्रीसिद्धातन्त्रशासने || ३१-५८ || एतदेव आह-- कजं मध्ये तदर्धेन शूलशृङ्गाणि तानि तु | शूलाङ्कं मण्डलं कल्प्यं कमलाङ्कं च पूरणे || ३१-५९ || एवं श्रीत्रिकसद्भावोक्तं शूलाब्जविन्यासमभिधाय, शास्त्रान्तरनिरूपितमपि अभिधातुमुपक्रमते-- अथ शूलाब्जविन्यासः श्रीपूर्वे त्रिशिरोमते | सिद्धातन्त्रे त्रिककुले देव्यायामलमालयोः || ३१-६० || यथोक्तः सारशास्त्रे च तन्त्रसद्भावगुह्ययोः | तथा प्रदर्श्यते स्पष्टं यद्यप्युक्तक्रमाद्गतः || ३१-६१ || यद्यपि उक्तगत्यैव गतार्थः शूलविन्यासः, तथापि सांप्रतं श्रीपूर्वशास्त्रादौ यथा किञ्चिद्विशेषकप्रयोजकीकारेण उक्तः, तथा तेनैव प्रकारेण, स्पष्टं प्रदर्श्यते हृदयङ्गमतया अभिधीयते--इत्यर्थः || ६१ || तत्र प्राधान्यात् प्रथमं श्रीपूर्वशास्त्रोक्तमेव दर्शयति-- वेदाश्रिते त्रिहस्ते प्राक् पूर्वमर्धं विभाजयेत् | हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्याम्यदिग्गतम् || ३१-६२ || त्र्यंगुलैः कोष्ठकैरूर्ध्वैस्तिर्यक् चाष्टद्विधात्मकैः | द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ || ३१-६३ || प्राक् त्रिहस्ते--इति अनन्तरं हि द्वारार्थं हस्तस्य प्रक्षेपात् चतुर्हस्ता भविष्यतीति अभिप्रायः, तेन एतत् त्र्यंगुलैः कोष्ठकैरिति वक्ष्यमाणत्वात् द्वात्रिंशद्धा विभजेदिति सिद्धम् | एवमतोपि पूर्वादिदिक्त्रयात् द्वादश द्वादश अंगुलानि त्यक्त्वा पूर्वमर्धमूर्ध्वगत्या अष्टभिस्त्र्यंगुलैः कोष्ठकैः पार्श्वगत्या च षोडशभिर्विभजेत् | एवं विभक्तात् पूर्वस्मादर्धात् पुनरपि दक्षिणोत्तरपार्श्वयोः पङ्क्तिक्रमेण अन्तर्गतौ द्वौ द्वौ भागौ त्यजेत् येन पार्श्वगत्या द्वादश कोष्ठकानि अवशिष्यन्ते यदेतावतैव शूलं सिद्ध्येत् || ६३ || प्रथमतः पार्श्ववर्तनामाह-- ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात् पूर्वतस्तथा | भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् || ३१-६४ ||
SKइह ब्रह्मसूत्रवर्जं जीवशब्दवाच्यानि सूत्राणीत्युभयोरपि पार्श्वर्योब्रह्मसूत्रादारभ्य यत् चतुर्थं जीवसूत्रं ततः पूर्वतः--पूर्वस्यां दिशि तथा यत् चतुर्थमेव जीवसूत्रं, ततो भागमानेन भागार्धमानेन च सूत्रेण अर्धचन्द्रद्वयं स्यात् | पार्श्वद्वयाभिप्रायेण तु द्वयं द्वयमिति वीप्सया निर्देशः || ६४ || कथम्?--इत्याह-- तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः | जीवे खण्डेन्दुयुगलं कुर्यादर्न्तभ्रमाद्बुधः || ३१-६५ || तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् | बहिर्मुखं भ्रमं कुर्यात् खण्डचन्द्रद्वयं द्वयम् || ३१-६६ || तद्वद् ब्रह्मणि कुर्वीत भागभागार्धसंमितम् | यतः पार्श्वगत्या चतुर्थात् जीवादारभ्यते, यत्र च भागमानत्वात् द्वितीये जीवे विश्राम्यति; तयोर्जीवयोरन्तः मध्ये यस्तृतीयो जीवोऽर्थात् पूर्वतश्चतुर्थ एव, तत्र औचित्यात् वामं दक्षिणं वा हस्तं निवेश्य उभयोरपि पार्श्वयोरन्तः, न तु बर्हिभ्रमात्, बुधस्तद्वर्तनाभिज्ञः खण्डचक्रद्वयं कुर्यात् | किन्तु अर्धमानस्य खण्डचन्द्रस्य वक्ष्यमाणदृष्ट्या अयं विशेषः--यत् चतुर्थभागादारभ्य वर्तना--इति | तयोरुभयोरपि पार्श्वयोरपरस्मिन्नन्तःप्रवेशगत्या चतुर्थापेक्षया तृतीये मर्मणि एकं करं निवेश्य समनन्तरवर्तितखण्डेन्दुद्वयाग्रकोटिसंलग्नत्वेन बहिर्मुखं न तु अन्तर्मुखं भ्रममर्थात् द्विः कुर्यात् येन उभयत्र खण्डचन्द्रयोर्द्वयं द्वयं वर्तितं स्यात् | तद्वदिति--उभयोरपि पार्श्वयोरपरस्मिन्नेव तृतीयापेक्षया द्वितीये मर्मणि एकं करं निवेश्य खण्डेन्दुद्वयकोटिगं दक्षिणोत्तरायतसूत्रसंलग्नतया अत एव अन्तर्मुखं भ्रमद्वयं कुर्यात् येन भागमानभागार्धमानं च खण्डचन्द्रयोर्द्वयं द्वयं स्यात् || एवं पार्श्ववर्तनानन्तरं शृङ्गवर्तनामाह-- ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः || ३१-६७ || द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः | एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसङ्गतम् || ३१-६८ ||
SKसूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये | ततोऽपि ब्रह्मसूत्रस्य द्वयोः पार्श्वयोरूर्ध्वक्रमेण यौ द्वितीयौ भागौ पूर्वगे इत्युक्ते तन्मूलात् तदन्तं यावत् बुधत्वादेव भागमानचन्द्रार्धकोटिसंश्लेषेण द्वे रेखे नेतव्ये यथा विस्तारात् भागत्र्यंशेन शाम्यतः | तेन अंगुलेन विस्तीर्णा अंगुलत्रयेण च दीर्घा गण्डिका स्यात् | अन्यस्य गण्डिकया संश्लिष्टत्वादेकस्य अर्धभागमानस्य इन्दोरूर्ध्वकोटित आरभ्य ब्रह्मसूत्रस्य अग्रे लग्नं सूत्रद्वयं विदधीत येन मध्यशृङ्गं सिद्ध्येत् || इदानीं पार्श्वशृङ्गवर्तनामभिधत्ते-- तदग्रपार्श्वयोर्जीवात् सूत्रमेकान्तरे धृतम् || ३१-६९ || आदिद्वितीयखण्डेन्दुकोणात् कोणान्तमानयेत् | तयोरेवापराज्जीवात् प्रथमार्धेन्दुकोणतः || ३१-७० || तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये | तस्य मध्यशृङ्गस्य ये अग्रभूते मण्डलगते पार्श्वे तयोरर्थात् यश्चतुर्थो जीवस्तमवलम्ब्य आदौ कृत आन्तरापेक्षया द्वितीयो बाह्यो भागमानो यः खण्डेन्दुस्तस्य अग्रकोटेरारभ्य आग्नेयस्य एशस्य च कोणस्य षष्ठभागात्मकमन्तं यावत् सूत्रं नयेत् यतस्तदेकेन भागेन अन्तरिते देशे धृतं ᳚...............................वह्निभागगम् |᳚ (१६ श्लो.) इति दृशा भागत्रयसंमिते स्थाने स्थितम्--इत्यर्थः | तयोरेव अग्रपार्श्वयोरपरात् चतुर्थापेक्षया तृतीयात् जीवात् प्रोक्तगत्या पूर्वतश्चतुर्थभागार्धात् तु प्रथमस्य आन्तरतया वर्तितस्य अर्धभागमानस्य इन्दोः कोणतस्तद्वदेव पूर्वोक्तगत्या षष्ठभागान्तमेव सूत्रं नयेत् येन पार्श्वशृङ्गसिद्धिः || एवं पूर्वस्मिन् क्षेत्रार्धे त्रिशूलं वर्तयित्वा, अपरस्मिन्नपि दण्डादि वर्तयितुमाह-- क्षेत्रार्धे चापरे दण्डो द्विकरश्छन्नपञ्चकः || ३१-७१ || षड्विस्तृतं चतुर्दीर्धं तदधोऽमलसारकम् | वेदांगुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते || ३१-७२ || आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम् | हस्तायामं तदर्धं वा विस्तारादपि तत्समम् || ३१-७३ || द्विगुणं बाह्यतः कुर्यात्ततः पद्मं यथा शृणु |
SKएकैकभागमानानि कुर्याद् वृत्तानि वेदवत् || ३१-७४ || दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश | द्वयोर्द्वयोः पुनर्मध्ये तत्संख्यातानि पातयेत् || ३१-७५ || एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् | एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत् || ३१-७६ || यत्रैव कुत्रचित्सङ्गस्तत्संबन्धे स्थिरीकृते | तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये || ३१-७७ || एकैकस्मिन्दले कुर्यात्केसराणां त्रयं त्रयम् | द्विगुणाष्टांगुलं कार्यं तद्वच्छृङ्गकजत्रयम् || ३१-७८ || द्विकर इति--वक्ष्यमाणद्वारक्षेत्रेण सह | छन्नपञ्चक इति--अस्य हि भागचतुष्टयं छन्नपीठेन च एक इति | यदुक्तम्-- ᳚द्विकरं पञ्च तद्भागाः पञ्चपीठतिरोहिताः | शेषमन्यद्भवेद् दृश्यं पृथुत्वाद्भागसंमितम् ||᳚
SKइति | वेदांगुलमिति--अंगुलोक्तौ षडंगुलानि विस्तृतं चत्वारि अंगुलानि आयतमामलसारकम् | तीक्ष्णाग्रमिति--एकाराकृति | आदिक्षेत्रस्येति--त्रिहस्तस्य | हस्तायाममिति--मध्यसूत्राणां प्रतिपार्श्वं भागचतुष्टयग्रहेण तदर्धं हस्तार्धं द्वारस्य भागचतुष्टयेनैव विस्तृतत्वात् | बाह्यतो द्विगुणमिति-- प्रतिपार्श्वमधिकस्य भागचतुष्टयस्य प्रक्षेपात् | तत्सममिति-- कण्ठवत् कपोलस्यापि भागद्वयेनैव विस्तृतत्वात् | इदानीं अण्डक्षेत्रगतभागचतुष्टयस्थितस्य पद्मस्य वर्तनामाह--तत इत्यादि | वेदवत्--चत्वारि | मध्य इति--समोभयपार्श्वे | तत्संख्यातानीति--षोडश | एषामिति--पुनर्दत्तानां षोडशानाम् | तृतीयेति--अर्थात् तृतीयवृत्तस्थपुनर्दत्तषोडशसूत्रान्यतममध्ये हस्तं निवेश्य तद्बहिः पार्श्वस्थजीवसूत्रसाम्येन तृतीयभागाग्रस्थात् तत एव आरभ्य एतस्य पुनर्दत्तषोडशसूत्रान्यतमस्यैव अन्तं यावत् भ्रमं कृत्वा तदन्तः पार्श्वस्थजीवसूत्रसंनिकर्षं नयेत्--इति षोडश दलार्धानि उत्पादयेत् | अत्रैव कुत्रचित् पद्मे इत्यनेन अनवकॢप्तिपरेण इदमावेदितं यथा दलार्धसिद्ध्यर्थं तृतीयवृत्तस्थपुनर्दत्तषोडशसूत्रान्यतममध्ये हस्तं कृत्वा भ्रमं कुर्यादित्युक्तम्, तथैव अत्रापि, किन्तु व्यत्ययेनेति | स्थिरीकृते इति--मनसा | तत्रेति--सङ्गस्थाने | कृत्वेति--अर्थात् करम् | नयेदिति-- अर्थात् भ्रमम् | त्रयं त्रयमिति--तत्रस्थसूत्रत्रयाश्रयणेन | तद्वदिति--यथोक्तवर्तनया, किन्तु द्विगुणाष्टांगुलम् | तत् हि चतुर्विंशत्यंगुलम् | एवं पूर्वत्रापि भागचतुष्टयेनैव पद्मचक्रव्योमानि कार्याणि--इति ज्ञेयम् || ७८ || अत्रैव रजोनियममाह-- कर्णिका पीतवर्णेन मूलमध्याग्रभेदतः | सितं रक्तं तथा पीतं कार्यं केसरजालकम् || ३१-७९ || दलानि शुक्लवर्णानि प्रतिवारणया सह | पीठं तद्वच्चतुष्कोणं कर्णिकार्धसमं बहिः || ३१-८० || सितरक्तपीतकृष्णैस्तत्पादान् वह्नितः क्रमात् | चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते || ३१-८१ ||
SKदण्डः स्यान्नीलरक्तेन पीतमामलसारकम् | रक्तं शूलं प्रकुर्वीत यत्तत्पूर्वं प्रकल्पितम् || ३१-८२ || पश्चाद् द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् | द्वारं वेदाश्रि वृत्तं वा सङ्कीर्णं वा विचित्रितम् || ३१-८३ || एकद्वित्रिपुरं तुल्यं सामु(द्र)मथवोभयम् | कपोलकण्ठशोभोपशोभादिबहुचित्रितम् || ३१-८४ || विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् | प्रतिवारणा--दलाग्रवर्तिनी वृत्तरेखा | तद्वदिति--शुक्लम् | कर्णिकार्धमेको भागः | तत्पादानिति--पीठपादकान् | त्रिभिरिति-- रक्तरजोवर्जितैः | त्यक्त्वांगुलचतुष्टयमिति�द्विकरत्वस्य अपवादः | द्वारस्यापि एतच्छेषभूतं शास्त्रान्तरोक्तं वैचित्र्यं दर्शयति-- द्वारमित्यादिना || यद्यपि उद्दिष्टानां सर्वेषां शास्त्राणां शूलाब्जविन्यास उक्तस्तथापि य एव कश्चन विशेषोऽस्ति, स एव इह प्रदर्श्यत इति क्रमव्यतिक्रमेणापि श्रीदेव्यायामलोक्तं तद्विन्यासमुपन्यस्यति-- श्रीदेव्यायामले तूक्तं क्षेत्रे वेदाश्रिते सति || ३१-८५ || अर्धं द्वादशधा कृत्वा तिर्यगूर्ध्वं च तिर्यजम् | भागमेकं स्वपार्श्वोर्ध्वं गुरुः समवतारयेत् || ३१-८६ || मध्यस्थं तं त्रिभागं च तदन्ते भ्रमयेदुभौ | भागमेकं परित्यज्य तन्मध्ये भ्रमयेत्पुनः || ३१-८७ || तृतीयांशोर्ध्वतो भ्रम्यमूर्ध्वांशं यावदन्ततः | चतुर्थांशात्तदूर्ध्वं तु ऊर्ध्वाधो योजयेत्पुनः || ३१-८८ || तन्मानादूर्ध्वमाभ्रम्य चतुर्थेन नियोजयेत् |
SKअर्धं द्वादशधा कृत्वेत्युक्त्या समस्तं क्षेत्रं चतुर्विंशतिधा विधेयम्--इति सिद्धम् | तिर्यगूर्ध्वमिति--सर्वत इति--तेन चतुर्दिक्कं षट् षट् भागान् त्यक्त्वा मध्ये द्वादशभागमानं क्षेत्रं ग्राह्यम्, अत एव तदेकपार्श्ववर्तितया तिर्यग्गमेकं भागं गुरुः स्वेन तद्भागसंबन्धिनैव पार्श्वेन ऊर्ध्वादिक्रमेण ऊर्ध्वं समवतारयेत्--तथा भ्रमयितुमनुसंदध्याद्--इत्यर्थः | तेन ब्रह्मपदापेक्षया द्वितीये मर्मणि एकं हस्तं निवेश्य तं समस्तं भागमर्थात् तदीयमेव त्रिभागं न तु प्राग्वत् तदर्धमिति | एतदुभयं तस्य ब्रह्मसूत्रस्य अन्ते तत्संनिकर्षादारभ्य भ्रमयेत् येन खण्डचन्द्रद्वयं सिद्ध्येत् | पुनश्च पार्श्वगत्या द्वितीयभागस्य उपरि स्थितमेकं भागं परित्यज्य अर्थात् तृतीये मर्मणि एकं हस्तं कृत्वा तस्य त्यक्तस्यैव भागस्य अन्तः पूर्ववदेव भ्रमयेत् येन खण्डचन्द्रद्वयं सिद्ध्येत् | तत् समनन्तरवर्तितं खण्डचन्द्रद्वयं चतुर्थांशादारभ्य अर्थात् तिर्यक् क्रमेण ऊर्ध्वं क्षेत्रकोणं यावत् ऊर्ध्वाधोगत्या योजयेत्�इति शृङ्गसिद्धिः | एतदेव पार्श्वान्तरेऽपि अतिदिशति-- पुनरित्यादिना | पुनश्च तदेव अनन्तरोक्तं मानमवलम्ब्य यथायथमूर्ध्वं खण्डचन्द्रयुग्मत्रयमा समन्तात् परस्परसंश्लेषेण भ्रमयित्वा तद्द्वारेण वर्तयित्वा चतुर्थेन शृङ्गारम्भकेणापि खण्डचन्द्रयुग्मेन नियोजयेत्--तद्युक्तं कुर्यात्--इत्यर्थः || एवं पार्श्वारावर्तनामभिधाय, मध्यारामपि वर्तयितुमाह-- ऊर्ध्वाद्योजयते सूत्रं ब्रह्मसूत्रावधि क्रमात् || ३१-८९ || क्रमाद्वैपुल्यतः कृत्वा अंशं वै ह्रासयेत् पुनः | अर्धभागप्रमाणस्तु दण्डो द्विगुण इष्यते || ३१-९० ||
SKपुनरपि प्रथमवर्तितत्रिभागवर्तमानखण्डचन्द्रोर्ध्वादारभ्य ब्रह्मसूत्रावधि सूत्रं कृत्वा क्रमेण क्रमेण वैपुल्यादंशमंशमेव ह्रासयित्वा योजयेत्--तत्रैव संबद्धं कुर्यात् येन अस्य तीक्ष्णाग्रत्वं स्यात्--इति मध्यशृङ्गसिद्धिः | एवं च अत्र मध्यशृङ्गे पार्श्वद्वयादूनं भवेदित्यपि पूर्वस्मात् विशेषः | अर्धेति--भागद्वयसंबन्धिभ्यामर्धाभ्यां भागप्रमाणश्चतुरंगुलः इत्यर्थः | द्विगुण इति-- गृहीतक्षेत्रार्धशिष्टभागषट्कोपरि क्षेत्रार्धस्य प्रक्षेपात् द्वादशभागप्रमाणः--द्विहस्त इति यावत् || ९० || अत्रैव आमलकसारकं वर्तयति-- भागं भागं गृहीत्वा तु उभयोरथ गोचरात् | भ्रम्यं पिप्पलवत् पत्रं वर्तनैषा त्वधो भवेत् || ३१-९१ || षोडशांशे लिखेत्पद्मं द्वादशांगुललोपनात् | भागशब्दोऽत्र अंगुलवचनः, तेन उभयोः पार्श्वयोर्विषयादंगुलमंगुलं गृहीत्वा अश्वत्थपत्राकारतया भ्रमोदय इति | एषा दण्डस्य अधोवर्तना येन षडंगुलविस्तृतस्य अमलसारकस्य अधश्चतुरंगुलं तीक्ष्णाग्रं मूलं स्यात् | षोडशांशे इति --षोडशभिः सूत्रैर्विभक्ते क्षेत्रे | द्वादशांगुललोपनादिति--प्रतिदिक्कं येन हास्तिकं पद्मं स्यात् || तच्च कुत्र लिखेत्--इत्याह-- तदूर्ध्वं मध्यभागे तु वारिजन्म समालिखेत् || ३१-९२ || मध्यशृङ्गावसाने तु तृतीयं विलिखेत्ततः | तदूर्ध्वम्--दण्डोपरि | मध्यभागे इति--मण्डलापेक्षया | न केवलमत्रैव पद्मं लिखेत्, यावदरोपर्यपि--इत्याह--मध्येत्यादि | तृतीयशब्दार्थमेव घटयति--मध्येत्यादिना || सव्यासव्ये तथैवेह कटिस्थाब्जे समालिखेत् || ३१-९३ || कर्णिका पीतला रक्तपीतशुक्लं च केसरम् | दलानि पद्मबाह्यस्था शुक्ला च प्रतिवारणी || ३१-९४ || शूलं कृष्णेन रजसा ब्रह्मरेखा सिता पुनः | शूलाग्रं ज्वालया युक्तं शूलदण्डस्तु पीतलः || ३१-९५ || शूलमध्ये च यत्पद्मं तत्रेशं पूजयेत्सदा | अस्योर्ध्वे तु परां दक्षेऽन्यां वामे चापरां बुधः || ३१-९६ ||
SKतथैवेति--द्वादशांगुललोपनेनैव--इत्यर्थः | दलानीति�अर्थात् शुक्लानि | ब्रह्मरेखेति--अरामध्यभागः | ज्वालया युक्तमिति-- रक्तरजःपातात् | ईशमिति--पेर्तरूपं सदाशिवम् | ऊर्ध्व इति-- मध्यशृङ्गस्य | अन्यामिति--परापराम् || ९६ || ननु इह पराया अपि परा मातृसद्भावादिशब्दव्यपदेश्या कालसङ्कर्षिणी भगवती उक्ता, सा कुत्र पूज्या?--इत्याशङ्क्य आह-- या सा कालान्तका देवी परातीता व्यवस्थिता | ग्रसते शूलचक्रं सा त्विच्छामात्रेण सर्वदा || ३१-९७ || यदुक्तं तत्रैव-- ᳚तन्मध्ये तु परा देवी दक्षिणे च परापरा | अपरा वामशृङ्गे तु मध्यशृङ्गोर्ध्वतः शृणु || या सा सङ्कर्षिणी देवी परातीता व्यवस्थिता |᳚ इति | ग्रसते इति--स्वात्मसात्करोति--इत्यर्थः, तेन तन्मयमेव इदं सर्वम्--इति अभिप्रायः || ९७ || आसामेव प्रपञ्चतो व्याप्तिमाह-- शान्तिरूपा कला ह्येषा विद्यारूपा परा भवेत् | अपरा तु प्रतिष्ठा स्यान्निवृत्तिस्तु परापरा || ३१-९८ || ननु सदाशिवस्य शान्त्याद्याः कलाः शक्तित्वेन उक्ताः | कथमासामियती व्याप्तिः?--इत्याशङ्क्य आह-- भैरवं दण्ड ऊर्ध्वस्थं रूपं सादाशिवात्मकम् | चतस्रः शक्त्यस्त्वस्य स्थूलाः सूक्ष्मास्त्वनेकधा || ३१-९९ || यत् नाम हि दण्डोपलक्षितस्य शूलस्य उपरि स्थितं भैरवं पूर्णं रूपं तदेव सादाशिवात्मकमिति, तस्यैव स्थूलतायां शान्त्याद्या बह्व्यः शक्त्योऽन्यथा तु एताः--इति तात्पर्यार्थः || ९९ || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेव उपसंहरति-- एष यागः समाख्यातो डामराख्यस्त्रिशक्तिकः | इदानीं त्रिशिरोभैरवीयमपि शूलाब्जविन्यासं वक्तुमुपक्रमते-- अथ त्रैशिरसे शूलाब्जविधिदृष्टोऽभिलिख्यते || ३१-१०० || तमेव आह-- वामामृतादिभिर्मुख्यैः पवित्रैः सुमनोरमैः | भूमिं रजांसि करणीं खटिकां मूलतोऽर्चयेत् || ३१-१०१ || चतुरश्रे चतुर्हस्ते मध्ये शूलं करत्रयम् | दण्डो द्विहस्त ऊर्ध्वाधःपीठयुग्विपुलस्त्वसौ || ३१-१०२ || वस्वंगुलः प्रकर्तव्यः सूत्रत्रयसमन्वितः | द्वादशांगुलमानेन दण्डमूले तु पीठिका || ३१-१०३ ||
SKदैर्ध्यात्तूच्छ्रयतो वेदांगुला दैर्घ्याद्दशांगुला || ३१-१०४ || शूलमूलगतं पीठीमध्यं खाब्धिसमांगुलम् | मूलत इति--मूलमन्त्रेण | चतुर्हस्ते इति--वक्ष्यमाणगत्या चतुर्विशतिधा विभक्तेऽपि | करत्रयस्यैव विभागो दण्डो द्विहस्त इति | वस्वंगुलो विपुल इति--वैपुल्यादष्टांगुलः | यदुक्तं--तत्र� ᳚अष्टांगुलं तु वैपुल्यम्......................... |᳚ इति | विमल इति--अनागमिकत्वादपपाठः | एवमन्यत्रापि अनागमिकत्वादेव अपपाठा निरस्ताः, निरसिष्यन्ते चेति न अन्यथा मन्तव्यम् | खाब्धीति चत्वारिंशत् | यत्र विद्यापद्मेन अष्टांगुलमाच्छादनं व्योमरेखया च अंगुलमिति एकत्रिंशदंगुलानि अस्य दृश्यत्वम् || एतदुपसंहरन् त्रिशूलवर्तनामुपक्रममाणस्तदुपयोगि क्षेत्रं तावदाह-- कृत्वा दण्डं त्रिशूलं तु त्रिभिर्भागैः समन्ततः || ३१-१०५ || अष्टांगुलप्रमाणैः स्याद्धस्तमात्रं समन्ततः | त्रिभिर्भागैरिति--ऊर्ध्वोर्ध्वम् | हस्तमात्रं समन्तत इति-- समचतुरस्रम् || एतदेव भागत्रयं शूलावयावाश्रयतया विभजति-- शूलाग्रं शूलमध्यं तच्छूलमूलं तु तद्भवेत् || ३१-१०६ || वेदी मध्ये प्रकर्तव्या उभयोश्च षडंगुलम् | द्वादशांगुलदीर्घा तु उभयोः पार्श्वयोस्तथा || ३१-१०७ || चतुरंगुलमुच्छ्रयान्मूले वेदीं प्रकल्पयेत् | उभयोः पार्श्वयोश्चैवमर्धचन्द्राकृतिं तथा || ३१-१०८ || भ्रमयेत् खटिकासूत्रं कटिं कुर्याद् द्विरंगुलाम् | वैपुल्याद्दैर्ध्यतो देवि चतुरंगुलमानतः || ३१-१०९ || यादृशं दक्षिणे भागे वामे तद्वत्प्रकल्पयेत् | मध्ये शूलाग्रवैपुल्यादंगुलश्च अधोर्ध्वतः || ३१-११० || चतुरङ्गुलमानेन वैपुल्यात्तु षडंगुला | उच्छ्रयात्तु ततः कार्या गण्डिका तु स्वरूपतः || ३१-१११ || पीठोर्ध्वे तु प्रकर्तव्यं शूलमूलं तु सुव्रते | शूलाग्रमंगुलं कार्यं सुतीक्ष्णं तु षडंगुलम् || ३१-११२ || अरामध्यं प्रकर्तव्यमराधस्तु षडंगुलम् |
SKवेदीत्यादि--अत्र अंगुलमध्यभागे ब्रह्मसूत्रापेक्षया उभयोः पार्श्वयोरुभयोरपि अन्तयोः षडंगुलसंमतं क्षेत्रमर्थात् संश्रित्य तथा षडंगुलप्रकारेण दैर्ध्यात् द्वादशांगुला वेदी वेद्याकारस्तत्र मध्यः संनिवेशः कार्यः--पार्श्वद्वयेऽपि अन्तर्मुखं खण्डेन्दुद्वयं वर्तनीयम्--इत्यर्थः | एवं मूलेऽपि अर्थात् वक्ष्यमाणगण्डिकोपयोगिब्रह्मसंनिकर्षात् भागार्धं त्यक्त्वा पार्श्वगत्या सार्धभागे द्वयोः पार्श्वयोरुच्छ्रयात् चतुरंगुलामुत्तानार्धचन्द्राकृतिं वेदीं कुर्यात् | ततोऽपि अर्थात् ब्रह्मसूत्रनिकटकोटौ हस्तं निवेश्य द्वितीयकोटेरारभ्य मध्यभागवर्तितखण्डेन्दुकोटिं यावत् सूत्रं भ्रमयेत् येन दैर्ध्यात् चतुरंगुलमानः कट्याकारः संनिवेशः पार्श्वद्वयेऽपि सिद्ध्येत् | तत्र च द्व्यंगुलं वैपुल्यम् | द्व्यंगुलत्वमेव मध्यभागेऽपि अतिदिशति--मध्ये शूलाग्रवैपुल्यादिति | न च अविशेषेणैव सर्वत्र द्व्यंगुलं वैपुल्यम्--इत्याह--अंगुलश्चाध इति | तेन कट्यन्तादर्धचन्द्रस्य यथायथमंगुलान्ते ह्रासः कार्य इति | इदानीं शूलाग्रं वर्तयति�ऊर्ध्वत इत्यादिना | तदनन्तरं पुनरूर्ध्वभागे वैपुल्यात् चतुरंगुला वक्ष्यमाणद्वादशांगुलपद्मत्रयस्थितेः सर्वतो हस्तमात्रक्षेत्रग्रहणस्य च अन्यथा अनुपपत्त्या शूलक्षेत्रपार्श्वान्तं यावदुच्छ्रयात् षडंगुलसार्धभागप्रमाणा अर्थात् वेदी कटिररा वा पार्श्वद्वयेऽपि कार्या--इत्यर्थः | एवं पार्श्वशृङ्गमपि वर्तयति-- गण्डीत्यादिना | प्रथममरात्रयग्रथकं पीठोर्ध्वे भागद्वयसंमितोत्सेधगण्डिकात्मकं शूलमूलं कार्यम्, अनन्तरमग्रे वैपुल्यादंगुलम्, अत एव सुतीक्ष्णं तृतीयभागोर्ध्वांगुलद्वयत्यागात् षडंगुलं मध्येऽधश्च तावन्मानम्, इत्येवमर्धेन्दुद्वयकोटी यावत् दैर्घ्यादष्टादशांगुलं मध्यशृङ्गं स्यात् || अत्रैव वैपुल्यमाह-- चतुरंगुलनिम्नं तु मध्यं तु परिकल्पयेत् || ३१-११३ || पूर्वापरं तदेवेह मध्ये शूलं तु तद्बहिः | कारयेत त्रिभिः सूत्रैरेकैकं वर्तयेत च || ३१-११४ ||
SKकजत्रयं तु शूलाग्रं वेदांशैर्द्वादशांगुलम् | क्रमाद्दक्षान्यमध्येषु त्र्यष्टद्वादशपत्रकम् || ३१-११५ || चक्रत्रयं वातपुरं पद्ममष्टांगुलारकम् | विद्याभिख्यं शूलमूले रजः पश्चात्प्रपातयेत् || ३१-११६ || त्रिशूलं दण्डपर्यन्तं राजवर्तेन पूरयेत् | सूत्रत्रयस्य पृष्ठे तु शुक्लं चारात्रयं भवेत् || ३१-११७ || शुक्लेन रजसा शूलमूले विद्याम्बुजं भवेत् | रक्तं रक्तासितं शुक्लं क्रमादूर्ध्वाम्बुजत्रयम् || ३१-११८ || शुक्लेन व्योमरेखा स्यात् सा स्थौल्यादंगुलं बहिः | तां त्यक्त्वा वेदिका कार्या हस्तमात्रं प्रमाणतः || ३१-११९ || वैपुल्यत्रिगुणं दैर्ध्यात् प्राकारं चतुरश्रकम् | समन्ततोऽथ दिक्षु स्युर्द्वाराणि करमात्रतः || ३१-१२० || त्रिधा विभज्य क्रमशो द्वादशांगुलमानतः | कण्ठं कपोलं शोभां तु उपशोभां तदन्ततः || ३१-१२१ || प्राकारं चतुरश्रं तु सभूरेखासमन्वितम् | सितरक्तपीतकृष्णै रजोभिः कारयेत्ततः || ३१-१२२ || रक्तै रजोभिर्मध्यं तु यथाशोभं तु पूरयेत् | अस्या व्याप्तौ पुरा चोक्तं तत्रैवानुसरेच्च तत् || ३१-१२३ || तदेवं मध्यशूलमधिकृत्य चतुर्भ्योऽंगुलेभ्यो यथायथं निम्नं मध्यभागं पूर्वापरं परिकल्पयेत्--इति संबन्धः | अयमत्र अर्थः--अर्धेन्दुद्वयकोट्युपरि यावत् गण्डिकाक्रोडीकारस्तावत् चतुरंगुलवैपुल्यम्, मध्यभागारम्भात्प्रभृति चतुर्णामंगुलानां यथायथमंगुलावशेषो ह्रास इति | अरोपरि पद्मत्रयवर्तनामाह-- तद्बहिरित्यादि | तद्बहिरित्यधिकक्षेत्रसंग्रहेणापि शूलाग्रेषु त्रिर्भिभ्रमैः पद्मत्रयं कुर्यात्, एकैकं च द्वादशांगुलं चतुर्भिश्चतुर्भिर्वर्तयेत्--इति वाक्यार्थः | अष्टांगुलारकमिति-- अष्टांगुलं अष्टदलं च अरात्रयमिति दण्डसंबन्धि | रक्तासितमिति--कृष्णपिङ्गलम् | क्रमादिति--प्रागुक्तेषु दक्षवाममध्येषु | व्योमरेखेति--विद्यापद्मसंबन्धिनी | क्रमशस्त्रिधा विभज्येति--प्रतिभागम् | पुरेति-- त्रित्रिशूलाभिधानावसरे | तदनुसृतिमेव किञ्चिद् व्यनक्ति || १२३ || तदेव आह--
SKअरात्रयविभागस्तु प्रवेशो निर्गमो भ्रमः | अनाहतपदव्याप्तिः कुण्डल्या उदयः परः || ३१-१२४ || हृदि स्थाने गता देव्यस्त्रिशूलस्य सुमध्यमे | नाभिस्थः शूलदण्डस्तु शूलमूलं हृदि स्थितम् || ३१-१२५ || शक्तिस्थानगतं प्रान्तं प्रान्ते चक्रत्रयं स्मरेत् | अनाहतेति--प्रवेशनिर्गमभ्रमात्मनोऽरासंनिवेशस्य एतदाकारत्वात् | ईदृगेव कुण्डलिनीरूपायाः शक्तेः प्रबोधः इति उक्तम्--कुण्डल्या उदयः पर इति | हृदि स्थाने गता इति--इच्छादीनामरारूपतया उल्लासात् | नाभिस्थ इति--तत एव प्राणशक्तेर्दण्डाकारतया उदयात् | हृदीति ᳚हृदयं शक्तिसूत्रं तु.......................... |᳚ इत्याद्युक्त्या शक्त्युदयस्थाने जन्माधारे | अत एव आह-- शक्तिस्थानगतं प्रान्तमिति | प्रान्ते इति--द्वादशान्ते || जन्माधारात् द्वादशान्तं यावदुदये युक्तिमाह-- उत्क्षिप्योत्क्षिप्य कलया देहमध्यस्वरूपतः || ३१-१२६ || शूलदण्डान्तमध्यस्थशूलमध्यान्तगोचरम् | प्रविशेन्मूलमध्यान्तं प्रान्तान्ते शक्तिवेश्मनि || ३१-१२७ || एतदपि कथम्?--इत्याशङ्क्य आह-- अस्पन्दकरणं कृत्वा एकदा स्पन्दवर्तनम् | मूलमानन्दमापीड्य शक्तित्रयपदं विशेत् || ३१-१२८ || तत्र पूज्यं प्रयत्नेन जायन्ते सर्वसिद्धयः | समस्ताध्वसमायोगात् षोढाध्वव्याप्तिभावतः || ३१-१२९ || समस्तमन्त्रचक्राद्यैरेवमादिप्रयत्नतः | षट्त्रिंशत्तत्त्वरचितं त्रिशूलं परिभावयेत् || ३१-१३० || विषुवत्स्थेन विन्यासो मन्त्राणां मण्डलोत्तमे | कार्योऽस्मिन् पूजिते यत्र सर्वेश्वरपदं भजेत् || ३१-१३१ || मूलमिति--मत्तगन्धात्मकम् | विषुवत्स्थेनेति--प्राणसाम्येन--इत्यर्थः || १३१ || एवं शूलाब्जभेदमभिधाय व्योमेशस्वस्तिकं निरूपयति-- स्वस्तिकेनाथ कर्तव्यं युक्तं तस्योच्यते विधिः | कर्तव्यमिति-- ᳚अथ मण्डलसद्भावः संक्षेपेणाभिधीयते |᳚ (१) इत्युक्तिसामर्थ्यात् मण्डलम् | स्वस्तिकेन युक्तमिति--स्वस्तिकयोगात् तत्संज्ञम्--इत्यर्थः | यदुक्तम्-- ᳚भगवन् मातृचक्रेश उन्मनाश्रयदायक | शान्तिपुष्टिकरं धन्यं स्वस्तिकं सर्वकामदम् ||
SKसूचितं सर्वतन्त्रेषु न चोक्तं परमेश्वर | तस्य सूत्राणि लोपाच्च भ्रमपङ्कजकल्पनाम् || वद विघ्नौघशमनमाप्यायनकरं महत् |᳚ इति || व्योमेशस्वस्तिकतायां तु ᳚महाव्योमेशलिङ्गस्य देहधूपं समर्पयेत् ||᳚ इत्याद्युक्त्या अन्वर्थव्योमेशशब्दव्यपदेश्येन नवात्मभट्टारकेण अधिष्ठेयत्वं निरूपयितुं तद्विधिमेव आह-- नाडिकाः स्थापयेत्पूर्वं मुहूर्तं परिमाणतः || ३१-१३२ || शक्रवारुणदिक्स्थाश्च याम्यसौम्यगतास्तथा | नाडिकाः--सूत्राणि | मुहूर्तेति--त्रिंशत् | शक्रेति-- पूर्वापरायताः | याम्येति--दक्षिणोत्तरायताः || एवञ्च किं स्यात्?--इत्याह-- एकोनत्रिंशद्वंशाः स्युरृजुतिर्यग्गतास्तथा || ३१-१३३ || वंशाः भागाः | ऋज्विति--पूर्वापरगताः, तिर्यगिति--दक्षिणोत्तर गताः || १३३ || एतदेव हृदयङ्गमीकरणाय सङ्कलयति-- अष्टौ मर्मशतान्येकचत्वारिंशच्च जायते | मर्मेति--भागाः | एवं हि एकोनत्रिंशतेरेकोनत्रिंशत्यैव गुणने भवेत् || एतदेव विभजति-- वंशैर्विषयसंख्यैश्च पद्मं युग्मेन्दुमण्डलम् || ३१-१३४ || रससंख्यैर्भवेत्पीठं स्वस्तिकं सर्वकामदम् | वसुसंख्यैर्द्वारवीथावेवं भागपरिक्रमः || ३१-१३५ || विषयेति--पञ्च | एतच्च सर्वतः, येन प्रतिपार्श्वं सार्धं भागद्वयं स्यात् | एवमुत्तरत्रापि ज्ञेयम् | पद्मस्यैव विशेषणं युग्मेन्दुमण्डलमिति स्वस्तिकमिति | तद्योगादत्रैव प्राधान्यमभिव्यक्तुं सर्वकामदमिति उक्तम् | तेन पञ्चभिर्भागैः पद्मम्, द्वाभ्यामिन्दुमण्डलम्, षड्भः पीठम्, अष्टभिर्वीथी, अष्टभिश्च द्वारमिति एकोनत्रिंशत् भागा इति उक्तम्--एवं भागपरिक्रम इति || १३५ || तत्र द्वारं तावत् वर्तयति-- रन्ध्रविप्रशराग्नींश्च लुप्येद्बाह्यान्तरं क्रमात् | मर्माणि च चतुर्दिक्षु मध्याद् द्वारेषु सुन्दरि || ३१-१३६ || वह्निभूतमुनिव्योमबाह्यगर्भे पुरीषु च | लोपयेच्चैव मर्माणि अन्तर्नाडिविवर्जितान् || ३१-१३७ ||
SKरन्ध्रणि नव, विप्राः ऋषयः सप्त, शराः पञ्च, अग्नयः त्रयः | अत्र मध्यमधिकृत्य चतुर्षु अपि द्वारेषु बाह्यादारभ्य अन्तर्यावत् क्रमेण रन्ध्रदिसंख्याका भागा लोप्याः, येन अत्र मेर्वाख्यप्रासादविशेषतलच्छन्दाकारसंनिवेशः स्यात् | भूतानि पञ्च, व्योमेति शून्याकारतया रन्ध्रणि लक्षयति, तेन उभयोरपि द्वारपार्श्वयोर्बाह्यादारभ्य अभ्यन्तरं यावत् वह्न्यादिभागजातं लोपयेत्, येन द्वारप्राय एव अन्तर्मुखः पुर्याकारः संनिवेशः स्यात् || एवं दिक्चतुष्टये वर्तनामभिधाय कोणेषु अपि आह-- द्वारप्राकारकोणेषु नेत्रानलशरानृतून् | नेत्रे द्वे, ऋतवः षट् | एवं द्वारकोणेषु एकैकभागपरिहारेण द्वित्रिपञ्चसंख्याकान् भागानन्तरारभ्य लोपयेत्, ऋतुसंख्याकांस्तु पृथगुपादानादेव निरवशेषान् यदुभयदिगुद्भूतशोभाद्वयसंभेदात् कोणेषु गोमूत्रिकाबन्धप्रायः संनिवेश उदियात्--इति द्वारसन्धिः || इदानीं वीथीं वर्तयितुमाह-- नाडयो ब्रह्मवंशस्य लोप्या नेत्राद्रसस्थिताः || ३१-१३८ || वह्नेर्नेत्रानलौ लोप्यौ वेदान्नेत्रयुगं रसात् | नेत्रं सौम्यगतं लोप्यं पूर्वाद्वेदानलौ रसात् || ३१-१३९ || तत्र द्वारे लग्नस्य ब्रह्मवंशस्य दक्षिणपार्श्वे यत् नेत्रं द्वितीयो भागः, तत आरभ्य रसस्थिताः षड्भागा लोप्याः, तदुपरि वह्नेस्तृतीयादारभ्य नेत्रानलौ पञ्च भागाः--इत्यर्थः; तदुपर्यपि वेदात् चतुर्थादारभ्य नेत्रं च युगं च नेत्रयोर्युगं वेति चत्वारः, तदुपर्यपि रसात् षष्ठादारभ्य नेत्रं भागद्वयं लोप्यम्-- इत्यर्थः | एतदेव वामपार्श्वेऽपि अतिदिशति सौम्येत्यादिना | एवं सौम्यगतमपि पूर्वात्--प्रथमं निर्दिष्टात् नेत्रात्�द्वितीयभागात् ᳚पाठक्रमादर्थक्रमो बलीयान्᳚ इति नीत्या अनलात्--तृतीयात् वेदात्-- चतुर्थात् रसात्-- षष्ठात् च आरभ्य भागजातं लोप्यम्--इत्यर्थः | वक्ष्यमाणसकलवीथीक्षेत्रसंमार्जनानुसरणात् तदन्तरपि लोपसिद्धिः || १३९ || एवं पुरीसंनिवेशं वर्तयित्वा स्वस्तिकवर्तनामपि आह-- लोकस्था नाडिका हित्वा नेत्राद्वेदाग्नयः क्रमात् |
SKशरैर्वह्निगतं चैव युगं नेत्राग्नयो रसात् || ३१-१४० || नेत्रात् पूर्वगताच्चैव........................... | ब्रह्मवंशादारभ्य लोकस्थान् सप्त भागान् परित्यज्य यत् नेत्रं नवमो भागस्तमाश्रित्य वेदाश्च तत्संनिकृष्टं त्रयं चेति चत्वारो भागा वक्ष्यमाणलोपदृष्ट्या स्वस्तिकैकाङ्गतया शोभाकारा लोप्याः | तदनन्तरं नेत्रशब्दव्यपदिष्टात् नवमात् भागादारभ्य शरैरित्युक्तेन प्रत्यावृत्त्या द्वितीयपङ्क्तिगतेन पञ्चमेन भागेन सह अग्नयः त्रयो भागा लोप्याः | शैष दाशरथी रामः ........................ |᳚ इतिवत् वेदाग्नय इत्यत्र सन्धिः | शरशब्दव्यपदिष्टादपि यत् युग्मं द्वितीयो भागस्तं वह्नियुतं भागत्रयेण सह लोपयेत्--इत्यर्थः | क्रमात् ततोऽपि पूर्वात् युगशब्दव्यपदिष्टात् नेत्रादवशिष्टात् नेत्रं द्वितीयो भागोऽग्नयस्त्रयो भागाश्च लोप्या इति स्वस्तिकसिद्धिः | एवं दिगन्तरेष्वपि ज्ञेयम् | अत्र पीठे च पूर्वतः स्वस्तिकद्वयं वर्तयित्वा पश्चिमतो वर्तनीयं येन सर्वतः संनिवेशस्य सादृश्यं स्यात् || एतच्च उभयमपि संनिवेशं प्रदर्शयन्नुपसंहरति-- ...........................षुमेरुर्द्वार संज्ञितः | स्वस्तिका च पुरी रम्या चतुर्दिक्षु स्थितावुभौ || ३१-१४१ || उभाविति--स्वस्तिकापुरीसुमेरू ||१४१ || ननु कियति भागजाते वीथीलोपना भवेत्?--इत्याशङ्क्य आह-- मर्मणां च शते द्वे च ऋषिभिर्गुणिता दिशः | नेत्रादिकांश्च संमार्ज्य मार्गमध्यात् सुशोभने || ३१-१४२ || दिश इति--दश, ऋषिभिः सप्तभिर्गुणिताः सप्ततिर्जायन्ते | नेत्रे द्वे | तेन द्वासप्तत्यधिकशतद्वयात्मनि वीथीक्षेत्रे लोपनां कृत्वा गुरुः स्वस्तिकापुर्याख्यां वीथीं वर्तयेत्--इति शेषः || १४२ || इदानीं पद्मं वर्तयति-- ऋषित्रयकृते मध्ये विषयैः कर्णिका भवेत् | ऋषित्रयकृते इति एकविंशतिधा विभक्ते--इत्यर्थः || एतदेव विभजति-- नेत्रीकृतान्वसून् पत्रं नेत्रं सकृद्विभाजितम् || ३१-१४३ || वह्निं वसुगतं कृत्वा शशाङ्कस्थांश्च लोपयेत् |
SKनेत्रीकृतानिति--द्विगुणीकृतान् | सर्वतो हि कर्णिकार्थं परिकल्पितात् भागपञ्चकादवशिष्टाः षोडशैव भागाः पत्रवर्तनार्थं भवन्ति--इति भावः | प्रतिदिक्कं हि सप्तभागान्तं दलाग्रस्य वर्तयिष्यमाणत्वात् सव्योमरेखमष्टभिरेव भागैः पत्रं स्यात् | कथम् ?--इत्याह--नेत्रमित्यादि | नेत्रमिति--द्वितीयं भागम् | सकृद्विभाजितमिति--एकेनैव सूत्रेण द्विधाकृतम्--इत्यर्थः | एवं वह्निम्--तृतीयं भागम् | तदेतद्भागद्वयं वसुगतं सकलक्षेत्रपर्यन्तं द्विधा विधाय शशाङ्कस्थान् लोपयेत्-- केसरदलसन्धिदलाग्रसंपत्तये शशाङ्काकारं भ्रमत्रयं दद्यात्- -इत्यर्थः || कथम्--इत्याह-- वह्नीषुऋषिमध्याच्च लोप्यं पीठेन्दुकावधि || ३१-१४४ || त्रिभिः पञ्चभिः सप्तभिर्भागैरवच्छिन्नात् मध्यात् कर्णिकादेशादारभ्य पीठसंलग्नचन्द्रमण्डलपर्यन्तं यावदेतत् लोपनीयम्--इत्यर्थः | इदमत्र तात्पर्यम्--तृतीयवृत्ते द्वितीयभागान्तःपातितसूत्रादारभ्य ब्रह्मवंशमध्यं यावत् भ्रमं दद्यादिति षोडश दलार्धानि उत्पादयेत्, एवमेव दलाग्राण्यपि, किन्तु प्रागुक्तवत् व्यत्ययेनेति || १४४ || एवं पद्मस्य वर्तनामभिधाय पीठस्यापि आह-- ब्रह्मणो नेत्रविषयान्नेत्राद्वेदानलौ हरेत् | सागरे नेत्रकं लोप्यं नाडयः पूर्वदिग्गताः || ३१-१४५ || ब्रह्मणो ब्रह्मपदात् यत् नेत्रम् द्वितीयो भागस्तत आरभ्य विषयाः पञ्च ब्रह्मण आरभ्य षष्ठो भागस्तद्गतान् वक्ष्यमाणरेखानुगुण्यात् पङ्क्तिस्थान् वर्तयिष्यमाणस्वस्तिकदेशातिरिक्तदेशे अन्यलोपनानुक्तेश्च पञ्च भागान् नेत्रात्पार्श्वद्वयात् लोपयेत् | एवं ब्रह्मणो वेदानलौ सप्तभागस्थानपि उभयतः पञ्चैव हरेत् | तत एव सागरेचतुर्थे भागे नेत्रकंद्वितीयो भागो ब्रह्मणः पञ्चमस्तद्गतानपि उभयतः पञ्चैव लोपयेत् येन पूर्वदिशि ᳚पीठं रेखात्रयोपेतं सितलोहितपीतलम् |᳚ (३१|१४८) इतिवक्ष्यमाणदृशा तिस्रः पट्टिकारूपा नाडिका भवन्ति-- इत्यर्थः | पूर्वस्या उपलक्षणत्वादन्यदिक्षु अपि अयमेव विधिः || १४५ ||
SKएवं दिक्षु वर्तनामभिधाय कोणेष्वपि आह-- भूतनेत्रगतान्मूर्ध्ना नेत्राद् द्विवह्निदृक्त्रिकात् | सौम्यगात् पीठकोणेषु लोपयेत चतुर्ष्वपि || ३१-१४६ || ब्रह्मकोणगत्या पार्श्वगत्या वा भूतं पञ्चमो भागस्तस्य मूर्ध्ना उपरितनेन देशेन न तु पार्श्वादिना द्वितीयस्था ये त्रयो भागास्तान् लोपयेत् | नेत्राद्द्विवह्नीति--द्विशब्दमहिम्ना भूतपदकथितादपि यो द्वितीयो भागोऽर्थात् तेन सह तत्संलग्नं भागत्रयं लोपयित्वा तद्द्वितीयमपि भागत्रयेण सह लोपयेत्, एवं दृक्त्रिकमित्यनेन ततोऽपि द्वितीयस्त्रिकोणेन सह लोप्यः--इति स्वस्तिकसिद्धिः | एवं सौम्यगात् स्वोत्तरदिक्स्थत्वेन आग्नेयकोणगात् स्वस्तिकादारभ्य चतुर्षु अपि पीठकोणेषु गुरुर्लोपयेत्--इत्यर्थः || १४६ || अत्रैव रजःपातं निरूपयति-- दलानि कार्याणि सितैः केसरं रक्तपीतलैः | कर्णिका कनकप्रख्या पल्लवान्ताश्च लोहिताः || ३१-१४७ || व्योमरेखा तु सुमिता वर्तुलाब्जान्तनीलभाः | पीठं रेखात्रयोपेतं सितलोहितपीतलम् || ३१-१४८ || स्वस्तिकाश्च चतुर्वर्णा अग्नेरीशानगोचराः | वीथी विद्रुमसङ्काशा स्वदिक्ष्वस्त्राणि बाह्यतः || ३१-१४९ || इन्द्रनीलनिभं वज्रं शक्तिं पद्ममणिप्रभाम् | दण्डं हाटकसङ्काशं वक्त्रं तस्यातिलोहितम् || ३१-१५० || नीलद्युतिसमं खङ्गं पाशं वत्सकसप्रभम् | ध्वजं पुष्पफलोपेतं पञ्चरङ्गैश्च शोभितम् || ३१-१५१ || गदा हेमनिभात्युग्रा नानारत्नविभूषिता | शूलं नीलाम्बुजसमं ज्वलद्वह्न्युग्रशेखरम् || ३१-१५२ || तस्योपरि सितं पद्ममीषत्पीतारुणप्रभम् | चक्रं हेमनिभं दीप्तमरा वैडूर्यसंनिभाः || ३१-१५३ || अरामध्यं सुपीतं च बाह्यं ज्वालारुणं भवेत् | मन्दिरं देवदेवस्य सर्वकामफलप्रदम् || ३१-१५४ || स्वस्तिका इति--पीठगता वीथीगताश्च | विद्रुमसङ्काशेति-- स्वस्तिकवर्जम् | बाह्यादिति--द्वारादपि || १५४ || एवं श्रीत्रिशिरोभैरवोक्तिप्रसङ्गात् व्योमेशस्वस्तिकमभिधाय श्रीसिद्धातन्त्रोक्तमपि शूलाब्जमभिधत्ते-- श्रीसिद्धायां शूलविधिः प्राक् क्षेत्रे चतुरश्रिते |
SKशूलविधिरिति--अर्थादुक्तः || तमेव विधिमाह-- हस्तमात्रं त्रिधा सूर्यान्नवखण्डं यथा भवेत् || ३१-१५५ || मध्ये शूलं च तत्रेत्थं मध्यभागं त्रिधा भजेत् | चतुरश्रिते क्षेत्रे--सर्वतः, सूर्यादिति--अंगुलद्वादशकं वर्जयित्वा त्रिधा हस्तपरिमाणं त्रिहस्तं क्षेत्रं गृह्णीयात् यथा एतत् त्रिर्विभजनादेव हास्तिकनवभागात्मकं स्यात् | तत्र च इत्थं वक्ष्यमाणगत्या मध्ये त्रिशूलं कुर्यात्--इति शेषः || मध्यमेव विभजति-- नवभिः कोष्ठकैर्युक्तं ततोऽयं विधिरुच्यते || ३१-१५६ || मध्यभागत्रयं त्यक्त्वा मध्ये भागद्वयस्य तु | अधस्ताद् भ्रमयेत्सूत्रं शशाङ्कशकलाकृति || ३१-१५७ || उभयतो भ्रमयेत्तत्र यथाग्रे हाकृतिर्भवेत् | कोट्यां तत्र कृतं सूत्रं नयेद्रेखां तु पूर्विकाम् || ३१-१५८ || अपरद्वारपूर्वेण त्यक्त्वांगुलचतुष्टयम् | रेखां विनाशयेत्प्राज्ञो यथा शूलाकृतिर्भवेत् || ३१-१५९ || शूलाग्ररे त्वर्धहस्तेन त्यक्त्वा पद्मानि कारयेत् | अधः शृङ्गत्रयं हस्तमध्ये पद्मं सकर्णिकम् || ३१-१६० ||
SKतमेकहस्तपरिमाणमध्यभागं नवभिः कोष्ठकैर्युक्तं त्रिधा विभक्तं सन्तं द्विधा भजेत् सर्वतः षोढा विभजेत्--चतुरंगुलैः षटित्रशता कोष्ठकैर्युक्तं कुर्यात्--इत्यर्थः | अयमिति वक्ष्यमाणः | तमेव आह--मध्येत्यादि | तत्र मध्यादधस्तनं भागत्रयं त्यक्त्वा ब्रह्मपदमवलम्ब्य उभयोरपि पार्श्वयोर्भागद्वयस्य मध्ये तु द्वितीये मर्मणि हस्तं निवेश्य अधस्तादर्धचन्द्राकारं सूत्रमर्थात् प्रागुक्तवत् द्विर्भ्रमयेत् | तत्रापि अग्रे मध्यसूत्रात् पूर्वतस्तृतीये मर्मणि हस्तं निवेश्य शशाङ्कश कलाकृति अन्तर्मुखमूर्ध्वगत्या भागद्वयस्य मध्ये भ्रमयेत् यथा द्विकुब्जाकारः संनिवेशः स्यात् | तत्र च पार्श्वद्वयवर्तिन्यां हाकृतौ कोट्यामाद्यन्तरूपासु कोटिषु कृतेभ्यः संश्लेषितेभ्यः सूत्रेभ्यः पार्श्वद्वयसूत्रे पूर्विकां प्राङ्नवखण्डीकरणकालकल्पितां रेखां मध्यशृङ्गसूत्रे तु पश्चिमद्वाराभिमुख्येन वक्ष्यमाणदृशा उपरितननवभागस्य अर्धहस्तं यावत् नयेत् | कथम् ?--इत्याह--त्यक्त्वेत्यादि | अन्तर्वर्तितशशाङ्कशकलाग्रकोटिसमुत्थां रेखां मूलादंगुलचतुष्टयं त्यक्त्वा विनाशयेत्--यथायथं स्वप्रज्ञाबलेन ह्रासयेत्, येन शृङ्गाणां तीक्ष्णाग्रता जायेत�इति शृङ्गत्रयसिद्धिः | ततश्च अर्धहस्तेन वर्तिते शूलाग्रे अर्थादुपरितनमर्धहस्तमेव त्यक्त्वा अर्थात् प्राग्वत् द्वादशांगुलं पद्मत्रयं कुर्यात् शृङ्गत्रयस्य अधः पुनर्हास्तिकं पद्मं भवेत् || १६० || एवं त्रिशूलस्य वर्तनामभिधाय दण्डस्य अपि आह-- मुखाग्रे धारयेत्सूत्रं त्रिभिर्हस्तैस्तु पातयेत् | मध्यशृङ्गमुखाग्रे सूत्रं परिस्थाप्य त्रिभिर्हस्तैः पातयेत्-- परिवर्जितबाह्यद्वादशांगुलान्तं यावत् मध्यतो नयेत् || एवं दैर्घ्यमभिधाय वैपुल्यमाह-- मध्ये चोर्ध्वं ततः कुर्यादधस्तादंगुलद्वयम् || ३१-१६१ || रेखाद्वयं पातयेत यथा शूलं भवत्यपि | अधोभागादिभिश्चोर्ध्वं तत्र रेखा प्रपद्यते || ३१-१६२ || समीकृत्य ततः सूत्रे ऊर्ध्वे द्वे एवमेव तु |
SKएवं स्थानत्रये अंगुलद्वयान्तरालं द्वयोः पार्श्वयोः रेखाद्वयं कुर्यात् येन सर्वतः साम्येन अधोमध्यभागाभ्यां सह ऊर्ध्वं समीकृत्य रेखा प्रपद्यते, ततस्तथैव द्वे ऊर्ध्वे सूत्रे पातयेत यथा सदण्डं शूलं संपद्यते || न च एवं मध्यपद्मस्य दण्डेन आच्छादनं कार्यम्--इत्याह-- मध्यं पद्मं प्रतिष्ठाप्यं शूलाधस्ताद्यशस्विनि || ३१-१६३ || अत्र च चतुर्विंशतिधा विभक्ते क्षेत्रे प्रागुक्तवत् सर्वं द्वारादि वर्तनीयम्, भगवता पुनरर्धचन्द्रोपयोगिनि एव मध्यहस्ते प्राधान्यात् भागपरिकल्पना कृतेत्यास्ताम् || १६३ || आह्निकार्थमर्धेन उपसंहरति-- इत्येष मण्डलविधिः कथितः संक्षेपयोगतो महागुरुभिः | इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके मण्डलप्रकाशनं नाम एकत्रिंशमाह्निकम् || ३१ || इति शिवम् || स्वस्तिकशूलाब्जनयदुर्गमशिवशास्त्रनिर्वचनचञ्चुः | आह्निकमेकत्रिंशं व्यवृणोदेतज्जयरथाख्यः || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते मण्डलप्रकाशनं नाम एकत्रिंशमाह्निकं समाप्तम् || ३१ || द्वात्रिंशमाह्निकम् ᳚ विवेकः ᳚ शुद्धाशुद्धाध्वभिदा द्विगह्वरं मुद्रयत्यशेषजगत् | संविद्रूपतया यः कलयतु स किल्विषं सतां कालः || इदानीं मुद्राविधिमभिधातुमुपक्रमते-- अथ कथये मुद्राणां गुर्वागमगीतमत्र विधिम् | तमेव आह-- मुद्रा च प्रतिबिम्बात्मा श्रीमद्देव्याख्ययामले | उक्ता बिम्बोदयश्रुत्या वाच्यद्वयविवेचनात् || ३२-१ || तत्र श्रीदेव्यायामले ᳚प्रतिबिम्बोदयो मुद्रा............................. |᳚
SKइत्येवंरूपाया बिम्बोदयश्रुतेः पञ्चमीष्ठ्यर्थबहुव्रीहिद्वारस्य वाच्यद्वयस्य विवेकमाश्रित्य परसंविदाकृतिरूपत्वात् प्रतिबिम्बात्मा मुद्रा उक्ता--इति वाक्यार्थः | इदं च अत्र वाच्यद्वयम्-- प्रतिराभिमुख्ये, तेन बिम्बसंनिधिं निमित्तीकृत्य बिम्बैकनियत उदयो यस्येति बिम्बस्य प्रतिबिम्बोत्पत्तिनिमित्तत्वमुक्तम्, बिम्बस्य अभिव्यक्तिलक्षण उदयः प्रतिगतः प्राप्तो यस्मादिति प्रतिबिम्बस्य ज्ञप्त्युपायत्वमिति | यद्वा ᳚मुद्रा बिम्बोदयो नाम्ना...................... |᳚ इतिबिम्बोदयश्रुतेः प्रतिशब्दार्थमपहायैव व्याख्येयम् ||१ || तदेव तात्पर्यद्वारेण आह-- बिम्बात्समुदयो यस्या इत्युक्ता प्रतिबिम्बता | बिम्बस्य यस्या उदय इत्युक्ता तदुपायता || ३२-२ || समुदय इति उत्पत्तिः | यस्या इति--प्रतिबिम्बरूपाया मुद्रायाः--इति षष्ठ्यर्थः, यस्याश्च सकाशात्--इति पञ्चम्यर्थः | उदय इति ज्ञप्तिस्तदुपायतेति ज्ञप्तिद्वारिका बिम्बोपायतेत्यर्थः || २ || एवं मुद्राशब्दस्य रूढिमुपदर्श्य योगमपि दर्शयति-- मुदं स्वरूपलाभाख्यं देहद्वारेण चात्मनाम् | रात्यर्पयति यत्तेन मुद्रा शास्त्रेषु वर्णिता || ३२-३ || यद्यपि च अत्र ᳚इत्याशयेन मुद्रा मोचयते पाशजालतोऽशेषात् | कायीयान्पुर्यष्टकसंस्कारान्द्रावयेत्तथा मन्त्रम् || योगं क्रियां च चर्यां मुद्रयति तदेकरूपतया |᳚ इत्यादिदृष्ट्या बहुधा योगः सम्भवति, तथापि परानन्दनिर्भरस्वरूपताधायितया अयमेव मुख्य इति एतावदेव उक्तम् || ३ || आसामेव गुणप्रधानभावं तावत् दर्शयति-- तत्र प्रधानभूता श्रीखेचरी देवतात्मिका | निष्कलत्वेन विख्याता साकल्येन त्रिशूलिनी || ३२-४ || करङ्किणी क्रोधना च भैरवी लेलिहानिका | महाप्रेता योगमुद्रा ज्वालिनी क्षोभिणी ध्रुवा || ३२-५ || इत्येवं बहुभेदेयं श्रीखेचर्येव गीयते | ध्रुवेति खेचरीविशेषणम्, तस्या हि त्रिशूलिन्यादिसकलरूपोपग्रहेऽपि न निष्कलाद्रूपात्प्रच्यावः--इति अभिप्रायः | उक्तं हि-- ᳚इयं सा खेचरी मुद्रा निष्कला परिकीर्तिता | सकलं रूपमेतस्या भेदैस्तैस्तैरवस्थितम् ||᳚ इति ||
SKननु त्रिशूलिन्यादिवदन्या अपि एतदङ्गभूता मुद्राः सम्भवन्तीति कथमिह ता अपि न उक्ताः ?--इत्याशङ्क्य आह-- अन्यास्तदङ्गभूतास्तु पद्माद्या मालिनीमते || ३२-६ || तासां बहुत्वामुख्यत्वयोगाभ्यां नेह वर्णनम् | ननु श्रीमालिनीमते पद्ममुद्रादिसाहचर्येणैव श्रीखेचरी अपि निर्दिष्टा, तत् सैव प्रधानेति तु कुतस्त्यम् ?--इत्याशङ्क्य आह-- श्रीखेचरीसमाविष्टो यद्यत्स्थानं समाश्रयेत् || ३२-७ || देवीसंनिधये तत्स्यादलं किं डम्बरैर्वृथा | अलमिति--पर्याप्तम् || ननु आसामपि ᳚याभिः संरक्षितो मन्त्री मन्त्रसिद्धिमवाप्नुयात् |᳚ इत्याद्युक्त्या साधकविषयं मुख्यत्वमस्तीति कथमेवमुक्तम्?-- इत्याशङ्क्य आह� काम्ये कर्मणि ताश्च स्युर्मुख्याः कस्यापि जातुचित् || ३२-८ || कस्यापीति--साधकस्यैव, नतु पुत्रकादेः | जातुचिदिति--नतु नित्यवत् सर्वकालम् || ८ || इह पुनर्मोक्षाख्यमुख्यार्थप्रतिपादनपरत्वादस्य ग्रन्थस्य काम्यमेव कर्म न उक्तमिति तदुपयोगिना अपि मुद्रावर्णनेन कोऽर्थः ?--इत्याह-- तच्च नास्माभिरुदितं तत्किं तदुपयोगिना | आसां च भेदनिर्देशद्वारेण स्वरूपमभिधातुमाह-- मुद्रा चतुर्विधा कायकरवाक्चित्तभेदतः || ३२-९ || तत्र पूर्णेन रूपेण खेचरीमेव वर्णये | वागिति--मन्त्रविलापनरूपा | यदुक्तम्-- ᳚करकायविलापान्तःकरणानुप्रवेशतः | मुद्रा चतुर्विधा ज्ञेया........................ ||᳚ इत्युपक्रम्य ᳚अंगुलीन्यासभेदेन करजा बहुमार्गगा | सर्वावस्थास्वेकरूपा वृत्तिर्मुद्रा च कायिकी || पञ्चमुद्राधरं चैतद् व्रतं सिद्धनिषेवितम् | मन्त्रतन्मयता मुद्रा विलापाख्या प्रकीर्तिता || ध्येयतन्मयता मुद्रा मानसी परिकीर्तिता |᳚ इति || पूर्णेनेति--चतुर्विधेनापि--इत्यर्थः || तत्रापि प्राधान्येन श्रीपूर्वशास्त्रोक्तमेव तावदस्या रूपमाह-- बद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं क्षिपेत् || ३२-१० || दण्डाकारं तु तं तावन्नयेद्यावत्कखत्रयम् | निगृह्य तत्र तत्तूर्णं प्रेरयेत् खत्रयेण तु || ३२-११ || एतां बद्ध्वा खे गतिः स्यादिति श्रीपूर्वशासने |
SKस्थिरसुखासनस्थो हि योगी जन्माधारादुदेत्य नाभिदेशे मनो निवेश्य-- तत्रैव बहुशः परिभ्रम्य मध्यप्राणशक्त्येकीकारेण दण्डाकारतया मूर्धन्यं बिन्दुनादब्रह्वरन्ध्रलक्षणं खत्रयं यावत् नीत्वा तत्रैव कुम्भकानुवृत्त्या निरुध्य शक्तिव्यापिनीसमनात्मना खत्रयेण तूर्णमुद्धातगत्या प्रेरयेदुन्मनापदाक्रमणेन परमशिवाभिमुख्यं नयेत् येन अस्य एतदवष्टम्भेन परबोधगगनचारित्वं स्यात् || अस्या एव अवान्तरभेदसहितायाः श्रीयोगसञ्चारोक्तं रूपं निर्दिशति-- ध्वनिज्योतिर्मरुद्युक्तं चित्तं विश्रम्य चोपरि || ३२-१२ || अनेनाभ्यासयोगेन शिवं भित्त्वा परं व्रजेत् | ध्वनिः नादः, ज्योतिः बिन्दुः, मरुत् शक्तिः, तेन तद्द्वादशान्तं ब्रह्मरन्ध्रम् | एवं जन्माधारात्प्रभृति एतद् व्योमत्रययोगि चित्तं विधाय तत्रैव निविडध्यानेनैव क्रमेण उपरितनं शक्त्यात्मकमपि खत्रयं भित्त्वा योगी परं शिवं व्रजेत्--इति वाक्यार्थः || एतदनुवेधेन त्रिशूलिन्या अपि रूपमाह-- जत्रवधस्तात्करौ कृत्वा वामपादं च दक्षिणे || ३२-१३ || विदार्यास्यं कनिष्ठाभ्यां मध्यमाभ्यां तु नासिकाम् | अनामे कुञ्चयेत्प्राज्ञो भ्रूभङ्गं तर्जनीद्वयम् || ३२-१४ || जिह्वां च चालयेन्मन्त्री हाहाकारं च कारयेत् | त्रिशूलेन प्रयोगेण ब्रह्मरन्ध्रमुपस्थितः || ३२-१५ || पदं सन्त्यज्य तन्मात्रं सद्यस्त्यजति मेदिनीम् | जत्रुशब्देन अत्र कण्ठो लक्ष्यते, तेन तदधः--इत्यर्थः | नासिकामिति--तद्रन्ध्रद्वयम्, चालयेदिति--भ्रूभङ्गादौ त्रयेऽपि योज्यम् | तन्मात्रमिति--स्थितम् | मेदिनीं त्यजतीति�देहाद्यहन्तापहस्तनेन परबोधाकाशचारी भवेत्--इत्यर्थः || त्रिशूलप्रयोगमेव शिक्षयति-- शून्याशून्यलये कृत्वा एकदण्डेऽनिलानलौ || ३२-१६ || शक्तित्रितयसम्बद्धे अधिष्ठातृत्रिदैवते | त्रिशूलं तद्विजानीयाद्येन व्योमोत्पतेद् बुधः || ३२-१७ ||
SKएवंविधोऽयमनिलानलौ प्राणापानावर्थात् मध्यप्राणे समरसितौ कृत्वा अत एव एकस्मिन्मूलाधारात्प्रभृति ऊर्ध्वं प्रसरणात् दण्डाकारे च तस्मिन् जाते सति तदेवं प्रयुज्यमानं त्रिशूलं विजानीयात् येन अस्य व्योमोत्पतनं स्यात् | एकदण्डाकारं मध्यप्राणमेव विशिनष्टि--अधिष्ठातृत्रिदैवते इति भ्रूमध्याद्यवस्थितेश्वरसदाशिवानाश्रिताख्यकारणत्रयाधिष्ठित् ए--इत्यर्थः | तथा शक्तिव्यापिनीसमनासम्बद्धे तत्संयोगमाप्ते, अत एव परपदप्राप्त्या शून्याशून्यलये विगलितसदसदादिशब्दव्यवहारे इत्यर्थः || १७ || नच एतावतैव अयं व्योम उत्पतेत्--इत्याह-- आकाशभावं सन्त्यज्य सत्तामात्रमुपस्थितः | शूलं समरसं कृत्वा रसे रस इव स्थितः || ३२-१८ || एकदण्डं स विज्ञाय त्रिशूलं खचरं प्रिये | बद्ध्वा तु खेचरीं मुद्रां ध्यात्वात्मानं च भैरवम् || ३२-१९ || खेचरीचक्रसञ्जुष्टं सद्यस्त्यजति मेदिनीम् | एवं खचरमेकदण्डं त्रिशूलं विज्ञाय तत्तदवच्छेदाधायि सत्तामात्रमपि परित्यज्य खेचरीमुद्राबन्धमाविश्य स बुधः पराकाशरूपतामुपस्थितः सन् स्थितस्तत्रैव रसे इव रसं शूलमपि समरसीकृत्य खेचरीचक्रसञ्जुष्टमात्मानं भैरवं ध्यात्वा च सद्य एव मेदिनीं त्यजति--इति सम्बन्धः || ननु एवमस्य किं स्यात् ?--इत्याशङ्क्य आह-- त्यक्तांशको निराचारो निःशङ्को लोकवर्जितः || ३२-२० || अवधूतो निराचारो नाहमस्मीति भावयन् | मन्त्रैकनिष्ठः संपश्यन् देहस्थाः सर्वदेवताः || ३२-२१ || ह्लादोद्वेगास्मिताक्रुष्टनिद्रामैथुनमत्सरे | रूपादौ वा कर्तृकर्मकरणेषु च सर्वशः || ३२-२२ || नाहमस्मीति मन्वान एकीभूतं विचिन्तयन् | कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम् || ३२-२३ || ग्रहीतारं सदा पश्यन् खेचर्या सिद्ध्यति स्फुटम् |
SKत्यक्तांशक इति--निरंशतामापन्नः--इत्यर्थः | निराचार इति-- निष्क्रान्ता आचारा यस्मादाचारेभ्यश्च निष्क्रान्त इति योज्यम् | देहस्थाः सर्वदेवताः संपश्यन्निति सर्वदेवतामयमात्मानं जानानः--इत्यर्थः | ह्लादेत्यादिना चित्तवृत्तिविशेषा आसूत्रिताः | रूपादाविति--विषयपञ्चके | ग्रहीतारमिति परप्रमात्रेकरूपम्-- इत्यर्थः || एतदेव व्यतिरेकद्वारेण द्रढयति-- विद्याशङ्की मलाशङ्की शास्त्रशङ्की न सिद्ध्यति || ३२-२४ || विद्येति--शुभकरी वेदविद्या ||२४ || ननु एवमयं कस्मात् न सिद्ध्येत्?--इत्याशङ्क्य आह-- शिवो रविः शिवो वह्निः पक्तृत्वात्स पुरोहितः | तत्रस्था देवताः सर्वा द्योतयन्त्योऽखिलं जगत् || ३२-२५ || रविः प्रमाणम्, वह्निः प्रमाता, अत एव पुरोहितो यष्टा--इत्यर्थः | पक्तृत्वादिति--सर्वस्य स्वात्मसात्काररूपत्वात् द्योतयन्त्यः स्थिताः-- इति शेषः | एवं हि शिव एव सर्वमिति किमाशङ्कास्पदमित्याशयः || २५ || एवं त्रिशूलिन्याः स्वरूपमभिधाय करङ्किण्या अपि आह-- कनिष्ठया विदार्यास्यं तर्जनीभ्यां भ्रुवौ तथा | अनामे मध्यमे वक्त्रे जिह्वया तालुकं स्पृशेत् || ३२-२६ || एषा करङ्किणी देवी ज्वालिनीं शृणु सांप्रतम् | हनुर्ललाटगौ हस्तौ प्रसार्याङ्गुलितः स्फुटौ || ३२-२७ || चालयेद्वायुवेगेन कृत्वान्तर्भ्रुकुटीं बुधः | विदार्यास्यं सजिह्वं च हाहाकारं तु कारयेत् || ३२-२८ || एषा ज्वालिन्यग्निचक्रे तया चाष्टोत्तरं शतम् | जपेद्यदि ततः सिद्ध्येत् त्रैलोक्यं सचराचरम् || ३२-२९ || कनिष्ठयेति--उभयकरसम्बन्धिन्या | वक्त्रे इति--अर्थात् कृत्वा | प्राकरणिकश्च अत्र खेचरीमुद्राबन्धानुवेधोऽनुसन्धातव्य एव--इति गुरवः | हनुरिति--एशः पाठः, तेन हनुतः प्रभृति ललाटान्तं स्थितौ कार्यौ--इत्यर्थः | प्रसार्यांगुलित इति--प्रसृतांगुलीकौ-- इत्यर्थः | अन्तरिति--हस्तयोः | अग्निचक्रे इति--ऊर्ध्वमुखे त्र्यश्रे अन्तरात्मानं भावयित्वा || २९ || सिद्धिमेव दर्शयति-- परदेहेषु चात्मानं परं चात्मशरीरतः | पश्येच्चरन्तं हानादाद्गमागमपदस्थितम् || ३२-३० ||
SKनवच्छिद्रगतं चैकं नदन्तं व्यापकं ध्रुवम् | अनया हि खचारी श्रीयोगसञ्चार उच्यते || ३२-३१ || हानादेति--हाकारस्य नादेन उच्चारेण--इत्यर्थः | गमागमेति-- स्वदेहात् परदेहे, परदेहाद्वा स्वदेहे | खचारीत्यनेनापि खेचरीमुद्राबन्धानुवेधो दर्शितः || ३१ || इदानीं श्रीवीरावल्युक्तमपि अस्या विधिमाह-- कुलकुण्डलिकां बद्ध्वा अणोरन्तरवेदिनीम् | वामो योऽयं जगत्यस्मिंस्तस्य संहरणोद्यताम् || ३२-३२ || स्वस्थाने निर्वृतिं लब्ध्वा ज्ञानामृतरसात्मकम् | व्रजेत्कन्दपदं मध्ये रावं कृत्वा ह्यरावकम् || ३२-३३ || यावज्जीवं चतुष्कोणं पिण्डाधारं च कामिकम् | तत्र तां बोधयित्वा तु गतिं बुद्ध्वा क्रमागताम् || ३२-३४ || चक्रोभयनिबद्धां तु शाखाप्रान्तावलम्बिनीम् | मूलस्थानाद्यथा देवी तमोग्रन्थिं विदारयेत् || ३२-३५ || वज्राख्यां ज्ञानजेनैव तथा शाखोभयान्ततः | कोणमध्यविनिष्क्रान्तं लिङ्गमूलं विभेदयेत् || ३२-३६ || तत्र सङ्घट्टितं चक्रयुग्ममैक्येन भासते | वैपरीत्यात्तु निक्षिप्य द्विधाभावं व्रजत्यतः || ३२-३७ || ऊर्वाद्यंगुष्ठकालाग्निपर्यन्ते सा विनिक्षिपेत् | गमागमनसञ्चारे चरेत्सा लिङ्गलिङ्गिनी || ३२-३८ || तत्र तत्पदसंयोगादुन्मीलनविधायिनी | यो जानाति स सिद्ध्येत्तु रसादानविसर्गयोः || ३२-३९ || ससङ्गममिदं स्थानमूर्मिण्युन्मीलनं परम् | एष क्रमस्ततोऽन्योऽपि व्युत्क्रमः खेचरी परा || ३२-४० || योन्याधारेति विख्याता शूलमूलेति शब्द्यते | वर्णास्तत्र लयं यान्ति ह्यवर्णे वर्णरूपिणि || ३२-४१ || इह अणोरन्तरवेदिनीमन्तश्चरन्तीं तन्मयतामाप्तां कुलकुण्डलिकां मध्यप्राणशक्तिम्, आक्रम्य अज्ञानसंहर्त्रीं स्वस्थाने शाक्ताधारे तदैक्यापत्तिरूपां निर्वृतिं प्राप्य ᳚मूले तु शाक्तः कथितो बोधनादप्रवर्तकः |᳚ इत्युक्त्या तस्य बोधनादप्रवर्तकत्वात् मध्यविषाधारादावरावकं प्रशान्तरूपं रावं नादं कृत्वा ᳚........................कन्दे षड्रसलम्पटाः |᳚
SKइतिभङ्ग्या ज्ञानामृतरसात्मकं कन्दपदं कामिकं सर्वकामाभिधं जीवं सञ्जीवन्यमृताभिधं चतुष्पथवर्तित्वात् चतुष्कोणं चिन्तामण्यभिधानं च यावत् पैण्डं शरीरमाधारं व्रजेत् | तत्र आधारेषु च क्रमागतां तां कुलकुण्डलिकां बोधयित्वा मूलस्थानादारभ्य प्राणापानात्मचक्रद्वयोम्भितां द्वादशान्तं यावत् गच्छन्तीं ज्ञात्वा यथा अयं योगी ज्ञानजेनैव माहात्म्येन अज्ञानग्रन्थिं दुर्भेद्यत्वात् वज्राख्यां मध्यनाडीं च विदारयेत्, तथा प्राणापानात्मशाखाद्वयस्य अन्तमवलम्ब्य जन्माधाररूपत्रिकोणमध्यादपि विनिष्क्रान्तमत एव मेढ्रधोवर्तित्वात् लिङ्गमूलम् तदाख्यमकुलाधारम्, अपि विभेदयेत् | तत्र हि प्राणापानरूपं चक्रयुग्मं स्वस्वरूपत्रोटनेन सङ्घट्टितं सदैक्येन भासते मध्यप्राणशक्तेरेव ततः समुदयः--इत्यर्थः | अतो लिङ्गमूलाख्यादकुलपदात्पुनः सा वैपरीत्यादधोगत्या निक्षेपं विधाय द्विधाभावं व्रजति यदियमूर्वाद्यंगुष्ठपर्यन्तत्वनिमित्तमात्मानं विनिक्षिपेत्-- तद्रूपतां गृह्णीयात्--इत्यर्थः | सा कुलकुण्डलिका हि ऊर्ध्वाधःसञ्चारमनादृत्य प्राणापानलक्षणाभ्यां लिङ्गाभ्यां लिङ्गिनी तत्क्रोडीकारेण ज्ञप्तिं प्राप्ता सती चरेत् तत्तदाधारादिभेदेन मध्यधाम आक्रामेत् | सा हि तत्र मध्यधाम्नि प्राणापानपदद्वयसंयोगात्संविद्विकासमादध्यात् | यश्च एवंविधमिदं सर्वभावानुस्यूतमूर्मिण्युन्मीलनं परसंविद्विकासाधायि परं स्थानं जानाति, स संविद्रसादानविसर्गयोः सिद्ध्येत् सृष्टिसंहारकारित्वेऽस्य सामर्थ्यमुत्पद्यते--इत्यर्थः | अस्याश्च एष यथोक्तस्तत्तदाधारादिसञ्चारात्मा क्रमः स्वारसिक एव वाहः-- इत्यर्थः | ततोऽन्यो व्युत्क्रमोऽपि अस्याः सम्भवति यदियं परा खेचरी योन्याधारेति विख्याता तत उदिता सती शूलमूलेति शब्द्यते झटित्येव शक्तिव्यापिनीसमनात्मकारात्रययोगित्वात् द्वादशान्तपदं प्राप्ता-- इत्यर्थः | यतस्तत्र सर्वोच्छेदरूपे क्रोडीकृतबाह्यामर्शेऽपि स्वामर्शमात्रात्मनि अवर्णे वर्णा बाह्यामर्शा लयं यान्ति-- तद्विश्रान्ता एव
SKभवन्ति--इत्यर्थः || ४१ || ननु भवतु एवं, योगी पुनरस्याः कथं प्रबोधमादद्यात्?-- इत्याशङ्क्य आह-- नादिफान्तं समुच्चार्य कौलेशं देहसंनिभम् | आक्रम्य प्रथमं चकं खे यन्त्रे पादपीडितम् || ३२-४२ || नादं वै शक्तिसद्गर्भं सद्गर्भात्कौलिनीपदम् | बीजपञ्चकचारेण शूलभेदक्रमेण तु || ३२-४३ || हृच्छूलग्रन्थिभेदैश्चिद्रुद्रशक्तिं प्रबोधयेत् | वायुचक्रान्तनिलयं बिन्द्वाख्यं नाभिमण्डलम् || ३२-४४ || आगच्छेल्लम्बिकास्थानं सूत्रद्वादशनिर्गतम् | चन्द्रचक्रविलोमेन प्रविशेद्भूतपञ्जरे || ३२-४५ || भूयस्तु कुरुते लीलां मायापञ्जरवर्तिनीम् | पुनः सृष्टिः संहृतिश्च खेचर्या क्रियते बुधैः || ३२-४६ || श्रीमद्वीरावलीयोग एष स्यात्खेचरीविधिः | चित्--शुद्धात्मा, कौलेशं रहस्यज्ञानप्रधानभूतमत एव गर्भीकृतमध्यशक्ति नादिफान्तरूपं सर्वमन्त्रारणिस्वभावं नादं स्वदेहाभेदेन समुच्चार्य तमेव च एवं सगर्भमुच्चार्यमाणं नादमधिकृत्य खे जन्माकाशरूपे मर्मणि कौलिन्याः कुलकुण्डलिन्याः पदं ᳚जन्माख्ये नाडिचक्रं तु.................... |᳚
SKइत्युक्तं नाड्यात्म प्रथमं चक्रं पादेन अंशेन पीडितं विधाय तत्र कथञ्चित् प्राणशक्तिं निरुध्य अवशिष्टानि पञ्चापि चक्राणि आक्रम्य ब्रह्मादिकारणपञ्चकोल्लङ्घनक्रमेण हृत्स्थस्य नाडित्रयात्मनः शूलस्य ग्रन्थिद्वादशकस्य ब्रह्मरन्ध्रेपरिवर्तिनः शक्त्याद्यात्मनः शूलस्य च भेदनक्रमेण रुद्रशक्तिं प्रबोधयेत् | येन अयं जन्मपदादारभ्य पवनाधारात्मनो वायुचक्रस्य अन्ते संनिकर्षे वर्तमानं नाभिमण्डलं तत्सङ्घट्टाधारं लम्बिकास्थानं तदूर्ध्वस्थितं सुधाधारं बिन्द्वाख्यं भ्रूमध्यवर्तिनं विद्याकमलसंज्ञितमाधारं नाडीनां तात्स्थ्यात् ग्रन्थीनां द्वादशकात् निर्गतं सर्वसंबन्धोत्तीर्णं द्वादशान्तपदं च यावत् आ समन्तादृजुना क्रमेण गच्छेत्--तत्र विश्रान्तिं कुर्यात्--इत्यर्थः | भूयस्तु तत्र चन्द्रचक्रादपानस्थात् प्रत्यावृत्त्यात्मना विलोमक्रमेण स्वशरीरमेव प्रविशेत्, येन अयं व्युत्थानदशोचितं व्यवहरेत् | अतश्च खेचरीमुद्रावेशभाजां ज्ञानिनामन्तर्बहिरुन्मेषनिमेषाभ्यामाजवञ्जवीभावेन सृष्टिसंहारकारित्वं स्यात्--इति संक्षेपार्थः | योगे इति तद्वचनावसरे इति--यावत् || श्रीकामिकोक्तमपि अस्या रूपमाह -- चुम्बाकारेण वक्त्रेण यत्तत्त्वं श्रूयते परम् || ३२-४७ || ग्रसमानमिदं विश्वं चन्द्रार्कपुटसंपुटे | तेनैव स्यात्खगामीति श्रीमत्कामिक उच्यते || ३२-४८ || चुम्बाकारेण काकचञ्चुपुटाकृत्यनच्ककलात्मना मध्यप्राणशक्त्यवलम्बिनापि स्वरूपेण वक्त्रेण यदिदं प्रमाणप्रमेयात्मकं विश्वं स्वात्मसात्कुर्वाणमत एव परं प्रमात्रेकरूपं तत्त्वं चन्द्रार्कपुटस्य प्राणापानयुग्मस्य संपुटे मध्यधाम्नि श्रूयते साक्षात्क्रियते, तत एव अस्य खचारित्वं स्यात्-- इति वाक्यार्थः || ४८ || इदानीं श्रीकुलगह्वरोक्तं सविशेषमस्या रूपं वक्तुमाह-- भवान्मुक्त्वा द्रावयन्ति पाशान्मुद्रा हि शक्तयः | मुख्यासां खेचरी सा च त्रिधोच्चारेण वाचिकी || ३२-४९ || त्रिशिरोमुद्गरो(रे) देवि कायिकी परिपठ्यते |
SKअतो हि पारमेश्वर्यः शक्तय एव मुद्रा उक्ता यदासां पशूनां संसारात् मोचयित्वा पाशान् द्रावयन्तीति निर्वचनम् | यदुक्तम्-- ᳚मोचयन्ति महाघोरात्संसारमकराकरात् | द्रावयन्ति पशोः पाशांस्तेन मुद्रा हि शक्तयः ||᳚ इति | उच्चारेणेति--मन्त्रादेः | त्रिशिरोमुद्गर इति-- ᳚इच्छाज्ञानक्रियापूर्वा............................... |᳚ इत्यादिनीत्या शक्तित्रयमयत्वात् त्रिशिरोमुद्गरो मुदं परानन्दं गृणाति स्वात्मनि आमृशतीति परसंवित्--इत्यर्थः || एवमेव हि परा संवित् कायत्वेन उल्लसिता--इत्याह-- नासां नेत्रद्वयं चापि हृत्स्तनद्वयमेव च || ३२-५० || वृषणद्वयलिङ्गं च प्राप्य कायं गता त्वियम् | भवस्थानाभवस्थानमुच्चारेणावधारयेत् || ३२-५१ || मानसीयमितस्त्वन्याः पद्माद्या अष्ट मुद्रिकाः | मातृव्यूहकुले ताः स्युरस्यास्तु परिवारगाः || ३२-५२ || शरीरं तु समस्तं यत्कूटाक्षरसमाकृति | एषा मुद्रा महामुद्रा भैरवस्येति गह्वरे || ३२-५३ || हृदिति--हृत्पद्मनालरूपम् | एतत्सतत्त्वं च तत्र तत्र शास्त्रे निरूपितमिति अतिरहस्यत्वादिह न प्रपञ्चितम् | तत् गुरुमुखादेव बोद्धव्यम् | भवस्थानं शरीरमभवस्थानमुच्चारेणेति-- ᳚पद्मं हृत्पद्ममेवात्र शूलं नाडित्रयं प्रिये | नाभिं चक्रं विजानीयाच्छक्तिं नादान्तरूपिणीम् || बिन्दुदेशोद्भवं दण्डं वज्रं चित्तमभेदकम् | दंष्ट्रं जिह्वां महाभागे कपालं व्योममण्डलम् || एषु स्थानेषु सञ्चारान्मानसी परिपठ्यते |᳚ इत्यादिनयेन ऊर्ध्वं चारेण गमनेन--इत्यर्थः | अष्टेति--यदुक्तम्-- ᳚खेचर्याः परिवारस्तु अष्टौ मुद्राः प्रकीर्तिताः | शूलाष्टके च देवेशि मातृव्यूहे च ताः स्मृताः || पद्मं शूलं तथा चक्रं शक्तिर्दण्डं सवज्रकम् | दंष्ट्र कपालमित्येवं तदशेषव्यवस्थितम् ||᳚ इति || कूटाक्षरम् क्षकारः | एतत्सतत्त्वं च प्राक् बहुशः प्रतिपादितम् | अनेन प्रागुद्दिष्टाया भैरवमुद्राया अपि लक्षणमुक्तम् || ५३ || अस्या एव सर्वत्र अविगीततां दर्शयितुं शास्त्रान्तरतोऽपि सप्रभेदं रूपमाह--
SKसूपविष्टः पद्मके तु हसताग्रांगुलिरश्मिभिः | पराङ्मुखैर्झटित्युद्यद्रश्मिभिः पृष्ठसंस्थितैः || ३२-५४ || अन्तःस्थितिः खेचरीयं सङ्कोचाख्या शशाङ्किनी | तस्मादेव समुत्तम्ब्य बाहू चैवावकुञ्चितौ || ३२-५५ || सम्यग्व्योमसु संस्थानाद् व्योमाख्या खेचरी मता | मुष्टिद्वितयसङ्घट्टात्धृदि सा हृदयाह्वया || ३२-५६ || शान्ताख्या सा हस्तयुग्ममूर्ध्वाधः स्थितमुद्गतम् | समदृष्ट्यावलोक्यं च बहिर्योजितपाणिकम् || ३२-५७ || एषैव शक्तिमुद्रा चेदधोधावितपाणिका | दशानामंगुलीनां तु मुष्टिबन्धादनन्तरम् || ३२-५८ || द्राक्क्षेपात्खेचरी देवी पञ्चकुण्डलिनी मता | संहारमुद्रा चैषैव यद्यूर्ध्वं क्षिप्यते किल || ३२-५९ || उत्क्रामणी झगित्येव पशूनां पाशकर्तरी | श्वभ्रे सुदूरे झटिति स्वात्मानं पातयन्निव || ३२-६० || साहसानुप्रवेशेन कुञ्चितं हस्तयुग्मकम् | अधोवीक्षणशीलं च सम्यग्दृष्टिसमन्वितम् || ३२-६१ || वीरभैरवसंज्ञेयं खेचरी बोधवर्धिनी | अष्टधेत्थं वर्णिता श्रीभर्गाष्टकशिखाकुले || ३२-६२ || इह पद्माद्यासनस्थो योगी यदा पृष्ठसंस्थितत्वादेव पराङ्मुखैरुद्यद्रश्मिभिर्बहिर्निर्गच्छच्छशाङ्करश्मिभिर्हस्ताग्रांग् उलय एव रश्मयः रज्जवः, तैरुपलक्षितः सन् झटित्येव बाह्योपसंहारादन्तःस्थितिः स्वात्मनि एव विश्रान्तः स्यात्; तदा एवंभावितशशाङ्कत्वात् शशाङ्किनी, बाह्यस्य च सङ्कुचितत्वात् सङ्कोचाख्या इयमेका खेचरी मुद्रा | तथा तं हस्तांगुल्यादिसंनिवेशमाश्रित्य बाहू सम्यगवकुञ्चितौ समुत्तम्ब्य स्वस्तिकाकारतया अवष्टभ्य ᳚खमनन्तं तु मायाख्यं....................... |᳚
SKइत्याद्युक्तेषु पञ्चसु व्योमसु सम्यगुक्तेन क्रमेण स्थानात् गाढावष्टम्भात् व्योमाख्या द्वितीया | तथा अन्तःकृताधोवर्तिदक्षिणमुष्ट्यंगुष्ठोपरिगतोच्छिर्तांगुष्ठवाम मुष्टिलक्षणस्य मुष्टिद्वयस्य हृदि सङ्घट्टात् सा खेचरी हृदयाख्या तृतीया | तथा हस्तशब्देन बाहूपलक्षणात् बाहुयुग्ममधःस्थितवाममूर्ध्वस्थितदक्षिणमन्तःसंमुखपाणिकत्वे ऽपि उद्गतमूर्ध्वस्थितहस्तं दृष्टिसाम्येन अवलोकनीयं यदा स्यात्, तदा सा शान्ताख्या चतुर्थी | तथा एषैव शान्ताख्या एवंसंनिवेशेऽपि अधोधावितपाणिका चेत् भवेत्, तदा शक्तिमुद्राख्या पञ्चमी | तथा द्वयोरपि करयोः मुष्टिबन्धादनन्तरं दशानामपि अंगुलीनां झटित्येव तिर्यक्प्रतिक्षेपात् प्रतिकरं पञ्चकुण्डलिनीरूपत्वात् पञ्चकुण्डलिन्याख्या षष्ठीं | तथा यद्येवं दशानामपि अंगुलीनामूर्ध्वं प्रक्षेपः, तदैव एषैव पञ्चकुण्डलिनी संहारमुद्राख्या सप्तमी | संहारमुद्रात्वमेव च अस्या उत्क्रामणीत्यादिना प्रदर्शितम् | तथा अधोवीक्षणशीलत्वेन सम्यगन्तर्लक्ष्यतया दृष्ट्या समन्वितं कुञ्चितं हस्तयुग्मं विधाय सुदूरे श्वभ्रे साहसमुद्रानुप्रवेशेन झटिति स्वात्मानं पातयन्निव यदा योगी वर्धितबोधो भवेत्, तदैव इयं वीरभैरवसंज्ञा अष्टमी,--इति श्रीभर्गशिखाकुलम् || ६२ || एतदुपसंहरन् वीर्यवन्दनमवतारयति-- एवं नानाविधान्भेदानाश्रित्यैकैव या स्थिता | श्रीखेचरी तयाविष्टः परं बीजं प्रपद्यते || ३२-६३ || नानाविधानिति--त्रिशूलिन्यादीन् | आसां च त्रिशूलिन्यादीनामनवकॢप्तिपरतया सर्वासामेव स्वरूपं न उक्तम् | परं बीजमिति--सृष्टिमयं पराबीजम् | वस्तुतो हि अनयोरभेदः--इति भावः | यदागमः-- ᳚एकं सृष्टिमयं बीजमेका मुद्रा च खेचरी | द्वावेकं यो विजानाति स वै पूज्यः कुलागमे ||᳚ इति || ६३ || अत एव आह-- एकं सृष्टिमयं बीजं यद्वीर्यं सर्वमन्त्रगम् | एका मुद्रा खेचरी च मुद्रौघः प्राणितो यया || ३२-६४ || अतश्च तदावेश एव सर्वमुद्राणां तत्त्वम्--इत्याह--
SKतदेवं खेचरीचक्ररूढौ यद्रूपमुल्लसेत् | तदेव मुद्रा मन्तव्या शेषः स्याद्देहविक्रिया || ३२-६५ || शेष इति--तदावेशशून्यः ||६५ || आसामेव च बन्धाय कालभेदं निरूपयितुमाह-- यागादौ तन्मध्ये तदवसितौ ज्ञानयोगपरिमर्शे | विघ्नप्रशमे पाशच्छेदे मुद्राविधेः समयः || ३२-६६ || ननु एवं समये मुद्राबन्धेन किं स्यात्?--इत्याशङ्क्य आह-- बोधावेशः सन्निधिरैक्येन विसर्जनं स्वरूपगतिः | शङ्कादलनं चक्रोदयदीप्तिरिति क्रमात्कृत्यम् || ३२-६७ || चक्रोदयदीप्तिरिति--सप्तमाह्निकनिरूपितस्थित्या उदितानां मन्त्राणां दीप्तिः दीपनमित्यर्थः || ६७ || एतदेव अर्धेन उपसंहरति-- इति मुद्राविधिः प्रोक्तः सुगूढो यः फलप्रदः | इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके मुद्राप्रकाशनं नाम द्वात्रिंशमाह्निकम् || ३२ || इति शिवम् || श्रीखेचरीसतत्त्वप्रविमर्शसमुन्मिषच्चिदावेशः | द्वात्रिंशं निरणैषीदाह्निकमेतज्जयरथाख्यः || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते मुद्राप्रकाशनं नाम द्वात्रिंशमाह्निकं समाप्तम् || ३२ || त्रयस्त्रिंशमाह्निकम् ᳚ विवेकः ᳚ परमानन्दसुधानिधिरुल्लसदपि बहिरशेषमिदम् | विश्रमयन्परमात्मनि विश्वेशो जयति विश्वेशः || ननु इह एकैव विश्वामर्शनसारा संविदस्तीति उपास्योपासकभाव एव तावत् न न्याय्यः, तत्रापि उपास्यानां को भेदः, तत् किमिदमनेकचक्रात्मकत्वमुपदिष्टम्?--इत्याशङ्कां गर्भीकृत्य द्वितीयार्धेन तदेकीकारमेव प्रणिगदितुमाह-- अथावसरसंप्राप्त एकीकारो निगद्यते | तमेव आह-- यदुक्तम् चक्रभेदेन सार्धं पूज्यमिति त्रिकम् | तत्रैष चक्रभेदानामेकीकारो दिशानया || ३३-१ || उक्तमिति--प्रथमाह्निकादौ | तथा च तत्र-- ᳚एकवीरो यामलोऽथ त्रिशक्तिश्चतुरात्मकः |᳚ इत्यादि ᳚एवं यावत्सहस्रारे निःसंख्यारेऽपि वा प्रभुः | विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते ||᳚ (१|११२) इत्यन्तं बहु | अनयेति--वक्ष्यमाणया || १ ||
SKतत्र चक्रभेदमेव तावत् दर्शयति-- विश्वा तदीशा हारौद्री वीरनेत्र्यम्बिका तथा | गुर्वीति षडरे देव्यः श्रीसिद्धावीरदर्शिताः || ३३-२ || माहेशी ब्रह्मणी स्कान्दी वैष्णव्यैन्द्री यमात्मिका | चामुण्डा चैव योगीशीत्यष्टाघोर्यादयोऽथवा || ३३-३ || अग्निनिरृतिवाय्वीशमातृभिर्द्वादशान्विताः | नन्दा भद्रा जया काली कराली विकृतानना || ३३-४ || क्रोष्टुकी भीममुद्रा च वायुवेगा हयानना | गम्भीरा घोषणी चेति चतुर्विंशत्यरे विधिः || ३३-५ || सिद्धिर्वृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा धृतिः | दीप्तिः पुष्टिर्मतिः कीर्तिः सुस्थितिः सुगतिः स्मृतिः || ३३-६ || सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्त्यः | बलिश्च बलिनन्दश्च दशग्रीवो हरो हयः || ३३-७ || माधवः षडरे चक्रे द्वादशारे त्वमी स्मृताः | दक्षश्चण्डो हरः शौण्डी प्रमथो भीममन्मथौ || ३३-८ || शकुनिः सुमतिर्नन्दो गोपालश्च पितामहः | श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिः शंबरेश्वरः || ३३-९ || अर्घीशो भारभूतिश्च स्थितः स्थाणुर्हरस्तथा | झण्ठिभौतिकसद्योजानुग्रहक्रूरसैनिकाः || ३३-१० || द्व्यष्टौ यद्वामृतस्तेन युक्ताः पूर्णाभतद्द्रवाः | ओघोर्मिस्यन्दनाङ्गाश्च वपुरुद्गारवक्त्रकाः || ३३-११ || तनुसेचनमूर्तीशाः सर्वामृतधरोऽपरः | श्रीपाठाच्छक्तयश्चैताः षोडशैव प्रकीर्तिताः || ३३-१२ || संवर्तलकुलिभृगुसितबकखङ्गिपिनाकिभुजगबलिकालाः | द्विश्छगलाण्डौ शिखिशोणमेषमीनत्रिदण्डि साषाढि || ३३-१३ || देवीकान्ततदर्धौ दारुकहलिसोमनाथशर्माणः | जयविजयजयन्ताजितसुजयजयरुद्रकीर्तनावहकाः || ३३-१४ || तन्मूर्त्युत्साहदवर्धनाश्च बलसुबलभद्रदावहकाः | तद्वान्दाता चेशो नन्दनसमभद्रतन्मूर्तिः || ३३-१५ || शिवदसुमनः स्पृहणका दुर्गो भद्राख्यकालश्च | चेताऽनुगकौशिककालविश्वसुशिवास्तथापरः कोपः || ३३-१६ || श्रुत्यग्न्यरे स्युरेते स्त्रीपाठाच्छक्त्यस्त्वेताः | तदीशेति--विश्वेश्वरी || वीरनेत्रीति--वीरनायिका | तदुक्तम्-- ᳚विश्वा विश्वेश्वरी चैव हारौद्री वीरनायिका |
SKअम्बा गुर्वीति योगिन्यः ................. ||᳚ (मा.वि. २०|६०) इति | न केवलमस्मद्दर्शने एव एता उक्ताः, यावदन्यत्रापि--इत्याह-- श्रीसिद्धावीरदर्शिताः इति | स्कान्दीति--कौमारी | यमात्मिकेति-- याम्या | अघोर्यादय इति | यदुक्तम्--श्रीत्रिशिरोभैरवे-- ᳚अघोरा परमाघोरा घोररूपा तथा परा | घोरवक्त्रा तथा भीमा भीषणा वमनी परा || पिबनी चाष्टमी प्रोक्ता....................... |᳚ इति || अन्विता इति--अर्थात् माहेश्याद्याः | यदुक्तम्-- ᳚आग्नेय्यादिचतुष्कोणा ब्रह्मण्याद्यास्तु वा प्रिये |᳚ (मा.वि. २०|४५) इति | चतुर्विंशत्यरे विधिरिति--माहेश्यादिद्वादशकसंमेलनया | यदुक्तम्-- ᳚.............................चतुर्विंशतिके शृणु | नन्दादिकाः क्रमात्सर्वा ब्रह्मण्याद्यास्तथैव च ||᳚ (मा.वि. २०|५३) इति | एतच्च अत्र द्वादशारगतदेव्युपजीवनाय उक्तमिति न क्रमव्यतिक्रमश्चोद्यः | अष्टकद्वये पुनरघोरा एव शक्तिमन्तः, किन्तु ते प्रागुद्दिष्टत्वादिह न उक्ताः | तदुक्तम्-- ᳚अघोराद्यास्तथाष्टारे अघोर्याद्याश्च देवताः | माहेश्याद्यास्तथा देवि .................. ||᳚ (मा.वि. २०|५३) इति | सद्योजः सद्योजातः | अनुग्रहेति अनुग्रहेश्वरः | सैनिको महासेनः | यदुक्तम्-- ᳚.....................षद्योजातस्तथा परः | अनुग्रहेश्वरः क्रूरो महासेनोऽथ षोडशः ||᳚ (मा.वि. २०|५०) इति | तेनेति--अमृतेन, तदमृतवर्णोऽमृताभ इत्यादिः क्रमः | वक्त्रेति--आस्यम् | सेचनेति--निषेचनम् | तदुक्तम्-- ᳚अमृतोऽमृतपूर्णश्च अमृताभोऽमृतद्रवः | अमृतौघोऽमृतोर्मिश्च अमृतस्यन्दनोऽपरः || अमृताङ्गोऽमृतवपुरमृतोद्गार एव च | अमृतास्योऽमृततनुस्तथामृतनिषेचनः | तन्मूर्तिरमृतेशश्च सर्वामृतधरस्तथा ||᳚ (मा.वि. ३|१९)
SKइति | चतुर्विशत्यरे क्रमप्राप्तान् शक्तिमतो निर्दिशति--संवर्तेत्यादिना | लकुलीति--लकुलीशः | सितेतिः--श्वेतः | कालः--महाकालः | द्विश्छगलाण्डाविति--द्विरण्डच्छगलाण्डौ | शिख्यादिपञ्चकस्य समाहारे द्वन्द्वः | शोणेति लोहितः | देवीकान्ततदर्धाविति उमाकान्तार्धनारीशौ | हलीति लाङ्गली | सोमनाथेति सोमेशः | तदुक्तम्-- शंवर्तो लकुलीशश्च भृगुः श्वेतो बकस्तथा | खङ्गी पिनाकी भुजगो नवमो बलिरेव च || महाकालो द्विरण्डश्च च्छगलाण्डः शिखी तथा | लोहितो मेषमीनौ च त्रिदण्ड्याषाढिनामकौ || उमाकान्तोऽर्धनारीशो दारुको लाङ्गली तथा | तथा सोमेशशर्माणौ चतुर्विंशत्यमी मताः ||᳚ (मा.वि. २०|५६) इति | अजितेति अपराजितः | अजेत्यनेन त्रयाणामपि संबन्धः | तेन जयरुद्रो जयकीर्तिर्जयावह इति | तच्छब्देन जयशब्दपरामर्शः | तेन जयमूर्तिर्जयोत्साहो जयदो जयवर्धनः इति | सुबलेति अतिबलः | भद्रेति त्रयाणामपि बलशब्देन संबन्धः | तेन बलभद्रो बलावहश्चेति | तद्वानिति--बलवान् | दातेति बलदाता | ईश इति बलेश्वरः | समभद्रेति सर्वतोभद्रः | तन्मूर्तीति भद्रमूर्तिः | शिवद इति शिवप्रदः | भद्राख्य इति भद्रकालः | चेतोऽनुग इति मनोऽनुगः | विश्वेति विश्वेश्वरः | श्रुत्यग्न्यरे इति चतुस्त्रिंशदरे | तदुक्तम्-- ᳚जयश्च विजयश्चैव जयन्तश्चापराजितः | सुजयो जयरुद्रश्च जयकीर्तिर्जयावहः || जयमूर्तिर्जयोत्साहो जयदो जयवर्धनः | बलश्चातिबलश्चैव बलभद्रो बलप्रदः || बलावहश्च बलवान्बलदाता बलेश्वरः | नन्दनः सर्वतोभद्रो भद्रमूर्तिः शिवप्रदः || सुमनाः स्पृहणो दुर्गो भद्रकालो मनोऽनुगः | कौशिकः कालविश्वेशौ सुशिवः कोप एव च || एते योनिसमुद्भूताश्चतुस्त्रिंशत्प्रकीर्तिताः ||᳚ (मा.वि. ३|२४) इति || अत्रैव मन्त्रविभागमाह-- जुङ्कारोऽथाग्निपत्नीति षडरे षण्ठवर्जिताः || ३३-१७ || द्वादशारे तत्सहिताः षोडशारे स्वराः क्रमात् | हलस्तद्द्विगुणेऽष्टारे याद्यं हान्तं तु तन्त्रिके || ३३-१८ ||
SKअग्निपत्नी--स्वाहेति, तेन प्रत्येकमेकैको वर्णः | तत्सहिता इति-- षण्ठसहिताः | तद्द्वगुणे इति--द्वात्रिंशदरे || १८ || अत्रैव विशेषमभिधत्ते-- द्वात्रिंशदरके सान्तं बिन्दुः सर्वेषु मूर्धनि | अनेनैव क्रमेण चक्रान्तराणि अपि कल्पनीयानि--इत्याह-- एवमन्यान्बहूंश्चक्रभेदानस्मात्प्रकल्पयेत् || ३३-१९ || अस्मादिति--उक्तात् चक्रभेदात् | अन्यान्बहूनिति--चतुःषष्ट्यादीन् | प्रकल्पयेदित्यनेन एषामवास्तवत्वं प्रकाशितम् || १९ || वस्तुतो हि चित्प्रकाश एव एकः समस्ति, यस्य शक्तितद्व्यपदेशमात्रत्वम्--इत्याह-- एक एव चिदात्मैष विश्वामर्शनसारकः | शक्तिस्तद्वानतो माता शब्दराशिः प्रकीर्तितौ || ३३-२० || तयोरेव विभागे तु शक्तितद्वत्प्रकल्पने | शब्दराशिर्मालिनी च क्षोभात्म वपुरीदृशम् || ३३-२१ || अत इति--शक्तितद्वद्विभागस्य आसूत्रणात् | माता मातृका | तयोरिति - -मातृकाशब्दराश्योः | ननु मालिन्याः शक्तित्वे किं निमित्तम्?-- इत्याशङ्क्य आह--क्षोभात्म वपुरीदृशमिति || २१ || अनयोरेव एकैकामर्शरूढावियांश्चक्रभेदः--इत्याह-- तथान्तःस्थपरामर्शभेदने वस्तुतस्त्रिकम् | अनुत्तरेच्छोन्मेषाख्यं यतो विश्वं विमर्शनम् || ३३-२२ || आनन्देशोर्मियोगे तु तत्षट्कं समुदाहृतम् | अन्तःस्थोष्मसमायोगात्तदष्टकमुदाहृतम् || ३३-२३ || तदामृतचतुष्कोनभावे द्वादशकं भवेत् | तद्योगे षोडशाख्यं स्यादेवं यावदसंख्यता || ३३-२४ || तथा शक्तिशक्तिमद्रूपतया अन्तः प्रमात्रैकात्म्येन स्थितस्य अहंपरामर्शस्य विभजने सति ᳚तदेव त्रितयं प्राहुर्भैरवस्य परं महः |᳚
SKइत्याद्युक्तनयेन अनुत्तरेच्छोन्मेषाख्यं त्रिकमेव वस्तुतोऽस्ति यत इदं सर्वमहमिति पूर्णं विमर्शनं स्यात् | तस्यैव पुनरानन्दादियोगे तत् समनन्तरोक्तं षट्कमुदाहृतं येन अयं चक्राणां भेदः | एवमन्तःस्थोष्माख्यं चतुष्कद्वयमधिकृत्य याष्टकं स्यात् येन उक्तमष्टारे याद्यमिति | आमृतं चतुष्कं षण्ठचतुष्टयम्, तस्य ऊनभावे तद्रहितत्वे सति--इत्यर्थः | तद्योगे इति-- आमृतचतुष्कसहितत्वे--इत्यर्थः | असंख्यतेति-- तत्तत्परामर्शसंयोजनवियोजनेन || २४ || ननु अखण्डैकघनाकारे अत्र कुतस्त्यमानन्त्यम्?--इत्याशङ्क्य आह-- विश्वमेकपरामर्शसहत्वात्प्रभृति स्फुटम् | अंशांशिकापरामर्शान् पर्यन्ते सहते यतः || ३३-२५ || अतः पञ्चाशदैकात्म्यं स्वरव्यक्तिविरूपता | वर्गाष्टकं वर्णभेद एकाशीतिकलोदयः || ३३-२६ || इति प्रदर्शितं पूर्वम् ....... | विश्वमिति--सर्वम् | पञ्चाशदैकात्म्यमिति--अहंपरामर्शरूपत्वम् | व्यक्तिः व्यञ्जनम् | कलेति--अर्धमात्राणाम् | पूर्वमिति-- तृतीयषष्ठाह्निकादौ || ननु ᳚एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते | त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं त्वर्धमात्रिकम् ||᳚ इत्युक्त्या व्यञ्जनानामर्धमात्रासहत्वं वक्तुं युज्यते, स्वराणां पुनरेकमात्रानुरूपतया नैवमिति कथमेकाशीतिकलोदयः ?-- इत्याशङ्क्य आह-- .......ऽर्धमात्रासहत्वतः | स्वरार्धमप्यस्ति यतः स्वरितस्यार्धमात्रकम् || ३३-२७ || तस्यादित उदात्तं तत्कथितं पदवेदिना | इह अर्धमात्रासहत्वतः स्वराणामपि अर्धमात्रिकत्वं यतः पाणिनिना शमाहारः स्वरितः᳚ (१|२|३१) इति उदात्तसमुदायात्मा स्वरित इति सूत्रिते ᳚तस्यादित उदात्तमर्धह्रस्वम्᳚ (१|२|३२) इति प्रथमोदात्तभागगतह्रस्वार्धमात्रिकत्वमपि सूत्रितम् || प्रकृतमेव उपसंहरति-- इत्थं संविदियं याज्यस्वरूपामर्शरूपिणी || ३३-२८ || अभिन्नं संविदश्चैतच्चक्राणां चक्रवालकम् | स्वाम्यावरणभेदेन बहुधा तत्प्रयोजयेत् || ३३-२९ || तदिति चक्रचक्रवालकम् ||२९ ||
SKननु स्वामिनोऽपि को भेदः ?--इत्याशङ्क्य आह-- परापरा परा चान्या सृष्टिस्थितितिरोधयः | मातृसद्भावरूपा तु तुर्या विश्रान्तिरुच्यते || ३३-३० || अन्येति--अपरा | तिरोधिः संहारः || ३० || ननु यदि तुर्यमेव विश्रान्तिस्थानं तत् कथं तत् विभज्य न उक्तम्?-- इत्याशङ्क्य आह-- तच्च प्रकाशं वक्त्रस्थं सूचितं तु पदे पदे | अत्रैव विश्रान्तिः कार्या--इत्याह-- तुर्ये विश्रान्तिराधेया मातृसद्भावसारिणि || ३३-३१ || अत्र च विश्रान्त्या किं स्यात्?--इत्याशङ्क्य आह-- तथास्य विश्वमाभाति स्वात्मतन्मयतां गतम् | आह्निकार्थमेव अर्धेन उपसंहरति-- इत्येष शास्त्रार्थस्योक्त एकीकारो गुरूदितः || ३३-३२ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके एकीकारप्रकाशनं नाम त्रयस्त्रिंशमाह्निकम् || ३३ || इति शिवम् || ३२ || परसंविदद्वयात्मकतत्तच्चक्रानुसन्धिबन्धुरितः | एतज्जयरथनामा व्यवृणोदिदमाह्निकं त्रयस्त्रिंशम् || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते एकीकारप्रकाशनं नाम त्रयंस्त्रशमाह्निकं समाप्तम् || ३३ || चतुस्त्रिंशमाह्निकम् ᳚ विवेकः ᳚ सुशिवः शिवाय भूयाद्भूयोभूयः सतां महानादः | यो बहिरुल्लसितोऽपि स्वस्माद्रूपान्न निष्क्रान्तः || ननु यदि एक एव अयं चिदात्मा परमेश्वरः, तत् किमाणवाद्युपायवैचित्र्येण?--इत्याशङ्कां गर्भीकृत्य अत्रैव द्वारद्वारिकया प्रवेशमभिधातुं द्वितीयार्धेन उपक्रमते-- उच्यतेऽथ स्वस्वरूपप्रवेशः क्रमसङ्गतः | तमेव आह-- यदेतद्बहुधा प्रोक्तमाणवं शिवताप्तये | तत्रान्तरन्तराविश्य विश्राम्येत्सविधे पदे || ३४-१ || ततोऽप्याणवसंत्यागाच्छाक्तीं भूमिमुपाश्रयेत् | ततोऽपि शाम्भवीमेवं तारतम्यक्रमात्स्फुटम् || ३४-२ ||
SKबहुधेति--ध्यानोच्चारादिरूपतया | अन्तरन्तरिति--यथास्थानापेक्षया वर्णेषु, तदपेक्षया च करणादाविति | सविधे इति--स्वस्वरूपस्य | तत इति--स्वस्वरूपसविधवर्तिध्यानादिविश्रान्त्यनन्तरम् | आणवसंत्यागादिति--ज्ञेयहाने हि ज्ञाने एव विश्रान्तिराधेया--इति अभिप्रायः | ततोऽपीति--शाक्तभूम्युपाश्रयानन्तरम्, विकल्पस्य हि निर्विकल्पे एव विश्रान्तिस्तत्त्वम् | शाम्भवीमिति--अर्थात् भूमिम् | एवमिति--यथोत्तरं विश्रान्त्या | स्फुटमिति--स्वं स्वरूपं, भवति-- इति शेषः || ननु एवं सति अस्य किं स्यात्?--इत्याशङ्क्य आह-- इत्थं क्रमोदितिविबोधमहामरीचि- संपूरितप्रसरभैरवभावभागी | अन्तेऽभ्युपायनिरपेक्षतयैव नित्यं स्वात्मानमाविशति गर्भितविश्वरूपम् || ३४-३ || अभ्युपायनिरपेक्षतयेति--सकृद्देशनाद्यात्मकानुपायक्रमेण-- इत्यर्थः | अतश्च युक्तमुक्तम्-- शंवित्तिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः |᳚ इति || एतदेव अर्धेन उपसंहरति-- कथितोऽयं स्वस्वरूपप्रवेशः परमेष्ठिना || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके स्वरूपप्रकाशनं नाम चतुस्त्रिंशमाह्निकम् ||३४ || इति शिवम् || श्रीमद्गुरुवदनोदितसदुपायोपेयभावतत्त्वज्ञः | एतज्जयद्रथनामा व्याकृतवानाह्निकं चतुस्त्रिंशम् || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते स्वरूपप्रवेशं नाम चतुस्त्रिंशमाह्निकं समाप्तम् || ३४ || पञ्चत्रिंशमाह्निकम् ᳚ विवेकः ᳚ यः किल तैस्तैर्भेदैरशेषमवतार्य मातृकासारम् | शास्त्रं जगदुद्धर्ता जयति विभुः सर्ववित्कोपः || इदानीं सर्वशास्त्रैकवाक्यतावचनद्वारा द्वितीयार्धेन सर्वागमप्रामाण्यं प्रतिपादयितुं प्रतिजानीते-- अथोच्यते समस्तानां शास्त्राणामिह मेलनम् | तत्र आगमस्यैव तावत् साधारण्येन लक्षणमाह-- इह तावत्समस्तोऽयं व्यवहारः पुरातनः || ३५-१ || प्रसिद्धिमनुसन्धाय सैव चागम उच्यते |
SKइह तावत् पुरातनीं प्रसिद्ध्यन्तरानुन्मूलितत्वेन चिरतरं प्ररूढां प्रसिद्धिमनुसन्धाय समस्तोऽयं व्यवहारः--सर्वे एव तथा व्यवहरन्ति--इत्यर्थः | सैव च प्रसिद्धिरागम उच्यते-- तच्छब्दव्यवहार्या भवेत्--इत्यर्थः | यदुक्तम्-- ᳚प्रसिद्धिरागमो लोके........................ |᳚ इति || ननु ᳚पश्यन्नेकमदृष्टस्य दर्शने तददर्शने | अपश्यन्कार्यमन्वेति विनाप्याख्यातृभिर्जनः ||᳚ इत्यादिनयेन अन्वयव्यतिरेकाभ्यां साध्यसाधनभावमवगम्य सर्वे एव व्यवहर्तारस्तथा तथा व्यवहरन्तीति प्रसिद्धिमनुसन्धाय सर्वोऽपि अयं व्यवहार इति किमुक्तम्?--इत्याशङ्क्य आह-- अन्वयव्यतिरेकौ हि प्रसिद्धेरुपजीवकौ || ३५-२ || स्वायत्तत्वे तयोर्व्यक्तिपूगे किं स्यात्तयोर्गतिः | प्रसिद्धे हि वस्तुनि अन्वयव्यतिरेकयोः साध्यसाधनसम्बन्धाधिगमनिबन्धनत्वं भवेत्, अन्यथा स्वातन्त्र्येण तावेव यदि निश्चायकौ स्यातां तत् प्रतिव्यक्तिभावित्वादेकैकविषयाश्रयस्ताभ्यामविनाभावावसायः स्यात्; न च एवमिति तत्रापि प्रसिद्धिरेव मूलम् | तथा च धूमे दहनान्वव्यतिरेकानुवर्तिनि तद्विशेषाः पाण्डिमादयस्तथाभावेऽपि प्रसिद्ध्यभावादविनाभावितया अनुसन्धातुं न शक्यन्ते इति || न केवलमनुमाने एव प्रसिद्धिर्निबन्धनं यावत् प्रत्यक्षेऽपि--इत्याह-- प्रत्यक्षमपि नेत्रात्मदीपार्थादिविशेषजम् || ३५-३ || अपेक्षते तत्र मूले प्रसिद्धिं तां तथात्मिकाम् | इन्द्रियादिसामग्रीजन्यं प्रत्यक्षमपि तत्र इन्द्रियादिरूपे मूले तथात्मिकां ताद्रूप्यावमर्शमयीं तां सर्वव्यवहारनिबन्धनभूतां प्रसिद्धिमपेक्षते तां विना इन्द्रियादिप्रेरणाभावे न किञ्चित् सिध्येत्--इत्यर्थः || एतदेव व्यतिरेकद्वारेण व्यनक्ति-- अभितःसंवृते जात एकाकी क्षुधितः शिशुः || ३५-४ || किं करोतु किमादत्तां केन पश्यतु किं व्रजेत् |
SKतदहर्जातो हि बालः सर्वतो नानाविधार्थसार्थसंवलिते स्थाने क्षुधितः साकाङ्क्षोऽपि एकाकी अप्राप्तपरोपदेशः किं करोतु विना स्वावमर्शात्मिकां प्रसिद्धिं नियतविषयहानादानव्यवहारो बालस्य न स्यात्--इत्यर्थः || न अत्र अन्यथासिद्धेः प्रसिद्धिरुपयुज्यते--इत्याह-- ननु वस्तुशताकीर्णे स्थानेऽप्यस्य यदेव हि || ३५-५ || पश्यतो जिघ्रतो वापि स्पृशतः संप्रसीदति | चेतस्तदेवादाय द्राक् सोऽन्वयव्यतिरेकभाक् || ३५-६ || तदहर्जातस्य हि बालस्य प्राथमिक्यां प्रवृत्तौ वस्तुशताकीर्णेऽपि स्थाने यदेव चक्षुरादिगोचरतामुपगतं सत् चेतः प्रसादाधायि, तदेव आदेयमर्थादितरत्तु हेयम् | अनन्तरं तु द्राक् पौनःपुन्येन असावन्वयव्यतिरेकभागभ्यासातिशयोपनतोऽन्वयव्यतिरेकमूलोऽस्य व्यवहारः--इत्यर्थः || ६ || ननु चेतः प्रसादोऽपि कुतस्त्य इति साक्रोशमुपदिशति-- हन्त चेतःप्रसादोऽपि योऽसावर्थविशेषगः | सोऽपि प्राग्वासनारूपविमर्शपरिकल्पितः || ३५-७ || न प्रत्यक्षानुमानादिबाह्यमानप्रसादजः | ननु चेतः प्रसादो हि तत्कालोल्लसितविमर्शरूपं प्रतिभामात्रमिति प्राग्वासनारूपेण विमर्शेन परिकल्पित इति किमुक्तम् ?--इत्याशङ्क्य आह-- प्राग्वासनोपजीव्येतत् प्रतिभामात्रमेव न || ३५-८ || न मृदभ्यवहारेच्छा पुंसो बालस्य जायते | एतत् चेतःप्रसन्नत्वं प्राग्वासनानुरोधि एव न पुनराकस्मिकं प्रतिभामात्रम् | एवं हि पुंसः कथञ्चिद् वृद्धिमुपेयुषो बालस्य स्तन्यादिवत् तत्त्वानभिसन्धानेन मृदभ्यवहारेच्छापि स्यात्; न च एवमिति अत्र विमर्शात्मा प्राग्वासनैव मूलम् | यत्तु बालादेर्मृद्भक्षणं तत् जिघत्सामात्रपरिकल्पितमिति न कश्चित् दोषः || ननु भवतु नाम विमर्शरूपप्राग्वासनापरिकल्पितश्चेतःप्रसादः, तावता तु प्रसिद्धेः कोऽवकाशः?--इत्याशङ्क्य आह-- प्राग्वासनोपजीवी चेद्विमर्शः सा च वासना || ३५-९ || प्राच्या चेदागता सेयं प्रसिद्धिः पौर्वकालिकी |
SKननु यदि प्राग्वासनैव चेतःप्रसादस्य निबन्धनं सा च प्राच्या वासना यदि विमर्श एव; तत् सा इयमागता पौर्वकालिकी प्रसिद्धिः इदमेव अस्यास्तात्त्विकं रूपम्--इत्यर्थः | यदुक्तम्-- ᳚विमर्श आगमः सा सा प्रसिद्धिरविगीतिका |᳚ इति || ननु किं प्रसिद्ध्या, चेतःप्रसादमात्रनिबन्धन एव अस्तु व्यवहारः?-- इत्याशङ्क्य आह-- न च चेतः प्रसत्त्यैव सर्वो व्यवहृतिक्रमः || ३५-१० || मूलं प्रसिद्धिस्तन्मानं सर्वत्रैवेति गृह्यताम् | नहि चेतःप्रसादमात्रेण सर्वो हानादानाद्यात्मा व्यवहारः सिद्ध्येत् तथात्वे हानादेरनिर्वाहात् | तत् सर्वत्र हानादानाद्यात्मनि व्यवहारे मूलभूता प्रसिद्धिरेव प्रमाणमिति गृह्यतां हठायातमेतत्-- इत्यर्थः | यदाहुः-- शजातीयप्रसिद्ध्यैव सर्वो व्यवहृतिक्रमः | सर्वस्याद्यो वासनापि प्रसिद्धिः प्राक्तनी स्थिता ||᳚ इति || ननु पूर्वपूर्ववृद्धोपजीवनजीवित एव सर्वो व्यवहार इति स्थितम् | न च इयमनवस्था मूलक्षतिकारिणीति किं प्रसिद्धिनिबन्धनेन?-- इत्याशङ्क्य आह-- पूर्वपूर्वोपजीवित्वमार्गणे सा क्वचित्स्वयम् || ३५-११ || सर्वज्ञरूपे ह्येकस्मिन्निःशङ्कं भासते पुरा | पूर्वपूर्वोपजीवनमार्गणेऽपि सा प्रसिद्धिः कस्मिंश्चिदेकस्मिन् सर्वज्ञे पुरा परारूपायां प्राथमिक्यां भूमौ स्वयमनन्यापेक्षत्वेन निःशङ्कं सौक्ष्म्यादनुन्मिषिता भासते-- परापरामर्शात्मना प्रस्फुरति--इत्यर्थः || ननु एवं पूर्वपूर्वप्रसिद्ध्युपजीवनमात्रेण असर्वज्ञ एव समस्तोऽयमस्तु व्यवहारः, किं सर्वज्ञस्यापि परिकल्पनेन?-- इत्याशङ्क्य आह-- व्यवहारो हि नैकत्र समस्तः कोऽपि मातरि || ३५-१२ || तेनासर्वज्ञपूर्वत्वमात्रेणैषा न सिद्ध्यति | नहि एकत्र कुत्रचिदसर्वज्ञे प्रमातरि समस्तो व्यवहारः कोऽपि असर्वज्ञत्वादेव न कश्चित्--इत्यर्थः | अतश्च एषा प्रसिद्धिरसर्वज्ञपूर्वत्वेनैव न सिद्ध्यति समस्तव्यवहारसहिष्णुत्वमस्या न स्यात्--इत्यर्थः ||
SKननु एवमपि असर्वज्ञवत् सर्वज्ञान्तरपूर्वत्वेनैव सर्वज्ञस्यापि प्रसिद्धिरस्तु, किं तत्र अस्या निष्टङ्केन भानेन?--इत्याशङ्क्य आह-- बहुसर्वज्ञपूर्वत्वे न मानं चास्ति किञ्चन || ३५-१३ || मानं नास्तीति--वैयर्थ्यादेः || अतश्च एक एव पूर्णाहंपरामर्शमयः सर्वज्ञः परमेश्वरः समस्तप्रसिद्धिनिबन्धनभूतः इत्याह-- भोगापवर्गतद्धेतुप्रसिद्धिशतशोभितः | तद्विमर्शस्वभावोऽसौ भैरवः परमेश्वरः || ३५-१४ || द्विधा च इयं परमेश्वरात् प्रवृत्ता लोकव्यवहारनिबन्धनम्--इत्याह- - ततश्चांशांशिकायोगात्सा प्रसिद्धिः परम्पराम् | शास्त्रं वाश्रित्य वितता लोकान्संव्यवहारयेत् || ३५-१५ || अंशांशिकेति--देशकुलादिभेदात् लौकिकवैदिकादिभेदाद् वा | परम्परामिति--मुखपारम्पर्यनिरूढिरूपाम् | शास्त्रमिति--निबन्धनम् | विततेति--अन्तरविगानाभावात् | यदुक्तम्-- ᳚लौकिकादिरहस्यान्तशास्त्रामर्शप्ररोहिणी | वक्त्रागमज्ञरूढ्यात्मा वागित्थं पारमेश्वरी ||᳚ इति || १५ || ननु भवतु एवम्, नियतागमपरिग्रहे तु किं निमित्तम्?--इत्याशङ्क्य आह- - तयैवाशैशवात्सर्वे व्यवहारधराजुषः | सन्तः समुपजीवन्ति शैवमेवाद्यमागमम् || ३५-१६ || अपूर्णास्तु परे तेन न मोक्षफलभागिनः | सन्त इति--विवेकिनः | शैवमिति--आद्यमिति च--अनेन अस्य संपूर्णार्थाभिधायकत्वं प्रकाशितम् | यदाहुः-- ᳚तस्मात्संपूर्णसंबोधपराद्वैतप्रतिष्ठितम् | यः कुर्यात्सर्वतत्त्वार्थदर्शी स पर आगमः ||᳚ इति | परे इति--असन्तः | अपूर्णत्वमेव प्रपञ्चितम्--तेन न मोक्षफलिभागिन इति || ननु यदि एवं तत् कृतं सर्वागमप्रामाण्यप्रतिपादनेन?-- इत्याशङ्क्य आह-- उपजीवन्ति यावत्तु तावत्तत्फलभागिनः || ३५-१७ || तुशब्दो हेतौ | यावत्तावदिति--परिमितम् | अत एव उक्तम्--तत्फलभागिन इति प्रतिनियतमेव अतः फलमासादयन्ति--इत्यर्थः, येन ᳚बुद्धितत्त्वे स्थिता बौद्धाः ................... |᳚ इत्यादि उक्तम् || १७ ||
SKननु अविदितान्वयव्यतिरेकादेर्बालस्य अस्तु प्रसिद्धिमात्रनिबन्धनत्वम्, विवेकिनस्तु कथमेवं स्यात्?--इत्याशङ्क्य आह-- बाल्यापायेऽपि यद्भोक्तुमन्नमेष प्रवर्तते | तत्प्रसिद्ध्यैव नाध्यक्षान्नानुमानादसम्भवात् || ३५-१८ || अबालस्यापि हि प्रमातुर्भोजनादौ प्रसिद्धिमात्रनिबन्धनैव प्रवृत्तिः, यतस्तत्र न तावत् प्रत्यक्षं सम्भवति तस्य हि अन्नं विषयः, न तद्भोज्यत्वं तस्य ज्ञाने विकारकारित्वाभावात्, तत् कथमस्य विषयभावमप्राप्ते वस्तुनि प्रवर्तकत्वं स्यात्; नापि अनुमानं, तत् हि अन्वयव्यतिरेकमूलम्, तयोश्च प्रसिद्धिरेव निबन्धनमिति उक्तम्, तन्मूलभूतां प्रसिद्धिमपहाय कथमस्य एवंभावो भवेत् | यदभिप्रायेणैव ᳚लौकिके व्यवहारे हि सदृशौ बालपण्डितौ |᳚ इत्यादि उक्तम् || १८ || निमित्तान्तरमपि अत्र किञ्चित् न न्याय्यम्--इत्याह-- न च काप्यत्र दोषाशा शङ्कायाश्च निवृत्तितः | क्षुधादिना हि कथञ्चित्पीडितोऽपि न अन्यत्र प्रवर्तते तावता क्षुधादिदोषनिवृत्तौ निश्चयायोगात् || ननु यदि एवं तत् प्रसिद्ध्या प्रवर्तमानस्यापि किमेवमाशङ्का न स्यात्?--इत्याशङ्क्य आह-- प्रसिद्धिश्चाविगानोत्था प्रतीतिः शब्दनात्मिका || ३५-१९ || मातुः स्वभावो यत्तस्यां शङ्कते नैष जातुचित् | स्वकृतत्ववशादेव सर्ववित्स हि शङ्करः || ३५-२० || प्रसिद्धिर्हि सततोदितत्वादविगानेन उल्लसिता स्वावमर्शात्मप्रतीतिरूपा प्रमातुः स्वभाव एवेति तस्यां प्रसिद्धौ परामर्शनक्रियाकर्तृत्वेन स्वकृतत्ववशादेव एषः प्रमाता कदाचिदपि न शङ्कते विचिकित्सेत, यदसौ सर्ववित् शङ्कर एव वस्तुतस्तद्रूप एव असौ--इत्यर्थः || २० || ननु एवं परमेश्वररूपतायामस्तु, अन्यथा पुनरेतत् कथं सङ्गच्छताम्?--इत्याशङ्क्य आह-- यावत्तु शिवता नास्य तावत्स्वात्मानुसारिणीम् | तावतीमेव तामेष प्रसिद्धिं नाभिशङ्कते || ३५-२१ || अन्यस्यामभिशङ्की स्याद्भूयस्तां बहु मन्यते |
SKतावतीमेवेति--परिमिताम् | अन्यस्यामिति--परकीयायाम् | भूय इति-- अत्यर्थम् | तामिति--स्वात्मानुसारिणीं प्रसिद्धिम् | बहु मन्यते इति� अव्यभिचारित्वात् || ननु यदि एवं तत् कथं शैवमेव आगमं सन्तः समुपजीवन्तीत्युक्तम्?--इत्याशङ्क्य आह-- एवं भाविशिवत्वोऽमूं प्रसिद्धिं मन्यते ध्रुवम् || ३५-२२ || एवमिति--स्वप्रसिद्धिवत् | अमूमिति--प्रक्रान्तां शैवीम् || २२ || ननु शैवबौद्धादिभिदा बहुधा इयं प्रसिद्धिरिति कस्मादवश्यभाविशिवत्वस्य शैवीमेव प्रसिद्धिं प्रति बहुमानः-- इत्याशङ्क्य आह-- एक एवागमश्चायं विभुना सर्वदर्शिना | दर्शितो यः प्रवृत्ते च निवृत्ते च पथि स्थितः || ३५-२३ || प्रवृत्ते इति--कर्मादिरूपे | निवृत्ते इति--ज्ञानैकरूपे || २३ || ननु यदि एक एव अयमागमो विभुना दर्शितः, तत् धर्मादेश्चतुर्वर्गस्य प्रतिशास्त्रं स्वरूपतः फलतश्च वैचित्र्ये किं निमित्तम्?-- इत्याशङ्क्य आह-- धर्मार्थकाममोक्षेषु पूर्णापूर्णादिभेदतः | विचित्रेषु फलेष्वेक उपायः शाम्भवागमः || ३५-२४ || ननु एवमेककर्तृकत्वे अस्य विचित्रोऽयमुपदेशः किं न परस्परस्य विरुध्येत् ?--इत्याशङ्क्य आह-- तस्मिन्विषयवैविक्त्याद्विचित्रफलदायिनि | चित्रोपायोपदेशोऽपि न विरोधावहो भवेत् || ३५-२५ || तस्मिन्नेकेनैव शम्भुना प्रणीतेऽपि आगमे विचित्राणां धर्मादीनामुपायानामुपदेशो देशकालाधिकार्यादिविषयभेदमाश्रित्य विचित्रफलदातृत्वात् न विरोधावहो भवेत्--अप्रामाण्यकारणतां न यायात्--इत्यर्थः || २५ || ननु बुद्धार्हत्कपिलप्रभृतीनाप्तानपहाय शम्भुनैव इदं सर्वं प्रणीतमित्यत्र किं प्रमाणम्?--इत्याशङ्क्य आह-- लौकिकं वैदिकं साङ्ख्यं योगादि पाञ्चरात्रकम् | बौद्धार्हतन्यायशास्त्रं पदार्थक्रमतन्त्रणम् || ३५-२६ || सिद्धान्ततन्त्रशाक्तादि सर्वं ब्रह्मोद्भवं यतः | श्रीस्वच्छन्दादिषु प्रोक्तं सद्योजातादिभेदतः || ३५-२७ ||
SKयतः सर्वं लौकिकादि शम्भोरेव सद्योजातादिभेदेन ब्रह्मभ्यो वक्त्रेभ्यः समुद्भूतमिति श्रीस्वच्छन्दादिषु शास्त्रेषु प्रोक्तम्--इति वाक्यार्थः | यदुक्तं तत्र-- ᳚अदृष्टविग्रहायातं शिवात्परमकारणात् | ध्वनिरूपं सुसूक्ष्मं तु सुशुद्धं सुप्रभान्वितम् || तदेवापररूपेण शिवेन परमात्मना | मन्त्रसिंहासनस्थेन पञ्चमन्त्रमहात्मना || पुरुषार्थं विचार्याशु साधनानि पृथक् पृथक् | लौकिकादिशिवान्तानि परापरविभूतये | तदनुग्रहयोग्यानां स्वे स्वे विषयगोचरे || अनुष्टुब्छन्दसा बद्धं कोट्यर्बुदसहस्रधा |᳚ (८|३१) इति, तथा ᳚लौकिकं देवि विज्ञानं सद्योजाताद्विनिर्गतम् | वैदिकं वामदेवात्तु आध्यात्मिकमघोरतः || पुरुषाच्चातिमार्गाख्यं निर्गतं तु वरानने | मन्त्राख्यं तु महाज्ञानमीशानात्तु विनिर्गतम् ||᳚ (११|४५) इति, तथा ᳚धर्मेणैकेन देवेशि बद्धं ज्ञानं हि लौकिकम् | धर्मज्ञाननिबद्धं तु पाञ्चरात्रं च वैदिकम् || बौद्धमारहतं चैव वैराग्येणैव सुव्रते | ज्ञानवैराग्यसंबद्धं साङ्ख्यज्ञानं हि पार्वति || ज्ञानं वैराग्यमैश्वर्यं योगज्ञाने प्रतिष्ठितम् | अतीतं बुद्धिभावानामतिमार्गं प्रकीर्तितम् || लोकातीतं च तज्ज्ञानमतिमार्गमिति स्मृतम् |᳚ (११|१८२) इति ||२७ || ननु यदि एवं शैवबौद्धादिरेव आगमः, तत् बौद्धादिशास्त्रवर्तिनां शिवशास्त्रौन्मुख्ये कस्मात् लिङ्गोद्धारादि संस्कारान्तरमपि उक्तम्?--इत्याशङ्कां दृष्टान्तोपदर्शनेन उपशमयति-- यथैकत्रापि वेदादौ तत्तदाश्रमगामिनः | संस्कारान्तरमत्रापि तथा लिङ्गोद्धृतादिकम् || ३५-२८ || संस्कारान्तरमिति--अर्थादुक्तम् ||२८ || ननु एवमपि शिवादेव यदि अखिलमिदं शास्त्रमुदितं तत् शैवपाञ्चरात्रादिभ्योऽपि कस्मात् न शिवात्मकत्वमेव उदियात्?-- इत्याशङ्कां दृष्टान्तीकृत्य दृष्टान्तपुरःसरीकारेण आह-- यथा च तत्र पूर्वस्मिन्नाश्रमे नोत्तराश्रमात् | फलमेति तथा पाञ्चरात्रादौ न शिवात्मताम् || ३५-२९ ||
SKतत्रेति--एकत्र वेदादौ | पूर्वस्मिन्नाश्रमे इति | अर्थात् स्थितः-- उत्तराश्रमादिति गार्हस्थ्यादेः || २९ || तदेवमेक एव अयमीश्वरप्रणीत आगमः, यत्र इदं लौकिकशास्त्रात्प्रभृति सर्वं विश्रान्तम्--इत्याह-- एक एवागमस्तस्मात्तत्र लौकिकशास्त्रतः | प्रभृत्यावैष्णवाद्बौद्धाच्छैवात्सर्वं हि निष्ठितम् || ३५-३० || ननु एवंविधस्य अपि अस्य आगमस्य किमुपेयम्?--इत्याशङ्क्य आह-- तस्य यत्तत् परं प्राप्यं धाम तत् त्रिकशब्दितम् | ननु ᳚यत्रोदितमिदं चित्रं विश्वं यत्रास्तमेति च | तत् कुलं विद्धि सर्वज्ञ शिवशक्तिविवर्जितम् ||᳚ इत्यादिदृशा कुलस्यैव सर्वविश्रान्तिधामत्वमुक्तम्, तत् किमेतदभिधीयते?--इत्याशङ्क्य आह-- सर्वाविभेदानुच्छेदात् तदेव कुलमुच्यते || ३५-३१ || यथोर्ध्वाधरताभाक्सु देहाङ्गेषु विभेदिषु | एकं प्राणितमेवं स्यात् त्रिकं सर्वेषु शास्त्रतः || ३५-३२ || श्रीमत्कालीकुले चोक्तं पञ्चस्रोतोविवर्जितम् | दशाष्टादशभेदस्य सारमेतत्प्रकीर्तितम् || ३५-३३ || पुष्पे गन्धस्तिले तैलं देहे जीवो जलेऽमृतम् | यथा तथैव शास्त्राणां कुलमन्तः प्रतिष्ठितम् || ३५-३४ || तत् त्रिकमेव हि सर्वत्र देशकालादावविभेदस्य अनुच्छेदात् संविदद्वयमयतयैव अवभासते | ᳚कुल संस्त्याने᳚ इतिधात्वर्थानुगमात् कुलमुच्यते--तथा व्यवह्रियते--इत्यर्थः | एतदेव दृष्टान्तपुरःसरमुपपादयति--यथेत्यादिना | न केवलमेतत् युक्तित एव सिद्धं यावदागमतोऽपि--इत्याह--श्रीमदित्यादि || ३४ || प्रकृतमेव उपसंहरति-- तदेक एवागमोऽयं चित्रश्चित्रेऽधिकारिणि | चित्र इत्यत्र निमित्तमाह--चित्रेऽधिकारिणीति || ननु कथमेकश्च अधिकारिभेदात् चित्रश्चेति सङ्गच्छतां नाम?-- इत्याशङ्क्य आह-- तथैव सा प्रसिद्धिर्हि स्वयूथ्यपरयूथ्यगा || ३५-३५ || स्वयूथ्यपरयूथ्यगतत्वेनापि हि सैव तथैकत्वेपि चित्रत्वात्मिका प्रसिद्धिः प्रवादः | नहि एवं कश्चित् त्वेव बौद्धादिरागमो य एकत्वेऽपि अधिकारिभेदात् न चित्र इति || ३५ ||
SKन केवलमत्र एकत्वं युक्तित एव सिद्धं यावदागमतोऽपि--इत्याह-- सांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत् | यतः शिवोद्भवाः सर्व इति स्वच्छन्दशासने || ३५-३६ || ननु यदि सांख्यादयः सर्व एव शिवोद्भवास्तदेषां शैवतयैव कस्मात् न प्रसिद्धिः?--इत्याशङ्क्य आह-- एकस्मादागमाच्चैते खण्डखण्डा व्यपोद्धृताः | लोके स्युरागमास्तैश्च जनो भ्रम्यति मोहितः || ३५-३७ || व्यपोद्धृता इति--कपिलसुगतादिभिः | मोहितो भ्रम्यतीति-- तत्तत्प्रणीततया परस्परविरुद्धार्थाभिधायकत्वं मन्वानो यथावस्तुदर्शी न स्यात्--इत्यर्थः || ३७ || ननु यदि एक एव आगमस्तत् तुल्यप्रमाणशिष्टानां विकल्प इति नीत्या विकल्पोपपत्तेः किं विषयभेदेन कृत्यम्?--इत्याशङ्क्य आह-- अनेकागमपक्षेऽपि वाच्या विषयभेदिता | अवश्यमूर्ध्वाधरतास्थित्या प्रामाण्यसिद्धये || ३५-३८ || अन्यथा नैव कस्यापि प्रामाण्यं सिद्ध्यति ध्रुवम् | आनैक्येऽपि आगमानां प्रामाण्यसिद्ध्यर्थमूर्ध्वाधरतास्थित्या विषयभेदित्वमवश्यवाच्यं नो चेत् कस्यापि आगमस्य परस्परप्रतीघातात् प्रामाण्यं न सिद्ध्येदेव--इति निश्चयः | तेन कञ्चित् क्वचित् नियुङ्क्ते इत्यादिदृशा कस्यचिदेव अधिकारिणो नियतोपायोपदेशकं शास्त्रं प्रमाणम्--इति भावः || ननु नित्यत्वाविसंवादाभ्यामेव आगमप्रामाण्यसिद्धौ किं विषयभेदाभेदवचनेन?--इत्याशङ्क्य आह-- नित्यत्वमविसंवाद इति नो मानकारणम् || ३५-३९ || नो मानकारणमिति--प्रत्यक्षादावनित्यत्वेऽपि प्रामाण्यवर्णनात्, आकाशादौ नित्यत्वेऽपि तदसंभवात्, स्वर्गाग्निहोत्रवाक्यादावविसंवादादर्शनेऽपि प्रामाण्याभ्युपगमात्, अस्ति कूपे जलम् इत्यादौ कदाचित् तद्दर्शनेऽपि प्रामाण्यानुपपत्तेः || ३९ || अभ्युपगम्य अपि आह-- अस्मिन्नंशेऽप्यमुष्यैव प्रामाण्यं स्यात्तथोदितेः | अस्मिन् नित्यत्वाविसंवादात्मनि प्रामाण्यकारणभागेऽपि अभ्युपगम्यमाने तथाभावोपदेशादमुष्य शैवस्यैव प्रामाण्यं स्यात् | वेदादेरपि शैवस्यैव सतो हि ᳚अन्तःसारविबोधैकपरवाङ्मयवर्णकः |
SKअकृत्रिमपरावेशमूलसंस्कारसंस्कृतः || शास्त्रार्थो लौकिकान्तोऽस्ति सप्तत्रिंशे परे विभौ |᳚ इत्याद्युक्तयुक्त्या परादिदशाविश्रान्तौ नित्यत्वं ᳚.....................णार्थवादः शिवागमः |᳚ इत्यर्थवादवाक्यादावपि अविसंवादः सिद्ध्येत् || ननु विसंवादे सत्यपि अर्थवादादिवाक्यानामस्त्येव गत्यन्तरं तत् किमनेन?--इत्याशङ्क्य आह-- अन्यथाव्याकृतौ कॢप्तावसत्यत्वे प्ररोचने || ३५-४० || अतिप्रसङ्गः सर्वस्याप्यागमस्यापबाधकः | अवश्योपेत्य इत्यस्मिन्मान आगमनामनि || ३५-४१ || अन्यथाव्याकृताविति--लक्षणादिना | कॢप्ताविति--वाच्यस्यैव अर्थस्य | असत्यत्वे इति--रोदनाद्रुद्र इत्यादौ | प्ररोचने इति--स्तुतिनिन्दादिना || ४१ || एवं हि कुतोऽयं नियमो यदेकस्मिन्नपि आगमे कस्यचिदेव वाक्यस्य अन्यथाव्याकरणादि, न अन्यस्येति भङ्ग्या सर्वस्यैव आगमस्य प्रामाण्यविप्रलोपः प्रसज्जेत्, तदागमप्रामाण्यं वा हातव्यम्, अस्मदुक्तयुक्तिसतत्त्वं वा ग्रहीतव्यम्, न अन्तराऽवस्थेयम्--इत्याह-- अवश्योपेत्यमेवैतच्छास्त्रनिष्ठानिरूपणम् | एतदिति--समनन्तरोक्तम् || ननु सर्वागमानां तुल्येऽपि प्रमाण्ये कथं शैव एव आदरातिशयः?--इत्याशङ्क्य आह-- प्रधानेऽङ्गे कृतो यत्नः फलवान्वस्तुतो यतः || ३५-४२ || अतोऽस्मिन् यत्नवान् कोऽपि भवेच्छंभुप्रचोदितः | तथा च आगमोऽपि एवम्--इत्याह-- तत्र तत्र च शास्त्रेषु न्यरूप्यत महेशिना || ३५-४३ || एतावत्यधिकारी यः स दुर्लभ इति स्फुटम् | यदुक्तम्-- शिद्धातन्त्रमिदं देवि यो जानाति समन्ततः | स गुरुर्दुर्लभः प्रोक्तो योगिनीहृदिनन्दनः ||᳚ इति || एतदेव गुरूपदेशप्रदर्शनपुरःसरमर्धेन उपसंहरति-- इत्थं श्रीशम्भुनाथेन ममोक्तं शास्त्रमेलनम् || ३५-४४ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके शास्त्रसम्मेलनं नाम पञ्चत्रिंशमाह्निकम् || ३५ || इत्थमुक्तेन प्रकारेण मम शास्त्रमेलनं मया शास्त्रं मेलितम्-- इत्यर्थः | न च एतत् स्वोपज्ञमिति श्रीशम्भुनाथेनोक्तमिति शिवम् ||
SKनिखिलागमार्थवीथीपथिकतया पृथुपदारोहः | पञ्चत्रिंशं व्यवृणोदाह्निकमेतज्जयरथाख्यः || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते शास्त्रसम्मेलनं नाम पञ्चत्रिंशमाह्निकं समाप्तम् || ३५ || षट्त्रिंशमाह्निकम् ᳚ विवेकः ᳚ अंशांशिकाक्रमेण स्फुटमवतीर्णं यतः समस्तमिदम् | शास्त्रं पूर्णाहन्तामर्शमयः शब्दराशिरवतु स वः || इदानीं सर्वशास्त्रविश्रान्तिधाम्नः प्रक्रान्तस्य शास्त्रस्य आयातिक्रमं कथयितुमुपक्रमते-- आयातिरथ शास्त्रस्य कथ्यतेऽवसरागता | एतदेव आह-- श्रीसिद्धादिविनिर्दिष्टा गुरुभिश्च निरूपिता | भैरवो भैरवी देवी स्वच्छन्दो लाकुलोऽणुराट् || ३६-१ || गहनेशोऽब्जजः शक्रो गुरुः कोट्यपकर्षतः | नवभिः क्रमशोऽधीतं नवकोटिप्रविस्तरम् || ३६-२ || एतैस्ततो गुरुः कोटिमात्रात् पादं वितीर्णवान् | दक्षादिभ्य उभौ पादौ संवर्तादिभ्य एव च || ३६-३ || पादं च वामनादिभ्यः पादार्धं भार्गवाय च | पादपादं तु बलये पादपादस्तु योऽपरः || ३६-४ || सिंहायार्धं ततः शिष्टाद् द्वौ भागौ विनताभुवे | पादं वासुकिनागाय खण्डाः सप्तदश त्वमी || ३६-५ || स्वर्गादर्धं रावणोऽथ जह्रे रामोऽर्धमप्यतः | विभीषणमुखादाप गुरुशिष्यविधिक्रमात् || ३६-६ || खण्डैरेकान्नविंशत्या विभक्तं तदभूत्ततः | अणुः अनन्तः अब्जजः ब्रह्मा | कोट्यपकर्षत इति भैरवेण हि नवापि कोटयोऽधीताः, भैरव्या अष्टौ, यावत् गुरुणा कोटिः | क्रमश इति�भैरवात् भैरव्या, ततः स्वच्छन्देन, यावत् शक्रात् गुरुणेति | एतैरिति भैरवादिभिः यदागमः ᳚भैरवाद्भैरका प्राप्तं सिद्धयोगीश्वरीमतम् | ततः स्वच्छन्ददेवेन स्वच्छन्दाल्लाकुलेन तु || लकुलीशादनन्तेन अनन्ताद्गहनाधिपम् | गहनाधिपतेर्देवि देवेशं तु पितामहम् || पितामहेन इन्द्रस्य इन्द्रेणापि बृहस्पतेः | कोटिह्रासाच्छ्रुतं सर्वैः स्वच्छन्दाद्यैर्महाबलैः ||᳚
SKइति | पादम्--चतुर्थं भागं पञ्चविंशतिर्लक्षाणि | उभाविति-- अनेन पादाविति द्वित्वं प्राच्यपादसहभावप्रयुक्तमिति उक्तं भवति; अन्यथा हि द्विवचनादेव द्वित्वसिद्धावुभाविति अफलं भवेत्, गणना च विसंवदेत् | पादार्धमिति--सार्धाणि द्वादश लक्षाणि | पादपादमिति सपादानि षट् लक्षाणि | अपरः पादपाद इति सपादषड्लक्षात्मैव | ततोऽर्धमिति-- सार्धद्वादशसहस्राधिकलक्षत्रयरूपम् | शिष्टादिति --एवंरूपात् द्वितीयार्धात् | द्वौ भागाविति-- वक्ष्यमाणरावणापहृतसार्धशतद्वयोपेतषट्पञ्चाशत्सहस्राधिक् अलक्षप्रमाणद्वितीयार्धापेक्षया प्रथमार्धात् सप्तषष्ट्युपेतैकचत्वारिंशच्छताधिकलक्षपरीमाणौ--इत्यर्थः | भागमिति--त्र्यशीत्यधिकद्वापञ्चाशत्सहस्रात्मकं तृतीयमंशम्-- इत्यर्थः | सप्तदशेति--प्राच्यैर्नवभिः खण्डैः सह | एषां च दिव्यविषयत्वमवद्योतयितुमेवमुपसंहारः | स्वर्गादर्धं जह्रे इति-- हठमेलापभङ्ग्या प्राप्तवान्--इत्यर्थः | अत इति-- रावणापहृतादर्धात् | अर्धमिति-- सपादशताधिकाष्टसप्ततिसहस्रसंख्याकम् | गुरुशिष्यक्रमादिति-- सर्वशेषः | एकान्नविंशत्या खण्डैरिति--प्राच्यैः सप्तदशभिः सह | अस्य च खण्डद्वयस्य भूलोकैकगोचरतां दर्शयितं सप्तदशभ्यः पृथक्संख्यया निर्देशः | यदभिप्रायेणैव ᳚शेषं कुमारिकाद्वीपे भविष्यति गृहे.............. |᳚ इत्यादि उक्तम् | तदिति--नवकोटिप्रविस्तरं सिद्धयोगेश्वरीमतम् | यदागमः-- ᳚तत्र बृहस्पतिः श्रीमांस्तस्मिन् व्याख्यामथारभे |᳚ इत्यादि उपक्रम्य ᳚दक्षश्चण्डो हरिश्चण्डी प्रमथो भीममन्मथौ | शकुनिः सुमतिर्नन्दो गोपालोऽथ पितामहः || श्रुत्वा तन्त्रमिदं देवि गता योगीश्वरीमतम् | कोटिमध्यात् स्फुटं तैस्तु पादमेकं दृढीकृतम् || संवर्ताद्यैस्तु वीरेशैर्द्वौ पादौ चावधारितौ | वामनाद्यैर्वरारोहे ज्ञातं भैरवि पादकम् || अवाप्यार्धं ततः शुक्रो बलिनन्दस्तदर्धकम् | सिंहस्तदर्धमेवं तु गरुडो लक्षमात्रकम् ||
SKलक्षार्धं तु महानागः पातालं पालयन् प्रभुः | वासुकिर्नाम नागेन्द्रो गृहीत्वापूजयत्सदा || तदा तस्य तु यच्छेषं तत्सर्वं दुष्टचेतसा | अपहृत्य गतो लङ्कां रावणो देवकण्टकः ||᳚ इति, ᳚तदेवमागतं मर्त्ये भुवनाद्वासवस्य तु | पारम्पर्यक्रमायातं रावणेनावतारितम् || ततो विभीषणे प्राप्तं तस्माद्दाशरथिं गतम् |᳚ इति, ᳚खण्डैरेकोनविंशैस्तु प्रभिन्नं श्रवणार्थिभिः | नवकोट्यन्तगं यावत्सिद्धयोगीश्वरीमतम् ||᳚ इति च | अत्र च लक्षमात्रमिति मात्रशब्देन लक्षार्धमिति | असमांशवाचिना अर्धशब्देन च किञ्चिदधिकसंख्यास्वीकारः कटाक्षीकृतो यदवद्योतनाय ग्रन्थकृता भागपरिकल्पनमेव कृतम् || प्रतिखण्डं च अत्र अष्टखण्डत्वमस्ति--इत्याह-- खण्डं खण्डं चाष्टखण्डं प्रोक्तपादादिभेदतः || ३६-७ || पादादीनेव निर्दिशति-- पादो मूलोद्धारावुत्तरवृहदुत्तरे तथा कल्पः | संहितकल्पस्कन्दावनुत्तरं व्यापकं त्रिधा तिस्रः || ३६-८ || देव्योऽत्र निरूप्यन्ते क्रमशो विस्तारिणैव रूपेण | नवमे पदे तु गणना न काचिदुक्ता व्यवच्छिदाहीने || ३६-९ || पादाद्याश्च एताः प्रतिनियतग्रन्थपरिमाणविषयाः पारिभाषिक्यः संज्ञाः | ननु तिस्रोऽपि देव्यस्त्रिधा चेदत्र प्रपञ्चात्मना रूपेण निरूप्यन्ते, तत् कस्मात् प्रत्येकं नवखण्डत्वं न उक्तम् ?-- इत्याशङ्क्य उक्तम्--अनुत्तरं व्यापकमिति | अत एव उक्तम्-- व्यवच्छिदाहीने नवमे पदे न काचित् गणना उक्तेति | यदागमः-- ᳚पादो मूलं तथोद्धार उत्तरं वृहदुत्तरम् | कल्पश्च संहिता चैव कथिता तव सुव्रते || कल्पः स्कन्दं वरारोहे समासात्कथयामि ते | पादः शतार्धसंख्यातो मूलं च शतसंख्यया || उद्धारं द्विगुणं विद्धि चतुर्धा तूत्तरं मतम् | अपरेयं वरारोहे अर्धाक्षरविवर्जिता || एवमुत्तरतन्त्रं स्यात्कथितं मूलभैरवे | यदापरा वरारोहे षड्भर्भागैर्विवर्जिता || तदा वृहोत्तरं तु स्यादमृताक्षरवर्जनात् | अक्षराणां शतं नाम परिभाषा निगद्यते || कल्पः सहस्रसंख्यातस्त्वपराया यशस्विनि |
SKद्वाषष्ट्यैव च श्लोकानां सहस्राणि चतुर्दश || तदा सा संहिता ज्ञेया सिद्धयोगीश्वरे मते | कल्पस्कन्दः पुराख्यातः कल्पाद् द्विगुणितो भवेत् || एवं तन्त्रविभागस्तु मया ख्यातः सुविस्तरात् |᳚ इति || ९ || ननु एतद्रामेण विभीषणात् प्राप्तं तस्मात् पुनः किं कश्चिदाप न वा?--इत्याशङ्क्य आह-- रामाच्च लक्ष्मणस्तस्मात् सिद्धास्तेभ्योऽपि दानवाः | गुह्यकाश्च ततस्तेभ्यो योगिनो नृवरास्ततः || ३६-१० || यदागमः-- ᳚विभीषणेन रामस्य रामेणापि च लक्ष्मणे | लक्ष्मणेन तु ये प्रोक्तास्तेषां सिद्धिस्तु हीनता || सिद्धेभ्यो दानवा ह्रस्वा दानवेभ्यश्च गुह्यकैः | गुह्यकेभ्यो योगिभिश्च योगिभ्यश्च नरोत्तमैः || संप्राप्तं भैरवादेशात्तपसोग्रेण भैरवि |᳚ इति || १० || एवं श्रीसिद्धातन्त्रनिर्दिष्टमायातिक्रममभिधाय गुरुनिरूपितमपि अभिधातुमाह-- तेषां क्रमेण तन्मध्ये भ्रष्टं कालान्तराद्यदा | तदा श्रीकण्ठनाथाज्ञावशात् सिद्धा अवातरन् || ३६-११ || त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये | द्वयाद्वये च निपुणाः क्रमेण शिवशासने || ३६-१२ || आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् | स चार्धत्र्यम्बकाभिख्यः संतानः सुप्रतिष्ठितः || ३६-१३ || अतश्चार्धचतस्रोऽत्र मठिकाः संततिक्रमात् | शिष्यप्रशिष्यैर्विस्तीर्णाः शतशाखं व्यवस्थितैः || ३६-१४ || अद्वये इति--त्रिककुलादौ | अर्धेति--दुहित्रपेक्षया | अर्धचतस्र इति-- अर्धेन चतस्रः सार्धास्तिस्रः--इत्यर्थः || १४ || ननु इह त्रैयम्बिकैव मठिका वक्तुं न्याय्या यद्द्वारा अस्य शास्त्रस्य आयातिः, किं मठिकान्तरव्यावर्णनेन?--इत्याशङ्क्य आह-- अध्युष्टसंततिस्रोतःसारभूतरसाहृतिम् | विधाय तन्त्रालोकोऽयं स्यन्दते सकलान्नसान् || ३६-१५ || एतदुपसंहरन्नन्यदवतारयति-- उक्तायातिरुपादेयभावो निर्णीयतेऽधुना | इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके आयातिक्रमनिरूपणंं नाम षट्त्रिंशमाह्निकम् || ३६ ||
SKइह आह्निकादाह्निकान्तरस्य परस्परमनुस्यूततां दर्शयितुमाद्यन्तयोरेकेन श्लोकेन पृथगुपसंहारोपक्रमयोरुपनिबन्धेऽपि सांप्रतं ग्रन्थान्ते तदाश्लेषमत्यन्तमवद्योतयितमेकेनैव अर्धेन युगपत्तदुपनिबन्ध इति शिवम् || १५ || अध्युष्टसंततिक्रमसंक्रान्तरहस्यसंप्रदायेन | षट्त्रिंशमाह्निकमिदं निरणायि परं जयरथेन || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते आयातिक्रमनिरूपणं नाम षट्त्रिंशमाह्निकं समाप्तम् || ३६ || सप्तत्रिंशमाह्निकम् ᳚ विवेकः ᳚ यन्मयतयेदमखिलं परमोपादेयभावमभ्येति | भवभेदास्त्रं जयति श्रीमालिनी देवी || तदेवमुपक्रान्तस्यैव शास्त्रस्य उपादेयभावं निर्णेतुं प्रागुपजीवनेन पीठिकाबन्धमारचयति-- उक्तनीत्यैव सर्वत्र व्यवहारे प्रवर्तिते | प्रसिद्धावुपजीव्यायामवश्यग्राह्य आगमः || ३७-१ || इह सार्वत्रिके व्यवहारे प्रवर्तिते पञ्चत्रिंशाह्निकोक्तनीत्या प्रसिद्धावुपजीव्यायामागम एव अवश्यग्राह्यो न अन्यथा किञ्चित् सिद्ध्येत् || १ || ननु लौकिकप्रमाणगोचरे वस्तुनि अस्तु प्रसिद्धिनिबन्धना सिद्धिः, सकलप्रमाणागोचरे योगिनामपि अगम्ये शिवे तु कथमेवं स्यात्?-- इत्याशङ्क्य आह-- यथा लौकिकदृष्ट्यान्यफलभाक् तत्प्रसिद्धितः | सम्यग्व्यवहरंस्तद्वच्छिवभाक् तत्प्रसिद्धितः || ३७-२ || अन्येति--अदृष्टम् ||२ || ननु एवमनेकप्रकारः प्रसिद्ध्यात्मा आगम इति कस्य तावदवश्यग्राह्यत्वम्?--इत्याशङ्क्य आह-- तदवश्यग्रहीतव्ये शास्त्रे स्वांशोपदेशिनि | मनाक्फलेऽभ्युपादेयतमं तद्विपरीतकम् || ३७-३ || यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् | क्षयं कर्मस्थितिस्तद्वदशङ्काद् भैरवत्वतः || ३७-४ || यदार्षे पातहेतूक्तं तदस्मिन्वामशासने | आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् || ३७-५ || तद्विपरीतमिति--महाफलम् ||५ || एवंविधं च एतत् किम् ?--इत्याशङ्क्य आह-- तच्च यत्सर्वसर्वज्ञदृष्टं तच्चापि किं भवेत् |
SKसर्वसर्वज्ञदृष्टमपि किं भवेत्?--इत्याशङ्कापुरःसरीकारेण तत्स्वरूपं दर्शयति-- यदशेषोपदेशेन सूयतेऽनुत्तरं फलम् || ३७-६ || अत्र च अन्तरा श्लोकद्वयमन्यथा लिखितमधरे व्यत्ययेन न्याय्यमिति तत्रैव व्याख्यास्यामः || ६ || ननु को नाम अयमशेष उपदेशो येन तदेवंविधं स्यात्?--इत्याशङ्क्य आह-- यथाधराधरप्रोक्तवस्तुतत्त्वानुवादतः | उत्तरं कथितं संवित्सिद्धं तद्धि तथा भवेत् || ३७-७ || यथा अत्र वैदिकाद्युक्तं क्रियादि वस्तुतत्त्वमनूद्य प्रकृष्टं तथा ज्ञानयोगादि स्वानुभवसिद्धमुक्तमिति || ७ || अत एव अधरशासनेषु असर्वज्ञप्रणीतत्वं निश्चीयते--इत्याह-- यदुक्ताधिकसंवित्तिसिद्धवस्तुनिरूपणात् | अपूर्णसर्ववित्प्रोक्तिर्ज्ञायतेऽधरशासने || ३७-८ || ननु अधरशासनेषु अपि ᳚आत्मा ज्ञातव्यो मन्तव्यः |᳚ इत्यादिदृशा ज्ञानादि उक्तमिति अत्र कस्मादसर्वज्ञप्रणीतत्वं ज्ञायते इत्युक्तम्?--इत्याशङ्क्य आह-- ऊर्ध्वशासनवस्त्वंशे दृष्ट्वापि च समुज्झिते | अधःशास्त्रेषु मायात्वं लक्ष्यते सर्गरक्षणात् || ३७-९ || समुज्झिते इति--तत्रैव प्ररोहाभावात् | सर्गरक्षणादिति-- लोकरक्षणात् हेतोः --इत्यर्थः || ९ || किञ्च अत्र प्रमाणम्?--इत्याशङ्क्य आह-- श्रीमदानन्दशास्त्रादौ प्रोक्तं च परमेशिना | ऋषिवाक्यं बहुक्लेशमध्रुवाल्पफलं मितम् || ३७-१० || नैव प्रमाणयेद् विद्वान् शैवमेवागमं श्रयेत् | ननु मन्वादिशास्त्रं यदि न ग्राह्यं तत् किं न अयं सर्व एव आचारो भ्रश्येत्?--इत्याशङ्क्य आह-- यदार्षे पातहेतूक्तं तदस्मिन् वामशासने || ३७-११ || आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् | पातहेतूक्तमिति--पातहेतोः सुरादेरुक्तं वचनम्--इत्यर्थः | पातकार्युक्तमिति तु स्पष्टः पाठः | मायोदरस्थितमिति-- लोकरक्षापरत्वात् || ननु एवं कर्मस्थितिः किं न नश्येत्?--इत्याशङ्कां दृष्टान्तोपदर्शनपूर्वकमपाकरोति यथेत्यादिना-- यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् || ३७-१२ || क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः |
SKननु भवतु एवं भैरवत्वापत्त्या, तावता तु तदागमस्य अवश्यग्राह्यत्वं कुतस्त्यम्?--इत्याशङ्क्य आह-- अज्ञत्वानुपदेष्टृत्वसंदष्टेऽधरशासने || ३७-१३ || एतद्विपर्ययाद् ग्राह्यमवश्यं शिवशासनम् | द्वावाप्तौ तत्र च श्रीमच्छ्रीकण्ठलकुलेश्वरौ || ३७-१४ || द्विप्रवाहमिदं शास्त्रं सम्यङ्निःश्रेयसप्रदम् | प्राच्यस्य तु यथाभीष्टभोगदत्वमपि स्थितम् || ३७-१५ || तच्च पञ्चविधं प्रोक्तं शक्तिवैचित्र्यचित्रितम् | पञ्चस्रोत इति प्रोक्तं श्रीमच्छ्रीकण्ठशासनम् || ३७-१६ || दशाष्टादशधा स्रोतःपञ्चकं यत्ततोऽप्यलम् | उत्कृष्टं भैरवाभिख्यं चतुःषष्टिविभेदितम् || ३७-१७ || अज्ञत्वात् विपरीतोपदेष्टृत्वेन संदष्टे स्पृष्टे--इत्यर्थः | तत्रेति--शिवशासने | प्राच्यस्येति--श्रैकण्ठस्य | पञ्चविधेति� चिदादिभेदात् || १७ || अत्रैव पीठचतुष्टयात्मकत्वं निर्णेतुमाह-- श्रीमदानन्दशास्त्रादौ प्रोक्तं भगवता किल | समूहः पीठमेतच्च द्विधा दक्षिणवामतः || ३७-१८ || मन्त्रो विद्येति तस्माच्च मुद्रामण्डलगं द्वयम् | भगवता किल आगमे समूहशब्देन पीठं प्रोक्तमेवं परिभाषितमित्यर्थः | दक्षिणवामत इति--शिवशक्तिरूपतया-- इत्यर्थः | मन्त्रो हि शिवस्वभावः, विद्या च शक्तिस्वभावेति | तस्मादिति--मन्त्रविद्यात्मनः पीठद्वयात् || एतदेव क्रमेण व्याचष्टे-- मननत्राणदं यत्तु मन्त्राख्यं तत्र विद्यया || ३७-१९ || उपोद्बलनमाप्यायः सा हि वेद्यार्थभासिनी | मन्त्रप्रतिकृतिर्मुद्रा तदाप्यायनकारकम् || ३७-२० || मण्डलं सारमुक्तं हि मण्डश्रुत्या शिवाह्वयम् | एवमन्योन्यसंभेदवृत्ति पीठचतुष्टयम् || ३७-२१ || यतस्तस्माद्भवेत्सर्वं पीठे पीठेऽपि वस्तुतः | उपोद्बलनमाप्याय इति | यत्सूत्रितम्-- ᳚विद्याशरीरसत्ता मन्त्ररहस्यम् |᳚ (शिषू. २|३) इति | वेद्यार्थभासिनीति शक्तिरूपत्वात् | मण्डलमिति मण्डं शिवाह्वयं सारं लातीत्यर्थः || ननु यद्येवमेकं पीठं सर्वात्मकं तत् किमेषां पृथगुपदेशेन?--इत्याशङ्क्य आह--
SKप्रधानत्वात्तस्य तस्य वस्तुनो भिन्नता पुनः || ३७-२२ || कथिता साधकेन्द्राणां तत्तद्वस्तुप्रसिद्धये | प्रत्येकं तच्चतुर्धैवं मण्डलं मुद्रिका तथा || ३७-२३ || मन्त्रो विद्येति च पीठमुत्कृष्टं चोत्तरोत्तम् | प्रत्येकमिति--एकैकध्येन | उत्तरोत्तरमुत्कृष्टमिति,--तेन मण्डलपीठात् मुद्रापीठम्, ततो मन्त्रपीठम्, ततो विद्यापीठं चेति || एतदेव प्रकृते विश्रमयति-- विद्यापीठप्रधानं च सिद्धयोगीश्वरीमतम् || ३७-२४ || तस्यापि परमं सारं मालिनीविजयोत्तरम् | किञ्च अत्र प्रमाणम्?--इत्याशङ्क्य आह-- उक्तं श्रीरत्नमालायामेतच्च परमेशिना || ३७-२५ || अशेषतन्त्रसारं तु वामदक्षिणमाश्रितम् | एकत्र मिलितं कौलं श्रीषडर्धकशासने || ३७-२६ || सिद्धान्ते कर्म बहुलं मलमायादिरूषितम् | दक्षिणं रौद्रकर्माढ्यं वामं सिद्धिसमाकुलम् || ३७-२७ || स्वल्पपुण्यं बहुक्लेशं स्वप्रतीतिविवर्जितम् | मोक्षविद्याविहीनं च विनयं त्यज दूरतः || ३७-२८ || रौद्रेति--मारणोच्चाटनादि | स्वप्रतीतिः स्वानुभवः | विनयम्-- तन्त्रप्रधानं शास्त्रम् || २८ || ननु अत्रापि शेषवृत्तौ कर्मादिबाहुल्यमपि उक्तं तत् किमतेदुक्तम्?-- इत्याशङ्क्य आह-- यस्मिन्काले च गुरुणा निर्विकल्पं प्रकाशितम् | मुक्तस्तेनैव कालेन यन्त्रं तिष्ठति केवलम् || ३७-२९ || ननु स्रोतोऽन्तराणामेव किं रूपं येभ्योऽपि अस्य उत्कृष्टत्वादेवमुपादेयत्वं निरूपयितुं न्याय्यम्?--इत्याशङ्क्य आह-- मयैतत्स्रोतसां रूपमनुत्तरपदाद् ध्रुवात् | आरभ्य विस्तरेणोक्तं मालिनीश्लोकवार्तिके || ३७-३० || जिज्ञासुस्तत एवेदमवधारयितुं क्षमः | वयं तूक्तानुवचनमफलं नाद्रियामहे || ३७-३१ || एवमेतदर्थाभिधायकत्वादिदमस्मत्कृतमपि शास्त्रमुपादेयमेव-- इत्याह-- इत्थं दददनायासाज्जीवन्मुक्तिमहाफलम् | यथेप्सितमहाभोगदातृत्वेन व्यवस्थितम् || ३७-३२ || षडर्धसारं सच्छास्त्रमुपादेयमिदं स्फुटम् | अनेन च अस्य ग्रन्थस्य ᳚इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः |
SKआह्निकानां समभ्यस्येत्स साक्षाद्भैरवो भवेत् || सप्तत्रिंशत्सु संपूर्णबोधो यद्भैरवो भवेत् | किं चित्रमणवोऽप्यस्य दृशा भैरवतामियुः ||᳚ (१|२८९) इत्यादिना उपक्रान्तमेव महाप्रयोजनत्वं निर्वाहितम् || ग्रन्थकृतां साङ्गोपाङ्गः परिचयः इदानीमेतद्ग्रन्थाभिधाने स्वात्मनि योग्यतां प्रकाशयितुं सातिशयत्वप्रयोजकीकारेण देशवंशदैशिकादिक्रममुट्टङ्क्य स्वेतिवृत्तमभिधत्ते-- षट्त्रंशता तत्त्वबलेन सूता यद्यप्यनन्ता भुवनावलीयम् | ब्रह्माण्डमत्यन्तमनोहरं तु वैचित्र्यवर्जं नहि रम्यभावः || ३७-३३ || भूरादिसप्तपुरपूर्णतमेऽपि तस्मिन् मन्ये द्वितीयभुवनं भवनं सुखस्य | क्वान्यत्र चित्रगतिसूर्यशशाङ्कशोभि- रात्रिन्दिवप्रसरभोगविभाग भूषा || ३७-३४ || तत्रापि च त्रिदिवभोगमहार्घवर्ष- द्वीपान्तरादधिकमेव कुमारिकाह्वम् | द्वितीयभुवनमिति--भुवर्लोकः | तत्रेति--द्वितीयभुवने | वर्षाणीलावृतादीनि | द्वीपाः--शाकादयः || अधिकत्वमेव दर्शयति� यत्राधराधरपदात्परमं शिवान्त- मारोढुमप्यधिकृतिः कृतिनामनर्घा || ३७-३५ || एतदेव व्यतिरेकद्वारेण उपपादयति-- प्राक्कर्मभोगिपशुतोचितभोगभाजा किं जन्मना ननु सुखैकपदेऽपि धाम्नि | सर्वो हि भाविनि परं परितोषमेति संभाविते न तु निमेषिणि वर्तमाने || ३७-३६ || कन्याह्वयेऽपि भुवनेऽत्र परं महीयान् देशः स यत्र किल शास्त्रवराणि चक्षुः | जात्यन्धसद्मनि न जन्म न कोऽभिनिन्दे- द्भिन्नाञ्जनायितरविप्रमुखप्रकाशे || ३७-३७ || निःशेषशास्त्रसदनं किल मध्यदेश- स्तस्मिन्नजायत गुणाभ्यधिको द्विजन्मा | कोऽप्यत्रिगुप्त इति नामनिरुक्तगोत्रः शास्त्राब्धिचर्वणकलोद्यदगस्त्यगोत्रः || ३७-३८ || तमथ ललितादित्यो राजा निजं पुरमानयत् प्रणयरभसात् कश्मीराख्यं हिमालयमूर्धगम् | अधिवसति यद्गौरीकान्तः करैर्विजयादिभि- र्युगपदखिलं भोगासारं रसात् परिचर्चितुम् || ३७-३९ || स्थाने स्थाने मुनिभिरखिलैश्चक्रिरे यन्निवासा
SKयच्चाध्यास्ते प्रतिपदमिदं स स्वयं चन्द्रचूडः | तन्मन्येऽहं समभिलषिताशेषसिद्धेर्न सिद्ध्यै कश्मीरेभ्यः परमथ पुरं पूर्णवृत्तेर्न तुष्ट्यै || ३७-४० || यत्र स्वयं शारदचन्द्रशुभ्र श्रीशारदेति प्रथिता जनेषु | शण्डिल्यसेवारससुप्रसन्ना सर्वं जनं स्वैर्विभवैर्युनक्ति || ३७-४१ || नारङ्गारुणकान्ति पाण्डुविकचद्बल्लावदातच्छवि प्रोद्भिन्नामलमातुलुङ्गकनकच्छायाभिरामप्रभम् | केरीकुन्तलकन्दलीप्रतिकृतिश्यामप्रभाभास्वरं यस्मिञ्शक्तिचतुष्ट्योज्ज्वलमलं मद्यं महाभैरवम् || ३७-४२ || त्रिनयनमहाकोपज्वालाविलीन इह स्थितो मदनविशिखव्रातो मद्यच्छलेन विजृम्भते | कथमितरथा रागं मोहं मदं मदनज्वरं विदधदनिशं कामातङ्कैर्वशीकुरुते जगत् || ३७-४३ || यत्कान्तानां प्रणयवचसि प्रौढिमानं विधत्ते यन्निर्विघ्नं निधुवनविधौ साध्वसं संधुनोति | यस्मिन् विश्वाः कलितरुचयो देवताश्चक्रचर्य- स्तन्मार्द्वीकं सपदि तनुते यत्र भोगापवर्गौ || ३७-४४ || उद्यद्गौराङ्कुरविकसितैः श्यामरक्तैः पलाशै- रन्तर्गाढारुणरुचिलसत्केसरालीविचित्रैः | आकीर्णा भूः प्रतिपदमसौ यत्र काश्मीरपुष्पैः सम्यग्देवीत्रितययजनोद्यानमाविष्करोति || ३७-४५ || सर्वो लोकः कविरथ बुधो यत्र शूरोऽपि वाग्मी चन्द्रोद्द्योता मसृणगतयः पौरनार्यश्च यत्र | यत्राङ्गारोज्ज्वलविकसितानन्तसौषुम्णमार्ग- ग्रस्तार्केन्दुर्गगनविमलो योगिनीनां च वर्गः || ३७-४६ || श्रीमत्परं प्रवरनाम पुरं च तत्र यन्निर्ममे प्रवरसेन इति क्षितीशः | यः स्वप्रतिष्ठितमहेश्वरपूजनान्ते व्योमोत्पतन्नुदसृजत्किल धूपघण्टाम् || ३७-४७ || आन्दोलनोदितमनोहरवीरनादैः सा चास्य तत्सुचरितं प्रथयांबभूव | सद्वृत्तसारगुरुतैजसमूर्तयो हि त्यक्ता अपि प्रभुगुणानधिकं ध्वनन्ति || ३७-४८ || संपूर्णचन्द्रविमलद्युतिवीरकान्ता- गाढाङ्गरागघनकुङ्कुमपिञ्जरश्रीः | प्रोद्धूतवेतसलतासितचामरौघै- राज्याभिषेकमनिशं ददती स्मरस्य || ३७-४९ ||
SKरोधःप्रतिष्ठितमहेश्वरसिद्धलिङ्ग- स्वायंभुवार्चनविलेपनगन्धपुष्पैः | आवर्ज्यमानतनुवीचिनिमज्जनौघ- विध्वस्तपाप्ममुनिसिद्धमनुष्यवन्द्या || ३७-५० || भोगापवर्गपरिपूरणकल्पवल्ली भोगैकदानरसिकां सुरसिद्धसिन्धुम् | न्यक्कुर्वती हरपिनाककलावतीर्णा यद्भूषयत्यविरतं तटिनी वितस्ता || ३७-५१ || तस्मिन् कुबेरपुरचारिसिंतांशुमौलि- सांमुख्यदर्शनविरूढपवित्रभावे | वैतस्तरोधसि निवासममुष्य चक्रे राजा द्विजस्य परिकल्पितभूरिसंपत् || ३७-५२ || तस्यान्वये महति कोऽपि वराहगुप्त- नामा बभूव भगवान् स्वयमन्तकाले | गीर्वाणसिन्धुलहरीकलिताग्रमूर्धा यस्याकरोत् परमनुग्रहमाग्रहेण || ३७-५३ || तस्यात्मजश्चुखलकेति जने प्रसिद्ध- श्चन्द्रावदातधिषणो नरसिंहगुप्तः | यं सर्वशास्त्ररसमज्जनशुभ्रचित्तं माहेश्वरी परमलंकुरुते स्म भक्तिः || ३७-५४ || तारुण्यसागरतरङ्गभरानपोह्य वैराग्यपोतमधिरुह्य दृढं हठेन | यो भक्तिरोहणमवाप्य महेशचिन्ता- रत्नैरलं दलयति स्म भवापदस्ताः || ३७-५५ || तस्यात्मजोऽभिनवगुप्त इति प्रसिद्धः श्रीचन्द्रचूडचरणाब्जपरागपूतः | माता व्ययूयुजदमुं किल बाल्य एव दैवं हि भाविपरिकर्मणि संस्करोति || ३७-५६ ||
SKभोगः शरीरम् | निमेषिणीति--क्षणक्षयिणीत्यर्थः | महीयस्त्वे शास्त्रचक्षुष्ट्वं हेतुः | नामनिरुक्तगोत्र इति--अत्रिगोत्रः--इत्यर्थः | गोत्रनाम श्लिष्टतया निर्दिष्टम् | करैरिति हस्तरश्मिवाचकम् | परमिति--अत्यर्थम् | अनेन च श्लोकद्वयेन अत्र निवासयोग्यत्वं दर्शितम् | स्वैर्विभवैर्युनक्तीति--अनेन अत्र सर्वविद्याकरस्थानत्वं प्रकाशितम् | शक्तीति--सिद्धाचतुष्कम् | तद्धि सितरक्तपीतकृष्णवर्णम् | विशिखव्रात इति--शोषणादिः, तस्य हि रागादि कार्यम् | चक्रेति--मुख्यानुचक्ररूपेषु | श्यामरक्तैरिति-- कृष्णपिङ्गलैः | देवीत्रितयेति--प्रकरणाद्यौचित्यादुक्तम् | वाग्मीति- -वृहस्पतिरपि | मसृणगतिः--शनैश्चरश्च | अङ्गारेति-- उदानवह्निरपि | ग्रस्तार्केन्दुत्वेन ग्रहणद्वयमपि व्यञ्जितम् | यत् प्रवरसेन इति--क्षितीशः पुरं निर्ममे, तस्मिन्नमुष्य द्विजस्य ललितादित्यो राजा निवासं चक्रे--इति दूरेण संबन्धः | व्योमोत्पतन्निति--अनेन अत्रापि सिद्ध्यानुगुण्यं प्रकाशितम् | सेति-- घण्टा | तैजसेति--लोहश्च | भोगापवर्गेति--श्लोकद्वयकटाक्षितयोः | पिनाकेति--आयुधं त्रिशूलमिति--यावत् | कुबेरपुरेति--उत्तरा दिक् | व्ययूयुजदिति--स्वतो वियुक्तं समपादयत्--प्रमीतमातृकोऽभूदिति यावत् ||५६ || तमेव संस्कारं व्यनक्ति-- माता परं बन्धुरिति प्रवादः स्नेहोऽतिगाढीकुरुते हि पाशान् | तन्मूलबन्धे गलिते किलास्य मन्ये स्थिता जीवत एव मुक्तिः || ३७-५७ || पित्रा स शब्दगहने कृतसंप्रवेश- स्तर्कार्णवोर्मिपृषतामलपूतचित्तः | साहित्यसान्द्ररसभोगपरो महेश- भक्त्या स्वयंग्रहणदुर्मदया गृहीतः || ३७-५८ || स तन्मयीभूय न लोकवर्तनी- मजीगणत् कामपि केवलं पुनः | तदीयसंभोगविवृद्धये पुरा करोति दास्यं गुरुवेश्मसु स्वयम् || ३७-५९ || पुरा करोतीति-- ᳚यावत्पुरानिपातयोर्लट्᳚ (३|३|४) इति लटः प्रयोगः || के ते गुरवः ?--इत्याशङ्क्य आह-- आनन्दसंततिमहार्णवकर्णधारः सद्दैशिकैरकवरात्मजवामनाथः | श्रीनाथसंततिमहाम्बरघर्मकान्तिः
SKश्रीभूतिराजतनयः स्वपितृप्रसादः || ३७-६० || त्रैयम्बकप्रसरसागरशायिसोमा- नन्दात्मजोत्पलजलक्ष्मणगुप्तनाथः | तुर्याख्यसंततिमहोदधिपूर्णचन्द्रः श्रीसोमतः सकलवित्किल शंभुनाथः || ३७-६१ || श्रीचन्द्रशर्मभवभक्तिविलासयोगा-- नन्दाभिनन्दशिवशक्तिविचित्रनाथाः | अन्येऽपि धर्मशिववामनकोद्भटश्री- भूतेशभास्करमुखप्रमुखा महान्तः || ३७-६२ || एते सेवारसविरचितानुग्रहाः शास्त्रसार- प्रौढादेशप्रकटसुभगं स्वाधिकारं किलास्मै | यत् संप्रादुर्यदपि च जनान्नैक्षताक्षेत्रभूतान् स्वात्मारामस्तदयमनिशं तत्त्वसेवारसोऽभूत् || ३७-६३ || सोऽनुग्रहीतुमथ शांभवभक्तिभाजं स्वं भ्रतरमखिलशास्त्रविमर्शपूर्णम् | यावन्मनः प्रणिदधाति मनोरथाख्यं तावज्जनः कतिपयस्तमुपाससाद || ३७-६४ || तुर्याख्यसंततीति--अर्धत्र्यम्बकाभिख्या | अक्षेत्रभूतानिति-- अपात्रप्रायान्--इत्यर्थः | उपाससादेति--अन्तेवासितामन्वभूत्-- इत्यर्थः || ६४ || तमेव कतिपयं जनं निर्दिशति-- श्रीशौरिसंज्ञतनयः किल कर्णनामा यो यौवने विदितशांभवतत्त्वसारः | देहं त्यजन् प्रथयति स्म जनस्य सत्यं योगच्युतं प्रति महामुनिकृष्णवाक्यम् || ३७-६५ || तद्बालमित्रमथ मन्त्रिसुतः प्रसिद्धः श्रीमन्द्र इत्यखिलसारगुणाभिरामः | लक्ष्मीसरस्वति समं यमलञ्चकार सापत्नकं तिरयते सुभगप्रभावः || ३७-६६ || अन्ये पितृव्यतनयाः शिवशक्तिशुभ्रः क्षेमोत्पलाभिनवचक्रकपद्मगुप्ताः | ये संपदं तृणममंसत शंभुसेवा- संपूरितं स्वहृदयं हृदि भावयन्तः || ३७-६७ || षडर्धशास्त्रेषु समस्तमेव येनाधिजग्मे विधिमण्डलादि | स रामगुप्तो गुरुशंभुजास्त्रसेवाविधिव्यग्रसमग्रमार्गः || ३७-६८ || अन्योऽपि कश्चन जनः शिवशक्तिपात- संप्रेरणापरवशस्वकशक्तिसार्थः | अभ्यर्थनाविमुखभावमशिक्षितेन तेनाप्यनुग्रहपदं कृत एष वर्गः || ३७-६९ || आचार्यमभ्यर्थयते स्म गाढं संपूर्णतन्त्राधिगमाय सम्यक् | जायेत दैवानुगृहीतबुद्धेः
SKसंपत्प्रबन्धैकरसैव संपत् || ३७-७० || सोऽप्यभ्युपागमदभीप्सितमस्य यद्वा स्वातोद्यमेव हि निनर्तिषतोऽवतीर्णम् | सोऽनुग्रहप्रवण एव हि सद्गुरूणा- माज्ञावशेन शुभसूतिमहाङ्कुरेण || ३७-७१ || विक्षिप्तभावपरिहारमथो चिकीर्षन् मन्द्रः स्वके पुरवरे स्थितिमस्य वव्रे | आबालगोपमपि यत्र महेश्वरस्य दास्यं जनश्चरति पीठनिवासकल्पे || ३७-७२ || तस्याभवत् किल पितृव्यवधूर्विधात्रा या निर्ममे गलितसंसृतिचित्रचिन्ता | शीतांशुमौलिचरणाब्जपरागमात्र- भूषाविधिर्विहितवत्सलिकोचिताख्या || ३७-७३ || मूर्ता क्षमेव करुणेव गृहीतदेहा धारेव विग्रहवती शुभशीलतायाः | वैराग्यसारपरिपाकदशेव पूर्णा तत्त्वार्थरत्नरुचिरस्थितिरोहणोर्वी || ३७-७४ || भ्रतापि तस्याः शशिशुभ्रमौले- रभक्त्या परं पावितचित्तवृत्तिः | स शौरिरात्तेश्वरमन्त्रिभाव- स्तत्याज यो भूपतिमन्त्रिभावम् || ३७-७५ || तस्य स्नुषा कर्णवधूर्विधूत- संसारवृत्तिः सुतमेकमेव | यासूत योगेश्वरिदत्तसंज्ञं नामानुरूपस्फुरदर्थतत्त्वम् || ३७-७६ || यामग्रगे वयसि भर्तृवियोगदीना- मन्वग्रहीत् त्रिनयनः स्वयमेव भक्त्या | भाविप्रभावरभसेषुजनेष्वनर्थः सत्यं समाकृषति सोऽर्थपरम्पराणाम् || ३७-७७ || भक्त्युल्लसत्पुलकतां स्फुटमङ्गभूषां श्रीशंभुनाथनतिमेव ललाटिकां च | शैवश्रुतिं श्रवणभूषणमप्यवाप्य सौभाग्यमभ्यधिकमुद्वहति स्म याऽन्तः || ३७-७८ || अम्बाभिधाना किल सा गुरुं तं स्वं भ्रतरं शम्भुदृशाभ्यपश्यत् | भाविप्रभावोज्ज्वलभव्यबुद्धिः सतोऽवजानाति न बन्धुबुद्ध्या || ३७-७९ || भ्रता तदीयोऽभिनवश्च नाम्ना न केवलं सच्चरितैरपि स्वैः | कृष्णवाक्यमिति | यद्गीतम्-- ᳚शुचीनां श्रीमतां गेहे योगभ्रष्टोऽपि जायते || अथवा योगिनामेव जायते धीमतां कुले | एतद्धि दुर्लभतरं जन्म लोके यदीदृशम् || तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् | ततो भूयोऽपि यतते संशुद्धौ कुरुनन्दन || पूर्वाभ्यासेन तेनैव हिर्यते ह्यवशोऽपि सन् |
SKजिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते || प्रसङ्गाद्यतमानस्तु योगी संशुद्धकिल्विषः | अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ||᳚ (६|४७) इति | हृदीति--विमर्शभुवि--इत्यर्थः | शक्तिः सामर्थ्यम् | एष वर्गः संपूर्णतन्त्राधिगमाय आचार्यमभ्यर्थयते स्म--इति संबन्धः | अस्येति--वर्गस्य | यद्वेति--तदभ्यर्थनानवकॢप्तिद्योतनाय पक्षान्तरनिर्देशः | तस्येति--मन्द्रस्य | मन्त्रीति --साधकोऽपीति || सच्चरितकृतमेव अभिनवत्वं दर्शयति-- पीतेन विज्ञानरसेन यस्य तत्रैव तृष्णा ववृधे निकामम् || ३७-८० || सोऽन्यश्च शांभवमरीचिचयप्रणश्य- त्सङ्कोचहार्दनलिनीघटितोज्ज्वलश्रीः | तं लुम्पकः परिचचार समुद्यमेषु साधुः समावहति हन्त करावलम्बम् || ३७-८१ || इत्थं गृहे वत्सलिकावितीर्णे स्थितः समाधाय मतिं बहूनि | पूर्वश्रुतान्याकलयन् स्वबुद्ध्या शास्त्राणि तेभ्यः समवाप सारम् || ३७-८२ || स तन्निबन्धं विदधे महार्थं युक्त्यागमोदीरिततन्त्रतत्त्वम् | आलोकमासाद्य यदीयमेष लोकः सुखं सञ्चरिता क्रियासु || ३७-८३ || सन्तोऽनुगृह्णीत कृतिं तदीयां गृह्णीत पूर्वं विधिरेष तावत् | ततोऽपि गृह्णातु भवन्मतिं सा सद्योऽनुगृह्णातु च तत्त्वदृष्ट्या || ३७-८४ || ग्रन्थस्य च अस्य अन्वर्थाभिधत्वं प्रकाशयितुमाह--स तन्निबन्धमित्यादि | अनुग्रहग्रहणयोश्च व्यत्ययेन स्थितिं दर्शयितुं पूर्वमिति तदपीति च उक्तम् || ८४ || किं वा प्रादेशिकवैदुष्यशालिविद्वज्जनाभ्यर्थनया, शिव एव अत्र श्रोता भविष्यति--इत्याह-- इदमभिनवगुप्तप्रोम्भितं शास्त्रसारं शिव निशमय तावत् सर्वतः श्रोत्रतन्त्रः | तव किल नुतिरेषा सा हि त्वद्रूपचर्चे- त्यभिनवपरितुष्टो लोकमात्मीकुरुष्व || ३७-८५ ||
SKहे परमेश्वर शिव ! त्वमिदं भवच्चरणचिन्तनलब्धप्रसिद्धिना अभिनवगुप्तेन सर्वविद्यासतत्त्वगर्भीकारात्मना प्रकर्षेण उम्भितम्, अत एव शास्त्राणां मध्ये सारं निशमय मे श्रोतासि--इत्यर्थः, यतस्त्वं सर्वतः श्रोत्रतन्त्रः--सर्वज्ञ इति यावत् | नहि असर्वज्ञस्य एतदवधारणेऽधिकार एव--इति भावः | न च एतदेव अत्र निमित्तम्--इत्याह--तव किल नुतिरेषा--इति | स्तोत्ररूपत्वं च अत्र न अस्तीति न संभावनीयम्--इत्याह--सा हि त्वद्रूपचर्चेति | सा नुतिर्हि तस्य तव नुत्यस्य रूपचर्चा पौनःपुन्येन स्वरूपपरामर्श इत्यर्थः | सैव च इह प्रतिपदं संविदद्वयात्मनः शिवस्य निरूपितेति | अभितः--समन्तात् नवे स्तवे नाथ मम अभिनवस्य परितुष्टः सन् निखिलं लोकमात्मीकुरुष्व प्रत्यभिज्ञातस्वात्मतया स्वस्वरूपैकरूपं संपादय येन सर्वस्यैव एतदधिगमाय अधिकारो भवेदिति शिवम् || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके उपादेयभावादिनिरूपणंं नाम एकोनत्रिंशमाह्निकम् ||३७ || एतत्सप्तत्रिंशं किलाह्निकं जयरथेन निरणायि | आमृशतामियदन्तं सतामिदं सर्वथास्तु शिवम् || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते उपादेयभावादिनिरूपणं नाम सप्तत्रीम्शमाह्निकं समाप्तम् || ३७ || ||समाप्तोऽयं ग्रन्थः || टोप् ंओवे षेलेच्तेद् टो ईन्बोxड्रfत्स्ष्पम् Bइन्Cअबिनेतॄएच्य्च्लेद्Cअबिनेत्ड्रfत्स्षेन्त् ईन्बोx Fइर्स्त् | Pरेविओउस् | णेxत् | ळस्त् षिfय् ःओमे | Fएएद्बच्क् | आद्वेर्तिसे | टेर्म्स् ------------------------------------------------------------------------------ -- � Cओप्य्रिघ्त् षिfय् ळ्त्द्, १९९८-२००४. आल्ल् रिघ्त्स् रेसेर्वेद्. षेए डिस्च्लैमेर्,Pरिवच्य् Pओलिच्य्.ṁ Pअरेन्तल् ङुइदन्चे ओन् पोर्नोग्रफ्य् षिते ओप्तिमिशेद् fओर् ईन्तेर्नेत् Exप्लोरेर् ४.० अन्द् अबोवे.