The Cycle of the Attainment of Concentration

Samādhisaṃbhāraparivarta · Dईपंकरश्रीज्ञान [= Aतीश]: Sअमाधिसंभारपरिवर्त

The Cycle of the Attainment of Concentration

Samādhisaṃbhāraparivarta

Dईपंकरश्रीज्ञान [= Aतीश]: Sअमाधिसंभारपरिवर्त

SK
Sअमाधिसंभारपरिवर्तः
SK
लोकनाथाय नमः
SK
बोधिचित्तं दृढं कुर्यात् पूर्व कारुण्यशक्तिजम् / भवभोगसुखे ऽसक्तः परिग्रहपराङ्मुखः
SK
श्रद्धादिधनसम्पन्नो गुरुं बुद्धसमं भजेत् / तद्दिष्टसमयाचारं परिपालितुमुद्यतः
SK
कुम्भगुह्याभेषेकं तु प्रसादाल्लभते गुरोः / कायवाक् चित्तसंशुद्धः सिद्धिपात्रं स साधकः
SK
समाध्यङ्गसमुद्भूतसंभारपारिपूरितः / शीघ्रं सिद्ध्याप्तिरेवं च गुह्यमन्त्रनयस्थितिः
SK
समाध्यङ्गच्युतौ तस्य विपक्षस्थितितस्तथा / जन्मकोटिसहस्रैश्च समाधिर्न प्रसिध्यति
SK
तत्समाधिप्रसिध्यर्थ गुह्यवृत्तस्थयोगवित् / तद् भिन्नं चिन्तनं त्यक्त्वा दृढवीर्येण चोद्यमेत्
SK
समाधेर्यानि चाङ्गानि विपक्षस्तद्विनिश्चये / समाध्यङ्गं विपक्षश्च संक्षेपेण समुच्यते
SK
शीलसम्पत्तियुक्तत्वं भोगेषु निरपेक्षता / क्षान्तिर्दृढप्रतिज्ञा च जनसंसर्गवर्जनम्
SK
कायवाक् चित्तकार्येषु सम्प्रजन्यसमन्वयः / बुद्धकायस्तुतिस्मृत्या कायानुस्मृतिसंयुतिः
SK
यस्मिन् काले तु यत्कार्य दार्ढ्र्य तस्य ह्यनुस्मृतौ / पञ्चावरणहानिश्च युक्तकृद् भक्तमानता
SK
समस्तलोकधर्मेषु चित्तोपेक्षा सदा तथा / संलेखो ऽङ्गानि चेमानि विपक्षस्तद्विपर्ययः
SK
समाधिसम्भारकृतैर्हि पुण्यैः समाधिं वज्रोपममेतु लोकः / १२, अ ब /
SK
समाधिसम्भारपरिवर्तो महापण्डिताचार्यदीपङ्करश्रीज्ञानपादविरचितः समाप्तः //
SK
तेनैव भारतीयोपाध्यायेन महासंशोधकलोकचक्षुषा भिक्षु-शाक्यमतिना च अनूद्य निर्णीतः //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Dīpaṃkaraśrījñāna [= Atīśa]: Samādhisaṃbhāraparivarta (sa_dIpaMkarazrIjJAna-samAdhisaMbhAraparivarta.htm).

Source