Treasure of Mantras

Mantrakoṣa

Treasure of Mantras

Mantrakoṣa

SK
१अ) श्रीगणेशाय नमः || प्रणम्य सूर्यं विघ्नेशं शिवं दुर्गां हरिं क्रमात् | प्रकटीकृत्य सन्मंत्रान् वक्ष्ये सांगान्सुगोपितान् || आगमेषु मया ज्ञाताः प्रयोगागुर्वनुग्रहात् | पूजा मात्रं तथाप्पत्रलिख्यतेग्रंथ गौरवात् || विंशत्संख्या परिच्छेदे मंत्रकोषेन दूषिताः | ये मंत्रास्तेत्रलिख्यंते पूजादि फलपूर्वकाः || प्रथमे तु परिच्छेदे पूजाफल मनुक्रमात् | लिंगपूजा विशेषश्च देवाधार विवेचनं || शलग्रामफलं चैव तत्परीक्षादिकं तथा | द्वितीयेत्वर्चनद्रव्यं परिभाषा विधिक्रमः || वस्त्रादि रूपकथनसधिकारिनिरूपणं | पात्रलक्षणं मर्घ्यं च स्नानपात्रादिकं तथा || पूजाद्रव्यविहीने च पूजनेऽनिष्टभागिता | विशेषपात्रदानेन विशेषफलभागिता || घृतादि स्नानजं पुण्यं सूर्यादीनां विशेषतः | पूजोपकरणं चेति लिख्यते तत्समासतः || तृतीयेऽनुलेपनं प्रोक्तं ग्राह्याग्राह्यं च पुष्पकं | सूर्यादीनां च सर्वेषां सामान्यकुसुमानि च || चतुर्थे धूपदीपादि वस्त्रालंकरणादिकं | पंचमे मंत्रदीक्षा च षष्ठे तु गुरुशिष्ययोः || १ब्) परीक्षामेलनं चैव मंत्राणाम् ऋजुमार्गतः | सप्तमे भूतशुद्धिश्च व्यासतश्च समासतः || अष्टमे मातृकान्यासः केशवादि प्रभेदतः | नवमे सरस्वती मंत्रादशमेश्रीरनुक्रमः || एकादशेरवेर्मंत्राद्वादशे वैद्यराजिकाः | त्रयोदशे च शैवाः स्युर्दौर्गाश्चापि चतुर्दशे || वैष्णवाः पंचदशके नारसिंहास्तु षोडशे | नानामंत्राः सप्तदशेऽष्टादशेत्तानिकानिचित् || एकोनविंशेयंत्राणिविंशे मुद्राक्षमालिका | एवं क्रमानुकथने नमो होन्वेषणें भवेत् || न कोषात् सुगमोपायोमंत्रार्णव विलंघने | न मंत्रात् सुगमो पायो भवार्णव विलंघने || विन्ययज्ञं विनातीर्थं विनादानं विनातपः | स्वर्गादिदेवं पूजायां जपध्यानांवु पुष्पतः || अनेकायासवित्तैश्च स्वर्गः साध्यो महाजनैः | स एव साध्यते लोकैर्मंत्रमात्रेण पूजनात् || तस्मात् कलियुगे घोरे धनविद्यां विवर्जिताः | नराः कुरुतं देवानामर्चनं श्रद्धयान्विताः ||
SK
एवं पुष्पादिनापि देवपूजां कर्तुमसमर्थ | श्वेत्तदा मंत्रजपेनैव साधयति स्वर्गादिकं || तथा चोक्तं मनुना | २अ) जप्येनैव तु संसिद्धोद्ब्राह्मणो नात्र संशयः | कुर्यादनान्नवा कुर्यान्मैत्रो ब्राह्मण उच्यते || ब्राह्मण उत्युपलक्षणं | किंतु यत्र यस्याधिकारस्तत्तन्मंत्रं जपेत् | तस्य तेनैव संसिद्धिरिति उक्तं च भरते | आयुष्यंधनं पुत्राṁश्च पशून् विद्यां महद्यशः | धर्मार्थकाममोक्षाṁश्च लभते वै जपन्नरः || जपेचेदालस्यं भवति तदा ध्याने नैव देवता वरं ददाति | तथा च ध्यानेन मुनयः सर्वे परांसिद्धिमवाप्नुयुरिति | तच्च ध्यानं द्विविधं सगुणं निर्गुणं चेति | निर्गुणं मुमुक्षुभिः कार्यं सगुणमागमोक्त मंत्रपूतं गृहस्थैः कार्यं | तेऽत्र मंत्रालिख्यंते | वन्यपुष्पपूजादि मात्रेण कथं स्वर्गादि सिद्धिरित्पांशंकायां प्रमाणवचनानि लिख्यंते | प्रथमतः प्रयोजनमनुद्दिश्य नमंदोपि प्रवर्तते इति न्यायात् | तथा च मत्स्यपुराणे | यस्तु संपूजयेन्नित्यं देवतां नियतेंद्रियः | भक्तिभाव समायुक्तः सोपि गच्छेत्य संगतिं || कालिकापुराणे | शिवं भास्करमग्निं च केशवं कौशिकीमपि | मनसाऽनर्चयन् याति देवलोका दधोगतिं || २ब्) मनसा श्रद्धया अनर्चयन् | अथ वा मनसाप्यनर्चयन् इत्यावश्यकपूजोक्तिरतिष्ट स्रवणात् | कौशिकीदुर्गा | अत्र पाठ क्रमेण पूजाक्रमो नवोद्धव्यः | यतः पूर्वं सूर्यपूजाशेषेण देवपूजेति शिष्टाचारो दृश्यते || भविष्यपुराणे | यः प्रदद्याद्गवां लक्षं दोग्ध्रीणां वेदपारगे | एकाहमर्चयेद्भानुं तस्य पुण्यं ततोधिकं || सामान्यतोपि देवार्चने गोप्रदानफलं भवति वाधिकं | तथा च याज्ञवल्क्यः | श्रांतसंवाहनंरेणि परिचर्या सुरार्चनं | विप्रपादोदकेच्छिष्टमार्जनं गोप्रदानवत् || हरिनाथनिवंधादौ क्वचिदेवं पाठः | यः प्रदद्याद्गवां लक्षं येग्ध्रीणां वेदपारगे | एकाहमर्चयेद्भानुं शिवं वाप्यथ केशवं ||
SK
भवेच्चैव नरश्रेष्ठ तस्य पुण्यं ततोधिकं | अश्वमेध सहस्राणि वाजपेय शतानि च || सूर्यस्यार्चार्चनस्यैते कलानांर्हति षोडशीं | अर्चा प्रतिमा | तथा सदायजंति यज्ञेन दानं ददति ते सदा | सदा ते वायुभक्षाश्चयेर्चयंति दिवाकरा तथा || येऽर्चयंति महात्मानं विघ्नराजं सदानराः | तेषां सर्वसमृद्धिश्च सर्वसिद्धिश्च जायते || सुरार्चां लक्षणैर्हीनां यस्तु पूजयते नरः | ३अ) तस्यान्नं नाभिनंदंति तस्मात्तां परिवर्जयेत् || इत्यनिष्टां श्रवणात्सलक्षणा पूजयेत् | लक्षणं तु ग्रंथगौरवभयान्नलिखितं || स्कंदपुराणे | अश्वमेध सहस्राणि राजसूय शतानि च | महेशार्चनं पुण्यस्यकलां नार्हति षोडशीं || यावन्नाभ्येति मरणं यावन्नाभ्येति तेजस | यावन्नेंद्रियवैकल्यंतावदेवार्चयेश्वरं || भविष्यपुराणे | येन रानार्चयंतीह शिवं त्रिभुवनेश्वरं | न ते स्वर्गस्य मोक्षस्य राज्यस्यापि न भाजनं || वरं प्राणपरित्यागः शिरसो वापि कर्तनं | नत्व संपूज्य भूंजीत भगवंतं त्रिलोचनं || स्फुटं निर्वहते यस्य यावज्जीवं शिवार्चनं | मनुष्य चर्मणानद्धः स रुद्रो नात्र संशयः || आकाशं लिंगमित्याहुः पृथिवी तस्यपीठिका | आलयः सर्वभूतानां लयनाल्लिंग मुच्यते || अर्चायां पूजयेद्योमां विष्णुर्भवति पूजितः | अर्चिता मूर्तयः सर्वायोमेलिंगं समर्चयेत् || लिंगपुराणे | लिंगेपि पूजिते सर्वमर्चितं स्याच्चराचरं | तस्मात्तदर्चनं कार्यं लिंगस्य सुमहात्मभिः || अनेकजन्मसाहस्रं भ्राम्यमानस्तु योनिषु | कथं माप्नोति वै मुक्तिं शिवलिंगार्चनं विना || ३ब्) सर्वेंद्रिय प्रसक्तोपि युक्तो वा सर्वपातकैः | सोपि याति शिवं देविलिंगं योर्चयतीहमे || अर्चायां अर्चयेद्योमां पूर्णमष्टशतं नरः | एकं च दिवसं लिंगे सममेतन्न संशयः || भविष्यपुराणे | यः कृत्वा पार्थिवं लिंगं पूजयेच्छुभवेदिकं | इहैव धनवान् श्रीमानं ते रुद्रस्तु जायते || शुभवेदिकं शोभनवेदिकायुक्तं | ब्रह्मपुराणे |
SK
हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक् | पशुपतिः शिवश्चेति क्षमस्वेति विसर्जनं || मृदाहरण संघट्ट प्रतिष्ठाह्वानमेव च | स्नपनं पूजनं चैव क्षमस्वेति विसर्जनं || ॐ हराय नमः मृदमाहरामि || १ || ॐ महेश्वराय नमः मृदं संघट्टयामि || २ || ॐ शूलपाणये नमः मृदं प्रतिष्टयामि || ३ || ॐ पिनाकधृगेनमः मृदिशिवमावाहयामि || ४ || ॐ पशुपतये नमः पाद्यादिकं स्नपनं कुर्यात् || ५ || ॐ शिवाय नमः | इति पूजयेत् || ६ || इति पूजाक्रमः || उक्तं चागमे | पार्थिवं सिद्धिदमिति | त्रिसंध्यं पूजयेल्लिंगं कृत्वा विंवेन पार्थिवं | दशैकादशिकं यावत् तस्य पुण्यफलं शृणु || अनेनैव स्वदेहेन रुद्रः संजायते क्षितौ | पापहा सर्वमर्त्यानां दर्शनात् स्पर्शनादपि || तथा अप्यामलकमात्रं तु लिंगं कृत्वाभि पूज्य च | ४अ) हिरण्मयं रत्नमयं शिवलोके महीयते || मृद्भस्मगोसकृत्पिंडताम्रकांस्यमयं च वा | कृत्वा लिंगं सकृत्पूज्यवसेत् कल्पायुतंदिवि || देवीपुराणे | वार्क्ष्यं वित्तप्रदं लिंगं स्फाटिकं सर्वकामदं | तथा नर्मदागिरिजं श्रेष्ठमन्यद्वापि हि लिंगवत् || कृत्वा पूजयविप्रेंद्रप्राक्ष्यसे चेप्सितं फलं | वार्क्ष्यं शुभवृक्षसंभवं | अन्यद्वा शैलांतरजमपि लिंगवत् | तत्र सर्वत्र लिंगं कर्कशमपि क्षुद्रमपि स्थूलं चिपिटकाकारं पिंडिका विषमवर्णं | व्यंगं व्यंगपिंडकं | मानोन्मानहीनं | मानोन्मानहीनपिंडिकाचन पूज्यं | वाणलिंगं च कपिलं निषिद्धं | पक्वजंवूफलाभं न निषिद्धं | सानं यथा लिंगमस्तकविस्तारो लिंगोच्छ्राय समोभवेत् | द्विगुणः परिणाहः स्यात्तद्वत्पिंडी व्यवस्थिता | पिंडिकाया उपरिभागोऽधोभागश्चोच्चत्वं च लिंगात्प्रणालिका च समा एव | ब्रह्मपुराणे | वर्णकैः सितरक्तैश्च अप्यंगुल्यापियो लिखेत् | लिखित्वा पूजयेद्यस्तु भवेत्सोपि गणेश्वरः || पांशुनाक्रीडमानोपि लिंगं कुर्यात्तुयोनरः | पुण्यात् स लभते राज्य स सपत्त्नं सकंटकं || अथ देवी पूजाफलं | भविष्यपुराणे | ४ब्)
SK
अग्निहोत्रादिकं कर्मवेदा यज्ञाः स दक्षिणाः | चंडिकार्चार्चनस्यैतेलक्षांशेनापिनो समाः || तथान्यः सदा पूजयेद्दुर्गां प्रणमेद्वापि भारत | स योगी स मुनिर्धीमान् तस्य मुक्तिः करेस्थिता | तथा स दाता स मुनिर्यष्टा स तपस्वी स तीर्थगः || यः सदा पूजयेद्दुर्गां पुष्पगंधानुलेपनैः इत्यादि || अथ विष्णुपूजाफलं || उक्तं च विष्णुपुराणे | भौमान्मनोरथान्स्वर्गं स्वर्गिवंद्यं तथा स्पदं | प्राप्नोत्याराधिते विष्णौ मनसा पद्यदिच्छति इत्याराधनफलं || न तु पूजामात्रस्य | ऐहिकान् पुत्रादीन् | स्वर्गिवंद्यं इद्रत्वरूपं | यद्यपि विष्णुपूजाफलमैहिकं न दृश्यते तथाप्यानुषंगिकं ज्ञेयं | नरसिंहपुराणे | अर्चनं संप्रवक्ष्यामि देवदेवस्य चक्रिणः | यत्कृत्वा मुनयः सर्वे परां सिद्धिमितोगतः || नरसिंहपूजायां च | यस्तु पूजयते नित्यं नरसिंहं सुरोत्तमं | सस्वर्गमोक्षभागी स्यान्नात्र कार्याविचारणा || तस्मादेकमना भूत्वा यावज्जीवं प्रतिज्ञया | अर्चनान्नरसिंहस्य संप्राप्नोत्यभिवांछितं || नरसिंहपुराणे | नरके पच्यमानस्य यमेन परिभाषितं | किंत्वयानार्चितो देवः केशवः क्लेशनाशनः || अलाभे प्रोक्तद्रव्याणामुदकेनापिनार्चितः | योगयाज्ञवल्क्योपि | विष्णुर्ब्रह्मा च रुद्रश्च विष्णुर्देवोदिवाकरः | तस्मात् पूज्यतमंनान्यमहंमन्ये जनार्दनात् इत्यादि वचनाद्विष्णु पूजा नित्या अवश्यं कर्तव्या भवति रक्तं च विष्णु स्मृत्यां नित्यस्नानविध्यंतरं | ५अ) अथ सु स्नातः सु प्रक्षालितपाणिपादः स्वाचांतो देवार्चायां स्थले वा भगवंतमनादिनिधनं वासुदेवं पूजयेदिति तदंते वैश्वदेवं विधिरेवोक्त इति || सूर्यपूजानंतरं नरसिंहपुराणमपि | जलाद्देवं नमस्कृत्य ततो गृहपतिः पुनः || विधिना ब्रह्मसूक्तस्य ततो विष्णुं समर्चयेत् | वैश्वदेवं ततः कुर्याद्वलिकर्म यथाविधि || इत्यादि वचनपर्यालोचन या विष्णु पूजानंतरं वैश्वदेविकमिति विष्णुपूजानित्या ||
SK
अथ देवाधाराः | अश्वग्नौ हृदये सूर्येस्थंडिले प्रतिमासु च | षट्वेतेषु हरेः सम्यगर्चनं सूरिभिस्मृतमिति षट्स्थानानि श्रेष्ठानि | अन्यत्रापि शालग्रामादौ पूजाफलमाहात्म्यमुक्तं | तथा च भगवानाह | हृदिकश्चित्पटेकश्चिल्लेख्ये कश्चित्तुमानवः | पूजयेद्य दिवाचक्रे ममतेज्ॐश संभवे || नरसिंहपुराणे | अग्नौ क्रियावतां देवोदिविदेवोमनीषिणां | प्रतिमास्वल्यवुद्धीनां योगिनां हृदये हरिः || हविषाग्नौजलें पुष्पैर्ज्ञानेन हृदये हरिं | अर्चंति सूरयोनित्यं ध्यानेन रविमंडले || तथा चोक्तं | ध्येयः सदा सवितृमंडलमध्यं वर्तीनारायणः सरसिजासनसन्निविष्टः | केयूरवानूं कनककुंडलवान् किरीटीहारीहिरण्मयवयुर्धृतशंखचक्रः || ५ब्) जलाधारादि पूजा यद्यपि हरेरुक्ता तथाप्यन्येषामपि सा विज्ञेया | तथा च शातातपः | भूमावप्सु तथाग्नौ च दिविसूर्ये च देवताः | नित्यमन्नेहिरण्ये वा ब्राह्मणेषु च गोषु च || अप्सुदेवा मनुष्याणां दिविदेवामनीषिणां | काष्ठलोष्ठेषु मूर्खाणां मुमुक्षोरात्मनि देवता इति | दिविदेवाः संतीति शेषः | एतेष्वाधारेषु देवताः पूज्याः | शिवस्य तु जलपूजानिषिद्धा || विष्णोः शालग्रामपूजाफलमधिकं | ब्रह्मपुराणोत्तरखंडेभ्यः पूजयेद्धरिं चक्रे शालग्रामसमुद्भवे | अश्वमेध सहस्रेण तेनेष्टं प्रतिवासरं सदा काष्ठेस्थितो वह्निर्मथनांते प्रकाशते || यथा तथा हरिर्व्यापी शालग्रामे प्रपूजयेत् इति | प्राणप्रतिष्ठादि संस्कारः शालग्रामस्य नास्ति तस्य तत्र नित्यत्वाअत् | न तथा रमते लक्ष्म्यां न तथा स्वेपुरे हरिः | शालग्राम शिलाचक्रे यथा संचरते सदा || अग्निहोत्रं कृतंतेन दत्तां पृथ्वी स सागरां | येनार्चितो हरिश्चक्रे शालग्राम शिलोद्भवे || यः पुनः पूजयेद्भक्त्या शालग्रामं शिलाशतं | उषित्वा सहरेर्लोके चक्रवर्तीहं जायते || कामक्रोधैः प्रलोभैश्च व्याप्तो योत्र नराधमः | सोपि याति हरेर्लोकं शालग्राम शिलार्चनात् ||
SK
यः पूजयति गोविंदं शालग्रामे सदा नरः | आहूतसंप्लवं यावन्न स प्रच्यवतेदिवः || अथ शालग्राम परीक्षा || ब्रह्मपुराण वराहपुराणयोः | द्वारदेशे समे चक्रे दृश्येतेनांतरीयके | वासुदेवः स विज्ञेयः शुक्लांभश्चाति शोभनः || द्वेचक्रेह्येक संलग्ने पूर्वभागे तु पुष्करः | ६अ) संकर्षणः स विज्ञेयो रक्ताभश्चाति शोभनः || २ || प्रद्युम्नः सूक्ष्मचक्र रक्तपीत दीप्तिस्तथैव च | सुखिरं छिद्रवहुलं दीर्घकायस्थयेत् भवेत् || ३ || अनिरुद्धस्तु नीलाभोवर्तुलश्चाति शोभनः | रेखात्रय समायुक्तो देवः पद्मेन लांछितः || ४ || श्यामो नारायणो देवो नाति उस्वस्तथोन्नतः | शिलादीर्घसमोपेतो दक्षिणे सुखिरं पृथु || ५ || परमेष्ठी लोहिताभश्चक्रं धत्ते तथांवुजं | विंवाकृतिं तथा पृष्ठे सुखिरं चाति पुष्कलं || ६ || कपिलो नरसिंहस्थ पृथु वक्त्रेण शोभितः | ब्रह्मचर्याधिकारेण नान्यथा पूजनं भवेत् || ७ || कृष्णवर्णस्तथा विष्णुस्थूलचक्रेण शोभितः | गदाकृतिस्तथा रेखा लक्षते पृष्ठदेशतः || ८ || वाराहः शक्तिलिंगस्तु द्वेचक्रे विषमे स्थिते | इंद्रनीलनिभः स्थूलस्त्रिरेखालांछितः पुनः || ९ || कूर्मोन्नतस्तथा पृष्ठे वर्तुलावर्तं पूरितः | हरितं वर्णमाधत्ते कौस्तुभेन स चिह्नितः || १० || हयग्रीवः स विज्ञेयो रेखा चक्रे समीपगां | वहुविंदु समायुक्तः पृष्ठतो नीलरूपगः || ११ || वैकुंठो मणिरत्नाभश्चक्रमेकं तह्तांवुजं | द्वारोपरिदधद्रेखायूपाकाराः सुशोभनाः || १२ || मत्स्यरूपः स देवोयं दीर्घरेखा विभूषितः | विंदुद्वय समायुक्तः कार्श्यवर्णः सुशोभनः || १३ || त्रिविक्रमस्तथा देवः श्याममूर्तिर्महाद्युतिः | वामपार्श्वेगदाचक्रे रेखाचांस्य तु दक्षिणे || १४ || वर्तुलश्कति ह्रस्वश्च वामनः परिकीर्तितः | ६ब्) अतसी पुष्पसंकाशो विंदुनोपरिलांछितः || १५ || सुदर्शनस्तथा देवः श्यामवर्णोमहाद्युतिः | वामपार्श्वे गदाचक्रे रेखाचास्य तु दक्षिणे || १६ ||
SK
श्रीधरश्च संविज्ञेयश्चिह्नित्तोवनमालया | कदंवकुसुमाकारो रेखा पंचक संयुतः || १७ || नानावर्णस्त्वनंतः स्यान्नागभोगोपचिह्नितः | अनंतमूर्तिसंकीर्णः सर्वकामफलप्रदः || १८ || विदिक्षुदिक्षु सर्वासु यस्योर्द्धं दृश्यते मुखं | पुरुषोत्तमः स विज्ञेयो भुक्तिमुक्ति फलप्रदः || १९ || दृश्यते शिखरे शृंगं शालग्राम समुद्भवे | तस्य योगेश्वरोनामब्रह्महत्यां व्ययोहति || २० || दामोदरस्तथा मध्ये स्थूलचक्र प्रतिष्ठितः | दूर्वाभोद्दार संकीर्णः पीतरेखा समन्वितः || २१ || स्निग्धा सिद्धिकरी प्रोक्ता कृशांकीर्तिकरी पुनः | पांडुरापापदहनीपीता पुत्रफलप्रदा || नीलायां दृश्यते लक्ष्मी रक्तारोग प्रदायिनी | रूक्षातूद्वे गदानित्यं वक्त्रा दारिद्र्यदायिका || कपिलाहरते पापं ब्रह्मचर्येण पूजिता | शालग्रामशिलायां तु नित्यं सन्निहितो हरिः || तत्र स्नानं च दानं च सर्वतीर्थ जलाधिकं | विषमा चिरकालेन साधकाय फलप्रदा || असमास्त्याज्या सर्वत्र विपरीत फलप्रदा | शालग्रामोद्भवो देवोयोदेवोद्वारकोद्भवः || ७अ) उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः | शालग्रामशिला यत्र तत्र वाराणसी सदा || द्वारकोद्भव संयुक्ता सर्वतीर्थमयी सदा | द्वारकाशिलात्तु शुक्लवर्णा एव पूज्यानान्यवर्णा || तथा चोक्तं | पुत्रपौत्रधनादीनि सुखं मोक्षं तथाश्रियं | ददाति शुक्लवर्णा तु नामतः पूजयेत् सदा || छिद्रा वक्त्रादि दोषदूषिता दारिद्र्यदात्याज्यास्यात् | उक्तं च त्रिकोणाविषमा चैव छिद्रा भग्ना तथैव च || अर्द्धचंद्रा कृतिस्त्याज्या पूजाहीना भवंतिताः | व्यात्तमुखी चोर्ध्वमुखी विषमावक्र चक्रिका || घोरमूर्तिरनर्च्यास्याद्गंभीरासंपुटा तथा | अथ द्वारकाशालग्रामयोश्चक्र परीक्षा || सुदर्शनश्चैक चक्रो द्वाभ्यां नारायणः श्रिया | त्रिभिश्चाच्युत एवासौवतुर्भिस्तु जनार्दनः || पंचभिर्वासु देवोसौषड्भिः प्रद्युम्न उच्यते | सप्तभिर्वलनद्रस्तु चाष्टभिः पुरुषोत्तमः ||
SK
नवव्यूहोथनवभिर्दशभिर्दशजन्मकः | एकादशभिरनिरुद्धो माधवो द्वादशात्मकः || अतः परमनंतस्तु भुक्तिमुक्ति फलप्रदः || प्रतिमूर्तिभिन्नंभिन्नं फलं | वहुमूर्ति पूजने वहुफलं | द्वादशशिलापूजनमवश्यं कार्यां | ७ब्) दृष्टं प्रणमितं येन स्नापितं पूजितं स्तुतं | यज्ञकोटि समं पुण्यंगधांकोटि फलप्रदं || यायस्येष्टा तु वै मूर्तिः सत्तां यत्नेन पूजयेत् | पूजिते फलमाप्नोति इहलोके परत्रचेति भविष्यपुराणे || दिवामूर्तिषु सर्वासु रात्रौ वह्निषु पूजयेत् | प्राक् पश्चिमोदगास्यस्तु प्रातः सायं निशासु च || यथा संख्यं मंत्रः तेन प्रातः पाङ्मुखः सायं पश्चिमाभिमुखः रात्रावुदङ्मुख इत्यर्थः | किं च सूर्यादीनां ध्यानसौकर्य पूजाफलाधिक्याभ्यां प्रतिमापूजाप्रशस्ता | शिवस्य तु लिंगपूजायां प्राशस्त्यं || मत्स्यपुराणे | सौवर्णी राजती ताम्री मृन्मयी च तथा भवेत् | रीतिका धातुयुक्ता वा ताम्रकांस्यमयी तथा || शुद्धदारुमयी वापि देवतार्चा प्रशस्यते | अंगुष्टपर्वादारभ्यवितस्तिर्याव देव हि || गृहेषु प्रतिमाकार्यानाधिकाशस्यते बुधैः | अर्चा प्रतिमा || देवी प्रतिमाधिकारे देवीपुराणे | एकांगुलं समारभ्य यावच्च द्वादशांगुलं | गृहेष्वर्चा समाख्याता प्रासादेचाधिका शुभा || तथा न गृहे स जटाशुभा | तथा शैलजा न गृहे पूज्या | शैलजा पाषाणजा | चतुर्भुजा गृहेकार्या | अष्टभुजा प्रतिमादेवी गृहेकार्या | क्रूराघोरा च न गृहेकार्या | तथा च भयफलदा भवति | इति पंचायतन पूजाफल कथनं || ८अ) मत्स्यपुराणे | आरोग्यं भास्करादिच्छेद्धनमिच्छेद्धुतासनात् | ज्ञानं तु शंकरादिच्छेन्मोक्षमिच्छेजुनार्दनात् || इत्यादि वाक्येषु सूर्यादीनां शीघ्रफलदातृत्वं उक्तं न तु फलांतर निवृत्तिरिति || ब्रह्मणोपि पूजामहाफलदा | तथा च नरसिंहपुराणे | यस्तु पूजयते भक्त्या विरिंचिं कमलासनं | सनाकराज्यमोक्षाणां क्षिप्रं भवति भाजनं ||
SK
वरं देह परित्यागोवरं नरकसंभवः | न चैवा पूज्यभुंजीत देवं वै पद्मसंभवं || इति श्रीमदाशादित्यत्रिपाठिसंगृहीते मंत्रकोषे पूजाफलकथनंनाम प्रथमः परिच्छेदः || अथ पूजाद्रव्यपरिभाषा || तत्र विष्णुः | न नक्तं गृहीतोदंकेन देवपूजां कुर्यादिति विशेषः | वौधायनः | परिधृतमधिरूढगंधं स्फाटितं प्रावरणमप्रचलितं | मनुष्य संयुत देवत्रान संघुष्ठात् परिधानशयनासन तया यन्मनुष्योपभुक्तं यत्करेणनानु मृज्या प्रक्षालितं तद्देवतायैन युज्यादित्यर्थः | यस्य देवस्य यादृशं वा सः कथितं तादृशं तस्मै दद्यात् | शुक्लं वा सर्वस्य विष्णुः | न वासो नीलरक्तं आरक्तं सूर्यप्रियं | अन्योप्युपचारः || ८ब्) नंदिपुराणे | अलंकारं च योदद्याद्विप्रायाथ सुराय च || स गच्छेद्वारुणं लोकं नानाभरणभूषणं | जातः पृथिव्यां कालेन भवेत् द्वीपपतिर्नृपः || तथा | यज्ञोपवीतदानेन सुरेभ्यो ब्राह्मणय वा | भवेद्विप्रश्चतुर्वेदः शुद्धधी नात्र संशयः || भविष्यपुराणे | यस्तु पूजयते देवान् ब्राह्मणो द्रव्यलोभतः | मृत्वा भरतशार्दूल स याति नरकं ध्रुवं || देवालयेषु सर्वेषु अग्निकार्येषु सर्वतः | यः कुर्यात् द्रव्यलोभेन सोऽधोगतिमवाप्नुयात् || देवपूजादिकमिति शेषः | देवीपुराणे | मातृमंडलवेत्ता च ब्राह्मणः क्षत्रियोप्य वा | प्रति वा रोप्य वा वैश्यः शूद्रो वा तंत्रविद्यदि || पूजाविधौ भवेच्छ्रेष्ठोन पशुर्नकुशीलवः | नानैष्ठिकोदांभिको वा पूजकः प्रोच्यते शुभः || पशुरत्र पूजाशास्त्रानभिज्ञः | कुशीलवश्चारणः | देवीपुराणे | शुचिः सुवस्त्रधृक् प्राज्ञो मौनी ध्यानपरायणः | गतकामोभवेद्वंद्योरागमात्सर्यवर्जितः || आत्मानं पूजयित्वा तु सुगंधिसित वा ससा | सुमुहूर्ते यजेद्देवान्स्वकीयासनसंस्थितान् || आवाहनं चार्घपाद्यं हेमपात्रेण दापयेत् || अथ सामान्योर्घ्यः | रक्तविल्वाक्षतैः पुष्पैर्दधि दूर्वाकुशैस्तिलैः | सामान्यः सर्वदेवानामर्घोयं परिकल्पितः || ९अ)
SK
अभावाद्दधि दूर्वादेर्मान संपरिकल्पयेत् | सुमुहूर्ते पुण्यकाले पूर्वाह्नादौ | अर्घपाद्यादीत्यादिशष्टः स्नानादि पंचोपचारपरः | अत्र यथोपयोगं पात्रस्थापनं | रक्तमिति रक्त चंदनादि गंधद्रव्यं | रक्तं कुंकुममिति लक्ष्मीधरः | लिंगे रक्तंनेच्छंति केचन | स्वस्वधर्माविरोधेन देवपूजाकार्या | तथा च | स्वस्वधर्मं परित्यज्य चत्वारो ब्राह्मणादयः | पूजामेव प्रकुर्वंति नतां गृह्णंति देवताः || भविष्यपुराणे | अर्थंविनैवमंत्रेण पुण्यराशिः प्रकीर्तितः | स्यादयं मंत्रयुक्तश्चेत्पुण्यं शतगुणोत्तरं || देवतानाम्नापि पूजाफलदास्यादिति || ब्रह्मपुराणे | देवानां प्रतिमा यत्र घृताभ्यंगक्षमा भवेत् | पलानि तस्यै देयानि श्रद्धया पंचविंशतिः || अष्टोत्तरशतपलं स्नानेदेयं च सर्वदा | द्वेसहस्रे पलानां च महास्नानेन संख्यया || दातव्यं येन सर्वासु दिक्षु निर्याति तद्वृत्तं | ब्रह्मांगलग्नं विप्रेभ्यो वैष्णवं च प्रदीयते || रुद्रांगलग्नमग्नौ च दहेत् सर्वं च तक्षणात् | अन्येभ्यस्त्वथ देवेभ्यो यत्तद्दीनेषु निक्षिपेत् || विप्रेभ्यस्त्वथ तद्देयं मातृभ्यो यन्निवेदितं | नैवेद्यादिकमिमिशेषः || देवीपुराणे | पात्राणामादरः कार्यः पात्राण्येवोत्तमानि तु | वलिओम क्रियार्थं हि विनापात्रं न सिध्यति || ९ब्) तस्माद्यज्ञांगमित्याहुः पात्रं चाग्र्यं महामुने | यस्य यच्चायुधं प्रोक्तं तस्य तल्लांछनं भवेत् || षट्त्रिंशदंगुलं पात्रमुत्तमं परिकीर्तितं | मध्यमं तु त्रिभागोनं कनिष्ठं द्वादशांगुलं || वस्वंगुल विहीनं च न पात्रं धारयेत् क्वचित् | नानाविचित्र रूपाणि पुंडरीकाकृतीनि च || शंखं नीलोत्पलाभानि पात्राणि परिकल्पयेत् | विनापात्रेणयः कुर्यात् प्रतिष्ठां याज्ञिकी क्रियां || विफला जायते सर्वावाहनादिधनापहा || वलिहीने तु दुर्भिक्षं गंधहीनेत्व भाग्यता | धूपहीने तथोद्वेगो वस्त्रहीने धनक्षयः || रत्नहीने प्रियेद्भार्याविपताके अनायकं | छत्रहीने हतं छत्रमविताने नारकी भवेत् ||
SK
वेद्यहीने तु नाशः स्यादात्मनो नगरस्य वा | दीपहीने तु दौर्भाग्यं प्राप्नुयात् कारकः सदा || दक्षिणाहीने च तत्सर्वं व्यर्थं स्यान्नात्र संशयः | मंत्रविद्या विहीने तु संपूर्णमपि नश्यति || पात्रमंत्र समायुक्तं सर्वदोषायहं भवेत् | असंपत्तौ तु तत्सर्वं मनसा पूजादौ देयं || तथा हेमपात्रेण सर्वाणि ईहितानिलभेन्मुने | अर्घं दत्वा तु रौप्येण आयूराज्यं सुत्तान् लभेत् || ताम्रपात्रेण सौभाग्यं धर्मं मृन्मय संभवैः || एवं दारुपात्रमृण्मयपात्रपद्मपात्रपलाशपात्रताम्रपात्रसुवर्णपात्र- रौप्यपात्राण्यर्घस्नाननैवेद्यवलिधूपादिकार्येषूत्तरोत्तरतः प्रशस्तानि सर्वेषां भग्नपात्रं निषिद्धं | १०अ) ताम्र सुवर्णरौप्यशंखशुक्तिभग्नमपि ग्राह्यं || ब्रह्मोवान || शंखस्थिते न तोयेन यः स्नापयति केशवं | कपिलायाः सहस्रस्यफलं प्राप्नोति मानवः || शंखे तीर्थोदकं कृत्वा यः स्नापयति केशवं | विंदुमात्रेण द्वादश्यां कुलानां तारयेच्छतं || कपिलां क्षीरमादाय शंखे कृत्वा जनार्दनं | यज्ञायुत सहस्रस्यस्नापयिता फलं लभेत् || शंखलग्नं तु यत्तोयं भ्रामितं केशवोपरि | वंदते शिरसानित्यं गंगास्नानेन तस्य किं || शंखपात्रार्घदानं शिववर्जं सर्वेषां कार्यं | विष्णोरधिकं | अर्घं कृत्वा तु शंखेन यः करोति प्रदक्षिणं | प्रदक्षिणी कृतातेन सप्तद्वीपा स सागरा || प्रदक्षिण संख्या यथा | एकं चंडोदिवौ सप्तत्रीणि दद्याद्गणेश्वरे | चत्वारि केशवो दद्याच्छिवस्यार्द्ध प्रदक्षिणं || अथ देवमाल्यापनयनादि || देवमाल्यापनयनं देवाणरसमूहनं | स्नापनं सर्वदेवानां गोप्रदानफलं स्मृतं || अथ सूर्यस्य | तत्र भविष्यपुराणे | पश्यन् परिहरन् जंतून्मार्जन्या मृदुसूक्ष्मया | शनैः संमार्जनं कृत्वा चांद्रायणफलं लभेत् || यावंत्यः पांशुकणिकामज्यंते भास्करालये | दिनानिदिवितावंतितिष्ठत्यस्तमलोनरः || यावन्नी राजनं कुर्यादर्चाणि विधिवद्रवेः | तावद्युग सहस्राणि सूर्यलोके महीयते || १०ब्)
SK
नीराजनमारात्रिकोपरिभ्रामणं || वर्षकोटि सहस्रेण यद्रजः समुपार्जितं | घृतस्नानेन तत्सर्वं दहत्यग्निरिवेधनं || सप्तभ्यां तु घृतस्नानं कृत्वा सूर्ये स कृन्नरः | कुलान्युद्धृत्य सप्तैव सूर्यलोके महीयते || एवं शुक्लाष्टम्यामपि यथा | सप्तम्यामथ वाष्टम्यां गव्येन पयसारवेः | स्नापनं तु नृपश्रेष्ठं महापातकनाशनं || स्नाप्यं दध्ना स कृद्भानुं विष्णुलोके महीयते | पितॄनुद्दिश्ययो भानुं स्नापयेच्छीतवारिणा || तृप्तान्स्वर्गं नयत्पांशुपितरो नरकादपि | भानुं शीतांवुनास्नाप्यधारोल्लपयसा तथा || स्नाप्य पंचामृते नैव मग्निलोके महीयते | एतत् स्नानत्रयं कृत्वा पूजयित्वा च भास्करं || अश्वमेध सहस्रस्यफलं प्राप्नोति मानवः | रसेन स्नापनं कृत्वा अश्वमेधफलं लभेत् || तथा | यथा न लंघयेत् कश्चित् स्नपनं भास्करस्य तु | तथा कुर्यात् प्रयत्नेन लंघितं ह्यशुभावहं || तामिस्रं नरकं कर्ता लंघयेद्यः स रौरवं | अथार्घं || चंदनोदक मिस्रैस्तु दत्वार्घं कुसुमैरवेः | स पुत्रपौत्रलक्ष्मीकः सूर्यलोके महीयते || ११अ) योऽष्टांगमर्द्यमापूर्यभानो मूर्ध्नि निवेदयेत् | दशवर्ष सहस्राणि सरमेदर्कमंडले || आपः क्षीरं कुशाग्राणि घृतं दधि तथा मधु | रक्तानि करवीराणि तथा रक्तं च चंदनं || अष्टांगमर्द्य एषो वै ब्रह्मणा परिकल्पितः | दारवेणार्घपात्रेण दत्वार्घं यत्फलं लभेत् || तस्माच्छतंगुणं प्रोक्तं मृत्यात्रेण नराधिप | ताम्रपात्र प्रदानेन पुण्यं दशगुणं ततः || पलाशपद्मपत्राभ्यां ताम्रपात्र समं भवेत् | रौप्यपात्रे तु विज्ञेयं लक्षार्द्धं नात्र संशयः || सुवर्णपात्रविन्यस्तं सर्वं कोटिगुणं रवेः | एवं स्नानेथ नैवेद्ये वलिधूपादिषु क्रमात् || पात्रांतर विशेषेण तत्फलं तूत्तरोत्तरं | यथा सुवर्णादि पात्रेणार्घ दानफलं तथा स्नानादिष्ट्वपि द्रष्टव्यं || रौप्यपात्र प्रदानेन यत्पुण्यं वेदपारगे | तस्माच्छतगुणं प्रोक्तं सूर्यमृत्पात्रदानतः ||
SK
तुल्यमेव फलं प्रोक्तं मर्घेणाढ्य दरिद्रयोः | विभवेसति यो मोहान्न कुर्याद्विधिविस्तरं || न तत्फलमवाप्नोति सलोभाक्रांतमानसः | एवं शिवेपि फलं द्रष्टव्यं || विशेषस्तु शिवस्य भविष्यपुराणे | ११ब्) सकृद्गव्येन पयसायोलिंगं स्नपयेन्नरः | राजते न विप्रानेन स्वर्गलोके महीयते || कल्पकोटि सहस्रेण यत्पापं समुपार्जितं | घृताभ्यंगेन लिंगस्य दहेत्पापं न संशयः || कृष्णाष्टम्यां घृतस्नानं कृत्वा लिंगे सकृन्नरः | कुलैकविंशमुत्त्रर्भ्य शिवलोके महीयते || मधुना स्नापयेद्यस्तु पितृलोके महीयते | सु सुगंधेन तैलेन स्नापनं यः करोति मे || अतिरात्रफलं तस्मै स सौभाग्यं ददाम्यहं | स्नानकाले त्रिसंध्ये वा यः कुर्याद्गीतवादितं || नृत्यं वा मुखवाद्यं वा तस्य पुण्यफलं शृणु | यावत् पदानि कुरुतेगेय नृत्यादि वादितं || तावद्युग सहस्राणि रुद्रलोके महीयते | यद्यपि शिवपूजने नृत्यादि फलमुक्तं तथान्येषामपि पूजने तत्तल्लोक प्राप्तिर्द्रष्टव्येति || अथ विष्णोः | नरसिंहपुराणे | दत्वार्चन मथार्घं च पाद्यमाचमनीयकं | देवदेवस्य विधिना सर्वपापैः प्रमुच्यते || स्नापयेत् पयसा भक्त्या नरसिंहं तु यो नृप | सर्वपाप विनिर्मुक्तो विष्णुलोके महीयते || स्नाप्य दध्ना सकृद्विष्णुं निर्मलः प्रियदर्शनः | १२अ) विष्णुलोकमवाप्नोति सेव्यमानः सुदोत्तमैः || यः करोति हरेरर्चा स्नपनं मधुनानरः | अग्निलोके समोदित्वा पुनर्विष्णुपुरे वसेत् || घृतेन स्नपनं यस्तु सर्वलोके विशेषतः | दिव्यं विमानमास्थाय विष्णुलोके महीयते || यवगोधूमजैश्चूर्णैरुद्वर्न्त्योष्णेन वारिणा | प्रक्षाल्य देवदेवेशं स त्रिणांलोकमाप्नुयात् || अथ दुर्गायाः || कपिला पंचगव्येन दधिक्षीरघृतेन च | स्नानं शतगुणं प्रोक्तमितरेभ्यो नराधिपं || वर्षकोटिं सहस्रैस्तु यत्पापं समुपार्जितं | तत्सर्वं विलयं यातितोयेषु लवणं यथा || इतरेभ्यः इतरं पंचगव्येभ्यः ||
SK
तथा घृताभ्यंगेन देव्यास्तु शुभेन विधिवन्नृप | सर्वपाप विशुद्धात्मा दुर्गालोके महीयते || क्षीरेण स्नापयेद्यस्तु श्रद्धाभक्तिं समन्वितः | चंद्रिकां विधिवद्वीर चंद्रलोके महीयते || स्नापयेद्यस्तु विधिवद्दध्ना दुर्गां महीयते | राजते न विमानेन दुर्गालोके महीयते || चंडिकां स्नापयेद्यस्तु नरश्चेक्षु रसेन वै | गैरिकेन विमानेन विष्णुलोके महीयते || नवम्यां शुक्लपक्षे तु विधिवच्चंडिकां || १२ब्) घृतेन स्नापयेद्यस्तु तस्य पुण्यफलं शृणु | दशपूर्वान्दशपरानात्मानं च विशेषतः || भवार्णवात् समुद्धृत्य दुर्गालोके महीयते | इति श्रीमंत्रकोषे पूजाफलकथनंनामद्वितीयःपरिच्छेदः || अथ पूजोपचाराः || तथा च प्रपंचसारे | आसनस्वागते सार्धपाद्ये सा च मनीयके | मधुपर्का च मस्नानवसनाभरणानि च || सुगंधसुमनोधूपदीपनैवेद्यचंदनात् | प्रयोजयेदर्चनायामुपचाराṁस्तु षोडश || अर्घपाद्या च मनमधुपर्का च मनान्यपि | गंधादयो निवेद्यांता उपचारादश क्रमात् || गंधादयो निवेद्यांता पूजापंचोपचारिका | सपर्या त्रिविधा प्रोक्ता तास्यमेकां समाश्रयेत् || अथ गंधाः | तेषां लक्षणं | अथ भविष्यपुराणे | चंदना गुरुकर्पूरकुंकुमैश्च स पद्मकैः | अलुलिप्तोजनैर्भक्त्या ददाति परमेप्सितं || पद्मकैः पद्मकाष्ठैः | एतत् सर्वेषां | अथ सूर्यस्य | यः समां लभते सूर्यं चंदना गुरुकुंकुमैः | कर्पूर व्यतिमिस्रैश्च तथा कस्तूरिकान्वितैः || सममेकृशंतं वर्षं विहृत्यत्रिदिवालये | पुनः संजायते भूमौ राजराजो न संशयः || संवीज्य तालवृंतेन शुभगंधैर्विलेपितं | दशवर्ष सहस्राणि वीरमित्रपुरेवसेत् || १३अ) एवं शिवेपि द्रष्टव्यं || अथ विष्णोः | नरसिंहपुराणे | कुंकुमागुरु श्रीखंडचंदनैरच्युता कृतिं | आलिप्यं भक्त्या राजेंद्र कल्पकोटि वसेद्दिवि || अथ दुर्गायाः || भविष्यपुराणे | चंदनागुरुकर्पूरैयस्तु दुर्गां प्रलेपयेत् | सममेकंशतं दिव्यं शक्रलोके महीयते ||
SK
गंधानु लेपनं कृत्वा ज्योतिष्टोमफलं लभेत् | चंदनेन विलिप्यार्यामग्निष्टोमफलं लभेत् || विलिप्यं कृष्णागुरुणा वाजपेय फलं लभेत् | कुंकुमेन विलिप्यार्यांगो सहस्रफलं लभेत् || दद्याद्देवाय च मरं मणिदंड विभूषितं | हेमरूप्यादि दंडं वा तस्य पुण्यफलं शृणु || चामरव्यग्रहस्ताग्र दिव्यस्त्रीपरिवारितः | महाभोगैर्विमानस्थश्चिरं देवपुरेवसेत् || इति सर्वेषां देवानां समंफलं || अथ पुष्पाणि || भविष्यपुराणे || पुष्पैररण्यसंभूतैः पत्रैर्वागिरि संभवैः | अपर्युषितनिः क्षिद्रैः प्रोक्षितैर्जंतु वरितैः || आत्मरामोद्भवैर्वापिर्भक्त्या संपूजयेत्सुरान् | कृमिकीटावपन्नानिशीर्णपर्युषितानि च || स्वयं पतित पुष्पाणित्यजेदुपहतानि च | मुकुलैर्नार्चयेद्देवमपक्वं न निवेदयेत् || १३ब्) फलं वक्षमिविद्धं च प्रयत्नात्तद्विवर्जयेत् | पुष्पैरनिषिद्धैरविहितैरपि | मुकुलं कलिका || अलाभेन तु पुष्पाणां पत्राण्यपि निवेदयेत् | पत्राणामप्यं भावे तु फलान्यपि निवेदयेत् || फलानामप्य भावेन तृणगुल्मौषधीरपि | ॐ षधीनामलाभे तु भक्त्या भवति पूजितः || प्रत्येकं मुक्तं पुष्पेन दशसौवर्णिकं फलं | स्रजोभिर्नृपंशार्दूल तदेव द्विगुणं भवेत् || समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् | शूद्रानीतैः क्रयःक्रीतैः कर्मकुर्वन् पतत्यधः | इति स्वयंमातृ च मतिफलदं | अशक्तौ क्रीतमपि शूद्रानीतमपि प्रोक्षितं गृह्णीयात् | महाजन गृहीतत्वात् || लक्षादि पुष्पदानेन्यायार्जितधनक्रीतमपि पुष्पंदेयमे वा तथा च विष्णुं धर्मोत्तरे | धर्मार्जितधनक्रीतैर्यः कुर्यात् केशवार्चनं | उद्धरिष्पत्यसंदेहं सप्तपूर्वाṁसूया परान् || तथापि समित्पुष्पकुशादीनि प्रोक्षणांत शुद्ध्यंतीति मन्यंते || देवो परिधृतं यच्च वामहस्ते च याद्दृतं | अधोवस्त्रं धृतं यच्चजलेऽंतः क्षालितं यत् || देवतास्तन्न गृह्णंति पुष्पं निर्माल्यतांगतं | इति हरिभक्तिग्रंथेलिखितं || १४अ)
SK
नित्यपूजार्थमदत्तोपादानमपि पुष्पस्य कार्यं | देवतार्थं च कुसुममस्तेयंमनुरव्रवीत् इति वचनात् || हारीतः | स्नानं कृत्वा तु ये केचित्पुष्पं चिन्वंति वै द्विजाः | देवतास्तन्नगृह्णंति भस्मी भवति दारुवत् || स्वार्थे देव पूजाम कृत्वा न गृह्णीयात् | परार्थे तु गृह्णीयादपि | नित्यपूजानंतरं च दिवसांतर पूजार्थं ग्राह्यं || भविष्यपुराणे | निर्गंधीन्युग्रगंधीनि कुसुमानि विवर्जयेत् | गंधहीनंमपिग्राह्यं पवित्रं यत्कुशादिकं || प्रहरं तिष्ठतेजांतीकरवीर महर्निशं | तदुपरि निर्माल्यतां या तीत्यर्थः || तुलस्यां विल्वपत्रेषु जलजेषु च सर्वशः | नपर्युषितदोषोस्ति मालाकारगृहेषु च || मुद्गराणि कदंवानि रात्रौदेया निभानवे | कनकानि कदंवानि रात्रौ देयानि शंकरे || दिवाशेषाणि पुष्पाणि दिवारात्रौ च मल्लिका | मुद्गराणि मुगरावेलीति प्रसिद्धा | देयानि ग्राह्याणीत्यर्थः | किंच विहितपुष्पमालासु च ग्रथितं निषिद्धा पुष्पपत्रमपि न दोषावहं || परोत्यादित पुष्पदाना स्वयमुत्यादित पुष्पदाने चाधिकं फलं | सामान्यविहितं पुष्पदानाच्चविशेषपुष्पदानेऽधिकफलत्वं || १४ब्) विहित पुष्पपत्राभावे च विहित निषिद्धदानं न दोषावहं || विशेषविहित पुष्पालाभे निषिद्धविहितं न ग्राह्यं || इति ग्राह्याग्राह्यसामान्यंविधिः | अथ सूर्यादीनां सर्वेषां सामान्य पुष्पाणि | जाती शमीकुशाः कुब्जं मल्लिका करवीरकं || नागपुन्नाराकाशोकरक्तै नीलोत्पलानि च | वंचकंषकुल चैव पद्मं विल्वं पवित्रकं || एतानि सर्वदेवानां विहितानि समानिह | कुब्जकंकु आटि इति प्रसिद्धं मल्लिका वेली इति प्रसिद्धा || नागः नागकेसर इति | पुन्नागपुन्नाग इति प्रसिद्धं | अथ सर्वेषां विहित निषिद्धानि | पाटला च शमीपत्रं दुर्गायास्तु हिताहितं | कुंदं पलाशकुसुमं दूर्वा च शिवपूजने | कुमुदं कुंकुमद्रेणिं तगरं सूर्यपूजने || अच्छोवकः कर्णिकारः किंकिरातो हरेस्तथां | किंकिरातः पीताम्रात्तकः |
SK
तिलकं मालती वाणस्तुलसीभृंगराजकं | जमुलं शिवदुर्गार्थं निषिद्धविहितं भवेत् || तिलकं तिलका इति ख्यातं | मालती गोदुम इति ख्याता | काकमाची वा | जात्याः पृथदुपादानात् | वाणः कृष्णगेंठीति लोके प्रसिद्धा | १५अ) आम्रातक प्रभेदोलोके प्रसिद्ध इत्यन्ये | वाणः कटसरया | जयःकाशः श्वेतपद्मं श्वेतमंदारकं तथा | दुर्गायाश्चैव विष्णोश्च निषिद्ध विहितं भवेत् || जयः जयंती इति ख्यातं || अगस्तिरति मुक्ता च तिरीटं च हरे हरौ | अपासार्गस्यपत्रं हि सूर्यदुर्गाहिताहितं || अतिमुक्तकोसाधवीलता | त्रीटं लोध्रपुष्पं || धत्तूरः शिंशया मंदारश्चा पराजिता | सूर्यविष्णोर्न हि हितं दमनं शिवसूर्ययोः || शिंशयाति उरा इति || दमनं शिवस्य चैत्र शुक्लचतुर्दश्यां विहितं अन्यत्र निषिद्धं || अथ निषिद्धानि || भविष्यपुराणे | कृष्णलोन्मत्तकं कांची तथा च गिरिमल्लिका | न कंटकारी पुष्पं च तथान्यद्गंधवर्जितं || न चाम्रातकजैः पुष्पैरर्चनी यो दिवाकरः | आम्रातकजैरिति पाठे कुटजैरिति तदा व्याख्येयं || कृष्णलाकरंजी घ्ॐघची इति प्रसिद्धा | कांची वा वाही | गिरिकर्णिका अपराजिता | कंटकीजवरेहटाभावे उपादेयं केचित्तु न निषिद्धमेवाहुः | तथा येषां न च निषेधोस्ति गंधवर्णान्वितानि च | तानि पुष्पाणि देया निभानवे लोकभानवे | एतानि सर्वाणि विहिता भावे तु पादेयानि || १५ब्) देवमुल्लं स येद्यस्तु तत्क्षणात् पुष्पलोभतः | पुष्पाणि च सुगंधीनि पूजकोनेत्तराणि च || ब्रह्महत्या मद्यं वाप्येह पच्यते शाश्वतीः समाः || त्रुटिमात्रं तु यो दद्यादाग्नेयकृतपंजकं | भास्करस्योत्तमांगे तु तस्य पुण्यफलं शृणु || इंद्रस्यार्द्धासने तिष्ठेद्यावदिंद्राश्चतुर्दश | एवं वित्तानुसारेण फलं ज्ञेयं समासतः || अन्येष्वपि ज्ञेयमिदं फलं || अथ शिवस्य निषिद्धं || तत्र भविष्यपुराणे | केतकी चाति मुक्तश्च कुंदीयूथीमदंतिका | शिरीषसर्ज वंधूक कुसुमानि विवर्जयेत् ||
SK
मदंतिकामदयंती गौडे इति प्रसिद्धा | यूथ्यनुकार पुष्प इत्यन्ये | सर्जःशालः | इंद्र तरुः सिंधुवारः | कुंदपुष्पं वर्षपूजायां माघेविहितं अन्यदा निषिद्धं || तथा निर्गंधीन्युग्रगंधीनि कुसुमानि विवर्जयेत् | गंधहीनमपि ग्राह्यं पवित्रं यत्कुंशादिकं || अथ दुर्गायाः | विशेषनिषेधोनास्त्येव | तत्पुनरुक्तं | देवीनामर्कमंदारौ सूर्यस्य तगरं तथा | शिवे च वर्जयेत् कुंदमुन्मत्तं च हरौ तथेति | इतरदेवीनां निषिद्धौ न तु दुर्गा मूर्त्याः | करवीरार्क पुष्पैश्च शिंशयैश्चापराजितैः इति || १६अ) लक्ष्म्याः द्रोणपुष्पमपि साहस्र्यां निषिद्धां || विष्णोरपि पुष्पविशेषनिषेधोनास्ति || उक्तं च विष्णुनानोग्रगंधीनि पुष्पाणि नागंधिनकंटह्विजं | कंटकिजमपि शुक्लं सुगंधंमपि यत्तद्दद्यात् | न रक्तं दद्यात् रक्तमपि कुंकुमजं जलजं च दद्यात् | अत्र जलजकुंकुमपाटला त्रिसंध्या करवीर पारिभद्र शमीपलाशाशोककुशवर्जलोहितं पुष्पं निषिद्धं || विष्णुधर्मे | कौटजं शाल्मली पुष्पं शैरीषं च जनार्दने | निवेदितं भयं रोगं प्रयच्छति न संशयः || क्रकरस्य च पुष्पाणि तथा धत्तूरकस्य च | कृष्णं च कुटजं चार्कं नैव देयं जनार्दने || क्रकरं करीरकं || विष्णुरहस्ये| न भुक्तैः पूजयेद्विष्णुं कुसुमैर्नमहीगतैः | न जीर्णैर्दलमुक्तैर्ननचै वाशुविकाशितैः || आशुविकाशितैर्वलात्कारविकांशितैः | नरसिंहपुराणे | तेजः जयेशंतनुं प्रतिनारदवाक्यं | अत ऊर्ध्वं निर्माल्यं नानर्चय महीपते | नरसिंहस्य देवस्य तथान्येषां महीपते || इति निषिद्ध पुष्पाणि || अथ विहितपुष्पपत्राण्युच्यंते || तत्र सूर्यस्य | भविष्यपुराणे | १६ब्) मालती मल्लिका चैव दूर्वाकाशोति मुक्तकाः | पाटला करवीराणि जयाजयंतिरेव च || चंपकोरोत्तकः कुंदोवाणावर्वर मल्लिका | अशोकः कुब्जकोलोध्रस्तथैव वाटरूषकः || शतपत्राणि चान्यानि वकाह्वंक विशेषकः | अगस्ति किंशुकौतद्वत्पूजार्थं भास्करस्य तु ||
SK
मल्लिका वेलीति प्रसिद्धा | पाटला पाडरीति प्रसिद्धा | अतिमुक्तको माधवीलतां | कुब्जको कूआ | रोतकोरोहरी | वाणः कृष्णगेंठीति प्रसिद्धा | वर्वरमल्लिका ववरीति प्रसिद्धा | आटसूषकोवासकः | वृकाह्वोव कुल इति प्रसिद्धः || अथ पत्राणि | विल्वपत्रं शमीपत्रं भृंगराजस्य पत्रकं | तमालपत्रं च हरेः सदैव तपन प्रियं || तुलसीकालतुलसी तथा रक्तं च चंदनं | केतकी पत्रकुसुमं सद्यस्तुष्टिकरं रवेः || अह सूर्यस्य पुष्पविशेषे फलविशेषा | भविष्यपुराणे || दशदत्वा सुवर्णस्य निष्काणां लभते फलं | करवीरे तथैकस्मिन्नर्कोपरि निवेदिते || भक्त्वा पूजयते चार्कमर्क पुष्पैः समाहितः | तेजसासोर्कसंकाशो अर्कलोके महीयते || जपां च करवीरं च विल्वपत्रं च पद्मकं | वकपुष्पं दर्भपुष्पं शमीपुष्पं तथोत्पलं || १७अ) रक्तोत्पल सहस्रेण नीलोत्पल शतेन च | रक्तैर्वा करवीरैश्च यस्तु संपूजयेद्रविं || कल्पकोटि सहस्राणि कल्पकोटि शतानि च | वसेदर्कपुरे श्रीमानर्कतुल्य पराक्रमः || शमीपुष्पं वृहत्याश्च कुसुमं तुल्यमेव च | करवीर समाज्ञेया जाती वकुलपाटलाः || श्वेतमंदार कुसुमंसितपद्मं च तत्समं | नागचंपकपुन्नाग मुद्गराश्च समाः स्मृताः || वृहती कंटकारिका | नागोनागकेसरः | मुद्गरः विचकिलः वहुपत्र मल्लिका | अथ शिवस्य विहितपुष्पाणि | भविष्यपुराणे | तपः शीलगुणोपेत पात्रे वेदस्य पारगे | दत्वा सुवर्णस्य शतं तत्फलं कुसुमस्य च || करवीरोवकश्चैव अर्क उन्मत्त एव च | पाटला वृहती चैव तथा च गिरिकर्णिका || तथा कासस्य पुष्पाणिमंदारं चापराजिता | शमीपुष्पाणि चान्यानि कुब्जकः शिखिनी तथा || अपामार्गस्तथा पद्मं समीपुष्पं स चोषणं | चंपकोशीरतगरं तथा वै नागकेसरं || पुंनागं किंकिरातश्च द्रोणपुष्पं तथा शुभं | शिंशयोर्दुवरश्चैव जयामल्ली तथैव च || १७ब्) पुष्पाणि यज्ञवृक्षस्य तथा विल्वं प्रियं शुभे | कुसुमस्य च पुष्पाणि तथा वै कंकतस्य च ||
SK
नीलं च कुमुदं चैव तथा रक्तोत्पलानि च | सुरभीणि च सर्वाणि स्थलजान्यंवुजानि च || गृह्णामि शिरसा देवियोमे भक्त्यानि वेदयेत् | शिखिनी चुरिआ | वै कंकतो व्याघ्रपदीटंटारीति प्रसिद्धा || अथ शिवस्य पुष्पे विशेषफलानि || तत्र भविष्यपुराणे | तपः शीलगुणोपेते पाते वेदस्य पारगे | दत्वा सुवर्णस्य पलं तत्फलं कुसुमस्य च || अर्कपुष्पे तथैकस्मिन् शिवाय विनिवेदिते | दशदत्वा सुवर्णस्य तत्फलं समवाप्नुयात् || अर्कं च करवीरं च विल्वं द्रोणस्य पुष्पकं | अपामार्गं कौशपुष्पं शमीपुष्पं तथैव च || एकं धत्तूरकं चैव नीलं चोत्पलमेव च | पूर्णपूर्ण सहस्रेभ्योधिकं स्यादुत्तरोत्तरं || नीलोत्पल सहस्रस्ययो मालां संप्रयच्छति | शिवाय विधिवद्भक्त्या तस्य पुण्यफलं शृणु || कल्पकोटि सहस्राणि कल्पकोटि शतानि च | वसेच्छिवपुरे श्रीमान् शिवतुल्य पराक्रमः || शेषाणां पुष्पजातीनां यत्फल परिकीर्तितं | १८अ) स तत्फलानुसारेण शिवलोके महीयते || करवीर समाज्ञेयाजातीवकुलपाटलाः | श्वेतमंदार कुसुमं करवीरं च तत्समं || नागचंपक पुंनागधत्तूरकसमाः स्मृताः | विल्वपत्रैरखंडैश्च स कृल्लिंगं प्रपूजयेत् || सर्वपाप विनिर्मुक्तः शिवलोके महीयते | धत्तूरकैश्चयोलिंगं सकृत् पूजयते नरः || स गोलक्षफलं प्राप्य शिवलोके महीयते | वृहती कुसुमैर्भक्त्यायोलिंगं सकृदर्चयेत् || गवामयुतदानस्य फलं प्राप्य शिवं व्रजेत् || अथ दुर्गायाविहित पुष्पाणि || देवीपुराणे || ब्रह्मोवाच || शृणु शक्र प्रवक्ष्यामि पुष्पा ध्यायं समासतः | ऋतुकालोद्भवैः पुष्पैर्मल्लिकाजाति कुब्जकैः || सितरक्तैस्तथा पुष्पैः पद्मैश्च पांडुरैस्तथा | किंशुकैस्तगरैश्चैव किंकिरातैः स चंपकैः || वकुलैश्चैवमंदारैः कुंदपुष्पैस्तिरीटकैः | करवीरार्क पुष्पैश्च शिंशयैश्चापराजितैः || शितरक्तैस्तथा पीतैः कृष्णैश्चैव चतुर्विधैः | धत्तूरकातिमुक्तैश्च वंधुकागस्ति संभवैः ||
SK
दमनैः सिंदुवारैश्च सुरभिर्मरुवकैस्तथा | लताभिर्ब्रह्मवृक्षस्य दूर्वाकांडैः सुकोमलैः || १८ब्) मंजरीमिः कुशानां च विल्वपत्रैः सुशोभनैः | रक्तान्वितैस्तथा पुष्पैर्जलजैः स्थलसंभवैः || पत्रैः पुष्पैर्यथालाभं सर्वौषधिमयैः शुभैः | धान्यानां सर्वपत्रैश्च पुष्पैश्चैव प्रपूजयेत् || अथ तस्या एव मुख्य फलानि || तत्र भविष्यपुराणे || अग्निहोत्र परे विप्रे वेदवेदांगपारगे | सुवर्णानां सुवर्णानां शते दत्ते तु यत्फलं || तत्फलं लभते राजन् पूजयित्वा तु चंडिकां | मालया विल्वपत्राणां न वम्यां गुग्गुलेन च || माला वद्धेन संपूज्य दुर्गादेवीं नराधिप | विल्ववृक्षस्य पत्राणां राजसूयफलं लभेत् || करवीरस्रजोभिश्च पूजयेद्यस्तु चंडिकां | सोग्निष्टोम फलं प्राप्य दुर्गालोके महीयते || पूजयित्वा ततो भक्त्वा चंडिकां पद्ममालया | ज्योतिष्टोम फलं प्राप्य दुर्गालोके महीयते || वकपुष्पैस्रजोभिस्तु पूजयेद्यस्तुं चंडिकां | वाजपेयस्य यज्ञस्य फलं विंदति मानवः || द्रोणपुष्पैः स्रजोभिस्तु पूजयेद्यस्तु चंडिकां | राजसूयफलं प्राप्य शक्रलोके महीयते || कुशपुष्पैः स्रजोभिश्च पूजयेद्यस्तु चंडिकां | सोग्निष्टोमफलंप्राप्य पितृलोके महीयते || शमीपुष्पस्रजोभिस्तु आर्यां संपूज्य श्रद्धया | १९अ) गोसहस्रफलंप्राप्य विष्णुलोके महीयते || नीलोत्पलस्रजोभिस्तु पूजयेद्यस्तु चंडिकां | वाजपेयफलं प्राप्य रुद्रलोके महीयते || सर्वेषानेवद्वेवानां प्रवलं नीलमुत्पलं | नीलोत्पल सहस्रेण यस्तु मालां प्रयच्छति || दुर्गायै विधिवद्वीरतस्य पुण्यफलं शृणु | वर्षकोटि सहस्राणि वर्षकोटि शतानि च || रुद्रस्यानुचरो भूत्वा शिवलोके महीयते | सुगंध पुष्पैर्यो भक्त्या पूजयेद्यस्तु चंडिकां || मालत्या मल्लिका वापि सोश्वमेधफलं लभेत् || अथ विष्णोर्विहितानि | नरसिंहपुराणे || मल्लिका मालती ज्ञानीकेतकाशोकचंपकैः | मुन्नागनागवकुलैः पद्मकैरुत्पलादिभिः ||
SK
एतैरन्यैस्तु कुसुमैः प्रशस्तं पूजनं हरेः | अर्चयेद्यः सुवर्णस्य प्रत्येकं फलमाप्नुयात् || वामनपुराणे | जातीशताह्वा सुमनाः कुंदंचारुपुटस्तथा | वाणं च चंपकाशोक करवीरं च यूथिका || पारिभद्रं पाटला च वकुलं गिरिशालिनी | तिलकं जासुवनजंपीतकं तगरं त्वपि || एतानि हि प्रशस्तानि कुसुमान्यच्युतार्चने | सुरभीनि तथान्यानि वर्जयित्वा तु केतकीं || १९ब्) घत्तूरकं केतकी च नरसिंहमूर्तौ विहितानि कुसुमानि || अन्यत्रेति निषिद्धानि इति केचन | शताह्वासौंफु इति प्रसिद्धा | शतावरीत्येके | सुमनाः सुवर्णजाती | चारुपुटः विचकिल इत्येके | पारिभद्रः फल हद | जासुवनज्ञं जपा कुसुमं | पीतकं पियरी | शंशया कुष्मांडमप्यागमे विहितं | शंशपाति उरा इति || वंधूकैर्हरिभक्तिः स्यादिति हरिभक्तौ लिखितं || जयंती पत्रमपि तत्रैव निषिद्धं || अथ पत्राणि नरसिंहपुराणे | अपामार्गस्य प्रथमं भृंगराजमतः परं | तस्माच्चखादिरं श्रेष्ठं शमीपत्रं ततः परं || दूर्वापत्रं ततः श्रेष्ठं ततोपि कुशपत्रकं | तस्माद्दमनकं श्रेष्ठं ततो विल्वस्य पत्रकं || विल्वपत्रादपि हरेस्तु लसीपत्रमुत्तमं | एषां चैव यथा लङ्घैः पत्रैर्यश्चार्चयेद्धरिं || सर्वपाप विनिर्मुक्तो विष्णुलोके महीयते | स्कंदपुराणे | तुलसी पत्रमेकं तु सुवर्णपलसंमितं | तुल्यं भवति राजेंद्रदत्तं केश्वमूर्धनि || न विप्रसदृशं पात्रं न दानं सुरभीसमं | न च गंगासमंतीर्थं न पत्रं तुलसीसमं || तुलसीपत्र लक्षेण कार्तिकेयोर्चयेद्धरिं | पत्रे पत्रे मुनिश्रेष्ठमौक्तिकं लभते फलं || अथ विष्णोरेव पुष्पफलानि || २०अ) नरसिंहपुराणे | तपःशीलगुणोयेते पात्रे वेदस्य पारगे | दशदत्वा सुवर्णानि यत्फलं समवाप्नुयात् || तत्फलं लभते मर्त्यो हरेः कुसुमदानतः | द्रोणपुष्पे तथैकस्मिन् माधवाय निवेदिते || दशदत्वा सुवर्णानि तत्फलं लभते नरः | एवं पुष्पविशेषेण फलं तदधिकं नृप ||
SK
एवं पुष्पोत्तरं येन यथा स्यात् तन्निवोधमे | द्रोणपुष्पं खादिरं च शमीविल्वंवकं तथा || नंद्यावर्तं करवीरं तथा श्वेतं च किंशुकं | शुकपुष्पं तमालं च चंपकाशोक केतकी || त्रिसंध्यं मालती पुष्पं त्रिसंध्यश्वेतया तथा | कुंदं च शतपुष्पं च मल्लिकाजाति पुष्पकं || पूर्वपूर्व सहस्रेभ्योऽधिकं स्यादुत्तरोत्तरं | सर्वासां पुष्पजातीनांजाती पुष्पमिहोत्तमं || जाती पुष्पसहस्रेण यच्छेन्मालां सुशोभनां | विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं शृणु || कल्पकोटि सहस्राणि कल्पकोटि शतानि च | वसेद्विष्णुपुरे श्रीमान् विष्णुतुल्य पराक्रमः || अपराध सहस्राणि अपराध शतानि च | पत्रेणैकेन देवेशः क्षमते हेलयार्चितः || पद्मेनैकेन देवेशमर्चयन् कमलापतिं | वर्षायुत सहस्राणि पापस्य कुरुते क्षयं || केतकी पत्रेणैकेन पूजितो गरुडध्वजः | २०ब्) समाः सहस्रं सुराती जायते सुरसादनः || सुवर्णकेतकी पुष्पं यो ददाति जनार्दने | कोटि जन्मार्जितं पापं हरते गरुडध्वजः || विष्णु धर्मोत्तरे | भृंगराजस्य विल्वस्यवकपुष्पस्य वै द्विजाः | यच्चापि वीजपूराणां पत्राणि विनिवेदयेत् || एतेषामप्येकस्य पत्रदानं महापातकनाशनं | येषांशंसंति पुष्पाणि प्रशस्ताः पुत्रमालिनः || पल्लवान्यपि तस्याः स्युः पत्रास्यर्चा विधौ हरेः | एवं विहित पुष्पवृक्षपत्रपल्लवैर्भक्षवनस्पति पल्लवैः सर्वे देवाश्चार्च्याः || नाक्षतैरर्चयेद्विष्णुं न शिवं शंखवारिणेति | यवा विष्णोः प्रशस्ताः स्युः | शंखवारि शिवव्यतिरिक्तमन्येषामिति || इति पुष्पोद्देश संकेतः || इति विहित पुष्पपत्राभावेऽन्यदपि पुष्पफलं निषिद्धवर्जमुपादेयं || यत्तुः पुष्पैररण्य संभूतैः पत्रैर्वा गिरिसंभवैः | इति तद् विहितैरनिषिद्ध पुष्पैरपि पूजाकार्या | अत्र वा शष्ट्य समुच्चयार्थो न विकल्पार्थः | वहुपुष्पपत्रं समुच्चयस्तु तत्तत्फलार्थो न विरुद्धः || इति श्रीमदाशादित्यत्रिपाठीसंगृहीते मंत्रकोषे पुष्पाध्यायो नाम तृतीयः परिच्छेदः || २१अ)
SK
अथ धूपाः || तत्र सूर्यस्य | भविष्यपुराणे | गंधाश्चापि शुंभाये तु धूपाश्च विजयादयः | दिवाकरस्य धर्मज्ञैर्निवेद्याः सर्वदा पुनः || सघृतं गुग्गुलुं दग्ध्वा राजन् कुडुरुकं तथा | चतुर्वेद गृहेजन्म प्राप्नोति सततं सुखं || देवदारुं नमेरुं च श्रीवासं कुंदुरुं तथा | श्रीफलं राज्यसंमिश्रं दग्ध्वा श्रियमवाप्नुयात् || नमेरुर्गुग्गुलुः | तथा प्रधानतरुविशेष इति कश्चित् | श्रीवासः शरलोद्भव इति प्रसिद्धः | कुंदुरुः सल्लकीरसः || धूपेन लभते स्वर्गं तु रुष्केन सुगंधिना | कर्पूरागुरुधूपेन राजसूयफलं लभेत् || तु रुष्केन सिह्लकेन || अथ शिवस्य || भविष्यपुराणे | कृष्णागुरुं स कर्पूरं धूपं दद्यान्महेश्वरे | नैरंतर्येणमासार्धं तस्य पुण्यफलं शृणु || कल्पकोटि सहस्राणि कल्पकोटि शतानि च | शुक्ले शिवपुरे श्रीमाṁस्तस्यांते स महीपतिः || अथ दुर्गायाः | भविष्यपुराणे | कृष्णागुरुं स कर्पूरं चंदनं सिह्लके तथा | भगवत्यै नरो धूपमिदं दद्यान्नराधिप || इहकामानवाप्नोति दुर्गालोके महीयते | गुग्गुलं सघृतं दद्याद्दुर्गायै भरतर्षभ || २१ब्) मासार्धं विधिवद्भक्त्या गोसहस्रफलं लभेत् | सर्वेषामेवधूपानां दुर्गाया गुग्गुलुः प्रियः || घृतयुक्तो विशेषेण सततं प्रीतिवर्धनः | अथ विष्णोः || तत्र विष्णुः || न धूपार्थे प्राणिजातं || वामनपुराणे | रुहिकाक्षंकणं दारुसिह्लकं सा गुरुसितां | शंखं जातीफलं श्रीशेधूपानिस्युः प्रियाणि वैः | रुहिकाक्षं जटामांसी | कुणं गुग्गुलुः | दारुर्देवदारुः | शिता कर्पूरः | शर्करेति कश्चित् | शंखं नखी | श्रीशे विष्णौ | तथा महिषाख्यं गुग्गुलुं यष्ट्वाथ युक्तं सशर्करं | धूपं ददाति राजेंद्र नरसिंहा च भक्तिमान् || स धूपितः सर्वदिक्षु सर्वपाप विवर्जितः | अप्सरो गणयुक्तेन विमानेन विराजते || वायुलोकं समासाद्य विष्णुलोके महीयते | अथ दीक्षाः || तत्र सूर्यस्य | भविष्यपुराणे |
SK
घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः | प्रयाति सूर्यलोकं स दीपकोटि शतैर्वृतः || सर्वलोकमये वीरवीरलोके महीयते | अथ शिवस्य | भविष्यपुराणे || घृतदीपप्रदानेन शिवायशतयोजनं | विमानं लभते दिव्यं सूर्यकोटि समप्रभं || २२अ) शिवस्य तैलदीपप्रदानं निषिद्धं || अथ दुर्गायाः || भविष्यपुराणे || घृतेन वाथ तैलेन दीपं योज्वालयेन्नरः | सोश्वमेधफलं प्राप्य दुर्गालोके महीयते || तैलदीप प्रदानेन यः पूजयति चंडिकां | वाजपेयफलं प्राप्य किं नरैः सहमोदते || अथ विष्णोः || न घृततिलतैलं विना किंचन दीपार्थे || नरसिंहपुराणे || घृतेन वाथ तैलेन दीपं योज्वालयेन्नरः | विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं शृणु || विहायपापं सकलं सहस्रादित्य संप्रभः | सोश्वमेधफलंप्राप्य विष्णुलोके महीयते || अथ दीपदानानंचरं भविष्यपुराणे | ताṁश्च दत्वा न हिंसेत न च तैलविवर्जितान् | कुर्वीत दीपहर्ता तु मूषिकोऽधः प्रजायते || सामान्यतो यमः || देवता पुष्पदानेन जायते श्रीसमन्वितः | ऊर्ध्वांगतिमवाप्नोति यश्च धूपप्रदोनरः || लोकप्रकाशकोभाति चक्षुष्मानिवदीपदः || अथ नैवेद्यानि | तत्र सूर्यस्य | भविष्यपुराणे || शालितंडुलप्रस्थस्य कुर्यादन्नं सुसंस्कृतं | सूर्याय चरुकं दत्वा सप्तम्यां च विशेषतः || २२ब्) प्रस्थः षोडशपलानि || संयावकृशरापूपपायसंयावकं तथा | दध्योदनं रसालं च मोदकां पूडिकांगुलान् || यावंतस्तंडुलास्तस्मिन्नैवेद्ये परिसंख्यया | तावद्वर्ष सहस्राणि सूर्यलोके महीयते || रसाला शिषरिणी || उडखंड घृतानां च भक्षाणां च निवेदने | घृतापूपहतैः सिक्तैः पुण्यं दशगुणोत्तरं || यथा यथा हि षस्तूनि स्वादूनि सुरभीणि च | भक्षान्नपानमांसानि तत्फलानि तथा तथा || अर्कपर्ण पुटंपूर्णं मधुपर्कसमन्वितं | योनिवेदयतेऽर्काय सोऽश्वमेध फलं लभेत् ||
SK
भास्करस्याग्रतो दत्वा दर्पणं निर्मलं शुभं | पर्यंत शोभिनं कृत्वा श्वेतमाल्यैः स चंदनैः || कल्पायुंत सहस्राणि सूर्यलोके महीयते | अन्यस्यां दर्शदानेन तत्समानं फलं भवेत् || अथ शिवस्य || भविष्यपुराणे || शालितंडुलप्रस्थं तु कुर्यादन्नं सुसंस्कृतं | शिवायतच्चरुं दद्याच्चतुर्दश्यां विशेषतः || यावंतस्तंडुलास्तस्मिन्नैवेद्येपरिसंख्यया | तावद्वर्ष सहस्राणि रुद्रलोके महीयते || २३अ) गुडखंड घृतानां च भक्षाणां च निवेदने | मातुलुंगफलादीति सुपक्वानि निवेदयेत् || अथ दुर्गायाः || भविष्यपुराणे || गुडखंडाद्यसंमिश्रमन्नं दद्यान्नराधिग्रं | वैष्णवस्यफलंप्राप्य सूर्यलोके महीयते || गुडखंडघृतानां च तथा शर्करया नृप | घृतेन परिपक्वानां प्रदानाद् ब्रह्मणः पदं || शाल्योदनं रसालां च पानं वदरजं तथा | यः प्रयच्छति दुर्गायै स गच्छति शिवालयं || दुर्गामुद्दिश्यपानीयं केतकी शशि वा सितं | यः प्रयच्छति राजेंद्र स गणाधिपतिर्भवेत् || शशीकर्पूरः | आम्रं च नालिकेरं च खर्जूरं वीजपूरकं | यः प्रयच्छति दुर्गायै स गच्छेत् परमं पदं || अथ विष्णोः || तत्र विष्णुः || ना भक्ष्यं नैवेद्यार्थे भक्षेथ जामहिषीक्षीरं गव्यं च दधिपयोघृतं || प्रशस्तं नाविकं स छागं | माहिषं चाविकं छागमयज्ञीय मुदाहृतं | पंचनख वराहमत्स्यमांसानि च || वराहपुराणे || सर्वं वीहिमयं ग्राह्यं शुभं सर्वं रसान्वितं | मंत्रेणमेप्रदियेतन कश्चिदपि संस्पृशेत् || २३ब्) इंगुदी फलविल्वानि वदरामलकानि च | खर्जूरीपनसाṁश्चैव पुन्नागफलमेव च || तांवूलीनां किशलयं स्वर्गलोकमवाप्नुयात् | सौभाग्यमुत्तमं लोके तथा रूपमनुत्तमं || किशलयदत्वेति शेषः | एवमादीनि वहूनि फलमूलशाकादीनि नैवेद्यार्थे कथितानि | तानि ग्रंथगौरवान्नलिखितानि | शिववर्जं सर्वेषां मांसं देयं | पादोदकं च पेयं | मुक्तं विष्णुधर्मोत्तरे |
SK
सद्यः फलप्रदं पुण्यं सर्वपापविनाशनं | सर्वमंगलमंगल्यं सर्वदुःखविनाशनं || दुःस्वप्ननाशनं पुण्यं विष्णुपादोदकं शुभं | पादोदकं विष्णु नैवेद्यमुदरेयस्य तिष्ठति || नाश्रियं लभते पापं स्वयमेव विनश्यति | तथा शालग्रामशिलातोयं यः पिवेद्विंदुनां समं || मातुस्तन्यं पुनर्नैवेसपिवेन्मुक्तिभान्नरः | तीर्थकोटि सहस्रैस्तु प्राशितैः किं प्रयोजनं || तोकं यदि पिवेत्तोयं शालग्राम शिलोद्भवं | इति पंचोपचारः || षोडशोपचारस्तु || आवाहन स्वागतासनपाद्याघा च मनीयस्नानवस्त्र यज्ञोपवीत गंधपुष्पधूपदीपनैवेद्यांजलि प्रदक्षिण विसर्जनानि || अथ सूर्यस्यदेयानि | २४अ) तत्र भविष्यपुराणे || वासोभिः पूजयेद्भानुं यान्येवात्मप्रियाणि च | तथान्यैश्च शुभैर्द्रव्यैरर्चयेदं शुभानं || वासांसि सुविचित्राणि सारवंति मृदूनि च | सारवंति रवौदद्याद्विकेशानि नवानि तु || यावद्वस्त्रस्य तंतूनां परिमाणं प्रचक्ष्यते | तावद्वर्ष सहस्राणि सूर्यलोके महीयते || त्रिवृत् शुभ्रं सुपीतं वा पट्टसूत्रादिनिर्मितं | दध्वोपवीतं सूर्यायभधेः द्वेदांगपारष्टाः || श्वेतं महाध्वजं दिव्यं कृत्वा वा सप्तरंगितं | किंकिनीजालनिर्घोषं मायूरच्छत्र भूषितं || यस्त्वर्कायं नरो दद्याच्छ्रद्धयापरं यान्वितः | मन्वंतरशतं दिव्यं मोदते दिविदेववत् || मणिदंडमयं छत्रं दद्याद्वाकांचनाद्यकं | मोदते सूर्यलोकेषु विमानवरमास्थितः || यः शृंखला समायुक्तां महाघंटां महास्वनां | कांस्यलोहमयीं वापि वध्नीयाच्च सुरालये || सोनुतस्यानुगः श्रीमान् व्रध्नस्यातीव वल्लभः | भेरीमृदंगपटंहडमरुं मुरजादिकं || वंश्य कांस्यादिवादित्रंयो व्रध्नाय निवेदयेत् | युगायुतसमं दिव्यं व्रध्नलोके महीयते || सूर्ययज्ञोपकरणं दत्वाल्यं यदि वा वहु | २४ब्) भाववित्तानुसारेण सूर्यलोके महीयते || भास्कराय तनाभ्यासेसूर्यक्षेत्रं समं ततः | देहिनां त्वत्र पंचत्वं सूर्यसायुज्यकारकं ||
SK
मनुजैः स्थापिते सूर्येक्षेत्र मानमिदं स्मृतं | क्रोशार्धकल्पयेद्राजन्नर्धार्धमथ वापि वा || तस्मादावसथान् कुर्यात् सूर्यक्षेत्र समन्वितान् | मानोरायतनाभ्यासे यत्तोयं पुरतः स्थितं || सूर्यगं येति सा प्रोक्ता तत्र स्नातो दिवं व्रजेत् | यः कुर्याद्दीर्घिकां वापी तडागंभास्करालये || सतांरयेत्कुलशतं सूर्यलोके महीयते | गौ वापि महिषीर्वापि गजानखाश्च भाजनात् || यः प्रयच्छति सूर्याय तस्य पुण्यफलं शृणु | अक्षयं सर्वकामाय अश्वमेधफलं लभेत् || यः सूर्याय जलोपेतां सर्वसस्य प्ररोहिणीं | महीमहीपतिर्दद्यात्तस्य पुण्यफलं शृणु || भुवः पांशूनियावंति भूतलेभांति सत्तमं | तावद्युगुसहस्राणि सूर्यलोके महीयते || यस्वा रामं रवेः कुर्याद्राम्रविल्वादि शोभितं | जाती जंवीर नारंग करवीरैः सकुब्जकैः || यावद्वि पत्र कुसुमं वीरुधानि फलानि च | तावद्वर्ष सहस्राणि सूर्यलोके महीयते || एवं वहवः पुण्यहेतवो निर्दिष्टः | ते ग्रंथगौरवान्नलिखिता सूर्यस्येत्युपलक्षणं | २५अ) शिवदुर्गाविष्णूनामप्येवं सर्वं तत्तल्लोक प्राप्तयें वोद्धव्यं || एवं प्रत्येक कथने ग्रंथगौरवं भवेदिति संक्षेपतः पूजा द्रव्यविधानं | एतानि पूजा द्रव्याणि सर्वाणि मूलमंत्रेण पूतानि देवेभ्यो देयानि | मंत्रास्तु त्रैवर्णिकानां वैदिका एव मुख्याः अवराणां आगमाद्युपयुक्ता मंत्राः | तदभावे तु त्रैवर्णिकानामपि स्त्री शूद्राणां च पंचरात्रोक्ता एवं मुख्या न वैदिकाः | तेषां तदनधिकारात् | अतो ब्राह्मणे क्षत्रविशामप्यागम्येक्ता मंत्रा अविरुद्धा वेदाविरुद्धाश्चेत् | उक्तं च वाराहपुराणे | अलाभे वेदमंत्राणां पंचरात्रोदितो विधिरिति || किं च आगमोक्त मंत्राः सवीर्या उक्ताः | तथा च प्रपंचे | कृते श्रुत्युक्तमार्गात्रेतायां स्तुतिभावतः | द्वापरेस्यात् पुराणोक्ताः कलावागमसंभवाः || अशूद्राः शूद्रकल्पा हि ब्राह्मणाः कलिसंभवाः | तेषामागममार्गेस्यात्सिद्धिर्नश्रौतवर्त्मना ||
SK
यदि कश्चित् द्विजश्रेष्ठः कृताचारो जितेंद्रियः | तस्य सावित्र्यादि मंत्राः फलंत्येव न संशयः || ते पुनर्गुरोर्मुखाद्दीक्षापुरःसरं गृहीताः फलाय कल्पं ते नान्यथेति || २५ब्) तथा च अदीक्षितस्य अनिष्ट श्रवणात् | अदीक्षितस्य वामो रुकृतं सर्वमनर्थकं | पशुयोनिमवाप्नोति दीक्षाहीनोनरः सदा || यदृच्छया कृतं मंत्रं छन्नं न्यायफलेन वा | यत्रेक्षिते वा गार्था च यजुयेत्तदनर्थकं || किं च सम्यक् सिद्धैक मंत्रस्य नासाध्यमिह किंचन | वहुमंत्रवतः पुंसः काकथा व्यास एव सः || तस्मादेकोपि मंत्रो दीक्षया ग्राह्यः साध्यते गुरुर्मुखात् इत्यत एते मंत्रा अत्रविविच्योच्यंते | न पुनर्गुरोर्मुखात् दीक्षापुरःसरागृहीताः फलायकल्पंते नान्यथेति || यतः | स्नेहाद्वालोभतो वायोनुग्रहीष्पक्षा दीक्षया | अस्मिन् गुरौ स शिष्यै तु देवताशाय आपतेत् || इति देवताशाय भयाद्दीक्षा पूर्वक एव मंत्रोदेय इति सा दीक्षा संक्षेपतः प्रसूयते || इति श्रीमंत्रकोषे पूजाद्रव्यकथनंनाम चतुर्थः परिच्छेदः || अथ दीक्षां प्रवक्ष्यामि मंत्रिणां हितकाम्यया | ययाविनान लभ्येत सर्वं मंत्रफलं यतः || ज्ञानं दिव्यं ततो दद्यात् कुर्यात् पापक्षयं यतः | तस्माद्दीक्षेति सा प्रोक्ता देशिकैस्तंत्रवेदिभिः || चतुर्विधा दीक्षा यद्यपि तथापि देशकालादि सौकर्यात् संक्षेपतः क्रियावतो दीक्षाविधिरुच्यते || २६अ) तत्रादौ गुरुशिष्यपरीक्षा || अवदातान्वयः शुद्धःशोधिताचार तत्परः | आश्रमी क्रोधरहितः सर्वशास्त्रार्थ तत्ववित् || सगुणार्चासु कृतधीः कृतज्ञः शिष्यवत्सलः | विग्रहानु ग्रहेदक्षो महामंत्रपरायणः || अहायोहप्रमाणज्ञः शुद्धाम्नायः कृपालयः | इत्यादि लक्षणैर्युक्तो गुरुः स्याद्गरिमानिधिः || शिष्यः शुद्धान्वयः श्रीमान् विनीतः प्रियदर्शनः | सत्यवाक् पुण्यनिरतोऽदभ्रधीर्दंभवर्जितः || युवाविनियता शेषकरणः करुणालयः | इत्यादि लक्षणैर्युक्तः शिष्यो दीक्षाधिकारभाक् || अथ शुद्धसमये दीक्षामासाः ||
SK
चैत्रेदीक्षा स दुःखास्याद्वैशाखे सर्वसिद्धिदा | ज्येष्ठे मृत्युप्रदासास्यादाषाढे वंधुनाशिनी || श्रावणे वृद्धिदा नॄणां न भस्येद्दुःखदामता | आश्विने सर्वसिद्ध्यैस्यात् कार्तिके ज्ञानवृद्धिदा || शुभकृन्मार्गशीर्षे च पौषे ज्ञानविनाशिनी | माघे मेधा वृद्धिदास्यात्फाल्गुने विजयप्रदा || कृष्णपक्षात् शुक्लपक्षः प्रशस्तः | रिक्ता कुहूवर्जितास्तिथयः || २६ब्) उत्तरा त्रयरोहिणी चित्रानुराधामृगशिरोरेवती पुष्पाश्विनीहस्तानक्षत्राणि | मंगलवर्जं वाराः || स्थिराणि लग्नानि वृषसिंहवृश्चिककुंभाख्यानि || अथ प्रयोगः || तत्र प्रथमतः स्वस्ति ऋद्धिपुण्याहं वाचनं कृत्वा आचार्यं वृणुयात् | यथा शक्त्यलंकारादिसहित त्रिपटिमाचार्याय दत्वा अद्येत्यादि त्वत्तोऽमुकमंत्रं ग्रहितुं तदंगभूतहोमादिकर्मकर्तुममुकगोत्रममुकशमीण ममुकवेदाधियिनमेभिश्चंदन पत्राक्षत तांवूलालंकार वासोभिर्गुरुत्वे नत्वा महं वृणे वृतोस्मीति प्रतिवंचनं | *? ततो गुरुर्मदयांतर्गत्वां अर्घपात्र चतुष्टयं कृत्वा सिद्धार्थाक्षत कुशाग्र तिलपुष्पजलं फलानि निक्षिप्यार्घं गृहीत्वा संसारार्णवमग्रानां पशूनां पाशमुक्तये | त्वमेव शरणं वंदे सदात्वं भक्तिवत्सल | देवदेवानुजानी हि प्राकृतैः पाशवंधवैः | पाशितान्मोचयिष्यामित्वत् प्रसादात् पशूनिमान् इत्यर्घं दत्वा अनंतासनाय नमः | विमलासनाय नमः २ योगासनाय नमः ३ पद्मासनाय नमः ४ इत्येतैर्मंत्रैरभिमंत्रितान् कुशान् दत्वा आसनं संपूज्यं तत्र पूर्वाभिमुख उपविश्यगुंगुरुभ्यो नमः | गंगणपतये नमः २७अ)
SK
इति वामदक्षिणभागेर्गुरुं गणपतिं च पूजयित्वा || दक्षिणभागे पूजाद्रव्याणि वामभागे नैवेद्यादि स्थापयित्वा उच्चैर्घृतेन कर्पूरगर्भिणीभिर्वर्तिकाभिदीयान् प्रज्वाल्य | अनंतरं पंचवर्णिकाभिः सर्वतो भद्रादि मंडलानामेकतमं मंडलं विरचय्य मूलमंत्रेण प्राणायामत्रयं कृत्वा भूतशुद्धिं प्राणप्रतिष्ठां मातृकान्या स च कृत्वा दातव्य मंत्रस्य च षडंगन्यासाक्षरन्यासान् विधाय स्वदेहे मूलाधारादारभ्य आधारशक्त्यादिमेरुपर्यंतं हृदयं यावत् पूजयेत् | तदुपरि अंसद्वयोरुद्वय पीठकोणरूपेषु धर्मादीन् | मुखपार्श्वनाभिपारर्श्वपीठगात्रेषु अधर्मादीन् पूजयेत् | हृत्कमले सत्वादि परतत्वांतं चिंतयेदेवं पीठादि पूजांतं मानसैरुपचारैस्तत्र संपूज्य स्वहृदये देवं संकल्प | ततोऽग्रतः शरवस्थापनमारभेत् || तत्राग्नेः | ॐ वह्निमंडलाय दशधर्मकलात्मने नमः इत्यर्घभूमिं पूजयित्वा | ॐ सूर्यमंडलाय २७ब्) द्वादशार्थ कलात्मने नमः इति तत्र स्थापिता धारपात्रं पूजयित्वा तदुपरि अस्त्राय फडिति मंत्रेण शंखं प्रक्षाल्य विन्यस्य मूलमंत्रेण जलं प्रक्षिप्य ॐ सोममंडलाय षोडशामृत कलात्मने नमः इति जलं संपूज्य | स्वाहेति चंदनं वषडिति मंत्रेणाक्षतान् हुमिति मंत्रेणावगुंठ्यः अस्त्राय फडिमंत्रेण संरक्ष्य तत्र गंगे च यमुने चैव गोदावरि सरस्वति | नर्मदे सिंधुकावेरिजलेस्मिन्संनिधिं कुरु इति तत्र तीर्थमावाह्यगामिनी मुद्रां धेनुमुद्रां च प्रदर्श्य स्वमुद्रया संरक्ष्य हस्ताभ्यां शंखमाच्छादयन् दशवारं मूलमंत्रं जपित्वा तज्जलं दक्षिणभागस्थित प्रोक्षणी पात्रे प्रक्षिप्य तेनात्मानं यागभूमिं च प्रसिच्य | ततः स्वदेहकल्पितां धारपीठे मंत्रांतं संपूज्य तत्र हृत्कमले देवमावाह्य पुष्पांजलि पंचकेन स्वमूर्ध्ने हृन्मूलाधारपाद सर्वांगेषु पंचसुपूजयेत् नैवेद्यं विना || ततः शंखेदेवमावाहयेत् | ततो गंधाष्टकं तत्र प्रक्षिपेत् || तद्यथा |
SK
चंदना गुरुकर्पूरचौरकुंकुमरोचनाः | जटामांसी कपियुता शक्तेर्गंधाष्टकं विदुः || चौरकचूरु | कपिःसी || २८अ) चंदनागुरु ह्रीवेरकुष्ठकुंकुमसेव्यकाः | जटामांसीमुरमिति विष्णोर्गंधाष्टकंमतं || ह्रीवेरं कर्पूरजलं | सेव्यकं तु सीरः | मुरं इति || चंदना गुरुकर्पूरतमलजलकुंकुमं | कुसीतकुष्टसंयुक्तं शैवं गंधाष्टकं || इति देवतानुरूपं गंधाष्टकं शंखे विलोड्य सर्वाः कलास्तत्रावाह्य पूजयेत् || ॐ अं अमृतायै नमः १ ॐ आं मानदायै २ ॐ इं पूषायै ३ ॐ ईं तुष्ट्यै ४ ॐ उं युष्टयै ५ ॐ ऊं रत्यै ६ ॐ ऋं धृत्यै ७ ॐ ॠं शंखिन्यै ८ ॐ ऌं चंडिकायै ९ ॐ ॡं कांत्यै १० ॐ एं ज्योत्स्नायै ११ ॐ ऐं श्रियै १२ ॐ ॐ म्रीत्यै १३ ॐ ऊं अंगदायै १४ ॐ अं पूर्णायै १५ ॐ अः पूर्णा मृतायै नमः १६ इत्यभ्यर्च्य प्राणप्रतिष्ठां कुर्यात् | अमृतादि सोमकलानां प्राणा इहप्राणाः अमृतादीनां जीव इह स्थितः अमृतादीनां सर्वेंद्रियाणि अमृतादीनां वाङ्मनश्चक्षुः श्रोत्र जिह्वाघ्राण प्राणा इहैवागत्यसुखंचिरं तिष्ठंतु स्वाहा || पुनस्तपनाद्याद्वादशकला आवाहयामीत्यावाह्यंकंभंतपिन्यै नमः १ खं वं तापिन्यै २ गं फं धूम्रायै ३ घं यं मरीत्र्यै ४ ङं मं ज्वालिन्यै ५ चं धं रुच्यै ६ छं दं सुषुम्णायै ७ जं थं भोगदायै ८ झं तं विश्वायै ९ ञं णं रोधिन्यै १० टं ढं धारिण्यै ११ ठं डं क्षमायै इति पूजयेत् || २८ब्)
SK
तथैव प्राणप्रतिष्ठां कुर्यात् | तपनाद्यातित्यकलानां प्राणा इहप्राणाः इत्यादि || पुनर्धूम्रार्चिरित्याद्या अग्नेर्दशकला आवाहयामीत्यावाह्वयं धूम्रार्विषेनमः १ रं उष्मायै २ लं ज्वलिन्यै ३ वं ज्वालिन्यै ४ शं विस्फुलिंग्यै ५ षं सुश्रियै ६ सं स्वरूपायै ७ हं कपिलायै ८ लं हव्यवाहनायै ९ क्षं कव्यवाहनायै नमः १० इति पूजयेत् | अग्निकलानां प्राणा इहप्राणा इत्यादि || ततः प्रणवकलाः | अकारकलात्मक ब्रह्मणः सृष्ट्यादि दशकला आवाहयामीत्यावाह्य पुष्पाक्षतैः पूजयेत् || कंसृष्ट्यै नमः १ खं ऋद्ध्यै २ गं स्मृत्यै ३ घं मेधायै ४ ङं कांत्यै ५ चं लक्ष्म्यै ६ छं दूत्यै ७ जं स्थिरायै ८ झं स्थित्यै ९ ञं सिद्ध्यै नमः १० इति संपूज्य | सृष्ट्यादीनां प्राणा इहप्राणा इत्यादि | हंसः शुचिषद्वसुरंतरिक्षसद्धोतावेदिषदतिथिर्दुरोनसः | नृषद्वरसदृत्तसद्व्योमसदब्जागोजा ऋतजा अद्रिजारितं वृहदिति र्.चमावाह्य पूजयेत् || तत उकारात्मक विष्णोर्जरादि दशकला आवाहयामीत्यावाह्य | टं जनायै नमः १ ठं पालिन्यै २ डं शांत्यै ३ ढं ऐश्वर्यै ४ णं रत्यै ५ तं वामिकायै ६ २९अ)
SK
थं वरदायै ७ दं ह्लादिन्यै ८ धं **? नं दीर्घायै नमः १० इति पूजयेत् | जरादीनां प्राणा इहप्राणा इत्यादि || ततः | अतद्विष्णुस्तवते वीर्येण मृगो न भीमः कुचरोगिरिष्ठाः | यस्यो रुषुत्रिषु विक्रमसोष्वधिक्षियंति भुवनानि विश्वाः इति ऋचमावाह्य पूजयेत् || ततो मकारात्मकं रुद्रस्य तीक्ष्ह्रादि दशकला आवाहयामीत्यावाह्य | पंतीक्ष्क्तायै नमः १ फं रोद्र्यै २ वं तयायै ३ भं निद्रायै ४ मं तंद्रायै ५ यं क्षुधायै ६ रं क्रोधिन्यै ७ लं क्रियायै ८ वं उत्कार्यै ९ शं मृत्युरूपायै नमः १० इति तीक्ष्णादीनां दशकलानां प्राणा इह प्राणा इत्यादि || ततः त्र्यंवकं यजामहे सुगंधिं पुष्टिवर्धनं | उर्वारुकमिव वंधनान्मृत्योर्मुक्षीयमामृत् इत्यावाह्य पूजयेत् || ततः पीतादिवतस्रः कला आवाहयामीत्यावाह्यषंपीतायै नमः १ संख्येतायै २ हं अरुणायै ३ क्षं असितायै नमः ४ इति पूजयेत् | पीतादीनां प्राणा इत्यादि तत्सवितुर्वरेण्यं भर्गोदेवस्यधीमहि | धियोयोनः प्रचोदयात् इत्यावाह्य पूजयेत् || ततो निवृत्यादि षोडशकला आवाहयामीत्यावाह्य अं निवृत्यै नमः १ आं प्रतिष्ठायै २ इं विद्याये ३ ईं शांत्यै ४ उं इंधिकायै ५ २९ब्)
SK
ऊं दीपिकायै ६ ऋं रेचिकायै ७ ॠं मोचिकायै ८ ऌं सूक्ष्मायै ९ ॡं सूक्ष्मामृतायै १० एं ज्ञानायै ११ ऐं ज्ञानामृतायै १२ उं आप्यायिन्यै १३ ऊं व्यापिन्यै १४ अं व्योमरूपायै १५ अः नंतायै नमः १६ इति पूजयेत् | निवृत्यादीनां षोडशकलानां प्राणा इह प्राणा इत्यादि | अनंतरं विष्णुर्योनि कल्पयतु त्वष्टा रूपाणि पीङसतु आसिंचतु प्रजापतिर्द्धाता गर्भं दधातुते इति ऋचमावाह्य पूजयेत् || इति शंखे कलापूजां विधायः सर्वतो भद्रादिमंडलमध्यस्थकमलं कर्णिकायां पुष्पाक्षतैरभ्यर्च्यः तदुपरिशालिधान्यानि तदुपरिशालि तंडुलान् तदुपरि कुशान् तदुपरि कुशकूर्चं दत्वा तत्राधार शक्त्यादि सहितं पीठं पूजयित्वां तदुपरि हैमं वा राजतं वा ताम्रमयं वा कलशं तदभावे अव्रणं शोभनाकारं श्यामिकादि दोषरहितं सर्वतस्त्रिगुणी कृतसूत्रैर्वेष्टितं चंदना गुरुकर्पूरधूपितं अस्त्रेण प्रक्षालितांतरं प्रणवं जपन् कलशं स्थाप्य कलशमध्ये पंचरत्नं संक्षिप्य क्षं लं हं सं षं शं वं लं रं यं मं भं वं फं पं नं धं दं थं तं णं ढं डं ठं टं ञं झं जं छं चं ङं घं गं खं कं अंः अं ३०अ)
SK
ऊं उं ऐं एं ॡं ऌं ॠं ऋं ऊं उं ईं इं आं अं एवं विलोममातृकां जपन् मूलमंत्रं च पुष्पकर्पूरादि वा सितैः पुण्यजलैर्देवता वध्या संपूर्य शंखस्थं किंचिज्जलं अष्टत्रिंशत्कलाः पंचाशत्कलाः पंचर्चोमूलमंत्रश्चेति चतुर्न भवति देवतात्माकं त्रिशो गृहीत्वा कलशे निक्षिपेत् || ततोऽश्वच्छयन स चूतकोमलपल्लवैरिंद्रवल्लीवद्धैः सुरद्रुमधियाकलशमुखंपिधाय तत्र चषकं कांस्यमयं फलात्मकं स्थापयेत् || ततः कुंभं निर्मलक्षौमयुग्मेन वेष्टयेत् | इंद्रवल्ली इदारुण इति प्रसिद्धः | क्षौमाभावे वस्त्रद्वयेनापि वेष्टयित्वा मूलमंत्रेण कलशे देवता मूर्तिं ध्यात्वा आवाहनादिकाः षण्मुद्राः प्रदर्शयेत् | ततः पूर्वोक्त विधिना तत्र देवं षोडशोपचारैः संपूज्य यथा शक्तिदेयमंत्रं जपित्वा समर्प्योपचारान् दत्वा छत्र चामरादिकं तांवूलं दद्यात् | इति पूजां विधाधाग्निं स्वगृह्य विधिना संस्थाप्य तत्र मुख्यदेवतायाः पीठदेवतादि क्रमेण तत्र तत्तन्नामभिः स्वाहांते एकैकामाहुतिमाज्येन हुत्वा यस्या शक्तिमूलमंत्रेण देवतां होमं विधाय स्वांगाद्या ३०ब्)
SK
वरणानां तत्तन्नामभिरेकैकामाहुतिं दत्वा पुनः पूर्णाहुत्यंतं होमं परिसमापयेत् || ततः शिष्यो गुरवे वा ससी सुवर्णांगुलीयकं दद्यात् || अनंतरं गुरुः शिष्यमग्नि समीपमानीय नेत्रमंत्रेण नेत्रवाससा शिष्यनेत्रेवध्नीयात् || ततोवद्ध नेत्रमेव शिष्यं करे गृहीत्वा कलशसमीपं नीत्वोयवेशयेत् | तत्तनौ मातृकावर्णान् विन्यस्य तस्यांजलि पुष्पैः पूरयित्वा यथाविधि कलशदेवता प्रीतयेक्षेपयेन्मूलमंत्रमुच्चरन् || ततो नेत्रवंधं व्ययोह्य शिष्यतनौः क्षकाराद्यकारपर्यंतं विलोममातृकां संहारक्रमेण संहृत्य पश्चादकारादि क्रमेण सृष्टि उत्पाद्य देव्यमंत्राक्षरन्यासंविन्यस्य पंचोपचारैः कुंभस्थामिष्टदेवतां पूजयेत् || ततोन्यस्मिन्मंडले शिष्यमुपवेश्य सर्ववाद्य ब्राह्मणाशीर्वादैः सहकुंभमुद्धृत्य तन्मुखस्थं सुरद्रुमैर्मातृकां मनसा जपन् मूलसाधितैस्तोयैः शिष्यशिरोभिषिंचेत् | अभिषेकानंतरं कुंभमुखस्य स फल चषकेन शिष्यं नीराज्य विमले वा ससीपरिधाप्य स्वसमीप उपवेशयेत् || तत आचांतस्य पूर्वाभिमुखोपविष्टस्य ३१अ)
SK
गुरुरुत्तराभिमुखः शनैः शनैर्दक्षिणकर्णेमंत्रं निःश्रावयेत् || ब्राह्मणायांवु पूर्वं दद्यात् | अन्येभ्यः कथनमात्रं लब्ध्वाऽष्ट कृत्वः शिष्यो जपेत् | गुरुमंत्र देवता शिष्यानामैक्यं संभवितव्यमुभाभ्यामिति | ततो गुरोः पादद्वयं गृहीत्वा शिरसि निधाय शरीरमर्थं प्राणं च सर्वं गुरवे निवेदयेत् | गुरुरपित्रणंतं शिष्यं वदेत् | उत्तिष्टवत्स सौम्योसि सम्यगाचारवान् भवेति | शिष्यः प्रसन्नमना गुरवे दक्षिणां दद्यात् || उक्तं च गुरवे दक्षिणां दद्यात् समग्रां प्रीतमानसः | ब्राह्मणाṁ स्तर्पयेत् पश्चाद्भक्ष्यभोज्यैः स दक्षिणैः || प्रपंचसारेपि | नत्वा पुनरत्तनुभृते परमात्मने स्वं द्रव्यार्द्धमेव गुरवे चतुरंशकं वा | दत्वा दशांशमथ वापि च वित्तसाध्यं हित्वार्पयेन्निजतनुं तदधी न चेताः || उक्तं च तंत्रराजे आचार्यादनभि प्राप्तः प्राप्तश्चादत्त दक्षिणः | सततं जप्यमानोपि मंत्रः सिद्धिं न गच्छति || मंत्रेमंत्रगुरावपि मंत्री मंत्रस्य देवतायां च | त्रिषु विहित सततभक्तिः प्रेत्येहनिजेप्सितं लभते || इति श्रीमदाशादित्यत्रिपाठीसंग्रहीते मंत्रकोषे दीक्षासंक्षेपकथनं नाम पंचमः परिच्छेदः || ३१ब्) अथ गुरुशिष्ययोग्यतापरीक्षा || मातृतः पितृतः शुद्धो विप्रः शुद्धान्वयः क्रमात् | मंत्राणां शुद्धमार्गाणां पुरश्चरणवान् गुरुः || एकाष्टेन भवेद्योग्यो ब्राह्मणो द्व्यष्टवान्नृपः | वैश्यो वर्षैस्त्रिभिः शूद्रश्चतुर्भिर्वर्षतो गुरोः || सुसुश्रूषुः परिग्राह्यो दीक्षायाग व्रतादिषु || अथ मंत्रमेलनं || यतः | नास्ति मंत्र समंमित्रं नास्ति मंत्रसमोरिपुरिति | अतो वहुधा शोधयेत् | उक्तं वागमे | गुप्तोपदेशान्मंत्रोपि मनुनात्त्रायतेऽथवा | जपतः संसृति भयाद्वहुधातं विशोधयेत् || सिद्धसाध्यादिभेदेन स्वकुलान्यकुलेन वा | वालप्रौढ जरद्भेदैस्तथा स्त्रीपुंनपुंसकैः || राशिनक्षत्रभेदेन सुप्तवुद्धादिभिस्तथा | ऋणेन च धनेनाथ भागशश्चोपलक्षितः || तथा हि षोडश कोष्ठानि कृत्वा |
SK
इंद्रा १ ग्नि ३ रुद्र ११ नव ९ नेत्र ३ युगेन १२ दिक्षु १० ऋत्व ६ ष्ट ८ षोसिद्धसाध्यग्रसु सिद्धः | अरिः | पुनः सिद्धरिस्थसिद्धस्यध्यः | सिद्ध सुसिद्धः | सिद्ध अरिः साध्यसिद्धः | साध्यं साध्यः | साध्य सुसिद्धः | साध्य अरिः | सुसिद्धसिद्धः | सुसिद्धसाध्यः | सुसिद्धसुसिद्धः | सुसिद्ध अरिः | ३२अ) उश १६ चतुर्दश १४ भूतं केषु ५ पातोल ७ पंचदश १५ वह्नि हिमांशु १३ कोष्ठे वर्णान्न्यसेल्लिपिभवान् क्रमशस्तुधीमान् || अकथह १ उ ङ प २ ऌ झ म ६ ऊ ड व ५ इति प्रादक्षिण्येन कोण चतुष्केन लिखेत् || आखदल २ ऋ च फ ४ ॡ ञ य ८ ॐ ट श ७ इति दक्षिण चतुष्के || इ ग ध क्ष २१ ऋ च्छ व १२ ए ट र १६ अं ण ष १५ इति पश्चिम चतुष्के || ई घ न १ ऋ ज भ १० ऐ ठ ल १४ अः त स १ इति तदुत्तर चतुष्के || एवं तस्मिन् कोष्ठे साधक नामाद्याक्षरं भवति प्रादक्षिण्येन तमारभ्य सिद्धसाध्य सुसिद्धारि क्रमेण गणयेत् || अथ फलं | सिद्धः सिध्यति कालेन साध्यसु जप होमतः | सुसिद्धस्तु ग्रहादेवरिपुर्मूलान्निकृंतति || इति चतुष्के चतुष्के क्रमः | अथ चेदेकस्मिṁश्चतुष्के मंत्राद्याक्षरं तदायं क्रमः | साधकाद्याक्षरस्य चतुष्ककोष्ठमारभ्य मंत्राक्षर चतुष्कपर्यंतं सिद्धादिगणनाकार्या ततो यस्मिṁश्चतुष्ककोष्ठे साधकाद्याक्षर मंत्राक्षरस्थित चतुष्कस्य तमेव कोष्ठमारभ्य पुनः सिद्धादि गणनाकार्या तदे तत्फलं | सिद्धसिद्धो यथोक्तेन द्विगुणात् सिद्धसाधक || सिद्धसुसिद्धोऽर्द्ध्वजपात्सिद्धारिर्हति वांधवान् | ३२ब्) साध्यसिद्धस्त्रिघ्नजपात्साध्यसाध्यो निरर्थकः | तत्सुसिद्धोद्विप्नजपात्साध्यारिर्हंति गोत्रजान् | सुसिद्धसिद्धोऽर्ध्वजपात् सुसिद्धसाध्योगुणाधितान् | तत्सुसिद्धोग्रहादेवतदरिर्ज्ञातिहा भवेत् | अरिसिद्धः सुतंहन्यादरिसाध्यस्तु कन्यकं | तत्सुसिद्धस्तु पत्नीघ्नो अर्यरिः साधकायहः || नृसिंहार्कवराहाणां प्रासाद प्रणवस्य च | स पिंडाक्षरमंत्राणां सिद्धादीन्नैव शोधयेत् ||
SK
स्वप्नलब्धे स्त्रियादत्ते मालामंत्रे तथैव च | वैदिकेषु च सर्वेषु सिद्धारीन्नैव शोधयेत् || सिद्धसुसिद्धौ ग्राह्यौ साध्यं शत्रुं च वर्जयेन्मतिमान् | आदावंते शत्रुर्यस्य भवेत्तंत्यजेन्मंत्रं || अथ स्वकुलान्य कुलभेदः || उ ऋ र्व ग ज ङ द व लः पार्थिवाः | ऋ ॠ अ घ झ ढ ध भवशाः वारुणाः | इ ई ऐ ख छ ठ थ फ रक्षाः आग्नेयाः | अ आ ए क च ट त पयषाः मारुत्ताः | ऌ ॡ अं अः ङ ञ ण नम सहाः नाभसाः || पार्थिवे वारुणं मित्रं आग्ने यस्यापि मारुतं | पार्थिवाप्याक्षराणां च शत्रुत्वे मारुतं स्थितं || आग्नेयस्यांभसं शत्रुरंभसंस्तैजसं तथा | एतेषामेव सर्वेषामविरोधितु नाभसं || ३३अ) परस्पर विरुद्धानां न कुर्यान्मेलनं वुधः | साधकस्याक्षरं पूर्वं मंत्रस्यापि तदक्षरं || यद्येक भूतदैवत्यं जानीयात् स्वकुलं हि तत् || अथ वालादिभेदः || एकाक्षरादिमारभ्य यावन्मंत्राः षडक्षराः | वालास्ते भैरवेणोक्ता मंत्राविंशतिवर्णकाः || प्रौढाज्ञेया स्ततोन्येयेते मंत्राःस्थं विरामताः || अथ स्त्र्यादिभेदः || स्त्रीरूपायेऽग्निजायांता मंत्राद्ये तु नमोऽंतगाः | नपुंसकास्ते विज्ञेयाः पुमांसो हुंफडंतगाः || एतेषां नामानुरूपं फलं || अथ राशिमेलनं || अ आ इ ई भवेन्नेषे उ ऊ ऋ त्रितयं वृषे | ॠ ऌ ॡ मिथुनायां च ए ऐ द्वौ कर्कटे तथा || उ ऊ द्वौ सिंहराशौ ज्ञेयास्तौ क्रमतः सुराः | अं अः श ष सहालक्षं कन्यायामष्टकं भवेत् || तुलायां तु कवर्गः स्याद्वृश्चिके च चवर्गकः | धनुष्यपिटवर्गः स्यान्मकरे च त वर्गकः || कुंभेंयवर्गोमीनेचं यरलावः प्रकीर्तिताः | साधकनामाद्याक्षरं राशिपर्यंतं गणनाक्रमः || एकपंचक नववाधवाः स्मृता द्वौ च षट्वदशमास्तु सेवकाः | त्रीणि सप्तवभजास्तु पोषका द्वादशाष्टं चतुरस्तु घातकाः || वंधुसेवक पोषकं घातका इति त्रिरावृत्त्या गणयेत् || ३३ब्)
SK
यो वंधुर्भवति स रक्षकः कृती सर्वार्थानपिवितनोति सेवकोयः | पुष्टिः श्रीर्विभवयशांसि पोषकोयः प्राणार्थान् विनिहंति घातकोयः || अथ नक्षत्रमेलन गणमेलने || अ आश्विनी दैवगणः इयमोमानुषोगणः | ई उक्तं कृत्तिकारक्षः ऋ ॠ ऌ ॡ ब्रह्ममानुषः || ए मृगो देवगण ऐ आर्द्रा मानुषस्तथा | उं अपुनर्वसू दैवः कः पुष्पो देवतागणः || खगौश्लेषागणो रक्षो घ ङ मघाराक्षसोगणः | च पूर्वा मानुषगणः छजोत्तरमनुष्यजौ || झ ञ हस्तो देवगणः ट ठ चित्राथ राक्षसः | ड स्वाती देवगणो ढण्विशांषाथ राक्षसः || तथदा अनुराधाद्यौर्धज्येष्ठा राक्षसो गणः | न प फ मूलरक्षोपिव पूर्वाषाढ मानुषः || भोत्तरा मानुषगणोमो विष्णुर्देवतः स्मृतः | यरौधनिष्ठा रक्षोपि लवारुणस्तु राक्षसः || वशौ पूर्वामानुषस्तुष सहा उत्तरानृजः | अं अक्षो रेवती दैवोगणयेत् साधकाक्षरात् || ३४अ) जन्मसंपद्विपक्लेशः प्रत्परिंसाधकोवधः | मैत्रं परममैत्रं च जन्मादीṁश्च पुनः पुनः || इति नवनवगणयित्वानामानुगुणं फलं || ततो गणनक्षत्राणि | अनुराधाश्विनी पुष्पपुनर्वसुकरामृगः | स्वाती श्रवणरेवत्यो नवदेवगणाः स्मृताः || आर्द्राभरणिं रोहिण्यः पूर्वोत्तर त्रयं तथा | एतामर्त्यंगणास्ताराः शेषारक्षोगणाः स्मृताः || तत्रायं विशेषः | देवमानुषयोर्देवगणयोश्च मानुषगणयोश्च मैत्री न देव मनुष्यगणयोराक्षसगणेनेति | परस्य रविरुद्धानां न कुर्यान्मेलनं वुध इत्युक्तत्वात् || अथ राक्षसगणयोश्च || अथ ऋणधनशोधनं || इंद्र १४ र्क्ष २१ नेत्र २ हवि १२ पंचदश १५ र्तु ६ वे दै ४ र्वह्न्या ३ युधा ५ ष्ट ८ नवभि ९ र्गुणिताṁश्च साध्यान् | दि १० ग्भूं १ गिरि ८ श्रुति ४ गजा ८ ग्नि ३ मुनी ७ षु ५ वेदैः २ ष ६ द्वह्निभि ३ श्चगुणितानथ साधकार्णान् ३४ब्)
SK
न्यासा तु लादकठवान् गजमत्तु शेषं ज्ञात्वो भयोरधिकशेषयुतं ऋणं स्यात् || अस्यायमर्थः | मंत्रस्य व्यंजनानि स्वराṁश्च पृथक् कुर्यात् | साधकनाम्नश्च स्वरान् व्यंजनानि च पृथक् कृत्वा स्थापयेत् | ततो अकठवाद्यात्मकं च वर्ग चतुष्टयं मातृकायाः कुर्यात् | अ इं उं ऋं ऌ ए ए उ ऊ | अं अः इत्येकः | क ख ग घ ङ च छ ज झ ञ ट इति द्वितीयः | ठ ड ढ ण त थ द ध न प फ इति तृतीयः | व भ म य र ल व श ष स ह इति चतुर्थः | एवं वर्गचतुष्ट यस्यापि एकैकमक्षरं गृहीत्वा गृहीत्वा अक्षरं चतुष्टयेनैकैकोवर्गो भवति | अकठव इत्येकः | इ ख ड त इति द्वितीयः | एवं क्रमेण एकादश वर्गाः संपद्यंते | एतेषामेकादश वर्गाणामेभिरेकादशभिरंकैर्यथा क्रमेकैकाक्षरं गुणयेत् | तद्यथा | यदि मंत्रे वर्गाक्षराणि पतंति तदा यथा संख्यं इंद्रादिभिर्गुणयेत् | यदि साधकनाम्नि पतंति तदादिगादिभिरंकैर्यथा संख्यं गुणयेत् | तयोर्द्वयोरप्यष्टभिरष्टभिरपि पातिते अंकाधिक शेषे ऋणं स्यात् | अधिक वर्णवान् ऋणी उनवर्णवानुत्तमर्णः | अतत्साधकस्योत्तमर्णत्वमपेक्षितं || ३५अ)
SK
अथ सुप्तप्रबुद्धप्रकारः || यतः | प्रयच्छंति फलं सर्वे प्रबुद्धामांत्रिणां सदा | तद्यथा | स्वराः षोडश सौम्याः | व्यंजनानिकादीनिमांतानि सौराणि || यकारादीन्याग्नेयाणि | स्वरेषु अ इ उ ए ऊ अं ह्रस्वाः | आ ई ऋ ऐ अ अः दीर्घाः | ऋ ॠ ऌ ॡ नपुंसकाः | यतदाक्रांतास्तु मंत्राः | यदा दक्षिणमार्गे वायुर्वहति तदा ह्रस्व प्रधाना मंत्राः प्रबुद्धा भवंति | यदा वाममार्गे वायुर्वहतिं तदा दीर्घप्रधाना आग्नेयशौरप्रधानाश्च सौम्यप्रधानाश्च नपुंसकान्युभयोः प्रबुद्धा भवंतीति || शारदायां | रेफप्रणवांत्य हकार वहुला दक्षिणे प्राणे आग्नेयाः प्रबुद्धाः | सौम्याः सकार वकार वहुला वामे वहति प्रबुद्धाः | उभयत्र सर्वेपि अन्यत्र सुप्ताः | उभयस्वरेन पुंसकप्रधाना इति || एतेन दानकाले जपकाले च मंत्राः फलदा भवंति || अथ येच्छिन्नादयो मंत्रास्ते ग्रंथगौरवान्नलिखिताः | प्रयोजनाभावात् | ते मंत्रा अत्र न संत्येव || इत्यादि मंत्रमेलन प्रकाराये उक्तास्ते सर्वेपि मंत्रेन मिलंति | किंतु वहुगुणा अल्पदोषा मंत्रादेयाः | यस्यत्वनेन प्रकारेताद्दुर्वोधस्तस्य सुगमं उपभ्यो लिख्यते || ३५ब्) नामाद्याक्षरं यन्मंत्रस्यापि तदक्षरं चेत्तदासमिलति | तथा चोक्तं | साधकस्याक्षरं यच्च मंत्रस्यापि तदक्षर | यद्येकभूतदेवत्यं जानीयात् स्वकुलं हि तत् || अतोराशि नक्षत्र कोष्ठमेलन प्रकारेणा लिखनमिदं || अकारादि नाम्नः अ आ क ग ह ख द ला मंत्रामिलंति | ककारादि नाम्नं अ आ ख यद्गाद्या मंत्रामिलंति || थादि नाम्नः ह ह झ म ख द ग ध छ द्या मिलंति | हकारादि नाम्नः अ आ क ख ध क्षा द्या मिलंति || उकारादि नाम्नः ए उ च फ ऋ षाद्या मिलंति || षकारादि नाम्नः च फ धा द्या ए वा रुकारादि नाम्नः य र ए ध छाद्या मिलंति | मकारादि नाम्नः क प ख ए ट र इ गाद्या मिलंति | अकारादि नाम्नः उ ऊ ज ठ श तु प ण खाद्यामिलंति || उकारादि नाम्नः उ व इ ग ध छाद्याः | वादिनाम्नः ड उ ड क षाद्याः ||
SK
आकारादि नाम्नः ख द ल घ ला घा मंत्रा मिलंति | खकारादि नाम्नः आदय इ ग घ डा द्या मंत्रामिलंति || ३६अ) दकारादि नाम्नः खरेलाद्या मंत्रामिलंति | चकारादि नाम्नः ऋटशजाद्या मंत्रामिलंति || अकारादि नाम्नः च फ श ज भ न शाद्या मंत्रामिलंति | फकारादि नाम्नः च ऐ आद्यामिलंति | यकारादि नाम्नः आ ऐ ठ ल ई ना द्याः | डादिनाम्नः ॐ श उ फ ण ष न श भाद्याः | शादिनाम्नः ऋ फ ष क्ष त स ज भाद्याः | ईकारादि नाम्नः ग ध छ ट घ न ठ अ द्याः | गादिनाम्नः क्ष ई घ ठ ए अकाद्याः | धादिनाम्नः ग क्ष ए घ न क थ हाद्याः | छादिनाम्नः ए र क हा द्याः | ऋकारादि नाम्नः छ त अं उ अः व भजाद्याः | छादिनाम्नः च ज त स उडाद्याः | वादिनाम्नः छ ण ज भ प नु पाद्याः | टादिनाम्नः ठ इ नम अ कश्च हाद्याः | रादिनाम्नः ए च ऐ च ल इ न झ ण अकथ हाद्याः | णकारादि नाम्नः ष न स भ तु द उपाद्याः | ईकारादिनाम्नः घ न ल अ क थ ह म आ दाद्याः | घादिनाम्नः ल अ क ह म आ खा द्याः | नादिनाम्नः ल भ जा द्याः | जादिनाम्नः त इ स ऋ च झा द्याः | भादिनाम्नः प व च फा द्याः | डादिनाम्नः ल घ न म अ क थ ह आ दा द्याः | तादिनाम्नः स व श चा द्याः | सादिनाम्नः त व श चा द्याः || ३६ब्) अन्ये प्रकारायदि न मिलंति तथाप्ये तत्कोष्टराशि नक्षत्रमेलनमवश्यमपेक्षणीयं | यतः | स्वतारराशि कोष्ठानामनुकूलान् भजेन्मनू नित्युक्तत्वात् | साध्यमंत्रा अपि सिद्धसुसिद्धयोगेन विरुद्धाः समीची तत्वेन ज्ञेयाः || जनेनं जीवनं पश्चात्ताडनं वोधनं तथा | अथाभिषेको विमली करणाप्यायने पुनः || तर्पणं दीपनं गुप्तिर्दशैतामंत्र संस्क्रियाः ||
SK
मातृकातो मंत्रोद्धारो जननं १ प्रणवांतरित मंत्रैकैकाक्षर जपोजीवनं २ मंत्रवर्णाल्लिखित्वा प्रत्यक्षरं वायुवीजेन चंदनांभसा ताडनं ताडनं ३ लिखितमंत्राक्षराणि प्रत्यक्षरं करवीर पुष्पैः मंत्राक्षर संख्याकैर्वह्निवीजेन हननं वोधनं ४ मंत्राक्षर संख्ययाश्वच्छ पल्लवैरभिषेचनं अभिषेकः ५ ॐ ह्रौं इत्यनेन दहनं विमलीकरणं ६ अनेनैव कुशोदक प्रोक्षणं आप्यायनं ७ वारिणा मूलमंत्रेण तर्पणं तर्पणं ८ ॐ ह्रीṁ श्रीṁ वीजपुरः सरजयोदीपनं ९ मंत्राप्रकाशनं गोपनं १० इति दशसंस्कारसंस्कृता दुष्टा अपि मंत्राः | किं च सानुस्वारैरकारादिभिः सविसर्गैः ३७अ) प्रतिलोमैः ककारादिभिश्च प्रत्येकं मातृकावर्णैः पुटी कृतो मेरुः | एषाक्षमालाजपोय युक्ता || अनया मंत्रजपः सिद्धिशीघ्रफलदः ककाफलदा भवंति || इति श्रीमदाशादित्यत्रिपाठीसंगृहीते मंत्रकोषे मंत्रमेलनं नाम षष्ठः परिछेदः || अथ भूतशुद्धिः || मृदासने संवद्ध पद्मासने उपविश्य अपक्रामं तु भूतानि पिशाचाः प्रेतगुह्यकाः || ये चात्र निवसंत्येता देवता भुविसंस्थिताः | अपसर्पंतुते भूतायेभूताभुविसंस्थिताः | ये भूता विघ्नकर्ता रस्वेनश्यं तु शिवाज्ञया | इति क्रूरदृष्ट्यात्तानु विघ्नकर्तॄन् निःकारयेत् || पृथ्वीत्वया धृता लोका देवित्वं विष्णुनाधृता | त्वं च धारयमां देवि पवित्रं कुरु चासनं इति भुवं प्रार्थयित्वाः अघोरास्त्राय फट् इति तालत्रयं दिग्वंधनं कृत्वा शारंगाय सशरायसनाराचाय श्रीसुदर्शनायास्त्राय फट् इति छोटिकं या ईशानकोणे अस्त्रं विसृजेत् | अग्निप्राकारतिष्ठतिष्ठ इति तर्जन्या अग्निप्राकारत्रयं कुर्यात् || शरीरस्यांतर्यामी ऋषिः प्रकृतं पुरुषं चंदः सत्यो देवता धर्मार्थ काममोक्षार्थे विनियोगः | आसन मंत्रस्य मेरु ३७ब्)
SK
पृष्ठ ऋषिः सुतलं छंदः श्रीकूर्मोदेवता मेरुपर्वताग्रे आसनार्थे विनियोगः || अनंतासनाय नमः १ विमलासनाय २ योगासनाय ३ पद्मासनाय नमः ४ इत्येतैर्मंत्रैरभिमंत्रितान् कुशान्स्वासने दद्यात् || ॐ पृथिव्यादि महाभूतान्यात्मनि संहृत्यात्मना सहपरव्योम्न्युद्वासयामीति संकल्प्य पृथिव्यादि स्थानानि चिंतयेत् || पादादि जानुपर्यंतं पृथिवीस्थानमुच्यते | आजानोः पायुपर्यंतमयां स्थानं प्रकीर्तितं || आपायोर्हृदयांतं यद्वह्निस्थानं प्रकीर्तितं | आहृन्मध्याद्भ्रुवोर्मध्यं यावद्वायोस्तुवर्णितं || आभ्रूमध्यादि मूर्ध्नांतमाकाशमिहचोच्यते | तत्र पृथिवीस्थाने पादेंद्रियगमनक्रिया || गंतव्यं गंधघ्राण पृथिवीपादसंभव ब्रह्मनिवृत्ति समानवायून्संस्मृत्य मूलाधारस्थया आपादतलमस्तकव्याप्तया कुंडलिन्याग्रस्यमानान्संस्मृत्यं ॐ ह्रीं ब्रह्मणे पृथिव्यंदिपतये निवृत्ति कलात्मने हुंफट् स्वाहा इत्यमुं मंत्रमुच्चार्य कुण्डलिनी द्वारा आत्मन्युप संहरेत् || १ || पुनरयां स्थाने हस्तादानादातव्य रसरसनाजलविष्णु प्रतिष्ठो दानन्स्मृत्वा ३८अ)
SK
ॐ विष्णवे जलाधिपतये प्रतिष्ठा कलात्मने हुं फट् स्वाहा इत्यमुं मंत्रमुच्चार्यतान्सर्वान् कुण्डलिनी द्वारा आत्मन्युपसंहरेत् || २ || पुनरग्निस्थानेपायु विसर्गविसर्जनीय रूप चक्षुस्तेजो रुद्रविद्याव्यानान्संस्मृत्य ॐ ह्रूṁ रुद्राय तेजोधिपतये विद्याकलात्मने हुं फट् स्वाहा इत्यमुंमंत्रमुच्चार्य कुण्डलिनीद्वारा आत्मन्युपसंहरेत् || ३ || पुनर्वायुस्थाने उपस्थानं तद्विषयस्य संस्प्रष्टव्य वागीश्वरशांत्यपानात्संस्मृत्य ॐ ह्येṁ ईशानाय वाय्वधिपतये शांतिकलात्मने हुं फट् स्वाहा इत्यमुं मंत्रमुच्चार्य कुण्डलिनी द्वारातान्सर्वान् परमात्मन्युपसंहरेत् || ४ || पुनराकाशस्थाने वाग्वदनवक्तव्यशष्टश्रोताकाश सदाशिव शांत्यतीत प्राणान्संस्मृत्य ॐ हौṁ सदाशिवायाकाधिपतये शांत्यतीत कलात्मने हुंफट् स्वाहा इत्यमुं मंत्रमुच्चार्यतान्सर्वान् कुण्डलिनीद्वारा परमात्मन्युपसंहरेत् || ५ || तां कुण्डलिनीं ललाटाग्रगांगुष्ठ मात्रनादशक्तौ नादं विंदुं शक्तौः तांचमूलशक्तौ प्रणवेन संहृत्यतां च निर्गुणे परमात्मन्युप संहरेत् || हृṁ हुṁ फट् इत्यनेन इत्युपसंहृत्य स्वशरीरस्य शोषणादिकं कुर्यात् | इडया वायु माकृष्य नाभेरधोयंवीजं धूम्रवर्णं महावार्चिषं चिंतयन् कुंभकेद्वात्रिंशद्वारान् जपन् ३८ब्)
SK
तेन वाम कुक्षिस्थ मधोमुख मंगुष्ठमात्रमुपपातकोष कल्पितोयांगं पापपुरुषशरीरं शोषयेत् | तं वायुं पिंगलया रेचयेत् || १ || पुनरिडयावायुमाकृष्य मूलाधारे संयोज्य तत्र रमिति वीजं पिंगलवर्णं संचिंत्य तेन स्वशरीरं पापपुरुषं दहन् कुंभके चतुः षष्ठिवारान् रमिति वीजं जपन् पापपुरुषं भस्मपिंगले यावहिः कुर्यात् || २ || पुनरिडया वायुमाकृष्य ब्रह्मरंध्रे प्रापज्य तत्र सहस्रदलकमले च नित्यमृतवीजं शुक्लवर्णं संचिंत्य तन्निः सृतया अमृतधारया स्वशरीरं संसिचन् चेतुः षष्ठिवारं कुंभकेलमिति वीजं जपेत् || ३ || पुनरिद्रया वायुमाकृष्य मूलाधारे संयोज्य तत्रंलमिति पृथिवी वीजं श्यामवर्णं संचिंत्यतेन स्वशरीरभस्मं पि *? कुर्वन् चतुः षष्टिवारं कुंभकेलमिति वीजं जपेत् || ४ || पुनरिद्रया वायुमाकृष्य मूलाधारे ह्रीं भुवनेश्वरीवीजं संचिंत्य **? शिरश्चरणाद्यवयवान् कुर्वन् कुंभके चतुः षष्टिवारान् जपेत् || ५ || एवं स्थूलं निःपाद्य सूक्ष्मशरीरं कुर्यात् | प्रणवं त्रयमुच्चार्य आत्मनः सकाशान्मूलशक्तिं नादशक्तिं विंदुशक्तिं सृष्ट्वा ह्रीं नम इत्यनेन || ॐ हौं सदाशिवायाकाशाधिपतये शांत्यतीत कलात्मने नमः इत्यनेन मंत्रेण विंदुरूपात्मनः प्राणशांत्यतीत ३९अ)
SK
सदाशिवाकाशं श्रोत्रशष्टवाग्वदन वक्तव्यनुत्पाद्य आकाशस्थाने स्थापयेत् || १ || ॐ ह्यें ईश्वराय वागधिपतये शांति कलात्मने नमः इत्ययानशांतीश्वर वायुस्पर्शनेंद्रियस्प्रष्टव्योपस्थानं तद्विषयान् वायुस्थाने स्थापयेत् || २ || ॐ ह्रूं रुद्राय तेजोधिपतये विद्या कलात्मने नमः इति व्यानविद्यारुद्राग्नि चक्षुः रूपवायुविसर्गतद्विषयान् अग्निस्थाने स्थापयेत् || ३|| ॐ ह्रीं विष्णवे जलाधिपतये प्रतिष्ठा कलात्मने नमः इति उदान प्रतिष्ठा विष्णुजलरसनारसहस्तादानाद्यान् सृष्ट्वा अपांस्थाने स्थापयेत् || ४ || ॐ ह्रीं ब्रह्मणे पृथिव्यधिपतये निवृत्ति कलात्मने नमः इति समान निवृत्ति ब्रह्मपृथिवी गंधपादं गमनगंतव्यान् सृष्ट्या पृथिवी स्थाने स्थापयेत् || ५ || एवं सूक्ष्मशरीरं निष्पाद्य विंदुनाद मूलशक्तीनां स्वशरीरे व्याप्तिं प्रणवेन कृत्वाः अमृतोदक संपूर्णैः कलशैर्हेमनिर्मितैः | दिग्नारीणां करधृतैरात्मानमभिषिंचामि इत्यात्मानमभिषिंच्य प्रणवेन हृदिपरमात्मानमावाहयेत् || ततः प्राणप्रतिष्ठां कुर्यात् | तद्यथा || प्राणप्रतिष्ठा मंत्रस्य ब्रह्मविष्णुरुद्राः ऋषयः ऋग्यजुः सामाथर्वाणि छंदांति प्राणोदेवता प्राणप्रतिष्ठार्थे विनियोगः | ३९ब्)
SK
ॐ आं ह्रीं क्रौं य र ल व श ष स ह्ॐ सं हं सः मम प्राणा इह प्राणा ममजीव इह स्थितः | मम सर्वेंद्रियाणि वाङ्मनश्चक्षुः श्रोत्रजिह्वा घ्राणप्राणा इहैवागत्यसुखंचिरंतिष्ठंतु स्वाहा हंसःसं | इति प्रतिष्ठा मंत्रेण तत्तत्स्थाने प्राणजीवेंद्रियाणि प्रतिष्ठापयेत् || ततो वक्ष्यमाणप्रकारेण मातृकान्यासंविधाय शुद्धो भवति जपपूजादि योग्यो भवति || एवं विस्तरं कर्तुश्च समर्थस्तदा संक्षेपतोपि भूतशुद्धिः कार्या | तद्यथा | दिग्वंधनादिकं कृत्वा प्रणवेन प्राणा आत्ममनसा परमात्मनि संहृत्य पापपुरुषेण सहस्वशरीरं यमिति वीजं द्वात्रिंशद्वारं जपन् शोषयेत् || १ || रमिति वीजं चतुः षष्ठिवारं कुंभके जपन् शरीरं भस्मी कुर्यात् || २ || पुनरिडया वायुमाकृष्य कुंभकेवमिति वीजं चतुःषष्ठिवारं जपन् स्वशरीरभस्मसिंचेत् || ३ || तन्निः सृतामृतधारया तथैव कुंभकेलमिति वीजं चतुःषष्ठिवारं जपन् शरीरभस्मपिंडी कुर्यात् || ४ || पुनस्तथैव कुंभके ह्रीं भुवनेश्वरी वीजं चतुःषष्ठिवारान् जपन् करशिरश्चरणाद्यवयवान् कृत्वा ४०अ)
SK
प्राणप्रतिष्ठां पूर्ववत् कुर्यात् || इति त्रिमंडल भूतशुद्धिः || अथ पंचमंडल भूतशुद्धि प्राकारो लिख्यते || ह्रां निवृत्ति कलायै नमः १ ह्रीं प्रतिष्ठा कलायै २ ह्रूं विद्याकलायै ३ ह्यैं शांतिकलायै ४ हौं शांत्यतीत कलायै नमः ५ इत्येभिर्मंत्रैः प्राणायाम क्रमेण पादयोर्नाभेरंधस्ताद्धृदये कंठे शिरसि च पंचमंडलानि शोधयेत् || अथ तेषां स्वरूपाणि || पृथिवी मंडलं चतुःकोणं पीतवर्णं वज्राष्ट लांछितं लंवीजसहितं ब्रह्मदेवतात्मकं १ आप्यमंडलं पद्मद्वयांतर्गतधनुराकारं श्वेतवर्णं वंवीजात्मकं विष्णुदैवतं २ अग्निमंडलं त्रिकोणं स्वस्तिकोपेतं तदंतस्यरं वीजात्मकं रुद्रदेवतात्मकं ३ वायुमंडलं षड्विंदुलांछितं अंतस्ययं वीजं धूम्रवर्णं ईश्वरदेवतात्मकं ४ आकाशमंडलं वृत्तं हकारां तस्थं नीलवर्णं सदाशिवदेवताकं चिंतयन् ५ पंचभिर्मंत्रैः पंचेंद्रिय कृतान् दोषान् शोधयेत् || इत्येषा पंचमंडल भूतशुद्धिः || इति श्रीमदाशादित्यत्रिपाठीसंगृहीतेमंत्रकोषे भूतशुद्धिकथनंनाम सप्तमः परिच्छेदः || अथ मातृकान्यासः || शुद्धश्चापि स विंदुकस्त्वथ कलायुच्छेशवाद्यस्तथा श्रीकंठादियुतश्च शक्तिकमलामारैस्तथैकैकशः | न्यासास्तेदश च पृथग्नि गदिताः ४०ब्)
SK
स्युर्ब्रह्मं यागांतिकाः सर्वेसाधकसिद्धिसाधनपराः संकल्पक्ल्पद्रुमाः || अतोऽन्येपि वाच्याः || मातृकामंत्रस्य ब्रह्मा ऋषिर्दैवीगायत्री छंदः वर्णात्मिका सरस्वती देवता सकलमंत्रांगत्वे विनियोगः | ॐ अं कं खं गं घं ङं आं ज्ञानात्मने हृदयाय नमः १ इं चं छं जं झं ञं ईं शक्त्यै शिरसे स्वाहा २ उं टं ठं डं ढं णं ॐ वलायै शिखायै वषट् ३ एं तं थं दं धं नं ऐं ऐश्वर्याय कवचाय हुं ४ ऊं पं फं वं भं मं ॐ तेजसेनेत्र त्रयाय वौषट् ५ अं यं रं लं वं शं षं सं हं लं क्षः अः वीर्यायास्त्राय फट् ६ इति षडंगन्यासं कृत्वा ध्यानं कुर्यात् || पंचाशद्वर्णभेदैर्विहितवदनदोः पादयुककुक्षिवक्षो देहां भास्वत् कपर्दाकलित शशिकलामिंदुकुंदावदातां | अक्षस्रककुंभचिंता लिखितवरकरात्रीक्षणां पद्मसंस्थां स्वच्छाकल्पामतुच्छस्तनजघनभरां भारतींतां नमामि || दक्षिणोर्ध हस्ते अक्षस्रक् वामोर्द्ध हस्ते कुंभः वामाधः इत्याद्युकारादिक्षकारांतन्यासक्रमः | न्यासस्थानानि | काननवृंतद्व्यक्षिश्रुतितो गंडोष्ठदंतमूर्धास्ये | दोःयत्संध्यग्रेषु च पार्श्वद्वयपृष्ठनाभि जठरेषु | हृद्दोर्मूलापरगलकक्षेषु हृदादि पाणिपादयुगे | जठरादिष्ठंगेष्ठा पापकसंज्ञां न्यसेदथाक्षरान् क्रमशः || अथांतर्मातृकान्यासः | द्व्यष्ट पत्रांवुजे कंठेस्वरान् षोडश विन्यसेत् | द्वादशच्छद हृत्पद्मेकादीन् द्वादश विन्यसेत् || ४१अ) दशपत्रांवुजे नामौडकारादीन् दशन्यसेत् | षट्पत्र मध्येलिंगस्थे वकारादीन्न्यसेच्च षट् || आधारे चतुरोवर्णान् वादीन्न्यसेच्चतुर्दले | हक्षौ भ्रूमध्यगे पद्मे लिपिन्यासोयमीरितः || एतयोरेकतरं कुर्यात् || अथ पूजा ||
SK
मूलमंत्रेण प्राणायामं कृत्वाः अर्धस्थापनविधिना अर्घपात्रं स्थापयित्वा पात्रांतरे ॐ आधारशक्त्यै नमः १ मूलप्रकृत्यै २ मंडुकाय ३ कालाग्नि रुद्राय ४ कूर्माय ५ अनंताय ६ महावराहाय ७ भूम्यै ८ महामेरवे ९ कल्पवृक्षाय १० सुवर्णमंडपाय ११ रत्नसिंहासनाय १२ नम इत्युपर्युपरिपूजयेत् || तदुपरि चतुरस्रं पीठं परिकल्प्य आग्नेयादि कोणमारभ्य धर्माय १ ज्ञानाय २ वैराग्याय ३ ऐश्वर्याय नमः ४ इति पीठकोणेषु पूजयेत् | ॐ अधर्माय नमः १ अज्ञानाय २ अवैराग्याय ३ अनैश्वर्याय नमः ४ इति पीठगात्रेषु || तं तमसे नमः १ रं रजसे २ सं सत्वाय ३ मां मायायै ४ विं विद्यायै ५ आं आत्मने ६ पं परमात्मने ७ ज्ञां ज्ञानात्मने ८ वं वह्निमंडलात्मने ९ नम इत्युपर्युपरिपूजयेत् | तदुपरि अष्टदलं कमलं परिकल्प्य तत्कर्णिकायां ह्मौ इति वीजं लिखित्वा अं आं इत्यादिद्वंद्वंकेशरेषु लिखेत् | क च ट त प य श इति वर्गसप्तकं लक्षं इत्येकः | एवं वर्गाष्टकं पद्मपत्राष्टकेषु लिखेत् || तद्वहिर्वह्निमंडलं विलिख्य तत्कोणेषु ठकारं दिक्षु वकारं विलिखेत् | पद्मकर्णिकायां देवीं पूर्वोक्तां सरस्वतीं आवाह्य पाद्यादिभिरुपचारैः पूजयेत् | ४१ब्)
SK
अग्नीशासुरवायुषु पुरतः पृष्ठतश्चांगानि पूजयेत् | अंगदेवता पूजा सर्वत्र नम्ॐता शिखादिष्टपि | अं आं नम इति केसरस्थानेषु पूजयित्वा पत्रेषु लिखिताष्ट वर्गान् पूजयेत् | ॐ मेधायै नमः १ प्रज्ञायै २ प्रभायै ३ विद्यायै ४ धिये ५ धृत्यै ६ स्मृत्यै ७ बुध्यै नमः ८ इति प्रागादि पत्रेषु पूजयेत् || विद्यैश्वर्यै नमः इति कमलकर्णिकायांपुरतः | ब्राह्म्यै १ माहेश्वर्यै २ कौमार्यै ३ वैष्णव्यै ४ वाराह्यै ५ माहेंद्र्यै ६ चामुंडायै ७ महालक्ष्म्यै नमः इति स्वदिक्षु पूजयेत् || इंद्राय नमः १ अग्नये २ यमाय ३ निरृतये ४ वरुणाय ५ वायवे ६ कुवेराय ७ ईशानाय नम इति स्वदिक्षु पूजयेत् || ततो यथा शक्ति जपित्वा देवीं विसर्जयेत् | लक्षं पुरश्चरणं | न्यासश्चलक्षं | मधुरत्रयसंयुक्तैः शुद्धैस्तिलैर्दशांशो होमः || त्रिमासमंभः परिजप्तमे तया पिवेद्दिनादावपिविद्ययासुधीः | अनेनमूकोपिकवित्वगर्वितः परां च सिद्धिं लभतेऽर्कमासतः || विन्यासैरथसजपैर्हुतार्चनाद्यैर्ध्यानैश्च प्रभजति भारतीयः | सश्रीमान् पुनरचिरेण काव्यकर्ताव्यासादीञ्जयतिजरायमृत्युरोगैः || सोमसूर्याग्नि रूपाः स्युर्वर्ण लोहत्रयं तथा | रौप्यमिंदुः स्मृतो हेमसूर्यस्ताम्रंहुताशनः || लोहभागाः समुद्दिष्टा स्वराद्यक्षरसंख्यया | तैर्लोहैः कारयेन्मुद्रामसंकलित संगतां || साग्रं सहस्रं संजप्यता स्पृष्ट्वा जुहुयात्ततः | तस्यां संपातयेन्मंत्री सर्पिषा पूर्वसंख्यया || ४२अ) निक्षिप्य कुंभेतां मुद्रामाभिषेकोक्त वर्त्मनां | आवाह्य पूजयेद्देवीमुपचारैः समाहितः || अभिषिच्य विनीताय दद्यात्तां मुद्रिकां गुरुः | इयं रक्षा क्षुद्ररोग विषज्वर विनाशिनी || व्याघ्रचोरमृगादिभ्यो रक्षां कुर्याद्विशेषतः | युद्धे विजयमाप्नोति धारयनानुजेश्वरः ||
SK
स्वराद्यक्षरसंख्येति षोडश पंचविंशति दशसंख्ययेत्यर्थः | तथा च प्रपंचसारे | वर्गस्वरयाद्यंशाः क्रमेण कलधौतरजतताम्रास्युः | इति रचितं रुचकमिदं साधकार्थदायि सततं स्यात् || न्यास क्रमस्तु शुद्ध प्रथमः || विसर्गान्वितः सृष्टिन्यासः | ऋष्यादिकं पूर्वोक्तं | षडंगानि विसर्गांतानि | ध्यानं || सिंदूरकांतिममिताभरणं त्रिनेत्रं विद्याक्षसूत्रमृगयोतवरान् दधानं | पार्श्वस्थितां भगवतींमपिकांचनाभां ध्यायेत्कराब्जधृतपुस्तकवर्णमालां || ऊर्ध्व वामदक्षिणकरयोः पुस्तकाक्षमाले | तदधः मृगशावकवरौदधानं देवं | पुस्तकं वामे दक्षिणेऽक्षमालां दधानां देवी || पूजादिकं च पूर्ववत् || न्यास क्रमस्तु | अः नमः | आः नमः | इः नमः इत्यादि || विसर्गविंद्वंतः स्थितिन्यासः | सर्वं पूर्ववत् | न्यास क्रमस्तु | अंः नमः | आंः नमः | इंः नमः | इत्यादि ||| प्रतिलोमतो विंदुयुक्तः संहारन्यासः | ऋष्यादिकं पूर्ववत् | ध्यानं | अक्षस्रजं हरिणयोतमुदग्रवंकं विद्याकरै रविरतंदधतीं त्रिनेत्रां | अर्धेंदु मौलिमरुणामरविंद वासां वर्णेश्वरीं प्रणमतस्तनभारनम्रां || न्यासार्चनादिकं पूर्वत् | ४२ब्)
SK
दक्षिणाधः करमारभ्याक्षस्रगादीनि | न्यासक्रमस्तु | क्षं नमः | लं नमः | इत्यादि || अथ सारस्वतार्थं वाग्वीजाद्यः | ऋष्याऋष्यादिकं मातृवत् | न्यासं क्रमस्तु | अं ऐं नमः | आं ऐं नमः इत्यादि || अथ विघ्नोपशांत्यर्थे गाणपत्यन्यासः || गणक ऋषिर्गायत्री छंदः गणपति स्वरूपिणी सरस्वती देवता विघ्नोपशांतये विनियोगः | गांगीमित्यादि षडंगं | ध्यानं | वीजापूरगदेक्षुकार्मुकंरुजा च क्राब्जपाशांकुश व्रीह्यग्रस्वविषाण रत्नकलशप्रोद्यत्करांभोरुहः | देवं पुस्तक पूर्णकुंभविलसन्मुद्राक्षमालाधरा विश्वोत्पत्तिविनाशसंस्थितिकरी ध्येया च देवी परा || दक्षिणोपरि करमारभ्य वीजपूरादीनि दधानो देवः | अधो वामकरमारभ्य पुस्तकादीनि दधाना देवी | ॐ अं गं नमः | ॐ आं गं नमः | इत्यादि न्यासक्रमः | एवं गणपत्याराधने न्यसेत् || अथ ऐश्वर्यार्थे शक्तिवीजाद्यः || शक्तिरृषिर्गायत्री छंदः विश्वजननी सरस्वती देवता सर्वैश्वर्यार्थेनमसेविनियोगः || ह्रां ह्रीं इत्यादि षडंगं | ध्यानं | उद्यत्कोटि दिवाकर प्रतिभटातुंगोरूपीनस्तनी वद्धार्धेंदु किरीटहार रसना मंजीर संशोभिता | विभ्राणाकरपंकजैर्जपपटीं पाशांकुशौ पुस्तकं दिश्याद्वोजगदीश्वरी त्रिनयना पद्मेनि षणाश्रियं || दक्षिणाधः करमारभ्य जपपटी प्रभृति ध्येयं || अं ह्रीं नमः | आं ह्रीं नमः | इत्यादि न्यासक्रमः || पूजादि पूर्ववत् | दुर्गाराधने युज्यते || अथ श्री ४३अ)
SK
प्राप्तये श्रीवीजादिन्यासः | भृगुऋषिर्गायत्रीछंदः श्रीस्वरूपिणी मातृका देवता श्रीवृद्ध्यर्थे मातृकान्यासे विनियोगः | ॐ अं श्री नमः | ॐ आं श्री नमः | इत्यादि | ध्यानं | विद्युद्दाम समप्रभां हिमगिरि प्रख्यैश्चतुर्धिर्गजैः शुंडादंड समुद्दृता मृतरसैरासिच्य मानामिमां | विभ्राणां करपंकजैर्जपपटीं पद्मद्वयं पुस्तकं भांस्वद्रत्व समुज्वलां कुंचनतां ध्यायेज्जगत्स्वामिनीं | दक्षिणाधः करमारभ्य जपपटी प्रभृति चत्वारि ध्येयानि | एवं लक्ष्म्यांराधने न्यसेत् || अथ वश्यार्थे कामवीजादिः | संमोहन ऋषिः पंक्तिः छंदः कामजननी सरस्वती देवतावश्यार्थे मातृकान्यासे विनियोगः | क्लां क्लीं इत्यादि षडंगं ध्यानां | वालार्ककोठिरुचिरां स्फटिकाक्षमालांकोदंडभिक्षुजनितां स्मरवाणापंचन् | विद्यां च हस्तकमलैर्दधनीं त्रिनेत्रां ध्यायेत् समस्तजननीं नवचंद्रचूडां || दक्षिण वा मेव करयो रक्षमाला पुस्तके | तदुपरि पंचवाण धनुषी पूजादिकं च पूर्ववत् | अं क्लीं नमः | आं क्लीं नमः | इत्यादि न्यासः | एषवश्यार्थे || अथ ऐश्वर्य लक्ष्मी वश्यार्थे न्यासः || ब्रह्मा ऋषिर्गायत्री छंदः त्रिशक्तिरूपिणी संमोहिनी सरस्वती देवता ऐश्वर्यार्थे न्यासे विनियोगः | ह्रीं श्रीं क्लीṁ इत्यादि क्रमोत्क्रमाभ्यां त्रिभिर्वीजैः षडंगं | ध्यायेयं मक्षवलयेक्षु शराशपाशान् पद्मद्वयांकुशशरान्नवपुस्तकं च | आविभ्रंती निजकरैररुणांकुचार्तां संमोहनीं त्रिणयनां तरुणेंदु चूडां | ४३ब्)
SK
उपरितन वामकरद्वये पद्मद्वयं | तदधः पाशांकुशौ | तदधः शरधनुषी | तदधोऽक्षमाला पुस्तके | पूजादिकं पूर्ववत् | ॐ अं ह्रीं श्रीं क्लीं नमः | आं ह्रीं श्रीं क्लीं नमः | इत्यादिन्यास क्रमः || अथ श्रीकंठादिन्यासः शिवपूजायां प्रशस्तः | दक्षिमूर्ति ऋषिर्गायत्री छंदः अर्धनारीश्वरो देवता सकलपुरुषार्थसिद्धि पूर्वकं श्रीकंठादिन्यासे विनियोगः | ह्लां ह्लीं इत्यादि षडंगं | ध्यानं च | वंधूक कांचननिभं रुचिराक्षमालां पाशांकुशौ च वरदं निजवाहुदंडैः | विभ्राणमिंदुशकलाभरणं त्रिणेत्रमर्धां विकेशमं निशंव पुराश्रयामि | दक्षिणाधः करमारभ्याक्षमालादीनि | ॐ अं श्रीकंठाय पूर्णोदर्यै नमः १ आं अनंतेशाय विरजायै २ इं सूक्ष्माय शाल्मल्यै ३ ईं त्रिमूर्तये लोलाक्ष्यै ४ ॐ अमरेश्वराय वर्तुलाक्ष्यै ५ ॐ अच्चीशाय दीर्घघोणायै ६ ऋंभारभूतये सुदीर्घमुख्यै ७ ॠं अतिथीशाय गोमुख्यै ८ ऌं स्थारावीशायदीर्घजिह्वायै ९ ॡं हराय कुंडोदर्यै ८ एं झंटीशाय उर्ध्वकेशिन्यै ११ ऐं भौतिकेशाय विकृतमुख्यै १२ ॐ सद्योजाताय ज्वालामुख्यै १३ ॐ अनुग्रहेशाय उल्कामुख्यै १४ अं अक्रूरेशाय श्रीमुख्यै १५ कं क्रोधीशाय महाकाल्यै १७ खंचंडीशाय सरस्वत्यै १८ गं पंचांताय सर्वसिद्ध्यै १९ घं शिवोत्तमाय गौर्यै २० ङं एकरुद्रेशाय त्रैलोक्यविद्यायै २१ चं कूर्मेशाय मंत्रशक्त्यै २२ छं एकनेत्राय आत्मशक्त्यै २३ जं चतुराननेशायममार्त्रे २४ झं अजेशायलवोहर्यै २५ ४४अ)
SK
ञं सर्वेशायद्राविण्यै २६ टं सोमेशायनागर्यै २७ ठं लांगलीशाय खचर्यै २८ डं दारुकेशाय मंजर्यै २९ ढं अर्धनारीश्वरायरूपिण्यै ३० णं उमाकांतेशायवीरिण्यै ३१ तं आव्यानिशाय कोटर्यै ३२ थं दंडीशाय पूतनायै ३३ दं अत्रीशाय भद्रयोगिन्यै ३४ धं मीनेशाय शंखिन्यै ३५ नं मेषेशायगर्जिन्यै ३६ पं लोहितेशाय कालरात्र्यै ३७ फं शिखीशाय कुर्दिन्यै ३८ वं छगलेशायकपर्दिन्यै ३९ भं द्विलं ईशायवज्रायै ४० मं महाकालाय जायायै ४१ यं त्वगात्मने कपालीशाय सुमुखेश्वर्यै ४२ रं असृगात्मनेभुजंगेशायरेवत्यै ४३ लं मांसात्मने पिनाकीशाय माधव्यै ४४ वं मेद आत्मने खड्गीशायवारुण्यै ४५ शं अस्थ्यात्मने वक्रेशाय वायव्यै ४६ षं मज्जात्मने श्वेतेशाय रक्ष्योṁ वधारिण्यै ४७ संशुक्रात्मने भृग्वीशाय सहजायै ४८ हं लकुलीशाय महालक्ष्म्यै ४९ लं शिवेशाय व्यापिन्यै ४९ क्षं संवर्तकेशाय मायायै ५० नमः इति पूर्वोक्तस्थानेषु न्यासक्रमः | अर्चनादिकं मातृकावत् || अथ श्रीकृष्णपूजायां केशवांदिन्यासः | कामवीजादिः | प्रजापति ऋषिर्गायत्री छंदोलक्ष्मी नारायणो देवता चतुर्विध पुरुषार्थ सिद्ध्यर्थे न्यासे विनियोगः | क्लां क्लीं मित्यादि षडंगं | ध्यानं | हस्तैर्विभ्रत्सरसिजगदाशंखचक्राणि विद्यां पद्मादर्शौकनककलशंमेघविद्युद्विलाशं | वामोत्तुंगस्तनमविरला कल्पमाश्लेषलोमादेकी भूतं वपुरवतुवः पुंडरीकाक्ष लक्ष्म्योः || ४४ब्) दक्षिणाधः करमारभ्यः सरसिजादीनि | लक्ष्मीभागे वामाधः करमारन्यविद्यादीनि ||
SK
क्लीं अं केशवाय कीर्त्यै नमः | क्लीं आं नारायणायं कांत्यै | इं माधवाय तुष्ट्यै | ईं गोविंदाय पुष्ट्यै | उं विष्णवेधृत्यै | ऊं मधुसूदनायकांत्यै | ॐ त्रिविक्रमाय क्रियायै | ॐ वामनायदयायै | ऌं श्रीधरायमेधायै | ॡं हृषीकेशाय हर्षायै | एं पद्मनाभाय श्रद्धायै | ऐं दामोदराय लज्जायै | ॐ वासुदेवायलक्ष्म्यै | ॐ संकर्षणाय सरस्वत्यै | अं प्रद्युम्नाय प्रीत्यै | अः अनिरुद्धायरत्यै || कंचक्रिणे जयायै | खं खदिने दुर्गायै | गं शार्ङ्गिणे प्रभायै | घं खड्गिने सत्यायै | ङं शंखिने चंडायै | चं हलिनेवाण्यै | छं मुशलिने विलासिन्यै | जं शूलिके विजयायै | झं पाशिने विरजायै | ञं अंकुशिने विश्वायै | टं मुकुंदाय विशदायै | ठं नंदजाय सुनंदायै | ॐ नंदिने स्मृत्यै | ढं नारायणाय ऋद्ध्यै | णं नरकंजिते समृद्ध्यै | तं हरये शुद्ध्यै | थं कृष्णाय भुक्त्यै | दं सत्याय शुद्ध्यै | धं सात्वनायमत्यै | नं शौरिणे क्षमायै | पं शूरायरमायै | फं जनार्दनाय उमायै | वं भूधराय क्लेदिन्यै | भं विश्वमूर्तये क्लिन्नायै | मं वैकुंठाय वसुधायै | यं पुरुषोत्तमाय वसुधायै | रं वलिनेपरायै | लं वलानुजायपरायै | वं वलायपारायणायै | शं वृषघ्नाय संध्यायै | षं वृषाय प्रज्ञायै | सं हसाय प्रभायै | ४५अ)
SK
हं वराहांय निशायै | लं विमलाय अमोघायै | क्षं नृसिंहाय विद्युतायै नमः इति पूर्वोक्तस्थानेषु न्यसेत् | पूजादि पूर्ववत् || अथ प्रणवकला न्यासः || प्रजापति ऋषिर्गायत्री छंदः कलात्मिकां सरस्वती देवता मोक्षार्थेन्यसे विनियोगः | अं ऊं आं हृदयाय नमः | इं उं ईं शिरसे स्वाहा | उं ऊं ॐ शिखायै वषट् | इत्यादि षडंगं | ध्यानं | हस्तैः पद्मं रथांगं गुणमथ हरिणं पुस्तकं वर्णमालांटंकं शुभ्रं कपालं दलमंमृतलसद्धेमकुंभं वहंती | मुक्तां विद्युत्ययो स्फटिक नवजपावंधुरैः पंचवक्त्रैस्त्र्यक्षैर्वक्षोजनम्रां सकलशशिनिभां | शारदांतां नमामि | वा माधो हस्तमारभ्यं पद्मादीनि | इति ध्यात्वा सकलां मातृकां न्यसेत् || तद्यथा | ॐ अं निवृत्यै | आं प्रतिष्ठायै | इं विद्यायै | ईं शांत्यै | उं इंधिकायै | ऊं दीपिकायै | ऋ रेचिकायै | ॠ मोचिकायै | ऌं सूक्ष्मायै | ॡं सूक्ष्मामृतायै | एं ज्ञानायै | ऐं ज्ञानामृतायै | ॐ आप्यायिन्यै | ॐ व्यापिन्यै | अं व्योमरूपायै | अः अनंतायै | कं सृष्ट्यै | खं ऋद्ध्यै | गं स्मृत्यै | घं मेधायै | ङं कांत्यै | चं लक्ष्म्यै | छं दूत्यै | जं स्थिरायै | झं स्थित्यै | ज्ञं सिद्ध्यै | टं जरायै | ठं मालिन्यै | डं शांत्यै | ढं ऐश्वर्यै | णं रत्यै | तं कामिन्यै | थं वरदायै | दं ह्लादिन्यै | धं प्रीत्यै | नं दीर्घायै | पं तीक्ष्णायै | फं रौद्रायै | वं भयायै | भं निद्रायै | मं तंद्र्यै | यं क्षुधायै | रं क्रोधिन्यै | लं क्रियायै | वं उत्कार्यै | शं मृत्यवे | षं प्रीतायै | सं श्वेतायै | हं अरुणायै | लं अमितायै | क्षं अनंतायै नमः इत्युक्त स्थानेषु न्यासः || ४५ब्) पूजादि पूर्ववत् ||
SK
अथ प्रपंचयागंन्यासः | ब्रह्मा ऋषिर्गायत्री छंदः यं तेजोरूपिणी सरस्वती देवता समस्तवस्तुसिद्धयेन्यासे विनियोगः | स्वाहा हृदयाय नमः १ सोहं शिरसे स्वाहा २ हंसः शिखायै वषट् ३ ह्रीं कवचाय हूं ४ ॐ नेत्रत्रयाय वौषट् ५ हरिहर अस्त्राय फट् ६ इति षडंगं | ध्यानं | तारादि पंचमनुभिः परिचीयमानं मानैरगण्यमनिशं जगदेकमूलं | संवित्समस्तगमनस्वरमच्युतं तत्तेजः परं भजतसांदूसुधांवुराशिं || ॐ ह्रीं अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ॐ औं अं अः हंसः सोहं स्वाहा वदने १ ॐ ह्रीं कं खं गं घं ङं हंसः सोहं स्वाहा दक्षिणवाहौ २ ॐ ह्रीं चं छं जं झं ञं हंसः सोहं स्वाहा वामवाहौ ३ ॐ ह्रीं टं ठं डं ढं णं हंसः सोहं स्वाहा दक्षिणपादे ४ ॐ ह्रीं तं थं दं धं नं हं सः सोहं स्वाहा वामपादे ५ ॐ ह्रीं पं फं वं भं मं हंसः सोहं स्वाहा शीर्षे ६ ॐ ह्रीं यं रं लं वं शं षं सं हं लं क्षं हंसः सोहं स्वाहा वक्षसि ७ इति न्यासं कृत्वा ॐ ह्रीं हंसः सोहं स्वाहा इति परमात्माऽष्टाक्षरमंत्रोमातृकासंवंधं विनापि मुमुक्षुभिर्जप्यः | न्यासस्तु | ॐ ह्रीं अं हं सः सोहं स्वाहा | ॐ ह्रीं आं हंसः सोहं स्वाहा | इत्यादि पूर्वस्थानेषु न्यासः | एवं न्यासे दिव्यतनुर्भवति || अथ ग्रहन्यासः || अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ॐ औं अं अः आदित्याय नमः वदने १ कं खं गं घं ङं अंगारकाय नमः दक्षिणवाहौ २ चं छं जं झं ञं शुक्राय नमः वामवाहौ ३ ४६अ)
SK
टं ठं डं ढं णं वुधाय नमः दक्षिणपादे ४ तं थं दं धं नं वृहस्पतये नमः वामपादे ५ पं फं वं भं मं शनैश्चराय नमः जठरे ६ यं रं लं वं शं षं सं हं क्षं सोमाय नमः वक्षसि ७ || अथ महासंपदर्थं शक्तिकमलापूरकोन्यासः | अं ह्रीं श्रीं नमः | आं ह्रीं श्रीं नमः | इत्यादिन्यासः | काननवृत्तेत्यादिषु प्रभेदात् || अथ सकलं सिद्धयेन्यासः || अं ह्रीं श्रीं द्रां क्लीं ह्लूंसः इत्यादि || एवं स विंदुकन्यासः कलान्यासः || ग्रहन्यासः प्रपंचयागन्यासश्च सर्वतंत्रेषु प्रशस्तः || अन्यानपि मातृकान्यासान् ज्ञानीमः | तान् ग्रंथगौरवभयाश्चलिखामः || इति श्रीमदासादित्यत्रिपाठीसंगृहीते मंत्रकोषे मातृकान्यासं परिच्छेदोऽष्टमः समाप्तः अथ सारस्वतमंत्राः || तत्र भूतलिपिः | अ इ उ ऊ ऌ ए ऐ ऊ अ ह य र व ल ३ इं क ख ग ४ ञ च छ ज झ ५ ण ट ठ ड ढ ट ६ न त थ ध द ७ म प फ न व ८ श ष स ९ एवं नववर्गाः || एभ्य एकैकं भक्षरमुद्धृत्य व्योमादि पंचवर्गाः कार्याः | तद्यथा | अ ए ह ङ ञ ण नमशाः इति व्योमवर्गः १ ई ऐ य क व द त पं षाः इति वायुवर्गं २ उं ऊं र ख छ ठ थ फ णः इत्यग्नि वर्गः ३ ॐ औं व घ रु ढ ध म | इति जलवर्गः ४ ऌ ख ग ज ड द वा धरावर्गः ५ एवं द्विचत्वारिंश दक्षरात्मको भूतलिपिमंत्रः || अस्य दक्षिणामूर्ति ऋषिर्गायत्री छंदः वर्णेश्वरी देवता विद्यार्थे विनियोगः | हादि षड्वर्गैः षडंगानि | ध्यानं | ४६ब्)
SK
अंकोन्मुक्त शशांककोटिसदृशीमापीन तुंगस्तनी चंद्रार्द्धांकित मस्तकां मधुमदादालोलनेत्रत्रयां | विभ्राणामपिशंवरं जपपतीं विद्यां कपालंकरैराद्यां यौवनपर्धिनं | लिपितनुं वागीश्वरी माऽस्रये दक्षिणाधः करमंरभ्य वरादीनि | इति ध्यात्वा पूर्वोक्त पीठे देवी मावाह्य पूजयेत् || अथ दशाक्षरी वाग्वादिनी मंत्रः | वदवदवाग्वादिनि स्वाहा || अस्य काश्यप ऋषिर्विराट् छंदः | वाग्वादिनी देवता विद्यार्थ्ये विनियोगः | वं वीजेलिंगे स्वाहा | शक्तिपादयोन्यसेत् | वाककीलकं | अं कं खं गं घं आं हृदयाय नमः इत्यादि मातृकोक्त षडंगन्यासं कृत्वा मंत्राक्षराणि न्यसेत् | वं शिरसि दं दक्षिण श्रोत्रे २ वं वाम श्रोत्रे ३ दक्षिण नेत्रे ४ वां वामनेत्रे ५ वां दक्षिणनासापुटे ६ दिं वामनासापुटे ७ निं वदने ८ स्वं षष्ठ्ये ईं हां युदे || ध्यानं | अमलकमल संस्था लेखनी पुस्तकोद्यत्करयुगलसरजी कुंदमंदारमंदारगौण घृत शशधरखंडोल्लासिकोटीर चूडा भवतु भवभयानां भगिनी भारतीवः | दक्षिण करेत्वखत्री | वामे पुस्तकं | इति ध्यात्वा | मातृकोक्त पीठ पद्मे मेधायै नमः | प्रज्ञायै २ प्रभायै ३ विद्यायै ४ धिये ५ धृते ६ स्मृत्यै ७ विद्येश्वर्यै ८ नम इति प्रागादि पत्रेषु मध्ये च पीठशक्तीः पूजयित्वा तत्कर्णिकायां सर्वशक्ति कमलासनायै नमह्. इति पीठमूलयित्वा देवी मावाह्य पूजयेत् | मूलमंत्र मुच्चार्य इदं पाद्यं एषोर्द्यः इदमाचमनीयं ४७अ)
SK
पुनराचमनीयं वस्त्राचमनीयं पुष्पांजलित्रयाक्षतकुशान्निवेदयेत् || ततोऽंगावरणं | अग्नीशासुरवायुषु पुरतः पृष्ठतश्च षडंगानि पूजयेत् | ततः कमलदलेषु प्रागादि क्रमेण योगायै नमः १ सत्यायै २ | विमलायै ३ | ज्ञानायै ४ | स्मृत्यै ५ | बुद्ध्यै ६ | मेधायै ७ | प्रज्ञायै ८ नम इति पूजयेत् | ब्राह्म्यै १ माहेश्वर्यै २ कौमार्यै ३ वैष्णव्यै ४ वाराह्यै ५ माहेंद्र्यै ६ चामुंडायै ७ महालक्ष्म्यै नमः ८ इति पूजयेत् | इंद्राय देवाधिपतये सायुधाय स वाहनाय नमः १ अग्नये तेजोधिपतये २ यमाय प्रेताधिपतये ३ निरृतये रक्षोधिपतये ४ वरुणाधिपतये ५ वायवे प्राणाधिपतये ६ कुवेराय यक्षाधिपतये ७ ईशानाय वाह्वधिपतये ८ निरृतिवरुणयोर्मध्ये अनंताय नागाधिपतये ९ ईशानेंद्रयोर्मध्ये ब्रह्मणे लोकाधिपतये १० सायुधाय स वाहनाय नमः इति स्वदिक्षु पूजयेत् || इति पूजयित्वा यथाशक्ति जपित्वा अनेन जपेन वाग्वादिनीमेप्रीयतामिति जपं निवेद्य नत्वास्तुत्वा संहारमुद्रया विसर्जयेत् || दशलक्षं पुरश्चरणं | क्षीराक्तैः श्वेतकमलैर्दशांशोहोमः | त्रिमधुराक्तैस्तिलैर्वाहोमः || पीत्वा तन्मंत्रितं तोयं सहस्रं प्रत्यहं जपेत् | महाकविर्भवेन्मंत्रीवत्सरेण न संश्यः || राजवृक्ष समुद्भूतैः प्रसूनैर्मधुराप्लुतैः | तत्समिद्भिश्च जुहुयात् कवित्वमतुलं लभेत् || अथ षोडशाक्षरी वाग्वादिनी | ऐं नमो भगवति वदवदवाग्देवि स्वाहा | ऋष्यादिकं पूर्वोक्तं | ४७ब्)
SK
ऐं वीजं स्वाहा शक्तिः वाक्कीलकं वाक्सिद्धये विनियोगः | ऐं हृदयाय नमः १ नमः शिरसे स्वाहा २ भगवति शिखायै वषट् ३ वदवद कवचाय हुं ४ वाग्देवि नेत्रत्रयाय वौषट् ५ स्वाहा अस्त्राय फट् ६ | ध्यानं | शुभ्रां स्वच्छविलेयमाल्यवसनांशीतां शुखंडो ज्वलां व्याख्यामक्षगुणं सुधाढ्यकलशं पद्मं च हस्तांवुजैः | विभ्राणां कमलासनां कुचनतां वाग्देवतां सुस्मितां वंदे वाग्विभवप्रदां त्रिणयनां सौभाग्यसंपत्करीं || दक्षिणाधः करमारभ्य व्याख्यादि चतुष्टयं विभ्राणां | पूजादिकं च पूर्वोक्तं || अथ हंसवागीश्वरी परिजात्त सरस्वती मंत्रः || ॐ ह्रीं ऐं ह्रीं ॐ सरस्वत्यै नमः | हंसवागीश्वरी मंत्रस्य शक्ति ऋषिर्दैवी गायत्री छंदः सरस्वती देवता वाक्सिद्धये विनियोगः | ह्रैं हृदयाय नमः इत्यादि षडंगं | ऐं नम इत्यादिना वा ब्रह्मरंध्र भ्रूमध्यनेत्रश्रोत्रनासारंध्र द्वयं जिह्वालिंगगुदेषु मंत्राक्षराणि विन्यसेत् | ततो ध्यानं | वाणीं पूर्णनिशाकरो ज्वलमुखीं कर्पूरकुंदप्रभां चंद्रार्धांकितमस्तकांनिजंकरैः संविभ्रतीमादरात् | वीणामक्षगुणं सुधाढ्यकलशं विद्यां चतुंगस्तनीं दिव्यैराभरणैर्विभूषित तनुं हंसाधिरूढांभजे | दक्षिणाधाकरे वीणां वामाधःकरे विद्यां | उपरितनकराभ्यां अक्षमालाममृतकुंभं च दधतीं ध्यायेत् | ततो मानसीं पूजां विधाय वाह्यपूजां मेधादि सहितां मातृकोक्त पीठेदेवीमावाह्य पूजयेत् | ४८अ)
SK
अंगैः प्रथमावरणां देव्यादक्ष वामपार्श्वयोः संस्कृतायै नमः | प्राकृतायै नमः || ततो दलेषु प्रज्ञायै मेधायै श्रुत्यै शक्त्यै स्मृत्यै वागीश्वर्यै सुमत्यै स्वस्त्यै नमः इति पूजयेत् | तेष्वेव ब्राह्म्यादि शक्तीः पूजयेत् | लोकपालाṁश्च दिक्षु | द्वादशलक्षं पुरश्चरणं | श्वेतकमलैर्दशांशोहोमः || अथ वाक्यति मंत्रः || ऐं वाचस्पते अमृतेप्लुवः प्लुः | अस्य ऋष्यादिकं पूर्वोक्तं | ऐं वाचस्पते अमृते प्लुवः प्लुः | एतैः पंचांगं नेत्रहीनं || ध्यानं | आसीनाकमले करैर्जपवटीं पद्मद्वयं पुस्तकं विभ्राणा तरुणेंदु वद्धमुकुटा मुक्तेंदु कुंदप्रभा | भालोन्मीलितलोचना कुचभराक्लांता भवद्भूतये भूयाद्वाक्यति देवता मुनिगणैरासेव्यमानानिशं || उपरितन वामदक्षिण करयोः कमलद्वयं | अधः करयोर्जपमालिका पुस्तकं च | इति ध्यात्वा पूर्वोक्तपीठे देवीमावाह्य पूजयेत् | एकादशलक्षं पुरश्चरणं | घृतेन दशांशो होमः | अनया विद्यया जप्तं ब्राह्मीपत्रं च भक्षयेत् | न विस्मरति मेधावी श्रुत्वा वेदागमान् पुनः || ब्राह्मीरसेस्वकल्काद्ये कपिलाज्ये पंचेजपन् | पिवेद्दिनादौ तन्नित्यं सर्वशास्त्रार्थविद्भवेत् || अथ त्र्यक्षरः सारस्वतः | वाṁ रूṁ स्वोṁ | अस्य ऋष्यादिकं नास्ति | द्विरुक्तैस्त्रिभिर्वीजैः षडंगानि | ध्यानं | ४८ब्) मुक्ता हारावदातां शिरसि शशिकलालंकृतां वाहुभिः स्वैर्व्याख्या मुद्राक्षमालां मणिमयकलशं पुस्तकं चोद्वहंती | आपीनोत्तुंग वक्षोरुहभरविनमन्मध्यदेशामधीशां वाचामीद्रेचिराय त्रिभुवन विनतां पुंडरीके निषणां || दक्षिणकरयोर्व्याख्याक्षमाले | वामयोः कलशपुस्तके | इति ध्यात्वा मातृकापूजाविधिना पूजयेत् | लक्षत्रयं पुरश्चरणं | आड्यसिक्तेन पायसेन दशांशो होमः | जपन् वीजत्रयं मंत्री सभायांजय माप्नुयात् | सितां वचां वा ब्राह्मीं वा जप्तां चादेद्दिनागमे || मेधां कामान वाप्नोति साधको नात्र संशयः ||
SK
अथ सप्तकोटीश्वरी मंत्रः | कः सः चंडिकेशःकः | ब्रह्मा ऋषिर्गायत्री छंदः सप्तकोटीश्वरी देवताकंवीजं सः शक्तिः चंकीलकं विद्या सिद्धये विनियोगः | सांसीं इत्यादि षडंगं | पूजादिकं त्रिपुरावत् || अथ वाग्वादिनी मालामंत्रः ॐ न त्रिंशदक्षरात्मकः | ॐ वदवदवाग्वादिनि ह्रीं क्लीं क्लिन्नेक्लेदिनि महाक्षोभं कुरु | सौः मोक्षं कुरुष्ठ ॐ | ऋष्यादिकं वागीश्वरीवत् || अथ त्रिपुरभैरवी मंत्रः | ह्रैं ह्क्लीं ह्रौं | शक्तिरृषिर्गायत्री छंदः त्रिपुरभैरवी देवता विद्यादि सिद्धये विनियोगः | आद्यं वीजं अंत्याशक्तिः रेफः कीलकं | ह्रैं हृदयाय नमः १ ह्रैं शिरसे स्वाहा २ ह्रैं शिखायै वषट् ३ ह्रैं नेत्रत्रयाय वौषट् ४ ह्रैं कवचाय हुं ५ ह्रैं अस्त्राय फट् ६ ४९अ)
SK
ह्रां ह्रीं इत्यादि शारदायां षडंगं || ऐंद्रां द्रावणवाणाय नमः १ ऐंद्रीं मोहनवाणाय नमः २ ऐं क्लीं संदीपनवाणाय नमः ३ ऐं क्लूं संतापनवाणाय नमः ४ ऐं सः वशीकरणवाणाय नमः ५ इत्याधारनाभि हृदयानन मूर्ध्वसु न्यसेत् | ऐं मोहनकामाय नमः १ ऐं क्लीं कंदर्पकामाय २ ऐं क्लीं क्लूं मकरध्वजकामाय ३ ऐं स्त्रीं मन्मथकामायतेष्वेवं | इत्यादि वहवोन्यासाग्रंथ गौरवान्नलिखिताः | ध्यानं | उद्यद्भानु सहस्रकांति मरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधं राजयवंटी विद्यामभीतिंवरं | हस्ताब्जैर्दधतीं त्रिनेत्र विलसद्वक्त्रारविंदश्रियं देवीं वद्ध हिमांशु रत्नमुकुटां वंदे समंदस्मितां | उपरितन दक्षिणवामं हस्तयोर्जपवटी पुस्तके | दक्षिणवामाधस्तनयोः अभयवरौ | इति ध्यात्वा मानसिकपूजानंतरं आधारादि शक्तिपीठे द्वादशदलांतर नवयोनि चक्रं लिखित्वा पद्मपत्रेषु वामायै ज्येष्ठायै २ रौद्र्यै ३ अंविकायै ४ इच्छायै ५ ज्ञानायै ६ सत्कृतायै ७ कुब्जिकायै ८ प्रद्व्यै ९ विषघ्न्यै १० दूत्यै ११ भूतये १२ सर्वानंदायै नम इति पूजयेत् || शारदायां त्वष्टदलपद्मं | तत्रैताः शक्तयः | इच्छाज्ञानाक्रियाकामिनी कामदायिनी रतिः रतिप्रियानंदा पूज्या मनोन्मनीं मध्ये || ततो नवयोनि मध्ये ऐं परायै १ अपरायै २ परापरायै ३ हसोः सदाशिव महाप्रेत पद्मासनाय नम इत्यासनं संपूज्य तत्र देवी मावाह्य पूजयेत् | ४९ब्)
SK
ततोऽंगपूजा | ततो मध्ययोतर्वहिः षट्कोणस्यांतः पुर्वादि प्रधानदिक्षु चतुरोवाणान् संपूज्य पंचमं देव्यग्रभागे पूजयेत् | द्रां शोषणवाणाय नमः १ द्रीं मोहनवाणाय नमः २ क्लीं संदीपनवाणाय नमः ३ क्लूं संतापनवाणाय नमः ४ सः उन्मादनवाणाय नमः ५ इति पूजयेत् || मध्यं योन्यवं शिष्टयोनिषु प्रागादि क्रमेण सुभगायै १ भगायै २ भगसर्पिण्यै ३ भगमालिन्यै ४ अनंगायै ५ अनंगकुसुमायै ६ अनंगमेखलायै ७ अनंगमदनायै नमः ८ इति पूजयेत् || तद्वहिर्ब्राह्म्यादयः || तद्वहिर्भैरवान् | असितांग भैरवाय १ रुरुभैरवाय २ चंडभैरवाय ३ क्रोधभैरवाय ४ उन्मादभैरवाय ५ कपालिभैरवाय ६ भीषणभैरवाय ७ संहारभैरवाय ८ नम इति दलाग्रेषु पूजयेत् || लोकपालाṁश्च स्वदिक्षु | ततो यथाशक्ति जपं निवेद्य विसर्जयेदिति | द्वादशलक्षं पुरश्चरणं | मधुरत्रयाक्तैः पलाशकुसुमैर्द्वादश सहस्रं होमः | करवीर कुसुमैश्च दशांशोहोमः || वाक्सिद्धिं लभते मंत्री पलाशकुसुमैर्हुतात् || कर्पूरकपिचोराणि समभागानि कल्पयेत् | चतुर्भागं जटामांसी तावती रोचनामता || कुंकुमं सप्तभागंस्यादिग्भागं चंदनं मतं | अगुरुर्नवभागः स्यादिति भागक्रमेण तु || हिमाद्भिः कन्ययापिष्टमे तत्सर्वं सुसोधितं | ५०अ) आदायतिलकं मालेकुर्याद्भूमिपतीन्नरान् || वनितामदगर्वाद्या मदोन्मत्तान्मतंगजान् | सिंहव्याघ्रान् महासर्पान् भूतवेताल राक्षसान् ||
SK
दर्शनादेववशयेत्तिलकं कारयन्नरः || अथास्या मंत्रप्रभेदाः || ईं इत्येकोमंत्रः १ ऐं रां इत्येको मंत्रः ऐं रीक्षं इत्येको मंत्रः ३ ऐं क्लीं सौं इत्येकः ४ ऐं ह्रीं हौं इत्येकं ५ सैं क्लीं सौं इत्येकः ६ शैं ख्लीं श्रौं इत्येकः ७ ह्रैं ह्रीं ह्रौं इत्येकः ८ क्लीं ऐं सौं ९ क्लीं सौं ऐं १० श्रैं श्रौं श्रीं ११ सकल ह्रीं सैं हैं सं १२ ह्रां सकल ह्रीं १३ श्रौं श्रैं श्रौं १४ सहक्लीं श्रैं श्रूं स्क्ल्रीं ह्रौं सहक्लौं १५ सहैं सहौं १६ ह्क्लीं सहक्लीं १७ सहौं सहक्लीं १८ श्रैं सहैं सहक्लीं १९ सहैं सहौं सहैं २० सहक्लीं सह्रौं सहैं २१ सह्रौं सहक्लीं सहैं २२ सहैं ऐं ईं जौं २३ हसैं हसक्लीं हसौः | इं जौं ऐं २५ जौं ईं ऐं २६ एभ्योऽन्ये मंत्रभेदाः संतिते ग्रंथ गौरवान्नलिखिताः एतेषां ऋष्यादि पूजांतं त्रिपुरावत् || अथ वालत्रिपुरा | ऐं क्लीं सौः | अस्य दक्षिणामूर्ति ऋषिर्गायत्री छंदः वालत्रिपुरादेवता ऐं वीजं क्लीं शक्तिः विद्यार्थे विनियोगः ऐं मध्यमयोः १ क्लीं अनामिकयोः २ सौः कनिष्ठिकयोः ३ ऐं अंगुष्ठयोः ४ | क्लीं तर्जन्योः ५ सौः करपुटयोः ६ ऐं आधारे ७ क्लीं हृदये ८ सौः ब्रह्मरंध्रे ९ ५०ब्)
SK
ऐं क्लीं सौः देहव्यापकत्वेन न्यसेत् || अं कं खं गं घं ङं आं सौः ह्रां हृदयाय नमः १ इं चं छं जं झं ञं ईं सौः ह्रीं शिरः २ उं टं ठं डं ढं णं ऊं सौः ह्रूं शिखा ३ एं तं थं दं धं नं ऐं सौः ह्रैं कवचं ४ ॐ पं फं वं भं मं अं सौः ह्रौं नेत्रत्रयाय वौषट् ५ अं यं रं लं वं शं षं सं हं लं क्षः अः सौः अस्त्राय फट् ६ इति षडंगं | ध्यानं | मुक्ताशेषर कुंडलांगदमणिग्रैवेयहारोर्मिकां विद्योतद्वलयादिकं कणकटी सूत्रां स्फुरन्नूपुरां | माणिक्ये | दरवंधुकंचुकवरामिंदोःकलां विभ्रंती पाशंसांकुश पुस्तकाक्षवलयं दच्छोर्द्धवाट्कादितः | पूर्णेंदु प्रतिमप्रसन्नवदनां नेत्रत्रयोद्भासितामिंदु क्षीरवलक्षगात्रविलसन्माल्यानुलेपांवरां | मूलाधार समुद्गतां भगवतीं हृत्पंकजे चिंतयन् दक्षान्नासपुटाद्विरेच्य कुसुमेष्ठा वाहयेन्मंडले | इति ध्यात्वा मानसोपचारैः संपूज्य वाह्यपूजामारभेत् ॐ गुं ऐं शिवादि गुरुभ्यो नमः | ॐ ऐं गंगणपतये नमः इति सव्यापसव्ये संपूज्य ताम्रादिपात्रे आधारादि सहिते पूर्वोक्तपीठे अष्टदलमध्यस्थ नवयोनिमंडले पूर्वादिकोण क्रमेण ऐं जयायै नमः १ ऐं विजयायै २ ऐं अजितायै ३ ५१अ)
SK
ऐं अपराजितायै ४ ऐं नित्यायै ५ ऐं विलासिन्यै ६ ऐं दोग्ध्र्यै ७ ऐं अघोरायै ८ नम इति पूजयेत् || ऐं मंगलायै नमः इति मध्ये पूजयेत् | तत्र पूर्वोक्तां देवीमावाह्य पूजयेत् पाद्यादिभिरुपचारैः | ततोऽंगावरणं | उपरिस्थ त्रिकोण वामदक्षिणाग्र त्रिकोणेषु | ऐं रत्यै नमः १ क्लीं प्रीत्यै २ सौः मनोरमायै ३ नम इति पूजयेत् || अग्नीशासुरवायुषुपुरतः पृष्ठतश्चांगानि पूजयेत् | द्रां द्रावणवाणाय नमः १ द्रीं मोहनवाणाय नमः २ इति देव्यादक्षिणतः पूजयेत् | क्लीं संतापनवाणाय नमः इति पृष्ठतः पूजयेत् | क्लूं संदीपनवाणाय नमः इति वामतः | सः वशीकरणवाणाय नमः इति देव्यग्रतः | ततो ब्राह्म्यादयः पूज्याः | ततो लोकपालाः पूज्याः | जपं निवेद्य विसर्जयेत् | अन्यद्भैरवीवत् | क्लीं त्रिपुरादेवि विद्महे कामेश्वरि धीमहि | तन्नः क्लिन्ने प्रचोदयादिति त्रिपुरा गायत्री सान्निध्यकारिणी || सुसितैर्गंधकुसुमैः पूजासारस्वते विधौ | दूर्वावीजांकुरं पुण्यं राजवृक्ष समुद्भवं || इत्येतानि प्रशस्तानि सिंधुवारांकुराणि वै | जपन्सरस्वतीं नित्यमेतानि परिवर्जयेत् || आम्रातं गृंजनंविंवंकरंजलसुनं तथा | ५१ब्) तैलं पलाडुं पिण्पाकं सांगुष्ठमपि भोजने || सर्वं पर्युषितं त्याज्यं सदासारस्वतार्थिना | नाचरेन्निशितांवूलं स्त्रियं गच्छेद्दिवान च || न संध्ययोः स्वयेजातुना शुचिः किंचिदुच्चरेत् | प्रदोषेषु भवेन्मौनी दिग्वस्त्रां न विलोकयेत् || न पुष्पितां स्त्रियं गच्छेन्ननिंदेद्वामलोचनां | न मृषावचनं व्रूयान्ना क्रमेत् पुस्तकं सुधीः || अक्षराद्व्यानि पत्राणिनोपेक्षेतन लंघयेत् | इत्यादि सारस्वतार्थिनात्याज्यं || इति श्रीमदाशादित्यत्रिपाठीसंगृहीते मंत्रकोषे सारस्वतमंत्रकथनं नाम नवमः परिच्छेदः || अथ श्रीमंत्राः ||
SK
तत्रैकाक्षरः | श्रीं | श्रीमंत्रस्य भृगुरृषिः त्रिवृदनुष्टुप् छंदः श्रीर्देवताशंवीजं ईं शक्तिःरंकीलकं महासंपत्प्राप्तये विनियोगः | श्रां हृदयाय नमः १ श्रीं शिरसे स्वाहा २ श्रूं शिखायै वषट् ३ श्रैं कवचाय हुं ४ श्रौं नेत्रत्रयाय वौषट् ५ श्रल्लस्त्राय फट् ६ || आगमोक्त न्यासा उच्यंते | महाश्रिये १ महाविद्युत्प्रभे स्वाहा २ गौरी महावले वंधवंध स्वाहा ३ धृति स्वाहा ४ हुं महाकाये पद्महस्ते हुं फट् ५ इति पंचांगानि || ततो ध्यानं | भूयाद्भूयोद्विपद्माऽभयवरकरा तप्तकार्तस्वराभाशुभ्रा आभेभयुग्मद्वयकरं धृतकुंभांद्भिरासिच्यमाना | रत्नौघावद्दमौलिर्विमलतरदुकूलार्तवाले पराढ्या पद्माक्षी पद्मनाभो रसिकृत वसतिः पद्मगाश्रीः श्रियेवः || ५२अ)
SK
उपरितन दक्षिणवामकराभ्यां पद्मद्वयं तदधः अभयवरौ | इति ध्यात्वा मानसिकपूजांते वाह्यपूजां कुर्यात् | आधारादि पीठं पूजयेत् | अं आधारशक्त्यै नमः १ मूलप्रकृत्यै २ मंडूकाय ३ कूर्माय ४ अनंताय ५ महावराहाय ६ भूम्यै ७ क्षीरोदार्णवाय ८ श्वेतद्वीपाय ९ रत्नमंडपाय १० रत्नसिंहासनाय ११ नम इत्युपर्युपरि पूजयित्वा तदुपरि चतुरस्रं पीठं परिकल्प्य धर्माय १ ज्ञानाय २ वैराग्याय ३ ऐश्वर्याय ४ नम इति पीठकोणेषु पूजयेत् | अधर्माय १ अज्ञानाय २ अवैराग्याय ३ अनैश्वर्याय ४ नम इति पीठगात्रेषु | तं तमसे नमः परं रजसे २ सं सत्वाय ३ मां मायायै ४ विं विद्यायै ५ वह्निमंडलाय ६ सूर्यमंडलाय ७ सोममंडलाय नम इति पीठमध्ये उपर्युपरिपृष्ठयित्वा तदुपरि श्वेतकमलं परिकल्प्य विभूत्यै नमः १ उन्नत्यै २ कांत्यै ३ हृत्यै ४ कीर्त्यै ५ सन्नत्यै ६ पुष्ट्यै ७ उत्कृष्ट्यै ८ दलेषु | मध्येन् *?यै नमः इति पूजयेत् || कर्णिकायां देवीमावाह्य पाद्यादिभिरुपचारैः पूजयेत् | अग्नीशासुरवायुषुपुरतः पृष्ठतंश्चांगानि पूजयेत् | वासुदेवाय १ संकर्षणाय २ प्रद्युम्नाय ३ अनिरुद्धाय ४ नम इति पूर्वादि प्रधानदिक्षु | दमकाय १ शललाय २ शुल्गुलकाय ३ कुरुंटकाय ४ नम इति कोणपत्रेषु पूजयेत् || शंखनिधये नमः इति दक्षिणपार्श्वे | ५२ब्)
SK
पद्मनिधये नमः इति वा वामार्धे || वलाक्यै १ विमलायै २ कमलायै ३ वनमनिकायै ४ विभीषिकायै ५ मालिकायै ६ शांकर्यै वसुमालिकायै ८ नम इत्यष्ट **? पूजयेत् || यथाशक्ति जपित्वा निवेद्य विसर्जयेत् | द्वात्रिंशल्लक्षं पुरश्चरणं | मधुरत्रयाक्तैः कमलैर्विल्वसमिद्भिर्वादश ***? होमः || इच्छंयो भवते मंत्री विधिना साधकोत्तमः | धनधान्यसमृद्धः स्यात् | श्रियमाप्नोत्यनंदितां | वक्षः प्रमाणे सलि***? मंत्रमिमं जपेत् | त्रिलक्षं संयतो मंत्री देवीं ध्यात्वार्कमंडले | संभवेत् स्वल्पकालेनरमाया वसतिः स्थिरा || **? कमलवासिनी मंत्रः || नमः कमलवासिन्यै स्वाहा | अस्य दक्ष ऋषिर्विराट्छंदः कमलवासिनी देवतानंवीजं स्वाहा ***? कीलकं संपदर्थे विनियोगः | ॐ देव्यै नमः हृदये १ ॐ पद्मिन्यै नमः शिरः २ | ॐ विष्णुपत्न्यै नमः शिखा ३ ॐ वरदायै नमः *****? padmasthā padmanetrakamalayugavarābhīti yugdo ****? dehocchābhiḥ prabhābhistribhuvanamakhilaṃ bhāsurābhāsayaṃtī || muktāhārāṃbhirāmonnatakucakalasāratnamaṃjīraka ****? myaṃdagadājrādhṛtamaṇimukuṭāśreyase *rbha? vedvaḥ || uparitana vāmadakṣiṇayoḥ kamale tadadho varāmaye | 53a)
SK
श्रीमंत्रोक्तपीठे देवीमावाह्य पूजयेत् | ततोऽंपूजांते पूर्वादि पत्रेषुवलाकाद्याः पूजयेत् | लोकपालांश्च स्वदिक्षु | दशलक्षं पुरश्चरणं | त्रिमधुरयुक्तैः कमलैर्दशांशोहोमः || अथ महालक्ष्मी हृदयमंत्रः सप्तविंशत्यक्षरोमालात्मकः | ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं महालक्ष्मि नमः || महालक्ष्म्यै नम इति शारदायां || कुत्रापि श्रीं ह्रीं क्लीं इत्यादि वीजत्रयं | कुत्रापि ॐ श्रीं ह्रीं इत्यादि वीजद्वयं | अस्य दक्षऋषिर्गायत्री छंदः लक्ष्मीर्देवतालक्ष्मीप्राप्तये विनियोगः ॐ श्रीं वीजं ह्रीं शक्तिः प्रणवः कीलकं | ततः पंचांगं | ॐ श्रीं ह्रीं श्रीं कमले श्रीं ह्रीं श्रीं हृदयाय नमः १ ॐ श्रीं ह्रीं श्रीं कमलालये श्रीं ह्रीं श्रीं शिरसे स्वाहा २ ॐ श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं शिखायै वषट् ३ ॐ श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं कवचाय हुं ४ ॐ श्रीं ह्रीं श्रीं महालक्ष्मि नमः श्रीं ह्रीं श्रीं अस्त्राय फट् ५ ध्यानं | हस्तोद्यद्व सुपात्र पंकजयुगादर्शा स्फुरन्नूपुराग्रैवेयांगदहारकंकण महामौलि स्फुरत्कुण्डला | पद्मस्था परिचारिका परिकराशुक्लांगरागांशुकादेवी दिव्यगणानताभवदद्यप्रध्वंसिनी स्याद्रमा || उपरिहस्तद्वये पद्मद्वयं अधोदक्षे धनपात्रं वामे आदर्शं | एवं ध्यात्वा मानसिक पूजांविधाय आधारादिभूत्यंते श्रीपीठेदेवीमाद्य पूजयेत् | ५३ब्)
SK
अंगपूजांविधाय | ॐ श्रीधराय नमः १ हृषीकेशाय २ वैकुंठाय ३ विश्वरूपाय ४ इति दिक्पत्रेषु पूजयेत् | वासुदेवाय १ संकर्षणाय २ प्रद्युम्नाय ३ अनिरुद्धाय ४ नम इति कोणपत्रेषु पूजयेत् | भारत्यै नमः १ पार्वत्यै २ चांद्र्यै ३ शच्यै ४ इति दिक्पत्रेषु पूजयेत् | दमकाय १ सललाय २ गुल्गुलवे ३ कुंडकाय ४ नम इति कोणपत्रेषु || अनुरागाय १ अभिसंवादाय २ विजयाय ३ वल्लभाय ४ मदाय ५ वलाय ६ तेजसे नम ८ इति पूर्वादि पत्रेषु | लोकपालाṁश्च स्वदिक्षु इति पूजा जपश्च | लक्षं पुरश्चरणं | मधुरत्रयाक्तैर्विल्वफलैरयुतं होमः || अथ हृन्मंत्रः | ऐं ह्रीं श्रीं क्लीं सौः जगत्प्रसूत्यै नमः | ब्रह्माऋषिर्गायत्री छंदः महालक्ष्मीर्देवतालक्ष्मीप्राप्तये विनियोगः | ऐं हृदयं १ ह्रीं शिरः २ श्रीं शिखा ३ क्लीं कवचां ४ सौः अस्त्रं ५ समस्तेन व्यापकं | मूर्धादि वक्षो लिंगाद्यो पंचवीजानि विन्यसेत् | ध्यानां | वालार्कद्युतिमिंदुखंड विलसत्कोटीरहारज्वलां रत्नाकल्पविभूषितां कुचनतांशालेः करैर्मंजरीं | पद्मौ कौस्तुभ रत्नमप्यविरतं संविभ्रंती सुस्मितां फुल्लांभोज विलोचन त्रययुतां ध्यायेत् परांदेवतां | उपरितन हस्तद्वये पद्मद्वयं | वामाधः शाशिनवल्ली दक्षिणाधः कौस्तुभमणिं | ५४अ)
SK
इति ध्यात्वा विभूत्यादिसहित आधारादि पीठे परिजाता घोररत्नसिंहासनस्थामाहुय पूजयेत् || ततोऽंगावरणं | दक्षिणपार्श्वे गणपतये नमः | वामपार्श्वे पुष्पधन्वने नमः इति पूजयेत् | उमायै १ श्रियै २ सरस्वत्यै ३ दुर्गायै ४ धरिण्यै ५ गायत्र्यै ६ देव्यै ७ उषायै ८ नम इति पूर्वादि पत्रेषु पूजयेत् | पादाधः | गंगायै यमुनायै नम इति पूजयेत् | पार्श्वद्वये शंखनिधये पद्मनिधये नम इति पूजयेत् | पश्चिमे छत्रहस्ताय वरुणाय नमः | परितः शेषाय नमः इति द्वादशं लग्नानि पूजयेत् | तद्वहिः सूर्याय नम इति द्ववग्रहान् पूजयेत् | अष्टदिक्षु ऐरावताय १ पुंडरीकाय २ वामनाय ३ कुमुदाय ४ अंजनाय ५ पुष्पदंताय ६ सार्वभौमाय ७ सुप्रतीकाय ८ नम इति पूजयेत् | तद्वहिरिंद्रादीन् | तद्वहिस्तदस्त्राणि इति पूजा || द्वादशलक्षं पुरश्चरणं | घृतैः पद्मैर्विल्वैः प्रत्येकमयुतं होमः || कंठमात्रोदकेस्थित्वा ध्यात्वा देवीं दिवाकरे | अर्धवाहुर्दश शतमष्टोत्तरशतं जपेत् | आरोग्यं लभते सद्यो धनमाप्नोति निश्चितं | शालिभिर्जुहुयान्नित्यमष्टोत्तरसहस्रकं अचिरादेव महती लक्ष्मीः संजायते ध्रुवं || अथ चतुर्वर्गमंत्रः | चतुरक्षरः | ऐं श्रीं ह्रीं क्लीं | अस्य मंत्रस्य भृगुऋषिः तृवृदनुष्टुप् ५४ब्)
SK
छंदः श्रीर्देवी वीजं ईशक्तिःनं कीलकं महासंपत् प्राप्तये विनियोगः | श्रां हृदयं १ श्रीं शिरः २ श्रूं शिखा ३ श्रैं कवचं ४ श्रौं नेत्रत्रयं ५ श्रः अस्त्रं ६ || ध्यानं | माणिक्य प्रतिमप्रभां हिमनिभैस्तुंगैश्चतुभिर्गजैर्हस्तांग्राहितरत्नकुंभललिलैरासिच्य- kāṃtākāṃkṣita pārijātalaṃtikāṃvaṃde sarojāsalā | dakṣiṇa vāmādhaḥ karayorvarābhaye upariṃ paṃkajadvayaṃ | iti dhyātvā pūrvoktapīṭhe devīmāvāhya pūjayet | āvarādikaṃ pūrvoktaṃ | dvādaśalakṣaṃ puraścaraṇaṃ | aruṇakamalairayutaṃ homaḥ || atha maṃtrāṃtaraṃ || oṃ śuddhavyasase namo mahāśriyai namaḥ | ṛṣyādikaṃ pūrvavat | oṃ hṛdayāya **? śuddhavāsase śirase svāhā 2 namaḥ śikhāyai vaṣaṭ 3 mahāśriyai kavacāya huṃ 4 namaḥ astrāya phaṭ 5 dhyānapūjādikaṃ pūrvokta trilakṣaṃ puraścaraṇaṃ | kamalairdaśāṃsohomaḥ || atha maṃtrāṃtaraṃ || pautaumautabhayeśriye śrīrnamaḥ | asya jamadagni ṛṣi stri*?p chaṃdaḥ śrīrdevatālakṣmī prāptaye viniyogaḥ | pautaumautabhaye namaḥ hṛdayaṃ 1 pautaumautabhaye svāhā śiraḥ 2 pautaumautabhave**? | śikhā 3 pautaumautabhaye namaḥ kavacaṃ 4 śrīrnamaḥ astraṃ 5 | dhyāna pūjādikaṃ pūrvoktaṃ | saptarātraṃ nityaṃ dvādaśa sahasraṃ ***? | tataḥ siddho bhavati | devīṃ suvarṇa kamalakarāṃ trisaṃdhyaṃ dhyātvā aṣṭasahasraṃ japet | 55a)
SK
अभीष्टार्थं लभते | अष्टोत्तरशतजप्तेन तिलकांजन पुष्पवस्त्रादिकं धारयेत् श्रीमतां सोग्रणी भवेत् || मासत्रयं तथा जप्याद्ग्रामो विप्रस्य सिद्ध्यति || अथ क्षेपित प्रदोमंत्रः || पद्मंप्रभे पद्मसुंदरि धर्मर्षे स्वाहा | अस्य ऋष्यादिकं पूर्वोक्तं | पद्मप्रभे हृदयं १ पद्मसुंदरिशिरः २ धर्मर्षेशिखा ३ स्वाहा कवचं ४ सर्वेणास्त्रं ५ जपपूजाध्यानादिकं पूर्वोक्तं || विद्यां स्मरेज्जपद्गतादिभिरर्थसिद्धां क्रुद्धस्य पत्युर्नयनाग्रवर्तिनीं | प्रसीदतीयं च करोति सास्मैदद्याच्चसाकल्पलतेव कामान् || मंत्रांतरं | नमो ब्रह्मतनये | ऋष्यादिकं पूर्वोक्तं | नमो ब्रह्मतनये हृदयाय नमः इत्यादि | ध्यान पूजादिकं पूर्ववत् || अथ त्रिपुटा | श्रीं ह्रीं क्लीं | ह्रीं वीजं श्रींशक्तिः क्लीं कीलकं इष्टार्थे विनियोगः | मूलमंत्रेण प्राणायामं त्रयं कृत्वा | श्रीं हृदयं १ ह्रीं शिरः २ क्लीं शिखा ३ श्रीं कवचं ४ ह्रीं नेत्र त्रयं ५ क्लीं अस्त्रं ६ | ध्यानं | नवकनकभासुरोर्वीविरचित मणिकुट्टिमे स कल्पतरौ | रत्नवरवद्धसिंहासन निहितसरोरुह समासीनां || आवद्ध रत्नमुकुटां मणिकुंडलोद्यत्केयूरकोर्मिरसनाद्वयनूपुराढ्यां | ध्यायेत् धृताब्ज युगपाशान्कुशेंदुचापान्स पुष्पविशिखान्नव हेमवर्णान् | ५५ब्)
SK
चामरमुकुरसमुद्गकतांवूलकरं | उपवाहिनीभिश्चदूर्तीभिः समभिवृतां पश्यंतीं साधकं प्रसन्नदृशा | दक्षिणवामो परिकरयोः कमलद्वयं तदधः पाशांकुशौ | तदधः करे इष्ट चाप पुष्पवाणौ ध्येयौ | एवं ध्यात्वा आधारादि विभूत्यंतं पीठं पूजयित्वा तत्रस्थ कमलकर्णिकायां देवीमावाह्य पाद्यादिभिरुपचारैः पूजयेत् | अंगैः अंगावरणं || ततः लक्ष्म्यै नमः १ हरये २ गौर्ये ३ शिवाय ४ रत्यै ५ कामाय नमः ६ इति वट्कोणेषु पूजयेत् | शंखनिधये नमः | पद्मनिधये नमः इति पार्श्वद्वये अष्टदलेषु ब्राह्म्यादीन् | लोकपालाṁश्च स्वदिक्षु पूजयेत् | द्वादशलक्षं पुरश्चरणं | विल्वसमिद्भिराजवृक्ष समिद्भिर्वा त्रिमधुराक्ताभिर्द्वादशांशोहोमः || श्रियो मंत्रं जपन् मंत्री श्रीसूक्तान्यपि संजपेत् | भूयसी श्रियमाकांक्षन् सत्यवादी भवेत् तदा | प्रत्यगा सा मुखोश्नीयत्स्मित पूर्वप्रियं वदेत् | भूषयेद्गंधपुष्पाद्यैरात्मानं नियतः शुचिः | शयीत शुभशय्यायां तरुण्या सहनान्यथा | नग्नोनावतरेदंधस्तैलाभ्यक्तो न भक्षयेत् | ५६अ) हरिद्रां न मुखेलिंपेन्न स्वपेद शुचिः क्वचित् | न वृथा विलिखेद्भूमिं न विल्वं द्रोणमंवुजं || धारयेन्मूर्ध्नि नैवाद्याल्लोणं तैलं च केवलं | मलिनोन भवेज्जातु कुत्सितान्नं न भक्षयेत् || द्रोणपंकजविल्वनि पद्भ्यां जातु न लंघयेत् | सहादेवीर्मिद्रवल्लीं श्रीदेवीं विष्णुवल्लभां || कन्यां जंवूप्रवालं च धारयेन्मूर्ध्नि सर्वदा | इत्याचार परोनित्यं विष्णुभक्तो दृढव्रतः || श्रियमाप्नोति महतीं देवानामपि दुर्लभां || अथ श्रीसूक्तानि | हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजां | इंद्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावहा || १ || तांम आवहजातवेदो लक्ष्मी मनपायिनीं | यस्यां हिरण्यं विदेयंगामश्वं पुरुषानहं || २ || अश्वपूर्वां रथमध्यां हस्तिनाद प्रमोदिनी | श्रियं देवीमुपह्वरो श्रीर्मादेवीजुषतां || ३ ||
SK
कांसो स्मितां हिरण्यप्रकारमार्द्रां ज्वलंती तृप्तां तर्पयंती | पद्मेस्थितां पद्मवर्णां ताग्निहोपाह्वयेश्रियं || ४ || चंद्रां प्रभासां यशसाज्वलंतीं श्रियं लोके देवपुष्टामुदारां | तां पद्मयोनिंशरणं प्रपद्ये अलक्ष्मीर्मेनश्यतां त्वां वृणोमि || ५ || ५६ब्) आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तववृक्षोथ विल्वः | तस्य फलानि तपसानुदंतुमायांतरायाश्च वाह्या अलक्ष्मीः || ६ || उपैतुमांदेवसखः कीर्तिश्च प्राणिना सह | प्रादुर्भूतो स्मिराष्ट्रेस्मिन् कीर्तिं वृद्धिं ददातु मे || ७ || क्षुत् पिपांसामलाज्येष्ठा अलक्ष्मीर्नाशयाम्यहं | अभूतिम समृद्धिं च सर्वान्निर्नुदमेगृहान् || ८ || गंधद्वारांदुराधर्षां नित्यपुष्टांकरीषिणीं | ईश्वरीं सर्वभूतानां तामिहोपह्वयेश्रियं || ९ || मनसः काममाकूतिं वाचः सत्यमशीमहि | पशूनां रूपमन्नं ममपिश्रीः शयतांयशः || १० || कर्दमेन प्रजाभूतामपि संभवकर्दमः | श्रियं वा समये गृहे मातरं रत्नमालिनी || ११ || आपः सृजं तु स्निग्धानि विक्लीतवसमे गृहे | जिवदेवीं मातरं श्रियं वासयमेकुले || १२ || आर्द्रां पुष्करिणीं पुष्टिं पिंगलां हेममालिनीं | चंद्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावहं || १३ || तांम आवहजातवेदो लक्ष्मी मनयगामिनीं | यस्यां हिरण्यं प्रभूतं गावोदास्यो रुचिं देयं पुरुषान हूमिति || १४ || यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहं | श्रियः पंचदशर्चं तु श्रीकामः सततं जपेत् || पद्मानने पद्म तुरू पद्माक्षीं पद्मसंभवे | तंमे भजसि पद्मक्षिपेन सौख्यं लभाम्यहं || अश्वदायिगोदायिधनदायि महाधने | धनं मंजुषतां देवि सर्वकामाṁश्च दत्तवैः || ५७अ) पुत्रपौत्रधनंधान्यं हस्त्यश्व च गवेरथं | प्रजानांभवसीमाता आगुष्मंतं करोतु मे || धनमग्निर्धनं वायुर्धनं सूर्योधनं वसु | धनमिंद्रं वृहस्पतिर्वरुणं धनुमुत्सृजे || वैनतेयं सोमं पिवमांसं पिव तु वृत्रहा | सोमं धनं स्यसोमिनोमिहं ददातु सोमिनः ||
SK
न क्रोधो न च मात्सर्यो न लोभो ना शुभामतिः | भवंति कृत पुण्यानां भक्तानां श्रीसूक्तं जपेत् || श्रीवर्चस्वमायुष्यमारोग्यमाविदात्यवमानं पशुं पुत्रलाभं शतसंवत्सरं दिर्घमायुः || हिरण्यवर्णा इत्यस्या ऋचः श्री ऋषिरनुष्टुप् छंदः श्रीरग्निर्देवता | तांम आवहेत्यादि चतुर्दशर्चामानंदकर्दमविक्तीत श्रीपुत्रा ऋषयः || तांम आवहाश्व पूर्वामिति ऋक् द्वयस्यानुष्टुप् छंदः | कांसोस्मीत्यस्याः प्रस्तारपंक्तिश्छंदः सर्वासांस्यग्निर्देवते आद्यावीजं अंत्याशक्तिः महालक्ष्मी प्राप्तये | व नियोगः || मूर्धाक्षिकर्णघ्राणमुखग्रीवा वाहुद्वयहृदयनाभिलिंगगुदोरुजानुजंघावरणेषु पंचदशर्चः क्रमेण न्यस्येत् | प्रणवेन त्रिवारं करौ प्रमृज्य | हिरण्मयी चंद्रारजतस्रा सुवर्णस्रजा हिरण्यः अंगुष्ठादिकनिष्ठांतं प्रणवादि चतुर्थ्यंतं नम्ॐता विन्यस्य | हृदयादिषु ता एव विन्यसेत् | ततः परमेश्वरीं चिंतयेत् || ५७ब्)
SK
ध्यानं अरुणकमल संस्थातद्रजः पुंजवर्णाकर कमलधृतेष्टाभीति युग्मांवुजा च | मणिमुकुट विचित्रा लंकृताकल्पव्रजैर्भवतु भुवनमाता संततं श्रीः श्रियेवः | उपरिकरयोः कमले तदधो वराभये | इति ध्यात्वा श्रीमंत्रोक्त पीठे श्रियमावाह्य पूजयेत् | हिरण्यवर्णामित्यनया आवाहनं १ तांम आवहेत्यनया आसनं परिकल्प्य २ अश्वपूर्वामित्यनया अर्घं ३ कांसोस्मीत्यनयापाद्यं ४ चंद्रामित्यनया आचमनीयं ५ आदित्यवर्णेत्यनया मधुपर्कं ६ उपैतुमामित्यनया अभिषेकं ७ क्षुत्पिपासामित्यनया वस्त्रं ८ गंध्रद्वारामित्यनयाभूषणानि ९ मनसः काममित्यनया अनुलेपनं १० कर्दमेणेत्यनया पुष्पाणि परिकल्पयेत् ११ ततः परिवारानर्चयेत् | ततो दलेषु | पद्मायै नमः १ पद्मवर्णायै नमः २ पद्मस्थायै ३ आर्दायै ४ तर्पयंत्यै ५ तृप्तायै ६ ज्वलिन्यै ७ स्वर्णप्रकारयै ८ नम इति पूजयेत् || लोकपालाṁश्च स्वदिक्षु | तद्वहिस्तदस्त्राणि | ततः सपरिवारायै भगवत्यै नमः || आपः सृजंत्विति अनयाधूपं १२ आर्दां पुष्करिणी नित्यनयादीपं १३ आर्दामित्यनयानैवेद्यं १४ ततो देव्यैमंगलारात्रिकं विधाय | वह्नौ स घृतेनान्नेनैकैकामाहुतिं दत्वा देव्यै आचमनीयं विधायस्तुत्वा | तांम आवहेत्यनया स्वहृदये देवी तु द्वासयेत् | ५८अ) इति पूजा || शुक्लां प्रतिपद्यमारभ्य यावदेकादशी तावत् द्वादश साहस्रं ब्रह्मचर्य परो मौनी शुक्लवस्त्रालंकारवान् जपेत् | द्वादश्यां त्रिमधुराक्तैः पद्मैर्विल्ववृक्षसमिद्भिः पायसेन घृतेन त्रिःत्रिःशतमेकैकेनाहुतिं जुहुयात् | द्वादश विप्रान् भोजयेत् | मंत्रः सिद्धो भवति || तद्यथा | परिषिंचे त्रिशोनित्यं सूक्तैस्तैः स्नानकर्मणि | आदित्याभिमुखोजप्यावगवच्च तर्पयेत् ||
SK
प्रयोगेषु चत्वारिंशच्छुक्रवारेषु | अंत्यामृचमष्टोत्तरशतं जपित्वा नवनीताक्तानि कमलानि तांवत् संख्ययैव जुहुयात् | कांसोस्मीत्यनया एवं षण्मासात्महासं पत्तिर्भवति || प्रत्यहं तर्पणांते एतैरपि तर्पयेत् | ॐ श्रियै तर्पयामि १ लक्ष्म्यै २ वरदायै ३ विष्णुपत्यै ४ वसुदायै ५ हिरण्यरूपायै ६ सुवर्णमालिन्यै ७ रजतस्रजायै ८ सुवर्णगृहायै ९ सुवर्णप्राकारायै १० पद्मवासिन्यै ११ पद्महस्तायै १२ पद्मप्रियायै १३ मुक्तालंकारायै १४ सूर्यायै १५ चंद्रायै १६ विल्वप्रियायै १७ ईश्वरायै १८ भुक्त्यै १९ प्रमुक्त्यै २० विभूत्यै २१ ऋद्ध्यै २२ समृद्ध्यै २३ तुष्ट्यै २४ पुष्ट्यै २५ धनदायै २६ धनेश्वर्यै २७ श्रद्धायै २८ भोगिन्यै २९ भोगदायै ३० धात्र्यैश विधात्र्यै नम इति सूक्तविधिः || इति श्रीमदाशादित्यत्रिपाठीसंगृहीतेमंत्रकोषेलक्ष्मीमंत्रकथनंनाम दशमः परिच्छेदः || ५८ब्)
SK
अथ आदित्यमंत्राः || तत्र नित्यपूजा क्रमात् सद्यादौ स्नात्वा विमले वाससी परिधाय संध्यादि विधिरनंतरं पूजामंडपसमीपमागत्य कृतपादशौचाचमन अतितीक्ष्ण महाकायकल्पांत दहनो यमभैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि | गं गणपतये नमः | क्षं क्षेत्रपालाय नमः इति दक्षिण पार्श्वतो वा ***? तो नत्वा द्वारश्रियै नमः इति | द्वारदेहल्यै नमः इति देहल्यां | ततोऽस्त्राय फडित्यस्त्र मुच्चरन् वामांग संकोचेन वामपादमग्रि ***? पांतः प्रविशन्सन्सर्षपान् विकिरन् विघ्नकरान् क्रूरदृष्ट्यानिः सारयेत् | अपक्रांतस्तुते भूताये भूता भुवि संस्थिताः | ये ****? कर्तारस्तेनश्यं तु शिवाज्ञया | ॐ अस्त्राय फट् आसनाय नम इत्यासनं संपूज्यते | तत्रोपविश्य दक्षिणतः पूजा द्रव्याणि वाम **? वेद्याद्युपचाराṁश्च परिकल्प्य मूलमंत्रैणं प्राणायामत्रयं कृत्वा पूर्वोक्त प्रकारेण भूतशुद्धि प्राणप्रतिष्ठा मातृकान्यासान् कुर्यात् | न तु प्रतिपूजामिति साधारणविधिः || अथ सौरश्चतुर | अस्य मंत्रस्य ब्रह्मा ऋषिर्गायत्रीछंदः सविता देवताहं वीजं सःशक्तिः प्रणवः कीलकं | ॐ वीजं ह्रीं शक्तिरिति कश्चित् | आरोग्याद्यमीष्ठार्थ सिद्ध्यर्थे विनियोगः | ॐ हृदयाय नमः १ ५९अ)
SK
ह्रीं शिरसे स्वाहा २ ॐ शिखायै वषट् ३ ॐ ह्रीं कवचाय हुं ४ ॐ नेत्रत्रयाय वौषट् ५ ॐ ह्रीं अस्त्राय फट् ६ इति षडंगं विधाय ध्यानं कुर्यात् || भास्वद्रत्नौघमौलिस्फुरदमृतरुचोरं जयन् चारुं तेषां सद्यः संतप्तकार्तस्वरकमलजपाभासुराभिः प्रभाभिः | विश्वाकाशावकाशांज्वलयदशिशिरंधर्तृपाशांकुशेष्टाभीतीनां भंगितुंगस्तनमवतु जगन्मातुरार्कंवयुर्वः | दक्षिणं वामोर्धकरयोः पाशांकुशौ | तदधः करयोर्वराभये ध्येये | इति ध्यात्वा नैवेद्यं विनामानसैरुपचारैरभ्यर्च्य वाह्यपूजामारभेत् | गंगुरुभ्यो नमः | गंगणपतये नमः इति पार्श्वद्वये स्मृत्वा | ततोग्रेऽर्घपात्र स्थापनं भूमौ त्रिकोणं कृत्वा वह्निर्मंडलाय दशधर्मकलात्मने नम इति संपूज १ | तत्र साधारं शंखादिपात्रं संस्थाप्य सूर्यमंडलाय द्वादशकलात्मने नमः इति पात्रं संपूज्य २ | तत्रमूलमंत्रेण जलं प्रक्षिप्य सोममंडलाय षोडशामृत कलात्मने नमः इति जलं पूजयित्वा ३ | तत्र पुष्पचंदनादि प्रक्षिप्यामृतीकृत्य धेनुमुद्रां प्रदर्श्य हस्ताभ्यामाच्छाद्य मूलमंत्रं वा राष्ट्रकं जपेत् | गुरुभ्यो नमः | परमगुरुभ्यो नमः | परापर गुरुभ्यो नमः इति वामपार्श्वे | गंगणपतये नमः इति दक्षिणपार्श्वे पूजयेत् || अथ पीठपूजा || देवपात्रे आधारशक्त्यै नमः १ मूलप्रकृत्यै २ मंडुकाय ३ कूर्माय ४ कालाग्नि रुद्राय ५ ५९ब्)
SK
अनंताय ६ वराहाय ७ भूम्यै ८ नालाय ९ कमलाय १ नमः इत्युपर्युपरि संपूज्य तदुपरि चतुरस्रं पीठं परिकल्प | अग्न्यादि कोणेषु प्रभूतायै १ विमलायै २ सारसायै ३ समाराध्यायै ४ नम इति पूजयेत् | परमसुखायै नम इति मध्ये || तेष्वेव कोणेषु | धर्माय १ ज्ञानाय २ वैराग्याय ३ ऐश्वर्याय ४ नम इति पूजयेत् | प्रधान पूर्वादि दिक्षु अधर्माय १ अज्ञानाय २ अवैराग्याय ३ अनैश्वर्याय ४ नमः इति पूजयेत् || तं तमसे नमः १ रं रजसे नमः २ सं सत्वाय ३ मां मायायै ४ विं विद्यायै ५ आत्मने ६ अम्टरात्मने ७ परमात्मने ८ ज्ञानात्मने ९ वह्निमंडलाय १० सूर्यमंडलाय ११ सोममंडलाय नमः १२ इत्युपर्युपरि पूजयित्वां तदुपर्यष्टदलं कमलं परिकल्प्य पूर्वादि पत्रेषुरां दीप्तायै १ रीं सूक्ष्मायै २ रूं जयायै ३ रें भद्रायै ४ रैं विभूत्यै ५ रौं विमलायै ६ रिं अमृतायै ७ रं विद्युतायै नमः इति पूजयेत् | रः सर्वतोमुख्यै नमः इति मध्ये || ब्रह्मविष्णु शिवात्मकायसौराय योगपीठात्मने नम इति पीठं पूजयित्वा तत्र देवमावाह्य आवाहन स्थापनस्वारात संनिरोधावगुंठन संव्यायनमुद्राः प्रदर्श्य मूलमंत्रेण सर्वं | ततो देवदेहे षडंगानि विन्यस्य पाद्या चमनीयार्धा चमनीय मधुपर्काचमनीय स्नानाचमनीय वस्त्रगंधपुष्पाक्षतारात्रिक धूपदीपनैवेद्यानि मूलमंत्रेण दद्यात् | ततोऽग्नीशासुरवायुषु पुरं पृष्ठं तश्चांगानि पूजयेत् | हृल्लेखायै १ गगनायै २ रक्तायै ३ करालिकायै ४ महोक्षुष्मायै ५ नमः ऋर्धे ५ पूर्वादिदिक्षु सोमाय १ अंगारकात्र २ ६०अ)
SK
वुधाय ३ शनैश्चराय ४ ऋ वृहस्पतये ५ राहवे ६ शुक्राय ७ केतवे ८ नम इति पूजयेत् || लोकपालाṁश्च स्वदिक्षु | इति पूजयित्वा प्रसन्नार्घं दद्यात् | तद्यथा | प्रतिलोम मंत्रं जपन् अर्घपात्रे जलं प्रक्षिप्य कुशकुसुमदूर्वाक्षत चंदनतिलसर्षपयवान् प्रक्षिपेत् | पुष्पांजलिं देवाय समर्प्य अर्घपात्रं हस्ताभ्यामुद्धृत्य अष्टोत्तरशतं मूलमंत्रं जपित्वा जानुभ्या मवनीं गत्वा प्रस्तकांतं पात्रं नीत्वा अर्घं दद्यात् || ततो यथाशक्ति मंत्रं जपित्वा निवेद्य च हृद्युपसंहरेत् | इति संपूज्य निर्माल्यं तेजश्चंडायदीयतां | लक्ष चतुष्टयं पुरश्चरणं | किंशुककुसुमैः सरोजैर्वादशांशोहोमः || शारदं तिलकोक्तान्यर्घ द्रव्याणि तु | कुंकुमं रोचनांनाजी रक्तचंदन वैणवान् | करवीर जपाशालिकुंशश्यामाकतंडुलान् || निःक्षिप्य सलिले तस्मिन्नैक्यं संकल्पभानुना | अर्घदानमिमंयुंगामायुरारोग्य वृद्धिदम् || धनधान्य पशुक्षेत्र पुत्रमित्र कलत्रदं | तेजोवीर्ययशः कीर्तिर्विद्याविभवभाग्यदं || इत्यादित्यवारं प्रतिवादेयः || अथ प्रयोजन तिलकः || ह्रीं ह्रीं सः | अस्य ब्रह्मा ऋषिर्गायत्री छंदः सूर्योदेवता ह्रां वीजं सः शक्तिः ह्रीं कीलकं इष्टार्थे विनियोगः || ह्रां गुह्यमारभ्य चरणपर्यंतं न्यसेत् १ ह्रीं कंठमारभ्य गुह्यपर्यंतं २ सः मूर्धानमारभ्य कंठांतं न्यसेत् ३ || ह्रां हृदयाय नमः १ ६०ब्)
SK
ह्रीं शिरः २ ह्रूं शिखा ३ ह्रैं कवचं ४ ह्रौं नेत्रत्रयं ५ ह्रः अस्त्रं ६ ध्यानं | अरुणसरोरुह संसृदृगरुणोरुण कमलयुगलधरः | करकालेता भयवरदोद्युति विंवोऽमितभूषणस्त्विनोवतुवः | उपरितनकरद्वये कमले | तदधो भयवरौ इति ध्यात्वा सौरमंत्रोक्त पीठेदेवमावाह्य पूर्वोक्त विधिना पूजयेत् | अंगैः प्रथमावरणं १ सोमादिभिर्ग्रहैः केतुपर्यंतं द्वितीयं २ सोमाय १ वुधाय २ वृहस्पतये ३ शुक्राय नमः इति प्रागादिषु | अंगारकाय १ मंदाय २ राहवे ३ केतवे नमः ४ इति कोणेषु पूजयेत् || जपं निवेद्योद्वासयेत् | अर्घद्रव्याणि पूर्वोक्तानि | अलाभे यथा लाभमेषां | द्वादशलक्षं पुरश्चरणं | तावत्सहस्रं सघृतेनान्नेनहोमः || अथ मार्तंड वीजं || ह्यौं || ऋष्यादिकं नास्ति | ह्रां ह्री मित्यादि षडंगं | ध्रां ध्री मित्यादिना वा | ध्यानं | हेमांभोज प्रवालप्रतिमनिजरुचिंचारुषट्वांग पद्मौ चक्रं शक्तिं सपाशं शृणिमतिरुचिरामक्षमालां कपालं | हस्तांभोजैर्दधानं त्रिनयन विलसद्धे भवक्त्राभिरामं मार्तंड वल्लभाद्यं मणिमयमुकुटंहारदीप्तंभजामः || दक्षिणवामहस्ताभ्यां खट्वांगपद्मौ | तदधश्चक्रशक्ती | तदधः पाशांकुशौ तदधोऽक्षमालाकपाले दधानं | एवं ध्यात्वा सौरेपीठेदेवमावाह्य पूजयेत् | अंगग्रहलोकपालैरावरणं | लक्षत्रयं पुरश्चरणं | ६१अ) कमलैर्दशांशे होमः || पुटितं विंववीजेन सर्वकामफलप्रदं | ध्रिमिति विंववीजं | इमं मंत्रं जपन्मर्त्यः कीर्तिं पुत्रान् वलं द्युतिं | वाक्सिद्धिमतुलां लक्ष्मीं सौभाग्यमपि साधयेत् ||
SK
अथ घृणिमंत्रः || ॐ घृणि सूर्य आदित्यं | अस्य देवभाग ऋषिर्गायत्री छंदः सूर्योदेवताघंवीजं रिंशक्तिः इष्टार्थे विनियोगः || सत्यतेजोज्वलज्वालामणि हुं फट् स्वाहा हृदयाय नमः १ ॐ ब्रह्मतेजोज्वलज्वालामणि हुं फट् स्वाहा शिरः २ विष्णुतेजोज्वलज्वालामणि हुं फट् स्वाहा शिखा ३ ॐ रुद्रतेजोज्वलज्वालामणि हुं फट् स्वाहा कवचं ४ ॐ अग्नितेजोज्वलज्वालामणि हुं फट् स्वाहा नेत्रं ५ सर्वतेजोज्वलज्वालामणि हुं फट् स्वाहा अस्त्रं ६ अं आदित्याय नमः शिरसि १ इं रवये मुखे २ ॐ मानवे हृदये ३ ऋं भास्कराय गुह्ये ४ ऌं सूर्याय चरणद्वये ५ इति न्यसेत् || ॐ शिरसि १ घृमुखे २ णिगले ३ सूहृदये ४ र्य उदरे ५ आनाभौ ६ दि गुह्ये ७ त्यः पदद्वये ८ न्यसेत् || ध्यानं | अरुणोरुणपंकजेनिषणः कमलेभीतिवरौकरैर्दधानः | स्वरुचाहिममंडलस्त्रिनेत्रो रविराकल्पशताकुलोऽवताद्वः || उपरिकरद्वये कमले | तदधो दक्षिणवामकरद्वये वराभये | इति ध्यात्वा सौरे पीठे देवमावाह्य पूजयेत् | अंगैः प्रथमावरणं | ॐ आदित्याय १ रवये २ भानवे ३ भास्कराय ४ नम इति दिक्षु || उषायै १ प्रज्ञायै २ ६१ब्)
SK
प्रभायै ३ संध्यायै ४ नम इति विदिक्षु || ततो ब्राह्म्यांदयः || लक्ष्मीसन्निधौ अरुणाय नम इति पूजयेत् | ततोग्नि महान् | ततो लोकपालान् | सूर्यपरिषड्भ्यो नमः इति विदिक्षु जपं निवेद्य विसर्जयेत् || अष्टलक्षं पुरश्चरणं | मधुरत्रयाक्ताभिः क्षीरवृक्षसमिद्भिर्हुत्वा रविहोमः || अष्टसहस्रं शारदायां | तन्मंत्र मंत्रितांभोभिः सप्तधांजलि सेचनं | दारिद्र्यपापधिःकारनाशनं शंकरं परं || स्थंदिलाष्टदले कुंभतीर्थोदकादिसुपूरितं | सपरिवारं देवमभ्यर्च्य स्थंडिलेग्निं समाधाय कपिलाक्षीरचरुं निर्वाप्यसाज्यं जुहुयात् सहस्रं प्रतिसप्तम्यामुपोषितः | स्नानायाभिमंत्रितं पुण्यजलेभिषेकयेत् पुनर्नत्वा संपूज्यभर्ता संभोगमाचरेत् || अथ मंत्रांतरं | ॐ खोल्काय स्वाह | खं खं खोल्काय स्वाहा इत्येकः प्रकारः || अस्य मंत्रस्य सूक्ष्मकऋषिर्गायत्री छंदः सूर्योदेवता | इष्टार्थे | सूक्ष्मकाय स्वाहा हृदयं १ सूक्ष्मं तजसे स्वाहा शिरः २ सूक्ष्मकाय स्वाहा शिखा ३ सूक्ष्मवस्त्राय स्वाहा कवचं ४ सूक्ष्मकाय हुं फट् अस्त्रं ५ ध्यानादिकं पूर्ववत् | सप्ततुरगाय विद्महे सहस्रकिरणायधीमहि | तन्नोरविः प्रचोदयात् | अनयां गायत्र्यां व्योममुद्रां प्रदर्शयेत् || लक्षं पुरश्चरणं विल्वपलाशाश्वच्छोडुंवर समिद्भिर्दधिमधुघृताक्ताभिः प्रत्येकमष्टोत्तर सहस्रं होमः | ६२अ)
SK
ततो मंत्रसिद्धिर्भवति | अर्घं पूर्ववत् सर्वपापक्षयो भवति || अथ ऋग्वेदे || उद्यंतेति ऋक् आदित्यमंत्रः || अस्य प्रस्कण्व ऋषिरनुष्टुप् छंदः सूर्योदेवता | पूजादिकं पूर्ववत् || तैत्तिरीयकेयोसावादित्यरत्यादि पंचभानवः प्रसिद्धाः | पूर्ववत् पूजादिकं कृत्वा जपित्वा विसर्जयेत् सर्वसिद्धिर्भवति || अथोऽजपाहंसमंत्रः || हंसः | अस्य ब्रह्माऋषिर्गायत्री छंदः परमात्मा देवता इष्टार्थे विनियोगः | ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः इत्यादि षडंगं || ह्स्रां ह्स्रीं इत्यादि वा || ध्यानं | उद्यद्भानु स्फुरितं तंडिदाकारमर्द्धांविकेशंपाशाभीती वरदपरशूसंदधानं कराब्जैः | दिव्याकल्पैर्नवमणिमयैः शोभितं विश्वमूलं सौर्याग्ने तत् त्रैपुरवपुरव तु वश्चंद्रचूडं त्रिनेत्रं || दक्षिणवामो परिकरयोः पाशपरशू | अधोवराभये | इति ध्यात्वा सौरेपीठे देवमावाह्य पूजयेत् || अंगैः प्रथमावरणं | ऋतात्मने १ विश्वात्मने २ परमात्मने ३ नरात्मने ४ नमः इति दिक्षु | ऋतजायै १ अब्जुजायै २ गोजायै ३ अद्रिजायै ४ नमः इति कोणेषु || लोकपालांश्च स्वदिक्षु | तदायुधानि | द्वादशलक्षं पुरश्चरणं | आज्यान्वितेन पायसेन दशांशोहोमः | अष्टोत्तरशतं मंत्रं जपेत् तोयं सुधामयं | ६२ब्) स्मृत्वा तेनाभिषिंचेद्यः सभवेद्विगतामयः || आयुरारोग्य विभवानीप्सिताल्लमते नरः | अनेनैव विधानेन विषार्तोनिर्विषो भवेत् || इति श्रीमदाशादित्यत्रिपाठीसंगृहीते मंत्रकोषे आदित्यमंत्रकथनं नामेकादशः परिच्छेदः || अथ गणपति मंत्राः ||
SK
तत्रैकाक्षरः || गं || अस्य गणपति ऋषिस्त्रिष्टुप् छंदः गणपतिर्देवता गणमंवीजशक्ती सर्वविघ्नोयशांतिपूर्वकलक्ष्मीप्राप्तये विनियोगः | अंगमंत्रेण करन्यासं कुर्यादिति सर्वत्र | गां हृदयाय नमः १ गीं शिरसे स्वाहा २ गूं शिखायै वषट् ३ गैं कवचाय हुं ४ गौं नेत्रत्रयाय वौषट् ५ गः अस्त्राय फट् ६ ततो ध्यानं | रक्तोरक्तांगरागांशुककुसुमयुतस्तुंदिलश्चंद्रमौलेर्नेत्रैर्युक्त स्त्रिभिर्वामनकरचरणो वीजपूरार्तनासः || हस्ताग्राक्तप्त पाशांकुशरदवरदोनागवक्त्रो हि भूषोदेवः पद्मासनोवो भवतु नतसुरो भूतये विघ्नराजः || दक्षिणोर्धाधः करयोः पाशवरौ | वामोर्धाधः करद्वयेऽंकुशरदौ | इति ध्यात्वा मनसीं पूजां विधाय आधारादि मातृकापीठे | ६३अ) तीव्रायै १ ज्वालिन्यै २ नंदायै ३ भोगदायै ४ कामरूपिण्यै ५ उग्रायै ६ तेजोवत्यै ७ सत्यायै ८ नम इति पूर्वादि कमलपत्रेषु पूजयेत् | विघ्ननाशिन्यै नमः इति मध्ये | सर्वशक्तिकमलासनायनमः इति पीठं पूजयित्वा तत्कर्णिकायां देवमावाह्य पाद्यादिभिरुपचारैः पूजयेत् | गणाधिपायनमः १ गणेशाय २ गणनायकाय ३ गणक्रीडाय ४ नमः इति च तसृषु दिक्षु पूजयेत् | ततोऽंगावरणं || वक्रतुंडाय १ एकदंताय २ महोदराय ३ गजाननाय ४ लंवोदराय ५ विकटाय ६ विघ्नराजाय ७ धूम्रवर्णाय ८ नम इति दलेषु || तेष्वेव ब्राह्म्यादयः | लोकपालाṁश्च स्वदिक्षु | तदस्त्राणि च | अष्टोत्तरशतं जपित्वा विसर्जयेत् | लक्ष चतुष्टयं पुरश्चरं | अष्ट इत्यैर्दशांशोहोमः || मोदकैः पृथुकैर्लाजैः सक्तुभिः सेक्षुपर्वभिः | नालिकेरैस्तिलैः शुद्धैः सुपक्वैः कदलीफलैः || अष्टद्रव्याणि विघ्नस्य कथितानि मनीषिभिः | सिद्धमंत्रः प्रकुर्वीत प्रयोगान् कल्पनोदितान् || तर्पयेच्छलिलैः शुद्धैर्दिनशो गणनायकं | चतुश्चत्वारिंशदाद्यं चतुःशतमतंद्रितः || आप्नुयान्मंडलादर्वागभीष्टमधिकं नरः | ६३ब्) नालिकरैः कृतो होमश्चतुर्थ्यां श्रीप्रदो भवेत् ||
SK
शुक्लपक्ष प्रतिपदमारभ्यदिनसः सुधीः | चतुर्थ्यंतं च पृथुक सक्तुलाजतिलैः क्रमात् || चतुःशतं प्रजुहुयाद्वश्याः स्युः सर्वजंतवः | सतिलैस्तंडुलैर्होमो महालक्ष्मीप्रदो भवेत् || लाजैस्त्रिमधुरोपेतैर्होमोकन्यां प्रयच्छति || गगं | गौगे | एतेषामयमेव पूजाक्रमः || ग्लौं | इत्यपरो मंत्रः | अस्य ऋष्यादिकं पूर्ववत् | गं वीजं अं शक्तिः लं कीलकं | ग्लांग्लीमित्यादि षडंगं | ध्यानादिकं पूर्ववत् || ग्ॐ इत्यमरः | ध्यानादिकं पूर्ववत् || अथ क्षिप्रप्रसादनमंत्रः | गं क्षिप्रप्रसादनाय नमः | अस्य गणपति ऋषिर्विराट् छंदः गणपतिर्देवतागं नमः वीजशक्ती | इष्टार्थे | गं गीं गूं गैं गौं गः षडंगानि | ध्यानं | धृतपाशांकुश कल्पलतिकास्वत्रदृषवीरपूरकं युतः | शशिशकलकलितमौलिस्त्रिनेत्रोरुणगंडश्च गजवदनः | भासुरभूषणदीप्तौ वृहदुदरः पद्मविष्टरोललितः | ध्येयो अनयनदोः पदसरसीरुहः संपदे सदा मनुजैः | उपरितन दक्षिण वामकरयोः पाशांकुशौ | तदधः कल्पलतदंतौ ध्येयौ | शुंडादंडे वीजपूरं च इति ध्यात्वा मानसीं पूजांविधाय वाह्यपूजां कुर्यात् | तीव्रादि शक्तिसहिते गणेशपीठे देवमावाह्य पाद्यादिभिरुपचारैः पूजयेत् | ६४अ)
SK
विघ्नाय १ विघ्ननायकाय २ शूआय ३ वीराय ४ वरदाय ५ इ भवक्त्राय ६ एकरदाय ७ लंवोदराय ८ नम इति पूर्वादि दिक्षु पूजयेत् | ततो ब्राह्म्यादीन् | लोकपालाṁश्च | नैवेद्यं दत्वा जपित्वा विसर्जयेत् | लक्षं पुरश्चरणं | त्रिमधुराक्तैस्तिलैरष्ट्र द्रव्यैर्वायुतं होमः || आज्यान्नैर्जुहुयान्नित्यमन्नवान् वत्सराद् भवेत् | पायसान्नेन महतीं श्रियमाप्नोति मानवः || अथ हेरंवमंत्रश्चतुरक्षरः || ॐ गूं नमः | अस्य ऋष्यादिकं नास्ति | हेरंवोदेवता | गांगीमित्यादि षडंगं | ध्यानं | मुक्ताकांचन नीलकंदघुसृणच्छायै स्त्रिनेत्रान्वितैर्नागारयैर्हति वाहनं शशिधरं हेरवमर्कप्रभं | दृप्तं दानमभीतिमोदककरंटंकं शिरोब्जात्मिकां मालां मुद्गरमंकुशं त्रिशिषिकंदोर्भिर्दधानंभजे || अधो दक्षिण वामकरयोर्वराभये | तदुपरि लड्डुकदंतौ | तदुपरि परशुकपाले | तदुपरि कमलस्रकमुद्गरौ | तदुपरि अंकुश त्रिशूले | तीव्रादि युक्ते हेमपीठे गणपतिमावाह्य पूजयेत् | उक्तादि वर्णकथन मूर्धपूर्वादिवक्त्र पंचकस्य पीठमंत्रः | ॐ हुं हुं महासिंहाय ६४ब्)
SK
गाङ्गेरवासनाय नमः इत्यासनं संपूज्य देवमावाह्य पाद्यादिभिरुपचारैः पूजयेच्च || अंगैः प्रथमावरणं | विघ्नादि विनायकैर्द्वितीयं | ब्राह्म्यादिभिस्तृतीयालोकपालैश्चतुर्थं | लक्षत्रयं पुरश्चरणं | कमलैर्वातिलैः साज्यैर्दशांशोहोमः || अथ गणपति मंत्रश्चतुरक्षरः || ॐ ह्रीं श्रीं ह्रीं | अस्य शुक्रऋषिर्गायत्री छंदः गणपतिर्देवताग्रींवीजं ह्रीं शक्तिः इष्टार्थे | ग्रां हृदयं १ ग्रीं शिरः २ ग्रूं शिखा ३ ग्रैं कवचं ४ ग्रौं नेत्रं ५ ग्रः अस्त्रं ६ | ध्यानं | हेमाभं हेमवस्त्रं वृहडुदरतनुं चारुवाहुं त्रिनेत्रं दोर्भिः पाशाक्षसूत्रे निजरदनशृणीमोदकं पुष्करेण विभ्राणं हेमभूषं तरुणतरणिसंकाशशक्त्यासमेतं विघ्नांतं विघ्नमंतस्त्रिभुवननमितं चिंतयेत्तं गणेशं || उपरितनदक्षिणं वामकरयोः पाशांकुशौ | तदधः करयोरक्षमालारदौ विभ्राणं | शुंडादंडेनमोदकं | इति ध्यात्वा | पूर्वोक्तपीठे देवमावाह्य पूजयेत् | आदौ अंगावरणं | वक्रतुंडाय १ एकदंष्ट्राय २ महोदराय ३ गजाननाय ४ लंवोदराय ५ विकटाय ६ विघ्नराजाय ७ धूम्रवर्णाय ८ नम इति दलेषु || ६५अ) तेष्वेव ब्राह्म्यादयः | लोकपालाश्च | अष्टोत्तरशतं जपित्वा विसर्जयेत् | लक्षत्रयं पुरश्चरणं | तिलैर्दशांशोहोमः || आज्यान्नैर्जुहुयान्नित्यमन्नवान् वत्सराद्भवेत् | पायसान्नेन महतीं श्रियमाप्नोति मानवः ||
SK
अथ शक्तिगणपति मंत्रो द्वादशाक्षरः | ह्रीं गं ह्रीं महागणपतये स्वाहा | अस्य गणकऋषिस्त्रिवृदनुष्टुप् छंदः शक्तिगणपतिर्देवतागंस्वाहांवीज शक्ती इष्टार्थे ह्रां गां हृदयं १ ह्रीं गीं शिरः २ ह्रूं गुं शिखा ३ ह्रैं गैं कवचं ४ ह्रौं ग्रौं नेत्रं ५ ह्रः ग्रः अस्त्रं ६ ध्यानं मुक्तागैरं भवजलमुखं चंद्रचूडं त्रिनेत्रं हस्तैः स्वीयैर्दधतमरविंदांकुशौरत्नकुंभौ | अंकस्थायाः सरसिजरुचस्तवूजालंविपाणैर्देव्यायोनौ विनिहितकरं रत्नमौलिंभजामः || उपरितन दक्षिण वामकरयोः कमलांकुशौ | रत्नकुंभौ शुंडादंडस्तद्योनिपिधाने | दक्षिणाधः करमारभ्य वा कमलादि चतुष्टयं | एवं वा सुधांभो निधिमध्यस्थं रक्तराजीवसन्निभं | कोटिवालार्कसंकाशं पाशमंकुशमैक्षवं | धारयंतं च चषकं पिवंतं चेक्षुजं रसं || शुंडा दंडेन चषकं वामांकस्थित यान्वितं शक्त्या कमलधारिण्या ध्यात्वा विघ्नेशमर्चयेत् || ६५ब्)
SK
उपरितन करयोर्दक्षिणवामयोः पाशांकुशौ | तदधो गुडसेक्षु रस चषको चषकांतेक्षुरसं शुंडादंडेनपिवंतं ध्यायेत् | पूर्वोक्त पीठेदेवं शक्तिसहितमावाह्य पूजयेत् | वामायै १ ज्येष्टायै २ कल्पै ३ रौद्र्यै ४ कलविकलिन्यै ५ वलविकलिन्यै ६ ववप्रमथिन्यै ७ सर्वभूतदमन्यै ८ मनोन्मन्यै ९ नम इति दलेषु मध्ये च पूजयेत् | प्रमोदाय १ सुमुखाय २ दुर्मुखाय ३ विघ्ननाशकाय ४ नम इति दिक्षु | आं ब्राह्म्यै १ ईं माहेश्वर्यै २ ऋं कौमार्यै ३ ॠं वैष्णव्यै ४ ऌं कराह्यै ५ ऐं माहेंद्र्यै ६ अं चामुंडायै ७ अः महालक्ष्म्यै नमः इति पूजयेत् | लोकपालांश्च स्वदिक्षु | जपित्वा देवं विसर्जयेत् | पुरश्चरणं पूर्वोक्तं || अथ विरिगणपतिमंत्रः | ह्रीं विरिविरिगणपति वरवरद सर्वलोकंमेवशमानय स्वाहा | अस्य मंत्रस्य गणपति ऋषिर्गायत्री छंदः | विरिविघ्नेश्वरो देवता वश्यादि सिद्ध्यर्थे विनियोगः | ह्रीं विरिविरिहृदयं १ ह्रीं गणपतिशिरः २ ह्रीं वरवरदशिखा ३ ह्रीं सर्वलोकंमेनेत्रं ४ ह्रीं वशमानय कवचं ५ ह्रीं स्वाहा अस्त्रं ६ ध्यानं | सिंदूराभमिभाननंत्रिणयमं हस्तेषु पाशांकुशौ विभ्राणं मधुमत्कपालमनिशंसार्द्धेंदु मौलिंभजे || ६६अ)
SK
पुष्पाश्लिष्ट तनुं ध्वजाग्रकरया पद्मोल्लसद्धस्तया तद्योन्याहितपाणिमात्तवसुमत्यात्रोल्लसत्पुष्करं | उपरितन दक्षिण वामहस्ताभ्यां पाशांकुशौ | अधस्तनाभ्यां मधुसहितकपाल पुष्टियोनिधाने ध्येये || इति ध्यात्वा तीव्रादि सहिते पीठे देवमावाह्य पूजयेत् | वामादिभिः प्रथमावृत्तिः | आमोदादिभिर्द्वितीया | अंगैस्तृतीया | मातृभिश्चतुर्थी | लोकपालैः पंचमी | ववादिभिः षष्ठी | चतुर्लक्षं पुरश्चरणं | त्रिमधुराक्तैरष्टद्रव्यैर्दशांशोहोमः || अथ सुंदरी वल्लभमंत्रः || ॐ ह्रीं गूं विरिविरिविनायकवरवरद सर्वलोक हृदयं मेवशं कुरुकुरु स्वाहा | ऋष्यादिकं पूर्ववत् | ॐ हृदयाय नमः १ ह्रीं शिरः २ गूं शिखा ३ विरिविरिविनायक कवचं ४ वरवरद सर्वलोक हृदयं नेत्रं ५ मेवशं कुरुकुरु स्वाहा अस्त्रं ६ ध्यानादिकं पूर्ववत् || अथ त्रैलोक्य मोहनमंत्रः || चतुस्त्रिंशदक्षरात्मकः | ॐ नमो भगवते एकदंष्ट्रायहस्तिमुख लंवोदराय उच्छिष महात्मने आं क्र्ॐ ह्रीं श्रीं गं स्वाहा | ऋष्यादिकं पूर्ववत् | अंत्यवीजैः षडंगं | ध्यानपूजादिकं पूर्वोक्तं || अन्यस्त्रैलोक्य मोहनमंत्रः | ६६ब्)
SK
त्रयस्त्रिंशदक्षरात्मकः | वक्रतुंडैक दंष्ट्राय क्लीं ह्रीं श्रीं गंगणपति वरवरद सर्वजनं मेवशमानय स्वाहा | ऋष्यादिकं पूर्वोक्तं | वक्रतुंडैक दंष्ट्राय क्लीं ह्रीं श्रीं गं हृदयाय नमः १ गणपति वरवरदशिखा २ सर्वजनं कवचं ३ मेवशमानय नेत्राभ्यां ४ स्वाहा अस्त्रं ५ | ध्यानं | पंचवक्त्रो दशभुजः | शक्तिसहितो महागणपति मंत्रोक्तायुधसहितः | अन्यत्सर्वं पूर्वोक्तं || अथ शक्तिगणपति मंत्रांतरं | एकादशाक्षरं || ॐ ह्रीं गं ह्रीं वशमानय स्वाहा | ऋष्यादिकं पूर्वोक्तं | ॐ हृदयं १ ह्रीं गं ह्रीं शिरः २ वशं शिखा ३ आनय कवचं ४ स्वाहा नेत्रत्रयं ५ समस्तेनास्त्रं || ध्यानं | हस्तैर्विभ्रतमिंदुखंडवरदौ पाशांकुशौ पुष्कर स्पृष्टस्व प्रमदावरांगमनयास्पृष्टं ध्वजाग्र स्पृशा | श्यामांग्या विधृताब्जया त्रिनयनं चंद्रार्धचूडं जपारक्तं हस्तिमुखं स्मरामि सततं भोगातिलोलं विभुं || अधस्थित दक्षिण वामहस्ताभ्यामिक्षुवरौ | उपरितनाभ्यां पाशांकुशौ | लक्ष्मीं च दक्षिणेनाक्षमालां वामेन तल्लिगंधारयंती | पूजादिकं पूर्वोक्तं | लक्षत्रयं पुरश्चरणं | आज्याक्तैरपूयैर्दशांशोहोमः || ६७अ) हुत्वा पूपैस्त्रिमध्वक्तैर्वशयेद्भुवि पार्थिवान् | चतुर्थ्यां नालिकेरेण महतीं श्रियमाप्नुयात् ||
SK
लोणैर्मधुरसंयुक्तैर्वशयेद्वनिताजनं || अथ पंचपंचाशदक्षरोमालामंत्रः | ह्रीं क्रौं ॐ गं नमः सर्वविघ्नाधिपाय सर्वार्थसिद्धिदाय सर्वदुःख प्रशमनाय एह्येहि भगवन् सर्वहृदयं स्तंभयस्तं भयह्रींगंगीं नमः स्वाहा क्र्ॐ ह्रीं | ऋष्यादिकं महागणपति मंत्रोक्तं || अथ महागणपति मंत्रः || अष्टाविंशत्यक्षरः | ॐ श्रीं ह्रीं क्लीं ग्लौं गंगणपतये वरवरद सर्वजनंमेवशमानय स्वाहा | अस्य महागणपति ऋषिस्त्रिवृद्गायत्री छंदः महागणपतिर्देवतागंवीजं स्वाहा शक्तिः ग्लौं कीलकं महालक्ष्मी प्राप्तये विनियोगः | ॐ गं हृदयाय नमः १ श्रीं गीं शिरसे स्वाहा २ ह्रीं गूं शिखायै वषट् ३ क्लीं ग्लौं नेत्रत्रयाय वौषट् ४ ग्लौं ग्लैं कवचाय हुं ५ गंगः अस्त्राय फट् ६ | ध्यानं | इक्षुरसांवुधौ नवरत्नद्वीपे पारिजात वृक्षाधः स्थितरत्नपीठे मातृकांवुज कर्णिकायां षट्कोण मध्यस्थं ध्यायेत् | वीजापूरगदेक्षु कार्मुकरुजा चक्राब्जपाशांकुश व्रीह्वग्रस्व विषाणरत्नकलशं प्रोद्यत्करांभोरुहः | ध्येयो वल्लभया च पद्मकरयाश्लिष्टो ज्वलद्भूषया विश्वोत्पत्तिविनाशसंस्थिति ६७ब्)
SK
करो विघ्नो विशिष्टार्थदः || दक्षिणाधः करमारभ्य वीजपूरगदेक्षु कार्मुकपरशुचक्राणि ध्येयानि | वामो परितन करमारभ्य अब्जपाशांकुशकलशाग्रस्वविषाणानि ध्येयानि || करपुष्करधृतकलशस्रुतमणिमुक्ता सुवर्णेनाविरतधारं वर्षन् परितः साधकं समग्र संपत्यै | केषां चिन्मते दक्षिणोर्धकरमारभ्य वीजापूरेत्यादियुक्तः प्रादक्षिण्येन ध्येयः | शारदा तिलके तु रुजास्थाने त्रिशूलं अंकुशस्थाने चोत्पलं || तथा च ध्यानं | हस्तींद्राननमिंदु चूडमरुणच्छायं त्रिनेत्रंरसादाश्लिष्टं प्रियया स पद्मकरयास्वांकस्थया संततं | वीजापूरगदाधनुस्त्रिषयुक्रक्राब्जपाशोत्पलव्रीह्यग्रः स विषाण रत्नकलशान् हस्तैर्वहंतंभजे || कराग्र धृतमाणिक्य कुंभवक्त्रविनिःसृतैः | रत्नचषकैः प्रीणयंतं साधकं मदविह्वलं ध्यायेत् || इति ध्यात्वा मानसैरुपचारैरभ्यर्च्य पूर्वोक्त गणपति पीठे कमलकर्णिकायां षट्कोण मध्ये तथाविधं महागणपतिं पाद्यादिभिरुपचारैः पूजयेत् | ततोऽग्रस्थ विल्ववृक्षाधः स्थितां लक्ष्मीं पद्मसंस्थां चक्रशंखहस्तं च वासुदेवं ध्यायेत् | एवं ध्यात्वा लक्ष्मी वासुदेवाभ्यां नमः इति पूजयेत् || दक्षिणे वटवृक्षाधः पाशांकुशधरां गौरीं टंकशूलधरं हरं ध्यात्वा गौरी गौरीपतिभ्यां नमः इति पूजयेत् | पश्चिमे पिप्पलाधः उत्पलधरांरतिंकोदंडवाणधरं ६८अ)
SK
रतिपतिं ध्यात्वा रतिरतिभ्यां नमः इति पूजयेत् || उत्तरे प्रियंगु वृक्षाधः सुव्रीहि वल्लीधरां भूमिं गदाचक्रधरं वराहं ध्यात्वा भूमि वराहाभ्यां न नमः इति पूजयेत् || अथ पूर्वादि षट्कोणेषु गं सिध्यामोदाभ्यां नमः १ गं समृद्धि प्रमोदाभ्यां नमः २ गं कांति सुमुखाभ्यां ३ गं मदनावती दुर्मुखाभ्यां ४ गं मदद्रवाविघ्नाभ्यां ५ गं मदद्राविणी विघ्नकर्तृभ्यां ६ नमः इति पूजयेत् | अथ षट्कोण पार्श्वयोः | शंवसुधाराशंखनिधिभ्यां नमः | यंवसुमती पद्मनिधिभ्यां नमः इति पूजयेत् | प्रपंचसारे पूर्वाग्रे तदभितश्च पश्चात्कोण तदभितश्च सिद्धामोद्याश्च पूज्याः | अभितश्च शंखपद्मनिधी पूज्यौ | तत्ॐग पूजा | अंगां हृदयाय नमः इत्यादि पूर्वोक्तान्यंगानि पूजयेत् | ततो ब्राह्म्याद्याः | कुंभोदराय नमः इत्यग्रे | ततो लोकपालाः | तदस्त्राणि च | अष्टोत्तरं जपित्वा विसर्जयेत् || अथ तर्पणविधिः || प्रातःकाले महागणपतिं संपूज्य जले अमृतवीजं वकारं विन्यस्य तज्जलं स्पृशन्नेकादशवारं वंवीजं जपेत् | तज्जलं सुधामयं संचित्य देवतामस्तके महागणपतिं तर्पयामीति समुच्चार्य मूलमंत्रेणवार चतुष्टयं तर्पयेत् | चत्वारिंशट्वारं वा तदुत्तरं चतुःशतवारं वा | ६८ब्)
SK
तदुत्तरं चतुः सहस्रं वा तर्पयेत् || क्रमो यथा | मूलमंत्रं समुच्चार्य महागणपतिं तर्पयामीति उच्चार्यवात् | तुष्टयं तर्पयेत् | ततः श्रीवीजेन विष्णुसहितांगौरीं तर्पयेत् | ततो ह्रीं वीजेन विष्णुसहितां | श्रियं तर्पयामीतिवार चतुष्टयं तर्पयेत् | पुनः गजपति वीजेन महागणपतिं तर्पयामीतिवार चतुष्टयं तर्पयेत् | ततो ह्रीं वीजेन शिवसहितां गौरी तर्पयेत् | पुनर्गणपतिवीजेन महागणपतिं | कामवीजेन मनोभवसहितांरतिं | पुनर्गणपति वीजेन महागणपतिं | ग्लौं भूवीजेन वराह सहितां भुवं | पुनः गंवीजेन गणपतिं | गं वीजेन शक्तिसहितं विघ्नं | पुनर्गणपतिं | गं वीजेन शक्तिसहितं विघ्नकर्तारं | पुनर्गणपतिं || एवं प्रकारेण गं सिद्धिसहितं आमोदं १ गं समृद्धिसहितं प्रमोदं २ गं कांति सहिसुमुखं ३ गं मदनावती सहितं दुर्मुखं ४ गं मदद्रवासहितं विघ्नं ५ गं मदद्राविणी सहितं विघ्नकर्तारं ६ गं वसुधारासहितं शंखनिधिं | गं वसुमती सहितं पद्मनिधिं तर्पयामीति महागणपति प्रत्यंतरितं प्रत्येकं वारचतुष्टयं तर्पयेत् | इति तर्पणविधिः || आमोदादि तर्पणे शक्तिरहितान् केवलाṁस्तर्पयेदितिकेषांचिन्मतं | एवं तर्पयन् यदभिलषितं तत्तत्साधयति | अष्टचत्वारिंशत् सहस्राधिक चतुर्लक्षं पुरश्चरणं | ६९अ) पूर्वोक्तमोदकाद्यैरष्टद्रव्यैर्दशांशोहोमः || तर्पयेछलिलैः शुद्धैर्दिनशोगणनायकं | चतुश्चत्वारिंशदावां चतुः शतमतंद्रितः || आप्नुयान्मंडलादर्वागभीष्टमधिकं नरः | इच्छंजपादिभिः सिद्धः प्रयोगात् सुमनीषितां || साधयेदष्टभिर्द्रव्यैरन्यैर्वाकल्पनोदितैः | पद्महोमेन भूपालाṁस्तत्पत्नीनुत्पलैः शुभैः || मंत्रिणः कुमुदैः फुल्लैर्विप्रान् पिप्पलसंभवैः | समिद्वरैर्नरपतीनुदुंवर समुद्भवैः || प्लक्षैर्वैश्यान्वटोद्भूतैः शूद्रान्मंत्रीवशं नयेत् | मधुना स्वर्णलाभः स्याद्गोदुग्धेन लभेतगाः ||
SK
आज्यहोमेन महतीं श्रियमाप्नोति मानवः | दध्ना सर्वसमृद्धिः स्यादन्नैरन्नपतिर्भवेत् || वृष्टिकामस्तु जुहुयाद्वेतसानां समिद्वरैः | वकुलैः कुसुमैर्हुत्वा वासांसि लभतेऽचिरात् || अथ वक्रतुंड गणपतिमंत्रः || वक्रतुंडायहुं | अस्य भार्गवऋषिरनुष्टुप् छंदः विघ्नेश्वरो देवता वं वीजं यं शक्तिः रं कीलकं इष्टार्थे विनियोगः | ॐ वं नमः अंगुष्ठाभ्यां नमः १ ॐ क्रं नमः तर्जनीभ्यां नमः २ ॐ तुं नमः मध्यमाभ्यां नमः ३ ॐ द्रां नमः अनामिकाभ्यां नमः ४ ॐ यं नमः कनिष्ठिकाभ्यां नमः ५ ॐ हुं नमः करतल करपृष्ठाभ्यां नमः ६ इति करन्यासः || एवमक्षरैर्हृदयादि षडंगं विन्यसेत् | ॐ वं नमः भ्रूमध्ये एवं कंठहृदयनाभि लिंगाधारेषु अक्षराणि न्यसेत् | ६९ब्) समस्तेन व्यापकं | ध्यानं | पाशांकुंशाभयकरं वरदं दधानमुद्भिन्नशोणमणि सन्निभचारुकांतिं | अंभोज संपुटगतं गणनाथमत्र ध्यायेत् प्रसन्नमरुणां वरमिंदिरायै | दक्षिणोपरि करमारभ्यपाशादीनिध्येयानि | मानसिक पूजानंतरं पूर्वोक्तं गणपति पीठेदेवमावाह्य पाद्यादिभिरुपचारैः पूजयेत् | अंगैः प्रथमावरणं | विद्यायै १ विधात्र्यै २ भोगदायै ३ विघ्नघातिन्यै ४ निधिप्रदीपायै ५ पापघ्न्यै ६ पुण्यायै ७ शशिप्रभायै ८ नम इति पूजयेत् || दलेषु वक्रतुंडाय १ एकदंष्ट्राय २ महोदराय ३ गजाननाय ४ लंवोदराय ५ विकटाय ६ विघ्नराजाय ७ धूम्रकाय ८ नम इति पूजयेत् | ततो लोकपालाṁस्च पूजयेत् | प्रसन्नपुष्पांजलि नैवेद्यादिकं दत्वा स्वहृदि देवमुद्वासयेत् | तर्पणादिकं पूर्वोक्तं | अक्षरलक्षं पुरश्चरणं | अष्टद्रव्यैर्दशांशोहोमः | ब्रह्मचर्यादि युक्तो द्वादश सहस्रं जपेत् | पक्षद्वयेपि चतुर्थीपर्यंतं क्रमेण दशसहस्रं जपित्वा अष्टोत्तरशतं जुहुयात् | षण्मासेन दारिद्र्यं नश्यति | आज्याक्तेनान्नेन प्रतिमासं ७०अ)
SK
त्रिंशत्क्रमेण होमेन महती धनवृद्धिः | पृथुकनालिकेरमरिचैर्नित्यं सहस्र होमक्रमेण मासमात्रेण महाधन समृद्धिः | मरिचजीरकसैंधवयुक्तैरष्टद्रव्यैः प्रतिदिनं सहस्रहोम क्रमेण पक्षमात्रेण वह्वर्थ सिद्धिः | इत्यादयो वहवः प्रयोगाः संतिते ग्रंथगौरवान्नलिखिताः || अथ मंत्रांतरं || रायस्योषस्यदयिता निधिहोरत्नधातुमान् | रक्षोगणो वलगहनो मंत्रराजः षडक्षरः | ऋष्यादिकं वक्रतुंडवत् || अथापरः | रायस्योषस्यदयिता निधिदोः यन्नगोमतः | रक्षोगणो वलगहनो वक्रतुंडाय हुं | अस्यापि ऋष्यादिकं पूर्ववत् || तत्पुरुषाय विद्महे वक्रतुंडाय धीमहि | तन्नोदंती प्रचोदयात् || इति गायत्री || अथापरः षडक्षरः || मेघोल्काय स्वाहा | ऋष्यादिकं पूर्ववत् || अथोच्छिष्ट गणपति मंत्रः || हस्तिपिशाचिलिखे स्वाहा | अस्य कंकोलनामा ऋषिर्विराट् छंदः उच्छिष्ट गणपतिर्देवता अभिलषितसिद्धये विनियोगः | हस्ति हृदयं १ पिशाचि शिरः २ लिखेशिखा ३ स्वाहा कवचं ४ समस्ते नास्त्रं ५ ध्यान पूजादिकं पूर्ववत् | उच्छिष्ट समये विनियोग जपादिकं कुर्वन् यद्यस्य रोचते तत् तस्य कुरुते || इति श्रीमदाशादित्यत्रिपाठिसंगृहीते मंत्रकोषे गणपतिमंत्रकथनं नाम द्वादशः परिच्छेदः || ७०ब्) अथ शैवमंत्राः ||
SK
तत्रादौ प्रासादः | हौं | प्रासादमंत्रस्य वामदेव ऋषिः पंक्तिः छंदः सदाशिवो देवताहं वीजं ॐ शक्तिः इष्टार्थे विनियोगः | हां हृदयाय नमः १ हीं शिरसे स्वाहा २ हूं शिखायै वषट् २ हैं कवचाय हुं ४ हौं नेत्रत्रयाय वौषट् ५ हः अस्त्राय फट् ६ ॐ हौं ईशानाय नमः १ ॐ हैं तत्पुरुषाय नमः २ ॐ हूं अघोराय नमः ३ हीं वामदेवाय नमः ४ हं सद्योजाताय नमः ५ इति पंचमंत्रान् अंगुष्ठादिकं निष्ठांतासु अंगुलीषु विन्यस्य ताभिरेवांगुलीभिर्मूर्धान न हृदय गुह्यपादेषु विन्यसेत् | पुनरेवतान् पंचमंत्रान् अर्धं पूर्वदक्षिणोत्तर पश्चिममुखेषु विन्यसेत् | ततो ध्यानं | शूलाहीटंकघंटाऽसिशृणकुलिशपाशाग्न्यभीतीर्दधानं दोर्भिः शीतांशुखंडप्रतिघटित जटाभारमौलिं त्रिनेत्रं | नानाकत्याभिरामापघनमभिमतार्थप्रदं सुप्रसन्नं पद्मस्थं पंचवक्त्रं स्फटिकमणिनिभं पार्वतीशं नमामि || दक्षाधः करमारभ्य प्रादक्षिण्येन शूलाद्या युधानि वामाधः करपर्यंतं क्रमेण ध्येयानि | दक्षिणवामो परिकरयोः शूलाही तदधः टंकघंटे तदधः अस्यंकुशौ | तदधः कुलिशपाशौ | तदधोग्न्यभये इति कश्चित् | इति ध्यात्वा मानसिकपूजानंतरं वाह्यपूजां कुर्यात् | पूर्वविधिनाऽर्घ स्थापनंविधाय देवामतपात्रे | ७१अ)
SK
ॐ हां कालाग्नि रुद्राय आधारशक्त्यै १ मूलप्रकृत्यै २ कूर्माय ३ महावराहाय ४ अनंताय ५ भूम्यै ६ कैलास्राय ७ कल्पवृक्षाय ८ रत्नमंडपाय ९ रत्नसिंहासनाय १० स्कंदादिसहित कमलासनाय नमः ११ इत्युपर्युपरि पूजयेत् | तदुपरि चतुरस्रं पीठं परिकल्प धर्माय १ ज्ञानाय २ वैराग्याय ३ ऐश्वर्याय ४ नमः इति पीठकोणेषु पूजयेत् | अधर्माय १ अज्ञानाय २ अवैराग्याय ३ अनैश्वर्याय ४ नमः इति पीठगात्रेषु पूजयेत् | मध्ये तं तमसे १ रं रजसे २ सं सत्वाय ३ मां मायायै ४ विं विद्यायै ५ आत्मने ६ अंतरात्मने ७ परमात्मने ८ ज्ञानात्मने ९ वह्निमंडलाय १० सूर्यमंडलाय ११ सोममंडलाय १२ नमं इति पूजयेत् | तदुपर्यष्टदलं कमलं परिकल्प पूर्वादिपत्रेषु वामायै १ ज्येष्ठायै २ रौद्र्यै ३ काल्यै ४ कलविकलिन्यै ५ वलप्रमथिन्यै ६ सर्वभूतमदन्यै ८ नम इति पूजयेत् | ततः मनोन्मत्यै नमः इति मध्ये || ॐ नमो भगवते सकलगुणात्मशक्तियुक्तायानंताय योगपीठात्मने नमः इति पुष्पांजलिना आसनं पूज्यः तत्र हृदयाद्देवमावाह्यपाद्यादिभिरुपचारैः पूजयेत् | तत्र पश्चिमेभागे मृगाक्षमाला अभयवरकरं कुंदगौरं चतुर्मुखं ध्यात्वा ॐ हंसद्योजाताय नमः इति सद्योजातं पूजयेत् || १ || वामबागे कुंकुमाभं अभयवरपरश्वधाक्षमालाधारयंतं ध्यात्वा ॐ हिं वामदेवाय नम इति वामदेवं पूजयेत् || २ || ७१ब्)
SK
दक्षिणभागे कज्जलाभं चतुर्मुखं अक्षस्रग्वेद पाशांकुश डमरुक खट्वांग शूलकपालानि दक्षिण वामकराभ्यां क्रमेण दधानं ध्यात्वा ॐ हुं अघोराय नमः इति पूजयेत् || ३ || सर्वभागे हेमवर्णं चतुर्मुखं वेदाक्षाभयवरं कुठारं दधानं ध्यात्वा ॐ हें तत्पुरुषाय नमः इति तत्पुरुषं पूजयेत् || ४ || मध्ये मौक्तिकाभं पंचवक्त्रं सुप्रसन्नं अक्षस्रग्वेद पाशांकुशं डमरुकखट्वांग शूलकपालानि विभ्राणं ध्यात्वा ॐ हौं ईशानाय नमः इति ईशानं पूजयेत् || ५ || आग्नेयादि कोणेषु निवृत्त्यै १ प्रतिष्ठायै २ विद्यायै ३ शांत्यै ४ मध्ये शांत्यतीतायै नमः इति पूजयेत् || इति प्रथमा वृत्तिः || अंगैर्द्वितीया | अनंताय १ सूक्ष्माय २ शैवोत्तमाय ३ एकनेत्राय ४ एकरुद्राय ५ त्रिमूर्तये ६ श्रीखंडाय ७ शिखंडिने नमः इति पूजयेत् || एते अनंतादयः शूलाशनि **? योल्लसितकराः पाटलिपीतसितारुणसितरक्तसित धूम्रवर्णाः पद्मस्था ध्येयाः | उत्तरदलमारभ्यः उमायै १ चंडेश्वराय २ नंदिने ३ महाकालाय ४ ७२अ) गणेश्वराय ५ वृषाय ६ भृंगिरिटये ७ स्कंदाय नमः ८ इति पूजयेत् | उमाद्याः कनकविदुर विद्रुममरकतेमुक्तासिताच्छरक्ताभाध्येया || इंद्रादीṁश्च स्वदिक्षु | तदस्त्राणि च पूजयेत् | इति पूजयित्वा जपं समर्प्य देवस्य तनो परिवारान् विलप्य स्वहृदये देवमुद्वास्य षडंगं विन्यस्य चंडेश्वराय नम इत्यधो देवस्य पूजयेत् | इति पूजा संक्षेपः || केचित्तु हृल्लेखापुटितं वीजं जपांदौवर्णयंति | एकादशलक्षं पुरश्चरणं | त्रिमधुराक्तैः करवीर कुसुमैर्दशांशोहोमः | पंचब्रह्मन्यासो गौरवान्नलिखितं | एवं प्रतिदिनं देवं पूजयेत् साधकोत्तमः | पुत्रमित्रादिसहितांश्रियं प्राप्यं प्रमोदते || अथ पंचाक्षरः ||
SK
ॐ नमः शिवाय | अस्य वामदेवऋषिः पंक्तिः छंदः शिवोदेवता इष्टार्थेमंवीजं आयशक्तिः नं कीलकं ज्ञानार्थे विनियोगः || ॐ इति वीजं नमः इति शक्तिः इति जपकाले केचित् | प्रणवप्रासादपूर्वकं जपेदित्यप्यस्ति | न कारादीनां पंचाक्षराणां गोतमात्रि विश्वामित्रांगिरोभरद्वाजा ऋषयः गायत्र्यनुष्टुप् त्रिष्टुप् वृहती विराट् छंदांसि इंद्ररुद्रहरिब्रह्मस्कंदा देवताः पीतकृष्णधूम्रश्वेतवर्णाः | ७२ब्) मूलमंत्रेणं प्राणायामं करशुद्धिं च विधाय | ॐ हृदयं १ नं शिरः २ मं शिखा ३ शिं कवचं ४ वां नेत्रत्रयं ५ यं अस्त्रं ६ || अथवा ॐ सर्वज्ञधाम्ने हृदयं १ नं त्रिधाम्ने शिरः २ मं अनादिवोधधाम्ने शिखा ३ शिं स्वतंत्रधाम्ने कवचं ४ वां ज्योतिर्धाम्ने नेत्रत्रयं ५ यं अनंतशक्तिधाम्ने नमः अस्त्रं ६ | न्यासं च | नं तत्पुरुषाय नमः १ मं अघोराय २ शिं सद्योजाताय ३ वां वामदेवाय ४ यं ईशानाय नमः इति तर्जनी मध्यमानामिका कनिष्ठांगुष्ठेषु न्यसेत् || वक्त्रहृद्गुह्यमाश्यमूर्द्धसु च विन्यसेत् | प्राग्याम्यपश्चिमोदीव्योर्द्धवक्त्रेषु च विन्यसेत् || ततो ध्यानं | विभ्रद्दोर्भिः कुठारं मृगमभयवरौ सु प्रसन्नो महेशः सर्वालंकारदीप्तः सरसिजनिलयो व्याघ्रचर्मांतवासाः | ध्येयो मुक्तायरागामृतरसकलिताद्रिप्रभः पंचवक्त्रस्त्र्यक्षः कोटीरकोटी घटित तु हिनरोचिष्कलोत्तुंगमौलिः || दक्षिण वामकराभ्यां परशुमृगौ तदधोऽभयवरौविभ्रत् | इति ध्यात्वा वाह्यपूजां कुर्यात् | पूर्वोक्ते शैवे पीठे देवमावाह्य पाद्यादिभिरुपचारैः पूजयेत् | ईशानादिभिः प्रथमावरणं | अंगौर्द्वतीयं | अनंताद्यैस्त्रितीयं | उमाद्यैश्चतुर्थं | इंद्रादिभिः पंचमं | तदायुधैः षष्ठं | एवं संपूज्य जपानंतरमुद्वासयेत् | वर्णलक्षं पुरश्चरणं | शुद्धैस्तिलैर्दशांशोहोमं | दुग्धान्नैर्दुग्धसमिद्भिर्वाहोमः || ७३अ)
SK
अथाष्टाक्षरः || शक्तिपंचाक्षरोवा | ॐ ह्रीं नमः शिवाय ह्रीं | अस्य ऋष्यादिकं पूर्ववत् | ह्रीं ॐ ह्रां हृदयं १ ह्रीं नं ह्रीं शिरः २ ह्रीं मं ह्रूं शिखा ३ ह्रीं शिं ह्रैं कवचं ४ ह्रीं वां ह्रौं नेत्रं ५ ह्रीं यं ह्रः अस्त्राय फट् ६ | ध्यानं | वंदे हरं वरदशूलकपालहस्तं सामीति मद्रिसुत योज्वलनेहकांतिं | वामोरुपीठगतयानिज वामहस्त न्यस्तोरुणोत्पलयुजापरिणद्धदेहं | दक्षिणाधः करमारभ्य वरदशूलकपालाभयानि ध्येयानि | इति ध्यात्वा मानसीं पूजां विधाय प्रासाद मंत्रोक्तपीठे देवमावाह्य पाद्यादिभिरुपचारैरभ्यर्चयेत् | ततोऽंगावरणं | मध्यप्राग्दक्षिणां पश्चिमोदीच्येषु | हृल्लेखादिभिर्द्वितीयं | ब्राह्म्यादिभिश्चतुर्थां लोकपालैः पंचमं | जपानंतरं विसर्जयेत् | दशलक्षं पुरश्चरणं | मधुराक्तै राजवृक्षसमिद्भिश्चतुर्दशांशोहोमः || अथाष्टाक्षरोर्धनारीश्वरः || ॐ ह्रीं हौं नमः शिवाय | वामदेव ऋषिरनुष्टुप् छंदः उमामहेश्वरो देवता प्रणवोवीजं ह्रीं शक्तिः नं कीलकं इष्टार्थे | पूर्ववत् षडंगं | ध्यानं च | वामांगन्यस्त वामे तरकरकमलायास्तथा वामवाहुन्यस्तरक्तोत्पलायास्तनविवृतलसद्वामवाहुः प्रियायाः | सर्वाकल्पाभिरामोधृत परशुमृगेष्टकरैः कांचनाभो ध्येयः पद्मासनस्थः स्मरललिततनुः संपदेपार्वतीशः | अधो वामहस्तेन स्तनद्वयं | दक्षिणेन वरदं | उपरितनाभ्यां परशुमृगौनिभ्राणं | अष्टलक्षं पुरश्चरणं | तावत्सहस्रेणसाज्येन होमः | पंचाक्षरीमंत्रवत्पूजादि || अथ मृत्युंजयः | ॐ जुंसः || ७३ब्)
SK
अस्य कहोलक ऋषिर्दैवीगायत्री छंदः मृत्युंजय रुद्रोदेवताजुंवीजं सः शक्तिः इष्टार्थे | सां हृदयं १ सीं ***? २ सूं शिखा ३ सौं नेत्रत्रयं ४ सः अस्त्रं ५ | ध्यानं | पुटित नलिन संस्थं मौलिवद्धेंदु रेखा गलदमृतजलार्द्रं चंद्रवह्न्यर्क****? कलित मुद्रा पाशवेदाक्षमालं स्फटिक रजतमुक्तागौरमीशं नमामि ||| दक्षिण वामकराभ्यां ज्ञानमुद्रापाशौ *? दधोक्ष माला वेदौ ध्येयौ इति | मानसिकपूजानंतरं प्रासादमंत्रोक्तपीठे देवमावाह्य पाद्यादिभिरुपचारैः पूजयेत् | अथैः अथमावृत्तिः | अनंतादिभिर्द्वितीया | उमादिभिस्तृतीया | इंद्रादिभिश्चतुर्थी | जपांते विसर्जयेत् | लक्षत्रयं पुरश्चरणं ***? क्तैर्गुडूचीखंडैर्दशांशोहोमः || एकादशाहुतीर्नित्यं दूर्वाभिर्जुहुयान्नरः | अपमृत्युजिदेषस्यादायुरारोग्यवर्धना त्रिसहस्रं सुधावल्ली काश्मरी वकुलोद्भवैः | समिद्वरैः कृतो होमः सर्वमृत्युगदापहः | सिद्धार्थैर्विहितो होमो मह****? विनाशनः | अपामार्गकृतो होमः सर्वामयनिषूदनः || अथ नीलकंठः | प्र्ॐ त्रींठः | अस्य ऋष्यादिकं पूर्ववत् | हरहर स्वाहा हृदयं १ ७४अ)
SK
कपर्दिने स्वाहा शिरः २ नीलकंठाय स्वाहा ३ कालकूट विषभक्षणय हुं फट् कवचं ४ नीलकंठिने स्वाहा अस्त्रं ५ ध्यानं | वालार्कायुत तेज संवृत जटाजूटेंदु खंडो ज्वलं नागेंद्रैः कृतभूषणं जपवटींशूलं कपालं करैः | खट्वांगं दधतं त्रिनेत्र विलसत् पंचाननं सुंदरं व्याघ्रत्वक् परिधानमक्षवलयं श्रीनीलकंठं भजे || दक्षिणाधः करोपरि कराभ्यां जपवटी त्रिशूले | इतराभ्यां कपालखट्वांगे दधानं | इति ध्यात्वा मानसिकपूजां कृत्वा प्रासादोक्तपीठे देवमावाह्य पूर्वोक्तविधिना पूजयेत् | लक्षत्रयं पुरश्चरणं | स सर्पिषा हविषा दशांशो होमः | एवं पूजादिभिः सिद्धे मनौ मंत्री विषद्वयं | नाशयेदचिरादेवनीलकंठ इधापरः | मनुनानेन संजप्तैः कुंभस्थैः सलिलैः शुभैः | अभिषिंचेद्विषाक्रांतं विषान्मुच्येत सद्रुतं | स्पृष्ट्वा जपेद्विषाक्रांतं तक्षणान्निर्विषो भवेत् || अथ चंडेश्वरः | रू घ झ घ फट् | अस्य त्रिक ऋषिरनुष्ठुप् छंदः | चंडेश्वरो देवत इष्टार्थे | दीप्त फट् हृदयं १ ज्वल फट् शिरः २ ज्वालिनि फट् शिखा ३ कटफट् कवचं ४ हनफट् नेत्रत्रयं ५ सर्वं ज्वालिनि फट् अस्त्रं ६ | ७४ब्)
SK
ध्यानं | अव्यात्कपर्दकलितेंडुकलांकरांत शूलाक्षसूत्रककमंडलुटंक ईशः | रक्ताभवर्णवसनोऽरुण पंकजस्थो नेत्रत्रयोल्लसितवक्त्र सरोरुहोवः | दक्षिणोपर्यधः कराभ्यां शूलमक्षसूत्रं | वामाधस्तनो परिकराभ्यां कमडलुंटंकं च ज्ञेयं || चंडचंडाय विद्महे महादेवाय धीमहि | तं नश्चंडः प्रचोदयात् | इति चंडगायत्री शिवसंनिधिकारिणी | शैवेपीठे देवमावाह्य पूजयेत् | अंगैः प्रथमावरणं | द्वितीयं मातृभिः | लोकपालैस्तृतीयं | चंडेश्वराय नमः इति पूजामंत्रः | लक्षत्रयं पुरश्चरणं | मधुरत्रयाक्तैस्तिलैः स तंडुलैर्दशांशोहोमः || अथ चिंतामणि मंत्रः || क्ष्म्य्रौं | अस्य कश्यपऋषिरनुष्टुप् छंदः चिंतामणिरीश्वरो देवतारंवीजं षं शक्ति मं कीइलकं सकलविद्यैश्वर्या वाप्तये विनियोगः | रं हृदयं १ कं शिरः २ षं शिखा ३ मं कवचं ४ रं नेत्रत्रयं ५ यं अस्त्रं ६ | ध्यानं | अहिशशधरगंगावद्धतुंगात्ममौलिस्त्रिदशगणनतांध्रिस्त्रीक्षणः स्त्रीविलासः | भुजगपरशुशूलान् खड्गवह्नीकपालं शरमपि धनुरीशोविभ्रदव्याच्चिरंवः | उपरितन दक्षिण वामकराभ्यां सर्पपरशू तदधस्तनाभ्यां शूलखड्गौ | तदधं स्तनाभ्यां वह्निकपाले | तदधस्तनाभ्यां शरधनुषीविभ्राणं | हावभावललितार्धनारिकंभीषणार्धमथ वा महेश्वरं | पाशसोत्पल कपालशूलिनं पूजयेज्जपविधौ विभूतये || ७५अ) अथ वा | षोडशशूलव्यग्रभुजा त्रिनयना हि षट्वांगी | अरुणांशुकानुलेपन वर्णाभरणा च भगवती ध्येया || प्रासादोक्त पीठे देवमावाह्य पाद्यादिभिरुपचारैः पूजयेत् | अंगैः प्रथमावरणं | पूर्वोक्त वृषादिभिर्द्वितीयं | वृं वृषाय १ क्षं क्षेत्रपालाय २ चंडेश्वराय ३ दुं दुर्गायै ४ गुं गुहायै ५ नं नंदिने ६ | गं गणेश्वराय ७ सैं सैन्यपालाय ८ नमः इति पूर्वादि पत्रेषु पूजयेत् | मातृभिस्तृतीयं | लोकपालैश्चतुर्थं || लक्षं पुरश्चरणं | त्रिमधुराक्तैस्तिल तंडुलैर्दशांशोहोमः ||
SK
एवमभ्यर्चयेद्देवमर्धनारीश्वरंपरं | तेजः कांतिं यशोलक्ष्मीं वाचां भवति वल्लभः || क्ष्वेडेविषेज्वरेदाहेमोहेशीर्षग्रहेभ्रमे | वीजमेतत्तथा ध्यानं तत्तत्क्लेशान् व्ययोहति || अथ तुं वुरुवीजं || क्ष्म्रूं | ऋष्यादिकं पूर्ववत् | क्ष्म्रां | क्ष्म्रीं इत्यादि षडंगं | ध्यानं | रममिंदुशकलाभरणं त्रिणेत्रं खट्वांगपाशशृणि शूलकपालवेदान् | वेदाननं चिपिडनाशमनर्घ्यभूषां रक्तां वह्निमरुणांशुकमीशमीडे || उपरितन वामदक्षिण कराभ्यां पाशपरशू | तदधस्तनाभ्यां शूलखड्गौ | तदधस्तनाभ्यां वह्निकपाले | तदधस्तनाभ्यांशरधनुषी ध्येये | इति केचित् | दक्षिणाधः करमारभ्य खट्वांगादीन्यायुधानि वा कश्चित् | दक्षिणाधः करमारभ्य खट्वांग पाशांकुशान् | ७५ब्) वामेपि तथा त्रिशूल कपाल वेदान् दधानं ||
SK
पूर्वोक्तपीठे देवमावाह्य पूजयेत् | अंगैः प्रथमावरणं | जपादिभिर्द्वितीयं | दुर्गायै १ सुभगायै २ कराल्यै ३ मोहिन्यै ४ नम इति पूजयेत् ईशानादि कोणेषु | लोकपालाṁश्च स्वदिक्षु | तदस्त्राणि च | जपित्वा देवं विसर्जत् | लक्षं पुरश्चरणं | सर्पिपायसेनायुतं होमः || अथ त्र्यंवकमंत्रः | त्र्यंवकं यजामहे सुगंधिं पुष्टिवर्धनं | उर्वारुकमिववंधनान्मृत्योर्मुक्षीयमामृतान् | त्र्यंवकमंत्रस्य वशिष्ठ ऋषिरनुष्टुप् छंदः त्र्यंवक रुद्रो देवता मृत्युंजयादि सिद्धये विनियोगः | त्र्यंवकं हृदयं १ यजामहे शिरः २ सुगंधिं पुष्टिवर्धनं शिखा ३ उर्वारुकमिव वंधनान् कवचं ४ मृत्योर्मुक्षीय नेत्रत्रयं ५ मातृतात् अस्त्रं ६ पादद्वयसंध्यंसेषु दशवर्णान् विन्यसेत् | गुह्याधारोदर हृदयकंधरेषु पंचवर्णान् | वाहुद्वयसंध्यंसेषुदश | घ्राणयोर्द्वयं | आस्ये एकं | नयनयोरेकं | कर्णयोरेकं | शिरस्येकं इत्यक्षरन्यासः | त्र्यंवकं शिरसि १ यजामहे भ्रुवोः २ सुगंधिं नयनयोः ३ पुष्टिंवर्धनं मुखे ४ उर्वारुकं कंठे ५ इव हृदये ६ वंधनात् उदरे ७ मृत्योर्गुह्य ८ मुक्षीय *?र्वोः ९ माजान्वोः १० अमृतात् पादद्वये ११ न्यसेत् | इति पदन्यासः | ७६अ)
SK
अच्छस्वच्छारविंदस्थित उभयकरांतस्थितं पूर्णकुंभं द्वाभ्यां वेदाक्षमाले निजकरकमलाभ्यां घटौ नित्यपूर्णौ | द्वाभ्यांतौ च स्रवंतौ शिरसि शशिकलावंधुरेप्लावयंतौ देहं देवोदधानः प्रदिश तु विशदा कल्पजालः प्रियंवः | उपरितन वामदक्षिण करधृत कुंभद्वयामृतेनात्मशिरः सिंचंतं | तदधस्तनाभ्याममृत पूर्णकुंभद्वयं धारयंतं | तदधस्तनाभ्यां वेदाक्षमाले ध्यायेत् | शारदायां वेदस्थाने मृग उक्तः | इति मानसिक पूजांते पूर्वोक्तेपीठे देवमावाह्य पाद्यादिभिरुपचारैः पूजयेत् || अंगैः प्रथमावृत्तिः | अर्काय १ इंदवे २ धरण्यै ३ तोयाय ४ अनलाय ५ वायवे ६ आकाशाय ७ आत्मने ८ नम इति पूर्वादि पत्रेषु पूजयेत् | रमायै १ रक्तायै २ प्रभायै ३ ज्योत्स्नायै ४ पूर्णायै ५ उषायै ६ पूरण्यै ७ स्वधायै ८ नमः इति पूजयेत् | विश्वायै १ विद्यायै २ सितायै ३ प्रच्छ्यै ४ सारायै ५ संध्यायै ६ शिवायै ७ आर्द्रायै ८ प्रज्ञायै ९ प्रभायै १० मेधायै ११ कांत्यै १२ शांत्यै १३ धृत्यै १४ मत्यै १५ नमः इति पूजयेत् || धरायै १ उमायै २ पावन्यै ३ पद्मायै ४ शांतायै ५ अमोघायै ६ जयायै ७ अमलायै ८ नमः इति पूजयेत् || लोकपालाṁश्च स्वदिक्षु | तदस्त्राणि च | एवं संपूज्य जपित्वा देवं विसर्जयेत् || लक्षं पुरश्चरणं | विल्वपलाशवटपिप्पल सिद्धार्थपायसक्षीरदूर्वाभिः प्रत्येकं दशांशोहोमः || ७६ब्)
SK
अथ दक्षिणामूर्ति मंत्रः | षड्विंशदक्षरात्मकः | ॐ ह्रीं दक्षिणामूर्तये तुभ्यं वटमूलनिवासिने ध्यानैकनिरतांगाय नमो रुद्राय शंभवे ॐ ह्रीं | अस्य शुकऋषिरनुष्टुप् छंदः दक्षिणामूर्ति रुद्रोदेवता ॐ वीजं ह्रीं शक्तिरिष्टार्थे विनियोगः | ॐ ह्रीं दक्षिणामूर्तये ह्रां हृदयाय नमः १ ॐ ह्रीं तुभ्यं ह्रीं शिरसे स्वाहा २ ॐ ह्रीं वटमूलनिवासिने ह्रुं शिखायै वषट् ३ ॐ ह्रीं ध्यानैकनिरतांगाय ह्रैं कवचाय हुं ४ ॐ ह्रीं नमो रुद्राय ह्रौं नेत्रत्रयाय वौषट् ५ ॐ ह्रीं शंभवे ह्रः अस्त्राय फट् ६ || अथाक्षरन्यासः | शिरस्येकं ललाटे एकं कर्णयोर्द्वयं गंडयोरेकं नासयोर्द्वयं मुखे एकं दोः संधिष्वष्टौ कंठे एकं स्तनयोर्द्वयं हृन्नाभ्योरेकैकं कटिभाग द्वयेद्वयं गुह्ये एकं पादसंधिष्टष्टौ द्वाभ्यां व्यापकन्यासः || शारष्टयां नयनानंतरं कर्णन्यासः | प्रपंचे तु पूर्वं कर्णन्यासः | अथ ध्यानं | मुद्रां भद्रार्थदात्रींस परशुहरिणी वाहुभिर्वाहुमेकं जान्वा सक्तं दधानो भुजगवरसमावद्धकक्षोजटाधः | आसीनश्चंद्रखंड प्रतिघटितजटः क्षीरगौरस्त्रिनेत्रो दद्यादाष्टौः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवोवः | मुद्रां परशुंचाधस्तनोपरि दक्षिणकराभ्यां वामेन हरिणं तदधस्तनं जान्वासक्तं ध्यायेत् | इति ध्यात्वा मानसिकपूजानंतरं प्रासादोक्तपीठे देवमावाह्य पाद्यादिभिरुपचारैः पूजयेत् | ७७अ) अंगैः प्रथमावृत्त्ः | द्वितीयामूर्ति शक्तिभिः | तृतीया वृषादिभिः | लोकपालैश्चतुर्थी | तदस्त्रैः पंचमी | द्वात्रिंशल्लक्षं पुरश्चरणं | दुग्धाप्लुतैस्तिलैः साज्येन हविषा वा दशांशोहोमः || नित्यशो दक्षिणामूर्तिं ध्यायन्साधकसत्तमः | सोस्त्रव्याख्यान सामर्थ्यं लभते वत्सरांतरे || ब्राह्मीं सैंधवसिद्धार्थ वचात् उष्टकर्णोत्पलैः | सुगंधि संयुतैः कल्कैः शृतं ब्राह्मीरसैर्घृतं || मनुना तेन संजप्तमयुतं साधुसाधितं | निपीतं कविनाकांति रक्षायुः श्रीधृतिप्रदं ||
SK
अथ चतुर्विंशत्य क्षरात्मकोमंत्रः | ॐ नमो भगवते दक्षिणामूर्तये मह्यं सिद्धिं मेधां प्रयच्छ स्वाहा | शारदा तिलके तु सिद्धिमित्यक्षरं विनाद्वाविंशाक्षरः || मंत्रमुक्तावल्यां च मेधांते प्रज्ञामिति | तेन चतुर्विंशत्यक्षरः | मेधामितिशष्टात्पूर्वं प्रज्ञां विना सिद्धमितिकश्चित् | प्रज्ञामिति कीलं तत्र वाग्भवं वीजं दत्वा जपेत् | अस्य ब्रह्माऋषिर्दैवी गायत्री छंदः दक्षिणामूर्तिर्देवत सकलपुरुषार्थ सिद्ध्यर्थे विनियोगः | ॐ वीजं स्वाहा शक्तिः | आ ह्रां हृदयाय नमः १ ईं ह्रीं शिरसे स्वाहा २ ॐ ह्रूं शिखायै वषट् ३ ऐं ह्रैं कवचाय हुं ४ अं ह्रौं नेत्रत्रयाय वौषट् ५ अः ह्रः अस्त्राय फट् ६ | ततोऽक्षरन्यासः | मूर्ध्निपश्चाल्ललाटे च चक्षुषी श्रवणद्वये | नासापुटद्वये पश्चाद्दंतयोर्गंडयोर्द्वयोः || जिह्वाग्रे नासिकाग्रे चतुष्टयोर्युगलेगले | ७७ब्) वाह्वोश्च हृदये चैव नाभौ कुक्षौ गुदे तथा || ऊर्वोजान्वोश्च जंघायां पार्श्वे पादयुगे तथा | सर्वांगे संधिषु तथा न्यसेन्मंत्राक्षराणि हि ||
SK
इति चतुर्विंशत्पक्षराणि विन्यस्य ध्यानं कुर्यात् | स्फटिक रजतवर्णं मुक्तिकी मक्षमालाममृतकलशविद्याज्ञानमुद्राकराग्रैः | दधतमुरगकच्छं चंद्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे | दक्षिण वामकराभ्यां मौक्तिकमालां अमृतकलशं | तदधः ज्ञानमुद्रां विद्यां च दधतं | इति ध्यात्वा शैवेपीठे देवमावाह्य पूजयेत् | अंगैः प्रथमावरणं | स्वरद्वंद्वाष्टकैर्द्वितीयं | अ क च ट त प य श ल क्ष इत्यष्टभिर्वर्गैस्तृतीयं | अनंतादिभिश्चतुर्थं | सरस्वती ब्रह्मासनकसनंदन सनातन सनत्कुमार शुकवेदव्यासैः पंचमं || पार्वती सुभगा भद्रा क्रीडाशक्तिस्तथैव च | रौद्री काली विजृंभेति दक्षिणामूर्ति शक्तयः || अक्षस्रक् पुस्तकाः स्वच्छाः प्रोक्ताः स्युर्वर्णभूषणाः | एताभिः शक्तिभिः षष्टं | सप्तममिद्रादिभिः | तदायुधैरष्टमः | एवं संपूज्य यथाशक्ति जपित्वा देवं विसर्जयेत् | एवं पश्चिमद्वारशिवालये मंत्रं जपेत् | लक्ष चतुष्टयं पुरश्चरणं | पायसेन दशांशो होमः || अथ विनियोगः | जलमन्नं वा ७८अ) पंचविंशति पंचविंशति मंत्रजांपेनाभिमंत्रितं पिवेत् तदा वाक्सिद्धिर्भवति सर्वरोगशमनं च भवेत् || त्रयोदश्यां प्रदोषेण सोपहारः शिवालये | मौनी भूत्वार्चयेद्देवं विद्यावुद्धिविवर्धनं || साज्येन पायसेनान्न कामो जुहुयात् | श्रीकामः पद्मैर्विल्वैर्वाशतं जुहुयात् | साज्यक्षीराक्त दूर्वाभिरायुः कामो जुहुयात् | गुरवे गां महीं दद्यात्तस्य मृत्युभयं कुतः | पुत्रं च विंदति | आदित्याभिमुखो भूत्वा द्वादशांजलि सेचनं | सर्वैश्वर्यं च तेजश्च स दोषैर्न प्रवाध्यते || प्रातःसायं च सप्तैव मध्याह्ने चैक विंशतिः | दुग्धवुध्याजलैर्देवं तर्पयित्वा सुखी भवेत् || पलाशपुष्पैरयुत होमाद्विद्याधिको भवेत् | प्रत्यक्षं मंडलादर्वाक् कवीनामग्रणीर्भवेत् || गौर्या पार्श्वस्थयासार्धं श्रीकामश्चिंतयेद्विभुं | अयुतं जुहुयान्मंत्री भूयसी श्रियमाप्नुयात् ||
SK
भुंजानः प्रयतो मंत्री गोमूत्रैः पक्वमोदनं | भिक्षान्नमथ वा मंत्री यतिर्यावकभुक्तथा || अश्रुत्वा वेदशास्त्राणां कोविदो जायते ध्रुवं || अथ यंत्र मुच्यते || दशदलपद्मं विरचयेत् | साध्यनाम युक्तं प्राणवं विलिख्य दलमूलेषु मंत्रवर्णद्वयं अंत्यदले अवशिष्टं वर्णं तद्वहिर्मात्रिकाभिर्वेष्टयेत् | ७८ब्) एतद्यंत्र जपादिभिः साधितं पानीयादिपीतं महासारस्वतं स्यात् || अथ मंत्रांतरं || ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रयच्छ स्वाहा | अस्य ब्रह्मा ऋषिर्गायत्री छंदः दक्षिणामूर्तिर्देवता सारस्वतार्थे विनियोगः | अंगमंत्रैरंगुष्ठादिन्यासः | ॐ नमो भगवते हृदयं १ दक्षिणामूर्तये शिरः २ | मह्यं शिखा ३ मेधां कवचं ४ प्रयच्छ नेत्रत्रयं ५ स्वाहा अस्त्रं ६ || अथाक्षरन्यासः | मूर्ध्निपश्चाल्ललाटे च चक्षुषोः श्रवणद्वये | नासापुटद्वये पश्चाद्गंडयोर्दंतयोर्द्वयोः || जिह्वाग्रे नासिकाग्रे च ऊष्टयोर्युगलेगले | वाह्वोश्च हृदये चैव नाभौ गुह्ये गुदे तथा || ऊर्वोश्चजान्वोर्जंघायां पार्ष्णिपादे तथैव च | सर्वांगसंधिषु परं न्यसेद्वानतंत्रितः || ध्यानं | ध्यात्वा देवं जगन्नाथं दक्षिणामूर्तिमव्ययं | कुंदेंदु शंखधवलं व्याघ्र चर्मांत वा ससं || व्याख्या पीठे समासीनमाक्रांताप स्मृतिं सदा | वामपाणितलेद्योतज्जातवेद स पुस्तकं || व्याख्या मुद्राक्षमालाभ्यां विराजित करद्वयं | मुनिभिः सेवितं देवमशेषार्थ फलप्रदं || ७९अ)
SK
अथवा | कपर्दिनं चम्ड्रकलावतं संत्रिनेत्रमिंदु प्रतिमं स्मृतो ज्वलां | चतुर्भुजं ज्ञानदमक्षसूत्रं पुस्तानि हस्तं हृदि भावयामि | इति ध्यात्वा पूर्वोक्ते शैवेपीठे देवमावाह्य पाद्यादिभिरुपचारैः पूजयेत् | अंगैः प्रथमांवरणं | ब्राह्मणाय १ शक्राय २ सनंदाय ३ सनत्कुमाराय ४ शुकाय ५ व्यासाय ६ गणेशाय ७ सिद्धाय ८ गंधर्वाय ९ योगींद्राय १० विद्याधराय ११ नम इति पूजयेत् || एते पुस्तक सरस्वती वाचयतो ध्येयाः | लोकपालाṁश्च स्वदिक्षु | तदायुधानि च | लक्षंमेकं पुरश्चरणं | सवूतैः पद्मैर्दशांशोहोमः || एच्छं जपादिभिः सिद्धे मंत्रेस्मिन्साधकोत्तमः | मंत्रेणानेनंसंजप्तैर्विशुद्धैः सलिलैः सुधीः | अभिषिंचेत् स्वशिरसिश्रियमारोग्यमाप्नुयात् | कंठमात्रोदके स्थित्वा जपन्मंत्र सहस्रकं | प्रत्यहं मंडलादर्वाक् कवीनामग्रणीर्भवेत् || अथैकपंचाशदक्षरात्मको अघोर मंत्रः | ह्रीं स्फुरस्फुर प्रस्फुरप्रस्फुर घोरघोरतरतनुरूप वम चटचट प्रचटप्रचट कहकह वमवम वंधवंध घातयघातय हुं फट् | अस्य मंत्रस्य अघोर ऋषिरनुष्टुप् छंदः अघोररूप रुद्रोदेवता सकलशत्रुक्षयपूर्वक सकलसमृद्धिकामनार्थे विनियोगः | ॐ ह्रीं स्फुरस्फुर हृदयाय नमः १ ७९ब्)
SK
प्रस्फुर २ शिरसे स्वहा २ घोरघोरतरतनुरूपशिखा ३ चट २ प्रचट २ कवचं ४ कह २ वम २ नेत्रत्रयाय वौषट् ५ वंध २ घातय २ कवचाय हुं ६ हुं फट् अस्त्राय फट् ७ | इति षडंगं | ह्रीं स्फुर २ मूर्ध्नि १ प्रस्फुर २ नेत्रयोः २ घोर आस्ये ३ घोरतरतनुरूपकंठे ४ चटचट हृदि ५ प्रचट २ नाभौ ६ कह २ गुह्ये ७ वम २ ऋर्वोः ८ वंध २ जान्वोः ९ घातय २ जंघयोः १० हुं फट् पादयोः ११ | ततो ध्यानं | सजलघनसमानं भीमदंष्ट्रं त्रिणेत्रं भुजगधरमघोरं रक्तवस्त्रांगरागं | परशुडमरुखड्गान्खेटकं वाण च | *? bhavet prabhuḥ | vaśye kuṃkumasaṃkāśo muktau caṃdra sa***? | तदधो वाणकार्मुकौ | तदधः शूलकपाले विधतां | इति ध्यात्वा पूर्वोक्ते शैवे पीठे देवमावाह्य पाद्यादिभिरुपचारैः पूजयेत् | यथा विधि | अंगैः प्रथमावरणं | परशवे १ डमरुकाय २ खड्गाय ३ खेटाय ४ वाणाय ५ कार्मुकाय ६ शूलाय ७ कपालाय ८ नम इति कमलपत्रेषु पूजयेत् | ततो ब्राह्म्यादीन् | दिक्याशाṁश्च | इति पूजांते जपं निवेद्य विसर्जयेत् | लक्षं पुरश्चरणं | घृताक्तैस्तिलैर्दशांशोहोमः || क्रमात् सर्पिरयामार्गतिलसर्ष*? पायसैः | ८०अ)
SK
साज्यैः सहस्रं प्रत्येकं यामिन्यां जुहुयात् सुधीः | होमोयन्नाशयेत् सर्वान् भूतकृत्याद्युपद्रवान् || अथ पाशुपतमंत्रः || ॐ श्लीं पशु हुं फट् | अस्य ऋष्यादिकं पूर्ववत् | देवता पशुपतिः | ॐ हृदयं १ श्लीं शिरः २ य शिखा ३ शुकवचं ४ हुं नेत्रत्रयं ५ फट् अस्त्रं ६ | अंगन्यासेषु हुं फट् अंतानि मंत्राक्षराणीति कश्चित् || ततो ध्यानं | मध्याह्नार्क समप्रभं शशिधरं श्रीमाट्टहासोज्वलं संसत्पन्नगभूषणं शिशिशिखारमश्रुस्फुरन्मूर्ध्वजं | हस्ताब्जै स्त्रिशिखं समुद्गरमसिंशक्तिं दधानं विभुं दंष्ट्रा भीमचतुर्मुखं पशुपतिं दिव्यास्त्ररूपं स्मरेत् | उपरितनदक्ष वामकराभ्यां त्रिशूलमुद्गरौ | तदधो हस्ताभ्यामसि शक्तीदधानं | एतद्विपरीतमिति कश्चित् || इति ध्यात्वा शैवे पीठे देवमावाह्य पूजयेत् | अंगैः प्रथमावरणं | ब्रह्मादिभिर्द्वितीयं | लोकपालैस्तृतीयं | तदायुधैस्तुरीयं | षट्लक्षं पुरश्चरणं | गव्येन पायसेन दशांशो होमः || अनेन मंत्रितं तोयं ग्रस्तस्य वदने क्षिपेत् | सद्यस्तं मुंचतिक्रंद ग्रहोमंत्र प्रभावतः | अमुनामंत्रितान् वाणान् विकिरेद्युधि भूपतिः | जपेत् क्षणेन निखिलान् शत्रून् पार्थ इवापरः || अथ क्षेत्रपालमंत्रः | ॐ क्षौं क्षेत्रपालाय नमः | क्षां क्षीं क्षूं क्षैं क्षौं क्षः इति षडंगं | ध्यानं | नीलांजनाद्रिनिभमूर्ध्वपिशंगकेशं ८०ब्)
SK
वृत्तोग्र लोचनमुपात्तजटाकलापं | आशांवरं भुजगभूषणमुग्रदंष्ट्रं क्षेत्रेशमद्भुततनुं प्रणमामिदेवं | इति ध्यात्वा शैवेपीठे देवमावाह्य पूजयेत् | अंगैः प्रथमावरणं | पूर्वादि पत्रेषु अनलाय १ अर्ध्वकेशाय २ करालाय ३ घंटारवाय ४ महाकोपाय ५ पिशिताशनाय ६ पिंगलाक्षाय ७ अर्धकेशाय नमः ८ इति पूजयेत् | लोकपालाṁश्च स्वदिक्षु | तदस्त्राणि च पूजयेत् | लक्षमेकं पुरश्चरणं | घृताक्तेन चरुणा दशांशोहोमः || एहि एहि विदुषि पुरुपुरुभुंजय २ नर्तय २ विघ्न २ महाभैरवभैरव क्षेत्रपालवलिं गृह्ण २ स्वाहा | एष वलिमंत्रः | अनेन क्षेत्रपालाय वलिं दद्यात् || वलिदानेन संतुष्टः क्षेत्रपालः प्रयच्छति || कांतिमेधावलारोग्यं तेजः पुष्टिं यशः श्रियं || अथैकविंशत्यक्षरात्मको वटुकमंत्रः | ह्रीं वटुकाय आपदुद्धरणाय कुरु कुरु वटुकाय ह्रीं | ह्रां वां हृदयाय नमः १ ह्रीं वीं शिरसे स्वाहा २ ह्रूं वूं शिखायै वषट् ३ ह्रैं वैं कवचाय हुं ४ ह्रौं वौं नेत्रत्रयाय वौषट् ५ ह्रः वः अस्त्राय फट् ६ | तस्य ध्यानं त्रिधा प्रोक्तं सात्विकादि विधानतः || वंदेवालं स्फटिक सदृशं कुंतलोलासिवक्त्रं दिव्याकल्पैर्नवमणिमयैः किंकिणी नूपुराद्यैः | दीप्ताकारं विशदवसनं सुप्रसन्नं द्विनेत्रं हस्ताभ्यांतं वटुकमनिशं शूलदंडौ दधानं || ८१अ)
SK
उद्यद्भास्करसन्निभं त्रिणयनं रक्तांगरागस्त्रजं स्मेरास्यं वरदं कपालमभयंशूलं दधानंकरैः || नीलग्रीवमुदारभूषणशतंशीतांशु चूडोज्वलं वंधूकारुणवाससं भयहरं देवं सदा भावये || उपरितन दक्षवामकराभ्यां त्रिशूलकपाले | तदधस्तनाभ्यां वराभये दधानं || ध्यायेन्नीलाद्रिकांतं शशिशकलधरं मुंडमालं महेशं दिग्वस्त्रं पिंगकेशं डमरुमथशृणिं खड्गशूलाभयानि | नागं घंटां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं सर्पाकल्पं त्रिनेत्रं मणिमयद्विलसत्किकिणीनूपुराद्यं || दक्षिणाधः करमारभ्य डमरुक शृणिं खड्गशूलाभयनाग घंटाकपालानि प्रदक्षिणतो ध्येयानि || सात्विकं ध्यानमाख्यातमयमृत्युनिवारणं | आयुरारोग्यजननं सर्वैश्वर्यं सुखप्रदं || राजसंध्यानमाख्यातं धर्मकामार्थसिद्धिदं | तामसं शत्रुशमनं कृत्या भूतगदायहं || इति ध्यात्वा यथा रुचिं शैवे पीठे षट्कोणांतराले कमले देवमावाह्य पूर्वविधिना पूजयेत् | षट्कोणांतराले अंगैः प्रथमावरणं | असितांगाय १ रुरवे २ चंडाय ३ क्रोधाय ४ उन्मत्तभैरवाय ५ कपालात्मने ६ भीषणास्याय ७ संहारा नम ८ इति दलेषु पूजयेत् | ८१ब्)
SK
तद्वहिः डाकिनी पुत्रकाय १ राकिनी पुत्रकाय २ लाकिनी पुत्रकाय ३ काकिनी पुत्रकाय ४ शाकिनी पुत्रकाय ५ हाकिनी पुत्रकाय ६ मालिनी पुत्रकाय ७ देवीपुत्रकाय ८ नमः इति पूजयेत् | दशदिक्षुः उमापुत्रकाय १ रुद्र पुत्रकाय २ मातृपुत्रकाय ३ नम इति दक्षिणतः ऊर्ध्वमुखी पुत्रकाय इत्यूर्ध्वे | अधोमुखी पुत्रकाय नमः इत्यधः | तद्वहिः पद्मपत्रेषु ब्राह्मी पुत्राय पूर्वे | माहेश्वरी पुत्राय ईशाने | वैष्णवी पुत्राय सौम्ये | कौमारी पुत्राय वायव्ये | इंद्राणी पुत्राकाय पश्चिमे | महालक्ष्मी पुत्रकाय नैरृत्ये | वाराही पुत्रकाय दक्षिणे | चामुंडा पुत्रकाय इत्याग्नेये || पुनर्वहिः पत्रेषु | धेनुकाय १ त्रिपुरांतकाय २ वेतालाय ३ वह्निवीजाख्याय ४ कालांतकाय ५ करालाय ६ एकपादाय ७ भीमरूपाय ८ अचलाय ९ हाटकेश्वराय १० नमः इति दशदिक्षु पूजयेत् | ततः श्रीकंठादीन् पूजयेत् | इति जपित्वा विसर्जयेत् | अक्षरं लक्षं पुरश्चरणं | त्रिमधुराक्तैस्तिलैर्दशांशोहोमः || त्वं संपूजयेद्देवं वटुकं प्रोक्तवर्त्मना | धर्मार्थकाममोक्षाणां पतिर्भवति मानवः | विघ्नं दुर्गां समाराध्य वलिंदत्वा विधानतः | काम्यान् संसाधयेन्मंत्री यथोक्तां श्रियमाप्नुयात् | ८२अ) शाल्पन्नं पललं सर्पिर्लाजचूर्णानि शर्करां | गुडभिक्षु रसापूपैर्मध्वक्तैः परिमिश्रितैः || कृत्वा कवलमाराध्यदेवं प्रागुक्त वर्त्मना | रक्तचंदन पुष्पाद्यैर्निशितस्मैवलिं हरेत् || तत्र सिध्यंति कार्याणि वलिदानेन मंत्रिणः | जुहुयात् सर्पिषामंत्री यथोक्तां सिद्धिमाप्नुयात् || वश्याय जुहुयाद्दिक्षु शवलैर्वशयेज्जनान् | जुहुयात् पुत्रलाभाय प्रफुल्लैः कैरवैः सुधीः || धनधान्याप्तये चैव जुहुयात् तिलतंडुलैः | विल्वप्रसृतैर्जुहुयान्महतींविंदति श्रियं || लोणैर्मधुरसंमिश्रैर्वशयेद्वनिताजनान् | वृष्टिकामेन होतव्यं वेतसस्यसमिद्वरैः || व्याघ्राजिनेसमासीनो जुहुयादयुतं तिलैः | भूतादयः पलायंते नेक्षंतेतांदिश्वंभयात् ||
SK
वचाचूर्णपलं जप्तं गव्येनाज्येन लोलितं | विभज्य भक्षयेद्वंध्यामंडलं पुत्रकांक्षिणी || विनीतं पुत्रमाप्नोति मेधारोग्यवलान्वितं | ब्राह्मणो नियतः शुद्धः सात्विकं वलिमाहरेत् || साधयेन्मनुनानेन भस्मसर्वार्थसिद्धिदं | उशीरं चंदनं कुष्ठं घनसारं स कुंकुमं || श्वेतार्कमूलं वाराहीं लक्ष्मीं क्षीरमही रुहात् | ८२ब्) त्वव्ॐ सूल्वतरोर्मूलं शोषयित्वा सुचूर्णयेत् | चूर्णं व्योम्नि गृहीतेन गोमयेन विमिश्रितं || कृत्वा पिंडानि संशोष्य संस्कृते हव्यवाहने | मूलेन दग्ध्वा तद्भस्म शुद्धेपात्रे निवेशयेत् || केतकी मालती पुष्पैर्वासयेद्भस्मशोधितं | अयुतं प्रजपेन्मंत्रं स्पृष्ट्वा भस्म सुपूजितं || एतदादायदिनशः प्रातः पुंड्रं करोतियः | तस्य रोगाः प्रणश्यंति कृत्या द्रोहा महाग्रहाः || रिपुचोर मृगादिभ्यो भवनस्य न जायते | वर्धंते संपदः सर्वाः पूज्यते सकलैर्जनैः || राजा वश्यो भवेत्तस्यः सामात्यः स परिच्छदः | घनसारः कर्पूरः | व्योम्नि गृहीतेन गोमयेन यथा भूमौ न पतति तथा प्रतीच्छेत् || अथ खड्गरावणमंत्रः | सप्तत्यधिकशताक्षरः | ॐ नमः पशुपतये ॐ नमो भूताधिपतये ॐ नमो रुद्राय ललत् खड्गरावण विहर २ सर २ नृत्य २ श्मसान भस्मार्चित शरीराय घंटाकपाल मालाधराय व्याघ्रचर्मपरीधानाय शशांककृतशेष*? कृष्णसर्पयज्ञोपवीतिने वल २ वला २ अनिवर्तकपालिने हन २ भूताṁस्त्रायत्राय मंडलमध्ये कट्टकट्ट रुद्रांकुशेन शमय विशय २ आवेशय २ चंडासिधाराधिपति रुद्रो ज्ञापयति स्वाहा | ऋषिच्छंदसीनस्तः | ८३अ)
SK
खां खीं खूं खैं खौं खः षडंगानि | ध्यानं | घंटा कपाल शृणिमुंडपाल खेटखट्वांगशूलडमरू न भयं दधानं | रक्तांगमिंदुशकलाभरणं त्रिनेत्रं पंचाननाब्जमरुणांशुकमीशमीडे | दक्षिणाधः करमारभ्य वामाधः करपर्यंतं घंटादि दशायुधानि ध्यायेत् | कश्चित्तु दक्षिणवामाधः करयोर्घंटा कपाले | तदुपर्यंकुशमुंडमाले | तदुपरि खट्वांगशूले | तदुपरि डमरुकाभये | इति ध्यात्वा मानसिकपूजांविधाय प्रासादोक्तपीठे देवमावाह्य पाद्यादिभिरुपचारैः पूजयेत् | पूजामंत्रस्तु | ॐ भूताधिपतये स्वाहा | अंगैः प्रथमावरणं | ततः पत्रेषु | चुलुकंडायै १ प्रस्खलिन्यै २ कृष्णपिंगलायै ३ फल्गुन्यै ४ टिरिटिल्यै ५ मत्तमालिकायै ६ खिंखिल्यै ७ चद्रांकित जटायै ८ नमः इति पूजयेत् | ऐं ह्यै १ कौमारिकायै २ ब्राह्म्यै ३ वाराह्यै ४ वैष्णव्यै ५ विनायकाय ६ चामुंडायै ७ माहेश्यै ८ नम इति दिक्षु | रौद्रपिंगलाभ्यां नमः १ श्मशाननिषणाभ्यां २ दृढकर्णभृंगरिटिभ्यां ३ आमर्दक महाकालाभ्यां ४ कौणपालाभ्यां ५ कुंभकर्णशोकाभ्यां ६ भल्लटहोराभ्यां ७ नमः इति पूर्वादि दिक्षु पूजयेत् | इंद्रादि लोकपालान् समज्योतिषाभिन्नदैत्यः | ८३ब्)
SK
ज्वालामालापरीतं रविशशिदहनत्रीक्षणं दीप्तजिह्वं दंष्ट्रोग्रं धूतकेशं वदनमपि वहन् पातुवो नारसिंहः | ध्यानकाले कोपशांतये दक्षिण वाहुं संस्पृश्य शिवं स्तौति | वामवाहुं ब्रह्माणं इति सौम्य ध्यानं | एवं ध्यात्वा नारायण मंत्रोक्तपीठेदेवमावाह्य पाद्यादिभिरुपचारैः पूजयेत् | तत्ॐगावरणं | पक्षींद्रायनमः १ शंकराय २ शेषराय ३ ब्रह्मणे नम ४ इति पूर्वादि दिक्पत्रेषु पूजयेत् | श्रियै १ ह्रियै २ धृत्यै ३ पुष्ट्यै ४ नमः इति कोणपत्रेषु पूजयेत् | लोकपालाṁश्च स्वदिक्षु | तदस्त्राणि च तद्वहिः | एवं पूजयित्वा यथा शक्ति जपित्वा देवं विसर्जयेत् | अयं मंत्रः प्रणवभुवनेश्वरी पुटितो जप्यः द्वात्रिंशदयुतं पुरश्चरणं | द्वात्रिंशल्लक्ष जपात्सिद्धो भवति | आज्याक्तैः कमलैस्तावत् सहस्रं होमः || इच्छं जपादिभिः सिद्धेमनौ काम्यानि साधयेत् || तत्र ध्यानमेवं | उद्यत्कोटि रविप्रभं नरहरिं कोटीरहारोज्वलं दंष्ट्राभीममुखेलसन्नखमुखैर्दीर्घैरनेकैर्भुजैः | निर्भिन्नासुरनागमग्निशशभृत्सूर्यात्म नेत्रत्रयं विद्युत्पुंज जटाकलापभयदं वह्निं वमंतं भजे | इति क्रूरध्यानं || सौम्यं सौम्ये स्मरेत्कार्ये क्रूरेक्रूरमिमं भजेत् | श्रीपुष्पैर्जुहुयान्मंत्री विल्वकाष्ठैधितेनले | १२३अ) सहस्रं श्रियमाप्नोति पत्रैर्वा विल्वसंभवैः | प्रसूनैर्वा फलैस्तद्वत् दूर्वा होमादरोगिता || मंत्रजप्तां वचां श्वेतां भक्षयेत् प्रातरन्वहं | वाक्सिद्धिं लभते मंत्री वाचस्पतिरि वा परः || दुःस्वप्ने निशि संजाते स्नात्वा मंत्रममुंजपेत् | अनिद्रो मंत्रविन्यासात्सुस्वप्न उपजायते || व्याघ्रचोर मृगादिभ्यो महारण्ये भयावहे | रक्षेन्मनुरयं जप्तो भयेष्ठान्येषु मंत्रिणा || अनेन मंत्रितं भस्मविषग्रह महाभयान् | नाशयेद चिरान्मंत्री मंत्रस्यास्य प्रभावतः || सिंहरूपं महाभीमं नखदंष्ट्रादि भीषणं | स्मृत्वात्मानं रिपुं पश्चाद्ध्यायेन्मृगशिशुं पुनः ||
SK
गृहीत्वा दलदेशंतं पुनर्दिक्षु क्षिपेत् द्रुतं | पुत्रमित्र कलत्राद्यैरुच्चाटो जायते रिपोः || पूर्वमृत्युपदेसाध्यं नाम कृत्वा स्वयं हरिः | निशितैर्नखदंष्ट्राग्रैः खाद्यमानं रिपुं स्मरन् || नित्यमष्टोत्तरशतं जपेन्मंत्रमतंद्रितः | जायते मंडला दर्वाक् शत्रुर्वैवस्वतप्रियः || अथ नृसिंहवीजं | क्षौं | अस्यापि ऋष्यादिकं पूर्ववत् || अथ सप्तषष्ट्यक्षरोज्वालामालामंत्रः || ॐ क्षौं नमो भगवते नरसिंहाय ज्वालामालि मेदीप्त दंष्ट्राय अग्निनेत्राय सर्वरक्षोघ्नाय सर्वभूतविनाशनाय सर्वज्वरविनाशनाय दह २ पच २ रक्ष २ हुं फट् स्वाहा | अस्यापि ऋष्यादिकं पूर्ववत् | ॐ क्षौं नमो भगवते नरसिंहाय हृदयाय नमः १ ज्वालामालिने दीप्तदंष्ट्राय १२३ब्) शिरसे स्वाहा २ अग्निनेत्राय सर्वरक्षोघ्नाय शिखायै वषट् ३ सर्वभूतविनाशनाय सर्वज्वरविनाशनाय कवचाय हुं ४ दह २ पच २ रक्ष २ नेत्राभ्यां वौषट् ५ हुं फट् स्वाहा अस्त्राय फट् ६ इति षडंगं विधाय | ध्यानं कुर्यात् | उज्वलत्प्रयान लाभम युग्मनेत्रमनारतं | भासुरं शिखिनः शिखाभिरुदग्र दंष्ट्रमुखांवुजं रक्षसांभयदं विकीर्ण सटाकलापविभीषणं शंखचक्रकृपाणखेटधारिणं नृहरिंभजे | इति ध्यात्वा पूर्वोक्ते पीठे देवमावाह्य पाद्यादिभिरुपचारैः पूजयेत् | आवरणादिकं पूर्वोक्तदेवताः पूजयेत् | एवं पूजानंतरं यथाशक्ति जपित्वा देवं विसर्जयेत् | लक्षं पुरश्चरणं | कपिलाज्येन दशांशोहोमः | प्रयोगादिकं मंत्रराजोक्तं | विशेषात् क्षुद्रभूतादिनाशनीयं || अथ षडक्षरोमंत्रः || आं ह्रीं क्ष्रौं क्र्ॐ हुं फट् | अस्य ब्रह्माऋषिः पंक्तिश्छंदः नरसिंह हरिहरिर्देवता इष्टार्थे | क्ष्रां क्ष्रीं क्ष्रूं क्ष्रें क्ष्रौं क्ष्रः अस्त्राय फट् | ध्यानं | कोपादालोलनेत्रं विवृतनिजमुखं सोमसूर्याग्निनेत्रं पादादानाभिरक्त प्रभमुपरिसितं भिन्नदैत्येंद्रगात्रं | चक्रं शंखं स पाशांकुशकुलिशगदादारणान्युद्वहंतं भीमं तीक्ष्णोग्रदंष्ट्रं मणिमय विविधाकल्पर्मडिनृसिंहं || १२४अ)
SK
एवं ध्यात्वा | पूर्वोक्तपीठे देवं पूजयेत् | तत्ॐगावरणं | चक्राय १ शंखाय २ पाशाय ३ अंकुशाय ४ चक्राय ५ कौमोदक्यै ६ खड्गाय ७ खेटाय ८ नमः इति पूर्वादि दिक्पत्रेषु पूजयेत् | लोकपालाṁश्च स्वदिक्षु | तदस्त्राणि च पूजयेत् | ततो देवं विसर्जयेत् | षट्लक्षं पुरश्चरणं | घृतेन षट्सहस्रं होमः || पयोक्तैरमृता खंडैस्त्रि सहस्रं चतुर्दिनात् | अनेन विधिना होमोग्रहज्वरविनाशनः || इत्याद्यनेके प्रयोगाः | वहुना किमिहोक्तेन मंत्रैरेतैरुदीरितैः | समोनास्ति मनुः कश्चित् छायानुग्रहकारकः || अथ लक्ष्मी नृसिंहः || क्षौं लक्ष्मी नृसिंहाय नमः | अस्य प्रजापतिरृषिरनुष्टुप् छंदः लक्ष्मी नृसिंहोदेवता इष्टार्थे विनियोगः | ई हं उग्रं वीरं महाविष्णुं आनंदात्मने हृदयाय नमः १ ईहं ज्वलंतं सर्वतोमुखं प्रियात्मने शिरसे स्वाहा २ ईहं नृसिंहभीषणं ज्योतिरात्मने शिखायै वषट् ३ ईहं मृत्युमृत्युं नमाम्यहं मायात्मने कवचाय हुं ४ ईहं समस्तेन अज्ञानात्मने अस्त्राय फट् ५ क्रोध क्षमादिशांतये दक्षिणवाहुं संस्पृशन् शलभमंत्रं जपेत् | मंत्रस्तु | ॐ हौं नमः शिवाय महाशलभाय स्वाहा १२४ब्) स्वरक्षार्थं चानेकानि वीजानि मंत्राक्षर संपुटितानिसंतितानि ग्रंथगौरवान्नलिखितानि || महाभये प्रस्तुते मंत्राते एवं भीषणाṁश्थिंधिभिं विभीषणंभी इति जपेत् || अथ वा मंत्रांतेमांरक्षरक्षेति पठेत् || मंत्रन्यासादौ रक्षा यथा | केशवः पातु मे पादौ जंघे नारायणो मम | माधवोमेकटिं पातु गोविंदो गुह्यमेव च || नाभिं विष्णुस्तु मेपातु जठरं मधुसूदनः | उरस्त्रि विक्रमः पातु हृदयं पातु वामनः || श्रीधरः पातुमेकंठं हृषीकेशोमुखं मम | पद्मनाभस्तु नयने शिरोदामोदरो मम || एवमंगेषु विन्यस्य जपकाले सुलोचने | छायामपि न लंघंति भूतवेताल राक्षसाः || तस्मात् सर्वं प्रयत्नेन ध्यानंदेवि समाचरेत् | पुरस्तात् केशवः पातु चक्रीजांवूनदप्रभः ||
SK
पश्चान्नारायणः शंखी नीलजीमूतसंनिभः | इंदीवरदलश्यामो माधवोर्द्ध्वं गदाधरः || गोविंदो दक्षिणेपार्श्वे धन्वीचंद्र प्रभोमहान् | उत्तरे हलभृग्विष्णु पद्मकिंजल्कसंनिभाः || आग्नेय्याम रविंदाभोमुशली मधुसूदनः | त्रिविक्रमः खड्गपाणिर्नैरृत्यां ज्वलनप्रभः || वायव्यां माधवो यज्ञीतरुणादित्यदीप्तिमान् | ऐशान्यां पुंडरीकाक्षः श्रीधरः पट्टिशायुधः || विष्णुप्रभो हृषीकेशोह्य वाच्यांदिशिमुद्गरं | १२५अ) हृन्न्यसेत् पद्मनाभोमे सहस्रांशु समप्रभः || सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतोमुखः | इंद्रगोपकसंकाशः पाशहस्तोऽपराजितः || स वाह्याभ्यंतरं देहं व्याप्य दामोदरः स्थितः | एवं सर्वत्रनिःछित्रंनाम द्वादशपंजरं || प्रविष्टोहं नमे किंचिद्भयमस्ति कदाचन | इति न्यासं कुर्यात् | इति रक्षांविधाय पूर्वोक्तपीठे देवमावाह्य आवाहनादिकाः षण्मुद्राः प्रदर्शयन् जितंते पुंडरीकाक्ष नमस्ते विश्वभावन | नमस्तेस्तु हृषीकेश महापुरुषपूर्वज | नमः | शावरं | ध्यानं | क्षीरोदेऽब्जमुखैर्वृतः सवरदं चक्रं पिनाकाभयेविभ्रच्चंद्र रुचिर्महारिवरणामि स्वालसद्भूषणः | आश्लिष्टो रमयोरगेंद्र फणसाहस्रा तपत्रास्विदृकनीलग्रीव इदं पुनातु नृहरिर्योयोगपद्मासनः | एवं ध्यानं पूजांते उग्रं नमाम्यहमित्यादिना व्यूहपूजानवभिः पदैः | ॐ भीमाय १ उग्राय २ नयनाय ३ नीलाय ४ चंद्राय ५ भयंकराय ६ विश्वेशाय ७ कमलाय ८ नमः इति प्रागादि दलेषु | श्रद्धायै १ ऋद्ध्यै २ समृद्ध्यै ३ महर्द्ध्यै ४ कामायै ५ भीमायै ६ महाननायै ७ अज्ञानायै ८ दीप्त्यै नमः इति तेष्वेव पूजयेत् | इत्याद्यनेकावरणानि संतितानिनात्र प्रपेचितानि | १२५ब्)
SK
एवं पूजयित्वा यथाशक्ति जपित्वा गुह्याति गुह्यगोप्तृत्वं गृहाणास्मत्कृतं जपं | सिद्धिर्भवतु मेदेवत्वत्प्रसादाद्धृदिस्थिता इति जपं निवेदयेत् | स्तुत्वा नत्वा विसर्जयेत् | अस्यानेके प्रकाराः संति || अथ विदारण नृसिंहः || क्षौं जयजयनृसिंह | अस्य मंत्रस्य प्रजापतिरृषिरनुष्टुप् छंदः विदारण नृसिंहो देवताजंवीजं हं शक्तिः इष्टार्थे विनियोगः | क्ष्रां क्ष्रीं इत्यादि षडंगं | ध्यानं | अव्यान्निर्व्याजरौद्राकृति रति विकृता स्योल्लसतीक्ष्णं दंष्ट्रश्चक्रं शंखं स पाशांकुशकुलिश गदादारणाख्यं दधानः | रक्ताकारश्चनाभेरध उपरिसितो दिव्यभूषा विशेषो देवोऽर्काग्नींदु नेत्रो निखिलसुरवरो नारसिंहश्चिरंवः | पूजादिकं षडक्षरवत् || अथ दिव्यनृसिंहः | तप्तहाटककेशांत ज्वलत्यावकलोचन | वज्राधिकनखस्पर्शदिव्यसिंह नमोस्तुते || अस्य ब्रह्माऋषिरनुष्टुप् छंदः दिव्यनृसिंहोदेवतारकारोवीजं एकारः शक्तिः इष्टार्थे | चतुर्भिः पादैः समस्तेन च पंचांगं | ध्यान पूजादिकं पूर्ववत् || १२६अ)
SK
अथ द्वादशाक्षर नृसिंहः | ॐ क्ष्रौं महानृसिंहाय नमः क्ष्रौं ॐ | अस्य वामदेव ऋषिर्विराट् छंदः श्रीनृसिंहोदेवताक्षकारो वीजं ॐ शक्तिः रंक्षः कीलकं इष्टार्थे विनियोगः | षडंग ध्यानादिकं पूर्ववत् || अथ त्रयोदशाक्षर मंत्रांतरं | सहस्रार ज्वालमृत्युनाशन स्वाहा | आदित्य सोमसप्तार्चिरित्यादि ध्यानं | पूर्ववत् सर्वा || अथ वीरनृसिंहः | ॐ नमो भगवते वीरनृसिंहाय ज्वालामालापि नद्वांगाय अग्निनेत्राय सर्वभूत विनाशनाय सर्वशत्रुविनाशनाय हन २ दह २ पच २ रक्ष २ ह्रां ह्रीं फट् स्वाहा | अस्यापि विदारणवत्सर्वं || अथ वीरनृसिंहमंत्रांतरं | ॐ नमो भ्गवते वीरनृसिंहाय ज्वालामालिने दीप्तदंष्ट्रायाग्नि नेत्राय सर्वरक्षोघ्नाय सर्वभूतविनाशनाय सर्वव्याधि विनाशनाय सर्वदोष विनाशनाय सर्वज्वरविनाशनाय हन २ दह २ पच २ वंध २ रक्ष २ मां हुं फट् स्वाहा | अस्यापि सर्वं पूर्ववत् || पुनरपि वीरनृसिंहांतरं | ॐ नमो भगवते वीरनृसिंहाय ज्वालामालिने दीप्तदंष्ट्रायाग्निनेत्राय सर्वरक्षोघ्नाय सर्वभूतविनाशनाय सर्वव्याधिविनाशनाय सर्वविघ्नविनाशनाय १२६ब्)
SK
सर्वदोषविनाशनाय हन २ दह २ पच २ वंध २ रक्ष २ मां मां मां हुं हुं हुं फट् फट् फट् स्वाहा | अस्यापि सर्वं पूर्ववत् || अथापराजित नृसिंहः || चतुःशती | ॐ नमो भगवते अनंताय सहस्रशीर्षाय क्षीरोदार्णवशायिने शेषभोगपर्यंकशायिने नमो गरुडवाहनाय वासुदेवय नमः | पीतवाससे वासुदेव संकर्षण प्रद्युम्ना निरुद्धहय शिरोवराह नृसिंहवामन राम राम कृष्णवरप्रद नमोस्तुते असुरदैत्ययक्षराक्षसभूतप्रेतपिशाच सिद्धयोगिनी डाकिनीशाकिनी ब्रह्मराक्षसं विनायकं पूतनाग्रहस्कंदपुरोगग्रहानूक्षत्रग्रहान् भूतग्रहान् प्रेतग्रहान् वेताल ग्रहान् जंभकग्रहान् वेतालाṁश्च हन २ दह २ पच २ मंथ २ मद २ गृह्न २ विध्वंसय २ वित्रासय २ चक्रेणगदयावज्रेण भस्मी कुरु सहस्र वाहो सहस्र प्रहरणायुधजय २ विजया पराजिता प्रतिहत सहस्रनेत्र ज्वल २ प्रज्वल २ विश्वरूप मधुसूदन महापुरुष नारसिंहनारायण पद्मनाभदामोदर हृषीकेश सर्वभूतवशंकरशंखचक्रगदाधरं सर्वनागप्रमर्दन सर्वविषनाशन सर्वसुराह्लादन सर्वदेव १२७अ)
SK
महेश्वर सर्वमंत्र प्रभेदेन सर्वभयविनाशन सर्वज्वरविनाशन सर्वदुःखप्रशमन सर्वरोगापकर्षण जनार्दन देवदेववरप्रदनमोस्तुते || अस्य वामदेव ऋषिर्विराट् छंदः अपराजित नृसिंहो देवता इष्टार्थे | क्ष्रां क्ष्रीं इत्यादि षडंगं | ध्यानादिकं षडक्षरवत् || अथापराजित नारायण नृसिंहः || ॐ नमो भगवते अनंताय सहस्रशीर्षाय क्षीरोदार्ण वशापिने शेषभोगपर्यंकाय गरुडवाहनाय वासुदेवाय नमः पीतवाससे वासुदेव प्रद्युम्नानि रुद्धहयशिरोवराह नृसिंहवामनत्रिविक्रममत्स्यकूर्म कृष्णकल्किरामवरप्रदजनार्दन देवदेव नमोस्तुते असुरदैत्यदानवयक्षराक्षसभूतप्रेतपिशाचापस्मारकूष्मांड सिद्धयोगिनीडाकिनीशाकिनी ब्रह्मराक्षसपूतनावेतालं ग्रहान् मरणग्रहान् प्रेतग्रहान् पिशाचग्रहान् वातग्रहान् ज्वरग्रहान् नक्षत्रग्रहान् एतानन्याṁश्च महाग्रहान् हन २ दह २ मथ २ पच २ मुंच २ मृह्न २ आवेशय २ विध्वंसय २ वित्रासय २ सर्वायुध चक्रेण गदयाशंखेनशार्ङ्गेण वज्रेण सकलेन भस्मी कुरु २ सहस्रवाहो सहस्र प्रहरणायुधाय *? १२७ब्)
SK
जय २ विजयायानंताया पराजिताया प्रतिसहस्रनेत्र ज्वल २ प्रज्वलित विश्वरूप मधुसूदन हृषीकेश महापुरुष वैकुंठ नारायण गोविंद पद्मनाभदामोदर सर्वभूतवशंकरशंखचक्रगदाधर सर्वभूत नमस्कृत सर्वभूतप्रभंजन सर्वा *****? देव महेश्वर सर्वग्रहनिवारणायुधमंत्र प्रभंजन सर्वयंत्रप्रभंजन सर्वव्याधिनाशन सर्वमुद्रा प्रभेदन सर्वज्वरविनाशन सर्वभूतायकर्षण सर्ववंधविमोक्षण सर्वदुःखविनाशन सर्वारिष्ट प्रशमनं सर्वशत्रुविनाशन सर्वविषविना *****? aṣṭākṣaravatsarvaṃ || athāṣṭākṣaro nṛsiṃhā ***? namo narasiṃhāya | asya paṃcākṣaravatsarvaṃ || atha ṣaḍakṣaraḥ | oṃ kṣrauṃ namaḥ svāhā | asya brahmāṛṣiranuṣṭup chaṃdaḥ | kṣrāṃ kṣrīṃmityādi ṣaḍaṃgaṃ | pūjā ca pūrvavat || atha lakṣmī nṛsiṃhaḥ | kṣrauṃ lakṣmī nṛsiṃhāya | ṛṣyādikaṃ pūrvavat || atha kopananṛsiṃhaḥ | oṃ kṣrauṃ kopananṛsiṃhāya svāhā | ṛṣyādikaṃ pūrvavat | śrīmatpadmāsanastheti śāṃtaṃ dhyānaṃ | sahasraprabhamaśaninibhaṃtrīkṣaṇaṃ vīkṣanaṃtaṃ vihnīvahnāya vidyuttativitatiṃ 128a) sadā mīṣaṣairbhūṣaṇaiścādivyairādīptadehaṃ niśitanakhala saṭvāhudaṃḍairanekaiḥ saṃbhinnaṃ bhinnadaityaiḥ sthita tanumatanuṃ nārasiṃhaṃ namāmi | anyat pūrvavat | atha tejo nṛsiṃhaḥ | oṃ kṣrauṃ namo bhagavate nṛsiṃhāya namastejastejase āvirāvirbhavavajranakhavajradaṃṣṭrakarmāśayāvuddhapararaṃdhrāya namogrāya oṃ svāhā | gāyatrī chaṃdaḥ | dhyānaṃ | dvibhujaṃ cakraśaṃkhadharaṃ sarvābharaṇabhūṣitaṃ | koṭisūrya samaprabhadīptaṃ daṃṣṭrājvālaṃ dhyāyet ||
SK
अथ लक्ष्मी नृसिंह मंत्रांतरं | ॐ ईं हं क्ष्रौं हं ईं ॐ | अस्य ब्रह्माऋषिर्गायत्री छंदः स्वस्थः पद्मासन इति ध्यानं || अथ पुच्छनृसिंहः | हरये विषत्राते क्ष्रौं नमो भगवते महापुच्छाय नरसिंहाय | अस्य ब्रह्माऋषिर्गायत्री छंदः | षडक्षरवद्ध्यानं || अथ स्वस्थ नरसिंहः | ॐ नमः श्रीनरसिंहाय प्रतिगुणकेशरसटायखड्गांतायुध करालदंष्ट्रा लोचनगद्र २ मर्द २ जाति २ जालितं २ देवं २ त्वं स्वस्वावेशं कुरु २ स्वाहा | अस्य ऋष्यादिकं ध्यानं च पूर्ववत् | अनेकग्रहभूतादीन् स्तंभयेति | लक्षं पुरश्चरणं | एकभक्तावष्टायन ब्रह्मचारीयती स्यात् | ततः सिद्धिः || अथ मंत्रांतरं | ॐ क्ष्रौं नमो भगवते नरसिंहाय | ऋष्यादिकं पूर्ववत् | १२८ब्) अथ विल नरसिंहः || ॐ नमो भगवते नरसिंहाय दैत्यदानववृजिताय प्रदीप्त सहस्रकोटि समस्ततेजसे वज्रनखदंष्ट्रायुधायं स्फटिकविकटकीर्णकेसरसटाय क्षुभित महार्णवांभोधिदुंदुभिनिर्घोषाय सर्वयंत्रांतर्हृदयाय एह्येहि भगवन्नारसिंह पुरुषचराचर ब्रह्मासत्येन स्फुरविजृंभदरदारय सर्वपातालान्भ्रगर्जसुरसिंहनादविद्रावयावेशय सर्वयंत्ररूपाणि | सर्वजातीश्च हन २ छ्ंदसंक्षिपदरदारय स्फोटय ज्वालामालासंधानावेशय सर्वतोऽनंतज्वाला वज्राशनिचक्रेण सर्वपातालानुत्सादय सर्वतोऽनंत ज्वाला वज्रशरजालेन सर्वपातालान्ग्रथय सर्वतोऽनंत ज्वालाशरपंजरेण सर्वपातालान् परिवारयसुरलोकनिवासिनीनां हृदयान्याकर्षयधुनशीघ्रं दह २ पच २ शोषय २ निकृत्तयतावद्यावद्विकलन्याय समापन्नाः पातालेभ्यः फट् यंत्ररूपेभ्यः फट् यंत्रजातिभ्यः फट् ससहायंमां रक्षभगवन्नारसिंहरूपविष्णो सर्वपापेभ्यः सर्वायुधेभ्यः सर्वभयोपद्रवेभ्यः ॐ ह्रीं क्ष्रीं फट् इंकास्तुते हुं फट् स्वाहा | अस्य सिद्धमंत्रत्वा दृष्यादिकं नास्ति | दशसहस्रं पुरश्चरणं | अयमेव परिधाछेदनः || अथ षडक्षरः | १२९अ)
SK
आं ह्रीं क्ष्रौं क्र्ॐ हुं फट् | अस्य मंत्रस्य वामदेव ऋषिः पंक्तिश्छंदः नृसिंहो देवता इष्टार्थे | क्ष्रौं वीजं ह्रीं शक्तिः | ॐ आं अंगुष्ठाभ्यां नमः १ ॐ ईं ह्रीं तर्जनीभ्यां नमः २ ॐ ऊं क्ष्रौं मध्यमाभ्यां नमः ३ ॐ ऊं ॠं क्रौं अनामिकाभ्यां नमः ४ ॐ ऐं हुं कनिष्ठाभ्यां नमः ५ ॐ अं फट् करतलकरपृष्ठाभ्यां नमः ६ एतान्यक्षराणि हृदयादिषु न्यसेत् | अव्यान्निर्व्याजेति ध्यानं | पूजायंत्रं च पूर्वोक्तमेव | किंतु षट्कोण मध्ये भुवनेश्वरी पूजनीयेति शेषः | ततो वैष्णवे पीठे देवमावाह्य पूजयेत् | अंगैः प्रथमावरणं | चक्रशंखपाशांकुशंकुलिशगदाकृपाणखेटानिदलेषु पूजयेत् | लोकपालाṁस्तदायुधानि च पूजयेत् | अक्षरलक्षं पुरश्चरणं | तत्सहस्रं घृतप्लुताभिरपामार्गसमिद्भिर्जुहुयात् || अथ सुदर्शन नृसिंहः || सहस्रारज्वालावर्तिन् क्ष्रौं हनहन हुं फट् स्वाहा | अस्य मंत्रस्यजयंत ऋषिर्जगती छंदः सुदर्शन नृसिंहो देवता इष्टार्थे | क्ष्रौं वीजं हुं शक्तिः | चक्रराजाय स्वाहा हृदयाय नमः १ ज्वाला चक्राय स्वाहा शिरः २ महच्चक्राय स्वाहा शिखा ३ गजेच्चक्राय स्वाहा कवचं ४ असुरांतक चक्राय स्वाहा अस्त्रं ५ | ध्यानं | चक्राक्षकर्णिकासीनं कालाग्निसदृशप्रभं | १२९ब्) दनुजं च विवृत्तास्यं चतुश्चक्रधरं हरिं || योगवहनिषिद्धांगं त्रिनेत्रं चोग्रविग्रहां | ध्यायेत् समस्तभूतघ्नमशोकद्रुममूलगं || एवं ध्यात्वा वैश्णवे पीठे देवमावाह्य पूजयेत् ||
SK
अथ सहस्राक्षरो नरसिंहमंत्रः || ॐ ह्रीं श्रीं क्लीं क्ष्रौं क्रोधमूर्ते नृसिंह महापुरुषप्रधानधर्माधर्मनिगडनिर्मोचन कालपुरुषकालाक्त विश्वेश्वरविषांतनिविष्ट चैतन्यचित्सदाभासककालाध्वतीत नित्योदितोयास्तमयोम्निभमहाकारुणिक हृदयाब्ज चतुर्दलनिविष्ट चैतैन्यैकात्मन् चतुरात्मन् द्वादशात्मन् चतुर्विंशात्मन् पंचविंशात्मन् शतसहस्रमूर्त एह्येहि भगवन् नृसिंहपुरुषक्रोधेश्वररमा सहस्रवंदित पादकल्यांताग्नि सहस्रकोद्यांभ महादेवविनायक दशशतज्ञानवलज्ञेयामलामले पिंगलेक्षणसटोल्लसद्दंष्ट्रायुध नखायुधदानवेंद्रांतकारणशोणितसंसिक्तविग्रहभूतायस्मारयातु- vyomacakreśvaraprabhāvāvacyarūpeṇottiṣṭha 2 avidyānicayaṃ daha 2 jñānaiśvaryaṃ prakāśaya 2 oṃ sarvajñā śeṣajṛṃbhājṛṃbhita oṃ satpuruṣasadanādhyanidhiṣṭa nama duḥsvapnabhayaṃ nigaḍabhayaṃkāṃtārabhayaṃ 130a)
SK
विषज्वरडाकिनी कृत्याध्वरवेदिनीभयमशनिभयं दुर्भिक्षभयं भारिभयंमारी च भयं छायास्कंदाय स्मारभयं चोरभयं जलश्वभ्राग्निभयं गजसिंहभुजंगभयं जन्मजरामरणादि सर्वभयं निर्मोचय २ प्रशमय २ ज्ञेयरूपधारिन् नृसिंहवृहत्सामपुरुष सर्वभयनिवारणाष्टाष्टकं चतुःषष्टिचेटिकामयविद्यावृत्तत्रयस्त्रिंशद्देवता कोटि नरपादपंकजन्वित सहस्रवदन सहस्रोदर सहस्रेक्षण सहस्रपादसहस्रभुजजिह्वासहस्र ललाट सहस्रायुधधरतमः प्रकाशकांतमधुमथ न सर्वमंत्रमंत्रराजेश्वरवैहाय सगतिप्रदपातालयंत्रमर्दनघोराट्टहासशितविषावास वासुदेवा क्रूरहयमुखपरमहंस विश्वेशविश्वविडंवननिविष्टप्रादुर्भावकारक हृषीकेश स्वच्छंद प्रदनिः शेषजीवग्रासकमहापिसितासृग्लं पटखेचरी सिद्धप्रदायक अजेयाव्ययाव्यक्त ब्रह्मांडोदर ब्रह्मांडकोटिस्रग्मुंडमालामंडितमुंडमत्स्यकूर्मवराह नृसिंह वामनत्रैलोक्या क्रमणपादशालिकरामत्रययुतवुद्ध विष्णुरूपधर एकतत्वत्रयप्रणवाधारतच्छिखानिविष्ट स्वाहा स्वधा वषट् वौषट् हुं प्राणाधार १३०ब्)
SK
आदिदेव प्राणापान निविष्ट पांचरात्रिकदितिजनिधनकर महाकाय असोधदैत्येंद्र दर्पदलन तेजो राशिन् ॐ क्लां तेजो वरपुरुष फट् ॐ संसंत्यपुरुष फट् ॐ धां अच्युत फट् हूं विश्वरूपिन् फट् ॐ ह्रौं हंस फट् ॐ ह्रौं परमहंस फट् ॐ ह्रः हिरण्यगर्भरूपधारिन् फट् ॐ ह्रौं अनौपम्यरूपधारिन् फट् ॐ वां वासुदेव फट् ॐ ह्रीं मूर्ते फट् ॐ क्लीं अमूर्ते फट् ॐ क्ष्रां विश्वमूर्ते फट् ह्रां विश्वात्मन् फट् ॐ सौं चतुरात्मन् फट् ॐ क्ष्रौं नृसिंहरूपधारिन् फट् ॐ क्लां क्लः अष्टांग विन्यास विन्यस्तमूर्तरूपधारिन् फट् ॐ ह्रौं निसर्गसिद्धैकरूपधारिन् फट् ॐ हुं हुं हुं ष्टं कं खं अमुकममुकं खाहि २ खादय २ क्लं क्लीं साध्यमानयानय महात्मन् समादर्शय २ क्ष्रां क्ष्रीं क्ष्रूं क्ष्रैं क्ष्रौं क्ष्रें क्ष्र जपितकल्मषोत्तारयोत्तारय द्रां द्रीं क्लीं क्लूं संनृसिंह ज्वालात्मने स्वाहा नृसिंह ज्वालात्मने स्वाहा नृसिंहज्वालात्मने स्वाहा | ॐ क्ष्रौं क्लीं श्रीं ह्रीं ॐ || अस्य नृसिंहसहस्राक्षर मंत्रस्य कपिलमहर्षि ऋषिरति जगती छंदः श्रीनृसिंहोदेवता क्ष्रौंवीजं स्वाहा शक्तिः श्वेतोवर्णः उदात्तः स्वरः परमात्मा नृसिंह प्रीतये विनियोगः | ॐ क्ष्रः सहस्र वाहवे सहस्रायुधधराय नृसिंहाय स्वाहा अस्त्राय फट् | १३१अ) ९८७३२५८५४७ ८००४४९६९९२ इति करशुद्धिं विधायांगुलीषु हृदयादिषु च | ॐ क्ष्रां सहस्राक्षरविजृंभित नृसिंहाय स्वाहा हृदयं १ ॐ क्ष्रीं महाप्रभाविकट नृसिंहाय स्वाहा शिरः २ ॐ क्ष्रूं तप्तहाटककेशांतेत्यादि महाध्वनिध्वस्तजगद्भयाय नृसिंहाय स्वाहा ऽसिखा ३ ॐ क्ष्रैं सुवर्णमदमत्त विज्वलित नृसिंहाय स्वाहा कवचं ४ ॐ क्ष्रौं सहस्राक्ष विश्वरूपिणे धारिणे स्वाहा नेत्रं ५ ॐ क्ष्रः सहस्र वाहवे सहस्रायुधाय नृसिंहाय स्वाहा अस्त्रं ६ इति विन्यस्य षडंगं व्यापकं प्राणायामं च कृत्वा हृदये नृसिंहं ध्यायेत् | उद्यद्भास्वदिति ध्यात्वा जपेत् | अन्ये च मंत्राः संतिते ग्रंथगौरवान्नलिखिताः ||
SK
इति श्रीमदाशादित्यत्रिपाठीसंगृहीते मंत्रकोषे नृसिंहमंत्रकथनं नाम षोडशपरिच्छेदः || पंचायतनमंत्रकथनानंतरं नानामंत्रा उच्यंते || तत्रादौ गायत्रीविधानं लिख्यते | प्रणवस्य ब्रह्माऋषिर्गायत्री छंदः परमात्मा देवता व्याहृतीनांतिसृणांसामस्तेन प्रजापतिरृषिः एकैकशोगौतमभरद्वाजविश्वामित्राऋषयः गायत्र्युष्णिगनुष्टुप्छंदांसि अग्निर्वायुरादित्यो देवताः || गायत्र्या विश्वामित्रऋषिर्दैवीगायत्रीछंदः १३१ब्) सवितादेवतावरेण्यमित्यत्ररमितिशक्तिः वमिति वीजं णकारः | साधारण शक्तिः | णकारो वलमिति श्रुतेः || अथ पदन्यासः | ॐ तत् पादात्मने नमः १ ॐ सवितुर्जान्वात्मने नमः २ ॐ वरेण्यं गुह्यात्मने नमः ३ ॐ भर्गोजठरात्मने ४ ॐ देवस्य हृदयात्मने ५ ॐ धीमहि वर्णात्मने ६ ॐ धियः पूर्वमुखायै ७ ॐ यो पश्चिममुखायै ८ ॐ नः मूर्धात्मने ९ ॐ प्रचोदयात् अस्त्राय फट् १० || पुनः | ॐ तत् मूर्धात्मने १ ॐ सवितुर्भ्रूमध्यात्मने २ ॐ वरेण्यं च क्षुरात्मने ३ ॐ भर्गोवक्त्रात्मने ४ ॐ देवस्य कर्णात्मने ५ ॐ धीमहि हृदयात्मने ६ ॐ धियः नाभ्यात्मने ७ ॐ यः गुह्यात्मने ८ ॐ नः जान्वात्मने ९ ॐ प्रचोदयात् पादात्मने १० || पुनः | ॐ तत् गुह्यात्मने १ ॐ सवितुः चक्षुरात्मने २ ॐ वरेण्यं वागात्मने ३ ॐ भर्गो कर्णात्मने ४ ॐ देवस्य हृदयात्मने ५ ॐ धीमहिजान्वात्मने ६ ॐ धियः अंद्र्यात्मने ७ ॐ यः ललाटात्मने ८ ॐ नः घ्राणात्मने ९ ॐ प्रचोदयात् मूर्ध्ने नमः १० || पुनः ॐ भूस्तत्सवितुर्वरेण्यं भूरग्नये पृथिव्यै ब्रह्मणेलोकत्रयात्मने नमः १ ॐ भुवः भर्गोदेवस्यधीमहि भुवोऽंतरिक्षाय वायवे विष्णवे वेदत्रयात्मने नमः २ १३२अ)
SK
ॐ स्वः धियोयोनः प्रचोदयात् स्वरादित्यायदिवे महेश्वराय प्राणत्रयात्मने नमः ३ पादहृदशिरः सुपादन्यासः || अथ सशक्तिकाक्षरन्यासः || ॐ तत्प्रह्लादिन्यै चंपकनिभायै नमः १ ॐ सप्रभायैश्वेतवर्णायै २ ॐ विनित्यायै पिंगलवर्णायै ३ ॐ तुः विश्वप्रभायै इंद्रनीलनिभायै ४ ॐ र्व विलासिन्यै वह्निदीप्तायै ५ ॐ रे प्रभावत्यै वह्निरूपायै ६ ॐ णि जयायै विद्युत्प्रभायै ७ ॐ यं शांतायै रक्तवर्णायै ८ ॐ भ कांतायै जलदवर्णायै ९ ॐ र्गो दुर्गायै रक्तवर्ण निभायै १० ॐ दे सरस्वत्यै मरकतनिभायै ११ ॐ व विश्वरूपायै शुक्लरूपायै १२ ॐ स्य विशालायै सुवर्णप्रभायै १३ ॐ धी ईशायै कुंदप्रभायै १४ ॐ मव्यापिन्यै पद्मरागनिभायै १५ ॐ हि विमलायै शंखनिभायै १६ ॐ धि तमोपहारिण्यै पांडुरप्रभायै १७ ॐ यो सूक्ष्मायै इंद्रगोपनिभायै १८ ॐ यो विश्वयोन्यै कुंकुमनिभायै १९ ॐ नः जयावहायै सूर्योदयनिभायै २० ॐ प्रलयायै नीलोत्पलनिभायै २१ ॐ चोपरायै गोरोचननिभायै २२ ॐ द शोभायै कुंदेंदुशंखधवलायै २३ ॐ यात् भद्ररूपिण्यै स्फटिकनिभायै नमः २४ || ॐ तदग्नये चंपकनिभाय पद्मासन रूढाय १३२ब्)
SK
ब्रह्मविष्णु शिवात्मने नमः १ ॐ स प्रजापतये श्यामवर्णाय पद्मासन रूढाय ब्रह्मविष्णुशिवात्मने नमः २ ॐ विसोमाय पिंगलनिभाय पद्मासनरूढायेत्यादि ३ ॐ तुः ईशानाय इंद्रनीलनिभाय प० ४ ॐ र्वः आदित्याय वह्निदीप्ताय प० ५ ॐ रे वृहस्पतये वह्निरूपाय ६ ॐ णि इंद्राय विद्युत्प्रभाय ७ ॐ यं भगदेवाय रक्तवर्णाय ८ ॐ भ अर्यम्ने जलदवर्णाय ९ ॐ र्गो सवित्रेरक्तगौरनिभाय १० ॐ देत्वष्ट्रेमरकतनिभाय ११ ॐ व पूष्णे शुक्लवर्णाय १२ ॐ स्य इंद्राग्निभ्यां सुवर्णप्रभायां पद्मासनरूढाभ्यां ब्रह्मविष्णु शिवात्मभ्यां नमः १३ ॐ धी वायवे कुंदप्रभाय १४ ॐ म वामदेवाय पद्मरागनिभाय १५ ॐ हि मित्रावरुणाभ्यां शंखनिभाभ्यां १६ ॐ धि भ्रातृव्य देवाय पांडुर प्रभाय १२ ॐ यो विश्वेदेवेभ्य इंद्रगोपनिभेभ्य पद्मासन रूढेभ्यो ब्रह्मविष्णु शिवात्मभ्यो नमः १८ ॐ यो विष्णवे कुंकुमनिभाय १९ ॐ नः वसुभ्यः सूर्योदयनिभेभ्यः प० २० ॐ प्रपितृभ्यो नीलोत्पल निभेभ्यः प० २१ ॐ चो कुवेराय गोरोचननिभाय २२ ॐ द अश्विभ्यां कुंदेंदु शंखनिभाभ्यां २३ ॐ यात् ब्रह्मणे स्फटिकनिभाय पद्मासनरूढाय ब्रह्मविष्णुशिवात्मने नमः २४ || १३३अ)
SK
ॐ तदग्नये पृथिव्यात्मने नमः १ ॐ स प्रजापतये अ वात्मने २ ॐ वि सोमाय वह्न्यात्मने ३ ॐ तुः ईशानाय वां द्यात्मने ४ ॐ र्व आदित्याय आकाशात्मने ५ ॐ रे वृहस्पतये गंधतन्मात्रात्मने ६ ॐ णि इंद्राय रसतन्मात्रात्मने ७ ॐ यं भगदेवाय रूपतन्मात्रात्मने ८ ॐ भ अर्यम्ने स्पर्शतन्मात्रात्मने ९ ॐ र्गो सवित्रेशष्टतन्मात्रात्मने १० ॐ देत्वष्ट्रे रूपस्थात्मने ११ ॐ व पूष्णे पाद्यात्मने १२ ॐ स्य इंद्राग्निभ्यां पादात्मभ्यां नमः १३ ॐ धी वायवे पाण्यात्मने १४ ॐ म वामदेवाय वागात्मने १५ ॐ हि मित्रावरुणाभ्यांघ्राणात्मभ्यां १६ ॐ धि भ्रातृव्यदेवाय जिह्वात्मने नमः १२ ॐ यो विश्वेभ्यो देवेभ्यश्चक्षुरात्मभ्यो नमः १८ ॐ य्ॐ विष्णवेत्वगात्मने १९ ॐ नः वसुभ्यः श्रोत्रात्मभ्यो नमः २० ॐ प्र पितृभ्योमन आत्मभ्यः २१ ॐ चो कुवेराय वुद्ध्यात्मने २२ ॐ द अश्विभ्यां अहंकारात्मभ्यां २३ ॐ याद्ब्रह्मणे अव्यक्तात्मने नमः २४ || ॐ तत् हृदयाय नमः १ ॐ स वितुः शिरसे स्वाहा २ ॐ वरेण्यं शिखायै वषट् ३ ॐ भर्गोः कवचाय हुं ४ ॐ देवस्य अस्त्राय फट् ५ ॐ धीमहि नेत्रत्रयाय १३३ब्)
SK
वौषट् ६ ॐ धियोयोनः पार्श्वाभ्यां नमः ७ ॐ प्रचोदयात् हस्ताभ्यां नमः ८ || पुनः | तत्सवितुर्ब्रह्मणे हृदयाय नमः | ॐ वरेण्यं विष्णवे शिरसे स्वाहा २ ॐ भर्गोदेवस्य रुद्राय शिखायै वषट् ३ ॐ धियः ईश्वराय कवचाय हुं ४ ॐ योनः सदाशिवात्मने नेत्रत्रयाय वौषट् ५ ॐ प्रचोदयात् अस्त्राय फट् ६ || ततोऽक्षरशक्तिन्यासः || ॐ तत्तध्यायै १ ॐ स समग्रायै २ ॐ वि विमलायै ३ॐ तु तुष्ट्यै ४ ॐ र्व वंद्यायै ५ ॐ रे रेवत्यै ६ ॐ णि निरवद्यायै ७ ॐ यं यज्ञविद्यायै ८ ॐ भ भर्गायै ९ ॐ र्गो गोदायै १० ॐ दे देविन्यै ११ ॐ व वरदायै १२ ॐ स्प स्पंदनायै १३ ॐ धी धीरायै १४ ॐ म मधुरायै १५ ॐ हि हिमवत्सुतायै १६ ॐ धि धिस्न्यै १७ ॐ यो योगिन्यै १८ ॐ यो योगदायै १९ ॐ नः नर्मदायै २० ॐ प्र प्रमथप्रियायै २१ ॐ चो चोरिण्यै २२ ॐ द दयितायै २३ यात् याज्ञ्यै नमः २४ || स्थानानि | पादसंधि चतुःकांडनाभिहृद्गलोदोर्द्वयोः | संध्यास्यनासागंडाक्षिकर्णभ्रूमस्तकेष्वपि | वारुणेंदवयाम्ये प्रगूर्ध्वगेषु मुखेषु च | क्रमेण वर्णान् विन्यस्य गायत्र्याविंत्रवित्तमः | इति न्यासानंतरं ध्यानं संध्यात्रयेकार्यं | पूर्वाह्ने ब्रह्मदैवत्यां रक्तवर्णां रक्तवस्त्रां सर्वाभरणभूषितां चतुर्भुजां कमंडल्वक्षमालावरदाभयधारिणीं चतुर्मुखां हंसारूढां गायत्रीं ध्यायेत् | १३४अ)
SK
अपराह्ने विष्णुदैवत्यां कृष्णवर्णां पीतांवरां सर्वाभरणभूषितां चतुर्भुजां शंखचक्रगदाभयधारिणीं गरुडारूढां सावित्रीं ध्यायेत् | मध्याह्ने रुद्रदैवत्यां श्वेतवर्णां श्वेतवस्त्रां चतुर्भुजां सर्वाभरणभूषितां शूलकपालवरदाभयकरां वृषारूढां सरस्वतीं ध्यायेत् | अन्यदात्वेवं मुक्ताविन्दुमहेमनीलवलच्छायै मुखैस्तीक्ष्ण सावित्रीं वरदाभ्यांकुशकरांपाशं कपालं गुणं शंखंचक्रमथारविंदयुगलं हस्तैर्वहंतीं भजे | एवं ध्यात्वा तीव्रादि शक्तिसहिते सौरेपीठे त्रिकोण मध्ये देवीमावाह्यहा मुद्राः प्रदर्शयेत् || तद्यथा | संमुखं १ संपुटं २ विवृतं ३ एकमुखं ४ द्विमुखं ५ त्रिमुखं ६ चतुर्मुखं ७ पंचमुखं ८ षण्मुखं ९ द्विलिंगिनं १० शंकटं ११ प्रागग्र्यं १२ यमास्यं १३ ग्रथितं १४ विमुखं १५ अधोमुखं १६ प्रलंवमुष्टिं १७ मीनाक्रांतं १८ कूर्माक्रांतं १९ वराहाक्रांतं २० सिंहाक्रांतं २१ महाक्रांतं २२ प्रलंवं २३ मुद्गरं २४ एतामुद्राश्चतुर्विंशागायत्रीषु प्रसाधिकाः | वृथा मंत्राजपाश्चैव स्नानं भोजनमेव च | तथा वै तीर्थयात्रा वै मुद्राहीने वृथा हि सा || यज्ञश्च विफलस्तेषां होमोदेवार्चनं तथा | तस्मान्मुद्राः सदा ज्ञेया विद्वद्भिर्यत्नमास्थितैः || एवं मुद्राः प्रदर्श्य पाद्यादिभिरुपचारैर्गायत्रीं पूजयेत् | गायत्र्यै १ सावित्र्यै २ सरस्वत्यै ३ नम इति त्रिकोणेषु | १३४ब्)
SK
ब्रह्मणे १ विष्णवे २ महेश्वराय ३ इति तद्वहिः || उखायै १ प्रज्ञायै २ प्रभायै ३ संध्यायै ४ नमः इति चतुर्दिक्षु | तत्ॐगावरणं | प्रह्लादिन्यै १ प्रभायै २ नित्यायै ३ विश्वंभरायै ४ विलासिन्यै ५ प्रभावत्यै ६ जयायै ७ शांतायै ८ दुर्गायै ९ सरस्वत्यै १० दुर्गारूपायै ११ विशालायै १२ ईशानायै १३ विमलायै १४ तमोपहारिण्यै १५ सूक्ष्मायै १६ विश्वयोन्यै १७ जयावहायै १८ पद्मायै १९ परायै २० शोभनायै २१ भद्ररूपायै २२ नमः इति आवरणत्रयं कमलपत्राष्टकेषु पूजयेत् | ततो ब्राह्म्यादयः ततो नवग्रहाः | आदित्य पर्षद्भ्यो नमः इति | ततो लोकपालाः पूज्याः | अष्टोत्तरशतमष्टाविंशतिं वा जपित्वा उत्तरे शिखरे इति विसर्जयेत् | चतुर्विंशति लक्षं पुरश्चरणं | चतुर्विंशति सहस्रं शुद्धैस्तिलैर्होमः | पायसंघृतं तिलादूर्वाक्षीरद्रुमसमिधः पृथक् पृथक् सहस्रं जुहुयात् | ततो गायत्री सिद्धा भवति | तत्वसंख्या सहस्राणि मंत्रविज्जुहुयात्तिलैः | सर्वपाप विनिर्मुक्तो दीर्घमायुः स विंदति || आयुषेसाज्यहविषा केवलेनाथ सर्पिषा | दूर्वात्रिकैस्तिलैर्मंत्री जुहुयात्त्रिसहस्रकं || अरुणाब्जैस्त्रिमध्वक्तैर्जुहुयादयुतंनरः | महालक्ष्मीर्भवेत्तस्य षण्मासान्नात्रसंशयः || त्रिमधुघृतशर्करामधुनीत्यर्थः | ब्रह्मश्रिये प्रजुहुयात् प्रसूनैर्ब्रह्मवृक्षजैः || १३५अ)
SK
अथ साधनप्रकारः || कृत्वादिनादौ शुचिशुद्धदेहोलक्षाणि जप्त्वा त्रिगुणी कृतानि | सतारकाव्याहृतिकोत्तमांगां स दैवतां छंदऋषि प्रयुक्तां | स्नायाच्च सम्यक् *? सवनत्रिकेषुमितासनः संयतमानसाक्षः || हविष्यभुग्द्योमपरश्च वह्नौ तदोत्तरं कर्मसमारभेत् | पयो व्रतो द्वादशवासरेषु दिने दिने गव्यघृताहुतीनां | हुत्वा सहस्रं खदिरेंधनाग्नौ सहस्रं निष्कं स लभेत हेम्नां | कृताभिषेकः सवनत्रिकेषु जपन् त्रिसंध्यं तु सहस्रसंख्यं | मासेन मुच्येत महै न सोपि षड्भिस्तु मासैरपमृत्यु चक्रात् | जलंजलांतर्गत सूर्यविंवेशतं सहस्रं कनकस्य लाभो यदि चेंदुविषे | पत्राणि लक्षं यदि मंजुलस्य मध्याज्यलिप्तानि हुतानि वह्नौ | मेघस्तदावर्षति सर्वभूमौनिवारयेदंभसिभस्महोमः || समानवत्सा कपिला घृतेन जप्त्वा सहस्रं धवलोग्र गंधं | उपोष्य चंद्रग्रहणेनिपीयमेधामवाप्नोति जडोपि सद्यः | ततः स पश्चात् स ततोपयोगाज्जीवेत् सहस्रं परिवत्सराणां | नादेन काव्योधिषणश्चवुद्ध्या दृष्ट्यागरुत्मानिव सर्ववेदी | पलाशहोमाल्लभते निधानं घृतेन तेजोवलपुष्टिकामं | दूर्वाभिरायुः पयसात्तथागां ग्रामं तिलैर्भासुर तंडुलैश्च | १३५ब्)
SK
वश्यो मधुक्षीरघृताहुतीनां भवेदवश्यं नृपतिः सभृत्यः | अकारणाद्वायदिकारणाद्वाकुर्वंति पीडां यदि शत्रुसंघाः | तेषामिदं कर्मनरासुराणां विद्वेषणोच्चाटनमारणानि | निशांतरेकाककुलायकाष्ठमादाय मातंगगृहीत भग्नां | चांडालहस्तोद्धृतदीपितेऽग्नौ चतुःपथे प्रस्फुरित प्रकोपः | नैवं दलं वा समिधश्चनैंवीः सराजिकातैलविमिश्रितांगीः | विलोमपादेन स हुंकृतेन विदर्भ्य शत्रोरभिधानवर्णान् | अष्टौ सहस्राणि जुहोति यस्य स दुर्भगः सर्वजनस्यनेष्टः | अवारपारात्सरितो मृदश्च कृत्वा तु पुंसः प्रतिमामरातेः | नामाक्षरैरंकित हृत्प्रदेशांसराजिकातैलविलेपितांगीं | व्यस्तांघ्रिणा तैलविमिश्रितेन प्रत्यक्ष वच्छत्रुतनुं प्रविश्य | तीक्ष्णानलैर्मादन कंटकैश्च चतुःपथे वै निखनेद दृष्टः | पादेन विद्धः स भवेत्तुखंजोनाभि प्रवेशे यदि कुक्षिशूलं | गलग्रहश्चापिगलप्रदेशेकर्णांतरेदारुणकर्णशूलं | ललाटदेशेपि हि मुंडशूलं नेत्रेक्षि रोगं हृदये विनाशः || गायत्र्या अनेकेप्रयोगाः संतिते ग्रंथगौरवान्नलिखिताः || १३६अ)
SK
अथ वदिकाः केचन उच्यंते || अथ जातवेदो दुर्गामंत्रः || जातवेदसेसु न वाम सोममराती यतो निदहानि वेदः | सनः पर्षदति दुर्गाणि विश्वानावेव सिंधुंदुरितान्यग्निः || अस्य मंत्रस्य मरीचिपुत्रकश्यपऋषिस्त्रिष्टुप् छंदः जातरूपिणी दुर्गादेवतादुंवीजं अग्निःशक्तिःरंकीलकं शत्रुनिग्रहादौ विनियोगः | जातवेदसेसुन वामहृदयाय नमः १ सोममरातीयतः शिरसे स्वाहा २ निदहानि वेदशिखायै वषट् ३ सनः पर्षदति कवचाय हुं ४ दुर्गाणि विश्वानावैव नेत्रत्रयाय वौषट् ५ सिंधुदुरितान्यग्निः अस्त्राय फट् ६ | अंघ्रिगुल्फ जंघाजानूरु कटिगुह्यनाभि हृदयस्त न पार्श्वद्वय पृष्ठद्वय स्कंधमध्य वाहुमूलोपधांहुकौर्परप्रकोष्ठ मणिवंध तलमुखनासाक्षिकर्णमस्तकमस्तिष्.कमूर्धसुदक्ष वामक्रमेणाक्षरन्यासः | शिरो ललाट दृक्कर्णयुगोष्ठरसनाकंठवाहु हृत्कुक्षिकटिगुह्योरुजानुजंघाचरणेषु पदन्यासः | अथ ध्यानं | विद्युद्दाम समप्रभां मृगपतिस्कंधस्थितां भीषणं | कन्याभिः करवाल खेटविलसद्धस्ताभिरासेवितां | हस्तैश्चक्र गदासिखेद विशिखश्चापं वरं तर्जनीं विभ्राणामरुणात्मिकां शशिधरां दुर्गां त्रिनेत्रां स्मरे | दक्षवामो परिकरयोश्चक्रगदे | १३६ब्)
SK
तदधः असिखेटौ तदधो वाणचापौ | तदधो वरतर्जन्यौ | इति ध्यात्वा दौर्गे पीठे अष्टदलकमलकर्णिकायां जयादि सहितां जया विजया भद्रा भद्रकाली सुमुखी व्याघ्रमुखी एताजयाद्यः | तत्र षट्कोणे देवी मावाह्य पूजयेत् | अंगैः प्रथमावरणं | अग्नये जातवेदसे नमः १ अग्नये सप्तजिह्वाय २ अग्नये हव्यवाहनाय ३ अग्नये अश्वोदराय ४ अग्नये कौमार तेजसे ५ अग्नये विश्वमुखाय ६ अग्नये देवमुखाय ७ नम इति दलेषु पूजयेत् | पृथिव्यात्मने नमः १ सलिलात्मने २ अग्न्यात्मने ३ वाश्वात्मने ४ नमः इति दिक्षु | निवृत्यै १ प्रतिष्टायै २ विद्यायै ३ शांत्यै ४ नमः इति कोणेषु पूजयेत् | अन्याः शक्तयो गौरवान्नोक्ताः | एवं पूजयित्वा विसर्जयेत् | चतुश्चत्वारिंशत् सहस्रं पूरश्चरणं | क्षीरवृक्ष तिलराजीहविमिर्हशांशो होमः | प्रयोगा अस्त्र प्रकरणे लेख्याः || त्र्यंवक मंत्रस्य पूर्व एव लिखितः || अथ शताक्षीमंत्रः || ॐ भूर्भुवः स्वः गायत्री जातवेदः त्र्यंवकं भूर्भुवः स्वर्ॐ | इति शताक्षरी | सूर्यवह्नि सोमात्मिका ऋष्यादयः पूर्वोक्ता एव | तत्सवितुर्वरेण्यं भर्गोदेवस्यधीमहि हृदयं १ धियोयोनः प्रचोदयात् शिरः २ जातवेदसेसु न वामसोममराती १३७अ)
SK
यतो निदहाति वेदशिखा ३ सनः पर्षदति दुर्गाणि विश्वानावैवेदसिंधुंदुरिताभ्यग्निः कवचं ४ त्र्यंवकं यजामहे सुगंधिं पुष्टिवर्धनं नेत्रत्रयाय वौषट् ५ उर्वारुवसिव वंधनान्मृत्योर्मुक्षीयमामृतात् भूर्भुवः स्वर्ॐ अस्त्राय फट् ६ ध्यानं पूर्वोक्तं | अथवा गायत्री वर्णपरिपूर्ण तनुश्चभानुस्त्रिष्टुप् विशिष्टमहिमामहितः कृशानुः | आनष्टुभाक्षर समग्र रुचिः शशांकोदद्युः समुद्यतममीपरिवांछितं वः || अथ वा स्मर्तव्याखिल लोकवार्तसततं यजुंगमं स्थावरं व्याप्तं येन च यत्प्रपंचरहितं मुक्तेश्च यत्सिद्धिदं | यद्वास्यात् प्रणव त्रिभेदगहनं श्रुत्वा च यद्गीयते तद्वःकांछित सिद्धयेऽस्तु परमं सज्योति रुच्छं महः || इति ध्यात्वा शौरेपीठे देवमावाह्य पूजयेत् | अंगैः प्रथमावरणम् | गायत्री युक्ताभिः प्रह्लादिताभिः अष्टकं त्रयसंख्याभिर्द्वितीय तृतीयचतुर्थिका आवृतयः | जातवेदोक्ताभिर्जागवादिभिः पंचमी | त्र्यंवक मंत्रोक्ताभिरष्टशोष्ठशश्चतुष्टयं | लोकपालैर्दशमी एवं पूजयतो जपतश्च वांछित सिद्धिर्भवति | विशेषाज्जपतश्च मुक्तिर्भवति लक्षं पुरश्चरणं तिलैर्दशांशोहोमः || उक्तं च | प्रणव व्याहृत्याद्याव्याहृतितारांतिकामंत्रिवरैः | १३७ब्)
SK
जप्या शताक्षरी स्यादिह परलोकप्रसिद्धये दिनशः | मनुमथ शांत्यै तत्पदाद्यं प्रजप्याद्गणरहितायाप्यायुषेनुभाद्यं | विमलमतिरनियंसनेत्रिष्टुभाद्यंदिनमनुदिनचक्रे वत्सरं संयतात्मा || शताक्षरमनोरयंकमे उदाहृतः गंथहद्भजेदमुमतंद्रितोदिनश एव मंत्रीरहः | अभीष्टफलसिद्धये च यशसे सुदीर्घायुषेप्य शेषजनरंजनाय चिरमिंदिरावाप्तये || अथ यजुर्वेददुर्गा || तामग्निवर्णां तपसा ज्वलंतीं वै रोचनीं कर्मफलेषु पुष्टां | दुर्गादेवीं शरणमहं प्रपद्येमुत्तरसितरसे नमः || अस्य ऋष्यादिकं नास्ति | ॐ तामग्नि वर्णां नमो हृदयं १ ॐ तपसाज्वलंतीं नमः शिरः २ ॐ वै रोचनीं कर्मफलेषु पुष्टां नमः शिखा ३ ॐ दुर्गा देवीं नमः कवचं ४ ॐ शरणमहं प्रपद्ये नमः नेत्रत्रयं ५ ॐ सुतसितरसे नमः अस्त्रं ६ ध्यानं | उद्यद्दिनकर सहस्रभासुरां शंखखेटकचापवाणकलापमुशलमुंडस्रक् दध्रीं त्रिनेत्रां ध्यात्वा दौर्गेपीठे देवीमावाह्य पूजयेत् | अंगैः प्रथमावरणं | प्रह्लादिन्यादिभिश्च | पुरश्चरणादिकं पूर्वोक्तं || ऋग्वेदोक्तः सौरः | उद्यन्नुद्यन्मित्रमह आरोहन्नुत्तरांदिवं | हृद्रोगं ममसूर्यहरिमाणं च नाशय || अस्य प्रस्कण्व ऋषिर्गायत्री छंदः सूर्योदेवता इष्टार्थे | १३८अ)
SK
पूजादिकं पूर्वं घृणिवत् || तैत्तिरीयके | योसावादित्येत्यादि पंचभानवः प्रसिद्धाः | अस्य पूजादिकं पूर्ववत् कुर्यात् || अथ ऋग्वेदस्यागमोक्तो वारुण मंत्रः | ध्रुवासित्वा सु क्षितिषुक्षिपंतोव्य स्मत्याशं वरुणोनुमोचत | अवोचन् वाणा अदिते रूपस्थाज्यूयं पातः स्वस्तिभिः स दानः | अस्या वारुण्या वशिष्ठ ऋषिरनुष्टुप् छंदः वरुणो देवता महैश्वर्या वाप्त्यर्थे विनियोगः || ध्रुवासित्वामुक्षितिषु हृदयं १ क्षिपंतोव्य स्मत्पाशं शिरः २ वरुणोनुमोचत शिखा ३ अवोचन्वाना अदितेः कवचं ४ उपस्थाज्यूयं पातः नेत्राभ्यां ५ स्वस्तिभिः स दानः अस्त्राय फट् ६ || अथाक्षरन्यासः | पादद्वयसंध्यग्रेषुदश | पायुगुह्याधारकुक्षिपृष्ठहृत्सुसप्त | स्तनयोर्द्वयं | एकं कर्णे | दोः संध्यग्रेषु दश | वक्षस्येकं | गंडघ्राणलोचनश्रवणयुगलेष्वष्टौ | भ्रूमध्ये एकं | मस्तक एकं | सर्वांगेष्वेकमिति | ध्यानं | अक्षांशुकाभरणमाल्यविलेपनाड्यः पाशांकुशा भयवरोद्यतदोः सरोजः | स्वच्छारविंदवसतिः प्रसन्नोभूयाद्विभूति विधयेवरुणश्चिरं वः || इति ध्यात्वा धर्मादियुक्ते पीठे वरुणमावाह्य पूजयेत् | अंगैः प्रथमावरणं | वासुकये नमः १ तक्षकाय २ कर्कोटकाय ३ धनंजयाय ४ १३८ब्) पद्माय ५ महापद्माय ६ शंखाय ७ कुलिकाय ८ नमः इति पूर्वादि पत्रेषु पूजयेत् | इंद्रादीṁश्च | इति संपूज्य यथाशक्ति जपित्वा विसर्जयेत् | लक्षं पुरश्चरणं | पायसेनायुतं होमः || ऋणमुक्त्यै जपेन्मंत्रं प्रत्यहं साष्टकं शतं | जपेनानेन लभते महतीं श्रियमव्ययां || सितेक्षु शकलैर्मंत्री जुहुयात् घृतसंप्लुतैः | चतुर्दिनं दशशतं ऋणमुक्तौ महाप्रियः || समिद्भिर्वेतसोच्छाभिः क्षीरोक्ताभिर्दिनत्रयं | जुहुयाद्वृष्टि संसिद्ध्यै मंत्रविद्धि जितेंद्रियः || अनेन विधिनामंत्री शतं शतभिषागतः | चतुःशतघृतयुतं पायसं जुहुयाद्वशी || ऋणनाशाय संपत्यै वश्या रोग्याय सिद्धये | मंत्री प्रत्यङ्मुखो भूत्वा तर्पयेत् द्विगुणैर्जलैः |
SK
सर्वोपद्रवनाशाय समस्ताभ्युदये नृणां || अथ पंचब्रह्मविधानं || ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्माशिवोमे अस्तु सदाशिव्ॐ || १ || तत्पुरुषाय विद्महे महादेवाय धीमहि | तन्नो रुद्रः प्रचोदयात् || २ || अधोरेभ्योथ घोरेभ्यो घोरघोरतरेभ्यः सर्वतः सर्वेभ्यो नमस्तेस्तु रुद्ररूपेभ्यः || ३ || वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः कलविकरणाय नमो वलप्रमथनाय नमः सर्वभूत दमनाय नमो मनोन्मनाय नमः || ४ || सद्योजातं प्रपद्यामि सद्योजाताय वै नमः | भवेभवेनाति भवेभजस्वमांभवोद्भवाय नमः || ५ || इति पंचमंत्राः | ईशान मंत्रस्य ईशान ऋषिरनुष्टुप् छंदः ईशानो देवता || १ || १३९अ)
SK
तत्पुरुषस्य तत्पुरुष ऋषिर्गायत्री छंदः भगो देवता सर्वेषां हलो वीजानि स्वराः शक्तयः सकल वा पक्षयपूर्वक चतुर्विध पुरुषार्थे विनियोगः || प्रासादमंत्रेण करशुद्धिं विधाय | ऐं ह्रीं श्रीं फ्रें ह्यौं सर्वज्ञात हृदयाय नमः १ ऐं ह्रीं श्रीं स्फ्रें ह्यौं अमृत तेजोगालिनि तृप्ताय ब्रह्मशिरसे स्वाहा २ ऐं ह्रीं श्रीं ष्फ्रें ह्यौं ज्वलित शिखिशिखे अनादि वोधाय शिखायै वषट् ३ ऐं ह्रीं श्रीं ष्फ्रें ह्यौं वज्रिणे वज्रधराय कवचाय हुं ४ ऐं ह्रीं श्रीं ष्फ्रें ह्यौं सौं र्ॐ हूं अलुप्तशक्तये नेत्रत्रयाय वौषट् ५ ऐं ह्रीं श्रीं ष्फ्रें ह्यौं श्रीपशु हुं फडंत शक्तये अस्त्राय फट् ६ || ततो ईशानादयो मंत्राः पंचधान्यस्तव्याः | तद्यथा | ईशानं मंत्रः पंचधा विभज्य कलाभिः सहप्राग्याम्य वारुणोत्तरोर्द्ध वक्त्रेषु क्रमेण न्यसेत् | ईशानः सर्वविद्यानां शशिन्यै नमः १ ईश्वरः सर्वभूतानां अंगदायै नमः २ ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा इष्टायै नमः ३ शिवो मे अस्तु मरीच्यै नमः ४ सदाशिव्ॐ ज्वालिन्यै नमः ५ इति विन्यस्य तत्पुरुषमंत्रं पंचधा विभज्य प्राग्दक्षिणोर्ध वक्रेषु क्रमेण न्यसेत् | ॐ तत्पुरुषाय विद्महे निवृत्यै नमः १ ॐ महादेवाय धीमहि प्रतिष्ठायै नमः २ तन्नो रुद्रः विद्यायै नमः ३ प्रचोदयात् शांत्यै नमः ४ || ततोऽघोरमष्टधा विभज्य हृदय ग्रीवां सद्वयनाभ्युदरवक्षः सु च संन्यसेत् | ॐ अघोरेभ्यस्तंद्र्यै नमः १ अथ घोरेभ्यो मोहिन्यै २ घोरक्षमायै ३ घोरतरेभ्यो मृत्युरूपिण्यै ४ सर्वतः १३९ब्)
SK
सर्वमायायै ५ सर्वेभ्यो निद्रायै ६ नमस्ते अस्तु भयायै ७ रुद्ररूपेभ्यो जयायै नमः | ततो वामदेव मंत्रं त्रयोदशधा विभज्य आघोरवीजकोशोरुद्वयजानुद्वय जंघाद्वंयस्फिच्छूटी पार्श्वद्वैयेषु न्यसेत् | ॐ वामदेवायै नमः १ ॐ करालिकायै नमः २ ज्येष्ठायै ३ रत्नायै ४ रुद्राय ५ रत्यै ६ कालाय ७ कालिन्यै ८ कलकांतायै ९ करणाय १० संयमिन्यै ११ वलाय १२ ईशानायै १३ वलवृद्ध्यै १४ विकरणाय १५ स्थिरायै १६ वलप्रमथनाय १७ रात्र्यै १८ सर्वभूतदमनाय १९ ग्रामिन्यै २० नमो नमो मोहिन्यै २१ उन्मनाय २२ जरायै नमः २३ इति विन्यस्य | पुनः सद्योजातमष्टधा विभज्य | पादहस्त तलघ्राण मस्तक वाहुषु न्यसेत् | सद्योजातं प्रपद्यामि नमः सिद्ध्यै १ भवे नमो द्युतये २ अभये नमो लक्ष्म्यै ३ अनादि भवे नमो मेधायै ४ भजस्वमां नमः कांत्यै ५ भव नमः स्वधायै ६ उद्भवाय नमः | स्थिरायै १ एवं विन्यासं कुर्वतो महादेव पूजा वैशिष्ट्यं | यथा | विन्यासः प्रतिमा कृतौ तु नितरांसानिध्य कृत्स्यादयं देहे चापि शरीरिणां निगदिताः सामर्थ्यकारीति च | आस्ते यत्र तथा मुनै च दिनशौविन्यस्तदेहः पुमान् क्षेत्रं शैवममुंचयोजनमितं शैवागमज्ञा विदुः | एवं विन्यस्य शैवे पीठे देवमावाह्य अभ्यर्च्य पंचप्रर्णमंत्रैः क्रमेण मध्य प्राग्याम्य पश्चिमदिक्षु ईशान तत्पुरुषाघोर वामदेव सद्योजातान् विदिक्षु कलाṁश्च पूजयेत् | अंगौर्द्वितीयावृत्तिः | अनंतसूक्ष्म्यादिभिस्तृतीया || १४०अ) उमाद्यैश्चतुर्थी | लोकपालैः पंचमी | तदायुधैः षष्टी | शेषं पूर्ववत् || अथ संवादसूक्तं || संसमाद्युवमे वृषेन्नलग्नेति विश्वान्यर्य आ | इडस्यदेसमिध्यसेसनावसून्याभर || १ || संगच्छध्वं संवदध्वं संवोमनांसिजायतां | देवाभागं यथा पूर्वे संजानाना उपासते || २ || समानो मंत्रः समितिः समानी समानं मनः सहचित्तमेषां | समानमंत्रमभिमंत्रयावः समाने नवो हविषाजुहोमि || ३ ||
SK
समानीरव आकूतिः समानी हृदयानि वः | समानमस्तु वो मनो यथा वः सु सहासति || ४ || इति संवाद सूक्तं || अस्य संवनन ऋषिरनुष्टुप् छंदः संवादाग्निर्देवता इष्टार्थे विनियोगः | ब्रह्मणे हृदयं १ विष्णवे शिरः २ रुद्राय शिखा ३ ईश्वराय कवचं ४ सदाशिवाय नेत्रं ५ सर्वात्मने अस्त्रं ६ | ध्यानं | धवलमलिनराजच्चंद्र मध्ये निषणं करविलसितचापं सांकुशं चाभयं च | संवरममलविंदुक्षीरगौरं त्रिनेत्रं प्रणमतवरचक्रं मंजुसंवादयंतं || अग्निपीठे देवमावाह्य पूजयेत् | अंगैः प्रथमावरणं | अग्न्यष्टमूर्तिभिर्द्वितीयं | लोकपालैस्तृतीयं | एवं जपपूजावतः शीघ्रं धनप्राप्तिर्भवति || २ || अथ समृद्ध्याग्नि मंत्रः | ॐ भूर्भुवः स्वः स्वाहा | अस्य भृगुऋषिर्गायत्री छंदः अग्निर्देवता वहुतरधनप्राप्त्यर्थे विनियोगः सहस्रार्चिषे हृदयं १ स्वस्ति पूर्णाय शिरः २ उत्तिष्ठपुरुषाय शिखा ३ धूम व्यापिने कवचं ४ सप्तजिह्वायनेत्रं ५ धनुर्धरश्च अस्त्रं ६ | १४०ब्)
SK
ॐ भूर्भुवः स्वः || भूः वः स्वः इति वर्णैव षडंगं | तत शक्तिपर्यंतं सौरपीठवत्पीठं तत्र पीतायै १ श्वेतायै २ अरुणायै ३ कृष्णायै ४ धूम्रायै ५ तीव्रायै ६ स्फुलिंगिन्यै ७ रुचिरायै ८ ज्वालिन्यै नमः ९ सर्वशक्ति कमलासनाय नमः १० ध्यानं | शक्तिस्वस्तिक पाशांकुश वरदाभयान् दधत् त्रिमुखः | मुकुलादि विविधभूषोऽवताच्चिरं पावकः प्रसन्नोवः | उपरितन दक्षिण वामहस्ताभ्यां शक्ति स्वस्तिकौ | ततः पाशांकुशौ | तदधो वरदाभये इति ध्यात्वा देवं पूजयेत् | अंगैः प्रथमावरणं | द्वितीयं जातवेसेन्न शक्तिभिः | लोकपालैश्च | षल्लक्षं पुरश्चरणं | घृताक्तेन पायसेन दशांशोहोमः || अथापरो मंत्रः पंचविंशाक्षरः | ॐ भूर्भुवः स्वरग्निर्जातवेद इहावह सर्वकर्माणि साधय स्वाहा | ऋष्यादिकं ध्यानं च पूर्ववत् || अथवा शक्ति स्वस्तिक दर्भाक्षवलयस्रुगभयवरंदानि **?मिता कल्पोवोवसुरवतात् कनकमालिका कलितः | दक्षिणाधः करमारभ्य शक्त्यादि ध्येयं | ॐ भूर्भुवः स्वः हृदयं ॐ अग्निर्जातवेदः शिरः २ इहावहशिखा ३ सर्वकर्माणि कवचं ४ सा**? नेत्रं ५ स्वाहा अस्त्रं ६ || अथ तुरगाणि मंत्रः | उत्तिष्ठ पुरुष हरिपिंगललोहिताक्षदेहिमे दापय स्वाहा | १४१अ)
SK
ऋष्यादिकं पूर्ववत् | उत्तिष्ठ पुरुष हृदयं १ हरिपिंगलशिरः २ लोहिताक्ष शिखा ३ देहिमे कवचं ४ दापयनेत्रं ५ स्वाहा अस्त्रं ६ | ॐ वीजं स्वाहा शक्तिः | ध्यानं | हेमाश्वच्छ सुरद्रुमोदरभुवो निर्यांतमश्वा कृत्तिं वर्षंतं धनधान्यरत्ननिचयान् रंध्रैः स्वकैः संततं | ज्वाला पल्लवित्तस्वरोमविवरं भक्तार्तिसंभेदिनं वंदे धर्मसुखार्थ मोक्षफलदं दिव्याकृतिं पावकं | अंगैर्जात वेदादिभिर्लोकपालैश्चावरणं | लक्षं पुरश्चरणं | घृतेन पायसेन दशांशो होमः | एतेऽग्नि मंत्राधनार्थिभिर्जप्याः || अथ सोममंत्रः | स्ॐ सोमाय नमः | भृगुः पंक्तिरिति वा | अस्यात्रिऋषिर्गायत्री छंदः सोमोदेवता स्ॐवीजं यं शक्तिः लक्ष्मी प्राप्तये विनियोगः | सां सीं सूं सैं सौं सः षडंगं | ध्यानं | अमलकमलसंस्थः सुप्रसन्नाननें दुर्वरदकुमुदहस्तः शुभ्रहारादिभूषः | स्फटिकरजतवर्णो वांछित प्राप्तयेवो भवतु भवदभीष्टं ज्योतितांगः शशांकः || एवं ध्यात्वा धर्मादि पीठं सोममंडलांतं संपूज्य तत्र सोममावाह्य पूजयेत् | केसरस्थाः | तारापतये १ रोहिण्यै २ कृत्तिकायै ३ रेवत्यै ४ भरण्यै ५ रात्र्यै ६ आर्द्रायै ७ ज्योत्सायै ८ कलायै नमः ९ इति प्रागादि दिक्षु पूजयेत् | इमाः कृतांजलयो ध्येयाः | १४१ब्)
SK
आदित्य १ मंगल २ वुध ३ वृहस्पति ४ राहु ५ शुक्र ६ केतून् ८ | दिक्पालाṁश्च पूजयेत् | षट्लक्षं पुरश्चरणं | पायसेन दशांशो होमः || एवं सिद्धे मनौ मंत्री संपदां वसतिर्भवेत् | हृत्पुंडरीक मध्यस्थं तारहार विभूषितं | तारापति मनुंमंत्री त्रिसहस्रं मनुर्जपेत् | राज्यैश्वर्यं दरिद्रोपि प्राप्नुयाद्वत्सरांतरे | पूर्वोक्तसंख्यं प्रजपेत् शशिनं मूर्धनि स्मरन् | रोगाय मृत्यु दुःखानिजिवा वर्षशतं व्रजेत् || अथ कुवेरमंत्राः | वैश्रवणांय स्वाहा १ पक्वाशाय स्वाहा २ पिंगलाय स्वाहा ३ विविधाय स्वाहा ४ कुवेराय स्वाहा ५ भूः स्वाहा ६ भुवः स्वाहा ७ स्वः स्वाहा ८ भूर्भुवः स्वाहा ह्रीं एतेमंत्राः धनप्रदाः | हेमपीठे कनकवर्णं कनकपुटकरंडविलसित करद्वयं वृहदुदरं रत्नमंडितं शंखपद्मनिधिद्योतितं कुवेरं ध्यात्वा वैश्वदेवावसाने अग्नावेवादाह्यतः मुखे आज्याक्ताः अन्योन्य संदष्टादशवटकसमिधः दशभिरेतैर्मंत्रैर्जुहुयात् | वहुतर धनलाभः स्यात् | घृताक्तपायसैर्वा | घृताक्तविल्वसमिधो वा | जुहुयात् | धनलाभः स्यात् || अथान्न पूर्णामंत्रः || ॐ नमो भगवति माहेश्वरि अन्नपूर्णे स्वाहा | शारदातिलके भुवनेश्वरी वीजादि भवं | १४२अ)
SK
अस्य ब्रह्माऋषिरनुष्टुप् छंदः अन्नपूर्णा देवता ह्रीं वीजं स्वाहा शक्तिः | ह्रां ह्रीमित्यादि षडंगं | ध्यानं च | रुद्रतांडवविलोकनलोलां भद्रवक्त्रनयनां भवकांतां | अन्नदाननिरतां जननींतां चिंतयन् जपं तु चित्रदुकूलां || एवं ध्यात्वा अभ्यर्च्य षोडश सहस्रं जपेत् | साज्येनान्नेन दशांशो होमः | अनेन जप्तेन मंत्रेण वह्वन्न समृद्धिर्भवति || अथान्नाधिपतिमंत्रः || अन्नं मह्यमन्नंमेदेह्यन्नाधिपतयेममान्नं प्रदापय स्वाहा | अस्यान्नाधिपति मंत्रस्य ब्रह्माऋषिरविकृति छंदः भूमिश्रियोदेवते वह्वन्न प्राप्तये भूवीजं श्रीवीजे वीजशक्तीग्नौ श्रीमित्यादि षडंगं | अन्नं मह्यं हृदयं १ अन्नं मेदेहि शिरः २ अन्नाधिपतये शिखा ३ ममान्नं प्रदापय कवचं ४ स्वाहा अस्त्रं ५ | ध्यानं | दुग्धाक्षौरौप्यव प्रावृत कनकमयें द्वीपवर्गेसुराद्येकल्पद्रूद्यानमालेमणिमयलसिते वित्तयस्याग्रभागे | आसीनेभूश्रियौ वांछित वसुनि च यान्मंत्रिणे संसृजंत्यौ मंत्रीसंचिंतयानो जपतु दिनमुखे संपदेऽन्नस्य मंत्रं | क्षीरसमुद्रे रजतप्राकारवेष्टित स्वर्णद्वीपे देवगण संयुक्ते कल्पवृक्षं वनस्याधः | तन्मणिमयभूभागे कुवेरस्याग्रतो भूमिं श्रियं च वांछितार्थप्रदायिन्यौ ध्यात्वा संपूजयेत् | १४२ब्)
SK
महती धनधान्य संपत्तिर्भवति | पंचविंशति सहस्रं पुरश्चरणं | स सर्पिषापायसेन दशांशोहोमः || अथ वृहस्पति मंत्रः | वृं वृहस्पतये नमः | अस्य ब्रह्माऋषिरनुष्टुप् छंदः बृहस्पतिर्देवता वृं वीजंमः शक्तिः | व्रामित्यादिषडंगं | ध्यानं | रत्नस्वर्णांशुकादीन्निजकरकमलाद्दक्षिणादाकिरंतं वासोराशौ निधाया परममरगुरुं पीतवस्त्रादिभूषं | ध्यायन्नासीनमप्यायतभुविशतसंख्यैस्तु कांचनाक्तैर्भीता पुष्पैर्घृताक्तैस्त्रिदिनमथद्गनेत्स्वर्णवस्त्रादि सिद्ध्यै | एवं बृहस्पतिमंत्रजपेधनलाभो भवति || अथ शुक्रमंत्रः || वस्त्रंमेदेहि शुक्राय स्वाहा | पराय वेदिकामासीनं शुभ्रकुसुमानुलेपनं वामकरेणवासो रत्नहिरण्यानि साधकाय प्रयच्छंतं व्याख्या मुद्रांकित दक्षिणकरं शुक्रं ध्यात्वा अर्चयेत् | अयुतं पुरश्चरणं | सर्पिषा सहस्रं होमः | अग्नौ शुक्रमुक्तरूपं ध्यात्वा तन्मुखे शुक्लपुष्पाणि त्रिषष्ठिवारं सप्तचत्वारिंशदधिक शतवारं जुहुयात् वा सोधनरत्नलाभ वाहुल्यं स्यात् || उक्तं च प्रपंचे | शुक्रास्ये शुक्ल पुष्पैर्हुतभुविगणशः सप्तसौह्येकविंशद्वारं होतव्यमेषोप्यतिसित कुसुमालेपनो वामदोष्णा | वासो रत्नादिकान्ता सुरमपि सततं १४३अ)
SK
साधकाय प्रयच्छन् ध्यातो व्याख्यान मुद्राकलित परमकलस्त्वापनालिंदसंध्यः || अथ व्यासमंत्रः | ॐ व्यांवेदव्यासाय नमः | ध्यानं | मुनिव्रातावीतं मुदितधियमंभोदरुचिरं रुचिव्याख्या मुद्राकलितविलसद्दक्षिणकरं | परं जानौ कृत्वा दृढकलितकक्षैकविवरं समासीनं व्यासं स्मरतनिरतं पुण्य निचयं | शुद्धसरस्वतीप्रदा भवति || उक्तं च प्रपंचसारे | प्रकृति सहस्रं जपः स्याद्दशांशकृतपायसाज्यविधिः | निरुपम कविता प्रज्ञा व्याख्या श्रीसंपदाय हो मंत्रः || अथ वारदेवीमंत्रौ वैदिकः | यद्वाग्वदंत्यविचेतनानि राष्ट्रीदेवानां निषसादमंद्रा | चतस्र झ जुं हुं दुहेषयांसिकस्विदस्या परमंजगाम | अस्य भार्गवनेमिऋषिस्त्रिष्टुप् छंदः वाग्देवी देवता वाक् सिद्धये विनियोगः | वं वीजं तं शक्तिः द्रं कीलकं | दशभिः पंचभिः षड्भिः पंचभिः षड्भिः दशभिः षडंगं || अस्य जपे सरस्वती सिद्धिर्भवति || अथ गौरीमंत्रः श्रीगौरिरुद्रदयिते योगेश्वरि हुं फट् स्वाहा | अस्य अजऋषिस्त्रिवृत् छंदः गौरीदेवतावश्यादि सिद्धये विनियोगः | ध्यानं | १४३ब्)
SK
असकलशशिराजन् मौलिरावद्ध पाशांकुश रुचिरकराब्जां वंधुजीवारुणांगी | अमरनिकरवंद्यात्री क्षणाशोणलेपांशुकं कुसुमयुता स्यात् संपदे पार्वती वः | एवं ध्यात्वा शक्तिपीठे देवीमावाह्य पाद्यादिभिः पूजयेत् | मातृभिरेकं | लोकपालैर्द्वितीयं | लक्षं पुरश्चरणं | पायसेनायुतं होमः | सौभाग्यादि सिद्धये स्त्री जपेत् | वश्यार्थे संपदर्थे च पुरुषो जपेत् | निशायां स्त्रीनामस्ववामोरौलिखित्वा वामपाणि नापिधाय जपेत्सावश्या भवत्या गाच्छति च || अथापरो गौरीमंत्रः एकषष्टि वर्णात्मकः | ह्रीं नमो ब्रह्म श्रीरातितेराजिते जयेविजयेगौरिगंधारि त्रिभुवन च शंकरि सर्वलोकवशंकरि सर्वस्त्री पुरुषवशंकरि सु सु दु दु घे घे वा वाह्नं | स्वाहा | ऋष्यादिकं गौरीमंत्रवत् | चतुर्दशभिर्दशभिश्चाष्टभिस्ततो दशभिरेकादशभिर्मंत्राक्षरैः क्रमादुच्यते षडंगविधिः | अयुतं पुरश्चरणं | मृताक्तैः पायसैर्दशांशोहोमः | वाशष्टा दर्वाक् साध्यनामयो जपित्वा मंत्रं जपेत् अशेष वश्यकरं || अथ गांधारी मंत्रः | कांछित स्त्रीवशंकरि सु सु दु दु घे घे वा वा स्त्रीं स्वाहा | अस्य सर्वं पूर्ववत् | होइ पक्षरादुपरि वा इत्यक्षरादर्वाक् स्त्रियो वा पुरुषस्य वा नामसंयोज्य मंत्रं जपेत् | १४४अ)
SK
शीघ्रं वशीक्षपेति || अथ राजमुखी मंत्रः | राजमुखि राजाभिमुखि वश्यमुखि ह्रीं श्रीं क्लीं देवि देवि महादेवि देवादेवि सर्वजनस्य मुखं ममवशं कुरु कुरु स्वाहा || राजमुखि राजाभिमुखि हृदयं १ वश्यमुखि ह्रीं श्रीं क्लीं शिरः २ दिवि देवि शिखा ३ महादेवि कवचं ४ देवादेवि नेत्रत्रयं ५ शेषेणास्त्रं ६ | अन्यत् सर्वं गांधारी मंत्रवत् | सर्वजनस्य स्थाने साध्यनाम प्रक्षिपेत् सभादौ जपेत् राजान मवश्यमन्यं वा वशीकरोति || अथ भूविजयमंत्रः | भगे भगे क्षोभये मोहयेच्छेदये क्लेदयेक्लिन्न स्वशरीरे हुं फट् स्वाहा | एषमंत्रवरः श्रीमान् त्रिषु लोकेषु विश्रुतः | नाम्ना भूविजय इति स्वयं देवेनभाषितः | दुर्भाग्यानां च कोपानां निर्द्रव्याणां वरानने | शुद्धि तेजो विहीनानां विद्यागुण विवर्जिनां | सर्वमेतज्जपेनैवशीव्रमाप्नोति मानवः | यद्यद्विहीनो जपति तत्तत्प्राप्नोत्यसंशयः || अथ रत्नधारामंत्रः | रत्नरत्न महारत्नधाराय स्वाहा | अस्य प्रजापति ऋषिर्गायत्री छंदो रत्नधाराख्यो मंत्रोदेवता रत्नादि लाभे विनियोगः | मंत्रविभागैरंगं | साधकाय रत्नधारां वर्षंतं हस्ताभ्यां हारमुकुटादि भूषणभूषितं ध्यायन् जपेत् | महतीं समृद्धिर्भवति || अथ शास्तृमंत्रः || १४४ब्) ॐ शास्तारं मृगया श्रांतमश्वारूढं गणांवृतं | पानीयार्थं वनादेभ्यः शस्त्रेतरैम्वते नमः || अस्यरैंवतकऋषिः पंक्तिश्छंदः महाशास्ता देवता सर्ववश्यार्थे विनियोगः | मंत्रपदैः षडंगं | पाशवध्यं शाध्यं साधकस्य पादयोः पातयंतं दंडधरं ध्यायन् जपेत् | तद्गण पूजा यथा | गोप्त्रे १ पिंगलाक्षाय २ वीरसेनाय ३ श्रीभवाय ४ त्रिनेत्राय ५ शूलिने ६ क्षाय ७ भीमरूपाय ८ नमः इति पूजयेत् | एवं मध्याह्नेऽस्मैसक्तून् दत्वा अंजलिनाजलं दद्यात् | तद्गणेभ्यश्च | विश्रांताय नमस्तस्मै स्वकार्याणि निवेदयेत् | प्रीतचेतास्तथेत्युक्त्कास तु जात इति स्मरेत् ||
SK
मंत्रस्तु | षैहंताय शास्त्रे गोप्त्रे प्रशास्त्रे | गायत्री भूताधिपाय विद्महे महादेवाय वीमहि | तन्नः शास्ता प्रचोदयात् || अथ काममंत्राः | क्लीं | संमोहन ऋषिर्गायत्री छंदः कामो देवता सकलपुरुष वश्यार्थे विनियोगः | क्लां क्ली मित्यादि षडंगं | नेत्रद्वयं तु | ध्यानं | अरुणमरुण वासो माल्यदामांगरागं स्वकरकलितपाशंसांकुशास्त्रेषु चापं | मणिमयमुकुटाद्यैर्दीप्तमाकल्पजालैररुणनलिनसंस्थं चिंतयेदात्मयोनिं | एवं ध्यात्वा मोहिन्यै १ क्रोधिन्यै २ त्रासिन्यै ३ स्तंभिन्यै ४ आकर्षिण्यै ५ द्राविन्यै ६ आह्लादिन्यै ७ क्लिन्नायै ८ क्लेदिन्यै ९ नमः इति नवशक्ति युक्तायां अष्टदल कमलकर्णिकायां देवमावाह्य पूजयेत् | द्रां शोषणवाणाय १ द्रीं मोहनवाणाय २ क्लीं संदीपनवाणाय ३ सं उन्मादनवाणाय ४ इति प्रादक्षिण्येन वाणान् पूजयेत् | १४५अ)
SK
अनंतरं | अनंगरूपायै १ अनंगमदनायै २ अनंगमन्मथायै ३ अनंगकुसुमायै ४ अनंगकुसुमातुरायै ५ अनंगशेषरायै ६ अनंगमेखलायै ७ अनंगदीपिकायै ८ नमः इति दिक्पत्रेषु पूजयेत् | लोकपालाṁश्च | लक्षं पुरश्चरणं | त्रिमधुरसिक्तैः किंशुककुसुमैर्दशांशोहोमः | सकललोकवश्यार्थे जपेत् | अथ कामगायत्री | कामदेवाय विद्महे पुष्पचापाय धीमहि | तन्नोऽनंगः प्रचोदयात् || ॐ क्लीं नमः कामदेवाय सर्वजनप्रियाय सर्वजन संमोहनाय ज्वल २ प्रज्वल २ सर्वजनं मे वशं कुरु २ स्वाहा | अस्यापि ऋषि ध्यानादिकं पूर्ववत् || अथ प्रकारांतरं | अमृतोद्भवायमकरकेतनाय संकल्पजायाक्षररूपायेक्षु धनुर्धराय पुष्पशराय नमः | एभिः पदैः षडंगं विधाय ध्यायेत् | द्रां द्री मित्यादि पंचवीजानि ललाटमुखकंठ हृदयगुह्येषु न्यसेत् | अरुणवरानमाल्यानुलेपनाभरणभिक्षुचाप पुष्पवाणधरं ध्यात्वाभ्यर्च्य वाह्यपूजां कुर्यात् | पंचोपचारैरभ्यर्च्यदेवं | अंगैः प्रथमावरणं | ततो वाणैः | ह्रीं युवत्यै १ ह्रीं विप्रलंभायै २ ह्रीं ज्योत्स्नायै ३ ह्रीं सुभ्रुवे ४ ह्रीं मदद्रवायै ५ ह्रीं सुरतायै ६ ह्रीं वरुणायै ७ ह्रीं लोलायै ८ ह्रीं कांत्यै ९ ह्रीं सौदामिन्यै १० ह्रीं कामछत्रायै ११ ह्रीं चंद्ररेखायै १२ ह्रीं शुक्त्यै १३ ह्रीं मदनायै १४ १४५ब्)
SK
ह्रीं मायावत्यै १५ नमः इति प्रादक्षिण्येन पूजयेत् ह्रीं शोकाय १ ह्रीं मोहाय २ ह्रीं विलासाय ३ ह्रिं विभ्रमाय ४ ह्रीं मदनातुराय ५ ह्रीं पत्रपाय ६ ह्रीं यूने ७ ह्रीं कामिने ८ ह्रीं चूतपुष्पाय ९ ह्रीं रतिप्रियाय १० ह्रीं ग्रीष्माय ११ ह्रीं तापाय १२ ह्रीं उर्जाय १३ ह्रीं हेमंताय १४ ह्रीं शिशिराय १५ ह्रीं वसंताय १६ ह्रीं मदनाय ८ नमः इति कामपरिवारान् प्रागादिषु पूजयेत् | लक्षं पुरश्चरणं | पलाशकुसुमैर्दशांशोहोमः | एवं जपतः पूजयतश्च महालक्ष्मीप्राप्तिर्भवति || अथ शत्रुनिग्रहणमंत्र *? न विंशत्यक्षरः | ॐ अं कं चं टं तं पं यं सं हल्ॐ ह्रीं हुंसः हुं फट् स्वाहा | अस्य ब्रह्माऋषिरनुष्टुप् छंदः महापर्वत महासमुद्र महावह्नि महापवन पृथिवीगणानि देवताः हुं वीजं ह्रीं शक्तिः इष्टार्थे विनियोगः हृल्लेखाद्यैः षडंगानि कुर्यात् | ध्यानं नान्यं पश्यामः | पूजादिकं मूलमंत्रेण कुर्यात् | षट्सहस्राण्यधिकमयुतं पुरश्चरणं | तिलसर्षपतंडुल व्रीहि हविराज्यैः यथा विभागं दशांशोहोमः | शत्रुनिग्रहार्थमुपयुक्तः प्रथममंत्राक्षरं पर्वतरूपं शत्रुंग्रस्यमानं चिंतयेत् | द्वितीयं समुद्ररूपं तत्र निमग्नं शत्रुं | तृतीयमग्निरूपं तेन दह्यमानं | चतुर्थं पवनरूपं तेन संशोष्यमानं | हलोमिति वर्णद्वयेन शत्रोर्निःश्वासं रुंधंतं चिंतयेत् | ह्रीं हुं सः इत्यक्षर त्रयेण शत्रोर्नेत्रकर्णमुखानिरुंधंतं चिंतयेत् | फट्कारेण शत्रोराधारादुच्छिताग्निना दह्यमानं ध्यायेत् | १४६अ)
SK
एवं ध्यायन्मंत्रं जपन्मंडलादर्वाक् शत्रुं मारयति || अथ ऋक्पंचात्मको लवणमंत्रः || लवणांभसि तीक्ष्णोस्युग्रोसि हृदयं तव | लवणस्य पृथिवी मातालवणस्य वरुणः पिता १ | लवणं पचति पाचयति लवणं छिंदतिभिंदति | लवणेद् त्रयमाने तु कुतो निद्रा कुतोरतिः २ | अमुष्य दहगात्राणि दहमांसं दहत्वचं | दंतत्वगस्थि लोमानि अस्थिभ्यो मज्जिकांदहोयारात्रिः शल्यविद्धस्य शूलाग्रारोपि तस्य च | या ते रात्रिर्महारात्रिः सा ते रात्रिर्महानिशा ४ | ॐ आं ह्रीं क्र्ॐ चिटिचिटि चांडालि महाचांडालि अमुकं वशमानय स्वाहा ५ | मंत्रांतरे इदमधिकं पठंति | लोहप्राकारे नगरे कृष्णसर्पाष्टतां तर्जुले चंडिस्वानयमेशीघ्रमग्नेर्लावणतेजसा | इत्यन्ये च पठंति | अस्यांगिरा ऋषिरनुष्टुप् छंदः अग्निरात्रि भद्रवाल्या देवतावश्यादि सिद्ध्यर्थे विनियोगः | ऋग्भिः पंचभिः क्रमेण पंचांगं कुर्यात् | अथवा ॐ चिटिचिटि हृदयं १ चांडालि शिरः २ महाचांडालि शिखा ३ अमुकं मे कवचं ४ वशमानय नेत्रवेधं ५ स्वाहा अस्त्रं ६ | ध्यानं | अरुणोरुण पंकजसंनिहितः श्रुवशक्तिवसभययुक्तकरः | अमितार्चिरजांतगतिर्विकसन्नयनत्रितयोऽवतुवोदहनः | नीलतरांशुककेशकपालानीलतरुर्निजस्वनहारा | सांकुशपांशकपालायपाभवती भवतोऽवतु नित्यं | करकमलविराजच्चक्रशंखासिशूलापरिलसितकिरीटापातितानेकदैत्या त्रिनयन ललितांगीपातुकात्यायनीवः || १४६ब्) सुरौद्रसितदंष्ट्रिका त्रिनयनोर्धकेशोल्वणाकपालसशूलसडमरुकत्रिशूला कुलाघनाच्चनतिभारणद्रुधिरकिंकिनीमालिका भवद्विभवसिद्धये भवतु भद्रकाली चिरंवः | एवं ध्यात्वा पंचोपचारैः पूजयेत् | अयुतं त्रिसहस्रं वा पुरश्चरणं | घृतसंयुक्तेन हविषा दशांशोहोमः || एवं कृतपुरश्चर्यः प्रयोगे कुशलो भवेत् | अग्निं यामवतिं ध्यायेद्वश्याकर्षणकर्मणो || स्मरेत् दुर्गां भद्रकालीं मंत्रीमारणकर्मणि | जानु प्रमाणे सलिले स्थित्वा निशिजपन्मनुं ||
SK
अनेन वांछितः साध्यः किंकरो जायते क्षणात् | नाभिमात्रे * * * * * * * *? चिरं सुधीः || अष्टोत्तर सहस्रं यस्तस्य साध्यो भवेच्च सः | ऋक्यं चकं जपेन्मंत्री कंठमात्रांभसि स्थितः || सप्तभिर्दिवसैर्भूयोवशयेद्विधिना पुनः | लिखित्वा तापपत्रेतां साध्यनामविदर्भितां || निक्षिप्य क्षीरसंमिश्रजलेन क्वथयेन्निशि | वश्यो भवति साध्यो स्यानात्र कार्या विचारणा || पाचयेत् खादिरे वह्नौ मासं वश्यो भवेन्नरः || अथ ब्रह्ममंत्रः | ॐ नमो भगवते ब्रह्मणे अष्टौ मे पुत्राजायंतां अक्षीण तेजसे स्वाहा | अस्य मंत्रस्य सौरभि ऋषिरनुष्टुप् छंदः ब्रह्मादेवता ॐ वीजं स्वाहा शक्तिः अष्टपुत्र वहुत्तर धनधान्यादि प्राप्तये विनियोगः | १४७अ)
SK
ॐ नमो भगवते हृदयाय नमः १ ब्रह्मणे शिरसे स्वाहा २ वेधसे शिखायै वषट् ३ अष्टौ पुत्राजायंतां कवचाय हुं ४ अक्षीण तेजसे नेत्रत्रयाय वौषट् ५ स्वाहा अस्त्राय फट् ६ | ध्यानं | अरुणकमलसंस्थो रक्तवर्णो विरिंचिर्विविधरुचिरभूपालं कृतो विश्वयोनिः | अभयवरकमंडल्वक्षसूत्रैः स्ववाहुर्वितर तु विविधान्वो विश्वभोगान् च पुत्रान् | एवं ध्यात्वा मानसै रूपचारैरभ्यर्च्य विधिवदर्घं संस्थाप्य आधारादि पीठं परिकल्प्य तदुपरि अष्टदलं कमलं कृत्वा पूर्वादि क्रमेण | अणिमाद्यै १ महिमायै २ लघिमायै ३ गरिमायै ४ प्राप्त्यै ५ परिकाम्यै ६ वशिमायै ७ कामानशायिताये ८ नमः इति दलेषु पूजयेत् | सर्वैश्वर्यै नमः इति मध्ये | ॐ नमो भगवते कमलस्थाय नमः इति पीठं पूजयित्वा तत्कर्णिकायां देवमावाह्य पूजयेत् पाद्यादिभिः | अंगैः प्रथमावरणं | ऊर्ध्वाय नमः १ प्रलंवाय २ ऊर्ध्वकेशाय ३ विमोहनाय ४ गंधपतये ५ कामाय ६ कलिंगाय ७ कपये नमः ८ इति पूर्वदलमारभ्य पूजयेत् | लोकपालांश्च स्वदिक्षु | ततो यथाशक्ति जपित्वा स्वहृदिदेवं विलापयेत् | लक्षं पुरश्चरणं | पायसेन दशांशो होमः || प्रातःस्नायी विमलकरणः शुद्धवस्त्रानुलेपोगंगायां वा सरिति यदि वान्यत्रतीर्ये सुषुण्यै | १४७ब्)
SK
शैवे वा महति मधुराहारभूतः पवित्राचारैः पुण्यैरनुदिनमवाप्नाखिलार्थोमनस्वी | अनुदिनमिति मंत्रं संजपते | यो मंत्रमेनं सततं धनस्वी विद्याभिकांक्षी वहुपुत्रकामी | किंवान्यकामी प्रसभं लभेत अष्टौ द्विजान् संक्रमयेच्चतुर्भ्यः | अनुदिनमुदये च यस्त्रिसंध्यं शतमथवार्द्धशतं जपेच्च नित्यं | सलिलमपि पिवेच्च मंत्रपूतं स तु लभते तु धनं तदिष्टपुत्रान् | य इमां वृद्धिमन्विच्छन् प्रतिपालयते मनुं | नरकोत्तरणं तस्य पितृवर्गस्य जायते || अथ सुब्रह्ममंत्रः || वचर्भुवे नमः | एष षडक्षरः सारस्वतः || वरदाय दुःसहिन्यै वाहुले यवचद्भुवे | स्कंद स्कंद सु सुब्रह्मण्य नमः | स्वामिन् गुहाशय | ॐ दुं नमः परायगोप्त्रे इत्येकः | एवमस्येपि || अथ शास्तृमंत्रः | भां भूताधिपतये नमः | अयं वलिजपादौ जप्यता || अथापरः रेवते नमः पंचाक्षरः | अधास्थितं कल्पतरोः शास्तारं वसुदायिनं | ध्यात्वा लक्षं जपेन्मंत्रं मलं चामीकराप्तये || अथ स्कंदमंत्रः | स्वामिन् विधि स्वाहा | लग्नः स्कंधोनि जांगस्थः किंकिनी कोटिमान् विदुः | कंपयन् कामदं वृक्षं तत्फलैः पतितैर्भुवि || हेमरत्नादिभिः पूर्णमात्मानं भावयेन्मनुं | जपेत्तस्याशुवर्धंते धनधान्यादि संपदः || पूर्वोक्त पीठेदेवं पूजयेत् | १४८अ) देवसेना १ विद्या २ मेधा ३ प्रज्ञा ४ शक्ति ५ कुक्कुट ६ मयूर ७ द्विपान् ८ पूजयेत् | एवं गुहः श्रीसरस्वती जयपुत्र वीर्याणि ददति || अथ शास्ता | शास्तारं मृगयाश्रांतमश्वारूढं गणावृतं | पानीयार्थं धनादेत ध्यात्वा मृगरूपिणं || मध्याह्ने शक्तून् दत्वा अस्मैपुनरं जलिनाजलं | विनिपीतमेभिर्मंत्रैस्तद्गणानपि तर्पयेत् || विश्रांताय नमस्तस्मै स्वकार्याणि निवेदयेत् | भूताधिपाय विद्महे भवपुत्रायधीमहि ||
SK
तन्नः शास्ता प्रचोदयात् | शास्तृपर्यद्भ्यो नमः | शास्तारं पूजयेत् | वलीन् रात्रौ दद्यात् | महाशास्त्रे नमः | भूताधिपतये नमः | रुद्रसूताय | पंचकेश्वराय | साधवे | हरये इत्यादि || अथ क्षेत्रपालमंत्रः | क्षं क्षेत्रपालाय नमः | ऊर्ध्वपिंगलाक्षं कपालिनं खट्वांगपाणिनं सर्वभूषणं ध्यायेत् | वलिमंत्रः | एह्येहि गुषु २ मुस्.उ २ हन २ विघ्न २ महाभैरव क्षेत्रपाल वलिं गृह्ण २ ठः ठः | अनलाय ठः ठः अग्निकेशाय | कालाय | महाक्रोधाय | पिशिताशनाय | पिंगलाक्षाय ऊर्ध्वकेशाय ठः ठः | एभ्यो वलिं दद्यात् | वालादि रक्षा सर्वं भवति || अथ मालामंत्रः | अथाष्टक वर्गः | अ क च ट त प हलौं | इत्यष्टक वर्गजापेनाष्ट कुलपर्वतानां निचय परिपंथिनां उपरिनिधायं हमित्याकाशमाकृष्य तदुपरि निधायलमिति पार्थिवमंडलं तदुपरिस्थापयित्वा गदयावष्टभ्य निश्चली कृत्य आत्मनो योगनिद्रामोहनी सिंहोपरितिष्ठंती ध्यात्वा वनदुर्गां जपन् गच्छेत् | १४८ब्) सर्वभय निवृत्तिर्भवति || अथ वाक् स्तंभन मंत्रः | चतुर्मुखं यजामहे मृत्योर्मुक्षीयवर्धनः | सर्वं ऋतमयासिंच सर्वं वंधय वंधय ||
SK
ॐ ह्रीं वलामुखी आस्थान मुखस्तंभिनि मुखं खिलय २ जिह्वां खिलय २ ठां ठां स्वाहा || अयं मंत्रो राजसभायी वाग्वादादौ जप्यः || अथ पंचामृत मंत्राः || ॐ अच्युताय रोगनाशाय हरये अमृताय नमः ॐ सः अनंताय रोगनाशाय हरये अमृताय नमः ॐ वं अमृताय रोगनाशाय हरये अमृताय नमः | ॐ ऐं गोविंदाय रोगनाशाय हरये अमृताय नमः | ॐ ठं विष्णवे रोगनाशाय हरये अमृताय नमः | ॐ अं अच्युताय नमः | अनंताय नमः | गोविंदाय नमः | विष्णवे नमः | इत्येवं पूजयेत् | अस्य मंत्रस्य रोगनाशन ऋषिरनितगायत्री छंदः अच्युतानंतामृतगोविंद विष्णवो देवता अस्मच्छरीर सकलरोगनाशने विनियोगः | अथ षडंगं | ॐ अच्युताय हृदयाय नमः १ ॐ सं अनंताय शिरसे स्वाहा २ ॐ वं अमृताय शिखायै वषट् ३ ॐ ऐं गोविंदाय कवचाय हुं ४ ॐ ठं विष्णवे अस्त्राय फट् ५ | ततो ध्यानं | क्षीरोदस्य प्रदेशे शुचिमणि विलसत्सैकतेमौक्तिकानां मालागुच्छासनस्थः स्फटिकमणिनिभोमौक्तिकैर्मंडितांगः | १४९अ)
SK
शुभ्रैरभ्रैरदभ्रैरुपरिपरिचितैर्मुक्तपीयूषवर्षैरानंदंवः पुनीयादरिनलिनगदाशंखपाणिर्मुकुंटः || अयं मंत्रो ज्वराद्युत्पत्तौ जप्यः || एतन्मंत्राभिमंत्रितमौषधादिकं भक्षयेत् | रोगादिर्नाशं गच्छति || अथ धन्वंतरिमंत्रः || ॐ नमो भगवते धन्वंतरये अमृतसहस्राय सर्वामयनाशाय त्रैलोक्यनाथाय विष्णवे स्वाहा | अस्य मंत्रस्य ब्रह्मा ऋषिर्गायत्री छंदः धन्वंतरिर्देवता आरोग्यार्थे विनियोगः | कर्पूरवर्णमौषधस्थगिकांवहंतममृतेन रोगिनं सिचंचंतं ध्यायेत् | अनेनौषधादिकं स्पृष्ट्वा जपन्नभि मंत्रयेत् तद्भक्षणे रोगोपशांतिर्भवति || अथ गारूड मंत्रः | क्षिप ॐ स्वाहा | अस्यानंतो ऋषिरनुष्टुप् छंदः गरुडो देवता सर्पादि विषनाशने विनियोगः | ज्वलज्वल महागति स्वाहा हृदयाय नमः १ गरुड चूडामणि स्वाहा शिरसे स्वाहा २ गरुड शिखे स्वाहा शिखायै षट् ३ गरुड प्रभंजन प्रभंजन प्रभेदेन प्रभेदेन वित्रासय २ विमर्दय २ स्वाहा कवचाय हुं ४ अप्रतिवलाप्रतिशासन हुं फट् स्वाहा अस्त्राय फट् ५ | उग्ररूपधारक सर्पभयंकर भीषय २ दह २ भस्मीकुरू स्वाहा नेत्राभ्यां वौषट् ६ | ततो ध्यानं | आजानुनः सुवर्णाभमानाभेस्तु हि न प्रभं | कुंकुमारुणमाकर्णमाकर्णांतं शितेतरं || ब्रह्मांड व्यापिनं ताक्ष्यं रिक्तांगं नागभूषणं | १४९ब्) नीलवास समात्मानं महापक्षं स्मरेद्वुधः || स्मरन् गारुडमात्मानं मंत्रमेतं जपेन्नरः | विषमालोकने नैवहन्यान्नागकुलोद्भवं || अथ चित्रगुप्तमंत्रः ||
SK
ॐ नमो विचित्राय धर्मलेखकाय यामवहिकाधिकारिणे जमलवररिपुंजन्मसंपत्प्रलयं कथय कथय स्वाहा | ध्यानां | भास्वद्रत्नगणो ज्वलं च मुकुटं भास्वत् प्रभामंडलं वक्त्रं चंद्रसमोपमं सुकचिरं हारं च तारागणं | कर्मण्यत्र अधर्मधर्मगणना संलेखकायानिशंवंदे नूपुरधारिणं च रुचिरं राजद्विचित्रं पदं | एवं जपतश्चित्रगुप्तः प्रसन्नो भूत्वा धर्ममेवगणं यति न पापं || अथ कर्णपिशाचिकामंत्रः | ॐ रूं ह्रूं देवीममकर्माज्ञानाय कनकवैडूर्यमुक्तालंकृतशरीरि एह्येहि आगच्छागच्छ ममकर्णं प्रिविश्यं प्रविश्यभूत भविष्यवर्तमानकालज्ञानसदर्शनं व्रूहि व्रूहि अग्निं स्तंभजलं स्तंभवाक्स्तंभं कुरु २ शत्रुकार्य विघ्नकारी ममकार्य सिद्धिकरीधात्रूणा मुदोगहानिकरी ममोद्योगफलंकरी श्रीवीरचामुंडी हुं फट् स्वाहा मम शत्रवः पादाग्रतलेपतं तु मम ****? raktāṃ varadharāṃ devīṃ raktamālyānulepanāṃ | sādhakaṃ sarvakāmaiśca pūrayaṃtīṃ smaret sadā || sahasraṃ japaḥ | madhuratrayāktaiḥ palāśapuṣpairdaśāṃśohomaḥ || evaṃ kṛtapuraścaraṇasyakarṇe 150a) āgatyāgatya devī atīṃdriyajñānaṃ sarvaṃ kathayati lokāṁśca sarvān śatrūṁśca sarvān vaśīkaroti sarvasiddhiṃ ca kurute || atha vāktarparīmaṃtraḥ | sarpariramariṃ vādhamānāvṛhanmimābjamadagnidattā āsūryasya duhitā tanmanaḥ śravo devodeveghamṛtayurya apasarparīrasarpagesmānupasuṣṭuretu | nābhirbrahmāhariryasyā hṛtpradeśe sthitaḥ śivaḥ | pādāśca vedāścatvāroravicaṃdrāvubhau dṛśaḥ || aṃgāni vedasthānāni pucchaṃ romāṇi devatāḥ | oṃ nakulīṃ raktavarṇāṃtāṃ naumi vyāptāṃ sarasvatīṃ ||
SK
अस्य विश्वामित्र ऋषिस्त्रिष्टुप् छंदः वाक्तर्परी देवता वाक्सिद्धये विनियोगः | इमं मंत्रं जपतोऽव्याहतप्रसरावाग्भवति || अथ नकुली मंत्रः | ॐष्ठापिधानां नकुलीदत्त परिमितः पविः जिह्वेमविह्वलेवाचं चानुमावेहवादय | अस्य विश्वामित्र ऋषिर्गायत्री छंदः नकुली सरस्वती देवता वाक्सिद्ध्यर्थे विनियोगः | अन्यत् पूर्ववत् || अथ महारात्रि मंत्रः || ॐ नमो रात्रिगणेभ्यः सर्ववश्य करेभ्यः परिगृह्णं तु सर्ववश्याय सर्वशांतये वलिं तस्मै स्वाहा | अस्य ब्रह्माऋषिरनुष्टुप् छंदः महारात्रिर्देवतावश्यादि सिद्ध्यर्थे विनियोगः | होमादावयमेव वलिमंत्रः || क्ष्रौं इत्यनेन वलिं दद्यात् || अथ विश्वावसुगंधर्वमंत्रः | ॐ गंधर्वराजविश्वावसोममाभिलषित कन्यां प्रयच्छ स्वाहा | १५०ब्)
SK
इमं मंत्रं प्रार्थितकन्यार्थी पश्चिमाभिमुखो भूत्वा जपेत् तां प्राप्नोति || अथापरः | विश्वावसुनामगंधर्वः कन्यानामधिपतिर्यथा | सकोशां लभते कन्यां तस्मै विश्वावसवे नमः | अयमपि पूर्ववत् || अथ रावणमंत्रः || ॐ नमो भगवते रावणाय दशकंधराय रामप्रयुद्धकंधराय रामप्रयुद्धकराय शिवभक्ताय चतुर्वेद विदुषे नमो नमो नमः || अयं राक्षसादिभीतौजप्यः || अथ प्रत्यंगिरामंत्रः | ॐ यां कल्पयतिनोरयः क्रूरां कृत्यांवभूविव | तां ब्रह्माभिभूत्यै प्रत्यक् कर्तारमिच्छतु | अस्य ब्रह्माऋषिरनुष्टुप् छंदः प्रत्यंगिरा देवता ॐ वीजं ह्रीं शक्तिः इष्टार्थे विनियोगः | प्रणवं ॐ ह्रीं आदौ ह्रीṁ ॐ अंते इति केचित् हृल्लेखापुटितो जप्यः | करशुद्धिं विधाय | ॐ यां कल्पयति नोरयः ह्रां हृदयाय नमः १ क्रूरां कृत्यां ह्रीं शिरः २ वभूविवह्रूं शिखा ३ तां ब्रह्म ह्रैं कवचं ४ अभिभूत्यै ह्रौं नेत्रत्रयं ५ प्रत्यक्कर्तारमिच्छतुह्नः अस्त्रं ६ | ध्यानं | खड्गचर्मधरां कृष्णां मुक्तकेशीं शिवारचनां | दंष्ट्राकरालवदनांभीषणां सर्वभूषणां | ग्रसंतीं वैरिणं ध्यायेत् प्रेरितां शिवतेजसा | लक्ष्यं जप्यः | अपामार्ग समिद्भिर्दशांशो होमः || अथापरः प्रत्यंगिरामंत्रः | ॐ ह्रीं नमः कृष्णवाससेसे तु सहस्रसिंहवाहिनि सहस्रनेत्रवदने महावले अपराजिते निजवल रक्षिणि परवलविध्वंसिनि परमंत्रोत्सादिनि १५१अ) सर्वभूतदमनि सर्वदेवान् वंधवंध सर्वविद्यांच्छिंविच्छिंधि क्षोभय २ परं यंत्राणि स्फोटय २ सर्वशृंखलां त्रोटय २ ज्वलज्वाला जिह्वा करालवदने प्रत्यंगिरे ह्रीं नमः | अस्य सिद्धिमंत्रत्वात् ऋष्यादिकं नास्ति || ध्यानं | सिंहारूढां कृष्णवस्त्रां भीषणां नीलविग्रहां | ज्वालामुखीं शूलकरांग्रसंतीं रिपुमंजसा || अन्यत् सर्वं पूर्ववत् ||
SK
अथ सहस्राक्षरी प्रत्यंगिरा | ॐ नमश्चामुंडेनरकपालांकमालाधरे गृध्रोलूककारंडकपरिवारे श्मशानप्रिये नरकपालहुंकार जृंभीनीये असिमुखलपवितोमरक्षुरिका विग्रहे सहस्रवाहुधारिणौ करहृदय विष्णुभावशरीरे सर्वदुष्टान्नाशयाग्निं विधारय २ नरशरीरं रक्ष २ नराणां निर्विषं कुरु २ रिपून् नाशय २ दुष्टान् प्रोथय २ वृक्षां न चूर्णय २ अस्त्रमस्त्रं कुरुसेनां त्रोटय २ गोनसानांसारिकाणांमशकानां तुंडवंधं कुरु २ द्रां द्रीं द्रूं द्रैं द्रौं द्रः एकविंशति जपादग्निं विधारललंवकेशे प्रलंवकेशेनीलांवरेसितशार्दूल प्रिये महावर्तकारान् भैरवरूपेण हर २ स्वरतरूपेणा हर २ गच्छ २ रुद्ररूपेण यत्काल दृष्टं तत्सर्वमुच्छापयोच्छापय कालकूटविषं निर्विषी कुरु २ ज्वरं नाशयैकाहिकं द्व्याहिकं त्र्याहिकं चातुर्थिकं दृष्टि ज्वरं सान्निपातिकं सततज्वरं लाक्षिणिकं वा गुग्गुलु धूपेनाष्टाभि १५१ब्) मंत्रितेन ज्वरं नाशय २ गौरशर्षपानभिमंत्र्यसुसारिका पिंडं वध्नामि आकर्षयाकर्षयक्षत्रियावैश्याविट् सूद्रारंगिणी मोहिनी चांडाल्यष्टादश प्रकृतीनां विकृत दंष्ट्रा करालिनीनां पर्वतनितंववासिनीनां उज्जयिनी निवासिनीनां भस्मोज्वरितशरीरे नमः ॐ ह्रीं ह्रूं ह्रां यें क्ष्ॐ क्र्ॐ नमः स्वाहा | अस्य ऋष्यादिकं नास्ति | एषा तु परमविद्या त्रिसहस्रेण सिद्ध्यति | जाप्येन तद्दशांशेन जुहुयात्तिलराजिकाः || ध्यानं | व्याघ्र चर्मांवरधरासित शार्दूलवाहिनी | विकरालमुखीतिग्मदंष्ट्रा कृष्णातिभीषणा || दधती क्षुरिका वज्रशूलतोमरकंकरैः | भस्मोद्धूलित सर्वांगी नीलकुचितमूर्ध्वजा || भयकारित दुष्टानां भक्तानाम भयप्रदा | चिंतनीया सदानान्यं चेतसा परमेश्वरी || एतन्मंत्रंडाकिनी भुतशत्रुनिग्रहादौ जप्यं || अथ ज्वरनाशनमंत्रः | कुवेरंतमुखं रौद्रं नंदीमानंदमावह | ज्वरं मृत्युं भयंघोरं ज्वरं नाशयमेज्वर ||
SK
सर्वदिशंवंध पश्चिमदिशंवंध उत्तरदिशं वंध एकाहिकं द्व्याहिकं त्र्याहिकं दिवाज्वरं रात्रिज्वरं संध्याज्वरमाकस्मिकज्वरं सर्वेषां छेदय २ क्लेदय २ भिंधि २ छिंधि २ मुशलेन हन २ विष्णुचक्रेण छेदय २ महासुमुखि स्वाहा || अयं मंत्रः सर्वज्वरेजप्यः | तालपत्रादौ लिखित्वा यस्मिन् वंधयेत् सद्यस्तं मुंचति ज्वरः || अथ कार्तवीर्योज्वरमंत्रः | १५२अ) कार्तवीर्यार्जुनो नामराजा वाहुसहस्रभृत् | तस्य संस्मरणा देवहृतं नष्टं च लभ्यते स्वाहा || अस्य दत्तात्रेय ऋषिरनुष्टुप् छंदः कार्तवीर्यार्जुनो देवता नष्टद्रव्यचौरादिभयनाशार्थे विनियोगः | ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः कार्तवीर्य हरिं ऋषिरिति षडंगं | ध्यानं | सहस्रवाहुं शरणं मुपाशं रक्तांवरं रक्तकिरीटं कुंडलं | चौरादि दुष्टभयनाशनमिष्टदत्तं वंदे महावल विजृंभितकार्तवीर्यं || अथापरोमंत्रः | ॐ नमो भगवते कार्तवीर्यार्जुनाय सहस्रवाहवे वहुवलवीर्येण सर्वचौरान्स्तंभय २ मोहय २ मारय २ हुं फट् स्वाहा | अस्य दत्तात्रेय ऋषिरनुष्टुप् छंदः श्रीकार्तवीर्यार्जुनो महाविष्णुर्देवता चौरादिभय व्यावृत्त्यर्थे विनियोगः षडंगं पूर्ववत् | ध्यानं | दोर्दंडैकसहस्रसंमिततनुः स्वेतस्रजः प्रोल्लसत्कोदंडैश्चशरैरुदग्रविशिखैरुद्यद्विवस्वत्प्रभः | ब्रह्माडैः परिपूरयṁस्तदखिलं गंडद्वयोल्लालितंद्यो तत्कुंडलमंडितो विजयते श्रीकार्तवीर्योविदुः || अथापरोमंत्रः | कृतवीर्यसुतो राजासहस्रभुजमंडलः अवतारो हरेः साक्षात्पालयेत् सकुलं मम || अस्य दत्तात्रेय ऋषिरमिता गायत्री छंदः | दत्तात्रेय प्रियाय हृदयाय नमः १ माहिष्मतीनाथाय शिरसे स्वाहा २ रेवाजलक्रीडा तुष्टाय शिखायै वषट् ३ हैहयाधिपतयेकवधारण १५२ब्)
SK
पर्वतोत्पाटन कुमारब्रह्मचारिन् गंभीरशष्ट सर्वविग्रहविनाशन सर्वज्वरोत्सादनडाकिनी विध्वंस न ह्रीं ह्रीं ह्रां ह्यैं एहि सर्वविषं हरहर ४ रवलं क्षोभय्ॐ हुं फट् स्वाहा || हनू तनू मंत्रस्येश्वर ऋषिस्त्रिष्टुप् छंदः हनूमान् देवता सकलकोपद्रव शांत्यर्थे विनियोगः | अंजना सुताय हृदयं १ रुद्रमूर्तये शिरः २ वायुसुताय शिखा ३ अग्निगर्भाय कवचं ४ मदूतायनेत्रं ५ ब्रह्मास्त्र निवारणायास्त्रं ६ | एकवीरत्वात्परि**?दिकं नास्ति | एतेन सर्वेण सर्वं साधये | इत्यादयेनेके प्रयोगामंत्राश्च जायंतेते ग्रंथगौरवान्नलिखिताः || अथ प्राणप्रतिष्ठामंत्रः || प्राणप्रतिष्ठामंत्रं विनार्वेमंत्राव्यर्थाः | तथा चोक्तं | प्राणप्रतिष्ठान मनोर्विधानं प्रवक्ष्यते संप्रति सर्वसिद्ध्यै | यस्मादृतेऽमीकथिताः प्रयोगाव्यर्थी भवेयुर्गत्तजीवकल्पाः | मंत्रस्तु | आं ह्रीं क्र्ॐ य र ल व श ष स हौं हंसः मम प्राणा इह प्राणाः ममजीवहस्थितः | मम सर्वेंद्रियाणि वाङ्मनश्चक्षुः श्रोत्र जिह्वा घ्राणा प्राणा इहैवागत्यागत्यसुखंचिरं तिष्ठं तु स्वाहा हंसं || प्राणप्रतिष्ठा मंत्रस्य ब्रह्मविष्णुरुद्राऋषयः ऋग्यजुः सामाथर्वाणि छंदांसि सकल जगत्सृष्टिकारिणं प्राणशक्तिर्देवता आंवीजं क्र्ॐ शक्तिः वश्याकर्षणविद्वेषसास्तंभनोच्चाटन मारणार्थे विनियोगः | ॐ पृथिव्याचाय हुं ४ सहस्रवाहवे अस्त्राय फट् ५ || १५३अ)
SK
अथापरः || ॐ प्र्ॐ नमो भगवते कार्तं वीर्यार्जुनाय है हयकार्तवीर्यार्जुन सहस्रकरसहस्रदृशसहस्रदुष्टांतक सर्वशिष्टेष्ट पद उदधे रागं तु कामस्मद्वसुलुंपकान् चौरसमूहान् स्वकरसहस्रैर्निवारय २ रंध २ स्वपाशहस्तैर्वंध २ स्वांकुश सहस्रैराखंडयाखंडयस्वधायोद्गतैर्वाण सहस्रैर्मर्दय २ स्वशंखोद्गतनादसहस्रैर्भीषय २ स्वहस्तोद्गत वज्र सहस्रैर्निकृंतय २ परकृतं त्रासय २ गर्जयागर्जय आकर्षय २ भ्रासय २ मोहय २ मादय २ उन्मादय २ तापय २ दीपय २ शोषय २ विदारय २ स्तंभय २ जृंभय २ विजृंभय २ मारय २ वशीकुरु २ उच्चाटय २ विनाशय २ दत्तात्रेय श्रीपाद प्रियतम श्रीकार्तवीर्यार्जुन सर्वंत उदधें रागतान् वसुलुंपकान् चोरसमूहान् सम्यगुन्मूल २ हुं फट् स्वाहा | अस्य ऋष्यादिकं षडंगं ध्यानं च पूर्ववत् || ॐ भ्रां परितोमेभ्रम्यन्नव्याद्द्विद्युत् समप्रभः सर्वतोमेभ्रम्यन्नव्याद्धन्वीवाणी रविप्रभः | इत्यादयोऽनेकेमंत्राः संति तान् ग्रंथ गौरवान्नलिखामः || अथ हनूमन्मंत्रः | ॐ नमो भगवते हनूमते प्रकटपराक्रमाय आक्रांतदिङ्मंडलाय यशोविलासधवलीकृतदिङ्मंडलाय वज्रदेह रुद्रावतारलंकापुरीदहन उदधि वंधन दशग्रीव कृतांतसीताश्वासनायुत नागवलांजना गर्भसंभूत रामलक्ष्मणानंदककपिसैन्यप्राकारसुग्रीवसा १५३ब्)
SK
तेजोवाद्वाकाशात्मनेनभः अं कं खं गं घं ङं आं ज्ञानात्मने हृदयाय नमः १ ॐ शष्टस्पर्शरूपरसगंधात्मने नमः इं चं छं जं झं ञं ईं शक्त्यै शिरसे स्वाहा २ ॐ श्रोत्रत्वक् चक्षुर्घ्राणात्मने नमः ॐ टं ठं डं ढं णं हुं वलायै शिखायै वषट् ३ ॐ वाक्याणि पायुपाद उपस्थात्मने नमः एं तं थं दं धं नं ऐं ऐश्वर्याय कवचाय हुं ४ ॐ वचनादान गमन विसर्गानं दात्मने नमः ॐ पं फं वं भं मं आं तेजसे नेत्रत्रयाय वौषट् ५ ॐ नमो वुद्ध्यहंकारचित्तज्ञानात्मने नमः अं यं रं लं वं शं षं सं हं लं क्षं अः वीर्यायास्त्राय फट् ६ || आनाभिमारभ्य हृदयपर्यंतं न्यसेत् १ ह्रीं हृदयमारभ्य नाभिपर्यंतं न्यसेत् २ क्र्ॐ मूर्धान मारभ्य हृदयांतं न्यसेत् ३ समस्तेन व्यापकं ४ || ध्यानं | रक्ताघ्रिपोत्तारुण पद्मसंस्थां पाशांकुशा विक्षुशरासनज्यान् | शूलं कपालं दधतीं कराब्जै रक्तां त्रिनेत्रां प्रणमामिदेवीं | एवं ध्यात्वा त्रिकोणस्थे शक्तिपीठे देवीमावाह्य पूजयेत् | ब्रह्मणे १ विष्णवे २ ईश्वराय ३ नमः इति कोणत्रये | सरस्वत्यै १ लक्ष्म्यै २ उमायै ३ नम इति कोणत्रये | ततो षडंगं पूजयेत् | तद्वहिरष्ट दलेषु ब्राह्म्यादयः | तद्वहिर्लोकपालाः | यथाशक्ति जपित्वा विसर्जयेत् | १५४अ) लक्षं पुरश्चरणं | घृतप्तुतैश्चतुर्भिर्दशांशो होमः || एवं संसाधितो मंत्रः षट्कर्म फलदो भवेत् | स्थापयेन्मनुनानेन प्राणान् सर्वत्र देशिकः || वीजांतेमवशष्टानामादौदूत्यः प्रयोजयेत् | मृता वै वस्वता भूयो जीवहा प्राणहा ततः || आकृष्टाग्ररना एषा प्रमदाविस्फुलिंगिनी | क्षेत्र प्रतिगृहीत्वेताः प्राणदूत्यो नवस्मृताः || पाशेनवद्ध चेष्टस्य शक्त्या स्वीकृत चेतसः | अंकुशेनाहृतस्याभिः साध्यस्यासून्समाहरेत् || द्वादशांगुलमानेन कृत्वा साध्यस्य पुत्तलीं | तस्यां प्राणात्मिकं मंत्रं स कीटं हृदिविन्यसेत् || निशीथ समये साध्ये सुप्ते तस्य हृदंवुजे | दलेषु वायुवह्नींद्रवरुणानामतः परं ||
SK
ईशराक्षसशीतांशुयमानां कर्णिकांतरे | यादोन् हंससमायुक्तान् भृंगाकाराननुस्मरेत् || शिरोविंदुसमुद्भूतं तंतु संवद्ध विग्रहान् | एवं साध्यहृदंभोजे भृंगी रूपांधिया स्मरेत् || आत्महृत्पद्मगान् भृंगान् प्रस्थाप्यश्वातसवर्त्मना | एकैकं साध्यहृत्पद्मेभृंगमेकैकमानयेत् || पुत्तल्यां स्थापयेन्मंत्री स्वचित्ते वा विधानवत् | तंतुच्छेदं प्रकुर्वीत वह्निवीजेन संयतः || आकृष्टा साध्यभृद्भृंगाṁस्ततस्तंस्तंभयेद्भुवा | एवमेकादंशावृत्तिं कुर्यात् सर्वेषु कर्मसु || १५४ब्) अस्यार्थः | पूर्वविंदूच्छंतंतुं वर्धान्यादीन् भृंगीरूपेण प्रस्थाप्य साध्यहृदिस्थितान् प्राणानाकृष्य स्वहृदयेपुत्तल्पादौस्थापयेत् लमिति वीजेनेत्युक्तं स्थापनानंतरं वह्निवीजेनरेफेततुंछयेदिति | एवमेकादशवारं प्रतिप्रयोगं साध्यहृत्प्राणानाकृष्य स्वहृदयेपुत्तल्पादौवास्तंभयेदिति रहस्यं || वश्याकर्षणयोर्यादीनरुणान् स्तंभयेत्सुधीः | मोहद्वेषणयोर्धूम्रान् कृष्णान् मारणकर्मणि || पीतान्संस्तंभने ध्यायेत् प्राणाकर्षणकर्मणि || आकृष्टान्साध्य हृत्प्राणान् स्थापयेदात्मनो हृदि | क्रूरकर्मसु पुत्तल्यां तेषां स्थापनभीरितं || प्राणान् साध्यस्यमंडूकानात्मनस्तु भुजंगकान् | संस्मरेत्तत्र निपुणः सदा क्रूरेषु कर्मसु || वाद्वग्निशक्रवरुणेश्वर राक्षसेंदुप्रेतेश पत्रलिखितैरथयादिवर्णैः | विंद्वंतिकैः क्षगमहं ससमेतसाध्यं प्राणात्म यंत्रमथ वर्णाभृतंधरास्थं | एवं प्रयोगकुशलोमनुनानेन मंत्रवित् | वशयेत् सकलान् देवान् किं पुनः पार्थिवान् जनान् || प्रकारस्त्वयं | देवदत्त प्राणा इह | प्राणा इत्युक्त्वा पुत्तल्यां प्राणानाकर्षयेत् | यं भूतात्मनेत्व च माकर्षयामि १ रं वैवस्वतात्मने रक्तमाकर्षयामि २ | लं जीवहात्मात्मने मांसमाकर्षयामि ३ | वं प्राणहात्मनेमेदमाकर्षयामि ४ | शं प्रावृष्यात्मने स्नायुमाकर्षयामि ५ | १५५अ)
SK
षं गूथिकात्मने अस्थीन्याकर्षयामि ६ | सं प्रमोदात्मने अंगलोमान्याकर्षयामि ७ | हं विस्फुलिंगात्मने मेदमाकर्षयामि ८ | क्षं क्षं त्रिप्रहारिण्सत्मने सर्वधातूनाकर्षयामि ९ | एवं वश्यादौ वोद्धव्यं | वशयामि विद्वेषयामि मोहयामि मारयामि इत्याद्यूह्यं || अथ सर्वेषां देवानामेक दैवपूजाक्रमः कथ्यते | गुरूपदेशः प्राप्तः || ॐ ऐं ईं अं ऊं नमो भगवते वासुदेवाय विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणियां | श तु आसिंच तु प्रजापतिर्द्धातागर्भं दधातुते श्रीं ऐं क्लीं सौः | ॐ नमो नारायणाय ॐ भूर्भुवः स्वः तत्सवितुर्वरेणियं भर्गोदेवस्यधीमहि धियो यो नः प्रचोदयात् ह्रीं ह्लैं ह्लीं ह्लौं | ॐ त्र्यंवकं यजामहे सुगंधिं पुष्टिवर्धनं | उर्वारुकमिव वंधनान्मृत्योर्मुक्षीयमामृतात् क्लीं सहसकलरैं ह्क्लां ह्स्रौः | कृष्णाय गोविंदाय गोपीजनवल्लभाय स्वाहा प्रतद्विष्णुस्तवते वीर्येण मृगोन भीमः कुचरोगिरिष्ठाः | यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियंति भुवनानि विश्वाः | ग्लौंह सकलरडैंहसकलरंडीहसकलरंडौ स्योना पृथिवीनोभवानृच्छराणिवेशनी यच्छानः शर्मशप्रथाः | ॐ नमो भगवते वराहरूपाय भूर्भुवः स्वः यतये भूपतित्वंमे देहि दापय स्वाहा | हंसः शुचिषट्वसुरंतरिक्षसद्धोता वेदिषसदितिदुरोनसत् नृषद्वरसदृतसद्व्योम सदज्जागोजाऋतजा अद्रिजारितं वृहत् | १५५ब्)
SK
गंकपटल ह्रीं सहकल ह्रीं गणानांत्वा गणपतिं हव | महेकवीकवीनामुपस्तवस्तवं ज्येष्ठं राजं ब्रह्मणां ब्रह्मणस्यत | आनः शृन्भूतिभिः सीदस्पदनं ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं तत्सवितुर्वरेण्यं भर्गोदेवस्यधीमह्य्ॐ | जातवेदसेसुन वाम सोममराही यतो निदहां वेदर्ॐ ह्रीं दुं दुर्गायै नमः | ज्वलज्वलशूलिनि दुष्टग्रह हुं फट् स्वाहोत्तिष्ठ पुरुषि किं स्वपिषिंभयंमे समुपस्थितं यदिशक्यमशक्यं हुं दुं दुर्गे भगवति शमय स्वाहा | पर्षदति दुर्गाणि विश्वानावेव सिंधुं दुरितात्यग्निर्ॐधियोलः प्रचोदयाद्ॐमायोज्योति रसोमृतं ब्रह्मभूर्भुवः स्वर्ॐ | परोपजसिस्यवद्ॐव्य्ॐ रव्य्ॐहमुत्तिष्ठहरिपिंगललोहिताक्ष यक्षाय सु कुवेराय वैश्रवणाय धनधान्यधिपतये धनधान्यसमृद्धिंमेदेहिदापय स्वाहा | गगलंरीग्रीं नमो महागणपतये गणपत्यै वरेवरदेक्ष्म्यैं | ॐ नमः शिवाय नमो नारायणाय त्र्यंवकं यजामहे सुगंधिं पुष्टिवर्धनं | उर्वारुकमिववंधनान्मृत्योर्मुक्षीयमामृतात् सर्वजनंमेव शमानयक्षिप्रप्रसादनाय नमः ॐ नमो नारायण स्वाहा || १५६अ) अयं महामंत्रः सर्वदेव साधारणः | आगमवैदिकमयाः | अस्य ऋष्यादिकं नास्ति || अथ ब्रह्मविष्णुरुद्रात्मको मंत्रः || हंसात्मकोयमयामग्नेस्तेजसादीप्यमानः | सनो भृत्योस्त्रायतां नमो ब्रह्मणे विश्वनाभि || रुग्रंवरं महाविष्णुं ज्वलंतं विश्वतोमुखं | नृसिंहभीषणं भद्रं मृत्युमृत्युं नमाम्यहं || त्र्यंवकं यजामहे सुगंधिं पुष्टिवर्धनं | उर्वारुकमिववंधनान्मृत्योर्मुक्षीयमामृतात् ||
SK
अस्य मंत्रस्य वशिष्ट ऋषयः अनुष्टुभौ छंदसी ब्रह्मविष्णुरुद्रादेवता इष्टार्थे विनियोगः | हंसात्मकोयमुग्रं वीरं त्र्यंवकं हृदयाय नमः १ अपामग्ने महाविष्णुं यजामहे शिरसे स्वाहा २ तेजसादीप्यमानं ज्वलंतं सर्वतोमुखं सुगंधं पुष्टिंवर्धनं शिखायै वषट् ३ सनोमृत्योस्त्रायतां नृसिंहभीषणंभद्रं उर्वारुकमिव वंधनात् कवचाय हुं ४ नमो ब्रह्मणे मृत्युमृत्युं मृत्योर्मुक्षीय नेत्रत्रयाय वौषट् ५ विश्वनाभिर्नमाम्यहं मामृतात् अस्त्राय फट् ६ | इत्यस्मात् प्रतिलोमेन स्वरमंत्रं हविर्भुजः | उद्धरेत् प्रयतो भूत्वावियत्पूर्वं सविंदुकं || स्व एवमप्रतिष्टश्च श्रियागंधयहं वदेत् | वायुं च विंदुमप्युक्तातं वै मानदया पुनः || सज्ञाना मृतया प्राणा उर्चारान्नभ उद्भवः | १५६ब्) पूर्वर्णाया विश्वगं विद्याच्छशिनं व्योमगं पुनः || प्रतिष्ठांतमथोद्धृत्य तया सहखले वदेत् | अनया प्राणमुद्धृत्य यथा वदिति मंत्रवित् || कृत्यास्त्रमेतत्तेनैवरिपोः प्राणान् धिया हरेत् | आधारादुच्छितायास्तु सुषुम्नांतरगाः पुनः || कुंडली व्योमगा भूत्वा ज्वलंती सर्षसंनिभा | सावक्त्रांतरगा भूत्वा शत्रुं प्रतिनिवर्त्यसा || स्वागारे प्रविशेत् सद्यः पंचाग्नि समवायके | सप्ताहात् म्रीयतेऽरातिर्नात्रकार्या विचारणा || सर्षयंकुटुवंजप्तं तत्तैलेन च लोलितं | चिताग्नौ जुहुयादूक्तैरर्द्धरात्रे रिपुः पुनः || म्रीयते सार्धमासेन कृत्यास्त्र ज्वालयाहतः | चिताग्नि सकलानष्टौ व्रण तैलयुतानि च || अर्धरात्रे चतुर्दश्यां जुहुयात् सप्तवारतः | म्रीयतेरिर्न संदेहः कृत्यास्त्र ज्वालयाहतः || तुषास्थिभ्यां प्रतिकृतिं कृत्वार्धशिखिवैरिणः || समीरणं प्रतिष्ठाप्य व्रणतैलेन लोहितं | छित्वा छित्वाजरक्तेन सप्ताहं जुहुयाद्रिषुः || म्रीयते नात्रसंदेहः कृत्यास्त्र ज्वालयाहतः | वालुकं साक्षतं गृह्य जपेदयुत मंत्रवित् || साधितमप्सुविकिरेदणवायथेप्सितं | तज्जलं दहति क्षिप्रमाग्नेयास्त्राभिमंत्रितं ||
SK
आसप्तलोकं लोकाṁश्च सदहेन्मंत्रवित्तमः | सदेहं यक्ततो ध्यात्वा वांछितंत त्र्यहाद्रिपुं || १५७अ) नक्षत्र वृक्ष प्रकृतिं कृत्वान्यैस्तं समीरणं | तीक्ष्णतैलोक्षितां जप्तां कृत्यास्त्रेण वर्दकेनिशि || छित्वागतश्चिता वह्नौ हुनेत् सप्ताहतो मृतः | नक्षत्रवृक्षः अस्य साध्यस्ययन्नक्षत्रं तद्वृक्षः || कारस्करोशयधात्रीस्यादुदुंवर तरुः पुनः | जंवुःखदिर कृष्णाख्यौ वंशपिप्पलसंज्ञकौ || नादारोहितनामानौपला *? शप्लक्ष संज्ञकौ | अंवष्ट विल्वार्जुनाख्यविकंकितमहीरुहाः || वकुलः सावरः सर्जोवंजुलः पनसार्ककौ | शमीकदंधांम्रनिंवमधूकाऋक्षशाखिनः || चतुर्दश्यामथांगारे मध्यरात्रे चितोद्भवं | भस्मसंगृह्य यत्नेन महिष्याज्येन भावितं || चत्वारिंश चतुः पूर्वं गुटिकास्तत्र कारयेत् | ताश्चाजरक्तसंसिक्ताः प्रतिष्टित समीरणाः || चिताकाष्टौधिते चाग्ने जुहुयान्म्रीयते रिपुः | चतुर्दश्यां प्रयोगोयं मुनिभिः कथितः पुरा || माहिषे पंचगव्ये तु राजिभस्मचितोद्भवं | निक्षिप्य क्वाथयेध्यानकालाग्नि सदृशाननं || जपेन्मनुं सुराक्षं च शोषितं वर्जयेत्तदा | चितिकाष्टेन चित्यग्नौ दुर्गागायं हुतं हुनेत् || समूलतूलमादाय लांगलीं रक्तवारके | अजागंधी यथावच्चकरक्रोशनिकामपि || मर्कटीमपित उच्च यथावदयुतं जपेत् | चतुर्दश्यामथांगारे मध्यरात्रे गृहांतरे || १५७ब्) निखनेत् सप्तरात्रेण कुलोत्सादनुकृद् भवेत् | एकैकं * * * * * * * * * ? कुलक्षयः || षट्विंडुषट्कमादाय घटेनिक्षिप्यसोदने | अयुतं प्रजपेत् स्पृष्ट्वा श्मशाने निखने क्रमात् || कृष्णा * *? निशार्धे च शत्रुनाम समर्थितं | म्रीयंते शत्रवः सर्वे षण्मासात्सकुटुंविनः || एकैकं यत्र निक्षिप्तं * * * * * * * * ? | चत्वारिंशच्चतुः पूर्वंपाकलन्यस्तमारुतं | अजारक्ताक्त * * *? चतुर्दश्यां * * * *? शार्द्धके || कारस्कराग्नौ कांतारे जुहुयाद्दिवसत्रयं | कृत्यास्त्र ज्वालयाक्रांते रिपुर्यमपुरं व्रजेत् || पादयो * * *? प्रयोगाः संति || अथ दिनास्त्रयं | यथा ||
SK
अत्रिपीठोमरेशश्च महासेनायुतंश्चसः | कृत्यास्त्र ज्वाला * * * ? ततो रिपु * * ? व्रजेत् || पंचात्मकौनतयुतौ त्रिसूक्ष्मेण समन्वितः | इंद्वग्निनाकमयाविशेषादग्नि रूपकाः *? || वैरिणं भानुविंवेचन्यग्वक्त्रं भावयेद्धिया || कुंडल्योच्छितयाग्रस्ते * * * * * * * *?| मूलमध्ये विनिःक्षिप्तं पंचाग्नि समवायके || वहेद्वै योगमार्गेण रिपुर्मृत्युवशोभवेत् | यत्र कु * *? दासीनं * * *? प्रभया हृतं || भानुमंडलगं मंत्री दहेद्वारश्मिभिर्धिया | १५८अ) गभिष्यति रिपुः क्षिप्रं यमक्षयम संशयं || अवगाह्य सुवाणज्ञस्तादृशं विंवगं रिपुं | सवितुः प्रयतो ध्यायेज्जपन्मंत्रं च शक्तितः || शतं वाथ शतार्धं वा सप्ताहान्म्रीयते रिपुः | यत्र यत्रस्थितो मंत्री शुचिन्यस्तमनुस्तथा || सूर्योदयं समारभ्ययावदस्तं गतो रविः | तावत्कालं मनुंजप्याद्विद्वान् सप्ताहमादरात् || सन्निपात ज्वराक्रांतो रिपुः प्राणान् विमुंचति | दुर्गागारे मनुं सिद्धो वर्जितान्न स्त्रिरात्रतः || जपेदविरतं ध्यायन् दिनास्त्राग्निहतं रिपुं | तदयं मृत्युमायाति शत्रुर्ज्वरविमोहितः || भावं यन् दिनवातेन रिपुः जन्मर्क्ष संभवं | आकृतिं स्थापितं प्रान्निक्षिप्योल्लोदके जपेत् || अयुतं च त्र्यहादर्वाक् मृतिं गच्छति मोहितः | दुर्गायाः पुरतो मंत्री कुंडं कृत्वा त्रिकोणकं || तदग्राग्नि विधानेन प्रजपित्वा समाहितः | माहिषं गोमयं गृह्य अजरक्ताक्तमस्त्रवित् || तेन प्रतिकृतिं कृत्वा प्रतिष्ठित समीरणां | रिपोर्जप्तादिनास्त्रेण ध्यायन् वै चंडिकां पुनः || महिषोरस्थलस्थां च शूलपिंडित्तमस्तकां | नृत्यंती तदुरारंगः षोडशार्धकरैर्युतां || हाहाकारैरसद्रिश्च हुंकारेण हुतासुरैः | हृतां त्रैलोक्य संहारां ज्वालानलविराजितां || घूर्णिता नेत्रयुग्मांतांसं दष्टाधरपल्लवां | खड्गखेटक संयुक्तां कन्यकाभिः समावृतां || छित्वा चित्वा निशामध्ये क्षतजेन हुनेत् पुनः | १५८ब्) त्र्यहाच्च गच्छति परः परलोकं स पुत्रकः || अथ ब्रह्मणेऽनुष्टुप् ||
SK
हंसात्मको यमयामग्नेस्तेजसा दीप्यमानः | सनामृत्योस्त्रायतां नमो ब्रह्मणे विश्वनाभिः || अस्य प्रजापति ऋषिरनुष्टुप् छंदः ब्रह्मा देवताधन पुत्रादि सिद्ध्यर्थे विनियोगः | हंसात्मको यं हृदयं १ अपामग्नेः शिरः २ तेजसादीप्यमानः शिखा ३ सनोमृत्योस्त्रायतां कवचं ४ नमो ब्रह्मणे नेत्रं ५ विश्वनाभिः अस्त्रं ६ ध्यानं | अर्कौघायुतसंकाशं रक्तवस्त्रं महातनुं | स्रुक् स्रुचौ चाक्षमालां कमंडलुं कैर्धृतां || चतुर्मुख मुदारांगमालोलायतलोचनं | जटाधरं जगद्योनिंकुंडलाभ्यां विराजितं || हारकेयूर वलयग्नैवेयोर्मिभिरावृतं | सर्वर्तु कुसुमैः शुभ्रैः सर्ववर्णिरलंकृतं || आद्यैर्देवर्षि सिंहैश्च सेव्यमानं समं ततः | उद्गिरंतं श्रुतीर्दिक्षुशाखाभेदेन दिक् क्रमान् || एवं ध्यात्वा जपेन्मंत्रं मष्टोत्तरशतं पुनः | अथ पूजा | मानसिक पूजानंतरं वाह्यपूजां च कुर्यात् | आधारादि पीठं संपूज्य तदुपरि अष्टदलं कमलं परिकल्प्य पूर्वादि दिक्षु नित्यायै १ श्रद्धायै २ धारायै ३ पावन्यै ४ योगायै ५ शिखायै ६ धायिन्यै ७ नमः इति पूजयेत् | तत्कर्णिकायां देवमावाह्य मुद्राः प्रदर्श्य गायत्र्या अर्घं दद्यात् १ हस्ताभ्यामिति पाद्यं दद्यात् २ १५९अ)
SK
हिरण्यमंत्रेणा चमनं ३ मूलमंत्रेण मधुपर्कं ४ ध्रुवासुत्वेति स्नानं ५ युवस्त्राणीति वस्त्रं ६ हंस दृषदिति यज्ञोपवीतं ७ व्याहृत्या भूषणानि ८ गंधद्वारेणेति गंधं पुष्पाणि च ९ पौरुषेण स्रुतिं कुर्यात् १० || दलेषु गोदाय १ प्रमोदाय २ हंसाय ३ सामगाय ४ सत्यलक्षणाय ५ हिरण्यगर्भाय ६ विश्वनाभये ७ नमः इति पूजयेत् | तेष्वेव दलेषु श्रद्धायै १ लक्ष्म्यै २ धृत्यै ३ तुष्ट्यै ४ पुष्ट्यै ५ मेधायै ६ सरस्वत्यै ७ क्रियायै ८ नमः इति पूजयेत् | पुनस्तेष्वेव | भृगवे १ पुलस्त्याय २ पुलहाय ३ क्रतवे ४ अंगिरसे ५ मरीचये ६ दक्षाय ७ अत्रये ८ नमः इति || वशिष्ठाय नमः इत्यग्रे | एवं कुंभाक्षश्रकपुस्तकाभीतिरवच्छिन्नाधनं च पृथिवीं यावद्भवति || इति गृहस्थानां धर्मार्थं कामाभिलाषवतं | केचन मंत्रा अत्रव्यक्तीकृताः | एभ्योप्यन्यान् जानीमः तानरुचौनलिखामः || इतो मुमुक्षोः प्रणवस्व रूपं निरूप्यते | तद्यथा | तल्पादुच्छायोदकमुपस्पृश्य प्रातः प्रसन्नवदनं स्वगुरुं मुर्ध्नि चिंतयेत् | ज्ञानमुद्रालसट्वाहुं ज्ञानदं शिवमादरात् | प्रणवं स्थित्वानाभ्यादि स्थितं ब्रह्मविष्णुरुद्रेश्वरा द्वादशाद्गलदमृतमयैरुपहारैरभ्यर्च्य १५९ब्) प्रणवेच्चारणायैकी कृत्यपरं चिन्मयं विभाव्य | स्वातं त्र्यानंद संपूर्णं सच्चिदानंदसुंदरं | अद्वयं परमं तेजो नित्यसस्मिन्निरंजनं ||
SK
इति जपित्वा ॐ इतः पूर्वं देहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु जपन् कर्म सर्वस्व रूपमनुसंधाय अंगानि विन्यस्य | अत दिवस पूजां समापयेत् | पुनर्वहिर्निर्गत्य आवश्यकं विधायस्नात्वा सवितृमंडलाद्वैष्णवतीर्थं आवाहयामित्वां गंगेस्नानार्थमिहसुंदरि | एहिगंगे नमस्तुभ्यं सर्वतीर्थ समन्विते नमः इति जपन् आवाह्यशुद्धवसनाद्यलंकृतां द्विभुजांजले संपूज्य चिद्रूपयातया संपूर्णजलं स्मृत्वा निमज्य सकलदुरितं संहरसंहरेति जपन् मूलं यथाशक्ति जपित्वा उच्छाय शंखमुद्रा जलेनात्मानमभिषिच्य तीरमागत्य वासः परिधायाचम्य प्रणवेन प्राणायाम षट्कं विधाय वागादिकं न्यसित्वा प्रणवाभिमंत्रित जलेनात्मानमभ्युक्ष्य प्रणवेणार्घं दत्वा संतर्प्य अष्टोत्तरशतं जपित्वा तदभिमंत्रितं जलं त्रिःपीत्वा तीर्थं विसृज्यं जपस्थानं यायात् | पादप्रक्षालनं विधायांतः प्रविश्य अकाराद्यक्षरत्रयेण शोषणादिकं विधाय शुद्धस्थले पंकजं प्रणयंत्रोपेतं विचिंत्य स्वासनं ससकलयोरपि तथैव प्रणवयंत्रान्वितं लिपि पद्मं संचित्य दक्षिणेनोदकमादाय वामेनपिधाय प्रणव १६०अ)
SK
मष्टवारं जपित्वा संप्रोक्ष्य सोहमित्युपविश्य गुर्वादीन् प्रणमत् | तथाहि परमशिवाद्यशेषवारंपर्यक्रमेण स्वगुरुपादांवुजं यावत्तावत् प्रणमामीति शिरसि नत्वा ॐ गुरुभ्यो नमः | ॐ गणपतये | ॐ दुर्गायै | ॐ क्षं क्षेत्रपालाय | ॐ सरस्वत्यै | ॐ परमात्मने नमः इति वामदक्षान्स वामदक्षौ तु पुरतो हृद्यभिमंत्र्य | प्रणवस्यांतर्यामी ऋषिर्वापरमात्मा देवता आकारोवीजं ॐकारः शक्तिः मकारः क्षेत्रं प्रणवो वाचकः ब्रह्मवाच्यं मोक्षार्थे विनियोगः | प्रणवो ब्रह्मपुत्रोलातव्यगोत्रः १ अकारस्यांतर्यामी ऋषिर्ब्रह्मा ऋषिर्वा गायत्री छंदः २ ब्रह्मादेवताः ३ पृथिवी तत्वं ४ ऋग्वेदस्वरूपं ५ भूर्लोको ६ गार्हपत्यं क्षेत्रं ७ उदात्तः स्वरः ८ नाभिः स्थानं ९ रजोगुणः १० प्रातः सवनं ११ भूर्व्याहृतिः १२ प्राणोवृत्तिः १३ इडानाडी १४ जाग्रदवस्थां १५ विश्वः पुरुषः १६ पीतवर्णा १७ सृष्टिक्रिया १८ सृष्ट्यर्थे विनियोगः || ॐकारस्यं ब्रह्मा अत्रिर्वायुर्विष्णुर्वा ऋषि १ स्त्रिष्टुप् छंदः २ विष्णुर्देवता ३ रुद्रोऽधिदैवतं ४ अंतरिक्षं तत्वं यजुर्वेद स्वरूपं ५ भुवोलोकः ६ अन्वाहार्य पवनं क्षेत्र ७ अनुदात्तः स्वरः ८ हृदयं स्थानं ९ सत्वं गुणः १० माध्यंदिनं सवनं ११ भुवोव्या हृतिः १२ अषांवृत्तिः १३ पिंगलानाडी १४ स्वप्नावस्था १५ तैजसः पुरुषः १६ विद्विद्वर्णः १७ स्थितिक्रिया १८ स्थित्यर्थे विनियोगः || मकारस्य वामदेवो रुद्रः सूर्यो वा ऋषिः १ जगतीच्छंदः २ ईश्वरो देवता ३ रुद्रोऽधिदैवतं ४ द्यौस्तत्वं ५ सामवेदस्वरूपं ६ स्वर्लोकः ७ आहवनीयं क्षेत्रं ८ स्वरितः स्वरः ९ भ्रूमध्यं स्थानं १० तमोगुणः ११ तृतीयं सवनं १२ खर्व्याहृतिः १३ व्यानोवृत्तिः १४ सुषुम्ना नाडी १५ सुषुप्त्यवल्ला १६ १६०ब्)
SK
प्राज्ञः पुरुषः १७ शुक्लोवर्णः १८ संहारक्रिया १९ लयार्थे विनियोगः || अर्धमात्रस्य संवर्तकाग्नि ऋषिर्विराट् छंदः पुरुषोṁधिदेवता मरुतोऽधिदैवतं सोमलोकस्तत्वं अथर्ववेदस्वरूपं सर्वोवर्णस्तुरीयावस्था जीवस्य प्राणेश्वरार्थे विनियोगः | इति स्मृत्वा ततोऽंगुलि शोधनमन्त्रेण अंगुष्ठादिकानिष्ठिकातं चोपदेश क्रमेण युगपदुभयकरांगुलिषु विन्यस्य कोर्पराद्यांगुल्यग्रांतं च कृत्वा दिग्वंधनं च कुर्वन् दिक्षु लोकपालाṁस्तदाश्रयं प्राकारत्रयं कुर्यात् | तथाहि ॐ अं ॐ नमः १ उं ऊं ऊं नमः २ ॐ मं ॐ नमः ३ एवं पादादि मस्तकांतं व्याप्य स्थूलसूक्ष्म सुषुप्त्यात्मकं विराट् हिरण्यगर्भ ज्ञानात्मकं समग्नौ विलीनं द्यात्वा तदभिमानिन्यात्मनि चिद्रूप संहरण प्रणवं जपेत् | जपेनैव ज्ञानावाप्तिर्भवति | यदि वाह्यपूजांकत्तुमिच्छति तदा एवं कुर्यात् || प्रणवस्य प्रजापति ऋषिर्दैवी गायत्री छंदः परमात्मा देवता ज्ञानप्राप्त्यर्थे विनियोगः | अं ॐ आं हृदयाय नमः १ इं ऋं इं शिरः २ उं ऊं ऋं शिखायै वषट् ३ एं ॐ ऐं कवचाय हुं उं ऊं अं नेत्राभ्यां वौषट् ५ अ उं अः अस्त्राय फट् ॐ भूः इत्यादि षड्भिर्व्याहृतिभिर्वा | ध्यानं | विष्णुं भास्वत्किरीटांगदवलयगदा कल्पहारोदरांह्नि श्रेणीभूषं स वक्षोमणिमकर महाकुंडला मंडिताग्रं | हस्तोद्यच्चक्रशंखांवुजा दमभलंपीतकौशेयभासाविद्यो तद्भासमुद्यद्दिन करसदृशं पद्मसंस्थं नमामि || १६१अ)
SK
एवं ध्यात्वा विमलादि शक्तियुक्ते पीठे देवमात्मानं मावाह्य वीजात्मैकवुध्या पूजयेत् | पृथिव्याद्यात्मकगंधामादिकमुपसंहारवुद्ध्यातस्मिन् समर्पयेत् | अंगैः प्रथमावरणं | वासुदेवाय १ संकर्षणाय २ प्रद्युम्नाय ३ अनिरुद्धय ४ नमः इति दिक्षु | स्फटिक सुवर्ण पूर्णेंदु नीलप्रभाश्चतुर्भुजाः शंखचक्रगदापंकजधारिणः किरीटकेयूरधारिणाः पीतांवराश्च ध्येयाः | शांत्यै १ श्रियै २ सरस्वत्यै ३ रत्यै २ नमः इति कोणेषु | ततो लोकपालाः पूज्याः | एते सर्वेपि तत उत्पन्नास्तत्रैव प्रविष्टा इति स्मरेत् | स्मृत्वा स्वात्मनि संहरेत् | इत्येक वुद्ध्या पूजाकार्या | लक्षं पुरश्चरणं | घृताक्तैः पायसैर्दशांशोहोमः | एवमात्मरूपं विष्णुं संचिंत्य पूजयेत् | ज्ञानमुपदिशति येन परमानंदावाप्तिर्भवति || इति श्रीमदाशादित्यत्रिपाठीसंगृहीते मंत्रकोषे नानामंत्रकथनं नाम सप्तदशः परिच्छेदः || अथाग्नेयास्त्रं लिखामः | रग्निस्त्यतारिदुधुं सिंधवेनास्वाविनिर्गादुनिषदरिपणः सदवेरिहादनितो यदती राममंसोमवासुसेदवेतजारं || आग्नेयास्त्रस्यमारी च ऋषिस्वेष्टुप् छंदः जातवेदोग्निर्देवता शत्रुविमर्दनार्थे विनियोगः | षडंगं रग्निस्तनादिरिधुं सिधने ज्ञानात्मन हृदयाय नमः १ नाश्वाविनिर्गादु शक्त्यै शिरसे स्वाहा २ निषदरिपनः वलायै शिखायै वषट् ३ सदवेतिहादनि तेजसे नेत्रत्रयाय वौषट् ४ तोयती राममसोम ऐश्वर्याय कवचाय हुं ५ नवावसुसेदवेतजारं वीर्यास्त्राय फट् अंगुष्ठांगुल्य जंघा सुजानुनो रूरू युग्मके | १६१ब्) कद्यंधुनाभिषु हृदि स्तनयोः पार्श्वयोर्द्वयोः | पृष्ठतः स्कंधयोर्मध्ये वाहुमूलोय वाहुषु || प्रकोप्परे प्रकोष्टेषु मणिवंधकरेषु च | मुखनासाक्षि कर्णेषुमस्तं मस्तिकमूर्धसु || क्रमेण विन्यसेद्वर्णान् विद्वानस्त्र समुद्भवान् || शिखाललाटनयनकर्णौष्ठरसना तथा | सकंठ वाहु हृत्कुक्षिकटि गुह्योरुजानुषु || जंघयोः पादयोर्न्यस्येत्पदान्यस्य मनोः सुधीः | ध्यानमस्य प्रयोगेन प्रयोगे स्फुटी भविष्यति ||
SK
पूर्ववज्जपक्तृप्ति स्यात् जुहुयात् पूर्वसंख्यया | पंचमव्यस्तु पक्वेनं चरुणातस्य सिद्धये || जपसंख्या सहस्राणि होमो तस्य दशांशकः | अर्चनं पूर्ववत् कुर्यात् शक्तीस्तु प्रतिलोमतः || सर्वत्र देशिकः कुर्याद्गायत्र्या द्विगुणं जपः | क्रूरकर्मणि कुर्वीत प्रतिलोम विधानतः || शांतिकं पौष्टिकं कर्मकर्तव्यमनुलोमतः | प्रयोगकाले प्रजपेदष्टौपादान् विलोमतः || साधितो जायते पश्चान्मंत्रोयं विधिनामुना | ग्न्पादयः पंचाक्षरः पादो ज्ञेयो ज्ञानेंद्रियात्मकः || ध्वाद्योन्यः पंचवर्णश्च स्मृतः कर्मेंद्रियात्मकः | स्वाद्यस्तृतीयः पंचार्णः पंचभूतमयात्मकः || त्याद्यः सप्ताक्षरः पश्चाददूरतुरक्षरः | दः पूर्वः पंचमः पादः उर्मिरूपः प्रकीर्तितः || १६२अ) तो वर्णादिः षड्वर्णः षट्केशिक उदीरितः | सो पूर्वः पंचमोवर्णः शष्टादिमय ईरितः || सोवर्णाद्योऽष्टमोवर्णपंचार्णोवचनात्मकः | एवं तत्वसमायोगात्पादल्लप्तिरुदाहृता || तत्तत्पादाक्षरोत्पन्नास्तावंतो वह्निदेवताः | प्रधानमूर्ति प्रतिमाः स्वस्ववर्णोदि प्रभाः || प्रज्वलत् केशवदना भीमदंष्ट्रा भयानकाः | देवता इंद्रियोत्पन्नाः उर्ध्वदृष्टाय ईरिताः || देवता भूतपाक्षः स्तीर्यग्वक्त्राः समीरिताः | धातुः पादादरोद्भूता उभयान न शोभिताः || उर्मिजास्तूर्ध्ववदनाः केशोच्छास्तियंगाननाः | एताः सर्वाः स्मृताः क्लीवाः इति पाथोद्भवाः स्त्रियः || अधस्तिर्यङ्मुखोपेतार्धरिता वर्णदेवताः | आभिमुख्यः स्मृतः सौम्ये पराङ्मुखाऽन्यकर्मणि || आभिमुख्याः समुत्पन्ना देवता ज्वलिताननाः | याभिर्मंत्रे दहेच्छत्रो राष्ट्रं स गिरिकाननं || अस्त्रं मनुष्यनक्षत्रे धारभेत विचक्षरः | आसुरेषु प्रयुंजीत देवतारासु संहरेत् || पूर्वोत्तर त्रयं पश्चाद्भरण्यार्द्राथ रोहिणी | इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः || ज्येष्ठा शतभिषङ्मूलधनिष्ठा श्लेषकृत्तिकाः | चित्रामथाविशायाः स्युस्ताराक्षरदेवताः || अश्विनी रेवती पुष्प स्वातिहस्त पुनर्वसू | अनुराधा मृगशिरः श्रवणा देवतारकाः ||
SK
उपक्रमेत नंदासुरिक्तास्वस्त्रं विसर्जयेत् | भद्रा स्वाहरणं कुर्याज्जयास्वत्यंतमुत्तमं || उपक्रमो भौमवारेश निवारे विसर्जयेत् | प्रतिसंहरणं वारे गुरोः शुक्रस्य वा भवेत् || १६२ब्) स्थिरे घुराशिधारंभश्वरेषु च विसर्जनं | अस्त्रसंहरणं कुर्याद्दु भयेषु विचक्षणः || कृष्णपक्षनलेनास्त्रं विसृजेत् शशिना पुनः | शुक्लपक्षे क्रमादस्त्रं पुनरात्मनि संहरेत् || भानुनामोक्ष संहारौ कुर्यात् पक्षद्वयं शुधीः || पश्चिमाभिमुखो भूत्वा कर्म सर्वत्र कारयेत् | नक्षत्र वृक्षे सकलान्साध्याक्षान् कर्मसंयुतान् || तत्र मंत्राक्षरोपेतान्मंत्रीमंत्रार्ण संख्या | जुहुयाद्दीपिते वह्नौ मारयेद्रियुमात्मनः || कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशी | धत्तूर विषवृक्षाक्षभूरुहोच्छ समीरणान् || राजीतैलेन संलिप्तान् पृथक पत्र सहस्रकं | जुहुयात् संयतो भूत्वारि पुर्यमपुरं व्रजेत् || विषवृक्षः कारस्करः | अक्षवृक्षः विभीतकः | राजीराई इति | सप्तरात्रं प्रजुहुयात् सिद्धार्थ स्नेहलोहितैः | अर्द्दवस्त्रेविष्टिकालेमरीचैर्मनुनामुना || निगृह्यते ज्वरेणारिः प्रलयाद्धिसमेनसः | सिद्धार्थाः सर्षयां वृष्टिकाले भद्राकाले || तालपत्रे समालिख्य शत्रुनाम यथाविधि | आग्नेयास्त्रेण संवेष्ट्य कुंडमध्येनिषण्य तत् || जुहुयान्मरिचैः क्रुद्धो ज्वराक्रांतः स जायते | आग्नेयास्त्रेण वेष्टितं शत्रुनाम तालपत्रे लिखित्वा कुंडमध्ये खात्वा तदुपरि समाधाय जुहुयादित्यर्थः | तदादायक्षिपेत्तोयेशीतले स वशोभवेत् | १६३अ) पिष्ट्वा यामार्गवीजानि मरीच मधुसंयुते | अत्युल्लेलवणेतोये निक्षिप्य क्वाथयेत्ततः || लवण मिश्रितये ऋक्ष वृक्ष प्रतिकृतैः | हृदये वदने नाशिकायां किंचित् संक्षिपेत् || दर्व्याकास्करोत्पलया | ऋक्षवृक्षः शत्रुनाम नक्षत्र वृक्षः | तल्लवणतोयं क्वाथितमाग्नेयास्त्रमुच्चरन् मंत्रं सोचिराज्वरितो भवति | पुत्तली हृदयादौ आग्नेयमंत्रमुच्चरन् किंचित् किंचित्तोयं क्षिपेत् |
SK
क्वथितेऽंभसितं क्षिप्त्वाहन्याच्छत्रुमयत्नतः | अंभसिलवणांभसि | संतप्त तीक्ष्णतैलेन संजप्तं शत्रोः प्रतिकृतिं निशि | तापयेदेधिते वह्नौ प्रतिलोम मनुं जपन् | ज्वरेण वाध्यते सद्यस्त्र्यहादस्यमृतिर्भवेत् || तीक्ष्णतैलेन सर्षप तैलेन | सामुद्रे लवणे हिंगुविषजीरकलोडिते | क्वथिते पुत्तली साध्यनक्षत्र तनु निर्मिता || अधोवक्त्रांवु निक्षिप्य यष्ट्याविषतरूच्छया | तच्छिरस्ताडनं कुर्वन् जपेदस्त्रं विलोमतः || सप्ताहान्मरणं याति शत्रुर्ज्वरविमोहितः | सामुद्रे सलिले समुद्रलवणं मिश्रितपानीये || आदित्यरथ नागेंद्रग्रस्ताग्नि तद्विषा हतं | व्रणतैलेन लिप्तां गंदग्धं भानुमरीचिभिः || अधोमुखं निज रिपुं ध्यात्वा कथितवारिणा | तर्पयेद्भानुमालोक्य शत्रुर्मृत्युप्रियो भवेत् || विभ्रतीमुशलं शूलं ध्यात्वा दुर्गां भयंकरीं | महिषी घृतसंतप्तैः पल्लवैर्विषवृक्षजैः || हुत्वा रिपोः क्षणात्सेनामुच्चाटयति मंत्रवित् | १६३ब्) कारस्करं वृक्षजैर्ध्यात्वा देवीं पुरा प्रोक्तां चतुर्भिर्मरिचान्वितैः | अजारुधिर संसिक्तैर्जुहुयाद्दिवसत्रयं | रिपो रुच्चाटनं कुर्यात्सेनायां नात्र संशयः || अग्निशूलकिकांदेवीं ज्वलंतीं प्रलयाग्निवत् | ध्यात्वा शर्षपतैलाक्तैर्वीजैर्द्धत्तूर संभवैः || हुत्वा विमोहयेच्छत्रून् मरीचैर्वा स सर्षपैः | कालांजननिभां दुर्गां शूलखड्गधरां स्मरेत् || नक्षत्र वृक्षसंभूतैर्वीजैर्द्धत्तूर संभवैः | हुत्वा धियो हयेच्छत्रून्मरीचैर्वा स सर्षपैः || कालांजननिभां दुर्गां शूलखड्गनिभां स्मरेत् | नक्षत्रवृक्ष संभूतैर्व्रणकृत्तैल संभवैः || समिद्वरैः प्रजुहुयाद्धन्यान्मासेन वैरिणां | व्रण कृत्तैलं भल्लातक तैलं | सिंहाधिरूढां धावंतीं धावमानां रिपुं प्रतिं | शरान् कार्मुकनिर्मुक्तान् वह्निज्वालामुखाकुलान् || मुंचंतीं संस्मरन् दुर्गां शूलखड्गधरां स्मरेत् | तर्पयेदुल्लवारिणा | अति दुर्गामयोमुष्टि गदाहस्तां विचिंतयेत् | महिषी घृतसंप्लुतैः |
SK
पुलाकैर्जुहुयान्नित्यं विभीतक समिद्वरैः | कोद्रवैरथ वा शत्रोः सेनाया उच्चाटनं भवेत् || आतुरैः साध्य वृक्षकाष्ठेधितेनले | जुहुयान्निशि सप्ताहं मंत्रविद्वशयेन्नृपान् | पाशांकुशधरां रक्तां विश्वां दुर्गां विचिंतयेत् || फलिनी कुसुमैः फुल्लैश्चंदनांभः समुक्षितैः | जुहुयान्निशियो मंत्री तस्य विश्वं वशं भवेत् || फलिनी प्रियंगुः || १६४अ) शरच्चंद्रनिभांदेवीं विगलत् परमामृतां | पाशांकुशधरां ज्ञात्वा सिंधुदुर्गां समिद्वरैः || तसैर्मधुरा सिक्तैर्जुहुयात् वृष्टि सिद्धये | कपालं त्रिशिखं पाशमंकुशं विभ्रतीं करैः || जपाकुसुमसंकाशामग्नि दुर्गां विचिंतयेत् | हुत्वा लवणपुन्नल्पा मधुरत्रय युक्तया || आकर्षितद्वाक्षितान् सर्व्यामंत्रविन्नात्रसंशयः | मधुरत्रयं घृतशर्करा मधूनि | अतिदुर्गेयमत्पाद्याः | षडंगाṁ स्त्रिषु वीरिणांतादुर्वाणां ताप्यगाद्यांगानि दुर्गा प्रकीर्तिता | विश्वाद्यान्यक्षरांतासा विश्वदुर्गा प्रकीर्तिता | सिंध्व्याद्यासातकारांता सिंधु दुर्गा प्रकीर्तिता || त्यन्नामाग्न्यादिकामेनामग्नि दुर्गा प्रकीर्तिता | अंगणेस्थंडिलं कृत्वा सुगंधि कुसुमादिभिः || देवीमभ्यर्चयेन्नित्यं प्रागुक्ते नैव वर्त्मना | अतिषदिति अक्षरात्मकमति दुर्गास्त्रं नाम || अग्नित्य इति अग्निदुर्गास्त्रं | आहरेद्रावित्रिषुवलिं चतुर्णां सर्वसिद्धिदं | कृत्वा रोगग्रहाद्रोहं भीतासन्नापयेदयं || यथावदग्निमाराध्यगंधैः पुष्पैर्मनोहरैः | स्थित्वा तस्याग्रतो मंत्री जपेन्मंत्रमनन्पधीः || जपोयं सर्वसिद्धिः स्यान्नात्र कार्या विचारणा | लवणैर्मधुरासिक्तैर्जुहुयात् पश्चिमामुखः || मंत्रार्ण संख्यया मंत्री रिपूनात्मवशं नयेत् | शालीः प्रक्षाल्य संशोध्य शुद्धान् कुर्वीत तंडुलान् || जपित्वा पंचगव्येषु संस्कृते हव्यवाहने | चरुं पेचेज्जपन्मंत्रं मवती ये पुनः सुधीः || १६४ब्) अर्चयित्वा विशदधीः देवीमग्नौ यथा पुरा | जुहुयाच्च रुणानेन साज्येनाष्ट सहस्रकं ||
SK
पात्रे संपातनं कुर्वन्साध्यं तत्प्राशयेत् पुनः | शिष्टान्नं निखनेत् द्वारि संपातं प्रांगणांतरे || कृत्यारोगाविन्श्यंति सहभूताद्युपद्रवैः | परैरुत्पादिता कृत्यायुः स्नानेन च भक्षयेत् || व्रीहिभिर्हविषाक्षीरैः पयोवृक्ष समिद्वरैः | आज्यैर्मधुरत्रयोपेतैरेतैर्दशशतं पृथक् || जुहुयात् संपदां भूमिः साधको भवति ध्रुवं | भास्करे मेषराशिस्थे मंत्रज्ञानुगुणेदिने || नद्यां सागरगामिन्यां सततं पुष्करांभसि | उद्धृत्पादौ च सिकताः संशोध्य परिशोषयेत् || न्यस्यताः पंचगव्येषु संस्कृते हव्यवाहने | भर्ज्जयेन्मनुना सिद्ध्यैदर्व्या ब्रह्मतरूच्छया || सिंहमेष धनुस्थेऽर्के कृष्णपक्षेऽष्टमीतिथौ | विशाखा कृत्तिकामूल हस्तोत्तरमघास्तथा || रोहिण्यां श्रवणे वारौ मंदवाक्यति दैवतौ | विहायान्येषु कुर्वीत सिकतास्थापनं सुधीः || गृहग्रामादि राष्ट्राणां रक्षार्थं शिकताः शुभाः | प्रस्थाढके घटोन्मानां मध्यादिष्ववटेष्विमाः || नव सु प्रक्षिपेज्जप्त्वा तेषु संपूजयेत् क्रमात् | मध्यादि देवीमस्त्राणि कपालांतानि देशिकः || चक्रंशंखमसिंखेटंवाणंचापंत्रिशूलकं | अस्त्र मंत्रेण संपूज्य पूजांते च वलिं हरेत् || नक्षत्र ग्रहराशीनां लोकेशानां वलिं हरेत् | विहित्य यत्र रक्षेर्थ वर्धते तत्र संपदः || १६५अ) क्षुद्रग्रह महारोग चौरभूत सरीसृपाः | अमुनाविलयं यांति विधिना नात्र संशयः || इत्यादि वहुप्रकारासेति || अथ दिनास्त्रं || रमति दुर्गाणि विश्वानावेव सिंधुंदुरितात्यग्निः जातवेदसे सृनकामसोममराती यतो निदहाति वेदसनः पर्षतरं || ऋष्यादिकं पूर्वोक्तं | अग्निस्त्यतारिंदुधुंशिरां हृदयाय नमः १ विचेनाश्वानिर्गादुरीं शिरसे स्वाहा २ तिषरिपणः सरूं शिखायै वषट् ३ दवेति हादनिरैं कवचाय हुं ४ तोयती राममसोरौं नेत्रत्रयाय वोषट् ५ ममा आसुनसे वृवेतजारः अस्त्राय फट् ६ || ध्यानमग्रे प्रयोगकाले वक्तव्यं भवति || भानु विंवगतं शत्रुं मधोवक्त्रं विषापहं | मूलादुच्छितयाग्रस्तं कुंडल्या भावयन्सुधीः ||
SK
मूलाधारे क्षिपत्सद्यः प्रस्फुरत्काल पावके | दिनायाज्वाज्क्रांतो रिपुः प्राणान् विमुंचति || कालपावक मूलाधारादुच्छिताग्नौ दिनास्त्रेन प्रवृद्धांगस्वाधिष्ठानगतं रिपुं | पंचवायु सुसिद्धेन वह्निनादग्धविग्रहं | ध्यायन्मनुं जपेत् सद्यः स भवेत् ज्वरवल्लभः || स्वाधिष्ठानं मूलादु परिभागः | पंचवायुः प्राणापानादि | वह्निना मूलाधारादुच्छिताग्निना | मणिपूरगतं शत्रुं वह्निना दग्ध विग्रहं | ध्यायन् दिनास्त्रं प्रजपेत् स मृत्युवशतां व्रजेत् || मणिपूरगतं स्वाधिष्ठानादुपरिभागं | वह्निना पूर्वोक्तेन | अनाहित गतः शत्रुर्निर्दग्धो मंत्रवैरिणा | १६५ब्) पाशेन वध्वा शीघ्रेन नीयते यम किंकरैः || अनाहतो नामनाभेरूर्द्धभागे वायुस्थानं || विशुद्धिस्थानगो वैरादिनदीपितः | अधोमुखः स्मृतस्तूर्णं परासुः स्याद्दिनत्रयात् | विशुद्धिस्थानं पूर्वोक्त वायुस्थानादु परिभागः || नाभिमात्रोदके स्थित्वा ध्यायन् विंवं दिनेशितुः | वैरिणं दग्धसर्वांगं मंत्रमष्टोत्तरं शतं || जपेत् सप्तदिना दर्वाक् यमलोकं स गच्छति | आरवारं समारभ्य सप्तारं प्रजपेन्मनुं || सूर्योदयं समारभ्य यावदस्तमयो भवेत् | सन्निपात ज्वराक्रांतो यमग्रस्तो भवेदरिः || आरवारं भौमवारं | आज्ञायां निहितं शत्रुं दहेदस्त्राग्निनाधिया | पुत्रमित्र कलत्रादीन् हित्वा मृत्युमुपाश्रयेत् || आज्ञायामिति विशुद्धिस्थानादु परिभागः | स्थित्वा दुर्गालये मंत्री त्रिरात्रं वर्जिताशनः || दिनवारेण विद्धांगं वैरिणं प्रतिचिंतयन् | जपेन्मंत्रमिमं शत्रुर्ज्वरितो मरणं व्रजेत् || स्पृष्ट्वा दुर्गां जपन्मंत्रं मनस्थं त्रिदिनं स्मरन् | शूलप्रोतं निजं रिपुं दिनास्त्रेण प्रदीपितं || ज्वरेण महताविष्टो जायते सौयमातिथिः | रविमंडलगं शत्रुं दष्टं तद्रव्यपन्नगैः || विषाग्नि दग्धसर्वांगं ध्यायन्नुष्णेन चारिणा | तर्पयेद्दिन वातेनस्यादेवीयम वल्लभः || १६६अ) रविविंवादा गतया ज्वालयाग्रस्त विग्रहं | रिपुं ध्यात्वा जपेन्मंत्रं स क्रीडति यमांतिके ||
SK
ग्रहयुक्तार्कविंवस्थं विद्धं मंत्रमयैः शरैः | प्रतिपद्य निजं शत्रुं जपेदयुतमस्त्रवित् || रिपुं न यति शीघ्रेण यमदूतो यमालयं | ग्रहयुक्ते राहुग्रस्तं || प्रलयानलसंकाशां कालरात्रिमिवापरं | शूलपाशधरांदेवीं सिंहस्कंधनिषेडुषीं || स वितुर्मंडलाधस्थां रक्तनेत्रत्रयोद्गतैः | विस्फुलिंगैर्निर्दहंतीं रिपुमाकुलविग्रहं || स्पष्ट दंष्ट्राधरां नृत्यद्भृकुटी भीषणाननां | दर्शयंतीं निजं शत्रुं तर्जन्या भीमरूपया || दंष्ट्राम यूषजालेन द्योतयंतीं दिगंतरं | शूलेन वैरिणो वक्षो दारयंतीं भयंकरीं || जपेद्दिन त्रयं मंत्रमारयेद् रिपु मात्मनः | अस्त्रमंत्रकृत न्यासः प्रलयाग्नि समप्रभां || रक्तवस्त्रधरां क्रुद्धां रक्तनेत्र त्रयान्वितां | सिंहाधिरूढां धावंतीं धावमानां रिपुं प्रति || खड्गेन तच्छिरश्छित्वा क्षणाद्व्योमस्थलंगतां | ध्यात्वा दुर्गां जपन्मंत्री त्रिदिनं वर्जिताशनः || अनेनैव विधानेन रिपुर्मृत्यु प्रियो भवेत् | कर्माण्येतानि कुर्वीत दिवसेन तु रात्रिषु || पश्चिमामुखलिंगस्य स वीजं महिषं पुरः | निखनेत्तस्य शिरसि कुंडं कृत्वा त्रिकोणकं || १६६ब्) तस्मिन् समेधिते वह्नौ यथावद्देशिकोत्तमः | साधकोनाम मंत्राणां साध्यनाम समन्वितं || अजारक्तेन संसिक्तान् कारस्करसमिद्वरान् | सहस्रं जुहुयाद्देवीं ध्यात्वा सवित्रिमंडले || प्रलयाग्नि समांघोरां द्वात्रिंशड्भुजशोभितां | उद्यदायुध संयुक्तां नृत्यंतीं सिंहमस्तके || महादंष्ट्रां महाभीमां ज्वलत्केशीं तदुन्मुखीं | रक्तान्न मांसवदनां घूर्णिताग्र विलोचनां || अनेन विधिना शत्रुर्महाज्वरनिपीडितः | विमुंचति निजं देहं पुत्रमित्र कलत्रकैः || ऊर्ध्वमुक्तांभसो मंत्री लंवयित्वा भुजंगमं | भानुविंवगतां दुर्गां सहस्रादित्यसन्निभां || सहस्रपाणि चरणां सहस्राक्षि शिरोमुखीं | सहस्रनागवद्धांगीं त्रासयंतीं जगत्त्रयीं || ध्यायन्ननेन सर्पास्पेतर्पयेदुल्लवारिणा | संयतः कालपाशेन वैरी मुच्येत जीवितं ||
SK
मध्याह्नार्कायुतप्रख्यां न दंतीं नरसिंहवत् | घोरसिंह समासीनां महाभीषण दर्शनां || शूलप्रोता हितां ध्यायन् जपेन्मंत्रमनन्यधीः | तर्पयेदुल्लतोयेन सर्पवक्त्रे दिनत्रयं || यमस्य भुवनं गच्छेद रातिर्नात्र संशयः | ऋक्षवृक्ष प्रतिकृतिं प्रतिष्ठित समीरणां || उल्लोदके विनिक्षिप्य विषादे विधिना ततः | अर्केंद्वन न संकाशां खड्गखेटकधारिणीं || १६७अ) नयन त्रयसंगच्छद्विस्फुलिंगशताकुलां | सिंहस्थां सर्पभूषाढ्यां त्रैलोक्य भयदायिनीं || खड्गक्तत्ताहितं ध्यायन् प्रजपेद युतं मनुं | विधानेनामुना शत्रुर्ग्रस्तो भवति मृत्युना || प्रकल्प्य दुर्गायतने त्रिकोणं कुंडमुत्तमं | तत्र संज्वलिते वह्नौ महिषीशंस्कृता कृतां || पुत्तलीमजरक्ताक्तां प्रतिष्ठित समीरणां | छित्वा छित्वा प्रजुहुयादजरक्तान्वितां निशि || ध्यात्वा दुर्गां प्रनृत्यंतीं महिषोरस्थलांतरे | शूलेन महिषस्यांगंभिंदंतीं घोरदर्शनां || अट्टहासै रजस्रोच्छैर्भीषितां सुरसेवितां | प्रलयानलसंकाशां भ्रमन्नेत्रत्रयान्वितां || संदष्टाधरसंभिन्नां दंष्ट्रा भीममुखांवुजां | खड्गखेटकयुक्तांक्तिः कन्यकाभिः समावृतां || अनेन विधिना शत्रुः प्रयाति यमसंनिधिं | दिनास्त्रमेतत्कथितं शत्रुनिग्रहकारणं || अथ कृत्यास्त्रं | रंदषदरिपनः सदवेतिहादनियतो यतोयती राममसेधवान सुदवेद्रवेतजाग्निस्त नारिदुधुंसिंदवेनाखा विनिर्गादु अरं | एतत् क्रमेण षडंगानि || अथ प्रयोगः | कृतास्त्र चोदितान् कुर्यात् प्रयोगान् मंत्रवित्तमः | आधारादुच्छितां देवीं कुंडली सर्परूपिणीं || १६७ब्) सुषुम्णा रंध्रमार्गेण जातं व्योमस्थलं ततः | मुखेन शत्रुमादाय निवृत्तां स्वगृहं प्रति || ज्वलं ज्वालानलादीप्तां विचिंत्य प्रजपेन्मनुं | सप्तभिर्वासरैः शत्रुर्मृत्युमाप्नोति मोहितः || अंगारवारे चित्यग्नौ सर्षप स्नेहलोहितं | सिद्धार्थं कुडवं जप्तं जुहुयात् पक्षमात्रतः ||
SK
कृत्यास्त्र ज्वालया दग्धो रिपुर्यमपुरं व्रजेत् | चतुर्दश्या मर्धरात्रे चितास्थीन्यष्ट साधकः || व्रणतैल विलिप्तानि चिताग्नौ जुहुयात्ततः | अनेन विधिना शत्रुर्मृत्युमाप्नोति कातरः || तुषास्थि निर्मितां शत्रोर्व्रणतैलपरिप्लुतां | प्रतिमां स्थापित प्राणां जुहुयान्निशिकारकः || छित्वा छित्वा जरक्तेन सप्ताहान् म्रीयते रिपुः | श्मशान वालुकां स्पृष्ट्वा साक्षान्निशिषुतां जपेत् || विकिरेत्तास्तडागादौ कृत्यास्त्र क्वथितं जलं | तदायं पीतमचिरान्निहंति सकलान् जनान् || कृष्णांगार चतुर्दश्यां प्रजप्तैः प्रेतभस्मभिः | महिषाज्येन लुलितास्तन्मंत्राक्षर संख्यया || निर्मितां गुलिका एताः सम्यक् जप्तसमीरणा | निताकाष्टोधिते वह्नौ जुहुयात् दृढमानसः || चतुर्दशी त्रया दर्वाक् शत्रुर्मृत्यु प्रियो भवेत् | श्मशान भस्म सिद्धार्थं पंचगव्ये विनिक्षिपेत् || १६८अ) महिषे संस्मरन् देवीं कालाग्नि सदृश प्रभां | भर्जयेत् प्रंजपन् मंत्रं चिताकाष्टेधितेग्नले || दुर्गागारे प्रजुहुयादने नायुत मस्त्रवित् | पुनरादाय तद्भस्म सेनायां वैरिणः क्षिपेत् || सा सेना वहुधा भिन्ना ज्वररोग विमोहिता | आयुधानि परित्यज्य युद्धकाले पलायते || विषकाष्टांकारस्करकाष्टां || गेहे दामादिकं क्षिप्तं कुर्यादुच्चाटनं क्षणात् | सप्तवारेषु गुलिका दुर्गा वेश्मसुंशर्कराः || जप्तमाहेंद्र दिग्वज्र गृहीत्वा प्रजपन्मनुं | चतुर्दश्यां रिपोर्गेहे निखनेत् प्रजपन्मनुं || सिद्धं पुत्रकलत्राद्यैः | महिषी पंचगव्येषु भर्जयेत्तां यथा पुरा | भूयो जपित्वा विकिरे गेहग्रामपुरेष्विमाः || स देशो नश्यति क्षिप्रं दग्धोमंत्र भवाग्निना | ब्रह्मदंडी मर्कटिका क्रयक्राशनिकात्रयं || भौमवारेसु कुलिके गृहीत्वा प्रजपन्मनुं | चतुर्दश्यां रिपोर्गेहे निखनेत् प्रजपन्मनुं || सार्धं पुत्रकलत्राद्यै रुन्मादो जायते रिपोः | ब्रह्मदंडी मर्कटि काकवच्छु | एकैकं वा जपेन्मंत्रं मंडलात् सफलं भवेत् | षड्विंदु षट्कं पुत्तल्यां निखनेदोदनान्वितां ||
SK
स्पृष्ट्वा तां प्रजपेदस्त्रं कृष्णाष्टाम्यां निशार्धतः | शत्रोर्नाम समायुक्तां श्मशाने निखनेदिमं || प्रणश्पेता रिपुः शीघ्रं स कुटुंवः स वांधवः | १६८ब्) षड्विंदु षट्कं षड्विंदुः कीटक विशेषः || कपाल सकलान्मंत्री कृत्यांस्त्राक्षर संख्यकान् | संस्पृश्य प्रजपेदस्त्रं प्राणस्थापन पूर्वकं || कृष्णवारे चतुर्दश्यां श्मशाने विषवृक्षके | जुहुयाद जरक्ताक्तान् कृत्यास्त्र ज्वालयाहतः || रिपुर्यमपुरं गच्छेन् महाज्वरविमोहितः | कपाल सकलान् प्राणि शिरः खंडान् | अजरक्तेन संपूर्णे कलशे निक्षिपे दहिं | कपालेनपिधायैनं छादयेद्रक्त वाससा || पूजयेद् रक्त पुष्पाद्यैः स्पृष्ट्वा तम युतं जपेत् | भौमवारे निशामध्ये कारस्कर समन्विते || श्मशानं वह्नौ जुहुयाद् गच्छेद् यमपुरं रिपुः | साध्यनक्षत्र वृक्षेण कृत्वा कुंभं प्रपूरयेत् || माहिषैः पंचगव्यैस्तं विडालं तत्र निक्षिपेत् | जपपूजादिकं सर्वं यथापूर्वं समाचरेत् || कारस्कर भवे वह्नौ कृत्यास्त्रेण समेधिते | अयुतं व्रणतैलेन हुत्वान्नैतं घटं पुनः || आमस्तकं समुद्धृत्य जपेन्मंत्र मनन्यधीः | जुहुयाद्विनिपातेन त्रिदिनान्म्रीयते रिपुः || विडालो मार्जारः | व्रणतैलं भल्लातकतैलं | सुंदरं महिषी वत्समेकरात्रमुपोषितं | पायग्नेन्महिषीसर्पिः प्रस्थं मंत्रेण मंत्रवित् || कुशैरावद्ध सर्वांगं स्थापित प्राणमंजसा | कारस्करेधिते वह्नौ व्रणतैलेन मंत्रवित् || होमं कृत्वा युतं वत्स जुहुयाद्वतमानसः | एकेन दिवसे नारिर्गच्छेद्यमपुरं सुखी || त्रिकोण कुंड निहिते वह्नौ मंत्रे दीपिते | १६९अ) अर्चिते गंध्पुष्पाद्यैर युतं जुहुयात् क्रमात् || राजी भल्लातक तिलतिलैः सप्तदिनं ततः | प्रसूतिसमयप्राप्तां महिषीं स्थापितं पुनः || पूजितां गंधपुष्पाद्यैः स्पृशन् कूर्चेनतां जपन् | मस्तकाद्योनिपर्यंतं विधौ वत्समनुस्मरन् || आकृष् *? हस्तपतितं जुहुयादेधितेऽनले | एवं कृते समुत्पन्ना कृत्या दीप्तांदुताशनात् ||
SK
भक्षयेद चिराच्छत्रुमीश्वरेणापि रक्षितं | पुनरग्नौ विशत्येषाकर्तारमपिकांक्षति || एवं विधानि कर्माणयः कुर्यान्मंत्रवित्तमः | स जपेदात्म रक्षार्थे मंत्रं मृत्युंजयादिकं || इति श्रीमदाशादित्यत्रिपाठिसंगृहीते मंत्रकोषे अस्त्रादिमंत्रकथनं नामाष्टादशः परिच्छेदः || अथ यंत्रे वक्तव्ये पूर्वं होमीयद्रव्यपरिभाषा लिख्यते || अथ तु होमद्रव्याणां परिभाषा विधीयते | कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतं || उक्तानि पंचगव्यानि तत्समानि मनीषिभिः | तत्समं मधुदुग्धान्नमक्षिमात्रमुदाहृतं || दधिप्रसृतिमात्रं स्याल्लाजाः स्युर्मुष्टि संमिताः | पृथुकास्तत्प्रमाणाः स्युः सक्तवस्तु तथोदिताः || गुडं पलार्धमानं स्यादिक्षुः पर्वावधिः स्मृतः | एकैकं पत्रपुष्पाणि तथा पूषानि कल्पयेत् || कदलीफलनारंगफलान्ये कैकशो विदुः | मातुलुंगं चतुःखंडं पनसं दशधा स्मृतं || अष्टधा नारि केराणि खंडितानि विदुर्वुधाः | त्रिधा कृतं फलं विल्वं कपिच्छं खंडितं *?धा || १६९ब्) उर्वारुक फलं ह्येमे खंडितं चोदितं त्रिधा | फलान्यन्यानि खंडानि समिधः स्युर्दशांगुलैः || दृर्वात्रयं समुद्दिष्टं गुडूची चतुरंगुला | व्रीहयो मुष्टिमात्राः स्युर्मुद्ग ***? वा अपि || तंडुलाः स्युस्तदर्धांशाः कोद्रव्यमुष्टिमंमिताः | तिलाश्चुलुकमात्राः स्युः सर्षपास्तत् प्रमाणतः || शुक्ति प्रमाणं प्रवणं मरीचान्यपि विंशतिः | पुरं वदरमानं स्याद्रामठं तत्समं स्मृतं || चंदना गुरुकर्पूरकस्तूरी कुंकुमानि च | तित्तिली वीजमानानि समुद्दिष्टानि देशिकैः || इति होमीय द्रव्याणि || अथाग्नि विशेषाः | वैश्वानरं स्थितं ध्याये समिद्धोमेषु सर्वदा | शयानमाज्य होमेषु निषणं शेषवस्तुषु || आस्यांतर्जुहुयादग्नेर्विपश्चित् सर्वकर्मसु | कर्णहोमे भवेद्व्याधिर्नेत्रेऽंधत्वमुदीरितं || नाशिकायां मनः पीडामस्तके धनसंक्षयः | स्वर्णसिंदूरवालार्ककुंकुमक्षोदसन्निभः ||
SK
सुवर्ण तेजसोवर्णः शोभनः परिकीर्तितः | भेरीवारिदहस्तींद्रध्वनिर्वह्नेः शुभावहः || नागचंपक पुन्नागपाटला यूथिकानिभः | पद्मेंदीवरकह्लारसार्यर्गुग्गुलसन्निभः || यावकस्य शुभोगंधः इत्युक्तस्तंत्रवेदिभिः | प्रदक्षिणास्त्यक्तकंपाः छत्राभाः शिखिनः शिखाः || १७०अ) शुभदा जपमानस्य राष्ट्रस्यापि विशेषतः | कुंदेंदु धवलो धूमो वह्नेः प्रोक्तः शुभावहः || कृष्णः कृष्णगते वर्णो जपमानं विनाशयेत् | स्वतो राज्यं निहंत्याशु वायसस्य तु सन्निभः || खरस्वरसमो वह्नेर्ध्वनिः सर्वविनाशकृत् | पूतिगंधो हुतभुजो होतुर्दुःखप्रदो भवेत् || छिन्नावृत्ता शिखा कुर्यान्मृत्युर्धन परिक्षयं | शुकपक्ष निभो धूमः पीतवास समप्रभः || हानिं तु रगजातीनांगवां च कुरुतेऽचिरात् | एवंविधेषु दोषेषु प्रायश्चित्ताय देशिकः || मूलेनाज्येन जुहुयात् प्रायश्चित्ताय देशिकः | एवं अग्निषो होमो ज्ञातव्य इति || अथ यंत्राणि | तत्र मातृका यंत्रं || तार्त्तीयोज्वलकर्णिकं स्वरयुगैराविर्भवत् केसरं सर्गोल्लासिवसुछदं वसुमती गेहेन संवेष्टितं | ताराधीश्वर वारिवर्ण विलसद्दिकोण संशोभिवायंत्रं वर्णमनोः पदं निगदितं सर्वामयघ्नं परं तार्त्तीयं त्रिपुरामंत्रवीजं सौः इति तृतीयं वीजं | अन्यत् सुगमं ताराधीशश्चंद्रस्तद्वीजं टमिति | १७०ब्) वारिवीजं वमिति कोणे || त्रिलोहिनी मुद्रा यथा || सोमसूर्याग्नि रूपाः स्युर्वर्ण लोहत्रयं मताः | रौप्यमिंदुः स्मृतो हेमसूर्यस्तामं हुताशनः || लोहभागाः समुद्दिष्टाः स्वराद्यक्षर संख्यया | तैर्लोहैः कारयेन्मुद्रां असंकलित संगतां || साग्रं सहस्रं संजप्य स्पृष्ट्वा तां जुहुयान्नरः | तस्यां संपातयेन्मंत्री सर्पिषा पूर्वसंख्यया || निःक्षिप्य कुंभे तां मुद्रां अभिषेकोक्त वर्त्मना | आवाह्य पूजयेद्देवीमुपचारैः समाहितः || अभिषिच्य विनीताय दद्यात्तां मुद्रिकां गुरुः | इयं रक्ता क्षुद्ररोगविषज्वरविनाशिनी ||
SK
व्यालचोरमृगादिभ्यो रक्षां कुर्याद्विशेषतः | युद्धे विजयमाप्नोति धारयन् मनुजेश्वरः || स्वराद्यक्षर संक्षरसंक्षयेत् षोडश पंचविंशति भागं अग्न्यात्मकं ताम्रं दशभागं सोमात्मकं रौप्यं षोडशभागं संख्ययेति | एतद्वारितमुद्रा उक्तफलदा || अथ महालक्ष्मी यंत्रं || वेदादिस्थितसाध्यनामयुगशः श्रीशक्तिमारान्वितं किंजल्केषु दिनेशपत्र विलसत्मत्राक्षरं तद्वहिः | पद्मं व्यंजन केशरं सुरलसत्पद्माष्टयुग्मंधराविंवाभ्यां वषडंतया त्वरितया यंत्रं लिखेद्वेष्टितं | महालक्ष्मी यंत्रमिदं सर्वैश्वर्य फलप्रदं || १७१अ) सर्वदुःखप्रशमनं सर्वायद्वि निवारणं | वहुना किमिहोक्तेन परमस्मान्न विद्यते || अस्यार्थः | द्वादशपत्रं पद्मं कृत्वा तत्कर्णिकायां ॐ इति विलिख्य तन्मध्ये साध्यनाम श्रीवीजं ह्रीं वीजं क्लीं वीजं इति वीजत्रय संहितं लिखेत् | किंजल्केषु च वीजत्रयं गुणमंत्रेण वेष्टयेत् | द्वादशपत्रेषु मंत्राक्षर द्वादशकं तद्वहिः षोडशपत्रं | तत्केशरेषु युगशो व्यंजनानि | पत्रेषु षोडश स्वरा इति | तद्वहिर्भूविंव द्वयं वषडंतंग त्वरित मंत्रेण वेष्टयेत् | तत्कोणेषु हक्षौमिति लिखेत् | इति महालक्ष्मी यंत्रं || अथ भुवनेश्वर्या स्त्रिगुणितं | शक्त्यान्नस्थिति साध्यकर्म भवनं वह्नेर्वृतं शक्तिभिरप्यावीतमि **? र्थ*दं यंत्रं | भूपुरमध्यगं त्रिगुणितं सौभाग्यसंपत्करं | अस्यार्थः | १७१ब्)
SK
षट्कोणं विलिख्य तन्मध्ये ह्रीं वीजं तन्मध्ये साध्यनामसहितं कर्मकथं देवदत्तं रक्ष रक्ष इत्यादि | कोणत्रये ईं लिखेत् | तद्वहिः ह्रीं अन्योन्यं वध्नी * *? कथं एषां वीजानामेकैकं रेफ ईकाराभ्यां प्रदक्षिणी कृत्य परस्परं वध्नीयात् | ततः * * सूच्यंते हरि***? इकाररेफाविति | तेन ह्रीं ह्रं इति | अयं मक्षः सांप्रदायिकः | ततो हरि ईं हर ईं इति लिखेत् अथवा ह्रीं ईं ह्रं ईं इति लिखेद्वा | तद्वहिः पंचदशाक्षरैर्वा वेष्टयेत् | पुनर्भूगृहेन वेष्टयेत् | एतत् त्रिगुणित यंत्र मुक्तफलदं तथा लिखेत् | इति त्रिगुणित यंत्रं || अथ षट्गुणितं यंत्रं भुवनेश्वर्याः || वीजांतस्थित साध्यनाम सरसं ममौमटया रमामन्मथैर्वीतं वह्नि * * * * *? पुटेश्वाख्याद्य वीज त्रयं | आत्मानात्मकमीशिखं हरिहरैरावद्धगंडं वहिः षट्****? सुवद्ध सिंचिलिपिभिर्वीतं गृहाभ्यां भुवः | चिंतामणि नृसिंहाभ्यांल सत्कोणमिदं * * * * १७२अ)
SK
अस्यार्थः | षट्कोणे ह्रीं वीजं स साध्यं लिखेत् | कथं वीजस्य रेफ भागे साध्यनाम | ईकारभागे साधकनाम | उभयोर्मध्ये उभयोर्मध्येकतमाः शरसौवार पंचकं मध्यवीजं ह्रीं वीजेन श्रीं वीजेन क्लीं वह्निवीजेन च वेष्टयेत् | तद्वहिः षट्कोण मध्ये सात्मकानि सानुस्वाराणि लिखेत् | दक्षिणकोणत्रयेतान्येव साध्यानि अनुस्वार सहितानि ईशिषं षट्कोण मध्ये सानुस्वारमीकारं गंडयोः इ हरिहर इति | षट्कोणाद्वहिः पूर्ववत् षट्कोण वीजानि संवद्धानिलिपिभिः | भूकोण द्वयेन पूर्वादिषु नृसिंहवीजं कोणेषु चिंतामणिरिति | इति षड्गुणितं यंत्रं || अथ त्वरिता यंत्रं || मध्ये सरोजे दशपत्रयुक्ते मायां लिखेद्वांछित साध्यगर्भां | तारादि वर्णां दशपत्र संस्थान् षट्कोणवीजं वसुधा पुरस्थं | अथः स्यष्ट एव | कृत्या द्रोहादि शमनं व्यालचोरभयापहं | विधृतं त्वरिता यंत्रं विशेषाद्विजयप्रदं || इति त्वरिता यंत्रं || अथ यंत्रांतरं त्वरितायां एव || तारे हुं विलिखेत् सरोज कुहरे साध्याभिधानान्वितं मंत्रार्णान् वसु संख्यकान् वसुदलेष्वा लिख्यतद्वाह्यतः | १७२ब्) शक्त्यात्रिः परिवेष्टितं घटवृतं पद्मस्थ मब्जाननं यंत्रं वश्य्करं ग्रहादि भयहृल्लक्ष्मीप्रदं कीर्तिदं | इत्यपरं त्वरिता यंत्रं || पद्मं भानुदलान्वितं प्रविलिखेत्तत्कर्णिकायां पुनस्तारं शक्तिगसाध्यनामसहितं तत्केसरेषु क्रमात् | मर्दिन्यामनु संभवान् युगलसोवर्णकान् पुनः पत्रगान् मंत्रार्णान् गुणशोविधाय विलिखेदत्यं तदत्ते दले | मातृका वर्णसंवीतं भूपुरद्वयमध्यगं | यंत्रं विंध्यनिवासिन्याः प्रोक्तं सर्वसमृद्धिदं || रक्षाकरं विशेषेण क्षुद्र कृत्यादि नाशनं | राज्यदं भ्रष्टाराज्यानां वश्यदंवश्यमिच्छतां || सुतार्थिनीनां सुतदं रोगिणां रोगशांतिदं | वहुना किमिहोक्तेन यंत्रं तत्कामदोमणिः || अस्यार्थः |
SK
महिषार्दिन्या मंत्र्यक्षराणि | अष्टपत्रेषु मंत्रार्णान् युगलशः तदुपरि षोडश दलेषु वनवासिन्यास्त्रीणित्रीणि अक्षराणि लिखेत् | इति वनवासिनी यंत्रं || अथ त्रिपुरभैरवी यंत्रं || मध्याद्यं नवयोनिषु प्रविलिखेद्वीमानिवर्णां स्त्रिशो गायत्र्याषु नरब्जपत्र विवरेष्वा लिख्यलिप्यावृतं | १७३अ) भूर्विवद्वितयेन मन्मथयुजाकोणेषु संवेष्टितं यंत्रंत्रेपुरमीरितं त्रिभुवन प्रक्षोभकं श्रीप्रदं | अस्मिन् यंत्रे समावाह्य सम्यक् संपूजयेत्ततः | जपेन कृतसंपातं लाक्षालोहत्रयावृतं || विभृतं वाहुना यंत्रं युद्धेषु विजयावहं | वा देवाग्विजयं कुर्यात् कवित्वं पुष्कलं भवेत् || आयुरा रोग्यमित्राणि पुत्रपौत्रान् विवर्धयेत् | अस्यार्थः | नवयोनि चक्रं कृत्वा उपरितन ईशानकोणमारभ्य योनिषु मंत्रीवीजानि त्रीणि २ यथा क्रमं पुनः २ लिखेत् | तदुपर्यष्टदलं कमलं कृत्वा प्रत्येकं त्रिशः २ गायत्री वर्णान् | तदुपरि वृत्तं कृत्वा तन्मध्ये मातृकावर्णान् | तदुपरि नूपुरद्वयं तत्कोणेषु मन्मथवीजं लिखेत् | एतद्यंत्रं प्रोक्तफलदं | इति त्रिपुरभैरवी यंत्रं || अथ महागणपति यंत्रं || वीजं षट्कोण मध्ये स्फुरदनलपुरंतारगंदिक्षु लक्ष्मी मायाकंदर्प भूमीस्तदनु रसपुटेष्टां लिखेद् वीजषट्कं | १७३ब्) तत्संविष्टांग मंत्रान् वसुदल कमले मूलमंत्रस्य वर्णान् शिष्टान् पत्रेषु विद्वान् विलिखतु गुणशश्चांत्यमंत्येपलाशे || आवीतं लिपिभिः क्रमोक्तमवशान् पाशांकुशाभ्यामपि क्ष्मा गेह द्वितयेन वेष्टितमिदं यंत्रं गणाधीशितुः | लाक्षाकुंकुम रोचना मृगमदैर्भूर्जेवरे हेम्निवासं लिख्याभि वहेल्लभेत सकलैः संप्रार्थनीयां श्रियं || अस्यार्थः ||
SK
त्रिकोणं विलिख्य तन्मध्ये प्रणवं स साध्यं गणेश वीजसहितं | तद्वहिः षट्कोणं त्रिकोणाद्वहिश्चतुर्दिक्षु ह्रीं क्लीं ग्लौं इति लिखेत् | कोण षट्केषु प्रणवादि षट्वीजानि लिखेत् | कोणसंधिष्ठांगमंत्रान् | तदुपर्यष्टदलं पद्मं पत्रेषु त्रयः २ मंत्रवर्णान् अवशिष्टान् अंत्यपत्रे तद्वहिरनुलोम प्रतिलोमः लिपिभिर्वेष्टयेत् | इति महागणपति यंत्रं || १७४अ) अथ राम यंत्रं || तारं लिखेत् कोणगंडेषु पश्चात् किंजक्तेषु स्वरगणमथो पत्र मध्येषु माला | मंत्रोह्यर्णा गुणमुखसितानष्टमे मंत्रवर्णान् | दशाक्षरेण संवेष्ट्यकादि वर्णैश्च भूपुरे || दिग्विदिक्षु लिखेद्वीजं नारसिंह वराहयोः | जपादिसाधितं यंत्रं स्वर्णपट्टादि निर्मितं || वाहुना विधृतं दद्याद्विजयश्री पराक्रमान् | गदितं वै रामयंत्र विधानं मुनिपूजितं || कोणेषु मंत्रवर्णान् | तत्र संधिष्ठांग मंत्रवर्णान् ततः प्रत्येकं हृल्लेखा वीजं कामवीजं च लिखेत् || तदुपर्यष्टदलं कमलं तत्केसरेषु प्रत्येकं मालामंत्रस्य षट् षट्वर्णान् अष्टमे दले पंचवर्णान् | तदुपरि दशाक्षरेण मंत्रेण वेष्टयित्वा तदुपरिकादिवर्णैः पश्चाद्भूपुरेण वेष्टयेत् | दिक्षु वराहवीजं कोणेषु नरसिंहवीजं || इति रामयंत्रं || अथ वराहयंत्रं || मध्ये वीजं स तारं दहनपुरयुगे चक्रवर्णान् षडाश्रेष्ठाभिख्यंगानि संधिष्ठथकरणदले केसरस्थ स्वराह्ये | मंत्रार्णान् वेदसंख्यान् १७४ब्) दलमनुलिखेदंतमंत्येऽथ वाह्ये किंजल्के कादिवर्णा विकसित कमले षोडशारे यथावत् | मंत्रार्णान् युगशस्तूच्चरमदनगतं श्लिष्टवर्णं लिखित्वा क्ष्माकोण वीजैस्तदनु परिवृतं साध्यनामार्णमध्यैः | दर्विभिः साध्यनामार्णैर्मंत्रवर्णैर्वृतं वहिः | भूविंवेनास्यकोणेषु भूवीजं साध्यसंयुतं | अष्टशूलेषु वाराहं भूवीजसहितं लिखेत् || सार्वीशविम्डुगगनं वीजधाराममीरितं | रोचना गुरुकर्पूरलाक्षा कुंकुमचंदनैः ||
SK
गोमयांभसि संपिष्टैर्लिखेद्यंत्रं शुभे दिने | लेखिन्य हि ममप्यथ मंत्री काम प्रसिद्धये || स्वर्णपट्टे लिखेद्यंत्रं राज्यश्री समवाप्तये | भूर्जपत्रे निजेष्टाप्त्यै क्षौमे भूसिद्धये लिखेत् || जपपूजादिभिः सिद्धं यंत्रं कुर्यान्निजेप्सितं | रामपत्तन राष्ट्रेषु यंत्रमे तत्सुसाधितं || निखनेच्छु भवारादौसांगं दिक्षु समर्चयेत् | क्षुद्राप मृत्युरोगादि भूतव्यालमहाभयैः || न शक्यते पदं इष्टुंतं देशं देवता वलात् | अस्यार्थः | साध्य षट्कोणाद्वहिश्चतुर्दलं | कोणेषु चक्राक्षराणि संधिषु षडंगानि || चतुः पत्रेषु नारायणाष्टाक्षर द्वयं | पत्रेषु वाराहमंत्रस्य चतुरश्चतुरः | तद्वाह्ये षोडशदलं तत्केशरेषुकादिशांताद्वंद्वशः | १७५अ) पत्रेषु मंत्रवर्णद्वयं | तदुपरि श्रवण च भूवराहवीजैः साध्यगर्भैः | ततो मंत्रार्णैः | भूविंवेन स साध्येन क्ष्मावीजकोणेन वेष्टितं अष्टशूलं स भूवीजं लिखेत् || इति वाराह यंत्रं || अथ चक्रं यंत्रं || तारं लिखेद्वांतगतं स साध्यं तेष्वेव शिष्टं मनुवर्णषट्कं | अंगानि संधिष्वथ षोडशारं स षोडशार्णं वसुधापुरस्थं | षट्कोण मध्ये विलिखेत् स साध्यं तारं षडस्रिष्वथशिष्टवर्णान् | अंगानि तत्संधिषु तत्र मध्ये न्यसेत हौं क्षां विधिवत् प्रजप्तां | जपित्वा कृत संपातं गर्भिणीनां हितप्रदं | अभिचार ग्रहोन्मादान् यंत्रमेतद्विनाशयेत् || तारमित्यस्यार्थः | षट्कोणमध्ये प्रणवं स साध्यं लिखित्वा गर्भेठकारं कोणेषु मंत्रवर्ण षट्कं संधिष्वंग मंत्रान् | उपरिषोडशपत्रं कमलं भूपुरद्वयेनावृतं | १७५ब्) षोडश दलेषु षोडशाक्षर वर्णानिति || अथाभिषेकमाह | पलाशक्षीर वृक्षाणां त्वचोमलयजंपुरं | कुंकुमं यामिनीकोष्ठं विल्वापामार्ग सर्षपान् || तिलदूर्वाजवान् देवी तुलसी युगलंकुशं | लक्ष्मीं गोरोचनां पद्मं व चांगोमयसंयुतां || विष्णुक्रांता मर्कयुक्तां जपन्मंत्रं विनिक्षिपेत् | पंचगव्येन संपूर्णे पात्रे तत्संकृतेऽनले ||
SK
संस्थाप्य क्वाथयेत् सम्यग्यावद्भस्म भविष्यति | तदादाय जपेद्भूयः प्रयुतं देवता धिया || लिंपेत् सर्वांगमेतेन किंचिच्छिरसिनि क्षिपेत् | कृत्या द्रोहग्रहोन्मादव्याधि दुःखनिवारणः || सर्वशत्रु प्रशमनं सर्वपापहरं परं | शुभदं वश्यदं पुंसां समस्तापन्निवारणं || गर्भिणी वलरुग्नानां विशेषेण प्रशस्यते | अस्मात् परतरा रक्षानास्ति लोकेषु कीर्तिता || मलयजं चंदनं | पुरुं गुग्गुलुं | यामिनी हरिद्रा | देवी सहदेवी | लक्ष्मी विल्वं | एतत्सर्वं पंचगव्ये पूर्णकुंभे क्षिपेत् | प्रयुतं दशलक्षं लक्षद्वयं वा || पंचगव्य घृतप्रकारमाह | मुस्तामटीनिशा वह्निरेलायष्टि वचावृषा | पाठाविडंगं मंजिष्ठा द्राक्षा दार्वी स रोहिणी | फलत्रयं चतैः कल्कैः पंचगव्येषु सर्पिषा || प्रस्थं पिवेद्यथा न्यायं मंत्रेणानेन साधितं | शांतिदं सुतदं स्त्रीणां भूतप्रेत भयापहं || गर्भरक्षाकरं शुद्धं परमस्मान्न विद्यते | मुस्तामोप्यं निशा हरिद्रा वह्निश्चित्रकमूलं || १७६अ)
SK
यष्टिः मधु यष्टिः | रोहिणी कटुकी | फलत्रयं हरीतक्यादि | प्रस्थपरिमितं घृतं सम्यक् पाचयेत् | मंत्रसाधित मुक्तफलदं || अथ पुरुषोत्तम यंत्रं || कामोल्लासित साध्य मंगविलसत् षट्कोणमेतद्वहिः गायत्री गुणवद्ध वर्ण सु दलं मालामनोरक्षरैः | षट्संख्यैः सहिताष्ट पत्रसहितं क्षोणी पुरेणा वृतं कोणन्यस्त मनो भवेन सहितं यंत्रं जगन्मोहनं | अस्यार्थः | षट्कोणं विलिख्य तन्मध्ये कामवीजं षट्कोणोपरि अष्टदलं कमलं प्रतिमंत्रं कामगायत्र्या अक्षरत्रयं २ | पुनस्तदुपर्यष्टदलं पद्मं तस्य प्रति पत्रं मालामंत्राक्षर षट्कं २ | ततः भूपुरं सा कामवीजं वश्यार्थं धारयेत् | इति पुरुषोत्तम यंत्रं || शूलांकिते वह्नि गृहस्य युग्मे धूमावती मंत्रलिखेत् क्रमेण | मध्यादि कोणेषु मरुद्गृहस्थं यंत्रं हुताशा निल वह्निवीजं | दांतोशार्वीशविंद्वंतौ वीजे धूमावंतीं मनुः प्रोक्तः शत्रु निग्रहकारकः विषेण कनकांभोभिः प्रेतकर्पटकल्पितं | १७६ब्) श्मशाने निखनेदेतच्छत्रुमुत्सादयेद्ध्रुवं | अस्यार्थः | षट्कोण धूमावती मंत्रं एकैकं लिखेत् | तद्वहिर्वायु गृहेन वेष्टयेत् | ततो रेफेण | तद्वहिर्यकारेण | प्रेतवस्त्रे धत्तूरकरसेन काकपक्ष लेखन्या लिखित्वा श्मशाने निखनेत् | शत्रूच्चाटनं भवेत् || मामालिख्यमकारकोष्ठयुगले कोणेषु तस्या लिखेन्मंत्रज्ञोङणनाञ्जकारसहितान् धूमावतीं पत्रगां | वीतं घर्मटिकादिनापरमिदं वायुत्रिगेहावृतं यंत्रं प्रांतपरेत भूमि निहितं विद्वेषणं स्यात् द्विषः | अस्यार्थः | अष्टदलकमलं कृत्वा तन्मध्येमांकारं तत्कोष्ठद्वये साध्यं मकारेण चतुष्टयेनङणनार्णान् पत्रेषु धूमावतीं | वहिर्घुमुटिकादिना वेष्टयेत् | एतत् प्रेतवस्त्रेण धत्तूर करसेन काकपक्ष लेखन्या लिखेत् | श्मशाने निहितं द्वेषकरणं | १७७अ)
SK
एकाशीति पदेषु मध्य दहने साध्यं लिखेद्धुं पुनः क्ष्त्रूं श्रूं व्रूंञ्जितिदिग्गता सु विलिखेद्वीजान् पंक्तिय्वथ | शिष्टोष्वीश निशाचरादि विलिखेत्काली मनुपंक्तिशस्तद्वाह्ये यमवीतमग्नि यवनावीतं च यंत्रं लिखेत् | लिखेदष्टविषांगारनिंवनिर्यासकज्जलैः | निग्रहाक्षमिदं चक्रं काकपक्षेण कर्पटे | विभीत वृक्षे वल्मीके श्मशाने वा चतुः पथे || दक्षिणस्थेनिलेमंत्री निखनेदर्थरार्धके | सर्वथा शत्रुरेतेन सप्ताहान्म्रीयते रिपुः || निग्रहीत महारोगैः पतिते वा भवेदसौ | शिलायामि * * * *? चक्रमे तत्प्रकीर्तितं || मर्कटी विषदंडीभिः समालिख्य मधोमुखं | यत्र रात्रौरवानं तत्र भूयाशुभं भवेत् || आख्यातुं पुरमध्यतः स्मरगतामालिख्य जंभाभिधां विद्यां दिग्गतपत्रकेष्वथ लिखेद्देवी दलेषु स्मरं | कोणस्थेषु समानकं च हि रतः पाशांकुशाभ्यां वृतं यंत्रं वश्यकरं ग्रहादि भयहृत् क्षुद्राभिचारापहं | १७७ब्)
SK
अस्यार्थः | अष्टदलकमल मध्ये तुं वुरुवीजं तन्मध्ये कामवीजं ततः सा*? दिक्पत्रेषु | जंभेजंभिनि मोहेमोहिनि अंधेअंधिनि रुंधेरुंधि स्वाहा सर्वत्र || अथ मृत्युंजयं यंत्रं || पुटी कृते भूमिपुरस्य युग्मे मायां लिखेन्मन्मथ साध्यसंज्ञां | चकार कोणेन महीपुरेण संवेष्टितं कस्यकरं तदुच्चैः | मध्ये सार्णविदर्भितं प्रपुटितं मृत्युंजयं त्र्यक्षरैःक्षांतस्थं निजसाध्यनाम विलिखेत् किंजल्कसंस्थान्सुरान् | पत्रेष्वष्टासु नाममंत्रपुटितं वर्गेष्वथो यंत्रं पद्मपुटीकृतं निगदितं मृत्युंजयाख्यं परं | विषज्वर शिरोरोगनाशनं श्रीजयप्रदं | कांतिपुष्टिप्रदं वश्यं सर्वकमार्थसाधकं | अस्यार्थः | अष्टदलकमलं कृत्वा दलेषु स्वरकेसरं कृत्वा कमलकर्णिकायां क्षकारं तन्मध्ये मार्णविदर्भितं साध्यनाम मृत्युंजय त्र्यक्षरपुटितं कृत्वा पत्रेष्तष्टयुक् त्र्यक्षरपुटितं नामलिखेत् | पत्रांगेष्वष्टवर्गान् | अष्ट उपरि पद्मद्वयेन पुटितं यंत्रमुक्तफलदं || इति मृत्युंजय यंत्रं || ॐकारमायादिषु मेखलेग्नि वधूर्मनुं वह्नि गृहस्य युग्मे | मध्यादि कोणेषु विलिख्य भूर्जे यंत्रं विदध्याद्रिपुनागहानिं || अस्यार्थः | वह्निगेहयुगं लिखित्वा | १७८अ) मध्ये ॐकारं कोणेषु ह्रीं मेखले स्वाहेति लिखेत् || विहाय वीजं नृकारं ग्लकारं तत्र संलिखेत् | क्षकारे नावृतं वाह्ये पाशांकुश वृतं पुनः || टकारेणावृतं भूयोभूमिमंडलमध्यगं | लकारैर्विंदु संयुक्तैर्वेष्टितं तद्वहिः क्रमात् || सर्गांत मातृका वीज सर्वं वृत्तेन चेष्टितं | कौक्षैंय कर्पाटे कॢप्तमिष्टद्वयं च मध्यगं || सेनाग्रे निखनेदे तत्स्तंभनं कुरुते ध्रुवं ||
SK
मध्ये श्रीनरसिंह वीजमथ तद्वाह्य स्वरान् केसरेवारीद्वेंदुयमेंद्रकेषु विलिखेन् मध्ये मनुं गारुडं | अंतस्थान्मरुदग्नि नैरृति शिवेष्वालिख्य वर्गावृतं यंत्रं माजिभिरष्टिभिः परिवृतं संवर्तकैर्गारुडं || अस्यार्थः | अष्टदलकमल मध्ये नृसिंहवीजं स्वराः केसरेषु | पश्चिमोत्तर याम्य पत्रेषु मध्ये गारुडमंत्रं | वायुवह्नि निरृति शिखि पत्रेषु यरलवाः | वहिर्वराहेन तद्वहिरष्टभिः क्षकारैर्वेष्टयेत् | एतद्यंत्रं धारयतः पश्यतश्च सर्वविषं नश्यति || १७८ब्) अथ कामयंत्रं || साध्यः संपुटितैः स्मरैरपि वृतं कामं लिखेन्मध्यतः पश्चात्तारपिकारपक्षपरान्नाशार्पि झंटीशपान् | शूलाष्टाष्ट दलेषु साधविलिखेत् तांवूलपत्रोदरेयंत्रं तन्निशिखादयेत् कृतजपं वशोभवेत्तत्रसः | अस्यार्थः अष्टपत्र पद्मं तांवूलोदरेलिखित्वा तन्मध्ये कामवीजं स साध्यनामाक्षरपुटितैः कामवीजैस्तद्वेष्टयेत् | पश्चादष्ट पत्रेषु प्रत्येकं वक्ष्यमान वीजानि विलिखेत् | कथं तारः ॐकारः | ॐकारः | खं ऋं उं एं यं अष्टदलेषु लिखेच्छूलानि दलाग्रेषु | एतद्यंत्रं वश्यकरं || अथ गोविंदयंत्रं || प्राक् प्रत्यग्दक्षिणोदग्विविधदभिलिखेत् साष्टरेखा चतुष्कं कोणोद्यच्छूल युक्तं वलयुगयुतं मध्यकोष्ठे तदंअः | श्लोकस्यार्णान् परस्ताद्वसुदलविवरेऽष्टवर्णं लिखित्वा तद्वाह्ये द्वादशार्णेस्तदनुपरिवृतं देवकीपुत्रयंत्रं | लिखितं भूर्जपत्रादौ यंत्रमे तद्यथा विधिविधृतं वाहुना नित्यं सर्वकाम फलप्रदं | पलाशवृक्षफलके लिखितं साधुसाधितं | गोस्थाने निखनेदे तद्गवां वृद्धिः प्रजायते || १७९अ) अथ लेख्यद्रव्याणि || काश्मीररोचना लाक्षा मृगेभमदचंदनैः | विलिखेद्धेमलेखन्या यंत्राण्येतानि देशिकः || भूमिसृष्टं वशस्पृष्टं दग्धं निर्माल्यसंगतं | विस्तीर्णं लंघितं मंत्री यंत्रं जातु न धारयेत् || अथ यंत्ररूपाणि दीक्षाद्युपयुक्तानि सर्वतोभद्रनवनाभपंचाब्जानि मंडलानि लिख्यंते || सर्वतोभद्रं यथा ||
SK
चतुरस्रं चतुःकोष्ठे कर्णसूत्रसमन्विते | चतुर्ष्वपि च कोणेषु दद्यात् सूत्रचतुष्टयं || ततः कोष्ठेषु मत्स्याः स्युस्तेषु सूत्रेषु पातयेत् | षट्त्रिंशत्तानित्यदैर्मध्ये लिखेत् पद्मं सलक्षणं || वहिः पंक्त्या भवेत् पीतं पंक्तियुग्मेन वीथिकाः | द्वारशोभोपशोभाश्च शिष्टाभ्यां परिकल्पयेत् || शास्त्रोक्तविधिना मंत्री ततः पद्मं समालिखेत् | पद्मक्षेत्रस्य संत्यज्य द्वादशांशं वहिः सुधीः || तन्मध्यं विभजे मृत्तैस्त्रिभिः समविभागशः | आद्यं स्यात् कर्णिकास्थानं केशराणां द्वितीयकं || तृतीयं तत्र पत्राणां उक्तांशेन दलाग्रकं | वाह्यवृंतांतरालस्य मानं यद् विधिना सुधीः || निधाय केशराग्रेषु परितोर्द्धनिशाकरान् | लिखित्वा संधिसंस्थाने ततः मूत्राणि पातयेत् || दलाग्राणां च यन्मान तन्मानं वृंतमालिखेत् | तदंतराले तन्मध्ये सूत्रस्योभयतः सुधीः || १७९ब्) प्रालिखेद् वाह्यहस्तेन दलाग्राणि समं ततः | दलमूलेन युगशः केसराणि प्रकल्पयेत् || एतत् साधारणं प्रोक्तं पंकजं तंत्रवेदिभिः | पदानि त्रीणि पादार्थं पीठकोणेषु मार्जयेत् || अवशिष्टैः पदैर्विद्वान् पीठगात्राणि कल्पयेत् | पदानि वीथिसंस्थानि मार्जयेत् पंक्त्यभेदतः || दिक्षु द्वाराणि यजेत् द्विचतुःकोष्ठकैस्ततः | पदैस्त्रिभिरथैकेन भागाः स्युर्द्वारपार्श्वतः || उपशोभाः स्युरेकैन त्रिभिः कोष्ठैरनंतरं | अवशिष्टैः पदैः षड्भिः कोणानां स्याच्चतुष्टयं || रंजयेत् पंचभिर्वर्णैर्मंडलं तन्मनोहरं | पीतं हरिद्राचूर्णं स्याच्छ्वेतं तंडुलसंभवं || कुसुंभचूर्णमरुणं कृष्णं दग्धपुलाकजं | विल्वादि दीपकं श्याममित्युक्तं वर्णपंचकं || अंगुलोत्सेधविस्तारा श्रीमा रेखाः सिताः शुभाः | कर्णिका पीतवर्णेन केसराण्यरुणेन च || शुभ्रवर्णेन पंत्राणि तत्संधीः श्यामलेन च | १८०अ) रजसासं जपेन्मंत्री यद्वा पीतैव वर्णिका || केसराः पीतरक्ताः स्युररुणानि पदान्यपि | संधयः पीतवर्णाः स्युः पीतेनाप्यसितेन वा ||
SK
रंजयेत् पीठगर्भाणि पादाः स्युररुणाः शुभाः | गात्राणि तस्य शुक्लानि वीथीषु च चतसृषु || आलिखेत् कल्पलतिका दलपुष्पफलान्विताः | वर्णार्नानाविधैश्चित्राः सर्वदृष्टि मनोहराः || द्वाराणि श्वेतवर्णानि शोभा रक्ताः समीरिताः | उपशोभाः पीइतवर्णाः कोणान्यसितभांसि च || तिस्रोरेखा वहिः कार्यासितरक्ता सिताः क्रमात् | मंडलं सर्वतो भद्रमे तत्साधारणं स्मृतं || अस्यार्थः || उक्तप्रकारेण पूर्वपश्चिमायता उत्तरदक्षिणायताश्च सप्तदशरेखा समाः कोष्ठाः कार्याः | मध्यस्थ षड्भिः कोष्ठैः पद्मं लिखेत् | पद्ममध्ये पीतवर्णानि केसराणि अरुणानि पत्राणि शुभ्राणि पत्रसंधयः | असिता वर्णाः | पद्मोपरिपंक्त्यैकेन पीठं कार्यं | त्रिभिस्त्रिभिः कोष्ठैः पीताद्याः | अरुणाः कोष्ठ चतुष्टये कार्याः | पीठोपरिपंक्तिद्वये नानावर्णाः सर्वतो वीथीकाः कर्तव्याः | उपरिपंक्तिद्वयमवशिष्टं जातं | तस्य कोणेषु पादचतुष्टयेषु हरितं षड्भिः कोष्ठैः कार्यं | तत्समीपस्थ कोष्ठ त्रयेण तदर्द्धे नैव च पीता उपशोभाः कार्याः | १८०ब्) द्वाराणि चतुर्भिः कोष्ठैः | द्वाभ्यां च श्वेतवर्णानि एवं च दिक्षु वोद्धव्याः | ततो मंडलाद्वहिस्तिस्रोरेखाः श्वेतारुण कृष्णवर्णाः कार्याः | एवं सर्वतो भद्रमंडलं मनोहरं संपद्यते || अथ नवनाभमंडलं कथ्यते || चतुरस्रे चतुः षष्ठि पदान्या रचयेत् सुधीः | पादैश्चतुर्भिः पद्मं स्यान्मध्ये तत्परितः पुनः || वीथीश्चतस्रः कुर्वीत मंडलांतावसानिकाः | दिग्गतेषु चतुष्केषु पद्मानि च समालिखेत् || विदिग्गत चतुःकानिभित्वां षोडशधा सुधीः | मार्जयेत् स्वस्तिकाकारं श्वेतपीतारुणासितैः || रजोभिः पूरयेत्तानि स्वस्तिकानिसितादितः | प्राक् प्रोक्तेनैव मार्गेण शेषमन्यत् समापयेत् || नवनाभमिदं प्रोक्तं मंडलं सर्वसिद्धिदं || अस्यार्थः |
SK
पूर्वपश्चिमायतानवरेखाः समाः कार्याः | तथोत्तरायताश्च नवरेखाः कार्याः | एवं चतुरस्रं सम्यक् चतुःषष्टिकोष्ठात्मकं संपद्यते | तस्य कोणस्य कोणचतुष्टयं भित्वा षोडशधा कार्याः || १८१अ) षोडशकोष्ठमध्ये त्रिभिः कोष्ठैः एकेन च लिंगाकारं संपद्यते | तथैव त्रयमपि | एवं स्वस्तिकं कोणचतुष्टये कार्यं दिक्षु कोणचतुष्टयेन पद्मचतुष्टयं कार्यं | मध्यस्थ कोणचतुष्टये पद्मैकं | अवशिष्ट कोणपंक्तिभिर्वीथी चतुष्टयसीमांतं कार्यं | एवं नवनाभमंडलं भवति || अथ पंचाब्जं || पंचाब्जं मंडलं प्रोक्तमेतत्स्वस्तिकवर्जितं | दीक्षायां देवपूजार्थं मंडलानां त्रयं शुभं || स्वस्तिकस्थाने कोणचतुष्टये वर्णिकापूरणं चतुरस्रं कार्यं | पूर्ववत् पद्मपंचकं चतुर्दिक्षु मध्ये च कार्यं | वीथ्यश्चतस्रकार्याः || इति श्रीमदासादित्यत्रिपाठीसंगृहीते मंत्रकोषे यंत्रकथनं नाम एकोनविंशः परिच्छेदः || अथ देवपूजादौ उपयुक्ता मुद्रा लिख्यंते | आवाहनादिका मुद्राः प्रदर्श्यंते यथा क्रमात् || याभिर्विरचिताभिस्तु मोदंते मंत्र देवताः | सम्यक् संपूरितैः पुष्पैः कराभ्यां रचितोऽंजलिः || आवाहनाख्या कथिता मुद्रा देशिकसप्तमैः || १ || अधोमुखी कृता सैव प्रोक्तास्थापन कर्मणि || २ || आश्लिष्ट मुष्टि युगला प्रोन्नतांगुष्ठ युग्मिका | सन्निधाने समुद्दिष्टा मुद्रेयं देशिकादिभिः || ३ || श्रीगुष्टगर्भिणी सैव सन्निरोधे समीरिताः || ४ || १८१ब्) देवतांगे षडंगानां न्यासः स्यात् सकलीकृतः || ५ || सव्यहस्तकृता मुष्टिदीर्घाधो मुखतर्जनी | अवगुंठन मुद्रेयं प्रोक्ता देशिकसत्तमैः || ६ || अन्योन्याभि मुखाश्लिष्टकनिष्ठानामिका पुनः | तथा तर्जनिमध्येयं धेनुमुद्रा प्रकीर्तिता || ७ || अमृतीकरणं कुर्याद्यथा देशिकसत्तमः || ८ || अन्योन्यग्रथितांगुष्ठाः प्रसारितकरांगुलिः | महामुद्रेयमुदिता परमीकरणे वुधैः || प्रयोजयेदिमा मुद्रा देवतायाग कर्मणि || अथाक्षमाला |
SK
आदीक्षातान्य योगत्वा दक्षमालेति कीर्तिता | तद्वर्ण संख्यैर्मणिभिर्जपमालां प्रकल्पयेत् || रुद्रभूमालिकासूरे जपेत् स्वमनो रथात् | पद्माक्षैर्विहितामाला शत्रूणां नाशिनीमता || कुशग्रंथिमयीमाला सर्वपापप्रणाशिनी | पुत्रं जीवफलैः प्रोक्ता कुरुते पुत्र संपदं || निर्मिता रूप्यमणिभिर्जपमालास्थितिप्रद्य | हिरण्मयैर्विरचिता मालाकामान् प्रयच्छति || प्रवालैर्विहितामाला प्रयच्छेत् पुष्कलंधनं | सौभाग्यं स्फाटिकी मालामौक्तिकैर्विहिताश्रियं || निर्मिता शंखमणिभिः कुरुते कीर्तिमक्षयां | सर्वैरेतैर्विरचितामाला स्यान्मुक्तयेनृणां || अथ वश्यादि प्रोयोगोपयुक्तानि षट्कर्माणि लिख्यंते || अभिधास्ये हि तंत्रेऽस्मिन् सम्यक् षट्कर्मलक्षणं | सर्वतंत्रानुसारेण प्रयोगफलसिद्धिदं || शांतिवश्यस्तंभनानि द्वेषणोच्चाटने ततः | १८२अ) मारणांतानिशंसंति षट्कर्माणि मनीषिणः || रोगकृत्या ग्रहादीनां निरासः शांतिरीरिता || १ || वश्यं जनानां सर्वेषां विधेयत्वमुदीरितं || २ || प्रवृत्तिरोधः सर्वेषां स्तंभनं तदुदाहृतं || ३ || स्निग्धानां द्वेषजननंमिथो विद्वेषणं मतं || ४ || उच्चाटनं स्वदेशादेर्भ्रमणं परिकीर्तितं || ५ || प्राणिनां प्राणहरणं मारणं तदुदाहृतं || ६ || स्वदेवतादि कालादीन् ज्ञात्वा कर्माणि साधयेत् | रतिर्वाणी रमाज्येष्ठा दुर्गाकाली यथा क्रमात् || षट्कर्मदेवताः प्रोक्ताः कर्मादौताः प्रयोजयेत् || ईशचंद्रेंद्र निरृति वाद्वग्नीनांदिशोमताः | सूर्योदयं समारभ्य घटिकादशकं क्रमात् || ऋतवः स्युर्वसंताद्या अहोरात्रं दिने दिने | वसंतग्रीष्मवर्षाख्यशरद्धे मंतशैशिराः || हेमंतः शांतिके प्रोक्तो वसंतो वश्यकर्मणि | शिशिरः स्तंभने ज्ञेयो विद्वेषो ब्रह्म ईरितः || प्रावृदुच्चाटने ज्ञेया शरन्मारण कर्मणि | पद्माख्यं स्वस्तिकं भूयो विकटं कुक्कुटं पुनः || वज्रप्रह्वाख्यमाहुरासनानि मनीषिणः | षण्मुद्राः क्रमतो ज्ञेयाः पद्मपाशगदाद्वयः ||
SK
मुशलासल्लिखड्गाख्याः शांतिकादिषु कर्मसु | जलें शांतिविधौशस्तं वश्ये वह्निरुदीरितः || स्तंभने पृथिवीशस्ता विद्वेषे व्योमकीर्तितं | उच्चाटने स्मृतो वायु भूयोग्निर्मारणे मतः || तत्तद्भूतोदके सम्यक् तत्तन्मंडल संयुतं | तत्तत्कर्मविधातव्यं तृणानि निशितात्मना || १८२ब्) सितांत्युसलिलक्षोणी व्योमवायुहविर्भुजः | मंत्रां स्युर्वर्णवीजानि षट्कर्मसु यथा क्रमां || गंथनं च विदर्भश्च संपुटो रोपणं तथा | योगः पल्लव इत्येते विन्यासाः षट्सुकर्मसु || मंत्रार्णांतरितान् कुर्यान्नाम वर्णान् यथाविधि | गंथनं तद्धि विज्ञेयं प्रशस्तं शांतिकर्मणि || १ || मंत्रार्णद्वंद्व मध्यस्थं साध्यनामाक्षरं लिखेत् | विदर्भ एष विज्ञेयो मंत्रिभिर्वश्यकर्मणि || २ || आदावंते च मंत्रः स्यान्न्यस्तोसौ संपुटः स्मृतः | एष संस्तंभने शस्त इत्युक्तो मंत्रवेदिभिः || ३ || नाम्न आद्यंत मध्येषु मंत्रः स्याद्रोषनो मतः | विद्वेषण विधानेन प्रशस्तमिदमुत्तमं || ४ || मंत्रस्यांते भवेन्नाम योगः प्रोच्चाटने मतः || ५ || अंते नाम्नो भवेन्मंत्रः पल्लवो मारणेमतः || ६ || सितरक्तपीतमिश्र कृष्णधूम्राः प्रकीर्तिताः | वर्णतो मंत्रतः प्रोक्ता देवताः षट्सुकर्मसु || यंत्राणां लेखनं द्रव्यं चंदनं रोचना निशा | गृहधूमवितांगारा मारणेषु विषाणि च || श्येनाग्नि लोणपिंडानि धत्तूरकरसस्तथा | गृहधूमस्त्रिकटुकं विषाष्टकमुदीरितं || देवता कालमुद्रादीन् सम्यक् ज्ञात्वा विचक्षणः | षट्कर्माणि प्रयुंजीत यथोक्त फलसिद्धये || श्येनः स्येनविष्ठा | गृहगोधिकागोधा | अग्निश्चित्रकं | लोणपिंडानि लोणमलं | इति सर्वविजानतः पुरुषस्य तत्तत्कर्मसिद्ध्यति नान्यथेति || जलादि भूतोदयो यथा | १८३अ)
SK
ऊर्ध्वे वह्निरधश्चापस्तिर्यक् केतु प्रभंजनः | क्षोमध्यपुटे ज्ञेया नामः सर्वत्र पूरितं | इति वश्यादि कर्मणि स्वरोदय प्रारंभे अपेक्षणीयः || शांतौ वश्ये च सौम्यास्तिथयः | अन्येषु क्रूराः | शांतिवश्ययोर्मृदु ध्रुवनक्षत्राणि | स्तंभने ध्रुवनक्षत्राणि | मारणादौ उक्त नक्षत्राणि | शांतिवश्ययोः सौम्यवाराः अन्येषु क्रूराः | शांतिवश्यस्तंभनेषु स्थिराणि लग्नानि अन्येषु क्रूरलग्नानि | सौम्यकर्मसु शुभस्थानानि क्रूरकर्मसुतादृशस्थानानि | इत्यादयोऽनेके प्रकारास्तत्तन्मंत्रजपादौ वोद्धव्याः | इति मंत्रसंक्षेपः | एतद्व्यतिरिक्तान्मंत्रादि विशेषान् ग्रंथगौरवान्नलिखामः || भोसज्जनाममनतिः सततं भवत्सु कार्यं न जातु खलु सर्वजनी नमे तत् | व्यक्ती कृता यदिहगुप्ततमास्तुमंत्राः सौकर्यतोत्र * * * * * * * ? || १ || यद्गोपितं मंत्रसमूहरत्नं सर्वागमज्ञैर्विविधागमेषु | व्यक्तीकृतं तन्मममंत्रकोषे गृह्नं तु लुब्ध्वा सुखिनो भवंतु || २ || शिष्टो भट्टसमाप * * * * ? गुण निधिर्नक्त्य च योवस्थितो नाम्नः प्रेमकरस्य योऽजनिसुतः प्रीतः शिवादित्यतः | आशादित्यमतीश्वरः सकृतवान् श्रीरत्नमंत्रावलीकोषं कोषवतः सतो भवति किंदारिद्र्यभीतिः क्षितौ || ३ || इति श्रीमदाशादित्यत्रिपाठीसंगृहीतेमंत्रकोषेमुद्रादिकथनं- 184a) ādarśadoṣānmativibhramādvātvarāviśeṣāllikhanasyavegāt | yadatra vṛttaṃ tadaśuddhavarṇaṃ kṣamaṃ tu saṃtaḥ khalu lekhakasya || 1 || bhagnapṛṣṭhakaṭigrīvastaccadṛṣṭiradhomukhaḥ | kaṣṭena likhitāpustī putravat paripālayet || 2 || pustakalikhanapariśramavettā vidvajjano nānyaḥ | sārāralaṃghanakhedaṃ hanūmānekaḥ paraṃ veda || 3 || etat prayāsaṃ sakalaṃ samīkṣya haraṃti ye pustakamasmadīyaṃ | netrasya nāśaṃtana yasya śokaṃ sarvāṃgakuṣṭhaṃ labhatāṃ sa nityaṃ || 4 ||
SK
श्रीशाके १५६५ पौषवदि १३ वुधानुराधायां लिखितं मनोहरसुत श्रीमदनंतरार्मणा || शुभमस्तु || विधः सर्वचराचरस्यदं च नेलब्धा प्रतिष्टात्वया सर्वं साधुमयं कृतं विरचितं चातुर्यहीनं द्वयं | आम्रं साधुसुधारसं निरमितं स्थूलेन वीजेन किं निर्वीर्यौवनिता कुचौविरचितौ चेद् वेत्तयस्याषुतं ||

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. mantrakoṣa [M00292].

Source