1 SK यस् त्यक्त्वा रूपम् आद्यं प्रभवति जगतो ऽनेकधानुग्रहाय प्रक्षीणक्लेशराशिर् विषमविषधरो ऽनेकवक्त्रः सुभोगी / सर्वज्ञानप्रसूतिर् भुजगपरिकरः प्रीतये यस्य नित्यं देवो ऽहीशः स वो ऽव्यात् सितविमलतनुर् योगदो योगयुक्तः
3 SK अथ योगानुशासनम् || YS_१.१ ||
4 SK अथेत्य् अयम् अधिकारार्थः. योगानुशासनं शास्त्रम् अधिकृतं वेदितव्यम्. योगः समाधिः. स च सार्वभौमश् चित्तस्य धर्मः. क्षिप्तं मूढं विक्षिप्तम् एकाग्रं निरुद्धम् इति चित्तभूमयः. तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर् न योगपक्षे वर्तते. यस् त्व् एकाग्रे चेतसि सद्भूतम् अर्थं प्रद्योतयति क्षिणोति च क्लेशान् कर्मबन्धनानि श्लथयति निरोधम् अभिमुखं करोति स संप्रज्ञातो योग इत्य् आख्यायते. स च वितर्कानुगतो विचारानुगत आनन्दानुगतो ऽस्मितानुगत इत्य् उपरिष्टान् निवेदयिष्यामः. सर्ववृत्तिनिरोधे त्व् असंप्रज्ञातः समाधिः. १.१
5 SK तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते --- योगश् चित्तवृत्तिनिरोधः || YS_१.२ ||
6 SK सर्वशब्दाग्रहणात् संप्रज्ञातो ऽपि योग इत्य् आख्यायते. चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम्. प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टम् ऐश्वर्यविषयप्रियं भवति. तद् एव तमसानुविद्धम् अधर्माज्ञानावैराग्यानैश्वर्योपगं भवति. तद् एव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानम् अनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति. तद् एव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति. तत् परं प्रसंख्यानम् इत्य् आचक्षते ध्यायिनः. चितिशक्तिर् अपरिणामिन्य् अप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता च सत्त्वगुणात्मिका चेयम् अतो विपरीता विवेकख्यातिर् इति. अतस् तस्यां विरक्तं चित्तं ताम् अपि ख्यातिं निरुणद्धि. तदवस्थं संस्कारोपगं भवति. स निर्बीजः समाधिः. न तत्र किंचित् संप्रज्ञायत इत्य् असंप्रज्ञातः. द्विविधः स योगश् चित्तवृत्तिनिरोध इति. १.२
7 SK तदवस्थे चेतसि विषयाभावाद् बुद्धिबोधात्मा पुरुषः किंस्वभाव इति --- तदा द्रष्टुः स्वरूपे ऽवस्थानम् || YS_१.३ ||
8 SK स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर् यथा कैवल्ये. व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा. १.३
9 SK कथं तर्हि, दर्शितविषयत्वात् --- वृत्तिसारूप्यम् इतरत्र || YS_१.४ ||
10 SK व्युत्थाने याश् चित्तवृत्तयस् तदविशिष्टवृत्तिः पुरुषः. तथा च सूत्रम् एकम् एव दर्शनं ख्यातिर् एव दर्शनम् इति. चित्तम् अयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः. तस्माच् चित्तवृत्तिबोधे पुरुषस्यानादिः संबन्धो हेतुः. १.४
11 SK ताः पुनर् निरोद्धव्या बहुत्वे सति चित्तस्य --- वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः || YS_१.५ ||
12 SK क्लेशहेतुकाः कर्माशयप्रचये क्षेत्रीभूताः क्लिष्टाः. ख्यातिविषया गुणाधिकारविरोधिन्यो ऽक्लिष्टाः. क्लिष्टप्रवाहपतिता अप्य् अक्लिष्टाः. क्लिष्टच्छिद्रेष्व् अप्य् अक्लिष्टा भवन्ति. अक्लिष्टच्छिदेषु क्लिष्टा इति. तथाजातीयकाः संस्कारा वृत्तिभिर् एव क्रियन्ते. संस्कारैश् च वृत्तय इति. एवं वृत्तिसंस्कारचक्रम् अनिशम् आवर्तते. तद् एवंभूतं चित्तम् अवसिताधिकारम् आत्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति. ताः क्लिष्टाश् चाक्लिष्टाश् च पञ्चधा वृत्तयः. १.५
13 SK प्रमाणविपर्ययविकल्पनिद्रास्मृतयः || YS_१.६ ||
15 SK प्रत्यक्षानुमानागमाः प्रमाणानि || YS_१.७ ||
16 SK इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषया सामान्यविशेषात्मनो ऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम्. फलम् अविशिष्टः पौरुषेयश् चित्तवृत्तिबोधः. प्रतिसंवेदी पुरुष इत्य् उपरिष्टाद् उपपादयिष्यामः. अनुमेयस्य तुल्यजातीयेष्व् अनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः संबन्धो यस् तद्विषया सामान्यावधारणप्रधाना वृत्तिर् अनुमानम्. यथा देशान्तरप्राप्तेर् गतिमच् चन्द्रतारकं चैत्रवत्, विन्ध्यश् चाप्राप्तिर् अगतिः. आप्तेन दृष्टो ऽनुमितो वार्थः परत्र स्वबोधसंक्रान्तये शब्देनोपदिश्यते, शब्दात् तदर्थविषया वृत्तिः श्रोतुर् आगमः. यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते. मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात्. १.७
17 SK विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम् || YS_१.८ ||
18 SK स कस्मान् न प्रमाणम्. यतः प्रमाणेन बाध्यते. भूतार्थविषयत्वात् प्रमाणस्य. तत्र प्रमाणेन बाधनम् अप्रमाणस्य दृष्टम्. तद्यथा द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति. सेयं पञ्चपर्वा भवत्य् अविद्या. अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति. एत एव स्वसंज्ञाभिस् तमो मोहो महामोहस् तामिस्रो ऽन्धतामिस्र इति. एते चित्तमलप्रसङ्गेनाभिधास्यन्ते. १.८
19 SK शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः || YS_१.९ ||
20 SK स न प्रमाणोपारोही. न विपर्ययोपारोही च. वस्तुशून्यत्वे ऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते. तद् यथा चैतन्यं पुरुषस्य स्वरूपम् इति. यदा चितिर् एव पुरुषस् तदा किम् अत्र केन व्यपदिश्यते. भवति च व्यपदेशे वृत्तिः. यथा चैत्रस्य गौर् इति. तथा प्रतिषिद्धवस्तुधर्मो निष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति. गतिनिवृत्तौ धात्वर्थमात्रं गम्यते. तथानुत्पत्तिधर्मा पुरुष इति, उत्पत्तिधर्मस्याभावमात्रम् अवगम्यते न पुरुषान्वयी धर्मः. तस्माद् विकल्पितः स धर्मस् तेन चास्ति व्यवहार इति. १.९
21 SK अभावप्रत्ययालम्बना वृत्तिर् निद्रा || YS_१.१० ||
22 SK सा च संप्रबोधे प्रत्यवमर्शात् प्रत्ययविशेषः. कथम्, सुखम् अहम् अस्वाप्सम्. प्रसन्नं मे मनः. प्रज्ञां मे विशारदीकरोति. दुःखम् अहम् अस्वाप्सम्. स्त्यानं मे मनो भ्रमत्य् अनवस्थितम् गाढं मूढो ऽहम् अस्वाप्सम्. गुरूणि मे गात्राणि. क्लान्तं मे चित्तम्. अलसं मुषितम् इव तिष्ठतीति. स खल्व् अयं प्रबुद्धस्य प्रत्यवमर्शो न स्याद् असति प्रत्ययानुभवे तदाश्रिताः स्मृतय्श् च तद्विषया न स्युः. तस्मात् प्रत्ययविशेषो निद्रा. सा च समाधाव् इतरप्रत्ययवन् निरोद्धव्येति. १.१०
23 SK अनुभूतविषयासंप्रमोषः स्मृतिः || YS_१.११ ||
24 SK किं प्रत्ययस्य चित्तं स्मरत्य् आहोस्विद् विषयस्येति. ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस् तज्जातीयकं संस्कारम् आरभते. स संस्कारः स्वव्यञ्जकाञ्जनस् तदाकाराम् एव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति. तत्र ग्रहणाकारपूर्वा बुद्धिः. ग्राह्याकारपूर्वा स्मृतिः. सा च द्वयी --- भावितस्मर्तव्या चाभावितस्मर्तव्या च. स्वप्ने भावितस्मर्तव्या. जाग्रत्समये त्व् अभावितस्मर्तव्येति. सर्वाः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनाम् अनुभवात् प्रभवन्ति. सर्वाश् चैता वृत्तयः सुखदुःखमोहात्मिकाः. सुखदुःखमोहाश् च क्लेशेषु व्याख्येयाः. सुखानुशयी रागः. दुःखानुशयी द्वेषः. मोहः पुनर् अविद्येति. एताः सर्वा वृत्तयो निरोद्धव्याः. आसां निरोधे संप्रज्ञातो वा समाधिर् भवत्य् असंप्रज्ञातो वेति. १.११
25 SK अथासां निरोधे क उपाय इति --- अभ्यासवैराग्याभ्यां तन्निरोधः || YS_१.१२ ||
26 SK चित्तनदी नामोभयतोवाहिनी वहति कल्याणाय वहति पापाय च. या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा. संसारप्राग्भाराविवेकविषयनिंना पापवहा. तत्र वैराग्येण विषयस्रोतः खिलीक्रियते. विवेकदर्शनाभ्यासेन विवेकस्रोत उद्घाट्यत इत्य् उभयाधीनश् चित्तवृत्तिनिरोधः. १.१२
27 SK तत्र स्थितौ यत्नो ऽभ्यासः || YS_१.१३ ||
28 SK चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः. तदर्थः प्रयत्नो वीर्यम् उत्साहः. तत् संपिपादयिषया तत् साधनानुष्ठानम् अभ्यासः. १.१३
29 SK स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः || YS_१.१४ ||
30 SK दीर्घकालासेवितो निरन्तरासेवितः सत्कारासेवितः. तपसा ब्रह्मचर्येण विद्यया श्रद्धया च संपादितः सत्कारवान् दृढभूमिर् भवति. व्युत्थानसंस्कारेण द्राग् इत्य् एवानभिभूतविषय इत्य् अर्थः. १.१४
31 SK दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् || YS_१.१५ ||
32 SK स्त्रियो ऽन्नपानम् ऐश्वर्यम् इति दृष्टविषये वितृष्णस्य स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्ताव् आनुश्रविकविषये वितृष्णस्य दिव्यादिव्यविषयसंप्रयोगे ऽपि चित्तस्य विषयदोषदर्शिनः प्रसंख्यानबलाद् अनाभोगात्मिका हेयोपादेयशून्या वशीकारसंज्ञा वैराग्यम्. १.१५
33 SK तत् परं पुरुषख्यातेर् गुणवैतृष्ण्यम् || YS_१.१६ ||
34 SK दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात् तच्छुद्धिप्रविवेकाप्यायितबुद्धिर् गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति. तद् द्वयं वैराग्यम्. तत्र यद् उत्तरं तज् ज्ञानप्रसादमात्रम्. यस्योदये सति योगी प्रत्युदितख्यातिर् एवं मन्यते --- प्राप्तं प्रापणीयं, क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसंक्रमः, यस्याविच्छेदाज् जनित्वा म्रियते मृत्वा च जायत इति. ज्ञानस्यैव परा काष्ठा वैराग्यम्. एतस्यैव हि नान्तरीयकं कैवल्यम् इति. १.१६
35 SK अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथम् उच्यते संप्रज्ञातः समाधिर् इति --- वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः || YS_१.१७ ||
36 SK वितर्कश् चित्तस्यालम्बने स्थूल आभोगः. सूक्ष्मो विचारः. आनन्दो ह्लादः. एकात्मिका संविद् अस्मिता. तत्र प्रथमश् चतुष्टयानुगतः समाधिः सवितर्कः. द्वितीयो वितर्कविकलः सविचारः. तृतीयो विचारविकलः सानन्दः. चतुर्थस् तद्विकलो ऽस्मितामात्र इति. सर्व एते सालम्बनाः समाधयः. १.१७
37 SK अथासंप्रज्ञातः समाधिः किमुपायः किंस्वभावो वेति --- विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो ऽन्यः || YS_१.१८ ||
38 SK सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश् चित्तस्य समाधिर् असंप्रज्ञातः. तस्य परं वैराग्यम् उपायः. सालम्बनो ह्य् अभ्यासस् तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते. स चार्थशून्यः. तदभ्यासपूर्वकं हि चित्तं निरालम्बनम् अभावप्राप्तम् इव भवतीत्य् एष निर्बीजः समाधिर् असंप्रज्ञातः. १.१८
39 SK स खल्व् अयं द्विविधः --- उपायप्रत्ययो भवप्रत्ययश् च. तत्रोपायप्रत्ययो योगिनां भवति --- भवप्रत्ययो विदेहप्रकृतिलयानाम् || YS_१.१९ ||
40 SK विदेहानां देवानां भवप्रत्ययः. ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदम् इवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकम् अतिवाहयन्ति. तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदम् इवानुभवन्ति, यावन् न पुनर् आवर्तते ऽधिकारवशाच् चित्तम् इति. १.१९
41 SK श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् || YS_१.२० ||
42 SK उपायप्रत्ययो योगिनां भवति. श्रद्धा चेतसः संप्रसादः. सा हि जननीव कल्याणी योगिनं पाति. तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यम् उपजायते. समुपजातवीर्यस्य स्मृतिर् उपतिष्ठते. स्मृत्युपस्थाने च चित्तम् अनाकुलं समाधीयते. समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते. येन यथार्थं वस्तु जानाति. तदभ्यासात् तत्तद्विषयाच् च वैराग्याद् असंप्रज्ञातः समाधिर् भवति. १.२०
43 SK ते खलु नव योगिनो मृदुमध्याधिमात्रोपाया भवन्ति. तद्यथा --- मृदूपायो मध्योपायो ऽधिमात्रोपाय इति. तत्र मृदूपायस् त्रिविधः --- मृदुसंवेगो मध्यसंवेगस् तीव्रसंवेग इति. तथा मध्योपायस् तथाधिमात्रोपाय इति. तत्राधिमात्रोपायानाम् --- तीव्रसंवेगानाम् आसन्नः || YS_१.२१ ||
44 SK समाधिलाभः समाधिफलं च भवतीति. १.२१
45 SK मृदुमध्याधिमात्रत्वात् ततो ऽपि विशेषः || YS_१.२२ ||
46 SK मृदुतीव्रो मध्यतीव्रो ऽधिमात्रतीव्र इति. ततो ऽपि विशेषः. तद्विशेषाद् अपि मृदुतीव्रसंवेगस्यासन्नः ततो मध्यतीव्रसंवेगस्यासन्नतरः, तस्माद् अधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्य् आसन्नतमः समाधिलाभः समाधिफलं चेति. १.२२
47 SK किम् एतस्माद् एवासन्नतमः समाधिर् भवति. अथास्य लाभे भवत्य् अन्यो ऽपि कश्चिद् उपायो न वेति --- ईश्वरप्रणिधानाद् वा || YS_१.२३ ||
48 SK प्रणिधानाद् भक्तिविशेषाद् आवर्जित ईश्वरस् तम् अनुगृह्णात्य् अभिध्यानमात्रेण. तदभिध्यानमात्राद् अपि योगिन आसन्नतमः समाधिलाभः समाधिफलं च भवतीति. १.२३
49 SK अथ प्रधानपुरुषव्यतिरिक्तः को ऽयम् ईश्वरो नामेति --- क्लेशकर्मविपाकाशयैर् अपरामृष्टः पुरुषविशेष ईश्वरः || YS_१.२४ ||
50 SK अविद्यादयः क्लेशाः. कुशलाकुशलानि कर्माणि. तत्फलं विपाकः. तदनुगुणा वासना आशयाः. ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते, स हि तत्फलस्य भोक्तेति. यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते. यो ह्य् अनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः. कैवल्यं प्राप्तास् तर्हि सन्ति च बहवः केवलिनः. ते हि त्रीणि बन्धनानि च्छित्त्वा कैवल्यं प्राप्ता ईश्वरस्य च तत्संबन्धो न भूतो न भावी. यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवम् ईश्वरस्य. यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः संभाव्यते नैवम् ईश्वरस्य. स तु सदैव मुक्तः सदैवेश्वर इति. यो ऽसौ प्रकृष्टसत्त्वोपादानाद् ईश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विन् निर्निमित्त इति. तस्य शास्त्रं निमित्तम्. शास्त्रं पुनः किंनिमित्तम्, प्रकृष्टसत्त्वनिमित्तम्.
51 SK एतयोः शास्त्रोत्कर्षयोर् ईश्वरसत्त्वे वर्तमानयोर् अनादिः संबन्धः. एतस्माद् एतद् भवति सदैवेश्वरः सदैव मुक्त इति. तच् च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम्. न तावद् ऐश्वर्यान्तरेण तद् अतिशय्यते. यद् एवातिशयि स्यात् तद् एव तत् स्यात्. तस्माद् यत्र काष्ठाप्राप्तिर् ऐश्वर्यस्य स ईश्वर इति. न च तत्समानम् ऐश्वर्यम् अस्ति. कस्मात्, द्वयोस् तुल्ययोर् एकस्मिन् युगपत्कामिते ऽर्थे नवम् इदम् अस्तु पुराणम् इदम् अस्त्व् इत्य् एकस्य सिद्धाव् इतरस्य प्राकाम्यविघाताद् ऊनत्वं प्रसक्तम्. द्वयोश् च तुल्ययोर् युगपत्कामितार्थप्राप्तिर् नास्ति. अर्थस्य विरुद्धत्वात्. तस्माद् यस्य साम्यातिशयैर् विनिर्मुक्तम् ऐश्वर्यं स एवेश्वरः. स च पुरुषविशेष इति. १.२४
52 SK किं च --- तत्र निरतिशयं सर्वज्ञबीजम् || YS_१.२५ ||
53 SK यद् इदम् अतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणम् अल्पं बह्व् इति सर्वज्ञबीजम् एतद् विवर्धमानं यत्र निरतिशयं स सर्वज्ञः. अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात् परिमाणवद् इति. यत्र काष्ठाप्राप्तिर् ज्ञानस्य स सर्वज्ञः. स च पुरुषविशेष इति. सामान्यमात्रोपसंहारे च कृतोपक्षयम् अनुमानं न विशेषप्रतिपत्तौ समर्थम् इति. तस्य संज्ञादिविशेषप्रतिपत्तिर् आगमतः पर्यन्वेष्या. तस्यात्मानुग्रहाभावे ऽपि भूतानुग्रहः प्रयोजनम्. ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषान् उद्धरिष्यामीति. तथा चोक्तम् --- आदिविद्वान् निर्माणचित्तम् अधिष्ठाय कारुण्याद् भगवान् परमर्षिर् आसुरये जिज्ञासमानाय तन्त्रं प्रोवाचेति. १.२५
54 SK स एषः --- पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् || YS_१.२६ ||
55 SK पूर्वे हि गुरवः कालेनावच्छिद्यन्ते. यत्रावच्छेदार्थेन कालो नोपावर्तते स एष पूर्वेषाम् अपि गुरुः. यथास्य सर्गस्यादौ प्रकर्षगत्या सिद्धस् तथातिक्रान्तसर्गादिष्व् अपि प्रत्येतव्यः. १.२६
56 SK तस्य वाचकः प्रणवः || YS_१.२७ ||
57 SK वाच्य ईश्वरः प्रणवस्य. किम् अस्य संकेतकृतं वाच्यवाचकत्वम् अथ प्रदीपप्रकाशवद् अवस्थितम् इति. स्थितो ऽस्य वाच्यस्य वाचकेन सह संबन्धः. संकेतस् त्व् ईश्रवस्य स्थितम् एवार्थम् अभिनयति. यथावस्थितः पितृपुत्रयोः संबन्धः संकेतेनावद्योत्यते, अयम् अस्य पिता, अयम् अस्य पुत्र इति. सर्गान्तरेष्व् अपि वाच्यवाचकशक्त्यपेक्षस् तथैव संकेतः क्रियते. संप्रतिपत्तिनित्यतया नित्यः शब्दार्थसंबन्ध इत्य् आगमिनः प्रतिजानते. १.२७
58 SK विज्ञातवाच्यवाचकत्वस्य योगिनः --- तज्जपस् तदर्थभावनम् || YS_१.२८ ||
59 SK प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम्. तद् अस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतश् चित्तम् एकाग्रं संपद्यते. तथा चोक्तम् --- ᳚स्वाध्यायाद् योगम् आसीत योगात् स्वाध्यायम् आमनेत् / स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते //᳚ इति. १.२८
60 SK किं चास्य भवति --- ततः प्रत्यक्चेतनाधिगमो ऽप्य् अन्तरायाभावश् च || YS_१.२९ ||
61 SK ये तावद् अन्तराया व्याधिप्रभृतयस् ते तावद् ईश्वरप्रणिधानान् न भवन्ति. स्वरूपदर्शनम् अप्य् अस्य भवति. यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः केवलो ऽनुपसर्गस् तथायम् अपि बुद्धेः प्रतिसंवेदी यः पुरुषस् तम् अधिगच्छति. १.२९
62 SK अथ के ऽन्तराया ये चित्तस्य विक्षेपाः. के पुनस् ते कियन्तो वेति --- व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास् ते ऽन्तरायाः || YS_१.३० || नवान्तरायाश् चित्तस्य विक्षेपाः. सहैते चित्तवृत्तिभिर् भवन्ति. एतेषाम् अभावे न भवन्ति पूर्वोक्ताश् चित्तवृत्तयः. व्याधिर् धातुरसकरणवैषम्यम्. स्त्यानम् अकर्मण्यता चित्तस्य. संशय उभयकोटिस्पृग् विज्ञानं स्याद् इदम् एवं नैवं स्याद् इति. प्रमादः समाधिसाधनानाम् अभावनम्. आलस्यं कायस्य चित्तस्य च गुरुत्वाद् अप्रवृत्तिः. अविरतिश् चित्तस्य विषयसंप्रयोगात्मा गर्धः. भ्रान्तिदर्शनं विपर्ययज्ञानम्. अलब्धभूमिकत्वं समाधिभूमेर् अलाभः. अनवस्थितत्वं यल् लब्धायां भूमौ चित्तस्याप्रतिष्ठा. समाधिप्रतिलम्भे हि सति तदवस्थितं स्याद् इति. एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इत्य् अभिधीयन्ते. १.३०
63 SK दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः || YS_१.३१ ||
64 SK दुःखम् आध्यात्मिकम् आधिभौतिकम् आधिदैविकं च. येनाभिहताः प्राणिनस् तदपघाताय प्रयतन्ते तद् दुःखम्. दौर्मनस्यम् इच्छाविघाताच् चेतसः क्षोभः. यद् अङ्गान्य् एजयति कम्पयति तद् अङ्गमेजयत्वम्. प्राणो यद् बाह्यं वायुम् आचामति स श्वासः. यत् कौष्ठ्यं वायुं निःसारयति स प्रश्वासः. एते विक्षेपसहभुवो विक्षिप्तचित्तस्यैते भवन्ति. समाहितचित्तस्यैते न भवन्ति. १.३१
65 SK अथैते विक्षेपाः समाधिप्रतिपक्षास् ताभ्याम् एवाभ्यासवैराग्याभ्यां निरोद्धव्याः. तत्राभ्यासस्य विषयम् उपसंहरन्न् इदम् आह --- तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः || YS_१.३२ ||
66 SK विक्षेपप्रतिषेधार्थम् एकतत्त्वावलम्बनं चित्तम् अभ्यसेत्. यस्य तु प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वम् एव चित्तम् एकाग्रं नास्त्य् एव विक्षिप्तम्. यदि पुनर् इदं सर्वतः प्रत्याहृत्यैकस्मिन्न् अर्थे समाधीयते तदा भवत्य् एकाग्रम् इत्य् अतो न प्रत्यर्थनियतम्. यो ऽपि सदृशप्रत्ययप्रवाहेन चित्तम् एकाग्रं मन्यते तस्यैकाग्रता यदि प्रवाहचित्तस्य धर्मस् तदैकं नास्ति प्रवाहचित्तं क्षणिकत्वात्. अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः, स सर्वः सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्वाद् एकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः. तस्माद् एकम् अनेकार्थम् अवस्थितं चित्तम् इति. यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जायेरन्न् अथ कथम् अन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत्. अन्यप्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत्. कथंचित् समाधीयमानम् अप्य् एतद् गोमयपायसीयन्यायम् आक्षिपति. किं च स्वात्मानुभवापह्नवश् चित्तस्यान्यत्वे प्राप्नोति. कथम्, यद् अहम् अद्राक्षं तत् स्पृशामि यच् चास्प्राक्षं तत् पश्यामीत्य् अहम् इति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्य् अभेदेनोपस्थितः. एकप्रत्ययविषयो ऽयम् अभेदात्माहम् इति प्रत्ययः कथम् अत्यन्तभिन्नेषु चित्तेषु वर्तमानः सामान्यम् एकं प्रत्ययिनम् आश्रयेत्. स्वानुभवग्राह्यश् चायम् अभेदात्माहम् इति प्रत्ययः. न च प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते. प्रमाणान्तरं च प्रत्यक्षबलेनैव व्यवहारं लभते. तस्माद् एकम् अनेकार्थम् अवस्थितं च चित्तम्. १.३२
67 SK यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निर्दिश्यते तत् कथम् --- मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश् चित्तप्रसादनम् || YS_१.३३ || तत्र सर्वप्राणिषु सुखसंभोगापन्नेषु मैत्रीं भावयेत्. दुःखितेषु करुणाम्. पुण्यात्मकेषु मुदिताम्. अपुण्यशीलेषूपेक्षाम्. एवम् अस्य भावयतः शुक्लो धर्म उपजायते. ततश् च चित्तं प्रसीदति. प्रसन्नम् एकाग्रं स्थितिपदं लभते. १.३३
68 SK प्रच्छर्दनविधारणाभ्यां वा प्राणस्य || YS_१.३४ ||
69 SK कौष्ठ्यस्य वायोर् नासिकापुटाभ्यां प्रयत्नविशेषाद् वमनं प्रच्छर्दनम्, विधारणं प्राणायामस् ताभ्यां वा मनसः स्थितिं संपादयेत्. १.३४
70 SK विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धनी || YS_१.३५ ||
71 SK नासिकाग्रे धारयतो ऽस्य या दिव्यगन्धसंवित् सा गन्धप्रवृत्तिः. जिह्वाग्रे रससंवित्. तालुनि रूपसंवित्. जिह्वामध्ये स्पर्शसंवित्. जिह्वामूले शब्दसंविद् इत्य् एता वृत्तय उत्पन्नाश् चित्तं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधिप्रज्ञायां च द्वारीभवन्तीति. एतेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्यादिषु प्रवृत्तिर् उत्पन्ना विषयवत्य् एव वेदितव्या यद्य् अपि हि तत्तच्छास्त्रानुमानाचार्योपदेशैर् अवगतम् अर्थतत्त्वं सद्भूतम् एव भवति. एतेषां यथाभूतार्थप्रतिपादनसामर्थ्यात्, तथापि यावद् एकदेशो ऽपि कश्चिन् न स्वकरणसंवेद्यो भवति तावत् सर्वं परोक्षम् इवापवर्गादिषु सूक्ष्मेष्व् अर्थेषु न दृढां बुद्धिम् उत्पादयति. तस्माच् छास्त्रानुमानाचार्योपदेशोपोद्बलनार्थम् एवावश्यं कश्चिद् अर्थविशेषः प्रत्यक्षीकर्तव्यः. तत्र तदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयम् अपि आपवर्गाच् छ्रद्धीयते. एतदर्थम् एवेदं चित्तपरिकर्म निर्दिश्यते. अनियतासु वृत्तिषु तद्विषयायां वशीकारसंज्ञायाम् उपजातायां समर्थं स्यात् तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति. तथा च सति श्रद्धावीर्यस्मृतिसमाधयो ऽस्याप्रतिबन्धेन भविष्यन्तीति. १.३५
72 SK विशोका वा ज्योतिष्मती || YS_१.३६ ||
73 SK प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धनीत्य् अनुवर्तते. हृदयपुण्डरीके धारयतो या बुद्धिसंवित्, बुद्धिसत्त्वं हि भास्वरम् आकाशकल्पं, तत्र स्थितिवैशारद्यात् प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विकल्पते. तथास्मितायां समापन्नं चित्तं निस्तरङ्गमहोदधिकल्पं शान्तम् अनन्तम् अस्मितामात्रं भवति. यत्रेदम् उक्तम् --- ᳚तम् अणुमात्रम् आत्मानम् अनुविद्यास्मीत्य् एवं तावत् संप्रजानीते᳚ इति. एषा द्वयी विशोका विषयवती, अस्मितामात्रा च प्रवृत्तिर् ज्योतिष्मतीत्य् उच्यते. यया योगिनश् चित्तं स्थितिपदं लभत इति. १.३६
74 SK वीतरागविषयं वा चित्तम् || YS_१.३७ ||
75 SK वीतरागचित्तालम्बनोपरक्तं वा योगिनश् चित्तं स्थितिपदं लभत इति. १.३७
76 SK स्वप्ननिद्राज्ञानालम्बनं वा || YS_१.३८ ||
77 SK स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिनश् चित्तं स्थितिपदं लभत इति. १.३८
78 SK यथाभिमतध्यानाद् वा || YS_१.३९ ||
79 SK यद् एवाभिमतं तद् एव ध्यायेत्. तत्र लब्धस्थितिकम् अन्यत्रापि स्थितिपदं लभत इति. १.३९
80 SK परमाणुपरममहत्त्वान्तो ऽस्य वशीकारः || YS_१.४० ||
81 SK सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति. स्थूले निविशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य. एवं ताम् उभयीं कोटिम् अनुधावतो यो ऽस्याप्रतीघातः स परो वशीकारः. तद्वशीकारात् परिपूर्णं योगिनश् चित्तं न पुनर् अभ्यासकृतं परिकर्मापेक्षत इति. १.४०
82 SK अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा समापत्तिर् इति, तद् उच्यते --- क्षीणवृत्तेर् अभिजातस्येव मणेर् ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः || YS_१.४१ || क्षीणवृत्तेर् इति प्रत्यस्तमितप्रत्ययस्येत्य् अर्थः. अभिजातस्येव मणेर् इति दृष्टान्तोपादानम्. यथा स्फटिक उपाश्रयभेदात् तत्तद्रूपोपरक्त उपाश्रयरूपाकारेण निर्भासते तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते. भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपाभासं भवति. तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं भवति. तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति. तथा ग्रहणेष्व् अपीन्द्रियेष्व् अपि द्रष्टव्यम्. ग्रहणालम्बनोपरक्तं ग्रहणसमापन्नं ग्रहणस्वरूपाकारेण निर्भासते. तथा ग्रहीतृपुरुषालम्बनोपरक्तं ग्रहीतृपुरुषसमापन्नं ग्रहीतृपुरुषस्वरूपाकारेण निर्भासते. तथा मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुषसमापन्नं मुक्तपुरुषस्वरूपाकारेण निर्भासत इति. तद् एवम् अभिजातमणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिर् इत्य् उच्यते. १.४१
83 SK तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः || YS_१.४२ ||
84 SK तद्यथा गौर् इति शब्दो गौर् इत्य् अर्थो गौर् इति ज्ञानम् इत्य् अविभागेन विभक्तानाम् अपि ग्रहणं दृष्टम्. विभज्यमानाश् चान्ये शब्दधर्मा अन्ये ऽर्थधर्मा अन्ये विज्ञानधर्मा इत्य् एतेषां विभक्तः पन्थाः. तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढः स चेच् छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा संकीर्णा समापत्तिः सवितर्केत्य् उच्यते. १.४२
85 SK यदा पुनः शब्दसंकेतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितो ऽर्थस् तत्स्वरूपाकारमात्रतयैवावच्छिद्यते. सा च निर्वितर्का समापत्तिः. तत् परं प्रत्यक्षम्. तच् च श्रुतानुमानयोर् बीजम्. ततः श्रुतानुमाने प्रभवतः. न च श्रुतानुमानज्ञानसहभूतं तद् दर्शनम्. तस्माद् असंकीर्णं प्रंमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनम् इति. निर्वितर्कायाः समापत्तेर् अस्याः सूत्रेण लक्षणं द्योत्यते --- स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का || YS_१.४३ ||
86 SK या शब्दसंकेतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्यस्वरूप.उपरक्ता प्रज्ञा स्वम् इव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति सा तदा निर्वितर्का समापत्तिः. तथा च व्याक्यातं तस्या एकबुद्ध्युपक्रमो ह्य् अर्थात्माणुप्रचयविशेषात्मा गवादिर् घटादिर् वा लोकः. स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्म आत्मभूतः फलेन व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रादुर्भवति. धर्मान्तरस्य कपालादेर् उदये च तिरोभवति. स एष धर्मो ऽवयवीत्य् उच्यते. यो ऽसाव् एकश् च महांश् चाणींयश् च स्पर्शवांश् च क्रियाधर्मकश् चानित्यश् च तेनावयविना व्यवहाराः क्रियन्ते. यस्य पुनर् अवस्तुकः स प्रचयविशेषः. सूक्ष्मं च कारणम् अनुपलभ्यम् अविकल्पस्य तस्यावयव्यभावाद् अतद्रूपप्रतिष्ठं मिथ्याज्ञानम् इति प्रायेण सर्वम् एव प्राप्तं मिथ्याज्ञानम् इति. तदा च सम्यग्ज्ञानम् अपि किं स्याद् विषयाभावात्. यद् यद् उपलभ्यते तत् तद् अवयवित्वेनाम्नातम्. तस्माद् अस्त्य् अवयवी यो महत्त्वादिव्यवहारापन्नः समापत्तेर् निर्वितर्काया विषयी भवति. १.४३
87 SK एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता || YS_१.४४ ||
88 SK तत्र भूतसूक्ष्मकेष्व् अभिव्यक्तधर्मकेषु देशकालनिमित्तानुभवावच्छिन्नेषु या समापत्तिः सा सविचारेत्य् उच्यते. तत्राप्य् एकबुद्धिनिर्ग्राह्यम् एवोदितधर्मविशिष्टं भूतसूक्ष्मम् आलम्बनीभूतं समाधिप्रज्ञायाम् उपतिष्ठते. या पुनः सर्वथा सर्वतः शान्तोदिताव्यपदेश्यधर्मानवच्छिन्नेषु सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारेत्य् उच्यते. एवंस्वरूपं हि तद्भूतसूक्ष्मम् एतेनैव स्वरूपेणालम्बनीभूतम् एव समाधिप्रज्ञास्वरूपम् उपरञ्जयति. प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारेत्य् उच्यते. तत्र महद्वस्तुविषया सवितर्का निर्वितर्का च, सूक्ष्मवस्तुविषया सविचारा निर्विचारा च. एवम् उभयोर् एतयैव निर्वितर्कया विकल्पहानिर् व्याख्यातेति. १.४४
89 SK सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् || YS_१.४५ ||
90 SK पार्थिवस्याणोर् गन्धतन्मात्रं सूक्ष्मो विषयः. आप्यस्य रसतन्मात्रम्. तैजसस्य रूपतन्मात्रम्. वायवीयस्य स्पर्शतन्मात्रम्. आकाशस्य शब्दतन्मात्रम् इति. तेषाम् अहंकारः. अस्यापि लिङ्गमात्रं सूक्ष्मो विषयः. लिङ्गमात्रस्याप्य् अलिङ्गं सूक्ष्मो विषयः. न चालिङ्गात् परं सूक्ष्मम् अस्ति. नन्व् अस्ति पुरुषः सूक्ष्म इति सत्यम्. यथा लिङ्गात् परम् अलिङ्गस्य सौक्ष्म्यं न चैवं पुरुषस्य. किंतु, लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस् तु भवतीति. अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम्. १.४५
91 SK ता एव सबीजः समाधिः || YS_१.४६ ||
92 SK ताश् चतस्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिर् अपि सबीजः. तत्र स्थूले ऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मे ऽर्थे सविचारो निर्विचार इति चतुर्धोपसंख्यातः समाधिर् इति. १.४६
93 SK निर्विचारवैशारद्ये ऽध्यात्मप्रसादः || YS_१.४७ ||
94 SK अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्तमोभ्याम् अनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम्. यदा निर्विचारस्य समाधेर् वैशारद्यम् इदं जायते तदा योगिनो भवत्य् अध्यात्मप्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः. तथा चोक्तम् --- ᳚प्रज्ञाप्रसादम् आरुह्य अशोच्यः शोचतो जनान् / भूमिष्ठान् इव शैलस्थः सर्वान् प्राज्ञो ऽनुपश्यति᳚. १.४७
95 SK ऋतंभरा तत्र प्रज्ञा || YS_१.४८ ||
96 SK तस्मिन् समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतंभरेति संज्ञा भवति. अन्वर्था च सा, सत्यम् एव बिभर्ति न च तत्र विपर्यासज्ञानगन्धो ऽप्य् अस्तीति. तथा चोक्तम् --- ᳚आगमेनानुमानेन ध्यानाभ्यासरसेन च / त्रिधा प्रकल्पयन् प्रज्ञां लभते योगम् उत्तमम्᳚ इति. १.४८
97 SK सा पुनः --- श्रुतानुमानप्रज्ञाभ्याम् अन्यविषया विशेषार्थत्वात् || YS_१.४९ ||
98 SK श्रुतम् आगमविज्ञानं तत् सामान्यविषयम्. न ह्य् आगमेन शक्यो विशेषो ऽभिधातुम्, कस्मात्, न हि विशेषेण कृतसंकेतः शब्द इति. तथानुमानं सामान्यविषयम् एव. यत्र प्राप्तिस् तत्र गतिर् यत्राप्राप्तिस् तत्र न भवति गतिर् इत्य् उक्तम्. अनुमानेन च सामान्येनोपसंहारः. तस्माच् छ्रुतानुमानविषयो न विशेषः कश्चिद् अस्तीति. न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणम् अस्ति. न चास्य विशेषस्याप्रमाणकस्याभावो ऽस्तीति समाधिप्रज्ञानिर्ग्राह्य एव स विशेषो भवति भूतसूक्ष्मगतो वा पुरुषगतो वा. तस्माच् छ्रुतानुमानप्रज्ञाभ्याम् अन्यविषया सा प्रज्ञा विशेषार्थत्वाद् इति. १.४९
99 SK समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवो जायते --- तज्जः संस्कारो ऽन्यसंस्कारप्रतिबन्धी || YS_१.५० ||
100 SK समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते. व्युत्थानसंस्काराभिभवात् तत्प्रभवाः प्रत्यया न भवन्ति. प्रत्ययनिरोधे समाधिर् उपतिष्ठते. ततः समाधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो जायते. ततश् च प्रज्ञा, ततश् च संस्कारा इति. कथम् असौ संस्कारातिशयश् चित्तं साधिकारं न करिष्यतीति. न ते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतुत्वाच् चित्तम् अधिकारविशिष्टं कुर्वन्ति. चित्तं हि ते स्वकार्याद् अवसादयन्ति. ख्यातिपर्यवसानं हि चित्तचेष्टितम् इति. १.५०
101 SK किं चास्य भवति --- तस्यापि निरोधे सर्वनिरोधान् निर्बीजः समाधिः || YS_१.५१ || स न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृतानाम् अपि संस्काराणां प्रतिबन्धी भवति. कस्मात्, निरोधजः संस्कारः समाधिजान् संस्कारान् बाधत इति. निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्तित्वम् अनुमेयम्. व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैश् चित्तं स्वस्यां प्रकृताव् अवस्थितायां प्रविलीयते. तस्मात् ते संस्काराश् चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति. यस्माद् अवसिताधिकारं सह कैवल्यभागीयैः संस्कारैश् चित्तं निवर्तते, तस्मिन् निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठो ऽतः शुद्धः केवलो मुक्त इत्य् उच्यत इति. १.५१
102 SK इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमद्व्यासभाष्ये प्रथमः समाधिपादः १.
103 SK उद्दिष्टः समाहितचित्तस्य योगः. कथं व्युत्थितचित्तो ऽपि योगयुक्तः स्याद् इत्य् एतद् आरभ्यते --- तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः || YS_२.१ ||
104 SK नातपस्विनो योगः सिध्यति. अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर् नान्तरेण तपः संभेदम् आपद्यत इति तपस उपादानम्. तच् च चित्तप्रसादनम् अबाधमानम् अनेनासेव्यम् इति मन्यते. स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा. ईश्वरप्रणिधानं सर्वक्रियाणां परमगुराव् अर्पणं तत्फलसंन्यासो वा. २.१
105 SK स हि क्रियायोगः --- समाधिभावनार्थः क्लेशतनूकरणार्थश् च || YS_२.२ ||
106 SK स ह्य् आसेव्यमानः समाधिं भावयति क्लेशांश् च प्रतनूकरोति. प्रतनूकृतान् क्लेशान् प्रसंख्यानाग्निना दग्धबीजकल्पान् अप्रसवधर्मिणः करिष्यतीति. तेषां तनूकरणात् पुनः क्लेशैर् अपरामृष्टा सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति. २.२
107 SK अथ के क्लेशाः कियन्तो वेति --- अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः || YS_२.३ ||
108 SK क्लेशा इति पञ्च विपर्यया इत्य् अर्थः. ते स्पन्दमाना गुणाधिकारं द्रढयन्ति, परिणामम् अवस्थापयन्ति, कार्यकारणस्रोत उन्नमयन्ति, परस्परानुग्रहतन्त्रीभूत्वा कर्मविपाकं चाभिनिर्हरन्तीति. २.३
109 SK अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् || YS_२.४ ||
110 SK अत्राविद्या क्षेत्रं प्रसवभूमिर् उत्तररेषाम् अस्मितादीनां चतुर्विधविकल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम्. तत्र का प्रसुप्तिः. चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः. तस्य प्रबोध आलम्बने संमुखीभावः. प्रसंख्यानवतो दग्धक्लेशबीजस्य संमुखीभूते ऽप्य् आलम्बने नासौ पुनर् अस्ति, दग्धबीजस्य कुतः प्ररोह इति. अतः क्षीणक्लेशः कुशलश् चरमदेह इत्य् उच्यते. तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति. सतां क्लेशानां तदा बीजसामर्थ्यं दग्धम् इति विषयस्य संमुखीभावे ऽपि सति न भवत्य् एषां प्रबोध इत्य् उक्ता प्रसुप्तिर् दग्धबीजानाम् अप्ररोहश् च. तनुत्वम् उच्यते --- प्रतिपक्षभावनोपहताः क्लेशास् तनवो भवन्ति. तथा विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः. कथं, रागकाले क्रोधस्यादर्शनात्. न हि रागकाले क्रोधः समुदाचरति. रागश् च क्वचिद् दृश्यमानो न विषयान्तरे नास्ति. नैकस्यां स्त्रियां चैत्रो रक्त इत्य् अन्यासु स्त्रीषु विरक्तः, किंतु तत्र रागो लब्धवृत्तिर् अन्यत्र तु भविष्यद्वृत्तिर् इति. स हि तदा प्रसुप्ततनुविच्छिन्नो भवति. विषये यो लब्धवृत्तिः स उदारः. सर्व एवैते क्लेशविषयत्वं नातिक्रामन्ति. कस् तर्हि विच्छिन्नः प्रसुप्तस् तनुर् उदारो वा क्लेश इति, उच्यते --- सत्यम् एवैतत्, किंतु विशिष्टानाम् एवैतेषां विच्छिन्नादित्वम्. यथैव प्रतिपक्षभावनातो निवृत्तस् तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति. सर्व एवामी क्लेशा अविद्याभेदाः. कस्मात्, सर्वेष्व् अविद्यैवाभिप्लवते. यद् अविद्यया वस्त्व् आकार्यते तद् एवानुशेरते क्लेशा विपर्यासप्रत्ययकाल उपलभ्यन्ते क्षीयमाणां चाविद्याम् अनु क्षीयन्त इति. २.४
111 SK तत्राविद्यास्वरूपम् उच्यते --- अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर् अविद्या || YS_२.५ ||
112 SK अनित्ये कार्ये नित्यख्यातिः. तद्यथा --- ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकस इति. तथाशुचौ परमबीभत्से काये, --- ᳚स्थानाद् बीजाद् उपष्टम्भान् निःस्यन्दान् निधनाद् अपि / कायम् आधेयशौचत्वात् पण्डिता ह्य् अशुचिं विदुः᳚ //
113 SK इति अशुचौ शुचिख्यातिर् दृश्यते. नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकम् आश्वासयन्तीवेति कस्य केनाभिसंबन्धः. भवति चैवम् अशुचौ शुचिविपर्यासप्रत्यय इति. एतेनापुण्ये पुण्यप्रत्ययस् तथैवानर्थे चार्थप्रत्ययो व्याख्यातः. तथा दुःखे सुखख्यातिं वक्ष्यति --- ᳚परिणामतापसंस्कारदुःखैर् गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः᳚ इति. तत्र सुखख्यातिर् अविद्या. तथानात्मन्य् आत्मख्यातिर् बाह्योपकरणेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनस्य् अनात्मन्य् आत्मख्यातिर् इति. तथैतद् अत्रोक्तम् --- ᳚व्यक्तम् अव्यक्तं वा सत्त्वम् आत्मत्वेनाभिप्रतीत्य तस्य संपदम् अनु नन्दत्य् आत्मसंपदं मन्वानस् तस्य व्यापदम् अनु शोचत्य् आत्मव्यापदं मन्वानः स सर्वो ऽप्रतिबुद्धः᳚ इति. एषा चतुष्पदा भवत्य् अविद्या मूलम् अस्य क्लेशसंतानस्य कर्माशयस्य च सविपाकस्येति. तस्याश् चामित्रागोष्पदवद्वस्तुसतत्त्वं विज्ञेयम्. यथा नामित्रो मित्राभावो न मित्रमात्रं किंतु तद्विरुद्धः सपत्नः. यथा वागोष्पदं न गोष्पदाभावो न गोष्पदमात्रं किंतु देश एव ताभ्याम् अन्यद् वस्त्वन्तरम्. एवम् अविद्या न प्रमाणं न प्रमाणाभावः किंतु विद्याविपरीतं ज्ञानान्तरम् अविद्येति. २.५
114 SK दृग्दर्शनशक्त्योर् एकात्मतेवास्मिता || YS_२.६ ||
115 SK पुरुषो दृक्शक्तिर् बुद्धिर् दर्शनशक्तिर् इत्य् एतयोर् एकस्वरूपापत्तिर् इवास्मिता क्लेश उच्यते. भोक्तृभोग्यशक्त्योर् अत्यन्तविभक्तयोर् अत्यन्तासंकीर्णयोर् अविभागप्राप्ताव् इव सत्यां भोगः कल्पते. स्वरूपप्रतिलम्भे तु तयोः कैवल्यम् एव भवति कुतो भोग इति. तथा चोक्तम् --- ᳚बुद्धितः परं पुरुषम् आकारशीलविद्यादिभिर् विभक्तम् अपश्यन् कुर्यात् तत्रात्मबुद्धिं मोहेन᳚ इति. २.६
116 SK सुखानुशयी रागः || YS_२.७ ||
117 SK सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धस् तृष्णा लोभः स राग इति. २.७
118 SK दुःखानुशयी द्वेषः || YS_२.८ ||
119 SK दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिघो मन्युर् जिघांसा क्रोधः स द्वेषः. २.८
120 SK स्वरसवाही विदुषो ऽपि तथा रूढो ऽभिनिवेशः || YS_२.९ ||
121 SK सर्वस्य प्राणिन इयम् आत्माशीर् नित्या भवति मा न भूवं भूयासम् इति. न चाननुभूतमरणधर्मकस्यैषा भवत्य् आत्माशीः. एतया च पूर्वजन्मानुभवः प्रतीयते. स चायम् अभिनिवेशः क्लेशः स्वरसवाही कृमेर् अपि जातमात्रस्य प्रत्यक्षानुमानागमैर् असंभावितो मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूतं मरणदुःखम् अनुमापयति. यथा चायम् अत्यन्तमूढेषु दृश्यते क्लेशस् तथा विदुषो ऽपि विज्ञातपूर्वापरान्तस्य रूढः. कस्मात् समाना हि तयोः कुशलाकुशलयोर् मरणदुःखानुभवाद् इयं वासनेति. २.९
122 SK ते प्रतिप्रसवहेयाः सूक्ष्माः || YS_२.१० ||
123 SK ते पञ्च क्लेशा दग्धबीजकल्पा योगिनश् चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति. २.१०
124 SK स्थितानां तु बीजभावोपगतानाम् --- ध्यानहेयास् तद्वृत्तयः || YS_२.११ ||
125 SK क्लेशानां या वृत्तयः स्थूलास् ताः क्रियायोगेन तनूकृताः सत्यः प्रसंख्यानेन ध्यानेन हातव्या यावत् सूक्ष्मीकृता यावद् दग्धबीजकल्पा इति. यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते पश्चात् सूक्ष्मो यत्नेनोपायेन चापनीयते तथा स्वल्पप्रतिपक्षाः स्थूला वृत्तयः क्लेशानां, सूक्ष्मास् तु महाप्रतिपक्षा इति. २.११
126 SK क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः || YS_२.१२ ||
127 SK तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधभवः. स दृष्टजन्मवेदनीयश् चादृष्टजन्मवेदनीयश् च. तत्र तीव्रसंवेगेन मन्त्रतपःसमाधिभिर् निर्वर्तित ईश्वरदेवतामहर्षिमहानुभावानाम् आराधनाद् वा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति. तथा तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनर् अपकारः स चापि पापकर्माशयः सद्य एव परिपच्यते. यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः. तथा नहुषो ऽपि देवानाम् इन्द्रः स्वकं परिणामं हित्वा तिर्यक्त्वेन परिणत इति. तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः. क्षीणक्लेशानाम् अपि नास्त्य् अदृष्टजन्मवेदनीयः कर्माशय इति. २.१२
128 SK सति मूले तद्विपाको जात्यायुर्भोगाः || YS_२.१३ ||
129 SK सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूलः. यथा तुषावनद्धाः शालितण्डुला अदग्धबीजभावाः प्ररोहसमर्था भवन्ति, नापनीततुषा दग्धबीजभावा वा तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति, नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति. स च विपाकस् त्रिविधो जातिर् आयुर् भोग इति. तत्रेदं विचार्यते --- किम् एकं कर्मैकस्य जन्मनः कारणम् अथैकं कर्मानेकं जन्माक्षिपतीति. द्वितीया विचारणा --- किम् अनेकं कर्मानेकं जन्म निर्वर्तयति अथानेकं कर्मैकं जन्म निर्वर्तयतीति. न तावद् एकं कर्मैकस्य जन्मनः कारणम्. कस्मात्, अनादिकालप्रचितस्यासंख्येयस्यावशिष्टस्य कर्मणः सांप्रतिकस्य च फलक्रमानियमाद् अनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति. न चैकं कर्मानेकस्य जन्मनः कारणम्. कस्मात्, अनेकेषु कर्मसु एकैकम् एव कर्मानेकस्य जन्मनः कारणम् इत्य् अवशिष्टस्य विपाककालाभावः प्रसक्तः, स चाप्य् अनिष्ट इति. न चानेकं कर्मानेकस्य जन्मनः कारणम्. कस्मात्, तद् अनेकं जन्म युगपन् न संभवतीति क्रमेणैव वाच्यम्. तथा च पूर्वदोषानुषङ्गः. तस्माज् जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त एकप्रघट्टकेन मरणं प्रसाध्य संमूर्छित एकम् एव जन्म करोति. तच् च जन्म तेनैव कर्मणा लब्धायुष्कं भवति. तस्मिन्न् आयुषि तेनैव कर्मणा भोगः संपद्यत इति. असौ कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रिविपाको ऽभिधीयत इति. अत एकभविकः कर्माशय उक्त इति. दृष्टजन्मवेदनीयस् त्व् एकविपाकारम्भी भोगहेतुत्वाद् द्विविपाकारम्भी वायुर्भोगहेतुत्वान् नन्दीश्वरवन् नहुषवद् वेति. क्लेशकर्मविपाकानुभवनिर्वर्तिताभिस् तु वासनाभिर् अनादिकालसंमूर्छितम् इदं चित्तं विचित्रीकृतम् इव सर्वतो मत्स्यजालं ग्रन्थिभिर् इवाततम् इत्य् एता अनेकभवपूर्विका वासनाः. यस् त्व् अयं कर्माशय एष एवैकभविक उक्त इति. ये संस्काराः स्मृतिहेतवस् ता वासनास् ताश् चानादिकालीना इति. यस् त्व् असाव् एकभविकः कर्माशयः स नियतविपाकश् चानियतविपाकश् च. तत्र दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो न त्व् अदृष्टजन्मवेदनीयस्यानियतविपाकस्य कस्मात्. यो ह्य् अदृष्टजन्मवेदनीयो ऽनियतविपाकस् तस्य त्रयी गतिः --- कृतस्याविपक्वस्य नाशः, प्रधानकर्मण्य् आवापगमनं वा, नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरम् अवस्थानम् इति. तत्र कृतस्याविपक्वस्य नाशो यथा शुक्लकर्मोदयाद् इहैव नाशः कृष्णस्य. यत्रेदम् उक्तम् --- ᳚द्वे द्वे ह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतो ऽपहन्ति तद् इच्छस्व कर्माणि सुकृतानि कर्तुम् इहैव ते कर्म कवयो वेदयन्ते.᳚ प्रधानकर्मण्य् आवापगमनम्. यत्रेदम् उक्तं --- ᳚स्यात् स्वल्पः संकरः सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षायालम्. कस्मात्, कुशलं हि मे बह्व् अन्यद् अस्ति यत्रायम् आवापं गतः स्वर्गे ऽप्य् अपकर्षम् अल्पं करिष्यति᳚ इति. नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरम् अवस्थानम्. कथम् इति, अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं मरणम् अभिव्यक्तिकारणम् उक्तम्. न त्व् अदृष्टजन्मवेदनीयस्यानियतविपाकस्य. यत् त्व् अदृष्टजन्मवेदनीयं कर्मानियतविपाकं तन् नश्येद् आवापं वा गच्छेद् अभिभूतं वा चिरम् अप्य् उपासीत, यावत् समानं कर्माभिव्यञ्जकं निमित्तम् अस्य न विपाकाभिमुखं करोतीति. तद्विपाकस्यैव देशकालनिमित्तानवधारणाद् इयं कर्मगतिश् चित्रा दुर्विज्ञाना चेति. न चोत्सर्गस्यापवादान् निवृत्तिर् इत्य् एकभविकः कर्माशयो ऽनुज्ञायत इति. २.१३
130 SK ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् || YS_२.१४ ||
131 SK ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफला अपुण्यहेतुका दुःखफला इति. यथा चेदं दुःखं प्रतिकूलात्मकम् एवं विषयसुखकाले ऽपि दुःखम् अस्त्य् एव प्रतिकूलात्मकं योगिनः. २.१४
132 SK कथं, तद् उपपाद्यते --- परिणामतापसंस्कारदुःखैर् गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः || YS_२.१५ || सर्वस्यायं रागानुविद्धश् चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः. तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतो ऽप्य् अस्ति कर्माशयः. तथा चोक्तम् --- ᳚नानुपहत्य भूतान्य् उपभोगः संभवतीति हिंसाकृतो ऽप्य् अस्ति शरीरः कर्माशयः᳚ इति. विषयसुखं चाविद्येत्य् उक्तम्. या भोगेष्व् इन्द्रियाणां तृप्तेर् उपशान्तिस् तत् सुखम्. या लौल्याद् अनुपशान्तिस् तद् दुःखम्. न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम्. कस्मात्, यतो भोगाभ्यासम् अनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणाम् इति. तस्माद् अनुपायः सुखस्य भोगाभ्यास इति. स खल्व् अयं वृश्चिकविषभीत इवाशीविषेण दष्टो यः सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति. एषा परिणामदुःखता नाम प्रतिकूला सुखावस्थायाम् अपि योगिनम् एव क्लिश्नाति. अथ का तापदुःखता, सर्वस्य द्वेषानुविद्धश् चेतनाचेतनसाधनाधीनस् तापानुभव इति तत्रास्ति द्वेषजः कर्माशयः. सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते ततः परम् अनुगृह्णात्य् उपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्माव् उपचिनोति. स कर्माशयो लोभान् मोहाच् च भवतीत्य् एषा तापदुःखतोच्यते. का पुनः संस्कारदुःखता, सुखानुभवात् सुखसंस्काराशयो दुःखानुभवाद् अपि दुःखसंस्काराशय इति. एवं कर्मभ्यो विपाके ऽनुभूयमाने सुखे दुःखे वा पुनः कर्माशयप्रचय इति. एवम् इदम् अनादि दुःखस्रोतो विप्रसृतं योगिनम् एव प्रतिकूलात्मकत्वाद् उद्वेजयति. कस्मात्, अक्षिपात्रकल्पो हि विद्वान् इति. यथोर्णातन्तुर् अक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति न चान्येषु गात्रावयवेषु, एवम् एतानि दुःखान्य् अक्षिपात्रकल्पं योगिनम् एव क्लिश्नन्ति नेतरं प्रतिपत्तारम्. इतरं तु स्वकर्मोपहृतं दुःखम् उपात्तम् उपात्तं त्यजन्तं त्यक्तं त्यक्तम् उपाददानम् अनादिवासनाविचित्रया चित्तवृत्त्या समन्ततो ऽनुविद्धम् इवाविद्यया हातव्य एवाहंकारममकारानुपातिनं जातं जातं बाह्याध्यात्मिकोभयनिमित्तास् त्रिपर्वाणस् तापा अनुप्लवन्ते. तद् एवम् अनादिना दुःखस्रोतसा व्युह्यमानम् आत्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यत इति. गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः. प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्री भूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणम् एवारभन्ते. चलं च गुणवृत्तम् इति क्षिप्रपरिणामि चित्तम् उक्तम्. रूपातिशया वृत्त्यतिशयाश् च परस्परेण विरुध्यन्ते, सामान्यानि त्व् अतिशयैः सह प्रवर्तन्ते. एवम् एते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः सर्वे सर्वरूपा भवन्तीति, गुणप्रधानभावकृतस् त्व् एषां विशेष इति. तस्माद् दुःखम् एव सर्वं विवेकिन इति. तद् अस्य महतो दुःखसमुदायस्य प्रभवबीजम् अविद्या. तस्याश् च सम्यग्दर्शनम् अभावहेतुः. यथा चिकित्साशास्त्रं चतुर्व्यूहम् --- रोगो रोगहेतुर् आरोग्यं भैषज्यम् इति. एवम् इदम् अपि शास्त्रम् चतुर्व्यूहम् एव. तद्यथा --- संसारः संसारहेतुर् मोक्षो मोक्षोपाय इति. तत्र दुःखबहुलः संसारो हेयः. प्रधानपुरुषयोः संयोगो हेयहेतुः. संयोगस्यात्यन्तिकी निवृत्तिर् हानम्. हानोपायः सम्यग्दर्शनम्. तत्र हातुः स्वरूपम् उपादेयं वा हेयं वा न भवितुम् अर्हतीति हाने तस्योच्छेदवादप्रसङ्ग उपादाने च हेतुवादः. उभयप्रत्याख्याने शाश्वतवाद इत्य् एतत् सम्यग्दर्शनम्. २.१५
133 SK तद् एतच् छास्त्रं चतुर्व्यूहम् इत्य् अभिधीयते --- हेयं दुःखम् अनागतम् || YS_२.१६ ||
134 SK दुःखम् अतीतम् उपभोगेनातिवाहितं न हेयपक्षे वर्तते. वर्तमानं च स्वक्षणे भोगारूढम् इति न तत् क्षणान्तरे हेयताम् आपद्यते. तस्माद् यद् एवानागतं दुःखं तद् एवाक्षिपात्रकल्पं योगिनं क्लिश्नाति नेतरं प्रतिपत्तारम्. तद् एव हेयताम् आपद्यते. २.१६
135 SK तस्माद् यद् एव हेयम् इत्य् उच्यते तस्यैव कारणं प्रतिनिर्दिश्यते --- द्रष्टृदृश्ययोः संयोगो हेयहेतुः || YS_२.१७ ||
136 SK द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः. दृश्या बुद्धिसत्त्वोपारूढाः सर्वे धर्माः. तद् एतद् दृश्यम् अयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः, अनुभवकर्मविषयताम् आपन्नं यतः. अन्यस्वरूपेण प्रतिलब्धात्मकं स्वतन्त्रम् अपि परार्थत्वात् परतन्त्रम्. तयोर् दृग्दर्शनशक्त्योर् अनादिर् अर्थकृतः संयोगो हेयहेतुर् दुःखस्य कारणम् इत्य् अर्थः. तथा चोक्तम् --- तत्संयोगहेतुविवर्जनात् स्याद् अयम् आत्यन्तिको दुःखप्रतीकारः. कस्मात्, दुःखहेतोः परिहार्यस्य प्रतीकारदर्शनात्. तद्यथा --- पादतलस्य भेद्यता, कण्टकस्य भेत्तृत्वं, परिहारः कण्टकस्य पा(प)दानधिष्ठानं पादत्राणव्यवहितेन वाधिष्ठानम्, एतत् त्रयं यो वेद लोके स तत्र प्रतीकारम् आरभमाणो भेदजं दुःखं नाप्नोति. कस्मात्, त्रित्वोपलब्धिसामर्थ्याद् इति. अत्रापि तापकस्य रजसः सत्त्वम् एव तप्यम्. कस्मात्, तपिक्रियायाः कर्मस्थत्वात्, सत्त्वे कर्मणि तपिक्रिया नापरिणामिनि निष्क्रिये क्षेत्रज्ञे, दर्शितविषयत्वात्. सत्त्वे तु तप्यमाने तदाकारानुरोधी पुरुषो ऽप्य् अनुतप्यत इति. २.१७
137 SK दृश्यस्वरूपम् उच्यते --- प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् || YS_२.१८ || प्रकाशशीलं सत्त्वम्. क्रियाशीलं रजः स्थितिशीलं तम इति. एते गुणाः परस्परोपरक्तप्रविभागाः परिणामिनः संयोगवियोगधर्माण इतरेतरोपाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वे ऽप्य् असंभिन्नशक्तिप्रविभागास् तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः प्रधानवेलायाम् उपदर्शितसंनिधाना गुणत्वे ऽपि च व्यापारमात्रेण प्रधानान्तर्णीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः संनिधिमात्रोपकारिणो ऽयस्कान्तमणिकल्पाः प्रत्ययम् अन्तरेणैकतमस्य वृत्तिम् अनुवर्तमानाः प्रधानशब्दवाच्या भवन्ति. एतद् दृश्यम् इत्य् उच्यते. तद् एतद् भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते. तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति. तत् तु नाप्रयोजनम् अपि तु प्रयोजनम् उररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तद् दृश्यं पुरुषस्येति. तत्रेष्टानिष्टगुणस्वरूपावधारणम् अविभागापन्नं भोगो भोक्तुः स्वरूपावधारणम् अपवर्ग इति. द्वयोर् अतिरिक्तम् अन्यद् दर्शनं नास्ति. तथा चोक्तम् --- अयं तु खलु त्रिषु गुणेषु कर्तृष्व् अकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे तत्क्रियासाक्षिण्य् उपनीयमानान् सर्वभावान् उपपन्नान् अनुपश्यन्न् अदर्शनम् अन्यच् छङ्कत इति. ताव् एतौ भोगापवर्गौ बुद्धिकृतौ बुद्धाव् एव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति. यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तत्फलस्य भोक्तेति, एवं बन्धमोक्षौ बुद्धाव् एव वर्तमानौ पुरुषे व्यपदिश्येते, स हि तत्फलस्य भोक्तेति. बुद्धेर् एव पुरुषार्थापरिसमाप्तिर् बन्धस् तदर्थावसायो मोक्ष इति. एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषे ऽध्यारोपितसद्भावाः. स हि तत्फलस्य भोक्तेति. २.१८
138 SK दृश्यानां गुणानां स्वरूपभेदावधारणार्थम् इदम् आरभ्यते --- विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि || YS_२.१९ ||
139 SK तत्राकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणाम् अविशेषाणां विशेषाः. तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि, एकादशं मनः सर्वार्थम्, इत्य् एतान्य् अस्मितालक्षणस्याविशेषस्य विशेषाः. गुणानाम् एष षोडशको विशेषपरिणामः. षड् अविशेषाः. तद्यथा --- शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति एकद्वित्रिचतुःपञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः, षष्ठश् चाविशेषो ऽस्मितामात्र इति. एते सत्तामात्रस्यात्मनो महतः षडविशेषपरिणामाः. यत् तत् परमविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वं तस्मिन्न् एते सत्तामात्रे महत्य् आत्मन्य् अवस्थाय विवृद्धिकाष्ठाम् अनुभवन्ति. प्रतिसंसृज्यमानाश् च तस्मिन्न् एव सत्तामात्रे महत्य् आत्मन्य् अवस्थाय यत् तन् निःसत्तासत्तं निःसदसन् निरसद् अव्यक्तम् अलिङ्गं प्रधानं तत् प्रतियन्ति. एष तेषां लिङ्गमात्रः परिणामो निःसत्तासत्तं चालिङ्गपरिणाम इति. अलिङ्गावस्थायां न पुरुषार्थो हेतुर् नालिङ्गावस्थायाम् आदौ पुरुषार्थता कारणं भवतीति. न तस्याः पुरुषार्थता कारणं भवतीति. नासौ पुरुषार्थकृतेति नित्याख्यायते. त्रयाणां त्व् अवस्थाविशेषाणाम् आदौ पुरुषार्थता कारणं भवति. स चार्थो हेतुर् निमित्तं कारणं भवतीत्य् अनित्याख्यायते. गुणास् तु सर्वधर्मानुपातिनो न प्रत्यस्तम् अयन्ते नोपजायन्ते. व्यक्तिभिर् एवातीतानागतव्ययागमवतीभिर् गुणान्वयिनीभिर् उपजननापायधर्मका इव प्रत्यवभासन्ते. यथा देवदत्तो दरिद्राति. कस्मात् यतो ऽस्य म्रियन्ते गाव इति, गवाम् एव मरणात् तस्य दरिद्राणं न स्वरूपहानाद् इति समः समाधिः. लिङ्गमात्रम् अलिङ्गस्य प्रत्यासन्नं, तत्र तत् संसृष्टं विविच्यते क्रमान् अतिवृत्तयः. तथा षड् अविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते परिणामक्रमनियमात्. तथा तेष्व् अविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते. तथा चोक्तं पुरस्तात्. न विशेषेभ्यः परं तत्त्वान्तरम् अस्तीति विशेषाणां नास्ति तत्त्वान्तरपरिणामः. तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते. २.१९
140 SK व्याख्यातं दृश्यम् अथ द्रष्टुः स्वरूपावधारणार्थम् इदम् आरभ्यते --- द्रष्टा दृशिमात्रः शुद्धो ऽपि प्रत्ययानुपश्यः || YS_२.२० ||
141 SK दृशिमात्र इति दृक्शक्तिर् एव विशेषणापरामृष्टेत्य् अर्थः. स पुरुषो भुद्धेः प्रतिसंवेदी. स बुद्धेर् न सरूपो नात्यन्तं विरूप इति. न तावत् सरूपः कस्मात्. ज्ञाताज्ञातविषयत्वात् परिणामिनी हि बुद्धिः. तस्याश् च विषयो गवादिर् घटादिर् वा ज्ञातश् चाज्ञातश् चेति परिणामित्वं दर्शयति. सदाज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति कस्मात्. न हि बुद्धिश् च नाम पुरुषविषयश् च स्याद् अगृहीता गृहीता चेति सिद्धं पुरुषस्य सदाज्ञातविषयत्वं ततश् चापरिणामित्वम् इति. किं च परार्था बुद्धिः संहत्यकारित्वात्, स्वार्थः पुरुष इति. तथा सर्वार्थाध्यवसायकत्वात् त्रिगुणा बुद्धिस् त्रिगुणत्वाद् अचेतनेति. गुणानां तूपद्रष्टा पुरुष इत्य् अतो न सरूपः. अस्तु तर्हि विरूप इति. नात्यन्तं विरूपः कस्मात्. शुद्धो ऽप्य् असौ प्रत्ययानुपश्यो यतः. प्रत्ययं बौद्धम् अनुपश्यति, तम् अनुपश्यन्न् अतदात्मापि तदात्मक इव प्रत्यवभासते. तथा चोक्तम् --- अपरिणामिनी हि भोक्तृशक्तिर् अप्रतिसंक्रमा च परिणामिन्य् अर्थे प्रतिसंक्रान्तेव तद्वृत्तिम् अनुपतति, तस्याश् च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेर् अनुकारमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिर् इत्य् आख्यायते. २.२०
142 SK तदर्थ एव दृश्यस्यात्मा || YS_२.२१ ||
143 SK दृशिरूपस्य पुरुषस्य कर्मरूपताम् आपन्नं दृश्यम् इति तदर्थ एव दृश्यस्यात्मा भवति. स्वरूपं भवतीत्य् अर्थः. स्वरूपं तु पररूपेण प्रतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति. स्वरूपहानाद् अस्य नाशः प्राप्तो न तु विनश्यति. २.२१
144 SK कस्मात् --- कृतार्थं प्रति नष्टम् अप्य् अनष्टं तदन्यसाधारणत्वात् || YS_२.२२ ||
145 SK कृतार्थम् एकं पुरुषं प्रति दृश्यं नष्टम् अपि नाशं प्राप्तम् अप्य् अनष्टं तदन्यपुरुषसाधारणत्वात्. कुशलं पुरुषं प्रति नाशं प्राप्तम् अप्य् अकुशलान् पुरुषान् प्रति न कृतार्थम् इति तेषां दृशेः कर्मविषयताम् आपन्नं लभत एव पररूपेणात्मरूपम् इति. अतश् च दृग्दर्शनशक्त्योर् नित्यत्वाद् अनादिः संयोगो व्याख्यात इति. तथा चोक्तम् --- धर्मिणाम् अनादिसंयोगाद् धर्ममात्राणाम् अप्य् अनादिः संयोग इति. २.२२
146 SK संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते --- स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः || YS_२.२३ ||
147 SK पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः. तस्मात् संयोगाद् दृश्यस्योपलब्धिर् या स भोगः. या तु द्रष्टुः स्वरूपोपलब्धिः सो ऽपवर्गः. दर्शनकार्यावसानः संयोग इति दर्शनं वियोगस्य कारणम् उक्तम्. दर्शनम् अदर्शनस्य प्रतिद्वन्द्वीत्य् अदर्शनं संयोगनिमित्तम् उक्तम्. नात्र दर्शनं मोक्षकारणम् अदर्शनाभावाद् एव बन्धाभावः स मोक्ष इति. दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्य् अतो दर्शनं ज्ञानं कैवल्यकारणम् उक्तम्. किंचेदम् अदर्शनं नाम, किं गुणानाम् अधिकार आहोस्विद् दृशिरूपस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्यानुत्पादः. स्वस्मिन् दृश्ये विद्यमाने यो दर्शनाभावः. किम् अर्थवत्ता गुणानाम्. अथाविद्या स्वचित्तेन सह निरुद्धा स्वचित्तस्योत्पत्तिबीजम्. किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः. यत्रेदम् उक्तं प्रधानं स्थित्यैव वर्तमानं विकाराकरणाद् अप्रधानं स्यात्. तथा गत्यैव वर्तमानं विकारनित्यत्वाद् अप्रधानं स्यात्. उभयथा चास्य वृत्तिः प्रधानव्यवहारं लभते नान्यथा. कारणान्तरेष्व् अपि कल्पितेष्व् एव समानश् चर्चः. दर्शनशक्तिर् एवादर्शनम् इत्य् एके, ᳚प्रधानस्यात्मख्यापनार्था प्रवृत्तिः᳚ इति श्रुतेः. सर्वबोध्यबोधसमर्थः प्राक्प्रवृत्तेः पुरुषो न पश्यति सर्वकार्यकरणसमर्थं दृश्यं तदा न दृश्यत इति. उभयस्याप्य् अदर्शनं धर्म इत्य् एके. तत्रेदं दृश्यस्य स्वात्मभूतम् अपि पुरुषप्रत्ययापेक्षं दर्शनं दृश्यधर्मत्वेन भवति. तथा पुरुषस्यानात्मभूतम् अपि दृश्यप्रत्ययापेक्षं पुरुषधर्मत्वेनेवादर्शनम् अवभासते. दर्शनं ज्ञानम् एवादर्शनम् इति केचिद् अभिदधति. इत्य् एते शास्त्रगता विकल्पाः. तत्र विकल्पबहुत्वम् एतत् सर्वपुरुषाणां गुणानां संयोगे साधारणविषयम्. २.२३
148 SK यस् तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः ---
149 SK तस्य हेतुर् अविद्या || YS_२.२४ ||
150 SK विपर्ययज्ञानवासनेत्य् अर्थः. विपर्ययज्ञानवासनावासिता च न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति साधिकारा पुनर् आवर्तते. सा तु पुरुषख्यातिपर्यवसानां कार्यनिष्ठां प्राप्नोति, चरिताधिकारा निवृत्तादर्शना बन्धकारणाभावान् न पुनर् आवर्तते. अत्र कश्चित् पण्डकोपाख्यानेनोद्घाटयति --- मुग्धया भार्ययाभिधीयते --- पण्डकार्यपुत्र, अपत्यवती मे भगिनी किमर्थं नाम नाहम् इति, स ताम् आह --- मृतस् ते ऽहम् अपत्यम् उत्पादयिष्यामीति. तथेदं विद्यमानं ज्ञानं चित्तनिवृत्तिं न करोति, विनष्टं करिष्यतीति का प्रत्याशा. तत्राचार्यदेशीयो वक्ति --- ननु बुद्धिनिवृत्तिर् एव मोक्षो ऽदर्शनकारणाभावाद् बुद्धिनिवृत्तिः. तच् चादर्शनं बन्धकारणं दर्शनान् निवर्तते. तत्र चित्तनिवृत्तिर् एव मोक्षः, किमर्थम् अस्थान एवास्य मतिविभ्रमः. २.२४
151 SK हेयं दुःखं हेयकारणं च संयोगाख्यं सनिमित्तम् उक्तम् अतः परं हानं वक्तव्यम् --- तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् || YS_२.२५ ||
152 SK तस्यादर्शनस्याभावाद् बुद्धिपुरुषसंयोगाभाव आत्यन्तिको बन्धनोपरम इत्य् अर्थः. एतद् धानम्. तद्दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनर् असंयोगो गुणैर् इत्य् अर्थः. दुःखकारणनिवृत्तौ दुःखोपरमो हानम्, तदा स्वरूपप्रतिष्ठः पुरुष इत्य् उक्तम्. २.२५
153 SK अथ हानस्य कः प्राप्त्युपाय इति --- विवेकख्यातिर् अविप्लवा हानोपायः || YS_२.२६ ||
154 SK सत्त्वपुरुषान्यताप्रत्ययो विवेकख्यातिः. सा त्व् अनिवृत्तमिथ्याज्ञाना प्लवते. यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं संपद्यते तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति. सा विवेकख्यातिर् अविप्लवा हानोपायः. ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश् चाप्रसव इत्य् एष मोक्षस्य मार्गो हानस्योपाय इति. २.२६
155 SK तस्य सप्तधा प्रान्तभूमिः प्रज्ञा || YS_२.२७ ||
156 SK तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः. सप्तधेति अशुद्ध्यावरणमलापगमाच् चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति. तद्यथा --- परिज्ञातं हेयं नास्य पुनः परिज्ञेयम् अस्ति. क्षीणा हेयहेतवो न पुनर् एतेषां क्षेतव्यम् अस्ति. साक्षात्कृतं निरोधसमाधिना हानम्. भावितो विवेकख्यातिरूपो हानोपाय इति. एषा चतुष्टयी कार्या विमुक्तिः प्रज्ञायाः. चित्तविमुक्तिस् तु त्रयी चरिताधिकारा बुद्धिः. गुणा गिरिशिखरतटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति. न चैषां प्रविलीनानां पुनर् अस्त्य् उत्पादः प्रयोजनाभावाद् इति. एतस्याम् अवस्थायां गुणसंबन्धातीतः स्वरूपमात्रज्योतिर् अमलः केवली पुरुष इति. एतां सप्तविधां प्रान्तभूमिप्रज्ञाम् अनुपश्यन् पुरुषः कुशल इत्य् आख्यायते. प्रतिप्रसवे ऽपि चित्तस्य मुक्तः कुशल इत्य् एव भवति गुणातीतत्वाद् इति. २.२७
157 SK सिद्धा भवति विवेकख्यातिर् हानोपाय इति, न च सिद्धिर् अन्तरेण साधनम् इत्य् एतद् आरभ्यते --- योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिर् आ विवेकख्यातेः || YS_२.२८ ||
158 SK योगाङ्गान्य् अष्टाव् अभिधायिष्यमाणानि. तेषाम् अनुष्ठानात् पञ्चपर्वणो विपर्ययस्याशुद्धिरूपस्य क्षयो नाशः. तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः. यथा यथा च साधनान्य् अनुष्ठीयन्ते तथा तथा तनुत्वम् अशुद्धिर् आपद्यते. यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर् विवर्धते. सा खल्व् एषा विवृद्धिः प्रकर्षम् अनुभवत्या विवेकख्यातेः, आ गुणपुरुषस्वरूपविज्ञानाद् इत्य् अर्थः. योगाङ्गानुष्ठानम् अशुद्धेर् वियोगकारणम्. यथा परशुश् छेद्यस्य. विवेकख्यातेस् तु प्राप्तिकारणं यथा धर्मः सुखस्य नान्यथा कारणम्. कति चैतानि कारणानि शास्त्रे भवन्ति. नवैवेत्य् आह. तद्यथा --- ᳚उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः / वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् //᳚ इति.
159 SK तत्रोत्पत्तिकारणं मनो भवति विज्ञानस्य, स्थितिकारणं मनसः पुरुषार्थता, शरीरस्येवाहार इति. अभिव्यक्तिकारणं यथा रूपस्यालोकस् तथा रूपज्ञानम्, विकारकारणं मनसो विषयान्तरम्. यथाग्निः पाक्यस्य. प्रत्ययकारणं धूमज्ञानम् अग्निज्ञानस्य. प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः. वियोगकारणं तद् एवाशुद्धेः. अन्यत्वकारणं यथा सुवर्णस्य सुवर्णकारः. एवम् एकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे द्वेषो दुःखत्वे रागः सुखत्वे तत्त्वज्ञानं माध्यस्थ्ये. धृतिकारणं शरीरम् इन्द्रियाणाम्. तानि च तस्य. महाभूतानि शरीराणाम्, तानि च परस्परं सर्वेषां तैर्यग्यौनमानुषदैवतानि च परस्परार्थत्वाद् इत्य् एवं नव कारणानि. तानि च यथासंभवं पदार्थान्तरेष्व् अपि योज्यानि. योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति. २.२८
160 SK तत्र योगाङ्गान्य् अवधार्यन्ते --- यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टाव् अङ्गानि || YS_२.२९ || यथाक्रमम् एषाम् अनुष्ठानं स्वरूपं च वक्ष्यामः. २.२९
161 SK तत्र --- अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः || YS_२.३० ||
162 SK तत्राहिंसा सर्वथा सर्वदा सर्वभूतानाम् अनभिद्रोहः. उत्तरे च यमनियमास् तन्मूलास् तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते. तदवदातरूपकरणायैवोपादीयन्ते. तथा चोक्तम् --- स खल्व् अयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस् ताम् एवावदातरूपाम् अहिंसां करोति. सत्यं यथार्थे वाङ्मनसे. यथा दृष्टं यथानुमितं तथा वाङ् मनश् चेति. परत्र स्वबोधसंक्रान्तये वाग् उक्ता, सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिवन्ध्या वा भवेद् इति. एषा सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय. यदि चैवम् अप्य् अभिधीयमाना भूतोपघातपरैव स्यान् न सत्यं भवेत् पापम् एव भवेत् तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात्. तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात्. स्तेयम् अशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणं, तत्प्रतिषेधः पुनर् अस्पृहारूपम् अस्तेयम् इति. ब्रह्मचर्यं गुप्तेन्द्रियस्योपस्थस्य संयमः. विषयाणाम् अर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनाद् अस्वीकरणम् अपरिग्रह इत्य् एते यमाः. २.३०
163 SK ते तु --- जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् || YS_२.३१ ||
164 SK तत्राहिंसा जात्यवच्छिन्ना मत्स्यवधकस्य मत्स्येष्व् एव नान्यत्र हिंसा. सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति. सैव कालावच्छिन्ना न चतुर्दश्यां न पुण्ये ऽहनि हनिष्यामीति. सैव त्रिभिर् उपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे नान्यथा हनिष्यामीति. यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति. एभिर् जातिदेशकालसमयैर् अनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः. सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतम् इत्य् उच्यन्ते. २.३१
165 SK शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः || YS_२.३२ ||
166 SK तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यम्. आभ्यन्तरं चित्तमलानाम् आक्षालनम्. संतोषः संनिहितसाधनाद् अधिकस्यानुपादित्सा. तपो द्वंद्वसहनम्. द्वंद्वाश् च जिघत्सापिपासे शीतोष्णे स्थानासने काष्ठमौनाकारमौने च. व्रतानि चैषां यथायोगं कृच्छ्रचान्द्रायणसांतपनादीनि. स्वाध्यायो मोक्षशास्त्राणाम् अध्ययनं प्रणवजपो वा. ईश्वरप्रणिधानं तस्मिन् परमगुरौ सर्वकर्मार्पणम्. शय्यासनस्थो ऽथ पथि व्रजन् वा स्वस्थः परिक्षीणवितर्कजालः / संसारबीजक्षयम् ईक्षमाणः स्यान् नित्ययुक्तो ऽमृतभोगभागी //
167 SK यत्रेदम् उक्तं ततः प्रत्यक्चेतनाधिगमो ऽप्य् अन्तरायाभावश् चेति. २.३२
168 SK एतेषां यमनियमानाम् --- वितर्कबाधने प्रतिपक्षभावनम् || YS_२.३३ ||
169 SK यदास्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन् हनिष्याम्य् अहम् अपकारिणम् अनृतम् अपि वक्ष्यामि द्रव्यम् अप्य् अस्य स्वीकरिष्यामि दारेषु चास्य व्यवायी भविष्यामि परिग्रहेषु चास्य स्वामी भविष्यामीति. एवम् उन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन बाध्यमानस् तत्प्रतिपक्षान् भावयेत्. घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणम् उपागतः सर्वभूताभयप्रदानेन योगधर्मः. स खल्व् अहं त्यक्त्वा वितर्कान् पुनस् तान् आददानस् तुल्यः श्ववृत्तेनेति भावयेत्. यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनर् आददान इति. एवमादि सूत्रान्तरेष्व् अपि योज्यम्. २.३३
170 SK वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् || YS_२.३४ ||
171 SK तत्र हिंसा तावत् --- कृता कारितानुमोदितेति त्रिधा. एकैका पुनस् त्रिधा लोभेन मांसचर्मार्थेन क्रोधेनापकृतम् अनेनेति मोहेन धर्मो मे भविष्यतीति. लोभक्रोधमोहाः पुनस् त्रिविधा मृदुमध्याधिमात्रा इति. एवं सप्तविंशतिर् भेदा भवन्ति हिंसायाः. मृदुमध्याधिमात्राः पुनस् त्रिधा --- मृदुमृदुर् मध्यमृदुस् तीव्रमृदुर् इति. तथा मृदुमध्यो मध्यमध्यस् तीव्रमध्य इति. तथा मृदुतीव्रो मध्यतीव्रो ऽधिमात्रतीव्र इति. एवम् एकाशीतिभेदा हिंसा भवति. सा पुनर् नियमविकल्पसमुच्चयभेदाद् असंख्येया, प्राणभृद्भेदस्यापरिसंख्येयत्वाद् इति. एवम् अनृतादिष्व् अपि योज्यम्. ते खल्व् अमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्. दुःखम् अज्ञानं चानन्तं फलं येषाम् इति प्रतिपक्षभावनम्. तथा च हिंसकस् तावत् प्रथमं वध्यस्य वीर्यम् आक्षिपति. ततश् च शस्त्रादिनिपातेन दुःखयति. ततो जीविताद् अपि मोचयति. ततो वीर्याक्षेपाद् अस्य चेतनाचेतनम् उपकरणं क्षीणवीर्यं भवति. दुःखोत्पादान् नरकतिर्यक्प्रेतादिषु दुःखम् अनुभवति, जीवितव्यपरोपणात् प्रतिक्षणं च जीवितात्यये वर्तमानो मरणम् इच्छन्न् अपि दुःखविपाकस्य नियतविपाकवेदनीयत्वात् कथंचिद् एवोच्छ्वसिति. यदि च कथंचित् पुण्यावापगता हिंसा भवेत् तत्र सुखप्राप्तौ भवेद् अल्पायुर् इति. एवम् अनृतादिष्व् अपि योज्यं यथासंभवम्. एवं वितर्काणां चामुम् एवानुगतं विपाकम् अनिष्टं भावयन् न वितर्केषु मनः प्रणिदधीत. २.३४
172 SK प्रतिपक्षभावनाद् धेतोर् हेया वितर्का यदास्य स्युर् अप्रसवधर्माणस् तदा तत्कृतम् ऐश्वर्यं योगिनः सिद्धिसूचकं भवति. तद्यथा --- अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः || YS_२.३५ ||
173 SK सर्वप्राणिनां भवति. २.३५
174 SK सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् || YS_२.३६ ||
175 SK धार्मिको भूया इति भवति धार्मिकः, स्वर्गं प्राप्नुहीति स्वर्गं प्राप्नोति अमोघास्य वाग् भवति. २.३६
176 SK अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् || YS_२.३७ ||
177 SK सर्वदिक्स्थान्य् अस्योपतिष्ठन्ते रत्नानि. २.३७
178 SK ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः || YS_२.३८ ||
179 SK यस्य लाभाद् अप्रतिघान् गुणान् उत्कर्षयति. सिद्धश् च विनेयेषु ज्ञानम् आधातुं समर्थो भवतीति. २.३८
180 SK अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः || YS_२.३९ ||
181 SK अस्य भवति को ऽहम् आसं कथम् अहम् आसं किंस्विद् इदं कथंस्विद् इदं के वा भविष्यामः कथं वा भविष्याम इत्य् एवम् अस्य पूर्वान्तपरान्तमध्येष्व् आत्मभावजिजासा स्वरूपेणोपावर्तते. एता यमस्थैर्ये सिद्धयः. २.३९
182 SK नियमेषु वक्ष्यामः --- शौचात् स्वाङ्गजुगुप्सा परैर् असंसर्गः || YS_२.४० ||
183 SK स्वाङ्गे जुगुप्सायां शौचम् आरभमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर् भवति. किंच परैर् असंसर्गः कायस्वभावावलोकी स्वम् अपि कायं जिहासुर् मृज्जलादिभिर् आक्षालयन्न् अपि कायशुद्धिम् अपश्यन् कथं परकायैर् अत्यन्तम् एवाप्रयतैः संसृज्येत. २.४०
184 SK किंच --- सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च || YS_२.४१ ||
185 SK भवन्तीति वाक्यशेषः. शुचेः सत्त्वशुद्धिस् ततः सौमनस्यं तत ऐकाग्र्यं तत इन्द्रियजयस् ततश् चात्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीत्य् एतच् छौचस्थैर्याद् अधिगम्यत इति. २.४१
186 SK संतोषाद् अनुत्तमः सुखलाभः || YS_२.४२ ||
188 SK ᳚यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम् /
189 SK तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्᳚ इति. २.४२
190 SK कायेन्द्रियसिद्धिर् अशुद्धिक्षयात् तपसः || YS_२.४३ ||
191 SK निर्वर्त्यमानम् एव तपो हिनस्त्य् अशुद्ध्यावरणमलं तदावरणमलापगमात् कायसिद्धिर् अणिमाद्या. तथेन्द्रियसिद्धिर् दूराच् छ्रवणदर्शनाद्येति. २.४३
192 SK स्वाध्यायाद् इष्टदेवतासंप्रयोगः || YS_२.४४ ||
193 SK देवा ऋषयः सिद्धाश् च स्वाध्यायशीलस्य दर्शनं गच्छन्ति, कार्ये चास्य वर्तन्त इति. २.४४
194 SK समाधिसिद्धिर् ईश्वरप्रणिधानात् || YS_२.४५ ||
195 SK ईश्वरार्पितसर्वभावस्य समाधिसिद्धिर् यया सर्वम् ईप्सितम् अवितथं जानाति देशान्तरे देहान्तरे कालान्तरे च. ततो ऽस्य प्रज्ञा यथाभूतं प्रजानातीति. २.४५
196 SK उक्ताः सह सिद्धिभिर् यमनियमाः आसनादीनि वक्ष्यामः तत्र --- स्थिरसुखम् आसनम् || YS_२.४६ ||
197 SK तद्यथा पद्मासनं भद्रासनं स्वस्तिकं दण्डासनं सोपाश्रयं पर्यङ्कं क्रौञ्चनिषदनं हस्तिनिषदनम् उष्ट्रनिषदनं समसंस्थानं स्थिरसुखं यथासुखं चेत्य् एवमादीनि. २.४६
198 SK प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् || YS_२.४७ ||
199 SK भवतीति वाक्यशेषः प्रयत्नोपरमात् सिध्यत्य् आसनं येन नाङ्गमेजयो भवति. अनन्ते वा समापन्नं चित्तम् आसनं निर्वर्तयतीति. २.४७
200 SK ततो द्वन्द्वानभिघातः || YS_२.४८ ||
201 SK शीतोष्णादिभिर् द्वन्द्वैर् आसनजयान् नाभिभूयते. २.४८
202 SK तस्मिन् सति श्वासप्रश्वासयोर् गतिविच्छेदः प्राणायामः || YS_२.४९ ||
203 SK सत्य् आसनजये बाह्यस्य वायोर् आचमनं श्वासः, कौष्ठ्यस्य वायोर् निःसारणं प्रश्वासः, तयोर् गतिविच्छेद उभयाभावः प्राणायामः. २.४९
204 SK स तु --- बाह्याभ्यन्तरस्तम्भवृत्तिर् देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः || YS_२.५० || यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः. यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः. तृतीयः स्तम्भवृत्तिर् यत्रोभयाभावः सकृट्प्रयत्नाद् भवति. यथा तप्ते न्यस्तम् उपले जलं सर्वतः संकोचम् आपद्यते तथा द्वयोर् युगपद् गत्यभाव इति. त्रयो ऽप्य् एते देशेन परिदृष्टा इयान् अस्य विषयो देश इति. कालेन परिदृष्टाः क्षणानाम् इयत्तावधारणेनावच्छिन्ना इत्य् अर्थः. संख्याभिः परिदृष्टा एतावद्भिः श्वासप्रश्वासैः प्रथम उद्घातस् तद्वन् निगृहीतस्यैतावद्भिर् द्वितीय उद्घात एवं तृतीयः. एवं मृदुर् एवं मध्य एवं तीव्र इति संख्यापरिदृष्टः. स खल्व् अयम् एवम् अभ्यस्तो दीर्घसूक्ष्मः. २.५०
205 SK बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः || YS_२.५१ ||
206 SK देशकालसंख्याभिर् बाह्यविषयपरिदृष्ट आक्षिप्तः. तथाभ्यन्तरविषयपरिदृष्ट आक्षिप्तः. उभयथा दीर्घसूक्ष्मः. तत्पूर्वको भूमिजयात् क्रमेणोभयोर् गत्यभावश् चतुर्थः प्राणायामः. तृतीयस् तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः. चतुर्थस् तु श्वासप्रश्वासयोर् विषयावधारणात् क्रमेण भूमिजयाद् उभयाक्षेपपूर्वको गत्यभावश् चतुर्थः प्राणायाम इत्य् अयं विशेष इति. २.५१
207 SK ततः क्षीयते प्रकाशावरणम् || YS_२.५२ ||
208 SK प्राणायामान् अभ्यस्यतो ऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म. यत् तद् आचक्षते. महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वम् आवृत्य तद् एवाकार्ये नियुङ्क्त इति. तद् अस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद् दुर्बलं भवति प्रतिक्षणं च क्षीयते. तथा चोक्तम्. ᳚तपो न परं प्राणायामात् ततो विशुद्धिर् मलानां दीप्तिश् च ज्ञानस्य᳚ इति. २.५२
209 SK किंच --- धारणासु च योग्यता मनसः || YS_२.५३ ||
210 SK प्राणायामाभ्यासाद् एव ᳚प्रच्छर्दनविधारणाभ्यां वा प्राणस्य᳚ इति वचनात्. २.५३
211 SK अथ कः प्रत्याहारः --- स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः || YS_२.५४ ||
212 SK स्वविषयसंप्रयोगाभावे चित्तस्वरूपानुकार इवेति, चित्तनिरोधे चित्तवन्निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवदुपायान्तरम् अपेक्षन्ते. यथा मधुकरराजं मक्षिका उत्पतन्तम् अनूत्पतन्ति निविशमानम् अनु निविशन्ते तथेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्य् एष प्रत्याहारः. २.५४
213 SK ततः परमा वश्यतेन्द्रियाणाम् || YS_२.५५ ||
214 SK शब्दादिष्व् अव्यसनम् इन्द्रियजय इति केचित्. सक्तिर् व्यसनं व्यस्यत्य् एनं श्रेयस इति. अविरुद्धा प्रतिपत्तिर् न्याय्या. शब्दादिसंप्रयोगः स्वेच्छयेत्य् अन्ये. रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानम् इन्द्रियजय इति केचित्. चित्तैकाग्र्याद् अप्रतिपत्तिर् एवेति जैगीषव्यः. ततश् च परमा त्व् इयं वश्यता यच् चित्तनिरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत् प्रयत्नकृतम् उपायान्तरम् अपेक्षन्ते योगिन इति. २.५५
215 SK इति श्रीपाताञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमद्व्यासभाष्ये द्वितीयः साधनपादः २. उक्तानि पञ्च बहिरङ्गानि(णि) साधनानि. धारणा वक्तव्या --- देशबन्धश् चित्तस्य धारणा || YS_३.१ ||
216 SK नाभिचक्रे हृदयपुण्डरीके मूर्ध्नि ज्योतिषि नासिकाग्रे जिह्वाग्र इत्य् एवमादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा. ३.१
217 SK तत्र प्रत्ययैकतानता ध्यानम् || YS_३.२ ||
218 SK तस्मिन् देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृशः प्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम्. ३.२
219 SK तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः || YS_३.३ ||
220 SK ध्यानम् एव ध्येयाकारानिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यम् इव यदा भवति ध्येयस्वभावावेशात् तदा समाधिर् इत्य् उच्यते. ३.३
221 SK त्रयम् एकत्र संयमः || YS_३.४ ||
222 SK तद् एतद् धारणाध्यानसमाधित्रयम् एकत्र संयमः. एकविषयाणि त्रीणि साधनानि संयम इत्य् उच्यते. तद् अस्य त्रयस्य तान्त्रिकी परिभाषा संयम इति. ३.४
223 SK तज्जयात् प्रज्ञालोकः || YS_३.५ ||
224 SK तस्य संयमस्य जयात् समाधिप्रज्ञाया भवत्य् आलोको यथा यथा संयमः स्थिरपदो भवति तथा तथा समाधिप्रज्ञा विशारदी भवति. ३.५
225 SK तस्य भूमिषु विनियोगः || YS_३.६ ||
226 SK तस्य संयमस्य जितभूमेर् यानन्तरा भूमिस् तत्र विनियोगः. न ह्य् अजिताधरभूमिर् अनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं लभते. तदभावाच् च कुतस् तस्य प्रज्ञालोकः. ईश्वरप्रसादाज् जितोत्तरभूमिकस्य च नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः. कस्मात्, तदर्थस्यान्यत एवावगतत्वात्. भूमेर् अस्या इयम् अनन्तरा भूमिर् इत्य् अत्र योग एवोपाध्यायः. कथम् एवं ह्य् उक्तम्. ᳚योगेन योगो ज्ञातव्यो योगो योगात् प्रवर्तते / यो ऽप्रमत्तस् तु योगेन स योगे रमते चिरम्᳚ इति. ३.६
227 SK त्रयम् अन्तरङ्गं पूर्वेभ्यः || YS_३.७ ||
228 SK तद् एतद् धारणाध्यानसमाधित्रयम् अन्तरङ्गं संप्रज्ञातस्य समाधेः पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्य इति. ३.७
229 SK तद् अपि बहिरङ्गं निर्बीजस्य || YS_३.८ ||
230 SK तद् अप्य् अन्तरङ्गं साधनत्रयं निर्बीजस्य योगस्य बहिरङ्गं भवति कस्मात्, तदभावे भावाद् इति. ३.८
231 SK अथ निरोधचित्तक्षणेषु चलं गुणवृत्तम् इति कीदृशस् तदा चित्तपरिणामः --- व्युत्थाननिरोधसंस्कारयोर् अभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः || YS_३.९ || व्युत्थानसंस्काराश् चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्ययनिरोधे न निरुद्धा निरोधसंस्कारा अपि चित्तधर्मास् तयोर् अभिभवप्रादुर्भावौ व्युत्थानसंस्कारा हीयन्ते निरोधसंस्कारा आधीयन्ते. निरोधक्षणं चित्तम् अन्वेति तद् एकस्य चित्तस्य प्रतिक्षणम् इदं संस्कारान्यथात्वं निरोधपरिणामः. तदा संस्कारशेषं चित्तम् इति निरोधसमाधौ व्याख्यातम्. ३.९
232 SK तस्य प्रशान्तवाहिता संस्कारात् || YS_३.१० ||
233 SK निरोधसंस्काराभ्यासपाटवापेक्षा प्रशान्तवाहिता चित्तस्य भवति. तत्संस्कारमान्द्ये व्युत्थानधर्मिणा संस्कारेण निरोधधर्मसंस्कारो ऽभिभूयत इति. ३.१०
234 SK सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः || YS_३.११ ||
235 SK सर्वार्थता चित्तधर्मः. एकाग्रतापि चित्तधर्मः. सर्वार्थतायाः क्षयस् तिरोभाव इत्य् अर्थः. एकाग्रताया उदय आविर्भाव इत्य् अर्थः. तयोर् धर्मित्वेनानुगतं चित्तं, तद् इदं चित्तम् अपायोपजनयोः स्वात्मभूतयोर् धर्मयोर् अनुगतं समाधीयते स चित्तस्य समाधिपरिणामः. ३.११
236 SK ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः || YS_३.१२ ||
237 SK समाहितचित्तस्य पूर्वप्रत्ययः शान्त उत्तरस् तत्सदृश उदितः, समाधिचित्तम् उभयोर् अनुगतं पुनस् तथैवासमाधिभ्रेषाद् इति. स खल्व् अयं धर्मिणश् चित्तस्यैकाग्रतापरिणामः. ३.१२
238 SK एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः || YS_३.१३ ||
239 SK एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामो ऽवस्थापरिणामश् चोक्तो वेदितव्यः. तत्र व्युत्थाननिरोधयोर् अभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः. लक्षणपरिणामश् च निरोधस् त्रिलक्षणस् त्रिभिर् अध्वभिर् युक्तः. स खल्व् अनागतलक्षणम् अध्वानं प्रथमं हित्वा धर्मत्वम् अनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः. यत्रास्य स्वरूपेणाभिव्यक्तिः. एषो ऽस्य द्वितीयो ऽध्वा. न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः. तथा व्युत्थानं त्रिलक्षणं त्रिभिर् अध्वभिर् युक्तं वर्तमानलक्षणं हित्वा धर्मत्वम् अनतिक्रान्तम् अतीतलक्षणं प्रतिपन्नम्. एषो ऽस्य तृतीयो ऽध्वा. न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम्. एवं पुनर् व्युत्थानम् उपसंपद्यमानम् अनागतलक्षणं हित्वा धर्मत्वम् अनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम्. यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः एषो ऽस्य द्वितीयो ऽध्वा. न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तम् इति. एवं पुनर् निरोध एवं पुनर् व्युत्थानम् इति. तथावस्थापरिणामः तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इति. एष धर्माणाम् अवस्थापरिणामः. तत्र धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानाम् अप्य् अवस्थाभिः परिणाम इति. एवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणम् अपि गुणवृत्तम् अवतिष्ठते. चलं च गुणवृत्तम्. गुणस्वाभाव्यं तु प्रवृत्तिकारणम् उक्तं गुणानाम् इति. एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात् त्रिविधः परिणामो वेदितव्यः. परमार्थतस् त्व् एक एव परिणामः. धर्मिस्वरूपमात्रो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति. तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्व् अतीतानागतवर्तमानेषु भावान्यथात्वं भवति न तु द्रव्यान्यथात्वम्. यथा सुवर्णभाजनस्य भित्त्वान्यथाक्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वम् इति. अपर आह --- धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात्. पूर्वापरावस्थाभेदम् अनुपतितः कौटस्थ्येनैव परिवर्तेत यद्य् अन्वयी स्याद् इति. अयम् अदोषः. कस्मात्. एकान्ततानभ्युपगमात्. तद् एतत् त्रैलोक्यं व्यक्तेर् अपैति नित्यत्वप्रतिषेधात्. अपेतम् अप्य् अस्ति विनाशप्रतिषेधात्. संसर्गाच् चास्य सौक्ष्म्यं, सौक्ष्म्याच् चानुपलब्धिर् इति. लक्षणपरिणामो धर्मो ऽध्वसु वर्तमानो ऽतीतो ऽतीतलक्षणयुक्तो ऽनागतवर्तमानाभ्यां लक्षणाभ्याम् अवियुक्तः. तथानागतो ऽनागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणाभ्याम् अवियुक्तः. तथा वर्तमानो वर्तमानलक्षणयुक्तो ऽतीतानागताभ्यां लक्षणाभ्याम् अवियुक्त इति. यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति. अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगाद् अध्वसंकरः प्राप्नोतीति परैर् दोषश् चोद्यत इति. तस्य परिहारः --- धर्माणां धर्मत्वम् अप्रसाध्यम्. सति च धर्मत्वे लक्षणभेदो ऽपि वाच्यो न वर्तमानसमय एवास्य धर्मत्वम्. एवं हि न चित्तं रागधर्मकं स्यात् क्रोधकाले रागस्यासमुदाचाराद् इति. किंच त्रयाणां लक्षणानां युगपद् एकस्यां व्यक्तौ नास्ति संभवः. क्रमेण तु स्वव्यञ्जकाञ्जनस्य भावो भवेद् इति. उक्तं च रूपातिशया वृत्त्यतिशयाश् च विरुध्यन्ते, सामान्यानि त्व् अतिशयैः सह प्रवर्तन्ते. तस्माद् असंकरः यथा रागस्यैव क्वचित् समुदाचार इति न तदानीम् अन्यत्राभावः, किंतु केवलं सामान्येन समन्वागत इत्य् अस्ति तदा तत्र तस्य भावः तथा लक्षणस्येति. न धर्मी त्र्यध्वा धर्मास् तु त्र्यध्वानस् ते लक्षिता अलक्षितास् तत्र लक्षितास् तां ताम् अवस्थां प्राप्नुवन्तो ऽन्यत्वेन प्रतिनिर्दिश्यन्ते ऽवस्थान्तरतो न द्रव्यान्तरतः. यथैका रेखा शतस्थाने शतं दशस्थाने दशैका चैकस्थाने यथा चैकत्वे ऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति. अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोषः कैश्चिद् उक्तः. कथम्. अध्वनो व्यापारेण व्यवहितत्वात्. यदा धर्मः स्वव्यापारं न करोति तदानागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तस् तदातीत इत्य् एवं धर्मधर्मिणोर् लक्षणानाम् अवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर् दोष उच्यते. नासौ दोषः. कस्मात्. गुणिनित्यत्वे ऽपि गुणानां विमर्दवैचित्र्यात्. यथा संस्थानम् आदिमद् धर्ममात्रं शब्दादीनां गुणानां विनाश्यविनाशिनाम् एवं लिङ्गम् आदिमद् धर्ममात्रं सत्त्वादीनां गुणानां विनाश्यविनाशिना तस्मिन् विकारसंज्ञेति. तत्रेदम् उदाहरणं मृद्धर्मी पिण्डाकाराद् धर्माद् धर्मान्तरम् उपसंपद्यमानो धर्मतः परिणमते घटाकार इति. घटाकारो ऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते. घटो नवपुराणतां प्रतिक्षणम् अनुभवन्न् अवस्थापरिणामं प्रतिपद्यत इति. धर्मिणो ऽपि धर्मान्तरम् अवस्था धर्मस्यापि लक्षणान्तरम् अवस्थेत्य् एक एव द्रव्यपरिणामो भेदेनोपदर्शित इति. एवं पदार्थान्तरेष्व् अपि योज्यम् इति. त एते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपम् अनतिक्रान्ता इत्य् एक एव परिणामः सर्वान् अमून् विशेषान् अभिप्लवते. अथ को ऽयं परिणामः.अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति. ३.१३
240 SK तत्र --- शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी || YS_३.१४ ||
241 SK योग्यतावच्छिन्ना धर्मिणः शक्तिर् एव धर्मः. स च फलप्रसवभेदानुमित एकस्यान्यो ऽन्यश् च परिदृष्टः. तत्र वर्तमानः स्वव्यापारम् अनुभवन् धर्मी धर्मान्तरेभ्यः शान्तेभ्यश् चाव्यपदेश्येभ्यश् च भिद्यते. यदा तु सामान्येन समन्वागतो भवति तदा धर्मिस्वरूपमात्रत्वात् को ऽसौ केन भिद्येत. तत्र ये खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्याश् चेति, तत्र शान्ता ये कृत्वा व्यापारानुपरताः सव्यापारा उदितास् ते चानागतस्य लक्षणस्य समनन्तरा वर्तमानस्यानन्तरा अतीताः किमर्थम् अतीतस्यानन्तरा न भवन्ति वर्तमानाः, पूर्वपश्चिमताया अभावात्. यथानागतवर्तमानयोः पूर्वपश्चिमता नैवम् अतीतस्य. तस्मान् नातीतस्यास्ति समनन्तरः तदनागत एव समनन्तरो भवति वर्तमानस्येति. अथाव्यपदेश्याः के सर्वं सर्वात्मकम् इति. यत्रोक्तम् --- जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम्. तथा स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्व् इत्य् एवं जात्यनुच्छेदेन सर्वं सर्वात्मकम् इति. देशकालाकारनिमित्तापबन्धान् न खलु समानकालम् आत्मनाम् अभिव्यक्तिर् इति. य एतेष्व् अभिव्यक्तानभिव्यक्तेषु धर्मेष्व् अनुपाती सामान्यविशेषात्मा सो ऽन्वयी धर्मी. यस्य तु धर्ममात्रम् एवेदं निरन्वयं तस्य भोगाभावः. कस्मात्, अन्येन विज्ञानेन कृतस्य कर्मणो ऽन्यत् कथं भोक्तृत्वेनाधिक्रियते. तत्स्मृत्यभावश् च नान्यदृष्टस्य स्मरणम् अन्यस्यास्तीति. वस्तुप्रत्यभिज्ञानाच् च स्थितो ऽन्वयी धर्मी यो धर्मान्यथात्वम् अभ्युपगतः प्रत्यभिज्ञायते तस्मान् नेदं धर्ममात्रं निरन्वयम् इति. ३.१४
242 SK क्रमान्यत्वं परिणामान्यत्वे हेतुः || YS_३.१५ ||
243 SK एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर् भवतीति. तद्यथा चूर्णमृत्पिण्डमृद्घटमृत्कपालमृत्कणमृद् इति च क्रमः. यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः. पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः. लक्षणपरिणामक्रमो घटस्यानागतभावाद् वर्तमानभावः क्रमः. तथा पिण्डस्य वर्तमानभावाद् अतीतभावः क्रमः. नातीतस्यास्ति क्रमः. कस्मात्. पूर्वपरतायां सत्यां समनन्तरत्वं, सा तु नास्त्य् अतीतस्य तस्माद् द्वयोर् एव लक्षणयोः क्रमः. तथावस्थापरिणामक्रमो ऽपि घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते. सा च क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिम् आपद्यत इति. धर्मलक्षणाभ्यां च विशिष्टो ऽयं तृतीयः परिणाम इति. त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः. धर्मो ऽपि धर्मी भवत्य् अन्यधर्मस्वरूपापेक्षयेति. यदा तु परमार्थतो धर्मिण्य् अभेदोपचारस् तद्द्वारेण स एवाभिधीयते धर्मस् तदायम् एकत्वेनैव क्रमः प्रत्यवभासते. चित्तस्य द्वये धर्मा परिदृष्टाश् चापरिदृष्टाश् च. तत्र प्रत्ययात्मकाः परिदृष्टा वस्तुमात्रात्मका अपरिदृष्टाः. ते च सप्तैव भवन्त्य् अनुमानेन प्रापितवस्तुमात्रसद्भावाः. ᳚निरोधधर्मसंस्काराः परिणामो ऽथ जीवनम् / चेष्टा शक्तिश् च चित्तस्य धर्मा दर्शनवर्जिताः //᳚ इति. ३.१५
244 SK अतो योगिन उपात्तसर्वसाधनस्य बुभुत्सितार्थप्रतिपत्तये संयमस्य विषय उपक्षिप्यते --- परिणामत्रयसंयमाद् अतीतानागतज्ञानम् || YS_३.१६ ||
245 SK धर्मलक्षणावस्थापरिणामेषु संयमाद् योगिनां भवत्य् अतीतानागतज्ञानम्. धारणाध्यानसमाधित्रयम् एकत्र संयम उक्तः. तेन परिणामत्रयं साक्षात्क्रियमाणम् अतीतानागतज्ञानं तेषु संपादयति. ३.१६
246 SK शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरस् तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् || YS_३.१७ ||
247 SK तत्र वाग्वर्णेष्व् एवार्थवती. श्रोत्रं च ध्वनिपरिणाममात्रविषयम्. पदं पुनर् नादानुसंहारबुद्धिनिर्ग्राह्यम् इति. वर्णा एकसमयासंभवित्वात् परस्परनिरनुग्रहात्मानस् ते पदम् असंस्पृश्यानुपस्थाप्याविर्भूतास् तिरोभूताश् चेति प्रत्येकम् अपदस्वरूपा उच्यन्ते. वर्णः पुनर् एकैकः पदात्मा सर्वाभिधानशक्तिप्रचितः सहकारिवर्णान्तरप्रतियोगित्वाद् वैश्वरूप्यम् इवापन्नः पूर्वश् चोत्तरेणोत्तरश् च पूर्वेण विशेषे ऽवस्थापित इत्य् एवं बहवो वर्णाः क्रमानुरोधिनो ऽर्थसंकेतेनावच्छिन्ना इयन्त एते सर्वाभिधानशक्तिपरिवृता गकारौकारविसर्जनीयाः सास्नादिमन्तम् अर्थं द्योतयन्तीति. तद् एतेषाम् अर्थसंकेतेनावच्छिन्नानाम् उपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस् तत्पदं वाचकं वाच्यस्य संकेत्यते. तद् एकं पदम् एकबुद्धिविषय एकप्रयत्नाक्षिप्तम् अभागम् अक्रमम् अवर्णं बौद्धम् अन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्णैर् एवाभिधीयमानैः श्रूयमाणैश् च श्रोतृभिर् अनादिवाग्व्यवहारवासनानुविद्धया लोकबुद्ध्या सिद्धवत्संप्रतिपत्त्या प्रतीयते. तस्य संकेतबुद्धितः प्रविभाग एतावताम् एवंजातीयको ऽनुसंहार एकस्यार्थस्य वाचक इति. संकेतस् तु पदपदार्थयोर् इतरेतराध्यासरूपः स्मृत्यात्मको यो ऽयं शब्दः सो ऽयम् अर्थो यो ऽयम् अर्थः सो ऽयं शब्द इति. एवम् इतरेतराध्यासरूपः संकेतो भवतीति. एवम् एते शब्दार्थप्रत्यया इतरेतराध्यासात् संकीर्णा गौर् इति शब्दो गौर् इत्य् अर्थो गौर् इति ज्ञानम्. य एषां प्रविभागज्ञः स सर्ववित्. सर्वपदेषु चास्ति वाक्यशक्तिवृक्ष इत्य् उक्ते ऽस्तीति गम्यते. न सत्तां पदार्थो व्यभिचरतीति. तथा न ह्य् असाधना क्रियास्तीति. तथा च पचतीत्य् उक्ते सर्वकारकाणाम् आक्षेपो नियमार्थो ऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानाम् इति. दृष्टं च वाक्यार्थे पदरचनं श्रोत्रियश् छन्दो ऽधीते, जीवति प्राणान् धारयति. तत्र वाक्ये पदार्थाभिव्यक्तिस् ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा. अन्यथा भवत्य् अश्वो ऽजापय इत्य् एवमादिषु नामाख्यातसारूप्याद् अनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेतेति. तेषां शब्दार्थप्रत्ययानां प्रविभागः. तद्यथा श्वेतते प्रासाद इति क्रियार्थः, श्वेतः प्रासाद इति कारकार्थः शब्दः, क्रियाकारकात्मा तदर्थः प्रत्ययश् च. कस्मात् सो ऽयम् इत्य् अभिसंबन्धाद् एकाकार एव प्रत्ययः संकेत इति. यस् तु श्वेतो ऽर्थः स शब्दप्रत्यययोर् आलम्बनीभूतः. स हि स्वाभिर् अवस्थाभिर् विक्रियमाणो न शब्दसहगतो न बुद्धिसहगतः. एवं शब्द एवं प्रत्ययो नेतरेतरसहगत इत्य् अन्यथा शब्दो ऽन्यथार्थो ऽन्यथा प्रत्यय इति विभागः. एवं तत्प्रविभागसंयमाद् योगिनः सर्वभूतरुतज्ञानं संपद्यत इति. ३.१७
248 SK संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् || YS_३.१८ ||
249 SK द्वये खल्व् अमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपा विपाकहेतवो धर्माधर्मरूपाः. ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्मवद् अपरिदृष्टाश् चित्तधर्माः. तेषु संयमः संस्कारसाक्षात्क्रियायै समर्थः. न च देशकालनिमित्तानुभवैर् विना तेषाम् अस्ति साक्षात्करणम्. तद् इत्थं संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् उत्पद्यते योगिनः. परत्राप्य् एवम् एव संस्कारसाक्षात्करणात् परजातिसंवेदनम्. अत्रेदम् आख्यानं श्रूयते --- भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणाद् दशसु महासर्गेषु जन्मपरिणामक्रमम् अनुपश्यतो विवेकजं ज्ञानं प्रादुरभूत्. अथ भगवान् आवट्यस् तनुधरस् तम् उवाच --- दशसु महासर्गेषु भव्यत्वाद् अनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसंभवं दुःखं संपश्यता देवमनुष्येषु पुनः पुनर् उत्पद्यमानेन सुखदुःखयोः किम् अधिकम् उपलब्धम् इति. भगवन्तम् आवट्यं जैगीषव्य उवाच. दशसु महासर्गेषु भव्यत्वाद् अनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवंदुःखं संपश्यता देवमनुष्येषु पुनः पुनर् उत्पद्यमानेन यत् किंचिद् अनुभूतं तत् सर्वं दुःखम् एव प्रत्यवैमि. भगवान् आवट्य उवाच. यद् इदम् आयुष्मतः प्रधानवशित्वम् अनुत्तमं च संतोषसुखं किम् इदम् अपि दुःखपक्षे निक्षिप्तम् इति. भवगाञ् जैगीषव्य उवाच --- विषयसुखापेक्षयैवेदम् अनुत्तमं संतोषसुखम् उक्तम्. कैवल्यसुखापेक्षया दुःखम् एव. बुद्धिसत्त्वस्यायं धर्मस् त्रिगुणस् त्रिगुणश् च प्रत्ययो हेयपक्षे न्यस्त इति. दुःखरूपस् तृष्णातन्तुः. तृष्णादुःखसंतापापगमात् तु प्रसन्नम् अबाधं सर्वानुकूलं सुखम् इदम् उक्तम् इति. ३.१८
250 SK प्रत्ययस्य परचित्तज्ञानम् || YS_३.१९ ||
251 SK प्रत्यये संयमात् प्रत्ययस्य साक्षात्करणात् ततः परचित्तज्ञानम्. ३.१९
252 SK न च तत् सालम्बनं तस्याविषयीभूतत्वात् || YS_३.२० ||
253 SK रक्तं प्रत्ययं जानात्य् अमुष्मिन्न् आलम्बने रक्तम् इति न जानाति. परप्रत्ययस्य यद् आलम्बनं तद् योगिचित्तेन नालम्बनीकृतं परप्रत्ययमात्रं तु योगिचित्तस्यालम्बनीभूतम् इति. ३.२०
254 SK कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगे ऽन्तर्धानम् || YS_३.२१ ||
255 SK कायस्य रूपे संयमाद् रूपस्य या ग्राह्या शक्तिस् तां प्रतिष्टभ्नाति. ग्राह्यशक्तिस्तम्भे सति चक्षुष्प्रकाशासंप्रयोगे ऽन्तर्धानम् उत्पद्यते योगिनः. एतेन शब्दाद्यन्तर्धानम् उक्तं वेदितव्यम्. ३.२१
256 SK सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा || YS_३.२२ ||
257 SK आयुर्विपाकं कर्म द्विविधं सोपक्रमं निरुपक्रमं च. तत्र यथार्द्रं वस्त्रं वितानितं लघीयसा कालेन शुष्येत् तथा सोपक्रमम्. यथा च तद् एव संपिण्डितं चिरेण संशुष्येद् एवं निरुपक्रमम्. यथा वाग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तः क्षेपीयसा कालेन दहेत् तथा सोपक्रमम्. यथा वा स एवाग्निस् तृणराशौ क्रमशो ऽवयवेषु न्यस्तश् चिरेण दहेत् तथा निरुपक्रमम्. तदैकभविकम् आयुष्करं कर्म द्विविधं सोपक्रमं निरुपक्रमं च. तत्संयमाद् अपरान्तस्य प्रायणस्य ज्ञानम्. अरिष्टेभ्यो वेति त्रिविधम् अरिष्टम् आध्यात्मिकम् आधिभौतिकम् आधिदैविकं चेति. तत्राध्यात्मिकं घोषं स्वदेहे पिहितकर्णो न शृणोति, ज्योतिर् वा नेत्रे ऽवष्टब्धे न पश्यति. तथाधिभौतिकं यमपुरुषान् पश्यति, पितॄन् अतीतान् अकस्मात् पश्यति. तथाधिदैविकं स्वर्गम् अकस्मात् सिद्धान् वा पश्यति. विपरीतं वा सर्वम् इति अनेन वा जानात्य् अपरान्तम् उपस्थितम् इति. ३.२२
258 SK मैत्र्यादिषु बलानि || YS_३.२३ ||
259 SK मैत्री करुणा मुदितेति तिस्रो भावनास् तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीबलं लभते. दुःखितेषु करुणां भावयित्वा करुणाबलं लभते. पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते. भावनातः समाधिर् यः स संयमस् ततो बलान्य् अवन्ध्यवीर्याणि जायन्ते. पापशीलेषूपेक्षा न तु भावना. ततश् च तस्यां नास्ति समाधिर् इत्य् अतो न बलम् उपेक्षातस् तत्र संयमाभावाद् इति. ३.२३
260 SK बलेषु हस्तिबलादीनि || YS_३.२४ ||
261 SK हस्तिबले संयमाद् धस्तिबलो भवति.वैनतेयबले संयमाद् वैनतेयबलो भवति. वायुबले संयमाद् वायुबलो भवतीत्य् एवमादि. ३.२४
262 SK प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् || YS_३.२५ ||
263 SK ज्योतिष्मती प्रवृत्तिर् उक्ता मनसस् तस्या य आलोकस् तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वार्थे विन्यस्य तम् अर्थम् अधिगच्छति. ३.२५
264 SK भुवनज्ञानं सूर्ये संयमात् || YS_३.२६ ||
265 SK तत्प्रस्तारः सप्त लोकाः. तत्रावीचेः प्रभृति मेरुपृष्ठं यावद् इत्य् एवं भूर्लोकः. मेरुपृष्ठाद् आरभ्य --- आध्रुवाद् ग्रहनक्षत्रताराविचित्रो ऽन्तरिक्षलोकः. ततः परः स्वर्लोकः पञ्चविधो माहेन्द्रस् तृतीयो लोकः. चतुर्थः प्राजापत्यो महर्लोकः. त्रिविधो ब्राह्मः तद्यथा --- जनलोकस् तपोलोकः सत्यलोक इति. ᳚ब्राह्मस् त्रिभूमिको लोक प्राजापत्यस् ततो महान् / माहेन्द्रश् च स्वर् इत्य् उक्तो दिवि तारा भुवि प्रजाः //᳚
266 SK इति संग्रहश्लोकः. तत्रावीचेर् उपर्य् उपरि निविष्टाः षण्महानरकभूमयो घनसलिलानलानिलाकाशतमःप्रतिष्ठा महाकालाम्बरीषरौरवमहारौरवकालसूत्रान्धतामिस्राः. यत्र स्वकर्मोपार्जितदुःखवेदनाः प्राणिनः कष्टम् आयुर् दीर्घम् आक्षिप्य जायन्ते. ततो महातलरसातलातलसुतलवितलतलातलपातालाख्यानि सप्त पातालानि. भूमिर् इयम् अष्टमी सप्तद्वीपा वसुमती, यस्याः सुमेरुर् मध्ये पर्वतराजः काञ्चनः. तस्य राजतवैदूर्यस्फटिकहेममणिमयानि शृङ्गाणि. तत्र वैदूर्यप्रभानुरागान् नीलोत्पलपत्रश्यामो नभसो दक्षिणो भागः, श्वेतः पूर्वः, स्वच्छः पश्चिमः, कुरण्टकाभ उत्तरः. दक्षिणपार्श्वे चास्य जम्बूर् यतो ऽयं जम्बूद्वीपः. तस्य सूर्यप्रचाराद् रात्रिंदिवं लग्नम् इव वर्तते. तस्य नीलश्वेतशृङ्गवन्त उदीचीनास् त्रयः पर्वता द्विसाहस्रायामाः. तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि रमणकं हिरण्मयम् उत्तराः कुरव इति. निषधहेमकूटहिमशैला दक्षिणतो द्विसाहस्रायामाः. तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि हरिवर्षं किंपुरुषं भारतम् इति. सुमेरोः प्राचीना भद्राश्वमाल्यवत्सीमानः प्रतीचीनाः केतुमाला गन्धमादनसीमानः. मध्ये वर्षमिलावृतम्. तद् एतद् योजनशतसाहस्रं सुमेरोर् दिशिदिशि तदर्धेन व्यूढम्. स खल्व् अयं शतसाहस्रायामो जम्बूद्वीपस् ततो द्विगुणेन लवणोदधिना वलयाकृतिना वेष्टितः. ततश् च द्विगुणा द्विगुणाः शाककुशक्रौञ्चशाल्मलगोमेध(प्लक्ष) पुष्करद्वीपाः, समुद्राश् च सर्षपराशिकल्पाः सविचित्रशैलावतंसा इक्षुरससुरासर्पिर्दधिमण्डक्षीरस्वादूदकाः. सप्त समुद्रपरिवेष्टिता वलयाकृतयो लोकालोकपर्वतपरिवाराः पञ्चाशद् योजनकोटिपरिसंख्याताः. तद् एतत् सर्वं सुप्रतिष्ठितसंस्थानमण्डमध्ये व्यूढम्. अण्डं च प्रधानस्याणुर् अवयवो यथाकाशे खद्योत इति. तत्र पाताले जलधौ पर्वतेष्व् एतेषु देवनिकाया असुरगन्धर्वकिंनरकिंपुरुषयक्षराक्षसभूतप्रेतपिशाचापस्मारकाप्सरोब्रह्मराक्षसकूष्माण्डविनायकाः प्रतिवसन्ति. सर्वेषु द्वीपेषु पुण्यात्मानो देवमनुष्याः. सुमेरुस् त्रिदशानाम् उद्यानभूमिः तत्र मिश्रवनं नन्दनं चैत्ररथं सुमानसम् इत्य् उद्यानानि. सुधर्मा देवसभा सुदर्शनं पुरम्. वैजयन्तः प्रासादः. ग्रहनक्षत्रतारकास् तु ध्रुवे निबद्धा वायुविक्षेपनियमेनोपलक्षितप्रचाराः सुमेरोर् उपर्य् उपरि संनिविष्टा दिवि विपरिवर्तन्ते. माहेन्द्रनिवासिनः षड्देवनिकायाः --- त्रिदशा अग्निष्वात्ता याम्यास् तुषिता अपरिनिर्मितवशवर्तिनः परिनिर्मितवशवर्तिनश् चेति. सर्वे संकल्पसिद्धा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः कामभोगिन औपपादिकदेहा उत्तमानुकूलाभिर् अप्सरोभिः कृतपरिचाराः. महति लोके प्राजापत्ये पञ्चविधो देवनिकायः --- कुमुदा ऋभवः प्रतर्दना अञ्जनाभाः प्रचिताभा इति. एते महाभूतवशिनो ध्यानाहाराः कल्पसहस्रायुषः. प्रथमे ब्रह्मणो जनलोके चतुर्विधो देवनिकायो ब्रह्मपुरोहिता ब्रह्मकायिका ब्रह्ममहाकायिका अमरा इति. ते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्तरायुञः. द्वितीये तपसि लोके त्रिविधो देवनिकायः --- आभास्वरा महाभास्वराः सत्यमहाभास्वरा इति. ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्विगुणोत्तरायुषः सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वम् अप्रतिहतज्ञाना अधरभूमिष्व् अनावृतज्ञानविषयाः. तृतीये ब्रह्मणः सत्यलोके चत्वारो देवनिकाया अकृतभवनन्यासाः स्वप्रतिष्ठा उपर्युपरिस्थिताः प्रधानवशिनो यावत् सर्गायुषः. तत्राच्युताः सवितर्कध्यानसुखाः, शुद्धनिवासाः सविचारध्यानसुखाः, सत्याभा आनन्दमात्रध्यानसुखाः, संज्ञासंज्ञिनश् चास्मितामात्रध्यानसुखाः. ते ऽपि त्रैलोक्यमध्ये प्रतितिष्ठन्ति. त एते सप्त लोकाः सर्व एव ब्रह्मलोकाः. विदेहप्रकृतिलयास् तु मोक्षपदे वर्तन्त इति न लोकमध्ये न्यस्ता इति. एतद् योगिना साक्षात्करणीयं सूर्यद्वारे संयमं कृत्वा, ततो ऽन्यत्रापि एवं तावद् अभ्यसेद् यावद् इदं सर्वं दृष्टम् इति. ३.२६
267 SK चन्द्रे ताराव्यूहज्ञानम् || YS_३.२७ ||
268 SK चन्द्रे संयमं कृत्वा ताराणां व्यूहं विजानीयात्. ३.२७
269 SK ध्रुवे तद्गतिज्ञानम् || YS_३.२८ ||
270 SK ततो ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात् ऊर्ध्वविमानेषु कृतसंयमस् तानि विजानीयात्. ३.२८
271 SK नाभिचक्रे कायव्यूहज्ञानम् || YS_३.२९ ||
272 SK नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात् वातपित्तश्लेष्माणस् त्रयो दोषाः. धातवः सप्त त्वग्लोहितमांसस्नाय्वस्थिमज्जाशुक्राणि पूर्वं पूर्वम् एषां बाह्यम् इत्य् एष विन्यासः. ३.२९
273 SK कण्ठकूपे क्षुत्पिपासानिवृत्तिः || YS_३.३० ||
274 SK जिह्वाया अधस्तात् तन्तुस् तन्तोर् अधस्तात् कण्ठस् ततो ऽधस्तात् कूपस् तत्र संयमात् क्षुत्पिपासे न बाधेते. ३.३०
275 SK कूर्मनाड्यां स्थैर्यम् || YS_३.३१ ||
276 SK कूपाद् अध उरसि कूर्माकारा नाडी, तस्यां कृतसंयमः स्थिरपदं लभते यथा सर्पो गोधा वेति. ३.३१
277 SK मूर्धज्योतिषि सिद्धदर्शनम् || YS_३.३२ ||
278 SK शिरःकपाले ऽन्तश् छिद्रं प्रभास्वरं ज्योतिस् तत्र संयमं कृत्वा सिद्धानां द्यावापृथिव्योर् अन्तरालचारिणां दर्शनम्. ३.३२
279 SK प्रातिभाद् वा सर्वम् || YS_३.३३ ||
280 SK प्रातिभं नाम तारकं तद्विवेकजस्य ज्ञानस्य पूर्वरूपम्. यथोदये प्रभा भास्करस्य. तेन वा सर्वम् एव जानाति योगी प्रातिभस्य ज्ञानस्योत्पत्ताव् इति. ३.३३
281 SK हृदये चित्तसंवित् || YS_३.३४ ||
282 SK यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म तत्र विज्ञानं तस्मिन् संयमाच् चित्तसंवित्. ३.३४
283 SK सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम् || YS_३.३५ ||
284 SK बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम्. तस्माच् च सत्त्वात् परिणामिनो ऽत्यन्तविधर्मा विशुद्धो ऽन्यश् चितिमात्ररूपः पुरुषः. तयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य दर्शितविषयत्वात् स भोगप्रत्ययः सत्त्वस्य परार्थत्वाद् दृश्यः. यस् तु तस्माद् विशिष्टश् चितिमात्ररूपो ऽन्यः पौरुषेयः प्रत्ययस् तत्र संयमात् पुरुषविषया प्रज्ञा जायते. न च पुरुषप्रत्ययेन बुद्धिसत्त्वात्मना पुरुषो दृश्यते पुरुष एव तं प्रत्ययं स्वात्मावलम्बनं पश्यति तथा ह्य् उक्तम् --- ᳚विज्ञातारम् अरे केन विजानीयात्᳚ इति. ३.३५
285 SK ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते || YS_३.३६ ||
286 SK प्रातिभात् सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम्. श्रावणाद् दिव्यशब्दश्रवणम्. वेदनाद् दिव्यस्पर्शाधिगमः. आदर्शाद् दिव्यरूपसंवित् आस्वादाद् दिव्यरससंवित् वार्तातो दिव्यगन्धविज्ञानम् इत्य् एतानि नित्यं जायन्ते. ३.३६
287 SK ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः || YS_३.३७ ||
288 SK ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गास् तद्दर्शनप्रत्यनीकत्वात् व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः. ३.३७
289 SK बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः || YS_३.३८ ||
290 SK लोलीभूतस्य मनसो ऽप्रतिष्ठस्य शरीरे कर्माशयवशाद् बन्धः प्रतिष्ठेत्य् अर्थः तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिबलाद् भवति. प्रचारसंवेदनं च चित्तस्य समाधिजम् एव कर्मबन्धक्षयात् स्वचित्तस्य प्रचारसंवेदनाच् च योगी चित्तं स्वशरीरान् निष्कृष्य शरीरान्तरेषु निक्षिपति. निक्षिप्तं चित्तं चेन्द्रियाण्य् अनु पतन्ति. यथा मधुकरराजानं मक्षिका उत्पतन्तम् अनूत्पतन्ति निविशमानम् अनु निविशन्ते तथेन्द्रियाणि परशरीरावेशे चित्तम् अनु विधीयन्त इति. ३.३८
291 SK उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च || YS_३.३९ ||
292 SK समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनं, तस्य क्रिया पञ्चतयी प्राणो मुखनासिकागतिर् आहृदयवृत्तिः. समं नयनात् समानश् चानाभिवृत्तिः. अपनयनाद् अपान आपादतलवृत्तिः उन्नयनाद् उदान आशिरोवृत्तिः व्यापी व्यान इति. एषां प्रधानं प्राणः उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च प्रायणकाले भवति तां वशित्वेन प्रतिपद्यते. ३.३९
293 SK समानजयाज् ज्वलनम् || YS_३.४० ||
294 SK जितसमानस् तेजस उपध्मानं कृत्वा ज्वलयति. ३.४०
295 SK श्रोत्राकाशयोः संबन्धसंयमाद् दिव्यं श्रोत्रम् || YS_३.४१ ||
296 SK सर्वश्रोत्राणाम् आकाशं प्रतिष्ठा सर्वशब्दानां च यथोक्तम् --- तुल्यदेशश्रवणानाम् एकदेशश्रुतित्वं सर्वेषां भवतीति तच् चैतद् आकाशस्य लिङ्गम्. अनावरणं चोक्तम्. तथामूर्तस्यानावरणदर्शनाद् विभुत्वम् अपि प्रख्यातम् आकाशस्य. शब्दग्रहणानुमितं श्रोत्रम्. बधिराबधिरयोर् एकः शब्दं गृह्णात्य् अपरो न गृह्णातीति तस्माच् छ्रोत्रम् एव शब्दविषयम् श्रोत्राकाशयोः संबन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते. ३.४१
297 SK कायाकाशयोः संबन्धसंयमाल् लघुतूलसमापत्तेश् चाकाशगमनम् || YS_३.४२ ||
298 SK यत्र कायस् तत्राकाशं तस्यावकाशदानात् कायस्य तेन संबन्धः प्राप्तिस् तत्र कृतसंयमो जित्वा तत्संबन्धं लघुषु वा तूलादिष्व् आ परमाणुभ्यः समापत्तिं लब्ध्वा जितसंबन्धो लघुर् भवति. लघुत्वाच् च जले पादाभ्यां विहरति ततस् तूर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति ततो यथेष्टम् आकाशगतिर् अस्य भवतीति. ३.४२
299 SK बहिर् अकल्पिता वृत्तिर् महाविदेहा ततः प्रकाशावरणक्षयः || YS_३.४३ ||
300 SK शरीराद् बहिर् मनसो वृत्तिलाभो विदेहा नाम धारणा. सा यदि शरीरप्रतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति सा कल्पितेत्य् उच्यते. या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्व् अकल्पिता तत्र कल्पितया साधयन्त्य् अकल्पितां महाविदेहाम् इति. यया परशरीराण्य् आविशन्ति योगिनः, ततश् च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेशकर्मविपाकत्रयं रजस्तमोमूलं तस्य च क्षयो भवति. ३.४३
301 SK स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः || YS_३.४४ ||
302 SK तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहाकारादिभिर् धर्मैः स्थूलशब्देन परिभाषिताः एतद् भूतानां प्रथमं रूपम्. द्वितीयं रूपं स्वसामान्यं मूर्तिर् भूमिः स्नेहो जलं वह्निर् उष्णता वायुः प्रणामी सर्वतोगतिर् आकाश इत्य् एतत् स्वरूपशब्देनोच्यते. अस्य सामान्यस्य शब्दादयो विशेषाः तथा चोक्तम् --- एकजातिसमन्वितानाम् एषां धर्ममात्रव्यावृत्तिर् इति. सामान्यविशेषसमुदायो ऽत्र द्रव्यम्. द्विष्ठो हि समूहः प्रत्यस्तमितभेदावयवानुगतः शरीरं वृक्षो यूथं वनम् इति. शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्याः समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस् ताभ्याम् एवाभिधीयते समूहः. स च भेदाभेदविवक्षितः. आम्राणां वनं ब्राह्मणानां संघ आम्रवणं ब्राह्मणसंघ इति. स पुनर् द्विविधो युतसिद्धावयवो ऽयुतसिद्धावयवश् च. युतसिद्धावयवः समूहो वनं संघ इति अयुतसिद्धावयवः संघातः शरीरं वृक्षः परमाणुर् इति. अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यम् इति पतञ्जलिः एतत् स्वरूपम् इत्य् उक्तम्. अथ किम् एषां सूक्ष्मरूपं, तन्मात्रं भूतकारणं, तस्यैको ऽवयवः परमाणुः सामान्यविशेषात्मायुतसिद्धावयवभेदानुगतः समुदाय इत्य् एवं सर्वतन्मात्राण्य् एतत् तृतीयम्. अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावानुपातिनो ऽन्वयशब्देनोक्ताः. अथैषां पञ्चमं रूपम् अर्थवत्त्वं, भोगापवर्गार्थता गुणेष्व् एवान्वयिनी, गुणास् तन्मात्रभूतभौतिकेष्व् इति सर्वम् अर्थवत्. तेष्व् इदानीं भूतेषु पञ्चसु पञ्चरूपेषु संयमात् तस्य तस्य रूपस्य स्वरूपदर्शनं जयश् च प्रादुर्भवति. तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति तज्जयाद् वत्सानुसारिण्य इव गावो ऽस्य संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति. ३.४४
303 SK ततो ऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश् च || YS_३.४५ ||
304 SK तत्राणिमा भवत्य् अणुः लघिमा लघुर् भवति महिमा महान् भवति. प्राप्तिर् अङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम्. प्राकाम्यम् इच्छानभिघातः भूमाव् उन्मज्जति निमज्जति यथोदके. वशित्वं भूतभौतिकेषु वशी भवत्य् अवश्यश् चान्येषाम् ईशितृत्वं तेषां प्रभवाप्ययव्यूहानाम् ईष्टे. यत्र कामावसायित्वं सत्यसंकल्पता यथा संकल्पस् तथा भूतप्रकृतीनाम् अवस्थानम्. न च शक्तो ऽपि पदार्थविपर्यासं करोति कस्मात् अन्यस्य यत्र कामावसायिनः पूर्वसिद्धस्य तथा भूतेषु संकल्पाद् इति. एतान्य् अष्टाव् ऐश्वर्याणि. कायसंपद् वक्ष्यमाणा तद्धर्मानभिघातश् च पृथ्वी मूर्त्या न निरुणद्धि योगिनः शरीरादिक्रियां, शिलाम् अप्य् अनुविशतीति. नापः स्निग्धाः क्लेदयन्ति नाग्निर् उष्णो दहति न वायुः प्रणामी वहति अनावरणात्मके ऽप्य् आकाशे भवत्य् आवृतकायः सिद्धानाम् अप्य् अदृश्यो भवति. ३.४५
305 SK रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् || YS_३.४६ ||
306 SK दर्शनीयः कान्तिमान् अतिशयबलो वज्रसंहननश् चेति. ३.४६
307 SK ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः || YS_३.४७ ||
308 SK सामान्यविशेषात्मा शब्दादिर् ग्राह्यः तेष्व् इन्द्रियाणां वृत्तिर् ग्रहणम्. न च तत्सामान्यमात्रग्रहणाकारं कथम् अनालोचितः स विषयविशेष इन्द्रियेण मनसानुव्यवसीयेतेति. स्वरूपं पुनः प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्यविशेषयोर् अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यम् इन्द्रियम्. तेषां तृतीयं रूपम् अस्मितालक्षणो ऽहंकारः. तस्य सामान्यस्येन्द्रियाणि विशेषाः चतुर्थं रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणा येषाम् इन्द्रियाणि साहंकाराणि परिणामः. पञ्चमं रूपं गुणेषु यद् अनुगतं पुरुषार्थवत्त्वम् इति. पञ्चस्व् एतेष्व् इन्द्रियरूपेषु यथाक्रमं संयमस् तत्र तत्र जयं कृत्वा पञ्चरूपजयाद् इन्द्रियजयः प्रादुर्भवति योगिनः. ३.४७
309 SK ततो मनोजवित्वं विकरणभावः प्रधानजयश् च || YS_३.४८ ||
310 SK कायस्यानुत्तमो गतिलाभो मनोजवित्वम्. विदेहानाम् इन्द्रियाणाम् अभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः. सर्वप्रकृतिविकारवशित्वं प्रधानजय इत्य् एतास् तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते एताश् च करणपञ्चरूपजयाद् अधिगम्यन्ते. ३.४८
311 SK सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च || YS_३.४९ ||
312 SK निर्धूतरजस्तमोमलस्य बुद्धिसत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम्. सर्वात्मानो गुणा व्यवसायव्यवसेयात्मकाः स्वामिनं क्षेत्रज्ञं प्रत्यशेषदृश्यात्मत्वेनोपस्थिता इत्य् अर्थः. सर्वज्ञातृत्वं सर्वात्मनां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानाम् अक्रमोपारूढं विवेकजं ज्ञानम् इत्य् अर्थः. इत्य् एषा विशोका नाम सिद्धिर् यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरति. ३.४९
313 SK तद्वैराग्याद् अपि दोषबीजक्षये कैवल्यम् || YS_३.५० ||
314 SK यदास्यैवं भवति क्लेशकर्मक्षये सत्त्वस्यायं विवेकप्रत्ययो धर्मः सत्त्वं च हेयपक्षे न्यस्तं पुरुषश् चापरिणामी शुद्धो ऽन्यः सत्त्वाद् इति. एवम् अस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पान्य् अप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति. तेषु प्रलीनेषु पुरुषः पुनर् इदं तापत्रयं न भुङ्क्ते. तद् एतेषां गुणानां मनसि कर्मक्लेशविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्यात्यन्तिको गुणवियोगः कैवल्यं तदा स्वरूपप्रतिष्ठा चितिशक्तिर् एव पुरुष इति. ३.५०
315 SK स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात् || YS_३.५१ ||
316 SK चत्वारः खल्व् अमी योगिनः प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिर् अतिक्रान्तभावनीयश् चेति. तत्राभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः ऋतंभरप्रज्ञो द्वितीयः भूतेन्द्रियजयी तृतीयः सर्वेषु भावितेषु भावनीयेषु कृतरक्षाबन्धः कर्तव्यसाधनाद् इमान्. चतुर्थो यस् त्व् अतिक्रान्तभावनीयस् तस्य चित्तप्रतिसर्ग एको ऽर्थः सप्तविधास्य प्रान्तभूमिप्रज्ञा. तत्र मधुमतीं भूमिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्त्वविशुद्धिम् अनुपश्यन्तः स्थानैर् उपनिमन्त्रयन्ते भो इहास्यताम् इह रम्यतां कमनीयो ऽयं भोगः कमनीयेयं कन्या रसायनम् इदं जरामृत्युं बाधते वैहायसम् इदं यानम् अमी कल्पद्रुमाः पुण्या मन्दाकिनी सिद्धा महर्षय उत्तमा अनुकूला अप्सरसो दिव्ये श्रोत्रचक्षुषी वज्रोपमः कायः स्वगुणैः सर्वम् इदम् उपार्जितम् आयुष्मता प्रतिपद्यताम् इदम् अक्षयम् अजरम् अमरस्थानं देवानां प्रियम् इति. एवम् अभिधीयमानः सङ्गदोषान् भावयेद् घोरेषु संसाराङ्गारेषु पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथंचिद् आसादितः क्लेशतिमिरविनाशी योगप्रदीपस् तस्य चैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः. स खल्व् अहं लब्धालोकः कथम् अनया विषयमृगतृष्णया वञ्चितस् तस्यैव पुनः प्रदीप्तस्य संसाराग्नेर् आत्मानम् इन्धनीकुर्याम् इति. स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्य् एवं निश्चितमतिः समाधिं भावयेत्. सङ्गम् अकृत्वा स्मयम् अपि न कुर्याद् एवम् अहं देवानाम् अपि प्रार्थनीय इति स्मयाद् अयं सुस्थितंमन्यतया मृत्युना केशेषु गृहीतम् इवात्मानं न भावयिष्यति. तथा चास्य च्छिद्रान्तरप्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशान् उत्तम्भयिष्यति ततः पुनर् अनिष्टप्रसङ्गः. एवम् अस्य सङ्गस्मयाव् अकुर्वतो भावितो ऽर्थो दृढीभविष्यति भावनीयश् चार्थो ऽभिमुखीभविष्यतीति. ३.५१
317 SK क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम् || YS_३.५२ ||
318 SK यथापकर्षपर्यन्तं द्रव्यं परमाणुर् एवं परमापकर्षपर्यन्तः कालः क्षणो यावता वा समयेन चलितः परमाणुः पूर्वदेशं जह्याद् उत्तरदेशम् उपसंपद्येत स कालः क्षणः. तत्प्रवाहाविच्छेदस् तु क्रमः क्षणतत्क्रमयोर् नास्ति वस्तुसमाहार इति बुद्धिसमाहारो मुहूर्ताहोरात्रादयः. स खल्व् अयं कालो वस्तुशून्यो ऽपि बुद्धिनिर्माणः शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवावभासते. क्षणस् तु वस्तुपतितः क्रमावलम्बी क्रमश् च क्षणानन्तर्यात्मा तं कालविदः काल इत्य् आचक्षते योगिनः. न च द्वौ क्षणौ सह भवतः क्रमश् च न द्वयोः सहभुवोर् असंभवात्. पूर्वस्माद् उत्तरभाविनो यदानन्तर्यं क्षणस्य स क्रमः तस्माद् वर्तमान एवैकः क्षणो न पूर्वोत्तरक्षणाः सन्तीति. तस्मान् नास्ति तत्समाहारः ये तु भूतभाविनः क्षणास् ते परिणामान्विता व्याख्येयाः तेनैकेन क्षणेन कृत्स्नो लोकः परिणामम् अनुभवति. तत्क्षणोपारूढाः खल्व् अमी सर्वे धर्माः तयोः क्षणतत्क्रमयोः संयमात् तयोः साक्षात्करणम्. ततश् च विवेकजं ज्ञानं प्रादुर्भवति. ३.५२
319 SK तस्य विषयविशेष उपक्षिप्यते --- जातिलक्षणदेशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः || YS_३.५३ ||
320 SK तुल्ययोर् देशलक्षणसारूप्ये जातिभेदो ऽन्यताया हेतुः, गौर् इयं बडवेयम् इति. तुल्यदेशजातीयत्वे लक्षणम् अन्यत्वकरं कालाक्षी गौः स्वस्तिमती गौर् इति. द्वयोर् आमलकयोर् जातिलक्षणसारूप्याद् देशभेदो ऽन्यत्वकर इदं पूर्वम् इदम् उत्तरम् इति. यदा तु पूर्वम् आमलकम् अन्यव्यग्रस्य ज्ञातुर् उत्तरदेश उपावर्त्यते तदा तुल्यदेशत्वे पूर्वम् एतद् उत्तरम् एतद् इति प्रविभागानुपपत्तिः. असंदिग्धेन च तत्त्वज्ञानेन भवितव्यम् इत्य् अत इदम् उक्तं ततः प्रतिपत्तिर् विवेकजज्ञानाद् इति. कथं, पूर्वामलकसहक्षणो देश उत्तरामलकसहक्षणाद् देशाद् भिन्नः ते चामलके स्वदेशक्षणानुभवभिन्ने. अन्यदेशक्षणानुभवस् तु तयोर् अन्यत्वे हेतुर् इति. एतेन दृष्टान्तेन परमाणोस् तुल्यजातिलक्षणदेशस्य पूर्वपरमाणुदेशसहक्षणसाक्षात्करणाद् उत्तरस्य परमाणोस् तद्देशानुपपत्ताव् उत्तरस्य तद्देशानुभवो भिन्नः सहक्षणभेदात् तयोर् ईश्वरस्य योगिनो ऽन्यत्वप्रत्ययो भवतीति. अपरे तु वर्णयन्ति --- ये ऽन्त्या विशेषास् ते ऽन्यताप्रत्ययं कुर्वन्तीति तत्रापि देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश् चान्यत्वे हेतुः. क्षणभेदस् तु योगिबुद्धिगम्य एवेति अत उक्तं मूर्तिव्यवधिजातिभेदाभावान् नास्ति मूलपृथक्त्वम् इति वार्षगण्यः. ३.५३
321 SK तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् || YS_३.५४ ||
322 SK तारकम् इति स्वप्रतिभोत्थम् अनौपदेशिकम् इत्य् अर्थः सर्वविषयं नास्य किंचिद् अविषयीभूतम् इत्य् अर्थः. सर्वथाविषयम् अतीतानागतप्रत्युत्पन्नं सर्वं पर्यायैः सर्वथा जानातीत्य् अर्थः. अक्रमम् इत्य् एकक्षणोपारूढं सर्वं सर्वथा गृह्णातीत्य् अर्थः. एतद् विवेकजं ज्ञानं परिपूर्णम् अस्यैवांशो योगप्रदीपो मधुमतीं भूमिम् उपादाय यावद् अस्य परिसमाप्तिर् इति. ३.५४
323 SK प्राप्तविवेकजज्ञानस्याप्राप्तविवेकजज्ञानस्य वा --- सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् इति || YS_३.५५ ||
324 SK यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषस्यान्यताप्रतीतिमात्राधिकारं दग्धक्लेशबीजं भवति तदा पुरुषस्य शुद्धिसारूप्यम् इवापन्नं भवति, तदा पुरुषस्योपचरितभोगाभावः शुद्धिः. एतस्याम् अवस्थायां कैवल्यं भवतीश्वरस्यानीश्वरस्य वा विवेकजज्ञानभागिन इतरस्य वा. न हि दग्धक्लेशबीजस्य ज्ञाने पुनर् अपेक्षा काचिद् अस्ति सत्त्वशुद्धिद्वारेणैतत् समाधिजम् ऐश्वर्यं ज्ञानं चोपक्रान्तम्. परमार्थतस् तु ज्ञानाद् अदर्शनं निवर्तते तस्मिन् निवृत्ते न सन्त्य् उत्तरे क्लेशाः. क्लेशाभावात् कर्मविपाकाभावः चरिताधिकाराश् चैतस्याम् अवस्थायां गुणा न पुरुषस्य पुनर् दृश्यत्वेनोपतिष्ठन्ते. तत्पुरुषस्य कैवल्यं, तदा पुरुषः स्वरूपमात्रज्योतिर् अमलः केवली भवति. ३.५५
325 SK इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे व्यासभाष्ये विभूतिपादस् तृतीयः ३.
326 SK जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः || YS_४.१ ||
327 SK देहान्तरिता जन्मना सिद्धिः ओषधिभिर् असुरभवनेषु रसायनेनेत्य् एवमादिः. मन्त्रैर् आकाशगमनाणिमादिलाभः. तपसा संकल्पसिद्धिः, कामरूपी यत्र तत्र कामग इत्य् एवमादि समाधिजाः सिद्धयो व्याख्याताः. ४.१
328 SK तत्र कायेन्द्रियाणाम् अन्यजातीयपरिणतानाम् --- जात्यन्तरपरिणामः प्रकृत्यापूरात् || YS_४.२ ||
329 SK पूर्वपरिणामापाय उत्तरपरिणामोपजनस् तेषाम् अपूर्वावयवानुप्रवेशाद् भवति. कायेन्द्रियप्रकृतयश् च स्वं स्वं विकारम् अनुगृह्णन्त्य् आपूरेण धर्मादिनिमित्तम् अपेक्षमाणा इति. ४.२
330 SK निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस् तु ततः क्षेत्रिकवत् || YS_४.३ ||
331 SK न हि धर्मादि निमित्तं तत्प्रयोजकं प्रकृतीनां भवति न कार्येण कारणं प्रवर्त्यत इति कथं तर्हि, वरणभेदस् तु ततः क्षेत्रिकवत्. यथा क्षेत्रिकः केदाराद् अपां पूर्णात् केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनापकर्षत्य् आवरणं त्व् आसां भिनत्ति तस्मिन् भिन्ने स्वयम् एवापः केदारान्तरम् आप्लावयन्ति तथा धर्मः प्रकृतीनाम् आवरणधर्मं भिनत्ति तस्मिन् भिन्ने स्वयम् एव प्रकृतयः स्वं स्वं विकारम् आप्लावयन्ति. यथा वा स एव क्षेत्रिकस् तस्मिन्न् एव केदारे न प्रभवत्य् औदकान् भौमान् वा रसान् धान्यमूलान्य् अनुप्रवेशयितुं, किं तर्हि मुद्गगवेधुकश्यामाकादींस् ततो ऽपकर्षति. अपकृष्टेषु तेषु स्वयम् एव रसा धान्यमूलान्य् अनुप्रविशन्ति, तथा धर्मो निवृत्तिमात्रे कारणम् अधर्मस्य, शुद्ध्यशुद्ध्योर् अत्यन्तविरोधात्, न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर् भवतीति. अत्र नन्दीश्वरादय उदाहार्याः विपर्ययेणाप्य् अधर्मो धर्मं बाधते. ततश् चाशुद्धिपरिणाम इति. तत्रापि नहुषाजगरादय उदाहार्याः. ४.३
332 SK यदा तु योगी बहून् कायान् निर्मिमीते तदा किम् एकमनस्कास् ते भवन्त्य् अथानेकमनस्का इति --- निर्माणचित्तान्य् अस्मितामात्रात् || YS_४.४ ||
333 SK अस्मितामात्रं चित्तकारणम् उपादाय निर्माणचित्तानि करोति, ततः सचित्तानि भवन्तीति. ४.४
334 SK प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् || YS_४.५ ||
335 SK बहूनां चित्तानां कथम् एकचित्ताभिप्रायपुरःसरा प्रवृत्तिर् इति सर्वचित्तानां प्रयोजकं चित्तम् एकण् निर्मिमीते, ततः प्रवृत्तिभेदः. ४.५
336 SK तत्र ध्यानजम् अनाशयम् || YS_४.६ ||
337 SK पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धय इति. तत्र यद् एव ध्यानजं चित्तं तद् एवानाशयं तस्यैव नास्त्य् आशयो रागादिप्रवृत्तिर् नातः पुण्यपापाभिसंबन्धः क्षीणक्लेशत्वाद् योगिन इति इतरेषां तु विद्यते कर्माशयः. ४.६
338 SK यतः --- कर्माशुक्लाकृष्णं योगिनस् त्रिविधम् इतरेषाम् || YS_४.७ ||
339 SK चतुष्पदी खल्व् इयं कर्मजातिः कृष्णा शुक्लकृष्णा शुक्लाशुक्लाकृष्णा चेति. तत्र कृष्णा दुरात्मनाम्, शुक्लकृष्णा बहिःसाधनसाध्या. तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः शुक्ला तपःस्वाध्यायध्यानवताम्. सा हि केवले मनस्य् आयत्तत्वाद् अबहिःसाधनाधीना न परान् पीडयित्वा भवति. अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानाम् इति तत्राशुक्लं योगिन एव फलसंन्यासाद् अकृष्णं चानुपादानात् इतरेषां तु भूतानां पूर्वम् एव त्रिविधम् इति. ४.७
340 SK ततस् तद्विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् || YS_४.८ ||
341 SK तत इति त्रिविधात् कर्मणः, तद्विपाकानुगुणानाम् एवेति यज्जातीयस्य कर्मणो यो विपाकस् तस्यानुगुणा या वासनाः कर्मविपाकम् अनुशेरते तासाम् एवाभिव्यक्तिः. न हि दैवं कर्म विपच्यमानं नारकतिर्यङ्मनुष्यवासनाभिव्यक्तिनिमित्तं संभवति किंतु दैवानुगुणा एवास्य वासना व्यज्यन्ते नारकतिर्यङ्मनुष्येषु चैवं समानश् चर्चः. ४.८
342 SK जातिदेशकालव्यवहितानाम् अप्य् आनन्तर्यं स्मृतिसंस्कारयोर् एकरूपत्वात् || YS_४.९ ||
343 SK वृषदंशविपाकोदयः स्वव्यञ्जकाञ्जनाभिव्यक्तः. स यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहितः पुनश् च स्वव्यञ्जकाञ्जन एवोदियाद् द्राग् इत्य् एवं पूर्वानुभूतवृषदंशविपाकाभिसंस्कृता वासना उपादाय व्यज्येत. कस्मात्, यतो व्यवहितानाम् अप्य् आसां सदृशं कर्माभिव्यज्ञकं निमित्तीभूतम् इत्य् आनन्तर्यम् एव. कुतश् च, स्मृतिसंस्कारयोर् एकरूपत्वात् यथानुभवास् तथा संस्काराः. ते च कर्मवासनानुरूपाः यथा च वासनास् तथा स्मृतिर् इति जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतिः. स्मृतेश् च पुनः संस्कारा इत्येवम् एते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशाद् व्यज्यन्ते अतश् च व्यवहितानाम् अपि निमित्तनैमित्तिकभावानुच्छेदाद् आनन्तर्यम् एव सिद्धम् इति. ४.९
344 SK तासाम् अनादित्वं चाशिषो नित्यत्वात् || YS_४.१० ||
345 SK तासां वासनानाम् आशिषो नित्यत्वाद् अनादित्वम्. येयम् आत्माशीर् मा न भूवं भूयासम् इति.सर्वस्य दृश्यते सा न स्वाभाविकी. कस्मात् जातमात्रस्य जन्तोर् अननुभूतमरणधर्मकस्य द्वेषदुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत् न च स्वाभाविकं वस्तु निमित्तम् उपादत्ते. तस्माद् अनादिवासनानुविद्धम् इदं चित्तं निमित्तवशात् काश्चिद् एव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपावर्तत इति. घटप्रासादप्रदीपकल्पं संकोचविकासि चित्तं शरीरपरिमाणाकारमात्रम् इत्य् अपरे प्रतिपन्नाः तथा चान्तराभावः संसारश् च युक्त इति. वृत्तिर् एवास्य विभुनश् चित्तस्य संकोचविकासिनीत्य् आचार्यः. तच् च धर्मादिनिमित्तापेक्षम्. निमित्तं च द्विविधम् --- बाह्यम् आध्यात्मिकं च. शरीरादिसाधनापेक्षं बाह्यं स्तुतिदानाभिवादनादि, चित्तमात्राधीनं श्रद्धाद्य् अध्यात्मिकम्. तथा चोक्तम् --- ये चैते मैत्र्यादयो ध्यायिनां विहारास् ते बाह्यसाधननिरनुग्रहात्मानः प्रकृष्टं धर्मम् अभिनिर्वर्तयन्ति. तयोर् मानसं बलीयः. कथं, ज्ञानवैराग्ये केनातिशय्येते, दण्डकारण्यं च चित्तबलव्यतिरेकेण शारीरेण कर्मणा शून्यं कः कर्तुम् उत्सहेत समुद्रम् अगस्त्यवद् वा पिबेत्. ४.१०
346 SK हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः || YS_४.११ ||
347 SK हेतुर् धर्मात् सुखम् अधर्माद् दुःखं सुखाद् रागो दुःखाद् द्वेषस् ततश् च प्रयत्नस् तेन मनसा वाचा कायेन वा परिस्पन्दमानः परम् अनुगृह्णात्य् उपहन्ति वा ततः पुनर् धर्माधर्मौ सुखदुःखे रागद्वेषाव् इति प्रवृत्तम् इदं षडरं संसारचक्रम्. अस्य च प्रतिक्षणम् आवर्तमानस्याविद्या नेत्री मूलं सर्वक्लेशानाम् इत्य् एष हेतुः. फलं तु यम् आश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, न ह्य् अपूर्वोपजनः. मनस् तु साधिकारम् आश्रयो वासनानाम्. न ह्य् अवसिताधिकारे मनसि निराश्रया वासनाः स्थातुम् उत्सहन्ते. यद् अभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास् तदालम्बनम्. एवं हेतुफलाश्रयालम्बनैर् एतैः संगृहीताः सर्वा वासनाः एषाम् अभावे तत्संश्रयाणाम् अपि वासनानाम् अभावः. ४.११
348 SK नास्त्य् असतः संभवः, न चास्ति सतो विनाश इति द्रव्यत्वेन संभवन्त्यः कथं निवर्तिष्यन्ते वासना इति --- अतीतानागतं स्वरूपतो ऽस्त्य् अध्वभेदाद् धर्माणाम् || YS_४.१२ ||
349 SK भविष्यद्व्यक्तिकम् अनागतम् अनुभूतव्यक्तिकम् अतीतं स्वव्यापारोपारूढं वर्तमानं, त्रयं चैतद् वस्तु ज्ञानस्य ज्ञेयम्. यदि चैतत् स्वरूपतो नाभविष्यन् नेदं निर्विषयं ज्ञानम् उदपत्स्यत. तस्माद् अतीतानागतं स्वरूपतो ऽस्तीति. किंच भोगभागीयस्य वापवर्गभागीयस्य वा कर्मणः फलम् उत्पित्सु यदि निरुपाख्यम् इति तदुद्देशेन तेन निमित्तेन कुशलानुष्ठानं न युज्येत. सतश् च फलस्य निमित्तं वर्तमानीकरणे समर्थं नापूर्वोपजनने सिद्धं निमित्तं नैमित्तिकस्य विशेषानुग्रहणं कुरुते नापूर्वम् उत्पादयतीति. धर्मी चानेकधर्मस्वभावस् तस्य चाध्वभेदेन धर्माः प्रत्यवस्थिताः न च यथा वर्तमानं व्यक्तिविशेषापन्नं द्रव्यतो ऽस्त्य् एवम् अतीतम् अनागतं च. कथं तर्हि, स्वेनैव व्यङ्ग्येन स्वरूपेणानागतम् अस्ति. स्वेन चानुभूतव्यक्तिकेन स्वरूपेणातीतम् इति वर्तमानस्यैवाध्वनः स्वरूपव्यक्तिर् इति न सा भवत्य् अतीतानागतयोर् अध्वनोः. एकस्य चाध्वनः समये द्वाव् अध्वनौ धर्मिसमन्वागतौ भवत एवेति नाभूत्वा भावस् त्रयाणाम् अध्वनाम् इति. ४.१२
350 SK ते व्यक्तसूक्ष्मा गुणात्मानः || YS_४.१३ ||
351 SK ते खल्व् अमी त्र्यध्वनो धर्मा वर्तमाना व्यक्तात्मानो ऽतीतानागताः सूक्ष्मात्मानः षडविशेषरूपाः. सर्वम् इदं गुणानां संनिवेशविशेषमात्रम् इति परमार्थतो गुणात्मानः. तथा च शास्त्रानुशासनम् --- ᳚गुणानां परमं रूपं न दृष्टिपथम् ऋच्छति / यत् तु दृष्टिपथं प्राप्तं तन् मायेव सुतुच्छकम् //᳚ इति. ४.१३
352 SK यदा तु सर्वे गुणाः कथम् एकः शब्द एकम् इन्द्रियम् इति --- परिणामैकत्वाद् वस्तुतत्त्वम् || YS_४.१४ ||
353 SK प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणात्मकानां करणभावेनैकः परिणामः श्रोत्रम् इन्द्रियं, ग्राह्यात्मकानां शब्दतन्मात्रभावेनैकः परिणामः शब्दो विषय इति, शब्दादीनां मूर्तिसमानजातीयानाम् एकः परिणामः पृथिवीपरमाणुस् तन्मात्रावयवस् तेषां चैकः परिणामः पृथिवी गौर् वृक्षः पर्वत इत्येवमादिर् भूतान्तरेष्व् अपि स्नेहौष्ण्यप्रणामित्वावकाशदानान्य् उपादाय सामान्यम् एकविकारारम्भः समाधेयः. नास्त्य् अर्थो विज्ञानविसहचरः, अस्ति तु ज्ञानम् अर्थविसहचरं स्वप्नादौ कल्पितम् इत्य् अनया दिशा ये वस्तुस्वरूपम् अपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमं न परमार्थतो ऽस्तीति य आहुस् ते तथेति प्रत्युपस्थितम् इदं स्वमाहात्म्येन वस्तु कथम् अप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तुस्वरूपम् उत्सृज्य तद् एवापलपन्तः श्रद्धेयवचनाः स्युः. ४.१४
354 SK कुतश् चैतद् अन्याय्यम् --- वस्तुसाम्ये चित्तभेदात् तयोर् विभक्तः पन्थाः || YS_४.१५ ||
355 SK बहुचित्तालम्बनीभूतम् एकं वस्तु साधारणं, तत् खलु नैकचित्तपरिकल्पितं नाप्य् अनेकचित्तपरिकल्पितं किंतु स्वप्रतिष्ठम्. कथं, वस्तुसाम्ये चित्तभेदात् धर्मापेक्षं चित्तस्य वस्तुसाम्ये ऽपि सुखज्ञानं भवत्य् अधर्मापेक्षं तत एव दुःखज्ञानम् अविद्यापेक्षं तत एव मूढज्ञानं सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानम् इति. कस्य तच् चित्तेन परिकल्पितम्. न चान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः. तस्माद् वस्तुज्ञानयोर् ग्राह्यग्रहणभेदभिन्नयोर् विभक्तः पन्थाः. नानयोः संकरगन्धो ऽप्य् अस्तीति. सांख्यपक्षे पुनर् वस्तु त्रिगुणं चलं च गुणवृत्तम् इति धर्मादिनिमित्तापेक्षं चित्तैर् अभिसंबध्यते. निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनात्मना हेतुर् भवति. केचिद् आहुः. ज्ञानसहभूर् एवार्थो भोग्यत्वात् सुखादिवद् इति त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु वस्तुरूपम् एवापह्नुवते. ४.१५
356 SK न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् || YS_४.१६ ||
357 SK एकचित्ततन्त्रं चेद् वस्तु स्यात् तदा चित्ते व्यग्रे निरुद्धे वास्वरूपम् एव तेनापरामृष्टम् अन्यस्याविषयीभूतम् अप्रमाणकम् अगृहीतस्वभावकं केनचित् तदानीं किं तत् स्यात्. संबध्यमानं च पुनश् चित्तेन कुत उत्पद्येत ये चास्यानुपस्थिता भागास् ते चास्य न स्युर् एवं नास्ति पृष्ठम् इत्य् उदरम् अपि न गृह्येत. तस्मात् स्वतन्त्रो ऽर्थः सर्वपुरुषसाधारणः स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते तयोः संबन्धाद् उपलब्धिः पुरुषस्य भोग इति. ४.१६
358 SK तदुपरागापेक्षित्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम् || YS_४.१७ ||
359 SK अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तम् अभिसंबन्ध्योपरञ्जयन्ति. येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातस् ततो ऽन्यः पुनर् अज्ञातः वस्तुनो ज्ञाताज्ञातस्वरूपत्वात् परिणामि चित्तम्. ४.१७
360 SK यस्य तु तद् एव चित्तं विषयस् तस्य --- सदा ज्ञाताश् चित्तवृत्तयस् तत्प्रभोः पुरुषस्यापरिणामित्वात् || YS_४.१८ ||
361 SK यदि चित्तवत् प्रभुर् अपि पुरुषः परिणमेत् ततस् तद्विषयाश् चित्तवृत्तयः शब्दादिविषयवज् ज्ञाताज्ञाताः स्युः सदाज्ञातत्वं तु मनसस् तत्प्रभोः पुरुषस्यापरिणामित्वम् अनुमापयति. ४.१८
362 SK स्याद् आशङ्का चित्तम् एव स्वाभासं विषयाभासं च भविष्यतीत्य् अग्निवत् --- न तत् स्वाभासं दृश्यत्वात् || YS_४.१९ ||
363 SK यथेतराणीन्द्रियाणि शब्दादयश् च दृश्यत्वान् न स्वाभासानि तथा मनो ऽपि प्रत्येतव्यम्. न चाग्निर् अत्र दृष्टान्तः न ह्य् अग्निर् आत्मस्वरूपम् अप्रकाशं प्रकाशयति प्रकाशश् चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः. न च स्वरूपमात्रे ऽस्ति संयोगः किंच स्वाभासं चित्तम् इत्य् अग्राह्यम् एव कस्यचिद् इति शब्दार्थः. तद्यथा स्वात्मप्रतिष्ठम् आकाशं न परप्रतिष्ठम् इत्य् अर्थः स्वबुद्धिप्रचारप्रतिसंवेदनात् सत्त्वानां प्रवृत्तिर् दृश्यते --- क्रुद्धो ऽहं भीतो ऽहम् अमुत्र मे रागो ऽमुत्र मे क्रोध इति एतत् स्वबुद्धेर् अग्रहणे न युक्तम् इति. ४.१९
364 SK एकसमये चोभयानवधारणम् || YS_४.२० ||
365 SK न चैकस्मिन् क्षणे स्वपररूपावधारणं युक्तं, क्षणिकवादिनो यद् भवनं सैव क्रिया तद् एव च कारकम् इत्य् अभ्युपगमः. ४.२०
366 SK स्यान् मतिः स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति --- चित्तान्तरदृश्ये बुद्धिबुद्धेर् अतिप्रसङ्गः स्मृतिसंकरश् च || YS_४.२१ ||
367 SK अथ चित्तं चेच् चित्तान्तरेण गृह्येत बुद्धिबुद्धिः केन गृह्यते, साप्य् अन्यया साप्य् अन्ययेत्य् अतिप्रसङ्गः. स्मृतिसंकरश् च, यावन्तो बुद्धिबुद्धीनाम् अनुभवास् तावत्यः स्मृतयः प्राप्नुवन्ति. तत्संकराच् चैकस्मृत्यनवधारणं च स्याद् इत्य् एवं बुद्धिप्रतिसंवेदिनं पुरुषम् अपलपद्भिर् वैनाशिकैः सर्वम् एवाकुलीकृतम्. ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन संगच्छन्ते केचित् तु सत्त्वमात्रम् अपि परिकल्प्यास्ति स सत्त्वो य एतान् पञ्च स्कन्धान् निक्षिप्यान्यांश् च प्रतिसंदधातीत्य् उक्त्वा तत एव पुनस् त्रस्यन्ति. तथा स्कन्धानां महन्निर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोर् अन्तिके ब्रह्मचर्यं चरिष्यामीत्य् उक्त्वा सत्त्वस्य पुनः सत्त्वम् एवापह्नुवते. सांख्ययोगादयस् तु प्रवादाः स्वशब्देन पुरुषम् एव स्वामिनं चित्तस्य भोक्तारम् उपयन्तीति. ४.२१
368 SK कथम् --- चितेर् अप्रतिसंक्रमायास् तदाकारापत्तौ स्वबुद्धिसंवेदनम् || YS_४.२२ || अपरिणामिनी हि भोक्तृशक्तिर् अप्रतिसंक्रमा च परिणामिन्य् अर्थे प्रतिसंक्रान्तेव तद्वृत्तिम् अनुपतति. तस्याश् च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तेर् अनुकारिमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिर् आख्यायते. तथा चोक्तम्. ᳚न पातालं न च विवरं गिरीणां नैवान्धकारं कुक्षयो नोदधीनाम् / गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिम् अविशिष्टां कवयो वेदयन्ते᳚ इति. ४.२२
369 SK अतश् चैतद् अभ्युपगम्यते --- द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् || YS_४.२३ ||
370 SK मनो हि मन्तव्येनार्थेनोपरक्तं, तत् स्वयं च विषयत्वाद् विषयिणा पुरुषेणात्मीयया वृत्त्याभिसंबद्धं, तद् एतच् चित्तम् एव द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकम् अप्य् अविषयात्मकम् इवाचेतनं चेतनम् इव स्फटिकमणिकल्पं सर्वार्थम् इत्य् उच्यते. तद् अनेन चित्तसारूप्येण भ्रान्ताः केचित् तद् एव चेतनम् इत्य् आहुः अपरे चित्तमात्रम् एवेदं सर्वं नास्ति खल्व् अयं गवादिर् घटादिश् च सकारणो लोक इति. अनुकम्पनीयास् ते. कस्मात्, अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तम् इति. समाधिप्रज्ञायां प्रज्ञेयो ऽर्थः प्रतिबिम्बीभूतस् तस्यालम्बनीभूतत्वाद् अन्यः. स चेद् अर्थश् चित्तमात्रं स्यात् कथं प्रज्ञयैव प्रज्ञारूपम् अवधार्येत. तस्मात् प्रतिबिम्बीभूतो ऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति. एवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात् त्रयम् अप्य् एतज् जातितः प्रविभजन्ते ते सम्यग्दर्शिनस् तैर् अधिगतः पुरुषः. ४.२३
371 SK कुतश् च --- तद् असंख्येयवासनाभिश् चित्रम् अपि परार्थं संहत्यकारित्वात् || YS_४.२४ ||
372 SK तद् एतच् चित्तम् असंख्येयाभिर् वासनाभिर् एव चित्रीकृतम् अपि परार्थं परस्य भोगापवर्गार्थं न स्वार्थं संहत्यकारित्वाद् गृहवत्. संहत्यकारिणा चित्तेन न स्वार्थेन भवितव्यं, न सुखचित्तं सुखार्थं न ज्ञानं ज्ञानार्थम् उभयम् अप्य् एतत् परार्थम्. यश् च भोगेनापवर्गेण चार्थेनार्थवान् पुरुषः स एव परो न परः सामान्यमात्रम्. यत् तु किंचित् परं सामान्यमात्रं स्वरूपेणोदाहरेद् वैनाशिकस् तत् सर्वं संहत्यकारित्वात् परार्थम् एव स्यात्. यस् त्व् असौ परो विशेषः स न संहत्यकारी पुरुष इति. ४.२४
373 SK विशेषदर्शिन आत्मभावभावनानिवृत्तिः || YS_४.२५ ||
374 SK यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्तानुमीयते तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्राप्य् अस्ति विशेषदर्शनबीजम् अपवर्गभागीयं कर्माभिनिर्वर्तितम् इत्य् अनुमीयते. तस्यात्मभावभावना स्वाभाविकी प्रवर्तते यस्याभावाद् इदम् उक्तं स्वभावं मुक्त्वा दोषाद्येषां पूर्वपक्षे रुचिर् भवत्य् अरुचिश् च निर्णये भवति तत्रात्मभावभावना को ऽहम् आसं कथम् अहम् आसं किंस्विद् इदं कथंस्विद् इदं के भविष्यामः कथं वा भविष्याम इति. सा तु विशेषदर्शिनो निवर्तते कुतः चित्तस्यैवैष विचित्रः परिणामः, पुरुषस् त्व् असत्याम् अविद्यायां शुद्धश् चित्तधर्मैर् अपरामृष्ट इति. ततो ऽस्यात्मभावभावना कुशलस्य निवर्तत इति. ४.२५
375 SK तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् || YS_४.२६ ||
376 SK तदानीं यद् अस्य चित्तं विषयप्राग्भारम् अज्ञाननिम्नम् आसीत् तद् अस्यान्यथा भवति कैवल्यप्राग्भारं विवेकजज्ञाननिम्नम् इति. ४.२६
377 SK तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः || YS_४.२७ ||
378 SK प्रत्ययविवेकनिम्नस्य सत्त्वपुरुषान्यताख्यातिमात्रप्रवाहिणश् चित्तस्य तच्छिद्रेषु प्रत्ययान्तराण्य् अस्मीति वा ममेति वा जानामीति वा न जानामीति वा. कुतः, क्षीयमाणबीजेभ्यः पूर्वसंस्कारेभ्य इति. ४.२७
379 SK हानम् एषां क्लेशवद् उक्तम् || YS_४.२८ ||
380 SK यथा क्लेशा दग्धबीजभावा न प्ररोहसमर्था भवन्ति तथा ज्ञानाग्निना दग्धबीजभावः पूर्वसंस्कारो न प्रत्ययप्रसूर् भवति. ज्ञानसंस्कारास् तु चित्ताधिकारसमाप्तिम् अनुशेरत इति न चिन्त्यन्ते. ४.२८
381 SK प्रसंख्याने ऽप्य् अकुसीदस्य सर्वथा विवेकख्यातेर् धर्ममेघः समाधिः || YS_४.२९ ||
382 SK यदायं ब्राह्मणः प्रसंख्याने ऽप्य् अकुसीदस् ततो ऽपि न किंचित् प्रार्थयते. तत्रापि विरक्तस्य सर्वथा विवेकख्यातिर् एव भवतीति संस्कारबीजक्षयान् नास्य प्रत्ययान्तराण्य् उत्पद्यन्ते तदास्य धर्ममेघो नाम समाधिर् भवति. ४.२९
383 SK ततः क्लेशकर्मनिवृत्तिः || YS_४.३० ||
384 SK तल्लाभाद् अविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति कुशलाकुशलाश् च कर्माशयाः समूलघातं हता भवन्ति. क्लेशकर्मनिवृत्तौ जीवन्न् एव विद्वान् विमुक्तो भवति कस्मात्, यस्माद् विपर्ययो भवस्य कारणम्. न हि क्षीणविपर्ययः कश्चित् केनचित् क्वचिज् जातो दृश्यत इति. ४.३०
385 SK तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम् || YS_४.३१ ||
386 SK सर्वैः क्लेशकर्मावरणैर् विमुक्तस्य ज्ञानस्यानन्त्यं भवति. आवरकेण तमसाभिभूतम् आवृतम् अनन्तं ज्ञानसत्त्वं क्वचिद् एव रजसा प्रवर्तितम् उद्घाटितं ग्रहणसमर्थं भवति. तत्र यदा सर्वैर् आवरणमलैर् अपगतं भवति तदा भवत्य् अस्यानन्त्यम्. ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पं संपद्यते यथाकाशे खद्योतः. यत्रेदम् उक्तम् --- ᳚अन्धो मणिम् अविध्यत् तम् अनङ्गुलिर् आवयत् / अग्रीवस् तं प्रत्यमुञ्चत् तम् अजिह्वो ऽभ्यपूजयत् //᳚ इति. ४.३१
387 SK ततः कृतार्थानां परिणामक्रमसमाप्तिर् गुणानाम् || YS_४.३२ ||
388 SK तस्य धर्ममेघस्योदयात् कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते न हि कृतभोगापवर्गाः परिसमाप्तक्रमाः क्षणम् अप्य् अवस्थातुम् उत्सहन्ते. ४.३२
389 SK अथ को ऽयं क्रमो नामेति --- क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः || YS_४.३३ ||
390 SK क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः न ह्य् अननुभूतक्रमक्षणा पुराणता वस्त्रस्यान्ते भवति नित्येषु च क्रमो दृष्टः. द्वयी चेयं नित्यता कूटस्थनित्यता परिणामिनित्यता च. तत्र कूटस्थनित्यता पुरुषस्य. परिणामिनित्यता गुणानाम्. यस्मिन् परिणम्यमाने तत्त्वं न विहन्यते तन् नित्यम् उभयस्य च तत्त्वानभिघातान् नित्यत्वम्. तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्व् अलब्धपर्यवसानः. कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्य् अलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियाम् उपादाय कल्पित इति. अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर् न वेति. अवचनीयम् एतत् कथम् अस्ति प्रश्न एकान्तवचनीयः सर्वो जातो मरिष्यतीति ॐ भोः इति.
391 SK अथ सर्वो मृत्वा जनिष्यत इति विभज्यवचनीयम् एतत्. प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यत इतरस् तु जनिष्यते. तथा मनुष्यजातिः श्रेयसी न वा श्रेयसीत्य् एवं परिपृष्टे विभज्य वचनीयः प्रश्नः पशून् अधिकृत्य श्रेयसी देवान् ऋषींश् चाधिकृत्य नेति. अयं त्व् अवचनीयः प्रश्नः संसारो ऽयम् अन्तवान् अथानन्त इति. कुशलस्यास्ति संसारक्रमसमाप्तिर् नेतरस्येति अन्यतरावधारणे दोषः तस्माद् व्याकरणीय एवायं प्रश्न इति. ४.३३
392 SK गुणाधिकारक्रमसमाप्तौ कैवल्यम् उक्तं तत्स्वरूपम् अवधार्यते --- पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति || YS_४.३४ || कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मकानां गुणानां तत् कैवल्यं, स्वरूपप्रतिष्ठा पुनर् बुद्धिसत्त्वानभिसंबन्धात् पुरुषस्य चितिशक्तिर् एव केवला, तस्याः सदा तथैवावस्थानं कैवल्यम् इति. ४.३४
393 SK इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे व्यासभाष्ये कैवल्यपादश् चतुर्थः ४.
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra) (sa_pataJjali-yogasUtra-with-bhASya.htm).
Source