Sutraya

Anuttarāṣṭikā

Eight Verses on the Unsurpassed · अनुत्तराष्टिका

Anuttarāṣṭikā

Eight Verses on the Unsurpassed

अनुत्तराष्टिका

SK
संक्रामो ऽत्र न भावना न च कथायुक्तिर् न चर्चा न च ध्यानं वा न च धारणा न च जपाभ्यासप्रयासो न च | तत् किं नाम सुनिश्चितं वद परं सत्यं च तच्छ्रूयतां न त्यागी न परिग्रही भज सुखं सर्वं यथावस्थितः ||
SK
संसारो ऽस्ति न तत्त्वतस् तनुभृतां बन्धस्य वार्तैव का बन्धो यस्य न जातु तस्य वितथा मुक्तस्य मुक्तिक्रिया | मिथ्यामोहकृद् एष रज्जुभुजगच्छायापिशाचभ्रमो मा किंचित् त्यज मा गृहाण विहर [१] स्वस्थो यथावस्थितः ||
SK
पूजपूजकपूज्यभेदसरणिः केयं कथानुत्तरे संक्रामः किल कस्य केन विदधे को वा प्रवेशक्रमः | मायेयम् न चिदद्वयात् परतया भिन्नाप्य् अहो वर्तते सर्वं स्वानुभवस्वभावविमलं चिन्तां वृथा मा कृथाः ||
SK
आनन्दो ऽत्र न वित्तमध्यमदवन् नैवाङ्गनासङ्गवत् दीपार्केन्दुकृतप्रभाप्रकरवन् नैव प्रकाशोदयः | हर्षः संभृतभेदमुक्तिसुखभूर् भारावतारोपमः सर्वाद्वैतपदस्य विस्मृतनिधेः प्राप्तिः प्रकाशोदयः ||
SK
रागद्वेषसुखासुखोदयलयाहङ्कारदैन्यादयो ये भावाः प्रविभान्ति विश्ववपुषो भिन्नस्वभावा न ते | व्यक्तिं पश्यसि यस्य यस्य सहसा तत्तत्तदेकात्मतासंविद्रूपम् अवेक्ष्य किं न रमसे तद्भावनानिर्भरः ||
SK
पूर्वाभावभवक्रिया हि सहसा भावाः सदा ऽस्मिन् भवे मध्याकारविकारसंकरवतां तेषां कुतः सत्यता | निःसत्ये चपले प्रपञ्चनिचये स्वप्नभ्रमे पेशले शङ्कातङ्ककलङ्कयुक्तिकलनातीतः प्रबुद्धो भव ||
SK
भावानां न समुद्भवो ऽस्ति सहजस् त्वद्भाविता भान्त्य् अमी निःसत्या अपि सत्यताम् अनुभवभ्रान्त्या भजन्ति क्षणम् | त्वत्सङ्कल्पज एष विश्वमहिमा नास्त्य् अस्य जन्मान्यतः तस्मात् त्वं विभवेन भासि भुवनेष्व् एकोप्य् अनेकात्मकः ||
SK
यत् सत्यं यद् असत्यम् अल्पबहुलं नित्यं न नित्यं च यत् यन् मायामलिनं यद् आत्मविमलं चिद्दर्पणे राजते | तत् सर्वं स्वविमर्शसंविदुदयाद् रूपप्रकाशात्मकं ज्ञात्वा स्वानुभवाधिरूढमहिमा विश्वेश्वरत्वं भज ||
SK
|| इति श्रीमदाचार्याभिनवगुप्तपादैर् विरचितानुत्तराष्टिका समाप्ता ||

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Anuttarāṣṭikā: Encoded by Marino Faliero (Gandharva-nagaram / DSO).

Source
Anuttarāṣṭikā — Reader · Sutraya