Precious Garland

Ratnāvalī · Rअत्नावली

Precious Garland

Ratnāvalī

Rअत्नावली

SK
Rअत्नावली / (NRअ)
SK
/ नमो रत्नत्रयाय //
SK
सर्वदोषविनिर्मुक्तं गुणैः सर्वैरलंकृतम् / प्रणम्य सर्वज्ञमहं सर्वसत्त्वैकबान्धवम् // NRअ_१.१ //
SK
धर्ममेकान्तकल्याणं राज[न् ध]र्मोदयाय ते / वक्ष्यामि धर्मः सिद्धिं हि याति सद्धर्मभाजने // NRअ_१.२ //
SK
प्राग्धर्माभ्युदयो यत्र पश्चानैःश्रेयसोदयः / संप्राप्याभ्युदयं यस्मादेति नैःश्रेयसं क्रमात् // NRअ_१.३ //
SK
सुखमभ्युदय[स्तत्र मोक्षो]नैःश्रेयसो मतः / अस्य साधनसंक्षेपः श्रद्धाप्रज्ञे समासतः // NRअ_१.४ //
SK
श्राद्धत्वाभ्दजते धर्मं प्राज्ञत्वाद्वेत्ति तत्त्वतः / प्रज्ञा प्रधानं त्वनयोः श्रद्धा पूर्वंगमास्य तु // NRअ_१.५ //
SK
छन्दाद् द्वेषाभ्दयान्मोहाद्यो धर्मं नातिवर्तते / स श्राद्ध इति विज्ञेयः श्रेयसो भाजनं परम् // NRअ_१.६ //
SK
कायवाङ्मानसं कर्म सर्वं सम्यक्परीक्ष्य यः / परात्महितमाज्ञाय सदा कुर्यात्स पण्डितः // NRअ_१.७ //
SK
अहिंसा चौर्यविरतिः परदारविवर्जनम् / मिथ्यापैशुन्यपारुष्याबद्धवादेषु संयमः // NRअ_१.८ //
SK
लोभव्यापादनास्तिक्यदृष्टीनां परिवर्जनम् / एते कर्मपथाः शुक्ला दश कृष्णा विपर्ययात् // NRअ_१.९ //
SK
अमद्यपानं स्वाजीवो ऽविहिंसा दानमादरात् / पूज्यपूजा च मैत्री च धर्मश्चैष समासतः // NRअ_१.१० //
SK
शरीरतापनाद्धर्मः केवला(न्नास्ति तेन हि) / न परद्रोहविरतिर्न परेसामनुग्रहः // NRअ_१.११ //
SK
दानशीलक्षमास्पष्टं यः सद्धर्ममहापथम् / अनादृत्य व्रजेत् कायक्लेशगो दण्डकोत्पथैः // NRअ_१.१२ //
SK
स संसाराटवीं घोरामनन्तजनपादपाम् / क्लेशव्यालावलीढाङ्गः सुदीर्घं प्रतिपद्यते // NRअ_१.१३ //
SK
हिंसया जायते ऽल्पायुः बहवाबाधो विहिंसया / चौर्येण भोगव्यसनी सश(त्रुः) पारदारिकः // NRअ_१.१४ //
SK
प्रत्याख्यानं मृषावादात् पैशुन्यान्मित्रभेदनम् / अप्रियश्रवणं रौक्ष्यादबाद्धा(दपार्था?)द्दुर्भगं वचः // NRअ_१.१५ //
SK
मनोरथान् हन्त्यमिध्या व्यापादो भयदः स्मृतः / मिथ्यादृष्टिः कुदृष्टित्वं मद्यपानं मतिभ्रमः // NRअ_१.१६ //
SK
अप्रदानेन दारिद्यं मिथ्याजीवेन वञ्चना / स्तम्भेन दुष्कुलीनत्वमल्पौजस्कत्वमीर्ष्यया // NRअ_१.१७ //
SK
क्रोधाद्दुर्वर्णता मौर्ख्यमप्रश्नेन विपश्चिताम् / फलमेतन्मनुष्यत्वे सर्वेभ्यः प्राक् च दुर्गतिः // NRअ_१.१८ //
SK
एषामकुशलाख्यानां विपाको यः प्रकीर्तितः / कुशलानां च सर्वेषां विपरीतः फलोदयः // NRअ_१.१९ //
SK
लोभो द्वेषश्च मोहश्च तज्जं कर्मेति चाशुभम् / अलोभामोहाद्वेषाश्च तज्जं कर्मेतरच्छुभम् // NRअ_१.२० //
SK
अभुभात्सर्वदुःखानि सर्वदुर्गतयस्तथा / शुभात्सुगतयः सर्वाः सर्वजन्मसुखानि च // NRअ_१.२१ //
SK
निवृत्तिरशुभात्कृत्स्नात्प्रवृत्तिस्तु शुभे सदा / मनसा कर्मणा वाचा धर्मो ऽयं द्विविधः स्मृतः // NRअ_१.२२ //
SK
नरकप्रेततिर्यग्भ्यो धर्मादस्माद्विमुच्यते / नृषु देवेषु चाप्नोति सुखश्रिराज्यविस्तरान् // NRअ_१.२३ //
SK
ध्यानाप्रमाणारूप्यैस्तु ब्रह्माद्यसुखमश्नुते / इत्यभ्युदयधर्मो ऽयं फलं चास्य समासतः // NRअ_१.२४ //
SK
नैःश्रेयसः पुनर्धर्मः सूक्ष्मो गम्भीरदर्शनः / बालानां[अश्रोत्रवताम्] उक्तस्त्रासकरो जिनैः // NRअ_१.२५ //
SK
नास्म्यहं न भविष्यामि न मे ऽस्ति न भविष्यति / इति बालस्य संत्रासः पण्डितस्य भयक्षयः // NRअ_१.२६ //
SK
अहंकरप्रसूतेयं ममकारोपसंहिता / प्रजा प्रजाहितैकान्तवादिनाभिहिताखिला // NRअ_१.२७ //
SK
अस्त्यहं मम चास्तीति मिथ्यैतत्परमार्थिभिः / यथाभूतपरिज्ञानान्न भवत्युभयं यतः // NRअ_१.२८ //
SK
अहंकारोद्भवाः स्कन्धाः सो ऽहंकारो ऽनृतो ऽर्थतः / बीजं यस्यानृतं तस्य प्ररोहः सत्यतः कुतः // NRअ_१.२९ //
SK
स्कन्धानसत्यान् दृष्ट्वैवमहंकारः प्रहीयते / अहंकारप्रहाणाच्च न पुनः स्कन्धसंभवः // NRअ_१.३० //
SK
यथादर्शमुपादाय(स्वमुखप्रतिबिम्बकम् / दृश्य) ते नाम तच्चैवं न किंचिदपि तत्त्वतः // NRअ_१.३१ //
SK
अहंकारस्तथा स्कन्धानुपादायोपलभ्यते / न च कश्चित्स तत्त्वेन स्वमुखप्रतिबिम्बवत् // NRअ_१.३२ //
SK
यथादर्शमनादाय स्वमुखप्रतिबिम्बकम् / न दृश्यते तथा स्कन्धाननादायाहमित्यपि // NRअ_१.३३ //
SK
एवंविधार्थश्रवणाद्धर्मचक्षुरवाप्तवान् / आर्यानन्दः स्वयं चैव भिक्षुभ्यो ऽभीक्ष्णमुक्तवान् // NRअ_१.३४ //
SK
स्कन्धग्राहो यावदस्ति तावदेवाहमित्यपि / अहंकारे सति पुनः कर्म जन्म ततः पुनः // NRअ_१.३५ //
SK
त्रिवर्त्मैतदनाद्यन्तमध्यं संसारमण्डलम् / अलातमण्डलप्रख्यं भ्रमत्यन्योन्यहेतुकम् // NRअ_१.३६ //
SK
स्वपरोभयतस्तस्य त्रैकाल्यतो ऽप्यप्राप्तितः / अहंकारः क्षयं याति ततः कर्म च जन्म च // NRअ_१.३७ //
SK
एवं हेतुफलोत्पादं पश्यंस्तत्क्षयमेव च / नास्तितामस्तितां चैव नैति लोकस्य तत्त्वतः // NRअ_१.३८ //
SK
सर्वदुःखक्षयं धम श्रुत्वैवमपरीक्षकः / संकम्पत्यपरिज्ञानादभयस्थानकातरः // NRअ_१.३९ //
SK
न भविष्यति निर्वाणे सर्वमेतन्न ते भयम् / उच्यमान इहाभावस्तस्य ते किं भयंकरः // NRअ_१.४० //
SK
मोक्षे नात्मा न च स्कन्धा मोक्षश्चेदीदृशः प्रियः / आत्मस्कन्धापनयनं किमिहैव तवाप्रियम् // NRअ_१.४१ //
SK
न चाभावो ऽपि निर्वानं कुत एव तस्य[वास्य] भावता / भावाभावपरामर्शक्षयो निर्वाणमुच्यते // NRअ_१.४२ //
SK
समासान्नास्तितादृष्टिः फलं नास्तीति कर्मणः / अपुण्यापायीकी चैषा मिथ्यादृष्टिरिति स्मृता // NRअ_१.४३ //
SK
समासादस्तितादृष्टिः फलं चास्तीति कर्मणाम् / पुण्या सुगतिनिष्यन्दा सम्यग्दृष्टिरिति स्मृता // NRअ_१.४४ //
SK
ज्ञाने नास्त्यस्तिताशान्तेः पापपुण्यव्यतिक्रमः / दुर्गतेः सुगतेश्चास्मात् स मोक्षः सभ्दिरुच्यते // NRअ_१.४५ //
SK
सहेतुमुदयं पश्यन् नास्तितामतिवर्तते / अस्तितामपि नोपैति निरोधं सह हेतुना // NRअ_१.४६ //
SK
प्राग्जातः सहजातश्च हेतुरहेतुको ऽर्थतः / प्रज्ञप्तेरप्रतीतत्वादुत्पत्तेश्चैव तत्त्वतः // NRअ_१.४७ //
SK
अस्मिन् सतीदं भवति दीर्घे ह्रस्वं यथा सति / [तस्योत्पादादुदेतीदं दीपोत्पादाद्यथा] प्रभा // NRअ_१.४८ //
SK
ह्रस्वे ऽसति पुनर्दीर्घं न भवति स्वभावतः / प्रदीपस्याप्यनुत्पादात्प्रभाया अप्यसंभवः // NRअ_१.४९ //
SK
एवं हेतुफलोत्पादं दृष्ट्वा नोपैति नास्तिक्यम्(नास्तिताम्) / अभ्युपेत्यास्य लोकस्य याथाभूत्यं प्रपञ्चजम् // NRअ_१.५० //
SK
निरोधं च प्रपञ्चोत्थं याथाभूत्यादुपागतः / नोपयात्यस्तितां तस्मान्मुच्यते ऽद्वयनिश्चितः // NRअ_१.५१ //
SK
दूरादालोकितं रूपमासन्नैर्दृश्यते स्फुटम् / मरीचिर्यदि वारि स्यादासन्नैः किं न दृश्यते // NRअ_१.५२ //
SK
दूरीभूतैर्यथाभूतो लोको ऽयं दृशयते तथा / न दृश्यते तदासन्नैरनिमित्तो मरीचिवत् // NRअ_१.५३ //
SK
[मरीचिस्तोयसदृशी यथा नाम्बु न] चार्थतः / स्कन्धास्तथात्मसदृशा नात्मानो नापि ते ऽर्थतः // NRअ_१.५४ //
SK
मरीचीं तोयमित्येतदिति मत्वागतो ऽत्र सन् / यदि नास्तीति तत्तोयं [गृण्हीयान्मूढ एव सः // NRअ_१.५५ //
SK
मरीचिप्रतिमं लोकमेवमस्तीति गृण्हतः / नास्तीति चापि मोहो ऽयं सति मोहे न मुच्यते // NRअ_१.५६ //
SK
नास्तिको दुर्गतिं यातिं सुगतिं यति चास्तिकः / यथाभूतपरिज्ञानान्मोक्षमद्वयनिश्रितः // NRअ_१.५७ //
SK
अनिच्छन् नास्तितास्तित्वे यथाभूतपरिज्ञया / नास्तितां लभते मोहात् कस्मान्न लभते ऽस्तिताम् // NRअ_१.५८ //
SK
स्यादस्तिदूषणादस्य नास्तिताक्षिप्यते ऽर्थतः / नास्तितादूषणादेव कस्मान्नाक्षिप्यते ऽस्तिता // NRअ_१.५९ //
SK
न प्रतिज्ञा न चरितं न चित्तं बोधिनिश्रयात् / नास्तिकत्वे ऽर्थतो येषां कथं ते नास्तिकाः स्मृताः // NRअ_१.६० //
SK
ससांख्यौलूक्यनिर्ग्रन्थपुग्दलस्कन्धवादिनम् / पृच्छ लोकं यदि वदत्यस्तिनास्तिव्यतिक्रमम् // NRअ_१.६१ //
SK
धर्मयौतकमित्यस्मान्नास्त्यस्तित्वव्यतिक्रमम् / विद्धि गम्भीरमित्युक्तं बुद्धानां शासनामृतम् // NRअ_१.६२ //
SK
विभवं नैति नायाति न तिष्ठत्यपि च क्षणम् / त्रैकाल्यव्यतिवृत्तात्मा लोक एव कुतो ऽर्थतः // NRअ_१.६३ //
SK
द्वयोरप्यागतिगती प्रस्थितिश्च न तत्त्वतः / लोकनिर्याणयोस्तस्माद्विशेषः क इवार्थतः // NRअ_१.६४ //
SK
स्थितेरभावादुदयो निरोधश्च न तत्त्वतः / उदितश्च स्थितश्चेति निरुद्धश्च कुतो ऽर्थतः // NRअ_१.६५ //
SK
कथमक्षणिको भावः परिणामः सदा यदि / नास्ति चेत्परिणामः स्यादन्यथात्वं कुतो ऽर्थतः // NRअ_१.६६ //
SK
एकदेशे क्षयाद्वा स्यात् क्षणिकं सर्वशो ऽपि वा / वैषम्यानुपलब्धेश्च द्विधाप्येतदयुक्तिमत् // NRअ_१.६७ //
SK
क्षणिके सर्वथा भावे कुतः काचित्पुराणता / स्थैर्यादक्षणिके चापि कुतः काचित्पुराणता // NRअ_१.६८ //
SK
यथान्तो ऽस्ति क्षणस्यैवमादिर्मध्यं च कल्प्यताम् / त्र्यात्मकत्वात् क्षणस्यैवं न लोकस्य क्षणं स्थितिः // NRअ_१.६९ //
SK
आदिमध्यावसानानि[चिन्त्यानि क्षणवत्पुनः / आदिमध्या] वसानत्वं न स्वतः परतो ऽपि वा // NRअ_१.७० //
SK
नैको ऽनेकप्रदेशत्वान्नाप्रदेशश्च कश्चन् / विनैकमपि नानेको नास्तित्वमपि चास्तिताम् // NRअ_१.७१ //
SK
विनाशात् प्रतिपक्षाद्वा स्यादस्तित्वस्य नास्तिता / विनाशः प्रतिपक्षो वा कथं स्यादस्त्यसंभवात् // NRअ_१.७२ //
SK
निर्वृतेस्तेन लोकस्य नोपैत्यूनत्वमर्थतः / अन्तवानिति लोकश्च पृष्टस्तूष्णीं जिनो ऽभवत् // NRअ_१.७३ //
SK
सर्वज्ञ इति सर्वज्ञो बुधैस्तेनैव गम्यते / येनैतद्धर्मगाम्भीर्यं नोवाचाभजने लोके // NRअ_१.७४ //
SK
इति नैःश्रेयसो धर्मो गम्भीरो निष्परिग्रहः / अनालय इति प्रोक्तः संबुद्धैस्तत्वदर्शिभिः // NRअ_१.७५ //
SK
अस्मादनालयाद्धर्मादायलयाभिरता जनाः / अस्तिनास्त्यव्यतिक्रान्ता भीता नश्यन्त्यमेधसः // NRअ_१.७६ //
SK
ते नष्टा नाशयन्त्यन्यानभयस्थानभीरवः / तथा कुरु यथा राजान् नष्टैर्न विप्रणाश्यसे // NRअ_१.७७ //
SK
२ कदली पाटिता यद्वन्निःशेषावयवैः सह / न किंचित्पुरुषस्तद्वत्पाटितः सह धातुभिः // NRअ_२.१ //
SK
सर्वधर्मा अनात्मान इत्यतो भाषितं जिनैः / धातुषट्कं च तैः सर्वं निर्णितं तच्च नार्थतः // NRअ_२.२ //
SK
नैवमात्मा न चानात्मा याथाभूत्येन लभ्यते / आत्मानात्मकृते दृष्टी ववारास्मान्महामुनिः // NRअ_२.३ //
SK
दृष्टश्रुताद्यं मुनिना न सत्यं न मृषोदितम् / पक्षाद्धि प्रतिपक्षः स्यादुभयं तच्च नार्थतः // NRअ_२.४ //
SK
इति सत्यानृतातीतो लोको ऽयं परमार्थतः / अस्मादेव च तत्त्वेन नोपैत्यस्ति च नास्ति च // NRअ_२.५ //
SK
यच्चैवं सर्वथा नेति सर्वज्ञस्तत्कथं वदेत् / सान्तमित्यथवानन्तं द्वयं वाद्वयमेव वा // NRअ_२.६ //
SK
असंख्येया गता बुद्धास्तथैष्यन्त्यथ सांप्रताः / कोट्यग्रशश्च सत्त्वान्तस्तेभ्यस्त्रैकाल्यजो मतः // NRअ_२.७ //
SK
वृद्धिहेतुर्न लोकस्य क्षयस्त्रिकाल्यसंभवः / सर्वज्ञेन कथं तस्य पूर्वान्तो ऽव्याकृतः कृतः // NRअ_२.८ //
SK
एतत्तु धर्मगाम्भीय यत्तद्गुह्यं पृथग्जने / मायोपमत्वं लोकस्य बुद्धानां शासनामृतम् // NRअ_२.९ //
SK
मायागजस्य दृश्येत यथा जन्मान्त एव च / न च कश्चित्स तत्त्वेन जन्मान्तश्चैव विद्यते // NRअ_२.१० //
SK
मायोपमस्य लोकस्य तथा जन्मान्त एव च / दृश्यते परमार्थेन न च जन्मान्त एव च // NRअ_२.११ //
SK
यथा मायागजो नैति कुतश्चिद्याति न क्वचित् / चित्तमोहनमात्रत्वाद्भावत्वेन न तिष्ठति // NRअ_२.१२ //
SK
तथा मायोपमो लोको नैति याति न कुत्रचित् / चित्तमोहनमात्रत्वाभ्दावत्वेन न तिष्ठति // NRअ_२.१३ //
SK
त्रकाल्यव्यतिवृत्तात्मा लोक एवं नु को ऽर्थतः / यो ऽस्ति नास्त्यथवापि स्यादन्यत्र व्यवहारतः // NRअ_२.१४ //
SK
चतुष्प्रकारमित्यस्मात् शान्तो ऽनन्तो द्वयो ऽद्वयः / बुद्धेन हेतोर्नान्यस्मादयमव्याकृतः कृतः // NRअ_२.१५ //
SK
शरीराशुचिता तावत् स्थूला प्रत्यक्षगोचरा / सततं दृश्यमानापि यदा चित्त न तिष्ठति // NRअ_२.१६ //
SK
तदातिसूक्ष्मो गम्भीरः सद्धर्मो ऽयमनालयः / अप्रत्यक्षः कथं चित्ते सुखेनावतरिष्यति // NRअ_२.१७ //
SK
संबुध्यास्मान्निवृत्तो ऽभूद्धर्मं देशयितुं मुनिः / दुर्ज्ञानमतिगाम्भीर्याद् ज्ञात्वा धर्ममिमं जनैः // NRअ_२.१८ //
SK
विनाशयति दुर्ज्ञातो धर्मो ऽयमविपश्चितम् / नास्तितादृष्टिसमले यस्मादस्मिन्निमज्जति // NRअ_२.१९ //
SK
अपरो ऽप्यस्य दुर्ज्ञानान्मूर्खः पण्डितमानिकः / प्रतिक्षेपविनष्टात्मा यात्यवीचिमधोमुखः // NRअ_२.२० //
SK
दुर्भुक्तेन यथान्नेन विनाशमधिगच्छति / सुभुक्तेनायुरारोग्यं बलं सौख्यानि चाश्नुते // NRअ_२.२१ //
SK
दुर्ज्ञातेन तथानेन विनाशमधिगच्छति / सम्यग्ज्ञातेनात्र सुइखं बोधिं चाप्नोत्यनुत्तराम् // NRअ_२.२२ //
SK
तस्मादत्र प्रतिक्षेपं दृष्टिं त्यक्त्वा च नास्तिकीम् / सम्यग्ज्ञानपरं यत्नं कुरु सर्वार्थसिद्धये // NRअ_२.२३ //
SK
धर्मस्यास्यापरिज्ञानादहंकारो ऽनुवर्तते / ततः शुभाशुभं कर्म ततो जन्म शुभाशुभम् // NRअ_२.२४ //
SK
तस्माद्यावदविज्ञातो धर्मो ऽहंकारशातनः / दानशीलक्षमाधर्मे तावदादरवान् भव // NRअ_२.२५ //
SK
धर्मपूर्वाणि कार्याणि धर्ममध्यानि पार्थिव / साधयन् धर्मनिष्ठानि नेह नामुत्र सीदति // NRअ_२.२६ //
SK
धर्मात्कीर्तिः सुखं चैव नेह भीर्न मुमूर्षतः / परलोकसुखं स्फीतं तस्माद्धर्म सदा भज // NRअ_२.२७ //
SK
धर्म एव परा नीतिर्धर्माल्लोको ऽनुरज्यते / रञ्जितेन हि लोकेन नेह नामुत्र वञ्च्यते // NRअ_२.२८ //
SK
अधर्मेण तु या नीतिस्तया लोको ऽपरज्यते / लोकोपरञ्जनाच्चैव नेह नामुत्र नन्दति // NRअ_२.२९ //
SK
परातिसंधानपरा कष्टा दुर्गतिपद्धतिः / अनर्थविद्या दुष्प्रज्ञैरर्थविद्या कथं कृता // NRअ_२.३० //
SK
परातिसंधानपरो नीतिमान् कथमर्थतः / येन जन्मसहस्राणि बहून्यात्मैव वञ्च्यते // NRअ_२.३१ //
SK
रिपोरप्रियमन्विच्छन् दोषांस्त्यक्त्वा गुणान् श्रय / स्वहितावाप्तिरेवम् तु रिपोश्चाप्यप्रियं भवेत् // NRअ_२.३२ //
SK
दानेन प्रियवद्येन हितेनैकार्थचर्यया / एभिराचर लोकस्य धर्मस्यैव च संग्रहम् // NRअ_२.३३ //
SK
विश्वासं जनयत्येकं सत्यं राज्ञां यथा दृढम् / तथैवाभूतमप्येषामविश्वासकरं परम् // NRअ_२.३४ //
SK
नाविसंवादवत्सत्यं [सत्त्वे] उद्गतमर्थतः / परैकान्तहितं सत्यमहितत्वान्मृषेतरत् // NRअ_२.३५ //
SK
दोषान् प्रच्छादयत्येकस्त्यागो राज्ञां यथोज्ज्वलः / तथा कार्पण्यमप्येषां गुणसर्वस्वघातकम् // NRअ_२.३६ //
SK
उपशान्तस्य गाम्भीर्यं गाम्भीर्याद्गौरवं परम् / गौरवाद्दीप्तिराज्ञा च तस्मादुपशमं भज // NRअ_२.३७ //
SK
अहार्यबुद्धिः प्राज्ञत्वादपरप्रत्ययः स्थिरः / नातिसंधीयते राजा तस्मात्प्रज्ञापरो भव // NRअ_२.३८ //
SK
सत्यत्यागशमप्रज्ञो चतुर्भद्रो नराधिपः / धर्मश्चतुर्भद्र इव स्तूयते देवमानुषैः // NRअ_२.३९ //
SK
निगृह्यवादिभिः सुद्धैः प्रज्ञाकारुण्यनिर्मलैः / सहासीनस्य सततं प्रज्ञा धर्मश्च वर्धते // NRअ_२.४० //
SK
दुर्लभाः पथ्यवक्तारः श्रोतारस्त्वतिदुर्लभाः / तेभ्यो ऽतिदुर्लभतमा ये पथ्यस्याशुकारिणः // NRअ_२.४१ //
SK
पथ्यमप्यप्रियं तस्माज्ञात्वा शीघ्रं समाचर / पिबेदौषधमप्युग्रमारोग्यायात्मवानिव // NRअ_२.४२ //
SK
जीवितारोग्यराज्यानां चिन्तयानित्यतां सदा / ततः संवेगवान् धर्ममेकान्तेन प्रयास्यसे // NRअ_२.४३ //
SK
अवश्यं मरणं पश्यन् पापद्दुःखं मृतस्य च / एहिकेन सुखेनापि न पापं क्षातुमर्हसि // NRअ_२.४४ //
SK
कस्मिंश्चेदभ्यं दृष्टं भयं दृष्टं क्वचित्क्षणे / यद्येकस्मिन् समाश्वासः किमेकस्मिन्न ते भयम् // NRअ_२.४५ //
SK
मद्यात्परिभवो लोके कार्यहानिर्धनक्षयः / आकार्यकरणं मोहात्[मद्यं त्यज ततः सदा] // NRअ_२.४६ //
SK
...
SK
(Sअन्स्क्रित् तेxत् ओf २.४७-९५ अन्द् ३ लोस्त्!)
SK
४ अधर्ममन्वाय्यमपि प्रायो राजानुजीविभिः / आचरन् स्तूयते तस्मात् कृच्छ्राद्वेत्ति क्षमाक्षमम् // NRअ_४.१ //
SK
अन्यो ऽपि तावद्यः कश्चिद्दुर्वचः क्षममप्रियम् / किमु राजा महाभौमस्त्वं मया भिक्षुणा सता // NRअ_४.२ //
SK
त्वत्कृतादेव तु स्नेहाज्जगतामनुकम्पया / अहमेको वदामि त्वां पथ्यमप्यप्रियं भृशम् // NRअ_४.३ //
SK
सत्यं श्लक्ष्णार्थवत्पथ्यं शिष्यः काले ऽनुकम्पया / वाच्य इत्याह भगवांस्तदेवमभिधीयसे // NRअ_४.४ //
SK
अक्रोधे सत्यवाक्ये च श्लाध्यमानो यदि स्थितः / श्रव्यं संपरिगृण्हीयात् सत्तोयं स्नाप्यमानवत् // NRअ_४.५ //
SK
तस्य मे वदतो वाक्यं त्वमिहामुत्र च क्षमम् / ज्ञात्वा कुरु हितायेदमात्मनो जगतो ऽपि च // NRअ_४.६ //
SK
याचकेभ्यः पुरा दानात् प्राप्यार्थांश्चेन्न दास्यसि / अकृतज्ञत्वलोभाभ्यां नार्थान् पुनरवाप्स्यसि // NRअ_४.७ //
SK
इह पथ्यदनं लोके न वहत्यभृतो भृतः / याचकस्त्वभृतो ऽमुत्र हीनः शतगुणोद्वहः // NRअ_४.८ //
SK
उदारचित्तः सततं भवोदारक्रियारतः / उदारकर्मणः सर्वमुदारं जायते फलम् // NRअ_४.९ //
SK
मनोरथैरपि क्लीबैरनालीढं नराधिपैः / कुरु धर्मास्पदं श्रीमत्ख्यातं रत्नत्रयास्पदम् // NRअ_४.१० //
SK
सामन्तराजरोमाञ्चकरं धर्मास्पदं न यत् / मृतस्याप्यप्रशस्यत्वाद् राजंस्तदकृतं वरम् // NRअ_४.११ //
SK
अत्यौदार्यादुदाराणां विस्मयोत्साहवर्धनम् / उत्साहन्घं च मन्दानां सर्वस्वेनापि कारय // NRअ_४.१२ //
SK
उत्सृज्यामुत्र गन्तव्यं सर्वस्वमवशेन ते / धर्मे नियुक्तं यात्येव पुरस्तात्सर्वमेव तत् // NRअ_४.१३ //
SK
सर्वस्वं पूर्वनृपतेर्नृपस्य वशमागतम् / किं पूर्वकस्य धर्माय सुखाय यशसे ऽपि वा // NRअ_४.१४ //
SK
भुक्तादर्थादिह सुखं दत्तात्पारत्रिकं सुखम् / अभुक्तादत्तनष्टत्वाद्दुःखमेव कुतः सुखम् // NRअ_४.१५ //
SK
विनश्यन् सचिवैर्दातुमस्वातन्त्र्यान्न शक्यसि / आपतिच्छेदनिःस्नेहैर्नवराजप्रियैषिभिः // NRअ_४.१६ //
SK
सर्वस्वेनाप्यतः स्वस्थः शीघ्रं धर्मास्पदं कुरु / मृत्युप्रत्ययमध्यस्थः प्रवातस्थप्रदीपवत् // NRअ_४.१७ //
SK
धर्माधिकारा ये चान्ये पूर्वराजप्रवर्विताः / देवद्रोण्यादयस्ते ऽपि प्रवर्त्यन्तां यथास्थिताः // NRअ_४.१८ //
SK
अहिंसकैः शुभाचारैर्व्रतस्थैरतिथिप्रियैः / सर्वक्षमैरकलहैर्भज्येरंस्तैः सदो(द्य)तैः // NRअ_४.१९ //
SK
अन्धव्याधितहीनाङ्गदीनानाथवनीपकाः / ते ऽप्यन्नपानं साम्येन लभेरन्नविघट्टिताः // NRअ_४.२० //
SK
अनर्थानामपि सतां धार्मिकाणामनुग्रहान् / अप्यन्यराज्यसंस्थानामनुरूपान् प्रवर्तय // NRअ_४.२१ //
SK
सर्वधर्माधिकारेषु धर्माधिकृतमुत्थितम् / अलुब्धं पण्डितं धर्म्यं कुरु तेसामबाधकम् // NRअ_४.२२ //
SK
नीतिज्ञान् धार्मिकान् स्निग्धान् शुचीन् भक्तानकातरान् / कुलीनान् शीलसंपन्नान् कृतज्ञान् सचिवान् कुरु // NRअ_४.२३ //
SK
अक्षुद्रांस्त्यागिनः शूरान् स्निग्धान् संभोगिनः स्थिरान् / कुरु नित्याप्रमत्तांश्च धार्मिकान् दण्डनायकान् // NRअ_४.२४ //
SK
धर्मशीलान् शूचीन् दक्षान् कार्यज्ञान् शास्त्रकोविदान् / कृतवृत्तीन् समान् स्निग्धान् वृद्धानधिकृतान् कुरु // NRअ_४.२५ //
SK
प्रतिमासं च तेभ्यस्त्वं सर्वमायव्ययं शृणु / श्रुत्वा धर्माधिकाराद्यं कार्यं सर्वं स्वयं वद // NRअ_४.२६ //
SK
धर्मार्थं यदि ते राज्यं न कीर्त्यर्थं न कामतः / ततः सफलमत्यर्थमनर्थार्थमतो ऽन्यथा // NRअ_४.२७ //
SK
परस्परामिषीभूते लोको ऽस्मिन् प्रायशो नृप / यथा राज्यं च धर्मश्च भवेत्तव तथा शृणु // NRअ_४.२८ //
SK
ज्ञानवृद्धाः कुले जाता न्यायज्ञाः पापभीरवः / समेता बहवो नित्यं सन्तु ते कार्यदर्शिनः // NRअ_४.२९ //
SK
दण्डबन्धप्रहारदीन् कुर्युस्ते न्यायतो ऽपि चेत् / कारुण्यार्द्रः सदा भूत्वा त्वमनुग्रहवान् भव // NRअ_४.३० //
SK
हितायैव त्वया चित्तमुन्नाम्यं सर्वदेहिनाम् / कारुण्यात्सततं राजंस्तीव्रपापकृतामपि // NRअ_४.३१ //
SK
तीव्रपापेषु हिंस्रेषु कृपा कार्या विशेषतः / त एव हि कृपास्थानं हतात्मानो महात्मनाम् // NRअ_४.३२ //
SK
प्रत्यहं पञ्चरात्रं वा बद्धान् क्षीणान् विमोचय / शेषानपि यथायोगं मा कांश्चित् नैव मोचय // NRअ_४.३३ //
SK
येष्वमोक्षणचित्तं ते जायते तेष्वसंवरः / तस्मादसंवरात् पापमजस्रमुपचीयते // NRअ_४.३४ //
SK
यावच्च न विमुच्येरंस्तावत्स्युः सुखबन्धनाः / नापितस्नानपानान्नभैषज्यवसनान्विताः // NRअ_४.३५ //
SK
अपात्रेष्विव पुत्रेषु पात्रीकरणकाङ्क्षया / कारुण्या[त्ताडनं कार्यं न द्वेषान्]नार्थलिप्सया // NRअ_४.३६ //
SK
विमृश्य सम्यग्विज्ञाय प्रदुष्टान् घातकानपि / अहत्वा पीडयित्वा च कुरु निर्विषयान् नरान् // NRअ_४.३७ //
SK
स्वतन्त्रः पश्य सर्वं च विषयं चारचक्षुषा / नित्याप्रमत्तः स्मृतिमान् कुरु कार्यं च धार्मिकम् // NRअ_४.३८ //
SK
प्रदानमानसत्कारैर्गुणस्थान् सततं भज / उदारैरनुरूपैस्तु शेषानपि यथाविधि // NRअ_४.३९ //
SK
संमानस्फीतकुसुमः संप्रदानमहाफलः / राजवृक्षः क्षमाच्छायः सेव्यते भृत्यपक्षिभिः // NRअ_४.४० //
SK
त्यागशीलमयो राजा तेजस्वी भवति प्रियः / शर्करामोदको यद्वदेलामरिचकर्कशः // NRअ_४.४१ //
SK
मात्स्यन्यायश्च ते नैवं न्यायाद्राज्यं भविष्यति / न चान्यायो न वाधर्मो धर्मश्चैवं भविष्यति // NRअ_४.४२ //
SK
परलोकात्त्वया राज्यं नानीतं नापि नेष्यसि / धर्मात् प्राप्तमतो ऽस्यार्थे नाधर्मं कर्तुमर्हसि // NRअ_४.४३ //
SK
राज्येन भाण्डमूल्येन दुःखभाण्डपरंपराम् / राजन् यथा नार्जयसि प्रयत्नः क्रियतां तथा // NRअ_४.४४ //
SK
राज्येन भाण्डमूल्येन राज्यभाण्डपरंपराम् / राजन् यथा निर्विशसि प्रयत्नः क्रियतां तथा // NRअ_४.४५ //
SK
चतुर्द्वीपमपि प्राप्य पृथिवीं चक्रवर्तिनः / शारीरं मानसं चैव सुखद्वयमिदं मतम् // NRअ_४.४६ //
SK
दुःखप्रतिक्रियामात्रं शारीरं वेदनासुखम् / संज्ञामयं मानसं तु केवलं कल्पनाकृतम् // NRअ_४.४७ //
SK
दुःखप्रतिक्रियामात्रं कल्पनामात्रमेव च / लोकस्य सुखसर्वस्वं व्यर्थमेतदतो ऽर्थतः // NRअ_४.४८ //
SK
द्वीपदेशपुरावासप्रदेशस्थानवाससाम् / शय्यान्नपानहस्त्यश्वस्त्रीणां चैकैकभोग्यता // NRअ_४.४९ //
SK
यदा च यत्र चित्तं स्यात् तदानेन सुखं किल / शेषाणाममनस्कारात्तेषां व्यर्थत्वमर्थतः // NRअ_४.५० //
SK
विषयान् पञ्चभिः पञ्च चक्षुरादिभिरिन्द्रियैः / न कल्पयति चेद्गण्हन् नास्मात्तेषु तदा सुखम् // NRअ_४.५१ //
SK
जानीते विषयं यं यं येन येनेन्द्रियेण च / तदा न शेषैः शेषाणि व्यर्थान्येव यतस्तदा // NRअ_४.५२ //
SK
इन्द्रियैरुपलब्धस्य विषयस्याकृतिं मनः / उपलभ्य व्यतीतस्य कल्पयन् मन्यते सुखम् // NRअ_४.५३ //
SK
एकमर्थं विजानाति यद्यप्येकमिहेन्द्रियम् / तदप्यर्थं विना व्यर्थं व्यर्थो ऽर्थो ऽपि च तद्विना // NRअ_४.५४ //
SK
प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः / चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः // NRअ_४.५५ //
SK
अतीतानागता व्यर्था विषयाः सार्धमिन्द्रियैः / तदुद्वयानतिरिक्तत्वाद् व्यर्था ये ऽपि च सांप्रताः // NRअ_४.५६ //
SK
अलातचक्रं गृण्हाति यथा चक्षुर्विपर्ययात् / तथेन्द्रियाणि गृण्हन्ति विषयान् सांप्रतानिव // NRअ_४.५७ //
SK
इन्द्रियाणिन्द्रियाएर्थाश्च पञ्चभूतमया मताः / प्रतिस्वं भूतवैयर्थ्यादेषां व्यर्थत्वमर्थतः // NRअ_४.५८ //
SK
निरिन्धनो ऽग्निर्भूतानां विनिर्भागे प्रसज्यते / संपर्के लक्षणाभावः शेषेष्वप्येष निर्णयः // NRअ_४.५९ //
SK
एवं द्विधापि भूतानां व्यर्थत्वात्संगतिर्वृथा / व्यर्थत्वात्संगतेश्चैवं रूपं व्यर्थमतो ऽर्थतः // NRअ_४.६० //
SK
विज्ञानवेदनासंज्ञासंस्काराणां च सर्वशः / प्रत्येकमात्मवैयर्थ्यद्वैयर्थ्यं परमार्थतः // NRअ_४.६१ //
SK
सुखाभिमानो दुःखस्य प्रतीकारे यथार्थतः / तथा सुखाभिमानो ऽपि सुखस्य प्रतिघातजः // NRअ_४.६२ //
SK
सुखे संयोगतृष्णैवं नैःस्वाभाव्यात्प्रहीयते / दुःखे वियोगतृष्णा च पश्यतां मुक्तिरित्यतः // NRअ_४.६३ //
SK
कः पश्यतीति चेच्चित्तं व्यहारेण कथ्यते / न हि चैत्तं विना चित्तं व्यर्थत्वान्न सहेष्यते // NRअ_४.६४ //
SK
व्यर्थमेवं जगन्मत्वा याथाभूत्यान्निरास्पदः / निर्वाति निरुपादानो निरुपादानवन्हिवत् // NRअ_४.६५ //
SK
बोधिसत्त्वो ऽपि दृष्टैवं संबोधौ नियतो मतः / केवलं तस्य कारुण्यादा बोधेर्भवसंततिः // NRअ_४.६६ //
SK
बोधिसत्त्वस्य संभारो महायाने तथागतैः / निर्दिष्टः स तु संमूढैः प्रद्विष्टश्चैव निन्द्यते // NRअ_४.६७ //
SK
गुणदोषानभिज्ञो वा दोषसंज्ञी गुणेषु वा / अथवापि गुणद्वेषी महायानस्य निन्दकः // NRअ_४.६८ //
SK
परोपघातिनो दोषान् परानुग्राहिणो गुणान् / ज्ञात्वोच्यते गुणद्वेषी महायानस्य निन्दकः // NRअ_४.६९ //
SK
यत्स्वार्थनिरपेक्षत्वात् परार्थैकरसप्रियम् / गुणाकरं महायानं तद्द्विषी तेन दह्यते // NRअ_४.७० //
SK
श्राद्धो ऽपि दुर्गृहीतेन द्विष्यात् क्रुद्धो ऽथवेतरः / श्राद्धो ऽपि दग्ध इत्युक्तः का चिन्ता द्वेषाबन्धुरे // NRअ_४.७१ //
SK
विषेणापि विषं हन्याद्यथैवोक्तं चिकित्सकैः / दुःखेनाप्यहितं हन्यादित्युक्ते किं विरुध्यते // NRअ_४.७२ //
SK
मनःपूर्वंगमा धर्मा मनःश्रेष्ठा इति श्रुतेः / हितं हितमनाः कुर्वन् दुःखेनाप्यहितं कथम् // NRअ_४.७३ //
SK
दुःखमप्यायतीपथ्यं कार्यं किमु सुखं हितम् / आत्मनश्च परेषां च धर्म एषा सनातनः // NRअ_४.७४ //
SK
मात्रासुखपरित्यागात् पश्चाच्चेद्विपुलं सुखम् / त्यजेन्मात्रासुखं धीरः संपश्यन् विपुलं सुखम् // NRअ_४.७५ //
SK
न मृश्यते च यद्येतत् कटुभैषज्यदायिनः / ततश्चिकित्सकाद्याश्च हता नैवं च युज्यते // NRअ_४.७६ //
SK
अपथ्यमपि यद्दृष्टं तत्पथ्यं पण्डितैः क्वचित् / उत्सर्गश्चापवादश्च सर्वशास्त्रेषु शस्यते // NRअ_४.७७ //
SK
करुणापूर्वकाः सर्वे निष्यन्दा ज्ञाननिर्मलाः / उक्ता यत्र महायाने कस्तन्निन्देत्सचेतनः // NRअ_४.७८ //
SK
अत्यौदार्यातिगाम्भीर्याद्विषण्णैरकृतात्मभिः / निन्द्यते ऽद्य महायानं मोहात् स्वपरवैरिभिः // NRअ_४.७९ //
SK
दानशीलक्षमावीर्यध्यानप्रज्ञाकृपात्मकम् / महायानमतस्तस्मिन् कस्माद्दुर्भाषितं वचः // NRअ_४.८० //
SK
परार्थो दानशीलाभ्यां क्षान्त्या वीर्येण चात्मनः / ध्यानं प्रज्ञा च मोक्षाय महायानार्थसंग्रहः // NRअ_४.८१ //
SK
परा[त्महित]मोक्षार्थाः संक्षेपाद्बुद्धशासनम् / ते षट्पारमितागर्भास्तस्माद् बौद्धमिदं वचः // NRअ_४.८२ //
SK
पुण्यज्ञानमयो यत्र बुद्धैर्बोधेर्महापथः / देशितस्तन्महायानमज्ञानाद्वै न दृश्यते // NRअ_४.८३ //
SK
खमिवाचिन्त्यगुणत्वादुक्तो ऽचिन्त्यगुणो जिनः / महायाने यतो बुद्धमाहात्म्यं क्षम्यतामिदम् // NRअ_४.८४ //
SK
आर्यशारद्वतस्यापि शीलमात्रे ऽप्यगोचरः / यस्मात् तद्बुद्धमाहात्म्यमचिन्त्यं किं न मृष्यते // NRअ_४.८५ //
SK
अनुत्पादो महायाने परेसां शून्यता क्षयः / क्षयानुत्पादयोश्र्चैक्यमर्थतः क्षम्यतां यतः // NRअ_४.८६ //
SK
शून्यता बुद्धमाहात्म्यमेवं युक्त्यानुपश्यताम् / महायानेतरोक्तानि न समेयुः कथं सताम् // NRअ_४.८७ //
SK
तथागताभिसंध्योक्तान्यसुखं ज्ञातुमित्यतः / एकयानत्रियानोक्तादात्मा रक्ष्य उपेक्षया // NRअ_४.८८ //
SK
उपेक्षया हि नापुण्यं द्वेसात्पापं कुतः शुभम् / महायाने यतो द्वेषो नात्मकामैः कृतो ऽर्हति // NRअ_४.८९ //
SK
न बोधिसत्त्वप्रणिधिर्न चर्यापरिणामना / उक्ताः श्रावकयाने ऽस्माद्बोधिसत्त्वः कुतस्ततः // NRअ_४.९० //
SK
अधिष्ठानानि नोक्तानि बोधिसत्त्वस्य बोधये / बुद्धैरन्यत्प्रमाणं च को ऽस्मिन्नर्थे जिनाधिकः // NRअ_४.९१ //
SK
अधिष्ठानार्यसत्यार्थबोधिपक्षोपसंहितात् / मार्गाच्छावकसामान्याद्बौद्धं केनाधिकं फलम् // NRअ_४.९२ //
SK
बोधिचर्याप्रतिष्ठार्थ न सूत्रे भाषितं वचः / भाषितं च महायाने ग्राह्यमस्माद्विचक्षणैः // NRअ_४.९३ //
SK
यथैव वैयाकरणो मातृकामपि पाठयेत् / बुद्धो ऽवदत्तथा धर्मं विनेयानां यथाक्षमम् // NRअ_४.९४ //
SK
केषांचिदवदद्धर्मं पापेभ्यो विनिवृत्तये / केषांचित्पुण्यसिद्धयर्थं केषांचिदू द्वयनिश्रितम् // NRअ_४.९५ //
SK
द्वयानिश्रितमेकेषां गम्भीरं भीरुभीषणम् / शून्यताकरुणागर्भमेकेषां बोधिसाधनम् // NRअ_४.९६ //
SK
इति सद्भिर्महायाने कर्तव्यः प्रतिघक्षयः / प्रसादश्चाधिकः कार्यः सम्यक्संबोधिसिद्धये // NRअ_४.९७ //
SK
महायानप्रसादेन तदुक्ताचरणेन च / प्राप्यते ऽनुत्तरा बोधिः सर्वसौख्यानि चान्तरा // NRअ_४.९८ //
SK
दानं शीलं क्षमा सत्यं गृहस्थस्य विशेषतः / धर्म उक्तः कृपागर्भः स सात्मीक्रियतां दृढम् // NRअ_४.९९ //
SK
अथ लोकस्य वैधर्म्याद्राज्यं धर्मेण दुष्करम् / ततो धर्मयशोर्थं ते प्रव्रज्याधिगमः क्षमः // NRअ_४.१०० //
SK
रत्नावल्यां राजवृत्तोपदेशो नाम चतुर्थः परिच्छेदः //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Nāgārjuna: Ratnāvalī (sa_nAgArjuna-ratnAvalI.htm).

Source