३९. जगत्कारणत्वस्य ब्रह्मासाधारणत्वसिद्धान्तेऽपि तच्छक्तिरूपत्वेन तदपृथक्सिद्धत्वात् शक्तिकृतस्यापि शक्तिमत्कृतत्वव्यपदेशो युज्यत एव | वक्ष्यते चैतत् सुस्पष्टं देव्यैव (११-६, ७). ४४. नारायण्या नारायणात्मनावस्थानं पूर्वश्लोकोक्तमेवोपपादयति - पृथग्भूतेति अपृथग्भूतेति च | धर्मधर्मिणोरपृथक्सिद्धयोः निष्कर्षविवक्षायां धर्मस्य पृथग्व्यपदेशः | अनिष्कर्षे तु धर्मितया | यथा शुक्लं रूपम्, शुक्लः पटः इति | ४७. देवीप्रसादे परमपदरूपमोक्षप्राप्तिः, आनुषङ्गिकत्रिवर्गफलप्राप्तिश्चानेनोच्यते | इति प्रथमोऽध्यायः प्. ६) मूल - एकान्तभावमापन्नमव्याजां भक्तिमास्थितम् | तं वीक्ष्यजगतां माता वाक्यमेतदुवाच ह || १ - ५४ || श्रीः - वत्स शक्र प्रसन्नास्मि तपसा तव सुव्रत | वरं वृणु महाभाग किमिष्टं करवाणि ते || १ - ५५ || शक्रः - अद्य मे तपसो देवि यमस्य नियमस्य च | सद्यः फलमवाप्तं यद् दृष्टा भगवती मया || १ - ५६ || यदि वापि वरो देयस्त्वया मे परमेश्वरि | तत्त्वं कथय देवेशि [मे देवि E. ई.] यासि त्वं यत्प्रकारिका || १ - ५७ || यत्प्रमाणा यदाधारा यदुपाया सनातनी | यस्य त्वं तेन [केन E. ई.] वा देवि संबन्धस्तव यद्विधः || १ - ५८ ||
SK
यच्चान्यद्वेदितव्यं ते नानाशास्त्रोपबृंहितम् | कथयेश्वरि तत्सर्वमुपसन्नोऽस्म्यधीहि भो || १ - ५९ || इति प्रसादिता [संबोधिता E.] तेन वत्सेनेव पयस्विनी | स्निह्यता मनसा पद्मा पाकशासनमब्रवीत् || १ - ६० || श्रीः - शृणु शक्र महाभाग या ह्यहं [स्म्यहं ड्.F.ङ्.ई.] यत्प्रकारिका | यस्याहं तेन वा यादृक् संबन्धो मम वृत्रहन् || १ - ६१ || इति श्रीपाञ्चरात्रसारे [श्रीपञ्चरात्रे तन्त्रे E. श्रीपञ्चरात्रसारे B. श्रीपाञ्चरात्रे F.] लक्ष्मीतन्त्रे शास्त्रावतारो [आ.B.C.ड्.F. रेअद् सर्वाधिष्ठानप्रकाशो; आ.ई. ओमित् थे तित्ले] नाम प्रथमोऽध्यायः || द्वितीयोऽध्यायः श्रीरुवाच - अस्ति निर्दुःखनिःसीमसुखानुभवलक्षणः | परमात्मा परं यस्य पदं पश्यन्ति सूरयः || २ - १ || कश्चित्केषांचिदात्मा स्यात्तास्यान्येषां च कश्चन | तस्याप्यन्य [एवम् आ.] इतीत्थं तु यत्रैषा [एषः E.ई.] व्यवतिष्ठते || २ - २ || [अध्वानम् आ.B.C.] अध्वनामध्वनः पारं परमात्मानमूचिरे | अहं नाम स्मृतो योऽर्थः स आत्मा समुदीर्यते || २ - ३ || अनवच्छिन्नरूपोऽहं परमात्मेति शब्द्यते [शस्यते B.C.] | क्रोडीकृतमिदं सर्वं चेतनाचेतनात्मकम् || २ - ४ || येन सोऽहंस्मृतो भावः परमात्मा सनातनः | स वासुदेवो भगवान् क्षेत्रज्ञः परमो मतः || २ - ५ ||
SK
विष्णुर्नारायणो विश्वो विश्वरूप इतीर्यते | अहंतया समाक्रान्तं तस्य विश्वमिदं [सर्वं B.E.] जगत् || २ - ६ || [वस्तुतस्तु आ.B.C.] वस्त्ववस्तु च तन्नास्ति यन्नाक्रान्तमहंतया | [आ.B.C.ड्. ओमित् थिस् लिने] इदंतया यदालीढमाक्रान्तं तदहंतया || २ - ७ || [सर्वः शान्तः स B.] सर्वतः शान्त एवासौ निर्विकारः सनातनः | अनन्तो देशकालादिपरिच्छेदविवर्जितः || २ - ८ || महाविभूतिरित्युक्तो व्याप्तिः सा महती यतः | तद् ब्रह्म परमं धाम निरालम्बनभावनम् [निरालम्बमभावनम् ई.] || २ - ९ || निस्तरङ्गामृताम्भोधिकल्पं षाड्गुण्यमुज्ज्वलम् | एकं तच्चिद्धनं शान्तमुदयास्तमयोज्झितम् || २ - १० || अपृथग्भूतशक्तित्वाद् ब्रह्माद्वैतं तदुच्यते | तस्य या परमा शक्तिर्ज्योत्स्नेव हिमदीधितेः || २ - ११ || टिप्पणी - १. निर्दुःखेत्यादिना निखिलहेयप्रत्यनीकत्वानन्तकल्याणगुणाकरत्वरूपोमयलिङ्गत्वं परमात्मन उक्तं भवति | २. आत्मा | नियन्तेत्यर्थः | एषेति | व्यवस्थेति शेषः | व्यवतिष्ठते समाप्नोति, स परमात्मेति पूर्वेणान्वयः |
SK
३. अध्वनामिति | त्रैवर्गिकाध्वापेक्षया परमो योऽध्वा मोक्षाध्वा अर्चिरादिः, तस्य पारं प्राप्यमित्यर्थः; सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् इति वचनात् | अध्वनामध्वपते इति श्रुत्युद्धरणमत्र | अहमिति | यः अहंप्रत्ययगोचरः स आत्मेत्यर्थः | ४. अनवच्छिन्नेति | वस्त्वाद्यपरिच्छेदेन योऽहंशब्दापर्यवसानवृत्त्या प्रतीयते स परमात्मेत्यर्थः | ६. आह च शक्रोऽन्यत्र - त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् इति | ७. इदंतयेति | इदंसब्दार्थतया प्रतीतं सर्वं जगदित्यर्थः | १०. निस्तरङ्गेत्यादिना भगवतः शान्तोदितावस्थोच्यते | तदेवाह - शान्तमिति | ११. ब्रह्माद्वैतमिति | स्वापृथक्सिद्धशक्त्यहंताविशिष्टत्वात् तद्विशिष्टं ब्रह्मैकमेव तत्त्वमित्यर्थः | प्. ७) मूल - सर्वावस्थागता देवी स्वात्मभूतानपायिनी | अहंता ब्रह्मणस्तस्य साहमस्मि सनातनी || २ - १२ || आत्मा स सर्वभूतानामहंभूतो हरिः स्मृतः | अहंता सर्वभूतानामहमस्मि सनातनी || २ - १३ || येन भावेन भवति वासुदेवः सनातनः | भवतस्तस्य देवस्य स [सहायो B.C.] भावोऽहमितीरिता || २ - १४ || भवद्भावात्मकं ब्रह्म ततस्तच्छाश्वतं पदम् | भवन्नारायणो देवो भावो लक्ष्मीरहं परा || २ - १५ ||
SK
लक्ष्मीनारायणाख्यातमतो [णाख्यं तत् E.ई.] ब्रह्म सनातनम् | अहंतया समाक्रान्तो ह्यहमर्थः प्रसिध्यति || २ - १६ || अहमर्थसमुत्था च साहंता परिकीर्तिता | अन्योन्येनाविनाभावादन्योन्येन समन्वयात् || २ - १७ || तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः | अहंतया विनाहं हि निरुपाख्यो न सिध्यति || २ - १८ || अहमर्थं विनाहंता निराधारा न सिध्यति | भवद्भावात्मकं रूपं समस्तव्यस्तगोचरम् || २ - १९ || परोक्षमपरोक्षं च जगति प्रविचिन्त्यते [विभाव्यते E; विभज्यते ई.] | निरुन्मेषे निरुन्मेषा साहंता परमेश्वरी || २ - २० || क्रोडीकृत्याखिलं सर्वं [विश्वं B.] ब्रह्मणि व्यवतिष्ठते | उन्मेषस्तस्य यो नाम यथा चन्द्रोदयेऽम्बुधेः || २ - २१ || अहं नारायणी शक्तिः सिसृक्षालक्षणा तदा | निमेषस्तस्य यो नाम संहृतौ परमात्मनः || २ - २२ || अहं नारायणी शक्तिः सुषुप्सालक्षणा हि सा | [सिसृक्षायां ममोद्यन्त्याण् E.] सिसृक्षाया ममोद्यन्त्या देवाल्लक्ष्मीपतेःस्वयम् || २ - २३ || अव्याहतमसंकोचमैश्वर्यं प्रविजृम्भते | ज्ञानं तत्परमं ब्रह्म [सर्वादेशि B.] सर्वदर्शि निरामयम् || २ - २४ || ज्ञानात्मिका तथाहंता सर्वज्ञा सर्वदर्शिनी | ज्ञानात्मकं परं रूपं ब्रह्मणो मम चोभयोः || २ - २५ ||
शान्तोदितावस्थः प्रथमव्यूहः | नित्योदितावस्था अन्ये त्रय इति विशेषः | ५७. संकर्षणः प्रलयकर्ता शास्त्रोपदेष्टा च | प्रद्युम्नः सृष्टिकर्ता शास्त्रार्थप्रवर्तयिता च | अनिरुद्धः पालनकर्ता शास्त्रार्थफलनिर्वाहकश्चेति प्रत्येकं व्यापारविभागः | ५८. परव्यूहावुपवर्ण्य विभवः कथ्यतेऽत्र | विभवावताराः पद्मनाभादयो बहवः | मत्स्यकूर्मादयोऽप्यत्रैव परिगणिता अवताराः | ५९. अर्चा नाम देवालयेषु प्रतिष्ठिता बिम्बविशेषाः | इति द्वितीयोऽध्यायः प्. ११) तृतीयोऽध्यायः श्रीरुवाच - नित्यनिर्दोषनिःसीमकल्याणगुणशालिनी | अहं नारायणी नाम सा सत्ता वैष्णवी परा || ३ - १ || देशात्कालात्तथा रूपात्परिच्छेदो न मे स्मृतः | संवित्तिरेव मे रूपं सर्वैश्वर्यादिको [सैवै ड्.] गुणः || ३ - २ || स्वस्वातन्त्र्यवशेनैव विभागस्तत्र वर्तते | विज्ञानैश्वर्यशक्त्यात्मा [शक्त्यात्मा E.ई.] विभागो यः स ईरितः || ३ - ३ || विज्ञानैश्वर्यशक्तीनामुन्मेषस्त्वपरोऽधुना | अतर्क्याया ममोद्यत्या नियोगानर्हया [नुयोगा E.ई.] सदा || ३ - ४ || इच्छयान्यत्कृतं रूपमासीज्ज्ञानादिके त्रिके | यथैवेक्षुरसः स्वच्छो गुडत्वं प्रतिपद्यते || ३ - ५ || तद्वत्स्वच्छमयं ज्ञानं सत्त्वतां प्रतिपद्यते | रजस्त्वं च ममैश्वर्यं तमस्त्वं शक्तिरप्युत || ३ - ६ ||
SK
एते त्रयो गुणाः शक्र त्रैगुण्यमिति शब्द्यते | रजःप्रधानं तत्सृष्टौ त्रैगुण्यं परिवर्तते || ३ - ७ || स्थितौ सत्त्वप्रधानं तत् संहृतौ तु तमोमुखम् | अहं संविन्मयी पूर्वा व्यापिन्यपि पुरंदर || ३ - ८ || अधिष्ठाय गुणान् सृष्टिस्थितिसंहृतिकारिणी | निर्गुणापि गुणानेतानधिष्ठायात्मवाञ्छया || ३ - ९ || चक्रं प्रवर्तयाम्येका सृष्टिस्थित्यन्तरूपकम् | शक्रः - विधाद्वयं समास्थाय ज्ञानाद्ये तु युगत्रये [गुणत्रये आ.ङ्.ई.] || ३ - १० || शुद्धेतरविभागेन किमर्थं त्वं प्रवर्तसे | विधयोरनयोः पद्मे संबन्धः कः परस्परम् || ३ - ११ || एतत्पृष्टा मया ब्रूहि नमस्ते पद्मसंभवे | श्रीः - अनियोज्यं ममैश्वर्यमिच्छैव मम कारणम् || ३ - १२ || टिप्पणी - २. स्वरूपनिरूपको धर्मः ज्ञानम् | अन्ये पञ्चापि गुणाः निरूपितस्वरूपगुणभूता इत्यर्थः | ३. इत्थं विभागोऽपि मदिच्छाकृत एवेत्याह - स्वस्वातन्त्र्येति | ४. अपर इति | पूर्वं शुद्धसृष्टौ एक उन्मेष उक्तः | अधुना अशुद्धात्मकत्रैगुण्यसृष्टावन्य उन्मेष इत्यर्थः | ५. ज्ञानादित्रिकरूपं सत्त्वादित्रिकात्मना अन्यथा कृतमासीदित्यर्थः | ६. तदेवाह - तद्वदिति | ज्ञानं सत्त्वतया, ऐश्वर्यं रजस्तया, शक्तिश्च तमस्तया जातमिति भावः | ७. त्रैगुण्यमिति चातुर्वर्ण्यमितिवत् स्वार्थे ष्यञ् |
SK
९. निर्गुणापीति | पूर्वं षाड्गुण्यस्योक्तत्वात् अत्र निर्गुणपदस्य सत्त्वरजस्तमोरूपमिश्रगुणरहितेत्यर्थः | आत्मवाञ्छयेत्यनेन जगत्सृष्ट्यादौ लीलैव प्रयोजनमित्युक्तं भवति | यथाह भगवान् बादरायणः - लोकवत्तु लीलाकैवल्यम् इति | प्. १२) मूल - मुह्यन्त्यत्र महान्तोऽपि तत्त्वं शृणु तथापि मे | ईशेशितव्यभावेन परिवर्ते सदा ह्यहम् [सदाप्यहम् आ.B.C.ई.] || ३ - १३ || ईशो नारायणो ज्ञेय ईशता तस्य चाप्यहम् | ईशितव्यं तु विज्ञेयं चिदचिच्च पुरंदर || ३ - १४ || चिच्छक्तिस्तु परा तत्र भोक्तृतां प्रतिपद्यते | भोग्योपकरणस्थानरूपं तस्या अचित्पदम् || ३ - १५ || अनाद्यया समाविद्धा सा चिच्छक्तिरविद्यया | मत्प्रवर्तितया नित्यं चिच्छक्तिर्भोक्तृतां गता || ३ - १६ || अहंममत्वसंबन्धाद्ध्यचित्स्वेनाभिमन्यते | अविद्या सा तिरोभावं विद्यया याति वै यदा || ३ - १७ || चिच्छक्तिर्निरभीमाना तदा मद्भावमेष्यति | तां विद्यां शुद्धमार्गस्थां परव्यूहादिरूपिणी || ३ - १८ || प्रवर्तयामि कारुण्याज्ज्ञानसद्भावदर्शिनी | रक्ष्यरक्षकभावोऽयं संबन्धो विधयोर्द्वयोः || ३ - १९ || विधा रक्षति शुद्धाद्या रक्ष्यते च विधापरा [तथा F.] | एतत्ते कथितं शक्र किं भूयः श्रोतुमिच्छसि || ३ - २० || शक्रः -
SK
ईशेशितव्यभावेन किमर्थं त्वं [च F.] प्रवर्तसे | ईशितव्यं कियद्भेदं किंरूपं तत्र मे वद || ३ - २१ || श्रीः - स्वभावो [अननु आ.B.C.] नानुयोज्योऽयं मम नारायणस्य च | [ईशो हि ई आ.B.C.ङ्.] ईशोऽहमीशितव्यो न स च देवः सनातनः || ३ - २२ || ईशितव्यं द्विधा प्रोक्तं चिदचिद्व्यतिरेकतः | चिच्छक्तिर्भोक्तृरूपात्र सा च चिद्रूपधारिणी [मद्रूप E.] || ३ - २३ || भोग्योपकरणस्थानैरचिच्छक्तिस्त्रिधा स्थिता [मता ड्; स्मृता ई.] | प्रसरन्त्यास्तृतीयं मे सा च पर्व स्मृतं बुधैः || ३ - २४ || विभक्ते अपि ते एते शक्ती चिदचिदात्मिके | मत्स्वाच्छन्द्यवशेनैव मम रूपे सनातने || ३ - २५ || चिच्छक्तिर्विमला शुद्धा चिन्मय्यानन्दरूपिणी | अनाद्यविद्याविद्धेयमित्थं संसरति ध्रुवम् || ३ - २६ || अचिच्छक्तिर्जडाप्येवमशुद्धा परिणामिनी | त्रिगुणापि ममैवेदं स्वाच्छन्द्यात् प्रविजृम्भितम् || ३ - २७ || धूमकेतुर्यथा धूमं [धूमात् आ.B.C.ड्.ङ्.] दीप्यमानो भजेत् स्वयम् | शुद्धसंवित्स्वरूपापि भजे साहमचिद्गतिम् || ३ - २८ || अनाक्रान्ता विकल्पेन [शब्देनाप्य E.ई.] शब्दैरप्यकदर्थिता | आध्यानोपधिनाप्येवं वर्तेऽहमचिदात्मना || ३ - २९ || बहिरन्तःपदार्थे हि चित्स्वरूपमखण्डितम् | विशिनष्टि तथाप्येतच्चित्रयोपाधिसंपदा || ३ - ३० ||
SK
स्वातन्त्र्यमेव मे हेतुर्नानुयोज्यास्मि किंचन | [इदंप्रभावाम् आ.B.C.ङ्.] इत्थं प्रभावामेवं मां विदन् बुद्धो भविष्यसि || ३ - ३१ || टिप्पणी - १३. शुद्धेतरसृष्ट्योः संबन्ध उच्यते - ईशेशितव्येति | रक्ष्यरक्षकभाव इत्यर्थः | २८. ज्वलनस्वभावोऽपि धूमकेतुर्यथा मलिनधूमरूपतां प्रतिपद्यते, तथा ज्ञानस्वरूपाप्यहमचिद्भावमापद्य इत्यर्थः | २९. आध्यानोपधिनेति | मदिच्छारूपोपाधिनेत्यर्थः | ध्यानालम्बनार्थमिति वार्थः | प्. १३) मूल - शक्रः - कथं सृजसि वै लोकान् सुखदुःखसमन्वितान् | असृष्टिर्हि वरं यद्वा सृष्टिरस्तु सुखात्मिका || ३ - ३२ || श्रीः - अनाद्यविद्याविद्धानां जीवानां सदसन्मयम् | संचितं कर्म संप्रेक्ष्य मिश्रां सृष्टिं करोम्यहम् || ३ - ३३ || शक्रः - क्षीरोदसंभवे देवि स्वाच्छन्द्यं ते कथं भवेत् | कर्म चेत्समवेक्ष्य त्वं विदधासि सुखासुखे || ३ - ३४ || श्रीः - कुर्वत्या मम कार्याणि कर्म तत्करणं स्मृतम् | कर्तुश्च करणापेक्षा न स्वातन्त्र्यविघातिनी || ३ - ३५ || निरवद्या स्वतन्त्राहं नानुयोगपदे स्थिता | विभजे बहुधात्मानं कर्तृकर्मक्रियादिना || ३ - ३६ || लीलायै कारणं नात्र मृग्यमेवं स्थिरो भव | शक्रः - यद्वा तद्वास्तु तद्देवि स्वातन्त्र्यं ते यदीदृशम् | सृष्टिप्रकारमाख्याहि नमस्ते पद्मसंभवे || ३ - ३७ ||
SK
इति श्रीपाञ्चरात्रसारे [श्रीपञ्चरात्रसारे आ; श्रीपाञ्चरात्रे ई.] लक्ष्मीतन्त्रे त्रैगुण्यप्रकाशो [मिश्रसृष्टि ङ्; आ.B.C.ड्.F. ओमित् थे तित्ले.] नाम तृतीयोऽध्यायः || टिप्पणी - यथा वक्ष्यति - ध्यानविश्रामभूमयः (४-२४) इति | ३२. असृष्टिरिति | अत्र सृजेच्च सुखमेवैकमनुकम्पाप्रचोदितः इति श्लोकवार्तिकवचनं स्मर्तव्यम् | इति तृतीयोऽध्यायः चतुर्थोऽध्यायः श्रीः [श्रीरुवाच B] - निर्मलाकाशकल्पाहं निःसमानन्दचिन्मयी | अहं नारायणी नाम भावोऽहं तादृशो [तादृशी B.] हरेः || ४ - १ || न शान्ता नोदिता नापि मध्यमाहं चिदात्मिका | तादृशस्य हरेर्विष्णोः स्वरूपमखिलात्मनः || ४ - २ || [तस्य चित्रैक E.ई.] तस्याचित्रैकरूपस्य विकल्पपदवीजुषः | अचित्राहं तदाकारा सर्वतः समतां गता || ४ - ३ || तयोर्नौ संविदात्मैव क्वचिदुन्मेष उत्थितः | कोटिकोटिसहस्रौघकोटिकोटितमी कला || ४ - ४ || सिसृक्षा नाम तद्रूपा सृष्टिमिष्टां करोम्यहम् | एकांशेन विशुद्धाध्वरूपा वर्तेऽहमञ्जसा || ४ - ५ || वज्ररत्नप्रभा यद्वत्परिस्फुरति सर्वतः | एवं शुद्धमयो मार्गो मम स्फुरति सर्वतः [रूपतः आ.B.C.ङ्.ई.] || ४ - ६ || [अमेया आ.B.] अमेघाकाशसंकाशान्निष्पन्दोदधिरूपतः | मम ज्ञानघनाद्रूपाच्छुद्धा [शुद्ध आ.ङ्.] सृष्टिः प्रवर्तते || ४ - ७ ||
SK
[निर्वासनं E.ई.] निर्व्यापारं सदानन्दं शुद्धं सर्वात्मकं परम् | व्यज्यते प्रथमं ज्ञानं स संकर्षण उच्यते || ४ - ८ || हेत्वन्तरानपेक्षं यत् स्वातन्त्र्यं विश्वनिर्मितौ | तदैश्वर्यं तदासीन्मे प्रद्युम्नः पुरुषोत्तमः || ४ - ९ || निलीनचित्ररूपा या सर्वत्र समवस्थिता | अव्याहतासीच्छक्तिर्मे सोऽनिरुद्धः प्रकीर्तितः || ४ - १० || सृष्टिस्थित्यन्तकर्तारो विज्ञानैश्वर्यशक्तयः | मम रूपममी देवाः पुरुषाः पुष्करेक्षणाः || ४ - ११ || अतरङ्गार्णवाभासमस्ताम्भोदाम्बरोपमम् [अनम्भोदाम्बरोपमम् E.ई.] | रूपं सिसृक्षमाणाया वासुदेवो ममादिमम् [ममात्मकः आ.ङ्.] || ४ - १२ || ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः | उन्मिषन्ति यदा तुल्यं वासुदेवस्तदोच्यते || ४ - १३ || तेषां ज्ञानबलोन्मेषे [बलोन्मेषः E.] संकर्षण उदीर्यते | बिभर्ति सकलं विश्वं तिलकालकवत्स्वतः || ४ - १४ || बलमित्येव तन्नाम ततो वेदान्तशब्दितम् | वीर्यैश्वर्यसमुन्मेषे [समुन्मेषः E.ई.] प्रद्युम्नः परिकीर्तितः || ४ - १५ || विकारविरहो वीर्यमविकारी ततश्च सः | शक्तितेजःसमुन्मेषे ह्यनिरुद्धः स ईरितः [समीरितः E.ई.] || ४ - १६ || तेजस्त्वन्यानपेक्षत्वमनिरुद्धत्वमप्युत [अतः E.ई.] | शास्त्रं संकर्षणादेव [संकर्षणाद्देवात् E.ई.] भाति निर्घातशब्दवत् || ४ - १७ ||
SK
तत्क्रिया सकला देवात्प्रद्युम्नात् संभवेद्यतः [संभवत्युत E.ई.] | क्रियाफलमशेषं तदनिरुद्धात्प्रचक्षते || ४ - १८ || प्. १५) सृजते ह्यनिरुद्धोऽत्र प्रद्युम्नः पाति तत्कृतम् | सृष्टं तद्रक्षितं चात्ति स च संकर्षणः प्रभुः || ४ - १९ || सृष्टिस्थित्यन्तकार्येण शास्त्रधर्मफलेन च | अनुग्रहमिमे देवाः सदा विदधत्ते स्वयम् || ४ - २० || यद्यप्येकगुणोन्मेषस्तथाप्येते [तदाप्येते E.] हि षड्गुणाः | अन्यूनानधिकाः सर्वे वासुदेवात्सनातनात् [सनातनाः आ.B.ड्.] || ४ - २१ || अङ्गप्रत्यङ्गबुद्ध्यादिर्नैषां भूतमयः स्मृतः | षाड्गुण्यमय एवैषां दिव्यो देहः सनातनः || ४ - २२ || नैवैषां वास्तवो भेदश्चिन्तनीयो दिवस्पते [विपश्चिता E.ई.] | तत्तत्कार्यप्रसिद्ध्यर्थं कृतोऽसौ कल्पनावशात् || ४ - २३ || ज्ञानान्नान्यत्तथैश्वर्यं तस्मान्नान्या च शक्तिका | मयैताः कल्पिताः शक्र ध्यानविश्रामभूमयः [ध्येयाः आ.B.C.ड्.] || ४ - २४ || वस्तु पूर्वं ततो भावः पश्चादर्थस्ततः क्रिया | चातूरूप्यमिदं ज्ञेयं सर्वभावेषु सर्वदा || ४ - २५ || वासुदेवादिरूपेण चतुर्धात्मानमात्मना | संविभज्यावतिष्ठेऽहं सर्वमावृत्य [सर्वदा आ.C.ड्.; सर्वदा सत्य B.] संविदा || ४ - २६ || वासुदेवादयो देवाः प्रत्येकं तु त्रिधा त्रिधा | केशवादिस्वरूपेण विभजन्ति स्वकं वपुः || ४ - २७ ||
SK
एतद्व्यूहान्तरं नाम पञ्चरात्राभिशब्दितम् | [कालस्य E.] कार्यस्य नयने देवा द्वादशैते व्यवस्थिताः || ४ - २८ || विभोरप्यनिरुद्धस्य हिताय जगतां हरेः | प्रसरो विभवो नाम पद्मनाभादयः स्मृताः || आविश्याविश्य कुरुते यत्र देवनरादिकम् | जगद्धितं जगन्नाथस्तज्ज्ञेयं विभवान्तरम् || ४ - ३० || देवर्षिपितृसिद्धाद्यैः स्वयं वा जगतां हिते | निर्मितं भगवद्रूपमर्चा सा शुद्धचिन्मयी || ४ - ३१ || इत्येष लेशतो मार्गः शुद्धस्ते संप्रदर्शितः | त्रैगुण्यमपरं मार्गं गदन्त्या मे निशामय || ४ - ३२ || यत्ते ज्ञानं पुरा प्रोक्तं तत्सत्त्वेन विवर्तते | रजस्तया तदैश्वर्य शक्तिश्चापि तमस्तया || ४ - ३३ || प्राधान्येन रजस्तत्र सृष्टौ संपरिवर्तते | अभितः सत्त्वतमसी गुणौ द्वौ तस्य तिष्ठतः || ४ - ३४ || या सा पूर्वं मया प्रोक्ता कोटिकोटितमी कला | तस्याः कोटितमेनाहमंशेन विसृजे जगत् || ४ - ३५ || सर्वस्याद्या महालक्ष्मीस्त्रिगुणाहं महेश्वरी | रजोरूपमधिष्ठाय सृष्टिमिष्टां करोम्यहम् || ४ - ३६ || अग्नीषोममयौ भावौ दिव्यौ स्त्रीपुंसलक्षणौ | बिभ्रती चारुसर्वाङ्गी लोकानां हितकाम्यया || चतुर्भुजा विशालाक्षी तप्तकाञ्चनसंनिभा | मातुलङ्गं गदां खेटं सुधापात्रं च बिभ्रती || ४ - ३८ || टिप्पणी -
SK
१९. अत्रानिरुद्धस्य सृष्टिकर्तृत्वं प्रद्युम्नस्य पालनकर्तृत्वं चोच्यते | पूर्वं तु द्वितीयाध्याये अनिरुद्धस्य पालनकर्तृत्वं प्रद्युम्नस्य सृष्टिकर्तृत्वं चोक्तम् | तत्तु कल्पान्तरेणेति ध्येयम् | २२. बुद्धिरत्रान्तःकरणम् | नैषां भूतमयः इति वचनेन न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः इति शान्तिपर्ववचनं स्मारितम् | २४. ध्यानेति | उपासकानां यथारुच्यालम्बनदानाय तत्र भेदपरिकल्पनेत्यर्थः | २७. एवं च केशवादिदामोदरान्ता द्वादशापि व्यूहान्तरभूता ध्येयाः | ३०. देवनरादिकम् इत्यनेन दत्तात्रेयबादरायणादीनामपि विभवान्तरत्वं ध्येयम् | ३१. स्वयमित्यनेन स्वयंव्यक्तक्षेत्रस्थार्चा गृह्यन्ते | ३६. अनेन त्रिगुणजगत्सृष्टिकर्तृत्वदशायां प्. १६) मूल - महालक्ष्मीः समाख्याता साहं सर्वाङ्गसुन्दरी | महाश्रीः सा महालक्ष्मीश्चण्डा चण्डी च चण्डिका || भद्रकाली तथा भद्रा काली दुर्गा महेश्वरी | त्रिगुणा भगवत्पत्नी तथा भगवती परा || ४ - ४० || एताः संज्ञास्तथा चान्यास्तत्र मे बहुधा स्मृताः | विकारयोगादन्याश्च तास्ता वक्ष्याम्यशेषतः || ४ - ४१ || लक्षयामि जगत्सर्वं पुण्यापुण्ये कृताकृते | [महती या B.] महनीया च सर्वत्र महालक्ष्मीः प्रकीर्तिता || ४ - ४२ ||
SK
महद्भिः श्रयणीयत्वान्महाश्रीरिति गद्यते [गीयते E.] | चण्डस्य दयिता चण्डी चण्डत्वाच्चण्डिका मता || ४ - ४३ || कल्याणरूपा भद्रास्मि काली च कलनात्सताम् | द्विषतां कालरूपत्वादपि काली प्रकीर्तिता || ४ - ४४ || सुहृदां द्विषतां चैव युगपत्सदसद्विधेः | भद्रकाली समाख्याता मायाश्चर्यगुणात्मिका || ४ - ४५ || महत्त्वाच्च महामाया मोहनान्मोहिनी मता | दुर्गा च दुर्गमत्वेन भक्तरक्षाविधेरपि || ४ - ४६ || योजनाच्चैव योगाहं योगमाया च कीर्तिता | मायायोगेति विज्ञेया ज्ञानयोजनतो नृणाम् || ४ - ४७ || पूर्णषाड्गुण्यरूपत्वात्साहं भगवती स्मृता | भगवद्यज्ञसंयोगात्पत्नी भगवतोऽस्म्यहम् || ४ - ४८ || विशालत्वात्स्मृता व्योम पूरणाच्च पुरी स्मृता [पुरः स्थिता आ.B.C.ङ्.] | परावरस्वरूपत्वात् स्मृता चाहं परावरा || ४ - ४९ || शकनाच्छक्तिरुक्ताहं राज्ञ्यहं रञ्जनात् [राजनात् B.] सदा | सदा शान्तविकारत्वाच्छान्ताहं परिकीर्तिता || ४ - ५० || मत्तः प्रक्रियते विश्वं प्रकृतिः सास्मि कीर्तिता | श्रयन्ती श्रयणीयास्मि शृणामि दुरितं सताम् || ४ - ५१ || शृणोमि करुणां वाचं शृणामि च गुणैर्जगत् | [आल्ल् थे ंस्स्. अन्द् थे प्रिन्तेद् बोओक् रेअद् wरोन्ग्ल्य् श्रयते] (शयेऽन्तः) सर्वभूतानां रमेऽहं पुण्यकर्मणाम् || ४ - ५२ ||
विराजश्च मनुर्जज्ञे मनोस्ते मानवाः स्मृताः | मरीचिप्रमुखास्तेभ्यो जगदेतच्चराचरम् || ५ - ८३ || प्रकारोऽयं ममोद्यत्या लेशतस्ते प्रदर्शितः | [स्वच्छा F.] स्वतः शुद्धापि चिच्छक्तिः संविद्धानाद्यविद्यया || ५ - ८४ || दुःखं जन्मजराद्युत्थं तत्रस्था प्रतिपद्यते | शुद्धविज्ञानसंबन्धाच्छुद्धकर्मसमन्वयात् | यदा धुनोत्यविद्यां तां तदा सानन्दमश्नुते [सानन्त्य E.] || ५ - ८५ || इति श्रीपाञ्चरात्रसारे [श्रीपञ्चरात्र आ.; श्रीपाञ्चरात्रे ई.] लक्ष्मीतन्त्रे प्राकृतसृष्टिप्रकाशो [आ. ओमित्स् थे तित्ले; ब्रह्मादिजगत्सृष्टिः E.ङ्.ई.] नाम पञ्चमोऽध्यायः || ५ || टिप्पणी - बालमूकादिविज्ञानसदृशं मुग्धवस्तुकम् || इति | ८२- अत्र पूर्वोक्त एव सृष्टिक्रमो मन्वादिसृष्ट्या सह संकलय्योच्यते | इति पञ्चमोध्यायः षष्ठोऽध्यायः मूल - श्रीः [श्रीरुवाच B.] - पूर्णस्तिमितषाड्गुण्यचिदानन्दमहोदधेः | अहंताहं हरेराद्या निस्तरङ्गार्णवाकृतेः || ६ - १ || साहमेवंविधा शुधा क्वचिदुच्छूनतां गता | सिसृक्षालक्षणा देवी स्वतन्त्रा सच्चिदात्मिका || ६ - २ || षट्कोशतां समापद्ये सत्ताहं वैष्णवी परा | शक्तिर्माया प्रसूतिश्च प्रकृतिस्त्रिगुणात्मिका || ६ - ३ || ब्रह्माण्डं जीवदेहश्चेत्येते [जीवदेहाश्च B.] षट्कोशसंज्ञिताः | सिसृक्षा या परा विष्णोरहंतायाः समुद्गता || ६ - ४ ||
SK
शक्तिः सा प्रथमः कोशः शुद्धमार्गप्रवर्तनी | कोशः कुलायपर्यायः शरीरापरनामवान् || ६ - ५ || शुद्धेऽस्मिन् प्रथमे कोशे प्रथमोन्मेषलक्षणे | अहंमानी परो ह्यासीद्देवः संकर्षणः प्रभुः || ६ - ६ || तिलकालकवत्तत्र विकारो मसृणः स्थितः | तस्याहंता तु या देवी [देवी या E.ई.] साहं सांकर्षणी [संकर्षणी B.] परा || ६ - ७ || श्रीरित्येव [एवं B.] समाख्याता विज्ञानबलशालिनी | यस्तस्या मे समुन्मेषः प्रद्युम्नः स तु कीर्त्यते || ६ - ८ || संकर्षणस्य देवस्य शक्तिकोशाभिमानिनः | [बुद्धिवत् आ.B.] बुद्धित्वे वर्तते देवः प्रद्युम्नः पुरुषोत्तमः || ६ - ९ || भोक्तृभोग्यसमष्टिस्तु निलीना [निलीनं B.] तत्र तिष्ठति | मनोभूतस्य देवस्य तस्याहंता तु या स्मृता || ६ - १० || साहं सरस्वती नाम वीर्यैश्वर्यविवर्तिनी [वीर्यशौर्य आ.ई.] | यो मे तस्याः समुन्मेषः सोऽनिरुद्धः प्रकीर्तितः || ६ - ११ || तस्य संकर्षणस्याहमहंकारविधौ स्थिता | संकर्षणादयो देवास्त्रय एते पुरातनाः || ६ - १२ || जीवो बुद्धिरहंकार इति नाम्ना प्रकीर्तिताः | नैवैते प्राकृता देवाः किंतु शुद्धचिदात्मकाः || ६ - १३ || आदिव्यूहस्य [व्यूढस्य F.] देवस्य वासुदेवस्य दीव्यतः | तत्तत्कार्यकरत्वेन तत्तन्नाम्ना निरूपिताः || ६ - १४ ||
SK
सर्वे ते षड्गुणाः प्रोक्ताः सर्वे ते पुरुसोत्तमाः | पूर्णस्तिमितषाड्गुण्यसदानन्दमहोदधेः || ६ - १५ || षण्णां युगपदुन्मेषो गुणानां [उन्मेषात् षाड्गुण्यं B.] कार्यवत्तया | योऽभूत्स वासुदेवस्तु व्यूहः प्रथमकल्पितः || ६ - १६ || तस्य शान्तिरहंता तु साहं शक्तिः प्रकीर्तिता | शक्तिकोशस्थिता देवाः सूयन्ते [त्रयस्ते E.ई.] यत्र चिन्तिताः || ६ - १७ || अनिरुद्धस्य याहंता रतिरित्येव संज्ञिता | सैव देवी महालक्ष्मीर्मायाकोशः स उच्यते || ६ - १८ || टिप्पणी - ३ - शक्तिमायाप्रसूतिप्रकृतिब्रह्माण्डजीवदेहाख्येषु षट्सु कोशेषु शक्तिकोशः शुद्धमार्गप्रवर्तकः | तत्रैव संकर्षणादीनां त्रयाणामाविर्भावः | ८ - संकर्षणस्य महिषी श्रीः | प्रद्युम्नस्य सरस्वती | अनिरुद्धस्य रतिः | वासुदेवस्य शान्तिः || १८ - मायाकोशमारभ्याशुद्धसृष्टिः | प्. २४) मूल - महालक्ष्म्या य उन्मेषो मायाया गुणसंज्ञितः | महाकालीमहाविद्याद्वयं संपरिकीर्त्यते || ६ - १९ || महालक्ष्मी महामायामहाविद्यामयो महान् | प्रसूतिर्नाम कोशो मे तृतीयः परिपठ्यते || ६ - २० || त्रीण्यत्र मिथुनान्यासन् यानि पूर्वोदितानि ते | प्रधानं सलिलीकृत्य यच्छेते पुरुषोत्तमः || ६ - २१ || सा प्रोक्ता प्रकृतिर्योनिर्गुणसाम्यस्वरूपिणी | विरिञ्चोऽजनयद्यद्वै पूर्वमण्डं स्वमात्मनि || ६ - २२ ||
SK
तदेके प्रकृतिं प्राहुस्तत्त्वशास्त्रविशारदाः | महदाद्यैः पृथिव्यन्तैरण्डं यन्निर्मितं सह || ६ - २३ || तद्ब्रह्माण्डमिति प्रोक्तं यत्र ब्रह्मा विराडभूत् | अङ्गप्रत्यङ्गयुक्तं यच्छरीरं जीविनामिह [जीवतामिह E.] || ६ - २४ || एषा कोशविधा षष्ठी क्रमशस्तनुतां गता | अवरोहाः षडेते मे पूर्णायाः परिकीर्तिताः || ६ - २५ || आद्ये कोशे स्वयं देवस्त्रिधैवाहंतया स्थितः | पञ्चस्वन्येषु कोशेषु जीवा नानाविधाः स्थिताः || ६ - २६ || शुभाशुभविभागोत्थां भजन्ते विविधां दशाम् | दिव्यास्तिस्रस्त्रयस्तासां [त्रयस्त्वासां E.ई.] मिथुनानि च यानि तु || ६ - २७ || अण्डमध्येऽवताराश्च तासां तेषां च ये स्मृताः | स्वातन्त्र्यनिर्मितास्त्वेते [निर्मितास्ते ते E.ई.] नैव कर्मवशानुगाः || ६ - २८ || अप्राकृताश्च ते देहा उभयेषां प्रकीर्तिताः | अन्ये पञ्चसु कोशेषु देवाद्याः स्थावरान्तिमाः || ६ - २९ || नानास्थानजुषो जीवाः कर्मभिः संसरन्ति ये | अधिकारक्षयं [अधिकारं E.] नीत्वा शुभपाकवशादिमे || ६ - ३० || संप्राप्य ज्ञानभूयस्त्वं योगक्षपितकल्मषाः | आरोहन्ति शनैः कोशानारूढा न पतन्ति ते || ६ - ३१ || सत्यलोकात्प्रभृत्येते यां भूमिमधिरोहिताः | पुनस्ते न निवर्तन्ते तिष्ठन्त्यूर्ध्वं व्रजन्ति वा || ६ - ३२ || शक्रः [शक्र उवाच F.] -
SK
क्षीरोदसंभवे देवि पद्मनाभकुटुम्बिनि | जीवः को नाम तद् [तं E.] ब्रूहि नमस्ते पद्मसंभवे || ६ - ३३ || श्रीः - पूर्णाहंता हरेराद्या साहं सर्वेश्वरी परा | तस्याः [सत्याः E] स्मृताश्चतस्रो मे दशास्त्रिदशपुंगव || ६ - ३४ || प्रमातेति विधा त्वेका तदन्तःकरणं परा | बहिः करणमन्या च चतुर्थी भावभूमिका || ६ - ३५ || प्रमाता चेतनः प्रोक्तो मत्संकोचः स उच्यते | अहं हि देशकालाद्यैरपरिच्छेदमीयुषी || ६ - ३६ ||| मूल - महालक्ष्म्या राजसत्वं प्रपञ्चसृष्टिनिदानत्वं च पूर्वमुक्तम् | २० - प्रसूतिकोशः राजस्या महालक्ष्म्याः तामस्या महामायायाः सात्त्विक्या महाविद्यायाश्च समवायरूपः || २१ - त्रीणि मिथुनानि पञ्चमाध्याये सप्तमादिभिः सप्तभिः श्लोकैर्वर्णितानि | प्रधानमेव प्रकृतिकोश इत्युच्यते | एतासां मायाप्रसूतिप्रकृतीनां तमोऽव्यक्तप्रकृतिनामभिरुपनिषत्सु व्यवहारः | ३० - अधिकारेति | यावदधिकारमवस्थितिराधिकारिकाणाम् इति बादरायणसूत्रम् | ३५ - प्रमाता जीवः | अन्तःकरणं मनोबुद्ध्यहंकाररूपेण त्रिविधम् | बहिः करणं ज्ञानेन्द्रिय - प्. २५) मूल - स्वातन्त्र्यादेव संकोचं भजाम्यजहती स्वताम् | प्रथमस्तत्र संकोचः प्रमातेति प्रकीर्त्यते || ६ - ३७ || चिदात्मनि यथा विश्वं मयि लीनमवस्थितम् | प्रमातरि तथैवैतद्दर्पणोदरशैलवत् || ६ - ३८ ||
SK
ऐकरूप्यं द्विरूपत्वं त्रिरूपत्वं चतुर्भिदाम् | [षट्सप्तपञ्च आ.B.C.] सप्तपञ्चकरूपत्वं प्रमाता यत्प्रपद्यते || ६ - ३९ || प्रकाशेनात्मनो [आत्मना E.] ह्येको ग्राह्यग्राहकतावशात् | द्वैरूप्यं तत्त्रिरूपत्वं ज्ञानाकारक्रियात्मना || ६ - ४० || सप्तपञ्चकरूपत्वं तत्तत्तत्त्वस्थितौ स्थितम् | शक्रः - [तानि F.] कानि तत्त्वानि पद्माक्षि कति कीदृग्विधानि च || ६ - ४१ || एतत्पृष्टा मया ब्रूहि नमस्ते सिन्धुसंभवे [पद्म B.] | श्रीः [श्रीरुवाच B.] - स्थूलसूक्ष्मविभेदेन भूतानि दश खानि च || ६ - ४२ || ज्ञानकर्मविभेदेन त्रीण्यन्तःकरणानि च | प्रकृतिश्च प्रसूतिश्च माया सत्त्वं रजस्तमः || ६ - ४३ || कालश्च नियतिः शक्तिः पुरुषः परमं नभः | भगवानिति तत्त्वानि सात्त्वताः समधीयते || ६ - ४४ || शक्रः - मया श्रुतानि तत्त्वानि त्वद्वक्त्रसरसीरुहात् | व्याचक्ष्वैतानि मे देवि नमस्ते सरसीरुहे || ६ - ४५ || इति श्रीपाञ्चरात्रसारे [श्रीपञ्चरात्र आ.E.; श्रीपञ्चरात्रे ई.] लक्ष्मीतन्त्रे षट्कोशप्रकाशो [ई. ओमित्स् थे तित्ले.] नाम षष्ठोऽध्यायः || ६ || टिप्पणी - कर्मेन्द्रियरूपेण दशविधम् | भावभूमिका प्रमेयप्रपञ्चजातम् | ३९ - चत्वारो भेदाः जाग्रदाद्यवस्थाः | इति षष्ठोऽध्यायः सप्तमोऽध्यायः श्रीः [श्रीरुवाच B.] -
SK
व्याचक्षेऽहं ततः [तु ते E.ई.] शक्र क्रमशस्तत्त्वपद्धतिम् | शुद्धाशुद्धविमिश्रेयं तत्त्वपद्धतिरुच्यते || ७ - १ || निरम्भोदाम्बराभासो [निनींरदा E.ई.] निष्पन्दोदधिसंनिभः | स्वच्छस्वच्छन्दचैतन्यसदानन्दमहोदधिः || ७ - २ || आकारदेशकालादिपरिच्छेदविवर्जितः [विशेषणविवर्जितः आ.B.C.F.] | भगवानिति विज्ञेयः परमात्मा सनातनः || ७ - ३ || तस्याहंता परा तादृग्भगवत्ता सनातनी | नारायणी परा सूक्ष्मा निर्विकल्पा निरञ्जना || ७ - ४ || ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः | षण्णां युगपदुन्मेषो गुणानां प्रथमो हि यः || ७ - ५ || भवद्भावात्मकत्वेन द्विधा स व्यपदिश्यते | भवंस्तु वासुदेवोऽत्र भावोऽस्मिन् वासुदेवता || ७ - ६ || शान्तिर्नाम्ना समाख्याता साहं देवी सनातनी | संकर्षणादयो व्यूहाः साहंताः प्राङ्निरूपिताः || ७ - ७ || त्रयश्च चातुरात्म्यं तच्चत्वारोऽमी सुरेश्वर | एतावद्भगवद्वाच्यं निस्तत्त्वं [तत्त्वतः ड्.E.ई.] तत्त्वमुत्तमम् || ७ - ८ || नभस्तु परमं व्योम परमाकाशशब्दितम् | यत्र देवो [देशे B.F.] मया सार्द्धं विभज्यात्मानमात्मना || ७ - ९ || क्रीडते रमया विष्णुः परमात्मा सनातनः | षाड्गुण्यस्य समुन्मेषः स देशः परमाम्बरम् || ७ - १० ||
SK
पुरुषो भोक्तृकूटस्थः सर्वज्ञः सर्वतोमुखः | अंशतः प्रसरन्त्यस्मात्सर्वे जीवाः सनातनाः || ७ - ११ || [प्रलये त्वपि यान्त्येनं आ.; प्रलयेऽपि विशन्त्येनं E.F.ई.] प्रलये त्वपियन्त्येनं कर्मात्मानो नरं परम् | इयं मातृदशा सा मे या [पूर्वमेव B.F.] ते पूर्वं मयोदिता || ७ - १२ || महालक्ष्मीः समाख्याता शक्तितत्त्वं मनीषिभिः | नियतिस्तु महाविद्या कालः काली प्रकीर्तिता || ७ - १३ || सत्त्वं रजस्तमश्चेति गुणत्रयमुदाहृतम् | सुखरूपं स्मृतं सत्त्वं स्वच्छं ज्ञानकरं लघु [सुर B.] || ७ - १४ || दुःखरूपं रजो ज्ञेयं चलं रक्तं प्रवर्तकम् | [E. ओमित्स् थ्रेए लिनेस् fरोम् हेरे.] मोहरूपं तमो ज्ञेयं गुरु कृष्णं नियामकम् || ७ - १५ || माया चैव प्रसूतिश्च प्रकृतिश्चेति [प्रकृतिश्चैव B.] वासव | पुरस्ताद्व्याकृतं तुभ्यं तदेतत्प्रकृतित्रिकम् || ७ - १६ || टिप्पणी - पूर्वाध्यायोक्तानि पञ्चत्रिंशत् तत्त्वानि व्युत्क्रमेण निरूप्यन्ते | तत्रादावत्र भगवत्तत्त्वनिरूपणम् | भगवत्तत्त्वं च शान्तावस्थः परवासुदेवः उदितावस्था व्यूहाः तेषामपृथक् सिद्धा देवी चेति | ८ - निस्तत्त्वम् तत्त्वान्तरेभ्यो निष्क्रान्तम् अतिशयितमित्यर्थः | तदेवाह तत्त्वमुत्तममिति | १० - परव्योम्नः षाड्गुण्यसमुन्मेषरूपत्वकथनेनाजडत्वमभिप्रेतम् जडत्वपक्षोऽप्यस्ति प्. २७) मूल -
SK
[आ.B.C.ई. ओमित् थिस् लिने.] भूतानि दशसंख्यानि तथा खानि त्रयोदश | त्रयोविंशतिरप्येते सुस्पष्टं व्याकृता पुरा [व्याकृतं मया B.] || ७ - १७ || तदयं मम संकोचः प्रमाता शुद्धचिन्मयः | स्वान्तःस्फुरिततत्त्वौघः स्थितो दर्पणवत्सदा || ७ - १८ || चातूरूप्यं तु यत्तस्य तदिहैकमनाः शृणु | आद्यं शून्यमयो माता मूर्छादौ परिकीर्तितः || ७ - १९ || [B. ओमित्स् थिस् लिने.] ततः प्राणमयो माता सुषुप्तौ परिकीर्तितः | प्राणा एव प्रतायन्ते सुषुप्तौ पुरुषस्य तु || ७ - २० || मूर्छाविषोपघातादौ प्राणोऽपि विनिवर्तते | केवलं स्वात्मसत्तैव [संज्ञैव ङ्.] ततः शून्यस्तदा पुमान् || ७ - २१ || तृतीयोऽष्टपुरीमात्रः स्वप्ने माता प्रकीर्तितः | प्राणा भूतानि कर्माणि करणानि त्रयो गुणाः || ७ - २२ || प्राग्वासना अविद्या च लिङ्गं पुर्यष्टकं स्मृतम् | स्वप्नेऽन्तःकरणेनैव स्वैरं हि परिवर्तते || ७ - २३ || चेष्टमानः स्वदेहेन देही जाग्रद्दशां गतः | चातूरूप्यमिदं पुंसस्त्रैरूप्यमपि मे शृणु || ७ - २४ || ज्ञानक्रियास्वरूपाणां संकोचस्त्रिविधस्तु यः [विधः स्मृतः B.] | तस्य तद्धि त्रिरूपत्वं तस्य व्याख्यामिमां शृणु || ७ - २५ || मायया ज्ञानसंकोच आनैश्वर्यात्क्रियाव्ययः [ज्ञानै ई.] | अशक्तेरणुता रूपे त्रिधैव व्यपदिश्यते || ७ - २६ ||
SK
अणुः किंचित्करश्चैव किंचिज्ज्ञश्चायमित्युत [उच्यते B.ड्.] | द्वैरूप्यमैकरूप्यं च पूर्वमेव निरूपितम् || ७ - २७ || एवं मातृदशामेऽद्य [मातृदशामेत्य सविशेषाः प्रकीर्तिताः आ.B.] सविशेषा प्रकीर्तिता | आन्तःकरणिकीं चैव दशां शक्राद्य मे शृणु || ७ - २८ || स्वच्छन्दा संविदेवाहं स्वतश्चेतनतां गता | हित्वा चेतनतां तां चाप्यवरूढा ततः क्रमात् [पदात् E.ई.] || ७ - २९ || चैत्यसंकोचनी चित्तमन्तःकरणमीरितम् | मनोबुद्धिरहंकार इत्येतत् त्रितयं च [तु B.ई.] तत् || ७ - ३० || [विकल्पो व्यवसायः आ.ई.] विकल्पोऽध्यवसायश्चाप्यभिमानश्च वृत्तयः | मनो विकल्पयत्यर्थमहंकारोऽभिमन्यते || ७ - ३१ || अध्यवस्यति बुद्धिश्च चेतनाधिष्ठिता सदा | बुद्धिरध्यात्ममित्युक्ता निर्णयोऽप्यधिभूतकम् || ७ - ३२ || टिप्पणी - परेषाम् | ११ - भोक्तृकूटस्थो जीवसमष्टिरूपः पुरुषो हिरण्यगर्भः | १८ - एवं षष्ठाध्याये ४२, ४३, ४४ - तमैः श्लोकैः प्रस्तुतानि पञ्चत्रिंशतं तत्त्वानि निरूप्य तत्रैव ३५ - तमे श्लोके प्रस्तुता आत्मनश्चतस्रो दशा निरूपयति तदयमित्यारभ्य यावदध्यायपरिसमाप्ति | २२ - अष्टपुरीमात्रः | मात्रशब्दः प्रमाणार्थकः केवलार्थको वा | बाह्यचेष्टारहित इत्यर्थः | अष्टपुर्यश्चानन्तरश्लोके वक्ष्यन्ते | २३ - लिङ्गं सूक्ष्मशरीरम् |
SK
२६ - क्रियाव्ययः अभीप्सितक्रियाकरणासामर्थ्यम् | आनैश्वर्यमित्यत्र अनीश्वरस्य भाव इत्यर्थे प्यञि उभयपदवृद्धिः | स्वरूपसंकोचेनाणुरूप इत्युक्त्या जीवस्य स्वाभाविकं विभुरूपत्वमिति न मन्तव्यम् तस्याणुस्वरूपत्वस्यानेकप्रमाणसिद्धत्वात् | तस्मादत्र विशिष्याणुरूपत्ववर्णनमसर्वशक्तत्वासर्वज्ञत्वादिपरं वेदितव्यम् | तदेवाशक्तेरित्यनेन विव्रियते | २८ - पूर्वाध्याये अन्तःकरणदशा द्वितिया निर्दिष्टा | सात्र विव्रियते | प्. २८) मूल - बुद्धिदर्पणसंलीनः क्षेत्रज्ञश्चाधिदैवतम् | अहंकृतिस्तथाध्यात्ममभिमानोऽधिभूतकम् || ७ - ३३ || अधिदैवमथो रुद्रो मनोऽध्यात्मं प्रकीर्तितम् | विकल्पोऽप्यधिभूतस्तु चन्द्रमा अधिदैवतम् || ७ - ३४ || प्राणसंरम्भसंकल्पा गुणा एषां क्रियाविधौ | [F. ओमित्स् थिस् लिने.] प्राणः प्रयत्न इत्युक्तः संरम्भो गर्व उच्यते || ७ - ३५ || [E. ई. ओमित् थिस् लिने; फलस्वत्वस्वरूपश्च संरम्भो गर्व उच्यते B.] फलस्वाम्यस्वरूपश्च गर्वः संरम्भः उच्यते | औदासीन्यच्युतिः प्रोक्तः संकल्पो मानसो बुधैः || ७ - ३६ || व्याख्यातेयं द्वितीया मे ह्यान्तःकरणिकी दशा | प्रच्यवन्ती ततो रूपादान्तःकरणिकादहम् || ७ - ३७ || स्त्यानतां क्रमशः प्राप्ता बहिष्करणसंज्ञिता | करणानि तु बाह्यानि व्याख्यातानि मया पुरा || ७ - ३८ ||
SK
ज्ञानेन्द्रियप्रवृत्तौ तु मन आदि प्रवर्तते | चक्षुरालोकयत्यर्थं विकल्पयति तन्मनः [कर्मणः E.ई.] || ७ - ३९ || [आलोचन ई.] आलोकनविकल्पस्थमहंकारोऽभिमन्यते | अध्यवस्य ततो बुद्धिः क्षेत्रज्ञाय प्रयच्छति || ७ - ४० || कर्मेन्द्रियप्रवृत्तौ तु विपर्यस्तः क्रमः स्मृतः | संकल्पादेः पराचीना वचनादिक्रिया यतः || ७ - ४१ || अध्यात्मादिविशेषोऽत्र सर्वः पूर्वमुदीरितः | तृतीयेयं विधाख्याता बहिष्करणवर्तिनी || ७ - ४२ || चतुर्थीं त्वमिमां कोटिं मेयरूपां तु मे शृणु | मेयं तु [तद् E.] द्विविधं तावद्बहिरन्तर्व्यवस्थया || ७ - ४३ || बाह्यं तु नीलपीतादि सुखदुःखाद्यथान्तरम् | आभिश्चतसृभिश्चाहं विधाभिः स्त्यानतां गता || ७ - ४४ || स्वचित्तोत्थविकल्पार्थैः प्रत्यक्षाप्यस्मि विस्मृता | सदाचार्योपदेशेन सत्तर्कमनुरुन्धता || ७ - ४५ || निरूप्ये निपुणैर्यत्र मेयेऽप्यस्मि [मेयेवास्मि आ.B.ड्.ई.] तदा स्फुटम् | विलाप्य सकलं भावं चेत्यरूपमिमं तथा || ७ - ४६ || स्वच्छन्दा पूर्णचिद्रूपा प्रकाशेऽहं तदा स्वयम् | स्वच्छा स्वच्छतरा साहं ततः करणसंज्ञिता || ७ - ४७ || ततो मातर्यतिस्वच्छा स्फुरामि स्वच्छचिन्मयी | आरोहमवरोहं च भावयन्मामकावुभौ | मच्चित्तो मद्गतप्राणो मद्भावायोपपद्यते || ७ - ४८ ||
SK
इति श्रीपाञ्चरात्रसारे [पञ्चरात्र आ.; पाञ्चरात्रे ई.; पञ्चरात्रे सारे B.E.F.] लक्ष्मीतन्त्रे प्रमातृकरणप्रकाशो [आ.B.C.ड्.F.ई. ओमित् थे तित्ले; शुद्धमिश्रतत्त्वनिरूपणं ङ्.] नाम सप्तमोऽध्यायः || ७ || टिप्पणी - ३० - चैत्यम् चितो भावः चैतन्यमित्यर्थः | ३१ - विकल्पः विविधः कल्पः अनिर्णयात्मकं ज्ञानम् | अभिमन्यते स्वकीयत्वेन बुध्यते | ३२ - अध्यवस्यति निश्चिनोति | ४० - अध्यवस्य अध्यवसाय अध्यवसायं कृत्वेत्यर्थः | ४१ - पराचीना पश्चाद्भवा | ४३ - मेयेति | इदमेव भावभूमिकेति पूर्वं निर्दिष्टम् | ४६ - चेत्यम् मेयम् | इति सप्तमोऽध्यायः अष्टमोऽध्यायः शक्रः - नमस्ते सिन्धुसंभूते नमस्ते पद्मसंभवे | नमः सरोरुहावासे नारायणकुटुम्बिनि || ८ - १ || अवतारास्तु ये प्रोक्तास्त्वदीयाः कोशपञ्चके | [तन्मे आ.] तान्मे विस्तरतः पद्मे पृच्छते वक्तुमर्हसि || ८ - २ || किमर्थाः किंप्रकारास्ते कियन्तः किंस्वरूपकाः | तत्त्वं कथय मे देवि सर्वज्ञा ह्यसि शाश्वती || ८ - ३ || श्रीः - अतरङ्गमनिर्देश्यमप्रकम्प्यमनूपमम् [अरूपकम् E.ई.] | [अप्रकाश C.] अप्रकारमसंभेद्यमविकल्पमनाकुलम् [अविकारमनाकुलम् B.] || ८ - ४ || एकं नारायणं ब्रह्म शून्यं शुद्धं निरामयम् | [B. ओमित्स् ८ लिनेस् fरोम् हेरे.] यदिदं दृश्यते किंचिच्छ्रूयते वानुमीयते || ८ - ५ ||
SK
प्रमाणत्रयसंबोध्यं [संभेद्यं आ.C.ई.] भावाभावस्वलक्षणम् | चराचरमणु स्थूलं चेतनाचेतनं जगत् || ८ - ६ || तदिदं सकलं ब्रह्म नारायणमनुत्तरम् [अहं भवत् आ.F.; अनुत्तमम् E.ई.] | [F. ओमित्स् ४ लिनेस् fरोम् हेरे.] अविद्याविधुरानन्दस्वच्छस्वच्छन्दचिद्घनम् || ८ - ७ || भवद्भावात्मकं दिव्यमध्वनः पारमुत्तमम् | शक्तिमच्छक्तिभावेन तद् द्विधा व्यवतिष्ठते || ८ - ८ || शक्तिमत्तत् परं ब्रह्म नारायणमहं भवत् | शक्तिर्नारायणी साहमहंता भावरूपिणी || ८ - ९ || स प्रदेशो न तस्यास्ति येन भूतं मया विना | स प्रदेशो न मे कश्चिद्विना तद्येन भूयते || ८ - १० || एकधा च [तत् B.] द्विधा चैव तैस्तैस्तत्त्वाब्धिपारगैः | व्यपदिश्यावहे शास्त्रैस्तावावां सर्वकारणम् || ८ - ११ || भावोत्तरा क्वचित्सृष्टिः क्वचित्सा भवदुत्तरा | भवद्भावोत्तरा क्वापि विद्वांस्तत्र न मुह्यति || ८ - १२ || एक एवावतीर्णो हि देवानां कार्यवत्तया | नारायणो यदा साहं तत्र तद्भावभाविनी || ८ - १३ || एकैव चावतीर्णाहं यदा देवहितेप्सया | अहंतायां मयि व्यक्तः स देवोऽहंपदार्थवान् || ८ - १४ || अवतीर्णौ यदा तुल्यं देवकार्यचिकीर्षया | अन्योन्ययोः स्थितावावां भवद्भावात्मकौ द्वयोः [द्वयौ आ.B.C.ड्.] || ८ - १५ || टिप्पणी -
SK
२ - प्रथमः शक्तिकोशो भगवतः पररूपस्य चतुर्व्यूहानां च संबद्ध इति सुविदितमिति कृत्वा तमुपेक्ष्य मायादिपञ्चकोशविषयः प्रश्नः क्रियतेऽत्र कोशपञ्चक इति | ४ - प्रसङ्गाद्भगवतः पररूपस्य शक्तिकोशावस्थितिमाह अतरङ्गमित्यादि | अत्र षष्ठाध्यायसप्तदशश्लोकोक्तमनुसंधेयम् | ५ - नारायण इत्याख्यातं नारायणम् | ६ - प्रमाणत्रय प्रत्यक्षानुमानशब्दाः | ९ - अहम् अहंप्रतीतिविषयः | १० - विना तत् तत् ब्रह्म विनेत्यर्थः | १७ - माया - प्. ३०) मूल - इत्थं व्यवस्थिते तत्त्वे ह्यवतारगतिं शृणु | अनिरुद्धो विभुर्देवो [अभवद्देवः आ.B.C.] देवदेवः सनातनः || ८ - १६ || महाविद्यासमुद्भूतस्तदाहमपि वासव | मत्त एव महालक्ष्म्या अभूवं कमलाख्यया || ८ - १७ || ताविमौ दम्पती दिव्यौ पितरौ जगतां मतौ | पद्मनाभावतारे तु तावेतौ द्वावयोनिजौ || ८ - १८ || नारायणावतारो यः शक्तीशो नाम नामतः | प्रकारा बहवस्तस्य सर्वत्राहमनुव्रता || ८ - १९ || एकधा द्विचतुर्धा [च चतुर्धा B.E.ई.] च षोढा चैव तथाष्टधा | पुनर्द्वादशधा चैव [चेति E.] तत्र नामानि मे शृणु || ८ - २० || श्रीर्नाम द्विभुजस्याहमङ्कस्था [द्विभुजा साहं आ.; द्विभुजास्याहं ड्.] वरवर्णिनी | तस्यैवोभयतोरूपे श्रीश्च पुष्टिश्च वासव || ८ - २१ ||
SK
चतुर्दिशं तु तस्यैव श्रीः कीर्तिश्च जया तथा | मायेति कृत्वा रूपाणि भुज्येऽहं [भुञ्जेऽहं E.] तेन विष्णुना || ८ - २२ || तस्यैव कोणषट्कस्था षोढाहं शृणु नाम च | शुद्धिर्निरञ्जना नित्या ज्ञानशक्तिश्च वासव || ८ - २३ || तथा पराजिता चैव षष्ठी तु प्रकृतिः परा | तस्यैव चाष्टधा दिक्षु साहं रूपैर्व्यवस्थिता || ८ - २४ || लक्ष्मीः सरस्वती सर्वकामदा प्रीतिवर्धनी | यशस्करी शान्तिदा च तुष्टिदा पुष्टिरष्टमी || ८ - २५ || [कोणषट्के तु B.; कोणषट्के तु तस्यैव षड्भुजस्याहमष्टधा F.] कोणद्विषट्के तस्यैव स्थिता द्वादशधास्म्यहम् [ह्यहम् B.] | श्रीश्च कामेश्वरी कान्तिः [शान्तिः आ.; कीर्तिः F.] क्रियाशक्तिविभूतयः || ८ - २६ || इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च | एवं चतुर्भुजस्यापि षोढाहं क्रमशः स्थिता [तथा E.] || ८ - २७ || तस्यैव षड्भुजस्याहमष्टबाहोश्च [षड्भुजस्यैवं B.E.] वासव | द्विषड्बाहोस्तथा साहं द्विसप्तकभुजस्य च || ८ - २८ || तथा षोडशहस्तस्य भुजद्विनवकस्य च | विभज्य बहुधात्मानमियद्भेदा व्यवस्थिता || ८ - २९ || अवतारो हि यो विष्णोः सिन्धुशायीति संज्ञितः | स्थिताहं परितस्तस्य चतुर्धा रूपमेयुषी || ८ - ३० ||
SK
लक्ष्मीर्निद्रा तथा प्रीतिर्विद्या चेति विभेदिनी | अवतारो हि यो विष्णोः श्रीपतिर्नाम [शक्तीशो आ.] नामतः || ८ - ३१ || श्रीरित्येवाख्यया तत्र तस्याहं वामतः स्थिता | अवतारो हि यो विष्णोर्नामतः परिजातजित् || ८ - ३२ || [तदानन्दकरा आ.ङ्.] तदंसस्थकरा तस्य वामोत्सङ्गे हरेः स्थिता | अवतारो हि यो विष्णोर्नाम्ना मीनधरः शुभः || ८ - ३३ || [अनुग्रहक्रमात्तत्र आ.B.ड्.] अनुभ्रमामि तं तत्र साहं नौरूपधारिणी | त्रैविक्रमोदयो विष्णोरवतारः परः स्मृतः || ८ - ३४ || आह्लादजननी गङ्गा तत्पादात्प्रभवाम्यहम् | अनन्तशयनो नाम योऽवतारो हरेरहम् || ८ - ३५ || टिप्पणी - कोशावतारमाह - मत्त एव महालक्ष्म्या इति | अत्र षष्ठाध्यायाष्टादशश्लोकोक्तमनुसंधेयम् | १८ - प्रसूतिकोशावतारमाह पद्मनाभावतर इत्यादिना | महालक्ष्मीमहाविद्यामहामायानामवतारोऽत्र षष्ठाध्याये विंशश्लोके पूर्वमुक्तः ३० - प्रकृतिकोशावतारमाह सिन्धुशायीति | अत्र प्. ३१) मूल - स्थिता चतुर्दिशं तस्य चातुरात्म्यमुपेयुषी | लक्ष्मीश्चिन्ता तथा निद्रा पुष्टिश्चेत्याख्यया युता || ८ - ३६ || इत्येषु सह सिद्धाहमवतीर्णाण्डमध्यतः | [आ.B.C.ड्.F. ओमित् सिx लिनेस् fरोम् हेरे.] अवताराः पृथग्भूता यदा ब्रह्माण्डमध्यतः || ८ - ३७ ||
SK
अनुव्रता तथैवाहमवतीर्णा पृथक् पृथक् | अवतारो हि यो नाम वराहो वेदविश्रुतः || ८ - ३८ || तदाहमपि भूर्नाम पृथग्भूता भजाम्यहम् | अवतारो हि यो नाम धर्मो विष्णुः पुरातनः || ८ - ३९ || तदाहं भार्गवी नाम ख्यातिजा श्रीः प्रकीर्तिता | अवतारो हि यो नाम दत्तात्रेयोऽत्रिनन्दनः || ८ - ४० || तदा हि तस्य भोगाय सरसोऽहं [सरसाहं F.] समुत्थिता [सरःस्थिता B.] | अवतारो हि यो नाम वामनो वैष्णवः शुभः || ८ - ४१ || पद्मादहं समुत्पन्ना तदा पद्मेति विश्रुता | अवतारो यदा विष्णोर्भार्गवो रामसंज्ञितः || ८ - ४२ || तदाहं धरणी नाम शक्तिरासमयोनिजा | अवतारो हि यो नाम रामो दाशरथिः शुभः || ८ - ४३ || जाता जनकयज्ञेऽहं क्षेत्राद्धलमुखक्षतात् | नाम्ना सीतेति विख्याता दशाननविनाशनी || ८ - ४४ || अवतारो हि यो विष्णोश्चतुर्धा संभविष्यति | मधुरायामहं व्यक्तिं चतुर्धैष्यामि वै तथा || ८ - ४५ || रेवती रुक्मिणी चैव रतिर्नाम्ना तथा ह्युषा | अवतारान्तरं यत्तु मोहनं बुद्धसंज्ञकम् || ८ - ४६ || ताराहं तत्र नाम्ना वै धारा [धरा B. E.; दारा ङ्.] चैव प्रकीर्तिता | ध्रुवादयोऽवतारा ये केवला वैष्णवाः स्मृताः || ८ - ४७ ||
SK
तत्तच्छरीरभूताहं तेषां भोग्या व्यवस्थिता | यत्तु मे मोहनं [तन्मोहनं ड्. E.; तन्मोहिनी F.] रूपं श्रूयतेऽमृतधारकम् || ८ - ४८ || भवद्भावौ तदा तत्र रूपे तुल्योपलक्षितौ | देवैः पुरुषरूपेण स्त्रीरूपेण तथेतरैः || ८ - ४९ || सह सिद्धं पृथक्सिद्धमित्येतज्जन्म [मयीत्येतज्जन्म मे महद्भुतम् आ.ङ्.] मेऽद्भुतम् | कीर्तितं तव देवेश केवलं जन्म मे शृणु || ८ - ५० || इति श्रीपाञ्चरात्रसारे [श्रीपञ्चरात्र आ.; श्रीपञ्चरात्रे E.ई.] लक्ष्मीतन्त्रे लक्ष्म्यवतारप्रकाशो [E.ई. ओमित् थे तित्ले.] नामाष्टमोऽध्यायः || ८ || टिप्पणी - पञ्चमाध्यायैकविंशश्लोकोक्तमनुसंधेयम् | ३३ - ब्रह्माण्डकोशावतारमाह - नाम्ना मीनधर इत्यादि | ४७ - जीवदेहकोशावतारमाह ध्रुवादय इति | इत्यष्टमोऽध्यायः नवमोऽध्यायः मूल [श्रीरुवाच B.] - अहं नारायणी देवी नारायणमनुव्रता | ज्ञानानन्दक्रियात्मानं ज्ञानानन्दक्रियामयी || ९ - १ || [तस्य आ.B.ड्.] तस्या मे न विनाभावस्तेन वा तस्य वा मया | [कर्तुं हि E.F.] प्रकर्तुं शक्यते काले कस्मिंश्चिद्देश एव वा || ९ - २ || तत्तत्कार्यवशाच्चैवान्यद्भूताद्भुतरूपकौ | आत्मयोगबलात्तौ स्वः [तु ई.] सहैव च विनैव च || ९ - ३ || ब्रह्मादिर्दत्तवान् यादृक्तपोयोगबलात्कृतः | दैत्यादिभ्यो जगद्ध्वंसकरेभ्यो वरमुत्तमम् || ९ - ४ ||
SK
तादृशं तादृशं रूपमास्थायावां सनातनौ | तत्तत्प्रितिचिकीर्षायै चरावो देवकार्यतः || ९ - ५ || मायया भावमाच्छाद्य परमार्थं स्वतेजसा | अहमेवावतीर्णा हि तत्तद्ध्वंसिजिघांसया || ९ - ६ || आदौ देवी महालक्ष्मीः स्मृताहं परमेश्वरी | अभूवं च पुनर्द्वेधा कृष्णा ब्राह्मीति रूपतः || ९ - ७ || गुणत्रयविभागेन रूपमेतत्परं मम | महालक्ष्मीरहं शक्र पुनः स्वायंभुवेऽन्तरे || ९ - ८ || हिताय सर्वलोकानां [देवानां आ.B.ड्.F.ङ्.] जाता महिषमर्दनी | मदीया शक्तिलेशा ये तत्तद्देवशरीरगाः || ९ - ९ || संभूय ते ममाभूवन् रूपं परमशोभनम् | आयुधानि च देवानां यानि यानि सुरेश्वर || ९ - १० || तच्छक्तयस्तदाकारा आयुधानि ममाभवन् | अभिष्टुता सुरैः साहं महिषं जघ्नुषी क्षणात् || ९ - ११ || महिषान्तकरीसूक्तं सर्वसिद्धिप्रदं तदा [तथा आ.B.ई.] | देव्या ययादिकं दृष्टं सेन्द्रैर्देवैः सहर्षिभिः || ९ - १२ || [उत्पत्तिः E.ई.] उत्पत्तिं युद्धविक्रान्तिं [विक्रान्तिः E.ई.] स्तोत्रं चेति सुरेश्वर | कथयन्ति सुविस्तीर्णं ब्राह्मणा वेदपारगाः || ९ - १३ || [आ.B.C.ड्. ओमित् थिस् लिने.] एवं प्रभावां देवीं तां स्तुवन् ध्यायन्नमन्नपि | लभते च फलं शश्वदाधिपत्यमनश्वरम् || ९ - १४ ||
SK
योगनिद्रा हरेरुक्ता या सा देवी दुरत्यया | [महाकाल्यास्तनुं B.C.E.ई.] महाकालीतनुं विद्धि तां मां देवीं सनातनीम् || ९ - १५ || मधुकैटभनाशे हि मोहितौ तौ [च आ.B.ड्.] तया तदा | जघ्नाते वरलाभेन देवदेवेन विष्णुना || ९ - १६ || विश्वेश्वर्यादिकं सूक्तं दृष्टं तद् ब्रह्मणा सदा [पुरा ङ्.] | स्तुतये योगनिद्राया मम देव्याः पुरंदर || ९ - १७ || एषा सा वैष्णवी माया महाकाली दुरत्यया | स्तुत्या वशीकृता कुर्याद्वशे स्तोतुश्चराचरम् || ९ - १८ || टिप्पणी - १२ - इदं च सूक्तं मार्कण्डेयपुराणे देवीमाहात्म्ये चतुर्थाध्याये पठितं द्रष्टव्यम् | १३ - इदं चोपाख्यानं मार्कण्डेयपुराणे देवीमाहात्म्ये प्रथमाध्याये पठितम् | प्. ३३) मूल- अस्या देव्याः समुत्पत्तिश्चरितं स्तोत्रमित्यपि | हिताय सर्वभूतानां धार्यन्ते [ध्यायन्ते ड्.E.] ब्रह्मवादिभिः || ९ - १९ || [तापसे आ.B.C.] तामसे त्वन्तरे शक्र महाविद्या हि या [भिधा B.ई.] परा | गौरीदेहात्समुद्भूता कौशिकीति तदा ह्यहम् [तदाप्यहम् C.] || ९ - २० || वधाय दुष्टदैत्यानां तथा [तदा आ.B.C.] सुम्भनिसुम्भयोः | रक्षणाय च लोकानां देवानामुपकारिणी || ९ - २१ || मदीयाः शक्तयो यास्ता देवश्रेष्ठशरीरगाः | तास्तास्तद्रूपधारिण्यः साहाय्यं [सहायं आ.ड्.] विदधुर्हि मे || ९ - २२ ||
SK
ताभिर्निहत्य दैत्येन्द्रान् हन्तव्या ये तथा तथा | संहृत्यात्मनि ताः सर्वा मदीया विप्रुषोऽखिलाः || ९ - २३ || अहं निजघ्नुषी पश्चात्तयोः सुम्भनिसुम्भयोः | देवि प्रपन्नातिहरे प्रसीदेत्यादिकं तथा || ९ - २४ || नारायणीस्तुतिर्नाम सूक्तं परमशोभनम् | स्तुतयो मे [सदा E.] तदा दृष्टा देवैर्वह्निपुरोगमैः || ९ - २५ || एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति | कौशिकी सर्वदेवेश [देवेशा आ.B.ङ्.] बहुकामप्रदा ह्यहम् || ९ - २६ || उत्पत्तिर्युद्धविक्रान्तिः स्तुतिश्चेति पुरातनैः | पठ्यते [पाठ्यते F.] त्रितयं विप्रैर्वेदवेदाङ्गपारगैः [वेदान्तपारगैः E.] || ९ - २७ || वैवस्वतेऽन्तरे चैतौ [शक्र B.] पुनः सुम्भनिसुम्भकौ | उत्पत्स्येते वरोन्मत्तौ देवोपद्रवकारिणौ || ९ - २८ || नन्दगोपकुले जाता यशोदागर्भसंभवा | तावहं नाशयिष्यामि सुनन्दा [सुनन्द्या E.] विन्ध्यवासिनी || ९ - २९ || पुनश्चाप्यतिरौद्रेण रूपेण पृथिवीतले | अवतीर्य हनिष्यामि वैप्रचित्तान् महासुरान् || ९ - ३० || [B. ओमित्स् थिस् लिने; भक्षयन्त्यागतानुग्रान् F.] भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान् | रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः || ९ - ३१ || ततो मां देवताः सर्वे मर्त्यलोके च मानवाः | स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् [रत्न आ.C.] || ९ - ३२ ||
समाधये च वैश्याय [वश्याय B.] प्रणतायावसीदते | भक्तिश्रद्धावता नित्यं वसिष्ठेन कृतेति मे || ९ - ५१ || हृदि स्थिता सदा सेयं जन्मकर्मावलिस्तुतिः | एतां द्विजमुखाच्छ्रुत्वा ह्यधीयानो नरः सदा || ९ - ५२ || [C. ओमित्स् थिस् लिने.] विधूय निखिलां मायां सम्यग्ज्ञानं समश्नुते | [सर्व E.ई.] सर्वां संपदमाप्नोति धुनोति सकलापदः || ९ - ५३ || मम प्रभावात् सौभाग्यं कीर्तिं चैव समश्नुते | [केवलाः कथयन्त्येते आ.B.C.] केवला अपि यद्येते मदीया विष्णुना विना || ९ - ५४ || न मेऽस्ति संभवः सोऽयमहंभूतः स्थितोऽत्र तु | अन्योन्येनाविनाभावादन्योन्येन समन्वयात् || ९ - ५५ || [मय्येवं वर्तते देवः E.] मय्ययं देवदेवेशस्तत्राहं च सनातनी | इत्येते लेशतः शक्र दर्शिताः सप्रकारकाः || ९ - ५६ || अवतारा मदीयास्ते संभूताः कोशपञ्चके | शुद्धे कोशे समुद्भूता भवद्भावात्मकाः परे [भावात्मकात्मके आ.B.C.] || ९ - ५७ || तत्राप्येषा स्थितिर्ज्ञेया विष्णोर्मम सह स्थितिः | एवं प्रकारां [प्रकारं E.F.] मां ज्ञात्वा प्रत्यक्षां सर्वसंमताम् || ९ - ५८ || उपायैर्विविधैः शश्वदुपास्य बहुधात्मिकाम् [विविधा B.] | क्लेशकर्माशयातीतो मद्भावं प्रतिपद्यते || ९ - ५९ ||
SK
इति श्रीपाञ्चरात्रसारे [श्रीपञ्चरात्र आ.; पाञ्चरात्र B.; श्रीपाञ्चरात्रे ई.] लक्ष्मीतन्त्रे केवलावतारप्रकाशो [भगवदविनाभावकथनं नाम आ.ङ्.; ई. ओमित्स् थे तित्ले.] नाम नवमोऽध्यायः || ९ || टिप्पणी - ४७ - इदं च मार्कण्डेयपुराणे देवीमाहात्म्ये पञ्चमाध्याये पठितम् | ५० - इदं चोपाख्यानं मार्कण्डेयपुराणे देवीमाहात्म्ये प्रथमाध्याये दृश्यते | इति नवमोऽध्यायः दशमोऽध्यायः मूल - शक्रः - क्षीरोदमथनायासफलरूपे मधुद्विषः | नमश्चन्द्रसहोदर्यै नमस्तेऽमृतयोनये || १० - १ || भावोत्तराः प्रकारास्ते श्रुतास्त्वद्वक्त्रपङ्कजात् | इदानीं श्रोतुमिच्छामि प्रकारान् भवदुत्तरान् || १० - २ || वैष्णवा अवतारास्ते किंरूपाः कति [कथिता बुधैः E.] वाम्बुजे | एतत्पृष्टा मया ब्रूहि नमस्ते पङ्कजासने || १० - ३ || श्रीः - [अहं ते B.C.] हन्त ते शक्र वक्ष्यामि प्रकारान् भवदुत्तरान् | वैष्णवा अवतारास्ते यावन्तो यद्विधाश्च ते || १० - ४ || षाड्गुण्यममलं ब्रह्म निर्दोषमजरं ध्रुवम् | सर्वशक्ति निरातङ्कं निरालम्बनभावनम् || १० - ५ || तदुन्मिषति वै पूर्वं शक्तिमच्छक्तिभावतः | नारायणः परो देवः संस्थितः शक्तिमत्तया || १० - ६ || स्थिरा शक्तिरहं तस्य सर्वकार्यकरी विभोः | तावावां जगतोऽर्थाय बहुधा विक्रियावहे || १० - ७ ||
SK
यथाहमास्थिता भेदैस्तथा ते कथितं पुरा | विकारानविकारस्य विष्णोः शृणु मयोदितान् || १० - ८ || अप्राकृताननौपम्यानचिन्त्यमहिमोज्ज्वलान् | स्वां शक्तिं मामधिष्ठाय प्रकृतिं परमाद्भुताम् || १० - ९ || त्रैरूप्येण जगन्नाथः समुदेति जगद्धिते | आद्येन पररूपेण व्यूहरूपेण चाप्यथ || १० - १० || तथा विभवरूपेण नानाभावमुपेयुषा | व्यापको भगवान् देवो भक्तानुग्रहकाम्यया || १० - ११ || अनौपम्यमनिर्दश्यं वपुः [पुनः आ.B.ङ्.ई.] स भजते परम् | विश्वाप्यायनकं [करं E.ई.] कान्त्या पूर्णेन्द्वयुततुल्यया || १० - १२ || वरदाभयहस्तं च द्विभुजं पद्मलोचनम् | रेखामयेन चक्रेण शङ्खेन च करद्वये || १० - १३ || अङ्कितं निर्विकाराङ्घ्रिस्थितं परमशोभनम् | अन्यूनानतिरिक्तैः स्वैर्गुणैः षड्भिरलंकृतम् || १० - १४ || समं समविभक्ताङ्गं सर्वावयवसुन्दरम् | पूर्णमाभरणैः शुभ्रैः सुधाकल्लोलसंकुलैः || १० - १५ || रश्मिभूतैरमूर्तैः रवैरच्युताद्यैरविच्युतम् | एका मूर्तिरियं दिव्या पराख्या वैष्णवी परा || १० - १६ || योगसिद्धा भजन्त्येनां हृदि तुर्यपदाश्रिताम् [श्रयाम् E.F.] | अथ व्यूहस्वरूपं ते द्वितीयं वर्णयाम्यहम् || १० - १७ ||
SK
व्यूह्यात्मानं चतुर्धा स्वं देवः प्रागादिभेदतः [भेदिनः आ.] | वासुदेवादिभेदेन सौषुप्ताध्वनि [सुषुप्त्यध्वनि B.; सुषुप्तात्मनि E.] तिष्ठति || १० - १८ || संस्थानमादिमूर्तेर्वै [आ, B, C: सृष्ट्यादिसंस्था मूर्तिर्वै] सर्वेषां तु समं स्मृतम् | षड्गुणं प्रथमं रूपं द्वन्द्वैर्ज्ञानादिसंभवैः || १० - १९ || इतराणि स्वरूपाणि कथितानि मया पुरा [E: पुनः] | वह्न्यर्केन्दुसहस्राभमानन्दास्पन्दलक्षणम् [E, F: आनन्दस्पन्दलक्षणम्] || १० - २० || बीजं सर्वक्रियाणां तद्विकल्पानां तदास्पदम् | सौषुप्तं चातुरात्म्यं तत्प्रथमं विद्धि वासव || १० - २१ || प्. ३६) अथ स्वाप्रे पदेऽप्येवं विभज्यात्मानमात्मना | देवः प्रागादिभेदेन वासुदेवादिरूपतः || १० - २२ || समासव्यासभेदेन गुणानां पुरुषोत्तमः | सितरक्तसुवर्णाभ्रसदृशैः परमाद्भुतैः || १० - २३ || आदिमूतिसमैः [B: समो] रूपैश्चतुर्धा व्यवतिष्ठते [आ, B, C, F: ह्यव] | कैवल्यभोगफलदं भवबीजक्षयंकरम् || १० - २४ || चातुरात्म्यं द्वितीयं तत् सुधासंदोहसुन्दरम् | अथ जाग्रत्पदे देवः सितरक्तादिभेदतः [ङ्: भेदितैः] || १० - २५ || चतुर्भुजैरुदाराङ्गैः शङ्खचक्रादिचिह्नितैः | नानाध्वजविचित्राङ्गैर्वासुदेवादिसंज्ञितैः || १० - २६ ||
SK
व्यूहैः स्वं [E, ई: स्वयं विभज्य] प्रविभज्यास्ते विभुर्नाम स्वलीलया | तत्राद्यं भगवद्रूपं हिमकुन्देन्दुकान्तिमत् || १० - २७ || चतुर्भुजं सौम्यवक्त्रं पुण्डरीकनिभेक्षणम् | पीतकौशेयवसनं सुपर्णध्वजभूषितम् || १० - २८ || मुख्यदक्षिणहस्तेन भीतानामभयप्रदम् | तथा विधेन वामेन दधानं शङ्खमुत्तमम् || १० - २९ || अपरेण दधानं च दक्षिणेन सुदर्शनम् | वामेन च गदां गुर्वीं निषण्णां वसुधातले || १० - ३० || संचिन्तयेत् पुरो भागे वासुदेवमितीदृशम् | सिन्दूरशिखराकारं सौम्यवक्त्रं चतुर्भुजम् || १० - ३१ || अतसीपुष्पसंकाशवसनं ताललाञ्छितम् [F: लाञ्छनं] | मुख्येन पाणियुग्मेन तुल्यमाद्यस्य वै विभोः || १० - ३२ || सीरं तच्चक्रहस्तेऽस्य मुसलं तु गदाकरे [E: गदां] | दक्षिणे चिन्तयेद्भागे संकर्षणमितीदृशम् || १० - ३३ || प्रावृण्निशासमुदितखद्योतनिचयप्रभम् | रक्तकौशेयवसनं मकरध्वजशोभितम् || १० - ३४ || सौम्यवक्त्रं चतुर्बाहुं तृतीयं परमेश्वरम् | मुख्यहस्तद्वयं चास्य प्राग्वत्तुल्यं महामते || १० - ३५ || वामेऽपरस्मिन् शार्ङ्गं च दक्षिणे बाणपञ्चकम् | अपरे चिन्तयेद्भागे प्रद्यम्नमिति कीर्तितम् || १० - ३६ ||
SK
अञ्जनाद्रिप्रतीकाशं सुपीताम्बरवेष्टितम् [B, E, ई: सुसिताम्बर] | चतुर्भुजं विशालाक्षं मृगलाञ्छनभूषितम् || १० - ३७ || आदिवत् पाणियुगलमाद्यमस्य [F: आद्यं तस्य] विचिन्तयेत् | दक्षिणादिक्रमेणाथ द्वाभ्यां वै खड्गखेटकौ || १० - ३८ || दधानमनिरुद्धं तु सौम्यभागे विचिन्तयेत् | वनमालाधराः सर्वे श्रीवत्सकृतलक्षणाः [E: लाञ्छनाः] || १० - ३९ || शोभिताः कौस्तुभेनैव रत्नराजेन वक्षसि | जाग्रत्पदे स्थितं देवं चातुरात्म्यमनुत्तमम् || १० - ४० || स्थित्युत्पत्तिप्रलयकृत्सर्वोपकरणान्वितम् | दिव्यं तच्चिन्तयेद्यस्य [आ, B: चिन्तयेत्तस्य] विश्वं तिष्ठति शासने || १० - ४१ || त्रिविधं चातुरात्म्यं तु सुषुप्त्यादिपदत्रिके | सुव्यक्तं तत्पदे तुर्ये गुणलक्ष्यं परं स्थितम् || १० - ४२ || ज्ञानक्रियादिभिर्विष्णोर्लोकाननुसिसृक्षतः | व्यूहसंज्ञमिदं रूपं द्वितीयं कथितं मया || १० - ४३ || तृतीयं विभवाख्यं तु [F: तं] विश्वमन्दिरमध्यगम् | नानाकारक्रियाकर्तृ रूपं विष्णोर्निशामय || १० - ४४ || इति श्रीपाञ्चरात्रसारे [आ: श्रीपञ्चरात्र; B, E: श्रीपाञ्चरात्रे] लक्ष्मीतन्त्रे परव्यूहप्रकाशो नाम दशमोऽध्यायः || १० || एकादशोऽध्यायः मूल - श्री [B: श्रीरुवाच] -
SK
निर्दोषो निरधिष्ठेयो [E, ई: निरनिष्टो] निरवद्यः सनातनः | विष्णुर्नारायणः श्रीमान् [E, ई: श्रीशः] परमात्मा सनातनः || ११ - १ || षाड्गुण्यविग्रहो नित्यं [E: नित्यः] परं ब्रह्माक्षरं परम् | तस्य मां परमां शक्तिं नित्यं तद्धर्मधर्मिणीम् || ११ - २ || सर्वभावानुगां विद्धि निर्दोषामनपायिनीम् | सर्वकार्यकरी साहं विष्णोरव्ययरूपिणः || ११ - ३ || शुद्धाशुद्धमयैर्भावैर्वितत्यात्मानमात्मना | परव्यूहादिसंभेदं व्यूहयन्ती हरेः सदा || ११ - ४ || शुद्धषाड्गुण्यमादाय कल्पयन्ती तथा तथा | तेन [E: तेनापि विविधं] नानाविधं रूपं व्यूहाद्युचितमञ्जसा [E: व्यूहाद्यञ्चित] || ११ - ५ || उन्मेषयामि देवस्य प्रकारं भवदुत्तरम् | व्यापारस्तस्य देवस्य साहमस्मि न संशयः || ११ - ६ || मया कृतं हि यत् कर्म तेन तत् कृतमुच्यते | अहं हि तस्य देवस्य स्मृता व्याप्रियमाणता [आ, ई: व्याक्रिय] || ११ - ७ || इति शक्र [आ, ई: कृत्वा] परं रूपं व्यूहरूपं च दर्शितम् | तृतीयं विभवाख्यं तु रूपमद्य निशामय || ११ - ८ || तुर्यादिजाग्रदन्तं यत् प्रोक्तं पदचतुष्टयम् | वासुदेवादिना व्याप्तमनिरुद्धान्तिमेन तु || ११ - ९ || तत्र तत्र पदे चैव चातुरात्म्यं तथा तथा | अव्यक्तव्यक्तरूपैः स्वैरुदितं ते यथोदितम् || ११ - १० ||
SK
व्यूहाद् व्यूहसमुत्पत्तौ पदाद्यावत्पदान्तरम् | अन्तरं [ङ्: आनन्दं] सकलं देशं संपूरयति तेजसा || ११ - ११ || पूजितस्तेजसां [ङ्: पूरितः] राशिरव्यक्तो मूर्तिवर्जितः | विशाखयूप इत्युक्तस्तत्तज्ज्ञानादिबृंहितः || ११ - १२ || तस्मिंस्तस्मिन् पदे तस्मान्मूर्तिशाखाचतुष्टयम् | वासुदेवादिकं शक्र प्रादुर्भवति वै क्रमात् || ११ - १३ || एवं स्वप्नपदाज्जाग्रत्पदव्यूहविभावने | स्वप्नात्पदाज्जाग्रदन्ते तैजसः पूज्यते महान् || ११ - १४ || टिप्पणी - २ - ब्रह्माक्षरशब्दयोः प्रकृतिजीवयोरपि प्रयोगात् तद्व्युदासाय परमिति विशेषणम् | १२ - विशाखयूपो नामाप्राकृते दिव्यलोके भ्राजमानो ज्योतिर्मयः स्तम्भाकारो भगवद्रूपविशेषः | तत्राधोभागमारभ्य ऊर्ध्वभागपर्यन्तं चत्वारि पर्वाणि क्रमेणानिरुद्धप्रद्युम्नसंकर्षणवासुदेवाधिष्ठितानि स्पष्टतरस्पष्टकिंचित्स्पष्टास्पष्टशङ्खचक्रादिलक्ष्माणि | प्रतिपर्व प्रागादिक्रमेण चतुर्ष्वपि पार्श्वेषु क्रमेण वासुदेवादयो व्यूहा भ्राजन्ते | एवं विभागश्च योगिनां ध्यानालम्बनार्थं भगवतैव प्. ३८) मूल - विशाखयूपो भगवान् स देवस्तेजसां निधिः | तुर्याद्ये स्वप्नपर्यन्ते [आ, B, C, ड्, F: चातुरात्म्यादिके] हि यत् || ११ - १५ || तत्तदैश्वर्यसंपन्ने षाड्गुण्यं सुव्यवस्थितम् | तदादायाखिलं दिव्यं शुद्धसंवित्पुरःसरम् [B: शुद्धं] || ११ - १६ ||
SK
विभजन्नात्मनात्मानं वासुदेवादिरूपतः [आ, B, C: रूपकम्] | पुनविभववेलायां [E: पुनर्विशाख] विना मूर्तिचतुष्टयम् || ११ - १७ || विशाखयूप एवैष विभवान् भावयत्युत | ते देवा विभवात्मानः पद्मनाभादयो मताः || ११ - १८ || पद्मनाभो ध्रुवोऽनन्तः शक्तीशो मधुसूदनः | विद्याधिदेवः कपिलो विश्वरूपो विहंगमः || ११ - १९ || क्रोडात्मा [आ, C, ड्, F, ई: क्रोधात्मा] वडवावक्त्रो धर्मो वागीश्वरस्तथा | एकार्णवान्तःशायी च तथैव कमठाकृतिः || ११ - २० || वराहो नरसिंहश्चाप्यमृताहरणस्तथा | श्रीपतिर्दिव्यदेहोऽथ कान्तात्मामृतधारकः || ११ - २१ || राहुजित् कालनेमिघ्नः पारिजातहरस्तथा | लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः || ११ - २२ || न्यग्रोधशायी भगवानेकशृङ्गतनुस्तथा | देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः || ११ - २३ || नरो नारायणश्चैव हरिः कृष्णस्तथैव च | ज्वलत्परशुभृद्रामो [आ, B, C, ड्: धृग्रामो] रामश्चान्यो धनुर्धरः || ११ - २४ || वेदविद्भगवान् कल्की पातालशयनः प्रभुः | त्रिंशच्चाष्टाविमे [आ, B, C, ड्: त्रिंशदष्टाविमे] देवाः पद्मनाभादयो मताः || ११ - २५ || विभोर्विशाखयूपस्य तत्तत्कार्यवशादिमे | स्फूर्तयो [आ, B, C, ड्: मूर्तयो] विभवाः ख्याताः कार्यं चैषामसंकरम् [B: असंकरः] || ११ - २६ ||
SK
शुद्धाशुद्धाध्वनोर्मध्ये पद्मनाभो व्यवस्थितः | ध्रुवादयोऽपरे देवा विवृता [E: देवाः प्रवृत्ताः] विश्वमन्दिरे || ११ - २७ || रूपाण्यस्त्राणि चैतेषां शक्तयश्चापरा विधाः | सर्वं तत् सात्त्वते सिद्धं संज्ञामात्रं प्रदर्शितम् || ११ - २८ || शाखास्तु वासुदेवाद्या विभोर्देवस्य कीर्तिताः | विशाखयूपो भगवान् वितताभिः करोति तत् || ११ - २९ || चतसृभ्योऽथ शाखाभ्यः केशवाद्यं त्रयं त्रयम् | दामोदरान्तमुद्भूतं तद् व्यूहान्तरमुच्यते || ११ - ३० || ताभ्य एव हि [B, E: एवाथ] शाखाभ्यः श्रियादीनां त्रयं त्रयम् | पूर्वत्रयानुरूपेण शक्तीनां च समुद्गतम् [आ.B.E: समुद्भवम्] || ११ - ३१ || परादिविभवान्तानां सर्वेषां देवतात्मनाम् | शुद्धषाड्गुण्यरूपाणि वपूंषि त्रिदशेश्वर || ११ - ३२ || यावन्त्यस्त्राणि देवानां चक्रशङ्खादिकानि वै | भूषणानि विचित्राणि वासांसि विविधानि च || ११ - ३३ || ध्वजाश्च विविधाकाराः कान्तयश्च सितादिकाः | वाहनानि विचित्राणि सत्याद्यानि सुरेश्वर || ११ - ३४ || शक्तयो भोगदाश्चैव विविधाकारसंस्थिताः | आन्तःकरणिको वर्गस्तदीया वृत्तयोऽखिलाः || ११ - ३५ || यच्च यच्चोपकरणं सामान्यं पुरुषान्तरैः | षाड्गुण्यनिर्मितं विद्धि तत्सर्वं बलसूदन || ११ - ३६ || टिप्पणी - कल्पितः | अस्य च विस्तरः सात्त्वतसंहितायां द्रष्टव्यः |
SK
१९ - एत एव देवा व्यञ्जनाधिष्ठातृतया तत्तन्महिषीभिः सहात्रैव विंशाध्याये वक्ष्यन्ते | प्. ३९) मूल - शुद्धसंविन्मयी साहं षाड्गुण्यपरिपूरिता | तथा तथा भवाम्येषामिष्टं यद्धि यथा यथा || ११ - ३७ || न विना देवदेवेन स्थितिर्मम हि विद्यते | [C: ओमित्स् थिस् लिने] मया विना न देवस्य स्थितिर्विष्णोर्हि [E, ई: विष्णोश्च] विद्यते || ११ - ३८ || तावावामेकतां प्राप्तौ द्विधा भूतौ च संस्थितौ | विधां भजावहे तां तां यद्यद्यत्र ह्यपेक्षितम् [E, ई: व्यपेक्षितम्] || ११ - ३९ || शक्रः - सिन्धुकन्ये नमस्तुभ्यं नमस्ते सरसीरुहे | परव्यूहादिभेदेन किं प्रयोजनमीशितुः || ११ - ४० || श्रीः - [B. ओमित्स् वेर्सेस् ४१ अन्द् ४२.] अनुग्रहाय जीवानां [देवानां ड्.] भक्तानामनुकम्पया | परव्यूहादिभेदेन देवदेवप्रवृत्तयः || ११ - ४१ || शक्रः - देवदेवप्रिये देवि नमस्ते कमलोद्भवे | अनुग्रहाय भक्तानामेकैवास्तु विधा हरेः || ११ - ४२ || श्रीः - जीवानां [जीविनां B.] विविधाः शक्र संचिताः पुण्यसंचयाः | संचिन्वन्ति न ते जीवास्तुल्यकालं कथंचन || ११ - ४३ || कश्चिद्धि सुकृतोन्मेषात् कदाचित् पुरुषो नृषु | श्रीमता कमलाक्षेण जायमानो निरीक्ष्यते || ११ - ४४ || अन्यदा पुरुषोऽन्यश्चेत्येवं भिन्नाः शुभाशयाः | भेदोऽधिकारिणां पुण्यतारतम्येन जायते || ११ - ४५ ||
SK
विवेकः कस्यचिन्मन्दो भगवत्तत्त्ववेदने | मध्यमस्तु परस्याथ दिव्योऽन्यस्य तु जायते || ११ - ४६ || ईशानुग्रहवैषम्यादेवं भेदे व्यवस्थिते | तत्तत्कार्यानुरोधेन परव्यूहादिभावना || ११ - ४७ || क्रियते देवदेवेन शक्तिं मामधितिष्ठता | संसिद्धयोगतत्त्वानामधिकारः [आ, C, ड्, E, ङ्: सुसिद्ध] परात्मनि || ११ - ४८ || व्यामिश्रयोगयुक्तानां मध्यानां व्यूहभावने | वैभवीयादिरूपेषु विवेकविधुरात्मनाम् || ११ - ४९ || अहंताममतार्तानां [B: ममताज्ञानां] भक्तानां परमेश्वरे | अधिकारस्य वैषम्यं भक्तानामनुदृश्य [F: अधिगम्य] सः || ११ - ५० || भजते विविधं भावं परव्यूहादिशब्दितम् | इति ते लेशतः शक्र दर्शिता उभयात्मकाः || ११ - ५१ || भवद्भावोत्तरा व्यूहा मम नारायणस्य च | शुद्धे शुद्धेतरस्मिंश्च कोशवर्गे मदुद्भवे || ११ - ५२ || स्थितिर्नौ दर्शिता तेऽद्य पृथक् सह च केवला | एवं प्रकारां [B, ड्, E, ई: प्रकारं] मां ज्ञात्वा प्रत्यक्षां सर्वसंमताम् || ११ - ५३ || उपायैर्विविधै शश्वदुपास्य विविधात्मिकाम् | क्लेशकर्माशयातीतो मद्भावं प्रतिपद्यते || ११ - ५४ || इति श्रीपाञ्चरात्रसारे [आ, ई: श्रीपञ्चरात्र] लक्ष्मीतन्त्रे विभवप्रकाशो [आ, ई: वैभव] नाम एकादशोऽध्यायः || ११ || टिप्पणी- क्लेशकर्माशया अनन्तराध्याये वक्ष्यन्ते | इत्येकादशोऽध्यायः
SK
द्वादशोऽध्यायः मूल - शक्रः - चिच्छक्तिरेव ते शुद्धा यदि जीवः सनातनः | क्लेशकर्माशयस्पर्शः कथमस्य सरोरुहे || १२ - १ || क्लेशाः के कति ते प्रोक्ताः कर्म कीदृक् च किंविधम् | आशयो [E, ई: आशया] नाम को [E, ई: के] देवि तदेतत् [F: तदेवं] किं फलं स्मृतम् || १२ - २ || सिन्धुकन्ये तदेतन्मे ब्रुहि तुभ्यं नमो नमः | सर्वज्ञे न त्वदन्येन वक्तुमेतद्धि शक्यते || १२ - ३ || श्रीः - अहं नारायणी देवी [आ, B ङ्: स्वच्छा] स्वच्छस्वच्छन्दचिन्मयी | स्वतन्त्रा निरवद्याहं विष्णोः श्रीरनपायिनी || १२ - ४ || ईशेशितव्यभेदेन द्विधा रूपं मया कृतम् | ईशितव्यं च तद्भिन्न स्वाच्छन्द्यादेव [आ, B, C: स्वच्छन्दा] मे द्विधा [ई: स्थिता] || १२ - ५ || चिच्छक्तिरेका भोक्त्राख्या परा भोग्यादिरूपिणी | कालकाल्यविभेदेन सा द्विधा भेदिता मया || १२ - ६ || तत्र काल्यात्मिका शक्तिर्मोहिनी बन्धनी तथा | प्रकृतिः सविकारैषा चिच्छक्तिर्बध्यतेऽनया || १२ - ७ || क्लिश्यते येन रूपेण चिच्छक्तिर्भोक्तृतां गता | स क्लेशः पञ्चधा ज्ञेयो नामान्यस्य च मे शृणु || १२ - ८ || तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः | अविद्या पञ्चपर्वैषा तमसो गतिरुत्तमा || १२ - ९ ||
SK
असङ्गिन्यपि चिच्छक्तिः शुद्धाप्यपरिणामिनी [आ, B, ङ्: शुद्धात्म] | आविद्धमात्मनो रूपं नैर्मल्येन [C, ड्: संक्लेशेन] विभर्ति सा || १२ - १० || शक्रः - व्याहतामिव पश्यामि चिच्छक्तेः [ड्: चिच्छक्तिः] क्लेशसङ्गिताम् | मुह्यतीव मनो मेऽद्य तं मोहं छिन्धि पद्मजे || १२ - ११ || श्रीः - स्वतन्त्रा सर्वसिद्धीनां [आ, B, C, ड्, ई: विश्वसिद्धानां; ङ्: विश्वसिद्धीनां] हेतुश्चात्र [E, ई: चित्रा] महाद्भुता | शक्तिर्नारायणस्याहं नित्या देवी सदोदिता || १२ - १२ || तस्या मे पञ्च कर्माणि नित्यानि त्रिदशेश्वर | तिरोभावस्तथा सृष्टिः स्थितिः संहृतिरेव च || १२ - १३ || अनुग्रह इति प्रोक्तं मदीयं कर्मपञ्चकम् | एतेषां कर्मशो व्याख्यां कर्मणां शक्र मे शृणु || १२ - १४ || तत्र नाम तिरोभावोऽन्यद्भावः परिकीर्त्यते | स्वच्छापि सा मदीया हि चिछक्तिर्भोक्तृसंज्ञिता || १२ - १५ || मदीयया यया शक्त्या वर्तते प्रकृतेर्वशे | तिरोभावाभिधाना मे साविद्याशक्तिरुच्यते || १२ - १६ || मदीयं भेदितं रूपं सत्यसंकल्पया मया | योऽवरोहो मदीयस्ते वर्णितः प्रथमः पुरा || १२ - १७ || चिच्छक्तिर्जीव इत्येवं विबुधैः परिकीर्त्यते | मत्स्वाच्छन्द्यवशादेव तस्य भेदः प्रकीर्तितः || १२ - १८ || मदीयं चैत्यरूपं यत् सत्यसंकल्पया कृतम् | मया तदेकीकरणं चिच्छक्तेः क्रियते हि यत् || १२ - १९ ||
SK
अविद्या सा परा शक्तिस्तिरोभाव इति स्मृतः | पञ्च पर्वाणि तस्यास्तु सन्ति तानि [आ, B, C, F: संततानि] निबोध मे || १२ - २० || प्. ४१) तमस्तु प्रथमं पर्व नामाविद्येति तस्य तु | अनात्मन्यस्वभूते च चैत्ये जीवस्य या मतिः || १२ - २१ || स्वतयाहंतया चैव तमोऽविद्या च सा स्मृता | स्वीकृतेऽहंतया चैत्ये मानो यस्तत्र जायते || १२ - २२ || अस्मिताख्यो महामोहो द्वितीयं क्लेशपर्व तत् | चैत्यचेतनयोरेकभावापत्तिरविद्यया || १२ - २३ || मोहोऽस्मिता [आ, E, ई: रागो] महामोह इति शब्दैर्निगद्यते | सुखानुस्मृतिहेतुर्या वासनास्मितयाहिता || १२ - २४ || स रागो रञ्ज्यविषयस्तृतीयं [आ, B, C, ड्, ई: रम्य] क्लेशपर्व तत् | दुःखानुस्मृतिहेतुर्या वासनास्मितयाहिता || १२ - २५ || स द्वेषो द्वेष्यविषयश्चतुर्थं क्लेशपर्व तत् | [F: ओमित्स् ३ लिने fरोम् हेरे] दुःखं जिहासतो योगैः प्रेप्सतश्च सुखं तथा || १२ - २६ || तदन्तरायैर्वित्रासो मध्ये यो नाम जायते | अन्धाख्योऽभिनिवेशः स पञ्चमं क्लेशपर्व तत् || १२ - २७ || देहमात्मतया [आ, B, C: देहं चात्म] बुद्ध्वा ततस्तादात्म्यमागतः | रञ्जनीयमभिप्रेप्सुर्जिहासुश्च तथेतरत् || १२ - २८ || तदन्तरायवित्रस्तस्तत्प्रतीकारमाचरन् | इष्टस्य प्राप्तयेऽनिष्टविघाताय च चेतनः [E: देहिनः] || १२ - २९ ||
SK
यदयं कुरुते कर्म त्रिविधं त्रिविधात्मकम् | तत्कर्म गदितं सद्भिः सांख्ययोगविचक्षणैः || १२ - ३० || तत्प्रसूतं सुखं दुःखं तथा दुःखसुखात्मकम् | विपाकस्त्रिविधः प्रोक्तस्तत्त्वशास्त्रविशारदैः || १२ - ३१ || वासना आशयाः प्रोक्ताः क्लेशकर्मविपाकजाः | अन्तःकरणवर्तिन्यः समन्ताच्छेरते हि ताः || १२ - ३२ || जन्यन्ते वासना नित्यं पञ्चभिः क्लेशपर्वभिः | सदृशारम्भहेतुश्च वासना कर्मणा [E: कर्मणः] तथा || १२ - ३३ || सुखादिवासना चैव विपाकैर्जन्यते त्रिधा | चतुर्भिर्लक्षणैरित्थंभूता क्लेशादिनामकैः || १२ - ३४ || बन्धनी जीवकोशस्य तिरोभावाभिधा विधा [आ, B, C, ड्, F: अभिधानया] | शक्त्यानयैव बद्धानां जीवानां मम नित्यदा || १२ - ३५ || सांतत्येन [E, ई: सातत्येन] प्रवर्तन्ते मम सृष्ट्यादिशक्तयः | सृष्टिशक्तिर्द्विधा सा मे शुद्ध्यशुद्धिवशान्मया || १२ - ३६ || विविच्य दर्शिता सा ते सा पुनः सप्तधा स्थिता | अनिशं [ड्, F: अनीशं] क्रियते त्वेका प्राजापत्येन कर्मणा || १२ - ३७ || षट्कोशसंभवास्त्वन्यास्तत्तत्कालसमुद्भवाः | सर्गक्रमे प्रकृत्युत्थे सृष्टिर्ज्ञेया त्रिधा पुनः || १२ - ३८ || भाविकी लैङ्गिकी चैव भौतिकी चेति भेदतः | यथा न्यग्रोधधानायां त्रैगुण्ये प्रकृतौ तथा || १२ - ३९ ||
SK
या स्थितिर्महदादेः सा भावसृष्टिर्निगद्यते | समष्टिव्यष्टिभेदेन लिङ्गं यत्सृज्यते मया || १२ - ४० || विराजश्च तथान्येषां भूतानां लिङ्गजा तु सा | महदाद्या विशेषान्ता विंशतिश्च त्रयश्च ये || १२ - ४१ || पदार्था लिङ्गदेहस्था [E: देहास्ते] विराजः परिकीर्तिताः | खानां समष्टिभूतानां तथान्तःकरणस्य च || १२ - ४२ || त्रिधा स्थितस्य ये येंऽशाः प्रतिजीवं व्यवस्थिताः | स्थूलानां चैव भूतानां ये सूक्ष्माः कीर्तिताः पुरा || १२ - ४३ || व्यष्टयोऽष्टादशेमाश्च क्लेशाः कर्माणि वासनाः | प्राणाश्चेति तदुद्दिष्टं लिङ्गं जीवगणाश्रयम् | ४४ || चिच्छक्तयो हि लिङ्गस्थाः संसरन्ति यथा तथा | शुद्दे हि भगवज्ज्ञाने जाते सत्कर्मजीविनाम् || १२ - ४५ || जीवानां विनिवर्तन्ते लिङ्गान्येतानि नान्यदा [B: नान्यथा] | विराजः स्थूलदेहो यो ब्रह्माण्डापरनामवान् || १२ - ४६ || प्. ४२) चतुर्विधानि चान्यानि शरीराणि शरीरिणाम् | एषा मे भौतिकी सृष्टिरितीदं सृष्टिचिन्तनम् || १२ - ४७ || स्थितिर्नाम तृतीया मे शक्तिर्या [ड्, E, ई: सा शक्तिर्या] ते पुरोदिता | तस्याः स्वरूपं वक्ष्यामि तन्मे शक्र निशामय || १२ - ४८ || आद्यसृष्टिक्षणो यस्तु संजिहीर्षाक्षणश्च यः | यत्स्थैर्यकरणं नाम तयोरन्तरवर्तिनाम् [B: वर्तिना] || १२ - ४९ ||
SK
नानारूपैर्मदीयैः सा स्थितिशक्तिः परा मम | विष्णुना देवदेवेन मया चैव तथा तथा || १२ - ५० || या स्थितिः कथिता सा [E, ई: साधु] तु प्रथमा तत्त्वचिन्तकैः | मन्वन्तराधिपैश्चैव द्वितीया परिकीर्तिता || १२ - ५१ || मनुपुत्रैस्तृतीयान्या क्षुद्रैरिति चतुर्विध | चतुर्थी संहृतीशक्तिस्तस्या भेदमिमं शृणु || १२ - ५२ || नाशो जरायुजादीनां भूतानां नित्यदा तु या | सा नित्या संहृतिस्त्वन्यः शक्र नैमित्तिकी स्मृता || १२ - ५३ || त्रैलोक्यविषया सा तु ब्रह्मप्रस्वापहेतुका | तृतीया प्राकृती [आ, B, C, ङ्: प्रकृतेः] प्रोक्ता महदादिव्यपाश्रया || १२ - ५४ || प्रासूती तु चतुर्थी स्यादव्यक्तविषया तु सा | मायी या पञ्चमी प्रोक्त प्रसूतिविषया तु या || १२ - ५५ || [E: ओमित्स् थिस् लिने] शाक्ति षष्ठी तु विज्ञेया मायासविषया तु सा | सप्तम्यात्यन्तिकी प्रोक्ता विलयो योगिनां मयि || १२ - ५६ || सूक्ष्माणि विनिवर्तन्ते शरीराणि तदा सताम् | एषा सप्तविधा शक्र संहृतिस्ते मयोदिता | पञ्चम्यनुग्रहाख्या [आ, C, ड्, ङ्, F: ग्रहाख्यां] मे शक्तिर्व्याख्यामिमां [आ, C, ङ्: शक्तिं मुख्यां] शृणु || १२ - ५७ || इति श्रीपाञ्चरात्रसारे [आ: श्रीपञ्चरात्र; ई: श्रीपाञ्चरात्रे] लक्ष्मीतन्त्रे तिरोभावादिशक्तिप्रकाशो नाम द्वादशोऽध्यायः || १२ || त्रयोदशोऽध्यायः मूल - श्रीः -
SK
अनुग्रहात्मिका शक्र शक्तिर्मे पञ्चमी स्मृता | तामिमां तत्त्वतो वत्स वदामि तव सांप्रतम् || १३ - १ || अविद्यया समाविद्धा अस्मितादिवशीकृताः | मच्छक्त्यैव तिरोभूतास्तिरोधानाभिधानया || १३ - २ || उच्चान्निचे पतन्तस्ते नीचादुत्पतयालवः | निबद्धास्त्रिविधैर्बन्धैः स्थानत्रयविवर्तिनः || १३ - ३ || संसाराङ्गारमध्यस्थाः पच्यमानाः स्वकर्मणा | सुखाभिमानिनो दुःखे नित्यमज्ञानधर्षिताः || १३ - ४ || ता [आ, B, C: तयोर्निरनु] योनीरनुधावन्तश्चराचरविभेदिनीः [आ, B, C, F, ङ्: भेदिनः] | अपूर्वापूर्वभूताभिश्चित्रिताभिः स्वहेतुभिः || १३ - ५ || देहेन्द्रियमनोबुद्धिवेदनाभिरहर्निशम् | जननानि प्रबन्ध्नन्तो मरणानि तथा तथा || १३ - ६ || क्लिश्यमाना इति क्लेशैस्तैस्तैर्योगवियोगजैः | उद्यत्कारुण्यसंताननिर्वापिततदागसा || १३ - ७ || मया जीवाः समीक्ष्यन्ते श्रिया दुःखविवर्जिताः | सोऽनुग्रह इति प्रोक्तः शक्तिपातापराह्वयः [E, ई: पातपराह्वयः] || १३ - ८ || कर्मसाम्यं भजन्त्येते प्रेक्ष्यमाणा मया तदा | अपश्चिमा तनुः सा स्याज्जीवानां प्रेक्षिता मया || १३ - ९ || अहमेव हि जानामि [E: जानानि] शक्तिपातक्षणं च तम् [E: क्षणाञ्चितम्] | नासौ पुरुषकारेण न चाप्यन्येन हेतुना || १३ - १० ||
SK
केवलं स्वेच्छयैवाहं [E: एका] प्रेक्षे कंचित् कदाप्यहम् | ततः प्रभृति स स्वच्छस्वच्छान्तःकरणः पुमान् || १३ - ११ || कर्मसाम्यं समासाद्य शुक्लकर्मव्यपाश्रयः | वेदान्तज्ञानसंपन्नः सांख्ययोगपरायणः || १३ - १२ || सम्यक्सात्त्वतविज्ञानाद्विष्णौ सद्भक्तिमुद्वहन् | कालेन महता योगी निर्धूतक्लेशसंचयः || १३ - १३ || विधूय विविधं बन्धं द्योतमानस्ततस्ततः | प्राप्नोति परमं ब्रह्म लक्ष्मीनारायणात्मकम् || १३ - ४४ || एषा तु पञ्चमी शक्तिर्मदीयानुग्रहात्मिका | स्वाच्छन्ध्यमेव मे हेतुस्तिरोभावादिकर्मणि || १३ - १५ || इत्थं शक्र विजानीहि नानुयोज्यमतः [E: इतः; ई: योज्यास्म्यतः] परम् | शक्रः - नमः सरोरुहावासे नमो नारायणाश्रये || १३ - १६ || नमो नित्यानवद्यायै कल्याणगुणसिन्धवे | त्वद्वागमृतसंदोहक्षालितं मे महत्तमः || १३ - १७ || [B: ओमित्स् वेर्सेस् १८ अनद् १९] भूयोऽहं श्रोतुमिच्छामि चिच्छक्ते रूपमुत्तमम् | श्रीः - एको नारायणो देव परमात्मा सनातनः || १३ - १८ || सदा ज्ञानबलैश्वर्यवीर्यशक्त्योजसां निधिः | अनादिरपरिच्छेद्यो देशकालस्वरूपतः || १३ - १९ || प्. ४४) तस्याहं परमा देवी षाड्गुण्यमहिमोज्ज्वला | सर्वकार्यकरी शक्तिरहंता नाम शाश्वती || १३ - २० ||
SK
संविदेका स्वरूपं मे स्वच्छस्वच्छन्दनिर्भरा [B, ड्, F: निर्भया] | सिद्धयो विश्वजीवानामायतन्तेऽखिला मयि || १३ - २१ || आत्मभित्तौ जगत्सर्वं स्वेच्छयोन्मीलयाम्यहम् | मयि लोकाः स्फुरन्त्येते जले शकुनयो यथा || १३ - २२ || स्वाच्छन्द्यादवरोहामि पञ्चकृत्यविधायिनी | साहं यदवरोहामि सा हि [आ, B, F: जीवः] चिच्छक्तिरुच्यते || १३ - २३ || संकोचो मामकः सोऽयं स्वच्छस्वच्छन्दचिद्घ्नः | अस्मिन्नपि जगद्भाति दर्पणोदरशैलवत् || १३ - २४ || वज्ररत्नवदेवैष स्वच्छः स्फुरति सर्वदा [C, ई: सदास्फुरति छन्दतः] | चैतन्यमस्य धर्मो यः प्रभा भानोरिवामला || १३ - २५ || तया [E: तथा] स्फुरति जीवोऽसौ स्वत एवानुरूपया [E: रूपवान्] | विधत्ते पञ्च कृत्यानि जीवोऽयमपि नित्यदा || १३ - २६ || या वृत्तिर्नीलपीतादौ [E, ई: भित्तौ नीलपीतादि] सृष्टिः सा कथिता बुधैः | सक्तिर्या [ड्: सत्ति] विषये तत्र [B, F: यत्र; E: योऽत्र] सा स्थितिः परिकीर्त्यते || १३ - २७ || गृहीताद्विषयाद्योऽस्य विरामोऽन्यजिघृक्षया | सा संहृतिः समाख्याता तत्त्वशास्त्रविशारदैः || १३ - २८ || तद्वासना तिरोभावोऽनुग्रहस्तद्विलापनम् | ग्राह्यग्रसनशीलोऽयं [आ, B, C: ग्राह्याशनीय] वह्निवद्ग्रसनः [आ, B, C: छेदनः] सदा || १३ - २९ ||
SK
पुष्यत्येष सदा जीवो मात्रया मे समिन्धनम् | आविद्यं मत्स्वरूपं तु व्याख्यातं ते पुरा मया || १३ - ३० || शुद्धविद्यासमायोगात् संकोचं यज्जहात्यसौ | तदा प्रद्योतमानोऽयं सर्वतो मुक्तबन्धनः || १३ - ३१ || ज्ञानक्रियासमायोगात् सर्ववित्सर्वकृत्सदा [B: तदा] | अनणुश्चाप्यसंकोचान्मद्भावायोपपद्यते || १३ - ३२ || यावन्निरीक्ष्यते नायं मया कारुण्यवत्तया | तावत्संकुचितज्ञानः करणैर्विश्वमीक्षते || १३ - ३३ || चक्षुषालोक्य वस्तूनि विकल्प्य मनसा तथा | अभिमत्याप्यहंकाराद् बुद्ध्यैव ह्यध्यवस्यति || १३ - ३४ || जागरायामथ [आ, ङ्: जागरान्तं यथा] स्वप्ने करणैरान्तरैश्चरन् | विहाय तत् सुषुप्तौ तु स्वरूपेणावतिष्ठते || १३ - ३५ || अवस्थास्ता इमास्तिस्रः प्राकृत्यो [आ, B, C, ड्: प्रकृत्या] नैव जीवगा | तुर्यापि या दशा जीवे समाधिस्थे प्रजायते || १३ - ३६ || सापि नैवास्य किं त्वेषा शुद्धसत्त्वव्यवस्थितिः | अनवस्थमनाघ्रातमखिलैः प्राकृतैर्गुणैः || १३ - ३७ || अनौपाधिकमच्छेद्यं जीवरूपं तु चिन्मयम् | एवंरूपमपि त्वेतच्छाद्यतेऽनाद्यविद्यया || १३ - ३८ || सुदृश्यामात्मभूतां मां नैव पश्यत्यसौ ततः | शक्रः - सुदृश्यासि कथं देवि त्वं प्रमाणातिगा सती || १३ - ३९ || वेदान्ता अपि नैव त्वां विदुरित्थंतयाम्बुजे | श्रीः -
SK
मां तु शक्र विजानीहि प्रत्यक्षां सर्वदेहिनाम् | समाहितमना भूत्वा शृणुष्वेदं मतं मम || १३ - ४० || इति श्रीपाञ्चरात्रसारे [आ: श्रीपञ्चरात्र; ई: श्रीपाञ्चरात्रे] लक्ष्मीतन्त्रे जीवस्वरूपप्रकाशो [B, ई: जीवप्रकारप्रकाशो] नाम त्रयोदशोऽध्यायः || १३ || चतुर्दशोऽध्यायः मूल - श्रीः [B, E: श्रीरुवाच] - ज्ञानस्वरूपो भगवान् देशकालाद्यभेदितः [E, F, ई: भेदतः] | वासुदेवः परं ब्रह्म गुणशून्यं निरञ्जनम् || १४ - १ || सुखं सदैकरूपं तु षाड्गुण्यमजरामरम् [C: षाड्गुण्यं सचराचरम्] | तस्याहं परमा शक्तिरहंता शाश्वती ध्रुवा || १४ - २ || व्यापारशक्तिरेषा मे सिसृक्षालक्षणा भवेत् [F, ङ्, ई: भवत्] | अयुतायुतकोट्योघकोटिकोट्ययुतांशतः [आ, B: अयुतायुतकोट्याश्च; E, ई: अर्बुदांशतः] || १४ - ३ || साहं सृजामि स्वाच्छन्द्याद् द्विधा भेदमुपेयुषी | चेत्यचेतनभावेन चिच्छक्तिश्चेतनोऽनयोः || १४ - ४ || चेत्यचेतनतां प्राप्ता संविदेव मदात्मिका | संविदेव हि मे रूपं [E, ई: रूपं मे] स्वच्छ स्वच्छन्दनिर्भरा || १४ - ५ || सा त्विक्षुरसवद्योगात् स्त्यानतां प्रतिपद्यते | अतो निरूप्यमाणं [आ, B, C, ड्: निवेद्यमानं] तच्चेत्यं चित्त्वमुपेष्यति [C: चित्त्वं न मुञ्चति] || १४ - ६ ||
SK
यथा हि वह्निना लीढमिन्धनं तन्मयं भवेत् | एवं चिता समालीढं चेत्यं [आ: चेत्यं समालीढमेवं; E: च तामसा] चिन्मयतां व्रजेत् || १४ - ७ || नीले पीते सुखे दुःखे चित्स्वरूपमखण्डितम् | विशिनष्टि विकल्पस्तच्चित्रयोपाधिसंपदा [E, ई: विकल्पस्थश्चित्रया] || १४ - ८ || विकल्पोऽपि [आ, B, C: अल्पयैव महद्रूपं] हि मद्रूपं स्वाच्छन्द्यादेव निर्मितम् | चेत्यं विकल्प्यते [E: विकल्पभेदेन] येन बहिरन्तर्व्यवस्थया || १४ - ९ || न बहिर्नैव चान्तस्तच्चिद्रूपं मम तत् परम् [आ, B, C, ड्: अमलं परम्] | वेद्यवेदकरूपेण भेद्यते मे स्वयंतया || १४ - १० || यद्विकल्पैरनाक्रान्तं [E: अनाघ्रातं] यच्छब्दैरकदर्थितम् | यदुपाधिभिरम्लानं [आ, E, ई: अस्त्यानं] रूपं तच्चेत्यतां गतम् || १४ - ११ || दूरापास्तविकल्पेन चेतसा यत्र [आ, ड्, E, F, ङ्: येन] भूयते | मध्यमां वृत्तिमास्थाय चेत्यं संवित्तया तदा || १४ - १२ || यथा चक्षुःस्थितं रूपं बाह्ये स्वं रूपमीक्ष्यते [B: ईक्षते] | [B, C, ड्, E: ओमित् थिस् लिने] तथा ज्ञानस्थितं रूपं ज्ञेये स्वं रूपमीक्ष्यते || १४ - १३ || [E: ओमित्स् थिस् लिने] यथा वह्निसमाविष्टं काष्ठं तद्रूपमीक्ष्यते | तथा संवित्समाविष्टं चेत्यं संवित्तयेक्ष्यते || १४ - १४ ||
SK
वेद्यं वेदनतां नीत्वा यदा [आ, B, ड्: यत्र] वेत्त्रा निरूप्यते | तदा वित्तिमयी साहं प्रत्यक्षा स्फुटभासिनी || १४ - १५ || अहंतैव हि चित्तत्वं वेद्याद्भिन्नं स्वलक्षणम् | सा चाहमेव तेनाहं सर्वतः शुद्धचिन्मयी [C: संवशुद्धात्र चिन्मयी] || १४ - १६ || सप्लुतेदंपदद्वीपे प्राप्तैकध्ये चिदम्बुधौ | मज्जतां चैव चेत्यानामस्मि हस्तावलम्बनम् || १४ - १७ || मद्ध्यानामृतनिष्यन्दक्षालिताशेषवासनाः | मामेवात्मनि पश्यन्ति चेत्यौघग्रसनी चितम् || १४ - १८ || प्. ४६) मम चित्तैकरूपाया [आ, ड्, E, ङ्: चित्रैक] वेद्यवेदकतां जनाः | अविद्ययैव मन्यन्ते मत्संकल्पितया पुरा [आ, B, ड्, F: तथा] || १४ - १९ || न शान्ता नोदिता नापि मध्यमाहं स्वरूपतः | मद्विवेकजुषामेवं प्रकाशे जागरास्वपि || १४ - २० || परित्यक्तविभागेन निस्तरङ्गेण चेतसा | [B: ओमित्स् ४ लिनेस् fरोम् हेरे] ज्ञाये विकल्प्यमाना तु प्रत्यक्षाप्यस्मि विस्मृता || १४ - २१ || पुरः स्थितो यथा भावश्चेतसोऽन्याभिलाषिणः | न भासते तथैवाहं न भासे वासनाजुषाम् || १४ - २२ || बुभुत्सावान् यथा वृत्तीर्निरुध्यान्यत्र चेतसा | प्रत्यक्षमीक्षते वस्तु तथा मां शुद्धसंविदम् || १४ - २३ ||
SK
सदैवाप्रतिबद्धाया भान्त्या एव वपुर्मम [E, ङ्: पुनः] | प्रत्यक्षं चेत्यसंचारकालेऽपि विमलात्मनाम् [आ, B, C, ड्, ङ्: विदितात्मनाम्] || १४ - २४ || यथा जात्या सितं वस्त्रं [E: वस्तु] रक्तं रागेण केनचित् | पुनः स्ववर्णमप्राप्य नैव रागान्तरं श्रयेत् || १४ - २५ || नीलाद्येवं विदन् पीतं मध्ये शुद्धचिदात्मनि | मयि चेन्नैव विश्रान्तः पीतं विद्यात्कथं न्वयम् || १४ - २६ || तथैवोच्चारयन् वाक्यं वर्णाद्वर्णं कथं व्रजेत् | यदि मध्ये न विश्रान्तो मयि शुद्धचिदात्मनि || १४ - २७ || एवं शुद्धा स्वतन्त्रापि यदाकारोपरागिणी | तत्त्यागापरसंचारा मध्ये शुद्धैव भाम्यहम् || १४ - २८ || दक्षिणेतरसंचारनिरोधान्मध्यमाश्रितः | अग्नीषोमेन्धनो भावः प्रकाशयति मे पदम् || १४ - २९ || धिया ध्येयमनालम्ब्य विषयं चास्पृशन् बहिः | यदन्तरा वेदयते तन्मे रूपमनाकुलम् || १४ - ३० || अनुवृत्ता तु या सम्यक् तेजस्यपि तमस्यपि | भाति भावेऽप्यभावेऽपि सा मे तनुरकर्बुरा || १४ - ३१ || निवृत्तविषयेच्छस्य मद्भक्त्युल्लसितात्मनः | आन्तरं यदनालम्बमहंत्वं तद्वपुर्मम् || १४ - ३२ || तदेवाभ्यस्यमानानां देहप्राणाद्यगोचरम् | विवेकिनामहंरूपं मद्भावेनावतिष्ठते || १४ - ३३ ||
SK
ततस्तेजो यथैवार्कं व्यज्यते न तु जन्यते | भावैश्चिद्रूपमप्येवं व्यक्तं नैव च जन्यते || १४ - ३४ || भावैर्विना यथा भानुः समुदेति नभःस्थले | वेद्यैर्विनैव मे रूपमेवं प्रद्योतते स्वयम् || १४ - ३५ || अत्यन्ताच्छस्वभावत्वात् स्फटिकादिर्यथा मणिः | उपरक्तो जपाद्यैस्तु स्वेन रूपेण नेक्ष्यते || १४ - ३६ || मत्संकल्पसमुद्रिक्तैश्चेत्यैः [E: समुद्वृत्तेश्चैत्यैः] स्वच्छाहमप्यथ [ई: उत] | पृथग्जनैर्न लक्ष्यास्मि नैवाहं नास्मि तावता || १४ - ३७ || कुण्डलादेर्यथा भिन्ना न लक्ष्या कनकस्थितिः | [F: ओमित्स् ३ लिनेस् fरोम् हेरे; ई: न च शक्यैव निर्देष्टुं] न च शक्या विनिर्देष्टुं तथाप्यस्त्येव सा ध्रुवम् || १४ - ३८ || एवं नित्या विशुद्धा च सुख्दुःखाद्यभेदिता | स्वसंवेदनसंवेद्या मम संविन्मयी स्थितिः || १४ - ३९ || विज्ञातरि तथा ज्ञाने ज्ञेये जानातिनान्वयः | योऽयं मदन्वयः सोऽयं प्रत्ययार्थाविशेषितः || १४ - ४० || देशकालक्रियाकाराः प्रसिद्धा भेद हेतवः | तान् भेदयति या संवित्तस्या भेदः कुतो भवेत् || १४ - ४१ || चेत्यभेदो हि यः कालो भूतादित्रितयात्मकः | संविन्महोदधौ सोऽपि विलीनस्तन्मयो भवेत् || १४ - ४२ || यदा हि वर्तमानायां मयि भूतभविष्यती | प्रतिक्षिप्ते तदा चेयं नैव स्याद्वर्तमानता || १४ - ४३ ||
SK
आधारोऽहमशेषाणां नैवाधेयास्मि केनचित् | देशोऽप्याधारतः क्लप्तस्ततो मे नैव विद्यते || १४ - ४४ || प्. ४७) काप्यवस्था न [आ, B, C: तु मे नास्ति] मे सास्ति यस्यां संविन्न वर्तते | तेन मां चिद्घनामेकां सर्वाकारामुपासते || १४ - ४५ || कालो देशस्तथाकारः क्रिया कर्ता च कर्म च | करणं संप्रदानं च भवेद्यच्च ततः फलम् || १४ - ४६ || भोगो भोक्ता च तत्सर्वं विलीनं संविदात्मनि [आ.ङ्.: सर्वदा] | देवा दैत्यास्तथा नागा गन्धर्वा रक्षसां गणाः || १४ - ४७ || विद्याधराः पिशाचाश्च भूताश्चेति गणाष्टकम् | मनुजा बहुधात्मानो वर्णकर्मादिभेदिताः || १४ - ४८ || पशवोऽथ मृगाश्चैव पक्षिणश्च सरीसृपाः [E, ई: ससरीसृपाः] | स्थावराश्च तथैवान्ये कपूयचरणात्मकाः || १४ - ४९ || स्वर्गस्था नरकस्थाश्च लोकाश्चैव चतुर्दश | सरिद्द्विपसमुद्राश्च विविधा ह्यण्डपद्धतिः || १४ - ५० || उच्चावचानि तत्त्वानि विविधाः शब्दराशयः | भोग्यं भोगोपकरणं भोगस्थानं च यत् स्मृतम् || १४ - ५१ || कोशाः षट् कोशजाश्चैव [आ, B, C, F: एते] चेतनाचेतनात्मकाः | शुद्धाशुद्धमयौ भावौ पुरुषार्थश्चतुर्विधः || १४ - ५२ || सर्वं प्रकृतिभिर्नद्धं कालेन कलितं तथा | इत्येतत्सकलं वस्तु भावाभावस्वरूपकम् || १४ - ५३ ||
SK
अमन्मयं मन्मयं च मयि लीनमवस्थितम् | सर्वात्मना सदैवाहं स्वच्छस्वच्छन्दचिन्मयी || १४ - ५४ || लक्ष्या सुखमयी शान्ता भावे भावे विपश्चिता | एवं व्यवस्थिताया मे तिरोभावाभिधानया || १४ - ५५ || बद्धा शक्त्या तु चिच्छक्तिः स्वतो मां नैव विन्दति | यदा निर्विद्यते सासौ [B: वासौ] मदनुग्रहबिन्दुना || १४ - ५६ || उपायैर्मां तदाराध्य [B: मान्तराराध्य] जीवश्चिच्छक्तिसंज्ञकः | संक्षिण्वन् निखिलान्क्लेशान्विधून्वन्वासनारजः [E: सकलान् कोशान्; ङ्, ई: निखिलान् कोशान्] || १४ - ५७ || संप्राप्य ज्ञानसद्भावं योगक्षपितबन्धनः [E, ई: कल्मषः] | मामेव परमानन्दमयीं लक्ष्मीं स विन्दति || १४ - ५८ || इति श्रीपाञ्चरात्रसारे [F: श्रीपञ्चरात्रे; ई: श्रीपाञ्चरात्रे सारे] लक्ष्मीतन्त्रे लक्ष्मीस्वरूपप्रकाशो [आ, ङ्, ई: ओमित् लक्ष्मी] नाम चतुर्दशोऽध्यायः || १४ || पञ्चदशोऽध्यायः मूल - शक्रः - नमस्ते पद्मसंभूते नमः कमलमालिनि | नमः कमलवासिन्यै गोविन्दगृहमेधिनि || १५ - १ || नमस्ते कंजकिञ्जल्ककल्पितालकविभ्रमे | सर्वज्ञे सर्वभूतानामन्तःस्थे सर्वसाक्षिणि || १५ - २ || त्वद्वक्त्रकमलोद्भूतं सर्वं तदवधारितम् | तत्त्वत्सृष्टं त्वया त्रातं त्वय्येव लयमेष्यति || १५ - ३ ||
SK
माता मानं मितिमेयं विधा एतास्त्वदात्मिकाः | त्वामेवाराध्य जीवास्ते तरन्ति भवसागरम् || १५ - ४ || एवमादि मया देवि तत्त्वतस्त्ववधारितम् | कौतूहलमिदं मेऽद्य वर्तते पद्मसंभवे || १५ - ५ || तोषणीयासि केन त्वमुपायेनाम्बुजासने | परमः पुरुषार्थो यस्त्वत्प्रीतिस्तस्य साधनम् || १५ - ६ || त्वत्प्रीतौ क उपायः स्यात्कीदृशः किंविधः स्मृतः [B, ड्, ई: तथा] | एतन्मे सकलं ब्रूहि नमस्ते पद्मसंभवे || १५ - ७ || श्रीः - चातुरात्म्यं परं ब्रह्म सच्चिदानन्दलक्षणम् [E, ई: संविदा] | सर्वं सर्वोत्तरं सर्वभूतान्तःस्थमनामयम् || १५ - ८ || वासुदेवः परं ब्रह्म नारायणमयं [E, ई: नराणामयनं] महत् | तस्याहं परमा शक्तिरहंतानन्दचिन्मयी || १५ - ९ || भिन्नाऽभिन्ना च वर्तेऽहं ज्योत्स्नेव हिमदीधितेः | तावावां तत्त्वमेकं तु द्विधा भूतौ [ङ्: भूत्वा] व्यवस्थितौ || १५ - १० || ब्रह्म नारायणं मां यज्ज्ञानेनैवाप्नुयाद्यतिः [E, ई: वा ज्ञानेन] | पन्था नान्योऽस्ति विज्ञानादयनाय विपश्चिताम् || १५ - ११ || ज्ञानं तच्च विवेकोत्थं सर्वतः शुद्धमव्रणम् | वासुदेवैकविषयमपुनर्भवकारणम् || १५ - १२ || ज्ञाने तस्मिन् समुत्पन्ने विशते मामनन्तरम् | तैस्तैरूपायैः प्रीताहं जीवानाममलात्मनाम् || १५ - १३ ||
SK
उद्भावयामि तज्ज्ञानमात्मज्योतिःप्रदर्शकम् | उपायास्ते च चत्वारो मम प्रीतिविवर्धनाः || १५ - १४ || टिप्पणी- ६ - परमः पुरुषार्थो मोक्षः | तस्य त्वत्प्रीतिः साधनम् | यथा चाहुः श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित् इति | ८- सत्यं ज्ञानं इत्यादिश्रुतिप्रतिपाद्यं स्वरूपलक्षणमुच्यते सदित्यादिना | सर्वोपादानत्वात् सर्वात्मत्वाच्च सर्वमित्युच्यते | तथापि स्वेतरसमस्तवस्तुविलक्षणत्वमाह सर्वोत्तरमिति | ९ - नारायणमयमिति मयट् स्वार्थे | १० - प्रपञ्च इव ब्रह्मण एवावस्थाभेदः श्रीरिति केषांचिन्मतमनभिमत्याह भिन्नेति | ११ - यतिः नियतात्मवान् | नात्र चतुर्थाश्रमी विवक्षितः | १२ - विवेकः ब्रह्मणः सर्वविलक्षणत्वज्ञानम् | १४ - कर्मज्ञानभक्तिन्यासाख्याः प्. ४९) मूल - शक्रः [B: ओमित्स् सिx लिनेस् fरोम् हेरे] - भगवत्यरविन्दस्थे पङ्कजेक्षणकामिनि | उपायाः [E, ई: के तेऽप्युपायाः] के च चत्वारस्तान्मे दर्शय पङ्कजे || १५ - १५ || श्रीः - उपायांश्चतुरः शक्र शृणु मत्प्रीतिवर्धनान् | यैरहं परमां प्रीतिं यास्याम्यनपगामिनीम् || १५ - १६ || स्वजातिविहितं कर्म सांख्यं योगस्तथैव च | सर्वत्यागश्च विद्वद्भिरुपायाः कथिता इमे || १५ - १७ ||
SK
चतुर्भिर्लक्षणैर्युक्तं त्रिविधं कर्म वैदिकम् | स्ववर्णाश्रमसंबन्धि नित्यनैमित्तिकात्मकम् || १५ - १८ || अकामहतसंसिद्धं कर्म तत् पूर्वसाधनम् | चतुर्विधस्तु संन्यासस्तत्र कार्यो विपश्चिता || १५ - १९ || मन्त्रोक्तदेवतायां वा प्रकृताविन्द्रियेषु वा | परस्मिन् देवदेवे वा वासुदेवे जनार्दने || १५ - २० || पूर्वं [E, ई: सर्व] कर्तृत्वसंन्यासः फलसंन्यास एव च | कर्मणामपि संन्यासो देवदेवे जनार्दने || १५ - २१ || शास्त्रीयमाचरन्नेवं नित्यनैमित्तिकात्मकम् | मदाराधनकामः सञ्शश्वत् प्रीणाति मां नरः || १५ - २२ || इति ते लेशतः प्रोक्तं श्रुतिस्मृतिनिदर्शितम् [आ, B, C: निदर्शनम्] | द्वितीयं सांख्यविज्ञानमुपायं शृणु सांप्रतम् || १५ - २३ || सांख्यास्त्रिस्रो हि मन्तव्याः सांख्यशास्त्रनिदर्शिताः | प्रथमा लौकिकी संख्या द्वितीया चर्चनात्मिका [E, ई: चर्चिका] || १५ - २४ || समीचीना तु या धीः सा तृतीया परिपठ्यते | सांख्यात्रयसमूहो यः सांख्यं तत्परिपठ्यते || १५ - २५ || पृथिव्यापस्तथा तेजो वायुराकाशमेव च | अहंकारो महांश्चैव प्रकृतिः परमा तथा || १५ - २६ || एताः प्रकृतयस्त्त्वष्टौ तासां व्याख्यामिमां शृणु | प्रकृतिस्त्रिविधा प्रोक्ता माया सूतिर्गुणात्मिका || १५ - २७ || टिप्पणी- चत्वारो योगा अत्र विवक्षिताः |
२७ - माया प्रसूतिः त्रैगुण्यमिति प्रकृतिभेदाः | यद्यपि प्रकृतिः सूक्ष्मैव तथापि तत्रैव सूक्ष्मसूक्ष्मतरसूक्ष्मतमरूपेण त्रैविध्या देवं व्यवहारः | प्. ५०) मूल- निःसक्तासक्तमद्वैतमतरङ्गमनश्वरम् | अचेतनानां परमं सौक्ष्म्यं मायेति गीयते || १५ - २८ || ईषदुच्छूनता तस्याः प्रसूतिरिति गीयते | गुणत्रयसमुन्मेषः साम्येन प्रकृतिः परा || १५ - २९ || अव्यक्तमक्षरं योनिरविद्या त्रिगुणा स्थितिः | माया स्वभाव इत्याद्याः शब्दाः पर्यायवाचकाः || १५ - ३० || सत्त्वं रजस्तमश्चेति गुणा एते त्रयो मताः | तत्र सत्त्वं लघु ज्ञेयं सुखरूपमचञ्चलम् || १५ - ३१ || प्रकाशो नाम तद्वृत्तिश्चैतन्योद्ग्रहणात्मकः | रजोऽपि च लघु ज्ञेयं दुःखरूपं च चञ्चलम् || १५ - ३२ || प्रवृत्तिर्नाम तद्वृत्तिः स्पन्दहेतुरनश्वरः | तमो नाम गुरु ज्ञेयं मोहरूपमचञ्चलम् || १५ - ३३ || नियमो नाम तद्वृतिः क्वचित् स्वापनलक्षणम् | न तदस्ति पृथिव्यां वा दिवि व्योम्नि च वासव || १५ - ३४ || भूतं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः | एते चित्तमधिष्ठाय गुणा इन्द्रियगास्तथा || १५ - ३५ || सुखं दुःखं तथा मोहं विषयस्थाश्च कुर्वते | [F: ओमित्स् थिस् लिने] शरीरेन्द्रियतां याता [E: इन्द्रियतायां च] गुणाः कर्माणि कुर्वते | इति यस्य मर्तिर्नित्या स गुणात्ययमश्नुते || १५ - ३६ ||
SK
इति श्रीपाञ्चरात्रसारे [आ: श्रीपञ्चरात्र] लक्ष्मीतन्त्रे उपायप्रकारप्रकाशो [B, F, ङ्, ई: उपायप्रकाशो] नाम पञ्चदशोऽध्यायः || १५ || टिप्पणी - ३० - अवान्तरभेदैः सह संकलय्य प्रकृतिपर्यायनामानि अव्यक्तादीनि | उपनिषदि अव्यक्तमक्षरे लीयते | अक्षरं तमसि लीयते | तमः परमात्मन्येकीभवति इति त्रयाणामेषां व्यवहारः क्रियते | ३२ - चैतन्यस्य ज्ञानस्य उद्ग्रहणम् उन्मेष इत्यर्थः वस्तुयाथात्म्यग्रहणशीलतेति यावत् | ३४ - नियमो बन्धः इति पञ्चदशोऽध्यायः षोडशोऽध्यायः मूल - श्रीः - व्याख्यानं महतः शक्र शृणुष्वावहितो मम | वैषम्यस्य समुन्मेषो गुणानां प्रथमो हि यः || १६ - १ || स महान्नाम तस्यापि विधास्तिस्रः प्रकीर्तिताः | सात्त्विको बुद्धिरित्युक्तो राजसः प्राण एव हि [E: उच्यते] || १६ - २ || तामसः काल इत्युक्तस्तेषां व्याख्यामिमां शृणु | बुद्धिरध्यवसायस्य प्राणः प्रयतनस्य च || १६ - ३ || कालः कलनरूपस्य [ड्: कालन] परिणामस्य कारणम् | महतोऽपि विकुर्वाणादहंकारो व्यजायत [आ, B, C, ड्: अस्य जायते] || १६ - ४ || स चापि त्रिविधो ज्ञेयो गुणवैषम्यसंभवात् | तामसाद्वियदादिस्तु तन्मात्रगण उज्ज्वलः || १६ - ५ || जातः सत्त्वसमुद्रिक्ताद्बुद्धीन्द्रियगणो महान् | कर्मेन्द्रियगणश्चापि राजसादुभयात्मकम् [आ, B: राजसात्तूभया] || १६ - ६ ||
SK
उभयस्मात् समुद्भूतमितीयं तत्त्वपद्धतिः | अत्र प्रकृतिरेकैव मूलभूता सनातनी || १६ - ७ || महदाद्यास्तु सप्तान्ये कार्यकारणरूपिणः | तन्मात्रेभ्यः समुद्भूता विशेषा वियदादयः || १६ - ८ || बुद्धिकर्मेन्द्रियगणौ पञ्चकौ मन एव च | विकारा एव विज्ञेया एते षोडश चिन्तकैः || १६ - ९ || चतुर्विंशतिरेतानि तत्त्वानि कथितानि ते | यावान्यश्चात्र वक्तव्यो विशेषो यादृशस्त्विह || १६ - १० || स सर्वः कथितः पूर्वं तव वृत्रनिषूदन | विंशत्या च त्रिभिश्चैव विकारैः स्वैः समन्विता || १६ - ११ || टिप्पणी - १ - अनेन गुणत्रयस्य साम्यावस्थायां प्रकृतिरिति वैषम्यावस्थायां महानिति च व्यवहार इत्युक्तं भवति | ३ - कालस्य तामसत्वमत्रोच्यते | औपनिषदप्रक्रिया कालस्याप्राकृतत्वमेवेति वदन्ति | ४ - कलनं विपरिणति | आम्रादिशलाटोः तत्फलात्मना युवदेहस्य बलिभवृद्धदेहात्मना च या परिणतिः सेत्यर्थः | ६ - कर्मेन्द्रियाणां राजसत्वं मनसः सात्त्विकराजसत्वमिति विभागस्तान्त्रिकैकदेशिनां मतेन | वस्तुतस्तु एकादशापीन्द्रियाणि सात्त्विकानीत्येव बहूनां पाञ्चरात्रिकाणां मतम् | देवा वैकारिका दश | एकादशं मनश्च इति विष्णुपुराणे चोक्तम् |
SK
७ - तत्त्वपद्धतिः | अचितत्त्वपद्धतिरित्यर्थः | इत्थमत्र विभागः तत्त्वं द्विविधम् अचितत्त्वं चित्तत्त्वं चेति | तत्राचित्तत्त्वं चतुर्विंशतिधा प्रकृतिमहदहंकारास्त्रयः तन्मात्राणि पञ्च महाभूतानि पञ्च एकादशेन्द्रियाणीति | चित्तत्वं द्वेधा जीव ईश्वरश्चेति | आहत्य षड्विंशतिस्तत्त्वानि | प्. ५२) मूल - इयं प्रकृतिरव्यक्ता कथिता ते सुराधिप | व्यक्ताव्यक्तमयी सैषा नित्यं प्रसवधर्मिणी || १६ - १२ || विलक्षणा सा विज्ञेया चिच्छक्तिरविनश्वरा [B: अविनश्वरी] | स जीवः कथितः सद्भिस्तत्त्वशास्त्रविशारदैः || १६ - १३ || अयं स्वरसतः शुद्धः परिणामविवर्जितः | कूटस्थश्चिद्घनो नित्यो [आ, ड्, F: नित्यमन्तःस्थो] ह्यनन्तोऽप्रतिसंक्रमः || १६ - १४ || इमौ स्वरसतोऽसक्तौ सक्तात्मानाविव स्थितौ [B: सत्तात्मानौ व्यवस्थितौ] | प्रकृतिः पुरुषश्चैव महद्भ्यश्च महत्तरौ || १६ - १५ || लिङ्गग्राह्यावुभौ नित्यावलिङ्गौ चाप्युभावपि | साधर्म्यमेवमाद्येवमनयोरुन्नयेद्बुधः || १६ - १६ || वैधर्म्यमनयोः शक्र कथ्यमानं निबोध मे | प्रकृतिस्त्रिगुणा नित्यं सततं परिणामिनी || १६ - १७ || अविवेकाप्यशुद्धा च सर्वजीवसमा सदा | विषयोऽचेतना [ङ्: अवेदना] चैव सुखदुःखविमोहिनी || १६ - १८ ||
SK
मध्यस्थः पुरुषो नित्यः क्रियावानप्यविह्वलः | साक्षी दृशिस्तथा द्रष्टा शुद्धोऽनन्तो गुणात्मकः || १६ - १९ || वैधर्म्यमनयोरेतत् प्रकृतिं चानयोः शृणु | या सा सदसदाख्यादिविकल्पविकला [C, ड्: विपुला] ध्रुवा || १६ - २० || नित्योदिता सदानन्दा पूर्णषाड्गुण्यविग्रहा | अहं नारायणी शक्तिर्विष्णोः श्रीरनपायिनी || १६ - २१ || मत्तः प्रभवतो ह्येतौ मय्येव लयमेष्यतः | साहमेतावती भावैर्विविधैर्विस्तृतिं [आ, B, C, ड्: भावैर्विषयैः] गता || १६ - २२ || नारायणे प्रतिष्ठाय पुनस्तस्मादुदेम्यहम् | एको नारायणो विष्णुर्वासुदेवः सनातनः || १६ - २३ || अपृथग्भूतशक्तित्वादद्वैतं ब्रह्म निष्कलम् | ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः || १६ - २४ || निस्तरङ्गः सदैवासौ जगदेतच्चराचरम् | इति ते सांख्यविज्ञानं लेशतः शक्र दर्शितम् || १६ - २५ || या तत्त्वगणना संख्या तां पुरा शीलयेद्बुधः | ततः साधर्म्यवैधर्म्यस्वरूपप्रभवादिकाम् || १६ - २६ || कुर्याच्चर्चात्मिकां संख्यां शास्त्रतत्त्वोपदेशजाम् | चर्चायामिह संख्यायां सिद्धायाममलात्मनि [F: ओमित्स् अल्ल् पोर्तिओन्स् fरोम् हेरे उप् तो एवं हि परिसंख्याय इन् थ २९थ् वेर्से] || १६ - २७ || उदेति या समीचीना संख्या सत्तत्त्वगोचरा | एषा सा परमा संख्या मत्प्रसादसमुद्भवा || १६ - २८ ||
SK
सांख्यदर्शनमेतत्ते परिसंख्यानमीरितम् | एवं हि परिसंख्याय सांख्या मद्भावमागताः [आ, B, C: सद्भाव] || १६ - २९ || टिप्पणी - १२ - प्रकृत्यवस्थायामव्यक्ता परिणत्यवस्थायां व्यक्ता | कार्यकारणयोरभेदादेवमुक्तिः | १४ - स्वरसतः स्वभावतः | अनन्तः संख्यया ज्ञानादिगुणैश्चापरिच्छिन्न इत्यर्थः | २० - विकल्पविकलेति | विविधपरिणत्यभागिनीत्यर्थः | २४ - शक्तिशक्तिमतोरपृथक्सिद्धसंबन्धात् एकत्वम् | अतो नाद्वितीयत्वविरोध इति भावः | २५ - असौ नारायण एव चराचरात्मकजगद्रूपतयावतिष्ठत इति यावत् | २७ - चर्चा नाम पुनः पुनः परिशीलनम् | प्. ५३) मूल - उपायो यस्तृतीयस्ते [आ, B: अयं] वक्ष्यते योगसंज्ञकः | योगस्तु द्विविधो ज्ञेयः समाधिः संयमस्तथा || १६ - ३० || यमाद्यङ्गसमुद्भूता समाधिः संस्थितिः परे | ब्रह्मणि श्रीनिवासाख्ये ह्युत्थानपरिवर्जिता [आ, B, C, ड्: वर्जित] || १६ - ३१ || साक्षात्कारमयी सा हि स्थितिः सद्ब्रह्मवेदिनाम् | ध्यातृध्येयाविभागस्था मत्प्रसादसमुद्भवा || १६ - ३२ || संयमो नाम सत्कर्म परमात्मैकगोचरम् | तत्पुनर्द्विविधं प्रोक्तं शारीरं मानसं तथा || १६ - ३३ || विस्तरेणाभिधास्येते समाधिः संयमस्तथा | प्रथमो य उपायस्ते कर्मात्मा कथितः पुरा || १६ - ३४ ||
SK
संज्ञानं जनयेच्छुद्धमन्तःकरणशोधनात् | तेन हि प्रीणिता साहं सदाचारनिषेवणात् || १६ - ३५ || ददामि बुद्धियोगं तमन्तःकरणशोधनम् | सांख्यं नाम द्वितीयो य उपायः कथितस्तव || १६ - ३६ || परोक्षः शास्त्रजन्योऽसौ निर्णयो दृढतां गतः | प्रत्यक्षतामिवापन्नो मत्प्रीतिं जनयेत्पराम् || १६ - ३७ || अहं संख्यायमाना हि स्वरूपगुणवैभवैः | उद्भावयामि तज्ज्ञानं प्रत्यक्षं यद्विवेकजम् || १६ - ३८ || तृतीयस्तु समाध्यात्मा प्रत्यक्षोऽविप्लवो [आ: प्रत्यक्षाविप्लवो] दृढः | प्रकृष्टसत्त्वसंभूतः प्रसादातिशयो हि सः || १६ - ३९ || तृतीयस्य विधा योऽसौ संयमो नाम वर्णितः | भोगैः शुद्धैस्त्रिधोद्भूतैरत्यन्तप्रीतये मम || १६ - ४० || अहं हि तत्र विश्वात्मा विष्णुशक्तिः परावरा | साक्षादेव समाराध्या देवो वा पुरुषोत्तमः || १६ - ४१ || इति ते कथिताः सम्यगुपायास्त्रय ऊर्जिताः | शृणूपायं चतुर्थं मे सर्वत्यागसमाह्वयम् || १६ - ४२ || तत्र [C: सर्व] धर्मान् परित्यज्य सर्वानुच्चावचाङ्गकान् | संसारानलसंतप्तो मामेकां शरणं व्रजेत् || १६ - ४३ || अहं हि शरणं प्राप्ता नरेणानन्यचेतसा | प्रापयाम्यात्मनात्मानं निर्धूताखिलकल्मषम् || १६ - ४४ ||
SK
इति श्रीपाञ्चरात्रसारे [आ: श्रीपञ्चरात्र; ई: श्रीपाञ्चरात्रे सारे] लक्ष्मीतन्त्रे उपायप्रकारविवरणं [E: वेदान्तार्थप्रकाशो; F: ओमित्स् थे तित्ले] नाम षोडशोऽध्यायः || १६ || टिप्पणी - ३२ - अविभागस्थेति | आत्मेति तूपगच्छन्ति ग्राहयन्ति च इत्युक्तरीत्या परस्य ब्रह्मणोऽविभागेनोपासनमत्राभिप्रेतम् | इति षोडशोऽध्यायः सप्तदशोऽध्यायः शक्रः - नमस्ते कमलावासे जनन्यै सर्वदेहिनाम् | गृहिण्यै पद्मनाभस्य नमस्ते सरसीरुहे || १७ - १ || उपायास्ते त्रयः पूर्वे कथिता अवधारिताः | व्याचक्ष्वाम्ब चतुर्थं तमुपायं [E, ई: त्वम्] परमम्बुजे || १७ - २ || श्रीः - एको नारायणो देवो वासुदेवः सनातनः | चातुरात्म्यं परं ब्रह्म सच्चिदानन्दमव्रणम् || १७ - ३ || एकाहं परमा शक्तिस्तस्य देवी सनातनी | करोमि सकलं कृत्यं सर्वभावानुगामिनी || १७ - ४ || शान्तानन्तचिदानन्दं [आ, B, ङ्: शान्तानन्द] यद् ब्रह्म परमं ध्रुवम् | महाविभूतिसंस्थानं सर्वतः समतां गतम् || १७ - ५ || तस्य शक्तिरहं ब्राह्मी शान्तानन्दचिदात्मिका | महाविभूतिरनघा सर्वतः समतां गता || १७ - ६ || आश्वासनाय जीवानां यत्तन्मूर्तीकृतं महः | नारायणः परं ब्रह्म दिव्यं नयननन्दनम् || १७ - ७ || तदा मूर्तिमती साहं शक्तिर्नारायणी परा | समा समविभक्ताङ्गा सर्वावयवसुन्दरी || १७ - ८ ||
SK
तयोर्नौ परमं व्योम निर्दुःखं पदमुत्तमम् [ई: सुखं] | षाड्गुण्यप्रसरो दिव्यः स्वाच्छन्द्याद्देशतां गतः || १७ - ९ || स्वकर्मनिरतैः सिद्धैर्वेदवेदान्तपारगैः | अनेकजन्मसंताननिःशेषितकषायकैः || १७ - १० || क्लेशेन महता सिद्धैरन्तरायातिगैः क्रमात् | संख्याविधिविधानज्ञैः सांख्यैः संख्यानपारगैः || १७ - ११ || प्रत्याहृतेन्द्रियग्रामैर्धारणाध्यानशालिभिः | योगैः [आ, B, ई: योगैः] समाहितैः शश्वत्क्लेशेन यदवाप्यते || १७ - १२ || अच्छिद्राः पञ्चकालज्ञाः पञ्चयज्ञविचक्षणाः | पूर्णे वर्षशते धीराः प्राप्नुवन्ति यदञ्जसा || १७ - १३ || यत्तत्पुराणमाकाशं सर्वस्मात् परमं ध्रुवम् | यत्पदं प्राप्य तत्त्वज्ञा मुच्यन्ते सर्वबन्धनैः || १७ - १४ || सूर्यकोटिप्रतीकाशाः पूर्णेन्द्वयुतसंनिभाः | यस्मिन् पदे विराजन्ते मुक्ताः संसारबन्धनैः || १७ - १५ || इन्द्रियच्छिद्रविधुरा द्योतमानाश्च सर्वतः | अनिष्यन्दा अनाहाराः षाड्गुण्यतनवोऽमलाः [आ, B, C: सहितामलाः] || १७ - १६ || टिप्पणी - ५ - महाविभूतिः नित्यविभूतिः | त्रिपादस्यामृतं दिवि इत्युक्तरीत्या लीलाविभूत्यपेक्षया तस्या महत्त्वात् महाविभूतित्वम् | ९ - मदीयेच्छया षाड्गुण्यप्रसर एवाप्राकृतदिव्यदेशतां प्राप्त इत्यर्थः |
SK
१३ - अच्छिद्राः भगवदननुभवरूपच्छिद्ररहिताः | यथोक्तम् यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते | सा हानिस्तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया || इति | प्. ५५) मूल - एकान्तिनो महाभागा यत्र पश्यन्ति नौ सदा | क्षपयित्वाधिकारान् स्वान् शश्वत्कालेन भूयसा || १७ - १७ || वेधसो [आ, B, F: वसवो] यत्र मोदन्ते शंकराः सपुरंदराः | सूरयो नित्यसंसिद्धाः [ड्: संबन्धाः] सर्वदा [आ, B, C, F: सर्वज्ञा] सर्वदर्शिनः || १७ - १८ || वैष्णवं परमं रूपं साक्षात्कुर्वन्ति यत्र ते | अष्टाक्षरैकसक्तानां द्विषट्कार्णरतात्मनाम् || १७ - १९ || षडक्षरप्रसक्तानां प्रणवासक्तचेतसाम् | जितंतासक्तचित्तानां तारिकानिरतात्मनाम् || १७ - २० || अनुताराप्रसक्तानां यत् पदं विमलात्मनाम् | अनन्तविहगेशानविष्वक्सेनादयोऽमलाः || १७ - २१ || मदाज्ञाकारिणो यत्र मोदन्ते सकलेश्वराः | तत्र दिव्यवपुः श्रीमान् देवदेवो जनार्दनः || १७ - २२ || अनन्तभोगपर्यङ्के निषण्णः सुसुखोज्ज्वले [B: सुसुखो] | विज्ञानैश्वर्यवीर्यस्थैः शक्तितेजोबलोल्बणैः || १७ - २३ || आयुधैर्भूषणैर्दिव्यैरद्भुतैः समलंकृतः | पञ्चात्मना सुपर्णेन पक्षिराजेन सेवितः || १७ - २४ ||
SK
सा रूप्यमेयुषा [आ, C, ड्, F: ईयुषा] साक्षाच्छ्रीवत्सकृतलक्ष्मणा | सेनान्या सेवितः सम्यग्विष्वक्सेनेन दीप्यता [E, F: दीव्यता] || १७ - २५ || क्षेमाय सर्वलोकानामाध्यानाय मनीषिणाम् | मुक्तयेऽखिलबन्धानां रूपदानाय योगिनाम् || १७ - २६ || आस्ते नारायणः श्रीमान् वासुदेवः सनातनः | सुकुमारो युवा देवः श्रीवत्सकृतलक्षणः || १७ - २७ || चतुर्भुजो विशालाक्षः किरीटी कौस्तुभं वहन् | हारनूपुरकेयूरकाञ्चीपीताम्बरोज्ज्वलः || १७ - २८ || वनमालां दधद्दिव्यां पञ्चशक्तिमयीं पराम् | सर्वावयवसंपन्नः [E: संपूर्णः] सर्वावयवसुन्दरः || १७ - २९ || राजराजोऽखिलस्यास्य [B, ङ्: रामो राजा] विश्वस्य परमेश्वरः | कान्तस्य तस्य देवस्य विष्णोः सद्गुणशालिनः || १७ - ३० || दयिताहं सदा देवी ज्ञानानन्दमयी परा | अनवद्यानवद्याङ्गी नित्यं तद्धर्मधर्मिणी || १७ - ३१ || ईश्वरी सर्वभूतानां पद्माक्षी पद्ममालिनी | शक्तिभिः सेविता नित्यं सृष्टिस्थित्यादिभिः परा || १७ - ३२ || टिप्पणी - अभिगमनोपादानेज्यास्वाध्याययोगाख्याः पञ्च कालाः | १७ - क्षपयित्वेति | अत्र यावदधिकारमवस्थितिराधिकारिकाणाम् इति शारीरकसूत्रं तदुपबृंहणानि वचनानि चानुसंधेयानि | १९ - अष्टाक्षरः नारायणाष्टाक्षरमन्त्रः | द्विषट्कार्णः वासुदेवद्वादशाक्षरमन्त्रः |