(२.७) कथमिदम् अवगम्यते सदवश्यं नश्वरस्वभावमिति येन अन्वयव्यतिरेकसम्भव इति चेत् / विनाशहेत्वयोगात् / स्वभावत एव भावा नश्वराः नैषां स्वहेतुभ्यो निष्पत्रानामन्यतो विनाशोत्पत्तिः / तस्यासामर्थ्यात् / न हि विनाशहेतुर्भावस्य स्वभावमेव करोति तस्य स्वहेतुभ्यो निर्वृत्तेः / नापि भावान्तरमेव, भावान्तरकरणे भावस्य तदवस्थत्वात् तथोपलब्ध्यादिप्रसङ्गः / नापि स्वभावान्तरमस्यावरणम् तदवस्थे तस्मिन्नावरणायोगात् / नापि विनाशहेतुना भावाभावः क्रियते / अभावस्य विधिनान्यतयोपगमे व्यतिरेकाव्यतिरेक विकल्पानतिक्रमात् / भावप्रतिषेधकरणे न तस्य किञ्चिद्भवति न भवत्येव केवलमिति / एवं च कर्ता न भवतीत्यकर्तुरहेतुत्वमिति न विनाशहेतुः कश्चित् /
SK
(२.८) वैयर्थ्याच्च / यदि स्वभावतो नश्वरः स्वात्मन्यनवस्थायी भावः तस्य न किञ्चिन्नाशकारणैः / तत्स्वभावतयैव स्वयं नाशात् / यो हि यत्स्वभावः स स्वहेतोरेव उत्पद्यमानः तादृशो भवति, न पुनस्तद्भावे हेत्वन्तरमपेक्षते / प्रकाशद्रवोष्णकठिनद्रव्यादिवत् / न हि प्रकाशादयस्तदात्मान उत्पन्नाः पुनः प्रकाशादिभावे हेत्वन्तरमपेक्षन्ते / तदात्मनस्तादात्म्याभावे नैरात्म्यप्रसङ्गात् / तद्वदस्थितिधर्मा चेत् स्वभावतो भावो निष्पन्नो न पुनस्तदात्मतायां हेत्वन्तरमपेक्षते /
तत्र यो ऽव्यवधनादिदेशो रूपेन्द्रियादिकलापः स विज्ञानजनने समर्थो हेतुः / यस्तेषां परस्परोपसर्पणाद्याश्रयः प्रत्ययविशेषः स तद्धेतुजनने समर्थः तेषां च न पूर्वं न पश्चात्र पृथग्भाव इति समर्थानपि पूर्वापरपृथग्भाव्भाविनो दोषा नोपलीयन्ते / तेन यस्तेषां परस्परोपसर्पणादिहेतुः स समर्थस्य हेतुरिति तत्र न कदाचिदन्यथाभावः /
SK
(२.१६) अनेन न्यायेन सर्वत्र हेतुफलभावप्रतिनियमो द्रष्टव्यः प्रतिक्षणमन्यान्यस्वभावभेदान्वयिनीषु शक्तिषु, न तु स्थिरैकस्वभावेषु भावेषु स्वभावस्यान्यथात्वासंभवात् / समर्थासमर्थस्वभावयोः क्रियाक्रियानुपपत्तेः / अन्यसहितः करोति न केवल इति चेत् / किं केवलस्य कार्यजनने ऽसमर्थः स्वभावः? समर्थ इति चेत् / किं न करोति? अकुर्वन् कथं समर्थः? कुविन्दादयः पटादिक्रियायां समर्था अपि न सर्वत्र कुर्वन्तीति चेत् / क्रीडनशीलो देवानां प्रियः सुखैधितः कृतमपि पुनः पुनः कारयति, तथाहि बीजादिवद् इत्यनेन निर्लोठितमेव / तस्मात्स्वभावस्यान्यथात्वासम्भवात् तद्धर्मणः तथाभावः अन्त्यावस्थावदनिवार्यः /
(२.१७) अपि च यो ऽसौ सकलेषु सहकारिषु करोति स तदैव कस्मात् करोति / ? कुर्वन् दृष्टस्तेन करोतीति ब्रूमः / अहो महासामर्थ्यं महाप्रभावस्य दर्शनं यस्मादतत्स्वभावान् अपि भावान् स्वभावमात्रेण नानाप्रकारेषु व्यापारेषु नियुङ्क्ते / यदि नाम किञ्चित् कथञ्चिदत्रभवतो दर्शनविषयताम् अतिक्रामेत्, हन्त अप्रसवधर्मकमपेतसन्तानं स्यदितीयं चिन्ता चित्तं दुनोति /
SK
न वै वयम् अतत्स्वभावानां भावानाम् अस्मद्दर्शनवशात् कार्यक्रियां ब्रूमः किन्तु स्वभावेनैव ते कार्यकारणधर्माः, तान् पश्यन्तः केवलं जानीमहे ते एते कारकस्वभावा इति /
SK
(२.१८) सत्यम् इदमप्यस्ति, स्वभावस्तेषां कार्यक्रियाधर्मा तेन समस्तप्रत्ययानामकृत्वा कार्यं नोपेक्षापत्तिरिति / सो ऽक्षेपक्रियाधर्मा स्वभावः किं तेषां तदैवान्त्यावस्थायामुत्पन्न आहोस्वित् प्रागप्यासीत्? आसीत्, अप्रच्युता नुत्पत्रस्थिरैकस्वभावाना कदाचित् कस्यचित्स्वभावस्याभावविरोधात् / तत्किमिदानीं माता च वन्ध्या च अस्ति? को वास्य भाषितस्यार्थः- अक्षेपक्रियास्वभावः कार्यं च न करोतीति /
SK
(२.१९) सहितः स्वकार्यजननस्वभावः न केवल इति चेत् / अन्यस्तर्हि केवलो ऽन्यश्च सहितः स्वभावभेदात् / स्वभावभेद एव हि भावभेदस्य लक्षणम् / न हि स साहित्ये ऽपि पररूपेण कर्ता स्यात् / स्वरूपं च तस्य प्रागपि तदेवेति कथं कदचित् क्रियाविरामः /
SK
यस्यापि भावह् क्षणिकः तस्यापि कस्मात् केवलो न करोति? यदि भवेत् कुर्यादेव / कथं न भवति? क्षणिकत्वात् / उक्तं यादृशस्य क्रिया / स कथमेकक्षणभावी अन्यथा भवेत्? यश्च भवति स एव न भवतीति नायं प्रसङ्गः कारकाकारकयोः स्वभावतद्धेत्वोर्विरोधात् /
SK
(२.२०) यो ऽपि मन्यते- अक्षेपक्रियाधर्मैव स तस्य स्वभावः, न स साहित्यमपेक्षते, कार्यं तु प्रत्ययान्तरापेक्षमिति सहितेभ्य एव जायते न केवलेभ्य इति, तस्यापि कथं- स भावः केवलो ऽपि करोत्येव? कार्यं च तस्मात्रोत्पद्यते इति तदवस्थो विरोधः / न केवलः करोत्येवेति चेत् / कथमिदानीमक्षेपक्रियास्वभावः / ननु एतदेव परिदीपितं भवति, करोत्येवेति / कार्यं चायं केवलो ऽपि समर्थः सन् परमपेक्षमाणं कथमुपेक्षेत? परमनादृत्यैतत् प्रसह्य कुर्यात् / एवं हि अनेनात्मनः सामर्थ्यं दर्शितं भवति / कार्यं परमपेक्षत इति ततः केवलाद् अनुत्पत्तिमस्य कथयसि स केवलो ऽपि समर्थस्वभाव इति ततः उत्पत्तिं ब्रूषे, एते च कथमेवत्रं स्याताम्? तदयमीर्ष्याशल्यवितुद्यमानमर्मा विक्लवं विक्रोशतीत्युपेक्षामेवार्हति / तस्मादिदमेकार्थक्रियालक्षणं सहकारित्वं क्षणिकानामेव भावानाम् / न तु अक्षणिकानां येषां पृथगपि भावः सम्भवति पृथक् कार्यकरणसम्भवेन सहकारित्वनियमायोगात् /
(५.७) अपि च / किं यो वस्तुतो ऽसम्भवत्प्रतिहेतुः स सम्यग्ज्ञानस्य विपर्ययस्य वा हेतुरिष्ट आहोस्विदप्रदर्शितप्रतिहेतुः? किं चातः?
SK
यद्यसम्भवत्प्रतिहेतुः अशक्यनिश्चयत्वादलक्षणमेतद् हेत्वभावो वा / न हि अनिश्चितात्मनः प्रतिपादकधर्मस्य तल्लक्षणत्वं यथा सन्दिग्धस्य पक्षधर्मत्वस्य / नापि सन्दिग्धलक्षणो हेतुर्भवेदिति न कश्चिद् हेतुर्भवेत् / तुल्ये लक्षणे दि दृष्टः प्रतियोगिनः संभवो ऽदृष्टप्रतियोगिषु अपि शंकामुत्पादयति विशेषाभावात् / सति वा विशेषे स विशेषो हेतोर्लक्षणम् / यतस्तद्विशेषाद् हेतुरेकान्तेन निरस्तप्रतिपक्षः स्वसाध्यं निश्चाययतीति अतल्लक्षणो न हेतुः स्यात् तथा च व्यर्था एकसंख्याविवक्षा / अतो विरुद्धाव्यभिचारिणो लक्षणं हीयेत स्वलक्षणयुक्तयोर्हेत्वोरेकत्र धर्मिणि विरोधेनोपनिपाते सति विरुद्धाव्यभिचारी इति /
SK
(५.८) न च तस्य विशेषस्य स्वरूपं निर्दिष्टं, यद्रूपं प्रतीत्य प्रतियोगिनः सम्भवासम्भवावुत्पश्यामः / तस्मात्रास्त्येवं विशेष इति सर्वत्र शङ्कया भवितव्यम् /
SK
दृष्टप्रतिहेतोरपि हेतोः प्रागितरेण न कश्चिद्विशेषो लक्ष्यते / न च संभवत्प्रतिहेतूनामपि सर्वदा तस्योपलब्धिः / अतिशयवती तु प्रज्ञा प्रतिहेतूत्प्रेक्षिणी दृष्टा / तेनानिश्चयः प्रतियोगिनः संभवासंभवयोरिति वस्तुतो / सम्भवत्प्रतिहेतुत्वलक्षणस्य अनिश्चितत्वात्र कश्चिद् हेतुः स्यात् /
(५.१०) पुरुषप्रतिभाकृतं हि यदि साधनत्वं स्यात् तदा न किञ्चित् साधनमसाधनं वा / स च हेतुर्यदि स्वभावतस्तद्धर्मभावी तदा कथमन्यथा क्रियेत? वस्तुस्वभावान्यथाभावस्याभावात् / एकस्य च विरुद्धोभयस्वभावस्याभावात् / अतद्धर्मभावी च कथमन्यदापि साधनं कस्यचित् / तस्मात् स्वभावतः स्वस्वसाध्याविनाभाविनोर्यथोक्तलक्षणयोः कार्यस्वभावहेत्वोः तल्लक्षणस्य प्रतिहेतोरसंभवादलक्षणमेकसंख्याविवक्षा, व्यवच्चेद्याभावात् /
SK
(५.११) ज्ञानं पुनर्न लिङ्गस्यात्मरूपमिति कथं लिङ्गलक्षणं भविष्यति / किंरूपाद् हेतोरनुमेयो ऽर्थो ज्ञातव्य इति चिन्तायां प्रतिपत्तुरविसंवादकलिन्गस्वरूपमभिधीयते यस्य दर्शनाद् अयं प्रविभागेन साधनं व्यवस्थाप्य तस्येष्टार्थसंनिधानसंप्रत्ययात् प्रवृत्तिमवलम्बते / तथा यदस्यात्मरूपं तल्लक्षणं न तु पररूपम् / प्रतिपत्तिजन्मनि उपयोगमात्रात् तल्लक्षणत्वे प्रमेयपुरुषादीनामपि तल्लक्षणत्वं भवेत् / न हि तेष्वपि असत्सु लिङ्गिनि ज्ञानं भवति /