स ईक्षतेमे नु लोकाश् च लोकपालाश् च | अन्नम् एभ्यः सृजा इति || Aइत्Uप्_१,३.१ ||
SK
Aइत्Uप्Bह्_१,३.१
SK
एवं हि लोके ईश्वराणामनुग्रहे निग्रहे च स्वातन्त्र्यं दृष्टं स्वेषु / तद्वन्महेश्वरस्यापि सर्वेश्वरत्वात्सर्वान्प्रति निग्रहानुग्रहे ऽपि स्वातन्त्र्यमेव
SK
START १,३.२
SK
सो ऽपो ऽभ्यतपत् | ताभ्यो ऽभितप्ताभ्यो मूर्तिर् अजायत | या वै सा मूर्तिर् अजायतान्नं वै तत् || Aइत्Uप्_१,३.२ ||
स ईक्षत कथं न्व् इदं मद् ऋते स्याद् इति | स ईक्षत कतरेण प्रपद्या इति | स ईक्षत यदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्य् अपानेनाभ्यपानितं यदि शिश्नेन विसृष्टम् अथ को ऽहम् इति || Aइत्Uप्_१,३.११ ||
SK
Aइत्Uप्Bह्_१,३.११
SK
स एवं लोकलोकपालसंघातस्थितिमन्ननिमित्तं कृत्वा पुरपौरतत्पालयित स्थितिसमां स्वामीव ईक्षत - कथं नु केन प्रकारेणेति वितर्कयन्निदं मदृते मामन्तरेण पुरस्वामिनम्, यदिदं कार्यकरणसंघातकाय वक्ष्यमाणं कथं नु खलु मामन्तरेण स्यात्परार्थं सत् / यदि वाचाभिव्याहृतमित्यादि केवलमेव वाग्व्यवहरणादि तन्निरर्थकं न कथञ्चन भवेद्बलिस्तुत्यादिवत्, पौरवन्द्यादिभिः प्रयुज्यमानं स्वाम्यर्थं सत्तत्स्वामिनमन्तरेणासत्येव स्वामिनि तद्वत् /
SK
तस्मान्मया परेण स्वामिनाधिष्ठात्रा कृताकृतफलसाक्षिभूतेन भोक्ता भवितव्यं पुरस्येव राज्ञा / यदि नामैतत्संहतकार्यस्य परार्थत्वं परार्थिनं मां चेतनमन्तरेण भवेत्पुरपौरकार्यमिव तत्स्वामिनम्, अथ को ऽहं किंस्वरूपः कस्य वा स्वामी?
SK
यद्यहं कार्यकरणसंघातमनुप्रविश्य वागाद्यभिव्याहृतादिफलं नोपलभेय राजेव पुरमाविश्याधिकृतपुरुषकृताकृतावेक्षणम् न कश्चिन्मामयं सन्नेवंरूपश्चेत्यधिगच्छेद्विचारयेत् / विपर्यये तु यो ऽयं वागाद्यभिव्याहृतादीदमिति वेद, स सन्वेदनरूपश्चेत्यधिगन्तव्यो ऽहं स्याम्, यदर्थमिदं संहतानां वागादीनामभिव्याहृतादि, यथा स्तम्भकुड्यादीनां प्रासादादिसंहतानां स्वावयवैरसंहतपरार्थत्वं तद्वदिति /
ननु विप्रतिषिद्धं ज्ञायते यः श्रवणादिकर्तृत्वेनामतो मन्ताविज्ञातो विज्ञातेति च / तथा᳚न मतेर्मन्तारं मन्वीथा न विज्ञातेविज्ञातारं विजानीयाः᳚(बृ.उ.३ / ४ / २) इत्यादि च /
SK
सत्यं विप्रतिषिद्धम्, यदि प्रत्यक्षेण ज्ञायेत सुखादिवत् / प्रत्यक्षज्ञानं च निवार्यते᳚न मतेर्मन्तारं मन्वीथाः᳚(बृ.उ.३ / ३ / २) इत्यादिना / ज्ञायते तु श्रवणादिलिङ्गेन, तत्र कुतो विप्रतिषेधः /
SK
ननु श्रवणादिलिङ्गेनापि कथं ज्ञायते? यावता यदा शृणोत्यात्मा श्रोतव्यं शब्दं तदा तस्य श्रवणक्रिययैव वर्तमानत्वान्मननविज्ञानक्रिये न संभवतः आत्मनि परत्र वा / तथान्यत्रापि मननादिक्रियासु / श्रवणादिक्रियाश्च स्वविषयेष्वेव / न हि मन्तव्यादन्यत्र मन्तुर्मननक्रिया संभवति /
SK
ननु मनसा सर्वमेव मन्तव्यम् /
SK
सत्यमेवं तथापि सर्वमपि मन्तव्यं मन्तारमन्तरेण न मन्तुं शक्यम् /
SK
यद्येवं किं स्यात्?
SK
इदमत्र स्यात्, सर्वस्य यो ऽयं मन्ता स मन्तैवेति न स मन्तव्यः स्यात् / न च द्वितीयो मन्तुर्मन्तास्ति / यदा स आत्मनैव मन्तव्यस्तदा येन च मन्तव्यः आत्मा आत्मना यश्च मन्तव्य आत्मा तौ द्वौ प्रसज्येयाताम् / एक एवात्मा द्विधा मन्तृमन्तव्यत्वेन द्विशकलीभवेद्वंशादिवत् उभयथाप्यनुपपत्तिरेव / यथा प्रदीपयोः प्रकाश्यप्रकाशकत्वानुपपत्तिः समत्वात्तद्वत् /
SK
न च मन्तुर्मन्तव्ये मननव्यापारशून्यः कालो ऽस्त्यात्ममननाय / यदापि लिङ्गेनात्मानं मनुते मन्ताः, तदापि पूर्ववदेव लिङ्गेन मन्तव्य आत्मा यश्च तस्य मन्ता तौ द्वौ प्रसज्येयाताम् / एक एव वा द्विधेति पूर्वोक्तदोषः /
SK
न प्रत्यक्षेण नाप्यनुमानेन ज्ञायते चेत् कथमुच्यते᳚स म आत्मेति विद्यात्᳚(कौषी.३ / ९) इति? कथं वा श्रोता मन्तेत्यादि?
SK
ननु श्रोतृत्वादिधर्मवानात्मा अश्रोतृत्वादि च प्रसिद्धमात्मनः / किमत्र विषमं पश्यसि?
SK
यद्यपि तव न विषमं तथापि मम तु विषमं प्रतिभाति / कथम्? यदासौ श्रोता तदा न मन्ता यदा मन्ता तदा न श्रोता / तत्रैवं सति पक्षे श्रोता मन्ता पक्षे न श्रोता नापि मन्ता / तथान्यत्रापि च /
SK
यदैवं तदा श्रोतृत्वादिधर्मवानात्मा अश्रोतृत्वादिधर्मवान्वेति संशयस्थाने कथं तव न वैषम्यम् / यदा देवदत्तो गच्छति तदा न स्थाता गन्तैव / यदा तिष्ठति तदा न गन्ता स्थातैव / तदा अस्य पक्ष एव गन्तृत्वं स्थातृत्वं च / न नित्यं गन्तृत्वं स्थातृत्वं वा / तद्वत् /
SK
तथैवात्र काणादादयः पश्यन्ति / पक्षप्राप्तेनैव श्रोतृत्वादिना आत्मोच्यते श्रोता मन्तेत्यादिवचनात् / संयोगजत्वमयौगपद्यं च ज्ञानस्य ह्याचक्षते / दर्शयन्ति चान्यत्रमना / अभूवं नादर्शमित्यादि युगपज्ज्ञानानुपत्तिर्मनसो लिङ्गमिति च न्याय्यम् / भवत्वेवम् किं तव नष्टं यद्येवं स्यात्? अस्त्वेवं तवेष्टं चेत् / श्रुत्यर्थस्तु न संभवति / किं न श्रोता मन्तेत्यादिश्रुत्यथः न, न श्रोता न मन्तेत्यादिवचनात् / ननु पाक्षिकत्वेन प्रत्युक्तं त्वया / न, नित्यमेव श्रोतृत्वाद्यभ्युपगमात् / ᳚न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यते᳚(बृ.उ.४ / ३ / २७) इत्यादिश्रुतेः / एवं तर्हि नित्यमेव श्रोतृत्वाद्यभ्युपगमे प्रत्यक्षविरुद्धा युगपज्ज्ञानोत्पत्तिरज्ञानाभावावश्चात्मनः कल्पितः स्यात् / तच्चानिष्टमिति /
SK
नोभयदोषोपपत्तिः / आत्मनः श्रुत्यादिश्रोतृत्वादिधर्मवत्त्वश्रुतेः / अनित्यानां मूर्तानां च चक्षुरादीनां दृष्ट्याद्यनित्यमेव संयोगवियोगधर्मिणाम्, यथाग्नेर्ज्वलनं तृणादिसंयोगजत्वात्तद्वत् / न तु नित्यस्यामूर्तस्यासंयोगवियोगधर्मिणः संयोगजदृष्ट्याद्यनित्यधर्मवत्त्वं संभवति / तथा च श्रुतिः᳚न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते᳚(बृ.उ.४ / ३ / २३) इत्याद्या / एवं तर्हि द्वे दृष्टी चक्षुषो ऽनित्यादृष्टिर्नित्या चात्मनः / तथा च द्वे श्रुती श्रोत्रस्यानित्या नित्या चात्मस्वरूपस्य / तथा द्वे मती विज्ञाती बाह्याबाह्ये एवं ह्येव / तथा चेयं श्रुतिरुपपन्ना भवति᳚दृष्टेर्द्रष्टा श्रुतेः श्रोता᳚इत्याद्या /
SK
लोको ऽपि प्रसिद्धं चक्षुषस्तिमिरागमापाययोर्नष्टा दृष्टिर्जाता दृष्टिरिति चक्षुर्दृष्टेरनित्यत्वम् तथा च श्रुतिमत्यादीनामात्मदृष्ट्यादीनां च नित्यत्वं प्रसिद्धमेव लोके / वदति हि उद्धृतचक्षुः स्वप्ने ऽद्यमया भ्राता दृष्ट इति / तथावगतबाधिर्यः स्वप्नेश्रुतो मन्त्रो ऽद्येत्यादि / यदि चक्षुःसंयोगजैवात्मनो नित्या दृष्टिस्तन्नाशो नश्येत् / तदोद्धृतचक्षुः स्वप्ने नीलपीतादि न पश्येत् / ᳚न हि द्रष्टुर्दृष्टेः᳚(बृ.उ.४ / ३ / २३) इत्याद्या च श्रुतिरनुपपन्ना स्यात् / ᳚तच्चक्षुः पुरुषो येन स्वप्ने पश्यति᳚इत्याद्या च श्रुतिः /
SK
नित्या आत्मनो दृष्टिर्बाह्यानित्यदृष्टेर्ग्राहिका / बाह्यदृष्टेश्चोपजनापायाद्यानित्यधर्मवत्त्वात्तद्ग्राहिकाया आत्मदृष्टेस्तद्वदवभासत्वमनित्यत्वादि भ्रान्तिनिमित्तं लोकस्येति युक्तम् / यथा भ्रमणादिधर्मवदलातादिवस्तुविषयदृष्टिरपि भ्रमतीव तद्वत् / तथा च श्रुतिः᳚ध्यायतीव लेलायतीव᳚(बृ.उ.४ / ३ / ७) इति / तस्मादात्मदृष्टेर्नित्यत्वान्न यौगपद्यमयौगपद्यं वास्ति /
SK
बाह्यानित्यदृष्ट्युपाधिवशात्तु लोकस्य तार्किकाणां चागमसंप्रदायवर्जितत्वाद् अनित्या आत्मनो दृष्टिरिति भ्रान्तिरुपपन्नैव / जीवेश्वरपरमात्मभेदकल्पना चैतन्निमित्तैव / तथा च अस्ति नास्तीत्याद्याश्च यावन्तो वाङ्मनसयोर्भेदा यत्रैकं भवन्ति, तद्विषयाया नित्याया दृष्टेर्निर्विशेषायाः अस्ति नास्ति, एकं नाना, गुणवदगुणम्, जानाति न जानाति, क्रियावदक्रियम् फलवदफलम्, सबीजं निर्बीजम्, सुखं दुःखम्, मध्यममध्यम्, शून्यमशून्यम्, परो ऽहमन्य इति वा सरववाक्प्रत्ययागोचरे स्वरूपे यो विकल्पयितुमिच्छति, स नूनं खमति चर्मवद्वेष्टयितुमिच्छति, सोपानमिव च पद्भ्यामारोढुम् जले खे च मीनानां वयसां च पदं दिदृक्षते / ᳚नेति नेति᳚(बृ.उ.३ / ९ / २३) ᳚यतो वाचो निवर्तन्ते᳚(तै.उ.२ / ४ / १) इत्यादिश्रुतिभ्यः / ᳚को अद्धा वेद᳚(ऋ.सं.१ / ३ / ६) इत्यादिमन्त्रवर्णात् / कथं तर्हि तस्य स म आत्मेति वेदनम् / ब्रूहि केन प्रकारेण तमहं स म आत्मेति विद्याम् /
SK
अत्राख्यायिकामाचक्षते - कश्चित्किल मनुष्यो मुग्धः कैश्चिदुक्तः कस्मिंश्चिदपराधे सति धिक्त्वां नासि मनुष्य इति / स मुग्धतया आत्मनो मनुष्यत्वं प्रत्याययितुं कञ्चिदुपेत्याह ब्रवीतु भवान्को ऽहमस्मीति / स तस्य मुग्धतां ज्ञात्वाह / क्रमेण बोधयिष्यामीति / स्थावराद्यात्मभावमपोह्य न त्वममनुष्य इत्युक्त्वोपरराम / स तं मुग्धः प्रत्याह भवान्मां बोधयितुं प्रवृत्तस्तूष्णीं बभूव / किं न बोधयतीति? तादृगेव तद्भवितो वचनम् / नास्यमनुष्य इत्युक्ते ऽपि मनुष्यत्वमात्मनो न प्रतिपद्यते यः स कथं मनुष्यो ऽसीत्युक्तो ऽपि मनुष्यत्वमात्मनः प्रतिपद्येत तस्माद्यथाशास्त्रोपदेश एवात्मावबोधविधिर्नान्यः / न ह्यग्नेर्दाह्यं तृणाद्यन्येन केनचिद्द्ग्धुं शक्यम् / अत एव शास्त्रमात्मस्वरूपं बोधयितुं प्रवृत्तं सदमनुष्यत्वप्रतिषेधेनेव᳚नेति नेति᳚
SK
(बृ.उ.३ / ९ / २३) इत्युक्त्वोपरराम / तथा᳚अनन्त रमबाह्यम्᳚(बृ.उ.२ / ५ / १९, ३ / ८ / ८) ᳚अयमात्मा ब्रह्म सर्वानुभूः᳚(बृ.उ.२ / ५ -१९) इत्यनुशासनम् / ᳚तत्त्वमसि᳚(छा.उ.३ / ८ / १६) ᳚यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्᳚(बृ.उ.२ / ४ / १४, ४ / ५ / १५) इत्येवमाद्यपि च /
SK
यावदयमेवं यथोक्तमिममात्मानं न वेत्ति तावदयं बाह्यानित्यदृष्टिलक्षणमुपाधिमात्मत्वेनोपेत्य अविद्यया उपाधिधर्मानात्मनो मन्यमानो ब्रह्मादिस्तम्बपर्यन्तेषु देवतिर्यङ्नरस्थानेषु पुनः पुनरावर्तमानो ऽविद्याकामकर्मवशात्संसरति / स एवं पुनरेवमेव नदीस्रोतोवज्जन्ममरणप्रबन्धाविच्छेदेन वर्तमानः काभिरवस्थाभिर्वर्तत इत्येतमर्थं दर्शयन्त्याह श्रुतिर्वैराग्यहेतोः -
बह्मविद्यासाधनकृतसर्वात्मभावफलावाप्तिं वामदेवाद्याचार्यपरम्परया श्रुत्यावद्योत्यमानां ब्रह्मवित्परिषद्यत्यन्तप्रसिद्धामुपलभमाना मुमुक्षवो ब्राह्मण अधुनातना ब्रह्मजिज्ञासवो ऽनित्यात्साध्यसाधनलक्षणात्संसारादाजीवभावाद् व्याविवृत्सवो विचारयन्तो ऽन्योन्यं पृच्छन्ति को ऽयमात्मेति? कथम् -
SK
को ऽयम् | आत्मेति वयम् उपास्महे | कतरः स आत्मा | येन वा पश्यति येन वा शृणोति येन वा गन्धाञ् जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति || Aइत्Uप्_३.१ ||
SK
Aइत्Uप्Bह्_३.१
SK
यमात्मानमयमात्मेति साक्षाद्वयमुपास्महे कः स आत्मेति यं चात्मानमयमात्मेति साक्षादुपासीनो वामदेवो ऽमृतः समभवत्तमेव वयनमप्युपास्महे को नु खलु स आत्मेति /