Hymn on Imitating Bhairava

Bhairavānukaraṇastotra · भैरवानुकरणस्तोत्रम्

Hymn on Imitating Bhairava

Bhairavānukaraṇastotra

भैरवानुकरणस्तोत्रम्

SK
ॐ नमश् चिद्भैरवाय |
SK
चितिभूमिसमाश्रयणाश् चितिभूतिं श्रयत मा मुधा भ्रमत | प्रथयन्न् इति भक्तिमतां जयति शिवो ऽनुग्रहप्रवणः ||
SK
चिद्भैरवम् एव परं परमामृतरूपम् एकम् अतिदीप्तम् | उल्लसितकरणचक्रग्रस्तसमस्तं शिवं वन्दे ||
SK
स्तुत्यः स्तोता स्तुतिर् इति यद् अपि विभिन्नं न किंचिद् अस्तीह | मृषति यथा यद् रूपं चिद्रूपतया तथा भवत्य् एतत् ||
SK
विगलितसर्वविभेदं सर्वविभेदात्म चिद्घनानन्दम् | यत् तव तत्त्वं भगवंस् तस्यानुकृतिं त्वदाकृतिं वन्दे ||
SK
रेखापुरुषः पुरुषं वर्णलिपिर् वर्णसंचयं यद्वत् | तद्वत् विचित्ररूपं त्वाम् आकारो व्यनक्ति परमात्मन् ||
SK
तत्राविकल्पम् एव त्वां चिद्रूपं समाविश्य | विमृशामः किम् अपि मनाङ् न हि तत्त्वं कल्पनाविषयः ||
SK
स्वात्मप्रभां विधाय वाग्देवीं विषयकुसुमकॢप्तार्चः | प्रथमोन्मेषं गुरुम् अथ वन्दित्वा हृदयम् आविश्य ||
SK
स्तौमि विमृशन् महेश्वरम् आत्मानं स्वं चिदेकघनम् | स्रावितपाशकदम्बकम् एतस्मिन् देहदेवगृहे ||
SK
चित्यानन्देच्छावित्करणाख्याः शक्तयो जयन्ति विभो | सूक्ष्मस्थूलभिदाप्ता वक्त्रत्वं ब्रह्ममुण्डभिधा ||
SK
सर्वज्ञतादिविषयं हृदयादिकम् अङ्गषट्कं ते | सकलं सदाशिवान्तं प्रेतात्मतया तवासनं स्वामिन् ||
SK
परमप्रकाशवपुषो विमर्शशक्तिः प्रभो परा देवी | अस्या एव प्रसरः सर्वा ब्राह्म्यादिका देव्यः ||
SK
दहनजलामृतलेखाविषादि बिभ्रत् त्वम् आदिशस्य् एतत् | विश्वं विरुद्धम् अपि सच्चिद्रूपे मयि विरुध्यते नैतत् ||
SK
संवित्सूत्रनिलीनो निःसारो मातृनिवहो ऽयम् | करणमुण्डमालभारिन् दर्शयसीतीव नः स्वामिन् ||
SK
पश्यत पश्यत पाशा विषमास् त इमे बहिष्कृताः शश्वत् | इत्य् अन्त्रधारणमिषत् कथयंस् त्वं नः समाभासि ||
SK
मायापटः सरागो व्योम्नि परे ऽस्मिन् स एष निक्षिप्तः | इति गजचर्म सरक्तं मूर्ध्नि वहन् कथयसीश ||
SK
अन्तःशक्तिकृपाणीम् व्यनक्षि संसृतिविभेदिनीम् असिना | निजशक्तिमहिमस्वीकृतसमस्तविश्वा हि वीरवराः ||
SK
भवभयहन्ता सो ऽहम् सानाथ्ये ऽवस्थितो ऽस्मि मा भैष्ट | इत्य् आस्फोटितखेटकदर्शनतो दिशसि नः स्वामिन् ||
SK
निजशक्तिपाशवलितश् चिद्वपुषा कल्यते मया कालः | इति पाशधारणवशात् प्रथयसि नः कालकालस् त्वम् ||
SK
भेदमयम् अखिलम् एतन् निजशक्त्यैवाक्षिपामि संहर्तुम् | इत्य् अङ्कुशधारणतः स्फुटयति परभैरवो ऽस्माकम् ||
SK
कोदण्डारूधशरप्रदर्शनाद् ब्रह्मविष्णुरुद्रेशान् | ससदाख्यशिवाञ् छक्त्या कारणहरिणं भिनत्सि मृगवत् त्वम् ||
SK
वरदेन पाणिना त्वं विश्वविभूतिप्रदत्वम् अभिनयसि | न खलु परतत्त्वनिष्ठो विभवमलैः स्पृश्यते जातु ||
SK
अभयेन च भवभयानि उन्मूलयता प्रकाश्यते सततम् | विश्वानुग्रहकारणस्वभावता तव करतलेन ||
SK
अख्यातिरूपम् असमं मायायाः शकलितं शिरो ऽत्रैतत् | परबोधमयेन मया मुण्डं बिभ्रत् प्रकाशयस्य् एवम् ||
SK
निःशेषहृतसारा मय्य् एव जगत्स्थितिश् चिदेकघने | इति खट्वाङ्गकरङ्कोद्वहनच्छलतो ददास्य् आज्ञाम् ||
SK
वीणाघण्ताडमरून् उड्डामर वादयन्न् इदं दिशसि | वृत्तित्रिभेदभिन्नं नादं शृण्वन् स्थितो ऽस्मीति ||
SK
किं च परादिकशक्तित्रितयारासुन्दराम् महाशक्तिम् | देवानुकरोषि बहिस् त्रिशूलधारणमिषेण नित्यं त्वम् ||
SK
इच्छादिकनिजशक्तिप्रकाशिताधःस्थगोचरत्रितयाम् | स्वाम् एव परां शक्तिं वज्रमयीं वहसि षडरां त्वम् ||
SK
जगद् अखिलं मच्छक्त्या दमितं सर्वव्यावस्थितीर् धत्ते | इति दण्डधारणवशाद् व्यनक्षि चिद्भैरवास्माकम् ||
SK
मुद्गरपरशू बिभ्रद् बैन्दवनादानुकाररूपौ त्वम् | भेदविभेदनशकलनपरत्वम् ईशान निर्दिशसि ||
SK
दर्शनभेदात् स्वामिन्न् अन्यान्याम् आहृतिं दधानस् त्वम् | भैरवपरबोधमयं प्रथयसि निजधाम सर्वत्र ||
SK
शाक्ताण्डखण्डमध्ये विश्वरसाः सर्वम् अहं पिबामि सदा | व्यञ्जयसि नरकपालगरुधिरमिषाद् एतद् इव मे ऽन्तः ||
SK
अभिमानहृदयबन्धानुत्खातौ ताव् इमौ सशिखौ | मूर्ताव् इव मुण्दाब्जौ प्रथयन् धत्से महाकालः ||
SK
अखिलजगद्बीजभुवं प्रथमस्थाम् अनुकरोषि बोधनिधे | करतलगबीजपूरकदर्शनलीलायिताद् देव ||
SK
भैरवरूपो ऽप्य् असि यत् तत्रापि करे ऽक्षमालिकां धत्से | तत् सर्वाक्षविकासाद् विश्वं परिवर्तयस्य् अन्तः ||
SK
अस्थिकरमुण्डमालाभस्माभरणो नृरक्तरुचिः | विश्वं ब्रह्ममयत्वाच् छुद्धम् इतीशः समादिशसि ||
SK
स्वात्माराममयानां विषमा अपि विषयबुद्बुधाः किम् अमी | स्मरदहनम् अलिकनयनम् प्रथयन् परमाग्निरूपम् आदिशसि ||
SK
अन्तर्निबद्धलक्ष्यः प्रविकासिकरणो ऽपि यत् सदा भवसि | तत् प्रथयसि सर्वदशं गतमोहकलङ्कम् आत्मानम् ||
SK
देव दिगम्बरता ते वदति निरावरणम् आत्मनो रूपम् | परमब्रह्ममयार्कान् मायावरणम् कथं वृणुयात् ||
SK
संहर्ता सर्वेषाम् अर्कादीनाम् अहं तमोभूमिः | निर्मलशारदगगनप्रभेण वपुषेति दर्शयसि ||
SK
परमब्रह्ममयस् त्वं देव यदाश्रयसि भैरवाकारम् | तत् प्रथयसि तत्त्वज्ञः सत्य् अपि भेदे विमुक्त इति ||
SK
विविधश्मशानमालावेतालावृतः प्रकाशयसे | संवित्तिविषयकलनामध्यश् चितिभैरवो ऽस्मीति ||
SK
त्वय्य् एवामृतलेखा परशक्तिमयी परप्रमातातः | नाथ त्वम् एव जगताम् जीवनम् इति भासि नो हृदये ||
SK
तव शब्दराशिवपुषः प्रत्यष्टकम् एव बाह्यपरिवारः | परसूक्ष्मादिविभेदाद् भैरव लोकेश्वरप्रमुखाः ||
SK
मुद्रयति निखिलम् एतन् निःशेषस्वस्वरूपसंक्रमणात् | मोदयति भक्तवर्गं गतिमुदं पूर्णताप्रथनात् ||
SK
मोचयति पाशजालं द्रावयति विभेदम् ईश ते मूर्तिः | मुद्रयति विविधसंविद्द्रविणं मुद्रा ततः कथिता ||
SK
जयति परतत्त्वभूमिप्रवरे निपायभूतैष | स्फुटम् अधिवसतु सतत्त्वप्रथया हृदयस्य मेयमलम् ||
SK
प्रतिकलम् उदेति संविद् या किल तत्र स्फुरत्य् अधो विश्वम् | शिवशक्तिविभवरूपं जानन्ति महेश यागस्थाः ||
SK
इत्थं स्फुरसि सदा मे चिद्भैरव सर्वभूतात्म | तद् यागादिजपान्तं सम्पन्नम् अयत्नतः सर्वम् ||
SK
इति श्रीमहामाहेश्वराचार्यश्रीक्षेमराजविरचितं भैरवानुकरणस्तोत्रं समाप्तम् ||

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhairavānukaraṇastotra: GRETIL corpustei HTML transform of Kṣemarāja's Bhairavānukaraṇastotra.

Source