SK[NAV_२९.२३] तथा हि: यः तावन् नैगम-नयः परस्पर-विश्लिष्टौ सामान्य-विशेषौ प्रत्यपीपदत्, तद् अयुक्तम्. तयोस् तथा कदाचन प्रतिभास्âभावात्. यच् च्ôक्तम्: अनुवर्तमान्âइक्âकार-परामर्श-ग्राह्यं सामान्यं यत्र न तत्र विशेष-प्रतिभासो, यत्र च विशिष्ट-देश-दश्âवच्छिन्न-बोध-निर्ग्राह्यो विशेषो न तत्र सामान्य्âवगतिस्, तद्-वचन-मात्रम् एव, धव-खदिर-पलाश्âदि-समस्त-विशेष्âपसारणे वृक्षत्व्âदि-सामान्य-प्रतिभास्âभावात्. दूराद् विशेष्âग्रहणे ऽपि केवलं तच् चकास्त्îति चेन्, न, तत्र्âप्य् अभ्यन्तरी-भूत-विशेष-प्रतिभासात्, तद्-विरहे शश-विषाण-रूपत्वात्. एवं विशेषा अपि न सामान्याद् अत्यन्त-व्यतिरेकिणः प्रतिभान्ति, तन्-निमग्नानाम् एव तेषां ग्रहणाद्, इतरथा सत्तातो ऽतिरिच्यमाना भावा निःस्वभावताम् आत्मसात्-कुर्वन्ति. तथा वृक्षत्व्âदि-सामान्येभ्यो ऽपि भेदिनो वृक्ष्âदयो न स्युस्, तद्-अभेद-निबन्धनत्वात् तत्-स्वरूप-स्थितेः. तस्मात् तद् एव संवेदनम् उपसर्जनी-कृत-वैषम्यं प्रधानी-कृत्âइक्âकारं सामान्यं गृह्णात्îत्य् उच्यते, न्यक्-कृत-समत्वम् उत्कलित-नानात्वं पुनर् विशेष-ग्रह्îति, समत्व-नानात्वयोः कथञ्चिद् भेद्âभेदिनोः परस्परं सर्व्âर्थेषु भावात्, तद्-अभावे तथा-विध-प्रतिभास्âनुपपत्तेः. एतेन यद् अवादि ᳚न च्âइतौ विभिन्नाव् अपि प्रतिभासमानौ सामान्य-विशेषौ कथञ्चिन् मिश्रयितुं युक्ताव्᳚ इत्य्-आदि, तद् अपास्तम् अवगन्तव्यं, विभिन्नयोः प्रतिभास्âभावात्. व्यवहारो ऽपि सर्वः प्रधान्ôपसर्जन-द्वारेण कथञ्चिद् इतर्êतर्âविनिर्लुठित-सामान्य-विशेष-साध्य एव; न हि सामान्यं दोह-वाह्âदि-क्रियायाम् उपयुज्यते, विशेषाणाम् एव तत्र्ôपयोगान्, न्âपि विशेषा एव तत्-कारिणः, गोत्व-शून्यानां तेषां वृक्ष्âद्य्-अविशिष्टतया तत्-करण-सामर्थ्य्âभावात्. किं च्âत्यन्त-व्यतिरेके सामान्य-विशेषयोर् वृक्षं छिन्ध्îति चोदितः किम् इति तद्-विशेषे पलाश्âदौछेदं विधत्ते? तत्र तस्य समवायाद् इति चेन्, न, समवाय-ग्राहक-प्रमाण्âभावाद्, भावे ऽपि विश्लिष्टयोर् अभेद-बुद्ध्य्-उत्पादन्âक्षमत्वात्, तस्य्âपि व्यतिरिक्ततया पद्âर्थ्âन्तर्âविशेषान् नित्यत्व्âइकत्व-सर्व-गतत्व्âदिभिश् च सर्वत्र तत्-करण-प्रसङ्गाच् च. यत् पुनर् अवादीर्, यद् उत: यदि सामान्यं विशेष-निष्ठं, विशेषो वा सामान्य-व्याप्तः समुपलभ्येत, ततो विविक्तयोस् तयोः क्वचिद् अनुपलम्भाद् यो ऽयं विविक्तेषु सामान्येषु विशेषेषु च्âभिधान्âर्थ-क्रिया-लक्षणो व्यवहारः स समस्तः प्रलयं यायाल्, लोली-भावेन तद्-विवेकस्य कर्तुम् अशक्यत्वात्, तद् अप्य् असमीचीनं, यतो यद्य् अपि परस्पर्âविविक्तयोः सामान्य-विशेषयोः सर्वत्र्ôपलम्भस्, तथ्âपि यत्र्âइव प्रमातुर् अर्थित्वं तद् एव सामान्यं, विशेषान् वा प्रधानी-कृत्य तद्-गोचरं ध्वनिम् अर्थ-क्रियां वा प्रवर्तयत्îतरस्य्âप्य् उपसर्जन-भावेन तत्र व्यापारात्, तद्-विकलस्य्êतरस्य्âपि शश-विशाणायमानतया क्वचिद् अनुपयोगात्. किं च्âत्यन्त-व्यतिरेकिणि विशेषेभ्यः सामान्ये वृत्ति-विकल्प्ôपलम्भ-नूतन-विशेष-सम्बन्ध्âदि-द्वारेण दूषण-मुद्गर-कदम्बकं मूर्धनि पतद् दुर्विषहं स्यात्. तथा हि: तत् तेषु कथं वर्तेत -- सामस्त्येन्âइकदेशेन वा? सामस्त्य-पक्षे प्रतिविशेषं परिसमाप्ततया सामान्य-बहुत्व-प्रसङ्गो, ऽनिष्टं च्âइतद्, एकत्व्âभुपगम-क्षतेः. एकदेशेन वर्तने पुनर् यावन्तो विशेषास् तावन्तस् तद्-अंशाः प्रसजन्ति, न च्âइतद् अस्ति, सामान्यस्य निरवयवत्वात्; स्âवयवत्वे ऽपि पुनस् ते ऽभिन्ना भिन्ना वा. यद्य् अभिन्ना विशेषास्, तर्ह्य् अभेदिनः किं न्êष्यन्ते, विशेष्âभावात्. भेद-पक्षे पुनस् तेष्व् अपि तत् कथं वर्तेत -- सामस्त्येन्âइकदेशेन व्êति? तद् एव चोद्यम् अलब्ध-परिनिष्ठम् अवतरति, तन् न्âत्यन्त-भेदिनो वृत्तिः सम्भवति. किं च, यद्य् एकं सामान्यं भेदवत् समस्त-विशेषेषु वर्तेत, तद्âइक-विशेष्ôपलम्भ-काले तद् उपलम्भ्यते न वा? यद्य् आद्यः पक्षस्, तस्य्âइकतया सर्वत्र्ôपलम्भात्, व्याप्य-ग्रहण्âभावे व्यापक-ग्रहण्âसिद्धेर्, निखिल-तद्-व्याप्य-विशेष-ग्रहणम् आसज्येत, न च्âइतद् अस्ति, पुरो-वर्ति-विशेषस्य्âइव साक्षात्-करणाच्, छेष-विशेषाणाम् असन्निधानात्; सन्निहित-विशेष-निष्ठम् एव तद् उपलभ्यते. तस्य्âइव तद्-व्यञ्जकत्वाद्, इतरेषां तद्-अभावाद् इति चेन् न्âइक-स्वभावस्य खण्डशो व्यञ्जन्âयोगात् सन्निहित-विशेष-व्यञ्जितम् एव तत् सर्वत्र स्वभाव्âन्तर्âभावात् सर्व-विशेष-गतं च तद्-रूपम्, अतस् तद्-दर्शनं केन वार्येत. अथ द्वितीयः कल्पस्, तथा सति यथ्âइक-विशेष्ôपलम्भ-समये न्ôपलभ्यते, तथा शेष-विशेष्ôपलम्भ-काले ऽपि न्ôपलभ्येत, विशेष्âभावात्. अतस् तद्-अभाव एव्ôक्तः स्यात्, केवलस्य्ôपलम्भ्âभावात्. उपलम्भे ऽपि स्व-स्वभाव-स्थितेर् विशेष-रूपत्âपत्तिः. तथा चिरन्तन-विशेष-व्यवस्थित-सत्ताकं तन् नूतन-विशेष्ôत्पादे सति कथं तेन सह सम्बन्धम् अनुभवेत्? न तावद् विशेष्âन्तरेभ्यस् तद् उत्पित्सु-विशेष-देशं गन्तुम् अर्हति, निष्क्रियत्वात्. न्âपि तत्र्âइव्âभवद्, विशेष्ôत्पादात् प्राक् तद्-देशे तद्-उपलम्भ्âभावात्. न्âपि विशेषेण्âइव सह्ôत्पद्यते, नित्यत्वान्, नित्यस्य च्ôत्पत्ति-विरोधात्. अथ्âइतद्-दोष-परिजिहीर्षया तत् सक्रियाकम् अभिधीयेत, तथ्âपि पूर्व-व्यक्ति-त्यागेन वा नूतन-विशेष-देशम् आक्रामेत्, तद्-अभावेन वा? न तावद् अद्यः पक्षश्, चिरन्तन-व्यक्तीनां सामान्य-विकलतया तत्-सम्बन्ध-साध्य-बुद्धि-ध्वनि-विरह-प्रसङ्गात्. न च्âइतद् अस्त्य्, अपर्âपर-विशेष्ôत्पादे ऽपि प्राचीन-व्यक्तिषु तद्-दर्शनात्. अथ द्वितीयः कल्पस्, तद् अप्य् असम्बद्धं, निरवयवस्य पूर्व-व्यक्ति-त्याग-वैकल्ये सत्य् उत्पित्सु-व्यक्तिं प्रतिगमन्âभावात्. स्âवयव-पक्षस्य पुनः प्राग् एव्âपास्तत्वान्, न्âइतद्-अभ्युपगम-द्वारेण परिहारः श्रेयान्. अन्यच् च: व्यतिरिक्त-सामान्य-सम्बन्धाद् यदि भावाः समाना, न स्वरूपेण, तदा सत्त्व-सम्बन्धात् प्राग् भावाः सन्तो ऽसन्तो वा. सन्तश् चेद् अपार्थकः सत्ता-सम्बन्धो, ऽन्यथ्âनवस्था प्रसज्येत, पुनः-सत्त्âन्तर-सम्बन्ध्âनिवारणात्. असन्तश् चेद् अत्यन्त्âसताम् अपि गगन्âरविन्द्âदीनां सत्ता-सम्बन्धाद् भाव-रूपत्âपद्येत. एवं द्रव्यत्व-गुणत्व-कर्मत्व-गोत्व्âदि-सामान्येष्व् अपि समस्तम् एतद् वाच्यम्, एक-योग-क्षेमत्वात्, तन् न परस्परम् अत्यन्त-व्यतिरेकिणौ सामान्य-विशेषौ कथञ्चन घटाम् आटीकेते. अत एव तत्-समर्थन-प्रवणस् तत्-तादात्म्य-प्रतिक्षेपको ऽभिप्रायो निरालम्बनत्वान् नैगम-दुर्नय-व्यपदेशम् आस्कन्दति, तादात्म्य्ôपेक्षय्âइव सामान्य-विशेष-व्यतिरेक-समर्थकस्य नैगम-नयत्वाद्, व्यतिरेकिणोर् अपि तयोर् वस्तुनि कथञ्चिद् भावाद्, इतरथा विवक्षय्âपि तथा दर्शयितुम् अशक्यत्वात्, प्रधान्ôपसर्जन-भावस्य द्वय-निष्ठत्वात्, अत्यन्त-तादात्म्ये तत्-कारिण्या विवक्षाया अपि निर्गोचरता-प्रसङ्गात्. तस्मात् कथञ्चिद् भेद्âभेदिनाव् एव्âइतौ, तद्-अन्यतर-समर्थकः पुनर् निरालम्बनत्वाद् दुर्नयतां स्वी-करोत्îति स्थितम्.