The Introduction to Logic with Commentary

Nyāyāvatāra with the Nyāyāvatāravivṛti commentary by Siddharṣigaṇin · Nयायावतार wइथ् थे Nयायावतारविवृति चोम्मेन्तर्य् ब्य् Sइद्धर्षिगणिन्

The Introduction to Logic with Commentary

Nyāyāvatāra with the Nyāyāvatāravivṛti commentary by Siddharṣigaṇin

Nयायावतार wइथ् थे Nयायावतारविवृति चोम्मेन्तर्य् ब्य् Sइद्धर्षिगणिन्

SK
* तर्क-पञ्चानन-श्री-सिद्धसेन-महामति-विरचितः *
SK
न्याय्âवतारः
SK
श्री-देवभद्र-सूरि-कृत-टिप्पन-संवलित-श्री-सिद्धर्षि-गणि-कृत-टीका-सहितः
SK
अवियुत-सामान्य-विशेष-देशिनं वर्धमानम् आनम्य / न्याय्âवतार-विवृतिः स्मृति-बीज-विवृद्धये क्रियते // NAV_०:० //
SK
[NAV_०.०] अस्य च्êदम् आदि-वाक्यम्:
SK
[NAV_०] प्रमाण-व्युत्पादन्âर्थम् इदम् आरभ्यते.
SK
[NAV_०.१] प्रमाण्êत्य्-आदि अनेन च तादात्म्य-तद्-उत्पत्ति-लक्षण-संबन्ध-विकलतया ध्वनेर् बहिर्-अर्थं प्रति प्रामाण्य्âयोगाद् अभिधेय्âदि-सूचन-द्वर्ôत्पन्न्âर्थ-संशय-मुखेनश्रोतारः श्रवणं प्रति प्रोत्साह्यन्त इति धर्मोत्तरो मन्यते. तद् अयुक्तम्. यदि हि शब्दस्य्âर्थ-प्रकाशनं प्रति सामर्थ्यं न समस्ति, तत् कथम् असाव् अभिधेय्âदि-सूचने ऽपि पटिष्ठः स्यात्? न च तस्य्âप्रामाण्य एतच्-छ्रवणाद् अर्थ-संशयं कुर्वन्ति प्रेक्षावन्तः, तद्-वत्ता-हानेर् मिथ्या-ज्ञानाद् अपि प्रवृत्त्य्-अविराम-प्रसङ्गाच् च. अर्चटस् त्व् आह: ᳚न श्रावक्ôत्साहकम् एतत्, प्रामाण्य्âभावात्, तेषां च्âप्रमाणाद् अप्रवृत्तेर्, अन्यथा प्रेक्षावत्ता-क्षतेः, किं तर्हि प्रकरण्âर्थ-कथन्âवसर्ôपस्थित-पर्ôपन्यस्त-हेत्व्-असिद्धत्ôद्भावन्âर्थम्. तथा हि: सम्भवत्य् एवं-वादी -- न्âरब्धव्यम् इदम् अभिधेय्âदि-शून्यत्वात्, काक-दन्त-परीक्ष्âदिवद् इति; तद् अनेन्âस्य तद्वत्ता-प्रकाशकेन वचसा तद्-धेतूनाम् असिद्धत्ôद्भाव्यत᳚ इति. तद् अयुक्ततरम्: यतो यद्îदम् अप्रमाणम् इति न्âभिधेय्âदीनि साक्षाल् लक्षयत् प्रवर्तयति, ततः पर्ôपन्यस्त-हेत्व्-असिद्धतां कथयत्îति युक्ति-रिक्तं पश्यामः, अप्रमाणस्य्âकिञ्चित्-करत्वाद्, अन्यथा प्रमाण-विचारणम् आनर्थक्यम् अश्नुवीत. तस्माद् इदं प्रमाण-भूतं सद्-अभिधेय्âदीनि प्रतिपादयत् प्रेक्षावतः प्रवर्तयत्îति प्रकरण्âदाव् उपन्यस्तम्.
SK
[NAV_०.२] सम्बन्ध-शून्यत्वाद् अस्य कथम् अर्थे प्रमाणत्êति चेत्, प्रत्यक्षे ऽपि कथं तर्हि स्êति वाच्यम्. ग्राह्य-ग्राहक-भाव-सम्बन्ध-बलाद् इति चेद्, अत्र्âपि वाच्य-वाचक-भावाद् इति ब्रूमः. स एव कथम् इति चेद्, अध्यक्षे ऽपि वेद्य-वेदक-भावः कथम् इति वाच्यम्. तद्-उत्पत्ति-तद्-आकारताभ्याम् इति चेत्, क्êयं तद्-उत्पत्तिर् नाम? तज्-जन्यत्êति चेत्, प्रतिक्षण-भङ्गुरत्वे स्âइव दुरुपपाद्êत्य् आचक्ष्महे. तथा हि: क्षण-नश्वरो ऽर्थः स्व-क्षणे पूर्वं पश्चाद् वा कार्यं कुर्याद् इति त्रयी गतिः. तत्र न तावद् आद्यः पक्षः कक्षी-करणीयः, सम-काल-भाविनि व्यापार्âभावात्, इतरथ्âइक-क्षण-वर्तिनां समस्त्âर्थ-क्षणानाम् इतर्êतरं कार्य-कारण-भावः प्रसज्येत, तथा च तत्-प्रयुक्तो ग्राह्य-ग्राहक-भावश् च्êत्य् असमञ्जसम् आपनीपद्येत. अथ स्व-क्षणात् पूर्वम् -- अचार्व् एतद् अपि, स्वयम् असतो भविष्यच्-छङ्ख-चक्रवर्त्य्-आदेर् इव पूर्व-काल-वर्तिनि कार्ये व्यापार्âभावात्. अथ स्व-क्षणाद् ऊर्ध्वं कार्यं विधत्त इति मन्येथाः, एतद् अप्य् असाधीयो, विनष्टस्य कार्य-करण्âक्षमत्वाद्, अन्यथा मृतस्य शिखिनः केकायितं स्यात्. तद्-आकारत्âपि किम् अर्थ्âकार-सङ्क्रान्त्या? अथ तत्-सदृशतय्ôत्पत्तेर् ज्ञानस्य्êति? यद्य् आद्यः कल्पस् तद् अयुक्तं, ज्ञाने स्व्âकार्âर्पणाद् अर्थस्य निराकारत्âनुषङ्गात्, स्व-देह-पृथुतर्âर्थ्âदर्शन-प्रसङ्गात्, शिरः-स्फोटन-प्लावन्âद्य्-अनर्थ-प्रसक्तेश् च. उत द्वितीयस्: तथा सति सादृश्य-वशाद् अर्थ-व्यवस्थ्êत्य् आयातम्. न च सादृश्यं भवतां दर्शने तात्त्विकम् अस्ति, विविक्त-क्षण-क्षयि-परम्âणु-लक्षण-स्वलक्षणानां पारमार्थिकत्व्âभ्युपगमात्. अनादि-काल्âलीन-वासना-प्रबोध-सम्पादित-सत्ताक-निर्विकल्पक-विविक्त-दर्शन्ôत्तर-काल-भावि-विकल्प-व्यवस्थापित-सादृश्य-वशाद् अर्थ-ग्रहण-नियमे सत्य् एक-नील-स्वलक्षणे क्षणे सकल-काल-कलाप-व्यापि-काक-कुवलय्âदि-गत-नीलताया व्यवस्थितिर् अविशेषेण्âनुषजेत, तथा च प्रतिनियतो ग्राह्य-ग्राहक-भावो न घटाम्-अटाट्येत. अङ्गुल्य्-अग्र-निर्दिश्यमान-पुरो-वर्ति-नील-स्वलक्षण-दर्शन-बल्âयातत्वान् नैल्य-विकल्पस्य तद् एव्âध्यवस्यति, न भूतं भावि काक-कुवलय्âदि-गतं व्êति चेत्, तर्हि विकल्पः स्वलक्षण-निष्ठः प्राप्तो, नियत-देश-दश्âवच्छिन्न्âर्थ-क्रिया-समर्थ्âर्थ-ग्रहणात्. तथा हि: तद्-अध्यवसायः किं तद्-विकल्पनं उत तद्-ग्रहणं? न तावत् तद्-विकल्पनम्, विकल्पानां भवद्-अभिप्रायेण स्वलक्षण्âन्तः-प्रवेश्âभावात्. तद् उक्तम्: ᳚तेन्âन्य्âपोह-विषयाः प्रोक्ताः सामान्य-गोचराः / शब्दाश् च बुद्धयश् च्âइव वस्तुन्य् एषाम् असम्भवात्᳚ // NAV_०:१ //
SK
इति.NAV_०.
SK
[NAV_०.३] अथ ब्रूयाद्: यद्य् अपि विकल्पाः सामान्यं गोचरयन्ति तत्त्वतस्, तथ्âपि प्रत्यक्ष-विकल्पयोर् यौगपद्येन प्रवृत्तेर् विमूढः प्रतिपत्ता विकल्पस्य स्वलक्षण-निष्ठतां व्यवस्यति, तथा च्ôक्तम्: ᳚मनसोर् युगपद्-वृत्तेः सविकल्प्âविकल्पयोः / विमूढो लघु-वृत्तेर् वा तयोर् ऐक्यं व्यवस्यति᳚ // NAV_०:२ //
SK
तत् किम् इदं शपथैः प्रत्येयं, यद् उत मोहाद् विकल्पेन स्वलक्षणम् अध्यवस्यति, न पुनर् विशद-निर्भासेन साक्षात्-करोति? एवं च्âध्यक्षम् अपि सकल्âर्थ-व्यक्तीर् गोचरयति, विकल्प-मोहात् तु सन्निहित-विषयं लक्ष्यत इति परो ऽनुषञ्जयन् दुर्निवारः स्यात्. उत तद्-ग्रहणम् अध्यवसायः, तदा स्वलक्षण-निष्ठता विकल्पस्य स्व-वाचा भवद्भिः प्रतिपन्ना स्यात्. एवं च विकल्प-युगलके ऽप्य् अर्थ-क्रिया-समर्थ्âर्थ-पर्यवसित-सत्ताकता विकल्पस्य्âढौकते. यदा च विकल्पः स्वलक्षण-सौध-मध्यम् अध्यास्त इत्य् अभिदध्यास्, तथा सति ध्वनेर् अपि तद्-अन्तः-प्रवेशो दुर्निवारः स्यात्, तत्-सह-चरत्वात्. यद् आह भवद्-आचार्यः: ᳚स एव शब्दानां विषयो यो विकल्पानाम्᳚ इति. न च विकल्पं व्यतिरिच्य सादृश्य-व्यवस्थापकम् अन्यद् अस्ति, प्रत्यक्षस्य सकल-जगद्-विलक्षण-स्वलक्षण-ग्रहण-प्रवणत्वात्. तद् यदि तत्-सदृशतय्ôत्पत्तिस् तद्-आकारता, तदा प्रतिपादित-न्यायाद् विकल्पस्य सन्निहित्âर्थ-गोचरत्ôररी-कर्तव्या, तथा च ध्वनिर् अपि तद्-विषयः सिध्यत्îति सिद्धं नः समीहितम्. अन्यथा तद्-आकारता न समस्ति, गत्य्-अन्तर्âभावात्. तन् न तद्-उत्पत्ति-तद्-आकारते ग्राह्य-ग्राहक-भाव-हेतू संस्तः.
SK
[NAV_०.४] संस्तां वा, तथ्âपि विकल्पतः पर्यनुयोज्यो भवान्: किम् एते ग्रहण-कारणं पार्थक्येन उत सामस्त्येन? तद् यद्य् आद्यः पक्षः, कपाल-क्षणो घट्âन्त्य-क्षणस्य ग्राहकः प्राप्नोति, तज्-जन्यत्वात्, जल-चन्द्रो वा नभश्-चन्द्रस्य ग्राहकः स्यात्, तद्-आकारत्वात्. अथ द्वितीयस्, तथा सति घट्ôत्तर-क्षणः पूर्व-क्षणस्य ग्राहकः प्रसजति, तद्-उत्पत्तेस् तद्-आकारत्वाच् च. जडत्वाद् अर्थस्य न ग्राहकत्वम्, अपि तु ज्ञानस्य तद्-उत्पत्ति-तद्-आकारतयोः सत्योर् इति चेद्, इदम् इदानीं विदितम् अस्माभिर्, एतद् अपि समान्âर्थ-ग्राहि-प्राचीन-संवेदन-क्षण-लक्षण-मनस्कार्ôत्पाद्य-ज्ञाने ग्राहक-लक्षणं व्यभिचरत्य्, उत्पादक-प्राक्तन-क्षण-वर्ति-मनस्कार्âग्राहकत्वात्. तद्-अध्यवसाय-साहित्येन तद्-उत्पत्ति-तद्-आकारतयोर् ग्रहण-कारणत्वं सम्पूर्णं, मनस्कारे तन् न्âस्त्îति चेत्, किम् इदं भिन्न-गोचरेण सह साहित्यम्? तथा ह्य्: ᳚अध्यवसायो वासना-प्रबोध-वशाद् उत्पन्नः सामान्यम् अनर्थ-रूपं विकल्पयति, प्रत्यक्षं बहिर्-अर्थाल् लब्ध्âत्म-लाभं तद्-आकारं तम् एव साक्षात्-करोत्îति᳚ भवतां दर्शनम्. तन् न विकल्प-साहित्यं प्रत्यक्षस्य कञ्चन विशेषं पुष्णाति. तद् इदम् ग्राह्य-ग्राहक-भाव-कारणं प्रत्यक्षे ऽपि यद् भवद्भिर् अभ्यधायि, तद् यथा यथा विचार्यते तथा तथा विशीर्यत इत्य् अनपेक्षणीयम्. तद् -- यथा कथञ्चित् प्रत्यक्षस्य प्रतिपादित-ग्राह्य-ग्राहक-भाव-लक्षण-वैकल्ये ऽपि ग्राहकत्वम् अर्थस्य ग्राह्यत्वं, तथा दृष्टत्वात्, अन्यथा निखिल-व्यवहार्ôच्छेद-प्रसङ्गाद् भवद्भिर् अपि प्रत्यपादि, तथा शब्दस्य वाचकत्वम् अर्थस्य वाच्यत्वं प्रतिपद्यध्वं यूयम्; अत्र्âपि दृष्ट-हानेर् व्यवहार्ôच्छेदस्य समानत्वात्. अथ्êत्थम् आचक्षीथाः: यथा ᳚नद्यास् तीरे गुड-शकटं पर्यस्तं, धावत धावतडिम्भका᳚ इत्य्-आदि-विप्रतारक-पुरुष-वचन-श्रवणात् प्रवर्तमाना विप्रलम्भ-भाजो जायन्ते, ऽतः सकल-वचनेष्व् अनाश्वास इति -- एवं तर्हि चिकिचिकायमान-मरु-मरीचिका-चक्र-चुम्बि यज् जल्ôल्लेखि विशद-दर्शनम् उदय-पदवीं समासादयति तद् अलीकम् अवलोकितम् इति; सकल्âध्यक्षेष्व् अनाश्वास इत्य् अभिदध्महे. पाश्चात्य-विपरीत्âर्थ्ôपस्थापक-प्रमाण-बाधितत्वाद् मरु-मरीचिकासु जल-ज्ञानम् अप्रमाणं, न शेष-सत्य-स्तम्भ्âदि-ज्ञानानि, बाधा-रहितत्वाद् इति चेत्, तर्हि ध्वनाव् अप्य् अयं न्यायः किं काकैर् भक्षितः? न हि वयं सर्व-शब्दानां प्रामाण्यं प्रतिपद्येमहि; किं तर्हि सुनिश्चित्âप्त-प्रणेतृकाणाम् एव. तन् न प्रामाण्यं प्रति प्रत्यक्ष-शब्दयोर् विशेषम् उपलभामहे. एष तु विशेषः स्यात्, प्रत्यक्षं चक्षुर्-आदि-सामग्री-विशेष-जन्यत्वात् सन्निहित-नियत्âर्थ-ग्राहि स्पष्ट-प्रतिभासं, शाब्दं तु तथा-विध-कारण-विकलत्वान् नियत्âनियत्âर्थ-ग्राह्य् अस्पष्ट-प्रतिभासम्. न च्âइष विशेषः प्रामाण्य-क्षति-कारी, इतरथ्âनुमानस्य्âप्य् अप्रामाण्यम् आसज्येत, तस्य्âप्य् अविशद्âनियत्âर्थ-ग्राहित्वात्. परम्âर्थतस् तु त्रि-काल-व्यापिनः सर्व्âर्थ-ग्रहण-स्वभावत्वे ऽप्य् आवरण-तिरस्-कृतस्य जीव-द्रव्यस्य चक्षुर्-आदि-सामग्री-सापेक्ष्âवरण-क्षय्ôपशम-वशात् सन्निहित-स्पष्ट्âर्थ-ग्रहण-परिणामः प्रत्यक्षम् इत्य् उच्यते. शब्द-सापेक्ष-क्षय्ôपशमान् नियत्âनियत्âविशद्âर्थ-ग्रहण-परिणामस् तु शाब्दम् इति. तन् न तद्-उत्पत्ति-तद्-आकारते प्रत्यक्षे शाब्दे ऽन्यस्मिन् वा ज्ञाने वास्तव्यौ स्तः. तस्मात् पारमार्थिक्âभिधेय-प्रयोजन-सम्बन्ध-प्रतिपादकम् एतद् आदि-वाक्यम् इति स्थितम्.
SK
[NAV_०.५] तत्र्âभिधेयं वाच्यं, तच् च्êह प्रमाणम्, तस्य्âइव प्रकरणेन प्रतिपाद्यत्वात्; तत् प्रमाण्êत्य् अवयवेन लक्षयति. प्रयोजनं द्वेधा: श्रोतुः कर्तुश् च. पुनर् अपि द्विविधम्: अनन्तरं व्यवहितं च. तत्र श्रोतुर् अनन्तर-प्रयोजनं प्रमाण-विषया व्युत्पत्तिः, कर्तुर् व्युत्पद्यमानस्य प्राज्ञत्वाच् छिष्यस्य व्युत्पादनम्. तत्र्âत्म-प्रयोजनं दर्शयन्न् आ[ह्â]रभ्यत इति अस्य मय्êति-पद-सव्यपेक्षत्वात्. शिष्य-प्रयोजनं तु व्युत्-पद्-इत्य् अनेन्ôपसर्ग-धातु-समुदायेन्âइव तद्-अन्तर्-अगतं लप्स्यत इत्य् अभिप्रायवान् कर्त्âत्म-व्यापारं णिज्-अन्तेन निर्दिशति: प्रमाण-व्युत्पादन्âर्थम् इति. व्यवहित-प्रयोजनं द्वेधा: व्यावहारिकं पारमार्थिकं च. व्यावहारिकं हेय्ôपादेय्ôपेक्षणीयेष्व् अर्थेषु हान्ôपादान्ôपेक्षा-लक्षणम्. पारमार्थिकं अभ्युदय-निःश्रेयस्âवाप्तिर् इति. एतत् तु साक्षाद् अनुक्तम् अप्य् अनन्तर-प्रयोजन-फलत्वात् तद्-वचनेन्âइव्âक्षिप्तम् अवगन्तव्यम्. सम्बन्धस् त्ûपाय्ôपेय-लक्षणः; तत्र्ôपेयं प्रकरण्âर्थ-परिज्ञानम्, प्रकरणम् उपायस्, ततस् तद्-अभिलषता प्रकरणम् इदम् आरम्भणीयम् इत्य् अनुक्तो ऽपि वचनेन सम्बन्धो ऽर्थाद् गम्यत इति तात्पर्य्âर्थः.
SK
[NAV_०.६] अधुन्âक्षर्âर्थो विव्रियते: तत्र यद्य् अपि प्रमाण-शब्दस्य सर्व-कारकैर् भावेन च व्युत्पत्तेः सुकरत्वात् ᳚कृत्य-ल्युटो बहुलम्᳚ अन्यत्र्âप्îति-वचनाद् यथा-क्रमम् अमी कर्त्र्-अर्थ्âदि-कारक-भाव-व्युत्पत्त्या प्रमाण-शब्द-वाच्याः, तद् यथा आत्म्âर्थ-ज्ञान्âर्थ-क्रिया-कारण-कलाप-क्षय्ôपशम-क्रिया-रूपाः तथ्âप्îह ज्ञानम् एव्âधिक्रियते, तस्य्âइव परीक्षा-क्षमत्वाद्; इतरेषां परीक्षायास् तत्-पुरःसरत्वाद् वैयर्थाच् च. तथा हि: न्âर्थस् तावद् आत्मनः परीक्षया, तस्य भ्रान्त्âभ्रान्त-ज्ञानेषु समानत्वात्. न्âप्य् अर्थस्य, तस्य्ôपेयत्वाद्, उपाय-भूत-ज्ञान-परीक्षणेन्âइव गतत्वात्. न्âर्थ-क्रियायास्, तद्-अवगतौ परीक्षा-वैयर्थ्यात्. न्âपि कारण-कलापस्य, ज्ञान्ôत्पत्तेः प्राक् स्वरूप्âनवगतेः, पश्चात् तत्-स्वरूप-निर्णयाद् एव तत्-साद्गुण्य-वैगुण्य्âवगतेर् नैरर्थक्यात्. न्âपि क्षय्ôपशमस्य, तस्य ज्ञान्ôत्पाद्ôन्नीयमान-रूपत्वात्. न्âपि प्रमिति-मात्रस्य, तस्य प्रमाण-साध्यतया तच्-चारुता-द्वारेण्âइव समीचीनता-सिद्धेर् इति. तद् अयम् अभिप्रायो: यद्य् अप्य् अनन्त-धर्म्âध्यासिते वस्तुनि सर्व एव शब्द्âर्था निरुपचरिता घटन्ते, तथ्âपि येन्âर्थं परिच्छिद्य्âर्थ-क्रिया-समर्थ्âर्थ-प्रार्थनया प्रवर्तन्ते प्रमातारस् तद् एव्êह ज्ञानम् आत्मना सह धर्मि-रूपतया तादात्म्ये ऽपि धर्म-रूपतया व्यतिरिक्तं प्रमीयते ऽनेन्êति प्रमाणम् इत्य् उच्यते. तस्य व्युत्पादनं पर-परिकल्पित-लक्षण्âदि-व्युदासेन स्व्âभिप्रेत-लक्षण्âदि-स्वरूप-प्रकाशनम्. तद्-अर्थम्: अर्थ-शब्दः प्रयोजन-पर्यायः. इदम् इत्य् अर्थ-रूपतया स्व-चेतसि विवर्तमानं प्रकरण-शरीरं परामृशति; द्विविधं हि प्रकरण-शरीरं: शब्दो ऽर्थश् च्êति, बहिः शब्द-रूपतया प्रकाशयिष्यमाणत्वे ऽप्य् अन्तस् तत्त्व्âर्थ्âकारेण प्रत्यक्षत्वात्. आरभ्यत इति पद-वाक्य-श्लोक्âदि-रचनया प्रक्रियत इति यावत्.
SK
[NAV_०.७] इह च लक्षण-संख्या-गोचर-फलेषु प्रमाणं प्रति विप्रतिपद्यन्ते परे. तथा हि: लक्षणे तावत् प्रमाणम् अविसंवादि ज्ञानम् इति सौगताः. अनधिगत्âर्थ्âधिगन्तृ प्रमाणम् इति मीमांसकाः. अर्थ्ôपलब्धि-हेतुः प्रमाणम् इति नैयायिक्âदयः. तथा संख्यायां: प्रत्यक्ष्âनुमाने द्वे एव प्रमाणे इति सौगताः. प्रत्यक्ष्âनुमान-शब्द्ôपमान्âर्थ्âपत्त्य्-अभावाः प्रमाणान्îति मीमांसकाः. प्रत्यक्ष्âनुमान-शब्द्ôपमानानि प्रमाणान्îति नैयायिकाः. प्रत्यक्ष्âनुमान-शब्दानि प्रमाणान्îति वैशेषिकाः. एतान्य् एव सांख्याः. प्रत्यक्षम् एव्âइकं प्रमाणम् इति चार्वाकाः. तथा गोचरे: परस्पर-विनिर्लुठित-क्षण-क्षयि-परम्âनु-लक्षणानि स्वलक्षणानि प्रमाण-गोचरस् तात्त्विक इति बौद्धाः. सामान्य-विशेष्âत्मकं वस्त्व् इति मीमांसकाः. परस्पर-विभक्तौ सामान्य-विशेषाव् इति नैयायिक-वैशेषिकाः. त्रैगुण्य-रूपं सामान्यम् इति सांख्याः. भूत-चटुष्टयं प्रमाण-भूम्îति चार्वाकाः. तथा फले ऽपि विप्रतिपद्यन्ते: अर्थ्âधिगतिः प्रमाण-फलम् इति सौगताः. पूर्वं पूर्वं प्रमाणम् उत्तरम् उत्तरं तु फलम् इति मीमांसक्âदयः.
SK
[NAV_१.०] तत्र तावल् लक्षण-संख्या-विप्रतिपत्ती निराचिकीर्षुर् आह:
SK
प्रमाणं स्व-पर्âभासि ज्ञानं, बाध-विवर्जितम् / प्रत्यक्षं च परोक्षं च द्विधा, मेय-विनिश्चयात् // NA_१ //
SK
[NAV_१.१] तत्र्âपि पूर्व्âर्धेन लक्षण-विप्रतिपत्तिम् उत्तर्âर्धेन तु संख्या-विप्रतिपत्तिं निराचष्टे. लक्षणं च पर-रूपेभ्यो व्यावर्तन-क्षमो ऽसाधारण-धर्मः. लक्ष्यते परिच्छिद्यते विजातीयेभ्यो व्यावृत्तं लक्ष्यं येन तल् लक्षणम् इत्य् उच्यते. तच् च्êह द्वये प्रत्याय्याः, स्व-दर्शन्âनुरक्त्âन्तः-करणास् तीर्थ्âन्तरीया विप्रतिपन्नास्, तथा मुग्ध-बुद्धयो लौकिका अव्युत्पन्नाश् च्êति. ततश् च यद्âदौ विप्रतिपन्नान् प्रति लक्षणं तद्âइवं लक्ष्य-लक्षण-भावो द्रष्टव्यो: यद् इदं भवताम् अस्माकं च प्रमाणम् इति प्रसिद्धम्, तत् स्व-पर्âभासि ज्ञानं बाध-विवर्जितं मन्तव्यम्; प्रसिद्धं प्रमाणम् अनूद्य्âप्रसिद्धं स्व-पर्âभासित्व्âदि विधीयते. यदा त्व् अव्युत्पन्न-मतीन् प्रत्îदं लक्षणम्, तदा प्रतिप्राणि स्व-पर-प्रकाशिनो ज्ञानस्य बाध-रहितस्य कस्यचित् सिद्धत्वाद्, अन्यथा प्रतिनियत-व्यवहार्ôच्छेद-प्रसङ्गाद्, एवं ते बोध्यन्ते: यद् अदो भवतां क्वचिन् नियत्âर्थ-ग्राहि स्व-पर-प्रकाशकं बाध-रहितं ज्ञानं प्रसिद्धं तत् प्रमाणम् इति बुध्यन्ताम्. अत्र्âपि सिद्धस्य्âनुवादो ऽसिद्धस्य विधानं योज्यम्.
SK
[NAV_१.२] अधुन्âक्षर्âर्थस्: तत्र प्रमाणम् इति पूर्ववत्. स्व आत्मा स्वरूपं, परो ऽर्थस्, ताव् आभासयितुं प्रकाशयितुं शीलम् यस्य तत्-तथा. ज्ञायते निर्णीयते तत्त्वं येन तज् ज्ञानम्. बाध्यते ऽनेन्êति बाधः; विपरीत्âर्थ्ôपस्थापक-प्रमाण-प्रवृत्तिर् इति यावत्. तेन विशेषेण वर्जितं रहितं यज् ज्ञानं तत् प्रमाणम् इति सण्टङ्कः.
SK
[NAV_१.३] इह च व्यवच्छेद्य्âपेक्षया लक्षणे विशेषण-प्रवृत्तेः स्व-पर्âभास्îत्य् अनेन ये स्व्âभास्य् एव ज्ञानं मन्यन्ते ज्ञान-वादिनो बौद्ध-विशेषाः, ये च पर्âभास्य् एव मीमांसक-नैयायिक्âदयस् ते निरस्ताः. ते हि बहिर्-अर्थ्âभावाज् ज्ञानं स्व्âंश-पर्यवसित-सत्ताकम् इत्य् आचक्षीरन्, तद् अयुक्तम्, ज्ञेय्âर्थ्âभावे ज्ञान्âभाव-प्रसङ्गात्. अथ्âर्थ्âभावे ऽपि स्वप्न-दशायां वन-देव-कुल्âदि-नाना-प्रतिभासं ज्ञानम् अवलोकितम् इति तथा-भूतं सकलं ब्रूषे, तन् न, तस्य्âपि जाग्रद्-अवस्था-भावि-सद्भूत्âर्थ-दर्शन-सम्पादित्âत्म-संस्कार-मिद्ध्âदि-कारण-कलाप-सन्निधान-प्रबोध-सव्यपेक्षत्वाद्; इतरथ्âत्यन्त्âननुभूत-भूत-पञ्चक्âतिरिक्त-षष्ठ-भूत-प्रतिभासः स्यात्. किं च, कथम् एकं ज्ञानं सित-पीत्âद्य्-अनेक्âकार-विवर्तम् इति प्रष्टव्यो भवान्. अनाद्य्-अविद्या-वासनाद् इति चेद्, अत्र्âपि विकल्प-युगलम् अमलम् अवतरति: ततो ज्ञानात् सा वासना व्यभैत्सीद् वा न वा? व्यत्यरैक्षीच् चेद्, एवं सति तद्-ग्राहक-प्रमाणम् अभिधानीयम्, ज्ञान-व्यतिरिक्तायाः संवेदन्âभावात्, तत्-संवेदने च्âर्थस्य्âपि व्यतिरिक्तस्य संवेदनम् इति स दुष्प्रतिषेधः स्यात्. वेद्य-वेदक्âकार-कलुषिताज् ज्ञानाद् एव व्यतिरिक्ता तत्-कारण-भूता ज्ञान-रूप्âइव स्âनुमीयत इति चेन्, न, तया सह सम्बन्ध-ग्रहण्âभावाद्, दृष्ट-हान्य्-अदृष्ट-परिकल्पना-प्रसङ्गाच् च. किं च, यथा व्यतिरिक्त-वासना-वशाद् एकम् अपि ज्ञानं नान्âकारम्, तथा जडम् अपि तद्-वशाद् एव बोध-रूपं प्रकाशत इति विपरीत्âपत्तेर् अर्थ एव सिद्धिम् आस्कन्देन्, न ज्ञानम्. अथ्âव्यतिरिक्ता, हन्त ज्ञानम् एव तन्, न वासना तद्-अव्यतिरिक्तत्वात् तत्-स्वरूपवद् इत्य् आस्तां तावत्. पर्âभास्य् अपि स्व-प्रकाश्âभावाद् अभिदधीरंस्, तद् अप्य् असम्बद्धम्, स्व-प्रकाश्âभावे पर-प्रकाश्âयोगात्. न हि प्रदीपः स्वरूपम् अनुद्द्योतयन् घट्âद्य्-उद्द्योतने व्याप्रियते. स्वयं च्âप्रतीतम् अपि यद्य् अर्थं ग्राहयति ज्ञानं, देवदत्तस्य्ôत्पन्नं यज्ञदत्तं ग्राहयेद्, विशेष्âभावात्. अन्यच् च, पर-प्रकाशन-मात्रे दूर्âसन्न्âदि-भेदः प्रथमानानाम् अर्थानां किम्-अपेक्षश् चकास्ति? शरीर्âपेक्ष इति चेन्, न, तस्य्âपि प्रकाश्यत्âविशेषात्, तस्माद् अन्तर्-मुख्âकारस्य बहिर्-अर्थ-ग्रहणे सत्य् अयं घटाम् आटीकते न्âन्यथा. अथ्âर्थ्âपत्त्य्-आदिना प्रमाण्âन्तरेण तद् अन्तर्-निविष्टं गृह्यते, ततस् तद्-अपेक्षया योक्ष्यते दूर्âसन्न्âदि-भेद इति चेन्, न, तत्र्âपि विकल्प-युगलक्âनतिवृत्तेः; तथा हि: तत् प्रमाण्âन्तरं स्व-प्रकाशम् अन्य-प्रकाशं वा? स्व-प्रकाशं चेत्, प्रथमस्य किं क्षूणम्?! अन्य-प्रकाशं चेत्, तत्र्âप्îयम् एव वार्त्êत्य् अनवस्था. तस्मात् स्वरूपम् अवभासयद् एव ज्ञानम् अर्थ-ग्रहणाय व्याप्रियत इति स्थितम्.
SK
[NAV_१.४] ज्ञानम् इत्य् अनेन तु यन् नैयायिक्âदिभिः पर्यकल्पि सन्निकर्षः प्रमाणम् इति तस्य प्रामाण्यं निरस्यति. यतः स्नान-पान्âवगाहन्âद्य्-अर्थ-क्रिया-निर्वर्तन-क्षमम् अर्थं निश्चित्य्âव्यवधानेन प्रवर्तन्ते प्रमातारस् तद् एव ज्ञानं प्रमाणम्, न सन्निकर्षो जडतय्âस्ति, अव्यवहित-निर्णय्âभावाद् इत्य् आकूतम्. अर्थ्ôपलब्धि-हेतुत्वात् तस्य प्रामाण्यम् इति चेद्, विशीर्ण्êदानीं प्रमाण्êयत्ता, देह्âदेर् अपि तत्-कारणतया प्रामाण्य्âपत्तेर् इत्य् आस्तां तावत्.
SK
[NAV_१.५] बाध-विवर्जितम् इत्य् अमुना तु यत् तिमिर्âदि-तिरस्-कृत-नयन-दीधिति-प्रसर्âदीनां नभस्-तल्âवलम्बि-निशीथिनी-नाथ-द्वय्âदि-प्रतिभासं, यच् च कुतर्क-भ्रान्त-चेतसां निज-निज-दर्शन्âकर्णन-प्रभवं क्षण-क्षयि-सामान्य-विशेष्âइक्âन्त्êश्वर्âदिकृत-भुवन-प्रतिभासं ज्ञानं तत्-प्रत्यनीक्âर्थ-प्रत्यायक-प्रमाण्âन्तर्ôपनिपात-प्लावितत्वात् प्रतिक्षिपति. विशेष्âर्थ-वि-शब्द्ôपादानात् तु यः खलु बहुल-कामल्âवलेप-लुप्त-लोचन-बलानां धवले जलजे पीतिमानम् आदधानो बोधः समुल्लसति, स यद्य् अपि सकल-कालं तद्-दोष्âव्युपरमे प्रमातुर् निज-दर्शनेन न बाध्यते, तथ्âपि तज्-जलज-धवलता-ग्राहिना जन्âन्तर-दर्शनेन बाधितत्वान् न प्रमाणम् इत्य् उक्तं भवति.
SK
[NAV_१.६] समस्त-लक्षणेन तु यत् परे प्रत्यपीपदन्न् ᳚अनधिगत्âर्थ्âधिगन्तृ प्रमाणम्᳚, ᳚अविसंवादकं प्रमाणम्᳚, ᳚अर्थ्ôपलब्धि-हेतुः प्रमाणम्᳚ इत्य्-आदि तन् निरास्थत्. तथा ह्य्: अनधिगत्âर्थ्âधिगन्तृत्वं किम् अभिधीयते? ज्ञान्âन्तरेण्âनधिगतम् अर्थं यद् अधिगच्छति तत् प्रमाणम् इति चेत्, तर्हि तज् ज्ञान्âन्तरं परकीयं स्वकीयं वा? तद् यदि परकीयं, तद् अयुक्तं, सर्व-ज्ञ-ज्ञानस्य सकल्âर्थ-गोचरतया सर्व-प्राकृत-लोक-ज्ञानानाम् अधिगत्âर्थ्âधिगन्तृत्वेन्âप्रामाण्य-प्रसङ्गात्, तद्-अर्थ-ग्राहि-जन्âन्तर-दर्शन-सम्भवाच् च. अथ स्वकीयं, तत्र्âपि सो ऽधिगम्यो ऽर्थः किं द्रव्यम् उत पर्यायो यद् वा, द्रव्य-विशिष्टः पर्यायः पर्याय-विशिष्टं वा द्रव्यम् इति, तथा किं सामान्यम् उत विशेष, आहोस्वित् सामान्य-विशिष्टो विशेषः, विशेष-विशिष्टं वा सामान्यम् इत्य् अष्टौ पक्षाः. तत्र यद्य् आद्यम् उररी-कुरुषे, तद् अयुक्तं, द्रव्यस्य नित्यत्व्âइकत्वाभ्याम् अनधिगत्âंश्âभावात्. अथ द्वितीयं, तद् अप्य् अचारु, पर्यायस्य प्राचीन-संवेदन्ôदय-समय-ध्वस्तस्य संवेदन्âन्तर-प्रभव-कालं यावत् प्रतीक्षण्âसम्भवेन विशेषण्âनर्थक्यात्. उत तृतीयं, तद् अप्य् असाधीयो, विकल्प-द्वय्âनतिक्रमात्. स हि द्रव्य-विशिष्टः पर्यायः सम-काल-भाविना ज्ञानेन्âनधिगतो ऽधिगम्यते, यद् वा काल्âन्तर-भाविन्êति. न तावत् सम-काल-भाविना, तत्-सम्भव्âभावेन विशेषण-वैफल्यात्. न हि सम्भवो ऽस्त्य् एकस्य प्रमातुर् एक-कालं द्रव्य-क्रोडी-कृत्âइक-पर्याय-विषय-संवेदन-द्वय-वृत्तेः, तथ्âनुभव्âभवात्, परस्परम् अधिगत्âर्थ्âधिगन्तृत्वेन्âप्रामाण्य-प्रसङ्गाच् च. न्âपि काल्âन्तर-भाविना, गृह्यमाण-पर्यायस्य काल्âन्तर्âनास्कन्दनात्, पूर्व्ôत्तर-क्षण-त्रुटित-वर्तमान-क्षण-मात्र-सम्बद्धत्वात् तस्य. एतेन पर्याय-विशिष्ट-द्रव्य-पक्षो ऽपि प्रतिव्यूढः, समान-योग-क्षेमत्वात्. अथ सामान्यं, तद् अप्य् असम्बद्धं, तद्-एकतया प्रथम-ज्ञानेन साकल्य-ग्रहणाद् उत्तरेषां सामान्य-ज्ञानानाम् अधिगत्âर्थ-गोचरतय्âप्रामाण्य-प्रसङ्गात्. अथ विशेषः, स नित्यो ऽनित्यो व्êति वक्तव्यम्. नित्यश् चेद्, एवं सत्य् आद्य-संवेदनेन्âइव तस्य सामस्त्य-ग्रहणाद् उत्तरेषां तद्-विषयाणाम् अधिगत-गोचरत्वेन्âप्रामाण्य-प्रसक्तिः. अनित्यश् चेत्, पर्याय-दूषणेन प्रतिक्षिप्तिः. अथ सामान्य-विशिष्टो विशेषः, क्âस्य विशिष्टता: किं तादात्म्यम् उत तत्-सन्निधि-मात्रम्? तादात्म्यं चेत्, प्रथम-ज्ञानेन सामान्यवत् तस्य्âपि ग्रहःआत्, अन्यथा तादात्म्य-क्षतेस्, तद्-विषय्âन्य-ज्ञानानाम् अप्रामाण्यं प्रसज्येत. तत्-सान्निध्य-पक्षे तु द्वयोर् अपि परस्परं विशकलित-रूपत्वात् पक्ष-द्वय्ôदितं दूषणं पश्चाल्-लग्नं धावति. विशेष-विशिष्ट-सामान्य-पक्षे पुनर् एतद् एव विपरीतं योज्यम्. तन् न्âनधिगत्âर्थ्âधिगन्तृत्वं ज्ञानस्य कथञ्चिद् विचार-भार-गौरवं सहत इत्य् अलक्षणम् इति स्थितम्. अविसंवादकत्वम् अधुना विचार्यते: तत् किं प्रदर्शित्âर्थ-प्राप्त्य्âहोस्विद् प्राप्ति-योग्य्âर्थ्ôपदर्शकत्वेन उत्âविचलित्âर्थ-विषयत्वेन भवान् ज्ञानस्य प्रामाण्यं कथयति? यदि प्रथमः कल्पस्, तद् अयुक्तं, जल-बुद्बुद्-आदि-मुमूर्षु-पद्âर्थ्ôत्पादित-संवेदनस्य्âप्रमाणत्ôत्पत्तेः, प्राप्ति-काले तस्य ध्वस्तत्वात्. अथ द्वितीयस्, तद् अप्य् अचारु, प्राप्त्य्-अयोग्य-देश-स्थित-ग्रह-नक्षत्र्âदि-गोचर-ज्ञानस्य्âप्रामाण्य-प्रसक्तेर्, अनुचित-देश्âवस्थानेन्âइव प्राप्त्य्-अनर्हत्वात् तेषाम्. अथ तृतीयः पक्षस्, तत्र्âप्य् अविचलित-विषयतां कथम् अवैषि? ज्ञान्âन्तरेण तद्-विषय-निराकरण्âभावाद् इति चेद्, एतद् एव्âस्माभिर् उदितं; किं भवतः परुषम् आभाति? न हि स्व-पर-प्रकाशि ज्ञानं बाधा-रहितं विमुच्य्âन्यस्य विषय्âनिराकरणं ज्ञान्âन्तरेण प्रेक्षामहे. तत् तद् एव न्यायात् प्रमाणं भवद्भिर् अभ्युपगतम् इति. ᳚अर्थ्ôपलब्धि-हेतुः प्रमाणम्᳚ इत्य् एतद् अपि न परीक्षां क्षमते, शरीर्âदेर् अपि तत्-कारणतया प्रामाण्य-प्रसङ्गात्. अव्यवहितम् अर्थ्ôपलम्भ-कारणं प्रमाणं, न देह्âदिकम् इति चेद्, एवं तर्हि ज्ञानम् एव स्व-पर्âविर्-भावकं निर्बाधकं च प्रमाणं, न सन्निकर्ष्âदि, तद्-सद्भावे ऽप्य् अर्थ-परिच्छेद्âभावात्. तस्माद् एतद् एव चारु प्रमाण-लक्षणम् इति.
SK
[NAV_१.७] अधुना तत्-संख्याम् आह: प्रत्यक्षं च्êत्य्-आदि; तत्र सिद्ध्âन्त-प्रसिद्ध-पारमार्थिक-प्रत्यक्ष्âपेक्षय्âक्ष-शब्दो जीव-पर्यायतया प्रसिद्धः. इह तु व्यावहारिक-प्रत्यक्ष-प्रस्तावाद् अक्ष-ध्वनिर् इन्द्रिय-वचनो गृह्यते. ततश् च्âक्षं प्रतिगतं प्रत्यक्षं. यद् इन्द्रियम् आश्रित्य्ôज्जिहीते ऽर्थ-साक्षात्-कारि ज्ञानं तत् प्रत्यक्षम् इत्य् अर्थः. एतच् च प्रत्यक्ष-शब्द-व्युत्पत्ति-निमित्तं, न तु प्रवृत्ति-निमित्तम्. स ह्य् एवं व्युत्पादितः साक्षाद् ग्राह्य-ग्राहकं ज्ञान-विशेषं लक्षयति, तत्र्âइव रूढत्वात्, यथा गमन-क्रियायां व्युत्पादितो ऽपि गो-शब्दः ककुद्-आदिमन्तं पिण्ड-विशेषं गच्छन्तम् अगच्छन्तं वा गोचरयति, तत्र्âइव तस्य प्रसिद्धत्वात्, न गमन-क्रिया-युक्तम् अपि पुरुष्âदिकं, विपर्ययाद् इति. ततश् च सर्व-ज्ञानानां यत् स्वरूप-संवेदनं तद् अपि प्रत्यक्षम् इत्य् उक्तं भवति, तत्र्âपि स्वरूपस्य ग्राह्यस्य साक्षात्-करण-सद्भावाद् इति. अक्षेभ्यः परतो वर्तत इति परोक्षम्. अक्ष-व्यापार-निरपेक्षं मनो-व्यापारेण्âसाक्षाद्-अर्थ-परिच्छेदकं यज् ज्ञानं तत् परोक्षम् इति-भावः.
SK
[NAV_१.८] च-शब्दौ प्रत्यक्ष-परोक्षयोस् तुल्य-कक्षतां लक्षयतः. तेन यत् परे प्राहुः: ᳚प्रत्यक्षं सकल-प्रमाण-ज्येष्ठम्᳚ इत्य्âदि तद् अपास्तम् भवति, द्वयोर् अपि प्रामाण्यं प्रत्य् अविशेषात्, विशद्âविशद-प्रतिभास-विशेषस्य सतो ऽपि ज्येष्ठतां प्रत्य् अनङ्गत्वात्. प्रत्यक्षस्य पुरःसरत्वात् परोक्षस्य कनिष्ठत्êति चेन्, न्âयम् एक्âन्तः, सर्वत्र्âन्यथ्âनुपपन्नत्âवधारित्ôच्छ्वास-निःश्वास्âदि-जीव-लिङ्ग-सद्भाव्âसद्भावाभ्यां जीव-साक्षात्-कारि-प्रत्यक्ष-क्षूणे ऽपि जीवन्-मृत-प्रतीति-दर्शनाद्, अन्यथा लोक-व्यवहार्âभाव-प्रसङ्गात्. क्वचित् प्रत्यक्ष-परिगृहीत-सम्बन्ध-बलात् परोक्षं प्रवर्तत इति प्रत्यक्षस्य ज्येष्ठत्व-कल्पने ᳚पश्य मृगो धावत्îत्य्᳚-आदि-शब्द-बलात् कृक्âटिका-मोटन-द्वारेण मृग-विषयम्, तथा स्मरणात् सङ्केत-ग्रहणाद् व्âपूर्व्âपूर्व्âर्थ-दर्शन-कुतूहल्âदिना वन-देव-कुल्âदि-गोचरं परोक्ष-पूर्वं प्रत्यक्षं दृष्टम् इति परोक्षस्य ज्येष्ठत्âसज्येत.
SK
[NAV_१.९] द्विध्êति. ᳚सर्वं वाक्यं स्âवधारणं प्रवर्तत᳚ इति न्यायाद्, अन्यथा नियत्âर्थ्âप्रदर्शकत्वेन तद्-उच्चारण-वैयर्थ्य-प्रसङ्गाद्, विपरीत्âकार-निराकरण-चातुर्य्âयोगेन निराकाङ्क्ष-प्रवृत्त्य्-असिद्धेर् द्विध्âइव्êत्य् अवधारणेन पर-परिकल्पित-विपरीत-संख्य्âन्तरं तिरस्-कुरुते, तस्य युक्ति-बाधितत्वात्.
SK
[NAV_१.१०] तथा हि: प्रत्यक्षम् एव्âइकं प्रमाणम् इत्य् असत्, परोक्ष्âभावे तस्य्âइव प्रामाण्य्âयोगात्. स हि काश्चित् प्रत्यक्ष-व्यक्तीर् अर्थ-क्रिया-समर्थ्âर्थ-प्रापकत्वेन्âव्यभिचारिणीर् उपलभ्य्âन्यास् तद्-विपरीततया व्यभिचारिणीश् च, ततः काल्âन्तरे पुनर् अपि तादृश्êतराणां प्रत्यक्ष-व्यक्तीनां प्रमाणत्êतरते समाचक्षीत. न च पूर्व्âपर-परामर्श-शून्यं पुरो-वर्त्य्-अर्थ-ग्रहण-पर्यवसित-सत्ताकं प्रत्यक्षं पूर्व्âपर-काल-भाविनीनां प्रत्यक्ष-व्यक्तीनां सादृश्यं प्रामाण्य-निबन्धनम् उपलक्षयितुं क्षमते. न च्âयं स्व-प्रतीति-गोचराणाम् अपि प्रत्यक्ष-व्यक्तीनां प्रामाण्यं परं प्रतिपादयितुम् ईशः. तस्माद् अवश्यन्तया यथ्âदृष्ट-प्रत्यक्ष-व्यक्ति-साधर्म्य-द्वारेण्âधुनातन-प्रत्यक्ष-व्यक्तीनां प्रामाण्य-प्रत्यायकं पर-परिपादकं च परोक्ष्âन्तर्-गतम् अनुमान-रूपं प्रमाण्âन्तरम् उररी-कर्तव्यम्. पर्âवबोध्âर्थं च प्रत्यक्षम् एव्âइकं प्रमाणं न्âन्यद् अस्त्îत्य् उल्लपन्न् उन्मत्तताम् आत्मनो लक्षयति, प्रत्यक्षेण पर-चेतो-वृत्ति-साक्षात्-करण्âभावाद् व्यापार-व्याहार-चेष्टा-विशेष-दर्शनाद् बोध-विशेष्âवगतौ परोक्षस्य प्रामाण्यं बलाद् आपतत्îति न्यायात्. स्वर्ग्âदृष्ट-देवत्âदि-प्रतिषेधं न प्रत्यक्षेण कर्तुम् अर्हति, तस्य सन्निहित-मात्र-विषयत्वात्. न च्âयं तद्-प्रतिषेधेन खर-खरक-चार्वाकताम् आप्नोति, प्रमाण्âन्तरं च तत्-प्रतिषेध्âर्थं न्êच्छत्îति विषमम् एतत् कथं कुर्याद् इति सविस्मयं नश् चेतः. किं च, प्रत्यक्षम् अपि कथं प्रमाणतां स्वी-करोत्îति वक्तव्यम्, गृह्यमाण-पद्âर्थ्âन्वय-व्यतिरेक्âनुकरणात्. तथा हि: तत् समग्र-सामग्रीक-पद्âर्थ-बलेन्ôन्मज्जति, तत्-अभावे विस्फारित्êक्षण-युगलस्य्âपि प्रमातुर् न्ôदीयत इति यदि ब्रूषे, परोक्षे ऽपि तर्हि समानम् एव्âइतत्, तद् अपि बहिर्-अर्थ-सामर्थ्याद् एव्ôल्लसति, तत्-सम्बद्ध-लिङ्ग-शब्द-द्वारेण तस्य्ôत्पत्तेर्, अन्यथा परोक्ष्âभासता-प्रसङ्गात्, तस्य च्âलीकत्वे पारमार्थिक-परोक्ष-प्रामाण्य-क्षतेर् अयोगाद्, अन्यथा प्रत्यक्षम् अपि गगन-तल्âवलम्बि-शश-धर-युगल्âवलोकन-चतुरम् अलीकम् अवलोकितम् इति सकल-विशद-दर्शनानि सत्यत्âभिमतान्य् अप्य् अलीकताम् अश्नुवीरन्. तन् न प्रमाण-भूतं परोक्षं कदाचन गृह्यमाण-पद्âर्थ-सत्तां विहाय्ôत्पत्तुम् उत्सहत इति प्रत्यक्षवत् प्रमाण-कोटिम् आरोहति बलाद् इति स्थितम्.
SK
[NAV_१.११] तथा यद् अपि परैर् उक्त-द्वय्âतिरिक्तं प्रमाण-संख्य्âन्तरं प्रत्यज्ञायि, तत्र्âपि यत् पर्यालोच्यमानम् उपमान्âर्थ्âपत्तिवत् प्रमाणताम् आत्मसात्-करोति, तद् अनयोर् एव प्रत्यक्ष-परोक्षयोर् अन्तर्-भावनीयम्. यत् पुनर् विचार्यमाणं मीमांसक-परिकल्पित्âभाववत् प्रामाण्यम् एव न्âस्कन्दति, न तेन बहिर्-भूतेन्âन्तर्-भूतेन वा किञ्चिन् नः प्रयोजनम् अवस्तुत्वाद् इत्य् अपकर्णनीयम्.
SK
[NAV_१.१२] अथ कथम् उपमानस्य प्रामाण्यम् इति ब्रूषे, तद् उच्यते: प्रथमं हि विशद-दर्शन्âधिगत-गो-पिण्ड-विशेषस्य ᳚यथा गौस् तथा गवय᳚ इति वाक्य्âकर्णन्âहित्âत्म-संस्कारस्य पुंसो ऽटव्यां पर्यटतो गवय-पिण्ड-विशेष-विषय-विविक्त-दर्शन-पुरःसरं यत् पूर्व्âपर-गो-गवय-पिण्ड-गोचर-दर्शन-व्यापार-सम्पादित-जन्मकम् अयं तेन सदृशो ऽनयोर् वा सादृश्यम् इति सादृश्य-विशिष्टं पिण्डं पिण्ड-विशिष्टं सादृश्यं वा गोचरयत् संवेदनम् उदीयते तद् उपमानम् इति. यथ्âहुस् तद्-वादिनः: ᳚तस्माद् यद् दृश्यते तत् स्यात् सादृश्येन विशेषितं / प्रमेयम् उपमानस्य सादृश्यं वा तद्-अन्वितम्᳚ // NAV_१.१२:१ //
SK
इति.
SK
[NAV_१.१३] ततश् च पूर्व्âपर-दर्शनयोः पुरो-वर्ति-गो-गवय-पिण्ड-ग्रहण-पर्यवसित-सत्ताकत्वात् पूर्व्âपर-परामर्श-शून्यत्वाद् विशद-निर्भासितया शब्द्ôल्लेख-रहितत्वात् तद्-अधिकम् अव्यभिचरितं व्यवहार-कारि सादृश्यम् अवस्यद् उपमानं स्व-पर-प्रकाशितया निर्बाधकत्वाच् च प्रमाणम्. पूर्व्âपर-पिण्ड्âतिरिक्तम् अपरं सादृश्यं न्ôपलभ्यत इति चेत्, को ऽयम् उपलम्भो येन न्ôपलभ्यते सादृश्यं यदि प्रत्यक्षं तत्? यदि प्रत्यक्षे सादृश्यम् उपमान-गोचरत्वान् न प्रतिभाति, को ऽस्य्âपराधः? न हि ज्ञान्âन्तरे तद्-गोचरो न प्रतिभात्îति निर्गोचरं तद् इति वक्तुं शक्यम्, इतरथ्ôपमाने ऽपि प्रत्यक्ष-निर्ग्राह्या व्यक्तिर् न भात्îति निर्गोचरम् अध्यक्षम् अनुषज्येत. तद् यथा स्व-विषये ऽध्यक्षं प्रमाणं तथ्ôपमानम् अपि. न हि द्वयोः प्रथमानयोर् एकं प्रति विशेष्âभावे पक्ष-पातः कर्तुं युक्तः. एतेन प्रत्यभिज्ञा-ज्ञान-स्मृत्य्-ऊह्âदीनाम् अविसंवादकानां परोक्ष-विशेषाणां प्रामाण्यं व्याख्यातम् अवगन्तव्यं, समान-न्याय्âनुपातित्वात्. तथा हि: प्रथमम् अर्थ-दर्शनम् आत्मनि संस्कारम् आधत्ते, तादृश-दर्शनाद् असौ संस्कारः प्रबुध्यते, प्रबुद्धः पूर्व्âर्थ-विषयं स एव्âयं तज्-जातीयो व्êत्य् उल्लेखेन प्रत्यभिज्ञा-ज्ञानम् उत्थापयति, तस्य्ôर्ध्व-तिरश्चीन-भेद-सामान्य-द्वय्âवस्थापकत्वाद्, असञ्जात-पूर्व्âर्थ-गोचर-दर्शनस्य तद्-उदय्âभावात्. तथा स एव संस्कारस् तादृश्âर्थ-दर्शनेन्âभोग्âदिना वा प्रबुद्धो ऽनुभूत-विषय्âसम्प्रमोष-लक्षणं स्मरणम् उपजनयत्य्, अदृष्ट्âर्थस्य पुंसः स्मरण्âनुपपत्तेर् इति. ऊहो ऽपि प्रत्यक्ष्âनुमान्âसंवेद्य-साध्य्âर्थ्âन्यथ्âनुपपन्नत्व-लक्षण-लिङ्ग-सम्बन्ध-ग्रहण-प्रवणः प्रमाण्âन्तरम् इति कथयिष्यते.
SK
[NAV_१.१४] अर्थ्âपत्तिस् तु प्रत्यक्ष्âदि-गोचरी-कृत-स्फोट्âदि-पद्âर्थ्âन्यथ्âनुपपत्त्या दहन-शक्त्य्-आदिकं पावक्âदेर् अर्थ्âन्तरं पूर्व-दर्शन-गोचरात् समधिकम् अव्यभिचरितं परिकल्पयन्त्îति प्रमाणतां स्वी-करोत्य् एव, तल्-लक्षण-योगात्. एवम् अन्यद् अपि प्रत्यक्ष-गोचर्âधिक्य-सम्पादकं निराकाङ्क्षतया व्यवहार-कारि यद् यत् संवेदनं तत् तत् प्रमाणम् इति समर्थनीयं, स्व-पर-प्रकाशि-निर्बाधत्वात्, पूर्व्âपर-सोपान-पद्धति-दर्शन्ôत्तर-काल-भावि-तत्-संख्या-संवेदनवत्. सर्वेषां च्âइतेषां परोक्षे ऽन्तर्-भावो, ऽन्यथ्âनुपपन्न्âर्थ्âन्तर-दर्शन-द्वारेण प्रस्तुत्âर्थ-संवेदन-चतुरत्वाद् इति. किञ्चिद्-विशेषात् तु प्रमाण्âन्तर-परिकल्पने प्रमाण्êयत्ता विशीर्येत्âनन्त्य-प्राप्तेर्,आवरण-क्षय्ôपशम-विचित्रतया ज्ञान-प्रवृत्तेर् विचित्रत्वाद् इति. ननु च्âइवं सति यत् परोक्षस्य द्वैविध्यं वक्ष्यमाणम् अनुमान-शाब्द-भेदेन तद् अपि कथम् उपपत्स्यते, तत्र्âपि ह्य् आप्त-प्रणीत-वचन-प्रभव-ज्ञानस्य्âर्थ्âन्यथ्âनुपपन्नत्वेन्âनुमान्âन्तर्-भावो न दुरुपपादः? ततश् च्âनुमानम् एव्âइकम् अवशिष्यते, तद् एव परोक्ष-शब्देन, यद्य् उच्यते युक्तम् आस्ते, विदुषाम् अभिधानं प्रत्य् अनादरात्; सत्यम् एतद्, एवं तु मन्यते: यद्य् अपि कयाचित् प्रक्रियय्âनुमाने शाब्दम् अन्तर्-भावयितुं शक्यं, तथ्âपि तत् प्रति विप्रतिपद्यन्ते परे; ऽतस् तस्य्âहत्य प्रामाण्यं समर्थनीयम्. न च्âपृथग्-भूतस्य तद्-विविक्तं वक्तुं शक्यम् इति, अतः पार्थक्येन्ôपन्यासः. अनेन च्âइतद् उपलक्षयत्य् अन्येषाम् अपि परोक्ष-विशेषाणाम् अनुमान्âन्तर्-भाव-सम्भवे ऽपि यं यं प्रति परेषां विप्रतिपत्तिस् तं तं परोक्षान् निष्कृष्य विविक्त-युक्त्य्-उपन्यासेन तस्य तस्य प्रामाण्यम् आवेदनीयम्. तथा च शास्त्र्âन्तरे यद् ऊह्âदीनां लक्षणम् अकार्य् आचार्यैस् तद् युक्तम् एव्êत्य् उक्तम् भवति.
SK
[NAV_१.१५] कथं तर्हि मीमांसक-परिकल्पितो ऽभावो न प्रमाणम्? निर्गोचरत्वाद् इति ब्रूमः. तथा हि: प्रत्यक्षम् एव्âन्वय-व्यतिरेक-द्वारेन ᳚भू-तलम् एव्êदं, घट्âदिर् न्âस्त्îति᳚ वस्तु-परिच्छेद-प्रावीण्यम् आबिभ्राणं तद्-अधिक-ग्राह्य्âर्थ्âभावात् प्रमाण्âन्तरं परिकल्प्यमानं निरस्यत्îति किं नश् चिन्तया, तस्य सद्-असद्-रूप-वस्तु-ग्राहिणः प्रतिप्राणि-प्रसिद्धत्वात्. अथ कदाचिद् अभिदध्याद्: अध्यक्षं भाव्âंशम् एव्âकलयत्îन्द्रिय-द्वारेण्ôत्पत्तेस्, तस्य च भाव्âंश एव व्यापारान्; न्âस्तिता-ज्ञानं तु वस्तु-ग्रहण्ôत्तर-कालं प्रतियोगि-स्मरण-सद्भावे मानसम् अक्ष-व्यापार-निरपेक्षम् उन्मज्जति. तद् उक्तम्: ᳚न तावद् इन्द्रियेण्âइषा न्âस्त्îत्य् उत्पाद्यते मतिः / भाव्âंशेन्âइव संयोगो योग्यत्वाद् इन्द्रियस्य हि᳚ // NAV_१.१५:१ //
SK
᳚गृःईत्वावस्तु-सद्भावं स्मृत्वा च प्रतियोगिनं / मानसं न्âस्तिता-ज्ञानं जायते ऽक्ष्âनपेक्षया᳚ // NAV_१.१५:२ //
SK
[NAV_१.१६] अत्र्ôच्यते भाव्âंशाद् अभाव्âंशस् तर्ह्य् अभिन्नो भिन्नो वा? अभिन्नश् चेत्, कथम् अग्रहणम्, भाव्âंशाद् अव्यतिरिक्तत्वाद् एव, तत्-स्वरूपवत्. भिन्नश् चेद्, घट्âद्य्-अभाव-विनिर्लुठितं भू-तलम् आद्य-दर्शनेन गृह्यत इति घट्âदयो गृह्यन्त इति प्राप्तं, तद्-अभाव्âग्रहणस्य तद्-भाव-ग्रहणन्âन्तरीयकत्वात्. तथा च्âभावो ऽपि पश्चात् प्रवर्तमानस् तान् उत्सारयितुम् अपटिष्ठः स्याद्, अन्यथा प्रत्यक्षम् असङ्कीर्णस्य सङ्कीर्णता-ग्रहणाद् भ्रान्तम् आपनीपद्येत. किं च, प्रमाण्âभावाद् अर्थ्âभावो ऽभाव-प्रमाणेन साध्यत इति भवतो ऽभिप्रायः: ᳚प्रमाण-पञ्चकं यत्र वस्तु-रूपे न जायते / वस्तु-सत्त्âवबोध्âर्थं तत्र्âभाव-प्रमाणता᳚ // NAV_१.१६:१ //
SK
[NAV_१.१७] इति-वचनात्, तद् अयुक्तम्, यतः प्रमाण्âभावः कथं ग्राह्यः? तद्-ग्राहक-प्रमाण्âन्तर्âभावाद् इति चेत्, तस्य्âप्य् अभाव-ग्रहणे तद्-ग्राहक-प्रमाण्âन्तर्âभावो ग्राह्य इत्य् अनवस्था. अथ अर्थ्âभावात् प्रमाणस्य प्रमाण्âभावाच् च्âर्थस्य्âभावः प्रतिपद्येत इति मन्येथास्, तद् एतद् इतर्êतर्âश्रयं दुर्घटम् आपद्येत: न यावद् अर्थ्âभावो ऽगृहीतस् तावत् प्रमाण्âभावः सिध्यत्य्, अर्थ्âभावश् च प्रमाण्âभावात् सेत्स्यत्îत्य् आवर्तनात्. अथ्êन्द्रियवत् स्वयम् अविज्ञातो ऽपि प्रमाण्âभावो ऽर्थ्âभावं ज्ञापयिष्यत्îत्य् अभिदधीथास्, तद् अयुक्तम्, तस्य तुच्छतया सकल-शक्ति-विरह-लक्षणत्वाद्, इन्द्रियस्य तु तद्-विपर्यस्ततया ज्ञान्ôत्पादन-दक्षत्वात्. तस्मात् प्रत्यक्षम् एवम् भू-तल्âदि-प्रतिनियत-वस्तु-ग्राहितां बिभर्ति, यदि तद्-विपरीत-घट्âदि-प्रतियोगि-वस्त्व्-अन्तर-वैविक्त्यं तस्य्âकलयति न्âन्यथा, विजातीय-व्यवच्छेद्âभावे तस्य्âइव प्रतिनियतत्व्âसिद्धेः, सकल-सङ्कीर्णतया ग्रहण-प्रसङ्गात्. अतो ऽधिक-ग्राह्य्âभावान् निर्विषयतय्âभाव्âख्यं प्रमाणं यत् परैः पर्यकल्पि तद् अप्रमाणम् इति स्थितम्.
SK
[NAV_१.१८] द्विध्êत्य् अस्मिन् सत्य् अपि प्रत्यक्षं च परोक्षं च्êति नियत-द्वैविध्य-प्रदर्शनेन सौगत-परिकल्पितं ‘प्रत्यक्षम् अनुमानं च्êतिऽ; द्वैविध्यम् अपक्षिपति, तद्-आकूतेन तस्य्âयोगात्. प्रत्यक्ष्âतिरिक्तं हि तादात्म्य-तद्-उत्पत्ति-लक्षण-सम्बन्ध्ôपलक्षित-कार्य-स्वभाव्âनुपलब्धि-रूप-लिङ्ग-त्रय-सम्पादित-जन्मकम् अनुमानम् एव प्रमाणं, न शाब्द्ôह्âदिकं, सम्बन्ध-विकलत्वाद् इति तद्-आकूतम्. अयुक्तं च्âइतत्, प्रत्यक्ष्âनुमान्âतिरिक्त-प्रमाण्âन्तर्âभाव-ग्रहण्ôपाय्âभावात्. न तावत् प्रत्यक्षात् प्रमाण्âन्तर्âभाव्âवगतिस्, तस्य स्वलक्षण-विषयत्वेन्âभाव-ग्राहिता-विरोधात्. न्âपि स्वभाव-कार्य्âनुमानाभ्यां, तयोर् वस्तु-साधकत्वात्. न्âप्य् अनुपलब्धेस्, तस्या अप्य् अत्यन्त्âभाव-साधन-विरोधात्. सा हि चतुर्-विधा वर्ण्यते मूल-भेद्âपेक्षया, तद् यथा -- विरुद्ध्ôपलब्धिर् विरुद्ध-कार्य्ôपलब्धिः कारण्âनुपलब्धिः स्वभाव्âनुपलब्धिश् च्êति. न तावद् विरुद्ध्ôपलब्धेः प्रमाण्âन्तरस्य्âत्यन्त्âभावो, दृश्य्âत्मनो विरुद्धस्य विधानेन्êतर्âभाव-साधनात्, सन्निहित-देश एव प्रतियोग्य्-अभाव-सिद्धेः. एतेन विरुद्ध-कार्य्ôपलब्धिर् अपि व्याख्याता, तस्या अपि प्रतिषेध्य-विरोधि-सन्निधापन-द्वारेण्âभाव-साधकत्वात्. कारण्âनुपलब्धिर् अपि तद्-देश्âशङ्कित-कार्यस्य्âइव्âभावं साधयति न सर्वत्र, स्वयम् असिद्धत्वात्. स्वभाव्âनुपलब्धिर् अप्य् एक-ज्ञान-संसर्गि-पद्âर्थ्ôपलम्भ-रूपा तद्-देश एव प्रतिद्वन्द्व्य्-अभावं गमयति. अतः प्रमाण्âन्तरस्य्âपि क्वचिन् निषेधः स्यान्, न सर्वत्र. तन् न प्रमाण्âन्तर-बाधकं समस्ति.
SK
[NAV_१.१९] प्रत्यक्ष्âनुमानयोश् च प्रामाण्यं कुत इति चिन्त्यम्. न तावत् प्रत्यक्षात्, तस्य निर्विकल्पकतया सतो ऽप्य् असत्-कल्पत्वात्. तत्-पृष्ठ-भावी विकल्पस् तु न स्वलक्षण्âम्भोधि-मध्यम् अवगाहते; तत् कथं तत्र्âप्रविष्टस् तत्-स्वरूपं निश्चिनुयात्. अप्रमाण-भूताच् च तस्मात् प्रामाण्य-निर्णय इति निबिड-जडिम्âविष्करणं भवताम्. अनुमानात् प्रामाण्य-निर्णय इति चेन्, न, तस्य्âपि स्वलक्षणाद् बहिः प्लवनात्. अप्रामाण्य-व्यवच्छेदस् तेन साध्यत इति चेन्, न, व्यवच्छेदस्य व्यवच्छिन्न्âव्यतिरेकाद्, इतरथ्âन्धकार-नर्तन-कल्पम् अनुमानम् आसज्येत, निर्विषयत्वात्. किं च, तत्-प्रामाण्य-निर्णायकम् अनुमानं प्रमाणम् अप्रमाणं वा? न तावद् अप्रमाणम्, ततः प्रामाण्य्âसिद्धेः. न्âपि प्रमाणं, तत्-प्रामाण्य-साधक्âभावात्. न हि प्रत्यक्षात् तत्-सिद्धिर्, विकल्प-शून्यतय्âकिञ्चित्-करत्वाद् इत्य् उक्तम्. अनुमानात् तु तत्-साधने विकल्प-युगलं तद्-अवस्थम् एव्âवतिष्ठेत, तत्-प्रामाण्य-साधने ऽप्य् अनुमान-कल्पन्êत्य् अनवस्था. किं च, गृहीत-सम्बन्धस्य्âनुमानं प्रवर्तेत, सम्बन्धस् त्रि-काल-गोचरो ग्राह्यो, न च प्रत्यक्षं तं लक्षयितुं क्षमते, पूर्व्âपर-क्षण-त्रुटित-रूप-वार्तमानिक-क्षण-ग्रहण-पर्यवसित-सत्ताकत्वात्, तद्-उत्तर-काल-भाविनो विकल्पस्य्âपि व्यावहारिक्âभिप्रायेण तन्-निष्ठत्âभ्युपगमात्. अनुमानाद् ग्रहीष्यत्îति चेन् ननु तद् अपि सम्बन्ध-पूर्वकं प्रवर्तेत, तद्-ग्रहणे ऽप्îयं वार्त्êत्य् अनवस्था. तस्माद् अनुमानम् अभिलषता गत्य्-अन्तर्âभावात् तत्-सम्बन्ध-ग्रहण-प्रवणस् त्रि-काल-गोचरो ऽव्यभिचारी वितर्को ऽभ्युपगन्तव्यः. तथा च प्रस्तुत-तद्-द्वैविध्यस्य विघटितत्वाद्, अन्यद् अपि यद् एवं-विधम् अविसंवादि ज्ञानं तत् प्रमाणम् अस्त्व् इत्य् अलं शुष्क्âभिमानेन्êति. यदि पुनः साध्य्âर्थ्âन्यथ्âनुपपन्न-हेतु-सम्पादितम् अनुमानम् इष्येत, तदा प्रत्यक्षम् अनुमानं च्êत्य् अपि द्वैविध्यं घटाम् अटेद् एव; प्रत्यक्ष-व्यतिरिक्त-ज्ञानस्य सामस्त्येन्âनुमाने ऽन्तर्-भाव-सम्भवात्, अन्यथ्âनुपपन्न्âर्थ्âन्तरम् अन्तरेण परोक्ष्âर्थ-विषय-प्रतीतेर् अभावाद् इति.
SK
[NAV_१.२०] साम्प्रतम् अन्यथा सूत्र्âवयवेन्âइव प्रकृत-नियम-कारणम् आह: मेय-विनिश्चयाद् इति द्विधैव्êति च काक्âक्षि-गोलक-न्यायेन्âत्र्âपि सम्बन्धनीयम्. ततश् च्âयम् अर्थो: द्वाभ्याम् एव प्रकाराभ्यां मेयस्य ग्राह्य्âर्थस्य विनिश्चयात् स्वरूप-निर्णयाद्; द्वे एव यथ्ôक्ते प्रमाणे न न्यूनम् अधिकं च्êति. अयम् अत्र्âभिप्रायः: स्व-संवेदनं प्रति निखिल-ज्ञानानाम् एक-रूपतया साक्षात्-करण-चतुरत्वान् न्âस्त्य् एव भेदः; बहिर्-अर्थं पुनर् अपेक्ष्य कश्चिच् चक्षुर्âदि-सामग्री-बल-लब्ध-सत्ताकः स्व्âवयव-व्यापिनं काल्âन्तर-संचरिष्णुं स्थगित-क्षण-विवर्तम् अलक्षित-परम्âणु-पारिमाण्डल्यं सन्निहितं विशद-निर्भासं सामान्यम् आकारं साक्षात्-कुर्वाणः प्रकाशः प्रथते, तत्र प्रत्यक्ष-व्यवहारः प्रवर्तते. यः पुनर् लिङ्ग-शब्द्âदि-द्वारेण नियत्âनियत-सामान्य्âकार्âवलोकी परिस्फुटता-रहितः खल्व् आत्मनो ऽर्थ-ग्रहण-परिणामः समुल्लसति स परोक्षतां स्वी-करोति. न च्âइतौ प्रकारौ विहाय प्रकार्âन्तरेण ज्ञान-प्रवृत्तिं पश्यामो, न च्âपश्यन्तः प्रमाण्âन्तर-परिकल्पनं क्षमामहे, न च द्वयोः प्रथमानयोर् एकं निह्नुवानम् अपेक्षामहे, विशेष्âभावात्. तस्माद् एतद् एव द्वैविध्यम् उररी-कर्तव्यम् इति स्थितम्.
SK
[NAV_२.०] साम्प्रतं यद् अस्माभिः प्राग् विवृण्वद्भिर् व्युदपादि, यद् उत विप्रतिपन्न्âव्युत्पन्न-व्यामोह्âपोह-सहम् इह्êदं प्रमाण-लक्षणम् इति तत्-सूत्र-मात्र-दर्शनाद् एव विमल-बुद्धयो ऽवगच्छेयुः. मन्द-मतयस् तु तावता न भोत्स्यन्त इति -- तद्धित-विधित्सया व्यक्तं प्रमाण-लक्षण्âभिधान-फलं प्रतिपिपादयिषुर् अपि सपूर्व-पक्षं निराकाङ्क्षं लक्षयेयुस् त इति तावत् पूर्व-पक्षम् उत्थापयन्न् आह:
SK
प्रसिद्धानि प्रमाणानि व्यवहारश् च तत्-कृतः / प्रमाण-लक्षणस्य्ôक्तौ ज्ञायते न प्रयोजनम् // NA_२ //
SK
[NAV_२.१] इह वचनम् उच्चारयता विमृश्य-भाषिणा प्रत्यवमृश्यं, किम् इदं मामकं वचनं श्रोतृ-संस्कार्âधायकम् उत न्êति. इतरथा पर्यालोचित-कारित्âस्य हीयते. श्रोतृ-संस्कार्âधायकं चेद् उच्चारयत्य्, अन्यथा विपर्यय इति. एतत् तु प्रमाण-लक्षण-वाक्यं सकल-जन्âनादि-प्ररूढ्âर्थ-प्रत्यायकत्वाद् अश्रोतृ-संस्कार्âधायकम्, यत आह: प्रसिद्धानि प्ररुढानि, न्âधुना साध्यान्îत्य् अर्थः. प्रमाणानि प्रत्यक्ष्âदीनि, परोक्ष-गत-भेद्âपेक्षया बहु-वचनं व्यक्ति-भेदे सामान्यम् अपि कथञ्चिद् भिद्यत इति-दर्शन्âर्थम्. तथा हि: तद् अविवक्षित-व्यक्तिकम् एक-रूपतां बिभर्ति प्रमाणम् इति; व्यक्त्य्-अवच्छेदेन पुनर् अवच्छिद्यमानं नानातामादत्ते प्रत्यक्ष्âनुमान-शाब्दानि प्रमाणान्îति, व्यक्ति-व्यतिरिक्त्âव्यतिरिक्त-रूपत्वात् तस्य. तथा हि: शब्दाच् चक्षुर्âदेर् वा दूराद् वृक्ष इति प्रत्यये धव-खदिर-पलाश्âदि-विशेष्âनपेक्षया साधारणं वृक्षत्वम् एव चकास्ति, तस्मात् तत् तेभ्यो भिन्नं, तद्-व्यतिरेकिण्âकारेण ज्ञाने प्रतिभासनाद्, घट्âदिवत्. परिस्फुट-धव-खदिर-पलाश्âदि-विशेष्âवलोकन-वेलायां तु न तद्, अतिरेकिणा रूपेण प्रकाशत इत्य् अभिन्नं, तद्-अव्यतिरिक्तस्य संवेदनात्, तत्-स्वरूपवत्. विशेष्âभिन्नम् एव रूपं तात्त्विकं सामान्यस्य, तस्य्âइव दाह-पाक्âद्य्-अर्थ-क्रिया-क्षमत्वाद्, भिन्नं पुनः कल्पना-बुद्धि-विठपितत्वाद् अवस्तु-रूपम् इति चेन्, न, द्वयोः प्रकाशमानयोर् एकस्य निह्नोतुम् अशक्यत्वात्. अन्यथा भिन्नम् एव रूपं स्वाभाविकम् इतरत् तु कल्पना-बुद्धि-दर्शितम् इत्य् अपि वदतां न वदन-भङ्गः स्यात्. अर्थ-क्रिया-कारित्âविशेषस् तु भिन्ने ऽपि रूपे न दुरुपपादस्, तस्य्âपि ज्ञान-साधारण-व्यवहार-करण-दक्षत्वात्. न च्âर्थ-क्रिया वस्तु-लक्षणम् इति निवेदयिष्यामस्, तस्मात् सर्वत्र भिन्न्âभिन्नौ सामान्य-विशेषाव् इति दर्शन्âर्थो बहु-वचन-निर्देशः. आसतां तावत् प्रमाणानि.
SK
[NAV_२.२] व्यवहारश् च तत्-कृतः प्रसिद्ध इति सम्बन्धः. च-शब्दो ऽपि-शब्द्âर्थः. तेन्âयम् अर्थो: यद्-अर्थं प्रमाण-परीक्षणम् असाव् अपि जल-पान-शीत-त्राण्âदिर् व्यवहारो ऽनादि-प्ररूढः, तन् निरर्थकं प्रमाण-लक्षण्âभिधानम् इत्य् अभिप्रायवान् अपि परः परुषता-परिजिहीर्षय्âत्मनो ऽन्यथा प्राह: प्रमाण-लक्षणस्य्ôक्तौ पर-रूप-व्यावर्तन-क्षम्âसाधारण-प्रमाण-धर्म-कथन-रूपायां ज्ञायते निर्णीयते ऽस्माभिर् न प्रयोजनं तत्-फलम्, अतिसूक्ष्मत्वात् तावक्âभिसन्धेर् इति काक्वा प्रश्नयत्य् उल्लुण्ठयति च्êति. किं च, प्रमाण-लक्षणम् अनिश्चितं व्âभिधीयते, निश्चितं वा स्वरूपेण्êति पक्ष-द्वयम्. न तावद् अनिश्चितम्, अनिश्चितस्य लक्षणत्व्âयोगाद्, उन्मत्तक-विरुतवत्. अथ निश्चितं, तत् किम् अप्रमाणात् प्रमाणाद् वा. न तावद् अप्रमाणाद्, अप्रमाणस्य निश्चायकत्व्âयोगात्. यदि पुनर् अप्रमाणम् अपि निश्चायकम् इति सङ्गीर्येत, तदा प्रमाण-पर्येषणं विशीर्येत, नैरर्थक्य्âपत्तेर्, अप्रमाणाद् अपि निश्चाय्âभ्युपगमात्. अथ प्रमाणात्, तत् किम् अलक्षणं लक्षण्ôपेतं वा. अलक्षणं चेन् निश्चायकं प्रमाणम्, तर्हि सर्व-प्रमाणानां लक्षण्âभिधानम् अनर्थकं, तद्-व्यतिरेकेण्âप्य् अर्थ-निश्चय-सिद्धेर्, भवद्-अभिप्रेत-लक्षण-निश्चायक-प्रमाणवत्. अथ लक्षण्ôपेतं, तत्र्âपि विकल्प-युगलम् अनुवारित-प्रसरम् अनुधावति: तल्-लक्षणं निश्चितम् अनिश्चितं वा. न तावद् अनिश्चितं लक्षणं लक्ष्यं लक्षयति. निश्चयो ऽपि प्रमाणाद् अप्रमाणाद् वा. अप्रमाणान् निश्चय्âसिद्धेः प्रमाणाद् इति वक्तव्यम्. तद् अप्य् अलक्षणं सलक्षणं वा. अलक्षणत्वे पूर्वस्य्âर्थ-ग्रहणे किं क्षूणम्. सलक्षणत्वे तल्-लक्षणं निर्णीतम् अनिर्णीतं व्êति तद् एव्âवर्तते. तन् न प्रमाण-लक्षण्âभिधान्ôपायो ऽस्ति, तस्मात् प्रसिद्धानि प्रमाणान्îत्य् अङ्गी-कर्तव्यम् इति.
SK
[NAV_३.०] अधुन्âचार्यो गृहीतस् तावकीनो ऽभिप्रायो ऽस्माभिर् इति परं प्रत्याययंस् तन्-मतम् अनुद्राव्य तद् एव्âनुमन्यमानस् तथ्âपि लक्षण्ôक्तेः साफल्यमावेदयन्न् आह:
SK
प्रसिद्धानां प्रमाणानां लक्षण्ôक्तौ प्रयोजनम् / तद्-व्यामोह-निवृत्तिः स्याद् व्यामूढ-मनसाम् इह // NA_३ //
SK
[NAV_३.१] एतद् अभ्यधायि भवता, यथा प्रसिद्धानि प्रमाणानि, ततस् तेषां लक्षण्ôक्ताव् असाधारण-धर्म-कथन-विषये प्रयोजनं फलं, किम् इति शेषस्, तद् एतद् अयुक्तम्. यतो यद्य् अपि प्रतिप्राणि-प्रसिद्धानि प्रमाणान्य्, अन्यथा तत्-कृत-निखिल-व्यवहार्ôच्छेद-प्रसङ्गात्, तद्-उच्छेदे च दृष्ट-हान्य्-आद्य्-आपत्तेः, तथ्âपि केचिद् वितत-मोह्âवष्टब्ध्âन्तः-करणास् तत्-स्वरूपम् अनुभवन्तो ऽपि न लक्षयन्ति, ततस् तान् अवलोकयताम् अस्माकं तद्-विषय-कृपा-परीत-चेतसां यथ्âवस्थित-प्रमाण-लक्षण्âविर्-भावन-द्वारेण व्यामोहम् एतेषाम् अपसारयाम इति प्रमाण-लक्षण्âभिधानं प्रति प्रवर्तते चेतः. तद् इदं प्रयोजनं: तद्-व्यामोह-निवृत्तिः स्याद् इति; तस्मिन् प्रमाण-लक्षणे व्यामोहो विपरीत्âभ्युपगमवतां विपर्यास-लक्षणस् तीर्थ्यानां प्रमाण्âप्रमाण-विवेक-विकलानाम्, अनध्यवसाय्âत्मकस् तु मुग्ध-बुद्धीनां लौकिकानाम्, तस्य निवृत्तिर् अविपरीत-लक्षण्âवगमाद् अपगम इत्य् अर्थः, सा स्याद् भवेत्. केषाम् इत्य् आह: व्यामूढं विपरीत-ग्रह-ग्रस्तं विचित्ततां गतं मनो ऽन्तः-करणं येषां ते तथा तेषाम्; इह्êति लोके -- तद् अयं तात्पर्य्âर्थः. यद्य् अनादि प्रसिद्धं प्रमाण-लक्षणं प्रति न केचिद् अपि व्यामुह्येयुस् तदा यद् भवद्भिः प्राग् उदग्राहि: ‘निरर्थकं प्रमाण-लक्षण्âभिधानम्ऽ; इति तद् युक्तम् एव स्यात्. न च्âइतद् एवं; तत्र व्यामूढानां दर्शनात्. एतेन यद् अदायि दूषणं ‘प्रमाण-लक्षणम् अनिश्चितं निश्चितं व्âभिधीयतऽ; इत्य्-आदि तद् अपि सिद्ध-साध्यता-मध्य-प्रतिबद्धत्वान् न बाध्âविधाय्य् अस्माकम् इति मन्तव्यम्. व्यामूढ-मनसो ऽपि प्रति प्रमाण-लक्षण-प्रकाशने तल् लगत्îति चेन्, न, स्व-संवेदन-सिद्धस्य वचनेन प्रकाशनात्, तस्य व्यामोह्âपोह एव व्यापारात्. यथा विविक्त-भू-तल्âवलोकने ऽप्य् अध्यक्षात् यो घट्âदि-वैविक्त्यं न प्रतिपद्यते, कुदर्शन-व्यामोहात्, तं प्रत्युच्येत: ‘न्âस्त्य् अत्र घट, उपलम्भ-कारण-समग्रतायाम् अप्य् अनुपलम्भाद्ऽ, वैविक्त्यं हि तत्र्âध्यक्ष-सिद्धं, वचनाद् व्यामोहो निवर्त्येत; तथ्êह्âपि विद्वद्भिर् द्रष्टव्यम्. निर्णीतं तल्-लक्षणम् अध्यक्षेण, तस्य व्यवसाय-रूपत्वाद्, वचनं पुनर् विपरीत्âरोप-निराकरणे व्याप्रियत इति स्थितम्. तद् एवं प्रमाण-लक्षणं सामान्येन प्रतिपाद्य तद्-गतं कुचोद्यं पर्यहार्य् आचार्येण.
SK
[NAV_४.०] अधुना तद्-विषयाम् एव संख्या-विप्रतिपत्तिं निराचिकीर्षता ये प्रत्यक्ष-परोक्ष-लक्षणे प्रमाण-व्यक्ती प्राक् प्रक्रान्ते, तयोर् अपि लक्षणं प्रति विप्रतिपद्यन्ते ऽपरे. अतस् तल्-लक्षणम् अपि वक्तव्यम् इति तावत् प्रत्यक्ष-लक्षणम् अभिधातुकाम आह:
SK
अपरोक्षतय्âर्थस्य ग्राहकं ज्ञानम् ईदृशम् / प्रत्यक्षम्, इतरज् ज्ञेयं परोक्षं ग्रहण्êक्षया // NA_४ //
SK
[NAV_४.१] तत्र प्रत्यक्षम् इति लक्ष्य-निर्देशः, अपरोक्षतय्âर्थस्य ग्राहकं ज्ञानम् इति लक्षण-निर्देशः. परोक्षो ऽक्ष-गोचर्âतीतस्, ततो ऽन्यो ऽपरोक्षस्, तद्-भावस् तत्ता तया, साक्षात्-कृततय्êति यावत्. अर्यत इत्य् अर्थो ऽवगम्यत इति हृदयम्; अर्थ्यत इति व्âर्थो दाह-पाक्âद्य्-अर्थ-क्रिय्âर्थिभिर् अभिलष्यत इति यावत्. तस्य ग्राहकं व्यवसाय्âत्मकतया साक्षात् परिच्छेदकं यज् ज्ञानं, तद् ईदृशम् इत्îदृग् एव प्रत्यक्षम् इति सण्टङ्कः. तत्र ज्ञान-ग्रहणेन यत् सांख्याः प्राहुः: ‘श्रोत्र्-आदि-वृत्तिः प्रत्यक्षम्ऽ; इति तत् तिरस्-करोति, श्रोत्र्-आदीनां प्रकृति-विकारतया तद्-वृत्तेर् व्यापार-लक्षणाया जडतया प्रत्यक्षत्व्âयोगाद्; अर्थ-परिच्छित्ति-हेतुतया प्रत्यक्षत्वे आलोक्âदि-जड-कारण-कलाप-व्यापारस्य्âपि प्रत्यक्षत्âपद्येत, विशेष्âभावाद् इति.
SK
[NAV_४.२] अर्थस्य ग्राहकम् इत्य् अस्य ग्रहण्êक्षय्êति वक्ष्यमाण-पद-सापेक्षत्वाद्, अमुना बहिर् अपि ये ऽर्थ-कल्âकलन-विकलं सकलम् अपि ज्ञानं प्रलपन्ति तान् निरस्यति; स्व्âंश-ग्रहणे ह्य् अन्तः-संवेदनं व्याप्रियते यथा -- तथा बहिर् अप्îतरथ्âर्थवज् ज्ञान-सन्तान्âन्तराण्य् अपि विशीर्येरन्, स्वप्न-दृष्ट्âन्तेन तद्-अनुमानस्य्ôपप्लव-मात्रत्âपत्तेः, स्व-विज्ञानस्य्âइव तथा तथा विजृम्भणात्. तथा च प्रमाण-प्रमेय-प्रतिपाद्य-प्रतिपादक-कार्य-कारण-भाव्âदयः प्रलीयेरन्न्, आत्म-व्यतिरेकेण्âत्मीय-पूर्व्ôत्तर-क्षणयोर् अपि ज्ञानस्य प्रवृत्ति-निरोध्âपत्तेः. अद्वय-विज्ञान-तत्त्व-साधनेन्âनुकूलम् आचरस्îति चेत्, स्याद् एतत्, यदि भवतः प्रमाण-परिदृष्ट-सकल-व्यवहार्ôच्छेदेन कुदर्शन-वासन्âहित्âदृष्ट्âद्वय-तत्त्व-परिकल्पनात् प्रतिकूलं न स्यात्. तन् न्âर्थ-विरहेण बहिः-प्रमाण-भूत-ज्ञान्ôल्लासो ऽस्ति, निर्हेतुकत्व-प्रसङ्गाद् इति.
SK
[NAV_४.३] ग्राहकम् इति च निर्णायकं द्रष्टव्यम्, निर्णय्âभावे ऽर्थ-ग्रहण्âयोगात्. तेन यत् ताथागतैः प्रत्यपादि: ‘प्रत्यक्षं कल्पन्âपोढम् अभ्रान्तम्ऽ; इति तद् अपास्तं भवति, तस्य युक्ति-रिक्तत्वात्. तथा हि: ते निर्विकल्पकत्वे ऽध्यक्षस्य्âयुक्तीः खेटयन्ति -- किल्êदम् अर्थ-सामर्थ्येन्ôदीयते, सन्निहित्âर्थ-क्रिया-समर्थ्âर्थ-ग्राहकत्वात्. न च्âर्थे ध्वनयः सन्ति, तद्-धेतु-विलक्षण-कारण्âन्तर-जन्यत्वात्, ततश् च्âसाव् उपनिपत्य स्व-गोचरं संवेदनम् उत्थापयन् स्व्âकारम् अनुकारयति. तन् न तद्-ग्राहिणि विज्ञाने शब्द-संश्लेषो युक्तः. किं च, यद्य् उत्पादक्âर्थ्ôपयोगे ऽपि तं तावन् न गृह्णीयात्, संवेदनम् अपि तु स्मरण-सम्पादितं तद्-अभिधायक-ध्वनि-संयोजनं प्रतीक्षमाणं तावद् आसीत, तर्हि दत्तो जल्âञ्जलिर् अर्थ-ग्रहणस्य. तथा हि: तम् अर्थम् अपश्यंस् तस्मिन् गृहीत-सङ्केतं तद्-अभिधायक-ध्वनिं न्âनुस्मरत्य्, उपाय्âभावाद्, अननुस्मरंश् च पुरो-वर्तिन्य् अर्थे न योजयति, स्मृत्य्-उपस्थापन-व्यतिरेकेण तद्-योजन्âशक्तेर्, अयोजयंश् च भवद्-अभिप्रायेण न पश्यत्îति धान्ध्याद् आन्ध्यमापद्येत. यदि च्êन्द्रियजम् अपि ज्ञानं विकल्प-कलुषितम् इष्येत, तदा तद् अपि मनो-राज्य्âदि-विकल्पवद् विकल्प्âन्तर्âविर्-भावे सति निवर्तेत; न च्âइतद् अस्ति, सन्निहित-गो-पिण्ड-गोचरस्य चक्षुर्ज-संवेदनस्य्âश्व्âदि-विषय-विकल्प्ôदये ऽप्य् अनिवर्तनात्, संहृत-सकल-विकल्पस्य्âपि च परिस्फुट-सन्निहित्âर्थ-विषय-दर्शन-सिद्धेः. तन् न्âक्षजं ज्ञानं शब्द-सम्पर्कम् अनुभवत्îति.
SK
[NAV_४.४] अत्र प्रतिविधीयते -- यत् तावद् उक्तम्: अशब्दक्âर्थ-सामर्थ्य्ôद्भवत्वाद् ध्वनि-रहितम् अध्यक्षम् इति, तद् अयुक्तं, न हि शब्द्âसम्पृक्त्âर्थजम् इत्य् एतावत्âइव्âभिलाप-विना-कृतम् इति वक्तुं शक्यम्, अन्यथा जड्âर्थ-जनितम् इति जडम् अपि तत् स्यात्. अथ बोध-रूप-मनस्कार-साहित्यान् न जडम् इति ब्रूषे, तथा सत्य् अभिलाप-संसृष्ट-मनस्कार-सन्नियोगात् स्âभिलापम् अपि स्यात्. किं च, विविक्ताः परम्âणवः स्व्âकार्âर्पण-द्वारेण स्व-गोचरं ज्ञानम् उत्पादयन्तः कथम् असन्तम् आत्मनि स्व्âवयव-व्यापिनं काल्âन्तर-संचरिष्णुम् आकारं तत्र प्रथयन्ति. विभ्रमाद् इति चेन्, न, न्êदानीम् अर्थे यद् अस्ति तद् एव प्रतिभाति, तत्र्âसतो ऽपि स्थूर्âकारस्य प्रतिभासनात्. तथा शब्दो ऽपि. यद्य् अविद्यमानो ऽर्थे तद्-ग्राहिणि ज्ञाने प्रतिभासेत किं क्षूयेत? यच् च्ôक्तम्: ‘स्मरण-जनित-शब्द-संयोजनं प्रतीक्षमानम् अर्थ्ôपयोगे ऽपि यद्य् आसीत्êत्य्ऽ-आदि यावद् ‘आन्ध्यम् आपद्येतऽ, तत् तावक-पक्षे ऽपि समानम्. तथा हि: स्वलक्षण-विषय्êन्द्रियज-निर्विकल्पक-ज्ञान-सद्भावे ऽपि न तावद् इदं-तय्âनिदं-तया व्âर्थ-व्यवस्थितिर्, यावद् विधि-प्रतिषेध-द्वारेण विकल्प-युगलकं पाश्चात्यं नोदयते, यत्र्âइव्âंशे विकल्पं जनयति, तत्र्âइव्âस्य प्रमाणत्êति-वचनान्, निर्विकल्पकस्य सतो ऽपि व्यवहारं प्रत्य् असत्-कल्पत्वात्. स च विकल्पः सङ्केत-काल-भावितम् अभिलाप-सामान्यम् अनुस्मरत एव्ôत्पत्तुम् अर्हति, अभिलाप-सामान्य-स्मरण-बीजं च कुतः प्रबुध्येत? तादृश-दर्शनाद् इति चेन्, ननु तद् अपि दर्शनं निर्विकल्पकत्वाद् अर्थं न्âतिशेते, तत् कथं सामान्य-विषय-विकल्प-बीजं प्रबोधयेत्? अर्थः पुनः सामान्य-व्यवसाय्âत्मिकां बुद्धिं न जनयेद् इति भवतां कदाग्रहः. तद् अर्थवत् तद्-विषयं दर्शनं व्यवसाय-शून्यत्वान् न्âभिलाप-सामान्य-गोचर-स्मरण-बीजं प्रबोधयति; तद् अप्रबुद्धं न स्मरणं जनयत्य्; अजातं स्मरणं न शब्दं योजयत्य्; अयोजितः शब्दो न्âर्थं निश्चाययत्य्; अनिश्चितो ऽर्थो न व्यवहारम् अवतरत्य्; अनवतीर्णो न्âदृष्टाद् विशिष्यते; अविशिष्टः प्रमातुर् आन्ध्यं लक्षयत्îति. तस्माद् यथा कथञ्चिन्-निर्णय्âभावात् स्वयम् अप्रतीतम् अपि निर्विकल्पक-दर्शनं वासना-प्रबोध-द्वारेण विकल्पम् उत्थाप्य्âत्म-व्यापारम् अभिलापयति कतिचिद्-अंश-विषयं, तथ्âर्थो ऽपि यदि चक्षुर्-आदि-सामग्र्य्-अन्तः-पातित्वेन्âप्रतीत एव स्वयं, तथा-स्वभ्âवत्वात्, सङ्केत-काल-भावित्âभिलाप-सामान्य-विषय्âत्म-संस्कार-प्रबोध-द्वारेण्âत्म-विषयम् अभिलाप-संसृष्टं संवेदनम् उल्लासयेन् न्âत्यन्तम् अयुक्तं पश्यामः. न च्âयं सविकल्पको बोधो मनो-राज्य्âदि-विकल्प-कल्पश्, चक्षुर्âदि-सामग्री-सम्पाद्यत्वाद्, इतरस्य तु मनो-मात्र-प्रभवत्वात्. अतः कथं तद्-विकल्प्âन्तर्âविर्-भावे निवर्तेत? मानस-विकल्पस्य्âइव विकल्प्âन्तरेण निवर्तनाद्, अस्य तु कारण-सामर्थ्येन बलात् प्रवृत्तेः. एतेन संहृत-सकल-विकल्प्âवस्थायां न्âइष प्रादुःष्याद् इत्य् एतद् अपि प्रतिक्षिप्तम्, अस्य प्रमातुर् इच्छया संहर्तुम् अशक्यत्वान्, मानस-विकल्प-संहरण एव तत्-सामर्थ्य्ôपपत्तेर् इति. एतच् च शब्द-सम्पृक्त-प्रत्यक्ष-पक्षाद् अप्य् एक्âन्त-निर्विकल्पक-प्रत्यक्ष-पक्षस्य पापीयस्तां दर्शयद्भिर् अस्माभिर् उदग्राहि.
SK
[NAV_४.५] परम्âर्थतः पुनः प्रत्यक्षे साक्षाच् छब्द्ôल्लेखो न्êष्यते, विशद-व्यवसायेन्âर्थ-साक्षात्-करण-चतुरत्वात् तस्य. केवलं तद् अपि सन्निहितं परिस्फुटं स्व्âवयव-व्यापिनं काल्âन्तर-संचरिष्णुं स्थगित-क्षण-विवर्तम् अलक्षित-परम्âणु-पारिमाण्डल्यं पद्âर्थ्âन्तरैः सह समान्âसमान्âकारं स्व-परम्âणूनां सामान्य्âकारं स्तम्भ्âधिकं पद्âर्थं गोचरयत्îति सविकल्पकम् इत्य् उच्यते, पर-परिकल्पित-क्षण-क्षयि-विविक्त-परम्âणु-लक्षण-स्वलक्षण-ग्रहण-प्रवण-निर्विकल्पक-प्रत्यक्ष-प्रतिषेध्âर्थं कथञ्चिद्-अभिलाप-संसर्ग-योग्य-गोचरता-दर्शन्âर्थं वा. एवं च प्रत्यक्ष-गोचरी-कृते ऽर्थे संज्ञा-संज्ञि-सम्बन्ध-ग्रहण्âदयस् तद्-विषयाः शाब्द-व्यवहाराः सर्व एव निरुपचरिता घटन्त इत्य् उक्तं भवति. यदि पुनः शब्द-संसर्ग-योग्य-प्रतिभासम् अध्यक्षं न स्यात्, ततः को दोष इति चेद्, विकल्प्âनुत्थानेन सकल-व्यवहार्ôच्छेद-प्रसङ्गः. तथा हि: निर्व्यवसायं दर्शनम् अत्यन्त-पाटव्ôपेतम् अपि स्मृति-बीज्âधानं तद्-उत्तर-काल-भावि वा तादृश्âर्थ-दर्शनं तत्-प्रबोधनम् अभ्यास-वासना-पाटवे ऽपि न विधातुम् अलं, यतः सामान्य-विकल्प्ôत्पत्त्या व्यवहारः प्रवर्तेत, क्षणिकत्व्âदिषु सकल-कालं निर्विकल्पक्âध्यक्ष-दृष्टतय्âभ्युपगतेष्व् अपि तद्-अदर्शनात्. तस्माद् यत्र कुत्रचिद् अर्थ्âंशे पाश्चात्य-व्यवहार-प्रवृत्तिस् तत्र प्राचीनं संवेदनं निर्णायकम् अभ्युपगन्तव्यम्, अन्यथा क्षणिकत्व्âद्य्-अंशवत् सर्व्âंशेषु व्यवहारः प्रलीयेत. तन् न कदाचन कल्पन्âपोढत्वं प्रत्यक्षस्य प्रमातुर् अपि प्रतीति-गोचर-चारिताम् अनुभवति. अप्रतीतं च्âस्त्îति श्रद्धातुं दुःशकम्, अतिप्रसङ्गाद् इत्य् अलक्षणम्.
SK
[NAV_४.६] अभ्रान्तत्वम् अपि न जाघटीति, भवद्-अभिप्रायेण स्थिर-स्थूर्âर्थ-ग्राहिणः संवेदनस्य विपर्यस्त-रूपत्वात्, तद्-विपरीतस्य तु स्वप्न-काले ऽप्य् अप्रकाशमानत्वात्. तद् यदि यथ्âवस्थित्âर्थ-ग्राहित्वम् अभ्रान्तत्वं, तन् न सम्भवत्य् एव, विविक्त-क्षण-क्षयि-परम्âणूनां कदाचिद् अप्य् अप्रतिभासात्, तेषां च पारमार्थिकत्वात्. अथ व्यावहारिक्âभिप्रायेण यद् इदं घट्âदिकं स्वलक्षणम् अर्थ-क्रिया-क्षमं, तत्र यन् न भ्राम्यति तद् अभ्रान्तम् इत्य् अभिप्रेतं, तर्हि कल्पन्âपोढ-पदम् उत्सारणीयम्, इदानीम् अनेन सह्âवस्थान्âभावाद्, व्यवहार्âवतारिणो घट्âदि-स्वलक्षणस्य निर्णयेन्âइव ग्रहणाद्, अन्यथा व्यवहार्âप्रवृत्तेर्, दृष्टस्य्âप्य् अदृष्ट्âनतिशयनात्. तस्माद् व्यवसाय्âत्मकम् अध्यक्षम् इत्य् एतद् एव चार्व् इति स्थितम्.
SK
[NAV_४.७] अपरोक्षतय्êत्य् अनेन तु परोक्ष-लक्षण-सङ्कीर्णताम् अध्यक्षस्य परिहरति, तस्य साक्षात्-कारितया अर्थ-ग्रहण-रूपत्वाद् इति. ईदृशम् इत्य् अमुना तु पूर्व्ôक्त-न्यायात् सावधारणेन विशेषण-कदम्बक-सचिव-ज्ञान्ôपप्रदर्शनात् पर-परिकल्पित-लक्षण-युक्तस्य प्रत्यक्षतां प्रतिक्षिपति. एवं च यद् आहुर्: ᳚इन्द्रिय्âर्थ-सन्निकर्ष्ôत्पन्नं ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसाय्âत्मकं प्रत्यक्षम्᳚ तथा ᳚सत्-सम्प्रयोगे पुरुषस्य्êन्द्रियाणां बुद्धि-जन्म तत् प्रत्यक्षम्᳚ इत्य्-आदि तद् अयुक्तम् इत्य् उक्तं भवत्य्, अपूर्व-प्रादुर्-भावस्य प्रमाण-बाधितत्वाद्, अत्यन्त्âसतां शश-विषाण्âदीनाम् अप्य् उत्पत्ति-प्रसङ्गात्. तस्माद् इदम् आत्म-रूपतया विद्यमानम् एव विशेष-कृद्-धेतु-कलाप-सन्निधानात् साक्षाद् अर्थ-ग्रहण-परिणाम-रूपतया विवर्तेत; तथा च्ôत्पन्न-जन्म्âदि-विशेषणं न सम्भवेत्. अथ्âइवं-विध्âर्थ-सूचकम् एव्âइतद् इत्य् आचक्षीथास्, तथा सत्य् अविगानम् एव्êत्य् आस्तां तावत्.
SK
[NAV_४.८] अधुना परोक्ष-लक्षणं दर्शयति: इतरद् इत्य्-आदि. अपरोक्षतय्âर्थस्य ग्राहकं ज्ञानं प्रत्यक्षम् इत्य् उक्तम्, तस्माद् इतरद् असाक्षाद् अर्थ-ग्राहकं ज्ञानं परोक्षम् इति ज्ञेयम् अवगन्तव्यम्. एतद् अपि स्व-संवेदन्âपेक्षया प्रत्यक्षम् एव, बहिर्-अर्थ्âपेक्षया तु परोक्ष-व्यपदेशम् अश्नुत इति दर्शयन्न् आह: ग्रहण्êक्षय्êति; इह ग्रहणं प्रक्रमाद् बहिः प्रवर्तनम् उच्यते, ऽन्यथा विशेषण-वैयर्थ्यात्; तस्य्êक्ष्âपेक्षा तया; बहिः-प्रवृत्ति-पर्यालोचनय्êति यावत्. तद् अयम् अर्थो: यद्य् अपि स्वयं प्रत्यक्षं, तथ्âपि लिङ्ग-शब्द्âदि-द्वारेण बहिर्-विषय-ग्रहणे ऽसाक्षात्-कारितया व्याप्रियत इति परोक्षम् इत्य् उच्यते. एतच् च बुभुत्सित्âर्थ्âन्यथ्âनुपपन्न्âर्थ्âन्तर-प्रतीति-वशाद् उदय-धर्मकं इति. सामान्य-लक्षण-सद्भावाद् एक्âकारम् अपि विप्रतिपत्ति-निराकरण्âर्थं द्विधा भिद्यते, तद् यथा: अनुमानं शाब्दं च्êति. यतो ऽद्य्âपि शब्दस्य्âर्थ्âन्यथ्âनुपपन्नत्वम् एव परे न प्रतिपद्यन्ते, न च्âपृथक्-कृतस्य तद्-विविक्तं वक्तुं शक्यम्, अतो भेदेन्ôपन्यासः.
SK
[NAV_५.०] तत्र तावद् अनुमान-लक्षणम् अभिधित्सुर् आह:
SK
साध्य्âविन्âभुनो लिङ्गात् साध्य-निश्चायकं स्मृतम् / अनुमानं, तद् अभ्रान्तं प्रमाणत्वात् समक्षवत् // NA_५ //
SK
[NAV_५.१] इह्âप्य् अनुमानम् इति लक्ष्य-निर्देशः, तस्य प्रसिद्धतया अनूद्यत्वात्. साध्य्âविन्âभुनो लिङ्गात् साध्य-निश्चायकम् इति लक्षण-निर्देशः, तस्य्âप्रसिद्धतया विधेयत्वाद् इति. अत्र्âप्य् अनुमान-शब्दस्य कर्त्र्-आदि-कारक-व्युत्पत्ति-क्रमेण्âर्थ-कथनं प्रमाण-शब्दवद् द्रष्टव्यम्. ततश् च्êह्âपि लिङ्ग-ग्रहण-साध्य्âविन्âभावित्व-लक्षण-लिङ्ग-सम्बन्ध-स्मरण-कालात् [Aनु] पश्चान् मीयते परिच्छिद्यते ऽर्थो ऽनुमेयः पावक्âदिर् येन ज्ञानेन तद् अनुमानम् इति. तत् किं-भूतम् इत्य् आह: साध्य-निश्चायकम् इति -- साधनम् अर्हति, साधयितुं वा शक्य इति साध्यो ऽनुमेय इत्य् अर्थः; तस्य निश्चायकं तत्-स्वरूप-निर्णायकम् इति यावत्. तत् कुत इत्य् आह: लिङ्गाल् -- लिङ्ग्यते गम्यते ऽर्थो ऽनेन्êति लिङ्गं हेतुस् तस्मात्. किं-भूताद् इत्य् आह: साध्य्âविन्âभुन इति -- विना भवत्îति विन्âभु, ततो ऽन्यद् अविन्âभु, साध्येन्âविन्âभु साध्य्âविन्âभु, साध्यं विमुच्य यन् न भवत्îत्य् अर्थः, तस्मात् साध्य-निश्चायकं ज्ञानं तद् अनुमानम्. स्मृतम् अभिप्रेतं नीतिविद्भिर् इति सम्बन्धः. तत्र लिङ्गात् साध्य-निश्चायकम् इत्य् अनेन्âनुमानस्य प्रत्यक्ष-शाब्द-लक्षण-सङ्कीर्णतां वारयति. साध्य्âविन्âभुन इत्य् अनेन पर-प्रणीत-लिङ्ग-लक्षण-व्युदासम् आचष्टे.
SK
[NAV_५.२] ततश् च यत् परे प्रोचुः -- पक्ष-धर्मत्व्âन्वय-व्यतिरेक-लक्षण-रूप-त्रय्ôपलक्षितानि त्रीण्य् एव लिङ्गानि: अनुपलब्धिः स्वभावः कार्यं च्êति; तद् उक्तम्: ᳚अनुमेये ऽथ तत्-तुल्ये सद्भावो, न्âस्तित्âसति / निश्चित्âनुपलम्भ्âत्म-कार्य्âख्या हेतवस् त्रय᳚ // इति;
SK
[NAV_२] तथ्âन्ये: ᳚ऽस्य्êदं कार्यं कारणं संयोगि समवायि विरोधि च्êति लैङ्गिकम्᳚ इति, तथा: ᳚पूर्ववच् छेषवत् सामान्यतो-दृष्टम्᳚ इत्य्-आदि -- तद् बाल-प्रलपित-प्रायम् इत्य् अवगन्तव्यं, सर्वत्र साध्य्âविन्âभावित्वस्य्âइव गमकत्वात्, तद्-रहितस्य तु त्रैलक्षण्य-लक्षितस्य्âप्य् अगमकत्वाद्, इतरथा तत्-पुत्रत्व्âदीनाम् अपि गमकत्व-प्रसङ्गान्, नियमवत्. त्रैलक्षण्यं लक्षणं, न यत्-किञ्चित्, तेन्âयम् अप्रसङ्ग इति चेन्, न, नियमेन साध्य्âविन्âभावित्वस्य्âइव्ôद्दीपनात्; तच् चेद् अस्ति किं त्रैलक्षण्य्âपेक्षया, तस्य्âइव गमकत्वात्. तथा हि: जल-चन्द्रान् नभश्-चन्द्रं, कृत्तिक्ôदयाच् छकट्ôदयं, पुष्पित्âइक-चूतात् पुष्पित्âशेष-चूतान्, चन्द्र्ôदयात् कुमुद्âकर-प्रबोधं, वृक्षाच् छायाम् इत्य्-आदि पक्ष-धर्मत्व-विरहे ऽप्य् अनुमिमीमहे. काल्âदिकस् तत्र धर्मी समस्त्य् एव, तत्र पक्ष-धर्मता लिङ्गस्य गृह्यत इति चेन्, न्âतिप्रसङ्गाद्, एवं हि शब्दस्य्âनित्यत्वे साध्ये काक-कार्ष्ण्य्âदेर् अपि गमकत्व-प्रसक्तेस्, तत्र्âपि लोक्âदेर् धर्मिणः कल्पयितुं शक्यत्वात्. तथ्âन्वय-विकलो ऽप्य् अनित्यः शब्दः, श्रावणत्वाद् इत्य् अयं सम्यग्-घेतुतया समर्थयितुं शक्य इति, न्âन्वयो ऽपि हेतोर् लक्षणम्. तथा हि: तावक्âकूतेन्âइव सकलं सत्त्वम् अनित्यतया क्रोडी-कृतम् इति भाव-धर्मः श्रावणत्वं कथम् अनित्यतां विहाय विपक्षे वर्तितुम् उत्सहेत, तद्-विकलस्य निःस्वभावत्âपत्तेर्, अनित्यता-विनिर्मुक्तस्य सत्त्वस्य्âसम्भवावत्. एतेन स्âत्मकं जीवच्-छरीरं, प्राण्âदिमत्त्वान्, निरात्मकत्वे तद्-वैकल्य-प्रसङ्गाद्, घट्âदिवद् इत्य् अयम् अपि गमको व्याख्यातः, साध्य्âर्थ्âन्यथ्âनुपपन्नत्वस्य्âत्र्âपि सद्भावात्, पक्ष-धर्मत्व्âन्वययोस् त्व् अलक्षणतया प्रतिपादनात्.
SK
[NAV_५.३] तथा कार्य-स्वभाव्âनुपलब्धि-रूप-लिङ्ग-त्रय-नियमो ऽपि किल तादात्म्य-तद्-उत्पत्ति-लक्षण-सम्बन्ध्âस्तित्वम् एतेष्व् एव्êति यः क्रियते, सो ऽप्य् अयुक्तः, प्रकृत-सम्बन्ध-द्वय-विकलस्य्âपि रूप्âदे रस्âदि-गमकत्व-दर्शनात्. मा भूत् तस्य तादात्म्य-तद्-उत्पत्तिभ्यां गमकत्वं, समवायाद् भविष्यति, तथ्âपि न्âन्यथ्âनुपपन्नत्वम् एव हेतोर् लक्षणम् इति यदि वैशेषिको मन्येत, सो ऽन्यथा निर्लोठनीयः. स हि विकल्पतः पर्यनुयोज्यः: समवायिभ्यः समवायो ऽभिन्नो भिन्नो वा. यद्य् अभिन्नः, समवायिन एव तर्हि, न समवायः, तद्-अव्यतिरिक्तत्वात्, तत्-स्वरूपवत्. भिन्नश् चेत्, स कथं तेषु वर्तेत: सामस्त्येन्âहोस्विद् एक-देशेन? तद् यदि सामस्त्येन, तद् अयुक्तं, समवाय-बहुत्व-प्रसङ्गात्, प्रतिसमवायि तस्य परिसमाप्तत्âवाप्तेः. अथ्âइक-देशेन, तद् अप्य् अचारु, स्âंशता-प्रसङ्गेन निरवयवत्व-क्षतेः, स्व्âंश-वर्तने ऽपि सामस्त्य्âइक-देश-चोद्य्âवताराच् च. तत्र्âपि सामस्त्य-पक्षे बहुत्वं तद्-अवस्थम् एव. एक-देश-पक्षे त्व् अंश्âन्तर-प्रसङ्गेन्âनवस्था. तन् न समवाय-बलात् गमकतां प्रत्य् आशाविधेया, तस्य्âइव तत्र दुःस्थितत्वात्. एतेन संयोगिनो ऽपि गमकता प्रत्युक्ता, समान-दूषणत्वात्. विरोधिनो ऽपि विरुद्ध्âभाव-गमकत्वम् अन्यथ्âनुपपन्नत्वम् एव सूचयति, तद्-अभावे गमकत्व्âयोगात्.
SK
[NAV_५.४] एवं पर-परिकल्पितम् अन्यद् अपि लिङ्ग-लक्षणं यद् गमकत्âङ्गं तद् अन्यथ्âनुपपन्नत्वं न व्यभिचरति, साध्यं विन्âप्य् उपपद्यमानस्य गमकता-वैकल्याद् इति; अत्र्âइव व्यापके लिङ्ग-लक्षणे ऽन्तर्-भावनीयं, विपरीतं तु निरसनीयम् इति स्थितम्.
SK
[NAV_५.५] तद् एवम् अनुमान-लक्षणं प्रतिपाद्य्âधुना यच् छौद्धोदनि-शिष्यकैर् न्यगादि, यद् उत -- भ्रान्तम् अनुमानम्, सामान्य-प्रतिभासित्वात्, तस्य च बहिः-स्वलक्षणे व्यतिरेक्âव्यतिरेक-विकल्पाभ्याम् अपाक्रियमाणतय्âयोगात्, तद्-रूपतया च तेन तस्य्âध्यवसायाद्, अतस्मिंस् तद्-ग्रहणस्य च भ्रान्ति-लक्षणत्वात्. प्रामाण्यं पुनः प्रणालिकया बहिः स्वलक्षण-बल्âयातत्वाद् अनुमानस्य. तथा हि: न्âर्थं विना तादात्म्य-तद्-उत्पत्ति-रूप-सम्बन्ध-प्रतिबद्ध-लिङ्ग-सद्भावो, न तद् विना तद्-विषयं ज्ञानं, न तज्-ज्ञानम् अन्तरेण प्राग्-अवधारित-सम्बन्ध-स्मरणं, तद्-अस्मरणे न्âनुमानम् इत्य्, अर्थ्âव्यभिचारित्वाद् भ्रान्तम् अपि प्रमाणम् इति सङ्गीर्यते; तद् उक्तम्: ᳚अतस्मिंस् तद्-ग्रहो भ्रान्तिर् अपि सम्बन्धतः प्रम्êति᳚ -- तद् अपाकर्तुम् आह: तद् अभ्रान्तम् इत्य्-आदि. तद् अनुमानं, भ्राम्यति स्व-गोचरे विपर्यस्यत्îति भ्रान्तं, ततो ऽन्यद् अभ्रान्तम्, अविपरीत्âर्थ-ग्राह्îति यावत्. इयं च प्रतिज्ञा. प्रमीयते यथ्âवस्थितो ऽर्थः परिच्छिद्यते ऽनेन्êति प्रमाणं, तद्-भावस् तत्-त्वं तस्मात्. अयं तु हेतुः. सङ्गतम् अक्षाणाम् इति समक्षं, तद् इव समक्षवद् इति दृष्ट्âन्तः. तद् इदम् अनुमानस्य भ्रान्तता-निराकारकं सम्पूर्ण्âवयवम्, उपनय-निगमनयोर् अवयव-त्रय-प्रतिपादनेन्âइव्âक्षिप्तत्वात्. प्रमाणं सूचितम्, प्रयोगस् त्व् एवं द्रष्टव्यो: ऽभ्रान्तम् अनुमानं, प्रमाणत्वाद्, इह यद् यत् प्रमाणं तत् तद् अभ्रान्तं यथा समक्षं, तथा च प्रमाणं भवद्भिर् अभ्युपगम्यते ऽनुमानं, तस्मात् प्रमाणत्वाद् अभ्रान्तम् इति प्रतिपद्यन्ताम् इति. तत्र्âर्थ-वादी तावत् समक्ष-लक्षणे दृष्ट्âन्ते साध्य-विकलताम् आविर्-भावयितुं न पारयति, स्वयम् एव समक्षस्य्âभ्रान्ततया ऽभ्युपगमात्. शून्य-वादिनः पुनः समस्त्âपलापित्वात् प्रमाण-प्रमेय-व्यवहारं प्रत्य् अयोग्यत्âइव्êति न तम् अधिकृत्य स्व-साधन-दोषाः परिहर्तव्याः, स्व-वचन-बाधित-प्रतिज्ञत्वेन तद्-वाद्ôत्थान्âभावात्. तथा हि: सर्व्âभाव-प्रतिपादकं वचो ऽस्ति, न्âस्ति वा? यद्य् अस्ति तर्हि प्रतिज्ञा-हानिः. अथ न्âस्ति, सकल-भाव-सिद्धिः, प्रतिषेधक्âभावात्.
SK
[NAV_६.०] ज्ञान-वादी पुनर् वेद्य-वेदक्âकार-विकलं सकल-विकल्प-गोचर्âतीतं निर्विकल्पकं विविक्त-पारमार्थिक-स्व-संवेदन-वेद्यं संवेदनम् आगूर्य्âनादि-काल्âलीन-वासना-बल-प्रभावितं ग्राह्य-ग्राहक्âकार-कलुषितं बहिष्-प्रथमानं निखिलम् अपि ज्ञानं विपर्यस्ततया प्रतिजानानः समक्ष-लक्षणस्य प्रकृत-दृष्ट्âन्तस्य साध्य-शून्यताम् अभिदध्याद्, अतस् तन्-मत-विकुट्टन्âर्थम् आह:
SK
न प्रत्यक्षम् अपि भ्रान्तं प्रमाणत्व-विनिश्चयात् / भ्रान्तं प्रमाणम् इत्य् एतद् विरुद्धं वचनं यतः // NA_६ //
SK
[NAV_६.१] यद् भवतश् चेतसि विवर्तते, यद् उत न केवलम् अनुमानं भ्रान्तं, किं तर्हि यद् भवद्भिर् दृष्ट्âन्ततय्ôपात्तं प्रत्यक्षं तद् अपि भ्रान्तम् एव, ᳚सर्वम् आलम्बने भ्रान्तम्᳚ इत्य् वचनात्, तद् एतन् न. कुत इत्य् आह: प्रमाणत्व-विनिश्चयाद् इति, प्रमाण-भाव-निर्णयाद् इत्य् अर्थः.
SK
[NAV_६.२] ननु च प्रमाणताम् अभ्रान्तत्âन्यथ्âनुपपन्नां यदि परः प्रतिपद्यते, ततस् ताम् अभ्युपगच्छन् कथं भ्रान्तता-विप्रतिपत्तिं विदध्याद् इति पार्श्व-स्थित-वचन्âवकाशम् आशङ्क्य, भ्रान्तता-प्रमाणतयोर् विरोध-साधनेन ततः प्रमाणतां व्यावर्त्य्âनन्य-शरणतया प्रतिज्ञात्âभ्रान्तत्âक्रान्तां तां दर्शयन्न् आह: भ्रान्तम् इत्य्-आदि. भ्रान्तं विपर्यस्तम् अथ च प्रमाणं ग्राह्य-परिच्छेद-हेतुर् इत्य् एतद् वचनम् एवं-विद्ध्âर्थ-प्रत्यायको ध्वनिर् विरुद्धं, पूर्व्âपर-व्याहत्âर्थ-गर्भत्वात्.
SK
[NAV_६.३] ननु च न्âइव्âस्य विरुद्धता, तथा ह्य्: अविदित-परम्âर्थ-व्यावहारिक्âभिप्रायेण लोक-संवृतिं घटयन्तो वयं दृढतर-वासना-प्रबोध-सम्पादित-सत्ताकयोः प्रत्यक्ष्âनुमानयोः प्रमाणताम् आचक्ष्महे, तद्-अभिप्रायेण दर्शित्âर्थ-प्रापकत्वेन तयोर् अविसंवादकत्वात्. शिथिल-वासन्âउन्मुख्य-निर्मित-जन्मकयोः पुनर् अप्रमाणतां, तद्-आकूतेन्âइव दर्शिते ऽर्थे विप्रलम्भनाद् इति, भ्रान्ततां पुनस् तत्त्व-चिन्तक्âभिप्रायेण सकलस्य बहिर् उपप्लवमानस्य ग्राह्य-ग्राहक्âकार-कालुष्य-दूषितस्य प्रतिभासस्य पारमार्थिक्âद्वय-संवेदन-विपर्यस्त-रूपत्वाद् अभिदध्महे, बहिः प्रतिभासस्य तद्-ग्राह्य्âर्थ-विचार्âक्षमतय्ôपप्लुत-रूपत्वात्. तथा ह्य्: अर्थो ऽवयवि-रूपो ऽवयव-रूपो वा स्याद्, गत्य्-अन्तर्âभावात्. न तावद् अवयवि-रूपो विचारं क्षमते, ऽवयव-विरहे ऽवयवित्व्âयोगात्, तेषु च तद्-वृत्ति-विकल्प्âनुपपत्तेः. तथा हि: तेष्व् असाव् एकदेशेन वर्तते सामस्त्येन वा. न तावद् एकदेशेन, तस्य स्वयं निरवयवत्वात्. अवयव-वृत्ति-निमित्तम् अंश्âन्तर-कल्पने तद्-वृत्ताव् अप्य् अंश्âन्तर-कल्पन-प्रसङ्गस्, तथा च्âनवस्था. न्âपि सामस्त्येन, प्रत्य्-अवयवं परिसमाप्त-रूपतय्âवयवि-बहुत्व-प्रसङ्गात्. भेद-पक्षे दोषो ऽयम्, अभेद-पक्षे न्âस्त्îति चेन्, न: तत्र्âप्य् अवयव-मात्रम् अवयवि-मात्रं वा स्याद्, इतर्êतर्âव्यतिरिक्तत्वाद्, इतर्êतर-स्वरूपवत्. किं च, समस्त्âवयव-व्यापिनो ऽवयविनो ऽभ्युपगमे पट्âदेर् एक-देश-राग-कम्प-दर्शन्âदिषु सकल-राग-कम्प-दर्शन्âदीनि दुर्निवाराणि स्युर्, एकस्य राग्âराग्âदि-विरुद्ध-धर्म्âध्यास्âयोगाद् इति. न्âप्य् अवयव-रूपो ऽर्थो विचार-गोचर-चारी कर-चरण-शिरो-ग्रीव्âदीनाम् अवयवानां स्व्âवयव्âपेक्षय्âवयवि-रूपतया तद्-दूषणेन्âइव्âपास्तत्वात्. परम्âणूनां निरंशतय्âवयवत्वम् उपपद्यत इति चेन्, न, तेषाम् अपि दिक्-षट्क-सम्बन्धेन षट्-अंशत्âपत्तेर्, अन्यथ्âवस्थान्âभावात्. ततश् च्âर्थ-विरहात् तद्-उन्मुखो ग्राह्य्âकारो ऽलीकस्, तद्-अलीकतायां ग्राहक्âकारो ऽपि न्âवस्थानम् आबध्नाति, ग्राह्य्âभावे ग्राहक्âयोगात्. तद्-अपेक्षय्âइव तत्-स्वरूप-स्थितिः, ग्राह्य-ग्राहक्âकार-विलये च बोध्âकारो ऽवशिष्यते, तस्य सर्वत्र्âव्यभिचरित-रूपत्वात्, तस्मात् स एव पारमार्थिक इति.
SK
[NAV_६.४] अत्र प्रतिविधीयते -- यद् अवादि संवेदनम् अद्वयं पारमार्थिकं, ग्राह्य-ग्राहक्âकार-प्रवृत्तं पुनर् अतात्त्विकम् इति, तद् अयुक्तं, प्रमाण्âभावात्. तथा हि: बहिर् अन्तश् च्âनेक्âकारतया हर्ष-विषाद्âदिभिः स्थिर-स्थूरत्âद्य्-अनेक-धर्म-परिकरित्âर्थ-ग्रहण-परिणामैश् च विवर्तमानं संवेदनम् उपलभ्यते, न पुनर् वेद्य-वेदक्âकार-विविक्तं यादृग् भवद्भिर् उपवर्ण्यते ज्ञानं तादृशं कस्यचित् कदाचन प्रतीति-गोचर-चारिताम् अनुभवत्य्, अद्वय-प्रतिभासस्य स्वप्न-दशायाम् अप्य् अननुभूतेः. न च तत्त्व-चिन्तका अपि प्रमाणम् अन्तरेण स्व्âकूतं प्रतिष्ठापयन्तः प्रेक्षावताम् अवधेय-वचना भवन्त्य्, अन्यथ्âइकम् अचेतनम् अव्ययम् अपि ब्रह्म्âनेकं चेतनं क्षण-भङ्गुरत्âक्रान्तम् अविद्यातः प्रथत इति ब्रुवाणो ऽनिराकार्यः स्यात्. यद् अपि बहिर्-अर्थ-निराकरण-धिया अवयव्य्-अवयव-द्वारेण दूषणम् अदायि, तद् अपि बहिर् अन्तः प्रथमान-सकल्âसुमत्-प्रतीत-प्रतिभास-मुद्गर-निर्दलित-शरीरतया भक्त-मध्य-निष्ठ्यूत-दर्शिनः पुरतो विप्रतारण-प्रवण-कुट्टिनी-शपथ-प्रायम् इति न विद्वज्-जन-मनांसि रञ्जयति, प्रत्यक्ष-प्रतिभास्âपह्नवे तन्-मूलकत्वात् कुयुक्ति-विकल्पानाम् उत्थान्âभावात्. किं च, संवेदनस्य्âपि सित्âसित्âद्य्-अनेक्âकारेष्व् एकस्य वर्तने भेद्âभेद-सामस्त्य्âइक-देश्âदि-चोद्यं समानम् एव्êति न दूषणम्. अनेक्âकार-विवर्तस्य्âलीकत्वान् न तेन सह संवेदनस्य पारमार्थिकस्य भेद्âभेद्âदि-चिन्त्êति चेन्, नन्व् एवम् इतर्êतर्âश्रयं दुरुत्तरम् आढौकते. तथा हि: तद्-अलीकत्व-सिद्धाव् अद्वय-संवेदन-सिद्धिस्, तत्-सिद्धौ च तद्-अलीकत्वम् इति न्यायात्. अन्यच् च्âद्वयम् अप्य् एक-क्षण-वर्ति संवेदनं यथा पूर्व्ôत्तर-क्षणाभ्यां सम्बन्धम् अनुभवति, तथा निरंशा अपि यदि परम्âणवो दिग्-अंशैः परम्âण्व्-अन्तरैर् वा संश्लेषमागच्छेयुः किम् अयुक्तं स्यात्. न च्âवयव्य्-अवयवयोर् एक्âन्त-व्यतिरेक्âव्यतिरेक-पक्षे यद् दूषणं तद् अस्मत्-पक्ष-बाधा-करं, परस्पर्âविनिर्लुठित-रूपयोर् विवक्षया सन्दर्शनीय-भेदयोस् तयोर् अभ्युपगमाद्, बहिर् अन्तश् च तथ्âइव प्रकाशमानतया तयोर् निह्नोतुम् अशक्यत्वात्. एतेन राग्âराग-कम्प्âकम्प्âदि-विरोध्ôद्भावनम् अपि प्रतिव्यूढं, प्रमाण-प्रसिद्धे ऽर्थे विरोध्âभावात्, प्रमाण-बाधितस्य्âइव विरुद्धत्वात्, कुयुक्ति-विकल्पानां च प्रत्यक्ष्âपह्नवे निर्मूलतया बाधकत्व्âयोगात्, तद्-उद्दलितत्वेन्ôत्थान्âभावाद्, भिन्न-प्रवृत्ति-निमित्तत्वाच् च सर्व-धर्मानां तद्-विपर्यय-सम्पाद्यो विरोधो दूर्âपास्त एव. किं च, स्वयम् एव संवेदनं परम्âर्थ-संव्यवहार्âपेक्षया प्रत्यक्ष्âप्रत्यक्ष-सविकल्पक्âविकल्पक-भ्रान्त्âभ्रान्त्âदि-रूपम् अभ्युपयतो बहिर्-अर्थे विरुद्ध-धर्म्âध्यास-प्रतिषेध-बुद्धिः केवलं जाड्यं सूचयति. तन् न प्रमाणं कथञ्चिद् भ्रान्तं समस्ति, स्वरूप-प्रच्यव-प्रसङ्गाद् इति स्थितम्.
SK
[NAV_६.५] ननु च तद्-दर्शित्âर्थ्âलीकतया ज्ञानस्य भ्रान्तता, न स्वरूपेण, न च तद्-उदय-समये कस्यचिद् इदम् अलीक्âर्थम् इदं त्व् अनलीक्âर्थम् इति विवेकेन्âवधारणं समस्ति, भ्रान्त्âभ्रान्त्âभिमतयोस् तद्-एक-रूपतया प्रकाशनात्. यदा च विशद-दर्शन-पथ-चारिणो ऽपि शश-धर-युगल्âदयो ऽलीकताम् आविशन्तो दृश्यन्ते, तदा सकल-सत्य्âर्थत्âभिमत-प्रतिभासेष्व् अप्य् अलीक्âर्थत्âशङ्क्âनिवृत्तेर् अनाश्वास एव. न च तद्-अर्थ-प्राप्त्य्-आदिकम् आरेका-निराकरण-कारणं कल्पनीयं, स्वप्न्âवस्थायां तत्-सद्भावे ऽप्य् अलीक्âर्थता-सिद्धेः. बाधक-प्रत्यय्ôपनिपातात् तस्य्âसत्य्âर्थत्êति चेन्, न, तस्य स्व-गोचर-पर्यवसितत्वेन बाधकत्व्âयोगात्. अन्यथा नीलम् आददाना देवदत्त-बुद्धिः प्राक्-प्रवृत्त-पीत-बुद्धेर् बाधिक्âपद्येत. सर्व-प्रतिभासस्य बाधक्âभाव-सिद्धेश् च समानता. तस्माद् भ्रान्त्âभ्रान्त-ज्ञान-भ्रान्तिर् इयं भवतां, विवेक्âभावेन सर्वस्य्âलीक्âर्थत्वाद् इति.
SK
[NAV_७.०] अत्र्âह:
SK
सकल-प्रतिभासस्य भ्रान्तत्व्âसिद्धितः स्फुटं / प्रमाणं स्व्âन्य-निश्चायि द्वय-सिद्धौ प्रसिध्यति // NA_७ //
SK
[NAV_७.१] एवं मन्यते: यो ऽपि समस्त-संवेदनस्य भ्रान्ततां प्रतिजानीते, तेन्âपि तत्-साधकस्य्âभ्रान्तत्âभ्युपगन्तव्या, तद्-भ्रान्तत्वे तत्-प्रतिपादित्âर्थ्âलीकत्वेन सकल-ज्ञान्âभ्रान्तता-प्रसङ्गाद्, अन्यथा तद्-भ्रान्तत्âयोगात्. एवं च तज्-जातीयम् अन्यद् अप्य् अभ्रान्तं स्यात्, ततश् च सकल-प्रतिभासस्य समस्त-संवेदनस्य भ्रान्तत्व्âसिद्धितो विपर्यस्तत्व्âनिष्पत्तेर् यत् स्फुटं स्व्âन्य-निश्चायि सुनिश्चिततया स्व-पर-प्रकाशकं तत् प्रमाणम् इति सम्बन्धः. तच् च द्वय-सिद्धौ स्वरूप्âर्थ-लक्षण-युग्म-निष्पत्तौ प्रसिद्ध्यति निष्पद्यते, अन्यथा प्रमेय्âभावे प्रमाण्âभावात्. तस्मात् प्रमाणम् उररी-कुर्वाणेन्âर्थो ऽप्य् अभ्युपगन्तव्य इत्य् अभिप्राय इति.
SK
[NAV_८.०] तद् एवं स्व्âर्थ्âनुमान-लक्षणं प्रतिपाद्य तद्-वतां भ्रान्तता-विप्रतिपत्तिं च निराकृत्य्âधुन्âप्रतिपादित-पर्âर्थ्âनुमान-लक्षण एव्âल्प-वक्तव्यत्वात् तावच् छाब्द-लक्षणम् आह:
SK
दृष्ट्êष्ट्âव्याहताद् वाक्यात् परम्âर्थ्âभिधायिनः / तत्त्व-ग्राहितय्ôत्पन्नं मानं शाब्दं प्रकीर्तितम् // NA_८ //
SK
[NAV_८.१] अत्र्âपि शाब्दम् इति लक्ष्यम्, अनूद्यत्वात्. दृष्ट्êष्ट्âव्याहताद् इत्य्-आदि लक्षणं, विधेयत्वात्. दृष्टेन प्रमाण्âवलोकितेन्êष्टः प्रतिपादयिषितो ऽव्याहतो ऽनिराकृतः सामर्थ्याद् अर्थो यस्मिन् वाक्ये तत्-तथा, प्रमाण-निश्चित्âर्थ्âबाधितम् इति यावत्, तस्मात्. परमो ऽकृत्रिमः पुरुष्ôपयोगी शक्य्âनुष्ठानो व्âर्थो वाच्यस्, तम् अभिधातुं शीलं यस्य तत् परम्âर्थ्âभिधायि, विशिष्ट्âर्थ-दर्शकम् इत्य् अर्थः. ततस् तत्त्व-ग्राहितय्ôत्पन्नं प्रकृत-वाक्य-प्रतिपाद्य्âर्थ्âदान-शीलतया लब्ध्âत्म-सत्ताकं यन् मानं तच् शाब्दम् इति प्रकीर्तितम् उपवर्णितं पूर्व्âचार्यैर् इति सम्बन्धः. तत्र दृष्ट्êष्ट्âव्याहताद् इत्य् अनेन कुतीर्थिक-वचसां लौकिक-विप्रतारक्ôक्तीनां च शाब्दतां निरस्यति, प्रमाण-बाधितत्वात्. वाक्याद् इत्य् अमुना तु वाक्यस्य्âइव नियत्âर्थ-दर्शकत्वात् परम्âर्थ्âभिधायित्êति दर्शयन् पदाच् छाब्द्âभावम् आह. परम्âर्थ्âभिधायिन इत्य् अनेन ज्वर-हर-तक्षक-चूडा-रत्न्âलङ्कार्ôपदेश्âदि-वचन-प्रभव-ज्ञानस्य निष्फलतया प्रामाण्यं निराचष्टे. तत्त्व-ग्राहितय्ôत्पन्नम् इत्य् अमुना त्व् एवं-भूताद् अपि वाक्याच् छ्रोतृ-दोषाद् विपरीत्âद्य्-अर्थ-ग्रहण-चतुरतया प्रादुर्-भूतस्य शाब्दत्वं वारयति. मानम् इत्य् अनेन्âन्तर्-भावित-प्र्ôपसर्ग्âर्थेन शाब्दे परस्य्âप्रामाण्य-बुद्धिं तिरस्-कुरुते, तद्-अप्रामाण्ये पर्âर्थ्âनुमान-प्रलय-प्रसङ्गात्, तस्य वचन-रूपत्वात्. त्र्य्-अवयव-हेतु-सूचकत्वेन्ôपचारतस् तस्य प्रामाण्यं, न तत्त्वत इति चेन्, न्âप्रमाणस्य सूचकत्व्âयोगात्. ननु च हेतु-प्रतिपादने यदि तत् प्रमाणं, ततो हेतु-समर्थक-प्रमाण्âन्तर-प्रतीक्षणं विशीर्येत, तेन्âइव निर्णीत-स्वरूपत्वात् तस्य, प्रमाण-प्रसिद्धे पुनः प्रमाण्âन्तर-वैयर्थ्यात्. न्âइतद् अस्ति, भवत्-परिकल्पित्âध्यक्षस्य्âप्य् अप्रामाण्य-प्रसङ्गात्: तद्-दर्शिते ऽर्थे विकल्प-प्रतीक्षणात् तस्य्âइव प्रामाण्यम् आसज्येत. तद्-गृहीतम् एव्âर्थम् असाव् अभिलापयत्îति चेच् छब्द-प्रतिपादितं हेतुं प्रमाण्âन्तरं समर्थयत इति समानो न्यायः.
SK
[NAV_९.०] शाब्दं च द्विधा भवति: लौकिकं शास्त्र-जं च्êति. तत्र्êदम् द्वयोर् अपि साधारणं लक्षणं प्रतिपादितं. समर्थनं पुनर् अविप्रतारक-वचन-प्रभवस्य्êह्âदि-वाक्य-प्रस्ताव एव लौकिकस्य विहितं, शास्त्र-जस्य तु विधातव्यम् इति यादृशः शास्त्रात् तज्-जातं प्रमाणताम् अनुभवति तद् दर्शयति: आप्त्ôपज्ञम् अनुल्लङ्घ्यम् अदृष्ट्êष्ट-विरोधकम् / तत्त्व्ôपदेश-कृत् सार्वं शास्त्रं कापथ-घट्टनम् // NA_९ //
SK
[NAV_९.२] अत एव्ôल्लङ्घ्यते प्राबल्येन गम्यते ऽभिभूयते अन्यैर् इत्य् उल्लङ्घ्यं, ततो ऽन्यद् अनुल्लङ्घ्यं, सर्व-वचन्âतिशाय्îति यावत्. अत एव दृष्टेन प्रमाण-निर्णीतेन्êष्टस्य तद्-वाच्यस्य विरोधो यस्मिंस् तत्-तथा तद् एव, यदि वा दृष्टः प्रमाणेन, इष्टो वचन्âन्तरेण, तयोर् विरोधकं, तद्-विरुद्ध्âर्थ्âभिधानात्, ततो ऽन्यद् अदृष्ट्êष्ट-विरोधकम्, अबाध्âर्थ्âभिधाय्îत्य् अर्थः.
SK
[NAV_९.३] तद्-इयता शास्त्रस्य स्व्âर्थ-सम्पद् उक्ता. अधुना तत्त्व्ôपदेश्âदीनां पर्âर्थत्वात् पर्âर्थ-सम्पदम् आह: तत्त्वं जीव्âदयः पद्âर्थाः, प्रमाण-प्रतिष्ठितत्वात्, तेषां उपदेशः स्वरूप-प्रकाशनं तद्-रक्षण्âदि-विधानं वा. तं करोति तत्त्व्ôपदेश-कृत्. अत एव सार्वं सर्वस्मै हितं, प्राणि-रक्षण्ôपाय्ôपदेश-परम-पद-दायितया विश्व-जनीनत्वात्. एतेन पर्âर्थ-सम्पादकत्वम् उक्तम्.
SK
[NAV_९.४] अधुना परेषाम् एव्âनर्थ-विघातित्वम् आह: कुत्सिताः पन्थाः कापथास् तीर्थ्âन्तराणि, तेषां घट्टनं विचालकं निराकारकं, सर्व-जन्âपकारि-कुमत-विध्वंसकम् इत्य् अर्थः. ईदृशाद् एव शास्त्राज् जातं शाब्दं प्रमाणं, न्âन्येभ्यो, विप्रलम्भकत्वात् तेषाम् इति.
SK
[NAV_१०.०] अधुना पर्âर्थ्âनुमान-लक्षणं वक्तव्यम्, तच् च प्रत्यक्षे ऽपि पश्यन्न् एक-योग-क्षेमत्वात् सामान्येन्âह:
SK
स्व-निश्चयवद् अन्येषां निश्चय्ôत्पादनं बुधैः / पर्âर्थं मानम् आख्यातं वाक्यं तद्-उपचारतः // NA_१० //
SK
[NAV_१०.१] अत्र पर्âर्थं मानम् इति लक्ष्यं, स्व-निश्चयवद् इत्य्-आदि लक्षणम्. स्व आत्मा तस्य निश्चयः प्रमेय्âधिगमस्, तद्वद् अन्येशां प्रतिपाद्यानां निश्चय्ôत्पादनं प्रमेय-परिच्छेदक-ज्ञान-प्रादुर्-भावनं: यथ्âत्मनो ऽर्थ-निर्णयस् तथा परेषां निर्णय-जननम् इत्य् अर्थः. बुधैर् विद्वद्भिः, परस्मै अर्थः प्रयोजनं येन तत् पर्âर्थं, मीयते ऽनेन्êति मानम्, आख्यातं कथितम्.
SK
[NAV_१०.२] ननु च यदि निश्चय्ôत्पादनं पर्âर्थ-मानं, तथा ज्ञानम् अपि पर-प्रत्यायनाय व्याप्रियमानं पर्âर्थं प्राप्नोत्îत्य् आह: वाक्यं पर्âर्थं, न ज्ञानं, तस्य्âइव्âनन्तर्येण व्यापारात्, पर-प्रयोजन-मात्रत्वाच् च, इतरस्य तु व्यवहितत्वात्, स्व-पर्ôपकारित्वाच् च. कथं वचनम् अज्ञान-रूपं प्रमाणम् इत्य् आह: तद्-उपचारतस्, तस्य ज्ञानस्य्ôपचारो ऽतद्-रूपस्य्âपि तद्-अङ्गतया तद्-रूपत्वेन ग्रहणम्, ततः. इदम् उक्तं भवति: प्रतिपाद्य-गतम् उत्पत्स्यमानं यज् ज्ञानं तद् अव्यवहित-कारणत्वाद् वचनम् अप्य् उपचारेण प्रमाणम् इत्य् उच्यते. तत्र्âनुमानस्य पारार्थ्यं परैर् अभ्युपगतम् एव, प्रत्यक्षस्य न प्रतिपद्यन्ते, किल्êदं शब्द-प्रवेश-शून्य-स्वलक्षण-ग्राह्îति न्âइतद्-गोचरः परेभ्यः प्रतिपादयितुं पार्यते. न च शब्दात् परस्य स्वलक्षण-ग्रहण-दक्षं प्रत्यक्षम् उन्मङ्क्ष्यति, शब्दस्य विकल्प्ôत्पादितत्वेन परस्य्âपि विकल्प्ôत्पादकत्वात्. तद् उक्तं: ᳚विकल्प-योनयः शब्दा विकल्पाः शब्द-योनयः / कार्य-कारणता तेषां न्âर्थं शब्दाः स्पृशन्त्य् अपि᳚ //
SK
[NAV_११.०] निर्विकल्पकं च प्रत्यक्षम्, अतो न शब्द-जन्यम् इत्य् अतो ऽनुमानं दृष्ट्âन्ती-कृत्य प्रत्यक्षस्य्âपि परार्थतां साधयितुम् आह:
SK
प्रत्यक्षेण्âनुमानेन प्रसिद्ध्âर्थ-प्रकाशनात् / परस्य तद्-उपायत्वात् पर्âर्थत्वं द्वयोर् अपि // NA_११ //
SK
[NAV_११.१] प्रत्यक्षेण्âप्य् अनुमानेन्êव प्रसिद्ध्âर्थ-प्रकाशनात् स्व-प्रतीत-प्रमेय-प्रत्यायकत्वात् पर्âर्थत्वं प्रतिपाद्य-प्रयोजनत्वं द्वयोर् अपि प्रत्यक्ष्âनुमानयोस्, तुल्य-कारणत्वान्, न्âनुमानस्य्âइव्âइकस्य्êत्य् अभिप्रायः. इह च्âश्रूयमाणत्वात् तद्-अर्थ-गमनाच् च्âप्îव-शब्दौ लुप्त-निर्दिष्टौ द्रष्टव्यौ. प्रत्यक्ष-प्रतीत्âर्थ-प्रत्यायनं च प्रतिजानानस्य्âयम् अभिप्रायो: यत् परो मन्यते -- न्âइतद्-गोचरं परेभ्यः प्रतिपादयितुं पार्यत इति -- तद् अयुक्तं, निर्विकल्पक्âध्यक्ष्âपोहेन व्यवसाय-रूपस्य प्रत्यक्षस्य प्राग् एव साधितत्वात्, तद्-गोचरस्य कथञ्चिद् विकल्प-गम्यत्वेन शब्द-प्रतिपाद्यत्वात्. तद् यथ्âनुमान-प्रतीतो ऽर्थः परस्मै प्रतिपाद्यमानो वचन-रूप्âपन्नः पर्âर्थम् अनुमानं, तथा प्रत्यक्ष-प्रतीतो ऽपि पर्âर्थं प्रत्यक्षं, पर-प्रत्यायनस्य तुल्यत्वाद्, वचन-व्यापारस्य्âइव भेदात्. तथा ह्य्: अनुमान-प्रतीतं प्रत्याययन्न् एवं वचनयत्य् -- अग्निर् अत्र धूमाद्, यत्र यत्र धूमस् तत्र तत्र्âग्निर्, यथा महानस्âदौ; वैधर्म्येण व्âग्न्य्-अभावे न क्वचिद् धूमो, यथा जल्âशय्âदौ, तथा च धूमो ऽयं, तस्माद् धूमाद् अग्निर् अत्र्êति, अव्युत्पन्न-विस्मृत-सम्बन्धयोस् तथ्âइव प्रतिपादयितुं शक्यत्वात्. स्मर्यमाणे सम्बन्धे पुनर् एवम्: अग्निर् अत्र धूम्ôपपत्तेर्; वैधर्म्येण: अग्निर् अत्र, अन्यथा धूम्âनुपपत्तेः. प्रत्यक्ष-प्रतीतं पुनर् दर्शयन्न् एतावद् वक्ति: ‘पश्य राज गच्छतिऽ. ततश् च वचनाद् द्विविधाद् अपि समग्र-सामग्रीकस्य प्रतिपाद्यस्य्âनुमेय-प्रत्यक्ष्âर्थ-विषया यतः प्रतीतिर् उल्लसत्य्, अतो द्वयोर् अपि पर्âर्थत्êत्य् आह: परस्य तद्-उपायत्वात् प्रतिपाद्यस्य प्रतीतिं प्रति प्रतिपादक-स्थ-प्रत्यक्ष्âनुमान-निर्णीत्âर्थ-प्रकाशन-कारणत्वाद् इत्य् अर्थः. एतेन पूर्व-कारिक्ôक्त्ôपचार-कारणं च लक्षयति.
SK
[NAV_११.२] यच् च्ôक्तं: ‘न शब्दात् परस्य प्रत्यक्ष्ôत्पत्तिस्, तस्य विकल्प-जनकत्वात्, प्रत्यक्षस्य स्वलक्षण-विषयत्वेन निर्विकल्पकत्वात्ऽ; -- तद् अयुक्तं, सामान्य-विशेष्âत्मक्âर्थ-विषयस्य निर्णय-रूपस्य तस्य कथञ्चिद् एक-विषयतया शब्द्ôत्पाद्यत्व्âविरोधाद्, एवं-विधस्य च प्राग् एव समर्थनात्. चक्षुर्-आदि-सामग्रीतस् तद् उत्पद्यते, न शब्दाद् इति चेद्, अनुमानम् अपि प्रत्यक्ष्âदि-निश्चिताद् धेतोर् अविस्मृत-सम्बन्धस्य प्रमातुर् उल्लसति, न शब्दाद्, अतस् तस्य्âपि पर्âर्थता विशीर्येत. समर्थ-हेतु-कथनात् तत्र वचनस्य पर्âर्थत्êति चेद्, अत्र्âपि दर्शन-योग्य्âर्थ-प्रतिपादनाद् इति ब्रूमः. तन् न प्रत्यक्ष-परोक्षयोः पारार्थ्यं प्रति विशेष्ôपलब्धिर् इति मुच्यतां पक्ष-पातः.
SK
[NAV_१२.०] तद् एवं द्वयोर् अपि पर्âर्थतां प्रतिपाद्य तत्-स्वरूपम् आह:
SK
प्रत्यक्ष-प्रतिपन्न्âर्थ-प्रतिपादि च यद् वचः / प्रत्यक्षं प्रतिभासस्य निमित्तत्वात् तद् उच्यते // NA_१२ //
SK
[NAV_१२.१] यद् वचः प्रत्यक्ष-प्रतिपन्न्âर्थ-प्रतिपादि साक्षात्-कारि-ज्ञान-गोचर-कथन-चतुरं तत् प्रत्यक्षम् उच्यत इति सम्बन्धः. तच् च प्रत्यक्ष-रूपम् एव्ôच्यमानं प्रत्यक्षं, विप्रतिपन्नं प्रति पुनर् अनुमान-द्वारेण्ôच्यमानम् अनुमानम् एव्êति च-शब्देन्âनेक्âर्थत्वाद् दर्शयति. वचनं कुतः प्रत्यक्षम् इत्य् आह: प्रतिभासस्य निमित्तत्वात् प्रतिपाद्य-प्रत्यक्ष-प्रकाश-हेतुत्वाद् उपचारेण्ôच्यत इत्य् अर्थः.
SK
[NAV_१३.०] अनुमानम् आह:
SK
साध्य्âविन्âभुवो हेतोर् वचो यत् प्रतिपादकम् / पर्âर्थम् अनुमानं तत् पक्ष्âदि-वचन्âत्मकम् // NA_१३ //
SK
[NAV_१३.१] हिनोति गमयत्य् अर्थम् इति हेतुस्, तस्य साध्य्âविन्âभुवः प्राङ् निरूपितस्य यद् वचः प्रतिपादकं सन्दर्शकं तद् अनुमान-प्रकाश-हेतुत्वात् पर्âर्थम् अनुमानम्. तत् की-दृशं? इत्य् आह: पक्षो वक्ष्यमाण-लक्षणः स आदिर् येषां हेतु-दृष्ट्âन्त्ôपनय-निगमन्âदीनां तानि तथा, तेषां वचनानि प्रतिपादका ध्वनयः; तान्य् एव्âत्मा स्वरूपं यस्य तत् पक्ष्âदि-वचन्âत्मकम्.
SK
[NAV_१३.२] ननु च हेतु-प्रतिपादकं वचः पर्âर्थम् अनुमानम् इत्य् अभिधाय तत् पक्ष्âदि-वचन्âत्मकम् इति वदतः पूर्व्âपर-व्याहता वाचो युक्तिः. न्âइतद् अस्त्य्; एवं मन्यते न्âइकः प्रकारः पर्âर्थ्âनुमानस्य, किं तर्हि यथा परस्य सुखेन प्रमेय-प्रतीतिर् भवति तथा यत्नतः प्रत्यायनीयः. तत्र दश्âवयवं साधनं प्रतिपादन्ôपायः. तद् यथा -- पक्ष्âदयः पञ्च, तच्-छुद्धयश् च. तत्र यदा प्रतिपाद्यः प्रक्रमाद् एव निर्णीत-पक्षो ऽविस्मृत-दृष्ट्âन्त-स्मार्य-प्रतिबन्ध-ग्राहक-प्रमाणो व्युत्पन्न-मतित्वाच् छेष्âवयव्âभ्यूहन-समर्थश् च भवति, यद् व्âत्यन्त्âभ्यासेन परिकर्मित-मतित्वात् तावत्âइव प्रस्तुत-प्रमेयम् अवबुध्यते, तदा हेतु-प्रतिपादनम् एव क्रियते, शेष्âभिधानस्य श्रोतृ-संस्कार्âकारितया नैरर्थक्याद् इत्य्-आदौ हेतु-प्रतिपादनं सूत्र-कृता पर्âर्थम् अनुमानम् उक्तम्. यदा तु प्रतिपाद्यस्य न्âद्य्âपि पक्ष-निर्णयस्, तद्âकाण्ड एव हेत्ûपन्यासो ऽदृष्ट-मुद्गर-पातायमानः स्याद् इति पक्षो ऽपि निर्दिश्यते. तथ्âस्मर्यमाणे प्रतिबन्ध-ग्राहिणि प्रमाणे दृष्ट्âन्तो ऽपि वर्ण्येत्âन्यथा हेतोः सामर्थ्य्âनवगतेः. स्मृते ऽपि प्रमाणे दार्ष्टान्तिके योजयितुम् अजानानस्य्ôपनयो दर्श्यते. तथ्âपि साकाङ्क्षस्य निगमनम् उच्यते, ऽन्यथा निराकुल-प्रस्तुत्âर्थ्âसिद्धेः. तथा यत्र पक्ष्âदौ स्वरूप-विप्रतिपत्तिस् तत्र तच्-छुद्धिः प्रमाणेन कर्तव्य्êतरथा तेषां स्व-साध्य्âसाधनात्. सर्वेषां च्âमीषां साधन्âवयवत्वं, प्रतिपाद्य-प्रतीत्य्-उपायत्वात्.
SK
[NAV_१३.३] ननु च स्व-निश्चयवत् पर-निश्चय्ôत्पादनं पर्âर्थम् अनुमानम् उक्तं, न च स्व्âर्थ्âनुमान-काले क्रमो ऽयम् अनुभूयते, सम्बन्ध-वेदिनो हेतु-दर्शन-मात्रात् साध्य-प्रतीति-सिद्धेर्, न हि प्रतिपत्ता पक्षं कृत्वा ततो हेतुं निभालयति, न्âपि दृष्ट्âन्त्âदिकं विरचयति, तथा प्रतीतेर् अभावात्. किं च्âन्वय-व्यतिरेकाभ्यां हेतोर् एव सामर्थ्यम् उन्नीयते, न पक्ष्âदीनां, तद्-व्यतिरेकेण्âपि साध्य-सिद्धेः, तथ्âपि तेषां साधन्âंशत्व-कल्पने ऽनवस्था-प्रसङ्गात्. यदि च तत्-सामर्थ्यं स्यात्, तदा पक्ष्ôपन्यास-मात्राद् एव साध्य्âवगतेर् हेतुर् आनर्थक्यम् अश्नुवीत, उत्तर्âवयवाश् च, एवं हि तत्-सामर्थ्यं सिद्ध्येन् न्âन्यथा. तस्माद् य एव पर-निरपेक्षं साध्यं बोधयति स एव हेतुः साधनं, न पक्ष्âदय इति.
SK
[NAV_१३.४] अत्र्ôच्यते -- ‘स्व-निश्चयवत् पर-निश्चय्ôत्पादनं पर्âर्थम् अनुमानम् उक्तम्ऽ; इत्य्-आदि यद् उक्तं तद् युक्तम् उक्तं, केवलं तद्-अर्थं न जानीषे, निश्चय्âपेक्षय्âइव ‘वत्ऽ-इना तुल्यत्âभिधानान्; न पुनः सर्व-सामान्यम् अभिप्रेतम्, अन्यथा ध्वनिम् अनुच्चारयन् स्व्âर्थ्âनुमाने साध्यम् अवबुध्यत इति, तद्-अनुच्चारणेन पर-निश्चय्ôत्पादनं प्रसज्येत. न च्âइतद् अस्ति, शब्द्âनुच्चारणे पर-प्रतिपादन्âसम्भवात्, तद्-अर्थं शब्द्âङ्गी-करणे येन येन विना पर-प्रतिपादन्âसम्भवस् तत् तद् उररी-कर्तव्यं, समान-न्यायात्. न च पक्ष्âदि-विरहे प्रतिपाद्य-विशेषः प्रतिपादयितुं शक्यो, हेतु-गोचर्âदि-तत्-साध्य्âर्थ-प्रतीति-विकलतया तस्य साकाङ्क्षत्वात्. तथा च बुभुत्सित्âर्थ-बोध्âभावाद् अप्रत्यायित एव तिष्ठेद्; अतस् तद्-बोधन्âर्थं पक्ष्âदयो दर्शनीया इति ते ऽपि साधन्âंशाः स्युः. यच् च्ôक्तम्: अन्वय-व्यतिरेक्âनुकरण्âभावान् न साधनं, हेतु-मात्राद् अपि साध्य-सिद्धेस्, तद् अयुक्तम्, अविप्रतारकता-निश्चित-पुरुष-वचन-मात्राद् अप्य् अग्निर् अत्र्êत्य्-आदि-रूपात् क्वचित् प्रमेयो ऽर्थः सिध्यत्îति हेतोर् अप्य् असाधनता-प्रसङ्गात्. तद्-विरहेण्âपि साध्य-सिद्धेः. युक्तं च्âइतद्, अविप्रतारक-वचनस्य प्राग् एव प्रामाण्य-प्रसाधनात्. यच् च्ôक्तम्: यद्य् अमीषां सामर्थ्यं स्यात्, तदा पक्ष-मात्राद् एव साध्य-प्रतीतेर् हेतोर् वैयर्थ्यं स्याद् इति, तद् अयुक्ततरं, भवत्-पक्षे ऽपि समानत्वात्, तत्र्âपि समर्थ-हेत्ûपन्यासाद् एव साध्य्âवगतेर्, अन्यथा समर्थत्âयोगात्. पश्चात् तस्य्âइव प्रमाणेन समर्थनं सर्वत्र गृहीत-व्याप्तिकस्य च पुनः पक्ष-धर्मिण्य् उपसंहरणम् अनर्थकतां प्राप्नुवत् केन निवार्येत? तद्-अभावे हेतोः सामर्थ्यं न्âवगम्यते, तेन सार्थकम् इति चेत्, पक्ष्âदीन् अपि विरहय्य प्रतिपाद्य-विशेषः प्रतिपादयितुं न पार्यत इति तेषाम् अपि सार्थकता न दुरुपपाद्êति मुच्यताम् आग्रहः. तस्माद् धेतुवत् पक्ष्âदयो ऽपि साधनं, हेतोर् अपि क्वचित् प्रतिपाद्ये तद्-अपेक्षतया निरपेक्षत्âसिद्धेर् इति. तद् इदं सकलम् आकलय्य्ôक्तं तत् पक्ष्âदि-वचन्âत्मकं इति.
SK
[NAV_१४.०] तद् एवम् अर्थतः पक्ष्âदीन् प्रस्तुत्य तावत् पक्ष-लक्षणम् आह:
SK
साध्य्âभ्युपगमः पक्षः प्रत्यक्ष्âद्य्-अनिराकृतः / तत्-प्रयोगो ऽत्र कर्तव्यो हेतोर् गोचर-दीपकः // NA_१४ //
SK
[NAV_१४.१] पच्यत इति पक्षो, व्यक्ती-क्रियत इति-भावः. किं-भूत इत्य् आह: साध्यस्य्âनुमेयस्य्âभ्युपगमो ऽङ्गी-करणं, प्राश्निक्âदीनां पुरतः प्रतिज्ञा-स्वी-कार इत्य् अर्थः. किम् अभ्युपगम-मात्रम्? न्êत्य् आह: प्रत्यक्ष्âद्य्-अनिराकृत इति. प्रत्यक्षं साक्षात्-कारि संवेदनम्, आदि-शब्दाद् अनुमान-स्व-वचन-लोका गृह्यन्ते, तैर् अनिराकृतो ऽबाधितः पक्ष इति सम्बन्धः. तद् यथा -- ‘सर्वम् अनेक्âन्त्âत्मकम्ऽ, ‘अस्ति सर्व-ज्ञऽ; इत्य्-आदि वा. अयं च केवलम् एष्टव्यो, न पुनः पर्âर्थ्âनुमान-काले वचनेन्âभिधातव्य इति यो मन्येत तं प्रत्याह: तस्य पक्षस्य प्रयोगो ऽभिधानम् अत्र पर्âर्थ्âनुमान-प्रस्तावे कर्तव्यो विधेयः. कुत इत्य् आह: हेतोः प्राङ्-निरूपितस्य गोचर-दीपक इति, ‘निमित्त-कारण-हेतुषु सर्वासां प्रायो दर्शनम्ऽ; इति-वचनाद्, भाव-प्रधानत्वाच् च निर्देशस्य, विषय-सन्दर्शकत्वाद् इत्य् अर्थः. अयम् अत्र्âभिप्रायो: न हि सर्वत्र प्रतिवादिनः प्रक्रमाद् एव निर्णीत-पक्षस्य कूर्च-शोभा-पुरः-सरं हेतुर् उपन्यस्यते, ऽपि तु क्वचित् कथञ्चित्.
SK
[NAV_१५.०] ततो यद्âद्य्âपि प्रतिपाद्यः पक्ष्âर्थं न जानीते, तद्âकाण्ड एव हेताव् उच्यमाने विषय-व्यामोहाद् भ्रान्ति-लक्षणो दोषः स्याद् इत्य् आह:
SK
अन्यथा वाद्य्-अभिप्रेत-हेतु-गोचर-मोहिनः / प्रत्याय्यस्य भवेद् धेतुर् विरुद्ध्âरेकितो यथा // NA_१५ //
SK
[NAV_१५.१] अन्यथ्êत्य् उक्त-विपरीत्âश्रयणे पक्ष-प्रयोग्âकरण इत्य् अर्थः. वादिनो हेत्ûपन्यास-कर्तुर् अभिप्रेतो ऽभिमतः स च्âसौ हेतु-गोचरश् च वाद्य्-अभिप्रेत-हेतु-गोचरस्; तत्र मुह्यति दोलायते तच् छीलश् च यस्, तस्य प्रत्याय्यस्य प्रतिवादिनो हेतुर् विरुद्ध्âरेकितो भवेद् विरोध-शङ्का-कलङ्कितः स्याद् इत्य् अर्थः. ततश् च सम्यग्-घेताव् अपि ‘विपक्ष एव्âयं वर्ततऽ; इति व्यामोहाद् विरुद्ध-दूषणम् अभिदधीत, पक्ष्ôपन्यासात् तु निर्णीत-हेतु-गोचरस्य न्âइष दोषः स्याद् इत्य् अभिप्रायः. अमुम् एव्âर्थं स्पष्ट-दृष्ट्âन्तेन्âह यथ्êति. तद्-उपन्यास्âर्थः.
SK
धानुष्क-गुण-सम्प्रेक्षि-जनस्य परिविध्यतः / धानुष्कस्य विना लक्ष्य-निर्देशेन गुण्êतरौ // NA_१६ //
SK
[NAV_१६.१] यथा लक्ष्य-निर्देशं विना धानुष्कस्य्êषुं प्रक्षिपतो यौ गुण-दोषौ तौ तद्-दर्शि-जनस्य विपर्यस्ताव् अपि प्रतिभातः -- गुणो ऽपि दोषतया, दोषो ऽपि वा गुणतया -- तथा पक्ष-निर्देशं विना हेतुम् उपन्यस्यतो वादिनो यौ स्व्âभिप्रेत-साध्य-साधन-समर्थत्व्âसमर्थत्व-लक्षणौ गुण-दोषौ तौ प्राश्निक-प्रतिवाद्य्âदीनां विपरीताव् अपि प्रतिभात इति भाव्âर्थः. अक्षर्âर्थस् तु धनुषा चरति धानुष्कस् तस्य गुणो लक्ष्य-वेध-प्रावीण्य-लक्षणस् तत्र प्रेक्षकाणां कुतूहलम् इति तस्य्âइव्ôपादानम्, अन्यथा दोषो ऽपि द्रष्टव्यः. तत्-सम्प्रेक्षि-जनस्य तत्-सम्प्रेक्षण-शील-लोकस्य परिविध्यतो यथा -- कथञ्चिद् बाणं मुञ्चत इत्य् अर्थः; धनुष्कस्य विना लक्ष्य-निर्देशेन चाप-धरस्य वेध्य-निष्टङ्कनम् ऋते यौ गुण्êतरौ गुण-दोषौ तौ यथा विरुद्धारेकितौ भवतस्, तथा वादिनो ऽप्îत्य् अर्थः. तस्माद् अविज्ञात-तद्-अर्थे प्रतिवादिनि वादि-धानुष्केण पक्ष-लक्ष्यं निर्दिश्य्âइव हेतु-शरः प्रोक्तव्य इति स्थितम्.
SK
[NAV_१७.०] साम्प्रतं हेतोर् लक्षण्âवसरस्, तच् च स्व्âर्थ्âनुमानवन् निर्विशेषं द्रष्टव्यं; प्रयोगस् तु तत्र न दर्शितः, स्व्âर्थ्âनुमानस्य बोध-रूपत्वाद्; इह तु दर्शनीयः, पर्âर्थ्âनुमानस्य वचन-रूपत्वाद्; अतस् तं दर्शयति:
SK
हेतोस् तथ्ôपपत्त्या वा स्यात् प्रयोगो ऽन्यथ्âपि वा / द्वि-विधो ऽन्यतरेण्âपि साध्य-सिद्धिर् भवेद् इति // NA_१७ //
SK
[NAV_१७.१] स्व्âर्थ्âनुमान-प्रस्तावे हि पर-प्रणीत-लक्षण्âन्तर-व्यपोहेन साध्य-व्यतिरेकात् सामस्त्येन हेतोर् व्यावृत्तिर् एव्âइकं लक्षणम् इति निर्णीतम्. पर्âर्थ्âनुमाने ऽपि तद् एव प्रकाशनीयं, वचन-रचना तु क्वचित् कथञ्चित् प्रवर्तत इत्य् अभिप्रायवांस् तद्-द्वैविध्यम् आह: हेतोर् द्विविधः प्रयोगः स्याद् इति सम्बन्धः. कथम् इत्य् आह: तथ्âइव साध्य-सद्भाव एव्ôपपत्तिर् विद्यमानता, तया तथ्ôपपत्त्या, यथ्âग्निर् अत्र, धूमस्य तथ्âइव्ôपपत्तेर् इति. अन्यथ्âपि व्êत्य् अनेन्âवयवे समुदाय्ôपचाराद् अन्यथ्âनुपपत्तिं लक्षयति. अन्यथा साध्य-व्यतिरेके ऽनुपपत्तिर् अविद्यमानत्âइव तया व्âन्यथ्âनुपपत्त्या हेतोः प्रयोगः स्याद्, यथ्âग्निर् अत्र, धूमस्य्âन्यथ्âनुपपत्तेर् इति. ‘एते च द्वे अप्य् एकस्मिन् साध्ये प्रयोक्तव्येऽ; इति यो मन्येत,तच्-छिष्यण्âर्थं आह्âन्यतरेण्âपि तथ्ôपपत्ति-प्रयोगेण्âन्यथ्âनुपपत्ति-प्रयोगेण वा साध्यस्य प्रतिपिपादयिषित्âर्थस्य सिद्धिर् निष्पत्तिः प्रतिपाद्य-प्रतीताव् आरोहणं भवेद्, इति यस्मात्, तस्मान् न द्वे अपि प्रयोक्तव्ये, प्रयोग-द्वये ऽपि यस्माद् वचन-रचना भिद्यते, न्âर्थः; प्रयोगस्य च साध्य-साधनं फलं; तच् चेद् एकेन्âइव सिध्यति, द्वितीय-प्रयोगः केवलं वक्तुर् अकौशलमाचक्षीत, नैरर्थक्याद् इत्य् अभिप्रायः.
SK
[NAV_१८.०] अधुना दृष्ट्âन्त-लक्षण्âवसरः. स च द्वेधा: साधर्म्येण वैधर्म्येण च. तत्र साधर्म्य-दृष्ट्âन्तम् अधिकृत्य्âह:
SK
साध्य-साधनयोर् व्याप्तिर् यत्र निश्चीयते-तराम् / साधर्म्येण स दृष्ट्âन्तः सम्बन्ध-स्मरणान् मतः // NA_१८ //
SK
[NAV_१८.१] दृष्टयोर् अवलोकितयोः सामर्थ्यात् साध्य-साधनयोर् अन्तः परिनिष्ठितिः अन्वयाद् व्यतिरेकाद् वा साध्य-साधन-भाव-व्यवस्थिति-निबन्धन्âस्मिन्न् इति दृष्ट्âन्तः; समानो धर्मो ऽस्य्êति सधर्मा तद्-भावः साधर्म्यं तेन साधर्म्येण. स किं-विधो भवत्îत्य् आह: साध्यं जिज्ञासित्âर्थ्âत्मकं, साधनं तद्-गमको हेतुः, तयोः साध्य-साधनयोर् व्याप्तिर्, इदम् अनेन विना न भवत्îत्य्-एवं-रूपा, यत्र क्वचिन् निश्चीयते-तरां अतिशयेन निर्णीयते स साधर्म्य-दृष्ट्âन्तः. यथ्âग्निर् अत्र, धूमस्य तथ्âइव्ôपपत्तेर्, महानस्âदिवद् इति. अयं च्âविस्मृत-प्रतिबन्धे प्रतिवादिनि न प्रयोक्तव्य इत्य् आह: सम्बन्ध-स्मरणाद् इति, ल्यब्-लोपे पञ्चमी, प्राग्-गृहीत-विस्मृत-सम्बन्ध-स्मरणम् अधिकृत्य मतो ऽभिप्रेतो ऽयं नीतिविदाम्, न्âन्यदा. यदा हि प्रतिपाद्यो ऽद्य्âपि सम्बन्धं साध्य्âविन्âभावित्व-लक्षणं न्âवबुध्यते, तदा प्रमाणेन सम्बन्धं ग्राहणीयो, न दृष्ट्âन्त-मात्रेण, न हि सह-दर्शनाद् एव क्वचित् सर्वत्र्êदम् अमुना विना न भवत्îति सिध्यत्य्, अतिप्रसङ्गात्. गृहीते च प्रतिबन्धे स्मर्यमाणे केवलं हेतुर् दर्शनीयः, तावत्âइव बुभुत्सित्âर्थ-सिद्धेर् दृष्ट्âन्तो न वाच्यो, वैयर्थ्यात्. यदा तु गृहीतो ऽपि विस्मृतः कथञ्चित् सम्बन्धस्, तदा तत्-स्मरण्âर्थं दृष्ट्âन्तः कथ्यते.
SK
[NAV_१८.२] ननु च कथं त्रि-काल-समस्त-देश-व्यापि-सम्बन्ध्âवगतिः? न तावन् निर्णय्âत्मकम् अपि प्रत्यक्षं देश-काल्âन्तर-संचरिष्णुनोः साध्य-साधनयोः सम्बन्धं निरीक्षितुं क्षमते, सन्निहिते ऽर्थे विशद्âध्यवसायेन प्रवृत्तेः. न्âपि शब्दात् तन्-निर्णयस्, तस्य पर्ôपदेश-रूपतया स्व्âर्थ्âनुमान्âभाव-प्रसङ्गात्, तत्र पर्ôपदेश्âभावात्, तद्-अभावे सम्बन्ध्âसिद्देस्, तद्-असिद्धाव् अनुमान्âनुत्थानाद् इति. अनुमानात् सम्बन्ध-ग्रहणे निरवधिर् अनवस्थ्âनुषज्येत, सम्बन्ध-ग्राहिणो ऽप्य् अनुमानस्य पुनः सम्बन्ध्âन्तर-ग्रहण-सव्यपेक्षत्वाद् इति. अत्र्ôच्यते -- प्रत्यक्ष्âनुमाने द्वे एव प्रमाणे इति येषां मिथ्य्âभिनिवेशस्, तेषां एष दोषो न्âस्माकम्, अन्वय-व्यतिरेक-ग्राहि-प्रत्यक्ष्âनुपलम्भ्ôत्तर-काल-भाविनो ऽव्यभिचरित-त्रि-काल-व्यापि-गोचरस्य मति-निबन्धनस्य्ôह-संज्ञितस्य प्रमाण्âन्तरस्य सम्बन्ध-ग्राहितय्êष्टत्वात्, तद्-अनिष्टौ दृष्ट-व्यवहार-विलोप-प्रसङ्गात्, तद्-विलोपे च विचार्âनर्थक्य-प्राप्तेर् इति. अत्र प्रकरणे पुनर् अनुमानात् पार्थक्येन्ôहो न दर्शितः, सङ्क्षिप्त-रुचि-सत्त्व्âनुग्रह-प्रवृत्तत्वाद् अस्य, शाब्दं तु पृथक् समर्थितं, तस्य्âत्र्âइव पर्âर्थ्âनुमान्ôपयोगित्वाद् इत्य् आस्तां तावत्.
SK
[NAV_१९.०] इदानीं वैधर्म्य-दृष्ट्âन्तम् उपदर्शयन्न् आह:
SK
साध्ये निवर्तमाने तु साधनस्य्âप्य् असम्भवः / ख्याप्यते यत्र दृष्ट्âन्ते वैधर्म्येण्êति स स्मृतः // NA_१९ //
SK
[NAV_१९.१] विसदृशो धर्मो ऽस्य्êति विधर्मा, तद्-भावो वैधर्म्यं, तेन वैधर्म्येण दृष्ट्âन्तः. की-दृश इत्य् आह: साध्ये गम्ये निवर्तमाने ऽसम्भवति तु-शब्दो ऽवधारण्âर्थो भिन्न-क्रमः, स च साधनस्य्âपि गमकस्य्âप्य् असम्भव एव्êत्य् अत्र द्रष्टव्यः, ख्याप्यते प्रतिपाद्यते यत्र क्वचिद् दृष्ट्âन्ते स वैधर्म्येण भवत्îति-शब्देन सम्बन्ध-स्मरणाद् इति.
SK
[NAV_२०.०] इदम् अत्र्âपि सम्बध्नाति: अस्य्âपि स्मर्यमाणे सम्बन्धे प्रयोग्âयोगाद् इति किम् अर्थं विस्मृत-सम्बन्ध एव प्रतिवादिनि दृष्ट्âन्तः प्रयुज्यते, न्âन्यद्êति पर-वचन्âवकाशम् आशङ्क्य्âह:
SK
अन्तर्-व्याप्त्य्âइव साध्यस्य सिद्धेर् बहिर्-उदाहृतिः / व्यर्था स्यात् तद्-असद्भावे ऽप्य् एवं न्याय-विदो विदुः // NA_२० //
SK
[NAV_२०.१] अन्यदाहि स्मर्यमाणे वा सम्बन्धे प्रयुज्येत्âगृहीते वा. यद्य् आद्यः पक्षः, सो ऽयुक्तः. यदा सर्वत्र साध्य्âविन्âभाविनं हेतुं स्मरति प्रतिपाद्यस्, तदा पक्षे ऽपि तम् अवबुध्य कथं साध्यं न प्रतिपद्येत? ततश् च्âन्तः पक्ष-मध्ये व्याप्तिः साधनस्य साध्य्âक्रान्तत्वम् अन्तर्-व्याप्तिस्, तय्âइव साध्यस्य गम्यस्य सिद्धेः प्रतीतेर् बहिर् विवक्षित-धर्मिणो ऽन्यत्र दृष्ट्âन्त-धर्मिण्य् उदाहृतिर् व्याप्ति-दर्शन-रूपा व्यर्था निष्प्रयोजना, तत्-प्रत्याय्य्âर्थ्âभावाद् इति. द्वितीय-पक्षस्य्âपि निर्दोषतां निरस्यन्न् आह: तद्-असद्भावे ऽप्य् एवं सम्बन्ध्âग्रहणाद् अन्तर्-व्याप्त्य्-अभावे ऽप्य् एवम् इति व्यर्थ्âइव बहिर्-उदाहृतिः. न हि सह-दर्शनात् क्वचित् सर्वत्र तद्-रूपता सिध्यति, व्यभिचार-दर्शनात्. तस्माद् अगृहीत-सम्बन्धे प्रतिपाद्ये प्रमाणेन प्रतिबन्धः साध्यः. तत्-सिद्धौ तत एव साध्य-सिद्धेर् अकिञ्चित्-करी दृष्ट्âन्त्ôदाहृतिर् इति न्याय-विदो न्याय-विद्वांसो विदुर् अवबुध्यन्त इति. इह च प्रकरणे शेष्âवयवानाम् उपनय-निगमन-शुद्धि-पञ्चक-लक्षणानां सङ्क्षिप्त-रुचि-सत्त्व्âनुग्रह-परत्वाद् अस्य, यद्य् अपि साक्षाल् लक्षणं न्ôक्तं, तथ्âप्य् अत एव प्रतिपादित्âवयव-त्रयाद् बुद्धिमद्भिर् उन्नेयं; यतो ऽवयव्âपेक्षया जघन्य-मध्यम्ôत्कृष्टास् तिस्रः कथा भवन्ति. तत्र हेतु-प्रतिपादन-मात्रं जघन्या. द्व्य्-आद्य्-अवयव-निवेदनं मध्यमा. सम्पूर्ण-दश्âवयव-कथनम् उत्कृष्टा. तत्र्êह मध्यमायाः साक्षात् कथनेन जघन्य्ôत्कृष्टे अर्थतः सूचयति, तद्-सद्भावस्य प्रमाण-सिद्धत्वाद् इति.
SK
[NAV_२१.०] एवं पक्ष्âदि-लक्षणं प्रतिपाद्य्êदानीं हेय-ज्ञाने सत्य् उपादेयं विविक्ततरं वेद्यत इति तद्-व्युदस्ताः पक्ष-हेतु-दृष्ट्âन्त्âभासा वक्तव्याः. तत्र तावत् पक्ष-लक्षण-व्युदस्तान् पक्ष्âभासान् आह:
SK
प्रतिपाद्यस्य यः सिद्धः पक्ष्âभासो ऽक्ष-लिङ्गतः / लोक-स्व-वचनाभ्यां च बाधितो ऽनेकधा मतः // NA_२१ //
SK
[NAV_२१.१] पक्ष-स्थान्ôपन्यस्तत्वात् तत्-कार्य्âकरणत्वाच् च पक्षवद् आभासत इति पक्ष्âभासः. असाव् अनेकध्âनेक-प्रकारो मत इति सम्बन्धः. कथम् इत्य् आह: प्रतिपाद्यस्य प्रतिवादिनो यः कश्चित् सिद्धः प्रतीताव् आरूढ एव स पक्ष्âभासः, साध्यस्य्âइव पक्षत्वात्, सिद्धस्य साधन्âनर्हत्वाद्, अतिप्रसक्तेः. तथ्âक्ष-लिङ्गतो ऽध्यक्ष-हेतुभ्यां लोक-स्व-वचनाभ्यां च बाधितस् तिरस्-कृतो यः स पक्ष्âभासः. तत्र प्रतिपाद्य-सिद्धो यथा: पौद्गलिको घटः, सौगतं वा प्रति: सर्वं क्षणिकम् इत्य्-आदि. प्रत्यक्ष-बाधितो यथा: निरंशानि स्वलक्षणानि, परस्पर-विविक्तौ वा सामान्य-विशेषाव् इति. अनुमान-बाधितो यथा: न्âस्ति सर्व-ज्ञ इति. लोक-बाधितो यथा: गम्या माता इति. स्व-वचन-बाधितो यथा: न सन्ति सर्वे भावा इति.
SK
[NAV_२२.०] साम्प्रतं हेतु-लक्षणं स्मारयंस् तद्-अपास्तान् हेत्व्-आभासान् आह:
SK
अन्यथ्âनुपपन्नत्वं हेतोर् लक्षणम् ईरितम् / तद्-अप्रतीति-सन्देह-विपर्यासैस् तद्-आभता // NA_२२ //
SK
[NAV_२२.१] हेतोर् लक्षणम् असाधारण-धर्म-रूपं यद् ईरितं गमितम् अनेक्âर्थत्वाद् वा प्रतिपादितं स्व्âर्थ्âनुमान-प्रस्तावे यद् उत्âन्यथ्âनुपपन्नत्वम् इति तस्य्âप्रतीतिर् अनध्यवसायः, सन्देहो दोलायमानता, विपर्यासो वैपरीत्य-निर्णयो; ऽप्रतीतिश् च सन्देहश् च विपर्यासश् च्êति द्वन्द्वः; पश्चात् तदा सह तत्-पुरुषस्: तैस् तद्-अप्रतीति-सन्देह-विपर्यासैस्; तद्-आभताआभानम् आभा तस्य्êव सम्यग्-घेतोर् इव्âभ्âस्य्êति तद्-आभस्, तद्-भावस् तत्ता, हेत्व्-आभासता भवत्îत्य् अर्थः.
SK
[NAV_२३.०] अधुना येन लक्षणेन यन्-नामा हेत्व्-आभासो भवति तद् दर्शयति:
SK
असिद्धस् त्व् अप्रतीतो यो यो ऽन्यथ्âइव्ôपपद्यते / विरुद्धो यो ऽन्यथ्âप्य् अत्र युक्तो ऽनैकान्तिकः स तु // NA_२३ //
SK
[NAV_२३.१] यः कश्चिद् अप्रतीतः प्रतीत्या अगोचरी-कृतो ऽनिश्चितः सो ऽसिद्ध-नामा हेत्व्-आभासः. तु-शब्दस् त्रयस्य्âपि भेद्ôद्द्योतकः. यस् त्व् अन्यथ्âइव साध्यं विन्âइव विपक्ष एव्êति यावद्, उपपद्यते सम्भवति स विरुद्ध्âभिधानः. यः पुनर् अन्यथ्âपि साध्य-विपर्ययेण्âपि युक्तो घटमानको, ऽपि-शब्दात् साध्येन्âपि, सो ऽत्र व्यतिकरे ऽनैकान्तिक-संज्ञो ज्ञातव्य इति. तत्र प्रतिप्राणि-प्रसिद्ध-प्रमाण-प्रतिष्ठित्âनेक्âन्त-विरुद्ध-बुद्धिभिः कणभक्ष्âक्षपाद-बुद्ध्âदि-शिष्यकैर् उपन्यस्यमानाः सर्व एव हेतवः, तद् यथ्âइक्âन्तेन्âनित्यः शब्दो नित्यो वा, सत्त्वाद्, उत्पत्तिमत्त्वात्, कृतकत्वात्, प्रत्यभिज्ञायमानत्वाद् इत्य्-आदयो विवक्षय्âसिद्ध-विरुद्ध्âनैकान्तिकतां स्वी-कुर्वन्त्îत्य् अवगन्तव्यम्.
SK
[NAV_२३.२] तथा ह्य्: अनित्य्âइक्âन्ते तावद् असिद्धाः सर्व एव हेतवश्, चाक्षुषत्ववत् तेषां ध्वनाव् अविद्यमानत्वाद्, असद्-आदि-व्यवच्छेदेन्âलीक-संवृति-विकल्पितत्वात्, पारमार्थिकत्वे त्व् एकस्य्âनेक-रूप्âपत्त्य्âनेक्âन्त-वाद्âपत्तेः, कल्पना-रचित-सत्ताकानां च सर्व-शक्ति-विरह-रूपतया निःस्वभावत्वात्, तथ्âपि तेषां साधनत्वे साध्यम् अपि निःस्वभावम् इति खर-विषाणं शश-विषाणस्य साधनम् आपद्यत इति शोभनः साध्य-सधन-व्यवहारः. सर्व एव्âयम् अनुमान्âनुमेय-व्यवहारो बुद्ध्य्-आरूढेन धर्म-धर्मि-न्यायेन न बहिः-सद्-असत्त्वम् अपेक्षते, तेन्âयम् अदोष इति चेद्, एवं तर्हि चाक्षुषत्वम् अपि शब्दे बुद्ध्य्âध्यारोप्य हेतुतय्ôच्यमानं न्âसिद्धतय्ôद्भावनीयं, विशेष्âभावात्. अचाक्षुषत्व-व्यवच्छेदेन चाक्षुषत्वं बुद्ध्य्âध्यारोपयितुंपार्यते, न यथा कथञ्चिन्, न च्âसौ शब्दे ऽस्त्य्, अचक्षुर्-ग्राह्यत्वात् तस्य, तेन्âयम् अदोष इति चेत्, को ऽयम् अचाक्षुषत्व-व्यवच्छेदो नाम: व्यवच्छेद-मात्रं नीरूपं, व्यवच्छिन्नं वा स्वलक्षणं, व्यवच्छेदिका वा बुद्धिः स्व्âंश-मग्न्âपि बहिर्-वस्तु-ग्रहण-रूपतया प्लवमाना? न्âपरो वस्तु-धर्मो यत्र भेद्âभेद-विकल्प-द्वारेणा दूषणं दित्सुर् भवान् इति चेत्, तर्हि स शब्दे न्âस्त्îति क्âइषा भाषा? एवं हि नभः-पुण्डरीकं तत्र न्âस्त्îति सत्त्व्âदिकम् अपि कल्पयितुं न शक्यम् इति प्रसज्येत. किं च, ते साधन-धर्मा धर्मिणि भवन्तो ऽपि न भवद्-दर्शने प्रतीतिम् आरोहन्ति, प्रत्यक्षस्य विकल्प-विकलतया धर्म-निर्णय-शून्यत्वात्, तद्-उत्तर-काल-भाविन्या वासना-प्रबोध-जन्याया विकल्प-बुद्धेः स्व्âंश-ग्रहण-पर्यवसित-शरीरत्वेन बहिः-स्वलक्षणे प्रवेश्âभावात्, ततश् च्âप्रतीतत्वात् सर्वस्य्âसिद्धत्वम्.
SK
[NAV_२३.३] नित्य्âइक्âन्ते ऽपि धर्मिणो ऽत्यन्त-व्यतिरिक्तानाम् अपारमार्थिकानां वा स्व-साधन-धर्माणां प्रमाणेन्âप्रतीतत्वाद् असिद्धता द्रष्टव्या, धर्मिणो ऽविनिर्लुठित-रूपाणां पारमार्थिकानां सकल-धर्माणां प्रत्यक्ष्âदि-प्रमाण-प्रसिद्धत्वेन निह्नोतुम् अशक्यत्वाद् इति.
SK
[NAV_२३.४] तथा विरुद्धत्âपि पक्ष-द्वये ऽपि सर्व-साधन-धर्माणाम् उन्नेय्âनेक्âन्त-प्रतिबद्ध-स्वभावत्वेन तत्-साधन-प्रवणत्वात्. एतच् च्ôत्तरत्र वक्ष्यामः.
SK
[NAV_२३.५] एवं पक्ष-द्वये ऽपि निर्दिश्यमानाः सर्व एव हेतवो ऽनैकान्तिकताम् आत्मसात्-कुर्वन्ति, परस्पर-विरुद्ध्âव्यभिचारित्वात्, समान-युक्त्य्-उपन्यासेन विपक्षे ऽपि दर्शयितुं शक्यत्वात्.
SK
[NAV_२३.६] तथा हि: अनित्य-वादी नित्य-वादिनं प्रति प्रमाणयति. सर्वं क्षणिकं, सत्त्वाद्, अक्षणिके क्रम-यौगपद्याभ्याम् अर्थ-क्रिया-विरोधाद्, अर्थ-क्रिया-कारित्वस्य च भाव-लक्षणत्वात्, ततो ऽर्थ-क्रिया व्यावर्तमाना स्व-क्रोडी-कृतां सत्तां व्यावर्तयेद् इति क्षणिकत्व-सिद्धिः. न हि नित्यो ऽर्थो ऽर्थ-क्रियायां क्रमेण प्रवर्तितुम् उत्सहते, पूर्व्âर्थ-क्रिया-करण-स्वभाव्ôपमर्द-द्वारेण्ôत्तर-क्रियायां प्रवृत्तेर्, अन्यथा पूर्व्âर्थ-क्रिया-करण्âविराम-प्रसङ्गात्; तत्-स्वभाव-प्रच्यवे च नित्यत्âपयात्य्, अतादवस्थ्यस्य्âनित्य-लक्षणत्वात्. नित्यो ऽपि क्रम-वर्तिनं सह-कारि-कारणम् अर्थम् उदीक्षमाणस् तावद् असीत्, पश्चात् तम् आसाद्य क्रमेण कार्यं कुर्याद् इति चेन्, न, सह-कारि-कारणस्य नित्ये ऽकिञ्चित्-करत्वाद्, अकिञ्चित्-करस्य्âपि प्रतीक्षणे ऽनवस्था-प्रसङ्गात्. न्âपि यौगपद्येन नित्यो ऽर्थो ऽर्थ-क्रियां कुरुते, ऽध्यक्ष-विरोधात्. न ह्य् एक-कालं सकलाः क्रियाः प्रारभमाणः कश्चिद् उपलभते; करोतु वा, तथ्âप्य् आद्य-क्षण एव सकल-क्रिया-परिसमाप्तेर् द्वितीय्âदि-क्षणेष्व् अकुर्वाणस्य्âनित्यता बलाद् आढौकते, करण्âकरणयोर् एकस्मिन् विरुद्धत्वाद् इति.
SK
[NAV_२३.७] नित्य-वादी पुनर् एवं प्रमाणयति: सर्वं नित्यं सत्त्वात्. क्षणिके सद्-असत्-कालयोर् अर्थ-क्रिया-विरोधात्, तल्-लक्षणं सत्त्वं न्âवस्थां बध्नात्îति, ततो निवर्तमानम् अनन्य-शरणतया नित्यत्वं साधयति. तथा हि: क्षणिको ऽर्थः सद् वा कार्यं कुर्यात्, असद् वा, गत्य्-अन्तर्âभावात्. न तावद् आद्यः पक्षः, सम-समय-वर्तिनि व्यापार्âयोगात्, सकल-भावानां परस्परं कार्य-कारण-भाव-प्राप्त्य्âतिप्रसङ्गाच् च. न्âपि द्वितीयः पक्षः क्षोदं क्षमते, असतः कार्य-करण-शक्ति-विकलत्वात्. अन्यथा शश-विषाण्âदयो ऽपि कार्य-करणाय्ôत्सहेरन्, विशेष्âभावाद् इति.
SK
[NAV_२३.८] तद् एवम् एक्âन्त-द्वये ऽपि ये ये हेतवस् ते ते युक्तेः समानतया विरुद्धं न व्यभिचरन्त्य्; अविचारित-रमणीयतया मुग्ध-जन-ध्य्-आन्ध्यं च्ôत्पादयन्त्îति विरुध्âव्यभिचारिणो ऽनैकान्तिकाः, सर्व-वस्तु-धर्माणां वस्तुतो ऽनेक्âन्त-प्रतिबद्धत्वाद् इति. तस्माद् अमी सर्व एव हेतवः सन्तो ऽनेक्âन्तम् अन्तरेण न्ôपपद्यन्त इति तम् एव प्रतिपादयितुम् ईशते; विमूढ-बुद्धिभिः पुनः विपक्ष-साधन्âर्थम् उपन्यस्यमाना विवक्षय्âसिद्ध-विरुद्ध्âनैकान्तिकताम् आबिभ्रत्îति स्थितम्.
SK
[NAV_२४.०] तद् एवं हेत्व्-आभासान् प्रतिपाद्य दृष्त्âन्त-लक्षण-व्युदस्तान् दृष्ट्âन्त्âभासान् आह:
SK
साधर्म्येण्âत्र दृष्ट्âन्त-दोषा न्याय-विद्-ईरिताः / अपलक्षण-हेत्ûत्थाः साध्य्âदि-विकल्âदयः // NA_२४ //
SK
[NAV_२४.१] साधनं साध्य्âक्रान्तम् उपदर्शयितुम् अभिप्रेतं यस्मिंस् तत् साधर्म्यं, तेन. अत्र व्यतिकरे; दूष्यन्त इति दोषाः. दृष्ट्âन्ता एव दोषा दृष्ट्âन्त-दोषाः दृष्ट्âन्त्âभासा इत्य् अर्थः. न्याय-विद्-ईरिता विद्वद्भिर् गदिताः; साध्यं गम्यम्; आदि-शब्दात् साधन्ôभय-परिग्रहस्; तद्-विकलास् तच्-छून्याः. आदि-शब्दात् सन्दिग्ध-साध्य-साधन्ôभय-धर्मा गृह्यन्ते. किं-भूता एते इत्य् आह: अपगतं लक्षणं येभ्यस् ते तथा, ते च ते हेतवः, तेभ्य उत्था उत्थानं येषां ते ऽपलक्षण-हेत्ûत्थाः; इदं च प्रायिकं विशेषणं, सम्यग्-घेताव् अपि वक्तृ-दोष-वशात् दृष्ट्âन्त्âभासत्ôपपत्तेर्, यथा: नित्य्âनित्यः शब्दः, श्रावणत्वाद्, घटवद् इत्य्-आदि.
SK
[NAV_२४.२] तत्र साध्य-विकलो यथा: भ्रान्तम् अनुमानं, प्रमाणत्वात्, प्रत्यक्षवत्; प्रत्यक्षस्य भ्रान्तता-विकलत्वात्; तद्-भ्रान्तत्वे सकल-व्यवहार्ôच्छेद-प्रसङ्गात्, तद्-उच्छेदे च प्रमाण-प्रमेय्âभावान् न किञ्चित् केनचित् साध्यत इति भ्रान्त-वादिनो मूकत्âपनिपद्येत. साधन-विकलो यथा: जाग्रत्-संवेदनं भ्रान्तं, प्रमाणत्वात्, स्वप्न-संवेदनवत्; स्वप्न-संवेदनस्य प्रमाणता-वैकल्यात् तत्-प्रत्यनीक-जाग्रत्-प्रत्यय्ôपनिपात-बाधितत्वाद् इति. उभय-विकलो यथा: न्âस्ति सर्व-ज्ञः, प्रत्यक्ष्âद्य्-अनुपलब्धत्वात्, घटवद्; घटस्य सत्त्वात् प्रत्यक्ष्âदिभिर् उपलब्धत्वाच् च. सन्दिग्ध-साध्य-धर्मो यथा: वीत-रागो ऽयं, मरण-धर्मत्वाद्, रथ्या-पुरुषवद्; रथ्या-पुरुषे वीत-रागत्वस्य सन्दिग्धत्वाद्, विशिष्ट-चेतो-धर्माणां विशिष्ट-व्याहार्âदि-लिङ्ग-गम्यत्वाद् रथ्या-पुरुषे तन्-निर्णयस्य्âप्य् अभावाद् इति. सन्दिग्ध-साधन-धर्मो यथा: मरण-धर्म्âयं पुरुषो, राग्âदिमत्त्वाद्, रथ्या-पुरुषवद्; रथ्या-पुरुषे राग्âदिमत्त्वस्य सन्दिग्धत्वाद्, वीत-रागस्य्âपि तथा सम्भवाद् इति. सन्दिग्ध्ôभय-धर्मो यथ्âसर्व-ज्ञो ऽयं, राग्âदिमत्त्वाद्, रथ्या-पुरुषवद्; रथ्या-पुरुषे प्रदर्शित-न्यायेन्ôभयस्य्âपि सन्दिग्धत्वाद् इति.
SK
[NAV_२४.३] ननु च परैर् अन्यद् अपि दृष्ट्âन्त्âभास-त्रयम् उक्तम्, तद् यथ्âनन्वयो ऽप्रदर्शित्âन्वयो विपरीत्âन्वयश् च्êति. तत्र्âनन्वयो यथा: राग्âदिमान् विवक्षितः पुरुषो, वक्तृत्वाद्, इष्ट-पुरुषवद् इति. यद्य् अपि किल्êष्ट-पुरुषे राग्âदिमत्त्वं वक्तृत्वं च साध्य-साधन-धर्मौ दृष्टौ, तथ्âपि यो यो वक्ता स स राग्âदिमान् इति व्याप्त्य्-असिद्धेर् अनन्वयो ऽयं दृष्ट्âन्तः. तथ्âप्रदर्शित्âन्वयो यथ्âनित्यः शब्दः, कृतकत्वाद्, घटवद् इति. अत्र यद्य् अपि वास्तवो ऽन्वयो ऽस्ति, तथ्âपि वादिना वचनेन न प्रकाशित इत्य् अप्रदर्शित्âन्वयो दृष्ट्âन्तः. विपरित्âन्वयो यथ्âनित्यः शब्दः, कृतकत्वाद् इति हेतुम् अभिधाय यद् अनित्यं तद् कृतकं घटवद् इति, विपरीत-व्याप्ति-दर्शनाद् विपरीत्âन्वयः, साधर्म्य-प्रयोगे हि साधनं साध्य्âक्रान्तम् उपदर्शनीयम्, इह तु विपर्यास-दर्शनाद् विपरीतता. तद् एतद् भवद्भिः कस्मान् न्ôक्तम् इति.
SK
[NAV_२४.४] अत्र्ôच्यते -- परेषां न सुपर्यालोचितम् एतद् दृष्ट्âन्त्âभास-त्रय्âभिधानम् इति ज्ञापन्âर्थम्. तथा हि: न तावद् अनन्वयो दृष्ट्âन्त्âभासो भवितुम् अर्हति. यदि हि दृष्ट्âन्त-बलेन व्याप्तिः साध्य-साधनयोः प्रतिपाद्येत, ततः स्याद् अनवयो दृष्ट्âन्त्âभासः, स्व-कार्य्âकरणाद्, यदा तु पूर्व-प्रवृत्त-सम्बन्ध-ग्राहि-प्रमाण-गोचर-स्मरण-सम्पादन्âर्थं दृष्ट्âन्त्ôदाहृतिर् इति स्थितं, तद्âनन्वयत्व-लक्षणो न दृष्ट्âन्तस्य दोषः, किं तर्हि हेतोर् एव, प्रतिबन्धस्य्âद्य्âपि प्रमाणेन्âप्रतिष्ठितत्वात्, प्रतिबन्ध्âभावे च्âन्वय्âसिद्धेः. न च हेतु-दोषो ऽपि दृष्ट्âन्ते वाच्यो, ऽतिप्रसङ्गाद् इति. तथ्âप्रदर्शित्âन्वय-विपरीत्âन्वयाव् अपि न दृष्ट्âन्त्âभासतां स्वी-कुरुतो, ऽन्वय्âप्रदर्शनस्य विपर्यस्त्âन्वय-प्रदर्शनस्य च वक्तृ-दोषत्वात्, तद्-दोष-द्वरेण्âपि दृष्ट्âन्त्âभास-प्रतिपादने तद्-इयत्ता विशीर्येत, वक्तृ-दोषाणामानन्त्यात्. वक्तृ-दोषत्वे ऽपि पर्âर्थ्âनुमाने तत्-कौशलम् अपेक्षत इति. एवं च्ôपन्यासे न बुभुत्सित्âर्थ-साधकाव् अतो दृष्ट्âन्त्âभासाव् एताव् इति चेद्, एवं तर्हि करण्âपाटव्âदयो ऽपि दृष्ट्âन्त्âभासा वाच्याः. तथा हि: करण-पाटव-व्यतिरेकेण्âपि न पर-प्रत्यायनं समस्ति, विस्पष्ट-वर्ण्âग्रहणे व्यक्ततया तद्-अर्थ्âवगम्âभावाद् इत्य् आस्तां तावत्.
SK
[NAV_२५.०] तद् एवं साधर्म्येण दृष्ट्âन्त्âभासान् प्रतिपाद्य वैधर्म्येण्âह:
SK
वैधर्म्येण्âत्र दृष्ट्âन्त-दोषा न्याय-विद्-ईरिताः / साध्य-साधन-युग्मानाम् अनिवृत्तेश् च संशयात् // NA_२५ //
SK
[NAV_२५.१] साध्य्âभावः साधन्âभाव-व्याप्तौ दर्शयितुम् अभिप्रेतो यस्मिंस् तद् वैधर्म्यम्, तेन्âत्र दृष्ट्âन्त-दोषा न्याय-विद्-ईरिता इति दत्त्âर्थम्. साध्य-साधन-युग्मानां गम्य-गमक्ôभयानाम् अनिवृत्तेर् अनिवर्तनाच्, च-शब्दस्य व्यवहित-प्रयोगत्वात् संशयाच् च निवृत्ति-सन्देहाच् च्êत्य् अर्थः. तद् अनेन षड् दृष्ट्âन्त्âभासाः सूचितास्, तद् यथा -- साध्य्âव्यतिरेकी, साधन्âव्यतिरेकी, साध्य-साधन्âव्यतिरेकी, तथा सन्दिग्ध-साध्य-व्यतिरेकः, सन्दिग्ध-साधन-व्यतिरेकः, सन्दिग्ध-साध्य-साधन-व्यतिरेकश् च्êति.
SK
[NAV_२५.२] तत्र साध्य्âव्यतिरेकी यथा: भ्रान्तम् अनुमानम्, प्रमाणत्वाद् इति. अत्र वैधर्म्य-दृष्ट्âन्तो: यत् पुनर् भ्रान्तं न भवति न तत् प्रमाणं, तद् यथा स्वप्न-ज्ञानम् इति; स्वप्न-ज्ञानाद् भ्रान्तत्âनिवृत्तेः साध्य्âव्यतिरेकित्वम् इति. साधन्âव्यतिरेकी यथा: निर्विकल्पकं प्रत्यक्षं, प्रमाणत्वाद् इति. अत्र वैधर्म्य-दृष्ट्âन्तो: यत् पुनः सविकल्पकं न तत् प्रमाणं, तद् यथ्âनुमानम्; अनुमानात् प्रमाणत्âनिवृत्तेः साधन्âव्यतिरेकित्वम् इति. उभय्âव्यतिरेकी यथा: नित्य्âनित्यः शब्दः, सत्त्वाद् इति. अत्र वैधर्म्य-दृष्ट्âन्तो: यः पुनर् न नित्य्âनित्यः स न सन्, तद् यथा -- घटो; घटाद् उभयस्य्âप्य् अव्यावृत्तेर् उभय्âव्यतिरेकित्वम् इति. तथा सन्दिग्ध-साध्य-व्यतिरेको यथ्âसर्व-ज्ञा अनाप्ता वा कपिल्âदयो,आर्य-सत्य-चतुष्टय्âप्रतिपादकत्वाद् इति. अत्र वैधर्म्य-दृष्ट्âन्तो: यः पुनः सर्व-ज्ञ आप्तो वा ऽसाव् आर्य-सत्य-चतुष्टयं प्रत्यपीपदत्, तद् यथा -- शौद्ध्ôदनिर् इति. अयं च साध्य्âव्यतिरेकी व्âर्य-सत्य-चतुष्टयस्य दुःख-समुदय-मार्ग-निरोध-लक्षणस्य प्रमाण-बाधितत्वेन तद्-भाषकस्य्âसर्वज्ञत्âनाप्तत्ôपपत्तेः. केवलं तन्-निराकारक-प्रमाण-सामर्थ्य-पर्यालोचन-विकलानां सन्दिग्ध-साध्य-व्यतिरेकतया प्रतिभात्îति तथ्ôपन्यस्तः. तथा हि: यद्य् अप्य् आर्य-सत्य-चतुष्टयं शौद्ध्ôदनिः प्रतिपादितवांस्, तथ्âपि सर्वज्ञत्âप्तते तस्य न सिद्ध्यतः, ताभ्यां सह्âर्य-सत्य-चतुष्टय-प्रतिपादनस्य्âन्यथ्âनुपपत्त्य्-असिद्धेर्, असर्व-ज्ञ्âनाप्तेन्âपि पर-प्रतारण्âभिप्राय-प्रवृत्त-निपुण-बुद्धि-शठ-पुरुषेण तथा-विध-प्रतिपादनस्य कर्तुं शक्यत्वात्. तस्माच् छौद्ध्ôदनेः सकाशाद् असर्व-ज्ञत्âनाप्तता-लक्षणस्य साध्यस्य व्यावृत्तिः सन्दिग्ध्êति सन्दिग्ध-साध्य-व्यतिरेकित्वम् इति. सन्दिग्ध-साधन-व्यतिरेको यथा: ऽनादेय-वाक्यः कश्चिद् विवक्षितः पुरुषो राग्âदिमत्त्वाद् इति. अत्र वैधर्म्य-दृष्ट्âन्तो: यः पुनर् आदेय-वाक्यो, न स रागादिमांस्, तद् यथा -- सुगत इति. यद्य् अपि तद्-दर्शन्âनुरक्त्âन्तः-करणाणां सुगतस्य्âदेय-वचनता सिद्धि-सौध-मध्य्âरूढा, तथ्âपि राग्âदिमत्त्व्âभावस् तत्-प्रतिपादक-प्रमाण-वैधुर्यात् सन्देह-गोचर-चारिताम् अनुभवत्य्, अतः सुगताद् राग्âदिमत्ता-व्यावृत्ति-संशयात् सन्दिग्ध-साधन-व्यतिरेकित्वम् इति. सन्दिग्ध-साध्य-साधन-व्यतिरेको यथा: न वीत-रागाः कपिल्âदयः, करुण्âस्पदेष्व् अप्य् अकरुण्âपरीत-चित्ततय्âदत्त-निजक-मांस-शकलत्वाद् इति. अत्र वैधर्म्य-दृष्ट्âन्तो: ये पुनर् वीत-रागास् ते करुण्âस्पदेषु करुणा-परीत-चित्ततया दत्त-निज-मांस-शकलास्, तद् यथा -- बोधिसत्त्वा इति. अत्र साध्य-साधन-धर्मयोर् बोधिसत्त्वेभ्यो व्यावृत्तिः सन्दिग्धा; तत्-प्रतिपादक-प्रमाण-वैकल्यान् न ज्ञायते किं ते राग्âदिमन्त उत वीत-रागाः; तथ्âनुकम्प्येषु किं स्व-पिशित-खण्डानि दत्तवन्तो न्êति वा. अतः सन्दिग्ध-साध्य-साधन-व्यतिरेकित्वम् इति.
SK
[NAV_२५.३] परैर् अपरे ऽपि दृष्ट्âन्त्âभासास् त्रयो ऽविमृश्य-भाषितया दर्शिताः. तद् यथा -- अव्यतिरेको, ऽप्रदर्शित-व्यतिरेको, विपरीत-व्यतिरेकश् च्êति. ते ऽस्माभिर् अयुक्तत्वान् न दर्शयितव्याः. तथा ह्य्: अव्यतिरेकस् तैर् दर्शितो, यथ्âवीत-रागः कश्चिद् विवक्षितः पुरुषो, वक्तृत्वाद् इति. अत्र वैधर्म्य-डृष्ट्âन्तो: यः पुनर् वीत-रागो, न स वक्ता, यथ्ôपल-खण्ड इति. यद्य् अपि किल्ôपल-खण्डाद् उभयं व्यावृत्तं, तथ्âपि व्याप्त्या व्यतिरेक्âसिद्धेर् अव्यतिरेकित्वम् इति. अयुक्तश् च्âयं वक्तुम्, अव्यतिरेकिताया हेतु-दोषत्वात्. यदि हि दृष्ट्âन्त-बलेन्âइव व्यतिरेकः प्रतिपाद्येत, तदा तथा-विध-सामर्थ्य-विकलस्य तद्-आभासता युज्येत, न च्âइतद् अस्ति, प्राक्-प्रवृत्त-सम्बन्ध-ग्रहण-प्रवण-प्रमाण-गोचर-स्मरण-सम्पादन्âर्थं दृष्ट्âन्त्ôपादानात्. न ह्य् एकत्र यो यद्-अभावे न दृष्टः, स तद्-अभावे न भवत्îति प्रतिबन्ध-ग्राहि-प्रमाण-व्यतिरेकेण सिध्यत्य्, अतिप्रसङ्गात्. तस्माद् असिद्ध-प्रतिबन्धस्य हेतोर् एव्âयं दोषो, न दृष्ट्âन्तस्य्êति. तथ्âप्रदर्शित-व्यतिरेक-विपरीत-व्यतिरेकाव् अपि वक्तुम् अयुक्तौ, तयोर् वक्तृ-दोषत्वात्. तथा ह्य्: अप्रदर्शित-व्यतिरेकस् तैर् उक्तो, यथ्âनित्यः शब्दः, कृतकत्वाद्, आकाशवद् इति. अत्र विद्यमानो ऽपि व्यतिरेको वादिना वचनेन न्ôद्भावित इति दुष्टता. विपरीत-व्यतिरेकः पुनर् अभिहितो, यथ्âनित्यः शब्दः, कृतकत्वाद् इति. अत्र वैधर्म्य-दृष्ट्âन्तो: यद् अकृतकं तन् नित्यं भवति, यथ्âकाशम् इति. अत्र विपर्यस्त-व्यतिरेक-प्रदर्शनाद् विपरीत-व्यतिरेकित्वम्. वैधर्म्य-प्रयोगे हि साध्य्âभावः साधन्âभाव्âक्रान्तो दर्शनीयो, न च्âइएवम् अत्र, साधन्âभावस्य साध्य्âभाव-व्याप्ततय्âभिधानाद् इति.
SK
[NAV_२५.४] व्यतिरेक्âप्रदर्शनं विपरीत-व्यतिरेक-प्रदर्शनं च न वस्तुनो दोषः, किं तर्हि वचन-कुशलता-विकलस्य्âभिधायकस्य. किं च, येषां भवताम् अदो दर्शनं: यद् उत स्व्âर्थ्âनुमान-काले स्वयं हेतु-दर्शन-मात्रात् साध्य-प्रतीतेः पर्âर्थ्âनुमान्âवसरे ऽपि हेतु-प्रतिपादनम् एव कर्तव्यं ᳚विदुषां वाच्यो हेतुर् एव हि केवल᳚ इति-वचनात् तेषां ‘कृतकत्वाद्ऽ; इत्îयता हेत्ûपन्यासेन्âइव सिसाधयिषित-साध्य-सिद्धेः समस्त-दृष्ट्âन्त्âभास-वर्णनम् अपि पूर्व्âपर-व्याहत-वचन-रचना-चातुर्यम् आविर्-भावयति.आसातां तावद् एतौ, दृष्ट्âन्तस्य साधन्âवयवत्वेन्âनभ्युपगमात्. अथ्êत्थम् आचक्षीथा: अन्वय-व्यतिरेक्âपरिज्ञाने प्रतिपाद्यस्य न दृष्ट्âन्तम् अन्तरेण्âइतौ दर्शयितुं शक्याव्, अतो ऽन्वय-व्यतिरेक-दर्शन्âर्थं दृष्ट्âन्तो ऽभिधातव्यस्, ततश् च तत्-कार्य्âकारिणां तद्-आभासत्êति चेद्, गले गृहीतस्य्âयम् उल्लापस्, तथ्âप्य् अप्रदर्शित-व्यतिरेक-विपरीत-व्यतिरेकौ दृष्ट्âन्त्âभासौ न वास्तवौ, किं तर्हि वक्तृ-दोष-समुत्थाव्; अतो न्âभिधातुं युक्तौ, तथा-विधस्य विद्यमान-वस्तु-प्रकाशन-सामर्थ्य-रहितस्य निबिड-जडिम्âवष्टब्धस्य पुंसो वाद्âनधिकारित्वान्, मातृका-पाठ-शाला-योग्यतया विदुषां वादयितुम् अयुक्तत्वाद् इति.
SK
[NAV_२६.०] तद् एवं पर्âर्थ्âनुमानं व्याचक्षाणेन यद् उक्तं -- यद् उत ᳚तत् पक्ष्âदि-वचन्âत्मकम्᳚ इति -- तत् पक्ष-हेतु-दृष्ट्âन्तानां स्âभासानां प्रतिपादनात् प्रायः पर्यन्तितं; केवलं तत् पर्ôक्त-दूषण्ôद्धाराद् एव समीचीनताम् आबिभर्त्îत्य् अमुना प्रस्तावेन दूषणं साभासम् अभिधातुकाम आह:
SK
वाद्य्-उक्ते साधने प्रोक्त-दोषाणाम् उद्भावनम् / दूषणं निरवद्ये तु दूषण्âभास-नामकम् // NA_२६ //
SK
[NAV_२६.१] वदन-शीलो वादी प्रत्यायकस्, तेन्ôक्त उपन्यस्ते; कस्मिन्? साधने; साध्यते प्रतिपाद्य-प्रतीताव् आरोप्यते ऽनुमेयं येन तत् साधनम्. तच् च्âनेक-रूपं प्राक् प्रत्यपादि, तद् यथा -- क्वचिद् धेतुर् एव्âइकः, क्वचित् पक्ष-हेतू, क्वचित् पक्ष-हेतु-दृष्ट्âन्ताः, क्वचित् त एव स्ôपनयाः, क्वचित् सनिगमनाः, क्वचिद् एक्âइक-तच्-छुद्धि-वृद्ध्य्êति, प्रतिपाद्यस्य क्वचित् कथञ्चित् प्रत्याययितुं शक्यत्वात्, तत्-प्रत्यायन्ôपायस्य च साधनत्वाद् इति. तत्र्êह सम्यक्-साधनस्य दूषयितुम् अशक्यत्वात्, साधन्âभास एव तत्-सामर्थ्य्ôपपत्तेः, साधन्âभासम् एव दूषन्ôपनिपातात् प्राग् अवस्थायाम् अनिर्ज्ञातं सामान्येन साधन-ध्वनिन्ôक्तं, तत्र प्रोक्त-दोषाणां प्रत्यक्ष्âदि-निराकृत-पक्ष्âसिद्ध्âदि-हेतु-साध्य्âदि-विकल-दृष्ट्âन्त्âद्य्-उपन्यास-लक्षणानाम् उद्भावनं प्राश्निकानां पुरतः प्रकाशनं यत् तद् दूष्यते स्व्âभिप्रेत-साध्य-प्रत्यायन-वैकल्य-लक्षणां विकृतिं नीयते साधनम् अनेन्êति दूषणम् इति ज्ञेयम्.
SK
[NAV_२६.२] अधुना तद्-आभासम् आह: निर्गतं सम्यक्-प्रयुक्तत्वाद् अवद्यं पापं पक्ष्âदि-दोष-लक्षणं दौष्ट्यम् अस्माद् इति निरवद्यं, तस्मिन् साधने वादिन्ôक्त इति वर्तते. तथ्âपि मत्सरितया प्रमृद्य्ôदरं यद् अविद्यमानानां दोषाणाम् उद्भावनं तद् दूषण-स्थान्ôपन्यस्तत्वात् तत्-कार्य्âकरणात् सम्यक्-साधने दोष्ôद्भावनस्य प्रलापायमानत्वाद् दूषणवदाभासत इति दूषण्âभासम् इति; तद् एव नाम संज्ञा यस्य तत्-तथा. समर्थ-साधन्ôपन्यासत्वात् साधिते साध्ये सताम् अप्य् अपशब्द्âलङ्कार्âदि-दोषाणां यद् उद्भावनं तद् अपि दूषण्âभास-नामकम् इति. तु-शब्देन विशेषण्âर्थेन दर्शयति वस्तु-सिद्ध्य्-अर्थं वाद-प्रवृत्तेस्, तस्य सिद्धत्वाद्, अपशब्द्âदीनाम् अप्रस्तुततया तद्-द्वरेण दोष-प्रकाशनस्य्âसम्बद्ध-प्रलाप-रूपत्वाद्, इतरथा तावन्-मात्रेण्âइव पर्âपाकरण-सिद्धेः समर्थ-साधन्âन्वेषण-प्रयत्नो विशीर्येत, प्रयोजन्âभावाद् इति.
SK
[NAV_२७.०] तद् एवं व्यावहारिक-प्रमाणस्य प्रत्यक्ष-परोक्ष-स्व्âर्थ-पर्âर्ह्âदि-भेद-भिन्नस्य लक्षणं प्रतिपाद्य्âधुना यैः पारमार्थिकं समस्त्âवरण-विच्छेद-लभ्यम् अशेष्âर्थ-गोचरं केवल-ज्ञानं न्âभ्युपगम्यते, तन्-मत्ôद्दलन्âर्थं तल्-लक्षणम् अभिधित्सुर् आह:
SK
सकल्âवरण-मुक्त्âत्म केवलं यत् प्रकाशते / प्रत्यक्षं सकल्âर्थ्âत्म-सतत-प्रतिभासनम् // NA_२७ //
SK
[NAV_२७.१] सकलं समस्तम्, आवृणोत्याव्रियते व्âनेन्êत्य् आवरणं, तत्-स्वरूप-प्रच्छादनं कर्म्êत्य् अर्थः, सकलं च तद् अवारणं च सकल्âवरणं, तेन मुक्तो रहित, आत्मा स्वरूपं यस्य तत्-तथा. अत एव केवलम् असहायम्, आवरण-क्षय्ôपशम-विचित्रतय्âइव बोधस्य नान्âकारतया प्रवृत्तेः, सामस्त्येन पुनर् आवरण-निर्दलने विबन्धक-कारण-वैकल्याद् एक्âकारतय्âइव तस्य विवर्तनात्. अतो ज्ञान्âन्तर-निरपेक्षं यत् प्रकाशते प्रथते निरुपाधिकं द्योतत इत्य् अर्थः, तत् परम्âर्थतः प्रत्यक्षम्. तद् इदं सकल्âवरण-मुक्त्âत्म्êति-हेतु-द्वारेण तथा केवलं यत् प्रकाशत इति-स्वरूपतो निरूप्य्âधुना कार्य-द्वारेण निरूपयन्न् आह: सकल्âर्थ्âत्मनां समस्त-वस्तु-स्वरूपाणां सतत-प्रतिभासनम् अनवरत-प्रकाशनं सकल्âर्थ्âत्म-सतत-प्रतिभासनम् इति, प्रतिभास्यते ऽनेन्êति प्रतिभासनम्, आत्मनो धर्म-रूपतया भेदवद्-विवक्षितं ज्ञानम् इति यावत्. अस्य च पारमार्थिकत्वं, निरुपचरित-शब्द्âर्थ्ôपपत्तेः. तथा ह्य्: अक्ष-शब्दो जीव-पर्यायस्, ततश् च्âक्षं प्रति वर्तत इति प्रत्यक्षं, यत्र्âत्मनः साक्षाद् व्यापारः. व्यावहारिकं पुनर् इन्द्रिय-व्यवहित्âत्म-व्यापार-सम्पाद्यत्वात् परम्âर्थतः परोक्षम् एव: धूमाद् अग्नि-ज्ञानवत्, तिरो-धान्âविशेषात्.
SK
[NAV_२७.२] ननु च प्रसिद्धं लक्ष्यम् अनूद्य्âप्रसिद्धं लक्षणं विधीयते -- सर्वत्र्âयं न्यायः. अप्रसिद्धे पुनर् लक्ष्ये लक्षणम् अभिधीयमानम् अम्बर्âरविन्दिनी-कुसुम-लक्षणवन् निर्गोचरतां यायात्. तद् इदं स्वरूपतो ऽप्रसाध्य लक्षणम् अभिदधानस्य को ऽभिप्राय इत्य्; अत्र्ôच्यते -- ये ये मिथ्य्âवलेप्âध्मात्âन्तः-करणाः प्रमाण-प्रसिद्धम् अप्य् अदः प्रति विप्रतिपद्यन्ते, तेषां ध्य्-आन्धी-कृत-बुद्धित्वाद् अवधारणीयताम् अनेन दर्शयति. किम् अस्य प्रतिपादकं प्रमाणम् इति चेद्, एते ब्रूमः:
SK
[NAV_२७.३] समस्ति समस्त-वस्तु-विस्तार-गोचरं विशद-दर्शनं, तद्-गोचर्âनुमान-प्रवृत्तेः; इह यद्-यद्-गोचरम् अनुमानं प्रवर्तते, तस्य तस्य ग्राहकं किञ्चित् प्रत्यक्षम् उदय-पदवीं समासादयति, यथा चित्र-भानोः; प्रवर्तते च सकल्âर्थ-विषयम् अनुमानम्; अतस् तद्-अवलोकिना विशद-दर्शनेन्âपि भाव्यम् इति. सर्व्âर्थ-विषयं किम् अनुमानं प्रवर्तत इति चेद्, इदम् अपि ब्रूम: इह यद् यद् अस्ति तत् तत् सर्वं स्थित्य्-उदय्âपवर्ग-संसर्गम् अनुभवति, वस्तुत्वात्; यद् यद् वस्तु तत् तत् स्थेम-जन्म-प्रलयैः क्रोडी-कृतं; तद् यथ्âङ्गुलिर् अङ्गुलित्व-वक्रत्व-र्जुत्व्âपेक्षय्êति; वस्तु च यद् अस्त्य्, अतः प्रस्तुत-त्रय्âक्रान्तं तद् अवगन्तव्यम्. इदम् एव निखिल्âर्थ-गोचरम् अनेक्âन्त्âनुमानं ज्ञान-क्रिय्âभ्यास्âतिशयान् निखिल्âवरण-विच्छेदे विबन्धक-कारण्âभावाद् विशद-दर्शनी-भवति. न च्âनुमान-प्रवृत्ताव् अप्य् अनर्थित्व्âदिना प्रमातुर् अप्रवृत्ताव् अनुमेय-गोचर-प्रत्यक्ष्âसम्भवेन व्यभिचारश् चोदनीयः, सम्भवस्य साध्यतय्âभिप्रेतत्वात्. न च सम्भव-मात्रे ऽस्ति व्यभिचारः, सर्व्âनुमेयानां सम्भवत्-प्रत्यक्षतया व्याप्तत्वाद् इति.
SK
[NAV_२७.४] अथव्âन्यथ्âनुमानयामः: सम्भवत्-समस्त-शुद्धिक आत्मा, विद्यमान-शुद्ध्य्-उपायत्वाद्; इह यो यो विद्यमान-शुद्ध्य्-उपायः स स सम्भवत्-समस्त-शुद्धिको; यथा विद्यमान-क्षार-मृत्-पुट-पाक्âदि-शुद्ध्य्-उपायो रत्न-विशेषस्, तथा च विद्यमान-ज्ञान्âद्य्-अभ्यास-शुद्ध्य्-उपाय आत्म्âतः सम्भवत्-समस्त-शुद्धिक इति. सामस्त्य-शुद्धश् च्âत्मा ज्ञान-ज्ञानिनोः कथञ्चिद् अभेदात् केवलम् अभिधीयत इति. ज्ञान्âद्य्-अभ्यासः कथं विशुद्धि-कारणम् इति चेद्, आवरण-मल-प्रतिपक्ष-रूपत्वाद् इति ब्रूमः. प्रतिपक्ष-रूपता कथम् अवधारित्êइति चेत्, तव्âइव दर्शनात्. तथा हि: दृश्यते ज्ञान्âद्य्-अभ्यासतः प्रतिक्षणम् आवरण-विलयो, विशिष्ट-विशिष्टतर-तत्-कार्य-बोध्âद्य्-अनुभवात्, तद्-अतिशये पुनः सामस्त्य्ôच्छेदः स्याद् इत्य् अभिदध्महे. एतेन यत् परे प्रोचुर् -- यथा: प्रत्यक्ष्âदि-प्रमाण-पञ्चक-गोचर्âतिक्रान्तत्वात् सर्व्âर्थ-संवेदनम् अभाव्âख्य-षष्ठ-प्रमाण-गोचरतां प्रतिपद्यते -- तद् अयुक्तं, तत्-सम्भवस्य्âनुमानेन प्रतिपादनात्, प्रमाण-पञ्चक-प्रवर्तन्âभाव्âसिद्धेः. किं च, प्रमाण-पञ्चकं तद्-गोचरं न प्रवर्तत इति कथं भवतो निर्णयः? किं नियत-देश-काल-व्याप्त्या यद् वा समस्त-देश-काल्âस्कन्दनेन्êति? यद्य् आद्यः पक्षस्, ततो यथा घट्âदेः क्वचित् प्रमाण-पञ्चकं तद्-गोचरं निर्वर्तमानम् अभावं साधयत्य्, एवं समस्त-वस्तु-संवेदन-गोचरम् अपि तन् निवर्तमानं नियत-देश-दश्âवच्छिन्नम् अभावं साधयेन्, न सर्वत्र; ततश् च घट्âदिवत् तद् दुर्निवारं स्यात्. अथ द्वितीयः पक्षो, ऽसाव् असम्भव्य् एव; समस्त-देश-काल-वर्ति-पुरुष-परिषत्-संवेदन-साक्षात्-कारिणो ह्य् एवं वक्तुं युक्तं, यद् उत न क्वचित् समस्त्âर्थ-संवेदनं अस्त्îति -- न भवतस्, तथा-विध-पुरुष-सम्भव्âनभ्युपगमात्. इतरथा य एव कश्चिन् निश्चित्य्âइवम् अभिदध्यात्, स एव समस्त-वस्तु-विस्तार-व्यापि-ज्ञान्âलोक इति समस्त्âर्थ-गोचर-संवेदन-सिद्धिर् इत्य् आस्तां तावत्.
SK
[NAV_२८.०] तद् एवं प्रमाण-विषये लक्षण-संख्या-विप्रतिपत्ती निराकृत्य्âधुना क्रम-प्राप्तां गोचर-विप्रतिपत्तिं बहु-वक्तव्यत्वाद् अनिराकृत्य तावत् फल-विप्रतिपत्तिं निराचिकीर्षुर् आह:
SK
प्रमाणस्य फलं साक्षाद् अज्ञान-विनिवर्तनम् / केवलस्य सुख्ôपेक्षे शेषस्य्âदान-हान-धीः // NA_२८ //
SK
[NAV_२८.१] द्वि-विधं हि प्रमाणस्य फलं: साक्षाद् असाक्षाच् च्âनन्तरं व्यवहितं च्êत्य् अर्थः. तत्र साक्षाद् अज्ञानम् अनध्यवसायः प्रमेय्âपरिच्छित्तिस् तस्य विनिवर्तनं विशेषेण प्रलय्âपादनं प्रमाणस्य फलम्, अज्ञान्ôद्दलन-द्वारेण तस्य प्रवृत्तेस्, तस्य च सर्व्âनर्थ-मूलतया प्रमात्र्-अपकारित्वात्. तन्-निवर्तनस्य प्रयोजनता युक्त्âइव. एतच् च्âनन्तर-प्रयोजनं सर्व-ज्ञानानाम् एक-रूपत्वात् सामान्येन्ôक्तम्. व्यवहित-प्रयोजनं पुनर् विभागेन्âह: केवलस्य सर्व-ज्ञ-ज्ञानस्य सुखं वैषयिक-सुख्âतीत-परम्âह्लाद्âनुभव, उपेक्षा साक्षात् समस्त्âर्थ्âनुभवे ऽपि हान्ôपादान्êच्छ्âभावान् मध्य-स्थ-वृत्तिता, ते सुख्ôपेक्षे फलम् इत्य् अर्थः. शेषस्य तद्-व्यतिरिक्त-प्राकृत-लोक-प्रमाणस्य्âदानं ग्रहणं हानं परित्यागस्, तयोर् आदान-हानयोर् धीर् बुद्धिर् आदान-हान-धीः, सा फलम् इति यावत्. ततश् च्âदेयानां सम्यग्-दर्शन्âदि-स्रक्-चन्दन्âदीनां य्âदित्सा, तथा हेयानां मिथ्या-दर्शन्âदि-विष-कण्टक्âदीनां या जिहासा सा प्रमाण-साध्य्âप्रमाणात् तद्-असिद्धेः, प्रेक्षा-पूर्व-कारिणां ततः प्रवृत्त्य्-अयोगाद् इत्य् उक्तं भवति.
SK
[NAV_२९.०] अधुना गोचर-विप्रतिपत्तिं निराचष्टे:
SK
अनेक्âन्त्âत्मकं वस्तु गोचरः सर्व-संविदाम् / एक-देश-विशिष्टो ऽर्थो नयस्य विषयो मतः // NA_२९ //
SK
[NAV_२९.१] अनेके बहवो ऽन्ता अंशा धर्मा व्âत्मानः स्वरूपाणि यस्य तद् अनेक्âन्त्âत्मकम्. किं तत्? वस्तु बहिर् अन्तश् च, गोचरो विषयः, सर्व-संविदां समस्त-संवित्तीनाम्. अनेन्âनेक्âन्तम् अन्तरेण संवेदन-प्रसर-व्यवच्छेदं दर्शयति, भ्रान्त-संवेदनानाम् अप्य् अनेक्âन्त्ôद्द्योतन-पटिष्ठतया प्रवृत्तेः, केवलं केषुचिद् अंशेषु विसंवादकत्वाद् अप्रमाणानि तानि सङ्गीर्यन्ते. तद् अयम् अभिप्रायो: यदा संवेदन-सामान्यम् अप्य् अनेक्âन्त-विरहेण न प्रवर्तितुम् उत्सहते, तदा तद्-विशेष-भूतं प्रमाणम् एक्âन्ते प्रवर्तिष्यत इति दूर्âपास्त्âवकाश्âइव्âइषा वार्ता, तथ्âप्य् अनादि-मिथ्य्âभिनिवेश-वासित्âन्तः-करणाः कुदर्शन-विप्रलब्ध-बुद्धयो बहवो ऽत्र विप्रतिपद्यन्त इति सर्व-प्रमाणानाम् अनेक्âन्त-गोचरत्व-साधकं प्रमाणम् अभिधीयते: इह यत् प्रमाणं तत् परस्पर्âविनिर्लुठित्âनेक-धर्म-परिकरित-वस्तुनो ग्राहकं, तस्य्âइव तत्र प्रतिभासमानत्वाद्; इह यद् यत्र प्रतिभाति, तद् एव तद्-गोचरतय्âभ्युपगन्तव्यं; तद् -- यथा निरादीनव-नयन-प्रभव-दर्शने प्रतिभासमानं पाटलतया जपा-कुसुमं तथ्âइव तद्-गोचरतय्âभ्युपगम्यते; परस्पर्âविभक्त्âनेक-स्वभाव्âक्रान्त-मूर्तिकं च बहिर् अन्तश् च वस्तु सर्व-प्रमाणेषु प्रथत इत्य्; अतस् तद् एव तेषां गोचरः.
SK
[NAV_२९.२] न च्êतर्êतर-विशकलित-धर्मि-धर्म-भाव-वादिभिः कणभक्ष्âक्षपाद-शिष्यकैस् तावद् अस्य हेतोर् असिद्धत्âदि-दोषः प्रतिपादयितुं शक्यस्, तद्-अभ्युपगमम् अन्तरेण स्व्âभिप्रेत-वस्तुनो ऽवस्थान्âभावात्. तथा ह्य्: एकस्मिन् धर्मिणि बहवो धर्मास् ततो भिन्न-तनवः कथं वर्तेरन्? भेद्âविशेषेण सर्वत्र तद्-वृत्ति-प्रसङ्गात्. तत्र्âइव तेषां समवायान् न्âन्यत्र वर्तन्त इति चेन्, ननु सो ऽपि समवायो यद्य् उपकार्य्ôपकारक-भाव-व्यतिरेकेण्âपि भवति, ततः सर्वत्र्âविशेषेण प्रसज्येत, तद्-अभाव्âविशेषात्. अस्त्य् एव्ôपकार्य्ôपकारक-भाव इति चेद्, हन्त हतो ऽस्य्, अनेक्ôपकारकस्य्âनेक-स्वभावता-प्राप्तेस्, तद्-विरहे ऽनेक्ôपकारकत्व्âभावात्. न हि येन स्वभावेन्âइकस्य्ôपकरोति तेन्âइव द्वितीयस्य, तस्य तत्र्âइव्ôपयुक्तत्वाद्, द्वितीय्ôपकारक-स्वभावस्य तद्-उपमर्दन-द्वारेण्ôत्पत्तेर्, इतरथ्âइकम् एव्ôपकुर्वंस् तिष्ठेत्, तद्-एक-स्वभावात्. भिन्नाभिः शक्तिभिर् उपकरोति, न भिन्नैः स्वभावैस्, तेन न्âनेक्âन्त इति चेत्, तास् तर्हि तत्र कथं वर्तन्त इति वाच्यम्. समवायाद् इत्य्-उत्तरे ऽसाव् अप्य् उपकार्य्ôपकारक-भावम् अन्तरेण कथं न सर्वत्र्êति प्राचीनं चोद्यं पश्चाल्-लग्नम् अनुधावति. उपकार्य्ôपकारक-भाव्âभ्युपगमे पुनर् अप्य् अनेक-स्वभावता-प्रदर्शित-युक्तेः पुनः शक्त्य्-उपकारक-भिन्न-शक्ति-परिकल्पने तद् एव्âवर्तते, तन् न भिन्न-धर्म-परिकल्पने ऽप्य् अनेक्âन्तान् मोक्ष इति वरम् आदाव् एव मत्सरितां विहाय्âनेक-धर्म्âध्यासितं वस्त्व् अभ्युपगतम्. किं भेद-कल्पनय्âस्थान एव्âत्मना परिक्लेशितेन्êति. किं च्âनेक्âन्त्âभ्युपगमे सत्य् एष गुणः: परस्पर-विभक्तेषु संयोगि-संयोग-समवायि-समवाय-गुण-गुण्य्-अवयव्âवयवि-व्यक्ति-सामान्य्âदिषु संयोग-समवाय-गुण्य्-अवयवि-सामान्य्âदीनां संयोगि-समवायि-गुण्âवयव-विशेष्âदिषु वर्तन-चिन्तायां यद् दूषण-जालम् उपनिपतति, तद् अपि परिहृतं भवत्य्, एक्âन्त-भेद एव तद्-उपपत्तेर्, अनेक्âन्ते तद्-उत्थान्âभावात्. तथा हि: भिन्नाः खलु संयोग्âदयः संयोग्य्-आदिभ्यो विकल्पयितुं पार्यन्ते -- यद् उत कथम् एत एतेषु वर्तन्त इति? किम् एक-देशेन यद् वा सामस्त्येन? यद्य् एक-देशेन, तद् अयुक्तं, तेषां निरवयवत्व्âभ्युपगमात्. स्âवयवत्वे ऽपि तेभ्यो ऽवयवेभ्यो यद्य् अभिन्नास्, ततो ऽनेक्âन्त्âपत्तिर्, एकस्य्âनेक्âवयवत्व-प्राप्तेः. अथ भिन्नास् तेष्व् अपि ते कथं वर्तन्त इत्य् वाच्यम्: एक-देशेन सामस्त्येन वा. एक-देश-पक्षे तद् एव्âवर्तत इत्य् अनवस्था. अथ सामस्त्येन, तद् अप्य् असाधीयः, प्रत्येकं परिसमाप्ततया संयोग्âदि-बहुत्व-प्रसङ्गात्. तद्-अभिन्नाः पुनः संयोग्âदयो न विकल्प-भाजो भवन्ति. अभेद-पक्षे ऽपि संयोग्âदि-मात्रं संयोग्य्-आदि-मात्रं वा स्याद् इति चेन्, न, तस्य्âप्य् एक्âन्तेन्âनभ्युपगमात्, किं तर्ह्य् अन्योन्य्âविश्लिष्ट-स्वरूपा विवक्षया सन्दर्शनीय-भेदाः सर्व एव्âइते ऽभ्युपगम्यन्ते, तथा-विधानां कुयुक्ति-विकल्प्ôत्थापित-दूषण-समूह-निराकरण-क्षमत्वाद्, अबाधित-प्रतिभासेषु सर्वत्र तेषां तथ्âइव प्रतिभासनाद्, अन्यथा प्रतिभासमानानाम् अन्यथा परिकल्पने दृष्ट-हान्य्-अदृष्ट-परिकल्पना-द्वारेण्âसमञ्जस-प्राप्तेस्; तथा च ब्रह्म्âद्वैत-शून्य-वाद्âदयः सिद्धिम् अश्नुवीरन्, विशेष्âभावाद् इति.
SK
[NAV_२९.३] एतेन्âस्य हेतोः कापिला अप्य् असिद्धत्âदि-दोषम् अभिधित्सवो मौक्यम् आनीताः. तथा ह्य्: अन्तर् एकं संवेदनम् अपर्âपर-हर्ष-विषाद्âद्य्-अनन्त-धर्म-विवर्त्âक्रान्त-रूपं बहिश् च घट्âदिकम् अर्थं नव-पुराण्âदि-वर्तुल-पार्थिवत्व्âद्य्-अनेक-स्वभाव्âवष्टब्ध-शरीरं साक्षाल् लक्षयन्तः कथं तद्-विपरीत-कथने प्रवर्तेरन्? प्रकृति-पुरुष्âत्मकं द्रव्यम् एव्âइकं तात्त्विकं, पर्याय-भ्रान्ति-जनकः पुनर् विवर्तो ऽपारमार्थिक इति चेन्, न, द्वयोर् अपि सर्व-प्रमाणेषु प्रकाशमानयोर् अबाधितयोः सर्व-व्यवहार-निबन्धनयोः पक्ष-पातम् अन्तरेण्âइकस्य निह्नोतुम् अशक्यत्वात्. तथा सति विवर्त एव तात्त्विको, द्रव्यं पुनर् अलीकम् इति पर्याय-पक्ष-पाती प्रसञ्जयन् दुर्निषेधः स्याद् इति. अथ्êत्थम् अभिदधीथा: द्रव्यं सर्वत्र्âव्यभिचरित-रूपत्वात् सत्यं, पर्यायाः पुनर् व्यभिचारिण इत्य् असत्याः, तद् अयुक्तम्. यदि नाम द्रव्यम् अभेद-रूपत्वात् सर्वत्र्âनुवर्तते, पर्यायास् तु भेद-रूपत्वाद् व्यवच्छिद्यन्ते, तथ्âपि तत् सत्यम्, इतरे ऽलीका इति वक्तुं न पार्यते, न हि नीलं पीत-रूपतां न बिभर्त्îत्य्-एतावता तद् असत्यम्, अतिप्रसङ्गात्, सर्वस्य पर-रूप-परिहार्âवस्थायितय्âलीकत्व-प्राप्तेः. अथ द्रव्यम् एव पर्यायास्, तद्-अव्यतिरिक्तत्वात्, तत्-स्वरूपवन्, न सन्ति वा द्रव्य-व्यतिरेकिणः पर्याया, निःस्वभावत्वात्, ख-पुष्पवद् इति प्रमाणयसि, तथा सति पर्याया एव द्रव्यं, तद्-अव्यतिरिक्तत्वात् तत्-स्वरूपवन्, न्âस्ति वा पर्याय-व्यतिरिक्तं द्रव्यं, निष्पर्यायत्वाद्, आकाश-कुसुमवद् इत्îतरो ऽपि प्रमाणयन् केन वार्येत. तन् न पक्ष-द्वये ऽपि काचिद् विशेष्ôपलब्धिर् इति. यथ्âइव्âनन्त-सह-क्रम-वर्ति-पर्याय्âध्यासितं वस्तु सर्व-प्रमाणेषु प्रकाशते तथ्âइव्âभ्युपगन्तव्यं, तथा च्âन्यस्य्âभावात् तद् एव तद्-गोचर इति स्थितम्.
SK
[NAV_२९.४] तथा सुगत-मत्âनुसारिणाम् अपि मध्ये सौत्रान्तिकस् तावद् अस्य हेतोर् असिद्धताम् आविर्-भावयितुं न्ôत्सहते, तद्-अभ्युपगति-व्यतिरेकेण निज-दर्शन-व्यवस्थ्âनुपपत्तेः. तथा हि: बहिस् तावद् एकं कारणम् अपर्âपर-सामग्र्य्-अन्तः-पातितय्âनेक-कार्य-कार्यावेद्यते, यथा रूपं स्व्ôत्तर-क्षणं स्व्âवगाहि-ज्ञान्âदिकं च युगपज् जनयति. यदि च्âइक-क्षण-वर्तिनः सामग्री-भेदेन भेदम् अनुभवत एव भिन्न-देश-नाना-कार्य-कारिता, तथा सति नित्य-पक्ष्ôदितं दूषणं स्व-मस्तक्ôपनिपाति स्यात्, तस्य्âपि तथ्âइव भिन्न-काल-कार्य-निर्वर्तने ऽपि भेद्âभाव-प्रसङ्गात्. तथा प्रतिभास-भेदेन क्षण-क्षयि-रूप्âदि-स्वलक्षण-विलक्षणत्व्âभ्युपगमश् च्âइवं निर्निबन्धनः स्यात्, कौटस्थ्यम् आबिभ्रतो ऽपि द्रव्यस्य्âपर्âपर-कारण-कलाप्âन्तर्-गततया नव-पुराण्âदि-पर्याय-रूप-रस-गन्ध-स्पर्श्âवभास-लक्षण-कार्य-सम्पादन्âविरोध-प्रसक्तेः. किं च्âयम् एकं स्व्âवयव-व्यापिनं काल्âन्तर-संचरिष्णुम् आकारं साक्षाल् लक्षयन् क्षण-क्षयि-परम्âणु-लक्षणानि स्वलक्षणान्य् आचक्षीत न्âन्यथा, यथ्âकूतं तद्-अवभासस्य स्वप्न्âन्तरे ऽप्य् अनुपलक्षणाल्; लक्षितस्य च्âलक्षित-व्यतिरेक-निराकरणतस् तादात्म्यं कथयन् स्व-गिर्âनेक्âन्त्âवभासं समर्थयते. तथा ह्य्: अलक्षित-परम्âणु-पारिमाण्डल्य-प्रतिक्षण-विवर्तम् अपि स्वलक्षणं स्थिर-स्थूर्âद्य्-आत्मना दर्शयति स्वरूपम्, अन्यथा सुषुप्तं जगद् आसज्येत, तद्-अप्रकाशने प्रमाण्âन्तरस्य्âप्य् अत्यन्त-विलक्षण-स्वलक्षण्âवेदकस्य्âप्रवृत्ति-प्रसङ्गात्. तथ्âन्तः-संवेदनम् अर्थ-स्वरूप्âपेक्षया बहिर्-मुख्âन्तर्-मुख-सविकल्प्âविकल्प-भ्रान्त्âभ्रान्त्âदि-प्रतिभासम् एकम् अभ्युपयतः कथम् अनेक्âन्त्âवभासो ऽसिद्धः स्यात्? तथा नाना-देश-स्थित्âर्थ-सार्थ-समर्पित्âकार्ôपरक्तम् एकम् आकार-भेदे ऽप्य् अन्यथा युगपत्-प्रकाशमान-सित्âसित्âद्य्-अर्थ-व्यवस्थित्य्-अनुपपत्तेः संवेदनम् अनुमन्यमानः कथं भिन्न-समय-भावि-हर्ष-विषाद्âद्य्-अनेक-विवर्त-वशात् तद्-भेदम् आत्यन्तिकम् अभिदधीत, अभिन्न-योग-क्षेमत्वाद्. युगपद्-भाविनां संविद्-अन्तर्-निविष्ट्âकाराणाम् एकत्वं न हर्ष्âदीनां, तद्-विपर्ययाद् इति चेन्, न, तत्-सामर्थ्य-व्यवस्थाप्य्âर्थ्âभेद-प्रसङ्गात्, तद्-एकतया सित-पीत्âदिषु ज्ञानस्य बोध-रूपेण्âइव्âविशिष्टत्वात्. तद् एवं बहिर् अन्तश् च्âइक्âनेक-रूपत्वे प्रमाणतः स्थितेः स्वलक्षणस्य्âन्यथा स्व्âभ्युपेत-दर्शन-व्यवस्थ्âयोगान् न्âर्थ-वाद्य् अनेक्âन्त-प्रकाशं प्रतिक्षेप्तुम् अर्हति.
SK
[NAV_२९.५] तथ्ôररी-कृत-योग्âचार-मतम् अपि बलाद् अनेक्âन्त-प्रकाश-रज्जुर् आवेष्टयत्य्, एकस्य्âपि ज्ञानस्य्âनेक-वेद्य-वेदक्âकारतया प्रथन्ôपगतेः. एक-योग-क्षेमत्वात् तद्-ऐक्यम् इति चेन्, न, युगपद्-उदय-प्रलयवतां सह-वेदिनां सकल-सन्तानानाम् एकत्व-प्रसङ्गात्. संवृति-दर्शितत्वाद् अनेकत्वस्य, न तेन स्व-संवेदन-साक्षात्-कृत-पारमार्थिक्âइकत्व-क्षतिर् इति चेन्, न, ब्रह्म-वादि-मत्âप्रतिषेध-प्रसक्तेर्, यतो ऽनाद्य्-अविद्या-बलाद् एकम् अक्रमं सचेतनं स्व-संवेदन-साक्षात्-कृतम् अपि ब्रह्म्âनेकं क्रमवच् चेतन्âचेतनं परोक्ष्âपरोक्षं लक्ष्यते, भवत्-परिकल्पित-ग्राह्य-ग्राहक्âकार-विविक्त-संवेदनवद् इति तेन्âपि न दुरुपपादम्. अस्तु व्âयम् अनेक्âन्त्âवभासो भ्रान्तस्, तथ्âपि संवेदनस्य्âद्वयता न लक्ष्यते, तल्-लक्षणे सकल्âसुमताम् अधुन्âइव मुक्तत्âवाप्तेः. लक्ष्यते च तत् कथञ्चिद्, इतरथा सुषुप्त-दशावत् सर्व-व्यवहार्ôच्छेद-प्रसङ्गाद् इत्य् एकस्य्âपि संवेदनस्य लक्षित्âलक्षितत्वेन्âनेक्âन्त-प्रतिभासो दुःशको ऽपह्नोतुम् इति ज्ञान-वाद्य् अप्य् अस्य हेतोर् असिद्धत्âविर्-भावनं प्रति तूष्णीम् आसीत.
SK
[NAV_२९.६] शून्य-वादिनः समस्त्âभावाद् असिद्धो ऽनेक्âन्त-प्रकाश इति चेन्, न, तस्य्âपि प्रमाण-प्रमेय्âभावे न सर्व्âभाव्âवेदनं समस्त्य्, अन्यथ्âप्रमाणकं सर्वं सर्वत्र विद्यत इति परस्य्âपि वदतो न वदन-भङ्गः स्यात्, तद्-अभ्युपगमे ऽभ्युपगम-क्षतिः. तयोश् च दर्शितवद् अनेक्âन्त-प्रकाश इति न्âसिद्धो हेतुः. मरु-मरीचिका-निचय-चुम्बिनि संवेदने जल्ôल्लेखे ऽपि तद्-गोचरत्व्âभ्युपगम्âभावाद् अनैकान्तिको ऽयम् इति मा शङ्किष्ठास्, तस्य भ्रान्तत्वाद्, अभ्रान्त-प्रकाशो हि तद्-अभ्युपगति-हेतुः. अथ्âयम् अप्îतर्êतर-विनिर्लुठित-परम्âणु-क्षण-क्षयि-बोधेन बाध्यमानत्वाद् भ्रान्त इत्य् आचक्षीथास्, तद् अयुक्तं, यतस् तद्-बोधः किम् उपलब्धि-मात्रम् यद् वा निर्णयः? यद्य् आद्यः कल्पस् तद्âनुमानं विशीर्येत, निर्गोचरत्वात्, प्राथमकल्पिकेन्âइव निर्विकल्पक-विविक्त-दर्शनेन विरोध-भीरुतया सर्वथा वस्तु-ग्रहण्âभ्युपगमात्, प्रमाण-कलिते च मान्âन्तर-वैयर्थ्याद्, अनवस्था-प्राप्तेः. अथ द्वितीयस्, तथा सति सर्वं निर्विकल्पकम् अप्रमाणताम् अश्नुवीत. न च निर्णयो ऽनेक्âन्त-प्रकाशं बाधते, ऽपि तु समर्थयते, बहिर् अन्तश् च तथ्âइव तद्-विजृम्भणात्. अथ सर्वथा वस्तु-ग्रहणे ऽपि निर्विकल्पकं यत्र्âंशे पाश्चात्यं व्यवहार-कारि-व्यवसायम् उपजनयति, तत्र्âइव प्रमाणताम् आस्कन्दति न्âन्यत्र्êति मन्येथास्, तथा सति यद्-अनन्तरम् अर्थ-क्रिया-समर्थ्âर्थ-प्रार्थनया पुरुषः प्रवर्तते स एव निर्णयः प्रामाण्यं स्वी-कुर्यान्, न निर्विकल्पकं, तज्-जनकत्वे ऽपि सन्निकर्ष्âदिवद् इत्य् आसज्येत. निर्विकल्पकम् अनधिगत्âर्थ्âधिगन्तृत्वात् प्रमाणं, न व्यवसितिस्, तद्-विकल्पत्वाद् इति चेन्, न्âनुमितेर् अपि तद्वद् अप्रामाण्य-प्रसङ्गात्. न च विपरीत्âकार-निराकरण-चतुरतय्âनुमितिर् विशेषवती, निर्णीतेर् अपि तद्-अपनोद-दक्षत्वाद्, असमारोप-विषये ऽप्रवृत्तेः. त्रि-रूप-लिङ्ग-जतया विशेषो ऽनुमितेर् मानता-साधक इति चेत्, साक्षाद् अनुभवाद् उत्पादस् तर्हि निर्णीतेर् मह्âपराध इति भवतो बालताम् ईक्षामहे. किं च, यथा निर्विकल्पकम् अलक्षितं सकल-व्यावृत्त-स्वलक्षण-ग्रहण-प्रवणम् अपि कतिचिद्-अंश-विषयं विकल्पम् उत्थापयति, तथ्âर्थ एव्êन्द्रिय्âलोक्âदि-सन्निकृष्टतया कतिचिन्-निज्âंश-विषयं साक्षाद्-विशद-विकल्पं जनयेद् इति किम् अजा-गल-स्तन-कल्प-निर्विकल्पक-कल्पनया? तावन्तो ऽंशा बहिर्-अर्थे विरुध्यन्त इति चेत्, पाटव्âपाटव्âदयो दर्शने ऽप्य् एकस्मिन् न विरुध्यन्त इति किं राज्ञाम् आज्ञा? तस्मान् न क्षण-क्षयि-परम्âणु-लक्षण-स्वलक्षण-लक्षकं क्वचित् कदाचिद् दर्शनं लक्षयन्ति भवन्तो ऽपि, केवलं स्व-दर्शन्âनुरक्त्âन्तः-करणतया न तद्-असत्तां प्रतिपद्यन्ते. स्व्âंश-व्यापिनं काल्âन्तर्âनुयायिनम् एकं बहिर् अन्तश् च्âर्थं बोधं च प्रकाशयन् प्रथमानो निर्णयः, न पुनर् निर्मूलकैः कुयुक्ति-विकल्पैर् बाध्यत इति न भ्रान्तः. किं च्âस्य भ्रान्ततां कथयन् सर्व-प्रमाण-प्रमेय-व्यवस्थाम् उन्मूल्यति. तथा हि: यत् सत्त्व-बोध-रूपत्व-सुखत्व्âदिषु प्रमाणं तद् एव क्षण-क्षयित्व-स्वर्ग-प्रापण-शक्ति-युक्तत्व्âदिष्व् अप्रमाणम्; तथा यद् वस्तु नील-चतुरस्र्ôर्ध्वत्âदि-रूपतया प्रमेयं तद् एव मध्य-भाग-क्षण-विवर्त्âदिन्âप्रमेयं; तथा यद् बहिर्-अर्थ्âपेक्षया सविकल्पकं स्वप्न्âदि-दर्शनं वा भ्रान्तं तद् एव स्वरूप्âपेक्षय्âभ्रान्तम्; तथा यन् निशीथिनी-नाथ-द्वय्âदिकं द्वित्वे ऽलीकं तद् अपि धवलता-नियत-देश-चारित्âदाव् अनलीकम् इति निर्णयः. यदि तु विरोधाद् बिभ्यद्भिर् भवद्भिर् अयम् अपह्नूयते, किम् अपरम् ऐकान्तिकं प्रमाणं प्रमेयं च्ôररी-कृत्य स्व्âकूतं प्रतिष्ठापयेयुर् इति सकौतुकं नश् चेतः.
SK
[NAV_२९.७] अथ ज्ञान-वाद्य् अद्वैत-प्रकाशम् अलक्षितम् अभ्युपेत्य तेन बाहुविध्यं दधानो बोधो बाध्यमानत्वाद् भ्रान्त इत्य् अभिदध्यात्, तद् अयुक्तम्, दृष्ट-हान्य्-अदृष्ट-परिकल्पना-प्रसङ्गाद्, अलक्षित-निर्विकल्प-दर्शनस्य च प्राग् एव प्रतिक्षिप्तत्वात्. अथ युक्तिर् बोधस्य वैविध्यं बाधेत, तथा हि: भ्रान्त्âभ्रान्त-संवेदन-विवेकस्य कर्तुम् अशक्यत्वात्, संविन्-मात्रस्य तु सर्वत्र्âव्यभिचारित्वाद्, अद्वयं संवेदनं विविक्त-युक्त्या प्रकाशमानम् अनादि-काल्âलीन-वासना-समुपजनित-संवृति-दर्शित-सत्ताकं सित्âसित्âदि-विविध-प्रतिभासं निराकुरुते. अत्र प्रतिविदध्महे: किम् अयम् अनेक्âकारो बोधो ऽद्वय-संवेदनाद् व्यत्यरैक्षीद् वा न वा. किं च्âतो, यदि व्यभैत्सीत्, कथम् अदृष्ट-तत्-कार्यत्वे व्यतिरिक्तो ऽयं तद् अद्वयं संवेदनम् अनुमापयेत्? अव्यतिरेक-पक्षे पुनर् अनेकः सन्न् एक-संवेदन-तादात्म्येन प्रथमानः कथम् अद्वैतं न्ôद्दलयेत्? अथ संवृति-दर्शितत्वाद् अलीकतय्âस्य सित्âसित्âद्य्-आकार-बहिर्-मुख-कालुष्यस्य बोधेन तात्त्विकेन सह भेद्âभेद-विकल्प्âनुपपत्तिर् इति ब्रूषे, तथा सति परो बोधस्य्âपारमार्थिकत्वं अविद्या-दर्शितत्वाद्, अर्थ-सत्तायाः पुनस् तत्त्व-रूपता, सर्वत्र्âव्यभिचाराद् इति ब्रुवाणो दुर्निवारः स्यात्. जडस्य प्रकाश्âयोगात् संवित्तिः सत्या, न्âर्थ इति चेद्, एकस्य्âनेकत्âवभास्âभावाद् अनेक्âन्तः सत्यो, न्âद्वैतम् इति प्रतिजानीमहे. संवृत्य्âद्वयस्य्âपि नाना-प्रतिभासो ऽविरुद्ध इति चेद्, अनाद्य्-अविद्या-बलाज् जडस्य्âपि चेतनतया प्रकाशो न विरुद्ध इति परस्य्âपि शठ्ôत्तरं न्âतिदुर्लभं भवेत्. किं च, नान्âकार-कलुषित-चैतन्य-सामान्यस्य्âन्यथ्âनुपपत्ति-सामर्थ्यतस् तस्य सिद्धत्वाद् अद्वयं संवेदनम् असिद्धं साधयेद् अयम्, अन्यथा निर्निबन्धनतया साधनस्य्âप्रवृत्तेस्, तथा च स्थिर-स्थूर्âद्य्-उपलक्षित्âर्थ्âंश-वशाद् विशकलित-परम्âणु-क्षण-क्षयि-पर्याय-तादात्म्यं साधयन् तम् अनेक्âन्त-वादिनं न प्रतिक्षेप्तुम् अर्हति, युक्तेर् उभयत्र्âपि तुल्यत्वात्. किं च, यो ऽयं सित-पीत्âद्य्-अनेक्âकार-निर्णयो ऽसाव् अपि स्व-संवेदन्âपेक्षय्âद्वय-रूप इति भवद्-अभिप्रायो; यथा च्âनवस्था-भीरुतया सर्वं ज्ञानं स्व-प्रकाशम् अभ्युपेतं, तथा सर्वो निश्चयः स्व-निश्चायको ऽभ्युपगन्तव्यो, ऽन्यथा तत्र्âप्य् अनवस्था-दोषो ऽनुषज्येत, निश्चयाश् च सर्वथा स्वरूपं निश्चिनुयुर्, न्âइक-देशेन, यतो ᳚निश्चयैर् यन् न निश्चीयते रूपं तत् तेषां विषयः कथम्᳚ इति स्वयम् एव स्व-वधाय प्रलपितम्. तथा च्âद्वयस्य क्षण-क्षयिणः स्वरूपस्य तैर् ग्रहणे विपरीत्âरोप्âभावाद् आदित एव अनुत्थानं संसारस्य्êति युक्ति-रिक्त एव्âमुक्तत्âभिमानः स्यात्, न च्âइवम्, भव-भावस्य प्रतिप्राणि-प्रसिद्धत्वात्. तन् न्âयम् इतर्êतर्âविनिर्लुठित-द्रव्य-पर्याय-प्रकाशो भ्रान्तस्, तद्-विपरीत्âर्थ्ôपस्थापक-प्रमाण्âन्तर्âभावाद् इति स्थितम्.
SK
[NAV_२९.८] यदा तु शून्य-वादी ‘निरालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वात्, स्वप्न-प्रत्ययवद्ऽ; इति पर्âभिप्राय-प्रवृत्त्âनुमान-बलाद् भ्रान्तताम् अस्य कथयेत्, तदा तं प्रति ‘स्âलम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वाज्, जाग्रद्-दशा-प्रत्ययवद्ऽ; इति विपरीत्âनुमानम् उपढौकनीयम्. स यदि दृष्ट्âन्तस्य साध्य-विकलताम् उद्भावयेत्, तदा तद्-दृष्ट्âन्ते ऽपि सा दर्शनीया. यदि पुनर् असौ स्वप्न-प्रत्ययस्य निरालम्बनत्वं भवद्भिर् अभिप्रेतम् इति विलपन्न् आसितुं न दद्यात्, तदा स विकल्पतः पर्यनुयोज्यो: ऽस्मद्-अभ्युपगमः प्रमाणं भवतो ऽप्रमाणं वा? प्रमाणं चेद्, यथा तद्-बलाद् दृष्ट्âन्त-समर्थनं तथा जाग्रत्-प्रत्यय-गोचर्âर्थ-समर्थनम् अपि किं न कुरुषे, को ऽयम् अर्ध-जरतीय-न्यायः? अथ्âप्रमाणम्, एवं सति स्वप्न-प्रत्यय-निरालम्बनता-साधकं प्रमाण्âन्तरं मृगणीयं, किम् अनेन कुश-काश्âवलम्बनेन. तत्र्âपि प्रमाण्âन्तरे विकल्प-युगलम् अमलम् अवतरति: तत् किं निरालम्बनं स्âलम्बनं वा? निरालम्बनं चेन्, न्âन्य-प्रत्ययस्य निरालम्बनतां गदितुं पटिष्ठं, निर्गोचरत्वात्. अथ स्âलम्बनं, हन्त हतो ऽसि, निरालम्बनाः सर्वे प्रत्यया इति प्रतिज्ञात-क्षतेर्, अनेन्âइव व्यभिचाराद् इति शठः प्रतिशठ्âचरणेन निर्लोठनीयः. तन् न्âस्य्âनैकान्तिकत्वम्.
SK
[NAV_२९.९] विरुद्धता-शङ्का पुनर् दूर्âपास्त-प्रसर्âइव, प्रमाण-प्रकाशिते ऽर्थे सर्व-वादिनां तथ्âभ्युपगम्âविगानाद् इति. अनेन संशय-विरोध्âनवस्था-वैयधिकरण्य्âसम्भव्âदि-दूषणानि निर्मूलक-मिथ्या-विकल्प्ôत्थापितानि प्रतिभास-मुद्गर-निपात-निर्दलित-मस्तकत्वान् न जीवितुम् उत्सहन्त इति. तस्माद् असिद्धत्âदि-दोष-विना-कृतो ऽयं तथा-प्रतिभास-लक्षणो हेतुर् अनेक्âन्त-गोचरतां प्रमाणस्य परान् अभ्युपगमयत्îत्य् अलम् विस्तरेण. तस्मात् ‘तस्य्âइव तत्र प्रतिभासनात्ऽ; सर्व-संविदाम् अनेक्âन्त्âत्मकं वस्तु गोचर इति स्थितम्.
SK
[NAV_२९.१०] अयं च यथ्âवस्थित-प्रमाण-व्यापार-पर्यालोचक-प्रमात्र्-अभिप्रायेण प्रमाण-गोचरो दर्शितः. नयस् तर्हि किं-भूतम् तं मन्यत इति वचन्âवकाशे सत्य् आह: एक्êत्य्-आदि. अनन्त-धर्म्âध्यासितं वस्तु स्व्âभिप्रेत्âइक-धर्म-विशिष्टं नयति प्रापयति संवेदनम् आरोहयत्îति नयः, प्रमाण-प्रवृत्तेर् उत्तर-काल-भावी परामर्श इत्य् अर्थस्; तस्य विषयो गोचरो मतो ऽभिप्रेत एक-देशेन्âनित्यत्व्âदि-धर्म-लक्षणेन विशिष्टः पर-रूपेभ्यो विभिन्नो ऽर्थः प्रमेय-रूपं, प्रमाणम् एवं-विधम् एव्âर्थं गृह्णात्îति स्व्âकुतेन तेन व्यवस्थापनाद् इति.
SK
[NAV_२९.११] अथवा प्रमाण-विषयां लक्षण-संख्या-गोचर-फल-रूपां चतुर्-विधां विप्रतिपत्तिं निराकृत्य्âत्र्âइव नय-गोचरं निरूपयन्न् आह: एक्êत्य्-आदि. ननु च्âदि-वाक्येन प्रमाण-व्युत्पादन-मात्रं प्रतिज्ञानं, तत् किं अयम् अप्रस्तुतो ऽत्र नय-गोचरः प्रतिपाद्यत इति. सत्यं, एवं मन्यते: न नयः प्रमाणाद् अत्यन्तं दूर-यायी, किं तर्हि तद्-अंश-भूत एव, नय-समुदाय-सम्पाद्यत्वात् प्रमाणस्य्âतस् तद्-व्युत्पादन-प्रतिज्ञाने ऽसाव् अपि ‘तन्-मध्य-पतितस् तद्-ग्रहणेन गृह्यतऽ; इति-न्यायाद् गृहीत एव, तन् न्âयम् अप्रस्तुत इति.
SK
[NAV_२९.१२] अत्र्âपि पद्âर्थः स एव, केवलं वाक्य्âर्थ-भेदः. तथा ह्îह्âइवं घटना: नयस्य विषय एक-देश-विशिष्टो ऽर्थो मतो नीतिविदाम् इति. ननु च यदि नयस्य प्रमाण्âन्तः-पातित्वे ऽपि पृथग् गोचरः प्रतिपाद्यते, ततः प्रमाणवद् एतद्-विषया लक्षण्âदि-विप्रतिपत्तिर् अपि निराकर्तव्या. सत्यं, किं तु न परेषां नय-व्यवहारः प्रसिद्धो, ऽतो धर्मिणो ऽभावात् तद्-गोचरा विप्रतिपत्तिर् न्âस्त्य् एव. न च ते तेन तत्त्वं प्रतिपादनीयास्, तत्त्व-प्रतिपादने प्रमाणस्य्âइव व्यापारान्, नयस्य पुनर् एक-देश-निष्ठत्वेन तत्-प्रतिपादन-सामर्थ्य-विकलत्वाद्, अत एव्âचार्यस्य न तल्-लक्षण्âदि-स्वरूप-कथने ऽपि मह्âनादरः. गोचरं पुनर् हेय-पक्षे काक्वा प्रक्षिपन् साक्षात् प्रतिपादयति: मा भूत् स्व-दर्शन्âन्तः-पातिनां मन्द-बुद्धीनां प्रमाण-प्रतिपन्ने ऽप्य् अनेक्âन्त्âत्मके वस्तुन्य् एक-देश-समर्थन्âभिनिवेश-लक्षणः कदाग्रह इति. अथवा स्व-दर्शन्âन्तः-पातिनः प्रत्य् अनेन्âइव गोचर-कथनेन्ôपलक्षणत्वाल् लक्षण्âदीन्य् अपि लक्षयति. तत्र प्रमाण-प्रतिपन्न्âर्थ्âइक-देश-परामर्शो नय इति लक्षणं, सर्व-नय-विशेष्âनुयायित्वात् पर-रूप-व्यावर्तन-क्षमत्वाच् च्âस्य. संख्यया पुनर् अनन्ता इति, अनन्त-धर्मत्वाद् वस्तुनस्, तद्-एक-धर्म-पर्यवसित्âभिप्रायाणां च नयत्वात्, तथ्âपि चिरन्तन्âचार्यैः सर्व-सङ्ग्राहि-सप्त्âभिप्राय-परिकल्पना-द्वारेण सप्त नयाः प्रतिपादिताः. तद् यथा -- ‘नैगम-सङ्ग्रह-व्यवहार-र्जुसूत्र-शब्द-समभिरूढ्âइवम्भूता नयाऽ; इति. अतो ऽस्माभिर् अपि त एव वर्ण्यन्ते.
SK
[NAV_२९.१३] कथम् एते सर्व्âभिप्राय-सङ्ग्राहका इति चेद्, उच्यते: ऽभिप्रायस् तावद् अर्थ-द्वारेण शब्द-द्वारेण वा प्रवर्तेत, गत्य्-अन्तर्âभावाद्; अर्थश् च सामान्य-रूपो विशेष-रूपो वा, शब्दो ऽपि रूढितो व्युत्पत्तितश् च, व्युत्पत्तिर् अपि सामान्य-निमित्त-प्रयुक्ता तत्-काल-भावि-निमित्त-प्रयुक्ता वा स्यात्. तत्र ये केचन्âर्थ-निरूपण-प्रवणाः प्रमात्र्-अभिप्रायास् ते सर्वे ऽप्य् आद्ये नय-चतुष्टये ऽन्तर्-भवन्ति. तत्र्âपि ये परस्पर-विशकलितौ सामान्य-विशेषाव् इच्छन्ति तत्-समुदाय-रूपो नैगमः. ये पुनः केवलं सामान्यं वाञ्छन्ति तत्-समूह-सम्पाद्यः सङ्ग्रहः. ये पुनर् अनपेक्षित-शास्त्रीय-सामान्य-विशेषं लोक-व्यवहारम् अवतरन्तं घट्âदिकं पद्âर्थम् अभिप्रयन्ति तन्-निचय-जन्यो व्यवहारः. ये तु क्षण-क्षयिणः परम्âणु-लक्षणा विशेषाः सत्या इति मन्यन्ते तत्-सङ्घात-घटित ऋजुसूत्र इति. तथा ये रूढितः शब्दानां प्रवृत्तिं वाञ्छन्ति तन्-निवह-साध्यः शब्द इति. ये तु व्युत्पत्तितो ध्वनीनां प्रवृत्तिं वाञ्छन्ति न्âन्यथा तद्-वार-जन्यः समभिरूढ इति. ये तु वर्तमान-काल-भावि-व्युत्पत्ति-निमित्तम् अधिकृत्य शब्दाः प्रवर्तन्ते न्âन्यथ्êति मन्यन्ते तत्-सङ्घ-घटितः खल्व् एवम्भूत इति. तद् एवं न कश्चिद् विकल्पो ऽस्ति वस्तु-गोचरो यो ऽत्र नय-सप्तके न्âन्तर्-यात्îति सर्व्âभिप्राय-सङ्ग्राहका एते इति स्थितम्.
SK
[NAV_२९.१४] साम्प्रतम् एषाम् एव प्रत्येकं मतम् उपवर्णयामः. तत्र गमनं गमः परिच्छेद इत्य् अर्थः. निश्चितो गमो निगमो विविक्त-वस्तु-ग्रहणं, स एव, प्रज्ञ्âदेर् आकृति-गणतया स्व्âर्थिक्âण्-प्रत्यय-विधानान् नैगमः. यदि वा निगम्यन्ते नियतं परिच्छिद्यन्त इति निगमा अर्थास् तेषु भवो यो ऽभिप्रायो नियत-परिच्छेद-रूपः स नैगम इति. अयं हि सत्ता-लक्षणं महा-सामान्यम् अवान्तर-सामान्यानि च द्रव्यत्व-गुणत्व-कर्मत्व्âदीनि तथ्âन्त्यान् विशेषान् सकल्âसाधारण-रूप-लक्षणान् अवान्तर-विशेषांश् च्âपेक्षया पर-रूप-व्यावर्तन-क्षमान् सामान्याद् अत्यन्त-विनिर्लुठित-स्वरूपान् अभिप्रैति. तथा हि: किल संविन्-निष्ठाः पद्âर्थ-व्यवस्थितयो, न च सामान्य-ग्राहिणि विज्ञाने विशेष्âवभासो ऽस्त्य्, ऽनुवर्तमान्âइक्âकार-परामर्शेन तद्-ग्रहणाद्, अन्यथा सामान्य-ग्राहकत्व्âयोगात्. न्âपि विशेष-ग्रहण-दक्षे संवेदने सामान्यं चकास्ति, विशिष्ट-देश-दश्âवच्छिन्न-पद्âर्थ-ग्राहितया तत्-प्रवृत्तेर्, अन्यथा विशेष-संवेदनत्व्âयोगात्. न च्âइतौ परस्पर-विभिन्नाव् अपि प्रतिभासमानौ सामान्य-विशेषौ कथञ्चिन् मिश्रयितुम् युक्ताव्, अतिप्रसङ्गाद्, विभिन्न-प्रतिभासिनाम् अपि निखिल्âर्थ्âत्मनाम् ऐक्य-प्राप्तेः. एवं च प्रमाणयति: परस्पर-विश्लिष्टौ सामान्य-विशेषौ, पार्थक्येन्ôपलब्धेर्, इह यद् यत् पार्थक्येन्ôपलभ्यते तत् तत् परस्पर-विश्लिष्टं द्रव्यं, तद् यथा -- देवदत्त-यज्ञदत्ताव् इति, पार्थक्येन च्ôपलभ्येते सामान्य-विशेषाव्, अतः परस्पर-विभिन्नाव् इति. न सामान्यात् पृथग् विशेष्ôपलम्भ इति चेत्, कथं तर्हि तस्य्ôपलम्भ इति वाच्यम्. सामान्य-व्याप्तस्य्êति चेन्, न तर्हि स विशेष्ôपलम्भः, सामान्यस्य्âपि तेन ग्रहणात्; ततश् च तेन बोधेन विविक्त-विशेष-ग्रहण्âभावात् तद्-वाचकं ध्वनिं तत्-साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता; न च्âइतद् अस्ति, विशेष्âभिधान-व्यवहारयोः प्रवृत्ति-दर्शनात्. तस्माद् विशेषम् अभिलषता तत्र च व्यवहारं प्रवर्तयता तद्-ग्राहको बोधो विविक्तो ऽभ्युपगन्तव्यः. तथा सामान्यम् अपि विविक्त्âकारतया स्व-ग्राहिणि ज्ञाने यदि न प्रकाशेत, तदा तद्-गोचर्âभिमत-संवेदनेन विशेषस्य्âप्य् आकलनात् सामान्य्âभिधान-व्यवहारयोः प्रवृत्तेर् उच्छेदस् तथ्âइव वक्तव्यो, विविक्त-सामान्य-ग्राहि-बोध-मूलकत्वात् तयोस्, तद्-अनिष्टौ तयोर् अप्य् अभाव्âपत्तेः. न च सामान्यं विशेषं वा तिरस्-कृत्य केवलस्य विशेषस्य सामान्यस्य व्âभ्युपगमः कर्तुं युक्तो, द्वयोर् अपि स्व-ग्राहि-ज्ञाने प्रतिभासमानतया विशेष्âभावात्. तस्माद् एतौ द्वाव् अप्îतर्êतर-विशकलिताव् अङ्गी-करण्âर्हाव् इति नैगमः.
SK
[NAV_२९.१५] अधुना सङ्ग्रह्âभिप्रायो वर्ण्यते. तत्र सङ्गृह्णात्य् अशेष-विशेष-तिरो-धान-द्वारेण सामान्य-रूपतया जगद् आदत्त इति सङ्ग्रहः. अयं हि मन्यते: भाव-लक्षण-सामान्याद् व्यतिरिच्यमान-मूर्तयो वा विशेषाः परिकल्प्येरन्न्, अव्यतिरिच्यमान-मूर्तयो वा, गत्य्-अन्तर्âभावात्. तत्र यद्य् आद्यः पक्षस्, तदा निःस्वभावतां ते स्वी-कुर्युर्, भाव-व्यतिरेकित्वाद्, गगन-कुसुम्âदिवत्. अथ द्वितीयः कल्पस्, तर्हि भाव-मात्रम् आपद्यन्ते. तथा हि: भाव-मात्रं विशेषास्, तद्-अव्यतिरिक्तत्वाद्, इह यद् यतो ऽव्यतिरिक्तं तत् तद् एव भवति, तद् यथा -- भावस्य्âइव स्वरूपम्, अव्यतिरेकिणश् च विशेषा, अतस् तद्-रूपा एव. ननु च यदि भाव-मात्रम् एव तत्त्वं तदा तस्य सर्वत्र्âविशेषाद् य एते प्रतिप्राणि-प्रसिद्धाः स्तम्भ्êभ-कुम्भ्âम्भो-रूह्âदि-विशिष्ट-वस्तु-साध्या व्यवहारास् ते सर्वे ऽपि प्रलयम् आपद्येरन्न्, अतो विशेषा अपि विविक्त-व्यवहार-हेतवो ऽभ्युपगन्तव्याः. न्âइतद् अस्ति, व्यवहारस्य्âनाद्य्-अविद्या-बल-प्रवर्तितत्वात्, तेन पारामर्थिक-प्रमाण-प्रतिष्ठित-तत्त्व-प्रतिबन्ध्âभावात्. किं च, विशेष्âग्रहो विशेषेण त्याज्यो, विशेष-व्यवस्थापक-प्रमाण्âभावात्. तथा हि: भेद-रूपा विशेषाः, न च किञ्चित् प्रमाणं भेदम् अवगाहते, प्रत्यक्षं हि तावद् भाव-सम्पादित-सत्ताकं तम् एव साक्षत्-कर्तुं युक्तम्, न्âभावं, तस्य सकल-शक्ति-विरह-रूपतया तद्-उत्पादने व्यापार्âभावाद्, अनुत्पादकस्य च साक्षात्-करणे सर्व-साक्षात्-करण-प्रसङ्गात्, तथा च विशेष्âभावात् सर्वो द्रष्टासर्व-दर्शीस्यात्. अनिष्टम् च्âइतद् भवतां, तस्माद् भाव-ग्राहकम् एव तद् एष्टव्यम्. स च भावः सर्वत्र्âविशिष्ट इति तथ्âइव तेन ग्राह्यस्, तद्-उत्तर-काल-भावी पुनर् विकल्पो घटो ऽयं पट्âदिर् न भवत्îत्य् एवम्-आकारो व्यवहारं रचयन्न् अविद्या-मूलत्वान् न प्रमाणं, तन् न प्रत्यक्षाद् विशेष्âवगतिः. न्âप्य् अनुमान्âदेः, प्रत्यक्ष-मूलकत्वाच् छेष-प्रमाण-वर्गस्य, तस्मात् सामान्यम् एव परम्âर्थो, न विशेषा इति सङ्ग्रहः.
SK
[NAV_२९.१६] साम्प्रतं व्यवहार-मतम् उच्यते. तत्र व्यवहरणं व्यवह्रियते व्âनेन लौकिकैर् अभिप्रायेण्êति व्यवहारः. अयं तु मन्यते: यथा लोक-ग्राहम् एव वस्त्व् अस्तु, किम् अनय्âदृष्ट्âव्यवह्रियमान-वस्तु-परिकल्पन-कष्ट-पिष्टिकया? यद् एव च लोक-व्यवहार-पथम् अवतरति तस्य्âनुग्राहकं प्रमाणम् उपलभ्यते, न्êतरस्य, न हि सामान्यम् अनादि-निधनम् एकं सङ्ग्राह्âभिमतं प्रमाण-भूमिस्, तथ्âनुभव्âभावात्, सर्वस्य सर्व-दर्शित्व-प्रसङ्गाच् च. न्âपि विशेषाः परम्âणु-लक्षणाः क्षण-क्षयिणः प्रमाण-गोचरस्, तथा प्रवृत्तेर् अभावात्. तस्माद् इदम् एव निखिल-लोक्âबाधितं प्रमाण-प्रसिद्धं कियत्-काल-भावि-स्थूरताम् आबिभ्राणम् उदक्âहरण्âद्य्-अर्थ-क्रिया-निर्वर्तन-क्षमं घट्âदिकं वस्तु-रूपं पारमार्थिकम् अस्तु, पूर्व्ôत्तर-काल-भावि-तत्-पर्याय-पर्यालोचना पुनर् अज्यायसी, तत्र प्रमाण-प्रसर्âभावात्, प्रमाणम् अन्तरेण च विचारस्य कर्तुम् अशक्यत्वात्. अवस्तुत्वाच् च तेषां, किं तद्-गोचर-पर्यालोचनेन? तथा हि: पूर्व्ôत्तर-काल-भाविनो द्रव्य-विवर्ताः क्षण-क्षयि-परम्âणु-लक्षणा वा विशेषा न कञ्चन लोक-व्यवहारम् उपरचयन्ति, तन् न ते वस्तु-रूपा, लोक-व्यवहार्ôपयोगिनां एव वस्तुत्वाद् इति व्यवहारः.
SK
[NAV_२९.१७] साम्प्रतं ऋजुसूत्र्âभिप्रायः कथ्यते. तत्र र्जु प्रगुणम् अकुटिलम् अतीत्âनगत-वक्र-परित्यागाद् वर्तमान-क्षण-विवर्ति-वस्तुनो रूपं सूत्रयति निष्टङ्कितं दर्शयत्îत्य् ऋजुसूत्रः. तथा ह्य्: अस्य्âभिप्रायो -- ऽतीतस्य विनष्टत्वाद् अनागतस्य्âलब्ध्âत्म-लाभत्वात् खर-विषाण्âदिभ्यो ऽविशिष्यमाणतया सकल-शक्ति-विरह-रूपत्वान् न्âर्थ-क्रिया-निर्वर्तन-क्षमत्वम्, अर्थ-क्रिया-क्षमं च वस्तु; तद्-अभावान् न तयोर् वस्तुत्वम् इति. वर्तमान-क्षण्âलिङ्गितं च पुनर् वस्तु-रूपं समस्त्âर्थ-क्रियासु व्याप्रियत इति तद् एव पारमार्थिकम्. तद् अपि च निरंशम् अभ्युपगन्तव्यम्, अंश-व्याप्तेर् युक्ति-रिक्तत्वाद्, एकस्य्âनेक-स्वभावताम् अन्तरेण्âनेक-स्व्âवयव-व्यापन्âयोगात्. अनेक-स्वभावत्âइव्âस्त्व् इति चेन्, न, विरोध-व्याघ्र्âघ्रातत्वात्. तथा हि: यद्य् एकः स्वभावः कथम् अनेकः? अनेकश् चेत् कथम् एकः? एक्âनेकयोः परस्पर-परिहारेण्âवस्थानात्; तस्मात् स्वरूप-निमग्नाः परम्âणव एव परस्पर्ôपसर्पण-द्वारेण कथञ्चिन् निचय-रूपताम् आपन्ना निखिल-कार्येषु व्यापार-भाज इति त एव स्वलक्षणं, न स्थूरतां धारयत् पारमार्थिकं इति. किं च, प्रमाणतो ऽर्थ-व्यवस्था, न च प्रमाणं देश-काल-व्याप्ति-ग्रहणे किञ्चन प्रवर्तते, सर्व-प्रमाणानां वर्तमान-प्रकाश-रूपत्वात्. तथा हि: प्रत्यक्षं तावद् रूप्âलोक-मनस्कार-चक्षुर्-लक्षण-कारण-चतुष्टयाल् लब्ध-सत्ताकं वर्तमान-क्षण एव प्रकाशते, अतीत-वर्त्स्यत्-क्षणयोर् असन्निहितत्वात्, ततश् च तत् तत्-काल-सम्बद्धम् एव वस्तुनो रूपं साक्षात्-कर्तुं क्षमते न पूर्वम् अपरं व्âसन्निधानाद् एव. यदि पुनर् विनष्टम् अपि पूर्व-क्षण-वर्ति-रूपमाकलयेत्, तदा विनष्टत्व्âविशेषान् निरवधिः क्षण-परम्परा तत्र प्रतीयेत, तथा च सति सङ्कलिकय्âनादि-जन्म-परम्परा-ग्राहि प्रत्यक्षम् अनुषज्येत. एवम् अनागत-क्षण-ग्रहणे ऽपि योज्यम्; अनिष्टं च्âइतत्, तस्मात् तद् वार्तमानिक-क्षण-ग्रहण-दक्षम् एव्êत्य् अभ्युपगन्तव्यम्. ननु च यदि क्षण-भङ्गुरताम् अर्थ्âत्मनाम् अध्यक्षम् अवलोकयति, तदा नीलत्êव प्रतिभासमाना सा विप्रतिपत्ति-गोचरं न यायाद् इति तद्-विषयो लौकिकानां व्यवहारः प्रवर्तेत, न च्âइतद् अस्ति, स्थिरता-द्वारेण व्यवहार-प्रवृत्तेर् इति. अत्र प्रतिविधीयते -- साक्षात्-कुर्वाणा अपि क्षण-विनश्वरतां सदृश्âपर्âपर्ôत्पत्ति-विप्रलब्ध-बुद्धयो मन्दा न्âध्यवस्यन्त्य्, अनादि-काल-प्ररूढ-वासना-प्रबोध-समुपजनित-मिथ्या-विकल्प-सामर्थ्याच् च विपर्यस्त-स्थिरता-व्यवहारं प्रवर्तयन्ति, तन् न्âयम् अध्यक्षस्य्âपराधो, ऽपि तु प्रमात्ःणाम् एव. तथा घन्âकारो ऽपि प्रत्यक्ष-पृष्ठ-भावि-मिथ्या-विकल्प-सन्दर्शित एव, विविक्त-दर्शने तत्-प्रतिभास्âयोगात्, कर-चरण-शिरो-ग्रीव्âदयो ह्य् अवयवाः परस्पर-विभक्ता एव तत्र प्रतिभान्ति, न व्याप्य्-आकारो, न च ते ऽपि स्व्âंश-व्यापिनः प्रतिभान्ति, तद्-अवयवानाम् अप्îतर्êतर-विशकलित-रूपाणां प्रतिभासात् तावद् यावत् परम्âणव एव प्रथन्ते, व्यापि-रूपस्य विचार्âक्षमत्वाद् इत्य् उक्त-प्रायम्. न्âप्य् अनुमानात् स्थिर-स्थूर-वस्तु-सिद्धिः, प्रत्यक्ष-परिगृहीतं हि सम्बन्धम् आसाद्य्âनुमानं प्रवर्तेत, यदा च तत् क्षण-भङ्गुर-विविक्त्âंश-ग्रहण-चातुर्यम् आबिभ्रद् दर्शितं तद्âनुमानम् अपि तत्-प्रतिबन्ध-मूलकं तद्-गोचरम् एव पारम्पर्येण प्रतिष्ठापयति, स्व-प्रतिभासिनो रूपस्य्âलीकतया तत्-प्रतिष्ठापन-द्वारेण्âइव तस्य प्रामाण्यात्. ननु च स्मरण-प्रत्यभिज्ञान्âदीनि स्थिर-स्थूर-वस्तु-व्यतिरेकेण न्ôपपद्यन्ते, पूर्वम् अदृष्टे तद्-अभावात्, पुरुष्âद्य्-अवयविनां स्मरणात् प्रत्यभिज्ञानाच् च. न्âइतद् अस्ति, तेषाम् अलीक-वासना-प्रबोध्ôत्थापितत्वेन प्रामाण्य्âयोगात्. किं च, तान्य् अपि स्वयं वर्तमान-क्षण एव प्रकाशन्ते, विप्लव-वशात् तु स्वरूपम् एव वासना-सम्पादित्âतीत्âर्थ-रूपतया व्यवस्यन्ति, घन्âकारं च तस्य्âसन्तम् अध्यारोपयन्ति; तन् न तेभ्यो ऽपि व्यापि-वस्तु-सिद्धिः. तस्माद् व्यापिनि रूपे प्रमाण्âनवतारात् परस्पर-विश्लिष्टाः परम्âणव एव परम्âर्थत इति र्जुसूत्रः.
SK
[NAV_२९.१८] तद् इदम् अर्थ-स्वरूप-निरूपण-निपुणानां नयानां मतम् उपवर्णितम्; अधुना शब्द-विचार-चतुराणाम् उपवर्ण्यते. तत्र त्रयाणाम् अपि शब्द्âदीनाम् इदं साधारणमाकूतं, यद् उत शब्द एव परमार्थो न्âर्थस्, तस्य तद्-अव्यतिरिक्तत्वात्. पार्थक्येन वस्तुत्व-सिद्धेः कथम् अव्यतिरेक इति चेत्, प्रमाणाद् इति ब्रूमः. तथा हि: न व्यतिरिक्तो ऽर्थः शब्दात्, तत्-प्रतीतौ तस्य प्रतीयमानत्वाद्, इह यत्-प्रतीतौ यत् प्रतीयते तत् ततो ऽव्यतिरिक्तं भवति, तद् यथा -- शब्दे प्रतीयमाने तस्य्âइव स्वरूपं, प्रतीयते च शब्दे प्रतीयमाने ऽर्थो, ऽतो ऽसौ ततो ऽव्यतिरिक्त इति. अगृहीत-सङ्केतस्य घट-शब्द-श्रवणे ऽपि घट-प्रतीतेर् अभावाद् व्यतिरिक्त इति चेद्, एवं तर्हि विषस्य मारण्âत्मकत्वं तद्-अज्ञस्य न प्रतिभात्îति तत् ततो व्यतिरिक्तम् आपद्येत, न च्âइतद् अस्ति, तद्-व्यतिरेक्âविशेषेण गुड-खण्डवद् विषस्य्âप्य् अमारकत्व्âपत्तेः, सम्बन्धस्य च व्यतिरिक्तेन सह प्राग् एव्âपास्तत्वात्; तन् न्âबुद्ध-प्रमातृ-दोषेण वस्तुनो ऽन्यथात्वम्, अन्यथ्âन्धो रूपं न्êक्षत इति तद्-अभावो ऽपि प्रतिपत्तव्य इति. ये निरभिधाना वर्तन्ते ऽर्थास् तेषां शब्दात् पार्थक्येन वस्तुत्व-सिद्धिर् इति चेन्, न, निरभिधान्âर्थ्âभावात्, केवलं केचिद् विशेष-शब्दैः सङ्कीर्त्यन्ते, केचित् सामान्य-ध्वनिभिर् इत्य् एतावान् विशेषः स्यात्. यदि वा सकल्âर्थ-वाचका विशेष-धवनयो न सन्त्îति न्âस्त्य् अत्र प्रमाणम्. ततश् च सर्वे ऽर्था विद्यमान-स्व-वाचका, ऽर्थत्वाद्, घट्âर्थवद् इति प्रमाणात् सर्वेषां स्व-वाचकत्वेन पूर्व्ôक्त-युक्तेः शब्दाद् अपार्थक्य-सिद्धिः. तस्मान् न परम्âर्थतो ऽर्थः शब्द्âतिरिक्तो ऽस्त्य्, उपचारतः पुनर् लौकिकैर् अपर्यालोचित-परम्âर्थैर् व्यवह्रियते. असाव् अप्य् औपचारिकः शब्द्âत्मको व्âर्थः प्रतिक्षण-भङ्गुरः स्वी-कर्तव्यो, वर्णानां क्षण-ध्वंसिता-प्रतीतेर्, ऋजुसूत्र-प्रतिपादित-युक्ति-कलापाच् च.
SK
[NAV_२९.१९] साम्प्रतम् एतेषाम् एव प्रत्येकम् अभिप्रायः कथ्यते. तत्र शब्दो: रूढितो यावन्तो ध्वनयः कस्मिंश्चिद् अर्थे प्रवर्तन्ते; यथ्êन्द्र-शक्र-पुरन्दर्âदयः, तेषां सर्वेषाम् अप्य् एकम् अर्थम् अभिप्रैति किल प्रतीति-वशाद्, यथा शब्द्âव्यतिरेको ऽर्थस्य प्रतिपाद्यते तथ्âइव तस्य्âइकत्वं व्âनेकत्वं वा प्रतिपादनीयं; न च्êन्द्र-शक्र-पुरन्दर्âदयः पर्याय-शब्दा विभिन्न्âर्थ-वाचितया कदाचन प्रतीयन्ते, तेभ्यः सर्वद्âइव्âइक्âकार-परामर्श्ôत्पत्तेर्, अस्खलद्-वृत्तितया तथ्âइव व्यवहार-दर्शनात्. तस्माद् एक एव पर्याय-शब्दानाम् अर्थ इति शब्दः, शब्द्यत आहूयते ऽनेन्âभिप्रायेण्âर्थ इति निरुक्ताद् एक्âर्थ-प्रतिपादन्âभिप्रायेण्âइव पर्याय-ध्वनीनां प्रयोगाद् इति.
SK
[NAV_२९.२०] साम्प्रतं समभिरूढ-मतम् उपवर्ण्यते. तत्र सम् एकी-भावेन्âभिरोहति व्युत्पत्ति-निमित्तम् आस्कन्दति शब्द-प्रवृत्तौ यो ऽभिप्रायः स समभिरूढः. अयं हि पर्याय-शब्दानां प्रतिविभक्तम् एव्âर्थम् अभिमन्यते, तद् यथ्êन्दनाद् इन्द्रः, परम्âइश्वर्यम् इन्द्र-शब्द-वाच्यं परम्âर्थतस्, तद्वत्य् अर्थे पुनर् उपचारतः प्रवर्तते, न वा कश्चित् तद्वान्, सर्व-शब्दानां परस्पर-विभक्त्âर्थ-प्रतिपादकतय्âश्रय्âश्रयि-भावेन प्रवृत्त्य्-असिद्धेः. एवं शकनाच् छक्रः, पूर्-दारणात् पुरन्दर इत्य्-आदि भिन्न्âर्थत्वं सर्व-शब्दानां दर्शयति; प्रमाणयति च: पर्याय-शब्दा विभिन्न्âर्थाः, प्रतिविभक्त-व्युत्पत्ति-निमित्तकत्वाद्, इह ये ये प्रतिविभक्त-व्युत्पत्ति-निमित्तकास् ते ते भिन्न्âर्थाः, यथ्êन्द्र-घट-पुरुष-शब्दा विभिन्न्âर्था, विभिन्न-व्युत्पत्ति-निमित्तकाश् च पर्याय-शब्दा अप्य्, अतो ऽभिन्न्âर्था इति. यत् पुनर् अविचारित-प्रतीति-बलाद् एक्âर्थ्âभिधायकत्वं प्रतिपाद्यते तद् अयुक्तम्, अतिप्रसङ्गात्. तथा हि: यदि युक्ति-रिक्ता प्रतीतिर् एव शरणी-क्रियते तदा मन्द-मन्द-प्रकाशे दवीयसि देशे सन्निविष्ट-शरीरा विभिन्ना अपि निम्ब-कदम्ब्âश्वत्थ-कपित्थ्âदय एक-तर्व्-आकारताम् आबिभ्राणाः प्रतीयन्त इत्य् एकतय्âइव्âभ्युपगन्तव्याः. न च्âइतद् अस्ति, विविक्त-तत्-स्वरूप-ग्राहि-प्रत्यनीक-प्रत्यय्ôपनिपात-बाधितत्वेन पूर्व-प्रतीतेर् विविक्तानाम् एव तेषाम् अभ्युपगमात्, तन् न्âइक्âर्थ-वाचिनो ध्वनयः सन्ति, रूढिः पुनर् अविचारित-तद्-अर्थानाम् इति समभिरूढः.
SK
[NAV_२९.२१] साम्प्रतम् एवम्भूत्âभिप्रायः प्रतिपाद्यते. तत्र्âइवं-शब्दः प्रकार-वचनस्, ततश् च्âइवं यथा व्युत्पादितस् तं प्रकारं भूतः प्राप्तो यः शब्दः स एवम्भूतः; तत्-समर्थन-प्रधानो ऽभिप्रायो ऽप्य् एवम्भूतस्, तद्-विषयत्वात्, विषय-शब्देन च विषयिणो ऽभिधानात्. अयं हि यस्मिन्न् अर्थे शब्दो व्युत्पाद्यते स व्युत्पत्ति-निमित्तम् अर्थो यद्âइव विवर्तते तद्âइव तं शब्दं प्रवर्तमानम् अभिप्रैति, न सामान्येन. यथ्ôदक्âद्य्-आहरण-वेलायां योषिद्-आदि-मस्तक्âरूढो विशिष्ट-चेष्टावान् एव घटो ऽभिधीयते, न शेषो, घट-शब्द-व्युत्पत्ति-निमित्त-शून्यत्वात्, पट्âदिवद् इति. अतीतां भाविनीं वा चेष्टाम् अधिकृत्य सामान्येन्âइव्ôच्यत इति चेन्, न, तयोर् विनष्ट्âनुत्पन्नतया शश-विषाण-कल्पत्वात्; तथ्âपि तद्-द्वारेण शब्द-प्रवर्तने सर्वत्र प्रवर्तयितव्यो, विशेष्âभावात्. किं च, यद्य् अतीत-वर्त्स्यच्-चेष्ट्âपेक्षया घट-शब्दो ऽचेष्टावत्य् अपि प्रयुज्येत, कपाल-मृत्-पिण्ड्âदाव् अपि तत्-प्रवर्तनं दुर्निवारं स्यात्, विशेष्âभावात्, तस्माद् यत्र क्षणे व्युत्पत्ति-निमित्तम् अविकलम् अस्ति तस्मिन्न् एव सो ऽर्थस् तच्-छब्देन वाच्य इत्य् एवम्भूतः.
SK
[NAV_२९.२२] तद् एवम् अनेक-धर्म-परीत्âर्थ-ग्राहिका बुद्धिः प्रमाणं, तद्-द्वार्âयातः पुनर् एक-धर्म-निष्ठ्âर्थ-समर्थन-प्रवणः परामर्शः शेष-धर्म-स्वी-कार-तिरस्-कार-परिहार-द्वारेण वर्तमानो नयः, स च धर्माणाम् आनन्त्याद् अनन्त-भेदस्, तथ्âपि सर्व-सङ्ग्राहक्âभिप्राय-परिकल्पन-मुखेन्âइवं सप्त-भेदो दर्शितः. अयम् एव च स्व्âभिप्रेत-धर्म्âवधारण्âत्मकतयाशेष-धर्म-तिरस्-कार-द्वारेण प्रवर्तमाणः परामर्शो दुर्नय-संज्ञाम् अश्नुते; तद्-बल-प्रभावित-सत्ताका हि खल्व् एते पर-प्रवादाः. तथा हि: नैगम-नय-दर्शन्âनुसारिणौ नैयायिक-वैशेषिकौ. सङ्ग्रह्âभिप्राय-प्रवृत्ताः सर्वे ऽप्य् अद्वैत-वादाः सांख्य-दर्शनं च. व्यवहार-नय्âनुपाति प्रायश् चार्वाक-दर्शनम्. ऋजुसूत्र्âकूत-प्रवृत्त-बुद्धयस् ताथागताः. शब्द्âदि-नय-मत्âवलम्बिनो वैयाकरण्âदय इति. अथ्êत्थम् अभिदधीथा, यथा: कथम् एते ऽवधारण-द्वारेण स्वकम् अर्थं समर्थयन्तस् तद्-विपरीतं निराकुर्वाणा दुर्नयतां प्रतिपद्यन्त इत्य्, अत्र्ôच्यते -- एवं प्रवृत्तौ निर्गोचरत्वान्, निर्गोचरस्य नयत्व्âयोगात्. तथा हि: नयति केनचिद् अंशेन विशिष्टम् अर्थं प्रापयति यो ऽभिप्रायः स नयः, स्व्âभिप्रेत-धर्माच् छेष-धर्म-प्रतिक्षेप-द्वारेण तु प्रवृत्तो न किञ्चिन् नयत्य्, एक-धर्म्âलिङ्गितस्य वस्तुनो ऽसम्भवाद्, बहिर् अन्तश् च्âनेक-धर्म-परिकरित-स्वभावस्य तस्य प्रतिभासात्, तद्-अपह्नव-कारिणां कदभिप्रायाणां प्रतिभास-बाधितत्वेन्âलीकत्वात्.
SK
[NAV_२९.२३] तथा हि: यः तावन् नैगम-नयः परस्पर-विश्लिष्टौ सामान्य-विशेषौ प्रत्यपीपदत्, तद् अयुक्तम्. तयोस् तथा कदाचन प्रतिभास्âभावात्. यच् च्ôक्तम्: अनुवर्तमान्âइक्âकार-परामर्श-ग्राह्यं सामान्यं यत्र न तत्र विशेष-प्रतिभासो, यत्र च विशिष्ट-देश-दश्âवच्छिन्न-बोध-निर्ग्राह्यो विशेषो न तत्र सामान्य्âवगतिस्, तद्-वचन-मात्रम् एव, धव-खदिर-पलाश्âदि-समस्त-विशेष्âपसारणे वृक्षत्व्âदि-सामान्य-प्रतिभास्âभावात्. दूराद् विशेष्âग्रहणे ऽपि केवलं तच् चकास्त्îति चेन्, न, तत्र्âप्य् अभ्यन्तरी-भूत-विशेष-प्रतिभासात्, तद्-विरहे शश-विषाण-रूपत्वात्. एवं विशेषा अपि न सामान्याद् अत्यन्त-व्यतिरेकिणः प्रतिभान्ति, तन्-निमग्नानाम् एव तेषां ग्रहणाद्, इतरथा सत्तातो ऽतिरिच्यमाना भावा निःस्वभावताम् आत्मसात्-कुर्वन्ति. तथा वृक्षत्व्âदि-सामान्येभ्यो ऽपि भेदिनो वृक्ष्âदयो न स्युस्, तद्-अभेद-निबन्धनत्वात् तत्-स्वरूप-स्थितेः. तस्मात् तद् एव संवेदनम् उपसर्जनी-कृत-वैषम्यं प्रधानी-कृत्âइक्âकारं सामान्यं गृह्णात्îत्य् उच्यते, न्यक्-कृत-समत्वम् उत्कलित-नानात्वं पुनर् विशेष-ग्रह्îति, समत्व-नानात्वयोः कथञ्चिद् भेद्âभेदिनोः परस्परं सर्व्âर्थेषु भावात्, तद्-अभावे तथा-विध-प्रतिभास्âनुपपत्तेः. एतेन यद् अवादि ᳚न च्âइतौ विभिन्नाव् अपि प्रतिभासमानौ सामान्य-विशेषौ कथञ्चिन् मिश्रयितुं युक्ताव्᳚ इत्य्-आदि, तद् अपास्तम् अवगन्तव्यं, विभिन्नयोः प्रतिभास्âभावात्. व्यवहारो ऽपि सर्वः प्रधान्ôपसर्जन-द्वारेण कथञ्चिद् इतर्êतर्âविनिर्लुठित-सामान्य-विशेष-साध्य एव; न हि सामान्यं दोह-वाह्âदि-क्रियायाम् उपयुज्यते, विशेषाणाम् एव तत्र्ôपयोगान्, न्âपि विशेषा एव तत्-कारिणः, गोत्व-शून्यानां तेषां वृक्ष्âद्य्-अविशिष्टतया तत्-करण-सामर्थ्य्âभावात्. किं च्âत्यन्त-व्यतिरेके सामान्य-विशेषयोर् वृक्षं छिन्ध्îति चोदितः किम् इति तद्-विशेषे पलाश्âदौछेदं विधत्ते? तत्र तस्य समवायाद् इति चेन्, न, समवाय-ग्राहक-प्रमाण्âभावाद्, भावे ऽपि विश्लिष्टयोर् अभेद-बुद्ध्य्-उत्पादन्âक्षमत्वात्, तस्य्âपि व्यतिरिक्ततया पद्âर्थ्âन्तर्âविशेषान् नित्यत्व्âइकत्व-सर्व-गतत्व्âदिभिश् च सर्वत्र तत्-करण-प्रसङ्गाच् च. यत् पुनर् अवादीर्, यद् उत: यदि सामान्यं विशेष-निष्ठं, विशेषो वा सामान्य-व्याप्तः समुपलभ्येत, ततो विविक्तयोस् तयोः क्वचिद् अनुपलम्भाद् यो ऽयं विविक्तेषु सामान्येषु विशेषेषु च्âभिधान्âर्थ-क्रिया-लक्षणो व्यवहारः स समस्तः प्रलयं यायाल्, लोली-भावेन तद्-विवेकस्य कर्तुम् अशक्यत्वात्, तद् अप्य् असमीचीनं, यतो यद्य् अपि परस्पर्âविविक्तयोः सामान्य-विशेषयोः सर्वत्र्ôपलम्भस्, तथ्âपि यत्र्âइव प्रमातुर् अर्थित्वं तद् एव सामान्यं, विशेषान् वा प्रधानी-कृत्य तद्-गोचरं ध्वनिम् अर्थ-क्रियां वा प्रवर्तयत्îतरस्य्âप्य् उपसर्जन-भावेन तत्र व्यापारात्, तद्-विकलस्य्êतरस्य्âपि शश-विशाणायमानतया क्वचिद् अनुपयोगात्. किं च्âत्यन्त-व्यतिरेकिणि विशेषेभ्यः सामान्ये वृत्ति-विकल्प्ôपलम्भ-नूतन-विशेष-सम्बन्ध्âदि-द्वारेण दूषण-मुद्गर-कदम्बकं मूर्धनि पतद् दुर्विषहं स्यात्. तथा हि: तत् तेषु कथं वर्तेत -- सामस्त्येन्âइकदेशेन वा? सामस्त्य-पक्षे प्रतिविशेषं परिसमाप्ततया सामान्य-बहुत्व-प्रसङ्गो, ऽनिष्टं च्âइतद्, एकत्व्âभुपगम-क्षतेः. एकदेशेन वर्तने पुनर् यावन्तो विशेषास् तावन्तस् तद्-अंशाः प्रसजन्ति, न च्âइतद् अस्ति, सामान्यस्य निरवयवत्वात्; स्âवयवत्वे ऽपि पुनस् ते ऽभिन्ना भिन्ना वा. यद्य् अभिन्ना विशेषास्, तर्ह्य् अभेदिनः किं न्êष्यन्ते, विशेष्âभावात्. भेद-पक्षे पुनस् तेष्व् अपि तत् कथं वर्तेत -- सामस्त्येन्âइकदेशेन व्êति? तद् एव चोद्यम् अलब्ध-परिनिष्ठम् अवतरति, तन् न्âत्यन्त-भेदिनो वृत्तिः सम्भवति. किं च, यद्य् एकं सामान्यं भेदवत् समस्त-विशेषेषु वर्तेत, तद्âइक-विशेष्ôपलम्भ-काले तद् उपलम्भ्यते न वा? यद्य् आद्यः पक्षस्, तस्य्âइकतया सर्वत्र्ôपलम्भात्, व्याप्य-ग्रहण्âभावे व्यापक-ग्रहण्âसिद्धेर्, निखिल-तद्-व्याप्य-विशेष-ग्रहणम् आसज्येत, न च्âइतद् अस्ति, पुरो-वर्ति-विशेषस्य्âइव साक्षात्-करणाच्, छेष-विशेषाणाम् असन्निधानात्; सन्निहित-विशेष-निष्ठम् एव तद् उपलभ्यते. तस्य्âइव तद्-व्यञ्जकत्वाद्, इतरेषां तद्-अभावाद् इति चेन् न्âइक-स्वभावस्य खण्डशो व्यञ्जन्âयोगात् सन्निहित-विशेष-व्यञ्जितम् एव तत् सर्वत्र स्वभाव्âन्तर्âभावात् सर्व-विशेष-गतं च तद्-रूपम्, अतस् तद्-दर्शनं केन वार्येत. अथ द्वितीयः कल्पस्, तथा सति यथ्âइक-विशेष्ôपलम्भ-समये न्ôपलभ्यते, तथा शेष-विशेष्ôपलम्भ-काले ऽपि न्ôपलभ्येत, विशेष्âभावात्. अतस् तद्-अभाव एव्ôक्तः स्यात्, केवलस्य्ôपलम्भ्âभावात्. उपलम्भे ऽपि स्व-स्वभाव-स्थितेर् विशेष-रूपत्âपत्तिः. तथा चिरन्तन-विशेष-व्यवस्थित-सत्ताकं तन् नूतन-विशेष्ôत्पादे सति कथं तेन सह सम्बन्धम् अनुभवेत्? न तावद् विशेष्âन्तरेभ्यस् तद् उत्पित्सु-विशेष-देशं गन्तुम् अर्हति, निष्क्रियत्वात्. न्âपि तत्र्âइव्âभवद्, विशेष्ôत्पादात् प्राक् तद्-देशे तद्-उपलम्भ्âभावात्. न्âपि विशेषेण्âइव सह्ôत्पद्यते, नित्यत्वान्, नित्यस्य च्ôत्पत्ति-विरोधात्. अथ्âइतद्-दोष-परिजिहीर्षया तत् सक्रियाकम् अभिधीयेत, तथ्âपि पूर्व-व्यक्ति-त्यागेन वा नूतन-विशेष-देशम् आक्रामेत्, तद्-अभावेन वा? न तावद् अद्यः पक्षश्, चिरन्तन-व्यक्तीनां सामान्य-विकलतया तत्-सम्बन्ध-साध्य-बुद्धि-ध्वनि-विरह-प्रसङ्गात्. न च्âइतद् अस्त्य्, अपर्âपर-विशेष्ôत्पादे ऽपि प्राचीन-व्यक्तिषु तद्-दर्शनात्. अथ द्वितीयः कल्पस्, तद् अप्य् असम्बद्धं, निरवयवस्य पूर्व-व्यक्ति-त्याग-वैकल्ये सत्य् उत्पित्सु-व्यक्तिं प्रतिगमन्âभावात्. स्âवयव-पक्षस्य पुनः प्राग् एव्âपास्तत्वान्, न्âइतद्-अभ्युपगम-द्वारेण परिहारः श्रेयान्. अन्यच् च: व्यतिरिक्त-सामान्य-सम्बन्धाद् यदि भावाः समाना, न स्वरूपेण, तदा सत्त्व-सम्बन्धात् प्राग् भावाः सन्तो ऽसन्तो वा. सन्तश् चेद् अपार्थकः सत्ता-सम्बन्धो, ऽन्यथ्âनवस्था प्रसज्येत, पुनः-सत्त्âन्तर-सम्बन्ध्âनिवारणात्. असन्तश् चेद् अत्यन्त्âसताम् अपि गगन्âरविन्द्âदीनां सत्ता-सम्बन्धाद् भाव-रूपत्âपद्येत. एवं द्रव्यत्व-गुणत्व-कर्मत्व-गोत्व्âदि-सामान्येष्व् अपि समस्तम् एतद् वाच्यम्, एक-योग-क्षेमत्वात्, तन् न परस्परम् अत्यन्त-व्यतिरेकिणौ सामान्य-विशेषौ कथञ्चन घटाम् आटीकेते. अत एव तत्-समर्थन-प्रवणस् तत्-तादात्म्य-प्रतिक्षेपको ऽभिप्रायो निरालम्बनत्वान् नैगम-दुर्नय-व्यपदेशम् आस्कन्दति, तादात्म्य्ôपेक्षय्âइव सामान्य-विशेष-व्यतिरेक-समर्थकस्य नैगम-नयत्वाद्, व्यतिरेकिणोर् अपि तयोर् वस्तुनि कथञ्चिद् भावाद्, इतरथा विवक्षय्âपि तथा दर्शयितुम् अशक्यत्वात्, प्रधान्ôपसर्जन-भावस्य द्वय-निष्ठत्वात्, अत्यन्त-तादात्म्ये तत्-कारिण्या विवक्षाया अपि निर्गोचरता-प्रसङ्गात्. तस्मात् कथञ्चिद् भेद्âभेदिनाव् एव्âइतौ, तद्-अन्यतर-समर्थकः पुनर् निरालम्बनत्वाद् दुर्नयतां स्वी-करोत्îति स्थितम्.
SK
[NAV_२९.२४] तथा सङ्ग्रहो ऽप्य् अशेष-विशेष-प्रतिक्षेप-मुखेन सामान्यम् एकं समर्थयमानो दुर्नयः, तद्-उपेक्षा-द्वारेण्âइव तस्य नयत्वात्, विशेष-विकलस्य सामान्यस्य्âसम्भवात्. तथा हि: यत् तावद् उक्तं -- यद् उत ᳚विशेषाः सामान्याद् व्यतिरेकिणो ऽव्यतिरेकिणो वा. व्यतिरेक-पक्षे निःस्वभावत्वं, निःसत्ताकत्वात्. अव्यतिरेक-पक्षे भाव-मात्रं, तद्-अव्यतिरिक्तत्वात्, तत्-स्वरूपवद्᳚ इति -- तद् अयुक्तं, विशेष-वादिनो ऽप्य् एवं-विध-विकल्प-सम्भवात्. तथा हि: विशेषेभ्यः सामान्यं व्यतिरिक्तम् अव्यतिरिक्तं वा. व्यतिरिक्तं चेन्, न तर्हि सामान्यं, स्व-स्वरूप-व्यवस्थिततया विशेष-रूपत्वात्. अव्यतिरिक्तं चेत्, तथ्âपि न सामान्यं, विशेष्âव्यतिरिक्तत्वाद् एव तत्-स्वरूपवत्. यद् अप्य् अवाद्य् -- ᳚अनाद्य्-अविद्या-बल-प्रवृत्तो विशेष-व्यवहारस्, तात्त्विकं सामान्यं᳚ -- तद् अपि वचन-मात्रम् एव, युक्ति-रिक्तत्वात्, सामान्यम् एव्âनाद्य्-अविद्या-दर्शितं, विशेषाः पुनः पारमार्थिका इति विशेष-वादिनो ऽपि वदतो वक्त्र-भङ्ग्âभावात्. यत् पुनर् विशेष-ग्राहक-प्रमाण्âभावं प्रतिपादयत्âभ्यधायि, यद् उत ᳚प्रत्यक्षं भाव-सम्पादित-सत्ताकं तम् एव साक्षात्-करोति न्âभावं, तस्य्âनुत्पादकत्वाद्᳚ इत्य्-आदि, तद् अयुक्ततरं, यतः केन्êदं भवतो ऽत्यन्त-सुहृदा निवेदितं: ᳚भाव एव केवलः प्रत्यक्षम् उत्थापयति, न पुनर् अभावो ऽपि᳚ [इति]? अभाव-व्यापार्âभाव-प्रतिपादक-युक्ति-कलापेन्êति चेद् मुग्ध-विप्रतारितो ऽसि, तद्-व्यापार्âभाव्âसिद्धेः, सद्-असद्-रूप-वस्तुनः समस्त-क्रियासु व्यापाराद्, भाव-तादात्म्येन व्यवस्थितस्य्âभावस्य व्यापारे विरोध्âभावात्. कथं भाव्âभावयोस् तादात्म्यं, विरोधाद्? इति चेन्, न, प्रमाण-प्रसिद्धे विरोध्âभावात्. तथा हि: घट्âदिकः पद्âर्थ्âत्मा स्वरूपेण सन्, न पट्âदि-रूपेण्âप्îति भाव्âभाव्âत्मकः. यदि पुनः कथञ्चिन् न्âभाव्âत्मकः स्यात्, तदा पट्âदि-रूपेण्âपि भावात् सर्व्âत्मकः प्राप्नोति. युक्तम् एतद्, अत एव भेद-प्रपञ्च-विलय-सिद्धिर् इति चेत्, स्याद् एव्âइतद्, यदि पट्âद्य्-अभाव्âइक्âन्ताच् छून्य-वादिनो ऽपि मनो-रथ-पूरणं न स्यात्; तथा हि: पट्âदि-विविक्तो घटो ऽनुभूयते, न च पट्âद्य्-अभावो भावेन सह तादात्म्यम् अनुभवति, तस्माद् अभाव्âत्मक एव्âयम्, एवं पट्âदयो ऽप्îतर्êतर्âपेक्षय्êति शून्यत्व्âपत्तिः. तस्मात् स्वरूपम् आबिभ्राणं पर-रूपेभ्यो व्यावृत्तम् एव वस्तु सर्व-क्रियासु व्याप्रियत इति भाव्âभाव्âत्मकस्य्âइव व्यापारः, स्वरूप-धारणस्य भावत्वात्, पर-रूप-व्यावर्तनस्य्âभावत्वाद् इति. एवं स्व-गोचर-प्रत्यक्ष्ôत्पादने ऽपि व्याप्रियते, ततश् च तद्-रूपम् एव तत् साक्षात्-कुर्याद् इति स्वरूप-नियते पर-रूपेभ्यो व्यावृत्त एव वस्तुनि प्रत्यक्षं प्रवर्तते, तज्-जन्यत्वान्, न भाव-मात्रे, तस्य केवलस्य स्वरूप्âव्यवस्थितेर् उत्पादकत्व्âयोगात्. न च जनकत्वाद् अर्थो ग्राह्यो जन्यत्वाद् वा ज्ञानं ग्राहकम्, अतिप्रसङ्गाद् इत्य् उक्तं, किं तर्ह्य् आवरण-विच्छेद्âदेर् लब्ध-सत्ताकं ग्रहण-परिणामाज् ज्ञानं गृह्णात्य्, अर्थस् तु सन्निधान्âदेर् गृह्यते, स च्âनुवर्तमान-व्यावर्तमान-रूप एव प्रतीयत इति तथा-भूतो ऽभ्युपगन्तव्यो, न केवल-सामान्य-रूप इति. सद्-असद्-अंशयोः कथम् एकत्र्âवस्थानम् इति चेत्, तादात्म्येन्êति ब्रूमः. ननु तादात्म्ये भाव-मात्रम् अभाव-मात्रं व्âपद्येत्êतर्êतर्âव्यवतिरिक्तत्वाद्, इतर्êतर-स्वरूपवत्, तन् न्ôभय-रूप-वस्तु-सिद्धिः. न्âइतद् अस्ति, तादात्म्यस्य सम्बन्धत्वात्, सम्बन्धस्य च द्वय-निष्ठत्वात्, तद्-अभावे कस्य केन सम्बन्धो, निर्गोचरत्वात्? तस्माद् एतौ सद्-असद्-अंशौ धर्मि-रूपतय्âभेदिनौ, वस्तुनः सद्-असद्-रूपस्य्âइकत्वाद्, धर्म-रूपतया पुनर् विवक्षितौ भेदम् अनुभवतः, स्वरूपेण भावात्, पर-रूपेण त्व् अभावाद् इति. तद् एवं प्रत्यक्षे विविक्त-वस्तु-ग्राहिणि सकल-प्रमाण-प्रष्ठे प्रसाधिते शेष-प्रमाणान्य् अपि तद्-अनुसारितया विविक्तम् एव स्व-गोचरं स्थापयन्त्îति. तद्-अपलापी केवल-सामान्य-प्रतिष्ठापकः कद्-अभिप्रायः सङ्ग्रह-दुर्नय-व्यपदेशं स्वी-कुरुते, विशेष्âपेक्षय्âइव सामान्य-स्थापकस्य सङ्ग्रह-नयत्वाद् इति.
SK
[NAV_२९.२५] तथा व्यवहारो ऽपि प्रमाण-प्रसिद्धं वस्तु-स्वरूपं निह्नुवानो युक्ति-रिक्तम् अविचारित-रमणीयं लोक-व्यवहार-मार्ग्âनुसारि समर्थयमानो दुर्नयताम् आत्मनि निधत्ते, लोक-व्यवहार-प्रसाधकस्य्âप्îतर्âनिष्टौ व्यवस्थान्âभावात्. तथा हि: यद् इदं कियत्-काल-भावि स्थूरताम् आबिभ्राणं लोक-व्यवहार-कारि घट्âदिकं भवतस् तात्त्विकम् अभिप्रेतं तन् न्âकस्मिकं, किं तर्हि नित्य-परम्âणु-घटितम्, इतरथा निष्कारणत्वेन सर्वदा भाव्âभाव-प्रसङ्गात्. न ते परम्âणवस् तथा प्रतिभान्त्îति चेन्, न्âत एव तेषाम् अनुमानतः सिद्धिः. यदि पुनर् यद् एव साक्षान् न विशद-दर्शने चकास्ति तत् सकलम् अपलप्येत, हन्त बह्व् इदानीम् अपलपनीयं, घट्âदि-वस्तुनो ऽप्य् अर्वाग्-भाग-वर्ति-त्वङ्-मात्र-प्रतिभासान् मध्य-पर-भाग्âदीनाम् अपलाप-प्रसङ्गात्, तथा च लोक-व्यवहार-कारित्âपि विशीर्येत, तावता तद्-असिद्धेः. अथ्âत्र्âनुमान-बलेन व्यवहार-क्षम-सम्पूर्ण-वस्तुनः साधनम्, एवं तर्हि भूत-भावि-पर्याय-परम्âणु-साधनम् अपि क्रियतां, विशेष्âभावात्. तथा हि: यथा बाह्य-त्वङ्-मात्र-प्रतिभासे ऽपि सर्व-वस्तूनां तावता व्यवहार्âभावान् मध्य-भाग्âदि-साधनेन सम्पूर्णानि तत्-समर्थानि तानि साध्यन्ते, तथ्âइव कियत्-काल-भावि-घन्âकार-दर्शने ऽप्य् अनाद्य्-अनन्त-परम्âणु-तादाद्म्य-व्यवस्थित-शरीराणि तानि साध्यन्तां, तद्-अभावे ऽपि तेषाम् अनुपपत्तेः. तथा हि: व्यवहार्âवतारिणो दर्शन-योग्यस्य्âद्य-पर्यायस्य तावद् अतीत-पर्याय्âनभ्युपगमे निर्हेतुकत्वं, तत्र च्ôक्तो दोषः. तद्-उत्पादक्âनन्तर-पर्याय्êष्टौ पुनस् तज्-जनक-पर्यायो ऽप्य् अभ्युपगन्तव्य इत्य् अनादि-पर्याय-परम्परा सिद्धिम् अध्यासीत. तथा व्यवहार्âवतारि-वस्तु-पर्यन्त-पर्यायस्य पर्याय्âन्तर्âनुत्पादकत्वे बलाद् अवस्तुत्वम् आढौकते, भवन्-नीतेर् एव्âर्थ-क्रिया-करण-वैकल्यात्. तद्-उत्पादकत्वे पुनर् असाव् अप्य् अपर-पर्याय्ôत्पादक इत्य् अनन्त-पर्याय-माल्ôपपद्यते. तथा घन्âकारो ऽपि विशद-दर्शनेन साक्षात्-क्रियमाणो निष्प्रदेश-पर्यन्त्âवयव-व्यतिरेकेण न्ôपपद्यते, कर-चरण्âद्य्-अवयवानां खण्डशो भिद्यमानतय्âवयवि-रूपत्वात्, तद्-अवयवानाम् अप्य् अवयव्âन्तर-घटितत्वात्. परम्âणव एव पर्यन्त्âवयवाः परम्âर्थतो घन्âकार-हेतवस्; तद्-अभावे पुनर् आकस्मिको ऽसौ सर्वत्र्ôपलभ्येत, न वा क्वचिद्, विशेष्âभावात्. एतेन यद् अवादि: लोक-व्यवहार्âवतारिणः प्रमाणम् अनुग्राहकम् अस्ति वस्तुनो न्êतरस्य्êत्य्-आदि, तद् अपि प्रतिक्षिप्तम् अवगन्तव्यं, दृश्यमान्âर्थ्âन्यथ्âनुपपत्त्य्âइव तत्-साधनात्. यत् पुनर् उक्तं: ᳚किं तेषाम् अतीत्âनागत-पर्याय-परम्âण्व्-आदीनां पर्यालोचनेन लोक-व्यवहार्âनुपयोगितय्âवस्तुत्वाद्᳚ इत्य्-आदि, तद् अयुक्तम्, उपेक्षया वार्तमानिक-वस्तुनो ऽनुपयोगित्वेन्âवस्तुत्व-प्राप्तेः, सर्वस्य सर्व-लोक्âनुपयोगित्वात्. कस्यचिद् उपयोगितया वस्तुत्वे तेषाम् अपि सा समस्त्य् एव, सर्व-ज्ञ-ज्ञान्âदि-गोचरत्वाद् इत्य् आस्तां तावत्. तद् एवं प्रमाण-प्रसिद्ध्âर्थ्âपलापित्वाद् व्यवहारो दुर्नयः, तद्-उपेक्षया व्यवहार्âनुपाति-वस्तु-समर्थकस्य व्यवहार-नयत्वाद् इति.
SK
[NAV_२९.२६] अथ ऋजुसूत्रो ऽपि दृष्ट्âपलापेन्âदृष्टम् एव क्षण-क्षयि-परम्âणु-लक्षणं वस्तु-स्वरूपं परम्âर्थतया मन्यमानो दुर्नयताम् आस्कन्दति, दृश्यमान-स्थिर-स्थूर्âर्थ्âपह्नवे निर्मूलतया स्व्âभिप्रेत-वस्तु-समर्थक-परामर्शस्य्ôत्थान्âभावात्. तथा हि: स्व्âवयव-व्यापिनं काल्âन्तर-संचरिष्णुम् आकारं साक्षाल् लक्षयन् पश्चात् कुयुक्ति-विकल्पेन विवेचयेद्, यद् उत्âइष स्थिर-स्थूरो दृश्यमानः खल्व् आकारो न घटाम् इयर्ति. विचार्âक्षमत्वाद् इत्य्-आदिना न च दृष्टम् अदृष्ट-सन्दर्शकैः कुयुक्ति-विकल्पैर् बाधितुं शक्यं, सर्वत्र्âनाश्वास-प्रसङ्गात्. अथ्âभिदधीथा: ᳚मन्द-मन्द-प्रकाशे प्रदेशे रज्जौ विष-धर-भ्रान्तिः प्राक्तनी यथ्ôदीचीनेन तन्-निर्णय-कारिणा विकल्पेन बाध्यते, तथ्êदम् अपि स्थिर-स्थूर-दर्शनं क्षण-क्षयि-परम्âणु-प्रसाधक-परामर्शेन, किम् अत्र्âयुक्तम्?᳚ न्âइतद् अस्ति, रज्जु-प्रतिभासस्य्âइव प्राक्-प्रवृत्त-विष-धर-भ्रान्त्य्-अपनोद-दक्षत्वात्, तद्-अभावे च विकल्प-शतैर् अपि निवर्तयितुम् अशक्यत्वात्. अत्र्âप्य् अतीत-वर्त्स्यतोर् विनष्ट्âनुत्पन्नतय्âसन्निहितत्वात्, स्थूर्âवयवानां च स्व्âवयवेषु भेद्âभेद-द्वारेण पर्यालोच्यमानानाम् अवस्थान्âभावात् क्षण-क्षयि-परम्âणव एव प्रतिभान्ति, ततश् च प्रतिभास एव स्थिर-स्थूर-दर्शनस्य बाधक इति चेद्, एवं तर्हि प्रतिभासस्य्ôपदेश-गम्यत्âनुपपत्तेस्, तथ्âइव व्यवहारः प्रवर्तेत. पाश्चात्य-मिथ्या-विकल्प-विप्लवान् न प्रवर्तत इति चेन्, न्âन्यत्र्âप्य् अस्य्ôत्तरस्य विप्लव-हेतुत्वात्. तथा हि: धवले जलज्âदौ प्रतिभाते ऽपि नीलो ऽयम् अध्यक्षेण्âवलोकितः; पाश्चात्य-मिथ्या-विकल्प-विप्लवात् तु धवलः प्रतिभात्îति भवन्-न्यायेन शठः प्रतिजानानः केन वार्येत. तन् न दृष्ट्âपलापः कर्तुं शक्य इति स्थिर-स्थूर-वस्तु-सिद्धिस्, तस्य्âइव दर्शनाद्, इतरस्य तद्-दर्शन-द्वारेण साध्यमानस्य्âनुमेयत्वात्, तद्-अनिष्टौ तस्य्âप्य् असिद्धेः. एतेन स्थिर-स्थूर-वस्तुनो ऽर्थ-क्रिया-विरह-प्रतिपादनम् अपि प्रतिव्यूढं, तथा-विधस्य्âइव सर्व-क्रियासु व्यापार-दर्शनात् क्षण-क्षयिणो ऽर्थ-क्रिया-निषेधाच् च, यथ्ôक्तं प्राक्: ᳚क्षण-भङ्गुरो ह्य् अर्थ्âत्मा स्वक्षने पूर्वं पश्चाद् वा कार्यं कुर्याद् इत्य्-आदि. किं च, सत्त्व-पुरुषत्व-चैतन्य्âदिभिर् बाल-कुमार-युव-स्थविरत्व-हर्ष-विषाद्âदिभिश् च्âनुवर्तमान-व्यावर्तमान-रूपस्य सर्वस्य वस्तुनः प्रतीतेर् द्रव्य-पर्याय्âत्मकत्वम्, अभेदस्य द्रव्यत्वाद्, भेदस्य पर्याय-रूपत्वाद् इति. ततश् च भूत-भावि-क्षणयोर् असन्निधान-द्वारेण वार्तमानिक-क्षणस्य्âइव्âर्थ-क्रिया-कारित्व-प्रतिपादनं न्âस्माद्-बाधा-करं, पर्यायाणां क्रम-भावितया वर्तमान-पर्याय्âलिङ्गितस्य्âइव द्रव्यस्य्âर्थ-क्रिया-करण-चतुरत्वात्. [न] केवलं तत् त्रि-काल-व्यापि, द्रष्ट्âपि द्रव्य-रूपतया तथा-भूत एव. ततश् च क्षणिक-पर्याय-तिरो-धान-द्वारेण तद्-रूप-सङ्कलनात् स्थिरम् एव्êदं समस्त-क्रियासु व्याप्रियत इति प्रतीति-वीथिम् अवतरति, स्थैर्यस्य्âपि तात्त्विकत्वात्, क्षणिक-पर्यायाणां विद्यमानानाम् अप्य् अग्रहणात्, प्राकृत-लोक-ज्ञानस्य्âवरण-क्षय्ôपशम्âपेक्षितया कतिचिद्-अंश-विषयत्वात्. यदि पुनर् द्रव्य-बुद्धिः पर्याय-परम्परा-दर्शन-बल्âयातत्वाद् अतात्त्विकी कल्प्येत, तदा पूर्व-पर्यायस्य्ôत्तर-पर्याय्ôत्पादने स्âन्वयत्वं निरन्वयत्वं वा वक्तव्यं, गत्य्-अन्तर्âभावात्. स्âन्वयत्वे द्रव्यं पर्याय्âन्तरेण्âभिहितं स्यान्; निरन्वयत्वे पुनर् निर्हेतुतय्ôत्तर-पर्याय्âनुत्पाद-प्रसङ्गः. तन् न्ôभय-रूप-वस्तु-व्यतिरेकेण्âर्थ-क्रिया-सिद्धिः. न च्âर्थ-क्रिया वस्तु-लक्षणं, शब्द-विद्युत्-प्रदीप्âदि-चरम-क्षणानां क्षन्âन्तर्âनारम्भकत्वेन्âवस्तुत्व-प्राप्तेस्, तद्-अवस्तुत्वे पुनर् उपान्त्य-क्षणस्य्âपि वस्तुनि व्यापार्âभावाद्; एवं यावत् सर्व-क्षणानां सङ्कलिकया वस्तुत्वम्. अथ क्षण्âन्तर्âनारम्भे ऽपि स्व-गोचर-ज्ञान-जनकत्वम् अर्थ-क्रिया परिकल्प्येत, तथा सत्य् अतीत-भावि-पर्याय-परम्पर्âपि योगि-ज्ञान-गोचरतां यात्îति वस्तुत्वं स्वी-कुर्यात्. तन् न्âर्थ-क्रिया वस्तु-लक्षणम्, अपि त्ûत्पाद-व्यय-ध्रौव्य-युक्तता, प्रमाण-प्रतिष्ठितत्वात्. उत्पाद-व्ययौ ध्रौव्येन सह विरुद्धाव् इति चेत्, कुतो ऽयं विरोधः: प्रमाणाद् अप्रमाणाद् वा? न तावद् आद्यः पक्षः, सर्व-प्रमाणानां बहिर् अन्तश् च तथा-विधा-वस्तु-द्योतन-पटिष्ठतया प्रसाधितत्वात्. न्âपि द्वितीयो, ऽप्रमाणस्य्âकिञ्चित्-करत्वात्. एतेन स्थूरता-दूषणम् अपि प्रतिक्षिप्तं, प्रतिभास-हतत्वात्, तद्-अपह्नवेन विरोध्ôद्भावनस्य निर्मूलतया प्रलाप-मात्रत्वात्. यत् पुनर् वर्तमान-प्रकाश-रूपतया तत्-सम्बद्ध-वस्तु-ग्राहित्वं सर्व-प्रमाणानाम् उदग्राहि, तद् अयुक्तं, तेषाम् एक्âन्तेन वार्तमानिकत्व्âसिद्धेः, कथञ्चिद् आत्मा-व्यतिरेकित्वात्, तस्य च काल-त्रय-व्यापकत्वात्, तद्-रूपतया तेषाम् अप्य् अवस्थानात्. ततश् च्âत्मनो ऽर्थ-ग्रहण-परिणाम-रूपत्वात्, सर्व-प्रमाणानां परिणामिन्य् एव वस्तुनि व्यापारो, न क्षणिके. न च्âतीत्âनागत-क्षण-वर्ति-वस्तु-ग्रहणे ऽप्य् अनाद्य्-अनन्त-जन्म-परम्परा-ग्रहण-प्रसङ्ग, आवरण-विच्छेद-सापेक्षत्वात्, तस्य्âइव परम्âर्थतः संवेदन्âविर्-भाव्âन्तर-कारणत्वाद्, ग्राह्य्âदेर् बहिर्-अङ्गत्वात्. सामस्त्येन पुनर् आवरण-विलये सति समस्त-वस्तु-विस्तार्âनाद्य्-अनन्त-क्षण-परम्परा-ग्रहण-प्रसङ्गो न नो बाधा-कार्îष्टत्वात्. तद् एक-देश-क्षय्ôपशमे पुनस् तद्-अनुसारिणी बोध-प्रवृत्तिर् इति कियत्-काल-भाविनि स्थूरे वस्तुनि प्राकृत-लोक-ज्ञानानि प्रवर्तन्ते, न सम्पूर्णे. न च तान्य् अलीकानि, तद्-ग्राह्य्âंशस्य्âपि वस्तुनि भावात्, तावत्âइव व्यवहार-सिद्धेर् इति. यच् च्ôक्तं: क्षणिकतां गृह्णन्तो ऽपि सदृश्âपर्âपर्ôत्पत्ति-विप्रलब्धत्वान् मन्दा न्âध्यवस्यन्ति, मिथ्या-विकल्प-वशात् स्थिरता-व्यवहारं च प्रवर्तयन्ति, तद् अयुक्तं, भवद्-आकूटेन सादृश्य्âभावात्, तद्-अभावे तद्-उत्पाद्य्âभिमत-भ्रान्तेर् निर्बीजतय्ôत्पत्तेर् असम्भवात्. तथा स्थिरत्âरोपो ऽपि क्वचिद् गृहीत-स्थिरत्वस्य्âइव युक्तो न्âन्यथा, यथा दृष्ट-विष-धरस्य मन्द-प्रकाशे रज्जु-दर्शने विष-धर्âरोपः. न च भवतां कदाचन स्थिरता प्रतीति-गोचर-चारिताम् अनुभवति, तत् कथं प्रतिक्षणम् उदय्âपवर्ग-संसर्गिणि सकले वस्तुनि प्रत्यक्षेण्âवलोकिते ऽपि तद्-आरोप इति. तस्मात् तिरो-हित-क्षण-विवर्तम् अलक्षित-परम्âणु-वैविक्त्यं वस्तु सर्व-सांव्यवहारिक-प्रमाणैर् गोचरी-क्रियत इति तत्-तिरस्-कार-द्वारेण्âदृष्ट-क्षण-क्षयि-परम्âणु-प्रतिष्ठापको ऽभिप्राय ऋजुसूत्र-दुर्नय-संज्ञाम् अश्नुते, तद्-उपेक्षय्âइव तद्-दर्शकस्य नयत्वाद् इति.
SK
[NAV_२९.२७] तथा शब्द्âदयो ऽपि सर्वथा शब्द्âव्यतिरेकम् अर्थस्य समर्थयन्तो दुर्नयास्, तत्-समर्थन्âर्थम् उपन्यस्तस्य तत्-प्रतीतौ प्रतीयमानत्व-लक्षणस्य हेतोर् अनैकान्तिकत्वात्. तथा हि: न्âयम् एक्âन्तो यत्-प्रतीतौ यत् प्रतीयते तत् ततो ऽव्यतिरिक्तम् एव, व्यतिरिक्तस्य्âपि पावक्âदेर् अन्यथ्âनुपपन्नत्व-लक्षण-सम्बन्ध-बलाद् धूम्âदि-प्रतीतौ प्रतीयमानत्वात्. एवं शब्दो ऽपि व्यतिरिक्तम् अप्य् अर्थं वाचकत्वात् प्रत्याययिष्यत्य्, अव्यतिरेकस्य प्रत्यक्ष्âदि-बाधितत्वाच्, छब्दाद् विवेकेन्âइव्âनुभूयमानत्वात्. अस्मिंश् च हेताव् अनैकान्तिके स्थिते सर्व्âर्थानां सस्व-वाचकत्व-साधन-द्वारेण शब्द्âव्यतिरेक-साधनम् अपि दूर्âपास्तम् एव. न च्âत्र्âपि प्रतिबन्ध-ग्राहि प्रमाणं -- यो यो ऽर्थस् तेन तेन सस्व-वाचकेन भवितव्यं -- घट्âदि-दृष्ट्âन्त-मात्रात् तद्-असिद्धेः, क्षणिक्âलक्ष्य-द्रव्य-विवर्तानां सङ्केत-ग्रहण्ôपाय्âभावेन्âभिलपितुम् अशक्यतय्âनभिलाप्यत्व-सिद्धेश् च. क्षण-भङ्गुरता-प्रतिज्ञानं पुनर् अमीषां अप्य् ऋजुसूत्रवन् निरसितव्यम्. तथा प्रत्येक-मत्âपेक्षय्âपि स्व्âभिप्रेतं प्रतिष्ठापयन्तस् तद्-विपरीतं शब्द्âर्थं तिरस्-कुर्वाणा दुर्नयताम् आत्मसात्-कुर्वन्ति. एतावद् धि प्रमाण-प्रतिष्ठितं, यद् उत विधि-मुखेन शब्दो ऽर्थस्य वाचक इति; न पुनर् अयं नियमो यथ्âयम् अस्य्âइव वाचको न्âन्यस्य, देश-काल-पुरुष-सङ्केत्âदि-विचित्रतया सर्व-शब्दानाम् अपर्âपर्âर्थ-प्रतिपादकत्वेन्ôपलब्धेर् अनन्त-धर्मतय्âपर्âपर-योग्यता-द्वरेण्âपर्âपर्âर्थ्âभिधायकत्व्ôपपत्तेर्, अर्थानाम् अप्य् अनन्त-धर्मत्वाद् एव्âपर्âपर-शब्द-वाच्यत्व्âविरोधात्, तथ्âइव्âविगानेन व्यवहार-दर्शनात्, तद्-अनिष्टौ तल्-लोप-प्रसङ्गात्. तस्मात् सर्व-ध्वनयो योग्यतया सर्व्âर्थ-वाचका, देश-क्षय्ôपशम्âद्य्-अपेक्षया तु क्वचित् कथञ्चित् प्रतीतिं जनयन्ति. ततश् च क्वचिद् अनपेक्षित-व्युत्पत्ति-निमित्ता रूढितः प्रवर्तन्ते, क्वचित् सामान्य-व्युत्पत्ति-सापेक्षाः, क्वचित् तत्-काल-वर्ति-व्युत्पत्ति-निमित्त्âपेक्षय्êति न तत्र प्रामाणिकेन नियत्âर्थ्âग्रहो विधेयः. अतो ऽमी शब्द्âदयो यद्êतर्êतर्âभिमत-शब्द्âर्थ्ôपेक्षया स्व्âभिमतं शब्द्âर्थं दर्शयन्ति, तदा नयास्, तस्य्âपि तत्र भावात्. परस्पर-बाधया प्रवर्तमानाः पुनर् दुर्नय-रूपतां भजन्ति, निरालम्बनत्वाद् इति.
SK
[NAV_२९.२८] ननु च यद्य् एक्âइक-धर्म-समर्थन-परायणाःशेष-धर्म-तिरस्-कार-कारिणो ऽभिप्राया दुर्नयतां प्रतिपद्यन्ते, तदा वचनम् अप्य् एक-धर्म-कथन-द्वारेण प्रवर्तमानं स्âवधारणत्वाच् च शेष-धर्म-प्रतिक्षेप-कार्य् अलीकमापद्यते. ततश् च्âनन्त-धर्म्âध्यासित-वस्तु-सन्दर्शकम् एव वचनं यथ्âवस्थित्âर्थ-प्रतिपादकत्वात् सत्यं; न च्âइवं वचन-प्रवृत्तिर्, घटो ऽयं शुक्लो मूर्त इत्य्-आद्य् एक्âइक-धर्म-प्रतिपादन-निष्ठतया व्यवहारे शब्द-प्रयोग-दर्शनात्, सर्व-धर्माणां यौगपद्येन वक्तुम् अशक्यत्वात्, तद्-अभिधायकानाम् अप्यानन्त्यात्. न च्âइक्âइक-धर्म-सन्दर्शकत्वे ऽप्य् अमूनि वचनान्य् अलीकानि वक्तुं पार्यन्ते, समस्त-शाब्द-व्यवहार्ôच्छेद-प्रसङ्गात्, तद्-अलीकत्वे ततः प्रवृत्त्य्-असिद्धेर् इति. अत्र्ôच्यत -- इह तावद् द्वये वस्तु-प्रतिपादका, लौकिकास् तत्त्व-चिन्तकाश् च. तत्र प्रत्यक्ष्âदि-प्रसिद्धम् अर्थम् अर्थित्व-वशाल् लौकिकास् तावन् मध्यस्थ-भावेन व्यवहार-काले व्यपदिश्यन्ति, यद् उत नीलम् उत्पलं सुगन्धि कोमलम् इति, न तु तद्-धर्मि-गत-धर्म्âन्तर-ग्रहण-निराकरणयोराद्रियन्ते, ऽनर्थित्वात्, तावत्âइव विवक्षित-व्यवहार-परिसमाप्तेः. न च तद्-वचनानाम् अलीकता, शेष-धर्म्âन्तर-प्रतिक्षेप्âभावात्, तत्-प्रतिक्षेप-कारिणाम् एव्âलीकत्वात्. ᳚सर्वं वचनं स्âवधारणम्᳚ इति-न्यायात् तेषाम् अपि शेष-धर्म-तिरस्-कार-कारित्व-सिद्धेर् भवन्-नीत्य्âलीकत्âपद्यत इति चेन्, न, अवधारणस्य तद्-असम्भव-मात्र-व्यवच्छेदे व्यापाराद्; यथ्âनेक-पुरुष-सम्पूर्णे सदसि द्वार्âदौ स्थितस्य किम् अत्र देवदत्तः समस्ति न्âस्त्îति वा दोलायमान-बुद्धेः केनचिद् अभिधीयते -- यथा देवदत्तो ऽस्त्îति. अत्र यद्य् अप्य् उपन्यस्त-पद-द्वयस्य स्âवधारणता गम्यते, ऽन्यथा तद्-उच्चारण-वैयर्थ्य-प्रसङ्गात्, तथ्âप्य् अवधारणं तद्-असम्भव-मात्रं व्यवच्छिनत्ति, न शेष-पुरुष्âन्तराणि; न्âपि पर-रूपेण नास्तित्वं, तद्-व्यवच्छेद्âभिप्रायेण प्रस्तुत-वाक्य-प्रयोगात्, प्रयोक्त्र्-अभिप्राय्âदि-सापेक्षतय्âइव ध्वनेः स्व्âर्थ-प्रतिपादन-सामर्थ्यात्. न च वाच्य-वाचक-भाव-लक्षण-सम्बन्ध्âनर्थक्यं, तद्-अभावे प्रयोक्त्र्-अभिप्राय-मात्रेण रूपस्य्âइव नियोक्तुम् अशक्यत्वात्. न च समस्त-धर्म-युक्तम् एव वस्तु प्रतिपादयद् वचनं सत्यम् इत्य् अभिदध्महे, येन्âइक्âइक-धर्म्âलिङ्गित-वस्तु-सन्दर्शकानाम् अलीकता स्यात्, किं तर्हि सम्भवद्-अर्थ-प्रतिपादकं सत्यम् इति, सम्भवन्ति च शेष-धर्म्âप्रतिक्षेपे वचन-गोचर्âपन्ना धर्मास्; तस्मात् तत्-प्रतिपादकं सत्यम् एव. यदा तु दुर्नय-मत्âभिनिविष्ट-बुद्धिभिस् तीर्थ्âन्तरीयैस् तद्-धर्मि-गत-धर्म्âन्तर-निराकरण्âभिप्रायेण्âइव स्âवधारणं तत् प्रयुज्यते, यथ्âनित्यम् एव वस्तु नित्यम् एव व्êत्य्-आदि, तदा निरालम्बनत्वाद् अलीकतां प्राप्नुवत् केन वार्येत? तत्त्व-चिन्तकाः पुनः प्रत्यक्ष्âदि-प्रमाण-सिद्धम् अनेक्âन्त्âत्मकं वस्तु दर्शयन्तो द्वेधा दर्शयेयुस्, तद् यथा -- विकल्âदेशेन सकल्âदेशेन वा. तत्र विकाल्âदेशो नय्âधीनः, सकल्âदेशः प्रमाण्âयत्तः. तथा हि: यदा मध्यस्थ-भावेन्âर्थित्व-वशात् किञ्चिद् धर्मं प्रतिपिपादयिषवः शेष-धर्म-स्वी-करण-निराकरण-विमुखया धिया वाचं प्रयुञ्जते, तदा तत्त्व-चिन्तका अपि लौकिकवत् सम्मुग्ध्âकारतय्âचक्षते, यद् उत ᳚जीवो ऽस्ति कर्ता प्रमाता भोक्त्êत्य्-आदि᳚. अतः सम्पूर्ण-वस्तु-प्रतिपादन्âभावाद् विकल्âदेशो ऽभिधीयते, नय-मतेन सम्भवद्-धर्माणां दर्शन-मात्रम् इत्य् अर्थः. यदा तु प्रमाण-व्यापारम् अविकलं परामृश्य प्रतिपादयितुम् अभिप्रयन्ति, तद्âङ्गी-कृत-गुण-प्रधान-भाव्âशेष-धर्म-सूचक-कथञ्चित्-पर्याय-स्याच्-छब्द-भूषितया स्âवधारणया च वाचा दर्शयन्ति ‘स्याद् अस्त्य् एव जीवऽ; इत्य्-आदिकया. अतो ऽयं स्याच्-छब्द-संसूचित्âभ्यन्तरी-भूत्âनन्त-धर्मकस्य साक्षाद्-उपन्यस्त-जीव-शब्द-क्रियाभ्यां प्रधनी-कृत्âत्म-भावस्य्âवधारण-व्यवच्छिन्न-तद्-असम्भवस्य वस्तुनः सन्दर्शकत्वात् सकल्âदेश इत्य् उच्यते, प्रमाण-प्रतिपन्न-सम्पूर्ण्âर्थ-कथनम् इति यावत्. तद् उक्तं: सा ज्ञेय-विशेष-गतिर् नय-प्रमाण्âत्मिका भवेत् तत्र / सकल-ग्राहि तु मानं विकल-ग्राही नयो ज्ञेयः //
SK
[NAV_२९.२९] तद् इदम् उक्तं भवति: नय-प्रमाण्âभिज्ञः स्याद्-वादी सकल-विकल्âदेशाव् अधिकृत्य वस्तु-स्वरूप-प्रतिपिपादयिषया यद् यद् ब्रूते तत् तत् सत्यं, सम्भवद्-अर्थ-गोचरत्वात्. दुर्नय-मत्âवलम्बिनः पुनर् एक्âन्त-वादिनो यद् यद् आचक्षते तत् तद् अलीकम्, असम्भवद्-अर्थ-विषयत्वाद् इति.
SK
[NAV_३०.०] साम्प्रतम् अमुम् एव्âर्थं द्रढयन् सिद्ध्âन्ते ऽप्य् एक्âइक-नय-मत-प्रवृत्तानि सूत्राणि न सम्पूर्ण्âर्थ्âभिधायकान्îत्य्, अपि तु तत्-समुदाय्âभिप्राय-प्रवृत्तम् अविकल-वस्तु-निवेदकम् इति दर्शयन्न् आह:
SK
नयानाम् एक-निष्ठानां प्रवृत्तेः श्रुत-वर्त्मनि / सम्पूर्ण्âर्थ-विनिश्चायि स्याद्-वाद-श्रुतम् उच्यते // NA_३० //
SK
[NAV_३०.१] इह त्रिविधं श्रुतं, तद् यथा -- मिथ्या-श्रुतं नय-श्रुतं स्याद्-वाद-श्रुतं च. तत्र श्रूयत इति श्रुतम् आगमः. मिथ्य्âलीकं श्रुतं मिथ्या-श्रुतं, तच् च दुर्नय्âभिप्राय-प्रवृत्तं तीर्थिक-सम्बन्धि, निर्गोचरत्वात्. तथा नयैर् हेतु-भूतैः श्रुतं नय-श्रुतम्, एतच् च्âर्हद्-आगम्âन्तर्-गतम् एव्âइक-नय्âभिप्राय-प्रतिबद्धं, यथा ᳚पडुप्पण्णे नेरïë विणस्सï᳚ इत्य्-आद्य्, ऋजुसूत्र-नय्âभिप्रायेण क्षणिकत्वस्य्âपि तत्र सम्भवात्. तथा निर्दिश्यमान-धर्म-व्यतिरिक्त्âशेष-धर्म्âन्तर-संसूचकेन स्याता युक्तो वादो ऽभिप्रेत-धर्म-वचनं स्याद्-वादः, तद्-आत्मकं श्रुतं स्याद्-वाद-श्रुतम्. तत् किं-भूतम् उच्यत इत्य् आह: सम्पूर्णो ऽविकलः स च्âसाव् अर्थश् च तद्-विनिश्चायि तन्-निर्णय-हेतुत्वाद् एवम् अभिधीयते; परम्âर्थतः पुनः समस्त-वस्तु-स्वरूप-प्रतिपाद्îत्य् अर्थः, शब्द्âत्मकत्वान्, निश्चयस्य बोध-रूपत्वाद् इति. नय-श्रुतं तर्हि सम्पूर्ण्âर्थ-विनिश्चायि कस्मान् न भवत्îत्य् आह: नयानां नैगम्âदीनाम् एक-निष्ट्ःआनाम् एक-धर्म-ग्रहण-पर्यवसितानां श्रुत-वर्त्मन्य् आगम-मार्गे प्रवृत्तेः प्रवर्तनान् न तद् एक्âइक्âभिप्राय-प्रतिबद्धं सम्पूर्ण्âर्थ-विनिश्चायि, तत्-समुदायस्य्âइव सम्पूर्ण्âर्थ-विनिश्चायकत्वाद् इत्य्-आकूटम्.
SK
[NAV_३१.०] तद् एवं नय-प्रमाण-स्वरूपं प्रतिपाद्य्âधुन्âशेष-नय-प्रमाण-व्यापकं तेषां तत्र तादात्म्येन्âवस्थानात् प्रमातारम् अभिधातुकाम आह:
SK
प्रमाता स्व्âन्य-निर्भासी कर्ता भोक्ता विवृत्तिमान् / स्व-संवेदन-संसिद्धो जीवः क्षित्य्-आद्य्-अनात्मकः // NA_३१ //
SK
[NAV_३१.१] तत्र त्रि-काल-जीवनाज् जीवः, प्राण-धारक आत्म्êत्य् अर्थः, स प्रमिणोत्îति प्रमाता प्रमेय-परिच्छेदकः. किं-भूतः सन्न् इत्य् आह: स्व्âन्याव् आत्म-परौ निर्भासितुम् उद्द्योतयितुं शीलम् अस्य्êति स्व्âन्य-निर्भासी, स्व-स्वरूप्âर्थयोः प्रकाशक इति यावत्. तथा करोत्îति कर्ता, भुङ्क्त इति भोक्ता, विवर्तनम् अपर्âपर-पर्यायेषु गमनं विवृत्तिः परिणामः, सा विद्यते यस्य्êति विवृत्तिमान्. स्व आत्मा संवेद्यते ऽनेन्êति स्व-संवेदनं तेन सम्यक् सिद्धः प्रतिष्ठितः प्रतीतो वा स्व-संवेदन-संसिद्धः. क्षितिः पृथिव्य् आदिर् येषां तानि क्षित्य्-आदीन्य्, आदि-शब्दाद् अम्बु-तेजो-वाय्व्-आकाशानि गृह्यन्ते; न विद्यत आत्मा स्वरूपम् अस्य्êत्य् अनात्मकः, किं स्व-स्वरूप्âपेक्षया? न, क्षित्य्-आदीनाम् अनात्मकः क्षित्य्-आद्य्-अनात्मकः, क्षित्य्-आदि-स्वरूपो न भवत्îत्य् अर्थः.
SK
[NAV_३१.२] तत्र जीवः प्रमात्êत्य्-अनेन ये पारमार्थिकं प्रमातारं न्âभ्युपगच्छन्त्य्, अपि तु विज्ञान-क्षण-परम्पर्âनुभव-बल-प्रबोधित्âनादि-प्ररूढ-वासना-सम्पादित-सत्ताकं मिथ्या-विकल्प-परिकल्पितम् अपारमार्थिकं तं मन्यन्ते प्रतिक्षण-विलय-वादिनः तान् निराचष्टे, क्षण-विलयस्य प्राग् एव प्रतिषिद्धत्वाद्, बहिर् अन्तश् च परिणामि-वस्तुनः प्रसाधनात्.
SK
[NAV_३१.३] ननु च घट्âदयस् तावद् विनाशम् आविशन्तो दृश्यन्ते, तेषां च विनाशो लकुट्âदि-कारण-कलापेन्âविनश्वर-स्वभावानां वा क्रियेत, विनश्वर-स्वभावानां वा. यद्य् आद्यः कल्पस् तद् अयुक्तं, स्वभावस्य प्रच्यावयितुम् अशक्यत्वात्, तस्य नियत-रूपत्वाद्, अन्यथा स्वभावत्व्âयोगात्. अथ्âइवं-भूत एव तस्य स्वभावः स्व-कारण-बल्âयातो यद् उत विनाश-कारणम् आसाद्य विनङ्क्ष्यत्îति ब्रूषे, तथ्âपि तद्-विनाश-कारण-सन्निधानं किं यादृच्छिकम् उत तत्-स्वभाव-सम्पाद्यम् एव. यद्âद्यः कल्पस्, तदा सन्निहितस्य्âपि तत्-प्रत्यनीक-प्रत्यय्ôपनिपातेन निवर्तनात्, तत्-सन्निधापक-हेतूनां अपि स्व-सन्निधापक-कारण-कलाप-सापेक्षत्वात्, सन्निहितानाम् अपि प्रतिद्वन्द्विना निवर्तनाद्, यादृच्छिकत्वाच् च न्âवश्यं-भावि तत्-सन्निधानं; ततश् च्âसन्निहित-स्व-विनाश-कारण-कदम्बकः कश्चिद् घट्âदिर् न विनश्येद् अप्य्, अनिष्टं च्âइतत्, सर्व-कृतकानां विनाश्âविगानात्. अथ द्वितीयः पक्षस्, तथा सति पश्चाद् अपि तद्-बलाद् विनाश-हेतवः सन्निधास्यन्त्îति प्रथम-क्षण एव सन्निदधतु, तथ्âपि क्षणिकत्âइव्âर्थस्य. स्व-हेतोर् एव नियत-कालात् परतो ऽयं स्व-विनाश-हेतुं सन्निधापयिष्यत्îत्य् एवं-रूपो जात इति चेन्, न्âइवम् अपि क्षण-भङ्गुरत्âयाता. तथा हि: स्व-हेतुना किल्âसौ वर्षात् परतः स्व-विनाश-हेतु-सन्निधापन-क्षम-स्वभावो व्यधायि; स च तस्य्ôत्पाद-क्षणाद् द्वितीय-क्षणे स्वभावो ऽस्ति वा न वा? अस्ति चेत्, तथा सति पुनर् वर्षं तेन स्थातव्यम्, एवं यावद् वर्ष्ôपान्त्य-क्षणे ऽपि यदि तत्-स्वभाव एव्âसौ तद्âपरम् अपि वर्ष्âन्तरं स्थितिर् आपद्येत, तदा च्âनन्त-कल्प-स्थायी-भावः स्याद्, अप्रच्युत-वर्ष-स्थायि-स्वभावत्वाद् इति. अथ द्वितीय-क्षणे न्âस्ति स स्वभाव इति ब्रूषे, हन्त क्षणिकत्वम् एव्âढौकते, ऽतादवस्थ्यस्य तल्-लक्षणत्वात्. किं च, विनाश-हेतुर् भावस्य विनाशं व्यतिरिक्तम् अव्यतिरिक्तं वा कुर्यात्? व्यतिरिक्त-करणे न किञ्चित् कृतं स्यात्, ततश् च भावस् तादवस्थ्यम् अनुभवेत्. तत्-सम्बन्धः क्रियत इति चेन्, न सम्बन्धस्य तादात्म्य-तद्-उत्पत्ति-व्यतिरिक्तस्य प्रतिषेधात्. न च्âनयोर् अन्यतरः सम्बन्धो ऽत्र समस्ति, व्यतिरेकिणा स्âर्द्धं तादात्म्य्âयोगाद्, अन्य-हेतुकस्य पश्चाद् उत्पन्नस्य तद्-उत्पत्ति-वैकल्यात्. तन् न व्यतिरिक्तो विनाशः कर्तुं युक्तः. अव्यतिरिक्त-करणे पुनस् तम् एव भावं विनाश-हेतुः करोत्îति प्राप्तम्, अव्यतिरेकस्य तद्-रूपता-लक्षणत्वात्. न च्âसौ कर्तव्यः, स्व-हेतोर् एव निष्पन्नत्वात्, तत्-करणे च तस्य्âवस्थानम् एव स्यान्, न प्रलयः. तन् न्âविनश्वर-स्वभावानां पश्चात् कथञ्चिद् अपि विनाशः कर्तुं शक्यो, विनश्वर-स्वभावानां पुनः स्व-हेतु-बल्âयातत्वात् प्राग् अपि प्रतिक्षण-भावी, न कारण्âन्तर्âपेक्षः, स्वभावस्य नियत-रूपत्वात्; तस्मात् प्राणित्य् अद्य्âपि प्रतिक्षण-विलय इति.
SK
[NAV_३१.४] अत्र्ôच्यते -- सत्यम् एतत्, किं तु यथा विनाश-कारण्âयोगात् प्रतिक्षण-भावी विनाशो भवद्भिः प्रतिपद्यते, तथ्âइव स्थित्य्-उत्पत्ती प्रतिक्षण-भाविन्यौ किं न प्रतिपद्येते, तद्-धेतूनाम् अपि विचार्यमाणानाम् अयोगात्. तथा हि: स्थिति-हेतुना तावत् स्वयम् अस्थिर-स्वभावा भावाः स्थाप्येरन् स्थिर-स्वभावा वा? न तावत् प्रथमः पक्षः क्षोदं क्षमते, स्वभावस्य्âन्यथा कर्तुम् अशक्यत्वात्, तस्य प्रतिनियत-रूपत्वाच्, चेतन्âचेतन-स्वभाववद्, अन्यथा स्वभावता-हानेः. द्वितीय-पक्षे पुनः स्वयं स्थिर-स्वभावानां किं स्थिति-हेतुना? स्थितिर् न्êष्यत एव, तेन्âनभ्युपगत्ôपालम्भ एव्âयम् इति चेद्, हन्त हतो ऽस्य्, एवं हि भावाः क्षण-मात्रम् अपि न तिष्ठेयुः. क्षण-भाविन्îष्यत एव्êति चेत्, सा तर्ह्य् अस्थिति-स्वभावानां हेतु-शतैर् अपि कर्तुं न पार्यत इति ब्रूमः, तत्-स्वभावत्वे पुनर् हेतु-व्यापार-नैरर्थक्यात्. अहेतुका सती सकल-कालं भवत्îति दत्तो जल्âञ्जलिः प्रतिक्षण-विलयस्य. तथ्ôत्पाद-हेतुर् अपि तत्-स्वभावस्य्ôत्पत्तिं विदध्याद् अतत्-स्वभावस्य वा? न तावद् आद्यः पक्षः कक्षी-कर्तुं युक्तः, स्वयम् उत्पादकस्य्ôत्पादने व्याप्रियमाणो हि हेतुः पिष्टं पिनष्टि, शङ्खं धवलयति, तद्-अभावे ऽपि स्व-योग्यतय्ôत्पत्तेः. न्âपि द्वितीयः कल्पो ऽङ्गी-करण्âर्हः, स्वयम् अनुत्पत्ति-धर्मकस्य्ôत्पादयितुम् अशक्यत्वाद्, अन्यथा शश-विषाण्âदयो ऽप्य् उत्पाद्य-कोटिम् अध्यासीरन्, विशेष्âभावात्; ततश् च न कश्चिद् अत्यन्त्âभावः स्यात्. तद् यथा निर्हेतुकत्वान् नाशः प्रतिक्षण-भावी, तथ्âइव दर्शित-युक्तेः स्थित्य्-उत्पत्ती अप्îति त्रय्âक्रान्तं सकलं वस्तु जातम् अभ्युपगन्तव्यं; तथा सति जीवो ऽपि जीवत्व-चैतन्य-द्रव्यत्व्âदिभिः स्थेमानं आबिभ्राण एव हर्ष-विषाद्âदिभिर् अपर्âपर्âर्थ-ग्रहण-परिणामैश् च्ôत्पाद-व्यय-धर्मकः पारमार्थिकः प्रमात्êति बलात् सिद्धिम् अध्यास्ते.
SK
[NAV_३१.५] ननु च यद्य् उत्पाद-व्यय-स्थितीनां निर्हेतुकत्वात् सकल-काल-भाविता भवद्भिः साध्यते, तद्âन्वय-व्यतिरेकाभ्यां प्रत्यक्ष्âदि-प्रमाण-प्रसिद्धः खल्व् अयं तत्-कारण-कलाप-व्यापारः कथं नेयः? न च्âयम् अपह्नोतुं शक्यः! तथा हि: कुलाल्âदि-कारण-व्रात-व्यापारे घट्âदयः समुपलभ्यन्ते, तद्-अभावे च न्ôपलम्भ्यन्त इति तज्-जन्या इत्य् उच्यन्ते. स्थितिर् अपि विनाश-कारण-सन्निधानात् प्राक् तद्-बलाद् एव, तथा नाशो ऽपि मुद्गर्âदि-सन्निधान्âसन्निधानाभ्यां सद्-असत्ताम् अनुभवंस् तत्-कृतः प्रतीयते, न्âहेतुकः. तत् कथम् एतद् इति?
SK
[NAV_३१.६] अत्र्ôच्यते -- न वयं सर्वथा हेतूनां व्यापारं वारयामः, किं तर्हि स्वयम् उत्पाद-व्यय-स्थित्य्-आत्मना विवर्तमानस्य द्रव्यस्य हेतवस् तद्-विशेष-करणे व्यापारम् अनुभवन्ति, तेन्âइव स्âर्द्धं तेषाम् अन्वय-व्यतिरेक्âनुकरण-दर्शनाद्, दृष्टस्य च्âपह्नवे ऽस्माकम् अप्रवृत्तत्वात्, प्रतीति-युक्ति-लक्षण-द्वय-पक्ष-पातित्वात्; केवलं प्रतीति-विकलां युक्तिं युक्ति-विनाकृतां वा प्रतीतिं न्âङ्गी-कुर्महे, ऽसम्भवद्-अर्थ-गोचरतया निरालम्बनत्वात् तस्या इत्य् आस्तां तावत्.
SK
[NAV_३१.७] स्व्âन्य-निर्भास्îत्य्-अनेन प्राग्-उक्त-स्व-पर्âभासि-प्रमाण-विशेषणवन् मीमांसकान् परोक्ष-बुद्धि-वादिनो योग्âचारांश् च ज्ञान-मात्र-वादिनः प्रतिक्षिपति, ज्ञान-ज्ञानिनोः कथञ्चिद् अभेदेन तद्-उक्त-न्याय्âविशेषाद् इति.
SK
[NAV_३१.८] कर्ता भोक्त्êइति विशेषण-द्वयेन सांख्य-मतं विकुट्टयति, कर्ता सन् भोक्त्âप्îति काक्व्ôपन्यासाद्, अकर्तुर् भोग्âनुपपत्तेर्, भुजि-क्रिया-निर्वर्तन-समर्थस्य्âइव भोक्तृत्वात्. जपा-कुसुम्âदि-सन्निधान-वशात् स्फटिके रक्तत्âदि-व्यपदेशवद् अकर्तुर् अपि प्रकृत्य्-उपधान-वशात् सुख-दुःख्âदि-भोग-व्यपदेशो युक्तस्; तथा हि: प्रकृति-विकार-दर्पण्âकार-बुद्धि-सङ्क्रान्तानां सुख-दुःख्âद्य्-आत्मकानाम् अर्थानां पुरुषः सन्निधान-मात्रेण भोजको व्यपदिश्यते, ᳚बुद्ध्य्-अध्यवसितम् अर्थं पुरुषश् चेतयत᳚ इति-वचनाद् इति चेन्, न, कथञ्चित् सक्रियाकता-व्यतिरेकेण प्रकृत्य्-उपधाने ऽप्य् अन्यथात्व्âनुपपत्तेर्, अप्रच्युत-प्राचीन-रूपस्य व्यपदेश्âनर्हत्वात्, तत्-प्रच्यवे च प्राक्तन-रूप-त्यागेन्ôत्तर-रूप्âध्यासितया सक्रियत्वम् आपतत्îति-न्यायात्; स्फटिक-दृष्ट्âन्ते ऽपि जपा-कुसुम्âदि-सन्निधानाद् अन्ध्ôपल्âदौ रक्तत्âनाविर्-भवन्ती तत्र पुनर् आविर्-भवन्ती तस्य तथा-विधं परिणामं लक्षयत्य्, अन्यथ्âन्ध्ôपलवत् तत्र्âपि न प्रादुःष्यात्. तन् न्âक्रियस्य भोक्तृत्ôपपद्यत इति.
SK
[NAV_३१.९] विवृत्तिमान् इत्य्-अमुना त्व् एक्âन्त-नित्यम् अपरिणामिनं नैयायिक-वैशेषिक्âदि-प्रकल्पितं प्रमातारं निरस्यति, सर्वथ्âविचलित-रूपस्य्âर्थ-ग्रहण-परिणाम्âनुपपत्तेः. व्यतिरिक्त-ज्ञान-समवायाद् एक्âन्त-नित्यो ऽपि प्रमिणोत्îति चेन्, न, समवायस्य प्राग् एव प्रतिक्षिप्तत्वात्, सम्बन्ध्âन्तरस्य च व्यतिरेकिणा साकम् अनुपपत्तेर्, अन्यत्र्âन्यथ्âनुपपन्नत्वात्. न च व्यतिरेकिणि ज्ञाने तत् समस्ति, तद्-ग्राहक-प्रमाण्âभावाद्, अव्यतिरेक्âनुभवस्य च तद्-बाधकत्वात्. किं च, यदि समवाय-बलाद् आत्मनि ज्ञानं समवैति, तद्âत्मनां समवायस्य च विभुत्वाद् एक-रूपत्वाच् च सर्व्âत्मसु किं न समवैति, विशेष्âभावात्? तथा च देवदत्त-ज्टानेन यज्टदत्त्âदयो ऽप्य् अर्थ-तत्त्वं बुद्ध्येरन्. अन्यच् च विज्टान्ôदय-समये ऽपि यादृशः प्राग्-अवस्थायां तादृश एव सन्तिष्ठमानः प्राग् अप्रमाता पश्चात् प्रमात्êति ब्रुवाणः खल्ûन्मत्तताम् आत्मन्य् आविर्-भावयति, न्âपरम् इत्य् आस्तां तावत्.
SK
[NAV_३१.१०] पश्च्âर्द्धेन पुनर् भूत-व्यतिरेकिणं स्व-संवेदन-प्रत्यक्ष-निर्ग्राह्यं जीवं दर्शयंश् चार्वाक-दर्शनं तिरस्-कुरुते, जड्âत्मक-भूत्âव्यतिरेके हि तद्-विलक्षण-बोध-रूप-हर्ष-विषाद्âदि-विवर्त्âनुभव्âभाव-प्रसङ्गात्. ननु च काय्âकार-परिणतानि भूतान्य् एव्âत्म-व्यतिरेकिणीं चेतनाम् उत्कालयन्ति; सा च तथा-विध-परिणाम-परिणतेषु तेषु सन्तिष्ठते, तद्-अभावे पुनस् तेष्व् एव निलीयत इति; तद्-व्यतिरेक्âनुभवे ऽपि न पर-लोक-यायि-जीव-सिद्धिर्, इयत्âइव दृष्ट-व्यवहार्ôपपत्तेः. न्âइतद् अस्ति, द्वयं हि तावद् एतत् संयोगम् अनुभवद् उपलबभ्यते -- पट्च-भूत्âत्मकं शरीरं चेतना च. तत्र्âपि शरीरं बहिर्-मुख्âकारेण बोधेन्âर्थ-रूपतया जडम् अनुभूयते, चेतना पुनर् अन्तर्-मुख्âकारेण स्व-संवेदन-प्रत्यक्षेण साक्षात्-क्रियते; ऽत एव्âव्यतिरेक-पक्षः प्रतिभास-निराकृतत्वान् न्âशङ्कितः. व्यतिरेकिणोः पुनः प्रकाशमानयोर् यदि भूतान्य् एव चेतनाम् उत्कालयन्त्îति भवद्भिः परिकल्प्यते, तदा चेतन्âइव भव्âन्तराद् उत्पत्ति-स्थानमायाता पट्च-भूत-भ्रान्ति-जनकं शरीरं निर्वर्तयेत्, पुनर् भव्âन्तरं यातुकामा मुट्चेत्, तत् तय्âधिष्ठितं गमन्âदि-चेष्टां कुर्यात्, तद्-वियुक्तं पुनः काष्ठवत् तिष्ठेद् इति जीव-सम्पाद्यम् एव शरीरं, न पुनर् असौ तत्-सम्पाद्य इत्य्, एतत् परिकल्पनं युक्ततरं पश्यामः, जीवस्य चेतनावतः सकर्मकतय्âपर्âपर-भव-भ्रमण्âपर्âपर-शरीर-निर्वर्तनयोर् उपपद्यमानत्वात्. भव्âन्तराद् आगच्छन् उत्पत्ति-स्थानं जीवो ऽध्यक्षेण न्ôपलभ्यत इति चेद्, भूतान्य् अपि तर्हि काय्âकार-धारण-द्वारेण चेतनाम् उत्कालयन्त्îति प्रत्यक्षेण न्ôपलक्ष्यन्त इति समानो न्याहः. अथ काय्âकार-परिणतेष्व् एव भूतेषु चेतन्ôपलभ्यते, न्âन्यद्êत्य्-अन्यथ्âनुपपत्ति-वशात् तज्-जन्य्êति परिकल्प्यत, एवं तर्हि मृत्âवस्थायां काय्âकारम् आबिभ्राणेष्व् अपि न्ôपलब्धा, काय्âकार-परिणामो वा कादाचित्कतया हेत्व्-अन्तर्âपेक्ष्îत्य्-अन्यथ्âनुपपत्ति-वशाद् एव तन्-निर्वर्तन-क्षमा चेतना भव्âन्तर्âगत-जीव-सम्बन्धिन्îति प्रतिपद्यामहे. किं च, जीवस् तावत् कर्म-चैतन्य-सम्बन्धाच् छरीर-निर्वर्तन्âर्थं प्रवरत इति युक्तम् एव्âइतद्, भूतानि पुनः किं-भूतानि चेतना-करणे प्रवर्तेरन्: सचेतनानि निश्चेतनानि वा? यद्य् आद्यः कल्पस्, ततो विकल्प-युगलम् अवतरति: तच् चैतन्यं तेभ्यो भिन्नम् अभिन्नम् वा? यदि भिन्नं, तदा पुरुष-शरीरवत् तत्र्âपि भूतैः सह वर्तमानम् अपि भूत-विलक्षणम् आत्म-कारणम् अनुमापयत्îति तद्-अवस्थ्âइव जीव-सिद्धिः. अथ्âभिन्नं, तथा सति समस्त-भूतानाम् ऐक्यं प्रसजत्य्, एक-चैतन्य्âव्यतिरिक्तत्वात्, तत्-स्वरूपवत्. निज-निज-चैतन्य्âव्यतिरेकीणि भूतानि तेन्âयम् अदोष इति चेन्, न, तत्-सम्पाद्य-पुरुष-शरीरे ऽपि तज्-जन्य-पञ्च-चैतन्य-प्रसङ्गात्. पञ्च्âपि सम्भूय बृहत्-पुरुष-चैतन्यं बहवस् तिला इव तैल-घटं जनयन्त्îति चेत्, तत् तर्हि पुरुष-चैतन्यं किं तेषाम् एव संयोगो यद् वा तद्-उत्पाद्यम्, अन्यद् एव? यद्य् आध्यः कल्पस्, तद् अयुक्तं, चैतन्यानां परस्परं मिश्रण्âभावेन संयोग-विरोधाद्, इतरथा बहु-पुरुष-चैतन्यानि सम्भूय बृहत्तम-चैतन्य्âन्तरम् आरभेरन्. अथ द्वितीयः पक्षस्, तत्र्âपि तेषां किम् अन्वयो ऽस्ति न्âस्ति वा? यद्य् अस्ति, तद् अयुक्तं, प्राग्वत् तज्-जन्य-चैतन्य-पञ्च-रूपत्âपत्तेः. अथ न्âस्ति, तद् अप्य् अचारु, निरन्वय्ôत्पादस्य प्रमाण-बाधितत्वात्. तन् न सचेतनानि भूतानि चेतना-करणे व्यापार-भाञ्जि भवितुम् अर्हन्ति. न्âपि निश्चेतनानि, तेषाम् अत्यन्त-विलक्षणतया चैतन्य्ôत्पाद-विरोधाद्, इतरथा सिकत्âदयस् तैल्âदि-करणे व्याप्रियेरन्. किं च, तत्-समुदाय-मात्र-साध्यं वा चैतन्यं स्याद् विशिष्ट-तत्-परिणाम-साध्यं वा. न तावद् आद्या कॢप्तिर्, इला-जल्âनल्âनिल-नभस्-तल-मीलने ऽपि चेतन्âनुपलब्धेः. द्वितीय-विकॢप्तौ पुनः किं तद् वैशिष्ट्यम् इति वाच्यम्. काय्âकार-परिणाम इति चेत्, स तर्हि सर्वदा कस्मान् न भवति? कुतश्चिद् धेत्व्-अन्तर्âपेक्षणाद् इति चेत्, तत् तर्हि हेत्व्-अन्तरं भव्âन्तर्âयात-जीव-चैतन्यम् इत्य् अनुमिमीमहे, तस्य्âइव काय्âकार-परिणाम-साध्य-चैतन्य्âनुरूप्ôपादान-कारणत्वात्, तद्-विरहे काय्âकार-परिणाम-सद्भावे ऽपि मृत्âवस्थायां तद्-अभावाद् गमन्âदि-चेष्ट्âनुपलब्धेः; तन् न कायाकार-परिणाम-जन्यं चैतन्यम्, अपि तु स एव तज्-जन्य इति युक्तं पश्यामः. न प्रत्यक्षाद् अन्यत् प्रमाणम् अस्ति, न च तेन पर-लोक-गमन्âगमन्âदिकं चैतन्यस्य्ôपलक्ष्यते, तेन दृष्टान्य् एव भूतानि तत्-कारणतया कल्पनीयान्îति चेन्, न, केवल-प्रत्यक्ष-प्रतिक्षेपेण प्रमाण्âन्तराणां प्राग् एव प्रसाधितत्वात्, तथा च भूयांस्य् अनुमानानि पर-लोक्âनुयायि-जीव-साधकानि प्रवर्तेरन्. तद् यथा -- तद्-अहर्-जात-बालकस्य्âद्य-स्तन्âभिलाषः पूर्व्âभिलाष-पूर्वको, ऽभिलाषत्वाद्, द्वितीय-दिवस्âदि-स्तन्âभिलाषवत्. तद् इदम् अनुमानम् आद्य-स्तन्âभिलाषस्य्âभिलाष्âन्तर-पूर्वकत्वम् अनुमापयद् अर्थ्âपत्त्या पर-लोक-यायि-जीवमाक्षिपति, तज्-जन्मन्य् अभिलाष्âन्तर्âभावात्. एवम् अन्यद् अप्य् उदाहार्यम् इत्य् आस्तां तावत्.
SK
[NAV_३१.११] तद् अयं स्व-पर-प्रकाशकः कर्ता भोक्ता नित्य्âनित्य्âत्मको भूत-विलक्षणः साक्षात्-कृत-कतिचिन्-निज-पर्याय्âनुमित्âनाद्य्-अनन्त-काल-भावि-निज्âनन्त-पर्याय-विवर्तः प्रमाण-प्रतिष्ठितः पारमार्थिको जीवः सकल-नय-प्रमाण-व्यापकः प्रमात्êति स्थितम्.
SK
[NAV_३२.०] साम्प्रतं पर्यन्त-श्लोकेन प्रकरण्âर्थम् उपसंहरन्न् आह:
SK
प्रमाण्âदि-व्यवस्थ्êयम् अनादि-निधन्âत्मिका / सर्व-संव्यवहर्त्ःणां प्रसिद्ध्âपि प्रकीर्तिता // NA_३२ //
SK
[NAV_३२.१] प्रमाणानि प्रत्यक्ष्âदीन्य्; आदि-शब्दान् नय-परिग्रहस्, तेषां व्यवस्था प्रतिनियत-लक्षण्âदि-रूपा मर्यादा, स्êयम् अनन्तर्ôक्त-स्थित्या प्रकीर्तित्êति संसर्गः. किं-भूत्êत्य् आह: आदिः प्रभवो, निधनं पर्यन्तो, न विद्येते आदि-निधने यस्य्âसौ तथा-विध आत्मा स्वरूपं यस्याः स्âनादि-निधन्âत्मिका; सर्व-संव्यवर्त्ःणां लौकिक-तीर्थिक्âदि-भेद-भिन्न-समस्त-व्यवहारवतां प्रसिद्ध्âपि रूढ्âपि, तद्-अप्रसिद्धौ निखिल-व्यवहार्ôच्छेद-प्रसङ्गात्, तद्-उच्छेदे च विचार्âनुत्थाने न कस्यचित् तत्त्वस्य प्रतिष्ठितिः. प्रकीर्तिता संशब्दित्âव्युत्पन्न-विप्रतिपन्न-व्यामोह्âपोहाय्êति गम्यते; प्रमाण-प्रसिद्धे ऽप्य् अर्थे प्रबल्âवरण-कुदर्शन-वासन्âदितः केषाञ्चिद् अनध्यवसाय-विपर्यास-रूप-व्यामोह-सद्भावात्, तद्-अपनोद्âर्थं च सति सामर्थ्ये करुणावतां प्रवृत्तेर् इति.
SK
स्याद्-वाद-केसरि-सुभीषण-नाद-भीतेर् उत्त्रस्त-लोल-नयनान् प्रपलायमानान् / हेतुर् नय्âश्रित-कुतीर्थि-मृगान् अनन्यत्राणान् विहाय जिनम् एति तम् आश्रयध्वं // NAV_३२.१:१ //
SK
भक्तिर् मया भगवति प्रकटी-कृत्êयं तच्-छासन्âंश-कथनान् न मतिः स्वकीया / मोहाद् अतो यद् इह किञ्चिद् अभूद् असाधु तत् साधवः कृत-कृपा मयि शोधयन्तु // NAV_३२.१:२ //
SK
न्याय्âवतार-विवृतिं विविधां विधित्सोः सिद्धः शुभो य इह पुण्य-चयस् ततो मे / नित्यं पर्âर्थ-करण्ôद्यतम् आ भव्âन्ताद् भूयाज् जिन्êन्द्र-मत-लम्पटम् एव चेतः // NAV_३२.१:३ //
SK
इति न्याय्âवतार-विवृतिः समाप्ता //
SK
कृतिर् इयम् आचार्य-सिद्ध-व्याख्यानिकस्य तर्क-प्रकरण-वृत्तेर् इति.

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Siddhasenamahāmati: Nyāyāvatāra with the Nyāyāvatāravivṛti commentary by Siddharṣigaṇin (sa_siddhasenamahAmati-nyAyAvatAra-comm.htm).

Source