108 Buddhist Hymns 108 Buddhist stotras
१०८ Bउद्धिस्त् स्तोत्रस्
1.1 SK सर्वदा सर्वथा सर्वे यस्य दोषा न सन्ति ह / सर्वे सर्वाभिसारेण यत्र चावस्थिता गुणाः //
1.2 SK तमेव शरणं गन्तुं तं स्तोतुं तमुपासितुम् / तस्यैव शासने स्थातुं न्याय्यं यद्यस्ति चेतना //
1.3 SK सवासनाश्च ते दोषा न सन्त्येकस्य तायिनः / सर्वे सर्वविदः सन्ति गुणास्ते चानपायिनः //
1.4 SK न हि प्रतिनिविष्टो ऽपि मनोवाक्कायकर्मसु / सह धर्मेण लभते कश्चिद्भगवतो ऽन्तरम् //
1.5 SK सो ऽहं प्राप्य मनुष्यत्वं ससद्धर्ममहोत्सवम् / महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम् //
1.6 SK अनित्यताव्यनुसृतां कर्मच्छिद्रससंशयाम् / आत्तसारां करिष्यामि कथं नेमां सरस्वतीम् //
1.7 SK इत्यसंख्येयविषयानवेत्यापि गुणान्मुनेः / तदेकदेशप्रणयः क्रियते स्वार्थगौरवात् //
1.8 SK स्वयम्भुवे नमस्ते ऽस्तु प्रभूताद्भुतकर्मणे / यस्य संख्याप्रभावाभ्यां न गुणेष्वस्ति निश्चयः //
1.9 SK इयन्त इति नास्त्यन्त ईदृशा इति का कथा / पुण्या इत्येव तु गुणान्प्रति ते मुखरा वयम् //
12 SK उपोद्घातस्तवो नाम प्रथमः परिच्छेदः /
1.10 SK विषह्यमविषह्यं वेत्यवधूय विचारणाम् / स्वयमभ्युपपन्नं ते निराक्रन्दमिदं जगत् //
1.11 SK अव्यापारितसाधुस्त्वं त्वमकारणवत्सलः / असंस्तुतसखाश्च त्वमनवस्कृतबान्धवः //
1.12 SK स्वमांसान्यपि दत्तानि वस्तुष्वन्येषु का कथा / प्राणैरपि त्वया साधो मानितः प्रणयी जनः //
1.13 SK स्वैः शरीरैःशरीराणि प्राणैःप्राणाः शरीरिणाम् / जिघांसुभिरुपात्तानां क्रीतानि शतशस्त्वया //
1.14 SK न दुर्गतिभ्यां नेष्टा[भ्या] मभिप्रार्थयता गतिम् / केवलाशयशुद्धयैव शोलं सात्मीकृतं त्वया //
1.15 SK जिह्माअनां नित्यविक्षेपादृजूनां नित्यसेवनात् / कर्मणां परिशुद्धानां त्वमेकायनतां गतः //
1.16 SK पीडयमानेन बहुशस्त्वया कल्याणचेतसा / क्लेशेषु विवृतं तेजो जनः क्लिष्टो ऽनुकम्पितः //
1.17 SK परार्थे त्यजतः प्राणान् या प्रीतिरभवत् तव / न सा नष्टोपलब्धेषु प्राणेषु प्राणिनां भवेत् //
1.18 SK यद्रुजा निरपेक्षस्य च्छिद्यमानस्य ते ऽसकृत् / वधकेष्वपि सत्त्वेषु कारुण्यमभवत् प्रभो //
1.19 SK सम्यक्सम्बोधिबीजस्य चित्तरत्नस्य तस्य ते / त्वमेव वीर सारज्ञो दूरे तस्येतरो जनः //
1.20 SK नाकृत्वा दुष्करं कर्म दुर्लभं लभ्यते पदम् / इत्यात्मनिरपेक्षेण वीर्यं संवर्धितं त्वया //
1.21 SK विशेषोत्कर्षनियमो न कदाचिदभूत् तव / अतस्त्वयि विशेषाणां छिन्नस्तरतमक्रमः //
1.22 SK सुसुखेष्वपि सङ्गो ऽभूत् सफलेषु समाधिषु / न ते नित्यानुबद्धस्य महाकरुणया हृदि //
1.23 SK त्वादृशान् पीडयत्येव नानुगृह्णाति तत् सुखम् / प्रणीतमपि सद्वृत्त यदसाधारणं परैः //
1.24 SK विमिश्रात् सारमादत्तं सर्वं पीतमकल्मषम् / त्वया सूक्तं दुरुक्तं तु विषवत् परिवर्जितम् //
1.25 SK क्रीणता रत्नसारज्ञ प्राणैरपि सुभाषितम् / पराक्रान्तं त्वया बोधौ तासु तासूपपत्तिषु //
1.26 SK इति त्रिभिरसंख्येयैरेवमुद्यच्छता त्वया / व्यवसायद्वितीयेन प्राप्तं पदमनुत्तरम् //
31 SK हेतुस्तवो नाम द्वितीयः परिच्छेदः /
1.27 SK अकृत्वेर्ष्यां विशिष्टेषु हीनाननवमत्य च / अगत्वा सदृशैः स्पर्धां त्वं लोके श्रेष्ठतां गतः //
1.28 SK हेतुष्वभिनिवेशो ऽभूद् गुणानां न फलेषु ते / तेन सम्यक्प्रतिपदा त्वयि निष्ठां गुणा गताः //
1.29 SK तथात्मा प्रचयं नीतस्त्वया सुचरितैर्यथा / पुण्यायतनतां प्राप्तान्यपि पादरजांसि ते //
1.30 SK कर्शयित्वोद्धृता दोषा वर्धयित्वा विशोधिताः / गुणास्तेन सुनीतेन परां सिद्धिं त्वमध्यगाः //
1.31 SK तथा सर्वाभिसारेण दोषेषु प्रहृतं त्वया / यथैषामात्मसन्ताने वासनापि न शेषिता //
1.32 SK तथा संभृत्य संभृत्य त्वयात्मन्याहिता गुअणाः / प्रतिरुपकमप्येषां यथा नान्यत्र दृश्यते //
1.33 SK उपघातावरणवन्मितकालं प्रदेशि च / सुलभातिशयं सर्वमुपमावस्तु लौकिकम् //
1.34 SK अद्वन्द्विनामगम्यानां ध्रुवाणामनिवर्तिनाम् / अनुत्तराणां का तर्हि गुणानामुपमा ऽस्तु ते //
1.35 SK गोष्पदोत्तानतां याति गाम्भीर्यं लवणाम्भसः / यदा ते बुद्धिगाम्भीर्यमगाधापारमीक्ष्यते //
1.36 SK शिरीषपक्ष्माग्रलघु स्थैर्यं भवति पार्थिवम् / अकम्प्ये सर्वधर्माणां त्वत्स्थैर्ये ऽभिमुखीकृते //
1.37 SK अज्ञानतिमिरघ्नस्य ज्ञानालोकस्य ते मुने / न रविर्विषये भूमिं खाद्योतिमपि विन्दति //
1.38 SK मलिनत्वमिवायान्ति शरच्चन्द्राम्बराम्भसाम् / तव वाग्बुद्धिचेष्टानां शुद्धिं प्रति विशुद्धयः //
1.39 SK अनेन सर्वं व्याख्यातं यत् किञ्चित्साधु लौकिकम् / दूरे हि बुद्धधर्माणां लोकधर्मास्तपस्विनः //
1.40 SK यस्यैव धर्मरत्नस्य प्राप्त्या प्राप्तस्त्वमग्रताम् / तेनैव केवलं साधो साम्यं ते तस्य च त्वया //
1.41 SK आत्मेच्छाच्छलमात्रं तु सामान्योपांशु किंचन / यत्रोपक्षिप्य कथ्येत सा वक्तुरतिलोलता //
48 SK निरुपमस्तवो नाम तृतीयः परिच्छेदः /
1.42 SK प्रतन्विव हि पश्यामि धर्मतामनुचिन्तयन् / सर्वं चावर्जितं मारविजयं प्रति ते जगत् //
1.43 SK महतो ऽपि हि संरम्भात् प्रतिहन्तुं समुद्यताः / क्षमाया नातिभारो ऽस्ति पात्रस्थाया विशेषतः //
1.44 SK यत्तु मारजयान्वक्षं सुमहत्क्लेशवैशसम् / तस्यामेव कृतं रात्रौ तदेव परमाद्भुतम् //
1.45 SK तमोविधमने भानोर्यः सहस्रांशुमालिनः / वीर विस्मयमागच्छेत् स तीर्थ्यविजये तव //
1.46 SK सरागो वीतरागेण जितरोषेण रोषणः / मूढो विगतमोहेन त्रिभिर्नित्यं जितास्त्रयः //
1.47 SK प्रशंससि च सद्धर्मानसद्धर्मान् विगर्हसि / अनुरोधविरोधौ च न स्तः सदसतोस्तव //
1.48 SK नैवार्हत्सु न तीर्थ्येषु प्रतिघानुनयं प्रति / यस्य ते चेतसो ऽन्यत्वं तस्य ते का स्तुतिर्भवेत् //
1.49 SK गुणेष्वपि न संगो ऽभूत् तृष्णा न गुणवत्स्वपि / अहो ते सुप्रसन्नस्य सत्त्वस्य परिशुद्धता //
1.50 SK इन्द्रियाणां प्रसादेन नित्यकालानपायिना / मनो नित्यप्रसन्नं ते प्रत्यक्षमिव दृश्यते //
1.51 SK आबालेभ्यः प्रसिद्धास्ते मतिस्मृतिविशुद्धयः / गमिता भावपिशुनैः सुव्याहृतसुचेष्टितैः //
60 SK अद्भुतस्तवो नाम चतुर्थः परिच्छेदः /
1.52 SK उपशान्तं च कान्तं च दीप्तमप्रतिघाति च / निभृतं चोर्जितं चेदं रुपं कमिव नाक्षिपेत् //
1.53 SK येनापि शतशो दृष्टं यो ऽपि तत्पूर्वमीक्षते / रुपं प्रीणाति ते चक्षुः समं तदुभयोरपि //
1.54 SK असेचनकभावाद्धि सौम्यभावाच्च ते वपुः / दर्शने दर्शने प्रीतिं विदधाति नवां नवाम् //
1.55 SK अधिष्ठानगुणैर्गात्रमधिष्ठातृगुणैर्गुणः / परया संपदोपेतास्तवान्योन्यानुरुपया //
1.56 SK क्वान्यत्र सुनिविष्टाः स्युरिमे ताथागता गुणाः / ऋते रुपात्तवैवास्माल्लक्षणव्यञ्जनोज्ज्वलात् //
1.57 SK धन्यमस्मीति ते रुपं वदतीवाश्रितान् गुणान् / सुनिक्षिप्ता वयमिति प्रत्याहुरिव तद्गुणाः //
68 SK रुपस्तवो नाम पञ्चमः परिच्छेदः /
1.58 SK सर्वमेवाविशेषेण क्लेशैर्बद्धमिदं जगत् / त्वं जगत्क्लेशमोक्षार्थं बद्धः करुणया चिरम् //
1.59 SK कं नु प्रथमतो वन्दे त्वां महाकरुणामुत / ययैवमपि दोषज्ञस्त्वं संसारे धृतश्चिरम् //
1.60 SK विवेकसुखसात्म्यस्य यदाकीर्णस्य ते गताः / काला लब्धप्रसरया तत् ते करुणया कृतम् //
1.61 SK शान्तादरण्याद् ग्रामान्तं त्वं हि नाग इव ह्रदात् / विनेयार्थं करुणया विधयेवावकृष्यसे //
1.62 SK परमोपशमस्थो ऽपि करुणापरवत्तया / कारितस्त्वं पदन्यासं कुशीलवकलास्वपि //
1.63 SK ऋद्धिर्या सिंहनादा ये स्वगुणोद्भावनाश्च याः / वान्तेच्छोपविचारस्य कारुण्यनिकषः स ते //
1.64 SK परार्थैकान्तकल्याणी कामं स्वाश्रयनिष्ठुरा / त्वय्येव केवलं नाथ करुणा करुणाभवत् //
1.65 SK तथा हि कृत्वा शतधा धीरा बलिमिव क्वचित् / परेषामर्थसिद्धयर्थं त्वां विक्षिप्तवती दिशः //
1.66 SK त्वदिच्छयैव तु व्यक्तमनुकूला प्रवर्तते / तथा हि बाधमानापि त्वां सती नापराध्यते //
79 SK करुणास्तवो नाम षष्ठःपरिच्छेदः /
1.67 SK सुपदानि महार्थानि तथ्यानि मधुराणि च / गूढोत्तानोभयार्थानि समासव्यासवन्ति च //
1.68 SK कस्य न स्यादुपश्रुत्य वाक्यान्येवंविधानि ते / त्वयि प्रतिहतस्यापि सर्वज्ञ इति निश्चयः //
1.69 SK प्रायेण मधुरं सर्वमगत्या किञ्चिदन्यथा / वाक्यं तवार्थसिद्धया तु सर्वमेव सुभाषितम् //
1.70 SK यच्छ्लक्षणं यच्च परुषं यद्वा तदुभयान्वितम् / सर्वमैवैकरसतां विमर्दे याति ते वचः //
1.71 SK अहो सुपरिशुद्धानां कर्मणां नैपुणं परम् / यैरिदं वाक्यरत्नानामीदृशं भाजनं कृतम् //
1.72 SK अस्मद्धि नेत्रसुभगादिदं श्रुतिमनोहरम् / मुखात् क्षरति ते वाक्यं चन्द्राद्द्रवमिवामृतम् //
1.73 SK रागरेणुं प्रशमयद्वाक्यं ते जलदातये / वैनतेयायते द्वेषभुजङ्गोद्धरणं प्रति //
1.74 SK दिवाकरायते भूयो ऽप्यज्ञानतिमिरं नुदत् / शक्रायुधायते मानगिरीनभिविदारयत् //
1.75 SK दृष्टार्थत्वादवितथं निष्क्लेशत्वादनाकुलम् / गमकं सुप्रयुक्तत्वात् त्रिकल्याणं हि ते वचः //
1.76 SK मनांसि तावच्छ्रोतॄणां हरन्त्यादौ वचांसि ते / ततो विमृश्यमानानि रजांसि च तमांसि च //
1.77 SK आश्वासनं व्यसनिनां त्रासनं च प्रमादिनाम् / संवेजनं च सुखिनां योगवाहि वचस्तव //
1.78 SK विदुषां प्रीतिजननं मध्यानां बुद्धिवर्धनम् / तिमिरघ्नं च मन्दानां सार्वजन्यमिदं वचः //
1.79 SK अपकर्षति दृष्टिभ्यो निर्वाणमुपकर्षति / दोषान् निष्कर्षति गुणान् वाक्यं ते ऽभिप्रवर्षति //
1.80 SK सर्वत्राव्याहता बुद्धिः सर्वत्रोपस्थिता स्मृतिः / अवन्ध्यं तेन सर्वत्र सर्वं व्याकरणं तव //
1.81 SK यन्नादेशे न चाकाले नैवापात्रे प्रवर्तसे / वीर्यं सम्यगिवारब्धं तेनामोघं वचस्तव //
96 SK वचनस्तवो नाम सप्तमः परिच्छेदः /
1.82 SK एकायनं सुखोपायं स्वनुवन्धि निरत्ययम् / आदिमध्यान्तकल्याणं तव नान्यस्य शासनम् //
1.83 SK एवमेकान्तकान्तं ते दृष्टिरागेण बालिशाः / मतं यदि विगर्हन्ति नास्ति दृष्टिसमो रिपुः //
1.84 SK अनवभुङ्क्था यदस्यार्थे जगतो व्यसनं बहु / तत् संस्मृत्य विरुपे ऽपि स्थेयं ते शासने भवेत् //
1.85 SK प्रागेव हितकर्तुश्च हितवक्तुश्च शासनम् / कथं न नाम कार्यं स्यादादीप्तशिरसापि ते //
1.86 SK भुजिष्यता बोधिसुखं त्वद्गुणापचितिः शमः / प्राप्यते त्वन्मतात् सर्वमिदं भद्रचतुष्टयम् //
1.87 SK त्रासनं सर्वतीर्थ्यानां नमुचेरुपतापनम् / आश्वासनं नृदेवानां तवेदं वीर शासनम् //
1.88 SK त्रैधातुकमहाभौममसङ्गमनवग्रहम् / शासनेन तवाक्रान्तमन्तकस्यापि शासनम् //
1.89 SK त्वच्छासननयज्ञो हि तिष्ठेत् कल्पमपीच्छया / प्रयाति तत्र तु स्वैरी यत्र मृत्योरगोचरः //
1.90 SK आगमस्यार्थचिन्ताया भावनोपासनस्य च / कालत्रयविभागो ऽस्ति नान्यत्र तव शासनात् //
1.91 SK एवं कल्याणकलितं तदेवमृषिपुङ्गव / शासनं नाद्रियन्ते यत् किं वैशसतरं ततः //
108 SK शासनस्तवो नामाष्टमः परिच्छेदः /
1.92 SK श्रवणं तर्पयति ते प्रसादयति दर्शनम् / वचनं ह्लादयति ते विमोचयति शासनम् //
1.93 SK प्रसूतिर्हर्षयति ते वृद्धिर्नन्दयति प्रज्ञाः / प्रवृत्तिरनुगृह्णाति निवृत्तिरुपहन्ति च //
1.94 SK कीर्तनं किल्बिषहरं स्मरणं ते प्रमोदनम् / अन्वेषणं मतिकरं परिज्ञानं विशोधनम् //
1.95 SK श्रीकरं ते ऽभिगमनं सेवनं धीकरं परम् / भजनं निर्भयकरं शंकरं पर्युपासनम् //
1.96 SK शीलोपसम्पदा शुद्धः प्रसन्नो ध्यानसम्पदा / त्वं प्रज्ञासम्पदा ऽक्षोभ्यो ह्रदः पुण्यमयो महान् //
1.97 SK रुपं द्रष्टव्यरत्नं ते श्रव्यरत्नं सुभाषितम् / धर्मो विचारणारत्नं गुणरत्नाकरो ह्यसि //
1.98 SK त्वमोघैरुह्यमानानां द्वीपस्त्राणं क्षतात्मनाम् / शरणं भवभीरुणां मुमुक्षूणां परायणम् //
1.99 SK सत्पात्रं शुद्धवृत्तत्वात् सत्क्षेत्रं फलसम्पदा / सन्मित्रं हितकारित्वात् सर्वप्राणभृतामसि //
1.100 SK प्रियस्त्वमुपकारित्वात् सुरतत्वान्मनोहरः / एकान्तकान्तः सौम्यत्वात् सर्वैर्बहुमतो गुणैः //
1.101 SK हृद्यो ऽसि निरवद्यत्वाद्रम्यो वागरुपसौष्ठवात् / धन्यः सर्वार्थसिद्धत्वान्माङ्गल्यो गुणसंश्रयात् //
120 SK प्रणिधिस्तवो नाम नवमः परिच्छेदः /
1.102 SK स्थायिनां त्वं परिक्षेप्ता विनियन्तापहरिणाम् / समाधाता विजिह्मानां प्रेरको मन्दगामिनाम् //
1.103 SK नियोक्ता धुरि दान्तानां खटुङ्कानामुपेक्षकः / अतो ऽसि नरदम्यानां सत्सारथिरनुत्तरः //
1.104 SK आपन्नेष्वनुकम्पा ते प्रस्वस्थेष्वर्थकामता / व्यसनस्थेषु कारुण्यं सर्वेषु हितकामता //
1.105 SK विरुद्धेष्वपि वात्सल्यं प्रवृत्तिः पतितेष्वपि / रौद्रेष्वपि कृपालुत्वं का नामेयं तवार्यता //
1.106 SK गुरुत्वमुपकारित्वान्मातापित्रोर्यदीष्यते / केदानीमस्तु गुरुता त्वय्यत्यन्तोपकारिणि //
1.107 SK स्वकार्यनिरपेक्षाणां विरुद्धानामिवात्मनाम् / त्वं प्रपाततटस्थानां प्राकारत्वमुपागतः //
1.108 SK लोकद्वयोपकाराय लोकातिक्रमणाय च / तमोभूतेषु लोकेषु प्रज्ञालोकः कृतस्त्वया //
1.109 SK भिन्ना देवमनुष्याणामुपभोगेषु वृत्तयः / धर्मसम्भोगसामान्यात्त्वय्यसम्भेदमागताः //
1.110 SK उपपत्तिवयोवर्णदेशकालनिरत्ययम् / त्वया हि भगवन् धर्मसर्वातिथ्यमिदं कृतम् //
1.111 SK अविस्मितान् विस्मितवत्स्पृहयन्तो गतस्पृहान् / उपासते प्राञ्जलयः श्रावकानपि ते सुराः //
1.112 SK अहो संसारमण्डस्य बुद्धोत्पादस्य दीप्तता / मानुष्यं यत्र देवानां स्पृहणीयत्वमागतम् //
133 SK मार्गावतारस्तवो नाम दशमः परिच्छेदः /
1.113 SK खेदः शमसुखज्यानिरसज्जनसमागमः / द्वन्द्वान्याकीर्णता चेति दोषान् गुणवदुद्वहन् //
1.114 SK जगद्धितार्थं घटसे यदसङ्गेत चेतसा / का नामासौ भगवति बुद्धानां बुद्धधर्मता //
1.115 SK कदन्नान्यपि भुक्तानि क्वचित्क्षुदधिवासिता / पन्थानो विषमाः क्षुण्णाः सुप्तं गोकण्टकेष्वपि //
1.116 SK प्राप्ताः क्षेपावृताः सेवा वेषभाषान्तरं कृतम् / नाथ वैनेयवात्सल्यात् प्रभुणापि सता त्वया //
1.117 SK प्रभूतमपि ते नाथ सदा नात्मनि विद्यते / वक्तव्य इव सर्वैर्हि स्वैरं स्वार्थे नियुज्यसे //
1.118 SK येन केन चिदेव त्वं यत्र तत्र यथा तथा / चोदितः स्वां प्रतिपदं कल्याणीं नातिवर्तसे //
1.119 SK नोपकारपरे ऽप्येवमुपकारपरो जनः / अपकारपरे ऽपि त्वमुपकारपरो यथा //
1.120 SK अहितावहिते शत्रौ त्वं हितावहितः सुहृत् / दोषान्वेषणनित्ये ऽपि गुणान्वेषणतत्परः //
1.121 SK यतो निमन्त्रणं ते ऽभूत् सविषं सहुताशनम् / तत्राभूदभिसंयानं सदयं सामृतं च ते //
1.122 SK अक्रोष्टारो जिताः क्षान्त्या द्रुग्धाः स्वस्त्ययनेन च / सत्येन चापवक्तारस्त्वया मैत्र्या जिघांसवः //
1.123 SK अनादिकालप्रहता बहृयः प्रकृतयो नृणाम् / त्वया विभावितापायाः क्षणेन परिवर्तिताः //
146 SK दुष्करस्तवो नामैकादशः परिच्छेदः /
1.124 SK यत्सौरत्यं गतास्तीक्ष्णाः कदर्याश्च वदान्यताम् / क्रुराः पेशलतां यातास्तत् तवोपायकौशलम् //
1.125 SK इन्द्रियोपशमो नन्दे मानस्तब्धे च संनतिः / क्षमित्वं चाङ्गुलीमाले कं न विस्मयमानयेत् //
1.126 SK बहवस्तृणशय्यासु हित्वा शय्यां हिरण्मयीम् / अशेरत सुखं धीरास्तृप्ता धर्मरसस्य ते //
1.127 SK पृष्टेनापि क्वचिन्नोक्तमुपेत्यापि कथा कृता / तर्षयित्वा परत्रोक्तं कालाशयविदा त्वया //
1.128 SK पूर्वं दानकथाद्याभिश्चेतस्युत्पाद्य सौष्ठवम् / ततो धर्मो गतमले वस्त्रे रङ्ग इवार्पितः //
1.129 SK न सो ऽस्त्युपायः शक्तिर्वा येन न व्यायतं तव / घोरात् संसारपातालादुद्धर्तृं कृपणं जगत् //
1.130 SK बहूनि बहुरुपाणि वचांसि चरितानि च / विनेयाशयभेदेन तत्र तत्र गतानि ते //
1.131 SK विशुद्धान्यविरुद्धानि पूजितान्यर्चितानि च / सर्वाण्येव नृदेवानां हितानि महितानि च //
1.132 SK न हि वक्तुं च कर्तुं च बहु साधु च शक्यते / अन्यथानन्यथावादिन् दृष्टं तदुभयं त्वयि //
1.133 SK केवलात्मविशुद्धयैव त्वया पूतं जगद्भवेत् / यस्मान्नैवंविधं क्षेत्रं त्रिषु लोकेषु विद्यते //
1.134 SK प्रागेवात्यन्तनष्टानामनादौ भवसंकटे / हिताय सर्वसत्त्वानां यस्त्वमेवं समुद्यतः //
159 SK कौशलस्तवो नाम द्वादशः परिच्छेदः /
1.135 SK न तां प्रतिपदं वेद्मि स्याद्ययापचितिस्तव / अपि ये परिनिर्वान्ति ते ऽपि ते नानृणा जनाः //
1.136 SK तव ते ऽवस्थिता धर्मे स्वार्थमेव तु कुर्वते / यः श्रमस्तन्निमित्तं तु तव का तस्य निष्कृतिः //
1.137 SK त्वं हि जागर्षि सुप्तानां संतानान्यवलोकयन् / अप्रमत्तः प्रमत्तानां सत्त्वानां भद्रबान्धवः //
1.138 SK क्लेशानां वध आख्यातो मारमाया विघाटिता / उक्तं संसारदौरात्म्यमभया दिग्विदर्शिता //
1.139 SK किमन्यदर्थकामेन सत्त्वानां करुणायता / करणीयं भवेद् यत्र न दत्तानुनयो भवान् //
1.140 SK यदि संचारिणो धर्माः स्युरिमे नियतं त्वया / देवदत्तमुपादाय सर्वत्र स्युर्निवेशिताः //
1.141 SK अत एव जगन्नाथ नेहान्यो ऽन्यस्य कारकः / इति त्वमुक्तवान् भूतं जगत् संज्ञापयन्निव //
1.142 SK चिराय भुवि सद्धर्मं प्रेर्य लोकानुकम्पया / बहूनुत्पाद्य सच्छिष्यांस्त्रैलोक्यानुग्रहक्षमान् //
1.143 SK साक्षाद्विनेयवर्गीयान् सुभद्रान्तान् विनीय च / ऋणशेषं किमद्यापि सत्त्वेषु यदभूत् तव //
1.144 SK यस्त्वं समाधिवज्रेण तिलशो ऽस्थीनि चूर्णयन् / अतिदुष्करकारित्वमन्ते ऽपि न विमुक्तवान् //
1.145 SK परार्थावेव मे धर्मरुपकायाविति त्वया / दुष्कुहस्यास्य लोकस्य निर्वाणे ऽपि निदर्शितम् //
1.146 SK तथाहि सत्सु संक्राम्य धर्मकायमशेषतः / तिलशो रुपकायं च भित्त्वासि परिनिर्वृतः //
1.147 SK अहो स्थितिरहो वृत्तमहो रुपमहो गुणाः / न नाम बुद्धधर्माणामस्ति किञ्चिदनद्भुतम् //
1.148 SK उपकारिणि चक्षुष्ये शान्तवाक्कायकर्मणि / त्वय्यपि प्रतिहन्यन्ते पश्य मोहस्य रौद्रताम् //
1.149 SK पुण्योदधिं रत्ननिधिं धर्मराशिं गुणाकरम् / ये त्वां सत्त्वा नमस्यन्ति तेभ्यो ऽपि सुकृतं नमः //
1.150 SK अक्षयास्ते गुणा नाथ शक्तिस्तु क्षयिणी मम / अतः प्रसङ्गभीरुत्वात् स्थीयते न वितृप्तितः //
1.151 SK अप्रमेयमसंख्येयमचिन्त्यमनिदर्शनम् / स्वयमेवात्मनात्मानं त्वमेव ज्ञातुमर्हसि //
1.152 SK न ते गुणांशावयवो ऽपि कीर्तितः परा च नस्तुष्टिरवस्थिता हृदि / अकर्शनेनैव महाह्रदाम्भसां जनस्य तर्षाः प्रशमं व्रजन्ति ह //
1.153 SK फलोदयेनास्य शुभस्य कर्मणो मुनिप्रसादप्रतिभोद्भवस्य मे / असद्वितर्काकुलमारुतेरितं प्रयातु चित्तं जगतां विधेयताम् //
180 SK आनृण्यस्तवो नाम त्रयोदशमः परिच्छेदः /
181 SK अध्यर्धशतकं समाप्तम् / कृतिराचार्यमातृचेटस्य //
2.1 SK नमस्ते बुद्धरूपाय धर्मरूपाय ते नमः / नमस्ते संघरूपाय पञ्चबुद्धात्मने नमः //
2.2 SK पृथ्वीरूपायाब्रूपाय तेजोरूपाय ते नमः / नमस्ते वायुरूपायाकाशरूपाय ते नमः //
2.3 SK ब्रह्मणेसत्त्वरूपाय रजोरूपाय विष्णवे / तमोरूपमहेशाय ज्ञानरूपाय ते नमः //
2.4 SK प्रज्ञोपायात्मरूपाय गुह्यरूपाय ते नमः / दिग्रूपलोकपालाय विश्वरूपाय ते नमः //
2.5 SK चक्षूरूपाय कर्णाय घ्राणरूपाय जिह्वके / कायरूपाय श्रीधर्मरूपाय मनसे नमः //
2.6 SK नमस्ते रूपरूपाय रसरूपाय ते नमः / गन्धरूपशब्दरूपस्पर्शरूपाय ते नमः //
2.7 SK धर्मरूपधारकाय षडिन्द्रियात्मने नमः / मांसास्थिमेदमज्जानां संघातरूपिणे नमः //
2.8 SK रूपाय जङ्गमानां ते स्थावराणां च मुर्तये / तिरश्चां मोहरूपाय रूपायाश्चर्यमूर्तये //
2.9 SK सृष्टिकर्त्रे जन्मरूप कालरूपाय मृत्यवे / भव्याय वृद्धरूपाय बालाय ते नमो नमः //
2.10 SK प्राणापानसमानोदानव्यानमूर्तये नमः / वर्णापवर्णरूपाय भोक्त्रे तन्मूर्तये नमः //
2.11 SK दिनरूपाय सूर्याय चन्द्राय रात्रिरूपिणे / तिथिरूपाय नक्षत्रयोगवारादिमुर्तये //
2.12 SK बाह्याभ्यन्तररूपाय लौकिकाय नमोनमः / नैर्वाणाय नमस्तुभ्यं बहुरूपाय ते नमः //
2.13 SK आदिबुद्धद्वादशकं पुण्यं प्रातः पठिष्यति / यदिच्छति लभेन्नूनं मनुजो नित्यनिश्चयः //
196 SK श्रीमञ्जुश्रीकृतमादिबुद्धद्वादशकस्तोत्रं समाप्तम् //
3.1 SK आकाशगर्भ सत्त्वार्थ महासत्त्व महाद्युते / महारत्न सुरत्नाग्र्य वज्ररत्न नमो ऽस्तु ते //
3.2 SK अभिषेकमहारत्न महाशुद्ध महाशुभ / बुद्धरत्न विशुद्धाङ्ग रत्नरत्न नमो ऽस्तु ते //
3.3 SK आकाशाकाशसंभूत सर्वाकाश महानभ / आकाशधातुसर्वाश सर्वाशाग्र्य नमो ऽस्तु ते //
3.4 SK रत्नसंभव रत्नोर्ण बुद्धोर्ण सुतथागत / सर्वरत्न सुसर्वाग्र्य रत्नकार्य नमो ऽस्तु ते //
3.5 SK रत्नरत्नाग्र्य रत्नोग्र रत्नसर्व तथागत / रत्नोत्तम महाकाश समाकाश नमो ऽस्तु ते //
3.6 SK अलङ्कारमहाशोभ शोभाकर सुशोभक / शुद्धसर्वार्थ शुद्धार्थ दानचर्य नमो ऽस्तु ते //
3.7 SK धर्मरत्न विशुद्धाग्र्य सङ्घरत्न तथागत / महाभिषेक लोकार्थ प्रमोदार्थ नमो ऽस्तु ते //
3.8 SK दान प्रदान दानाग्र्य त्याग त्यागाग्र्य दायक / सर्वसत्त्वार्थ तत्त्वार्थ महार्थार्थ नमो ऽस्तु ते //
3.9 SK चिन्ताराज महातेज दानपारमितानय / तथागत महासत्त्व सर्वबुद्ध नमो ऽस्तु ते //
3.10 SK तथागत महारत्न तथागत महाप्रभ / तथागत महाकेतो महाहास नमो ऽस्तु ते //
3.11 SK तथागताभिषेकाज्ञ महाभिषेक महाविभो / लोकनाथ त्रिलोकाग्र्य लोकसूर्य नमो ऽस्तु ते //
3.12 SK रत्नाधिकाधिकतर रत्नभूषण रत्नधृक् / रत्नालोक महालोक रत्नकीर्ते नमो ऽस्तु ते //
3.13 SK रत्नोत्कर सुरत्नोत्थ मणे वज्रमणे गुण / रत्नाकर सुदीप्ताङ्ग सर्वरत्न नमो ऽस्तु ते //
3.14 SK महात्मयष्टि रत्नेश सर्वाशापरिपूरक / सर्वाभिप्रायसंप्राप्तिरत्नराशि नमो ऽस्तु ते //
3.15 SK अभ्वग्र्य व्यापि सर्वात्म वरप्रद महावर / विभूते सर्वसंपत्ते वज्रगर्भं नमो ऽस्तु ते //
3.16 SK यः कश्चिद् धारयेन् नाम्नामिदन्ते ऽष्टशतं शिवम् / सर्वबुद्धाभिषेकं तु स प्राप्नोत्यनघः क्षणात् //
214 SK श्री आकाशगर्भनामाष्टशताध्येषणास्तोत्रं संपूर्णम् //
4.1 SK प्रणिपत्य मुनिं मूर्ध्ना सुप्रसन्नेन चेतसा / वक्ष्याम्यद्य च नामानि संबुद्धैरनुवर्णितम् //
4.2 SK सुरुपो रूपधारी च सर्वरूपो ह्यनुत्तरः / सर्वलक्षणसम्पूर्णो मञ्जुश्रीरुत्तमः श्रिया //
4.3 SK अचिन्त्यश्चिन्त्यविगतो ऽचिन्त्यो ऽद्भुतविक्रमः / अचिन्त्यः सर्वधर्माणामचिन्त्यो मनसस्तथा //
4.4 SK शून्यताभावितात्माकः शून्यधर्मसमन्वितः / शून्यस्त्वमधिमुक्तिश्च शून्यत्रिभवदेशकः //
4.5 SK सर्वज्ञः सर्वदर्शी च सर्वभूमिपतिर्विभुः / मञ्जुश्रीवशवर्ती च पद्माक्षः पद्मसंभवः //
4.6 SK पद्मकिञ्जल्कवर्णश्च पद्मपर्यङ्कवासनः / नीलोत्पलधरः पूतः पवित्रः शान्तमानसः //
4.7 SK प्रत्येकबुद्धो बुद्धस्त्वमादिबुद्धो निरुच्यसे / ऋद्धिमान् वशिताप्राप्तश्चतुःसत्योपदेशकः //
4.8 SK लोकपालः सहस्राक्ष ईश्वरस्त्वं प्रजापतिः / शिवस्त्वं सर्वभूतानां त्वं विभुर्गुणसागरः //
4.9 SK ऋषिस्त्वं पुण्यः श्रेष्ठश्च ज्येष्ठो जातिस्मरस्तथा / विनायको विनेता च जिनपुत्रो जिनात्मजः //
4.10 SK भानुः सहस्ररश्मिमस्त्वं सोमस्त्वं च बृहस्पतिः / धनदो वरुणश्चैव त्वं विष्णुस्त्वं महेश्वरः //
4.11 SK अनन्तो नागराजस्त्वं स्कन्दः सेनापतिस्तथा / वेमचित्रासुरेन्द्रस्त्वं भौमः शुक्रो बुधस्तथा //
4.12 SK सर्वदेवमयो वीरः सर्वदेवैर्नमस्कृतः / लोकधर्ममलातीतस्त्वं लोके चाग्रपुद्गलः //
4.13 SK लोकज्ञो लोकविज्ञातो ज्ञानिनां प्रवरो वरः / वरदो लयनं त्राणमधृष्यो मारकर्मिणाम् //
4.14 SK गम्भीरश्चानवद्यश्च कल्याणमित्रसंपदः / वैद्यस्त्वं शल्यहर्ता न नरदम्यः सुसारथिः //
4.15 SK मतिमान् गतिमांश्चैव बुद्धिमांश्च विचक्षणः / पुण्यवान् कल्पवृक्षश्च बोध्यङ्गपुष्पमण्डितः //
4.16 SK विमुक्तिफलसंपन्न आश्रयः सर्वदेहिनाम् / मनोहरो मनोज्ञश्च अनघो ब्रह्मचारिणाम् //
4.17 SK केतुस्त्वं ग्रहश्रेष्ठश्च ऋषिभिर्मुनिपुङ्गवः / युवराज्ञाभिषिक्तस्त्त्वं दशभूमीश्वरः प्रभुः //
4.18 SK सार्थवाहो गणश्रेष्ठो निर्वाणोत्तमदेशकः / खसमो मध्यकल्पस्त्वं त्वं तेजो वायुरेव च //
4.19 SK चिन्तामणिस्त्वं सत्त्वानां सर्वाशापरिपूरकः / नमो ऽस्तु ते महाविद्य सर्वभूतनमस्कृत //
234 SK श्रीआर्यमञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रं समाप्तम् //
235 SK ओम् नमो भगवत्यै आर्यश्री-एकविंशतितारायै
5.1 SK नमस्तारे तुरे वीरे क्षणद्युतिनिभेक्षणे / त्रैलोक्यनाथवक्त्राब्जविकसत्कमलोद्भवे //
5.2 SK नमः शतशरच्चन्द्रसंपूर्णेव वरानने / तारासहस्रकिरणैः प्रहसत्किरणोज्ज्वले //
5.3 SK नमः कनकनीलाब्जपाणिपद्मविभूषिते / दानवीर्यतपःशा(क्षा)न्तितितिक्षाध्यानगोचरे //
5.4 SK नमस्तथागतोष्णीषविजयानन्तचारिणि / शेषपारमिताप्राप्तजिनपुत्रनिषेविते //
5.5 SK नमस्तुतारहुंकारपूरिताशादिगन्तरे / सप्तलोकक्रमाक्रा[न्ते] अशेषकरुणा(णे)क्षणे //
5.6 SK नमः शक्रानलब्रह्ममरुद्विश्वेश्वरार्चिते / भूतवेतालगन्धर्वगणयक्षपुरस्कृते //
5.7 SK नमः स्त्रदिति फट्कार परजत्र(यन्त्र)प्रमर्दिनि / प्रत्यालीढपदन्यासे शिखी(खि)ज्वालाकुलोज्ज्वले //
5.8 SK नमस्तुरे महाघोरे मालवीरविनाशिनि / भृकुटीकृतवक्त्राब्जसर्वशत्रुनिसुन्दनी(षूदिनि) //
5.9 SK नमः स्त्रीरत्नमुद्राङ्कहृदयाङ्गुलिभूषिते / भूषिताशेषदिक्चक्रनिकरस्वकराकुले //
5.10 SK नमः प्रमुदिताशेषमुक्ताक्षीरप्रसारिणि / हसत्प्रहसतुत्तारे मारलोलवशङ्करि //
5.11 SK नमः समन्तभूपालपत(ट)लाकर्षण(णे)क्षणे / चरभृकुटिहूंकारसर्वापदविमोचनी(चिनि) //
5.12 SK नमः श्रीखण्डखण्डेन्दु[सु]मुक्ताभरण(णो)ज्ज्वले / अमिताभजिताभारभासुरे किरणोद्ध्रुवे(द्धुरे) //
5.13 SK नमः कल्पान्तहुतभुगज्वालामालान्तरे(र)स्थिते / आलीढमुदि(द्रि)ताबद्धरिपुचक्रविनाशिनी(नि) //
5.14 SK नमः करतरा(ला)घाट(त)चरणाहतभूतले / भृकुटीकृतहुंकारसप्तपातालभेदिनी(नि) //
5.15 SK नमः शिवे शुभे शान्ते शान्तनिर्वाणगोचरे / स्वाहाप्रणवसंयुक्ते महापातकनाशनी(शिनि) //
5.16 SK नमः प्रमुदिताबद्धरिगात्रप्रभेदिनि / दशाक्षरपदन्यासे विद्याहुंकारदीपिते //
5.17 SK नम[स्तारे] तुरे पादघातहुंकारवीजिते / मेरुमण्डलकैलाशभुवनत्रयचारिणी(णि) //
5.18 SK नमः सुरे स(श)राकारहरिणाङ्ककरे(र)स्थिते / हरिद्विरुक्तफट्कार(रे) अशेषविषनाशिणी(नि) //
5.19 SK नमः सुरासुरगणयक्षकिन्नरसेविते / अबुद्धमुदिताभोगकरी(रि) दुःस्वप्ननाशिनी(नि) //
5.20 SK नमश्चन्द्रार्कसम्पूर्णनयनद्युतिभास्वरे / ताराद्विरुक्ततुत्तारे विषमज्वल(र)नाशिनि //
5.21 SK नमः स्त्रीतत्त्वविन्यासे शिवशक्तिसमन्विते / ग्रहवेतार(ल)यक्षोष्मनाशिनि प्रवरे तुरे //
5.22 SK मन्त्रमूलमिदं स्तोत्रं नमस्कारैकविंशतिः(ति) / यः पठेत्प्रातः(पठेत् प्रयतः) धीमान् देव्याभक्तिसमन्विते(तः) //
5.23 SK सायं वा प्रातरुत्थाय स्मरेत् सर्वाभयप्रदम् / सर्वपापप्रशमनं सर्वदुर्गतिनाशनम् //
5.24 SK अभिषिक्तो भवेत् तूर्णं सप्तभिर्जिनकोटिभिः / मासमात्रेण चैवासौ सुखं बौद्धपदं व्रजेत् //
5.25 SK विषं तस्य महाघोरं स्थावरं चाथ जङ्गमम् / स्मरणान्न पदं याति खादितं पि(पी)तमेव वा //
5.26 SK ग्रहजो(जा)लविषार्तानां परस्त्रीविषनाशनम् / अन्येषां चैव सत्त्वानां द्विसप्तमभिवर्तितम् //
5.27 SK पुत्रकामो लभेत् पुत्रं घनकामो लभेद्धनम् / सर्वकामानवाप्नोति न विघ्नैः प्रतिहन्यते //
263 SK इति श्रीसम्यक्संबुद्धवैलो(रो)चनभाषितं भगवत्यार्यतारादेव्या नमस्कारैकविंशतिनामाष्टोत्तरशतकं बुद्धभाषितं परिसमाप्तम् //
6.1 SK नमस्तारायै बालार्कालोकताम्रप्रवरसुरशिरश्चारुचूडामणिश्री- सम्पत्संपर्करागानतिचिररचितालक्तकव्यक्त भक्ती / भक्त्या पादौ तवार्ये करपुटमुकुटाटोपभुग्नोत्तमाङ्ग- स्तारिण्यापच्छरण्ये नवनुतिकुसुमस्रग्भिरभ्यर्चयामि //
6.2 SK दुर्लङ्ध्ये दुःखवह्नौ विनिपतिततनुर्दुर्भगः कांदिशीक किं किं मूढः करोमीत्यसकृदपि कृतारम्भवैयर्थ्यखिन्नः / श्रुत्वा भूयः परेभ्यः क्षतनयन इव व्योम्नि चन्द्रार्कलक्ष्मी- मालोकाशानिबद्धः परगतिगमनस्त्वां श्रये पापहन्त्रीम् //
6.3 SK सर्वस्मिन् सत्त्वमार्गे ननु तव करुणा निर्विशेषं प्रवृत्ता तन्मध्ये तद्ग्रहेण ग्रहणमुपगतं मादृशस्याप्यवश्यम् / सामर्थ्यं च द्वितीयं सकलजगदघध्वान्ततिग्मांशुबिम्बं दुःख्येवाहं तथापि प्रतपति धिगहो दुष्कृतं दुर्विदग्धम् //
6.4 SK धिग्धिङ् मां मन्दभाग्यं दिवसकररुचाप्यप्रणूतान्धकारं तृष्यन्तं कूलकच्छे हिमशकलशिलाशीतले हैमवत्याः / रत्नद्वीपप्रतोल्या विपुलमणिगुहागेहगर्भे दरिद्रं नाथीकृत्याप्यनाथं भगवति भवतीं सर्वलोकैकधात्रीम् //
6.5 SK मातापि स्तन्यहेतोर्विरुवति तनये खेदमायाति पुत्रे क्रोधं धत्ते पितापि प्रतिदिवसमसत्प्रार्थनासु प्रयुक्तः / त्वं तु त्रैलोक्यवाञ्छाविपुलफलमहाकल्पवृक्षाग्रवल्ली सर्वेभ्यो ऽभ्यर्थितार्थान् विसृजसि न च ते विक्रिया जातु काचित् //
6.6 SK यो यः क्लैशौघवह्निज्वलिततनुरहं तारिणी तस्य तस्ये- त्यात्मोपज्ञं प्रतिज्ञां कुरु मयि सफलां दुःखपातालमग्ने / वर्धन्ते यावदेते परुषपरिभवाः प्राणिनां दुखवेगाः सम्यक्संबुद्धयाने प्रणिधिधृतधियां तावदेवानुकम्पा //
6.7 SK इत्युच्चैरुर्ध्ववाहौ नदति नुतिपदव्याजमाक्रन्दनादं नार्हत्यन्यो ऽप्युपेक्षां जननि जनयितुं किं पुनर्यादृशी त्वम् / त्वत्तः पश्यन् परेषामभिमतविभवप्रार्थनाः प्राप्तकामा दह्ये सह्येन भूयस्तरमरतिभुवा सन्ततान्तर्ज्वरेण //
6.8 SK पापी यद्यस्मि कस्मात्त्वयि मम महती बर्द्धते भक्तिरेषा श्रुत्या स्मृत्या च नाम्नाप्यपहरसि हठात्पापमेका त्वमेव / त्यक्तव्यापारभारा तदसि मयि कथं कथ्यतां तथ्यकथ्ये पथ्यं ग्लाने मरिष्यत्यपि विपुलकृपः किं भिषग् रोरुधीति //
6.9 SK मायामात्सर्यमानप्रभृतिभिरधमैस्तुल्यकालक्रमाच्च् स्वैर्दोषैर्वाह्यमानो मठकरभ इवानेकसाधारणांशः / युष्मत्पादाब्जपूजां न क्षणमपि लभे यत्तदर्थे विशेषा- देषा कार्पण्यदीनाक्षरपदरचना स्यान्ममावन्ध्यकामा //
6.10 SK कल्पान्तोद्भ्रान्तवातभ्रमितजलचलल्लोलकल्लोलहेला- संक्षोभोत्क्षिप्तवेलातटविकटचटत्स्फोटमोट्टाट्टहासात् / मज्जद्भिर्भिन्ननौकैः सकरुणरुदिताक्रन्दनिष्पन्दमन्दैः स्वच्छन्दं देवि सद्यस्त्वदभिनुतिपरैस्तीरमुत्तीर्यते ऽब्धेः //
6.11 SK धूमभ्रान्ताभ्रगर्भोद्भवगगनगृहोत्सङ्गरिङ्गत्स्फुलिङ्ग- स्फूर्जज्ज्वालाकरालज्वलनजवविशद्वेश्मविश्रान्तशय्याः / त्वय्याबद्धप्रणामाञ्जलिपुटमुकुटा गद्गदोद्गीतयाच्षाः प्रोद्यद्विद्युद्विलासोज्ज्वलजलदजवैराध्रियन्ते क्षणेन //
6.12 SK दानाम्भःपूर्यमाणोभयकटकटकालम्बिरोलम्बमाला- हूङ्काराहूयमानप्रतिगजजनितद्वेषवह्नेर्द्विपस्य / दन्तान्तोत्तुङ्गदोलातलतुलिततनुस्त्वामनुस्मृत्य मृत्युं प्रत्याचष्टे प्रहृष्टः पृथुशिखरशिरःकोटिकोट्टोपविष्टः //
6.13 SK प्रौढप्रासप्रहारप्रहतनरशिरःशूलवल्ल्युत्सवाया शून्याटव्यां कराग्रग्रहविलसदसिस्फेटकस्फीतदर्पान् / दस्यून् दास्ये नियुङ्क्ते सभृकुटिकुटिलभ्रूकटाक्षेक्षिताक्षां- श्चिन्तालेखन्यखिन्नस्फुटलिखितपदं नामधाम श्रियां ते //
6.14 SK वज्रकूरप्रहारप्रखरनखमुखोत्खातमत्तेभकुम्भ- श्च्योतत्सान्द्रास्रधौतस्फूटविकटसटासङ्कटस्कन्धसन्धिः / क्रुध्यन्नापित्सुरारादुपरि मृगरिपुस्तीक्ष्णदंष्ट्रोत्कटास्य- स्त्रस्यन्नावृत्य याति त्वदुचितरचितस्तोत्रदिग्धार्थवाचः //
6.15 SK धूमावर्तान्धकाराकृतिविकृतफणिस्फारफूत्कारपूर- व्यापारव्याप्तवक्त्रस्फुरदुरुरसनारज्जुकोनाशपाशैः / पापात्सम्भूय भूयस्तवगुणगणनातत्परस्त्वत्परात्मा धत्ते मत्तालिमालावलयकुवलस्रगविभूषां विभूतिम् //
6.16 SK भर्तृभ्रूभेदभीतोद्भटकटकभटाकृष्टदुःश्लिष्टकेश- श्चञ्चद्वाचाटचेटोत्कटरटितकटुग्रन्थिपाशोपगूढः / क्षुत्तृट्क्षामोपकण्ठस्त्यजति स सपदि व्यापदं तां दुरन्तां यो यायादार्यताराचरणशरणतां स्निग्धबन्धूज्झितो ऽपि //
6.17 SK मायानिर्माणकर्मक्रमकृतविकृतानेकनेपथ्यमिथ्या- रूपारम्भानुरूपप्रहरणकिरणाडम्बरोड्डामराणि / त्वत्तन्त्रोद्धार्यमन्त्रस्मृतिहृतदुरितस्यावहन्त्यप्रधृष्यां प्रेतप्रोतान्त्रतन्त्रीनिचयविरचितस्रञ्जि रक्षांसि रक्षाम् //
6.18 SK गर्जज्जीमूतमूर्तित्रिमदमदनदीबद्धधारान्धकार् विधुद्द्योतायमानप्रहरणकिरणे निष्पतद्बाणवर्षे / रुद्धः सङ्ग्रामकाले प्रबलभुजबलैर्विद्विषद्भिर्द्विषद्भि- स्त्वद्दत्तोत्साहपुष्टिः प्रसभमरिमहीमेकवीरः पिनष्टि //
6.19 SK पापाचारानुबन्धोद्धृतगदविगलत्पूतिपूयास्रविस्र- त्वङ्मांसासक्तनाडीमुखकुहरगलज्जन्तुजग्धक्षताङ्गाः / युष्मत्पादोपसेवागदवरगुटिकाभ्यासभक्तिप्रसक्ता जायन्ते जातरूपप्रतिनिधिवपुषः पुण्डरीकायताक्षाः //
6.20 SK विश्रान्तं श्रौतपात्रे गुरुभिरुपहृतं यस्य नाम्नायभैक्ष्यं विद्वद्गोष्ठीषु यश्च श्रुतधनविरहान्मूकतामभ्युपेतः / सर्वालङ्कारभूषाविभवसमुदितं प्राप्य वागीश्वरत्वं सो ऽपि त्वद्भक्तिशक्त्या हरति नृपसभे वादिसिंहासनानि //
6.21 SK भूशय्याधूलिधूम्रः स्फुटितकटितटीकर्पटोद्द्योतिताङ्ग् यूकायूंषि प्रपिंषन् परपुटपुरतः कर्परे तर्पणार्थी / त्वामाराध्याध्यवस्यन् वरयुवतिवहच्चामरस्मेरचार्वी- मूर्वी धत्ते मदान्धद्विपदशनघनामुद्धृत्तैकातपत्राम् //
6.22 SK सेवाकर्मान्तशिल्पप्रणयविनिमयोपायपर्यायखिन्नाः प्राग्जन्मोपात्तपुण्योपचितशुभफलं वित्तमप्राप्नुवन्तः / दैवातिक्रामणीं त्वां कृपणजनजनन्यर्थमभ्यर्थ्य भूमेर् भूयो निर्वान्तचामीकरनिकरनिधीन् निर्धनाः प्राप्नुवन्ति //
6.23 SK वृत्तिच्छेदे विलक्षः क्षतनिवसनया भार्यया भर्त्स्यमानो दूरादात्मम्भरित्वात् स्वजनसुतसुहृद्बन्धुभिर्वर्ज्यमानः / त्वय्यावेद्य स्वदुःखं तुरगखुरमुखोत्खातसीम्नां गृहाणाम् ईष्टे स्वान्तःपुरस्त्रीवलयझणझणाजातनिद्राप्रबोधः //
6.24 SK चङ्क्रद्दिक्चक्रचुम्बिस्फुरदुरुकिरणा लक्षणालङ्कृता स्त्री- षट्दन्तो दन्तिमुख्यः शिखिगलकरुचिश्यामरोमा वराश्वः / भास्वद्भास्वन्मयूखो मणिरमलगुणः कोषभृत् स्वर्णकोषः सेनानीर्वीरसैन्यो भवति भगवति त्वत्प्रसादांशलेशात् //
6.25 SK स्वच्छन्दं चन्दनाम्भःसुरभिमणिशिलादत्तसङ्केतकान्तः कान्ताक्रीडानुरागादभिनवरचितातिथ्यतथ्योपचारः / त्वद्विद्यालब्धसिद्धिर्मलयमधुवनं याति विद्याधरेन्द्रः खङ्गांशुश्यामपीनोन्नतभुजपरिघप्रोल्लसत्पारिहार्यः //
6.26 SK हाराक्रान्तस्तनान्ताः श्रवणकुवलयस्पर्द्धमानायताक्ष्यो मन्दारोदारवेणीतरुणपरिमलामोदमाद्यद्द्विरेफाः / काञ्चीनादानुबन्धोद्धततरचरणोदारमञ्जीरतूर्यास् त्वन्नाथान् प्रार्थयन्ते स्मरमदमुदिताः सादरा देवकन्याः //
6.27 SK रत्नच्छन्नान्तवापीकनककमलिनीवज्रकिञ्जल्कमालाम् उन्मज्जत्पारिजातद्रुममधुपवधूद्धूतधूलीवितानाम् / वीणावेणुप्रवीणामरपुररमणीदत्तमाधुर्यतूर्यां कृत्वा युष्मत्सपर्यामनुभवति चिरं नन्दनोद्यानयात्राम् //
6.28 SK कर्पूरैलालवङ्गत्वगगुरुनलदक्षोदगन्धोदकायां / कान्ताकन्दर्पदर्पोत्कटकुचकुहरावर्तविश्रान्तवीच्याम् / मन्दाकिन्याममन्दच्छटसलिलसरित्क्रीडया सुन्दरीभिः क्रीडन्ति त्वद्गतान्तःकरणपरिणतोत्तप्तपुण्यप्रभावाः //
6.29 SK गीर्वाणग्रामणीभिर्विनयभरनमन्मौलिभिर्वन्दिताज्ञः स्वर्गोत्सङ्गे ऽधिरूढः सुरकरिणि झणद्भूषणोद्भासिताङ्गे / शच्या दोर्दामदोलाविरलवलयितोद्दामरोमाञ्चमूर्तिः पूतस्त्वद्दृष्टिपातैरवति सुरमहीं हीरभिन्नप्रकोष्ठः //
6.30 SK चूडारत्नावतंसासनगतसुगतव्योमलक्ष्मीवितानं प्रोद्यद्बालार्ककोटीपटुतरकिरणापूर्यमाणत्रिलोकम् / प्रौढालीढैकपादक्रमभरविनमद्ब्रह्मरुद्रेन्द्रविष्णुं त्वद्रूपं भाव्यमानं भवति भवभयच्छित्त्ये जन्मभाजाम् //
6.31 SK पश्यन्त्येके सकोपं प्रहरणकिरणोद्गीर्णदोर्दण्डखण्ड- व्याप्तव्योमान्तरालं वलयफणिफणादारुणाहार्यचर्यम् / द्विष्टव्यत्रासिहासोड्डमरडमरुकोड्डामरास्फालवेला- वेतालोत्तालतालप्रमदमदमहाकेलिकोलाहलोग्रम् //
6.32 SK केचित्त्वेकैकरोमोद्गमगतगगनाभोगभूभूतलस्थ- स्वस्थब्रह्मेन्द्ररुद्रप्रभृतिनरमरुत्सिद्धगन्धर्वनागम् / दिक्चक्राक्रामिधामस्थितसुगतशतानान्तनिर्माणचित्तं चित्रं त्रैलोक्यवन्दयं स्थिरचररचिताशेषभावस्वभावम् //
6.33 SK लाक्षासिन्दूररागारुणतरकिरणादित्यलौहित्यमेके श्रीमत्सान्द्रेन्द्रनीलोपलदलितदलक्षोदनीलं तथान्ये / क्षीराब्धिक्षुब्धदुग्धाधिकतरधवलं काञ्चनाभं च केचित् त्वद्रूपं विश्वरूपं स्फटिकवदुपधायुक्तिभेदाद् विभिन्नम् //
6.34 SK सार्वज्ञज्ञानदीपप्रकटितसकलज्ञेयतत्त्वैकसाक्षी साक्षाद्वेत्ति त्वदीयां गुणगणगणनां सर्ववित् तत्सुतो वा / यस्तु व्यादाय वक्त्रं वलिभुजरटितं मादृशो रारटीति व्यापत् सा तीव्रदुःखज्वरजनितरुजश्चेतसो हास्यहेतुः //
6.35 SK यन्मे विज्ञाप्यमानं प्रथमतरमदस्त्वं विशेषेण वेत्त्री तद्वयाहारातिरेकश्रमविधिरबुधस्वान्तसन्तोषहेतुः / किन्तु स्निग्धस्य बन्धोर्विषमिव पुरतो दुःखमुद्गीर्य वाचां ज्ञातार्थस्यापि दुःखी हृदयलघुतया स्वस्थतां विन्दतीव //
6.36 SK कल्याणानन्दसिन्धुप्रकटशशिकले शीतलां देहि दृष्टिं पुष्टिं ज्ञानोपदेशैः कुरु धनकरुणे ध्वंसय ध्वान्तमन्तः / त्वत्स्तोत्राम्भःपवित्रीकृतमनसि मयि श्रेयसः स्थानमेकं दृष्टं यस्मादमोघं जगति तवगुणस्तोत्रमात्रं प्रजानाम् //
6.37 SK संस्तुत्य त्वद्गुणौघावयवमनियतेयत्तमाप्तं मया य पुण्यं पुण्यार्द्रवाञ्छाफलमधुररसास्वादमामुक्तिभोग्यम् / लोकस्तेनार्यलोकेश्वरचरणतलस्वस्तिकस्वस्तिचिह्ना- मह्नायायं प्रयायात् सुगतसुतमहीं तां सुखावत्युपाख्याम् //
301 SK श्री सर्वज्ञमित्रविरचितमार्यतारास्रग्धरास्तोत्रं समाप्तम् //
302 SK ओम् नमः श्री आर्यतारायै /
7.1 SK श्रीमत्पोतलके रम्ये नानाधातुविराजिते / नानाद्रुमलताकीर्णे नानापक्षिनिकूजिते //
7.2 SK नानानिर्झरभाङ्कारैर्नानामृगसमाकुले / नानाकुसुमजातीभिः समन्तादधिवासिते //
7.3 SK नानाहृद्यफलोपेतषट्पदोद्गीतनिःस्वनैः / किन्नरैर्मधुरोद्गीतैर्मत्तरवारणसंकुलैः //
7.4 SK सिद्धविद्याधरगणैर्गन्धर्वैश्च निनादिते / मुनिभिर्वीतरागैश्च सततं सुनिषेविते //
7.5 SK बोधिसत्त्वगणैश्चान्यैर्दशभूमीश्वरैरपि / आर्यतारादिभिर्देवैर्विद्याराज्ञीसहस्रकैः //
7.6 SK क्रोधराजगणैश्चान्यैर्हयग्रीवादिभिर्वृते / सर्वसत्त्वहिते युक्तो भगवानवलोकितः //
7.7 SK व्याजहार ततः श्रीमान् पद्मगर्भासने स्थितः / महता तपसा युक्तो मैत्र्या च कृपयान्वितः //
7.8 SK धर्मं दिदेश तस्यां च महत्यां देवपर्षदि / तत्रापविद्धमागम्य वज्रपाणिर्महाबलः //
7.9 SK परया कृपया युक्तः पप्रच्छ चावलोकितम् / तस्करोरगसिंहोग्रगजव्याघ्रादिसंकुले //
7.10 SK सीदन्त्यमी मुने सत्त्वा मग्नाः संसारसागरे / बद्धाः सांसारिकैः पाशै रागद्वेषतमोमयैः //
7.11 SK मुच्यन्ते येन सत्त्वास्ते तन्मे ब्रूहि महामुने / एवमुक्तो जगन्नाथः स श्रीमानवलोकितः //
7.12 SK उवाच मधुरां वाणीं वज्रपाणिं प्रबोधिनीम् / शृणु गुह्यकराजेन्द्र अमिताभस्य तायणीः(णीम्) //
7.13 SK प्रणिधानवशोत्पन्नां ममाज्ञां लोकमातरम् / महाकरुणयोपेतां जगदुद्धरणोद्धृताम् //
7.14 SK उदितादित्यसंकाशां पुर्णेन्दुवदनप्रभाम् / भाषयन्तीमिमां तारां सदेवासुरमानुषान् //
7.15 SK कम्पयन्तीं च त्रीन् लोकान् त्रासयन्तीं यक्षराक्षसान् / नीलोत्पलकरां देवीं मा भैर्मा भैरिति ब्रुवन् //
7.16 SK जगत्संरक्षणार्थयाहमुत्पादिता जिनैः / कान्तारे शस्त्रसंपाते नानाभयसमाकुले //
7.17 SK स्मरणादेव नामानि सत्त्वान् रक्षाम्यहं सदा / तारयिष्याम्यहं सत्त्वान् नानाभयमहार्णवात् //
7.18 SK तेन तारेति मां लोके गायन्ति मुनिपुंगवाः / कृताञ्जलिपुटो भूत्वा ततः सादरसाध्वसः //
7.19 SK ज्वलयत्यन्तरिक्षे तामिदं वचनमब्रवीत् / नामाष्टशतकं ब्रूहि यत्पुरा कीर्तितं जनैः //
7.20 SK दशभूमीश्वरैर्नाथैर्बोधिसत्त्वैर्महर्द्धिकैः / सर्वपापहरं पुण्यं माङ्गल्यं कीर्तिवर्द्धनम् //
7.21 SK धनधान्यकरं चैव आरोग्यं पुष्टिवर्धनम् / आयुरारोग्यजनकं सर्वसत्त्वसुखावहम् //
7.22 SK लक्ष्म्याः श्रियः स्थापकं च सर्वसत्त्वविवर्द्धनम् / मैत्रीमालम्ब्य सत्त्वानां तत्कीर्तय महामुने //
7.23 SK एवमुक्ते जगन्नाथः प्रहसन्नवलोकितः / व्यवलोक्य दिशः सर्वा मैत्रीस्फरणया दृशा //
7.24 SK दक्षिणं करमुद्धृत्य पुण्यलक्षणमण्डितम् / तमुवाच महाप्राज्ञः साधु साधु महातप //
7.25 SK नामानि शृणु महाभाग सर्वसत्त्वैकवत्सरे / यानि संकीर्त्य मनुजा सम्पदा स्युर्धनेश्वराः //
7.26 SK सर्वव्याधिविनिर्मुक्ताः सर्वैश्वर्यगुणान्विताः / अकालमृत्युनिर्दग्धाश्च्युता यान्ति सुखावतीम् //
7.27 SK तान्यहं सम्प्रवक्ष्यामि देवसंघाः शृणुत मे / अनुमोदध्वमेतद्वा भविष्यध्वं सुनिर्वृताः //
330 SK ओम् लोचने सुलोचने तारे तारोद्भवे सर्वसत्त्वानुकम्पिनि सर्वसत्त्वतारिणि सहस्रभुजे सहस्रनेत्रे / ओम् नमो भगवते अवलोकय अवलोकय मां सर्वसत्त्वांश्च हुं हुं फट् फट् स्वाहा / ओम् शुद्धे विशुद्धे सुगतात्मजे
7.28 SK मैत्रीहृदये निर्मले श्यामे श्यामरूपि महाप्राज्ञे प्रबलवरभूषिते / अपराजिता महारौद्री विश्वरूपी महाबला / ओम् सुश्रिये //
7.29 SK ओम् कल्याणी महातेजा लोकधात्री महायशाः / सरस्वती विशालाक्षी प्रज्ञा श्रीर्बुद्धिवर्धिनी //
7.30 SK धृतिदा पुष्टिदा स्वाहा ओम्कारा कामरूपिणी / सर्वसत्त्वहितोद्युक्ता संग्रामोत्तारिणी जया //
7.31 SK प्रज्ञापारमिता देवी आर्यतारा मनोरमा / दुन्दुभी शङ्खिनी पूर्णा विद्याराज्ञी प्रियम्वदा //
7.32 SK चन्द्रानना महागौरी अजिता पीतवाससा / महामाया महाश्वेता महाबलपराक्रमा //
7.33 SK महारौद्री महाचण्डी दुष्टसत्त्वनिषूदिनी / प्रशान्ता शान्तरूपा च विजया ज्वलनप्रभा //
7.34 SK विद्युन्मारी ध्वजी खङ्गी चक्री चापोद्यतायुधा / जम्भनो स्तम्भनी काली कालरात्रिर्निशाचरी //
7.35 SK रक्षणी मोहनी शान्ता कान्तारी द्रावणी शुभा / ब्रह्माणी वेदमाता च गुह्या च गुह्यवासिनी //
7.36 SK माङ्गल्या शाङ्करी सौम्या जातवेदा मनोजवा / कपालिनी महावेगा सन्ध्या सत्या ऽपराजिता //
7.37 SK सार्थवाहकृपादृष्टिर्नष्टमार्गप्रदर्शिनी / वरदा शासनी शास्त्री सुरूपा ऽमृतविक्रमा //
7.38 SK शर्वरी योगिनी सिद्धा चण्डारी(ली)अमृता ध्रुवा / धन्या पुण्या महाभागा शुभगा प्रियदर्शना //
7.39 SK कृतान्तत्रासिनी भीमा उग्रा उग्रमहातपा / जगद्धिते सदोद्युक्ता शरण्या भक्तवत्सला //
7.40 SK वागीश्वरी शिवा सूक्ष्मा नित्या सर्वक्रमानुगा / सर्वार्थसाधनी भद्रा गोप्त्री धात्री धनप्रदा //
7.41 SK अभया गौतमी पुण्या श्रीमल्लोकेश्वरात्मजा / तारानामगुणानन्ता सर्वाशापरिपूरका //
7.42 SK ओम् तारे कृपावरे श्रीक्लेशश्रवणीये स्वाहा / नाम्नामष्टोत्तरशतं ह्येतद्यत्कीर्तितं मया / रहस्यभूतं गुह्यं च देवानामपि दुर्लभम् //
7.43 SK सौभाग्यभोगकरणं सर्वकिल्विषनाशनम् / सर्वव्याधिप्रशमनं सर्वसत्त्वसुखावहम् //
7.44 SK त्रिकालं यः पठेद्धीमान् शुचिस्थाने समाहितः / सो ऽचिरेणैव कालेन राज्यश्रियमवाप्नुयात् //
7.45 SK दुःखी स्यात्तु सुखी नित्यं दरिद्रो धनवान् भवेत् / पुत्रो भवेन्महाप्राज्ञो मेधावी च न संशयः //
7.46 SK बन्धनान्मुच्यते बद्धो व्यवहारे जयोअ भवेत् / शत्रवो मित्रतां यान्ति शृङ्गिणः शुनका अपि //
7.47 SK संग्रामे संकटे दुर्गे नानाभयसमुच्छ्रिते / स्मरणादेव नामानि सर्वान्भयानपोहति //
7.48 SK नाकालमृत्युर्भवति प्राप्नोति विपुलाशयम् / मानुष्ये सफलं जन्म तस्यैकस्य महात्मनः //
7.49 SK यश्चेदं प्रातरुत्थाय मानवः कीर्तयिष्यति / स दीर्घकालमायुष्मान् श्रियं च लभते नरः //
7.50 SK देवा नागास्तथा यक्षा गन्धर्वा कठपूतनाः / पिशाचा राक्षसा भूता मातरो रौद्रतेजसाः //
7.51 SK डाकिन्यस्तारकाः प्रेताः स्कन्दोमाद्या महाग्रहाः / छायापस्मारकाश्चैव खेटका खार्दकादयः //
7.52 SK वेतालाश्चिंचका प्रेष्या ये चान्ये दुष्टचेतसः / छायामपि न लङ्घन्ति किं पुनस्तस्य विग्रहम् //
7.53 SK दुष्टसत्त्वा न बाधन्ते व्याधयो नाक्रमन्ति च / सर्वैश्वर्यगुणैर्युक्तो वंशवृद्धिश्च जायते //
7.54 SK जातिस्मरो भवेद् धीमान् कुलीनः प्रियदर्शनः / प्रीतिमांश्च महावाग्मी सर्वशास्त्रविशारदः //
7.55 SK कल्याणमित्रसंसेवी बोधिचित्तविभूषितः / सदा ऽविरहितो बुद्धैर्यत्र यत्रोपपद्यते //
359 SK श्रीआर्यताराभट्टारिकाया नामाष्टोत्तरशतं बुद्धपरिभाषितं परिसमाप्तम् //
8.1 SK सुखदचक्रचारुचूडामणिरुचिरमरीचिसंचय- प्रचुरशिखाप्रचारपरिचुम्बितचर्चितचरणचन्द्रके / जगति चराचरे ऽपि साचीकृतचकितकृपालुलोचने स्तुतिवचनोपचारमुचिताचरतिं रचयामि देवि ते //
8.2 SK नखरकठोरकोटिकुट्टितकरिकटतटपाटनोत्कटाः प्रविकटरुधिरपटलपटपालिता अटवीविलुण्ठकाः / विकटसटाट्टहासघटितावटतटघटानोद्भटास्त्वज्जुषि झटिति यान्ति सटिनः कुण्ठादपि कुण्ठशक्तिताम् //
8.3 SK मलिनमहाकपोलतलविगलितमदजलमलनविह्वलाः स्खलदलिजालबहलकोलाहललितविलासलासिनः / विचलितकर्णतालपवनाहतललितविलेपधूलयः पथि न गजाश्चलन्ति कुलशैलतुलास्तव ला(ना)मलालिताः //
8.4 SK मारुतघातजातरभसोच्छलदनलशिखाकदम्बक- प्रतिहतपुरपुरन्ध्रिहाहारवत्वरितदिगन्तभैरवः / उद्धतधूम्रधूमधूलिधुतबद्धघनान्धकारकं त्वन्नतिनीतिगतिरेति शमं बहुशो हुताशनः //
8.5 SK चलितलतावितानकुटिलोद्गमदुर्गमगहनवर्तिन सपदि पुरो नरस्य तारेति मनागपि नामधारिणः / स्फीतफणौघघोरफूत्कारपरिस्फुरतानलस्फुट- स्फुरदुरुविस्फुलिङ्गविस्फारिणि फणिनि विषं विनश्यति //
8.6 SK क्षणकृतकोपकम्पकरकर्षितखरकरवालनिर्मल- व्यतिकरकरकरवालविकरालमहाबलभुजार्गलः / प्रस्थितपथिकनिकटकटविघटनपटुरतिनिष्ठुराशयो भगवति भक्तिवन्तुमुपसर्पति तव न वने ऽपि तस्करः //
8.7 SK यो ऽपि नरेन्द्रवीरहुङ्कारकचग्रहनिग्रह् ग्रहग्रस्त इव रज्जुहिञ्जीरवजर्जरिताङ्गपञ्जरः / प्रतिपदखनखनायमानमुखरीकृतखरखरशृङ्खलावलि- स्त्वच्चरणारविन्दमभिवन्द्य स नन्दति मुक्तबन्धनः //
8.8 SK कलकलकलिललोलकल्लोलजलोल्ललत्कालिकानिला- स्फालितविपुलबहलवेलाकुलकूलतमालपल्लवात् / सरभसमकरनिकरखरनखरसुदुस्तरतो ऽपि सागरात् तारिणि तरलतारतरतारकमातुरमेत्य रक्षसि //
8.9 SK सूक्ष्मविरावसारसरघोत्करनिर्भरघोरघर्घरघ्राणा घृणाङघ्रिपाण्यस्रविस्रीकृतक्वथितशरीरपञ्जरा / यत्क्षणमहाप्रसादावेशत्वत्प्रणता तारिणि कामरूपिणा तत्क्षणलब्धलोलकिरणमणिकुण्डलमण्डितगण्डमण्डला //
8.10 SK यूकविकीर्णशीर्णपटकर्पटकटितटवेष्टनोद्भटः संकटपेट्टपूरमात्रार्जनपरपुरपिण्डतर्कणः / यदि तव नामकं हृदि करोति हि राक्षसैककः प्रौढवधूविधूतचामीकरखचितविचित्रचामरम् //
371 SK श्रीचन्द्रदासविरचितार्यतारास्तुतिः समाप्ता //
372 SK ओम् नमः श्रीविघ्नेश्वराष्टमातृकाभ्यः /
9.1 SK विघ्नेश्वर महावीर सिद्धिरूपाय वृद्धये / विघ्ननाशाय देवाय गणेशाय नमाम्यहम् //
9.2 SK पूर्वे ब्रह्माणी देवी हंसमारुह्य संस्थिता / पीतवर्णप्रभा देवी श्रीब्रह्माणि नमो ऽस्तु ते //
9.3 SK दक्षिणे श्रीवाराही महिषासनसंस्थिता / रक्तवर्णा ऽङ्कुशहस्ता श्रीवाराहि नमो ऽस्तु ते //
9.4 SK पश्चिमे चेन्द्राणी देवी गजमारुह्य संस्थिता / कुङ्कुमाभा वज्रहस्ता श्रीइन्द्राणि नमो ऽस्तु ते //
9.5 SK उत्तरे माहेश्वरी देवी वृषमारुह्य संस्थिता / श्वेतवर्णप्रभा देवी माहेश्वरि नमो ऽस्तु ते //
9.6 SK आग्नेये बालकौमारी मयूरकान्तिपूरणी / रक्तवर्णा शक्तिहस्ता श्रीकौमारि नमो ऽस्तु ते //
9.7 SK नैरृत्ये वैष्णवी देवी श्यामाभा गरुडासना / शङ्खचक्रधरा देवी नारायणि नमो ऽस्तु ते //
9.8 SK वायव्ये चामुण्डा देवी सिंहमारुह्य संस्थिता / ककारमूर्तिधारी च खड्गहस्तां नमाम्यहम् //
9.9 SK ईशाने चण्डिका देवी धूम्रवर्णा प्रज्वालिनी / कर्तिमुण्डधरा देवी महालक्ष्मि नमो ऽस्तु ते //
9.10 SK अष्टपीठस्थिता देवीरष्टवृक्षनिवासिनीः / अष्टभैरवसंयुक्ता अष्टमातृका नमाम्यहम् //
9.11 SK सूर्यः सोमो महीपुत्रो बुधो देवासुरगुरू / शनिश्च राहुः केतुश्च यमाय च नमो नमः //
384 SK श्री अष्टमातृकास्तोत्रं समाप्तम् //
10.1 SK आराधितो ऽसि भुजगासुरलोकसंघैर्गन्धर्वयक्षमुनिभिः परिवन्दिताय / द्वात्रिंशदादिवरलक्षणभूषिताय नित्यं नमामि शिरसा करुणामयाय //
10.2 SK बालार्ककोटिसमतेजकलेवराय आलोकिते सुगतशेखरधारिताय / शुभ्रांशुमौलितिलकाय जटधराय नित्यं नमामि शिरसा करुणामयाय //
10.3 SK अम्भोजपाणिकमलासनसंस्थिताय यज्ञोपवीतफणिराजसुमण्डिताय / रत्नादिहारकनकोज्ज्वलभूषिताय नित्यं नमामि शिरसा करुणामयाय //
10.4 SK उत्पादभङ्गभवसागरतारकाय दुर्ग्राहदुर्गतिभुवां परिमोचकाय / रागादिदोषपरिमुक्त सुनिर्मलाय नित्यं नमामि शिरसा करुणामयाय //
10.5 SK मैत्र्यादिभिश्चतुरब्रह्मविहारणाय धारामृतैः सकलसत्त्वसुपोषणाय / मोहान्धकारकृतदोषविदारणाय नित्यं नमामि शिरसा करुणामयाय //
10.6 SK दैत्येन्द्रवंशवलितारणमोक्षदाय सत्त्वोपकारत्वरितकृतनिश्चयाय / सर्वज्ञज्ञानपरिपूरितदेशनाय नित्यं नमामि शिरसा करुणामयाय //
10.7 SK अष्टादशनरकमार्गविशोधनाय अज्ञानगाढतिमिरपरिध्वंसनाय / ज्ञानैकदृष्टिव्यवलोकितमोक्षदाय नित्यं नमामि शिरसा करुणामयाय //
10.8 SK त्वं लोकनाथ भुवनेश्वर सुप्रदाय दारिद्रयदुःखमयपञ्जरदारणाय / त्वत्पादपङ्कजयुगप्रतिवन्दिताय नित्यं नमामि शिरसा करुणामयाय //
10.9 SK मार्तण्डमण्डलरुचिस्तथतास्वभावं त्वां नौम्यहः सुफलदः विमलप्रभावम् / चिन्तामणिं सुसदृशं त्वतिदुर्भगो ऽहं नित्यं नमामि शिरसा करुणामयाय //
10.10 SK यद्भक्तितो दशनखाञ्जलिसोत्तमाङ्गमष्टाङ्गकैः प्रणमितं तव पादपद्म / दुःखार्णवे पतितमुद्धर मां कृपालो नित्यं नमामि शिरसा करुणामयाय //
10.11 SK सप्ताष्टभूतगतमाधवशुक्लपक्षे तारापुनर्वसु सहे भृगुसूनुवारे / श्रीक्रौंचदारणतिथौ च स्तुतिं करोमि मे देहि वाञ्छितफलं भुवनैकनाथ //
10.12 SK ये पठन्ति महापुण्यं पवित्रं पापनाशनम् / सर्वकामार्थसिद्धिं च गमिष्यन्ति सुखावतीम् //
398 SK श्रीमदार्यावलोकितेश्वरभट्टारकस्यावधानस्तोत्रं समाप्तम् //
399 SK नमो रत्नत्रयाय / नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय / नमः सर्वसत्त्वव्यसनघातिने / नमः सर्वसत्त्वव्यसनावहारिणे / नमः सर्वसत्त्वभयोत्तारणाय / नमः सर्वभवप्रशमनकराय / नमः सर्वसत्त्वबोधिचिकित्संकराय / नमः सर्वबन्धनच्छेदनपराय / नमः सर्वदुःखप्रमोक्षणकराय / नमः सर्वान्धकारविधमनकराय / नमः सर्वविद्याराजवशप्राप्तये महायोगयोगीश्वराय /
400 SK तस्मै नमस्कृत्वा इदमार्यावलोकितेश्वरमुखोद्गीर्णम् / ऋषिविददादेवनागयक्षराक्षसशक्रब्रह्मलोकपालविष्णुमहेश्वरनारायणस्कन्दकुबेरासुरेन्द्रमातृगण नमस्कृतं वज्रक्षुरमहीयं हयग्रीवब्रह्मपरमहृदयमावर्तयिष्यामि / अप्रमेयार्थसाधकम् असह्यं सर्वभूतानां सर्वविघ्नविनाशकम् / अमोघं सर्वकर्मणां विषाणाञ्च विनायनम् / तद् यथा
401 SK ओम् तरुल तरुल वितरुल वितरुल सर्वविषघातक सर्वभूतविद्रावक ज्वलितानलविस्फुलिङ्गाट्टहास केसरातोपाप्रवितकाय वज्रक्षुरनिर्गतित चलितवसुधातल बज्रोदश्वसत हासितमरुतक्षतिप्रशमनकर परदुष्टविघ्नान् संभक्षणकर स्वविद्योपदेशकर परमशान्तिकर बुद्ध बुद्ध बोधयामिति /
402 SK भगवन् हयग्रीव सर्वविद्याहृदयमावर्तयिष्यामि / खाद खाद महारौद्रमन्त्रेण / रक्ष रक्ष आत्मस्वहितान् मन्त्रेण / सिध्य सिध्य सर्वकर्मसु मे सिद्धे देहि देहि / आवेश आवेश प्रवेश प्रवेश सर्वग्रहेषु अप्रतिहत / धुन धुन विधुन विधुन मथ मथ प्रमथ प्रमथ सर्ववरोपग्रम / कृतकखोर्दो / दुर्लङ्घित मूषिक / विषकर विषद्रंष्ट्र विषचूर्णयो अभिचारविषकरण / सिध्य अञ्जन चक्षुर्मोहन / चित्तविक्षोभणकर / नित्यापरप्रेक्षण त्रासय त्रासय महाबोधिसत्त्व ऋद्धदंष्ट्रणेन सर्वभयेभ्यः सत्त्वानां रक्ष रक्ष / मम बुद्धधर्मसंघानुज्ञातं मे कर्म शीघ्रं कुरु कुरु फट् / हयग्रीवाय फट् / बज्रक्षुराय फट् / वज्रदंष्ट्रोत्कटभयभैरवाय फट् / परमन्त्रणनाशनकराय फट् / परदुष्टविघ्नान् संभक्षणकराय फट् / सर्वग्रहोत्सादनकराय फट् / सर्वग्रहेषु
403 SK अप्रतिहताय फट् / पटलमुखाय फट् / ये केचित् मम अहितेषिणः काये क्रमन्ति मन्त्रयण यमन्ति जुह्वानति काखोर्दं कुर्वन्ति / तेन सर्वेणाभिमुखेन वाक्रीहाय फट् / नमः सर्वदुष्टग्रहोत्सादनाय हयग्रीवाय सिध्यन्तु मन्त्रपदैः स्वाहा / ओम् अमितोद्भवाय हुं फट् फट् स्वाहा / ओम् नमो हयाय स्वाहा / ओम् नमो विश्वमूर्तये स्वाहा / नमः सर्वसत्त्वानां सिध्यन्तु मन्त्रपदाय स्वाहा //
404 SK ओम् नमो ऽवलोकितेश्वराय
12.1 SK स्तुत्वा गुणैरनुपमैरनुबिन्दुपात्रं स्तोत्रं मया कृतमिदं जडवालिशेन / लोकेश्वरं गुणनिधिं गुणसागरं च नित्यं नमामि शिरसाञ्जलिसंपुटेन //
12.2 SK प्राणेषु यन् स्रवति येन रसाम्बुपारान् क्षुत्तृष्णदुःखपरिपीडितसर्वसत्त्वान् / एवंविधं जगदिदं परिपालनाय तस्मै नमो ऽस्तु सततं हि यथार्थनाम्ने //
12.3 SK सत्कुङ्कुमात्तमरुणाङ्कसमानवर्णं द्वात्रिंशलक्षणविभूषितगात्रशोभम् / सर्वेषु यस्य करुणामयवत्सलत्वं तस्मै नमामि भवते करुणामयाय //
12.4 SK संसारसागरमहालयनाशदक्ष एकस्त्वमेव शरणं भुवि नैकनाथ / केनापि त्वद्गुणगणा गणने न शक्यास्तं लोकनाथमवलोकितनामसंज्ञम् //
12.5 SK नानाविधाभरणमण्डितदिव्यरुपं बालेन्दुलग्नजटभूषितलोकनाथम् / वामे च मण्डलधरं वरदं च सव्ये त्वां लोकनाथ शरणं प्रव्रजामि नित्यम् //
12.6 SK ब्रह्मादिभिः परिवृतं सुरसिद्धसंघैर्गन्धर्वकिन्नरमहोरगनागयक्षैः / नाथस्य यस्य भवतश्चरणाम्बुजं च तं लोकनाथचरणं शरणं व्रजामि //
12.7 SK भूतैः पिशाचगरुडोरगराक्षसीभिः कुम्भाण्डपूतनमहल्लकराजराजैः / वैश्वानरासुरशतैः परिवारभूतं तं लोकनाथचरणं शरणं गतो ऽस्मि //
12.8 SK अब्धिर्दिवाकरकरैर्नहि शोषमेति तद्वत्कवीश्वरशतैर्गुणसागरस्ते / लोकेश्वर प्रथितकीर्तिनिधानभूतो न क्षीयते गुणनिधिर्गुणसागरस्य //
12.9 SK श्लोकाष्टकं प्रतिदिनं खलु ये पठन्ति ते प्राप्नुवन्ति सहसा धनपुत्रमोक्षान् / कुष्ठादिरोगनिकरं क्षमतां प्रयाति वन्दामहे च नितरां तव पादयुग्मे //
414 SK श्री आर्यावलोकितेश्वरस्य श्लोकाष्टकं समाप्तम् //
415 SK ओम् नमो ऽवलोकितेश्वराय
13.1 SK भुवनत्रयवन्दितलोकगुरुम् अमराधिपतिस्तुतब्रह्मवरम् / मुनिराजवरं द्युतिसिद्धिकरं प्रणमाम्यवलोकितनामधरम् //
13.2 SK सुगतात्मजरुपसुरुपधरं बहुलक्षणभूषितदेहवरम् / अमिताभतथागतमौलिधरं कनकाब्जविभूषितवामकरम् //
13.3 SK कुटिलामलपिङ्गलधूम्रजटं शशिबिम्बसमुज्ज्वलपूर्णमुखम् / कमलायतलोचनचारुवरं हिमखण्डविपाण्डुरगण्डयुगम् //
13.4 SK अधरं जितपङ्कजनाभिसमं शरदम्बुदगर्जितमेघरुतम् / बहुरत्नविभूषितबाहुयुगं तनुकोमलशाद्वलपाणितलम् //
13.5 SK मृगचर्मविवेष्टितवामतनुं शुभकुण्डलमण्डितलोलधरम् / विमलं कमलोदरनाभितलं मणिमण्डितमेखलहेमवरम् //
13.6 SK कटिवेष्टितचित्रसुवस्त्रधरं जिनबोधिमहोदधिपारगतम् / बहुपुण्यमुपार्जितलब्धवरं ज्वरव्याधिहरं बहुसौख्यकरम् //
13.7 SK शुभशान्तिकरं त्रिभवास्यकरं सचरं खचरं स्तुतिदेहधरम् / विविधाकुलनिर्जितमारबलं दशपारमितापरमार्थकरम् //
13.8 SK चतुरस्रविहारविवेकपरं तथताद्वयबोधविबोधकरम् / मणिनूपुरगर्जितपादयुगं गजमन्दविलम्बितहंसगतिम् //
13.9 SK परिपूर्णमहामृतलब्धधृतिं क्षीरोदजलार्णवनित्यगतिम् / श्रीपोतलकाभिनिवासरतिं करुणामयनिर्मलचारुदृशम् //
425 SK श्रीमदार्यावलोकितेश्वरभट्टारकस्य चन्द्रकान्ताभिक्षुणीविरचितः स्तवः समाप्तः //
426 SK ओम् नमो ऽवलोकितेश्वराय
14.1 SK देवमनुष्यासुरनुतचरणः प्रतिहतजन्मजरारुजमरणः / लोकेश त्वं मामशरण्यं रक्ष कृपालो कुरु कारुण्यम् //
14.2 SK संसारोदधिमध्यनिमग्नं क्लेशमहोर्मिसमाहितभग्नम् / मामवधारय मा विरुवन्तं त्राहि महाकृप नौमि भवन्तम् //
14.3 SK तृष्णातिमिरोपद्रुतनेत्रं मरणमहाभयविह्वलगात्रम् / पालय भगवन्नवलोकय मां यावदवीचिं यामि न विषमाम् //
14.4 SK कृतमन्यस्त्रीग्रहणमजस्रं हतमज्ञेयं प्राणिसहस्रम् / नाथ मया कृतपापमशेषं नाशय संप्रति कायिकदोषम् //
14.5 SK यज्जोवितसत्कारनिमित्तं लोकान् नित्यं भणितमसत्यम् / तल्लोकेश्वर शमय समस्तं वाचिकनरकं चिरमभ्यस्तम् //
14.6 SK सत्त्वानामिह चिन्तितमहितं स्वयमनुमोदितमपि नरविहितम् / अधुना तन्मम मानसपापं स्फोटय नाथ करोमि विलापम् //
14.7 SK देवमनुष्यासुरजातीनां तिर्यःनारकप्रेतगतीनाम् / सत्त्वा ये निवसन्ति सदार्ता रक्षसि तानिति तव मयि वार्ता //
14.8 SK तेन ममोपरि सृज कारुण्यं वीक्ष्य शरीरगतं तारुण्यम् / इति शृणु भगवन् भवति भणामि यावन्नरकं नैव विशामि //
14.9 SK किं चोपेत्य करोषि परार्थं मुञ्चसि भगवन् मामकृतार्थम् / अथवा प्रेक्ष्य कृपा तव पुण्यं जनयसि दृष्टं कथमविपन्नम् //
14.10 SK स्मरणेनापि भवसि परितुष्टः क्षिपसि च कलुषं किमिति न दृष्टः / यस्माद् भगवन् परहितदक्ष क्षेपं मा कुरु मामिह रक्ष //
14.11 SK दन्तितुरङ्गमपुत्रकलत्रं राज्यमकण्टकवेश्मविचित्रम् / अस्थिशिरो ऽसृङ्मांसपर्यन्तं भवतार्थिभ्यो दत्तमनन्तम् //
14.12 SK अञ्जनगुटिकापादुकसिद्धिः सिद्धौषधिमणिमन्त्रविशुद्धिः / सिद्धयति यक्षस्त्रीपुरवेशः तुष्यसि यस्य त्वं लोकेश //
14.13 SK ये करचरणविलोचनहीना विविधव्याधिमहाभयदीनाः / ते त्वयि तुष्टे पुष्टशरीरा विलसन्त्यरुजो गुणगम्भीराः //
14.14 SK गरलं व्याधिर्ग्रहडाकिन्यः शान्तिं यान्ति सदा योगिन्यः / सरति न तस्य पुरो यमदूतः प्रोतो यस्य च त्वं जिनभूतः //
14.15 SK इति लोकेश्वर किं क्रियमाणं मुञ्चसि भगवन् मामत्राणम् / रौम्यहमनुदिनमुद्यतपाणिर्नाशय त्राससमाकुलवाणिः //
14.16 SK यद्विषयेन्द्रियचञ्चलमनसा कृतबहुपापं व्याकुलमनसा / नीतं जन्म मया ऽस्मिन् सकलं जठरनिमित्तं भ्रमता विकलम् //
14.17 SK तत्कुरु संप्रति मम लोकेश प्रणतो विविधाञ्जलिरहमेषः / येनाभुक्त्वापायिकदोषं सुगतिं भवतो यामि न मोक्षम् //
14.18 SK मोहद्वेषविनाशनहेतुस्त्वं संसारमहोदधिसेतुः / पतितस्त्रस्तोत्थापितबाहुस्त्वं गुरुदुरितनिशाकरराहुः //
14.19 SK देशितसुगतानुत्तरतत्त्वस्त्वं पालितबहुदुःखितसत्त्वः / निर्जितदुर्जयमन्मथमारस्त्वं संतीर्णभवार्णवपारः //
14.20 SK सकलालाननिकृन्तनदेहस्त्वं परिभावितजगतसुदेहः / भगवन्ननुपमकरुणासिन्धुस्त्वं जनविदितो ऽकारणबन्धुः //
14.21 SK लीलाविदलितकर्मविभङ्गस्त्वं परहितविषयव्यासङ्गः / दिव्यध्यानसमाहितचित्तस्त्वं याचकसाधारणचित्तः //
14.22 SK परमपकुर्वंन्नपि करुणावान् मयि परितोषं न करोषि भवान् / कथमिह मोहमहोरगदष्टं विषयशरीरमकुशलं भ्रष्टम् //
14.23 SK सकलजनार्थं प्रति या करुणा सा किं भवतो नियतस्फरणा / येन न रक्षसि किल्विषवन्तं भवतः पुरतो मां विरुवन्तम् //
14.24 SK नाथ कृपा ते व्योमविशाला सत्त्वेषु हि यथाम्बुदधारा / स्थलजलनिम्नोन्नतबहुदेशे सरति निरन्तरमनिशमशेषे //
14.25 SK इति भगवत्स्मरणाद्यत्पुण्यं मम तेनेदं जगदक्षुण्णम् / लभतां श्रीपोतलकाचलवासं जनयतु सुन्दरविविधविलासम् //
452 SK श्रीमदार्यावलोकितेश्वरभट्टारकस्य चरपतिपादविरचितं स्तोत्रं समाप्तम् //
453 SK ओम् नमो ऽवलोकितेश्वराय
15.1 SK जटाधरं सौम्यविशाललोचनं सदाप्रसन्नाननचन्द्रमण्डलम् / सुरासुरैर्वन्दितपादपङ्कजं नमामि नाथं मणिपद्मसंभवम् //
15.2 SK सरोजपत्रायतदिव्यलोचनं कुदृष्टिसंशोधितशुद्धलोचनम् / कृपामृतार्द्रं जगदेकलोचनं नमामि नाथं मणिपद्मसंभवम् //
15.3 SK हारेन्दुहारार्धहिमाधिकोज्जवलं निघृष्टगण्डामललोलकुण्डलम् / गभस्तिमालाकुलकोटिसंकुलं नमामि नाथं मणिपद्मसंभवम् //
15.4 SK प्रबुद्धधर्माध्वनि धर्मधातुकं सहस्रबाहुं द्विचतुश्च षड्भुजम् / खधातुना तुल्यमनन्तबाहुकं नमामि नाथं मणिपद्मसंभवम् //
15.5 SK उपायप्रज्ञोदधिमन्थनोद्भवं त्रिधातुसंरक्षणहेतुसंभवम् / जिनेन्द्रमौलिं जिनधातुसंभवं नमामि नाथं मणिपद्मसंभवम् //
15.6 SK पद्मोपरि गतं नाथं पद्महस्तं जटाधरम् / आर्यावलोकितं वन्दे सर्वसत्त्वानुकम्पकम् //
460 SK श्रीवासुकिनागराजकृतमार्यावलोकितेश्वरस्तोत्रं समाप्तम् //
461 SK ओम् नमो ऽवलोकितेश्वराय
16.1 SK पद्मसत्त्व महापद्म लोकेश्वर महेश्वर / अवलोकितेश धीराग्र्य वज्रधर्म नमो ऽस्तु ते //
16.2 SK धर्मराज महाशुद्ध सत्त्वराज महामते / पद्मात्मक महापद्म पद्मनाथ नमो ऽस्तु ते //
16.3 SK पद्मोद्भव सुपद्माभ पद्मशुद्ध सुशोधक / वज्रपद्म सुपद्माङ्क पद्मपद्म नमो ऽस्तु ते //
16.4 SK महाविश्व महालोक महाकाय महोपम / महाधीर महावीर महाशौरे नमो ऽस्तु ते //
16.5 SK सत्त्वाशय महायान महायोग पितामह / शम्भु शङ्कर शुद्धार्थ बुद्धपद्म नमो ऽस्तु ते //
16.6 SK धर्मतत्त्वार्थ सद्धर्म शुद्धद्धर्मं सुधर्मकृत् / महाधर्म सुधर्माग्र्य धर्मचक्र नमो ऽस्तु ते //
16.7 SK बुद्धसत्त्व सुसत्त्वाग्र्य धर्मसत्त्व सुसत्त्वधृक् / सत्त्वोत्तम सुसत्त्वज्ञ सत्त्वसत्त्व नमो ऽस्तु ते //
16.8 SK अवलोकितेश नाथाग्र्य महानाथ विलोकित / आलोकलोक लोकार्थ लोकनाथ नमो ऽस्तु ते //
16.9 SK लोकाक्षराक्षर महा अक्षराग्र्याक्षरोपम / अक्षराक्षर सर्वाक्ष चक्राक्षर नमो ऽस्तु ते //
16.10 SK पद्महस्त महाहस्त समाश्वासक दायक / बुद्धधर्म महाबुद्ध बुद्धात्मक नमो ऽस्तु ते //
16.11 SK बुद्धरूप महारूप वज्ररूप सुरुपवित् / धर्मालोक सुतेजाग्र्य लोकालोक नमो ऽस्तु ते //
16.12 SK पद्मश्रीनाथ नाथाग्र्य धर्मश्रीनाथ नाथवान् / ब्रह्यनाथ महाब्रह्म ब्रह्मपुत्र नमो ऽस्तु ते //
16.13 SK दीप दीपाग्र्य दीपोग्र दीपालोक सुदीपक / दीपनाथ महादिप बुद्धदीप नमो ऽस्तु ते //
16.14 SK बुद्धाभिषिक्त बुद्धाग्र्य बुद्धपुत्र महाबुध / बुद्धाभिषेकमुर्द्धाग्र्य बुद्धबुद्ध नमो ऽस्तु ते //
16.15 SK बुद्धचक्षो महाचक्षो धर्मचक्षो महेक्षण / समाधिज्ञानसर्वस्व वज्रनेत्र नमो ऽस्तु ते //
16.16 SK एवं सर्वात्मना गौणं नाम्नामष्टशतं तव / भावयेत् स्तुनुयाद्वापि लोकैश्वर्यमवाप्नुयात् //
478 SK आर्यावलोकितेश्वरनामाष्टोत्तरशताध्येषणास्तोत्रं समाप्तम् //
479 SK अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वः एवमेव लोकधातुपरम्परानभिलाप्यानभिलाप्य बुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् कल्पप्रसरानभिद्योत्यमानो भूयस्या मात्रया गाथाभिगीतेन प्रणिधानमकार्षीत् -
17.1 SK यावत केचि दशद्दिशि लोके सर्वत्रियध्वगता नरसिंहाः / तानहु वन्दमि सर्वि अशेषान् कायतु वाच मनेन प्रसन्नः //
17.2 SK क्षेत्ररजोपमकायप्रमाणैः सर्वजिनान करोमि प्रणामम् / सर्वजिनाभिमुखेन मनेन भद्रचरीप्रणिधानबलेन //
17.3 SK एकरजाग्रि रजोपमबुद्धा बुद्धसुतान निषण्णकु मध्ये / एवमशेषत धर्मतधातुं सर्वधिमुच्यमि पूर्णजिनेभि //
17.4 SK तेषु च अक्षयवर्णसमुद्रान् सर्वस्वराङ्गसमुद्ररुतेभिः / सर्वजिनान गुणान् भणमानस्तान् सुगतान् स्तवमी अहु सर्वान् //
17.5 SK पुष्पवरेभि च माल्यवरेभिर्वाद्यविलेपनछत्रवरेभिः / दीपवरेभि च धूपवरेभिः पूजन तेष जिनान करोमि //
17.6 SK वस्त्रवरेभि च गन्धवरेभिश्चूर्णपुटेभि च मेरुसमेभिः / सर्वविशिष्टवियूहवरेभिः पूजन तेष जिनान करोमि //
17.7 SK या च अनुत्तरपूज उदारा तानधिमुच्यमि सर्वजिनानाम् / भद्रचरी अधिमुक्तिबलेन वन्दमि पूजयमी जिनसर्वान् //
17.8 SK यच्च कृतं मयि पापु भवेय्या रागतु द्वेषतु मोहवशेन / कायतु वाच मनेन तथैव तं प्रतिदेशयमी अहु सर्वम् //
17.9 SK यच्च दशद्दिशि पुण्य जगस्य शैक्ष अशैक्षप्रत्येकजिनानाम् / बुद्धसुतानथ सर्वजिनानां तं अनुमोदयमी अहु सर्वम् //
17.10 SK ये च दशद्दिशि लोकप्रदीपा बोधिविबुद्ध असंगतप्राप्ताः / तानहु सर्वि अध्येषमि नाथान् चक्रु अनुत्तरु वर्तनतायै //
17.11 SK ये ऽपि च निर्वृति दर्शितुकामास्तानभियाचमि प्राञ्जलिभूतः / क्षेत्ररजोपमकल्प निहन्तु सर्वजगस्य हिताय सुखाय //
17.12 SK वन्दनपूजनदेशनताय मोदनध्येषणयाचनताय / यच्च शुभं मयि संचितु किंचिद्बोधयि नामयमी अहु सर्वम् //
17.13 SK पूजित भोन्तु अतीतक बुद्धा ये च ध्रियन्ति दशद्दिशि लोके / ये च अनागत ते लघु भोन्तु पूर्णमनोरथ बोधिविबुद्धाः //
17.14 SK यावत केचि दशद्दिशि क्षेत्रास्ते परिशुद्ध भवन्तु उदाराः / बोधिद्रुमेन्द्रगतेभि जिनेभिर्बुद्धसुतेभि च भोन्तु प्रपूर्णाः //
17.15 SK यावत केचि दशद्दिशि सत्त्वास्ते सुखिता सद भोन्तु अरोगाः / सर्वजगस्य च धर्मिकु अर्थो भोन्तु प्रदक्षिणु ऋध्यतु आशाः //
17.16 SK बोधिचरिं च अहं चरमाणो भवि जातिस्मरु सर्वगतीषु / सर्वसु जन्मसु च्युत्युपपत्ती प्रव्रजितो अहु नित्यु भवेय्या //
17.17 SK सर्वजिनानुशिक्षयमाणो भद्रचरिं परिपूरयमाणः / शीलचरिं विमलां परिशुद्धां नित्यमखण्डमछिद्र चरेयम् //
17.18 SK देवरुतेभि च नागरुतेभिर्यक्षकुम्भाण्डमनुष्यरुतेभिः / यानि च सर्वरुतानि जगस्य सर्वरुतेष्वहु देशयि धर्मम् //
17.19 SK ये खलु पारमितास्वभियुक्तो बोधियि चित्तु न जातु विमुह्येत् / ये ऽपि च पापक आवरणायास्तेषु परिक्षयु भोतु अशेषम् //
17.20 SK कर्मतु क्लेशतु मारपथातो लोकगतीषु विमुक्तु चरेयम् / पद्म यथा सलिलेन अलिप्तः सूर्यशशी गगनेव असक्तः //
17.21 SK सर्वि अपायदुखां प्रशमन्तो सर्वजगत् सुखि स्थापयमानः / सर्वजगस्य हिताय चरेयं यावत क्षेत्रपथा दिशतासु //
17.22 SK सत्त्वचरिं अनुवर्तयमानोइ बोधिचरिं परिपूरयमाणः / भद्रचरिं च प्रभावयमानः सर्वि अनागतकल्प चरेयम् //
17.23 SK ये च सभागत मम चर्याये तेभि समागमु नित्यु भवेय्या / कायतु वाचतु चेतनतो चा एकचरि प्रणिधान चरेयम् //
17.24 SK ये ऽपि च मित्रा मम हितकामा भद्रचरीय निदर्शयितारः / तेभि समागमु नित्यु भवेय्या तांश्च अहं न विरागयि जातु //
17.25 SK संमुख नित्यमहं जिन पश्ये बुद्धसुतेभि परीवृतु नाथान् / तेषु च पूज करेयु उदारां सर्वि अनागतकल्पमखिन्नः //
17.26 SK धारयमाणु जिनान सद्धर्मं बोधिचरिं परिदीपयमानः / भद्रचरिं च विशोधयमानः सर्वि अनागतकल्प चरेयम् //
17.27 SK सर्वभवेषु च संचरमाणः पुण्यतु ज्ञानतु अक्षयप्राप्तः / प्रज्ञौपायसमाधिविमोक्षैः सर्वगुणैर्भवि अक्षयकोशः //
17.28 SK एकरजाग्रि रजोपमक्षेत्रा तत्र च क्षेत्रि अचिन्तियबुद्धान् / बुद्धसुतान निषण्णकु मध्ये पश्यिय बोधिचरिं चरमाणः //
17.29 SK एवमशेषत सर्वदिशासु बालपथेषु त्रियध्वप्रमाणान् / बुद्धसमुद्र थ क्षेत्रसमुद्रानोतरि चारिककल्पसमुद्रान् //
17.30 SK एकस्वराङ्गसमुद्ररुतेभिः सर्वजिनान स्वराङ्गविशुद्धिम् / सर्वजिनान यथाशयघोषान् बुद्धसरस्वतिमोतरि नित्यम् //
17.31 SK तेषु च अक्षयघोषरुतेषु सर्वत्रियध्वगतान जिनानाम् / चक्रनयं परिवर्तयमानो बुद्धिबलेन अहं प्रविशेयम् //
17.32 SK एकक्षणेन अनागतसर्वान् कल्पप्रवेश अहं प्रविशेयम् / ये ऽपि च कल्प त्रियध्वप्रमाणास्तान् क्षणकोटिप्रविष्ट चरेयम् //
17.33 SK ये च त्रियध्वगता नरसिंहास्तानहु पश्यिय एकक्षणेन / तेषु च गोचरिमोतरि नित्यं मायगतेन विमोक्षबलेन //
17.34 SK ये च त्रियध्वसुक्षेत्रवियूहास्तानभिनिर्हरि एकरजाग्रे / एवमशेषत सर्वदिशासु ओतरि क्षेत्रवियूह जिनानाम् //
17.35 SK ये च अनागत लोकप्रदीपास्तेषु विबुध्यन चक्रप्रवृत्तिम् / निर्वृतिदर्शननिष्ठ प्रशान्तिं सर्वि अहं उपसंक्रमि नाथान् //
17.36 SK ऋद्धिबलेन समन्तजवेन ज्ञानबलेन समन्तमुखेन / चर्यबलेन समन्तगुणेन मैत्रबलेन समन्तगतेन //
17.37 SK पुण्यबलेन समन्तशुभेन ज्ञानबलेन असङ्गगतेन / प्रज्ञौपायसमाधिबलेन बोधिबलं समुदानयमानः //
17.38 SK कर्मबलं परिशोधयमानः क्लेशबलं परिमर्दयमानः / मारबलं अबलं करमाणः पूरयि भद्रचरीबल सर्वान् //
17.39 SK क्षेत्रसमुद्र विशोधयमानः सत्त्वसमुद्र विमोचयमानः / धर्मसमुद्र विपश्ययमानो ज्ञानसमुद्र विगाहयमानः //
17.40 SK चर्यसमुद्र विशोधयमानः प्रणिधिसमुद्र प्रपूरयमाणः / बुद्धसमुद्र प्रपूजयमानः कल्पसमुद्र चरेयमखिन्नः //
17.41 SK ये च त्रियध्वगतान जिनानां बोधिचरिप्रणिधानविशेषाः / तानहु पूरयि सर्वि अशेषात् भद्रचरीय बिबुध्यिय बोधिम् //
17.42 SK ज्येष्ठकु यः सुतु सर्वजिनानां यस्य च नाम समन्ततभद्रः / तस्य विदुस्य सभागचरीये नामयमी कुशलं इमु सर्वम् //
17.43 SK कायतु वाच मनस्य विशुद्धिश्चर्यविशुद्ध्यथ क्षेत्रविशुद्धिः / यादृशनामन भद्रविदुस्य तादृश भोतु समं मम तेन //
17.44 SK भद्रचरीय समन्तशुभाये मञ्जुशिरिप्रणिधान चरेयम् / सर्वि अनागत कल्पमखिन्नः पूरयि तां क्रिय सर्वि अशेषाम् //
17.45 SK नो च प्रमाणु भवेय्य चरीये नो च प्रमाणु भवेय्य गुणानाम् / अप्रमाणु चरियाय स्थिहित्वा जानमि सर्वि विकुर्वितु तेषाम् //
17.46 SK यावत निष्ठ नभस्य भवेय्या सत्त्व अशेषत निष्ठ तथैव / कर्मतु क्लेशतु यावत निष्ठा तावत निष्ठ मम प्रणिधानम् //
17.47 SK ये च दशद्दिशि क्षेत्र अनन्ता रत्नअलंकृतु दद्यु जिनानाम् / दिव्य च मानुष सौख्यविशिष्टां क्षेत्ररजोपम कल्प ददेयम् //
17.48 SK यश्च इमं परिणामनराजं श्रुत्व सकृज्जनयेदधिमुक्तिम् / बोधिवरामनुप्रार्थयमानो अग्रु विशिष्ट भवेदिमु पुण्यम् //
17.49 SK वर्जित तेन भवन्ति अपाया वर्जित तेन भवन्ति कुमित्राः / क्षिप्रु स पश्यति तं अमिताभं यस्यिमु भद्रचरि प्रणिधानम् //
17.50 SK लाभ सुलब्ध सजीवितु तेषां स्वागत ते इमु मानुषजन्म / यादृशु सो हि समन्ततभद्रस्ते ऽपि तथा नचिरेण भवन्ति //
17.51 SK पापक पञ्च अनन्तरियाणि येन अज्ञानवशेन कृतानि / सो इमु भद्रचरिं भणमानः क्षिप्रु परिक्षयु नेति अशेषम् //
17.52 SK ज्ञानतु रूपतु लक्षणतश्च वर्णतु गोत्रतु भोतिरूपेतः / तीर्थिकमारगणेभिरधृष्यः पूजितु भोति स सर्वत्रिलोके //
17.53 SK क्षिप्रु स गच्छति बोधिद्रुमेन्द्रं गत्व निषीदति सत्त्वहिताय / बुद्ध्यति बोधि प्रवर्तयि चक्रं धर्षति मारु ससैन्यकु सर्वम् //
17.54 SK यो इमु भद्रचरिप्रणिधानं धारयि वाचयि देशयितो वा / बुद्धविजानति यो ऽत्र विपाको बोधि विशिष्ट म काङ्क्ष जनेथ //
17.55 SK मञ्जुशिरी यथ जानति शूरः सो च समन्ततभद्र तथैव / तेषु अहं अनुशिक्षयमाणो नामयमी कुशलं इमु सर्वम् //
17.56 SK सर्वत्रियध्वगतेभि जिनेभिर्या परिणामन वर्णित अग्रा / ताय अहं कुशलं इमु सर्वं नामयमी वर भद्रचरीये //
17.57 SK कालक्रियां च अहं करमाणो आवरणान् विनिवर्तिय सर्वान् / संमुख पश्यिय तं अमिताभं तं च सुखावतिक्षेत्र व्रजेयम् //
17.58 SK तत्र गतस्य इमि प्रणिधाना आमुखि सर्वि भवेय्यु समग्रा / तांश्च अहं परिपूर्य अशेषान् सत्त्वहितं करियावत लोके //
17.59 SK तहि जिनमंडलि शोभनिरम्ये पद्मवरे रूचिरे उपपन्नः / व्याकरणं अहु तत्र लभेय्या संमुखतो अमिताभजिनस्य //
17.60 SK व्याकरणं प्रतिलभ्य च तस्मिन् निर्मित कोटिशतेभिरनेकैः / सत्त्वहितानि बहून्यहु कुर्यां दिक्षु दशस्वपि बुद्धिबलेन //
17.61 SK भद्रचरिप्रणिधान पठित्वा यत्कुशलं मयि संचितु किंचित् / एकक्षणेन समृध्यतु सर्वं तेन जगस्य शुभं प्रणिधानम् //
17.62 SK भद्रचरिं परिणाम्य यदाप्तं पुण्यमनन्तमतीव विशिष्टम् / तेन जगद्वयसनौघनिमग्नं यात्वमिताभपुरिं वरमेव //
542 SK श्री भद्रचरीप्राणिधानस्तोत्रं समाप्तम् //
543 SK नमस्तस्मै भगवते ऽर्हते सम्यक्संबुद्धाय
18.1 SK ज्ञानं यस्य समस्तवस्तुविषयं यस्यानवद्यं वचो यस्मिन् रागलवो ऽपि नैव न पुनर्द्वेषो न मोहस्तथा / यस्याहेतुरनन्तसत्त्वसुखदा ऽनल्पा कृपामाधुरी बुद्धो वा गिरिशो ऽथवा स भगवान् तस्मै नमस्कुर्महे //
18.2 SK देवः शम्भुर्न वैरी हरिरपि न रिपुः केवली नो सपत्नो नोदासीनः स्वयम्भुर्न च पुनरपरे ते परे वासवाद्याः / शास्ता बुद्धो न बन्धुर्जगति न जनको नैकगोत्रैकजातिः किन्त्वेषां वीतरागो भवति सकलविद् यः सुधीभिः स सेव्यः //
18.3 SK ब्रह्मा विद्याभिभूतो दुरधिगममहामाययालिङ्गितो ऽसौ विष्णू रागातिरेकान्निजवपुषि धृता पार्वतौ शङ्करेण / वीताविद्यो विमायो जगति स भगवान् वीतरागो मुनीन्द्रः कः सेव्यो बुद्धिमद्भिर्वदत वदत मे भ्रातरस्तेषु मुक्त्यै //
18.4 SK ब्राह्मं वैष्णवमैश्वरञ्च बहुधा लब्ध्वा पदं हेतुतैः (तः) संसारे वत संसरन्ति पुनरप्येकान्तदुःखास्पदे / किन्तैर्देहभृतामपायबहलैराद्यन्तवद्भिः पदैस् तस्मान्नित्यमनादिमध्यनिधनं बौद्धं पदं प्रार्थ्यताम् //
18.5 SK चिदाकारं सूक्ष्मं विभुविशदमाकाररहितं निरीहं नीरूपं निरवधिकृपाबीजमजरम् / समस्तज्ञं सर्वोपधिरहितमैश्यादमृतदं जितानङ्गैः सेव्यं भवतु मम तद्वस्तु शरणम् //
18.6 SK अणीयो ऽणोः क्लेशाप्रतिहतमनन्तं च महतो महीयो माहात्म्यप्रविजितजगद्भूरिकरुणम् / द्विबाहुं निर्बाहुं द्विपदमपदं सत्रिवदानम् द्विनेत्रं निर्नेत्रं सगुणमगुणं तत्तु शरणम् //
18.7 SK सदानन्दं तथ्यं सरसहृदयं सूक्तिसदनं सतां सेव्यं सम्यक्समधिगततत्त्वं सममनः / स्वतः सिद्धं साध्यं सकलफलदं सौम्यवदनं सदीयं सर्वीयं भवतु मम तद् वस्तु शरणम् //
18.8 SK स्वयम्भूताभिज्ञं भवभयहरं भीतिरहितं स्फुरद्भाग्यो भोगोज्झितमहतवीर्यं मदनजित् / चतुर्मार्गं शुद्धप्रकृति च तथाकर्तृकमिदं मुदं लोकोत्कृष्टामतनु तनुतां वस्तु जगताम् //
18.9 SK क्वचिन्नीलं पीतं क्वचिदपि च रक्तं क्वचिदप् क्वचिच्चन्द्रच्छायं क्वचिदपि च माञ्जिष्ठरुचिरम् / क्वचित् प्राभास्वर्य्यं यदयति च वर्णव्यतिकरा- च्छिखाषट्कं तैस्तैर्दधदुपरि तद्वस्तु शरणम् //
18.10 SK पराभेद्यं जाम्बूनदरूचिरवर्णं त्रिशरणं त्रियानं त्रिप्रज्ञं त्रिभुवनशरण्यं त्रिवचनम् / कृपापात्रं मन्दस्मितमरुणसच्चीवरधरं कृतध्यानं सिद्धासनघटितपाद् वस्तु शरणम् //
18.11 SK प्रसन्नं फुल्लेन्दीवरनयनयुग्मं त्रिपिटकं मुहुर्व्याकुर्वाणं सुरनरगणेभ्यः करुणया / परं शान्तं स्वर्णोपलरजतलोष्ट्रेषु च समं दृशां नव्यातिथ्यं भवतु मम तद् वस्तु शरणम् //
18.12 SK शरणमिति सदग्रं साधु गच्छामि बुद्धं शरणमिति विरागाग्रीयमन्वेमि धर्मम् / शरणमिति गणानामग्रियं यामि संघं शरणमिति पुनस्त्रिं द्वित्रिवारं व्रजामि //
18.13 SK पुनरपि शरणं व्रजामि बुद्धं पुनरपि लोकगुरुं गुरुं करोमि / पुनरपि कथयामि नौमि वन्दे, त्वयि मम गौतम नैव तृप्तिरास्ते //
18.14 SK त्रिभुवनमसकृन्निरूप्य युष्मत्पदसरसीरुहरेणुमाश्रितो ऽहम् / शरणमयमयञ्च दैवतम्मे गतिरपरा मम नास्ति नास्ति नास्ति //
18.15 SK अनित्यमखिलं दुःखमनात्मेति प्रवादिने / नमो बुद्धाय धर्माय सङ्घाय च नमो नमः //
18.16 SK भो वीतराग भगवंस्तव पादमेव वन्दे मुनीन्द्र मुहुरेवमिमं प्रवन्दे / भूयः पुनः पुनरिमं परतः परस्तात् पार्श्वद्वयोरुपरि दिक्षु विदिक्षु वन्दे //
18.17 SK गतमिह भवता पथा च येन स्थितमपि यत्र च यत्र वा निषण्णम् / शयितमपि मुनीन्द्र यत्र योगात् तदपि शतं प्रणमामि पुण्यतीर्थम् //
18.18 SK समजनि भगवान् स्वयं स्म यस्मिन् सकलमबोधि च यत्र धर्मचक्रम् / विशदतरमदीपि यत्र यस्मिन्नमृतमपूरि तदप्यहं नमामि //
18.19 SK सर्वज्ञचक्रसरसीरुहराजहंस कुन्देन्दुसुन्दररुचिं सुरवृन्दवन्द्यम् / सद्धर्मचक्रसहजं जनपारिजातं श्रीदन्तधातुममलं प्रणमामि भक्त्या //
18.20 SK नागालयोपरि धरालयचक्रवालमूर्ध्नि त्रिकूटगतकाञ्चनशैलशृङ्गे / बोधिद्रुमूलनिहिताक्षयधातुबिम्बं विभ्रन्नमामि शिरसा जिनचैत्यमग्रम् //
18.21 SK हैमालवालवलयान्तरत्नवेधी वज्रासनोल्लसितमूलमगेन्द्रबोधम् / यं प्राप्य मारविजयानुपदं प्रपेदे सर्वज्ञतां स भगवान् तमहं नमामि //
18.22 SK मूर्द्धन् बुद्धं नम त्वं श्रवण शृणु सदा धर्ममद्वैधवादि प्रोक्तं सर्वत्र रूपं नयन निरुपमं पश्य जिघ्राङघ्रिपद्मम् / घ्राण त्वं चार्कबन्धोः स्तुहि सखि रसने श्रीघनं पूजयेथाः सिद्धं पाणे व्रजाङ्घ्रे जिनसदनमदस्मद्गुणं चित्त चिन्त्य //
18.23 SK बुद्धो धर्मश्च संघस्त्रितयमिति महानर्घरत्नं मुमुक्षो- रद्यारभ्याहमस्मै त्रिभवभयभिदे सन्ददाम्यात्मभाजम् / एषो ऽहं तत्परः स्याम्परमयनमितो नास्ति मे सत्यमेतत् स्यामस्याहन्तु शिष्यस्त्रिदशनुतमिदं कोटिकृत्वो नमामि //
18.24 SK नाहं लाभार्चनार्थी न च भयचकितो नापि सत्कीर्तिकामो न त्वं धर्मांशुवंशप्रभव इति मुने नापि विद्याशया ते / पारम्पर्यान्नच त्वां शरणमुपगतः किन्तु ते सार्वजन्यं सम्यग्ज्ञानं समीक्ष्य त्वयि भवजलधिं सन्तरीतुं प्रवृत्तः //
18.25 SK त्वद्वैराग्यसमस्तभूतकरुणा प्रज्ञादिनानागुण- स्फूर्ज्जच्चन्दनपङ्कसिन्धुपतितो गन्तुं क्षमो नान्यतः / भूपा वा यदि दण्डयन्ति विबुधा निन्दन्ति वा बान्धवा मुञ्चन्ति क्षणमप्यहं जिन पितर्जीवामि न त्वां विना //
18.26 SK स्वर्गे वा वसतिर्ममास्तु निरये तिर्यक्षु किं वासुरे प्रेतानां नगरे ऽथवा नरपुरे क्वाप्यन्यतः कर्मणा / भो सर्वज्ञ ततस्ततस्तव गुणान् कर्णामृतस्यन्दिनो निष्पापानवलम्बतां मम मनो नान्या सुखप्रार्थना //
18.27 SK तवैवाहं दासो गुणपणगृहीतो ऽस्मि भवता तवैवाहं शिष्यः स्ववचनविनीतो ऽस्मि भवता / तवैवाहं पुत्रः स्मृतिकृतसुखस्तद्गतिगतो गुरो बुद्धस्वामिन् मम जनक मां पाहि भवतः //
18.28 SK पिता माता भ्राता त्वमसि भगिनी त्वं च विपदि स्थिरं मित्रं बन्धुः प्रभुरमृतदीक्षागुरुतमः / त्वमैश्वर्य्यं भोगो त्वमसि धनधान्यं च महिमा यशो विद्या प्राणस्त्वमसि मम सर्वज्ञ सकलम् //
18.29 SK वीतराज मुनीन्द्र दयाम्बुधे सुगत भग्नबृहद्भवपञ्जर / अधिगतामृत बुद्ध मनो ऽम्बुजं मम तवानघ गन्धकुटीयताम् //
18.30 SK अनात्मन्यनित्ये ऽशुभे दुःखदुःखे दुरन्ते ऽत्र संसारचक्रे भ्रमन्तम् / त्वमेकोसि मां त्रातुमीशो दयाब्धे प्रभो ऽतः प्रसीद प्रसीद प्रसीद //
18.31 SK प्रसीदेश देवेश लोकेश जिष्णो जगद्वन्द्य मद्वन्द्य सद्वन्द्य बुद्ध / अघोरे भवारे स्मरारे तमोरे तवैवास्मि भक्तो वपुर्वाङ्मनोभिः //
18.32 SK स तव कुलसुतः स एव भक्तः स भवति शासनधूर्वहः स शिष्यः / स च शरणगतः स एव दासः कथमपि यो न विलङ्घयेत् तवाज्ञाम् //
18.33 SK जगदुपकृतिरेव बुद्ध! पूजा तदपकृतिस्तव लोकनाथ! पीडा / जिन जगदपकृत् कथं न लज्जे गदितुमहं तव पादपद्मभक्तः //
18.34 SK धनजनविभवासुदेहराज्यं यदुपकृते शतधा त्वया प्रदत्तम् / तमहितमपकर्त्तुरस्य लोकं क्व मम कृपा मुदिता क्व वा च मैत्री //
18.35 SK उपपतिमसतीव चित्तवृत्तिर्व्रजति भवन्तमपास्य पञ्चकामम् / अपि च विषयिणो न मोक्षसिद्धिः किमु करवाणि मुनीन्द्र देहि दास्यम् //
18.36 SK प्रियतम पुरुषोत्तमाग्रबुद्ध श्रमहर सिद्ध जगत्प्रसिद्धकीर्ते / भव शरणमनुत्तरप्रसादिन् प्रतिपदमस्मि तवैव दासदासः //
18.37 SK दशबल कलिकालदुर्बलो ऽहं चिरदुरितार्णवतुङ्गभङ्गमग्नः / तव कथमनुयामि धर्मनावं जिन मम देहि कृपाकरावलम्बम् //
18.38 SK प्रणतिरियमनेकशस्तवाहं बहु भवदुःखमवेक्ष्य भीतिभीतः / धर गुरुतरतृष्णया पतन्तं जिन मम देहि कृपाकरावलम्बम् //
18.39 SK जगति तव कृपा हि निर्विशेषा प्रपवतया जिन मां च दोषदुष्टम् / अलमहमिअह नो सुखी भवेन्दुर्न समकरश्चरतीव साध्वसाध्वे(ध्वोः) //
18.40 SK उपचितबहुमोहजातमन्धं विगतदयं विगतात्मबन्धुगन्धम् / अपगतगुणविद्यमुद्गताघं जनमविवेकमवाशु दीनबन्धो //
18.41 SK अकरवमुरुदुष्कृतं पुरा यद् मम वपुषा मनसा च चेतसा च / अनुकलमखिलं प्रलीयतां तत् तव चरणस्मरणेन सर्ववेदिन् //
18.42 SK सुगत तव पुरः पुरः पृथिव्यां मधुरमते पतितो ऽस्मि दण्डनत्या / अकुशलमखिलं तवानुभावात् प्रपततु नोत्पततात् पुनः सहैव //
18.43 SK तव चरणसरोजमेव वन्दे तव पदपङ्कजमेव पूजयामि / तव पदयुगमेव भावये ऽहं तव पदमेव सदैव दैवतं मे //
18.44 SK कमपि न कथयामि नार्चयामि कमपि न नौमि न चिन्तयामि नेहे / कमपि न शरणं व्रजामि हित्वा तव चरणं पितरस्मि किङ्करस्ते //
18.45 SK सदसि सदसि वाचि सिद्धं पथि पथि सद्मनि सद्मनीह बुद्धम् / भुवि भुवि मम वारि वारि चेतः कलयतु नित्यमिमं हि लोकनाथम् //
18.46 SK अविरतमवलोकयामि बुद्धं गतरजसा मनसापि चक्षुषेव / स्वपिमि निशि निधाय यद्धृदि त्वां न मम समं विरहस्त्वया त एव //
18.47 SK मम तदिह दिनं हि दुर्दिनं स्याद् अशितघनस्थगितं न दुर्दिनं मे / यदमृतसमबुद्धरत्ननाम स्मृतिरहितं दिनमस्य मा तदस्तु //
18.48 SK अमृतद षडभिज्ञ धर्मराज त्रिभुवनवन्द्य मुनीन्द्र गोतमेति / अहरहरनुकीर्त्त्यते नृभिर्यैरहमहितानपि तान्नमामि धन्यान् //
18.49 SK दशबल जिन सिद्ध वज्रबुद्धे सुगत तथागत बुद्ध शाक्यसिंह / इति निगदति यः क्वचित् कदाचित् तमभिनमाम्यपि दासवंशजातम् //
18.50 SK मदनजित पराजितेभ्य शास्तर्विभव विनायक विश्वविद्वरेण्य / कविवर वदतांवरेश शुद्धोदनसुत शाक्यमुने मुने प्रसीद //
18.51 SK अमृतमपि निपीय निर्जरेन्द्र पुनरपि ते ऽपि शुनीस्तनं धयन्ति / सकृदपि तव वाक्सुधारसज्ञो न विशति जातु स मातुरेव गर्भम् //
18.52 SK अहमिह भगवन्नलं न सोढुं जननजरामरणा(म)यादिबाधाम् / कुरु मम करुणं दिशो न जाने गुरु तदवेक्ष्य च तिर्यगादिदुःखम् //
18.53 SK तदुपरि परिचिन्त्य वृद्धकाले करचरणादिदृगादिपारवश्यम् / अगतिकमतिवेपते मनो मे जिन किमहं करवै प्रभो प्रसीद //
18.54 SK श्रवणपथगते ऽप्यदृष्टपूर्वे सुखकृति वस्तुनि यत्तनोमि तृष्णाम् / अविरतमत एव शान्तिबीजे त्वयि वलते रमते ममात्र चेतः //
18.55 SK सविपदि रमते न मे मनो ऽतः सुरनरशर्मणि पूर्वपूर्वभुक्ते / अनुदिनमनुभूय शर्करायामपि विरतिं कुरुते हि दृष्टदोषः //
18.56 SK करतलगतमप्यमूल्यचिन्तामणिमवधीरयतीङ्गितेन मूर्खः / कथमहमपहाय बुद्धरत्नं जगति धनी गुणवांश्च पण्डितश्च //
18.57 SK स भवति मतिमान् स नाकुलीनः स च गुणवान् स च कीर्तिमान् स शूरः / स जगति महितः सुखी स एव त्वयि जिन यस्य सुनिश्चलास्ति भक्तिः //
18.58 SK अपि सकलमधीतमत्र तेन श्रुतमपि सर्वमनुष्ठितं च तेन / अपि जितमजितेन तेन विश्वं त्वयि जिन यस्य सुनिश्चलास्ति भक्तिः //
18.59 SK त्यजति निजपरम्परादरेणेतरसमयस्य जनो न दृष्ट दृष्टिम् / असुहरमपि गौरवेण मातुर्न खलु शिशुर्विषमोदकं तु मुञ्चेत् //
18.60 SK कविवरमहमस्मि पण्डितस्ते जिन न जहामि कथन्नु कुर्गृहीतम् / नुदति हि तमसन्ततिं प्रवृत्तां मिहिरमरीचिसहायिनी सुदृष्टिः //
18.61 SK सुगतपदपराङ्मुखस्य पुंसः किमु तपसा यशसा च किं किमन्यैः / सुगतपदपराङ्नुखस्य पुंसः किमु तपसा यशसा च किं किमन्यैः //
18.62 SK सुगतपदि न भक्तिरस्ति येषामजननिरेव महीतले ऽस्तु तेषाम् / कथितमिह कृतागसां नराणां निरयगतिर्नियतं न चान्यतो यत् //
18.63 SK विदितसकलशास्त्रमुन्नतानां कुलभवमुत्तमरुपयौवनाद्यम् / जिन भवदनुपासकं नृपासं त्यजतु मनो मल नीचवत्तु जात्या //
18.64 SK परिहृतमदमानमत्सरादिः सकरुणशीलसमाधिमान् विवेकी / तव पददृढभक्तिरन्त्यजो ऽपि प्रतिभवमस्तु नरोत्तमः सखा मे //
18.65 SK विहितजिनपदार्चनस्य भक्तुर्दशदिवसानपि जीवितं प्रशस्तम् / न तु नियुतसहस्रकल्पकोटीरकृतमुनीन्द्रपदाब्जपूजनस्य //
18.66 SK स भवति सुरसुन्दरीसखो ऽन्यैः कृतमभिनन्दति वार्चनं च भक्त्या / त्रिदशनरगुरो त्वदीयपूजामगतितया यदि कर्तुमक्षमः स्यात् //
18.67 SK सुरुचिरमतिचित्रचित्ररूपं नयनपथं नयतीह यस्तवार्चाम् / रहयति पुरुषं तमप्युदारं चिरतरसञ्चितदुष्कृतं कवीन्द्र //
18.68 SK मणिकनकशिलादिनिर्मितां यः प्रणमति ते प्रतिमां तयोश्च तुल्यम् / फलमिह मनसश्च सम्प्रसादादनुपरतं जिन यो ऽग्रतो नमेत् त्वाम् //
18.69 SK सकृदपि तव पादपद्मपूजा वनकुसुमैरपि यः करोति धीमान् / अवनतसुरसंघमौलिमालोज्ज्वलममलं श्रयते तमाधिपत्यम् //
18.70 SK यदि भवति सरूपमेकचित्तक्षणशरणोद्भवपुण्यवृन्दमुच्चैः / गणशरण समन्तभद्रसाधो ऽखिलनभसो ऽप्यतिरिच्यते तदा तत् //
18.71 SK तव गुणकथने तु यः प्रसन्नस्तमनुविशन्ति मुने गुणास्त्वदीयाः / उदयति शशिनि प्रसन्नमिन्दूपलमिव तत्किरणावलीतुषारः //
18.72 SK सकृदपि समदायि देव किञ्चिद् भवरतिमुत्सृजता जनेन तुभ्यम् / सुगत तदखिलान् लुनाति धारा वदसिरिव द्रुममाश्रवादिदोषान् //
18.73 SK कृतमिह सुकृतं मृषादृशा यज्जनयति तत् किल तस्य दुर्विपाकम् / क्षितिसलिलरसं स्वतिक्तभावं नयति यथा पिचुमर्दबीजमुप्तम् //
18.74 SK तव पदनलिने निपत्य भूयो निपतति नैव चतुर्ष्वपायकेषु / नहि कुशलकरो नरः कदापि क्वचिदपि दुर्गतिमेति नाथ कश्चित् //
18.75 SK इति भवदुपदेशतो विदित्वा तव पदपङ्कजपूजने रतो ऽस्मि / दृढयतु भगवान् युगे युगे मे कुमतिमुदस्य भवे भवे ऽर्यभक्तिम् //
18.76 SK स्थिरमपि भगवन् क्षणं तवोक्तौ करचरणानि दृगादि वैरिवर्गः / व्यथयति हृदयं बलाद्विचाल्य त्वमिदमनाथमनीश पाहि पाहि //
18.77 SK यदि नयनमयं वशे विधातुं यतति तदा द्रवति श्रवो यदा तत् / तदनु रसन-नासिकाशरीराण्यहह परस्परदुर्ग्रहाणि चैवम् //
18.78 SK गतिरतिचपलस्य चेतसः स्यादिह नभसीव नभस्वतो ऽसुरोधा / कभमपि भजते क्रमेण धैर्यं चिअरमिदमभ्यसनेन संविरक्त्या //
18.79 SK विशदमपि मनः स्वभावतो मे चिरकृतकिल्विषकालिमाहृतं स्यात् / कुशलजललवैः कथन्नु धौतं भवति मयेदृशचेतसार्जितैस्तैः //
18.80 SK शुचितरवचनामृतप्रवाहैः रघमलिनीकृतचित्तसन्ततिं माम् / अनधिवर नितान्तमाधितप्तं सपदि विशोधय दण्डवन्नमामि //
18.81 SK सति सकलगुरो मुने प्रसन्ने किमिह दुरापममुत्र किं दुरापम् / यदमलमनसस्त्वदीयदासाः सुरपतितां मनसापि नाद्रियन्ते //
18.82 SK विदधति भयमिन्द्रियाणि भूम्ना विषयविषग्रहणेषु दोषदृष्ट्या / नहि सुविदितभाविदाहदोषः शिशुरपि दीपशिखाग्रसङ्गृही स्यात् //
18.83 SK न भवति जिन यावदेष जीर्णो विषयपिशाचनिषेवणेन तावत् / झटिति सुकृतकर्मणि प्रयोज्य स्वव शरणागतवत्सलागतं माम् //
18.84 SK इअदमपि यदि वेद्मि पुत्रदारस्वतनुगृहादि मरीचिकाम्बुतुल्यम् / स्थगयति ममता च मामहन्ता तदपि हि मोहविजृम्भितं गरीयः //
18.85 SK अजनि च निजकारणेन सर्वं निरसति जीर्यति नश्यति स्वहेतोः / अहमपि हि तथैव धातुपुञ्जः कथमहमस्य कथं मुने ममेदम् //
18.86 SK आत्मबुद्धिरिह यस्य जायते सा च तस्य जनयेदहङ्कृतिम् / सा तनोति सुतरां भवस्पृहां सैव मोहजननी मुहुर्मुहुः //
18.87 SK तेन कर्म कुरुते शुभाशुभं तद्धि दुःखजनकं भवत्रये / दुःखमूलमत एव सात्मधीः तां लुनीहि जिन मे वचो ऽसिना //
18.88 SK अथ सकलविदं दयासमुद्रं त्रिभुवनकारणकारणं कुलीनम् / निखिलगतमनन्तमस्तिशान्तिं मुनिजनमानसहंसमीशमीडे //
18.89 SK स्नाने कर्मणि भोजने वितरणे घ्राणे तथाकर्णने ध्यानस्पर्शनदर्शनादिषु तथा सम्भाषणादावपि / प्रातः सायमथो दिवा च निशि च त्वत्पादपद्मे विभो चित्तं मे रमतां मुनीन्द्र सततं यूनां युवत्यामिव //
18.90 SK मत्स्वामिन् मदभीष्टकल्पविटपिन् मद्देवते मद्गुरो मन्मातर्मदुपास्य मत्प्रियसखे मत्सद्गते मत्पितः / मद्विद्ये मदशेषदुःखशमकृद् मद्भावने मन्निधे मन्मुक्ते मदुदारभाग्य मदसो मद्बुद्ध मां पालय //
18.91 SK ब्रह्मा जिह्माननो ऽभूद् गुरुरगुरुरहर्णायको ऽनायको ऽसौ विष्णुस्तृष्णां प्रपेदे कविरकविरभूदीश्वरो ऽनीश्वरो ऽपि / शेषः शेषानुभावस्तव सुगत नुतौ खण्डिताखण्डलोक्तिः को ऽहं मूढो वराकस्त्रिदशनरपते कीर्त्तने ते गुणानाम् //
18.92 SK दशद्वयधिकविंशतिस्फुरदशीत्यनुव्यञ्जनैः महापुरुषलक्षणं वपुषि यस्य देदीप्यते / कलामपि न षोडशीं भजति तस्य पुण्यात्मनश् चतुर्मुखमुखो गणो दिविषदां नृणां का कथा //
18.93 SK महेन्द्रनवचापवत् कनकपर्वते सर्वतः सदा तव मनोहरं स्फुरति सुप्रभामण्डलम् / दृशो भवति गोचरं तदिह यस्य तस्य त्वरान् तमस्ततिमनुत्तमां हरति दूरमन्तर्बहिः //
18.94 SK रूपं लोचनलोभनं श्रवणयोरानन्दसन्दोहदा वाणी विश्वविमोहकृत् तव कृपावेशो ऽतिशान्तस्तव / पाण्डित्यं प्रथितं जगत्सु भगवन् सर्वज्ञनाम्नैव ते साम्राज्यस्य च यौवने निरसनं वैराग्यसीमा स्फुटम् //
18.95 SK शौर्यं त्वद्विषमेषु दर्पदलनादङ्गीकृतं दैवतैः यद्वाणैः स सुरासुरः प्रविजितो लोको ऽयमोशत्करम् / वीर्यं ते प्रकटीचकार नितरां निर्वाणसाक्षात्कृतिः किं ब्रूमो बलवैभवं भगवतस्तत्ते जगद्दुर्वहम् //
18.96 SK यत्र च्छागतुरङ्गमारणविधिर्वेदे ऽपि तं निन्दसि प्रेम्णा प्राणभृतामतः सकरुणस्त्वत्तो महान्नापरः / एवं ते गुणसम्पदो न विषया बुद्धेरसूयात्मनां ते मूढाः प्रलपन्ति हन्त सुगतो मद्वेदनिन्दीत्ययम् //
18.97 SK निर्मज्जत्सुरसुन्दरीकुचचलन्निर्मन्दमन्दाकिनी- फेणक्षीरसमुद्रकैरवसखी सत्कीर्तिलक्ष्मीस्तव / यन्नालिङ्गति मन्दभाग्यमधुना भूयान्न तेनापि मे सङ्गः सङ्गगदादिवैद्य भगवन्नेषापि मे प्रार्थना //
18.98 SK ये त्वां गच्छन्ति बुद्धं शरणमिति न ते दुर्गतिं यान्ति सन्तस् त्यक्त्वा कायान्मनुष्यान्निरतिशयसुखान् ते लभन्ते ऽथ दिव्यान् / दुःस्वप्नो दुर्निमित्तं दुरहिदुरहिता दुर्ग्रहा दुष्टसत्त्वा दुःखं दुर्व्याधयो ऽपि क्वचिदिह कुशलान् नोपसर्पन्ति चैवम् //
18.99 SK छत्रं ब्रह्मा व्यधात्ते मणिमयममलं चामरं चक्रपाणि- स्तोतारो गद्यपद्यैर्हरगुरुफणिनः शाङ्खिको ऽभून्महेन्द्रः / अन्ये दीपोदकुम्भध्वजकुसुमलसत्पाणयो भक्तिनम्रास् तस्थुर्व्याख्याय धर्मं भुवमवरुहतः स्वर्गतस्ते मुनीन्द्र //
18.100 SK मातेवासीत् परस्त्री भवति परधने न स्पृहा यस्य पुंसो मिथ्यावादी न यः स्यान्न पिबति मदिरां प्राणिनो यो न हन्यात् / मर्यादाभङ्गभीरुः सकरुणहृदयस्त्यक्तसर्वाभिमानो धर्मात्मा ते स एव प्रभवति भगवन् पादपूजां विधातुम् //
18.101 SK सर्वप्राणातिपातात् परधनहरणात् सङ्गमादङ्गनाया मिथ्यावादाच्च मद्याद्भवति जगति यो ऽकालभुत्क्तेर्निवृत्तः / सङ्गीतस्रक्सुगन्धाभरणविलसितादुच्चशय्यासनाद् अप्यासीद्धीमान् स एव त्रिदशनरगुरो त्वत्सुतो नात्र शङ्का //
18.102 SK श्रोतापत्त्यादिमार्गाः सदवयवयुता घ्नन्ति रागादिदोषान् दोषास्ते छिन्नमूला हतभवगतयस्तत्फलैर्यान्ति शान्तिम् / मार्गाणां क्लेशहानिः सदमृतमजरं कारणं स्यान्नवानां धर्माणां हेतुरेषां तव जिन वचनं तस्य हेतुस्त्वमेव //
18.103 SK विंशत्सत्कायदृष्टिक्षितिधरममलज्ञानवज्रेण भित्त्वा रागद्वेषादिपापान्तदुदितमखिलं कर्म चोन्मूलयन्तः / चत्वारो लब्धमार्गास्तदनुगुणफलास्ते ऽपि चत्वार एवं त्वतश्चाष्टार्यसङ्घः पृथगिति न पुनश्चिन्तयामो मुनीन्द्र //
18.104 SK अपि गगणमनन्तं सर्वसत्त्वो ऽप्यनन्तः सकलमिदमनन्तं चक्रवालं विशालम् / वदसि जिन विदित्वानन्तया ज्ञानगत्या तव च गुणमनन्तं वेदसी बुद्ध चैवम् //
18.105 SK भगवति भवतीति ध्वंसकारिण्यमोघे भवतु भवतु भक्तिर्जन्मजन्मान्तरे ऽपि / भवतु भवतु धर्मः सर्वथा मे ऽनुशास्ता भवतु भवतु संघो ऽनुत्तरा पुण्यभूमिः //
18.106 SK त्रिभुवनमहनीयं त्वामभिष्टुत्य बुद्धं विशदतरमदभ्रं पुण्यमत्रार्जितं यत् / जगति सकलसत्त्वास्तेन सम्बुद्धबोधिं विधुतविविधपापा भावनाभिर्व्रजन्तु //
18.107 SK भास्वद्भानुकुलाम्बुजन्ममिहिरे राजाधिराजेश्वरे श्रीलङ्काधिपतौ पराक्रमभुजे नीत्या महीं शासति / सद्गौडः कविभारतिक्षितिसुरः श्रीरामचन्द्रः सुधीः श्रीतृणामकरोत् स भक्तिशतकं धर्मार्थमोक्षप्रदम् //
651 SK श्रीशाक्यमुनेर्भगवतः सर्वज्ञस्य परमोपासकेन गौडदेशीयश्रीबौद्धागमचक्रवर्त्तिना भूसुरेणाचार्येण महापण्डितेन
652 SK विरचितं भक्तिशतकं समाप्तम् /
18.1 SK नृपः पराक्रान्तिभुजो महीभुजो शिरोमणिः पण्डितमण्डलीसखः / स रामचन्द्रं कविभारतिद्विजं चकार बौद्धागमचक्रवर्तिनम् //
18.2 SK बुद्धो मे जयतां जिनः स भगवान् तद्देशना निर्मला स्थेयात् सत्त्वहिताय भातु भणिता सङ्घस्तदाधारकः / लङ्केशप्रमुखाश्चिअरं वसुमतीं रक्षन्तु नित्यं नृपा वर्षन्तु स्तनयित्नवश्च समये मैत्रीं लभन्तां प्रजाः //
18.3 SK तीर्थग्रामपतेर्यतेस्त्रिपिटकाचार्यस्य भूपान्वया- चार्यश्रेष्ठमुनीश्वरस्य सुगिरः श्रीराहुलस्वामिनः / शिष्यो यो ऽवरजः सुमङ्गलमुनिर्धीमान् स्वया भाषया कारुण्येन मुनीन्द्रभक्तिशतकव्याख्यानमाख्यातवान् //
18.4 SK नमो बुद्धाय गुरवे नमो धर्माय शासिने / नमः सङ्घाय महते त्रिभ्यो ऽपि सततं नमः //
19.1 SK संबुद्धं पुण्डरीकाक्षं सर्वज्ञं करुणात्मकम् / समन्तभद्रं शास्तारं शाक्यसिंहं नमाम्यहम् //
19.2 SK श्रीघनं श्रीमतिं श्रेष्ठं शीतराशिं शिवंकरम् / श्रीमन्तं श्रीकरं शान्तं शान्तमूर्तिं नमाम्यहम् //
19.3 SK नैरात्म्यवादिनमिन्दुं निरवद्यं निराश्रयम् / श्रुतिज्ञं निर्मलात्मानं निस्थूलकं नमाम्यहम् //
19.4 SK निरोधकं नित्यज्ञानं निर्विकल्पं तथागतम् / नियतं निधिनाकेशं निष्प्रपञ्चं नमाम्यहम् //
19.5 SK विश्वेश्वरं विमुक्तिज्ञं विश्वरुपं विनायकम् / विश्वब्रह्म सुसम्पन्नं वीतरागं नमाम्यहम् //
19.6 SK विद्याचरणसंपन्नं विश्वेशं विमलप्रभम् / विनिमज्ञं सविष्टम्भं वीतमोहं नमाम्यहम् //
19.7 SK दुर्दान्तदमकं शान्तं शुद्धं शौद्धोदनिं मुनिम् / सुगतं सुगतिं सौम्यं शुभ्रकीर्तिं नमाम्यहम् //
19.8 SK योगेश्वरं दशबलं लोकज्ञं लोकपूजितम् / लोकाचार्यं लोकमूर्तिं लोकनाथं नमाम्यहम् //
19.9 SK कनकमूर्तिं कर्माब्धिमकलङ्कं कलाधरम् / कान्तमूर्तिं दयापात्रं कनकाभं नमाम्यहम् //
19.10 SK महामतिं महावीर्यं महाविज्ञं महाबलम् / महामहं महाधैर्यं महाबाहुं नमाम्यहम् //
19.11 SK आद्यं पवित्रं तद्ब्रह्ममपराजितमद्भुतम् / आर्यं परहितं नाथममिताभं नमाम्यहम् //
19.12 SK देवदेवं महादेवं दिव्यं वन्दितमव्ययम् / प्रमाणभूतं देवेशं दिव्यरूपं नमाम्यहम् //
19.13 SK परमार्थं परज्योतिं परमं परमेश्वरम् / भावाभावकरं श्रेष्ठं भगवन्तं नमाम्यहम् //
19.14 SK चतुर्मारादिविजितं तत्त्वज्ञं शंकरं शिवम् / तत्त्वसारं सदाचारं सार्थवाहं नमाम्यहम् //
19.15 SK जितेन्द्रियं जितक्लेशं जिनेन्द्रं पुरुषोत्तमम् / उत्तमं सत्पदं ब्रह्म पुण्यक्षेत्रं नमाम्यहम् //
19.16 SK एतैः स्तुत्वा मुनिश्रेष्ठं नरा विगतकल्मषाः / प्राप्नुवन्ति पदं मोक्षं दिव्यं त्वथ सनातनम् //
19.17 SK यस्त्विदं पठते नित्यं प्रातरूत्थाय पण्डितः / नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् //
19.18 SK लभते चेप्सितान् भोगान् सौमनस्येन वर्णितान् / व्याधयो ऽपि न बाध्यन्ते पातकं च विनश्यति //
19.19 SK आयुरारोग्यमैश्वर्यसर्वमोक्षसमन्वितः / मेधावी च तथा वाग्मी जायते जन्मजन्मनि //
678 SK बुद्धभट्टारकस्य ब्रह्माविरचितं स्तोत्रं समाप्तम् //
20.1 SK यः पूर्वं बोधिमूले रविगमनपथे मारगान्नृत्यगीतान् गंगौ गंगौ गगंगौ घघनघनमृदुद्वन्द्वमन्त्रैरजस्रैः / यः स्त्रीभिर्दिव्यरूपैरुपरतरभितुं दूदुभिर्दुर्भिदूर्भिः क्षोभं नैवाभियातः सुरनरनमितः पातु वः शाक्यसिंहः //
20.2 SK यः कन्दर्पाङ्गनानां ककहकहकहा हाहहेति प्रहासै- र्यः स्फीताडम्बराणां तटिति तटतटा तातटीति प्रलापैः / कुत्कुद् बुद्बुद् कुकूचित् कुकुहकुहकुहैः किङ्कराणां च वाग्भि- र्नो त्रस्यः सो ऽस्तु सौम्यः श्रुतसकलमलः शान्तये वो मुनीन्द्रः //
20.3 SK भ्रूक्षेपापाङ्गभङ्गैः स्मरशरविलसत्पक्ष्मताराक्षिपातै प्रौढानङ्गाङ्गनानां ललितभुजलतालास्यलीलायिताङ्गैः / सव्रीडैः सस्मितोक्तैः कलमृदुमधुरामोदरम्यैर्वचोभि- र्भ्रान्तिं चेतो न चित्रं स्मरबलजयिनो यस्य तस्मै नमो ऽस्तु //
20.4 SK उर्वीं सञ्चालयन्तः खरशरनिकरैश्छादयन्तोःन्तरीक्षं ज्वालाभिः क्रोधंवह्नेर्ज्वलितदशदिशः क्षोभयन्तो ऽम्बुराशिम् / हेलोत्खातासिचक्रक्रकचपटुरवाराविणो मारवीराः मैत्रीशस्त्रेण येन प्रसभमभिजिताः पातु वः सो मुनीन्द्रः //
20.5 SK विस्फूर्जज्जातकोपप्रकटितविकटाटोपनिर्घोषघोरं गर्जज्जीमूतजालप्रकटगजघटाटोपबद्धान्धकारम् / कन्दर्पोद्दामवह्निस्फुरदसिकिरणोद्भासिताशेषविश्वं पुष्पेषोः सैन्यमुच्चैर्झटिति विघटितं येन बुद्धः स वो ऽव्यात् //
20.6 SK दिव्यैराकणंपूरैः कमलदलनिभैः पक्ष्मलैर्लोलतारैर् भावस्निग्धैर्विदग्धैः प्रचलितललितैः सस्मितैर्भ्रूविलासैः / नेत्रैर्माराङ्गनानां परिगतवलयैर्लोहितान्तैरशान्तैर् नाकृष्टः सर्वथा यस्तमहमृषिवरं वान्तदोषं नमामि //
20.7 SK नोद्भ्रान्तं यस्य चित्तं स्फुटविकटसटान्तोत्कटैर्लोलजिह्वैर् मारैः शूलाग्रहस्तैर्गजतुरगमुखैः सिंहशार्दूलवक्त्रैः / प्रद्युम्नः कामदेवस्तृणवदगणितो येन संरम्भभीरुः संबुद्धः पातु युष्मान् व्यपगतकलुषो लोकनाथो मुनीन्द्रः //
20.8 SK अक्षोभ्या यस्य बुद्धिर्धरणिनगनदीसागराम्भोधरद्भिर् गर्जद्भिर्मारवीरैर्विविधमुखशतैर्घोररूपैरनन्तैः / येनासौ पुष्पकेतुस्तृणवदगणितः सर्वविद् वीतरागः स श्रीमान् बुद्धवीरः कलुषभयहरः पातु वो वीतरागः //
20.9 SK मारानीकैर्महोग्रैरसिपरशुधनुःशक्तिशूलाग्रहस्तैर् उल्कापातैरनेकैर्गहनपटुरवैर्भीषणैर्भीमनादैः / न क्षुब्धं यस्य चित्तं गिरिसममचलं गाढपर्यङ्कबन्धं तं वन्दे वन्दनीयं त्रिभवभयहरं बुद्धवीरं प्रवीरम् //
20.10 SK उच्चैरट्टाट्टहासैः प्रकटपटुभटाबद्धघण्टै रणद्भिः साटोपास्फोटटङ्कस्फुटजटिलजटैः किङ्करैः कोटराक्षैः / भग्नं कर्तु न शक्ताः पटुपटहपटस्फालनैर्यस्य बोधौ दृप्तानां गृध्रकूटे पटुपटहपटुः सो ऽस्तु वो बुद्धवीरः //
20.11 SK कोकण्डं रामकण्डं प्रतिभयकुहरं दर्पदर्पं रणाण्डं डिम्बं डिम्बं डडिम्बं डुह डुहक डुहं तृंखलस्तृंखलस्तृम् / झिम्बं झिम्बं झझिम्बं खमु खमु खमुखं मंखु मंखुः खुमंखुर् एभिर्ध्वानैर्न भीतः सुरवरनमितः पातु वः शाक्यसिंहः //
20.12 SK यं माराङ्गारधाराधरसमयसमारम्भसंरम्भयुक्तं नक्तं माराङ्गनानां मुखकमलवनश्रीविपक्षैकपक्षा / सम्यक्संबोधिलक्ष्मीः शशिनमिव शरत्कौमुदी संप्रपेदे तस्येयं धर्मदूती ध्वनति भगवतो धर्मराजस्य गण्डी //
20.13 SK निघ्नन्नप्राप्तदृष्टिः क्षणमपि च चिरादन्तको यद् दुरन्तं तस्मिन्निक्षिप्तचित्ताः कुरुत सुचरितेष्वादरं सर्वकाले / इत्थं रत्नत्रयाज्ञामिव वदति मुहुः प्राणिनां यस्य सैषाम् एषा शब्दायमाना प्रथितमुखरदिङ्मण्डला धर्मगण्डी //
20.14 SK मार्तण्डमण्डलमिवोडुगणं विजित्य भातीह तीर्थिकजनं जिनशासनं च / रंरम्यते धरणिमण्डलमण्डनस्य गण्डी यमस्य जयडिण्डिमवत्प्रचण्डा //
20.15 SK यस्यात्यन्तं दृढत्वं जमि जमि डुडुभं रञ्जितेनालिनालिं डिम्बं डिम्बं डिडिम्बं डुभडुभडुडुभं नाडिवन्नाडिभण्डम् / रुण्डं रुण्डं रुरुण्डं यरलव खखुमं मंखुमंखुः खुमंखुः पश्य त्वं जीवलोके दशबलबलिनः पीड्यते मारसैन्यम् //
20.16 SK भूकम्पोत्कम्पजाता प्रचलितवसुधा कम्पते मेरुराज उत्त्रस्ता देवसंघा ग्रहगणसहिता नागराजाः समस्ताः / श्रुत्वा गण्डीं प्रचण्डां विविधभयकरीं त्रासनीं तैर्थिकानां बौद्धानां शान्तिहेतोः प्रतिरणति महीं रावयन्तीव सद्यः //
20.17 SK एषा विहारशिखरे प्रविरौति गण्डी मेघस्वनेन कुरुते च मनोज्ञघोषान् / मातेव वत्सलतया सुबहिर्गतांश्च पुत्रान् समाह्वयति भोजनकालगण्डी //
20.18 SK संसारचक्रपरिवर्तनतत्परस्य बुद्धस्य सर्वगुणरत्नविभूषितस्य / नादं करोति सुरदुन्दुभितुल्यघोषा गण्डी समस्तदुरितानि निवारयन्ती //
20.19 SK एषा हि गण्डी रणते नराणां संबोधिनी देवनरासुराणाम् / भद्राः शृणुध्वं सुगतस्य गण्डीमापूरितां भिक्षुगणैः समग्रैः //
20.20 SK नागैः संवर्तकालक्षुभितजलधराकारवद् व्योम्नि कीर्णैः क्वास्मिन् विघ्वंसशङ्का भयचकितजनैस्तत्प्रतीकारहेतोः / कुर्वन्त्यद्यापि यस्या ध्वनिमुपशमिताशेषतीर्थ्यावलेपं सा गण्डी पातु युष्मान् सकलमुनिवरैः स्थापिता धर्मवृद्ध्यै //
20.21 SK एषा सुरासुरमहोरगसत्कृतस्य शान्तिं परामुपगतस्य तथागतस्य / गण्डी रणत्यमरदुन्दुभितुल्यघोषान् कृत्वान्यतीर्थ्यहृदयानि विदारयन्ती //
20.22 SK पुण्ये तत्परमानसा भवत भोः स्वर्गापवर्गप्रदे पापं दुर्गतिदायकं कुरुत मा लोकाश्चलं जीवितम् / इत्थं मध्यविलीनभृङ्गविरुतं यत्नान्निवार्यं मया मारारेश्चरणाब्जयोर्विनिहितः पुष्पाञ्जलिः पातु वः //
20.23 SK मुञ्जद्भिः कुसुमानि तूर्यरणितैरापूरयद्भिर्दिशो जोजोकारपुरःसरैः सुरगणैः शक्रादिभिः सादरैः / स्वर्गाद् यस्य भुवं किलावतरतो दत्तानुयात्रा चिरं तस्याव्यात् करुणानिधेर्भगवतो गण्डी प्रचण्डा जगत् //
20.24 SK गत्वा सप्त पदानि मातुरुदरान्निष्क्रान्तमात्रः स्वयं संसारश्रवसं ममेति वचनं प्रोवाच यो ऽनन्यधीः / यस्मिन्नात्मभुवे पुनस्त्रिभुवनं भ्राजिष्ण्वभिव्याहृतं कुर्याद्वः सुगतस्य तस्य जयिनो गण्डी तमःखण्डिनी //
20.25 SK जित्वा मारबलं महाभयकरं कृत्वा च दोषक्षयं सर्वज्ञं पदमाप यत् सुरुचिरं तत्रैव रात्रौ बहिः / तस्याशेषगुणाकरस्य सुधियो बुद्धस्य शुद्धात्मनो गण्डी खण्डितचण्डकिल्विषहरा भूयाद् विभूत्यै नृणाम् //
20.26 SK ब्रह्मा जिह्म इवाभवत् सुरगुरुर्गर्वं जहौ सर्वथा शर्वः खर्वमतिर्बभूव भगवान् विष्णुश्च तूष्णीं स्थितः / इत्थं यद्गुणकीर्तनेषु विबुधा याता ह्रिया मूकतां गण्डी तस्य मुनेरियं जयति वः पायादपायाज्जगत् //
20.27 SK ब्रह्मादित्यशशाङ्कशङ्करशताक्षोपेन्द्रयक्षादयो गन्धर्वोरगकिन्नरासुरसमीरप्रेतपीडाम्बराः / ये तिष्ठन्त्यमरा नरा क्षितितले पाताललोकेषु च श्रोतुं धर्ममिमं तथागतगुरोः सर्वे समायान्तु ते //
20.28 SK यस्या जन्मनि दीनहीनमतयः प्रापुः शुचं तीर्थिकाः हर्षोत्कर्षविशेषवर्धितधियो बौद्धा धृतिं लेभिरे / यामासाद्य गुणाः प्रयान्ति विततिं दोषा व्रजन्ति क्षयं सा गण्डी कलिकालकल्मषहरा भूयाद् भवद्भूतये //
20.29 SK यां नत्वा विधिवद् विशुद्धमतयो गच्छन्ति तुङ्गां गतिं यस्याः क्षिप्रतरं प्रयान्ति विवशाः सर्वे विपक्षाः क्षयम् / ध्वस्तव्यस्तसमस्तमोहपटला सा धर्मगण्डी मुनेः संभूयाद् भवभाविसाध्वसभिदे युष्माकमायुष्मताम् //
20.30 SK श्रुत्वा यां पतिता महीतलमलं ब्रह्मादयः स्वर्भुवः कम्पन्ते धरणीधराः क्षितिरपि क्षिप्रं गता क्ष्मातलम् / तीर्थ्यानां भयकारिणी परहितायारम्भशुद्धात्मनां बौद्धानामुपशान्तये सपदि सा संताड्यतां गण्डिका //
20.31 SK प्रौढालीढाभिरुढो गुरुतरचरणक्रान्तगौरीस्तनाग्रं सर्वज्ञस्योत्तराङ्गं स्फुटविकटशता गर्जयन् वज्रमुख्या / ज्वालामालोज्ज्वलाङ्गं त्रिभुवनविवरव्याप्तहुंकारभीमो बद्धव्याबद्धमौलिर्जयति सुरनरादित्यचन्द्रासुरेन्द्रः //
20.32 SK पीनोत्तुङ्गस्तनीनां हरिणदृशदृशां हंसलीलागतीनां दं दं दं दं द दं दं तनि तनि तनितस्तालिका कामिनीनाम् / तुं तुं तुं तुं ततुं तुं नकटिनमभितो गीतितो गीतवाद्यैः टुं टुं टुं टुं टुटुं टुं टुमिति मितनता हन्यते गण्डिकेयम् //
711 SK बुद्धगण्डी समाप्ता / कृतिरियमाचार्यश्री-अश्वघोषपादानाम् //
21.1 SK नमो ऽस्तु बुद्धाय विशुद्धबोधये विशुद्धधर्मप्रतिभासबुद्धये / सद्धर्मपुण्योपगतानुबुद्धये भवाग्रशून्याय विशुद्धबुद्धये //
21.2 SK अहो अहो बुद्धमनन्ततेजसं अहो अहो सागरमेरुगुल्मम् / अहो अहो बुद्धमनन्तगोचरम् औदुम्बरं पुष्पमिवातिदुर्लभम् //
21.3 SK अहो महाकारुणिकस्तथागतः अहो अहो शाक्यकुलस्य केतुः / अहो प्रणम्यः स नरेन्द्रसूर्यो येनेदृशं भाषितसूत्रमुत्तमम् //
21.4 SK अनुग्रहार्थं स हि सर्वसत्त्वान् सद्धर्मचर्यामुपदिश्य नूनम् / शान्तेश्वरः शाक्यमुनिस्तथागतः सत्त्वोत्तमः शान्तपुरं प्रविष्टः //
21.5 SK गम्भीरशान्तं विरजासमाधिपदं प्रविष्टे जिनबुद्धगोचरे / शून्याश्च कायास्त्वथ श्रावकाणां शून्या विहारा द्विपदोत्तमानाम् //
21.6 SK ते सर्वधर्मा प्रकृतिश्च शून्या सत्त्वा हि शून्या नहि जातु विद्यते //
21.7 SK नित्यं च नित्यं च जिनं स्मरामि नित्यं च शोचामि जिनस्य दर्शनम् / नित्यं च नित्यं प्रणिधिं करोमि संबुद्धपूज्यस्य च दर्शनार्थम् //
21.8 SK स्थाप्येह नित्यं धरणीषु जानु शोकाभितप्तो जिनदर्शनाय / ओदन्तकारुण्यविनायकस्त्वमतीव तृष्णा सुगतस्य दर्शने //
21.9 SK सतां वरो यद्विजहार नित्यं ददाहि मे दर्शनतोयशीतलम् / सत्त्वाः सतृष्णास्तव रूपदर्शने प्रह्लादयैनान् करुणाजलेन //
21.10 SK कारुण्यभावं कुरु नाथ नायक ददाहि मे दर्शनं सौम्यरूपम् / त्वं पाहि त्रातर्जगदेकदेशिता शून्याश्च कायास्त्वथ श्रावकाणाम् //
21.11 SK आकाशतुल्या गगनस्वभावा मायामरीच्योदकचन्द्रकायाः / सर्वे च सत्त्वाः सुखितस्वभावा भवन्तु भो नायक त्वत्प्रसादात् //
724 SK बोधिसत्त्वसमुच्चयानाम कुलदेवताविरचितं
725 SK बुद्धस्तोत्रं समाप्तम् //
22.1 SK जातिं बोधिं प्रबलमतुलं धर्मचक्रमरण्ये चैत्ये चार्यं त्रिभुवननमितं श्रीमतं प्रातिहार्यम् / स्थाने चैत्ये गिरिनगरनिभे देवदेवावतारं वन्दे भक्त्या प्रणमितशिरसा निर्वृता येन बुद्धाः //
22.2 SK वैशाल्यां धर्मचक्रे प्रथितजिनवरे पर्वते गृध्रकूटे श्रावस्त्यां लुम्बिकायां कुशिनगरवरे कापिलाख्ये च स्थाने / कौशल्यां स्थूलकूटे मधुरवरपुरे नन्दगोपासराते ये चान्ये धातुचैत्या दशबलबलिता तान् नमस्यामि बुद्धान् //
22.3 SK कैलाशे हेमकूटे हिमवति निलये मन्दरे मेरूशृङ्गे पाताले वैजयन्ते धनपतिनिलये सिद्धगन्धर्वलोके / ब्रह्माण्डे विष्णुभूम्यां पशुपतिनगरे चन्द्रसूर्यातिरेके ये चान्ये धातुचैत्या दशबलवलिता तान् नमस्यामि बुद्धान् //
22.4 SK काश्मीरे चीनदेशे खसतवरपुरे बल्कले सिंहले वा राताद्ये सिंहपोटे सततमविरतं वल्लखे कापिलाख्ये / नेपाले कामरूपे कुवसवरपुरे कान्तिशोभासराते ये चान्ये धातुचैत्या दशबलवलिता तान् नमस्यामि बुद्धान् //
22.5 SK ये च स्युर्धातुगर्भा दशबलतनुजाः कुम्भसंज्ञाश्च चैत्याः अङ्गाराः क्षारस्थाने हिमरजतनुमास्तूपरत्नप्रकाशम् / पाताले ये च भूम्यां गिरिशिखरगता ये च वित्ताः समन्ताद् बुद्धानां ये च विम्बाः प्रतिदिनसुकृतस्तान् नमस्यामि बुद्धान् //
731 SK श्री चैत्यवन्दना समाप्ता //
732 SK ओम् नमः श्रीचक्रसंवराय
23.1 SK श्रीहेरुकं महावीरं चक्रसंवरसंवरम् / नमामि मारजेतारं डाकिनीजालमा(ना)यकम् //
23.2 SK वन्दे तां वज्रवाराहीं महारागानुरूपिणीम् / डाकिनीं च तथा लामां खण्डरोहां च रूपिणीम् //
23.3 SK चत्वारो(त्वरे ऽ)मृतभाण्डां च बोधिचित्तेन पूरिताम् / पुल्लीरमलयशिरसि प्रचण्डां वज्रडाकिनीम् //
23.4 SK जालन्धरशिखां चैव चण्डाक्षीं गतकिल्विषाम् / ओडियानाह्वये सर्वे श्रोत्रे देवीं प्रभावतीम् //
23.5 SK अर्बुदे पृष्ठवंशे तु महानासां नमाम्यहम् / गोदावरीं पुरे वामे कर्णे वीरमतीं शुभाम् //
23.6 SK रामेश्वरीं भ्रुवोर्मध्ये खर्वरीं वरवर्णिनीम् / देवीकोट्टे स्थितां मैत्रे श्रीमल्लङ्केश्वरीप्रभाम् //
23.7 SK मालवे स्कन्धदेशे तु द्रुमच्छायां नमाम्यहम् / कामरूपे कक्षद्वये देवीमैरावतीं शुभाम् //
23.8 SK ओड्रे स्तनद्वये वापि श्रीमहाभैरवां सतीम् / त्रिशकुन्याह्वये नाभौ वायुवेगां मनोरमाम् //
23.9 SK कोशले नासिकाग्रे वा सुराभक्षीं नमाम्यहम् / कलिङ्गे वदने रम्ये श्यामादेवीं सनातनीम् //
23.10 SK लम्पाके कण्ठदेशे तु सुभद्रां वरसुन्दरीम् / काञ्चीप्रेतहृदये हयकर्णां मनोरमाम् //
23.11 SK हिमालये पुरे मेढ्रे नमस्यामि खगाननाम् / प्रेतपुर्यां तथा लिङ्गे कौबेर्यां शस्यनीश्वरीम् //
23.12 SK गृहदेवता गुदे स्थाने खण्डरोहां मनोहराम् / सौराष्ट्रे ऊरुयुगले शौण्डिनो सुखदायिनीम् //
23.13 SK सुवर्णद्वीपे जंघायां संस्थितां चक्रवर्मिणीम् / नगरे चाङ्गुलीस्थाने सुवीरां वरयोगिनीम् //
23.14 SK सिन्धौ च पादयोः पृष्ठे स्थितां देवीं महाबलाम् / मरौ चाङ्गुष्ठयुगले च संस्थितां चक्रवर्तिनीम् //
23.15 SK कुलताजानुद्वये देवीं महावीर्या नमाम्यहम् / खण्डकपालवीराद्यां स्वप्रज्ञाशिष्टविग्रहाम् //
23.16 SK मम भक्त्या महावीरां कायवाकचित्तचक्रगाम् / काकतुण्डीमुलूकास्यां श्वानास्यां शूकराननाम् //
23.17 SK यमदाढीं यमदूतीं यमदंष्ट्रीं यमान्तिकाम् / एता देवीर्नमस्यामि दिग्विदिक्षु च संस्थिताः //
23.18 SK वीरवीरेश्वरीनाथं हेरुकं परमेश्वरम् / स्तुत्वेदं देवतीचक्रं यन्मयोपार्जितं शुभम् // तेन पुण्येन लोको ऽस्तु वज्रडाको जगद्गुरुः //
751 SK श्रीचक्रसंवरस्य स्तुतिः समाप्ता //
24.1 SK ओम् नमः श्रीचण्डिकायै ऊं ऊं ऊं उग्रचण्डं चचकितचकितं चंचरा(ला) दुर्गनेत्रं हूं हूं हूंकाररूपं प्रहसितवदनं खङ्गपाशान् धरन्तम् / दं दं दं दण्डपाणिं डमरुडिमिडिमां डण्डमानं भ्रमन्तं भ्रं भ्रं भ्रं भ्रान्तनेत्रं जयतु विजयते सिद्धिचण्डी नमस्ते //
24.2 SK घ्रं घ्रं घ्रं घोररूपं घुघुरितघुरितं घर्घरीनादघोषं हुं हुं हुं हास्यरूपं त्रिभुवनधरितं खेचरं क्षेत्रपालम् / भ्रूं भ्रूं भ्रूं भूतनाथं सकलजनहितं तस्य देहा (?) पिशाचं हूं हूं हूंकारनादैः सकलभयहरं सिद्धिचण्डी नमस्ते //
24.3 SK व्रं व्रं व्रं व्योमघोरं भ्रमति भुवनतः सप्तपातालतालं क्रं क्रं क्रं कामरूपं धधकितधकितं तस्य हस्ते त्रिशूलम् / द्रुं द्रुं द्रुं दुर्गरूपं भ्रमति च चरितं तस्य देहस्वरूपं मं मं मं मन्त्रसिद्धं सकलभयहरं सिद्धिचण्डी नमस्ते //
24.4 SK झं झं झंकाररूपं झमति झमझमा झंझमाना समन्तात् कं कं कंकालधारी धुधुरितधुरितं धुन्धुमारी कुमारी / धूं धूं धूं धूम्रवर्णा भ्रमति भुवनतः कालपास्त्रिशूलं तं तं तं तीव्ररूपं मम भयहरणं सिद्धिचण्डी नमस्ते //
24.5 SK रं रं रं रायरुद्रं रुरुधितरुधितं दीर्घजिह्वाकरालं पं पं पं प्रेतरूपं समयविजयिनं सुम्भदम्भे निसुम्भे / संग्रामे प्रीतियाते जयतु विजयते सृष्टिसंहारकारी ह्रीं ह्रीं ह्रींकारनादे भवभयहरणं सिद्धिचण्डी नमस्ते //
24.6 SK हूंकारी कालरुपी नरपिशितमुखा सान्द्ररौद्रारजिह्वे हूंकारी घोरनादे परमशिरशिखा हारती पिङ्गलाक्षे / पङ्के जाताभिजाते चुरु चुरु चुरुते कामिनी काण्डकण्ठे कङ्काली कालरात्री भगवति वरदे सिद्धिचण्डी नमस्ते //
24.7 SK ष्ट्रीं ष्ट्रीं ष्ट्रींकारनादे त्रिभुवननमिते घोरघोरातिघोरं कं कं कं कालरूपं घुघुरितघुरितं घुं घुमा बिन्दुरूपी / धूं धूं धूं धूम्रवर्णा भ्रमति भुवनतः कालपाशत्रिशूलं तं तं तं तीव्ररूपं मम भयहरणं सिद्धिचण्डी नमस्ते //
24.8 SK झ्रीं झ्रीं झ्रींकारवृन्दे प्रचरितमहसा वामहस्ते कप्ःलं खं खं खं खङ्गहस्ते डमरुडिमडिमां मुण्डमालासुशोभाम् / रुं रुं रुं रुद्रमालाभरणविभूषिता दिर्घजिह्वा कराला देवि श्री उग्रचण्डी भगवति वरदे सिद्धिचण्डी नमस्ते //
24.9 SK आरुणवर्णसङ्काशा खड्गफेटकबिन्दुका / कामरूपी महादेवी उग्रचण्डी नमो ऽस्तुते //
761 SK श्री चण्डिकादण्डकस्तोत्रं समाप्तम् //
25.1 SK श्रीहेरुकं महावीरं विशुद्धं कुलिशेश्वरम् / नमामि सर्वभावेन डाकिनीगणभूषितम् //
25.2 SK संवराय नमस्तुभ्यं द्वयाकाराय नमो नमः / चक्रस्थिताय देवाय चक्रसंवर ते नमः //
25.3 SK मेषवक्त्र नमस्ते ऽस्तु शिवशक्तिस्वरूपिणे / महाक्रोधस्वरूपाय मेषसंवर ते नमः //
25.4 SK अश्वाननाय देवाय रतिकर्मरताय च / भुक्तिमुक्तिप्रदात्रे च अश्वसंवर ते नमः //
25.5 SK व्याघ्रास्याय नमस्तुभ्यं शक्तियुक्ताय वै नमः / सुरामांसरतो नित्यं व्याघ्रसंवर ते नमः //
25.6 SK कूर्मास्याय नमस्तुभ्यं सुरते संरताय च / नमो देवाधिदेवाय कूर्मसंवर ते नमः //
25.7 SK नमामि मत्स्यवक्त्राय मानवानां हिताय वै / नमो नमस्ते देवेश मत्स्यसंवर ते नमः //
25.8 SK मकराकारवक्त्राय महाशक्तिधराय च / मनोवाञ्छाप्रदात्रे च मकरसंवर ते नमः //
25.9 SK संवरायोष्ट्रवक्त्राय शक्तिकालिङ्गणाय च / मैथुने तत्परायाथ उष्ट्रसंवर ते नमः //
25.10 SK नमामि गजवक्त्राय योनौ लिङ्गप्रदाय च / नमो भगवते तुभ्यं गजसंवर ते नमः //
25.11 SK मण्डूकानननाथाय त्रैलोक्येशाय ते नमः / नमो देवाधिदेवाय मण्डूकसंवराय च //
25.12 SK नमामि चाविवक्त्राय नित्यं रतिरताय च / नमस्ते देवदेवेश अहिसंवर ते नमः //
25.13 SK शुकाननाय देवाय द्वयाकाराकारशोभिने / नमो नमस्ते भीमाङ्ग शुकसंवर ते नमः //
25.14 SK संवराय नमस्ते ऽस्तु शक्तियुक्ताय वै नमः / सिंहाननाय वै नित्यं सिंहसंवर ते नमः //
25.15 SK मर्कटाननदेवाय शक्तिचुम्बनरताय च / नमस्ते ऽस्तु नमस्ते ऽस्तु हरिसंवर ते नमः //
25.16 SK श्वानवक्त्र नमस्ते ऽस्तु शक्तिचुम्बनकारिणे / नमस्ते भगवन् देव श्वानसंवर ते नमः //
25.17 SK वराहास्यवरेवान भगक्रीडनकारक / नमामि शक्तियुक्ताय घृष्टिसंवर ते नमः //
25.18 SK जम्बुकास्याय देवाय शक्तिकालिङ्गणाय च / सर्वपापहरायैव शिवासंवर ते नमः //
25.19 SK नमामि गृध्रवक्त्राय दुःखनाशाय ते नमः / द्वयाकारसिद्धिदेवाय गृध्रसंवर ते नमः //
25.20 SK काकाननाय शुद्धयक्ष शृङ्गाररूपधारिणे / नमो भगवते तुभ्यं काकसंवर ते नमः //
25.21 SK उलूकवक्त्रिणे तुभ्यं महासौख्यप्रदाय च / योनिमैथुनकृद्देवोलूकसंवर ते नमः //
25.22 SK तार्क्ष्याननाय देवाय तारिणे भवसागरात् / नमस्तुभ्यं नमस्तुभ्यं नमो गरुडसंवर //
25.23 SK गोवक्त्राय नमस्तुभ्यं गोहत्यापापहारिणे / गोत्रवृद्धिप्रदात्रे च धेनुसंवर ते नमः //
25.24 SK गर्दभाकारवक्त्राय गतागतक्षयाय ते / गणेश्वराय देवाय खरसंवर ते नमः //
25.25 SK महिषास्याय देवाय महाप्रलयकारिणे / शक्तियुक्ताय देवाय नमओ महिषसंवर //
25.26 SK विडालास्य नमस्तुभ्यं मूत्रकूण्डप्रक्रीडिने / श्रेष्ठाय परमेशाय नमो मार्जारसंवर //
25.27 SK नमामि शाल्ववक्त्राय द्वयङ्गमेकेव शोभितम् / नमामि देवदेवेश नमः शरभसंवर //
25.28 SK सिद्धाय सिद्धरूपाय गुणाय गुणवर्तिने / क्रौञ्चास्याय नमस्तुभ्यं क्रौञ्चसंवर ते नमः //
25.29 SK उल्काननाय शुद्धाय उत्तमाय नमो नमः / उग्राय भीमरूपाय उल्कसंवर ते नमः //
25.30 SK हंसवक्त्र नमस्ते ऽस्तु हंसस्वरस्वरूपिणे / हंसःसो ऽहंस्वरूपाय हंससंवर ते नमः //
25.31 SK मृगवक्त्राय देवाय नमामि परमेश्वर / ऋद्धिसिद्धिप्रदात्रे च मृगसंवर ते नमः //
25.32 SK शक्तियुक्त नमस्ते ऽस्तु चक्रवाकाननाय च / नमस्ते चकवाकाख्यसंवराय नमो नमः //
25.33 SK अजाननाय वीराय अविद्यानाशिने नमः / अपवर्गफलाप्त्यर्थमजसंवर ते नमः //
25.34 SK कुक्कुटास्याय देवाय कुलवृद्धिकराय च / नमस्ते कौटुकेशाय तुभ्यं कुक्कुटसंवर //
25.35 SK कृष्णसारसवक्त्राय नमस्ते कर्मसम्भव / कालनाशाय देवाय एणसंवर ते नमः //
25.36 SK मूषाननाय पूर्णाय ज्ञानदाय नमो नमः / सर्वदैत्यविनाशय मूषसंवर ते नमः //
25.37 SK सालूकास्य नमस्ते ऽस्तु मानादिवरदाय च / सिद्धिबुद्धिप्रदात्रे च नमः सालूकसंवर //
25.38 SK नमः कपोलवक्त्राय प्रज्ञोपायात्मरूपिणे / नमस्ते ऽस्तु महावीर कपोतसंवराय च //
25.39 SK नमामि ग्राहवक्त्राय भुक्तिमुक्तिप्रदाय च / नमो ऽस्तु सर्वभूतेश ग्राहसंवर ते नमः //
25.40 SK नमस्ते चिह्लवक्त्राय नमस्ते मैथुने रत / नमस्ते भगवन् देव चिह्लसंवर ते नमः //
25.41 SK चटकास्याय देवाय नमस्ते ऽस्तु जगद्गुरो / नमस्ते ऽस्तु गुणाधीश चटकसंवर ते नमः //
25.42 SK सारसास्य नमस्तुभ्यं नमस्ते गुणसागर / नमो भगवते तुभ्यं सारससंवराय च //
25.43 SK खञ्जनास्याय देवाय महादेवाय ते नमः / निर्वाणपददात्रे खञ्जरीटसंवराय च //
25.44 SK नमस्ते क्षेमकर्यास्य भुक्तिमुक्तिप्रदाय च / नमो भगवते देव क्षेमकरिसंवराय ते //
25.45 SK शशकास्य नमस्तुभ्यं नमस्ते भुवनेश्वर / कर्मप्रदाय ते नित्यं नमः शशकसंवर //
25.46 SK नमो भल्लूकवक्त्राय रतिक्रीडापराय च / कार्यसिद्धिप्रदात्रे च नमो भल्लूकसंवर //
25.47 SK पिकास्याय नमस्तुभ्यं मन्त्रसिद्धिकराय च / त्रिलोकेशाय सर्वाय पिकसंवर ते नमः //
25.48 SK नमामि वकवक्त्राय शक्तियुक्तगणाधिप / नमामि देवदेवेश वकसंवर ते नमः //
25.49 SK खङ्गिवक्त्राय देवाय सर्वदा शिरसा नमः / नमो ऽस्तु परमेशाय खङ्गिसंवर ते नमः //
25.50 SK कर्कटास्य नमस्तुभ्यं नमः संसारहेतवे / पापपुञ्जविनाशाय नमः कर्कटसंवर //
25.51 SK नमः शल्लकिवक्त्राय सर्वदोषनिवारिणे / संसारपाशनाशाय नमः शल्लकिसंवर //
25.52 SK वृश्चिकास्य नमस्तुभ्यं बलकल्याणदाय च / नमो नमस्ते देवाय नमो वृश्चिकसंवर //
25.53 SK अलिवक्त्राय देवाय अलिमोदाय ते नमः / अलिलोकविनाशाय अलिसंवर ते नमः //
25.54 SK जाहकास्य नमस्ते ऽस्तु जनमोहकृताय वै / जयकल्याणदात्रे च नमो जाहकसंवर //
25.55 SK चमरीवक्त्र ते नित्यं चातुर्यफलदायिने / चतुर्वर्गप्रदात्रे च नमश्चमरिसंवर //
25.56 SK सीम्निवक्त्रनमस्तुभ्यं सिद्धित्वफलदायिने / नमो भगवते नित्यं सीम्निसंवर ते नमः //
25.57 SK नमामि गोधवक्त्राय नमस्ते भीमविक्रम / नमस्ते दिव्यनेत्राय गोधासंवर ते नमः //
25.58 SK चकोरास्य नमस्तुभ्यं चाञ्चल्यदोषनाशक / नमो भगवते तुभ्यं चकोरसंवराय च //
25.59 SK गोधिकास्याय सततं सृष्टिसंहारकरिणे / नमस्ते परमानन्द गोधिकासंवराय च //
25.60 SK मधुमाक्षिकवक्त्राय नमस्ते मानदायक / सर्वज्ञाय परेशाय नमो माक्षिकसंवर //
25.61 SK पतङ्गवक्त्र ते नित्यं परमेश नमः सदा / दिव्याय दिवसेशाय नमः पतङ्गसंवर //
25.62 SK नरवक्त्राय देवाय नरकध्नाय ते नमः / नानारूपदधानाय नरसंवर ते नमः //
25.63 SK सृष्टिरूप जगद्धाम सृजते सर्वभूतकम् / नमो नमस्ते सततं सृष्टिसंवर ते नमः //
25.64 SK स्थितिरूपाय देवाय गुणाय गुणवर्तिने / नमः सारविनाशाय स्थितिसंवर ते नमः //
25.65 SK सर्वलोकस्य संहारकर्त्रे ते परमेश्वर / तस्मादहं नमस्यामि नमः प्रलयसंवर //
25.66 SK ज्योतिर्वक्त्र परं धाम नमस्ते जगदीश्वर / परात्परतरं सूक्ष्म ज्योतिःसंवर ते नमः //
25.67 SK इतीदं संवरस्तोत्रं त्रिषु लोकेषु दुर्लभम् / परात्परतरं स्तोत्रं चतुःषष्टिप्रमाणकम् //
25.68 SK चतुःषष्टिप्रमाणेषु आद्यमाद्यं तु वक्त्रितम् / भूयो ग्रन्थमयाच्चात्र आद्यमात्रं प्रचोदितम् //
25.69 SK कन्यार्थी लभते कन्यां धनार्थी लभते धनम् / विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् //
25.70 SK वशीकरणमुच्चाटं मारमोहनस्तम्भनम् / आकर्षणं च विद्वेषं धातुवादं रसायनम् //
25.71 SK गुटिकां पादुकासिद्धिं खङ्गसिद्धिं तथैव च / खेचरीसिद्धि वैद्याङ्गं मन्त्रसिद्धिं च वाक्पटुः //
25.72 SK परकायप्रवेशं च द्रव्याकर्षणमेव च / लभते स्तोत्रराजेन सत्यं सत्यं मयोदितम् //
25.73 SK दुर्भिक्षं चापदि पाठं कुरुते शुभमाप्नुयात् / अतिवृष्टावनावृष्टौ महामारीसमुद्भवे //
25.74 SK राज्यभ्रंशे ज्ञानभ्रंशे स्त्रीभ्रंशे च धनक्षये / कलहे च विवादे च पठते स्तोत्रमुत्तमम् //
25.75 SK भिक्षुकेभ्यः सहस्रेभ्यः तुल्यं दानकृतं फलम् / बहुनात्र किमुक्तेन ब्रह्माण्डदानजं फलम् //
837 SK श्रीसंवरागमे महातन्त्रे अमिताभवैरोचनसंवादे श्रीचक्रसंवरादिचतुःषष्टिसंवरस्तोत्रं समाप्तम् //
26.1 SK शमदमनिरतानां शान्तदान्ताशयानां खगपथसदृशानामन्तरीक्षसमानाम् / खिलमलविधुतनां मार्गज्ञानस्थितानां शृणुत वरविशेषं बोधिसत्त्वांश्च श्रेष्ठान् //
26.2 SK कुशलसतसहस्रं संचितं कल्पकोटया सुबुद्धशतसहस्रं पूजयित्वा गृहीतम् / प्रत्येकजिनवरान्वै पूजयित्वा त्वनन्तान् सकलजगहिताय जायते बोधिचित्तम् //
26.3 SK उत तपतपितानां क्षान्तिपारंगतानां हृतश्रितचरितानां पुण्यज्ञानोद्गतानाम् / विपुलगतिमतीनां पुण्यज्ञानाशयानां दशबलसमतुल्यं जायते बोधिचित्तम् //
26.4 SK प्रमुदितसुमतीनां दानधर्मे रतानां सकलजगहितार्थं नित्यमेवोद्यतानाम् / जिनगुणनिरतानां सत्त्वरक्षाव्रतानां त्रिभुवनहितकर्तृ जायते बोधिचित्तम् //
26.5 SK अकुशलविरतानां शुद्धमार्गे स्थितानां व्रतनियमरतानां शान्तसौम्येन्द्रियाणाम् / जिनशरणगतानां बोधिचर्याशयानां त्रिभुवनहितसाध्यं जायते बोधिचित्तम् //
26.6 SK अनुगतकुशलानां क्षान्तिस्वारस्यभाजां विदितगुणरसानां त्यक्तमानोत्सवानाम् / निहितशुभमतीनां दानसौम्याशयानां सकलहितविधानं जायते बोधिचित्तम् //
26.7 SK प्रचलति शुभकार्ये धीरवीर्याः सहाया निखिलजनहितार्थं प्रोद्यते मानसिंहः / अविरतगुणसाध्या निर्जितक्लेशसंधा झटिति मनसि तेषां जायते बोधिचित्तम् //
26.8 SK सुसमवहितचित्ता ध्वस्तमोहान्धकारा विगलितमदमाना त्यक्तसंक्लिष्टमार्गाः / समसुखनिरता ये त्यक्तसंसारसंगा झटिति मनसि तेषां जायते बोधिचित्तम् //
26.9 SK विमलखसमचित्ता ज्ञानविज्ञानविज्ञा निहतनमुचिमारा वान्तक्लेशाभिमानाः / जिनपदशरणस्था लब्धतत्त्वार्थकाये सपदि मनसि तेषां जायते बोधिचित्तम् //
26.10 SK त्रिभुवनशिवसाध्योपायविज्ञानधीराः करिबलपरिहारोपायविदृद्धिमन्तः / सुगतगुणसमीहा ये च पुण्यानुरागा सपदि मनसि तेषां जायते बोधिचित्तम् //
26.11 SK त्रिभुवनहितकामा बोधिसंभारपूर्त्यै प्रणिहितमनसा ये दुष्करे ऽपि चरन्ति / अविरतशुभकर्म प्रोद्यतां बोधिसत्त्वाः सपदि मनसि तेषां जायते बोधिचित्तम् //
26.12 SK दशबलगुणकामा बोधिचर्यानुरक्ता विजितकरिबलौघास्त्यक्तमानानुषङ्गाः / अनुगतशुभमार्गा लब्धधर्मार्थकामा झटिति मनसि तेषां जायते बोधिचित्तम् //
26.13 SK इति गणितगुणांशा बोधिचर्याश्चरन्तु जिनपदप्रणिधाना सत्समृद्धिं लभन्तु / त्रिभुवनपरिशुद्धा बोधिचित्तं लभन्तु त्रिशरणपरिशुद्धा बोधिसत्त्वा भवन्तु //
26.14 SK दशपारमिताः पूर्य दशभूमीश्वरो भवेत् / भूयो ऽपि कथ्यते ह्येतच्छृणुतैवं समासतः //
26.15 SK बोधिचित्तं यदासाद्य संप्रदानं करोति यः / तदा प्रमुदितां प्राप्तो जम्बूद्वीपेश्वरो भवेत् //
26.16 SK तत्रस्थः पालयेत् सत्त्वान् यथेच्छप्रतिपादनैः / स्वयं दाने प्रतिष्ठित्वा परांश्चापि नियोजयेत् //
26.17 SK सर्वान् बोधौ प्रतिष्ठाप्य संपूर्णदानपारगः / एतत्कर्मानुभावेन संवरं समुपाचरेत् //
26.18 SK सम्पच्छीलं समाधाय संवरं कुशली भवेत् / ततः स विमलां प्राप्तश्चातुर्द्वीपेश्वरो भवेत् //
26.19 SK तत्रस्थः पालयेत् सत्त्वानकुशलं निवारयेत् / स्वयं शीले प्रतिष्ठित्वा परांश्चापि नियोजयेत् //
26.20 SK सर्वान् बोधौ प्रतिष्ठाप्य सम्पूर्णकुशली भवेत् / एतद्धर्मविपाकेन क्षान्तिव्रतमुपाश्रयेत् //
26.21 SK सम्यक् क्षान्तिव्रतं धृत्वा क्षान्तिभृत् कुशली भवेत् / ततः प्राभाकरीं प्राप्तस्त्रयस्त्रिंशाधिपो भवेत् //
26.22 SK तत्रस्थः पालयेत् सत्वान् क्लेशमार्गनिवारणैः / स्वयं क्षान्तिव्रते स्थित्वा परांश्चापि नियोजयेत् //
26.23 SK सत्त्वान् बोधौ प्रतिष्ठाप्य शान्तिपारंगतो भवेत् / एतत्पुण्यविपाकेन वीर्यबलमुपाश्रयेत् //
26.24 SK सम्यग् वीर्यं समाधाय वीर्यभृत्कुशली भवेत् / ततश्चार्चिष्मतीं प्राप्य सुधामाधिपतिर्भवेत् //
26.25 SK तत्रस्थः पालयन् सर्वान् कुदृष्टीः संनिवारयेत् / सम्यग्दृष्टौ प्रतिष्ठाय बोधयित्वा प्रयत्नतः //
26.26 SK स्वयं ध्यानव्रते स्थित्वा परांश्चापि नियोजयेत् / सर्वान् बोधौ प्रतिष्ठाप्य ध्यानपारंगतो भवेत् //
26.27 SK एतत्पुण्यविपाकेन ध्यानपारं समारभेत् / सर्वक्लेशान् विनिर्जित्य समाधिसुस्थितो भवेत् //
26.28 SK सम्यग्ध्यानं समाधाय समाधिकुशली भवेत् / ततः सुदुर्जयां प्राप्तः स तुषिताधिपो भवेत् //
26.29 SK तत्रस्थः पालयेत्सत्त्वांस्तीर्थ्यमार्गनिवारणैः / सत्त्वधर्मं प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः //
26.30 SK स्वयं ध्यानव्रते स्थित्वा परांश्चापि नियोजयेत् / सर्वान् बोधौ प्रतिष्ठाप्य ध्यानपारंगतो भवेत् //
26.31 SK एतत्पुण्यविपाकेन प्रज्ञाव्रतमुपाश्रयेत् / सर्वान्मारान् विनिर्जित्य प्रज्ञाभिज्ञासमृद्धिमान् //
26.32 SK सम्यक् प्रज्ञां समाधाय स्वाभिज्ञाकुशली भवेत् / ततश्चाभिमुखीं प्राप्तः सुनिर्मिताधिपो भवेत् //
26.33 SK तत्रस्थः पालयेत् सत्त्वानभिमाननिवारणैः / शून्यतां सुप्रतिष्ठाप्य बोधयित्वा प्रयत्नतः //
26.34 SK स्वयं प्रज्ञाव्रते स्थित्वा परांश्चापि नियोजयेत् / सर्वान् बोधौ प्रतिष्ठाप्य प्रज्ञापारंगतो भवेत् //
26.35 SK एतत्पुण्यविपाकैश्च समुपायव्रतं चरेत् / सर्वदुष्टान् विनिर्जित्य सद्धर्मकुशली सुधीः //
26.36 SK समुपायविधानेन सत्त्वान् बोधौ नियोजयेत् / ततो दूरङ्गमां प्राप्तो वशवर्तीश्वरो भवेत् //
26.37 SK तत्रस्थः पालयेत्सत्त्वानभिसमयबोधनैः / बोधिसत्त्वनियामेषु प्रतिष्ठाय प्रबोधयेत् //
26.38 SK तत्रोपाये स्वयं स्थित्वा परांश्चापि नियोजयेत् / सर्वान् बोधौ प्रतिष्ठाप्य उपायपारगो भवेत् //
26.39 SK एतत्पुण्यानुभावश्च सुप्रणिधीनुपाश्रयेत् / मिथ्यादृष्टिं विनिर्जित्य सम्यग्दृष्टिः कृतो बुधैः //
26.40 SK सुप्रतिष्ठितचित्तेन सम्यग्बोधौ प्रतिष्ठितः / ततश्चाप्यचलां प्राप्तो बुद्धया साहस्रिकाधिपः //
26.41 SK तत्रस्थः पालयेत्सत्त्वान् त्रिपानं संपिबेत् शनैः / लोकधातौ परिज्ञाने प्रतिष्ठाप्य प्रबोधयेत् //
26.42 SK सुप्रणिधौ स्वयं स्थित्वा परांश्चापि नियोजयेन् / सर्वान् बोधौ प्रतिष्ठाप्य प्राणिषु पारगो भवेत् //
26.43 SK एतत्पुण्यानुसारैश्च बलव्रतमुपाश्रयेत् / सर्वदुष्टान् विनिर्जित्य सम्बोधिकृतनिश्चयः //
26.44 SK सम्यग्यत्नसमुत्साहैः सर्वतीर्थ्यान् विनिर्जयेत् / ततः साधुमतीं प्राप्तो महाब्रह्मा भवेत् कृती //
26.45 SK तत्रस्थः पालयन् सत्त्वान् बुद्धयानोपदेशनैः / सत्त्वासमपरिज्ञाने सम्यग्बोधौ प्रबोधयेत् //
26.46 SK स्वयं बले प्रतिष्ठित्वा परांश्चापि नियोजयेत् / सर्वान् बोधौ प्रतिष्ठाप्य बलपारंगतो भवेत् //
26.47 SK एतत्पुण्यविपाकैश्च ज्ञानव्रतमुपाश्रयेत् / चतुर्मारान् विनिर्जित्य बोधिसत्त्वगुणाकरः //
26.48 SK सम्यग्ज्ञानं समाधाय सद्धर्मकुशलो भवेत् / धर्ममेघां ततः प्राप्तो महेश्वरो भवेत् कृती //
26.49 SK तत्रस्थः पालयन् सर्वान् सर्वाकारानुबोधनैः / सर्वाकारवरे ज्ञाने प्रतिष्ठाप्य प्रबोधयेत् //
26.50 SK स्वयं ज्ञाने प्रतिष्ठित्वा परांश्चापि नियोजयेत् / सर्वान् बोधौ प्रतिष्ठाप्य ज्ञानपारंगतो भवेत् //
26.51 SK एतत्पुण्यानुभावैश्च दशभूमीश्वरो जिनः / सर्वाकारगुणाधारः सर्वज्ञो धर्मलाभवित् //
26.52 SK इति मत्वा भुवभिश्च सम्बुद्धपदलब्धये / दशपारमितारूपे चरितव्यं समाहितैः //
26.53 SK तथा बोधिं शिवां प्राप्य चतुर्मारान् विनिर्जयेत् / सर्वान् बोधौ प्रतिष्ठाप्य निर्वृतिं समवाप्स्यथ //
26.54 SK एतज्ज्ञात्वा परिच्छायां चरध्वं बोधिशासने / निर्विध्नं बोधिमासाद्य लभध्वं सौगतं पदम् //
892 SK एतास्ता खल्वाह जिनपुत्रो दशबोधिसत्त्वभूमयः समासतो निर्दिष्टाः सर्वाकारवरोपेताः सर्वज्ञानानुगता द्रष्टव्याः / तस्यां वेलायामयं त्रिसाहस्रलोकधातुषड्विकारं प्राकम्पत विविधानि च पुण्यानि वियत्तो न्यपतन् / दिव्यमानुषकाणि च भूतानि संप्रवादितान्यभूवन्, अनुमोदनांशगेन च यावदकनिष्ठभुवनं विज्ञप्तमभूत् //
893 SK श्रीबोधिसत्त्वचर्याप्रस्थानाद् दशभूमीश्वरो नाम महायानसूत्ररत्नराजस्तोत्रं समाप्तम् //
27.1 SK वं कारं वज्रसत्त्वं च वज्रासनसदास्थितम् / वारुणमण्डलव्यापि वैरोचन नमो ऽस्तु ते //
27.2 SK अकारमादिस्वभावमाकाशे व्यापितं तथा / अर्कनीलसमस्तेज अक्षोभ्यश्री नमो ऽस्तु ते //
27.3 SK रकारं लक्ष्मीस्वभावं नानारत्नमनेकधा / रं व्यापितं च पृथ्वीं रत्नसंभव नमो ऽस्तु ते //
27.4 SK अकारमस्थिरं भावं पद्मनागसमप्रभम् / अग्नितेजःसमाधिस्थं अमिताभ नमो ऽस्तु ते //
27.5 SK अकारं तत्स्वभावं च गन्धवाहसमप्रभम् / अकारविश्ववज्रं च अमोधसिद्धि नमो ऽस्तु ते //
27.6 SK धकारं धर्मस्वभावं धर्मसंघस्वरूपकम् / धात्वष्टकं कीर्तितं च धर्मधातु नमो ऽस्तु ते //
27.7 SK सकारं सर्वसम्पत्तिः सर्वमङ्गलमर्थनम् / सर्वसिद्धिस्त्वमेवाथ सिद्धिवज्र नमो ऽस्तु ते //
901 SK श्री धर्मधातुनामस्तवः समाप्तः //
28.1 SK मञ्जुश्रियं महावीरं सर्वमारविनाशनम् / सर्वसिद्धीश्वरं नाथं वागीश्वरं नमाम्यहम् //
28.2 SK मञ्जुघोषं महावीरं सर्वमारविनाशनम् / सर्वाकारप्रदातारं धर्मधातुं नमाम्यहम् //
28.3 SK महोष्णीषं सितच्छत्रं तेजोराशिं जयोदितम् / विकिरणोद्गतं चैव महोग्रतेजसं नमे //
28.4 SK अक्षोभ्यं च महाबोधिं वज्रसत्त्वं नमाम्यहम् / वज्रराजं वज्ररागं वज्रसाधुं नमाम्यहम् //
28.5 SK श्रीरत्नसम्भवं नाथं वज्ररत्नं नमाम्यहम् / वज्रसूर्यं वज्रकेतुं वज्रहासं नमे सदा //
28.6 SK अमिताभं महाराजं वज्रधर्मं नमाम्यहम् / वज्रतीक्ष्णं महाकेतुं वज्रभाषं नमे नमे //
28.7 SK अमोघसिद्धिं सिद्धेशं वज्रकर्म नमाम्यहम् / वज्ररक्षं वज्रयक्षं वज्रसन्धिं नमे सदा //
28.8 SK लोचनाख्यां महादेवीं पाण्डराख्यां नमाम्यहम् / मामकीं चैव देवीं तां तारादेवीं नमे नमे //
28.9 SK वज्राङ्कुशं महावीरं वज्रपाशं महत्प्रभम् / वज्रस्फोटः महानाथं वज्रावेशं नमे नमे //
28.10 SK अधिमुक्तीश्वरीं भूमिं प्रमुदितां नमाम्यहम् / विमलाख्यां महाभूमिं प्रभाकरीं नमे नमे //
28.11 SK अर्चिष्मतीं सुदुर्जयां चाभिमुखीं नमाम्यहम् / दूरङ्गमामचलाख्यां साधुमतीश्वरीं नमे //
28.12 SK धर्ममेघां महामेघां समताख्यां प्रभां नमे / रत्नपारमितां देवीं दानपारमितां नमे //
28.13 SK शीलपारमितां देवीं क्षान्तिपारमितां नमे / वीर्यपारमितां देवीं ध्यानपारमितां श्रये //
28.14 SK प्रज्ञापारमितां देवीम् उपायाख्यं नमाम्यहम् / प्रणिधानबलं चैव ज्ञानपारमितां सदा //
28.15 SK कर्मपारमितां देवीं नमामि सततं तथा / आयुश्चित्तपरिष्कारं कर्मोपपत्तिकां नमे //
28.16 SK ऋद्ध्याख्यामधिमुक्तिं च प्रणिधानां नमाम्यहम् / ज्ञानाख्यवशितां देवीं धर्माख्यवशितां नमे //
28.17 SK तथतां च महादेवीं बुद्धबोधिं नमाम्यहम् / वसुमतीं महालक्ष्मीं रत्नज्वालां नमे नमे //
28.18 SK उष्णीषविजयां देवीं मारीचीं पर्णशाबरीम् / जाङ्गुलिं धारणीं वन्दे अनन्तमुखधारणीम् //
28.19 SK चुन्दां प्रज्ञां च पद्मां च सर्वावरणशोधनीम् / अक्षयज्ञानकारण्डं धर्मकायवतीं नमे //
28.20 SK धर्मप्रतिविदं देवमर्थं च प्रतिसंविदम् / निरुक्तिसंविदं देवं प्रतिभानाख्यसंविदम् //
28.21 SK वज्रलास्यां वज्रमालां वज्रगीतां नमे सदा / वज्रनृत्यां महादेवीं नमामि सततं मुदा //
28.22 SK समन्तभद्रं बोधीशमक्षयतां मतिं नमे / क्षितिगर्भं खगर्भं च बोधिसत्त्वं नमाम्यहम् //
28.23 SK गगणगञ्जनाथेशं रत्नपाणिं नमे नमे / सागरमतिं बोधीशं वज्रगर्भं नमाम्यहम् //
28.24 SK लोकेश्वरं महासत्वं स्थानप्राप्तं नमाम्यहम् / चन्द्रप्रभं महातेजं वन्दे ऽहं जालिनीप्रभम् //
28.25 SK अमितप्रभबोधोशं श्रीपतिं भानुकूटकम् / सर्वशोकतमोद्घाटविष्कम्भिनं नमाम्यहम् //
28.26 SK यमान्तकं महावीरं प्रज्ञान्तकं नमे नमे / पद्मान्तकं महावीरं विघ्नान्तकं नमाम्यहम् //
28.27 SK त्रैलोक्यविजयं वीरं वज्रज्वालां नमाम्यहम् / हेरुकं वज्रवीरेशं परमेशं नमाम्यहम् //
28.28 SK चक्रवर्त्तीश्वरं वन्दे सुम्भराजं नमाम्यहम् / पुष्पां धूपां महादीपां गन्धां देवीं नमाम्यहम् //
28.29 SK वज्ररूपां वज्रशब्दां रसवज्रां नमाम्यहम् / वज्रस्पर्शां महादेवीं विश्ववर्णां नमे सदा //
28.30 SK इन्द्रयमजलेशांश्च कुबेरमीश्वरं नमः / अग्निं नैरृत्यनाथं च वायुराजं नमाम्यहम् //
28.31 SK ब्रह्माणं विष्णुदेवं च महेश्वरं कुमारकम् / ब्रह्माणीं च महादेवीं रुद्राणीं वैष्णवीं नमे //
28.32 SK कौमारीं रक्तवर्णां च महेन्द्राणीं नमाम्यहम् / वाराहीं कालिकां चण्डीं भृङ्गिणं गणनायकम् //
28.33 SK महाकालं महाभीमं नन्दिकेशं रविं नमे / चन्द्रं भौमं बुधं वन्दे गुरुं शुक्रं शनैश्चरम् //
28.34 SK राहुं केतुं बलभद्रं जयकरं नमे सदा / मधुकरं वसन्तं च अनन्तं वासुकिं नमे //
28.35 SK तक्षं कर्कोटकं पद्मं महापद्मं नमाम्यहम् / शङ्खपालं च कुलिकं वेमचित्रं वलिं नमे //
28.36 SK प्रह्लादं च महादैत्यं वैरोचनं नमे सदा / गुरुडेन्द्र सुम्भराजं पंचशिखं नमाम्यहम् //
28.37 SK सर्वार्थसिद्धिं विघ्नेशं पूर्णभद्रं नमाम्यहम् / मणिभद्रं महायक्षं धनदं च महेश्वरम् //
28.38 SK वैश्रवणं महावीरं चिविकुण्डलिनं नमाम्यहम् / केलिमालिं सुखेन्द्रं च चलेन्द्रं च नमाम्यहम् //
28.39 SK हारतीं यक्षिणीं देवीं बहुपुत्रवतीं नमे / अश्विनीं भरणीं तारां कृत्तिकां रोहणीं तथा //
28.40 SK मृगशीर्षां तथैवार्द्रां पुनर्वसुं नमाम्यहम् / पुष्यमाश्लेषकातारां मघां च पूर्वाफाल्गुनीम् //
28.41 SK उत्तराफाल्गुनीं हस्तं चित्रां स्वातिं विशाखकाम् / अनुराधां तथा ज्येष्ठां मूलतारां नमाम्यहम् //
28.42 SK पूर्वाषाढोत्तराषाढां श्रवणां च नमाम्यहम् / धनिष्ठां शतभिषां च पूर्वोत्तराभाद्रपदाम् //
28.43 SK रेवतीं च महाताराम् अभिजितं नमाम्यहम् / वज्राङ्कुशं महावीरं वज्रपाशं नमाम्यहम् //
28.44 SK वज्रस्फोटं महाभीमं वज्रांशं वै नमे नमे / वागीश्वरं महाबोधिं सर्वविघ्नविनाशकम् //
28.45 SK सर्वज्ञं ज्ञानदातारं धर्मधातुं नमाम्यहम् / मञ्जुश्रियं महाज्ञानं सर्वविद्याप्रदेश्वरम् / सर्वाकारस्वरूपं च वादिराजं नमाम्यहम् //
947 SK श्री धर्मधातुवागीश्वरमण्डलस्तोत्रं समाप्तम् //
29.1 SK आपातालान्तदेवाः सुरनरगरूडा दैत्यगन्धर्वयक्षाः सिद्धा विद्याधराद्या जलधितटगता नागसत्त्वाः समग्राः / गण्डीशब्दं समन्ताद् रभसितमनसः स्वासने ऽस्मिन् प्रसन्नाः श्रोतुं[साधो]रधीरा विमलगुणगणस्यास्य त्रैलोक्यबन्धोः //
29.2 SK लीलावासितचामरैश्चलदहो काञ्चीप्रपञ्चालस प्राञ्चत्काञ्चनकिङ्किणीभिररणत् स्वासीवहंसस्वनाः / तारुण्यामलनीलनीरजदल श्यामाङ्कमाराङ्गना- श्चक्रूर्यस्य न मानसस्य विकृतिं बुद्धाय तस्मै नमः //
29.3 SK येषामस्ति प्रसादो भगवति सुगते मारभिद्योगयुक्ते ये वा सद्यः प्रसन्नाः सुगतसुतकृते स्वस्ति येषां च भक्तिः / गण्डीमाहत्य चास्मिन् जगति शुभकरां शाक्यसिंहस्य शास्तुः कृत्वा शुद्धान्तसंस्थां सुविहितमनसः श्रोतुमायान्ति सर्वे //
29.4 SK बुद्धं त्रैलोक्यनाथं सुरनरनमितं पारसंसारतीरं धीरं गम्भीरवन्तं सकलगुणनिधिं धर्मराज्याभिषिक्तम् / तृष्णामारान्तकारं कलिकलुषहरं कामलोभान्तवन्तं तं वन्दे शाक्यसिंहं प्रणमितशिरसा सर्वकालं नमामि //
29.5 SK ऋम्पं ऋम्पं ऋऋम्पं टम टम टटमं तुन्दतुन्दं तुतुन्दं सं सं सं सं सं सं सं समसममसमं दुर्म दुर्म द्रुदुर्मम् / नागिर्नागिर्ननागिस्तखितखितखितस्तत्यजुर्ये रणे वै कैः कैः कैः कैश्च कैः कैर्जगति भयहरा कीर्त्यते धर्मगण्डी //
29.6 SK कुरुत कुरुत श्रीपं ध्यानसन्नाहमग्नं ग्रसति न खलु यावद् दुर्निवारः कृतान्तः / इति वदति जनौघे बोधिता भिक्षुसङ्घाः क्षपितदुरितपक्षाकीर्णनिःशेषदोषाः //
29.7 SK यस्मिन्नभ्युदिते ऽखिलं त्रिभुवनं यात्यस्तमस्तङ्गते येन ज्ञानगभस्तिहस्तविसरैर्हस्तं यतस्तन्यते / सद्धर्मामलमण्डलो दशबलः संसाररात्र्यन्तकः पायाद्वै मुनिभास्करः सुरगणान् बुद्धः प्रजाबान्धवः //
29.8 SK चित्तं येन जितं गजेन्द्रचपलं ज्ञानाक्षरैर्नाङ्कुशै- र्नष्टं रागतमो ऽन्धकारपटलं ज्ञानाग्निना नाग्निना / ध्वस्तं मारबलं प्रशान्तमतिना क्षान्त्यायुधैर्नायुधै- स्तं वन्दे प्रणतार्तिनाशनपटुं बुद्धं प्रबुद्धं मुनिम् //
29.9 SK तीर्थ्यानामाशु सैन्यं झटिति विघटयन् नाकनिष्ठप्रतिष्ठं भूयिष्ठाभिः प्रभाभिर्भुवनमवतरंस्त्रासयन् भासुराभिः / लक्ष्मीः पातालमूले स्थितकनकमहागर्भसिंहासनस्था गीतज्योतिः स्वयं वो दिशतु दशबलो दर्शितप्रातिहार्यः //
29.10 SK पादाङ्गुष्ठे निविष्टां क्षिपति पृथुशिलाद्यैः स राजातिगुर्वी चोग्रं ग्रीष्मप्रतापप्रशममुपगतो वल्गुना मन्त्रपूताम् / तामेव त्रास्यमानो विघटयति सुखं श्वासनिःश्वासवातान् लोकं सिद्धाः प्रणेमुः स दिशतु भगवान् सम्पदं सर्वदर्शी //
29.11 SK भग्ना मारादिरूपाः प्रलयभयकरा बद्धसन्नद्धकक्षा नाना तीक्ष्णाग्रहस्ताः करितुरगमुखाः सिंहनादं नदन्तः / बुद्धत्वं येन नीताः कुवलयदलदृशा[प्रेक्षिता] भिक्षुसङ्घाः धर्मं कान्तं[नितान्त]मघदलनपटुं तीर्थिकाणां शृणुध्वम् //
29.12 SK चित्तं यस्याङ्गनाया रतितरलदृशा ऽपाङ्गभङ्गैः सुभङ्गैः क्षोभं नैवाशु नीतं कुचकलशभरैर्हारलीढैः सुलीढैः / तस्यैषा धर्मगण्डी मधुरकलरवं रावते भिक्षुसङ्घं धर्मं कान्तं तदीयं परमभयकरं तीर्थिकाणां शृणुध्वम् //
29.13 SK यः श्रीमान् धर्मचक्रे प्रमुदितमनसा धर्मरत्नैकमौलि- र्भूयांसं पूर्णदेहं विकसितवदनं धर्मरत्नोदगिरन्तम् / सिंहाक्रान्तासनस्थः कनकगिरिनिभो धर्मनादं नदन्तं तस्येयं धर्मगण्डी प्रणदति सततं संशृणुध्वं जिनस्य //
29.14 SK मा मा मा मीयकण्ठैर्डिमडिमगगता गागगागैर्गलन्तैः ना ना ना नोपनीतं ननु ननु ननु मा धुर्यमाधुर्यकान्तैः / गीतैः कामाङ्गनानां प्रचलितमभवद् यस्य चेतो न शर्मि तस्यैषा धर्मकेतोः पटुपटहरवा रारटीत्युग्रगण्डी //
29.15 SK किं संवर्तप्रदत्तप्रसववनचरा दीर्घसंरम्भनादाः किं वा निर्वाटघातः किमुत भगवती हुकृतिर्वज्रपाणेः / तत्सर्वं वै जनानां प्रवचनमतयो द्रष्टुमन्तःप्रवृत्ता बुद्धस्योदारमूर्तेस्त्रिदशभयकरो गण्डिवादः स एषः //
29.16 SK ऊर्जासंघातिमारा विकृतनखमुखा रौद्रसिंह[स्व]रूपाः पाताले रत्नदीपे प्रकटमणिगणाः शब्दिताः पर्वतेन्द्राः / देवेन्द्रैर्मौलिरत्नैः प्रणमितचरणस्यास्य विश्वैकबन्धो रौत्येषा हन्यमाना यतिषु शुभविदः शाक्यसिंहस्य गण्डी //
29.17 SK कीर्तिर्नाथ प्रमथकमनङ्गो ऽस्तु वा तत्त्वदीया दीनानाथोद्धरण पुरतो गीयते मारशत्रोः / खिन्दं खिन्दं खिखिन्दं खुद खुद सुखदं दत्तके दत्तुतुन्दं तुन्दं तुन्दं तुतुन्दं ध्वनिपटुपटहैः सिद्धगन्धर्वनागैः //
29.18 SK मारैर्नानाप्रकारैर्विकृतशतमुखैर्भूरिवक्त्रैर्ज्वलद्भि- र्भीमैरट्टाट्टहासैः पललकवलितैः सिंहनादं नदद्भिः / कालाकारैरनेकैर्गहनभयकरैः सर्वतो भीषयद्भि- र्व्याप्तं चेतो न यस्य क्षणमपि नियतं मारभङ्गः स वो ऽव्यात् //
29.19 SK राजा निष्कण्टराज्यो भवतु वसुमती सर्वसस्याभिपुर्ण् काले वर्षन्तु मेघा व्यपगतविपदः सन्तु लोकाः समस्ताः / वीहारे कर्मपूर्णं यदखिलनृणां सर्वविध्नोपशान्ति- रन्योन्यप्रीतिभावाद् भवतु सुखमयो वीतरागार्यसङ्घः //
29.20 SK शास्तुः सद्धर्मरत्नं सुगतवरसुतान् प्रेरयन्ती विशुद्धयेद् रागद्वेषैर्विमूढान् विषमपथगतान् रावयन्ती जयन्ती / सत्त्वानुत्तारयन्ती प्रशमशरशतैर्विद्यमानार्थवन्तं शास्तुः संप्रीतिहार्यं विविधवररुतैः शान्तिकारी जनस्य //
29.21 SK स्फेटन्तं वारनार्या विकटगणघटाट्टाट्टहासं नदन्तं खेलन्तं विस्फुरन्तं ज्वलदनलशिखाकान्तलीलां ददन्तम् / भन्तं प्रेमप्रकामं स्फुटदुरुवचसं कामधात्वीश्वरत्वं तं वन्दे वन्दनीयं सकलभयहरं बुद्धवीरं सुवीरम् //
29.22 SK संपन्ने ऽङ्गुष्ठपद्मे झटिति हृदि तथा कण्ठ एवोपकण्ठे ढक्कासंकाशतालैःकलपटुपटहैः शङ्खनिर्घोषिघोषैः / हा हा हुं हूं कृता ये झटिति कटकटैर्भीमनादानुमोदैः क्षुद्रं चेतो न चैतत् सुरवरजयिनो यस्य तस्मै नमो ऽस्तु //
29.23 SK गर्जन्तं वाग्विशेषं प्रकटपटुरवैर्दिव्यगान्धर्वशब्दै- र्नानानागेन्द्रयक्षैः स्तुतिचटुलशतैः पूज्यमाना महद्भिः / सांख्ये माहेश्वरीयानसुरगुरुतम् मारभन्ती करकमलगता शान्तिमारारटीति //
29.24 SK दत्त्वा सर्वस्वदानी क्रतुकनकमयं वाराणानां शतं वा राज्यं पुत्रं कलत्रं स्वतनुमपि शिरश्चक्षुषां वा सहस्रम् / येनाभिरपि शतैर्वत्सराणां व्ययत्वात् सम्यक्सम्बोधिरग्रा स जयति सुगतः शान्तये सज्जनानाम् //
29.25 SK नानारूपविरूपदृश्यविकृतेर्भूयो ग्रसेद् भूतिभि- र्बोधैर्योषिति रोधनप्रजनितज्योतिर्ज्वल[द्बन्ध]नैः / मारस्यानुचरैर्न यस्य सुधियः किञ्चिन्मनः कम्पितं नृत्यैर्वा सुगतस्य मारजयिनो गण्डी रणत्यद्भूतम् //
29.26 SK यस्या नादं निशम्य श्रवणसुखकरं यान्ति तृप्तिं समन्तात् प्रेता भूमीमुखाद्याः पृथुतरवपुषः क्षुत्पिपासाभिभूताः / सम्यगभक्त्या प्रसन्नैः सुरनरवपुषैः श्रूयते चातुरैर्या सा गण्डी पातु विश्वं दशबलबलिनस्तस्य माना मनोज्ञा //
29.27 SK नानावाद्यकरीन्द्रवाजिमहिषव्याघ्रादिशब्दैर्युतं चञ्चत्कुन्तसुबाणतोमरगदाचक्रादिशस्त्रोद्यतम् / भग्नं सैन्यमनेन योधसहितं मारस्य येन क्षणात् तस्येयं करुणानिधेर्भगवतः पायाज्जगद् गण्डिका //
29.28 SK धर्मे संरम्भचित्ताः प्रभवहतविधिः पापतः सर्वदैव दाने शीले क्षमायां पठति सकरुणे सज्जनाः संयताः स्युः / इत्येवं सर्वसत्त्वान् सुमधुररणितैर्बोधयन्ती विशुद्धा तन्नः पुण्यैर्वचोभिस्त्रिजगति सकलं बुद्धवीरस्य गण्डी //
29.29 SK शृण्वन्ती सावधाना प्रशमततशराभ्यासनैर्नैव शब्द सेन्द्रादानन्दवज्री स्वभुवननृपतेस्तुङ्गवेलेव देवान् / वन्दीभूतान् मुनीन्द्रान् प्रवचनपटुताकारसंरम्भशब्दै- र्या गण्डी दण्डघातक्रममनुरणनाद् दुन्दुभीवद् धुनोति //
29.30 SK हुंकारी पद्मयोनिस्त्रिपुरविजयिनो वल्लभः शूलपाणि- र्विष्णुर्यद् वज्रपाणिः सुरपतिरसुरध्वंसनश्चक्रपाणिः / ये वा चान्ये स्तुवन्ति प्रमतनिजरवे क्षोभभावे किमास्ते सर्वे तस्याङघ्रिमूले विनयमुपगता गेयमन्त्रं स्तुवामि //
29.31 SK अज्ञान् सर्वज्ञनाथान् मुनिपदसहितान् भ्रामयन्ती त्रिलोकं मारांश्चान्यप्रकारैर्विविधभयकरान् त्रासयन्ती समस्तान् / पापान् प्रोत्सारयन्ती विषयरतिधियः पण्डितान् बोधयन्ती प्रोच्चैः संरुद्धबोध्यान् प्रवदति भुवने शाक्यसिंहस्य गण्डी //
29.32 SK व्याघ्रयै दत्त्वा स्वदेहं गुणशतनिवहं पुण्यसम्भारलब्ध बुद्धत्वं यः प्रयातः प्रतिहतदुरितो मन्मथोन्मादनार्थी / शास्ता यश्चाद्वितीयो भवभयभिदुरो भिन्नपापाभिसन्धि- स्तस्येयं वै विचित्रा स्तनति भगवतः शाक्यसिंहस्य गण्डी //
29.33 SK मायादेव्याश्च कुक्षौ जनितजिनवरः शाक्यसिंहो मुनीन्द्र् भूम्नि प्रायात्तु मध्ये प्रवरसुमुनिना लोकवृक्षस्य मूले / देवेन्द्रब्रह्मरुद्रासुरनरविबुधैः स्नापितो यः स देव- स्तं वन्दे भक्तिरत्नैः शशधरकिरणाक्षोदिदेहं मुनीन्द्रम् //
29.34 SK मारैर्नानाप्रकारैरसिपरशुधनुर्बाणहस्तैर्ज्वलद्भि- र्भीमास्यैर्दुष्टदंष्ट्रैर्गजभुजगमुखैः सिंहवक्त्रैः श्ववक्त्रैः / प्रत्यञ्चेनोनमस्य क्षणमपि शमितस्तस्य बुद्धस्य पादौ गन्तुं लोको ऽपि सर्वो ध्रुवमिति गतभीश्चैषु गण्डी निनाद्या //
982 SK श्री गण्डीस्तवः समाप्तः / कृतिरियम् आचार्य-आर्यदेवपादानाम् //
30.1 SK खर्वं स्थूलतरं गजेन्द्रवदनं लम्बोदरं सुन्दरं विध्नेशं मधुगन्धलुब्धमधुपव्यालोलगण्डस्थलम् / दन्तोद्घाटविदारिताहितजनं सिन्दूरशोभाकरं वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् //
30.2 SK हेरम्बः परमो देवः कार्यसिद्धिविधायकः / सैभाग्यरुपसम्पन्नां देहि मे सुखसम्पदम् //
30.3 SK एकदन्तं महाकायं लम्बोदरं गजाननम् / सर्वसिद्धिप्रदातारं गङ्गापुत्रं नमाम्यहम् //
30.4 SK वन्दे तं गणनाथमार्यमनघं दारिद्रयदावानलं शुण्डादण्डविधूयमानशमलं संसारसिन्धोस्तरिम् / यं नत्वा सुरकोटयः प्रभुवरं सिद्धिं लभन्ते परां सिन्दूरारूणविग्रहं परिपतद्दानाम्बुधाराहृतम् //
30.5 SK उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं कुम्भयुग्मं दधान प्रेषन्नागारिपक्षप्रतिभटविकटश्रोत्रतालाभिरामः / देवः शम्भोरपत्यं भुजगपतितनुस्पर्द्धिवर्धिष्णुहस्त- स्त्रैलोक्याश्चर्यमूर्तिर्जयति त्रिजगतामीश्वरः कुञ्जरास्यः //
30.6 SK गणपतिश्च हेरम्बो विध्नराजो विनायकः / देवीपुत्रो महातेजा महाबलपराक्रमः //
30.7 SK महोदरो महाकायश्चैकदन्तो गजाननः / श्वेतवस्त्रो महादीप्तस्त्रिनेत्रो गणनायकः //
30.8 SK अक्षमालां च दन्तं च गृह्णन् वै दक्षिणे करे / परशुं मोदकपात्रं च वामहस्ते विधारयन् //
30.9 SK नानापुष्परतो देवो नानागन्धानुलेपनः / नागयज्ञोपवीताङ्गो नानाविध्नविनाशनः //
30.10 SK देवासुरमनुष्याणां सिद्धगन्धर्ववन्दितम् / त्रैलोक्यविध्नहर्तारमाख्वारूढं नमाम्यहम् //
30.11 SK सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः / लम्बोदरश्च विकटो विध्नराजो विनायकः //
30.12 SK धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः / वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः //
30.13 SK षोडशैतानि नामानि यः पठेच्छुणुयादपि / विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा //
30.14 SK संग्रामे संकटे चैव विध्नस्तस्य न जायते / विध्नवल्लीकुठाराय गणाधिपतये नमः //
997 SK श्रीगणेशस्तोत्रं समाप्तम् //
31.1 SK भगवति बहुरूपे निर्विकारे निरञ्जे निमितनिखिलरूपे निश्चयातीतरूपे / अखिलनिगमपारे नित्यनित्यस्वभावे चरणकमलयुग्मं नौमि देवि त्वदीयम् //
31.2 SK हसितमुखशशाङ्कं ज्योत्स्नया रात्रिभूतं दशशतकिरणोद्यद्वक्त्रमाध्यन्दिनं ते / अरुणवदनशोभा औदयी चास्तकाले चरणकमलयुग्मं नौमि देवि त्वदीयम् //
31.3 SK गलजठरपदेषु स्वर्गमर्त्याहिलोकाः सकलभगणदन्ता रोमराजी द्रुमास्ते / गिरय इव नितम्बा रक्तशुक्लाः समुद्राश् चरणकमलयुग्मं नौमि देवि त्वदीयम् //
31.4 SK पवनदहनवेगाः श्वासप्रश्वास एव प्रलयप्रभवकालो मीलनोन्मीलनाभ्याम् / द्विदशतपनभूता भीमवक्त्रास्त्वदीयाश् चरणकमलयुग्मं नौमि देवि त्वदीयम् //
31.5 SK अनुपमतनुदेहं व्याप्यमानं समन्तान् निखिलनिगमसारं दर्शयन् देवि दिव्यम् / त्रिभुवनमखिलं ते दर्शितुमेति बुद्धिश् चरणकमलयुग्मं नौमि देवि त्वदीयम् //
31.6 SK विधिमुखविबुधास्ते किंकराः पादसंस्था मुकुटविधृतबुद्धे सर्वमार्गा हि शुद्धे / किमु तव महिमानं वर्णये गुह्यदेवि चरणकमलयुग्मं नौमि देवि त्वदीयम् //
31.7 SK अनुपठति समाप्तौ पूजने भक्तिमान् यो नुतिमति वितगोति स्पष्टमेवास्य बुद्धिः / सकलजनजनन्या भक्तिसम्पत्तिमुच्चैः करतलवशगास्ताः सिद्धिपुष्टयौ लभन्ते //
1005 SK श्री स्वयंभूपुराणोद्धृतं मञ्जुनाथकृतं गुह्येश्वरीस्तोत्रं समाप्तम् //
32.1 SK तृष्णाजिह्वमसद्विकल्पशिरसं प्रद्वेषचञ्चत्फलं कामक्रोधवितर्कदर्शनमथो रागप्रचण्डेक्षणम् / मोहास्यं स्वशरीरकोटिशतचिन्तातिगं दारुणं प्रज्ञामन्त्रबलेन यः शमितवान् बुद्धाय तस्मै नमः //
32.2 SK बुद्धं प्रबुद्धं वरधर्मराजं शान्तं विशुद्धं समकीर्तिदं तं / गुणाकरं सत्त्वमुनीन्द्रराजं श्रीमन्महाबोधिमहं नमामि //
1009 SK इति बुद्धरत्नस्तोत्रम् /
32.3 SK यो जात्यादिकदुःखतप्तमहसां चक्षुः सतां प्राणिनां यस्त्रैधातुकपञ्जरादहरहः सत्त्वान् समाकर्षति / अत्राणं च जगत्समुद्धरति यः संक्लेशदुःखार्णवात् संबुद्धांश्च पुनश्च्युताच्च महते धर्माय तस्मै नमः //
32.4 SK या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान् या मार्गज्ञतया जगद्धितकृता लोकार्थसम्पादिका / सर्वाकारमिदं वदन्ति मुनयो विश्वस्य या संगता तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः //
1012 SK इतिधर्मरत्नस्तोत्रम् /
32.5 SK चत्वारः प्रत्युत्पन्नगा भवसुखे सुस्वादविद्वेषिण- श्चत्वारश्च फले स्थिताः शमरताः शान्ता महायोगिनः / इत्यष्टौ वरपुंगला भगवता यस्मिन् गणे व्याकृताः प्रज्ञाशीलसमाधितप्तवपुषा संघाय तस्मै नमः //
32.6 SK बुद्धं नमामि सततं वरपद्मपाणिं मैत्र्यात्मकं गगनगंजसमन्तभद्रम् / यक्षाधिपं परिहितोद्धृतमञ्जुघोषं विष्कम्भिणं क्षितिगर्भं प्रणमामि भक्त्या //
1015 SK इति संघरत्नस्तोत्रम् /
32.7 SK गुरुर्बुद्धो गुरुर्धर्मो गुरुः संघस्तथैव च / गुरुर्वज्रधरः श्रीमान् तस्मै श्रीगुरवे नमः //
1017 SK श्री गुरुरत्नत्रयस्तोत्रं समाप्तम् //
1018 SK श्री हारतीदेव्यैः नमः
33.1 SK कुन्दप्रसूनसदृशीं रुचिराङ्गरागां नानाविभूषणविभूषितवज्रदेहाम् / सव्येन हस्तकमलेन भयार्तिहन्त्रीं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या //
33.2 SK आलिङ्गितां निजमसव्यभुजेन पुत्रान् नेत्रैस्त्रिभिश्च परिशोभितचारुदेहाम् / नानाविधैर्मणिगणै रचितं किरीटं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या //
33.3 SK तां वह्निमण्डलगतां वसुपत्रपद्मे श्रीरत्नपीठ उपरिस्थितपादपद्माम् / यक्षादिभिः परिवृतां ललितासनस्थां यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या //
33.4 SK लोकत्रयार्तिशमनीं शिशुजीवदात्रीं श्रीहारतीं करुणया निजभक्तदक्षाम् / दुःखापहां जनमनोहरभोगभाजां यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या //
33.5 SK संत्रासिनीं पिशुनवृत्तिवतां जनानां विस्फोटकादिरुजराशिविनाशकर्त्रीम् / भक्तेषु धातृसदृशीं च सुशीतलाङ्गीं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या //
33.6 SK बुद्धानुशासनरतामतिसूक्ष्मरूपां लोकत्रयार्चितपदां करुणार्चिभूताम् / गन्धर्वकिन्नरगणैः परिसेव्यमानां यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या //
33.7 SK केयूरकुण्डलसुकङ्कणनूपुराढ्यां नानाविचित्रवसनप्रदधानशीलाम् / संरक्षणीं शिशुगणान् परिपालयन्तीं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या //
33.8 SK स्वर्भूरसातलमवस्थितभुक्तिदान- संसक्तपूर्णहृदयां त्रिगुणात्मरूपाम् / तां संस्मराम्यहरहः शरणं प्रपद्ये यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या //
33.9 SK रक्षाकरीं स्तुतिमिमां प्रपठेन्मनुष्यः श्रीहारतीं निजगृहे शिशुरक्षणाय / वाचं श्रियं सुविपुलं च सुखादि सर्वं दात्री त्रिकं पठति यः प्रयतः प्रभाते //
1028 SK श्रीभवरत्नविनिर्गतं बालरक्षाकरं हारतीस्तोत्रं समाप्तम् //
34.1 SK श्रीमानाद्यः स्वयम्भूरमितरुचिरमोघाभिघो ऽक्षोभ्यबुद्धः श्रीमान् वैरोचनाख्यो मणिभवमुनिराड् वज्रसत्त्वः सुसत्त्वः / श्रीप्रजा वज्रधात्वी सकलशुभकरी आर्यतारादिकास्ताः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.2 SK देवी सम्पत्प्रसादा गणपतिहृदया वज्रविद्राविणो सा उष्णीषापर्णदेवी किटिवरवदना मातृका खेचराणाम् / कोटोलक्षाक्षदेवो स्वगणपरिवृता पञ्चरक्षा सुरक्षा कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.3 SK रत्ने दीपङ्कराख्यो मणिकुसुमजिनः श्रीविपश्यी शिखी च विश्वम्भुः श्रीककुत्सः स च कनकमुनिः काश्यपः शाक्यसिंहः / प्रत्युत्पन्नाभ्यभूतः सकलदशबलो पारमाहात्म्यसिन्धुः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.4 SK श्रीमानार्यावलोकेश्वरजिनजवरो मैत्रेयानन्तगञ्जो बुद्धः सामन्तभद्रः कुलिशवरधरो मञ्जुनाथो महेशः / सर्वाघोरीक्षितिज खगर्भाभिधानौ महान्तौ कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.5 SK बुद्धाधिष्ठानकन्दोद्भववरकमलो नागदासाभिधानः सत्यां तां यौवनाथो निजवरभुवनाज्ज्योतिरेकं ससर्ज / एकांशं पञ्च भूत्वा विहरति सततं पञ्चबुद्धात्मको ऽसौ कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.6 SK या प्रज्ञा गुह्यरूपा त्रिदलकमलजा सन्तु देवप्रसादा नैरात्मा पीठरूपा बहुविहितहिता ब्रह्मविष्ण्वीशवन्द्या / दुर्गायां मार्गकृत्स्ने कृतनतिवरदा प्रादुरासीदगाधैः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.7 SK मैत्रीयांशादभूद् यो वनमहदुपरे रत्नचूडास्यरत्नं ज्योतिः संगम्य भव्यं भवजलधितरी रत्नलिङ्गेश्वराख्यः / श्रीवत्सो वीतरागाष्टककृतमहिमा व्यक्तरूपाः(पः)स्वयम्भूः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.8 SK त्रातुं गोकर्णदुष्टं जपसि धृतमतिं लोकनाथाज्ञया ऽभूत् पद्माकारं खगञ्जाभिधजिनतनयो वाग्मतीपूरतीरे / श्रीगोकर्णेश्वरः स पितृजनहतकृद् वाग्मतीसंगमे ऽस्मिन् कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.9 SK क्रुद्धं नागाधिराजं कुलिकसमविधं त्रासयन् कीलवद् यो लोकानां भद्रहेतोः गमनवदुपरि श्रीगिरौ वीतरागः / श्री सामन्ताद्यभद्रो ध्वजकृतिरभवत् कालिनामा महेशः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.10 SK पातुं तं सर्वपादं कमलधरगिरा वज्रपाणिर्जिहीते लोकानां रक्षणार्थं पुनरपि कलशाकारतांशादभूत् सः / श्रीमान् सर्वेश्वराख्यो जिनवरतनयो दण्डशूलौ दधानः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.11 SK दुर्बोधं मञ्जुगर्तव्यजनसुखरतं कमिनीसुप्रबोधं कृत्वा प्राज्ञं महान्तं कविवरमकरोन्मञ्जुदेवस्ततो ऽपि / श्वासं संधाय भव्यं सकलगुणपदं प्राप्य गर्तेशसंज्ञाः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.12 SK मत्स्याकाराभिरासीत् सकलवरणविष्कम्भिनामा सुसत्त्वः सालङ्कारः फणीन्द्रैरदददखिलकात् योडियाख्यो ययासौ / निष्काश्याशं फणीन्द्रेश्वर इति समभूद् वीतरागो ऽप्यरागः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.13 SK स श्रीमानोडियाने व्यततपतपसा सातपत्रः सुतीरे पृथ्वीगर्भाख्यबौद्धोझटिति तं स्थापयामास वासम् / गन्धेशो वीतरागो ऽभवदखिलसुहृल्लोकनाथाग्रतस्थः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.14 SK शंखं दध्मौ सहर्षः स्मरदमितसुतं विक्रमात् प्राप्तसिद्धिः यस्माल्लोकेश्वराज्ञाविनिहितहरयः प्रादुरासीत् खगर्भः / यः स्वाशं स्थापयित्वा निजपुरमगमद् विक्रमेशाभिधानं कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.15 SK नागस्तार्क्ष्येण यस्मादलभदनुसुखं पुण्यनामा सुतीर्थः पार्वत्या यत्र तेपे कलहनिवसने शान्ततीर्थः प्रशान्तः / तप्तं रुद्रेण दुर्गाभिलषितमनसा शङ्कराख्यस्त्रिवेणः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.16 SK तीर्थो राजाभिधानो यदलभदवनीपालराज्यं विरूपो व्याधश्चैतश्च यस्मात् सुरपतिसदनं प्रागमत् कामतीर्थः / वज्राचार्येण पश्यं यदभिषवकृतः संगमो निर्मलाख्यः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.17 SK दीनैराप्तं निधानं यदपचितिपरैराकराख्यो हि तीर्थो ज्ञैर्लब्धं ज्ञानमस्माद् यदुदकमतिभिर्ज्ञानसंज्ञैकतीर्थः / चिन्तामण्याख्यतीर्थाभिधवदभिषवैर्यत्र प्राप्तो ऽभिलाषः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.18 SK यत्र स्नातैर्मुदाप्तेतिसमभिधमभूद् यश्च प्रामोदतीर्थः प्रादात् सल्लक्षणं यः स्वपयसि सरतां तीर्थसल्लक्षणाख्यः / यत्र स्नात्वा बलाख्यः सुरपतिरजयद् द्वीपमाख्यंभतीर्थः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठातां नौम्यहं ताः //
34.19 SK विद्याधर्याख्यदेवी गगनपथगता योगिनी वज्रपूर्वा हारीतः श्रीहनूमान् सगणपतिमहाकालचूडाख्यवन्द्याः / ब्रह्माण्याद्याश्च देव्यः सहरिसुखवरक्षारनास्कन्दयुक्ताः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.20 SK वाग्मत्या मूलपुच्छप्रभृतय उपतीर्थास्तथा केशचैत्याः शङ्खोच्चस्थाश्च जातोच्चयगिरिललितश्चैत्यभट्टारको ऽसौ / फुल्लोच्चो द्रष्टदेवी तदनु भगवतीध्यानप्रोच्चादिसंस्थाः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.21 SK मञ्जुश्रीपर्वतस्थो ऽनुचरविरचितो मञ्जुशोभाख्यचैत्यः शान्तश्रीनिर्मितेषु प्रकृतवसतयः पञ्चदेवापुरेषु / पुच्छाग्रश्चैत्यवर्यो ऽभ्यकथदनुपमं यत्र शाकेत्पुराशं कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.22 SK आधाराख्यो हृदिस्थः सगणफणिपतिर्विध्नराजान्तकश्च नागश्चानन्दलोके हरिहरिहरिवाहाख्यत्रैलोक्यवंशे / लोकेशायाक्षमत्वस्तदनु सफलयाशाभिलोकैकनाथः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.23 SK हेवज्रः संवरो ऽसौ सपरिजनगणश्चण्डवीरस्त्रिलोकी वीरो योगाम्बरो ऽसौ यमनिधनकराद्या दशक्रोढ(ध)राजाः / गुह्या बाह्याश्च सर्वे परिमितप्रमुखा नामसंगीतिव्याख्या कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.24 SK शीर्षे प्रागात् पयो ऽसौ सहितपरिजनश्चन्द्रसाहोसिताद्रिः छित्वा शोषे ह्रदे ऽस्मिन् पुरवरकमलो लोकवासाः परस्य / स्वस्थीभूताम्बुसंस्थः सकलजिनवरं प्राभजन्मञ्जुनाथः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
34.25 SK सौखावत्याश्च वङ्गं तदनु जनहिते पोतले प्रागमद् यः शान्तो ऽवग्राहदोषे ललितपुरवरं प्राविशन् देवहूतः / स श्रीमान् वज्रपाणिः सजटधरहयग्रीवपार्षद्गणेशः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः //
1054 SK श्री स्वयम्भुपुराणोद्धृता कल्याणपञ्चविंशतिस्तुतिः समाप्ता //
35.1 SK एवंकारसमापन्ना कायवाकचित्तबुद्धितः / करोमि सततं तस्या नुतिं पूजां प्रदक्षिणाम् //
35.2 SK या देवी सर्वसत्त्वानां सृष्टिसंहारकारिणी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.3 SK या देवी सर्वभूतानां प्रतिपाले प्रतिष्ठिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.4 SK या देवी देवदेवीनां देवतारूपिणी स्थिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.5 SK या देवी दैत्यदुर्दान्तदाहरूपा भयानका / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.6 SK या देवी सर्वनागानां सहस्रमुखनागिनी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.7 SK या देवी सप्तपाताले शान्तरूपेण संस्थिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.8 SK या देवी नरनारीणां वेदमाता चिदम्बिका / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.9 SK या देवी क्षत्रिणीवैश्याशूद्रीजातिप्रपूजिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.10 SK या देवी प्रेतलोकानां पालनाय महर्द्धिका / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.11 SK या देवी सर्वतिर्यक्षु तारिणी तापनाशिनी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.12 SK या देवी नारकीयाणां दुःखभाजां च मातृका / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.13 SK या देवी षोडशसंख्यनरकाणां विनाशिनी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.14 SK या देवी द्वेषिरागीणां मोहिनां दुर्दुरीकृता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.15 SK या देवी कामक्रोधाभ्यां क्रोधरूपेण संस्थिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.16 SK या देवी लोभलाभानां लङ्घनाय विलम्बिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.17 SK या देवी मायाया माता मातॄणां वज्रयोगिणी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.18 SK या देवी राजचौराग्निसिंहशत्रुविनाशिनी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.19 SK या देवी जलनागाहिदुर्भिक्षभयतारिणी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.20 SK या देवी पञ्चभूतानां चन्द्रे सूर्ये प्रतिष्ठिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.21 SK या देवी भौतिकी वेला आलिकालिविचारिणी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.22 SK या देवी सर्वपीठेशी क्षेत्ररूपोपछन्दिका / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.23 SK या देवी पीलवाख्याता उपपीलवमीलिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.24 SK या देवी द्वादशे चक्रे राशिलग्नविभूषिणी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.25 SK या देवी षडंगे देशे प्रोद्बुद्धमुखचन्द्रिका / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.26 SK या देवी चण्डचक्रेषु गामिनी परमेश्वरी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.27 SK या देवी कायवाकचित्ते मन्त्ररूपेण गामिनी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.28 SK या देवी निर्मलात्मा श्रीरृद्धिसिद्धिबलप्रदा / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.29 SK या देवो सर्वजन्तूनां सदा मङ्गलकारिणी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
35.30 SK य इदं पठते धीमान् देव्या भक्तिसमन्वितः / बुद्धत्वं लभते शीघ्रं कल्याणं मङ्गलं शिवम् //
1085 SK श्री त्रिकायनिवासिनीवज्रदेव्याः कल्याणत्रिंशतिकास्तोत्रं समाप्तम् //
1086 SK अथ खलु कमलवने सर्वतथागतस्तवेनातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतो ऽत्यस्तावीत्
36.1 SK ये जिनपूर्वकाये भवन्ति ये च ध्रियन्ति दशदिशि लोके / तान् हि जिनांश्च करोमि प्रणामं तं जिनसंघमहं प्रभिजष्ये //
36.2 SK शान्तप्रशान्तविशुद्धमुनीन्द्रं स्वर्णसुवर्णप्रभासितगात्रम् / सर्वसुरासुरसुस्वरघोषं ब्रह्मरुतस्वरगर्जितघोषम् //
36.3 SK षट्पदभौंरमहीरुहकेशं नीलसुकुञ्चितकाशनिकाशम् / शङ्खतुषारसुपाण्डरदन्तं हेमविराजितभाषितनाभम् //
36.4 SK नीलविशालविशुद्धसुनेत्रं नीलमिवोत्पलफुल्लितक्षेत्रम् / पद्मसुवर्णविभान्तसुजिह्वं पद्मप्रभाषितपद्मसुखाभम् //
36.5 SK शङ्खमृणालनिभं सुखतार्णं दक्षिणवर्तितवेडुलितर्णम् / सूक्ष्मनिशाकरक्षीणशशीव मात्रसुमन्त्रसरोजसुनाभम् //
36.6 SK काञ्चनकोटिसुवर्णसुनासमुन्नतमृदुतरपादपपत्रम् / अग्रधराग्रविशिष्टनासाग्रं मृदुकरसर्वजिनं सततं तम् //
36.7 SK एकसमेकतरोममुखाग्रं बालसुरोमप्रदक्षिणवर्तम् / नीलनिभोज्ज्वलकुण्डलजातं नीलविराजितमौलसुग्रीवम् //
36.8 SK जातसमानप्रभाषितगात्रं पूजितसर्वदशदिशि लोके / दुःखमनन्तं प्रशमितलोकं सर्वसुखेन च तर्पितलोकम् //
36.9 SK नरकस्थासु च तिर्यग्गतिषु प्रेतसुरासुरमनुजगतीषु / सर्वपिशाचसुखार्पितसत्त्वं सर्वप्रशान्तमपायगतीषु //
36.10 SK वर्णसुवर्णं कनकनिभासं काञ्चनतप्तप्रभासितगात्रम् / सौम्यशशाङ्कसुविमलवक्त्रं विकसितराजितसुविमलवदनम् //
36.11 SK तरुणरुहाग्रककोमलगात्रं सिंहविवादकविक्रमनादम् / लम्बितहस्तप्रलम्बितबाहुं मारुतप्रेरितसाललजिह्वम् //
36.12 SK व्योमप्रभोज्ज्वलमुंचितरश्मिं सूर्यमिव प्रभया प्रतपन्तम् / निर्मलगात्रवरेभि मुनीन्द्रं सर्वप्रभासितक्षेत्रमनन्तम् //
36.13 SK चन्द्रनिशाकरभास्करजालं क्षेत्रमनन्तसहस्रगतेषु / ते ऽपि च निश्चितसर्वि बभूव बुद्धप्रभासविरोचनतायै //
36.14 SK बुद्धदिवाकरलोकप्रदीपं बुद्धदिवाकररश्मिसहस्रम् / क्षेत्रमनन्तसहस्रगतेषु पश्यतु लोकतथागतसूर्यम् //
36.15 SK पुण्यशतानि सहस्र च कृत्वा सर्वगुणेभिरलंकृतगात्रम् / सौरगजेन्द्रनिभं जितबाहुं विमलरक्षितमण्डितबाहुम् //
36.16 SK भूमितलोपम शालिततुल्यं सूक्ष्मरजोपममागतबुद्धाः / सूक्ष्मरजोपम ये च भवन्ति सूक्ष्मरजोपम ये तिष्ठन्ति //
36.17 SK तांश्च जिनान् प्रकरोमि प्रणामं कायेन वाचा मनसा प्रसन्ना / पुष्पप्रदान सुगन्धप्रदानैर्वर्णशतेन शुचिश्च स्मरामि //
36.18 SK जिह्वशतैरपि बुद्धगुणानां कल्पसहस्रशतेन हि वक्तुम् / ये च सुनिर्वृतसाधुजिनानां सा च ललाट विचित्र अनेकैः //
36.19 SK एकजिनस्य गुणान् नहि शक्यो जिह्वसहस्रेण भाषितु किंचित् / काममशक्ति हि सर्वजिनानां एकगुणस्य हि विस्तरवक्तुम् //
36.20 SK सर्व सदेवकुलोक्तसमूहः सर्वभवाग्र भवजलपूर्णान् / ये जलग्रहणतु शक्यप्रमाणं नैव तु एकगुणा सुगतान्तम् //
36.21 SK वर्णितु सुस्तुतमज्जिनसर्वं कायतु वाच प्रसन्नमनेन / प्रमेय संचित पुण्यफलाग्रं तेन च सत्त्व प्रभोतु जिनत्वम् //
36.22 SK एव तु विश्वं नरपतिबुद्धं एव करोमि नृपःप्रणिधानम् / यत्र च कुत्र चि मभ्यभवेत जाति अनागत कल्पमनन्ता //
36.23 SK ईदृशभेरी पश्यमि स्वप्ने ईदृशनादं तत्र शृणोमि / ईदृश जिनस्तुति कमलाकरेण जाति जरास्मर तत्र लभेयम् //
36.24 SK बुद्धगुणानि अनन्तमतुल्यं ये ऽपि च दुर्लभ कल्पसहस्रम् / अनुश्रुत ये च स्वप्नगते ऽपि तेषु च देशयि दिवसगतो ऽपि //
36.25 SK दुःखसमुद्र विमोचयि सत्त्वा पूरयि षडभिः पारमिताभिः / बोधिमनुत्तर पुण्य लभेयं क्षत्रभवेत्तमभासमपत्थ्या //
36.26 SK भेरिप्रदानविपाकफलेन सर्वजिनान च संस्तुतिहेतोः / संमुखपश्यमि शाक्यमुनीन्द्रं व्याकरणं ह्यहु तत्र लभेयम् //
36.27 SK यौ इम दारकद्वौ मम पुत्रौ कनकेन्द्र कनकप्रभाश्वरौ / तौ उभि दारक तत्र लभेयं बोधिमनुत्तरव्याकरणं च //
36.28 SK ये पि च सत्त्व अनेकमनन्ता शरणविहीना व्यसनगताश्च / तेषु भवेय अनागत सर्वत्राणपरायण शरणप्रदश्च //
36.29 SK दुःखसमुद्भव संक्षयकर्ता सर्वसुखस्य च आकरभंत / कल्प अनागत बोधि चरेयं यत्तहु पूर्वं कोटि गताश्च //
36.30 SK स्वर्णप्रभासोत्तमदेशनताय पापसमुद्रं शोषतु मह्यम् / कर्मसमुद्र विकीर्यतु मह्यं क्लेशसमुद्र विछिद्यतु मह्यम् //
36.31 SK पुण्यसमुद्रं पूर्यतु मह्यं ज्ञानसमुद्र विशोध्यतु मह्यम् / विमलज्ञान प्रभासवरेण काम प्रभा च भविष्यतु मह्यम् //
36.32 SK पुण्यप्रभास विलोचनता च सर्वत्रिलोकि विशिष्ट भवेयम् / पुण्यवरेण समन्वित नित्यं दुःखसमुद्र उत्तारयिता च //
36.33 SK सर्वसुखस्य च सागरकल्पं कल्पमनागत बोधि चरेयम् / यत्नत पूर्वक कोटिगताया ईदृशक्षत्रविशिष्ट त्रिलोके //
1120 SK श्रीसुवर्णप्रभोक्तं कमलाकरसर्वतथागतस्तोत्रं समाप्तम् //
37.1 SK कल्पादिके भवसि को हि ममागभाव सर्वस्वसार करुणामय विश्वमूर्ते / कार्यादिके प्रणमतीति समन्तकं त्वां श्रीलोकनाथ तव पादयुगं नमे ऽहम् //
37.2 SK आकृष्णकेन रजसा विनिवर्तमानश्चायासि सौम्य सकलः प्रतिवासरे च / हेमस्वरूपरथकेन समुज्ज्वलेन श्रीलोकनाथ तव पादयुगं नमे ऽहम् //
37.3 SK ब्रह्मा त्वमेव हि स विप्रकुलप्रसिद्धो विष्णुश्च वैष्णवमते वरधर्मकेतुः / सर्वज्ञको ऽसि विमते प्रभवो ऽव्ययश्च श्रीलोकनाथ तव पादयुगं नमे ऽहम् //
37.4 SK बौद्धान्वये भवसि वज्रकसूर्यरूपो योगेश्वरो हि शुभयोगकमार्गकेषु / गङ्गाधरो भवभयस्य विनाशकारि श्रीलोकनाथ तव पादयुगं नमे ऽहम् //
37.5 SK कारुण्यभावहृदयः सहजः सरोचिर्विच्छिन्नकल्मषचयो गुणसागरश्च / चिन्तामणिस्त्वमसि लोकगुरुः कृपेश श्रीलोकनाथ तव पादयुगं नमे ऽहम् //
37.6 SK बन्धूकवर्ण बहुरूप विशालनेत्र सर्वप्रसूतिकृतनिष्कृतिकः सुदन्त / त्वं पद्मपाणि विमलोत्तम मित्ररूपः श्रीलोकनाथ तव पादयुगं नमे ऽहम् //
37.7 SK तव बहुलचरित्रं कः समर्थो ऽस्ति वक्तुं तदपि मुखरभावैः स्तूयसे त्वं मयात्र / यदपि पदमशुद्धं सर्वमेतत् क्षमस्व स्तुतिरिति कुसुमस्रक् भक्तिमात्रार्चनं स्यात् //
1128 SK श्रीमदार्यावलोकितेश्वरभट्टारकस्य स्तोत्रं समाप्तम् //
38.1 SK लोकातीत नमस्तुभ्यं विविक्तज्ञानवेदिने / यस्त्वं जगद्धितायैव खिन्नः करुणया चिरम् //
38.2 SK स्कन्धमात्रविनिर्मुक्तो न सत्त्वो ऽस्तीति तेन तम् / सत्त्वार्थं च परिखेदमगमस्त्वं महामुने //
38.3 SK ते ऽपि स्कन्धास्त्वया धीमन् धीमद्भयः संप्रकाशिताः / मायामरीचिगन्धर्वनगरस्वप्नसन्निभाः //
38.4 SK हेतुतः संभवो येषां तदभावान्न सन्ति ये / कथं नाम न तत्स्पष्टं प्रतिबिम्बसमागताः //
38.5 SK भूतान्यचक्षुर्ग्राह्याणि तन्मयं चाक्षुषं कथम् / रूपं त्वयैवं ब्रुवता रूपग्राहो निवारितः //
38.6 SK वेदनीयं विना नास्ति वेदना ऽतो निरात्मिका / तच्च वेद्यं स्वभावेन नास्तीत्यभिमतं तव //
38.7 SK संज्ञार्थयोरनन्यत्वे मुखं दह्येत वह्निना / अन्यत्वे ऽधिगमाभावस्त्वयोक्तो भूतवादिना //
38.8 SK कर्ता स्वतन्त्रः कर्मा ऽपि त्वयोक्तं व्यवहारतः / परस्परापेक्षिकी तु सिद्धिस्ते ऽभिमता ऽनयोः //
38.9 SK न कर्ता ऽस्ति न भोक्ता ऽस्ति पुण्यापुण्यं प्रतीत्यजम् / यत्प्रतीत्य न तज्जातं प्रोक्तं वाचस्पते त्वया //
38.10 SK अज्ञाप्यमानं न ज्ञेयं विज्ञानं तद्विना न च / तस्मात् स्वभावतो न स्तो ज्ञानज्ञेये त्वमूचिवान् //
38.11 SK लक्ष्याल्लक्षणमन्यच्चेत् स्यात्तल्लक्ष्यमलक्षणम् / तयोरभावो ऽनन्यत्वे विस्पष्टं कथितं त्वया //
38.12 SK लक्ष्यलक्षणनिर्मुक्तं वागुदाहारवर्जितम् / शान्तं जगदिदं दृष्टं भवता ज्ञानचक्षुषा //
38.13 SK न सन्नुत्पद्यते भावो नाप्यसन् सदसन्न च / न स्वतो नापि परतो न द्वाभ्यां जायते कथम् //
38.14 SK न सतः स्थितियुक्तस्य विनाश उपपद्यते / नासतो ऽश्वविषाणेन समस्य समता कथम् //
38.15 SK भावान्नार्थान्तरं नाशो नाप्यनर्थान्तरं मतम् / अर्थान्तरे भवेन्नित्यो नाप्यनर्थान्तरे भवेत् //
38.16 SK एकत्वे नहि भावस्य विनाश उपपद्यते / पृथक्त्वेन हि भावस्य विनाश उपपद्यते //
38.17 SK विनष्टात् कारणात्तावत् कार्योत्पत्तिर्न युज्यते / न वा ऽविनष्टात् स्वप्नेन तुल्योत्पत्तिर्मता तव //
38.18 SK निरुद्धाद्वा ऽनिरुद्धाद्वा बीजादङ्कुरसंभवः / मायोत्पादवदुत्पादः सर्व एव त्वयोच्यते //
38.19 SK अतस्त्वया जगदिदं परिकल्पसमुद्भवम् / परिज्ञातमसद्भूतमनुत्पन्नं न नश्यति //
38.20 SK नित्यस्य संसृतिर्नास्ति नैवानित्यस्य संसृतिः / स्वप्नवत् संसृतिः प्रोक्ता त्वया तत्त्वविदांवर //
38.21 SK स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् / तार्किकैरिष्यते दुःखं त्वयातूक्तं प्रतीत्यजम् //
38.22 SK यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता / भावः स्वतन्त्रो नास्तीति सिंहनादस्तवातुलः //
38.23 SK सर्वसङ्कल्पहानाय शून्यतामृतदेशना / यस्य तस्यामपि ग्राहस्त्वया ऽसाववसादितः //
38.24 SK निरीहावशिकाः शून्या मायावत् प्रत्ययोद्भवाः / सर्वधर्मास्त्वया नाथ निःस्वभावाः प्रकाशिताः //
38.25 SK न त्वयोत्पादितं किञ्चिन्न किञ्चिच्च निरोधितम् / यथा पूर्वं तथा पश्चात् तथतां बुद्धवानसि //
38.26 SK आर्यैर्निषेवितामेतामनागम्य हि भावनाम् / अनिमित्तस्य विज्ञानं भवतीह कथंचन //
38.27 SK अनिमित्तमनागम्य मोक्षो नास्ति त्वमुक्तवान् / अतस्त्वया महायाने तत् साकल्येन दर्शितम् //
38.28 SK यदवाप्तं मया पुण्यं स्तुत्वा त्वां स्तुतिभाजनम् / निमित्तबन्धनापेतं भूयात् तेनाखिलं जगत् //
1157 SK श्रीलोकातीतस्तवः समाप्तः //
39.1 SK भास्वन्माणिक्यभासो मुकुटभृति नमन्नाकनाथोत्तमाङ्गे भक्तिप्रह्वे सरोजासनशिरसि हसन्मालतीमालिकाभः / मौलौ मीलन्मृगाङ्गामकृशकपिशतां शाम्भवे शातयन्त्यो लोके लोकेशपादामलनखशशभृत्कान्तयः सन्तु शान्त्यै //
39.2 SK निर्धूता धूर्जटीन्दोर्न खलु पटु जटापिङ्गमासङ्गशारैः सारैरारान्मयूखैर्न च हरिमुकुटामन्दमाणिक्यभाभिः / कालिम्नो नापि लीना विबुधगणललत्कुन्तलालीनलीनाल् लोकेश्वर्यो ऽनिवार्याश्चरणनखरुचः सन्तु वो ध्वान्तशान्त्यै //
39.3 SK पर्याप्तोदारकोषस्फुटतरकमलाभोगसंपत्तिहेतुर् दूरीभूतप्रियाणामपहृतविषमातङ्कशङ्का जनानाम् / न क्षिप्तालङ्घनैरप्युपशमिततमोदुर्ग्रहोद्भूतभीतिर् लोकेशाङ्घ्र्योरपूर्वा नखशिशिररूचां चन्द्रिका वः पुनातु //
39.4 SK निःशेषं क्लेशराशीन्धनदहनमहापावकोच्चैः शिखा वो लीलालोकास्त्रिलोक्यामपहृतगहनाबद्धमोहान्धकाराः / वह्निस्कन्धेष्वबन्ध्या नरकभुवि सुधावारिविस्तारधाराः संसारीं संहरन्तां नखनिवहरुचः पद्मभृत्पादजाताः //
39.5 SK स्वच्छन्दच्छेदिवाञ्च्छावितरणचतुराचिन्त्यचिन्तामणीनाम् उद्गाढातङ्कशङ्कोद्गमशमनमनोहारिणी हारभासाम् / स्पष्टाविर्भूतनानागुणनिवहधृतादर्शबिम्बच्छवीनां छाया वः पातु लोकेश्वरचरणभुवामुन्मयूउखा नखानाम् //
39.6 SK नाथस्योदञ्चदुच्चामितरुचिरुचिभी रोचमानोरुचूडा- रोचिष्णोरुच्चकासच्चरणनखरुचां संचयो ऽसौ चिरं वः / अत्युच्चीयात् तदर्चाचतुरसुरशिरश्चारुरत्नोच्चयोच्चैर् नानानिश्चारिरोचिश्चयरचितशचीरुच्यचापोपचारः //
39.7 SK श्रीमद्भोगोन्नतीनामभिमतविषयप्राप्तिदानादहीनां सेवाभाजां समन्तादविचलितरुचः प्रीतिमुत्पादयन्तः / वैमल्यातुल्यबिम्बोपहसितशशिनः शातितध्वान्तदोषास् तोषं माणिक्यदीपा इव ददतु नखाः पद्मपाणेः पदोर्वः //
39.8 SK राजद्राजीवपाणेर्नखनिवहरुचां पादपद्मोद्भवानाम् उद्भेदो भेदको ऽसौ भवतु भवभियां निर्भराणां भरं वः / जातस्तद्देहभूमेचविरतकरुणावारिदत्तोपकारो यो ऽनल्पः कल्पवृक्षाङ्कुरनिकर इवोपात्तविज्ञानबीजः //
39.9 SK लोकेशस्याङ्घ्रिपद्मप्रभवनखरुचो दत्तमारारिसेना- संत्रासाः शोणतूणोन्मुखनिहितफलामोघबाणांशुशोभाः / शश्वत्संसारघोरावटपतितजनोत्तारणासज्जरज्जु- प्रारोहा रोहयन्तां दुरधिगममहासंपदुच्चैः पदं वः //
39.10 SK भास्वन्तः क्लेशकर्मश्रमविवशजगत्तापविच्छेदशूरां दूराद्दोषोपलब्धेः पटुबुधगुरवस्तारका ये जनस्य / सान्द्रानन्दं ददानाः सकलशशधरश्रीभृतो निष्कलङ्कास् ते वश्चिन्तामचिन्त्याः कमलकरनखाः पादजाता जयन्तु //
39.11 SK भास्वत्खण्डेन्दुखण्डैरपचितिरचना किं कृता शम्भुनेयं न्यस्ता रत्नावली वा किमु निरतिशयोत्कण्ठया बोधिलक्ष्म्या / देवैर्दिव्याद्भुतानामसमसुमनसां लम्बिता मालिका नु प्रीयात्पङ्क्तिर्नखानामिति जनितमतिर्लोकनाथाङ्घ्रिजा वः //
39.12 SK क्वायं राजीवजन्मा नमदमरशिरस्तुङ्गमाणिक्यशय्या- शश्वत्सुप्ताङ्घ्रिरेणुः क्व च धरणितलालम्बमौलिप्रणामः / इत्थं संजातहासा इव रुचिनिचयैर्दन्तुरा ये दुरन्ता ध्वान्तच्छेदाय लोकेश्वरचरणभवास्ते नखा वो भवन्तु //
39.13 SK शूरास्तापापहारे शिशिरतरसुधाशीकरासारकाराः प्राकाराः क्रूरदूरप्रसरदुरुशरासारमारापकारे / संसाराकारकारागृहबृहदुदरोदारदुःखप्रकारं घोरं वः संहरन्तां चरणनखरुचः श्रीकराः पद्मपाणेः //
39.14 SK भासो लोकेशपादप्रभवनखभुवां दूरदुर्वारमार- व्यामुक्तव्यापिबाणावरणजवनिकाभ्रान्तिमुत्पादयन्त्यः / संक्लेशानीकनाशस्फुटपिशुनमहाकेतुसंघातकल्पास् त्रैलोक्याशक्यशक्तित्रिभवजयबृहद्वैजयन्त्यो जयन्ति //
39.15 SK सम्यक्संबोधिचेतः शशिन इव समुद्भासिभासां समूहो निर्दग्धक्लेशभूतिप्रचय इव बृहन्मुक्तिमार्गानिलास्तः / विन्यस्तादभ्रशुभ्रोपलफलक इव क्रूरमारैरभेद्यः पायादुत्प्रेक्षितो वो नखरुचिनिकरः पादजः पद्मपाणेः //
39.16 SK वैलक्ष्येणेक्षणीयाः क्षणमसमतमःक्षेपदक्षाः क्षपाणा नाथेनाक्षुण्णपक्षक्षतिनिजविपदा निष्कलङ्काक्षया ये / अक्षीणारातिपक्षक्षपणपटुजगद्रक्षणाक्षुण्णदीक्षा- रक्षा रक्षन्तु लोकेश्वरचरणनखास्ते ऽक्षणक्षेपतो वः //
39.17 SK सत्संपत्साधनस्य प्रवरकमलभृत्पाददुर्गाश्रयस्य त्रैलोक्यश्रीजिगीषोर्नखरुचिनिवहस्यातुलो ऽभ्युच्चयो वः / मित्रेणाप्तोदयेन स्फुटमनुवलतालम्भितात्यन्तवृद्धेः पायात् सापायसर्वव्यसनरिपुमहायानसंसिद्धिहेतुः //
39.18 SK अव्रीडश्चूडया ऽसौ वहति पशुपतिः काममर्धेन्दुभूषां शौरेः शोभाभिलाषः कथमपि कृतिनः कौस्तुभेनास्तमेति / दृष्टे ऽस्मिन् सो ऽपि मोघो मघवमणिमहामौलिरित्याप्तचित्तैर् यत्कान्त्याचिन्ति लोकैश्चरणनखगणः पद्मपाणेः स जीयात् //
39.19 SK आरादुच्चैरुदञ्चत्कृतविततिरधस्तारको नारकाणाम् / उद्यन्नीहाररोचिः शुचिररिवदनश्यामतापातहेतुः / दुर्विज्ञेयानुभावो निखिलजगदतिस्पष्टदृष्टिप्रकाशः पादाम्भोजावलम्बी नखकिरणचयः पातु वो बुद्धमौलेः //
39.20 SK दृष्टो हृष्टामरेशार्चनचतुरवधूमुक्तकर्पूरपांशु- प्रोद्भासो भक्तिभारप्रवणहरजटाभूतिविभ्रान्तभूमिः / पूजाविक्षिप्तलक्ष्मीकरकमलगलत्केशराग्राणुरेणु- च्छायः पायादपायान्नखकरविसरः पद्महस्ताङ्घ्रिजो वः //
39.21 SK मेरौ निष्पीतपीतद्युतिरमरकरिस्फारसिन्दूरधूली- शोणश्रीशान्तशूरो हरितहरिहयाहीनहारित्यहारी / मीलन्नीलावभासो नखरुचिविसरः पद्मभृत्पादपद्माद् उद्यद्दुग्धाब्धिवृद्धित्रसदमरवधूवीक्षितो रक्षताद् वः //
39.22 SK शोभा संभाव्यते ऽस्मिन् हिमकरधवलैर्नामरैश्चामरैर्वा भक्त्यारम्भेण रम्भे परिकिरसि मुधा किं नु कर्पूरधूलीः / किं ते पुष्पैः प्रकीर्णैः शचिशुचिभिरिति स्वामिना स्वर्भुवां वः पूजायामब्जपाणेर्नखरुचिनिवहः पादजो वर्णितो ऽव्यात् //
39.23 SK कैलासोद्भासिविन्ध्ये कवलितबलिजित्कायकालिम्नि काली- लीलालावण्यलेपे विहतहरितिमश्वेतपूषाश्वरश्मौ / लोकेशाङ्घ्रेर्नखानामुरुकरनिकरे किं मयेतीव शीर्णं शीतांशोः पातु पूजाचतुरसुरजनाकीर्णकुण्डच्छलाद् वः //
39.24 SK पादाः पादोद्भवानामतिविततिभृतां बुद्धमौलेर्नखाना पारे संसारयादःपतिगमनमहासेतुबन्धायमानाः / उद्यद्दुर्वारदुःखानलशमनमहापुण्यसंभारवारि- स्वच्छन्दाच्छच्छटाभा झटिति विघटनं कुर्वतां वो भवस्य //
39.25 SK कालीकान्तेन्दुकान्तेः परिभवविधृतिर्भूरिकैलासभूभृद्- भासां हासावगीतिर्हतिरपि हिमवद्गौरतागौरवस्य / क्षीराकूपारपूरप्लुतिरपि ककुभां नाकनागीयदन्त- च्छेदच्छायाक्षतिर्वो नखरुचिविततिः पातु लोकेश्वराङ्घ्र्योः //
39.26 SK यत्पूजापारिजाते वलितमलिकुलं मीलति श्रीसरोजे सेवासक्तः स्वयंभूर्मुकुलितनलिनाद् दुःस्थितो यत्र तस्थौ / येनाश्यामा दिनश्रीः शमितसुरवधूक्लान्तिदोषा निशा ऽभूत् पादो ऽसौ पद्मपाणेर्नखविधुविलसच्चन्द्रिकः पातु युष्मान् //
39.27 SK कान्तो विभ्रान्तकान्तामरयुवतिजनैरर्चितो दृष्टिपातैः शुभ्रं विभ्राण्मृणालीनिकरमिव नखोद्योतनोद्भूतशोभः / कामीवानल्पकामप्रसरपरवशानेकचर्याप्रवृत्तः पादो वः पद्मपाणेरवतु सुरपुरीचन्दनामन्दचर्चः //
39.28 SK आनन्दामन्दभारोल्लसदमरकरैः पारिजाते विकीर्णे कालीयः कालकूटोत्कटपटल इव प्रोल्लसद्भृङ्गसार्थे / श्रेयो वः श्रीर्विधत्तामलममलनखद्योतदुग्धाब्धिमध्याद् उद्यन्ती पद्मपाणेश्चरणसरसिजस्याच्युतप्रीतिहेतोः //
39.29 SK वाञ्छाविच्छित्तिखेदोच्छलदनलशिखाछेदकच्छोच्छ्र्यो वः पद्मच्छायानुकारच्छलितमधुकराच्छादनाच्छादितश्रीः / स्वच्छन्दानच्छमूर्छच्छुचिनखकिरणोच्छूनगुच्छैरतुच्छो देयात् पादो ऽब्जकान्तिच्छुरितकररूचो ऽच्छिन्नमिच्छामकृच्छ्रात् //
39.30 SK उद्भूतोद्भासिचक्रद्युतिरमलनखैरद्वितीयोदितश्रीर् बिभ्राणो लक्षणानां गणमतुलगुणागण्यपुण्योपनीतम् / निःशेषद्वीपदीपप्रभवदतिमहद्वैभवो बुद्धमौलेः पायात् पादो नमस्यद्भुवनपतिशिरश्चक्रवर्ती चिरं वः //
39.31 SK कीर्णैराकाशगङ्गाकनककमलिनीकुड्मलैः को गुणो ऽस्मिन् किं गीतैर्गीतमेव स्फुटसरसिरूहभ्रान्तिभृङ्गावलीभिः / शक्यं माणिक्यदाम्नामिह रूचिरनखे शोभितुं नेत्यवादीद् यत्पूजायां सुरेशः स जयति चरणो वारिजव्यग्रपाणेः //
39.32 SK यो नाथस्यैव नासीदपि खलु सुगतेः कारणं जन्मभाजां यस्मिन् पद्माभिलाषी न मधुपनिवहः पक्षपाती जनो ऽपि / येनोर्वी नातिगुर्वी नतिमतिगुरुणा लम्भितापि त्रिलोकी लोकं पादः स पायात् सुगतशशधरद्योतविद्योतमौलेः //
39.33 SK यो ऽलीनां पानदानादकृत धृतमुदं संहतिं सेवकानां यस्मिन्नालं विहीनं न खलु हरिततात्यन्तशोभोपधानम् / देयाद्वो लौकनाथिश्चिरममरशिरःशायिरेणूत्करो ऽसौ श्रेयः श्रीवासभूमिर्नखकिरणहसत्केशरः पादपद्मः //
39.34 SK देहद्रोहावहोग्राहितहतिविहितो देहिनां हेतिरीहा- सिद्धेराहूतिराहो हृतिरतिमहतो बृंहतांहोमहिम्नः / क्लेशव्यूहाहितेहाहुतिविहितबृहद्द्रोहिदुःखाग्निदाह- व्यापोहा वाहिनी स्ताद्वहुविहितहिता पद्महस्ताङघ्रिभावः //
39.35 SK बुद्धालंकारमौलेरविकलकमलभ्रान्तिभृद्भृङ्गमाला वाचाला निर्विचारा रचयतु चरणोत्सर्पिणी संपदं वः / सत्त्वत्राणैककार्या स्थिरतरसुचिरावस्थितिस्थापनार्थं विन्यस्ता शृङ्खलेव प्रचुरकरुणया स्थूलकालायसस्य //
39.36 SK राजीवान्तःपलाशावलिरुचिरमृदुर्वज्रसारो विसारो क्रुध्यद्वैरिप्रमुक्तप्रहरणनिवहस्योद्भवद्भङ्गभूमिः / रक्तो रागोपशान्तेरतिशयबलवत्कारणं तारणायां संसाराम्भोनिधेर्वः सुगतशशिभृतो ऽपास्तखेदो ऽस्तु पादः //
39.37 SK जम्भारेर्जृम्भिताम्भोरुहरुचिरचये चापलेनाप्यलीन् नालं लोलापि लोला हरकरविहितानन्दकुन्दोत्करे ऽपि / भ्राजिष्णौ विष्णुकीर्णे परिमलिनि पुरः पारिजाते ऽप्यजात- प्रीतिर्यत्रालिमाला रमति जिनभृतः सो ऽङघ्रिपद्मो ऽवताद् वः //
39.38 SK भूयादुद्भूतभूरिद्युतिनिवहलसत्केशरोद्भासुरो वो रक्तच्छायानुविद्धोन्मुखनखदशनोद्भासिकान्त्या करालः / त्रस्यद्दुर्वृत्तवैरिद्विपतरलचलल्लोचनालोकनीयो लोकेशस्याङघ्रिसिंहः कमलभवजटारण्यशायी शिवाय //
39.39 SK अच्छीयानप्यनच्छो लघुरपि न लघुर्लङ्घने दिङ्मुखानां त्रैलोक्यानन्दनो ऽपि प्रबलपरपुरव्यापिसन्तापहेतुः / लावण्यालेपलिप्तो ऽप्यतिशयमधुरो वैधुराधेर्निरोद्धा पादोद्द्योतः क्रियाद् वो जिनरूचिविकसन्मालिकाशेखरस्य //
39.40 SK राजीवै राजराजो हरिरपि हरितैर्हारिभिः पारिजातैः कुन्दैः सानन्दमिन्दुर्बहुवसुविसरैर्वासवो भासमानैः / प्रीतः पाशी पलाशैरिति विबुधजनः प्राज्यपूजाविशेषं यत्रानुप्रासकाव्यायितमतत स वः पातु पादो ऽब्जपाणेः //
39.41 SK भानुर्भासां विकाशे नुतिमकृत नखेषून्मुखो नाकनाथः शर्वः शाखाग्रपर्वण्यविचलनयनो ऽप्यन्तकः प्रान्तकान्तौ / यस्यासामान्यशोभाविषयमतिशयं द्रष्टुमासीदनीशो निःशेषं दिव्यलोकः स जयति चरणो बुद्धबिम्बाङ्कमौलेः //
39.42 SK सम्यक्संबुद्धभानुस्फुटविकटजटापुञ्जकुञ्जोरुमूर्तेः संसाराम्भोधिमज्जद्गुरुतरजनतामेदिनीस्तम्भनस्य / भूयाद् भद्राय पादः कमलधरगिरेः सेवितः सिद्धसार्थैः पर्यन्तोद्वान्तकान्तिस्रवदरुणमहाधातुमन्निर्झरो वः //
39.43 SK संसाराध्वप्रबन्धश्रमसकलजगत्क्लान्तिसंशान्तिहेतु- च्छायस्येच्छाफलस्य स्फुटनखकुसुमोद्भासिशाखाभृतो वः / लोकेशाङघ्रिद्रुमस्य प्रणतसुरजनैर्मौलिमालालवाले मूले संपादितो ऽव्यान्मणिकलशभृतः स्वच्छधामाम्बुसेकः //
39.44 SK संमूलक्लेशजालप्रबलरिपुबलोन्मूलनस्थूललाभा- ल्लब्धोल्लासो विलासी बलविजयिलसन्मौलिलीलालयो वः / पाद पायादतुल्यामलकमलभृतो ऽलीकफुल्लाब्जलोभ- व्यालोलानल्पलापोल्लसदलिपटलाल्लुप्तसंगीतिलोलः //
39.45 SK त्रैलोक्यैश्वर्यलक्ष्मीचपलकरिवधूसंयमालानदण्डः कष्टक्लेशाहिदष्टस्खलदखिलजगत्पालने दक्षतर्क्षः / दुर्वारान्तःप्रवेशाकृशनरकपुरे द्वारगाढार्गलो वो भूत्यै लोकेशपादो भवजलधिसमुल्लङ्घनैकप्लवो ऽस्तु //
39.46 SK इति पादुकादेशना वृत्तो नृत्तप्रकारः सपदि विघटिता वाद्यविद्यानवद्या नो गीतं नावगीतं कृतरसरचनैर्नैव भावैरभावि / इत्यन्तः स्मेरशाक्रे सदसि न शकिता यत्र पूजाप्सरोभिः कर्तुं भावातुराभिः स जयति जनितातृप्तिरूपः सरोजी //
39.47 SK उद्दामस्थामवामक्रमविषममिलन्मारमानप्रमाथी मध्यादुन्माथिमोहोद्गमममितमहोमौलिरायामभीमम् / श्रीमन्निःसीमभूमासममहिममहाकामधामातिभूमौ सत्त्वप्रेमप्रकामप्रथितमृदुमना निर्विरामाश्रयो वः //
39.48 SK सारप्राकारघोरावरणनिवरणो बन्धनक्रूरदूर- स्फारावारातिरौद्रे नरकनगरिकाकारधारिण्यरीणाम् / कारागारोदरे यः स्मरणशरणतां कारणाकातराणां यातः सत्कारकारी गुरुतरकरुणः पातु लोकेश्वरो वः //
39.49 SK कल्पान्तोल्लासिहेलाचलदनिलचलोल्लोलकल्लोलमाला- वाचाले नक्रजालाकुलकलिलजले वारिधावुल्ललन्तः / आलम्बे यस्य नीलोत्पलविमलमहाकुट्टिमालीनलीलाम् आलीयन्ते लधीयः स जगति कमली पालनायाल मस्तु //
39.50 SK धूमौघोबन्धबन्धीकृतविधुरविधुब्रध्ननिर्बन्धधामा नीरोधोद्भेदबाधाबुधविबुधवधूधीरतोद्धारधुर्यः / यन्नामाधीतिधाराधरविधृतिकृतामेति धूमध्वजो ऽपि प्रध्वंसं साधु धेयान्निरवधि स विधिं बुद्धधारो धृतेर्वः //
39.51 SK क्रोधादुत्क्षिप्तकालायुधकरनिकरः क्रूरसूत्कारकारी दानक्लिद्यत्कपोलाकुलमधुपकुलाकाण्डकालोरुकायः / क्रान्तो यन्नामकष्टाङ्कुशहतिकृपणः कातरेण करीन्द्रो लोकेशः स प्रकामोपकरणकरुणः कामकृत्यं क्रियाद् वः //
39.52 SK सूत्कारिश्वासपोषाकृशविषवमथुप्लोषिरोषाश्रयाशा दंशाशादर्शितास्या भृशततशिरसो नाशने दन्दशूकाः / यन्नामाशीविषेशद्विषि विशति विषां धीषु नश्यन्त्यनीशा लोकेशः सो ऽस्तु विश्वश्रयदतिविषमक्लेशराशेः शमाय //
39.53 SK गन्धोद्गारोरुगर्वग्रहणगजगणग्रासगीतोग्रवेगः सावेगोदग्रगामी गलगहनगुहागाढगम्भीरगर्जः / योगैर्युग्योपयोगानगमि मृगपतिर्यद्गणोद्गीतियोगाद् दुर्योगं वः स योगी स्थगयतु सुगतासङ्गितुङ्गोत्तमाङ्गः //
39.54 SK भूयो ऽपायानुमेयः क्षतदयहृदयो भीविधायी विहाय स्थेयान् शैलोपमेयः श्रयदलिगवयच्छायकायो निकायः / सद्योगोपायमायामय इव विलयं यातवान् यातवीर्यो यत्पादध्यायिनेयः स सुगतनिलयो जायतां वो जयाय //
39.55 SK संत्रासावासभूमिं कलिविसरसरद्यादसं भास्वरासि- प्रासप्रोल्लासिभङ्गं प्रसृतसितलसत्केतुसत्फेनहास्याम् / यत्सेवासाधुनावा द्विषदसमसमित्सारसेनास्रवन्तीं सोत्साहाः संचरन्ते सुखमसुखमसौ संह्रियाद् वः सरोजी //
39.56 SK भूभृत्संभारभेदप्रभुकरविभवो भूरिभूभोगभीमं बिभ्राणश्चित्रभानुं भवदतिभरभीसंभ्रमोद्भ्रान्तिभूतः / दम्भोलिर्भीतिभाजामभवदभिपतन्नाशुनाभावभूमिर् भक्तेर्यस्य प्रभावात् स भवतु भवभिद्वो भृताम्भोजशोभी //
39.57 SK आबाधाधूतधैर्यश्च्युतिविधिसविधो दुर्विधक्रोधवेध् बाधादुःसाधरोधोद्धुरबहुविविधव्याधिसंबाधदेहः / यस्य ध्यानावधानादधिकधृतिसुधाधानसंधारितासु- र्धीमान्नाधेर्विधेयो धियमवतु स वो बोधये बुद्धमूर्धा //
39.58 SK आरादाहूतियातृक्षितिपतिरतुलारातिशातिप्रताप- प्रोद्गीतिर्दण्डनीतिप्रथितपितृपतिख्यातिजिद्दण्डनीतिः / यत्पादाधीतिशक्तेः कुपितमतिरतिप्रीतिमायाति भूतेर् व्याघातोद्भूतिहेतुर्जिनवृषवसतिः संह्रियाद् वः स भीतिम् //
39.59 SK ब्रह्मा जिह्मायितो ऽभूदगुरुरपि गुरुः खण्डिताखण्डलोक्तिर् विष्णुस्तूष्णीमधृष्टो वचनविरचने वीतगर्वो ऽपि शर्वः / तुष्टास्तुष्टूषवो ऽपि स्फुटमिति विबुधा नो बुधा यद्गुणोक्तौ स श्रीमानब्जपाणिर्जयति जिनमनोगोचरान्तर्गुणौघः //
39.60 SK धात्रा चित्रं चरित्रं सुररिपुरिपुणा सत्रिनेत्रेण नेत्र् गोत्रामित्रेण गोत्रं गतिरपि गुरुणा रात्रिपेणापि गात्रम् / मैत्रं मित्रेण पुत्रीयितसकलजगत्प्रेम पुत्रेण चात्रे- र्यत्रेदं स्तोत्रपात्रं स्तुतमवतु स वो ऽमात्रसत्तो ऽब्जपाणिः //
39.61 SK यस्मिन् ब्रह्मा बहुत्वं बहुबहुमतवानाननानां निजाना स्कन्दो ऽप्यानन्दगर्भं नुतिषु नतिकृतौ नागनाथो ऽपि मूर्ध्नः / शक्रः श्लाघ्यामनैषीन्नयनदशशतां यं विलोक्य त्रिलोकी- लोकेशो निर्विरामानतिनयनरतिस्तोत्रपात्रं स पायात् //
39.62 SK खेदी खे दीप्तरश्मिः किल विफलमसावध्वनीनोध्वनीनो लोकालोकार्थमास्ते ननु कमलभृतो दीप्ततापः प्रतापः / धीरैर्धीरैरकारि स्तुतिरिति विहितोल्लासभासां सभासां यस्यार्यस्यास्तु तस्माज्जगति कृतरिपुक्षिप्रसादः प्रसादः //
39.63 SK न्यस्ता यस्मिन्नमस्ये नतिरपि नितरामुन्नतिः पुण्यधाम्नां निःसामान्यैकमान्ये ऽपचितिरुपचितिर्भूयसी भक्तिभाजाम् / ध्यानस्थानस्य यस्य स्मृतिरपि सहसा विस्मृतिर्भूतभीतेः सो ऽनन्ताचिन्त्यलोके विहितहितपथो लोकनाथो ऽवताद्वः //
39.64 SK दम्भो दम्भोलिरैन्द्रः क्वचिदकृत सुरारातिशातो ऽतिशात् हारी हारीरणासौ बलवति विफलाभीषु राजीषु राजी / चक्रे चक्रेण नार्थं हरिरिति जनता नूनमाहेति हेति- व्यासव्यासक्तिमुक्तान् जयति रिपुजनोल्लासरोजी सरोजी //
39.65 SK लोकातोतं दधानः सुखमपि जगतां तीव्रदुःखेन दुःखी नित्यं नित्यानुरक्तो ऽप्यशरणकृपणप्राणभृद्योगयुक्तः / त्रैलोक्यस्यैकनाथो ऽप्यसमरुचिजनाराधनाबन्धुरो यः सो ऽव्यात् संबुद्धमौलिर्विहितविसदृशाचिन्त्यचर्यश्चिरं वः //
39.66 SK निर्विच्छेदत्रिलोकीनिहितनिरुपमस्नेहयोगानुयोगा निर्वाणो न प्रकम्प्यो बलवदलघुभिस्तीर्थिकोन्मत्तवातैः / जीयाल्लोकेशदीपः स भुवनभवनोद्भूतमोहान्धकार- ध्वंसो ऽविध्वंसधामा परहितकरणोद्योगसंवृत्तवर्त्तिः //
39.67 SK क्वासौ सर्वत्र मैत्री क्व विषमबहलक्लेशविद्वेषिदाहः क्व प्रौढा मुक्तिशक्तिः क्व च दृढकरुणापाशनिष्पन्दबन्धः / क्वोपेक्षापक्षपातः क्वपरहितकृतिव्यग्रता तद्विचित्रं चित्रं राजीवपाणेश्चरितमतिजगज्जायतां ज्योतिजिद्वः //
39.68 SK सर्वाग्रः सर्वरूपप्रथनपृथुनयः सर्वदा सर्वनाथः सर्वेषां सर्वथा यो विनयविधिमहासर्वगुर्वर्थसिद्ध्यै / सर्वैः सातोतगर्वैर्गुरुमहिमगुणैः खर्वयन् सर्वगर्वान् सर्वः सर्वप्रदो वः सफलयतु रूचीः सर्वविन्मौलिरुर्वीः //
39.69 SK ईशः स्वामी प्रजानां पतिरमरगुरुर्लोकपालो महेन्द्रो भास्वान् दत्तारिदण्डः परजयबलिजिद् वित्तदो जैत्रपाशः / इत्यन्तर्हासगर्भं भणति परिजने ऽन्वर्थनाम्नां निजानां पात्रे यत्रानुलज्जैर्नतममरगणैरब्जपाणिः स जीयात् //
39.70 SK वर्यार्याणां वरेण्यो वरपरविधुरोत्सारणा संवरो व् दुर्वारैः सारमारैरमितकरधरो दुर्धरो वैरिवीरैः / वीरो वीरारिवारी प्रचुरतरवरोदारसंभारवारि- स्फारासारोरुधाराविसरवितरणाधीरधाराधरः स्यात् //
39.71 SK नित्योद्युक्ते ऽतिशक्ते प्रभवति नलिनोद्भासि हस्ते समस्तो नाथी संसारयादःपतिपथपथको लोक इत्याकलय्य / यस्मिन् विन्यस्य भारं लघुरलघुकृपो विश्वदीपं प्रपेदे बुद्धो ऽवन्ध्यप्रतिज्ञाकृतधृतिविधृतिर्निर्वृतिं सो ऽवताद्वः //
39.72 SK उच्चैरूढो गरीयान् सुगत इव जगत्कार्यसंभारभारो न्यस्ता हस्ते प्रशस्ता निज इव कमलालंकृतिर्भक्तिभाजाम् / निर्वाणं नारकाग्नेर्निचय इव चिरं प्रापितः सत्त्वसार्थः तीव्रक्लेशप्रबन्धो जन इव शमितो येन पायात् स युष्मान् //
39.73 SK यो नानानन्तरूपप्रकटनपटिमख्यातमायो ऽप्यमायः संशान्ताशेषभीरप्यतिकरुणतया कातराचारकारी / वीतक्रोधो ऽपि दुष्टाशयदमनबुधक्रोधनित्यानुबन्धः संबुद्धोद्भासिमौलिः स जयति महतां चिन्तनीयो ऽप्यचिन्त्यः //
39.74 SK धत्ते नैवोत्तमाङ्गं परमपितु वपुर्यो ऽमिताभाभिरामं सन्नालं नारविन्दं गुरुभयविधुरा वैरिसेनापि यस्य / येनाबद्धा जटा नो जगदहितहतिव्यापृतेनापि कक्षा दक्षो ऽसौ रक्षताद्वः कुपितयममुखालोकनाल्लोकनाथः //
39.75 SK शेषाशङ्की चकम्पे भवसलिलनिधिः क्लेशसार्थैः प्रलीन विश्रान्तं बोधिसत्त्वैर्मुनिरपि शुशुभे श्लाघ्यनिर्वाणलीलः / यस्मिन्नाबद्धकक्षे प्रसरति परितो ऽशेषसत्त्वार्थकार्य- व्यायामे स प्रकामं शमयतु सुगतावासमौलिर्मलं वः //
39.76 SK प्रत्यूहव्यूहबाधाविघटनविषमे मानसस्याप्यभूमौ कर्मण्येकान्तशर्मच्छिदि जगदहितोच्छित्तये पद्मपाणिः / निघ्नः क्रीतो ऽथ भीतो बलवदिव यया निर्विकारो नियुक्तः सा नाथस्यातिगुर्वी प्रभुरवतु कृपा निष्कृपादन्तकाद्वः //
39.77 SK भूमिर्नैवाभिभूतेर्मृदुतरमपि यल्लोकधातूननन्तान् अत्यन्तावीर्यवीर्यं युगपदपि भृशं भासयंस्त्रासशान्त्यै / खद्योतोद्योतलेशानुकृतिविलिसिताशेषतेजस्वितेजस् तेजो लोकेश्वरं वो हरतु हृदि भवद्भूरिमोहान्धकारम् //
39.78 SK निःशेषाकाशधातुर्जन इव जनितापूरिताशः समन्तात् प्रारब्धः सर्वभासामिव निरतिशयापायराशेर्विलोपः / सार्धं सान्द्रान्धकारैः शममगमि महानृद्धिमान्मानिमारो येनोद्भासः स भूयात् सरसिरूहभृतो भूतये जायतां वः //
39.79 SK ईशो ऽन्यद्योतनाशो बलभिदितरभादुःशमध्वान्तराशेः सत्त्वद्रोहाशयानामनुपमतपनो यो ऽच्युतश्चित्रभानुः / नानानन्ताचलादिव्यवहितविषयोद्भासने शक्तिधारी लोकेशोद्भास एकोप्यमरगणनिभो भीभिदे वः स भूयात् //
39.80 SK संपन्नाशेषसत्त्वप्रचुरजलचरेच्छासुखं यत्र दूरं दुर्लङ्घये यान्त्यधस्ताद् गिरय इव जनानर्थदुस्तीर्थ्यसार्थाः / दुर्वारो ऽसौ समन्तात् पृथुभवभुवनाभावसंरम्भजृम्भी भीदावाग्निप्रशान्त्यै करकमलविभाम्भोनिधिर्जृम्भताद्वः //
39.81 SK निर्वाणो नारकाग्निः किमिति यदि विनेयेषु धर्मामृतौघो- राशिर्बद्धो जटानां यदि गतिरहितः किं समहो रिपूणाम् / मर्धागारे गरीयान् यदि वसति जिनो बन्धुरा किं त्रिलोकी नाथस्येत्थं विचित्रा व्यवहृतिरहितं हन्तु वो लोकबन्धोः //
39.82 SK मूर्च्छत्येकापि सत्त्वाशयवशविहिताकारभेदाभिराम् दुर्भेदाभूतकल्पा चलदचलमहारम्भदम्भोलिकोटिः / लौकेशी सन्मनीषाकुमुदशशिरुचिस्तीर्थिकानर्थकोटि- ध्वान्तान्तर्धानभानुर्भवतु भवभिदे देशना शासनी वः //
39.83 SK दुर्वादोन्मादनादिप्रचुरमदकणादाक्षपादादिवादि- प्रोद्यन्नानाविवादास्पदमदसदसां सापवादो विवादः / उत्सादः सप्रमादोन्मदजनविपदां कोविदानां प्रसादो भावानुत्पादवादो जयति जिनवपुः पादसंपादमौलेः //
39.84 SK त्रस्तव्यस्तारिशस्त्रं त्रयि जगति चकास्ति स्तुतो यद्गभस्ति- स्तोमो विस्तीर्णतोयं मरुनिलयसदां विस्तरध्वस्ततापः / स स्तादस्ताहितास्त्रो बलिवलिकुलिशः पद्महस्तस्य हस्तो- ऽनापास्त्यैः वं समस्तत्रिभुवनविकसत्साध्वसापास्तिशस्तः //
39.85 SK संवर्तोद्वृत्तवातव्यतिकरविषयोत्तुङ्गशैलद्रुमाली- निर्मूलोन्मूलनाय प्रभुररिकरिणां शातितानल्पदर्पः / भद्रो लोकेश्वरस्य प्रणयिमधुकराकर्षदानौघवर्षी हस्तस्तम्बेरमो वो भवरिपुनगरीभञ्जनायालमस्तु //
39.86 SK सत्कोषं सन्निधानं घनरुचिजिनतावाञ्छिताच्छेदसिद्धौ यद्यातं शातकोटिमनुकृतिमहितत्रासिसत्पत्रकोटि / सम्यक्संबोधिलक्ष्मीकृतवसतिगुणश्लाघयैवाविमुक्तं मुक्तेस्तत्कारणं वः करकमलमलं लोकनाथस्य भूयात् //
39.87 SK शश्वद्वर्धिष्णुतृष्णाविकलगलदरीविह्वलप्रेतराशेर् आह्लादोत्पादि सत्यं कमलमधिवसद्बोधिलक्ष्मीकमब्जम् / सत्पद्मं भूतिवाञ्च्छाविनिहितमनसां साधुसेवापदं यत् तल्लोकेशस्य युष्मान् पटुरुचिपटलीराजिराजीवमव्यात् //
39.88 SK नानादुःखप्रतानां तनुकिरणघनोत्तापनक्लेशभानु- म्लानं दीनाननं यज्जनमनुजनयत्यातपत्रोपमानम् / ग्लानिं मा गादहीनं तदखिलभुवनान्यूनभानूद्वितानं लीनं लोकेशपाणौ नलिनममलिनं म्लानिमेनो नयेद्वः //
39.89 SK स्थाम्नः स्थानं महिम्नो महदुदयपदं धामधाम्नां प्रथिम्नस् त्रासावासो रिपूणां दुरभिभवभवाद्भीभिदोद्भूतिभूमिः / कान्तं शोभानिशान्तं वसतिरतिजगद्वीर्यविस्तारिराशेर् लोकेशस्यास्तु बाहुर्बहुजगदहितोच्छेदनाचण्डदण्डः //
39.90 SK यल्लावण्यामृतौघं क्षरदपि जनितातङ्कमेवाहितानां तृप्तिं नैव प्रयच्छत्यथ पुनरतनुप्रीणनं लोचनानाम् / शोभागारं विशोभीकृतसकलजगद्भूषणं भूषणानां तद्भुयादेकचीरं सुखमसुखनुदे भास्वदम्भोजिनो वः //
39.91 SK म्लानं रूपाभिमानैर्जगति सफलतां लोचनैः पुण्यभाजां यातं घातं तु तृष्णाततितरलतरैर्यत्र लावण्यसिन्धौ / मन्ये ऽसंख्यैः शशाङ्कप्रभृतिभिरतुलं कान्तिमद्भिः कृतं स्याद् एकं यद्यास्यमस्याप्यतिजयि जयतां तन्मुखं पद्मपाणेः //
39.92 SK यस्मिन् विद्वेषभाजामविरतविलसत्कान्तितोयौघमेघैः संवृत्तं दाहदायि स्फुटतरमसकृद्दुर्दिनं देहिनां तु / धौता ध्वस्तानुबन्धा बहुलमलमषीपङ्कलेपप्रबन्धाः तद्बुद्धागारमूर्द्धामुखमतिसुखदं स्ताद्विचित्रक्रियं वं //
39.93 SK इष्टाब्जाक्लिष्टपाणेः स्फुटविकटकुटीकुट्टिमान्तोपविष्ट- स्पष्टश्लिष्टामिताभद्युतिपटुपटलापाटलाभापटिम्नः / शोभाविष्टैरदृष्टोपरिघनघटनस्योत्कटाटोपबन्धः कूटस्याव्याज्जटानां कटुरकटसुहृत्संकटात्कङ्कटो वः //
39.94 SK अत्यन्ताह्लादहेतोरविरतविस्तृतस्यामिताभप्रभाम्भ संभारस्यैव सेकान् निरतिशयमृजासुन्दरो लब्धवृद्धिः / उद्दामामोदिदिव्याद्भुतकुसुमचयैरर्चितश्चिन्तितार्थ- प्राप्तेः संपत्तये स्तान्नलिनधरजटाकल्पवल्लीचयो वः //
39.95 SK यासां बद्धो विमुक्तिं गमयति नियतामुज्झितान्याधिवासो निःसामान्यां विभूषां जनयति वपुषा यासु नाथो ऽमिताभः / सर्वामोदच्छिदो या निरुपमवहलामोदलिप्ताखिलाशा लौकेश्यो ऽवश्यलभ्यां मृतिमतिविकटास्ता जटा वो हरन्तु //
39.96 SK संघातो नो जटानामखिलजनमनोबन्धने पाशराशिर् लावण्यं नापि दुःखानलविकलजगज्जीवनीयो ऽमृतौघः / नाम्भोजं दुष्टदम्यान्तकतुरगकशाक्लेशदोषातिमोषः प्रत्याशा पोषसिद्धिं दिशतु जिनशशिश्लेषिकेशः श्रियो वः //
39.97 SK उद्दामापिङ्गतेजःप्रसरविरचिताशेषदिग्दाहमोह- त्रस्तात्राणात्रिलोकीकवलनरभसोल्लासिकालाग्निकल्पम् / दष्टौष्ठं दुष्टदृष्टिज्वलितमनुहयग्रीवमाबद्धलक्ष्म्या जाता लोकेश्वरी वः क्षणमतुलकृपाकातरा दृष्टिरव्यात् //
39.98 SK लोपं लोकः प्रयाति स्फुटमखिलमहाभूभृतामद्य तूर्ण चूर्णीभावो धराणामपि जलनिधयः शोषमायान्त्यनन्ताः / इत्थं यस्यान्तकोपभ्रुकुटिभरभवद्भङ्गभीमाल्ललाटा- न्निर्यान्तीं वीक्ष्य देवीमतुलभुजबलैस्त्रस्तमब्जी स जीयात् //
39.99 SK स्तुत्यैः स्तुत्या गुरूणामपि जगति गुरुर्वन्दिता वन्दनीयैर् मूर्तेवानल्पकल्पार्जितसकलजगत्त्राणनिर्व्याजशक्तिः / लोकस्यार्तिच्छिदा यैः स्वयमतुलकृपैवाब्जिनो निर्गता स्तात् तारा संसारकारोदरगुरुविलसत्कारणाहारिणी वः //
39.100 SK गीर्वाणग्रामगीतो गुरुगणनगुणो गीष्पतेरग्रगाभिर् ग्राह्योनुद्गाढवर्गस्फुटगतिगहनो हंसगाम्युग्रगाभिः / गम्भीरोद्गारिणीभिर्निगदितगरिमागेयपूगाल्पभागः सम्यग्गम्यः समग्रो ऽवतु सुगतगिरामब्जिनो वो गुणौघः //
39.101 SK कविरपि जन्मनि जन्मनि भक्तश्चरणे ऽवलोकितेश्वरस्य / प्रकृतिशरणगोत्तरधीः परहितगुरुकार्यकार्यः स्याम् //
1261 SK महाक्षपटलिकश्रीवज्रदत्तकविविरचितं श्रीलोकेश्वरशतकं समाप्तम् //
40.1 SK नानाकृतिं सुकृतिनं जगतः शरण्यं लोकेशकेशवहरात्मधरैरवश्यम् / संसारसागरतरं कमलायताक्षं श्रीलोकनाथविबुधं शुभदं भजामि //
40.2 SK रक्षाकरं सकलभीतिवतां जनानां वामाननं कनककुण्डलचारुकर्णम् / ग्रैवेयकादिमणिकाभरणेन शोभं श्रीलोकनाथविबुधं शुभदं भजामि //
40.3 SK भक्त्या नतस्य मनुजस्य विपद्विरामं स्वर्गापवर्गफलदं वरदं दयालुम् / देवाधिदेवममरं जिनसंघवन्तं श्रीलोकनाथविबुधं शुभदं भजामि //
40.4 SK सन्तप्तरूपतिलकं तिलकं सुराणां रत्नाकरं कनककुन्तकशोभहस्तम् / भ्राजिष्णुमाभरणधारणदिक्प्रदं तं श्रीलोकनाथविबुधं शुभदं भजामि //
40.5 SK दुर्गन्धदुर्गतिहरं दुरितापहारं दुर्भिक्षनाशकरणं करुणाकरं तम् / विद्याप्रदं गुणनिधिं शुभशुद्धदेहं श्रीलोकनाथविबुधं शुभदं भजामि //
40.6 SK इत्थं वरं सकलभूतगणाधिनाथं त्रैलोक्यनाथममरैरपि वन्द्यमानम् / एवं क्वचिद् रथवरे सुखसंप्रविष्टं श्रीलोकनाथविबुधं शुभदं भजामि //
40.7 SK यक्षादिकिन्नरनरैर्मुनिभिश्च नागैर्विद्याधरैः सुरगणैर्दनुजैः पिशाचैः / सर्वोपकारनमितं पुटिता ग्रहस्तैः श्रीलोकनाथविबुधं शुभदं भजामि //
40.8 SK गन्धादिचन्दनयुतं मृगनाभिभिश्च कर्पूरकुङ्कुमवरैर्हरिचन्दनैश्च / तस्यानुलेपनकृतेन सुशोभिताङ्गं श्रीलोकनाथविबुधं शुभदं भजामि //
40.9 SK रोगादिनाशनकरं भजतां सुनाम शोकादिदुःखहरणं सुखचिन्तनीयम् / पीयूषतुल्यवचनं मृदुजातगात्रं श्रीलोकनाथविबुधं शुभदं भजामि //
40.10 SK आजानुलम्बितकरं गजराजमध्यं सौन्दर्यकुण्डशिखरं स्फटिकाभदन्तम् / अत्यन्तसुन्दरतनुं शुभलक्षणाङ्गं श्रीलोकनाथविबुधं शुभदं भजामि //
40.11 SK ये लोकनाथस्य सदा सुरभ्यं स्तोत्रं पठिष्यन्ति जना सभावाः / श्रीलोकनाथो ऽपि तदीप्सितार्थं स्वहस्तग्रस्तस्त्वरितं ददाति //
1273 SK श्रीलोकेश्वरस्तोत्रं समाप्तम् //
41.1 SK यद्बुद्धैरिह शासनं नवविधं सूत्रादि संकीर्तितं लोकानां चरितानुरोधनिपुणं सत्यद्वयापाश्रयम् / तस्मिन् रागनिराकृतौ नहि कथा द्वेषक्षये जायते द्वेषस्यापि निराकृतौ नहि कथा रागक्षये जायते //
41.2 SK मानादेरपि यत् क्षयाय वचनं नान्यं मलं हन्ति तत् तस्माद्वयापितरं न तत्र च पुनस्तास्ता महार्थाः कथाः / मा मोहस्य परिक्षयाय तु कथा क्लेशानशेषानसौ हन्यान्मोहसमाश्रिता हि सकलाः क्लेशा जिनैर्भाषिताः //
41.3 SK मोहस्यास्य परिक्षयाय च यतो दृष्टाः प्रतीत्यादय- स्तत्त्वं तत् प्रतिपच्च सैव सुगतैः संकीर्तिता मध्यमा / कायो धर्ममयो मुनेः स च यतः सा शून्यतेत्युच्यते बुद्धानां हृदयं स चापि महती विद्येति संकीर्त्यते //
41.4 SK यस्मात्सर्वगुणाकरो ऽयमुदितो बुद्धैरतस्तत्कथा शास्त्रे मध्यमके ऽथ विस्तरतरा मुख्यात्मना वर्णिता / कारुण्यद्रुतचेतसा प्रवचनं बुद्ध्वा यथावस्थितं बुद्धानां तनयेन तेन सुधिया नागार्जुनेनादरात् //
41.5 SK गम्भीरं जिनशासनं न हि जनो यो वेत्ति तत्संविदे मौनीन्द्राद् वचसः पृथङ्निगदितुं वाञ्छन्ति तत्त्वं च ये / अन्ये ये ऽपि कुबुद्धयः प्रवचनं व्याचक्षते चान्यथा तेषां चापि निराकृतौ कृतमिदं शास्त्रं हतान्तर्द्वयम् //
41.6 SK स्पष्टं राहुलभद्रपादसहितो नागार्जुनो तन्मत देवेनाप्यनुगम्यमानवचनः कालं चिरं दिष्टवान् / तच्छास्त्रप्रविवेकनिश्चितधियस्तीर्थ्यान् विजित्याखिलां- स्तच्छिष्या अपि शासनं मुनिवरस्यादिष्टवन्तश्चिरम् //
41.7 SK आयाताय शिरो ऽर्थिंने करुणया प्रोत्कृत्य दत्त्वा शिरः संयाते तु सुखावतीं जिनसुते नागार्जुने तत्कृताः / ग्रन्थाः शिष्यगणाश्च ते ऽपि बहुना कालेन नाशं गताः तत्त्वार्के ऽस्तमिते ऽधुना न हि मतं स्पष्टं तदस्ति क्वचित् //
41.8 SK उत्प्रेक्षा रचितार्थमात्रनिपुणे दुरंगते सत्पथाद् उन्मत्ते ऽथ निपीय तर्कमदिरां लोके ऽधुना भूयसा / सर्वज्ञोदिततत्त्वबोधरहिते बौद्धे मते व्याकुले धन्यो ऽसौ क्षणमप्यपास्य विमतिं यः शून्यतां गाहते //
41.9 SK भीत्या वस्तुनिबन्धनोपरचितैर्यः शास्त्रपाशैर्वृत- श्चित्त्वोत्प्लुत्य च याति वस्तुपरिखां चैको मृगो ऽसौ महान् / तं प्रत्यद्य न चिन्तया मम गुणश्चैकस्तु यो नाधुना तं प्रत्येव तदन्यशास्त्रमथनी वृत्तिः कृतेयं मया //
41.10 SK दृष्ट्वा सूत्रसमुच्चयं परिकथां रत्नावलीं संस्तुती- रभ्यस्यातिचिरं च शास्त्रगदितास्ताः कारिका यत्नतः / युक्त्याख्यामथ षष्टिकां सविडलां तां शून्यतासप्ततिं या चासावथ विग्रहस्य रचिता व्यावर्तिनी तामपि //
41.11 SK दृष्ट्वा तच्छतकादिकं बहुविधं सूत्रं गभीरं तथा वृत्तिं चाप्यथ बुद्धपालितकृतां सूक्ष्मां च यद्भाविना / पारम्पर्यसमागतं प्रविचयाच्चासादितं यन्मया पिण्डीकृत्य तदेतदुन्नतधियां तुष्टौ समावेदितम् //
41.12 SK चिन्तामण्डल एष तर्कमथनः साक्षादिहावस्थितान् अर्थान् सम्यगनाकुलान् पटुधियां वागांशुभिर्भासयन् / वृत्तिं स्पष्टतरामिमां च विदधच्चन्द्रो ऽधुना कीर्तिमान् लोकानामुदितो निहन्ति विमतीः सान्द्रान्धकारैः सह //
41.13 SK कृत्वा वृत्तिमिमामनाकुलपदां सत्प्रक्रियामादरा श्राद्धानां सुधियां न निश्चयविधौ युक्त्यागमापाश्रयाम् / यत्पुण्यं मम शून्यतेव विपुलं तेनैव लोको ऽखिल- स्त्यक्त्वा दृष्टिगणं प्रयातु पदवीं सर्वप्रपञ्चच्छिदाम् //
41.14 SK शास्तारं प्रणिपत्य गौतममहं तद्धर्मतावस्थितान् सम्बुद्धान् सकलं जिनात्मजगणं धर्मं च तैर्भाषितम् / चक्षुर्भूतमनन्तबुद्धवचनस्यालोचने देहिनाम् यो ऽमुं मध्यमकं चकार कृपया नागार्जुनस्तं नमे //
1288 SK श्री चन्द्रकीर्तिकृता मध्यमकशास्त्रस्तुतिः समाप्ता //
1289 SK ओम् नमः शाक्यसिंहाय
42.1 SK सिद्धं प्रसिद्धं विजितामरं च शान्तं विरागं सुविशुद्धशीलम् / विश्वेश्वरं सर्वगुणाकरं वै श्रीशाक्यसिंहं प्रणमामि नित्यम् //
42.2 SK छत्राभशीर्षं वरनीलकेशं चोर्णासुशोभं हि महाललाटम् / नीलोत्पलाभं नयनं विशालं श्रीशाक्यसिंहं प्रणमामि नित्यम् //
42.3 SK उत्तुङ्गनासं भरपीनगण्डं बिम्बौष्ठकल्पं मृगराजवक्षसम् / उत्तप्तहेमाभसुवर्णवर्णं श्रीशाक्यसिंहं प्रणमामि नित्यम् //
42.4 SK पायोधकोषं शुभकर्णशोभं गण्डस्त्रिरेखावरचैलभूषम् / प्राजानुबाहुं द्विपनासकल्पं श्रीशाक्यसिंहं प्रणमामि नित्यम् //
42.5 SK विचित्रपुष्पैर्नरयाक्षमानं श्रीवत्सभद्रद्विगणोपयुक्तम् / अशीतिसुव्यञ्जनगात्रशोभं श्रीशाक्यसिंहं प्रणमामि नित्यम् //
42.6 SK शास्तारमग्र्यं नरवीरवीरं मायासुतं कारुणिकं जिनेन्द्रम् / शौद्धोदनिं लोकविदं मुनीन्द्रं श्रीशाक्यसिंहं प्रणमामि नित्यम् //
42.7 SK चक्राङ्कपाणिं नवपल्लवाभं मत्तेभलीलागमनं विराजम् / देवासुरैर्वन्दितपादयुग्मं श्रीशाक्यसिंहं प्रणमामि नित्यम् //
42.8 SK त्रैदुःखदुःखाद् भयवेदिलोकान् त्राणं च नीतुं वरबोधिमात्रैः / जिह्वा च मत्तेहि सुचक्षु सर्वं श्रीशाक्यसिंहं प्रणमामि नित्यम् //
1298 SK महाबोधिभट्टारकस्तोत्रं समाप्तम् //
43.1 SK सौवर्णवर्णं कलविङ्कघोषं ब्रह्मस्वरं कारुणिकं सुसेव्यम् / नरोत्तमं शीलविशुद्धदेहं श्रीमन्महाबोधिमहं नमामि //
43.2 SK शाक्येन्द्रवंशोद्भवदिव्यदेहं तृष्णाच्छिदं मारभिदं जिनेशम् / ज्ञानास्पदं क्लेशभिदं दिनेशं श्रीमन्महाबोधिमहं नमामि //
43.3 SK समन्तभद्रं वरलक्षणाङ्गं सत्त्वार्थसिद्धिं सुकृतैः प्रणम्यम् / श्रेयस्करं सत्त्वहितैकचित्तं श्रीमन्महाबोधिमहं नमामि //
43.4 SK धर्मोदकं यः कृपयोत्ससर्ज रागाग्निसन्दीपितपुद्गलानाम् / सुखाय संबोधिपयोमुचं तं श्रीमन्महाबोधिमहं नमामि //
43.5 SK भवाब्धिनिस्तारणसेतुभूतं तथागतं तत्त्वविदं नृसिंहम् / त्रैलोक्यनाथं वरबोधिरत्नं श्रीमन्महाबोधिमहं नमामि //
43.6 SK पदार्थसम्पादनसुव्रतस्थं मायासुतं मारभिदं जितारिम् / शास्तारमग्र्यं वरबोधिसत्त्वं श्रीमन्महाबोधिमहं नमामि //
43.7 SK लोकेशनाथं हरिनाथनाथं भूतेशनाथं सुरनाथनाथम् / कृतान्तनाथं नरनाथनाथं श्रीमन्महाबोधिमहं नमामि //
43.8 SK स बुद्धरूपः स हि धर्मरूपः स एव संघो ऽपि विनेयकानाम् / अभूच्छरण्यः शरणागतानां श्रीमन्महाबोधिमहं नमामि //
1308 SK श्रीमन्महाबोधिवन्दनाष्टकं समाप्तम् //
44.1 SK वज्रसत्त्व महावज्र वज्रनाथ सुसाधक / वज्राभिषेक वज्राभ वज्रकेतु(तो) नमो ऽस्तु ते //
44.2 SK हासवज्र महाधर्म वज्रकोश महावर / सर्वमण्डलराजाग्र्य निष्प्रपञ्च नमो ऽस्तु ते //
44.3 SK वज्रकर्म महारक्ष चण्डयक्ष महाग्रह / वज्रमुष्टि महामुद्र सर्वमुद्र नमो ऽस्तु ते //
44.4 SK बोधिचित्त महाबोधे बुद्ध सर्वतथागत / वज्रयान महाज्ञान महायान नमो ऽस्तु ते //
44.5 SK सर्वार्थ सर्वतत्त्वार्थ महासत्त्वार्थ सर्ववित् / सर्वज्ञ सर्वकृत् सर्व सर्वदर्शि नमो ऽस्तु ते //
44.6 SK वज्रात्मक सुवज्राग्र्य वज्रवीर्य सुवज्रधृक् / महासमय तत्त्वार्थ महासत्य नमो ऽस्तु ते //
44.7 SK वज्राङ्कुश महाकाम सुरते सुमहाप्रभ / वज्रप्रभ प्रभोद्योत बुद्धप्रभ नमो ऽस्तु ते //
44.8 SK वज्रराजाग्र्य वज्राग्र्य विद्याग्र्याग्र्य नरोत्तम / वज्रोत्तम महाग्र्याग्र्य विद्योत्तम नमो ऽस्तु ते //
44.9 SK वज्रधातो महागुह्य वज्रगुह्य सुगुह्यधृक् / वज्रसूक्ष्म महाध्यान वज्रकार्य नमो ऽस्तु ते //
44.10 SK बुद्धाग्र्य बुद्धवज्राग्र्य बुद्धबोधे महाबुध / बुद्धज्ञान महाबुद्ध बुद्धबुद्ध नमो ऽस्तु ते //
44.11 SK बुद्धपूजा-महापूजा-सत्त्वपूजासुपूजक / महोपाय महासिद्धे वज्रसिद्धि नमो ऽस्तु ते //
44.12 SK तथागत महाकाय तथागतसरस्वते / तथागतमहाचित्त वज्रचित्त नमो ऽस्तु ते //
44.13 SK बुद्धाधिप जिनाज्ञाकृद् बुद्धमित्र जिनाग्रज / महावैरोचन विभो शान्तरौद्र नमो ऽस्तु ते //
44.14 SK तथागतमहातत्त्व भूतकोटे महानय / सर्वपारमिताज्ञान परमार्थ नमो ऽस्तु ते //
44.15 SK समन्तभद्र चर्याग्र्य मार मारप्रमदर्क / सर्वाग्र्य समताज्ञान सर्वत्रग नमो ऽस्तु ते //
44.16 SK बुद्धहुंकर हुंकार वज्रहुंकर दामक / विश्ववज्राड्ग वज्रोग्र वज्रपाणे नमो ऽस्तु ते //
44.17 SK वन्दयः पूज्यश्च मान्यश्च सत्कर्तव्यस्तथागतैः / यस्माद् वज्रदृढं चित्तं वज्रसत्त्वस्त्वमुच्यसे //
44.18 SK त्वदधीना हि संबोधिः पिता त्वं सर्वदर्शिनाम् / संभूताः संभविष्यन्ति त्वामासाद्य तथागताः //
44.19 SK अनेन स्तोत्रराजेन यः स्तुयाद्बै सुभक्तितः / यो गायंस्तु स्तुयात् सो ऽपि भवेद्वज्रधरोपमः //
44.20 SK अध्येषयामस्त्वां नाथ सर्वबुद्धवशंकरम् / सर्वसत्त्वार्थकार्यार्थमुत्पादय स्वकं कुलम् //
1329 SK महाचक्रवर्तिनामाष्टोत्तरशताध्येषणास्तोत्रं सम्पूर्णम् //
45.1 SK नमस्यामि महाकालं सर्वसम्पत्तिदायकम् / खर्वं लम्बोदरं नीलमष्टनागविभूषितम् //
45.2 SK द्विभुजैकमुखं वीरं कपालकृतशेखरम् / व्याघ्रचर्मकटीवेष्टं शतार्धमुण्डमालिनम् //
45.3 SK भावाभावपरिच्छिन्नं जगत्संबोधकारकम् / सर्वभावात्मकं नाथं जगन्नाथ नमो ऽस्तु ते //
45.4 SK कृष्णवर्णं महातेजं सिद्धसाधकरक्षकम् / कर्तिकपालिनं नाथं महाकाल नमो ऽस्तु ते //
45.5 SK व्याघ्रचर्माम्बरधरं महाक्रोधस्वरूपिणम् / द्वादशादित्यसंकाशं महाकाल नमो ऽस्तु ते //
45.6 SK महादंष्ट्राकरालास्यं ललज्जिह्वं सभैरवम् / महारक्ताभनयनं महाकाल नमो ऽस्तु ते //
45.7 SK विभ्रन्नरशिरोमालां नागराजविभूषितम् / श्मश्रुतुन्दिलकं वन्द्यं महाकाल नमो ऽस्तु ते //
45.8 SK सभ्रूभङ्गं त्रिनेत्रं चैवोर्ध्वपिङ्गोर्ध्वकेसरम् / युगान्तानलपुञ्जाभं महाकाल नमो ऽस्तु ते //
45.9 SK त्रासकं सर्वदैत्याना(मस्थ्य)सृङ्मांसभक्षकम् / रक्षितारं भक्तिमतां महाकाल नमो ऽस्तु ते //
45.10 SK सिद्धिसाधनमन्त्रस्य विहेठीज्यनराशनम् / युग्मस्याश्वासदातारं महाकाल नमो ऽस्तु ते //
45.11 SK संसारजलधेः पारं नौका यानैकगामिनी / नौकायाने स्वतेजास्त्वं महाकाल नमो ऽस्तु ते //
45.12 SK महाकालस्तवं चैतद् यः पठेद् भक्तिमान् नरः / भयार्तो मुच्यते भीतेररिचिन्ता निवर्तते //
45.13 SK महाकालं नमस्कृत्य यथोक्तकुलजन्मतः / तेन सुजन्मा भवति सर्वसिद्धिपरायणः //
1343 SK श्रीमहाकालस्तोत्रं सम्पूर्णम् //
1344 SK ओम् नमः श्रीमहाप्रतिसरायै
46.1 SK यस्याः स्मरणमात्रेण सर्वे पापाः क्षयं गताः / यया युक्तो वज्रकायो नमस्तस्यै नमो नमः //
46.2 SK यां स्मरन् राक्षसः क्रूरो माठरं कुक्षिसंस्थितम् / प्राक्षिपद् गोविषं नद्यां नमस्तस्यै नमो नमः //
46.3 SK या ऽरक्षत् वणिजः पुत्रं क्रूरसर्पाद् वधोद्यतात् / विषदाहमुमूर्षुं च नमस्तस्यै नमो नमः //
46.4 SK ब्रह्मदत्तो महाराजो यया रक्षितमस्तकः / रिपुं जित्वा विराजो ऽभून्नमस्तस्यै नमो नमः //
46.5 SK भिक्षुर्दुःशीलको रोगी यया कण्ठे प्रबन्धितः / प्राणान्मुक्त्वा ययौ स्वर्गं नमस्तस्यै नमो नमः //
46.6 SK समुद्रे पोतसंक्षुब्धे वणिजां प्राणरक्षकः / यां स्मरन् सार्थवाहो ऽभून्नमस्तस्यै नमो नमः //
46.7 SK यस्यां च प्रतिबद्धायां भार्यायां सुतमाप्तवान् / प्रसारितभुजो राजा नमस्तस्यै नमो नमः //
46.8 SK दरिद्रो यां प्रति स्मृत्वा दीनारान् प्रददौ जिने / राजा ऽभीष्टप्रदाता ऽभून्नमस्तस्यै नमो नमः //
46.9 SK यां प्रबद्ध्वा ऽसुरैर्युद्धं शक्रश्चूडामणौ प्रभुः / लब्धवान् विजयं वज्री नमस्तस्यै नमो नमः //
46.10 SK यस्या मन्त्रबलेनैव पूर्य पारमिताश्च षट् / मारा जिता जिनैर्बुद्धैर्नमस्तस्यै नमो नमः //
46.11 SK अपधीरो वधार्हो ऽपि प्रक्षिप्तः सर्वसङ्कटे / यां स्मृत्वा परिमुक्तो ऽभून्नमस्तस्यै नमो नमः //
46.12 SK यया बन्धितकण्ठश्च मुक्तो ऽभूत् पापसङ्कटात् / नगरे नायको ऽभूच्च नमस्तस्यै नमो नमः //
46.13 SK या चा ऽपराजिता विद्या सर्वबुद्धैश्च धारिता / मुद्रिता भाषिता नित्यं पठिता परिदेशिता //
46.14 SK लिखिता मोदिता सत्त्वहिताय पूजिता सदा / स्मृता कायगता कृत्वा नमस्तस्यै नमो नमः //
46.15 SK यस्याः स्मरणमात्रान्न दुर्लभं भुवनत्रये / पाठस्वाध्यायनाद्वापि नमस्तस्यै नमो नमः //
46.16 SK या विद्या दुर्लभा बुद्धैर्व्याकृता सुप्तशंसिता / महती धारणी ख्याता सर्वपापक्षयङ्करी //
46.17 SK महाबला महावीर्या महातेजा महत्प्रभा / महागुणवती विद्या सर्वभारविदारणी //
46.18 SK पापसन्धिसमुद्घाती मारबन्धप्रमोचनी / जननी बोधिसत्त्वानां सर्वदुष्टविनाशिनी //
46.19 SK रक्षणी पोषणी धात्री परमन्त्रविघातिनी / कार्खोदविषयोगानां विध्वंसनकरी शिवा //
46.20 SK महाध्यानरतानां च गृह्णतां लिखतां सदा / पाठाध्ययनकृतां नित्यं दधतां शृण्वतां तथा //
46.21 SK परेभ्यो देशिता चैव नित्यं मनसि भाविता / सा पुस्तकगतां कृत्वा पूज्यमाना नमस्कृता //
46.22 SK सर्वपापहरी भद्रा बोधिसंभारपूरिणी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
46.23 SK यस्या मन्त्रप्रभावेण सर्वभयान्युपद्रवाः / दुष्टाः सुरमनुष्याश्च दैत्यगन्धर्वराक्षसाः //
46.24 SK ग्रहाः स्कन्दा अपस्माराः पिशाचा यक्षकिन्नराः / डाकिन्यः शाकिनीसंघा नागा कार्खोदव्याधयः //
46.25 SK ज्वराश्च विविधा रोगाः परकर्मकृतास्तथा / विषाग्निशस्त्रमन्त्राणि विद्युतः कालवायवः //
46.26 SK अतिवृष्टिरनावृष्टिः सर्वशत्रुभयानि च / तथान्ये पापसर्गा वा विनश्यन्ति न संशयः //
46.27 SK सर्वकार्याणि सिद्ध्यन्ति नमस्तस्यै नमो नमः / यश्चैतां धारयेद्विद्यां कण्ठे बाहौ च मस्तके //
46.28 SK नित्यं रक्षन्ति देवास्तं दैत्या नागाश्च मानुषाः / गन्धर्वाः किन्नरा यक्षा भूतप्रेतपिशाचकाः //
46.29 SK डाकिन्यो राक्षसा दूत्यः कूष्माण्डाः कठपूतनाः / त्रिसन्ध्यं यः पठेन्नित्यं बुद्धा रक्षन्ति तं सदा //
46.30 SK प्रत्येकाः श्रावकाश्चैव बोधिसत्त्वा महर्धिकाः / योगिनः सिद्धमन्त्राश्च महावीर्या महर्षयः //
46.31 SK वज्रपाणिश्च यक्षेन्द्रः शक्रश्च त्रिदशैः सह / चत्वारश्च महाराजा ब्रह्मविष्णुमहेश्वराः //
46.32 SK नन्दिकृष्णो महाकालः कार्तिकेयो गणेश्वरः / भैरवा मातृका दुर्गास्तथा ऽन्ये मारकायिकाः //
46.33 SK विद्यादेव्यो महावीर्या महाबलपराक्रमाः / मामकी भृकुटी तारा चाङ्कुशी वज्रशृङ्खला //
46.34 SK महाश्वेता महाकाली वज्रदूती सुपाशिका / वज्रमाला महाविद्या सुवीर्या ऽमृतकुण्डली //
46.35 SK वज्रा ऽपराजिता चण्डी कालकर्णी महाबला / तथा धन्या महाभागा पद्मकुण्डलिरेव च //
46.36 SK मणिचूडा पुष्पदन्ती स्वर्णकेशी च पिङ्गला / एकजटा महादेवी धन्या विद्युन्मालिनी //
46.37 SK कपालिनी च लङ्केशी ब्रह्मक्षितिकनायिका / हारीती पाञ्चिकाश्चैव शङ्खिनी कूटदन्तिनी //
46.38 SK श्रीः सरस्वती लक्ष्मीः सिद्धेश्वरी सदानुगा / तमेवा ऽन्ये ऽपि रक्षन्ति यस्य विद्या करे स्थिता //
46.39 SK स भवेत् सर्वसत्त्वानां मोक्षार्थं च समुद्यतः / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः //
1384 SK श्रीमहाप्रतिसरास्तोत्रं समाप्तम् //
47.1 SK मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे / फुल्लेन्दीवरलोचनत्रययुते कर्तीकपालोत्पले खड्गं चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये //
47.2 SK वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धीश्वरि सद्यः प्राकृतगद्यपद्यरचनासर्वार्थसिद्धिप्रदे / नीलेन्दीवरलोचनत्रययुते कारुण्यवारांनिधे सौभाग्यामृतवर्षणेन कृपया सिञ्च त्वमस्मादृशम् //
47.3 SK खर्वे गर्वसमहपूरिततनो सर्पादिभूषोज्ज्वल् व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते / सद्यःकृत्तगलद्रजःपरिलसन्मुण्डद्वयीमूर्धज- ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय //
47.4 SK मायानङ्गविकाररूपललनाबिन्द्वर्धचन्द्रात्मिके हुंफट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः / मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा वेदनां नहि गोचरा कथमपि प्राप्तां नु तामाश्रये //
47.5 SK त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां तस्य श्रीपरमेश्वरी त्रिनयनब्रह्मादिसौम्यात्मनः / संसाराम्बुधिमज्जने पटुतनून् देवेन्द्रमुख्यान् सुरान् मातस्त्वत्पदसेवने हि विमुखान् को मन्दधीः सेवते //
47.6 SK मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिण- स्ते देवासुरसंगरे विजयिनो निःशङ्कमङ्के गताः / देवो ऽहं भुवने न मे सम इति स्पर्द्धां वहन्तः परे तत्तुल्या नियतं तथा चिरममी नाशं व्रजन्ति स्वयम् //
47.7 SK त्वन्नामस्मरणात् पलायनपरा द्रष्टुं च शक्ता न ते भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः / दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवो डाकिन्यः कुपितान्तकाश्च मनुजा मातः क्षणं भूतले //
47.8 SK लक्ष्मीः सिद्धगणाश्च पादुकमुखाः सिद्धास्तथा वारिणां स्तम्भश्चापि रणाङ्गणे गजघटास्तम्भस्तथा मोहनम् / मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः कान्तिः कान्ततरा भवेच्च महती मूढो ऽपि वाचस्पतिः //
47.9 SK ताराष्टकमिदं रम्यं भक्तिमान् यः पठेन्नरः / प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः //
47.10 SK लभते कवितां दिव्यां सर्वशास्त्रार्थविद् भवेत् / लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान् यथेप्सितान् //
47.11 SK कीर्ति कान्तिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत् / विख्यातिं चैव लोकेषु प्राप्यान्ते मोक्षमाप्नुयात् //
1396 SK श्रीमहोग्रताराष्टकस्तोत्रं समाप्तम् //
1397 SK ओम् नमः श्री उग्रतारायै
1398 SK प्रकटविकटदंष्ट्रा घोररुद्राट्टहासा नरशिरकृतमाला मेघगम्भीररावा / त्रिभुवनजनधात्री खड्गविन्यस्तहस्ता करकरतिकपाला पातु व उग्रतारा //
48.1 SK घोररूपे महारावे सर्वशत्रुक्षयङ्करि / भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् //
48.2 SK सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते / जाड्यपापहरे देवि त्राहि मां शरणागतम् //
48.3 SK सर्वमण्डल(मध्यस्थे) सर्वसत्त्वहिते ऽनघे / सिद्धानां पूजिते देवि त्राहि मां शरणागतम् //
48.4 SK घोररूपस्थिते देवि सर्वप्राणहरे स्तुते / उग्रतारे नमो नित्यं त्राहि मां शरणागतम् //
48.5 SK जटाजूटसमायुक्ते ललज्जिह्वोर्ध्वकारिणि / द्रुतबुद्धिप्रदे देवि त्राहि मां शरणागतम् //
48.6 SK सोमरूपे कोट्टरूपे चन्द्ररूपे नमो ऽस्तु ते / शक्तिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् //
48.7 SK जडो ऽहं शक्तिहीनो ऽहं न तवाधिगमे क्षमः / मन्दो मन्दमतिश्चाहं त्राहि मां शरणागतम् //
48.8 SK स्नाने दाने तथा जाप्ये बलिदाने तथा क्रतौ / प्रस्थाने च न शक्तो ऽहं त्राहि मां शरणागतम् //
48.9 SK शक्तिहीनमनाथं च सर्वपापसमन्वितम् / त्वां विना न गतिर्यस्य त्राहि मां शरणागतम् //
48.10 SK गौरी लक्ष्मीर्महामाया उमा देवी सरस्वती / सर्वास्त्वमेव हे मातस्त्राहि मां शरणागतम् //
48.11 SK गन्धपुष्पादिद्रव्यैश्च वन्धनादिभिरेव च / देवीं सम्पूज्य यत्नेन लभते वाञ्छितं फलम् //
48.12 SK अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः / परमां सिद्धिमाप्नोति नात्र कार्या विचारणा //
48.13 SK मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् / विद्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् //
48.14 SK इदं स्तोत्रं पठित्वा तु संग्रामे प्रविशेन्नरः / तस्य शत्रुः क्षयं याति सदा प्रज्ञा प्रजायते //
48.15 SK पीडायामथ संधाने विपदायां तथा भये / य इदं पठते स्तोत्रं शुभं तस्य न संशयः //
1414 SK श्रीमहोग्रतारास्तुतिः समाप्ता //
1415 SK ओम् नमः समन्तभद्राय
49.1 SK येन पुण्याटवीस्थेनानेके शासनवर्तिनः / दिवोदासादयो भूपाः स नो रक्षतु मारजित् //
49.2 SK लोकानां ग्रहबद्धानां रक्षार्थं पुण्यकानने / ग्रहानदमयद् यो वै स नो रक्षतु तद्भयात् //
49.3 SK काश्यपाद्यान् महर्षींस्तान् आनन्दाद्यांश्च ब्राह्मणान् / प्राव्राजयत् सुमुक्त्यर्थं स नो रक्षतु मुक्तिदः //
49.4 SK सौवर्णधान्यदानेन दीनं विप्रमपालयत् / दुर्भिक्षभयतो नित्यं स नो रक्षतु शाक्यराट् //
49.5 SK यो मैत्रकन्यको भूत्वा मातृद्रोहिणमत्यगात् / चक्रं दूरीकृतं येन स नो रक्षतु मातृवान् //
49.6 SK सुप्रियो बदरद्वीपयात्राप्तमणिवृष्टिभिः / काशीयान् प्राकरोदाढ्यान् स नो रक्षतु काञ्चनैः //
49.7 SK भूत्वा यः सुधनो नाम निधानं समदर्शयत् / दारिद्रयदुःखतो नित्यं स नो रक्षतु सर्ववित् //
49.8 SK कुष्ठादिरोगहरणे राजगृहमुपाविशत् / तत्तद्रोगभयान्नित्यं स नो रक्षतु धर्मराट् //
49.9 SK यः कुशो भूपतिर्भूत्वा ऽष्टमीमाहात्म्यमुत्तमम् / प्रकाशयन्निजे देहे स नो रक्षतु धर्मवित् //
49.10 SK सौदासं सत्यवचसा काश्यामस्थापयन्नृपान् / बन्धनान्मोचयामास स नो रक्षतु सर्ववित् //
49.11 SK गोपान् ररक्ष यो देव्याः प्रभावं संप्रकाशयन् / वह्निदाहारिभयतः स नो रक्षतु भीतिहा //
49.12 SK यो ऽन्धीभूतां मातरं स्वां चूडारत्नं जले व्यधात् / दिव्यनेत्रान् जनान् कृत्वा स नो रक्षतु नेत्रदः //
49.13 SK विरूपं प्राकरोत् पुत्रं छायासीनं सुसुन्दरम् / सर्वलक्षणसम्पन्नं स नो रक्षतु सर्वदः //
49.14 SK सकलानन्दनामानं राज्ये यः प्राभ्यषेचयत् / सन्ततिस्थितिकुर्वाणः स नो रक्षतु स्थैर्यकृत् //
49.15 SK विषदं भ्रातरं यश्चाक्षमद् भिक्षुन् विषाशिनः / ररक्ष धारणीविज्ञः स नो रक्षतु निर्विषः //
49.16 SK श्रीस्वयंभुदर्शनाय नैपालीयान् प्रयासितुम् / कपिलान् प्रस्थितो यो ऽसौ स नो रक्षतु सन्ततम् //
1432 SK भद्रकल्पावदानोद्धृता शाक्यसिंहस्य मङ्गलषोडशस्तुतिः समाप्ता //
50.1 SK मञ्जुश्रीर्लोकनाथो जिनवरमकुटो जम्भलो वज्रसत्त्व मैत्रेयो वज्रपाणिः सुखकरकमलो राहुलो भद्रपालः / बुद्धो वैरोचनाद्यस्त्रिभुवननमितः क्षीणनिःशेषदोष- स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः //
50.2 SK हृष्टो हूंकारवज्रः पशुपतिदमको वज्रघण्टा च हृष्ट् पीतो हालाहलास्यो रिपुगणमथनो टक्किराजो महात्मा / अक्षोभ्यो रत्नकेतुः प्रतिदिनमचलो गण्डहस्तिर्यमारि- स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः //
50.3 SK संघस्त्रैलोक्यबन्धुर्गुणगणनिलयो बोधिचित्तः सुचित्तः बोधिश्चानन्दसिद्धो विजितकलिमलो हेरुको नीलदण्डः / बुद्धः सारङ्गराजो विजितजिनगुणो सर्वसत्त्वानुकम्पी तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः //
50.4 SK प्रज्ञा चन्द्रावतारा तदनुजभृकुटी ज्ञानसंभारभार् मारीची मारमारा सकलभयहरा पीतवर्णा त्रिवक्त्रा / मायूरी मामकी च क्षपितरिपुगणा पाण्डरा रोचनाद्या- स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः //
50.5 SK गान्धारी जाङ्गुली च भुजगहृतफणा खड्गपाशाङ्कुशोग्रा वाराही वज्रहस्ता असिपरशुधरा धर्मधात्वीश्वरी च / केयूरी ज्ञानसारा ध्वजनिहितकरा षट्करा शाबरी च तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः //
50.6 SK वैण्या माल्या सुगीता प्रथितजिनवरे शाबरी धूपवज्रा वैताली गन्धवज्रा प्रहसितवदना स्वर्गतिरार्यतारा / लक्ष्मीर्बुद्धस्य बोधिः सकलभयहरा शारदा दीपवज्रा तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः //
50.7 SK वैशाल्यां धर्मचक्रे प्रथितनिजबले पर्वते गृध्रकूटे श्रावस्त्यां लुम्बिनीके क्षितिनिहितकरा क्ॐकणे बोधिवृक्षा / श्रीवत्साश्वत्थपत्रं सुरवरनमितं श्रीफलं शङ्खचक्रं तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः //
50.8 SK छत्रं दूर्वा च पद्मं ध्वजमपि निहितं लो(रो)चना मत्स्यकूर्म वाराहः पूर्णकुम्भो मुनिवरवचनं वज्रघण्टानिनादः / बुद्धानां प्रातिहार्यं सुरवरनमितं हास्यलास्ये विलासा- स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः //
1441 SK मङ्गलाष्टकं समाप्तम् //
51.1 SK श्रीमञ्जुनाथकमलासनरत्नमौलिर्विद्याधिपो भुवनमण्डलचक्रवर्ती / ध्यानाधिपोचितविराजितसौम्यरूपो वन्दामहे सुरनरासुरवन्दितार्यम् //
51.2 SK बालाकृतिः कुवलयोज्ज्वललोलहस्तः केयूरहारमणिकुण्डलघृष्टगण्डः / खादंश्च षोडशरदं सुकुमाररूपं वन्दामहे सुरवरार्चितमञ्जुघोषम् //
51.3 SK रोमाग्रकूपविवरे परिवर्तमानं विश्वप्रपञ्चकरणं सुगतात्मजस्य / त्रैविद्यमन्त्र तव नाथ गुणार्णवेण सूक्ष्माय बुद्धतनयाय नमो ऽस्तु तस्मै //
51.4 SK गम्भीरधर्मनयमार्गसुखप्रतिष्ठं ज्ञानोदधिं निखिलसत्त्वकृतार्थकारम् / प्रज्ञानिधानगुणसागरमप्रमेयं मञ्जुश्रियं जिनसुतं सततं नमामि //
51.5 SK विदितसकलतत्त्वः क्षिप्तसन्तापसत्त्वस्त्रिभुवन उपकारी सर्वदुःखापहारी / मदनमथनवीरश्चारुरूपः सुचीरस्त्रिभुवनजनतोषः पातु मां मञ्जुघोषः //
51.6 SK बालेन्दुरुचिराभासं वराभरणभूषितम् / प्रज्ञाब्जामलपत्राक्षं वन्दे मञ्जुश्रियं सदा //
51.7 SK पात्रं वामकरे यस्य भ्रमन्नञ्जलिसंनिभम् / नाम्ना ते सर्वतो लक्ष्मीर्मञ्जुघोषं नमाम्यहम् //
51.8 SK खड्गपुस्तकहस्ताय चन्द्रमण्डलवर्तिने / अज्ञानध्वान्तसूर्याय मञ्जुघोषाय ते नमः //
51.9 SK ज्ञानोत्तरप्रभाकेतुं प्रणिधानमतिं तथा / शान्तेन्द्रियं मञ्जुघोषं भक्तितः प्रणमाम्यहम् //
1451 SK श्री मञ्जुश्रीस्तवस्तोत्रं समाप्तम् //
1452 SK मञ्जुगर्भकृतम् नमः श्रीमञ्जुवज्राय
52.1 SK शशधरमिव शुभ्रं खड्गपुस्ताकपाणिं सुरुचिरमलिशान्तं पञ्चचीरं कुमारम् / पृथुतरवरमोक्षं पद्मपत्रायताक्षं कुमतिदहनदक्षं मञ्जुघोषं नमामि //
52.2 SK कृतमृगरिपुयानं दत्तभक्तप्रदानं सुरदनुजनृयानं बोधिसत्त्वप्रधानम् / अखिलगुणनिधानं सर्वविद्यावितानं करसरसिजबाणं मञ्जुघोषं नमामि //
52.3 SK विभृतसकलकोषं क्षालिताज्ञानदोषं स्मरणभजनतोषं दूररागादिदोषम् / विहितससुरपोषं सिद्धिदाख्यानयोषं कृतजडपरिशोषं मञ्जुघोषं नमामि //
52.4 SK गणपतिशरजन्मश्रीमहाकालसिंहैः परिवृतमिव चन्द्राभाभमिन्दीवराक्षम् / असिशरजपमालापुस्तकं संवहन्तम् उरसि ललितमालं मञ्जुघोषं नमामि //
52.5 SK सुरपतिशमनायाप्येष मित्राग्निरक्षः- पवनप्रमथपालैः संवृतं स्मेरवक्त्रम् / खगपतिरथगात्रं ब्रह्मवन्द्यं रमोमा- विहितचरणभक्तं मञ्जुघोषं नमामि //
52.6 SK यदसिकठिनधाराच्छेदमार्गाभिवाहा(हः) सकलसलिलधारापातिताङ्गाङ्गमन्त्रः / बहुपरिचयस्थल्यां भूमिनद्यापि रेजे बहुतरमहिमानं मञ्जुघोषं नमामि //
52.7 SK भवदभिनवनुत्या तोषिता गुह्यदेवी निखिलनिगमसारा सुप्रकाशा ऽतिरेजे / भवजलनिधिपारं दानकल्पद्रुमाग्रं गलितबहुमहोग्रं मञ्जुघोषं नमामि //
52.8 SK विभजति जनलोको धर्मधातुं महेशं दशशतदलपद्मे संस्थितं ज्योतिरैशम् / तदपि तव प्रशस्तं देवमाहात्म्यमीशं विभजति भुजगेशं मञ्जुघोषं नमामि //
52.9 SK पठति यदिदमिष्टं मालिनीपद्यबन्धं स भवति कविराजो वादिसिंहासनस्थः / सकलविसभासु प्रोज्ज्वलद्वाक्सुधारः कलितसकलविद्यो भूषणो भव्यदक्षः //
1462 SK स्वयम्भूपुराणोद्धृतं मञ्जुगर्भविरचित्तं मञ्जुवज्रस्तोत्रं समाप्तम् //
53.1 SK जितमारकलिं जगदेकगुरुं सुरयक्षमहोरगदैत्यनतम् / चतुसत्यसुदेशितमार्गमिमं गुणमेघमहं प्रणमामि सदा //
53.2 SK भवभीममहोदधिमध्यगतं कृपणार्तरवं समवेक्ष्य जनम् / परिमोचयितुं य इह प्रणिधिं प्रचकार विभुं तमहं प्रणतः //
53.3 SK गिरिराजनिभं शरदिन्दुधियं सुमुखं सुभुजं वररूपधरम् / सुगतं गतमप्रतिमं सुगतं प्रणतो ऽस्मि सदा जगदर्थकरम् //
53.4 SK कनकप्रभया परिपीततनुं वरदुन्दुभितोयदवल्गुरुतम् / गजहंसविलम्बितधीरगतं शिरसा ऽभिनतो ऽस्मि गुणैकनिधिम् //
53.5 SK तरुणार्कसमैरचलैर्नयनैः स्फुरदुग्रमहाशनिभीमरवैः / नमुचिप्रहरैरसिशक्तिधरैश्चलितो ऽसि विभो न हि त्वं विकृतैः //
53.6 SK लवलीफलपाण्डुरकर्णपुटाः कुचभारविनामितगात्रलताः / नहि त्वामशकन् खलु नागसुताः श्वसितैः स्खलितैरपि कम्पयितुम् //
53.7 SK तरवः कुसुमस्तबकाभरणा बहुरत्नसहस्रचिताश्च नगाः / न तथाभिरतिं जनयन्ति सतां जनयन्ति यथा तव वीरगुणाः //
53.8 SK स्फुटचित्रपदं बहुयुक्तियुतं गमकं वचनं तव कर्णसुखम् / शुभमार्गफलं प्रसमीक्ष्यजना न गृणन्ति पुनस्त्वदृते ऽन्यवचः //
53.9 SK इति वः शरणं समवेक्ष्य जना न पतन्त्यपि कल्पशतैर्निरये / विनिहत्य च दोषरिपून् बहुलान् परियन्ति शुभं वरमोक्षपुरम् //
53.10 SK तव सौम्यतया ऽप्यभिभूततमो न विराजति शीतकरो गगने / तव काञ्चनकुङ्कुमसप्रभया प्रभया ऽभिहतो न विभाति रविः //
53.11 SK तव नाथ शुभे वदनाम्बुरूहे नयनभ्रमरा निपतन्ति नृणाम् / प्रतिबुद्धदले कमले विमले भ्रमरा इव पुष्पशताकुलिताः //
53.12 SK इति तोटकमन्त्रवरैरतुलैः परिकीर्त्य मया तव वर्णलवान् / यदुपार्जितमद्य शुभं विपुलं शिवमस्तु ततो भुवि देवनृणाम् //
1475 SK श्रीमारविजयस्तोत्रं समाप्तम् //
54.1 SK निरालम्बनिराकारनिर्विकल्पस्वरूपिणी / नैरात्मा वरदा देवी नित्यमेव नमो ऽस्तु ते //
54.2 SK एकवक्त्रां त्रिनेत्रां च ऊर्ध्वपिङ्गलमूर्धजाम् / करे कर्तिकपालां च नमामि विश्वमातरीम् //
54.3 SK नवनृत्यभूषितां च सहस्रमुखरूपिणीम् / योगेश्वरीं योगगम्यां नमामि ज्ञानरूपिणीम् //
54.4 SK शवारूढां महातेजां सर्वदुष्टनिकृन्तनीम् / सर्वपापहरां देवीं नमामि जगदीश्वरीम् //
54.5 SK गौरीं चौरीं च वेतालीं घस्मरीं पुक्कसीं तथा / शबरीं चाण्डालीं डोम्बीं नमामि चाष्टयोगिनीम् //
54.6 SK ब्रह्माविष्णुशिवशक्रचतुर्मारविनाशिनीम् / त्रैलोक्यमोहिनीं देवीं नमामि सुरसुन्दरीम् //
54.7 SK अक्षमालविभूषाङ्गीम् अकारबीजसम्भवाम् / नित्यं ध्यानरतां देवीं नमामि विश्वमातरीम् //
54.8 SK सर्वभूतप्रियां देवीं सर्वमन्त्रप्रबोधिनीम् / सर्वमन्त्रमयीं मातर्नैरात्मां त्वां नमाम्यहम् //
1484 SK नैरात्माष्टकस्तोत्रं समाप्तम् //
55.1 SK दारिद्रयपङ्कसंमग्नं संसाराख्यमहोदधौ / प्रतिज्ञातं समुत्पादे त्राहि मां हि तथागत //
55.2 SK तिमिरागारसंविष्टमनर्थदुःखवेदिनम् / बन्धुवर्गैः परित्यक्तं त्राहि मां हि तथागत //
55.3 SK मातापितृभगिन्यादि पुत्रदारसुहृज्जनाः / इन्द्रजालसमा दृष्टास्त्राहि मां हि तथागत //
55.4 SK मया अरिजनस्यार्थे सुकृतं कर्म दुष्कृतम् / एकाकी तं हि भोक्ष्यामि त्राहि मां हि तथागत //
55.5 SK जीर्णकूपे महाघोरे अनवगाहसागरे / अन्धीभूतो ऽस्म्यहं नाथ त्राहि मां हि तथागत //
55.6 SK जीर्णनौइकासमारूढो महासागरलंघने / दुर्लङ्घ्यं च मया दृष्टं त्राहि मां हि तथागत //
55.7 SK धर्माधर्म न विज्ञातं गम्यागम्यं न वेदितम् / अचेतनो ऽस्म्यहं नाथ त्राहि मां हि तथागत //
55.8 SK मातृघातादिकं पञ्चानन्तर्यं वा मया कृतम् / पच्यामि नरके घोरे त्राहि मां हि तथागत //
55.9 SK कृतं मया स्तूपभेदं संघकार्यं विनाशितम् / कृता मया सत्त्वहिंसा त्राहि मां हि तथागत //
55.10 SK इहलोके सुखैर्हीनं परलोके न वेदनम् / वेष्टितं कर्मसूत्रेण त्राहि मां हि तथागत //
55.11 SK काशपुष्पं यथाकाशे भ्रमते वायुना हतम् / ईदृशं जीवितं लोके त्राहि मां हि तथागत //
55.12 SK अटवी कंटकाच्छन्ना बहुवृक्षसमाकुला / पन्थानं नात्र पश्यामि त्राहि मां हि तथागत //
55.13 SK अनपराधाः कुपितेन मया ऽकाण्डे हता मृगाः / राजहत्यां तदा मन्ये त्राहि मां हि तथागत //
55.14 SK नरके पच्यमानस्य कश्चित् त्राता भविष्यति / गच्छामि शरणं कस्य त्राहि मां हि तथागत //
55.15 SK वैद्यानां वैद्यराजस्त्वं सर्वव्याधिचिकित्सकः / लोकनाथ भवत्राता त्रैलोक्ये सचराचरे //
1500 SK नरकोद्धारस्तोत्रं समाप्तम् //
56.1 SK निरौपम्य नमस्तुभ्यं निःस्वभावार्थवादिने / यस्त्वं दृष्टिविपन्नस्य लोकस्यैव हितोद्यतः //
56.2 SK न च नाम त्वया किञ्चिद् दृष्टं बौद्धेन चक्षुषा / अनुत्तरा च ते नाथ दृष्टिस्तत्त्वार्थदर्शिनी //
56.3 SK न बोद्धा न च बोद्धव्यमस्तीह परमार्थतः / अहो परमदुर्बोधां धर्मतां बुद्धवानसि //
56.4 SK न त्वयोत्पादितः कश्चिद् धर्मो नापि निरोधितः / समतादर्शनेनैव प्राप्तं पदमनुत्तमम् //
56.5 SK न संसारात्प्रकर्षेण त्वया निर्वाणमीप्सितम् / शान्तिस्ते ऽधिगता नाथ संसारानपराधितः //
56.6 SK त्वं विवेदैकरसतां संक्लेशव्यवदानयोः / धर्मधात्वविनिर्भेदाद् विशुद्धश्चासि सर्वतः //
56.7 SK नोदाहृतं त्वया किञ्चिदेकमप्यक्षरं विभो / कृत्स्नश्च वैनेयजनो धर्मवर्षेण तर्पितः //
56.8 SK न ते ऽस्ति सक्तिः स्कन्धेषु न धात्वायतनेषु च / आकाशसमचित्तस्त्वं सर्वधर्मेषु निश्रितः //
56.9 SK सत्त्वसंज्ञा च ते नाथ सर्वथा न प्रवर्तते / दुःखार्तेषु च सत्त्वेषु त्वमतीव कृपात्मकः //
56.10 SK सुखदुःखात्मनैरात्म्यनित्यानित्यादिषु प्रभो / इति नानाविकल्पेषु बुद्धिस्तव न सज्जते //
56.11 SK न गतिर्नागतिः काचिद्धर्माणामिति ते मति / न क्वचिद्राशितः प्रोक्तो धर्मार्थपरमार्थवित् //
56.12 SK सर्वत्रानुगतश्चासि न च यातो ऽसि कुत्रचित् / जन्मधर्मशरीराभ्यामचिन्त्यस्त्वं महामुने //
56.13 SK एकत्वान्यत्वरहितं प्रतिश्रुत्कोपमं जगत् / संक्रान्तिनाशाय गतं बुद्धवान् त्वमनिन्दित //
56.14 SK शाश्वतोच्छेदरहितं लक्ष्यलक्षणवर्जितम् / संसारमवबुद्धस्त्वं स्वप्नमायादिवत् प्रभो //
56.15 SK वासनामूलपर्यन्तक्लेशनद्यो विनिर्जिताः / क्लेशप्रकृतितश्चैव त्वयामृतमुपार्जितम् //
56.16 SK अलक्षणं त्वया धीरं दृष्टं रूपमरूपवत् / लक्षणोज्ज्वलगात्रश्च दृश्यसे रूपगोचरे //
56.17 SK न च रूपेण दृष्टेन दृष्ट इत्यभिधीयसे / धर्मदृष्ट्या सुदृष्टो ऽसि धर्मता न च दृश्यते //
56.18 SK शौषीर्यो नास्ति ते कायो मांसास्थिरुधिरो न च / इन्द्रायुधमिव कायं विना दर्शितवानसि //
56.19 SK नामयो नाशुचिः काये क्षुत्तृष्णासम्भवो न च / त्वया लोकानुवृत्त्यर्थं दर्शिता लौकिकी क्रिया //
56.20 SK कर्मावरणदोषश्च सर्वथा ऽनघ नास्ति ते / त्वया लोकानुकम्पायै कर्मप्लोतिः प्रदर्शिता //
56.21 SK धर्मधातोरसंभेदाद् यानभेदो ऽस्ति न प्रभो / यानत्रितयमाख्यातं त्वया सत्त्वावतारतः //
56.22 SK नित्यो ध्रुवः शिवः कायस्तव धर्ममयो जिन / विनेयजनहेतोश्च दर्शिता निर्वृतिस्त्वया //
56.23 SK लोकधातुष्वसंख्येषु त्वद्भक्तैः पुनरीक्षसे / च्युतिजन्माभिसंबोधिचक्रनिर्वृतिलालसैः //
56.24 SK न ते ऽस्ति मन्यना नाथ न विकल्पो न चेञ्जना / अनाभोगेन ते लोके बुद्धकृत्यं प्रवर्तते //
56.25 SK इति सुगतमचिन्त्यमप्रमेयं गुणकुसुमैरवकीर्य मया प्राप्तम् / कुशलमिह भवन्तु तेन सत्त्वाः परमगभीरमुनीन्द्रधर्मभाजनाः //
1526 SK निरौपम्यस्तवः समाप्तः //
57.1 SK नमो बुद्धाय न जातो न मृतश्चैव न रूपो नापि रूपवान् / न संसारे न निर्वाणे न कारस्तेन सूच्यते //
57.2 SK मोहध्वंसकरो नित्यं मोक्षसौख्यप्रदायकः / मोहनं सर्वमाराणां मोकारस्तेन सूच्यते //
57.3 SK बुद्धानामुदितं ध्यानं बुद्धानां जनमेलकम् / बुद्धनिःक्लेश संबुद्ध बुकारस्तेन सूच्यते //
57.4 SK धार्यते बोधिसत्त्वैः स धर्मधातुगतिः सदा / धर्माणां परमो धर्मः धकारस्तेन सूच्यते //
57.5 SK यथा नास्ति तथा नास्ति यथा नास्ति तथास्ति यः / यथावादी तथाकार्ः यकारस्तेन सूच्यते //
57.6 SK पञ्चाक्षरमिदं पुण्यं पवित्रं पापनाशनम् / ये पठन्ति दिवारात्रौ ते यान्ति परमां गतिम् //
1533 SK श्री पञ्चाक्षरस्तोत्रं समाप्तम् //
1534 SK १ महाप्रतिसरास्तोत्रम्
1535 SK ओम् नमः श्रीमहाप्रतिसरायै
58.1 SK तथागताद्यास्तथतां तत्त्वमापुर्महत्तरम् / धारणीधारणाद्यस्याः प्रतिसरां नमामि ताम् //
58.2 SK रणे शक्रो ऽजयद्दैत्यान् धारणीध्वजधृग् बहून् / संग्रामजयदां भीमां प्रतिसरां नमामि ताम् //
58.3 SK यत्प्रभावाद् ब्रह्मदत्तो ऽलभद् राज्यमकण्टकम् / सार्वभौमप्रदां देवीं प्रतिसरां नमामि ताम् //
58.4 SK बह्वपराधो ऽपि यद्भक्तो राज्याधिकारमाप्तवान् / शस्त्रादिभीतिसंहत्रीं प्रतिसरां नमामि ताम् //
58.5 SK रत्नान्यवापुर्वणिजो यां स्मृत्वोदधिनिर्गताः / सर्वबाधाप्रशमनीं प्रतिसरां नमामि ताम् //
1541 SK श्रीमहाप्रतिसरारक्षादेवीस्तोत्रं समाप्तम् /
1542 SK २ महामन्त्रानुसारिणीस्तोत्रम्
1543 SK ओम् नमः श्रीमहामन्त्रानुसारिण्यै
58.1 SK बुद्धाधिष्ठानतो बुद्धाभयदां भयनाशिनीम् / भवाम्बुधिनिमग्नानां नमो मन्त्रानुसारिणीम् //
58.2 SK यन्मन्त्रोच्चारणादेव षडीतयः सुदारुणाः / नाशं प्रयान्ति वरदां नमो मन्त्रामुसारिणीम् //
58.3 SK मन्त्रानुसारिणो लोकान् नान्ये मन्त्रादयो ग्रहाः / पीडयन्ति प्रियांश्चापि नमो मन्त्रानुसारिणीम् //
58.4 SK बुद्धो ऽभ्यभाषद् गाथास्ता यन्मन्त्रकथनान्तरम् / याभिः सर्वत्र स्वस्ति स्यान्नमो मन्त्रानुसारिणीम् //
58.5 SK कलौ बुद्धविहीने ऽस्मिन् लोकानां हितमाचरेत् / पापोत्पातप्रशमनीं नमो मन्त्रानुसारिणीम् //
1549 SK श्रीमहामन्त्रानुसारिणीस्तोत्रं समाप्तम् /
1550 SK ३ महामायूरीस्तोत्रम्
1551 SK ओम् नमः श्रीमहामायूरीर्यै
58.1 SK दुष्टं कृष्णभुजङ्गं च नरः स्वान्तिकं पालयेत् / यस्या मन्त्रानुभावेन मायूरीं प्रणमामि ताम् //
58.2 SK ब्रह्मादयो लोकपाला यद्धारण्या समाप्नुवन् / स्वानि स्वान्यधिकाराणि मायूरीं प्रणमामि ताम् //
58.3 SK स्वर्णावभासं शिखिनं नालभज्जपिनं कुधीः / अमोघेनापि पाशेन मायूरीं प्रणमामि ताम् //
58.4 SK यन्मन्त्रजपतो जीवाः प्राजीवञ्छुष्कपादपाः / मृतसंजीविनीं देवीं मायूरीं प्रणमामि ताम् //
58.5 SK यन्मन्त्रिसङ्गात् पवनो महोपद्रवशान्तिकृत् / बुद्धानां बोधिदां नित्यं मायूरीं प्रणमामि ताम् //
1557 SK श्रीमहामायूरीरक्षादेवीस्तोत्रं समाप्तम् /
1558 SK ४ महाशीतवतीरक्षादेवीस्तोत्रम्
1559 SK ओम् नमो महाशीतवत्यै
58.1 SK यद्धारणीमनुजपन् राहुलो भद्रमाप्तवान् / विहेठितो ग्रहैः सर्वैः शीतवतीं नमाम्यहम् //
58.2 SK पापतापे शीतकरीं शीतलाद्युपसर्गतः / शीतोष्णदुःखशमनीं शीतवतीं नमाम्यहम् //
58.3 SK मन्त्रग्रन्थितसूत्राणां धारणाल्लक्षयोजनम् / पथिकानां पालयित्रीं शीतवतीं नमाम्यहम् //
58.4 SK श्मशानस्थेन मुनिना या समुच्चारिता पुरा / ग्रहोपद्रवशान्त्यर्थं शीतवतीं नमाम्यहम् //
58.5 SK ग्रहाभिभूतवातानां ग्रन्थिपदविधारिणाम् / ग्रहभीतिप्रशमनीं शीतवतीं नमाम्यहम् //
1565 SK श्री महाशीतवतीरक्षादेवीस्तोत्रं समाप्तम् /
1566 SK ५ महासाहस्रप्रमर्दिनीस्तोत्रम्
1567 SK ओम् नमः श्रीमहासाहस्रप्रमर्दिन्ये
58.1 SK महासाहस्रिके लोके साहस्रहितकारिणाम् / सहस्रसत्त्वजननीं नौमि साहस्रमर्दिनीम् //
58.2 SK सोपद्रवायां वैशाल्यां महोत्सवो यतः सदा / महोपसर्गशमनीं नौमि साहस्रमर्दिनीम् //
58.3 SK यक्षराक्षसभूतानां दमनीं दुष्टचेतसाम् / दुरितोपद्रवहतां नौमि साहस्रमर्दिनीम् //
58.4 SK यद्धारणीपठनतो रक्षितः शाक्यकेशरी / विषतो विषदिग्धां तां नौमि साहस्रमर्दिनीम् //
58.5 SK मधुमिश्रितभैषज्यं सर्वरोगनिवारणम् / मृतसञ्जीवनं लोके नौमि साहस्रमर्दिनीम् //
1573 SK श्रीमहासाहस्रमर्दिनीरक्षादेवीस्तोत्रं समाप्तम् //
59.1 SK श्रीबुद्ध बुद्धाधिप बुद्धरूप बुद्धान्वितान् बोधयसे विबुद्धः / बुद्ध्या समस्तान् खलु बुद्धपुत्र सन्तोष्य योगेन तु बुद्धमेघाम् //
59.2 SK श्रीवज्र वज्रामल जातवज्र वज्रेण दीप्तेन प्रदीप्य लोकम् / ददन् योगेन तु वज्रसंवर्षं वज्रात्मभावं कुरुषे सुवज्र //
59.3 SK श्रीरत्न रत्नाकर रत्नमेघ रत्नेन रत्नं रमसे सुरत्न / विदार्य दारिद्रयघनं जनानां सुतेजसा रत्नमहाध्वजेन //
59.4 SK श्रीपद्म पद्मोत्तम पद्मसत्त्व पद्मान्समस्तान् खलुपद्मजालैः / विबोध्य पद्मोद्भव पद्मतोयैः पद्मे कुले स्थापयसे सुपद्म //
59.5 SK श्रीविश्व विश्वाविश विश्वज्ञानं विश्वेन विश्वविषयेन लिप्त / विश्वेन सत्त्वान् विनयेषु विश्वं विद्यां सुविद्य्ःं सुखप्ःचित्ःमिति //
1579 SK श्रीपञ्चतथागतस्तोत्रं समाप्तम् //
1580 SK ओम् नमः श्रीपञ्चभूतान्ताय /
60.1 SK नमस्ते वरदराजाग्र भूतकोटि नमोस्तु ते / नमस्ते शून्यतागर्भ बुद्धबोधि नमो ऽस्तु ते //
60.2 SK बुद्धराग नमस्ते ऽस्तु बुद्धकाम नमो ऽस्तु ते / बुद्धप्रीति नमस्ते ऽस्तु बुद्धमोद नमो नमः //
60.3 SK बुद्धस्मित नमस्तुभ्यं बुद्धहास नमो नमः / बुद्धवाच नमस्ते ऽस्तु बुद्धभाव नमो नमः //
60.4 SK अभवोद्भव नमस्ते ऽस्तु नमस्ते बुद्धसंभव / गगनोद्भव नमस्ते ऽस्तु नमस्ते ज्ञानसंभव //
1585 SK मायाजाल नमस्तुभ्यं नमस्ते बुद्धनायक / नमस्ते सर्वसर्वेभ्यो ज्ञानकाय नमो ऽस्तु ते /
1586 SK श्री पञ्चतथागतस्तुतिगाथा समाप्ता //
61.1 SK कथं स्तोष्यामि ते(तं) नाथमनुत्पन्नमनालयम् / लोकोपमामतिक्रान्तं वाक्पथातीतगोचरम् //
61.2 SK तथापि यादृशो वा ऽसि तथतार्थेषु गोचरः / लोकप्रज्ञप्तिमागम्य स्तोष्ये ऽहं भक्तितो गुरुम् //
61.3 SK अनुत्पन्नस्वभावेन उत्पादस्ते न विद्यते / न गतिर्नागतिर्नाथ अभावाय नमो ऽस्तु ते //
61.4 SK न भावो नाप्यभावो ऽसि नोच्छेदो नापि शाश्वतः / न नित्यो नाप्यनित्यस्त्वमद्वयाय नमो ऽस्तु ते //
61.5 SK न ह्येको हरितमाञ्जिष्ठो वर्णस्ते नोपलभ्यते / न पीतः शुक्लः कृष्णो वा अवर्णाय नमो ऽस्तु ते //
61.6 SK न महान् नापि ह्रस्वो ऽसि न दीर्घः परिमण्डलः / अप्रमाणगतिं प्राप्तो ऽप्रमाणाय नमो ऽस्तु ते //
61.7 SK न दूरे नापि वासन्ने नाकाशे नापि वा क्षितौ / न संसारे न निर्वाणे अस्थिताय नमो ऽस्तु ते //
61.8 SK अस्थितः सर्वधर्मेषु धर्मधातुगतिं गतः / परां गम्भीरतां प्राप्तो गम्भीराय नमो ऽस्तु ते //
61.9 SK एवं स्तुते स्तुतो भूयादथवा किं वत स्तुतः / शून्येषु सर्वधर्मेषु कः स्तुतः केन वा स्तुतः //
61.10 SK कस्त्वां शक्नोति संस्तोतुमुत्पादव्ययवर्जितम् / यस्य नान्तो न मध्यं वा ग्राह्यग्राहो न विद्यते //
61.11 SK न गतं नागतं स्तुत्वा सुगतं गतिवर्जितम् / तेन पुण्येन लोको ऽयं व्रजतां सौगतीं गतिम् //
1598 SK श्री परमार्थस्तवः समाप्तः //
62.1 SK ब्रह्माणी तत्त्वरूपा विविधघनरवा घोरचण्डी च रौद्री कौमारी कीर्तिकामा पिबति मधुमदं वैष्णवी गायमाना / वाराही वादयन्ती पटुतरपटहान् नृत्यमाना तथैन्द्री चामुण्डा चापि लक्ष्मीर्हरगणसहिता मातरो वः पुनन्तु //
62.2 SK गणपतिं च हेरम्बं विघ्नराजं विनायकम् / देवपुत्रं महावीर्यं महाबलपराक्रमम् //
62.3 SK महोदरं महाकायमेकदन्तं गजाननम् / श्वेतवर्णं महादीप्तिं त्रिनेत्रं गणनायकम् //
62.4 SK अक्षमाला(च) वरदं दक्षिणकरसंस्थितम् / परशुर्मुण्डपात्रं च वामहस्तविधारणम् //
62.5 SK नानापुष्परतं देवं नानागन्धावलेपनम् / नागयज्ञोपवीताङ्गं नानाविघ्नविनाशनम् //
62.6 SK देवासुरमनुष्यैश्च सिद्धगन्धर्वकिन्नरैः / पूजितं विघ्नहन्तारं मूषकाटं नमाम्यहम् //
62.7 SK ब्रह्माणी ब्रह्मसावित्री ब्रह्मतत्त्वविवेदिनी / चतुर्भुजा चतुर्वक्त्रा चतुर्देवपरायणा //
62.8 SK चतुर्देशे चिरं व्यापी चतुर्युगोपकारिणी / हंसयुक्तविमानस्था सौम्यरूपा पितामही //
62.9 SK पुस्तकं पुष्पमालां च वरदाभयधारिणी / पीतपुष्परता देवी पीताङ्गा पीतसन्निभा //
62.10 SK पीतोपहारसंयुक्ता पीतगन्धानुलेपिनी / उदुम्बरद्रुमस्था च प्रयागक्षेत्रवासिनी //
62.11 SK पूर्वपीठे स्थिता नित्यं ब्रह्मशक्तिर्नमो ऽस्तु ते / माहेश्वरी महादेवी मोहमायानिरंज(कृंत) नी //
62.12 SK महावृषसमारूढा महाहुंकारनादिनी / हेममुक्त(क्ता)निभदेहा कपालशशिशेखरा //
62.13 SK त्रिलोचना त्रिशुली च अक्षसूत्रकमण्डलू / नानालङ्कारसर्वाङ्गी दक्षिणेन वरप्रदा //
62.14 SK सृष्टिस्थितिविनाशानां सर्वथापीश्वरेश्वरी / श्वेतपुष्परता देवी श्वेतगन्धानुलेपिनी //
62.15 SK श्वेतवस्त्रपरीधाना मुद्राभरणभूषिता / वाराणस्यां महाक्षेत्रे तार(ल)वृक्षनिवासिनी //
62.16 SK उत्तरे संस्थिता पीठे माहेश्वरी नमो ऽस्तु ते / बालभावे महारौद्री कौमारी रक्तलोचनी //
62.17 SK रक्तवर्णधरा देवी सिन्दूरारूणविग्रहा / चतुर्भुजा शक्तिसूत्रसिद्धपात्रधरा शुभा //
62.18 SK कौमारी परमा शक्तिर्मयूरवरवाहिनी / रक्तवस्त्रपरीधाना रक्तमांसावसायिनी //
62.19 SK कोलापुरमहाक्षेत्रे वटवृक्षनिवासिनी / अग्निपीठस्थिता नित्यं कौमारी ते नमो नमः //
62.20 SK वैष्णवी विष्णुमाया च दैत्यदुर्दान्तनाशिनी / हरितश्यामवर्णाङ्गी गरुडोपरि संस्थिता //
62.21 SK शङ्खचक्रगदाहस्ता चतुर्बाहुविभूषिता / रक्तज्वाला महाक्रीडा नानाभरणभूषिता //
62.22 SK हरितपुष्पगन्धा च हरितवस्त्रधारिणी / अट्टहासे महाक्षेत्रे कदम्बवृक्षवासिनी //
62.23 SK स्वर्गे मर्त्ये च पाताले स्थितिरूपेण संस्थिता / तिष्ठन्ती पीठनैरॄत्ये नारायणी नमो ऽस्तु ते //
62.24 SK वाराही घोररक्ताङ्गी रक्तकेशी महोदरी / दंष्ट्रावादिनी गम्भीरा रक्तनेत्रा त्रिलोचनी //
62.25 SK कपालमालिका माला विचित्रपुष्पशोभिता / महाशूकसमारूढा ज्वलिताग्निसमप्रभा //
62.26 SK अङ्कुशकर्तिकादण्डहाडाभरणभूषिता / त्रिनेत्रा ज्वलितदेहा च दुष्टदर्पविनाशिनी //
62.27 SK जयन्तीक्षेत्रसंस्थाना निम्बवृक्षसमाश्रिता / याम्यपीठे स्थिता नित्यं कोलरूपी नमो ऽस्तु ते //
62.28 SK शक्रेश्वरी सहस्राक्षो कुङ्कुमारुणविग्रहा / सुरेश्वरी देवदेवी सर्वालङ्कारभूषिता //
62.29 SK चतुर्भुजा विशालाक्षी छत्रघण्टाविधारणी / महावज्रधरा देवी स्थिता चैरावते गजे //
62.30 SK नानापुष्परता देवी नानारत्नविभूषिणी / नानागन्धविलिप्ताङ्गी नानावस्त्रविराजिनी //
62.31 SK चीर(न)क्षेत्रे महाक्षेत्रे करञ्जवृक्षसंस्थिता / नागपीठस्थिता नित्यं शक्रेश्वरि नमो ऽस्तु ते //
62.32 SK चामुण्डा चण्डिका चण्डी प्रचण्डसुरसुन्दरी / चण्डाट्टहासा चण्डाक्षी प्रचण्डचण्डनाशिनी //
62.33 SK दंष्ट्राकराला रक्ताङ्गी कपिलकेशी महोदरी / कृषा(पा)णी भीषणी रौद्री जिह्वाललनभीषणा //
62.34 SK महाप्रेतासनारूढा भुजाष्टकसुशोभिनी / असिचर्मयुता हस्तैः डमरुखट्वाङ्गधारिणी //
62.35 SK कर्तिकपालहस्ता च वरदाभयभूषिता / हाडालङ्कारसर्वाङ्गी अरिप्रत्यसुदा प्रिया //
62.36 SK सहस्रसूर्यसंकाशा रोपकूपं प्रति प्रति / ज्वालामालाकुला देहे(सूर्य)कोटिसमप्रभा //
62.37 SK भूतवेतालडाकिन्यः परिवाराश्च राक्षसाः / एकमक्षमहाक्षेत्रे अश्वत्थवृक्षवासिनी / पीठे मरुतसंस्थाने चामुण्डायै नमो ऽस्तु ते //
62.38 SK महालक्ष्मीर्महादेवी भोगाढ्या गुणसुन्दरी / वैदूर्यपादुकारूढा सिंहासनस्थिता सुधीः //
62.39 SK चतुर्भुजा विशालाक्षी खड्गखेटकधारिणो / पात्रबिन्दुधरा देवी हार्धयुक्(हारार्धयुग)कुण्डली //
62.40 SK रत्नखचितसर्वाङ्गी चूडामणिविभूषिता / विचित्रपुष्परत्ना च वस्त्रगन्धानुलेपना //
62.41 SK त्रैलोक्यव्यापिनी देवी सर्वस्था सचराचरा / सिद्धगन्धर्वनमिता विद्याधरसुरार्चिता //
62.42 SK देवीकोटमहाक्षेत्रे प्लक्षसंस्था वरा बला / ईशानपीठसंस्थाना महालक्ष्मीः नमो ऽस्तु ते //
62.43 SK जननी सर्बबुद्धानां सर्वसन्तोषकारिणी / त्वमेव सर्वरूपा च त्वमेव विश्वरूपिणी //
62.44 SK भैरवं भीषणं रौद्रं घोरगम्भोररूपिणम् / निरञ्जननिभं देहं सर्वकाममहोत्सवम् //
62.45 SK नानाभुजसमाकीर्णा नानावस्त्रधरा शुभा / बभ्रुरर्धशिरोरूहा दावाग्निसमतेजसा //
62.46 SK त्रिलोचना महातेजा अग्निसूर्यसमप्रभा / त्रिशूलं मुण्डं खट्वाङ्गं डमरुं तर्जनीं ध्वजम् //
62.47 SK प्रज्ञां तत्पुस्तकं चैव खड्गचर्मधरा शुभा / पाशाङ्कुशधरं देवं वज्रसूचीमहाधरम् //
62.48 SK कपालकर्तिकं चक्रं गजचर्मावगुण्ठितम् / दंष्ट्राकरालवदनं व्याघ्रचर्मकटीवृतम् //
62.49 SK सालङ्कारेण सर्वाङ्गं नरास्थिपुष्पशोभितम् / शीर्षमालाधरा देवी कापालिकोटरं शुभम् //
62.50 SK चूडामणिं महातेजं कपालं चन्द्रभूषितम् / महाप्रेतासनं नित्यं नीयमाना सदा प्रिया //
62.51 SK सहस्रसूर्यसंकाशा छत्रबिन्दुसमन्विता / चतुष्पीठस्थिता नित्यम् अष्टक्षेत्रनिवासिनी //
62.52 SK अष्टमूर्तिस्थिता देवी अष्टकयोगिनीप्रिया / भद्रपीठे स्थिता नित्यं भद्रकालीसमावृता //
62.53 SK भद्रकारणकर्ता त्वं वीरभद्र नमो ऽस्तु ते / असिताङ्गो रुरुश्चैव चण्डो ऽथ क्रोधभैरवः //
62.54 SK उन्मत्तभैरवश्चैव कपाली भीषणस्तथा / संहारभैरवञ्चाष्टभैरवाय नमो ऽस्तु ते //
62.55 SK स्वस्थाना स्वाधिकारा च स्वस्वरूपा स्ववीरका / स्वस्वच्छवृक्षतानं न दिव्याक्षं चैव भूमिगाः //
62.56 SK दशदिक्क्षेत्रपालं च क्षेत्राणि च चतुर्दश / पञ्चाशक्षेत्रपालं च क्षेत्रपाल नमो ऽस्तु ते //
62.57 SK नाथनाथ महानाथ आदिनाथ महामते / श्रीनाथ सिद्धनाथ मीननाथ नमो ऽस्तु ते //
62.58 SK क्षेत्रनाथ पीठनाथ द्वीपनाथ महात्मने / प्रेतनाथ भूतनाथ बढनाथ नमो ऽस्तु ते //
62.59 SK त्रिनाथं नवनाथं च षोडशनाथमुत्तमम् / सप्तविंशतिपञ्चाशचतुरशीति नमो ऽस्तु ते //
62.60 SK सर्वेषां नाथसिद्धानां मतं चक्षुस्त्वमव्ययम् / पोतसद्म तथा वीरस्ततः सर्व नमो ऽस्तु ते //
62.61 SK एकवारं द्विवारं च त्रिवारं यः पठेन्नरः / शतमावर्तयेद् येन प्राप्नोति फलमुत्तमम् //
62.62 SK नाशयेच्छोकचिन्तादि नाशयेद् विघ्नमण्डलम् / नाशेयेद् रोगकलहान् नाशयेद् दुःखदुष्करम् //
62.63 SK नाशयेद् भयदारिद्रयं नाशयेद् रिपुजं भयम् / नाशयेदग्निचौरादि नाशयेद् राजकोपजम् //
62.64 SK नाशयेद् विग्रहं घोरं परकृताभिचारकम् / नाशयेद् द्वेषरागादि नाशयेत् सर्वपातकम् //
62.65 SK आयुरारोग्यमैश्वर्यधनधान्यप्रवर्धनम् / धर्मार्थकाममोक्षाणां यशःसौभाग्यवर्धनम् //
62.66 SK ऋद्धिं सिद्धिं श्रियं लक्ष्मीं विद्यां ज्ञानं सुतादि च / बुद्धिं प्रजां सुमित्राणि वर्धयेच्च दिने दिने //
62.67 SK नाकाले मरणं चैव उत्पातं नाशयेत् सदा / सर्वे रोगाः प्रशाम्यन्ति दीर्घमायुरवाप्यते //
1666 SK श्रीपीठस्तवस्तोत्रं समाप्तम् //
63.1 SK जय सिद्धसुरासुरलोकगुरुं कमलासनसंस्थितपादयुगम् / दशपारमितादिकपद्मधरं प्रणमामि सदा वरकारुणिकम् //
63.2 SK बहुकोटिनराधिपलब्धवरं जय सुस्थितसुस्थितनाथमुनिम् / भवसागरपारगताधिकरं शरणागतसत्त्वहितार्थकरम् //
63.3 SK कमलासनचारुसुरुपधरं अमिताभतथागतमौलिधरम् / कमलोज्ज्वलभूषितगात्रवरं नवभास्करशोभनदीप्तिकरम् //
63.4 SK मृदुताम्रनखाङ्गुलिशोभमुखं शशिबिम्बसमप्रभसौम्यमुखम् / षडभिज्ञगुणाकरवन्द्यतनुं वरसुस्थितनूपुरहारयुतम् //
63.5 SK मणिकुण्डलमण्डितगण्डयुगं घनगर्जिततुल्यगभीररुतम् / गिरिगह्वरद्योतनिवासकृतं वृषवाहनहंसमृगायुशतम् //
63.6 SK ऋषिदेवगणाधिपसंस्तुतिकं जिनरूपधरात्मकबोधिपरम् / द्विपदोत्तमनाथसुराधिपतिं बहुसत्त्वविमोचनमुक्तिकरम् //
63.7 SK ध्वजछत्रसुशोभितवामकरं मलयागिरिचन्दनधूपरतिम् / कमलोत्पलपाटलिदामधरं प्रणमाम्यथ पाटलिवृद्धिकरम् //
63.8 SK ज्वररोगविवर्जितकुष्ठहरं बहुबोधिमनाघनभद्रकरम् / नवदुर्गतिनाशनमार्गप्रदं करुणातथताद्वयविश्वपतिम् //
1675 SK श्रीआर्यावलोकितेश्वरस्य पोतलकाष्टकं समाप्तम् //
1676 SK ओम् नमः श्रीप्रज्ञापारमितायै
64.1 SK निर्विकल्पे नमस्तुभ्यं प्रज्ञापारमिते ऽमिते / या त्वं सर्वानवद्याङ्गि निरवद्यैर्निरीक्ष्यसे //
64.2 SK आकाशमिव निर्लेपां निष्प्रपञ्चां निरक्षराम् / यस्त्वां पश्यति भावेन स पश्यति तथागतम् //
64.3 SK तव चार्ये गुणाढ्याया बुद्धस्य च जगद्गुरोः / न पश्यन्त्यन्तरं सन्तश्चन्द्रचन्द्रिकयोरिव //
64.4 SK कृपात्मकां प्रपद्य त्वां बुद्धधर्मपुरस्सराम् / सुखेनायान्ति माहात्म्यमतुलं भक्तवत्सले //
64.5 SK सकृदप्याशये शुद्धे यस्त्वां विधिवदीक्ष्यते / तेनापि नियतं सिद्धिः प्राप्यते ऽमोघदर्शने //
64.6 SK सर्वेषामपि वीराणां परार्थे नियतात्मनाम् / व्यापिका जगतीमेनां माता त्वमसि वत्सला //
64.7 SK ये बुद्धा लोकगुरवः पुत्रास्तव कृपालवः / तेन त्वमसि कल्याणि सर्वसत्त्वपितामही //
64.8 SK सर्वपारमिताभिस्त्वं निर्मलाभिरनिन्दिता / चन्द्रलेखेव ताराभिरनुप्रोता ऽसि सर्वतः //
64.9 SK विनेयजनमासाद्य तत्र तत्र तथागतैः / बहुरूपा त्वमेवैका नानानामभिरीक्ष्यसे //
64.10 SK प्रभां प्राप्येव दीप्तांशोरवश्यायोदविन्दवः / त्वां प्राप्य प्रलयं यान्ति दोषावादाश्च वादिनाम् //
64.11 SK त्वमेव त्रासजननी बालानां भीमदर्शना / आश्वासजननी चापि विदुषां सौम्यदर्शना //
64.12 SK यस्य त्वय्यप्यभिष्वङ्गस्त्वन्नाथस्य न विद्यते / तस्याम्ब! कथमन्यत्र रागद्वेषौ भविष्यतः //
64.13 SK नागच्छसि कुतश्चित्त्वं कुत्रचिन्न च गच्छसि / स्थानेष्वपि च सर्वेषु विद्वद्भिर्नोपलभ्यसे //
64.14 SK ये त्वामेव न पश्यन्ति प्रपद्यन्ते च भावतः / प्रपद्य च विमुच्यन्ते तदिदं महदद्भुतम् //
64.15 SK त्वामेव बध्यते पश्यन्नपश्यन्न विबध्यते / त्वामेव मुच्यते पश्यन्नपश्यन्न विमुच्यते //
64.16 SK अहो विस्मयनीयासि गम्भीरासि यशस्विनी / सुदुर्बोधासि मायेव दृश्यसे न च दृश्यसे //
64.17 SK बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्च निषेविते / मार्गस्त्वमेको मोक्षस्य नास्त्यन्य इति निश्चयः //
64.18 SK व्यवहारं पुरस्कृत्य प्रज्ञप्त्यर्थ शरीरिणाम् / कृपया लोकनाथैस्त्वमुच्यसे च न चोच्यसे //
64.19 SK शक्तः कस्त्वामिह स्तोतुं निर्निमित्तां निरञ्जनाम् / सर्वेषां विषयातीता या त्वं क्वचिदनिश्रिता //
64.20 SK सत्येवमपि संवृत्या वाक्यार्थैर्वयमीदृशैः / त्वामस्तुत्यामपि स्तुत्वा तुष्टुवन्तः सुनिर्वृताः //
64.21 SK प्रज्ञापारमितां स्तुत्वा यन्मयोपचितं शुभम् / तेनास्त्वाशु जगत् कृत्स्नं प्रज्ञापारपरायणम् //
1698 SK श्रीलक्षाभगवती कृतं प्रज्ञापारमितास्तोत्रं समाप्तम् //
1699 SK ओम् नमः श्रीप्रज्ञापारमितायै
65.1 SK निर्विकल्पे निरालम्बे निरवद्ये निरंजने / नित्यानित्ये निर्विकारे प्रज्ञे देवि नमो ऽस्तु ते //
65.2 SK बुद्धानां जननीशानि बोधिसत्त्वपितामहि / प्रपितामहि सत्त्वानां प्रज्ञे देवि नमो ऽस्तु ते //
65.3 SK मातर्मातर्जगन्मातरिति संजपतां नृणाम् / मनोरथप्रदे शुद्धे प्रज्ञे देवि नमो ऽस्तु ते //
65.4 SK लक्ष्मीस्त्वमसि कल्याणि श्रीर्धीः श्रद्धा धृतिः स्मृतिः / सर्वस्वरूपे सर्वेशि प्रज्ञे देवि नमो ऽस्तु ते //
65.5 SK लोकोत्तरे लौकिके च प्रज्ञापारमिते ऽमिते / दश पारमिताकारे प्रज्ञे देवि नमो ऽस्तु ते //
1705 SK श्रीप्रज्ञापारमितास्तुतिः समाप्ता //
1706 SK ओम् नमः श्रीप्रतिसरायै प्रतिसरै!
66.1 SK अमरौघैः पूजितां त्वां नतो ऽस्मि प्रतिपदजनरक्षाकारिणीं सर्वकालम् / भृगुदहनसमुद्रापातदुःखे सुरक्षां रिपुविषभयहत्रीं राज्यभोगादिकर्त्रीम् //
66.2 SK परिवृतनिजवर्गान् भक्तदत्तापवर्गान् कलितदुरितवर्गान् मोक्षलाभैकमार्गान् / कृतनरसुरसर्गान् कारितानङ्गभङ्गान् स्तुतिकृतमुनिगर्गान् सर्वरक्षैकसङ्गान् //
66.3 SK प्रहृतसकलविघ्ने सर्वलोकैकमान्ये दशबलकृतधन्ये पञ्चदेवीवरेण्ये / विषमपदशरण्ये सर्वदा त्वां नमस्ये वसित इव अरण्ये दावदग्धे विरस्ये //
66.4 SK सकलजनसुवाञ्छापूरणे कामधेनुमभिलषितफलाप्त्यै कल्पवृक्षाग्रवल्लीम् / असुरसुरनराद्यैर्वन्दिताङ्घ्र्यब्जयुग्मामुरसि ललितानानारत्नमालादियुक्ताम् //
66.5 SK उडुपतिशतदीप्तां शङ्खकुन्दावदातां ग्रहभयपरिशान्तां वज्रसत्त्वात्मिकां ताम् / श्रवणललितलोले कुण्डले संवहन्तीं मुकुटमणिशिखाभिः काशितां तां नमामि //
66.6 SK जननि सकलदुःखात्तारणी त्वं प्रसीद सपदि विगतरक्षां रक्ष मे मातरं च / सकरुणरुदितं मां त्वद्दयास्वस्थभूतं कृतसरसिनिपातां त्वं गतिस्त्वं गतिर्नौ //
66.7 SK पठति प्रतिसरायाः स्तोत्रमेतत्सदा यो ज्वलनजलविषाणां चोरशार्दूलकानाम् / सगदनिधनकानां भीतया नाशयन्ती प्रतिपदमलभग्नं कामुना धैर्यलाभम् //
66.8 SK निजजनपरियुक्ता धर्मकामार्थवृद्धा रिपुगणपरिमुक्ता सौख्यमेव प्रभुक्ता / ददति विपुलभोग्यं कामदा सर्वदा ऽसौ निहतसकलपापं मोक्षमायान्ति चान्ते //
66.9 SK विगलितनयनाम्बुः साञ्जलिः संविलापी स्तुतिमिति प्रचकार त्रैभवानां जनन्याः / भवतु मम तु संपत् सर्वभावा कृशानो तनु कुशलसुरक्षा इत्थमेवं सुचित्तः //
66.10 SK विपचतु मयि सर्वं मादृशं कर्म भोग्यं ससुरनरचयानां भ्रातृमातृद्रुहाणाम् / कुरुत कुरुत धैर्यं येन मोक्षं सुलभ्यं जठरनिलयवासं मास्तु पापं कदाचित् //
66.11 SK उदरनरकवासं ये तदा सावतारं सततशुभसुचेताः साधयिष्यामि बोधिम् / कृतजगति सुरक्षां येन कैवल्यप्राप्तिः इति मुदितसुचेताः कर्मणा दिग्धचित्तः //
66.12 SK प्रतिसर अवतार्यां साम्बिकां मा विलम्ब अनिशमितिवदन् सो निन्दयन् वै स्वकर्म / प्रतिभयविषदिग्धस्तस्थिवानर्भकः सन् मुहुरिह हि शरण्यां तां स्मरन् सर्वरक्षाम् //
66.13 SK अहो सुधन्या जगदेकमाता प्रक्रान्तदैवा रिपुवर्गभीता / यस्याः प्रभावाद्विहितात्यपापात् प्रयाति वह्निर्जलशीतलत्वम् //
66.14 SK प्रभावताहो पुनरेव तस्याः वह्निं जलं चापि गिरिं स्थलं वै / यस्याः स्मृतेनैव सविस्मतीयान् वैश्वानरः प्राप द्विधाकृतिं ताम् //
66.15 SK गोपाशरीरं ह्रदपातशीतं शैतं त्वनाशार्थमिवाधिकोष्णाम् / दैवादिदत्ताभिजने समन्तान्नितान्तदूरादतिपापदत्ताम् //
1722 SK श्रीभद्रकल्पावदानोद्धृतं यशोधरागर्भस्थबालकृतं प्रतिसरास्तोत्रं समाप्तम् //
67.1 SK मया कृतानि पापानि कायवाकचित्तसंचयैः / तत्सर्वं हर मे नाथ रक्ष मां लोकनायक //
67.2 SK नेपाले द्वादशाब्देषु अनावृष्टिर्महाभयम् / नरेन्द्रदेवं संस्थाप्य रक्ष मां लोकनायक //
67.3 SK मर्त्यभूमौ च पाताले दुःखिनो बहुलौकिकाः / सुखवृद्धिकरस्तेषां रक्ष मां लोकनायक //
67.4 SK यत्र यत्र गतस्तत्र सर्वसत्त्वानुकम्पया / समुद्धरसि पापेभ्यो रक्ष मां लोकनायक //
67.5 SK संसारे व्यापितो ऽहं तु कथं पारं प्रयास्यते / त्वमेव शरणं तत्र रक्ष मां लोकनायक //
67.6 SK सर्वदेवमयस्त्वं हि सर्वबुद्धमयस्तथा / सर्वसिद्धिमयश्चैव रक्ष मां लोकनायक //
67.7 SK सदा कृपामयस्त्वं हि सदा रक्षामयो ऽसि च / सदा प्रज्ञामयस्त्वं हि रक्ष मां लोकनायक //
67.8 SK येन येन कृतं कर्म तेन तेनैव धारितम् / यद्यदिच्छां प्रदातासि रक्ष मां लोकनायक //
67.9 SK सुखावतीं न संप्राप्तं यावद्धि सर्वसत्त्वकम् / तावत्संसारगर्ते ऽस्मिन् रक्ष मां लोकनायक //
67.10 SK ज्ञानिनां ज्ञानरूपो ऽसि दुःखिनां दुःखहारकः / कामिनां कामरूपो ऽसि रक्ष मां लोकनायक //
67.11 SK पूजनीयो ऽसि लोकेश प्रणवस्य स्वरूपधृक् / वन्दनीयः सदा त्वं हि रक्ष मां लोकनायक //
67.12 SK भर्ति वा भर्तिको वापि मित्रं वा शत्रुको ऽपि वा / सर्वत्र च दयायुक्तो रक्ष मां लोकनायक //
67.13 SK लोकनाथ जगत्स्वामिन् सुभक्तिकृतचेतसा / त्वां नमामि पुनर्भूयो रक्ष मां लोकनायक //
67.14 SK अनेकदुःखभागस्मि भीष्मैर्वै कष्टसंकटैः / दयस्व चावलोकेश मोचयस्व च मां क्षणात् //
67.15 SK सर्वदेक्षासुसम्पातं वर्तयन् कुरु मे ऽक्षयम् / अस्तु ते करुणा मह्यं भक्तिं चैवाचलां कुरु //
1739 SK श्रीमदार्यावलोकितेश्वरभट्टारकस्य रक्षाकाल(कर)स्तवः समाप्तः //
1740 SK आचार्यवनरत्नपादविरचितम् लोकेश्वरं
68.1 SK विमलशून्यकृपार्द्रचित्तं मार्गज्ञताप्रथितदेशनयार्थवाचम् / सर्वज्ञतादिपरिपूर्णविशुद्धदेहं ज्ञानाधिकारललितं शिरसा नमामि //
68.2 SK वैनेयभेदवशतो बहुधावभासैरेको ऽपि पात्रगजलेषु शशीव यस्मात् / संलक्षसे परहितानुगतैव तस्माद् बुद्धिस्त्वहो परमविस्मयनीयरूपा //
68.3 SK संपूर्णचन्द्रवदने ललितो ललाटदेशाद्विनिर्गतमहेश्वरदेवपुत्रः / वैनेयशाम्भवजनप्रतिबोधनार्थं देवाधिदेवप्रतिमानुज ईश्वरस्त्वम् //
68.4 SK वैनेयकोमलभवप्रतिबोधनाय किं धाम संभृत महाशुभलक्षणं ते / निर्यात एव हि पितामहदेवपूजां लोकेश्वरेश्वरपरं शिरसा नमामि //
68.5 SK वैनेयवैष्णवजनप्रतिबोधनाय राजीवपाणिहृदयात् प्रतिनिःसृतो ऽसौ / नारायणो ऽपि भुवनेश्वर एव तस्मात् पुंसां त्वमेव परमोत्तम एव नान्यः //
68.6 SK चन्द्रार्कसादरबलाहितभक्तिभाजां संदर्शनार्थमिभनीलसुलोचनाभ्याम् / यन्निःसृतौ शशिरवी भुवि लोचनाभ्यां ध्वस्तान्तरालतमसं तमहं नमामि //
68.7 SK सारस्वतीविनययोजितभक्तिभाजां बोधाय वै भगवतीह सरस्वतीयम् / दृष्टाग्रतस्तव जिनात्मजपप्रसूता प्रज्ञाभिलाषिफलदं तमहं नमामि //
68.8 SK वैनेयवायुजनिताक्षरमार्गसिद्ध्यै यो लोकनाथ सुगतो ऽथ विनिःसृतो ऽसौ / देवः समीरणवरो भुवि जन्मभाजामीर्यापथार्थफलदं तमहं नमामि //
68.9 SK वैनेयवारुणशिवायनमीप्सितानां संबोधनार्थमुदरात्सुगतात्मजानाम् / यन्निःसृतो वरुणदेववरो ऽप्यकस्मादैश्वर्यसिद्धि फलदं तमहं नमामि //
68.10 SK वैनेयसंमतफलाद्यभिलाषिणो वै संसिद्धये प्रवरलक्षणपादपद्मे / यन्निःसृता भगवती धरणी प्रसिद्धा त्रैलोक्यनाथमसमं सततं नमामि //
68.11 SK संसारमुक्तमपि सुस्थितमेव तत्र कारुण्यतश्च भवचारिणि सत्त्ववर्गे / भूयात् स्थितिर्मम सदास्थिरसा भवन्तमेवं महाशयवरं परमं नमामि //
68.12 SK एकेन पादतलकेन भवत्स्वकेन चक्रान्तसंवरमनन्तरलोकधातौ / कल्पान्तदग्धभुवने ज्वलितोग्रवह्निर्निःश्वासवायुबलतस्तव निर्वृतः स्यात् //
68.13 SK स्वां तर्जनीं मुखधृतो ऽहिततर्जनेन संचालिताश्च बहुमेरुगणा नखस्य / कोषोद्धृतं जलधितोयमशेषतः स्यात् सामर्थ्यमीदृशमहो भवतः कुतो ऽन्यत् //
68.14 SK क्वेदं च शैशवपरं ननु चारुरुपं संदर्शनीयवरकोमलबालचन्द्रम् / दुर्वारमारमथनं च मयैकसह्यं विक्रान्तदुःसहपरं क्व च चेष्टितं ते //
68.15 SK एषा बताञ्जननिभोरुजनावली सा कौटिल्यचारुविकटा स्वशिरोरुहाग्रे / क्लेशेन्धने ज्वलितविस्फुरितत्ववह्नेर्धूमावलीव विमला ननु लक्ष्यते ते //
68.16 SK त्वत्कान्तिलेशविमला दशदिक्प्रतानैः पक्षासितक्षयकृशा सकला सुशोभा / पर्यन्त इष्टशशिनो भवनेषु यत्ते मन्ये विराजि निखिलं तव कान्तिलेशात् //
68.17 SK बन्धुर्हि को मार्गिकसंमतं मतं नरो नरी सा स च सत्पथं पथम् / परार्थसंपादितसंवरं वरं नमामि भूमीश्वरराजिनं जिनम् //
68.18 SK अनित्यनिर्वाणपदे स्थितं स्थितं प्रभास्वराधिष्ठितसंहितं हितम् / शमीकृताशेषजनं शिवं शिवं नमामि भूमीश्वरराजिनं जिनम् //
68.19 SK गभस्तिमालामितसंकुलं कुलं तत्र स्वपाणौ धृतपङ्कजं कजम् / रतानुगाशोभितसंरतं रतं नमामि भूमीश्वरराजिनं जिनम् //
68.20 SK स्वधर्मधातुं करुणापरं परं शुभादिसंभारसुसंभृतं भृतम् / विकल्पहीनं ध्वनिदेशकं शकं नमामि भूमीश्वराजिनं जिनम् //
68.21 SK तथतातथताद्वयशातशतं सदसत्परिपूरितधर्मकथम् / कथनीयविराजितसत्यपरं प्रणमे धरणीश्वरराजवरम् //
68.22 SK वरवारिजरूपि जगत्प्रसरं सरसीरुहलोचनचारुतरम् / तरसापि रसत्वविशुद्धिपरं प्रणमे धरणीश्चराजवरम् //
68.23 SK वरनिर्मितभोगपरार्थरतं रतशून्यनिरञ्जनधर्मधरम् / धरणीन्द्रविभूषितसिद्धिपरं प्रणमे धरणीश्वरराजवरम् //
68.24 SK वरसत्सहजोदधिचन्द्रमुखं सुखभाषितसत्त्वविमुक्तिपदम् / पदभूषणलक्षणतानुपरं प्रणमे धरणीश्वरराजवरम् //
68.25 SK लोकेश्वरेयं(मां) तव रत्नमालामचीकरच्छ्रीवनरत्नपादः / अवापि यत्तेन शुभप्रविष्टं तेनैव लोको ऽस्तु समन्तभद्रः //
1766 SK श्रीमदार्यावलोकितेश्वरभट्टारकस्य रत्नमालास्तोत्रं समाप्तम् //
69.1 SK सर्वभूतमणिकम्पित तुभ्यं क्षान्तिमेव चरितं तव रूपम् / सर्वरूपवरदिव्यसुरूपं तं नमामि दशबलवररूपम् //
69.2 SK भृङ्गराजशिखिमूर्ध्नि सुकेशं कोकिलाभशिखिदिव्यसुकेशम् / स्निग्धनीलमृदुकुञ्चितकेशं तं नमामि दशबलवरकेशम् //
69.3 SK शङ्खकुन्दकुमुदं विमरोमं जन्मदुःखविगतं विमरोमम् / रोगशोकविमते विमरोमं तं नमामि दशबलवररोमम् //
69.4 SK पूर्णचन्द्रद्युतिशोभितवक्त्रं तुङ्गनासमणिभाशुभवक्त्रम् / बुद्धपङ्कजिनभामरवक्त्रं तं नमामि दशबलवरवक्त्रम् //
69.5 SK रश्मिसहस्रविचित्रसुमूर्ध्नि पुष्पवर्षशतपूजितमूर्ध्नि / रत्नवर्षशतपूजितमूर्ध्नि तं नमामि दशबलवरमूर्ध्नि //
69.6 SK नेत्रपताकविलम्बितशीर्षं काञ्चनछत्रवरोपितशीर्षम् / नेत्रवितानसुशोभितशीर्षं तं नमामि दशबलवरशीर्षम् //
69.7 SK दिव्याम्बरमुकुटं मणिमुकुटं चन्द्रप्रभामुकुटामणिमुकुटम् / आगतशीर्षमखण्डितमुकुटं तं नमामि दशबलवरमुकुटम् //
69.8 SK चारुदलायतपङ्कजनेत्रं दिव्यज्ञानविपुलायतनेत्रम् / ध्यानमोक्षशुभसंस्कृतनेत्रं तं नमामि दशबलवरनेत्रम् //
69.9 SK शुद्धकर्णशुभशुद्धसुकर्णं शुद्धप्रज्ञवरशोभितकर्णम् / शुद्धज्ञानवरशुद्धसुकर्णं तं नमामि दशबलवरकर्णम् //
69.10 SK शुभ्रकुन्दशशिपङ्कजदन्तं तीक्ष्णसुलक्षणनिर्मलदन्तम् / विश्वपञ्चदशपञ्चसुदन्तं तं नमामि दशबलवरदन्तम् //
69.11 SK उच्चवाक्यससुरासुरजिह्वां धर्मज्ञानकृतपापदजिह्वाम् / गन्धधूपससुरासुरजिह्वां तं नमामि दशबलवरजिह्वाम् //
69.12 SK मेघसुदुन्दुभिनादितघोषं सत्यधर्मनयसुविदितघोषम् / दिव्यवादिपरवादितघोषं तं नमामि दशबलवरघोषम् //
69.13 SK ग्रीवग्रीवदशग्रीवसुग्रीवं क्षान्तिवीर्यं तव ग्रीवसुग्रीवम् / हेमवर्णमणिग्रीवसुग्रीवं तं नमामि दशबलवरग्रीवम् //
69.14 SK सिंहकायहिमकुन्दसुकायं ध्यानकायगुणसागरकायम् / अष्टसुलक्षणनिर्मलकायं तं नमामि दशबलवरकायम् //
69.15 SK श्वेतरक्तशुभशोभितवस्त्रं नीलपीतहरितायितवस्त्रम् / हारधवलशुभशोभितवस्त्रं तं नमामि दशबलवरवस्त्रम् //
69.16 SK हेमनागकरसंस्कृतबाहू पुष्पदानकृतशोभितबाहू / धीरवीर्यसुमनोहरबाहू तं (तौ) नमामि दशबलवरबाहू //
69.17 SK चामरचक्रसुशोभितहस्तं विमलसुकोमलपङ्कजहस्तम् / भूतप्रेतशरणागतहस्तं तं नमामि दशबलवरहस्तम् //
69.18 SK रागद्वेषतनुवर्जितचित्तं कल्पकोटिसमभावितचित्तम् / शीलज्ञानसमभावितचित्तं तं नमामि दशबलवरचित्तम् //
69.19 SK पद्मनाभशुभशोभितनाभं पद्मयोनिशुभशोभितनाभम् / ब्रह्मज्योतिसुशोभितनाभं तं नमामि दशबलवरनाभम् //
69.20 SK चक्रसुलक्षणभूषितपादं अङ्कुशशक्तिविराजितपादम् / नागयक्षगणवन्दितपादं तं नमामि दशबलवरपादम् //
69.21 SK भास्करद्युतिराजितपादं देवदानवगणवन्दितपादम् / सर्वदेवगणवन्दितपादं तं नमामि दशबलवरपादम् //
69.22 SK सर्वदेवगणपूजितशीर्षं सूर्यकोटिसमभावितशीर्षम् / दिव्यज्वालज्वलितार्पितशीर्षं तं नमामि दशबलवरशीर्षम् //
69.23 SK पुष्पधूपशतपूजितशीर्षं दीपगन्धशतपूजितशीर्षम् / माल्यवस्त्रशतपूजितशीर्षं तं नमामि दशबलवरशीर्षम् //
69.24 SK त्रिभुवनधर्मकलाभ्युष्णीषरत्नछत्रमुकुटादिपूजितम् / ये पठन्ति सुगतस्तवमेनं ते लभन्ति शुभमोक्षपथाधिगमम् //
1791 SK श्रीमदार्यावलोकितेश्वरभट्टारकस्य रूपस्तवं समाप्तम् //
70.1 SK रूपलक्षणसंपूर्णो हीनोच्चसमसेवनः / सन्दर्शय सदा दानं नमस्ते दानपारग //
70.2 SK शब्दलक्षणसंपूर्णः सुशोभो गुणसागरः / संश्रावय सदा शीलं नमस्ते शीलपारग //
70.3 SK गन्धलक्षणसंपूर्णो दिव्यप्राणो विनायकः / संप्रापय जिन क्षान्तिं नमस्ते क्षान्तिपारग //
70.4 SK रसलक्षणसंपूर्णः सुजिह्वो धर्मदेशकः / भाषस्व सौगतं धर्मं नमस्ते वीर्यपारगः //
70.5 SK स्पर्शलक्षणसंपूर्णः अनिरुद्धो निरीहकः / संस्पर्शय जिन ध्यानं नमस्ते ध्यानपारग //
70.6 SK धर्मलक्षणसंपूर्णः सत्त्वेषु समचिन्तकः / प्रज्ञोपायमहाप्राप्त नमस्ते बुद्धिपारग //
70.7 SK षडभिज्ञस्तवं यो ऽयं त्रिसन्ध्यं भक्तिमान् पठेत् / संसारबन्धनं हित्वा स याति परमां गतिम् //
1799 SK श्रीमहाबुद्धभट्टारकस्य षडभिज्ञस्तोत्रं समाप्तम् //
71.1 SK पङ्केरुहस्थाय पदाम्बुजाय बन्धूकपुष्पारुणसुन्दराय / सरोजहस्ताय जटाधराय नमो ऽस्तु तस्मै करूणामयाय //
71.2 SK कापुत्रदेशोद्भवमङ्गलाय जिनेन्द्ररूपाय तथागताय / संसारदुःखार्णवपारगाय नमो ऽस्तु तस्मै करूणामयाय //
71.3 SK समन्तभद्राय सुरार्चिताय सुवर्णग्रैवेयकभूषिताय / चूडामणिशीर्षधराय तुभ्यं नमो ऽस्तु तस्मै करूणामयाय //
71.4 SK सौन्दर्यसान्द्राय वृषासनाय भक्तार्तिहन्त्रे च तथागताय / महार्हरत्नैः परिमण्डिताय नमो ऽस्तु तस्मै करूणामयाय //
71.5 SK सत्कण्ठकण्ठाय मनोहराय त्रैलोक्यसंपूजितसम्पदाय / कारुण्यसंपूर्णहृदम्बुजाय नमो ऽस्तु तस्मै करूणामयाय //
71.6 SK स्तोत्रं प्रचक्रे भुवि शंखकर्म पुण्यार्थतो यच्छतराजधीमान् / ये ये पठिष्यन्ति नराः प्रयत्नात् ते ते गताः श्रीसुरहर्म्यरम्यम् //
1806 SK श्री आर्यावलोकितेश्वरस्य षड्गतिस्तोत्रं समाप्तम् //
72.1 SK उत्पन्नो वन्धुमत्यां नृपतिवरकुले यो विपश्यीतिनाम्ना यस्याशीतिसहस्राण्यमरनरगुरोरायुरासीद् गतानाम् / येन प्राप्तं जिनत्वं दशबलबलिना पोतलावृक्षमूले तं वन्दे ज्ञानवारि प्रणमितसकलं क्लेशवह्निं जिनेन्द्रम् //
72.2 SK वंशे पृथ्वीश्वराणां महति पुरवरे यः प्रजातो ऽरूणाक्षो वर्षाणामायुरासीत् सकलगुणनिधेर्यस्य सप्तायुतानाम् / संप्राप्ता येन बोधिः परहितपटुना पुण्डरीकस्य मूले तं वन्दे ज्ञानराशिं शिखिनमृषिवरं प्राप्तसंसारपारम् //
72.3 SK यो जातो नोपमायां सुप्रथितयशसामन्वये पार्थिवाना- मायुः षष्टिसहस्रादभवदुरुमतेर्यस्य संवत्सराणाम् / जित्वा क्लेशानशेषानमृतमधिगतं येन शालस्य मूले तं वन्दे धर्मराजं भुवनहितकरं विश्वभूनामधेयम् //
72.4 SK क्षेमावत्यां प्रजातो मनुजपतिसमे यो वशी विप्रवंशे आयुर्वर्षायुतानि प्रवरगुणनिधेरष्टचत्वारि चैव / जैनेन्द्रं येन लब्धं त्रिभववधकरं ज्ञानखड्गेश्वरेण वन्दे ऽहं सिंहकायं सुगतमनुपमं ककुप्छन्दं मुनीन्द्रम् //
72.5 SK शोभावत्यां द्विजानां नरपतिमहिते यो ऽन्वये संप्रसूतस् तस्यामायुः सहस्राण्यतिशयवपुषस्त्रिंशदेवं बभूव / बुद्धत्वं येन रत्नाचलवरगुरुणौदुम्बरे प्राप्तमासीद् तं वन्दे शासितारं कनकमुनिमृषिं ध्वस्तमोहान्धकारम् //
72.6 SK वाराणस्यां कृषीशक्षितिपतिमहिते विप्रवंशे ऽभिजातो यस्यामायुः सहस्राण्यतिशयमहितं विंशतिर्वत्सराणाम् / येन न्यग्रोधमूले त्रिभवजलनिधिः पोषितो दिव्यगत्या तं वन्दे वन्दनीयं मुनिवरमनघं काश्यपं लोकनाथम् //
72.7 SK यो जातः श्रीविशाले कपिलपुरवरे शाक्यराजेन्द्रवंशे यस्यासीदायुरेकंशतमिह शरदां सर्वलोकैकबन्धोः / निर्गत्याश्वत्थमूले नमुचिमपि सता ऽनुत्तरा येन बोधिस् तं वन्दे शाक्यसिंहं सुरनरनमितं बुद्धमादित्यबन्धुम् //
72.8 SK जातिं विप्रेतिवंशे नृपवरमहिते केतुमत्यां गृहीत्वा बुद्धत्वं येन लब्धमतिगुणनिधिना नागवृक्षस्य मूले / अष्टावब्दायुतानि क्षपितभगवतो भावि यस्याग्रमायुर् वन्दे मैत्रेयनाथं तुषितपुरवरे भाविनं लोकनाथम् //
72.9 SK स्तुत्वा वै सप्तबुद्धान् सकलमुपगतान् सप्तसप्तार्कभासो मैत्रेयं च स्तुवन् वै तुषितपुरगतं भाविनं लोकनाथम् / यत्पुण्यं संप्रसूतं शुभगतिफलदं देहिनामेव सर्वं छित्वा संक्लेशपाशान् मुनय इव चरन् निर्वृतिं स प्रयातु //
1816 SK श्रीसप्तबुद्धस्तोत्रं समाप्तम् //
73.1 SK जगद्गुरुं सुरनरलोकपूजितं कृपापटुं परहितमोक्षदेशकम् / विपश्यिनं त्रिभवमहौघसारगं नमामि तं सुगतगतिं तथागतम् //
73.2 SK अनन्तपारे भवसागरे ऽस्मिन् निमज्यमानं प्रसमीक्ष्य लोकम् / प्रकाशितो येन हिताय धर्मो नमो ऽस्तु तस्मै शिखिने जिनाय //
73.3 SK वन्दे विश्वभुवं बुद्धं चन्द्रार्काधिकतेजसम् / सागरौघमिवागाघं ज्ञानेन विनयेन च //
73.4 SK यस्येन्दुरश्मिप्रतिमैर्यशोभिरलंकृता भाति वसुन्धरेयम् / औदुम्बरं पुष्पमिवाद्भुतं तं वन्दे ककुप्छन्दमहामुनीन्द्रम् //
73.5 SK विसारिणा विगतमलेन चेतसा विरागिणा सततहितानुकारिणा / हतं तमो विगतमलेन येन तं सुरार्चितं कनकमुनिं नमाम्यहम् //
73.6 SK प्रतप्तचामीकररश्मिगौरं सहस्रसूर्याधिकदीप्ततेजसम् / लोकोत्तमं सर्वजनाभिवन्द्यं वन्दाम्यहं काश्यपनामधेयम् //
73.7 SK वाक्यांशुजालैः प्रतिबोध्य लोकं सूर्याशुजालैरिव पद्मषण्डम् / यो निर्वृतः शाक्यमुनिप्रदीपस्तस्मैः नमः परमकारुणिकाय शास्त्रे //
73.8 SK मैत्रेयनामा तुषितालयस्थो यस्यैकजन्मान्तरिता हि बोधिः / उत्पत्स्यते यः सुगतः पृथिव्यां सर्वात्मना ऽहं प्रणतो ऽस्मि तस्मै //
73.9 SK स्तुत्वा मया सप्तजिनानतीताननागतं चाष्टमबोधिसत्त्वम् / यत्पुण्यमासादितप्रमेयं निरामयास्तेन भवन्तु सत्त्वाः //
1826 SK श्रीसप्तजिनस्तवः समाप्तः //
1827 SK ओम् नमो लोकनाथाय मत्स्येन्द्राय विष्णवे
74.1 SK नमामि जिननाथाय नित्यानित्यविधायिने / निरम्बरविलासाय निर्विकल्पाय ते नमः //
74.2 SK मोक्षदाता कृतमोक्षो मोक्षसौख्यप्रदायकः / मेरुमण्डलमध्यस्थमोक्षदाय नमो ऽस्तु ते //
74.3 SK लोलकन्दर्पपाशाय लोकेशाय महात्मने / लोकरक्षाय देवाय लोकनाथाय ते नमः //
74.4 SK कनकाचलमध्यस्थकिन्नरैरुपपद्यते / कीर्तिहेतोः समाध्येषा कान्तिदं त्वामुपास्महे //
74.5 SK नाथमन्त्रसमुज्ज्वालनागाभरणधारिणे / निरवद्याय बुद्धाय बोधिदाय नमो ऽस्तु ते //
74.6 SK स्थानरक्षाकृता धीर स्थानभ्रष्टप्रपालक / लोचना-मामकी-तारा-पाण्डराभ्यो नमो नमः //
74.7 SK यक्षराक्षसवेतालभुजङ्गभयहारिणे / अमिताभकिरीटाय सिद्धिदाय नमो ऽस्तु ते //
74.8 SK भिक्षुरोमसहस्राणि भिक्षुरक्षाय ते नमः / श्लोकाष्टकमिदं पुण्यं कीर्तितं ते समाधिप //
1836 SK श्रीमदार्यावलोकितेश्वरस्य सप्ताक्षरस्तोत्रं समाप्तम् //
75.1 SK अमितरुचिशिरःस्थं पद्मपत्रायताक्षं दुरितकृतविनाशं मोहमाया ऽहिताक्षम् / करधृतकनकाब्जं लोकपालैकदक्षं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् //
75.2 SK अरुणवरुणशोभाबोधिविज्ञानहेतुं मणिमयमुकुटं संसारकाम्भोधिसेतुम् / कृतमनसिजनाशं बोधिसत्त्वादिकेतुं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् //
75.3 SK सरसिजकृतवासं दूरकन्दर्पपाशं सुरनरदनुजाशं पूर्णचन्द्रप्रकाशम् / सुकृतजनविलासं कोटिसूर्यावभासं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् //
75.4 SK उरसि विहितनागं मोचिताशेषरागं भवजलधिविभागं मोक्षसौख्यैकमार्गम् / प्रतपितकनकाङ्गं बोधिबोधैकरागं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् //
75.5 SK जिनवरसुतराजं मुक्तिमालाविराजं सुललितफणिराजं कीर्णिताचाभिराजम् / प्रमुदितवलिराजं पालितामर्त्यराजं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् //
75.6 SK धृतमधुकररूपं क्षुप्तिपासान्तकूपं सुचरितहयरूपं सिंहलादन्तभूपम् / अगुरुसुरभिधूपं धारिताशेषरूपं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् //
75.7 SK त्रिविधविधृतपापं मे हरन्तं त्रितापं प्रतिदिनमितिजापं देवचक्रे विलापम् / निरयभयकलापं भेदकाज्ञानचापं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् //
75.8 SK विहितशुभजनानां मुक्तितापोद्यतानां विगलितकलुषाणां भक्तिपूजारतानाम् / वरकुशलसमूहं संप्रपेदे स्वभक्त्या प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् //
75.9 SK दशबलकृतसिद्धिं संवधे बुद्धबोधिं जननमरणभीतं मारपाशाभिनीतम् / मनसि मलिनवृत्ते पूरिताज्ञानवित्ते प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् //
75.10 SK प्रवरसुगतरत्नं धर्मकायं संसंघं क्षरणमिह प्रयामि कारितानङ्गभङ्गम् / प्रमुदितमनसाप्तं बोधिलाभैकयत्नं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् //
75.11 SK श्रीलोकनाथचरणाम्बुजभक्तिपद्म- पीयूषनन्दरचितानतिविस्तराढ्यम् / यत्सप्तधार्चनयुतं सरसातिहृद्यं सौख्यावतीगमनमार्गकरं तु सद्यः //
75.12 SK स्तुत्वा लोकगुरुं मुनीश्वरमिमं सर्वार्थसिद्धिप्रदं यत्पुण्यं समुपार्जितं व्रजतु तत्पुण्येन सौख्यावतीम् / श्रीलोकेश्वरपादपङ्कजरसोल्लासैकहर्षोदितं लोकक्लेशहरं सुदुर्जयवरं जित्वा प्रमुक्तामलम् //
1850 SK श्रीमदार्यावलोकितेश्वरस्य सप्तविधानुत्तररस्तोत्रं समाप्तम् //
76.1 SK दानबलेन समुद्गतबुद्धो दानबलाधिपता नरसिंहे / दानबलेक्षक श्रूयति शब्दः कारुणिकेन पुरे प्रविशन्तम् //
76.2 SK शीलबलेन समुद्गतबुद्धो शीलबलाधिपता नरसिंहे / शीलबलेक्षक श्रूयति शब्दः कारुणिकेन पुरे प्रविशन्तम् //
76.3 SK क्षान्तिबलेन समुद्गतबुद्धो क्षान्तिबलाधिपता नरसिंहे / क्षान्तिबलेक्षक श्रूयति शब्दः कारुणिकेन पुरे प्रविशन्तम् //
76.4 SK वीर्यबलेन समुद्गतबुद्धो वीर्यबलाधिपता नरसिंहे / वीर्यबलेक्षक श्रुयति शब्दः कारुणिकेन पुरे प्रविशन्तम् //
76.5 SK ध्यानबलेन समुद्गतबुद्धो ध्यानबलाधिपता नरसिंहे / ध्यानबलेक्षक श्रुयति शब्दः कारुणिकेन पुरे प्रविशन्तम् //
76.6 SK प्रज्ञबलेन समुद्गतबुद्धः प्रज्ञबलाधिपता नरसिंहे / प्रज्ञबलेक्षक श्रूयति शब्दः कारुणिकेन पुरे प्रविशन्तम् //
1857 SK श्रीषट्पारमितास्तोत्रं समाप्तम् //
77.1 SK श्रीसंवरं महावीरं वाराहीं चापि योगिनीम् / नमामि सर्वभावेन योगिनीजालनायकम् //
77.2 SK डाकिनीं च तथा लामां खण्डरोहां च रूपिणीम् / चतुरो ऽमृतभाण्डांश्च बोधिचित्तेन पूरितान् //
77.3 SK पुल्लीरमलयोद्भूतं खण्डकपालसंवरम् / प्रचण्डालिङ्गणं वीरं नमामि शिरसि स्थितम् //
77.4 SK जालन्धरात्समुत्पन्नं महाकंकालसंवरम् / चण्डाल्यालिङ्गणं वीरं शिखादेशे स्थितं नमे //
77.5 SK ओडियानात्समुद्भूतं कंकालनाम संवरम् / प्रभावतीसमापन्नं सव्यकर्णस्थितं नमे //
77.6 SK अर्बुदपीठमध्यस्थं संवरं विकटदंष्ट्रिणम् / महानासासमापन्नं पृष्ठदेशे स्थितं नमे //
77.7 SK गोदावरीसमुद्भूतं सुरावीरिणसंवरम् / संपुटं वीरमत्याख्या वामकर्णस्थितं नमे //
77.8 SK रामेश्वरोद्भवं वीरं अमिताभाख्यसंवरम् / खर्वरोसंपुटं नाथं भ्रुवोर्मध्यस्थितं नमे //
77.9 SK देवीकोटोद्भवं नाथं वज्रप्रभाख्यसंवरम् / लङ्केश्वरीसमापन्नं नमामि नेत्रकोणगम् //
77.10 SK मारवाख्यात्समुत्पन्नं वज्रदेहाख्यसंवरम् / द्रुमच्छायासमापन्नं नमामि स्कन्धदेशगम् //
77.11 SK कामरूपोद्भवं वीरं अङ्गुलिकाख्यसंवरम् / ऐरावतीसमापन्नं नमामि कक्षदेशगम् //
77.12 SK ओकारस्थानसंजातं वज्रजटिलसंवरम् / भैरवालिङ्गणं वीरं तनुयुगोद्भवं नमे //
77.13 SK त्रिशकुन्यद्भवं नाथं महावीराख्यसंवरम् / वायुवेगासमापन्नं नाभिदेशस्थितं नमे //
77.14 SK कौशलायां समुद्भूतं वज्रहूंकारसंवरम् / सुराभक्षीसमापन्नं नमामि नासिकाग्रजम् //
77.15 SK कलिङ्गपीठसंजातं सुप्रभानाम संवरम् / श्यामादेवी समापन्नं नमामि मुखभागजम् //
77.16 SK लम्पाकस्थानसंभूतं वज्रप्रभाख्यसंवरम् / सुभद्रालिङ्गणं वीरं कण्ठदेशोद्भवं नमे //
77.17 SK काञ्च्याख्यपीठसंजातं महाभैरवसंवरम् / हयकर्णासमापन्नं नमामि हृदिमध्यगम् //
77.18 SK हिमालयोद्भवं वीरं विरूपाक्षाख्यसंवरम् / खगाननासमापन्नं मेढ्रस्थानगतं नमे //
77.19 SK प्रेतपुर्यां समुद्भूतं महाबलाख्यसंवरम् / चक्रवेगासमापन्नं लिङ्गस्थानगतं नमे //
77.20 SK गुहदेशात्समुद्भूतं रत्नवज्राख्यसंवरम् / खण्डरोहासमापन्नं नमामि गुदमध्यगम् //
77.21 SK सौराष्ट्रदेशसंभूतं हयग्रीवाख्यसंवरम् / शौण्डिन्यालिङ्गणं वीरं नमामि उरुमध्यगम् //
77.22 SK सुवर्णद्वीपसंजातम् आकाशगर्भसंवरम् / चक्रवर्मिणीसमापन्नं जङ्घामध्यगतं नमे //
77.23 SK नगरपीठमध्यस्थं श्रीहेरुकाख्यसंवरम् / सुवीरालिङ्गणं वीरं नमाम्यङ्गुलिवर्तिनम् //
77.24 SK सिन्धुदेशसमुद्भूतं पद्मनृत्याख्यसंवरम् / महाबलासमापन्नं पादपृष्ठगतं नमे //
77.25 SK मरुतीपीठसंजातं वैरोचनाख्यसंवरम् / चक्रवर्तिनीसमापन्नं नमाम्यङ्गुष्ठमध्यगम् //
77.26 SK कुलतायाः समुद्भूतं वज्रसत्त्वाख्यसंवरम् / महावीर्यासमापन्नं जानुद्वयगत नमे //
77.27 SK पूर्वद्वारे स्थितं वीरं वज्रचण्डाख्यसंवरम् / काकास्यालिङ्गणं वीरं नमामि सुरनायकम् //
77.28 SK उत्तरद्वारमध्यस्थं वज्रानलाख्यसंवरम् / उलूकास्यासमापन्नं नमामि यक्षनायकम् //
77.29 SK पश्चिमद्वारमध्यस्थं वज्रोष्णीषाख्यसंवरम् / श्वानास्यासम्पुटं वीरं नमामि पन्नगाधिपम् //
77.30 SK दक्षिणद्वारमध्यस्थं वज्रकुण्डलिसंवरम् / शूकरास्यासमापन्नं नमामि यमनायकम् //
77.31 SK आग्नेयदिग्विमात्रस्थं वज्रयक्षाख्यसंवरम् / यमदाढीसमापन्नं नमामि वह्निनायकम् //
77.32 SK नैरृत्यदिग्विभाषस्थं वज्रकीलाख्यसंवरम् / यमदूतीसमापन्नं नमामि राक्षसाधिपम् //
77.33 SK वायव्यदिग्विभागस्थं वज्रमहाबलाह्वयम् / यमदंष्ट्रीसमापन्नं नमामि पवनाधिपम् //
77.34 SK ईशानदिग्विभागस्थं वज्रभीषणसंवरम् / यममथनीसमापन्नं नमामि भूतनायकम् //
77.35 SK एतान्देवान् नमस्यामि दिग्विदिक्षु सुसंस्थितान् / वीरान् वीरेश्वरीः सर्वा हेरुकं परमेश्वरम् //
77.36 SK सहजानन्दात्मकं देवं विशुद्धं ताण्डवान्वितम् / डाकिनीजालमध्यस्थं प्रत्यात्मवेद्यगोचरम् //
77.37 SK स्तुत्वेदं देवतीचक्रं यन्मयोपार्जितं शुभम् / तेन पुण्येन लोको ऽस्तु वज्रडाकपरायणः //
1895 SK श्री षट्त्रिंशत्संवरगणचक्रमण्डलस्तुतिः समाप्ताः //
78.1 SK सत्त्वार्थमेव मयि तिष्ठति सत्त्वश्रद्धा नान्यत्र सा, ह्यहमहो ऽधिगृहीतसत्त्वः / चर्या ऽधमा करुणया रहिता भवेद् या संभाव्यते करुणयैव प्रहाणमस्याः //
78.2 SK सत्त्वेषु यस्य नितरां करुणाप्रवृत्तिराराधकः स मम शासनमर्मवेत्ता / शीलं श्रुतिश्च करुणा च सुधोश्च यस्य नित्यं स एव सुगतार्चनकृन्निगद्यते //
78.3 SK कल्याणकारमधिकृत्य गतो ऽस्मि सिद्धिं सत्त्वार्थमेव तनुमेष समुद्वहामि / नैवं क्रियेत यदि सत्त्वहितं मया चेद् व्यर्थं करोमि तनुपोषणमन्नपानैः //
78.4 SK सत्त्वान् हिनस्ति मनसापि हि यः स कस्मान्मामेव संश्रयति यो मयि निर्व्यपेक्षः / पूजा तु सा भवति सत्त्वहितेक्षणापि पूज्यस्य या मनसि तुष्टिमुपाददाति //
78.5 SK हिंसात्मिका परविहेठनसम्भवा वा पूजा न पूज्यमनुगच्छति संस्कृतापि / दाराः सुताश्च विभवश्च महत्त्व(च्च) राज्यं मांसं च शोणितवसे नयते शरीरम् //
78.6 SK येषां प्रियत्वमधिकृत्य मयोज्झितं यत् यस्तान् विहेठयति तेन विहेठितो ऽहम् / सत्त्वोपकारपरमा हि ममाग्रपूजा सत्त्वापकारपरया च पराभवः स्यात् //
78.7 SK सत्त्वान् प्राप्य मया कृतानि कुशलान्याराधितास्तायिनः प्राप्ताः पारमिताश्च सत्त्वसमितेरेवार्थमातिष्ठता / सत्त्वार्थेन समुद्यतेन मनसा मारस्य भग्नं बलं सत्त्वैरेव तथा तथा विरचितं येनास्मि बुद्धः कृतः //
78.8 SK कस्मिन् वस्तुनि सिद्ध्यतामिह कृपा मैत्री च क्वालम्बतां क्वोपेक्षामुदितादिवस्तुविषयः कस्मिन् विमोक्षादयः / कस्यार्थे करुणापरेण मनसः क्षान्तिश्चिरं भाविता न स्युर्जन्मनि जन्म(नि) प्रियविधौ मित्रं यदि प्राणिनः //
78.9 SK सत्त्वा एव गजादिभावगतयो दत्ता मया ऽनेकशः सत्त्वा एव च पात्रतामुपगतं देयं मया ग्राहिताः / सत्त्वैरेव विचित्रभावगमनादस्मत्कृपा वर्धिता सत्त्वानेव न पालयामि यदि चेत् कस्यार्थमर्थः कृतः //
78.10 SK संसारे व्यसनाभिघातबहुले न स्युर्यदि प्राणिनो जन्मावर्तविडम्बनेन यमलोकं प्राप्य सात्मीकृताः / संसारात्तरणं च सौगतमिदं महात्म्यमत्यद्भुतं कस्यार्थेन समीहितं यदि न मे सत्त्वा भवेयुः प्रियाः //
78.11 SK यावच्चेदं ज्वलति जगतः शासनं शासनं मे तावत् स्थेयं परहितपरैरात्मवद्भिर्भवद्भिः / श्रुत्वा श्रुत्वा मम विरचितं सत्त्वहेतोरखिन्नैः खेदः कार्यो न च तनुमिमं मुक्तसारं भवद्भिः //
1907 SK सम्यक्सम्बुद्धभाषिता सत्त्वाराधनगाथा समाप्ता //
1908 SK नमः शाक्येन्द्राय /
79.1 SK नमो ऽस्तु लोकाधिप शाक्यराज सद्धर्मपङ्केरुहभास्कराय / क्लेशारिवर्गाभिहताय तुभ्यं संबोधिदीपैर्हतमोहजाल //
79.2 SK ब्रह्मर्षिराजर्षिसुरर्षिसङ्घैः प्राप्तुं न यच्छक्यमनेकरत्नैः / प्राप्तं त्वया ज्ञानमनन्तधर्मं येनाकरिष्यः सकलस्य हैत्यम् //
79.3 SK प्रवर्तितं येन सुधर्मचक्रं यस्मिन् मही सोदधिशैलराजा / आनन्दितेव चलिता ह्यजस्रं नमो ऽस्तु तुभ्यं त्रिभवाधिपाय //
79.4 SK यस्मिंश्च वातास्त्रिगुणेन युक्ता ववुर्नभस्तो निपतन्ति वस्त्राः(र्षाः) / विचित्रपुष्पाणि सुगन्धि वारि नमो ऽस्तु तुभ्यं जगदेकनाथ //
79.5 SK अनन्यजेयो नमुचिर्वरिष्ठैः सैन्यैर्वृतः कोटिशतप्रमाणैः / जितं त्वयैकेन निरायुधेन नमो ऽस्तु तुभ्यं बलवर्तनाय //
79.6 SK येन त्रिलोकीं प्रतिपालितुं तन्मायासुकज्जाज्वलयन्(?) प्रजातम् / स्वभावतो जन्मजरान्तकारिणे नमो ऽस्तु तुभ्यं जगदेकनाथ //
79.7 SK त्रैधातुलोकेषु विकासितुं तां संबोधिचर्यामपवर्गसेतुम् / तुषितायुतो जन्म चकार मर्त्ये नमो ऽस्तु तुभ्यं वरबोधिराज //
79.8 SK सम्यक् प्रतिज्ञां प्रतिकृत्य येन संप्रेष्यते मोक्षपुरे जनौघः / तदर्थमायासि च मर्त्यलोके नमो ऽस्तु तुभ्यं सुमहत्प्रतिज्ञ //
79.9 SK यश्चाष्टकं ब्रह्मकृतं सुपुण्यं पठिष्यति शाक्यवराग्रतः स्थः / दुःखं महापापभयं च हित्वा श्रीश्रीघने यास्यति पत्तने मुदा //
1918 SK ब्रह्मणा कृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम् //
80.1 SK नमामि तं भिक्षुगणैरूपेतं तथागतैर्वृक्षतले निषण्णम् / अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः //
80.2 SK शाक्येन्द्रवंशाललितावतंसमंशाधिकाभं कनकाधिकाभम् / नमामि बुद्धं ह्युपजातिसिद्धं सर्वार्थसिद्धाख्यकुमारवर्यम् //
80.3 SK नमामि नित्यं निरवद्यवृत्तं निरंजनं निर्मलदेहरूपम् / निःशेषसत्त्वोद्धरणैकचित्तं चन्द्राननं शुभ्रपदारविन्दम् //
80.4 SK शौद्धोदनिं गौतमिपालनीयं मायासुतं मारजितं महान्तम् / महेश्वराद्यैर्महनीयमूर्तिममेयमाहात्म्यममेयधर्मम् //
80.5 SK भवोदधेस्तीर्णमनन्तपुण्यं भवादिदेवैरभिवन्द्यपादम् / अनन्तभव्याकृतिभावनीयं तं नौमि भव्योज्ज्वलभूषिताङ्गम् //
80.6 SK बभाण वंशस्थविरो नृपाधिपो जनान् प्रतीत्याह्वयतात्मजं मम / कृतारिभङ्गं जिनराजमीश्वरं गतं षडब्दं च वियोगभावयोः //
80.7 SK भजस्व वंशस्थविरं मुनीश्वरं महावने वृक्षतले शुचिस्थले / जगद्धितं यज्जनन जरान्तकं जगज्जनन्या वरदक्षपार्श्वजम् //
80.8 SK शाक्येन्द्रवंशोदधिचन्द्रमुद्गतं श्रीशाक्यसिंहं चतुराननैः स्तुवन् / प्राशिष्ट ब्रह्मा चतुराननं स्वकं चतुर्गुणं पुण्यमवाप्तमित्यहो //
80.9 SK दैत्येन्द्रवंशाग्निरसौ जनार्दनो द्वाभ्यां विधायाञ्जलिमम्बुजासनम् / दोष्णाममंसच्चतुरश्चतुर्भुजाद् द्वैगुण्यमाप्तं सुकृतं मयेति //
1929 SK छन्दो ऽमृतोद्धृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम् //
1930 SK ओम् नमः शाक्यसिंहाय
81.1 SK नमस्ते शाक्यसिंहाय धर्मचक्रप्रवर्तक / त्रैधातुकं जगत्सर्वं शोधयेत् सर्वदुर्गतिम् //
81.2 SK नमस्ते वज्रोष्णीषाय धर्मधातुस्वभावक / सर्वसत्त्वहितार्थाय आत्मतत्त्वप्रदेशक //
81.3 SK नमस्ते रत्नोष्णीषाय समन्तात्तत्त्वभावनैः / त्रैधातुकं स्थितं सर्वमभिषेकप्रदायक //
81.4 SK नमस्ते पद्मोष्णीषाय स्वभावप्रत्यभाषक / आश्वासयन्यः सत्त्वेषु धर्मामृतं प्रवर्तयेत् //
81.5 SK नमस्ते विश्वोष्णीषाय स्वभावकृतमनुस्थित / विश्वकर्मकरो ह्येष सत्त्वानां दुःखशान्तये //
81.6 SK नमस्ते तेजोष्णीषाय त्रैधातुकमभाषक / सर्वसत्त्व उपायेषु सत्त्वदृष्टं करिष्यते //
81.7 SK नमस्ते ध्वजोष्णीषाय चिन्तामणिध्वजाधर / दानेन सर्वसत्त्वानां सर्वाशापरिपूरक //
81.8 SK नमस्ते तृष्णोष्णीषाय क्लेशोपक्लेशछेदन / चतुर्मारबलं भग्नं सत्त्वानां बोधिप्राप्तये //
81.9 SK नमस्ते छत्रोष्णीषाय आतपत्रं सुशोभनम् / त्रैधातुक जगत्सर्वं धर्मराजत्वप्रापकम् //
81.10 SK लास्या माला तथा गीता नृत्या देवीचतुष्टयम् / पुष्पा धूपा च दीपा च गन्धादेवी नमो ऽस्तु ते //
81.11 SK द्वारमध्यस्थिता ये च अंकुशपाशफोटकाः / श्रद्धाभावविनिर्ज्ञातं द्वारपाल नमो ऽस्तु ते //
81.12 SK वेदिकादौ स्थिता ये च चतस्रो द्वारपालिकाः / मुदितादौ दश स्थित्वा बोधिसत्त्व नमोस्तु ते //
81.13 SK ब्रह्मेन्द्ररुद्रचन्द्रार्का लोकपालाश्चतुर्दिशम् / अग्नी राक्षसवायुश्च भूताधिपते नमोस्तु ते //
81.14 SK अनेन स्तोत्रराजेन संस्थितो मण्डलाग्रतः / वज्रघण्टाघरो मन्त्री इदं स्तोत्रमुदाहरेत् //
1945 SK दुर्गतिपरिशोधनोद्धृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम् //
82.1 SK प्रणमामि जिनं सुगतं सततं तपनीयहिरण्यशरीरच्छविम् / वरचक्रविभूषितपाणितलं ससुरासुरमानुषपापहरम् //
82.2 SK प्रणमामि मुनीन्द्रगुरुं ललितं सतताकुलनिर्जितमारबलम् / दशपारमिताप्रतिबोधकरं चतुर्रार्यविबोधकरं सुकरम् //
82.3 SK प्रणमामि हितङ्करदेवनरं सनरामरपूजितदेववरम् / अमरादिकषड्गतिहैत्यकरं सजराजनिमृत्युभयादिहरम् //
82.4 SK प्रणमामि सुखाकरबोधिभरं स्वसुखं प्रददौ करुणाशयतः / परदुःखमसह्य चकार जनुर्गतदोषनिराकुलशाक्यकुले //
82.5 SK प्रणमामि च लोकहिताय गृहं विजहौ पितरं रमणीसहितम् / हयकण्ठकछन्दकदेववृतो मुदितो ऽभ्यगमत् सुवने विजने //
82.6 SK प्रणमामि तपोवनसुभ्रमितं प्रचकार च यस्तु महर्षिगणान् / चतुरार्यकब्रह्मविहारपरान् सुगतस्मरणैकतपोव्रतिकान् //
82.7 SK प्रणमामि महाद्रुममूलवरे सुतृणासनसंश्रितवज्रधरम् / शतकोटिसुमारबलास्त्रहरं शतसंख्यतथागतपुत्रवृतम् //
82.8 SK प्रणमामि च मल्लिकपञ्चशता वणिजः प्रतिपालनमेव कृताः / वणिजार्पितपञ्चसुधानयकं शुभपायसभोजनभक्षकृतम् //
82.9 SK प्रणमामि सुवर्तितधर्मवरं मृगदाववने चतुरासनके / विधिशक्रसुरासुरलोकवृतं सुशरीरमहोज्ज्वलसर्वदिशम् //
82.10 SK गुरुनिर्मितकं सुगतस्तवकं पठनं कुरुते किल यो मनुजः / ग्रहरोगभयं नहि तस्य सदा स तु यास्यति मोक्षपुरे सुपुरे //
1956 SK आदित्यादिनवग्रहकृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम् //
83.1 SK नमामि सौगतं जिनं लसद्वितानभासुरं सहस्रसूर्यरोचिषं शशाङ्ककोटिनिर्मलम् / सरोमकूपमण्डलाद् गलत्सुसूक्ष्मतेजसं सहस्रनेमिचक्रिताङघ्रिपद्मपाणिशोभितम् //
83.2 SK भजामि लोकनायकं सशोकरोगनाशकं जराविपद्भयान्तकं भवार्णवप्रतारकम् / प्रबुद्धपङ्कजासनं विबुद्धबोधिकाननं त्रिलोकलोकभावनं जगत्त्रयैकपावनम् //
83.3 SK नमो ऽस्तु पालभुं जगच्चकार जन्म मानवं विशुद्धशाक्यसागरे पयोनिधौ शशी यथा / कथासुधामयो ऽधुना विनोदयिष्यते भवान् त्रिजालमोहतामसं विनाशयिष्यसे ज्वलन् //
83.4 SK स्थिताय बोधिमण्डपे हिताय लोकसंचय जिताय मारसैन्यकं श्रिताय सत्तृणासनम् / सुजातशाक्यभूपतेर्युताय पारमार्थकै- र्वृताय बोधिसंवरैर्नमो ऽस्तु धर्मराज ते //
83.5 SK भजामि भव्यभावुकं भवस्य भावभेदकं सुबोधिवैभवोद्भवं सुभाद्रिकं शुभांशिकम् / भवौघभारभेदितुं बभार बोधिभारकं सुभद्रभानुभास्वरं सुभावितं शुभावहम् //
83.6 SK जिनेन्द्रमूलमण्डपे लसद्वितानविस्तृते सहस्रकल्पपादपे प्रपूर्णवत्प्रशोभिते / हिरण्यरत्नवेदिकाकुशासनस्थितं विभुं नमामि शाक्यसौगतं तथागतं वरं सदा //
83.7 SK पठन्ति ये जिनाग्रतो विनिर्मितं हरेण तत् सुपञ्चपञ्चचामरं त्रिकालमेव मङ्गलम् / सुकीर्तिधर्मसंयुतं लसन्ति सप्त वृद्धयो व्रजन्ति ते सुखावतीं सुखेन सत्सुखावतीम् //
1964 SK शङ्करकृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम् //
84.1 SK नौभि श्रीशाक्यसिंहं सकलहितकरं धर्मराजं महेशं सर्वज्ञं ज्ञानकायं त्रिमलविरहितं सौगतं बोधिराजम् / धर्माधारं मुनीन्द्रं दशबलबलिनं श्रीघनं विश्वरूपं संबुद्धं लोकनाथं सकलभयहरं संस्थितं मर्त्यलोके //
84.2 SK यस्त्वं धर्माधिमेशं(पेशः) सकलजिनसुतैः संश्रितः श्वेतकेतु- रित्याख्यां बोधिहेतुस्तदनु च तुषिता चागता बोधिराज / मैत्रेयं स्थापयित्वा प्रमुदितमनसं स्वासने चाभिषिञ्च्य मायागर्भे पवित्रे ऽशुचिमलरहिते रत्नव्यूहे निवेश //
84.3 SK गर्भे स्थित्वा ऽपि यस्त्वं सकलहितकरीं धर्मव्याख्यां करोषि काले मातुः सुकक्षात्सकलनिजकरैः काशयत् संप्रजातः / लोकाचारं च कृत्वा विहितदशविधिं वै विवाहादि तत्तत् त्यक्त्वा सर्वांश्च राज्यं सकलजनहिते निर्गतं त्वां नमे ऽहम् //
84.4 SK ऊर्णाकोशाच्च यस्य प्रतिदिनमसकृत् दक्षिणावर्तरोचिः प्रोद्यद्देदीप्यमानत्रिभुवनकुहरध्वस्तमोहान्धकारम् / चत्वारिंशत्सुदन्तोद्गलितकरचयैर्भापयन्नारकीयान् प्रोद्धृत्वा स्वर्गलोके सुरतरुकलिते स्थापिता येन वन्दे //
84.5 SK यत्पाणी चक्रचिह्नावभिमतफलदौ दानपारंगतत्वो- द्यत्कान्ता भूमिदेवी स्वगणपरिवृता भेदयित्वा ऽवनिं ताम् / स्थित्वाग्रे पूजयित्वा नमुचिमभिगतं भर्त्सयित्वा द्विषन्तं साक्षीभूता निलीना प्रणमितशिरसा त्वां नमे ऽहं जिनेन्द्रम् //
84.6 SK यस्योद्ग्रीवस्य चाग्रे विधिहरमधुहृल्लोकसंस्थैः प्रवीणैर् द्रष्टुं नैवाभिशक्त्या किमु मनुजपुरे वासितैर्मादृशैश्च / ब्रह्माण्डं लङ्घयित्वा तरणिशशधरौ द्यौश्च नक्षत्रलोकं ऊर्ध्वं लोकोत्तराख्ये निजभुवनवरे भासितं त्वां नमे ऽहम् //
84.7 SK यद्वक्त्रं पङ्कजाभं सुरदनवसनाकर्णिकाकेसराढ्यं ब्रह्माण्डं जूम्भते ऽस्मिन् भुवनगणवृत्तं संश्रितं कर्णिकावत् / दृष्ट्वा संमूर्च्छितो ऽभून्नमुचिरनुचरैस्त्रासि सर्वज्ञनाथ कृत्वा केचित्प्रयाताः शरणमभिमतं श्रीघनं त्वां नमे ऽहम् //
84.8 SK संख्याज्ञानप्रवीणास्त्रिभुवनसदने पण्डिता ये वसन्ति तैः सर्वैर्मीलयित्वा यदि तव महिमा वर्ण्यते कल्पकालम् / पारं गन्तुं समर्था नहि निखिलगुणक्षीरसिन्धोः कथञ्चिद् एकाकी किं समर्थास्तदपि मम मनो बोधनार्थं नमे त्वाम् //
84.9 SK पठ्यन्ते स्तोत्रमेतत्सुरपतिरचितं स्रग्धरावृत्तसंज्ञं शक्राद्या लोकपालाः प्रतिपदनुचराः संकरिष्यन्ति रक्षाम् / सौख्यं भुक्त्वेह लोके तदनु सुरपतेः कल्पवृक्षाभिकीर्णे स्थित्वा गच्छन्ति चान्ते सुगतसुतमहीं सर्वलौकैकगम्याम् //
1974 SK सुरपतिकृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम् //
85. SK नमे श्रीघन त्वां सदाभावभक्तो भवाम्भोधिसेतुं लसन्मोक्षहेतुम् / त्रिधातुं विधातुं सुरक्षां विरक्षां सुदक्षं सुकक्षां सुजातं सुदान्तम् //
85.2 SK नमे दानशीलक्षमाध्यानवीर्यं महज्ज्ञानपारंगतं सौगतत्वम् / चतुर्ब्रह्मवैहारलोकोद्धरन्तं चतुःसत्यधर्मोपदेशं सुवेशम् //
85.3 SK नमे बोधिराजं सुगम्ये विराजंसुरम्ये वने देवराजादिगम्यम् / चतुर्थासनस्थं हितार्थं दिशन्तं कृतानेकसुस्थं जगद्रक्षणस्थम् //
85.4 SK चतुर्मारलोकं महद्वीर्यवन्तं जयन्तं हसन्तं त्रिजालं च कालम् / क्षमानद्धदेहं नमे मुक्तगेहं त्रिलोक्यैकनाथं तथा शाक्यनाथम् //
85.5 SK नमे मारसैन्यं जितं येन सर्वं निरस्त्रेण साहाय्यमुक्तेन नूनम् / क्षमावर्म मैत्रीधनुर्धारिणा च जगत्पालितुं बोधिवृक्षस्थितेन //
85.6 SK नमे शीतव्यञ्जैर्लसद्देहगेहं जने स्नेहवन्तं वने गेहवन्तम् / युतं द्वाधिकैस्त्रिंशकैर्लक्षणाख्यैर्महादुर्लभं त्रैभवे लोकपूज्यम् //
85.7 SK नमे धर्ममेघास्थितं सुप्रतिष्ठं कलौ नाथहीने भवेयं सनाथः / तथा पालितुं स्वां प्रतिज्ञां चकार जनिं शाक्यवंशे महीपावतंसे //
85.8 SK नमे भाग्यतो लभ्यते दर्शनं ते तथा भाग्यभाजो स्वयमेति बुद्धिः / स्थितो धर्ममेघे कथं दर्शनं स्याद् विहीना न तत्राभिगन्तुं प्रशक्ताः //
85.9 SK इदानीं भवत्पादपद्मोत्थितेन रजःपुञ्जकेन त्रिलोकं पवित्रम् / तथास्माच्छिरांसि पवित्राणि सत्यं चरिष्यामि बोधिं भवच्छासनेन //
85.10 SK भुजङ्गप्रयातं कृतं माधवेन पठेद् यो जिनस्याग्रतस्थो हि नित्यम् / सदा मङ्गलं तस्य गेहे सुदेहे प्रसन्नाश्च रक्षां करिष्यन्ति बुद्धाः //
85.11 SK त्रिजालं च छित्वा सुखानि प्रभुक्त्वा तथा दानशीलादिपारंगताश्च / महाबोधिलब्धा जगत्पालक्षोदं गमिष्यन्ति चान्ते सुखावत्युपाख्याम् //
1987 SK श्रीशाक्यसिंहस्य विष्णुकृतं भुजङ्गप्रयातस्तोत्रं समाप्तम् //
86.1 SK एषो हि भवतस्तातो जन्ममृत्युजरान्तकः / सर्वार्थसिद्धनाम्नेति शाक्यसिंहो ऽधुना सुत //
86.2 SK यस्य छायामुपाश्रित्य दिव्यातिसुन्दरो भवेः / द्वात्रिंशल्लक्षणधरं पितरं दर्शयाधुना //
86.3 SK चतुरशीतिसाहस्रं स्त्रीणां विहाय निर्मदः / तपोवनमगाद् यो ऽसौ वन्दयैनं महर्द्धिकम् //
86.4 SK सप्तरत्नानि राज्यं च महैश्वर्यपदं वरम् / हित्वा प्रव्रजितो यो ऽसौ तं दर्शय जगद्गुरुम् //
86.5 SK मायाख्यायाः पितामह्या यो ऽजनद्दक्षकुक्षितः / लुम्बिन्यामुदयात् सूर्य इव तं पितरं नम //
86.6 SK अभयायाः कुलेश्वर्या येन पादाम्बुजे नतम् / त्रैधातुकाधिपं देवं पितरं त्वं सदा नम //
86.7 SK विश्वामित्रमुपाध्यायं यो ऽयोजयत् सुसंवरे / बालक्रीडाभिरक्तात्मा तातमेनं सदा नम //
86.8 SK जम्बूतरुसमासीनं पञ्चर्षयो हतत्विषः / निर्मानिनः प्राभजन् यमेनं तातं सदा नम //
86.9 SK पितरं बोधयित्वा यो ऽत्याजयत्तु षडंशकम् / दयाकरं जगद्वन्द्यं जनकं प्रणमात्मज //
86.10 SK यो ऽजयद्देवदत्तादीन् मानिनः सर्ववित् सुधीः / सर्वफलादिदं विज्ञं सुधियं जनकं भज //
86.11 SK यात्रायामातुरं जीर्णं मृतं दृष्टिविवर्जितम् / स्वयं विज्ञो ऽपि पप्रच्छ सदा तं जनकं भज //
86.12 SK कामाग्निर्नाहरद्यस्य चित्तं प्रमदवासिनः / निरञ्जनं निर्विकल्पं सुत तं जनकं भज //
86.13 SK कनकाश्वं समारुह्य छन्दकेन बहिर्ययौ / देशान्निशीथे त्रिदशैः स्तूयमानं मुदा भज //
86.14 SK हयं निवर्तयामास छन्दकं च तपोवनात् / सुकण्ठाभरणं दत्त्वा भणैनं वनचारिणम् //
86.15 SK नैरञ्जनामुपासृत्य प्राकरोद् यस्तपोव्रतम् / जगद्धितार्थं षड्वर्षमेनं भज तपःपरम् //
86.16 SK बोधिद्रुमसमासीनो जित्वा मारं सुदुःसहम् / प्रालभद्बोधिरत्नं यो दर्शयैनं तथागतम् //
86.17 SK मृगदावस्थितः काश्यां धर्मचर्क्र प्रवर्तयन् / ब्रह्मादिभिर्वृतो यो ऽसौ दर्शयैनं गुरुं सुत //
86.18 SK इति मात्रोदितं श्रुत्वा राहुलः सो ऽतिविस्मितः / प्रणम्य पितरं पश्यन् मुदमाप स्मिताननः //
2006 SK श्रीशाक्यसिंहस्तोत्रं यशोधराकृतं समाप्तम् //
87.1 SK शङ्खेन्दुकुन्दहिमसन्निभचारुदेहां हंसस्थितां कमलपत्रसुरोचनीयाम् / दिव्याम्बराभरणभूषितसौम्यरूपां श्रीशारदां भगवतीं सततं नमामि //
87.2 SK संसारसागरमहोदधिमग्नसत्त्वसन्तारिणीं सुरनरार्चितपादपद्माम् / हारार्द्धहारमणिकुण्डलमण्डिताङ्गीं श्रीशारदां भगवतीं सततं नमामि //
87.3 SK या भारतीति कथिता जननी च लोके मोहान्धकारभरभग्नकृतां जनानाम् / संकीर्तिता मुनिभिरस्तसमस्तदोषैः श्रीशारदां भगवतीं सततं नमामि //
87.4 SK वीणानुवादनरतां स्फटिकाक्षमालासंधारिणीं कनकपुस्तकधारिणीं च / रत्नैः शुभैः सुरुचिरां कृतहस्तपद्मां श्रीशारदां भगवतीं सततं नमामि //
87.5 SK पूज्या सदैव जननी परिवन्दनीया देव्या गणा मनसि संपरिमोदनीयाः / जीवार्थिनः फलभृतो गुणवर्णना च श्रीशारदां भगवतीं सततं नमामि //
87.6 SK नत्वा भजेज्जगति यो जननीं प्रसिद्धां कुर्यात्सदा भगवती किलपञ्चसौख्यम् / सौन्दर्यरूपगुणवित्तसुभोगभाजं श्री शारदां भगवतीं सततं नमामि //
87.7 SK पूजोपहारवलिभिः परिपूजनीया देव्या गणादिकमनोज्ञसुवक्त्रपद्माः / यैः पूजिता भगवती किल जाड्यहन्त्री श्रीशारदां भगवतीं सततं नमामि //
87.8 SK यस्याः प्रसादमवगम्य सुखप्रदायास्त्रैलोक्यनाथौदितार्कसमप्रभः स्यात् / धर्मार्थकामफलदामथ मोक्षदां च श्रीशारदां भगवतीं सततं नमामि //
2015 SK श्रीशारदाष्टकस्तोत्रं समाप्तम् //
88.1 SK वन्दे ऽहं तत्त्वरूपं ततविततभवं भव्यहव्यस्वभावं बुद्धानामादिबुद्धं कृतविविधहितं तेजसां सन्निधानम् / सम्यक्संबोधिमूर्ति त्रिगुणविलसितं पञ्चज्ञानैकहेतुं नैराकारं निरञ्जं गगनवदनिशं निर्मलं चित्तचैत्यम् //
88.2 SK ज्योतीरूपे त्वदीये विनिलयतपसा दानशीलक्षमासु वीर्यध्यानाख्यप्रज्ञोदधिकृततरणो माणिवृन्दे सुजातौ / बोधिं प्राप्तो ऽस्मि चास्मिन् सकलपूरवरे चाकनिष्ठे महिम्नि वन्दे त्वां विश्वरूपं स्फटिकमणिरिवोपात्तनानाप्रभेदम् //
88.3 SK नाना वैध्यं सुपूज्योपकरणमनिशं ढौकितं सर्वलोकै किं चाहं ढौकयिष्ये त्वदनुनयमनास्त्यक्तराज्यादिद्रव्यः / जातौ जातौ च जातौ कृतसुकृतचयं कायवाङ्मानसैस्तै- स्तत्सर्वं ढौकयिष्ये निजतनुसहितं संगृहाण सुबुद्धे //
88.4 SK एकं युग्मं तृतीयं युगलयुगमथो पञ्चमं षष्ठसंज्ञं सप्ताष्टौ वै नवाख्यं दशममथ तथैकादशं द्वादशाख्यम् / त्रायोदश्यं चतुर्दश्यमथ शरकमठं चैकतः संप्रसूतम् आनन्त्यं स्वं तदैवं जगदखिलमभूत् त्वां नमे चैकरूपम् //
88.5 SK एको वैरोचनाख्यस्तदपरजिनो बुद्ध अक्षोभ्यसंज्ञः रत्नाद्यः संभवो ऽसौ त्रितय अमृतरुक्संज्ञकस्तुर्यसंख्यः / पञ्चाख्यो ऽमोघसिद्धिस्तदनु च जगति ख्यातसंख्याद्यसंख्या देवा दैत्याश्च मर्त्या भवदवयवजाः सर्वदा ऽहं नतो ऽस्मि //
2021 SK श्रीशाक्यसिंहबुद्धकृतं स्रग्धरापञ्चकं समाप्तम् //
89.1 SK स्तुतमपि सुरसङ्घैः सिद्धगन्धर्वयक्षैर् दिवि भुवि सुविचित्रैः स्तोत्रवाग्भिर्यतीशैः / अहमपि कृतशक्तिर्नौमि संबुद्धमार्यं नभसि गरुडयाते किं न यान्ति द्विरेफाः //
89.2 SK क्षपितदुरितपक्षः क्षीणनिःशेषदोषो द्रवितकनकवर्णः फुल्लपद्मायताक्षः / सुरुचिरपरिवेषः सुप्रभामण्डलश्रीः दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.3 SK मदनबलविजेतुः कापथोच्छेदकर्तुस् त्रिभुवनहितकर्तुः स्त्रीलताजालहर्तुः / समसुखफलदातुर्भेत्तुरज्ञानशैलं दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.4 SK असुरसुरनराणां यो ऽग्रजन्माग्रदेवः सकलभुवनधातौ लोकसृष्ट्यैकशब्दः / स्वपिति मनुजधाता अब्जयोनिः स्वयम्भूर् दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.5 SK उदयगिरितटस्थो विद्रुमच्छेदताम्रस् तिमिरनिकरहन्ता चक्षुरेकं प्रजानाम् / रविरपि मदलोलः सर्वथा सो ऽपि सुप्तो दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.6 SK द्विरददशनपाण्डुः शीतरश्मिः शशाङ्कस् तिलक इव रजन्याः सर्वचूडामणिर्यः / अविगतमदरागः सर्वथा सो ऽपि सुप्तो दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.7 SK प्रबलभुजचतुष्कः षोडशार्धार्धवक्त्रो जपनियमविधिज्ञः सामवेदप्रवक्ता / अमलकमलयोनिः सो ऽपि ब्रह्मा प्रसुप्तो दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.8 SK हिमगिरिशिखरस्थः सर्पयज्ञोपवीती त्रिपुरदहनदक्षो व्याघ्रचर्मोत्तरीयः / सह गिरिवरपुत्र्या सो ऽपि सुप्तस्त्रिशूली दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.9 SK ज्वलितकुलिशपाणिर्दुर्जयो दानवानां सुरपतिरपि शच्या विभ्रमे मूढचेताः / अनिशिनिशिप्रसुप्तः कामपङ्के निमग्नो दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.10 SK कुवलयदलनीलः पुण्डरीकायताक्षः सुररिपुबलहन्ता विश्वकृद्विश्वरूपी / हरिरपि चिरसुप्तो गर्भवासैरमुक्तो दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.11 SK कपिलजटकलापो रक्तताम्रारुणाक्षः पशुपतिरतिकाले सङ्गभङ्गैकदक्षः / स्मरशरदलिताङ्गः सो ऽपि सुप्तो हुताशो दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.12 SK हुमशशिकुमुदाभो मद्यपानारुणाक्षो दृढकठिनभुजाङ्गो लाङ्गली शक्तिहस्तः / बल इह शयितो ऽसौ रेवतीकण्ठलग्नो दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.13 SK गजमुखदशनैकः सर्वतो विघ्नहन्ता विगलितमदवारिः षट्पदाकीर्णगण्डः / गणपतिरपि सुप्तो वारुणीपानमत्तो दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.14 SK अतसिकुसुमनीलो यस्य शक्तिः कराग्रे नवकमलवपुष्मान् षण्मुखः क्रौञ्चहन्ता / त्रिनयनतनयो ऽसौ नित्यसुप्तः कुमारो दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.15 SK अशनवसनहीना भाव्यमाना विरूपा अलमखिलविघातैः प्रेतवद्दग्धदेहाः / उभयगतिविहीनास्ते ऽपि नग्नाः प्रसुप्ता दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.16 SK ऋषय इह महान्तो वत्सभृग्वङ्गिराद्याः क्रतुपुलहवसिष्ठा व्यासवाल्मीकिगर्गाः / परयुवतिविलासैर्मोहितास्ते ऽपि सुप्ताः दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.17 SK यमवरुणकुबेरा यक्षदैत्योरगेन्द्राः दिवि भुवि गगने वा लोकपालास्तथान्ये / युवतिमदकटाक्षैर्वींक्षितास्ते ऽपि सुप्ता दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.18 SK भवजलनिधिमग्ना मोहजालावृताङ्गा मनुकपिलकणादा भ्रामिता मूढचित्ताः / समसुखपरिहीना वालिशास्ते ऽपि सुप्ता दशबल तव नित्यं सुप्रभातं प्रभातम् //
89.19 SK अज्ञाननिद्ररजनीतमसि प्रसुप्ता तृष्णाविशालशयने विषयोपधाने / काले शुभाशुभफलं परिकीर्यमाणे जागर्ति यः सततमेव नमो ऽस्तु तस्मै //
89.20 SK तीर्थेषु गोकुलशतानि पिबन्ति तोयं तृप्तिं व्रजन्ति न च तत्क्षयमभ्युपैति / तद्वन्मुने कविशतैरपि संस्तुतस्य न क्षीयते गुणनिधिर्गुणसागरस्य //
89.21 SK सुप्रभातं तवैकस्य ज्ञानोन्मीलितचक्षुषः / अज्ञानतिमिरान्धानां नित्यमस्तमितो रविः //
89.22 SK पुनः प्रभातं पुनरुत्थितो रविः पुनः शशाङ्कः पुनरेव शर्वरी / मृत्युर्जरा जन्म तथैव हे मुने गतागतं मूढजनो न बुद्ध्यते //
89.23 SK सुप्रभातं सुनक्षत्रं श्रिया प्रत्यभिनन्दितम् / बुद्धं धर्मं च सङ्घं व प्रणमामि दिने दिने //
89.24 SK स्तुत्वा लोकगुरुं महामुनिवरं सद्धर्मपुण्योद्गमं निर्द्वन्द्वं हतरागद्वेषतिमिरं शान्तेन्द्रियं निस्पृहम् / यत्पुण्यं समुपार्जितं खलु मया तेनैव लोको ऽखिलं प्रत्यूषस्तुतिहर्षितो दशबले श्रद्धां परां विन्दताम् //
2046 SK श्रीहर्षदेवभूपतिविरचितं दशबलस्य सुप्रभातस्तोत्रं समाप्तम् //
90.1 SK नमस्ते विश्वरूपाय ज्योतीरूपाय ते नमः / नमः स्वयंभवे नित्यं जगदुद्धारहेतवे //
90.2 SK त्वं बुद्धस्त्वं च धर्मो दशबलतनयस्त्वं तथा बोधिसत्त्व- स्त्वं भिक्षुः श्रावकस्त्वं कुलिशवरधरस्त्वं तथा धर्मधातुः / त्वं ब्रह्मा त्वं च विष्णुः प्रमथगणपतिस्त्वं महेन्द्रो यमस्त्वं त्वं पाशी त्वं धनेशस्त्वमनलपवनौ नैरृतस्त्वं महेशः //
90.3 SK भूताः प्रेताश्चतिर्यक् त्वममरमदितिमार्नवास्त्वं वयं च चातुर्योनिस्त्वमेव त्रिगुणवरतनुः पञ्चज्ञानैकमूर्तिः / वर्णास्त्वं कालमासा दिनमपि रजनी पञ्चभूतास्त्वमेव अन्नं रत्नं च सर्वं मतिरति महती नः सदा त्वां नताः स्मः //
90.4 SK पञ्चज्ञानेन बुद्धान् सृजसि स्वयमथो बोधिसत्त्वांश्च पञ्च- भूतानेतान् गुणांस्त्रीनजहरिगिरिशान् स्थावराञ्जङ्गमांश्च / सर्वेषां चेतसि स्थो नटयसि सकलं सर्वतो रक्षको ऽसि त्वं बीजं चाङ्कुरस्त्वं फलमपि विटपी सर्वदा त्वां नताः स्मः //
90.5 SK श्रेष्ठं क्षत्रं त्वमस्मिन् प्रभवसि भगवान् सर्वतः सर्वदेवान् ग्रामांस्तीर्थानि देशान् नृपसहितनरान् नैगमांश्चापि सर्वान् / द्वीपेष्वन्येष्वपि त्वं विभजसि सकलं ज्योतिषां संविभागम् बीजीभूतैकदीपो ऽस्यखिलमपि जगद्वयापकस्त्वां नताः स्मः //
90.6 SK ज्योतिस्त्वदीयं परितो विसारि सितारुणश्यामकपीतरक्तं / दृष्टं ततः सर्वमिदं भवन्तं मन्यामहे त्वां प्रणताः स्म नित्यम् //
90.7 SK नुतिं महाराजकृतां ये पठिष्यन्ति मानवाः / चक्रवर्तिपदं प्राप्य ते हि मुक्तिमवाप्नुयुः //
2054 SK श्रीचातुर्महाराजकृतं स्वयंभूस्तवं समाप्तम् //
91.1 SK जगत्कृते स्वयंभुवमनादिलीनमव्ययम् / तनोर्विपज्जरात्मकृत्स्वयंभुवं नमाम्यहम् //
91.2 SK सहस्रपत्रपङ्कजं लसत्सुकर्णिकोद्भवम् / समस्तकामनाप्रदं स्वयंभुवं नमाम्यहम् //
91.3 SK सहस्रभानुरञ्जनं नियुतचन्द्रनन्दनम् / सुरादिलोकवन्दनं स्वयंभुवं नमाम्यहम् //
91.4 SK त्वमेव राजसे गुणैर्भुवि स्थितो विराजसे / त्रिधातुक विभावसे स्वयंभुवं नमाम्यहम् //
91.5 SK अयं क इत्ययं हृदा मीमांसितुं न शक्तवान् / प्रघासमात्रमीक्षितः स्वयंभुवं नमाम्यहम् //
91.6 SK पठन्ति ये नरा मुदा स्वयंभुवः स्तुतिं सदा / त्रिवर्गसिद्धिमाप्य ते लभन्ति मुक्तिमेव ताम् //
2061 SK श्रीबृहत्स्वयंभूपुराणोद्धृतं शिखिनिर्मितं स्वयम्भूस्तोत्रं समाप्तम् //
92.1 SK ब्रह्मादिदेवमनुजासुरपूजिताङ्गं ज्ञानादिसर्वनिलयं गुणराजवन्तम् / ज्ञानाधिपं गुणमयं गुणवृद्धिमन्तं वागीश्वरं सुरगुरुं सततं नमामि //
92.2 SK वेदादिशास्त्ररचनाखिलमन्त्रविज्ञं स्तोत्रैः कथादिभिरशेषसुगीतशब्दम् / यं कीर्ययन्ति मुनयो नरवाण्यभिज्ञं वागीश्वरं सुरगुरुं सततं नमामि //
92.3 SK ज्ञानप्रधानकशरीरमचिन्त्यबुद्धिं वाचस्पतिं दिवि भुवि स्तुतकीर्तिदं तम् / ज्ञानेश्वरं त्रिभुवनेशचराचरं तं वागीश्वरं सुरगुरुं सततं नमामि //
92.4 SK रत्नादिशिल्पपरिकल्पनपूर्णज्ञेयं चित्रं विचित्रितगुणं जनमाननीयम् / सर्वज्ञकारकधराद् हृदि ब्रह्मपुञ्जं वागीश्वरं सुरगुरुं सततं नमामि //
92.5 SK चर्याविधौ रतिपतिं स्थिरधैर्यबोधिं ध्यानाधिपं विविधिना सुखरञ्जनीयम् / विद्याप्रतिष्ठितगुरुं भुवनेतिपूर्णं वागीश्वरं सुरगुरुं सततं नमामि //
92.6 SK वाणीपतिं भुजचतुष्टयबाणचापं पुस्तं कृपाणमनिशं क्रमशो दधानम् / सर्वेष्टदं जगति यच्चणारविन्दं वागीश्वरं सुरगुरुं सततं नमामि //
2068 SK श्रीवागीश्वरवर्णनास्तोत्रं समाप्तम् //
93.1 SK सरस्वतीं नमस्यामि चेतनां हृदि संस्थिताम् / कण्ठस्थां पद्मयोनिं च ह्रींकारसुप्रियां सदा //
93.2 SK मतिदां वरदां चैव सर्वकामप्रदायिनीम् / केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदाम् //
93.3 SK ऐं ह्रीं मन्त्रप्रियां चैव कुमतिध्वंसकारिणीम् / स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम् //
93.4 SK मोक्षप्रदां सुनित्यां सुवरदां शोधनप्रियाम् / आदित्यमण्डले लीनां प्रणमामि जिनप्रियाम् //
93.5 SK ज्ञानाकारां जगद्दीपां भक्तपाशविनाशिनीम् / इति सम्यक् स्तुता देवी वागीशेन महात्मना //
93.6 SK आत्मानं दर्शयामास शरदिन्दुसमप्रभा / सरस्वत्युवाच वरं वृणीष्व भदन्त यत्ते मनसि वर्तते //
93.7 SK बृहस्पतिरुवाच प्रसन्ना यदि मे देवी दिव्यं ज्ञानं प्रदीयताम् / सरस्वत्युवाच स्तोत्रेणानेन ये भक्त्या मां स्तुवन्ति सदा नराः //
93.8 SK लभन्ते परमं ज्ञानं मम तुल्यपराक्रमम् / कवित्वं मत्प्रसादेन तथा च विपुलं यशः //
93.9 SK त्रिसन्ध्यं प्रयतो भूत्वा यः स्तोत्रं पठते नरः / तस्य कण्ठे सदा वासं करिष्यामि न संशयः //
2078 SK ओम् ऐं वाग्वादिनि मम जिह्वायां एएं ह्रीं मन्त्रसरस्वति स्वाहा / बृहस्पतिकृतं श्रीवाग्वाणीस्तोत्रं समाप्तम् //
2079 SK ओम् नमः श्रीयोगिनीदेव्यै
94.1 SK डाकी या सर्वबुद्धा सकलभयहरा व्यापिनी विश्वमाता एकास्या रक्तवर्णा त्रिनयनमुदिता खेचरी श्रेष्ठशोभा / प्रज्वाली दिव्यदेहा गगणकृतपदा द्विभुजा मुक्तकेशा खट्वाङ्गं वामपाणौ दहिनकरतिकाधारिणी स्वर्गरुपा //
94.2 SK नग्नाङ्गा ग्रीवमाल्या नरशिरसहिता भूषणं पञ्चमुद्र् सत्त्वानां मार्गमोक्षा ऽनुत्तरवरदा ज्ञानसिद्धिप्रदाता (त्री) / श्रीदेवी प्राणिरक्षाकृतजगतहिता योगिनी वज्रदीप्ति- स्त्वत्पादौ पद्मरूपौ प्रणमितशिरसा नौमि विद्याधरीशे //
94.3 SK भगवती महादेवी भवत्याः शरणं वज्रे / वन्दे पादाम्बुजे नित्यं भजामि त्वां प्रसीद मे //
94.4 SK जननी सर्वबुद्धानां त्वमेव बोधिदायिनी / सर्वेषां बोधिसत्त्वानां माता हितानुपालिनी //
94.5 SK सर्वहितार्थसंभर्त्री सर्वपापविशोधिनी / दुष्टमारगणान् क्षोभ्य महानन्दसुखप्रदा //
94.6 SK सद्धर्मसाधनोत्साहे बलवीर्यगुणप्रदा / निःक्लेशस्तिमितध्यानसमाधिसुखदायिनी //
94.7 SK प्रज्ञागुणमहारत्नश्रीसमृद्धिप्रदायिनी / भगवत्याः पदाम्भोजे शरणस्थो भजाम्यहम् //
94.8 SK नमामि वज्रवाराहीं सर्वपापप्रमोचनीम् / मारविध्वंसिनीं देवीं बुद्धत्वफलदायिनीम् //
94.9 SK नौमि श्रीवज्रवाराहीं मन्त्रमूर्तिं जिनेश्वरीम् / अत्यन्तवरदां देवीं ऋद्धिसिद्धिवरप्रदाम् //
94.10 SK वैरोचनकुलोद्भूतां मुक्तकेशीं त्रिलोचनाम् / सन्ध्यासिन्दूरवर्णाभां वन्दे त्वां कुलिशेश्वरीम् //
94.11 SK पञ्चमुद्रशिरःशोभां स्कन्धे खट्वाङ्गधारिणीम् / करे वज्रकरोटस्थां वन्दे वज्रविलासिनीम् //
94.12 SK मुद्रापञ्चधरां देहे मुण्डमालाविभूषिताम् / लीलाहास्यमुखाम्भोजां वन्दे त्रैलोक्यसुन्दरीम् //
94.13 SK भैरवाद्यां त्रिमुखीं च विक्रान्तिकण्ठचर्चिकाम् / विद्वेषघनघोरां च वन्दे भीमभयङ्करीम् //
94.14 SK रागविरागयोर्मध्ये भावाभावविखण्डिताम् / समुद्भूतां सदा देवीं वन्दे तां ज्ञानडाकिनीम् //
94.15 SK पञ्चामृतसुरापानपञ्चशालिसुभोजिनीम् / गीतवाद्यरतां नित्यं वन्दे त्वां सुरवन्दिताम् //
94.16 SK सदैव सहजानन्दां नित्यभूतां सर्वालयाम् / रणच्चरणनूपुर्यां वन्दे नृत्यपरायणाम् //
94.17 SK त्वां देवीं सिद्धिदात्रीं च योगाचारसदारताम् / बुद्धनिर्वाणदात्रीं त्वां वन्दे बुद्धस्य मातरम् //
94.18 SK रक्ताङ्गीं वज्रवाराहीं दिव्यरूपस्वरूपिणीम् / क्रान्तिमूर्तिदयादेवीं नमामि वज्रयोगिनीम् //
94.19 SK बन्धूकपुष्पसङ्काशां शान्तरूपां जिनेश्वरीम् / ऋद्धिसिद्धिप्रदां देवीं नमामि वज्रयोगिनीम् //
94.20 SK द्वादशवर्षसम्पन्नां नवनृत्यस्वरूपिणीम् / त्रैलोक्यव्यापिनीं देवीं नमामि वज्रयोगिनीम् //
2100 SK श्रीनागार्जुनपादाचार्यविरचितं वज्रदेवीस्तोत्रं समाप्तम् //
95.1 SK हां हां हांकारनादैः किलिकिलितरवैः भूतवेतालवृन्दैर् हु हुंकारैः समन्तान्नरपिशितमुखै रक्तमालाकुलाङ्गैः / खट्वाङ्गस्कन्नपाणिर्नरकरकधरः कामरूपी विरूपी पिङ्गाक्षः पिङ्गकेशः शवगणनलकः क्षेत्रपालो ऽवताद्वः //
95.2 SK फें फें फेंकारनादैः प्रतिजनितबृहद्वह्निगर्भाङ्गवक्त्रे मालां कण्ठे निधाय प्रकटभयवपुर्भूषिताङ्गोपशोभः / ईषद्रक्ताधरोष्ठो ऽसृकसकलवृतामालिना मुक्तपाणिः क्लीं डां क्लीं डां निनादैर्वरदहनभुवि क्षेत्रपः पातु युष्मान् //
95.3 SK क्षं क्षं क्षं क्षान्तिमूर्तिः कलकलकलकृत् क्षान्तिवृद्धिं प्रकुर्वन् / क्रान्ताक्रान्तैकविश्वः कहकहकथनो नीलजीमूतवर्णः / ह्रीं श्रीं क्लीं मन्त्रदेहः पच पच दहनैर्जातमन्त्रः समन्ताद् विघ्नानुत्सार्यमाणः शमयतु नियतं शात्रवान् क्षेत्रपालः //
95.4 SK हा हा हा हाट्टहासैरतिशयभयकृत् सर्वदा ऽसत्पशूनां पापानाम्, विघ्नहन्ता प्रतिदिवसमसौ प्राप्तसंबोधिलाभः / हुं फट् हुंफटनिनादैस्त्रिभुवनकुहरं पूरयन् पूर्णशक्तिः पायाच्छ्रीक्षेत्रपालः कपिलतरजटाजूटक्लेशाङ्गभारः //
95.5 SK खं खं खं खङ्गपाणिर्ललललललितो रूपतो रक्तपाणिः रं रं रं रक्तनेत्रो रु रु रुधिरकरश्चर्चितश्चण्डवेगः / क्रुं क्रुं क्रुं क्रोधदृष्टिः कुह कुह कुटिलः कुञ्चिताशेषदुष्टः डं डं डं डामराङ्गो डमरुकसहितो रक्षतात् क्षेत्रपालः //
95.6 SK यं यं यं याति विश्वं यमनियमयुतो यामिनो ऽयामिनो वा वं वं वं वातवेगो झटिति करकधृत् प्राप्तलोकोपचारः / भ्रूं भ्रूं भ्रूं भीषणाङ्गो भृकुटिकृतभयो मुक्तिवान् साधकानां क्षं क्षं क्षं क्षेमकारी क्षपयतु दुरितं रक्षतात् क्षेत्रपालः //
95.7 SK क्लां क्लां क्लां क्रान्तिमूर्तिस्त्रिभुवनमनिशं क्लेदयन् सर्वदा यः पं पं पं पाशहस्तः परशुधृतकरः पालयन् पालनीयान् / मुद्राणां मन्त्रमूर्तिस्त्वमभिमतफलदो मन्त्रिणां मन्त्रतुल्यः क्षेत्राणां पालको ऽसौ सकलजिततनुः पातु युष्मांश्चिरायुः //
95.8 SK क्लीं क्लीं क्लीं कृत्तिवासा कृतरिपुनियमः क्लेशितानां सदेशः कं कं कं कपालमाली कलिकलुषहरः कालवृन्दाभकायः / चं चं चं चण्डवेगः प्रचरितसमयाः कालभूतैकलोकः सं सं सं संयतात्मा समयशुभफलं लक्ष्यतां पातु युष्मान् //
95.9 SK मन्त्राणां मन्रकायो नियतयमद्युतिः सत्पथे शूद्धतीरे आचार्यः साधको वा जपति च नियतं पुण्यवान् जायते ऽसौ / आयुः श्रीः कीर्तिलक्ष्मीर्धृतिबलमतुलं शान्तिपुष्टी प्रभा च सर्वज्ञत्वं च नित्यं दिननिशमतुलं नश्यते विघ्नजातम् //
2110 SK श्रीवज्रमहाकालस्तोत्रं समाप्तम् //
96.1 SK वज्रसत्त्व महासत्त्व महायान महात्मक / महाप्रभ महाशुद्ध महानाथ नमो ऽस्तु ते //
96.2 SK वज्रराज महावज्र वज्र सर्वतथागत / महासत्त्व महावीर्य महोपाय नमो ऽस्तु ते //
96.3 SK वज्रराग महाशुद्ध सर्वसौख्य महासुख / सुखाग्र्यानादिनिधन महाकाम नमो ऽस्तु ते //
96.4 SK वज्रसाधु महातुष्टि साधुकार प्रहर्षक / महाहर्ष महामोद सुप्रामोद्य नमो ऽस्तु ते //
96.5 SK वज्ररत्न महाराज स्वाभिषेक महामते / सर्वरत्न महाशोभविभूषण नमो ऽस्तु ते //
96.6 SK वज्रतेज महातेज वज्रप्रभ महाद्युते / जिनप्रभ महाज्वाल बुद्धप्रभ नमो ऽस्तु ते //
96.7 SK वज्रकेतु महाकेतु महाध्वज धनप्रद / आकाशकेतो महायष्टि त्यागध्वज नमो ऽस्तु ते //
96.8 SK वज्रहास महाहास महाप्रीतिप्रमोदन / प्रीतिवेग रतिप्रीते धर्मप्रीते नमो ऽस्तु ते //
96.9 SK वज्रधर्म महाधर्म सर्वधर्मसुशोधक / बुद्धधर्म सुधर्माग्र्य रागधर्म नमो ऽस्तु ते //
96.10 SK वज्रतीक्ष्ण महाकोश प्रज्ञाज्ञान महामते / पापच्छेदमहाखड्ग बुद्धशस्त्र नमो ऽस्तु ते //
96.11 SK वज्रहेतु महाचक्र बुद्धचक्र महानिधे / सर्वमण्डलधर्माग्र धर्मचक्र नमो ऽस्तु ते //
96.12 SK वज्रभाष महाभाष निष्प्रपञ्च महाक्षर / अनक्षर महाजाप बुद्धवाच नमो ऽस्तु ते //
96.13 SK वज्रकर्म सुकर्माग्र्य महाकर्म सुकर्मकृत् / गुह्यपूज महापूज बुद्धपूज नमो ऽस्तु ते //
96.14 SK वज्ररक्ष महावर्म कवचाग्र्य महादृढ / महारक्ष महासार बुद्धवीर्य नमो ऽस्तु ते //
96.15 SK वज्रयक्ष महाक्रोध सर्वदुष्टभयानक / सर्वबुद्धमहोपाय अग्रयक्ष नमो ऽस्तु ते //
96.16 SK महासन्धि महामुद्र महासमयबन्धक / महामुष्टे समुद्राग्र्य वज्रमुष्टे नमो ऽस्तु ते //
96.17 SK वन्द्यो मान्यश्च पूज्यश्च सत्कर्तव्यस्तथागतैः / यस्मादनादिनिधनं बोधिचित्तं त्वमुच्यसे //
96.18 SK त्वामासाद्य जिनाः सर्वे बोधिसत्त्वाश्च शौरिणः / संभूताः संभविष्यन्ति बुद्धबोध्यग्रहेतवः //
96.19 SK नमस्ते वज्रसत्त्वाय वज्ररत्नाय ते नमः / नमस्ते वज्रधर्माय नमस्ते वज्रकर्मणे //
96.20 SK त्वामभिष्टुत्य नामाग्रैः प्रणम्य च सुभावतः / यत्पुण्यं तेन सर्वो हि बुद्धबोधिमवाप्नुयात् //
96.21 SK इदमुच्चारयेत्सम्यग् नामाष्टशतमुत्तमम् / सकृद्वारं सुभक्तिस्थः सर्वबुद्धत्वमाप्नुयात् //
2132 SK श्रीवज्रपाणिनामाष्टोत्तरशतस्तोत्रं समाप्तम् //
97.1 SK वज्रसत्त्वं भुवनवरगुरुं सर्वबुद्धं भवन्तं नानारूपं जिनेन्द्रं तिमिरभयहरं निर्मितं मेरुशान्तम् / धर्माधारं मुनीनां जिनगुणशुभदं मण्डलं वज्रधातुं सर्वानन्दैकरूपं परमसुखमयं देहिनां मोक्षहेतुम् //
97.2 SK अज्ञानगाढतिमिरार्णवमग्नसत्त्वमोहान्धकारतमवारणचन्द्ररश्मिः / ज्ञानं प्रकाश्य परिपूरितवीर्यध्यानं श्रीवज्रसत्त्वमसमं शिरसा नमामि //
97.3 SK यस्मिन् सुरासुरसुरेन्द्रनरेन्द्रवृन्दास्त्वत्पादपद्मपतिता भ्रमराः शिरोभिः / तत्सिद्धिसाधनपयोधिमहानिधानं श्रीलोकनाथचरणं शरणं प्रयामि //
97.4 SK बुद्धं त्रैलोक्यनाथं सुरवरनमितं पारसंसारतीर्णं धीरं गाम्भीर्यवन्तं सकलगुणनिधिं धर्मराजाभिषिक्तम् / तृष्णामोहान्धकारं कलिकलुषहरं कामलोभादवन्तं तं वन्दे शाक्यसिंहं प्रणमितशिरसा सर्वकालं नमामि //
97.5 SK ह्रींकारसंभवं नाथं करुणास्निग्धमानसम् / अमोघपाशनामानं लोकनाथं नमाम्यहम् //
97.6 SK मामकी लोचना तारा पद्मिनी जिनधातवे / सर्वबुद्धालयं चैत्यं धर्मधातुं नमामि तम् //
97.7 SK नमस्तारे तुरे वीरे तुत्तारे भयनाशिनि / तुरे सर्वातुरे काले स्वाहाकारं नमाम्यहम् //
97.8 SK सद्धर्मपुण्डरीकाक्षं सर्वज्ञगुणसागरम् / समन्तभद्रशास्तारं शाक्यसिंहं नमाम्यहम् //
2142 SK श्रीवज्रसत्त्वस्तोत्रं समाप्तम् //
2143 SK अथ खलु भगवन्तः सर्वतथागताः भगवन्तं महावज्रसत्त्वं स्तुवन्ति स्म-
98.1 SK मोहवज्रस्वभावस्त्वं यमारिरतिभीषणः / सर्वबुद्धमयः शान्तः कायवज्र नमो ऽस्तु ते //
98.2 SK पिशुनवज्रस्वभावस्त्वं यमारिरतिभीषणः / चित्तवज्रप्रतीकाशो रत्नवज्र नमो ऽस्तु ते //
98.3 SK रागवज्रस्वभावस्त्वं यमारिरतिभीषणः / सर्वघोषवराग्राग्र्य वाग्वज्र नमो ऽस्तु ते //
98.4 SK ईर्ष्यावज्रस्वभावस्त्वं यमारिरतिभीषणः / कायवज्रप्रतीकाश सङ्गपाणे नमो ऽस्तु ते //
98.5 SK सर्वबुद्धस्वभावस्त्वं सर्वबुद्धैकसंग्रहः / सर्वबुद्धवराग्राग्र्य मण्डलेश नमो ऽस्तु ते //
2149 SK श्रीमहावज्रसत्त्वस्तुतिः समाप्ता //
2150 SK ओम् नमः श्रीवज्रयोगिन्यै
99.1 SK देवासुरनरवन्दितचरणे भवमग्नोद्धरणार्पितचरणे / त्वयि रोदिमि नुतिसव्यपदेशः किं पश्यसि पुनरनिशमशेषम् //
99.2 SK मातर्देवि किरसि कणमुष्टिं जनयद् यज्ञसुतः किमतुष्टिम् / वज्रवाराहि नराहिसुराणां त्वं शरणं तव नामपराणाम् //
99.3 SK हरिकर(रि)शिखिफणितस्करभीतिस्त्वत्परचित्ते नैव समेति / मातर्देवि निभालय मह्यं किं सहसे मम दुःखमसह्यम् //
99.4 SK तर्जनवज्रकरोट(वि)धारिणि दुष्टं तुष्टय मारनिवारिणि / अभिनवकोमलकरचरणाङ्गि त्रिवलिसमुच्छदसप्तविभङ्गि //
99.5 SK ग्राह्यग्राहकभावविशुद्धे पादकराङ्गुलिजालपिनद्धे / आयतपार्श्वाङ्गुलिकरचरणे ध्वस्तव्याधिजराजनिमरणे //
99.6 SK उद्गतरेणुरूर्ध्वगतरोमा वज्रयोगविवृतामृतधामा / बालमरीचिविलोकनरक्ते जगतां दुःखनिराकृतिशक्ते //
99.7 SK सुभ्रु तनूदरि मध्यकृशाङ्गि कर्णान्तायतलोचनभृङ्गि(भङ्गि) / डाकिन्ये (व हि) विश्वमशेषं लोको वेत्ति न ते बहुवेषम् //
99.8 SK यत्नमृते जगदर्थसमृद्धिश्चिन्तितमात्रजनेप्सितसिद्धिः / मूढो वेत्ति न दुष्कृतकर्म प्रावृषीव न शिलाङ्कुरजन्म //
99.9 SK अन्ध इवार्कशशाङ्कादर्शी पापजनो ह्यनुभावस्पर्शी / चिन्तामणिमज्ञा न विदन्ति प्रज्ञे त्वस्य फलानि फलन्ति //
99.10 SK चक्राङ्कितकरपादमनोज्ञे ज्ञानानलभस्मीकृतसङ्गे / कायवचनमनसा कृतदुरितं रागद्वेषमोहपरिकरि(लि)तम् //
99.11 SK तद्दिशामि तव देवि समक्षं यावद्यामि न दुर्गतिपक्षम् / मनः परमार्थं तनुस्तव वेदी स भवति नैव दुरितपरिखेदी //
99.12 SK लक्षणनिखिलालक्षितगात्रे सकलानुव्यञ्जनगतपात्रे / नवयौवनमदमन्थरपिण्डे चलकुण्डलयुगमण्डितगण्डे //
99.13 SK तुङ्गनितम्बघनस्तनभारे गलकालम्बिनिरंशुक(ङ्कुश)हारे / संवरमधुपविचुम्बिमुखाब्जे तद्भुजयुगपरिरब्धहृदब्जे //
99.14 SK निर्भरसुरतसुखाविकलाक्षि मुक्तशिरोरुहवसननिरपेक्षे / हेरुकराहुदष्टमुखचन्द्रे सस्मितरचित हूं हूं कृतमन्त्रे //
99.15 SK पतिमौलिस्थितविधुममृषन्ती किमु चन्द्रार्कौ वपु(र)मुषन्ती / मातस्ते जगदनुपमरूपं तद्विचारय परमार्थ स(स्व)रूपम् //
99.16 SK क्लेशदाहिं(ह)शमनामृतवचनं तद्विनेयजनशुद्धिविरचनम् / पद्मिनीति नलिनामलगन्धः करुणापरजगदर्थनिबन्धः //
99.17 SK दिव्यसुधाधर(गत)रसपानं तज्जगदद्वयबोधिनिधानम् / प्रत्यङ्गस्पर्शो ऽप्यनिमित्तं सहजाम्बुधिविप्लावितचित्तम् //
99.18 SK किं त्वं मातः करिष्यसि ताभिः षट्त्रिंशच्छतकोट्यबलाभिः / यद्यन्यां मनुते बहुतातस्तद्विहाय झगिति देहि नु मातः //
99.19 SK नाडीचक्रनिरोध महासुखसंवर / देवि त्वं शतभावविकल्पा शून्यसमाधिरपाकृततुल्या (तल्पा) //
99.20 SK शून्यकृपे सहजाद्वयमुक्तं वज्राय(ज्रया)नमिदमवधि(वि)भक्तम् / भावाभावसमस्ताकाशव्यापी भवति स तत्त्वविकाशः //
99.21 SK उद्भवन्ति तत एव विमोक्षा बोधिपक्षनिखिलप्रतिपक्षाः / बुद्धानामावेणिकधर्मः सत्त्वराशिपरिपाचितकर्मः //
99.22 SK यद्वा यानत्रयनिर्याणं धूमादिकमपि चापरिमाणम् / त्वद्भक्त्या यदलम्भि शुभं मे भवतु मनो भवतीपरमं मे / सकलकलुषरहितं गुणसिन्धुस्त्वत्परमं ह्यत एव न बन्धुः //
2173 SK गुह्यसमयसाधनतन्त्रे श्रीवज्रविलासिनीस्तोत्रं समाप्तम् / कृतिरियं महापण्डितविभूतिचन्द्रपादानाम् //
100.1 SK रविविकस्वरभास्वरसुन्दरीप्रबलकेशरसंवरकर्णिकात् / उदयमस्तकशृङ्गसमुल्लसन्नवसुपूर्णशशाङ्ककराङ्किताम् //
100.2 SK विविधपुष्परसासववेद्यपि द्रुतविलम्बितमध्यनदद्ध्वनिः / अलिरुपेत्य निशार्धमहोत्सवे धयति तद्गतधीरिति विस्मयः //
100.3 SK उदयते ऽस्तमुपैति निशाकरः पुनरतो ऽप्युदयाचलमौलिताम् / उभयकोटिकलापिनिरीक्षणे न च शशी न विभाति दिवाकरः //
100.4 SK रविरुदेति सरोजदलान्तरे शिखरतो ऽपि विधुः प्रविलीयते / व्रजति चोर्ध्वमसौ वडवानलो गिलति राहुरधः शशिभास्करौ //
100.5 SK कमलिनीकमलासनलोचनप्रकटगोचरगोचरमीलनम् / प्रथममङ्गमिदं कुलिशाम्बुजद्वयनिमीलनमत्र ततो ऽपरम् //
100.6 SK सपदि साधकबीजनिघर्षणात् त्रितयमम्बरमेति चतुर्थकम् / सहजमक्षयधामकलावलीकलितकालविलापनलेलिहम् //
100.7 SK यदि सुशिक्षितवज्रविलासिनीगुरुमुखाधिगमो ऽधिगतो भवेत् / भवति यस्य तदोत्तममध्यमाधमविनिश्चयमेति स तत्त्वदृक् //
2181 SK श्रीवज्रविलासिनीसाधनास्तवः समाप्तः //
2182 SK ओम् नमः श्रीवज्रयोगिन्यै
101.1 SK एवंकारसमासीना(ने) सहजानन्दरूपिणि / प्रज्ञा(वि)ज्ञानदेहस्था (स्थे) नमस्ते वज्रयोगिनि //
101.2 SK विचित्रादिप्रमो(भे)देन चतुरानन्ददेहदे / रागपारमिताप्राप्ते नमस्ते वज्रयोगिनि //
101.3 SK शरत्पूर्णेन्दुसंकाशे सत्त्वजाष्टकयोगजे / वर्णाग्रबीजसंभूते नमस्ते वज्रयोगिनि //
101.4 SK भावाभावद्वयातीते आद्यन्तमध्यवर्जिते / स्वपरत्वविनिर्मुक्ते नमस्ते वज्रयोगिनि //
101.5 SK रागारागयोर्मिश्रं(श्रे) संकल्पत्रयवर्जितं(ते) / महासुखसुखकारे नमस्ते वज्रयोगिनि //
101.6 SK सत्त्वार्थकरणैर्युक्ते जातसंभोगरूपिणि / करुणारक्तदेहस्ते(स्थे) नमस्ते वज्रयोगिनि //
101.7 SK भवनिर्वाणमारूढे रूपाकारविराजिते / कायवाकचित्तनेत्राय(द्ये) नमस्ते वज्रयोगिनि //
101.8 SK वामे कपालखट्वाङ्गे दक्षिणे कर्तिधारिणि / शून्यताकरुणावाहि नमस्ते वज्रयोगिनि //
101.9 SK जिनदुर्दान्तबीभत्सि(त्से) सर्वमारनिषूदिनि / निर्जिताशेषसेवाग्रे नमस्ते वज्रयोगिनि //
101.10 SK कला(कलाप)संयुक्ते श्मशानाष्टनिवासिनि / बुद्धनाटरसैर्युक्ते नमस्ते वज्रयोगिनि //
101.11 SK सत्त्वाशयवशेनैव निर्मितानेकरूपिणो (णि) / श्यामपीतसिताभासे नमस्ते वज्रयोगिनि //
101.12 SK पञ्चबुद्धजनोत्पन्ने पञ्चयोगिनितां गते / तथा परमाणुसंख्याते नमस्ते वज्रयोगिनि //
101.13 SK शैवे शक्तिरिति ख्याते तीर्थे चण्डीति कल्पिते / वेदे वेदेति प्रख्याते नमस्ते वज्रयोगिनि //
101.14 SK कुलाख्ये कुब्जिकाख्याते आत्मवेषवती मते / विश्वरूपे क्रियाकारे नमस्ते वज्रयोगिनि //
101.15 SK सत्त्वदृष्टिविरोधेन गता नैव विधायिनि / सर्वाकारवरोपेते नमस्ते वज्रयोगिनि //
101.16 SK नैरात्म्यधर्मगम्भीरयोगदृष्ट्यैकगोचरे / सदसत्कल्पनातीते नमस्ते वज्रयोगिनि //
101.17 SK श्यामपीतादिनिर्मुक्ते वर्णावर्णविवर्जिते / प्रज्ञापारमितामातर्नमस्ते वज्रयोगिनि //
101.18 SK निर्विकल्पे निरालम्बे निष्प्रपञ्चे निरालये / वियद्वयापि(नि) नैरात्म्ये नमस्ते वज्रयोगिनि //
101.19 SK सर्वरत्नविदां पात्रे जननि वज्रयोगिनि / नमस्ते वज्रवाराहि नमस्ते वज्रयोगिनि //
101.20 SK त्वं सद्गुरुमुखकमलान्निर्गता कामरूपिणी / महा ऽज्ञानविनाशाय नमस्ते वज्रयोगिनि //
101.21 SK इति गुणयुक्ताया मातुर्विधायैकविंशिकाम् / पुण्यं यदवाप्तं तेन जनाः सन्तु(लभन्तु) पूर्णत्वम् //
2204 SK श्रीवज्रयोगिनीप्रणामैकविंशिका समाप्ता //
2205 SK ओम् नमो वज्रयोगिन्यै / ओम् नमो बुद्धधर्मसंघेभ्यः / ओम् नमो गुरुबुद्धबोधिसत्त्वेभ्यः / ओम् नमो लोचनादिदशवज्रविलासिनीभ्यः / नमो यमान्तकादिदशक्रोढ(ध) वीरेभ्यः / वाराही शौण्डिनी चैव चण्डाली डोम्बिनी तथा /
102.1 SK नटनी रजकी ब्राह्मी कपालिनी च सास(शाश्व) ता //
102.2 SK अमृता ऽमृतकुण्डली च ज्ञानज्योतिःप्रकाशिका / सर्वाशावीरदेवीनामियमेका महासुखा //
102.3 SK शून्यता गीयते चासौ पराशक्तिः परात्परा / अमृतोर्ध्वमना दिव्या उपाया नित्यवाहिनी //
102.4 SK खेचरी भूचरी चैव पातालवासिनी तथा / प्रवि(ति)ष्ठापूरणी नित्यं त्रैलोक्यक्षोभती(भिणी) तथा //
102.5 SK बिन्दुनादकला देवी चन्द्रसूर्यात्मिका हि सा / (नित्या) नैर्माणिकी चैव संभागी च महासुखा //
102.6 SK बिन्दुनादकलातीता प्रज्ञापारमिता मता / सर्वभावस्वभावा हि सर्वभावविवर्जिता //
102.7 SK प्रलयोत्पत्तिहीना च प्रलयोत्पत्तिकारिणी / शाश्वतत्वात् स्थिता प्रोक्ता शाश्वतेन च वर्जिता //
102.8 SK गम्भीरालिङ्गितोदारा महार्था स्वधिमुक्तिका / शून्यतात्रयहीना च प्रभास्वरस्वरूपिणी //
102.9 SK एकाराक्षररूपा च वंकाराक्षरसंगता / विचित्रादिक्षणैर्युक्ता चतुरानन्दरूपिणी //
102.10 SK बाह्यमण्डलचक्रे ऽपि स्फुरन्ती च त्रिकायतः / कायवाकचित्तभावेषु कायवाकचित्तभूषणी //
102.11 SK अतीत्य कायवाकचित्तैः समत्वेन च मध्यगा / नैरात्म्यरूपिणी देवी तथतायां प्रतिष्ठिता //
102.12 SK कमलकुलिशाक्रान्तशून्यतात्रयरूपिणी / ललनारसनायोगादवधूती महासुखा //
102.13 SK संसारतारणी चैषां तथा तासां प्रतीत्यजा / यां लब्ध्वा योगिनीं मुक्ता भवसंसारबन्धनात् //
102.14 SK इत्येषा ऋद्धिदा प्रोक्ता सिद्धिदा चैव योगिनी / मोक्षद्वारपरा चैव सतताभ्यासकारिणाम् //
102.15 SK वज्रवत् कुरुते देहं रससिद्धिं ददाति च / गुरुपादप्रसादेन लब्धेयं वज्रयोगिनी //
102.16 SK य(ए) तस्याः पाठमात्रेण पुण्यसंभारमादरात् / प्राप्नोति सततं योगी ज्ञानसंभारसंभृतः //
2222 SK श्रीगुह्यसमयतन्त्रे पिण्डार्थाः षोडशश्लोकास्त्रिकायवज्रयोगिन्याः समाप्ताः / कृतिरियं सिद्धाचार्यश्रीविरुपादानामिति //
103.1 SK ओम् नमः श्री वज्रयोगिन्यै, नमोबुद्धधर्मसंघेभ्यः, नमो गुरुबुद्धबोधिसत्त्वेभ्यः, नमो लोचनादिदशवज्रविलासिनीभ्यः, नमो यमान्तकादिदशक्रोधवीरेभ्यः सप्रज्ञेभ्यः / ओम् ओ आ हूं इति कायवाकचित इन्द्रियविज्ञानानि, वाकचित्तानि मनोविज्ञानानि, परचित्तज्ञानाभिज्ञा, परकायप्रवेशाभिज्ञा पुण्डरीकेषु नाभिस्थे रक्तसूर्य मण्डलः //
103.2 SK धर्मोदया पद्ममध्ये सिन्दूरारुणरूपिणी / त्रिशृङ्गा हि त्रिकोणा वा चतुःपीठसमन्विता //
103.3 SK ह्रींकारं मध्यभागे ऽस्याः पीतवर्णः प्रकीर्तितः / तद्भवा पीतवर्णा च अवधूत्या(ती) स्वयं स्थिता //
103.4 SK ललनायां तु सुश्यामा रसनायां च गौरिका / प्रत्यालीढपदा नाम्ना मध्ये पीता मनोरमा //
103.5 SK त्रिमार्गे संस्थिता देवी त्रिकायवज्रयोगिनी / सेयं नाम्ना भवेदेका सर्वसम्बुद्धडाकिनी //
103.6 SK त्रैलोक्ये दिव्यरूपा च सर्वाशापरिपूरिका / स्वकर्तिना कर्तितं च वामहस्ते स्वमस्तकम् //
103.7 SK दक्षिणे ऽस्या स्थिता कर्तिर्जगतो दुःखच्छेदिनी / अस्या वामे स्थिता श्यामा नाम्ना सा वरवर्णिनी //
103.8 SK कर्परः सव्यहस्ते च कर्तिर्वामे च संस्थिता / दक्षिणे चैव पीता वै वज्रवैरोचनी स्थिता //
103.9 SK कर्तिका दक्षिणे हस्ते वामे कपालधारिणी / प्रत्यालीढपदा देवी नग्निका तु विशेषतः //
103.10 SK करौ च द्वौ तयोः पादौ विपरीतौ तथा स्थितौ / बुद्धानां जननी मध्या सम्यक्सम्बुद्धरूपिणी //
103.11 SK अक्षया सुभगा नित्यं हन्त्री च मृत्युजन्मनोः / धर्मसंभोगनिर्माणमहासुखस्वरूपिणी //
103.12 SK सेयं त्रिभुवने देवी राजये चन्द्रवत्सदा / कबन्धादवधूत्याश्च प्रविशेत्स्वमुखेष्वसृक् //
103.13 SK ललनारसनाभ्यां च निःसृत्य शिरसि तथा / करूणारक्तरूपेण पिबन्ती सर्वशान्तये //
103.14 SK दुःखं संप्रेक्ष्य लोकानां चतुर्मारनिषूदिनी / दौर्मनस्यादि कर्त्या च कर्तन्ती सर्वमेव तत् //
103.15 SK स्तुता हि जिनमातस्त्वं सुप्रसीद भवार्णवे / स्वार्थं कर्तुं परार्थं च भवाम्यहं यथा क्षमः //
103.16 SK तत्त्वया देवी कर्तव्यमनुग्रहं मयि सृज / बालो ऽहमज्ञरूपी च कायवाकचित्तदोषतः //
103.17 SK गुरुभक्तिं न जाने ऽहं त्वद्भक्तिं च विशेषतः / इत्याकलय लोकेशि कृपा मयि विधीयताम् //
103.18 SK कायवाकचेतसां साम्यं कुरु मे त्वं प्रसादतः / येन मुञ्चामि संसारं षड्गतिं न विशाम्यहम् //
103.19 SK यथा च वज्रवद्देहो यावन्मुक्तो भवाम्यहम् / मारैः सर्वैः परित्यक्तो यथा कायो भवेन्मम //
103.20 SK लीलया सिद्धिभागाः स्युर्निर्विघ्नः सर्वसिद्धिभाक् / सर्वसाधनसिद्धि स्यात् कायश्चैवाजरामरः //
103.21 SK त्रासनं सर्वमाराणां सर्वाशापरिपूरणम् / देहि मे त्वं वरां सिद्धिं हित्वा चैव गमागमम् //
103.22 SK मनो विलीयतां देवि पञ्चेन्द्रियानुसंयुतम् / सिद्ध्येच्च वज्रसत्त्वायुर्यौवनारोग्यसत्सुखम् //
103.23 SK त्वत्प्रसादान्महामुद्रा सर्वेषामेव संभवेत् / देवासुरमनुष्याश्च यत्र यत्र च संस्थिताः / सुखिनस्ते च सर्वे स्युर्बुद्धत्वफललाभिनः //
2246 SK श्रीगुह्यसमयतन्त्रे त्रिकायवज्रयोगिन्याः स्तुतिप्रणिधानं समाप्तम् / कृतिरियं सिद्धाचार्य श्रीविरूपादानाम् //
104.1 SK पादगुह्यगुदनाभिहृच्छिरोधातुमण्डलगमेरुपृष्ठगम् / नाडिकासमयवज्रपद्मगं त्वां नमाम्युभयचित्तहेरुकम् //
104.2 SK गुह्यकोकनदकर्णिकान्तरव्योमपञ्चकमहानभःस्थितम् / धर्मधातुतिलकाद्वयाद्वयं त्वां नमामि सहजात्महेरुकम् //
104.3 SK कालमेघपटलान्तरोच्छलदविद्युदुग्रपटलाधिकत्विषम् / सत्त्वभाजनयुगप्रदाहिकां त्वां नमामि जगदम्ब हेरुकीम् //
104.4 SK नाभिचक्रकुहराम्बुराशितो वज्रवारिजसमाजसंभवाम् / सौधसाररसपानलम्पटां त्वां नमामि बडवानलत्विषम् //
2251 SK श्रीवसन्ततिलकास्तुतिः समाप्ता //
105.1 SK भगवत्यै आर्यश्रीवसुधारायै दिव्यरूपी सुरूपी च सौम्यरूपी बलप्रदा / वसुधरी वसुधारणी वसुश्री श्रीकरी वरा //
105.2 SK धरणी धारणी धाता शरण्या भक्तवत्सला / प्रज्ञापारमिता देवी प्रज्ञा श्रीबुद्धिवर्धिनी //
105.3 SK विद्याधरी शिवा सूक्ष्मा शास्ता सर्वत्र मातृका / तरुणी तारु(र)णी देवी विद्यादानेश्वरेश्वरी //
105.4 SK भूषिता भूतमाता च सर्वाभरणभूषिता / दुर्दान्तत्रासनी भीता उग्रा उग्रपराक्रमा //
105.5 SK दानपारमिता देवी वर्षणी दिव्यरूपिणी / निधानं सर्वमाङ्गल्या कीर्तिर्लक्ष्मीर्यशःशुभा //
105.6 SK दहनी मालिनी चण्डी शबरी सर्वमात्रिका / कृतान्तशासनी रौद्री कौमारी विश्वरूपिणी //
105.7 SK वीर्यपारमिता देवी जगदानन्दरोचनी / तापसी उग्ररूपी च ऋद्धिसिद्धिबलप्रदा //
105.8 SK धन्या पुण्या महाभागा अजिता जितविक्रमा / जगदेकहिता विद्या संग्रामे तारणी शुभा //
105.9 SK क्षान्तिपारमिता देवी शीलिनी ध्यानध्यायिनो / पद्मिनी पद्मधारी च पद्मप्रिया पद्मासनी //
105.10 SK शुद्धरूपी महातेजा हेमवर्णा प्रभाकरी / चिन्तामणिमहादेवी प्रज्ञापुस्तकधारिणी //
105.11 SK निधानं कूटिमारुढिधन्यागारधनप्रिया / त्रैधातुकं महा आदि दिव्याभरणभूषिणी //
105.12 SK मातरी सर्वबुद्धानां रत्नधाते(त्वी)श्वरेश्वरी / शून्यता भावनी देवी भावाभावविवर्जिता //
105.13 SK वैन्ये(ने)य किं न विन्यस्ता दिव्यक्लेशनिछेदनी / भी(भे) दिनी सर्वमाराणां सप्तपातालक्षोभिनी (णी) //
105.14 SK ब्रह्माणी वेदमाता च गुह्या च गुह्यवासिनी / सरस्वती विशालाक्षी चतुर्ब्रह्मविहारिणी //
105.15 SK ताथागती महारम्या वज्रिणी धर्मधारिणी / कर्मधातेश्वरी विद्या विश्वज्वालाभमण्डली //
105.16 SK बोध(धि)नी सर्वसत्त्वानां बोध्यङ्गकृतशेखरी / ध्याना धीर्मुक्तिसंपन्ना अद्वयद्वयभाविनी //
105.17 SK सर्वार्थसाधनी भद्रा स्त्रीरूपामितविक्रमा / दर्शिनी बुद्धमार्गाणां नष्टमार्गप्रदर्शिनी //
105.18 SK वागीश्वरी महाशान्तिर्गोप्त्री धात्री धनप्रदा / स्त्रीरूपधारिणी सिद्धा योगिनी योगजेश्वरी //
105.19 SK मनोहरी महाक्रान्तिः सौभाग्यप्रियदर्शिनी / सार्थवाहकृपादृष्टिः सर्वताथागतात्मकी //
105.20 SK नमस्ते ऽस्तु महादेवी सर्वसत्त्वार्थदायिनी / नमस्ते दिव्यरूपी च वसुधारा नमो ऽस्तु ते //
105.21 SK अष्टोत्तरशतं नाम त्रिकालं यं पठेत् पुमान् / प्राप्नोति नियतं सिद्धिमीप्सितार्थमनोरथान् //
105.22 SK यदज्ञानकृतं पापम् आनन्तर्यसुदारुणम् / तत्सर्वं क्षपयत्याशु स्मरणात् स(र्व)भद्रकम् //
105.23 SK अथवा शीलसंपन्नः सप्तजातिस्मरो भवेत् / प्रियश्चादेयवाक्येन रूपवान् प्रियदर्शनः //
105.24 SK विप्रक्षत्रियकुलेषु आदेयमुपजायते / अन्ते भूमीश्वरं प्राप्तः पश्चात् प्राप्त(ः) सुखावतीम् //
2277 SK श्रीवसुधारानामधारणीस्तोत्रं सम्यक्संबुद्धभाषितं समाप्तम् //
106.1 SK या सम्यगुक्तविधिभिः परिपथ्यमाना लक्ष्मीं ददाति विपुलां सुगतोपभोगान् / तां धारणीं सकलसत्त्वहितैकचित्तां भक्त्या नमामि सततं वसुधारसंज्ञाम् //
106.2 SK या संस्मृता सुचिरसुस्थतरं प्रवृद्धं दारिद्रयदुःखदुरितं शमते नराणाम् / तां कल्पवृक्षसदृशीं वसुधारसंज्ञां नित्यं नमामि शिरसा जगतां हिताय //
106.3 SK रत्नाकरीं रत्ननिधानकोषां विचित्ररत्नां प्रतिभासवर्षाम् / रत्नावलीं रत्नमयीं विचित्रां नमामि चार्यां वसुधारधाराम् //
106.4 SK तां रत्नपाणिसफलामवभासया ते त्यागावतंसदयशेखरमुद्वहन्तीम् / हारार्धहारचलकुण्डलभूषिताङ्गीमार्यां नमामि वसुवृष्टिकरीं शरण्याम् //
2282 SK श्रीवसुधाराकल्पोद्धृतं वसुधारास्तोत्रं समाप्तम् //
107.1 SK ओम्कारोत्पन्नशुक्लाभं मध्यसिंहासनस्थितम् / बोध्यं त्रिमुद्रया युक्तं वैरोचनमुनिं नुमः //
107.2 SK हूंकारोत्पन्ननीलाभं पूर्वे गजासनस्थितम् / भूस्पर्शमुद्रया युक्तम् अक्षोभ्यं श्रीघन नुमः //
107.3 SK त्रांकारोत्पन्नहेमाभं दक्षिणे ऽश्वमारूढम् / वरदमुद्रया युक्तं नमामि रत्नसंभवम् //
107.4 SK झिङ्कारोत्पन्नरक्ताभं पश्चिमे मयूरासनम् / ध्यानमूर्तिधरं नाथम् अमिताभमुनिं नुमः //
107.5 SK खङ्कारोत्पन्नश्यामाभम् उत्तरे गरुडासनम् / अभयमुद्रसंबद्धममोघसिद्धिं नमाम्यहम् //
107.6 SK रोचना मामकी चैव पाण्डरा तारणी तथा / ब्रह्मादिकोणसंस्थाश्च चतुर्देव्यो नमो नमः //
107.7 SK निरंजनं निराकारं प्रत्येकज्योतिरूपिणम् / चैत्यमध्यस्थितं देवं वज्रसत्त्वं नुमो वयम् //
2290 SK श्री बुद्धभट्टारकस्य विद्याक्षरस्तोत्रं समाप्तम् //
2291 SK ओम् नमः श्रीमहामञ्जुनाथाय
108.1 SK अथ वज्रधरः श्रीमान् दुर्दान्तदमकः परः / त्रिलोकविजयी वीरो गुह्यराट् कुलिशेश्वरः //
108.2 SK विबुद्धपुण्डरीकाक्षः प्रोत्फुल्लकमलाननः / प्रोल्लालयन् वज्रवरं स्वकरेण मुहुर्मुहः //
108.3 SK भृकुटीतरङ्गप्रमुखैरनन्तैर्वज्रपाणिभिः / दुर्दान्तदमकैर्वीरैर्वीरवीभत्सरुपिभिः //
108.4 SK उल्लालयदिभिः स्वकरैः प्रस्फुरद्वज्रकोटिभिः / प्रज्ञोपायमहाकरुणाजगदर्थकरैः परैः //
108.5 SK हृष्टतुष्टाशयैर्मुदितैः क्रोधविग्रहरुपिभिः / बुद्धकृत्यकरैर्नाथैः सार्द्धं प्रणतविग्रहै //
108.6 SK प्रणम्य नाथं संबुद्धं भगवन्तं तथागतम् / कृताञ्जलिपुटो भूत्वा इदमाह स्थितो ऽग्रतः //
108.7 SK मद्धिताय ममार्थाय अनुकम्पाय मे विभो / मायाजालाभिसंबोधेर्यथालाभि भवाम्यहम् //
108.8 SK अज्ञानपङ्कमग्नानां क्लेशव्याकुलचेतसाम् / हिताय सर्वसत्त्वानामनुत्तरफलाप्तये //
108.9 SK प्रकाशयतु संबुद्धो भगवान् शास्ता जगद्गुरुः / महासमयतत्त्वज्ञ इन्द्रियाशयवित् परः //
108.10 SK भगवन्! ज्ञानकायस्य महोष्णीषस्य गीष्पतेः / मञ्जुश्रीज्ञानसत्त्वस्य ज्ञानमूर्तेः स्वयम्भुवः //
108.11 SK गम्भीरार्थामुदारार्थां महार्थामसमां शिवाम् / आदिमध्यान्तकल्याणीं नामसङ्गीतिमुत्तामाम् //
108.12 SK यातीतैर्भाषिता बुद्धैर्भाषिष्यन्ते ह्यानागताः / प्रत्युत्पन्नाश्च संबुद्धा यां भाषन्ते पुनः पुनः //
108.13 SK मायाजाले महातन्त्रे या चास्मिन् संप्रगीयते / महावज्रधरैर्हृष्टैरमेयैर्मन्त्रधारिभिः //
108.14 SK अहं चैनां धारयिष्याम्यानिर्याणाद् दृढाशयः / यथा भवाम्यहं नाथ सर्वसंबुद्धगुह्यधृक् //
108.15 SK प्रकाशयिष्ये सत्त्वानां यथाशयविशेषतः / अशेषक्लेशनाशाय अशेषाज्ञानहानये //
108.16 SK एवमध्येष्य गुह्येन्द्रो वज्रपाणिस्तथागतम् / कृताञ्जलिपुतो भूत्वा प्रह्वकायःस्थितो ऽग्रतः //
2308 SK इति अध्येषणाज्ञानगाथाः षोडश /
108.17 SK अथ शाक्यमुनिर्भगवान् संबुद्धो द्विपदोत्तमः / निर्णमय्यायतां स्फीतां स्वजिह्वां स्वमुखाच्छुभाम् //
108.18 SK स्मितं संदश्र्य लोकानामपायत्रयशोधनम् / त्रिलोकाभासकरणं चतुर्मारारिशासनम् //
108.19 SK त्रिलोकमापूरयन्त्या ब्राह्म मधुरया गिरा / प्रत्यभाषत गुह्येन्द्रं वज्रपाणिं महाबलम् //
108.20 SK साधु वज्रधर श्रीमन् साधु ते वज्रपाणये / यस्त्वं जगद्धितार्थाय महाकरुणयान्वितः //
108.21 SK महार्थां नामसङ्गीतिं पवित्रामघनाशिनीम् / मञ्जुश्रीज्ञानकायस्य मत्तः श्रोतुं समुद्यतः //
108.22 SK तत्साधु देशयाम्येषः अहं ते गुह्यकाधिप / शृणु त्वमेकाग्रमनास्तत्साधु भगवन्निति //
2315 SK इति प्रतिवचनज्ञानगाथाः षट् /
108.23 SK अथ शाक्यमुनिर्भगवान् सकलं मन्त्रकुलं महत् / मन्त्रविद्याधरकुलं व्यवलोक्य कुलत्रयम् //
108.24 SK लोकलोकोत्तरकुलं लोकालोककुलं महत् / महामुद्राकुलं चाग्र्यं महोष्णीषकुलं महत् //
2318 SK इति षट्कुलावलोकनज्ञानगाथे द्वे /
108.25 SK इमां षण्मन्त्रराजानां संयुक्तामद्वयो दयाम् / अनुत्पादधर्मिणीं गाथां भाषते स्म गिरांपतेः //
108.26 SK अ आ इ ई उ ऊ ए ऐ ओ औ अं अः स्थितो हृदि / ज्ञानमूर्तिरहं बुद्धो बुद्धानां त्र्यध्ववर्तिनाम् //
108.27 SK ओम् वज्रतीक्ष्णदुःखच्छेदप्रज्ञाज्ञानमूर्तये / ज्ञानकायवागीश्वरारपचनाय ते नमः //
2322 SK इति मायाजालाभिसंबोधिक्रमगाथास्तिस्रः /
108.28 SK तद्यथा भगवान् बुद्धः संबुद्धो ऽकारसम्भवः / अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः //
108.29 SK महाप्राणो ह्यनुत्पादो वागदाहारवर्जितः / सर्वाभिलापहेत्व्ग्र्यः सर्ववाक्सुप्रभास्वरः //
108.30 SK महामहमहारागः सर्वसत्त्वरतिङ्करः / महामहमहाद्वेषः सर्वक्लेशमहारिपुः //
108.31 SK महामहमहामोहो मूढधीमोहसूदनः / महामहमहाक्रोधो महाक्रोधरिपुर्महान् //
108.32 SK महामहमहालोभः सर्वलोभनिषूदनः / महाकामो महासौख्यो महामोदो महारतिः //
108.33 SK महारुपो महाकायो महावर्णो महावपुः / महानामा महोदारो महाविपुलमण्डलः //
108.34 SK महाप्रज्ञायुधधरो महाक्लेशाङ्कुशो ऽग्रणीः / महायशा महाकीर्तिर्महाज्योतिर्महाद्युतिः //
108.35 SK महामायाधरो विद्वान् महामायार्थसाधकः / महामायारतिरतो महामायेन्द्रजालिकः //
108.36 SK महादानपतिः श्रेष्ठो महाशीलधरो ऽग्रणीः / महाक्षान्तिधरो धीरो महावीर्यपराक्रमः //
108.37 SK महाध्यानसमाधिस्थो महाप्रज्ञाशरीरधृक् / महाबलो महापायः प्रणिधिर्ज्ञानसागरः //
108.38 SK महामैत्रीमयो ऽमेयो महाकारुणिको ऽग्रधीः / महाप्रज्ञो महाधीमान् महोपायो महाकृतिः //
108.39 SK महाऋद्धिबलोपेतो महावेगो महाजवः / महर्द्धिको महेशाख्यो महाबलपराक्रमः //
108.40 SK महाभवाद्रिसंभेत्ता महावज्रधरो धनः / महाक्रूरो महारौद्रो महाभयभयङ्कर //
108.41 SK महाविद्योत्तमो नाथो महामन्त्रोत्तमो गुरुः / महायाननयारुढो महायाननयोत्तमः //
2337 SK इति वज्रधातुमण्डलज्ञानगाथाश्चतुर्दश /
108.42 SK महावैरोचनो बुद्धो महामौनी महामुनिः / महामन्त्रनयोद्भूतो महामन्त्रनयात्मकः //
108.43 SK दशपारमिताप्राप्तो दशपारमिताश्रयः / दशपारमिताशुद्धिर्दशपारमितानयः //
108.44 SK दशभूमीश्वरो नाथो दशभूमिप्रतिष्ठितः / दशज्ञानविशुद्धात्मा दशज्ञानविशुद्धधृक् //
108.45 SK दशाकारो दशार्थार्थो मुनीन्द्रो दशबलो विभुः / अशेषविश्वार्थकरो दशाकारवशी महान् //
108.46 SK अनादिर्निष्प्रपञ्चात्मा शुद्धात्मा तथतात्मकः / भूतवादी यथावादी तथाकारी अनन्यवाक् //
108.47 SK अद्वयो द्वयवादी च भूतकोटिव्यवस्थितः / नैरात्म्यसिंहनिर्णादी कुतीथ्र्यमृगभीकरः //
108.48 SK सर्वत्रगो ऽमोघगतिस्तथागतमनोजवः / जिनो जितारिर्विजयो चक्रवर्ती महाबलः //
108.49 SK गणमुख्यो गणाचार्यो गणेशो गणपतिर्वशी / महानुभावो धौरेयो ऽनन्यनेयो महानयः //
108.50 SK वागिशो वाक्पतिर्वाग्मी वाचस्पतिरनन्तगोः / सत्यवाक् सत्यवादी च चतुःसत्योपदेशकः //
108.51 SK अवैवर्तिको ह्यनागामो खड्गः प्रत्येकनायकः / नानानिर्याणनिर्यातो महाभूतैककारणः //
108.52 SK अर्हन् क्षीणास्रवो भिक्षुर्वीतरागो जितेन्द्रियः / क्षेमप्राप्तो ऽभयप्राप्तः शीतीभूतो ह्यानाविलः //
108.53 SK विद्याचरणसंपन्नः सुगतो लोकवित्परः / निर्ममो निरहङ्कारः सत्यद्वयनयस्थितः //
108.54 SK संसारपारकोटिस्थः कृतकृत्यः स्थलस्थितः / कैवल्यज्ञाननिष्ठियुतः प्रज्ञाशस्त्रो विदारणः //
108.55 SK सद्धर्म्मो धर्मराड् भास्वान् लोकालोककरः परः / धर्मेश्वरो धर्मराजः श्रेयोमार्गोपदेशकः //
108.56 SK सिद्धार्थः सिद्धसंकल्पः सर्वसंकल्पवर्जितः / निर्विकल्पो ऽक्षयो धातुर्धर्मधातुः परो ऽव्ययः //
108.57 SK पुण्यवान् पुण्यसंभारो ज्ञानं ज्ञानाकरं महत् / ज्ञानवान् सदसज्ज्ञानी संभारद्वयसंभृतः //
108.58 SK शाश्वतो विश्वराड् योगी ध्यानं ध्येयो धियांपतिः / प्रत्यात्मवेद्यो ह्यचलः परमाद्यस्त्रिकायधृक् //
108.59 SK पञ्चकायात्मको बुद्धः पञ्चज्ञानात्मको विभुः / पञ्चबुद्धात्ममुकुटः पञ्चचक्षुरसङ्गधृक् //
108.60 SK जनकः सर्वबुद्धानां बुद्धपुत्रः परोवरः / प्रज्ञाभवोद्भवो योनिर्धर्मयोनिर्भवान्तकृत् //
108.61 SK घनैकसारो वज्रात्मा सद्योजातो जगत्पतिः / गगनोद्भवः स्वयम्भूः प्रज्ञाज्ञानानलो महान् //
108.62 SK वैरोचनो महादीप्तिर्ज्ञानज्योतिर्विरोचनः / जगत्प्रदीपो ज्ञानोल्को महातेजाः प्रभास्वरः //
108.63 SK विद्याराजो ऽग्रमन्त्रेशो मन्त्रराजो महार्थकृत् / महोष्णीषो ऽद्भुतोष्णीषो विश्वदर्शी वियत्पतिः //
108.64 SK सर्वबुद्धात्मभावाग्र्यो जगदानन्दलोचनः / विश्वरुपी विधाता च पूज्यो, मान्यो महाऋषिः //
108.65 SK कुलत्रयधरो मन्त्री महासमयमन्त्रधृक् / रत्नत्रयधरः श्रेष्ठस्त्रियानोत्तमदेशकः //
108.66 SK अमोघपाशो विजयी वज्रपाशो महाग्रहः / वज्राङ्कुशो महापाशः वज्रभैरवभीकरः //
2363 SK इति सुविशुद्धधर्मधातुज्ञानगाथाः पादोनपञ्चविंशतिः /
108.67 SK क्रोधराट् षण्मुखो भीमः षण्णेत्रः षड्भुजो बली / दंष्ट्राकरालः कङ्कालो हलाहलः शताननः //
108.68 SK यमान्तको विघ्नराजो वज्रवेगो भयङ्करः / विघुष्टवज्रो हृद्वज्रो मायावज्रो महोदरः //
108.69 SK कुलिशेशो वज्रयोनिर्वज्रमण्डो नभोपमः / अचलैकजटाटोपो गजचर्मपटार्द्रधृक् //
108.70 SK हाहाकारो महाघोरो हीहीकारो भयानकः / अट्टहासो महाहासो वज्रहासो महारवः //
108.71 SK वज्रसत्त्वो महासत्त्वो वज्रराजो महासुखः / वज्रचण्डो महामोदो वज्रहूंकारहूंकृतिः //
108.72 SK वज्रबाणायुधधरो वज्रखड्गो निकृन्तनः / विश्ववज्रधरो बज्री एकवज्री रणञ्जहः //
108.73 SK वज्रज्वालाकरालाक्षो वज्रज्वालाशिरोरुहः / वज्रावेशो महावेशः शताक्षो वज्रलोचनः //
108.74 SK वज्ररोमाङ्कुरतनुर्वज्ररोमैकविग्रहः / वज्रकोटिनखारम्भो वज्रसारघनच्छवि //
108.75 SK वज्रमालाधरः श्रीमान् वज्राभरणभूषितः / हाहाट्टहासो निर्घोषो वज्रघोषः षडक्षरः //
108.76 SK मञ्जुघोषो महानादस्त्रैलोक्यैकरवो महान् / आकाशधातुपर्यन्तघोषो घोषवतां वरः //
2374 SK इत्यादर्शज्ञानगाथाः पादेन सार्धं दश /
108.77 SK तथताभूतनैरात्म्यभूतकोटिरनक्षरः / शून्यतावादिवृषभो गम्भीरोदारगर्जनः //
108.78 SK धर्मशङ्खो महाशब्दो धर्मगण्डी महारणः / अप्रतिष्ठितनिर्वाणो दशदिग्धर्मदुन्दुभिः //
108.79 SK अरुपो रुपवानग्र्यो नानारुपो मनोमयः / सर्वरुपावभासश्रीरशेषप्रतिबिम्बधृक् //
108.80 SK अप्रधृष्यो महेशाख्यस्त्रैधातुकमहेश्वरः / समुच्छ्रितार्यमार्गस्थो धर्मकेतुर्महोदय //
108.81 SK त्रैलोक्यैककुमाराङ्गः स्थविरो वृद्धः प्रजापति / द्वात्रिंशल्लक्षणधरः कान्तस्त्रैलोक्यसुन्दरः //
108.82 SK लोकज्ञानगुणाचार्यो लोकाचार्यो विशारदः / नाथस्त्राता त्रिलोकाप्तः शरणं ताय्यनुत्तरः //
108.83 SK गगनाभोगसम्भोगः सर्वज्ञज्ञानसागरः / अविद्याण्डकोशसंभेत्ता भवपञ्जरदारणः //
108.84 SK शमिताशेषसंक्लेशः संसारार्णवपारगः / ज्ञानाभिषेकमुकुटः सम्यक्संबुद्धभूषणः //
108.85 SK त्रिदुःखदुःखशमनस्त्र्यन्तो ऽनन्तस्त्रिमुक्तिगः / सर्वावरणनिर्मुक्त आकाशसमतां गतः //
108.86 SK सर्वक्लेशमलातीतस्त्र्यध्वानध्वगतिं गतः / सर्वसत्त्वमहानागो गुणशेखरशेखरः //
108.87 SK सर्वोपधिविनिर्मुक्तो व्योमवत्र्मनि सुस्थितः / महाचिन्तामणिधरः सर्वरत्नोत्तमो विभुः //
108.88 SK महाकल्पतरुः स्फीतो महाभद्रघटोत्तमः / सर्वसत्त्वार्थकृत्कर्त्ता हितैषी सत्त्ववत्सलः //
108.89 SK शुभाशुभज्ञः कालज्ञः समयज्ञः समयो विभुः / सत्त्वेन्द्रियज्ञो वेलज्ञो विमुक्तित्रयकोविदः //
108.90 SK गुणी गुणज्ञो धर्मज्ञः प्रशस्तो मङ्गलोदयः / सर्वमङ्गलमाङ्गल्यः कीर्तिर्लक्ष्मीर्यशः शुभः //
108.91 SK महोत्सवो महाश्वासो महानन्दो महारतिः / सत्कारः सत्कृतिर्भूतिः प्रमोदः श्रीर्यशस्पतिः //
108.92 SK वरेण्यो वरदः श्रेष्ठः शरण्यः शरणोत्तमः / महाभयारिः प्रवरो निःशेषभयनाशनः //
108.93 SK शिखी शिखण्डी जटिलो जटी मौण्डी किरीटिमान् / पञ्चाननः पञ्चशिखः पञ्चचीरकशेखरः //
108.94 SK महाब्रतधरो मौञ्जी ब्रह्मचारी ब्रतोत्तमः / महातपास्तपोनिष्ठः स्नातको गौतमो ऽग्रणी //
108.95 SK ब्रह्मविद् ब्राह्मणो ब्रह्मा ब्रह्मनिर्वाणमाप्तवान् / मुक्तिर्मोक्षो विमोक्षाङ्गो विमुक्तिः शान्तता शिवः //
108.96 SK निर्वाणं निर्वृतिः शान्तिः श्रेयो निर्याणमन्तगः / सुखदुःखान्तकृन्निष्ठा वैराग्यमुपधिक्षयः //
108.97 SK अजयो ऽनुपमो ऽव्यक्तो निराभासो निरञ्जनः / निष्कलः सर्वगो व्यापी सूक्ष्मो बीजमनाश्रवः //
108.98 SK अरजो विरजो विमलो वान्तदोषो निरामयः / सुप्रबुद्धो विबुद्धात्मा सर्वज्ञः सर्ववित्परः //
108.99 SK विज्ञानधर्मतातीतो ज्ञानमद्वयरुपधृक् / निर्विकल्पो निराभोगस्त्र्यध्वसंबुद्धकार्यकृत् //
108.100 SK अनादिनिधनो बुद्ध आदिबुद्धो निरन्वयः / ज्ञानैकचक्षुरमलो ज्ञानमूर्तिस्तथागतः //
108.101 SK वागीश्वरो महावादी वादिराड् वादिपुङ्गवः / वदतांवरो वरिष्ठो वादिसिंहो ऽपराजितः //
108.102 SK समन्तदर्शी प्रामोद्यस्तेजोमाली सुदर्शनः / श्रीवत्सः सुप्रभो दीप्तिर्भाभासुरकरद्युतिः //
108.103 SK महाभिषग्वरः श्रेष्ठः शल्यहर्ता निरुत्तरः / अशेषभैषज्यतरुः क्लेशव्याधिर्महारिपुः //
108.104 SK त्रैलोक्यतिलकः कान्तः श्रीमान् नक्षत्रमण्डलः / दशदिग्व्योमपर्य्यन्तो धर्मध्वजमहोच्छ्रयः //
108.105 SK जगच्छत्रैकविपुलो मैत्रीकरुणमण्डलः / पद्मनृत्येश्वरः श्रीमान् रत्नच्छत्रो महाविभुः //
108.106 SK सर्वबुद्धमहाराजः सर्वबुद्धात्मभावधृक् / सर्वबुद्धमहायोगः सर्वबुद्धैकशासनः //
108.107 SK वज्ररत्नाभिषेकश्रीः सर्वरत्नाधिपेश्वरः / सर्वलोकेश्वरपतिः सर्ववज्रधराधिपः //
108.108 SK सर्वबुद्धमहाचित्तः सर्वबुद्धमनोगतिः / सर्वबुद्धमहाकायः सर्वबुद्धसरस्वती //
108.109 SK वज्रसूर्य्यमहालोको वज्रेन्दुविमलप्रभः / विरागादिमहारागो विश्ववर्णोज्ज्वलप्रभः //
108.110 SK सम्बुद्धवज्रपर्यङ्को बुद्धसङ्गीतिधर्मधृक् / बुद्धपद्मोद्भवः श्रीमान् सर्वज्ञज्ञानकोषधृक् //
108.111 SK विश्वमायाधरो राजा बुद्धविद्याधरो महान् / वज्रतीक्ष्णो महाखड्गो विशुद्धः परमाक्षरः //
108.112 SK दुःखच्छेदमहायानवज्रधर्ममहायुधः / जिनजिग् वज्रगाम्भीर्यो वज्रबुद्धिर्यथार्थवित् //
108.113 SK सर्वपारमितापूरी सर्वभूमिविभूषणः / विशुद्धधर्मनैरात्म्यः सम्यग्ज्ञानेन्दुहृत्प्रभः //
108.114 SK मायाजालमहोद्योगः सर्वतन्त्राधिपः परः / अशेषवज्रपर्यङ्को निःशेषज्ञानकायधृक् //
108.115 SK समन्तभद्रः सुमतिः क्षितिगर्भो जगद्धृतिः / सर्वबुद्धमहागर्भो विश्वनिर्माणचक्रदृक् //
108.116 SK सर्वभावस्वभावाग्य्रः सर्वभावस्वभावधृक् / अनुत्पादधर्मा विश्वार्थः सर्वधर्मस्वभावधृक् //
108.117 SK एकक्षणमहाप्राज्ञः सर्वधर्मावबोधधृक् / सर्वधर्माभिसमयो भूतान्तमुनिरग्रधीः //
108.118 SK स्तिमितः सुप्रसन्नात्मा सम्यक्संबुद्धबोधिधृक् / प्रत्यक्षः सर्वबुद्धानां ज्ञानार्चिः सुप्रभास्वरः //
2417 SK इति प्रत्यवेक्षणज्ञानगाथाः द्वाचत्वारिंशत् /
108.119 SK इष्टार्थसाधकः परः सर्वापायविशोधकः / सर्वसत्त्वोत्तमो नाथः सर्वसत्त्वप्रमोचकः //
108.120 SK क्लेशसंग्रामशूरैकः अज्ञानरिपुदर्पहा / धीशृङ्गारधरः श्रीमान् वीरबीभत्सरुपधृक् //
108.121 SK बाहुदण्डशताक्षेपपदनिक्षेपनर्त्तनः / श्रीमच्छतभुजाभोगगगनाभोगनर्त्तनः //
108.122 SK एकपादतलाक्रान्तमहीमण्डतले स्थितः / ब्रह्माण्डशिखराक्रान्तपादाङ्गुष्ठनखे स्थितः //
108.123 SK एकार्थो ऽद्वयधर्मार्थः परमार्थो ऽविनश्वरः / नानाविज्ञप्तिरुपार्थश्चित्तविज्ञानसंततिः //
108.124 SK अशेषभावार्थरतिः शून्यतारतिरग्रधीः / भवरागाद्यतीतश्च भवत्रयमहारतिः //
108.125 SK शुद्धः शुभ्राभ्रधवलः शरच्चन्द्रांशुसुप्रभः / बालार्कमण्डलच्छायो महारागनखप्रभः //
108.126 SK इन्द्रनीलाग्रसच्चीरो महानीलकचाग्रधृक् / महामणिमयूखश्रीर्बुद्धनिर्वाणभूषणः //
108.127 SK लोकधातुशताकम्पी ऋद्धिपादमहाक्रमः / महास्मृतिधरस्तत्त्वश्चतुःस्मृतिसमाधिराट् //
108.128 SK बोध्यङ्गकुसुमामोदस्तथागतगुणोदधिः / अष्टाङ्गमार्गनयवित् सम्यक्संबुद्धमार्गवित् //
108.129 SK सर्वसत्त्वमहासङ्गो निःसङ्गो गगनोपमः / सर्वसत्त्वमनोजातः सर्वसत्त्वमनोजवः //
108.130 SK सर्वसत्त्वेत्द्रियार्थज्ञः सर्वसत्त्वमनोहरः / पञ्चस्कन्धार्थतत्त्वज्ञः पञ्चस्कन्धविशुद्धधृक् //
108.131 SK सर्वनिर्याणकोटिस्थः सर्वनिर्याणकोविदः / सर्वनिर्याणमार्गस्थः सर्वनिर्याणदेशकः //
108.132 SK द्वादशाङ्गभवोत्खातो द्वादशाकारशुद्धधृक् / चतुःसत्यनयाकारो अष्टज्ञानावबोधधृक् //
108.133 SK द्वादशाकारसत्यार्थः षोडशाकारतत्त्ववित् / विंशत्याकारसंबोधिर्विबुद्धः सर्ववित्परः //
108.134 SK अमेयबुद्धनिर्माणकायकोटिविभावकः / सर्वक्षणाभिसमयः सर्वचित्तक्षणार्थवित् //
108.135 SK नानायाननयोपायजगदर्थविभावकः / यानत्रितयनिर्यात एकयानफले स्थित //
108.136 SK क्लेशधातुविशुद्धात्मा कर्मधातुक्षयङ्करः / ओघोदधिसमुत्तीर्णो योगकान्तारनिसृतः //
108.137 SK क्लेशोपक्लेशसंक्लेशसुप्रहीणसवासनः / प्रज्ञोपायमहाकरुणा अमोघजगदर्थकृत् //
108.138 SK सर्वसंज्ञाप्रहोणार्थो विज्ञानार्थो निरोधकृत् / सर्वसत्त्वमनोविषयः सर्वसत्त्वमनोगतिः //
108.139 SK सर्वसत्त्वमनो ऽन्तस्थस्तच्चित्तसमताङ्गतः / सर्वसत्त्वमनोह्लादी सर्वसत्त्वमनोरतिः //
108.140 SK सिद्धान्तो विभ्रमापेतः सर्वभ्रान्तिविवर्जितः / निःसंदिग्धमतिस्त्र्यर्थः सर्वार्थस्त्रिगुणात्मकः //
108.141 SK पञ्चस्कन्धार्थस्त्रिकालः सर्वक्षणविभावकः / एकक्षणाभिसंबुद्धः सर्वबुद्धस्वभावधृक् //
108.142 SK अनङ्गकायः कायाग्य्रः कायकोटिविभावकः / अशेषरुपसन्दर्शी रत्नकेतुर्महामणिः //
2442 SK इति समताज्ञानगाथाश्चतुर्विशतिः /
108.143 SK सर्वसंबुद्धबोद्धव्यो बुद्धबोधिरनुत्तरः / अनक्षरो मन्त्रयोनिर्महामन्त्र कुलत्रयः //
108.144 SK सर्वमन्त्रार्थजनको महाबिन्दुरनक्षरः / पञ्चाक्षरो महाशून्यो बिन्दुशून्यः षडक्षरः //
108.145 SK सर्वाकारो निराकारः षोडशार्धार्धबिन्दुधृक् / अकलः कलनातीश्चतुर्थध्यानकोटिधृक् //
108.146 SK सर्वध्यानकलाभिज्ञः समाधिकुलगोत्रवित् / समाधिकायः कायाग्य्रः सर्वसंभोगकायराट् //
108.147 SK निर्माणकायः कायाग्य्रो बुद्धनिर्माणवंशधृक् / दशदिग्विश्वनिर्माणो यथावज्जगदर्थकृत् //
108.148 SK देवातिदेवो देवेन्द्रः सुरेन्द्रो दानवाधिपः / अमरेन्द्रः सुरगुरुः प्रमथः प्रमथेश्वरः //
108.149 SK उत्तीर्णभवकान्तार एकः शास्ता जगद्गुरुः / प्रख्यातदशदिग्लोको धर्मदानपतिर्महान् //
108.150 SK मैत्रीसन्नाहसन्नद्धः करुणावर्मवर्मितः / प्रज्ञाखड्गो धनुर्बाणः क्लेशाज्ञानरणञ्जहः //
108.151 SK मारारिर्मारजिद्वीरश्चतुर्मारभयान्तकृत् / सर्वमारचमूजेता सम्बद्धो लोकनायकः //
108.152 SK वन्द्यः पूज्यो ऽभिवाद्यश्च माननीयश्च नित्यशः / अर्चनीयतमो मान्यो नमस्यः परमो गुरुः //
108.153 SK त्रैलोक्यैकक्रमगतिर्व्योमपर्य्यन्तविक्रमः / त्रैविद्यः श्रोत्रियः पूतः षडभिज्ञः षडनुस्मृतिः //
108.154 SK बोधिसत्त्वो महासत्त्वो लोकातीतो महर्द्धिकः / प्रज्ञापारमितानिष्ठः प्रज्ञातत्त्वत्वमागतः //
108.155 SK आत्मवित्परवित्सर्वः सर्वीयो ह्यग्रपुद्गलः / सर्वोपमामतिक्रान्तो ज्ञेयो ज्ञानाधिपः परः //
108.156 SK धर्मदानपतिः श्रेष्ठश्चतुर्मुद्रार्थदेशकः / पर्युपास्यतमो जगतां निर्याणत्रययायिनाम् //
108.157 SK परमार्थविशुद्धश्रीस्त्रैलोक्यसुभगो महान् / सर्वसम्पत्करः श्रीमान् मञ्जुश्रीः श्रीमतांवरः //
2458 SK इति कृत्यानुष्ठानज्ञानगाथाः पञ्चदश /
108.158 SK नमस्ते वरदवज्राग्य्र भूतकोटे नमो ऽस्तु ते / नमस्ते शून्यतागर्भ बुद्धबोधे नमोस्तु ते //
108.159 SK बुद्धराग नमस्ते ऽस्तु बुद्धकाम नमो नमः / बुद्धप्रीते नमस्तुभ्यं बुद्धमोद नमो नमः //
108.160 SK बुद्धस्मित नमस्तुभ्यं बुद्धहास नमो नमः / बुद्धवाच नमस्तुभ्यं बुद्धभाव नमो नमः //
108.161 SK अभवोद्भव नमस्तुभ्यं नमस्ते बुद्धसंभव / गगनोद्भव नमस्तुभ्यं नमस्ते ज्ञानसंभव //
108.162 SK मायाजाल नमस्तुभ्यं नमस्ते बुद्धनाटक / नमस्ते सर्वसर्वेभ्यो ज्ञानकाय नमो ऽस्तु ते //
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. 108 Buddhist stotras (sa_108-buddhist-stotras.htm).
Source