The Elimination of Arguments

Vigrahavyāvartanī · Vइग्रहव्यावर्तनी

The Elimination of Arguments

Vigrahavyāvartanī

Vइग्रहव्यावर्तनी

SK
|| नमो बुद्धय |
SK
सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश् चेत् / त्वद्वचनम् अस्वभावं न निवर्तयितुम् स्वभावम् अलं // Nअग्Vव्_१ //
SK
यदि सर्वेषां भावानां हेतौ प्रत्ययेषु च हेतुप्रत्ययसामग्राञ् च पृथक् च यत्र सर्वत्र स्वभावो न विद्यत इति कृत्वा शून्याः सर्वभावा इति | न हि बिजे हेतुभूते ऽङ्कुरो स्ति | न पृथिव्यप्तेजोवाय्वादिनाम् एकेकस्मिन् प्रत्ययसंज्ञिते | न प्रत्ययेषु समग्रेषु न हेतुप्रत्ययेषु समग्रेषु न हेतुप्रत्ययसामग्रां न हेतुप्रत्ययविनिर्मुक्तः पृथग् एव वा | यस्माद् अत्र स्वभावो नास्ति तस्मान् निःस्वभावो ऽङ्कुरः | यस्मान् निःस्वभावः तस्मात् शून्यः | यथा चायम् अङ्कुरो निःस्वभावो निःस्वभावाच् च शून्यः तथा सर्वभावा निःस्वभावत्वाच् छून्य इति |
SK
अत्र वयं ब्रूमः | यद्य् एवं तवापि वचनं यद्य् एतच् छून्याः सर्वभावा इति तद् अपि शून्यं | किं कारणं तद् अपि हेतौ नास्ति | महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा प्रत्ययेषु नास्ति | उरःकण्थोष्ठजिह्वादन्तमूलतालुनासिकामूर्धप्रभृतिषु यन् नैवोभयसामग्र्याम् अस्ति | हेतुप्रत्ययसमग्रीविनिर्मुक्तं पृथग् एव वा नास्ति | यस्माद् अत्र सर्वत्र नास्ति | तस्मान् निःस्वभावं | यस्मान् निःस्वभावं | तस्माच् छून्यं | तस्माद् अनेन सर्वभावस्वभावव्यवर्तनम् अशक्यं कर्तुं | किं कारणंन् | न ह्य् असदग्निना दग्धं | नाप्य् असता शास्त्रेण शक्यं छेत्तुं | नासतीभिर् अत्भिः शक्यं क्लेदयितुम् एवम् असत्ता वचनेन शक्यः सर्वभावस्वभावप्रतिषेधः कर्तुं न शक्यः सर्वभावस्वभावो निवर्तयितुं | तत्र यद् उक्तं सर्वभावस्वभावः प्रतिषिधः सर्वत्र भावस्वभावो विनिवर्तत इति | तन् न ||
SK
अथ सस्वभावम् एतद् वाक्यं पूर्वा हत प्रतिज्ञा ते / वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्यः // Nअग्Vव्_२ //
SK
अथापि मन्यसे मा भूद् एष दोष इति सस्वभावम् एतद् वाक्यं | सस्वभावत्वाच् चाशून्यं | तस्माद् अनेन सर्वभावस्वभावः प्रतिषिद्धः सर्वभावस्वभावो विनिवर्त इति ||
SK
अत्र ब्रूमः | या हि ते प्रतिज्ञा शून्याः स्वभावा इति | हता शा || किञ्चान्यत् सर्वभावान्तर्गतञ् च तद्वचनम् | कस्मात् सर्वभावेषु त्वद्वचनम् अशून्यं येनाशून्यत्वात् सर्वभावस्वभावः प्रतिषिद्धः || एवं षट्कोटिको वादः प्रसक्तः | स पुनः कथम् इति |
SK
हन्त चेत् पुनः शून्याः सर्वह्हावास् तेन त्वद्वचनं शून्यम् सर्वभावान्तर्गतत्वात् त्वद्वचनस्य | तेन शून्येन प्रतिषेधानुपपत्तिः | तत्र यः प्रतिषेधः शून्याः सर्वभाव इति अनुपपन्नः | १ | उपपन्नश् चेत् पुनः शून्याः सर्वभावा इति प्रतिषेधस् तेन त्वद्वचनशून्यत्वाद् अनेन प्रतिषेधो अनुपपन्नः | २ | अथ शून्याः सर्वभावास् त्वद्वचनञ् चाशून्यः येन प्रतिषेधस् तेन त्वद्वचनं सर्वत्रासंगृहीतं | (Vव् २२२) तत्र दृष्टान्तविरोधः | ३ | सर्वत्र चेत् पुनः गृहीतं त्वद्वचनं सर्वभावाश् च शून्याः | तेन तद् अपि शून्यं शून्यत्वाद् अनेन नास्ति प्रतिषेधः | ४ | अथ शून्यम् अस्ति वानेन प्रतिषेधः शून्यः सर्वभावा इति तेन शून्यापि सर्वभावाः कार्यक्रियासमर्था समर्थभवेयुः | न चैतद् इष्टं | ५ | अथ शून्याः सर्वभावाः न च कार्यं क्रियासमर्थं भवंति मा भूत् दृष्टान्तविरोध इति कृत्वा शून्येन त्वद्वचनेन सर्वभावास्वभावो प्रतिषेधो नोपपन्न इति | ६ |
SK
किञ्चान्यत् | एवं तदस्तित्वात् वैषमिकत्वप्रसङ्गः | किञ्चित् शून्यं किञ्चिद् अशून्यम् इति | तस्मिंश् च वैसमिकत्वे विशेषहेतुर् वक्तव्यः | येन हि विशेषहेतुना किञ्चित् शून्यं किञ्चिद् अशून्यं स्यात् | स च नोपदिष्टो हेतुः | तत्र यद् उक्तं शून्याः सर्वभावा इति तन् न ||
SK
किञ्चान्यत्
SK
मा शब्दवद् इत्य् एतत् स्यात् ते बुद्धिर् न चैतद् उपपन्नम् / शब्देनात्र सता भविष्यतो वारणं तस्य // Nअग्Vव्_३ //
SK
स्यात् ते बुद्धिः यथा नाम कश्चित् ब्रूयात् मा शब्दं कार्षीर् मा शब्दं कार्षीर् इति | तेन च शब्देन व्यावर्तनं क्रियते | एवम् एव शून्याः सर्वभावा इति | शून्येन वचनेन सर्वता सर्वभावस्वभावव्यावर्तनं क्रियत इति |
SK
अत्र वयं ब्रूमः | एतद् अप्य् अनुपपन्नं किं कारणं | सता ह्य् अत्र शब्देन ह्य् अत्र भविष्यतः शब्दस्य प्रतिषेधः क्रियते | न पुनर् इह भवतः सता वचनेन सर्वभावस्वभावप्रतिषेधः क्रियते | तव हि मतेन वचनम् अप्य् असत् | सर्वभावस्वभावो ऽप्य् असत् | तस्माद् अयं मा शब्दवद् इति विषयोपन्यासो ऽसन्न् इति ||
SK
किञ्च
SK
प्रतिप्रतिषेध्यो ऽप्य् एवम् इति मतं भवेत् तद् असद् एव / एवं तव प्रतिज्ञ लक्षणतो दूष्यते न मम // Nअग्Vव्_४ //
SK
स्यात् ते बुद्धिः प्रतिषेधः प्रतिषेध्यो ऽप्य् अनेनैव कल्पेनानुपपन्नः | तत्र यद् भवान् सर्वभावस्वभावप्रतिषेधशूचनं प्रतिषेधयति | तद् अनुपपन्नम् इति |
SK
अत्र वयं ब्रूमः | एतद् अशब्देन सद् एव | कस्मात् तव च हि प्रतिज्ञालक्षणप्राप्तम् एतन् न मम भवान् इह ब्रवीति | शून्याः सर्वभावा इति नाहं | तस्मात् त्वत्प्रतिज्ञान् न(?)पयामि | पूर्वकः पक्षो न मम | तत्र यद् उक्तं प्रतिषेधः प्रतिषेध्यो ऽप्य् एवं मतम् इति | उपपन्नंम् इति || तन् न |
SK
किञ्चान्यत् |
SK
प्रत्यक्षेण हि तावद् यद्य् उपलभ्य विनिवर्तयसि भावान् / तन् नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते // Nअग्Vव्_५ //
SK
यदि प्रत्यक्षतः सर्वभावान् उपलभ्य भवान् निवर्तयति शून्याः सर्वभावा इति | तद् अनुपपन्नं | कस्मात् प्रत्यक्षम् अपि हि प्रमाणं स्वभावान्तर्गतत्वात् शून्यं | यो ऽपि सर्वभावान् उपलभते सो ऽपि शून्यस् तस्मात् प्रत्यक्षेण प्रमाणेन नोपलम्भभावो अनुपलब्धस्य च प्रतिषेधानुपपत्तिः शून्यः सर्वभावा इति | तद् अनुपपन्नं
SK
स्यात् ते बुद्धिः | अनुमानेनागमेनोपानेन वा सर्वभावान् उपलभ्य सर्वभावव्यावर्तनं क्रियत इति ||
SK
अत्र ब्रूमः |
SK
अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च / अनुमानागमसाध्या ये ऽर्था दृष्टान्तसाध्याश् च // Nअग्Vव्_६ //
SK
अनुमानम् अप्य् उपमानागमाश् च प्रत्यक्षेण प्रमाणेन प्रत्युक्ताः | यथा हि प्रत्यक्षं प्रमाणं शून्यं सर्वभावानां शून्यत्वात् | एवम् अनुमानमोपमागमापि शून्याः | सर्वभावानां शून्यत्वात् | ये ऽप्य् अनुमानसाध्यार्था आगमसाध्या उपमानसाध्याश् च | ते ऽपि शून्याः सर्वभावानां शून्यत्वात्* अनुमानोपमानागमैश् च यो ऽपि भावान् उपलभते सो ऽपि शून्यः तस्मात् ब्बावानाम् उपलम्भाभावो ऽनुपलब्धानाञ् च स्वभावप्रतिषेधानुपपत्तिः | तत्र यद् उक्तं शून्याः सर्वभावा इति | तन् न ||
SK
किञ्चान्यत् |
SK
कुशलानां धर्माणां धर्मावस्थविदश् च मन्यन्ते / कुशलं जनस्वभावं शेषेष्व् अप्य् एष विनियोगः // Nअग्Vव्_७ //
SK
इह धर्मावस्थाविदो मन्यन्ते कुशलानां धर्माणाम् एकोनविंशं शतं | तद्यथा एकदेशो विज्ञानस्य वेदनायाः | संज्ञायाश् चेतनायाः | स्पर्शस्य मनसिकारस्य छन्दस्याधिमोक्षस्य वीर्यस्य स्मृतेः समाधेः प्रज्ञाया उपेक्षायाः प्रयोगस्य संप्रयोगस्य प्राप्तो ऽध्याशयस्य प्रतिविरतेः व्यवसाया औत्सुक्यस्य | उन्मूर्धे उत्साहस्य अव्यार्त्यस्य वसितायाः प्रतिपत्तेर् अविप्रतीसारस्य धृतेर् अध्यवसायस्य | अनौक्षेकस्य अननुमूढ्यनुत्सारस्य | प्रापणायाः प्रणिधेः मदस्य विषयानां विप्रयोगस्य | अनिर्याणिकताया उत्सादस्य | स्थितेर् अनित्यतायाः समर्थागतस्य जरायाः परिद्रास्यतारतेः | वितर्कानां प्रीतेः प्रमादस्य अप्रस्रब्धेः | व्यवहारतायाः | प्रेक्षुप्रतिकूलस्य प्रदक्षिणग्राहस्य वैशारद्यगौरवस्य चित्रीकारस्य (Vव् २३४) भक्तेर् अभक्तेः सुश्रूषायाः सादरस्यानादरस्य प्रस्रब्धेः | हासस्य वाचः विष्पन्दनायाः सिद्धस्याप्रसादस्य अप्रस्रब्धेः व्यवहारतायः | दाक्ष्यस्य सौरत्यस्य विप्रतिसारस्य शोकस्य | उपायासायस् वीतस्य | अप्रदक्षिणग्राहस्य संएपस्य संवराणां परिशुद्धेर् अध्याशयस्य रूपस्येति | श्रद्धा ह्रीर् आर्जवम् अवञ्चनं | उपसम अचामल सप्रसादमार्दवं प्रतिसंख्यानं निर्वेद ऽपरिदाहः | अमद अलोभ अदोष अमोह असर्वत्* अप्रतिनिःसर्गः विभव अपत्रया अपरिशुच्छदनं माननं कारुण्यं मैत्री अदीनतादरितमरि.(द्)ह + + नुपनाहः अली चेतसो पर्यादानं क्षान्तिः | व्यवसदु आसौरक्यम् इति भागान्वयं | पुण्यं | असंज्ञिसमापत्तिः | नैर्याणिकतासर्वज्ञतासंस्कृता धर्माः इत्य् एकोनविंशं शतं कुशलानां कुशलः स्वभावः ||
SK
तथाकुशलानाम् अकुशलः स्वभावः | निवृत्ताव्याकृतः | प्रकृताव्याकृतानां प्रकृताव्याकृतः | कामोक्तानां कामोक्तः | रूपोक्तानां रूपोक्तः | आरूप्योक्तानाम् आरूप्योक्तः | अनाश्रवाणाम् अनाश्रवः | दुःखोक्तानां दुःखोक्तः | समुदयोक्तानां समुदयोक्तः | निरोधोक्तानां निरोधोक्तः | मार्गोक्तानां मार्गोक्तः | भावनाप्रहातव्यानां भावनाप्रहातव्यः | अप्रहातव्यानाम् अप्रहातव्यः | प्रहातव्यानां प्रहातव्यः | यस्माद् एवम् अनेकप्रकारो धर्मस्वभावो दृष्टः | तस्माद् इह यद् उक्तं | निःस्वभावाः सर्वभावाः निःस्वभावत्वात् शून्य इति तन् न |
SK
किञ्चान्यत् |
SK
नैर्याणिकस्वभावो धर्मो नैर्याणिकाश् च ये तेषां / धर्मावस्थोक्तानाम् एव च नैर्याणिकादीनां // Nअग्Vव्_८ //
SK
इह च धर्मो ऽवस्थोक्तानां नैर्याणिकानां धर्माणां निर्याणिकः स्वभावः | अनैर्याणिकानाम् अनैर्याणिकः | बोध्यङ्गिकानां बोध्यङ्गिकः | अबोध्यङ्गिकानाम् अबोध्यङ्गिकः | बोधिपाक्षिकाणां बोधिपाक्षिकः | अबोधिपाक्षिकाणाम् अबोधिपाक्षिकः | एवं शेषाणां तद् यस्माद् एवम् अनेकप्रकारो धर्माणां स्वभावो दृष्टः | यस्माद् यद् उक्तं निःस्वभावाः सर्वभावाः | निःस्वभावत्वात् शून्या इति न ||
SK
किञ्चान्यत् |
SK
यदि च न भवेत् स्वभावो धर्माणां निःस्वभाव इत्य् एवं / नामापि भवेत् नैवं नामापि निर्वस्तुकन् नास्ति // Nअग्Vव्_९ //
SK
यदि च धर्माणां स्वभावो भावानां स्वभावानां सद्भावाच् चाशून्यः सर्वभावाः | तत्र यद् उक्तं निःस्वभावाः सर्वभावा निःस्वभावत्वात् शून्या इति तन् न ||
SK
किञ्चान्यत् |
SK
अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् / धर्मैर् विना स्वभावः स यस्यास्ति तद् युक्तम् उपदेष्टुम् // Nअग्Vव्_१० //
SK
अथ मन्यसे मा भूद् अवस्तुकं नामेति कृत्वास्ति स्वभावः | स पुनर् धर्माणां न संभवति | एवं धर्मशून्यता च निःस्वभावत्वाद् धर्माणां सिद्धा भविष्यति | न च निर्वस्तुकन् नामेति |
SK
अत्र वयं ब्रूमः | एवं कस्येदानीं स स्वभावो धर्मविनिर्मुक्तस्यार्थस्य तद् युक्तम् उपदेष्टुम् अर्थः | स च नोपदिष्टस् तस्माद् या कल्पनास्ति स्वभावो न पुनर् धर्माणाम् इति सा हीना ||
SK
किञ्चान्यत् |
SK
सत एव प्रतिषेधो नास्ति घटो गेह इत्य् अयं यस्मात् / दृष्टः प्रतिषेधो यं सतः स्वभावस्य ते तस्मात् // Nअग्Vव्_११ //
SK
इह च सतो ऽर्थस्य प्रतिषेधः क्रियते नामतः | तद्यथा नास्ति घटो गेह इति | सतो घटस्य प्रतिषेधः क्रियते | नासतः | एवम् एव नस्ति स्वभावो धर्माणाम् इति | सतः स्वभावस्य प्रतिषेधः प्राप्नोति नामतः | तत्र यद् उक्तं | निःस्वभावाः सर्वभावाः निःस्वभावत्वात् शून्या इति तन् न || प्रतिषेधसंभवाद् एव हि सर्वभावस्वभावस्वभावो ऽप्रतिषिद्धः ||
SK
अथ नास्ति स स्वभावः किन् न प्रतिषिध्यते त्वयानेन / वचनेन र्ते वचनात् प्रतिषेधः सिध्यते ह्य् असतः // Nअग्Vव्_१२ //
SK
नास्त्य् एव स्वभावा इत्य् अनेन वचनेन निःस्वभावा भावा इति किं भवता प्रतिषिध्यते | असतो हि वचाद् विना सिद्धः प्रतिषेधः | तद्यथाग्नेः शैत्यस्य | अयं स्थैर्यस्य |
SK
किञ्चान्यत् |
SK
बालानाम् इव मिथ्या मृगतृष्णायां यथाजलग्राहः / एवं मिथ्याः ग्राहः स्यात् ते प्रतिषिध्यते ह्य् असतः // Nअग्Vव्_१३ //
SK
स्यात् ते बुद्धिः यथा बालानां मृगतृष्णायां मिथ्याजलम् इति ग्राहो भवति | ननु निर्जला सा मृगतृष्णेति तत्र पण्डितजातीयेन पुरुषेणोच्यते | तस्य मिथ्याग्राहस्य विनिवर्तनार्थम् एवन् निःस्वभावेषु यः स्वभावो ग्राहः सत्वानां तस्य व्यावर्तनार्थन् निःस्वभावाः सर्वभावा इत्य् उच्यत इति ||
SK
अत्र ब्रूमः |
SK
नन्व् एवं सत्य् अस्ति ग्राहो ग्राह्यञ् च तद्ग्रहीता च / प्रतिषेधः प्रतिषेध्यं प्रतिषेधा चेति षट्कं तत् // Nअग्Vव्_१४ //
SK
यद्य् एवं नन्व् एवं सत्य् अस्ति तावत् सत्वानां मिथ्याग्राहः | अस्ति ग्राह्यं सन्ति सत्वा ग्रहीतारः | अस्ति प्रतिषेधः तस्यापि मिथ्याग्राहस्यास्ति प्रतिषेध्यं यद् इदं मिथ्याग्राह्यं नाम | सन्ति प्रतिषेधारो युष्मदादयो ऽस्य मिथ्याग्राहस्येति सिद्धं षट्कम् | षट्कस्यास्य प्रसिद्धत्वात् | यद् उक्तं शून्याः सर्वभावा इति तन् न ||
SK
अथ नैवास्ति ग्राहो न च ग्राह्यं न च ग्रहीतारः / प्रतिषेधः प्रतिषेध्यं प्रतिषेधारो ऽप्य् अत न सन्ति // Nअग्Vव्_१५ //
SK
अथ मा भूद् एष दोष इति कृत्वा नैव ग्राहो ऽस्ति नैव ग्राह्यं न च ग्रहीतार इति | एवं सति यो ऽसौ ग्राहस्य प्रतिषेधः निःस्वह्हावाः सर्वभावा इति | सो ऽपि नास्ति प्रतिषेध्यम् अपि नास्ति प्रतिषेधारो ऽपि न सन्ति |
SK
प्रतिषेधः प्रतिषेध्यं प्रतिषेधाराअश् च यद्य् उत न सन्ति / सिद्धा हि सर्वभावा येषाम् एवं स्वभावश् च // Nअग्Vव्_१६ //
SK
यदि च न प्रतिषेधो न प्रतिषेध्यं न प्रतिषेद्धारः सन्त्य् अप्रतिसिद्धाः सर्वभावा अस्ति च सर्वभावानां स्वभावः ||
SK
किञ्चान्यत् |
SK
हेतोः स्वतो न सिद्धिः नैःस्वाभाव्यात् कुतो हि ते हेतुः / निर्हेतुकस्य सिद्धिर् न चोपपन्नास्य ते ऽर्थस्य // Nअग्Vव्_१७ //
SK
निःस्वभावाः सर्वभावा इत्य् एतस्मिन् अर्थे ते हेतोर् असिद्धिः | किं कारणं निःस्वभावत्वाद् धि सर्वभावानां शून्यत्वान् न ततो हेतुः | असति हेतौ निर्हेतुकस्यार्थस्य शून्याः सर्वभावा इति कुत एव प्रसिद्धिः || तत्र यद् उक्तं शून्याः सर्वभावा इति तन् न ||
SK
किञ्चान्यत् |
SK
यदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति / स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धं // Nअग्Vव्_१८ //
SK
अथ मन्यसे नैर्हेतुकी सिद्धिः निःस्वभावत्वस्य भावानाम् इति | यथा तव स्वभावनिर्वर्तनं निर्हेतुकं सिद्धं | तथा ममापि स्वभावसत्भावो ऽपि निर्हेतुकः सिद्धः ||
SK
अथ हेतोर् अस्तित्वं भावानैःस्वाभाव्यम् इत्य् अनुपपन्नम् / लोको नैःस्वभाव्यान् न हि कश्चन विद्यते भावः // Nअग्Vव्_१९ //
SK
इह यदि हेतोर् अस्तित्वं मन्यसे | निःस्वभावाः सर्वभावा इति तद् अनुपपन्नं || किं करणं | न हि लोके निःस्वभावः कश्चिद् भावो ऽस्ति ||
SK
किञ्चान्यत् |
SK
पूर्वं चेत् प्रतिषेधः पश्चात् प्रतिषेध्यम् इति न चोपपन्नम् / यश् चानुपपन्नो युगपच् च यतः स्वभावो ऽसन् // Nअग्Vव्_२० //
SK
इह पूर्वं चेत् प्रतिषेधः पश्चाच् च प्रतिषेध्यं | निःस्वभाव्यं नोपपन्नं | असति हि प्रतिषेध्ये कस्य प्रतिषेधः || अथ पश्चात् प्रतिषेधः पूर्वं प्रतिषेध्यम् इति च नोपपन्नं | सिद्धे हि प्रतिषेध्ये किं प्रतिषेधः करोति | अथ युगपत्प्रतिषेधः प्रतिषेध्ये तथापि न प्रतिषेध्यः प्रतिषेध्यस्यार्थस्य कारणं प्रति न प्रतिषेध्यः | न प्रतिषेधस्य च | यथा युगपदुत्पन्नयोर् गोविषाणयोः नैव दक्षिणं सव्यस्य कारणं सव्यं वा दक्षिणस्य गारणं भवतीति | तत्र यद् उक्तं निःस्वभावाः सर्वभावा इति तन् न |
SK
अत्रोच्यते | यत् तावद् भवतोक्तं
SK
सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश् चेत् | त्वद्वचनम् अस्वभावं न निवर्तयितुं स्वभावम् अलम् इति | [१]
SK
अत्र ब्रूमः |
SK
हेतुप्रत्ययसामग्रां पृथग्भावे ऽपि मद्वचो न यदि / ननु शून्यत्वं सिद्धं भावानाम् अस्वभावत्वात् // Nअग्Vव्_२१ //
SK
यदि मद्वचो हेतौ नास्ति महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा प्रत्ययेषु नास्ति | उरःकण्थोजिह्वादन्ततालुनासिकमूर्धप्रभृतिषु य + + सामग्र्याम् अस्ति हेंप्रत्ययसामग्रीं विनिर्मुक्तं पृथग् वास्ति | तस्मान् निःस्वभावा निःस्वभावत्वाच् छून्यं | एवं | ननु शून्यत्वं सिद्धं निःस्वभावत्वाद् अस्य मदीयवचसः | यथा चैतन् मद्वचं निःस्वभावत्वाच् छून्यं | तथा सर्वभावा निःस्वभावत्वाच् छून्या इति | यद् भवतोक्तं त्वदीयवचसः शून्यत्वात् शून्यता सर्वभावानां नोपपद्यत इति तन् न ||
SK
किञ्चान्यत् |
SK
यश् च प्रतीत्य भावानां शून्यतेति तं ब्रू + + / यस् तु प्रतीत्यभावो भवति हि तस्यास्वभावत्वं // Nअग्Vव्_२२ //
SK
शून्यतार्थञ् च भवान् भावानाम् अनवसम्य शून्यतार्थम् अज्ञात्वा प्रवृत्ति उपालम्भं वक्तुं त्वद्वचनस्य शून्यत्वात् त्वद्वचनस्य निःस्वभावत्वाद् एवं त्वद्वचनेन निःस्वभावेन भावानां स्वभावप्रतिषेधो नोपपद्यत इति | इह हि यः प्रतीत्य भवानां भावः सा शून्यता | कस्मान् निःस्वभावत्वात् | ये हि प्रतीत्यसमुत्पान्ना भावास् ते स सस्वभावा भवन्ति | स्वभावाभावात् | तस्माद् धेतुप्रत्ययापेक्षत्वात् | यदि हि स्वभावतो भावा भवेयुः | प्रत्याख्यायापि हेतुप्रत्ययांश् च भवेयुः | न चेवं भवन्ति | तस्मान् निःस्वभावाः निःस्वभावत्वाच् छून्या इत्य् अभिधीयन्ते | एवं मदीयम् अपि वचनं | प्रतीत्यसमुत्पन्नत्वान् निःस्वभावं निःस्वभावत्वात् शून्यम् इत्य् उपपन्नं |
SK
यथा च प्रतीत्यसमुत्पन्नत्वात् स्वभावशून्याः | रथपटघटादयः स्वेषु स्वेषु कार्येषु काष्ठाहणमृत्तिकहरणमधूदकपयसां धारणा शीतवातातपपरित्राणप्रभृतिषु वर्तन्ते | एवम् इदं मदीयवचनं प्रत्ययसमुत्पन्नत्वान् निःस्वभावं निःस्वभावत्वप्रसाधनं प्रत्ययभावानां वर्तते | त्र यद् उक्तं | निःस्वभवत्वात् त्वदीयवचनस्य शून्यत्वं शून्यत्वात् तस्य च तेन सर्वभावस्वभावप्रतिषेध उपपन्नम् इति तन् न ||
SK
किञ्चान्यत् |
SK
निर्मितको निर्मितकं मायापुरुष स्वमायया सृष्टम् / प्रतिषेधयति यद्वत् प्रतिषेधो यं तथैव स्यात् // Nअग्Vव्_२३ //
SK
यथा निर्मितकः पुरुषम् अभ्यापतं तु कश्चिद् अर्थेन वर्तमानं प्रतिषेधयेत् | मायाकारेण वा सृष्टो मायापुर्न्षो ऽन्यं मायापुरुष समभ्यव तन् न कस्मिन्श्चिद् अर्थे वर्तमानं प्रतिषेधयेत् | तत्र यो निर्मितकः पुरुषः प्रतिषेध्यते स शून्यः यः प्रतिषेधयति सो ऽपि मायापुरुषः शून्य एवम् एव मद्वचनेन शून्येन सर्वभावानां स्वभावप्रतिषेध उपपन्नः || तत्र यद् भवतोक्तं | शून्यत्वात् त्वद्वचनस्य सर्वभावस्वभावप्रतिषेधो नोपपन्नम् इति न तन् न | षट्कोटिको वाद उक्तः स एवं प्रतिसिद्धः नैव ह्य् एवं सति न सर्वभावान्तर्गतं मद्वचनं नाप्य् अशून्यं नापि सर्वभावाशून्याः |
SK
यत् पुनर् भवतोक्तम्
SK
अथ सस्वभावम् एतद् वाक्यं पूर्वा हता प्रतिज्ञा ते वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्य इत्य् [२]
SK
अत्रापि ब्रूमः |
SK
न स्वाभाविकम् एतद् वाक्यं तस्मान् न वादहानिर् मे / नास्ति च वैषमिकत्वं विशेसहेतुश् च न निगद्यः // Nअग्Vव्_२४ //
SK
न तावद् एतन् मम वचनं प्रतीत्यसमुत्पन्नत्वात् स्वभावोपपन्नं यथा पूर्वम् उक्तं | स्वभावानुपपन्नत्वात् शून्यं | यस्माच् च इदम् अपि मद्वचनं शून्यं शेषापि सर्वभावाः शून्यास् तस्मान् नास्ति वैषमिकत्वं | यदि हि वयं ब्रूमः | इदं वचनम् अशून्यं शेषाः सर्वभावाः शून्या इति ततो वैषमिकत्वं | स्यान् न चैतद् एवं तस्मान् न वैषमिकत्वं | यस्माच् च वैषमिकत्वं न संभवति इदं वचनम् अशून्यं शेषाः पुनः सर्वभावाः शून्या इति | तस्माद् अस्माभिर् विशेषहेतुर् अपि न वक्तव्यः अनेन इदं वचनं अशून्यं सर्वभावाः पुनः शून्या इति | तत्र यद् भवतोक्तं वादहानिस् ते वैषमिकत्वं च विशेषहेतुश् च त्वया वक्तव्य इति तन् न |
SK
यत् पुनर् भवतोक्तं |
SK
मा शब्दवद् इत्य् एतद् अस्मात् ते बुद्धिर् न चैतद् उपपन्नं | शब्देन ह्य् अत्र सता भविष्यतो वारणं तस्येति | [३]
SK
अत्र ब्रूमः |
SK
मा शब्दवद् इति नायं दृष्टान्तो यस् त्वया ममारह्धः / शब्देन हि तच् च शब्दस्य वारणं नैदम् एव चः // Nअग्Vव्_२५ //
SK
नाप्य् अयम् अस्माकं दृष्टान्तः | यथा कश्चिन् मा शब्दं कर्षीर् इति ब्रुवं शब्दम् एव करोति शब्दञ् च प्रतिषेधयति | यद्वत् शून्येन वचनेन शून्यतां प्रतिषेधयति | किं कारणं | अत्र हि दृष्टान्ते शब्देन शब्दस्य व्यावर्तनं क्रियते | न चैतद् एवं वयं ब्रूमः | निःस्वभावाः सर्वभावाः निःस्वभावत्वात् तद् अशून्याम् इति |
SK
किं करणं
SK
नैःस्वभाव्यानां चेन् नैःस्वाभाव्येन वारणं यदि हि / नैःस्वभाव्यनिर्वृत्तौ स्वभाव्यं हि प्रसिद्धं स्यात् // Nअग्Vव्_२६ //
SK
यथा मा शब्दम् इति शब्देन शब्दस्य व्यावर्तनं क्रियते | एवं यदि नैःस्वभाव्येन वचनेन नैःस्वभाव्यानां व्यावर्तनं क्रियते ततो ऽयं दृष्टान्तोपपन्नः स्यात् | इह तु नैःस्वभाव्येन वचनेन भावानां स्वभावप्रतिषेधः क्रियते | एवं यदि नैःस्वभाव्येन वचनेन निःस्वभावानां नैःस्वभाव्यप्रतिषेधः क्रियते | नैःस्वभव्यप्रतिषेधाद् एव सस्वभावा भवेयुः | सस्वभावत्वाद् अशून्याः स्युः | शून्यताञ् च वयं भावानाम् आचक्ष्महे नाशून्यताम् इत्य् अदृष्टान्त एवायम् इति |
SK
अथ वा निर्मितकायां यथा स्त्रियां स्त्रियम् इत्य् असत्ग्राहम् / निर्मितकः प्रतिहन्यात् कस्यचिद् एवं भवेद् एत्तत // Nअग्Vव्_२७ //
SK
अथ वा कस्यचित् पुरुषस्य निर्मितकायां स्त्रियां स्वभावशून्यायां परमार्थतः स्त्रियम् इत्य् असद्ग्राहः | स्याद् एव तस्यां तेनासद्ग्राहेण रागम् उत्पादयेत् | तद् यथा तथागतेन वा तच्छ्रावकेण वा निर्मितको निर्मितः स्यात् | तथागताधिष्ठानेन वा तथागतस्रावकाधिष्ठानेन वा तस्य तम् असद्ग्राहं विनिवर्तयेत् | एवम् एव निर्मितकोपमेन शून्येन वचनेन निर्मितकस्त्रीसदृश्येषु निःस्वभावेषु यो ऽयं स्वब्बावग्राहः स निवर्त्यते स प्रतिषिध्यते | तस्माद् अयम् अत्र दृष्टान्तः शून्यताप्रसाधनं प्रत्युपपद्यमानो नेतरः |
SK
अथ वा साध्यसमो यं हेतुर् न हि विद्यते ध्वनेः सत्ता / संव्यवहारञ् च वयं नानभ्युपगम्य कथयामः // Nअग्Vव्_२८ //
SK
मा शब्दवद् इति साध्यसम एवायं हेतुः | कस्मात् सर्वभावानां नैःस्वभाव्येनाविशिष्टत्वात् | न हि तस्य ध्वनेः प्रतीत्यसमुत्पन्नत्वात् | स्वभवं सत्ताः विद्यते | तस्याः स्वभावसत्तायाः अविद्यमानत्वात् |
SK
यद् उक्तं
SK
शब्देन ह्य् अत्र सत्ता भविष्यतो वारणं तस्येति |
SK
तत् व्याहन्यते |
SK
अपि च न वयं व्यवहारसत्यं प्रत्याख्याय व्यवहारसत्यम् अनभ्युपगम्य कथयामः | शून्याः सर्वभावा इति | न हि व्यवहारसत्यम् अनागम्य शक्या धर्मदेशना कर्तुं |
SK
यथोक्तं
SK
व्यवहारम् अनाश्रित्य परमार्थो न देश्यते | परमार्थम् अनागम्य निर्वाणं नाधिगम्यत इति | [= MMK २४.१८]
SK
तस्मान् मद्वचनवत् शून्याः सर्वभावाः सर्वभावानाञ् च निःस्वभावत्वम् उभयथोपपद्यमानम् इति ||
SK
यत् पुनर् भवतोक्तं |
SK
प्रतिषेधः प्रतिषेध्यो ऽप्य् एवम् इति मतं भवेत् तद् असद् एव | एवं तव प्रतिज्ञा लक्षणतो दूष्येत न ममेति | [४]
SK
अत्र ब्रूमः |
SK
यदि काचन प्रतिज्ञा तत्र स्यान् न मे तत्* एष मे भवेद् दोषः / नास्ति च मम प्रतिज्ञा तस्मान् नैवास्ति मे दोषः // Nअग्Vव्_२९ //
SK
यदि च काचिन् मम प्रतिज्ञा स्यात् ततो मम प्रतिज्ञालक्षणप्राप्तत्वात् स पूर्वको दोषः | यथा त्वयोक्तं भावाः तथा मम स्यान् न च मम काचिद् अस्ति प्रतिज्ञा | तस्मात् सर्वह्हावेषु शून्येष्व् अत्यन्तोपशान्तेषु प्रकृतिविविक्तेषु कुतः प्रतिज्ञालक्षणप्राप्तिः कुतः प्रतिज्ञालक्षणताप्राप्तिकृतो दोषः | तत्र यत् भवतोक्तं प्रतिज्ञालक्षणप्राप्तत्वात् तवैव दोष इति तन् नास्ति |
SK
यत् पुनर् भवतोक्तं
SK
प्रत्यक्षेण हि तावद् यद्य् उपलभ्य निवर्तयसि भावान् तन् नास्ति प्रत्यक्षं भावा येनोपलभ्यंत | [५]
SK
अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने चानुमानागमसाध्या ये ऽर्था दृष्टान्तसाध्याश् चेति | [६]
SK
अत्र वयं ब्रूमः |
SK
यदि किञ्चिद् उपलभेयं प्रवर्तेयं निवर्तयेयं वा / प्रत्यक्षादिभिर् अर्थैस् तदभावान् मे ऽनुपालम्भः // Nअग्Vव्_३० //
SK
यद्य् अहं किञ्चिद् अर्थम् उपलभेयं प्रत्यक्षानुमानोप + + + + हेतुभिः प्रमाणैः | चतुर्णां वा प्रमाणानां | अन्यतमान्यतमेन | अत एवं प्रवर्तयेयं वार्थम् एवाहं किञ्चिन् नोपलभते तस्मान् न प्रवर्तयामि न निवर्तयामि | तत्रैवं सति यौ भवतोपालम्भोक्तः | यदि प्रत्यक्षादीनां प्रमाणानाम् अन्यतमेन उपलभ्य भावान् विनिवर्तयसीति | ननु भवतोक्तानि प्रमाणानि न सन्ति तैश् च प्रमाणैर् अपि गम्यार्था इति स मे भवत्य् एवानुपालम्भ इति |
SK
+ + + + |
SK
यदि च प्रमाणतस् तेषां तेषां प्रसिद्धिर् अर्थानाम् / तेषां पुनः प्रसिद्धिं ब्रूहि कथं तेषां प्रमाणानां // Nअग्Vव्_३१ //
SK
प्रसिद्धिर् इति
SK
यदि च प्रमाणतस् तेषां तेषाम् अर्थानां प्रमेयानां सिद्धिं मन्यसे यथा मानैर् मेयानां | तथा तेषाम् इदानीं प्रत्यक्षानुमानोपमानागमानां चतुर्णां प्रमाणानां कुतः प्रसिद्धिः | यदि तावन् निःप्रमाणानां प्रमाणं स्यान् नादेः सिद्धिस् तत्रास्ति नैव मध्यस्य नान्तस्य | यदि पुनः मन्यसे प्रमाणैः प्रसिद्धिः प्रमाणतो ऽर्थानां प्रसिद्धिर् इति | हीयते प्रतिज्ञा |
SK
तथापि
SK
अन्यैः यदि प्रमाणैः प्रमाणसिधिर् भवत्य् अनवस्था स्यान् / नादेः सिद्धिस् तत्रास्ति नैव मध्यस्य नान्तस्य // Nअग्Vव्_३२ //
SK
यदि पुनर् मन्यसे | प्रमाणैः प्रमेयाणां प्रसिद्धिस् तेषां प्रमाणानाम् अन्यैः प्रमाणैः प्रसिद्धिर् अनवस्थाप्रसङ्गः | अनवस्थाप्रसङ्गे को दोषः |
SK
नादेः सिद्धिस् तत्रास्ति नैव मध्यस्य नान्तस्य |
SK
अस्यानवस्थाप्रसङ्गे आदेः सिद्धिर् नास्ति | किं कारणं तेषम् अपि हि प्रमाणानाम् अन्यैः प्रमाणैः सिद्धिस् तेषाम् अन्यैर् इति नास्त्य् आदिः | आदेर् असद्भावात् कुतो मध्यं कुतो अन्तः | तस्मात् तेषां प्रमाणानाम् अन्यैः प्रमाणैः प्रसिद्धिः नोपपद्यतेति |
SK
तेषाम् अथ प्रमाणैर् विना प्रसिद्धिः विहीयते वादः / वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्यः // Nअग्Vव्_३३ //
SK
अथ मन्यसे तेषां प्रमाणानां विना प्रमाणैः प्रसिद्धिः प्रमेयानां पुनर् अर्थानां प्रमाणैः प्रसिद्धिर् इति | एवं सति यस् ते वादः प्रमाणैः प्रसिद्धिर् अर्थानाम् इति हीयते वैषमिकत्वञ् च भवति | केषाञ्चित् | अर्थानां प्रमाणैः प्रसिद्धिः केषाञ्चिन् नेति विशेषहेतुश् च वक्तव्यः | येन हेतुना केषांचिद् अर्थानां प्रमाणैः प्रसिद्धिः केषाञ्चिन् नेति | सा च नोपदिष्टः तस्माद् इयम् अपि कल्पना नोपपन्नेति |
SK
अत्राह | प्रमाणान्य् एव मम स्वात्मानं परात्मानञ् च प्रसाधयन्ति | यथोक्तं |
SK
द्योतयति स्वात्मानं यथा हुतासः तथा परात्मानं | स्वपरात्मानाव् एषां प्रसाधयन्ति प्रमाणानि |
SK
परम् इव स्वात्मानं परात्मानञ् चेति ||
SK
अत्रोच्यते |
SK
विषमोपन्यासो ऽयं न ह्य् आत्मानं प्रकाशयत्य् अग्निः / न हि तस्यानुपलब्धिः दृष्टा तमसीव कुम्भस्य // Nअग्Vव्_३४ //
SK
विषम एवायम् उपन्यासः | अग्निवत् प्रमाणानि स्वात्मानञ् च प्रसाधयन्ति परात्मानञ् च प्रसाधयन्तीति | न ह्य् अग्निर् आत्मानं प्रकाशयति | यदि हि यथा प्राग् एवाग्निना अप्रकाशितस् तमसि कुम्भो नोपलभ्यते | अथोत्तरकालम् उपलभ्यते ऽग्निना प्रकाशितः सन् एवम् एव यद्य् अग्निना न प्रकाशितः प्राग् अग्निः स्याद् उत्तरकालम् अग्नेः प्रकाशनं स्यात् | अतः स्वात्मानं प्रकाशयेन् नैतद् एवं | तस्माद् इयम् अपि कल्पना नोपपद्यन्तेति |
SK
किञ्चान्यत् |
SK
यदि च स्वात्मानम् अयं त्वद्वचनेन प्रकाशयत्य् अग्निः / परम् इव न त्व् आत्मानं परिधक्ष्यत्य् अपि हुताशः // Nअग्Vव्_३५ //
SK
यदि च त्वद्वचनेन यथा परात्मानं प्रकाशयत्य् अग्निः एवम् एव स्वात्मानम् अपि प्रकाशयत्य् अग्निर् इति | ननु यथा परात्मानं दहति | एवम् एव स्वात्मानम् अपि धक्ष्यतीति | न चैतद् एवं | तत्र यद् उक्तं परात्मानम् इव स्वात्मानं प्रकाशयत्य् अग्निर् इति तन् न ||
SK
किञ्चान्यत् |
SK
यदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्य् अग्निः / प्रछादयिष्यति तमः स्वपरात्मानौ हुताश इव // Nअग्Vव्_३६ //
SK
यदि च भवतो भवतो मतेन स्वात्मापरात्मानौ प्रकाशयत्य् अग्निः | नन्व् इदानीं प्रतिपक्षभूततमो ऽपि स्वपरात्मानौ छादयेत् | नैतद् इष्टं | तत्र यद् उक्तं स्वपरात्मानौ प्रकाशयत्य् अग्निर् इति तन् न ||
SK
किञ्चान्यत् |
SK
नास्ति तमश् च ज्वलने यत्र च तिष्ठते परात्मनि ज्वलनः / कुरुते कथं प्रकाशं स हि प्रकाशो अन्धकारवधः // Nअग्Vव्_३७ //
SK
इह चाग्नौ नास्ति तमः | नापि च यत्राग्निस् तत्रास्ति तमः | प्रकाशश् च नाम तमसः प्रतिघातस् तत्र कथम् अस्य तमसः | प्रतिघातम् अग्निः करोति | यस्य प्रतिघातत् स्वपरात्मानौ प्रकाशयतीति ||
SK
आह | यद् यस्माद् एवं नाग्नौ तमो ऽस्ति | नापि यत्राग्निस् तत्र तमो ऽस्ति | यस्माद् एवं स्वपरात्मानौ न प्रकाशयत्य् अग्निः | तेन ह्य् उत्पद्यमानेनैवाग्निना तमसः प्रतिघतः कुतः तस्मान् नाग्नौ तमो ऽस्ति | नापि यत्राग्निः तत्र तमो ऽस्ति | यस्माद् उत्पद्यमान एवोभयं प्रकाशयत्य् अग्निः स्वात्मानं परात्मानञ् चेति |
SK
अत्रोच्यते
SK
उत्पद्यमान एव प्रकाशयत्य् अग्निर् इत्य् असद्वादः / उत्पद्यमान एव प्राप्नोति तमो न हि हुताशः // Nअग्Vव्_३८ //
SK
अयम् अग्निर् उत्पद्यमान एव प्रकाशयति स्वात्मानं परात्मानञ् चेति | नायम् उपपद्यते वादः | कस्मान् न ह्य् उत्पद्यमान एवाग्निः तमः प्राप्नोति | अप्राप्तत्वान् नैवोपहन्ति | तमसश् चानुपघातान् नास्ति प्रकाशः |
SK
अप्राप्तो ऽपि ज्वलनो यदि वा पुनर् अन्धकारम् उपहन्यात् / सर्वेषु लोकधातुषु तमो ऽयम् इह संस्थित उपहन्यात् // Nअग्Vव्_३९ //
SK
अथापि मन्यसे अप्राप्तो ऽप्य् अग्निर् अन्धकारम् उपहन्तीति | नन्व् इदानीम् इह संस्थितो अग्निः सर्वलोकधातुस्थम् उपहनिष्यति तमः तुल्यायाम् अप्राप्तो न चैतद् एवं दृष्टं | तस्माद् अप्राप्यैवाग्निर् अन्धकारम् उपहन्तीति यद् इष्टं | तन् न |
SK
यदि च स्वतः प्रमाणसिद्धिर् अनपेक्ष्य ते प्रमेयाणि / भवति प्रमाणसिद्धिः नापरापेक्षा हि सिद्धिर् इति // Nअग्Vव्_४० //
SK
यदि चाग्निवत् स्वतः प्रमाणसिद्धिर् इति मन्यसे | अनपेक्षापि प्रमेयाणि प्रमाणानां सिद्धिः भविष्यतीति किं कारणं | न हि स्वतः परम् अपेक्षते | अथापेक्ष्यते न स्वतः प्रसिद्धिः |
SK
अत्राह | यदि नापेक्ष्यन्ते प्रमेयान् अर्थान् अप्रमाणानि को दोषो भविष्यतीति | अत्रोच्यते |
SK
अनापेक्सा हि प्रमेयान् अर्थान् यदि ते प्रमाणसंसिद्धिः / भवति न भवन्ति कस्यचिद् एवम् इमानि प्रमाणानि // Nअग्Vव्_४१ //
SK
यदि प्रमेयान् अर्थान् अनपेक्ष्य सिद्धिर् भवति प्रमाणानाम् इति | तानीमानि प्रमाणानि न कस्यचित् प्रमाणानि भवन्ति | एवं दोषः || अथ कस्यचित् भवन्ति प्रामाणानि | नैवेदानीम् अनपेक्ष्य प्रमेयान् अर्थान् प्रमाणानि भवन्ति ||
SK
अथ मतम् अपेक्ष सिद्धिस् तेषाम् इति अत्र भवति को दोषः / सिद्धस्य न साधनं स्यान् नासिद्धो पेक्षते ह्य् अन्यत् // Nअग्Vव्_४२ //
SK
अथापि मतम् अपेक्ष्य प्रमेयान् अर्थान् प्रमाणानां सिद्धिर् भवतीति | एवं ते सति सिद्धस्य प्रमाणचतुष्टयस्य साधनं भवतीति | किं कारणं | न ह्य् असिद्धस्यार्थस्यापेक्षणं भवति | न ह्य् असिद्धो देवदत्तः कञ्चिद् अर्थम् अपेक्षते न च सिद्धस्य साधनम् इष्टं कृतस्य कारणम् अनुपपत्तेर् इति ||
SK
किञ्चान्यत् |
SK
सिध्यन्ति हि प्रमेयाण्य् अपेक्ष्य यदि सर्वथा प्रमाणानि / भवन्ति प्रमेयसिद्धिर् अनपेक्ष्यैव प्रमाणानि // Nअग्Vव्_४३ //
SK
यदि प्रमेयाण्य् अपेक्ष्य प्रमाणानि सिध्यन्ति | नेदानीं प्रमाणान्य् अपेक्ष्य प्रमेयाणि सिध्यन्ति | किं कारणं न हि साध्यं साधनं साधनं साधयति | साधनानि च | किल प्रमेयाणां प्रमाणानि ||
SK
किञ्चान्यत् |
SK
यदि च प्रमेयसिद्धिर् अनपेक्षैव भवति प्रमाणानि / किन् ते प्रमाणसिद्ध्या तानि यद् अर्थं प्रसिद्धं तत // Nअग्Vव्_४४ //
SK
यदि च मन्यसे ऽनपेक्ष्यैव प्रमाणानि प्रमेयानां प्रसिद्धिर् भवति | किम् इदानीं ते प्रमाणसिद्ध्या पर्यन्विष्टया किं कारणं | यद् अर्थं हि तानि प्रमाणानि पर्यन्विष्येरन् | ते प्रमेयार्था विना प्रमाणैः सिद्धाः तत्र किं प्रमाणैः कृत्यं |
SK
अथ तु प्रमाणसिद्धिर् भवत्य् अपेक्ष्यैव ते प्रमेयाणि / व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणां // Nअग्Vव्_४५ //
SK
अथापि मन्यसे ऽपेक्ष्यैव प्रमेयान् अर्थान प्रमाणनि भवन्ति | एवं ते सति मा भूत् पूर्वोक्तदोष इति कृत्वा | एवं ते सति व्यत्ययः + + + + + याणां भवति | प्रमाणानि ते प्रमेयाणि भवन्ति | प्रमेयैः साधितत्वत् | प्रमाणानि च प्रमेयाणि भवन्ति | प्रमाणानां साधकत्वात् |
SK
अथ ते प्रमाणसिद्ध्या प्रमेयसिद्धिः प्रमेयसिद्ध्या च / भवति प्रमाणसिद्धिः नास्त्य् उभयस्यापि ते सिद्धिः // Nअग्Vव्_४६ //
SK
अथ मन्यसे प्रमाणसिद्ध्या प्रमेयसिद्धिर् भवति प्रमाणापेक्षत्वात् | प्रमेयसिद्ध्या च प्रमाणसिद्धिर् भवति प्रमेयापेक्षत्वाद् इति || एवं सत्य् उभयस्यापि सिद्धिर् न .य्. + + + + णं
SK
सिध्यन्ति हि प्रमाणैर् यदि प्रमेयाणि तानि तैर् एवा / साध्यानि च प्रमेयैस् तानि कथं साधयिष्यन्ति // Nअग्Vव्_४७ //
SK
यदि हि प्रमाणैः प्रमयाणि सिध्यन्ति तानि प्रमाणानि तैर् एव प्रमेयैः साधयितव्यानि | नन्व् असिद्धेषु प्रमेयेषु कारणस्यासिद्धत्वाद् असिद्धानि कथं साधयिस्यन्ति प्रमेयाणीति |
SK
सिध्यन्ति च प्रमेयैः यदि प्रमाणानि तानि तैर् एव / साध्यानि च प्रमेयैस् तानि कथं साधयिष्यन्ति // Nअग्Vव्_४८ //
SK
यदि प्रमेयैः प्रमाणानि सिध्यन्ति तानि च प्रमेयाणि तैर् एव प्रमाणैः साधयितव्यानीति | नन्व् असिद्धेषु प्रमाणेषु कारणस्यासिद्धत्वाद् असिद्धानि कथं साधयिष्यन्ति प्रमाणानि |
SK
पित्र यद्य् उत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण / उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कं // Nअग्Vव्_४९ //
SK
तद्यथापि नाम कश्चित् ब्रूयात् | पित्रा पुत्र उत्पादनीयः स च पिता पुत्रेणोत्पादनीय इति | तत्रेदानीं ब्रूहि केन क उत्पादयितव्यः | तथैव खलु भवान् ब्रवीति | प्रमाणैः प्रमेयानि साधयितव्यानि तान्य् एव च पुनः प्रमाणानि तैः प्रमेयैः तत्रेदानीं तु कतमैः कतमानि साधयितव्यानि |
SK
कश् च पिता कः पुत्रः तत्र त्वं ब्रूहि कथं ताव् उभाव् अपि च / पित्रेपुत्रलक्षणधरौ यतो नस् तत्र संदेहः // Nअग्Vव्_५० //
SK
तयोश् च पूर्वोपदिष्टयोः पितापुत्रयोः वद कतरः पुत्रः कतरः पिता उभाव् अपि ताव् उत्पादकत्वात् पितृलक्षणधरौ | उत्पाद्यत्वाच् च पुत्रलक्षणधराव् अत्र नः सन्देहो भवति | कतरस् तत्र पिता कतरस् तत्र पुत्र इति | एवम् एव यान्य् एतानि भवति | प्रमाणप्रमेयणि | तत्र कतराणि प्रमाणानि कतराणि प्रमेयाणि | उभयान्य् अपि ह्य् एतानि प्रमाणानि तानि प्रमेयाणि साध्यत्वात् प्रमेयाणीति | अत्र नः सन्देहो भवति | कतराण्य् अत्र प्रमाणानि कतराणि प्रमेयाणीति |
SK
नैव स्वतः प्रसिद्धिर् न परस्परतः प्रमाणैर् वा / भवति न च प्रमेयैः न चाप्य् अकस्मात् प्रमाणानां // Nअग्Vव्_५१ //
SK
न स्वतः प्रसिद्धिः प्रत्यक्षस्य तेनैव प्रत्यक्षेणानुमानस्य तेनैवानुमाने | उपमानस्य तेनैवोपमानेन | आगमस्य तेनैवागमेन || नापि परस्यात् प्रत्यक्षस्यानुमानोपमानागमैर् अनुमानस्य प्रत्यक्षोपमानागमैर् उपमानस्य प्रत्यक्षानुमानागमैः | आगमस्य प्रत्यक्षानुमानोपमानैः | नापि प्रत्यक्षानुमानोपमानागमाद् अन्यैः प्रत्यक्षानुमानोपमानागमैर् यथास्वं नापि प्रमेयैः समस्तव्यस्तैः स्वविषयपरविषतागृहीतैः नाप्य् अकस्मान् नास्ति समुच्चयेन | एतेषां कारणानां पूर्वोद्दिष्टानां विंशस् त्रिंशच् चत्वारिशत् षट्विंशतिर् वा तत्र यद् उक्तं | प्रमाणाधिगम्यत्वात् प्रमेयाणां भावानां सन्ति तु प्रमेया भावास् तानि च प्रमाणानि यैस् तु प्रमाणैः प्रमेया भावाः सन्तश् च भावाः समाधिगता इति तन् न ||
SK
यत् पुनर् भवतोक्तम् |
SK
कुशलानां धर्माणां धर्मावस्थाविदश् च मन्यन्ते | कुशलं जनस्वभावं मन्यन्ते शेषेष्व् अप्य् एष विनियोगः | [७]
SK
अत्र ब्रूमः |
SK
कुशलानां धर्माणां धर्मावस्थविदो ब्रूवते यत् / कुशलस्वभावम् एवं प्रविभागेनाभिधेयः स्यात् // Nअग्Vव्_५२ //
SK
कुशलानां धर्माणां धर्मावस्थविदः कुशलं जनस्वभावं मन्यन्ते | स च भवता प्रविभागेनोपदेष्टव्यः | स्याद् अयं स कुशलः स्वभावः इमे ते कुशला धर्मा इति | इदं तत्कुशलविज्ञानम् अयं कुशलविज्ञानस्वभाव एवं सर्वेषां न चैतद् एवं दृष्टं | तस्माद् यद् उक्तम् उपदिष्टः स्वभावो धर्माणाम् इति तन् न ||
SK
किञ्चान्यत् |
SK
यदि च प्रतीत्य कुशलः स्वभाव उत्पद्यते स कुशलानाम् / धर्माणां परभावः स्वभाव एव कथं भवति // Nअग्Vव्_५३ //
SK
यदि च कुशलानां धर्माणां स्वभावो हेतुप्रत्ययसामग्रीं प्रतीत्योत्पद्यते | परभावाद् उत्पन्नः कुशलानां धर्माणां कथं स्वभावो भवति | एवम् एवाकुशलप्रभृतीनां | तत्र यद् उक्तं | कुशलाव्याकृतानां ना .य्. + + + धर्माणां कुशलः स्वभावोपदिष्टः | एवम् अकुशलानाम् अकुशलादिर् इति | तन् न ||
SK
किञ्चान्यत् |
SK
अथ न प्रतीत्य किञ्चित् स्वभाव उत्पद्यते स कुशलानाम् / धर्माणाम् एवं स्याद् वासो न ब्रह्मचर्यस्य // Nअग्Vव्_५४ //
SK
अथ मन्यसे | न किञ्चित् प्रतीत्य कुशलानां धर्माणां कुशलस्वभाव उत्पद्यते | एवम् अकुशलानां धर्माणाम् अकुशलः अव्याकृतानाम् अव्याकृत इति | एवं सत्य् अब्रह्मचर्यवासो भवति किं कारणं | प्रतीत्यसमुत्पादस्य हि एवं सति प्रत्याख्यानं भवति | प्रतीत्यसमुत्पादस्य प्रत्याख्यानात् प्रतीत्यसमुत्पाददर्शणं प्रत्याख्यानं भवति | न ह्य् अविद्यमानस्य प्रतीत्यसमुत्पादस्य दर्शनम् उत्पद्यमानं भवति | असति प्रतीत्यसमुत्पाददर्शने धर्मदर्शनं न भवति | उक्तं हि | भगवता यो हि भिक्षवः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति | धर्मदर्शनाभावाद् ब्रह्मचर्यवासाभावः ||
SK
अथवा प्रतीत्यसमुत्पादप्रत्याख्यानात् | दुःखसमुदायप्रत्याख्यानं भवति | प्रतीत्यसमुत्पादो हि दुःखस्य समुदयः | दुःखसमुदयस्य प्रत्याख्यानाद् दुःखप्रत्याख्यानं भवति | असति हि समुदये तत् कुतो दुःखं समुदेष्यति | दुःखसमुदयप्रत्याख्यानाच् च दुःखनिरोधस्य प्रत्याख्यानं | असति हि दुःखसमुदये कस्य प्रहाणान् निरोधो भविष्यति | असति हि दुःखनिरोधे कस्य प्राप्तये मार्गो भविष्यति | दुःखनिरोधगामी | एवं चतुर्णाम् आर्यसत्यानाम् अभावाच् छ्रामण्यफलाभावः | सत्यदर्शनादिश्रमण्यफलानि समाधिगम्यन्ते | श्रामण्यफलानाम् अभावाद् अब्रह्मचर्यवास इति ||
SK
किञ्चान्यत् |
SK
नाधर्मो धर्मो वा सत्यव्यवहाराश् च लोकिका नि स्युः / नित्याश् च सर्वभावाः स्युः नित्यत्वाद् अहेतुमतः // Nअग्Vव्_५५ //
SK
एवं सति प्रतीत्यसमुत्पादं प्रत्याचक्षणस्य भवतः को दोष प्रसज्यते | धर्मो न भवति अधर्मो न भवति | संव्यवहाराश् च लौकिका न सम्भवन्ति | किं कारणं प्रतीत्यसमुत्पन्नं ह्य् एतत् सर्वम् असति प्रतीत्यसमुत्पादे कुतो भविष्यति | अपि च सस्वभावो ऽप्रतीत्यसमुत्पन्नो निर्हेतुको नित्यः स्यात् | किं कारणं निर्हेतुका हि भावा नित्यास् तत्र स एव चाब्रह्मचर्यवासः प्रसज्येत् स्वसिद्धान्तविरोधश् च | किं कारणम् अनित्या हि भगवता सर्वे संस्कारा निर्देष्टास् ते स्वभावनित्यत्वान् नित्या हि भवन्ति |
SK
एष चाकुशलेष्व् अव्याकृतेषु नैर्याणादिषु च दोषस् / तस्मात् सर्वं संस्कृतम् असंस्कृतं ते भवत्य् एवं // Nअग्Vव्_५६ //
SK
यश् चैष कुशलेषु निर्देष्टः कल्पः स एवाकुशलेषु स एवाव्याकृतेषु स एवानैर्याणिकप्रभृतिषु दोषस् तस्मात् सर्वम् इदं संस्कृतम् असंस्कृतं संपद्यते || किंकारणं हेतो ह्य् असत्य् उत्पादस्थितिभङ्गा न भवन्ति | उत्पादस्थितिभङ्गेष्व् असत्सु संस्कृतलक्षणाभावात् | सर्वं संस्कृतम् असंस्कृतं संपद्यते | तत्र यद् उक्तं कुशलादीनां भावानां स्वभावसद्भावाद् अशून्याः सर्वभावा इति तन् न ||
SK
यत् पुनर् भवतोक्तं |
SK
यदि च न भवेत् स्वभावो भावानां न स्वभाव इत्य् एवं नामापि भवेद् एवं नाम हि निर्वस्तुकं नास्ति | [९]
SK
यः सद्भूतं नाम ब्रूयात् सस्वभाव इत्य् एवम् / भवता प्रतिवक्तव्यो नाम ब्रूमश् च न वयं सत // Nअग्Vव्_५७ //
SK
यो नाम सद्भूतं ब्रूयात् सस्वभाव इति स भवता प्रतिवक्तव्यः स्यात् | यस्य सद्भूतं नाम स्वभावस्य | तस्मात् तेनापि स्वभावेन सद्भूतेन भवितव्यं | न ह्य् असद्भूतस्य स्वभावस्य सद्भूतं नाम भवतीति | न पुनर् वयं नाम सद्भूतं ब्रूमस् तद् अपि हि स्वभावस्याभावान् नाम निःस्वभावत्वात् शून्यं शून्यत्वाद् असद्भूतम् | तत्र यद् भवतोक्तं नामसद्भावात् सद्भूतः स्वह्हावा इति | तन् न ||
SK
किञ्चान्यत् |
SK
नामासद् इति च यद् इदं तत् किं नु सतो भवत्य् उतासतः / यदि हि सतो यद्य् असतो द्विधापि ते हीयते वादः // Nअग्Vव्_५८ //
SK
यच् चैतन् नामासद् इति तत् किं सतः असतः | यदि हि सतस् तन् नाम यद्य् असत उभयथापि प्रतिज्ञा हीयते | तत्र यदि तावत् सत | असद् इति प्रतिज्ञा हीयते | न हीदनीं तद् असद् इदानीं सत्* अथासत | असद् इति नाम या प्रतिज्ञा असद्भूतस्य नाम न भवति अस्तित्वस्वभाव इति नाम तस्मात् सद्भूतः स्वभाव इति | सा हीना ||
SK
किञ्चान्यत् |
SK
सर्वेषां भावानां शून्यत्वञ् चोपपादितं पूर्वम् / स उपालम्भः तस्माद् भवत्य् अयञ् चाप्रतिज्ञायाः // Nअग्Vव्_५९ //
SK
इह चास्माभिः पूर्वम् एव सर्वेषां भावानं विस्तरतः शून्यत्वम् उपपादितम् | तत्र प्राग् नामनो ऽपि शून्यत्वम् उक्तं संभवा अशून्यत्वं परिगृह्य प्रवृत्तो वक्तुं | यदि भावानां स्वाभावो न स्याद् अस्वभाव इति नामापीदन् न स्याद् इति | तस्माद् अप्रतिज्ञोपालम्भो यं भवतः संपद्यते | न हि वयं नाम सद्भूतम् इति ब्रूमः ||
SK
यत् पुनर् भवतोक्तं |
SK
अथ विद्यते स्वभावस् स च धर्माणां न विद्यते स तस्मात् धर्मैर् विना स्वभावः स यस्य तद् युक्तम् उपदेष्टुं | [१०]
SK
अथ विद्यते स्वभावः स च धर्माणां न विद्यतत् इति इदम् / आशङ्कितं यद् उक्तं भवत्य् अनाशङ्कितं तच् च // Nअग्Vव्_६० //
SK
न हि वयं धर्माणां स्वभावं प्रतिषेधयामः | धर्मविनिर्मुक्तस्य वा कस्यचिद् अर्थस्य स्वभावम् अभ्युपगच्छामः | नन्व् एवं सति य उपालम्भो भवति | यदि धर्मा निःस्वभावाः कस्य खल्व् इदानीम् अन्यस्यार्थस्य धर्मविनिर्मुक्तस्य स्वभावो भवति | स युक्तम् एवोपदेष्टम् इति | दूरापकृष्टम् एवैतत् भवति |
SK
यत् पुनर् भवतोक्तं |
SK
सत एव प्रतिषेधो नास्ति घटो गेह इत्य् अयं यस्मात् | दृष्टः प्रतिषेधो ऽयं मतः स्वभावस्य ते तस्मात् | [११] इत्य्
SK
अत्र ब्रूमः |
SK
सत एव प्रतिषेधो यदि शून्यत्वं नन्व् अप्रतिसिद्धम् इदम् / प्रतिषेधयते हि ह्हवान् भावानां निःस्वभावत्वं // Nअग्Vव्_६१ //
SK
यदि स्वत एव प्रतिषेधो भवति | नामतो भावानां निःस्वभावत्वं प्रतिषेधयति | ननु प्रतिसिधं सर्वभावानां निःस्वभावत्वं त्वद्वचनेन | प्रतिषेधयसि त्वं सद्भावात् | निःस्वभावत्वस्य च सर्वभावानां प्रतिसिधत्वात् | प्रतिसिद्धा शून्यतेति
SK
प्रतिषेधयसे अथ त्वं शून्यत्वं तच् च नास्ति शून्यत्वम् / प्रतिषेधः सत इति ते नन्व् एष विहीयते वादः // Nअग्Vव्_६२ //
SK
अथ शून्यत्वं प्रतिषेधयसि त्वं | सर्वभावानां निःस्वभावत्वं शून्यत्वं नास्ति तच् च शून्यत्वम् | या तर्हि ते प्रतिज्ञा सतः प्रतिषेधो भवति नासत इति सा हीना ||
SK
किञ्चान्यत् |
SK
प्रतिषेधयामि नाहं किञ्चित् प्रतिषेध्यम् अस्ति न च किञ्चित् / तस्मात् प्रतिषेधयसीत्य् अधिलय एव त्वया क्रियते // Nअग्Vव्_६३ //
SK
एवम् अपि तु कृत्वा यद्य् अहं किञ्चित् प्रतिषेधयामि ततो युक्तम् एव वक्तुं स्यात् | न चैवहं किञ्चित् प्रतिषेधयामि तस्मान् न किञ्चित् प्रतिषेधव्यम् अस्ति | तस्मात् शून्येषु सर्वभावेष्व् अविद्यमाने प्रतिषेध्ये प्रतिषेधयसीत्य् एष त्वयात्र सद्भूतो ऽधिलयः क्रियत इति ||
SK
यत् पुनर् भवतोक्तं |
SK
अथ नास्ति स स्वभावः किन् नु प्रतिषिध्यते त्वयानेन वचनेन र्ते वचनात् प्रतिषेधः सिध्यते ह्य् असतः || [१२]
SK
अत्र ब्रूमः |
SK
यच् चाहं ते वचनाद् असतः प्रतिषेधवचनसिद्धिर् इति / अत्र ज्ञापयते वाग् असद् इति तन् न प्रतिनिहन्ति // Nअग्Vव्_६४ //
SK
य च भवान् ब्रवीति | सते ऽपि वचनाद् असतः प्रतिषेधः प्रतिसिद्धः तत्र किन् निःस्वभावाः सर्वभावाः इति | एतद् वचनं करोतीति || अत्र ब्रूमः निःस्वभावा इति एतत् खलु वचनं न निःस्वभावान् सर्वभावान् करोति | किन्त्व् असत स्वभाव भावानाम् असत स्वभावानाम् इति ज्ञापयति | तत्र कश्चित् ब्रूयाद् अविद्यमाहगृहे देवदत्तस् तम् अस्ति गृहे देवदत्त इति | तत्रैनं कश्चित् प्रतिब्रूयान् नास्तीति | न तद्. + + + + + देवदत्तस्यासंभवां करोति | किन्तु ज्ञापयति केवलम् असद्भावं गृहे देवदत्तस्येति || तद्वा नास्ति स्वभावो भावानाम् इत्य् एतद्वचनं न स्वभावानां निःस्वभावत्वं करोति | भावेषु स्वभावस्याभावं ज्ञापयति || तत्र यद् भवतोक्तं किम् असति स्वभावे नास्ति स्वभाव इत्य् एतद्वचनं करोति | ऋते ऽपि वचनात् प्रसिद्धिः स्वभावस्याभाव इति | तत् ते न युक्तं
SK
यद् उक्तं
SK
बालानाम् इव मृगतृष्णायां स यथाजलग्राहः | एवं मिथ्याग्राहः स्यात् ते प्रसिध्यते ह्य् असतः | [१३]
SK
यत् पुनर् भवतो मृगातृष्णायाम् इत्य् अत्र ब्रूमः |
SK
मृगतृष्णादृष्टान्ते यः पुनर् उक्तं त्वया महांश् चर्चः / तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः // Nअग्Vव्_६५ //
SK
य एव त्वया मृगतृष्णादृष्टान्ते महांश् चर्च उक्तः | तत्रापि तया निर्णयः स श्रूयतां उपपन्न एव दृष्टान्तो भवति |
SK
स यदि स्वभावतः स्याद् भावो न स्यात् प्रतीत्य समुद्भूतः / यश् च प्रतीत्य ह्हवति ग्राहो ननु शून्यता सैव // Nअग्Vव्_६६ //
SK
यदि च मृगतृष्णायां स यथाजलग्राहः स्वभावतः स्यात् | न स्यात् प्रतीत्यसमुत्पन्नो | यतो मृगतृष्णाञ् च प्रतीत्य विपरीतञ् च दर्शनं प्रतीत्य योनिशोमनस्कारञ् च प्रतीत्य प्रादुर्भूतो अतः प्रतीत्यसमुत्पन्नः यतश् च प्रतीत्यसमुत्पन्नो ऽतः स्वभावतः शून्य एव | यथा पूर्वम् उक्तं तथा
SK
किञ्चान्यत् |
SK
यदि च स्वभावतः स्याद् ग्राहः कस् तं विनिवर्तयेद् ग्राहम् / शेषेष्व् अप्य् एष विधिः तस्माद् एषो ऽनुपालम्भः // Nअग्Vव्_६७ //
SK
यदि च मृगतृष्णायां जलग्राहः स्वभावतः स्यात् | क एव तं विनिवर्तयेता | न हि स्वभावः शक्यो निवर्तयितुं | तथाग्नेर् उष्णत्वम् अपां द्रवत्वम् आकाशस्य निरववरणत्वं | दृष्टं चास्य विनिवर्तनं | तस्माच् छून्यस्वभावः ग्राहः | यदा चैतद् एवं शेषेष्व् अपि धर्मेष्व् एष क्रमः प्रत्यवगन्तव्यः ग्राह्यप्रवृत्तिषु पञ्चसु | तत्र यद् भवतो + + + + पाद् अशून्याः सर्वभावा इति तन् न ||
SK
यत् पुनर् भवतोक्तं |
SK
हेतोश् च ते न सिद्धिर् नैःस्वब्बाव्यात् कुतो हि ते हेतुः निर्हेतुकस्य सिद्धिर् न चोपपन्नास्य ते ऽर्थस्य [ल्७] इति ||
SK
अत्र ब्रूमः |
SK
एतेन हेत्वभावः प्रत्युक्तः पूर्वम् एव स समत्वात् / मृगतृष्णादृष्टान्तव्यावृत्तिविधौ य उक्तः प्राग् // Nअग्Vव्_६८ //
SK
एतेनैव चेदानीं चर्चेन पूर्वोक्तेन हेत्वभावो ऽपि प्रत्यवगन्तव्यः | य एव हि चर्चः पूर्वस्मिन् हेताव् उक्तः षट्कप्रतिषे + + + + + + हापि चर्चयितव्यः |
SK
यत् पुनर् भवतोक्तं |
SK
पूर्वं चेत् प्रतिषेधः पश्चात् प्रतिषेध्यम् इल्य् अनुपपन्नं | पश्चाच् चानुपपन्नो युगपच् च यतः स्वभावो ऽसन || [२०]
SK
अत्र ब्रूमः |
SK
यत् त्रैकाल्ये हेतुः प्रत्युक्तं पूर्वम् एव स समत्वात् / त्रैकाल्यप्रतिहेतुश् च शून्यभावादिना प्राप्तः // Nअग्Vव्_६९ //
SK
स एष हेतुः त्रैकाल्ये प्रतिषेधवाची स तूक्तोत्तरः प्रत्यवमन्तः | कस्मात् साध्यसमत्वात् | यथा हि प्रतिषेधस् त्रैकाल्ये नोपपद्य्.ए + + + + + + प्रतिषेधप्रतिषेधे ऽपि | तस्मात् प्रतिषेधप्रतिषेध्ये ऽसति भवान् मन्यते प्रतिषेधः प्रतिसिद्ध इति तन् न | यतश् चैष त्रिकालप्रतिषेधवाची हेतुर् एष एव शून्यतावादिनां प्राप्तः सर्वभावस्वभावप्रतिषेधकत्वान् न भवतः |
SK
अथ वा कथम् एतद् उक्तोत्तरं |
SK
प्रतिषेधयामि नाहं किञ्चित् प्रतिषेध्यम् अस्ति न च किञ्चित् तस्मात् प्रतिषेधयसीत्य् अधिलय एष त्वया क्रियत [६३] इति ||
SK
अथ मन्यसे त्रिष्व् अपि कालेषु + + + + + + + दृष्टः पूर्वकालीनो ऽपि हेतुः उत्तरकालीनो ऽपि | युगपत्कालीनो ऽपि हेतुः | कथं पूर्वकलीनः | यथा पिता पुत्रस्य त्वद्वचनेन पश्चात्कालीनः | यथा शिष्याचार्यस्य युगपत्कालीनः यथा प्रदीपः प्रकाशस्येति || अत्र ब्रूमः | न चैतद् एव युक्ता ह्य् एतस्मिं त्रये पूर्वदोषः || अपि च पुनः यद्य् एवं कमः | प्रतिषेधसद्भावस् त्वयाभ्युपगम्यते | प्रतिज्ञाहानिश् च ते भवति | ए + + + + + + + स्वभा + + + .एधो ऽपि सि + + भवतीति |
SK
प्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः / प्रभवति न तस्य किन्न प्रभवति शून्यता यस्येति // Nअग्Vव्_७० //
SK
यस्य शून्यतेयं प्रभवति तस्य सर्वार्था लौकिकलोकोत्तराः प्रभवन्ति | किं कारणं | यस्य हि शून्यता प्रभवति तस्य प्रतीत्यसमुत्पादः प्रभवति | यस्य प्रतीत्यसमुत्पादः प्रभवति तस्य चत्वार्य् आर्यसत्यानि प्रभवन्ति | यस्य चत्वार्य् आर्यसत्यानि + + + + + + + मण्यफलानि भवन्ति | सर्वविशेषाधिगमः भवन्ति | यस्य सर्वविशेषाधिगमाः प्रभवन्ति | तस्य त्रीणि रंआणि बुद्धधर्मसंघाः प्रभवन्ति | यस्य प्रतीत्यसमुत्पादः प्रभवन्ति तस्य धर्मो धर्महेतुर् धर्मफलञ् च प्रभवन्ति | तस्याधर्मो ऽधर्महेतुश् चाधर्मफलञ् च प्रभवति | तस्य क्लेशः क्लेशसमुदयः क्लेशवस्तूनि च प्रभवन्ति | यस्यैतत् सर्वं भवति पूर्वोक्तं तस्य सुगतिं दुर्गतिं व्यवस्था + + + + + + + गतिदुर्गतिगमनं | सुगतिदुर्गतिगामी मार्गः | सुगतिदुर्गतिगमनव्यतिक्रमणं सुगतिदुर्गतिव्यतिक्रमोपायः सर्वसंव्यवहाराश् च लोकिकाः स्वयम् अधिगन्तव्याः | अनया दिशा किञ्चित् शक्यं वचनोपदेष्टम् इति |
SK
भवति चात्र
SK
यः शून्यतां प्रतीत्यसमुत्पादं मध्यमां प्रतिपदम् अनेकार्थां निजगाद प्रणमामि तम् अप्रतिमं तु बुद्धिम् इति ||
SK
कृतिर् इयम् आचार्यनागार्जुनपादाना + + + + + एकत्र श्लोकशत ४५० ||
SK
|| लिखितम् इदं श्रीध्रमकिर्तिना सर्वसत्वहेतोः यथालब्धम् इति ||
SK
|| विग्रहव्यावर्तिणी ||

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Nāgārjuna: Vigrahavyāvartanī (sa_nAgArjuna-vigrahavyAvartanI.htm).

Source