Essence of Dependent Origination

Pratītyasamutpādahṛdayakārikā · Pरतीत्यसमुत्पादहृदयकारिका

Essence of Dependent Origination

Pratītyasamutpādahṛdayakārikā

Pरतीत्यसमुत्पादहृदयकारिका

SK
Pरतीत्यसमुत्पादहृदयकारिका (Pस्ह्क्)
SK
नागार्जुनकृता
SK
द्वादश ये ऽङ्गविशेषा मुनिनोद्दिष्टाः प्रतीत्यसम्भूताः / ते क्लेशकर्मदुःखेषु सङ्गृहीतास्त्रिषु यथावत् // Pस्ह्क्_१ //
SK
आद्याष्टमनवमाः स्युः क्लेशाः कर्म द्वितीयदशमौ च / शेषाः सप्त च दुःखं त्रिसङ्ग्रहा द्वादश तु धर्माः // Pस्ह्क्_२ //
SK
त्रिभ्यो भवति द्वन्द्वं द्वन्द्वात्प्रभवन्ति सप्त सप्तभ्यः / त्रय उद्भवन्ति भूयस्तदेव[तु] भ्रमति भवचक्रम् // Pस्ह्क्_३ //
SK
हेतुफलञ्च[हि]सर्वं जगदन्यो नास्ति कश्चिदिह सत्त्वः / शून्येभ्य एव शून्या धर्माः प्रभवन्ति धर्मेभ्यः // Pस्ह्क्_४ //
SK
स्वाध्यायदीपमुद्रादर्पणघोष ऽर्ककान्तबीजाम्लैः / स्कन्धप्रतिसन्धिरसङ्क्रमश्च विद्वद्भिरवधार्यौ // Pस्ह्क्_५ //
SK
य उच्छेदं प्रकल्पयत्यतिसूक्ष्मे ऽपि वस्तुनि / प्रतीत्यसम्भवस्यार्थमविज्ञः स न पश्यति // Pस्ह्क्_६ //
SK
नापनेयमतः किञ्चित् प्रक्षेप्यं नापि किञ्चन / द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते // Pस्ह्क्_७ //
SK
प्रतीत्यसमुत्पादहृदयकारिका आचार्य नागार्जुनकृता समाप्ता /

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Nāgārjuna: Pratītyasamutpādahṛdayakārikā (sa_nAgArjuna-pratItyasamutpAdahRdayakArikA.htm).

Source