Commentary on the Great Vehicle Sutra of the Rice Stalk

Śālistambakamahāyānasūtraṭīkā · Śआलिस्तम्बकमहायानसूत्रटीका

Commentary on the Great Vehicle Sutra of the Rice Stalk

Śālistambakamahāyānasūtraṭīkā

Śआलिस्तम्बकमहायानसूत्रटीका

SK
आर्यशालिस्तम्बकमहायानसूत्रटीका
SK
(संस्कृत - पुनरुद्धारः)
SK
भारतीयभाषायाम् - आर्यशालिस्तम्बकमहायानसूत्रटीका |
SK
भोटभाषायाम् - ह्फगस्पा - सलु - जङपा - शेस्व्यवा - थेग्पा - छेनपोई - दोई - ग्याछेर् ब्शद्पा
SK
अथ शालिस्तम्बविभाषायाः प्रथमं पटलम्
SK
नम आर्यमञ्जुश्रीकुमारभूताय |
SK
तत्र ऽअनन्ताचिन्त्यगुण्यं हिऽ इत्यादिषु अनन्तगुण्यमिति गुणं हि बलाभयासंसृष्टादिगुणार्थे देवमनुष्यैः परिचेयत्वात्, सेव्यत्वात्, अभ्यसनीयत्वाद्, भावनीयत्वात्, साक्षात्करणीयत्वात् प्राप्तकरणीयत्वाच्च गुणाः | ते गुणास्तु बहवः | अनन्ताचिन्त्येति समस्तं पदम् | अचिन्त्यगुणत्वं तु श्रावक-प्रत्येकबुद्ध-सर्व-पृथग्जन-सर्वतार्किकगण-चित्तगोचरं समतिक्रमणात् | ततः सो ऽनन्ताचिन्त्यगुण समन्वितः | कतम इति चेत्, उच्यते - सम्बुद्धं करुणात्मकम् | इत्युक्तम् | सम्यगविपर्यस्तञ्च बुद्धत्वात् सम्बुद्धः | सर्वधर्मानित्यत्वस्य दुःख-शून्य-नैरात्म्यादि-धर्मान्-पुद्गलनैरात्म्यस्वभावतया यथावद् अवबोधत्वाद् बुद्धः |
SK
प्रफुल्लकमलवद् बुद्धेर्विकासाद् बुद्धो, बोधत्वाद् वा बुद्धः | अज्ञाननिद्रा सुप्तजगन्मध्ये जाग्रतपुरुषवत्, यथावदविपर्यस्तसम्यग्ज्ञानोदयाद् बुद्ध इति | अथवाज्ञजनावबोधनाद् बुद्धः | यथा - पराधीनस्य स्वयमेव प्रतिसंवेदन-धर्मतत्त्वाव-बोधवद् उन्मार्गभ्रान्तचित्तस्य संसाराटवीकान्तारे जन्म-जरा-व्याधि-मरणादि-पीडितस्य विविधदर्शनगहनवने क्लेशाशीविषभयाप्लुतान इतस्ततः परिभ्रमतो ऽन्यांश्चापि सन्मार्गे सन्निवेश्य मोक्षानुत्तरमहानगरे प्रवेशकारित्वाद् बुद्ध इति |
SK
करुणात्मकमिति तु करुणस्वभावम् | क्लेशकर्मदुःखनिवारकत्वात् करुणः | यस्मिन् करुणात्मकत्वं स्वभावतः स करुणात्मकः | स सम्बुद्धः ; करुणात्मकताया अपि भूतत्वात् संबुद्धः करुणात्मकः | तस्मात् तं बुद्धं करुणात्मकं प्रणिपत्य शालिस्तम्बमिति इत्युक्तम् | प्रणिपत्येति सम्यक्पूजयित्वा वन्दना-गौरव-प्रवणतया प्रणिपत्य | प्रणिपत्य किं करोमीति चेत्- शालिस्तम्बमिति सूत्रस्य उपनिबद्धशास्त्रकारिकां प्रवक्ष्यामि | इत्युक्तम् | तत्र अनन्ताचिन्त्यगुण्यो हि इत्यनेन स्वार्थसम्पत्तिर्दर्शिता | करुणात्मक इत्यनेन परार्थसम्पत्तिरुक्ता | सम्बुद्धं इति बुद्धो हि (अधिगतार्थत्वात्) सर्वज्ञ एव | ऽअनन्ताचिन्त्यगुण्यं हिऽ इत्यनेन रागादिरहितत्वम्, क्लेशोपक्लेशानामगुणानां गुणविरोधत्वात् | तस्मात् तादृशं सर्वज्ञं विरक्तं सम्बुद्धं करुणात्मक इति यः सर्वंजानन् वीतरागः, स आचार्यमुष्टेरभावाद् अपरान् यथावगतं धर्मं दिशति | अनेन तु परहितकारित्वात् परार्थोपसम्पदा दिष्टा | एवं स्वपरार्थोपसम्पन्नं तं सम्बुद्धं प्रणमामि | तथापि, विवक्षितपदस्य विद्यमानत्वाद् विवक्षुणा किमिष्यते? इति प्रश्नः | उत्तरं - प्रवक्ष्यामि | किं वक्ष्यामि? उच्यते - शालिस्तम्बसूत्रोपनिबद्ध-शास्त्र-कारिकाम् | शास्त्रं रचयितुम् आदौ सम्बन्ध-प्रयोजन-अभिधानाभिधेयचतुष्टयं किं न निर्वचनीयम्?
SK
अत्र तदभावात् तदारम्भणम् अनुचितम् | असम्बद्धादित्वात् प्रमत्तप्रलापवद् इत्यनारम्भणीयमिति धर्मः | शास्त्रमिति धर्मी | धर्मधर्मिसामान्यं हि पक्षः | असम्बद्धादित्वादिति हेतुः | अवबोधकत्वात् हेतुः, हेत्वर्थस्य तु अवबोधकत्वात् | तस्मात् असम्बन्धादित्वादनारम्भणीयमिति | प्रमत्तप्रलापवदिति उपमा | एवं वादिने उच्यते - असम्बन्धादित्वादिति यदुक्तं इत्युक्तहेतोरसिद्धम् उक्तायाम् अत्रोक्तौ सम्बन्धादयश्चत्वारः सन्त्येव | ते च कतमे? उच्यते - शालिस्तम्बसूत्रोपनिबद्ध-शास्त्रकारिकायाः वक्ष्यमाणत्वाद् अत्र सम्बन्धः स्याद् एव | शालिस्तम्बसूत्रमिति तीर्थिकाद्यन्येषु ग्रन्थविशेषणतया अनुपलब्धत्वात् शास्त्रमिदं बुद्धसम्बद्धम् | तस्मात् हेत्वएर्थो ऽसिद्ध एव | सम्बन्धभावश्च प्रयोजनस्याप्यभावे नास्ति | तस्मादुक्तम् अत्र प्रयोजनम् - हेतुप्रत्ययार्थावगमार्थं पुद्गल-नैरात्म्य-धर्मनैरात्म्य-ग्राह्य-ग्राहकाभावाव गमात् क्लेशज्ञेयावरणं विभज्य अनुत्तर-सम्यक्संबुद्धोपलब्धिः अत्र प्रयोजनमस्त्येव |
SK
तस्मात् सप्रयोजनत्वात् चिकित्सादिशास्त्रवद् विरचनीयमेव | यद्यद् सार्थकं तत् तत् तु विरचनीयम् | यथा चिकित्सादिशास्त्रवद् भूतत्वाद् उपमासिद्धिं वक्ष्यामि | अस्याभिधानेन शालिस्तम्बोपमया आध्यात्मिक-बाह्य-प्रतीत्यसमुत्पाद-समुपयोगाद् अनेनाभिधानेन शालिस्तम्बमिति चापि भवति | तस्मादपि अर्थो ऽसिद्ध एव | अभिधेयमिति प्रतीत्यसमुत्पादस्य द्वादशाङ्गस्य सप्रत्ययस्य पृथक्तः यथाक्रमं लक्षणव्यवस्थापनात् कर्त्रादीन् अहेतून् प्रतिकूलहेतून् च विहाय क्लेशोपक्लेश प्रहाणात् सम्यग्ज्ञानम् उत्पाद्य अनुत्तरधर्मकायोपलम्भाद् इदमभिधेयमप्यस्त्येव | तस्माच्च हेत्वर्थो ऽसिद्ध एव | तस्मात् चिकित्सादिशास्त्रवद् इदं शास्त्रं सम्बन्धादिसमन्वितत्वाद्, आरम्भणीयमेव| आरम्भणीयमिति धर्मः | शास्त्रमिति च धर्मी | धर्मधर्मिसाधारणो हि पक्षः | अत्र धर्मभावाद्धर्मी छत्रीवत् | तथा सत्यपि शास्त्रमारब्धुं प्रणामकरणं निरर्थकम्, प्रयोजनाभावात्, काकदन्तपरीक्षादिशास्त्रवत् इत्यस्य हेत्वर्थस्य सिद्धत्वं दर्शयितुमुच्यते -
SK
शास्त्रारम्भणाय शास्तृपूजा कृता | किमर्थमिति चेत्, शास्त्रे तत्र च गौरवोत्पादहेतुभूतत्वाद्, धर्मश्रवणे जातगौरवाणां श्रवण-चिन्तन-भावनासु गौरवं भवति | अजातगौरवाणां तु अभूतत्वाद् हेत्वर्थे च सिद्ध एव | अपि शिष्टाचार-नयप्रदर्शनार्थं शास्त्रारम्भे शास्तुः पूजा कृता | अयं तु सज्जनविदुषाम् आचारो ऽस्ति | यदा कश्चित् प्रयोजनारम्भणमवतरति प्रथमम् इष्टदेवं प्रणम्य विशिष्टप्रयोजनं प्रविशति, अभीष्टार्थो ऽचिरं सिध्यति, तस्माद् अनेनापि शास्त्रकारेण तामेव सदाचारनीतिम् अनुसरता शास्त्रारम्भणे स्वशास्तुर्गुणाभिधानपूर्वकं प्रणामं कृत्वा शास्त्रव्याख्यानावताराद् अत्र प्रयोजनमस्त्येव | उच्यते - शास्त्रारम्भे शास्त्रे प्रणामकरणम् न निष्फलम् शास्तरि शास्त्रेषु च गौरवोत्पादहेत्वर्थम्, नान्यथा | ततः शास्त्रारम्भे शास्तुः पूजनं व्यवस्थितमेव | तस्माच्च परैः शास्त्रादौ प्रणामकरणं निष्प्रयोजनम् इति किमुच्यते? तद्धेतोरसिद्धतां दर्शयितुम् कथितम् | शास्त्रम् आरब्धुं प्रणामकरणं तु चिकित्सादिशास्त्रवत् सप्रयोजनम् एव, न च काकदन्तपरीक्षावत् | स्वशास्तारं प्रणम्य शालिस्तम्बसूत्रोपनिबद्धां शास्त्रकारिकां प्रवक्ष्यामीति उक्ते | कतमा च सा इति चेत् - मुनी राजगृहस्यैव इत्यादि कथितम् राजगृहं तु राज्ञो गृहम् राजप्रसाद इत्यर्थः |
SK
गृध्रनामकपर्वते इति तु गृध्रकूटपर्वते | तस्मादेव संगीतिसूत्रे ऽएवं मया श्रुतम् इत्युक्तम् | कस्माच्छ्रुतमिति | तस्मादुक्तम् | भगवतः एकस्मिन् समये इति एकस्मिन् समये | भगवान् तु भग्नवान् इति भगवान् | किं भग्नवान् इति चेत् | तस्मादुक्तम् मारचतुष्टयम् | क्लेश-स्कन्ध-देवपुत्र-मृत्यवो मारा इत्याख्याताः | कथं भग्ना इति? उच्यते - प्रतिपक्षज्ञानोपलब्धेः | दर्शन-भावना-मार्गावतारनयेन चतुः स्मृत्युपस्थानादिसप्तत्रिंशद्बोधिपाक्षिकधर्मभावनाक्रमेण चतुरार्यसत्यभावनाविभावनतया स्कन्धतथतापरिज्ञानेन अनित्य-दुःख-शून्य-नैरात्म्यादीनाम् अविपरीत-ज्ञानान्वितत्वात् पुद्गलधर्मयोर्नैरात्म्य-ग्राह्यग्राहकाभाव-कल्पनाद् ऽइदं धातुत्रयमपि चित्तमात्रम्ऽ इति अवगमात् क्लेशज्ञेयावरण-रहितद्वारेण क्लेशा भग्नाः | नित्य-सुख-शुचि-सात्म्याविपर्यासचतुष्टयादिरहितः अनुत्तरधर्मकाय संयुक्तो ऽप्रतिष्ठित निर्वाणोपलब्धेः स्कन्धं मृत्युमारञ्च जयति |
SK
सर्वधर्मान् माया-मरीचि-गन्धर्वनगर-निर्माण-प्रतिबिम्ब-प्रतिश्रुत्क-अलातचक्र-स्वप्नवत् स्ववबोधात् संक्लेशालयविज्ञान-वासना-मलापगतत्वाच्च अभूतसंकल्पान् समुच्छिद्य महामैत्र्यादि-बाणाक्षेपेण ससैन्यं मकरध्वजं प्रहृत्य देवपुत्रमारं पराजयत | एवं चतुर्मारभञ्जनाद् भगवान् इति | पुनश्चोक्तम् -
SK
चतुर्मारारिभग्नत्वाद् भवत्रयसमुद्गत- भाव्यतीतपरिज्ञानाद् भवस्थो भगवानिति |
SK
तादृशो भगवान् राजगृहे गृध्रकूटपर्वते विहरतिस्म | किमर्थ तन्नगरं राजगृहमिति चेत् | उच्यते - तन्नगरं पूर्वं कुशीनगरम् इत्याख्यातम् | यदा तन्नगरे कुपितैरमानुषैः पुनः पुनरग्निः क्षिप्तस्तदा राजावगत्य आदिशत्, ज्ञानिनो नागरिकाः | अद्य प्रभृति यस्य गृहं प्रथमं अग्निना दह्यते, स शीतवनं महाश्मशानं गत्वा गृहं निर्माय वसेद् इत्याज्ञातवान् | ततश्च कर्मप्रत्ययवशेन आदौ राजप्रासादो ऽग्निं प्राप्तः | ततो राजा अमात्यानाहूयादिशत् - ज्ञानिन अमात्याः जानन्तु एवं, मयैव तन्नयप्रज्ञापात् मयैव तदतिक्रमो मयि न शोभते, अनयत्वात् | ज्ञानिनो मन्त्रिणः | शीतवने महाश्मशानमध्ये राजप्रासादो निर्मीयताम् (अहं) तत्र गत्वा वत्स्यामि | ततो राज्ञो वचनमात्रेण सर्वैस्तथा कृतम् |
SK
तदा प्रथमं राजा तत्र गत्वा उवास | ततः परैरुषितत्वाद् राजगृहम् इति नामोपचरितम् | तत्र राजगृह-महानगरस्य पूर्वोत्तरसीमायां गृध्रकूटनामक पर्वते ऽस्ति | यस्य पर्वतस्य शिखरो गृध्रशिरोवत् स गृध्रकूटपर्वत इत्युच्यते | अथवा पापेन मारेण गृध्राकारमभिनिर्माय भगवच्चीवरहरणारम्भे भगवतो ऽधिष्ठानेना - सामर्थ्यात् तत्रैव निक्षिप्तं, तच्चीवरम् अद्यापि पाषाणीभूय चतुष्पुटितचीवरमिव अवतिष्ठते | तदुपलक्षितः पर्वतो गृध्रकूट इत्युच्यते | मुनिः तद्गृध्रकूटपर्वते विहरतिस्म | किमेकाकी एव? उच्यते | न, भिक्षूणां बोधिसत्त्वानां संघैः सार्धं व्यवस्थितः | भिक्षूणां अर्थात् भिक्षुसार्धमर्धत्रयोदशभिः महता भिक्षुसङ्घेन बोधिसत्त्वानां च इति तु संबहुलैश्च बोधिसत्त्व-महासत्त्वैः सार्धम् | व्यवस्थितस्तु उत्थान-संचक्रमण-व्यवस्थिति-शयनादि-चतुर्विध-चर्यया व्यवस्थितः | को ऽसा विति? मुनिः | मुनिस्तु काय-वाक्-चित्तैर्मौनित्वात् | काय-वाक्-चित्ताप्रवृत्तेर्मुनिः | कुत्र न प्रवर्तते? तस्मादुक्तम् | काय-वाक्चित्तदुश्चरिते न प्रवर्तत इत्यर्थो दर्शितः | अत्र मौनित्वान् मुनिः | युक्तार्थार्थाय दण्डिवदिति | अपि च - किमर्थं स्थान-काल-परिवार-निर्देशः? उच्यते - चक्रवर्तिराजसाधर्म्यात् | चक्रवर्तिराजानाम् आचारस्त्वेवमाख्यातः -
SK
यदा ब्राह्मणेषु गृहस्थेषु च अनुग्रहादि कृतं तदा निवास-स्थानं ग्राम-नगरादि, यत्र स्थित्वा तत्कार्यं, स्थानं निरुच्यते | कस्मिन् स्थाने? अमुके | आधिपत्यं प्रदर्शयितुं अमात्यादिभिः सार्धम् इति| कालस्तु पूर्वापराह्णकालः | कानिति? ब्राह्मण-गृहस्थादीन् | तस्मात् भगवतो ऽपि अनुत्तरधर्मचक्रवर्तिराजत्वात् स्थान-काल-पारिवारादय उक्ताः | कुत्रेति? राजगृहे | एकस्मिन् समये तु प्रातः काले | कैश्चित् सार्धमिति?
SK
सार्धत्रयोदशशतैः भिक्षुभिः बोधिसत्त्वैश्च |
SK
कानिति भिक्षून् | किमुक्तमिति? शालिस्तम्बकसूत्रम् | पुनश्चोक्तम् -
SK
कुत्र कैश्चित् समं क्वापि कस्मात् कस्मै च देशितम् | उपदिश्य च तान्यन्ते आनन्दपदमीरितम् |
SK
शालिस्तम्बं विलोक्य च इत्यादि | शालिस्तम्बं विलोक्य दृष्ट्वा इत्यर्थः | हेतुप्रत्ययसंभूतम् इति हेतुप्रत्ययजनितम् | तदुत्पादक ईश्वरादिः को ऽपि अन्यो नास्तीत्यभिप्रायः | अपि चोक्तम् -
SK
बीजादेरतिरिक्तं हि नान्यद् हेतुरितीर्यते |
SK
प्रत्यक्षादिविरुद्धत्वाद् | बीजादङ्कुरादि जन्यते, ईश्वर-प्रधान-स्वभाव-कालादिर्न हेतुः | प्रत्यक्षानुमानाभ्याम् अनुपलभ्यमानत्वाद् आकाशोत्पलवत् |
SK
हेतुप्रत्ययजं तद्वद् द्वादशाङ्गक्रमोद्गतम् | प्रतीत्यमिति यः पश्येत् | इत्युक्तम् |
SK
हेतुप्रत्ययाभ्यां जनितो धर्मः प्रतीत्यसमुत्पादः, द्वादशाङ्गः भिक्षुर्भिक्षुणी अन्यो वा यः कश्चित् कृतादिकं अहेतु-प्रतिकूलहेतु-विरहितं पश्यति, स
SK
धर्मं बुद्धं च पश्यति | इत्युक्त्वा नायको भिक्षून् तूष्णीं भावमवस्थितः |
SK
अष्टाङ्गमार्यधर्मं फलधर्माधिगमस्वभावतां सस्कन्धनिर्वाणं अशेष स्कन्धाभिधानमपि च यथावत् पश्यति इत्युक्त्वा भगवांस्तूष्णीं भावमवस्थितः | तदा इत्यादि तु भिक्षुशारिपुत्रो बोधिसत्त्वं मैत्रेयम् उपसंक्रम्येदं पर्यपृच्छत् | इत्युक्त्वा इति भगवतः शारिपुत्रेण यत्सूत्रं श्रुतं तद् भिक्षून् उक्त्वा उपदिश्य | नायक इति विविधोपायनयेन सत्त्वानाम् नयनत्वान् नायकः | तूष्णींभावमवस्थितः समाधिं समापद्य विहरति स्म् इत्यधिवचनम् | भिक्षुः शारिपुत्रः श्रुत्वा इत्युवाच भिक्षुः इति - क्लेशभञ्जनाद् भिक्षुः | शारिपुत्रः श्रुत्वा इति तु भगवतः श्रुत्वा | सूत्रे तदायुष्मान् शारिपुत्रो मैत्रेयो बोधिसत्त्वो महासत्त्वो यत्रेत्यादिना देशितवान् | गत्वा मैत्रेयसन्निधौ तु यत्र बोधिसत्त्वो मैत्रेयो दिने सदावस्थितः, तत्र गत्वा, उभौ शिलातले उपविशताम् | अथायुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वमेतदवोचत् -
SK
तथागते ऽद्य मैत्रेय उक्त्यर्थं न विभज्य च | तृष्णींभावे स्थिते चात्र तदर्थो गम्यते कथम् | इत्युक्तम् |
SK
अद्य मैत्रेय इत्युक्त्वा भिक्षून् भगवान् शालिस्तम्बोपमादेशनया यदुक्तम् - मैत्रेय! सुगतोक्तसूत्रान्तार्थः कतमः? भगवताप्यर्थो न विभक्तः | सर्वज्ञगोचर-विषयाणामपि सर्वश्रावक-प्रत्येकबुद्ध-विषयातिक्रान्तत्वात् प्रतीत्यसमुत्पादः कतमः? धर्मः कतमः? बुद्धः कतमः? इत्यादि अपृच्छत् | अयमेव सूत्रकारेण सूत्रसम्बन्ध उक्तम् -
SK
किं प्रतीत्यं च धर्मः कः बुद्धो ऽपि कतमस्तथा | इत्युक्तम् |
SK
कथं च प्रतीत्यसमुत्पादं पश्यन् धर्मं पश्यति | धर्मं पश्यन् बुद्धं पश्यति? इति तु
SK
प्रतीत्यं तु कथं दृष्ट्वा धर्मं बुद्धं च पश्यति | सन्देहो मे ऽत्र ब्रूहीति ऊचे शारिसुतो ऽजितम् |
SK
स्थविरशारिपुत्रः तत्सन्देहोत्पादाद् अजितमाह | अजितस्तु मैत्रेयः | किं विशेषणको मैत्रेयः?
SK
भावात्मिका हि मैत्री स्यान् मैत्रेयो ऽब्रूत निर्णयम् |
SK
मैत्री समाध्यन्वितत्वात् सुप्रतिष्ठत्वात् मैत्री भावात्मिका | निर्णयमिति तु निश्चयः | अब्रूतेति उदीरितवान् | कमिति चेत्? शारिपुत्रम् | किमुक्तमिति चेत् अन्न भगवता इत्यादि उक्तम् | यो भिक्षवः प्रतीत्यसमुत्पादम् इत्यादि | कतम प्रतीत्यसमुत्पादो नाम | यदिदम् - अविद्याप्रत्ययाः संस्काराः | संस्कारप्रत्ययं विज्ञानम् | विज्ञानप्रत्ययं नामरूपम् | नामरूपप्रत्ययं षडायतनम् | षडायतनप्रत्ययः स्पर्शः | स्पर्शप्रत्यया वेदना | वेदनाप्रत्यया तृष्णा| तृष्णाप्रत्ययमुपादानम् |
SK
उपादानप्रत्ययो भवः | भवप्रत्यया जातिः | जातिप्रत्ययं जरामरणम् | जरामरणप्रत्ययाः शोक-परिदेव-दुःख-दौर्मनस्योपायासाः सम्भवन्ति | एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति | अयमुच्यते प्रतीत्यसमुत्पादो भगवता | तत्र प्रतीत्यसमुत्पादो नाम सहेतुकः सप्रत्ययो नाहेतुको नाप्रत्ययः |
SK
तस्मात् प्रतीत्यसमुत्पाद इत्युच्यते | अपि च - अविद्यादिभवाङ्गादीनाम् अयं सम्भवक्रमः कथमवगन्तव्यः? लक्षणं कतमत्? कर्म च कतमद् इति चेत्? उच्यते | तत्र प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यामुत्पन्नो ऽवगन्तव्यः | कतमाभ्यां द्वाभ्याम्? उच्यते? हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च | स च प्रतीत्यसमुत्पादो बाह्य आध्यात्मिकश्च पृथक्त्वाद् द्विविधो व्यवस्थापितः | कथमिति? उच्यते | ᳚ बीजादङ्कुरोत्पादात् फलोत्पादपर्यन्तम् | बीजे सति अङ्कुरः प्रादुर्भवति फलप्रादुर्भावश्च | असति च बीजे अङ्कुरानुत्पादात्, न हि फलोत्पाद इति | बीजस्य नैवं भवति अहमङ्कुरमभिनिर्वर्तयामीति | अङ्कुरस्यापि नैवं भवति अहं बीजेनाभिनिर्वर्तित इति | एवं यावत् पुष्पस्यापि नैवं भवति फलमभिनिर्वर्तयामीति | फलस्यापि नैवं भवति अहमङ्कुर-पुष्पाभ्याम् अभिनिर्वर्तित इति | अथ पुनर्बीजे सति अङ्कुरात् फलपर्यन्तं प्रादुर्भवति | एवं बाह्यप्रतीत्यसमुत्पादः प्रत्ययोपनिबन्धो द्रष्टव्यः |
SK
बाह्यप्रतीत्यसमुत्पादः प्रत्ययोपनिबन्धः कथं द्रष्टव्यः? उच्यते | षण्णां धातूनां समवायात् | कतमेषां षण्णां धातूनामिति | यदिदं पृथिव्यादि च कालश्च | एवं बाह्यप्रतीत्यसमुत्पादः प्रत्ययोपनिबन्धो द्रष्टव्यः | बीजं पृथिव्यादौ किं हितं कृत्वा हेतोः प्रत्ययं मतमिति | पृथिव्यादि तु संधारणमित्यादि, स्नेहनं, पाचनं, निर्हरणम्, अनावरणं परिणामनां च क्रमशः करोति | असत्स्वेषु न भवति | यदाविकलो भवति, ततः सर्वेषां समवायाद् तद्भवति | पृथिव्यादौ र्नैवं भवति वयं बीजसंधारणादि करोमीति | बीजस्यापि नैवं भवति अहं एतेषां प्रत्ययेन संधारणादि कार्येण हितं करोमि | अथ पुनः पृथिव्यादिषु सत्सु बीजादङ्कुरादि प्रादुर्भवति, असत्सु च न भवति | तस्मादेव सूत्रकारेण उक्तम् |
SK
द्वादशाङ्गमविद्यादिमरणान्तं यथाक्रमम् |
SK
इत्यादि | भवाङ्गो येषामविद्यादिमरणान्तम् अस्ति, ते अविद्यादि मरणपर्यन्ताः |
SK
तस्मात्तर्हि भवन्त्येव दुःखस्कन्धा हि केवलम् | तस्माद् इति तु अविद्यादि क्रमशः प्रादुर्भवति |
SK
दुःखस्कन्धस्तु दुःख-समूहः | केवलमिति आत्मात्मीयवियुक्तः | भवति इति तु उत्पद्यते |
SK
धर्मश्चाष्टाङ्गिको मार्गः फलं निर्वाणमुच्यते | इत्युक्तम् |
SK
धर्मस्तु स्वलक्षणधारणाद् धर्मः | अष्टाङ्गमार्ग इति तु मिथ्यादृष्टि-मिथ्यासंकल्प-मिथ्यावाक्-मिथ्याकर्मान्त-मिथ्याजीव-मिथ्याव्यायाम-मिथ्या-स्मृति-मिथ्यासमाधयः | तत्र मिथ्यादृष्टिरिति मिथ्यादर्शनम् | पञ्चदृष्टयस्तु सत्काय-अन्त-दृष्टि-शील-मिथ्याश्चेति | एताः सर्वा अपि मिथ्याश्रवणचिन्तनादिषु प्रविष्टाः | तस्मात् कुदृष्टित्वात् मिथ्या मार्गाचरणेन अनिष्टविपाकाभिनिर्वर्तितत्वात् हेतु-कर्म-फलानि अपवादारोपाकारेण प्रविष्टत्वान् मिथ्यादृष्टिरिति | तत्प्रतिकूलत्वात् सम्यक्दृष्टिः मार्गाङ्ग एव व्यवस्थापिता | योनिशः स्थित-सम्यक्श्रवण-चिन्तनादयः श्रद्धापूर्वगत्वात् हेतु-फल-सत्य-रत्न-कर्मफलदि-भावदर्शनं हि सम्यक्दृष्टिः | सम्यक्मार्गोपयोगाद् अभीष्टफलाभिनिर्हारत्वाद् अनित्य-दुःख-शून्य-नैरात्म्या-द्याकारेण प्रविष्ट त्वात् सम्यक्दृष्टिरिति |
SK
तत्र मिथ्यासंकल्पः-सङ्कल्प-विपर्ययः | सङ्कल्पो गोचर-विषयालम्बनानाम् अधिवचनम् | गोचरमिति षड्विषया रूपादयः | मिथ्येति विपर्यासः | नित्य-सुख-शुचि-आत्माद्याकारालम्बनाद् राग-द्वेष-मोहवृद्धेः मिथ्यासंकल्पः | तद्विपरीतः सम्यक्संकल्पः | सम्यङ्नाम अविपर्यासः | संकल्पस्तु क्रिया, चिन्तनं च इदमिदं करिष्य इति आदौ चित्ते निधाय काय-वाक्-चित्त-चर्याकुशलः, राग-द्वेष-मोह-रहित-स्वभावः, अनित्य-दुःख-शून्य-नैरात्म्यादिसु नियोजितो यो योनिशोमन सिकारयोगः (स) सम्यङ्मार्गाङ्गम् इत्युच्यते | मिथ्यावागिति दुर्वचनम् | स्वपरविसंवादाकारप्रवृत्ता या वाक् सा मिथ्यावाक् | राग-द्वेष-मोहाद्याकारसम्बद्धत्वाद् आत्मस्तुति-परपंसन-स्वभावेन प्रवृत्ता, चतुर्विध-वाग्दोषमिश्रिता सम्यक्-सत्य-तथता-सर्वधर्मप्रहीणा, राज-चौर-स्त्री-गृहस्थ-जनकथास्वरूपा तुच्छ-व्यर्थता-बहुला सर्वार्यजन-निन्दितत्वान् मिथ्यावाग् इत्युच्यते | तत्प्रतिकूलत्वात् स्वपराविसंवादाकारा राग-द्वेष-मोहादि-रहित-स्वभावा, चतुर्विधवाग्दोषरहित-त्वात् सत्य-सम्यक्-तथतानुसारिणी, चतुःसत्यानुकूलकरणा, सर्वकुशलधर्मसंग्रहा हित-परिच्छिन्न-स्वरूपत्वाद् आत्मस्तुति-परपंसनविहीना अनित्य-दुःख-शून्य(ता)-नैरात्म्यादि-रूपेण प्रवृत्तेः सर्वार्य जनाविसंवादिनी सम्यङ्मार्गानुसारित्वात् सम्यग्वाग् इत्युच्यते |
SK
मिथ्या-कर्मान्तो विपरीतकर्मकरणम् | कर्मेति काय-वाक्-चित्त-दुष्कृत-बीजवपनाद् अक्षयविपाकफलाभिनिर्वर्तित-स्वभावाकुशल-कर्मान्त-कारित्वात् क्षारादिदोषसंसृष्टकुक्षेत्रे कुबीजवपनवद् अनभीष्टविपाकाभि-निर्वर्तितत्वात् पंसनीयः कर्मान्तस्तु मिथ्याकर्मान्त इत्युच्यते | कर्मरति-निद्रारति-वादरत्यादि-स्वभावं मिथ्याकर्म इत्युच्यते | स्वपरास्पृष्ट दुःखप्रतिष्ठाधारस्वभावम्, तद्विरुद्धत्वात् सम्यक्कर्मान्तः | अविपरीतकर्मकृत्त्वात् काय-वाक्-चित्त-सुकृतबीजवपनात् सत्क्षेत्रसदृशसुकृतकर्मक्षेत्रे ऽभीष्टविपाकाभिनिर्वर्तित-विधि-प्रवृत्तेः, अनित्य-दुःख-शून्य(ता)-नैरात्म्यादि-स्वरूपेण प्रवृत्तेः, सम्यक् कर्मान्त-कारित्वात्, सम्यक् कर्मान्तः, सन्मार्गानुसरणत्वात् सम्यक्मार्ग इत्युच्यते |
SK
मिथ्याजीवस्तु विपरीताजीवः | कपट-लपन-नैष्पेशिकत्व-नैमित्तिकत्वेन प्रवृत्य अविपन्न-काय-वागाद्युपजीविकया पुरुष-स्त्र्यादि-निमित्तदेशनेन अस्त्र-अश्व-काव्य-चिकित्सापरीक्षा-संख्या-गृहस्थपरीक्षा-कुमारपरीक्षा-सामुद्रिक-लक्षणपरीक्षा-निमित्तज्ञानादौ स्वपरविसंवादरूपेण प्रवृत्तेः तन्नयेन चीवर-पिण्डादि-साधनानुवृत्त्या विहारस्तु मिथ्याजीव इत्युच्यते | तत्प्रतिकूलत्वात् सम्यगाजीवस्तु मार्गाङ्गमित्युच्यते | सम्यक् तु विद्यावियुक्त-काय-वाक्-चित्तप्रवृत्या चीवरादि-साधनम्, तन्नयेन आजीवः सम्यगाजीवानुसरणत्वात् स्वपरावि-संवादस्वरूपाकारत्वाद् आर्यमार्गानुवर्तित्वात्, सम्यगाजीवस्तु मार्गस्याङ्गमेव व्यवस्थापितः | मिथ्याव्यायामः-व्यायामस्तु प्रयत्नः | मिथ्या इति विपर्यासः | असत्काय-वाक्-चित्त-प्रचारैः स्वपरापकारो, युद्धादिप्रज्ञप्तिः, दूतादिगमनं, चारः, उत्पातः, निक्षेपोत्क्षेपापोहानपोह-सन्धि-विधिनोत्पादः, क्षेत्र-विद्या-व्यापार-राज्यादि-स्वपरापकारि-काय-वाक्-चित्त-प्रवृत्त-विविधाकारारब्धाः क्रियाः प्रयत्नाश्च मिथ्याव्यायाम इत्युच्यन्ते | तद्विरुद्धभूतत्वात् सम्यक्व्यायामः |
SK
सम्यक्-व्यायामस्तु मार्गाङ्गएव व्यवस्थापितः | या कायवाक्चित्तचर्यास्वपरोपकार-मात्रकुशलप्रवृत्या आर्यमार्गम् अनुसरति सा सम्यग्व्यायामत्वात् सम्यक्व्यायामः | स मार्गाङ्गमेव उच्यते | मिथ्या स्मृतिरिति कुत्सनीया स्मृतिः मिथ्यास्मृतिः | स्मृतिस्तु स्मरणम् | इयम् मिथ्या स्मृतिश्चापि भूतत्वान् मिथ्यास्मृतिः | कालत्रयविषयेषु पूर्वहास-आनन्दानुभूत-रूप-शब्द-गन्ध-रस-स्पर्शादीन् अनुस्मरन् अनुकथनम् | तत्रापि अध्यवसान-अनुराग-प्रतिघतादि-परिद्वेषत्वात् स्वपरापकारकारित्वाद्, अभीष्टविपाकसम्बद्धत्वाच्च मिथ्या-निमित्त-मनसिकारस्तु मिथ्यास्मृतिः | तद्विरुद्धत्वात् सम्यक्-स्मृतिस्तु मार्गाङ्गमेव कथिता | गुणानुस्मरणं पूर्वीकृत्य बुद्ध-धर्म-संघ-शील-त्याग-देवाद्यनुस्मरणं सम्यक्स्मृतिः मार्गाङ्गम् एव उच्यते | समाधिकार्यं-समाधिस्तु ध्यानम् | सर्वथा समाधाय धारणत्वात् समाधिः | स तु मिथ्यापि सन्, समाधिरपि भूतत्वान् मिथ्यासमाधिः मिथ्येति तु विपर्ययः | ईश्वर-स्वभाव-काल-प्रधानाध्यात्मात्माद्यसत्सु तत्रालम्बनपूर्वकं यच्चित्त-स्फरणं स्यात्, अपि तु-रूपादि-बाह्यवस्तूनि अनित्य-दुःख-शून्य-नैरात्म्याकारीणि नित्य-सुख-शुच्यात्म दृष्टयादितया अध्यवसीय तेषु आलम्बनपूर्वकं यच्चित्तस्फरणम्, साध्यवसाय पूर्वकं यच्चित्ताधिष्ठानं तत्तु मिथ्यासमाधिरित्युच्यते | तद्विरुद्धं चित्ताधिष्ठानं सम्यक्समाधिरित्युच्यते | स्कन्ध धात्वायतनात्मात्मीयताशून्यादिषु अनित्य-दुःख-शून्य(ता)-नैरात्म्याद्याकारपूर्वकं चित्तप्रतिष्ठानम् | चित्तैकाग्रता तु सम्यक् समाधिरित्युच्यते | सर्वधर्मसमताप्रतिपत्तेः समाधिः | चित्तैकाग्रता एकालम्बनत्वञ्चेति | अधिवचनम् | स सम्यक्-समाधिर्मार्गाङ्गमेव उच्यते | एवम् यः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति |
SK
दर्शनाद्यष्टसेत्वङ्गं हेतुद्वादशपूर्वगम् | विशुद्धात्मा हि यः पश्येद् धर्मतथ्यं स पश्यति |
SK
फलं तुं श्रामण्यफलम् | तत्प्राप्तिस्तु साक्षात्करणम् | सर्वसंक्लेशालय-विज्ञानबीजवासनामलापगतत्वाद् आश्रयपरावृत्तिमयं मनोगोचराचिन्त्या-प्रमेयगुणमण्यलङ्कृतायाः स्वपराधीनात्मक प्रत्यात्मवेद्यसर्वसत्त्वार्थनिरन्तरानाभोग कृतात्म-सर्वप्रपञ्चरहितायाः शमथविपश्यना-युगनद्ध-सर्वधर्म-तथतायाः अधिगमत्वात् क्लेश-ज्ञेयावरणगिरिगह्वरवनमूल-विदहनस्वभावतानुत्तरसम्यक्-संफलं शैक्षज्ञानं तु फल धर्म इत्युच्यते |
SK
अथ शालिस्तम्ब-विभाषाया द्वितीयं पटलम् |
SK
निर्वाणं नाम सोपधिशेष-निरुपधिशेष-स्वभावताप्रतिष्ठितनिर्वाणमित्युक्तम् | अजरम्, अमरम्, अतापं, स्थिरं, शान्तं, नित्यम्, असंहार्यम्, अक्षयात्मकम्, आदिमध्यान्तरहितम् अद्वयं धातुत्रयविरहितं काय-वाक्-चित्तकर्मसमतिक्रान्तं मणिरत्नराजविविधरूपसदृशं गुणमणिविविधप्रभाभिः निरन्तरं जगदर्थकारि शान्तं, धर्मात्मक-काय-भूतं निर्वाणं मन्यते |
SK
सर्वस्याधिगमादेवं धर्मजं बुद्धमेव च |
SK
एवं तद्वत्-संक्लेश-व्यवदानात्मक-सर्वधर्माणां धर्म-तथतायाः यथास्थितिवदवगतत्वाद् बुद्ध इत्युच्यते | धर्मजं नाम धर्मेभ्यो जनितत्वाद् धर्मजम् | धर्मेण जनितम् इत्यधिवचनम् |
SK
तथोक्तमार्यं दृष्टत्वाद् यः पश्यति स पश्यति |
SK
तथेति बुद्धमिति तथोक्तत्वात्, तादृशो भगवान् | आर्यं दृष्टत्वादिति ज्ञानचक्षुषा | आर्यस्तु लोकोत्तरः | पश्यतीति चक्षुषा | यः पश्यतीति यः प्रतीत्यसमुत्पादं धर्मञ्चैवं पश्यति स धर्मजः, धर्मजत्वाद् बुद्धं पश्यतीति भाष्यते |
SK
तत्रात्र प्रतीत्यसमुत्पादः कीदृश उक्त इति चेत् | यः प्रतीत्यसमुत्पादम् इदमित्यादि | प्राणादिरहिताद् यश्च इति तु यः प्रतीत्यसमुत्पादं सततं प्राणादिरहितं प्राणरहितम्, अपश्यद् युक्त्यनुमानाभ्यां चर्यां, मापनम्, कल्पनाम्, उपपरीक्षणञ्च करोति, सततमजीवमिति तु निर्जीवम् | अजीवं आर्हता एवं कल्पयन्ति | इमानि सर्वाणि बाह्याभ्यन्तराणि वस्तूनि सजीवानि इन्द्रियान्वितानि | तस्मात् सर्वाश्चैताः भूमयः सूक्ष्मप्राणिभिः पूर्णाः | तस्मात् सर्वे प्राणिनो जन्तून् भक्षन्ति | ये प्राणिनः प्राणिनो न भक्षन्ति ते प्राणिनस्तु मोक्षं प्राप्नुवन्तीति उच्यते | तस्मात् तन्निराकरणाय अजीव-निर्जीवेत्यादि उक्तम् | अजीव इति निर्जीवः, निष्प्राणस्याधिवचनम्, हेतुप्रत्ययोत्पादधर्मित्वात् | हेतुस्तु बीजादि | प्रत्ययश्च पृथिव्यादि | ते ऽपि परस्परमन्योन्यकल्पना-परिकल्पना-विकल्प-रहित्वात् तृण-वृक्ष-भित्ति-धर्मसदृशा अचलाः निष्क्रियाश्च तस्मात् प्राणादिरहितत्वाद् अजीवाः | परस्परं हेतुप्रत्ययोपनिबद्धजा अन्योन्ये चाचेतनाः | क्रिया कर्माप्यवभासते |
SK
हेतुप्रत्ययसन्ततिरियम् अनादितः प्रवृत्ता | यथाजीवकानाम् आर्हतानां वृक्षा सचेतनाः सन्ति, चलत्वात्, सुप्तत्वात्, छिन्ने ऽपि उत्पादत्वादिति, या व्यवहारप्रज्ञप्तिस्तादृशी नास्ति | बाह्यवस्तुषु सूर्यस्य चन्द्रस्य च स्पर्शवशेन लयो विस्तरश्च अनुमीयेते | क्व तेषां शयनोत्थानम्? वायुसञ्चारवशाद् वृक्ष-शाखादि-कम्पनानुमानात् तेषां गमनागमनं कुत उपलभ्यते | अर्थो ऽसिद्ध एव | छिन्ने उत्पाद इति अयम् अर्थो ऽसिद्ध एव इति दर्शयितुम् उच्यते | यदि सो ऽपि सचेतनः स्यत्, कस्मात् छेदनावस्थायां प्राणातिपत्तीत्यादि दुःखं नानुभवति | अनिच्छादिचर्यां प्रार्थनादिं वा ततो ऽन्यत्रगमनं वाल्पमपि न कुर्वन्ति | छिन्ने उत्पादत्वात् सचेतनत्वाभ्युपगमश्चेत्, तर्हि यच्छेदे ऽनुत्पादः, तन्निवर्तनाद् अचेतनत्वमेव स्यात् | सचेतनानाम् अङ्ग-प्रत्यङ्गादिच्छेदानुत्पाद-धर्मित्वाद् अचेतनताया एव प्रसङ्गो जायते | तस्मात् तद्धेत्वर्थो ऽसिद्ध एव | तस्मादजीवं, निर्जीवम् इतीदं व्यवस्थितम् | यथावदविपरीतमिति अहेतोः प्रतिकूलहेतोर्वियुक्तत्वात् | अजातमिति तु जन्यजनकरहितत्वात् | अभूतमिति शाश्वतोच्छेदरहितत्वात् | अकृतमिति तु कर्तृरहितत्वात् | आभ्यन्तरकर्तृपुरुषेश्वरादिप्रवृत्ति-संस्कार-रहितत्त्वाच्च | अप्रतिघमिति तु अनावरणस्वभावत्वात् | अनालम्बनमिति तु आलम्ब्यालम्बनरहितत्वात् | व्युपशमस्वभावमिति तु कर्मक्लेशरहितत्वात् | एकान्तशमस्वभावमिति सर्वप्रपञ्चरहितम् सर्वकल्पनाजालरहितम् | सततस्थितम्, अभयम् उत्पादविनाशरहितञ्च | य एतादृङ्नयेन धर्ममपि पश्यति | व्युपशान्त्यन्त-संयुतम् इत्युक्तम् | व्युपशान्त्यन्तमिति तु उपशमम् अन्ते दर्शयितुं व्युपशमपर्यन्तम् | यस्तु एतादृशनयेन धर्मं सततम् अजीवादिस्वभावं पश्यति |
SK
प्रतीत्यं धर्मबुद्धौ च शुद्धिबुद्धया हि पश्यति |
SK
सो ऽनुत्तरधर्मशरीरं बुद्धं पश्यति | इति भगवता उक्तम् | इत्यस्यार्थस्तु यः पश्यति | आर्यधर्ममभिसंबुध्य इति तु यो पापधर्माणां पारे अर्थात् दूरे स आर्यः | तेषां धर्म आर्यधर्मः, सम्यक्दृष्टिरित्यादिः | अभिसंबुध्येति अभिमुखे एकाग्रताकरणात् साक्षात्करणाच्च समाधिप्राप्तेरित्यधिवचनम् | सम्यग्ज्ञानोपनयेनैव इति सम्यगविपर्ययेण सर्वधर्मनैरात्म्यतथतावगमत्वात् | अनुत्तरमिति तत्पूर्वं विशिष्टधर्मस्य अभावः, तस्मात् तद् एवानुत्तरमित्युक्तम् | धर्मकाय इति धर्मकाय एव धर्मकायः, निशादा-पुत्रवत् | बुद्ध इति धर्मावबोधात् | तथापि यः प्रतीत्यसमुत्पादं पश्यति स धर्मकृतानुत्तरबोध्यशैक्षस्वभावतां पश्यति | येन स आर्यज्ञानगोचरधर्मं तादृशं स्वयथावद् अभिसंबोधेः धर्मज्ञः, धर्मनिर्माणं धर्मदर्शनम् बुद्धदर्शनम् इति भगवता उक्तम् | प्रतीत्यसमुत्पादलक्षणं भेदव्यवस्थापनार्थं प्रतीत्यलक्षणं तावद् इत्युक्तम् | कस्मात् प्रतीत्यसमुत्पाद उच्यते इति चेत् | तस्मादुक्तम् -
SK
सहेत्वादिपदान्वितम् |
SK
सहेतुकः सप्रत्यय (उच्यते) नाहेतुको नाप्रत्ययः | भगवता प्रतीत्यसमुत्पादलक्षणं संक्षेपेणोक्तम्, एतत्प्रत्ययस्यैव फलम् | तस्मादुक्तम् |
SK
बुद्धोत्पादो भवेन्नो वा स्थितेयं धर्मता यतः |
SK
हेतुप्रत्यय-प्रवाहो ऽविच्छिन्नः | हेतुफलमविच्छिन्नं अन्योन्यं प्रवर्तते | अत्राहेतुः प्रतिकूलहेतुः वा प्रवर्तको निवर्तको वा को ऽपि नास्ति | तस्मात् तथागतानामुत्पादाद्वा अनुत्पादाद् वा धर्मतो धर्मस्थितितो धर्मनियमतश्च एष प्रवाहः, इत्युक्तम् | यदि प्रत्ययरहितेन एकेनैव हेतुना भावा उत्पद्य तिष्ठन्ति, यदि प्रत्ययो ऽपि हेतुमनपेक्ष्य किञ्चिदुत्पादयितुं समर्थः चेत्तदा ते स्थिता अस्थिता इति वक्तुं युज्येत, तेषामुत्पादः फलोद्भवो ऽपि नाहेतोर् न चाप्रत्ययात् तथागतानामुत्पादो वानुत्पादो वा एषा धर्मता धर्मस्थितता च आदितः प्रवर्तेते ||
SK
तद्यथा - प्रतीत्यसमुत्पादस्य धर्म एतत्प्रत्ययताफलमिति भगवता प्रतीत्यसमुत्पादः संक्षेपेण उक्तः | अत्र धर्मता तु हेतुप्रत्ययर्योर्धर्मता | धर्मस्थिततेति अविप्रणाशधर्मता | धर्मनियामतेति इदंप्रत्ययताक्रमनियामता | हेतुप्रत्यय-क्रमवत् प्रतीत्यसमुत्पादसमतेति हेत्वभावे प्रत्ययाप्रवृत्तिः प्रत्ययाभावे च न हेतु-प्रवृत्तिः | परस्परसामग्र्यां च प्रवृत्तिः | अनन्यतथतेति अन्यताविरहितत्वात् | भूततेति अविसंवादत्वात् | सत्यता इति सत्यानुकूलत्वात् | तथतेति अर्थान्वितत्वात् | अविपरीततेति तु चतुर्विधविपर्ययरहितत्वात् | अविपर्ययतेति अनुकूलत्वात् | एवमपि प्रतीत्यसमुत्पादो ऽयम् इत्यादि हेतुप्रत्ययद्विविधत्वाद् हेतुप्रत्ययोभयार्थ प्रतीत्यसमुत्पादस्य क्रमो ऽभ्युपगन्तव्यः | कतमौ द्वाविति? उच्यते | हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च| तच्च बाह्याध्यात्मिक-भेदेन चतुर्विधो ऽवगन्तव्यम् -
SK
बाह्य आध्यात्मिकश्चापि द्विविधो हेतुप्रत्ययः | इत्युक्तम् |
SK
एवं बाह्याध्यात्मिकविशेषेण पृथग् हेतुप्रत्ययानां लक्षण-भेदः कीदृश इति चेत् |
SK
बाह्यो हेतुस्तु बीजादि इत्युक्तम् |
SK
तत्र कतमो बाह्यः सहेतुकः प्रतीत्यसमुत्पाद इति उक्त्वा तदिदम् - बीजादङ्कुरः | अङ्कुरात् पत्रम् | पत्रात् काण्डम् | काण्डान्नालम् | नालाद्गण्डः गण्डाद् गर्भम् [गर्भाच्छूकः] पुष्पात् फलम् इत्युक्तम् |
SK
प्रत्ययः षड्विधो मतः |
SK
इति त्ववस्थात्वाद् बाह्यप्रतीत्यसमुत्पाद इति योज्यम् | षड्विध इति तु पृथिव्यादयः षड्विधाः | तस्मात्तूक्तम् -
SK
बीजाङ्कुरप्रकाण्डादिः फले यद्वत् प्रवर्तते |
SK
बीजे सति अङ्कुर-काण्डादि-फल-पर्यन्तानां प्रादुर्भावाद्, बीजे ऽसति अङ्कुरकाण्डादिफलपर्यन्तम् न प्रादुर्भवति | तत्र बीजस्य नैवं भवति अहमङ्कुरादि अभिनिर्वर्तयामि इति | अङ्कुरस्यापि नैवं भवति अहं बीजादिना अभिनिर्वर्तितः इति | एवं यावत् पुष्पस्य नैवं भवति अहं फलमभिनिर्वर्तयामीति | फलस्यापि नैवं भवति अहं पुष्पेणाभिनिर्वर्तित इति | अथ पुनर्बीजे सति अङ्कुरादितः फलादि पर्यन्तं प्रादुर्भावः | असति न भवति | एवं बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः |
SK
प्रत्ययस्तु पृथिव्यादि कालान्तं हि यथा क्रमम् |
SK
तस्मादेव कथं बाह्यप्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्य इत्यादि उक्तम् | बाह्यप्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धाः कतिधा द्रष्टव्या इत्युक्तम् षण्णां धातूनां समवायात् | कतमेषां षण्णामिति | पृथिव्यप्तेजोवाय्वाकाशर्तुधातूनां यथाक्रमं समवायाद् बाह्यप्रतीत्यसमुत्पादस्येति प्रत्ययता यथाक्रमम् | क्रमो यथावद् ज्ञातव्यः | एषाम् हेतुप्रत्ययानां कतमस्य कर्म कतमद् इति चेत्? तस्माद् उक्तम् |
SK
धारणं स्नेहनं पाको धान्यवृद्धिरनावृतिः | परिणामस्तथा तेषां कार्यं तद्वत् प्रवर्तते ||
SK
तत्र पृथिवीधातुर्बीजस्य संधारणकृत्यं करोतीति बीजमङ्कुरोत्पादोन्मुखमाश्रयत्वात् कठिनत्वमेव उच्यते | अब्धातुः स्नेहयतीति अभिष्यन्दयतीति भाषितः | तेजो धातुः परिपाचयतीति परिपुष्टयवसरे उपपद्यमाने परस्पर-स्पर्शेणोष्णता एव परिपाक इति उच्यते |
SK
वायुधातुर् अभिनिर्हरतीति वर्धनत्वाद्, स्वावस्थायाः समुद्धृत्य बहिरा नयनाद् वायुधातुर्बीजमभिनिर्हरति वर्धयतीति उच्यते | आकाशधातुर्बीजाङ्कुरादीनाम् अनावरणकृत्यं करोतीति | आकाशधातुर्विघ्नाकरणत्वाद् अनुकूलप्रवृतेः बीजाङ्कुराद्यनावरणकृत्यं करोतीत्युच्यते | ऋतुरपि बीजस्य परिणामनकृत्यं करोतीति ऋतुरपि सर्वाकारं अभिनिर्हरति | ऋतौ यथावत् परिवर्तमाने बीजपरिणामकृत्यं करोतीति | सर्वेषामप्यवैकल्ये प्रादुर्भावः | वैकल्ये तु न प्रादुर्भावः | तस्मादेव उक्तम् |
SK
नो चेत् प्रत्ययसामग्री बीजे भूते ऽपि नाङ्कुरः | बीजाभावे तु सत्येवं प्रत्ययभावो ऽपि तादृशः ||
SK
तस्मादेव उक्तम् | सर्वसमवायाद् बीजे निरुद्धे ततो ऽभिनिर्हारः स्यात् |
SK
हेतवः प्रत्ययास्तद्वद् आत्मग्राहादिवर्जिताः | हेतुप्रत्ययसामग्र्या न नश्येत् कर्मणः फलम् ||
SK
तत्र पृथिवीधातोर्नैवं भवति अहं संघातकृत्यं करोमीति | तद्वत् जले अग्नौ, वायौ, आकाशे, ऋतौ चापि नैवं भवति | आत्मात्मीयग्रहाभावान्न कर्मफल-प्रज्ञप्ति-प्रणाशः, सर्वत्र हेतुप्रत्ययवैकल्याभावाद् इत्यवगन्तव्यम् | सो ऽङ्कुरो ऽपीति बीजहेतुकतदङ्कुरादीनाम् उत्पादो
SK
न स्वतो परतो नापि न द्वयोः कर्तृकालतः | ईश्वरादिकृतं नैवं स्वभावान्नाप्यहेतुतः || इत्युक्तम् |
SK
स्वत इति हेतुप्रत्ययाभावे स्वत उत्पादः | स्वभाववादिन एवं कल्पन्त इति श्रूयते |
SK
भावानां स्वभावत सततमत्र तिष्ठति | अत्र न कश्चिदुत्पद्यते न च कश्चिन् निरुध्यते |
SK
मायूरस्य पत्रवैचित्र्यं, कमलादिषु रक्तता, काण्डादीनां तैक्ष्ण्यादिकं केन पूर्वनिर्मितमित्युच्यते |
SK
तस्मात् तन्मतनिराकरणायोक्तम् | भावानां स्वत उत्पादो न युज्यते | पूर्वाध्यवसितत्वात् | उत्पत्तिमत्त्वेन अभ्युपगम्यते, हेतुप्रत्ययताभ्युपगमः | तस्माद् वस्तूनां स्वभावत उत्पादो न युज्यते, उत्पत्तिमत्वाद् घटादिवत् | यस्यानुसारं भावाः सततं स्थिताः तदनुसारम् उत्पाद-क्रिया-कर्म-स्थिति-विनाशा अपि न युज्यन्ते, उत्पाद-क्रिया-कर्म-स्थिति-विनाशा अपि साक्षाद् अवभासन्ते |
SK
तस्माद् अत्र दोषस्य प्रसज्यमानत्वान् न स्वत इत्युक्तम् | भावानाम् स्वत उत्पादश्चेत् नित्यमुत्पादप्रसंगः स्यात्, आकाशवत् | कस्यचिदपि कुत्रापि कदापि उत्पादो निरोधो वा नास्तीति चेत्- उच्यते- प्रत्यक्षविरोधः | एवं भावानां हेतुप्रत्ययाद् उत्पादो भासते, तस्मात् तावद् भावानां न स्वभावत उत्पादः | परतः इति आत्मतः | परेषामुत्पादको विनाशकश्चात्मास्तीति श्रूयते | बाह्याभ्यन्तरसर्ववस्तूनि तु आत्मगुणाः | आत्मा अन्तः करणपुरुषो ऽस्ति |
SK
तथा सति गमन-आगमन-चलन-कम्पन-निराकरण-मन्यना-क्रिया-कर्माणि तत्रैव अन्यत्रापि च प्रवर्तन्ते | चक्षुरादिः आत्मगुणः, परार्थत्वात्, शयनाद्यङ्गवदिति | परसंज्ञा तु आत्मनि सत्येवोच्यते | चक्षुरादिः तद्गुणत्वात्, तदर्थस्तु परार्थः | यथा शयनादि परैरुपयुक्तत्वात् परार्थमितिवत् परार्थत्वादिति | अयं हेतुः शयनोपमया न युज्यते संघातत्वात् | आत्मात्वसंघातस्वरूपः | कथम् आत्मा असंघातः सन् स्वशरीराभावे शयनादीन् अङ्गसंघान् स्वरूपेणोपकर्तुं युज्यते | तस्मात् स हेत्वर्थो ऽसिद्धः, असंघातस्य परार्थनिष्पादकत्वात् | शयनभेदेन शयनोपमा संघातस्य परार्थत्वमेव साधयति | आत्मनः संघातत्वाद् हेतुप्रत्यययोरुत्पादोपलब्ध आत्मात्मीय इति मन्यनाकारप्रवृत्तेः चित्तमेवात्मा इत्युच्यते | अत्रान्तः करणपुरुषः कूर्मकेशस्वभाववद् युक्त्यनुमानरहितस्तु क्वचिन्नास्तीति दर्शयितुम् भगवता बाह्याध्यात्मिकभावानां परत उत्पादो न युज्यत इत्युक्तम् | यदि भावानां स्वतो ऽपि नोत्पादो न च परतो ऽपि, तदा भावानां द्विविध उत्पाद इति चेत्, तस्मात् तन्मतनिषेधार्थमुक्तम् | न द्वयोः न च कालत इत्युक्तम् |
SK
न स्वतः परतश्च न | अन्ये तु स्वपरयोः सम्बन्धाद् भावोत्पादं मन्यन्ते | तस्माद् उभयत एव वदन्ति | तथापि स्वतो ऽनुपलब्धत्वात् परतश्चाभावात् न द्वयोः इत्युक्तम् | हेतु-प्रत्ययातिरिक्तं न स्वतो न परत इति भगवता उक्तम् | यदि उभयसंयोगे ऽपि उत्पादविनाशौ नेष्टौ, तदा परतन्त्रेण कर्त्रा उत्पादविनाशौ भविष्यत इति कैश्चिदुच्यते | अन्ये तीर्थिकास्तु कर्त्ता नाम कश्चिद् आद्यःकर्ता, नित्यो ऽनवच्छिन्नो व्यापकश्चात्मेति कश्चिदस्ति, स एव बाह्यमाभ्यन्तरञ्चेदं सर्वम् उत्पादयति विनाशयतीति मन्यन्ते | तस्मात् तन्मतखण्डनार्थम् उक्तम् | भावानामुत्पादः स्थितिर्विनाशश्चैव न कर्त्रधीनाः | अथ कस्येति चेत्- हेतुप्रत्ययसम्बन्धाद् भावानां प्रवृत्तिर्भासते | कर्तुस्तु आकाशवन् निर्विकारत्वात् तदधीना उत्पाद-स्थितिविनाशाश्च नैव युज्यन्ते |
SK
कस्मादिति चेत्, कर्त्तरि निर्विकार-निष्क्रियाकाशात्मनि क्रिया कर्म च किञ्चिदपि नास्ति | उत्पद्यमाना भावा हेतुप्रत्ययापेक्षाः प्रवृत्ति-क्रमोद्भूता एव भासन्ते | यदनुसारं कर्त्तारमपेक्षते प्रवृत्तिस्तदनुसारं भावानाम् उत्पाद-स्थिति-विनाशाश्च सदा आसन्ना भवन्ति | कर्तुर्नित्यत्वाद् भावानाम् उत्पादओ-स्थिति-विनाशा युगपद् भविष्यन्ति अथवा उत्पाद-स्थिति-विनाशा न भविष्यन्ति | नित्यत्वात् क्वचिदपि किञ्चिदपि उत्पादो वा विनाशो वा न स्यात् | हेतुं प्रत्ययञ्च अपेक्ष्य प्रवर्तमानानां भावानामेव कर्तृ-क्रिया-हेतुफलोत्पादसमः क्रमोद्भव उपलभ्यते | अनुत्पन्ना-काशोत्पलादीनान्तु उत्पाद-स्थिति-विनाशा न युज्यन्ते | अविकारहेतुभिः परस्परमाश्रित्य प्रवर्तमानैः उत्पादनियमो न युज्यते |
SK
नित्यभावादनित्यो हि समुत्पादो न युज्यते | हेतुतस्त्वविकारत्वात् समस्यैवोद्भवे सति | हेतौ फले च संभिन्ने ऽविकारस्तु कथं भवेत् |
SK
हेतौ विकारस्यापि भूतत्वात् तदसादृश्यपक्षो नष्टः | क्रियानन्वितवन्ध्यापुत्रात्मनि कस्याश्चित् क्रियायाः कर्मणो वा नियतेन अयुक्तत्वाद् भगवद्धर्मेषु अविसंवादित्वाद् भावोत्पादक्रिया कर्त्तारं नापेक्षते, किन्तु सति हेतुप्रत्ययसङ्ग्रहे भावानामुत्पादविनाशौ युज्येत इत्युक्तम् | यद्येवम् अत्र भावोत्पाद-स्थित्यन्यथा-भावतादिरभ्युपगन्तव्यः |
SK
भावोत्पादस्थितीनां तु ज्ञातव्यो हेतुरीश्वरः | अन्येषां विप्रतिपत्तिर्यथावत्तैर्हि भाष्यते ||
SK
अन्यैः सत्त्वभाजनलोकयोरुत्पाद-स्थिति-विनाशास्तु ईश्वरकृतप्रणाशा अवगम्यन्ते, तदीश्वरेच्छावशात् काय-भूमित्रय-कर्त्रादिसंभवः स्यादिति श्रूयते | अन्ये तस्यैव चित्तोत्पादमात्रेण नरक-प्रेत-तिर्यक्-देव-मनुष्यदयाश्च सत्त्वाः ज्वर-विष-व्याधि-स्त्री-पुरुष-नपुंसक-सुकृतरूप-विकृतरूप-दस्यु-जिह्म-चौराः काममिथ्याचार-प्राणातिपात-मृषावाद-मद्यपान-द्यूतप्रवेश-प्रत्यन्त-शबर-डोम्बी-निर्दय-क्रूर-पारुष्यवाद-ब्रह्मघात-मातृपितृघातक-व्याधादयः, यक्ष-राक्षस-डाकिन्यादयः सर्वे परघातकाः, सुख-दुःखादयः स्वर्गो विमोक्षश्च तानि सर्वाणि चित्तोत्पादमात्रेणोद्धृतानीति वदन्ति | ईश्वरकर्तृत्ववादिनो ऽतिसुकुमारप्रज्ञा एव, अतिमन्दप्रज्ञा एव, गतानुगतिकाश्चैव युक्तिविशेषरहिते तस्मिन् गौरवप्रवणत्वात् पूर्वोत्तरविरुद्धं बालयुवकचाण्डालवदयथार्थ प्रत्यक्षादिविरुद्धं, दान-विनय-संयम-इष्टानिष्टफलं, सुकृतदुष्कृतकर्म, गम्यागम्यं, भक्ष्याभक्ष्यं, स्वर्गापवर्गादिफलविरुद्धं, युक्त्यागमादिविरुद्धं च वाङ्मात्रेण पक्षीकृत्य निजाज्ञानपटलेन नेत्राच्छादनत्वाद् असमर्थत्वात् पशुभूतास्तु पशुभ्यो ऽप्यतिछुद्रतराः पशवः | निगूढवन्ध्यापुत्रस्वभावं पशुपतिमाश्रित्य, जन्मस्थितिविनाशानां हेतुतांस्यअपि तूच्चताम् | उत्पादे स्थितौ च सहेतुक एवाभ्युपगम्यमाने सति नित्यवादभङ्गत्वाद् वादोत्सर्गः, विपरीतसिद्धत्वाद् ईश्वरस्य अहेतुत्वमेव सिध्यति | इच्छामात्रेण उत्पादे सति युगपदेव सम्पूर्णजगत उत्पादस्थिति-विनाशाः स्युः |
SK
तस्मादपि असिद्धार्थतैव स्यात्, सर्वेषां नित्योत्पादप्रसङ्गत्वात् | दुःख-कुहना-जिह्म-अशुचि-अकृतज्ञताद्युद्धरणानां तु प्रयोजनविशेषाभावाच्च असिद्धार्थता | तदुद्धरणायासो निष्फलः | प्रयोजनाभावे हि कल्पनापूर्वङ्गमानां प्रवृत्तिर्नास्ति, प्रयोजनाव्याप्तेः | तत्प्रयोजनवद्व्यावृत्तौ कल्पनापूर्वङ्गमानां प्रवृत्तेरपि निवृत्तेः असिद्धार्थतास्ति |
SK
हेतुप्रत्ययवैकल्ये क्रमोत्पादविनाशौ प्रत्यक्षतया भासेते, अवैकल्ये चानुत्पादः |
SK
सत्त्वभाजनलोकयोरुत्पद्यमानसुखदुःखादीनां स्थितिविनाशौ क्रमश उपलभ्येते, तस्मान्न ईश्वरो हेतुः | कस्यचिदपि भावस्य उत्पाद-स्थिति-विनाशा न युज्यन्ते| तस्मादपि प्रत्यक्षविरोधो ऽसिद्धार्थ एव | नान्यत् प्रत्यक्षतो गरीयः प्रमाणमिति सर्ववादिप्रसिद्धम् |
SK
नैकान्ते ऽर्थक्रिया | दयाप्रतापाभावे गम्भीर्यगुण-दर्शन-चर्या-चिन्तनादि न युज्यते |
SK
एकान्तक्रियायुक्ता युक्तयोर्गाम्भीर्यगुणस्य रूपादेर्वा आलम्बन चिन्तनस्यैव अयुक्तत्वात्, तत्तु प्रतिकूलम् |
SK
हेतावसति सर्वत्र प्रत्यय एव कथं भवेत् | अहेतौ कारकाभावात् कथमीष्टे महेश्वरः | भावकर्ता महेशश्चेत् सो ऽपि कर्ता न मन्यते | पित्रभावे सुतोत्पत्तिः सा नेष्टा दृश्यते न च | हेतुनिष्यन्दसादृश्यं मन्यन्ते युक्तिवादिनः | नित्यान्नित्यफलं युक्तमनित्याच्चाप्यनित्यकम् | शालिबीजात्फलं तस्मादङ्कुरोत्पाद ईक्ष्यते | तथा महेश्वरे नित्ये भावानां स्यात् सदोद्भवः | यथाग्निर्दाहयेत्सर्वं तथाचेदीश्वरो मतः | अग्निहेतुस्तथान्यो ऽग्निः ईश्वरे नास्ति हेतुकम् | क्रमप्रवृत्तज्वालाभिः सर्वदाहो ऽपि मन्यते | ईश्वरस्याविकारित्वाद् अग्निवत्त्वं न युज्यते |
SK
तस्मादीश्वरकर्तृत्वाभ्युपगमे बहुदोषसंभवाद् भगवता भावानाम् उत्पादः ईश्वरकृतो न युज्यते इत्युक्तम् | परे तु सर्वं कालेन विवर्तितं मन्यन्ते | तैरेवमुच्यते |
SK
स्थितिर्भावान् समुत्पाद्य कालेनैव विवर्त्यते | भावोत्पादस्थिती चापि कालेनैव विवर्तिते |
SK
तदेवम् उच्यते | अत्र काल इति किं नाम? नित्यो वा अनित्यो वा, पुरुषः स्त्री नपुंसकस्वभावो वा, देवो पिशाचो वा, मूर्तो ऽमूर्तो वा, सक्रियो निष्क्रियो वा |
SK
स नित्यश्चेत्तदा तत्र क्रियापेक्षा न युज्यते | उत्पादश्चेत्सकृत् सो ऽपि विरुद्धत्वान् न मन्यते | अनित्यत्वे ऽकालस्य हेतुप्रत्यययोगतः | यदि पुंस्त्रीनपुंसादि यत्किञ्चित्स्याद् विरुध्यते | देह्यदेहिक्रियादौ च पारस्परविरुद्धता | नित्यत्वे निर्विकारत्वात् क्रियाकर्म विरुध्यते |
SK
एवं कालवादिनां कालवशेन भावानामुत्पाद-स्थिति-विनाशाभ्यु-पगमस्यापि अयुक्तत्वात् तदप्यसमञ्जसमेव | सूर्यचन्द्र-नक्षत्र-पर्व-वत्सरादि-बाह्याभ्यन्तरभावानां गतगम्यस्वभावत्वात् कालाख्यया भावानामुत्पाद-स्थिति-विनाशास्तु कालपरिणामत्वेन न युज्यन्ते|
SK
अन्यच्च, स्वभाववादिन आन्तरबाह्यान् सर्वभावान् स्वभावोद्भवान् मन्यन्ते | भावानां स्वभाव एव, कस्यचिद्भावस्य उत्पादस्य विनाशस्य वा कश्चिदपि हेतुर्नास्ति | खर-स्निग्ध-उष्ण-लघुत्व-श्लक्ष्ण-तीक्ष्णानि स्वभाव एव | मधुर-अम्ल-लवण-कटुकानि असत्त्वभेदा एव |
SK
देव-मानुष-तिर्यञ्चो राजब्रह्म-कुजातयः | सुकृतं दुष्कृतं चापि सुखं दुःखं सदा स्थितम् | स्वभाववैमत्या तेभ्यो भ्रान्तचित्तेभ्य एवं वक्तव्यम् | स्वभावे विकृते दृष्टे प्रत्यक्षादिविरुद्धता | विकारो वर्तते यत्र निर्विकारः कथं भवेत् | व्यक्त्यनेकप्रभेदाच्च जन्म नाशश्च भासते | जातेर्विनाशसम्बन्धान् निर्विकारः कथं भवेत् | स्वभावे निर्विकारत्वात् पुरुषादौ निरर्थके | कुले राजनि क्षेत्रादौ तत्फलं चापि भासते | स्वभावे विकृते जाते नित्यवादी तु भ्रंसते | मार्गो ऽयं युज्यते तस्माद् हेतुप्रत्ययवादिनाम् |
SK
एवं स्वभाववादिष्वपि परस्परविरोधत्वाद् उत्पाद-स्थिति-विनाशानां स्वभावाद् उद्भवो न युज्यत इत्युक्तम् | अथ भावानाम् उत्पाद-स्थिति-विनाशा अहेतुतो भवन्ति इत्यपरे ऽहेतुवादिनो हेतुं विनैव केवलम् भावानामुत्पाद-निरोधौ कल्पयन्ति | अहेतुवादो ऽभ्यपगम्येत चेत्, हेतोः अनिश्चितत्वात् कृतप्रणाश-अकृताभ्यागम-अनवस्थाश्च भविष्यन्ति | सुकृत-दुष्कृतादि-पितृ-पुत्र-ब्राह्मण-राजन्य-वैश्य-शूद्र-श्वपचादि-शुच्यशुचि-गम्यागम्य-भक्ष्याभक्ष्य-देवपिशाचादि-दान-विनय-संयम-जप-तपस्या-उपवास-निश्चय-यागज्ञानाज्ञान-हेत्वनिश्चयात् परस्परभेदनिर्णय-व्यवस्थापि न संभवति | तस्मात्तस्यैव दोषस्य प्रसज्यमानत्वाद् अहेतुवादो ऽपि लोकादि-विरुद्धत्वाद् असिद्ध एव |
SK
ये चान्ये प्रधान-परमाण्वाद्यहेतु-प्रतिकूलहेतुवादादयस्ते ऽपि तेनैव निषेधितव्याः | तस्मान् |
SK
न स्वतः परतो नापि न द्वयोः कर्तृकालतः | ईश्वरादिकृतं नैव स्वभावान्नाप्यहेतुतः || इत्युक्तम् |
SK
हेतुप्रत्यययोर्वृत्तिर्भासते ऽनादिकालतः ||
SK
इति तु अनादि-कालतः प्रपञ्च-वासनाबीजस्य अविच्छिन्न-नदीस्त्रोतः-प्रवाहवद् अनुप्रवृत्तेः
SK
हेतुप्रत्यययोर्वृत्तिर्भासते ऽनादिकालतः | इत्युक्तम् |
SK
तस्मादेव सूत्रे अथ पुनः पृथिव्यप्तेजोवाय्वाकाशर्तुधातुसमवायाद् बीजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिर्भवति इत्युक्तम् | ऽअथ पुनःऽ इति तु अभावादुद्भव-स्व-पर-द्वय-ईश्वरादि-रहित-बीज-पृथिव्यादि-सामग्र्या एव अङ्कुरादि उत्पद्यत इति उक्तम् |
SK
पञ्चभिर्हेतुभिर्बाह्यः प्रतीत्योत्पाद इष्यते | इति |
SK
पञ्चभिर्हेतुभिरिति तु हेतुपञ्चकैरिति, बाह्यस्येति बीजादेः | ऽप्रतीत्योत्पादऽ इति प्रतीत्यम् |
SK
शाश्वततो न चोच्छेदान् न सङ्क्रान्तेः परीत्ततः | हेर्तोर्महाफलावाप्तिः सदृशानुप्रबोधतः | इत्युक्तम् |
SK
ऽशाश्वततो नऽ इति यस्मादन्यद्बीजम्, अन्यो ऽङ्कुरः, न च य एवाङ्कुरास्तदेव बीजम्, बीजमेवापि नाङ्कुरः | अनिरुद्धाद् बीजादपि अङ्कुरो नोत्पद्यते | न च निरुद्धाद्, तथापि बीजनिरोधे अङ्कुर उत्पद्यते | तस्मान् न शाश्वततो, न चोच्छेदादिति न च पूर्वनिरुद्धाद्बीजादङ्कुरो निष्पद्यते नाचाप्यनिरुद्धाद् | अपि तु बीजाद् निरुद्धात् तस्मिन्नेव समये ऽङ्कुरो उत्पद्यते | अतो नोच्छेदतः | न संक्रान्तितः इति तु बीजाङ्कुरौ तु असदृशौ एव | तस्मात् ऽन संक्रान्तितः | परीत्ततः हेतोरिति- परीत्तबीजवपनान् महाफलावाप्तिरिति तत्परीत्त-हेतोर्बहुफलाभिनिर्वृत्तिः, परीत्तान्महाफलाभि-निर्वृत्तित्वात्, तस्मात् परीत्तहेतोर्महाफलाभिनिर्वृतिः | सदृशानुप्रबोधाद् इति तु यादृशं बीजमुप्यते तादृशमेव फलाभिनिर्वृतिरिति | अतस्तत्सदृशानुप्रबन्धः | सदृशाफलाभिनिर्वृत्तिः |
SK
बीजाङ्कुरयोर्भिन्नत्वाद् बीजं नित्यं न वर्तते | यतश्चोच्छेदतो नास्ति बीजे सति तथाङ्कुरः | बीजसादृश्यसिद्धत्वात् तद्भिन्नं न चेष्यते | अङ्कुरस्य फलादीनां सङ्क्रान्तिश्चाङ्कुरस्य न | एकबीजं परीत्ताणोः बीजत्वेनैव सम्भवेत् | तस्मात् परीत्ततो हेतोर्जायते हि महत्फलम् | उप्ते शाल्यादि बीजे हि श्यामाकादिफलं न हि |
SK
तस्मादेव - अङ्कुरो बीजवन्नेष्टो निर्हेतुर्नो ऽङ्कुरोद्भवः | समो निरोध उत्पादस् तुलोन्नामावनामवत् | इत्युक्तम् |
SK
एवम् बाह्यप्रतीत्यसमुत्पादः परिकल्पनात्मकेन अनुपचयत्वेन द्रष्टव्यः |
SK
तथैवाध्यात्मिकस्यापि हेतुश्च प्रत्ययो द्विधा |
SK
तथैवाध्यात्मिकस्यापि बाह्य-प्रतीत्यसमुत्पादवद् हेतुप्रत्ययाकारद्वयोप-निबन्धनत्वात् पृथक् द्विविधो ऽवगन्तव्यः | द्विधा हेतुश्चप्रत्यय इति तु आध्यात्मिकः प्रतीत्यसमुत्पादो हेतूपनिबन्धनः प्रत्ययोपनिबन्धनश्च द्वयाकारो ऽवगन्तव्यः | इष्ट इति अभीष्टस्य च अभिप्रेतस्य अभिमतस्य चेत्यधिवचनम् | तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कथमवगन्तव्यः? उच्यते -
SK
आदिहेतुरविद्यास्य मृत्युरन्त्यो यथाक्रमम् |
SK
तत्रादावविद्यादेशनाद् आदौ अविद्या, अन्ते मरणाङ्गदेशनत्वान् मृत्युरन्ते | यत्तयोर्मध्ये स्यात् तत् तु मध्य इष्यते | तस्मात् सूत्रे अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्यय मुपादानम्, उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्यया जरामरण-शोक-परिदेव-दुःख-दौर्मनस्योपायासाः संभवन्ति | एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति | इत्युक्तम् |
SK
सजन्मक्लेशकर्मात्मा द्वादशाङ्गस्त्रिकाण्डकः | हेतुप्रत्ययसम्भूतः कर्त्तेत्यादिविवर्जितः |
SK
क्लेश-कर्म-जाति-परतन्त्रो ऽयमात्मापि अंशत्रयेण व्यवस्थाप्यते | क्लेश-परतन्त्रस्वभावतया, कर्मपरतन्त्रस्वभावतया जन्मपरतन्त्रस्वभावतया च | तत्र क्लेश परतन्त्र-स्वभावताया अङ्गानि त्रीणि-अविद्यातृष्णोपादानानि | कर्म-परतन्त्र-स्वभावतायाः द्वे अङ्गे-भवसंस्कारौ | जाति-परतन्त्र लक्षणमपि शेषसप्ताङ्गम्-विज्ञानम्, नामरूपम्, षडायतनम्, स्पर्शो, वेदना, जातिः, जरामरणञ्चेति | अपीतिपदं संग्राह्यतां दर्शयति | शोक-परिदेवना-दौर्मनस्य-उपायासादीनां प्रियवियोगा-प्रियसंप्रयोग-कामविपत्त्यादीनां च संग्रहः | एवम् अयं प्रतीत्यसमुत्पादो द्वादशाङ्गः त्रिस्वभावतया वेदितव्यः | सो ऽपि कर्त्रादि-स्वभावता-रहितो ज्ञातव्यः |
SK
अथ शालिस्तम्बसूत्रटीकायां तृतीयं पटलम् |
SK
अविद्या यदि नादौ स्यादन्ते मृत्युर्न संभवेद् |
SK
ऽअविद्या यदि नादौ स्याद्ऽ इति तु यदि अविद्या चेन्नाभविष्यन् नैव संस्काराः प्रज्ञास्यन्ते | तद्वद् जरामरणपर्यन्तं चेन्नाभविष्यन् नैव शोकादि प्रज्ञास्यते |
SK
तेभ्यो भिन्नो न कुत्रापि ह्यात्मात्मीयश्च विद्यते |
SK
तत्राविद्याया नैवं भवति अहं संस्कारादि अभिनिर्वर्तयामीत्यतो जरामरणपर्यन्तं नैवं भवति अहं शोकादि अभिनिर्वर्तयामीति | संस्कारादीनामपि नैवं भवति वयमविद्यादिभ्यो ऽभिनिर्वर्तिताः | एवम् यावज्जरामरणस्यापि नैवं भवति वयं जात्यादिभिरभिनिर्वर्तिता इति |
SK
अविद्यासंभवादादावन्ते मृत्युश्च भासते |
SK
अथ च सत्यामविद्यायां संस्काराद्यभिनिर्वृत्तिर्भवति, प्रादुर्भावः | एवं यावज्जरामरणं, शोकपरिदेवाद्यभिनिर्वृत्तिर्भवति |
SK
हेतुराध्यात्मिकस्यास्य |
SK
एवमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः | कथमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः? उच्यते -
SK
प्रत्ययाः षट्प्रकारकाः |
SK
अस्येति तु आध्यात्मिकस्य| प्रत्ययस्तु सामग्री षट् प्रकारका इति षड्विधाः |
SK
प्रत्ययो ऽध्यात्मिकस्त्वन्ते विज्ञानं चादिके धरा |
SK
विज्ञानस्यान्ते परिदेशनत्वाद् ऽअन्ते विज्ञानम्ऽ | आदिके धरा इत्युच्यते |
SK
तस्मात् सूत्रे -षण्णां धातूनां समवायात् पृथिव्यप्तेजोवाय्वाकाश-विज्ञानादिस्त्वाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः | इत्युक्तम् |
SK
काठिन्यानुग्रहौ पाकः श्वासवृद्धिरनावृतिः |
SK
तत्र अध्यात्म-पृथिवीधातुः कतमः? यत्कायसम्बद्ध-कठिन-कर्कश-रूक्ष-खरगत-केश-रोम-नख-दन्त-स्वेद-मल-चर्म-मांस-स्नायु-अस्थयादि-सदृशम्, अन्यच्च अस्मिन् काये यत्किञ्चिदस्ति तत्सर्वं संगृह्य पृथिवीधातुरुच्यते | अनुग्रह तु संग्रहः, सम्बन्धो-मृदुः, आलिङ्गनं, पिण्डीकरणं स्निग्धता च | तद्यथा-अश्रु-स्वेद-कफ-सिंघाणक-मज्जा-शुक्र-मूत्र-उच्चार-रक्त-लसीका-मस्तक-ग्रहणी-पक्वाशयादिः अन्यच्चास्मिन् काये तादृशं स्निग्ध-स्वभावं स्याज्जलधातुरुच्यते |
SK
पाको नाम पाचनम्-पाक-पाचन-पाचक-उष्णाग्निस्ताप-तापन-वृतिर्यश्चैतत्कायमध्ये अशित-पीत-खादितानां सम्यक्सुपाचकः | अन्यच्च यत्किञ्चित्कं तादृशं तत्सर्वं तु तेजोधातुरुच्यते | श्वास इति वायुधातुः | श्वासस्तु उच्छ्वासः, आश्वासो, भाषणं, प्रलापो, गमनागमनं क्षयो वृद्धिरिति | कायस्य विस्तारः, सङ्कोचः, कम्पनं, चलनं, उत्क्षेपः, पोषणं, वृद्धिः, पीनसः, कासः, छिक्का, ऊर्ध्ववायुरधोवायुरन्यच्चापि एतत्कायमध्ये यत्किञ्चित् तादृशमस्ति तत्सर्वम् एकतः पिण्डीकृत्य वायुधातुरित्युच्यते | आकाशमिति अनावृतत्वादाकाशम् | आवरणं सप्रतिघं संवृतञ्च | राजी-कोष-अन्तारन्ध्र-मुखरन्ध्र-कर्णपुट-नासापुट-नेत्रछिद्रादयः कायान्तः कोषश्चायम् आकाशधातुरित्युच्यते |
SK
नामरूपानुवृत्तिश्च पञ्चविज्ञानसंयुतः | तस्मात् क्लिष्टं मनश्चैवाध्यात्मिक प्रत्यया इमे ||
SK
तत्र नामानुवृत्तिः रूपानुवृत्तिश्च आध्यात्मिकविज्ञानधातुरित्युच्यते | पञ्चविज्ञानसंयुतः इति तानि पञ्चविज्ञानकायानि, ततः क्लिष्टं मनश्चापि इति क्लेशमयं मनः, तानि च चतुर्महाभूतानि एकतः पिण्डीकृत्य नडकलापयोगेन नामरूपमित्युच्यते | तत्र नामेति चत्वारो ऽरूपस्कन्धाः-वेदना, संज्ञा, संस्कारो विज्ञानं चेति | रूपं नाम पित्रोः शुक्रशोणितोद्भूतं अन्तराभवमाश्रित्य यत् प्रथमं नामरूपाभिनिर्वर्तनं तन्निश्रित्य पूर्वंनामरूपाभिनिर्वर्तनं-मनोविज्ञानं सास्रवं निवृत-व्याकृत स्वभावम् आत्ममोहादिचतुःक्लेशात्मकम् | आत्ममोहः, आत्ममानम्, आत्मदृष्टिः, आत्मोत्कर्षश्चेत्येतत्क्लेशसंयुतं क्लिष्टं मन इति एकतः पिण्डीकृतं नामरूपमित्युच्यते |
SK
धातूनां सन्निपाताद् वै शरीरोत्पाद इष्यते |
SK
अनन्तरोदिताः षड्धातवः | सन्निपाताद् वै इति तु वैकल्याभावात् | शरीरमिति तु भूत-भौतिक-संनिपात-पिण्डम् | उत्पादो नाम प्रादुर्भावः | इष्यते इति तु अनुमतम् | अस्य कर्त्रादि न वर्तते इति भावः |
SK
आत्मात्मीयविकल्पानामुत्पादस्तैर्न मन्यते |
SK
इति तु अस्माभिरेते उत्पादिता इति च तैर्वयमुत्पादिता इति ते ऽन्योन्य विकल्पं नोत्पादयन्ति |
SK
तेषु सत्सु समुत्पादः तेष्वसत्सु न संभवः |
SK
प्रत्ययेषु असत्सु शरीरोत्पादो न युज्यते | यदा आध्यात्मिकप्रत्ययादि-वैकल्याभावस्तदा संनिपातात् शरीरमुत्पद्यते | वैकल्ये शरीरं न उत्पाद्यते |
SK
नैवात्मादिमयास्ते हि नाप्यन्यच्चापि किञ्चन |
SK
तत्र पृथिवीधातुस्तु नात्मा अहंममेति मन्यना-वियुक्तत्वात् | ऽन सत्त्वास्तुऽ चित्त-मनो-विज्ञान-वियुक्तत्वात् | न जीवः चलत्वाभावात् | न जन्तुस्तु जन्यजनक विरहितत्वात् | ऽन मनुजोऽ मनुवियुक्तत्वात् | ऽन मानवऽ स्तु अन्तः स्थितमानवासदृशत्वात् | ऽन स्त्रीऽ, न पुमान् - न नपुंसकस्तु आध्यात्मिकस्त्री पुरुष-नपुंसकात्मकः | न चाहं मम् इति तु आत्मात्मीय-मन्यना-वियुक्तत्वात् |
SK
नाप्यन्यच्चापि किञ्चन इति तु ईश्वरादि-कर्तृ-क्रिया-कर्म-विरहितत्वात् | तद्वत् जलम्, अग्निर्वायुराकाशो विज्ञानधातुश्चापि नात्मा, न सत्त्वो, न जीवो, न जन्तुः, न मनुजो, न मानवो, न स्त्री, न पुमान्, न नपुंसकम् न चाहं न मम स्यात् | न चेश्वरादि अन्यत् किञ्चिद् इति ज्ञातव्यम् |
SK
यैकपिण्डादिसंज्ञा साविद्या त्रिभवछादिका |
SK
तत्र कतमाविद्या? उच्यते | त्रिभवछादिकेत्युच्यते | त्रिभवस्तु भवत्रयम् कामभवः, रूपभवः, अरूपभवश्च | ते ऽपि सत्त्वभाजनलोके व्यवहारेण द्विविधाः व्यवस्थापिताः |
SK
अथ च धातु-गति-योनि-भेदेन क्रम-त्रयेण स्थापितः | कथमिति चेत् | उच्यते - तत्र कामधातुः षट्त्रिंशदाश्रयनिकायविज्ञप्त्यवभासं साधारणासाधारण-स्वभावेन एकपिण्डत्वेन कल्पयन् संज्ञया ग्रहणत्वाद् अविद्येति उच्यते | तत्र षट्त्रिंशदाश्रयनिकायास्तु अष्टौ उष्णस्वभावा महानरकाः, शीतस्वभावाः अष्टौ महानरकाः | संजीव-कालसूत्र-संघात-रौरव-महारौरव-तपन-प्रतापनावीचयो-ऽष्टोष्णनरकाः | हाहाधर-अपप-अटट-हाहावत्-अर्बुद-निरर्बुद-पद्म-महापद्म-उत्पलानि शीतस्वभावत्वाद् अष्टौ शीतनरकाश्च | प्रत्येकः प्रादेशिकश्च नरकः, प्रेताश्रयः, तिर्यगाश्रयः, असुराआश्रयः | चतुर्द्वीपाः, अष्टौ अन्तर्द्वीपाश्च |
SK
तत्र प्रेताश्रयस्तु मरौ अटवीकान्तारे च | तद्भिन्नस्तु विभागः - ग्राम-नगर-निगम-श्मशान-पर्वत-अटवी-कर्वट-द्वीप-नदी-वायु-सागर-पल्वल-तडाग-कूप-उद्यानस्थान-देवालय-मातृगृह-नागलोक-मरु-सरस्-वृक्ष-शून्यालय-महापथ-नदीतट-अरण्यवास-प्रपात-सेतु-कौलस्थान-मुख-महापथ-आपण-चत्वर-श्रृङ्गाटक-पावनतीर्थस्थान-जलाशयादिषु स्थित्वा स्वकर्मवशेन विज्ञप्त्यवभास-विकल्पोद्भवानां यदज्ञानं सेयमविद्या इत्युच्यते | तिर्यक्स्थानं मध्ये-सागरम् | योनिस्थानानि चत्वारि-अण्डजो, जरायुजः, संस्वेदजः, उपपादुकश्च | योन्याश्रयभेदेन विविधा तिर्यग्जगद् विज्ञप्त्यवभासित-विकल्पवासनालिप्तसन्तानाः |
SK
तदन्यथाविभक्ताः - गर्दभ-सूकर-वानर-गज-उष्ट्र-अश्व-मृग-महिष-गौ-गवय-चमरी-श्व-श्रृगाल-नकुल-मूषक-सिंह-व्याघ्र-तरक्षु-ऋक्ष-वृक-मार्जार-मीन-कच्छप-मकर-शिशुमार-सर्प-पिपीलिका-लूता-पतंग-तित्तिरि-पिपीलक-कृमि-वल्मीक-गोधा-कीट-जलवासि-शुक-शारिका-कोकिला-मयूर-हंस-क्रौञ्च-वक-काक-गृध्र-उल्लूक-जीवञ्जीव-सुपर्णादयो ऽनिश्चित-गतित्वात् स्वकर्मवासना-पारतन्त्र्येण अवभासाकारं स्थितं तु यदज्ञानं तदपि अविद्या इत्युच्यते | असुराणां चतुराश्रयस्तु सुमेरोश्चतुः परिषण्डमध्ये ऽस्ति |
SK
तद्भिन्नविभागेन स्थितं पर्वत-अटवी-वन-उद्यान-नदी-ग्रामादिषु स्वकर्म-वशात् प्रज्ञप्तावभास-विकल्पनोद्भूतमन्यस्थानानां यदज्ञानं तदपि अविद्येत्युच्यते | नरक-सत्त्वानां स्वकर्मवशितानुकूलविकल्पनोद्भवानां तु अनवतप्तमहासागराद् विंशतिसाहस्र-योजनाधोभाजनस्य विज्ञप्ति-स्वभावमूलभूतेषु अन्यस्थानेष्वभि-निर्वृत्तिः | ततो ऽन्यत्र प्रत्येकसत्त्वस्य नरकादि-भाजनस्य विज्ञप्ति-विकल्पनोद्भूतस्य पर्वत-अटवी-मरु-दरी-प्रपात-नदी-तीरादिस्थानाभिनिर्वृत्तं यदज्ञानमिदमप्य-विद्येत्युच्यते | चत्वारो द्वीपास्तु पूर्वस्यां विदेहः, दक्षिणस्यां जम्बूद्वीपः, पश्चिमायां अपरगोदानीयः, उत्तरस्यां, च कुरुरिति | अष्टावन्तर्द्वीपास्तु पूर्वयां विदेहपर्षदो देहो विदेहश्च | दक्षिणस्यां-जम्बूद्वीप-पर्षदः चपलक उत्तरमन्त्री च | पश्चिमस्याम-परगोदानीय-पर्षदः चामरश्चापरचामरश्च |
SK
उत्तरस्यां कुरु-पर्षदः कुरुः कौरवश्च | तेद्वीपोपद्वीपानां प्रभेदेन विविधा-कारेण भिन्नाः | स्वविज्ञानावभासविकल्पनावशेनोद्भूतं विभिन्नप्रपंच-वासनालिप्तं तादृशं यदज्ञानम् इदमपि अविद्येत्युच्यते | षड्देवानां सत्त्व-भाजनावभास-विज्ञप्त्यवभासविशेष-साधारणासाधारणाशेषस्वभावेषु पिण्डग्रहण-कल्पना-वशेनोद्भूतम् यदज्ञानमिदमपि अविद्येत्युच्यते | तत्र षड्देवनिकाया इति | चतुर्महाराजकायिकाः - त्रायस्त्रिंशो, यामः, तुषितो, निर्माणरतयः परनिर्मितवशवर्तिनश्च | अन्ये च विद्याधर-सिद्धः, ऋषिर्गरुड-गन्धर्वः-किन्नर-महोरग, यक्षादयः, नक्षत्र-ग्रह-तारा-चन्द्र-सूर्या सपरिवाराः सप्रासादाः, उत्पाद-विनाश-स्वकर्मवशेन विज्ञप्त्याकारावभास-विकल्पना-वासनानुगामिनो ऽण्डज-जरायुज-संस्वेदज-उपपादुकाश्च | योन्याश्रय भेदेन विविध-तिर्यग्जगद्-विज्ञप्त्यवभासित-विकल्प-वासनालिप्तसन्तानाः गदर्भ-सूकर-वानर-गज-उष्ट्र-अश्व-मृग-महिष-गौ-गवय-चमरी-श्व-श्रृगाल-नकुल-मूषक-सिंह-व्याघ्र-तरक्षु-ऋक्ष-वृक-मार्जार-मीन-कच्छप-मकर-शिशुमार-सर्प-पिपीलिका-लूता-पतंग-तित्तिरि-पिपीलक-कृमि-वाल्मीकि-गोधा-यूका-कीट-जलवासि-शुक-शारिका-कोकिल-मयूर-हंस-क्रौञ्च-वक-काक-गृध्र-उलूक-जीवञ्जीव-सुपर्णादयो-ऽनिश्चितगतित्वात् स्वकर्म-वासनापारतन्त्र्येण प्रज्ञप्त्यवभासाकार-स्थिताः | एवं पृथग्गति-योनि-बहुत्व-भेदेन विभिन्न-सत्त्वभाजनलोका इत्याख्याताः साधारणा-साधारणविशेषादिपिण्डग्रहोद्भूत एकतः संक्षिप्य कामधातुरित्युच्यते | परञ्चोक्तम् -
SK
धातुगतियोनिभेदैः कामभवस्तु षट्त्रिंशत् | नरा द्वादश, षड् देवाः षोडश नरकास्तथा |
SK
सासुरप्रेततिर्यञ्चः |
SK
तादृश-विभिन्न-विकल्पवासनोद्भूतं यदज्ञानम्, अपरिच्छिन्नम्, अव्यक्ता-वरणम्, अनवबोधम्, अपरिज्ञातामिस्रं पूर्वान्त-अपरान्त-मध्य-हेतु-कर्म-फल-सत्य-रत्न-दुःख-समुदय-निरोध-मार्गकं यदज्ञानं साविद्या| त्रिधात्ववच्छादि केत्युच्यते | तस्मात् सूत्रे- येषामेव षण्णां धातूनामेक-संज्ञा, पिण्डसंज्ञा, नित्यसंज्ञा, ध्रुवसंज्ञा, शाश्वतसंज्ञा, सुखसंज्ञा, आत्मसंज्ञा, सत्व(संज्ञा), जीव(संज्ञा), पुरुषसंज्ञा, पुद्गल(संज्ञा), मनुज(संज्ञा), मानव(संज्ञा), अहंकार-ममकारसंज्ञा | एवमादि विविधमज्ञानमियमुच्यते ऽविद्येति देशितम् | तत्र पृथिवीधातोरष्टद्रव्यत्वाद् एकसंज्ञा न युज्यते | परमाणूनां परस्परं संचयात्मकत्वात् पिण्डग्राहो न युज्यते | हेतुप्रत्यययोः सम्बद्धप्रवृतेः नित्यसंज्ञा न युज्यते | चिरकालम् अस्थितत्वाद् ध्रुवसंज्ञा न युज्यते | सहोत्पाद-विनाशत्वान् न शाश्वतसंज्ञा | संस्कार-विपरिणाम-दुःखान्वितत्वान् न सुखसंज्ञा | षट्त्रिंशद्-विधाशुचिद्रव्यसमवायान् न शुचि संज्ञा | भूत-भौतिक-द्रव्य-वैपुल्यान् न आत्मसंज्ञा | चित्तचैतसिकाधिष्ठानत्वान् न सत्त्वसंज्ञा | क्रियाभावान् न जीवसंज्ञा | अपि च | गमनागमनरहितत्वान् न पुद्गलसंज्ञा अस्ति | अहंमममन्यनाविरहित्वान् न मनुज-मानवसंज्ञा | अहंममेत्यादि-रहितत्वान् मनुजादिसंज्ञा न युज्यते | एवं षण्णां धातूनां तदनित्यादिस्वभावस्य यदज्ञानं इयमविद्येत्युच्यते |
SK
तत्र अविद्येति तु विद्या न भूतत्वाद् अविद्या | न तु विद्याभावः, अभावस्तु न किञ्चिदपि | अविद्या विद्याभिन्ना विद्यान्तरमेवस्ति | तस्माद् अभावो निषेधो ऽपि नास्ति, परत्वमपि नास्ति | अथ किमिति चेत्? विरोधः | अविद्या तु न विद्याभावः विद्याधर्मतो विरुद्धा अविद्येति उच्यते | परनिर्मितवशवर्ति तद्देवो - परिप्रभृति सप्तदशाश्रयाकारविज्ञप्त्यवभासो रूपधातुः | तदुद्भवः सत्त्व भाजनलोक-स्वभावः साधारणः, असाधारणश्च विशेषविकल्पवशसम्भवः | आश्रयास्तु चतुर्ध्यानानां त्रिविधभावनान्वितत्वाद् ब्रह्मकायिकादयो द्वादश, चतुर्थध्यानस्य मिश्रभावनान्वितत्वात् पञ्चावासाः पञ्चशुद्धावासाः | तत्र प्रथमे तु ब्रह्मकायिक-ब्रह्मपुरोहित-महाब्रह्माणः | द्वितीये तु परीत्ताभ-अप्रमाणाभ-आभास्वराः | तृतीयेस्तु परीत्तशुभ-अप्रमाणशुभ-शुभकृत्स्नाः | चतुर्थे -अनभ्रक-पुण्यप्रसव-बृहत्फलाः | शुद्धावासास्तु अवृह-अतप-सुदर्शन-सुदृग-कनिष्ठाः |
SK
चतुर्ध्यानभूमयः-सवितर्क-अवितर्क-सुख-उपेक्षासंप्रयुक्ताः-ध्यानान्तर-अनागम्यभूमय इमा या अज्ञानम्, अदर्शनम्, अनभिसमिता इमा अप्यविद्येत्युच्यन्ते | याश्च नाममात्रं संज्ञावभास-विज्ञप्ति-विकल्पोद्भवाः चतस्र आरूप्यसमापत्तय आकाश-विज्ञानाकिञ्चन-नैवसंज्ञानासंज्ञायतनम् यच्चाज्ञान-अनभिसमिति-अदर्शन-मिदमप्यविद्येत्युच्यते | तस्मादेव भगवता-
SK
चतुर्ध्यानान्यानागम्यमान्तरा भूमयस्तथा | आरूप्यायाः समापत्तेः पृथक्संज्ञाचतुष्टयम् | चतुर्भुवो विशुद्धीनां दशभूदेशनात्मिकम् | महेशप्राप्तिसंस्थानं तत्तु नान्यत्त्रिधातुतः | स्वचित्तयोगयोगेशो विशुद्धयुद्भवभूस्तथा | ज्ञानं समाधिः रूपं च वशिताप्रतिवेदिनः | इत्युक्तम् |
SK
तत्रापि यदक्लिष्टमज्ञानम्, अदर्शनम्, अनभिसंमतम्, अनवबोधभावनामार्ग-ज्ञानोत्पाद-बाधकं तदप्यविद्या इत्युच्यते | तस्मादविद्यातमस्तिमिरपटलेन नयनावृतत्वाद् विषयेषु रूप-शब्द-गन्ध-रस-स्पर्श-धर्माकारविज्ञप्तिविपर्यय-विकल्पवासनावभासत्वेन नित्य-आत्म-सुख-शुच्यादि-विपर्यासत्वाद् राग-द्वेष-मोह-विस्ताराद् रागजं कर्मापि अभिसंस्करोति | इष्टविघातकत्वाद् द्वेषोत्पन्नं कर्मापि अभिसंस्करोति | अमार्गे मार्गसंज्ञत्वाद्, अशुचिषु शुचिसंज्ञत्वाद्, अमुक्तौ मुक्ति संज्ञत्वाच्च मोहजमपि अभिसंस्करोति | तद्द्वयव्यावृत्त्या अनिञ्ज्यमपि अभिसंस्करोति |
SK
तत्प्रत्ययात् तन्निदानाच्च विद्यायां राग-द्वेष-मोह-अहंकार-दृष्टि-संशय-ईर्ष्या-मात्सर्यानुगामनाद् अकुशल-कायकर्मत आत्मनो ज्ञानस्य च परित्राणार्थ प्राणातिपातः अदत्तादानं, काममिथ्याचारः, उन्मादहेतुकं मद्यपानम् अन्यथा-नीप्सित-विपाकाभिनिर्वर्तनमपि अभिसंस्करोति | वाचो मृषावाद-पैशुन्य-पारुष्य-प्रलापैरनिष्टविपाकाभिनिर्वर्तनमपि अभिसंस्करोति | मानस-कर्मणो ऽभिध्या-व्यापाद-मिथ्यादृष्टि-सम्प्रयोगो ऽपि अभिसंस्करोति | काय-वाक्-चित्त-दुश्चरित-धर्म-समादान-हेतुभिः सत्त्वाः नरक-प्रेत-तिर्यग्-देव-मनुष्यासुरेषु उत्पत्स्यन्ते | तस्माद-ज्ञान-विषये राग-द्वेष मोहादिः प्रत्यक्षः, इत्युक्तम् | तत्र अविद्यया इति अविद्या-प्रत्ययेन संस्कारभावाभिसंस्कारित्वाद् विभावितं संस्कारभाव-प्रतिविज्ञप्तिस्वभावं विज्ञानमभिनिर्वर्तते | तस्मादेव
SK
ततः संस्कृतभावानां ज्ञप्तिर्विज्ञानसंभवा |
SK
इति उक्तम् | ततः इति तु संस्कारमाश्रित्य भावानां विज्ञप्तिरिति तु विज्ञापकत्वाद् विज्ञप्तिः | विज्ञाने कर्मवासना-स्थापनम् इत्यधिवचनम् |
SK
विज्ञानेन सहोद्भूताश्चतुस्स्कन्धा अरूपिणः |
SK
इति विज्ञानेन सहोद्गता इति तु विज्ञानस्य हेतुत उद्भूताः | चतुःस्कन्धा अरूपिणः | इति तु चत्वारो विज्ञान-स्कन्धाः वेदना-संज्ञा-संस्कार-विज्ञानमित्यादयः | अरूपिणस्तु-भूत-भौतिक-संचयाकार-रहितत्वात् सन्ति, न तु नित्यम् |
SK
अथ किमिति चेत्? चित्तचैतसिकस्वभावो ऽस्ति | स्कन्धत्वं तु विपुल-द्रव्यात्मकत्वात् | रूपं तु धातुचतुष्टयम् | पितृमातृ-शुक्रशोणितोद्भूताः पृथिव्याप्ते-जोवायुधातवः | तान् संगृह्य विज्ञानप्रत्ययं नामरूपमित्युच्यते |
SK
नामरूपमुपादाय चेन्द्रियायतनोद्भवः |
SK
इति यत्पूर्वं इन्द्रिये सतृष्णवासनानामरूपं स्थापितं तन्नामरूपं संनिश्रित्य चक्षुरादि-षडिन्द्रियाभिनिर्वर्तनेन इन्द्रियस्य षडायतनानि प्रादुर्भवन्तीति | इन्द्रिय-षडायतनानि षड्विज्ञानाश्रितानि | रूपादि-विषयालम्बन-विज्ञप्त्यवभासग्रहण-स्वभावानामभिनिर्वर्तनाद् भगवता
SK
नामरूपसंनिश्रितानीन्द्रियाणि षडायतनमित्युक्तम् | विषयेन्द्रियविज्ञान-संघातात् स्पर्श सम्भवः |
SK
षडिन्द्रियायतनम् अपेक्ष्य विषयेषु इन्द्रियविज्ञानसंनिपातात् स्पर्शः | इन्द्रियविज्ञानं रूपादिविषयेषु स्पर्श इव निरान्तरमेव प्रवर्तते | अत्र स्पर्शस्तु किञ्चिदपि नास्ति | असंचित-पञ्चविज्ञानानि संचित विषयेन्द्रियैः सह युगपदेकत्र भूतत्वात् स्पर्शवन्ति सन्ति, न तु स्पर्श इत्युच्यते | तस्मादेव भगवतापि त्रयाणां धर्माणां संनिपातः स्पर्श इत्युक्तम् | आलम्बनावभासाकारेण स्पर्शो जातः | तद्वत् स्पर्शरसास्वादनियन्त्रणे षट्स्पर्शा कायानाश्रित्य षड्वेदनाकाया उत्पद्यन्ते | तस्माद् वेदना स्पर्शजा ज्ञेया | इत्युक्तम् | वेदना तु स्पर्शेण जनिता स्पर्शहेतूद्भवा इत्यधिवचनम् |
SK
तत्र वेदनेति तद्वेदयितृत्वाद् वेदना | वेदनानुभवः | सुख-दुःख-अदुःखासुखा-सौमनस्य-दौर्मनस्य-विशिष्टाः | वेदनावभासाकारविज्ञप्ति विकल्पनावशोद्भूतानां त्रिवर्गभेदेन षड्वेदनाकायोत्पादाद् भगवता स्पर्शसहभवा वेदनेत्युक्तम् | तद्वत् किञ्चिद्वेदनास्वादसक्ता अभिनिवेशात्मिका हि वेदनाहेतुकी तृष्णेति तृष्णोद्भवः | तस्मादेव तृष्ण च वेदनोद्गता इत्युक्तम् |
SK
तृष्णेति त्रिधातुरागः | रागो ऽध्यवसानम्, अभिलाषः, आसक्तिरवियोगाकांक्षा, नन्दनं, प्रेम इत्यधिवचनम् | सा च इन्द्रियविषयविज्ञानभेदेन तृष्णाकायः षड्धा व्यवस्थापिता | तृष्णावभासाकार-विज्ञप्ति-वशोद्भूत षट्तृष्णा-कायोत्पादात् सुगतेन वेदनाध्यवसाना तृष्णेत्युक्तम् | एवम् अध्यवसित-तृष्णावृद्धिरुपादानम् | तस्मात् तृष्णावृद्धिरुपादानम् इत्युक्तम् |
SK
तृष्णा रागालिङ्गितस्य इष्टावियोगस्य हेतुः | कुशलमकुशलम-व्याकृतादि तूपादानम् | उपादानार्थेन उपादानम् | उपपञ्चमादानं उपादानम् | यथागृहीत-स्वकर्म-पथ्यदनस्य परवशाद् उपादानादुत्पादः पुनर्भव इत्युच्यते | तस्मादेव उपादानोद्गतो भव इत्युक्तम् |
SK
स्वकर्मवासनाया यथावदवभासाकार-विज्ञप्ति-विकल्पना-वशेनोद्भूतस्य पुनर्भवस्याभिनिर्वर्तनाद् भव इति, पुर्नर्भूतत्वात् | यथावत् स्वकर्म-वासनावशेन इति कुशलाकुशलानेञ्ज्य-कर्मवासनावशेनेत्यधिवचनम् | एवं कर्मभवस्तु हेतुः स्यात् | स्कन्धोत्पादो भवाज्जातः | कर्मभवस्य तद्धेतोः स्कन्धोत्पादो जातिरित्युच्यते | तत्र स्कन्धोत्पादस्तु स्कन्धानामुत्पादः|
SK
धात्वायतनप्राप्तिरपि संक्षेपेण जातिरित्युच्यते | तत्र स्कन्धस्तु अनेकद्रव्यसंराश्यर्थस्तु स्कन्धार्थः | अथवा अनित्यतयैव ध्वंसत्वात्, उत्पादानन्तरमेव अनित्यताराक्षसेन भक्षणं, प्रतिहननं, विनाशनम् इत्यधिवचनम् | एवमभिनिर्वृत्तौ उत्पादहेतुना जातिप्रत्ययेन जरैव अभिनिर्वर्तते, तस्मादेव जातेरेवं जरापि च इत्युक्तम् |
SK
जातिप्रत्ययाभिनिर्वर्तितस्कन्धानां जीर्णता तु जरा | दौर्बल्य-खालित्य-पालित्य-बलिकापूर्णता-विभुग्नता-कुब्जत्व-दौर्बल्य-खरखरत्व-दण्डावष्टम्भ चर्याव्यक्ति-इन्द्रियभ्रंश-स्मृतिभ्रंशाः इति तादृशी तु जाति-प्रत्ययेन भिनिर्वर्तित-स्कन्धानां स्वकर्माकारिणी विज्ञप्त्यवभास-विकल्पनावासना-वशेनोत्पन्ना जीर्णता जरेत्युच्यते | एवं जराजीर्ण-स्कन्धान्यथात्वं मरणमित्युच्यते | तस्मादेवोक्तम् -
SK
स्कन्धाभावो जराया यः स मृत्युश्चेत्युदीर्यते |
SK
तत्र जरेति श्लथीभूत-जराप्रत्ययेन मरणसंभवः | तत्र मरणमिति स्कन्धान्यथात्वम् | मरण-मृत-कालकृत-परलोकगमन-संक्रान्ति-गति-स्कन्ध-विध्वंसन-स्कन्धनाश-आयुःक्षय-जीवेन्द्रियनिरोधेत्येतादृशादि-संग्रहो जरामरणम् | मरणावभासाकार-विज्ञप्तिविकल्पनावशेन उद्भूतः स्कन्धनाशो मरणम् | अन्तावस्था, अन्तशयनं, विज्ञानसंक्रमणं, ऊष्महानिः, आयुर्वियोगः, कायिकानुकौल्यत्यागः, भवसंक्रान्तिः, यश्च विज्ञानान्तिमावस्थाश्रयोच्छेदाद्युत्पन्नो बहुधाप्रलापः, ग्रहणम्, दौर्बल्यं, परिजीर्णता, दैन्यं, निरोधानिरोधकः, मुखदौर्वर्ण्यं, अनाथता, स्वकर्मविकल्पनोद्भूत-यमपुरुषैः परस्पर-समादानावभासविज्ञप्तिः, स्वल्पमात्रओ-प्राणावशेषे श्वासप्रश्वासोद्भवा अरतिः, प्रकम्पः, कण्ठपरिशोषणम्, नासिकाच्छेदः, स्वेदः, क्लेदो मलं, स्वमूत्रोच्चार-लालाशरीरलेपः, निःसहायो, महान्धकार-प्रपात-पर्वत-परिषण्ड-गहनाटवी-शून्यालय-गृह-प्रासाद-ऊर्ध्व-मण्डप-कूटागार-अग्नि-कुण्ड-महाह्रद-पलालस्कन्धगमनम् इव चित्तविपर्यस्तस्य स्कन्धान्तरग्रहणं मरणमित्युच्यते |
SK
मूढे तु मरणाच्छोकः | इति सतृष्णस्य अन्तर्दाहः शोकः | अन्तर्दाहश्च चित्तपरितापः | शोचनार्थेन शोकः | अथ मम प्रियवस्तु-इष्टवस्तु-वियोगो भविष्यति इति खिद्यमानस्य सन्तापाच्छोक इत्युच्यते | यथाकर्मोद्गताकारावभास-विज्ञप्त्याभिभूतस्य आनन्द-भय-अनिष्टाकारोत्पन्नो मर्मोच्छेद-दुःख-चित्त-खेदोद्भूत-शोकान्तरोत्थः-अहो, हाहा, किं, केन, कथम्, कुत्र शरणं गत्वा पश्यामि, इह गच्छामि, गतो ऽहम्, गृहीतः, हतः, मृतः, भक्षितः, विनष्टः, प्रनष्टः, अहो मातः, अहो पितः, भ्रातः, भगिनि, पुत्र, पुत्रि, हे भार्य इति अनेकधा प्रलापो मिथ्यापदनिर्नादोत्पन्नः पैलोत्तकसंतापो दौर्मनस्यम् | तस्मात् शोकतश्चापलापो यो दौर्मनस्यं स उच्यते | इत्युक्तम् |
SK
दौर्मनस्यसमुद्भूतं पञ्चविज्ञानकायिकम् | आसातं दुःखमित्युक्तं कायसौख्यविधातकम् |
SK
दौर्मनस्य-समुद्भूतम् इति तु दौर्मनस्याद् एव | पंचविज्ञानकायिकमिति तु मनोज्ञ-रूप-शब्द-गन्ध-रस-स्पर्शानुस्मरणोपपन्नं पञ्चविज्ञानकायदुःखम् उपघातकम् | आसातमनुभव-कायसौख्य-विघातात्मकं दुःखाकारावभास-विज्ञप्ति-वशेनोद्भूतं दुःखमित्युच्यते |
SK
दुःखं मनसिकारारव्यं मनसस्तूपघातकम् | दौर्मनस्यं च तज्ज्ञेयमन्योपक्लेशहेतु यत् |
SK
मानसं सुखं दुःखञ्चानुस्मृत्य पूर्वहसन-नन्दन-क्रीडन-विस्तार-चित्तविक्षेपादि-अयोनिशोमनसिकारसंप्रयुक्तं मानसदुःखम् | दौर्मनस्यादि उप-संक्लेशजनित्वाद् अन्योपक्लेश हेतु यत् | इत्युक्तम् | यद् अन्यदेतादृशादि उपक्लेशः, स तु क्लेशो ऽप्युच्यते, उपायास इत्युच्यते | तत्र एषां द्वादशभवाङ्गानाम् अन्वर्थ नामानि दर्शयितुं - तमो ऽभिज्ञानामरूपायतस्पर्शवित्तर्षतः | इत्युक्तम् |
SK
तत्र अन्धकारार्थेनाविद्या | अभीति अभिसंस्कारार्थेन संस्काराः | प्रवणत्वान्नाम | रोपणार्थेन रूपम् | आयतस्पर्शवित्तर्षतः | इति आयद्वारार्थे नायतनम् | स्पर्शनार्थेन स्पर्शः | अनुभवनार्थेन वेदना | परितर्षणार्थेन तृष्णा |
SK
तृष्णादानभवोत्पादः पाकनाश विशोकतः | उपादानार्थेन उपादानम् | पुनर्भवजननार्थेन भवः |
SK
भावार्थेन जातिः, पाकार्थेन जरा | विनाशार्थेन मरणम् | शोचनार्थेन शोकः |
SK
वचनादि कायसंपीडा चित्तदौर्मानसं तथा | क्लेशादन्वर्थकं नाम यथाक्रममुदीरितम् |
SK
वचनपरिदेवनार्थेन परिदेवः | कायसंपीडनार्थेन दुःखम् | चित्तसंपीडनार्थेन दौर्मनस्यम् | उपक्लेशार्थेन उपायासाः | पुनस्तत्त्वापरिज्ञेत्यादि तु परीक्षार्थं प्रदर्शनार्थम् उक्तम् |
SK
पुनस्तत्त्वापरिज्ञानाद विद्यादेर्यथाक्रमम् | पूर्वपूर्वेभ्य उत्पादो ऽप्याख्यातश्चोत्तरोत्तरः |
SK
तत्त्वापरिज्ञानं तु अप्रतिपत्तिर्विप्रतिपत्तिश्च | अयोनिशोमनसिकारहेतुत्वाद् अज्ञानमं अविद्या | अविद्यायां सत्यां विभिन्नाः संस्कारा अभिनिर्वर्तन्ते पुण्योपगाः, अपुण्योपगाः, आनेञ्ज्योपगाः| तत्र पुण्योपगानां संस्काराणां पुण्योपगमेव विज्ञानं भवति | अपुण्योपगानां संस्काराणामपुण्योपगमेव विज्ञानं भवति | आनेञ्ज्योपगानां संस्काराणामानेञ्ज्योपगमेव विज्ञानं भवति |
SK
इदमुच्यते विज्ञानप्रत्ययं नामरूपम् | नामरूपविवृद्धया षड्भिरायतनद्वारै कृत्यक्रियाः प्रवर्तन्ते | तन्नामरूपप्रत्ययं षडायतनमित्युच्यते | षड्भ्यश्चायतनेभ्यः षट्स्पर्शकायाः प्रवर्तन्ते | अयं षडायतनप्रत्ययः स्पर्श इत्युच्यते | यज्जातीयः स्पर्शो भवति, तज्जातीया वेदना प्रवर्तते | इयमुच्यते स्पर्शप्रत्यया वेदनेति | यस्तां वेदनां विशेषेणास्वादयति, अभिनन्दति, अध्यवसायं तिष्ठति सा वेदनाप्रत्यया तृष्णेत्युच्यते | आस्वादनाध्यवसानाध्यवसायस्थानादात्मप्रियरूप-सातरूप-वियोगो माभूदिति यस्य भूयः प्रणिधानमियं तृष्णा प्रत्ययोपादानेत्युच्यते | एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन वाचा मनसा च स उपादान-प्रत्ययो भव इत्युच्यते | तत्कर्मनिर्जातानां पञ्चस्कन्धानाम् अभिनिर्वृत्तिर्या सा भवप्रत्ययो जातिरित्युच्यते | जात्याभिनिर्वृत्तानां स्कन्धानामुपचयन-परिपाकाद्विनाशो भवति |
SK
तदिदं जातिप्रत्ययं जरामरणमित्युच्यते| पूर्वपूर्वाङ्गानामुत्तरोत्तराणां हेतुत्वात्, तानि उत्तरोद्भवात् प्रत्यय एव | एवमयं द्वादशाङ्गः प्रतीत्यसमुत्पादो-ऽन्योन्यहेतुकोद्भूतः |
SK
द्वादशाङ्गस्त्रिप्रवृत्तिर्नित्योच्छेदो ह्यनादिजः| प्रवृत्तेर्जलधारावद् वर्तते ऽनादिकालिकः |
SK
नानित्यः स तु सततं स्थितत्वात् | न संस्कृत इति तु संस्कारवियुक्तत्वात् | स न चेतनः चित्तवियुक्तत्वात् | न प्रत्ययसम्भव इति प्रत्ययवियुक्तत्वात् | न क्षयधर्मस्तूपचयवियुक्तत्वात् | न निरोधधर्मः उत्पाद-स्थिति-विनाश-वियुक्तत्वात् |
SK
अनादिकालप्रवृत्तस्तु सन्धिकाल-परिच्छेद-वियुक्तत्वात् | नदीस्त्रोतवत् स्त्रोतोद्भूत अनुच्छिन्नप्रवाहः |
SK
अथ आर्यशालिस्तम्बसूत्र-टीकायां चतुर्थो ऽन्तिमः पटलः |
SK
प्रतीत्यसमुत्पादो ऽयं नदीस्त्रोतवत् अविच्छिन्नो ऽनुप्रवर्तते | अथ चेमान्यस्य चत्वार्यङ्गानि हेतुः संघातकारकाणि च, द्वादशाङ्गस्य प्रतीत्यसमुत्पादस्य चत्वार्यङ्गानि संघातक्रियायै हेतुत्वेन प्रवर्तन्ते | तस्मात् कतमानि चत्वारि? इत्युक्तम्|
SK
अविद्या च तृषा कर्म विज्ञानं क्रमशो मताः |
SK
अविद्या, तृष्णा, कर्म, विज्ञानञ्चेति यथाक्रमम् | हेतुर्विज्ञानबीजं हि | विज्ञानं बीज-स्वभावत्वेन हेतुः | कर्म क्षेत्रमुदीरितम् | कर्म क्षेत्र-स्वभावत्वेन हेतुरित्युक्तम् | अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः |
SK
कर्मक्लेशा विज्ञानबीजत्वेन व्यवस्थिताः |
SK
कर्मक्लेशा विज्ञानबीजं जनयन्ति | तत्र
SK
कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति च | विज्ञाननामकं बीजं तृष्णया स्निह्यते परम् | विज्ञानबीजं चाविद्या किरति स्नेहनेन वै | कर्म तृष्णा तथाविद्या क्षेत्रं स्नेहो ऽवकीर्णनम् | विज्ञाने न करोमीदं न विज्ञानमितो मतम् |
SK
तत्र कर्मणो ऽपि नैवं भवति इत्यादि तु कर्मणो ऽपि नैवं भवति अहं विज्ञान-बीजस्य क्षेत्रकार्यं करोमि| तृष्णाया अपि इत्यादि तु एवं तृष्णाया अपि नैवं भवति अहं विज्ञानबीजं स्नेहयामीति | अविद्याया अपि इत्यादि तु अविद्याया अपि नैवं भवति अहं विज्ञानबीजमवकिरोमीति | विज्ञानस्यापि इत्यादि तु नैवं भवति अहमेभिः प्रत्ययैर्जनितमिति |
SK
तथापि बीजविज्ञाने कर्मक्लेशप्रतिष्ठिते | विज्ञानबीजमित्युक्तं कीर्णे ऽविद्यास्ववस्करे |
SK
तृष्णाजलेन संसिक्ते
SK
अविद्या-स्ववस्कर इति स्ववस्करेण च सदृशेन स्ववस्करं सर्वेष्वनुगत-त्वात् | कीर्णे स्ववस्करे इति स्ववस्करेण प्रच्छादनम् | तृष्णाजलेन संसिक्ते तृष्णैव जलम् | संसिक्ते इति तु स्नेहने |
SK
हेतुतो नामरूपयोः | अङ्कुरोत्पादभासो हि |
SK
इति तु हेतु प्रत्ययसामग्या उत्पादस्तु नामरूपाङ्कुरमभिनिर्वर्तयति | नामरूपाङ्कुरम् इत्यादेस्तु |
SK
न स्वपरोभयादिताः | नामरूपमिदं जातं |
SK
नामरूपाङ्कुरमिदं तु स्वयं परत उभयादितो नोत्पन्नम् | अथ कीदृशम् इति चेत् |
SK
पितुर्मातुः समागमात् | अविरोधादृतोश्चापि |
SK
पितुर्मातुः समागमाद् इत्यादि तु पितृमातृसंयोगो वा सक्तिः, समागमः, युक्तत्वम्, पुत्रप्रसूतिसामर्थ्यम्, ऋतुमत्वञ्च | ऽत्रिदिवसात्यये रजोनिवृत्तिस्तुऽ स हि स्त्रीणाम् ऋतुरुच्यते | तदा पुरुषसमागमे शुक्रशोणितसंयोगे, स्वयं गन्धर्वस्यापि चित्त-विपर्यये ऽपि मातापितृक्रियाधिमुक्तौ गर्भोत्पादक्रमेण कलल-अर्बुद-पेशी-घन-प्रशाखावस्थामतिक्रम्य प्रसूतस्य, शैशव-कौमार्य-मध्यता-यौवन-वृद्धत्त्वादि-दशावस्था भवन्ति | तस्मादप्युक्तम्-
SK
किञ्चिदास्वादवे धितम् | बीजविज्ञानमित्युक्तं मातृगर्भे क्रमाच्चयः | नामरूपाङ्कुरोत्पादः |
SK
अथ च मातापितृसंयोगाद्-ऋतुसमवायाद् अन्येषां च प्रत्ययानां समवायात्तत्रास्वादविद्धं विज्ञानबीजं मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति |
SK
न वैकल्याच्च प्रत्ययैः | विरोधत्वाच्च हेतूनां मायानैरात्म्यनिग्रहे | उत्पादो ऽपि न संभवः |
SK
तस्माद् अस्वामिकेषु धर्मेषु अममेषु अपरिग्रहेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यादित्युक्तम् |
SK
अस्वामिकेषु इति तु अन्तः करणं पुरुषादि अनुपलम्भनस्वभावमस्ति | तत्राभिनिवेशेनोत्पन्नो य आग्रहः | धर्मस्तु स्कन्धधातु-आयतन-स्वभावः | अमम इति आत्मात्मीयरहितः | अपरिग्रह इति तु ईश्वरादि-परिग्रहानुपलम्भात् | मायालक्षण-स्वभाव इति यथा माया तु अभूतापि विविधव्यवहारं प्रतिपादयति, तद्वत् मायास्वभावस्य सर्वधर्मेषु क्रियादिर्विविधोपलभ्यते | हेतुप्रत्यय-संनिपात-व्यतिरिक्तं हेतुप्रत्ययादिधर्मः किञ्चिदपि न उत्पद्यते, विनश्यति वा | यथापि हेतुप्रत्ययवैकल्यत्वाद् भावानाम् अनुत्पादस्तदवबोधयितुअम् उपमा |
SK
चक्षुर्विज्ञानमप्यतः | पञ्चभिर्हेतुभिर्जातम् | इत्युक्तम् |
SK
तद्यथा पञ्चभिः कारणैश्चक्षुर्विज्ञानमुत्पद्यते | कतमैः पञ्चभिरित्यादिस्तु - चक्षूरूपावभासनैः | नभस्तज्ज मनस्कारैः | इति |
SK
तस्मात् चक्षुः प्रतीत्य रूपञ्चालोकञ्चाकाशञ्च तज्जमनसिकारञ्च इत्यादि उक्तम् | तत्र चक्षुरिति रूपं द्रष्टुं चक्षुरिन्द्रियं विकलं भवति |
SK
तस्मादेव चक्षुर्विज्ञानस्याश्रयकृत्यं करोति इत्युक्तम् | आलोक इति चन्द्र-नक्षत्राग्नि-औषधि-मणि-प्रभानाम् अभिव्यक्त्यै आलोको ऽपि उपस्थितः | आकाशो ऽपि नानावृत्ति-विकलो भवति | तज्जमनसिकारो ऽपि समन्वाहार-कार्ये ऽविकलो भवति |
SK
पञ्चावैकल्यतस्तथा | चक्षुर्विज्ञानमुद्भूतम् |
SK
चक्षुर्विज्ञानस्य प्रत्ययेषु कस्यचिदप्यभावे न चक्षुर्विज्ञानस्योत्पादः, सति चोत्पादो भवति |
SK
मया ते जनिता इति | विकल्पो न यथोदेति
SK
इति तत्र चक्षुषो नैवं भवति ऽअहं चक्षुर्विज्ञानस्याश्रय-कृत्यं करोमीति | रूपस्यापि नैवं भवति, अहं चक्षुर्विज्ञानस्यालम्बनकृत्यं करोमीति | आलोकस्यापि नैवं भवति अहं चक्षुर्विज्ञानस्यावभासकृत्यं करोमीति | आकाशस्यापि नैवं भवति अहं चक्षुर्विज्ञानस्यावरणकृत्यं करोमीति | तज्जमनसिकारस्यापि नैवं भवति अहं चक्षुर्विज्ञानस्य समन्वाहार-कृत्यं करोमीति | चक्षुर्विज्ञानस्यापि नैवं भवति अहमेभिः प्रत्ययैर्जनितमिति |
SK
अथ च पुनः सत्स्वेषु प्रत्ययेषु चक्षुर्विज्ञानस्योत्पत्तिर्भवति | असत्स्वेषु न भवति | एवं
SK
श्रोत्रज्ञानादिका खिलम् | उत्पादस्य क्रमश्चैवं
SK
तद्वत् श्रोत्रेन्द्रियादीनां पञ्चभिर्हेतुभिरुत्पादक्रमो ऽवगन्तव्यः |
SK
हेतुप्रत्ययसङ्ग्रहात् | कर्त्रादीनां च वैकल्याद् अहंकारवियोगतः | उत्पादो ऽपि यथापूर्वं तथा चापि प्रतीत्यजम् | हेतुमत्संविजानीयात्
SK
तथा चापि हेतुप्रत्ययक्रमो ऽनन्तरोक्त-क्रमः | एवं सर्वधर्माणाम् उत्पाद-स्थिति-विनाशा अवगन्तव्याः |
SK
अस्माल्लोकात् परंनहि |
SK
कश्चिद्धर्मो क्वचिद् गन्ता हेतुप्रत्ययतस्तथा | कर्मणःफलमभ्येति
SK
तत्र धर्मस्तु चक्षुः-श्रोत्र-घ्राण-जिह्वा-काय-मन-आदयो धर्माः | रूप-शब्द-गन्ध-रस-स्पर्शादयो धर्माः, स्कन्ध-धात्वायतन-प्रतीत्यसमुत्पादादयो धर्माः | अस्मादिति तु अस्माल्लोकात् परं लोकम् अथवा परलोकाद् अमुं लोकं कश्चिद्धर्मो न संक्रामति | यद्येवं नित्यवादो वा अहेतु-प्रतिकूल-हेतुवादो वा भविष्यतीति चेत् | उच्यते | हेतुप्रत्ययवैकल्याभावात् कर्मणः फलमभ्येति इति |
SK
तत्र सङ्क्रान्त्यभावे ऽपि कर्मफलाविनाशित्वं प्रत्यक्षानुमान-विश्वस्तागम-प्रख्यातेन अनेनोदाहरणेन ज्ञातव्यम् |
SK
यथादर्शे विशोधिते | दृश्यन्ते मुखबिम्बानि दर्पणे ऽपि च बिम्बकम् | संक्रामितं भवेन्नैव
SK
तस्माद् उक्तम् | तद्यथा- सुपरिशुद्ध आदर्शमण्डले मुख-प्रतिबिम्बकं दृश्यते | न च तत्रादर्शमण्डले मुखं संक्रामति | अस्ति च मुख प्रतिविज्ञप्ति र्हेतुप्रत्ययानामवैकल्यात् | एवमस्माल्लोकान्न कश्चिच्च्यवते नाप्यन्यत्रोत्पद्यते | अस्ति च कर्मफलविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् |
SK
तदन्योन्याविकल्पनम् | कर्तृक्रियाविहीनं तत् तथोत्पादावभासनम् | पूर्ववृद्धिक्रमाच्च स्यात्
SK
तदिति तु मुखम् आदर्शश्च | अन्योन्यम् इति परस्परम् अन्योन्यम् | अविकल्पनमिति विकल्पनाभावः | कर्तृक्रियाविहीनं तद् इति तत्र कर्ता क्रिया च न स्तः | किं तन्नोच्छिद्यत इति चेत्- तथोत्पादावभासनम् इत्युक्तम् | कथं कर्तृविहीनं क्रिया कर्म च भविष्यतीति उच्यते- पूर्ववृद्धिक्रमाच्च स्यात् |
SK
दूरस्थश्चन्द्रमा यथा | परीत्तो दकपात्रान्ते दृश्यते न च क्रामति | अस्ति क्रिया च कर्मापि |
SK
तद्यथा - चन्द्रमण्डलं [द्वि] चत्वारिंशद्योजन-शतमूर्ध्वं स्थितम् | अथ च पुनः परीत्ते ऽभ्युदकभाजने चन्द्रस्य प्रतिबिम्बं दृश्यते | न च चन्द्रमण्डलं तस्मात्स्थानाच् च्युतम् | अथ च पुनः परीत्ते ऽभ्युदकस्थभाजने दृश्यते | अस्ति च चन्द्रमण्डलप्रतिविज्ञप्तिः, हेतुप्रत्ययानामवैकल्यात् | एवमस्माल्लोकान्न कश्चिद् च्यवते नाप्युत्पद्यते | अस्ति च कर्मफल-प्रतिविज्ञप्तिः हेतुप्रत्ययानामवैकल्यात् |
SK
अपि च, तद्यथाग्निरुपादाने प्रत्यये सति ज्वलति उपादान-वैकल्यान्न ज्वलति | एवमेव कर्मक्लेशजनितं विज्ञानबीजं तत्र तत्रोपपत्त्यायतन-प्रतिसन्धौ मातुःकुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति | अस्वामिकेषु धर्मेषु अपरिग्रहेषु परस्पर-प्रत्ययमन्मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात् |
SK
सन्ति ते कल्पनात्मकाः | बाह्यकर्मक्रिया हेतुः
SK
तत्र बाह्यप्रतीत्यसमुत्पादस्य क्रियाकर्म-व्यवस्था तु कल्पनात्मिका ज्ञेया |
SK
अध्यात्मपरतन्त्रतः | पञ्चविज्ञानसंभूतः
SK
तत्र परतन्त्र-प्रतीत्यसमुत्पादस्य लक्षणमध्यात्म-पञ्चेन्द्रिय-विषय-विज्ञप्त्यवभासाकारत्वेन वेदितव्यम् |
SK
परमार्थो ऽविचार्यतः | परिनिष्पन्न आख्यातः
SK
यो विकल्प-परतन्त्रात्माकारो विज्ञप्त्यवभासाकाररहितो निर्विकल्पः सुपरिशुद्धश्च, अब्धातु-सुवर्ण-आकाशवत् परिशुद्धः | क्लेश-ज्ञेयावरण-स्वरूप-परिशुद्धः चन्द्रोदयवद्, अचिन्त्यगुणः, अप्रमेय-प्रभाव-भासात्मकः, असंक्रान्तः सर्वसत्त्वार्थम् अनाभोगाविच्छेदकः, आदिमध्यान्तरहितः, त्रिधातु-समतीतो निर्मलो-ऽमलो मलप्रहाण-स्वरूपः | प्रतिस्वसंविद्-गोचरात्मक-काय-वाक्-चित्तकर्म-समतीतः, स्वसंवेदनः, अपराधीनो विश्वरूपमणिरत्नराज इव अनुत्तरो धर्मकाय इत्युच्यते |
SK
सहेतुप्रत्ययोद्भवः | सर्वदा द्विविधो ज्ञेयः कर्त्रादिरहितस्तथा | तुच्छशून्यादिनिः सारः
SK
तस्मात् तत्राध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिराकारैर्द्रष्टव्यः | इत्युक्तम् | कतमैः पञ्चभिः? उक्तम् | न शाश्वततो | यस्मादन्ये मरणान्तिकाः स्कन्धा अन्य औपपत्त्यंशिकाः स्कन्धाः | न तु य एव मरणान्तिकाः स्कन्धास्त एवौपपत्त्यंशिकाः | य एवोपपत्ति-हेतवस्त एव विनाशकाः | य एव विनाश-हेतुस्स एवापि औपपत्तिको भविष्यति | अतो मरणान्तिकाः स्कन्धा निरुध्यन्ते औपपत्त्यंशिका स्कन्धाः प्रादुर्भवन्ति | अतो न शाश्वततः | न च पूर्वनिरुद्धेषु मरणान्तिकेषु स्कन्धेषु इति निरुद्धय न चिरं गतत्वाद् औपपत्त्यंशिका इति औपपत्त्यंशे निश्रितत्वाद् औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति | मरणान्तिका अनिरुद्धा एव | औपपत्त्यंशिकः स्कन्धः प्रादुर्भवेत्, तद-युक्तत्वादुक्तम्- अपि तु मरणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिका स्कन्धा प्रार्दुभवन्ति, तुलादण्डोन्नामावनामवत् | अतो नोच्छेदतः, विसदृशाः सत्त्वनिकायाः सभागायां जात्यां जातिमभिनिर्वर्तयन्ति | अतो न संक्रान्तितः परीत्तकर्म क्रियते, विपुलः फलविपाको ऽनुभूयते |
SK
अतः परीत्त-हेतुतो विपुलफलमभिनिर्वर्तितम् | यथावेदनीयं कर्म क्रियते तदावेदनीयो विपाको ऽनुभूयते | अतस्तत्सदृशानुप्रबन्धतश्च | यः कश्चिद् इमं प्रतीत्यसमुत्पादं सम्यक्प्रणीतमेवं यथाभूतं सम्यक्प्रज्ञया सततसमितमजीवं यथावदविपरीतमजातमभूतमकृतमसंस्कृतमप्रतिघमनालम्बं शिवमभयमव्युपशमस्वभावं पश्यति | असतः तुच्छतः, रिक्ततः, असारतः रोगतः, गण्डतः, अघतः, अनित्यतः, दुःखतः, शून्यतः, अनात्मतः | इति |
SK
य इमं प्रतीत्यसमुत्पादमिति आध्यात्मिकप्रतीत्यसमुत्पादम् | यदिमं सम्यग् इति अविपरीतम् | प्रज्ञया इति लोकोत्तरप्रज्ञया | यथाभूतमिति तु तथतायथावत् | सततसमितमिति सर्वकालमविच्छिन्नम् | अजीवम् इति प्राण-कर्त्रादि-वियुक्त-त्वादजीवम् | अजातमिति जातिरहितत्वात् | अभूतमिति स्थिति-रहितत्वात् | अकृतमिति कर्तुरभावात् | असंस्कृतमिति संस्कृत-लक्षण-रहितत्वात् | अप्रतिघमिति आवरण-रहितत्वात् | अनालम्बनमिति आलम्ब्यालम्बक-रहितत्वात् | शिवमिति शान्तत्वात् | अभयमिति तु उत्पादादि-भयरहितत्वात् | अनाहार्यमिति क्लेश-पारतन्त्र्य-रहितत्वात् | अव्ययमिति सततं व्यवस्थितत्वात् | अव्युपशममिति एकान्तशमगतिरहितत्वात् | ऽअसतःऽ स्कन्धात् पृथगन्याभावात् | तुच्छत इति मुक्तात्मनो ह्रस्वलोहवद् एकान्तस्य अभावात् | रिक्तत इति अन्तस्थित-स्वरूपात्मद्रव्याभावात् | असारत इति स्फरणात्मकताभावात् | रोगत इति रोगात्मक-स्कन्धात् पृथक्त्वाभावत् | गण्डत इति स्कन्धानतिरिक्तबाधकान्तरा-भावात् | अप्रतिघत इति कर्मक्लेशातिरिक्त-बाधकस्वरूपान्तराभावात् | अनित्यत इति सहोपपादविनाशः स्कन्धात् पृथगन्यन स्वभावात् | दुःखत इति संस्कारविपरिणामदुःखाभ्यां पार्थक्याभावात् | शून्यत इति कल्पना स्वभावतया अभूत-परिकल्पनायाः पृथकत्वाभावात् | अनात्मत इति स्कन्धानतिरिक्तमात्मद्रव्याभावात् |
SK
कर्त्रादिरहितस्तथा | तुच्छशून्यादिनिःसारः प्रज्ञयैवं य ईक्षितः | किं कथं वा कुतः केन कल्पवादादि हानितः| अनन्ताचिन्त्य गुण्यकम् | शान्तं धर्मात्मकं कायम् |
SK
तथतार्थं स एव पूर्वान्तं न प्रतिसरति इत्युक्तम् | किं न्वहमभूवमतीत इति नायं मोहोत्पादः | असंमोहे ज्ञानोत्पादत्वाद् अहमतीत एतन्नर-सदृशो ऽभूवमित्यादि च | अहं देवो वा गन्धर्वो वा किं सुखविहारो दुःखविहारो ऽभूवमित्ययं मोहोऽभाव एव | अहं सुगतौ दुर्गतौ वा, चिरम्, अचिरम् वा कथमभूवमिति मोहो ऽप्यभाव एव | अनागतान्ते न प्रतिसरति | किं न्वहं भविष्याम्यनागते ऽध्वनि इति च आहोस्विन्न भविष्यामि इति मोहो ऽप्यत्र नास्त्येव | किं न्वहं भविष्याम्यनागते ऽध्वनि इति अनागते ऽध्वनि देवो वा पिशाचो वा नरो वा किं वा भविष्यामीति अत्र मोहस्याप्यनुद्भव एव | सुखी वा दुःखी वा सुरूपो वा कुरूपो वा कथं भविष्यामि इति मोहो ऽप्यत्र नास्ति | अन्तरपि न प्रतिसरति इति अन्तर्न मुह्यति | किं न्विदमिति आत्मा निरात्मा वा इति | कथं न्विदमिति किं सरूपो ऽथवा विरूपो वेति मोहो ऽत्र नोद्भवति | के सन्त इति सुकृत-कर्मकारिणः दुष्कृत-कर्मकारिणो वेति न मोहोत्पादः | अयं सत्त्वो देवगतेर्नरगतेर्वा कुत आगत इतश्च्युतो देवेषु मनुष्येषु नरके प्रेते तिर्यञ्चि वा कुत्र गमिष्यतीति मोहो ऽत्र न सम्भवति | श्रमण-ब्राह्मणानां पृथग्लोके दृष्टिगतानि भविष्यन्ति इत्यादि | दृष्टिगतानि इति दृष्टिस्थानि | पृथगिति भिन्नमेव | तद्यथेति तु निदर्शनार्थम् | आत्मवाद-प्रतिसंयुक्तानीति स्कन्ध-व्यतिरिक्त-आत्मभावः | अविचारत आत्मात्मीयेति स्वभावात्मग्रह-संयुक्तत्वाद् आत्मवादप्रति-संयुक्तानीत्युक्तम् | विपरीतधारणा-समुत्थानार्थं पुद्गलवाद-प्रतिसंयुक्तानीत्यादि तु पुनर्गमनत्वात् पुद्गल इति स्कन्ध-व्यतिरिक्तः | यस्यामुं लोकं त्यक्त्वा परलोक-गमनस्य परलोकं विहाय अमुं एतल्लोकगमनस्य चाभावात् ग्रहण-दुर्विपरीतग्रहणमित्युक्तम् | कौतुक-मङ्गलवाद-प्रतिसंयुक्तानीति | कौतुकस्तु लोकशिल्पस्थानं, यच्च विविधविद्यास्थाने उत्सव-आवाह-विवाह-कलह-युद्धैः, उद्यान-नदी-सागर-पर्वत-वनेषु तत्तद्-भिन्नेषु च आर्यस्य गमन-दर्शन-संक्रमण-प्रवृत्ति-आवासानुरमणक्रीडा-सुखा-स्वाद-नृत्य-गीत-पदालाप-धावन-लंघनैः, अद्भुत-पुरुष-स्त्री-दारक-दारिका-विग्रहकथा-वाद-प्रहेलिकोक्तिभिः, गजाश्वादि-योधनैः, दूर्वा-दधि-गोरोचना-क्षेत्रहल-मुद्गर-पुष्प-फल-कलश-शङ्ख-मत्स्या-दिभिः, ब्राह्मण-ऋषभ-चन्द्र-सूर्य-ग्रह-नक्षत्र-तारा-क्षण-योग-करणादिनैमित्तिका-दिभिः आत्मशुद्धयन्वेषणम् | विपरीतानेकाकार-प्रलम्ब-रज्जुलम्ब्ये ऽमार्गे मार्गसंज्ञा, अशुचौ शुचिसंज्ञा, अमुनौ मुनिसंज्ञया षड्जगच्चक्र-प्रविष्ट-बुद्धिमतो गमनं गम्यं च संसारमेवानुसरन्ति न तु निर्वाणमिति | तेषां सम्यक् प्रज्ञया दर्शने चतुर्विधविपर्यय-रहितत्वात् समुच्छिन्नमूलानि तालवृक्षमस्तकवदनाभासगतानि आयत्यामनुत्पाद-निरोधधर्माणि इति | तस्मादेवोक्तम् |
SK
तथा कश्चिच्च न च्युतः | जन्माभासो ऽप्यसंल्लोके
SK
तस्माद् उदाहरणम्-
SK
यथापादपसङ्गतः | वह्निस्त्रोतप्रवृत्तिः स्यात् हेतुवैकल्यतस्तथा | नानुप्रवर्तते ह्यग्निः
SK
तथा इति यथा चन्द्रस्य रूपे दूरस्थिते ऽपि परीत्तजलभाजनेषु जले विपुलतैलपात्रेषु वा अवभासते | चन्द्ररूपसंक्रान्तिरनेकत्वं वापि नास्ति, तथापि अनेकजलपात्रेषु दृश्यते | एवम् अस्मान्न कश्चिच्च्युतो न गतो नागतो, हेतुप्रत्ययवैकल्यात् च्युति-गमनागमनावभासाः | तद्वज्जलभाजनवत् सत्त्वसन्तानस्य जगतः स्थानान्तरेषु बहुरूपेण चित्तचन्द्रबिम्बोत्पादः, हेतुप्रत्ययावैकल्यात् | कुशलाकुशलानेञ्ज्यादि-हेतोर्यथाक्षेपा तत्रावभासाकारा विज्ञप्तिरुद्भवति | आत्मात्मीयवियुक्तः सर्वभावेषु प्रतीत्यसमुत्पादक्रमो ऽवगन्तव्यः | अविच्छेदो - दाहरणम्- यथापादपसङ्गतः | वह्निस्त्रोतः प्रवृत्तिः स्यात् | कर्मक्लेश-लिप्त-चित्तसन्तानं वह्निस्त्रोतोनिबद्धमिन्धनं तु कर्मक्लेशत एव स्यादिति परीक्ष्यते | यथा - अग्नीन्धनहेतुकं ज्वलनम् अविच्छिन्नम् | इन्धनाभावे विच्छिन्नम्, तद्वद् अत्रापि कर्मक्लेशेन्धनमुच्छिद्य संक्लेशालय-विज्ञानबीजओ-सन्ताने ज्ञानाग्नि-संयोगाद् दग्धे सति हेतु-निरोधान् न फलोद्भवः | तस्मादेवोक्तम् - यान्येकेषां श्रमण-ब्राह्माणानां तद्यथा इति इतो बाह्यानाम् लोकस्तु लोकः |
SK
नश्यन्-नश्यन् गत्यर्थः, लुज्यतत्वाल्लोकः | विशीर्यमाण इत्यधिवचनम् | दृष्टिगतानीति दृग्दर्शनम् विपरीत-शास्त्रश्रवणचिन्तनादिमिथ्या-ज्ञानोद्भवं मिथ्या-ज्ञानं तु दृष्टिरित्युच्यते | पृथक् तु भिन्नम् | तद्यथा - आत्मवाद-प्रतिसंयुक्तानीत्यादि तु पञ्चोपादान-स्कन्धेषु रूप-वेदना-संज्ञा-संस्कार-विज्ञार्नोष्वति आत्मात्मीय-रहितेषु, आत्मत्वेन सम्यग्दृष्टिर्या क्लिष्टप्रज्ञा सा दृष्टिः | सत्कायान्तदृष्टि-शील-व्रत-मिथ्यादृष्टिपूर्वकं कुप्रज्ञाविद्यासंप्रयुक्तत्वाद् दृष्टिरिति | तदविद्यापूर्वकं रागप्रतिघाकाराविद्यादृष्टि-विचिकित्सोपक्लेश-संप्रयुक्तो दृष्टि-लक्षण-धात्वाकारभेदम् अनधिगम्य संक्लिष्टालय-विज्ञान-वासनावस्थित-तदाकार-विज्ञानावभासपोषणात् प्रागेव लोकोत्तर-मार्गाश्रितचतुरार्यसत्यभावना-भ्यासक्रमेण दुःख-समुदय-निरोध-मार्ग-दर्शन-भावना-विमुक्ति-विशेषानन्तरेण प्रहाण-साक्षात्कारः | यश्चापि सप्तत्रिंशद्बोधिपक्षधर्मस्मृत्युपस्थान-सम्यक्प्रहाण-ऋद्धिपाद-इन्द्रिय-बल-बोध्यङ्ग-मार्ग-प्रतीत्यसमुत्पाद-ध्यान-अरूपि-अप्रमाण-षडनुस्मृत्यादियधर्मपुद्गलनैरात्म्य-बोधिचित्तभावना-समाधि-धारणा-श्रद्धा-वीर्य-समाधि-प्रज्ञा-भूमि-वशीकारा-भिज्ञान-ज्ञान-पारमिता-विमुक्तिद्वार-क्षान्ति-भावनादि-क्रमेण लोकोत्तरमार्गानुगत-त्वाद् अधिमुक्तिचर्यायां प्रतिस्थाप्य निर्याण-प्रयोग-साक्षात्काराद् इन्द्रिय-बल-अभयओ-असंसृष्ट-प्रतिसंविद्-व्यञ्जन-महापुरुष-लक्षण-ऋद्धिपादादि भावनां परिपूर्य अनुत्तरसम्यक्-समवबोधावबोधात् शमथ-विपश्यनानुकूल-समभावो भावने ऽनन्ता-चिन्त्यगुण्यं शान्तस्वभावकायं, आदिमध्यान्तवर्जितं, ज्ञात्वा प्राप्नोति बुद्धत्वम् इत्युक्तम् | तत्र रूपस्कन्धस्तु रूपावभासाकार-विज्ञप्त्यवभास-विकल्पोद्भूतो ऽनेक-द्रव्यात्मको भूतभौतिक-रूप-लक्षण एकादशओ-सामान्यात्मक-पञ्चद्रव्याकारारोप-संघट्टितः चक्षुः-श्रोत्रादिरूप-शब्दादिकाम-रूप-अरूप-प्रतिसंयुक्ताभूतपरिकल्पना-लक्षणः स्कन्धो धात्वायतन-इन्द्रिय-विज्ञान-विषयात्मको ऽथ च तादृगन्यतादृग्रूप-लक्षणो धर्मस्तु रूपस्कन्ध इति |
SK
तत्र वेदनास्कन्ध इति सुख-दुःखोभयाकारेण आस्वादाकार-विज्ञप्त्यवभासः | विषयेन्द्रियविज्ञानभेदेन वेदना षट्काया | धात्वाकारविशेषभेदेन क्लेशोप-क्लेशसंप्रयुक्तत्वाद् अनन्ताः प्रभेदाः स्युः | सुख-दुःख-सौमनस्य-दौर्मनस्यो-पेक्षान्वितत्वात् षडाकारमात्मद्रव्यमेव अभूतसंकल्प-विकल्पालय-विज्ञानवासनोप-निबद्धत्वाद् राग-द्वेष-मोहादित्रिधातु-विकल्पवशोद्भूत-द्रव्य-संगृहीतत्वाद् वेदना-स्कन्ध इति | संज्ञा सूक्ष्म-स्थूल-महाङ्गतादि-चित्रीकाराव-भासाकार-विज्ञप्ति-र्विकल्पनावशोद्भूत-पूर्वहसन-नन्दन-क्रीडनादि-काननुस्मृत्य स्त्री-पुरुषादि-निमित्तविशेषग्रहणात्मिका विषयेन्द्रिय-विज्ञानभेदेन षट्काया संज्ञा | राग-द्वेष-मोह-निबन्धनत्वाद् धात्वाकार-विशेषभेदेन तु अनन्तप्रसरा | संक्लिष्टस्यालयविज्ञान-वासना-सम्बन्धत्वाद् आत्ममोहादि-संयुक्तात्मता तु संज्ञेति | संस्कारस्तु संप्रयुक्ता-प्रयुक्त-प्रज्ञप्ति-संस्कृता-संस्कृतावभासांकार-विज्ञप्तिः-विकल्पनावशेनोद्भूतः | पूर्वाक्षिप्तालय-विज्ञानाद् अस्तित्व-वासना-भेदेन तु धातोः आकार-विशेषानन्त-प्रसरान्वितस्य संस्कार-स्कन्ध-संगृहीतत्वात् संस्कारस्कन्ध इति | तत्र विज्ञान-स्कन्धस्त्वष्टविधः | विषयेन्द्रिय-विज्ञानानां विशिष्टावभासाकार-विज्ञप्तिः | विकल्पनावशोद्भूतालय-विज्ञानस्य वासनोपनिबद्धत्वाद् धातोराकार-विशेष-भेदेनानन्तप्रसरो हि विज्ञानस्कन्ध इति |
SK
तेषामप्येवं धात्वायतन-सास्रव-संस्कृत-संक्लेशादि-पर्यायभेदेन स्व-लक्षणसम्बन्धेन संक्षिप्य स्कन्धो धातुरायतनमिति | एवं संक्लिष्टालयविज्ञान-बीजान्विता अभूतसंकल्पसमुत्त्थत्रैधातुकोद्गतास्ते चित्तचैतसिकादयस्तु संसार इति | तथापि तत्र आदावेव कर्त्रादिरहितो रिक्तस्तुच्छो ऽसार इति विदित्वा चतुरार्यसत्य-भावनानुलोमप्रवृत्त्या निर्णीतो लोकोत्तर-ज्ञानाग्नि-समुद्भूतो-ऽविद्यान्धकारादि-रहितो हेतुप्रत्ययार्थतथतापरिज्ञानात् शान्तो धर्मकायो ऽवगम्यते |
SK
तस्माद् दुःख-समुदय-निरोध-मार्ग-दर्शन-भावनामार्गक्रमः| तत्र दुःख-सत्यम्-अनित्यता-दुःखता-शून्यता-नैरात्म्य-सम्यगनुदर्शनज्ञानेन क्षान्ति-मुक्ति-प्रहाण-विशेषानान्तर्यज्ञानेन च तद्-दुःखमवगम्य क्लेशालयविज्ञानवासनां संनिहत्य पुद्गलधर्मनैरात्म्यम् अवबुध्य, त्रैधातुकावभासिताभूतसंकल्पोद्भूतं अस्मिन् चित्तमात्रे माया-मरीचि-गन्धर्वनगर-अलातचक्र-प्रतिश्रुत्क-उदकचन्द्र-प्रतिबिम्बवद् विभावने, स्कन्धादौ धातौ आयतने च ग्राह्य-ग्राहकतां विहाय धर्मनैरात्म्यसमतायां प्रविशे, स्वचित्तमेव आद्यमनुत्पन्नमिति शून्यज्ञानप्रवेशे, सर्वधर्मनिःस्वभावताज्ञानस्य करुणामूलक-बोधिचित्तस्य हेतूभूत-विविधोपाय-पुण्यज्ञानसम्भारसंचये दशपारमिताहेतुभिः दशभूम्याधार दशज्ञानालम्बन-दशवशिताफलान्विते ऽनन्ताचिन्त्य-गुणाकारः शान्तधर्मकायो ऽवबुध्यते | एवं समुदय-सत्य-समुदय-हेतु-प्रभव-प्रत्यय-आनन्तर्य-विमुक्ति-प्रहाण-विशेष-दर्शन-अनुलोम-प्रतिलोम-भावनाकारेण संक्लिष्ट-आलयविज्ञान-वासना-मल-रहितत्वे शान्तधर्मकाये प्रवेशः | निरोध-सत्ये ऽपि निरोध-शान्त-प्रणीत-निःसरणता-आनन्तर्य-विमुक्ति-प्रहाण-विशेष-दर्शन-भावनामार्गक्रमेण संक्लिष्टा-लयविज्ञानवासनासमुद्घातेन आनन्तर्य-प्रहाण-विमुक्ति-विशेष-भावनया पुद्गल-धर्मनैरात्म्याधिगमे शान्तधर्मकायप्राप्तिः | हेतुप्रत्ययओ-रहितत्वात् मार्गसत्ये ऽपि मार्ग-न्याय-प्रतिपत्ति-नैर्याणिक-सन्दर्शने एवं दर्शन-भावना-आनन्तर्य-प्रहाण-विमुक्ति-विशेषमार्गानुकूलतायै आलयविज्ञाने विद्यमानां वासनां संनिहत्य पुद्गलधर्म-नैरात्म्य-समतावबोधात् त्रिकायाधिष्ठान-शान्त-धर्मकायस्याचिन्त्या-प्रमेयगुण-गणस्य आदिमध्यान्तरहितस्य अविच्छिन्न-नाभोगकरणात्मक-सर्वार्थानां अनुत्तरं सर्वज्ञत्वं प्राप्नोति | अपि चोक्तम् -
SK
य एवं तथताक्षमः | तस्मै व्याक्रियते नूनं
SK
य एवमनन्तरोक्त-प्रतीत्यसमुत्पाद-पुद्गलधर्मनैरात्म्य-तत्त्व-क्षम इच्छति, स एव पुद्गलधर्मनैरात्म्यक्षमतान्वितत्वाद् अनुत्तरसम्यक्सम्बोधिं व्याकृतवत् पश्येत्, जानीयाच्चेत्यर्थः | तस्मात् सूत्रे- यो भदन्त शारिपुत्र कुलपुत्रो कुलदुहिता वा एवंविध-धर्मक्षान्ति-समन्वितः, तस्य तथागतो ऽर्हत् सम्यक्सम्बुद्धो ऽनुत्तरः सम्यक्सम्बोधिं व्याकरोति इत्युक्तम् |
SK
मैत्रेयस्तु स्वयं तथा | उवाच शारिपुत्राय
SK
एवम् शारिपुत्रो बोधिसत्त्वो मैत्रेयमपृच्छत् | बोधिसत्त्वो मैत्रेयो ऽपि शालिस्तम्बोपमा कृता इदं सूत्रम् विस्तरेण विभज्य भाषितवान् | बोधिसत्त्वमैत्रेयेण भाषितां शालिस्तम्बोपमां कृत्वा शारिपुत्रस्तु तच्छ्रुत्वा इति शालिस्तम्बोपमा कृता | संस्तुतो धृत सारश्च देवसंघान् इति | धृतसार इति धर्मार्थतथतावबोधत्वात् सारग्रहणम् | देवसंघानिति देव-नाग-यक्ष-गन्धर्व-आदि-सहितान् | अनुमोदितेति अनुमोद्य | सःस्तुत इति त्वया यथोक्तः तथैव अस्ति नान्यथेति, अवधारयन् निर्जातत्वात् |
SK
गत्वोत्त्थाय प्रहर्षितः | आख्यातवांश्च भिक्षुभ्यः
SK
तस्मादेव सूत्रे- अथ आयुष्मान् शारिपुत्रो मैत्रेयस्य बोधिसत्त्वस्य भाषितम् अभिनन्द्य उत्थायासनात् प्रक्रान्त इत्युक्तम् | मैत्रेयेण बोधिसत्त्वेन महासत्त्वेन एवमुक्तं मैत्रेयेण बोधिसत्त्वेन, एवमिति शारिपुत्रेण कथितम् | अनुमोदितम् | शारिपुत्रः तच्छुत्वा प्रहर्षितः सन्तुष्ट इत्यर्थः | गत्वा भिक्षुभ्यो गम्भीरोदाराद्भुतं सूत्रं यथाश्रुतवत् सर्वसत्त्वहिताय भाषितम् |
SK
शालिस्तम्बस्य सूत्रस्य विस्तराख्या सुभद्रिका | हीनबुद्धि प्रबोधार्थं शतैर्द्वादशभिः कृता |
SK
आचार्यनागार्जुनेन विरचिता शालिस्तम्बकविस्तराख्याटीका समाप्ता |
SK
भारतीयोपाध्यायेन धर्मश्रीभद्रेण लोकचक्षुषा भदन्तसाधुमतिना ज्ञान कुमारेण चानूदिता | महासंशोधक-लोकचक्षुषा भदन्त-श्रीकुटीरेण संशोध्य निर्णीता |

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Nāgārjuna: Śālistambakamahāyānasūtraṭīkā (sa_nAgArjuna-zAlistambakamahAyAnasUtraTIkA.htm).

Source