SK
वीरशैवानन्दचन्द्रिका (वादकाण्डः) श्रीजगद्गुरु मूरुसाविरमठग्रन्थमालायाः अष्टमं पुष्पम् वीरशैवानन्दचन्द्रिका श्रीमन्निरञ्जन मरितोण्टदार्य शिवयोगिविरचिता बेलगांव श्रीचन्द्रशेखरमठाध्यक्ष �न्यायाचार्य� �दर्शनविशारद� श्रीगुरुलि᳚न्गदेवमहोदयैः परिष्कृत्य संशोधिता प्रथमं संस्करणम् भ्रूलतापुर्यां श्रीजगद्गुरुग᳚न्गाधरसंस्कृतमहाविद्यालयन्यायशास्त्राध्यापकेन, श्रीसोमशेखरशास्त्रिणा प्राकाश्यं नीता वाराणस्यां कृ० ब० पावगीति नामकेन हितचिन्तकयन्त्रालयाधिपतिना मुद्रिता शाकः १८५८ सनाब्दाः १९३६ पृ० १) नमः शिवाय वीरशैवानन्दचन्द्रिकायां वादकाण्डः श्रीमन्तं सद्गुरुं वन्दे मन्दा यद्दृष्टिवीक्षणैः | भजन्ति सर्वविज्ञत्वं सर्वव्याख्यातृतामपि || १ || नानाप्रमेयगहनेषु मतेषु पार- मप्राप्य संशयवशात्परितो भ्रमन्तीम् | बुद्धिं प्रसाद्य वरषट्स्थलतत्त्वनिष्ठां कुर्वाणमात्मगुरुमन्वहमानतोऽस्मि || २ || ब्रह्माहुः शा᳚न्करा यत्पशुपतिमपरे पाञ्चरात्राश्च विष्णुं कर्मेड्यं जैमिनीयाः कणभुगनुगताश्चेश्वरं गौतमीयाः | अव्यक्तं कापिलेयाः फणिपमतविदस्त्वीश्वरं तन्निदानं स्वाभिन्नाचिन्त्यशक्तिस्फुरणसमरसं श्रीमहालि᳚न्गमीडे || ३ || स्वामिन् ! वक्त्रविनिर्गतेन भवतो ज्ञेयं समस्तं क्रिया- काण्डेनाधिगतं ततश्च हृदये हर्षप्रकर्षोऽभवत् | सोत्कण्ठं मम वीरशैवसुमहासिद्धान्तवाक्पद्धतिं नानावादिमतानि तन्निरसनारीतिञ्च बोद्धुं मनः || ४ || पृ० २) स᳚न्कीर्तयामि बसवक्षितिपाल ! तुभ्यं सिद्धान्तमन्यमतमप्यथ तन्निरासम् | चित्तेऽवधारय बुधैरपि दुर्विबोध- मीशार्चनातिशयशुद्धतरान्तर᳚न्ग || ५ ||