The Moonlight of the Heroic Shaiva Bliss

Vīraśaivānandacandrikā

The Moonlight of the Heroic Shaiva Bliss

Vīraśaivānandacandrikā

SK
वीरशैवानन्दचन्द्रिका (वादकाण्डः) श्रीजगद्गुरु मूरुसाविरमठग्रन्थमालायाः अष्टमं पुष्पम् वीरशैवानन्दचन्द्रिका श्रीमन्निरञ्जन मरितोण्टदार्य शिवयोगिविरचिता बेलगांव श्रीचन्द्रशेखरमठाध्यक्ष �न्यायाचार्य� �दर्शनविशारद� श्रीगुरुलि᳚न्गदेवमहोदयैः परिष्कृत्य संशोधिता प्रथमं संस्करणम् भ्रूलतापुर्यां श्रीजगद्गुरुग᳚न्गाधरसंस्कृतमहाविद्यालयन्यायशास्त्राध्यापकेन, श्रीसोमशेखरशास्त्रिणा प्राकाश्यं नीता वाराणस्यां कृ० ब० पावगीति नामकेन हितचिन्तकयन्त्रालयाधिपतिना मुद्रिता शाकः १८५८ सनाब्दाः १९३६ पृ० १) नमः शिवाय वीरशैवानन्दचन्द्रिकायां वादकाण्डः श्रीमन्तं सद्गुरुं वन्दे मन्दा यद्दृष्टिवीक्षणैः | भजन्ति सर्वविज्ञत्वं सर्वव्याख्यातृतामपि || १ || नानाप्रमेयगहनेषु मतेषु पार- मप्राप्य संशयवशात्परितो भ्रमन्तीम् | बुद्धिं प्रसाद्य वरषट्स्थलतत्त्वनिष्ठां कुर्वाणमात्मगुरुमन्वहमानतोऽस्मि || २ || ब्रह्माहुः शा᳚न्करा यत्पशुपतिमपरे पाञ्चरात्राश्च विष्णुं कर्मेड्यं जैमिनीयाः कणभुगनुगताश्चेश्वरं गौतमीयाः | अव्यक्तं कापिलेयाः फणिपमतविदस्त्वीश्वरं तन्निदानं स्वाभिन्नाचिन्त्यशक्तिस्फुरणसमरसं श्रीमहालि᳚न्गमीडे || ३ || स्वामिन् ! वक्त्रविनिर्गतेन भवतो ज्ञेयं समस्तं क्रिया- काण्डेनाधिगतं ततश्च हृदये हर्षप्रकर्षोऽभवत् | सोत्कण्ठं मम वीरशैवसुमहासिद्धान्तवाक्पद्धतिं नानावादिमतानि तन्निरसनारीतिञ्च बोद्धुं मनः || ४ || पृ० २) स᳚न्कीर्तयामि बसवक्षितिपाल ! तुभ्यं सिद्धान्तमन्यमतमप्यथ तन्निरासम् | चित्तेऽवधारय बुधैरपि दुर्विबोध- मीशार्चनातिशयशुद्धतरान्तर᳚न्ग || ५ ||
SK
इह खलु धर्मार्थकाममोक्षेषु चतुर्विधेषु पुरुषार्थेषु श्रुत्यागमस्मृतीतिहासपुराणैर्लोकदृष्ट्या च सर्वाभीप्सितत्वेन सिद्धेषु चरमस्य सर्वानर्थसमूलकाष᳚न्कषणात्मकनिवृत्तिरूपतया, निष्प्रतिबन्धामन्दानन्दसन्दोहसुधासिन्धुनिरर्गलनिर्गलल्लहरीपरिपाकशिव् आद्वैतावस्थितिस्वभावतया, निरतिशयनिवृत्तिसन्ततिसन्ततानुभवैकालोकजीवलोकाभीप्सिततमत्त्वेन च, तत्र चाप्रतिबद्धशिवाद्वैतापरोक्षसाक्षात्कारस्य साक्षात्साधनत्वेन, तत्र च श्रवण-मनन-निदिध्यासनानां स्वस्वोत्तर साधनत्त्वेन क्रमिकतया सिद्धानां त्रयाणां साक्षात्परम्परया च कारणत्वं प्रतिपादयतां निगमागमधर्म्मशास्त्रेतिहासपुराणवचनानामप्रामाण्यं प्रामाण्यञ्च प्रतिपादयन्तः, चार्वाक, सौत्रान्तिक-वैभाषिक-योगाचार- माध्यमिकरूपचतुर्विधबौद्धा, हर्तसंज्ञका अवैदिकाः, लाकुल कापाल- भैरव-कालामुखात्मकभेदचतुष्टयगर्भितपाशुपत, माध्व- रामानुजभेदभिन्नोभयविधपाञ्चरात्रावान्तर षड्भेदभिन्नद्विविधतान्त् रिकाक्षपादकाणादरूपद्विविधतार्किक, सेश्वरनिरीश्वरात्मकद्विरूपसांख्यं, योग, जैमिनीयार्षचतुष्टयात्मका वैदिकाश्च विवर्तवादसिद्धान्तपद्धतिपर्यालोचनाजनितसन्देहविपर्यासविरोधपरिहारे. न तावत्प्रमाणैकवाक्यतासम्पत्तिसम्पादकब्रह्म- मीमांसाशास्त्रप्रणेतृभगवद्बादरायणमुनितात्पर्यानुकूलवीरशैवस म्प्रदायसारतरपरिणामवादविशिष्टाद्वैतप्रक्रियाविशेषषट्स्थलतत्त्व् आनुबद्धश्रद्धानुपासितशिवसिद्धान्तसारान्वीरशैवविबुधवरान् व्याकुलयन्तीति तन्निवर्त्तकनिरवग्रहानुग्रहैकाग्रहृदयेन निखिलनिगमागमेतिहासस्मृतिपुराणपदवाक्यप्रमाणपारावारपारीणेन श्रीमत्केलदिबसवक्षितीन्द्रहृदयानन्दकारिप्रत्युत्तरप्रदानोन्मुखेन
SK
पृ० ३) सिद्धेश्वरप्रसादासादितनिर्मलज्ञानवैभवेन निरञ्जनज᳚न्गमापरावतारेण निराभारवीरशैवसाम्राज्यधुर्य्येण श्रीमरितोण्टदार्येण लि᳚न्गा᳚न्गसामरस्योपपादकः षट्स्थलतत्त्वबोधोत्पादकः विमतमतिकल्पितविविधविकल्पापनोदकः षड्विधलि᳚न्गभक्तिवैभवोद्बोधकः निरतिशयपुरुषार्थसाधकः सकलकल्मषबाधकः संसारविषतरुमूलोच्छेदकः समानन्दितसकलवीरशैवबुधस्वान्तः सिद्धान्तस्तावदादौ प्रस्तूयते || ननु- शास्त्रेऽस्मिन्प्रेक्षावतां कथं प्रवृत्तिः विषयप्रयोजनाधिकारितत्सम्बन्धानामनुपलम्भात्, �प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तत� इति न्यायादिति चेन्न विषयप्रयोजनाधिकारिसम्बन्धानामत्रापि सत्त्वात्प्रवृत्तिरुपपद्यत एव | तथाहि- वक्ष्यमाणलक्षणलक्षितविशुद्धान्तःकरणावच्छिन्नस्या᳚न्गशब्दितस्य जीवस्य लि᳚न्गशब्दितसद्दृक्रियानन्दादिस्वाभावशिवाभेदः शास्त्रस्य विषयः | ईश्वरेच्छाशक्तिनियमितपुरुषतत्त्वनिष्ठाऽविद्यातत्त्वस्य स्वकारणीभूतसर्वज्ञताशक्तिसामरस्यस्थितिरूपनिवृत्तिद्वारा स्वात्मशिवभावलक्षणा कैवल्यलक्ष्मीः प्रयोजनम् | अनेकजन्मार्जितशिवपूजादिसत्कर्ममहिम्नाऽष्टावरण-पञ्चाचारनिष्ठः शमादिसाधनचतुष्टयसम्पन्नोऽधिकारी | विषयस्य शास्त्रस्य च प्रतिपाद्यप्रतिपादकभावः, शिवाद्वैतस्य साक्षात्कारस्य च विषयविषयिभावः सम्बन्ध इत्यनुबन्धचतुष्टयम् || साधनचतुष्टयन्तु-नित्यानित्यवस्तुविवेकः, इहामुत्रफलभोगविरागः, शमदमसन्तोषतितिक्षाश्रद्धासमाधानानि, मुमुक्षा च | एषु च चतुर्षु साधनेषु पूर्वपूर्वमुत्तरोत्तरं प्रति कारणम् | �तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते� इति श्रुतेः �त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते | ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ||� इति भगवद्गीतावचनात्, श्ह्वर्गेऽपि पातभीतस्य श्लथाक्ष्णो नास्तिनिर्वृति� रिति विष्णुपुराणवचनाच्च, राजसेवादिव्यापारजन्यपशुगृहारामक्षेत्रादिव
SK
द्विधिविहितकर्मफलानां स्वर्गादीनामपि क्षयिष्णुत्त्वेन
SK
पृ० ४) शरीरप्राणसंयोगवियोगरूपजननमरणादिदुःखजनकत्त्वेन प्रतिपादनात्, �ततो यदुत्तरतरं तदरूपमनामयं� �ऋतं सत्यं परं ब्रह्म� �यदा तमस्तन्न दिवा न रात्रिर्न सन्नचासच्छिव एव केवलः� ङिष्कलं निष्क्रियं शान्तं विरवद्यं निरञ्जनं अमृतस्य परं सेतुं दग्धेन्धनमिवानल� मित्याद्यनेकश्रुतिवचनपर्यालोचनया अनामयत्त्वेन सत्यत्वेन अमृतसेतुत्त्वेन विरूपाक्ष शिवादिशब्दैरभिहितस्य शिवतत्त्वस्य च नित्यत्त्वेन श्रवणाच्च, तज्जन्यनित्यानित्यवस्तुविवेकः प्रथमं साधनं भवति | तेनैहिकामुष्मिकफलेष्वरुचिद्वारा वैराग्यं द्वितीयं साधनमुत्पद्यते | तेनान्तरिन्द्रियस्य मनसो विषयवैमुख्यरूपः शमः, तेन चक्षुरादीनां स्वस्वविषयवैमुख्यरूपोदमः, तेन प्राणधारणमात्रसाधनविषयलाभजनितविषयान्तरालम्बुद्धिः सन्तोषः, तेन शीतोष्णादिद्वन्द्वसहनेच्छारूपा तितिक्षा, तया च गुरुवेदान्तवाक्यादिविश्वासरूपः श्रद्धा, तया गुरुवेदान्तवाक्यादिसिद्धशिवतत्वे विषयान्तरपरिहारेण मनोविन्यासविशेषरूपं समाधानमुत्पद्यते | एवं शमादिषट्करूपं तृतीयं साधनमष्टावरण-पञ्चाचारनिष्ठाच वैराग्येण द्वितीयसाधनेनोत्पद्यते | तेन सकलदुःखव्रातप्रहाणेच्छारूपा मुमुक्षा चतुर्थं साधनम् | एतादृशसाधनचतुष्टयसम्पन्नो वीरशैवाभिमतशिवाद्वैताध्यात्मशास्त्रविचाररूपश्रवणमननयोरधिक् आरी | एवं रूपेणाधिकारिणा शिवाद्वैततत्वविचाररूपं श्रवणं मननञ्च कर्तव्यम् | तदिदमुक्तं भगवता बादरायणेन मुनिना सूत्रकारेण �अथातो ब्रह्मजिज्ञासा� इति | अथ= अनेकजन्माचरितशिवपूजादिसत्कर्मसम्प्राप्तसाधनचतुष्टयसम्पत्यनन्तर. म्, अतः= वक्ष्यमाणरीत्या वैदिकावैदिकमतानां निर्युक्तिकत्वेन निराकरणाद्धेतोः, ब्रह्म स्वतन्त्रदृक्क्रियात्मकं महालि᳚न्गस्वरूपमद्वैतं शिवचैतन्यं, तस्य जिज्ञासा तज्जिज्ञासेति कर्मणि षष्ठी, तस्य विचारः श्रवणमननात्मकः कर्तव्य इति शेषः | श्रवणं नाम गुरुमुखान्निगमागमवाक्यानां
SK
सर्वेषामद्वैते ब्रह्मणि तात्पर्यपर्यवसायि अर्थपर्यालोचनम् | मननञ्च वेदान्तागमवाक्यानां पृ० ५) पूर्वतन्त्रन्यायोपबृंहितब्रह्मसूत्रप्रतिपादितयुक्तिभिरद्वैते ब्रह्मणि असम्भावनाविपरीतभावनानिवर्तकत्वेन तत्र तात्पर्यदार्ढ्यावसायि अर्थपर्यालोचनम् | विजातीयप्रत्ययतिरस्कारपूर्वकसजातीयप्रत्ययप्रवाहीकरणं निदिध्यासनम् | तच्च योगशास्त्रे समाधिरित्युच्यते | स च द्विविधः सविकल्पको निर्विकल्पकश्च | सविकल्पको निर्विकल्पोपकारकः, निर्विकल्पं परं ब्रह्म साक्षात्कर्तुमनीश्वराः | ये मन्दास्तेऽनुकम्प्यन्ते सविशेष निरूपणैः || इति कल्पतरूक्तेः | सविकल्पकश्च यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसहितः | यमस्तु अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहरूपेण पञ्चधा | शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि पञ्च नियमाः | पद्मासनस्वस्तिकासनसिद्धासनगोमुखासनगरुडासनवीरासनादि पातञ्जलयोगप्रसिद्धः हठयोगप्रदीपिकाद्युक्तरीत्या वेदितव्यम् | सत्यासनजये प्राणायामसिद्धिः | प्राणायामस्तु श्वासप्रश्वासयोर्गतिविच्छेदलक्षणः | स च रेचकपूरककुम्भकभेदेन त्रिविधः | बाह्यवृत्तिश्वासो रेचकः | अन्तर्वर्तिप्रश्वासः पूरकः | अन्तस्तम्भवृत्तिः कुम्भकः | स त्रिविधोऽपि नासाद्वादशान्तादिदेशोपलक्षितः, द्वात्रिंशन्मात्रादिकालोपलक्षितश्च | मनोधारणयोग्यता च प्राणायामफलम् | तदेतदुक्तमभियुक्तैः, देहेन्द्रियादिवैराग्यं यम इत्युच्यते बुधैः | अनुरक्तिः परे तत्त्वे नियमः परिकीर्तितः || सर्ववस्तुन्युदासीनभावश्चासनमुच्यते | जगत्सर्वमिदं मिथ्याप्रतीतिः प्राणसंयमः || चित्तस्यान्तर्मुखीभावः प्रत्याहारः स उच्यते | चित्तस्य निर्मलीभावो धारणाऽसौ निगद्यते || पृ० ६) सोऽहं चिन्मात्रमेवेति ध्यानं चिन्तनमुच्यते | ध्यानं त्वमिश्रणं यत्र समाधिरिति गीयते || इत्यादिना ||
SK
इन्द्रयाणि स्वस्वविषयेभ्यः प्रतीपमाह्नियन्त इति प्रत्याहारः | अभ्यस्यमाने प्रत्याहारे वश्यानीन्द्रियाणि भवन्ति | नासाग्रनाभिचक्रादिदेशे चित्तस्य स्थिरीकरणं धारणा | यत्र हृदयकमलनिष्ठप्राणलि᳚न्गादौ चित्तं धृतं तत्र प्रत्ययस्य विसदृशपरिणामपरिहारद्वारेणालम्बनीकृतस्य नैरन्तर्यं ध्यानम् | अर्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः | अर्थस्त्विष्टलि᳚न्गादिकम् | यमादिष्वष्टसु यमनियमौ साधनचतुष्टये यथासम्भवमन्तर्भवतः | पूर्वपूर्वसाधनेनोत्तरोत्तरं साध्यमुत्पद्यते | एवञ्च- वीरशैवमतस्थस्य ज्ञानयोगो हि साधनं | न ज्ञानेन विना योगो न योगो ज्ञानतो विना || इति वचनाद्वीरशैवानामेतादृशयोगसहितज्ञानस्यैव कैवल्यसाधनत्वं वेदितव्यम् | एवमुक्तक्रमेण निदिध्यासने श्रवणमननयोरसाधारणकारणत्त्वात्, श्रवण मननात्मकः शिवतत्त्वविचारः कर्तव्यः, स्वात्माभेदेनपरामर्शः शिवतत्त्वविचारः कर्तव्यः, स्वात्माभेदेन परामर्शः कर्तव्य इत्यर्थः | अस्मिन्सूत्रेऽतः शब्देन वक्ष्यमाणसमन्वयाविरोधफलाध्यायार्थस्सर्वोऽपि संक्षिप्तः | अथशब्देन साधनाध्यायार्थः संगृहीतः | ब्रह्मशब्देन जडजीवविलक्षण स्वप्रकाशस्वतन्त्रताशक्तिस्वभावत्त्वं तात्पर्यविषयीकृतमिति विमर्शनीयम् | ननु परस्य ब्रह्मणः अस᳚न्गोदासीनचित्स्वभावस्य कथं स्वतन्त्रता चिदादिशक्तिमत्वं, शक्तिमत्त्वे प्रमाणाभावात् | न च �परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रियाच� इति श्वेताश्वतरोपनिषदि श्रवणात्, पृ० ७) �न शिवेन विना शक्तिर्न शक्तिरहितः शिवः | पुष्पगन्धवदन्योन्यं मारुताम्बरयोरिव ||
SK
इत्युपबृंहणाच्च शिवस्य शक्तिमत्त्वं प्रमाणसिद्धम् | अत एव श्हिवः शक्त्यायुक्तो यदि भवति शक्तः प्रभवितुम्� इत्याद्यभियुक्त सन्दर्भोऽपि स᳚न्गच्छत इतिवाच्यम्, श्वेताश्वतरादि श्रुतिवाक्यानां �मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम्, यदा तमस्तन्न दिवा न रात्रिः� इत्यादि पूर्वसन्दर्भपर्यालोचनया, �प्रधानक्षेत्रज्ञपतिर्गुणेश� इत्युत्तर सन्दर्भपर्यालोचनया च, माया तमः प्रधान शब्दैर्भावरूपाज्ञानाभिन्न जडाविद्याया एव प्रतिपादने तात्पर्यावसायात् | किञ्च भवदभिमता शक्तिः शिवादभिन्ना वा न वा ? आद्ये शिवाद्वैतहानिः | द्वितीये �तम आसीत्तमसा मूढमग्रे� �आसीदिदं तमोभूतमप्रज्ञातमलक्षणं� इत्यादिना दृश्यमानान्धकारवदावरकत्त्वेन प्रतिपादितायाश्शक्तेरस᳚न्गोदासीनप्रकाशरूपशिवाद्वैतस्वरूपत्त्वस्य वक्तुमसम्भावितत्त्वात् | अपिच वीरशैवमतानुसारेण षट्त्रिंशत्तत्त्वेषु पञ्चविंशतितमतत्त्वात्मकं पुरुषमभिधाय, तस्य �कलाविद्याकालरागौ नियतिश्चेति कञ्चुकाः� इति पञ्चकञ्चुकत्वेन पञ्चतत्त्वान्यभिधाय, ततो माया-शुद्धविद्या-सदाशिव- महेश्वर-शक्ति-शिवाख्यानि षट्तत्त्वान्युररीकुर्वतां भवतामपि शक्तितत्त्ववैलक्षण्येन मायातत्त्वस्यैकत्रिंशत्तमतत्वस्य जड?शक्तेर᳚न्गीकार्यत्वादावरकाज्ञानरूपायास्तस्याश्चित्स्वरूपशिवता दात्म्यानुपपत्तिः | नच �परास्यशक्ति� रित्यादिना शक्तिसिद्धिः, शक्तिः स्वभावो निसर्गः स्वरूपमिति पर्यायशब्दैः स्वरूपस्यैव विवक्षितत्वेन भिन्नतया अभिन्नतया वा निर्वक्तुमयोग्यत्त्वात् | मम शक्तिः, शिवस्य शक्तिरित्यादिव्यवहारस्तु राहोः शिरः, ममात्मा, मम स्वभावः, मम स्वरूपमित्यादिवदभेद एव पर्यवसानात् सा पार्थक्येन तत्वान्तरं न साधयितुमीष्टे | अतः श्रुतिस्मृत्यादिषु शक्तिशब्दव्यवहारस्त्वस्मदभिमतायां मायायामेव पर्य्यवस्यतीति चेन्न, मायाशब्दिताया जडाविद्याया ब्रह्मणि सम्बन्धस्य वक्तुमशक्यत्वेनास्मदभिमतायाः
SK
पृ० ८) शक्तेरेव श्रुतिस्मृति तात्पर्यविषयत्त्वात्, अविद्यासद्भावे प्रमाणाभावाच्च तथाहि- अविद्यासद्भावे किम्मानं प्रत्यक्षमनुमानमागम आन्तरानुभवो वा ? नाद्यः, घटमहं साक्षात्करोमीतिवदविद्यां साक्षात्करोमीत्यनुव्यवसायस्यादर्शनात् | न द्वितीयः, तद्व्याप्यलि᳚न्गाभावात् | ननु तस्या अचाक्षुषत्वेऽपि दृश्यकार्यान्यथानुपपत्या अनादिरनिर्वचनीया ब्रह्माश्रिता जीवविषयिणी भावरूपा काचिदविद्याऽस्तीति चेन्न, अविद्याविषयक प्रमाणस्य सत्यत्वेऽद्वैतहानेः | अतेव �विद्याविद्ये ईशत� इत्यागमः, अहमज्ञ इत्यनुभवश्च प्रमाणमिति निरस्तम् | तथा सति तत्प्रमाणस्याविद्यायाश्च भेदोऽभेदो वा ? तत्र नाद्यः, ब्रह्मणः अविद्यायाः तत्प्रमाणस्य च प्रमाणत्वेन त्रिसत्यत्वप्रस᳚न्गात् | नच तत्प्रमाणस्याविद्याकार्यत्त्वेन भेदा᳚न्गीकारान्न दोष इति वाच्यम् कार्यकारणयोर्भेदे तन्तुघटयोरिव भिन्नस्वभावत्वेनाकारणत्वप्रस᳚न्गात् | अभेदे सत्येकरूपत्वेन कार्यमिति कारणमिति विभागासम्भवात्, यदि भेद एवेष्टस्तदा तादात्म्यासम्भवात्, दण्डनाशेऽपि घटस्थितिरिव कारणीभूताऽविद्यानिवृत्तावपि तत्कार्यरूपप्रपञ्चनिवृत्तिर्न्न स्यात् | इष्टापत्तौ मुक्तिरेव न स्यात्, बन्धस्य प्रपञ्चान्तर्गतत्वात् | न द्वितीयः, प्रमाणप्रमेययोरभेदादिदं प्रमाणमिदं प्रमेयमिति विभागासम्भवात् | यदि स्वसद्भावे स्वयमेव प्रमाणं तदा स्वप्रकाशतापत्तिः, आत्मवदन्यनिरपेक्षतया भासमानत्वात् | न चेष्टापत्तिः, अविद्याया विद्यात्त्वेन अविद्येति वार्तैव न स्यात् | तस्माद्द्विसत्यत्व प्रसंगाद्ब्रह्मातिरेकेण काचिदविद्याऽस्तीत्यकरणीयत्वाभावात् | न चाधिष्ठानगत सत्तैवाविद्यायां तत्कार्ये च भा᳚न्गीतीति नोक्तदोष इति वाच्यमसम्भवात् | स्वरूपतो हि सत्यामविद्यायां सा सत्ता भासते उतासत्यां वा ? नाद्यः, पूर्वमेव सद्रूपेण स्थितायां तस्यां पुनः सत्तान्तरसम्बन्धानपेक्षणात् | नापि द्वितीयः, असत्यास्सत्ता सम्बन्धासम्भवात्, सदसतोर्विरोधात् | न चाविद्या सदसद्विलक्षणेति नोक्तदोष इति वाच्यं, तद्रूपेणापि
SK
सत्यामसत्यां वेति विकल्पे पूर्वोक्तदोषतादवस्थ्यात् | पृ० ९) अथ यथाकथञ्चिदविद्या᳚न्गीकारेऽपि ब्रह्माविद्ययोराश्रयाश्रयिभावो न सम्भवति; तथा हि- ब्रह्माविद्ययोः कः सम्बन्धः ? संयोगः समवायः स्वरूपसम्बन्धोऽन्यो वा | नाद्यः, अविद्याया अद्रव्यत्वात् | न द्वितीयः, अवयवावयविभावाद्यनुपपत्तेः | न तृतीयः, ब्रह्मसमसत्ताकस्वरूपाभावात् | नाप्याध्यासिकः सम्बन्धः, शुक्ताविदं रजतमिति भ्रमस्थले आपणस्थरजतप्रमाहितसंस्कारव दारोप्यप्रमाहितसंस्काराभावात्, ब्रह्मातिरिक्तस्थले अविद्याया अन᳚न्गीकारात्, पुरोवर्ति ज्ञानाभावात्, सादृश्यज्ञानाभावाच्च | तस्माद्ब्रह्मण्यविद्या माया वा नाध्यस्या | किञ्च ब्रह्मणः प्रकाशरूपत्त्वादविद्यायास्तिमिररूपत्वात् परस्परसम्बन्धो न युज्यते | न चोलूकनेत्रतेजस्यन्धकाराक्रान्तत्वेन तेजस्तिमिरयोस्सर्वत्र विरोधाभावात् तद्वत्सम्भवतीति वाच्यम्, दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे | केचिद्दिवा च रात्रौ च प्राणिनस्त्वल्पदृष्टयः ||
SK
इति स्मृत्या तस्याल्पदृष्टित्वेन सौरतेजोऽभिभूतत्त्वेन वेद्यग्रहणापाटवात्; अन्यथा रात्रावपि चन्द्रचन्द्रिकादर्शनशून्यत्वेन सदान्धत्वे तस्य दिवान्ध इति व्यपदेशो न स्यात् | नापि चन्द्रकल᳚न्कन्यायेन सम्बन्धस्सम्भवति, ब्रह्मणस्तावन्निरंशत्वेनोर्ध्वाधस्तिर्यग्भागशून्यत्त्वात् | यदि तयोरविरोधस्तदा अविद्यायास्तत्त्वदर्शनादपि निवृत्तिर्न स्यात्, �अविरोधितया कर्म नाविद्यां विनिवर्तये� दित्युक्तत्वात्, ब्रह्मणोऽज्ञत्वप्रस᳚न्गश्च | नाप्यंशतः, तस्य निरंशत्वात् | अविद्याकल्पितांशभेदोऽपि न सम्भवति, कल्पनायाः प्रागवस्थानासम्भवात् | ब्रह्मबाह्यदेशस्यैवाभावात् | उक्तरीत्या तत्रैव स्थितेरसम्भवात् | अनिर्वचनीयत्वमपि तस्या न सम्भवति, अनादिभावरूपत्त्वेन निर्वचनसम्भवात् | अनादित्वमपि न सम्भवति, घटादिवत्सांशत्वेन जडत्वेन च स्वतःसिद्धत्त्वासम्भवात् | तद᳚न्गीकारे च स्वप्रकाशतापत्तिः | परतः सिद्धत्वे घटादिवत् कार्यत्वेन कारणान्तरमुखेनानवस्थाप्रस᳚न्गात् |
SK
पृ० १०) अथ भावरूपत्वमपि न सम्भवति, नञर्थोल्लेखिधीविषयत्वात् | तथा विश्वोपादानत्वमपि न सम्भवति, स्वसत्ताशून्यत्वात्; जडत्वेन प्रेरकत्वाभावाच्च | ब्रह्मणश्चेतनस्य निस्स᳚न्गतया प्रेरकत्वाभावात्, न चायस्कान्तदृष्टान्तेन चैतन्यसान्निध्यवशादविद्यायाः कारणत्वं सम्भवतीति वाच्यं, भिन्नदेशस्थयोरेव सान्निध्यनियमात्, तद्वत् ब्रह्मबाह्यदेशाभावात् | ब्रह्मण्येव स्थितायास्तु लोहमणिप्रविष्टसूचिकेव निर्व्यापारतया विश्वाकारेण परिणमनक्रियासम्भवात् | यदि निराश्रयैव सा कार्यं जनयेत्तदा स्वतन्त्रतापत्या दुर्निवार्य्या स्यात् | इष्टापत्तौ मुक्तिरेव न स्यात् | अविद्याया जीवविषयकत्वमपि न सम्भवति, तस्यास्तावज्जडत्त्वेन विषयत्वात्, जीवस्य चेतनत्वेन विषयित्वात् | अतो वैपरीत्यात्तद᳚न्गीकारेऽपि जीवस्याविद्याक्रान्तहृदयत्त्वेन नित्यानित्यवस्तुविवेक एव न स्यात् | नापि गुरुतः शास्त्रतश्च, गुरोरप्यविद्याक्रान्तहृदयत्वात्, शास्त्रस्याविद्याकार्यत्त्वेन तदेकरूपत्वात्, तस्मादविद्यासद्भावे मानाभावः | यथा कथञ्चित्तद᳚न्गिकारेऽपि द्विसत्यत्वप्रस᳚न्गः | ब्रह्माविद्ययोस्तेजस्तिमिरयोरिव विरोधेनाश्रयाश्रयिभावासम्भवश्च | अविरोधे तु तयोर्निवर्त्यनिवर्तकाभावा- सम्भवः, ब्रह्मणोऽज्ञत्वप्रस᳚न्गश्च | अतोऽविद्याया अनादित्वं भावरूपत्वञ्च न सम्भवति; ब्रह्मणस्तत्प्रेरक्त्त्वासम्भवाद्विश्वोपादानत्वं जीवविषयकत्वञ्च निरस्तम् | अन्यथा जीवस्य नित्यानित्यवस्तुविवेकासम्भवात् �अनर्थहेतोः प्रहाणाय सर्वे वेदान्ता आरभ्यन्त� इत्युक्तमयुक्तं स्यात्, वेदान्तानां तदारम्भस्य चाविद्यैकरूपत्वेन निवर्त्यनिवर्तकभावासम्भवात् | अथ श्मृतिरूपः परत्र पूर्वदृष्टावभास� इत्युक्ताध्यासलक्षणञ्च न सम्भवति, तथाहि- यथा पुरोवर्तिरज्वादिबाह्यवल्मीकादिप्रदेशदृष्टभुज᳚न्गादिः पुरोवर्तिरज्वादावारोप्यते तथात्र ब्रह्मबाह्यदेशाभावेनारोपासम्भवात् | लोके तत्रैव दृष्टस्य तत्रैवारापस्य क्वाप्यदर्शनात्, श᳚न्खपीतिमाध्यासेऽपि पीतिम्नोऽन्यत्र दृष्टत्वात्, अन्यथा
SK
श᳚न्खः पीत इति प्रतीतिर्न स्यात्, पूर्वं पीतादर्शनात्; अन्यथा भ्रमप्रमाविवेको न
SK
पृ० ११) स्यात्, तत्रैव दृष्टस्य तत्रैवारोपा᳚न्गीकारात् | न चोत्तरक्षणबाध्यमानत्वमेव भ्रमत्वमिति वाच्यम्, घटपटयोरिव शुक्तिरजतयोरपिवस्तुत्वेन बाध्यबाधकभावासम्भवात् | नापि शुक्तिज्ञानेन रजतज्ञानस्य बाधः, घटपटज्ञानयोरिव तयोर्भिन्नकालभिन्नविषयत्वात्; अन्यथा घटज्ञानेन पटज्ञानं बाध्येत | नच नेदं रजतं किन्तु शुक्तिरेवेत्यौतरकालिकज्ञानं पूर्वोत्पन्नरजतज्ञानस्य बाधकमिति वाच्यम्, घटज्ञानानन्तरं घटं त्यक्त्वा पटं पश्यतः प्रमातुर्नायं घटः पट एवेति निश्चयोऽपि पूर्वोत्पन्नघटज्ञानस्य बाधकस्स्यादिति सर्वस्यापि विकल्पस्य प्रतियोगिनिषेधपूर्वकनिश्चयरूपत्त्वात् | न च तादृग्विकल्पस्य भिन्नधर्मिकत्वेन विरोधाभावान्न तत्र बाध्यबाधकभावः, इह त्वेकस्मिन्नेव धर्मिणि इदं रजतं, नेदं रजतमिति विरुद्धावभासद्वयस्य प्रामाण्यासम्भवादौत्तरकालिकरजताभावज्ञानेन पूर्वोत्पन्नरजतज्ञानस्य बाधोऽ᳚न्गीक्रियत इति वाच्यम्, बाध्यबाधकभावस्य दण्डभाण्डनयेन परस्परान्वयसापेक्षत्वेन तदभावात्, तयोर्भिन्नकालीनत्वात् | ननु ज्ञानानां त्रिक्षणावस्थायित्वनियमेन रजताभावज्ञानोत्पत्तिक्षणे विनश्यदवस्थापन्नपूर्वोत्पन्नरजतज्ञानस्य विद्यमानत्वात्तयोः परस्परान्वयः सम्भवतीति चेन्न, ज्ञानानां गुणत्वेन संयोगेन समवायेन वा तयोः परस्परमन्वयाभावात् | जडत्वेन तादृशौन्मुख्यशून्यत्वाच्च बाध्यबाधकभावो न सम्भवति | किन्तु घटं त्यक्त्वा पटं पश्यतः प्रमातुरिच्छावशात् घटज्ञानस्य निमेषः पटज्ञानस्योन्मेष इति वदेकस्मिन्नेव धर्मिणि सान्निध्यवशान्नीलपृष्ठत्वादिविशेषं पश्यतः दूरत्वादिनोद्भूतप्रक्तनरजतज्ञानस्य निमेष, नेदं रजतं शुक्तिरेवेत्युत्तरकालज्ञानस्योन्मेष इत्य᳚न्गीकरणीयत्वेन तुल्यत्वात् | अथ �अर्थक्रियाया अयोग्यत्वमेव भ्रमत्त्व� मिति चेन्न, गगनकुसुमादेरपि शमर्थः पदविधि� रिति शब्दानुशासनवशादेकार्थीभावलक्षणसामर्थ्यकृतसमासयोगाद्वस्तुत्व्
SK
अम᳚न्गीकरणीयमेवेति तज्ज्ञानस्यापि भ्रमत्त्वप्रसक्त्या गगनकुसुमादेरपि शुक्तिरजतादिवदिदमिति
SK
पृ० १२) नयनगोचरताप्रस᳚न्गात्, योग्यायोग्यतयोः प्रभुसृष्टिविचित्रत्त्वात्स्वातन्त्र्यपरिकल्पितशक्तितरतमभावनिबन्धनत्त्व अत् | �सत्यञ्चानृतञ्च सत्यमभवदिति� श्रुतेः शदसच्चाहमर्जुने� ति स्मृतेश्च सर्वस्यापि सच्चिदानन्दघनत्वात् | तस्मादविद्या जगदुपादानकारणमिति जगतो मिथ्यात्ववादो निरस्तः | अत एव �युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणो� रित्यादिना अविद्याकृतजडचेतनविभागोऽपि न घटते | तथाहि- अस्मत्प्रत्ययव्यतिरेकेणानुभूयमानसुखादिवत्तद्गोचरस्य कस्यचिददृश्यत्वात्, अस्मत्प्रत्ययस्य मिथ्यात्वात् | प्रत्ययस्य सविषयत्वान्यथानुपपत्याऽनुमीयते चेदनुमातुरप्यदृश्यत्वात् | तस्मात्तदभिमतचैतन्यस्य वन्ध्यापुत्रप्रायत्वेन �अस्मत्प्रत्ययविषयत्वादपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धे� रित्युक्तेरतितुच्छत्वात् | अथ युष्मत्प्रत्ययगोचरस्य जडत्वमपि न सम्भवति, चैत्रमैत्रयोर्विवादे जाते परस्परं तत्प्रयुक्त त्व᳚न्कारेण तयोरहंप्रकारकबोधस्यैवोपलब्धेश्चेतनविषयकत्वात् | �इदं सर्वमसृजत� �इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते� इत्यादिप्रमाणबलाच्च | किञ्च त्वंप्रत्ययगोचरत्वे तत्त्वमसीत्युपदेशो जडं प्रत्येव स्यात् | तस्मात्त्वमहंप्रत्यययोश्चेतनैकविषयत्वात् �इदमहमिति वक्तव्ये युष्मद्ग्रहणमत्यन्तभेदोपलक्षणार्थ� मिति वदन्नपि प्रत्युक्तः | तयोश्चैतन्यैकविषयत्वेनात्यन्ताभेदात् ङ त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः | न चैव न भविष्यामः सर्वे वयमतः पर� मिति भगवता वयमित्युत्तममध्यमप्रथमाख्यपुरुषत्रयस्याप्यस्मत्प्रत्ययान्तर्गतत्वेन क्रोडीकृतत्वाच्च | अत एव त्वमहं प्रत्ययगोचरयोर्विषयविषयिभावोऽपि न सम्भवति वैजात्याभावात्, चैतन्यस्य चैतन्यान्तरागोचरत्वात्, चैतन्यगोचरघटादिवज्जडत्वप्रस᳚न्गात् | न च व्यवसायं प्रत्यनुव्यवसायस्य प्रामाण्या᳚न्गीकारान्नायं नियम इति वाच्यम्, व्यवसायस्य व्यवसातरि विश्रान्तत्वेन ज्ञानस्य घटादिवत्कदापीदमित्यप्रतीयमानत्वेन
SK
सदा प्रमेयपदवीमुत्तीर्णत्वात्,
SK
पृ० १३) व्यवसायानुव्यवसाययोर्घटस्यैव विषयत्वात् | अनुव्यवसायस्य व्यवसायप्रतिभातघटहृदय᳚न्गमीभावरूपत्वान्मया घटोऽयं ज्ञात इति | अन्यथा घटे घटान्तरस्यापि प्रामाण्यम᳚न्गीकरणीयं स्यात् | यदि घटत्वावच्छिन्नघटस्येदमिति सदा प्रमेयपदनिष्ठत्वेन कदापि तदुत्तीर्णत्वाभावात् घटे घटान्तरं न प्रमाणमिति चेदत्रापि तौल्यात्, ज्ञानस्य ज्ञातृविश्रान्तत्वेन कदापीदमिति प्रमेयपदप्रविष्टत्वाभावात्; तस्मात्सजातीयपदार्थयोर्विषयविषयिभावो न सम्भवत्येव | अन्यथा प्रमाणमिति प्रमेयमिति व्यवस्थैव न स्यात्, प्रमाणरूपप्रमितेरपि प्रमेयता᳚न्गीकारात् प्रमितिः प्रमाणमित्यप्य᳚न्गीकृतत्वात् | एवमात्मनोऽपि प्रमेयत्वं न सम्भवति, प्रमातृत्वात्, अन्यथा तस्यापि प्रमेयत्वे प्रमात्रन्तरसापेक्षत्वेनानवस्थाप्रस᳚न्गस्स्यात् | प्रमेयप्रमात्रोर्भेदघटितत्वात् | अत एव त्वमहंप्रत्ययगोचरयोर्विरोधोऽपि न सम्भवति, चैतन्यस्यैकरूपत्वात्, तेजस्तिमिरयोरिव विरोधाभावात् | यदि त्वंप्रत्ययस्य लक्षणयेदंरूपत्वमेव विवक्षितं तदापीदंप्रत्ययगोचरस्य जडस्य �मयावलोक्यते, ममावभासत� इत्यात्मप्रकाशारूढतया भासमानत्वान्न तयोर्विरोधः | एवं तेजस्तिमिरयोरपि न विरोधः, तयोरप्यात्मप्रकाशमवलम्ब्य भासमानत्वात् | अन्यथा तयोर्विरोध इति स्फूर्तिरेव न स्यात् | �तस्य भासा सर्वमिदं विभाति, तमेव भान्तमनुभाति सर्व� मिति श्रुतेश्च | नापि तयोरितरेतरभावानुपपत्तिः स्मृत्यन्यथानुपपत्या प्रमेयस्य प्रमाद्वारा प्रमातृविश्रान्तेर᳚न्गीकरणीयत्वात् | संस्कारादेव स्मृतिः सम्भवतीति चेत्, तस्यापि सविषयत्वेन तेन सहैवात्मविश्रान्तत्वात् | नचानुभूतघटस्य नष्टत्वेन सहात्मविश्रान्तेरसम्भवात् तद्विषयतासाहित्यमात्रेणानुभूतपदार्थविषयिणी स्मृतिः संस्कारात्सम्भवतीति वाच्यम्, विषयताया विषयधर्मत्वेन तेन विना तत्साहित्यासम्भवात् | यदि तयोरैक्योपपत्तिर्न स्यात्, तदा घटोऽयमिति न स्फुरेत्, तेजोबाह्यान्धकारवत्प्रकाशबाह्यत्वात् |
SK
नच तेजोबाह्यघटवत्प्रकाशविषयत्वं सम्भवतीति
SK
पृ० १४) वाच्यम् �आत्मन आकाशः सम्भूत� इत्यादिश्रुतेरुत्तरोत्तरभूतस्य पूर्वपर्वभूतकार्यत्वेन मृद्घटन्यायेन परम्परया तयोस्तादात्म्यात् | अपि चान्तःकरणावच्छिन्नत्वे चैतन्यस्यान्तःकरणप्रदेशमात्रस्थितत्वाद्विषयावच्छिन्नचैतन्यस्य विषयप्रदेशमात्रस्थितत्वादुभयोः सम्बन्धाभावः | नच वृत्तिद्वारा सम्बन्धः सम्भवतीति वाच्यम्, चैतन्यस्य त्रैविध्या᳚न्गीकारेण वृत्तिविषयावच्छिन्नचैतन्ययोरेकलोलीभावेप्यन्तःकरणावच्छिन्नशारीरक् अस्य विषयावच्छिन्नचैतन्येनैकलोलीभावाभावात्, तस्यापरिणामित्वेनान्तःकरणेन सह बहिर्निर्गमनासम्भवात् | प्रदेशभेदेन चैतन्यभेदाद्भेददर्शनेपि ज्ञानस्यात्मगुणत्वेन परकीयगुणद्रव्यैः संयोगेन समवायेन वा संस्पर्शाभावान्नीलादेर्विषयत्वस्य ज्ञानस्य विषयित्वस्य चासम्भवात् | एवञ्चोक्तरीत्या नित्यानित्यवस्तुविवेकशून्यत्वेन स्वशास्त्रस्य वैय्यर्थ्यप्रस᳚न्गात्, ब्रह्मणो निर्विशेषत्वेन �अस्मि, प्रकाशे, नन्दामि� इत्युत्तमान्तर्गताकर्मकाक्रमस्वसत्ताचित्तामुत्तास्फुरणशून्यत्वेन स्फटिकादिप्रकाशवज्जडत्वात्, तत्वज्ञानेन प्रपञ्चस्य बाधा᳚न्गीकारेण छान्दोग्योपदिष्टैकविज्ञानोदितसर्वविज्ञानप्रतिज्ञाभ᳚न्गप्रस᳚न्गात्, �अथातो ब्रह्मजिज्ञासे�त्यत्र निर्विशेषब्रह्मण एव जिज्ञास्यतयोद्दिष्टत्वेन तस्य कर्तृत्वादिशून्यतया अनुद्दिष्टपदार्थलक्षणस्य शास्त्रकृद्भिरन᳚न्गीकृतत्वात्समनन्तरसूत्रोक्त तदसाधारणजगज्जन्मादिलक्षणस्याप्यस᳚न्गतत्वात्, तत एव श्हास्त्रयोनित्वा�दित्युत्तरशास्त्रप्रवृत्तेः कुण्ठितत्वाच्च प्रामाणिकैर्विद्वद्भिस्तदुक्तमनादरणीयमिति संक्षेपः | अत्र क्रियासारकाराः पुनरेवमुपवर्णयन्ति-कैश्चिदथातो ब्रह्मजिज्ञासेत्यत्रासौत्रिक एवाध्यासः प्रपञ्चितः | न चाद्यसूत्रस्य विषयप्रयोजनसूचकत्वाद्विषयस्य च जीवब्रह्मणोः स्वरूपैक्यलक्षणस्य तज्ज्ञानस्य चाध्यासाधीनत्वात् स तथात्र सौत्रिक एवेति वाच्यम्, जीवब्रह्मणोः स्वरूपैक्यस्यैवाभावेन तस्य विषयत्वासम्प्रतिपत्तेः | न हि जीवब्रह्मणोः
SK
स्वरूपैक्यं क्वचित्सूत्रितं, प्रत्युत �अंशो नानाव्यपदेशा� दित्यत्र जीवो-
SK
पृ० १५) ब्रह्मण्ॐऽशो भिन्नोऽभिन्नश्चाग्नेरिव विस्फुलि᳚न्गा इत्युक्तं | नह्यग्निविस्फुलि᳚न्गयोः स्वरूपैक्यमस्ति येन तद्दृष्टान्तेन जीवब्रह्मणोरपि तद् भवेत् | न च भेदाभेदयोर्विरोधेनैकत्रासम्भवादविद्यालक्षणोपाधिकृतो मिथ्याभेद एव तत्राभिहित इति वाच्यम्, �उभयव्यपदेशात्त्वहिकुण्डलवत्� �प्रकाशाश्रयवद्वा तेजस्त्वात्� �पूर्ववद्वा� �अनुज्ञापरिहारौ देहसम्बन्धाज्जोतिरादिवत्� शाभाव्यापत्तिरुपपत्तेः� �प्रदीपवदावेशस्तथाहि दर्शयती� ति च भेदाभेदयोः प्रमाणसिद्धत्वेन दृष्टान्ते सुदृष्टत्वेन चाविरोधस्यैव व्यवस्थापनात् | तथा च तत्रैव वक्ष्यते | तथा �भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकव� दित्यत्राप्यविरोधः समर्थितः | तथाहीदं सूत्रं तैरेवं व्याख्यातं �अन्यथा पुनर्ब्रह्मकारणवादस्तर्कबलेनैवाक्षिप्यते | यद्यपि श्रुतिः प्रमाणं स्वविषये भवति; तथापि प्रमाणान्तरेण विषयापहारेऽन्यपराभवितुमर्हति, यथामन्त्रार्थवादौ | तर्कोपिस्वविषयादन्यत्राप्रतिष्ठितः स्यात्, यथा धर्माधर्मयोः | किमतोयद्येवमत इदमयुक्तं यत्पुनः प्रमाणान्तरसिद्धार्थबाधनं श्रुतेः | कथं पुनः प्रमाणान्तरसिद्धोर्थः श्रुत्या बाध्यत इति; अत्रोच्यते प्रसिद्धोह्ययं भोक्तृभोग्यविभागो लोके भोक्ता चेतनः शारीरः, भोग्याः शब्दादयो विषया इति, यथा भोक्ता देवदत्तो भोज्य ओदन इति | अस्य च भोक्तृभोग्यविभागस्याभावः प्रसज्येत, यदि भोक्ता भोग्यभावमापद्येत, भोग्यं वा भोक्तृभावम् | तयोश्चेतरेतरभावापत्तिः परमकारणाद् ब्रह्मणोऽनन्यत्वाभावात्प्रसज्येत | न चास्य प्रसिद्धस्य विभागस्य बाधनं युक्तं यथात्वद्यत्वे भोक्तृ भोगयोर्विभागो दृष्टस्तथातीतानागतयोरपि कल्पयितव्यः | तस्मात्प्रसिद्धस्यास्य भोक्तृभोग्यविभागस्याभावप्रस᳚न्गादयुक्तं ब्रह्मकारणत्वावधारणमिति चेत्कश्चिच्चोदयेत्तं प्रति ब्रूयात् स्याल्लोकवदिति | उपपद्यत एवायमस्मत्पक्षेऽपि विभागः, एवं लोके दृष्टत्वात् | तथाहि समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां
SK
फेनवीच्यादीनामितरेतरविभाग इतरेतरसंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते | न च
SK
पृ० १६) समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनवीच्यादीनामितरेतरभावापत्तिर्भवति | न च तेषामितरेतर भावानापत्तावपि समुद्रादुदकात्मनोऽनन्यत्वं न भवति, एवमिहापि | न च भोक्तृभोग्ययोरितरेतरभावापत्तिः, नापि ब्रह्मणस्सदात्मकादन्यत्वं भविष्यति� इति | नन्विदमविरोधसमर्थनमभ्युपगमवादमात्रं �तदनन्यत्वमारम्भणशब्दादिभ्य� इति सूत्रेण वाचारम्भणादिश्रुत्या सर्वस्यापि भेदप्रपञ्चस्य बाधितत्वसमर्थनादिति चेन्न, न ह्यनेनसूत्रेण कृत्स्नस्यापि प्रपञ्चस्य बाधितत्वं समर्थ्यते | तथाहि- प्रत्यक्षादिप्रमाणसिद्धभेदप्रपञ्चः श्रुत्या बाधितुं न शक्यते, प्रत्यक्षविरोधे श्रुतीनामेवान्यपरत्वदर्शनात्, यथा �कृष्णलं श्रपये� दिति विधेः स्वर्णमाषे प्रत्यक्षेण विकऌतिबाधे उष्णीकरणमात्रपरता; यथा वा शोमेन यजेत� इत्यत्र यागेन भावयेदित्यर्था᳚न्गीकारात् सोमेन यागेनेत्यनयोस्सामानाधिकरण्येनान्वये सति सोमलतायागयोरभेदस्य प्रत्यक्षबाधितत्वात् सोमवता यागेनेति सोमशब्दस्य लक्षणया तत्सम्बन्धिपरता श्रुता | अत एव परैरपि तत्त्वमसीति वाक्ये वाच्यार्थयोरभेदस्य प्रत्यक्षबाधितत्वात् लक्ष्यार्थाभेदपरता᳚न्गीकृता | अपि च यदि कृत्स्नस्य प्रपञ्चस्य बाधोऽभ्युपगम्येत तर्हि श्रुतिस्वरूपस्य तज्जन्यपदार्थस्मरणस्य वाक्यार्थज्ञानस्य च प्रपञ्चान्तः पातित्वात् तेषामपि बाधे सति कथं प्रपञ्चबाधसिद्धिः ? कथं वा मे जननी बन्ध्या, मम जिह्वा नास्तीतिवन्न व्याहतिः ? न च प्रपञ्चबाधेऽपि तत्स्वरूपं तिष्ठत्येव, ततस्तत्कार्यमप्युपपद्यत इति वाच्यं, प्रतियोग्यप्रतिषेधके अभावव्यपदेशस्य परिभाषामात्रत्वात् | न च श्रुत्या न प्रपञ्चस्वरूपं बाध्यते, येन व्याघातः स्यात्, किन्तु सत्यत्वमिति वाच्यं, स्वरूपबाधाभावेऽबाधितत्वरूपसत्यत्वस्यापि प्रपञ्चेऽभ्युपगमेन सत्यत्वबाधस्याप्यनुपपत्तेः | तस्मान्नानेन प्रपञ्चबाधस्समर्थ्यते किन्त्वभेद एवेति नास्ति भेदाभेदयोर्विरोध इति स्थितम् |
SK
पृ० १७) तथान्यत्रापि �इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्ति� रिति, तत्त्वमसीति जीवब्रह्मणोरभेदव्यपदेशात् ब्रह्मकर्तृका सृष्टिर्जीवकर्तृकैवेति जीवस्स्वस्य हितमेव सृजेन्नाहितं नरकादीत्याश᳚न्क्य, �अधिकन्तु भेदनिर्देशा� दित्यनेन जीवो न कर्ता किन्तु तदधिकं ब्रह्मैव कर्तृ, तच्च जीवस्याहितमपि सृजत्येवेत्युक्तम् | यद्येवं कथमभेदे हीनाधिकभावः ? कथं वेश्वरस्सर्वज्ञतया सर्वान् जीवान् स्वात्मत्वेन पश्यन् तेषु शोकमोहादिकं सृजेत् ? शोकादेस्स्ववृत्तितयानुभवप्रस᳚न्गादित्याश᳚न्क्य, �अश्मादिवच्च तदनुपपत्ति� रित्यनेन यथाश्मनां वैडूर्य-सूर्यकान्तप्रभृतीनां पाषाणत्वेन सामान्यात्मनाभेदेपि व्यक्तिभेदाद्धीनमध्यमोत्तमस्वभावेन स्वरूपवैचित्र्यं कार्यवैचित्र्यञ्च, एवं जीवपरमात्मनोरपि व्यक्तिभेदाद्धिनाधिकभावः कार्यवैचित्र्यञ्चोपपद्यत इत्युक्तम् | न च पाषाणत्वसामान्यमभिन्नं व्यक्तयस्तु भिन्ना एवेति नैकत्र भेदाभेदाविति वाच्यं, पाषाणत्वसामान्यावच्छिन्नप्रतियोगिकभेदाभावरूपाभेदस्य, वैडूर्यत्वाद्यवच्छिन्नप्रतियोगिकभेदस्य च व्यक्तिष्वेव सम्प्रतिपन्नत्वात् | न चैवं वज्रवैडूर्ययोरपि सामानाधिकरण्यव्यवहारप्रस᳚न्गः, सामान्याभेदोल्लेखिनस्तस्यावश्याभ्यु- पेयत्वाद्विशेषाभेदस्य चाभावात् | अत एवेश्वरेऽपि आत्मत्वेनैव जीवाभेददृष्टिस्सृत्रिता �आत्मेति तूपगच्छन्ति ग्राहयन्ति चे�ति | अतेव च परैरपि व्यक्तिस्थानीयमहन्तांशमपहाय सामान्यस्थानीयस्य चैतन्यस्यैवाभेदोऽभ्युपगतः | एवञ्च यद्यपि सामानाधिकरण्यव्यवहारस्य भेदाभावोपलक्षितं विशिष्टं वा स्वरूपं विषयः, तथापि सर्वात्मना यत्र भेदग्राहि प्रमाणं नास्ति तत्र स्वरूपैक्यं विषयः सोऽयं देवदत्त इत्यादौ | यत्र तु भेदग्राहकप्रमाणमस्ति कार्यकारणादौ तत्र पृथक्सत्तावच्छेदकभेदाभावोपलक्षितस्वरूपद्वयं सामान्याभावोपलक्षितस्वरूपद्वयं वा विषयः | प्रकृते च �उत तमादेशमप्राक्ष्य� इत्येकविज्ञानेन सर्वविज्ञानोक्त्या सर्वात्मकत्वं
SK
प्रतिज्ञाय, तदुपपादके ग्रन्थे �ऐतदात्म्य-
SK
पृ० १८) मिदं सर्व�मिति नवकृत्वोऽभ्यस्तोऽपि सामानाधिकरण्यव्यपदेशो यथा न ब्रह्मप्रपञ्चयोस्स्वरूपैक्यं विषयीकरोति एवं तत्त्वमसीति व्यपदेशोऽपि, भेदाभेदव्यपदेशस्योभयत्रापि तुल्यत्वात् ङान्योऽतोऽस्ति द्रष्टा; यत्र नान्यत्पश्यति; यस्मात्परं नापरमस्ति किञ्चि� दिति भेदनिषेधस्य चेतनत्वाचेतनत्वाभ्यां संसारित्वासंसारित्वाभ्यां विरुद्धधर्मवत्वस्य चोभयत्रापि तुल्यत्वात् | तदस्य भेदनिषेधभेदप्रतिपादनाच्च भेदाभेदौ सिध्यतः | तस्मान्नास्ति भेदाभेदयोर्विरोधः | यदुक्तमविद्यालक्षणोपाधिकृतो मिथ्याभेद इति तन्न, अविद्यायास्तदुपाधिकत्वस्य मिथ्यात्वस्य च कुत्राप्यसूत्रितत्वात् | न च �आनुमानिकमप्यकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च� शूक्ष्मन्तु तदर्हत्वात्� इत्यत्र चाविद्यासूत्रितेति वाच्यं, तत्र �महतः परमव्यक्त� मित्यत्र, अव्यक्तशब्देन त्रिगुणं प्रधानं गृह्यत इति श᳚न्कायां श्हरीररूपकविन्यस्तगृहीते� रित्यनेन �आत्मानं रथिनं विद्धि शरीरं रथमेव चे�ति मन्त्रे रथत्वेन निरूपितं शरीरमेव गृह्यते, न तु प्रधानमित्युक्त्वा शरीरस्य व्यक्तत्वात्कथमव्यक्तत्वमित्याका᳚न्क्षायां शूक्ष्मन्तु तदर्हत्वा� दित्यनेन सूक्ष्मशरीरमेवाव्यक्तशब्देन गृह्यते, न स्थूलशरीरमित्येवोक्त्या त्रिगुणाया अविद्याया अव्यक्तशब्देनाग्रहात्, सम्प्रतिपन्नसूक्ष्मशरीरसम्भवे अप्रसिद्धाविद्याग्रहणायोगात् | अविद्याया उपादानतया ब्रह्माण्डव्यापित्वस्य अहमज्ञ इति सर्वप्रत्यक्षस्य चाभ्युपगमेन सूक्ष्मत्वाव्यक्तशब्दार्हत्वयोरयोगाच्च | अन्यथा पूर्वसूत्रे अव्यक्तशब्देन शरीरं गृह्यत इत्युक्त्वोत्तरत्राविद्या गृह्यत इत्युच्यमाने व्याघातापत्तेः, प्रधानवादापत्तेश्च | न च �तदधीनत्वादर्थव� दित्यनेन प्रधानं स्वतन्त्रमविद्या-त्वीश्वराधीनेति वैलक्षण्यमुक्तमिति वाच्यं, सेश्वरसा᳚न्ख्यानां योगानाञ्च मते प्रधानस्यापीश्वराधीनताया अभ्युपगमेन तावन्मात्रेण वैलक्षण्यासिद्धेः | यथेन्द्रियप्रवृत्तेरर्थाधीनत्वादिन्द्रियेभ्यः
SK
परत्वमर्थानामेवमात्मप्रवृत्तेश्शरीराधीनत्वाच्छरीरस्यात्मनः परत्वमित्येवमर्थक-
SK
पृ० १९) त्वात्सूत्रस्य | किञ्च यद्यत्राविद्या सूत्रिता स्यादुत्तरत्राधिकरणमनारम्भणीयं स्यात्, अजामन्त्रेऽपि तस्या एव ग्रहणसम्भवेन प्रधानग्रहणे विशेषकारणाभावेन पूर्वपक्षानुत्थानात् | प्रत्युत पूर्वत्र �देवात्मशक्तिं स्वगुणैर्निगूढा� मिति, उत्तरत्र च �मायान्तु प्रकृतिं विन्द्यान्मायिनन्तु महेश्वर� मित्यादिना चेश्वराधीनतायाः प्रकृतेः प्रतिपादनेन मध्ये अजामन्त्रेऽपि तत्परामर्शस्यैव न्याय्यत्वात् | एवं �ज्योतिरुपक्रमात्तु तथाह्यधीयत एके� �कल्पनोपदेशाच्च मध्वादिवदविरोध� इति च सर्वथाप्यनुपपन्नं स्यात्, अनादिभूताया अविद्याया अजाशब्देन मुख्यत्वाच्च प्रकृतत्वाच्च ग्रहणसम्भवे तत्परित्यागेन तेजोऽवन्नलक्षणां प्रकृतिमजाशब्देन शाखान्तरानुसाराद्गृहीत्वा तस्याजनिमत्वादजात्वाभावाच्चाजाशब्दानुपपत्तिरिति श᳚न्कायां यथा अमधुन एवादित्यस्य �असौ वा आदित्यो देवमध्वि� ति मधुत्वकल्पनं, एवमनजाया एव तेजोऽबन्नप्रकृतेरजावदजेत्यजात्वकल्पनमित्यस्यासम्भवदुक्तिकत्वात् तस्मात्तेजोऽबन्नलक्षणप्रकृतिव्यतिरेकेणानादिभूताविद्या न सूत्राभिमता; न चास्ति, प्रमाणाभावात् | न चाविद्यां विना निरवयवस्य ब्रह्मणो जगत्परिणामानुपपत्तिरिति वाच्यं, �कृत्स्न प्रसक्तिर्निरवयवत्वशब्दकोपो वे� त्यादिना सूत्रेणैवाश᳚न्क्य परिहृतत्वात् | तथाहि परिणामो नाम पदार्थानां पूर्वरूपपरित्यागेन रूपान्तरापत्तिः तत्र किं ब्रह्म सर्वात्मना परिणमते, उतावयवेनैकेन परिणमते अवयवान्तरेणावतिष्ठत इति वक्तव्यं तत्राद्ये प्रपञ्चकाले ब्रह्म न स्यात्, स्वरूपपरित्यागेन कृत्स्नस्य कार्यरूपापन्नत्वात् | अन्त्ये निरवयवत्वश्रुतिव्याकोप इत्याश᳚न्क्य श्ह्रुतेस्तु शब्दमूलत्वा� दित्यनेन परिहृतं भवेत्, एवं प्रमाणान्तरगम्येऽर्थे एवंविधतर्कस्यावकाशः | श्रुत्येकसमधिगम्ये तु श्रुत्यैवार्थतत्वं व्यवस्थापनीयं, न तु तर्केण प्रयोजनमस्ति यथोक्तं �अचिन्त्याः खलु ये भावा न तांस्तर्केण योजये� दिति | श्रुतिश्च निरवयवं ब्रह्म परिणमते घनस्वरूपं
SK
जहातीत्याह | तथाहि- तेजोऽबन्नानां सृष्टिमुक्त्वानन्तरमेवाम्नायते शेयं
SK
पृ० २०) देवतैक्षत हन्ता हमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि� इति | एवञ्च तेजोऽबन्नलक्षणपरिणामव्यतिरेकेणेक्षितुः परमेश्वरस्य पृथगवस्थानमभिहितम् | लोकेऽपि न पूर्वरूपपरित्यागेन रूपान्तरापत्तिः परिणामः | उपादाननाशे निराश्रयस्य परिणामस्यासम्भवात्; किन्तु स्थित एवोपादाने तदभिन्न व्यवहारयोग्यकार्योत्पत्तिरेव परिणामः शरादौ गत्यादिरिवेत्युक्तं �आत्मनि चैवं विचित्राश्चही�ति | यथा जीवात्मनि जीवस्वरूपानुपमर्देनैव विचित्रा बुद्धिच्छादयः परिणामविशेषा उत्पद्यन्ते यथा च मृत्तन्त्वादिषु घटपटादयः | इयांस्तु विशेषः, यत्रोत्पादने उत्पत्स्यमानकार्यान्तरं वर्तते तत्रोत्पत्यर्हेणैव कार्यान्तरं वर्तते, तत्र चोपमर्देन घटाद्युत्पत्तिः | यत्र तु विरोधिकार्यान्तरं नास्ति तत्राभावोपमर्देनैव कार्यान्तरोत्पत्तिः, यथा तन्तुषु पटाभावोपमर्देनैव पटोत्पत्तिः | अ᳚न्कुरादावपि न बीजादिकमुपादानं कार्यानन्वयित्वात्, कार्यान्वयिन एवोपादानत्वात् | किन्तूभयानुस्यूतावयवा एव | तथा च श्रुतिः �एतस्य वै सोम्यैषोऽणिम्न एवं महान्न्यग्रोधस्तिष्ठति� इति | तेषां च स्वरूपानुपमर्देनैव अ᳚न्कुरादिजनकत्वम् | उक्तञ्च सूत्रकृता तर्कपादे ङासतोऽदृष्टत्वा�दिति | विवृतञ्च तैरपि तथैव | एवं ब्रह्मणो निरवयवस्य स्वरूपानुपमर्देनैव जगत्परिणाम उपपद्यते | विपक्षे च बाधकमुक्तं श्वपक्षदोषाच्च� इति | प्रधानस्य सत्वादीनाञ्च कार्त्स्न्येन परिणामे स्वरूपनाशापत्तिः | एकदेशपरिणामाभ्युपगमे च निरवयवत्वाभ्युपगमव्याकोपः | सोऽयमविद्यायामपि समानो दोषः, अविद्याया अपि प्रधानतुल्यत्वात् | न चाविद्याया विचित्रशक्तियोगात्परिणामस्सम्भवति न ब्रह्मण इति वाच्यं, �परास्य शक्तिर्विविधैव श्रूयत� इति श्रुत्या शर्वोपेता च तद्दर्शना�दिति सूत्रेण च ब्रह्मण एव विचित्रशक्तिप्रतिपादनात् | अविद्यायां तादृशशक्तौ च प्रमाणाभावात् || एवं सूत्रार्थे ब्रह्मपरिणामे स्थितेऽपि, अविद्या परिणमते ब्रह्म
SK
पृ० २१) विवर्तत इत्यभिधानमयुक्तम् | �आत्मकृतेः परिणामा� दिति सूत्रविरुद्धञ्च | यद्यविद्यैव परिणमते न ब्रह्म तदा ङ विलक्षणत्वादस्य तथात्वञ्च शब्दा�दित्यधिकरणमनुपपन्नं स्यात्, अविद्याजगतोर्वैलक्षण्याभावात् | ब्रह्मणश्च परिणामानभ्युपगमात् | किञ्च यद्यविद्या नाम काचिदनादिसिद्धा वाश्रीयते तस्या ब्रह्मविकारत्वाभावेन ब्रह्माभेदाभावात् ब्रह्मणि विज्ञातेऽपि सा न विज्ञातेति एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा पीड्येत | तस्मान्नास्त्येवाविद्या | नापि जीवपरभेदस्यौपाधिकत्वम् | न च �अत एव चोपमा सूर्यकादिव� दित्यत्रौपाधिकत्वं क्वचित्सूचितमिति वाच्यं, तत्रहि जीवपरभेदस्यौपाधिकत्वं न सूच्यते, किन्तर्हि ब्रह्मण एव �अणोरणीयान्महतो महीया� नित्यादिनाणुत्व महत्वादिप्रतीतेस्तदुभयमस्तीति श᳚न्कायां ङ स्थानतोऽपि परस्योभयलि᳚न्गं सर्वत्र ही� ति एकत्वाद्ब्रह्मण्यस्मिन्विरुद्धरूपद्वयं न सम्भवतीत्युक्त्वा क्षेत्राणां भिन्नपरिमाणत्वादन्तरनुप्रविष्टस्यापि परमात्मनो भिन्नपरिमाणत्वप्रतिभासे दृष्टान्त उपादीयते सूर्यकादिवदिति | अत्र जलसूर्ययोर्मूर्तद्रव्यत्वाद्रूपवत्वाच्च तत्र प्रतिबिंबस्सम्भवति, ब्रह्मणस्त्वमूर्तत्वादरूपत्वाच्च प्रतिबिंबानुप- पत्तिरिति �अम्बुवदग्रहणात्तु न तथात्व� मित्यनेनाश᳚न्क्य, नह्यत्र बिंबप्रतिबिंबभावेन जीवेश्वरभेदोऽभिप्रेतः, किन्तु ब्रह्मण एव क्षेत्रपरिमाणानुरूपपरिमाणप्रतिभास इत्ययमेवार्थो दृष्टान्तोपपादनेन विवक्षित इति स्पष्टीकृतं �वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेव�मिति | तस्मान्नास्ति भेदोपाधिकत्वम् | अत एवैकस्मिन्नेवान्तरनुप्रविष्टयोर्जीवेश्वरयोर्भेदः प्रतिपाद्यते �गुहां प्रतिष्टावात्मानौ हि तद्दर्शना� दित्यादौ | तस्माज्जीवपरभेदस्य स्वाभाविकत्वान्नास्ति जीवपरयोस्स्वरूपैक्यं, नास्ति च स शास्त्रस्य विषयः | किञ्च जीवपरयोर्यदि स्वरूपैक्यं शास्त्रविषयः, तर्हि तदेव प्रत्यधिकरणं प्रतिपाद्येत | नच प्रतिपाद्यते, किन्तु प्रत्यधिकरणं तेन तेन वाक्येन
SK
जीवः प्रतिपाद्यते, ईश्वरो वेति संशये जीव इति पूर्वपक्षं
SK
पृ० २२) कृत्वा तत्तद्वाक्यप्रतिपाद्यधर्माणां जीवेऽसम्भवात् तद्व्यतिरिक्त ईश्वरः प्रतिपाद्यत इति प्रतिष्ठाप्यते, ङेतरोऽनुपपत्तेः | भेदव्यपदेशाच्चान्यः | जीवमुख्यप्राणलि᳚न्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् | सुषुप्त्युत्क्रान्त्योर्भेदेन | अनुपपत्तेस्तु न शारीरः | कर्मकर्त्तृव्यपदेशाच्च | स्मृतेश्च | शब्दविशेषात् | अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च | सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् | अनवस्थितेरसम्भवाच्च नेतरः | शारीरश्चोभयेऽपि हि भेदेनैनमधीयते | विशेषणभेदव्यपदेशाभ्याञ्च नेतरौ | प्राणभृच्च | भेदव्यपदेशाच्च | प्रकरणाच्च | स्थित्यदनाभ्याञ्च | ईक्षतिकर्मव्यपदेशात्सः | इतरपरामर्शात्स इति चेन्नासम्भवात् | उत्तराच्चेदाविर्भूतस्वरूपस्तु | अन्यार्थश्च परामर्शः | नाणुरतच्छ्रतेरेति चेन्नेतराधिकारात् | अधिकन्तु भेदनिर्देशात् | अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्� इत्यादिना | नच जीवस्यौपाधिकत्वात्तेन रूपेण प्रतिपाद्यता परं निषिध्यते, न स्वरूपेणेति वाच्यं, एवं हीश्वरस्यौपाधिकत्वात्तेनापि रूपेण प्रतिपाद्यता न स्यात् | स्वरूपमानस्यैव स्वाभाविकत्वेन प्रतिपाद्यता स्यात् | नच तथा प्रतिपाद्यते, तत्प्रतिपादने हेत्वसम्भवात् | किन्तु जीवव्यावृत्तेनेश्वरत्वेनैव रूपेण प्रतिपाद्यते �अन्तस्तद्धर्मोपदेशात्� �अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्� इत्यादिना | तस्मान्न जीवब्रह्मणोस्स्वरूपैक्यं शास्त्रस्य विषयः | नापीदं प्रयोजनं �जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च� �भागमात्रसाम्यलि᳚न्गाच्चे� त्यादिना तस्यान्यथोक्तत्वात् | तस्मादध्यासस्य विषयप्रयोजनानुपयोगित्वादसूत्रितत्वं सिद्धम् | तथा �जन्माद्यस्य यत� इति ब्रह्मणो जगत्कारणत्वं लक्षणमुक्तं | किंविधं तत्कारणत्वमिति पृच्छायां �प्रकृतिश्च प्रतिज्ञादृष्टान्तानुरोधा�दित्यादिना निमित्तत्वमुपादानत्वं चेत्युक्तं | एवं ब्रह्मण एवोभयविधकारणत्वे सूत्रिते कैश्चिदविद्योपादानमित्युक्तं | अन्यैस्सूक्ष्म
SK
पृ० २३) भूतपञ्चकमुपादानमिति | अपरैः प्रकृतिरुपादानमिति | तदेतदुपादानान्तराभिधानं सूत्रासम्बद्धम् || तस्मादद्वैतेदम्पर्यप्रवृत्तवैयासिकसूत्रसन्दर्भानन्वितत्वेन विवर्तवादस्यापातरमणीयतया प्रतीयमानत्वात्स वीरशैवैस्तत्वविद्भिः पदपदार्थस᳚न्गतिज्ञैरनादरणीय एव | ननु वीरशैवसिद्धान्तस्य लि᳚न्गा᳚न्गसामरस्यात्मकपरिणाम्युपादानरूपशक्तिविशिष्टशिवाद्वैतस्य सकलद्वैतविलक्षणत्वेन साधनीयतया विवर्तवादिप्रतिपादिताद्वैतसन्दर्भस्याध्यासाधिनत्वेन तस्य दूषितत्वात्तदतिरिक्ताद्वैतनिर्वाहस्यानुपलभ्यमानत्वात्स्वाभिमताद्वैतनि र्वाह एव न सिध्येत्, विश्वोपादानकारणीभूतमिथ्याप्रत्ययरूपाविद्याया अन᳚न्गीकारात्, ब्रह्मणो निर्विकारत्वेन परिणमनासम्भवात्, विकारित्वादिदोषप्रस᳚न्गाच्च | प्रकाशबाह्योपादानकारणान्तरस्याभावात्, अद्वैतसिद्धान्तविरोधादिति चेत्, अत्रेदं वीरशैवाभिमतशिवाद्वैतसरणि सारूप्येण सारस्वतं सूत्रं- सन् हृदयप्रकाशो भवन क्रिययाश्रितो भवति कर्ता | सैव क्रियाविमर्शः स्वस्था क्षुभिता च विश्वविस्तारा || इति || अस्यायमर्थः | हृदयप्रकाशस्सन्, अ᳚न्गीकरणीयः | �हृदयं तद्विजानीयाद्विश्वस्यायतनं महदि�ति श्रुतेरत्र हृदयशब्देन हृदये प्रकाशमान आत्मा विवक्षितः �हृद्यय� मिति छान्दोग्ये हृदयशब्दार्थनिरुक्तिं मनसि निधाय शिवाद्वैतमञ्जरीकारेणैतत्सूत्रं व्याचक्षाणेन �हृदयं तद्विजानीया�दिति श्रुतिरुदाहृता | हृदये प्रकाशमानः परमेश्वरस्सन् सद्रूपेणास्तीति व्याख्यात्रा विवरणं कृतं | सन्, हृदयप्रकाश इति शब्दद्वयेन सदात्मकत्वं चिदात्मकत्वञ्च क्रोडीकृतं | अन्यथा सदात्मकत्वान᳚न्गीकारे वक्तुस्स्वस्यैव सत्ताहानिप्रस᳚न्गात्, स्वस्यैव
SK
पृ० २४) ब्रह्माभेदात् | प्रकाशरूपत्वान᳚न्गीकारे जगतामज्ञत्वरूपं कस्मिन्नपि विषयेऽग्राहकत्वं स्यादिति टीकार्थः | तदनुकूला श्रुतिः �असन्नेव स भवति, असद्ब्रह्मेति वेद चेत् | अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदु�रिति | प्रकाशांशे श्रुतिर्नोदाहृतेति न भ्रमितव्यं, पूर्वोक्ताया �हृदयंतदि�त्यादिश्रुतेरेव छान्दोग्यनिरुक्त्यनुसारेण प्रकाशरूपत्वाभिप्रायत्वात् | अत एव चित्त्वेनानन्दत्वं मूलसूत्रे उक्तप्रायमिति टीकायामानन्दश्रुतिरुदाहृतेति न प्रकृतास᳚न्गतिः | �अस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती�त्यानन्द श्रुतिः | अथ भवनक्रियया आश्रितः= भवनक्रियाया आश्रयो भवति कर्तेत्यस्यांशस्य व्याख्यातुस्तात्पर्यमुच्यते | अस भुवीति धातोः श्ह्नसोरल्लोप� इत्यल्लोपे �लटश्शतृशानचावप्रथमासमानाधिकरण� इति शतृप्रत्यये सन्निति शब्दः �अस्ति ब्रह्मेति चेद्वेदे�ति श्रुतिप्रत्यभिज्ञापक इति मत्वा, अस भुवीति धातुपाठसिद्धार्थिकभवनक्रियाया आश्रयत्वेनेति व्याख्यातम् | ननु शिवाद्वैतं सिषाधयिषुणा व्याख्यात्रा द्वैतमेव साधितमासीत्, �विनायकं प्रकुर्वाणो रचयामास वानर�मिति न्यायात् | पचतीत्यादौ धात्वर्थाख्यातार्थक्रियाकर्तृर्णां परस्परं भेदस्य व्युत्पत्तिसिद्धत्वेन प्रकृतेऽस्तीत्यत्रापि धात्वर्थप्रत्ययार्थयोर्भेदस्यावश्यं वक्तव्यत्वादिति चेन्नैवं अन्यत्र पचतीत्यादौ भेदे सत्यपि प्रकृतेऽस्तीत्यादावनुपलम्भबाधकेन धात्वर्थाख्यातार्थक्रियाकर्त्रोरभेदस्य वक्तव्यत्वात्, अन्यथा निर्वाहाभावान्नाद्वैतहानिः | अतेव कूलं पिपतिषतीत्यादौ सनर्थस्त्यक्तः | जानातीत्यादावाख्यातार्थस्त्यक्तः | तदिदं मनसि निधायाह सन् हृदयप्रकाश एवास्तीत्यादिना | भवनक्रियाश्रयत्वादिति व्याख्यानेन धात्वर्थाख्यातार्थयोः प्रकृते भेदः परिहृतः | कर्ता भवतीत्यनेन धात्वर्थस्याख्यातार्थव्यापारस्य च भेदः परिहृतः | ननु शिवाद्वैते किं प्रमाणं ? �अस्मि प्रकाशे नन्दामी� त्यहन्तासामानाधिकरण्येन सत्ताज्ञानानन्दानुभवः प्रमाणं | अन्यथा ब्रह्मणा
SK
जडप्रकाशवैलक्षण्यं न स्यात् | तद्यथा �वह्निरस्ति प्रकाशत� इत्यादौ
SK
पृ० २५) प्रत्यगात्मानवगाहेन जडत्वस्यानुभवसिद्धत्वं जडत्वस्य भेदस्य च वह्न्यादौ विद्यमानत्वात् | एवमस्मि प्रकाश इति जडवैलक्षण्येनानुभवो वक्तव्यः | एवञ्च सति प्रकाशविषयकज्ञानस्य घटज्ञानविषयकज्ञानवदनुव्यवसायत्वेन भेद एव स्यात्, न तु शिवाद्वैतसिद्धिरित्याश᳚न्कायां सत्यां सैव क्रिया स्वस्थाचेत्यादिटीकयानुव्यवसायप्रयुक्तो भेदः परिहृतः | अस्ति क्रियायास्सैवेति तच्छब्देन क्रोडीकरणाद्विमर्शस्यानुभवरूपस्य, अस्धात्वर्थक्रियायाश्च भेदो नास्तीति टीकामूलयोस्तात्पर्यम् | अनेन विमर्शसाभिलापप्रकारेण शिवाद्वैतस्य सप्रमाणकत्वमुक्तमेवेति शिवाद्वैतं समर्थितमस्मि प्रकाशे, नन्दामीति विमर्श इत्यादिना | तथा च परमात्मनस्स्वस्थतादशायां सच्चिदानन्दात्मनैवावस्थितिः चिदादिशक्तीनामपि कारणात्मनावस्थानमिति टीकामूलयोः परमोनिष्कर्षः | क्षुभिता चेत् सृष्ट्युन्मुखी चेत्, �दृश्यते त्वि� ति ब्रह्मसूत्रस्थित्या गोमयाद्वृश्चिकाद्युत्पत्तिरिव शिवादिभूम्यन्तषट्त्रिंशत्तत्वात्मकविचित्रविश्वस्फुरणमयी भवतीति | तथाहि �परास्य शक्तिर्विविधैव श्रूयते, स्वाभाविकी ज्ञानबलक्रिया चे�ति श्रुतिस्थानुक्तार्थप्रकाशकचकारचमत्कारान्महेश्वरस्वभावभूतपराश् अक्तेश्चिदा- नन्देच्छाज्ञानक्रियादिनानारूपतावगमात् | नच �कामस्स᳚न्कल्पो विचिकित्सा श्रद्धाश्रद्धाधृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एवे�ति श्रुतेरिच्छादीनां मनोधर्मत्वात्, अत एव शारीरकनिष्ठत्वेनानुभूयमानत्वात्कथमात्मस्वभावतेति वाच्यं, नैयायिकादिभिरपि अशरीरस्यापीश्वरस्य गुणत्वेनेच्छादीनाम᳚न्गीकृतत्वात्, अन्यथा घटादिभिश्चाविशेषत्वप्रस᳚न्गात् | किञ्च जिज्ञासाबन्धमोक्षाणां सामानाधिकरण्यनियमान्मनसस्तद्विशिष्टस्यैव वा मुक्तिप्रस᳚न्गात्, तयोर्द्वयोरपि मिथ्यात्वात् | जिज्ञासाबन्धविशिष्टस्य तद्विशेष्यांशे मोक्ष इत्यपि वक्तुं न शक्यते, वैयधिकरण्यप्रस᳚न्गात् | विशिष्टविशेष्ययोरैक्ये मिथ्यात्वेन मोक्षाक्षमत्वात् | तस्मात्कृत्रिमप्रमातुरिच्छादेर्मनोऽभिव्यक्तताप्रतिपादने
SK
श्रुतेस्तात्पर्यमित्य᳚न्गी-
SK
पृ० २६) करणीयत्वेन विरोधाभावात् | �तस्मिन्कामाः समाहिता� इति श्रुत्यन्तरे समुपसर्गस्वारस्येनात्मस्वभावतावगमाच्च | एवं स्थिते तत्र चिदानन्दयोर्न कदाचिद्विक्षोभः, अक्रमस्वभावत्वात् | इच्छादिशक्तीनां सक्रमाक्रमस्वभावत्वेन विक्षोभभाक्त्वात् | नच सक्रमाक्रमयोर्विरोध इति वाच्यं, वदतो व्याघातात् | भेदाभेदयोर्विरोध इति ज्ञात्वैव वक्तव्यत्वेन तद्ज्ञाने भेदाभेदरूपविषययोर्भासमानत्वात्, तस्य सविषयत्वात् | अन्यथा विरोधस्फूर्तिरेव न स्यात् | तस्मात्प्रकाशस्य प्रतियोग्यभावात् | किञ्चान्योन्याभावनिबन्धनभेदस्यैवाभेदेन विरोधः | न वयं तादृशं भेदं ब्रूमः, तस्यासम्भवात् | तत्रान्यत्वस्य पदार्थस्वभावतानुपपत्तेः, पदार्थस्य पदार्थान्यत्वप्रस᳚न्गात् | नच पदार्थस्य पदार्थान्तरान्यत्वं स्वभाव इति नोक्तदोष इति वाच्यं, तस्य विशेषघटितत्वेनाप्रश्नविषयत्वात् भेदसामान्यलक्षणघटकान्यत्वस्यैव प्रश्नविषयत्वात् | किञ्च घटान्यत्वं पटस्वभावः, पटान्यत्वं घटस्वभाव इत्यसाधारणप्रतीतिर्घटपटयोर्भेदे सिद्धे सत्येवोपपद्यत इति तस्याद्याप्यभिलष्यमाणस्वभावत्वात् | नच तन्तुमयत्वमृण्मयत्वादिना तयोर्भेदस्य सिद्धत्वमिति वाच्यं, घट एव मृण्मयत्वं पट एव तन्तुमयत्वमिति निश्चयस्यापि घटपटभेदसिद्ध्यनन्तरभावित्वात् | किञ्च तन्तुमयत्वमृण्मयत्वयोरपि भेदस्तावत्तत्तदवयवभेदात्, तदवयवभेदस्तदवयवभेदादिति परमाणुपर्यन्तपर्यालोचनायां निरंशत्वादतीन्द्रियत्वाच्च तत्र भेदाग्रहान्मूलक्षयकार्यनवस्थाप्रस᳚न्गात् | नचान्यत्वं भेदनिबन्धनः कश्चिदुपाधिः, भेदस्य मनोरथायमानत्वेनात्माश्रयादिदोषप्रस᳚न्गात् | किन्तु स्वर्णकुण्डलन्यायेन विभागो भेद इति ब्रूमः | तत्र कुण्डलं स्वर्णं न भवतीति परिहर्तुमशक्यत्वात्, स्वर्णार्थिनः कुण्डले प्रवृत्तिदर्शनात् | एवं स्वर्णमपि कदापि कुण्डलं न भवतीति परिहर्तुमयुक्तं, कुण्डलयोग्यत्वात्, कुण्डलाकारेण स्वर्णस्यैव भासमानत्वात् | स्वर्णे
SK
कुण्डलं नास्तीत्यपि वक्तुं न शक्यते, स्वर्णं कुण्डलं जायत पृ० २७) इत्यादिव्यवहारे वर्तमानकालरूढजनिक्रियायाः निराश्रयत्वप्रस᳚न्गात्, जन्मकाले कुण्डलादिवस्तुस्थित्यभावात्, अस्ति चेदुत्पत्यसम्भवात् | उत्पन्नवस्तुस्थित्यभावेऽप्युत्पद्यमानवस्तुस्थित्य᳚न्गीकारे व्यक्ततया स्थित्यसम्भवात्, उक्तदोषात्, अव्यक्ततया स्वकाराणभेदेन कुण्डलादिवस्तुस्थितेर᳚न्गीकरणीयत्वात् | एवं स्थिते विभागनिबन्धनभेदस्याभेदेन विरोधाभावात्, तस्मादेव विभज्यमानत्वेन तदुपजीवित्वात् | चित्रककौशलवशादालेख्यविशेषे गजवृषभयोः प्रतिभास इवाहिकुण्डलमिव ब्रह्मणस्स्वतन्त्रत्वेन शक्तिशक्तिमद्रूपतया भासमानत्वात् | चेतन इत्यत्र प्रत्ययस्य भावार्थकत्वेनानभिव्यक्तक्रियारूपधात्वर्थाभिव्यञ्जकत्वात्, क्रियायास्साश्रयत्वनियमेन तदाश्रयस्य कर्तुरपि तेनैवाक्षिप्तत्वात् | तदन्तर्गतक्रियायाः कृतिरूपत्वात्कृतेस्सविषयत्वात् | चित्स्वभावत्वेन कृतेस्स्वप्रकाशत्वात् | एवं विधस्वतन्त्रप्रकाशताशक्तेः प्रकाशैकरूपत्वात् | अत एव विभागस्य संयोगपूर्वकत्वात्, ब्रह्मणि प्रपञ्चसम्बन्धाभावान्निष्प्रपञ्चत्वाद्वैभासिकभेदो न सम्भवतीति श᳚न्काकल᳚न्कस्यानवकाशात् | ङेह नाने�ति श्रुतेः प्रापञ्चिकभेदनिरासपरत्वात्, विमर्शशक्तेस्सकलसामरस्यात्मकत्वाद्भेदेन स्थित्यसम्भवात्, तस्यास्समवायसंयोगान्यतरसम्बन्धसापेक्षत्वात्, गुणगुणित्वाद्यन᳚न्गीकारेण समवायस्यासम्भवात् | संयोगस्य क्रियापूर्वकत्वात्, अन्यतरोभयकर्मजश्च संयोगस्तावद्भिन्नदेशस्थितयोरेवोपपद्यत इति ब्रह्मबाह्यदेशाभावेन तदसम्भवात् | अक्रियापूर्वकसंयोगस्याप्रसिद्धत्वात् | एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च | खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी || इति श्रुतेर्व्योमादीनाञ्च कार्यकोटिप्रविष्टत्वेन परमाण्वाकाशसंयोगदृष्टान्तस्यापि दूरापास्तत्वादनुभयवादिसिद्धत्वात्, सदा परभारवाहकत्वेन स्वातन्त्र्यभ᳚न्गप्रस᳚न्गात् | सम्बन्धस्यैकत्वेन द्विनिष्ठ-
SK
पृ० २८) त्वासम्भवात्, निरंशत्वात्, सांशत्वे द्रव्यत्वापत्त्या सम्बन्धित्वेन तस्यापि सम्बन्धान्तरान्वेषणमुखेनानवस्थाप्रस᳚न्गाच्च | ङिष्कल� मित्यादिश्रुते स्स्वव्यतिरिक्तप्राकृतहेयकलादिराहित्ये तात्पर्यात् | अन्यथा त्वचेतनत्वप्रस᳚न्गात्, स्फटिकादिप्रकाशवन्निर्विमर्शत्वादिति सूचितत्वात् | तस्माद्ब्रह्मणश्चेतनत्वात् श एकाकी न रमते, स द्वितीयमैच्छत् | स एतावानास, तत्सृष्ट्वा तदेवानुप्राविशत्, तदनुप्रविश्य सच्च त्यच्चाभवदि�ति श्रुतेः, �लोकवत्तु लीलाकैवल्य� मिति ब्रह्मसूत्रस्थितेश्च, स्वक्रीडार्थं विश्वभवननिर्माणे स्वातिरिक्तकारणान्तरसापेक्षत्वे कुलालादिवत्स्वात्मौन्मुख्यविगलनेनान्यत्रौन्मुख्यात्, अदृष्टादिपरतन्त्रत्वेनानीश्वरत्वप्रस᳚न्गात्, स्वातिरिक्तकारणान्तरनैरपेक्ष्येणेप्सितार्थप्रदचिन्तामण्यादिवद्योगिवदूर् णनाभवच्च मयूराण्डरसगतपादपक्षादिवर्णवैचित्र्यन्यायेन तादात्म्येन चिद्व्याप्तिरूपत्वेन स्वतन्त्रतालक्षणस्पन्दनरूपत्वेन चिदुज्वलनरूपत्वेन चिदाप्यायनरूपत्वेन चिद्रूपत्वेन च स्वात्मामलमुकुरमण्डलतादात्म्यापन्नविमर्शशक्तिक्रोडीकृतव्योमादिपञ्च प्रमेयविश्वादिचतुरात्मलक्षणजडाजडात्मकं विश्वं स्वेच्छाशक्तिरूपापोहनट᳚न्कवशाच्छिवादिधरण्यन्तषट्त्रिंशत्तत्वात्म ना विचित्रीकृत्य सृष्टिस्थितिसंहारबन्धमोक्षलक्षणपञ्चकृत्यमहानाट्यरसिकस्सन् क्रीडतीति राद्धान्तः | इच्छाशक्तेस्सविषयत्वात् | विश्वस्यान्तस्स्थितिं विना तदुन्मेषानुपपत्तेः | ननु विश्वस्य ब्रह्माभेदेन सत्ता᳚न्गीकारेण नित्यत्वात्, तदन्तर्गतबन्धस्यापि तथात्वेन तस्य तत्वज्ञानादपि निवृत्त्यसम्भवेन मुक्तिर्न स्यात्, मुक्तस्यापि बन्धस᳚न्गः, प्रपञ्चस्य षड्भावविकारभाक्त्वेन ब्रह्मणस्तदभेदेनानित्यत्वप्रस᳚न्गश्चेति चेदुच्यते | घटो नश्यतीत्यत्र नाशक्रिया न घटनिष्ठा भवितुमर्हति स्वत एव नाशासम्भवात्, कालकरणाधीनत्वात् | करणानां कर्मेन्द्रियसापेक्षत्वात्, तेषां ज्ञानेन्द्रियसापेक्षत्वात्, तेषामन्तरिन्द्रियसापेक्षत्वात्, तस्य कृत्रिमप्रमा-
SK
पृ० २९) तृसापेक्षत्वात् तस्य देशकालादिपरतन्त्रत्वेन स्वातन्त्र्येण विना न सम्भवतीति तस्यास्तन्निरूपितत्वेन तन्निष्ठताया अकामेनाप्य᳚न्गीकरणीयत्वेन कर्तृमहेश्वरस्वभावत्वात्, दर्शितदिशा कार्यस्य कुण्डलादेस्स्वर्णादिकारणात्मनावस्थितेर᳚न्गीकरणीयत्वेन कार्यस्य कार्यनाशस्य कारणात्मनावस्थितिरूपत्वात्, न विकारित्वादिदोषप्रसक्तिः | दुग्धादौ परिणमनक्रियायाः कालकरणकर्तृसापेक्षत्वेन दृष्टतया कर्तृस्वभावत्वात्, गुणदोषयोरपि स्वात्मैकरूपत्वात् | किञ्च लोके परिणामिवस्तुषु न सर्वत्र सर्वात्मना स्वरूपपरित्यागः, स्वर्णादिरूपपरिणामिद्रव्यस्य कुण्डलाकारेण परिणतौ स्वर्णादिरूपत्वापरित्यागस्यानुभूयमानत्वात् | इतोऽपि स्वतन्त्रभूतवस्तुपरिणमनस्य कूर्मा᳚न्गभ᳚न्गीन्यायेन विकारलेशस्याप्यसम्भवात् | �क्रिया हि कर्मणैव विश्राम्येन्न तु कर्तरीति� न्यायान्नानिर्मोक्षत्वप्रस᳚न्गश्च | अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत | अव्यक्तनिधनान्येव तत्र का परिवेदना || इति भगवदुक्तेर्भोगापवर्गलक्षणपूर्वापरकोट्योर्विश्वस्य चिदानन्दैकरसत्वेन स्वस्वरूपतया प्रतिबन्धकत्वाभावात् | इच्छादिभूमिप्रविष्टघटादिवदर्थक्रियाशून्यत्वात् मध्यकोटावेव प्रतिबन्धकं, अर्थक्रियाविशिष्टत्वात् | मातृमेयमिति साधनात्मिका त्वत्कृतोन्मिषति या विकल्पधीः | त्वत्स्वरूपमकल᳚न्कितं तया तस्य देवि विदुषो न मुक्तता || इति चिद्गगनचन्द्रिकायां कालिदासोक्तेश्च | ईश्वरेच्छाया एव नियामकत्वान्मुक्तस्य न पुनर्बन्धप्रसक्तिरिति न काचिदनुपपत्तिरिति शक्तिपातपवित्रितहृदयैर्विद्वद्भिर्विमर्शनीयम् |
SK
पृ० ३०) एवं स्थिते ब्रह्ममीमांसायां भगवता बादरायणेन प्रथमसूत्रे शदेव सौम्येदमग्र आसीदेकमेवाद्वितीयं, तदैक्षत बहुस्यां प्रजायेय� इति श्रुतेः, �ईक्षदर्शना᳚न्कनयो�रिति धातुगत्या ईक्षणलक्षणदर्शनस्वभावत्वेन जडविलक्षणतया बृहत्त्वात्; �बहु स्या� मिति बहुभवनक्रियामर्शनरूपत्वेन दर्शनस्वभावजीवलक्षणान्यनिरपेक्षणकर्तृतालक्षणानन्दपरिबृंहि तत्वाच्च, ज्ञानक्रियास्वतन्त्रं ब्रह्म जिज्ञास्यत्वेनोद्दिष्टमिति समनन्तरसूत्रोक्ततदसाधारणजगज्जन्मादिलक्षणमप्युपपद्यते | तथाहि �अथातो ब्रह्मजिज्ञासा� इत्यत्र आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः� इति विषयवाक्यम् | शास्त्रमनारम्भणीयमारम्भणीयं वेति सन्देहः | �अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः� इति भगवतैव गीतत्वात्, अत्र लोकप्रसिद्धिर्नानुमानेन; पामरादीनां व्याप्त्यादिज्ञानशून्यत्वात् | किन्त्वहमित्याबालविदितत्वेन | वेदेऽपि �अहं ब्रह्मास्मि� शत्यं ज्ञानमनन्तं ब्रह्म� �अहमस्मि प्रथमजा ऋतस्य� �पूर्वं देवेभ्योऽमृतस्य नाभिः� इत्यादिश्रुतेर्महेश्वरस्य प्रसिद्धत्वादसन्दिग्धतया विचारविषयाभावात्, जीवाश्रिताविद्याया अपि ब्रह्मैकरूपत्वेन निवृत्त्यसम्भवात्, ब्रह्मबाह्यपदार्थान्तराभावात्, जन्यानन्दावाप्तेरनित्यत्वेन हेयत्वात्, नित्यानन्दस्य अनवाप्तव्यत्वान्नित्यप्राप्तत्वात्, प्रयोजनाभावाच्च शास्त्रमनारम्भणीयमिति पूर्वः पक्षः | सिद्धान्तस्तु ब्रह्म तावदुभयत्राप्यहमिति प्रसिद्धमेव | तथापीह लोके अवैदिकेषु विवेकिनो विज्ञानवादिनो हि क्षणिकज्ञानसन्तानापेक्षया नित्यः कश्चिद्बुद्धिमान्, तद्बुद्धिप्रेरकः कश्चिदीश्वरश्च नास्त्येवेति वदन्ति | तयोर्बुद्धिभिन्नत्वे सति बुद्धिबाह्यतया तत्सत्वे मानाभावात् | यदि मानमस्ति तस्य बुद्ध्यन्तर्गतत्वेन घटादिभाववद्बुद्धितुल्यताया अनिवार्यत्वादिति | एवं वैदिकेष्वपि कापिलास्तु �अजा� मित्यादिश्रुतेः प्रधानस्य विश्वकारणत्वश्रवणात्पुरुषप्रधानातिरेकेण कश्चिदीश्वरो नास्तीतिवदन्ति | जैमिनीयास्तु
SK
सुखलक्षणस्वर्गं प्रति ज्योतिष्टो-
SK
पृ० ३१) मादिकर्म्मैव विधीयते | तज्जन्ययजमाननिष्ठापूर्ववशादेव तत्साधनीभूतपदार्थोत्पत्तिसम्भवात्, वेदान्ताः कर्तृदेवताद्रव्यपराः, अनुष्ठानोपयोगित्वेन सार्थक्यात्कर्मशेषा एव न ब्रह्मपरा इति वदन्ति | तस्मादेवंविधवादिनां वेदेऽपि विप्रतिपन्नत्वात्, एवं विधवैदिकावैदिकप्रविष्टपाखण्डमतनिराकरणद्वारा वक्ष्यमाणशक्तिविकासलक्षणमोक्षावाप्तये शास्त्रमारम्भणीयमिति | एवञ्चास्य सूत्रस्यायमर्थः | अथ= अनेकजन्मार्जितशिवपूजादिसत्कर्ममहिम्ना सम्प्राप्तशमदमादिसाधनसम्पन्नस्याधिकारिणो मोक्षविषयकात्युत्कटेच्छाशक्त्याविर्भावानन्तरं, अतः= अथातो धर्मजिज्ञासेत्यादिस्वव्यतिरिक्तदेवतोपासनालक्षणयागयोगादिकर्मणां �एष कर्मचितो लोकः क्षीयत� इत्यादिश्रुतेरनित्यत्वेन हेयत्वात्, कर्मणो जडत्वेन अपूर्वोत्पादनोद्यमशून्यत्वात्, देवतायाश्च शब्दमयत्वेन जडत्वात्, तत एव फलसाधनयोर्गगनकुसुमायमानत्वात्, अनेनैव न्यायेन प्रधानकारणतावादिकापिलमतस्यापि प्रत्याख्यातत्वात्, वेदान्तानां भिन्नप्रकरणपठितत्वेन तात्पर्यनिश्चयहेतुलि᳚न्गषट्केन ब्रह्मपरत्वात्, एतद᳚न्गीकृतात्मतत्वस्य नानात्वेन परस्परव्यावृत्तरूपत्वात्, अतेव स्वविषयस्वरूपमात्रनिष्ठत्वात्, परविषयपरस्वरूपेष्वन्ध- बधिरप्रायत्वात्, �चैत्रो मैत्राद्भिन्नः, मैत्रश्चैत्राद्भिन्नः, चैत्रस्सुखी, मैत्रो दुःखी�ति परस्परभेदानुसन्धानभेदितानां चैत्रादिप्रकाशानां �चैत्रमहं जानामि, मैत्रमहं जानामि� इत्येकसंविल्लग्नत्वेनान्तरनुसन्धानस्याप्यसम्भवात्, �चैत्रोऽह� मिति प्रकाशस्य स्वात्मविषयमात्रप्रकाशत्वात्, एवमवैदिका᳚न्गीकृतक्षणिकविज्ञानात्मनोऽपि नीलादिरूपेण नानात्वात्, तज्जन्यसंस्काराणामपि तथात्वात्, भिन्नकालनिष्ठत्वेनपरस्परसंगतिशून्यत्वात्, अतेवोक्तरीत्या स्वविषयस्वमात्रनिष्ठत्वात्, परविषयपरस्वरूपेष्वन्धबधिरादिप्रायत्वात्, �नीलं पीताद्भिन्नं, �पीतं नीलाद्भिन्नं, नीलमहं जानामि, पीतमहं जानामि, योऽहं बाल्येपितरावन्वभूवं स एवाहमिदानीं
SK
प्रणप्तृर्ननुभवामीत्यहमित्येकसंविल्लग्नत्वेन बाह्याभ्यन्तरानुसन्धानानुपपत्तेः,
SK
पृ० ३२) उभयक्षणग्राहकसंविदन्तराभावात्, सुषुप्त्यादौ हानादानलक्षणप्राणवायुपरिस्पन्दस्य विद्यमानत्वेन तस्य कर्तृपुरस्सरत्वात्, कर्तृज्ञानपुरस्सरत्वात्, सुखमहमस्वाप्समित्युत्थितस्य सुखस्मृतेः संस्कारद्वारानुभवानुभवितृमूलत्वात्, अनुभवितुः स्वतन्त्रस्वप्रकाशत्वात्, �न किञ्चिदवेदिष� मिति शून्यप्रकाशस्यापि विद्यमानत्वात्, विशेषणविमुक्ताहमात्मनः स्वप्रकाशतांशस्याप्राकट्येन स्थितेर᳚न्गीकरणतया लोके छिदादिक्रियाणां दर्शितदिशा परप्रमातृविश्रान्तिमन्तरेणासम्भवाच्च, प्रोक्तन्यायेन स्वात्मतादात्म्यापन्नस्वविमर्शक्रोडीकृतानेकभावाभावमण्डलः, ज्ञानस्मृत्यपोहनादिबहुविधशक्तीनामेकसंघट्टः, अनुभवितृस्मर्त्तृ- विकल्पयितृ-प्रत्यभिज्ञातृरूपः, शुद्धानुभवानुसन्धानात्मपूर्णाहंस्फुरणरूपस्वतन्त्रस्वप्रकाशो महेश्वरोऽ᳚न्गीकरणीय इति हेतोः, तादृ᳚न्महेश्वरेच्छाशक्तिनियमितत्वेन पुरुषतत्वनिष्ठाविद्यातत्वस्य स्वकारणीभूतसर्वज्ञताशक्तिसामरस्यस्थितिरूपनिवृत्तिद्वारा स्वात्मशिवतालक्षणं फलमुद्दिश्य, ब्रह्म= स्वतन्त्रस्वप्रकाशतालक्षणाखण्डामर्शपरिबृंहितं, तस्य जिज्ञासा, अनेन पदेन विचारो लक्ष्यते, कर्तव्य इति शेषः | स्वात्माभेदेन परामर्शः कर्तव्य इत्यर्थः, पराभिमतभेदस्य निराकृतत्वात् | अस्मिन्सूत्रे अतः शब्देन वक्ष्यमाणसमन्वयाविरोधफलाध्यायार्थस्सर्वोऽपि संक्षिप्तः | अथशब्देन साधनाध्यायार्थः संगृहीतः | ब्रह्मशब्देन जडजीवविलक्षणस्वप्रकाशस्वतन्त्रताशक्तिस्वभावत्वं तात्पर्यविषयीकृतमिति सूक्ष्मदृशानुसन्धेयं | एवमेतत्सूत्रार्थपरामर्शनमात्रेणात्युत्तमाधिकारि कृतकृत्यो भवतीति परमो निष्कर्षः || अतेव �जन्माद्यस्य यतः� इत्युत्तरसूत्रार्थोऽपि स᳚न्गच्छते | इत्थं खलु तत्सूत्रार्थः | जन्म आदिर्येषामिति विग्रहे कृते तद्गुणसंविज्ञानबहुव्रीहिसमासः | तथा च सृष्टिस्थितिसंहारतिरोधानानुग्रहाख्यपञ्चकृत्यकर्तृत्वं ब्रह्मणो लक्षणं पर्य्यवस्यति | एवञ्च सृष्टिकर्तृत्वं ब्रह्मणः,
SK
सृष्टिस्थित्युभयकर्तृत्वं विष्णोः, सृष्टिस्थितिसंहारकर्तृत्वं
SK
पृ० ३३) रुद्रस्य, सृष्टिस्थितिसंहारतिरोधानकर्तृत्वमीश्वरस्य, सृष्टिस्थितिसंहारतिरोधानानुग्रहकर्तृत्वं सदाशिवस्य | एतत्पञ्चकृत्यकर्तृत्वरूपं तटस्थलक्षणं सदाशिवस्य पञ्चभूताधिनायकस्य सद्योजातादिपञ्चमुखविशिष्टस्यैवोपपद्यते | एतत्पञ्चकृत्यकर्तुर्नियामकस्य निर्गुणस्यास᳚न्गोदासीननित्यमुक्तशुद्धस्वभावस्य परब्रह्मणश्चिदादिशक्तिस्वभावस्य षड᳚न्गदशाव्ययप्रकृतिकस्य परमशिवस्य महालि᳚न्गशब्दितस्य तु सच्चिदानन्दस्वरूपमेव लक्षणं तस्य तदैकरसत्वात् | तस्मात्पञ्चकृत्याधिपतिकारणत्वं लोहचेष्टायामयस्कान्तमणेरिव परमशिवस्य लक्षणान्तरमपि सम्भवति | यतः कारणात्, अर्थप्रपञ्चकारणत्वं ब्रह्मणः प्रतिपादितं, अत एव शब्दप्रपञ्चस्यापि कारणत्वं सिद्धप्रायमिति दर्शयितुमनुपदमेवोत्तरसूत्रं श्हास्त्रयोनित्वात्� इति प्रतिपादितम् | अत्र शास्त्राणां योनिरिति व्युत्पत्त्या वेदादिजनकत्वं तस्य सिद्धम् | अथवा शास्त्रयोनित्वादित्यत्र �तन्त्वौपनिषदं पुरुषं पृच्छामि� इत्यादि श्रुतिपर्यालोचनयापि शास्त्रप्रतिपाद्यत्वमर्थः पर्य्यवस्यति | अथवा शास्तृ= ब्रह्म, अयोनित्वात्= प्रपञ्चवदकारणकत्वात् | पूर्वसूत्रस्थयच्छब्दनिर्दिष्टं ब्रह्म शास्त्रशिक्षकम् | विष्ण्वादेरन्यस्य च शिक्षकत्वं लोकवेदसिद्धं न भवतीति शिवस्यैव तदुभयसम्मतमिति, पूर्वोक्तजगज्जन्मादिकारणत्वमपि शिवस्यैवेति, तदेव जिज्ञास्यमित्यनेन सूत्रेण ध्वनितम् | अथवा, अयोनित्वात्, अकारवाच्यस्य विष्णोर्ब्रह्मणो रुद्रस्य वा �अकारो ब्रह्मविष्ण्वीशकमठेष्व᳚न्गणे रणे� इति कोशात् | योनित्वात्= कारणत्वात् | �योनिश्च हि गीयत� इति वक्ष्यमाणसूत्रपर्यालोचनया योनिशब्देन कारणत्वं निश्चीयते | तथाच तदर्थपर्यालोचनया �ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते� इत्यादि श्रुत्यर्थक्रोडीकरणहेतुत्वेन शिव एव शास्त्रशिक्षक इति पूर्वोक्तार्थः पर्यवसन्नः || ननु शास्त्रयोनित्वादितिसूत्रेण वेदान्तप्रतिपाद्यत्वं ब्रह्मण उक्तं, तन्न सम्भवति
SK
तेषामुक्तकर्मानुष्ठानपरत्वात् | तथाहि- ब्रह्मप्रतिपादकानां
SK
पृ० ३४) वाक्यानां योगा᳚न्गभूतदेवतापरत्वं, सृष्टिस्थितिप्रतिपादकानां केषाञ्चिद्वाक्यानां यागा᳚न्गभूतद्रव्यपरत्वं, जीवात्मप्रतिपादकानां यजमानपरत्वमित्येवं कर्मपरविधिपरत्वे सम्भवति कथं ब्रह्मणः शास्त्रप्रतिपाद्यत्वं सम्भवतीति चेदत्रोच्यते, उपक्रमोपसंहारादितात्पर्यनिर्णायकैष्षड्विधलि᳚न्गैःप्रकरणान्तरेण ब्रह्मविषयकत्वस्य घण्टाघोषत्वेन वक्तुं शक्यतया त्वदुक्तं सर्वमपि कतिपयपामरसम्मोहनार्थम् | तथाहि- शदेव सौम्येदमग्र आसी�दित्युपक्रम्य, श य एषोऽणिमा, ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि� इत्युपसंहारः | अनयोर्ब्रह्मविषयकत्वेनैकं लि᳚न्गम् | असकृत्तत्त्वमसीत्यभ्यासः | मानान्तरागम्यमहदैश्वर्यमपूर्वत्वम् | �येनाश्रुतं श्रुतं भवति, अमतं मतमविज्ञातं विज्ञात� मित्याद्येकविज्ञाने सर्वविज्ञानं फलम् | यथा मृत्तिकायां ज्ञातायां घटशरावादिकं तत्कार्यत्वात्तदभिन्नमिति विज्ञातं भवति तथैवेत्यर्थः | सृष्टिस्थितिलयप्रवेशनियमनानि पञ्चार्थवादाः | मृदादिदृष्टान्ता उपपत्तयः | एतैर्लि᳚न्गैर्ब्रह्मपरत्वात् | नचानुमानमन्तरेण प्रयोजनाभावः, देहाद्यहन्तानिमज्जनद्वारा परिपूर्णाहन्तोन्मज्जनरूपमहाफलस्य सम्भवात् | नन्वेवं वेदान्तानां ब्रह्मपरत्वेऽपि ते ब्रह्मण्येव न पर्यवस्यन्ति | किन्तु शत्यं ज्ञानमनन्तं ब्रह्मे�ति पारोक्ष्येण ब्रह्मतत्वं प्रतिपाद्य पश्चादपरोक्षं विदधति | एवं सति वेदान्तानां शासनात् शास्त्रत्वमुपपद्यते | अनधिगतार्थगन्तृत्वात् | किञ्च श्रोतव्य इति शब्दज्ञानात्मकं श्रवणं विधायान्तरं मन्तव्यो निदिध्यासितव्य इत्यनुभवो ज्ञानात्मा विधीयते | तस्माद्वेदान्ताः प्रतिपत्तिविधायका इति चेन्न | कर्तुमकर्तुमन्यथाकर्तुमशक्यत्वेन अपुरुषार्थत्वात्प्रतिपत्तिविधिर्न सम्भवत्येव | अनुष्ठेयशासनादेव शास्त्रत्वं नान्यथेति नियमो नास्ति, सिद्धवस्तुसाधनेनापि तदुपपत्तेः | न च शब्देन ज्ञाते पश्चादनुभवात्मकं मननादिकं विधीयत इति वक्तुं युक्तं,
SK
दशमस्त्वमसीतिवच्छब्दस्यैवापरोक्षज्ञानजनकत्वेन शाब्दबोधात्पुरैव असम्भावनादिनिवृत्तये कर्तृव्या-
SK
पृ० ३५) पाररूपमननादेर्विधानात् | प्रमाणानां मोहापसरणमात्रप्रयोजनत्वात् | घटोऽयमग्रगः प्रत्यक्षत्वादित्यादौ तथानुभूयमानत्वात् | अत्र घटो न क्रियते, सिद्धत्वात् | नापि ज्ञाप्यते, प्रत्यक्षेणैव ज्ञाप्यमानत्वात् | किन्त्वग्रगत्वसाधनेन नाग्रगमिति मोहोऽपनीयते | एवं धूमलि᳚न्गेन वह्निमत्वसाधनेन अवह्निमत्वरूपमोहोऽपसार्यत इति वेदान्ता ब्रह्मण्येव पर्यवसिताः | अत एव �ऐतदात्म्यमिदं सर्वं तत्सत्य�मिति श्रुतत्वेन, सन् घटः, सन् पट इत्यादिरूपेण सर्वत्र सामान्यादिषु सत्ताजातिविलक्षणस्वरूपसत्तानुवृत्तिदर्शनेन सत्कार्यत्वादुक्तक्षणमुपपद्यते | जडस्य स्वतस्सिद्धसत्तानुवृत्यसम्भवात्, स्वतन्त्रतापत्त्या परतस्सिद्ध सत्तानुवृत्यसम्भवप्रकारस्य दर्शितत्वात्, सच्चिद्घनत्वमकमेवाप्य᳚न्गीकरणीयमिति कर्मणो जडत्वेनादृष्टोत्पादनोद्यमशून्यत्वात्, अदृष्टस्यापि जडत्वेन स्वर्गतत्साधनीभूतद्रव्योत्पादनोद्यमशून्यत्वात्, सर्वप्रपञ्चसत्तारूपस्वतन्त्रस्वप्रकाशब्रह्मैव सर्ववेदान्तप्रतिपाद्यमिति सिद्धान्तः || एवं सति तात्पर्यनिश्चयहेतुलि᳚न्गषट्केन वेदान्तानां ब्रह्मणि समन्वयात्, तद्ब्रह्म उक्तलक्षणप्रमाणगम्यमहैश्वर्यमिति भावः | एवं चतुस्सूत्र्या विचारकर्तव्यतालक्षणप्रमाणसमन्वयपरया विचारकर्तव्यतादिषु तेषु तेषु प्रतिपादितेषु सगुणनिर्गुणसम्पत्प्रतीकोपासनाव्यवस्थापनापूर्वकं सा᳚न्ख्यमतनिराकरणपूर्वकञ्च सर्ववेदान्तानां ब्रह्मणि समन्वयनिर्णायकस्य प्रथमाध्यायस्य, सा᳚न्ख्य-पातञ्जल-काणादा- क्षपाद-सौत्रान्तिक-वैभाषिक-योगाचार-माध्यमिकार्हत-पाशुपत- पाञ्चरात्रमतनिरासपूर्वकं पञ्चभूतदशेन्द्रियसृष्टिस्वरूप निश्चायकस्य द्वितीयाध्यायस्य, कर्मफलक्षयिष्णुत्वविविधदुःखानुभवतात्पर्येण पञ्चाग्निविद्यादीनां वैराग्यदार्ढ्यार्थकत्वप्रतिपादनपूर्वकं स्वप्नसुषुप्तिमूर्छाजीवान्तःकरणशारीरधर्मस्वरूपनिर्णयपूर्वकञ्च गुणोपसंहारपूर्वकं ब्रह्मविचारसाधकसाधनचतुष्टयप्रतिपादकस्य
SK
तृतीयाध्यायस्य, तत्तदुपासनाफलनिर्णायकस्य चतुर्थाध्यायस्य च परिणामवादविशिष्टाद्वैतसिद्धान्तऽप्रतिपादनैदम्परत्वात् | तदैदं पर्यस्य च पृ० ३६) क्रियासारादिषु कारिकारूपेणोपन्यसनात्तत्प्रकारस्तत्रैवावगन्तव्य इति ग्रन्थविस्तरभयान्नेह लिख्यते | उपासनाप्रकारस्तु | �अस्थूलमनण्वह्रस्वमदीर्घ� मित्यादि बृहदारण्यकश्रुत्या, �यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं | नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं तद्भूतयोनिं परिपश्यन्ति धीराः� | इति मुण्डकोपनिषद्वचनेनः, निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् | अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् || यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः | तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति || इति श्वेताश्वेतरोपनिषद्वचनेन, नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञाघनं न प्रज्ञं नाप्रज्ञमदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्र् अत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः || अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमो᳚न्कार आत्मैव संविशत्यात्मनात्मानं य एवं वेद || इति माण्डूक्योपनिषद्वचनेन, चिद्रूपं हि परं तत्वं शिवाख्यं विश्वकारणम् | निरस्तविश्वकालुष्यं निष्कलं निर्विकल्पकम् || सत्तानन्दपरिस्फूर्तिसमुल्लासकलामयम् | अप्रमेयमनिर्देश्यं मुमुक्षुभिरुपासितम् || परब्रह्ममहालि᳚न्गं प्रपञ्चातीतमव्ययम् | तदेतत्सर्वभूतानामान्तरस्थानगोचरम् || इति सिद्धान्तशिखामणिवचनात्,
SK
पृ० ३७) प्रणवो वाचकस्तस्य शिवस्य परमात्मनः | अकारस्तु महद्बीजं रजः स्रष्टा चतुर्मुखः || उकारः प्रकृतिर्योनिः सत्वं पालयिता हरिः | मकारः पुरुषो बीजी तमः संहारको हरः || नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः | एवं तिसृभिरेवैतन्मात्राभिरखिलं त्रिधा || अभिप्रेत्य शिवात्मानं बोधयत्यर्धमात्रया | शिवो वा प्रणवो ह्येष प्रणवो वा शिवः स्मृतः || वाच्यवाचकयोर्भेदो नात्यन्तं भिद्यते क्वचित् | इति शैवे वायवीयसंहितावचनाच्च, प्रणववाच्यपरब्रह्मापरपर्यायपरमशिवस्य महालि᳚न्गत्वेनोपपादनात्, प्रणवस्य तारक-दन्ड-कुण्डलार्धचन्द्रज्योतिरूपत्वेन, अकारोकारमकारबिन्दुनादार्धमात्रारूपत्त्वेन च, तादृशप्रणववेष्टिनकारादीनां मन्त्राणां समष्टिरूपप्रणवात्मकत्त्वात्तादृशप्रणवस्यैवमहालि᳚न्गस्वरूपत्त्वात्, तदंशरूपाचारादिलि᳚न्गानां पञ्चानां ग्रहणादिन्द्रियमुखेषु दृढतरभावनापूर्वकभावलि᳚न्गाख्यमहालि᳚न्गभावनैवोपासनेति विशिष्टाद्वैतिवीरशैवानां ब्रह्मसूत्रार्थविदां न्यायाभिज्ञानां तात्पर्यमिति तदनुरोधेन महालि᳚न्गादीनां लक्षणान्यभिधीयन्ते- व्यष्टिपञ्चाक्षरीरूपानन्दौन्मुख्यसूक्ष्मबहिर्मुखस्थूलोद्यमक्रियास्वभ अवपरादीच्छाज्ञानक्रियात्मकशान्त्यतीताद्युपकल्पितपञ्चकृत्यपरिनियाम कत्वे सति, पञ्चाक्षरीसमष्टिप्रणवरूपचिन्मयशान्त्यतीतोत्तरासमरसत्त्वे सति, आनन्दज्ञानसत्याभिन्नमहासादाख्यशिवसादाख्यलक्षणनिष्कलामूर्तसा दाख्यमूर्तसादाख्यरूपनिष्कलसकलकर्तृसादाख्यकर्मसादाख्यरूपसकल् अभावप्राणेष्टलक्षणत्रिविधविलासासादितमहालि᳚न्गादिषड्विधविलासव् अत्त्वे सति, सर्वपदार्थानुसन्धातृहृदयगोप्यमुखविलासित्त्वे सति, शब्दादिप्रतिनियतपदार्थानुसन्धानकृत-प्रकटेशान-तत्पुरुषा-घोर- वामदेव-सद्योजात-मुखविलासित्त्वे सति,
SK
पृ० ३८) नित्यत्त्वपरिपूर्णत्त्वनिरस्तसमस्तोपप्लवकल᳚न्कत्त्वं महालि᳚न्गत्वम्, तदेव ब्रह्मत्त्वमिति लक्षणम् | लक्षणं हि केवलव्यतिरेकिधर्मः | स चेतरव्यावर्तकः | ननु प्रपञ्चमात्रस्य ब्रह्मात्मकत्त्वेन कथमितरव्यावृत्तिरिति चेन्न, प्रपञ्चस्य विशिष्टब्रह्मोपादानकत्त्वेन विशिष्टब्रह्माभेदेऽपि शुद्धावन्यत्त्वेनेतरव्यावृत्तिसम्भवेन तदर्थं लक्षणस्यावश्यकत्त्वाद्व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम् || अत्र जीव ईशो विशुद्धचिदिति चित्त्त्त्रैविध्यं केचिदुपवर्णयन्ति | वयन्तु अ᳚न्गलि᳚न्गस्थलमिति वदामः | तत्र स्थलशब्द आश्रयवाची, तत्र नित्यसम्बद्धा शक्तिः पूज्यपूजकलीलया न्यूनाधिकभावापन्ना सती स्थलस्य लि᳚न्गा᳚न्गभावेन द्वैविध्यमापादयतीत्य᳚न्गतत्त्वाद्व्यावृत्तिर्लक्षणस्य प्रयोजनमिति ब्रूमः || अत्र लक्षणे भावार्थकप्रत्ययान्तानां प्रत्येकं व्यावर्तकत्त्वेऽपि विशिष्टोपासनाप्रकरणपठितयावद्गुणवत्वनियमस्यागमेषूपपादितत्वा द्वैश्वानराद्युपासना᳚न्गत्वेन यावद्गुणवैशिष्ट्यवद्यावतां विशेषणानां सार्थक्यम् || गुणविशिष्टोपासना निर्गुणोपासनोपकारिकेति निर्विशेषब्रह्मवादिनः | �एष आत्मापहतपाप्मा विजरोविमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः || सत्यात्मप्राणारामं मन आनन्दम् || परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चे� त्यादि श्रवणात्, �अथवानन्तकल्याणगुणैकघन ईश्वरः | शिव इत्युच्यते सद्भिः शिवतत्वार्थवेदिभि� रिति स्मरणाच्च, विधिसमर्पितयावद्गुणविशिष्टोपासनायाः स्वतः पुरुषार्थसाधनत्वमिति वस्तुतत्वम् | नकारस्तारकस्थानं मकारो दण्ड उच्यते | शिकारः कुण्डलाकारो वकारश्चार्धचन्द्रकः || यकारो बिन्दुरूपो य ऊं कारः पञ्चवर्णकः |
SK
पृ० ३९) इत्यादिकं पञ्चाक्षरीव्यष्टिनकारादीनां प्रणवाकारावयवतारकदण्डकुण्डलार्धचन्द्रबिन्दुभेदोपवर्णने प्रमाणम् | विस्तुरस्तु चिदम्बरोपनिषदादिषु द्रष्टव्यः | योगपातञ्जलेऽपि �क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः | तत्र निरतिशयं सार्वज्ञ्यबीजम् | स पूर्वेषामपि गुरुः कालेनानवच्छेदात् | तस्य वाचकः प्रणवः | तज्जपस्तदर्थभावनमि� ति पञ्चसूत्रीप्रक्रियया च प्रणवस्य तद्वाच्यलि᳚न्गतत्त्वस्य च नित्यसम्बन्धो वर्णितः | श्रुत्यापि �यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः | तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ||� इति सद्योजातादिपञ्चब्रह्ममन्त्रैः प्रकटपञ्चमुखविलासित्त्वमुपवर्णितम् | �यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तप� इति सर्वज्ञत्त्वमुपवर्णितम् | तच्च बाह्यकरणानपेक्षनित्यापरोक्षनिष्कल᳚न्कानुभवविषयनिखिलवस्तुत्वम् | अनेन सकलचेतनबहुविधकर्मभोगानुकुलतत्तच्छरीरनिर्माणपटीयस्त्वमुक्तम् | �आनन्दो ब्रह्मे�ति श्रुतेर्नित्यतृप्तत्वं सिध्यति | तच्च निरस्तसमस्तोपप्लवकल᳚न्कनिरतिशयानन्दपरिपूर्णत्वरूपम् | नित्यज्ञानत्त्वमनादिबोधत्त्वम् | शत्यं ज्ञानमनन्तं ब्रह्मे�ति सामानाधिकरण्यात् सिद्धम् | �विद्याविद्ये ईशते यस्तु सोऽन्य� इति श्रुतेः स्वातन्त्र्यं सिध्यति | तच्चान्यप्रेष्यत्वकार्पण्यरहितत्त्वे सति वशीकृतस्वेतरसकलवस्तुत्त्वरूपम् | परास्य शक्तिर्विविधैव श्रूयते | आकाशशरीरं ब्रह्म | सत्यात्त्मप्राणारामं मन आनन्दं | शान्तिसमृद्धममृत� मित्यादिना अनन्तशक्तिकत्त्वं सिद्धम् | तच्चापरिमितानन्तशक्तिविशिष्टत्वरूपम् | एवमन्यान्यपि लक्षणशरीरप्रविष्टान्यर्थजातानि तत्र तत्र द्रष्टव्यानि || लक्षणान्तर्गतमहालि᳚न्गादिलक्षणानीत्थं विमर्शनीयानि- मूलप्रणवाभिन्नसूक्ष्मकार्यकारणप्रपञ्चोपादानकारणचिच्छक्त्यपरप र्यायशान्त्यतीतोत्तरकलासमरसत्वे सति, महासादाख्यनिष्कलभावलि᳚न्गाभिन्न पञ्चकृत्यपरिनियामकत्त्वे सति,
SK
शुद्धसर्वपदार्थानुसन्धातृहृदयलक्षणगोप्यमुखविलासित्त्वं महालि᳚न्गत्वम् || १ || आनन्दरूपपराशक्त्यपरपर्याय-
SK
पृ० ४०) यकारमन्त्रमयशान्त्यतीतकलासमरसत्त्वे सति, शिवसादाख्यनिष्कलभावलि᳚न्गाभिन्नप्रतिनियतशब्दविषयपदार्थानुसन्ध् आतृप्रकटेशानमुखविलासित्त्वं प्रसादलि᳚न्गत्वम् || २ || औन्मुख्यलक्षणादिशक्त्यभिन्नवाकाराभिन्नमन्त्रमयशान्तिकलासमरसत्त्वे सति, अमूर्तसादाख्यनिष्कलसकलप्राणलि᳚न्गाभिन्नप्रतिनियतस्पर्शविषयपदार्त् हानुसन्धातृप्रकटतत्पुरुषमुखविलासित्वं ज᳚न्गमलि᳚न्गत्वम् || ३ || सूक्ष्मक्रियेच्छाशक्त्यपरपर्यायशिकारमन्त्रमयविद्याकलासमरसत्वे सति, मूर्तसादाख्यनिष्कलसकलप्राणलि᳚न्गाभिन्नप्रतिनियतरूपपदार्थानुसन्ध् आतृप्रकटाघोरमुखविलासित्त्वं शिवलि᳚न्गत्वं || ४ || बहिर्मुखज्ञानशक्त्यपरपर्यायमकारमन्त्रमयप्रतिष्ठाकलासमरसत्त्वे सति, कर्तृसादाख्यसकलेष्टलि᳚न्गाभिन्नप्रतिनियतरसपदार्थानुसन्धातृप्रक. तवामदेवमुखविलासित्त्वं गुरुलि᳚न्गत्वम् || ५ || मूलोद्यमक्रियाशक्त्यपरपर्यायनकारमन्त्रमयनिवृत्तिकलासमरसत्वे सति, कर्मसादाख्यसकलेष्टलि᳚न्गाभिन्नप्रतिनियतगन्धविषयानुसन्धातृप्रकट् असद्योजातमुखविलासित्वमाचारलि᳚न्गत्वम् || ६ || एषाञ्च लक्षणानां सर्वत्र लक्ष्ये समन्वयः | नन्वेवं लक्षणलक्षितं लि᳚न्गतत्वं प्रसिद्धमप्रसिद्धं वा ? आद्ये, प्रसिद्धविषयविचारार्थं प्रबन्धो नारम्भणीयः, सिद्धसाधनापत्तेः | द्वितीयेऽपि, शशशृ᳚न्गायमाणविषयविचारार्थं प्रबन्धो नारम्भणीयः, विचारस्य व्यर्थत्वादिति चेन्न, यथाविध्यधीतवेदागमस᳚न्गृहीतपदपदार्थस᳚न्गतिकस्य �ब्रह्मविदाप्नोति पर�मित्यादिना परमपुरुषार्थसाधनतत्वस्वरूपे सामान्यतः परिज्ञाते �अन्नं ब्रह्म | प्राणो ब्रह्म | मनो ब्रह्म | विज्ञानं ब्रह्म | आनन्दो ब्रह्मे�त्यादाविव, सामान्यतो लि᳚न्गतत्वपरिज्ञाने सत्यपि भावलि᳚न्गं प्राणलि᳚न्गमिष्टलि᳚न्गं प्रसादलि᳚न्गं शिवलि᳚न्गं गुरुलि᳚न्गमाचारलि᳚न्गमिति बहूनां लि᳚न्गतत्वानां श्रवणात्, तथा �एकमेव परं ब्रह्म परमानन्दलक्षणम् | शिवतत्वं शिवाचार्याः
SK
स्थलमित्याहुरादरात्� इत्यादावद्वितीयत्वश्रवणाच्च, लि᳚न्गतत्वं किमेकमनेकं वेति सन्देहे, तथा �अथवानन्तकल्याणगुणैकघन ईश्वरः� इत्यादिना कल्याण-
SK
पृ० ४१) गुणपरिपूर्णत्वश्रवणात्, ङिर्गुणं निष्क्रियं शान्त�मित्यादिना निर्गुणत्वश्रवणाच्च, लि᳚न्गतत्वं सगुणं निर्गुणं वेत्यादिबहुविधसन्देहदोलासमारूढमनस्थैर्यसमर्पकाविरोधफलकपरम अर्थप्रबन्ध आरम्भणीयः | तथाच सकलचिदचित्प्रपञ्चाकारषडक्षरीमयपरमशक्तिविशिष्टाद्वितीयवैभव् अस्य, सकलनिमागमसाररहस्यनिधानस्य भवशर्वरुद्रपशुपत्युग्रमहादेवभीमेशानात्मकाष्टाभिधानशक्तिप्रक अशितपरममहिमविलासस्य, स्वविभूतिविशेषनिखिलचेतनसमुपासनानुगुणसमुदितनिजप्रसादसमर्पितपुर् उषार्थसार्थस्य, लि᳚न्गतत्वस्या᳚न्गतत्वाभेदप्रतिपादकशास्त्रार्थविचारो निगमागमैरेव कर्तव्य इति श्रोतव्यवाक्यान्नियमः सिध्यति | ततश्च �जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक� इत्यादिश्रवणात्, भिन्नात्मज्ञानान्मुक्तिरिति भ्रमसम्भवेन मुक्तिसाधनज्ञानाय भिन्नात्मप्रतिपादकशास्त्रान्तरश्रवणेऽपि प्रवृत्तिः स्यादिति तद्व्यावृत्तिः फलं सिध्यति | ननूपक्रमोपसंहारादितात्पर्यग्राहकैरेवाद्वितीये वस्तुनि सर्वेषां निगमागमवाक्यानां समन्वयाद्भिन्नात्मप्रतिपादकशास्त्रविचारस्य व्यावृत्तिः सिध्यतीति न तन्नियमः फलमिति चेन्मन्त्रैरैव मन्त्रार्थस्मृतिर्यथाकल्पसूत्रात्मीयग्रहणकवाक्यादीनामपि पक्षतः प्राप्तौ तद्व्यावृत्तिं सम्पादयति, तद्वदत्रापि श्रोतव्यविधिः पौरुषेयप्रबन्धभाषाप्रबन्धानामपि पक्षतः प्राप्तौ तद्व्यावृत्तिं सम्पादयतीति तन्नियमविधिफलम् | पौरुषेयप्रबन्धभाषाप्रबन्धादीनां फलन्तु निगमागमार्थग्रहणासमर्थस्य चित्तशुद्धिवैराग्यादिसम्पादकत्वेन कालान्तरीयनिगमागमार्थरहस्यविचारद्वारा मोक्षसाधनमिति वस्तुस्थितिः || एवंविधलि᳚न्गतत्वस्या᳚न्गतत्वस्य च सामरस्यं शास्त्रस्य विषय इति लि᳚न्गतत्वनिरूपणानन्तरम᳚न्गतत्वमभिधीयते | तल्लक्षणानितु- गुरुलि᳚न्गज᳚न्गमैक्यज्ञानतदर्पितपरमोपादेयप्रसादस्वीकारसुखपरिणमन् अ,
SK
तद्विषयकक्रमिकावञ्चनावश्यकतनुमनोधनत्यागरूपयोगभोगसाक्षिलक्ष णैक्य-शरण-प्राणलि᳚न्गि-प्रसादि-माहेश्वर-भक्त-लीलापादक-
SK
पृ० ४२) समरसानन्दानुभवावधाननिष्ठाश्रद्धालक्षणषड्भक्ति, भावज्ञानमनोऽह᳚न्कारबुद्धिचित्तान्तःकरणषट्कज्ञानेन्द्रियषड्विषय तृप्तिवाचकषडक्षरकर्मेन्द्रियतन्मात्रसद्भावसुज्ञानसुमनोनिरह᳚न्कारस् उबुद्धिसुचित्तषट्करूपशक्तिमत्वम᳚न्गत्वम् || १ || तत्र माहेश्वरलीलाकल्पितस᳚न्कुचितचिदादिशक्तिस्वभावसूक्ष्मरूपमानसव्योमव अयुतेजोजलावन्युपहितत्वे सति, ऊर्ध्वसृष्टिविभागनिबन्धनभेदप्रदशुद्धविद्याप्रकाशित्वमुपासकत्वम् || तस्योपासकस्य भक्तत्वादिभेदस्त्वित्थम्- गुरुलि᳚न्गज᳚न्गमैक्यधीपूर्वकभस्मरुद्राक्षादिशिवलाञ्छनशिवशरणवि षयतत्तन्माहात्म्यज्ञानोपहितनिरतिशयदृढप्रेमवत्वं भक्तत्वम् || १ || शिवनिरूपिततादात्म्यसंबन्धावच्छिन्नगुरुलि᳚न्गज᳚न्गमैक्यनिष्ठाधिष्ठ् इतत्वं माहेश्वरत्वम् || २ || गुरुलि᳚न्गज᳚न्गमपादोदकप्रसादभूतिरुद्राक्षमन्त्रलक्षणाष्टावरणपँ न्चाचारविषयकविस्मृतिशून्यावधानवत्वं प्रसादित्वम् || ३ || व्याध्यादिविघ्नानुल्ल᳚न्घितपादोदकप्रसादवत्वे सति, तदनन्यभोगित्वे सति, प्राणलि᳚न्गतादात्म्याभिनिवेशविशेषशालित्वं प्राणलि᳚न्गित्वम् || ४ || प्राणलि᳚न्गोभयविषयकसतीपतिभावापादितस्वाधिकरणसतीत्ववत्वे सति, स्वोपभोग्यसत्यन्तराभावप्रकारकज्ञाननिवृत्तसत्यन्तरभोगवत्वे सति, स्वचिच्छक्तिसम्मेलनानन्दभरितत्वे सति, निवृत्तिमार्गावलम्बभक्तिज्ञानवैराग्यभरितत्वं शरणत्वम् || ५ || सतीपतिभावनिवृत्यनन्तरभावनिर्भारत्वनिराभारत्वनिर्विकल्पत्वार्जितश् इवसर्वात्म्यविमर्शलक्षणशिखिकर्पूरयोगोपमितान्तर्मुखमहालि᳚न्गैकलोलत् वमैक्यत्वम् || ६ || आत्मा द्रष्टव्य इत्यादिना मोक्षसाधनस्योपक्रमोपसंहारादितात्पर्यलि᳚न्गोपस्थापितसमन्वयानुगुणाब् हिन्नात्मज्ञानस्य श्रवणमनननिदिध्यासनारूपोपासनारूपत्वेन, तदपेक्षितोपास्यप्राणभूतलि᳚न्गतत्वस्वरूपमभिधाय, तद᳚न्गनिरूपणमुखेन तस्मिन्नुपासकत्वमप्यभिधायोपासनाप्रकारस्तावदभिधीयते-लि᳚न्गतत्वस्य शरणतत्वम᳚न्गं; शरणस्य
SK
लि᳚न्गं प्राण इति बीजवृक्षन्यायेन स᳚न्कोचविकासाभ्यामभेदप्र-
SK
पृ० ४३) तिपत्तिनैरन्तर्यं सामान्यतोऽ᳚न्गतत्वस्य षड्विधलि᳚न्गतत्वसाम्यभावनारूपा प्राथमिकोपासना | एवंविधशरणस्य स्वविमर्शलक्षणगुरुकटाक्षसम्प्राप्तोपासनारूपस्वात्म्यप्रत्यभिज्ञानश् आलिनो बाह्येन्द्रियलक्षणश्रोत्राद्येकैकेन्द्रियविषयशब्दादिसकलपदार्थानुभवस् आधनान्तर्मुखमनोवृक्षस्य प्रणवरूपोक्तलक्षणमहालि᳚न्गाख्यबीजस्य चाभेदप्रतिपत्तिनैरन्तर्यं विशेषोपासना प्राथमिकी || १ || विवक्षाध्यवसायोक्तिरूपपश्यन्त्यादिक्रमिकानुग्रहहेतुनादसुनादमहानादर् ऊपदेशिकवाक्यलक्षणशास्त्रश्रवणसाधनश्रोत्रस्य यकाररूपप्रसादलि᳚न्गस्य च बीजवृक्षवदभेदप्रतिपत्तिनैरन्तर्यं विशेषोपासना द्वितीया || २ || चरलि᳚न्गज᳚न्गमलि᳚न्गमितिपर्यायशब्दोपस्थापितस्य शीतोष्णादिस्पर्शपदार्थग्रहणसाधनीभूतसर्वा᳚न्गव्यापि त्वगिन्द्रियं वाकारमयज᳚न्गमलि᳚न्गमित्यभेदप्रतिपत्तिनैरन्तर्यं विशेषोपासना तृतीया || ३ || नेत्रगोलकानुप्रविष्टसकलरूपपदार्थप्रकाशनसाधनमहाप्रकाशो नेत्रमेव शिकारमयशिवलि᳚न्गमित्यभेदप्रतिपत्तिनैरन्तर्यं विशेषोपासना चतुर्थी || ४ || मधुरादिषड्रसभावापन्नगुरुमूर्तिस्वरूपषडक्षरीमन्त्रोच्चारणरसास् वादसाधनं जिह्वैव मकारमयगुरुलि᳚न्गमित्यभेदप्रतिपत्तिनैरन्तर्यं विशेषोपासना पञ्चमी || ५ || ईडापि᳚न्गलाख्यनाडीद्वयद्वारकप्राणवायुसञ्चाराश्रयसत्कर्माचरण हेतुभूतदेहशुद्धिरूपरेचकादिक्रमोत्पन्नप्राणायामाचरणसाधनं घ्राणमेव नकारमयाचारलि᳚न्गमित्यभेदप्रतिपत्तिनैरन्तर्यं विशेषोपासना षष्ठी || ६ || तथा च सामान्यविशेषभेदभावना द्विविधाप्युपासना षड्विधा भवतीति षड्विधा अप्युपासनाः प्रकाशिताः | ननु षड्विधोपासनावष्टम्भाद्देहोपाधिनिवृत्यनन्तरं सप्तदशतत्वात्मकस्थूलोपाधेस्तन्मूलपाशरूपकारणशरीरस्य च नामरूपात्मकस्य लि᳚न्गतत्वे किमैक्यं नाम हिरण्ये कटकमुकुटादीनामिव मृत्पिण्डादौ घटादिनामिव निवृत्तिः ? काचकामलादिदोषकल्पितस्य शुक्तिकादौ रजतादेरिव
SK
निद्रावशाज्जिवात्मस्वाप्निकप्रपञ्चस्येवाधिष्ठानतत्वसाक्षात्काराद्वा बाधः ? नाद्यः, हिरण्यमृदादौ कारणे
SK
पृ० ४४) निवृत्तस्य नामरूपात्मककटकमकुटघटकपालादिप्रपञ्चस्य कालान्तरे स्वर्णकारकुम्भकारादितत्तत्कर्तृव्यापाराधीना पुनर्जनिरिव मुक्तस्य कारणात्मनावस्थितस्य पुनः संसारित्वापत्तेः | नापि द्वितीयः, लि᳚न्गतत्वसाक्षात्कारस्य प्रपञ्चपरिणाम्युपादानकारणनिवृत्तिनिबन्धनत्वेन त्वन्मते प्रपञ्चपरिणामिन्याः शक्तेः परमतत्वधर्मरूपाया नाशाभ्युपगमासम्भवात् | न च शिखिकर्पूरयोगवत्पूर्वभावनिवृत्तिरिति वाच्यं, तत्रापि भूतविशेषकर्पूरस्य स्वकारणे तेजसि निवृत्तिसद्भावापत्तिरिति कारणात्मनावस्थानान्नातिरिच्यते | बीजवृक्षन्यायोऽपि ङ्यग्रोधफलमत आहरे� त्यादिना श्वेतकेतुं प्रति नवकृत्वः पुनः पुनर्दृष्टान्तैः �महान् न्यग्रोधस्तिष्ठती� त्यन्तेन शन्मूलाः सौम्येयाः सर्वाः प्रजा� इति सत्कार्यत्व प्रतिपादने पर्यवसित इति सच्छब्दवाच्यलि᳚न्गतत्वेऽ᳚न्गतत्वस्य बाध इत्यपि वक्तुमशक्यत्वात् | तर्हि किन्नाम सामरस्यमिति चेन्न | अनिर्वचनीयां ख्यातिम᳚न्गीकृत्य अनादिसान्तमायालि᳚न्गतत्वसम्बन्धस्य जगदात्मना परिणमनस्य चा᳚न्गीकारेऽप्येकत्रिंशत्तममायातत्वस्य तद्विशेषरूपाविद्यायाश्च सद्भावात्तद्विरोधिविद्योदयेन पाशशाब्दिताविद्यानिवृत्तौ जडानां चेतनानाञ्च कारणीभूतसदात्मना-वस्थानं सामरस्यम् | पाशनिवृत्तिश्चाधिकरणात्मिकैव | एतेन का पुनः पाशनिवृत्तिः, सद्रूपा असद्रूपा वा सदसद्रूपा वा ? नाद्यः, अद्वितीयत्वहानिप्रस᳚न्गात् | न द्वितीयः, पाशनिवृत्तेरसद्रूपत्वे विद्यायाः फलाभावप्रस᳚न्गात् | न तृतीयः, बद्धमुक्तयोरनिर्वचनीयसम्बन्धानुवृत्तेरविशेषप्रस᳚न्ग इत्यादि निरस्तम् | तथा च मनःश्रोत्रत्व᳚न्नेत्ररसनाघ्राणलक्षणषडिन्द्रियाणां ज्ञानकरणानां जडानां चेतने महालि᳚न्गप्रसादलि᳚न्गज᳚न्गमलि᳚न्गशिवलि᳚न्गगुरुलि᳚न्गाचारलि᳚न्गलक्षणे बीजवृक्षन्यायेन कारणात्मनावस्थानरूपसामरस्यानुसन्धानलक्षणोपासनाप्रतिपादनेन चेतनादुत्पन्नानामचेतनानां पुनश्चेतनतापत्तौ पर्यवसानम् | ततो जडेषु करणेषु लि᳚न्गशब्दव्यवहारोऽपि
SK
षण्णां तत्तदवच्छिन्नचैतन्यानां प्रमाणचैतन्याख्यानामुक्तरीत्या
SK
पृ० ४५) जडोपाधिनिवृत्तौ पूर्वभावापत्याभिप्रायसूचनार्थः | ततो निवृत्तिप्रतिष्ठाविद्याशान्तिशान्त्यतीतशान्त्यतीतोत्तराभिः षड्भिः कलाभिः सहाचारलि᳚न्गगुरुलि᳚न्गशिवलि᳚न्गज᳚न्गमलि᳚न्गप्रसादलि᳚न्गमहालि᳚न्गान्येव घ्राणजिह्वानेत्रत्वक्श्रोत्रमानसैः सह भक्तमाहेश्वरप्रसादिप्राणलि᳚न्गिशरणैक्यरूपतामासाद्य गन्धरसरूपस्पर्शशब्दसर्वग्राहकत्वेन घ्रातृरसयितृद्रष्टृस्प्रष्टृश्रोतृसर्वगृहीतत्वेन षड्भेदमापन्नानि प्रमातृलि᳚न्गतत्वाभिन्नानीति सामान्यतः प्रमातृविषयिणी विशिष्टोपासना प्राथमिकी | एवं घ्रात्रादिरूपेण तत्तत्प्रमातृविशेषाभेदोपासनाः षडपि यथासम्भवमुक्तक्रमेण तद्विशिष्टत्वेनोहनीयाः || एतासामुपासनानां फलन्तु पाशनिवृत्तिः | पाशस्तु पशुधर्मः | पशुत्वन्तु काष्ठगताग्निविस्फुलि᳚न्गवदीश्वरचिकीर्षासादितभेदवत्वे सति, ईश्वरमायावष्टब्धवासनाप्रतिबिम्बितत्वाणवकार्ममायिकमलावृतत्वे सति, सर्वकर्तृत्वसर्वज्ञत्वपरिपूर्णत्वनित्यत्वव्यापकत्वविलक्षणकिञ्चित्कर्तृ त्वकिञ्चिज्ज्ञत्वापूर्णत्वानित्यत्वाव्यापकत्वापादितकलाविद्यारागकालनियत् इरूपपञ्चकञ्चुकवत्वे सति, औन्मुख्यगर्भितेच्छा शक्तिस्फुरितज्ञानक्रियान्याऽन्यभावलक्षणमायाप्रतिस्फुरितसुखदुःख मोहप्रदसत्वरजस्तमस्साम्यावस्थालक्षणपञ्चविंशतितत्वरूप पाशवत्वम् | तदेव जीवत्वम् || ननु पशुशब्दितोऽयं जीव एकोऽनेको वा ? आद्ये एको जीवः, एकमेव च शरीरं सजीवं, अन्यानि तु स्वप्नावस्थोपकल्पितविचित्र तरशरीरवन्निर्जीवानि | तदज्ञानपरिकल्पितञ्च सर्वं जगत्स्वप्नोपलब्धि विषयवद्यावदविद्यावस्थायि, तावदेव च सर्वो व्यवहारः | बद्धो मुक्त इति व्यवहारोऽपि स्वाप्नपुरुषान्तरमुक्त्यादिकमिव कल्पित एव जीवस्यैकत्वादिति केचिदाहुस्तन्न, �अधिकन्तु भेदनिर्देशात्� �लोकवत्तुलीलाकैवल्यम्� �अंशोनानाव्यपदेशात्� इत्यादिसूत्रैर्विरोधात् | तथा च हिरण्यगर्भ एको मुख्यो जीवः, अन्ये तु चित्रपटलिखितमनुष्यदेहार्पितपटाभासकल्पास्तत्प्रतिबिंबभूता
SK
पृ० ४६) जीवाभासास्संसारादिभाज इति सविशेषानेकशरीरैकजीववादिनः || तदपि न, हिरण्यगर्भस्य मुख्यजीवाभिमतस्य बिम्बभूतस्य प्रतिकल्पं भेदात्कस्य हिरण्यगर्भस्य तथात्वमित्यत्र नियामकाभावात् | एवमेक एव जीवः सर्वशरीरमधितिष्ठतीति निर्विशेषानेकशरीरैकजीववादिनः | नच तथा सति शरीरावयवभेदाच्छरीरभेदे सत्यपि परस्परसुखदुःखाद्यनुसन्धानप्रस᳚न्गः, जन्मान्तरसुखदुःखाद्यनुसन्धानवज्जीवैक्येऽपि परस्परसुखदुःखाद्यननुसन्धानोपपत्तेः | ननु योगिनां कायव्यूहवशेन सुखदुःखाद्यनुसन्धानदर्शनाच्छरीरभेदेऽपि जीवैक्येन सुखदुःखाद्यनुसन्धानवत्वेन, नैयत्वं कल्प्यत इति चेन्न, योगमहिम्ना व्यवहितार्थग्रहणवत्तस्यानुदाहरणत्वात् | ततो निर्विशेषानेकशरीरैकजीववादः स᳚न्गत इति तदप्यापातरमणीयम्, बद्धमुक्तव्यवस्थाभावस्य तुल्यत्वात् | �तद्यो देवानां प्रत्यबुद्ध्यत स एव तदभवदि�त्यादिश्रुतेः, �प्रतिषेधादिति चेन्न शारीरादि�त्यधिकरणे शुकमुक्तत्वप्रतिपादकभाष्यविरोधाच्च | एतेन, अविद्याप्रतिबिम्बभूतो जीव एकः, अविद्यावच्छिन्नो जीव एक इति पक्षद्वयेप्येकजीववादो निरस्तः || द्वितीयेऽप्यन्तःकरणस्य जीवोपाधित्वम᳚न्गीकृत्य, अनेकजीववादानुसारेण बद्धमुक्तव्यवस्थायामपि तेषां जीवानां ब्रह्म- विद्यानिवर्त्यमज्ञानमेकमनेकं वेति विषये तत्र केचित्- शुद्धब्रह्माश्रयविषयमेकमेवाज्ञानं तन्नाश एव च मोक्षः | न च तथासत्येकस्मिन्साधनसम्पन्ने विद्योदयेनाज्ञाननाशात्सर्वमुक्तिप्रस᳚न्गः, एकस्यैवाज्ञानस्य सांशत्वमभ्युपगम्य, जीवन्मुक्ततादशायां अज्ञानलेशानुवृत्त्यभ्युपगमात्सांशस्याज्ञानस्य क्वचिदुपाधावन्तःकरणे ब्रह्मावगमोत्पत्तावंशेनैव निवृत्तिः, तत उपाध्यन्तरेषु यथापूर्वमनुवृत्तिरिति वक्तुं शक्यत्वात्, ततस्सांशमेवाज्ञानमेकमेवेत्याहुः; तन्न, एकस्याज्ञानस्यांशनानात्वाभ्युपगमे बहुतरांशनाशकल्पनायां गौरवात् | निरंशमेकमेवाज्ञानमिति पक्षस्त्वित्थं निर्वहणीयः- न्यायैकदेशिमते
SK
भूतले घटात्यन्ताभावस्य वृत्तौ घटसंयोगाभावो नियामकः, तथा च सत्यनेकेषु प्रदेशेषु संसृज्य
SK
पृ० ४७) वर्तमानो घटात्यन्ताभावः क्वचित्प्रदेशविशेषे घटसंयोगोत्पत्त्या स्वानिवृत्तौ न संसृज्यते, एवमज्ञानस्य चैतन्ये वृत्तौ मनो नियामकमिति तदुपाधिना चैतन्यप्रदेशेषु संसृज्य वर्तमानमज्ञानं ब्रह्मदर्शनोत्पत्त्या �भिद्यते हृदयग्रन्थि� रित्यादिश्रुत्युक्तरीत्या मनसो निवृत्तौ न संसृज्यते, अन्यत्र यथापूर्वमवतिष्ठते | अज्ञानसंसर्गासंसर्गावेवबन्धमोक्षाविति निरंशमेवाज्ञानमिति | तन्न, मय्यज्ञानमस्तीति भावरूपेणाज्ञानमनुभूयत इति भावरूपाज्ञानस्य वृत्तौ मनःसम्बन्धस्य नियामकत्वकल्पनायां दृष्टान्तवैषम्यात्; मय्यज्ञानमस्तीति जीवाश्रयत्वेन अनुभूयमानत्वाच्च | ब्रह्माश्रयत्वे च जीवाविशेषाद्ब्रह्मणोऽपि बद्धत्वप्रस᳚न्गः | नह्यधिष्ठानत्वेन ब्रह्मणोऽज्ञानाश्रयत्वं बद्धत्वापादकं, जीवस्य तु ममेदमिति कर्तृत्वेनाज्ञानाश्रयत्वस्य बद्धत्वव्यवस्थापनात् | ततो नाज्ञानं शुद्धचैतन्याश्रयं किन्तु जीवाश्रयं ब्रह्मविषयं | तच्चान्तःकरणप्रतिबिंबरूपेषु सर्वजीवेषु व्यक्तिषु जातिवद्भावरूपेण प्रत्येकपर्यवसिततया वर्तमानमुत्पन्नविद्यं कञ्चिदेव पुरुषं नष्टां व्यक्तिं जातिरिव त्यजति, स चाज्ञानत्यागेव पाशविच्छेदलक्षणो मोक्षः | अन्यत्रोपाध्यन्तरेषु व्यक्तन्तरेषु जातिरिव यथापूर्वमाश्रयतीति दृष्टान्तावैषम्याद्भावरूपाज्ञानं निरंशमेकमेवेति | तदपि न, दृष्टान्ते जातेर्नित्यत्वेन नष्टां व्यक्तिं विसृजत्यपि स्वयमाश्रयनाशात्, तत्संसर्गरहिता सर्वत्र वर्तते न नश्यति | तद्वदत्रापि स्वाश्रयजीवनाशे सति तं त्यजति नित्यत्वेन स्वयं वर्तत इति वक्तुमशक्यत्वेन तत्रापि दृष्टान्तवैषम्यात् | ततः प्रतिजीवं भिन्नभिन्नमज्ञानमभ्युपगम्य बद्धमुक्तव्यवस्थायाः समर्थनीयत्वेनाज्ञानशब्दितस्यापि पाशस्य नानात्वमिति वस्तुस्थितिः | नन्वस्मिन्पाशनानात्वपक्षे कस्य जीवस्य पाशेन प्रपञ्चः कृत इति चेद्विनिगमनाविरहात्सर्वपाशकृतोऽयं प्रपञ्चः, अनेकतन्त्वारब्धपटवत् | एकस्य पाशविच्छेदे एकतन्तुनाशे तत्साधारणपटनाशवत्
SK
| तत्साधारणप्रपञ्चनाशः | तथैव तन्त्वन्तरैः पटान्तरसद्भाव इव पाशान्तरारब्धः पृ० ४८) सकलेतरसाधारणप्रपञ्चान्तरसद्भाव उपपद्यत इति प्रकृतमनुसरामः || तदेवं पाशनानात्वपक्षानुसारेण प्रपञ्चस्याशेषजीवाविद्यापरिकल्पितत्वप्रतिपादनात्प्रतिजीवं भिन्न भिन्नमज्ञानं पुरस्कृत्य बन्धमोक्षयोरुपपादनसम्भवेन, तस्य चाज्ञानस्य जातेरिव नित्यत्वप्रतिपादनानौचित्यात्, तत्संसर्गासंसर्गावेव बन्धमोक्षाविति भावरूपमेकमेवाज्ञानं कर्तृत्वेन जीवाश्रयं ब्रह्मविषयं, तदवच्छिन्नो जीवो नाना | अन्तःकरणमेव जीवोपाधिः, तदुपहितोपजीवः पशुः | पाशश्चोक्तलक्षणानुसारेण मायाप्रतिस्फुरितसुखदुःखमोहप्रदसत्वरजस्तमस्साम्यावस्थालक्षणपञ्च् अविंशतितत्वरूपः | पाशनिवृत्तिस्तु लि᳚न्गा᳚न्गसामरस्य विषयकोक्तद्वादशविधोपासनानिबन्धना | तद्द्वारा पञ्चाचाराष्टावरणविशिष्टस्याधिकरणात्मिका मुक्तिरिति शक्तिपरिणाम्युपादानकारणवादिवीरशैवसिद्धान्तसरणिरिति सर्वं समञ्जसम् || इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्बोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थल् अतत्त्वबोधसुधा स्वादानन्दसन्दोहप्रदायकाचार्यवर्यश्रीमरितोण्टदार्यविरचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्यकेलदिसदाशिवराय नायकवंशदुग्धार्णवचन्द्रवीरभद्रधरणीन्द्रधर्म्मपत्नीमल्लाम्बाहृ दयानन्दबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे प्रथमं प्रकरणम् || पृ० ४९) वीरशैवानन्दचन्द्रिकायां वादकाण्डे द्वितीयं प्रकरणम्
SK
स्वामिन्नशेषशास्त्रार्थरहस्यज्ञानशेवधे | वीरशैवसभामध्ये मुटिकाक्षेपपूर्वकम् || श्रीवीरशैवसिद्धान्तप्रतिष्ठापनकारिणम् | आदितश्शीलवद्वर्यं भृ᳚न्गी किंकिमभाषत || हासं सभासदां तन्वन् शीलवद्वचनस्य च | प्रकाशयन्वैपरीत्यं काकुवक्त्रक्रियादिभिः || असान्त्वयत्कथं तञ्च शीलवानुचितोक्तिभिः | एतत्सर्वं समाचक्ष्व गुरो मयि दयावशात् || राजन्नभ्यागतत्वेन गुरोस्तद्वादपूर्वकम् | शीलवान् भृ᳚न्गिणः सान्त्वमकरोदिति तद्ब्रुवे || श्रीगुरोः पुरुषार्थचतुष्टयाभ्यर्हितमोक्षासाधारणकारणलि᳚न्गा᳚न्गसामरस्यरु उपविशिष्टाद्वैतज्ञानप्रदातृत्वेन सर्वाभ्यर्हिततया, तदुपसदनस्य, पृ० ५०) �तद्विज्ञानार्थं सगुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठ�मिति मुण्डकोपनिषद्विहितस्य अ᳚न्गाप्तस्थानसद्भावादिरूपस्याभ्यर्हितत्वात्, �यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ | तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन� इति श्वेताश्वतरोपनिषदि गुरोः स्वोपास्येष्टदेवतातादात्म्येन भावनाया गुरूपदिष्टवदनुपदिष्टस्यार्थस्य प्रकाशनसाधनत्वकथनाच्च, गुरुरेव निःश्रेयसार्थिभिर्मुमुक्षुभिर्वीरशैवैः प्रथममुपास्यः | तल्लक्षणन्तु शिवसूत्रवार्तिके- अगाधसंशयाम्बोधितारकानुग्रहप्रदः | परमज्ञानरूपत्वाद् गुरुरेव परः शिवः || शिवधर्मोत्तरे- स एव वन्द्यः परिपूजनीयः स एव माता जगतां पिता च | स एव बन्धुः स गुरुः शिवस्स्यात् ज्ञानामृतं यः परमं प्रदद्यात् || सूतसंहितायां शैवरत्नाकरे च- गुरुमूर्तिः शिवः साक्षान्नान्यथा च सुरेश्वर | वर्तते पादयुग्मे तु त्रैलोक्यं सचराचरम् || इति वचनेन नानाविषयतत्त्वज्ञानप्रयुक्तप्राकृतजनदुर्निवारसकलशास्त्रार्थसंश यनिवर्तकवात्सल्यविशेषप्रणीतानुग्रहकर्तृतया सर्व-
SK
पृ० ५१) शरीरिबन्धुरूपतया परिपूजनीयत्वेन, सचराचरत्रैलोक्याधारपादयुग्मशालितया, शिवाभिन्नत्त्वेन प्रतिपादनाद्गुरुरेव सर्वोत्तरः || ननु पदार्थतत्वज्ञानपूर्वक परमात्मविशेष्यकेतरभिन्नत्वप्रकारकज्ञानमेकविंशतिविधस्वसमानाधि करणदुःखप्रागभावासमानकालीनदुःखध्वंसरूपमोक्षसाधनमिति तार्किका मन्यन्ते || प्रकृतिपुरुषविवेकज्ञानं सात्विकधर्मज्ञानवैराग्यैश्वर्यनिमित्तक प्रकृतिविलयोऽप्रतिहतगतिफलकक्रमिकोर्ध्वगमनरूपमोक्षसाधनमिति निरीश्वरसा᳚न्ख्यसम्प्रदायविदः || पातञ्जलास्तु प्रकृतिंपुरुषोभयाधिष्ठातृत्वेन सकलेन्द्रियसमष्टिव्यष्टिसूत्रात्मनो हिरण्यगर्भस्य तद्व्यतिरिक्तत्वेनापि ज्ञानं मोक्षसाधनमिति मन्यन्ते || चोदनालक्षणधर्मानुष्ठानद्वारा देहात्मभेदज्ञानं दुःखप्रागभावपरिपालनरूपमोक्षसाधनमिति पूर्वमीमांसकाः || पञ्चविधभेदघटितजगत्सत्यत्वज्ञानपूर्वकतारतम्यकृतसेव्यसेवकभाव् अभेदज्ञानपूर्विका सर्वदेवोत्तमत्वेन प्रकृतेः परत्वेन च नारायणे ज्ञानपूर्विका भक्तिर्निरावरणनिजसुखानुभवरूपमोक्षसाधनमिति भेदवादिनो माध्वाः || तापादिपञ्चसंस्कारयुक्ततया वीरवैष्णवत्वं प्राप्य, श्रवणमनननिदिध्यासनद्वारा निखिलप्रपञ्चशरीरस्य परव्यूहविभवार्च्यान्तर्यामि रूपस्य परवासुदेवस्य सर्वशेषत्वेन सर्वशरीरत्वेन भक्तिरूपविशिष्टाद्वैतज्ञानं, अण्डभित्तेरुपर्यप्राकृतवैकुण्ठे अप्राकृतसहस्रस्तम्भमण्डपे द्राविडप्रबन्धकर्तृनम्माल्वर्प्रभृति बहुप्रपन्नाधिष्ठिते सुदर्शनद्वारा ब्रह्माण्डादुद्गत्य विरजामुत्तीर्य, अमानवकरस्पर्शपरिपूततया लक्ष्मीपतित्वरहितेतरसर्वसारूप्यदास्यानुभवनैरन्तर्येणावस्थानरूपम् उक्तिसाधनमिति विशिष्टाद्वैतवादिनो रामानुजाः ||
SK
पृ० ५२) नीलकण्ठत्वत्रिनेत्रत्वोमासाहायत्वचन्द्रशेखरत्वादिविशिष्टनित्यदिव्यम ᳚न्गलविग्रहषड᳚न्गदशाव्ययषड्गुणैश्वर्यपरिपूर्णस्य षट्त्रिंशत्त त्वोत्तीर्णस्वभावसिद्धनित्यनिर्मलनिरतिशयसर्वार्थज्ञानक्रियाशक्तियुक्त तया पञ्चकृत्यपरिनियामकस्य पतिशब्दितस्य परमशिवस्य प्रपञ्चशरीरस्य सर्वशेषत्वरूपविशिष्टाद्वैतज्ञानं, शिवप्रसादजन्यभक्तिद्वारा ब्रह्माण्डाद्बहिः परमपदाख्याप्राकृतकैलासे नन्द्यादिप्रमथगणपरिष्कृते पार्वतीपतित्वरहितपरमशिवसाम्येनावस्थानरूपमोक्षसाधनमिति नीलकण्ठाचार्यमतावलम्बिनः || प्रपञ्चस्यानिर्वचनीयत्वरूपमिथ्यात्वेनान्तःकरणप्रतिबिंबरूपजीवनिर्व् इशेषब्रह्मैक्यज्ञानं, अविद्यानिवृत्तिद्वारा सच्चिदानन्दरूपकूटस्थस्वरूपावाप्तिरूप कैवल्यसाधनमित्यद्वैतवादिनः || इत्येतादृशबहुविधभेदाभेदमुक्तिजनकज्ञानोपदेशकगुरूणां बहूनां विद्यमानत्वाद्वीरमाहेश्वरगुरोरेव सर्वोत्तमत्वमिति कथमध्यवसीयत इति चेदुच्यते, लि᳚न्गा᳚न्गसामरस्यरूपमुक्तिसाधनीभूततत्सामरस्यानुसन्धानस्यासाधार् अणतया मोक्षहेतुत्वेन तादृशविशिष्टाद्वैतज्ञानप्रदायकस्य वीरमाहेश्वरसम्प्रदायप्रवर्तकस्यैकोत्तरशतप्रभेदभिन्नषट्स्थलज्ञा नसम्पन्नस्या᳚न्गलि᳚न्गमुखहस्तशक्तिभक्तिमन्त्रपदार्थाख्याष्टविधार्पण् अरूपमानसानुसन्धानविशेषनिष्ठस्य शान्त्याद्यसाधारणगुरुलक्षणलक्षितस्य गुरोरेवेतरापेक्षयाभ्यर्हितत्वम् | तथाहि सिद्धान्तशिखामणौ- उपैति लोक विख्यातं लोभमोहविवर्जितम् | आत्मतत्त्वविचारज्ञं विमुक्तविषयभ्रमम् || शिवसिद्धान्ततत्त्वज्ञं छिन्नसन्देहविभ्रमम् | सर्वतन्त्रप्रयोगज्ञं धार्मिकं सत्यवादिनम् ||
SK
पृ० ५३) कुलक्रमागताचारं कुमार्गाचारवर्जितम् | शिवध्यानपरं शान्तं शिवतत्त्वविवेकिनम् || भस्मोद्धूलननिष्णातं भस्मतत्त्वविवेकिनम् | त्रिपुण्ड्रधारणोत्कण्ठं धृतरुद्राक्षमालिकम् || लि᳚न्गधारणसंयुक्तं लि᳚न्गपूजापरायणम् | लि᳚न्गा᳚न्गयोगतत्त्वज्ञं निरूढाद्वैतवासनम् || लि᳚न्गा᳚न्गस्थलभेदज्ञं श्रीगुरुं शिववादिनम् | सेवेत परमाचार्यं शिष्यो भक्तिसमन्वितः || इति || �अश्मादिवच्च तदनुपपत्तिः� �अधिकन्तु भेदर्निदेशात्� �अंशो नानाव्यपदेशा�दित्यादिसूत्रैर्यथाश्मनां वैडूर्यसूर्यकान्तप्रभृतीनां पाषाणात्मना अभेदेऽपि व्यक्तिभेदाद्धीनमध्यमोत्तमस्वभावेन स्वरूपवैचित्र्यं कार्यवैचित्र्यञ्च, एवं जीवपरमात्मनोरपि व्यक्तिभेदाद्धीनाधिकभावः कार्यवैचित्र्यञ्चोपपद्यत इत्युक्तम् | नच पाषाणत्वसामान्यमभिन्नं व्यक्तयस्तु भिन्ना एवेति नैकत्र भेदाभेदाविति वाच्यं, पाषाणत्वसामान्यावच्छिन्नप्रतियोगिकभेदाभावरूपाभेदस्य वैदूर्यत्वाद्यवच्छिन्नप्रतियोगिकभेदस्य च व्यक्तिष्वेव सम्प्रतिपन्नत्वात् | न चैवं वज्रवैदूर्ययोरपि सामानाधिकरण्यव्यवहारप्रस᳚न्गः, सामान्याभेदोल्लेखिनस्तस्यावश्याभ्युपेयत्वात्, विशेषाभेदस्यचाभावात् | अत एवेश्वरेऽपि आत्मत्वेनैव जीवाभेददृष्टिः सूत्रिता �आत्मेति तूपगच्छन्ति ग्राहयन्ति चे�ति | एवं स्थलत्वावच्छिप्रतियोगिकभेदाभावरूपाभेदस्य लि᳚न्गा᳚न्गस्थलयोरुभयोर्विद्यमानत्वेनाभिन्नत्वेऽपि, अ᳚न्गत्वलि᳚न्गत्वावच्छिन्नप्रतियोगिकभेदस्योभयत्र विद्यमानत्वेनोभयोर्भिन्नत्वादेकत्रैव भेदाभेदौ स्तः | एवं सविमर्शं सयुक्तिकं लि᳚न्गा᳚न्गसामरस्यरूपविशिष्टाद्वैतज्ञानस्य महालि᳚न्गाभेदरूपमोक्षसाधनत्वात्, एता- पृ० ५४) दृशज्ञानमुक्त्योः पूर्वोक्तवादिव्रातप्रतिपादितज्ञानमुक्त्यपेक्षया सोपपत्तिकत्त्वेनात्यन्ताभ्यर्हितत्त्वात्तदुपदेष्टा वीरशैवगुरुरेव लोकोत्तर इति सिद्धम् ||
SK
इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्बोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थल् अतत्त्वबोधसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यश्रीमरितोण्टदार्यवि रचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्यं केलदिसदाशिवरायनायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द् रधर्मपत्नीमल्लाम्बाहृदयानन्दबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे द्वितीयं प्रकरणम् || पृ० ५५) वीरशैवानन्दचन्द्रिकायां वादकाण्डे तृतीयं प्रकरणम् | वीरशैवगुरूत्कर्षं गुरुवादोक्तिविस्तरैः | श्रुत्वा हृष्टोऽभवं स्वामिन्यदन्यत्तच्च कीर्तय || शृणु राजन् वदाम्यद्य लि᳚न्गधारणवैभवम् | वादरूपेण सुश्राव्यं श्रुत्यागमवचोन्वितम् || वीरशैवमतप्रवृत्तानां लि᳚न्गा᳚न्गसामरस्यानुसन्धानस्यैव मोक्षजनकत्वेनापेक्षिततया तत्रेष्टलि᳚न्गधारणस्यान्तर᳚न्गत्वेनाभ्यर्हितत्वात्तद्धारणे बहूनां प्रमाणानां जागरूकत्वाल्लि᳚न्गधारणमवश्यं कर्तव्यम् || तथाहि वातुलतन्त्रे- अतिस्थिरेण मनसा यावज्जीवं जगद्गुरोः | शिवस्य लि᳚न्गं धत्ते यस्तदेतत्परमं व्रतम् || पारमेश्वरे- सदा विभूतिसम्पर्कात्सदारुद्राक्षधारणात् | धारणान्मम लि᳚न्गस्य सोऽहमेव न संशयः || पृ० ५६) विभूतिर्यस्य फालेऽस्ति कण्ठे लि᳚न्गं मदात्मकम् | रुद्राक्षधारणं देहे सोऽहं देवि न संशयः || विभूतिरपि रुद्राक्षं लि᳚न्गं यस्य त्रयं तनौ | स साक्षाद्रुद्र ईशानि सोऽहमेव न संशयः || सिद्धान्तशेखरे-
SK
लि᳚न्गञ्च त्रिविधं प्रोक्तं स्थूलं सूक्ष्मं परात्परम् | इष्टलि᳚न्गमिदं स्थूलं तद्बहिर्धारयेत्तनौ || प्राणलि᳚न्गन्तु तत्सूक्ष्मं यदन्तर्भावनामयम् || परात्परन्तु यत्प्रोक्तं तृप्तिलि᳚न्गं तदुच्यते | भावनातीतमव्यक्तं परं ब्रह्म शिवाभिधम् || इष्टलि᳚न्गमिदं साक्षादनिष्टपरिहारकम् | धारयेदवधानेन शरीरे सर्वदा बुधः || वातुलतन्त्रे- मूर्ध्नि वा कण्ठदेशे वा कक्षे वक्षस्स्थलेऽपि वा | कुक्षौ हस्तस्थले वापि धारयेल्लि᳚न्गमैश्वरम् || धारयन्नियते देशे पवित्रं लि᳚न्गमैश्वरम् | मूत्राद्युत्सर्जने याने भोजने च सदा शुचिः || गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन्निमिषन्नपि | शुचिर्वाप्यशुचिर्वापि लि᳚न्गं सर्वत्र धारयेत् || इत्याद्यागमवचनप्रामाण्यानुसारेण मुमुक्षुभिर्वीरशैवव्रतपरायणैः, तनुत्रयगतानादिमलत्रयमसौगुरुः | दीक्षात्रयेण निर्दह्य लि᳚न्गत्रयमुपादिशत् || पृ० ५७) इति वचनावगतवेधामन्त्रक्रियारूपभेदभिन्नदीक्षात्रयेण स्थूलसूक्ष्मकारणशरीरत्रयानुस्युताणवमायेयकार्मिकरूपमलत्रयोन्मू लनपूर्वकं तनुत्रयस्य त्यागा᳚न्गभोगा᳚न्गयोगा᳚न्गत्वमापाद्य गुरुरिष्टलि᳚न्गप्राणलि᳚न्गभावलि᳚न्गस्वरूपमुपदिष्टवानिति लि᳚न्गधारणस्य परमपुरुषार्थसाधकत्वं प्रसाधयत्सु वचनेषु विश्वासपूर्वकं लि᳚न्गधारणस्यावश्यकार्यत्वं, तस्य च सार्वकालिकशुचित्वापादकत्वेन सदा धार्यत्वं, लि᳚न्गधारण व्रतानुष्ठाननिष्ठस्य साक्षाच्छिवरूपत्वं, व्रतस्य च यावज्जीवसम्बन्धित्वमित्यादिकं प्रतीयत इत्यवश्यं लि᳚न्गधारणं कर्तव्यम् || नन्वन्तर्लि᳚न्गधारणमेवाभ्यर्हितम् | तथाहि सिद्धान्तसारे- आराधयामि मणिसन्निभमात्मलि᳚न्गं मायापुरीहृदयप᳚न्कजसन्निविष्टम् | श्रद्धानदीविमलचित्तजलाभिषेकै- र्नित्यं समाधिकुसुमैरपुनर्भवाय || सिद्धान्तशिखामणौ-
SK
चिद्रूपं परमं लि᳚न्गं शा᳚न्करं सर्वकारणम् | यदस्य धारणं चित्ते तदान्तरमुदाहृतम् || चिद्रूपं हि परं तत्त्वं शिवाख्यं विश्वकारणम् | निरस्तविश्वकालुष्यं निष्कलं निर्विकल्पकम् || सत्तानन्दपरिस्फूर्तिसमुल्लासकलामयम् | अप्रमेयमनिर्देश्यं मुमुक्षुभिरुपासितम् || परं ब्रह्म महालि᳚न्गं प्रपञ्चातीतमव्ययम् | तदेव सर्वभूतानामान्तरस्थानगोचरम् || पृ० ५८) मूलाधारे च हृदये भ्रूमध्ये सर्वदेहिनाम् | जोतिर्लि᳚न्गं सदा भाति तद्ब्रह्मेत्याहुरागमाः || दह्रं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् | तत्रापि दह्रं गगनं विशोकं तस्मिन्यदन्तस्तदुपासितव्यम् || इत्यादिना हृत्पुण्डरीकान्तरवर्तिनो जोतिर्लि᳚न्गस्य भावनारूपेण धृतस्य मानसिकैरेवोपचारैः मुमुक्षुभिर्देवृषिभिर्योगिभिश्चोपास्यमानत्वेन मोक्षप्रदत्वं सर्वजनप्रसिद्धमिति तद्धारणेनैवेष्टसिद्धेर्बहिर्लि᳚न्गधारणं न कर्तव्यमिति चेन्न, बाह्ये जाग्रदवस्थायामनुभूतार्थ एव हि | अन्तः स्वप्नदशायान्तु यथैव परिदृश्यते || तथान्तर्यजनं नित्यं बहिर्यजनपूर्वकम् | बहिर्यागविहीनश्चेदन्तर्यागो न सिध्यति || तद्बाह्या᳚न्गे चान्तर᳚न्गे परमप्रीतिपूर्वकम् | कर्तव्यं स्वेष्टलि᳚न्गस्य पूजनञ्च मनीषिभिः || गवां सर्पिः शरीरस्थं न करोत्यात्मपोषणम् | निस्सृतं कर्मणा बाह्ये पुनस्तासान्तु भेषजम् || एवमन्तश्शरीरस्थः परात्मा परमेश्वरः | विनार्चनां बहिर्देवो हितं न कुरुते नृणाम् || इति वचनादादौ सगुणमाश्रित्य पश्चान्निर्गुणमाश्रयेदिति न्यायेनेष्टलि᳚न्गप्राणलि᳚न्गभावलि᳚न्गानां सकल-सकलनिष्कल- केवलनिष्कल स्वरूपाणामिष्टलि᳚न्गस्यानन्दानुभवनिर्गुणाराधनयोरधिष्ठानत्वेन, पृ० ५९) इष्टलि᳚न्गं प्राणलि᳚न्गमेकीकृत्य यजेत्सुधीः | मणिमालां मातृमालामेकीकृत्य जपेत्पुनः || मणिमालेष्टलि᳚न्गस्य मातृकाप्राणलि᳚न्गके |
SK
इत्युक्तेः प्राणलि᳚न्गेष्टलि᳚न्गपूजनं समुच्चित्य कर्तव्यम् | एतादृशपूजाहीष्टलि᳚न्गधारणं विना नोपपद्यत इति लि᳚न्गधारणं कर्तव्यम् || ननु लि᳚न्गधारणादीनामेतद्वचनानुरोधेन तान्त्रिकैरेवानुष्ठेयत्वेन श्रुतिस्मृतीतिहासपुराणेष्वप्रतिपादनेन चावैदिकत्वाद्वैदिकानुष्ठेयत्वं नास्ति | तथाहि- वेदमार्गप्रच्युतानां तन्त्रमार्गप्रवेशनम् | स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रमार्गाधिकारिता || श्रुतिपथगलितानां मानवानां हि तन्त्रं | श्रुतिपथनिरतानां तत्सदा नैव सेव्यम् || श्रुतिभ्रष्टः श्रुतिप्रोक्तप्रायश्चित्ते भयं गतः | क्रमेण श्रुतिसिध्यर्थं मनुष्यस्तन्त्रमाश्रयेत् || तन्त्रेषु दीक्षितो मर्त्यो वैदिकं न स्पृशेत्सदा | वैदिकश्चापि तन्त्रेषु दीक्षितं न स्पृशेत्सदा || राजा तु वैदिकान्सर्वांस्तान्त्रिकानखिलानपि | असंकीर्णतया नित्यं स्थापयेन्मतिमत्तमः || इत्यादि स्मरणाल्लि᳚न्गधारणं वैदिकैर्नानुष्ठेयमिति चेन्न, वैदिकानां पौराणिकानाञ्च वचनानां बहूनां जागरूकत्वात् | तथाहि शिवरहस्ये- शिवलि᳚न्गे शरीरस्थे शिववत्तोपपद्यते | तच्छिवानुभवप्रेप्सुश्शिवलि᳚न्गं हि धारयेत् || पृ० ६०) शा᳚न्करसंहितायां- स्वप्नकाले कृतं पापं ब्रह्महत्यादिकं च यत् | यथा प्रबोधसमये तन्मिथ्या भवति स्वयम् || तथा कृतं महापापं लि᳚न्गधारणतः पुरा | तत्सर्वं विलयं याति लि᳚न्गधारणतः परम् || मल्लि᳚न्गं मस्तकाद्य᳚न्गे धृत्वा शक्रपुरोगमाः | देवा मां लि᳚न्गमध्यस्थं सम्पूज्य स्वं पदं ययुः || पुनस्तत्रैव- हस्तसिंहासने लि᳚न्गमप्रमादेन धारयेत् | प्रमादात्पतिते लि᳚न्गे सह प्राणान्परित्यजेत् || प्रकरणान्तरे- का᳚न्क्षन्ति सर्वे पितरः कुलीनाः सम्भूय पुत्राः शिवभक्तियुक्ताः | सन्तो भवेयुः परिशुद्धभावा स्तेषामथैको बिभृयाच्चलि᳚न्गम् || गारुडे- अधमाधमभावानां पापिनां चाभिचारिणाम् | यमलोकाद्भयं नास्ति सदा वै लि᳚न्गधारणात् || स्कान्दे-
SK
ऊं मिति ब्रह्मपरमं लि᳚न्गाकारं महेश्वरम् | सर्वावस्थासु सर्वेषु कालेषु निमिषार्धतः || अवियोगेन भुक्तिञ्च मुक्तिमिच्छन्द्विजोत्तमः | धारयेत्पञ्चसु स्थानेष्वस्मिन् संलग्नमानसः || पृ० ६१) इत्यादि श᳚न्करसंहिताशिवरहस्यगारुडादिपुराणवचनैः श्रुत्यर्थोपबृंहणरूपैर्लि᳚न्गधारणस्य शिवचिन्तानैरन्तर्यसम्पादकत्वेन पूर्वकृतपापनिवर्तकत्वेन देवानां स्वस्वपदप्रापकत्वेन स्वोद्धाराय पितृभिराका᳚न्क्षणीयत्वेन स्वस्मिन् प्रमादस्यानिष्टसम्पादकत्वेन च प्रतिपादनात् लि᳚न्गधारणं वैदिकमेव || ननु पुराणेष्वेव लि᳚न्गधारणनिषेधकानां बहूनां वचनानां विद्यमानत्वात्कथं लि᳚न्गधारणं वैदिकमित्युच्यते ? तथाहि हेमाद्रौ प्रायश्चित्तकाण्डे नारदीये- चक्रा᳚न्किततनुर्यत्र राजन् लि᳚न्गा᳚न्कितोपि वा | जपेच्च पौरुषं सूक्तमन्यथा रौरवं व्रजेत् || देवीपुराणे- लि᳚न्गं द्विजो मुदा धृत्वा स्वदेहे भयवर्जितः | स एव नरकस्थायी यावदाभूतसंप्लवम् || स्कान्दे- द्विजो यदि स्वदेहे तु लि᳚न्गं धृत्वा स्वकामतः | स भुक्त्वा नरकानुग्रानन्ते मात᳚न्गगतां व्रजेत् || शिवपुराणे- द्विजो यः स्वतनौ धृत्वा लि᳚न्गं शुद्रार्पितं मुदा | तस्य वै निष्कृतिर्नास्ति संस्कारैर्बहुभिर्नृप || पद्मपुराणे- शृणु राम महाबाहो लि᳚न्गंचक्रादिधारिणाम् | शूद्रधर्मरतानाञ्च तेषां नास्त्यपुनर्भवः || विप्रस्यैतद्विगर्ह्यत्वात्प्रायश्चित्तमुदीरितम् | आदौ कृत्वा मनःकर्म षडब्दं कृछ्रमाचरेत् || पृ० ६२) तेभ्यो गृह्णन् द्विजः कामात्सुवर्णं पादमेव वा | तत्परिग्रहशुध्यर्थं प्राजापत्यं समाचरेत् ||
SK
इत्यादिवचनाल्लि᳚न्गचक्रा᳚न्कधारणे प्रायश्चित्तविधानात्, तेभ्यः प्रतिगृहितृर्णां प्रायश्चित्तविधानात्, निषिद्धचक्रा᳚न्कनसाहचर्याच्च, लि᳚न्गधारणस्याकर्तव्यत्वं सिद्धमिति चेन्न, लि᳚न्गधारणनिषेधकवचनानां लि᳚न्गधारणविधायकवचनानाञ्च परस्परविरोधे सति लि᳚न्गधारणविधायकवचनानां वेदमूलकत्वेन प्राबल्याल्लि᳚न्गधारणनिषेधकवचनानां वेदामूलकतया दुर्बलत्वात् | तप्तचक्रा᳚न्कनसाहचर्येण तेषां पाशुपतविहिततप्तलि᳚न्गा᳚न्कनविषयतया वा योजयितुं शक्यत्वात् | तदुक्तं पूर्वतन्त्रे �विरोधेत्वनपेक्षं स्यादसतिह्यनुमानम्� �हेतुदर्शनाच्च� इति | तत्र हि �औदुम्बरीं स्पृष्ट्वोद्गायेत्� इति श्रुतिः �औदुम्बरीसर्वावेष्टयितव्ये�ति स्मृतिः | अनयोर्विरोधे सति किं समप्राबल्येन विकल्पः, उत श्रुतेः प्राबल्यात् स्मृतिविहितस्यार्थस्य बाध इति विशये प्राप्ते पूर्वपक्षः-वैदिकैः स्मर्यमाणत्वात्तत्परिग्रहदार्ढ्यतः सम्भाव्यवेदमूलत्वात् स्मृतीनां वेदमूलतेति सर्ववेष्टनस्मृतेरपि वेदमूलत्वात्सर्ववेष्टनं कर्तव्यम् | �औदुम्बरीं स्पृष्ट्वोद्गाये�दिति श्रुतिविहितत्वात्स्पर्शनमपि कर्तव्यम् | उभयोरेकदा कर्तव्यतायां प्राप्तायां विरोधे सति व्रीहियववत्तुल्यबलत्वाद्विकल्प इति प्राप्ते राधान्तः- प्रत्यक्षश्रुतिविरुद्धायाः स्मृतेर्न स्वातन्त्र्येण प्रमाण्यं किन्तु मूलश्रुतिं कल्पयित्वा प्रामाण्यं वक्तव्यम्, तत्र प्रत्यक्षश्रुतिविरोधे मूलभूतश्रुत्याका᳚न्क्षया स्वार्थे प्रामाण्यं नास्ति | अतो विकल्पोऽपि न स᳚न्गच्छते, श्रुतेस्तु स्वतन्त्रतया प्रामाण्यं स्वार्थे झटिति स᳚न्गच्छते | तेन विलम्बितप्रवृत्तिकस्मृतिबाधकत्वं श्रुतेः स्वतः सिद्धमेव | तदुक्तं भगवद्भिर्भट्टपादैः- यावदेकं श्रुतौ कर्म स्मृतौ चान्यत्प्रतीयते | तावत्तयोर्विरुद्धत्वे श्रौतानुष्ठानमिष्यते ||
SK
पृ० ६३) इति | तन्न्यायेनात्रापि लि᳚न्गधारणस्य प्रत्यक्षश्रुतिविहितत्वेन प्रामाण्ये दृढीकृते सति लि᳚न्गधारणस्य प्रत्यक्षनिषेधकवचनानामप्रामाण्यम् | अथवा तप्तचक्रा᳚न्कनसमभिव्याहारादवैदिकपाशुपतानुष्ठीयमानतप्तलि᳚न्गा᳚ न्कनपराणि | अथवा वीरशैवदीक्षाविरहिततया आगमोक्तलि᳚न्गधारणानधिकारपराणि || ननु लि᳚न्गधारणं श्रुतिविहितमित्युक्तं तादृशश्रुतेरनुपलभ्यमानत्वात्कथं वैदिकत्वमितिचेन्न पै᳚न्गायनश्रुतेर्मूलत्वात् | तथाच श्रुतिः- येह वा अमृतं सत्येन धीराः सुकृतस्य लोके ग्रीवायां बद्धा अपि कक्ष आसनि | अतिपाप्मानमतिमृत्युं तरन्ति || अस्याः श्रुतेरर्थः- ये धीराः सुकृतस्यलोके= मनुष्यलोके, सत्येन= शपथेन, अमृतं= लि᳚न्गं �ब्रह्म प्रजननं काटं पवित्रममृतं स्रपः | प्रस्तरो जनिम प्राणो देवो लि᳚न्गं तथैव च | पर्यायवाचका ह्येते लि᳚न्गस्य परमात्मनः |� इति वैदिक निघण्टोः | ग्रीवायां= कण्ठे कक्षे, आसनि= मुखे, अपि शब्दो वाऽर्थकः, बद्धा= बध्नन्तः वर्तन्त इति शेषः ते पाप्मानं= पापं, अतितरन्ति, मृत्यं= अज्ञानमतितरन्तीति | बद्धा इत्यत्र शतृप्रत्ययस्थाने क्तप्रत्ययश्छान्दसः | कण्ठाद्यन्यतमस्थानेषु सकलपापनिवृत्यर्थं संसारमूलानाद्यविद्यानिरवशेषनिवृत्यर्थं लि᳚न्गधारणमवश्यं मुमुक्षुभिः कर्तव्यमित्यस्याः श्रुतेः तात्पर्यम् | तस्मादवश्यं वैदिकैर्लि᳚न्गधारणं कर्तव्यम् || ननु पै᳚न्गायनशाखायाः कल्पसूत्रकारैः प्रमाणत्वेनोदाहृतत्वेऽपि पठ्यमानेष्वाम्नायेष्वश्रवणादनाश्वास इति चेन्न, पठ्यमान शाखास्वेव तैत्तिरीयादिषु लि᳚न्गधारणे असाधारण्येन तत्पराणि वाक्यानि श्रूयन्ते | पृ० ६४) तथाहि- पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्य्येषि विश्वतः | अतप्ततनूर्नतदामो अश्नुते शृतास इद्वहंतस्तत्समाशत || इति ||
SK
अस्याः श्रुतेरयमर्थः- हे ब्रह्मणस्पते= चतुर्मुखनियन्तः महादेव, �ब्रह्माधिपतिर्ब्रह्मणोऽधिपति� रिति श्रुतेः | त्वं विश्वतः= विश्वस्य षष्ठ्यर्थे तसिः, प्रभुः | ते पवित्रं= लि᳚न्गं, पवित्रशब्दस्य लि᳚न्गार्थकत्वे वैदिकनिघण्टुः प्रागुक्तः | विततं= विस्तृतं, शिवशक्त्यात्मकलि᳚न्गाकारतयाव्याप्तमित्यर्थः | अतः, गात्राणि= स्थूलसूक्ष्मकारणशरीराणीन्द्रियादीनि च, इष्टलि᳚न्गप्राणलि᳚न्ग भावलि᳚न्गाद्यात्मना पर्येषि= व्याप्नोषि, अतप्ततनुः= वीरशैवदीक्षासंस्काररहितः, अत एवामः= अपक्वः संस्कारवर्जित इत्यर्थः | तत्= लि᳚न्गं, नाश्नुते= न प्राप्नोति, तद्धारणाधिकारी न भवति, तस्माल्लि᳚न्गा᳚न्गसामरस्यरूपमुक्तियोग्यो न भवतीत्यर्थः | शृतासः= दीक्षासंस्कारेण पक्वाः, मलपाकसहिता इत्यर्थः | इत्= इष्टलि᳚न्गम्, वहन्तः= उक्तस्थानेषु धारयन्तः, तत्= लि᳚न्गं सर्वव्यापकं लि᳚न्गम्, समाशत= प्राप्नुवन्तीति | तस्मात् प्रत्यक्षपठ्यमानश्रुतिविहितत्वाल्लि᳚न्गधारणं वैदिकत्वात्कर्तव्यम् || ननु श्रुतिरियं लि᳚न्गधारणप्रतिपादिका न भवति, किन्तु तप्तचक्रा᳚न्कनस्यावश्यकर्तव्यताप्रतिपादिका | तथाहि-पवित्रन्त इत्यस्यायमर्थः- हे ब्रह्मणस्पते विष्णो, त्वं प्रभुः सन् विश्वतो गात्राणि पर्येषि व्याप्नोषि | ते विततं विस्तृतं पवित्रं चक्रम्, �पवित्रं चरणं चक्रं लोकद्वारं सुदर्शनम् | पर्यायवाचका ह्येते चक्रस्य परमात्मनः ||� इति कोशात् | यदस्ति तेन अतप्ततनुः, अत एवामः अपरिक्षीणपापः, तत् मोक्षं नाश्नुते | इत्= एवंप्रकारं तच्चक्रम्, वहन्तः शृतासः परिपक्वाः, तत्समाशत तत्फलं प्राप्नुवन्ति | अस्मिन्नर्थे मन्त्रान्तरञ्च प्रमाणम्- पृ० ६५) चरणं पवित्रं विततं पुराणम् येन पूतस्तरति दुष्कृतानि | तेन पवित्रेण शुद्धेन पूता अतिपाप्मानमरातिं तरेम ||
SK
तेना᳚न्कनेन पूताः पाप्मानमरातिं शत्रुञ्च अतितरेम, येन चक्रा᳚न्कनेन पूताः दुष्कृतानि पापानि तरन्ति तच्चरणं चक्रं पवित्रं शुद्धिकारणं विततं विस्तृतम्, पुराणं अनादिप्रवाहागतमिति द्वितीयमन्त्रार्थः || मन्त्रान्तरञ्च- लोकस्य द्वारमर्चिष्मत्पवित्रं जोतिष्मद्भ्राजमानं महस्वत् | अमृतस्य धारा बहुधा दोहमानं चरणं नो लोके सुहितान् दधातु || इति || अस्यार्थः- लोकस्य स्वर्गलोकस्य द्वारं साधनं, अमृतस्य धारा बहुधा दोहमानं नानाप्रकारमोक्षस्यापि साधनभूतं, अर्चिष्मत् शोभमानं, ज्योतिष्मत् ज्वालाकिरणप्रकाशैर्युक्तं, भ्राजमानं अग्नितापनानन्तरमत्यन्तज्वालाकलितम्, पवित्रं परिशुद्धिकारणं, चरणं चक्रं नः अस्माकं लोके सुहितान्दधात्विति || एतासां श्रुतीनां मध्ये पवित्रश्रुतेरपि तप्तचक्रा᳚न्कनपरत्वात्कथमस्याः श्रुतेर्लि᳚न्गधारणे विनियोग इति चेन्न, �ब्रह्मणस्पत्यां बभ्रुकर्णीमालभेत्� इति श्रुतिविहितपशुयागे विहितमन्त्रस्य कथं तप्तचक्रा᳚न्कनपरत्वेनार्थनिर्णयः क्रियते ? कथञ्च तप्तचक्रा᳚न्कनपरत्वे अर्थस᳚न्गतिर्वर्तते ? तथाहि- अत्र विनियुक्तमन्त्रस्यापि लि᳚न्-लोट्-तव्य-प्रत्ययाभावेऽपि विधायकत्वं कल्प्यम् | पवित्रशब्दस्यापि व्याकरणादिप्रसिद्धपरिशुद्धिवाचकत्वं विहायाप्रसिद्धनिघण्टुकल्पनापुरस्सरमप्रसिद्धार्थचक्रवाचकत्वं कल्प्यम् | ब्रह्मणस्पत्यां बभ्रुकर्णीमालभेतेति विध्यनन्तरवाक्यशेषे �ब्रह्मणस्पते ब्रह्मणोपसमृध्या� इति श्रुतेर्ब्रह्मपरत्वं वक्तव्यं | भागवते द्वितीयस्कन्धे
SK
पृ० ६६) तृतीयाध्यायादौ �ब्रह्मवर्चसकामस्तु यजेत् ब्रह्मणस्पति� मित्यत्र चतुर्मुखपरत्वेन व्याख्यातत्वेन, तस्य ब्रह्मपरत्वम् | �ब्रह्मा देवाना� मित्यनन्तरश्रुतिमहिम्नापि तत्परत्वावश्यकत्वञ्च | तद्विहाय स्वकल्पिताचारस्थापनाय विष्णुपरत्वं कल्प्यम् | यदस्ति तेनेति पदत्रयाध्याहारः | तप्ततनुरित्यत्र करणाका᳚न्क्षायां केवलस्य चक्रस्य देहदाहकत्वाभावादग्नितप्तेनेत्यध्याहार्यम् | तनुशब्दस्य देहमात्रपरत्वे देहमात्रदाहे जीवनमेव न स्यादिति तनुशब्दस्य तदेकदेशभूतभुजमूललक्षकत्वं कल्प्यमित्याद्यनेकदोषदुष्टत्वम् || काठके अपाघानामिकासु इष्टिषु पञ्चम्यां चितचरणं पञ्चममित्यादिप्रसिद्धस्य चरणशब्दस्य चर्यत इति चरणमिति कर्मवाचित्वेन प्रसिद्धस्य, �रमणीयचरणा अभ्याशोहयत्ते रमणीयां योनिमापद्येरन्, कपूयचरणा अभ्याशोह यत्ते कपूयां योनिमापद्येरन्, इत्यत्र �चरणादिति चेन्नोपलक्षणार्थेति कार्ष्ण्याजिनिः� शुकृतदुष्कृते एवेति तु बादरिः� इति सूत्राभ्यां ब्रह्ममीमांसायां तद्भाष्यव्याख्याने च चरणशब्दस्य कर्मपरत्वेन निर्णीतस्याप्रसिद्धार्थचक्रवाचित्वं कल्प्यम् | चरणपवित्रशब्दयोश्चक्रवाचकत्वेन पौनरुक्त्यं, येन पूत इत्यत्राप्रस्तुतचक्रा᳚न्कनपरत्वञ्च कल्प्यमिति || अत्रापि अग्नितप्तं चरणं, अग्नितप्तेन तेन पूतः, तेनाग्नितप्तेनेत्यध्याहारो विनियुक्तमन्त्रस्य विधिनियामकप्रत्ययाभावेऽपि विधायकत्वञ्च कल्प्यमिति सर्वमन्त्रेषु समानम् | एतादृशचरणसम्बन्धो यस्य कस्यचित्पुरुषस्य कल्प्यः, सकलस्मृतिपुराणेतिहासादिनिषिद्धार्थस्वीकारश्चेत्यादयो दोषास्तप्तमुद्राधारणवादिनां भवेयुः | तस्माच्चक्रधारणपरत्वेनोदाहृतश्रुतीनामर्थास᳚न्गतिः || किञ्च चक्रा᳚न्कननिषेधकस्मृतिपुराणवचनान्यपि बहूनि सन्ति | तथाहि- हेमाद्रौ प्रायश्चित्तकाण्डे, लि᳚न्गपुराणे च- तापितः श᳚न्खचक्राभ्यां यस्य देहः प्रदृश्यते | स जीवन् कुणपस्त्याज्यः सर्वधर्मबहिष्कृतः || पृ० ६७) आदित्यपुराणे-
SK
वेदेषु यज्ञभागेषु यस्य नास्त्यधिकारिता | स तापयित्वा चक्रादीन् धारयेत्स्वभुजद्वये || ब्राह्मणो यदि मोहेन धारयेत्तप्तमुद्रिकाः | तस्य दर्शनमात्रेण कुर्यात्सूर्यावलोकनम् || नारदीये- ब्राह्मणस्य तनुर्ज्ञेया सर्वदेवमयी ततः | सा चेत्सन्तापिता तस्य किं वक्ष्यामि महैनसः || आदित्यपुराणे- ब्राह्मणो यदि मोहात्मा तापयेद्वह्निमुद्रया | न कर्मार्हो भवेदत्र स वै पाखण्डसंज्ञितः || पराशरोपपुराणे- न दाहयेद् द्विजश्रेष्ठं न दहेच्चक्रपूर्वकैः | अ᳚न्कितो यः स्वदेशात्तं राजा शीघ्रं प्रवासयेत् || अध्यापने चाध्ययने श्रौतस्मार्तेषु कर्मसु | सम्भाषणे च सम्बन्धे नाधिकारी स लाञ्छितः || आत्रेयधर्मशास्त्रे विष्णुः- यथा स्मशानगं काष्ठमनर्हं सर्वकर्मसु | तथा चक्रा᳚न्कितो विप्रः सर्वकर्मसु गर्हितः || श᳚न्खचक्रं मृदा यस्तु कुर्यात्तप्तायसेन वा | स शूद्रवद्बहिष्कार्यः सर्वस्माद् द्विजकर्मणः || पृ० ६८) बोधायनोऽपि- ना᳚न्कयेन्न दहेद्देहं दहेच्चेत्कामचारतः | न स्वीकुर्वीत दग्धा᳚न्गं श्रौतस्मार्तेषु कर्मसु || बाष्कलसंहितायाम्- अ᳚न्गेषु ना᳚न्कयेद्विप्रो देवतायुधलाञ्छनैः | अ᳚न्कयेद्यदि वा मोहात्पतितो नात्र संशयः || श᳚न्कचक्राद्य᳚न्कनञ्च नृत्तगीतादिकं तथा | हीनजातेरयं धर्मो न जातु स्याद् द्विजन्मनः || पाखण्डं पतिताचारं तप्तचक्रधरं द्विजम् | सूत्रिकामग्निदं दृष्ट्वा सचेलो जलमाविशेत् || तप्तचक्रधरा ये च तान् द्विजो नावलोकयेत् || अन्यत्र च- कुक्कुटश्च वराहश्च तप्तचक्रा᳚न्कितस्तथा | रजस्वला च षण्डश्च पञ्चैंते श्राद्धदूषकाः || ये वेश्यापतयो विप्रास्तप्तचक्रधराश्च ये | नास्तिकाः शूद्रदासाश्च ते वै भस्मान्तसूतकाः || जटिनश्चैव मुण्डाश्च लूनकेशाः कपालिनः | तप्तचक्रधराश्चैव वेदनिन्दापरास्तथा || एते मार्गपरिभ्रष्टास्तत्स᳚न्गात्पतितो द्विजः | स्पृष्ट्वैतानशुचीन् स्नात्वा घृतं प्राश्य विशुध्यति || चक्रा᳚न्किताय दत्तानि हव्यकव्यानि यानि वै | रक्षांसि तानि गृह्णन्ति न देवाः पितरो न च ||
SK
पृ० ६९) पाखण्डिनश्च प्रथिता य वै चक्रा᳚न्किता जनाः | पुण्यकर्मणि तेषां वै सन्निधिर्नेष्यते क्वचित् || तप्तचक्रा᳚न्कितं विप्रं न पश्येत्पुण्यकर्मणि | तत्सम्पर्कात्तथा भूमिः सहसा नैव शुध्यति || ब्राह्मणः श᳚न्खचक्राद्यैर᳚न्कयन्न᳚न्गम᳚न्कनैः | अपि विष्ण्वादिसम्बद्धैस्तप्तैर्वा पतितो भवेत् || अज्ञानादथ वा लोभाद्रागतो वा सुदर्शनम् | धत्ते कुलघ्नं तं दृष्ट्वा सवासा जलमाविशेत् || सुदर्शनेन विलिखेद्भुजाग्रे सहसैव यः | वेदाग्निज्ञानवान्सोऽपि दहत्यासप्तमं कुलम् || वह्निपुराणे- पूर्वजाः स्वतनुं दग्ध्वा श᳚न्खचक्रादिभिः पृथक् | भवन्ति पतितास्सत्यं सर्वस्माद् द्विजकर्मणः || तस्य वै निष्कृतिर्नास्ति स्नानदानजपादिभिः | तस्य निष्कृतिरुत्पन्ना पराशर्येण चोदिता || विकेशं वापयित्वैनं पुनस्संस्कारमाचरेत् | गर्भगोलात्समुद्भृत्य गर्भाधानादिपूर्वकम् || षोढावृत्यैव कृछ्राणां प्रायश्चित्तमुदीरितम् | इति तप्तचक्रा᳚न्किताः परिषदुपस्थानपूर्वकं षडब्दं कृच्छ्राणि कृत्वा शुद्धिमाप्नुवन्ति, प्रायश्चित्ताकरणे तेभ्यः प्रतिग्रहेऽपि प्रायश्चित्तमुक्तम् | पृ० ७०) कूर्मपुराणे- अज्ञात्वा मुखजो यत्र मुद्रादग्धेभ्य आदरात् | सुवर्णमात्रस᳚न्ग्राही प्राजापत्यं समाचरेत् || तदर्धेऽर्धं पुनः कृत्वा ह्यन्नमात्रमुपोषणम् | कृत्वा शुद्धिमवाप्नोति शुद्धिर्नान्यत्र दृश्यते || इति ||
SK
एवं सन्तप्तचक्रादिधारणेऽयोग्यत्वं पातित्यं प्रायश्चित्तादिकञ्च स्मृतिपुराणेषु बहुशः प्रतिपादितम् | किञ्च पठ्यमानेषु कोशेषु �पवित्रं चरणं चक्र� मिति त्वदुक्तकोशवचनस्य कुत्राप्यदर्शनात् त्वदुक्तासत्यतान्त्रिकार्थमूढश्रद्धया लोकसम्मोहनाय त्वयैव तत्कल्पितम् | यद्यकल्पितमित्यभिमानस्तथापि नत्वदभिमतार्थसिद्धिः | प्रत्युत तवैव व्याघातः | तथाहि- ऋक्परिशिष्टे-सर्वपापनिवर्तकत्वेन पठ्यमानेषु मन्त्रेषु �पावकं चरणेभ्यस्तत्वावमानिभिरहं पुनामि� इति मन्त्रस्थितस्य चरणशब्दस्य भवदुक्तकोशानुसारेणार्थकल्पने तप्तमुद्राधारणे प्रायश्चित्तं कर्तव्यमिति मन्त्रार्थः पर्यवस्यति | तथाहि- चरणेभ्यः चकेभ्यः, निमित्तार्थे पञ्चमी | तप्तचक्रा᳚न्कननिमित्तकं यत्पातकं तत्त्वावमानिभिः पुनामि, पापान्निवर्त्य आत्मानं पुनामित्यर्थः | धातोः सकर्मकत्वादात्मनः पाप निवृत्तिरर्थलभ्या | पवित्रशब्दस्य चक्रार्थकत्वे च व्याघातान्तरमापतति | तथाहि मन्त्रविनियोगप्रवृत्तानां कल्पसूत्रकाराणां बोधायनादीनां विनियोगं विना, मन्त्रार्थविवरणपराणां भट्टभास्करविद्यारण्यादीनां विवरणं विना, प्रसिद्धकोशवचनमन्तरा, उपबृंहणं विना, यदि स्वस्वबुध्यनुसारेण स्वस्वमताभिमानेन अर्थान्तरकल्पनं तदास्याः पवित्रश्रुतेरन्योऽप्यर्थः स्यात् | तथाहि- हे ब्रह्मणस्पते ब्राह्मणश्रेष्ठ, �ब्रह्मा विप्रः प्रजापति� रितिकोशात् | ते त्वं प्रथमार्थे षष्ठी | विश्वतः सर्वत्र, प्रभुः समर्थोऽसि, तान्त्रिकवचनैर्मोहं न प्राप्नोषीत्यर्थः |
SK
पृ० ७१) किञ्च पवित्रं यथा भवति तथा, विततं विस्तृतानि, वचनव्यत्ययच्छान्दसः, गात्राणि पर्य्येषि प्राप्नोषि, गात्राणां पवित्रत्वन्तु �यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्रह्मणि वसन्ती�ति श्रुतिवचनात् | अतप्ततनुरित्यत्र अकारो विष्णुवाचकः, �अकारो ब्रह्मविष्णवीशकमठेष्व᳚न्गणे रणे� इति कोशात् | आय विष्णवे, तप्ततनुः बाहुमूले दग्धशरीरः, अत एव आमः- शमदमवैराग्याद्यसम्पन्नः, तत्परं पदं नाश्नुते न प्राप्नोति | शृतासः-तप्तचक्रेण पक्वाः, श्रै पाके इति धातोः क्तः, असुगागमश्छान्दसः, इत्-दाहजन्यं किणं वहन्तः, तत्पूर्वोक्तधात्वर्थं पाकं कुम्भीपाकमित्यर्थः | नामैकदेशे नामग्रहणं, सत्यभामेत्यत्र भामेतिवत् | समाशत-प्राप्नुवन्ति, तप्तश᳚न्खचक्रधारी पुमान्कुम्भीपाकं प्राप्नोतीति निष्कृष्टोऽर्थः | तस्मात् श्रुतेस्तप्तचक्रा᳚न्कनपरत्वेन स्वानुकूलवर्णने बहुदोषदुष्टत्वेनास्मदुक्तलि᳚न्गधारणपरत्वकल्पनमेव साधीयः || स्यादेतत्, पवित्रश्रुतेः प्रतिपादितानेकदोषदुष्टतया चक्रा᳚न्कनपरत्वासम्भवेपि, अवैदिकशैवपाषण्डधर्मतप्तशूला᳚न्कनपरत्वमपि नेतुं सुशकम् | तथाहि- पवित्रं त्रिशूलं, श्हूलं पवित्रं परमं महास्त्रं लवित्रमंहः पुरवैरिशस्त्रम् | एतान्यसाधारणनामधेयान्याहुस्त्रिशूलस्य शिवायुधस्य� इति पाशुपतागमवचनेन त्रिशूलस्य पवित्रशब्दवाच्यत्वं प्रसिद्धम् | हे ब्रह्मणस्पते शिव, �ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिरि�ति श्रुतिसिद्धं ब्रह्मपतित्वं शिवस्य | ते त्वत्सम्बन्धि यदस्ति, तेन अग्नितप्तेन शूलेन अतप्ततनुः, अतेवामः- अपक्वः तत्पाशुपतं पदं नाश्नुते | शृतासः तप्तशूला᳚न्कनेन भुजमूले परिपक्वाः, अत एव इत्- दाहजन्यव्रणजनितं किणं वहन्तः, तत्पाशुपतपदं समाशत प्राप्नुवन्तीत्यर्थः | स्पष्टमन्यत् | तथा च प्रतिपादितार्थयोजनानुसारेण तप्तशूला᳚न्कनस्यापि वैदिकानुष्ठेयता भवति | तप्तशूला᳚न्कनं वैदिकैरनुष्ठेयम्, मन्त्रवर्णप्रतिपाद्यत्वात् | दर्भग्रन्थिविशेषवत् |
SK
इत्यनुमानमप्येतदनुकूलमिति चेदत्रोच्यते- पृ० ७२) अ᳚न्गेषु ना᳚न्कयेद्विप्रो देवतायुधलाञ्छनैः | अ᳚न्कयेद्यदि वा मोहात्पतितो नात्र संशयः || ना᳚न्कयेन्न दहेद्देहं दहेच्चेत्कामचारतः | न स्वीकुर्वीत दग्धा᳚न्गं श्रौतस्मार्तेषु कर्मसु || अ᳚न्कितः श᳚न्खचक्राद्यैः शरीरे देवतायुधैः | त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः || श्रौतस्मार्तपरो विप्रो ना᳚न्कयेद᳚न्गम᳚न्कनैः | अपि विष्ण्वादिसम्बद्धैरन्यथा पतितो भवेत् || चक्रा᳚न्किततनुर्वापि राजन् लि᳚न्गा᳚न्कितोऽपि वा | नाधिकारी स विज्ञेयः श्रौतस्मार्तेषु कर्मसु || इत्याद्य᳚न्कननिषेधकवचनानां विद्यमानत्वात् | �वितन्यमानमनु मन्त्रयते यजमान� इति दशापवित्राख्यसोमरसगालनक्षमवस्त्रविशेषानुमन्त्रणे �पवित्रन्त� इत्यस्य मन्त्रस्य विनियोगदर्शनात्, अस्मिन्नर्थे विनियोगाभावादुपबृंहणाभावाच्च, तप्तशूला᳚न्कनपरत्वकल्पनमसमञ्जसमेव | अत एवावैदिकपाशुपतैकदेशिजनानुष्ठेयतप्तलि᳚न्गा᳚न्कनधारणमपि निरस्तम् || अस्याः पवित्रश्रुतेः �वितन्यमानमनुमन्त्रयते यजमान� इति भगवता सूत्रकारेणापस्तम्बमुनिना दशापवित्राख्यसोमरसगालनक्षमवस्त्रविशेषानुमन्त्रणे विनियुक्तत्वात्; �पवित्रोऽग्नौ हरौ पूते क्लीबे ताम्रेऽप्सु गोमये | मन्त्रे दध्नि ब्रह्मसूत्रे साम्न्यर्के कलशे कुशे | दशापवित्रवस्त्रे च त्रिशूले देवतासु च ||� इति दशापवित्रवस्त्रपरत्वेन वैजयन्तीनिघण्टुकारेण प्रयुक्तत्वाच्च, लि᳚न्गधारणपरत्वे कथमर्थोऽभिधीयते ? दशापवित्रवस्त्रपरत्वेनार्थविवरणञ्च युक्तं | तथाहि- हे ब्रह्मणस्पते सोम, �वेदस्तत्वं तपो ब्रह्मे� त्यमरः |
SK
पृ० ७३) यद्वा �ब्रह्मा विप्रः प्रजापति� रित्यनुशासनाद् ब्रह्मणः ब्राह्मणस्य पते, �यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् | स वै दुर्ब्राह्मणो ज्ञेयः सर्वकर्मबहिष्कृतः� || इति स्मृति पर्यालोचनया, �इन्द्राग्नं पुनरुत्सृष्टमालभेत य आतृतीयात्पुरुषात्सोमं न पिबेद्विच्छिन्नो वा एतस्य सोमपीतिः� यो ब्राह्मणः सन्नातृतीयात्पुरुषात्सोमं न पिबतीत्यादि श्रुत्या त्रिपुरुषपर्यन्तं सोमपानाभावे प्रायश्चित्तविधानाच्च, दौर्ब्राह्मण्यनिवृत्तिद्वारा ब्राह्मण्यातिशयापादकत्वेन सोमस्य ब्राह्मणपतित्वमुपपद्यते | अत एव श्रुत्यन्तरञ्च- �तस्मात्सोमो राजा नो ब्राह्मण� इति | तस्मात् हे ब्रह्मणस्पते ब्राह्मणप्रभो सोम, ते तव पवित्रं दशापवित्राख्यं वस्त्रं विततं विस्तृतं त्वं प्रभुः पीतः सन् गात्राणि पर्येषि व्याप्नोषि | अतप्ततनुः �तपो नानशनात्पर�मिति स्मरणात्पयःपानमात्रस्य विधानेनानशनमेव तप इत्युच्यते | ततः अतप्ता अनशनात्मकेन तपसा अतप्ता तनूर्यस्य सः अतप्ततनूः पयोव्रताकर्ता अतेवामः सोमदीक्षारहितः तत्-कर्मफलं नाश्नुते न प्राप्नोति; शृतासः पयोव्रतेन परिपक्वाः इत्-एवं प्रकारेण कर्म वहन्तः तत्-कर्मफलं, समाशत प्राप्नुवन्ति | अत एव भगवानापस्तम्बः सूत्रकारो दीक्षाविषये प्रशंसामाह �यदा वै दीक्षितः कृशो भवति, अथ मेध्यो भवती�ति | तस्मादियं पवित्रश्रुतिर्लि᳚न्गधारणपरत्वेन कथं नेतुं शक्यत इति चेन्नैवम्, उपबृंहणवशेन श्रुत्यर्थनिर्णयस्यावश्यकत्वात् | लि᳚न्गधारणपरत्वेन बहूनां मन्त्रार्थप्रकाशकानां पुराणवचनानां श्रूयमाणत्वात् | न च सूत्रकारेण साक्षाद्विनियुक्ते मन्त्रे तत्समप्राबल्येन नोपबृंहणवचनमुच्यत इति वाच्यं, सूत्रवदुपबृंहणस्यापि चतुर्दशविद्यान्तःपातित्वेन वेदार्थनिर्णये समप्राबल्यात् | अत एव स्मृतिकारैः �इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् | बिभेत्यल्पश्रताद्वेदो मामयं प्रतरेदि�ति प्रतिपादितम् | अत एव छान्दोग्यश्रुतिरपीतिहासपुराणानां वेदत्वं प्रतिपादयति | �ऋग्वेदं
SK
यजुर्वेदं सामवेदमथर्वणञ्चतुर्थमितिहासपुराणं पञ्चमं वेदानां पृ० ७४) वेद�मिति तस्मादुपबृंहणस्यापि वेदार्थनिर्णायकत्वं कल्पसूत्रवदुपपद्यते | न च कर्मणि सूत्रेण विनियुक्तस्य मन्त्रस्योपबृंहणेनान्यत्रविनियोगः कथमुपपद्यत इति वाच्यं, अग्निचयनप्रकरणे-अजाक्षीरहोमे ईशानकोणे चरमेष्टिकायां कर्तव्ये होमे विनियुक्तानां शतरुद्रीयमन्त्राणां, शतरुद्रं जपेद्यस्तु ध्यायमानो महेश्वरं | सप्तसागरपर्यन्तं सशैलद्वीपकाननां || दद्यात्काञ्चनसंयुक्तां भूमिमौषधिसंयुतां | तस्मात्कोटिगुणं पुण्यं सकृद्रुद्रजपाद्भवेत् || रुद्राध्यायेन ये देवं स्नपयन्ति महेश्वरम् | तज्जलैः कुर्वते स्नानं ये मृत्युं सन्तरन्ति ते || शतरुद्राभिषेकेण शतायुर्जायते नरः | अशेषपापनिर्मुक्तः शिवस्य दयितो भवेत् || सुरापः स्वर्णहारी च रुद्रजापी जले स्थितः | सहस्रशीर्षजापी च मुच्यते सर्वकिल्बिषात् || इत्याद्युपबृंहणवशेन जपेऽभिषेके च विनियोगदर्शनात् प्रकृते पवित्रश्रुतेर्भिन्नकर्मणि विनियुक्तत्वेऽप्युपबृंहणवशाल्लि᳚न्गधारणे विनियोगस्स᳚न्घटते | तथाहि- ब्रह्मणस्पतिरीशो वै ब्रह्मैतल्लि᳚न्गमुच्यते | पवित्रं तद्धि विख्यातं तत्सम्पर्कात्तनुः शुचिः || इति स्कान्दपुराणे लि᳚न्गस्य यावज्जीवसम्बन्धेन शरीरपावित्र्यप्रतिपादकवचनस्य पवित्रश्रुत्युपबृंहणत्वमसाधारणम् | एतदुपबृंहणानुसारेण हे ब्रह्मणस्पते ईश्वर, कस्कादित्वात्सः | �ब्रह्माधिपति- पृ० ७५) र्ब्रह्मणोऽधिपति�रिति श्रुतेः | ते त्वत्स्वरूपं राहोश्शीरितिवदभेदे षष्ठी | पवित्रं लि᳚न्गं �ब्रह्म प्रजननं काटं पवित्रपमृतं स्रपः | प्रस्तरो जनिम प्राणो देवो लि᳚न्गं तथैव च || पर्यायवाचका ह्येते लि᳚न्गस्य परमात्मनः� इति वैदिककोशात् | विततं सर्वत्र व्याप्तं यदस्ति, विश्वतः विश्वशब्देन विश्वान्तर्वर्तिनः पशुशब्दवाच्या ब्रह्माद्या जीवा लक्ष्यन्ते, चेतनाचेतनप्रपञ्चवाचकस्य विश्वशब्दस्य तदेकदेशे चेतने लक्षणायाः सम्भवात् | तदुक्तं- लि᳚न्गपुराणे
SK
ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य शूलिनः | पशवः परिकीर्त्यन्ते संसारवशवर्तिनः || तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः | इति || पतित्वञ्चास्य- शर्वान् यच्च पशून्पाति तैश्च यद्रमते पुनः | तेषामपि पतिर्यच्च तस्मात्पशुपतिः स्मृतः� इति द्रोणपर्वणि शतरुद्रीयाध्याये नामनिर्वचनात्, पातीति पतिरिति रक्षणार्थकात्पाधातोर्डतिप्रत्यये पतिशब्दनिष्पत्तेर्व्याकरणसिद्धत्वात्, तदर्थस्य पालकत्वस्योक्तवचनेनैव स्फुटीकरणाच्च वेदितव्यम् | पवित्रश्रुतिस्थप्रभुशब्दार्थावधारणप्रवृत्तोपबृंहणस्कन्दपुराणव चनस्थितस्येशशब्दस्य �ईश्वरः पतिरीशिते� तिकोशपाठमहिम्ना आधिपत्यवाचकस्य, व्याकरण-महाभारतनिरुक्तिभ्यां पालकस्यापि वाचकेन पतिशब्देन समानार्थकत्वावश्यम्भावादाधिपत्यं पालनञ्च प्रभुशब्दार्थ इति वक्तव्यम् | तेषां जीवानां प्रभुः- अधिपतीरक्षकश्च त्वं पवित्रशब्दवाच्यलि᳚न्गरूपः | तादृशपशुशब्दवाच्यजीवपरिपालनप्रकारः प्रकाश्यते �गात्राणी� त्यादिना | गात्राणी स्थूलसूक्ष्मकारणशरीराणि, गात्रपदं ज्ञानेन्द्रियकर्मेन्द्रियान्तःकरणादीनामुपलक्षकम् | एतानि शब्दादिविषयेभ्यो विनिवर्त्य स्वयं तेष्वभिमानिदेवतात्वेनाचारादिलि᳚न्गात्मना स्थित्वा, तान् शब्दादीन्विषयान् स्वीकृत्य, पृ० ७६) पश्चात्प्रसादात्मकांस्तान्विषयांस्तेभ्योऽ᳚न्गशब्दवाच्येभ्यः शुद्धान्तःकरणेभ्यो जीवेभ्यो दत्वा, पर्येषि-परिशुद्धप्रसादोपभोगिनः करोषि | अस्मिन्नर्थे प्रमाणं वातुलागमे-
SK
इन्द्रियादागतं किञ्चिद्यत्सुखं तच्छिवार्पितम् | कृत्वा प्रसादो भोक्तव्यस्तदिन्द्रियमुखेन सः || इष्टलि᳚न्गन्तु बाह्या᳚न्गे प्राणलि᳚न्गं तथान्तरे | भावलि᳚न्गं सदैवास्मिन्नात्मा᳚न्गे सुप्रतिष्ठितम् || हृदया᳚न्गे महालि᳚न्गं श्रोत्रा᳚न्गे सुप्रसादकम् | त्वग᳚न्गे चरलि᳚न्गञ्च दृग᳚न्गे शिवलि᳚न्गकम् || जिह्वा᳚न्गे गुरुलि᳚न्गन्तु नासिका᳚न्गे तथैव च | आचारलि᳚न्गमश्रान्तं सुप्रतिष्ठितमेव हि || यथा ज्ञानेन्द्रिया᳚न्गेषु क्रमाल्लि᳚न्गं प्रतिष्ठितम् | तथा कर्मेन्द्रिया᳚न्गेषु क्रमाल्लि᳚न्गं प्रतिष्ठितम् || इति || लि᳚न्गसंयोगाभावादिन्द्रियजयविहीनानां तपोरहितानां परमपदप्राप्तिर्नास्तीत्याह �अतप्ते� त्यादिना �तपसा ब्रह्म विजिज्ञासस्वे� ति तैत्तिरीयवाक्यात्, �आत्मविद्या तपोमूल�मिति ब्रह्मोपनिषद्वाक्याच्च | अतप्ततनूः, श्रोत्रनेत्रादीन्द्रियव्यतिरिक्तायास्तनोरभावादत्र तनुशब्देनेन्द्रियाण्युच्यन्ते, अतप्ता-अनिगृहीता तनूरिन्द्रियाणि येनासावतप्ततनूरजितेन्द्रियोऽज्ञ इत्यर्थः | आमः-मलपाकराहित्येन शिवदीक्षाविहीनः पुरुषः, तल्लि᳚न्गं नाश्नुते | शृतासः- वीरशैवदीक्षया परिपक्वा विगतपापाः, इत्-इष्टलि᳚न्गं वहन्तः- उक्तस्थानेषु धारयन्तः, तत्-सर्वव्यापकलि᳚न्गं समाशत-प्राप्नुवन्ति | अन्ये तपोरहिताः शिवसंस्कारवर्जितास्ते लि᳚न्गधारणविहीनाः परमपदं नाप्नुवन्तीत्यर्थः | अस्मिन्नर्थे स्कन्दपुराणे- पृ० ७७) ब्रह्मणस्पतिरीशो वै ब्रह्मैतल्लि᳚न्गमुच्यते | पवित्रं तद्धि विख्यातं तत्प्रभुर्विश्वतः स्वयम् || तत्सम्पर्कात्प्रवित्रत्वं गात्राणि कुरुते स्वयम् | अतप्ततनुरज्ञो वै आमः संस्कारवर्जितः || दीक्षया रहितः साक्षान्नाप्नुयाल्लि᳚न्गमुत्तमम् | शिवधर्माश्रिताः शान्ताः शिवाचारपरायणाः || ये वहन्ति सदा लि᳚न्गं ते यान्ति परमं पदम् | अन्यथा न हि मां प्राप्तुं शक्यं देवि तथा श्रुतिः || इति || तत्रैव प्रदेशान्तरे-
SK
शस्तं विपापं परमं गगनं देहसंस्थितम् | जन्ममृत्युजरातीतं तत्पवित्रं प्रचक्षते || पतनात्त्रायते यस्मादतीव नरकार्णवात् | यत्पवित्रं पवित्राणां तल्लि᳚न्गं ज्योतिरैश्वरम् || तत्सम्पर्कात्पवित्रत्वं गात्रेष्वेव करिष्यति | तदेतत्परमं ज्योतिर्लि᳚न्गं देवि मदात्मकम् || शिवानन्दः परं धाम दुष्प्राप्यमकृतात्मभिः | एवं श्रिताः सदा लि᳚न्गं ते वहन्तः सदादरात् || ते प्राप्नुवन्ति सर्वेऽपि मामेवात्र न संशयः | ऋगित्याह पवित्रन्ते विततं ब्रह्मणस्पते || तस्मात्पवित्रं तल्लि᳚न्गं धार्यं शैवमनामयम् || इति || पृ० ७८) ब्रह्माण्डपुराणे- तपस्तप्ता तनुर्यस्य स तप्ततनुरुच्यते | परिपक्वो विमोक्षाय सोऽश्नुते लि᳚न्गधारणम् || न करोति तपः पूर्वं सोऽतप्ततनुरुच्यते | अपक्वोऽयं विमोक्षाय नाश्नुते लि᳚न्गधारणाम् || इति || तस्मात्स्कान्दपुराणब्रह्माण्डपुराणोपबृंहितपवित्रश्रुतिपर्यालोचनया लि᳚न्गधारणं वैदिकैर्मुमुक्षुभिरादरणीयमेव || अस्मिन्नर्थे नारायणोपनिषदि श्रुत्यन्तरञ्च प्रमाणम् | तथाहि- नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासम्, कर्णयोः श्रुतं माच्योढ्वं ममामुष्य ऊं || इति ||
SK
अस्य मन्त्रस्यायमर्थः-नमो ब्रह्मण इति | �ब्रह्मणस्पतिरीशो वै ब्रह्मैतल्लि᳚न्गमुच्यत� इति स्कान्दपुराणवचनात्, �ब्रह्मेति लि᳚न्गमाख्यातं ब्रह्मणस्पतिरीश्वर� इति सिद्धान्तशिखामणिवचनात्, �अलि᳚न्गमेकमव्यक्तं लि᳚न्गं ब्रह्मेति निश्चित� मितीश्वरगीतावाक्यात्, �ब्रह्मणे लि᳚न्गमूर्तय� इति लि᳚न्गपुराणवाक्याच्च, ब्रह्मेति लि᳚न्गनाम | ब्रह्मणे लि᳚न्गमूर्तये नम इति वेदपुरुषेण नमस्कारपूर्वकं लि᳚न्गधारणं याचितम् || धारणं तत्-ब्रह्मस्वरूपशिवलि᳚न्गस्य धारणं मेऽस्तु | नन्वत्र तच्छब्दाभावाद्ब्रह्मणो धारणमिति कथं लभ्यते ? न च ब्रह्मशब्दस्य साका᳚न्क्षत्वाद्धारणेन साकमन्वयस्यावश्यं वक्तव्यत्वात्, ब्रह्मशब्दवाच्यस्य लि᳚न्गस्य धारणमिति लभ्यत इति वाच्यं, ब्रह्मशब्दस्य नमश्शब्देन सहान्वितत्वेनाका᳚न्क्षाया एवाभावादिति चेन्न, धारणशब्दस्य ससम्बन्धिपदार्थवाचकस्य सम्बन्ध्यन्तरवाचकपदसाका᳚न्क्षत्वेन नमःशब्देनान्वितस्याप्युत्थापिताका᳚न्क्षाबलेन धारणशब्देनान्वयस्योचितत्वाद् ब्रह्मधारणं लि᳚न्गधारणमित्यर्थः | प्रतियोगिसव्यपेक्षार्थशब्दनिर्दिष्टे सन्निहितस्य प्रतियोगितयान्वयो युक्तः |
SK
पृ० ७९) �एका देया षड् देया द्वादश देयाश्चतुर्विंशतिर्देया शतं देयं सहस्रं देयमपरिमितं देय�मित्याधानदक्षिणाकल्पभेदश्रुतापरिमितशब्दस्य प्रतियोगिसापेक्षबहुत्वसामान्यवाचिनः सन्निहितसहस्राधिकबहुत्वपर्यवसानस्य �अधिकं वा स्याद्बह्वर्थत्वादितरेषां सन्निधाना�दिति पूर्वतन्त्रे निर्णीतत्वात्सन्निधानाद् ब्रह्मशब्दवाच्यलि᳚न्गस्य धारणेन सहान्वयः | अनिराकरणं पुराणागमोक्ते षट्स्थानान्यतमस्थाने कदाचिदप्यजहनमवियोगः, अस्तु-भवतु प्रार्थनायां लोट् | धारयिता भूयासमित्युक्तिर्मुमुक्षूणां लि᳚न्गधारणदार्ढ्यार्थं �शतकृत्वोऽपि वदितव्य� मिति न्यायेनाम्रेडयतीति न पौनरुक्त्यम् | कर्णयोः श्रुतम्, वीरशैवदीक्षाकाले करणीयमिष्टलि᳚न्गधारणं पञ्चाक्षरीमन्त्रोपदेशपूर्वकमिति तन्मन्त्रस्य शब्दरूपत्वेन श्रोत्रेन्द्रियग्राह्यत्वात्कर्णयोः श्रुतमित्यनेन मन्त्रः प्रतिपादितः | स च लि᳚न्गधारणप्रकरणयोग्यत्वात् पञ्चाक्षरीरूपः | कर्णयोः श्रुतमित्यस्य कर्णाभ्यां श्रुतमित्यर्थः | दक्षिणकर्णमात्रस्योपदेशयोग्यत्वेऽपि कर्णद्वयस्यापि श्रवणयोग्यत्वमस्तीति द्विवचनोपपत्तिः | �घृतस्य यजती�त्यत्रेव तृतीयार्थे षष्ठी | ननु शेषाद्यर्थे षष्ठीविधानात्तृतीयार्थे षष्ठी विभक्तिः कथमुपपद्यत इति चेन्न श्वरुस्त्वनेकनिष्पत्तिः स्वकर्मशब्दत्वा�दिति चतुर्थाध्याये द्वितीयपादाधिकरणे �यूपस्य स्वरुं करोती�त्यत्र यूपात्स्वरुं करोति, यूपात्स्वरुमादत्त इत्येवं सिद्धान्तेकृते भगवता पूर्वमीमांसासूत्रभाष्यकृता श्रीशबरस्वामिना कथं षष्ठीविभक्तेः पञ्चम्यर्थत्त्वमित्याक्षिप्य, अप्राणिनः षष्ठी पञ्चम्यर्थे भवति यूपस्य स्वरुं करोति यूपात्स्वरुं करोतीति, क्वचित्तृतीयार्थे घृतस्य यजति, घृतेन यजतीति, पञ्चम्यर्थे वा घृताद्यजति घृतस्य यजतीति, क्वचिद् द्वितीयार्थे सोमस्य पिबति सोमं-पिबति, सोमात्पिबतीत्युक्तम् | तन्न्यायेनात्रापि तृतीयार्थे षष्ठी | कर्णाभ्यां श्रुतं गुरूपदिष्ठं पञ्चाक्षरीमन्त्रं जपतः अमुष्य मे माच्योढ्वं माच्योतिष्ट,
SK
च्यु᳚न् च्यवन इति धातोर्लु᳚नि ध्वमि सिज्लोपे गुणः, धस्य च ढः | पुरुषवचनव्यत्ययश्छान्दसः | पञ्चाक्षरीमन्त्रजपः सदा- पृ० ८०) भवतु माच्यवतामित्यर्थः | ऊं इति मन्त्रावसानम् | यद्वा ब्रह्मन्, गुरूपदिष्टं पञ्चाक्षरीमन्त्रं मे माच्योढ्वं माच्यावय, अन्तर्भावितणिजर्थः | वचनव्यत्ययश्छान्दसः | अतेव शमेन्द्रो मेधया स्पृणोत्वि� ति मन्त्रविषये अविस्मरणं परमेश्वरायत्तमिति दृढतया द्योत्यते || एतदुपबृहणं स्कान्दे- नमस्ते ब्रह्मणे देव आचार्याय महात्मने | तन्निराकरणं विश्वजन्यत्त्वान्मृत्युनैव हि || अनिराकरणं मेऽस्तु धारणं देशिकोत्तम | वेदशास्त्रपुराणेषु प्रसिद्धं कर्णयोः श्रुतम् || अच्योष्ट मम मे लि᳚न्गं मा च्यावय शिवाश्रयम् | उपदिष्टञ्च गुरूणा कर्णे तद्दिव्यरूपभाक् || वेदसिद्धं मन्त्ररत्नं जपेत्पञ्चाक्षरं सदा | इति || अथ वीरशैवमते पञ्चाक्षरीमन्त्रोपदेशपूर्वकं लि᳚न्गधारणं कर्तव्यमिति सिद्धान्तः | तत्प्रतिपादकेऽस्मिन्मन्त्रे प्रथमतो लि᳚न्गधारणं प्रतिपाद्यते, ततः परं कर्णयोः श्रुतमिति पञ्चाक्षरीमन्त्रोपदेशः प्रतिपाद्यत इत्येतन्मन्त्रपर्यालोचनया लि᳚न्गधारणानन्तरं पञ्चाक्षरीमन्त्रोपदेशः कुतो नानुष्ठीयत इति चेन्मैवम्, पूर्वमेव पञ्चाक्षरीमन्त्रोपदेशस्य युक्तत्वात्, पाठक्रमापेक्षयार्थक्रमस्य बलवत्त्वात् | तदुक्तं पूर्वतन्त्रे पञ्चमाध्याये प्रथमपादे द्वितीयाधिकरणे �अर्थाच्चे� ति सूत्रे | अग्निहोत्रहोमादनन्तरं पूर्वं वा यवागूपाकः कर्तव्य इति सन्देहे, पञ्चप्रयाजेषु पाठापेक्षया क्रमस्य दर्शनात्प्रत्यक्षश्रूयमाणस्य पाठस्य बाधायोगाद् द्रव्यान्तरेणाग्निहोत्रहोममनुष्ठायानन्तरं यवागूपाकः कर्तव्य इति प्राप्ते सिद्धान्तः-द्रव्यान्तरेणाग्निहोत्रहोमेऽनुष्ठिते तदनन्तरं क्रियमाणस्य यवागूपाकस्य दृष्टप्रयोजनाभावाददृष्टं प्रयोजनमवश्यं कल्पनीयम् | तच्चानुचितम्, दृष्टफलसंभवेऽदृष्टफलकल्पनाया
SK
पृ० ८१) अन्याय्यत्त्वात् | अतः पाठक्रमं बाधित्त्वा यवागूपाकस्याग्निहोत्रहोम निर्वर्तकत्त्वरूपार्थवशाद्यवागूं पचति, अग्निहोत्रं जुहोतीति पाठान्तरं कल्पनीयमिति || यद्यप्यस्मिन् पक्षे पाठान्तरकल्पनमेकं बाधकम्, तथापि अदृष्टफलकल्पनं पक्वस्य यवागूद्रव्यस्य वैयर्थ्यं, उपस्थितयवागूद्रव्यं विनानुपस्थितद्रव्यान्तरसंपादनयत्नश्चेति दोषत्रयवशादर्थक्रमानुसारेण पाठान्तरकल्पनमेकोदोषः स्वीक्रियते, �एकोहिदोषो गुणसन्निपात� इति न्यायात् | तन्न्यायेनात्रापि कर्णयोः श्रुतमिति पञ्चाक्षरीमन्त्रोपदेशपूर्वकं धारणं मेऽस्त्विति लि᳚न्गधारणमवश्यं कर्तव्यमित्यर्थक्रमानुसारेण पाठान्तरं कल्पनीयम् || नन्वयं क्रमविचारोऽत्र न संप्रतिपद्यते, पञ्चाक्षरीमन्त्रोपदेशलि᳚न्गधारणयोर᳚न्गा᳚न्गिभावाभावात्, अ᳚न्गानामेव क्रमिकाणां प्रधानोपकर्तृत्त्वमिति मीमांसान्यायादिति चेन्मैवम्, �यदा भारं तन्द्रयते स भर्तुं निधाय भारं पुनरस्तमेति� �प्रमादात्पतिते लि᳚न्गे सह प्राणान्परित्यजे�दिति श्रुतिस्मृतिपर्यालोचनया लि᳚न्गधारणस्यैव प्राधान्याल्लि᳚न्गधारणयोग्यतासंपादकपञ्चाक्षरीमन्त्रोपदेशस्या᳚न्गत् वम्, मन्त्रस्य सर्वस्याप्य᳚न्गत्वात्, तथैवार्थवादाधिकरणमन्त्राधिकरणयोर्निर्णीतत्त्वात्क्वचिदपि प्राधान्यस्याभावात्, क्रियाया एव यागादिरूपायाः प्राधान्यस्यासकृद्दर्शनाल्लि᳚न्गधारणस्यापि क्रियारूपत्वेन प्राधान्यमवश्यं वक्तव्यम् || अथ प्रधानानुष्ठानकाल एवा᳚न्गानामवश्यमनुष्ठेयत्वात् प्रयाजादीनां दर्शपूर्णमासप्रधानकाल एवानुष्ठानदर्शनाल्लि᳚न्गधारणात्पूर्वं कृतस्य पञ्चाक्षरीमन्त्रोपदेशस्य तत्कालेऽनुष्ठानाभावाच्च कथम᳚न्गत्वमुच्यत इतिचेत्, न्यायानभिज्ञस्य तवाक्षेपो युक्त एव | आधानस्य ज्योतिष्टोमयागात्पूर्वं कृतस्य कथं ज्योतिष्टोमा᳚न्गत्वम᳚न्गीक्रियते | न चाग्नीनादधीतेति विहितस्याधानस्य �कर्तुरीप्सिततमं कर्म� �तथा युक्तञ्चानीप्सित�मिति, भगवत्पाणिन्यनुशासनवशेन द्वितीया-
SK
पृ० ८२) संयोगवशादग्निनिष्पत्यर्थत्वेन ज्योतिष्टोमादिकर्मा᳚न्गत्वं नास्तीति वाच्यम्, �गुणानाञ्च परार्थत्वादसम्बन्धः समत्त्वात्स्या� दिति, तृतीयाध्यायाधिकरणे, �यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थ लक्षणाविभक्तत्वा�दिति, चतुर्थाध्यायद्वितीयसूत्रे चतुर्थवर्णके आधानकर्मा᳚न्गत्वप्रतिपादनात् | तदुक्तं भाष्यकारैः शबरस्वामिभिः ङचाधानवद्भवितुमर्हति, तत्रहि वचनमस्ति �वसन्ते ब्राह्मणोऽग्नीनादधीते�ति | न चैतद᳚न्ग�मिति | अथवा �वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेते�ति, वचनेन बृहस्पतिसवस्य ज्योतिष्टोमप्रकृतिकत्वेन वसन्तकाले क्रियमाणस्य श्हरदि वाजपेयेन यजेते�ति शरत्कालक्रियमाणवाजपेया᳚न्गत्ववत्, शंस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपती�ति वचनेन पौर्णमासेष्टिसमाप्त्यनन्तरं क्रियमाणाया वैमृधेष्टेः पौर्णमासा᳚न्गत्ववद्वा, प्रकृतेऽपि कालभेदेन क्रियमाणस्यापि पञ्चाक्षरी मन्त्रोपदेशस्य पश्चादनुष्ठीयमानलि᳚न्गधारणा᳚न्गत्वं, �पञ्चाक्षरीं गुरोः प्राप्य पश्चाल्लि᳚न्गं धरेद्बुध� इति वचनेन युज्यते || नचोदाहृतस्थलद्वयेप्युत्तरत्रा᳚न्गानुष्ठानस्य दर्शनात्पूर्वा᳚न्गस्य प्रधानासमकालमनुष्ठानं कथं सम्भवतीति श᳚न्कनीयम्, प्रधानासमकालम᳚न्गानुष्ठानस्यैतन्न्यायविषय-त्वेन पूर्वा᳚न्गमुत्तरा᳚न्गमिति विनिगमनाविरहात् पूर्वा᳚न्गस्यानुष्ठानम् || अथवा आधानस्य ज्योतिष्टोमाख्ययागा᳚न्गस्य प्रधानात्पूर्वमनुष्ठानस्य दर्शनात्पूर्वा᳚न्गस्याप्यनुष्ठानमस्तीति सिद्धमेव || न च द्वितीयया आधानस्याग्निनिष्पत्यर्थत्वम्, न तु क्रत्वर्थत्वमिति प्रागुक्तमिति वाच्यं, आधानशब्दस्य लक्षणया आहवनीयाद्यग्निवाचकत्वेनाग्नीनां क्रत्व᳚न्गत्वं सम्भवतीति भगवद्भिराचार्यैर्भट्टपादैष्टीकायां व्याख्यातत्वादग्नीनां प्रधानसमकालेऽनुष्ठितानां प्रधाना᳚न्गत्वस्य सम्भवात्; तन्न्यायेनात्राप्युपद्यत इति न काप्यनुपपत्तिः || अस्मिन्नर्थे श्रुत्यन्तरञ्च नारायणोपनिषदि-निधनपतये नमः | निधनपतान्तिकाय नमः | ऊर्ध्वाय नमः |
SK
ऊर्ध्वलि᳚न्गाय नमः | पृ० ८३) इत्युपक्रम्य, एतत्सोमस्य सूर्यस्य सर्वलि᳚न्ग ? स्थापयति | पाणिमात्रं पवित्रम् || इति || अत्र लि᳚न्गस्वरूपनिरूपणप्रस्तावे सर्वलि᳚न्गं स्थापयतीति सोमसूर्यस्वरूपशक्तिशिवात्मकलि᳚न्गं स्थापयतीति लि᳚न्गस्य धारणं विधाय, तच्च कुत्रेत्याका᳚न्क्षायां पाणिमन्त्रमिति पाणौ मननात् त्रायत इति व्युत्पत्या पाणिरेव लि᳚न्गस्याधार इति प्रतिपाद्यते, लि᳚न्गधारणयोग्यानां षण्णां स्थानानां मध्ये हस्ततलस्यापि धारणयोग्यत्वेन परिगणितत्वात् | तदुक्तं श᳚न्करसंहितायाम्- यो हस्तपीठे निजमिष्टलि᳚न्गं विन्यस्य तल्लीनमनःप्रचारः | बाह्यक्रियासंकुलनिस्पृहात्मा सम्पूजयत्य᳚न्ग स वीरशैवः || इति || न च कामनया कर्तव्यस्य मार्तिकलि᳚न्गस्य पूजार्थं पाणिस्थापन परमिदमिति वाच्यं, सर्वलि᳚न्गमिति सर्वशब्दस्यास᳚न्कुचितसर्वपरस्य स᳚न्कोचे प्रमाणाभावात् | तथाचैतदुपबृंहणं स्कन्दपुराणे- सोमस्यैतच्छक्तिरूपं सूर्यस्यैतच्छिवात्मकम् | पाणौ च मननात्त्रातं सर्वं लि᳚न्गं शिवालयम् || संस्थापयेत्सदा देहे पवित्र मुपवीतवत् || इति || अपावित्र्यकालेऽपि पावित्र्यसम्पादकत्वात्सदोपवीतवत्पवित्रमित्यर्थः || अस्मिन्नर्थे श्रुत्यन्तरञ्च ऋग्वेदे- अयं मे हस्तो भगवानयं मे भगवत्तरः | अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः | अयं माता अयं पिता अयं जीवातुरागमात् | अस्याः श्रुतेरर्थः- अयं मे हस्तः भगवान् भगोऽस्यास्तीति पृ० ८४) भगवान् माहात्म्यवानित्यर्थः | भगवत्तरः अत्यन्तमाहात्म्यवानित्यर्थः | विश्वभेषजः, विश्वस्य मायाप्रपञ्चस्य भेषजः भेषजवान् वैद्यः, अर्श आदित्वादच् | शिवाभिमर्शनः | अभिमर्शनशब्दो न केवलं स्पर्शमात्रवाची, किन्तु अभितः परितः स्पृशतीत्यभिमर्शनः निजकरतल शाखाभिर्लि᳚न्गमूर्तेः सर्वा᳚न्गं स्पृशतीत्यर्थः | अयं माता अयं पिता अयं जीवातुर्जीवनौषधरूपः | अस्मिन्नर्थे उपबृंहणम्-
SK
अयं मे हस्तो भगवानयं मे भगवत्तरः | शिवाभिमर्शनान्नित्यं शिवलि᳚न्गस्य धारणात् || इति || अस्मिन्नर्थे श्रुत्यन्तरञ्च- यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् | आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः || इति || अस्याः श्रुतेरर्थः- यत्-यज्ञोपवीतं, यज्ञो-विष्णुः, �यज्ञो वै विष्णु� रिति श्रुतेः, �यज्ञेश्वरस्त्वमसि यज्ञममुं गृणन्ती�ति चतुर्वेदतात्पर्य संग्रहकृद्वचनाच्च | यज्ञेन विष्णुना पीठरूपं प्राप्तेन, उप-समीपे वीतं-आवृतं, शंवीतं रुद्धमावृत�मित्यमरः | इत्थञ्च यज्ञोपवीतं शिवशक्त्यात्मकं लि᳚न्गमित्यर्थः | �विष्णुर्योनिं कल्पय�त्विति श्रुत्या विष्णोः शक्त्यंशत्वात् | लि᳚न्गस्य शिवशक्त्यात्मकतया विष्णोः शक्त्यंशत्वेनाधिष्ठेयपीठात्मकत्वाल्लि᳚न्गस्य तदधिष्ठातृत्वाद्यज्ञोपवीतशब्देन शिवलि᳚न्गमुच्यते | परमं- सर्वोत्कृष्टं, पवित्रं-परिशुद्धं, प्रजापतेर्ब्रह्मणः पुरस्तात्पूर्वम् | �हिरण्यगर्भं जनयामास पूर्वं� �यो ब्रह्माणं विदधाति पूर्वं | यो वै वेदांश्च प्रहिणोति तस्मै� इति श्रुत्या प्रजापतेर्हिरण्यगर्भात्पूर्वकालवर्तित्वं प्रसिद्धं | सहजं स्वभावसिद्धं | यद्वा प्रजापतेः सहजम्, प्रजापतिना-ब्रह्मणा सहजातम्, �घृतेन यजती� त्यत्र घृतस्य
SK
पृ० ८५) यजतीतिवदत्र तृतीयार्थे षष्ठी | प्रजापतिना सहोत्पन्नमिति यावत् | ननु �अजात इत्येव कश्चिद्भीरुः प्रपद्यते रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्य� मिति श्रुत्या सर्वकारणत्वेन �अजमीशानमव्यक्तं कारणात्मानमव्यय� मिति भारते द्रोणपर्वणि वचनाज्जनिरहितस्य लि᳚न्गरूपस्य शिवस्योक्तश्रुत्या जनिमता ब्रह्मणा सह सहजशब्देन सहजायत इत्यर्थे उत्पन्नेनोत्पत्तिकथनं कथमुपपद्यते, विरोधादिति चेन्न, �त्वष्टारन्तूपलक्षये�दिति तृतीयाध्याये भक्षपेटिकास्थाधिकरणे, �अग्ना३इपत्नीवन्त्सजूर्देवेन त्वष्ट्रा सोमं पिबस्वाहे�ति मन्त्रे पात्निवतग्रहे पत्निवदग्नेर्देवतात्वेऽपि तत्सह पातुस्त्वष्टुर्देवत्वमस्ति वा न वेति संशये अग्नेरिव त्वष्टुरपि सोमं पिबेति मन्त्रवर्णेन पानकर्तृत्वश्रवणाद्देवतात्वमस्तीति प्राप्ते सिद्धान्तः �सहैव दशभिः पुत्रैर्भारं वहति गर्दभी� त्यत्र यथा भारवहनायोग्यानां तत्पुत्राणां सहैवेति सहभावे श्रूयमाणेऽपि गर्दभ्या सह वहनक्रियायामन्वयो नास्ति तद्वदत्रापि त्वष्टुः सह भावेऽपि पानक्रियान्वयाभावाद्देवतात्वं नास्तीत्युक्तम् | तन्न्यायेनात्रापि प्रजापतिसहोत्पत्तिप्रतिपादकमन्त्रे प्रजापतेर्जनिमत्वेऽपि शिवस्य जनिमत्वाभावेऽपि सहजशब्दवाच्यत्वमुपपद्यते | आयुष्यं-आयुष्करं, अग्र्यं-अग्रेभवं, �अहमेकः प्रथममास�मिति श्रुतेः | शुभ्रं निर्मलं तद्यज्ञोपवीतं-लि᳚न्गं, प्रतिमुञ्च-धारय, प्रतिपूर्वकस्य मुञ्चतेर्धारणार्थकत्वसिद्धेः | ते बलं तेजश्च अस्तु | अस्मिन्नर्थे उपबृंहणम्- तदाहूय मुनीन् दृष्ट्वा पूजध्वं मुनिपु᳚न्गवाः | भस्मरुद्राक्षनिष्णाताः स्फाटिकं शैलजन्तु वा || शिवविष्णुमयं लि᳚न्गं त्रिवृत्सूत्रं सनातनम् | यज्ञोपवीतं परमं पवित्रं श्रद्धयासह || कराब्जपीठे पीठे वा भजध्वं श्रुतिकोविदाः |
SK
पृ० ८६) इत्युक्त्वा भगवान् ब्रह्मा सत्यलोकं समागमत् || संस्यूतत्वात्समस्तेषु वस्तुष्वपि च सन्ततम् | सूचनात्परमेशस्य सूत्रं लि᳚न्गमिति स्मृतम् || यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् | धारणादस्य सूत्रस्य नोच्छिष्टं नाशुचिर्भवेत् || इति || अस्मिन्नर्थे शतरुद्रीये- या ते रुद्र शिवा तनूरघोरापापकाशिनी | तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीः || इति || अस्यार्थः- हे रुद्र, �रुद्दुःखं दुःख हेतुर्वा तं द्रावयति नः प्रभुः | रुद्र इत्युच्यते सद्भिः शिवः परमकारणम् ||� इति सूतसंहितावचनात्, �रोदयस्यखिलान् जीवानन्तकाले यदृच्छया | अतः प्राज्ञैर्मुनिवरैरुद्र इत्यभिधीयसे ||� इति शैवपुराणवचनाच्च, रुदं भक्तान्नां तापत्रयात्मकं दुःखं द्रावयसि यापयसीति रुद्र, या ते तव शिवातनूः �रुद्रो वा एष यदग्निः | तस्यैते तनुवौ घोरान्याशिवान्ये�ति श्रुत्या, �लि᳚न्गं शिवा तनूः प्रोक्तं मूर्तिर्घोरतनूः स्मृता | अपापेषु च भक्तेषु तयोर्मध्ये शिवा तनूः ||� इत्युपबृंहणानुसारेण लि᳚न्गरूपा तनूः, अघोरा नित्यम᳚न्गलस्वरूपा अपापेषु-पक्वान्तःकरणेषु काशत इत्यपापकाशिनी | हे गिरिशन्त, शन्तमया अत्यन्तसुखरूपया तया लि᳚न्गरूपया तनुवानः, अस्मान् अभिचाकशीः लि᳚न्गधारणेन लि᳚न्गा᳚न्गसामरस्यरूपं परमं सुखं दत्वा प्रकाशयेत्यर्थः | पृ० ८७) अस्मिन्नर्थे उपबृंहणम्- या ते रुद्र शिवातनूरघोरापापकाशिनी | यजुषा गीयते यस्मात्तस्माच्छैवोऽघवर्जितः || इति || अस्मिन्नर्थे श्रुत्यन्तरम्- ब्रह्मणश्चोदन्यसि | ब्रह्मण आणीस्थः | ब्रह्मण आवपनमसि | धारितेयं पृथिवी | ब्रह्मणा महीधारितमेनेन | महदन्तरिक्षं दिवं दाधार पृथिवीं सदेवां | यदहं वेदेदहं धारयाणि | मामद्वेदोऽधिविस्रसत् | मेधामनीषे मा विशतां समीची भूतस्य भव्यस्यावरुद्ध्यै सर्वमायुरयाणि सर्वमायुरयाणि || इति ||
SK
अस्याः श्रुतेरर्थः- ब्रह्मणः-लि᳚न्गस्य �ब्रह्मेतिलि᳚न्गमाख्यात� मित्युपबृहणात्, �ब्रह्मप्रजननं काट� मित्यादिवैदिककोशवचनाच्च | तस्य लि᳚न्गस्य चोदनी प्रेरिका, चुद्प्रेरण इति धातोर्ल्युट्प्रत्ययान्तात् ᳚नीप् | असि भवसि, हे पृथिवि पुनश्च ब्रह्मणः लि᳚न्गस्य आणी-अणिः कीलकम् �कीलकेतुद्वयोरणिः� इत्यमरः | एकवचने द्विवचनबहुवचनादीनाञ्च मन्त्रान्तरेषु दृष्टत्वादेकवचनार्थे द्विवचनं छान्दसम् | आस्थः आ᳚नित्युपसर्गः | व्यवधानेनोपसर्गश्छान्दसः | ब्रह्मणः-लि᳚न्गस्य आवपनं पात्रं आधारभूता असि; �भूमिरावपनं मह� दितिश्रुतेः | आधारत्वं समवायिकारणत्वेन | अनेन तैजसानां लि᳚न्गानां धारणनिवृत्तिस्सूचिता | ब्रह्मण आणीस्थ इत्यनेन पीठे कृतसन्धानस्य लि᳚न्गस्य धारणं सूच्यते, तेनाकृतसन्धानानां स्फटिकलि᳚न्गानां धारणान्निवृत्तिस्सूचिता | ब्रह्मणश्चोदन्यसीत्यनेन सिद्धस्य लि᳚न्गस्य प्रेरणासम्भवात्तत्सम्बन्धिव्यापारो लक्ष्यते, स च व्यापारो वीरशैवदीक्षारूपः, दीक्षाप्रेरिकासीत्यर्थः | तस्माद्वाक्यत्रयेण वीरशैवदीक्षाद्वाराकृतसन्धानमेव पाथिवं लि᳚न्गं धारणयोग्यमिति वर्णितम् | धारितेयं पृथिवी पार्थिवं लि᳚न्गमित्यर्थः, प्रकृतिवाचकेन स्त्रीलि᳚न्गान्तेन पृथिवीशब्देन पार्थिवं लि᳚न्गमिति
SK
पृ० ८८) विकृतिरुपचर्यते, मन्त्रान्तरे तथा दृष्टत्वात् | �पृथ्वी पूतापुनातु मा� मित्यत्र स्त्रीलि᳚न्गान्तेन पृथ्वीशब्देन पार्थिवशरीरव्यवहारस्य दृष्टत्वात् | एनेन अनेनोपासकेन धारितेयं पृथ्वी पार्थिवलि᳚न्गं ब्रह्मणा धारितं भवतीत्यर्थः | तथाच ब्रह्मशब्दवाच्यलि᳚न्गधारी �ब्रह्मविद्ब्रह्मैवभवती� तिवद्ब्रह्माभिन्नोभवतीत्यर्थः | एनेनेतिधारणकर्तुरुपासकस्य निर्दिष्टत्वात्पुनश्च ब्रह्मणेति ब्रह्मशब्देनैक्यप्राप्त्यर्थ एव, अन्यथा ब्रह्मशब्दस्य वैय्यर्थ्यं स्यात् | प्राक्तनवाक्यत्रयेण पृथिवी शब्देन च इष्टलि᳚न्गधारणपूर्वकमेव प्राणलि᳚न्गभावलि᳚न्गधारणं लि᳚न्गा᳚न्गसामरस्यरूपब्रह्मप्राप्तिकरं, न केवलं प्राणलि᳚न्गभावलि᳚न्गधारणमिति सूचितम् | ननु तथाप्येनेनेतीदंशब्दसामानाधिकरण्येन ब्रह्मशब्देनोपासकस्य निर्देशः कथं मुख्यार्थः | ब्रह्मप्राप्तेः प्रारब्धक्षयानन्तरभावित्वेन जीवन्मुक्तत्वस्याप्यौपचारिकत्वेन मुख्यतया ब्रह्मशब्देन निर्देशासम्भवादिति चेन्न, पवमानेष्टौ �अग्निहोत्रहवण्या हवींषिनिर्वपती� त्यत्राग्निहोत्रहवणीशब्देन निर्वापसाधकस्य पात्रविशेषस्य निर्देशः कथं सम्भवति आदावाधानपवमानाभ्यामग्नी निपष्पत्यनन्तरमग्निहोत्रहोमस्यानेन पवमानेष्टिह- विर्निर्वापसाधकपात्रेण कर्तव्यत्वेन पवमानेष्टिवेलायामग्निहोत्रस्याकृतत्वात्, अग्निहोत्रं हूयतेऽनेन पात्रविशेषेणेत्यग्निहोत्रक्षवणीशब्दस्य यौगिकत्वेन रूढत्वाभावादिति प्राप्ते, पात्रविशेषे भविष्यद्गत्या होमसम्बन्धस्य सम्भावितत्वेनायोग्यत्वाभावात्तत्पूर्वकालेऽपि निर्देशः सम्भवति | तन्न्यायेनात्रापीष्टलि᳚न्गप्राणलि᳚न्गभावलि᳚न्गधारणेन लि᳚न्गा᳚न्गसामरस्यरूपमुक्तियोग्ये उपासके ब्रह्मशब्देन निर्देशः सम्भवतीति | ततः परमुपासकस्य लि᳚न्गधारिणः सकलजगद्धारकत्वेन प्रशंसा क्रियते महदित्यादिना | महत्-अन्तरिक्षं महीधारितं, मह्या अन्तरिक्ष धारकत्वन्त्वाधेयानामुपरितनत्वादाधारस्याधस्तनत्वादौपचारिकम् | अन्तरिक्षमाकाशं दिवं
SK
स्वर्गं सदेवां बहुदेवसहितां पृथ्वीं दाधार, दधारेतिवक्तव्ये दाधारेति छान्दसं रूपम् | अत्र धातोः कर्त्राका᳚न्क्षायां पृ० ८९) सत्यां पूर्वमिदं शब्दनिर्दिष्ट इष्टलि᳚न्गधारणक्रियाकर्तैव प्रशंसनीयत्वेन सन्निधानवशादन्वेति | विभक्तिविपरिणामः कल्पनीयः | तस्मादयमिति कर्तृनिर्देशः | उपासकः जगत्त्रयञ्च धारयति, अनेनापिजगत्त्रयधारणशब्देनेष्टलि᳚न्गप्राणलि᳚न्गभावलि᳚न्गधारणं सूचितम् | यल्लि᳚न्गं पूर्वोक्तलक्षणलक्षितत्वेन अहं वेद, इत् एतल्लि᳚न्गं धारयाणि | ननु पूर्वं धारितेयं पृथिवीत्यनेन पार्थिवलि᳚न्गधारणस्य प्रतिपादनात्पुनर्लि᳚न्गधारणप्रतिपादनं किमर्थमिति चेन्न, पूर्वोक्तज्ञानवतो लि᳚न्गधारणे योग्यतानान्यस्येति प्रतिपादयितुं, ऐहिकञ्च फलमस्तीति च वक्तुमाम्रेडनमिति न कोऽपि दोषः | तदैहिकफलमेव प्रतिपादयति मेधामनीष इति | मेधा धारणात्मिका बुद्धिः, मनीषा केवला बुद्धिः ते मेधामनीषे समीचीत्येकवचनं छान्दसम् | समीचीने विषयादिपरित्यागेन प्रत्यगाभिमुख्यकारिण्यावित्यर्थः | मा मां आविशतां आसमन्ताद्विशतां सर्वदा मयि आसाताम् | मत् मत्तः पञ्चाक्षरीमन्त्रराजो वेदः माधिविस्रसत् स्रस्तो माभूत्, स्रंसु अवस्रंसन इति धातोर्मा᳚न्योगादडागमनिषेधः, ᳚नित्वान्नलोपः | पुनश्च फलान्तरं वक्ति भूतस्येत्यादिना | भूतस्येतिलब्धस्य पालनमुच्यते, भव्यस्येत्यनेन योग उच्यते �अनन्यलभ्यो योगः स्यात् क्षेमस्तत्परिरक्षण� मित्युक्तत्वात् | योगस्य क्षेमस्य चावरुद्ध्यै प्राप्त्यै सर्वमायुरयाणि, सर्वमायुरयाणि, वेदोक्तं शतमायुः प्राप्नुयाम् | तस्मादनया श्रुत्या कृतसन्धानस्य पार्थिवस्यैव लि᳚न्गस्य दीक्षापुरस्सरं धारणे लि᳚न्गा᳚न्गसामरस्यरूपमोक्षप्राप्तिरामुष्मिकफलं, पञ्चाक्षरीमन्त्राद्यविस्मरणे विषयत्यागपूर्वकं सम्यग्ज्ञानसिद्धिर्योगक्षेमप्राप्तिः श्रुत्युक्तसर्वायुःप्राप्तिश्च फलमिति निर्णीयते ||
SK
पुरस्तात्प्रस्तर᳚न्गृह्णाति मुख्यमेवैन᳚न्करोति | तस्मिन्पवित्रे अपि सृजति | यजमानो वै प्रस्तरः प्राणापानौ पवित्रे यजमान एव प्राणापानौ दधाति |
SK
पृ० ९०) इत्यनयापि श्रुत्या लि᳚न्गधारणं विधीयते | तथाहि- प्रस्तरं लि᳚न्गाकारमुपलविशेषं �प्रस्तरो जनिम प्राणो लि᳚न्ग�मिति कोशात् | पुरस्तात् प्रथमं गुरुर्गृह्णाति; तस्मिन्पवित्रे अपि सृजति, पवित्रशब्दस्य देवतासामान्यवाचकत्वस्य वैजयन्तीकोशसिद्धत्वेन पवित्रे देवते शिवशक्ती गृह्येते | ते तावद् गुरुर्दीक्षाकाले कलावाहनक्रमेण पीठगोलकयोः, अपि सृजति, अपि शब्दो भिन्नक्रमः | सृजत्यपीत्यन्वयः, योजयत्यपीत्यर्थः | गृह्णातिना सह समुच्चयार्थः | अनेन कलावाहन पूर्वकं शिवशक्त्यात्मकं गुरुणा दत्तं लि᳚न्गं गृह्णाति धायेदित्यर्थः || ननु गृह्णातीत्यत्र लि᳚न्लोट्तव्यदादिप्रत्ययाभावेन वर्तमानापदेशेन लटा न धारणं विधीयत इति चेन्मैवम्, �औदुम्बरो यूपो भवति, व्रीहीन्प्रोक्षती�त्यादिवल्लेट्परिणामेन विधायकत्वसम्भवात् | नन्वस्तु विधायकप्रत्ययः, धारणवाचकशब्दाभावाद्ग्रहणवाचकगृह्णातेः श्रवणात्कथं धारणं विधीयेत | न च गृह्णातिना धारणं लक्ष्यत इति वाच्यं, ङ विधौ परः शब्दार्थ� इति न्यायात् | तस्मात्कथं धारणं विधीयत इति चेन्न, एतदुपरितने �धारयन् प्रस्तरम् | परिधीन् परिदधाती�ति वेष्टनविधायके वाक्ये धारणस्य शतृप्रत्ययेनानूद्य मानत्वादनुवादस्य पुरोवाद- सापेक्षत्वाद्गृह्णातीत्यत्र धारणं विधीयत एव, अन्यथा अनुवादस्याकस्मिकत्वं स्यात् | तस्मात् सिद्धवन्निर्देशबलाद्धारणं विधीयत एवेत्यभ्युपगन्तव्यम् || अथ ङ विधौ परः शब्दार्थ� इति न्यायेन गृह्णातेर्लक्षणया धारणपरत्वं कथं कल्प्यत इति चैन्मैवम्, �वायव्यं श्वेतमालभेत भूतिकामः | सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकाम� इत्यत्रालभतिनिर्वपतिभ्यां यजत्यभावेऽपि यथा योगं वाचकशब्दं कल्पयित्वा यागौ विधीयेते, अन्यथा आलभति निर्वपत्योः स्पर्शनपृथक्करणरूपार्थयोर्योगे कर्तव्येऽन्यथानुपपत्या यागीयद्रव्ये प्राप्तयोर्विधानायोग्यत्वाद्वैय्यर्थ्यं स्यात् | वैय्यर्थ्याद्वरं यथाकथञ्चिदर्थकल्पनम् | तस्मादालभति
SK
निर्वपती अर्थप्राप्तौ स्वार्था वनूद्य यागकल्पनां सूचयत इति द्वितीयाध्याये तृतीयपादे निर्णीतम् ||
SK
पृ० ९१) तन्न्यायेनात्रापि केवलगृह्णातेर्धारणे कर्तव्येऽनुपपत्त्या प्राप्तत्वेन विधातुमयोग्यत्वाद्धारणं कल्प्यते || किञ्च पञ्चमाध्याये द्वितीयपादे �द्विर्हविषोऽवद्यती�ति विषयः श्रूयते | तत्र किं पदार्थानुसमयः काण्डानुसमयो वेति संशये प्राप्ते पदार्थानुसमय एव, अवद्यतिमात्रस्य श्रूयमाणत्वात् | तस्मादाग्नेयस्य पुरोडाशस्यावदानं कृत्वा यागमनुष्ठाय, पुनश्च हविरन्तरस्यावदानं कृत्वा यागान्तरमप्यनुष्ठाय हविरन्तरेऽपि तथा कर्तव्यमिति पूर्वपक्षे प्राप्ते, अर्थतः प्राप्तस्य अवदानमात्रस्य विधौ विधेर्वैय्यर्थ्यं स्यात्, अवदानस्यादृष्टार्थता च स्यात् | अतोऽवदानं न विधीयते, किन्तु द्वित्वसंख्या विधीयते; अवदानन्तु प्रधानस्य यागस्यैकदेशः, दृष्टे सम्भवत्यदृष्टस्यान्याय्यत्वादिति न्यायेन यागार्थश्च | तस्मादवदानमात्रानुष्ठानस्यैकदेशरूपत्वेन यागाननुष्ठाने सति पदार्थानुष्ठानस्यैव जातत्वाद्धविरन्तरस्यावदानमकृत्वा यागोऽनुष्ठेय इति काण्डानुसमय इत्युक्तम् | तन्न्यायेनात्रापि केवलं लि᳚न्गग्रहणमात्रविधौ ग्रहणस्यैकदेशत्वेन पदार्थत्वाभावेन धारणपर्यन्तानुधावनमावश्यकं, अन्यथा ग्रहणमदृष्टार्थं स्यात् | अतो धारणेन मिलितं ग्रहणमेकः पदार्थः | तस्माद्दृष्टार्थतापि सिद्ध्यति | अत एकपदार्थसिद्ध्यर्थं धारणं विधीयते | अपि च गृह्णातेर्धारणे लक्षणा᳚न्गीक्रियते | न च ङ विधौ परः शब्दार्थ� इत्युक्तमिति वाच्यं, प्राचीमाहरतीत्यत्र चतुर्थाध्याये श्हाखायां तत्प्रधानत्वा�दिति द्वितीयपादे द्वितीयाधिकरणे विधिवाक्यस्य लक्षणा᳚न्गीकारात् || इत्थं खलु तत्र निर्णयः-�प्राचीमाहरती�ति शाखाहरणप्रकरणे विद्यमानेन वाक्येन शाखाया आहरणं विधीयते वा ? उत स्वार्थो विधीयते ? इति विशये प्राप्ते ङविधौ परः शब्दार्थ� इति न्यायेन शाखाया आहरणं न कर्तव्यं, किन्तु मुख्यार्थस्य विधानमिति प्राप्ते, राद्धान्तः- यदि स्वार्थ एव तात्पर्यमस्य वाक्यस्य स्यात्तदा अग्निना
SK
सिञ्चेदितिवद्वाक्यस्यायोग्यार्थदिगाहरणप्रतिपादकत्वेनाप्रामाण्यं स्यात्, अतो मुख्यार्थं परित्यज्या-
SK
पृ० ९२) मुख्यार्थः कल्पनीयः | तत्रामुख्यार्थकल्पनेऽपि प्राचीं दिशं प्रतिशाखामाहरतीति प्रकरणबशाद्यद्यर्थः कल्पेत तदा पदद्वयाध्याहारस्य कर्तव्यत्वेन महान्दोष आपतेत् | यदि प्रकरणवशाच्छाखा लभ्यत इति तद्वाचकः शब्दो नाध्याहर्तव्यस्तदापि प्रतिशब्दाध्याहारदोषो दुर्वार एव | तस्मात्प्राचीं शाखामाहरतीति प्राचीशब्दस्य प्रा᳚न्मुख्यां शाखायां लक्षणाम᳚न्गीकृत्य पूर्वोक्तदोषाः परिहरणीयाः | तन्न्यायेनात्र गृह्णातेः स्वार्थे पर्यवसाने सत्यत्यन्तवैय्यर्थ्येनादृष्टार्थकल्पनागौरवाधारणे लक्षणावश्यम᳚न्गीकर्तव्यैव || अथवा �धारयन् प्रस्तरं परिधीन्परिदधाती�त्युत्तरवाक्य एव लि᳚न्गधारणविधिः कल्प्यते | नच धारयन्निति शतृप्रत्ययस्य विद्यमानत्वात्तस्य लडर्थे विधीयमानत्वात्तस्य च विधायकत्वाभावात्कथमत्र धारणविधिरिति वक्तुं शक्यत् इति वाच्यं, �तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशुपौर्णमास्यां यजन्� इत्यत्रेव विधेः सम्भवात् | अथवा �उपरि हि देवेभ्यो धारयती� तिवदत्रापि विधेर᳚न्गीकारात् || नच तत्र धारयतीति ति᳚न् विभक्तेः श्रूयमाणत्वात्तत्र लेट् त्वपरिणामस्य कर्तुं शक्यत्वात्तत्र विधिः सम्भवति, अत्राख्यातप्रत्ययाभावात्कथं विधिरस्तीति प्रतिपादयितुं शक्यत इति वाच्यं, उपरि हि देवेभ्यो धारयतीत्यत्र हिशब्दश्रवणेन श्रूयमाणेऽप्याख्याते कुण्ठितशक्तिके लेट् त्वपरिणामस्यैव कर्तुमशक्यत्वात्तत्र कथं विधिर᳚न्गीक्रियतां, अ᳚न्गीक्रियते तु | तन्न्यायेन धारयन्प्रस्तरमित्यत्रापि विधिर᳚न्गीक्रियते | तदुक्तं द्वितीयाध्याये- �देवांश्च याभिर्यजते ददाति चे� त्यत्र यजत इत्यादिषु यच्छब्दामन्त्रणहिशब्दोत्तमपुरुषाणां विधिकल्पनकुण्ठकत्वस्य प्रतिपादनाद्विधिकल्पनमयुक्तं || ननु तथापि वैषम्यमस्ति सुबन्तत्वेन श्रवणाद्विधेरेवाभावात्, तत्र ति᳚नन्तस्य श्रूयमाणत्वेन यथाकथञ्चिद्विधिकल्पना सम्भवतीति चेन्न, स्वरूपायोग्यस्य विशीर्णदण्डस्य यथा घटजनकत्वं न भवति, तद्वदत्रापि
SK
ति᳚नन्तत्वेन परिदृश्यमानेऽपि �देवेभ्यो धारयती�त्यत्र सर्वथा विधेरभावात्,
SK
पृ० ९३) धारयन् धारयतीत्युभयोर्वैषम्यमेव नास्तीति प्रतिबन्दी | ननु प्रतिबन्द्या अनुत्तरत्वेन कथं तत्र समाधानमिति चेदित्थं �विधिस्तु धारणेऽपूर्वत्वा�दिति तृतीयाध्याये चतुर्थपादे पञ्चमाधिकरणे धारयन्नित्यत्र विधिरनुवादो वेति संशये, हिशब्दश्रवणाद्विधिर्न सम्भवतीत्यनुवाद एवेति पूर्वपक्षे, विधेरेवायं, अनुवादस्य पुरोवाद सापेक्षत्वेन देवतोद्देश्यकद्रव्यस्य समिध उपरि धारणस्य लोकतोऽप्राप्तत्वात् | नच यद्यदन्तर्हितं द्रव्यं तत्तदाच्छादयतीति न्यायेन समिध उपरि धारणं सिद्धमिति वाच्यं, विधेर्यत्रकुत्राप्यभावात् | अतो हिशब्दे श्रूयमाणेऽप्यपूर्वत्वादप्रप्तत्वाद्विधिरस्तीति निर्णयः | एवं तादृशधारणप्राप्तेरत्र शतृप्रत्ययस्थलेऽपि समानत्वाद्विधिः कल्पनीय एव | अत एवैतादृशधारणं दृष्टान्तीकृत्य भगवता बादरायणेन ब्रह्ममीमांसासूत्रकारेण तृतीयाध्याये चतुर्थपादे �ब्रह्मसंस्थोऽमृतत्वमेती�ति वाक्ये �विधि र्वा धारणव�दिति सूत्रेण सन्यासविधिः समर्थितः | तस्मादत्र प्रकृतेऽपि धारयन्प्रस्तरमित्यत्र शतृप्रत्ययान्तेन धारयन्निति पदेन विधिविपरिणामे, रात्रिसत्रस्थले �प्रतितिष्ठन्ति हवा एते, य एता रात्री रुपयन्ती�ति वाक्ये ये प्रतितिष्ठासन्ति, त एता रात्रीरुपेयुरिति विधेः सन्प्रत्ययविपरिणामवत्, धारयन्प्रस्तरमित्यत्रापि प्रस्तरं धारयेदिति विधेः शतृप्रत्ययविपरिणामे न किञ्चिदपि बाधकम् | तस्मादनयापि श्रुत्या वैदिकैर्वीरशैवैर्मुमुक्षुभिरवश्यं लि᳚न्गधारणं कर्तव्यमिति सिद्धम् | �पुरस्तात्प्रस्तरं गृह्णाति, मुख्यमेवैनं करोति�-�प्रस्तरं लि᳚न्गं धारणार्थं गृह्णाति गुरुः, एनं प्रस्तरं यावज्जीवं धारणार्थत्वान्मुख्यं करोत्युखावदित्यर्थः | तस्मिन् लि᳚न्गे पवित्रे देवते शिवशक्ती सृजति कलावाहनविधिना लि᳚न्गपीठयोः शिवशक्ती आवाहयतीत्युक्तमेवार्थमुपरितनवाक्यं प्रशंसति, �विधिना त्वेकवाक्यं स्या� दिति न्यायादर्थवादसापेक्षत्वादावाहनविधेः | �यजमानो वै प्रस्तरः� यजमानो
SK
लि᳚न्गधारणकर्ता प्रस्तरो लि᳚न्गमेव, लि᳚न्गा᳚न्गयोः सामरस्यस्य गुरुणा कृतत्वात् | पृ० ९४) �प्राणापानौ पवित्रे� पवित्रे शिवशक्ती प्राणापानौ, लि᳚न्गस्य- ऊर्ध्वं विद्यमानत्वेन प्राणस्वरूपत्वं, पीठस्याधस्थत्वादपानस्वरूपत्वं | अत एतादृशदेवतावाहनेन लि᳚न्गे प्राणापानौ यजमान एव दधाति | तस्माल्लि᳚न्गे देवतावाहनं यजमानकृतप्राणापानधारणत्वेन प्रशस्यते | एवं गुरुणा वीरशैवदीक्षापुरःसरं शिवशक्त्यात्मकतामापादितं प्रस्तरं= लि᳚न्गं धारयन्= धारयेत् | �उपांशुपौर्णमास्या�मिति वदत्रैवं लि᳚न्गधारणविधिः | �परिधीन्परिदधाति� परिधिरिव परिवेष इव विद्यमानत्वात्परिधिः, अग्निर्माणवक इति वद्गौणप्रयोगः | परिदधाति कण्ठे बध्नाति, परिधिशब्दस्वारस्यात्कण्ठे बन्धनं द्योत्यते; परिधीनिति बहुवचनं �अदितिः पाशान्प्रमुमोक्तुदेव� इत्यत्रेवैकस्मिन् लि᳚न्गधारणगुणे सम्भवति | एतच्छ्रुतिप्रतिपदार्थवशेन, पूर्वोक्तन्यायोपबृंहितवाक्यार्थवशेन च, लि᳚न्गधारणमवश्यमाचरणीयमिति सिद्धम् || अस्मिन्नर्थे श्रुत्यन्तरञ्च प्रमाणम्- भर्ता सन्भ्रियमाणो बिभर्ति | एको देवो बहुधा निविष्टः | यदाभारं तन्द्रयते स भर्तुं निधाय भारं पुनरस्तमेति || इति || अस्याः श्रुतेरर्थः- भर्ता सन् रक्षकः सन्, डुभृञ् धारणपोषणयोरिति धातुः | �भर्ता धातरि पोष्टरी�ति नानार्थेऽमरः | भ्रियमाणः ध्रियमाणः, भृञः कर्मणि शानच् | एको देवः महादेवः, �एक एव रुद्रो न द्वितीययाय तस्थे� इति तैत्तिरीयश्रुत्या, �एको हि रुद्रो न द्वितीयाय तस्थु�रिति श्वेताश्वतरश्रुत्या, श्हिव एको ध्येयः शिव᳚न्कर� इत्यर्थशिखया, �एकमेवाद्वितीयं ब्रह्मे�ति छान्दोग्योपनिषदा च, एकशब्दस्य शिवशब्दसामानाधिकरण्येन बहुषु स्थलेषु शिवैकपरत्वस्य प्रसिद्धत्वाद्देवशब्दस्य च सत्यभामेत्यत्र भामेतिवन्महादेव इति वक्तव्ये देव इति नामैकदेशे नामग्रहणेन महादेव इत्यर्थे, शिवलि᳚न्गमिति फलितोऽर्थः | दीव्यति प्रकाशत इति देवः,
SK
पृ० ९५) बहुधा बहुप्रकारं निविष्टः स्थितो भक्तान् बिभर्ति पुष्णाति, स्थूलसूक्ष्मकारणशरीरेष्विष्टप्राणभावलि᳚न्गरूपेण, एतद्विलासरूपतापन्नाचारादिमहालि᳚न्गान्तषड्विधलि᳚न्गस्वरूपेण, ज्ञानेन्द्रियान्तःकरणप्राणधातुचक्रेषु च तत्प्रकाशरूपेण निविष्टस्तत्तदिन्द्रियसमागततत्तद्विषयजातं तेषु तेषु स्थित्वा गृह्णातीति भावः | बिभर्तेः सकर्मकत्वात्कर्माका᳚न्क्षायां भक्तः कर्मत्वेन, भ्रियमाणा इत्यत्र धारणकर्तृत्वेन चोपस्थितः | भारं भ्रियत इति व्युत्पत्त्या कर्मणि घञ् | भारं भ्रियमाणं लि᳚न्गं भर्तुं धारयितुं यदा यस्मिन्काले तन्द्रयते आलस्यादिना प्रमादयुक्तो भवति स उपासकः पुनस्त्वर्थः, भारं भ्रियमाणं देवं निधाय शरीराद्वियोज्य क्वचिन्निक्षिप्य अस्तमेति शरीरादर्शनद्वारा कैवल्यं प्राप्नोति | अयं भावः-लि᳚न्गा᳚न्गसामरस्यवतो वीरशैवस्येष्टलि᳚न्गस्यैव प्राणरूपत्वेन, प्रमादात्तत्कलान्यूनतासम्पादकच्छेदभेदादिवैकल्ये प्राप्ते महालि᳚न्गैक्यरूपकैवल्यप्राप्तये शरीरशोषणद्वारा अदर्शनीयत्वं प्राप्नुयादिति | अस्मिन्नर्थे प्रमाणानि- नादरूपः शिवः साक्षाल्लि᳚न्गमित्यभिधीयते | पीठिका परमा शक्तिः सा च वै बिन्दुरूपिणी || तयोः सम्मेलनाद्देवि कला तत्र प्रतिष्ठिता | सा कला परमा सूक्ष्मा व्याप्ता सर्वत्र सर्वदा || तिलेषु तैलं पुष्पेषु गन्धो यद्वद्विभासते | कामिके- बिन्दुनादात्मकं सर्वं जगत्स्थावरज᳚न्गमम् | बिन्दुः शक्तिः शिवो नादः शिवशक्त्यात्मकं जगत् || नादाधारः स्वयं बिन्दुर्बिन्द्वाधारमिदं जगत् | जगदाधारभूतौ हि बिन्दुनादौ व्यवस्थितौ || पृ० ९६) बिन्दुनादयुक्तं सर्वं सकलीकरणं भवेत् | सकली करणाज्जन्म जगत्प्राप्नोत्यसंशयम् || बिन्दुर्वेदिः शिवो नादः शिवलि᳚न्गन्तु कथ्यते | वीरशैवक्रमः प्रोक्तः प्रायश्चित्तविवर्जितः || यद्दत्त गुरुणा लि᳚न्गमवधानेन धारयेत् | प्रमादात्पतिते लि᳚न्गे प्राणानपि परित्यजेत् || वातुलतन्त्रे-
SK
प्राणत्यागभये प्राप्ते चोरभूतग्रहैर्जलैः | अप्रमादे प्रमादे च प्राणलि᳚न्गं न वर्जयेत् || प्राणलि᳚न्गे तु विच्छिन्ने लि᳚न्गे प्राणाद्गमिष्यति | परोक्षे प्राणसंस्थायां रौरवं नरकं व्रजेत् || प्राणलि᳚न्गे तु विच्छिन्ने लि᳚न्गे प्राणान्परित्यजेत् | पुनर्दीक्षां प्राप्य तिष्ठन् रौरवं नरकं व्रजेत् || तस्मात्प्राणमयं लि᳚न्गं यावज्जीवं समर्चयेत् | तस्मिन्नष्टे तव प्राणान्परित्यज महामते || चन्द्रज्ञानागमे- प्राणास्तु वीरशैवानामिष्टलि᳚न्गे वसन्ति हि | रक्षणीयं प्रयत्नेन लि᳚न्गप्राणैरतन्द्रितैः || प्रमादात्पतिते भिन्ने प्रायश्चित्तं न विद्यते | प्राणत्यागात्परं तस्मादवधानेन धारयेत् || लि᳚न्गे नष्टेऽप्यन्यलि᳚न्गं विमोहाद्धारयेद्यदि | पतितो लि᳚न्गविभ्रष्टो रौरवं नरकं व्रजेत् || पृ० ९७) लि᳚न्गं पतिरिति प्रोक्तम᳚न्गना᳚न्गमुदाहृतं | यश्चान्यलि᳚न्गदृग्भ्रष्टस्त्वन्यगा विधवा यथा || उमामहेश्वरसंवादे- कायसम्बन्धिलि᳚न्गेन रहितश्चेत्पिशाचवत् | निमिषार्धवियोगेन विशेषात्पातकी भवेत् || गलिते प्राणलि᳚न्गे यः प्राणान्धत्ते विमूढधीः | स चण्डाल इति ज्ञेयः शिवद्रोही न संशयः || सूक्ष्मे- लि᳚न्गलोपादिदोषेषु व्रतचर्यादिलोपने | प्राणान्धत्ते प्राणलि᳚न्गी सोऽन्धे तमसि मज्जति || दैवाद्विनष्टे तल्लि᳚न्गे न धार्यं लि᳚न्गकान्तरम् | तस्मिन्नेव पुनर्लब्धे निर्दुष्टं धारयेच्च तत् || योगजे- इष्टलि᳚न्गं विभिन्नं चेद्भूयो भोक्तुं यदीच्छति | तीर्थपानं सुरापानमन्नं गोमांसभक्षणम् || शिरो योनिर्गोमुखञ्च मध्यं वृत्तञ्च पीठकम् | षट्स्थाने छिद्रयोगे तु तल्लि᳚न्गं नैव धारयेत् || तथापि धारणाद्योगी रौरवं नरकं व्रजेत् | व्रीहिव्रीह्यर्धविच्छिन्नं केशग्राह्यं प्रमादतः || पीठादिलि᳚न्गपर्यन्तं त्यजेत्प्राणान्नगात्मजे || चन्द्रज्ञानागमे- यवप्रमाणमात्रन्तु भिन्ने लि᳚न्गे महेश्वरि | आत्मसंशोषणाद्देहं विसृजेन्मम तुष्टये ||
SK
पृ० ९८) पीठस्थाने भिद्यते चेद्वृत्तस्थाने च भिद्यते | गोमुखे यदि भेदः स्याद्योनौ गोलक एव वा || बालाग्रमात्रं सूक्ष्मञ्चेदथवा त्रसरेणुवत् | अथ रेणुप्रमाणं वा न दोषश्छेदभेदयोः || दृष्ट्वैवं धारयेद्देवि सर्वशास्त्रे विनिश्चयः || किरणागमे- यवमात्रं यदिच्छिन्नं तदर्धार्धमथापि वा | पीठादिलि᳚न्गपर्यन्तं त्यजेत्प्राणान्नगात्मजे || तण्डुलार्धं पीठमध्ये तदर्धं वृत्तगोमुखे | तिलमात्रं योनिलि᳚न्गे तदाधिक्ये त्यजेदसून् || तण्डुलस्य द्विभागेन वृत्तगोमुखगोलके | त्रिस्थाने स्फुटिते लि᳚न्गे तल्लि᳚न्गं नैव धारयेत् || लि᳚न्गार्थमेव यः प्राणांस्त्यजेदैक्यं दृढं मयि | स प्राप्नोति न सन्देहः सत्यं सत्यं वरानने | लि᳚न्गार्थं वापि गुर्वर्थमाचारार्थं तथैव च || चरार्थं वा प्रसादार्थं तनुत्यागो विधीयते | एवं निष्ठापि यस्यास्ति गृहस्थोऽपि विमुच्यते || इष्टलि᳚न्गस्य वैकल्ये प्राणत्यागं समाचरेत् | शस्त्रशैलपयः पाशसमाध्यग्निविवर्जितः || त्यक्त्वान्नं भस्मरुद्राक्षधारणं नियमान्वितः | कृत्वा जपन्मनुं शैवं देहं रुद्रेण योजयेत् || इत्युक्तश्रुत्यागमस्मृतिपुराणेषु श्रूयमाणानामेतेषां वचनानाम-
SK
पृ० ९९) यमभिप्रायः- पीठगोलकयोर्बिन्दुनादस्वरूपयोर्गुरुवर्यकृतमेलनानन्तरं शिष्यकृतब्रह्मरन्ध्रस्थितचित्कलां सुषुम्नामार्गेण कृतभावमनोदृष्टिद्वारा स्वरूपतामापाद्य स्थापितयोः सकलीकृतलि᳚न्गशब्दितत्वात्, तस्यैव जगत्कारणत्वात्, तस्य लि᳚न्गस्य दीक्षासमये आत्मनो भावलि᳚न्गं प्राणानां प्राणलि᳚न्गं स्थूलशरीरस्येष्टलि᳚न्गं निष्कलं सकलनिष्कलं सकलञ्च यदाप्रभृति गुरुणा योजितं तदाप्रभृति तल्लि᳚न्गं शिष्यस्य प्राणलि᳚न्गं भवति | तस्मात्तस्य लि᳚न्गस्य वैकल्ये प्राणवियोगो मुमुक्षूणां वीरशैवानां युक्त एव | अत एवोक्तं प्रायश्चित्तविवर्जित इति | तस्मादवहितेन मनसा लि᳚न्गं धर्तव्यम् | प्रमादाद्येनकेन चिद्धेतुना लि᳚न्गवियोगिनः प्राणत्राणार्थं लि᳚न्गान्तरधारणे तद्धारणकर्तुः शिवद्रोहित्वेन, कर्मचण्डालत्वेन चोरव्याघ्रादिभीत्या प्राणभयप्रसक्तावप्यप्रमादपूर्वकत्वेन पुनर्धारणार्थं दीक्षान्तरस्य अकार्यत्वेन तस्य च नरकसाधनत्वेन, लि᳚न्गधारणकर्तुर्वीरशैवस्य लि᳚न्गपतिकतया लि᳚न्गविप्रयोगे पतिवियुक्ततया विधवासाम्येन, लि᳚न्गे च्छेदभेदादिवैकल्ये सम्भाविते व्रताचरणनियमानां विमोहविस्मरणादिना लोपसम्भवेऽपि प्राणान् धारयितुरन्धतमस प्रवेशयोग्यत्वेन, प्रमादान्नष्टस्य पुनर्दृष्टस्य तस्यैव निर्दृष्टस्य धार्यत्वेन, इष्टलि᳚न्गस्य वैकल्ये सम्प्राप्तेऽपि भोक्तुः पातुश्च भोज्यपेययोर्गोमांससुरासमानत्वेन, लि᳚न्गस्य च शिरोवृत्तादिषट्स्थानान्यतमस्थाने छिद्रयोगे अधार्यस्य तस्य धारणे तधारयितू रौरवनरकपतनभाक्त्वेन, लि᳚न्गे स्थानभेदेन छेदादिपरिमाणेयत्तया लि᳚न्गस्य ग्राह्यत्वाग्राह्यत्वविवेकेन, लि᳚न्गार्थं गुर्वर्थं शिवाचारार्थं चरार्थं प्रसादार्थं देहशोषणपूर्वकप्राणत्यागस्य वैधत्वेन शिवसामरस्यप्रापकत्वेन, प्राणत्यागस्य शस्त्रादिसाधनव्यतिरेकेण अन्नत्यागपूर्वकं देहशोषणेन भस्मरुद्राक्षधारणादिशैवधर्मानुष्ठाननियमपूर्वकं कर्तव्यत्वेन च श्रवणाल्लि᳚न्गधारणं
SK
वीरशैवैर्मुमुक्षुभिरवश्यं कर्तव्यमिति सिद्धम् || पृ० १००) इदं लि᳚न्गधारणं भगवतो वेदव्यासस्याप्यभिमतमिति तत्सूत्रार्थस᳚न्गतिः क्रियासारकारैः प्रदर्शितः- तन्निष्ठस्य च मोक्षोऽत्र ह्युपदेशाद्विधीयते | तन्निष्ठा ब्रह्मनिष्ठा हि ते वै मोक्षाधिकारिणः || तस्माद्विधानमिति च यदुक्तं तन्मृषां भवेत् | जगतः कारणं ब्रह्म चोपास्यं हि मुमुक्षुभिः || नायमात्मेति वाक्येन शिवस्य वरणं तनोः | वरणं नाम तद्रूपधारणं विधिमार्गतः || लि᳚न्गा᳚न्गेत्यादिवाक्येन मोक्षमार्गैकतत्परैः | अमृतस्येति वाक्येन धारणं प्रतिपादितम् || तन्निष्ठा एव मनुजा अतिवर्णाश्रमे रताः | अथोमित्यादि वाक्येन निश्चितं लि᳚न्गधारणम् || तन्मोक्षसाधनं पुण्यं तद्धार्यं हृदयाम्बुजे || इति || तथा �छन्दोभिधाना�दित्यादिसूत्रेऽपि �चेतोऽर्पणं धारणं च हृदयाम्भोजमध्यमे� इति || तथैव �जीवमुख्यप्राणलि᳚न्गा�दित्यादि सूत्रेऽपि �अहं संज्ञाविनिर्दिष्टं हृदब्जमतिदुर्लभ�मित्युपक्रम्य, �तस्माद्धृद्यम्बुजे धार्यं ब्रह्मलि᳚न्गं परात्परं | प्राणादप्यधिकं लि᳚न्गं यस्माच्छ्रेयः परं भवेत् || तत्प्राणलि᳚न्गं मोक्षार्थी विदध्याद्धृदयाम्बुजे� इति प्रथमाध्याये प्रथमपादान्ते प्रतिपादितम् || क्रियासारे �तन्निष्ठस्य मोक्षोपदेशात्� इति सूत्रे कारिकारूपेण निबद्धानां वचनानामयमभिप्रायः- प्रधानकारणत्वनिराकरणप्रस्तावनायामीक्षत्यधिकरणे �तदैक्षत बहुस्यां प्रजायेये�तीक्षति श्रवणं �कूलं पिपतिषती�तिवत्प्रधाने औपचारिकमिति चेन्न, ईक्षणकर्तुः
SK
पृ० १०१) श एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मे�त्यात्मशब्देन व्यवहारात् | न च ममात्मा भद्रसेन इति राजवचने सेनापतौ भद्रसेने आत्मशब्दव्यवहारादात्मशब्दोऽपि गौण इति वाच्यं, �तन्निष्ठस्य मोक्षोपदेशात् |� इति सूत्रस्य तन्निष्ठस्यात्मशब्दितब्रह्मनिष्ठस्य मोक्षोपदेशात्, �तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ सम्पत्स्ये� इति श्रुतेरित्यर्थमुपवर्ण्य, जगत्कारणं मुमुक्षुभिरुपास्यं | ब्रह्मनिष्ठा सा च शिववरणरूपा, तथाच श्रुतिः- ङायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन | य मे वैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वा�मिति | तच्च शिवविवरणं विध्युक्तेन मार्गेण तद्रूपधारणं, तच्च �लि᳚न्गं शिवा तनुः प्रोक्तं सा चाघोरतनुः स्मृते� त्युपबृंहणानुरोधाल्लि᳚न्गस्य धारणम् | तत्र किं प्रमाणमित्याश᳚न्क्य, धारणप्रतिपादकमुपनिषद्वाक्यद्वयमुदाहरति | वेदान्तसारोपनिषदि- अथाश्वलायनो भगवन्तं परमेष्ठिनं परिसमेत्योवाचाविमुक्तं सद्यो मुक्तिकरं ब्रूहीति | सहो वाच याज्ञवल्क्यः परमेष्ठी शिवाद्वैतश्चतुर्थः शान्तः स एव ध्येयः स एव पूज्यस्तद्ध्यानादविमुक्ता भवन्ति || अयं विशेषः, अत्याश्रमिणः साक्षादमृतीभूत्वा मोक्षीभवन्ति | न कर्मणा न प्रजया धनेन शिवं प्रपूज्यामृतत्वमानशुः | परेण शुद्धेन हृदब्जमध्ये लि᳚न्गं धृत्वा ज्योतिषि संविशति | अत्याश्रमस्थाः परिमुच्यन्ति सर्वे लि᳚न्गा᳚न्गशोभा मोक्षमार्गैकनिष्ठाः | ते ब्रह्मलोके तु परान्तकाले शिवप्रसादात्परिमुच्यन्ति सर्वे || इति || तथा च तैरेवोपक्रमोपसंहारदशायां द्वितीयखण्डान्ते प्रतिपादितं- �लि᳚न्गा᳚न्गसामरस्यं च शरीरे लि᳚न्गधारणं | नियमेनैव कृत्वा ते मुक्ताः संसारसागरात् ||� इति || मोक्षमार्गैकनिष्ठा इति वाक्यसिद्धमर्थमुदञ्चयति श्रुत्यन्तरं- �मोक्षमार्गैकतत्परा� इति, �अमृतस्य
SK
पृ० १०२) देवधारणो भूयासमिति च | तथा चोदाहृतोपनिषद्वाक्यद्वयेन लि᳚न्गधारणं प्रतिपादितम् || इत्थं सकलश्रुत्यागमपुराणब्रह्मसूत्रेषु प्रतिपाद्यतया लि᳚न्गधारणं मुमुक्षुभिर्वीरशैवैरवश्यमनुष्ठेयमिति सिद्धम् || इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्बोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषटस्थ लतत्त्वबोधसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यश्रीमरितोण्टदार्यव् इरचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्यकेलदिसदाशिवराय नायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द्रधर्मपत्नी मल्लाम्बाहृदयानन्दनबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे तृतीयं प्रकरणम् || पृ० १०३) वीरशैवानन्दचन्द्रिकायां वादकाण्डे चतुर्थं प्रकरणम् | श्रीमद्गुरो त्वया सम्यग् लि᳚न्गधारणवैभवं | उदीरितं सप्रपञ्चं श्रुत्वा व्याप्तोऽस्मि हर्षतः || ततः परं निरूप्यं यत्तनिन्नरूपय विस्तरात् | शृणु राजन् ब्रवीम्यद्य स्फुटं ज᳚न्गमवैभवम् || अनादिभक्तपश्चिमहृदयस्थचिन्मयनिरञ्जनतत्त्वस्य विचारः प्रस्तूयते || आगमपुराणवचनैरनादिभक्तपश्चिमहृदयचिन्मयमण्डलत्रयमध्यस्थचित् पद्मान्तश्चित्प्रणवाभ्यन्तरस्थितशून्यलि᳚न्गनिष्कललि᳚न्गप्रणवलि᳚न्गादिप् रवर्तकनिर्गुणनिराकारोपासकोपासनार्थकल्पिताकारसकलचेतनाचेतनप्रप ञ्चनिर्माणपारीणचिच्छक्तिसामरस्यसम्पन्ननिरञ्जनज᳚न्गमतत्त्वस्योत्कृष्. तत्वं प्रतिपाद्यते, तथा हि- पश्चादनादिभक्तस्य हृत्पद्मस्यान्तरे सदा | चिन्मण्डलत्रयोपेतप्रणवासनमध्यगः || निरञ्जनः सप्रणवस्वरूपोऽत्र निगद्यते | निराकृतं रञ्जनं यन्मायामोहविजृम्भितं ||
SK
पृ० १०४) येन स्वरूपसिद्धेन स भवेद्धि निरञ्जनः | इदं तस्य निरालम्बस्वरूपं समुदीरितम् || चतुर्वेदाश्च तद्गर्भं पुराणं तस्य मध्यमम् | योगिनो मुनयः सर्वे ज᳚न्गमा᳚न्घ्रिसमाश्रिताः || तस्य देहे समस्तानि भुवनानि चतुर्दश | पादयोरतलं विन्द्यात्पदोर्ध्वे वितलं तथा || ज᳚न्घयोः सुतलं ज्ञेयं जानुदेशे महातलम् | तलातलं तदूर्वोश्च गुह्यस्थाने रसातलम् || कटिबन्धेषु पातालं सप्तलोका इतीरिताः | भूलोको नाभिमध्ये तु भुवर्लोकोऽस्य चोदरे || हृदये चापि स्वर्लोको जनलोकः शिरोधिगः | ताल्वोश्चापि तपो लोकः सत्यलोको ललाटके || महो लोकस्तस्य मूर्ध्नि चतुर्दश समीरिताः | ब्रह्माण्डं मुकुटं तस्य वदनं गगनं शृणु || तद्बाहवो दिशः सर्वा नेत्रे चन्द्रदिवाकरौ | शरीरं व्योमरूपं च पातालं पादप᳚न्कजम् || करस्थले शून्यलि᳚न्गं मेघः सर्वजटाः शुभाः | चन्द्रज्योत्स्ना विभूतिश्च देवाः सर्वे क्रियामयाः || नक्षत्राणि च पुष्पाणि रुद्राक्षाः कुलपर्वताः | सागरो जलपात्रं च कन्था सृष्टिमयं जगत् || आसनं पृथिवी तस्याप्यहोरात्रं गुहामठाः | त्रिकालज्ञानसौभाग्यमृतवः षट्स्थलं प्रिये || पृ० १०५) शेषस्तस्य कटीसूत्रं ज्ञानमुद्रा च वा᳚न्मयी | मेरुर्दण्डो गुणः सूत्रं गोत्रं शिवकुलं भवेत् || वनस्पतिश्च लोमानि एवमेतानि पार्वति | इदं तस्य तु साकारं स्वरूपं परिकीर्तितम् ||
SK
इत्यागमवचनसन्दर्भेण अनादिभक्तहृदयपाश्चात्यभागस्थितचिन्मण्डलत्रयोपेतप्रणवपीठमध्य् अस्य मायाविजृम्भणनिराकरिष्णुतया निरञ्जनज᳚न्गमशब्दाभिधेयस्य निराकारसाकारस्वरूपद्वयानुरूपतया सर्व पदार्थयोजनाक्रमप्रतिपादनात्तस्यैव क्रियाकाण्डोक्तदशा᳚न्गसृष्ट्युद्धरणाख्यग्रन्थोक्तवचनपर्यालोचनया निर्गुणब्रह्मापरपर्यायानादिभक्तपश्चिमहृदयमध्यगतनिरञ्जनज᳚न्गम᳚ सब्दिताच्चित्स्वरूपाद् ब्रह्मणः शून्यलि᳚न्गशब्दितस्य निर्गुणतत्वस्य, तस्मान्निष्कललि᳚न्गशब्दितस्य निर्गुणतत्वस्य, तस्माच्चिन्नादचिद्बिन्दुचित्कलात्मकाखण्डगोलकाकारतेजस्स्वरूपमहालि᳚न्गश् अब्दितस्य निर्गुणतत्त्वस्य, तस्मादनाहतनादाख्यावाग्जप्रणवलि᳚न्गशब्दितस्य निर्गुणतत्वस्य, तस्मात्सच्चिदानन्दनित्यपरिपूर्णत्वरूपपञ्चलक्षणलक्षितषड᳚न्गदशा व्ययाविष्टस्य नन्दि-भृ᳚न्गि-वीरभद्र-घण्टाकर्ण-गजकर्ण-रेणुक- दारुकप्रमुखप्रमथनाथयूथध्यातव्यस्य निर्गुणशिवतत्वस्य, तस्मात्पञ्चसादाख्यपञ्चकलापञ्चशक्तिपञ्चमन्त्रपञ्चब्रह्मात्मकसकलन् इष्कलात्मकस्य सनकसनन्दसनत्कुमारसनत्सुजातादियोगिपु᳚न्गवस᳚न्घोपास्यस्य वशिष्ठागस्त्यनारदभरद्वाजात्रिगौतमभृगुकण्वदधीच्यादिमहर्षिनिव हमहनीयस्य सद्योजातादिमुखपञ्चकविशिष्टस्य सदाशिवतत्वस्य, तत्र चिच्छक्त्यादिशक्त्योर्निराकारत्वात्तद्वतोः शिवसादाख्यामूर्तसादाख्ययोर्निष्कलत्वे इच्छाज्ञानक्रियाशक्तीनां साकारत्वापादकगुणरूपत्वात्तद्वतां मूर्तकर्तृकर्मसादाख्यानां सकलतत्वे तस्मात्सदाशिवतत्वस्य सकलनिष्कलत्वे च सिद्धे तस्मात्सोमधारित्वादिमहालि᳚न्गान्तपञ्चविंशतिलीलामूर्तिप्रवर्तकस्य शुद्धस्फटिकस᳚न्काशस्य त्रिलोचनस्योमासमेतस्य मृगपरशुवराभयहस्तस्य
SK
पृ० १०६) ब्रह्मविष्णुरुद्रादिसर्वसुपर्वोपास्यस्य महेश्वरतत्वस्य, तस्मादेकादशरुद्रनियामकस्य भवमृडहराभिधानव्यूहात्मकस्य रुद्रस्य, तस्मान्मत्स्यकूर्मादिदशावतारविशिष्टस्य श᳚न्खचक्रगदापद्मशंशोभिचतुर्भुजस्य, नीलोत्पलदलश्यामस्य लक्ष्मीपतेर्वैष्णवकोटिसंस्तूयमानस्य वैकुण्ठवासिनो नारायणस्य, तस्माच्चतुर्मुखस्य नवब्रह्मनियामकस्य सरस्वतीसमेतस्य सत्यलोकवासिनो ब्रह्मणः, तस्मात्पञ्चभूतपञ्चीकरणद्वाराण्डजस्वेदजोद्भिज्जजरायुजात्मकचेतनप् रपञ्चस्य गिरिनदीपाषाणद्यचेतनप्रपञ्चस्य चोत्पत्तिरिति सर्वतत्वोत्पत्तिकारणत्वं निरञ्जनज᳚न्गमस्य श्रूयत इति तस्य सर्वोत्तमत्वं मुमुक्षुवीरशैवप्राप्यत्वं प्रतीयते || ननु निरञ्जनज᳚न्गमसकाशाच्छून्यलि᳚न्गनिष्कललि᳚न्गादीनां शिवतत्वपर्यन्तानां निर्गुणानां निरवयवानां व्यापकानां सृष्टिः सृज्यमानत्वञ्च प्रतिपाद्यमानं कथं स᳚न्गच्छत इति चेदुच्यते- निरवयवान्निरञ्जन ज᳚न्गमतत्वान्निरवयवानां शून्यलि᳚न्गादीनामुत्पत्तिर्न स᳚न्गच्छत इति यदुक्तं तदतिमन्दम् | श्रीमन्महानादिभक्तः स्वप्रकाशकोऽद्वितीयकः | योऽसौ ब्रह्मेति सम्प्रोक्तः शिवतत्वार्थवेदिभिः || तस्मात्स्वयं प्रादुरभूत्स निरञ्जनज᳚न्गमः | तच्छिखायां शून्यलि᳚न्गं सञ्जातं विश्वकारणम् || तस्मान्निष्कललि᳚न्गात्तु महालि᳚न्गमभूत्स्वयम् | तस्मात्प्रणवलि᳚न्गन्तु सृष्ट्युन्मुखमजायत || एतस्माच्छिवतत्वन्तु सादाख्यञ्च ततोऽभवत् | तस्मान्महेश्वरो जातस्तस्माद्रुद्रः समुद्भवः || तस्माज्जनार्दनो जातस्तस्माज्जातः पितामहः | पितामहात्समुद्भूतं जगदेतच्चराचरम् ||
SK
पृ० १०७) इति कामिकाद्यागमस᳚न्गृहीतदशा᳚न्गसृष्ट्युद्धरणाख्यग्रन्थस्थितवचनानु रोधेन निरवयवान्निरञ्जनज᳚न्गमान्निरवयवानां शून्यलि᳚न्गादीनामुत्पत्तिरवश्यं प्रमाणबलाद᳚न्गीक्रियते | अन्यथा पशुयागादीनामपि हिंसात्वं स्यात् | तथा हि- एकादशपशोरवदानानि तानि द्विरवद्यतीति, हृदयं जिह्वा वक्षो यकृद्वक्यौ सव्यं दोरुभेपार्श्वे गुदतृतीयमित्येकादशावदानेषु सत्सु अहिंसात्वं कथं स्यात् | परन्तु दीक्षितो �यदग्नीषोमीयं पशुमालभेत� इति श्रुत्या, �यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा | यज्ञो हि भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ||� इतिस्मृत्या चाहिंसात्वम᳚न्गीकरोति | अत एव क्रत्वन्तर्वर्तिनी हिंसा अधर्मसाधिका, हिंसात्वात् क्रतुबाह्यहिंसावदित्यनुमाने निषिद्धत्वमुपाधिरिति प्रतिपाद्य हेतोः सोपाधिकत्वाद्व्यभिचारोन्नायकत्वेन साध्यासाधकत्वम᳚न्गीकृतन्तार्किकैः | अत एवाशौचाद्याचाराणां सकलजनानुष्ठेयेनां युक्तिं विना वचनमात्रप्रमाणकानां सर्वशिष्टजना᳚न्गीकारो दृश्यते | अत एव नरकपालं शुचि प्राण्य᳚न्गत्वाच्छ᳚न्खवदित्यनुमानं ङारं स्पृष्ट्वास्थिसस्नेहं सवासा जलमाविशे�दिति वचनबलाद्बाधितम᳚न्गीकृतं तार्किकैः | श्ह᳚न्खास्थिपावनमपावनमस्थिनृणामित्थं स्थिते वचनमत्र परायणं न� इत्यभियुक्तवचनबलादेव श᳚न्थास्थ्निपावनत्वमपावनत्वञ्च मानुषास्थ्नामिति निर्णीयते | तस्मात्प्रमाणतरवचनगम्येऽर्थे युक्तिर्वक्तव्येति दुरभिमानमात्रं | यद्येवं चन्द्रप्रादेशिकत्वस्य सर्वजनानभूयमानत्वेन सोपपत्तिकत्वादष्टाशीतिसहस्रयोजनात्मकचन्द्रमण्डलप्रतिपादकानां ज्योतिश्शास्त्रादिवचनानामप्रामाण्यं स्यात् | अतोऽत्रापि निरवयवान्निरवयवोत्पत्तौ परमाप्तपरशिवप्रणीतकामिकाद्यागमवचनमेव प्रमाणम् | किञ्चात्मनो निरवयवत्वादाकाशस्यापि निरवयवत्वात्तस्मात्तस्योत्पत्तिर्न स्यात् | न चेष्टापत्तिः, �तस्माद्वा एतस्मादात्मन आकाशः सम्भूत� इति श्रुतिविरोधापत्तेः | अपि चाकाशाच्छब्दस्योत्पत्तिर्न
SK
पृ० १०८) स्यात् | तस्मादेतादृशयुक्तिबलाच्च निरवयवान्निरञ्जनज᳚न्गमान्निरवयवानां शून्यलि᳚न्गादीनामुत्पत्तिरवश्यम᳚न्गीक्रियते| तस्मात्सर्वतत्वोत्तीर्णो निरञ्जनज᳚न्गम एव मुक्तप्राप्य इति स एव सर्वसेव्यः | नन्दिपुराणे- अहं ममत्वशून्यत्वान्निजबोधैकरूपधृत् | स्वयमेव स्वयं भूत्वा चरतीति चरः स्मृतः || पारमेश्वरे- ईषणत्रयनिर्मुक्ता ज्ञानविज्ञानतत्पराः | दृढवैराग्यसम्पन्ना धीरास्ते शिवयोगिनः || सिद्धान्तशिखामणौ- स्वरूपज्ञानसम्पन्नो ध्वस्ताहंममताकृतिः | स्वयमेव स्वयं भूत्वा चरतीति चराभिधः || अन्तर्धाय ललाटाक्षिशशा᳚न्कं सम्पिधाय च | अवामभागललनो ज᳚न्गमः परमेश्वरः || वीरागमे- अहमेव महेशानि धृत्वा ज᳚न्गमविग्रहं | मद्भक्तानुग्रहार्थाय पर्यटामि महीतले || हस्तपादादिसाम्येन मर्त्यान् रुद्रवपुर्धरान् | प्राकृतानेव मन्वाना नैव जानन्त्यपण्डिताः || धारयेत्समताकन्थां क्षमाख्यं भस्मघुण्टिकां | दयाकमण्डलुं वत्स ज्ञानदण्डं मनोहरं || वैराग्यभिक्षापात्रञ्च भक्तिभिक्षाञ्च याचते | पृ० १०९) कन्थाकमण्डलुर्दण्डः खर्परो भस्म भस्त्रिका || एताः पञ्च महामुद्रा ज᳚न्गमानाञ्च लक्षणम् || इत्यादिविविधवचनबलान्निरञ्जनज᳚न्गमस्य कन्थाकमण्डलुदण्डपात्रभस्मभस्त्रिकाख्यान्तर᳚न्गबहिर᳚न्गपञ्चमुद्रा समन्विताष्टावरणपञ्चाचारविशिष्टस्य विशिष्टाद्वैतज्ञानक्रियावतश्चरशब्दितस्य ज᳚न्गमस्याभेदोऽ᳚न्गीक्रियते || तस्माच्चरशब्दितो ज᳚न्गम एव सर्वोत्तमः, तस्यदर्शनस्पर्शनसम्भाषणसम्पूजनतच्चरणतीर्थप्रसादसेवनादीना ं मुक्तिसाधनत्वमिति सिद्धम् ||
SK
इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्भोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थ लतत्त्वबोधसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यमरितोण्टदार्यविरचि ते यडवमुरारिकोटिकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्य केलदिसदाशिवरायनायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द् रधर्मपत्नीमल्लाम्बाहृदयानन्दबसववसुधासक्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे चतुर्थं प्रकरणम् || पृ० ११०) वीरशैवानन्दचन्द्रिकायां वादकाण्डे पञ्चमं प्रकरणम् | अश्रौषं ज᳚न्गमोत्कर्षमहृष्यं नितरां गुरो | मदीयं हृदयं जातमाश्चर्यरसनिर्भरम् || निरूपणीयं यत्पश्चात्संकीर्तय तदद्य मे | वदामि शृणु राजेन्द्र पादोदकमहोन्नतिम् || सकलश्रुतिस्मृतिपुराणागमेतिहासेषु परमश्रेयःसाधनतया शिवप्रसादस्य देवृषिगणसेव्यत्वाद्यथातथैव शिवपादोदकस्यापि निखिलकलुषनिवृत्तिद्वारा सकलश्रेयःसाधनतया प्रतिपाद्यते || तथा हि- पृथिव्यां यानि तिर्थानि या नद्यः पुण्यदाः शुभाः | मत्पादे स्थापिता नित्यं तद्धार्यञ्च पदोदकं || शिवरहस्ये- मम पादोदकं पुण्यं सदा धार्यं मदाश्रितैः | त्र्यक्षा दशभुजा ज्ञेया मम तुल्यपराक्रमाः || पृ० १११) आदित्यपुराणे- अभिषिक्तजलं प्रातः पिबेन्नित्यं दिनेदिने | शूलकुष्ठाद्यपस्मारज्वराणां भेषजं प्रिये || हिमोदकं महातीर्थं ग᳚न्गा च यमुना नदी | सदा सन्निहितास्त्वैताः शम्भोः पादोदके मुने || अगम्यागमनाश्चैव पापाचाररताश्च ये | तेऽपि पूता भवन्त्याशु शिवपादाम्बुधारणात् || पादोदकं धरेद्यस्तु लि᳚न्गमूर्तेः शिवस्य यत् | प्रक्षालयति तत्तस्य ब्रह्महत्यादिपातकम् || ब्रह्माण्डपुराणे-
SK
कुरुक्षेत्रे नैमिषे च भूमिभागे च ये शुभाः | पादतीर्थोदकस्यैते कलां नार्हन्ति षोडशीम् || अकालमृत्युमथनं सर्वव्याधि विनाशनम् | सर्वपापप्रशमनं शम्भोः पादोदकं शुभम् || सर्वम᳚न्गलमा᳚न्गल्यं सर्वपावनपावनम् | सर्वतीर्थफलं सद्यः प्राप्यते मूर्ध्नि धारणात् || पादोदकं पुरभिदः पाशजालहरं परम् | पाणिशुक्तिभिरादाय पपुः कामं गणेश्वराः || शम्भोः पादोदकं पीत्वा पश्चादशुचिश᳚न्कया | यद्याचामति मोहेन तं विद्याद्ब्रह्मघातिनम् || आदित्यपुराणे- पादौ प्रक्षाल्य देवस्य कराभ्यां कमलेक्षण | अभ्युक्षेदात्मनो मूर्धन्यतिथेश्च गुरोस्तथा || पृ० ११२) शिवरहस्ये- मत्प्रसादोदकं पुण्यं सदा धार्यं मदाश्रितैः | त्र्यक्षा दशभुजा ज्ञेया मम तुल्यपराक्रमाः || इत्यादिबोधायनसूत्रशिवरहस्यादित्यस्कान्दादिपुराणवचनैः शिवपादोदकस्येतिकर्तयतापूर्वकं विधानात्, भूतलस्थिताशेषतीर्थाश्रयत्वात्, शिवसारूप्यप्राप्तिसाधनत्वात्, सकलरोगनिवर्तकौषधरूपत्वात्, सर्वमहापातकोपपातकनिवर्तकत्वात्, सकलप्रमथगणसेवितत्वात्, मुमुक्षुभिः शिरसि धार्यत्वं पेयत्वञ्च प्रतिपाद्यते | तस्मादवश्यं शिवपादोदकं मुमुक्षुभिः सेवनीयम् || ननु- सालग्रामशिलावारि पापहारि विशेषतः | आजन्मकृतपापानां प्रायश्चित्तं विधीयते || गारुडे- पादोदकं पिबेन्नित्यं नैवेद्यं भक्षयेद्धरेः | यदीयं भुक्तनैवेद्यं पादाम्बुकुसुमं जलम् || धर्ममर्थञ्च कामञ्च मोक्षञ्च कुरुते क्रमात् | अग्राह्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम् || सालग्रामस्य संसर्गात्सर्वं याति पवित्रताम् | इतिवचनैः शिवनिर्माल्यस्य शिवपादोदकस्य च सालग्रामनिवेदनसहितस्यैव ग्राह्यत्वश्रवणात्केवलं निर्माल्यादिकं सर्वथा न ग्राह्यम् | तथैव केवलशिवपादोदकस्वीकारनिषेधः श्रूयते || तथाहि- सालग्रामादिभिः शम्भोर्वेष्टितस्य यदर्पितम् | तद्भोक्तव्यं द्विजैर्नित्यं तत्तोयमपि धारयेत् ||
SK
पृ० ११३) शिवे निवेदितं भक्तं सालग्रामाद्यवेष्टिते | हेयं तद्भोजने चान्द्रायणकृन्नात्र संशयः || अन्यथा मांसतुल्यं स्यात्तत्तोयमसृजा समम् | इत्यादिवचनैः केवलशिवपादोदकस्य प्रत्यवायसाधनत्वेनापरिग्राह्यत्वश्रवणात्, विष्णुपादोदकस्य सकलपापनिवर्तकत्वेन श्रवणात्, सालग्रामसहितशिवाभिषेकोदकस्य ग्राह्यत्वं केवलशिवाभिषेकोदकस्यासृक्सदृशतया अग्राह्यत्वं सिद्धमिति शिवपादोदकं न ग्राह्यमिति चेन्न, केवलशिवपादोदकस्य बोधायनेन ग्राह्यत्वप्रतिपादनात् | तथाहि- अथातो महादेवस्य पादोदकविधिं व्याख्यास्यामः | भगवतः पादौ प्रक्षाल्य श᳚न्खं पात्रं वापूर्य गन्धादिभिरभ्यर्च्याथाभिमन्त्रयेत् �इमं मे ग᳚न्गे यमुने� इत्यादिना | सर्वो वै रुद्रः, कद्रुद्रायेतिद्वाभ्यां मार्जनं कृत्वा ऋतं सत्यं परं ब्रह्मेति प्राशयेत् | य एव कुर्यात्स्वकुलजान्दशपूर्वान्दशापरानात्मानञ्च तारयेदित्याह भगवान्बोधायनः || इति || एतदुपबृंहणे पुराणागमवचनानि, आदित्यपुराणे- पादौ प्रक्षाल्य देवस्य कराभ्यां कमलेक्षण | अभ्युक्षेदात्मनो मूर्धन्यतिथेश्च गुरोस्तथा || स्कान्दे- सर्वतीर्थाभिषेका द्या शुद्धिर्मनसि जायते | गुरोर᳚न्घ्रिजलस्पर्शात्सा स्मान्मूर्ध्नि धारयेत् || पृथिव्यां यानि तीर्थानि या नद्यः पुण्यदाश्शुभाः | मत्पादे स्थापितं नित्यं तस्माद्धार्यं पदोदकम् || पृ० ११४) शिवरहस्ये- मत्प्रसादोदकं पुण्यं सदा धार्यं मदाश्रितैः | त्र्यक्षा दशभुजा ज्ञेया मम तुल्यपराक्रमाः || सिद्धान्तशेखरे- अविद्यामूलनाशाय जन्मकर्मनिवृत्तये | ज्ञानवैराग्यसिद्ध्यर्थं गुरोः पादोदकं पिबेत् || आदित्यपुराणे- अभिषिक्तजलं प्रातः पिबेन्नित्यं दिने दिने | शूलकुष्ठाद्यपस्मारज्वराणां भेषजं प्रिये || स्कान्दे- प्राणलि᳚न्गा᳚न्गसम्बन्धिपादप्रक्षालनोदकम् | लि᳚न्गा᳚न्गस᳚न्गसहितः पिबेत्तत्तस्य पुण्यदम् || आदित्यपुराणे-
SK
लि᳚न्गोदकञ्च पादाम्बु प्रसादाम्बु च तत्त्रिधा | नमस्कृत्यापि शिरसा धार्यं पेयं शिवार्थिभिः || दास्यमार्गप्रपन्ना ये श्रौतपाशुपते स्थिताः | तैरेव पेयं धार्यञ्च घ्रातव्यञ्च मुमुक्षुभिः || वीरागमे- स्वर्णोदकसहस्रैश्च रत्नोदकशतैरपि | स्नापिते चरपादाम्बु विना लि᳚न्गे निरर्थकम् || चरपादोदकस्नानं विशिष्टं मम कथ्यते | एतद्भक्तिविशिष्टस्य रोचते मम पूजनम् || पृ० ११५) इष्टलि᳚न्गप्रतिष्ठायां श्रीरुद्राच्छतरुद्रियात् | अभिषेको न कर्तव्यः कर्तव्यः पादतीर्थतः || पादतोयञ्च निर्माल्यं प्रसादञ्च चरस्य तु | योऽपि लि᳚न्गार्पितं भु᳚न्क्ते स रुद्रो नात्र संशयः || शिवरहस्ये- प्रसादान्नं पादतीर्थं कृत्वा लि᳚न्गार्पितं सदा | यः सेवेत स भक्तानां मम रूपस्तु पार्वति || नन्दिकेश्वरप्रस्तावे- पादोदकप्रसादान्नं नित्यमासेवतां नृणाम् | दशपातकनाशस्तु कथ्यते गणपु᳚न्गवाः || शिवरहस्ये- पाकारः परमं ज्ञानं दोकारो दोषनाशनः | दकारो जन्म दहति ककारः कर्मनाशनः || वीरागमे- ग᳚न्गादिसर्वतीर्थानि मालिन्यं घ्नन्ति बाह्यकम् | ज᳚न्गमस्य पदाम्भोजसलिलं पापनाशनम् || प्रायश्चित्तं यदि प्राप्तं कृच्छ्रं वाप्यघमर्षणम् | स प्रसादोदकं पीत्वा शुद्धिमाप्नोति तत्क्षणात् || स्कान्दे- धृतलि᳚न्गस्य मर्त्यस्य पदप्रक्षालनोदकम् | पापशुद्धिप्रदं प्रोक्तं तत्तीर्थं शिखिवाहन || ब्रह्माण्डपुराणे- शिवात्मकपदद्वन्द्वप्रक्षालनजलं नराः | ये पिबन्ति पुनस्तन्यं न पिबन्ति कदाचन || पृ० ११६) शिवरहस्ये- शोषणं पापप᳚न्कस्य दीपनं ज्ञानतेजसः | गुरुपादोदकं चित्रं संसारद्रुमनाशनम् || ज᳚न्गमा᳚न्घ्रिस्थतोयोत्थबिन्दुसंयुतमारुतम् | बुभुजे भुजगस्तेन दृष्टश्चोरो विमुक्तवान् ||
SK
इति बोधायनसूत्रपुराणागमवचनैः केवलशिवपादोदकस्य निःश्रेयससाधनतया सेव्यत्वं प्रतिपाद्यते || ननु विष्णुपादोदकस्य ग्राह्यत्वं केवलशिवपादोदकग्रहणस्य प्रत्यवायसाधनत्वं श्रूयत इति पूर्वोक्तदोषतादवस्थ्यमिति चेन्न, भगवद्बोधायनसूत्रवचनेन केवलशिवपादोदकग्राह्यत्वे निश्चिते बहुपुराणागमवचनैर्दृढीकृते च सति, केवलशिवपादोदकनिषेधवचनं �न हि निन्दा� न्यायेन सालग्रामोदकस्य प्राशस्त्यपरं, न तु निन्दापरम् | तदुक्तं दशमे- जर्तिलयवाग्वा जुहुयात्, गवीधुकयवाग्वा जुहुयात्, न ग्राम्यान्पशून् हिनस्ति, नारण्यान् | अथो खल्वाहुरनाहुतिर्वै जर्तिलागवीधुकाश्चेति | अजाक्षीरैर्जुहोतीत्यत्र विकल्पेन जर्तिलगवीधुकयवाग्वोर्होमे अजाक्षीरेण साकं व्रीहियववद्विकल्पो वा उत सर्वेषामेकवाक्यतां कृत्वा अजाक्षीरमात्रस्य शतरुद्रीयहोमसाधनत्वं वेति विशये तत्र पूर्वपक्षः-उभयत्रापि लि᳚न्गश्रवणादुभयोरपि होमसाधनत्वेन विधेयत्वावश्यम्भावाद्व्रीहियववच्छतरुद्रीयहोमे विकल्प इति प्राप्ते तत्र राद्धान्तः- एकवाक्यत्वे सम्भवति भिन्नवाक्यत्वस्यान्याय्यत्वेन विकल्पस्याष्टदोषदुष्टत्वेनात्यन्तान्याय्यत्वाच्चैकवाक्यतया अजाक्षीरमात्रस्य होमसाधनत्वमवश्यम᳚न्गीकर्तव्यम् | नव �जर्तिलयवाग्वा वा जुहुया�दिति विधिश्रवणात्तस्यैव �अनाहुति र्वै जर्तिलाश्च गवीधुकाश्चे�ति निन्दाश्रवणात्कथमेकवाक्यता सम्भवतीति वाच्यं, नहि लि᳚न्गश्रवणमात्रेण विधानम᳚न्गीकर्तव्यं, किन्तु अर्थप्राप्त्यप्राप्तिपर्यालोचनया |
SK
पृ० ११७) अत एव �उपांशु याजमन्तरा यजती�ति लिटो लेट्त्वपरिणामेन विधायकत्वम᳚न्गीकृत्य प्रत्यक्षविधित्वेन श्रूयमाणानां �विष्णुरुपांशु यष्टव्यो जामित्वाय, प्रजापतिरुपांशु यष्टव्यो जामित्वाय, अग्निष्टोम उपांशु यष्टव्यो जामित्वाये�ति विधीनां त्रयाणामपि अनुवादकत्वम᳚न्गीकृतम् || अत एवोत्तरतन्त्रे समन्वयसूत्रटीकायां भामत्यामाचार्यवाचस्पतिमिश्रैः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्य इति तव्यप्रत्ययानां उपांशु याजतव्यप्रत्ययवद्विधायकत्वं, गान्धर्वशास्त्राभ्यासात् षड्जादिसाक्षात्कार इव श्रवणादीनामेव साक्षात्कारसाधनत्वेन प्राप्तत्वादितरेषामुपायानां तत्र प्रसक्तेरभावादित्य᳚न्गीकृतम् || तद्वदत्र �जर्तिलयवाग्वा वा जुहुया�दिति लि᳚न्गोपि प्राशस्त्यपरत्वम᳚न्गीकर्तव्यम् | अनाहुतित्ववचनमपि विहितस्यार्थस्य निन्दापरं न भवति, किन्तु सन्निहितस्याजाक्षीरहोमस्यान्यनिन्दाव्याजेन प्राशस्त्यपरम् | अत एवोक्तं वाचस्पतिमिश्रैः- ङ हि सोमशर्मणि प्रकृते तद्गुणाभिधानं विष्णुशर्मणो गुणवत्तां परिसञ्चष्ट� इति || अत एव हरिवंशारम्भे- �असत्सल्लापकान्तारपरिवर्तनपांसुलां | वाचं शौरिकथालापग᳚न्गयैव पुनीमह� इति विष्णुमात्रकथारूपस्य हरिवंशस्य स्तुतौ कर्तव्यायां भारते असत्सल्लापकान्तारत्वनिन्दा भारताध्ययनात्पुण्यादपि पादमधीयते | श्रद्धादानस्य पूयन्ते सर्वपापान्यशेषतः �वेदानध्यापयामास महाभारतपञ्चमान्� �चत्वार एकतो वेदा भारतं चैवमेकतः | सुरर्षिभिः समायातैस्तुलामारोपितं पुरा || महत्वे च गुरुत्वे च भ्रियमाणं ततोधिकम् | महत्वाद्भारवत्वाच्च महाभारतमुच्यते� इत्यादिभारत प्राशस्त्यप्रतिपादकबहुवचनविरोधात्, हरिवंशस्तुतिपरा, न तु भारतनिन्दापरा || तन्न्यायेनात्रापि शिवपादोदकस्य निन्दा बोधायनसूत्रतदनुसारिबहुवचनविरोधात्सालग्रामोदकप्राशस्त्यपरा, न
SK
पृ० ११८) तु केवलशिवपादोदकनिन्दापरेति शिवपादोदकं मुमुक्षुभिर्वैदिकैर्ग्राह्यमिति सिद्धम् || ननु शिवपादोदकग्रहणप्राशस्त्यप्रतिपादकवचनसन्दर्भमध्ये शिवपादोदकवद्गुरुचरपादोदकयोः प्राशस्त्यप्रतिपादकानां वचनानामश्रवणात्तन्मध्ये शिवपादोदकस्यैव सोपमर्दं सयुक्तिकं ग्राह्यत्वमिति गुरुचरपादोदकयोः कथं तत्साम्येन ग्राह्यत्वं, गुरुचरणयोः शिवसमानत्वाश्रवणादिति चेन्न, गुरुचरयोः शिवाभेदेन प्रतिपादनस्य बहुषु वचनेषु दर्शनात् | तथाहि- किरणागमे- जानीयात्सच्चिदानन्दान्देशिकेश्वरज᳚न्गमान् | नित्यं पूर्णं तत्प्रसादं स्वात्मभावेन भावयेत् || सिद्धान्तशिखामणौ- एक एव शिवः साक्षात्सर्वानुग्राहकः प्रभुः | गुरुज᳚न्गमलि᳚न्गात्मा वर्तते भुक्तिमुक्तिदः || शिवरहस्ये- लि᳚न्गस्यादिष्टरूपन्तु ज᳚न्गमः प्राणलि᳚न्गकम् | भावलि᳚न्गं गुरुः प्रोक्तस्त्रिविधन्त्वेकमुच्यते || सर्वलोकोपकाराय यो देवः परमेश्वरः | चरत्यतिथिरूपेण नमस्ते ज᳚न्गमात्मने || इत्यादिपुराणवचनैर्गुरुचरयोः शिवाभेदप्रतिपादनात्, शिवपादोदकवद्गुरुचरपादोदकस्यापि ग्राह्यत्वं सिद्धमेव || तद्ग्रहणप्रकारस्त्वित्थं, पारमेश्वरतन्त्रे- प्रणम्य स्वगतं भूयः पादप्रक्षालनं चरेत् | प्रथमं पूजयेद्गन्धपुष्पधूपादिभिः क्रमात् || पृ० ११९) पुनः सम्पूजयेद्गन्धपुष्पैः स᳚न्क्षालयेत्ततः | पिबेत्स᳚न्क्षालितं तोयं पीत्वा शिरसि धारयेत् || न पातयेदधो बिन्दुं पादप्रक्षालनाम्भसः | अ᳚न्गुष्ठे भावयेद्रुद्रं तर्जन्यां श᳚न्करं स्मरेत् || मध्यमायां महादेवमनामिक्यां त्रियम्बकम् | कनिष्ठिकायामीशानं पादोपरि कपर्दिनम् || पादाधः पञ्चवदनं गुल्फयो रुद्रभर्गकौ | सर्वं लि᳚न्गमयं ध्यात्वा पादौ ज᳚न्गमलि᳚न्गिनः ||
SK
इत्यादिवचनजातेन गुरुचरयोः पादा᳚न्गुल्याद्यवयवेषु रुद्राद्यनेकशिवमूर्तिविशेषाभिन्नत्वेन भावनानन्तरं षोडशोपचारपूजापूर्वकं पादोदकग्रहणार्थं पादाभिषेकोदकमेकस्मिन्पात्रे सावधानं संगृह्य गन्धाक्षतादिभिरभ्यर्च्य एकपात्रस्थितं पादोदकं पुरातनबसवेश्वरप्रमुखप्रमथसम्प्रदायानुरोधेन वीरशैव-दीक्षित- भक्तमाहेश्वराः क्रमेणैकैकशः �ऋतं सत्य� मिति पिबेयुः | तत्रोच्छिष्टदोषो नास्ति, यथा सोमरसपानेन न सोमेनोच्छिष्टा भवन्तीत्यापस्तम्बसूत्रवचनेन ऋत्विग्भिर्बहुभिरेकस्मिन् चमसरूपपात्रविशेषे स्थितः सोमरसः पर्यायतः पीयत इति तत्रोच्छिष्टदोषो नास्ति | ननु ङ पर्युषितमश्नीयान्नोच्छिष्टं न कदर्थि�मित्यादिवचनैरुच्छिष्टग्रहणस्य निषेधश्रवणान्नञो निषेधार्थकत्वं वक्तव्यम्, निषेधस्य प्रसक्तिपूर्वकत्वादप्रसक्ते र्निषेधायोगात्प्रसक्तिरवश्यं वक्तव्या, सा च प्रसक्ति र्लौकिकी वैदिकी चेति उभयथाप्यस्ति | तत्र लौकिकी चेन्निषेधस्यात्यन्तिकनिवृत्तौ पर्यवस्यति, यथा न सुरां पिबेदित्यादौ | वैदिकी प्रसक्तिश्चेन्न निषेधे पर्यवस्यति, तद्यथा �अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति� इति | तद्वदत्रापि उच्छिष्टप्रसक्तेर्वाचनिकत्वेन लोकतोऽभावात्कथमात्यन्तिकनिवृत्तौ पर्यवसानम्,
SK
पृ० १२०) अतो विकल्प इत्य᳚न्गीकार्यम् | स चाष्टदोषदुष्टत्वेनान्याय्य इति चेन्न, एकस्मिन्नेव विषये सामान्यविशेषभावं विना शास्त्रप्रसक्तौ विकल्पो युक्त एव, यथा ग्रहणाग्रहणयोः | सामान्यविशेषभावेन प्रसक्तिप्रतिषेधयोस्सतो र्न विकल्पः, प्रतिषेधाभावात् | यथा यजतिषु ये यजामहं करोति नानुयाजेष्वितिवत् | न सोमेनोच्छिष्टा इत्यत्र नञः पर्युदासार्थकत्वम्, न निषेधार्थकत्वम्, एवं पादोदकसेवनेप्युच्छिष्टदोषनिवर्तकनञः पर्युदासार्थकत्वमेव न निषेधार्थकत्वम् | तस्मात्पादोदकं सर्वै र्मुमुक्षुभि र्वीरशैवेरेकस्मिन्पात्रे पर्यायतो नित्यमेव ग्राह्यमिति सिद्धम् || अनेनैव न्यायेन प्रसादग्रहणे च उच्छिष्टदोषो नास्तीति बहुप्रमाणमूलकाचारबलेन ज्ञातव्यमिति सर्वं समञ्जसम् || इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्भोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थ लतत्त्वबोधसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यमरितोण्टदार्यविरचि ते यडवमुरारिकोटे कोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधीश्वरविशुद्धवैद् इकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्यकेलदिसदाशिवरायनायकवंशदुग्ध् आर्णवपूर्णचन्द्रवीरभद्रधरणीन्द्रधर्मपत्नीमल्लाम्बाहृदयानन्दनब् असववसुधासक्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे पञ्चमं प्रकरणम् || पृ० १२१) वीरशैवानन्दचन्द्रिकायां वादकाण्डे षष्ठं प्रकरणम् || पादोदकस्वीकरणविधिमुत्कर्षपूर्वकम् | आचकर्णञ्च कर्णाभ्यां श्रीगुरो भवदीरितम् || मदीयं हृदयं जातमानन्दभरतुन्दिलं | यदन्यच्छ्रवणार्हं मे तन्मह्यमुमवर्णय || वेदागमपुराणानां मतेनालोच्य युक्तिभिः | चित्ते कुरु महीपाल प्रसादोत्कर्ष उच्यते ||
SK
परमपुरुषार्थभूतनिश्रेयसप्रेप्सुभिः प्राक्तनानेकजन्मार्जितसुकृतपरिपाकपरिशुद्धबुद्धिभिः सकलशिष्टाचारसम्प्रदायानुष्ठानगरिष्ठैः सद्भिः शिवप्रसादस्वीकारः कर्तव्यः || तथाहि जाबालशाखायां श्रूयते- रुद्रेण भुक्तमश्नन्ति रुद्रेण पीतं पिबन्ति रुद्रेणाघ्रातं जिघ्रन्ति तस्माद् ब्राह्मणाः प्रशान्तमनसो निर्माल्यमेव भक्षयन्तीति || तथैव स्कान्दे- शिष्टाः शान्ताश्च रुद्रेण भुक्तमेव हि भुञ्जते | घ्रातमेव हि जिघ्रन्ति पीतमेव पिबन्ति च || इति श्रुति समानार्थकमुपबृंहणवचनम् || एवं कठशाखायां- पृ० १२२) त्रिगुप्सातमश्नीयाद्यादिपाप्मना शिवानर्पितमश्नीयात्तदेनो भु᳚न्क्ष्व क्रिमिं भु᳚न्क्ष्व मलं भु᳚न्क्ष्व अघं भु᳚न्क्ष्व अधो गच्छाधो गच्छेति | अस्यार्थः- तिस्रो गावो नेत्राणि यस्य स त्रिगुस्त्रिनेत्रः तेन त्रिगुणा त्रिनेत्रेण प्सातं भक्षितं स्वीकृतमिति यावत्, प्सा भक्षण इति धातोः कर्मणि निष्ठा | अश्नीयाद्भक्षयेत् | पाप्मना पापेन शिवानर्पितं अश्नीयात् भक्षयेद्यदि, एनः महापापं भु᳚न्क्ष्व भुञ्जीयात् | अघमित्युपपातकं भु᳚न्क्ष्व भुञ्जीयात् | �व्यत्ययो बहुल� मित्यनुशासनाच्छन्दसि लकारपुरुषव्यत्ययः; एवमग्रेपि | अधो गच्छाधो गच्छेति वाक्यद्विरुक्त्या असकृदधो गमनस्य विवक्षितत्वात् || तथा शतरुद्रीये श्रूयते- यच्छञ्च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीताविति || अस्यार्थः- हे रुद्र तव प्रणीतौ प्रजायां यो मनुः पञ्चाक्षरीलक्षणो मन्त्रस्तेन त्वां आयजे | यद्यस्माद्रुद्रप्रसादरूपमध्यमपिण्डभक्षणादहमुत्पन्नस्ततस्त्वं पिता ततस्त्वत्प्रसादमश्याम, तेन शं स्वर्गादिलक्षणं सुखञ्च योः परमात्मरूपञ्च प्राप्नुयामिति || तथा ऋग्वेदे यजुर्वेदे च श्रूयते- त्वादत्तेभी रुद्र शन्तमेभिः शतं हि मा अशीय भेषजेभिरिति ||
SK
अस्याः श्रुतेरर्थः- हे रुद्र त्वादत्तेभिः त्वया दत्तैः पादोदकपुष्पान्नरूपैः प्रसादैः शन्तमेभिः अतिसुखकरैः भेषजेभिः औषध प्रायैः शतं हि मा अशीय | शतायुः प्राप्नुयामिति | तस्मात् शिवप्रसादो मुमुक्षुभिः सकलशिष्टैः यथासम्प्रदायं सेवनीयमिति || ननु तत्र बहुषु स्मृत्यागमपुराणेषु निर्माल्यं निन्द्यते | तथाहि वासिष्ठसंहितायां- निवेदितञ्च यद्द्रव्यं पुष्पं फलमथापि वा | तन्निर्माल्यमिति प्रोक्तं यत्नेनैव विवर्जयेत् || भूमौ वा निखनेत्तत्तु वह्नौ वाप्सु विनिक्षिपेत् | इति || पृ० १२३) पाञ्चरात्रे विष्णुसंहितायां- निर्माल्यं न स्पृशेद्दद्याल᳚न्घयेद्वाशनं कुतः | सर्वेषामपि देवानां निर्माल्यमशुचि स्मृतम् || इति || भागवते एकादशस्कन्धे- अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम् || इति || पाञ्चरात्रसंहितायां- पञ्चविंशे जीर्णोद्धारपटले- यदेव देवपूजायां विनियुक्तमनिन्दितं | तदेव दूषितं पश्चान्निर्माल्यमिति निन्द्यते || अनर्हं मम नैवेद्यं पादाम्बु कुसुमं दलम् || इति || मनुस्मृतौ च- शुद्रान्नं सूतकस्यान्नं नैवेद्यं श्राद्धमेव च | पतितान्नं समूहान्नं राजान्नं चैव वर्जयेत् || इति || शिवपुराणे- निर्माल्योल्ल᳚न्घने दोषो धारणे च विशेषतः | इति || तथा शिवरहस्येऽपि- निर्माल्यञ्च निवेद्यञ्च विशेषेण विवर्जयेत् | रुद्रोपभुक्तं निर्माल्यं न तथा देवतान्तरैः || नैवेद्यं विष्णुना भुक्तममृतञ्चान्यदैवतैः | निर्माल्यञ्च निवेद्यञ्च भुक्त्वाचान्द्रायणं चरेत् || इत्यादिवचनजातेन शिवोपभुक्तविष्णूपभुक्तयोर्निर्माल्यनैवेद्याख्ययो र्द्वयोरपि स्पर्शनधारणभक्षणाद्ययोग्यत्वं प्रतिपादितम् | विशिष्य च शिवनिर्माल्यस्यापरिग्राह्यत्वं स्पष्टं प्रतिपाद्यते | तथाहि हेमाद्रौ पृ० १२४) प्रायश्चित्तकाण्डे देवलः- शम्भो र्निवेदितं भक्तं तत्तीर्थं शाकमेव वा | विप्रः कदा न भुञ्जीयाद्भुक्त्वा कृच्छ्रं समाचरेत् || इति || मार्कण्डेये- शिवे निवेदितं भक्तं प्रत्येकं देवतां विना | द्विजोऽज्ञानाद्यदा भु᳚न्क्ते तदा तप्तं समाचरेत् || इति ||
SK
कालिकापुराणे- स्पृष्ट्वा रुद्रस्य निर्माल्यं सवासा आप्लुतः शुचिः | इति || स्कान्दे- शिवनिर्माल्यभोक्तारः शिवनिर्माल्यल᳚न्घकाः | शिवनिर्माल्यदातारः स्पर्शस्तेषां न पुण्यदः || लोभान्न धारयेच्छम्भोर्निर्माल्यं न च भक्षयेत् | न स्पृशेदपि पादेन ल᳚न्घयेद्वापि नारद || ज्योतिर्लि᳚न्गं विना लि᳚न्गं यः पूजयति मानवः | तस्य नैवेद्यनिर्माल्यभक्षणात्तप्तकृच्छ्रकम् || इति बहुप्रमाणव्यतिकरानुयोगेन शिवनिर्माल्यस्य अग्राह्यत्वं सिद्धमिति चेन्न, अत्र निर्माल्यस्वीकारविधितन्निषेधप्रवृत्तानामागमपुराणवचनानां परस्परविरोधेनाप्रामाण्यप्रसक्तावप्रामाण्यस्वीकारानौचित्यादुभयेषा. म् प्रामाण्यं विषयव्यवस्थाकल्पनेन सम्पादनीयम् | सा च व्यवस्था न केवलं यौक्तिकी, किन्त्वागमस्मृतिपुराणमूला | तथा च वचनानि निर्माल्यञ्च षड्विधमित्युक्तं शैवतन्त्रे- देवस्वं देवताद्रव्यं नैवेद्यञ्च निवेदितम् | चण्डद्रव्यञ्च निर्माल्यं निर्माल्यं षड्विधं भवेत् || पृ० १२५) ग्रामक्षेत्रादिदेवस्वं देवद्रव्यं पटादिकम् | नैवेद्यं कल्पितं तस्मै देवोच्छिष्टं निवेदितम् || चण्डद्रव्यन्तु तद्दत्तं निर्माल्यं प्रेरितं बहिः | पिण्डिकास्थन्तु निर्माल्यमपि देवे विसर्जिते || इति ||
SK
पिण्डिकापीठम्, अतः पीठस्थितं पुण्यतीर्थादिकं देवविसर्जनानन्तरमपि निर्माल्यमित्यविगानेन शिष्टाः स्वीकुर्वन्ति | अत्र निर्माल्यपदं देवसम्बन्धिद्रव्यसामान्ये तद्विशेषे बहिः प्रेरितरूपे षष्ठे च प्रभेदे प्रवर्तते | तस्माद्विशिष्य शिवनिर्माल्यं सर्वथा शिष्टै र्न ग्राह्यमिति || अत्र विचार्यते- शिवनिर्माल्यं कथमसेव्यम्, श्रुतिनिषिद्धत्वाद्वा, स्मृतिपुराणागमनिषिद्धत्वाद्वा, विधायकाभावाद्वा ? नाद्यः शिवप्रसादो न सेव्य इति श्रुतिनिषेधादर्शनान् | प्रत्युत पूर्वोदाहृतश्रुतिषु प्राशस्त्येन शिवनिर्माल्यस्वीकारस्यावश्यकत्वप्रतिपादनात् | न द्वितीयः, स्मृत्या निषेधस्यानधिकारिविषयत्वेन व्यवस्थायाः कल्पनीयत्वात् | अन्यथा प्रसादस्वीकारस्यावश्यग्राह्यत्वप्रतिपादनपराणां भूयसां वचनानामप्रामाण्यमाश्रयणीयं स्यात् | न तृतीयः, ङिर्माल्यं धारयेन्मूर्ध्नि नैवेद्यं चापि भक्षयेत् | तत्प्रसादोदकं पीत्वा गाणापत्यमवाप्नुयात् ||� इत्यादिशिवधर्मादिपुराणवचनानां शतशः श्रूयमाणत्वात् || तथाहि श्रुतिः- त्वादत्तेभी रुद्र शन्तमेभिः शतं हि मा अशीय भेषजेभिः | व्यस्मद्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वाविषूचीः || एतदर्थप्रतिपादनप्रवृत्तं ब्रह्माण्डपुराणे शैवसंहितायां व्यासजैमिनिसंवादे व्यासवचनम्- ऋक्सूक्तस्यास्य गूढार्थं कथयाम्यहमादरात् | हे रुद्र त्वा त्वयाशीय भुक्त्वा धत्तेभिरादरात् || पृ० १२६) दत्तैः प्रसादितैः शंतमेभिः सुखतमैस्तथा | व्यासंसाराख्यरोगस्य भेषजेभिस्तदौषधैः || संसारस्य विरोधित्वात्प्रोक्तैः संसारभेषजैः | इत्थम्भूतैस्त्वत्प्रसादैरतिशुद्धैः शतं हि माः || शतं समा अवितरमनन्यं स्वीयमुन्नतम् | वीरशैवं भक्तजनं चातय स्वात्मना सह || योजयायं यदस्मद्वेषोहंकृतिविवर्जितः | व्यंहो विगतपापाघो व्यमीवा भक्तिसंयुतः || अविषूचीस्तमेवापि भवेत्तद्वत्कृपानिधे || इति || यजुर्वेदे- रुद्रेणान्नममृतं देवा वै भोक्तुकामा वेदाश्च कामयन्ते || इति ||
SK
अस्यार्थः- रुद्रेण परमेश्वरेण अन्नमिति अद= भक्षण इति धातोः कर्मणि निष्ठा तद्रूपमन्नं न विद्यते मृतं मरणं येन तदमृतम्, तस्मात्कारणात्प्रसादं देवा वै भोक्तुकामा वेदाश्च कामयन्ते, विष्ण्वादयो देवा ऋगादयो वेदाश्च तत्प्रसादममृतं अनुभवितुमभिलषन्तीत्यर्थः || तथैव श्रुत्यन्तरे- इमं पशुं पशुपते ते अद्य बध्नाम्यग्रे सुकृतस्य मध्ये अनुमन्यस्व सुयजा यजाम जुष्टन्देवानामिदमस्तु हव्यम् || इति || शिवोपभुक्तस्य सर्वजनोपादेयत्वे स्विष्टकृदाहुतिविधायिका श्रुतिः प्रमाणम्- यदग्नये स्विष्टकृदवद्यति भागधेयेनैव तद्रुद्रं समर्थयति | सकृत्सकृदवद्यति | सकृदिव हि रुद्रः उत्तरार्थादवद्यति | एषा वै रुद्रस्य दिक् | स्वायामेव दिशि रुद्रं निरवदयते || इति ||
SK
पृ० १२७) अस्यार्थः- यत्-यस्मात्कारणात् स्विष्टकृते सुष्ठु इष्टं हुतं पूर्वहुतं द्रव्यं करोतीति स्विष्टकृदग्निः रुद्रः अवद्यति | हविः खण्डनं करोति, दो= अवण्डन इति धातोर्लट् | तस्मात् स्विष्टकृत्वकरणात् पूर्वाहुतिसार्थकीकरणात् भागधेयेन भागेन स्वार्थे भागशब्दाद्धेयप्रत्ययः | रुद्रं समर्थयति सम्पूरयति | सकृत् सकृत् एकवारमेकवारमेवावद्यति विभजति | सकृदिव हि रुद्रः सकृत् क्रियमाणानां सर्वेषां रुद्र एव स्वामी उत्तरार्थात् हविष ईशान्यभागात् अवद्यति | ईशान्यभाग एव रुद्रस्य दिगिति लोकप्रसिद्धमित्यर्थः | तथाच स्विष्टकृत्वकरणात् सकृदवदानादैशान्यां दिशि अवदानाच्च रुद्रोपभुक्तत्वं सिद्धम् | स्विष्टकृदनन्तरमेव सर्वेषां हविषां सर्वेषामृत्विजां यजमानस्य च प्राशनविधानात् शिवप्रसादसेवनमावश्यकम् | नन्वत्र स्विष्टकृद्विधायकवाक्यस्याग्निपरत्वात् रुद्रपराणामुपरितनानां वाक्यानामर्थवादरूपत्वात्कथं शिवपरत्वेन निर्णयः क्रियत इति चेन्न, शन्दिग्धे तु वाक्यशेषा�दित्यधिकरणे यथा �अक्ताः शर्करा उपदधाती� त्यत्राञ्जनसाधनद्रव्यं किमित्यपेक्षायां घृततैलवसादीनामञ्जनसाधनानां प्रतीयमानत्वेन निर्णयाभावात् �तेजो वै घृत�मिति वाक्यशेषाद्घृतेनैवाञ्जनं कृत्वा उपधानं कर्तव्यमिति निर्णयः तथा अर्थवादस्थितेनापि रुद्रशब्देन अग्निशब्दस्यापि रुद्रपरत्वं निर्णीयते | �रुद्रो वा एष यदग्नि�रिति अग्ने रुद्रत्वप्रतिपादनात्, स्विष्टकृत्वकरणसामर्थ्याच्च | ननु भागधेयेनेत्यत्र यागहोमप्रतिपादकशब्दाभावाद्रुद्रोपभुक्तत्वं हविषः कथमितिचेन्न �पूषाप्रपिष्टभाग� इत्यत्र भागब्दस्य त्यागवचनतया तृतीयाध्याये पौष्णाधिकरणे व्यवस्थापितत्वात्तन्न्यायेनात्रापि भागशब्दस्य यागपरत्वम् | किञ्च संस्रावहोमे मन्त्रस्य तद᳚न्गस्य विश्वेदेवपरत्वेऽपि शर्वे वै रुद्रा आदित्याः संस्रावभागाः
SK
पृ० १२८) तेषां तद्भागधेयं तानेव तेन प्रीणाती�ति भागशब्देनैव वसुरुद्रादित्यदेवताकत्वेन निर्णयात् || ननु �रुद्रो वा एष यदग्नि�रित्यादीनां बहुषु स्थलेषु श्रूयमाणानां वाक्यानां अर्थवादरूपत्वेन स्वार्थे तात्पर्याभावात् कथं रुद्रपरत्वमिति चेन्न, �अभ्यासे हि सति भूयस्त्वमर्थस्य भवति नाल्पत्वमपि, प्रागेवोपचरितार्थत्वमिति� उत्तरतन्त्रे ब्रह्मसूत्रभाष्यटीकायां भामत्यां आचार्यवाचस्पतिमिश्रैर्महावाक्यानां तत्वमसीत्यादीनामद्वैतपरत्वप्रतिपादनात् || ननु स्विष्टकृद्यागा᳚न्गमन्त्रस्याग्निपरत्वेन केवलाग्निशब्दश्रवणाद्ब्राह्मणपर्यालोचनयास्य होमस्य रुद्रदेवताकत्वं कथमिति चेन्न, संस्रावहोमा᳚न्गभूतमन्त्रस्य विश्वेदेवपरत्वेपि ब्राह्मणपर्यालोचनया वसुरुद्रादित्यपरत्वेन निर्णीतत्वात् तथैव लोकेऽनुष्ठानस्य दृश्यमानत्वात् | तद्वदत्रापि अग्निशब्दस्य रुद्रपरत्वेन निर्णयः | अस्पष्टार्थतया विद्यमानस्य मन्त्रस्य ब्राह्मणरीत्या निर्णय आवश्यकः | �ऐन्द्र्या गार्हपत्यमुपतिष्ठत� इत्यत्र ब्राह्मणवशेन गार्हपत्योपस्थाने असमर्थस्यापि लक्षणां परिकल्प्य, �वचनात्त्वयथार्थमैन्द्री स्या� दित्यधिकरणे निर्णीतत्वेन ब्राह्मणस्यैवार्थनिर्णायकत्वात् || नन्वेवं तत्र तत्र ऋचि विद्यमानस्याग्निशब्दस्य सर्वस्यापि उक्तरीत्या रुद्रपरत्वेऽग्निपरत्वमेव न स्यादिति चेन्न, यत्राग्निशब्दस्य रुद्रपरत्वे आहत्यवचनं लि᳚न्गं प्रकरणं वा वर्तते तत्रैव तत्परत्वेन निर्णयेनातिप्रस᳚न्गाभावात् | अन्यथा उत्तरतन्त्रे उपक्रमोपसंहाराभ्यां अनन्यसाधारणलि᳚न्गेन तात्पर्येण च ब्रह्मपरत्वे निर्णीतानामाकाशप्राणज्योतिर्वैश्वानरादिशब्दानां तस्यां तस्यां ऋचि विद्यमानानां एतेषां तत्तद्देवतापरत्वं न स्यात् | किञ्च स्मार्ते नित्यकर्मणि सप्तपाकयज्ञान्तर्गतीशानबलावापस्तम्बेन ऋषिणा भगवता श्थालीपाकं ब्राह्मणान् भोजयेत् | क्षैत्रपत्यं प्राश्नन्तीति� सर्वेषां
SK
पृ० १२९) स्कन्दपार्वतीनन्दिकेश्वरादिबहुविधप्रमथगणक्षेत्रपालानां बलिस्थापनानन्तरं शिष्टस्यान्नस्य ब्राह्मणभोजनार्हत्वेन स्वस्य प्राशनीयत्वेन विधानाच्च || ननु स्विष्टकृदाहुतौ चतुरवत्तमात्रस्य हुतत्वे तस्यैव रुद्रसम्बन्धित्वेन प्राशनायोग्यतया शिष्टस्य प्राशनयोग्यस्य देवता सम्बन्धाभावेन निवेदितान्नवैषम्येन शिवनिवेदितान्नभोजनसाधकयुक्तित्वेन कथमुपन्यस्तम्, एतेन ईशानबलिविषयोऽपि निरस्तप्राय इति चेन्मैवम्, स्विष्टकृदाहुतौ चतुरवत्तमात्रस्य होमे शिष्टस्य हविषो देवतासम्बन्धोऽस्त्येव | लोकेऽपि स्त्रीशेषशूद्रशेषादौ तत्सम्बन्धस्य विद्यमानत्वादेव निषेधः प्रवृत्तः | तस्माच्छिष्टस्य हविषः देवतासम्बन्धोऽस्ति | प्रत्युत शिष्टस्यान्नस्य देवतासम्बन्धिताविषये आहत्य श्रुतिरेव वर्तते | स्त्रीशेषशूद्रशेषोदाहरणप्रदर्शनन्तु सर्वजनस्पष्टीकरणायाभ्युच्चयत्वेन लिखितम् | तथाहि �आग्नेयं चतुर्धा करोती�ति विहितम् | चतुर्धाकरणन्तु ऋत्विजां प्राशनार्थं तथाच श्रुतिः- चत्वारोह्येते हविर्यज्ञस्य ऋत्विजः, ब्रह्मा होताध्वर्युरग्नीत् | तमभिमृशेत्, इदं ब्रह्मणः, इदं होतुः, इदमध्वर्योः, इदमग्नीध इति | आग्नेयं चतुर्धा करोतीत्यत्र चतुरवत्तमात्रस्य अग्नये हुतत्वेन शिष्टस्य तत्सम्बन्धाभावात्, अग्निरूपदेवतासम्बन्ध प्रतिपादकश्रुतिनिर्वाहार्थं तत्संबन्धोऽस्तीत्यवस्यम᳚न्गीकरणीयम् | न च देवतासम्बन्धे आग्नेयमिति तद्धितप्रत्ययो न भवति | किन्तु सर्वत्र �अग्निकलिभ्यां ढग्वक्तव्य� इति वार्तिकात्तस्येदमिति सम्बन्धार्थे ढक्प्रत्ययः | सम्बन्धमात्रन्तु चतुरवत्तावदानप्रकृतित्वरूपपरम्परयापि भवतीति वाच्यम्, सास्य देवतेति देवतार्थ एवायं तद्धितः | अत एवाग्निषोमीयस्य पुरोडाशस्याग्निसम्बन्धित्वे विद्यमानेऽपि देवतासम्बन्धाभावाच्चतुर्धाकरणं नास्ति | समर्थः पदविधिरित्यधिकारान्निरपेक्षाग्निदेवताकत्व एव तद्धितप्रत्ययविधानेनाग्नीषोमीये सापेक्षाग्निदेवताके आग्नेयमिति वक्तुमशक्यत्वात्,
SK
पृ० १३०) अग्नीषोमीये पुरोडाशे चतुर्धाकरणं नास्तीति तृतीयाध्याये चतुर्धाकरणाधिकरणे प्रतिपादितम् | तस्माच्छिष्टस्य तद्देवतासम्बन्धोऽस्त्येव | स तु सम्बन्धः साक्षात्सम्बन्ध एव न तु चतुरवत्तावदानप्रकृतित्वरूपपरम्परासम्बन्धः, शबरस्वामिभाष्यकृन्मते �तदुक्ते श्रवणाज्जुहोतिरासेचनाधिकः स्या� दित्यधिकरणे त्यागपूर्वकप्रक्षेपस्यैव होमत्वेन निर्णयात् | तदेकदेशभूतत्यागरूपमानसव्यापारविषयीभूतत्वस्य सर्वस्मिन् पुरोडाशे विद्यमानत्वात् | श्रीभट्टपादमते त्याग एव यागः स एव प्रधानम् | प्रक्षेपमात्रन्तु गुणस्त्यागस्या᳚न्गमिति स्पष्टमेव सर्वस्य पुरोडाशस्य त्यागविषयत्वम् | तस्माच्छिष्टस्य देवतासम्बन्धः साक्षात्सम्यगेवास्ति || ननु श्रौतस्मार्तयोर्यागहोमयोर्विद्यमानत्वात् त्वदुक्तरीतिस्तन्मर्मारोहति, तावता शिवनिवेदनस्थले किमायातं यागहोमादीनामभावादिति चेन्न, यागस्यैव निवेदनशब्दार्थत्वात्, अन्यथा निवेदनशब्दार्थस्य निर्वोढुमशक्यत्वात् | तथाहि- निवेदनशब्दार्थः कः ? अन्नस्य देवतापुरतः स्थापनं वा, तद्विशिष्टमन्त्रोच्चारणं वा, उत तद्विशिष्टहस्तचेष्टाविशेषो वा, आहोस्वित्तद्विशिष्टघण्टानादो वा, तद्विशिष्टनेत्रनिमीलनं वा ? अथवा कोऽपि मानसाभिसन्धिः ? नाद्यः, पुरतः स्थापनमात्रेण निवेदितत्वप्रसिध्यभावात् | अन्यथा स्त्रीजनकृतदेवतापुरस्थापनमात्रेण निवेदनसिद्धेरितरव्यापारनैरर्थक्यं स्यात् | न द्वितीयः, तथासति व्याधिवशेन मन्त्रोच्चारणसमर्थस्य निरन्तरभक्तियुक्तस्य निवेदनकर्तृत्वं न स्यात् | न तृतीयः, व्याध्युपहतहस्तेन पुरुषेण क्रियमाणं हस्तचेष्टाविशेषाभावान्निवेदितं न स्यात्, तात्कालिकान्नस्थमशकमक्षिकाद्युत्सारणार्थहस्तव्यापारोऽपि निवेदनं स्यात् | न चतुर्थः, अन्यापहृतघण्टस्य पथि गच्छतो वा घण्टानादाभावान्निवेदनकर्तृत्वं न स्यात् | न पञ्चमः, अक्षिरोगदूषितस्य मशकपातभीत्या तत्कालनिमीलिताक्षस्य वा भक्तियुक्तस्य निवेदनकर्तृत्वं न स्यात् | तस्मादेतदुप- लक्षितो वा
SK
एतद्विशिष्टो वा पृ० १३१) न मम त्वदीयमिदं त्वं भु᳚न्क्ष्वेतिमानसाभिसन्धिरेव निवेदनशब्दार्थः || ननु तर्हि निवेदनयागशब्दयोः घटकुम्भादिशब्दवत्पर्यायत्वं स्यादिति चेत्, यागहोमशब्दवत् मुखभेदेन शब्दभेदसम्भवात् | यागो नाम देवतामुद्दिश्य न ममेति मानसिकोऽभिसन्धिविशेषः | होमो नाम देवतोद्देश्यकमानसद्रव्यत्यागपूर्वककायिकाग्न्याधारकद्रव्यप्रक्षेपः | निवेदनं नाम देवतोद्देश्यकद्रव्यत्यागविशिष्टक्रियाविशेषोपहितदेवताकर्तृकतृप्तिसाध् अकभुक्तिरूपमानसाभिसन्धिविशेषः || तस्मात् शिवप्रसादस्य न्यायोपबृंहितैः श्रुतिस्मृतिपुराणागमवचनैः ग्राह्यत्वं सिद्धम् || अस्मिन्नर्थे उपबृंहणभूतानि आगमपुराणस्मृत्यायुर्वेदादिवचनानि बहुशः श्रूयन्ते | तथाहि शिवधर्मोत्तरे- निर्माल्यं धारयेन्मूर्ध्नि नैवेद्यञ्चापि भक्षयेत् | तत्प्रसादोदकं पीत्वा गाणापत्यमवाप्नुयात् || स्कन्दपुराणे- मत्प्रसादोदकं पुण्यं सदा धार्यं मदाश्रितैः | रोगिभिश्चविशेषेण रोगदग्धैश्च यत्नतः || शिरसा धारयेद्भक्त्या यो निर्माल्यमलोभतः | अहमेव धृतस्तेन सोमः सोमकलाधरः || शैवपुराणे- शिवस्यैव तु निर्माल्यं भक्त्या धार्यं द्विजातिभिः | निर्माल्यं परमं पुण्यं नैवेद्यं पापनाशनम् || ब्रह्मचारिगृहस्थानां यतीनां भुक्तिमुक्तिदम् | सिद्धान्तशिखामणौ- भुञ्जीयाद्रुद्रभुक्तान्नं रुद्रपीतं जलं पिबेत् | रुद्राघ्रातं सदा जिघ्रेदिति जाबालिकी श्रुतिः || पृ० १३२) आयुर्वेदे- निर्माल्यसलिलं प्राश्य देवदेवस्य शूलिनः | क्षयकुष्ठज्वरश्वासैर्मुच्यते किल्बिषैरपि ||
SK
इत्यादिश्रुतिस्मृतिपुराणायुर्वेदवचनेषु शिवप्रसादस्वीकारस्य करणेऽभ्युदयस्य अकरणे प्रत्यवायस्य च श्रवणात्, सर्वदा स शिवभक्तैस्तत्परायणैरादरात्स्वीकार्यः || नन्वेतादृशश्रुत्यागमस्मृतिपुराणादिवचनबलैः शिवप्रसादस्वीकारस्यावश्यकर्तव्यत्वेपि गुरुचरयोः प्रसादस्य स्वीकारविधायकवचनानामदर्शनात्कथं तत्प्रसादस्वीकारः क्रियत इति चेन्न, पादोदकस्वीकरणे शिवपादोदकस्येव गुरुचरपादोदकस्यापि शिवगुरुचराणां परस्पराभेदप्रतिपादकबहुवचनप्रमाणानुसारेण अवश्यस्वीकार्यत्वप्रतिपादनात् | तन्न्यायेन प्रसादस्त्रिविधः प्रोक्तः शुद्धः सिद्धः प्रसिद्धकः | शुद्धो गुरुमुखात्प्राप्तः सिद्धो लि᳚न्गमुखात्तथा || प्रसिद्धो ज᳚न्गममुखात्प्रसादस्त्रिविधो मतः | इत्यादिविशेषवचनानुसारेण च शुद्धसिद्धप्रसिद्धाख्यस्त्रिविधः प्रसादो गुरुलि᳚न्गचरोपभुक्तो वीरशैवैः सर्वदा स्वीकरणीय इति सिद्धमिति निर्विवादम् || इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्बोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थल् अतत्त्वबोधसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यश्रीमरितोण्टदार्यवि रचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्यकेलदिसदाशिवराय नायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द्रधर्मपत्नी मल्लाम्बाहृदयानन्दनबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे षष्ठं प्रकरणम् || पृ० १३३) वीरशैवानन्दचन्द्रिकायां वादकाण्डे सप्तमं प्रकरणम् || प्रसादवैभवं स्वामिन् दयया भवदीरितं | श्रुत्वा प्रसादं प्राप्येव नितरामस्मि नन्दितः || यद्बोधनीयं तत्प्रेम्णा कुरु कर्णपथातिथिं | भूतेर्विभूतिं राजेन्द्र निस्तन्द्रः शृणु कीर्तये ||
SK
निःश्रेयसैकसाधनब्रह्मविद्यान्तर᳚न्गचित्तशुद्धिसम्पादकत्वेन वैदिकशिवपूजा᳚न्गत्वेन च भस्मधारणं कर्तव्यम् | तत्र श्रुतिः | तैत्तरीयोपनिषदि गुरूणां शिष्यं प्रत्यावश्यकधर्माचरणोपदेशप्रकरणे शत्यं वद धर्म चरे� त्यारम्भ �यान्यनवद्यानि कर्माणि तानि सेवितव्यानी�ति अनवद्यानां कर्मणां सेवनीयत्वमु उक्त्वा ङो इतराणी� ति वैदिकेतरपाञ्चरात्रादिप्रतिपादितोर्ध्वपुण्ड्रधारणादीनामसेवनीयतय अ हेयत्वमुक्त्वा च तत्रैवावश्यकर्तव्याचारविधानप्रकरणे शत्यान्न प्रमदितव्यम्, कुशलान्न प्रमदितव्यं, भूत्यै न प्रमदितव्य� मित्यनेन भस्मधारणस्य अप्रमादेन कर्तव्यत्वविधानात् | न च भूत्यै न प्रमदितव्यमित्यत्र भूतिशब्दस्यैश्वर्यपरत्वेन व्याख्यातुं शक्यत्वात्कथं भस्मपरत्वमभिधीयते ? �भूतिर्भस्मनि सम्पदी� तिकोशेन सम्पदर्थस्यापि पृ० १३४) वक्तुं शक्यत्वादिति वाच्यम्, भगवता सूत्रकृता बोधायनेन भूतिशब्दस्य भस्मपरत्वेनैव सूत्रितत्वात् | तथाहि- अथातो भस्मधारणविधिं व्याख्यास्यामो भूत्यै न प्रमदितव्यमिति विज्ञायते तथाप्युदाहरन्ति-मध्यमानामिका᳚न्गुष्ठैस्त्रिपुण्ड्रं भस्मना कृतं | तत्त्रिपुण्ड्रं भवेच्छस्तं महापातकनाशनं || इति || अथ त्रियम्बकमिति सर्वा᳚न्गं सम्मृजेत्पूतो भवति, दशपूर्वान् दशापरानात्मानं चैकविंशतिं प᳚न्क्तिञ्च पुनाति ब्रह्मणः सायुज्यं सलोकतामाप्नोत्यथ यदिदं भस्मोद्धूलनमापादतलमस्तकं सर्वकर्मसु कर्तव्यमित्याह भगवान् बोधायनः || इति || सत्यधर्माच्च कुशलाद्भस्मनोद्धूलनादपि | त्रिपुण्ड्रधारणाच्चैव स्वाध्यायाध्ययनादपि || दैवाच्च पितृकार्याच्च न प्रमाद्येदिति श्रुतिः || इति || तथा कालाग्निरुद्रोपनिषदि-
SK
अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाधीहि भगवन् त्रिपुण्ड्रविधिं सतत्वं किं द्रव्यं कियत् स्थानं कति प्रमाणं का रेखा के मन्त्राः का शक्तिः किं दैवतं कः कर्ता किं फलमिति च | तं होवाच भगवान् कालाग्निरुद्रः | यद्द्रव्यं तदाग्नेयं भस्म, सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्य, अग्निरिति भस्मेत्यनेन चाभिमन्त्र्य, मानस्तोक इति समुद्धृत्य, मानोमहान्तमिति जलेन संसृज्य, त्रियायुषमिति शिरोललाटवक्षःस्कन्धेषु त्रियायुषैस्त्र्यम्बकैस्त्रिशक्तिभिस्तिर्यक् तिस्रो रेखाः प्रकुर्वीत व्रतमेतच्छाम्भवं सर्ववेदेषु वेदवादिभिरुक्तं भवति तस्मात्तत्समाचरेन्मुमुक्षुरपुनर्भवाय || अथ सनत्कुमारः पप्रच्छ प्रमाणमस्य त्रिपुण्ड्रधारणस्य त्रिधा रेखा पृ० १३५) भवत्याललाटादाचक्षुषोरामूर्ध्नोराभ्रुवोर्मध्यतश्च प्रथमा रेखा सा गार्हपत्यश्चाकारो रजो भूर्लोकः स्वात्मा क्रियाशक्तिः ऋग्वेदः प्रातः सवनं महेश्वरो देवतेति | यास्य द्वितीया रेखा सा दक्षिणाग्निरुकारः सत्वमन्तरिक्षमन्तरात्मा चेच्छाशक्तिः यजुर्वेदो माध्यन्दिनं सवनं सदाशिवो देवतेति, यास्य तृतीया रेखा साऽऽहवनीयो मकारस्तमो द्यौर्लोकः परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयं सवनम्, महादेवो देवतेति | एवं त्रिपुण्ड्रं भस्मना करोति यो विद्वान् ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स समस्तमहापातकोपपातकेभ्यः पूतो भवति, स सर्वेषु च तीर्थेषु स्नातो भवति, स सर्वान् देवान् ज्ञातो भवति, स सर्वान् वेदानधीतो भवति, स सन्ततं सकलरुद्रमन्त्रजापी भवति, स सकलभोगभुग्देहं त्यक्त्वा शिवसायुज्यमेति न स पुनरावर्तते न स पुनरावर्तत इत्याह भगवान् कालाग्निरुद्रः यस्त्वैतद्वाधीते सोऽप्येवमेव भवतीत्य्ॐ सत्यमित्युपनिषत् || इति || एतमेव भस्मधारणावश्यकताप्रतिपादकानि स्मृतीतिहासपुराणवचनानि बहूशः श्रूयन्ते | तथाहि शिवराघवसंवादे-
SK
तद्भस्मधारणं शस्तं सर्वं तद्द्वत्त्रिलि᳚न्गकम् | ब्रह्मविष्णुमहेशानां त्रियज्ञानाञ्च साधनम् || गुणलोकत्रयाणाञ्च धारणं तेन वै कृतम् | धार्यं पञ्चदशस्थाने शुद्धं भस्माभिमन्त्रितम् || कण्ठोपरि कृतं पापं नष्टं स्यान्मुखधारणात् | कण्ठे च धारणात्कण्ठभोगादिकृतपातकम् || पृ० १३६) बोह्वोर्बाहुकृतं पापं वक्षसा मनसा कृतम् | नाभ्यां नाभिकृतं पापं पृष्ठे पृष्ठकृतं हरेत् || पार्श्वयोर्धारणाद्राम परस्त्र्यालि᳚न्गनादिजम् | भस्मासनो भस्मशय्यो भस्मोद्धूलितविग्रहः || भस्मस्नानात् सदा पापैर्मुच्यते नात्र संशयः | वायवीयसंहितायाम्- भस्मच्छन्नो द्विजो विद्वान्महापातकसम्भवैः | दोषैर्विमुच्यते सद्यो मानवो नात्र संशयः || तस्मात्सर्वेषु लोकेषु वीर्यवान् भस्मसंयुतः | रुद्राग्नेर्यत्परं वीर्यं तद्भस्म परिकीर्तितम् || भस्मनिष्ठस्य दह्यन्ते दोषास्तस्याग्निस᳚न्गमात् | भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः || भस्मना दिग्धसर्वा᳚न्गो भस्मदीप्तत्रिपुण्ड्रकः | भस्मस्नायी च पुरुषो भस्मनिष्ठ इति स्मृतः || भूताःप्रेताः पिशाचाश्च रोगाश्चातीव दुःस्सहाः | भस्मनिष्ठस्य सान्निध्याद्विद्रवन्ति न संशयः || भासकं भसितं प्रोक्तं भस्म कल्मषभर्त्सनात् | भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरी यतः || परमास्त्रञ्च शैवानां भस्म तत्पारमेश्वरम् | लै᳚न्ग्ये- स्मरणादेव रुद्रस्य यथा पापं विनश्यति | तथास्य धारणादेव सर्वं पापं विनश्यति ||
SK
पृ० १३७) यद्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना | तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम् || कृत्वापि चातुलं पापं मृत्युकालेऽपि यो द्विजः | भस्मस्नायी भवेत्सोऽपि सर्वपापाद्विमुच्यते || भस्मस्नानविशुद्धात्मा जितक्रोधो जितेन्द्रियः | मत्समीपं समागत्य न भूयो विनिवर्तते || धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति मानवः | त्रिपुण्ड्रं यद्यधृत्वा तु कुर्याद्यत्कर्म तद्वृथा || भस्मनोद्धूलनं तिर्यक् त्रिपुण्ड्रं मुक्तिसाधनम् | एतदाग्नेयकं स्नानमुदितं परमर्षिभिः || सर्वकर्मसमृध्यर्थं कुर्यादादाविदं बुधः | अन्यथा सर्वकर्माणि न फलन्ति कदाचन || कात्यायनस्मृतौ- श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने | धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति मानवः || वर्णानामाश्रमाणाञ्च मन्त्रतोऽमन्त्रतोपि च | त्रिपुण्ड्रोद्धूलनं प्रोक्तं जाबालैरादरेण तु || सद्योजातादिभिर्मन्त्रैर्भूत्या तिर्यक् त्रिपुण्ड्रकम् | धूलनं चाचरेदेवं मुमुक्षुर्ज्ञानसिद्धये || इत्यादिश्रुतिस्मृतीतिहासपुराणवचनैर्भस्मधारणस्य सर्वपापनिवर्तकत्वं सर्वकर्मसमृद्धिसम्पादकत्वम्, अकरणे कर्मवैयर्थ्यापादकत्वञ्च प्रतीयते || पृ० १३८) ननु- जाह्नवीतीरसम्भूतां मृदं फाले बिभर्ति यः | बिभर्ति रूपं सोऽर्कस्य तमोनाशाय वै स्मृतम् || ऊर्ध्वपुण्ड्रं मृदा सूत्रे ललाटे यस्य दृश्यते | स चण्डालोऽपि शुद्धात्मा पूज्यते न हि संशयः || यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् | वृथा भवति विप्रेन्द्र ऊर्ध्वपुण्ड्रं विना कृतम् || पूजाकाले च होमे च सायं प्रातः समाहितः | नामान्युच्चार्य विधिवद्धारयेदूर्ध्वपुण्ड्रकम् || ऊर्ध्वपुण्ड्रधरो मर्त्यो वर्तते यत्र कुत्रचित् | तद्देश एव विप्रेन्द्र काशीक्षेत्रसमो भवेत् || मार्गशीर्षमाहात्म्ये-
SK
शृणु ब्रह्मन् प्रवक्ष्यामि त्रिविधं नाम धारणम् | तुलसीमृत्स्नया सार्धं श्रीगोपीचन्दनेन च || हरिचन्दनतः कार्यं पुण्ड्रं तत्र विचक्षणैः | गोपीचन्दनमाहात्म्यं निबोध गदतो मम || श्रीकृष्णतुलसीमूलमृदमादाय भक्तिमान् | धारयेदूर्ध्वपुण्ड्राणि हरिस्तस्मै प्रसीदति || यो मृत्तिकां द्वारवतीसमुद्भवां करे समादाय ललाटपट्टके | पुमान् करोतीह सदोर्ध्वपुण्ड्रकम् क्रियाफलं कोटिगुणं तदा भवेत् || पृ० १३९) क्रियाविहीनं यदि कालवर्जितम् कृत्वा ललाटे यदि गोपिकामृदम् | प्राप्नोति तत्कर्मफलं सदाऽव्ययम् गोपीपतेः पुण्यतमः प्रसादतः || गोपीचन्दनसम्भवं सुरुचिरं कृत्वा ललाटे द्विजो नित्यं धारयते यदि प्रतिदिनं रात्रौ सदा सर्वथा | यत्पुण्यं कुरुजा᳚न्गले रविगृहे माघ्यं प्रयागे तथा तत्प्राप्नोति ततोऽधिकं मम गृहे सन्तिष्ठते देववत् || यस्मिन् गृहे तिष्ठति गोपिचन्दनम् कृत्वा ललाटे मनुजो बिभर्ति चेत् | तस्मिन्गृहेऽहं निवसामि सर्वदा श्रिया समेतो मुदितश्चतुर्मुख || यो धारयेद् द्वारवतीसमुद्भवम् पुण्यं पवित्रं कलिकल्मषापहम् | नित्यं ललाटे मम मन्त्रपावितम् यमं न पश्येदपि पापसंयुतः || ऊर्ध्वपुण्ड्रः समः सौम्यो ललाटे यस्य दृश्यते | स चण्डालोऽपि पूतात्मा पूज्य एव न संशयः || अस्नातो यः क्रियां कुर्यादशुचिः पापसंयुतः | गोपीचन्दनसम्पर्कात्पूज्य एव न संशयः || अशुचिर्वाप्यनाचारो महापापसमन्वितः | शुचिरेव भवेन्नित्यमूर्ध्वपुण्ड्रा᳚न्कितो नरः || पृ० १४०) ऊर्ध्वपुण्ड्रविहीनस्य स्मशानसदृशं मुखम् | अवलोक्य मुखं तेषामादित्यमवलोकयेत् || रुद्रार्चनं त्रिपुण्ड्रस्य धारणं यत्र दृश्यते | तच्छूद्राणां विधिः प्रोक्तो न द्विजानां कदाचन || न भस्म धारयेद्विप्रः परमापद्गतोऽपि वा |
SK
इत्यादिपुराणवचनैरूर्ध्वपुण्ड्रस्य सेतिकर्तव्यताकस्य अभ्युदयप्रापकतया सर्वपापनिवर्तकतया च बहुतरं श्रूयमाणत्वात्, भस्मधारणस्य शुद्रादिकर्तव्यताप्रतिपादनाच्च, ऊर्ध्वपुण्ड्रधारणमेव कर्तव्यं न भस्मधारणमिति चेन्न, ऊर्ध्वपुण्ड्रधारणादीनां गौतम-दधीचि-दुर्वासो-भृगु- ब्रह्मोपमन्युनन्दिकेश्वरप्रमुखदेवमुनिशापदग्धद्विजविषयत्वस्य बहुशः सूतसंहितायादिश्रुतिस्मृतिपुराणेषु श्रूयमाणत्वादवैदिकतान्त्रिकद्विजाधमानामेवोर्ध्वपुण्ड्रधारणं न तु वैदिकानामिति सिद्धम् | ऊर्ध्वपुण्ड्रधारणनिषेधः पराशरे- ऊर्ध्वपुण्ड्रं त्रिशूलञ्च वर्तुलं चतुरस्रकम् | अर्धचन्द्रादिकं चिह्नं वेदनिष्ठो न धारयेत् || जन्मना लब्धजातिस्तु श्रौतं पन्थानमाश्रितः | पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेत् || ख्यातिलाभादिसिद्ध्यर्थमपि विष्णवागमादिषु | स्थितं पुण्ड्रान्तरं नैव धारयेद्वैदिको जनः || न दाहयेद् द्विजश्रेष्ठं न दहेच्चक्रपूर्वकैः | अ᳚न्कितो यः स्वदेशात्तं राजा शीघ्रं प्रवासयेत् || अतीव पतितानां हि स्वपदेना᳚न्कनं नृणाम् | विधीयते न शुद्धानामतः शुद्धं न चा᳚न्कयेत् || पृ० १४१) अध्यापने चाध्ययने श्रौतस्मार्तादिकर्मसु | सम्भाषणे च सम्बन्धेनाधिकारी हि लाञ्छितः || श᳚न्खचक्राद्य᳚न्कनञ्च नृत्तगीतादिकं तथा | हीनजातेरयं धर्मो न जातु स्याद् द्विजन्मनः || स्कान्दे मुक्तिखण्डे- पाञ्चरात्रे च कापाले तथा कालामुखेऽपि च | बौद्धेऽपि चार्हते चैव वामे पाशुपतेऽपि च || शाक्ते च दीक्षिता यूयं भवत ब्राह्मणाधमाः | इति गौतमशापः | सूतसंहितायां यज्ञवैभवखण्डे द्वात्रिंशत्तमाध्याये सूतः- अद्य वक्ष्ये महादेव श्रद्धाभावस्य कारणम् | मनुष्याणां मुनिश्रेष्ठाः शृणुत श्रद्धया सह || इत्यारभ्य,
SK
तद्ज्ञात्वा तु मुनिः श्रीमान् गौतमो मुनिसत्तमः | महाक्रोधेन संयुक्तः शशाप ब्राह्मणाधमान् || महादेवस्वरूपे च महादेवस्य विग्रहे | महादेवस्य भक्तौ च महादेवस्य नाम्नि च || महादेवस्य विज्ञाने महादेवपरिग्रहे | महादेवस्य च स्थाने महादेवस्य कीर्तिषु || महादेवप्रधाने च महादेवाश्रमेषु च | महादेवस्य चोत्कर्षे त्रिपुण्ड्रोद्धूलनादिषु || रुद्राक्षधारणे रुद्रलि᳚न्गस्यैव तु पूजने | रुद्रालयदिदृक्षायां रुद्रयात्रादिकर्मसु || पृ० १४२) यद्यत्तु रुद्रसम्बन्धि तत्र तत्रापि दुर्जनाः | भवेत विमुखा यूयं सर्वदा ब्राह्मणाधमाः || श्रुतिस्मृतिपुराणोक्तेष्वर्थेषु निखिलेष्वपि | भवेत विमुखा यूयं सर्वथा ब्राह्मणाधमाः || विष्णवादिदेवताः सर्वा विशिष्टाः श᳚न्करादिति | भ्रान्तिविज्ञानसम्पन्ना भवत ब्राह्मणाधमाः || वर्तुलाश्वत्थपत्रार्धचन्द्रदीपादिलि᳚न्गिनः | भवेत श्रद्धया सार्धं सततं ब्राह्मणाधमाः || पाञ्चरात्रे च कापाले तथा कालामुखेऽपि च | शाक्ते च दीक्षिता यूयं भवत ब्राह्मणाधमा || पाखण्डेषु तथान्येषु मार्गेष्वश्रौतकेषु च | श्रद्धया दीक्षिता यूयं भवत ब्राह्मणाधमाः || बहुनोक्तेन किं साक्षाच्छिवे संसारमोचके | तत्सम्बन्धिषु सर्वेषु श्रुतिस्मृत्युदितेषु च || युष्माकं वंशजातानां युष्माकञ्च तथैव च | श्रद्धाभावः सदैवास्तु शापस्तीव्रः कृतो मया || आदित्यपुराणे दक्षयज्ञे ब्राह्मणान्प्रति दधीचिशापः- एतेषु ब्राह्मणाः सर्वे यद्द्विषन्तो महेश्वरम् | भवन्तु वेदबाह्यास्ते पापोपहतचेतसः || पाखण्डाचारनिरताः सर्वे निरयगामिनः | साम्बपुराणे दक्षयज्ञे दधीचिशापः- त्रिपुण्ड्रधारणे भस्मगुण्ठने वेदमन्त्रिते | भवेत विमुखा यूय युष्माकं वंशजास्तथा ||
SK
पृ० १४३) वेदबाह्येषु तन्त्रेषु पाञ्चरात्रादिषु द्विजाः | भवेत दीक्षिता यूयं सर्वदा ब्राह्मणाधमाः || अ᳚न्गेषु चा᳚न्किता यूयं श᳚न्खचक्रगदादिभिः | भवत श्रद्धया सार्धं वेदबाह्या द्विजाधमाः || ऊर्ध्वपुण्ड्रे तथा शूले वर्तुले चतुरस्रके | चिह्ने वेदविरुद्धे तु भवेत ब्राह्मणाधमाः || पराशरोपपुराणे द्वितीयाध्याये ब्रह्मविष्ण्वोः परस्परशापप्रकरणे विष्णुं प्रति ब्रह्मवचनम्- क्रोधेन महताविष्टो ब्रह्मा सर्वजगत्पतिः | शशाप विष्णुं गर्भस्थो भव त्वमतिमोहितः || त्वद्भक्ता ब्राह्मणाः साक्षात्त्रिपुण्ड्रे भस्मगुण्ठने | भवेयुर्विमुखा नित्यं वेदसिद्धे विमुक्तिदे || त्वदीये पाञ्चरात्रे च तन्त्रे भागवते तथा | दीक्षिताश्च हरे नित्यं भवेयुर्निर्भयाः पुनः || स्कान्दे कालिकाखण्डे भृगोः स्वपत्नीघ्नं विष्णुं तद्भक्तान्प्रति च शापः- एकदण्डास्त्रिदण्डाश्च ये च भक्ता हरे त्वयि | तेऽद्य पाखण्डिनः सन्तु द्रष्टृर्णां नरकप्रदाः || दुर्वाससो मुनेः शापात्कुपितस्य महात्मनः | कण्वशापात्भृगोः शापादुपमन्योश्च शापतः || ब्रह्मशापात्तथा विप्र नन्दिकेश्वरशापतः | द्विजानां दाक्षिणात्यानां पापोपहतचेतसाम् || पृ० १४४) शिवे भस्मनि रुद्राक्षे किञ्चिच्छ्रद्धा न विद्यते | वैदिकाचारनिर्णये भस्ममाहात्म्यप्रस्तावे- श्रुत्युक्तभस्मरुद्राक्षरुद्राध्यायशिवद्विषः | वेदमार्गपरिभ्रष्टा भविष्यन्ति कलौ युगे || महापातकयुक्तानां जन्तूनां पूर्वजन्मसु | त्रिपुण्ड्रोद्धूलने द्वेषो जायते सुदृढं बुधाः || तत्रैव ब्रह्मगीतायाम्- महापापवतां पुंसां शिवज्ञानस्य साधने | सर्वा᳚न्गोद्धूलने तिर्यक् त्रिपुण्ड्रस्य च धारणे || रुद्राक्षधारणे रुद्रलि᳚न्गस्यैव तु पूजने | प्रद्वेषो जायते नित्यं शिवशब्दजपेऽपि च || स्कान्दे मुक्तिखण्डे
SK
यस्य स्याद्भस्मनि द्वेषः त्रिपुण्ड्रोद्धूलनेऽपि च | उत्पत्तौ तस्य सा᳚न्कर्यमनुमेयं विपश्चितः || तेषां चण्डालतो जन्म सम्यगूह्यं विपश्चिता | श्रुतौ चैव महादेवे त्रिपुण्ड्रे भस्मगुण्ठने || श्रद्धां न कुरुते मर्त्यः पुण्यलेशविवर्जितः | पापिष्ठानां मनुष्याणां त्रिपुण्ड्रोद्धूलने श्रुतौ || महादेवे च विद्वेषः स्वत एव हि जायते | भस्मना वेदसिद्धेन त्रिपुण्ड्रस्य च धारणम् || विना वेदोदिताचाराः स्मार्ताश्चानर्थकारणम् | त्रिपुण्ड्रधारणं मुक्त्वा कर्माणि कुरुते तु यः || पृ० १४५) तेनैवाचरितं सर्वं व्यर्थञ्चानर्थकारणम् | त्रिपुण्ड्रहीनं विप्रस्य स्मशानसदृशं मुखम् || चक्रा᳚न्कननिषेधः स्मृतिचन्द्रिकायाम्- श्रौतस्मार्तपरो विप्रो ना᳚न्कयेद᳚न्गम᳚न्कनैः | अपि विष्णवादि सम्बद्धैस्तप्तैर्वा पतितो भवेत् || अज्ञानादथवा लोभाद्रागतो वा सुदर्शनम् | धत्ते कुलघ्नं तं दृष्ट्वा सवासा जलमाविशेत् || चक्रा᳚न्किततनुर्वापि राजन् लि᳚न्गा᳚न्कितोऽपि वा | नाधिकारी स विज्ञेयः श्रौतस्मार्तेषु कर्मसु || श᳚न्खं चक्रञ्च लि᳚न्गञ्च यो मूढो धारयेत्तनौ | पाखण्डः स हि विज्ञेयः सर्वकर्मबहिष्कृतः || उद्धूलनं त्रिपुण्ड्रञ्च मनसाऽपि न ल᳚न्घयेत् | श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत् || ऊर्ध्वपुण्ड्रा᳚न्किताश्वत्थपत्रवर्तुललि᳚न्गधृत् | त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः || अतः किं श᳚न्खचक्राद्यैः शरीरे देवतायुधैः | रुद्रं पुरुषसूक्तञ्च जपेत्तिर्यक् त्रिपुण्ड्रकम् || धृत्वाथ भस्मना विप्रो ब्रह्महत्यां व्यपोहति | स्वल्पं भस्म द्विजश्रेष्ठाः बहुधा परिकीर्तितम् || श्रौतमेकं तथा स्मार्तमपरं पण्डितोत्तमाः | श्रौतं भस्म द्विजा मुख्यं स्मार्तं गौणं प्रकीर्तितम् ||
SK
पृ० १४६) अन्यच्चापि द्विजा भस्म लौकिकं केवलं परम् | श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम् || अन्येषामेव सर्वेषामपरं भस्म कीर्तितम् | सर्वा᳚न्गोद्धूलनैश्चैव तथा तिर्यक् त्रिपुण्ड्रकैः || भस्म धार्यमिति प्रोक्तं मुनिभिः सर्वमानवैः | धारणं मन्त्रतः प्रोक्तं द्विजानां मुनिपु᳚न्गवाः || केवलं धारणं विप्र अन्येषामपि कीर्तितम् | अग्निरित्यादिभिर्मन्त्रैर्जाबालोपनिषद्गतैः || सप्तभिर्धूलनं कार्यं भस्मना सजलेन च | त्रियायुषेण मन्त्रेण द्विजास्तिर्यक् त्रिपुण्ड्रकम् || धार्यं प्रोक्तं द्विजश्रेष्ठैर्धार्मिकैर्वेदपारगैः | मेधावीत्यादिभिर्मन्त्रैर्ब्रह्मचारी दिने दिने || भस्मना सजलेनापि धारयेच्च त्रिपुण्ड्रकम् | त्रियम्बकेन मन्त्रेण प्रणवेन शिवेन च || गृहस्थश्च वनस्थश्च धारयेच्च त्रिपुण्ड्रकम् | ऊंकारेण त्रिरुक्तेन सहंसेन त्रिपुण्ड्रकम् || धारयेद्भिक्षुको नित्यमिति जाबालिकी श्रुतिः | ललाटे चैव दोर्द्वन्द्वे तथैवोरसि बुद्धिमान् || त्रिपुण्ड्रं धारयेन्नित्यं भुक्तिमुक्तिफलप्रदम् | उद्धूलनं त्रिपुण्ड्रञ्च ज्ञाना᳚न्गत्वेन केवलम् || आमनन्ति द्विजश्रेष्ठाः श्वेताश्वतरशाखिनः | अयमत्याश्रमो धर्मो यैः समाचरितो मुदा ||
SK
पृ० १४७) तेषामेव शिवज्ञानं संसारच्छेदकारणम् | उद्धूलनं त्रिपुण्ड्रञ्च मायापाशनिवृत्तये || आमनन्ति मुनिश्रेष्ठा अथर्वशिरसि स्थिताः | व्रतं पाशुपतं येन सम्यगाचरितं बुधाः || तस्य ज्ञानं विजायेत येन पापविमोचनम् | उद्धूलनं त्रिपुण्ड्रञ्च ज्ञाना᳚न्गत्वेन केवलम् || आमनन्ति मुनिश्रेष्ठाः साक्षात्कैवल्यशाखिनः | अतोऽपि पाशविच्छेदज्ञानलाभाय सिद्धये || उद्धूलनं त्रिपुण्ड्रञ्च मुमुक्षुः सम्यगाचरेत् | भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् || महापातकनाशाय विधत्ते वैदिकं वचः | भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् || तपस्त्वेनैव सर्वेषां विधत्ते वैदिकं वचः | भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् || व्रतत्वेनैव सर्वेषा विधत्ते वैदिकं वचः | भस्मनोद्धूलनं चैवं तथा तिर्यक् त्रिपुण्ड्रकम् || यज्ञत्वेनैव सर्वेषां विधत्ते वैदिकं वचः | भस्मनोद्धूलनं चैव तथा तिर्यक त्रिपुण्ड्रकम् || ज्ञानार्थेनैव सर्वेषां विधत्ते वैदिकं वचः | भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् || शिवेन विष्णुना चैव वज्रिणा ब्रह्मणा तथा | देवताभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना || यक्षराक्षसगन्धर्वसिद्धविद्याधरादिभिः |
SK
पृ० १४८) मुनिभिश्च धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना || ब्राह्मणैः क्षत्रियै र्वैश्यैः शूद्रैरपि च स᳚न्करैः | अपभ्रंशैर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना || भस्मनोद्धूलनं चैव यैः समाचरितं मुदा | त एव शिष्टा विद्वांसो नेतरे मुनिपु᳚न्गवाः || उद्धूलनं त्रिपुण्ड्रञ्च श्रद्धया नाचरन्ति ये | तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः || उद्धूलनं त्रिपुण्ड्रञ्च श्रद्धया नाचरन्ति ये | ते महापातकैर्युक्ता इति शास्त्रस्य निश्चयः || उद्धूलनं त्रिपुण्ड्रञ्च श्रद्धयानाचरन्ति ये | तैः समाचरितं सर्वं विपरीतफलाय हि || भस्मधारणमाहात्म्यं मया वक्तुं न शक्यते | गुरुणापि च हे विप्राः कल्पकोटिशतैरपि || ब्रह्मणा विष्णुना चैव रुद्रेणापि मुनीश्वराः | भस्मधारणमाहात्म्यं न शक्यं परिभाषितुम् || त्रिपुण्ड्रधारणं मुक्त्वा मुक्तिमिच्छति यः पुमान् | विषपानेन नित्यत्वं कुरुते ह्यात्मनो हि सः || त्रिपुण्ड्रोद्धूलने द्वेषस्तदनुष्ठानवर्जनम् | रुद्राक्षधारणाभावो ज्ञानानुत्पत्तिकारणम् || स्कान्दे मुक्तिखण्डे ज्ञानानुत्पत्तिकारणाध्याये शिववचनम्- वेदवेदान्तविद्वेषस्तदध्ययनवर्जनम् | वामपाशुपतादीनामश्रौतानां परिग्रहः || पृ० १४९) पाञ्चरात्रादयश्चापि ज्ञानानुत्पत्तिकारणम् | उमादेव्या च लक्ष्म्या च वाण्यान्याभिर्द्विजोत्तमाः || सर्वस्त्रीभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना | पुण्यं भस्म परं ब्रह्म द्वयं संसारतारकम् || तयोरन्यतरत्सेव्यं संसारभयभीरुभिः | तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् || येन विप्रेण शिरसि धार्यते च त्रिपुण्ड्रकम् | मुण्डकोपनिषदि भस्मधारणवतामेव ब्रह्मविद्याधिकारित्वमुक्तम्- तेषामैवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णमिति || एतस्योपनिषद्वाक्यस्योपबृंहणं पुराणे- शिरोव्रतविहीनस्तु सर्वधर्मसमन्वितः | अपि ब्रह्मात्मविद्यायां नाधिकारी न संशयः || सौरसंहितायाम्-
SK
अग्निरित्यादिभिर्मन्त्रैः षड्भिः शुद्धेन भस्मना | सर्वा᳚न्गोद्धूलनं कार्यं शिरोव्रतसमाह्वयम् || इदं शिरोव्रतं चीर्णं विधिज्ञैः श्रद्धया पुनः | तेषामेव परा विद्या नान्येषामिति हि श्रुतिः || एतच्छिरोव्रतं नाम श्रुतमाथर्वणश्रुतौ | स्कान्दे मुक्तिखण्डे- एतच्छिरोव्रतं कुर्यात् सन्ध्याकालेषु सादरम् | यावद्विद्योदयं तावत्तस्य विद्याः खलूत्तमाः || पृ० १५०) कौर्मे- स्रष्टा सृष्टिच्छलेनाह त्रिपुण्ड्रस्य प्रशस्तताम् | ससर्ज स ललाटं हि तिर्य᳚न्नोर्ध्वं न वर्तुलम् || धर्मसारसुधानिधौ- त्रिपुण्ड्रकं सदा कुर्यान्मन्त्रपूतेन भस्मना | वेदोक्तेन विधानेन शिवसायुज्यमाप्नुयात् || श्रुतिभास्करे- वनस्पतिगते सोमे भस्मोद्धूलितविग्रहः | तं श᳚न्करं सकृदृष्ट्वा सर्वपापैः प्रमुच्यते || श्रुतिसारसमुच्यये- अशुचिर्वाप्यनाचारो मनसा पापमाचरन् | शुचिरेव भवेन्नित्यं त्रिपुण्ड्रस्य च धारणात् || महाभारते- आयुष्कामोऽथवा राजन् भूतिकामोऽथवा नरः | नित्यं वै धारयेद्भस्म मोक्षकामी च वै द्विजः || नारदीयस्मृतौ- त्रिपुण्ड्रं परमं ब्रह्म ब्रह्मविष्णुशिवात्मकम् | ये घोरा राक्षसाः प्रेता ये चान्ये क्षुद्रजन्तवः || त्रिपुण्ड्रधारिणं दृष्ट्वा पलायन्ते न संशयः | तस्य व्यर्थमिदं जन्म यस्त्रिपुण्ड्रं न धारयेत् || भूतिर्भूतिकरी पुंसां भूतिरंहो विनाशिनी | विभूतिरेणुमात्रेण सर्वस्नानफलं भवेत् || यस्य फाले न वा भूतिर्ना᳚न्गे रुद्राक्षधारणम् | पृ० १५१) पञ्चाक्षरं न यो जापी तं त्यजेदन्त्यजं यथा || चन्द्रिकायामाह्निके-
SK
भस्मस्नानं जलस्नानादस᳚न्ख्येयगुणान्वितम् | तस्माद्वारुणमुत्सृज्य स्नानमाग्नेयमाचरेत् || सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् | तत्फलं लभते सर्वं भस्मस्नानान्न संशयः || नास्ति भस्मसमं तेजो नास्ति भस्मसमं तपः | ये भक्तास्तु महाभागा ये द्विजाः पापकर्मिणः || तेऽपि भस्मविशिष्टा᳚न्गाः प्रयान्ति परमां गतिम् | यश्च फाले विना भूतिं विना रुद्राक्षधारणम् || न शम्भोः सदने पूज्यः स विप्रः श्वपचाधमः | यतीनां ज्ञानदं प्रोक्तं वनस्थानां विरक्तिदम् || गृहस्थाश्रमयुक्तानां धर्मवृद्धिकरं तथा | ब्रह्मचर्याश्रमस्थानां स्वाध्यायप्रदमेव च || शूद्राणां पुण्यदं प्रोक्तमन्येषां पापनाशनम् | यस्य प᳚न्क्तौ द्विजो भु᳚न्क्ते शिवभक्तस्त्रिपुण्ड्रधृत् || सतां प᳚न्किं पुनात्येकः सकलां चतुराननः | भस्मधारणमाहात्म्यं साकल्येन लिखेद्यदि || त्रिलोकी तालपत्राणि नालमायुः शतं नृणाम् | इत्यादिश्रुतिपुराणवचनबलादायुर्भूतिमुक्तिप्रदतया आयुष्कामभूतिकाममुक्तिकामधार्यत्वस्य, भस्मधारणद्वेषे उत्पत्तिसा᳚न्कर्यमूलकत्वस्य, भस्मधारणश्रद्धाभावे प्राचीनानेकजन्मार्जितमहापातकमूलकत्वस्य, भस्मधारणपरित्यागपूर्वकसकलकर्मानुष्ठानवैयर्थ्यस्य,
SK
पृ० १५२) सम्भावितब्रह्महत्यादिमहापातकपरिहारकप्रायश्चित्तरूपत्वेन सर्वव्रतदानतपोयज्ञानुष्ठानरूपत्वस्य, त्रिपुण्ड्रधारणानुगुणतया तिर्यक्त्वेन ललाटनिर्माणस्य स्रष्टुस्तात्पर्यविषयत्वस्य, अशुचित्वापादकव्यापारदशास्वपि शुचित्वप्रापकत्वस्य, भस्मधारणाभावे ज्ञानानुत्पत्तिकारणत्वस्य, राक्षसभूतप्रेतपिशाचादिनिवर्तकत्वेन सकलभीतिनिवारकत्वस्य, शिवविष्णुब्रह्मादिनिखिलदेवताधृतत्वस्य, सकलमुनिजनधृतत्वस्य, उमालक्ष्मीवाणीप्रमुखसुपर्वस्त्रीजनधृतत्वस्य, स्वधारणव्यतिरेकेण जन्मवैफल्यापादकत्वस्य, वेदमन्त्रैकसाध्यस्वधारणेतिकर्तव्यताकत्वस्य, अथर्वशिरोराजाबालकैवल्यकालाग्निरुद्रोपनिषत्प्रतिपदोक्तेतिकर्तव्यताकत्व स्य, शाम्भवव्रतत्वेन पाशुपतव्रतत्वेन शिरोव्रतत्वेन प्रतिपादितत्वेन ब्रह्मविष्णुशिवप्रमुखनिखिलबहिर्मुखानिरूपणीयमहिमाशालित्वस्य च प्रतिपादनाद्भस्मधारणमवश्यं कर्तव्यम् || ननु �अग्निरित्यादिना भस्म गृहीत्वा विमृज्या᳚न्गानि संस्पृसेद्व्रतमेतत्पाशुपतं पशुपाशविमोक्षाये� त्यथर्वशिरसि पाशुपतविद्याप्रकरणे समाम्नातम् | भस्मोद्धूलनं प्रकरणवशात्तन्मात्रा᳚न्गं, नतु सकलब्रह्मविद्या᳚न्गम् | नहि �पूर्वोऽतिथिभ्योऽश्नीया� दितिवैश्वानरविद्याप्रकरणे समाम्नातमतिथिभ्यः प्राक्भोजनं सकलब्रह्मविद्या᳚न्गमिति चेन्न, सकलब्रह्मविद्यापेक्षितचित्तशुद्धिरूपपापक्षयोपकारजनकं भस्मोद्धूलनं सकलब्रह्मविद्या᳚न्गम् | तस्य हि जाबालश्रुतौ �पापं नाशयते कृत्स्नमपि जन्मशतार्जित� मित्यादिना पापक्षयोपकारहेतुत्वस्यावधृतत्वात् | अग्निरित्यादिमन्त्रविधेयं भस्मोद्धूलनं सकलब्रह्मविद्या᳚न्गम्, विद्या᳚न्गत्वे सति सकलब्रह्मविद्यापेक्षितोपकारजनकत्वात्, शमदमादिवत् || �मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्याञ्च कृत्वा | भस्मच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मुच्यते सर्वपापै ||�
SK
पृ० १५३) रिति शातातपस्मृतौ प्रायश्चित्तप्रकरणे स्वतन्त्रप्रायश्चित्ततया विहिते श्रीरुद्रजपे तद᳚न्गभस्मोद्धूलनादौ च विद्यापेक्षितोपकारजनके व्यभिचारवारणार्थं विद्या᳚न्गत्वे सतीति विशेषणम् | अतिथिप्राग्भोजनादौ व्यभिचारवारणार्थं विशेष्यम् | न चोदाहृतजाबालश्रुतेः स्वतन्त्रभस्मोद्धूलनविषयत्वसम्भवाद्विशेषणासिद्धिरिति श᳚न्कनीयम्, �अग्निरिति भस्म वायुरिति भस्मे� त्यादिभस्मोद्धूलनमन्त्राणां अथर्वशिरस्याम्नातानां जाबालश्रुतौ भस्मोद्धूलनार्थतया समाम्नानेन पाशुपतविद्या᳚न्गस्यैव भस्मोद्धूलनस्य पापक्षयद्वारकत्वं जाबालश्रुतावुच्यत इति मन्त्रप्रत्यभिज्ञाया अवगम्यमानत्वात् ||
SK
ननु प्रकरणनियन्त्रितं भस्मोद्धूलनं प्रकृतिविकृतिभावादिकमन्तरेणापेक्षामात्रान्न पारिप्लवं भवितुमर्हति | नहि सा उपदेशातिदेशप्रमाणेष्वन्तर्भवति, न च पाशुपतविद्या सकलविद्याप्रकृतिरिति वक्तुं शक्यम्, तस्यां विद्या᳚न्गविद्यासहकारिकर्मगतिचिन्तनादीनामनाम्नानात् | कृत्स्नविधानेन हि प्रकृतिर्भवति | न चेह प्रमाणान्तरं वास्ति | तस्मादप्रयोजकं त्वदनुमानमिति-भस्मोद्धूलनं न सकलब्रह्मविद्या᳚न्गं, विद्याविशेषप्रकरणनियन्त्रितत्वात्, अतिथिप्राग्भोजनवदिति चेन्न यदुक्तमपेक्षा नोपदेशातिदेशप्रमाणेष्वन्तर्भवति, न चेह प्रमाणान्तरमस्तीति यदयुक्तम्, अपेक्षायास्तु सामर्थ्य पर्यालोचनामूलतया लि᳚न्गान्तर्भावात् | तयैव खल्ववहननस्य यवादिसाधारण्यम्, अन्यथा व्रीह्युद्देश्येन विहितस्य तस्य कुतो यवसाधारण्यं स्यात् ? तयैव च विद्याविशेषप्रकरणाम्नातानां यज्ञदानतपःप्रभृतीनां शमदमादीनामर्चिरादिगतिपर्वणामन्येषाञ्चैतादृशानां सकलब्रह्मविद्यासाधारण्यम् | तस्मादपेक्षासामर्थ्यं तावदिहैकं प्रमाणं भवत्येव | तथा �व्रतमेतत्पाशुपतं पशुपाशविमोक्षाये�ति श्रुतिरपि तत्र प्रमाणम् | तत्र हि विमोक्षशब्देन विमुक्तिसाधनं विद्यामात्रमुच्यते यथा �एतावदरे खल्वमृतत्व�मित्यत्रामृतत्वशब्देन अमृतत्वसाधनमुच्यते | नहि विद्यैकसाध्यायां
SK
पृ० १५४) विमुक्तौ भस्मोद्धूलनस्य साक्षात्साधनत्वं सम्भवति | तथा �तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्ण�मिति मुण्डकवाक्यमपि तत्र प्रमाणम् | तत्र हि शिरोव्रतशब्देनाथर्वशिरस्युक्तं पाशुपतव्रतं प्रत्यभिज्ञाप्यते | तस्मान्नाप्रयोजकं मदनुमानम् | त्वदनुमाने प्रकरणनियन्त्रितत्वं किं प्रकरणाम्नानमात्रं उत प्रकरणिविद्याविशेषमात्रवशीकृतत्वम् ? आद्ये हेतुरप्रयोजकः, आधानप्रकरणाम्नातानां यज्ञपात्राणां �वारणो यज्ञावचरो वैक᳚न्कतो यज्ञावचर� इति वाक्यवशेन यज्ञा᳚न्गत्ववत्, श्रुतिलि᳚न्गवाक्यैः भस्मोद्धूलनस्य सकलविद्या᳚न्गत्वोपपत्तेः | विद्या᳚न्गविद्यासहकारिकर्मशमदमादिषु व्यभिचारी च | द्वितीये हेतुरसिद्धः | प्रकरणाद्बलवद्भिः श्रुतिलि᳚न्गवाक्यैः सर्वविद्या᳚न्गत्वापादनात् | ननु एकत्र निबद्धमन्यत्राप्यपेक्षामात्रेण पारिप्लवं भवति चेत्, चोदकप्रमाणविचार एव व्यर्थः स्यादतो न तन्मात्रं प्रमाणम् | न चावहननस्य अपेक्षामात्राद्यवसाधारण्यम्, किन्तु द्वितीया श्रुत्यवगतं व्रीहीणामवहननसाध्यत्वं प्राक्सिद्धव्रीहित्वाकारेण न सम्भवतीति तस्मात्साध्यतावच्छेदकत्वेनापूर्वीयत्वं लक्षणीयम् | किञ्च अवहननवाक्ये व्रीहीपदस्य लौकिकापूर्वीय- साधारण्येन व्रीहिमात्रपरत्वे भूतभाविविनियोगरहितेषु लौकिकव्रीहिषु अवहननस्यार्थकर्मत्वं, अपूर्वीयव्रीहिषु विनियुक्तसंस्काररूपतया गुणकर्मत्वमिति विधिवैरूप्यापत्तिः | लौकिकव्रीहिमात्रपरत्वे द्वितीया श्रुत्यवगतद्रव्यप्राधान्यभ᳚न्गापतिरित्ति तत्परिहारार्थत्वेनाप्यपूर्वीयत्वं लक्षणीयम् | तत्र व्रीहित्वस्यापि विवक्षायां विशिष्टानुवाददोषः स्यादिति प्रवृत्तिनिमित्तैक्याद्यवसाधारण्यम् | यज्ञादीनां शमदमादीनाञ्च �विविदिषन्ति यज्ञने�त्यादौ तृतीया श्रुत्या शमाहितो भूत्वात्मन्येवात्मानं पश्ये� दित्यत्र क्त्वा श्रुत्या च सकलविद्यासाधारण्यम् | तत्र हि विविदिषन्तीति पश्येदिति च विद्यामात्रमुपात्तम् | अर्चिरादिगतीनां सकलविद्यासाधारण्यमपि �तद्य इत्थं
SK
विदुर्ये चेमे अरण्ये श्रद्धा तप इत्युपासत� इत्यादिवाक्येन | श्रुति-
SK
पृ० १५५) वाक्ये च प्रकरणाद्वलीयसी | तस्मादपेक्षामन्त्रेण न क्वापि विनियोगः | पशुपाशविमोक्षायेत्यत्र विमोक्षशब्दो न श्रुत्या सर्वसाधारणः तस्य मुक्तिवाचित्वात् | द्वारत्वेन विद्या निवेश्यते चेत्प्रकरणाविरोधेन प्रकृता पाशुपतविद्यैव तथा निवेशयितुमुचिता | तेषामेवैतामिति वाक्यं शिरस्य᳚न्गारधारणरूपमुण्डकाध्ययना᳚न्गभूतव्रतमाचष्टे, न त्वथर्वशिरस्युक्तं पाशुपतव्रतम् | तत्राथर्वणिकानां शिरोव्रतशब्दप्रसिद्धेः | तस्मादप्रयोजकं त्वदनुमानम् | मद्धेतोर्द्वितीय एवार्थः | श्रुतिलि᳚न्गवाक्यविरोधाभावेन भस्मोद्धूलनस्य प्रकरणविद्याविशेषवशीकृतत्वोपपत्तेरिति चेन्न, अपेक्षासामर्थ्यं तावत्प्रमाणं भवत्येव | तद्बशादेव अकृत्स्नविधानानामन्यतो धर्मग्रहणं, तदपेक्षामूलमेव च चोदकवाक्यकल्पनं; प्रकृतिविशेषव्यवस्थार्थस्त्वाष्टमिको विशेषातिदेशविचारः | निरपेक्षस्याप्यन्यदीयधर्मग्रहणे सोमस्याप्यैष्टिकधर्मग्रहणं प्रसज्येत | अवहननस्य यवसाधारण्यमप्यपेक्षयैव नापूर्वीयत्वलक्षणया | लक्षणाहेत्वोस्त्वदुपन्यस्तयोरयुक्तत्वात् | तथाहि आद्यो हेतुस्तावदयुक्तः, साध्यतावच्छेदकानुपस्थितावपि स्वर्गज्योतिष्टोमयोरिव व्रीह्यवहननयोः शब्देन साध्यसाधनभावबोधनसम्भवात् | द्वितीयोऽप्ययुक्तः, अवहननवाक्यजन्यशाब्दबोधस्य व्रीहीत्वप्रकारकत्वेऽपि द्वितीया श्रुतिनिर्दिष्टव्रीहिगुणतया विधीयमानमवहननं भूतभाव्युपयोगरहितलौकिकव्रीहिविषयं भवितुं न योग्यमिति विधेयसामर्थ्याच्छाब्दबोधानन्तरमपूर्वीयव्रीहीणां विषयत्वावगतिसम्भवात् | �यस्योभावग्नी अनुगतावभिनिम्लोचेदभ्युदियाद्वा पुनराधेयं तस्य प्रायश्चित्ति�रित्यत्र हविरार्त्यधिकरणन्यायेनाग्न्युभयत्वस्याविवक्षायां, अग्न्यनुगतिमात्रस्य शाब्दबोधवेलायां निमित्तत्वावगतावपि निमित्ते विधीयमानमाधानं सहितयोरेवाग्न्योरुत्पादनक्षमं न त्वेकैकस्याग्नेरिति विधेयसामर्थ्यादुभयाग्न्यनुगमस्यैव निमित्तत्वपर्यवसाना᳚न्गीकारात् | �तप्ते पयसि दध्यानयती�
SK
त्यत्र शाब्दबोधस्य पयस्त्वमात्रप्रकारकत्वेऽपि शा वैश्वदेव्यामीक्षे�ति तदनन्तरवाक्ये तस्य पृ० १५६) पयसो यागान्वयविधाने सति तत्सामर्थ्याच्छाब्दबोधान्तरं तदपूर्वसम्बन्धिनः पयसो विषयत्वावगतिरित्यवश्यवक्तव्यत्वाच्च | यज्ञादीनां शमदमादीनां च साधारण्यं न श्रुत्या, �तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेने� तिश्रुतौ-तमेतं विविदिषन्तीति, �तस्मादेवं विच्छान्तोदान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्ये�दिति श्रुतोवेवं वित्पश्येदिति च प्रकृतविद्याविशेषसम्बन्धबोधनात्; किन्त्वपेक्षयैव | अर्चिरादिगतेरप्यपेक्षयैव सर्वसाधारण्ये सिद्धे �ये चेमे अरण्ये� इतिवाक्यं पञ्चाग्निविद्यायामर्चिरादिगतिसद्भावे दृष्टान्तार्थं, जीवगतागतविषया, न ब्रह्मविद्येति दिव्यवस्थानप्राप्तिफलाभावेन तस्यादेवयानगत्यभावप्रसक्तौ तत्सद्भावविधानार्थं | �तद्य इत्थं विदु�रिति वचने प्रवर्तनीये तत्र दृष्टान्तार्थं दीपकाल᳚न्कारेण ब्रह्मविद्या अपि सहोपात्ताः पशुपाशविमोक्षायेत्यत्र विमोक्षशब्दः श्रुत्यैव सर्वविद्यासाधारणः, तस्य भावार्थप्रत्ययान्तया मुक्ताविव, करणार्थप्रत्ययान्ततया विद्यायामपि शक्तिसद्भावात् | श्हिरोव्रतं विधिवद्यैस्तु चीर्ण�मिति वाक्यमथर्वशिरोवर्णितपाशुपतव्रतविषयमेव, सौरपुराणादिषु तथा व्याख्या- तत्वात् | उपबृंहणानुसारेण श्रुत्यर्थस्य ग्राह्यत्वात् | अध्यापकप्रसिद्धितः पुराणप्रसिद्धेर्वलवत्वात् | तस्मान्नाप्रयोजकत्वं मदनुमाने | त्वदनुमाने च हेत्वसिद्धिरिति | तस्मादुद्धूलनत्रिपुण्ड्रयोः सकलपापनिवर्तकत्वेन चित्तशुद्धिद्वारा ब्रह्मविद्या᳚न्गत्वेन मुमुक्षुवीरशैवधार्यत्वं सिद्धमिति सर्वं समञ्जसं भवतीति भस्मधारणवादः || इति श्रीवीरशैवानन्दचन्द्रिकायां वादकाण्डे सप्तमं प्रकरणम् || पृ० १५७) वीरशैवानन्दचन्द्रिकायां वादकाण्डे अष्टमं प्रकरणम् ||
SK
विस्मयापादकं स्वामिन् भस्मोत्कर्षं विभावयन् | अहं महत्तरानन्दमविन्दं दयया तव || यदन्यदभिधातव्यं भवता तदुदीर्यताम् | श्रुणु राजेन्द्र रुद्राक्षमहोत्कर्षं प्रकीर्त्यते || रुद्राक्षधारणस्यापि सकलमहापातकोपपातकनिवर्तकत्वेन चित्तशुद्धिद्वारा ब्रह्मविद्या᳚न्गत्वं सकलश्रुतिस्मृतिपुराणागमेषु बहुशः प्रतिपादितमिति मुमुक्षुभिर्वीरशैवैस्तद्धारणमवश्यं कर्तव्यम् || बृहज्जाबालोपनिषदि- अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुण्डः पप्रच्छ कथं रुद्राक्षोत्पत्तिस्तद्धारणात्किं फलमिति | तं होवाच भगवान् रुद्रः- पुरा त्रिपुरवधायोन्मीलिताक्षोऽहन्तेभ्यो जलबिन्दवो भूमौ पतितास्ते रुद्राक्षा जाताः सर्वानुग्रहार्थाय तेषां नामोच्चारणेन दशशतगोदानफलं भवति, दर्शनस्पर्शनाभ्यां द्विगुणं त्रिगुणं फलं भवति | अत ऊर्ध्वं वक्तुं न शक्नोमि | पृ० १५८) तत्रैते श्लोकाः-
SK
कस्माज्जातन्तु किं नाम कथं वा धार्यते नरैः | कति वैषां मुखान्यत्र के मन्त्राः कथयस्व मे || दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं मया | उभाभ्यां चारुपक्ष्मभ्यां पतिता जलबिन्दवः || तत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः | स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् || हन्याद्रात्रौ दिवा पापं दिवा रात्रिकृतं हरेत् | लक्षन्तु दर्शनात्पुण्यं कोटिस्तत्स्पर्शनादपि || तस्य कोटिशतं पुण्यं लभते धारणान्नरः | लक्षकोटिसहस्राणि लक्षकोटिशतानि च || तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् | रुद्राक्षाणान्तु भद्राणां धारणे स्यान्महाफलम् || धात्रीफलप्रमाणन्तु श्रेष्ठमेतदुदाहृतम् | बदरीफलमात्रन्तु मध्यमं प्रोच्यते बुधैः || अधमं चणमात्रं स्यात्प्रक्रियैषा मयोच्यते | ब्राह्मणाः क्षत्रि?आः वैश्याः शूद्राश्चेति शिवाज्ञया || वृक्षा जाताः पृथिव्यान्तु तज्जातीयाः शुभाक्षकाः | श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकः || पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा उदाहृताः | ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान्राजा तु धारयेत् || पीतान् वैश्यस्तु बिभृयात्कृष्णान् शूद्रस्तुधारयेत् | ताम्राः स्निग्धा दृढा स्थूलाः कण्टकैः सहिताः शुभाः || पृ० १५९) क्रिमिदष्टं छिन्नभिन्नं कण्टकैर्हीनमेव च | व्रणयुक्तवृत्तं च षड् रुद्राक्षाणि वर्जयेत् || ग्रहणे विषुवे चैव अयने स᳚न्क्रमे तथा | दर्शे च पूर्णिमायाञ्च पुण्येषु दिवसेषु च || रुद्राक्षधारणात्सद्यः सर्वपापक्षयो भवेत् | इत्यादिबृहज्जाबालोपनिषद्वचनै रुद्राक्षाणां त्रिपुरवधाय तदेक निविष्टदृष्टेर्महादेवस्य नयनत्रयनिष्यन्दिभिरुदकबिन्दुभिरुत्पत्तिमत्वेनातिपावनत्वस्य, नामोच्चारणदर्शनस्पर्शनैः सहस्रगुणगोदान फलस्य धारणेन चेयत्तानवच्छिन्नफलत्वस्य शिवसायुज्यप्राप्तितात्पर्य पर्यवसितस्य सर्वपापक्षयद्वारा परमपुरुषार्थसाधनत्वस्य प्रतिपादनान्मुमुक्षुभिर्धारणीयत्वं सिद्धम् ||
SK
ननु रुद्राक्षाणामिवान्येषामपि पद्माक्षादीनां मन्त्रजपस᳚न्ख्येयत्ता परिगणनसाधनत्वेन प्रातिस्विकतत्तत्फलविशेषः श्रूयते | तथा हि- श᳚न्खाक्षमणयः श्रीदाः स्फाटिका मोक्षदायकाः | पद्माक्षाः पुष्टिलक्ष्मीदा रुद्राक्षा भुक्तिमुक्तिदाः || पुत्रजीवभवाः पुत्रपशुधान्यसमृद्धिदाः | विद्रुमा वश्यधनदाः सौभाग्यार्थाश्चमौक्तिकाः || पापापहाः कुशमयाः कामदाः स्वर्णरौप्यजाः | प्रवालमुक्तास्फटिकै र्जपकोटिफलप्रदाः || तुलसीमणिना यच्च गणितन्त्वक्षयं भवेत् | तुलसीकाष्ठसम्भूतां यो मालां वहते द्विजः || अप्यशौचोप्यनाचारो ममैवेति न संशयः | धात्री फलकृतामाला तुलसीकाष्ठसम्भवा || पृ० १६०) दृश्यन्ते यस्य देहे तु स वै भागवतो नरः | तुलसीकाष्ठसम्भूतां यो मालां वहते नरः || फलं यच्छाम्यहं तस्मै प्रत्यहं द्वारकोद्भवम् | निवेद्य भक्त्या मे मालां तुलसीकाष्ठसम्भवाम् || वहते यो नरो भक्त्या तस्य नास्तीह पातकम् | अहं प्रीतमनास्तस्य मम भक्तवरो हि सः || तुलसीकाष्ठसम्भूतां मालां वक्षसि धारयन् | बाहौ करे च मर्त्यश्च शूद्रो विप्रसमो भवेत् || तुलसीकाष्ठमालाभिर्भूषितः पुण्यमाचरेत् | तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः || दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं तृणं यथा | यद्गृहे तुलसीकाष्ठं पत्रं शुष्कमथार्द्रकम् || तद्गृहे तु भवेन्नैव पापं स᳚न्घटते कलौ | पद्माक्षैर्निर्मिता भक्त्या फलैर्धात्र्या च पुण्यदा || सा चोर्ध्वपुण्ड्रश᳚न्खाद्यैः युक्ता तु तुलसीदलैः ||� इत्यादिधर्मशास्त्रकारलिखितैर्वचनैः पद्माक्षादीनां प्रतिनियतफलसाधनत्वेन धार्यत्वश्रवणात् | किञ्च दक्षिणामूर्तिरूपेण परमेश्वरेण दक्षिणामूर्तिध्याने �स्फाटिकीमक्षमालाञ्च ज्ञानमुद्रां च पुस्तक�� मिति वचनेन धृतत्वम्, वाग्देवतया �दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाने� त्यादिना धृतत्वम्, नारदेन मुनिना �विभान्तमच्छस्फटिकाक्षमालये� त्यादिना धृतत्वम्, अम्बास्तवे-
SK
शरज्ज्योत्स्नाशुभ्रां शशियुतजटाजूटमुकुटां वराभीतित्राणस्फटिकघुटिकापुस्तककराम् | पृ० १६१) सकृन्नत्वा स्तुत्वा कथमपि सतां सन्निदधते | मधुक्षीरद्राक्षामधुरिमधुरीणा भणितयः || यः स्फाटिकाक्षगुणपुस्तककुण्डिकाढ्याम् व्याख्यानमुद्रितकरां शरदिन्दुशुभ्राम् | पद्मासनाञ्चहृदये भवतीमुपास्ते मातः स विश्वकवितार्किकचक्रवर्ती || इति च देव्या धृतत्वम्, श्फाटिको मोक्षदायक� इति प्रतिपदोक्तत्वेन मोक्षदायकत्वञ्च श्रूयते | अथ कथं रुद्राक्षधारणस्यैव मोक्षसाधनत्वमिति चेन्न, रुद्राक्षाणां साक्षात्परमेश्वरनयनजलबिन्दुसन्दोहप्रभवत्वेन धारणीयत्वेन फलविशेषसाधनत्वेन परिगणितानां पद्माक्षादीनां मध्ये परमोत्कर्षस्य श्रूयमाणत्वात् | तथाहि स्कान्दे- त्रिपुरस्य वधार्थाय देवानां रक्षणाय च | धनुर्वेदमयं धृत्वा देवानां मातरं पराम् || गायत्रीं बाणमुद्धृत्य सर्ववेदमये रथे | दिव्यं वर्षसहस्रन्तु चक्षुरुन्मीलितं सदा || पुटाभ्यां चारुपक्ष्मभ्यां निपेतुर्जलबिन्दवः | तदम्बुबिन्दवो जाता महारुद्राक्षवृक्षकाः || सुरासुरगणानाञ्च वन्दनीयः शिवो यथा | अवध्यः सर्वभूतानां रुद्रवद्विचरेद्भुवि || यस्तु रुद्राक्षवृक्षस्य फलान्य᳚न्गेषु धारयेत् | निकषे हेमरेखाभा यस्य रेखा प्रदृश्यते || तदक्षमुत्तमं विद्यात्तद्धार्यं शिवपूजकैः | पृष्ठे ब्रह्मा हरिर्नाले तदग्रे च सदाशिवः || पृ० १६२) केसरे सर्वदेवाश्च तस्माद्रुद्राक्षमुत्तमम् || रुद्राक्षान् कण्ठदेशे दशनपरिमितान् मूर्ध्नि षट्त्रिंशदेवं षट् षट् कर्णप्रदेशे करयुगलपदे द्वादश द्वादशैव | बाह्वोरिन्दोः कलाभिः परिगुणितमथैकाक्षमेकं शिखायां वक्षस्यष्टोत्तरं यः कलयति शतकं स स्वयं नीलकण्ठः || लै᳚न्ग्ये-
SK
रुद्राक्षं धारयेद्विप्रः सन्ध्यादिषु च कर्मसु | तत्सर्वं समवाप्नोति कोटि कोटि गुणं सदा || स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने | प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः || अरुद्राक्षधरो भूत्वा यत्किञ्चित्कर्म वैदिकम् | कुर्याद्विप्रस्तु यो मोहान्नासावाप्नोति तत्फलम् || खादन्मांसं पिबन् मद्यं स᳚न्गच्छन्नन्त्यजेष्वपि | सद्यो भवति पूतात्मा रुदाक्षे शिरसि स्थिते || तस्मात्तं धारयेन्मर्त्यः सर्वकर्मसमृद्धये | रुद्राक्षमालिकां कण्ठे धारयन्भक्तिवर्जितः || पापकर्मापि यो मर्त्यो रुद्रलोके महीयते | रुद्राक्षं धारयन् कण्ठे श्वापि वा म्रियते यदि || सोऽपि रुद्रत्वमाप्नोति किं पुनर्मानुषादयः || पाराशरोपपुराणे- महादेवश्च विष्णुश्च ब्रह्मा तेषां विभूतयः | देवाश्चान्ये सदा भक्त्या खलु रुद्राक्षधारिणः || पृ० १६३) गोत्रर्षयश्च सर्वेषां कूटस्थाः कुललक्षिताः | वेदोक्तवर्त्मना नित्यं खलु रुद्राक्षधारिणः || तेषां वंशप्रसूताश्च मुनयः सकला अपि | श्रौतधर्मपराः शुद्धाः खलु रुद्राक्षधारिणः || पापिष्ठानां मनुष्याणां रुद्राक्षाणाञ्च धारणे | श्रद्धा न जायते साक्षाद्वेदसिद्धे विमुक्तिदे || वेदमार्गात्परे मार्गे स्वतन्त्रे पापकर्मणाम् | नराणां जायते वाञ्छा स्वभावेन च सत्तम || वेदवादेतरासक्ता बहवो मुनिसत्तमाः | आज्ञया देवदेवस्य शिवस्य नरकं गताः || वेदोदितसमाचारनिरता बहवो जनाः | प्रसादादेव रुद्रस्य विमुक्ता भवबन्धनात् || यथा माता स्वपुत्राणां केवलं कृपयैव तु | रक्षिका तद्वदेवायं वेदः सर्वजनस्य तु || यथा शत्रुजनः साक्षाद्बाधकः सर्वदेहिनां | तथा वेदेतरो मार्गो वैदिकस्य जनस्य तु || तन्त्राणि तन्त्रनिष्ठानां रक्षकाण्यपि च क्रमात् | बाधकानि विशेषेण वेदमार्गैकवर्तिनाम् || अतः श्रुत्यदितं कर्म गृह्णीयादेव वैदिकः | तन्त्रं सिद्धं न गृह्णीयान्मोहाद्वापि कदाचन || यन्त्रतन्त्रानुरोधेन कथितं तत्परित्यजेत् |
SK
पृ० १६४) सत्याषाढसूत्रे- अथ ब्राह्मणक्षत्रियवैश्यशूद्रापभ्रंशस᳚न्करा वा सर्वेषां रुद्राक्षधारणम्, सर्वकर्मसु यत्नेन कर्तव्यम् | मुमुक्षुश्चेत्सततं धारयेत्पशुपाशविमोचनम् || इत्यादिश्रुत्यागमस्मृतिपुराणै रुद्राक्षाणां धारणस्य साक्षात्परमेश्वरनयनजलबिन्दुसन्दोहप्रभवत्वेन, ब्रह्मविष्णुरुद्रादिसर्वदेवताधिष्ठातृत्वेन, तत्तत्स᳚न्ख्याविशिष्टतया तत्तत्स्थानधारणस्य शिवाभेदप्रापकत्वेन, नित्यनैमित्तिकादिधर्मानुष्ठानसमये धारणनैय्यत्यात्फलसाकल्यसम्पादकत्वेन, तद्व्यतिरेकेण अनुष्ठितानां धर्माणां नैष्फल्यापादकत्वेन, समस्तमहापातकोपपातकनिवर्तनद्वारा परिशुद्धिसम्पादकत्वेन, सर्वकर्मसमृद्धिसम्पादनद्वारा ब्रह्मविद्या᳚न्गत्वेन, पशुपाशविमोचकत्वेन च निश्रेयससाधनत्वस्य प्रतिपादनाद्रुदादिसर्वदेवृषिसेवितत्वेन, अनधिकारितान्त्रिकजनाविश्वसनीयत्वेन च रुद्राक्षधारणं मुमुक्षुभिरवश्यं कर्तव्यम् | तदकरणे प्रत्यवायश्रवणात्, करणे चाभ्युदयश्रवणाच्च नित्यत्वम् | न च स्फाटिकादिमणीनामुदाहृतवचनैर्देवताधार्यत्वेन प्राशस्त्यं विशिष्टमिति वाच्यम्, फलविशेषप्रापकतत्तद्ध्येयवस्तुगुणविशेषत्वेन तद्धारणस्य नारदादिधारणस्य च लीलाविशेषपरत्वप्रतिपादनौचित्यात् | नच श्फाटिको मोक्षदायक� इति वचनेन तदनुसारिनारदादिमुनिधारणेन च मोक्षप्रदत्वं समानमिति वाच्यम्, स्फाटिकमणीनां मोक्षदायकत्वं पौराणिकं तत्रापि क्वाचित्कं, रुद्राक्षाणान्तु बहुतर- श्रुत्यागमस्मृतिपुराणेषु बहुतरं धारणमभ्यस्तम् | अतस्तदनुरोधात् स्फटिकधारणप्रतिपादकप्रमाणस्यैव दौर्बल्यमिति वस्तुस्थितिः | तथाचोतरतन्त्रे अभ्यासे सति हि भूयस्त्वमर्थस्य भवति नाल्पत्वमपि, प्रागेवोच्चरितार्थत्वम् | नवकृत्वस्तत्वमसीत्यभ्यासादद्वैतमेव महावाक्यार्थः | अन्यविषयत्वन्तु वक्तुं न शक्यत इति तस्य त्वमसि तेन त्वमसीतिलक्षणया विशिष्टा-
SK
पृ० १६५) द्वैतपरत्वमपि कल्पयितुं न शक्यते | विभक्तिलोपोऽप्यविद्यमानो न कल्पनीयः || अभ्यासाद्यथा आनन्दमयस्य परमेश्वरत्वं �एतमानन्दमयमात्मानमुपस᳚न्क्रामति, आनन्दो ब्रह्मेति व्यजानात्, आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन, को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्� इत्याद्यभ्यासैर्यथा आनन्दमयस्य परमेश्वरत्वं निर्णीतं तथात्रापिरुद्राक्षधारणे मोक्षः सिध्यतीत्यव्यवहितप्रतिपादितबहुतरश्रुतिस्मृतिपुराणवचनैरभ्यासात्प्रा बल्यं, स्फटिकमणिप्राशस्त्यस्य क्वाचित्कत्वेनाभ्यासाभावाद्दौर्बल्यञ्च सिद्धम् || इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्बोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थल् अतत्त्वबोधसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यश्रीमरितोण्टदार्यवि रचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्यकेलदिसदाशिवराय नायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द्रधर्मपत्नी मल्लाम्बाहृदयानन्दबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे अष्टमं प्रकरणम् || पृ० १६६) वीरशैवानन्दचन्द्रिकायां वादकाण्डे नवमं प्रकरणम् || गुरो रुद्राक्षमहिमा बहुधा हर्षयन्मनः | बोधनीयमितो यत्तत्पुनः प्रक्रम्यतां त्वया | राजन् पञ्चाक्षरीनाम्नो मन्त्ररत्नस्य वैभवम् | कथयामि सदिष्टार्थप्रधानः प्रणवं शृणु || पठितपञ्चमप्रपाठकाष्टकयजुर्वेदे चतुर्थकाण्डमध्यमानुवाकाव स्थितः पञ्चाक्षरमन्त्रः सर्वदेवर्षिसिद्धसाध्यदानवमानवाभीष्टफलभोगमोक्षदानोदर्कतया सर्वैरुपासनीयः सप्तकोटिमहामन्त्रेष्वतिशयेन परतत्वप्रतिपादकः प्रणवसहितः षडक्षरोमन्त्रः | तथा हि सिद्धान्तशेखरे- शिवतत्वात्परं नास्ति यथा तत्वान्तरं महत् | तथा पञ्चाक्षरीमन्त्रान्नास्ति मन्त्रान्तरं महत् || सूक्ष्मागमे-
SK
अल्पवर्णसमायुक्तमधिकार्थमसंशयं | सारात्सारतरं शैवं वाक्यं मोक्षैकसाधनम् || पृ० १६७) सर्वसिद्धिप्रदं दिव्यं सर्वतत्वप्रकाशकम् | आद्यं बीजमिदं देवि विद्यानामाप्य शेषतः || सूक्ष्मात्सूक्ष्मतरं चैव वटवीजं यथा भुवि | मन्त्रोऽयं वाचि यस्यास्ति स एवाहं न संशयः || ग्रन्थान्तरे- विद्यासु श्रुतिरुत्कृष्टा तत्रैकादशनी श्रुतौ | तत्र पञ्चाक्षरी तस्यां शिवित्यक्षरद्वयम् || शिवरहस्ये- अनेन मनुना लि᳚न्गं सम्पूज्याष्टशतं जपेत् | तेन सर्वे महामन्त्रा जप्ता एव न संशयः || अनेन मन्त्रितं भस्म धारयेत्स्नानपूर्वकम् | ग᳚न्गादिसर्वतीर्थेषु स्नातो भवति मानवः || ऊं कारः सर्वमन्त्राणां मन्त्रराट्परिकीर्तितः | पञ्चाक्षरयुतो देवि साक्षात्सायुज्यकारणम् || लोके पञ्चाभिधेयानि प्रसिद्धानि विशेषतः | ज्ञेयानि तानि सर्वाणि पञ्चाक्षरमयानि हि || चिराभ्यस्तेन योगेन षडक्षरमयेन च | जीवन्मुक्त इति ज्ञेयो मदनुग्रहभाग्भवेत् | तस्मात्सर्वं परित्यज्य जपेत्पञ्चाक्षरं शुभम् || वेदाः सा᳚न्गाः पुराणानि मन्त्राश्च बहवस्तथा | आगमा विविधा देवि विद्यास्थानानि यानि च || पञ्चाक्षरे प्रलीयन्ते निर्गच्छन्ति पुनस्ततः | पृ० १६८) एतां पञ्चाक्षरीविद्यां हृद्यां मम समाश्रिताः || कलावपि प्रमुच्यन्ते महात्मानो दृढव्रताः | महापातकविच्छित्यै शिव इत्यक्षरद्वयम् || अलं नमस्क्रियायुक्तो मुक्तये कल्पितो मनुः |
SK
इत्यादिपुराणागमवचनैः सर्वोत्कृष्टशिवतत्वसाम्येन सर्वमन्त्रोत्कृष्टत्वस्य, सर्वविद्योत्कृष्टश्रुतिमध्यपठितरुद्राध्यायमध्यगततया शिवशब्दान्वितत्वस्य, स्वजपेन सर्वमन्त्रजपफलदातृत्वस्य, स्वमन्त्रितभस्मस्नानेन सर्वतीर्थस्नानफलप्रापकत्वस्य, स्वस्य पञ्चवर्णविशिष्टतया पञ्चस᳚न्ख्याविशिष्टतया वेदागमस्मृतिपुराणप्रसिद्धपञ्चमहाभूत-पञ्चतन्मात्र-पञ्चतत्व- पञ्चब्रह्ममन्त्र-पञ्चवक्त्र-पञ्चाग्निपञ्चप्राण-पञ्चज्ञानेन्द्रिय- पञ्चकर्मेन्द्रियपञ्चकला-पञ्चशक्ति-पञ्चकोशादिरूपत्वस्य, वेदादिसर्वविद्यास्थानोत्पत्तिलयाधिष्ठानत्वस्य, पापभूयिष्ठे कलावपि मुक्तिसाधकत्वस्य, महापातकनिर्वर्तकनमःशब्दसमभिव्याहृतशिवशब्दयुक्ततया मुक्तिसाधनत्वस्य च श्रवणात्पञ्चाक्षरीमन्त्रः सर्वमन्त्रोत्कृष्टो वैदिकैर्मुमुक्षुभिरुपास्यः || ननु नारायणाष्टाक्षरीरामषडक्षरीनरसिंहमन्त्रादिमहामन्त्राणां वेदमध्यवर्तिनां मुमुक्षूपास्यत्वेन श्रवणात्कथं पञ्चाक्षरीमन्त्रस्यैव प्राशस्त्यम् ? तथाहि द्वात्रिंशदुपनिषन्मध्यप्रविशद्दशोपनीषद्व्यतिरिक्त नारायणोपनिषदि- ऊं मित्येकाक्षरं, नम इति द्वे अक्षरे, नारायणायेति पञ्चाक्षराणि | एतद्वै नारायणस्याष्टाक्षरं पदम् | यो वै नारायणस्याष्टाक्षरं पदमध्येति, अनपब्रुवः सर्वमायुरेति, विन्दते प्रजापत्यं रायष्पोषं गौपत्यं ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुते || इति नारायणोपनिषत्प्रतिपाद्यत्वेन शोऽमृतत्वमश्नुत� इति मोक्षसाधनत्वश्रवणात् || पृ० १६९) माघमाहात्म्ये- गर्भजन्मजरारोगदुःखसंसारबन्धनैः | न बाध्यते नरो नित्यं नारायणमनुस्मरन् || इतिहासोत्तमे- जप नारायणमनुं पठ तन्नामम᳚न्गलम् | पाहि प्रपन्नजनतां ब्रूहि तथ्यं हितं नृणाम् || गायत्र्यास्त्रिगुणं विष्णुं ध्यायन्नष्टाक्षरं जपेत् | प्रणम्य देवान्विप्रांश्च गुरुंश्च हरिपार्श्वगान् || रामतापनीये- श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः | मन्त्रान्तरसहस्रञ्च जपहोमार्चनादिभिः ||
SK
पद्मपुराणे शिवराघवसंवादे- मुमूर्षोर्मणिकर्णिक्यामर्धोदकनिवासिनः | अहं दिशामि ते मन्त्रं तारकब्रह्मसंज्ञितम् || श्रीराम राम रामेति ह्येतत्तारकमुच्यते | अतस्त्वं जानकीनाथ परब्रह्म सुनिश्चितम् || इत्यादिना नारयाणाष्टाक्षरस्य जननमरणादिसकलदुःखनिवर्तकत्वेन तथा अवश्यजप्यत्वेन विधानात्, गायत्रीदृष्टान्तेन तज्जपनैयत्यप्रतिपादनाच्च सर्वोत्तमत्वम् | एवं रामषडक्षर्याश्च मुक्तिप्रदत्वेन सकलजनसम्प्रतिपन्नवाराणसीक्षेत्रे �अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवती� तिश्रुतेः, �अत्रैव भगवान् रुद्रस्तारकं ब्रह्म व्याचष्ट� इति लघुजाबालश्रुतेश्च मोक्षसाधनत्वेन मुमुक्षुकर्णोपदेशयोग्यतारकमन्त्र-
SK
पृ० १७०) त्वेन तदुपबृंहणपद्मपुराणवचनेन पर्यवसितत्वात्, तथैव नृसिंहमन्त्रस्यापि पूर्वतापिन्यां मोक्षसाधनत्वप्रतिपादनाच्च, कथं पञ्चाक्षरी मन्त्रस्यैव सर्वातिशायित्वमिति चेदत्रब्रूमः- सकलसूत्रकारमूर्धन्यबोधायनापस्तम्बसत्याषाढभरद्वाजवैखानसा ग्निवेश्यसंज्ञकषट्सूत्रकारविधीयमानाग्नेयव्रतानुष्ठानपूर्वकका. न्डोपकरणोत्सर्जननियमपुरस्सराध्येतव्यतैत्तिरीयशाखोपलभ्यमानत्वात्, �एकादशगुणान्वापि रुद्रानावृत्य धर्मवित् | महापापैरपि स्पृष्टो मुच्यते नात्र संशयः || वेदमेकगुणं जप्त्वा तदह्नैव विशुध्यति | रुद्रैकादशनीं जप्त्वा तत्क्षणादेव शुध्यती�ति सकलस्मृतिकर्तृचक्रवर्तियमात्र्य᳚न्गिरःशातातपयाज्ञवल्क्यादिभिर्धर्म᳚ सास्त्रप्रणेतृभिर्महापातकनिवर्तकप्रायश्चित्तत्वेन रुद्रैकादशन्या विधानात्, विज्ञानेश्वरमाधवहेमाद्रिप्रभृतिभिर्व्याख्यातृभिरप्येवं विवरणाच्च, रुद्रैकादशन्याः सर्वोत्तमत्वं सिद्धम् || ननूक्तरीत्या रुद्रैकादशन्याः सर्वोत्तमत्वे पञ्चाक्षर्याः किमागतमिति चेद्भ्रान्तोऽसि, सर्वस्या रुद्रैकादशन्याः प्राशस्त्ये सिद्धे तन्मध्यपठितस्य पञ्चाक्षरीमन्त्रस्य प्राशस्त्यं कैमुतिकन्यायेनैव शरीरे मूर्ध्न इव सिद्धम् | प्रत्युत पञ्चाक्षरीयोगेनैव रुद्रैकादशन्याः सर्वोत्तरत्वं प्रतिपाद्यते || तथाहि- पञ्चाक्षरी शिवपदेन विभाति रुद्रा- ध्यायस्तया स्फुरति तेन चतुर्थकाण्डः | काण्डेन सर्वयजुरेव विभाति तेन ऋक्साममध्यमणिना च विभान्ति वेदाः || विद्यासु श्रुतिरुत्कृष्टा रुद्रैकादशनी श्रुतौ | तत्र पञ्चाक्षरी तत्र शिव इत्यक्षरद्वयम् || सैषा पञ्चाक्षरीविद्या शतरुद्रीयमध्यगा | पञ्चाक्षरे महादेवो सर्वदा सुप्रतिष्ठितः || इति ||
SK
पृ० १७१) तस्मात्पञ्चाक्षर्याः सर्वोत्तरत्वम् | नहि नारायणाष्टाक्षर्यादीनामेतादृशं माहात्म्यम्, नारायणोपनिषद्रामतापनीयनृसिंहतापनीयादीनामुपक्रमोत्सर्जनादिनिय् अमपूर्वकमध्ययनस्य बोधायनादिकल्पसूत्रकारैरविधानादवश्यमध्येतव्यत्वाभावात्, पञ्चसंस्कारसंस्कृतवीरवैष्णवस्यापि पञ्चाक्षरीमन्त्राध्ययनाभावे स्त्येनक्लीबपतितनास्तिकनिन्दितकर्माभ्यासिनिराकृताद्येकोनपञ्चाशदपा᳚न्क्त् एयमध्ये परिगणनादापा᳚न्क्तेयत्वप्रस᳚न्गाच्च | नारायणोपनिषद्रामतापनीयनृसिंहतापनीयाध्ययनविधेरभावात्तदन ध्ययने प्रत्यवायाभावाच्च | प्रत्युत �यः स्वशाखां परित्यज्य शाखामन्यां समाश्रयेत् | शाखाषण्डः स विज्ञेयः सर्वकर्मबहिष्कृतः� इति यजुरध्ययनं परित्यज्य नारायणोपनिषदध्ययने शाखाषण्डत्वापाताच्च | तस्मात्पञ्चाक्षर्या अवश्याध्ये यत्वादनध्ययने प्रत्यवायविधानाच्च | सर्वोत्तरत्वं सिद्धम् | ननूक्तरीत्या बहुनायासेन पञ्चाक्षर्या अवश्याध्ययनीयत्वेऽपि कर्मकाण्डपठितमन्त्रान्तरवद्यज्ञाना᳚न्गत्त्वेन नश्वरस्वर्गादिफलसाधनतया मोक्षहेतुत्वाभावेन च कथं प्राशस्त्यमिति चेन्न, विविक्तदेशे निर्दोषे निर्भये निरुपद्रवे | पद्मासने समासीनः प्रा᳚न्मुखो वाप्युदन्मुखः || समःकायशिरोग्रीवस्त्वरालस्यादिवर्जितः | शिवं ध्यायन् जपेद्योगी जीवन्मुक्तो न संशयः || मुमुक्षूणां यथा शम्भुः संसारभयमोचकः | इति मोक्षसाधकत्वश्रवणात्कर्मकाण्डमन्त्रापेक्षया वैलक्षण्यात् | न च श्रुतावेव नारायणाष्टाक्षर्यादिमन्त्रस्य �ततोऽमृतत्वमश्नुत� इत्यादिना मोक्षसाधनत्वश्रवणात्, एवं पञ्चाक्षरीमन्त्रस्य श्रुतौ मोक्षसाधनत्वाश्रवणान्मोक्षसाधनत्वं सन्दिग्धमेवेति चेन्न, अथ हैनं ब्रह्मचारिण ऊचुः किं जप्येनामृतत्वं ब्रूहीति स
SK
पृ० १७२) होवाच याज्ञवल्क्यः शतरुद्रीयेनेति | एतानि वा अमृतानामधेयानि एतेषु वा अमृतो भवति || इति लघुजाबालोपनिषद्वचनेन | यः शतरुद्रीयमधीते सोऽग्निपूतो भवति, स वायुपूतो भवति, सुरापानात्पूतो भवति, कृत्याकृत्यात्पूतो भवति, सर्वबन्धनान्मुक्तो भवति, तस्मादविमुक्तमाश्रितो भवत्यत्याश्रमी सर्वदा सकृद्वा जपेत् | अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् | तस्मादेवं विदित्वैवं कैवल्यं पदमश्नुते कैवल्यं पदमश्नुते || इति कैवल्योपनिषद्वचनेन च, शतरुद्रीयस्य मोक्षसाधनत्वस्य स्फुटतरं श्रूयमाणत्वेन पञ्चाक्षरीमन्त्रस्य मोक्षसाधनत्वे कस्यापि विवादाभावात् | किञ्च सकलतत्वोतीर्णनिर्गुणपरशिवतत्वप्रतिपादकानितरसाधारणमाहात्म्यबो धकशिवशब्दसमभिव्याहृतत्वात्पञ्चाक्षरीमन्त्रस्य सर्वोत्तमत्त्वम् || शिवशब्दोऽत्र शोभनवचनः, श्ह्वःश्रेयसं शिवं भद्रं कल्याणं म᳚न्गलं शुभ� मित्यमरकोशात् | शिवाः शोभनाः सर्वज्ञत्वादयो गुणा अस्य सन्तीति शिवः | अर्शादेराकृतिगणत्वादच् प्रत्ययः | हेत्वल᳚न्कारविधया अभेदोपचाराद्वा सर्वज्ञतादयश्चा᳚न्गाव्ययभेदेन द्विविधाः शिवपुराणागमप्रसिद्धाः | यथोक्तं- सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः | अनन्तशक्तिश्च विभो र्विधिज्ञाः षडाहुर᳚न्गानि महेश्वरस्य || ज्ञानं विरागतैश्वर्यं तपः सत्यं क्षमा धृतिः | स्रष्टृत्वमात्मसम्बोधो ह्यधिष्ठातृत्वमेव च || पृ० १७३) अव्ययानि दशैतानि नित्यं तिष्ठन्ति श᳚न्करे || इति ||
SK
यद्यपि परशिवस्य निष्कलत्वाद्गुणास्तस्मिन् न सम्भवन्ति | ङिष्क्रियं निष्कलं शान्तं निरवद्यं निरञ्जन�मिति श्रुतेः, श्हिवतत्वं महासेन निष्कलन्त्विति कीर्तित�मिति वातुलशुद्धवचनाच्च | तथापि शृष्ट्यर्थं सर्वतत्वानां लोकस्योत्पत्तिकारणात् | योगिनामुपकाराय स्वेच्छया गृह्यते तनु�रिति, तथा �योगिनाञ्च यतीनाञ्च ज्ञानिनां मन्त्रिणामपि | जपपूजानिमित्ताय निष्कलं सकलं भवे�दिति च तत्रैव वातुलशुद्धवचनात्तदाश्रितपराशक्तिकल्पितान् गुणानादाय तथा व्यपदेशः || अथवा स्वयमेव शिवः शोभनत्वात् | शोभनत्वञ्च सर्वजीववर्त्याणवकार्मणमायेयाख्यानादिमलत्रयाभावरूपनैर्मल्यलक्. सणं शुद्धत्वम् | अणु= र्जीवः, तस्यानादिर्जीवतापादकोऽविद्यासम्बन्ध आणवं मलम्; अनादिकर्मफलं वासनारूपं कार्मणं मलम्; अस्ति प्रकाशत इति व्यवहारसामग्र्यां सत्यां, नास्ति न प्रकाशत इति व्यवहारसामग्र्यामसत्याञ्च नास्ति न प्रकाशत इति व्यवहारयोग्यत्वरूपमावरणं मायेयं मलमिति सकलशिवागमप्रसिद्धम् | तादृशमलत्रयाभावात्परमात्मनि अकर्मवश्ये सर्वज्ञे निर्मलता सम्भवति | यथोक्तं वायुसंहितायाम्- अथवाशेषकल्याणगुणैकघन ईश्वरः | शिव इत्युच्यते सद्भिः शिवतत्वार्थवेदिभिः || अनादिमलसंश्लेषयोगाभावात्स्वभावतः | अत्यन्तपरिशुद्धात्म्येत्यतोऽयं शिवं उच्यते || इति || तथा तत्रैव प्रदेशान्तरेऽपि �विशुद्धः शिवभासत� इति | वातुलशुद्धेप्युक्तम् श्हुद्धत्वाच्छिव इत्युक्त� इति || यद्वा शेतेऽस्मिन् सर्वमिति शिवः, सर्वकारणीभूतचिच्छक्तेरप्याधारतया परमशिवस्येव जगदाधारत्वात् | शर्वनीघृष्वरिष्वलष्वशिवपट्व-
SK
पृ० १७४) प्रह्वेष्वा अस्वतन्त्र� इति तन्त्रपदवाच्यकृद्भिन्नाधिकरणे औणादिकनिपातनात्साधुः | �यो योनिं योनिमधितिष्ठत्येको यस्मिन्निदं सञ्चविचैति विश्वम् | तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेती�ति श्रुतेः || अथवा शाम्यतीति शिवः | श्हिवादयश्चे�ति जैनेन्द्रव्याकरणसूत्रेण क्वनिपीत्वाल्लोपयोश्च रूपमिति निर्विकार इत्यर्थः | ङिष्क्रियं निष्कलं शान्तम् | त्रिलोचनं नीलकण्ठं प्रशान्त�मिति च श्रुतेः || अथवा वष्टीति शिवः, वश= कान्ताविति धातो पचाद्यचि पृषोदरादित्वाद्वर्णव्यत्यये अकारस्य इकारादेश च सति शिव इति रूपम् | �हिसि धातोः सिंहशब्दो वशकान्तौ शिवस्मृतः | वर्णव्यत्ययतः सिद्धः कश्यपः पश्यको यथे�त्यभियुक्तोक्तेः | तस्य चेच्छाश्रय इत्यर्थः | यद्यपि कर्तरि कृदित्यनुशासनात्कर्तृत्वस्य च धात्वर्थविषयकृत्याश्रयत्वरूपत्वात्, प्रकृते पचाद्यच्प्रत्ययस्य आश्रयार्थकत्वमलभ्यम्, तथापि ज्ञानादिगोचरकृतेरभावेन ज्ञानादिबोधकधातूत्तरकर्तृप्रत्ययानां जानातीच्छति यतत इत्यादिषु आश्रयलक्षकतया सम्प्रतिपन्नत्वेन इच्छाश्रयत्वपर्यवसानात् | सा चेच्छा शिवस्य चिद्रूपायाः पराशक्तेरभेद एव | �परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञान-बलक्रिया च� इति श्रुतेः; वातुलशुद्धेऽपि- तच्छिवे तु परा शक्तिः सहस्रांशसमुद्भवा | पराशक्तेः सहस्रांशादादिशक्तिसमुद्भवः || आदिशक्तिसहस्रांशादिच्छाशक्तिसमुद्भवः | इच्छाशक्तिसहस्रांशाज्ज्ञानशक्तिसमुद्भवः || ज्ञानशक्तिसहास्रांशात्क्रियाशक्तिसमुद्भवः | इत्यभिधानात्; शक्तिराज्ञा परा शैवी चिद्रूपा पारमेश्वरी | शिवेऽवतिष्ठत्यखिलं यया करणभूतया | पृ० १७५) तस्या᳚न्कमण्डलारुढा शक्तिरिच्छाह्वया परा | महालक्ष्मीरिति ख्याता श्यामा सर्वमनोरमा ||
SK
इति शिवपुराणवचनाच्च || परन्तु पराशक्त्याश्रयस्य परमशिवस्य साक्षादेव तदाश्रयत्वे वक्तव्ये तदभेदात्कथंचित् समर्थनीयस्य इच्छाशक्त्याश्रयत्वकथनम् || अथवा वष्टि लोकहितमिति शिवः, रूपसिद्धिः प्राग्वत् | समेधयति यन्नित्यं सर्वार्थानामुपक्रमं | शिवमिच्छन्मनुष्याणां तस्मादेवं सदाशिवः || इति महाभारतोक्तेः || यद्वा शिवं म᳚न्गलं करोतीति शिवः, शिवशब्दात्तत्करोतीति ण्यन्तात्पचाद्यचि रूपम् | तथा च श्रुतिः- श्हिव एको ध्येयः शिव᳚न्करः सर्वमन्यत्परित्यज्ये�ति | महाभारतेऽपि- समा भवन्ति मे सर्वे दानवाश्चामराश्च ये | शिवोऽस्मि सर्वभूतानां शिवतत्वं तेन मे सुराः || इति | तदयमत्र संग्रहश्लोकः- शेतेऽस्मिन् जगदीहते दिशति च श्रेयः प्रजानामसौ शान्तिं याति समस्तम᳚न्गलगुणग्रामस्य सीमायते | इच्छाशक्तिमुपैति निर्मलतरश्चास्ते प्रकृत्येति च व्याचष्टे शिवनाम यस्य चरितं तस्मै परस्मै नमः || इति || यावन्तोऽर्था दर्शितास्तावत्स्वपि तात्पर्यं शिवपदस्यास्ति, स्तोत्रार्थं प्रवृत्ते तस्मिन् बहुप्रकारस्तुतिक्रोडीकारस्य नानाकथाशेषकाव्यस्थपदेषु तत्कार्योचितार्थक्रोडीकारस्यैव गुणत्वात् | एवमेतेषां योगार्थानां रूढिमच्छब्देन प्रतिपादनं रूढिवद्योगार्थानां आसाधारण्यख्यापनाभिप्रायकमिति युक्तमेव | केवलयौगिकानां भक्तवत्सलादिपदानामपि रूढनामसंवलितपाठनादेव तद्वद्योगार्थसाधारण्या-
SK
पृ० १७६) भिप्रायकत्वं स्फुटमेव | तथाचात्रासाधारणयोगार्थपराणां भक्तवत्सलादिपदानां स्वार्थासाधारण्याभिप्रायः | यद्यप्यन्येऽपि भक्तवत्सलाः सन्ति, तथापि ते तु न शिववद्भक्तवत्सलाः, अस्य हि वात्सल्यमन्यादृशमिति दृष्ट्या समर्थने �भेदकातिशयोक्तिः स्यात्तस्यैवान्यत्ववर्णन, इत्युक्तलक्षणाभेदकातिशयोक्तिः | भक्तवात्सल्यं शिवस्यैवास्ति अन्यस्य तु कस्यापि नास्तीत्यपलापदृष्ट्या समर्थने �योगेऽप्ययोगः सम्बन्धातिशयोक्तिरितीर्यत� इत्युक्तलक्षणासम्बन्धातिशयोक्तिश्च व्यज्यत इति दिक् | सर्वेष्वपि नामसु तत्तद्गम्यमानाद्भुतादिरसस्य परमेश्वरविषयरतिभावा᳚न्गतया रसवदल᳚न्कारो वेदितव्यः | तत्रास्मिन्नामनि श्लेषाल᳚न्कार एकः, �नानार्थसंश्रयः श्लेषोवर्ण्यावर्ण्योभयास्पद� इति तल्लक्षणात् | स च प्रथमः, वर्णैकविषयत्वात् | तथा शेतेऽस्मिन् जगदिति शिव इति व्युत्पत्तौ प्रसिद्धं यज्जगदतिविस्तृतं तदप्यस्मिन् शेते असम्बाधेन वर्तत इत्यर्थादधिकाल᳚न्कारः | �पृथ्वाधेयाद्यदाधाराधिक्यं तदपि तन्मत�मिति तल्लक्षणात् | अत एव तादृशव्यापकताशालितानिबन्धनाद्भुतरसस्य परमेश्वरविषयरतिभावा᳚न्गतया रसवदल᳚न्कारः, �रसस्य परा᳚न्गत्वे रसवदल᳚न्कार� इति तल्लक्षणात् | शिव᳚न्कर इत्यर्थे कल्याणवाचिनः शिवशब्दस्य तज्जनके लक्षणया प्रयोग इति समर्थने हेत्वल᳚न्कारः, �हेतुहेतुमतोरैक्यं हेतुं केचित् प्रचक्षत� इति तल्लक्षणात् | न च शिवशब्दस्य म᳚न्गलवाचिनो लक्षणया तद्धेतौ नपुंसकलि᳚न्गतैव स्यान्न तु पुल्लि᳚न्गतेति वाच्यम्, लाक्षणिकानां शक्यलि᳚न्गनियमासिद्धेः | ग᳚न्गायां घोष इत्यादिषु क्वचित्तत्सद्भावेऽपि गुणवचनानामत्वर्थलक्षणायां सर्वेषां पुंयोगलक्षणायाञ्च तादृशनियमाभावस्य सर्वसम्प्रतिपन्नत्वात् | न च पुंयोगस्थले न प्रकृतेर्लक्षणा, किन्तु स्त्रीप्रत्यय एव प्रकृत्यर्थसम्बन्धिनीं स्त्रियमाहेति वाच्यं, तथा सति तस्येदमिति तद्धितं नाप्राप्ते आरभ्यमाणे ᳚नीषा तस्य बाधात् | तथापि
SK
प्राष्टीति तद्धितान्तरूपासिद्धि
SK
पृ० १७७) प्रस᳚न्गात् | अतः प्रकृतिरेव यदा तत्साहचर्यात्तत्सम्बन्धिन्यां स्त्रियां लक्षणया प्रवर्तते तदा स्त्रीलि᳚न्गायाः तस्यास्त्र्यधिकारविहितः स्वार्थिको ᳚नीषिति सिद्धान्तः | स्पष्टञ्चैतत्प्रतिपादितं पुंयोगसूत्रे महाभाष्ये �अतस्मिंस्तच्छब्दश्चतुर्धा भवति | तात्स्यात्, ताद्धर्म्यात्, तत्सामीप्यात्, तत्साहचर्याच्चे�त्यादिना | एतच्च पदमञ्जर्यामपि स्पष्टम् | त्रयाणां चैतेषां संसृष्टिः | यद्वा एकवाचकानुप्रवेशलक्षणः स᳚न्करः | यद्यप्येकस्मिन्नेव संसर्गे लक्षणद्वययोगाद्यत्राल᳚न्कारद्वयं तत्रैव तयोरेकवाचकानुप्रवेशस᳚न्करः | यथा �हिमकरपरिरम्भादात्तनिष्यन्दपूरैः | शशिदृषदुपकॢप्तैरालवालैस्तरूणां | विफलितजलसेकप्रत्ययागौरवेण व्यरचि सुहृतचित्तस्तत्र भैमीवनेने�त्यत्र स्फटिकालवालानां चन्द्रिकासम्बन्धप्रयुक्तनिष्यन्दवर्णनसमृद्धिमद्वस्तुवर्णनरूपोदात्ताल᳚ न्कारस्य, असम्बन्धे सम्बन्धरूपातिशयोक्तेश्च सत्वात्तयोरेकवाचकानुप्रवेशलक्षणस᳚न्कर इति | इह तु यद्यपि शेतेऽस्मिन् जगदिति शिव इति संसर्गे रसवदल᳚न्कारः | अस्मिन् संसर्गे संसर्गान्तरे च व्यासज्य वर्तते श्लेषः, संसर्गान्तर एव वर्तते हेत्वल᳚न्कार इति वर्तते वैषम्यं, तथाप्येकवाचकानुप्रवेश- स᳚न्करोऽव्याहत एव | तथाहि- उदाहृतश्लोकेऽपि स᳚न्कीर्यमाणाल᳚न्कारयोरधिकरणीभूतसंसर्गैक्यं नोक्तस᳚न्करप्रयोजकम् | तथाहि सति एकवाचकानुप्रवेशस᳚न्करः, सामानाधिकरण्य स᳚न्कर इत्यादिरेव व्यपदेशः स्यान्न तु वाचकैक्यघटितोऽपि; किन्तु स᳚न्कीर्यमाणाल᳚न्कारयोरधिकरणीभूतसंसर्गोपस्थापकैक्यमेवोक्तस᳚न्क् अरप्रयोजकम्, तस्यैवैकवाचकानुप्रवेशशब्दार्थानुगमात् | तच्च क्वचित्संसर्गैक्ये भवति, क्वचित्तद्भेद इत्यन्यदेतत् | प्रकृते एकस्मिन् शिवशब्दरूपे वाचके तदुपस्थाप्यसंसर्गद्वयाश्रयतया श्लेषः | तदुपस्थाप्यैक संसर्गनिष्ठतया रसवदल᳚न्कारावनुप्रविष्टाविति युक्तमेव तयोरेकवाचकानुप्रवेशः | आस्तामंशतस्तु
SK
रसवदल᳚न्काराधिकाल᳚न्कारयोरेकवाचकानुप्रवेशस᳚न्कर इत्यलं प्रसक्तानुप्रसक्त्या || पृ० १७८) इदञ्च श्रुतिसिद्धं नाम | ङमः शिवाय च शिवतराय च; तस्मात्सर्वगतः शिवः, न सन्नचासच्छिव एव केवल� इत्यादि बहुश्रुतिप्रसिद्धेः | माहात्म्यञ्चास्य श्रुतिसिद्धम् �अपि वा यश्चण्डालः शिव इति वाचं वदेत्तेन सह संवदेत्तेन सह भुञ्जीते�ति श्रुतेः | यद्द्व्यक्षरं नाम गिरेरितं नृणाम् सकृत्प्रस᳚न्गादघमाशु हन्ति तत् | पवित्रकीर्तिं तमल᳚न्घ्यशासनम् भवानहो द्वेष्टि शिवं शिवेतरः || महापातकविच्छित्यै शिव इत्यक्षरद्वयम् | अलं नमस्क्रियायुक्तो मुक्तये कल्पितो मनुः || इत्यादिश्रुतिभागवतपुराणेभ्य एतस्मिन्नेव नाम्नि, शिवनामघटिते पञ्चाक्षरमन्त्रे च जीवरत्नव्यवहारश्शिवागमविदाम् | �तस्मात्सह तया शक्त्या हृदि पश्यन्ति ये शिवम् | तेषां शाश्वतिकी शान्तिर्नेतरेषामिति श्रुति�रिति शिवपुराणोक्तरीत्या सकलश्रेयःकारणीभूतसकलतत्वोत्तीर्णश्रीसाम्बशिवप्रतिपादकतया चास्य नाम्रः सर्वातिशायित्वं सिद्धं, एतादृशशिवनामसमभिव्यवहारादपि पञ्चाक्षर्याः || अपि च प्रणवावयवभूतब्रह्मविष्णुरुद्रेश्वरसदाशिवतदात्म्यापन्नतारकदण्ड् अकुण्डलार्धचन्द्रबिन्दुरूपाकृत्यभिन्ननकारमकारशिकारवाकारयकारवि शिष्टतया परतत्ववाचकप्रणवसारूप्यात्पञ्चाक्षर्याः, प्रणवस्य चाकारोकारबिन्दुनादकलासत्तात्मना षड्रूपस्य, निवृत्तिप्रतिष्ठाविद्याशान्तिशान्त्यतीतोत्तराख्यषट्कलात्मकस्य, क्रियाज्ञानेच्छादिपराचिदाख्यषट्शक्त्यात्मकस्य, कर्मसादाख्यकर्तृसादाख्यमूर्तसादाख्यामूर्तसादाख्यशिवसादाख्यमह असादाख्यनामषट्सादाख्यरूपस्य, सद्योजातवामदेवाघोरतत्पुरुषेशानगोप्याभिधानषण्मुखात्मकस्य, सुचित्तसुबुद्धिसुमनः सुज्ञाननिरह᳚न्कारसद्भावाह्वयषड्विधहस्तरूपस्य,
SK
पृ० १७९) श्रद्धानिष्ठासावधानसमरसानन्दानुभवात्मकषड्भक्तिरूपस्य, आचारलि᳚न्गगुरुलि᳚न्गशिवलि᳚न्गचरलि᳚न्गप्रसादलि᳚न्गमहालि᳚न्गाभिधानष. द्विधलि᳚न्गात्मकस्य, भक्तमहेश्वरप्रसादिप्राणलि᳚न्गिशरणैक्यरूपषड्विधा᳚न्गात्मकस्य, घ्राणरसनचक्षुस्त्वक्श्रोत्रमनोरूपषडिन्द्रियात्मकस्य, गन्धरसरूपस्पर्शशब्दतृप्तिरूपषड्विषयात्मकस्य, सर्वज्ञतानित्यतृप्त्यनादिबोधस्वतन्त्रतालुप्ततानन्तशक्तिसमाह्वयषड᳚न् गात्मकस्य, वर्णपदमन्त्रभुवनतत्वकलात्मकषड्विधाध्वरूपस्य, मूलाधारस्वाधिष्ठानमणिपूरकाना हतविशुध्याज्ञाभिधानषट्चक्रनिलयस्य, रुधिरमांसमदोऽस्थिमज्जाशुक्रनामकषड्धातुनिवासस्य, समष्टिव्यष्टिरूपत्वादितरेषां मन्त्राणामेतादृशमहिमातिशयाभावात्पञ्चाक्षर्या एव सर्वातिशायित्वम् | अत एव पञ्चाक्षर्यां जीवरत्नमिति व्यवहारः | प्रणवादित्वेन नमश्शब्दयोगेन वैदिकत्वेन च मन्त्रगीर्वाणमन्त्रदेवताप्रकाशकशारदातिलकप्रपञ्चसारादिमन्त्रशास् त्रनिबन्धनोक्तसिद्धसाध्यसुसिद्धारिचतुष्कातदवान्तरभेदचतुष्कराशिको. स्ठनक्षत्रकोष्ठभूतकोष्ठृणृणीभावदशविधसंस्कारसुप्तादिदोष् अविचारनैरपेक्ष्यादपि सर्वोत्तरत्वम् | बालानामपि प्रथममक्षरप्रारम्भकाले | ऊं नमः शिवायेतिपञ्चाक्षरोपदेशस्यैव कमलाकरादिनिबन्धनकारैः कर्तव्यत्वेन विधानात्, ङमोऽन्तं प्रणवं विने�त्यादिना स्त्रीशूद्राणामपि वैदिकपाठव्यत्यस्तक्रमस्योपदेश्यत्वविधानात्सर्वेषां जप्यत्वविधानात्, क्रियाकारकयोजनयार्थवत्वाच्च | तस्मात्पञ्चाक्षरमन्त्रस्यैव सर्वोत्तरत्वमिति सर्वं रमणीयमिति पञ्चाक्षरमन्त्रविचारः || इति श्रीवीरशैवानन्दचन्द्रिकायां वादकाण्डे नवमं प्रकरणम् || पृ० १८०) वीरशैवानन्दचन्द्रिकायां वादकाण्डे दशमं प्रकरणम् ||
SK
कलकेतब्रह्मनाम्ना पुरा शीलवता स्फुटम् | स्थापितं बसवेशादिप्रमथानां सभान्तरे || गुरुवर्य त्वया प्रोक्तमष्टावरणवैभवम् | निपीय बहुधा कर्णपुटाभ्यां हर्षितोऽभवम् || कथञ्चिदविरुद्धानां वैदिकानाञ्च युक्तिभिः | मतानां वेदशास्त्रार्थगर्भिताभिर्न्नीराकृतिः || व्यतानि तत्प्रकारं मे प्रदर्शय यथाक्रमम् | राजन्मनीषा भवतः सन्तोषं पोपुषीति नः || महादेवदयालब्धमीदृक्षं बुद्धिकौशलम् | आदाववैदिकमतनिराकरणमारभे || प्रत्यक्षसर्वानुभवप्रसिद्ध- प्रमेयजाते सति मन्मतेऽपि | श्रुत्यागमाद्येषु निजानुकूल- मर्थं प्रकल्प्यान्यविलोभनार्थम् || पृ० १८१) भो शीलवद्वर्य समीर्य किञ्चि- न्मतं स्वकीयं परिहासयोग्यम् | भवेत्कथ᳚न्कारमिहेन्द्रजाल- स्वरूप एतद्भवदिष्टसिद्धिः || इतीदृशं भृ᳚न्गिवरेण साधु लोकायतानां मतमीर्यमाणम् | वदामि राजेन्द्र वितन्द्रचित्तो नयाधुना श्रोत्रपथातिथित्वम् ||
SK
तत्र लोकायतार्हतबौद्धभेदेन त्रीण्यवैदिकानि मतानि | तत्र लोकायतापरपर्यायाश्चार्वाका इत्थमाहुः- पृथिव्यप्तेजोवायवश्चत्वारि भूतानि, नान्यत् | स्वभावतस्तद्विकारा एव घटादयः | शिशुत्व बालत्वकुमारत्ववृद्धत्वविशिष्टो देह एव आत्मा | तद्विलक्षण आत्मा नास्ति | यदि देहाद्भिन्न आत्मास्तीत्यभ्युपगम्येत तदा राजभटैर्नीयमान इव कृताक्रन्दः कश्चिद् देहभिन्नो यमभटैर्नीयमान उपलभ्येत, नोपलभ्यते, ततो देह एवात्मा | जडभूतसमुदायविकारे देहे पूगपर्णचूर्णाम्बुसंयोगाद्राग इव स्वतश्चैतन्यमुत्पद्यते | सत्यजीवनमेव संसारः स्वाभाविकः, नान्याधीनः | अनिच्छतोऽपि मृतिरूपा मुक्तिः स्वत एव प्राप्या | पण्डितेन तदर्थं व्यर्थायासो न विधेयः | प्रत्यक्षोपलभ्यमाना घटादय एव वास्तवाः | अदृष्टमदर्शनादेव हेतोर्नाभ्युपगम्यते | परैरपि धर्माधर्मरूपमदृष्टं दृष्टमिति न व्यवह्रियते, दृष्टत्वादृष्टत्वयोर्विरोधात् | नच कार्यभूतसुखदुःखानुभववैचित्र्यदर्शनात्तत्कारणत्वेन धर्माधर्मरूपादृष्टकल्पना न्याय्येति वाच्यं, स्वभावविशेषवशादेव सुखदुःखानुभववैचित्र्योपपत्तेः शशशृ᳚न्गायमाणतदितरधर्माधर्मरूपादृष्टकल्पनापेक्षाभावात् | अत एव बके धावल्यम्, काके कार्ष्णम्, शुके हरितत्वम्, मरपिच्छेयू
SK
पृ० १८२) वर्णवैचित्र्यम्, कोकिले पञ्चमस्वरः, कृकवाकौ ताम्रचूडत्वम्, भुज᳚न्गेषु चक्षुःश्रवस्त्वम्, क्रमेलके दीर्घकण्ठत्वञ्च स्वभावविशेषवशादेवोपपद्यते | अन्यथा तत्तद्वैचित्र्यमूलत्वेन बहूनां धर्माधर्मरूपादृष्टविशेषाणां कल्पनापत्तेः | एवं पृथिव्यां काठिन्ये, जले शैत्ये, वह्नावूर्ध्वज्वलनोष्णस्पर्शयोः, वायावनुष्णाशीतस्पर्शे च स्वभावव्यतिरेकेण किञ्चित्कारणं न पश्यामः | तस्माद्विहितनिषिद्धकर्मकल्पितं पुण्यापुण्यरूपमदृष्टं न कल्पनीयमेव | यदीप्सितं तदेव विहितं कर्म, यद्यनीप्सितं तत्प्रतिषिद्धं कर्म | एताभ्यां कर्मभ्यां जायमानमदृष्टं नोपलभ्यते | प्रत्यक्षसुखदुःखानुभवसाधनादस्माल्लोकाद्भिन्नं स्वर्गनरकाख्यं लोकान्तरं सुखदुःखानुभवास्पदं वर्तत इति धूर्तकल्पितः प्रकार एव | मृष्टान्नयुवतीक्षौमचन्दनादिनिषेवणम्, सुदेशो वा स्वर्गः | शत्रुरोगदन्याद्युपद्रवो दुष्टदेशो वा नरकः | यदि दूरस्थं जलं तीर्थं स्यात्, मृद्दारुशिलाताम्रादिप्रतिमा देवता स्यात्तर्हि तीर्थस्नानान्मीनोऽपि शुचितामापद्येत; तत्र ध्यानाद्बकोऽपि विमुच्येत; मौनाचरणान्मूकोऽपि मुनिः स्यात्; उद्गानात्क्रोष्टाप्यात्मविद्भवेत्; नखलोमनि कृन्तनाभावाद्भल्लूकोऽपि ब्रह्मचर्यं विन्देत; ज्वलदग्निमध्यप्रवेशाच्छलभोऽपि महाव्रतं प्राप्नुयात्; कमठोऽपि स्त्रीस᳚न्गाभावाज्जितेन्द्रियतामासादयेत्; पवनाशनाद्भुजगोऽपि योगितां यायात्; बधिरादयोऽपि गीतवादित्रश्रवणादिवैमुख्येन विरागितामापद्येरन्; कपोतः सिकताहारेण, चातको जलबिन्दुपानेन, वानराद्याः फलाशनेन, गवाद्यास्तृणभक्षणेन, पिपीलिकाः कणभोजनेन च तपस्वितां प्राप्नुयुः | कि᳚न्च जलका रक्तपानेन, पशवः पक्षिणो मृगाश्वागम्यागमनेन, अभक्ष्यभक्षणेन च नारकितां विन्देरन् | नैतावता तेषां सुखदुःखसाधने पुण्यपापे कल्पनीये | तस्माद्यमनियमव्रतोपवासादिरूपैस्तपोभिः कायक्लेशसाधनैर्निरर्थकः श्रमो न कार्यः | अतेव शरीरभिन्नः कश्चिदात्मास्ति, सच पुण्यकर्मविशेषात्स्वर्गं
SK
पृ० १८३) व्रजति; पापकर्मकरणान्नरकं याति, पुण्यपापमिश्रणान्महीं प्राप्नोतीत्यस᳚न्गतं वादं कल्पयद्भिर्देहान्ते स्वर्गादिर्भवतीत्याशामोदकाशनैर्वस्तुतो नास्तिकैरास्तिकम्मन्यैर्धूर्तैः सत्यवादी चार्वाको नास्तिक इति व्यवह्नियते || यथा सुशिक्षितोऽपि शिल्पी घटं पटयितुं न क्षमते तथा स्वमनीषामात्रेण धूर्तजनोऽस्मान्यथार्थवादिनो नास्तिकान्कर्तुं न शक्नोति | यद्यपि प्रत्यक्षप्रमाणाविषयं स्वर्गादिकं नास्त्येव, तथापि परप्रसिद्ध्यैव परो बोधनीय इति न्यायमवलम्ब्य पराभिमतं परलोकम᳚न्गीकृत्य पराभिमतं शब्दप्रामाण्यम᳚न्गीकृत्य देहात्मत्वं प्रसाध्यते | तथाहि- छान्दोग्ये �इन्द्रो ह वै देवानामभिप्रवव्राज विरोचनोऽसुराणा� मित्युपक्रम्य, �द्वात्रिंशद्वर्षाणि ब्रह्मचर्यमुवासे� त्युक्त्वा, �य आत्मे� त्यादिना प्रेतस्य शरीरं भिक्षया वसनेनाल᳚न्कारेणेति संस्कुर्वन्ति, एतेन ह्यमुं लोकं जेष्यन्तो मन्यन्त� इत्यन्तेन विरोचनेन देहात्मविद्या प्राप्तेपि श्रवणात् | तथा तत्तिरीयेऽपि- �अयमात्मा इदं पुच्छं प्रतिष्ठे�ति, �अर्धो वा यस्य आत्मनो यत्पत्नी�त्यत्र, तथा शूलगवाक्ये कर्मणि शिंशुमारशरीरे �यस्मै नमस्तच्छिर� इत्यादिनापि देह एवात्मशब्देनाभिधीयते | तथा माध्वमतानुसारिभिश्चिद्देह एव आत्मेति व्यवस्थाप्यते | तथा सर्वमात्मेति वदतां सार्वात्म्यश्रुतेः घटादौ बाधितार्थकत्वेन शरीरमात्रे आत्मत्वस्य पर्यवसानात् | अन्यथा ग्रावाणः प्लवन्त इत्यादिवाक्यवदप्रामाण्यप्रस᳚न्गः | अहं स्थूलः कृशः सुखी दुःखीत्यादि प्रत्यक्षबाधितमनण्वस्थूलमह्रस्वमित्यादिकं भेदप्रत्यक्षानुभवबाधिताभेदवन्नेतव्यम् | यदि देहाद्भिन्न आत्मा, स चानादिरित्य᳚न्गीक्रियेत तदा नित्यमुक्तस्वभावस्य तस्यागन्तुकः संसारः किं निबन्धनः | यदि च संसारोऽप्यनादिस्तदा आत्मवत्संसारस्यापि नित्यत्वमापद्येत | यदि चेत्प्रवाहानादित्वं तदा प्रलयेऽपि नाशो न स्यात् | यदि प्रलयस्यापि प्रवाहानादित्वं तदा जगतः स्थितिरेव न स्यात् | तथाहि- �ब्रह्मणा सह
SK
पृ० १८४) ते सर्वे सम्प्राप्ते प्रतिसञ्चरे | परस्यान्ते कृतात्मानः प्रविशन्ति परं पद�मिति स्मृतेः पूर्वमतीतानां ब्रह्मणां मुक्तिसमये अनन्तानां जीवानां सहैव मुक्तेरवश्यं वक्तव्यत्वेन मुक्तानाञ्च जीवानां पुनः संसृतिसम्बन्धस्य भवदुक्तरीत्यैव वक्तुमशक्यत्वेन इदानीं संसारस्थितेरेव दुर्निरूपत्वात् || यदि बहूनां प्रागतीतानां ब्रह्मणां सत्यलोकादौ स्वानन्दानुभवमात्रम᳚न्गीकृत्य प्राप्तेऽपि विधित्वे तेषामद्यापि न सार्वात्म्येन मुक्तिस्तन्मुक्तिसहभावो वावश्यं भावी, अनन्तजीवमुक्तिप्रतिरोधिसंसारस्थितेरित्य᳚न्गीक्रियेत तदानीमल्पायुषां जीवानां प्राचीनानन्तजन्मसु बहुतरकायक्लेशात्मकविहिताचारानुवर्तनपूर्वकस्थूलसूक्ष्मोपासनासहित् अमुक्तिसाधनीभूतश्रवणमनननिदिध्यासनेषु बहुशः कृतेष्वपि मुक्तेरभावादग्रेऽपि तेषु साधनेषु सत्स्वपि मुक्तिरेव न स्यात् | तादृशमुक्तेराशामोदकायमानत्वात् | अतेवैकमुक्तौ सर्वमुक्तिप्रस᳚न्गाद्वसिष्ठवामदेवादावेकस्यापि न मुक्तिः | ब्रह्मण्येकस्मिन् साधनभरिते कामचारिणामपि मूढानां सुलभा तेन सह सार्वात्म्यरूपा मुक्तिः | अतस्तत्साधनविशेषप्रतिपादकश्रुतिस्मृतिपुराणेतिहासादिकं सर्वं धूर्तप्रकल्पितमिति स्थितिः | ततो देहाति- रिक्तात्मपक्षे बहूनां दूषणानां जागरूकतया शरीरमेवात्मा नान्य इति सिद्धम् | श्रुत्यादीनां प्रामाण्येऽपि व्यर्थश्रमपर्यवसायित्वेन कामचारोपपत्तेः, प्रत्यक्षबाधितार्थधूर्तप्रकल्पितप्रामाणिकत्वभ्रान्तिर्लोकप्रतारणमात् रम् | अतेव �प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते� इति पौराणिकोक्तिः स᳚न्घटतेतराम् | अपिच प्रतिमन्वन्तरं सत्कर्मभिर्होमार्चनध्यानरूपैः सम्भाविता इन्द्रादयो देवता मुनयो वसवो रुद्रा आदित्याश्च स्वायम्भुवादिषु भिन्नाः; ततस्तत्प्रकाशकमन्त्राः पृथक्पृथग्वक्तव्या इति विश्वामित्रादिभी रचितो दशमण्डलो हि ऋग्वेदः | अन्यश्च वेदव्यासादिभिः कणादगौतमादिभिः प्रणीतः परमात्मप्रणीत इति मृषोक्तिः | प्रत्यक्षबाधितार्थोऽयं वेदः कथमात्मोदितो भवेत् |
SK
पृ० १८५) अजायां ब्राह्मणस्य दक्षिणे हस्ते दर्भस्तम्बे अप्सु वा जुहुयादित्युपक्रम्य अग्नावेवास्याग्निहोत्रं भवतीत्यजाविप्रकरदर्भस्तम्बजलानामग्निभिन्नानां प्रत्यक्षबाधिताग्नित्वप्रतिपादनम्, �दग्धो यज्वा यज्ञायुधीस्वर्गं व्रजे�दिति स्वर्गगमनम्, अग्नौ दग्धस्य हविषो दावाग्निदग्धानां भूरुहां भूरिफलापादनवत्स्वर्गसाधनत्वम्, �उत्ताना वै देवगवावहन्ती�ति गवामुत्तानगमनं, श्हृणोत ग्रावाण� इति ग्राव्णां श्रोतृत्वम्, �अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः� इत्याद्ययोग्यार्थकथनम् || किञ्चाग्नीन्द्रादयो देवा न सन्ति, यदि सन्ति हविरिव ते नश्येयुः, अशरीरा यदि ते कथं हविर्भुञ्जीरन् ? शब्दरूपा यदि हविर्भुक्त्वातः कथं फलदाः स्युः ? अर्थरूपाश्चेत् �अद्भ्यः स्वाहा, ओषधिभ्यः स्वाहा, वनस्पतिभ्यः स्वाहे�ति हविः सम्प्रदानजलादयो जडाः कथं फलं दद्युः ? तत्राग्नावब्देवतागमादग्निर्नश्येत्, ओषध्यादयो दह्येरन्, अबादीनामनागमे च सम्प्रदानाभावात्कर्मणो वैयर्थ्यमापतेत् | तथा शर्वस्मै स्वाहे�त्यादौ सर्वस्यापि सम्प्रदानत्वात्को दाता किं हविः कस्मै फलं दद्यात् ? तस्मात्प्रत्यक्षाविषयीभूता देवता नायान्ति, न हविर्भुञ्जते, न फलं ददतीति यागात्स्वर्गो भवतीत्याशामात्रम् | ततः सर्वमपि कर्म हविर्दाहायैव न स्वर्गफलायेति तत्वम् || तथा यदि दारुशिलालोहप्रतिमादिषु देवता स्यात्सा परिच्छिन्ना अपरिच्छिन्ना वा ? नाद्यः- यौगपद्येन सर्वमूर्तिसम्बन्धाभावात् | एकस्यां प्रतिमायां सान्निध्यादेकेनव पूज्या, प्रतिपूरुषं प्रतिगृहं पूजा वैफल्यं स्यात् | न द्वितीयः- देवतासान्निध्यस्य सहजसिद्धत्वेन संस्कारविशेषसहितप्रतिष्ठादिवैय्यर्थ्यात् | न च प्रतिष्ठामात्रेणाभिमानविशेषः सिध्यतीति वाच्यं, अचेतनप्रतिमादौ चेतनरूपदेवता कथमहमिति अभिमन्येत ? तथासति पुरुषवद्गमनागमनादिव्यवहारापत्तेः | यदि स्वाकृतिमति चित्रे राजाहमित्यभिमन्येत
SK
पृ० १८६) तादृशबुद्धेः प्रतिष्ठानपेक्षणात् | न वा चित्रे राजप्रतिष्ठां कुर्वन्ति | काष्ठमथनसम्भूतवह्निवत्प्रतिष्ठया चितिरुदेतीति चेत्तर्हि निवेदितं सर्वमन्नं भुज्येत ततः पूर्वव देव विद्यमानमृच्छिलादारुविकारेषु स्वभोगायैव धूर्तैर्व्यर्थैव पूजा कल्प्यते | अतेव वञ्चकैर्नित्यनैमित्तिकंकृतं पितृतृप्तिकरं श्राद्धादिकं स्वभोगायैव कल्प्यते, नेहान्येन भुक्ते सत्यन्यस्योदरं पूर्यते | जीवति ब्राह्मणे भुक्तवति वा विद्यमानस्वपित्राद्युदरं पूर्येत | किं चाब्दान्तरे प्रमितानां बहुकालानन्तरं जीवते दीयमानमन्नादिकं तृप्तिकरञ्च स्यात्, एवमेव ज्वलते दीपाय दत्तं घृततैलादिकं परुत्परारिवानष्टदीपवृद्ध्यै प्रकल्पयेत | तस्माद्यथा जतुगृहे दग्धान्पाण्डुपुत्रान् श्रुत्वा धृतराष्ट्रकृतं श्राद्धादिकं व्यर्थं तथेतरदपि श्राद्धादिकं पितृवर्गोद्येशेन क्रियमाणं व्यर्थम् | स्वबन्धुरक्षणासक्तैः हिंसासमर्थैरहिंसाधर्म इत्युच्यते | हिंसा तु धर्म एव | अतेव श्रुत्यापि विविधहिंसा विधीयते | जामदग्न्यो जननीं, धृष्टद्युम्नो गुरुं द्रोणं, अर्जुनः सोदर्यं, कृष्णो बन्धून्, अभयमपि दत्वेन्द्रो वृत्रासुरं, कार्तवीर्यो धेन्वर्थं जमदग्निञ्चावधीत्यादि प्रत्यक्षमुप- लभ्यते | ततः समर्थस्य हिंसैव परमो धर्मः | तथा अनृतमपि धर्मः | �वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदे दिति� श्रवणान्नानृतं वदेदिति तु प्रतारणमात्रम् | कार्यार्थमनृतमेव वदेत् | ब्रह्मास्त्रार्थं कर्णेन, जयार्थं युधिष्ठिरेण, कौरवनाशार्थं भीमसेनेन, सुभद्रार्थं धनञ्जयेन चानृतमेवोक्तमिति प्रसिद्धेः | तथा स्तेयमपिधर्मः | अस्तेयं धर्म इति स्वद्रव्यरक्षणासक्तकल्पनामात्रम् | चौर्येणापि स्वेष्टं सम्पादनीयम् | युयुमिन्द्रो ह्यचूचुरत्, शम्बरः प्रद्युम्नम्, अनिरुद्धं चित्रलेखा, सीतां दशाननोऽपजहार, षण्डत्वगोपनपरा जना ब्रह्मचर्यं स्वीकुर्वन्ति | अष्टाचत्वारिंशदब्दपर्यन्तं ब्रह्मचर्यस्वीकारं महाव्रते ब्रह्मचारी
SK
पुंश्चलीयोगप्रतिपादनात्त्यजति | एवं कुटुम्बभरणासमर्था अपरिग्रहमिच्छन्ति | अतोऽग- पृ० १८७) स्त्यसौभरिजरत्कारुप्रमुखा अपरिग्रहं परित्यज्य स्त्रीपरिग्रहमकुर्वन् | एवं क्षुत्क्षामोदरैर्दरिद्रैः सुवर्णभूमिगोवस्त्रमृष्टान्नदानं वर्णितम् | मार्गश्रमासहिष्णवः पान्था देवालयवापीकूपतटाकारामप्रपासत्रादिकरणं प्रशंसन्ति | वापीकूपतटाकादिषु पशु पक्षिमृगादीनां जलपानेन कर्तुर्महत्पुण्यं भवेदित्यपि न, वापीकूपतटाकादिषु तत्र यदा प्रमादेन पतेयुः पशवस्तदा �यावन्ति पशुरोमाणि तावन्नरकमृच्छती�ति श्रवणादत्र कर्तुः, देवालये सुप्तस्य शिथिलतदालयपाषाणपतनान्मरणे ब्राह्मणस्य देवालयकर्तुः, भोक्तुः पुरुषस्याजीर्णाद्गललग्नाद्बलाद्वा मरण मृष्टान्नदातुः, एवं परिग्रहीतुर्धनलुब्धैर्दस्युभिर्मरणेऽपि मृतिकारणीभूतशस्त्रनिर्माणाच्छस्त्रकर्तुरिव धनवस्त्रादिदातुस्तन्मरणनिमित्ततया गोवधब्रह्महत्यादिपातकप्रस᳚न्गः | एवं श्वेतकेतुकल्पितः पातिव्रत्यस᳚न्कल्पो मातृसंरक्षणायेति सम्भवपर्वणि एकषष्ठितमेऽध्याये कुन्तींपाण्डुराह- अथ त्विमं प्रवक्ष्यामि पूर्वं धर्मं निबोध मे | पुराणमृषिभिर्दृष्टं सर्वधर्मभृतां वरैः || अनावृताः किल पुरा स्त्रियश्चासन्वरानने | कामचारप्रचारिण्यः स्वतन्त्रा श्चारुहासिनि || तासां व्युच्चरमाणानां कौमारे सुभगे पतीन् | नास्त्यर्धमस्तु स तदा स हि धर्मः सनातनः || तञ्चैव धर्मं धर्मज्ञे तिर्यग्योनिगताः प्रजाः | पालयन्ति वरारोहे यथावदसितेक्षणे || उत्तरेष्वपि रम्भोरु कुरुष्वद्यापि वर्तते | स्त्रीणामनिग्रहो धर्मः स एव हि सनातनः ||
SK
पृ० १८८) नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः | नान्तकः सर्वभूतानां न पुंसां वामलोचनाः || एवं तृष्णातुराणाञ्च पुरुषं पुरुषं प्रति | अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते || पुत्रं वा किल पौत्रं वा कासांचिद्भ्रातरं तथा | रहसीह नरं दृष्ट्वा योनिरुत्स्विद्यते तदा || एतत्स्वाभाविकं स्त्रीणां न निमित्तकृतं शुभे || इति || किञ्च पाराशरस्मृतौ- नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ | पञ्चत्स्वापत्सु नारीणां पतिरन्यो विधीयते || इति || अत्र परिसंख्या तु न भवति किन्त्ववश्यविधेया सैव | कलौ पाराशरस्मृतिरिति कलियुगविषयत्वेनास्य युगान्तरविषयत्वकल्पनायोगात् | यद्यपि श्वेतकेतुना ऋत्वतिक्रमेणान्यगमने आद्यप्रभृति हि स्त्रीणां भ्रूणहत्यापातकं स्यादित्युक्तं तदपि तद्युक्त्य᳚न्गीकार एव, भूयसामृतुकालानामतिक्रमणद्बह्व्यो भ्रूणहत्याः प्रसज्येरन् | सन्तत्युच्छेदोऽपि स्यात् | श्रुत्युक्तस्यापि ब्राह्मणालम्भनादेः परित्यागं कुर्वता श्वेतकेतूक्तस्य परित्यागे को दोषः | एवं मुन्यन्तरोक्तानामर्थानामनाचारेऽपि न दोषः | न च ङैका द्वौ पती विन्दत� इति वेदविरोध इति वाच्यं, तस्यार्थवादत्वा᳚न्गीकारात् | अन्यत्र श्रुतावेव गायत्र्या एकस्या वसूनां त्रिष्टुभो रुद्राणां जगत्या आदित्यानामरुन्धत्या ऋषीणां पत्नीत्वश्रवणात् || तथा द्रौपद्याः पञ्चपत्नीत्वं स्वधायाः पितृणाञ्च पत्नीत्वं प्रसिद्धम् || स्त्रीमात्रसाधारण्येन सोमगन्धर्ववह्नीनां पत्नीत्वं श्रूयते | एवमगम्यागमनव्यवस्थाप्यसमर्थजनकल्पितैव-चन्द्रो गुरुपत्नीं, विश्वामित्रो मेनकां, वसिष्ठो मदयन्तीं, दीर्घतपाश्शूद्रां, पराशरः सत्यवतीं, व्यासः शूद्रां, गतवान् | नच कलावेवागम्यागमनं दोषाय न
SK
पृ० १८९) युगान्तर इति वाच्यम्, एवं विषयव्यवस्थापको वेदो हि न श्रूयते || ब्रह्मस्वापहारो दोषायेत्यप्यविचारितरमणीयम्, पुरा बलिना वामनाय ब्रह्मचारिणे सर्वापि भूमिर्दत्ता, सैव भूः परशुरामेणाश्वमेधे दक्षिणात्वेन कश्यपाय दत्ता, अतेव काश्यपीति भूमेर्नाम प्रसिध्यतीति ब्रह्मस्वापहारित्वं सिद्धम् | यस्य द्रव्यं तस्यैव फलाय कल्पितमिति नियमाद्भूमौ सर्वैः क्रियमाणः सर्वोऽपि धर्मः कश्यपस्य स्यात् | न च सा भूमिः कश्यपेनान्येभ्यो दत्ता, अतो न पूर्वोक्तदोष इति वाच्यम्, सा किं कश्यपेन क्षत्रियेभ्यो दत्ता वा ब्राह्मणेभ्यो वा ? नाद्यः, क्षत्रियाणां प्रतिग्रहानर्हत्वात् | न द्वितीयः, ब्रह्मस्वापहारत्वानपायेन पूर्वोक्तदोषतादवस्थ्यात् || किञ्च �ब्रह्मस्वं पुत्रपौत्रक� मितिवचनाद् ब्रह्मस्वापहारतत्पराणां क्षत्रियाणां पुत्रपौत्रादिसन्ततिविच्छेददर्शनात् | एवं वर्णाश्रमधर्मविभागोऽपि मूढजनकल्पितः | तथाहि- कश्यपपुत्राद्विवस्वतो देवशिल्पिसुतायामुत्पन्नो वैवस्वतमनुः कथं क्षत्रियः स्यात् ? तादृशमनुवंशे जाता हरितादयः कथं वा ब्राह्मणाः स्युः ? वसिष्ठान्मदयन्त्यामुत्पन्न आश्मको नाम राजा कथं वा अजायत ? ययातेः क्षत्रियाद्विप्रकन्यायां देवयान्यां प्रतिलोमजो यदुर्नाम कथं क्षत्रियः स्यात् ? शुद्रायामुत्पन्नाः कक्षीवदादयो वा कथं ब्राह्मणाः स्युः ? वेनाख्यस्य नृपस्य पुत्रयोर्मध्ये कथमेको निषादः, अन्यः पृथुः क्षत्रियः कथं वा स्यात् ? ब्रह्मचारी जामदग्न्यः अनधिकार्यपि कथमश्वमेधं कृतवान् ? स्वाग्रजस्य विवाहाभावेऽप्यनुजो भीमसेनो हिडिम्बां कथमग्रहीत् ? विश्वामित्रश्चण्डालं त्रिश᳚न्कुं कथं वा यज्ञे न्ययोजयत् | तस्माद्वर्णाश्रमविभागोऽपि नादरणीयः | लोके बहवो नियमाः श्रूयन्ते | तत्रावहिता अपि कांश्चिन् नियमांस्त्यजन्ति, साकल्येनानुष्ठातुं ब्रह्मणापि न शक्यते, तस्मात्पतनमावश्यकम् | शूद्र एव साधुः | ये केशवेन प्रतारिता जैना बौद्धा धूर्तप्रतारिता लोकाश्च दुर्धरे संकटे
SK
पृ० १९०) पतिताः सन्तो भक्त्या व्यर्थानि व्रतानि कुर्वन्ति | चार्वाकाणामस्माकं मते तु नैतादृशो नियमः | अन्येषु मतेषु नियमानां बहूनां श्रवणेन तदाचरणाभावे पापसम्भवात्पतनमेवेति कदापि न मुक्तिः | अस्मन्मते तु तादृशनियमाभावात्पापप्रसक्तेरभावादनिच्छतोऽपि मुक्तिर्भवति | ब्राह्मणादिषु भगिनीश्वश्रूस्नुषाजायाशब्दैर्व्यवहर्तव्यासु स्त्रीषु समदर्शी लोकायतः स्थितोऽन्येभ्यः समयिभ्यो विशिष्यते | एतेव मनुनापि �अप्यकार्यशतं कृत्वा भर्तव्याः स्त्रीसुतादय� इतिवचनेन स्वपोष्यस्त्रीसुतादिभरणार्थेऽप्यकार्यशतकरणाभ्यनुज्ञानादात्मार्थे अकार्यकरणं कैमुत्यन्यायेना सिद्धम् || तस्मात् यावज्जीवं सुखानुभवाय ऋणं कृत्वापि सुखं भोक्तव्यम्, न तेन शरीरत्यागानन्तरं दुःखप्रसक्तिः सुखदुःखानुभोक्तृशरीरस्य भस्मीभूतत्वेन पुनरावृत्यभावरूपस्य मोक्षस्य जातत्वात् | तस्माद्यावज्जीवमग्निहोत्रानुष्ठानं, सा᳚न्गवेदत्रयाध्ययनं, त्रिदण्डादिसन्यासव्रतानुष्ठानं, भस्मरुद्राक्षादिधारणं श्वेतमृत्तिकागोपीमलतुलसीमणिधारणादिकं, बुद्धिपौरुषहीनानां जीवनसाधनसम्पादनार्थमेवेति सिद्धमिति | तदेतन्मूढसम्मोहनमात्रम् | तत्रादौ देहात्मत्वमत्यन्तासम्भावितम् | शरीरस्यैवात्मत्वे बालभावे दृष्टिपथमवतीर्णस्य पदार्थस्य, यौवनदशायं युवभावेऽनुभवपथ᳚न्गतस्य, स्थविरभावे स्मरणं नोदयमासादयेत्, शरीराणामुपचयापचयैरुत्पादविनाशशालितया बालादिशरीरापेक्षया स्थविरशरीरस्य च परस्परं भिन्नत्वात् | न च तेषां परस्परं भिन्नत्वेऽपि पूर्व पूर्वशरीरोत्पन्नसंस्कारेण द्वितीयादिशरीरेषु संस्कारोत्पत्त्या बालभावानुभूतस्यानन्तरं युवभावादिषु स्मरणं सम्भवतीति वाच्यम्, अनुकलमुपचयापचयदर्शनेन प्रतिक्षणं भिन्नेषु तेषु संस्कारोत्पत्यभ्युपगमे अनन्तसंस्कारकल्पनायां महद्गौरवमापतेत् || किञ्च यदि देह एव आत्मा तदा बालस्य स्तन्यपानादौ प्रवृत्तिर्न स्यात्, इष्टसाधनताज्ञानस्य प्रवृत्तिहेतुत्वेन
SK
तदानीभिष्टसाधनत्वानुभावकाभावात् | न च शरीरभिन्नात्मवादिनां भवतामपि पृ० १९१) स्तन्यपानादौ प्रवृत्त्युपपादनं दुष्करमिति वाच्यम्, जन्मान्तरीयानुभवजन्यस्य जीवनिष्ठस्य संस्कारस्योद्बोधेन स्मृतिरूपेष्टसाधनताज्ञानेन प्रवृत्तिसम्भवात् | न चैवं तर्हि जन्मान्तरानुभूतमन्यदपि चरितं स्मर्येतेति वाच्यम्, तत्संस्कारोद्बोधकाभावात् | बालस्य स्तन्यपानादौ तु जीवनादृष्टमेव स्मृतिबीजस्योद्बोधकं कल्प्यते | तस्माद्देहातिरिक्त आत्मास्तीत्य᳚न्गीकरणीयः | अस्मिन्नर्थे गीतावचनं प्रमाणम्- वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि | तथा शरीराणि विहाय जीर्णा- न्यन्यानि गृह्णाति नवानि देही || इति || न च प्रत्यक्षातिरिक्ताप्रामाण्यम᳚न्गीकुर्वाणं नास्तिकं प्रति शब्दप्रामाण्योपपादनं गगनकुसुमे सौरभविशेषवर्णनमिवासम्भावितमिति वाच्यम्, शब्दाप्रामाण्यवादिनं भवन्तं पृछामो, �भवदीयं शब्दो न प्रमाण�मिति वचनं प्रमाणमप्रमाणं वा ? नाद्यः, यदि प्रमाणं तदा शब्दप्रामाण्यं सिद्धमेव | न द्वितीयः, यदि शब्दो न प्रमाणमिति वचनं न प्रमाणं तदानीमपि शब्दस्य प्रामाण्यं सिद्धमेव || एवमनुमानमपि प्रमाणम्- देहो नात्मा दृश्यत्वात्, रूपत्वात्, भौतिकत्वात् | घटादिवत् | किञ्च देहः स्वभिन्नद्रष्टृको दृश्यत्वात्, घटवत् | इत्याद्यनुमानेन देहानात्मकत्वस्यात्मनो देहविलक्षणस्य च सिद्धे र्देहादन्य एव आत्मा || न च प्राणेन्द्रियादिसंघात एवात्मेति वाच्यम्, अन्धबधिरप᳚न्ग्वादावेकैकेन्द्रियरहिते तत्स᳚न्घाताभावादनात्मत्वप्रस᳚न्गात् | न च देहो नात्मेत्याद्यनुमानं न प्रमाणं बालोऽहं स्थूलोऽहं कृशोऽहमित्यादिप्रत्यक्षानुभवबाधादिति वाच्यम्, बालोऽहं न युवा न वृद्धश्च, युवाहं न बालो न वृद्धश्च, वृद्धोऽहं न युवा न बालश्चेति प्रत्यक्षेण तस्य बाधितत्वात्, योऽहं
SK
पृ० १९२) बाल्ये पितरावन्वभूवं सोऽहं स्थाविरे नप्तृर्ननुभवामीति प्रत्यभिज्ञानाच्च, बाल्याद्यवस्थानुस्यूतदेहभिन्नात्मसिद्धेर्देहात्मज्ञानस्य भ्रमत्वेन बाधौचित्यात् | यदि देहादिभिन्न आत्मा न स्यात्तर्हि प्रागुक्तप्रत्यभिज्ञानं न स्यादित्यनुकूलतर्कसनाथेन दृश्यत्वादित्यादिसाधनेन देहभिन्नोऽनादिरनश्वर आत्मा सिध्यति | योऽहं पुराद्राक्षं स एवाश्रौषम्, स एवाहमेतर्हि स्मरामीति प्रत्यभिज्ञानाच्चेन्द्रियस᳚न्घातस्य नात्मत्वं, अन्यदृष्टश्रुतेऽन्यस्य स्मरणासम्भवात् | तस्मा�दन्नमयादन्योऽन्तर आत्मे�ति श्रुतेः पञ्चकोशविलक्षणश्चिद्रूपः सकलद्रष्टात्मेत्यवश्यं वक्तव्यम् || �अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः | ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा� इति वचनादज्ञानावृतः सुखदुःखयोरस्वतन्त्रः सुकृतदुष्कृतानुरोधेनेश्वरप्रेरणाधीनः स्वर्गनरकसुखदुःखानुभववान् जन्तुरिति सिद्धम् || यदपि नष्टस्य ज्योतिष्टोमादेः कथं कालान्तरीयफलहेतुत्वमिति तदसत्- पूर्वानुभवनाशेऽपि संस्कारद्वारा स्मरणवज्ज्योतिष्टोमादि जन्यादृष्टद्वारा निखिलपुरुषार्थसिद्धेः | स्वकीयपूर्वानुभवस्य स्वकीयस्मृतिजनकत्ववत्, स्वोपार्जितसत्कर्मण एव स्वस्य फलदातृत्वम्; सुखदुःखादिवैचित्र्यञ्च कर्मवैचित्र्यनिबन्धनम् | न च कदाचित्क्रमतामाकस्मिकत्वमिति वाच्यम्, हेतुविरहेण घटाद्यनुदयात्, संस्कारात्प्राक् स्मृत्यनुदयाच्च, ज्योतिष्टोमाद्यनुष्ठानात् प्राक्स्वर्गानुदयः | यदि प्राग्जनिः पश्चादपि न जायेत | स्वस्मात्स्वाजनिरित्यपि न पौर्वापर्यविरोधः | तस्मात्कारणनिरपेक्षा कार्योत्पत्तिरित्यसमञ्जसम् | स्वभावोऽपि स्वस्य भावः स्वभावः, नहि स्वस्मात्स्वजनिसम्भवः | यद्यन्यो हेतुः कर्मवैचित्र्यमेवैतदिति सिद्धम् || स्वभावस्यैव हेतुत्वे कारणवैचित्र्याभावात्सुखदुःखादौ सामान्यमेव स्यात्, सार्वकालिकं तदपि वा स्यात् | तस्मादात्मनः कादाचित्कं सुखदुःखवैचित्र्यं प्राणिकर्मानुरूपमेव || यदपि �परमात्मेदं पुच्छमि�त्यादिवैदिकोक्तेरेव देहात्मवादः
SK
सिध्यतीति पृ० १९३) तदपि न यथा नानार्थकगोशब्दात् भास्करे गोपतिशब्दप्रयोगोऽपि पशुगोचरो न भवति यथा मृदात्मा घट इति स्वरूपमात्रे प्रयुज्यमानोऽयमात्मशब्दोऽग्नमयादिकोशस्वरूपवाचकोऽप्यन्तेपुच्छब्रह्मादिनि ष्ठत्वेन निर्णीत इति न देहात्मपरः | तस्मादात्मेति कथितोऽपि देहो न चेतनः || यदप्युक्तं देहभिन्नस्यात्मनोऽनादिसंसारे मुक्तिरजाता चेदग्रेऽपि तथा मुक्तिर्न स्यादिति तदसत्, पूर्वं कदाप्यनुत्पन्नस्य देहस्योत्पत्तिवत्पूर्वमनुत्पन्नाया मुक्तेरिदानीमुत्पत्तिसम्भवात् | एतेन देहस्योत्पत्तिविलयवन्मुक्तेरप्युत्पत्तिविनाशापत्या देहविनाशो मुक्तिरिति निरस्तं, अपेतबन्धनो वत्सो मुक्त इति पदप्रयोगाच्च मुक्तो मृत इति नेमौ पर्यायशब्दौ | यदपि मरणकाले प्रत्यक्षेण बन्धुभिर्देहादन्यो न दृश्यत इति, अत्रेदं वक्तव्यम्- प्रत्यक्षातिरिक्तानुमानप्रमाणस्यापलापायोगात् | नचानुमानाप्रामाण्ये व्याघातो हेतुः, वा᳚न्मात्रेण व्याघातायोगात् | नच व्यभिचाराद्व्याघातः, शुक्तौ रजतप्रत्यक्षेऽपि व्यभिचारात्प्रामाण्याभावात् | तस्माददृष्टविज्ञानकरणात्प्रमाणमिति निर्दोषकरणम् | एवं श्रुतिरपि स्वार्थे प्रमाणमेव, एतेन धूर्तप्रकल्पितो वेद इति निरस्तम् | ब्रह्मणः शास्त्रयोनित्वस्य भगवता बादरायणेन सूत्रितत्वात् || अत्यन्तासत्यप्यर्थे शब्दस्य ज्ञानजनकत्वस्वाभाव्यस्य प्रामाण्यस्यौदार्णकत्वे सिद्धे दोषाभावात्प्रामाण्यम् | अतेव चोदनालक्षणे धर्मे वेदप्रामाण्यं भट्टाचार्यैः प्रपञ्चेनोदितम् | ततः, अपौरुषेयोऽयं वेदः, शिवादयोऽस्य स्मर्तारो न कर्तारः | तस्य प्रयोगहेतुभूतवाक्यार्थज्ञानाजन्यशब्दत्वेन अपौरुषेयत्वम् | ङिश्वसितमेतदृग्वेदो यजुर्वेदः सामवेदः | तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे |� इत्यादिकमपि स्मर्तृत्वमात्रपरम् | तादृशशास्त्रयोनित्वमेव भगवता बादरायणेनापि सूत्रितम् | यच्चोक्तं धूर्तप्रकल्पितो वेद इति, प्रतिमन्वन्तरमन्य इत्यादि तन्न शिवादीनां स्मर्तृत्वमात्रप्रतिपादना-
SK
पृ० १९४) त्प्रतिमन्वन्तरं वेदराशेर्विद्यमानस्यैव त्रिधा चतुर्धाभिन्नस्य युगानुगुणेनाध्ययनसिध्यर्थं वेदव्यासादयोऽधिकारिणो महर्षयः परमेश्वरप्रसादाद्विभज्य तं प्रकाशयन्ति, नतूत्पादयन्ति | न चानन्ता वै वेदा इति वचनेन, आरुणं काठकमिति समाख्यया च, प्रतिमन्वन्तरं वेदस्योत्पत्तिरुच्यत इति वाच्यम्, सहस्रधा सामशाखा इत्यादिवचनप्राप्तशाखाबहुत्वप्रतिपादनपरं नतूत्पत्तिपरम् | काठकादिसमाख्या तु प्रोक्तृप्रत्ययपरा | तथाच स्वतः प्रमाणमपौरुषो वेदो निर्मलः, प्रमाणान्तरनैरपेक्ष्यात् | नित्यत्वादेव दोषाभावाच्च वेदानां प्रामाण्यं सिद्धम् | तेन वेदे नाप्रामाण्यश᳚न्कावकाशः | तथाच वक्त्रनधीनत्वेन प्रामाण्ये सिद्धे वेदस्याभ्यर्हितत्वम् | पौरुषेये तु प्रमाणान्तरापेक्षं प्रामाण्यम् | प्रमाणान्तराभावे पौरुषेयत्वमेव नेष्यते | अपौरुषेयमाप्त प्रणीतत्वाभावेऽपि प्रमाणमेव | नन्वेकदेशसंवादाद्वेदप्रामाण्यमिति बुद्धार्हदुक्तागमयोरप्येकदेशसंवादात्प्रामाण्यमिति चेत्सत्यं, कारीर्याद्येकदेशसंवादात्सर्वो वेदभागः प्रमाणमित्यप्रतिपादनाददृष्टत्वेनापौरुषेयत्वेन स्वतः प्रमाणमित्यभ्यर्हितत्वात्, एकदेशसंवादस्य प्रामाण्यसाधकत्वायोगात्, अन्यथा विप्रलम्भकवाक्यानामप्येकदेशसंवादात्प्रामाण्यापत्तेः | संवादार्थं वेदोक्तमेव किञ्चित्किञ्चिद्बौद्धादावप्युक्तम् | नच बौद्धोक्तमेव वेदेनानूदितमिति वाच्यं, लोके रत्नाकरादेव रत्नानि लब्ध्वा रत्नवन्तो जना भवन्ति, न ह्यन्यतो लब्ध्वा रत्नाकराः स्युः | तथाच सर्वे समयाः वेदांशांशोपजीविनः | नहि सनातनो वेदः श्रावकैकांशोपजीवी अस्मदादिभिः क्वापि सर्वज्ञस्यादर्शनात् बौद्धागमस्य सर्वज्ञाप्तमूलत्वं न सम्भवति, नचासीदिति कल्पनापि निराकरणवच्छक्यते | नच बुद्धस्यागमनिर्माणात्सर्वज्ञता, बौद्धागमयोरन्योन्याश्रयात् | किञ्च योऽयमसर्वज्ञः स तत्सर्वज्ञत्वं न विजानाति, यः सर्वज्ञः स केनापि नावबुध्यते, तं प्रति तद्वाक्यानां प्रामाण्यं न सम्भवति |
SK
मूलज्ञानेऽन्यवाक्यवद्रागद्वेषादिरहिते निर्व्यापारत्वेन व्यवस्थिते वैदिके विषये उपदेशश्च प्रतिबिंबाहृते अन्य-
SK
पृ० १९५) प्रणीत एव | चिन्तामणिसन्निधानादिवपुंसः | सान्निध्यमात्रेण सर्वज्ञत्वम् | एवमिन्द्रियाद्यपेक्षया जीवस्य केवलं ज्ञानं सूक्ष्मातीतादिविषयकज्ञानञ्चागमं विना न सिध्यति | सर्वज्ञेन विनागमो न सिध्यति | एतेन नित्यागमावबोधो निराकृतः | एवं वेदानामेव प्रामाण्ये सिद्धे वर्णाश्रमाचारधर्मनियमादयश्च स्वर्गापवर्गफलदाः | अग्नावेवास्याग्निहोत्रं हुतं भवतीति कार्यशेषोऽर्थवादः तथापि तस्य स्वार्थे नात्यन्तमप्रामाण्यम् | गुणानुवादभूतार्थरूपेण त्रैविध्यसम्भवात् | तथाचाभियुक्तसन्दर्भोऽपि- �विरोधे गुणवादस्यानुवादोऽवधारणे | भूतार्थवादश्च तथा ह्यर्थवादस्त्रिधा मतः� || इति || �यथा आदित्यो यूप� इत्यादित्यवत्पूतत्वगुणवान् यूप इत्यर्थः | अग्निर्हिमस्य भेषजमिति लोकप्रसिद्धार्थानुवादो विध्युपयोगी | मेधातिथेर्जहारेन्द्र इत्यादि भूतार्थवादः | सिद्धार्थप्रमितौ मन्त्रनाम्नोरप्ययं न्यायो योज्यः | एवं कार्यशेषाणां प्रामाण्यम् | अनन्यशेषाणां वेदान्तानान्तु चिदात्मके परमात्मनि सार्वात्म्यबोधस्यानितरसापेक्षं सर्वोत्तरप्रामाण्यम् | तस्मान्मन्त्रार्थवादानां तदर्थप्रतिपादने पूर्वोक्तरीत्या प्रामाण्यं सम्भवति | एवं यज्ञायुधी स्वर्गं व्रजेदित्यत्रात्मनः शरीरद्वारा यज्ञायुधसम्बन्धः | आत्मशरीरस्य स्वर्गयानवदुपचरितार्थप्रतिपादकत्वेन स᳚न्गच्छते | यदुक्तमोषधिभ्य इत्यादि तन्न-पुरन्दरो वज्रहस्त इत्यादिना श्रुतो विग्रहो हविषां भोग ऐश्वर्यं प्रसन्नता वरप्रदातृता चेति देवतायाश्चरूपपञ्चकमिति बादरायणादिभिः स्वीकारादोषध्या अभिमानदेवताविषयकत्वेन प्रतिपादनात् | ऐश्वर्ययोगाद्देवतानां दाहचाक्षुषत्वाभावात् | यच्चोक्तं अजीर्णाद्ब्राह्मणबाधे कूपादौ पशुपतने तद्धर्मकर्तुः पापमित्यादि तदसत्, जलपाने पुण्यस्मरणात्, अन्नदाने चात्यन्तसुकृतश्रवणात्, पशोर्ब्राह्मणस्य वा तेन बाधे दुष्कृतानामाम्नायात्, कुतर्कमात्रेण पुण्यपापे न स्तः | पत्यन्तरस्वीकारः कलौ निषिद्धो ब्राह्मणा-
SK
पृ० १९६) लम्भनवत् | स्त्रीणामनिग्रहो महाजनापरिग्रहात्त्याज्यः, गौतमेनाहल्याशापात् | भीष्मेणाम्बा विसृष्टा, पितृवाक्याद्रामो जननीं जघान, देवरेण सुतोत्पत्तिरित्यादिना तेषां तेजोविशेषेण च प्रत्यवायो नास्तीति स्मरणात् | यत्किञ्चिदेतत् | व्यर्थहिंसायां दोषश्रवणात् हिंसापि न कार्या सूतपौराणिकहत्यादोषोपशान्त्यर्थं हलिनो भूभ्रमणदर्शनात्, मुनिसुतहत्यया दशरथस्य पुत्रशोकस्मृतेः, मृषावादेन कर्णस्य जामदग्न्यशापात्, तथैव धर्मसूनोर्नरकदर्शनात्, कामधेनुचौर्येण वसूनां मनुष्ययोनौ प्रवेशात्, दत्तापहारेण नृगस्यान्धकूपे गोधात्वप्राप्तेः, अहल्याधर्षणेनेन्द्रस्य तेजोहानेः, शचीकामनया नहुषस्याजगरत्वप्राप्तेः, परिग्रहेण सौभर्यादीनां तपोनाशात्, पानवशेन यादवानां युगपन्मरणात्, अत्यन्तस्त्रीसम्भोगेन विचित्रवीर्यस्य राजयक्ष्मपरिग्रहात्, द्यूतव्यसनेन पाण्डवानां राज्यभ्रंशात्, मृगयाव्यसनेन कल्माषपादस्य राक्षसत्वप्राप्तेः, वेददेवद्विजनिन्दया देवापेः पातित्यात्, समयातिक्रमेण शन्तनोर्ग᳚न्गायाः परित्यागात् द्रौपदीद्रोहेण जयद्रथस्य परिभवदर्शनादित्यादेस्तत्र तत्र पुराणेषु प्रतिपादनाद्धिंसादिकं न कार्यमित्यास्तां विस्तरः | यच्चोक्तमप्यकार्यशतं कृत्वा भर्तव्येत्यादि तदसत् | अवश्यरक्षणे तात्पर्यावधारणात् | �आपद्यपि च कष्टायां शूद्रवृत्तिं न चाश्रये� दिति निषेधात् | सर्वोपायभ्रष्टस्य प्राणात्ययो विधिरिति चान्द्रायणादिकृतोच्छिष्टकुलुत्थग्रहणाद्युपन्यासो निरस्तः | तस्मान्न कामचारः कर्तव्य इति सिद्धम् | अयमत्र निष्कर्षः- यजुरारण्यके शत्यं वद धर्मं चर स्वाध्यायान्मा प्रमदः | इत्यादिश्रवणात्, कठवल्यां �येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके | एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः� इति नचिकेतसा पृष्टेन यमेन �तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् | अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति || न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न
SK
बभूव पृ० १९७) कश्चित् | अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे || अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः | दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः || न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् | अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ||� इत्यादिना प्रतिपादितत्वात्, तथा �अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् | तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः || धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् | तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ||� इति ब्रह्मोपासकानां योगिनां अर्चिरादिमार्गगमनस्य, तथा यागादिसद्धर्मानुष्ठाननिष्ठानां धूमादिमार्गगमनस्य च एतद्भिन्नानां हिंसास्तेयपरदारगमनाद्यधर्मनिरतानां अनेकविधतत्कर्मानुरूपघोरनरकयातनानुभवस्य बहुशः श्रुतिस्मृतिपुराणेतिहासादिषु श्रूयमाणात्वात् | अतः श्रुत्यागमस्मृतिपुराणेतिहासचोदितधर्माचरणं निःश्रेयससाधनं तन्निषिद्धाचरणञ्च सकलदुरितसाधन मास्थेयम् | अत एतद्विरुद्धं लोकायतमतं श्रेयोर्थिभिर्न परिग्राह्यमितिसर्वमवदातम् || इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्बोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थल् अतत्त्वबोधसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यश्रीमरितोण्टदार्यवि रचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्यकेलदिसदाशिवराय नायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द्रधर्मपत्नीमल्लाम् बाहृदयानन्दनबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे दशमं प्रकरणम् || पृ० १९८) वीरशैवानन्दचन्द्रिकायां वादकाण्डे एकादशं प्रकरणम् ||
SK
हे शीलवद्वर्य भवद्वचोभि- र्लोकायतानान्तु मतं समग्रम् | उद्भावनं तत्र च दूषणाना- माकर्ण्य विस्मेरमना अभूवम् || श्रुत्यागमविरुद्धत्वादेव तस्य हि दूष्यता | भवता कल्पिता सास्तामन्यदागममूलकम् || मतमस्ति क्षितावर्हन्देवो यस्य प्रवर्तकः | यस्य सर्वज्ञ इत्याख्या शिवस्यैव त्वयापिच || लिख्यते पठ्यते नित्यमादावमरकोशगा | त्वदागमे याति समूलभावम् यतस्त्वहिंसानृतवर्जनाद्याः | जिनागमोक्ता बहवोऽथ धर्मा- स्तिष्ठेयुरेते परतः कथं वा || पृ० १९९) इत्यालपन्नारभताभिधातुम् भृ᳚न्गी क्रमार्दाहतसौगते च | राजन् शृणु त्वं प्रयतोऽस्मि हृष्ट- स्तव ब्रवीमि प्रणयातिरेकात् ||
SK
जैनापरपर्याया आर्हता इत्थं प्रतिपादयन्ति | जीवोऽजीवश्चेति द्वौ पदार्थौ | जीवश्चेतनः शरीरपरिमाणः सावयवः | अजीवः षड्विधः तत्र महीधरादिरेकः, आस्रवसंवरनिर्जरबन्धमोक्षाख्याः पञ्च | आस्रवत्यनेन जीवो विषयेष्विति आस्रव इन्द्रियस᳚न्घातः | संवृणोति गृह्णातीन्द्रियाणीति संवरः विवेकः | निश्शेषेण जीर्यत्यनेन कामक्रोधादिरिति केशोल्लुञ्छनतप्तशिलारोहाहिंसापञ्चमलधारणमयूरपिच्छधारणपा. निपात्रभोजननग्नत्वादिकं तपो निर्जरः | कर्माष्टकेनापादिता जन्ममरणपरम्परा बन्धः | चत्वारि घातिकर्माणि पापविशेषरूपाणि, चत्वारि चाघातिकर्माणि पुण्यविशेषरूपाणि | विश्वमेवंरूपमेवेति निर्धारणात्मकं ज्ञानमैकान्तिकम् | जिनोक्तस्नानसन्तप्तपाषाणारोहणादिकं धर्मो न भवतीति विपर्ययो विपरीतज्ञानम् | यागीयवैधपशुहिंसादिकं धर्म इति ज्ञानमाज्ञानिकम् | सर्वाण्यपि दर्शनानि समानानीति विज्ञानं वैनयिकम् | एतानि पञ्च बन्धसाधनानि | श्रद्धाज्ञानवद्भिः साधुभिः क्रियमाणो हिंसादिपरित्यागादिनियमः सम्यक्चारित्रम् | तत्वार्थविषयिणी श्रद्धा सम्यग्दर्शनम् | तत्वार्थयथार्थज्ञानं सम्यग्ज्ञानम् | एतत्त्रयं मोक्षसाधनम् | एतदेव रत्नत्रयमित्युच्यते | आस्रवशब्दितस्येन्द्रियस᳚न्घातस्य निरोधः संवरः, तस्य हेतुः सम्यग्गुप्तिः | सा त्रिधा मनोगुप्तिः, वचोगुप्तिः, कायगुप्तिश्चेति | एवं गुप्त्या प्रवृत्तीनां निग्रहे सति संवरो जायते | संवराच्च निर्जरो जायते | स द्विविधः, स्वतः परिपाकजन्यः अकालेऽपि तपस्सामर्थ्यजन्यश्चेति | एवमेतादृशनिर्जरेण पूर्वोक्तकर्माष्टकजनितबन्धनिवृत्तौ सत्यां निगीर्ण-
SK
पृ० २००) निश्शेषपूर्वसञ्चितकर्मण आत्मनः स्वतः परिपक्वतपनातपसम्पर्कस्फुटदेरण्डफलाद्विमुक्तकोशोत्पतद्बीजवदूर्ध्व् अगमनेन स्वात्म्यसम्पतिर्मोक्षः || अनन्तज्ञानानन्तगुणाधारः परमात्माभिधेयः, प्रयोजनञ्च व्यवहारेण षड्द्रव्यपञ्चास्तिकायसप्ततत्वनवपदार्थमोक्षमार्गस्वरूप परिज्ञानम् | निश्चयेन च निजनिरञ्जनशुद्धात्मसंवित्तिसमुत्पन्ननिर्विकारपरमानन्दैकलक्षणसुख अमृतास्वादरूप स्वसंवेदनज्ञानम् | परमनिश्चयेन च तत्फलरूपा केवलात्मज्ञानानन्तगुणाविनाभूतनिजात्मोपादानसिद्धान्तसुखावाप्तिः | प्रत्यक्षानुमानागमाभिधानानि भगवत्पादैरर्हत्परमेष्ठिभिः प्रत्यपादिषत | अस्ति च परलोकः || अच्युताद्याः प्रेरणान्ताः षोडशोपर्युपरि वर्तमानाः स्वर्गाः | तदुपरि विमानानि त्रीणि | तदुपरि च ज्योतिर्मयी मोक्षशिला | तत्र खलु विमुक्तजीवाकारो भगवान् दानशीलक्षान्तिवीर्यध्यानशान्तिबलोपायप्रणिधानज्ञानरूपदशबलवि लसितो दिव्यचक्षुर्दिव्यश्रोत्रपूर्वनिवासानुस्मृतिपरचित्तज्ञानास्रवक्षयर्धिरूप षडभिज्ञासध्रीचीनः सकललोकजेतृमारविजयी श्रीमदाचार्योपाध्यायसाधुपरमेष्ठी विबुधतरुमध्यपारिजातो देदीप्यते | त एते सप्तपदार्थाः सप्तभ᳚न्गीरूपेण न्यायेन व्यवस्थाप्यन्ते | स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्तिचावक्तव्यश्च, स्यान्नास्तिचावक्तव्यश्च, स्यादस्ति च नास्तिचावक्तव्यश्चेति सप्तभ᳚न्गीनयः | अस्यायमर्थः स्याच्छब्द ईषदर्थवाची ति᳚नन्तप्रतिरूपको निपातः | प्रतिवादिनो हि चतुर्विधाः- सद्वादिनः, असद्वादिनः, सदसद्वादिनः, अनिर्वचनीयवादिनश्चेति | ते पुनरप्यनिर्वचनीयमतेन मिश्रितानि सदभिमानानि मतान्यादाय सदनिर्वचनीयवादिनः, असदनिर्वचनीयवादिनः, सदसदनिर्वचनीयवादिनश्चेति त्रिविधाः | तानेतान्सप्तविधान्वादिनः प्रति सप्तविधाः प्रयोक्तव्याः सद्वादी समागत्यार्हतं प्रति किन्त्वन्मते मोक्षोऽस्तीति पृच्छति, तत्रार्हत उत्तरं ब्रते स्यादस्तीति; असद्वादिनं प्रति स्यान्नास्तीति;
SK
पृ० २०१) सदसद्वादिनं प्रति स्यादस्ति नास्तिचेति; अनिर्वचनीयवादिनं प्रति स्यादवक्तव्य इति; सदनिर्वचनीयवादिनं प्रति स्यादस्ति चावक्तव्यश्चेति; असदनिर्वचनीयवादिनं प्रति स्यान्नास्ति चावक्तव्यश्चेति; | सदसदनिर्वचनीयवादिनं प्रति स्यादस्ति च नास्ति च वक्तव्यश्चेति तावता वादिनः सर्वे निविण्णाः सन्तो नोत्तरं प्रतिपद्यन्ते | अतोऽस्य सप्तभ᳚न्गीरूपस्य साधकन्यायस्य सद्भावाज्जीवादीनां सप्तपदार्थानां सिद्धिः | तस्मादस्मन्मतमव्याहतमनुबन्धचतुष्टयसत्वादादर्तव्यमिति || इत्यार्हतानां सिद्धान्तपद्धतिः || मुक्तकच्छा अरुणाम्बरा बाह्यास्तित्ववादिनो बौद्धास्तु प्रत्यक्षानुमाने द्वे प्रमाणे | बाह्य आभ्यन्तरश्चेति द्वौ समुदायौ, तत्र बाह्यो भूगिरिनदीसमुद्रादिः, आन्तरश्चित्तचैत्तात्मकः | तदेतत्समुदायद्वयमेवाशेषं जगत् | तत्र बाह्यसमुदायस्य परमाणवः कारणं; ते च परमाणवश्चतुर्विधाः | केचित्खराः पार्थिवाख्याः; अपरे स्निग्धाः आप्याख्याः; अन्ये चोष्णास्तैजसाख्याः, अन्ये चेरणात्मका वायवीयाः | तेभ्यश्चतुर्विधेभ्यः परमाणुभ्यो युगपत्पुञ्जीभूतेभ्यो बाह्यः समुदायो जायते | अन्तरस्य च समुदायस्य स्कन्धपञ्चकं कारणम् | रूपस्कन्धो, विज्ञानस्कन्धो, वेदनास्कन्धः, संज्ञास्कन्धः, संस्कारस्कन्धश्चेति पञ्चस्कन्धाः | तत्र चित्तेन निरूप्यमाणाः शब्दस्पर्शादयो रूपस्कन्धः; तदभिव्यक्तिर्विज्ञानस्कन्धः; तज्जन्यदुःखं वेदनास्कन्धः; देवदत्तादिनामधेयं संज्ञास्कन्धः; एतेषां वासना संस्कारस्कन्धः | तेभ्यः पञ्चभ्यः स्कन्धेभ्यः पुञ्जीभूतेभ्य आन्तरसमुदायो जायते | एतेषु स्कन्धेषु आत्मशब्दः प्रगीयते | वस्तुतः क्षणिकस्वप्रकाशालयसंविदाकार एव आत्मा | क्षणिका एव सर्वे भावाः | चक्षुरायतन-श्रोत्रायतन-घ्राणायतन- जिह्वायतन-कायायतन-मन आयतन-रूपायतन-शब्दायतन-गन्धायतन- रसायतन-स्पर्शायतन-धर्मायतनरूपाणि द्वायशायतनानि | देहेन्द्रियबुद्धयः क्षणिकाः; तत्र प्रमाणम्-
SK
पृ० २०२) क्षाणादूर्ध्वं न तिष्ठन्ति शरीरेन्द्रियबुद्धयः | दीपार्चिरिव वर्तन्ते स्कन्धाः क्षणविलम्बिनः || प्रत्यक्षं जायते चित्तं जातं जातं प्रणश्यति | नष्टं नावर्तते किन्तु जायते च पुनः पुनः || अधिकारानुगुण्येन बौद्धशास्त्रं चतुर्विधम् | प्रत्यक्षगम्यं बाह्यार्थं बौद्धस्सौत्रान्तिकोऽब्रवीत् || बुध्याकारानुमेयार्थो बाह्यो वैभाषिकोदितः | बुद्धिमात्रं वदत्यत्र योगाचारो न चापरम् || न सन्नासन्न सदसन्न चोभाभ्यां विलक्षणम् | चतुष्कोटिविनिर्मुक्तं तत्वं माध्यमिका विदुः || इति || समग्रैश्वर्यधर्मयशः श्रीवैराग्यमोक्षरूपभगालयः सर्वज्ञो बुद्धो मोक्षसाधनं शास्त्रं प्रणीतवान् | तदिदं शास्त्रं परिग्राह्यमिति || इति बौद्धानां वेदागमविरुद्धानां मतप्रक्रिया || इत्येवं भृ᳚न्गिणा प्रोक्तमार्हतं सौगतं मतम् | आकर्ण्य शीलवान् सर्वं निराकर्तुं प्रचक्रमे || भृ᳚न्गिन्निदं मद्वचनं निधेहि चित्ते सकृत्तेन समाहितः स्याः | साम्यं भवेत्किं वद नीलकण्ठ- पदोक्तयोश्चन्द्रकिचन्द्रमौल्योः || आर्हतं मतमिहादिममन्त्यम् सौगतं मतमिति क्रमतो द्वे | युक्तिभिस्तु निगमागमयुग्भि- र्दूषयामि परिभावय चित्ते || पृ० २०३) इत्यूचिषा शीलवता सभायाम् सम्य᳚न्निराकर्तुमुदीरितानि | वाक्यानि तावत्कुमतं वदामि राजन् शृणु त्वं विनिवेश्य चित्ते ||
SK
अत्राचक्ष्महे नायमभ्युपगमो युक्त इति कुतः, �एकस्मिन्नसम्भवात्� नह्येकस्मिन् धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः सम्भवति शीतोष्णवत् | य एते सप्त पदार्था निर्धारिता एता वन्त एवं रूपाश्चेति ते तथैव वा स्युः, नैव वा तथा स्युः | इतरथा हि तथा वा स्युरतथा वेत्यनिर्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् | नन्वनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं भवितुमर्हति | नेति ब्रूमः | निर᳚न्कुशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वाविशेषात् स्यादस्ति स्यान्नास्तीत्यादिविकल्पोपनिपातादनिर्धारणात्मकतैव स्यात् | एवं निर्धारयितुर्निर्धारणफलस्य च स्यात्पक्षेऽस्तिता, स्याच्च पक्षे नास्तिता च | एवं सति कथं प्रमाणभूतः सन् तीर्थकरः प्रमाणप्रमेयप्रमातृप्रमितिष्वनिर्धारितासूपदेष्टुं शक्नुयात् ? कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेऽर्थेऽनिर्धारितरूपे प्रवर्तेरन् ? ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोकोऽनाकुलः प्रवर्तते, नान्यथा | अतश्चानिर्धारितार्थं शास्त्रं प्रणयन्मत्तोन्मत्तवदनुपादेयवचनः स्यात्; तथा पञ्चानामस्तिकायानां पञ्चत्वस᳚न्ख्यास्ति वा नास्ति वेति विकल्प्यमाना स्यात्तावदेतस्मिन्पक्षे, पक्षान्तरे तु न स्यादित्यतो न्यूनस᳚न्ख्यत्वमधिकस᳚न्ख्यत्वं वा प्राप्नुयात् | न चैषां पदार्थानामवक्तव्यत्वं सम्भवति | अवक्तव्याश्चेन्नोच्येरन् | उच्यन्ते चावक्तव्यश्चेति विप्रतिषिद्धम् | उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति च | तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा | एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा
SK
पृ० २०४) नास्ति वेति प्रलपन्मत्तोन्मत्तपक्षस्यैव स्यान्नप्रत्याययितव्यपक्षस्य | स्वर्गापवर्गयोश्च पक्षे भावः, पक्षे चाभावः | तथा पक्षे नित्यता, पक्षे चानित्यतेत्यनवधारणायां प्रवृत्त्यनुपपत्तिः | अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्वभावानामयथावधृतत्वप्रस᳚न्गः | एवं जीवादिषु पदार्थेष्वेकस्मिन् धर्मिणि सत्त्वासत्त्वयोर्विरुद्धधर्मयोरसम्भवात्, सत्वे चैकस्मिन् धर्म असत्वस्य धर्मान्तरस्याभावादसत्वे चैवं सत्वस्यासम्भवादस᳚न्गतमिदमार्हतं मतम् | एतेनैकानेकनित्यानित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमा निराकृता मन्तव्याः | यच्चोक्तं पदार्थौ द्वावित्युक्त्वा तत्राद्यश्चेतनो जीवः शरीरपरिमाणः शरीराद्व्यतिरिक्त इति तदत्यन्तास᳚न्गतम् | जीवस्य शरीरपरिमाणत्वे शरीरवन्मध्यमपरिमाणवत्वे सावयवत्वात् | यत्सावयवं तदनित्यमिति व्याप्त्या अनित्यत्वापत्तेः | नचेष्टापत्तिः कृतहानाकृताभ्यागमप्रस᳚न्गात् | किञ्च कर्मवैचित्र्येण गजादिशरीरप्रविष्टस्यात्मनस्तत्परिमाणवतः पिपीलिकादिसूक्ष्मशरीरेषु प्रवेशो न स्यात् | ननु यन्मध्यमपरिमाणवत् तत्सावयवमित्यत्र नियामकाभावादप्रयोजको हेतुरिति चेन्न, यदि सावयवत्वं न स्यात्तर्हि मध्यमपरिमाणवत्वं न स्यात्, यथा आकाश इति विपक्षे बाधकतर्कस्य जागरूकत्वात् | किञ्च एकस्मिन्नपि जन्मनि जीवानां सावयवानामनन्तावयवा᳚न्गिकारेण कौमारे तेषामवयवानां स᳚न्कोचः कल्पनीयः स्यात्, यौवने च पूर्वं स᳚न्कुचितानां जीवावयवानां विकासः कल्पनीयः स्यात् | स᳚न्कचितानां जिवावयवानां शरीरमात्रपरिच्छिन्नानामानन्त्यं नोत्प्रेक्षितुं शक्यम् | अथैकस्मिन् जन्मविपर्यायेण बृहच्छरीरप्रतिपत्तौ केचिज्जीवावयवा उपगच्छन्ति, तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्तीति चेन्न जीवस्य विकारित्वापत्तेः | अवयवोपगमापगमाभ्यामनिशमापूर्यामाणेऽपक्षीयमाणे च जीवे विक्रियावत्वस्यापरिहार्यत्वात् | न चेष्टापत्तिः, चर्मवदनित्यत्वप्रस᳚न्गात् | नच तत्रापीष्टापत्तिरिति वाच्यम्,
SK
बन्धमोक्षाभ्युपगमो हि बाध्येत् | कर्माष्टकपरिवेष्टितस्य जीवस्यालाबुवत्संसार-
SK
पृ० २०५) सागरे निमग्नस्य बन्धनोच्छेदादूर्ध्वगामित्वं भवति | किञ्चान्यत् | आगच्छतामपगच्छताञ्चावयवानामागमात्यया᳚न्गीकारादपायधर्मवत्वा देवानात्मत्वं शरीरवत् | ततश्चावस्थितः कश्चिदवयव आत्मेति स्यात् | नच स निरूपयितुं शक्यतेऽयमसाविति | किञ्चान्यत् | आगच्छन्तो जीवावयवाः कुतः प्रादुर्भवन्ति, अपगच्छन्तश्च क्व लीयन्त इति वक्तव्यम् | नहि भूतेभ्यः प्रादुर्भवेयुर्भूतेषु च विलीयेरन्, अभौतिकत्वाज्जीवस्य | नापि कश्चिदन्यः साधारणोऽसाधारणो जीवानामवयवाधारो निरूप्यते, प्रमाणाभावत् | किञ्चान्यत् | अनवधृतस्वरूपश्चैवं सत्यात्मा स्यात् | आगच्छतामपगच्छताञ्चावयवानामनियतपरिमाणवत्वात् | अत एवमादिदोषप्रस᳚न्गान्नपर्यायेणाप्यवयवोपगमापगमावात्मन आश्रयितुं शक्यते | अपिच अन्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनैः, तद्वत्पूर्वयोरप्याद्यमध्यमयोर्जीवपरिमाणयोर्नित्यत्वप्रस᳚न्गादविशेषप्र स᳚न्गः स्यात् | एकशरीरपरिमाणतैव स्यान्नोपचितापचितशरीरान्तरप्राप्तिः | अथवान्त्यस्य जीवपरिमाणस्यावस्थितत्वात्पूर्वयोरप्यवस्थितयोरवस्थितपरिमाण एव जीवः स्यात्, ततश्चाविशेषेण सर्वदैवाणुर्वा महान्वा जीवोऽभ्युपगन्तव्यो न शरीर परिमाणः | अतश्च सौगतवदार्हतमपि मतं अस᳚न्गतमित्युपेक्षितव्यम् || एवं सौगतमतमपि नोपपद्यते | किमणूनां स्कन्धानां स᳚न्घातोत्पत्तौ निमित्तभूतश्चेतनः किमन्योऽस्ति, किं वा परमाणवः स्वयमेव संहन्यन्ते ? आद्येऽपि सचेतनः स्थायी वा क्षणिको वा ? स्थायित्वा᳚न्गीकारेऽपसिद्धान्तः | सर्वेषां भावानां क्षणिकत्वा᳚न्गीकारेण स्थायित्वान᳚न्गीकारात् | क्षणिकत्वे प्रथमं स्वयमलब्धात्मकः पश्चात्स᳚न्घातोत्पत्तिं करोतीति वक्तुमशक्यम् | द्वितीयत्वे चेतनाः स्कन्धाः अणवश्च नियामकं चेतनमन्तरेण प्रतिनियताकारेण कथं संहन्यन्ताम् | तस्मान्नयुक्तं समुदायद्वयम् | किञ्च सर्वेषां भावानां क्षणिकत्वमिति यदुक्तं तदत्यन्तास᳚न्गतं, मानाभावात् | न तावत्प्रत्यक्षं
SK
सोऽयं देवदत्त इति पृ० २०६) प्रत्यभिज्ञाविरोधात् | नच सेयं दीपज्वाला, सैवेयं गुर्जरीतिवज्जात्यभेदमात्रविषयत्वेन व्यक्त्यैक्यासिद्धौ तस्या अप्रमाणत्वमिति वाच्यम्, तर्हि तज्जातीयोऽयमिति प्रतीतिः स्यात् | योऽयं पाटलिपुत्रे नगरे दृष्टो देवदत्तस्तमेव माहिष्मत्यां पश्यामीति व्यक्त्यालम्बनं प्रत्यभिज्ञानं स्यात् | कालदेशयोर्व्यक्तावेव साक्षात्सम्बद्धत्वेन जातेस्तथाविधसम्बन्धस्याभावात् | किञ्च प्रत्यभिज्ञा यदि जात्यालम्बनेत्युच्यते तदा त्वन्मते जातेरपि क्षणिकत्वेन प्रत्यभिज्ञाया उपपत्तिकल्पनमत्यन्तास᳚न्गतं स्यात् | नाप्यनुमानम्, तद्व्याप्यलि᳚न्गाभावात् | नापिशब्दः, भवन्मतरीत्या तस्यापि क्षणिकत्वेनावस्थानासम्भवेन प्रमाणत्वस्यात्यन्तासम्भावितत्वात् | तस्मात्सौगतमतं शास्त्रलोकानुभवविरुद्धमिति विद्वज्जनै र्वैदिकैरनादरणियमेवेत्यास्तां विस्तरः || इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्भोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्न षट्स्थ् अलसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यश्रीमरितोण्टदार्यविरचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्य केलदि सदाशिवरायनायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द्रधर् मपत्नीमल्लाम्बाहृदयानन्दनबसववसुधासक्रन्दनोपदशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे अर्हत सौगतमतप्रक्रिया तन्निराकरणनामैकादशं प्रकरणम् || पृ० २०७) वीरशैवानन्दचन्द्रिकायां वादकाण्डे द्वादशं प्रकरणम् ||
SK
अनन्तरं गुरो किं वा प्रक्रान्तं भृ᳚न्गिणा तदा | किं वा शीलवता तत्र सम्यगुत्तरितं वद || स्वशेमुषीनिर्जितनिर्जरेन्द्र गुरुप्रभूतप्रतिभाविशेष | राजन्निधेहीदमशेषमेव चित्ते तदाश्चर्यरसं विधत्ते || निगमागमपद्धतेर्विरुद्धम् भवतीत्येव हि दूषितं मतं प्राक् | भवताऽऽर्हतसौगताभिधानम् न तवाभीष्टमनेन सिद्धिमेति || अधुनामतमन्यदीरयामि श्रुतिबोध्यार्थविचारणानुकूलम् | अयि शीलवदग्रतस्सर त्वम् भव संश्रुत्य चिरं प्रमोदमानः || पृ० २०८) इति भृ᳚न्गिवरेण सप्रमोदम् धुरि मीमांसकसम्मतं मतं यत् | उपपादितमत्र दूषणं य- द्रचितं शीलवता ब्रवीति तत्तत् ||
SK
अथातो धर्मजिज्ञासा | प्रमाणस्वरूपसाधनफलैर्धर्मो विचारणीयत्वेन प्रतिज्ञातः | तत्र प्रमाणानि चोदनार्थवादमन्त्रनामधेयानि | चोदनाप्रतिपाद्योऽर्थ इति धर्मलक्षणम् | तत्र चोदना �ज्योतिष्टोमेन स्वर्गकामो यजेते� त्येवमादिर्लि᳚न्गलोट्तव्यप्रत्ययात्मकः || अर्थवादश्चतुर्विधः-निन्दा प्रशंसा परकृतिः पुराकल्पश्च | तत्र निन्दा- �जर्तिलयवाग्वा जुहुयात्, गवीधुकयवाग्वा जुहुयात्� इति वाक्य विहितस्य जर्तिलयवागूहोमस्य, �अथ खल्वाहुः- अनाहुतिर्वै जर्तिला गवीधुकाश्चे� त्यनाहुतित्ववचनम् | अनया निन्दया अजक्षीरहोमस्य प्राशस्त्यं प्रतिपाद्यते || प्रशंसा- �वायुर्वै क्षेपिष्ठा देवता� इत्येवमादि, क्षिप्रदेवतासाध्यकं कर्म क्षिप्रमेव फलं दास्यतीति प्राशस्त्य प्रतिपादकम् || पूर्वं विहितस्य वायुदेवताकयागस्य �इति ह स्माह वट्कुर्वाष्णिर्माषान्मे पचते�ति परकृतिः | �प्राचीनवंशकरोतीत्ये� वमादिः पुराकल्पोऽनुष्ठेयार्थस्मारकः | �इमामगृभ्णन् रशनामृतस्य� इत्येवमादिर्मन्त्रः | वाजपेयेन श्येनेनेत्येवमादिः कर्म नामधेयम् | एवं श्रुतिप्रमाणं चतुर्विधम् | स्मृतिप्रमाणं द्विविधम्-धर्मशास्त्रात्मकं प्रयोगनिर्णायकञ्च; मानवादिस्मृतिर्धर्मशास्त्रम्, शिक्षाकल्पव्या- करणादिः शब्दनिर्णायकः | आचारो द्विविधः- शब्दप्रयोगाचारः, अर्थप्रयोगाचारश्चेति | तत्र प्रथमो व्याकरणबोधायत्तः सुशब्दप्रयोगः, द्वितीयस्तु वसन्तोत्सवादिर्धर्मशास्त्रविरुद्धः | एवं धर्मप्रमाणानि प्रतिपादितानि || तत्र प्रमाणाभासा जैनबौद्धचार्वाकागमपाञ्चरात्रपाशुपतशाक्तकौलवामादयः || ननु पाञ्चरात्रपाशुपतादीनां प्रमाणत्वेन कैश्चिच्छिष्टैर᳚न्गीकृतत्वेन पृ० २०९) प्रमाणाभासत्वं कथं, तद्विहिताचारस्य कैश्चिच्छिष्टैरनुष्ठीयमानत्वाच्चेति चेन्न, तेषां धर्मशास्त्रपुराणादिषु निन्दितत्वेनाप्रमाणत्वात् | तदुक्तं कूर्मपुराणे-
SK
कापालं पाञ्चरात्रञ्च यामलं वाममार्हतम् | एवंविधानि चान्यानि मोहनार्थानि तानि तु || एवं शास्त्रानुयोगेन मोहयन्तीह मानवान् | मायानिष्ठानि शास्त्राणि मोहायैषां भवान्तरे || पराशरोपपुराणे- पाञ्चरात्रं प्रशंसन्ति केचिद्भागवतं मुने | केचिच्छाक्तं प्रशंसन्ति केचिद्वामं तथैव च || अन्यानि यानि शास्त्राणि विरुद्धानि महामुने | स्वतः प्रमाणभूतेन वेदेनाकृतकेन वै || तान्येव श्रद्धया युक्ताः परिगृह्य द्विजातयः | आचरन्ति महापापा युगान्ते समुपस्थिते || ब्रह्मवैवर्तेच- विड्भक्षाश्चैव ये केचित्कपालकृतभूषणाः | शैवाः पाशुपताश्चान्ये पाञ्चरात्रास्तथापरे || तथाऽन्ये च दुरात्मानः सर्वेऽप्यसुरदैवताः | पाशब्देन त्रयीधर्मो जगतः पालनान्मतः || तं खण्डयन्ति यस्मात्ते पाखण्डास्तेन हेतुना | सूतसंहितायाञ्च- पाञ्चरात्रादिमार्गाणां वेदमूलत्वमास्तिकाः | नहि स्वतन्त्रास्तेनैते भ्रान्तिमूलनिबन्धनाः || पृ० २१०) तत्रैव स्थलान्तरे- वामपाशुपतादीनामश्रौतानां परिग्रहः | पाञ्चरात्रादयश्चापि ज्ञानानुत्पत्तिकारणम् || तथैव कौर्मे स्थलान्तरे- वामपाशुपताचारास्तथा वै पाञ्चरात्रकाः | भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा || ज्ञाने कर्मण्युपरते लोके निष्क्रियतां गते | कीटमूषिकसर्पाश्च दर्शयिष्यन्ति मानवान् ||
SK
इत्येवमादीनि परस्सहस्रं वचनानि विद्यन्ते, विस्तरभयान्नेह लिख्यन्ते | पूर्वोत्तरमीमांसारीत्या च पाञ्चरात्रादिकमप्रमाणम् | तदुक्तं भट्टाचायैर्विरोधाधिकरणे �यान्येतानि त्रयीविद्भिर्न परिगृहीतानि किञ्चित्तन्मिश्रधर्मच्छायापतितानि लोकोपसंग्रहपूजालाभख्यातिप्रयोजनपराणि त्रयीविपरीतानि दृष्टशोभादिफलानि प्रत्यक्षानुमानोपमानार्थापत्तिप्राययुक्तिमूलोपनिबद्धानि पाञ्चरात्रपाशुपतशाक्यनिर्गन्धादिपरिगृहीतधर्माधर्मनिबन्धनानि पुरुषचिकित्सावशीकरणोच्चाटनोन्मादनादिसमर्थकतिपयमन्त्रौषधादिका दाचित्कसिद्धिनिदर्शनबलेन अहिंसासत्यवचनशमदमदयादानादिश्रुतिस्मृतिसंवादिस्तोकार्थगन्धवासि तजीविकाप्रायार्थान्तरोपदेशीनि, यानि च बाह्यानि म्लेच्छाचारमिश्रकुभोजनाचरणनिबन्धनानि, तेषामेवैतच्छृतिहेतुदर्शनाभ्यामनपेक्षणीयत्वं प्रतिपाद्यते | यदि हानादरेणैषां न साध्येताप्रमाणता | अशक्यैवेति मत्वान्ये भवेयुः समदृष्टयः || शोभासौकर्यहेतूक्तिकलिकालवशेन च | यच्चोक्तपशुहिंसादित्यागभ्रान्तिमवाप्नुयुः | त्रयीमार्गस्य सिद्धस्य ये ह्यत्यन्तविरोधिनः | अनिराकृत्य तान् सर्वान् धर्मशुद्धिर्न लभ्यते ||� इति || ननु श्रुतिस्मृतिविरुद्धपाञ्चरात्रादीनामप्रामाण्येऽप्यविरुद्धांशे प्रामा-
SK
पृ० २११) ण्यमस्त्वितिचेत् | श्हिष्टाकोपेऽविरुद्धमितिचेत्� इति सूत्रार्थ आक्षेपः | तत्रोत्तरम् ङ शास्त्रपरिमाणत्वा�दिति | शास्त्रस्य परिमितत्वादित्यर्थः || तथाहि- �अ᳚न्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः | पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश ||� इति शास्त्रस्य परिमितत्वप्रतिपादनात् || नहि येनकेनचित्प्रमितो धर्मः फलं दास्यति, किन्तु वेदतन्मूलस्मृतितदुपबृंहणपुराणतद᳚न्गप्रमितो धर्मः | तस्मात् शमदमादिकं श्रुतिस्मृत्यविरुद्धं तत्र स्थितमपि शुनक भस्त्रिकाक्षिप्तक्षीरवदनुपभोग्यमविस्रम्भणीयञ्च | अहिंसासत्यवचनादिषु लोकविख्यातेषु धर्मेष्वपि विधानसमये मन्वादिवाक्यमुदाहृत्यैव धर्मविधानं कार्यम् | न त्विदानीन्तनरचितप्रतिसंस्कृतैः | तदुक्तमाचार्यैः- प्रतिकञ्चुकरूपेण पूर्वशास्त्रार्थगोचरम् | यदन्यत्क्रियते तस्य धर्मं प्रत्यप्रमाणता || इति || तस्माद्वीरमाहेश्वरमतस्य �अमृतस्य देवधारणो भूयासम् | पवित्रन्ते विततं ब्रह्मणस्पते | नमो ब्रह्मणे धारणं मेऽस्तु |� इत्यादि श्रुतिसिद्धत्वात्, पाशुपतानन्तर्भूतत्वाच्च प्रमाणवत्वमेव, नतु प्रमाणाभासगोचरत्वम् | तस्मात् प्रथमाध्यायस्य प्रमाणविचारपरत्वम् || द्वितीयाध्यायस्य तु, धर्मभेदविषयकत्वं | तथाहि- शब्दान्तराभ्यासस᳚न्ख्यागुणसंज्ञाप्रकरणान्तरादीनां धर्मस्वरूपभेदसिद्धिकारकत्वम् | तत्र �यजति, ददाति, जुहोती�त्यत्र शब्दान्तरात्कर्मभेदसिद्धिः | शमिधो यजति तनूनपातं यजती� त्यादावभ्यासात्कर्मभेदः | �तिस्र आहुतीर्जुहोती� त्यादौ स᳚न्ख्यया कर्मभेदः | शा वैश्वदेव्यामिक्षे� त्यादौ गुणात्कर्मभेदः | �अथैष ज्योतिः, अथैष विश्वज्योति� रित्यादौ संज्ञया कर्मभेदः | �मासमग्निहोत्रं जुहोती� त्यादौ प्रकरणान्तरात्कर्मभेदः | एवं द्वितीयाध्यायस्य कर्मभेदप्रतिपादकत्वमुक्तम् |
SK
पृ० २१२) तृतीयाध्यायस्य शेषत्वप्रतिपादकत्वमुच्यते | तथाहि- श्रुतिलि᳚न्गवाक्यप्रकरणस्थानसमाख्यानां शेषतायां प्रमाणत्वम् | �ऐन्द्र्या गार्हपत्यमुपतिष्ठत� इत्यादौ श्रुत्या गार्हपत्योपस्थानशेषत्वम् | �भक्षेहिमाविशे� त्यादौ शोमस्य तृप्यतु� इति पर्यन्तं मन्त्रस्य लि᳚न्गवशेन ग्रहणावेक्षणभक्षणेषु विनियोगः | �प्रजापतिर्वरुणायाश्वमनय�दित्यादौ एकवाक्यतया दातुरिष्टिकर्तव्यतानिर्णयः | प्रयाजानुयाजाज्यभागादीनां प्रकरणेन दर्शपूर्णमासयोर्विनियोगः | �उभावामिन्द्राग्नी� इत्येवमादीनां मन्त्राणां क्रमेण स्थानसादेश्यलक्षणेनैन्द्र्याग्न्येष्ट्यादिषु विनियोगः | अग्निचयनसन्निधौ विद्यमानानां �इन्द्राय राज्ञे सूकर� इत्येवमादीनां समन्त्रकाणां कर्मणां अश्वमेधा᳚न्गत्वमाश्वमेधिकमिति समाख्यया | एवं तृतीयाध्यायविषयः || चतुर्थाध्यायविषयस्त्वेवम्- प्रथमं क्रत्वर्थपुरुषार्थविचारः प्रयुक्तिविवेकाय क्रियते | द्रव्यार्जननियमः | नेक्षेतोद्यन्तमादित्यमिति नियमः | पशुना यजेतेत्यत्र पशुगतैतत्वम् | एते क्रत्वर्थाः, पुरुषार्थावेति विचारः | ततः �तप्ते पयसि दध्यानयति, सा वैश्वदेव्यामिक्षावाजिभ्यो वाजिन� मित्यादौ प्रयोजकत्वाप्रयोजकत्वविचारः | ततः �यस्य वर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति� इत्यादौ फलविध्यर्थवादविचारः | ततः �राजसूयेन यजेत, वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेते�त्यादौ कालार्था᳚न्गप्रधानविचारः | एवं चतुर्थाध्यायविचारः || अनन्तरं पञ्चमाध्याये क्रमविचारः क्रियते | प्रथमं श्रुतिक्रमविचारः �अध्वर्युर्गृहपतिं दीक्षायित्वा ब्रह्माणं दीक्षयती� त्यादौ | ततोऽर्थक्रमविचारः, �अग्निहोत्रं जुहोति, यवागूं पचती� त्यादौ | ततः पाठक्रमविचारः शमिधो यजती�त्येवमाद्यौ | प्रवृत्तिक्रमः प्राजापत्यपशौ | मुख्यक्रमः प्रथममौषधतन्त्रप्रवृत्तिः | ततः श्रुत्यर्थपाठप्रवृत्तिः | मुख्यादीनां क्रमप्रमाणानां प्राबल्यदौर्बल्यविचारः | एवं पञ्चमाध्यायः ||
SK
पृ० २१३) ततः षष्ठाध्याय एवम्- प्रथमं देवतिर्य᳚न्मनुष्याधिकारविचारः, ततो निषादसत्रयागाधिकारविचारः, ततो नित्यनैमित्तिककाम्याधिकारविचारः, पश्चात् प्रतिनिध्यधिकारविचारः, पश्चादभ्युदयेष्ट्यधिकारविचारः, पश्चादपच्छेदनिमित्तकाधिकारः, ततः सारस्वतसत्राद्यधिकारः, ततो विश्वजिदधिकारः | एवं षष्ठाध्यायेन अधिकारविचारः कृतः || सामान्यातिदेशः सप्तमाध्यायार्थः | प्रथमं पारिप्लवविचारोऽ᳚न्गानां, ततः �एतद्ब्राह्मणान्येव पञ्चहवींषी� त्येवमादौ विध्यतिदेशः, ततः कार्यमुखेन अ᳚न्गातिदेशः | एवं सप्तमाध्यायः || अष्टमाध्यायविचारः- विशेषातिदेशः प्रथमम्, सौर्ययागादीनां दर्शपूर्णमासप्रकृतित्वविचारः, पशोश्च ततोऽग्नीषोमीयस्य सवनीयपशुप्रकृतित्वं | सवनीयस्य पश्वैकादशिनीप्रकृतित्वम् | पश्वेकादशिन्याः पशुगणप्रकृतित्वम् | अव्यक्तदेवताकानां यागानां सोमप्रकृतित्वम् | सोमस्यातिरात्रवाजपेयादिद्वादशाहादियागप्रकृतित्वम् | द्वादशाहो द्विविधः, अहीनः सत्रयागश्च | एककर्तृको बहुसुत्याकश्च, बहुयजमानकोऽनेकसुत्याकश्च | द्विरात्रत्रिरात्रादीनां अहीनद्वादशाहप्रकृतित्वम् | सत्राणाञ्च सत्रद्वादशाहप्रकृतित्वम् | संवत्सरसाध्यानां क्रतूनां कुण्डपायिनामयनादीनां गवामयनप्रकृतित्वम् | पशूनां सर्वेषां सान्नाय्यविकारत्वं | एकदेवताकानां यागानां, आग्नेयविकारत्वं | द्विदेवतानां अग्निषोमीयविकारत्वम् | एवमष्टमाध्यायप्रमेयम् || अथ नवमाध्यायविषय उच्यते | उलूखलमुसलदृषदुपलव्रीह्यादिशब्दानां अपूर्वसाधनलक्षणा᳚न्गीकारः | अनन्तरं देवता᳚न्गत्वविचारः | ततोऽवहननाद्यूहविचारः | ततो द्वितीयपादे सामोहविचारः | ततो अध्रिग् प्रैषोहविचारः | एवं नवमोध्यायः || ततो दशमाध्यायविचारः- आदौ कार्यमुखेन पदार्थातिदेशः | ततः कृष्णलचराववहनननिवृत्तिः | स्वयं दिने बर्हिषि लवननिवृत्तिः | श्हरमयं बर्हि र्भवती�त्यादौ कुशबाधः | गृहमेधीयादौ चोदकपरि-
SK
पृ० २१४) लोपादाज्यभागव्यतिरिक्ता᳚न्गबाधः | अनन्तरं चतुर्थ्यन्तशब्दविशिष्टार्थस्य देवतात्वम् | ततो नञर्थविचारः | ततः पर्युदासप्रतिषेधश्च, नहि निन्दान्यायः, सामान्यविशेषन्यायः | एवं दशमाध्यायः || तत एकादशे तन्त्रविचारः | तन्त्रत्वं अनेकप्रधानोद्देशेन सकृद᳚न्गानुष्ठानम् || ततो द्वादशे प्रस᳚न्गविचारः | प्रस᳚न्गोनाम प्रधानोद्देशानुष्ठितानामारादुपकारका᳚न्गानां प्रधानतन्त्रमध्यपतिता᳚न्गानुद्देशेन कृतानामपि तदुपकारकत्वम् || एवं द्वादशाध्यायरूपिणी मीमांसा लेशतो निरूपिता || तत्र देवताधिकरणं विना अन्येषां श्रुतिस्मृतिपुराणवाक्यार्थनिर्णायकत्वेन सर्ववादिसम्मतत्वेऽपि, शब्दविद्यायां स्फोटवाद इव देवताचैतान्यांशेऽति विरुद्धा मीमांसा || एवं खलु तेषां तात्पर्यम्- शब्दविशिष्टार्थो देवता, चतुर्थ्यन्तशब्द एव देवतेति | इदमत्यन्तमयुक्तम् | तथाहि- �जगृहाते दक्षिणमिन्द्रहस्तम्, वज्रहस्तः पुरन्दरः, सहस्राक्षो गोत्रभिद्वज्रबाहुः, त्रिभिर्देवैस्त्रिदशता, वज्रबाहुर्जघानवृत्रम्, विदुरो ववारे�त्यादौ चेतनत्वेन स्पष्टतया प्रतीयमानत्वात् | �घृतप्रतीको घृतयोनिरेधिवृषोऽग्निः समिध्यते | अश्वो न देववाहनः� इत्यादौ चेतनत्वेनाग्नेः स्फुरणाभावाच्चेतनत्वे प्रामाण्यं नास्तीति न च वाच्यं, क्वचिदेवं सत्यपि �चत्वारि शृ᳚न्गा स्त्रयो ऽस्य पादा� इत्यादौ पादशीर्षहस्तानां चेतनासाधारणधर्माणां सम्यग्बालानामपि ज्ञायमानत्वाद्देवताचैतन्यमस्त्येव | किञ्च ङमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमोनमः ||� इतिमन्त्रे श तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीम्� इति स्पष्टं केनोपनिषदा हिमवत्पुत्रीत्वेन स्त्रीत्वेन प्रतिपादिताया उमायाः पत्युः शिवस्य चेतनत्वेन तत्रापि पुंस्त्वेन ज्ञायमानस्य ङमो रुद्राय मीढुषे� इति मन्त्रान्तरे दयालुत्वेनापि वेद्यमानस्य कथमचेतनत्वं वक्तुं शक्यम् | न च
SK
पृ० २१५) उपनिषन्मन्त्रस्योपासनार्थसाकारदेवतापरत्वेऽपि कर्मा᳚न्गमन्त्राणां तथात्वं नास्तीति वाच्यम्, कर्मा᳚न्गभूतस्यैव शतरुद्रीयस्य �दरिद्रं नीललोहितः | नीलग्रीवो विलोहितः� इत्यादौ मन्त्रे चेतनपरत्वेन स्फुटं दर्शनात् | न च शब्दातिरिक्तदेवता᳚न्गीकारे �ई᳚न्काराय स्वाहा दद्भ्यः स्वाहा | हनूभ्यां स्वाहे�त्यादावपि शब्दातिरिक्तदेवता᳚न्गीकारापत्तिरितिवाच्यं, बाधकवशात्क्वचित्तद᳚न्गीकारेऽपि सर्वत्र तथा᳚न्गीकारे प्रमाणाभावात् | अन्यथा �आग्नेयीं कृष्णग्रिवीं� इत्यादौ स्त्रीपशोरालम्भनं न स्यात् | नदीकादम्बिनीखट्वावीथीत्यादौ स्त्रीलि᳚न्गस्या विवक्षितत्वेन प्रकृतेऽपि तथैवा᳚न्गीकारस्यावश्यकत्वात् | सिंहः सिंही कुक्कुटः कुक्कुटीत्यादौ ᳚नीबादिभिः प्रत्ययैः स्त्रीत्वादिर्बोधितोऽस्तीति स्त्रीपशोरेव यद्यालम्भ इत्युच्यते तर्हि प्रकृतेऽपि दीयतां दृष्टिः | किञ्चैकत्वद्वित्वबहुत्वस᳚न्ख्यानामपि विभक्त्या प्रतिपादनं न स्यात्, दारा इत्यादौ व्यभिचारात् | तस्मात् क्वचिद्बाधकापादितस्यार्थस्य अबाधितस्थलऽप्य᳚न्गीकर्तव्यतास्तीति मूर्खप्रलपितमेव | अत ई᳚न्काराय स्वाहेत्यादौ देवताभावेऽपि �वज्रहस्तः पुरन्दर� इत्यादौ चेतनदेवतासिद्धौ बाधकं नास्त्येव | न च देवताचैतन्या᳚न्गीकारे �अग्निर्वैश्वानरो वह्नि� रित्यमरकोशे अग्निर्वैश्वानरादिशब्दानां पर्यायेण पाठात्, आग्नेयपुरोडाशयागे- वैश्वानरायेदं न ममेतीत्याद्य᳚न्गीकारापत्तिः, शब्दभेदेऽप्यर्थस्यैकत्वादिति वाच्यं, अतिरिक्तदेवता᳚न्गीकारपक्षऽपि शब्दविशिष्टस्यैव देवतात्वेन अतिप्रस᳚न्गानवकाशात् | ननु मन्त्रस्यानुष्ठेयार्थस्मरणद्वारा क्रत्व᳚न्गस्याक्रतुविधायकप्रयोगविध्येकवाक्यतापन्नस्वविधायकवाक्यस्य स्वोपकृतप्रधानयागतात्पर्यकस्य देवताचैतन्येऽपि तात्पर्ये सति तात्पर्यभेदप्रयुक्तवाक्यभेदः प्रधानविधेः स्यादितिचेन्न, इष्टत्वात् | नच वाक्यभेदो दोषावह इति वाच्यम्, विध्यावृत्तिरूपवाक्यभेदस्यैव दोषावहत्वात् | तथाहि- वाक्यभेदो द्विविधः- विध्यावृत्तिप्रयुक्तस्तात्पर्यभेदप्रयुक्तश्च |
SK
गृहं सम्मार्ष्टीत्यादौ गृहमुद्दिश्य सम्मार्जनविधाने गृहगतैकत्वस्यापि
SK
पृ० २१६) विधानस्यावश्यकत्वाद्विध्यावृत्त्यैव द्वयोर्विधानात्, द्विरुच्चारणं दोषावहं भवति | तात्पर्यभेदे तु वाक्यस्यावृत्तिर्नास्त्येव | तद्यथा- �यदाग्नेयोऽष्टाकपालोऽमावस्यायाञ्च पौर्णमास्याञ्चाच्युतो भवती� त्यत्र द्रव्यदेवताकालविशिष्टयागविध्य᳚न्गीकारे सति विशिष्टतात्पर्यकस्य विधेर्विशेषणेष्वपि तात्पर्यात्, तात्पर्यभेदेऽपि विधिद्विरुच्चारणं नास्ति | एवमिहाप्य᳚न्गविधिसहितप्रयोगविधेर᳚न्गभूतस्य मन्त्रस्य शब्दरूपस्य स्वार्थे तात्पर्येऽपि न विध्यावृत्तिदोषः || ननु देवतायाश्चैतन्या᳚न्गीकारे तस्या राजवत्स्वतः प्रधानत्वात्, द्रव्यवद्यागनिर्वर्तकत्वेन तद᳚न्गत्वं नस्यादिति चेन्न, यजमानस्य फलोप भोक्तुः सर्वप्रधानस्यापि यजेतेति विधिना सकर्तृत्वेनाक्षिप्तस्य स्वनिर्वर्तनसमर्थस्य यथा क्रत्व᳚न्गत्वमेवमिहापि सम्भवति || नन्व᳚न्गत्वं यत्रास्ति न तत्र प्रधानत्वं यथा प्रयाजादीनां, यत्र प्रधानत्वं न तत्रा᳚न्गत्वं यथा सोमयागस्येति कथमत्र द्वयमपि विरुद्धम᳚न्गीक्रियत इति चेन्न, विकल्पासहत्वात् | तथाहि- अन्यप्रतिपादनस्य तदन्यं प्रत्य᳚न्गत्वं नास्तीति किमुच्यते, उत यं प्रति प्रधानत्वं तं प्रत्य᳚न्गत्वं नास्तीति ? आद्ये ज्योतिष्टोमयागे व्यभिचारः, दीक्षणीयादिकं प्रति प्रधानस्यापि फलं प्रत्य᳚न्गत्वात् | न द्वितीयः, स्विष्टकृत्पशुपुरोडाशान्त्यप्रयाजादिषु व्यभिचारात्, स्विष्टकृद्यागस्याग्नेयाग्नीषोमीयानन्तरं क्रियमाणस्य प्रधानयागे कृते तद्देशस᳚न्कटताकर्तृस्थलान्तरप्रासनापेक्षिशिष्टहविर्व्ययरूपप्रतिप त्तिकरत्वेन हविर᳚न्गस्यापि यागरूपत्वेन यागरूपस्य शिष्टद्रव्यनिर्वर्त्यत्वेन प्रधानत्वञ्चास्ति || तथैव पशुपुरोडाशस्यापि �यद्दैवत्यः पशुस्तद्वै ततो भवति� इति वचनेन पशुदेवतास्मरणकारित्वेन पशुदेवता गुणस्यापि यागमात्रस्य देवतानिर्वर्त्यत्वेनापि प्रधानत्वमप्यस्ति तथैवोत्तमप्रयाजस्यापि श्वाहाऽग्निं स्वाहा सोम� मिति मन्त्रवशेन देवतास्मरणद्वारा देवतार्थत्वेन तद्गणत्वेऽपि यागमात्रस्य देवता
SK
निर्वर्त्यत्वन्यायेन प्रधानत्वमप्यस्ति | इदं सर्वमपि �आश्रयिष्वविशे-
SK
पृ० २१७) षणभावोऽर्थः प्रतीयेते� त्यधिकरणे चतुर्थाध्याये स्पष्टम् | तस्मात्प्रमाणवशेन विरुद्धस्याप्य᳚न्गीकारसम्भवात्, अत्र देवतायाः प्रधानत्वेऽपि यागं प्रति गुणत्वम᳚न्गीक्रियत इति न कोपि विरोधो भवति | ननु देवताचैतन्या᳚न्गीकारेऽपि तस्य प्रधानत्वं कथम् | गुणत्वमेव यागनिर्वर्तकत्वेन अवश्यं वक्तव्यमिति चेन्न | चेतनत्वसिद्धिवेलायामेव प्रधानत्वस्यापि सिद्धत्वात् | यागादिकन्तु कर्मा᳚न्गमेव | तद्यथा-लोके भृत्यसेवादिकं प्रधानराजप्रसादकारित्वेन राजार्थं, तद्वद्यागादिकं कर्मदेवताप्रसादद्वारा देवतार्थम् | नच शब्दगम्येऽर्थे प्रमाणं विना लोकदृष्टान्तेन सिद्धिः कथमिति वाच्यम्, �तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति, घृतं पीत्वा मधु चारु गव्यम्, पितेव पुत्रमभिरक्षतादिम� मित्यादिमन्त्रार्थवादानामनेकेषां प्रमाणां विद्यमानत्वात्, �क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते� इत्यादिकानां पुराणवचनानाञ्च सत्वात् | किञ्च प्रसन्नोऽस्य पशुपतिः पुत्रोऽस्य समुत्पन्न इति लोकव्यवहारादपि देवताप्रसादस्य फलजनकत्वम् | मन्त्रवर्णोऽपीममर्थमाह �मीढ्वस्तोकाय तनयाय मृडये� ति | अस्यार्थः- मीढ्वन्नितिवक्तव्ये �मिह= सेचन� इति धातोर्मीढ्व इति छान्दसं रूपम् | मीढ्वः- दयार्द्र हे शिव, तोकाय तनयाय पुत्ररूपापत्यायेत्यर्थः | �अपत्यं तोकं तयोः समे | आत्मजस्तनयः सृनु� रित्यप्यमरः | मृडय-सुखय | �मृड= सुखन� इति धातोर्णिजन्तस्य लोटि परस्मैपदी मध्यमपुरुषः | दयावन्, पुम्प्रजोत्पादनेन अस्मान् आनन्दयेत्यर्थः | कर्मणा जनितस्य परमेश्वरप्रसादस्यैव पुत्रफलजनकत्वम् | नतु केवलं जडस्य कर्मणः | देवग्रामोऽयं देवक्षेत्रमिति व्यपदेशादपि देवतायां प्रधान त्वम्, नतु गुणत्वम् | यागनिर्वर्तकत्वेन गुणत्वमप्यधिकम्, तावता न प्रधानत्वहानिर्देवतायाः || ननु देवताचैतन्या᳚न्गीकारे बहुषु स्थलेषु यागेषु क्रियमाणेष्विन्द्रादि देवतानां प्रत्येकं प्रत्येकमेकरूपाणां युगपदाह्वाने
SK
सति कथं विरुद्धं गमनं सम्भवतीति चेन्न, स्वस्वतपोविशेषाश्वमेधादिक्रतुविशेषा-
SK
पृ० २१८) नुष्ठानसम्पादितपरमेश्वरप्रसादानां तज्जनितनिरतिशयैश्वर्याणां युगपदनेककायव्यूहसम्बन्धसम्भवेन युगपदनेकस्थलेषु गमनस्यापि सम्भवान्न विरोधः | अथवा युगपदनेकभटकर्तृकनमस्कारोद्देश्यत्वमेकस्यैव राज्ञो लोके दृष्टम्, तद्वदेकैककायपरिगृहीतृर्णां देवानामनेककर्तृकयागोद्देश्यत्वसम्भवान्न विरोधः | तत्सर्वं �विरोधः कर्मंणीति चेन्न, अनेकप्रतिपत्तेर्दर्शनात्� इत्युत्तरतन्त्रे देवताधिकरणे एवमेवाक्षिप्य समाहितम् | तस्माद्देवताचैतन्यं नास्तीतिवचनं स्वर्गस्य निरतिशयसुखत्ववचनवन्निर्युक्तिकं बहुप्रमाणविरुद्धञ्च | स्वर्गस्य निरतिशयप्रीतिविषयत्वं कथं विरुद्धमितिचेन्न, �इष्टापूर्तं मन्यमाना वरिष्टं नान्यछ्रेयो वेदयन्ते प्रमूढाः | नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति || तस्मिन् यावत्सम्पातमुषित्वा यथैतमेवाध्वानं पुनर्निवर्तन्त� इत्यादि श्रुतिपर्यालोचनया श्वर्गेऽपि पातभीतस्य शताक्ष्णो नास्ति निर्वृतिः | ते तं भुक्त्वा स्वर्गलोकं शिशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ती� त्यादिस्मृतिपर्यालोचनया च स्वर्गसुखस्य स्वानुभवानन्तरं संसारसुखवदनर्थहेतोर्निरतिशयप्रीतिविषयत्वं कथं सम्भवति ? न चैतत्सुखापेक्षया अतिशयसुखसत्वे प्रमाणा भावादिदमेव सुखमनन्तरं सोपद्रवमपि स्वानुभववेलायामतिशयिततया अनुभवितृर्णां भासमानत्वान्निरतिशयमित्युच्यत इति वाच्यम्, विकल्पासहत्वात् | किमेतदधिकसुखे प्रमाणं नास्तीतीदं निरतिशयसुखमित्युच्यते, किंवाऽनुभवितृर्णां तथा भासमानमिति ? आद्ये दहरादिविद्याफलस्यापुनरावृत्याद्यनेकाभीष्टरूपस्य सत्वे प्रमाणानां बहूनां विद्यमानत्वात्स्वर्गस्य निरातशयत्वहानिः || तथाहि- �अथ यदि पितृलोककामो भवति स᳚न्कल्पादेवास्य पितरः समुत्तिष्ठन्ति, तेन पितृलोकेन सम्पन्नो महीयते� इत्युक्त्वानन्तरमेवमेव �अथ यदि मातृलोककामो भवति, भ्रातृलोककामो भवति, स्वसृलोक कामो भवति, स्त्रीलोककामो भवति,
SK
सखिलोककामो भवति, गन्ध- पृ० २१९) माल्यलोककामो भवति, गीतवादित्रलोककामो भवती� त्युक्त्वा तस्य तस्यानन्तरं संकल्पादेवास्य मातरः समुत्तिष्ठन्तीत्यादिकमुक्त्वा तेन मातृलोकेनसम्पन्नो महीयत इत्यादिकं फलं छान्दोग्ये प्रतिपाद्यते | पुनश्च तत्रैव �यं यं काममभिकामो भवति, यं जनपदमयं क्षेत्रभागं सोऽस्य स᳚न्कल्पादेव समुत्तिष्ठति, तेन सम्पन्नो महीयते | स एकधा भवति त्रिधा भवति चतुर्धा पञ्चधाष्टधा नवधा, तदैरम्मदीयं सरस्तदश्वत्थः सोमसवनस्ततदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयं | तत्पुरुषो मानवः | स एनां ब्रह्म गमयति, नच पुनरावर्तते, नच पुनरावर्तत� इति महत्स्वातन्त्र्यं, तज्जन्मानुभूतनष्टपितृमातृस्वसृभ्रातृपुत्रभार्यासखिसमागमः, अनेककायव्यूहपरिग्रहसामर्थ्यं, मनोध्यातेष्टप्राप्तिः, स्वेष्टदेशसञ्चारः, सोपास्येश्वरसारूप्यम्, तत्समीपावस्थानम्, तद्वत्सृष्टिसामर्थ्यमपुनरावृत्तिश्चेत्याद्यत्यद्भुतसुखावाप्तौ प्रमाणसत्वेन तत्सुखमपेक्ष्य तस्य स्वर्गरूपसुखस्य सुखत्वस्यैव वक्तुमशक्यत्वात् | न द्वितीयः, पामकषणजन्यसुखानां निरतिशयसुखत्वापत्तेः, तदनुभूतिकाले पामकषणसुखस्य निरतिशयत्वेनैवानुभूयमानत्वात् | तस्मात्स्वर्गस्य निरतिशयत्ववादो बालसम्मोहक इत्युपेक्षणीय इति सर्वं समञ्जसम् ||
SK
इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्भोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थ लसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यमरितोण्टदार्यविरचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्यकेलदिसदाशिवराय नायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द्रधर्मपत्नीमल्लाम् बाहृदयानन्दबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे मीमांसकमतनिरूपणतन्निराकरणप्रकारो नाम द्वादशं प्रकरणम् || पृ० २२०) वीरशैवानन्दचन्द्रिकायां वादकाण्डे त्रयोदशं प्रकरणम् || ततः किं भृ᳚न्गिणाऽरब्धं सभायां तत्र सद्गुरो | किमुत्तरं तदाऽदायि तेन शीलावता वद || राजन्नशेषविद्याब्धि संवर्धनकलानिधे | इदमाकर्णय श्रीमन् भृ᳚न्गिशीलवतो र्वचः || मीमांसकमतं श्रौतमपि युक्त्या प्रमाणतः | दूषितं तावता नैव भवत्पक्षव्यवस्थितिः || मतमन्यत्प्रवक्ष्यामि स्मृत्यर्थाश्रयस᳚न्गतम् | अव्यक्तकर्तृतावादि शृणु शीलवदग्रग || इति भृ᳚न्गीवरारब्धं सभायां कापिलं मतम् | दूषणं शीलवत्प्रोक्तं वदामि सकलं क्रमात् || कापिलाः पुनरेवमुपवर्णयन्ति- अव्यक्तं बुद्धिरहंकारो रूपरसगन्धस्पर्शशब्दाख्यानि पञ्चतन्मात्राणि चेति प्रकृतयः | घटपटादिवन्नव्यज्यत इत्यव्यक्तमिति व्युत्पत्या �अनादि मध्यं महतः परं ध्रुवं प्रधानमेतत्प्रवदन्ति सूरयः� |
SK
पृ० २२१) किञ्च शूक्ष्मं लि᳚न्गमचेतनमनादिनिधनं तथा प्रसवधर्मि | निरवयवमेकमेव हि साधारणमेतदव्यक्त� मिति | एतदेवाव्यक्तं प्रधानं ब्रह्मबहुधानकमक्षरं क्षेत्रं तमः प्रसूनमिति पर्यायशब्दैरभिधीयते | बुद्धिस्त्वेवमेवमेतन्नान्यथा गौरेवायं नाश्वः, स्थाणुरेवायं न पुरुष इत्यध्यवसायात्मिका | अध्यवसायात्तु गवादिषु प्रवत्तिः | अस्या बुद्धेर्धर्मो ज्ञानं वैराग्यमैश्वर्यमिति सात्विकानि चत्वारि रूपाणि; अधर्मोऽज्ञानमवैराग्यमनैश्वर्यमिति तामसानि चत्वारि रूपाणीत्येवमष्टौ रूपाणि | श्रुतिस्मृतिशिष्टाचाराविरुद्धः शुभलक्षणोऽधर्मविपर्ययो धर्मः | तत्वभावभूतानां सम्यग्बोधः शब्दादिविषयेषु प्रसक्तिरज्ञान विपर्ययो ज्ञानम् | वैराग्यं रागविपर्ययः | अणिमाद्यष्टगुणा अनैश्वर्य विपर्यय ऐश्वर्यम् | श्रुतिस्मृतिशिष्टाचारविरुद्धोऽशुभलक्षणो धर्म विपर्ययोऽधर्मः | तत्वभावभूतानामनवबोधो ज्ञानविपर्ययोऽज्ञानम् | शब्दादिषु विषयेष्वभिष᳚न्गो वैराग्यविपर्ययोऽवैराग्यम् | अणिमादिराहित्यमैश्वर्यविपर्ययोऽनैश्वर्यम् | धर्मज्ञानवैराग्यैश्वर्यनिमित्तैः क्रमेणोर्ध्वगमनं मोक्षप्रवृत्तिविलयोऽप्रतिहतगतिश्च, अधर्मादिभिरधोगतिश्च फलानि भवन्ति | एवं बुद्धेरष्टौ रूपाणि मनो मतिर्बुद्धिः ख्यातिः प्रज्ञा धृतिः प्रज्ञानमिति पर्यायशब्दैर्व्यवह्रियन्ते | अहमाकर्णयेऽहं रूपयेऽहं रसयेऽहं जिघ्राम्यहं स्पृशाम्यसौ मया हत इत्येवमाद्यभिमानोऽहंकार इत्युच्यते | अवैकारिकस्तैजसो भूतादिरिति पर्यायशब्दैरहंकार एवाभिधीयते | शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति तन्मात्राणि | तत्र शब्दतन्मात्राच्छब्दसामान्योपलब्धिः | नतूदात्तानुदात्तस्वरितकम्पितषड्जर्षभगान्धारादिशब्दविशेषोपलब्धि ः | तथा स्पर्शतन्मात्रस्पर्शसामान्योपलब्धिः, नतु मृदुकठिनशीतोष्णादिस्पर्शविशेषोपलब्धिः | तथा रूपतन्मात्राद्रूपसामान्योपलम्भः, नतु शुक्लकृष्णहरितपीतादिरूपविशेषोपलम्भः |
SK
तथा रसतन्मात्राद्रससामान्योपलम्भः, नतु कटुतिक्तादिरसविशेषोपलम्भः | गन्धतन्मात्राद्गन्धसामान्यप्रतिपत्तिः,
SK
पृ० २२२) नतु सुरभित्वासुरभित्वरूपगन्धविशेषप्रतिपत्तिः | तन्मात्राणि विशेषाणि महाभूतप्रकृतयः भोग्यान्यणव इति पर्यायशब्दर्व्यवह्रियन्ते | एवमव्यक्तबुध्यह᳚न्कारतन्मात्रसंज्ञिता अष्टौ प्रकृतय उपपादिताः || अथ श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं वाक्पाणिपादपायूपस्थं मनश्चेत्येकादशेन्द्रियाणि | पृथिव्यप्तेजोवाय्वाकाशाख्यानि महाभूतानि चेति षोडशविकाराः | शब्दस्पर्शरूपरसगन्धाः श्रोत्रादीनां पञ्चानामिन्द्रियाणां विषयाः | वचनादानगमनविसर्गानन्दा वागादीनां कर्मेन्द्रियाणां पञ्चानां विषयाः | मनसस्स᳚न्कल्पविकल्पादयो विषयाः | इन्द्रियाणि करणानि वैकारिकाणि खानि नियतानि पदानि आरयः अक्षाणीति पर्यायशब्दैर्व्यवह्रियन्ते | धारणभावेन प्रवर्तमाना स्वेतरभूतचतुष्टयोपकारिणी शब्दस्पर्शरूपरसगन्धाख्यपञ्चगुणयुक्ता पृथिवी; स᳚न्गहभावेन प्रवर्तमानाः स्वेतरभूतचतुष्टयोपकारिण्यः शब्दस्पर्शरूपरसाख्यचतुर्गुणयुक्ता आपः; पाचकभावेन प्रवर्तमानं स्वान्यभूतचतुष्टयोपकारकं शब्दस्पर्शरूपरसाख्यगुणत्रययुक्तं तेजः; वाहकभावेन प्रवर्तमानः स्वातिरिक्तभूतचतुष्टयोपकारकः शब्दस्पर्शवान्वायुः; अवकाशदानेन प्रवर्तमानः स्वातिरिक्तभूतचतुष्टयोपकर्ता शब्दैकगुणवानाकाशः | भूतानि विशेषा विकारा आकृतयस्तनवो विग्रहाः शान्ता घोरा मूढा इति पर्यायशब्दैर्व्यवह्रियन्ते | इत्येवं षोडश विकाराः | अनादिः सूक्ष्मः सर्वगतः चेतनो निर्गुणो नित्यो द्रष्टा भोक्ता कर्ता क्षेत्रविदमलोऽप्रसवधर्मा च पुरातनत्वात्पुरिशयनात्पुरोहितवृत्तित्वाच्च पुरुष इत्युच्यते | आदिमध्यान्तशून्यत्वादनादिः | निरवयवत्वादतीन्द्रियत्वाच्च सूक्ष्मः | सर्वं प्राप्तमनेन, अस्य गम्यं नास्तीत्यतश्च सर्वगतः | सुखदुःखमोहोपलब्धिमत्वाच्चेतनः | सत्वरजस्तमांस्यस्मिन्न सन्तीत्यतो निर्गुणः | अकृतकत्वादनुत्पाद्यत्वाच्चनित्यः | प्रकृतिविकारानुपलभत इति द्रष्टा | चेतनभावात्सुखदुःख विज्ञानाच्च भोक्ता | उदासीनत्वादगुणत्वाच्चाकर्ता | क्षेत्रं
SK
स्वगुणगतं वेत्तीति क्षेत्रेभ्यो गुणगतं वेत्तीति वा क्षेत्रवित् | शुभाशुभकर्मास्य पृ० २२३) नास्तीत्यमलः | निर्बीजत्वान्न किञ्चिदुत्पादयतीत्यप्रसवधर्मा | एवमेषः सा᳚न्ख्यपुरुष आत्मा पुमान् बहुलो जन्तुर्जीवः क्षेत्रज्ञो नरः कविर्ब्रह्माक्षरः प्राणोऽज इत्यादिपर्यायशब्दैर्व्यह्रियते | एवमष्टौ प्रकृतयः षोडशविकाराः पुरुषश्चेति पञ्चविंशतितत्वानि | तथाचोक्तं साम्प्रदायिकैः- मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त | षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः || इति || पञ्चविंशतितत्वज्ञो यत्रकुत्राश्रमे रतः | मुण्डी जटी शिखी वापि मुच्यते नात्र संशयः || इति च || एतस्य पुरुषस्य यदि कर्तृत्वं तदा शुभान्येव कुर्यात्, नाशुभानि कर्माणि | नास्मिन्वृत्तित्रयं दृश्यते, किन्तु प्रकृतिगुणानामेव सत्वरजस्तमसां चराचरकर्तृत्वं सिद्धम् || तदाहुः सम्प्रदायविदः- धर्माख्यं साहित्यं यमनियमनिषेवणं प्रस᳚न्ख्यानम् | ज्ञानैश्वर्यविरागाः प्रकाशनं सात्विकी वृत्तिः || रागः क्रोधो लोभः परपरिवादोऽतिरौद्रतातुष्टिः | विकृताकृतिपारुष्यं प्रख्यातैषा रजो वृत्तिः || उन्मादमदविषादा नास्तिक्यं स्त्रीप्रस᳚न्गिता निद्रा | आलस्यं नैर्घृण्यं त्वशौचमिति तामसी वृत्तिः || अतस्त्वकर्ता पुरुषः समीरितः प्रवर्तमानः प्रकृतेरिमान्गुणान् | रजस्तमोभ्यां विपरीतदर्शना- दह᳚न्करोमीत्यबुधोऽभिमन्यते || इति || पृ० २२४) तृणकुब्जीकरणासमर्थोऽपि सर्वञ्चेदं मयाकृतमितिवदन्नभिमानादबुद्ध उन्मत्तवद्भवति | भवति चात्रागमः- प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः | अह᳚न्कारविमूढात्मा कर्ताहमिति मन्यते || अनादित्वान्निर्गुणत्वात् परमात्मायमव्ययः | शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते || प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः | यः पश्यति तथात्मानमकर्तारं स पश्यति || इति ||
SK
सुखदुःखमोहस᳚न्करविशुद्धिकरणनियमजन्ममरणानां नानात्वाल्लोकाश्रमवर्णभेदाच्च बहवः पुरुषाः | यद्येकः पुरुषः स्यादेकस्मिन् सुखिनि सर्वे सुखिनः स्युः, एकस्मिन् दुःखिनि सर्वे दुःखिनः स्युः, एकस्मिन् मूढे सर्वे मूढाः स्युः, एकस्मिन् स᳚न्कीर्णे सर्वे संकीर्णाः स्युः, एकस्मिन् शुद्धे सर्वे शुद्धाः स्युः, एकस्य करणापाटवे सर्वेषां करणापाटवं स्यात्, एकस्मिन् जाते सर्वे जायेरन्, एकस्मिन्मृते सर्वे म्रियेरन्, नास्ति चैवं | अत आकृतिगर्भाशयभावसगतिशरीरविभागलि᳚न्गबहुत्वाच्च पुरुषा बहव इति सा᳚न्ख्याचार्याः कपिलहरिहरहिरण्यगर्भपञ्चशिखपतञ्जलिप्रभृतयो वर्णयन्ति || त्रिगुणा एव त्रैगुण्यमिति व्युत्पत्त्या सत्वरजस्तमांस्येव त्रैगुणयमित्युच्यते | तत्र प्रसादलाघवाभिसम्प्रीतितुष्टितितिक्षासन्तोषादिलक्षणमनन्तभेदं समासतः सुखात्मकं सत्वम् | शोकतापस्वेदस्तम्भोद्वेगरोषद्वेषादि लक्षणमनन्तभेदं स᳚न्क्षेपणदुःखात्मकं रजः | छादनावरणबीभत्सदैन्यगौरवालस्यनिद्राप्रमादादिलक्षणमनन्तभेद. म् स᳚न्ग्रहेण मोहात्मकं तमः | तत्र सम्प्रदायविद आहुः- सत्वं प्रकाशकं विद्याद्रजो विद्यात्प्रवर्तकम् | विनाशकं तमो विद्यात् त्रैगुण्यं नामसंज्ञितम् || इति ||
SK
पृ० २२५) अव्यक्तान्महतः परेण पुरुषेणाधिष्ठिता बुद्धिः, अष्टगुणाया बुद्धेरह᳚न्कारः स्यात्, वैकारिकतैजसभूतादिलक्षणभेदेन त्रिविधादहंकारात्क्रमेण वैकारिकादिन्द्रियाणां, भूतादेस्तन्मात्राणां, तैजसादिन्द्रियाणां तन्मात्राणां क्रमेणोत्पत्तिः सञ्चर इत्युच्यते | अथ भूतानां तन्मात्रेषु, तन्मात्राणां चेन्द्रियाणां चाह᳚न्कारे, अह᳚न्कारस्य च बुद्धौ, बुद्धेश्चाव्यक्ततत्वे कुतश्चिदनुत्पन्ने, आप्रलयनिलयः प्रतिसञ्चर उच्यते | बुद्धिरध्यात्मं बोद्धव्यमधिभृतं ब्रह्मा तत्राधिदैवतम् | अह᳚न्कारोऽध्यात्ममभिमन्तव्यमधिभूतं रुद्रस्तत्राधिदैवतम् | श्रोत्रमध्यात्मं श्रोतव्यमधिभूतमाकाशस्तत्राधिदैवतम् | एवं त्वक्स्पर्शयितव्यवायवः, चक्षुर्दर्शयितव्यसूर्याः, जिह्वारसयितव्यवरुणाः, नासाघ्रातव्यपृथिव्यः, वाग्वक्तव्याग्नयः, पाण्यादातव्येन्द्राः, पादगन्तव्यविष्णवः, पायुत्स्रष्टव्यमित्राः, उपस्थानन्दयितव्यप्रजापतयः, बुद्धेरह᳚न्कारस्य ज्ञानेन्द्रियकर्मेन्द्रियान्तःकरणभेदेन त्रिविधस्य करणजातस्य चाध्यात्माधिभूताधिदैवतानि ज्ञेयानि | तथाहुः- तत्वानि यो वेदयते यथाव- द्गुणस्वरूपाण्यधिदैवतञ्च | विमुक्तपापो गतदोषस᳚न्गो गुणांस्तु भु᳚न्क्ते न गुणैः स भुज्यते || इति || अभिबुद्धिर्बुद्धिक्रियाभिमान इच्छा कर्तव्यता क्रियेति पञ्चाभिबुद्धयः | अभि मुखीबुद्धिरभिबुद्धिः इदं कर्तव्यमित्यध्यवसायो बुद्धिक्रियाः; करोमीत्यह᳚न्कारक्रियाभिमानः, इच्छा वाञ्छा, स᳚न्कल्पो मनसो बुद्धेः क्रिया, शब्दादिविषयालोचनश्रवणादिलक्षणाकर्तव्यता बुद्धीन्द्रियाणां क्रिया, वचनादिलक्षणा कर्मेन्द्रियाणां क्रिया | एवमेताः पञ्चाभिबुद्धयः || धृतिः श्रद्धा सुखाविदिषा विविदिषेति पञ्च कर्मयोनयः | ताश्च-
SK
पृ० २२६) वाचि कर्मणि संकल्पे प्रतिष्ठां याभिरक्षति | तन्निष्ठा तत्प्रतिष्ठा च धृतेरेतद्धि लक्षणम् || अनसूया ब्रह्मचर्यं यजनं याजनं तपः | दानं प्रतिग्रहो होमः श्रद्धाया लक्षणं स्मृतम् || सुखार्थी यस्तु सेवेत विद्याकर्मतपांसि च | प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्तिता || विषधूममूर्छितवदविदिषा | विविदिषा च ध्यायिनां प्रज्ञायोनिः | तदाहुः- एकत्वञ्च पृथक्त्वञ्च नित्यञ्चेदमचेतनम् | सूक्ष्मसत्कार्यसंक्षोभ्यं ज्ञेया विविदिषा हि सा || इति || कार्यकारणक्षयकरी विविदिषा प्राकृतिकी वृत्तिः | धृतिः श्रद्धा सुखाविदिषा च चतस्रो बन्धाय, विविदिषा मोक्षायेति कर्मयोनयः || प्राणोऽपानः समानश्चोदानाख्यो व्यान एव च | इत्येते वायवः पञ्च शरीरेषु शरीरिणाम् || मुखनासिकयोरधिष्ठाता वायुः प्राणनात्प्रक्रमणाच्च प्राणः, अपनयनादधोगमनाच्च नाभेरधिष्ठाता वायुरपानः, समानयनात्सममननाच्च हृदधिष्ठाता वायुः समानः, ऊर्ध्वगमनादुत्क्रमणाच्च कण्ठाधिष्ठाता वायुरुदानः, विक्षेपणाद्विजृम्भणाच्च सन्ध्यधिष्ठाता वायुर्व्यानः | ते पञ्च वायवः || वैकारिकस्तैजसो भूतादिः सानुमानो निरनुमानश्चेति पञ्चकर्मात्मानः शुभकर्मकर्ता, अशुभकर्मकर्ता, मूढकर्मकर्ता, शुभमूढकर्मकर्ता, अशुभमूढकर्मकर्ता चेति क्रमेण वेदितव्यम् | तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्रश्चेति पञ्चपर्वाविद्या | तमो नामाष्टसु प्रकृतिष्वव्यक्तबुध्यह᳚न्कारपञ्चतन्मात्रसंज्ञितास्वनात्म-
SK
पृ० २२७) स्वात्मज्ञानाभिमानस्ततोऽष्टधाणिमाद्यष्टगुणैश्वर्यप्राप्तयेऽभिमानो ऽष्टधामोहः | दृष्टानुश्रविकेषु दशसु विषयेषु निवृत्तेषु मुक्तोऽहमित्यभिमानो दशधा महामोहः | अणिमाद्यष्टैश्वर्यदशविधविषयशब्दादिप्रतिहतस्य दुःखोदयोऽष्टादशधा तामिस्र इत्युच्यते || अष्टैश्वर्येषु विषयेषु च सिद्धे मरणकाले विषादोऽष्टादशधान्धतामिस्र इत्युच्यते | एवमेषा पञ्चपर्वाविद्या चतुष्षष्टिधा भवति | एकादशेन्द्रियवधाः सप्तदशबुद्धिवधाः | सैषाष्टाविंशतिधा शक्तिः | यथा- श्रोत्रे बाधिर्य्यम्, जिह्वायां जाड्यं, त्वचि कुष्ठम्, चक्षुष्यान्ध्यम, नासिकायामघ्राणता, वाचि मूकत्वम्, पादयोः प᳚न्गुत्वम्, हस्तयोः कुणित्वम्, पायावुदावर्तत्वम्, उपस्थे क्लैब्यम्, मनस्युन्मादः | अथ सप्तदशबुद्धिवधाः- तास्तुष्टिविपर्ययाः | यथा-नास्ति प्रधानमिति प्रतिपत्तिरनन्ता, एवमहमज्ञ इत्यज्ञानतामसलीला, तथाह᳚न्कारस्यादर्शनमारोप्येणैव सन्ति पञ्चतन्मात्राणि भूतकारणानीत्यदृष्टिः, शर्वं खल्विदं ब्रह्मे�ति वेदान्तोक्तविषयाणां प्रवृत्तिरनुत्तरा, रक्षणेतु प्रवृत्तिः सुपारा, क्षये दोषमपश्यतो धने प्रवृत्तिरनुनेत्रा, भोगशक्तिः समारित्वका, हिंसादिदोषमपश्यतो भोगारम्भोऽनुत्तमाम्भसिका || अथाष्टधा सिद्धिविपर्ययाः- नानात्वमोहमानसैकत्वमाविर्भूतमतारमुच्यते; शब्दमात्रश्रवणाद्विपरीतग्रहणमसुतारम्, यथा नानात्वज्ञो मुक्त इति; श्रुत्वा विपरीतप्रतिपन्नो नानात्वज्ञोह्यमुक्त इत्यध्ययनश्रवणाभिज्ञानिविष्टस्यापि जडत्वादसच्छास्त्रोपहतत्वाद्वा पञ्चविंशतितत्वज्ञानसिद्धिर्न भवति तदज्ञानमतारतारम् | कस्यचिदाध्यात्मिकेन दुःखेनाभिभूतस्यापि संसारेऽनुद्वेगादजिज्ञासोर्न ज्ञानसिद्धिः | तदज्ञानमप्रमाणम् | एवं प्रमुदितं आमोदमानं चानयोर्द्रष्टव्यम् | सुहृदुपदिष्टेऽप्यनिश्चयबुद्धिरज्ञानमरम्यकमसम्यग्वचनमपि | परा᳚न्मुखैः गुरौ दुर्भगस्य न ज्ञानसिद्धिः, तदज्ञानमसदाप्रमुदितम् | एवमेताः सिद्धिविपर्यया असिद्धयोऽष्टौ विज्ञेयाः | तथा
SK
चतुष्षष्टिसिद्धिविपर्यायाः सप्तदशबुद्धिवधा एकाद-
SK
पृ० २२८) शेन्द्रियवधाश्चेत्यशक्तिरष्टाविंशतिधा वर्णिता | अथ नवधा तुष्टिः- प्रकृतिं परमार्थत्वेन प्रतिपद्य परितुष्टो माध्यस्थ्यं लभते | तस्यास्तुष्टेरम्भ इति तान्त्रीकी संज्ञा सम्भवति | अपरो बुद्धिं परमार्थत्वेन प्रतिपद्य परितुष्टः, तस्यास्तुष्टेः सलिलमिति संज्ञा | अन्योऽह᳚न्कारं परमार्थत्वेनाभ्युपगम्य परितुष्टः, तस्यास्तुष्टेराप इति संज्ञा | इतरस्तन्मात्राणि भोग्यानि परमार्थत्वेन निश्चित्य परितुष्टः, तस्यास्तुष्टेर्वृष्टिरिति संज्ञा | एवमाध्यात्मिकाश्चतस्रस्तुष्टयः | एतासु चतुर्ष्वपि नास्ति मोक्षः, तत्वज्ञानस्याभावात् | बाह्यास्त्वर्जंनरक्षणक्षयस᳚न्गहिंसादोषदर्शनाद्विषयोपभोगाः पञ्च तुष्टयो भवन्ति | अर्थानामार्जनदोषदर्शनात्प्रव्रजितस्तुष्टः | तस्य न मोक्षः, तत्वज्ञानाभावात्; सा पञ्चमी तुष्टिः सुतेत्यभिधीयते | अन्योऽर्थानां रक्षणदोषदर्शनात्प्रव्रजितस्तुष्टः | तस्यापि न मोक्षः, तत्वज्ञानाभावात्; सा षष्ठी तुष्टिः सुपरेत्यभिधीयते | अन्योऽर्थानां क्षयदोषदर्शनात्प्रव्रजितस्तुष्टः | तस्यापि न मोक्षः, तत्वज्ञानाभावात्; सा सप्तमी तुष्टिः सुनेत्रेत्यभिधीयते | अन्योऽर्थानां स᳚न्गदोषदर्शनान्निवृत्तस्तुष्टः | तस्यापि न मोक्षः, तत्वज्ञानाभावात्; साष्टमी तुष्टिः कुमारीचक्रकेत्यभिधीयते | अन्योऽर्थभूतानामर्थनिमित्तहिंसादिदोषदर्शनान्निवृत्तस्तुष्टः | प्रव्रजितस्यापि तस्य न मोक्षः, तत्वज्ञानाभावात्, सा नवमी तुष्टिरुत्तमाम्भसिकेत्यभिधीयते | इति नवतुष्टयः || अथाष्टसिद्धयः- तत्वभावभूतेषु यच्छब्दमात्रस्य श्रवणं सा प्रथमा तारा | तत्वभावभूतेषु यदर्थस्याग्रहणं सा द्वितीया सुतारा | यदाध्यात्मिकस्य दुःखस्यापनोदं कृत्वा तत्वभावभूतेषु ज्ञानमुत्पद्यते सा च तृतीया सिद्धिस्तारतारेत्युच्यते | यदध्ययनेन ज्ञानमुत्पद्यते तत्वभावभूतेषु सा चतुर्थी सिद्धिः प्रमोद इत्युच्यते | यदाधिभौतिकस्य दुःखस्यापनोदं कृत्वा ज्ञानमुत्पद्यते तत्वभावभूतेषु सा पञ्चमी सिद्धिः प्रमुदितेत्युच्यते | यदाधिदैविकस्य
SK
दुःखस्यापनोदं कृत्वा ज्ञानमुत्पद्यते तत्वभावभूतेषु सा षष्ठी सिद्धिः प्रमोदमानेत्युच्यते | पृ० २२९) यत्स्निग्धसंसर्गव्यपायात् ज्ञानमुत्पद्यते तत्वभावभूतेषु सा सप्तमी रम्यकेत्यभिधीयते | यत् परिचर्यया दानेन च परितोषिताद्गुरोर्ज्ञानमुत्पद्यते तत्वभावभूतेषु साष्टमी सिद्धिः सदाप्रमुदितेत्युच्यते | एवमेता अष्टसिद्धयः || अथ दशमूलकार्थाः- अस्तित्वमेकत्वमपायवत्वम् पारार्थ्यमन्यत्वमकर्तृता च | योगे वियोगे बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः || अस्यार्थः- स᳚न्घातपरार्थत्वात् पुरुषाणामस्तित्वं सिद्धम् | कृतकृत्याया इव नर्तक्यास्तस्या निवृत्तिरित्यपायवत्वं सिद्धम् | भेदानां परिणामात्कारणमस्य व्यक्तमित्यार्थत्वेन प्रधानस्यास्तित्वं सिद्धम् | हेतुमदनित्यमित्येकत्वं सिद्धम् | नानाविधैरुपायैरिति परार्थत्वं सिद्धम् | त्रिगुणमविवेकिविषय इत्यन्यत्वं सिद्धम् | तस्माच्च विपर्यासादित्यकर्तृत्वं सिद्धम् | पुरुषस्य दर्शनार्थं कैवाल्यार्थं तथा प्रधानस्येति योगसिद्धिः | प्राप्ते शरीरभेदे चरितार्थत्वादिति वियोगसिद्धिः | जननमरणकरणानामित्यादिना पुरुषबहुत्वं सिद्धम् || अथानुग्रहसर्गः- बाह्यान्पञ्चभ्यस्तन्मात्रेभ्यश्चोत्पाद्य, अनुग्रहसर्गध्यानोत्पत्युचितान् पुत्रान् दृष्ट्वा, तेभ्यस्तन्मात्रेभ्योऽनुग्रहसर्गमसृजद्ब्रह्मा | अथ चतुर्विधो भूतसर्गः- तत्राष्ट विकल्पाः- पैशाचं राक्षसं याक्षं गान्धर्वमैन्द्रं प्राजापत्यं सौम्यं ब्राह्ममिति | पञ्च तिर्यग्योनिसर्गः- पशुपक्षिमृगसरीसृपस्थावराः | महिष्यादिमूषिकान्ताः पशवः; गरुडादिमशकान्ताः पक्षिणः; सिंहादिसृगालान्ता मृगाः; शेषाद्यलगर्दान्ताः सरीसृपाः; पर्वतादितृणान्ताः स्थावराः; मानुष्यं चैकविधं ब्राह्मणादिचाण्डालान्तमिति भौतिकसृष्टिः | एतत्संसारमण्डलम् ||
SK
पृ० २३०) अथ त्रिविधो बन्धः- प्रकृतिबन्धो वैकारिकबन्धो दक्षिणाबन्धश्चेति | तत्राष्टधा प्रकृतिः | परत्वेनाभिमन्यमानस्य प्रकृतयः प्रकृतिबन्ध उच्यते | प्रव्रजितानां लौकिकानां वैकारिकेन्द्रियैर्वशीकृतानां शब्दादिषु विषयेषु प्रवृत्तानामजितेन्द्रियाणामज्ञानिनां काममोहितानां वैकारिको बन्ध इत्युच्यते | गृहस्थब्रह्मचारिभिक्षुवैखानसानां कामोपहतचेतसामभिमानपूर्वकारिणां दक्षिणां प्रयच्छतां दक्षिणाबन्ध इत्युच्यते | उक्तञ्च- प्राकृतेन च बन्धेन तथा वैकारिकेण च | दक्षिणाभिस्तृतीयेन बद्धो जन्तुर्विवर्तते || अथ त्रिविधो मोक्षः- ज्ञानोद्रेकादिन्द्रियवागुरोपशमात् कृत्स्नवासनाक्षयाच्च त्रिविधो मोक्षः | उक्तञ्च- आद्यो विमोक्षो ज्ञानेन द्वितीयो रागस᳚न्क्षयात् | कृत्स्नक्षयात्तृतीयस्तु व्याख्यातं मोक्षलक्षणम् || अथ त्रिविधं प्रमाणम्-दृष्टमनुमानमाप्तवचनञ्च | यावदिन्द्रियाणामर्थाः प्रत्यक्षाः तद्दृष्टम् | मेघोदयेन वृष्टिर्बलकादिभिस्सलिलं धूमेनाग्निः साध्यते तदनुमानम् | इन्द्रो देवानां राजा, उत्तराः कुरवः, सौवर्णो मेरुरित्याद्याप्तवचनम् | उक्रञ्च- स्वकर्मणाभियुक्तो यो रागद्वेषविवर्जितः | ज्ञानवान् शीलसम्पन्न आप्तो ज्ञेयश्च तादृशः || अथ त्रिविधं दुःखमाध्यात्मिकमाधिभौतिकमाधिदैविकञ्चेति | तत्राध्यात्मिकं द्विविधम्, शारीरं मानसञ्च | वातपित्तश्लेष्मवैषम्याद्दुःखं शारीरं ज्वरातिसारविषूचिकादि | कामक्रोधलोभमोहेर्ष्यादिकं मानसं दुःखम् | अथाधिभूतेभ्यो भवमाधिभौतिकम् | मनुष्यपशुपक्षिमृगसरीसृपस्थावरेभ्यो यद्दुःखं तदाधिभौतिकम् | अधिदेवेभ्यो भवमाधिदैविकम् | यक्षराक्षसविनायक-
SK
पृ० २३१) ग्रहावेशनिमित्तं दुःखमाधिदैविकम् || एवं त्रिविधेन दुःखेनाभिभूतस्य प्रव्रजितस्य जिज्ञासोत्पद्यते | तया च जिज्ञासया तत्वभावभूतानां विज्ञानम् | ज्ञानोद्रेकादिन्द्रियरागोपशमः | इन्द्रियारामोपशमाच्च कृस्त्नधर्माधर्मक्षयः | धर्माधर्मंक्षयाच्च पुरुषस्य कैवल्यमिति कपिलमुनिप्रणीतः सिद्धान्तः || अत्रोच्यते- शदेव सौम्येदमग्र आसीदेकमेवाद्वितीय� मित्यादिना छान्दोग्योपनिषदा निखिलप्रपञ्चपूर्वकालवृत्तित्वेन कारणत्वेन श्रूयमाणं सत्पदवाच्यं ब्रह्मैव न प्रधानम्, अचेतने प्रधाने तदैक्षतेत्यादिना श्रुतस्य वीक्षणस्योत्पत्स्न्यमानकार्यानुकूलालोचनारूपस्य चेतनधर्मस्योपपादनायोगात् || नन्वचेतनस्य प्रधानस्यैव जगदाकारेण परिणामो युक्तः, न चेतनस्य | परिणामो हि क्षीरस्य दधिभावेनावस्थानवन्मृत्पिण्डस्य घटभाववत् पूर्वभावपरित्यागेन रूपान्तरस्वीकारः | तथाच निर्विकारस्य चेतनस्य परमेश्वरस्य कारणविकृतिरूपः परिणामो युक्त इति न्यायविरोधः | �अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां सृजमानां सरूपा� मिति श्रुत्यन्तरे लोहितशुक्लकृष्णामिति लोहितादिवर्णैरनुमेयायाः सा᳚न्ख्यप्रकृतेरेतत्साजात्येन बहुप्रजाजनकत्वं श्रूयते | तदानुरूप्येणात्रापि सत्पदवाच्यस्य प्रधानस्यैव जगत्पूर्वकालवृत्तित्वेन कारणत्वम् | अत एव तमोराहित्येन रजस्सत्वयोर्योगात् क्रमिकं क्रियाशक्तिमत्वं ज्ञानशक्तिमत्वञ्च युज्यत इति कार्यानुकूलक्रियाज्ञानवत्वरूपं कर्तृत्वं प्रकृते सिद्धम् || ततः श्रुतत्वात्पूर्वोक्तपरिणमनन्यायानुरोधाच्च प्रधानस्यैव जगत्कारणत्वं सिध्यतीति चेन्न, अनुमानमात्रसमधिगम्यत्वादीक्षतिधर्मविरोधात्, परमेश्वरादुत्पन्नायाः षट्त्रिंशत्तत्वेष्वेकत्रिंशत्स्थानीयायाः प्रकृतेरचेतनत्वमिति �चमसवदविशेषादि�ति सूत्रभाष्येषूपपादनाच्च | रजस्सत्वरूपेण क्रियाशक्तिज्ञानशक्तिमत्वेन कर्तृत्वमपि न युज्यते | गुणत्रयात्मिकाया मायायास्तमोविरहेण सत्वरजसोः सम्बन्धायोगात् | नच
SK
पृ० २३२) रजस्सत्वयोरुद्रेके तमसोऽनुद्रेकाद्भेदे सति क्रियाशक्तिज्ञानशक्तिसम्बन्धः प्रधानस्य युज्यत इति वाच्यम्, सत्वरजस्तमसां त्रयाणां गुणानां साम्यावस्था प्रकृतिरित्य᳚न्गीकारात् || यच्चोक्तं निर्विकारस्य चेतनस्य जगदाकारेण परिणामा᳚न्गीकारे विकारित्वापत्तिरिति तदपि न, परमेश्वरस्य नामरूपविभागानर्हज्ञानशक्तिक्रियाशक्तिपरपर्यायसूक्ष्मचिदचिच्छक्तिव् ऐशिष्ट्यं कारणत्वम्; तस्यैवपरमेश्वरस्य नामरूपविभागार्हस्थूलचिदचिच्छक्तिनामकज्ञानक्रियाशालित्वं कार्यत्वम् | तथा च निर्विकारस्य परिणमनायोग इति परास्तम् | अयमेवाद्वैतिभ्योऽस्माकं विशेषः || ननु शदेव सौम्येदमग्र आसी�दित्यादावेव कारेण वस्तुनि सन्मात्रे निर्विशेषत्वमवधार्यते | तथा च कारणावस्थायां निर्विशेषत्वे सति कथं सूक्ष्मप्रपञ्चवैशिष्ट्यमवगम्यत इति चेन्न, सदेवेत्येवकारो न सदात्मके ब्रह्मणि विशेषव्यवच्छेदफलकः | किन्तु �असद्वा इदमग्र आसीत् | ततो वै सज्जायते�त्यादिना श्रुतस्यासत्कारणवादस्य व्यवच्छेदकः | अपि च सदेव सौम्येदमग्र आसीदित्यादौ न निर्विशेषत्वम् | आसीदिति क्रियाविशेषोऽवगम्यते, अग्रशब्देन कालविशेषोऽभिधीयते, एकमेवेत्यवधारणमहिम्ना प्रपञ्चस्य अधिष्ठात्रन्तरव्यवच्छेदेन कर्त्तन्तरं निषिध्यते, अद्वितीयपदेन जगदुपादानकारणत्वमवगम्यते || कार्यात्पूर्ववर्तिन एकत्वाश्रयस्य कारणत्वप्रतिपादनौचित्यात् | अत एव सर्वज्ञत्वसर्वशक्तिमत्वरूपविशेषमन्तरेणाभिन्ननिमित्तोपादानत्वरूपोभ् अयकारणत्वायोगात्सर्वज्ञत्वमनन्तशक्तिमत्वञ्च सिध्यति || किञ्च प्रपञ्चपूर्वकालवर्तिनोऽस्य सत्पदवाच्यस्य प्रकृत्यर्थप्रत्ययार्थरूपस्य धर्मधर्मिभावेनोभयात्मकत्वमन्तरेणैकवस्तुपरत्वं नोपपद्यते | प्रकृत्या प्रत्ययेन च सत्पदवाच्यस्य वस्तुद्वयप्रतिपादनपरत्वौचित्यात् | श्हक्तिः शिवश्च सच्छब्दप्रकृतिप्रत्ययोदितौ | चिद्ब्रह्मसामरस्येन समस्त- जगदात्मका� विति स्मरणात् | सूक्ष्मचिदचिदपरपर्यायज्ञानक्रियाविशिष्टं
SK
लि᳚न्गतत्वमेव निखिलजगदभिन्ननि-
SK
पृ० २३३) मित्तोपादानकारणं सत्पदवाच्यमिति वस्तुस्थितिः || ननु निखिलजगदालोचनारूपस्येक्षणस्याचेतने प्रधानेऽसम्भवाच्चेतनमेव जगत्कारणमित्युपपन्नम् | समनन्तरसन्दर्भेण �तत्तेज ऐक्षत, ता आप ऐक्षत, बहुस्यां प्रजायेये�ति श्रुतौ तेजस अपां श्रूयमाणं गौणमीक्षणमीव सत्पदेन प्रधानस्यैव गौणेक्षणसम्भवादिति चेन्न, श आत्मा तत्वमसि श्वेतकेतो� इत्युपसंहारदशायां चेतनवाचिन आत्मशब्दस्य श्रवणात् | तेजस्यप्सु च न गौणमीक्षणम् | किन्त्वभिन्ननिमित्तोपादानकारणस्य लि᳚न्गतत्वस्यानुवृत्तेस्तदभिप्रायेण मुख्यमेवेक्षणम् | तथा च चेतनकर्तृकं गौणमीक्षणमभ्युपगम्य सद्द्रूपमचेतनं जगत्कारणमित्युपपादनमयुक्तम्, ईक्षणकर्तुरुपसंहारदशायामात्मशब्देन चेतनत्वप्रतिपादनात् || ननु जीव एव सत्पदवाच्यः सन् जगत्कारणमिति चेन्न, �तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्य� इति सत्पदवाच्यविषयकानुसन्धानवन्मोक्षस्योपदेशात् | जीवाद᳚न्गतत्वाद्भिन्नमेव लि᳚न्गतत्वं जगत्कारणमिति वस्तुस्थितिः || किञ्च जीवनिष्ठस्य मोक्षो न प्रधानकारणवादोऽभिमतः | स आत्मा तत्वमसीति सत्पदवाच्याभेदः मोक्ष इत्युपदिश्यते | स च लि᳚न्गनिष्ठायैव भाव्यः | अपि चैकविज्ञानेन सर्वविज्ञानं प्रतिज्ञायते | सत्पदवाच्यलि᳚न्गतत्वज्ञानात्तत्कार्यतया निखिलचेतनाचेतनवस्तुविषयकज्ञानं भवतीति �येनाश्रुतं श्रुतं भवति, अमतं मतमविज्ञातं विज्ञात� मित्यादिनाभिधीयते | प्रधानस्य जगत्कारणत्वे तन्नोपपद्यते | चेतनात्मकस्य प्रपञ्चस्य जडप्रधानकारणत्वायोगात् | ननु जडस्य प्रधानस्य जगत्कारणत्वे विज्ञाते जडविकारास्पदं तत्कार्यमपि सर्वं विज्ञायते, मृदि ज्ञातायां तत्कार्यघटादौ मृण्मय इति ज्ञानवदितिचेन्न, श्वप्नान्ते मे सौम्य विजानीही� त्युपक्रम्य, �यत्रैतत्पुरुषः स्वपिति नाम सता सौम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याक्षते स्वं ह्यपीतो भवती� त्यन्तेन श्रुतिवाक्येन सता
SK
सम्पन्नस्य स्वस्य तस्मिन्नपि यः प्रलयोऽभिहितः पृ० २३४) स चाचेतने प्रधाने न सम्भवतीति चेतनं लि᳚न्गतत्वमेव सच्छब्दवाच्यम् | अतेव �पुरुषो वै रुद्रः सन्महो नमः नम� इत्यादौ लि᳚न्गतत्वमेवाम्नायते | किञ्चात्मनः आकाश इत्यादिना उपसंहारात्सत्पदवाच्यस्य जगत्कारणत्वं तथैवाम्नायते | तस्माज्जडप्रकृतेर्जगत्कारणत्वायोगात् सत्पदवाच्यस्य चेतनस्यैव जगत्कारणत्वमिति निर्विवादम् || इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्बोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलाभिन्नषट्स्थलतत् वबोधसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यमरितोण्टदार्यविरचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्यकेलदिसदाशिवराय नायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द्रधर्मपत्नी मल्लाम्बाहृदयानन्दबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे सा᳚न्ख्यमतनिरूपणतन्निराकरणप्रकारो नाम त्रयोदशं प्रकरणम् || पृ० २३५) वीरशैवानन्दचन्द्रिकायां वादकाण्डे चतुर्दशं प्रकरणम् || श्रीमद्गुरो ततः किं वा प्रक्रान्तं भृ᳚न्गिणा वद | यद्दूषितं शीलवता तदपि त्वमुदीरय || वदामि भूपालक भृ᳚न्गिणा यत् प्रक्रान्तमित्थं हि मतं विविच्य | यद्दूषणं तत्र च शीलिनोक्तं तत्तत्समाकर्ण्य भव प्रहृष्टः || अव्यक्तसंज्ञा प्रकृतिर्जगत्याः कर्त्रीति पक्षः स मयोदितो यः | दोषैर्न्निरस्तो भवताद्यशीलिन् नाचेतनस्यास्ति हि कर्तृतेति || या शक्तिराद्या त्रिपुरेत्युमेति श्रुतिप्रसिद्धा जगदम्बिकेति | तामेव सृष्ट्यादिमकृत्यकर्त्रीं ब्रुवन्ति येतन्मतमीरयामि || पृ० २३६) तद्दूष्यते शाक्तमतं कथं वा पश्यामि युष्मत्प्रतिभाविशेषम् | पूर्वोक्ततत्तन्मतवच्च शीलिन् नापाततो दूषणयोग्यमेतत् ||
SK
यतोवेत्याद्यनेकस्मृतिनिचयप्रतिपादितजगदाविर्भावहेतुभूतं किमिति जिज्ञासमाना बहुधेशाधीनेनैवतत्वेनामनन्ति || तत्राद्वितीयानिर्वाच्यशक्तिभाजामेव तेषां स्रष्टृत्वादिकं घटते नान्येषामिति बहुधा श्रुत्यागमादिप्रतिपाद्या परमेश्वर्येव निखिलजगद्धेतुत्वेन प्रतिपाद्यते | तथाहि- श्रीनवार्णोपनिषदि श्रूयते- शर्वे वै देवा देवीमुपतस्थुः | काऽसित्वं महादेवीति | साऽब्रवीदहं ब्रह्मस्वरूपिणी | मत्तःप्रकृतिपुरुषात्मकं जगच्छून्यं चाशून्यं चाहमहमात्माहमखिलं जग�दित्यादिना परब्रह्मरूपत्वस्य कार्यभूतप्रपञ्चप्रविष्टपरमेश्वर्युत्पादकत्वस्यापि श्रवणात् | न च प्रकृत्यवच्छिन्नः परमेश्वर एव जगत्कर्ता, न केवला परा शक्तिरेवेति वाच्यं, �मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वर� मिति प्रकृत्यवच्छिन्नेश्वरस्यापि जनकत्वं श्रुत्या प्रत्यपादीति तदनुपपत्तेरभावात् | किञ्च मार्कण्डेयपुराणे सप्तशत्याम्- सा चाह धूम्रजटिलमीशानमपराजिता | दूत त्वं गच्छ भगवन् पार्श्वे शुम्भनिशुम्भयोः || ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ | त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः || इत्याद्यारभ्य- यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् | शिवदूतीति लोकेऽस्मिन् ततः सा ख्यातिमागता || इत्यादिना शिवस्य भगवतीदूतत्वप्रतिपादनाच्च | किञ्च तत एव
SK
पृ० २३७) देव्या �एकैवाहं जगत्यत्र द्वितीया का ममापरे� ति स्वस्या अद्वितीयत्व प्रतिपादनाच्च | न च द्वितीया का ममापरेत्यनेन स्त्रीलि᳚न्गापराशब्देन स्वभिन्नशक्तेरेवाभावः प्रतीयते न शिवादिपुरुषव्यक्तेरिति वाच्यम्, ङपुंसकं पुमान् स्त्र्यस्मि स्थावरोऽस्म्यथ ज᳚न्गम� इति श्रुत्या स्त्रीत्वपुंस्त्वाद्यविच्छिन्नवस्तुजातस्य स्वानतिरेकप्रतिपादनात् | न च नारायणोपनिषदादौ तस्य सर्वगत्वं प्रतीयत इति तद्विरोध इति वाच्यम्, �या ब्रह्मादिपिपीलिकान्तजननी�त्यादिना सर्वान्तर्गतविष्णुमातृत्वस्यापि श्रवणात् | �या देवी सर्वभूतेषु मातृरूपेण संस्थिते�ति वचनाच्च | अपिच �विसृष्टौ सृष्टि रूपा त्वं स्थितिरूपा च पालने | तथा संहृतिरूपान्ते जगतोऽस्य जगन्मयी� ति ब्रह्मणैव देव्या सृष्टिस्थितितिरोभावादिकर्तृत्वप्रतिपादनाच्च | न च तद्ब्रह्म यतो विवर्तते जगदिति सामान्यतः नियन्तृत्वं किं परमवसेयमिति न नियम मिति वाच्यं, श्रूत्या पूर्वतन्त्रस्थप्रथमाध्याये नामधेयपादे �अक्ताः शर्करा� इत्यधिकरणे द्रव्यद्रव्यस्याञ्जनयोग्यतया घृततैलवसानामन्यतमेनाञ्जनमिति प्राप्ते �तेजो वै घृत� मिति वाक्यशेषेण घृतपरत्ववत्, सर्वस्यापि देवीपरत्वात् | किञ्च श्रुत्या कर्तृत्व- स्यान्यपरतया प्रतिपादितस्यागमः प्रमाणम्, तादृशश्रुत्यात्मकत्वञ्च देव्या एव | �या देवी सर्वभूतेषु श्रुतिरूपेण संस्थिते� ति प्रतिपादनात् | तथा च विष्णवादिकर्तृत्वस्य श्रुतिरूपया देव्यैव प्रतिपादनमर्थवादरूपम᳚न्गीकरणीयं, स्वतन्त्रत्वात् | अनुमानमप्यत्रप्रमाणम्- इदं जगद् देव्यैककर्तृजन्यं तदितराजन्यत्वे सति तज्जन्यत्वात् | यथा दहनेतराजन्यो धूमो दहनमात्रजन्य इत्यादि बहुविचारणीयं विस्तरभयादुपरम्यत इति पूर्वपक्षः | अत्रोच्यते- यत्तावदुक्तं नवार्णोपनिषद्वचनमेव शक्तेः कर्तृत्वे मानमिति तन्न, तत्रैव �मम योनिरप्स्वन्तः समुद्र� इति | अनेन मम योनिर्मम कारणभूतः परमेश्वरः अप्स्वन्तरुदकमध्ये वर्तत इति प्रतिपादनेन देव्या अस्वतन्त्रत्व
SK
प्रतीतेः | किञ्चेशानस्य देवीदूत- पृ० २३८) त्वेऽपि शिवस्य देव्यधिष्ठातृत्वे बाधकाभावात् | �ईशानो जटिलः शम्भुस्तपश्यन्तमुपान्तिके | तं प्राह भगवान् शम्भुः पुत्र रक्ष मदालयम् | आनन्दकाननं नाम मम प्रेमविवर्धन� मित्यादिना, स ईशानः परमेश्वरेणैव मुक्तः सन् तत्र महालि᳚न्गं प्रतिष्ठाप्य तत्र तपः परमं ततापेति बहुधा ज्ञानवापीप्रशंसायां काशीखण्डेऽभिधानेनेशानाख्यागणविशेषपरत्वात् | न च सृष्ट्यादिकर्तृत्वं विरुद्धमिति वाच्यम् �मदधीना महाभागे मद्वीर्यपरिबृंहिता | सृज सर्वमिदं प्राग्वत्प्राणिजातं स्वकर्मत� इति शिवस्य वचनेनैव प्रेरिताया भगवत्याः सृष्टिहेतुत्वसम्भवात् | न चाधिकरणविरोधः, एवं सकलश्रुतीनां देवीपराणामन्यथात्वे सिद्धे तासामपीश्वरपरत्वे बाधकाभावात् | न चानुमानं प्रमाणम्, तदितराजन्यत्वस्यासिद्धत्वेनासिद्धिहेत्वाभासान्तर्गतत्वात्, शक्तिविशिष्टपरमेश्वरादेव जगदुत्पत्तिश्रवणाच्च | शिवस्य जगन्निर्मातृत्वे तु बहूनि प्रमाणानि सन्तीति सर्वमुपपन्नमिति सिद्धान्तः || इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्भोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थ लसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यमरितोण्टदार्यविरचिते यडवमुरारिकोटे कोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधीश्वरविशुद्धवैद् इकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्य केलदिसदाशिवरायनायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द् रधर्मपत्नीमल्लाम्बाहृदयानन्दबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे शक्तिमतनिरूपणतन्निराकरणप्रकारो नाम चतुर्दशं प्रकरणम् || पृ० २३९) वीरशैवानन्दचन्द्रिकायां वादकाण्डे पञ्चदशं प्रकरणम् ||
SK
शाक्ताभिधस्य भवताद्य गुरो मतस्य संस्थापनं तदुपरीरितदूषणञ्च | आसीत्प्रदर्शितमहर्षि मया निशम्य तत्त्वं वदेह यदनन्तरभावि वृत्तम् || राजन्नुपाक्राम्यत भृ᳚न्गिणा य- न्मतं ततः शीलवताप्यदूषि | वदामि तत्ते क्रमतो विशिष्य विभावय त्वं विमलात्मबुद्धे || मतान्तरस्था अपि शक्तिमन्तं विना जगत्कारणतां न शक्तेः | ब्रुवन्ति सर्वे परमेक एव त्वमेवमात्मा सदृशी मतिस्ते || ईदृक्षवन्यन्मतमाशु भृ᳚न्गिन् सविस्तरं ब्रूहि विलोकयामि | पृ० २४०) मतेषु सर्वेष्वपि निर्निरोध- विचारसामर्थ्यविशेषमस्मिन् || ब्रवीम्यहं तादृशमेव शीलिन् ज्ञानं तथेच्छा कृतिरित्यमी च | सर्वज्ञतापीष्यत एव यत्र मते महानीश्वर एव कर्ता ||
SK
गौतमीयमतानुसारिणस्त्वित्थमाहुः- �प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादज् अल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्वज्ञानान्निश्रेयसाधिगम� इति न्यायस्यादिमं सूत्रम् | यत्र यदस्ति तस्य तत्तत्वम् | तद्ज्ञानमुद्देशादित्रिकाधीनम् | उद्देशस्तु लक्ष्यतावच्छेदकमात्रप्रकारकप्रतीति जनकः शब्दः | लक्षण वाक्ये च वाक्यार्थज्ञानस्य लक्ष्यतावच्छेदकातिरिक्तप्रकारकतया नातिप्रस᳚न्गः | न च लक्षणवाक्यान्तर्गतलक्ष्यभागेऽतिव्याप्तिः, तस्याप्युद्देशत्वात् | अतेव प्रतिलक्षणमुद्दिष्टा एव धर्मिण इति टीका | नचैवं पृथगुद्देश्यवैयर्थ्यं न्यूनाधिकस᳚न्ख्याव्यवच्छेदतात्पर्यकत्वात् | यद्वा लक्ष्यणाभिधानप्रयोजकजिज्ञासाजनकः शब्द उद्देश इति | लक्ष्यतावच्छेदकसमनियतधर्मवचनं लक्षणम् || लक्षणोपपत्त्यनुपपत्यन्यतरफलको विचारः परीक्षा || तत्र प्रमाकरणं प्रमाणम् | यथार्थनुभवः प्रमा | विशेष्यावृत्यप्रकारकं ज्ञानं यथार्थम् | यथा घटोऽयमिति | अत्र हि ज्ञाने विशेष्यो घटः | तदितरवृत्तिपटत्वादिकं तत्प्रकारकत्वमत्रनास्ति, घटत्वस्यैवात्र प्रकारत्वात्, तस्य च घटवृत्तित्वात् | इदं रजतमिति भ्रमे विशेष्यभूतशुक्तिकाशकलावृत्तिरजतत्वं प्रकार एवेति नातिव्याप्तिः || प्रकारत्वञ्च भासमानवैशिष्ट्यप्रतियोगित्वम्, तच्च प्रतीयमानविशेषणविशेष्यसम्बन्धः, तदधीनप्रतीतिविषयत्वम् || अनन्यथा सिद्ध-
SK
पृ० २४१) नियतपूर्ववृत्तिजातीयत्वं कारणत्वम् | अरण्यस्थदण्डादावव्याप्तिवारणाय जातीयपदम् | तद्रासभेऽतिव्याप्ति वारणाय अनन्यथासिद्धपदम् | अनन्यथासिद्धत्वञ्चान्यथासिद्धिविरहः | अन्यथासिद्धिस्त्रिधा-येन सहैव यस्य पूर्वभावो गृह्यते तस्य तेनान्यथासिद्धिः | यथा तन्तुना तन्तुरूपस्य, दण्डेन च दण्डत्वस्य | अन्यत्र कऌप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतत्वमपरान्यथासिद्धिः | यथा एतद्घटं प्रत्येतद्रासभस्य | एतद्घटत्वावच्छिन्नादन्यत्र घटान्तरे कॢप्तपूर्ववर्तिदण्डादेरेवैतद्घटसम्भवात् | अन्यं प्रति पूर्ववर्तित्वे ज्ञात एव यस्यान्यं प्रति पूर्वभावोऽवगम्यते तं प्रति तस्यान्यथासिद्धिः | यथा घटं प्रत्याकाशस्य | तथाहि घटं प्रत्याकाशस्य कारणत्वमाकाशत्वेन ग्राह्यम् | आकाशत्वञ्च न जातिः, तस्यैकवृत्तित्वात् | किन्तु शब्दसमवायिकारणत्वमाकाशत्वम् | कारणत्वञ्च कार्यनियतपूर्ववर्तित्वघटितम् | एवञ्च शब्दं प्रति पूर्ववर्तित्वे गृहीत एव घटं प्रति पूर्ववर्तित्वग्रहादन्यथासिद्धिः | तच्च कारणं त्रिविधम् | समवायिकारणासमवायिकारणनिमित्तभेदात् | यत्समवेतं कार्यमुत्पद्यते तत्समवायि कारणम् | यथा तन्तवः पटस्य | कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति यत्कारणं तदसमवायिकारणम् | यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य | तदुभयभिन्नं कारणं निमित्तकारणम् | यथा तुरीवेमादिकं पटस्य | तानि च प्रमाणानि चत्वारि, प्रत्यक्षानुमानोपमानशब्दभेदात् | तत्र ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् | तद्द्विविधम्-सविकल्पकं निर्विकल्पकमिति | तत्र सप्रकारकं ज्ञानं सविकल्पकम् | निष्प्रकारकं ज्ञानं निर्विकल्पकम् | तत्करणमपि प्रत्यक्षं षड्विधम् | घ्राणरसनचक्षुःश्रोत्रत्व᳚न्मनोभेदात् | गन्धरसरूपशब्दस्पर्शसुखादीनि क्रमेण विषयाः | संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायो, विशेषण-
SK
पृ० २४२) विशेष्यभावश्चेति प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः | तदेवं व्याख्यातं प्रत्यक्षम् || व्याप्तिप्रकारकपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिः | तत्करणमनुमानम् | प्रतियोग्यसमानाधिकरणसाधनाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसाम अनाधिकरण्यं व्याप्तिः | तदनुमानं त्रिविधम् | अन्वयव्यतिरेकिकेवलव्यतिरेकिकेवलान्वयिभेदात् | यथा पर्वतो वह्निमान् धूमात् | जीवच्छरीरं सात्मकं प्राणादिमत्वात् | घटोऽभिधेयः प्रमेयत्वादिति च | इत्यनुमानम् || गोसादृश्यविशिष्टपिण्डज्ञानादिकमुपमितिः | उपमितिकरणमुपमानम् || स्वार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणम् | पदज्ञानं करणम् | पदार्थस्मरणं व्यापारः | वाक्यार्थज्ञानं फलम् | आका᳚न्क्षायोग्यतासन्निधिश्च सहकारिणः | शब्दो द्विविधः | लौकिकोऽलौकिकश्च | यथा गोष्ठे गावः, ज्योतिष्टोमेन स्वर्गकामो यजेतेति च | अर्थापत्त्युनुपलब्धिसम्भवेत्यादीनां यथायथमेतेष्वन्तर्भावो मूलग्रन्थे स्पष्टः | आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गा स्तु द्वादशविधं प्रमेयम् | तत्रात्मत्वजातिमानात्मा | स द्वेधईशोऽनीशश्च | नित्यज्ञानवानीशः | अनित्यज्ञानवाननीशः | ज्ञानजनकमनस्संयोगवद्वृत्यन्त्यावयविमात्रवृत्तिजातिमच्छरीरम् | द्रव्यानाराम्भकं द्रव्यवत्सावयवि शरीरं द्विविधम्-योनिजमयोनिजञ्च | शुक्रशोणितसन्निपातजमस्मदादीनां योनिजम् | तदनपेक्षमयोनिजं देवर्षिनारदादीनाम् | स्मृत्यजनकज्ञानकरणमनःसंयोगाश्रयत्वमिन्द्रियत्वम् | तच्च षड्विधम्-पार्थिवं घ्राणम्, आप्यं रसनम्, तैजसं चक्षुः, गगनं श्रोत्रम्, वायवीयं त्वक्, आत्मग्राहकमिन्द्रियं मनः | रूपरसगन्धस्पर्शशब्दा अर्थाः || वैशेषिकास्तु द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तपदार्था इत्याहुः | गुणाश्रयो द्रव्यम् | तानि पृथिव्यप्तेजोवय्वाकाशकालदिगात्ममनांसि नव | गन्धवती पृथिवी, शीतस्पर्शाश्रयो जलम्, उष्णस्पर्शाश्रयस्तेजः, नीरूपः
SK
पृ० २४३) स्पर्शाश्रयो वायुः, शब्दगुणकमाकाशम्, दिग्विपरीतपरत्वापरत्वानुमेयः कालः, अनियतपरत्वापरत्वानुमेया दिक्, आत्मत्वजातिमानात्मा, सुखाद्युपलब्धिसाधनमिन्द्रयं मनः || गुणास्तु- रूपरसगन्धस्पर्शशब्दस᳚न्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वाप रत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नगुरुत्वद्रवत्वस्नेहसंस्कार धर्माधर्माः | नित्यावृत्तिसत्ताव्याप्यजातिमत्कर्म | उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्चकर्माणि | नित्यमेकमनेकानुगतं सामान्यम् | तच्च परमपरमिति द्विविधम् | अन्त्यो नित्यद्रव्यवृत्तिर्विशेषः | नित्यसम्बन्धः समवायः | भावभिन्नोऽभावो द्विविधः, अन्योन्याभावः संसर्गाभावश्च | अन्त्यस्त्रिविधः, प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावश्चेति | बुद्धिरुक्तामनोप्युक्तमेव | अदृष्टजनकानित्यप्रयत्नः प्रवृत्तिः | प्रवृत्तिर्वाग्बुद्धिशरीरारम्भ इति सूत्रम् | शिवनामस्मरणप्रयत्नो वागारम्भः | शिवस्मरणानुकूलयत्नः बुद्ध्यारम्भः | शिवाभिषेकादिप्रयत्नः शरीरारम्भः | दोषरागद्वेषमोहाः प्रवृत्तिहेतवः | पूर्वदेहविश्लेषानन्तरमुत्तरदेहसंश्लेषः प्रेत्यभावः | फलं पुनर्भोगः | आत्मापवर्गान्यत्वे सति दुःखसम्बन्धिप्रमेयं दुःखम् | दुःखत्वजातिमद्दुःखमिति नवीनाः | स्वसमानाधिकरणदुःखप्रागभावासहवृत्तिः दुःखध्वंसो मोक्षः | इदानीन्तनदुःखध्वंसस्तु भविष्यद्दुःखप्रागभावसमानकालीन एव, नातः संसारितादशायां मुक्तिः | स चायं तत्त्वज्ञानसाध्यः | तत्त्वसाक्षात्कारसामर्थ्याच्च प्राचीनानादिभवसञ्चितधर्माधर्मप्रचयमनियतविपाकसमयमप्यवगत्य परितो विविधकायान्निर्माय तत्कालोपभोगात्प्रतिक्षिणोति | अचिन्त्यसामर्थ्यातिशयो हि समाधिः | तत्त्वज्ञानकर्मणोः समप्राधान्यमिति केचित् | तत्त्वज्ञानद्वारा कर्मणां हेतुत्वमित्यपरे | वस्तुतस्तु तत्त्वज्ञानमेव मिथ्याज्ञानध्वंसद्वारा मोक्षहेतुः | कर्म तु तत्त्वज्ञानजननोपक्षीणत्वेनान्यथासिद्धम् | एकस्मिन् धर्मिणि समानयोर्धर्मयोः
SK
परस्परविरोधावगाहिज्ञानं संशयः | स त्रेधा- समानधर्मजोऽसमानधर्मजो विप्रतिपत्तिजश्च | यदिच्छया प्रवृत्तिस्तत्प्रयोजनम् |
SK
पृ० २४४) तद्द्विविधम्-मुख्यं गौणमिति | आद्यं सुखं दुःखाभावश्च | तत्साधनं गौणम् | व्याप्यव्यापकत्वाभिमतवत्तया निश्चितोऽर्थो दृष्टान्तः | स द्वेधा-साधर्म्यवैधर्म्यभेधात् | उदाहरणे प्रसिद्धे प्रामाणिकत्वेनाभ्युपगतोऽर्थः सिद्धान्तः | स च सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमभेदाच्चतुर्धा | यथा गन्धादय इन्द्रियार्था इति सर्वतन्त्रसिद्धान्तः | तन्त्रान्तरप्रतिकूलोऽर्थः प्रतितन्त्रः | यथा नैयायिकानां शब्देऽनित्यत्वं प्रभाकरैरन᳚न्गीकृतम् | पक्षधर्मताबललभ्योऽर्थोऽधिकरणसिद्धान्तः | यथा क्षित्यादौ सकर्तृकत्वे साधिते ईश्वरे सार्वज्ञ्यम् | परतन्त्रे साधितः स्वतन्त्रेऽधिकृतोऽर्थोऽभ्युपगमसिद्धान्तः | यथा वैशैषिकसाधितस्य मनस इन्द्रियत्वस्य नैयायिकैरभ्युपगमः | अनुमितिचरमकारणलि᳚न्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यं न्यायः | प्रतिज्ञादिपञ्चकवाक्यैरेकवाक्यतया महावाक्यार्थज्ञानम्; ततो धूमविशिष्टे वह्निवैशिष्ट्यमिति मानसं ज्ञानम्; ततो वह्निव्याप्यधूमवानिति मानस लि᳚न्गपरामर्शः; ततोऽनुमितिरिति | न्यायजन्यज्ञानजनकशाब्दज्ञानजनकं वाक्यमवयवः | खण्डवाक्यार्थज्ञानानन्तरं महावाक्यार्थज्ञानाभ्युपगमात् | ते च प्रतिज्ञाहेतूदाहरणोपनयनिगमाः | हेत्व- भिधानप्रयोजकजिज्ञासाजनकं वाक्यं प्रतिज्ञा | पञ्चम्यन्तलाक्षणिकपदवन्न्यायप्रविष्टं वाक्यं हेतुः | दृष्टान्तवचनमुदाहरणम् | परामर्शवचनमुपनयः | लि᳚न्गसम्बन्धप्रयुक्तनिश्चितसाध्यवचनं निगमनम् | व्याप्यारोपेण व्यापकारोपस्तर्कः | अर्थतत्वावधारणं निर्णयः | तत्त्वनिर्णयोद्देशप्रवृत्तकथा वादः | उभयसाधनवती विजिगीषुकथा जल्पः | स्वपक्षस्थापनाहीनो वितण्डा | यद्ज्ञाने सत्यनुमित्यभावनियमस्तद्वत्वं हेत्वाभासत्वम् | ते च सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्चैव | साध्यवन्मात्रवृत्तित्वनिश्चयविरोधिहेत्वाभासतोपाधिमत्वं सव्यभिचारत्वम् | स च साधारणासाधारणानुपसंहारिभेदात्त्रिविधः |
SK
सपक्षविपक्षवृत्तिः साधारणः, यथा शब्दो नित्यः प्रमेयत्वात् | समानबलोपस्थित्या प्रतिरुद्धकार्यकलि᳚न्गत्वं सत्प्रतिपक्षत्वम् | बलञ्च व्याप्तिपक्षधर्मते |
SK
पृ० २४५) यथा क्षित्यादिकमकर्तृकं शरीराजन्यत्वात् | क्षित्यादिकं सकर्तृकं जन्यत्वादिति च | व्याप्तिपक्षधर्मतान्यतरविकलो हेतुरसिद्धः | स च त्रिधा-आश्रयासिद्धस्वरूपासिद्धव्याप्यत्वासिद्धभेदात् | आश्रयासिद्धो यथा- काञ्चनमयी तरुणी सधनस्वामिका, विविधाल᳚न्कारशालित्वात् | स्वरूपासिद्धो यथा- कामिनि करादिमती पुरुषत्वात् | व्याप्यत्वासिद्धो यथा- पर्वतो वह्निमान् नीलधूमात् | सोपाधिकोऽपि व्याप्यत्वासिद्धः | यथा- यागीया हिंसा अधर्मसाधनं हिंसात्वात्, क्रतुबाह्यहिंसावत् | अत्र निषिद्धत्वमुपाधिः | साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः | पक्षे साध्याभावो बाधः, यथा वह्निरनुष्णः कार्यत्वादिति | परतात्पर्याविषयत्वे सति शब्दतात्पर्यसञ्चारेण दूषणाभिधानं छलम् | यथा नवपत्नीको देवदत्त इत्युक्ते एकैवानेन पत्नी बहुतरप्रयासेन लब्धा कुतोऽस्य नवपत्न्य इति | व्याप्तिमपुरस्कृत्य साधकत्वसाधनाभिप्रायेण प्रयुक्तमुत्तरं जातिः | यथा यदि पटसाधर्म्यात् कृतकत्वादयमनित्यस्तदाऽऽकाशसाधर्म्यात् प्रमेयत्वान्नित्य एव कस्मान्नेति | निग्रहनिमित्तं निग्रहस्थानम् | निग्रहः पराजयः | यथा शब्दोऽनित्यः, प्रत्यक्षगुणत्वात्, घटवदिति प्रयुक्ते परेण प्रत्यभिज्ञा- बाधेन दूषिते तु तर्हि घटोऽनित्य इति पक्षपरित्यागः | इत्येवंरूपषोडशपदार्थतत्त्वज्ञानान्मोक्ष इति गौतमीयाः | सप्तपदार्थतत्त्वज्ञानान्मोक्ष इति वैशेषिकाः || अत्र विचार्यते- प्रथमन्तावद्गौतमीयप्रमाणप्रमेयेत्यादि सूत्रोक्तमेवास᳚न्गतम् | तथाहि- आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गा स्तु प्रमेयमिति प्रमेयविभाजकसूत्रान्तर्विभक्तार्थाभिधचतुर्थप्रमेयान्तर्गतत्वात्प्रमा णादीनामितरेषां पञ्चदशानां तदभिमतानां पदार्थानां प्रमेयापेक्षया पृथग्भावाभावेन षोडशत्वस्यासिद्धतया ज्ञानस्य ततोऽप्यसिद्धतया ततश्च मोक्षप्राप्तिर्गगनकुसुमायमाना | किञ्चात्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तीत्यादि
SK
प्रमेयविभाजकसूत्रोक्तमप्यस᳚न्गतम् | आत्मेत्यादिविभजनीयपदार्थान्तर्गते अर्थनामनि
SK
पृ० २४६) प्रमेये आत्मादीनां पूर्वेषां त्रयाणां बुध्यादीनां परेषामष्टानां द्रव्ये गुणरूपाणां प्रमेयाणामुत्तरत्र विभजिष्यमाणानां यथायथमन्तर्भावेणार्थपदार्थविभागादेतत्सूत्रे आनर्थक्येन विभागास᳚न्गतिः | नन्वर्थाः षट्पदार्था इत्यर्थरूपप्रमेयस्वरूपपरविभागज्ञानार्थं प्रमेयसूत्रोक्तानामात्मादीनां पुनर्ग्रहणम् | प्रमेयसूत्रेऽप्युत्तरत्र विभजिष्यमाणानामात्मादीनामुद्देशः, आत्मनश्च व्यतिरिक्तपदार्थापेक्षयेतरभेदज्ञानेन मोक्षयोग्यतयाभ्यर्हितत्वद्योतनाय शतकृत्वोऽपि पथ्यं वदितव्यमिति शबरस्वामिभाष्योक्तन्यायेनोद्देश इति चेन्न | श्रुतिस्मृतिपुराणेतिहासादिभिरात्मनो जडाजडविवेकेनाभ्यर्हितत्वे मोक्षयोग्यत्वे च सिद्धे त्वत्पारिभाषिको विभक्तस्य पुनः पुनर्विभागो वेदवेदा᳚न्गागमाभ्यासप्रत्यूहतया प्रत्यवायकर एव | तथैव रामायणे- �धर्मशास्त्रेषु मुख्येषु मूढाः पण्डितमानिनः | बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ||� इति भगवता बाल्मीकिना प्रतिपादितम् | एतेन प्रथमसूत्रेऽपि प्रमेयसूत्रप्रविष्टानां संशयादीनां पृथग्ग्रहणं तत्त्वावधारणप्रयुक्तवादकथोपयोगित्वेनावश्यकमित्यपि परास्तम् | किञ्च प्रमाणप्रमेयेत्यादिसूत्रे द्वन्द्वसमासानुपपत्तिः | पाणिनिना �चाऽर्थे द्वन्द्व� इति सूत्रेण पदार्थभेदस्थल एव द्वन्द्वसमासानुशासनात् | नच पदार्थभेदाभावेऽपि पदार्थतावच्छेदकभेदमादाय द्वन्द्वः सम्भवतीति वाच्यम्, सरूपाणामेकशेषविधायकसूत्रवैयर्थ्यापत्तेः | घटा इत्यादौ पदार्थभेदेऽपि पदार्थतावच्छेदकस्य घटत्वस्यैकत्वेन तदभावात् | द्वन्द्वप्रवृत्तियोग्यस्थल एव तदपवादस्यैकशेषस्यापि वक्तव्यत्वात् | नच नानार्थस्थले सैन्धवादिपदेषु पदार्थतावच्छेदकभेदसत्वेन तत्रैकशेषसूत्रप्रवृत्तेर्नं सूत्रवैयर्थ्यमिति वाच्यम्, तर्हि द्वन्द्वतदपवादसूत्रयोः क्वचित्पदार्थभेदे क्वचित्पदार्थतावच्छेदकभेदे प्रवृत्तिरित्यननुगममप्य᳚न्गीकृत्य पाणिनिसूत्रमपि
SK
स्वपारिभाषिकषोडशपदार्थसिद्धिप्रतिपादकसूत्रसमाससाधनानुकूलत् अया क्लिष्टगत्या मूढश्रद्धया योजयितुमयुक्तम् || षोडशपदार्थतत्त्वज्ञानादात्मनो मोक्षप्राप्तिरित्युक्तम् | स
SK
पृ० २४७) चात्माऽणुपरिमाणो मध्यमपरिमाणो वा ? नाद्यः | अणुपरिमाणत्वे अप्रत्यक्षतापत्तेः, महत्वाभावात् | नचोद्भूतरूपवत्वे सति बाह्येन्द्रियजन्यप्रत्यक्षं प्रत्येव महत्त्वस्य कारणत्वान्नोक्तदोष इति वाच्यम्, कार्यतावच्छेदकगौरवात्; प्रत्यक्षत्वेन महत्वेन कार्यकारणभावे लाघवात् | तथासत्यात्मनोऽप्रत्यक्षतापत्तिरनिवारिता स्यात् | ननु वायौ महत्वस्य दर्शनेऽपि तस्याप्रत्यक्षत्वात्, जीवस्य बाह्येन्द्रियाप्रत्यक्षत्वेऽप्यन्तरिन्द्रियप्रत्यक्षत्वादणुपरिमाणत्वं सम्भवतीति चेन्न, यत्र महत्वं तत्रावश्यं प्रत्यक्षेण भाव्यमिति न नियमः | किन्तु प्रत्यक्षं प्रति महत्वं कारणमित्युच्यते | तथा चाणौ महत्वाभावान्न प्रत्यक्षतेति | नाऽपि द्वितीयः- मध्यमपरिमाणस्यानित्यत्वेन व्याप्तत्वात् | किन्तु पारिशेष्याद्विभुरिति वक्तव्यम् | कि᳚न्च देशान्तरेयद्द्रव्यमस्मद्भोगायोपपद्यते, तदस्मददृष्टेन जनितमिति वक्तव्यं | अस्मददृष्टस्यास्मदात्मनिष्ठत्वेन तस्य परिच्छिन्नत्वे सति वस्तूत्पत्तिदेशे अदृष्टवदात्मसंयोगाभावात्तद्वस्तुभोगाय कथमुपपद्यते ? तस्माद्वस्तूत्पत्तिदेशेप्यदृष्टवदात्मसंयोगो वक्तव्यः | तेन विभुत्वसिद्धिः | स चान्योन्यसुखदुःखादिवैचित्र्या- त्प्रतिशरीरं भिन्नः, व्यापकत्वान्नित्यः | अहमितिमानसप्रत्यक्षम् | विप्रतिपत्तौ बुध्यादिलि᳚न्गानुमेयः, ज्ञानादिगुणाश्रयः | एतादृशस्यात्मनः षोडशपदार्थतत्त्वज्ञानान्मुक्तिरिति चेन्न, ज्ञानादिगुणानामात्मनश्च भेदो वा स्यादभेदो वा स्यात् | नाऽन्त्यः आत्मनोऽनित्यत्वापत्तेः, अनित्यबुध्याद्यभिन्नत्वात्, व्यापकत्वभ᳚न्गप्रस᳚न्गश्च परिच्छिन्नबुध्याद्यभिन्नत्वात् | नाऽपि प्रथमः भेदे घटपटयोरिव तादात्म्यसम्बन्धाऽसम्भवेन तद्गुणत्वापत्तेर्न ज्ञानादिगुणाश्रयत्वमतो जडत्वमिति | यच्चोक्तमात्मनः प्रतिशरीरं भिन्नत्वं विभुत्वञ्च तन्नोपपद्यते | तथाहि- प्रतिशरीरं भिन्नस्य व्यापकत्वायोगात् | यदि व्यापकत्वं तदा प्रतिशरीरभिन्नत्वं न सम्भवति; व्यापकत्वस्य
SK
सकलमूर्तद्रव्यसंयोगित्वेनोक्तत्वात् | तथा सत्येकस्मिन् शरीरे निखिलात्मसम्बन्धो वक्तव्यः; तन्न सम्भवति यत्रैकः सम्बध्यते
SK
पृ० २४८) तदवच्छेदेनापरः सम्बध्यते वा न वा न चेद्व्यापकत्वभ᳚न्गप्रस᳚न्गः | यदि सम्बध्यते अनन्तानामात्मनामेकत्र संयोगात् शरीरमेवोन्मथ्येत | किञ्चैकस्मिन् शरीरे निखिलात्मसंयोगस्य विद्यमानत्वादेकस्य सुखे सर्वेषां सुकमेकस्य दुःखे सर्वेषां दुःखं स्यात् | सकलशरीरेषु सकलात्मसम्बन्धस्य विद्यमानत्वात्, शरीरावच्छेदेनैवात्मनां सुखदुःखादिदर्शनात् | प्रतिशरीरं मनस्संयोगस्यापि भिन्नत्वान्नभोगसा᳚न्कर्यापत्तिरिति चेन्न, मनस्संयोगस्यापि सर्वेषां तुल्यत्वात् | नच यच्छरीरं यददृष्टेन जनितं तत्तस्यैव भोगायतनमिति नियमान्नभोगसा᳚न्कर्यापत्तिरिति वाच्यम्, एकस्यैव तददृष्टं नान्यस्येत्यत्रापि नियमाभावात् | न चादृष्टोत्पादकं कर्म येन कृतं तस्यैव तददृष्टमिति नोक्तदोष इति वाच्यम्, सर्वात्मसम्बन्धेनोत्पन्नं कर्म एकस्यैव नान्यस्येति नियमासम्भवाद्भोगसा᳚न्कर्यापत्तिर्दुर्निवारैव | किञ्चात्मनां व्यापकत्वे उत्क्रान्तिगत्याद्यनुपपत्तिः | नच लि᳚न्गशरीरस्य यावद्ज्ञानस्थायित्वात्तस्यैवोत्क्रान्तिगत्यादिकम्, आत्मनां तद्वारा तूपचर्यत इति वाच्यम्, �तमेवोत्क्रामन्तं प्राणा उत्क्रामन्ती�ति श्रुत्या आत्मनां प्रथमतो गमनं पश्चात्प्राणोपलक्षितलि᳚न्गशरीरस्य गमन- मुच्यते तद्विरुध्येत | तस्माच्छरीरगतगमनागमनमप्यात्मन्युपचर्यत इत्ययुक्तम् | सात्मन एव गमनागमनं श्रूयते नतु जडस्य केवलं लि᳚न्गशरीरस्य | अतेव �द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ | परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ||� इत्यात्मन एव सूर्यमण्डलभेतृत्वोपपत्तेः | देशान्तरीयभोग्यतरवस्तुनियमस्तु परमेश्वरस्य नियतशक्तिसामर्थ्यवशाद्भवतीत्यग्रे निपुणतरमुपपादयिष्यामः | यच्चोक्तमात्माहमिति मानस प्रत्यक्षविषय इति तत्तुच्छं, तथाहि- मानसप्रत्यक्षविषयत्वं नाम मनोजन्यज्ञानविषयत्वम् | अहमित्येतत्प्रकाशकं मानसं ज्ञानमिति वक्तव्यम्, तथासति तद्भिन्नत्वे सति तद्विषयस्यादृश्यत्वात्; तदभिन्नत्वे
SK
सत्यनित्यतापसिद्धान्ततादोषौ स्यातामिति | किञ्चात्मनस्तावदहमिति मानसज्ञानविषयत्वे ज्ञानस्यात्ममात्रप्रकाशकत्वेना᳚न्गीकृत-
SK
पृ० २४९) त्वात् | एवं घटादिज्ञानानामपि स्वमात्रनिष्ठत्वात् | अतेव परविषयपरस्वरूपान्धप्रायत्वात् | परस्परभिन्नानामपरस्परवेदिनां ज्ञानानामन्योन्यं भेदनं भेदितानाञ्च व्यवसायरूपाणामन्तरनुसन्धानेनानुव्यवसायरूपभेदनमपि न स्यात् | आत्मनो घटवद्ग्राह्यकोटिनिविष्टत्वेन ग्राहकत्वाभावात् | यस्य यस्य ज्ञानविषयत्वं तस्य तस्य जडत्वमिति नियमात् | न च बहिरिन्द्रियजन्यज्ञानविषयस्य घटादेर्जडत्वेऽप्यात्मनस्तदविषयत्वात्, मानसज्ञानमात्रविषयत्वे जडत्वाभावान्नोक्तदोष इति वाच्यम्, तद्विषयत्वेऽपि सुखादेः स्मर्यमाणघटादेश्च जडत्वम्, तथा जडत्वापत्तिर्दुर्निवारैव | इष्टापत्तौ जडस्य घटवत्कदापि समवायेन ज्ञानोत्पत्त्यनधिकरणनियमात् षोडशपदार्थतत्वज्ञानान्मोक्षप्राप्तिः कस्येति न विद्मः || किञ्चात्मनो जडत्वा᳚न्गीकारेऽपि शाक्यप्रयुक्तरीत्या नित्यत्वासत्कल्पत्वदोषौ न जहितः | किञ्चात्मविषयकमानसज्ञानमेव न युज्यते | कुतः मनसस्तावदणुत्वेन निरंशत्वादात्मनो विभुत्वेन निरवयवत्वादनयोर्निरवयवयोः संयोग एव न सम्भवति, संयोगस्याव्याप्यवृत्तित्वनियमात् | तथा चात्ममनस्संयोगासम्भवेन तज्जन्यज्ञानाभावादहमित्यात्मख्यातिरेव न स्यात् | एवं मनस इन्द्रियेण संयोगोऽपि न सम्भवति | संयोगस्य द्विनिष्ठत्वेन मनसो निरंशत्वात् | बाह्यप्रत्यक्षेऽपीन्द्रियसन्निकर्षो नोपयुज्यते | तथाहि- इन्द्रियावयवानामर्थावयविनः, अर्थावयवानामिन्द्रियावयविनः खलु सम्बन्धः | सच न सम्भवति, कुतः इन्द्रियं सावयवं वा निरवयवं वा ? नाद्यः- सावयवं चेदिन्द्रियावयवः सावयवो निरवयवो वा ? तस्यापि सावयवत्वेऽनवस्थाप्रस᳚न्गः | अवयवस्यावयवित्वेन अवयव्यवयविसंयोगो न सम्भवति | एवमर्थावयवस्यापीन्द्रियेण सम्बन्धो न सम्भवति, अर्थावयवस्यापि सावयवत्वेनावयवित्वादुभयोरवयविनोः सम्बन्धाभावात् | तस्मादिन्द्रियार्थयोरवयवा निरवयवाः | पूर्वपूर्वेषामुत्तरोत्तरं प्रत्यवयवित्वेन निरवयवा
SK
इत्येवा᳚न्गीकर्तव्याः | तथा सति निरवयवयोः संयोगो
SK
पृ० २५०) नोपयुज्यते | तस्य व्याप्यवृत्तित्वनियमेनैकदेशवर्तित्वात् | निरवयवयोर्देशकालविभागाभावात् | न द्वितीयः- इन्द्रियं निरवयवं चेदवयवसंयोगस्य वक्तुमशक्यत्वात् | इन्द्रियं तावद्गोलकं विहायार्थप्रदेशं गच्छति वाऽर्थ एव गोलकप्रदेशमायाति वा ? नाद्यः- अन्धबधिरत्वापत्तेः, इन्द्रियस्य गतत्वाद्वेदनाप्युच्छिद्येत | नाऽपि द्वितीयः अरुन्धतीध्रुवमण्डलाद्यर्थस्तु सप्तलक्षयोजनात्क्षणेन गोलकप्रदेशमागत्य पुनर्झटिति गच्छतीति सर्वानुभवविरोधेनायुक्ततरत्वात् | तस्य ध्रुवमण्डलादेः स्वस्थान एव स्थितत्वात् | तस्मादिन्द्रियजन्यं ज्ञानं प्रत्यक्षमित्येतदनुपपन्नमिति मन्तव्यम् | तस्मादेतन्मूलकमनुमानादिकमपि खपुष्पप्रायमिति चिन्तनीयम् | एतेनेश्वरसिद्धिरपि दूरापास्ता, तत्साधकप्रमाणाभावात् | अस्तु तावदनुमानं तथाप्यत्रानुमितिर्न सम्भवति, तस्या व्याप्तिज्ञानसापेक्षत्वात् | तत्स्वरूपस्य ज्ञातुमशक्यत्वात् | तथाहि- लक्षणेन खलु व्याप्तिस्वरूपं ज्ञातव्यम् | लक्षणन्तु सदसद्धेतुसाधारणतयोक्तञ्चेद्व्याप्तिज्ञानमेव न स्यात् | तस्मात्सकलसद्धेतुसाधारण्येन लक्षणं वक्तव्यम्, तथा सति लक्षणकथनात्प्रागुद्देशावसरे सदसद्धेतुविभागज्ञानं विना सद्धेतुगतत्वेन लक्षणकथनं नोपपद्यते, लक्ष्यज्ञानाभावात् | लक्ष्यज्ञानं केन जातमिति विचारे लक्षणेनेति वक्तव्यम् | लक्षणज्ञानार्थं लक्ष्यज्ञानमपेक्षितम् | लक्षणस्य प्रयोजनमितरव्यावृत्ततया लक्ष्यज्ञानमेव | तस्मादन्योन्याश्रयप्रस᳚न्गात् | तत्रापि लक्षणान्तरकथने चक्रकादिदोषः स्यात् | तस्माद्व्याप्तिज्ञानाभावादनुमितिर्न सम्भवति | ननु महानसे धूमवह्न्योः सामानाधिकरण्यस्य भूयो भूयो दर्शनेन व्याप्तिग्रहादनुमितिः सम्भवतीति चेन्न, एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति न्यायेन धूमसम्बन्धिज्ञानाद्वह्निसम्बन्धिस्मृतिरेव, नतु त्वदुक्तरीत्या पूर्वं महानसे यत्र धूमस्तत्राग्निरिति भूयो भूयो व्याप्तिग्रहणपूर्वकं सम्यगनुभूतत्वादनुमितिरिति | नचैवं
SK
चेत्स्मरामीति प्रतीतिः स्यान्नत्वनुमिनोमीति व्यवहार इति वाच्यम्, तादृशव्यवहारस्तु नैयायिकानामेव नतु सर्व-
SK
पृ० २५१) साधारण्येन पामराणां व्याप्तिपक्षधर्मतालि᳚न्गपरामर्शनादिज्ञानाभावान्नानुमिनोमीति व्यवहारः, किन्तु स्मृतिरूपमेवेति सर्वानुभवसिद्धत्वादनवद्यम् | तस्माद्व्याप्तिज्ञानाभावान्नानुमितिः | किञ्च क्षित्यादिकं सकर्तृकं कार्यत्वाद्घटवदित्यनुमानेन किलेश्वरसिद्धिः | केयं सिद्धिर्नाम कारकव्यापारो वा ज्ञापकव्यापारो वा ? नाद्यः-नित्यसिद्धपरमेश्वरे कारकव्यापारासम्भवात् | न द्वितीयः- अपरिच्छिन्नप्रकाशे परमेश्वरे देशकालाद्युपदिष्टपरिच्छिन्नान्तःकरणव्यापारात्मकेनानुमानेन ज्ञापकव्यापारोऽपि न सम्भवतीति | अपि च परिच्छिन्नमानसिकज्ञानवेद्यत्वादीश्वरस्य जडत्वाद्यापत्तिरनिवारिता स्यात् | परञ्चानुमानोत्थापनमेव न सम्भवति, अनुमातुरप्रसिद्धत्वात् | नन्वहमिति प्रसिद्ध इति चेन्न, तदहं प्रत्ययस्य मानसिकज्ञानरूपत्वेन तद्भिन्नतया तद्विषयत्वस्यादृश्यत्वात् | तदभेदे शब्दबुद्धिकर्मणां त्रिक्षणावस्थायित्वनिमेनानित्यत्वादिदोष आपतेदिति | अयं घट इत्यादिज्ञानकाले सुप्तिमूर्च्छादौ च तदभावात् | न चानुमात्रानुमीयते बुध्यादिगुणलि᳚न्गैरिति वाच्यम्, केनानुमीयत इति न विद्मः, तस्यैवाप्रसिद्धत्वात् | किञ्च स पराधीनप्रकाशो वा स्वप्रकाशो वा ? नाद्यः- पराधीनप्रकाशस्य घटतुल्ययोगक्षेमत्वेनाननुमातृत्वात् | न द्वितीयः- सूर्यादिप्रकाशवज्जडस्स्वप्रकाशो वा तत्प्रकाशकस्वतन्त्रचित्प्रकाशो वा ? नाद्यः- पुनरपि घट्टकुटीप्रभातन्यायात् | न द्वितीयः- अपसिद्धान्तात् | चित्प्रकाशस्य गुणपदार्थत्वेन आत्मनो द्रव्यपदार्थत्वेना᳚न्गीकृतत्वात् | ननु चित्प्रकाशभिन्नत्वेप्यात्मनश्चिद्धर्मयुक्त इत्य᳚न्गीकृतत्वान्न जडत्वमिति चेन्न, घटादिवच्चिद्भिन्नस्य समवायेन चिद्धर्मशून्यत्वयिनमात्तथापि परिच्छिन्नान्तःकरणव्यापारात्मकानुमितिज्ञानविषयस्य जडत्वनियमात् शाक्यप्रोक्तदूषणग्रस्तत्वाच्चेति स᳚न्क्षेपः || एतेन वैशेषिका अपि प्रत्याख्याताः | तथाहि- ते खलु द्रव्यगुण कर्मसामान्यविशेषसमवायाभावाख्याः सप्तैव पदार्थाः इति वदन्ति तदप्ययुक्तं,
SK
षोडशपदार्थखण्डनरीत्यैव खण्डितत्वात् | विशेषतस्तु
SK
पृ० २५२) ते द्रव्यस्य गुणाश्रयो द्रव्यमिति लक्षणं वर्णयन्ति | गुणाश्रयत्वं नाम गुणात्यन्ताभावानधिकरणत्वं, तेनाद्यक्षणावच्छिन्ने घटे नाव्याप्तिरिति तदयुक्तम्, रूपस्यापि स᳚न्ख्यारूपगुणाश्रयत्वात् | नीलात्पीतं पृथगिति नीलपीतादेः पृथक्त्वरूपगुणाश्रयत्वाच्च लक्षणमतिव्याप्तम् | न च रुपादौ स᳚न्ख्यापृथक्त्वादिकमेकाश्रयसमवेतत्वसम्बन्धेन द्रव्यनिष्ठमेव प्रतीयत इति वाच्यम्, वैपरीत्यस्यापि सुवचत्वात्प्रमाणाभावाच्च | न च गुणे गुणान᳚न्गीकारान्यथानुपपत्तेरेव प्रमाणमिति वाच्यम्, लक्षण मुखेन लक्ष्यज्ञाने जाते सति खल्विदं द्रव्यमयं गुण इति विभागः | ततः पूर्वं गुण इति निर्णय एवास्तु कथं गुणे गुणान᳚न्गीकारादिति हेतुप्रयोगः ? स्वरूपज्ञानाभावात् | पूर्वंमेव विभागो ज्ञातश्चेल्लक्षणकथनं व्यर्थमेव | न च लक्षणस्य प्रयोजनं पदार्थस्वरूपज्ञानमेवेति वाच्यम्, पूर्वमेवोद्देशकाले पदार्थस्वरूपज्ञानस्य वृत्तत्वात् | अन्यथा पदार्थस्वरूपज्ञानं विना तद्विभागज्ञानासम्भवात्पदार्थविभागज्ञानं विना पदार्थस्वरूपज्ञानासम्भवादेवमन्योन्यापेक्षायामन्योन्याश्रयादिदोषप्र स᳚न्गात् | किञ्चैकस्मिन्नेव घटे रूपद्वयमिति प्रतीतिर्जायते | तत्र द्वित्वस᳚न्ख्या न घटनिष्ठा भवति, एकस्मिन् घटे द्वित्वाभावात् | तस्माद्रूपगतैव द्वित्वस᳚न्ख्या भासत इति गुणाश्रयत्वलक्षणं रूपादावतिव्याप्तम् | एतेन समवायिकारणं द्रव्यमिति लक्षणमपि निरस्तं वेदितव्यम्, रूपादीनां स᳚न्ख्यापृथक्त्वादिगुणसमवायिकारणत्वात् | नच स्वरूपसम्बन्धेन स᳚न्ख्यादिकं रूपादौ प्रतीयत इति वाच्यम्, तथा सति द्रव्यगुणयोरपि स्वरूपसम्बन्ध एवास्तु प्रमाणाभावेन समवायस्य निराकरिष्यमाणत्वात् | अथ द्रव्यत्वं नाम जातिरिति चेन्न, जातिसद्भावे प्रमाणाभवात् | नचेदं द्रव्यमिदं द्रव्यमिति निखिलद्रव्येष्वनुगताकारप्रतीतिरेव प्रमाणम् द्रव्यगुणकर्मसु द्रव्यत्वगुणत्वकर्मत्वस्वरूपधर्ममन्तरेणानुगताकारप्रतीत्यनुदयात्, स च धर्मः
SK
परिशेषाज्जातिरेवस्यादिति वाच्यम्, कॢप्तेनैकपदोपात्तत्वेनानुगतव्यवहारोपपत्तौ तदन्यथानुपपत्त्या जातिकल्पनमयुक्तम् | नच संयोगतावच्छेदकतया
SK
पृ० २५३) विभागतावच्छेदकतया कार्यतावच्छेदकतया प्रतिबध्यप्रतिबन्धकत्वावच्छेदकतया च जातिसिद्धिरिति वाच्यम्, तत्तदवच्छेदकतया कश्चिद्धर्मोऽ᳚न्गीकर्तव्यो नतु जातिः | जातिव्यक्त्योः समवायसम्बन्धस्योक्तत्वात् | समवायः खपुष्पायमाण इति वक्ष्यमाणत्वात् | अत्रापि संयोगादिष्वेकपदोपात्तत्वस्य विद्यमानत्वाच्च | तस्माद्द्रव्यस्वरूपनिरूपणमनुपपन्नम् | अतेव द्रव्यकर्मभिन्नत्वे सति जातिमत्वं गुणत्वमिति तदप्ययुक्तम् | द्रव्यस्वरूपस्यैव ज्ञातुमशक्यत्वात्तद्भिन्नत्वं सुतरां ज्ञातुमशक्यम् | सति कुड्ये चित्रकर्मसिद्धिरिति न्यायात् | किञ्च भेदस्वरूपमपि ज्ञातुं न शक्यमित्यग्रे माध्वसिद्धान्तभ᳚न्गप्रकरणे निपुणतरमुपपादयिष्यते | अतेव कर्मभिन्नत्वमपि वक्तुं नशक्यते, भेदवादस्याग्रेऽपवदिष्यमाणत्वात् | तस्मादेतादृशलक्षणेन गुणस्वरूपं ज्ञातुमशक्यम् | किमिदं कर्मत्वमुत्क्षेपणादिपञ्चान्यतमत्वमिति तदप्ययुक्तम् | �इदं सर्वमसृजत� इत्यादि श्रुत्या, क्रियत इति कर्मेति व्युत्पत्त्याच सर्वस्यापि जगतः कर्मत्वात् पञ्चैव कर्मेति नियमो न युक्तः | कर्मत्वं जातिरिति चेत्तत्सद्भावे प्रमाणं नास्तीति प्रदर्शितत्वात् | सामान्यमपि किमुच्यते ? नित्यमेकमनेकानुगतं सामान्यमिति तदयुक्तम् | समवायेप्यतिव्याप्तेः, तस्यापि तथात्वा᳚न्गीकारात् | नच नित्यत्वे सत्यनेकसमवेतत्वं तदिति वाच्यम्, समवेतत्वन्नाम समवायसम्बम्धेन विद्यमानत्वमिति तस्य दूष्यमाणत्वादिदं लक्षणमनुपपन्नम् | जातिसद्भावे प्रमाणाभावस्य दर्शितत्वात् | विशेषोऽपि किमुच्यते ? नित्यद्रव्याणां परस्परव्यावर्तकत्वेन किल विशेषोऽ᳚न्गी क्रियते | स्वस्य व्यावर्तकं किमित्यपेक्षायां स्वयमेव चेदात्माश्रयः | अन्योन्यापेक्षायामन्योन्याश्रयादिदोषप्रस᳚न्ग इति | अपिच लाघवान्नित्यद्रव्याणि स्वत एव व्यावर्तकानीति न व्यावर्तकान्तरापेक्षेति न विशेषसिद्धिः || समवायसद्भावेऽपि प्रमाणं न पश्यामः | नच घटोऽयमितिविशिष्टबुद्धिर्विशेषणविशेष्यतत्सम्बन्धविषया विशिष्टबुद्धित्वात्,
SK
पृ० २५४) यथा दण्डी पुरुष इत्यनेनानुमानेन कश्चन सम्बन्धः सिद्धः | गुणगुणिनोः संयोगो न सम्भवति, द्रव्ययोरेव संयोगनियमात्, अयुतसिध्यभावात् | अनन्तानां स्वरूपाणां सम्बन्धत्वकल्पने गौरवाल्लाघवादेकसमवायसिद्धिः | स च गुणगुणिनोरवयवावयविनोः क्रियाक्रियावतोर्जातिव्यक्त्योर्विशेषनित्यद्रव्याणाञ्चैक एवा᳚न्गीक्रियत इति वाच्यम्, समवायस्यैकत्वे वायौ रूपवत्ताप्रतीतिः स्यात्, स्पर्शसमवायस्य रूपसमवायस्य चैकत्वात् | न च सम्बन्धस्य विद्यमानत्वेऽपि सम्बन्धिनो रूपस्याभावान्न रूपवत्ताप्रतीतिरिति वाच्यं, तथा सति तस्य सम्बन्धत्वमेव न स्यात्; सम्बन्धिनिष्ठत्वाभावात्, तस्माद्वायौ रूपवत्ताप्रतीतिः स्यादेव | ननु समवायस्यैकत्वेऽपि वायौ रूपनिरूपितसमवायो नास्तीति चेन्न, रूपनिरूपितसमवायस्य स्पर्शनिरूपितसमवायस्य च भेदे लाघवादेकसमवायसिद्धिरित्युक्तिव्याघातोऽपसिद्धान्तश्च स्यात् | लाघवात्किलैकः समवायोऽ᳚न्गीकृतः, नानात्वे लाघवं कुतः ? तथा च महद्गौरवं स्यात् | तथाहि- प्रत्येकपदार्थतया᳚न्गीकृतस्समवायो घटादौ केन सम्बन्धेन वर्तत इत्याका᳚न्क्षायां, द्रव्ययोरेव संयोगसम्बन्धनियमात्सम्बन्धसम्बन्धिनोर्न संयोगः | नापि समवायः, समवायस्य समवायान्तराभावात् | तथा᳚न्गीकारेऽनवस्थाप्रस᳚न्गः | तथा चानन्यगतिकत्वात् स्वरूपसम्बन्ध एव शरणीकरणीयः | तथा सति धर्मद्वयकल्पनमतिगौरवं तवैव | ननु एकस्मिन्नेव घटे प्रतीयमानरूपादिगुणानां घटत्वादिजातीनामेवैकेषां स्वरूपसम्बन्धत्वकल्पने गौरवाल्लाघवादेकसमवायस्तत्तत्पदार्थनिष्ठत्वेन स्वीक्रियत इति चेन्न, तद्गतरूपग्राहकनेत्रेन्द्रियेण तद्गतगन्धोऽपि गृह्यताम्, समवायस्यैकत्वेन रूपसमवायाभिन्नगन्धसमवायस्य नेत्रप्रदेशे विद्यमानत्वात् | न च रूपावच्छिन्नसमवायो भिन्नः, गन्धावच्छिन्नसमवायो भिन्न इति वाच्यं, पुनरपि घट्टकुट्यां प्रभातः स्यादेवेति स्वरूपसम्बन्ध एव शरणीकरणीयो लाघवात्,
SK
पृ० २५५) गौरवान्न समवायः | किञ्च विशिष्टबुद्धित्वादित्युदाहृतहेतुस्वरूपमपि ज्ञातुं न शक्यते | तथाहि- विशिष्टत्वन्तु विशेषणविशेष्यतत्सम्बन्धेभ्यः किमनतिरिक्तमतिरिक्तं वा स्यात् | न द्वितीयः, अतिरिक्तं दण्डिनमानयेत्युक्तेऽतदानयनप्रस᳚न्गात् | तद्भिन्नत्वादेव | नापि प्रथमः; अनतिरिक्तत्वे विशेषणादौ प्रत्येकं विशिष्टबुद्धिः स्यात् तत्तत्स्वरूपानतिरिक्तत्वात् | न च समुदायनिष्ठमिति वाच्यम् ? तदेव वैशिष्ट्यमित्यात्माश्रयादिदोषप्रस᳚न्गात् || कोऽयमभावो नाम ? भावभिन्नत्वमिति चेत्किमिदं भावत्वम् ? विधिमुखप्रत्ययवेद्यत्वमिति चेन्न, इह भूतले घटाभावो नेत्यत्र घटस्यापि निषेधमुखप्रत्ययवेद्यत्वेन तदनुल्लिखितधीविषयत्वाभावाद्भावत्वं न स्यात् | न च घटाभावाभावो न घटात्मकः, किन्त्वतिरिक्त इति वाच्यम्, एवमनेनैव क्रमेण तदभावोऽप्यतिरिक्त इत्यनवस्थापत्तेः | नच घटाभावाभावस्त्वतिरिक्तः, तदभावस्त्वधिकरणात्मक इति वाच्यं, यया युक्त्या घटाभावाभावस्त्वतिरिक्त इत्य᳚न्गीक्रियते तयैव युक्त्या तद्भावोऽप्यतिरिक्त इत्य᳚न्गीकर्तव्यः | तथा सत्यनवस्थापत्तिरिति | नचानवस्थादोषवशादेव घटाभावाभावस्य नातिरिक्तत्वम᳚न्गीक्रियत इति वाच्यम्, लाघवाद्घटाभावाभावस्य घटरूपत्वमेवा᳚न्गीक्रियताम्, अतिरिक्ताभावकल्पने गौरवात् | इह भूतले घट एव वर्तते, घटाभावो नेति घटाभावाभावस्य घटाभेदेन भासनादनुभवविरोधश्च | एतेन नञर्थोल्लिखितधीविषयत्वमभावत्वमित्यपि दूरापास्तम्, घटाभावाभावरूपस्य घटस्य नञर्थोल्लिखितधीविषयत्वं वर्तत इत्यभावत्वं स्यात् | घटाभावोऽस्तीत्यत्राभावस्यापि नञर्थानुल्लिखितधीविषयत्वादभावत्वं न स्यात् | नच भावत्वं नाम सत्वमेवेति वाच्यम्, सत्वं नाम स्वरूपसत्त्वं वा सत्ताविशिष्टत्वं वा ? नाद्यः, अभावेऽपि स्वरूपसत्त्वस्य विद्यमानत्वादतिव्याप्तिः | न द्वितीयः, सामान्यादिषु तदभावेनाव्याप्तेः; सामान्यादित्रयं निस्सामान्यमित्य᳚न्गीकृतत्वात् |
SK
तस्माद्भावत्वं दुर्विज्ञेयं तद्भिन्नत्वमभावे सुतरां दुर्वि-
SK
पृ० २५६) ज्ञेयमिति | न चाभावत्वमखण्डोपधिरिति वाच्यम्, भावपदार्थे ज्ञाने तद्भिन्नस्याभावत्वमखण्डोपाधिरिति वक्तुं शक्यते | अद्यापि भावाभावपदार्थविभागाभावात् | तस्मात् पारिभाषिकेषु पदार्थेषु सप्तसु षोडशसु च केचन नित्याः, केचनानित्या इति वर्णयन्ति | पृथिव्यादिपरमाणव आकाशादयः पञ्च नित्याः | द्व्यणुकादिकाः कार्यरूपाः शरीरेन्द्रियविषयास्त्वनित्याः | रूपादयो गुणाश्चानित्याः | तत्रापि जलादिपरमाणुगुणो नित्यः | कार्यगतस्त्वनित्यः | कर्माप्यनित्यम् | सामान्यादित्रयं नित्यमेव | तत्रानित्यानां पदार्थानां परमाणुभ्य उत्पत्तिं वर्णयन्ति | ईश्वरस्य निमित्तत्वं जीवादृष्टस्यापि तदेव | एवं जीवादृष्टवशादीश्वरेच्छया निश्चलेषु परमाणुषु क्रियोत्पद्यते, क्रियातो विभागः, विभागात्पूर्वसंयोगनाशः, तत उत्तरसंयोगोत्पत्तिरिति क्रमेण परमाणुद्वयसंयोगाद् द्व्यणुकमुत्पद्यते | तादृशैस्त्रिभिर्द्व्यणुकैस्त्रसरेणुः | चतुर्भिस्त्र्यणु कैश्चतुरणुकादिक्रमेण महापृथिव्यादिजगदुत्पत्तिरिति | तदयुक्तं | तथाहि- संयोगस्तु स्वाश्रयं व्याप्य वर्तते वा किमव्याप्य वर्तते ? नाद्यः, द्व्यणुकादिप्रथिमानुपपत्तेः | संयोगस्य स्वाश्रयव्यापकत्वात् | द्वयोः परमाण्वोरेक- रूपत्वप्राप्त्या अंशतः संयोगासम्भवात्परमाणुतैव स्यान्न द्व्यणुकता | नापि द्वितीयः, निरवयवयोः परमाण्वोरव्याप्यवृत्तिसंयोगो न सम्भवति, निरवयवत्वेन देशकालविभागाभावात् | नन्वीश्वरेच्छावशान्निरवयवयोरपि परमाण्वोः संयोगः सम्भवतीति चेन्न, ईश्वरः किं स्वतन्त्रो वा परतन्त्रो वा ? स्वतन्त्रत्वे जीवादृष्टपरमाणुसंयोगयोर्निरपेक्षत्वात् | तदपेक्षायां तदधीनत्वात्स्वातन्त्र्यभ᳚न्गप्रस᳚न्गः | अन्यनिरपेक्षया कर्तृत्वमेव हि स्वातन्त्र्यम् | अत एवोक्तं भगवता पाणिनिना �स्वतन्त्रः कर्ते�ति | अस्वतन्त्रश्चेत्परतन्त्रत्वादनीश्वरत्वप्रस᳚न्गो नियतपदार्थाधीनकुम्भकारवदिति | अदृष्टस्यापि परमाणुसंयोगं प्रति न कारणत्वं तस्यापि जडत्वात् | ईश्वरेच्छया कारणत्वं सम्भवतीति
SK
चेत्तदस᳚न्गतमिति पूर्वमेव प्रदर्शितत्वात् |
SK
पृ० २५७) यदि जडेनैव स्वातन्त्र्येण कार्योत्पत्तिस्तर्हि मृत्पिण्डोऽपि कुम्भकारमन्त्ररेण घटमुत्पादयेत् | ननु निर्जनेऽरण्यादौ चेतनव्यापारमन्तरेण बीजाद᳚न्कुरोत्पत्तिर्दृश्यते, तद्वदत्रापि भविष्यतीति चेन्न; तत्र बीजं वा सन्तम᳚न्कुरमुत्पादयत्यसन्तं वा ? नाद्यः, स्वतःसिद्धस्योत्पादनासम्भवात् | न द्वितीयः, तथासति पनसबीजात्सहकाराद्युत्पत्तिः स्यादित्यपि प्रस᳚न्गात् | तस्मात्तत्रापि जडेन बीजेन स्वातन्त्र्येण ना᳚न्कुरोत्पत्तिः, ईश्वरेच्छाया एव नियामकत्वात् | ननु तथैव सर्वत्र जीवादृष्टवशात्परमाणुभ्यः प्रपञ्चोत्पत्तावीश्वरेच्छैव नियामिका भवत्विति चेन्न, भवन्मते तावदीश्वरस्य नियतपदार्थाधीनकुम्भकारवदस्वतन्त्रत्वस्य जडत्वस्य च प्रदर्शितत्वात् | किञ्च शदेव सौम्येदमग्र आसीदेकमेवाद्वितीयम् | तदैक्षत बहु स्यां प्रजायेयेति, स वै नैव रेमे तस्मादेकाकी न रमते न द्वितीयमैच्छत् |� इत्यादिश्रुतिभिः सृष्टेः प्रागीश्वरस्यैव जगत्कारणत्वकथनात्, एवकारादिभिरितरस्य पदार्थस्य निरसनद्वारानन्यमुखप्रेक्षकत्वलक्षणं स्वातन्त्र्यमेवावगम्यते | तस्माज्जीवादृष्टवशात्परमाणुभिर्जगदुत्पत्तिरित्ययुक्तम् | अन्यद्विचार्यते | घटादीनामुत्पत्तिर्नामाद्यक्षण- सम्बन्ध इति चेन्न, सम्बन्धस्य द्विनिष्ठत्वात् | आद्यक्षणे घटाभावात्तल्लक्षणमनुपपन्नमिति | न चाद्यक्षणे घटो वर्तत इति लक्षणमुपपन्नमिति वाच्यम्, यद्याद्यक्षणे घटो वर्तते तर्हि तदुत्पत्तिरेव न स्यात; सिद्धत्वात् | उत्पत्त्यनन्तरं घटः, प्राक् घटो नास्तीति भवन्मतम् | मृद्दण्डचक्रसलिलचीवरादिना पूर्वमविद्यमान एव घट उत्पद्यत इत्युक्तेः | तस्मादुत्पत्तिक्षणे घटाभावादाद्यक्षणसम्बन्ध उत्पत्तिरित्ययुक्तम् | किञ्च घटस्योत्पत्तिरपि भवन्मतरीत्या न सम्भवति, उत्पत्तेः सप्रतियोगिकत्वात् | उत्पत्तेः पूर्वं घटस्याभावान्निष्प्रतियोगिकोत्पत्तिः स्यात्, निर्विषयकोत्पत्तिः स्यादिति यावत् | कथमसतः सज्जायतेति श्रुतिविरोधः, नासतो विद्यते भाव इति
SK
स्मृतिविरोधश्च | तस्माद्घटस्य नित्यत्वमेवा᳚न्गीकर्तव्यम् | ननु तर्हि यतो वेत्यादिश्रुतिभिर्लौ-
SK
पृ० २५८) किकानुभवेन च घटोपलक्षितप्रपञ्चस्य तावदुत्पत्तिः प्रतीयते, सा नोपपद्येत | तथासति ब्रह्मप्रपञ्चयोः कार्यकारणभावो न स्यात् | घटोपलक्षितनिखिलप्रपञ्चस्यापि नित्यत्वादिति चेन्न, श्रुतौ जायन्त इति शब्दस्तावदाविर्भावपरः, अनन्यगतिकत्वात् | जनी= प्रादुर्भाव इत्युक्तेरुत्पत्तिराविर्भाव इत्यवगतम्, आद्यक्षणसम्बन्धलक्षणोत्पत्तेः खण्डितत्वात् | आविर्भावो नाम मृद्दण्डसलिलचक्रचीवरादिना पूर्वं सूक्ष्मरूपेणोभयेन्द्रियाणामगोचरतया स्वात्मतादात्म्येन विद्यमानस्य घटस्योभयेन्द्रियगोचरं यथा भवति तथा स्थूलरूपेण व्यक्तीकरणमेवेति श्रुतिस्मृत्यनुभवबलेन च सिद्धं भवति, असत उत्पत्त्ययोगादिति श्रुतियुक्तिभ्यां निर्णीतत्वादसदुत्पत्तिपक्षस्त्वसमञ्जस एव, शशविषाणादीनामप्यसतामुत्पत्तिः स्यादित्यतिप्रस᳚न्गात् | अतेव ब्रह्मप्रपञ्चयोः कार्यकारणभावोऽपि सम्भवति, उत्पत्तिस्वरूपस्य प्रदर्शितत्वात् | उक्तलक्षणस्य घटस्यार्थक्रियावत्वेन यावत्सञ्जिहीर्षमेबाधितस्थैर्यं स्थितिरिति | एवं विनाशोऽपि न ध्वंसः, किन्तु तिरोभाव एव | �अदर्शनं लोप� इति स्मृतेः | मुद्गरप्रहारादिनोभयेन्द्रियोत्तीर्णतया सूक्ष्मरूपेणार्थक्रियाशून्यतया प्रमातृतादात्म्येनावस्थानमिति मन्तव्यम् | पदार्थस्वरूपस्यैव नाशे पुनस्तद्विषयिणी स्मृतिर्न स्यात् | स्मृतेः सविषयकत्वनियमात् | संस्कारस्यापि तथैवेति | तस्मादुत्पत्तिविनाशयोः सप्रतियोगिकत्वादाविर्भावतिरोभावपरावेताविति विमर्शनीयम् | तदुक्तं श्रीमद्विरूपाक्षपञ्चाशिकाशास्त्रे- �द्यावा पृथ्वी देशः कालोऽहोरात्र इति ययोः प्रसरस्ते भानतिरोधिकृतिशक्तिर्मे भाववृन्दस्येति ||� एवं त्वदुक्तमोक्षलक्षणमपि न सम्भवति | तथाहि- आत्यन्तिकदुःखनिवृत्तिर्मोक्ष इति | तत्र विचार्यते | एकविंशतिविधदुःखानामत्यन्तनाशः पुनरुत्पत्तिश᳚न्काराहित्येन तत्स्वरूपनाशो ध्वंस इति यावत्, स एव मोक्ष इति खलु ते मतम् | तथाच सुखदुःखयोर्मनोजन्यज्ञानविषयत्वेन षड्विषयान्तःपतितत्वादेकविंश
SK
तिस᳚न्ख्यावत्वमनुपपन्नम् | पृ० २५९) तथापि मनसस्तावन्नित्यत्वा᳚न्गीकारेण तन्नाशासम्भवादनिर्मोक्षप्रस᳚न्गः | किञ्च बुद्धिसुखयोरपि नाशे पाषाणवज्जडतयात्मनोऽवस्थानप्रस᳚न्गः | इष्टापत्तौ तद्वदनित्यत्वप्रस᳚न्गश्च | ननु जडस्याप्याकाशवन्नित्यत्वं सम्भवतीति चेन्न, तस्याप्यनित्यत्वात्; �आत्मन आकाशः सम्भूतः | एतस्माज्जायते प्राणो मनोबुद्धीन्द्रियाणि च | खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी�त्यादिश्रुतिभिरुत्पत्तेः श्रवणादित्यलमतिप्रपञ्चेन | तस्माद्गौतमकणादमते जडचेतनविवेकः, तद्द्वारा जीवेश्वरविभागः, तद्द्वारा बन्धमोक्षव्यस्था च न सम्भवतीति प्रदर्शितत्वादेतच्छास्त्रद्वयं जनमोहनाय प्रणीतमिति मन्तव्यम् || अतेव श्रुतिस्मृतिपुराणादिषु तन्निन्दा श्रूयते | तथाहि- ङैषा तर्केण मतिरापनेया� इति श्रुतेः | �तर्काप्रतिष्ठानादि� ति व्याससूत्रम् | �तर्कोऽप्रतिष्ठः श्रुतयोऽपि भिन्ना महामुनीनां मतयोऽपि भिन्नाः | धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः� इति महाभारते यक्षं प्रति धर्मराजोक्तिः | �हैतुकान्बकवृत्तींश्च वा᳚न्मात्रेणापि नार्चयेत् |� इति याज्ञवल्क्यः | �आन्वीक्षिक्यां सदा सक्तं नरं श्वानं च तं विदुः |� इति पद्मे शुकं प्रति व्यासोक्तिः | ङासूयकायानृजवे न वा निर्दग्धकारिणे | न तर्कशास्त्रदग्धाय न वाच्यं पिशुनाय चे�ति | �क्रूरोऽल्पविद्यो व्यसनी कृतघ्नो दम्भी पुनर्भूर्गुरुभक्तिशून्यः | मात्सर्ययुक्तो व्यसनी प्रसक्तो भवेत्प्रतिष्ठादिषु तार्किकश्चे�ति शैवतान्त्रिकोक्तिरिति स᳚न्क्षेपः || इति वीरशैवानन्दचन्द्रिकायां वादकाण्डे तर्कमतनिरूपणतन्निराकरणप्रकारो नाम पञ्चदशं प्रकरणम् || पृ० २६०) वीरशैवानन्दचन्द्रिकायां वादकाण्दे षोडशं प्रकरणम् ||
SK
गुरो तर्कमतं तस्य निराकरणमुत्तमम् | त्वया प्रोक्तं निशम्याहं प्रहृष्टहृदयोऽभवम् || केषां मतमुपक्रान्तं भृ᳚न्गिणा च ततः परम् | युक्त्या शीलवता तच्च खण्डितं कथमीरय || भो शीलवद्वर्य तवास्ति गर्वः प्रदूषणात्तर्कमतस्य भूयान् | महत्तरं योगमतं वदामि युक्त्या कथं दूषयति त्वमीक्षे || इत्युक्तवन्तं किल भृ᳚न्गिणं द्राक् स शीलवानाह वदाद्यतच्च | भृ᳚न्गिन्नहं योगमतं प्रशस्तम् प्रदूषयामि त्वमिहैव पश्य || इत्थं बसवभूपाल शृणु त्वं भृ᳚न्गिशीलिनोः | वचनं विस्मयकरं कथयाम्यहमादरात् ||
SK
पृ० २६१) �योगश्चित्तवृत्तिनिरोधः |� द्रष्टुः पुरुषष्य स्वरूपचिन्मात्रतायामवस्थानं चित्तशब्दार्थः | वृत्तिसमुदायोऽवयवी चित्तमित्युच्यते | घटाद्याकारेण चित्तपरिणतिर्वृत्तिः | सा च वृत्तिः क्लिष्टाक्लिष्टाचेति द्विधा | ताश्च प्रमाणविपर्ययविकल्पनिद्रास्मृतिभेदेन पञ्चधा | तत्र प्रमाणमविसंवादिज्ञानम् | तच्च प्रत्यक्षानुमानागमभेदात्त्रिधा | इन्द्रियद्वारेण बाह्यवस्तूपरागाच्चित्तस्य तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम् | गृहीतसम्बन्धाल्लि᳚न्गलि᳚न्गिनोः सामान्यात्मनाऽध्यवसायोऽनुमानम् | आप्तवचनमागमः | अतथाभूतेऽर्थे तथोत्पद्यमानं ज्ञानं विपर्ययः | संशयो विपर्ययभेदः | देवदत्तस्य कम्बलमित्यादौ षष्ठ्या योऽध्यवसितो भेदस्तं पुरुषस्य चैतन्यं स्वरूपमित्यादावविद्यमानमपि समारोप्याध्यवसायो विकल्पः | सन्ततोद्रिक्तात्तमसः सर्वविषयपरित्यागेन प्रवर्तमाना वृत्तिर्निद्रा | प्रमाणेनानुभूतस्य विषयस्य संस्कारद्वारेण बुद्धावारोहः स्मृतिः | तत्र प्रमाणविपर्ययविकल्पा जाग्रदवस्था | त एव यदानुभवबलात्प्रक्षीयमाणाः स स्वप्नः | एवं पञ्चवृत्तयः || सा᳚न्ख्यमतसिद्धजडपरिणामित्वमनुमन्वानाः पातञ्जलाः पुनरेवमुपवर्णयन्ति-योगश्चित्तवृत्तिनिरोधः | द्रष्टुः पुरुषस्य स्वरूपचिन्मात्रतायामवस्थानं चित्तशब्दार्थः | योगादन्यस्मिन् काले सा घटाद्याकारा | यथा जलतर᳚न्गेषु चलत्सु चन्द्रश्चलन्निव प्रतिभासते तद्वच्चित्तमप्यभ्यासवैराग्याभ्यां निवृत्तबाह्याभिनिवेशानां वृत्तीनामन्तर्मुखतया स्वकारण एव चित्ते शक्तिरूपेणावस्थानं निरोधः | वृत्तिनिहतस्य स्वरूपनिष्ठपरिणतिरूपतायां यत्न उत्साहः | पुनः पुनस्तथात्वेन चेतसि विनिवेशनमभ्यासः | स एव बहुकालं नैरन्तर्येणाऽऽदरातिशयेन च सेव्यमानो दृढभूमिः इहैवोपलक्ष्यमाणे शब्दादौ दृष्ट आनुश्रविके देवलोकादौ च परिणतिविरसत्वदर्शनाद्विरक्तस्य ममैते वश्या नाहमेतेषां वश्य इति विमर्शो वैराग्यम् | एवंविधो योगः |
SK
सम्प्रज्ञातासम्प्रज्ञातभेदेन द्विविधः समाधिः | सम्यक् संशयविपर्यय-
SK
पृ० २६२) रहितत्वेन प्रज्ञायते प्रकर्षेण ज्ञायते भावस्य स्वरूपं येन स सम्प्रज्ञातसमाधिर्भावनाविशेषः | सवितर्कसविचारसानन्दसास्मितभेदात् स चतुर्विधः | समाधिर्भावना भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनम् | भाव्यञ्च द्विविधमीश्वरस्तत्त्वानीति, तानि च तत्त्वानि जडाजडभेदाद्द्विधा | जडानि चतुर्विंशतिरजडः पुरुषः | तत्र यदा महाभूतेन्द्रियाणि स्थूलानि विषयत्वेनादाय पूर्वापरानुसन्धानेन शब्दार्थोल्लेखसम्भेदेन च भावना प्रवर्तते तदा सवितर्कसमाधिः | अस्मिन्नेवालम्बने पूर्वापरानुसन्धानशब्दोल्लेखनशून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः समाधिः | तन्मात्रान्तःकरणलक्षणं सूक्ष्मं विषयमालम्ब्य तस्य देशकालधर्मावच्छेदेन यदा भावना प्रवर्तते तदा सविचारः | तस्मिन्नेवालम्बने देशकालधर्मावच्छेदं विना धर्मिमात्रावभासित्वेन क्रियमाणा भावना निर्विचारसमाधिः | एते ग्राह्यसमाधयः, यदा तु रजस्तमोलेशानुविद्धमन्तःकरणसत्त्वं भाव्यते तदा गुणभावाच्चितिशक्तेः सुखप्रकाशमयस्य सत्त्वस्य भाव्यमानस्योद्रेकात्सानन्दः समाधिः | अस्मिन्नेव समाधौ ये बद्धधृतयस्तत्त्वान्तरं प्रधानपुरुषं न पश्यन्ति ते विगतदेहाह᳚न्कारत्वाद्विदेहशब्दवाच्याः | इयं ग्रहणसमापत्तिः | ततः परं रजस्तमोलेशानभिभूतं शुद्धसत्त्वमालम्बनीकृत्य या प्रवर्तते भावना तस्यां ग्राह्यस्य सत्त्वस्य न्यग्भवाच्चितिशक्तेरुद्रेकात्सत्तामात्रावशेषत्वेन समाधिः सास्मित उच्यते | न चाह᳚न्कारास्मितयोरभेदः श᳚न्कनीयः, यतो यत्रान्तःकरणमहमित्युल्लेखेन विषयान्वेदयते सोऽह᳚न्कारः | यत्रान्तर्मुखतया प्रतिलोमपरिणामे प्रकृतिलीने चेतसि सत्तामात्रमवभाति साऽस्मिता | अस्मिन्नेव समाधौ ये प्रकृतिपरितोषाः परं परमात्मानं पुरुषं न पश्यन्ति तेषां चेतसि स्वकारणे लयमुपागते प्रकृतिलया इत्युच्यन्ते | ये परं पुरुषं ज्ञात्वा भावनायां प्रवर्तन्ते तेषामियं विवेकख्यातिर्गृहीतसमापत्तिरित्युच्यते |
SK
तत्र सम्प्रज्ञातसमाधौ चतस्रोऽप्यवस्थाः शक्तिरूपतयाऽवतिष्ठन्ते | तत्रैकैकस्यास्त्याग उत्तरोत्तरा इति चतुर-
SK
पृ० २६३) वस्थोऽयं सम्प्रज्ञातः समाधिः | विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽसम्प्रज्ञातसमाधिः | अयमर्थः- विरम्यत इति विरामो विरामश्चासौ प्रत्ययश्चेति विरामप्रत्ययः तस्य पौनःपुन्येन चेतसि निवेशनमभ्यासः | तत्र या काचिद्वृत्तिरुल्लसति तस्या नेति नेति नैरन्तर्येण पर्युदासपूर्वकं संस्कारशेषोऽसम्प्रज्ञातसमाधिः | न तत्र किञ्चिद्वेद्यत इत्यसम्प्रज्ञातो निर्बीजः समाधिः | चित्तपरिणामश्चतुर्धा-व्युत्थानं समाधिप्रारम्भ एकाग्रता निरोध इति भेदात् | तत्र क्षिप्तमूढे चित्तभूमी व्युत्थानम् | विक्षिप्ता भूमिः सत्त्वोद्रेकात्समाधिप्रारम्भः | एकाग्रतानिरुद्धे तु पर्यन्तभूमी | प्रतिपरिणामञ्च संस्काराः | तत्र व्युत्थानजनिताः संस्काराः समाधिप्रारम्भजैः संस्कारैः प्रत्याहन्यन्ते | ते चैकाग्रताजैः, ते च निरोधजनितैः संस्कारैस्ते च संस्काराः स्वरूपञ्च हन्यन्ते | यथा सुवर्णसंवलितं ध्यायमानं सीसकमात्मानं सुवर्णमलञ्च निर्दहति, एवमेकाग्रताजनितान् संस्कारान्निरोधजाः स्वात्मानञ्च निर्दहन्ति | एवं स᳚न्क्षेपतो योगस्वरूपं तदुपायाश्च वेदितव्याः || अथ योगाभ्यासप्रदर्शनपूर्वका विस्तरेणोपायाः | विदेहाः प्रकृतिलयाश्च पूर्वमाम्नातास्तेषां परतत्त्वादर्शनादाविर्भूत एव संसारे भवप्रत्ययः समाधिः | अतः परं तत्त्वज्ञाने तद्भावनायाञ्च मुक्तिकामेन यत्नो विधेय इत्येतदर्थमुपदिष्टम् | विदेहप्रकृतिलयव्यतिरिक्तानां योगिनां श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वकः समाधिः | तत्र योगविषये चेतसः प्रसादः श्रद्धा, वीर्यमुत्साहः, स्मृतिरनुभूतासंप्रमोषः, समाधिरेकाग्रता, ज्ञातव्यप्रविवेकः प्रज्ञा | तत्र श्रद्धया वीर्यं जायते, साधको योगविषय उत्साहवान्भवति | सोत्साहस्य पाश्चात्यानुभूतिषु भूमिषु स्मृतिरुपजायते | तत्स्मरणाच्चेतः समाधीयते | समाहितचित्तश्च भाव्यं सम्यग्विजानाति | त एते सम्प्रज्ञातसमाधेरुपायाः | तस्याभ्यासात्पराच्च वैराग्याद्भवत्यसम्प्रज्ञातः | अथोक्तोपायवतां योगिनामुपायभेदाद्भेदः |
SK
क्रियाहेतुर्दृढतरः संस्कारः | सस्तीव्रसंवेगानां योगिनामासन्नः समाधिः, समाधिः फलञ्च शीघ्रमुत्पद्यते | अथ विषयसुखादिकं
SK
पृ० २६४) फलमनिच्छतां सर्वासां क्रियाणां परमेश्वरे समर्पणमुत्कृष्टोपायः | तेनेश्वरप्रणिधानेन समाधिलाभः | अविद्यादिक्लेशैर्विहितप्रतिषिद्धमिश्ररूपैः कर्मभिः, जात्यायुर्भोगैः कर्मफलरूपैर्विपाकैर्वासनाख्यसंस्कारविशेषरूपैराशयैश्च त्रिष्वपि कालेष्वसंस्पृष्टः, अतेव विशिष्टः पुरुष ईशनक्षम ईश्वर इच्छामात्रेण जगदुद्धरणक्षमः | सर्वेषामात्मनां योद्धृगतजयपराजयौ स्वामिन इवाभिमानमात्रेण चित्तगतक्लेशादिसम्बन्धोऽस्ति | अस्येश्वरस्य तु तादृशसुखदुःखादिकं नास्तीति पुरुषेभ्य ईश्वरस्य विशेषः | तस्य च तथाविधमैश्वर्यं सत्त्वोत्कर्षात्सत्त्वोत्कर्षश्च प्रकृष्टज्ञानादेव | न चानयोर्ज्ञानैश्वर्ययोरितरेतराश्रयत्वम्, परस्परानपेक्षत्वात् | ते द्वे ज्ञानैश्वर्ये ईश्वरसत्वे वर्तमाने अनादिभूते, तेन च तथाविधेन सत्त्वेन तस्यानादिरेव सम्बन्धः | प्रकृतिपुरुषसंयोगवियोगयोरीश्वरेच्छाव्यतिरेकेणानुपपत्तेः | यथेतरेषां प्राणिनां सुखदुःखमोहात्मकतया परिणतं चित्तं निर्मले सात्त्विके धर्मात्मप्रख्ये योगिशरीरे प्रतिस᳚न्क्रान्तं चिच्छायास᳚न्कान्ते सवेद्यं भवति, नैवमीश्वरस्य | तस्य च केवल एव सात्विकः परिणाम उत्कर्षवाननादिसम्बन्धेन भोग्यतया व्यवस्थितः | अतः पुरुषान्तरविलक्षणतया स एवेश्वरः | न चेश्वराणामनेकत्वम्, तेषां तुल्यत्वे भिन्नभिन्नाभिप्रायत्वात्कार्यस्यैवानुपपत्तेः; उत्कर्षापकर्षवत्वेऽपि य एवोत्कृष्टः स एवेश्वरः | यथा परमाणावकाशे चाल्पत्वं महत्वञ्च दृश्यते; एवं ज्ञानादयोऽपि चित्तधर्मास्तारतम्येन परिदृश्यमानाः क्वचिन्निरतिशयतामापादयन्ति; यत्र चैते ज्ञानादयो निरतिशयाः स ईश्वर इति निरतिशयज्ञानित्वं सर्वज्ञत्वबीजम् | तस्य परमकारुणिकत्वाद्भूतानुग्रह एव प्रयोजनम् | कल्पप्रलयमहाप्रलयेषु निश्शेषान् संसारिण उद्धरिष्यामीति तस्याध्यवसायः | यद्यस्येष्टं तत्तस्य प्रयोजनम् | आद्यानां स्रष्टृर्णां ब्रह्मादीनामपि स गुरुरुपदेष्टा, यतः स कालेन नावच्छिद्यते, अनादित्वात् ||
SK
तस्य च वाचकः प्रणवः | तयोर्वाच्यवाचकभावसम्बन्धो नित्यः | स᳚न्केतेन प्रकाश्यते नतु केनचित्क्रियते | यथाऽस्यायं पिताऽस्यायं
SK
पृ० २६५) पुत्र इति केनचित्प्रकाश्यते नैवमित्यर्थः | सार्धत्रिमात्रस्य तस्य प्रणवस्य यथावदुच्चारणं जपः | तद्वाच्यस्येश्वरस्य पुनः पुनश्चेतसि निवेशनञ्चैकाग्रताया उपायः | तज्जपभावनाभ्यां प्रत्यक्चेतनज्ञानं वक्ष्यमाणान्तरायाभावश्च फलमुत्पद्यते | व्याधिस्त्यानसंशयप्रमादाऽऽलस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वाऽन् अवस्थितत्वानि चित्तविक्षेपका अन्तरायाः | धातुवैषम्यनिमित्तो ज्वरादिर्व्याधिः | चित्तस्याकर्मण्यता स्त्यानम् | उभयकोट्यालम्बनं ज्ञानं संशयो योगः साध्यो नवेत्येवंरूपः | अनुत्थानशीलता प्रमादः समाधिसाधनेष्वौदासीन्यम् | कायचित्तयोर्गुरुत्वं योगविषये प्रवृत्त्यभावहेतुरालस्यम् | चित्तस्य विषयसंयोगात्माऽविरतिः | विपर्ययज्ञानं भ्रान्तिदर्शनम् | कुतश्चिन्निमित्तात्समाधेरभावोऽलब्धभूमिकत्वम् | लब्धावस्थायामपि समाधिभूमौ चित्तस्य तत्राप्रतिष्ठाऽनवस्थितत्वम् | एतैः चित्तविक्षेपैः सह दुःखदौर्मनस्या᳚न्गमेजयत्वश्वासप्रश्वासाः पञ्च भवन्ति | दुःखं बाधनालक्षणम् | मनोदौस्थ्यं दौर्मनस्यम् | अ᳚न्गवेपथुर᳚न्गमेजयत्वम् | प्राणस्य बाह्यवायुसम्बन्धः श्वासः | कोष्ठवायोर्निश्वसनं प्रश्वासः | त एते विक्षेपैस्सह प्रवर्तमाना अभ्यासवैराग्याभ्यां निरोद्धव्याः | अथोपायान्तरमपि तेषां विक्षेपाणां निरोधार्थमेकस्मिन्नभिमते तत्त्वे चेतसः पुनः पुनर्निवेशनं कुर्यात् | तद्बलात्प्रत्युदिता चैकाग्रता विक्षेपरहिता भवति | चित्तसंस्कारापादकं परिकर्म चतुर्धा | मैत्री करुणा मुदितोपेक्षेति | तत्र मैत्री-सौहार्दम्, करुणा-कृपा, मुदिता-हर्षः, उपेक्षा-चावमान्यम् | यथा सुखिषु साध्वेषां सुखित्वमिति मैत्रीं कुर्यान्न त्वीर्ष्याम् | दुःखिषु कथन्नु नामैषां दुःखविमुक्तिः स्यादिति कृपामेव कुर्यान्न ताटस्थ्यम् | पुण्यवत्सु पुण्यानुमोदनेन हर्षमेव कुर्यान्नतु किमेते पुण्यवन्त इति विद्वेषम् | अपुण्यवत्सु चौदासीन्यमेव भावयेन्नानुमोदनं न वा द्वेषः | तदेवं मैत्र्यादिपरिकर्मणा चित्तं प्रसीदति |
SK
द्वेषरागादिप्रति पक्षभूतमैत्र्यादिभावनया समुत्पादितप्रसादं चित्तं सम्प्रज्ञातादिसमाधियोग्यं
SK
पृ० २६६) भवति | उपायान्तरञ्च | कौष्ठ्यस्य वायोः प्रयत्नविशेषान्मात्राप्रमाणेन बहिर्निस्सारणरूपेण प्रच्छर्दनाभिधेन रेचकेण, बाह्याभ्यन्तरवायुपूरणेन पूरकोपायेन, पूरितवायुनिरोधात्मकेन कुम्भकेन विधारणनाम्ना वा चित्तैकाग्रता निष्पद्यते | अथ सम्प्रज्ञातसमाधेः पूर्वा᳚न्गः | गन्धरसरूपशब्दस्पर्शाख्यफलवती मनोवृत्तिरेकाग्रतामापादयति | यथा नासाग्रे चित्तं धारयतो दिव्यगन्धसंविदुपजायते | जिह्वाग्रे रससंवित्, ताराग्रे रूपसंवित्, जिह्वामध्ये स्पर्शसंवित्, जिह्वामूले शब्दसंवित्, तत्तदिन्द्रियद्वारेण तस्मिंस्तस्मिन्दिव्यविषये जायमाना संविच्चित्तस्यैकाग्रतायै प्रभवति | प्रशस्तो भूयान्सात्त्विकप्रकाशो यस्यां सा ज्योतिष्मती प्रवृत्तिः सुखमयत्वाभ्यासबलाद्रजः परिणतिरूपशोकरहितचित्तैकाग्र्यं सम्पादयति | अयमर्थः- हृत्पद्मसम्पुटमध्ये प्रशान्तक्षीरोदधिप्रख्यं चित्तसत्त्वं भावयतः प्रज्ञालोकात्सर्ववृत्तिपरिक्षये चेतसः स्थैर्यमुत्पद्यते | अयमेको योगः | वीतरागस्य चित्तमपि स्थैर्यहेतुः प्रत्यस्तमितबाह्येन्द्रियवृत्तेरात्मनो मनोमात्रेणैव भोक्तृत्वरूपस्वप्नालम्बनमुक्तनिद्रालम्बनं वा ज्ञानं चित्तस्थैर्याय भवति | यथाभिमते वस्तुनि बाह्ये चन्द्रादावाभ्यन्तरे नाडीचक्रादौ वा भाव्यमाने चेतसःस्थैर्यं भवति | एभिरुपायैश्चित्ते स्थैर्यं भावयतो योगिनः सूक्ष्मविषयभावनाद्वारेण परमाण्वन्तो वशीकारः फलम् | तत्तद्भावयतश्चित्तं न प्रतिहन्यते | एवं संस्कृतस्य चेतसः क्षीणवृत्तेः ग्रहीतृग्रहण- ग्राह्येष्वात्मेन्द्रियविषयेषु क्रमेण तत्स्थत्वं तन्मयत्वं तद्रूपपरिणामश्च | निर्मलस्फटिकस्य तत्तदाश्रयवशात्तद्रूपवन्निर्मलस्य चित्तस्य तत्तद्भावनीयवस्तूपरागात्तत्तद्रूपत्वापत्तिः | अथोक्ता समापत्तिश्चतुर्धा | श्रोत्रेन्द्रियग्राह्यः स्फोटरूपो वा शब्दः | अर्थो जात्यादिः | ज्ञानं सत्त्वप्रधाना बुद्धिवृत्तिः | विकल्प उक्तलक्षणः | तैः स᳚न्कीर्णा सवितर्का समापत्तिः | शब्दार्थस्मृतिप्रविलये सति
SK
प्रत्युदितस्पष्टग्राह्याकारप्रतिभासितया न्यग्भतज्ञानांशत्वेन स्वरूपशून्येव निर्वितर्का
SK
पृ० २६७) समापत्तिः | सूक्ष्मतन्मात्रान्तःकरणादिविषया शब्दार्थविषयत्वेन शब्दार्थविकल्पसहितत्वेन द्वेधा देशकालधर्माद्यवच्छिन्नसूक्ष्मार्थप्रतिभावनवती सविचारा | देशकालधर्मादिरहिततन्मात्रान्तःकरणरूपधर्मिमात्रप्रतिभावनवती निर्विचारा समापत्तिः | सूक्ष्मविषये समापत्तिर्विशिष्टलि᳚न्गभूतादिविषयाः, अविशिष्टलि᳚न्गतन्मात्रेन्द्रियविषया, लि᳚न्गमात्रबुद्धिविषया, अलि᳚न्गप्रधानविषया च | नातः परं सूक्ष्ममस्ति | ता एवोक्तलक्षणाः समापत्तयः सह बीजेन वर्तते इति सबीजः सम्प्रज्ञातस्समाधिः | तथा च सवितर्कां स्थूलविषयामपेक्ष्य निर्वितर्कायाः प्राधान्यम् | ततोऽपि सूक्ष्मविषयायाः सविचारायाः, ततोऽपि निर्विकल्परूपाया निर्विचारायाः | तस्याः प्रकृष्टाभ्यासवशान्नैर्मल्ये सत्यध्यात्मप्रसादः सम्भवति | चित्तं क्लेशवासनारहितं स्थिरप्रवाहयोग्यं भवति | एवं चित्तवैशारद्यरूपे दार्ढ्ये सति, ऋतं सत्यं बिभर्ति कदाचिदपि न विपर्ययेणाच्छाद्यत इति ऋतम्भरा प्रज्ञा तस्मिन्भवति | तस्माच्च प्रज्ञालोकात्सर्वं यथावत्पश्यन्योगी प्रकृष्टं योगं प्राप्नोति | श्रुतेरनुमानाच्च सामान्यविषया प्रज्ञा | न हि शब्दलि᳚न्गयोरिन्द्रियवद्विशेषप्रतिपत्तौ सामर्थ्यम् | इयं पुनर्नि- र्विचारवैशारद्यसमुद्भवा प्रज्ञा ताभ्यां विलक्षणा विशेषविषयत्वात् | अस्यां हि प्रज्ञायां सूक्ष्मव्यवहितविप्रकृष्टानामपि विशेषः स्फुटेनैव रूपेण भासते | अतस्तस्यामेव योगिना परः प्रयत्नः कर्तव्यः | तया प्रज्ञया जनितः संस्कार अन्यान्व्युत्थानजान्समाधिजांश्च संस्कारान्प्रतिबध्नाति | स्वकार्यकरणाक्षमान् करोति || अथासम्प्रज्ञातः | सम्प्रज्ञातस्य प्रविलये सति सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयाद्या संस्कारमात्राद्वृत्तिरुदेति तस्यां नेति नेति केवलं पर्युदासान्निर्बीजः समाधिर्भवति | यस्मिन्सति पुरुषः स्वरूपनिष्ठः शुद्धो भवति | तदत्राधिकृतस्य योगस्य लक्षणं चित्तवृत्तिनिरोधपदानाञ्च व्याख्यानमभ्यासवैराग्यलक्षणं तस्योपायद्वयस्य स्वरूपं
SK
भेदञ्चाभिधाय सम्प्रज्ञाताऽसम्प्रज्ञातभेदेन योगस्य मुख्यामुख्य-
SK
पृ० २६८) भेदमुक्त्वा योगाभ्यासप्रदर्शनपूर्वकं विस्तरेणोपायान्प्रदर्श्य सुगमोपायप्रदर्शनपरतयेश्वरस्य स्वरूपप्रमाणप्रभाववाचकोपासनाक्रमं तत्फलानि च निर्णीय चित्तस्य विक्षेपांस्तत्सहभुवश्च दुःखादीन्विस्तरेण तत्प्रतिषेधोपायानेकतत्त्वाभ्यासमैत्र्यादीन्प्राणायामादीन्सम्प्रज्ञातास् अम्प्रज्ञातपूर्वा᳚न्गभूतविषयवती प्रतिपत्तिरित्यादीनाऽऽख्यायोपसंहारद्वारेण च समापत्तीः सलक्षणाः फलसहिताः स्वस्वविषयसहितांश्चोक्त्वा सम्प्रज्ञातासम्प्रज्ञातयोरुपसंहारमभिदाय सबीजपूर्वको निर्बीजः समाधिरभिहित इति योगपातञ्जलप्रथमपादप्रक्रिया || तदेवं समाहितचित्तस्य सोपायो योगोऽभिहितः | इदानीं व्युत्थितचित्तस्यापि सोपायाभ्यासपूर्वकयोगसाधनानुष्ठानानि प्रतिपाद्यन्ते- �तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः� तपः कृच्छ्रचान्द्रायणादि, स्वाध्यायः प्रणवादिमन्त्रजपः, ईश्वरप्रणिधानं सर्वक्रियाणां तस्मिन्परमगुरौ फलनिरपेक्षतया समर्पणम् | एते तपः प्रभृतयोऽभ्यस्यमानाश्चित्तगतानविद्यादीन्क्लेशाञ्छिथिलीकुर्वन्तः समाधेरुपकारकाः | �अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः� अविद्या मोहः, अनात्मन्यात्मत्वाभिमानः | सा प्रसुप्ततनुविच्छिन्नोदारभेदाच्चतुर्विधानामस्मितादीनां प्रसवभूमिः | तत्र ये क्लेशाश्चित्तभूमौ स्थिताः प्रबोधकाभावे स्वकार्यं नाऽऽरभन्ते ते सुप्ताः, यथा बाल्ये वासनारुपेण स्थिताः क्लेशाः प्रबोधकसहकार्यभावे नाभिव्यज्यन्ते | अभ्यासवतां योगिनामविद्यादितत्तत्प्रतिपक्षभावनया शिथिलीकृतकार्यसम्पादनशक्तयो वासनाऽवशेषतया चेतस्यवस्थिताः प्रभूतां सामग्रीमन्तरेण स्वकार्यमारब्धुमक्षमाः तनवः | येन केनचिद्बलवता क्लेशेनाभिभूतशक्तयस्तिष्ठन्ति ये ते विच्छिन्नाः | यथा द्वेषावस्थायां रागः, रागावस्थायां वा द्वेषः | प्राप्तसहकारिसन्निधयः स्वकार्यनिर्वर्तका उदारा योगपरि- पन्थिनो व्युत्त्थानदशायां | येषां प्रत्येकञ्चतुर्विधानामपि मूलभूतत्वेन स्थिताप्यविद्याऽन्वयित्वेन प्रतीयते |
SK
तस्याञ्च मिथ्याभूतायां सम्यग्ज्ञानेन निवर्तितायां दग्धबीजकल्पानां तेषां
SK
पृ० २६९) न क्वचित्प्ररोहोऽस्ति | ततस्तदुच्छेदे प्रथमं प्रयत्नः कार्यः | तत्रातस्मिंस्तदिति प्रतिभासोऽविद्येत्यविद्यायाः सामान्यलक्षणम् | अनित्येषु घटादिषु नित्यताभिमानः, अशुचिषु कायादिषु शुचित्वाभिमानः, दुःखेषु च विषयेषु सुखत्वाभिमानः, अनात्मनि शरीरे आत्मत्वाभिमानः, अपुण्ये पुण्यभ्रमोऽनर्थे चार्थभ्रम इत्यादि | �दृग्दर्शनशक्त्योरेकात्मतैवास्मिता� दृक्शक्तिः पुरुषः दर्शनशक्ती रजस्तमोभ्यामनभिभूतः सात्त्विकः परिणामोऽन्तःकरणरूपः, तयोर्भोग्यभोक्तृत्वेन जडाजडत्वेन चात्यन्तभिन्नरूपयोरेकात्मताभिमानोऽस्मिता | यथा प्रकृतिर्वस्तुतः कर्तृत्वभोक्तृत्वरहिताऽपि कर्त्र्यहं भोक्त्र्यहमित्यभिमन्यते सोऽयमस्मितारूपः क्लेशः | सुखज्ञस्य सुखस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो गर्धो रागः | दुःखाभिज्ञस्य तदनुस्मृतिपूर्वकं तत्साधनेषु योऽयं निन्दात्मकः क्रोधः स द्वेषलक्षणः क्लेशः | पूर्वजन्मानुभूतमरणदुःखानुभववासनाबलाद्भयरूपः समुपजायमानः शरीरविषयादिभिर्ममवियोगो मा भूदित्यन्वहमनुबन्धरूपः सर्वस्यैवाऽऽकृमेर्ब्रह्मपर्यन्तं विना निमित्तं वर्तमानोऽभिनिवेशाख्यः क्लेशः | तदेवं व्युत्थानस्य क्लेशात्मकत्वादेकाग्रताभ्यासकामेन प्रथमं क्लेशाः परिहर्तव्याः | ते वासनारूपेण स्थिताः सूक्ष्माः क्लेशाः प्रतिलोमेन परिणामेन त्यक्तव्याः | स्थूलानान्तेषामारब्धकार्याणां याः सुखदुःखमोहात्मिका वृत्तयस्ताश्चित्तैकाग्रतालक्षणेन ध्यानेनैव हातव्याः | चित्तपरिकर्माभ्यासमात्रेणैव स्थूलानां तासां निवृत्तिर्भवति | यथा वस्त्रादौ घनः स्थूलो मलः प्राक्षालनमात्रेणैव निवर्तते | यस्तु तत्र सूक्ष्मः स तैस्तैरुपायैरुत्तापनादिभिर्निवर्तयितव्यः | वासनारूपाणि कर्माणि शुभाशुभरूपाणि क्लेशसाध्यान्यस्मिञ्जन्मनि जन्मान्तरे वा वेदनीयानि फलजनकानि || एवमुक्तलक्षणेषु क्लेशेष्वनभिभूतेषु सत्सु कर्मणां विपाको जात्यायुर्भोगा भवन्ति | जातिर्मनुष्यत्वादिः, आयुश्चिरकालमेककायसम्बन्धः, भोगा विषया इन्द्रियाणि
SK
सुखसंविद्दुःखसंविच्च, कर्मकरणभावसाधनव्युत्पत्त्या भोगशब्दार्थाः |
SK
पृ० २७०) चित्तभूमावनादिकालसञ्चिताः कर्मवासना जात्यायुर्भोगलक्षणं कार्यमारभन्ते | पुण्यकर्मारब्धा जात्यायुर्भोगाः सुखफलाः, अपुण्यकर्मारब्धाः परितापफलाः, प्राणिमात्रापेक्षयाशां द्वैविध्यम् | परिज्ञातक्लेशादिविवेकस्य योगिनः परिदृश्यमानं सकलमेव भोगसाधनं सविषान्नवद्दुःखमेव | यस्मादत्यन्ताभिजातो योगी दुःखलेशेनाप्युद्विजते, यथा हि नेत्रमूर्णातन्तुस्पर्शमात्रेणैव महतीं पीडामनुभवति नेतरद᳚न्गं | परिणामतापसंस्कारदुःखैर्विषयाणामुपभुज्यमानानां यथायथं गर्धाभिवृद्भेस्तदप्राप्तिकृतदुःखस्यापरिहार्यतया दुःखान्तरसाधनत्वाच्चास्त्येव दुःखस्वरूपतेति परिणामदुःखत्वम् | उपभुज्यमानेषु सुखसाधनेषु तत्परिपन्थिनं प्रति द्वेषस्य सर्वदैवावस्थितत्वात्सुखानुभवकालेऽपि तापदुःखं दुष्परिहरमिति तापदुःखता | स्वाभिमतानभिमतविषयसन्निधाने सुखसंविद्दुःखसंविच्चोपजायमाना तथाविधमेव स्वक्षेत्रे संस्कारमारभते, संस्काराच्च पुनस्तथाविधसंविदनुभव इत्यपरिमितसंस्कारोत्पत्तिद्वारेण संसारानुच्छेदात्सर्वस्यैव दुःखत्वम् | गुणवृत्तिविरोधाच्च गुणानां सत्त्वरजस्तमसां या वृत्तयः सुखदुःखमोहरूपाः परस्परमभिभाव्याभिभावकत्वेन विरुद्धा जायन्ते, तासां सर्वत्रैव दुःखानुबन्धा- द्दुःखत्वम् | अयमभिप्रायः- ऐकान्तिकीमात्यन्तिकीञ्च दुःखनिवृत्तिमिच्छतो विवेकिन उक्तरूपकारणचतुष्टयं यावत्सर्वे विषया दुःखरूपतया प्रतिभान्ति | तस्मात्सर्वकर्मविपाको दुःखरूप एव | उक्तक्लेशमूलाविद्योच्छेदकसम्यग्ज्ञानस्य साधनहेयोपादेयावधारणरूपत्वेन हेयस्वरूपमुच्यते | भूतस्य व्यतिक्रान्तत्वादनुभूयमानस्य च त्यक्तुमशक्यत्वादनागतमेव दुःखं हेयम् | चिद्रूपस्य द्रष्टुर्दृश्यबुद्धेश्चाविवेकख्यातिपूर्वको भोग्यभोक्तृत्वरूपो योऽयं संयोगः स हेयस्य दुःखस्य गुणपरिणामस्य संसारस्य हेतुः; तन्निवृत्त्या संसारनिवृत्तिः | प्रकाशक्रियास्थितयः दृश्यस्वरूपम् | प्रकाशः सत्त्वस्य धर्मः, क्रिया
SK
प्रवृत्तिरूपा रजसो धर्मः, स्थितिर्नियमरूपा तमसो धर्मः, एतत्त्रयं स्वरूपम् | स्थूलसूक्ष्मभेदेन द्विविधानि पृथिव्यादीनि गन्धतन्मात्रादीनि च |
SK
पृ० २७१) बुद्धीन्द्रियकर्मेन्द्रियान्तःकरणभेदेन त्रिविधानीन्द्रियाणि च, ग्रहणग्राह्यरूपेण स्वरूपतोऽभिन्नः परिणामो दृश्यस्य कार्यम् | उक्तरूपो भोगः, विवेकख्यातिपूर्विका संसारनिवृत्तिश्च दृश्यस्य फलम् | एवं भूतस्य नानावस्थारूपपरिणामात्मकस्य हेयस्य दृश्यस्य च चतस्रोऽवस्थाः | तत्र महाभूतेन्द्रियाणि विशेषावस्थाः, तन्मात्रान्तःकरणान्यविशेषावस्थाः, लि᳚न्गमात्रं बुद्धिः, अव्यक्तमलि᳚न्गम् | एवं सर्वत्र त्रिगुणरूपस्याव्यक्तस्यान्वयित्वेन प्रत्यभिज्ञानादवश्यं योगकाले ज्ञातव्यानि चत्वार्येतानि गुणपर्वाणि | पुरुषश्चेतनामात्रः परिणामित्वाद्यभावेन शुद्धः सुप्रतिष्ठोऽपि विषयोपरक्तानि ज्ञानानि प्रतिस᳚न्क्रमाद्यभावेन पश्यति | जातविषयोपरागायामेव बुद्धौ सन्निधिमात्रेणैव पुरुषस्य दृष्टृत्वम् | प्रागुक्तलक्षणस्य दृश्यस्य स्वरूपं पुरुषस्य भोक्तृत्वसम्पादनं नाम स्वार्थपरिहारेणैव प्रयोजनम् | न हि प्रधानं प्रवर्तमानमात्मनः किञ्चित्प्रयोजनमपेक्ष्य प्रवर्तते, किन्तु पुरुषस्य भोगं सम्पादयामीति | यद्येवं पुरुषस्य भोगसम्पादनमेव प्रयोजनं तदा सम्पादिते तस्मिंस्तन्निष्प्रयोजनं प्रति विरतव्यापारं स्यात् | तस्मिंश्च परिणामशून्ये शुद्धत्वात्सर्वे द्रष्टारो बन्धरहिताः स्युः | ततश्च संसारोच्छेद इति चेदिदमत्राकूतम्- विवेकख्यातिपर्यन्ताद्भोगसम्पादनात्कमपि कृतार्थं पुरुषं प्रति तन्नष्टं विरतव्यापारम्, तथाऽपि सर्वपुरुषसाधारणत्वादन्यान्प्रत्यनष्टव्यापारमवतिष्ठते | अतः प्रधानस्य सकलभोक्तृसाधारणत्वान्न कदाचिदपि विनाशः एकस्य मुक्तौ वा न सर्वेषां मुक्तिप्रस᳚न्गः | स्वस्वामिशक्त्योः दृश्यस्वभावदृष्टस्वरूपयोः संवेद्यसंवेदकत्वेन व्यवस्थितयोः या स्वरूपोपलब्धिस्तस्याः कारणं सहजभोक्तृत्वम् | भोग्यत्वस्वरूपानतिरिक्तः संयोगः | न हि तयोर्नित्ययोर्व्यापकयोश्च स्वरूपातिरिक्तः कश्चित्संयोगः | यदेव भोग्यस्य भोग्यत्वं भोक्तुश्च भोक्तृत्वमनादिसिद्धं स एव संयोगः | तस्यापि संयोगस्य हेतुरविद्या |
SK
तस्या अविद्यायाः स्वरूपविरुद्धेन सम्यग्ज्ञानेनोन्मूलिताया योऽ
SK
पृ० २७२) यमभावस्तस्मिन्सति तत्कार्यस्य संयोगस्योप्यभावः, तस्य दृश्यस्य च हानम् | अयमभिप्रायः- नैतस्य मूर्तद्रव्यवत्परित्यागो युज्यते | किन्तु जातायां विवेकख्यातावविवेकनिमित्तः संयोगः स्वयमेव निवर्तते | संयोगहानमेव पुरुषस्य कैवल्यं व्यपदिश्यते | तदेवं संयोगस्य स्वरूपं कार्यं कारणञ्चाभिहितम् | अन्ये गुणा अन्यः पुरुष इति विवेकस्य ख्यातिर्दृश्यस्य परित्यागोपायः | प्रतिपक्षभावनाबलादविद्याप्रविलये विनिवृत्तज्ञातृत्वकर्तृत्वाभिमानायाः रजस्तमोमलानभिभूताया बुद्धेरन्तर्मुखा या स᳚न्क्रान्तिः सा र्विवेकख्यातिः | तस्याञ्च सन्ततत्वेन प्रवृत्तायां सत्यां दृश्यस्याधिकारनिवृत्तेर्भवत्येव कैवल्यम् | उत्पन्नविवेकख्यातेः पुरुषस्य प्रान्तभूमौ प्रज्ञा सप्तधा भवति | तस्योत्पन्नविवेकज्ञानस्य ज्ञातव्यविवेकरूपा प्रज्ञा प्रान्तभूमौ सकलसालम्बनसमाधिभूमिपर्यन्ते सप्तप्रकारा च भवति | तत्र कार्यविमुक्तिरूपा चतुर्धा-ज्ञातं मया ज्ञेयं न ज्ञातव्यं किञ्चिदस्ति, क्षीणा मे क्लेशा न मे किञ्चित्क्षेतव्यमस्ति, अधिगतं मया ज्ञानम्, प्राप्ता मया विवेकख्यातिरिति प्रत्ययान्तरपरिहारेण तस्यामवस्थायामीदृश्येव प्रज्ञा जायते | ईदृशी प्रज्ञा कार्यविषयं निर्मलं ज्ञानं कार्यविमुक्तिरित्युच्यते | चित्तविमुक्तिस्त्रिधा- चरितार्था मे बुद्धिःर्गुणा हृताधिकारा गिरिशिखरनिपतिता ग्रावाण इव न पुनः स्थितिं यास्यन्ति; स्वकारणे प्रलयाभिमुखानां गुणानां मोहाभिधानमूलकारणाभावान्निष्प्रयोजनत्वाच्चामीषां कुतः प्ररोहो भवेत्, सात्मीभूतश्च मे समाधिस्तस्मिन्सति स्वरूपप्रतिष्ठोऽहमिति | ईदृशी त्रिप्रकारा चित्तविमुक्तिः | तदेवमीदृश्यां सप्तविधप्रान्तभूमिप्रज्ञायामुपजातायां पुरुषः केवलो भवति | वक्ष्यमाणयोगा᳚न्गानां ज्ञानपूर्वकाभ्यासाच्चित्तसत्त्वप्रकाशावरणलक्षणक्लेशरूपाशुद्धिक्. सये तारतम्येन सात्त्विकपरिणामरूपा ज्ञानदीप्तिर्विवेकख्यातेरूत्पादिका || अथ योगा᳚न्गानि- यमनियमासनप्राणयामप्रत्याहारधारणाध्यानसमाधयोऽष्टौ | तत्र
SK
कानिचिद्धारणादीनि समाधेः साक्षादुपकार-
SK
पृ० २७३) कत्वेनान्तराण्य᳚न्गानि, कानिचिद्यमनियमादीनि प्रतिपक्षभूतहिंसादिवितर्कोन्मूलनद्वारेण समाधेरुपकुर्वन्ति | सत्यासनजये प्राणायामस्थैर्यमित्यासनादीनामुत्तरोत्तरं प्रत्युपकारकत्वम् || तत्राहिंसा सत्यमस्तेयं ब्रह्मचर्यमपरिग्रहश्च पञ्च यमाः | प्राणवियोगप्रयोजनव्यापारो हिंसा, सा च सर्वानर्थहेतुः, तदभावोऽहिंसा | वा᳚न्मनसोर्याथार्थ्यं सत्यम् | परस्वापहरणाभावोऽस्तेयम् | उपस्थसंयमो ब्रह्मचर्यम् | भोगसाधनानामस्वीकारोऽपरिग्रहः | एते यमाः | ब्राह्मणत्वादिजातिभिः, तीर्थादिदेशैः, चतुर्दश्यादिकालैः, ब्राह्मणप्रयोजनादिभिः समयैरनवच्छिन्ना अहिंसादयो यमा महाव्रतमित्युच्यन्ते | तद्यथा- ब्राह्मणं न हनिष्यामि, तीर्थे न कञ्चन हनिष्यामि, चतुर्दश्यां न हनिष्यामि, देवब्राह्मणप्रयोजनव्यतिरेकेण कमपि न हनिष्यामीत्यादिरूपाः | एवं चतुर्विधावच्छेदव्यतिरेकेण कञ्चित्क्वचित्कदाचित्कस्मिंश्चित्कस्यचिदप्यर्थे न हनिष्यामीत्यनवच्छिन्नाः | एवं सत्यादिषु यथासम्भवं योज्यम् | इत्थमनियतीकृताः सामान्येनैव प्रवृत्ता महाव्रतमित्युच्यते | शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि पञ्चनियमाः | शौचं द्विविधम्- बाह्यमाभ्यन्तरञ्च | बाह्यं मृज्जलादिभिः काय- प्रक्षालनम्, मैत्र्यादिभिश्चित्तमलप्रक्षालनमाभ्यन्तरम् | सन्तोषस्तुष्टिः | शेषाः पूर्वं व्याख्याताः | �वितर्कबाधने प्रतिपक्षभावनम्� वितर्क्यन्त इति वितर्काः योगपरिपन्थिनो हिंसादयस्तेषां प्रतिपक्षभावने सति यदा बाधा भवति तदा योगः सुकर इत्येतेषामहिंसादीनां योगा᳚न्गत्वम् | ते च हिंसादयो वितर्काः कृताः कारिता अनुमोदिता इति त्रैविध्येन नव प्रकाराः | नवानां लोभक्रोधमोहाः कारणम् | लोभस्तृष्णा | कृत्याकृत्यविवेकोन्मूलकश्चित्तधर्मः प्रज्वलनात्मकः क्रोधः | मोहोऽनात्मन्यात्मत्वाभिमानः | एवञ्च प्रत्येकं कृत्यादिभेदभिन्ना हिंसादयो मोहादिकारणत्वेन त्रिधा भिद्यन्ते | ते च पुनरवस्थाभेदेन मृदवो मध्या अधिमात्रा इति त्रिप्रकाराः | मृदवो मन्दा
SK
न तीव्रा नापि मध्यमाः | मध्या नापि मन्दा नापि तीव्राः |
SK
पृ० २७४) अधिमात्रास्तीव्रा न मध्या नापि मन्दाः | एते दुःखाज्ञानानन्तफलाः प्रतिपक्षभावनया योगिना तेषां परिहारः कर्तव्यः | एवमहिंसां भावयतः सहजविरोधिनामप्यहिनकुलादीनां वैरत्यागः | हिंसारता अपि हिंसकत्वं परित्यजन्तीत्यर्थः | सत्याभ्यासवतो योगिनोऽग्निष्टामादिक्रियाफलं भवति | अस्तेयाभ्यासिनो दिव्यानि रत्नान्युपतिष्ठन्ते | ब्रह्मचर्यवतां निरतिशयं सामर्थ्यं भवति | अपरिग्रहस्थैर्ये जन्मान्तरे कोऽहमास᳚न्कीदृशः कि᳚न्कार्यकारीति जिज्ञासायां सर्वमेव सम्यग्जानाति | अथ नियमफलानि- शौचवतः स्वा᳚न्गेष्वपि कारणस्वरूपपर्यालोचनया जुगुप्सा भवति, अशुचिरयं कायो नात्राऽऽग्रहः कार्य इति; अनेनैव हेतुना परैः कायवद्भिरसंसर्गः | किञ्च प्रकाशसुखात्मकसत्त्वशुद्धिः रजस्तमोभ्यामनभिभवः | सौमनस्यं खेदाननुभवेन मानसी प्रीतिः | नियतेन्द्रियविषये चेतसः स्थैर्यमेकाग्रता, इन्द्रियजयो विषयपरा᳚न्मुखाणामिन्द्रियाणामात्मन्यवस्थानम् | आत्मदर्शने चित्तस्य योग्यत्वं समर्थत्वमित्येतानि पञ्च शौचाभ्यासिनः फलानि | अयं क्रमः- सत्त्वशुद्धेः सौमनस्यं, तस्मादैकाग्र्यं, तस्मादिन्द्रियजयः, तस्मादात्मदर्शनयोग्यत्वमिति सन्तोषप्रकर्षेण योगिन आभ्यन्तरसुखमाविर्भवति | तपः समभ्यस्यमानं चेतसः क्लेशादिलक्षणाशुद्धिक्षयद्वारेण कायेन्द्रियाणां सिद्धिमुत्कर्षमादधाति | अभिप्रेतमन्त्रजपादिलक्षणे स्वाध्याये प्रकृष्यमाणे इष्टया देवतया सम्प्रयोगो भवति, सा देवता प्रत्यक्षीभवतीत्यर्थः | ईश्वरे योऽयं भक्तिविशेषस्तस्मात्समाधेरुक्तलक्षणस्याविर्भावो भवति | यस्मात्स भगवानीश्वरः प्रसन्नः सन्नन्तरायरूपान्क्लेशान्परिहृत्य समाधिमुद्बोधयति | पद्मासनदण्डासनस्वस्तिकासनादि यदा निष्कम्पं सुखमनुद्वेजनीयं च भवति तदा योगा᳚न्गतां भजते | तस्यैवोपायान्तरञ्च �प्रयत्नशैथिल्याङन्त्यसमापत्तिभ्यां� तदासनं प्रयत्नशैथिल्येनाङन्त्यसमापत्त्या च स्थिरं सुखं भवति || आसनजये सति न
SK
समाध्यन्तरायाः, शीतोष्णक्षत्तृष्णादिभिर्द्वन्द्वैर्योगी नाभिहन्यते | आसनस्थैर्ये सति
SK
पृ० २७५) तन्निमित्तकः प्राणायामोऽनुष्ठेयो भवति | स च श्वासप्रश्वासयोर्गतिविच्छेदलक्षणः | बाह्यप्रवृत्तिः श्वासो रेचकः, अन्तर्वृत्तिः प्रश्वासः पूरकः, अन्तस्तम्भवृत्तिः कुम्भकः | स त्रिविधोऽपि देशेन कालेन स᳚न्ख्यया चोपलक्षितो दीर्घसूक्ष्मसंज्ञो भवति | देशेनोपलक्षितो यथा नासाद्वादशान्तादौ | कालेनोपलक्षितो यथा- षट्त्रिंशन्मात्रादि प्रमाणः | इयतो वारान्कृत इत्यादिरूपः स᳚न्ख्योपलक्षितः | प्राणस्य बाह्यो विषयो नासाद्वादशान्तादिः, आन्तरो विषयो हृदयनाभिचक्रादिः, तौ द्वौ विषयावाक्षिप्य पर्यालोचतः स्तम्भरूपो गतिविच्छेदः स चतुर्थः प्राणायामः | तस्मात्प्राणायामाच्चित्तसत्त्वगतस्य प्रकाशस्यावरणं क्लेशरूपं तत्क्षीयत इत्यर्थः | फलान्तरञ्च धारणासु च योग्यता मनसः || अथ प्रत्याहारः- इन्द्रियाणि स्वस्वविषयेभ्यः प्रतीपमाह्नियन्त इति प्रत्याहारः | चक्षुरादीनामिन्द्रियाणां स्वस्वविषयो रूपादिस्तेन सम्प्रयोगस्तदाभिमुख्येन वर्तनम्, तदभावस्तदाभिमुख्यं परित्यज्य स्वरूपमात्रेऽवस्थानम्, तस्मिन्सति चित्तस्वरूपमात्रानुकारीणीन्द्रियाणि भवन्ति | अभ्यस्यमाने च प्रत्याहारे वश्यानीन्द्रियाणि भवन्ति, यथा- बाह्यविषयाभिमुखतां नीयमानान्यपि न यान्तीत्यर्थः | तदेवं प्रथमपादोक्तलक्षणस्य योगस्या᳚न्गभूतं क्लेशतनूकरणफलं क्रियायोगमभिधाय क्लेशानामुद्देशं स्वरूपं कारणं क्षेत्रं फलं चोक्त्वा कर्मणामपि भेदं स्वरूपं कारणं फलं चाभिधाय विपाकस्य स्वरूपं कारणं चाभिहितम् | ततस्त्याज्यत्वात्क्लेशादीनां ज्ञानव्यतिरेकेण त्यागस्याशक्यत्वाज्ज्ञानस्य च शास्त्रायत्तत्वाच्छास्त्रस्य च हेयहानकारणोपादेयोपादानकारणबोधकत्वेन चतुर्व्यूहत्वाद्धेयस्य च हानव्यतिरेकेण स्वरूपानिष्पत्तेर्हानसहितं चतुर्व्यूहं स्वस्वकारणसहितमभिधायोपादानकारणभूताया विवेकख्यातेः कारणभूतानामन्तर᳚न्गबहिर᳚न्गभावेन स्थितानां योगा᳚न्गानां यमादीनां स्वरूपं फलसहितं व्याकृत्य धारणापर्यन्तानाञ्चासनादीनां
SK
परस्परमुपकार्योपकारक-
SK
पृ० २७६) भावेनावस्थितानामुद्देशमभिधाय परस्परलक्षणकरणपूर्वकं फलमभिहितम् | तदयं योगो यमनियमादिभिः प्राप्तबीजभाव आसनप्राणायामैर᳚न्कुरितः, प्रत्याहारेण कुसुमितो ध्यानधारणासमाधिभिः फलिष्यतीति साधनपादाभिप्रायः || तदेवं पूर्वोद्दिष्टं धारणाद्य᳚न्गत्रयं निर्णेतुं संयमसंज्ञाभिधानपूर्वकं बाह्याभ्यन्तरादिसिद्धिप्रतिपादनाय लक्षयितुमुपक्रमते | तत्र धारणायाः स्वरूपमेवम्- नासाग्रनाभिचक्रादिदेशे चित्तस्य स्थिरीकरणं धारणा | मैत्र्यादिचित्तपरिकर्मवासितान्तःकरणेन यमनियमवता जितासनेन परिहृतप्राणविक्षेपेण प्रत्याहृतेन्द्रियग्रामेण निर्बाधप्रदेशे ऋजुकायेन निर्जितद्वन्द्वेन योगिना नासाग्रादौ सम्प्रज्ञातस्य समाधेरभ्यासाय चेतसः स्थिरीकरणं कर्तव्यमिति || अथ ध्यानम्- यत्र चित्तं धृतं तत्र प्रत्ययस्य विसदृशपरिणामपरिहारद्वारेण धारणायामालम्बनीकृतस्य नैरन्तर्यं ध्यानम् | तदेव ध्यानमर्थमात्रनिर्भासं स्वरूपशून्यमिवापद्यते स समाधिः | एकस्मिन् विषये ध्यानधारणासमाधयः प्रवर्तमानाः संयमः | संयमाभ्यासेन ज्ञातव्यविवेकप्रसवो भवति | तस्य संयमस्य स्थूलसूक्ष्मालम्बनभेदेन स्थितासु चित्तवृत्तिषु विनियोगः कर्तव्यः | पूर्वेभ्यः पञ्चभ्यो यमादिभ्यो ध्यानादित्रयमन्तर᳚न्गं, तदपि निर्बीजस्य बहिर᳚न्गम् | यदा व्युत्थानसंस्काररूपो धर्मस्तिरोभूतो भवति, निरोधसंस्काररूपश्चाऽऽविर्भवति, धार्मिरूपतया च चित्तमुभयत्रान्वयित्वेनाऽवस्थितं प्रतीयते, तदा स निरोधपरिणामशब्देन व्यवह्रियते | चलत्वाद्गुणवृत्तस्य यद्यपि चेदसो निश्चलत्वं नास्ति, तथाप्येवंविधपरिणामस्थैर्य मुच्यते | अस्यैव फलमुच्यते- तस्य चेतस उक्तान्निरोधसंस्कारात्प्रशान्तवाहिता भवति | परिहृतविक्षेपतया सदृशप्रवाहपरिणामि चित्तं भवति || अथ समधिपरिणामः- नानाविधार्थग्रहणं चित्तधर्मः, एकस्मिन्नेवाऽऽलम्बने सदृशपरिणामितैकाग्रता, साऽपि चित्तधर्मः, तयोः
SK
क्षयोदयौ समाधिपरिणामः | अथै-
SK
पृ० २७७) काग्रतापरिणामः- समाहितस्यैव चित्तस्यैकप्रत्ययो वृत्तिविशेषः शान्तोऽतीतमध्वानं प्रविष्टः, अपरस्तूदितो वर्तमानेऽध्वनि स्फुरितः, द्वावपि समाहितचित्तत्वेन तुल्यावेकरूपालम्बनत्वेन सदृशौ प्रत्ययावुभयत्रापि समाहितस्यैव चित्तस्यान्वयित्वेनावस्थानं, स एकाग्रतापरिणामः | स्थूलसूक्ष्मभूतेषु बुद्धिकर्मलक्षणभेदेनावस्थितेषु धर्मलक्षणावस्थाभेदेन त्रिविधः परिणामोऽवगन्तव्यः | अवस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरापत्ति धर्मपरिणामः | यथा- मृल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारो धर्मपरिणामः | अथ लक्षणपरिणामो यथा- तस्यैव घटस्यानागताध्वपरित्यागेन वर्तमानाध्वस्वीकारः, तत्परित्यागेन चातीताध्वपरिग्रहः | अवस्थापरिणामोऽपि यथा- तस्यैव घटस्य प्रथमद्वितीययोः सदृशयोः क्षणयोरन्वयित्वेन; यतश्च गुणवृत्तिर्नापरिणममाना क्षणमप्यस्ति | अथ धर्मिलक्षणम्- श्हान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी� अथोक्तस्य संयमस्य विषयप्रदर्शनद्वारा सिद्धयोऽभिधीयन्ते- धर्मलक्षणावस्थाभेदेन यत्परिणामत्रयमुक्तं तत्र संयमाद्योगिनोऽतीतानागतज्ञानं भवति | अयमभिप्रायः- अस्मिन्धर्मिण्ययं धर्म इदं लक्षणमियमवस्था चानागतादध्वनः समेत्य वर्तमानेऽध्वनि स्वं व्यापारं विधायातीतमध्वानं प्रविशतीत्येवं परिहृतविक्षेपतया यदा संयमं करोति तदा यत्किञ्चिदतिक्रान्तमनुत्पन्नं वा तत्सर्वं योगा जानाति || शब्दार्थज्ञानानां व्यवहार इतरेतराध्यासाद्भिन्नानामपि बुद्ध्येकरूपतासम्पादनात्स᳚न्कीर्णत्वम् | इदं शब्दस्य तत्त्वं यद्वाचकत्वं नाम; इदमर्थस्य यद्वाच्यत्वमिदं ज्ञानस्य यत्प्रकाशकत्वमिति प्रविभागं विधाय तस्मिन्प्रविभागे संयमात्सर्वशब्दज्ञानमुत्पद्यते | अनेनैवाभिप्रायेणायं शब्द अनेन प्राणिना समुच्चारित इति सर्वं जानाति || शंस्कारसाक्षात्करणात्पूर्वजातिज्ञानम्� | एवं मया सोऽर्थोऽनुभूत एवं मया सा क्रिया निष्पादितेति
SK
सर्वमतीतं स्मरति || केनचिन्मुखरागादिना लि᳚न्गेन गृहीतपरचित्तस्य संयमात्परचित्तज्ञानं भवति ||
SK
पृ० २७८) अस्मिन्काये रूपमस्तीति संयमात्तस्य रूपस्य चक्षुर्ग्राह्यत्वरूपा या शक्तिस्तस्याः स्तम्भे भावनावशात्प्रतिबन्धे चक्षुष्प्रकाशासंयोगे योगिनोऽन्तर्धानं भवति, न केनचिदसौ दृश्यत इत्यर्थः | सोपक्रमनिरुपकमभेदेन द्विविधे कर्मणि संयमादमुष्मिन्कालेऽमुष्मिन्प्रदेशे मम शरीरवियोगो भविष्यतीति ज्ञानमुत्पद्यते | आध्यात्मिकाधिभौतिकाधिदैविकारिष्टेभ्यो वा शरीरवियोगज्ञानं जायते | तत्राध्यात्मिकानि कर्णपिधाने कौष्ठवायोरश्रवणादीनि | आधिभौतिकानि अकस्माद्विकृतपुरुषदर्शनादीनि | आधिदैविकानि-अकाण्ड एव द्रष्टुमशक्यस्वर्गादिपदार्थदर्शनादीनि || चन्द्रे कृतसंयमस्य ताराणां ज्ञानं सिध्यति | ज्योतिषां प्रधाने ध्रुवे कृतसंयमस्य ताराणां गतिज्ञानं भवति || इमाः कालज्ञानान्ता बाह्यास्सिद्धय आन्तरास्तु- शरीरमध्यवर्तिनाभिसंज्ञकं यत्षोडशारं चक्रं तस्मिन्कृतसंयमस्य योगिनः कायगतो योऽसौ व्यूहो विशिष्टरसमलधातुनाड्यादीनामवस्थानं तत्र ज्ञानमुत्पद्यते || कण्ठकूपे कृतसंयमस्य क्षुत्पिपासादयो निवर्तन्ते || कण्ठकूपस्याधस्ताद्या कूर्माख्या नाडी तस्यां कृतसंयमस्य चित्तस्थैर्यं भवति || शिरः कपाले ब्रह्मरन्ध्राख्यं छिद्रं प्रकाशाधारत्वाज्ज्योतिः; तत्र कृत- संयमस्य सिद्धदर्शनं भवति || निमित्तानपेक्षं मनोमात्रजन्यमविसंवादकं द्रागुत्पद्यमानं ज्ञानं प्रतिभाः; तस्यां संयमे क्रियमाणे प्रातिभं विवेकख्यातेः पूर्वभावि तारकं ज्ञानमुदेति || हृदयं शरीरस्य प्रदेशविशेषस्तस्मिन्नधोमुखस्वल्पपुण्डरीकाभ्यन्तरेऽन्तःकरणसत्त्वस्य स्थानम्, तत्र कृतसंयमस्य स्वपरचित्तज्ञानमुत्पद्यते || सत्त्वं प्रकाशसुखात्मकः प्राधानिकः परिणामविशेषः, पुरुषो भोक्ताऽधिष्ठातृरूपः, तयोर्भोग्यभोक्तृस्वरूपत्वाच्चेतनाचेतनत्वाच्चात्यन्तास᳚न्कीर्णत्वं भिन्नत्वमित्यर्थः; तयोर्यः प्रत्ययस्याविशेषो भेदेनाप्रतिभासनं तस्मात्सत्त्वस्यैव कर्तृताप्रत्ययः सुखदुःखसंविदां भोगः, सत्त्वस्य स्वार्थनैरपेक्ष्येण
SK
परार्थः पुरुषार्थनिमित्तस्तस्मादन्यो यः स्वार्थः पुरुषस्वरूपमात्रालम्बनः परित्यक्ताहंकारसत्त्वे या चिच्छाया-
SK
पृ० २७९) स᳚न्कान्तिस्तत्र कृतसंयमस्य पुरुषविषयं ज्ञानमुत्पद्यते | तत्र तदेवंरूपं स्वालम्बनं ज्ञानं सत्त्वनिष्ठः पुरुषो जानाति न पुनः पुरुषो ज्ञाता ज्ञानस्य विषयभावमापद्यते, ज्ञेयत्वापत्तेर्ज्ञातृज्ञेययोश्चात्यन्तविरोधात् | ततः पुरुषसंयमादभ्यस्यमानात् व्युत्थितस्यापि ज्ञानापि जायन्ते | तत्र प्रातिभं पूर्वोक्तं ज्ञानं, तस्याऽऽविर्भावात्सूक्ष्मादिकमर्थं पश्यति| श्रावणं श्रात्रेन्द्रियजं ज्ञानं, तस्माच्च प्रकृष्टाद्दिव्यं-दिवि भवं-शब्दं जानाति | वेदनास्पर्शेन्द्रियजं ज्ञानं, तस्मिन् कृतसंयमाद्दिव्यं स्पर्शविषयं ज्ञानं जायते | आदर्शश्चक्षुरिन्द्रियजं ज्ञानं, तस्मिन् संयमाद्दिव्यं रूपज्ञानं जायते | आस्वादो रसनेन्द्रियजं ज्ञानं, तस्मिन् संयमाद्दिव्ये रसे संविदुपजायते | वार्ता गन्धसंवित्तिः, तस्यां संयमाद्दिव्यगन्धोऽनुभूयते | एता उक्ताः सिद्धयः प्रकर्षं गच्छत उपसर्गा विघ्न कारिण इत्यर्थः | तत्र हर्षविस्मयादिकरणेन समाधिः शिथिलीभवति | व्युत्थाने तु पुनर्व्यवहारदशायां विशिष्टफलदायकत्वात्सिद्धयो भवन्ति | व्यापकत्वादात्मचित्तयोर्नियतकर्मवशादेव शरीभान्तर्गतयोर्भोक्तृभोग्यभावेन यत्संवेदनमुपजायते स एव शरीरे बन्ध उच्यते | तद्यदा समाधिवशाद्बन्धकारणं धर्माधर्माख्यं कर्मजातं शिथिलभावमापद्यते, चित्तस्य च योऽसौ प्रचारौ हृदयप्रदेशादिन्द्रियद्वारेण विषयाभिमुख्येन प्रसरस्तस्य संवेदनं ज्ञानमियं चित्तवहनाडी, अनया चित्तं वहति, इयञ्च रसप्राणादिवहाभ्यो नाडीभ्यो विलक्षणेति, स्वपरशरीरयोर्यदा सञ्चारं जानाति तदा परकीयं शरीरं मृतञ्जीवच्छरीरं वा चित्तसञ्चारद्वारेण प्रविशति | चित्तं परशरीरे प्रविशदिन्द्रियाण्यप्यनुवर्तन्ते मधुकरराजमिव मधुमक्षिकाः | ततः परशरीरप्रविष्टोऽयं योगी स्वशरीरवत्तेन व्यवहरति, यतो व्यापकयोश्चित्तपुरुषयोर्भोगस᳚न्कोचे कारणं कर्माधिभूतम्, तच्चेत्समाधिना क्षिप्तं तदा स्वातन्त्र्यात्सर्वत्रैव भोगनिष्पत्तिः |
SK
समस्तानामिन्द्रियाणां तुषज्वालावद्या युगपदुत्थिता वृत्तिः | सा जीवनशब्दवाच्या, तस्याः क्रियाभेदात्प्राणापानादिसंज्ञाभिर्व्यपदेशः | तत्र हृद-
SK
पृ० २८०) यान्मुखानासिकाद्वारेण वायोः प्रणयनात्प्राण इत्युच्यते | एवमपानादिसंज्ञाऽप्युन्नेया | तत्रोदानस्य संयमादितरेषां वायूनां निरोधाज्जलादौ मज्जितोऽपि तूलपिण्डवदुद्गच्छति | समानजयान्निरावरणस्याग्नेरुद्भुतत्वात्तेजसा प्रज्वलन्निव योगी प्रतिभाति || श्रोत्राकाशयोः सम्बन्धसंयमाद्युगपत्सूक्ष्मव्यवहितविप्रकृष्टशब्दग्रहणसमर्थं दिव्यं श्रोत्रं भवति | कायाकाशयोः सम्बन्धसंयमाल्लघुनि तूलादौ समापत्तिस्तन्मयीभावलक्षणा ताञ्चेति विधाय प्राप्तात्यन्तलघुभावो योगी प्रथमं यथारुचि जले सञ्चरन्क्रमेणोर्णनाभतन्तुजालेन सञ्चरमाण आदित्यरश्मिभिश्च विहरन्यथेष्टमाकाशेन गच्छति || शरीराद्बहिर्या मनसः शरीरनैरपेक्ष्येण वृत्तिः सा महाविदेहा नाम विगतशरीराहंकारदार्ढ्यद्वारेणोचते | तत्र संयमात्प्रकाशावरणक्षयः || अथ स्वदर्शनोपयोगिसबीजनिर्बीजसमाधिसिद्धये विविधोपायः-पञ्चानां पृथिव्यादीनां भूतानां ये पञ्चावस्थाविशेषरूपा धर्माः स्थूलत्वादयस्तत्र कृतसंयमस्य भूतजयो भवति, भूतान्यस्य वश्यानि भवन्तीत्यर्थः | तथाहि- भूतानां परिदृश्यमानं विशिष्टाकारवत्स्थूलरूपं, स्वरूपञ्चैषां यथाक्रमं कार्यं गन्धस्नेहोष्णताप्रेरणावकाशप्रदानलक्षणम् | सूक्ष्मञ्च यथाक्रमं भूतानां कारणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि | अन्वयिनो गुणाः प्रकाशप्रवृत्तिस्थितिरूपतया सर्वत्रैवान्वयित्वेन समुपलभ्यन्ते | अर्थवत्वं तेष्वेव गुणेषु भोगापवर्गसम्पादनाख्या शक्तिः | तदेवंभूतेषु पञ्चसूक्तलक्षणावस्थाभिन्नेषु प्रत्यव्यवस्थं संयमं कुर्वन्योगी भूतजयी भवति | तद्यथा- प्रथमं स्थूलरूपे संयमं विधाय तदनु सूक्ष्मरूप इत्येवंक्रमेण तस्य कृतसंयमस्य स᳚न्कल्पानुविधायिन्यो वत्सानुसारिण्य इव गावो भूतप्रकृतयो भवन्ति || अथ भूतजयस्य फलम्- तत्राणिमा परमाणुरूपतापत्तिः, महिमा महत्त्वं, लघिमा तूलपिण्डवल्लघुत्वप्राप्तिः, गरिमा गुरुत्वं, प्राप्तिर᳚न्गल्यग्रेण
SK
चन्द्रादिस्पर्शनशक्तिः | प्राकाम्यमिच्छानभिघातः, शरीरान्तःकरणेश्वरत्वमीशित्वं, सर्वत्र प्रभविष्णुता वशित्वं, सर्वाण्येव
SK
पृ० २८१) भूतान्यनुगामित्वात्तदुक्तं नातिक्रामन्ति, एतेऽणिमाद्याः समाध्युपयोगिनो भूतजयाद्योगिनः प्रादुर्भवन्ति | अथ कायसम्पत्तिः- �रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत्� रूपलावण्यबलानि प्रसिद्धानि | वज्रसंहननत्वं वज्रवत्कठिना संहतिरस्य शरीरे प्रादुर्भवन्ति || �ग्रहणस्वरूपास्मितान्वयार्थवत्वसंयमादिन्द्रियजयः� ग्रहणमिन्द्रियाणां विषयाभिमुखीवृत्तिः, स्वरूपं सामान्येन प्रकाशकत्वं, अस्मिताऽह᳚न्कारानुगमः, अन्वयार्थवत्त्वे पूर्ववत्, एतेषामिन्द्रियाणामवस्थापञ्चके पूर्ववत्संयमं कृत्वेन्द्रियजयी भवति || ततः शरीरस्य मनोवदनुत्तमगतिलाभो मनोजवित्वं, कायनिरपेक्षाणामिन्द्रियाणां वृत्तिलाभो विकरणभावः, सर्ववशित्वं प्रधानजयः | एतास्तिस्रः सिद्धयो जितेन्द्रियस्य प्रादुर्भवन्ति || अथान्तःकरणजयः- शत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं� सर्वज्ञातृत्वञ्च तस्मिन् शुद्धे सात्त्विके परिणामे कृतसंयमस्य या सत्त्वपुरुषयोरुत्पद्यते विवेकख्यातिर्गुणानां कर्तृत्वाभिमानशिथिलीभावरूपा तन्माहात्म्यात्तत्रैव स्थितस्य योगिनः सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वञ्च समाधेर्भवति | सर्वेषां गुणपरिणामानां भावानां स्वामिवदाक्रमणं सर्वभावा- धिष्ठातृत्वं, तेषामेव च शान्तोदिताव्यपदेश्यधर्मित्वेनावस्थितानां यथावद्विवेकज्ञानं सर्वज्ञातृत्वं | एषाञ्चास्मिञ्शास्त्रे परस्यां वशीकारसंज्ञायां प्राप्तायां विशोका नाम सिद्धिरित्युच्यते || अथ क्रमेण भूमिकान्तरं- �तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्� | एतस्यां विशोकायां सिद्धौ यदा वैराग्यमुत्पद्यते योगिनस्तदा तस्माद्दोषाणां रागादीनां यद्बीजमविद्यादयस्तेषां क्षये चात्यन्तिकी दुःखनिवृत्तिः तस्य पुरुषस्य गुणानामधिकारपरिसमाप्तौ स्वरूपप्रतिष्ठत्वम् || एवंभूतस्य योगिनो देवा उपनिमन्त्रयितारो भवन्ति | दिव्यस्त्रीरसायनादिकं ढौकयन्ति, तेन विस्मयस᳚न्गमौ न कार्यौ | क्षणानां पौर्वापर्येण परिणामे संयमाद्विवेकज्ञानमुत्पद्यते | पदार्थानां
SK
भेदहेतवो जातिलक्षणदेशा भवन्ति | यत्र केनचिदपायेन भेदो नावधारयितुं शक्यस्तत्र पृ० २८२) संयमाद्भवत्येव भेदप्रतिपत्तिः | उक्तसंयमबलादन्त्यायां भूमिकायामुत्पन्नं ज्ञानं तारयत्यगाधात्संसारसागराद्योगिनमित्यान्वर्थिक्या संज्ञाया तारकमित्युच्यते | तच्च महदादिसर्वविषयं, सर्वाभिरवस्थाभिः स्थूलसूक्ष्मादिशरीरभेदेन तैस्तैः परिणामैः सर्वप्रकारेणावस्थितानि तत्त्वानि विषयो यस्येति सर्वथा विषयं | निश्शेषनानावस्थापरिणामन्यूनाधिकभावग्रहणे नास्य क्रमो विद्यत इत्यक्रमम् | सर्वं करतलामलकवद्युतपत्पश्यतीत्यर्थः | फलभिधीयते- शत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम्� चित्तसत्वस्य सर्वकर्तृत्वाभिमाननिवृत्या स्वकारणेऽनुप्रवेशः शुद्धिः, पुरुषस्य शुद्धिरुपचरितभोगाभाव इति द्वयोः समानायां शुद्धौ पुरुषस्य कैवल्यमुत्पद्यते, मोक्षो भवतीत्यर्थः | तदेवमन्तर᳚न्गं योगा᳚न्गत्रयमभिधाय तस्य च संयमसंज्ञां कृत्वा संयमस्य च विषयप्रदर्शनार्थं परिणामत्रयमुपपाद्य संयमबलोत्पद्यमानाः पूर्वान्तपरान्तमध्यभवाः सिद्धीः प्रदर्श्य समाधौ विश्वासोत्पत्तये बाह्या भुवनज्ञानादिरूपा आभ्यन्तराश्च कायव्यूहज्ञानादिरूपास्ताः प्रदर्श्य समाध्युपयोगायेन्द्रियप्राणजयादिपूर्विकाः परमपुरुषार्थसिद्धये यथाक्रममवस्थासहितभूतजयेन्द्रियजयसत्त्वजयोद्भवाश्च व्याख्याय विवेकज्ञानोत्पत्तये तांस्तानुपायानुपन्यस्य तारकस्य सर्वसमाध्यवस्थापर्यन्तभवस्य रूपमभिधाय तत्समापत्तेः कृताधिकारस्य चित्तसत्त्वस्य स्वकारणेऽनुप्रवेशात्कैवल्यमुत्पद्यत इति विभूतिपादीयोऽभिप्रायः || यदाज्ञयैव कैवल्यं विनोपायैः प्रजायते | तमेकमजमीशानं चिदानन्दमयं स्तुमः ||
SK
अथ विप्रतिपत्तिसमुत्थभ्रान्तिनिराकरणेन युक्त्या कैवल्यस्वरूपज्ञानाय कैवल्यपादोऽयमारभ्यते- �जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः� पक्ष्यादीनामाकाशगमनादिर्जन्ममात्रनिमित्ता सिद्धिः | यथा कपिलादीनां जन्ममात्रेण ज्ञानसिद्धिः | पारदादिरसायनाद्युपयोगादौषधसिद्धिः | केषाञ्चिन्मन्त्रसिद्धिराकाशगमनादिः |
SK
पृ० २८३) तपस्सिद्धिर्विश्वामित्रादीनां | समाधिसिद्धिः प्राक् प्रतिपादिता | एताः सिद्धयः पूर्वजन्मक्षपितक्लेशानामेवोपजायन्ते | तस्मात्समाधिसिद्धाविवान्यासामपि सिद्धीनां जन्मान्तरीयसमाधिरेव कारणम् | मन्त्रादीनि निमित्तमात्राणि | ननु नन्दीश्वरादीनां जात्यादिपरिणामोऽस्मिन्नेव जन्मनि दृश्यते तत्कथं जन्मान्तराभ्यस्तस्य समाधेः कारणत्वमिति चेद्योऽयमिहैव जन्मनि नन्दीश्वरादीनां जात्यन्तरपरिणामः स प्रकृत्या पुरोत् | धर्माधर्मादिप्रकृतीनामर्थान्तरपरिणामे तु न प्रयोजकम्, नहि कार्येण कारणं प्रवर्तते | यथा कृषीवलः केदारात्केदारान्तरं जलं निनीषुर्जलप्रतिबन्धकवरणभेदमात्रं करोति, तस्मिन् भिन्ने जलं स्वयमेव प्रसरद्रूपं परिणामं गृह्णाति, नतु जलप्रसरणे तस्य कश्चिद्व्यापारः, एवं धर्मादेरनुष्ठीयमानादधर्मादिवरणक्षयः क्रियते; तस्मिन् प्रतिबन्धके क्षीणे प्रकृतयः स्वयमभिमतकार्याय प्रभवन्ति | यदा साक्षात्कृततत्त्वस्य योगिनो युगपत्कर्मफलभोगायाऽऽत्मीयनिरतिशयविभूत्यनुभवाद्युगपदनेकशरीर निर्मितसायामग्नेर्विस्फुलि᳚न्गा इव कायेषु तन्मूलकारणादस्मितामात्रादेव तदिच्छया चित्तानि प्रसरन्ति | तेषां चेतसां व्यापारनानात्वे एकं योगिनश्चित्तं प्रयोजकमधि- ष्ठातृत्वेन, तेन न भिन्नमतत्वम् | यथा स्वीयशरीरे मनश्चक्षुःपाण्यादीनि यथेच्छं प्रेरयत्यधिष्ठातृत्वेन तथा चित्तं कायान्तरेष्वपि || जन्मादिप्रभवेषु पञ्चसु चित्तेषु समाधिजं चित्तं कर्मवासनारहितम् | यथेतरचित्तेभ्यो योगिनश्चित्तं विलक्षणं क्लेशादिरहितं तथा कर्मापि | दानतपःस्वाध्यायादिमतां पुरुषाणां शुभफलदं यागादि शुक्लं कर्म | ब्रह्महत्यादि कृष्णं कर्म नारकिणाम् | शुक्लकृष्णं कर्म सोमयागादिरतानाम् | योगिनान्तु त्रिविधकर्मविपरीतं यत्फलत्यागानुसन्धानेनैवानुष्ठानान्न किञ्चित्फलमारभते | अस्यैव कर्मणः फलन्तु येन कर्मणा यादृग्देवमनुष्यादिशरीरमारब्धं तस्यानुरूपा वासनाः प्रकटीभवन्ति; इतरा जात्यायुर्भोगफला
SK
वासनास्तु सत्याऽप्यव्यक्तसंज्ञास्तिष्ठन्ति; न तस्यां दशायां नारकादिशरीरस्यो-
SK
पृ० २८४) पभोगभवा वासना व्यक्तिमायान्ति | कार्यकारणभावोपपत्तिरपि- इह नानायोनिषु भ्रमतां संसारिणां काञ्चिद्योनिमनुभूय यदा योन्यन्तरसहस्रव्यवधानेन पुनस्तामेव योनिं प्रतिपद्यते तदा तस्यां योनौ पूर्वानुभूतायां तथाविधशरीरादिव्यञ्जकापेक्षया वासना याः प्रकटीभूता आसंस्तास्तथाविधव्यञ्जकाभावात्तिरोहिताः पुनस्तथाविधव्यञ्जकशरीरादिलाभे प्रकटी भवन्ति | जातिदेशकालव्यवधानेऽपि तासां स्वानुरूपस्मृत्यादिफलसाधने नैरन्तर्यमेव, स्मृतिसंस्कारयोरेकरूपत्वात् | तथाहि- अनुष्ठीयमानात्कर्मणश्चित्तसत्त्वे वासनारूपः संस्कारः समुत्पद्यते | स च स्वर्गनरकादीनां फलानाम᳚न्कुरीभावः कर्मणां शक्तिरूपतयाऽवस्थानम् | कर्तुस्तथाविधभोग्यभोक्तृत्वरूपं सामर्थ्यम् | संस्कारात्स्मृतिः स्मृतेश्च सुखदुःखोपभोगस्तदनुभवाच्च पुनरपि संस्कारस्मृत्यादयः | एवं सति यस्य स्मृतिसंस्कारादयो भिन्नास्तस्याङन्तर्याभावे दुर्लभः कार्यकारणभावः | अस्माकन्तु यदा जातानुभव एव संस्कारीभवति संस्कारश्च स्मृतिरूपतया परिणमते तदैकस्यैव चित्तस्यानुसन्धातृत्वेन स्थितत्वात्कार्यकारणभावो न दुर्घटः | भवत्वानन्तर्यं कार्यकारणभावश्च वासनानां यदा तु प्रथममेवानुभवः प्रवर्तते तदा किं वासना- निमित्त उत निर्निमित्त इति श᳚न्काविषये तासां वासनानां प्रवाहानादित्वमाशिषो नित्यत्वात् | येयमाशीर्महामोहरूपा सदैव सुखसाधनानि मे भूयासुर्मा कदाचन तैर्मे वियोगोभूदिति यः स᳚न्कल्पविशेषो वासनानां कारणं तस्यानादित्वात् | अयमभिप्रायः- कारणस्य संनिहितत्वादनुभवसंस्कारादीनां प्रवृत्तिः केन वार्यते ? अनुभवसंस्काराद्यनुविद्धं स᳚न्कोचविकासधर्मिचित्तं तत्तदभिव्यञजकविपाकलाभात्तत्तत्फलरूपतया परिणमत इति | अथानन्तानां वासनानां हानोपायः- वासनानामनन्तरानुभवो हेतुस्तस्याप्यनुभवस्य रागादयस्तेषामविद्येति साक्षात्पारम्पर्येण हेतुः | शरीरादि स्मृत्यादि च फलम् | आश्रयो बुद्धिसत्त्वम् | आलम्बनं
SK
यदेवानुभवस्य
SK
पृ० २८५) तदेव वासनानामतस्तैर्हेतुफलाश्रयालम्बनैरनन्तानामपि वासनानां स᳚न्ग्रहीतत्वात्तेषां हेत्वादीनामभावे ज्ञानयोगाभ्यां दग्धबीजत्वे विहिते तन्निर्मूलत्वान्न वासनाः प्ररोहन्ति न कार्यमारभन्त इति तासामभावः | �अतीतानागतं स्वरूपतोऽस्त्यध्वभेदात्तद्धर्माणाम्� इहात्यन्तमसतां भावानामुत्पत्तिर्न युक्तिमती, तेषां सत्त्वसम्बन्धायोगात् | नहि शशविषाणादीनां क्वचिदपि सत्त्वसम्बन्धो दृष्टः | निरूपाख्ये च कार्ये किमुद्दिश्य कारणानि प्रवर्तेरन् | नहि विषयमनालोच्य कश्चित्प्रवर्तते | सतामपि विरोधान्नाभावसम्बन्धोऽस्ति | यत्स्वरूपेण लब्धसत्ताकं तत्कथं निरुपाख्यतामभावरूपतां वा भजते ? तस्मात्सतामभावासम्भवादसताञ्चोत्पत्त्यभावात्तैस्तैर्धमैर्विपरिणमम् आनो धर्मी सदैवैकरूपतयाऽवतिष्ठते | धर्मास्तु त्र्यधिकत्वेन त्रैकालिकत्वेन हि व्यवस्थिताः स्वस्मिन्स्वस्मिन्नध्वनि व्यवस्थिता न स्वरूपं त्यजन्ति, वर्तमानेऽध्वनि व्यवस्थिताः केवलं भोग्यतां भजन्ते | तस्माद्धर्माणामेवातीतानागताध्वभेदस्तेनैव च स्वरूपेण कार्यकारणभावोऽस्मिन्दर्शने प्रतिपाद्यते | तस्मादपवर्गपर्यन्तमेकमेव चित्तं धर्मितयाऽनुवर्तमानं न निह्नोतुं पार्यते | ते धर्मधर्मिणो व्यक्तसूक्ष्मभेदेन व्यवस्थिता ये सत्त्वरजस्तमोरूपा गुणास्तदात्मानः सत्त्वरजस्तमोभिः सुखदुःखमोहरूपैः सर्वासां बाह्याभ्यन्तरभेदभिन्नानां भावव्यक्तीनामन्वयानुगमो दृश्यते | यद्यपि त्रयो गुणाः सर्वत्र मूलकारणम्, तथापि क्वचित्सत्त्वम᳚न्गि क्वचिद्रजः क्वचिच्च तम इत्येवंरूपस्तस्यै कत्वाद्वस्तुनस्तत्त्वमेकत्वमुच्यते | यथेयं पृथिवी, अयं वायुरित्यादि | ननु ज्ञानव्यतिरिक्ते सत्यर्थे वस्त्वेकमनेकं वा वक्तुं शक्यते | यदा विज्ञानमेव वासनावशात्कार्यकारणभावेनावस्थितं तथा तथा प्रतिभाति तदा कथमेतच्छक्यते वक्तुमित्याश᳚न्कायां ज्ञानज्ञेययोविविक्तः पन्थाः | कथं ? वस्तुसाम्ये चित्तभेदात् | समाने वस्तुनि स्त्र्यादावुपलभ्यमाने
SK
नानाप्रमातृर्णां चित्तस्य भेदः सुखदुःखमोहरूपेणोपलभ्यते, यथा एकस्यां योषिति सरागस्य सुखम्, सपत्न्यास्तु द्वेषः, परिव्राजकस्य
SK
पृ० २८६) घृणा | तस्मान्न चित्तकार्यं वस्तु || यद्येवं ज्ञानं चेत्प्रकाशकत्वाद्ग्रहणस्वभावमर्थश्च प्रकाश्यत्वाद्ग्राह्यस्वभावस्तत्कथं युगपत्सर्वानर्थान्न गृह्णातीति चेत्, येनैवार्थेनास्य ज्ञानस्य स्वरूपोपरागः कृतस्तमेवार्थं ज्ञानं व्यवहारयोग्यतां नयति ततश्च सोऽर्थो ज्ञात इत्युच्यते | येन चाऽऽकारो न समर्पितः सोऽज्ञातत्वेन व्यवह्रियते | यस्मिंश्चानुभूतेऽर्थे सदृशादिरर्थः संस्कारमुद्बोधयन्सहकारिकारणतां प्रतिपद्यते तस्मिन्नेवार्थे स्मृतिरुपजायत इति | न सर्वत्र ज्ञानं नाऽपि सर्वत्र स्मृतिरिति न कश्चिद्विरोधः | यद्येवं प्रमाताऽपि पुरुषो यस्मिन्काले नीलं संवेदयति न तस्मिन्नेव काले पीतमतश्चित्तसत्त्वस्यापि कादाचित्कत्वं ग्रहीतृरूपत्वादाकारग्रहणे परिणामित्वमिति चेत्प्रमाणविपर्ययादिचित्तवृत्तयः सर्वदा ज्ञाताः, तद्ग्रहीतुः पुरुषस्यापरिणामात् | यद्यसौ परिणामी स्यात्तदा परिणामस्य कादाचित्कत्वात्प्रमातुस्तासां चित्तवृत्तीनां सदा ज्ञातत्वं न स्यात्तस्मात्पुरुषो न परिणामी | ननु चित्तमेव सत्त्वोत्कर्षाद्यदि प्रकाशकं तदा स्वपरप्रकाशकत्वादात्मानमर्थञ्च प्रकाशयतीति तावतैव व्यवहारसमाप्तेः किं ग्रहीत्रन्तरेणेति चेत्, तच्चित्तं स्वप्रकाशकं न भवति किन्तु पुरुषवेद्यं भवति दृश्यत्वात् | ननु साध्याविशिष्टोऽयं हेतुः, दृश्यत्वमेव चित्तस्यासिद्धम् | किञ्च स्वबुद्धिसंवेदनद्वारेण पुरुषाणां हिताहितप्राप्तिपरिहाररूपा वृत्तयो दृश्यन्ते | तथाहि- क्रुद्धोऽहं भीतोऽहमत्र मे राग इत्येवमाद्याः संविदो बुद्धेरसंवेदने तु नोपपन्ना इति चेत्, अर्थस्य संवित्तिरिदन्तया व्यवहारयोग्यतापादनमयमर्थः सुखहेतुर्दुःखहेतुर्वेति | बुद्धेश्च संविदहमित्येवमाकारेण सुखदुःखरूपतया व्यवहारक्षमतापादनम् | एवंविधञ्च व्यापारद्वयमर्थप्रत्यक्षकाले न युगपत्कर्तुं शक्यं विरोधात् | नहि विरुद्धयोर्व्यापारयोर्युगपत्सम्भवोऽस्ति | अत एकस्मिन्काले उभयस्य स्वरूपस्यार्थस्य चावधारयितुमशक्यत्वान्न चित्तं स्वप्रकाशम् | ननु मा
SK
भूद्बुधेः स्वयं ग्रहणं बुद्ध्यन्तरेण भविष्यतीति
SK
पृ० २८७) चेत्, �चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रस᳚न्गः स्मृतिस᳚न्करश्च� रूपे रसे वा समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनां समुत्पत्तेर्बुद्धिजनितैः संस्कारैर्यदा युगपद्बह्व्यः स्मृतयः क्रियन्ते तदा बुद्धेरपर्यवसानाद्बुद्धिस्मृतीनाञ्च बह्वीनां युगपदुत्पत्तेः कस्मिन्नर्थे स्मृतिरियमुत्पन्नेति ज्ञातुमशक्यत्वात्स्मृतीनां स᳚न्करः स्यात् | इयं रूपस्मृतिरियं रसस्मृतिरिति न ज्ञायेत | ननु बुद्धेः स्वप्रकाशत्वाभावे बुद्ध्यन्तरेण चासंवेदने | कथमयं विषयसंवेदनरूपो व्यवहार इति चेत्, पुरुषश्चिन्मयत्वाच्चितिः, साऽन्येनास᳚न्कीर्णा सदैकरूपतयाऽवतिष्ठते | अतस्तत्सन्निधाने यदा बुद्धिस्तदाकारतामापद्यते चेतनेवोपजायते | बुद्धिवृत्तिप्रतिस᳚न्क्रान्ता च यदा चिच्छक्तिर्बुद्धिवृत्तिविशिष्टतया सम्पद्यते तदा बुद्धेः स्वस्याऽऽत्मनो वेदनं सम्भवति | इत्थं स्वसंविदितं चित्तं सर्वार्थग्रहणसामर्थ्येन सकलव्यवहारनिर्वाहक्षमं भवति || शास्त्रफलकैवल्यस्वरूपन्त्वित्थम्-सत्त्वपुरुषयोरन्यत्वे सिद्धे यस्तयोर्विशेषमहमस्मादन्य इति पश्यति तस्य चित्ते याऽऽत्मभावभावना सा निवर्तते-चित्तमेव कर्तृज्ञातृभोक्तृ चेत्यभिमानो निवर्तते | तस्मिन्सत्यज्ञाननिम्नपथं बहिर्मुखं चित्तं विवेकनिम्नमार्गमाभ्यन्तरमुखं कैवल्यफलं सम्पद्यते | अस्मिन्विवेकवाहिनि चित्ते येऽन्तरायाः प्रादुर्भवन्ति तेषामित्थं त्यागोपायः | तथाहि- समाधौ स्थितस्यान्तरालेषु यानि व्युत्थानरूपाणि ज्ञानानि तानि प्राक्तनेभ्यो व्युत्थानानुभवजेभ्यः संस्कारेभ्योऽहं ममेत्येवं रूपाणि क्षीयमाणेभ्योऽपि प्रभवन्ति- अन्तःकरणोच्छित्तिद्वारेण तेषां ज्ञानं कर्तव्यमित्युक्तं भवति | यथा क्लेशानामविद्यादीनां हानं पूर्वमुक्तं तथा संस्काराणामपि कर्तव्यम् | यथा ते ज्ञानाग्निना प्लुष्टा दग्धबीजकल्पा न पुनश्चित्तभूमौ प्ररोहं लभन्ते तथा संस्कारा अपि || एवं प्रत्ययान्तरानुदयेन स्थिरीभूते समाधौ यादृशस्य योगिनः समाधिप्रकर्षप्राप्तिर्भवति तादृशोपायः |
SK
यावतां तत्त्वानां यथाक्रमं व्यवस्थितानां परस्परविलक्षणस्वरूपपरिभावने सत्यप्यकुसीदस्य फलमलिप्सोः प्रत्ययान्तराणामनुदये
SK
पृ० २८८) सर्वप्रकारविवेकख्यातेः परिपोषाद्धर्ममेघः समाधिर्भवति | अविद्याद्यभिनिवेशान्तक्लेशानां शुक्लादित्रिविधकर्मणां ज्ञानोदयात्पूर्वपूर्वकारणनिवृत्त्या निवृत्तिर्भवति | तदा सर्वावरणनिवृत्तौ ज्ञाननैरन्तर्यादक्लेशेनैव सर्वं ज्ञेयं जानाति | ततो निष्पादितभोगापवर्गलक्षणपुरुषार्थानां सत्वरजस्तमसां परिणतिक्रमसमाप्तिर्भवति | अल्पीयसः कालस्य योऽसौ प्रतियोग्येकक्षणविलक्षणः परिणामापरान्तनिर्ग्राह्योऽनुभूतेषु क्षणेषु पश्चात्स᳚न्कलनबुद्ध्यैव यो गृह्यते स क्षणानां क्रम उच्यते, नह्यननुभूतेषु क्षणेषु क्रमः परिज्ञातुं शक्यः || फलभूतस्य कैवल्यस्यासाधारणं स्वरूपमित्थं विज्ञेयः | समाप्तभोगापवर्गपुरुषार्थलक्षणानां गुणानां यः प्रतिप्रसवः तस्य समाप्तौ विकारानुद्भवः, यदि वा चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूपमात्रेऽवस्थानं कैवल्यमुच्यते | तदेवं सिद्ध्यन्तरेभ्यो विलक्षणां सर्वसिद्धिमूलभूतां समाधिसिद्धिमभिधाय जात्यन्तरपरिणामलक्षणस्य च सिद्धिविशेषस्य प्रकृत्यापूरणमेव कारणमित्युपपाद्य धर्मादीनां प्रतिबन्धकनिवृत्तिमात्र एव सामर्थ्यमिति पदर्श्य निर्माणचित्तानामस्मितामात्रादुद्भव इत्युक्त्वा तेषाञ्च योगिचित्तमेवाधिष्ठापकमिति प्रदर्श्य योगिचित्तस्य चित्तान्तरवैलक्षण्यमभिधाय तत्कर्मणामलौकिकत्वञ्चोपपाद्य विपाकानुगुणानाञ्च वासनानामभिव्यक्तिसामर्थ्यं कार्यकारणयोश्चैक्यप्रतिपादनेन व्यवहितानामपि वासनानामानन्तर्यमुपपाद्य तासामानन्त्येऽपि हेतुफलादिद्वारेण हानमुपदर्श्यातीतादिष्वध्वसु धर्माणां सद्भावमुपपाद्य विज्ञानवादं निराकृत्य साकारवादञ्च प्रतिष्ठाप्य पुरुषस्य ज्ञातृत्वमुक्त्वा चित्तद्वारेण सकलव्यवहारनिष्पत्तिमुपपाद्य पुरुषसिद्धौ प्रमाणमुपपाद्य कैवल्यनिर्णयाय दशभिः सूत्रैः क्रमेणोपयोगिनोऽर्थानभिधाय शास्त्रान्तरेऽप्येतदेव कैवल्यमित्युपपाद्य कैवल्यस्वरूपं निर्णीतमिति क्रमिकोऽयं योगपातञ्जलानां यावान्राद्धान्तः || अत्रोच्यते- अष्टा᳚न्गयोगे
SK
तात्पर्यवत्त्वात्प्रमाणभूतापि सती योगस्मृतिरवैदिके प्रधानादौ न प्रमाणम्; तत्र तात्पर्याभावात् | तथाहि-
SK
पृ० २८९) �अथ योगानुशासनमि�ति प्रतिज्ञाय �योगश्चित्तवृत्तिनिरोध� इति योगस्यैव लक्षणमुक्त्वा तमेव कृत्स्नशास्त्रेण प्रपञ्चयामासेति तत्र योगे तात्पर्यम् | प्रधानादीनि तु न प्रतिपाद्यतया प्रतिजज्ञे किं तर्हि ? द्वितीयपादे यमनियमादिसाधनप्रतिपादके ज्ञेयं ज्ञेयहेतुं ज्ञानं ज्ञानहेतुञ्च विवेचयन्प्रस᳚न्गात्सा᳚न्ख्यस्मृतिप्रसिद्धानि प्रधानादीनि व्याजहार, ततो न तत्र तात्पर्यम् | तस्मान्न योगस्मृत्या वेदस्य स᳚न्कोचः | यच्चोक्तं सरूपाणामेव जन्यजनकभावदर्शनादचेतनं जगच्चेतनाद्ब्रह्मणो न जायते; विलक्षणत्वात् | यद्येन विलक्षणं तत्तस्मान्न जायत इति तत्तुच्छं, ये ये कार्यकारणे ते तेन सलक्षण इत्यस्या व्याप्तेर्वृश्चिकादौ व्यभिचारो दृश्यते- अचेतनाद्गोमयाद्वृश्चिकस्य चेतनस्योत्पत्तेः | चेतनाच्च पुरुषादचेतनानां केशनखादीनामुत्पद्यमानत्वात् | अतो वेदनिरपेक्षः शुष्कतर्को न क्वापि प्रतितिष्ठति | तदुक्तमाचार्यैः- �यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः | अभियुक्ततरैरन्यैरन्यथैवोपपाद्यत� इति | तस्माद्वैलक्षण्यहेतुर्न बाधकः || यत्तु निरीश्वरसा᳚न्ख्यसेश्वरसा᳚न्ख्ययोर्मतमुपन्यस्य तन्मतखण्डनप्रस्तावनायां द्वितीयोल्लासे परमतगिरिवज्रदण्डकारेणाभिहितम-त्रेदं विचार्य्यत इत्यादिना बिम्बप्रतिबिम्बभावे रूपवद्दर्पणे रूपवद्घटादिप्रतिबिम्बवत्, समानधर्मत्वं घटादिरूपबिम्बापेक्षया दर्पणादेर्नैमल्यञ्चापेक्षितमिति प्रसिद्धम् | अत्र निर्मलस्याप्यसंवेद्यपक्षपतितस्य पुरुषस्य सुखदुःखमोहान्धकारकलुषितस्य बुद्धितत्त्वस्य च वैपरीत्येन विरोधान्न तत्प्रतिबिम्बत्वं पुरुषस्य तत्प्रतिबिम्बकारणीभूतनीलादिबिम्बपदार्थस्य बुद्धिव्यतिरिक्तबुद्धिप्रदेशवर्तमानासम्भवात् | सर्वस्य बोधकलक्षणबुद्व्यन्तर्गतत्वेन तदनन्तर्गतप्रदेशस्याभावात्, न स्वप्रकाशात्मकतमोगुणभागे स्थिता नीलादयो बिम्बभूताः प्रकाशात्मकसत्त्वगुणभागलक्षणबुद्धिदर्पणे प्रतिफलन्तीति चेन्न, तमोगुणभागस्यापि बुद्व्यन्तर्गततया
SK
भासनात् | अन्यथा तम इति रज इति सत्त्वमित्यस᳚न्कीर्णविभागस्फुरणं न
SK
पृ० २९०) स्यात् | यद्यत्स्फुरंति तत्सर्वं स्फुरणात्मकं बुद्व्यन्तर्गतमिति न्यायात् | यदि भवति बुद्धौ प्रतिबिंबस्तदा तस्या मुखप्रकाशत्वेन दर्पणादिप्रतिबिंबितवह्न्यादेस्तृणदाहकत्वतण्डुलपाचकत्वाद्यर्थक्रिया या असम्भव इव कर्तृत्वज्ञातृत्वभोक्तृत्वाद्यर्थक्रियाकारित्वं न स्यात् | बुद्धिपुरुषयोः परस्परभेदाग्रहात्तदभिमानमात्रमिति वाच्यम्, जपाकुसुमलौहित्यं यथा स्फटिकादौ प्रतीयते तद्वद्बुद्धिनिष्ठं कर्तृत्वं पुरुषे प्रतीयत इति वक्तव्यम्, तथासति बुद्धिव्यतिरिक्तपुरुषकल्पनमप्राणिकं स्यात्, कर्त्तृत्वादेर्बुद्धिधर्मत्वात् | नच कर्तृत्वादेरपि ज्ञातृधर्मत्वान्न तत्कल्पनमपि युक्तं बुद्धितत्त्वस्येति | नच पुरुषनिष्ठमेव कर्तृत्वादिकं बुद्धौ प्रतिफलतीति वाच्यम्, स्वभावस्य निराकर्तुमशक्यत्वादनिर्मोक्षप्रस᳚न्गः | न चायःकान्तहरिद्राचूर्णदृष्टान्तेन परस्परसम्मेलनात्कर्तृत्वादिकमुत्पद्यत इति वाच्यम्, मुख्यपुरुषस्य बुद्धितत्त्वस्य च सम्बन्धाभावात्तत्प्रतिबिम्बस्यैव सम्बन्धात्तत्प्रतिबिम्बस्यार्थक्रियाकारिकत्वाभावात् | ननु मुख्यपुरुषस्यैव सम्बन्धो बुद्धितत्त्वेन वर्तत इति चेन्न, तथा प्रतिबिंबाभावात् | यद्यत्र वर्तते न तत्र प्रतिफलति दर्पणरेखावदिति न्यायात् | इष्टापत्तौ पुरुषस्वभावत्वाद्बुद्धेर्विषयोपरागादेरनपह्नवनीयत्वेनानिर्मोक्षप्रस᳚न् गो दुर्वार एव | किञ्च तदभिमानमपि न सम्भवतीति बुद्धिप्रतिबिम्बितस्य घटादेर्यथा कर्तृत्वाद्यभिमानो नास्ति तथा बुद्धिप्रतिबिम्बितस्य पुरुषस्यापि कर्तृत्वाद्यभिमानं न स्यात् | नच घटस्य जडत्वात्तदभिमान उपपद्यत एव, तत्प्रतिबिम्बस्य सुतरां नोपपद्यत इति | ननु घटवत्पुरुषः केवलं निष्क्रिय इति नोच्यते, किन्तु विकृतिस्पृशि विश्वस्मिन् प्रकृतिं प्रेरयतीति चेत्तत्रोच्यते �तथा सा चेत्ततो युक्त्या तस्यौदासीन्यप्रकल्पना | अनुदासीनतैवास्तां सूक्ष्ममध्यममाश्रितः | यद्यसौ निष्क्रियो न स्याद्यदसूक्ष्मापि सा क्रिया | स्व वियोगे क्रियां सूते प्रकृतौ विकृतिर्जडा ||
SK
जडा अपि स्वभावेन देहाक्षभुवनादयः | यत्प्रभावात्प्रवर्तन्ते स कथं निष्क्रियो भवेत् ||� तस्मात्
SK
पृ० २९१) क्रियायाः सविषयत्वेन निरञ्जनत्वलक्षणापवर्गो न स्यादिति दूषणं वज्रलेपायते | एतेन योगशास्त्रमपि प्रत्युक्तम् | तद᳚न्गीकृतेश्वरस्य मूर्च्छापरपर्यायसमाधिपक्षपतितत्वे न जडत्वप्रस᳚न्गादिति स᳚न्क्षेप इति | तदविचारितरमणीयम् | तथाहि- यत्त बिम्बप्रतिबिम्बभावे रूपवदुपाधौ रूपवत एव दर्पणादौ घटादेरिव प्रतिफलननियम इति न नियमः, जले नीरूपस्य गगनस्य प्रतिफलनदर्शनात्, ध्वनौ निरूपे वर्णप्रतिफलनदर्शनाच्च | अतेवोक्तमभियुक्तैरद्वैतवादिभिः- �बिम्बत्वं प्रतिबिम्बत्वं यथा पूषणि कल्पितम् | आत्मत्वमीश्वरत्वञ्च ब्रह्मण्येकत्र कल्पित�मिति | सिद्धान्तलेशस᳚न्ग्रहकारा अप्पयदीक्षिता अप्याहुः-विवरणानुसारिणस्त्वाहुः- �विभेदजनके ज्ञाने नाशमात्यन्तिकं गते |� इत्यादिस्मृत्या एकस्यैवाज्ञानस्य जीवेश्वरविभागोपाधित्वप्रतिपादनात्, बिम्बप्रतिबिम्बभावेन जीवेश्वरयोर्विभागः | अत उभयोरपि प्रतिबिम्बभावो न, उपाधिद्वयमन्तरेणोभयोः प्रतिबिम्बत्वायोगात् | तत्रापि प्रतिबिम्बो जीवः बिम्बस्थानीय ईश्वरः | तथासत्येव लौकिकबिम्बप्रतिबिम्बभावदृष्टान्तेन स्वातन्त्र्यमीश्वरस्य तत्पारतन्त्र्यं जीवस्य च युज्यते | �प्रतिबिम्बगताः पश्यन्नृजुवक्रादिविक्रियाः | पुमान् क्रीडेद्यथा ब्रह्म तथा जीवस्थविक्रियाः |� इति कल्पतरूक्त्या लोकवत्तु लीलाकैवल्यमिति सूत्रमपि स᳚न्गच्छते | अज्ञानप्रतिबिम्बितस्य जीवस्यान्तःकरणरूपो ज्ञानपरिणामभेदो विशेषाभिव्यक्तिस्थानं सर्वत्र प्रसृतस्य सवितृप्रकाशस्य दर्पण इव | अतस्तस्य तदुपाधिकत्वव्यवहारोऽपि | नैतावताऽज्ञानोपाधिपरित्यागः | अन्तःकरणोपाधिपरिच्छिन्नस्यैव चैतन्यस्य जीवत्वे योगिनः कायव्यूहाधिष्ठानानुपपत्तेः | इत्यादिना रूपानुपहितचैतन्यस्य प्रतिबिम्बस्वीकारात् | तथा च बिम्बप्रतिबिम्बभावो द्विविधः- लौकिकोऽलौकिकश्चेति | लौकिकघटादिप्रतिबिम्बे रूपवदुपाधौ रूपोपहितत्वनियमः | अलौकिके रूपानुपहितचैतन्यस्यापि प्रतिफलने बाधाभावात् |
SK
कल्पतरुविवरणादिग्रन्थानुरोधश्च | प्रतिबिम्बत्वखण्डने सिद्धा-
SK
पृ० २९२) न्तशिखामणिशिवाद्वैतमञ्जर्यादिविरोधश्च | परमतखण्डनमात्रप्रवृत्तौ स्वपक्षस्थापनाहीनत्वं वैतण्डिकत्वं स्फुटमेव | इयान्विशेषः-पुरुषान्तपञ्चविंशतितत्त्ववादिनो निरीश्वरसा᳚न्ख्याः पुरुषस्य प्रकृतिरञ्जितस्य सुखदुःखयोरस्वातन्त्र्यात्तेषां बहूनां पुरुषाणां सुखदुःखनियामको निर्लेपः | चिन्तामणिसन्निधाने भाग्योदय इव निर्व्यापारोऽपि स्वतन्त्रः सर्वज्ञ ईश्वरोऽन्यः षड्विंश इति सेश्वरसा᳚न्ख्याः पातञ्जलाः | सा᳚न्ख्यसिद्धप्रधाने जडत्वेन जगत्कारणत्वाभावेऽपि परब्रह्माधिष्ठितत्वेनानित्यत्वमित्यद्वैतवादिनः | सूक्ष्मचिदचिच्छक्तिवैशिष्ट्यवादिनो नीलकण्ठीयाः | वयन्तु ब्रूमः- चिदचिच्छक्तिज्ञानक्रियापरपर्यायत्वेन व्यवहृते तयोर्मूलशक्तिभेद इव मूलशक्तिधर्मरूपपरमेश्वराभिन्नेति सर्वे बिम्बप्रतिबिम्बवादिनः तन्नेति वदन्वादी स्वयमनिर्वचनीय इति यत्किञ्चिदेतत् | वस्तुतस्तु विसृमरसवितृकिरणानां प्रतिफलने गगने बिम्बबुद्धिभ्रमः | ध्वनेर्वर्णप्रतिबिम्बग्राहित्वमपि व्यञ्जकमात्रेणोपपद्यते | एवं रूपानुपहितचैतन्यं बुद्धौ न प्रतिबिम्बमर्हतीति महानाग्रहस्तदा अविद्यावच्छिन्नो जीवः | अन्तःकरणावच्छिन्नो जीव इति पक्षद्वयेऽपि घटाकाशमहाकाशयोरिव द्वित्वस्य सुवचत्वात्पुरुषस्य बुद्धेश्च भेदाद्बुद्धेरन्यः पुरुषः पुरुषादन्या बुद्धिरिति विवेकख्यातिः साधनम् | तया कैवल्यं मुक्तिः, द्वयोर्भेदाग्रहोऽयमविवेकख्यातिः संसार इति हि सा᳚न्ख्ययोः सिद्धान्तः | भेदाग्रहाद्दुर्वारे द्वित्वे सिद्धे घटादिगतं द्वित्वमाकाशे गृह्यते घटाकाशो मठाकाश इति | तद्बुद्धिगतः कर्तृत्वादिः सर्वोऽपि प्रपञ्चः पुरुषे वर्तेत, विवेके सति कैवल्यमपि स्यादेव दग्धवटन्यायेन जीवन्मुक्तस्य क्रमेणाव्यक्ते बुद्धौ लीनायां सत्यां निर्विशेषमुक्तिरिति निर्दूषणं सा᳚न्ख्यद्वयम् || यच्चोक्तमसंवेद्यपक्षपतित इति तदसत्, साक्षिणोऽपि तस्य विवेकग्रहादन्यथाभूतस्य देहादिभावमापन्नस्य शास्त्रगुरुद्वारा संवेद्यत्वात् | नच
SK
पारमार्थिकदशायामसंवेद्य इति वाच्यम्, अनन्यभूतचित्तस्य निवृत्तवृत्तिकस्य वा कस्यापि संवेद्यस्याभावात्, संसारदशायामेव सर्वस्यापि संवेद्यत्वात् | पृ० २९३) पुरुषस्य नैर्मल्यविरोधोऽपि न, सवितृकिरणवत्प्रकाशरूपस्य निष्क्रियत्वादिना नैर्मल्यवत्वात्, सक्रिये जले प्रतिफलनवत् स्वच्छत्वमात्रेण प्रतिफलनविरोधाभावात् | बुद्धिव्यतिरिक्तदेशवर्तमानासम्भवादित्यपि न | घटान्तः प्रदेशस्य घटजले प्रतिफलनदर्शनात् | बुद्धिव्यतिरिक्तपुरुषकल्पने प्रमाणं नेति वदतो व्याघातः, बुद्धिनिष्ठमान्द्यादिख्यातिदर्शनात्, प्रकृतेर्महानित्यादिशब्दप्रमाणसद्भावाच्च | एवं प्रतिपदं स्खलन्स्वपक्षस्थापनारहित इति यत्किञ्चिदेतत्, तदुक्तरीत्या बिम्बप्रतिबिम्बभावाद्यन᳚न्गीकारेऽपि पूर्वोक्तपरिणमनाद्यनुरोधादजामेकामित्यादिश्रुतेश्च प्रधानकारणवादि सा᳚न्ख्यद्वयमपि दुष्परिहार्यमित्यस्मदुक्तरीत्या स्वमतान्यमतसाधारण्येन प्रत्याख्यानप्रकारोऽवधेय इति वज्रदण्डकारो बर्बरः | एतेन बुद्धिप्रतिबिम्बे कर्तृत्वादिकं न स्यादिति निरस्तम्, उपाधिगुणारोपे बाधाभावात् | बुद्धिव्यतिरिक्तपुरुषकल्पने मानाभावादिति च न, �इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः | मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः || महतः परमव्यक्तं सा काष्ठा सा परा गति�रिति भगवदुक्तेः, तदनुरोधेन बहूनां प्रमाणानां सद्भावात् | पुरुषनिष्ठकर्तृत्वं बुद्धौ प्रतीयत इत्यनुक्तापादनं दोषः | एतेन सम्मेलनात्कर्तृत्वमिति वदन्बुद्धेः पुरुषस्य च सम्बन्धाभावादिति निरस्तः, भेदाग्रहेण सम्बन्धसद्भावात् | यदप्युक्तमौदासीन्यकल्पने सूक्ष्मक्रियावत्वेन निर्लेपत्वं न स्यादिति तदप्यज्ञानविलसितम् | तादृशौदासीन्यकल्पनेऽपि बहिर्मुखक्रियाभावान्निर्लेपत्वसिद्धेः | तस्मादस्मदुक्तानुसरणमेव न्याय्यमिति सर्वं समञ्जसम् || इति वीरशैवानन्दचन्द्रिकायां वादकाण्डे योगमतनिरूपणतन्निराकरणं नाम षोडशं प्रकरणम् ||
SK
पृ० २९४) वीरशैवानन्दचन्द्रिकायां वादकाण्डे सप्तदशं प्रकरणम् || श्रुत्यागमपुराणौघसरस्वत्पारदर्शिना | उदीरितं त्वया स्वामिन्करुणासार्द्रचेतसा || स्वामिन्योगमतस्याद्य प्रक्रियां भृ᳚न्गिणेरिताम् | तद्दूषणं शीलिनोक्तं निशम्य मुदितोऽभवम् || उपक्रान्तं ततः पश्चाद्भृ᳚न्गिणा कस्य वा मतम् | दूषितं शीलिना तच्च कथं तद्वक्तुमर्हसि || शृणु राजन्प्रवक्ष्यामि भृ᳚न्गिणा कथितं मतम् | कीर्तितं शीलिना तत्र दूषणं शृणु सादरम् || कर्तृत्वं प्रकृतेर्निराकृतमिति व्यक्ता तवाहंकृति- र्भो भो शीलिवराद्य माऽस्तु भुवने श्रुत्यागमोदीरितम् | ब्रूमो माध्वमतं हि तावकशिरः कुट्टाकयुक्त्यन्वितं तद्दुष्येत कथं त्वया तव मतिप्राविण्यमीक्षामहे || तच्च माध्वमतमीरयाधुना भृ᳚न्गिवर्य सृणुमः कृतादरम् | पृ० २९५) दूष्यते तदपि युक्तिभिर्मया पश्य मामकमतेः प्रवीणताम् || माध्वाः स्वमतप्रक्रियामेवं वर्णयन्ति-द्वापरयुगे सर्वेषु धर्मेषु व्याकुलीभूतेषु तद्धर्मसंस्थापनाय ब्रह्मरुद्रादिभिरभ्यर्थितो भगवान्नारायणो व्यासरूपेणावतीर्णः, इष्टानिष्टप्राप्तिपरिहारापेक्षिणां तदुपायमलभमानानां मायावादप्रमुखमतान्तरेषु प्रविक्षूणां तत्त्वमजानतां लोकानामनुग्रहाय परमकारुणिकतया धर्मावबोधायोत्पन्नं वेदराशिं चतुर्धा विभजन्, पृथगेकैकं चतुर्विंशतिधा, एकोत्तरशतधा, सहस्रधा, द्वादशधा, विभाज्य तदर्थनिर्णयाय च ब्रह्मसूत्राणि चतुरध्यायात्मना प्रणिनाय | उक्तञ्च स्कान्दे-
SK
नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् | किञ्चित्तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् || गौतमस्य ऋषेः शापाज्ज्ञाने त्वज्ञानतां गते | स᳚न्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरस्सराः || शरण्यं शरणं जग्मुर्नारायणमनामयम् | तैर्विज्ञापितकार्यस्तु भगवान्पुरुषोत्तमः || अवतीर्णो महायोगी सत्यवत्यां पराशरात् | उत्पन्नो भगवान्वेदानुद्दधार हरिः स्वयम् || चतुर्धाप्यभजत्तांश्च चतुर्विंशतिधा पुनः | शतधा चैकधा चैव तथैव च सहस्रधा || कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये | चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा || पृ० २९६) अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् | अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः || निर्विशेषितसूत्रत्वं ब्रह्मसूत्रत्वमप्यतः | यथा व्यासत्वमेकस्य कृष्णस्यान्यविशेषणात् || सविशेषणसूत्राणि ह्यपाराणि विदो विदुः | मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः || इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः | सूत्रेष्वेतेषु सर्वेऽपि निर्णयाः समुदीरिताः || शब्दजातस्य सर्वस्य यत्प्रमाणञ्च निर्णयः | एवं विधानि सूत्राणि कृत्वा व्यासो महायशाः || ब्रह्मरुद्रादिदेवेषु मनुष्येष्वपि पक्षिषु | ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः ||
SK
इति स्वोक्ताऽर्थे स्कान्दवचनानि प्रमाणयन्, �प्रथमस्तु हनूमान्स्याद्द्वितीयो भीमसेनकः | पूर्णप्रज्ञस्तृतीयस्तु भगवत्कार्यसाधकाः ||� इति वचनावगमितवायुतृतीयावतारताप्रकाशितमहिमातिशयतया भगवत्कार्यसाधकत्वेन प्रतिपाद्यमानः पूर्णप्रज्ञापरसंज्ञो माध्वाचार्यो नारायणापरावतारभगवद्वेदव्यासप्रणीतब्रह्मसूत्राणां नारायणैकतत्परतया भाष्यं प्रणयन्स्वाभिमतानुसारेण शाण्डिल्यमुनिप्रणीतप्रक्रियोपाश्रयलब्धसाहाय्यकं प्रमेयजातमेवमचीकथत् | तथाहि- तत्त्वं द्विविधं स्वतन्त्रमस्वतन्त्रञ्च | तत्र स्वतन्त्रो भगवान्विष्णुरेक एव | अस्वतन्त्रञ्च तत्त्वं द्विविधं भावोऽभावश्च | भावो द्विविधश्चेतनोऽचेतनश्च | चेतनो द्विविधो दुःखस्पृष्टा दुःखास्पृष्टश्च | तत्र नित्यदुःखासंस्पृष्टा रमा, तदन्ये चेतना दुःखसंस्पृष्टाः | दुःखसंस्पृष्टा अपि चेतना द्विविधाः, दुःखोपलक्षिता दुःखविशिष्टाश्च |
SK
पृ० २९७) उपलक्षिता मुक्ताः, दुःखविशिष्टा बद्धाः | दुःखस्पृष्टाः पुनर्द्विविधा मुक्तियोग्या मुक्त्ययोग्याश्च | मुक्तियोग्या अपि देवर्षिपितृगन्धर्वमानवभेदात्पञ्चविधाः | मुक्त्ययोग्या अपि दैत्या राक्षसाः पिशाचा मानवाधमा इति चतुर्विधाः | ते च पुनरन्धतमस्थिताः संसारस्थिता इति द्विविधाः | अचेतनमपि तत्त्वं द्विविधं नित्यमनित्यञ्च | नित्यं त्रिविधं वेदपुराणादिशब्दराशिः कालः प्रकृतिश्चेति | अनित्यमपि द्विविधमसंस्पृष्टं संस्पृष्टञ्च | असंस्पृष्टञ्च पुनर्महत्तत्त्वमह᳚न्कारो बुद्धिर्मनो दशेन्द्रियाणि पञ्चतन्मात्राणि पञ्चभूतानि च | संस्पृष्टञ्च तत्त्वं ब्रह्माण्डं, ब्रह्माण्डान्तर्गतं जगच्चेति | अभावोऽपि त्रिविधः प्रागभावः प्रध्वंसाभावः सनातनाभावश्चेति || सर्वस्यैतस्यास्वतन्त्रप्रपञ्चस्य सृष्टिस्थितिसंहारनियमनज्ञानावरणबन्धमोक्षाख्याष्टकृत्यकर्ता स्वतन्त्रः स्वभिन्नानन्तकल्याणगुणपरिपूर्णः प्राकृतहेयगुणरहितो लक्ष्मीसमेतः श᳚न्खचक्रगदापद्महस्तः श्वेतद्वीपक्षीरसागरानन्तासनवैकुण्ठवासकलितोत्कण्ठः श्रीकण्ठपरमेष्ठिप्रष्ठसर्वसुपर्वसंसेव्यमानो भगवान्नारायण एव निखिलाम्नायैककण्ठ्यप्रतिपाद्यो मुक्तप्राप्यः | जगत्सत्यमेव | जीवाः सर्वे नारायणाद्भिन्नाः परस्परञ्च भिन्नाः | अजीवा अपि परस्परं भिन्ना नारायणादपि भिन्ना जीवेभ्योऽपि भिन्नाः | लक्ष्मीब्रह्मवायुसरस्वतिगरुडशेषरुद्रादीनां देवानां, विश्वामित्रादीनां तपोधनानां, प्रियव्रतादीनां राज्ञाञ्च नीचोच्चभावेनावस्थानम् | मुक्तिश्चानेकजन्मार्जितसद्धर्मानुष्ठानविशुद्धचित्ततया लब्धहरिप्रसादानां स्वस्वरूपानतिक्रमेण परमपदवैकुण्ठे निजसुखानुभवेन पुनरावृत्तिरहितमवस्थानम् | यथार्थं प्रमाणम् | तद्विविधं केवलमनुप्रमाणञ्च | तत्र यथार्थज्ञानं केवलं, तत्साधनमनुप्रमाणम् | केवलं चतुर्विधं ईशलक्ष्मीयोग्ययोगिभेदेन | पूर्वद्वयमनादि नित्यं, स्वातन्त्र्यपारतन्त्र्याभ्यां तद्विशेषः | पूर्वं परगताखिलविशेषविषयं,
SK
द्वितीयमीशेऽन्येभ्योऽधिकमसार्वत्रिकं, अन्यत्र सर्वविषयम् | स्पष्टत्वे भेदः | योगिज्ञानमृजूनामनादिनित्यं, ईशे जीवेभ्योऽधिकं, अन्यत्रालोचने सर्व-
SK
पृ० २९८) विषयं क्रमेण वर्तमानमामुक्तेस्ततोऽव्ययं, ततो वा स्यात्क्रमेण प्रसितं सादि च | तात्विकेभ्योऽन्यत्रायोगिज्ञानमुत्पत्तिविनाशवदल्पम् | अनुप्रमाणं त्रिविधं प्रत्यक्षमनुमानमागम इति | तत्र निर्दोषेन्द्रियसन्निकर्षः प्रत्यक्षं, निर्दोषोपपत्तिरनुमानं, निर्दोषः शब्द आगमः | अर्थापत्युपम अनुमानविशेषौ | नारायणशब्दवाच्यं ब्रह्म सगुणमेव | अथ कस्मादुच्यते ब्रह्मेति प्रश्ने बृहन्तो ह्यस्मिन् गुणा इति | अनन्तकल्याणगुणशालित्वस्य �बृहि= वृद्धा�विति धातोरौणादिकमन्प्रत्ययान्तेन ब्रह्मशब्देन प्रतिपाद्यमानादौचित्यात् | �परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चे�ति श्रुतेः, �मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे�ति भगवद्वचनात्, �तेजोबलैश्वर्यमहावबोधसद्वीर्यशक्त्यादिगुणैकराशिः | समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशात्कृतभूतसर्गः ||� इत्यादिस्मृतेश्च | तथा �अन्तस्तद्धर्मोपदेशात् | अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् | अदृश्यत्वादिगुणको धर्मोक्तेः | सर्वधर्मोपपत्तेश्चे�त्यादिभगवद्बादरायणसूत्रेभ्यश्च ब्रह्मणि धर्मादिशब्दैर्गुणवत्वस्यैव प्रतिपाद्यमानत्वात् ब्रह्मधर्मिसत्तासमानसत्ताकगुणयुक्तत्वं, उक्तसत्ताकभावरूपगुणयुक्तत्वं वा साध्यं पदार्थत्वात्, अभावविलक्षणत्वाद्वा | इति क्रमेण साध्यद्वयसाधकं हेतुद्वितयम् | घटवदिति दृष्टान्त इति श्रुतिस्मृतिसूत्रोपोद्वलितेनानेनानुमानेन ब्रह्मणि गुणवत्वसिद्धेः | नचानन्दो ब्रह्मेति गुणगुण्यभेदप्रतिपादनानुपपत्तेरितिवाच्यं, तयोरभेदस्यैवास्माभिरुररीकृतत्वात् | न च गुणगुणिनोरभेदे रूपी घट इत्यादि प्रत्ययानुपपत्तिः रूपं घट इति प्रत्ययापत्तिश्चेति वाच्यं, तस्यास्मद᳚न्गीकृतभेदस्थलीयविशेषविषयस्त्वा᳚न्गीकारात् | नच विशेष एव मानाभावः, अभिन्नत्वेन प्रमितयोर्धर्मधर्मिभावव्यवहारस्यैव तत्र मानत्वात् | अन्यथा घटतत्स्वरूपयोरभेदस्य प्रमाणसिद्धतया तत्र जायमानस्य घटस्य स्वरूपमिति व्यवहारस्य
SK
भेदविषयकत्वासम्भवेन विशेषाविषयकत्वे निर्विषयकत्वापत्तिः | किञ्च �ब्रह्मण-
SK
पृ० २९९) स्तद्गुणानाञ्च भेददर्शकरन्तमः | भेदाभेदप्रदर्शी च मध्यमस्तु तमो व्रजेत् || यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति | एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ||� इत्यादिप्रमाणानि ब्रह्मणस्तद्धर्माणाञ्चाभेदं विनाऽनुपपन्नानि तमभेदमेव स्थिरीकुर्वन्ति | ननु तर्हि ब्रह्म स्वगुणेभ्य इव जीवेभ्योप्यभिन्नं �तत्त्वमसि, स आत्मा, नेह नानाऽस्ति किञ्चने� त्यादि श्रुतेरिति चेन्न, द्वासुपर्णेत्यादिश्रुतेः | �द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च | उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ||� �दैवो विस्तरशः प्रोक्त� इति दैवमुपसंहृत्य, �आसुरं पार्थ मे शृणु� इत्युपक्रम्य, �ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी | आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया || यक्ष्ये दास्ये च मोदिष्य इत्यज्ञानविमोहिताः� इत्यन्तेनेश्वरोऽहमित्युपक्रमागतेश्वराभेदज्ञानस्यासुरत्वेन निन्द्यत्वप्रतिपादनेनाभेदायोगात् | नच मुक्तौ तारतम्यानुपपत्तिः, तैत्तिरीयकश्रुतौ तारतम्यस्य प्रतिपादनात् | तथाहि- श एको मानुष आनन्द� इत्युपक्रम्य श एको ब्रह्मण� इति तरतमभावश्रुतेः | किञ्च �ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुंनैव शक्यते | तद्यत्स्वभावः कैवल्यं स्वभावात्केवलो हरे� रिति स्मृतेः, जगद्व्यापारवर्जसूत्रेण सृष्ट्यादिकर्तृत्वाभावस्य मुक्तिषु प्रतिपादनेन च जीवेशयोर्जीवानाञ्च तारतम्यसिद्धेः | अपि च जीवा अप्यनन्ता एव, नैकश्चेतनः | तथैव महाभारते- �बहवः पुरुषा ब्रह्मनुताऽहो एक एव वे�ति प्रश्नपूर्वकं, ङैकमिच्छन्ति पुरुषमेके कुरुकुलोद्वहे�ति बहुधा जीवनानात्वकथनाच्च जीवानां नानात्वमिति सिद्धान्तः || जगच्च सत्यमेव �विश्वं सत्यं वशे विष्णोर्नित्यमेव प्रवाहतः |� विश्वं स्थावरज᳚न्गमादिभेदेन बहुधा भिन्नं जगद्विष्णोर्वशे वर्तमानं प्रवाहाकारेण सत्यशब्दवाच्यमित्यर्थप्रतिपादकोक्तवचनात् | तथोक्तञ्च भगवतैव गीतायां- �असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् | अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ||
SK
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः |
SK
पृ० ३००) प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ||� इत्यादिभिः प्रमाणैर्जगदसत्यतावादिनामासुरत्वाद्युक्त्या तत्सत्यतावगम्यते | किञ्च श्रुतयोऽप्यत्र प्रमाणानि- �मघोनोऽस्य महतो महीयांसि सत्यासत्यस्य करणानि वाच्यं� अस्यार्थः- अस्य महतः परमेश्वरस्य सत्यानि कर्माणि प्रावोचमेव | कर्मणाञ्च सत्यत्वं विषयसत्यतां विना नोपपद्यत इति विश्वसत्यतासिद्धिः | �कविर्मनीषी परिभूः स्वयम्भूर्यथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः� इति तत्त्वोद्योते बहुधाभिधानेन �विष्णुः सर्वोत्तमोऽथ प्रकृतिरथ विधिः प्राणनाथावथोक्ते ब्रह्माणी भारती च द्विजफणिपमृडाः स्युः स्त्रियः षट् च विष्णोः | सौपर्णी वारुणी पर्वतपतितनया चेन्द्रकामावथोस्मान्प्राणोऽथो योऽनिरुद्धो रतिमनुगुरवो दक्षशच्यौ च पान्तु || त्रायन्तां नस्सदैते प्रवह उत यमौ मानवी चन्द्रसूर्यौ चाप्योऽथो नारदोऽथो भृगुरनलकुलेन्द्रप्रसूतिश्च नित्यम् | विश्वामित्रो मरीचिप्रमुखविधिसुताः सप्त वैवस्वताख्याश्चैवं वै मित्रतारे वरनिरृति नामाप्रवही प्रसन्नाः || विष्वक्सेनोऽश्विनोऽथो गणपतिधनपाव्यक्तशेषाः शतस्थाः देवाश्चोक्तेतराये तदवरमनवश्चावनौचिथ्यसंज्ञा वैन्यो यः कार्तवीर्यः क्षितिपतिशशिबिन्दुप्रियादि- व्रतोऽथो ग᳚न्गापर्जन्यसंज्ञौ शशियमदयिते मा विराट् चाशु पान्तु ||� इति �विश्वं सत्यं मघवानौ युवयोर्विदापश्च न प्रमिनन्ति व्रतं वा� अस्यार्थः- हे मघवानौ धनादिमन्तौ युवयोर्विश्वं सत्यमेव, न केवलमहमेव जानामि, किन्त्वापोऽपि सत्यजगत्सर्जनादि जानन्ति || शत्यः सोऽस्य महिमा गृणेशवो यज्ञेषु विप्रराज्ये� | जगत्सृष्ट्यादिलक्षणोऽस्य परमेश्वरस्य महिमा सत्यः तं विप्रप्रधानेषु शवः सुखमुद्दिश्य स्तौमीति | एवंविधानेकश्रुतिभिश्च जगतः सत्यत्वावधारणान्नमिथ्याभूतम् | जगतश्चासत्यत्वेऽ᳚न्गीक्रियमाणे निखिलजनानुष्ठीयमानं तत्तत्कर्मजातं तत्तत्फलावाप्तिसाधकमिति शास्त्रमनुपपन्नं स्यात् | ननु जगतोऽसत्यत्वमेवास्तु
SK
असत्वञ्चानिर्वचनीयत्वं शुक्तिरजतवदितिचेन्न, शुक्तिरजतस्यैव
SK
पृ० ३०१) निर्वचनीयत्वे मानाभावात्, असदेव रजतमभादिति प्रतीतिमहिम्नाऽसत एव रजतस्य भाना᳚न्गीकारात् | अतेव मुक्तावपि सर्वेषां पदार्थानां सत्यत्वमेवा᳚न्गीक्रियते | अतेव �एवं मुक्तिफलानि यमस्तदवस्थावधृतेस्तदवस्थावधृते� रित्यधिकरणे �तदिह व्याघ्रो वा कीटो वा पत᳚न्गो वा दंशो वा मशको वा वराहो वा यद्यद्भवन्ति तथा भवन्ती�ति श्रुतिमहिम्ना मोक्षदशायां तिर्यग्जन्तूनां तदवस्थतैव | किञ्च भगवतोऽन्तर्यामित्वेऽ᳚न्गीक्रियमाणे �अन्तर्यामी परेशः स्वयमिह भगवानात्तचक्रस्तु लक्ष्म्या भक्तान्तःसंस्फुरत्यप्रतिमगुणगणः सर्वलोकेषु देवः |� इत्यादिभगवत्स्तुतौ बहुशो लक्ष्मीसहायस्यैवान्तर्यामित्वं प्रतिपादितम् | युक्तमेव विष्णोर्लक्ष्मीसहायस्यैवानवरतावभासमानत्वम् | दीपतत्प्रभयोरग्न्यौष्ण्ययोर्जलशैत्ययोर्यथा तथैव स्वस्य देव्यविनाभावात् | �राघवत्वे भवेत्सीता रुक्मिणी कृष्णजन्मनि | अन्येषु चावतारेषु विष्णोरेषा सहायिनी || देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी | विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनु� इति विष्णुपुराणे, तथा �एवं सर्वास्ववस्थासु विष्णोरेवानपायिनी� ति भारतादिवचनैश्चावतारादिष्वेव सर्वावस्थास्थितिसामान्यवचनेनान्तर्यामित्वेऽपि साहचर्यस्य नियमेनावबोधात् | अतेव पूर्वतन्त्रे पञ्चमाध्याये पूर्वपादान्त्याधिकरणे �षोडशीचोक्थ्यसंयोगा� दित्यत्र सूत्रे प्रतिपादितम् | तथाहि- ज्योतिष्टोमे श्रूयते षोडशिनं प्रकृत्य �तं पराञ्चमुक्थ्येभ्यो निगृह्णाती� ति, यदा वा दैवाद्वा मानुषाद्वा प्रतिबन्धादुक्थ्यान्युत्कृष्यन्ते तदा षोडश्युत्क्रष्टव्यो न वेति भवति संशयः | तत्र पूर्वपक्षः नोत्क्रष्टव्यः कुतः एवं स्वस्मिन्काले षोडशिनः स्तोत्रं कृतं भवति | शमयाध्युषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोति� तस्मादनुत्कर्षः षोडशिन इत्येवं प्राप्तेऽभिधीयते | षोडशी चोत्क्रष्टव्यः | कस्मादुक्थ्यसंयोगात्, उक्थ्यसंयोगो हि षोडशिनो भविष्यति, तं पराञ्चमुक्थ्येभ्यो निगृह्णातीति | तस्मादुत्क्रष्टव्यः षोडशी |
SK
समयाध्युषितः स कालोहनैतेति |
SK
पृ० ३०२) तत्रोच्यते स्तोत्रक्रममनुरुध्यमानस्यप्रधानक्रमो विरुद्व्येत् | तस्मान्न स्तोत्रक्रमोऽनुरोद्धव्यः | न शक्यमुभयमनुग्रहीतुं तस्मादुत्क्रष्टव्यः षोडशोत्यत्रोक्थ्योत्कर्षाप्तषोडश्युत्कर्षेण यथा तयोरपि नाभाव एवं विष्णोरनपायिनीति वचनाद्विष्णोर्लक्ष्म्यविनाभावप्रतिपादनाल्लक्ष्मीसमेतस्यैव सर्वान्तर्यामित्वम् | मुक्तौ च तारतम्यमस्त्येव | ननु मुक्तौ न तारतम्यं, मानाभावात् | परमं साम्यमुपैतीति साम्यश्रुतेश्च | सातिशयत्वे च मुक्तेः स्वर्गादिवदनित्यत्वं स्यात् | अधिकदर्शने दुःखद्वेषेर्ष्यादिकञ्च स्यादिति चेदुच्यते | मुक्तावतारतम्यं किं तत्र भेदभोगादेरेवासत्वात्, किं वा तस्य सत्वेऽपि साम्यात् ? नाद्यः- भेदप्रस्तावोक्तश्रुत्यादिभिस्तत्सिद्धेः | अन्त्येऽपि किं मुक्तजीवेशयोरप्यतारतम्यं किं वा मुक्तजीवानामेव ? नाद्यः- तन्मतेऽपि तयोर्विभुत्वाणुत्वशेषशेषित्वस्वातन्त्र्यादिना तारतम्यात्, अनेकेश्वरतापत्त्या जगत्प्रवृत्ययोगाच्च | अल्पशक्तिरसार्वज्ञमित्यादिभेदप्रस्तावोक्तश्रुतिभिः, �ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते | तद्यत्स्वभावः कैवल्यं सभवान्केवलो हरि� रित्यादिस्मृतिभिर्जगद्व्यापारमित्यादिसूत्रैर्मुक्तजीव- भोगो निकृष्टः जीवभोगत्वात्संसारभोगवत् | एवं मुक्तजीवज्ञानादिकमपि पक्षीकृत्य प्रयोक्तव्यम् | ईश्वरानन्दो जीवानन्दादुत्कृष्टः तदवश्यतन्नियामकानन्दत्वात्, यदेवं तदेवं यथा सेवकानन्दात्सेव्यानन्दः | ईश्वरो जीवस्वभावानन्दादुत्कृष्टस्वाभाविकानन्दवान्, तत्प्रेप्सुत्वे सति तत्र शक्तत्वात्, यो यत्प्रेत्सुत्वे सति यत्र शक्तः स तद्वान् यथासम्मत इत्याद्यनुमानैश्चविरोधाच्च | न द्वितीयः- त्वन्मतेऽपि जीवान्प्रति शेषिणोऽपि लक्षितत्वात् | तान्प्रति नियामकाद्विष्वक्सेनादितश्चेतरजीवानाम᳚न्गीकृतत्वात् | शैषानन्दस्य मीमांसा भवती� त्यादिना �ये शतं मानुषा आनन्दा� इति तारतम्यश्रवणात् | तस्मान्मुक्तौ तारतम्यमस्तीति युक्तमेतत् || �तापादिपञ्चसंस्कारमन्त्ररत्नार्थतत्त्ववित् | वैष्णवस्स जगत्पूज्यो याति विष्णोः परं पदम् ||
SK
तापः पुण्ड्रं तथा नाम यागो मन्त्रश्च पञ्चमः | अमी वै पञ्च
SK
पृ० ३०३) संस्कारा वैष्णवत्वस्य हेतवः |� इति वचने तापादिपञ्चसंस्कारसंस्कृतस्यैव वैष्णवत्वे मुक्तियोग्यत्वं, नान्यस्येति | �यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ | तस्यैते कथिताह्यर्थाः प्रकाशन्ते महात्मन� इति | श्ह्रद्धाभक्तिध्यानयोगादवेही� ति | ङाऽहं प्रसन्नस्तपसा न ध्यानेन न चेज्यया | न ज्ञानेन न दानेन वश्योऽहं श्रद्धया विना ||� इत्यादिवचनाच्च विष्णुविषयिण्यनितरसाधारणी सन्देहविपर्यासानाक्रान्ता भक्तिरेवाऽऽवरणनिरासद्वारा निजसुखानुभवरूपमोक्षस्य साक्षात्साधनम् | अतेवाभियुक्तवचनमपि- श्ह्रीमन्मध्वमते हरिः परतरः सत्यं जगत्तत्त्वतो भिन्ना जीवगणा हरेरनुचरा नीचोच्चभावं गताः | मुक्तिर्नैजसुखानुभूतिरमला भक्तिश्च तत्साधनं त्वक्षादित्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरि || रिति� तस्माच्छ्रुतिस्मृतीतिहासपुराणागमेषु बहुधा प्रतिपाद्यमानार्थानुरोधित्वान्माध्वमतमेव सर्वैः शिष्टैः परिग्राह्यमिति || इह खलु केचिद्विजाभासाः पण्डितम्मन्या वैष्णवाभिमानिनः श्रुतिस्मृतीतिहासपुराणप्रतिपादितसकलपुरुषार्थसाधनस्वस्ववर्णाश्र मधर्मेषु वैदिकेष्वश्रद्दधानाः परित्यक्तस्वधर्माः समुद्रयात्रादिपरिप्राप्तपातित्येन निवृत्तश्रौतस्मार्ताधिकारतया परिगृहीतपाञ्चरात्राद्यागमोक्तदीक्षातप्तश᳚न्खचक्राद्य᳚न्कनोर्ध्वपुण्. द्रविशेषादिलक्षणैकजातिधर्मं मध्वनामानं यत्याभासमाचार्यत्वेनाश्रित्य तेनानुष्ठितं तदुपदिष्टञ्च मुद्रादीक्षादिकं शूद्रधर्मान् द्विजधर्मतयाऽत्यादरेणानुतिष्ठन्तः स्वधर्मपरित्यागपरधर्मानुष्ठाननग्नत्वादिकं स्वकीयं तन्त्रं द्रव्यार्जनोपयोगार्थं परव्यामोहनप्रयोजनायोपस्थकुष्ठीनी स्वोपस्थकुष्ठमिव वैष्णवाभिधानसालग्रामार्चनस्नानादिव्याजेनाच्छाद्य प्रवर्तमानाः स्वयं नष्टाः स्वधर्मावबोधनतदनुष्ठापनद्वारा स्वकीयत्वापादनेन परानपि विनाशयितुं प्रवृत्ताः, तांस्तदीयाचारांस्तदीयशास्त्राणि च विश्वस्यान्येऽपि तद्धर्मानाचरन्तस्तद्दर्शनानि चाधीयाना दीर्घकालं नरके
SK
पतिता माभूवन्निति तेष्वनुजिघृक्षया कल्पितप्रमाणमूलकवेद-
SK
पृ० ३०४) मार्गविरुद्धतप्तमुद्रादिधारणप्रतिपादकमुनिनवकशापदग्धदुर्मतमतनि राकरणमारभ्यते || तथाहि- अन्याः सम्प्रतिपन्नस्वमात्रपरिगृहीतकमठमाठरकौणारव्यकौण्डिन्यमाण्डव् यमार्कण्डिव्यमौद्गल्यपौष्यायणसौत्रायणसौकरायणपाराशर्यायणम अध्यन्दिनायनकाषारवकौषायाग्निरवकोषणबृहदुद्दालकौद्दालकायनकौ शिकसौवर्णवात्सगौपवनभाल्लवेयाग्निवैश्यचतुर्वेदशिखाचतुर्वेदसंहित् एन्द्रद्युम्नपरमाश्रुत्यादिकल्पनं, तदनुसारेणाध्यात्मनारायणात्मनारायणसंहिताब्रह्मसंहितानारायण् अतन्त्रब्रह्मतन्त्रपुरुषोत्तमतन्त्रमायावैभवब्रह्मवैवर्तभविष्यत्पर्वादि वचनानामत्यन्ताप्रसिद्धानामेव वचनानां तन्मूलप्रमाणत्वेनोपन्यासः तदुपन्यासप्रयुक्तस्वानाप्तत्वश᳚न्कापरिहाराय हनूमद्भीमसेनक्रमेण वायोः स्वयं तृतीयावतार इत्युद्घोषस्तत्र साक्षितया �प्रथमो हनुमान्नाम द्वितीयो भीमसेनकः | पूर्णप्रज्ञस्तृतीयस्तु भगवत्कार्यसाधकः ||� इति वचनस्य त्रेतायुगे मुख्यप्राणो हनूमद्रूपेणावतीर्णः स्वयं रामरूपेणावतीर्णस्य भगवतो नारायणस्य धर्मैकतत्परत्वरावणसंहारादिकार्यसाधकः, ततो द्वापरे स एव भीमसेनरूपेणावतीर्णः श्रीकृष्णरूपेणावतीर्णस्य भगवतो नारायणस्य भूभारनिवारणपूर्वककौरवादिदुष्टसंहाररूपकार्यसाधकः, तथैवानन्तरं कलियुगे स एव मुख्यप्राणः पूर्णप्रज्ञापरपर्यायमध्वाचार्यरूपेणावतीर्णः, तदानीं बुद्धरूपेणावतीर्णस्य भगवतो नारायणस्य धर्मपरित्याजनपूर्वकान्यधर्मानुष्ठापनरूपश्रुतिमार्गातिवर्तिधर्मश् अब्दिताधर्मबोधनरूपकार्यसाधक इति त्रेतादियुगक्रमसमुचितमर्थमाच्छाद्य त्रेताद्वापरयोर्यथाक्रममुक्तमर्थमुररीकृत्य कलौ समुचितार्थक्रमोल्ल᳚न्घनेन तृतीयपादस्य स्वानुकूल्येनार्थं परिकल्प्य प्रथमो हनूमानिति वचनस्य प्रमाणत्वेनोदाहरणं, अस्मिन्नर्थे �विष्णोः पदे परमे मध्व उत्सः� इत्यादिश्रुतिवाक्यानामर्थान्तरयोजनं, तथा नारायणेनातिविस्तरेण कृतं पुनस्तेनैव
SK
व्यासरूपेण संक्षिप्तं तच्च ब्रह्मतर्काभिधानं शास्त्रं, तदेव चतुर्दशविद्यास्थानं सकलगुणपरिपूर्णो भगवानेव मुख्योऽर्थ इति निर्णयाय प्रवृत्तमिति स्वा-
SK
पृ० ३०५) भिमतपरव्यामोहनार्थानेकप्रमाणविधिरूपत्वेनैवं प्रणालीकल्पनम् || किञ्च व्याकरणशास्त्रापरिशीलनप्रयुक्तं स्वकृतग्रन्थेष्वपशब्दप्रयोगबाहुल्यं दृश्यते | तथाहि- भारततात्पर्यनिर्णये- हरिं वदन्तीति समर्थयित्वेत्युक्तम् | अत्र समासे ल्यबन्तप्रयोगं विहाय क्त्वाप्रत्ययान्ततया प्रयोगो व्याकरणविरुद्धः | मध्यभाष्ये ईक्षत्यधिकरणेन तच्छब्दगोचरमिति प्रयुक्तम् | गोचर इति पुल्लि᳚न्गत्वेन प्रयोगो युक्तः | तथाच लि᳚न्गानुशासने पुमानित्यधिकारे सूत्रितम् | ज्ञाजन्तश्चेति, उदाहृतञ्च वृत्तिकृद्भिः, गोचरो विषय इति | प्रयुक्तञ्च श्रीहर्षेण �परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचर� इति | अणुव्याख्याने आर्यत्वमर्यतैव स्यादित्यत्र �ऋ� धातोः कर्मणि शानजन्तेऽर्यमाणपदसमानार्थकतया भ्रान्त्या प्रयुक्तमर्यपदम् | �अर्यः स्वामिवैश्ययो�रिति सूत्रेणार्थविशेषे निपातितत्वात्, तद्भिन्नार्थे आर्यपदस्य प्रयोगयोग्यत्वाद्व्याकरणविरुद्धम् || तथा शभासभापप्राश्निके पूर्वस्तुत्यर्थिनामपी� ति श्लोके प्राश्निकेत्यत्रैकारस्य प्रयोगो विरुद्धः | तथा शाक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचि� दित्यत्रापवदितुमिति वक्तव्ये अपोदितुमिति प्रयोगो विरुद्धः | तथा शृष्ट्यादीच्छासनातेने� त्यत्र टाप् प्रयुक्तः | यत्तु जयतीर्थेन सनातनेति नेमौ ट्युट्युलौ, किन्तु भवार्थे तनप्रत्यय इत्युक्तम्, तदपि स्वशिष्यप्रतारणमात्रम् | तथा �छन्दोऽभिधाना� दिति सूत्रे �लि᳚न्गभूयस्त्वा� दिति सूत्रे च जयतीर्थेनावश्यापेक्षित इति प्रयुक्तम्, तत्र मलोपोऽस᳚न्गतः | स᳚न्ख्याधिकरणे सुधायां मे चैतन्यमिति प्रयुक्तम् | �अभ्युपगमेऽप्यर्थाभावा� दिति सूत्रे तत्त्वप्रकाशिकायां मे मातेति प्रयुक्तम् | ममेति तु युक्तम् | पदात्परत्वाभावेन मे इत्यप्राप्तेः | एवमाचार्यकृतद्वादशस्तोत्रे �नारायणामलकारणं वन्दे� इत्यत्र दोधकवृत्तेनोपक्रान्ते वृत्तोचितादिगुर्वात्मकभगणार्हगुरुलघुविन्यासानुरोधेन नारायणशब्दस्य द्वितीयाक्षररेफगताकारदैर्घानुच्चारणे
SK
नारयणेत्यपशब्दप्रयोगः | यदि शब्दसाधुत्वसम्पादनाय नारायणेत्युच्चारणे गुरुलघुविन्यास-
SK
पृ० ३०६) व्यत्यासेन छन्दोभ᳚न्ग इति दरिद्रदम्पत्याकृष्टकच्चरपटवदेकं सन्धिस्तोऽपरं प्रच्यवत इति न्यायः प्रसज्येत | किञ्च नवद्युनाथप्रतिमप्रभायेत्यत्र नवद्युनाथस्य सूर्यस्य सदृशी प्रभा यस्येत्यर्थविवक्षायां सूर्यस्य धर्मिणः प्रभारूपधर्मस्य च सादृश्यं निबद्धम् | इदञ्चाल᳚न्कारशास्त्रविरुद्धं धर्मिणोरेव सूर्यनारायणयोः सूर्यप्रभानारायणप्रभयोर्धर्मयोर्वा सादृश्यं वर्णनीयम् | प्रकृते तु सूर्यस्य नारायणप्रभायाश्च प्रतिमशब्देन सादृश्यं प्रतिपादितम् | द्युनाथ इतिपदं स्वर्गान्तरिक्षपत्यर्थकं सूर्यपरत्वेन कोशादौ यत्रकुत्राप्यप्रयोगादस᳚न्गतं घटपदं पटादाविव | अस्मिन्नेव पद्ये ङारायणाखिलकारणाय श्रीप्राणनाथाय नमस्करोमी� त्यत्र केवल नमः शब्दप्रयोगे �नमः स्वस्ती�त्यादिना चतुर्थीविधानादत्र केवलनमःशब्दाभावेन चतुर्थ्या असम्भावितत्त्वात् | किन्तूपपदविभक्तेः कारकविभक्तिर्बलीयसीति नियमान्मुनित्रयं नमस्कृत्येत्यत्र द्वितीयाप्रयोगवत्, श्रीप्राणनाथं हि नमस्करोमीत्येव साधुः | एवं रामायणतात्पर्यनिर्णये- �अथाभ्यवर्धंश्चतुरः कुमारा नृपस्य गेहे पुरुषोत्तमाद्याः� | इत्यत्राभ्यवर्धन्निति वृधु (वृध्) = वृद्धाविति धातोरात्मनेपदित्वेनाभ्यवर्धन्तेति ल᳚नि प्रयोक्तव्ये तद्विहायावर्धन्निति परस्मैपदप्रयोगः शब्दशास्त्रविरुद्धः | तत्रैव चतुरः कुमारा इति, चत्वार इति वक्तव्ये चतुर इत्यस्य द्वितीयाबहुवचनरूपत्वमविज्ञाय प्रथमाबहुवचनं भ्रमेण प्रयोगः कृतः | तारतम्यस्तवे सौपर्णी वारुणी पर्वतपतितनयेत्यत्र सुपर्णवरुणशब्दाभ्यां पुंयोगादाख्यायामिति ᳚नीपि वरुणशब्दादिन्द्रवरुणभवशर्वेत्यादिनानुगागमे वरुणानीति स्यात् | सुपर्णशब्दात् ᳚नीपि सुपर्णीति स्यात् | पर्वतपतितनयेत्यत्र स्रग्धरायां सप्तस्वक्षरेषु विच्छेदस्योक्तत्वात्प्रकृतेयतिभ᳚न्गो दोषः | नच मध्वाचार्याणामृषित्वेन तत्प्रयुक्तेषु शब्देषु व्याकरणविरोधादिकं नाश᳚न्कनीयं, छन्दस्तुल्यत्वात् | बहुलं
SK
छन्दसीत्यनुशासनादिति वाच्यं, तेषामृषिमध्ये केनापि परिगणनाया अकृतत्वात् | तथा नारायणशब्दावयवार्थनिर्वचने अरा = दोषाः, तद्विरुद्धा
SK
पृ० ३०७) गुणा नारास्तेषामयनमिति निर्णीतम्, तन्न सम्भवति | नञ् समासेन लोपो नञ इति नकारलोपे तस्मान्नुडचीति नुडागमे | अनरायण इति स्यात् | नच नगनौकादिशब्द इव नलोपाभावो निपात्यत इति वाच्यं, नभ्राण्नपान्नवेदानासत्येत्यादिना नगोऽप्राणिष्वन्यतरस्यामित्यादिना च पठितादन्यत्र नलोपावश्यंभावनियमात् | �आपो नारा इति प्रोक्ता आपो वै नरसूनवः | ता यस्यायनं प्रोक्तं तेन नारायणः स्मृतः� इति नारायणशब्दनिर्वाचकमनुस्मृतिविरोधाच्च | तस्मादनरा इत्येव वक्तव्यतया नारा इति रूपस्य व्याकरणविरुद्धतयाऽपभ्रंशत्वात् || एवं मीमांसकमतोल्ल᳚न्घनेन बहुधा व्यवहारो दृश्यते | तथाहि- शब्दादेव प्रमित इत्युत्तरमीमांसाधिकरणे श्रुतिलि᳚न्गवाक्यप्रकरणस्थानसमाख्यानां षण्णाम᳚न्गत्वाबोधकप्रमा णानां सर्वमीमांसकविदितानामित्थमित्थमन्यथा निर्वचनं कृतम् | तत्र प्रथमं नाममात्रेण निर्देशः श्रुतिरिति तत्तुच्छम् | करणत्वकर्मत्वादिबोधकविभक्तीनां श्रुतित्वेन �ऐन्द्र्या गार्हपत्यमुपतिष्ठत� इत्यादिषु दृष्टत्वात् | तार्किकमतसिद्धोद्देशस्य नाममात्रेण वस्तुनिर्देशस्य श्रुतित्वस्य कैरप्यन᳚न्गीकारात् | यदप्यसाधारणधर्मो लि᳚न्गमिति तदत्यन्ताज्ञानविलसितं, मन्त्राणां शब्दरूपाणां देवस्यत्वेत्यादीनामर्थप्रतिपादकतासामर्थ्यमात्रस्य लि᳚न्गत्वेन मीमांसकैर᳚न्गीकृतत्वात् | अव्युत्पन्नैरभ्यासदशायां पठ्यमानेषु तर्कभाषादिष्वसाधारणधर्मस्य लक्षणत्वेनाभिधानात् | तस्य लि᳚न्गत्वव्यवहारस्य मीमांसकमर्यादातिवर्तित्वात् | यदप्युक्तं निराका᳚न्क्षपदानि वाक्यमिति तदप्यविचारितरमणीयं, घटः कर्मत्वमानयनं कृतिरित्यादीनामपि वाक्यत्वप्रस᳚न्गात् | प्रत्युतार्थैकत्वादेकं वाक्यं साका᳚न्क्षञ्चेद्विभागे स्यादिति जैमिनीयसूत्रेण साका᳚न्क्षाणामेव वाक्यत्वप्रतिपादनात् | निराका᳚न्क्षाणां पदानां वाक्यत्वप्रतिपादनं मुक्तानामपि शुनां भूषणा᳚न्गीकारवत्, व्युत्पन्नाव्युत्पन्नसाधारण्येनातिहास्यास्पदमिति यत्किञ्चिदेतत् |
SK
यच्चोक्तमेकप्रमेयप्रतिपादकानेकवाक्यानि प्रकरणमिति
SK
पृ० ३०८) तच्चात्यन्तभ्रान्तिविजृम्भितं, इति कर्तव्यताऽऽका᳚न्क्षारूपस्य प्रकरणस्यार्थरूपत्वेन शब्दरूपत्वाभावात् | पवित्रशब्दस्य चक्रवाचकत्ववदेकप्रमेयप्रतिपादकानेकवाक्यानां प्रकरणत्वव्यवहारस्य यथाजातत्वमूलत्वात् | यच्चोक्तमनेकप्रमेयप्रतिपादकमेकार्थे तात्पर्ययुक्तं स्थानमिति तदप्यसत्, दब्धिरसीत्यादिमन्त्राणां हुतानुमन्त्रणानां स्थानसाम्यलक्षणक्रमरूपस्य प्रधानक्रतुसमीपा᳚न्गाम्नानलक्षणसन्निधेश्च स्थानत्वेन व्यवहारात् | भवदीयस्थानस्वरूपव्यवहारस्योत्यन्तमौढ्यायत्तत्वात् | यदपि समानोक्तिः समाख्येति तत्त्वत्प्रकाशिकेति तदपि न, आश्वमेधिकं पौरोडाशिकमिति नाममात्रव्यवहारप्रधानक्रतुसम्बन्धितयाऽर्थानां शब्दरूपाणां मन्त्राणाञ्चा᳚न्गत्वबोधकस्य न संज्ञाविशेषस्य समाख्याव्यवहारविषयत्वेन पूर्वतन्त्रेषु व्यवहाराद्भवदुक्तसमाख्यानिर्वचनस्य मूर्खप्रलापमात्रत्वात् | अतेव �द्वादशाहवदि� ति सूत्रे द्वादशाहः क्रत्वात्मकः सूत्रात्मकश्चेत्युक्तमयुक्तम् | गोबलीवर्दन्यायेन क्रतुसत्रशब्दयोः सामान्यविशेषपरतया विरोधाभावेनाहीनसत्रात्मकतया द्विविधस्य द्वादशाहस्योक्तप्रकारेण द्वैविध्योपपादनं कल्पसूत्रानभिज्ञतामूलत्वादुपेक्षणीयम् | �भूम्नः क्रतुव�दिति सूत्रे यथा खलु दीक्षणीया प्रायणीयोदयनीया सवनत्रयावभृथात्मकस्य क्रतोः सर्वयागेष्वनुवर्तन एव साफल्यम् | अन्यथा वैफल्याज्ज्यायस्त्वं ज्योतिष्टोमस्य ततश्च तस्य सर्वैः कर्तव्यत्वमिति यत्प्रलपितं तदव्युत्पन्नमनोहरम् | तथाहि- दीक्षणीयादीनां ज्योतिष्टोमा᳚न्गानां प्रधानज्योतिष्टोमात्मकत्वा᳚न्गीकारे सत्य᳚न्गा᳚न्गिभावव्यवहारः कुत्रापि न स्यात् | शरीरस्या᳚न्गिनः ज्ञानेन्द्रियकर्मेन्द्रियाद्य᳚न्गवतस्तदात्मकत्वात् | प्रधानक्रतोरनुवर्तमिति यदुक्तं तदतिदेशषट्कानवबोधमूलं, कार्यमुखेना᳚न्गानां विकृतेः प्रकृतावतिदेश इत्यतिदेशषट्कस्य निर्णयः | प्रधानयागस्य विकृतावनुवर्तनं क्वाप्यदृष्टचरम् | प्रधानस्येतरयागानुवर्तनेन ज्यायस्त्वं तेन
SK
सर्वकर्तव्यत्वञ्च मृगतृष्णाम्भसि स्नातस्य वन्ध्यासुतस्य गगनकुसुममालाल᳚न्कार इव भासते | ज्योतिष्टोमस्य
SK
पृ० ३०९) ज्यायस्त्वञ्च �एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोम� इति वचनप्रयुक्तं सर्वं द्विजातिकर्तव्यत्वञ्च �वसन्ते वसन्ते ज्योतिषा यजेते�ति वीप्सायुक्तवचनप्रयुक्तं स्वामिनः फलश्रुतेरित्यधिकरणे अयजमानानामपि ऋत्विजां सत्रयागफलमित्यादि यदुक्तं तदति तुच्छम् | ये यजमानास्ते ऋत्विज इति वचनेन यजमानानामेव ऋत्विक्त्वस्य प्राप्तत्वादयजमानानां सत्रे ऋत्विक्त्वं कुतस्त्यम् ? तुष्यतु दुर्जन इति न्यायेनायजमानानामृत्विक्त्वम᳚न्गीकुर्मः, तथापि तेषां सत्रफलप्राप्तिः कुतस्त्या ? कर्मकरत्वेन विद्यमानानां लोके वेतनवतामिव तत्फलप्राप्तेरनुचितत्वात् | वस्तुतस्तु यजमानानामेव ऋत्विक्त्वाद्दक्षिणापि न विधीयते | अतेव �ऋद्धिकामाः सत्रमासीरन्, प्रतितिष्ठन्ति ह वा एता रात्रीरुपयन्ती� ति बहुवचनमपि श्रूयते || यच्च जिज्ञासासूत्रे प्रथममसंहिततया ऊंकारनिर्देशं सूत्रावयवभूतम᳚न्गीकृत्यासंहिताप्रयोजनमुत्तरसूत्रेष्वनुगतिसूचनमि ति व्युत्पादनार्थं न्यायसुधायां सर्वाणि सूत्राणि प्रत्येकमनेकवेदवाक्यविचारपरत्वादवान्तरा ब्रह्मविद्या श्रवत्यन्ॐकृतं ब्रह्म परस्ताच्च विशीर्यत� इति श्रौतार्थवादसामर्थ्यात्स सर्वास्वपि ब्रह्मविद्यास्वाद्यं तयोर्ॐकारस्योहः कर्तव्य इति गम्यते | नचोह्यमानवाक्पृथगिति शक्यते वक्तुम् | मन्त्रेष्वप्यूह्यमानस्य मन्त्रानवयवत्वप्रस᳚न्गादिति तदज्ञानविजृम्भितं, सूत्रादाव्ॐकारप्रयोगस्य तत्प्रयोजनकल्पनस्य च भाष्यान्तरेषु केष्वप्यप्रतिपादनाद्ॐकारसद्भावमेव न पश्यामः | अस्तु वा भवन्मतरीत्या ऊंकारप्रयोगः | तथापि तस्यासंहितत्वे किं नियामकम् ? अस्तु वाऽसंहितत्वं तथापि सूत्रावयवत्वं कथम् ? अस्तु वाऽव्यवहितपूर्वोच्चारणात्सूत्रावयवत्वभ्रमः, तथापि सूत्राणां ब्रह्मविद्याप्रतिपादकतया श्रुत्यर्थनिर्णायकन्यायप्रतिपादकशब्दसन्दर्भविशेषरूपाणां मानसव्यापाररूपविद्यात्मकत्वं कथं, वेदापा᳚न्गत्वेन परिगणितानामेषां वेदात्मकत्वं कथम् ? अस्तु वा
SK
नष्टवैदिकाध्वमध्वोपदेशजनितमूढभक्त्या भ्रान्त्या वा वेदत्वोक्तिः, तथापि श्रवत्यन्ॐकृतं ब्रह्म परस्ताच्च
SK
पृ० ३१०) विशीर्यत� इति मानवस्मृतिवाक्ये श्रौतार्थवादोक्तिर्वा कथम् ? तथाङन्दमयाधिकरणे न्यायसुधायां ज्योतिषां स्तोमो ज्योतिष्टोम इति ज्योतिष्टोमशब्दनिर्वचनं कृतं, तदपि वेदार्थानभिज्ञानविलसितम् | �त्रिवृत्पञ्चदशः सप्तदश एकविंशः, एतानि वा व्रतानि ज्योतींषि य एतस्य स्तोम� इति स्तोमानां ज्योतिःशब्दवाच्यानाञ्चाभेदपरत्वेन स्पष्टं श्रुतिनिर्वचनस्य विद्यमानत्वात्, ज्योतिषां स्तोम इति भेदप्रतिपादकया षष्ठ्या तयोरुभयोः शब्दप्रतिपादनं श्रुतिविरुद्धम् | षष्ठीसमासपक्षे चान्तोदात्तता स्यात् | आद्युदात्ततया सर्वैरपि वैदिकैः पठ्यते | तस्मान्मध्वप्रतिपादितं सर्वं पूर्वोत्तरमीमांसाशास्त्रविरुद्धम् || यच्चोक्तं जगतः सत्यत्वमिति श्रुतिविरुद्धत्वात्तदस᳚न्गतम् | तथाहि- �अथात आदेशो नेति नेति | मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति | नेह नानास्ति किञ्चने�त्यादिश्रुतेः, �तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थित� मिति स्मृतेश्च जगतोऽसत्यत्वस्य स्पष्टं प्रतिपादनात् | नच �विश्वं सत्य� मिति श्रुत्या, �असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वर� मिति स्मृत्या च विरोधः स्यादिति वाच्यं तद्वच नस्य शशशृ᳚न्गसदृशापह्नवरूपासत्यत्वप्रतिपादननिन्दापरस्या- सदेव रजतमभादित्यसतो भानम᳚न्गीकुर्वस्तवैव दूषणपरत्वात्, न त्वनिर्वचनीयत्वरूपासत्यत्वप्रतिपादकाद्वैतिदूषणपरत्वम् | तथैवाभियुक्तवचनम्-मिथ्याशब्दो द्व्यर्थः- अनिर्वचनीयवचनोऽपह्नववचनश्चेति | अपह्नवरूपासत्यत्वं जगतः सत्यत्वसाधकस्य तवैव पर्यवस्यति | तथाहि- प्रपञ्चो मिथ्या दृश्यत्वात, शुक्तिरजतवदित्यनुमाने शुक्तिरजतं शुक्त्यज्ञानोपादानकं शुक्तितः पृथक्त्वेन निर्वक्तुमशक्यम् | तद्दृष्टान्तेन जगतोऽनिर्वचनीयत्वे साधनीये शुक्तिरजतवदसदेव रजतमभादिति शुक्तिरजतस्यासत्यत्वं ब्रुवाणस्यानिर्वचनीयत्वं निराकुर्वतस्तव दार्ष्टान्तिकस्य जगतोऽसत्यत्वं पर्यवसन्नम् | तस्माज्जगतः सत्यत्वसाधनमस᳚न्गतम् | यच्चोक्तं बृहि = वृद्धाविति
SK
धातोरौणादिकमत्प्रत्ययान्तेन ब्रह्मशब्देन बृहन्ता ह्यस्मिन गुणा इति श्वाभाविकीज्ञानबलक्रिया
SK
पृ० ३११) चे�त्यादिवचनजातेन ब्रह्मशब्दवाच्यस्य विष्णोरनन्तकल्याणगुणपरिपूर्णत्वं प्रतिपादितमिति तदसमञ्जसं, बृहि = वृद्धाविति धातोरौणादिकमन्प्रत्ययान्तस्य ब्रह्मशब्दस्य स्वरूपमहत्वे सम्भवति, गुणपरिपूर्णत्वप्रयुक्तमहत्वकल्पनमप्रामाणिकम् | बृहन्तो ह्यस्मिन् गुणा इति किं श्रुतिर्वा स्मृतिर्वा ? नाऽद्यः- पठ्यमानासु श्रुतिष्वनुपलम्भात् | यथाकथञ्चिदुपलम्भे वा शाक्षी चेता केवलो निर्गुणश्च | निष्कलं निष्क्रियं शान्तम् | अस्थूलमनण्वह्रस्वम् | अगोत्रमवर्णमचक्षुः-श्रोत्रम् | अग्राह्यमलक्षण� मित्यादिश्रुतिविरोधेन तद्वचनस्यान्यार्थपरत्वेन स्वार्थे तात्पर्याभावात् | �परास्य शक्तिर्विविधैव श्रूयते� इत्यादिश्रुतेरिच्छाज्ञानक्रियाचिदादिस्वरूपमात्रशक्तिपरत्वेन गुणपरत्वासम्भवात् | अतेव स्वाभाविकी ज्ञानबलक्रिया चेति श्रुतिरस्मदुक्तस्वरूपपरत्वमेव प्रकाशयति | यच्चोक्तं �अन्तस्तद्धर्मोपदेशात् | अदृश्यत्वादिगुणको धर्मोक्ते� रित्यादिसूत्रपर्यालोचनया गुणपूर्णत्वं सिद्धमिति तदप्यतिमन्दं ङिर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः | ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणै� रित्युपासनार्थं मन्दानां व्यावहारिकगुणमात्रकल्पनेन तेषां तात्विकत्वे उक्तश्रुतिविरोधेन सूत्रकृतां तत्र तात्पर्याभावात् | यच्चोक्तं ब्रह्मधर्मिसत्तासमानसत्ताकगुणयुक्तं पदार्थत्वात्, घटवत् | ब्रह्मधर्मिसत्तासमानसत्ताकभावरूपगुणयुक्तं, अभावविलक्षणत्वात्, घटवदित्यनुमानद्वयेनापि गुणवत्वं साधितं तदरमणीयं, अनुमानद्वयेऽपि व्यभिचारो बाधश्च दोषः | तथाहि- पदार्थत्वस्याभावविलक्षणत्वस्य च हेतोर्द्रव्यविनाकृतेषु गुणादिषु षट्सु पदार्थेषु विद्यमानत्वात् | गुणे गुणान᳚न्गीकारेण गुणाश्रयो द्रव्यं गुणात्यन्ताभावानधिकरत्वमिति लक्षणद्वयेन च द्रव्यमात्रस्य गुणवत्वा᳚न्गीकारेण गुणादिपदार्थानां युष्मदस्मन्मध्यस्थतार्किकैरन᳚न्गीकाराद्व्यभिचारो दोषः | पूर्वोक्तश्रुतिस्मृतिवशाद्बाधश्च | यच्चोक्तं �अन्तर्यामी परेशः स्वयमिह
SK
भगवानात्तचक्रस्तु लक्ष्म्या भक्तान्तः संस्फुरत्यप्रतिमगुण� इत्यादिना लक्ष्मीसमेतस्य नारायणस्य सर्वान्तर्यामित्वमिति तदप्यतितुच्छं,
SK
पृ० ३१२) लक्ष्मीसमेतस्य नारायणस्य सर्वान्तर्यामित्वे लक्ष्म्या अप्यन्तर्यामित्वमवश्यं वक्तव्यम् | तथाच लक्ष्म्यापि तया साकमन्तर्यामित्वे वक्तव्ये तत्रापि तथैवेत्यनवस्थापत्तिः | तद्दोषभयात्तस्यां तया साकमन्तर्यामित्वं यदि परित्यजसि तर्हि सर्वत्र तथैवानुग्रहः क्रियताम् | यद्येवं वदसि स्वसिद्धान्तविरोधः | किञ्चान्तर्यामिब्राह्मणादिषु भगवन्मात्रान्तर्यामित्वतात्पर्यकेषु लक्ष्मीसमेतस्य नारायणस्यान्तर्यामित्वमत्यन्ताश्रुतचरम् | यच्चोक्तं गुणगुणिनोर्भेदोऽभेदश्चेति तदप्ययुक्तम् | भेदाभेदयोरेकत्र विरोधात् | किञ्च यद्यभेदस्तदा गुणानामानन्त्यात्तद्वतोऽप्यानन्त्यं स्यात् | गुणिवद्गुणानामप्येकत्वापत्तिः | यदि भेदस्तयोस्तदा भेदस्य तत्प्रयोगिनश्च भेदोऽस्ति वा न वा ? आद्ये तत्रापि तथैवेत्यनवस्थापत्तिः | द्वितीये भेदस्य स्वरूपत्वे एकत्र निर्णीतः शास्त्रार्थः सर्वत्रेति जीवब्रह्मणोर्भेदस्य स्वरूपत्वा᳚न्गीकारेणाद्वैतमतप्रवेशापत्तिः | नच भेदाभेदयोरेकत्र स्थितिर्विशेषबलात्सम्भवतीति वाच्यं, तादृशविशेषो गुणगुणित्वव्यवहारमात्रेण कल्प्यते वा सर्वत्र कल्प्यते वा ? नाद्यः, तन्मात्रकल्पने मानाभावात् | न द्वितीयः, घटपटादिकं स्वभिन्नं स्वाभिन्नमिति व्यवहारापत्तिः | व्यावृत्तिसम्पादकविशेषे भेदोऽस्ति वा न वा ? यदि भेदोऽस्ति तदा तस्यापि व्यावर्तकान्तरसापेक्षत्वेन तस्यापीत्येवमनवस्था स्यात् | यद्यभेदस्तदामुख्यधर्मस्वरूपत्वाभावात् | घटत्वादिषु तथा दृष्टत्वाद्व्यावर्तकत्वभ᳚न्गप्रस᳚न्गः || यच्चोक्तं- उक्थोत्कर्षे षोडश्युत्कर्षवद्विष्णोरन्तर्यामित्वे लक्ष्मीसहितस्यैवान्तर्यामित्वमपीत्यत्र पूर्वतन्त्राधिकरणोपन्यासः कृतः, तत्प्रकृतवैषम्यादनुपपन्नम् | तथाहि- लक्ष्म्यविनाभावे वक्तव्ये अविनाभूतपदार्थयोरेव दृष्टान्तत्वेन ग्रहणं युक्तम् | तत्र तथाविनाभावाभावात् | उक्थ्यनामके क्रतौ षोडशिग्रहाभावात् | न चोक्थ्यग्रहस्य षोडशिना साकं व्याप्त्यभावेऽपि षोडशिग्रहस्योक्थ्येन साकं व्याप्तिरस्तीति न
SK
प्रकृतवैषम्यमिति वाच्यं, प्रकृते लक्ष्मीनारायणयोः समव्याप्तौ वक्तव्यायां विषमव्याप्तपदार्थदृष्टान्तस्यात्यन्तमनुचितत्वात् |
SK
पृ० ३१३) तस्मादेतदधिकरणदृष्टान्तेन लक्ष्मीसमेतस्य नारायणस्यान्तर्यामित्वमनुपपन्नमेव | यच्चोक्तं- जीवेश्वरादिपञ्चभेदा अ᳚न्गीकरणीया इति तदप्यत्यन्तास᳚न्गतं, तत्त्वमस्यादिश्रुतिविरोधात् | नच प्रमाणविरोधाज्जीवेश्वरयोर्भेदः सिद्ध एवेति वाच्यं, प्रत्यक्षविरोधात्त्यज्यत इति चेच्चन्द्रप्रादेशिकत्वादिकमपि लोकसिद्धं ज्योतिश्शास्त्रविरुद्धम᳚न्गीक्रियताम् | किञ्च चार्वाकमतप्रवेशापत्तिः | अत एवानुमानेनापि न भेदः सिध्यति | न तावत् �द्वा सुपर्णा सयुजा सखाया� वित्यादिश्रुतिविरोध इति | अस्याः श्रुतेः पै᳚न्गरहस्यब्राह्मणे जीवान्तःकरणयोर्भेदप्रतिपादनेन जीवेश्वरयोर्भेदप्रतिपादनाभावात् | ननु सत्यं भिदेति काठरायणशाखायां वर्तत इति भेदं यथार्थम᳚न्गीकुर्म इति चेत्, शाखासु काठरायणसंज्ञायाः गगनकुसुमायमानत्वेन भेदस्यापारमर्थिकत्वात् | नच पै᳚न्गरहस्यब्राह्मणमिति शाखासंज्ञाकल्पनमपि शशशृ᳚न्गप्रायमेवेति वाच्यं, शाखासंज्ञाविवादे कल्पसूत्रकारा एव शरणं युष्माकमस्माकञ्च, अस्माकं शाखासंज्ञात्वाधानसूत्रे भगवताऽऽपस्तम्बसूत्रकारेण पै᳚न्गायनब्राह्मणं भवतीति गृहीता वर्तते | तथा भवदीयकाठरायणादिसंज्ञायाः कुत्रापि कल्पसूत्रेऽगृहीतत्वात्सा भवदीयश्रौतमर्यादाज्ञानकृतैवेति भेदे प्रमाणमेव नास्ति | विस्तृततया भेदनिराकरणं रामानुजमतनिराकरणे करिष्यत इत्युपरम्यते | एवमेव जडेश्वरभेदाऽपि श्रुतिविरुद्धत्वादप्रामाणिकः | श य एषोऽणिमैतदात्म्यमिदं सर्व� मिति छान्दोग्योपनिषदि, �इदं सर्वं यदयमात्मा� इत्युपनिषदन्तरे चोक्तम् | तस्माज्जडेश्वरभेदे प्रमाणाभावात्तदप्यस᳚न्गतमेव | एवमेव जडजीवभेदोऽप्यनुपपन्नः | ङेह नानाऽस्ति किञ्चन, यदाह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति� इति भेदशब्दपर्यायान्तरनानाशब्दैस्सम्प्रतिपाद्य किञ्चिच्छब्देन सर्व स्यापि जगतोऽन्योन्यं भेदनिषेधस्य कृतत्वात्, भेददृष्टिमतः पुरुषस्य भयमृत्युप्राप्तिवर्णनाच्च |
SK
द्वैतिनोऽतथादर्शिन इति विष्णुपुराणस्मृतेश्च भेदः सर्वथानुपपन्न एव | अनुमानञ्च भेदो मिथ्या दृश्यत्वात्,
SK
पृ० ३१४) शुक्तिरजतवत् | तस्माद्भेदः सर्वथा युक्तिभिः प्रमाणैश्च साधयितुं न शक्यत इति निरस्त एव || यच्चोक्तं �विष्णुः सर्वोत्तमोऽथ प्रकृतिरथ विधि� रित्यादिना देवतातारतम्यनुक्तं तदप्यतिमन्दबुध्या कल्पितम् | तथाहि- �ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते | सोमः पवतेर्जनिता मतीना� मित्यादिश्रुतिवचनविरोधात् | नच �पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति | नारायणाद्ब्रह्माऽजायत नारायणाद्रुद्रोऽजायत� इत्यादिना रायणोपनिषद्वचनेन, �एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नाग्नी�त्यादिमहोपनिषद्वचनजातेन च नारायणस्य रुद्रादिसकलदेवताजनकत्वेन सर्वोत्तमत्वप्रतिपादनाद्भक्तसौलभ्यार्थावतारपरत्वेन पूर्वोक्तवचनद्वयस्याप्यन्यथानयनं क्रियत इति वाच्यं, अस्माभिः कार्यकारणरुद्रद्वयाभ्युपगमवत्, कार्यकारणात्मकनारायणद्वयाभ्युपगमे प्रमाणाभावात्, पूर्वोक्तवचनस्य भक्तसौलभ्यपरत्वेनान्यथा नेतुमशक्यत्वान्न नारायणस्य सर्वोत्तमत्वम् | विस्तरस्तु शैववैष्णववादे प्रदर्श्यत इत्यत्रोपरम्यते | एतेन सर्वदेवतातारतम्यमपि निरस्तम् | ननु तारतम्ये शैषाङन्दस्य मीमांसा भवति� त्युपक्रम्य, युवा स्यात्साधुयुवाध्यायकः | आशिष्ठो द्रढिष्टो बलिष्ठः | तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मानुष आनन्दः | ते ये शतं मानुषा आनन्दाः | स एको मनुष्य- गन्धर्वाणामानन्दः | श्रोत्रियस्य चाकामहतस्ये� त्यादिका मनुष्यगन्धर्वदेवगन्धर्वकर्मदेवाजानजदेवेन्द्रबृहस्पतिप्रजापतिब्रह्मप र्यन्तमानन्दतारतम्यप्रतिपादिका श्रुतिरेव प्रमाणमिति चेन्न, तस्यां श्रुतौ देवतानन्दतारतम्यस्य सत्वेऽपि भवदभिमतविष्णुसर्वोत्तमत्वप्रकृतिविधिवायुब्रह्माणीभारतीगरुडशे. समृडादिदेवतातारतम्यप्रतिपादनाभावात् | न चानन्दतारतम्यप्रतिपादनादेवाधिकारतरतमभाववद्देवतातारतम्येऽस्मद् उक्ते इयमेव श्रुतिर्नियामिकेति वाच्यं, लोकेऽधिकारितारतम्येनानन्दतारतम्यवद्देवादीनामधिकारिणां ब्रह्मविद इव
SK
निस्तर᳚न्गानन्दाब्ध्यनुभववत्सोपद्रवानन्दानुभवमात्रेण तत्तल्यत्व-
SK
पृ० ३१५) मेव नास्तीति वक्तं श्रुतिरियं प्रवृत्ता नतु तरतमभावः सत्यमिति वक्तुं, तस्मात्तारतम्यकल्पनमप्रामाणिकम् || यच्चोक्तं-मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेरित्यधिकरणे �तदिह व्याघ्रो वा कीटो वा पत᳚न्गो वा वराहो वा दंशो वा मशको वा यद्यद्भवन्ति तथा भवती� ति श्रुतिमहिम्ना मोक्षदशायां सर्वेषां तिर्यगादीनां तदवस्थतैव मोक्ष इति, तदत्यन्तास᳚न्गतं संसारदशायामिव मोक्षदशायामपि श्वा भषन्नेव कीशः किलकिलां कुर्वन्नेव मशक उत्पतन्निपतन्नेव फेरवोप्युच्चतरमारुवन्नेव हयो ह्रेषमाण एव वारणो बृंहमाण एव वराहो विटर एव काकः क्रा᳚न्कुर्वन्नेव रासभो रारटन्नेव खलः पैशुन्यमाचरन्नेव भुज᳚न्गमोऽपि विषमुद्गिरन्नेव एवमेते स्वस्वव्यापारं कुर्वाणा एव तिष्ठन्ति चेत्संसारदशातो विशेषाभावान्मुक्त्यर्थं कस्यापि प्रवृत्तिर्न स्यात्, मुक्तितत्साधनप्रतिपादकानां शास्त्राणाञ्च वैफल्यं स्यात् | नच मुक्तौ तिर्यगादीनां शरीरमात्रस्य तादवस्थ्यमात्रम᳚न्गीक्रियते नतु तदीयानां हेयानां भूषणादिव्यापाराणां तादवस्थ्यम᳚न्गीक्रियत इति वाच्यं, प्रमाणाभावात् | हेयगुणत्यागवद्धेयशरीरस्यापि समानन्यायतया त्यागौचित्ये किमर्थमर्धजरतीयेनेत्यलम् | यदपि भक्तेः साक्षान्मोक्षसाधनत्वमित्युक्तं तदप्यत्यन्तासमञ्जसं, �तमेव विदित्वाऽतिमृत्युमेति | तमेवं विद्वानमृत इह भवति | ब्रह्मविद् ब्रह्मैव भवति | ज्ञात्वा तं मृत्युमत्येति | नान्यः पन्था विमुक्तये | तरति शोकमात्मवित् | यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः | तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यती�त्यादिश्रुतिमहिम्ना ज्ञानसत्वे मोक्षः ज्ञानाभावे मोक्षाभाव इत्यन्वयव्यतिरेकयोः श्रुत्यैव प्रतिपादनात् | ज्ञानस्यैव साक्षान्मोक्षसाधनत्वं; नतु त्वदुक्ताया भक्तेः | नच श्ह्रद्धाभक्तिध्यानयोगादवैही�ति भक्तेर्मोक्षसाधनत्वं प्रतिपाद्यत इति वाच्यं, परम्परासाधनत्वप्रतिपादकत्वेन श्रुतेर्नेतुं शक्यत्वात् | अन्यथा श्रद्धाया अपि
SK
तत्सहपठितायास्तथात्वं
SK
पृ० ३१६) स्यात् | अतेव �यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ | तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन� इति गुरूपदिष्टार्थावबोधरूपश्रवणमननादिव्यापार एव प्रतिपादितम् || यच्चोक्तं तापादिपञ्चसंस्कारसंकृतस्यैव मुक्तियोग्यत्वमिति तदत्यन्तानुपपन्नम् | श्ह᳚न्खचक्राद्य᳚न्कनञ्च नृत्यगीतादिकं तथा | हीनजातेरयं धर्मो न जातु स्याद्द्विजन्मनः |� इति, यथा स्मशानगं काष्ठमनर्हं सर्वकर्मसु | तथा चक्रा᳚न्कितो विप्रः सर्वकर्मबहिष्कृतः || निन्दन्तो ह्यैश्वरान्मार्गान्कुशास्त्रासक्तमानसाः | पाञ्चरात्रे च कापाले तथा कालामुखेऽपि च || शाक्ते च दीक्षिता यूयं भवत ब्राह्मणाधमाः | एकदण्डास्त्रिदण्डाश्च ये च भक्ता हरेरिह | तेऽद्य पाखण्डिनः सन्तु द्रष्ट्रूणां नरकप्रदाः ||� इत्यादिदेवीवीरभद्रनन्दी दधीचिगौतमदुर्वासादिदेवर्षिशापदग्धजनविषयत्वेन स्कान्दलै᳚न्ग्यकूर्मादिपुराणेषु प्रतिपादनात् | तापादिपञ्चसंस्कारस्य शापदग्धदुर्विप्रविषयतया तेषां मुक्तियोग्यत्वं दूरापास्तम् | विस्तरस्तु लि᳚न्गधारणवादे द्रष्टव्यः | किञ्च श्रुतिस्मृतिन्यायमूलकत्वाभावेनात्यन्तास᳚न्गतस्यास्य माध्वमतस्याऽऽर्हतमतमेव मूलम् | तथाहि- तत्र तावदेवं हि कल्पना- स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्त्यवक्तव्यः, स्यान्नास्त्यवक्तव्यः, स्यादस्ति च नास्ति चावक्तव्यश्चेति सप्तभ᳚न्गीनय इति | एवं सप्तभ᳚न्गीन्यायमाश्रित्यैव माध्वमतं प्रवृत्तम् | तथाहि- �अजायमानो बहुधा विजायत� इत्यत्र सामान्यात्मनाऽजायमानः स्वानेकपर्यायात्मना जायत इत्यर्थः | �एको देवो बहुधा निविष्ट इत्यत्र सामान्यात्मना एकत्वं विशेषात्मनाऽनेकत्वम् | तथा चैकस्मिन् ब्रह्मण्यैकत्वानेकत्वयोर्युगपदेवा᳚न्गीकारात् | एकत्वस्य स्यादस्तित्वं स्यान्नास्तित्वञ्च | तदसदेव सन्मनोऽकुरुतेत्यत्र कार्याकारेणासतः कारणात्मना सत्त्वम् | अन्यथा स्यामिति मनोऽकुरुतेत्यादौ कर्तुरत्यन्तासत्त्वप्रस᳚न्गात् | शदेव सोम्येदमग्र आसी� दित्यत्रापि कारणात्मना सदेवेति
SK
विवक्षितम् | पृ० ३१७) अन्यथा बहु स्यामित्युत्तरवाक्यविरोधात् | �तद्धैक असदेवेदमग्र- आसी�दित्यत्रापि सत्त्वमेवानूद्य कथमसतः सज्जायेतेति प्रतिक्षिप्तम् | तथा ङासदासीन्नो सदास्तीत्तदानी� मिति श्रुतिवशादपि कारणस्य कथञ्चित्सत्त्वं पर्यवस्यति | तथा सति क्षराक्षरत्वा᳚न्गीकारात्, स्वरूपेणास्ति परमात्मा क्षराक्षरात्मना नास्तीति | एवञ्च स्यादस्ति स्यान्नास्तीति मूलभ᳚न्गीद्वयमागतम् | तथा �अणोरणीया� नित्यत्रापि कथञ्चिदणुत्वं, अन्यथा महत्वोनुपपत्तेः | न चाणुत्वमहत्वयोरेकत्र विरोधः | चित्त्वेनैक्येऽपि विशेषापरनाम्नः कथञ्चिद्भेदस्येष्टत्वात्, अन्यथा महतो महीयानिति पृथगनुक्तिप्रस᳚न्गात् | सर्वथाऽणुत्वेऽस्थूलमनण्विति पर्युदासानुपपत्तेः तथा च स्यादणुः स्यादनणुर्महान्वेति मूलभ᳚न्गीद्वयमागतम् | एवञ्च स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्त्यवक्तव्यः, स्यान्नास्त्यवक्तव्यः, स्यादस्ति च नास्ति चावक्तव्यश्चेति सप्तभ᳚न्गीनयः | अस्मिन्नर्थे समन्तभद्रवचनानि मूलभूतानीति समन्तभद्रवचनमस्मिन्नर्थे विलिख्यते- एकानेकविकल्पादावुत्तरत्रापि योजयेत् | प्रक्रियाभ᳚न्गिनीमेनां नयैर्नयविशारदः || प्रच्छन्नजैनो मध्वोऽयं स्याद्वादित्वेऽपि वस्तुतः | आवृत्तिक्षतये तस्य सप्तभ᳚न्गी प्रदर्शते || सर्वज्ञ आत्मा स्यादेक एव स स्यादनेकशः | स्यादेकश्चाप्यनेकश्च स्यादवाच्यस्तथैव सः || स्यादेकश्चाप्यवाच्यः स्यादनेकश्चाप्यवाच्यकः | स्यादेकश्चाप्यनेकश्चाऽवक्तव्यश्च स एव हि || इत्युक्ता सप्तभ᳚न्ग्येव सप्तभ᳚न्ग्यन्तराण्यपि | मूलभ᳚न्गानुसारेण वक्तव्यानीह तद्यथा ||
SK
पृ० ३१८) स्यादणुः स्यान्महानेवं स्यादणुश्च महानपि | स्याद्भिन्नः स्यादभिन्नश्च स्याद्भिन्नाऽभिन्न एव च || बहुनात्र किमुक्तेन यः सर्वज्ञ इहोदितः | स तु स्वरूपेणास्त्येव न क्षराद्यात्मनास्त्यतः || अनन्ताः सप्त भ᳚न्ग्यः स्युः स्यादस्तीत्यादिका इह | ततो जैनाधिकरणे यन्नैकस्मिन्नसम्भवात् || इत्यादिभिश्चतुर्भिस्तु सूत्रैर्वा समुदीरितान् | दोषानशेषानाक्षिप्य मध्वेन गतसाध्वसम् || ब्रह्मानेकान्तमेवाह जिनोक्तिश्रद्धयोदितः | आत्मलोकौ सांशनित्याविति प्रोक्तौ जिनैरतः || वैकुण्ठवैकुण्ठलोकौ सांशनित्यमनेन च | ब्रह्मानैकान्तिकं प्रोक्तं तथा षाड्गुण्यवादिना || जिनशासनमुल्ल᳚न्घ्य नैवाभ्यां ब्रह्म कथ्यते | अद्वैतैकान्तभ᳚न्गे तौ मत्सहायौ च तिष्ठताम् || न वेदस्य प्रमाणत्वं जिनैरभ्युपगम्यते | प्रमाणत्वेप्यनेकान्तसिद्धिरेवेति वर्णितम् || इति || अयमेषामाशयः- माध्वानामार्हतकल्पितस्यादस्तीत्यादिसप्तभ᳚न्गीन्यायानुरूपप्रक्रियाकल्प नापटूनां प्रच्छन्नजैनत्वे, तदुक्तसप्तभ᳚न्गीन्यायाच्छादनाय शब्दान्तरव्यवहारेण स्वस्वामिमतार्थगोपनपरत्वे च सप्तभ᳚न्गीन्यायमूलकत्वस्फूटीकरणाय तदुपपादनं क्रियते- वादी समागत्य भवन्मते किं परमात्मा एक इति पृच्छति चेत्तत्रोत्तरं स्यादेकोऽस्तीति | किं परमात्मा एको न भवतीति पृतीति चेत्तत्रोत्तरं स्यादेको नास्ति किन्त्वनेक इति | किं परमात्मा एकोऽनेको
SK
पृ० ३१९) वेति पृच्छति चेत्तत्रोत्तरं स्यादस्ति नास्ति चेति | एकोऽप्यनेक इत्यर्थः | किं परमात्माऽवक्तव्य इति पृच्छति चेत्तत्रोत्तरं स्यादवक्तव्य इति | किं परमात्मा एकोऽवक्तव्य इति पृच्छति चेत्तत्रोत्तरं स्यादस्ति चावक्तव्य इति | किं परमात्माऽनेकोऽवक्तव्य इति पृच्छति चेत्तत्रोत्तरं स्यान्नास्ति चावक्तव्य इति | किं परमात्मा एकोऽनेकोऽवक्तव्य इति पृच्छति चेत्तत्रोत्तरं स्यादस्ति च नास्तिचावक्तव्यश्चेति परमात्मनः सामान्यात्मनाऽभेदः रामकृष्णाद्यवतारविशेषात्मना भेद इत्य᳚न्गीकारात्सप्तभ᳚न्गीन्यायमनुकरोति | एवमेवाणुत्वमहत्वगुणत्वगुणित्वादिविरुद्धधर्माणामेकत्रा᳚न्गीकारेण बहूनि सप्तभ᳚न्ग्यन्तराणि स्युः | एतद्विस्तरस्तु वैदिकमतनिर्णये द्रष्टव्यः, विस्तरभयान्नेह लिख्यते | तस्मादार्हतमतानुसारात्, श्रुतिस्मृत्यादिविरोधान्माध्वमतं सद्भिरनादरणीयम् || इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्भोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थ लतत्त्वसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यमरितोण्टदार्यविरचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्यकेलदिसदाशिवराय नायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द्रधर्मपत्नी मल्लाम्बाहृदयानन्दबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे मध्वमतनिरूपण तन्निराकरणप्रकारोनाम सप्तदशं प्रकरणम् || पृ० ३२०) वीरशैवानन्दचन्द्रिकायां वादकाण्डे अष्टादशं प्रकरणम् ||
SK
देशिकेन्द्र भवता निरूपितं भृ᳚न्गिशीलिवचनं सविस्तरम् | माध्वशास्त्रविषयं विभाययन् मोदमानहृदयोऽधुनाऽभवम् || भृ᳚न्गिणा किमुमक्रान्तं मतं तत्र हि दूषणम् | शीलिना वा कथं दत्तं तत्तच्छ्रोतुं मनो मम || बसवेन्द्रमहीपाल वचनं भृ᳚न्गिशीलिनोः | यज्जातं तदहं वच्मि शृणु त्वं विस्मयावहम् || माध्वानां यददूषमुक्तमहितश्रुत्यध्वनाकल्पिता- नेकाम्नायसरूपवाक्यरचनामूलत्वदोषास्पदम् | साकल्येन मतं ब्रवीम्यभिमतं वेदागमानां परं दूष्येताद्यकथं त्वया परमिदं रामानुजीयं मतम् || पृ० ३२१) हे भृ᳚न्गिवर्य भवता यदुदीरितं त- द्रामानुजीयमतमद्य हि दूषयामि | दन्तीन्द्रकुम्भदलनं खलु यस्य लीला हर्यक्ष एष किमु भीतिमजादुपैति ||
SK
रामानुजा इत्थमाहुः- भगवन्नारायण एव जगत्कारणम्, न विधिरुद्रौ ङारायणाद्रुद्रो जायते, नारायणाद्ब्रह्मा जायते� इति श्रुतिपर्यालोचनया | नच ब्रह्मरुद्रादिकारणत्वमात्रप्रतिपादनेन सर्वजगत्कारणत्वसिद्धिः कथमिति वाच्यम्, सर्वस्रष्टृत्वेन लोकवेदप्रसिद्धस्य विधेः, सर्वसंहर्तृत्वेन वेदजगद्विख्यातस्य रुद्रस्य च कारणत्वेनाभिहितस्य भगवतो जगत्कारणत्वाभिधाने निस्सन्देहात् | न चोपरि पुनःपुनरिन्द्रादिदेवमनुष्यादिकारणत्वं किमर्थं प्रतिपाद्यत इति वाच्यम्, मन्दधियां स्पष्टार्थत्वात् | अथवा सिद्धस्यानुवादः | अतेव महोपनिषदि �एको ह वै नारायण आसीत्, न ब्रह्मा नेशान� इत्यादिसन्दर्भेण विधिशिवयोरेव कारणत्वमनूदितम् | तस्मात्समस्तजगत्कारणं भगवन्नारायण एव | स च पञ्चविधो भवति, अर्चाविभवव्यूहान्तर्यामिपरवासुदेवरूपेण | अर्चा श्रीर᳚न्गवे᳚न्कटाचलादिस्थलेषु विद्यमानवे᳚न्कटेश्वरादिप्रतिकृतिर्भगवान्नारायण एव | विभवः श्रीरामकृष्णाद्यवतारः | स च भगवानेव | व्यूहोऽपि भगवानेव | स च चतुर्धा स᳚न्कर्षणव्यूहः, प्रद्युम्नव्यूहः, अनिरुद्धव्यूहः, वासुदेवव्यूहश्चेति | स᳚न्कर्षणप्रद्युम्नानिरुद्धवासुदेवाश्चत्वारो व्यूहपतयः | व्यूहास्तु भगवत्सरूपा एव | स᳚न्कर्षणाद्य- निरुद्धान्तश्च सकलजीवराशिर्जडशरीरी, तन्नियन्ता चान्तर्यामी भगवानेव | अण्डभित्तेरूपन्यप्राकृतवैकुण्ठे सहस्रस्तम्भमण्डपे परमपदाख्ये पञ्चसंस्कारसंस्कृतैर्द्रविडवेदपारगैः पाञ्चरात्रतदनुकूलवेदवेदान्तार्थश्रवणमनननिदिध्यासनकरिभिर्वैष्. नवैः स्वशेषभूतैरन्यैश्च नम्माल्वार्प्रभृतिभिर्द्रविडवेदप्रवर्तकैः शेषभूतैरप्यत्यन्तार᳚न्गैरनन्तगरुडादिभिरपि
SK
पृ० ३२२) सह नित्यवासी सर्वशेषी लक्ष्मीपतिर्वैष्णवाभीष्टवर्षी श᳚न्खचक्राद्यायुधधारी भगवान्वासुदेव इत्युच्यते | इत्थं परिज्ञातुः परमपदप्राप्तिर्वैष्णवस्य, इत्थमजानतो वैष्णवस्य न परमपदप्राप्तिः | किन्तु तद्बहिर्देशेऽप्राकृतचण्डालवाटिकाप्राप्तिः | स्मार्तानान्तु नित्यनरकावाप्तिः, समाश्रयणादिपञ्चसंस्कारभगवच्छास्त्रद्रविडवेदपरिज्ञानाभावात् | आत्मा जीवः परमाणुः, �बालाग्रशतभागस्य शतधा कल्पितस्य च | भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ||� इति श्रुतेः | भगवान्नारायणः परमात्मा व्यापकः, �अन्तर्याम्यधिदैवादिषु तद्धर्मोपदेशा� दिति न्यायात् || इत्थमुत्तरतन्त्रे विचारः- �अन्तर्याम्यधिदैवादिषु तद्धर्मोपदेशात् |� बृहदारण्यके तृतीयाध्याये अन्तर्यामिब्राह्मणे �यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथ्वी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः | एवमेव �योऽप्सु तिष्ठन्, योऽग्नौ तिष्ठन्, यो वायु तिष्ठन्, य आदित्ये तिष्ठन्, यो रेतसि तिष्ठन्नित्युक्त्वा, उपरि यस्य रेतः शरीरम्, यस्यादित्यः शरीरम्, यस्य पृथिवी शरीर मित्युक्त्वा, सर्वान्ते यः सर्वं तिष्ठन्सर्वमन्तरो यमयति, सर्वस्यान्तरः, यं सर्वं न वेद, यस्य सर्वं शरीरम्, एष त आत्माऽन्तर्याम्यमृत� इति श्रूयते | अत्रत्यान्तर्यामिशब्दो जीवप्रतिपादको वोत परमेश्वरप्रतिपादको वेति विषयेऽत्र पूर्वपक्षः- जीवप्रतिपादक एव, कुतः स्वकर्मद्वारा तस्य पृथिव्यादिनियन्तृत्वसम्भवात्; योगैश्वर्यवशेन च पृथिव्यादिव्यापकत्वसम्भवाच्चेति प्राप्ते सिद्धान्तः- अन्तर्यामी परमेश्वर एव विष्णुः, न तु जीवः | अधिदैवादिषु तद्धर्मोपदेशात् | देवगन्धर्वसिद्धविद्याधरादिषु तद्धर्मस्य नियन्तृत्वस्य शरीरत्वस्याज्ञेयत्वस्य च धर्मस्योपदेशात्, तादृशधर्मस्य जीवात्मनि मुख्यत्वेनासम्भवात् | कथञ्चिद्योगैश्वर्यवशेन देवादिव्याप्तिकल्पनेऽपि तच्छरीरत्वस्य तत्प्रेरकत्वस्य तदज्ञेयत्वस्य च सुतरां जीवात्मन्यसम्भवात् | किञ्च
SK
श्हारीरश्चोभयेऽपि हि भेदेनैनमधीयते |� काण्वा माध्यन्दिनाश्चोभयेऽपि जीवं भेदेना-
SK
पृ० ३२३) न्तर्यामिभेदेनाधीयते पठन्ति | �यो विज्ञाने तिष्ठन्विज्ञानमन्तरो यमयति, यस्य विज्ञानं शरीरमिति काण्वाः | य आत्मनि तिष्ठन्, आत्मानमन्तरो यमयति, यस्यात्मा शरीरमिति माध्यन्दिनाः | तस्माच्छाखाद्वयेऽपि जीवभेदेनान्तर्यामिण उपदेशादन्तर्यामी भगवानेव न जीवः | जगत्सर्वं चेतनाचेतनात्मकं भगवतः शरीरम् | सर्वशरीरी भगवान्वासुदेवः | अतः सर्वशब्दवाच्यो भगवान् | लोके शरीरवाचकस्यापि देवदत्तादिशब्दस्य शरीराधिष्ठातृजीवात्मवाचकत्वस्याप्य᳚न्गीकारदर्शनात् | �एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा | तत्सृष्ट्वा तदेवानुप्राविशत् | तत्त्वमसि | अहं ब्रह्मास्मि | एकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्या� दित्यादिकं सर्वमप्यस्माकमप्युपपद्यते | शरीरस्य विशेषणत्वेन भगवतः शरीरिणो विशेष्यत्वेन विशेषणविशेष्ययोरेकत्वस्य घटघटत्वादिषु दृष्टत्वेन जगतः परमात्मनो वासुदेवस्य च भेदोऽपि वक्तुं शक्यते, भेदोऽपि पारमार्थिकत्वेन वक्तुं शक्यते, विशिष्टाद्वैता᳚न्गीकारेण जगतः पारमार्थिकत्वञ्च वक्तुं शक्यते | भेदश्रुतीनामप्युपपत्तिरस्ति | अभेदश्रुतीनामप्युपपत्तिरस्मन्मते | एवं सिद्धेऽर्थे भेदो व्यावहारिको नतु तात्विकः | अभेदः पारमार्थिकस्तत्त्वमसीत्यादिश्रुतिपर्यालोचनयेति यदुक्तं तत्प्रमाणसिद्धं न भवति | कुतः तत्त्वमसीत्यादिश्रुतेरेवं योजयितुं शक्यत्वात्-तदिति लुप्तषष्ठीकं पदम्, तस्य त्वमसि तत्सम्बन्ध्यसि | तच्छब्दः परमेश्वरवाची सर्वस्मिन्नपि मते, अतस्तस्य भगवतो नारायणस्य त्वमसि सम्बन्ध्यसि | सम्बन्धश्च शरीरशरीरिभावः | नारायणशरीरमसि, तस्मान्नारायणविज्ञानेन सर्वविज्ञानमपि सम्भवति, सर्वेषां नारायणशरीरत्वेन सम्भवात् | तस्मात्सर्वमवदातमिति | ननु �यत्र हि द्वैतमिव भवति, तदितर इतरं पश्यति | यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् |� इति श्रुत्या द्वैतिनोऽतथ्यदर्शिन इति विष्णुपुराणोपबृंहणपर्यालोचनया च,
SK
द्वैतापारमार्थिकत्वस्य स्पष्टं प्रतीयमानत्वात्कथं विशिष्टाद्वैतम᳚न्गीकृत्य
SK
पृ० ३२४) द्वैतश्रुतीनां पारमार्थिकभेदविषयत्वम्, स्वरूपाभेदप्रतिपादकश्रुतीनामौपचारिकत्वञ्च वदसि | प्रस्तुतं तत्त्वमस्याद्यद्वैतश्रुतिपर्यालोचनया युक्तिसनाथया शरीरशरीरिभाव एव काल्पनिक इति वक्तुं शक्यते | तथाहि- भेदोऽपारमार्थिको दृश्यत्वात्, शुक्तिरजतवदिति | अत एव तृतीयाध्याये द्वितीयपादे आद्याधिकरणे �मायामात्रन्तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वा� दिति | स्वाप्निकायां वस्तूनामपारमार्थिकत्वमेवाभिहितम् ङ तत्र रथा नरथयोगा न पन्थानो भवन्ती�ति | तस्मात्स्वाप्निकपदार्थदृष्टान्तेन शुक्तिरजतदृष्टान्तेन चानुमानेन द्वैतस्यापारमार्थिकत्वं सिद्धमिति चेन्न, युष्माकं दृष्टान्तस्यैवाभावात् | नच शुक्तिरजतस्वाप्निकपदार्था दृष्टान्ता इति वाच्यं, तेषां प्रतिनिधिपेटिकान्यायेन सत्यत्वेनापारमार्थिकत्वस्यैवाभावात् | तथाहि- शुक्तौ रजतत्वप्रतीतिः किं विषयिणी न तावद्धट्टपट्टनस्थरजतविषयिणी तस्य चक्षुःसन्निकर्षाभावेन भावविषयत्वासम्भवात्, न तावज्ज्ञानं प्रत्यासत्तिः, संयोगसमवाययोरेव सम्बन्धत्वेन प्रत्यासत्तित्वेऽपि ज्ञानस्यात्मगुणस्यासम्बन्धस्य प्रत्यासत्तित्वकल्पनायां प्रमाणाभावात् | नच प्रत्यासत्तिर्द्विविधा लौकिक्यलौकिकी च | लौकिकानां संयोगसमवायादीनां सम्बन्धत्वेऽपि ज्ञानस्यासम्बन्धस्यालौकिकप्रत्यासत्तित्वम᳚न्गीक्रियत इति वाच्यं, प्रत्यासत्तेर्लौकिकालौकिकत्वस्य लौकिकपरिभाषामात्रसिद्धत्वेनासम्बन्धस्य ज्ञानस्य प्रत्यासत्तित्वस्यात्यन्तमसम्भावितत्वात् | तस्मान्नान्यथाख्यातिवादः सोपपत्तिकः | न तावदख्यातिवादः सोपपत्तिकः, इदं रजतमितिज्ञानस्य सत्यरजतज्ञानवत्पुरोवर्तिनि रजतवैशिष्ट्यावगाहिनो भावरूपत्वेन गौरवकरभेदाग्रहरूपाभावत्वकल्पनाया अत्यन्तमप्रामाणिकत्वात् | न तावधिष्ठानशुक्त्यज्ञानोपादानकम्, अत एव शुक्त्यभिन्नत्वेनानिर्वचनीयं रजतमुत्पद्यते, तदेवेदमिति चक्षुषा प्रत्यक्षीक्रियत इति साधीयानयं पक्ष इति वाच्यं, युष्मन्मते
SK
व्यावहारिकसत्यत्वस्थलेवान्तःकरणनिर्गमा᳚न्गीकारेण शुक्तिरजतस्य प्रतिभासमान-
SK
पृ० ३२५) योगक्षेमत्वेन वस्तुत्वाभावात्, वृत्तिनिर्गमस्यान᳚न्गीकार्यत्वेन प्रत्यासत्तेरेवा भावात्, शुक्तिरजतमप्रामाणिकमेव | न तावदसदेव रजतमभादितिप्रतीत्या शुक्तौ रजतं शशशृ᳚न्गवदसदेवप्रत्यक्षीक्रियत इति माध्वपक्षः साधीयान्, असतो भानायोगात् | अन्यथा शशशृ᳚न्गस्यापि भानं स्यात् | तस्माच्छुक्तौ रजतं सदेव प्रतीयते | तस्य च चक्षुषा सन्निकर्षः संयोग एव | पुरोवर्तिनो रजतस्य द्रव्यत्वेन चक्षुषश्च द्रव्यत्वेन तयोः सम्बन्धस्य संयोगस्यैव वक्तुमुचितत्वात् | अतस्तेन संयोगेन प्रत्यासत्तिभूतेन चक्षुषा शुक्तौ सदेव रजतं प्रत्यक्षीक्रियत इति तद्दृष्टान्तेन प्रपञ्चस्यापि सत्यत्वम᳚न्गीक्रियते | भेदश्रुतिः प्रामाणिकभेदविषयिणी, अभेदश्रुतिस्तु विशिष्टाद्वैतविषयिणीति न कि᳚न्चिदप्यसत्यमस्मन्मते | अतेव स्वप्नस्याप्यसत्यत्वं नास्ति, अन्यथा शुक्रोत्सर्गः सुखानुभवश्च प्रामाणिको न स्यात्; तत्कारणस्य स्वाप्निकतरुणीसम्भोगस्याप्रामाणिकत्वात् | अतस्तत्कार्यान्यथानुपपत्त्या तत्कारणस्य सत्यत्वमवश्यं वाच्यमेव | अत एव तृतीयाध्याये भगवता बादरायणमुनिना ब्रह्ममीमांसासूत्रकारेण स्वाप्निकसृष्टेर्याथार्थ्यमभ्यधायि | श्रुतिरपि तमेवार्थमनुगृह्णाति | �अथ रथान्रथ-योगान्पथः सृजत� इति | नच �मायामात्रन्तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्� | इत्युत्तरसूत्रेणायाथार्थ्यं प्रतिपाद्यत इति वाच्यं, तस्य सूत्रस्य पुर्वपक्षोत्थापकत्वेन सिद्धान्तसूत्रत्वाभावात्, शन्ध्ये सृष्टिराह ही� ति सूत्रस्यैव सिद्धान्तसूत्रत्त्वादिति परमं रामानुजरहस्यम् | अतेव पूर्वतन्त्रे षष्ठाध्याये तृतीयचतुर्थपादयोः प्रतिनिधिपेटिकारूपयोर्मुख्याभावे प्रतिनिधिनाऽनुष्ठानं प्रतिपादितम् | केषां द्रव्याणां प्रतिनिधित्वमित्याक्षेपे सति यस्मिन्द्रव्ये येन येन द्रव्येण सादृश्यं तत्तस्य प्रतिनिधिः, यथा व्रीहीणां नीवाराः प्रतिनिधयः | तत्र नीवारे व्रीहीणां बहुसादृश्यमस्ति | व्रीह्यवयवानां बहूनां सादृश्यस्य नीवारे विद्यमानत्वात् | अतो मुख्याभावे
SK
तद्गतबह्ववयववन्तो नीवारा यथा प्रतिनिधीयन्ते, एवं शुक्तिकायामपि
SK
पृ० ३२६) रजतावयवानां बहूनां विद्यमानत्वाद्रजतप्रतीतिः सत्यविषयिण्येव जायते | अतस्तद्दृष्टान्तेन भेदस्यापि सत्यत्वम्, प्रपञ्चस्यापि सत्यत्वमेव | बन्धोऽपि सन्नेव साक्षात्काराद्भगवतो निवर्त्यते, �तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाये� ति श्रुतेः | स च साक्षात्कारः श्ह्रोतव्यो मन्तव्य� इत्यादि श्रुतिवशेन श्रवणमनननिदिध्यासनजन्य एव मोक्षदः, नत्वापाततो जातः | स च साक्षात्कारः कर्मसमुच्चित एव मोक्षकारणम् | तथा च श्रुतिः �कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः� इति | तानि च कर्माणि न केवलवैदिकानि मोक्षसाधनानि, किन्तु पञ्चसंस्कारादिभगवच्छास्त्रोक्तधर्मसहितानीत्युदक्कूला रामानुजाः | वैदिकानि कर्माणि विना भगवच्छास्त्रोक्तान्येव मुक्तिसाधनानीति दक्षिणकूला रामानुजाः | साक्षात्कारस्तु यथा वेदपुराणधर्मशास्त्रार्थश्रवणमनननिदिध्यासनादिजन्यो मोक्षसाधनम्, तथा भगवच्छास्त्रद्रविडवेदार्थश्रवणमनननिदिध्यासनजन्यस्यापि मोक्षसाधनत्वमित्युदक्कूला रामानुजाः, दक्षिणकूला रामानुजास्तु भगवच्छास्त्रद्रविडवेदार्थश्रवणमनननिदिध्यासनजन्यो वा केवलद्रविडवेदार्थश्रवणमनननिदिध्यासनजन्यो वा साक्षात्कारो मुक्तिस्थानमिति वदन्ति || मुक्तिस्तु न सयुग्भावः, �तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्ययुपैति | जक्षत्क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा वयस्यैर्वा� इत्यादिश्रुतिभिर्भगवच्छास्त्रपाञ्चरात्रानुकूलाभिः सारूप्यमेव परवासुदेवशेषत्वस्य स्वभावसिद्धत्वेन दास्यस्य शेषिणा स्वामिना भगवता वैक्यस्य सर्वथा वक्तुमनुचितत्वात् || तस्मादित्थं परमो निष्कर्षः-अन्तर्यामिब्राह्मणमहोपनिषद्वाक्यैश्च शरीरिशरीरभावो भगवज्जीवात्मनोः पारमार्थिकः | विशेषणं शरीरं जीवात्मान्तर्यामी भगवान्वासुदेवः शरीरी विशेष्यः विशेषणविशेष्ये नातीव भिन्ने, अतो विशिष्टमेकमेव | विशिष्टाद्वैतज्ञानं मोक्षसाधनम् | तत्त्वमस्यादिवाक्यानि न स्वरूपाभेदपराणि, किन्तु विशिष्टाद्वैत-
SK
पृ० ३२७) पराणि | अतस्तदिति षष्ठीलोपः, तस्य त्वमसि तस्य भगवतः सम्बन्ध्यसि, भगवतत्सम्बन्धिशरीरमसीति वाक्यार्थः | प्रतिनिधिपेटिकान्यायेन शुक्तिकायामिदं रजतमिति ज्ञानं सद्रजतविषयकम् | तद्दृष्टान्तेन प्रपञ्चस्य सत्यत्वमेवानुमानेन साधयितुं शक्यम् | अद्वैतश्रुतिः सर्वाऽपि लाक्षणिकी, द्वैतश्रुतिः सर्वाऽपि पारमार्थिकी; अतो भगवच्छास्त्रतदनुकूलभगवत्प्रतिपादकवेदद्रविडवेदार्थश्रवणादिक्र मजन्यसाक्षात्कारज्ञानं विशिष्टाद्वैतविषयकं केवलं न मोक्षसाधनम्, किन्तु भगवच्छास्त्रोक्तपञ्चसंस्कारादीनि तदविरुद्धानि वैदिक कर्माणि च | भगवत्स्वरूपञ्च, अर्चाविभवव्यूहान्तर्यामिपरवासुदेवभेदेन पञ्चधा | मुक्तिश्चाण्डभित्तेरुपर्यप्राकृतवैकुण्ठे भगवत्सारूप्यं प्राप्तस्य नित्यशेषस्य नित्यदासस्याप्राकृतसकलभोगप्राप्तिरिति रामानुजमतानुयायिनः || तदत्यन्तमनुपपन्नम् | तथाहि- �अत्यन्तनिर्मलज्ञानस्वरूपं परमार्थतः | तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ||� इति विष्णुपुराणोपक्रमवाक्येन �यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादम् | नित्यं विभुं सर्वगतं सुसूक्ष्मं यद्भूतयोनिं परिपश्यन्ति धीराः ||� इति श्रुत्या च भगवतो ज्ञानानन्दसत्स्वरूपस्य मूर्तेरेवाभावेनार्चादिस्वरूपकल्पनमत्यन्तमप्रामाणिकम् | तत्राप्यर्चायां भगवत्स्वरूपकल्पनमतितुच्छम्, �अग्नौ तिष्ठति विप्राणां हृदि तिष्ठति योगिनाम् | प्रतिमास्वप्रबुद्धानां सर्वत्र समदर्शिना� मिति वचनेन तवाप्रबुद्धत्वात्प्रतिमायां भगवदभेदकल्पनं युक्तमेव | नच तर्हि शालग्रामादिषु भगवद्बुद्धिः कथं क्रियत इति वाच्यम्, शास्त्रमहिम्ना भगवदभेदविषयिण्याऽऽहितारोपरूपा दृष्टिः क्रियते, तावता तस्य तत्त्वं किमुपपन्नं प्रत्यक्षविरोधात् | नहि श्राद्धे पितृत्वेन भावितो ब्राह्मणः साक्षात्पिता भवति ? शास्त्रात्तु प्रवृत्तिविशेषः कामं क्रियतां, श्रेयो वाऽप्येधस्व, न हि तावता तस्य तत्त्वं भवति | यदुक्तं
SK
रामकृष्णाद्यवतारा भगवद्रूपा इति तदंशेनास्माकं विवादः,
SK
पृ० ३२८) बहूनां श्रुतिस्मृतीतिहासपुराणवचनानां विद्यमानत्वात् | तदुक्तं श्रीमद्रामायणे वाल्मीकीये- श हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः | अर्थितो मानुषे लोके जज्ञे विष्णुः सनातन� इति || यदुक्तं स᳚न्कर्षणप्रद्युम्नवासुदेवानिरुद्धा व्यूहपतयो भगवन्त एवेति तदत्यन्तमनुपमन्नम् | किं व्यूहा जीवराशयः स᳚न्कर्षणादयस्तदधिपतयः, किं वा तेऽपि भगवन्त एव तदधिपतयः स᳚न्कर्षणादयोऽपीति ? नाद्यः- जगत्पतेर्वासुदेवस्य राजनिकटवर्तिनामधिपतीनां स्वस्वव्यूहानामिवाल्पाधिपत्वकल्पनेन परमेश्वरत्वहानिः | नच भवन्मते शिवस्य जगत्पतेरीशानदिगाधिपत्यं यथा तद्वदत्रापीति वाच्यम्, �ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते� इत्यथर्वशिखावचनेन एकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्त� इति माण्डूक्यवचनेन च कार्यकारणरुद्रयोर्भेदेन कार्यरुद्रस्य परिमिताधिकारसम्भवात् | भवन्मते नारायणस्यैव जगत्कारणत्वा᳚न्गीकारेण तस्य कार्यकारणरूपान᳚न्गीकारात्कथमिदं सम्भवति ? न द्वितीयः- स्वस्य स्वपतित्वस्यात्यन्तमस᳚न्गतत्वात् | किञ्च स᳚न्कर्षणादिष्वपि किन्तारतम्यं किं वा साम्यम् ? नाद्यः- स्वापेक्षया स्वस्यातिशयत्वमेकस्यैव वस्तुनः को वा प्रेक्षावान्वदेत् ? नच रामावतारे रामलक्ष्मणभरतशत्रुध्नानां भगवतामेव भवद्भिर्यथा᳚न्गीकृतं तारतम्यं तद्वदिहाप्य᳚न्गीक्रियत इति वाच्यं, अवतारादिषु भगवतो ब्रह्मदत्तराक्षसवरपरिपालनार्थं प्राकृतमानुषरूपा᳚न्गीकारवद्रूप- भेदेन प्राकृततरतमभावा᳚न्गीकारसम्भवेऽप्यप्राकृतदशायां भगवतस्तथा᳚न्गीकारस्या त्यन्तमनुचितत्वात् | तस्मादनिर्वाहक्षममेव दुस्तन्त्रपाञ्चरात्रे भगवत्स्वरूपकल्पनम् | अतो भगवत्स्वरूपनिर्णयाय शुद्धवैदिकशिष्टैर्भवितव्यं रामानुजैः, एवमेवातप्तचक्रा᳚न्कनानामुष्मिकश्रेयःसाधनत्वमपि | किञ्च पाञ्चरात्रविषयेऽप्रामाण्यं भाष्य एवोक्तम्, लोकप्रसिद्धत्वान्नेहोच्यते | न द्वितीयः- भगवान् वासुदेवो निरञ्जन
SK
एकः परमार्थतत्त्वमिति तत्पाञ्चरात्रवचनविरोधात् | अपिचाप्राकृतवैकुण्ठे
SK
पृ० ३२९) पञ्चसंस्कारसंस्कृता द्रविडवेदान्तविदो वैष्णवाः परमपदे ङिरञ्जनः परमं साम्यमुपैती� ति श्रुत्युक्तसाम्यंतेन भजन्ते परमवासुदेवेनेति वाच्यं, तर्हि स᳚न्कर्षणादीनां हीनत्वं स्पष्टमेव पर्यवसितम् || यदुक्तमन्तर्यामी भगवद्रूप इति तत्रोच्यते, इत्थं खलु भवतां रामानुजानामाशयः �यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृत� इत्यादिषु वाक्येषु भगवतोऽन्तर्यामिभावः शरीरशरीरिभावश्च प्रतिपाद्यते | लोके शरीरशरीरिणोर्नातिभेदव्यवहारः | शरीरं विशेषणं भगवान्विशेष्यः, विशिष्टमेकं �तत्त्वमस्यहं ब्रह्मास्मी� त्यादिश्रुतयो विशिष्टाद्वैतपराः, तत्त्वमसि तस्य त्वमसि भगवत्सम्बन्धिशरीरमपीत्यभेदश्रुतीनामर्थः, अभ्यासे हि सति भूयस्त्वमर्थस्य भवतीति न्यायेनासकृदन्तर्यामिब्राह्मणेऽन्तर्यामीति शरीरमित्युपदेशाद्विशिष्टाद्वैत एव स᳚न्गच्छत इति | भवेदयं मनोरथो यद्यन्तर्यामिब्राह्मणं रामानुजजीवातुशरीरशरीरिभावपरम्, अन्तर्यामित्वपरञ्च भवेन्नान्तर्यामित्वे तात्पर्यम् | किन्तु जीवब्रह्मैक्य एव | अन्तर्यामित्वन्त्वनूद्यते, जीवब्रह्मैक्यं विधीयते | तस्मात्तत्रैव श्रुतेस्तात्पर्यमवश्यं वक्तव्यम् | तथाहि- यस्य पृथिवी शरीरम्, यस्यादित्यः शरीरमित्युक्त्वा तदुपरि एष त आत्मान्तर्याम्यमृत इति श्रूयते | मैत्रेयीं प्रति �योऽन्तर्याम्यमृतः, एष ते तवात्मा स्वरूप�मित्युपदेशः क्रियते | अतस्तत्त्वमसीतिवदभेदोपदेश एव पर्यवसानम्, नतु शरीरशरीरिभावेऽन्तर्यामित्वे च | नच यस्य पृथिवी शरीरम्, यस्यादित्यः शरीरम्, यस्य वायुः शरीरम्, यस्यात्मा शरीरम्, यस्सर्वस्मिंस्तिष्ठन्सर्वमन्तरो यमयति, यस्य सर्वं शरीरमिति शरीरत्वेऽस्यैवाभ्यासदर्शनात्, �अभ्यासे हि सति भूयस्त्वमर्थस्य भवति, नाल्पत्वमपि, प्रागेवोपचरितार्थत्व�मिति न्यायेन शरीरशरीरिभाव एव तात्पर्यविषयीभूत इत्युच्यत इति वाच्यं, तथैव शरीरं
SK
शरीरमित्युक्त्वा तत्तद्वाक्योपरि एष त आत्मान्तर्याम्यमृत इत्यभ्यासस्यापि दर्शनादभ्यासे
SK
पृ० ३३०) हि सतीति न्यायः स्वरूपाभेदोपदेशेऽपि साधारणः | परन्तु निपुणतरं विचार्यमाण एव त आत्मेत्युपदेशानन्तरं वाक्यविरामादभेदोपदेश एव तात्पर्यविषयीभूत इति निश्चीयते | यस्यात्मा शरीरं यस्य पृथिवीत्यनन्तरं एष त आत्मान्तर्याम्यमृत इत्युपदेशात्, शरीरमित्यनन्तरं वाक्यसमाप्तेरभावात् | शरीरशरीरिभावोऽन्तर्यामिभावश्चानूद्येत इति दृढं निश्चीयते | अस्मात् श एष इह प्रविष्ट आनखाग्रेभ्य� इतिवत्स्वरूपाभेद एव वाक्यरीतिविशेषणं परमाभिमतम् | तव तु तादृशवाक्याशयविशेषज्ञानाभावादन्तर्यामिब्राह्मणस्यान्तर्यामिभाव् अ एव तात्पर्यमिति निश्चयो युक्त एव || यदुक्तं तत्त्वमस्यहं ब्रह्मास्मीति वाक्यानां तस्य त्वमसीति षष्ठीलोपम᳚न्गीकृत्य विशिष्टाद्वैते तात्पर्यमिति तत्तव बुद्धिलोपाद्युक्तम् | नतु षष्ठीलोपात् | यदि विभक्तिलोपोऽत्रा᳚न्गीक्रियेत्, तर्हि पूर्ववाक्येऽपि �तत्सत्यं स आत्मा� इत्यत्रापि विभक्तिलोपम᳚न्गीकृत्यान्यथान्यथा वाक्यार्थवर्णनं कर्तव्यमव्युत्पन्नसम्मोहनार्थम् | तस्मात्समाधिकरणबुद्ध्या पर्यालोच्यमानेऽर्थे तत्सत्यं तच्छब्दवाच्यब्रह्म सत्यम्, स आत्मा श य एषोऽणिमैतदात्म्यमिदं सर्व� मिति पूर्वपरामर्शात्स आत्मा परमात्मा तद्ब्रह्म त्वं भवानसीति स्वरूपाद्वैत एव वाक्यतात्पर्यं प्रतीयते | किञ्चान्तर्यामिब्राह्मणस्याद्वैते पर्यवसानेन सर्वदा विशिष्टाद्वैते उक्तरीत्या तात्पर्याभावेन च तत्त्वमस्यादिवाक्यानां निरात᳚न्कं प्रतीयमानार्थे तात्पर्यम् | अपि च �यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति | यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् |� इति श्रुत्या द्वैतमसत्यमिति भाति | यत्र हि द्वैतमिव भवति | वस्तुतो द्वैतं नास्ति शुक्तिरजतवद् द्वैतं व्यवहारदृष्टौ बुद्धिविषय इति स्वरसतस्तात्पर्यमस्याः श्रुतेः | �द्वैतिनोऽतथ्यदर्शेन� इति विष्णुपुराणवाक्याच्च द्वैतमसत्यमिति निश्चितमेव | अत उपरिभागेन यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यनेनाद्वैतमेव निर्व्यलीकमुच्यते |
SK
तस्माद्दृढीकृतमद्वैतम् | अनुमानेनापि
SK
पृ० ३३१) द्वैतासत्यत्वं सुवचम् || यच्चोक्तं शुक्तिरजतदृष्टान्तम᳚न्गीकृत्य खलु द्वैतासत्यत्वं साधनीयम् | प्रतिनिधिपेटिकान्यायेन शुक्तौ रजतं सत्यमेव वर्तत इति तदतिमन्दम् | यथा प्रतिनिधौ नीवारे व्रीह्यवयवाः कतिपये वर्तन्ते, तेन पुरोडाशनिष्पत्तिरपि क्रियते, तद्वदत्रापि सत्सु रजतावयवेषु तेन कटकमकुटादिकमपि क्रियेत् | तस्माद्रजतसत्यत्वोक्तिरसत्योक्तिर्जाता | किञ्च लौकिकानां प्रातीतिकं शुक्तौ रजतमित्यनुभवान्न शुक्तिरजतं सत्यम् || यच्चोक्तं स्वाप्निकानां पदार्थानां सत्यत्वमिति, तद्यथा चरमधातूत्सर्गादेः सत्यकार्यस्य सत्यकारणजन्यत्वावश्यंभावात्स्वाप्निकयुवतीसम्भोगादेस्सत्यत्वं तद्वदिति तदसत्, असत्यशुक्तिरजतदर्शनेन सत्यपुरुषकुतूहलादेरुत्पत्तिदर्शनेन तादृशनियमस्याप्रयोजकत्वात् | नच तत्राऽपि शुक्तिरजतविषयज्ञानस्य सत्यत्वान्नियमभ᳚न्गो नास्तीति वाच्यं, ज्ञानानां विषयोपरागं विना स्वतः सत्यत्वस्य वक्तुमशक्यत्वेन विषयाग्राहित्वेनासत्यत्वस्य वक्तुमुचितत्वात् | तस्मात्सत्यकारणजन्यत्वं सत्यकार्यस्येति नियमभ᳚न्ग एव | किञ्च यदा कृष्णदन्तं पुरुषं पश्यति, तदैनं निहन्तीति वचनेनासत्यकृष्णदन्तपुरुषदर्शनेन सत्यमरणं जायते | तत्र तव नियमभ᳚न्ग एव, तत्र पुरुषस्यासत्यत्वात् || यच्चोक्तं शन्ध्ये सृष्टिराह ही� ति �अथ रथान् रथयोगान्पथः सृजती�ति स्वप्नसृष्टेर्यथार्थत्वमुच्यत इति तदस᳚न्गतम्, �मायामात्रन्तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादि�ति सूत्रेणोपरितनेनायाथार्थ्यप्रतिपादनात् | नच मायामात्रमिति सूत्रं पूर्वपक्षसूत्रानन्तरं खलु सिद्धान्तसूत्राभिधानम् | इह कथं व्यत्यासो भवेत् | न च �वैश्वानरः साधारणशब्दविशेषा� दितिवत् सिद्धान्तेनोपक्रमः | �सन्ध्ये सृष्टिराह ही�त्यनन्तरं श्हब्दादिभ्योऽन्तः प्रतिष्ठानाच्चे�त्यादिसूत्रवन्मायामात्रमिति सूत्रेण पूर्वपक्षः क्रियत इति वाच्यं, तद्वदत्र ङेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयत� इति
SK
पृ० ३३२) स्पष्टं श᳚न्कोत्तरसूत्राभावात् | किन्तु �मायामात्रन्तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वा� दित्येतावन्मात्रस्य विद्यमानत्वात् | अतः सृष्टिराह हीति स्वप्नयाथार्थ्यप्रतिपादकं पूर्वपक्षसूत्रम्, मायामात्रन्तुकाकार्त्स्न्येनानभिव्यक्तस्वरूत्वादित्युपरिष्टात् | कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादित्यंशेन व्यक्तं स्वप्नायाथार्थ्याभिधायकं सिद्धान्तसूत्रमिति बुद्ध्यार्जवयुक्तानां द्योतते | त्वया तु वक्रबुद्धिना तत्त्वमस्यादिवाक्यं यथा व्याकुलीकृतं तथा पूर्वपक्षसूत्रं सिद्धान्तसूत्रमिति सूत्रमपि व्याकुलीक्रियते | तत्प्रज्ञावैपरीत्यायत्तमित्युपेक्ष्य सुधीभिः स्थातव्यम् | तस्माद् द्वैतमपारमार्थिकं दृश्यत्वात्, शुक्तिरजतवदित्यनुमानप्रयोगः सम्भवत्येव | यदुक्तं शुक्तिरजते सन्निकर्षाभावात्प्रत्यक्षत्वं न सम्भवतीति तत्तुच्छम्, प्रातिभासिकस्थले वृत्तिनिर्गमाभावेऽप्यविद्यावृत्तिविषयत्वं वा साक्षिभास्यत्वं वाऽ᳚न्गीक्रियते | किञ्चाप्रत्यक्षेऽप्याकाशे लोके तन्मलिनता ज्ञायते | तत्र सत्ख्यातिवादिनामायुष्मातां कथं निर्वाहः ? आकाशस्य पुरोवृत्तित्वेन गृहीतुमशक्यत्वात् | रजतावयवा इव शुक्तौ कस्यावयवा आकाशे वर्तन्ते | अत्र तव मूकतैवोचिता | अतो भ्रान्तेर्नानाविधत्वादेकं रूपं वक्तुमेवाशक्यम् | नच दृश्यत्वमस्त्वपारमार्थिकत्वं मास्त्वित्यप्रयोजकत्वश᳚न्का क्रियत इति वाच्यम्, विपक्षे बाधकतर्कस्य विद्यमानत्वात् | द्वैतस्य यद्यपारमार्थिकत्वं स्यात्तर्हि चैतन्यवद् दृश्यत्वमपि न स्यादिति | किञ्च भेदो यदि पारमार्थिकस्तम्भकुम्भयोस्तद्ग्रहणं कथम् ? स्तम्भेकुम्भभेदग्रहार्थं कुम्भज्ञानमावश्यकम्, अभावज्ञानस्य प्रतियोगिज्ञानसापेक्षत्वात् | कुम्भज्ञानञ्च न निर्विकल्पकमभावज्ञानजनकम्, किन्तु सविकल्पकमिति वाच्यम्; तच्चेतरव्यावृत्तघटत्वकम्बुग्रीवादिमत्वप्रकारकमिति वाच्यम्; तद्धर्म कुम्भेतरव्यावर्तकत्वज्ञानार्थं कुम्भे स्तम्भभेदो ग्राह्यः कुम्भे स्तम्भभेदज्ञानार्थं प्रतियोगिस्तम्भज्ञानमावश्यकं वाच्यम्, तथा च कुम्भे
SK
स्तम्भभेदज्ञानार्थं प्रतियोगिस्तम्भज्ञानमवश्यं वाच्यम्, कुम्भभेदज्ञानार्थं स्तम्भे कुम्भज्ञानमाव-
SK
पृ० ३३३) श्यकमित्यन्योन्याश्रयः | अपि च यदि भेदः स्वरूपमेव न भवति भिन्नं; घटात्पदार्थान्तरमित्युच्यते तर्हि घटस्यापि तस्यापि भेदो वाच्यः, तद्भेदस्यापि भेदस्तत्तद्भेदस्यापि भेद इत्यनवस्था, तस्माद्द्वैते युक्तिरेव नास्ति | �द्वैतिनोऽतथ्यदर्शिन� इति प्रमाणनिषिद्धञ्चेत्यादिभेदधिक्कारनिरूपणलेशः | तस्मादद्वैतमेव पारमार्थिकमिति सर्वं सुसिद्धम् || यदुक्तं कर्मणां मोक्षसाधनत्वमिति तदप्यतिमन्दम्, साक्षात्कारान्तर᳚न्गसाधने निदिध्यासने यमनियमप्राणायामादीनामन्तर᳚न्गसाधनानां मध्ये प्राणायामाभ्यासवेलायां कर्माचरणमस᳚न्गतम्; कर्म च न प्राणायामवद् दृष्टं साधनम्, किंन्त्वदृष्टम् | तत्र दृष्टैः प्राणायामादिभिः कार्यसम्भवे किमदृष्टार्थैः कर्मभिः | किञ्च यमो नाम वैदिकानि नित्यनैमित्तकानि कर्माणि, नियमो नाम दयादयो गुणाः, तत्र कर्माणि सर्वाणि सन्यस्य खलु ब्रह्मविचारः कार्यः, न चेद्बह्मविषयकानन्यव्यापाराभावात्तत्त्वसाक्षात्कारः कथं भवेत् ? अथ कर्मणां ब्रह्मविचारे प्रसक्तिरेव नास्ति, प्रत्युत विघ्न एव कर्माचरणम् | कर्माचरणे साक्षात्कारसाधकश्रवणादिव्यापाराणामैदं पर्यभ᳚न्गात् || अतः श्रवणेच्छातः प्राक् चित्तशुद्धिसम्पादने कर्मणामुपयोगः | नियमसंज्ञितानां दयादिगुणानामधिकारिविशेषणेषु शमदमादिष्वन्तर्भावः | युक्तञ्च तत्; इतः प्रत्यूहाभावाच्छ्रवणेन मननं भवति, ततः परं मननेन निदिध्यासने जनयितव्ये योगशास्त्रविहितान्यासनादीनि पूर्वपूर्वाण्युत्तरोत्तरं प्रति दृष्टकारणानि कर्तव्यानि | तथाहि- आसनं प्राणायामा᳚न्गम्, प्राणायामेन योगशास्त्रप्रमाणानुष्ठितेनोपास्यब्रह्मधारणाप्रतिबन्धक- क्षुत्तृष्णानिद्रालस्यादिनिवृत्तेः पञ्चप्राणेन्द्रियदशकस्वाधीनतारूपप्रत्त्याहारो भवति; प्रत्याहाराद्धारणा सगुणविषयिणी निरन्तरा भवति; ततो विजातीयप्रत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहीकरणरूपनिदिध्यासनं भवति; ततो विधुरस्य कामिनीभावनया कामिनीसाक्षात्कार इव
SK
सगुणब्रह्मसाक्षात्कारो पृ० ३३४) भवति; तदनन्तरं निर्गुणसाक्षात्काररूपा चाखण्डाकारवृत्तिरविद्यानिवर्तिका भवति | इत्थं साधनचतुष्टयसम्पन्नस्य सकलनित्यनैमित्तिकानि सन्यस्य ब्रह्मविषयश्रवणमननादिकुर्वतः, कर्माचरणप्रसक्तिः कुत्र वर्तते ? तस्मात्कर्ममोक्षसाधनमिति वचनमेतादृशाध्यात्मयोगशास्त्रानभिज्ञकेवललौकिकसम्मोहनमात्रम् | �कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः |� इत्यादिवचनं ब्रह्मविचारानाससक्तकेवलगृहस्थविषयकम् || यच्चोक्तं पञ्चसंस्कारसहितैर्नित्यनैमित्तिकैश्चित्तशुद्धिः सम्पादनियेत्युदक्कूला रामानुजाः, तदतिमन्दम् | आश्रमधर्मवद्वैदिकतान्त्रिकाणां बहूनामेकत्र स्थातुमसम्भवात्स्वसमग्रानुष्ठानायाधिकारिणः सामर्थ्यात्कल्पयन्ति कर्माणि तानि तानि | तथैव वचनानि �अत्यन्तस्खलितानां हि नराणां वेदमार्गतः | पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः ||� इत्यादीनि वैदिकानर्हाणां तन्त्रमार्गप्रवेशं वदन्ति | अतेव दक्षिणकूला रामानुजाः श्रुतिमार्गं त्यक्त्वा पञ्चसंस्कारैः द्रविडप्रबन्धैश्च स᳚न्कीर्णतया वर्तन्ते | एतेन द्रविडवेदकेवलवेदोभयवेदार्थज्ञानं मोक्षसाधनमिति निरस्तम् | एकेन साधनेन सम्भवे साधनान्तरस्य वैयर्थ्यात् | अधिकारिभेदेन द्वयोर्वेदयोः स्वीकारसम्भवात् | अतेव द्रविडवेदप्रवक्तारो नम्माल्वारर्प्रभृतयः शूद्रा इति गाथाप्युपपन्ना || यच्चोक्तं ङिरञ्जनः परमं साम्यमुपैती�ति श्रुत्या सारुप्यमेव मुक्तिः, न तु सायुज्यं तस्य भगवता शेषिणा सर्वस्वतन्त्रेण लक्ष्मीपतिना नित्यदासस्य नित्यशेषस्य जीवात्मनोऽसम्भवादिति तदतिमन्दम्, �यत्र हि द्वैतमिव भवति | तत्त्वमसि | अहं ब्रह्मास्मी�ति श्रुतिभिः, �क्षेत्रज्ञञ्चापि मां विद्धि सर्वक्षेत्रेषु भारत | द्वैतिनोऽतथ्यदर्शिनः |� इत्यादिभिः स्मृतिभिः, �तदनन्यत्वमारम्भणशब्दादिभ्यः� इतिसूत्रेण च ब्रह्माद्वैते चैतन्यमात्रस्य वास्तविकत्वे विकाराणां शुक्तिरजतवदनृतत्वे च सिद्धे, जीवे विद्यमानकिञ्चिज्ञत्वस्य वासुदेवे
SK
पृ० ३३५) विद्यमानसर्वज्ञत्वस्य लक्ष्मीपतित्वस्य च व्यावहारिकमात्रस्य परमार्थदशायां, वक्तुमनुचितत्वेन सायुज्यस्य सम्भवात् | अतेव श्रुतिः �ब्रह्मविद्ब्रह्मैव भवति, ब्रह्मैव सन् ब्रह्माप्येती�ति | ननु ब्रह्मणा जीवस्य सायुज्या᳚न्गीकारे �जक्ष्यक्रीडन् रममाणः स्त्रीभिर्वायानैर्वा ज्ञातिभिर्वा वयस्यैर्वे� त्यादिश्रुत्युक्तभोगोपपत्तिः कथं सम्भवति, तस्मात्सारूप्यमेव मुक्तिर᳚न्गीक्रियताम् | तत्र चैता भोगश्रुतय उपपद्यन्त इति चेन्न, उपासकस्य वासुदेववत्सर्वस्वतन्त्रस्य �जगद्व्यापारवर्जं प्रकरणा�दिति सूत्रन्यायेन जगद्व्यापारेतरकर्मणि सामर्थ्यवतः प्रयागमरणे साम्राज्यप्राप्तिरिवाह᳚न्ग्रहोपासनाफलत्वेन सकलभोगसम्भवेन तस्य मुक्तित्वाभावात् | �विज्ञानमानन्दं ब्रह्म | सत्यं ज्ञानमनन्तं ब्रह्म� इत्यादिश्रुतिभिः सच्चिदानन्दकूटस्थचैतन्यावस्थानस्यैव मुक्तित्वात् | अतेव �ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे | परस्यान्तञ्च गच्छन्ती�ति स्मृत्या �परामृतात्परिमुच्यन्ति सर्वे� इति श्रुत्या च सगुणोपासकानां ब्रह्मकल्पपर्यन्तमवस्थाय ब्रह्मणा सह मुक्तिरिति प्रतिपादनमस᳚न्गतमेव | यदि सारूप्यमेवमुक्तिः, सा चाण्डभित्तेरुपर्यप्राकृतवैकुण्ठे भगवत्कल्पितसकलाप्राकृतभोगप्राप्तिस्तर्हि पुनरप्यप्राकृतशब्दवाच्यसंसारप्राप्त्या घट्टकुट्यां प्रभातमिति न्यायेन तस्यामुक्तित्वमेव स्पष्टम् | प्रत्युत बन्ध एव स्यात्, तथाहि अप्राकृतवैकुण्ठेऽप्राकृतपुरुषैर्वैष्णवैस्सह सकलभोगप्राप्तिः कथं सम्भवति, भोगसाधनानामभावादित्यप्राकृतयुवत्यः, ताभिः सहाप्राकृतसम्भोगः, अप्राकृतगर्भोत्पत्त्याऽप्राकृतपुत्रोत्पत्तिरित्येवमादिकं सर्वमपि स्यात् | भवतु को दोष इति चेत्सुखमात्रस्य दुःखानुष᳚न्गित्वस्य सिद्धव्याप्तिकत्वादप्राकृतयुवतीभोगा᳚न्गीकारेऽप्राकृतभार्यावियोगजन्यद् उःखमपि स्यादिति हन्त हन्त तत्त्वमस्यादिवाक्यार्थवर्णनवन्मुक्तिवर्णनमपि व्याकुलीकृतमेव || ननु युष्माकं तर्हि श्त्रीलोककामो भवती� त्यादिना कथं
SK
भोगप्राप्तिरित्युच्यते ? तत्राप्येते दोषाः समाना एवेति चेन्न सगुणो- पृ० ३३६) पासनानां निर्गुणे पर्यवसानार्थत्वात्, निष्कामकृतनित्यनैमित्तिककर्मणां चित्तनैर्मल्यार्थमनुष्ठितानामपि शरीरपुष्टिरोगादिनिवृत्तिरूपानेकफलजनकत्ववत्तत्फलजनकत्वेऽपि तत्फलस्यान्तरालिकत्वेन मुक्तित्वाभावात् | मुक्तिरखण्डसच्चिदानन्दस्वरूपत्वेन स्वरूपानन्दे तेषामपि भोगसाधनानामनपेक्षितत्वेन पुनरर्थप्राप्त्यसम्भवेन संसारदशाविलक्षणत्वेन मुक्त्युपपादनस्याद्वैतिनां सम्भवात् | उपासनाफलानां विलक्षणत्वेनापि वर्णनात्, ब्रह्मसाक्षात्कारस्यापासनाविलक्षणत्ववर्णनाच्च न काप्यनुपपत्तिरस्मन्मते सर्वाप्यनुपपत्ती रामानुजस्यैवेति सर्वं रमणीयम् || इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्भोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थ लतत्त्वसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यमरितोण्टदार्यविरचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्य केलदिसदाशिवरायनायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द् रधर्मपत्नीमल्लाम्बाहृदयानन्दबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे रामानुजमतनिरूपणतन्निराकरणप्रकारो नामाष्टादशं प्रकरणम् || पृ० ३३७) वीरशैवानन्दचन्द्रिकायां वादकाण्डे एकोनविंशं प्रकरणम् || गुरो रामानुजमतं कृतं तत्र च दूषणम् | उक्तिप्रत्युक्तिसहितं भाषितं भृ᳚न्गिशीलिनोः || त्वयानूदितमाकर्ण्य प्रहृष्टहृदयोऽभवम् | प्रवर्तन्ते विचित्राणि मतानि प्रक्रियान्तरैः || अनन्तरं ततः किं वा प्रक्रान्तं भृ᳚न्गिणावद | शीलिना वा तदुभयं जिज्ञासति मनो मम || वदामि शृणु भूपाल तयोर्वाग्गुम्भजृम्भणम् | आक्षेपोत्तररूपेण सभायां सम्प्रवर्तितम् || आरोप्य किन्तुलायां शिवविष्णू शीलिना तुलिनौ | ज्ञातुं सम्प्रत्यनयो- रुत्कर्षं चापकर्षञ्च ||
SK
पृ० ३३८) हेरेर्यदिह दूषिता प्रतिपदं परब्रह्मता त्वया समवलम्ब्य तन्मतगतां खलु प्रक्रियाम् | अलं न तदिदं भवेन्मम हृदोऽति विस्रम्भणे पृथक् प्रयततां भवान्निरसितुं तदीयोन्नतिम् || शिवस्य परतत्त्वतां स्फुटयितुं हरेरुन्नतिम् निवारयितुमुत्सहे शृणु विशिष्य भृ᳚न्गिन्निदम् | अनेकनिगमागमस्मृतिपुराणवाग्गुम्भनैः | सुयुक्तिशतजृम्भितैरवहितं कुरु त्वं मनः || वीरशैवमताभिज्ञैः सारहृदयैः सकलनिगमागमरहस्यानुसन्धानसमुन्मिषितभक्तिविशेषोपास्यं परमरहस्यं परं ब्रह्म शिव एवेति तस्यैव पारभ्यानुसन्धानप्रकारं श्रुतिस्मृतिपुराणेतिहासप्रसिद्धं प्रतिवादिप्रतिभावितदूषणनिरासपूर्वकमभिधीयते- �यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति; तद्विजिज्ञासस्व, तद्ब्रह्मेति तैत्तिरीयोपनिषदि जिज्ञास्यं वस्तु ब्रह्मशब्देनाभिहितम् | तच्च किंरूपमित्याका᳚न्क्षायामुक्तं श्वेताश्वतरोपनिषदि�कि᳚न्कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च सम्प्रतिष्ठाः | अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्था� मित्याद्युपक्रम्य, केषा᳚न्चिद्ब्रह्मवादिनामृषीणां ब्रह्मजगत्कारणमित्येतावदवगच्छतां विशिष्य तदजानतां तन्निर्णयार्थविचारप्रवृत्तौ सत्यां तत्र किं कारणं ब्रह्मेति सामान्यकारणे ब्रह्मणि सन्देहोऽभिहितः | कुतः स्म जाता इत्यादिभिः पञ्चभिर्वाक्यैः स एव कारणविषयः सन्देहः कार्यतज्जननजीवनादिप्रतियोगिभेदेन पञ्चधा प्रपञ्चितः | तत्र ब्रह्मविदो व्यवस्थामिति पञ्चमे वाक्ये केनेत्यस्यानुष᳚न्गः, ब्रह्मेदमिति विमृशतामेव परस्परसम्बोधः; अथवा ब्रह्मविद इति षष्ठी | नन्वेवं विशेषविचारो निरालम्बः, ब्रह्मकारणमित्यस्यैवासिद्धेः |
SK
पृ० ३३९) कार्याणामन्यकारणकत्वस्याकारणकत्वस्यैवोपपत्तेरित्याश᳚न्कानिरासार्त् हं तेषामेव स्वकीयसन्देहधर्मिसिद्धिप्रदर्शनार्थमनन्तरमाम्नातम् �कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् | संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतो� रिति | यदृच्छेत्यकारणकत्वपक्षः | एवं सन्देहानामर्थतो निर्णेतुमशक्तानां ब्रह्मविद्याधिदेवताया गौर्याः प्रसादेन तन्निर्णयमिच्छतां तत्प्रसादार्थं तद्ध्यानस्य तत्प्रसादेन तत्कारणं ब्रह्म शिव एवेति तेषां निर्णय आसीदित्यर्थस्य प्रदर्शनार्थः �ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं सुगुणैर्निर्गूढाम् | यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः |� इत्यादिरुत्तरसन्दर्भः | तत्र ह्यग्रिममन्त्रेषु �क्षरं प्रधानममृताक्षरं हरः, तस्मात्सर्वगतः शिवः, विश्वाधिको रुद्रो महर्षिः, मायिनन्तु महेश्वरम्, तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ्च दैवतम् | पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ||� इत्यादिष्वाम्नातैर्हरशिवरुद्रमहेश्वरादिनामभिर्जगत्कारणवाक्यानां शिवपरतां नयन्त्याः श्वेताश्वतरोपनिषदः साक्षिभूतान्यथर्वशिखादिवचनान्यपि दृश्यन्ते | शर्वमिदं ब्रह्म- विष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते सर्वाणि चेन्द्रियाणि सहभूतैर्न कारणं कारणानां ध्याता कारणन्तु ध्येयः सर्वेश्वर्यसम्पन्नः सर्वेश्वरः शम्भुराकाशमध्ये� इत्यादिभिरथर्वशिखावाक्यैरनुगृहीतैः श्वेताश्वतरोपनिषन्मन्त्रैः प्रेरितानि सदात्मशब्दादिसामान्यशब्दप्रयुक्तानि सर्वाणि कारणवाक्यानि शिवमेव जगत्कारणं परं ब्रह्म प्रतिपादयन्ति | उदाहृतश्रुतीनामन्यपरत्वश᳚न्कानिरासार्थं पौराणिकवचनरूपोपबृंहणानि बहूनि समुदाह्रियन्ते च | तथाहि कौर्मे किं कारणं ब्रह्मेत्याद्युपबृहणानि- समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः | वितेनिरे बहन्वादानात्मविज्ञानसंश्रयान् ||
SK
पृ० ३४०) किमस्य जगतो मूलमात्मा वाऽस्माकमेव हि | किमु स्यात्सर्वभावानां हेतुरीश्वर एव च || इत्येवं मन्यमानानां ध्यानकर्मावलम्बिनाम् | आविरासीन्महादेवी गौरी गिरिवरात्मजा || इत्यारभ्य निरीक्षितास्ते परमेशपत्न्या तदन्तरे देवमशेषहेतुम् | पश्यन्ति शम्भुं कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम् || इति || शिवपुराणेऽपि- मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः | संशयाविष्टमनसो विमृशन्ति यथा कथम् || किं कारणं कुतो जाता जीवामः केन वा वयम् | क्व चास्माकं सम्प्रतिष्ठा वर्द्धिताः केन वा वयम् || केन वर्तामहे शश्वत्सुखेष्वन्येषु वाऽनिशम् | अविल᳚न्घ्या च विश्वस्य व्यवस्था केन वा कृता || कालः स्वभावो नियतिर्यदृच्छा वा प्रवर्तते | भूतानि योनिः पुरुषो योगो वैषां परोऽथवा || अचेतनत्वात्कालादेश्चेतनत्वेऽपि चात्मनः | सुखदुःखाभिभूतत्वादनीशत्वाद्विचार्यते || ते ध्यानयोगानुगताः प्रापश्यन् शक्तिमैश्वरीम् | पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम् || पृ० ३४१) तया विच्छिन्नपाशास्ते सर्वकारणकारणम् | शक्तिमन्तं महादेवमपश्यन्दिव्यचक्षुषा || यः कारणान्यशेषाणि कालात्मसहितान्यपि | अप्रमेयोमया शक्त्या साकमेकोऽधितिष्ठति || इत्यादि || अथर्वशिखोपबृंहणमपि शिवपुराणे- यस्मात्सर्वमिदं ब्रह्म विष्णुरुद्रेन्द्रपूर्वकम् | सहभूतेन्द्रियैः सर्वैः प्रथमं सम्प्रसूयते || कारणानाञ्च यो ध्याता ध्याता परमकारणम् | न सम्प्रसूयतेऽन्यस्मात्कुतश्चन कदाचन || स सर्वैश्वर्यसम्पूर्णो नाम्ना सर्वेश्वरः स्वयम् | सर्वैर्मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः || इति ||
SK
अथर्वशिरःकैवल्योपनिषदादीनामपि शिवैकान्तिककारणत्वादिब्रह्मलि᳚न्गसमर्पकान्युपबृंहणान्यपि शिवपुराणादिषु द्रष्टव्यानि | एवंविधानि वचनानि शब्दतोऽर्थतश्च मूलश्रुत्येकवाक्यतया मूलश्रुतीनामप्यविचलं शिवपरत्वं प्रतिष्ठापयन्ति, वनसिंहन्यायेन स्वयमपि बलवन्ति, शिवैकान्तिकमेव जगत्कारणपरब्रह्मभावं व्यवस्थापयन्ति | देवतान्तरपुराणेभ्यः शिवपुराणां भूयस्त्वमपि प्राबल्यहेतुः, तदुक्तम्- अष्टादशपुराणेषु दशभिः कथ्यते शिवः | चतुर्भिर्भगवान् विष्णुर्द्वाभ्यां ब्रह्मा प्रकीर्तितः || इत्युक्तपुराणस᳚न्ख्यया, शैवं लक्षं स्कान्दं लक्षमित्यादिग्रन्थस᳚न्ख्यया च, परस्परमनुग्राह्यानुग्राहकभावमापन्नैः श्रुतितदुपबृंहणैः शिवस्य परब्रह्मभावः सिद्धः || यद्वा मुण्डकैतरेयछान्दोग्याद्युपनिषत्सु जगत्कारणत्वप्रतिपादकवाक्येषु श्रूयमाणानां ब्रह्मात्मसदक्ष-
SK
पृ० ३४२) रादिशब्दानां निघण्टुप्रसिद्धशिवादिशब्दसामानाधिकरण्यात् | अतेव पूर्वतन्त्रे नामधेयपेटिकायाम्- �आज्यैः स्तुवते, पृष्ठैः स्तुवते, बहिष्पवमानैः स्तुवते, चित्रया यजेत पशुकाम� इत्यादावाज्यपृष्ठबहिष्पवमानचित्रादिशब्दानां स्तुवते यजत इत्यादिस्तोत्रयागादिवाचकशब्दसामानाधिकरण्यात् स्तोत्रयागवाचकत्वम᳚न्गीकृतम् | अत्र पार्थसारथिमिश्राः- वाक्यभेदस᳚न्गेन सामानाधिकरण्यवतोऽन्वाख्यानार्थवादाच्च नामतैवोपपद्यत इति | अतेव �दध्ना जुहोती�त्यादौ सामानाधिकरण्याभावात् होमादिवाचकत्वं नास्तीति द्वितीयाध्याये अघोराग्निहोत्राधिकरणे प्रतिपादितम् | किञ्च नामधेयतापादकेषु यौगिकवाक्यभेदतत्प्रख्यतद्व्यपदेशेषु भिन्नेष्वपि सामानाधिकरण्यमेव सर्वत्रनुगततया नामधेयतापादकत्वेन निश्चितम् | अतः प्रकृतेऽपि ब्रह्मादिशब्दानां शिववाचकत्वेन प्रसिद्धशिवादिशब्दसामानाधिकरण्यबलेन शिववाचकत्वमिति युक्तमेव || ननु कथं सदात्माक्षरादिशब्दानां सामान्यतः श्रुतानां शिवादिशब्दसामानाधिकरण्यम्, येन पूर्वतन्त्रन्यायेनात्र नामत्वं स्यादिति चेन्नैवम् �ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपि᳚न्गलम् | ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः ||� इति मन्त्रे ऋतादिशब्दानां विरूपाक्षशब्दसामानाधिकरण्यमिति ब्रह्मशब्दस्य शिवपरत्वम् | एवमेव �ततः परं ब्रह्मपरं बृहन्तं यथा निकायं सर्वभूतेषु गूढम् | विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वाऽमृता भवन्ती�त्यत्र प्रसिद्धनिघण्टुसिद्धेशशब्दसामानाधिकरण्याच्च | एवमेव �अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्यजन्तोः | तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीश� मितीशशब्दसामानाधिकरण्यादात्मशब्दस्य शिवपरत्वम् | तथैव माण्डूक्योपनिषदि श्हिवाद्वैतं चतुर्थं मन्यन्ते | स आत्मा स विज्ञेयः� इति, एवमेव स्थलान्तरे �अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवो᳚न्कार आत्मैवे�ति शिवशब्दसामानाधिकरण्या-
SK
पृ० ३४३) च्चात्मशब्दस्य शिवपरत्वम् || �यदा तमस्तन्न दिवा न रात्रिर्न सन्नचासच्छिव एव केवलः | तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी� त्यत्राक्षरशब्दस्य शिवशब्दसामानाधिकरण्याच्छिवपरत्वम् || एवञ्च जगत्कारणत्वप्रतिपादकानां सर्वेषां सामान्यवाचकानां विशेषतः शिवे पर्यवसानम् || �छागो वा मन्त्रवर्णा�दिति षष्ठान्त्याधिकरणे अग्निषोमीयं पशुमालभेतेति श्रूयते | तत्र पशुशब्देन गवादीनि सर्वाण्युच्यन्ते उत छागमात्रमिति संशये पूर्वपक्षः-विधिवाक्ये श्रुतस्य गवाश्वादिसाधारणस्य पशुशब्दस्य स᳚न्कोचायोगात्सर्ववाचकत्वमिति | सिद्धान्तस्तु-छागस्य वपाया मेदस इति मन्त्रवर्णे छागशब्दस्य विद्यमानत्वात्, तद्वशेन पशुशब्दस्य विशेषे पर्यवसानम् | तद्वत्सदेव सौम्येदमग्र आसीदित्यादौ शिवपरत्वम् | �ब्रह्मैव भूतानां ज्येष्ठं तेन कोहीति स्पर्धितुम्� इत्येतद्वाक्यानुरोधेन ङ वा वो यो रुद्र त्वदस्ति� इति शिवसाम्यं कस्यापि नास्तीति प्रतिपाद्यते | �आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत् | स ईक्षत लोकान्नु सृजा इति | स इमान् लोकानसृजत | अम्भोमरीचीर्मरमाप इति श्रूयते | �एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत� इति सर्वप्रशासकत्वमिति | तथा च मुण्डकोपनिषदि- �यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति |� इत्यादि सर्वकारणवाक्यानां शिवे पर्यवसानम् || ननु महाभारते- �युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः | माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च� इति युधिष्ठिरस्य वृक्षत्वरूपेण ब्रह्ममूलमिति व्यपदिशन् भगवान् व्यासः श्रीकृष्णो ब्रह्मेति कृष्णस्य ब्रह्मभावं व्यक्तमेव विशेषणगत्योक्तवान् | कृष्णस्य ब्राह्मणानाञ्च पृथग्ग्रहणाद्वेदतपसोरचेतनयोश्चेतनमध्यपाठा᳚न्गीकारे पाठविरोधात्, ब्रह्मशब्दस्य वेदतपःपरत्वेऽपि नात्र तयोर्ग्रहणं युक्तम्, किन्तु तेभ्योऽन्यस्यैव
SK
पृ० ३४४) कस्यचिद्वृक्षस्थितौ मूलस्येव राजभावोपगूढयुधिष्ठिरस्थितौ कारणभूतस्यैव ग्रहणं युक्तम्, तथाभूतश्च विष्णुरेवेति व्यासहृदयम् | तस्मान्नारायण एव ब्रह्म शब्दवाच्यः | न च द्रोणपर्वणि नारायणकृतशिवस्तोत्रे- �रूपं ज्योतिः शब्द आकाश वायुः स्पर्शो रसः सलिलं गन्ध उर्वी | कामो धर्मो ब्रह्म च ब्राह्मणाश्च त्वत्सम्भूताः स्थास्नु चरिष्णु चेद�मिति ब्रह्मशब्दस्य ब्राह्मणशब्दसमभिव्याहारेऽपि वेदपरत्वं दृष्टम्, तथेह किं न स्यादिति वाच्यं, तत्र रूपं ज्योतिरित्याद्यचेतनसमभिव्याहारेण तत्र चेतनप्रायपाठाभावात्तत्र योग्यतया वेदपरत्वं युक्तम्, इह तु मूलं कृष्णो ब्रह्म च ब्राह्मणाश्चेति चेतनमर्थपाठात्कृष्ण एव ब्रह्मशब्दवाच्य इति चेन्मैवम् | कृष्णो ब्रह्म च ब्राह्मणाश्चेत्यत्र कृष्णो ब्रह्म चेत्युत्तरत्र समुच्चयार्थकत्वे दृष्टस्य च शब्दस्य तथैव निर्णेतुं योग्यत्वेन कृष्णपरत्वे समुच्चयालाभात्, शिवपरत्व उक्तकृष्णसमुच्चयलाभादत्रत्य ब्रह्मशब्दश्शिवपरत्वेन निर्धारयितुमुचित एवेति सिद्धान्तिनः प्रथमा कक्ष्या || अथ पूर्वपक्षिणः प्रथमा कक्ष्या- ङनु नारायणः परं ब्रह्म तत्त्वं नारायणः परः | नारायणपरो ज्योतिरात्मा नारायणः परः || इत्यादिवाक्येषु नारायणस्य परब्रह्मत्वेनात्मशब्दवाच्यत्वेन सामानाधिकरण्यस्यापि विद्यमानत्वात् | इतरेषामपि सदक्षरादिशब्दानां सुबालाद्युपनिषत्सु सिद्धप्रायत्वात् | सामान्यतः श्रुतानां जगत्कारणत्वप्रतिपादकानां वाक्यानां नारायणे पर्यवसानम् | किञ्च �यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा | अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित� इति श्रुतिपर्यालोचनया नारायणस्य सर्वव्यापकत्वेन श्रवणाच्च || ऐतरेयोपनिषदि- आत्मशब्दनिर्देशेन, ब्रह्म देवानजनयदित्यादिब्रह्मसूक्ते ब्रह्मशब्दनिर्देशेन श्रूयमाणानां जगत्कारणत्वसर्वव्यापकत्वसर्वेश्वरत्वादीनां पारमेश्वरधर्माणां नारायणे पर्यवसानसम्भवात्कथं शिवे पर्यवसानम् | नच �हिरण्यगर्भं
SK
पृ० ३४५) जनयामास पूर्वम् | सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्या जनिताऽग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनिताऽथ विष्णो�रिति ब्रह्मनारायणयोः शिवसृष्टत्वप्रतिपादनात्तस्य सर्वजगज्जनयितृत्वं सिद्धमिति वाच्यं, तैत्तिरीयोपनिषदि �यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः | हिरण्यगर्भं पश्यत जायमानं स नो देवः शुभया स्मृत्या संयुनक्त्वि� ति मन्त्रे, तत्रैव श्वेताश्वतरोपनिषदि तृतीयाध्याये �यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः | हिरण्यगर्भं पश्यत जायमानं स नो देवः स्मृत्या शुभया संयुनक्त्वि� ति मन्त्रे, तत्रैव श्वेताश्वतरोपनिषदि तृतीयाध्याये �यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः | हिरण्यगर्भं पश्यत जायमानं स नो बुध्या शुभया संयुक्त्वि�ति मन्त्रे स्वयमुत्पन्नस्य हिरण्यगर्भकर्मकशिवकर्तृकदर्शनमात्रश्रवणात्, स्वयम्भूश्चतुरानन इति कोशसिद्धसंज्ञया च हिरण्यगर्भस्य जन्यत्वासम्भवात्, जनयामासेति स्वार्थणिजन्तत्वेन व्युत्पादनं कृत्वा हिरण्यगर्भमिति विभक्तिविपरिणामेन कर्तृत्वञ्चा᳚न्गीकृत्य श्रुत्यन्तरपर्यालोचनया हिरण्यगर्भस्य स्वयञ्जायमानत्वमेव निर्व्यूढम् | अतेव मनुः- �तस्मिन्प्रादुरभूद्ब्रह्मा स्वयमेव पितामहः� इत्यादिना तस्येतराजन्यत्वं प्रतिपादितम् | तस्माद्धिरण्यगर्भस्य शिवजन्यत्वं न सम्भवत्येव | एवमेव विष्णोरपि शिवजन्यत्वं न सम्भवति | सोमः पवत इति मन्त्रोऽपि सोमलताप्रकाशको न शिवपरः | किञ्च छान्दोग्यपठिताया पावमान्या ऋचो रुद्रसंहितादिवत्सामविधौ विनियोजनाभावेन शिवपरत्वस्य वक्तुमशक्यत्वात् | तस्माद्धिरण्यगर्भविष्णुजनकत्वेन शिवस्य जगत्कारणत्वप्रतिपादनासम्भवात्सर्वकारणवाक्यानां नारायणे पर्यवसानमिति पूर्वपक्षिणां प्रथमा कक्ष्या || सिद्धान्तिनस्तु- �ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त� इत्यथर्वशिखावाक्ये स्पष्टमेव ब्रह्मविष्णवादिदेवानां सृष्टत्वं श्रूयते | �कारणन्तु
SK
पृ० ३४६) ध्येयः सर्वेश्वरः सर्वैश्वर्यसम्पन्नः शम्भुराकाशमध्य� इति शिवस्यैव ब्रह्मविष्णुरुद्रादिकारणत्वप्रतिपादनात्, शोमः पवते जनिता मतीनाम् | हिरण्यगर्भं जनयामास पूर्व� मित्यादिषु तस्यैवार्थस्य प्रत्यभिज्ञायमानत्वेन, यो देवानामिति तैत्तिरीयमन्त्रे श्वेताश्वतरमन्त्रे च केवलं हिरण्यगर्भस्यैव स्वत उत्पत्तिर्न तु शिवसृष्टत्वम्, सोमः पवत इति मन्त्रस्य लतापरत्वमिति च कथं वक्तुं शक्यते | नच तैत्तिरीयश्वेताश्वतरमन्त्रपर्यालोचनया ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त इत्यत्र ब्रह्मणः स्वयमुत्पत्तेरवश्यम᳚न्गीकर्तव्यत्वेन शिवसृष्टत्वाभावात्, तत्समानपठितस्य विष्णोरपि शिवसृष्टत्वं नास्तीत्य᳚न्गीक्रियत इति वाच्यं, तर्हि रुद्रेन्द्रादीनामपि सृष्टत्वं न स्यात् | विष्णुवद्ब्रह्मसमानपठितत्वात् | न चेष्टापत्तिः, वृश्चिकभयात्पलायमानस्याशीविषमुखनिपात इव सुबालमहोपनिषन्नारायणाद्युपनिषत्सु विष्णुपुराणादिषु च सर्वकारणत्वेन प्रतिपादितस्य विष्णोर्हिरण्यगर्भसमानपाठेनेन्द्रसाम्या᳚न्गिकारस्यात्यन्तहास्यास्पदत्व अत् | अतोऽस्मिन्वाक्येऽनिच्छताप्यच्छमतिना पञ्चसंस्कारसंस्कृतेन वैष्णवोत्तमेन रुद्रेन्द्रयोः सृष्टत्वमवश्यम᳚न्गीकर्तव्यम् तर्हि ब्रह्मनारायणयोरपि सृष्टत्वम᳚न्गीक्रियताम् | न चेन्द्रस्य जीवकोटिप्रवेशस्येतिहासपुराणादिषु सुतरां स्पष्टत्वेनास्मिन्वाक्ये शिवसृष्टत्वम᳚न्गीक्रियते, नतु विष्णुब्रह्मणोरिति वाच्यं, किमर्धजरतीयम᳚न्गीक्रियते | तस्मात्सकृदुच्चरितः शब्दः सकृदेवार्थं प्रत्याययतीति न्यायेन वाक्यं शिवे सृष्टत्वपरञ्चेत्सर्वत्र तथात्वम᳚न्गीक्रियताम्, नोचेत्परित्यज्यताम् | एकस्मिन्नेव वाक्ये एकस्य सृज्यत्वमेकस्मिन्नंशेऽसृज्यत्वमिति भ्रान्तप्रलाप एव, तस्मादत्र सर्वेषां सृज्यत्वम᳚न्गीकृत्यैतदर्थंप्रत्यभिज्ञाया �हिरण्यगर्भं जनयामास पूर्वं, सोमः पवत� इत्यादिषु सृज्यत्वमेवा᳚न्गीकर्तव्यम्, नतु मन्त्रद्वयपर्यालोचनयाऽसृज्यत्वं ब्रह्मविष्ण्वोर्मन्त्रद्वयस्यैवैतदर्थकत्वम᳚न्गीकर्तव्यम्, अन्यथा
SK
पूर्वोक्तदोषतादवस्थ्यात् | किञ्च सोमः पवत इति मन्त्रस्य लतापरत्वा᳚न्गीकारे जनिता मतीनामित्यादिनाऽ- पृ० ३४७) सकृदुक्तानां जनिवाचकानां बहूनां शब्दानां कारणं विना लक्षणा᳚न्गीकारः स्यात् | अतो मुख्यार्थस्यावश्यम᳚न्गीकारायास्मिन्मन्त्रे सोमशब्दस्य शिवपरत्वम᳚न्गीकर्तव्यम् | मन्त्रान्तरेऽपि ङमः सोमाय चे�ति वाक्ये तथा दर्शनात् | लि᳚न्गपुराणे- मतीनाञ्च दिवः पृथ्व्या अग्नेः सूर्यस्य वज्रिणः | साक्षादपि च वै विष्णोः सोमो जनयितेश्वरः || कालिकाखण्डे- द्यावापृथिव्योरिन्द्राग्न्योर्वियतस्तु यमस्य च | वरुणस्य शशा᳚न्कस्य सोमो जनयितेश्वरः || इत्यादिपुराणोपबृंहणेन विष्णुजनकत्वमेव परमेश्वरस्या᳚न्गीकर्तव्यमिति द्वितीया कक्ष्या || अथ पूर्वपक्षिणः- चतुर्वेदतात्पर्यसंग्रहे- सोमे लतात्मनि महेश्वरगौणवृत्या विष्णोरवादि जनकत्वमृचा कयाऽपि | त्वय्येव तद्भवितुमर्हति मुख्यवृत्त्या नेन्द्रे न प᳚न्कजभवे नितरां मुरारौ || ननु �पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति | नारायणाद्ब्रह्मा जायते | नारायणाद्रुद्रो जायत� इत्यादिनारायणोपनिषदा, �एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नाग्नीष्टोमौ नेमे द्यावापृथिवी� इत्यादिना महोपनिषदा, ङैवेह किञ्चनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते | दिव्यो देव एको नारायण� इत्यादिसुबालोपनिषदा च, नारायणस्यैव सकलप्रपञ्चस्रष्टृत्वेन श्रवणाद् ब्रह्मरुद्रयोस्तज्जन्यत्वप्रत्यायनाच्च शिवस्य कथं स्रष्टृत्वेन जगत्कारणत्वम᳚न्गीक्रियते ? नारायणस्य तु सृज्यत्वप्रतिपादकानि
SK
पृ० ३४८) वचनानि सर्वाण्यौपचारिकाणि | अतेव कालिदासेनापि �ब्रह्मा᳚न्गभूर्ब्रह्मणि योजितात्मे�ति कुमारसम्भवे तृतीये सर्गे ब्रह्मण उत्पत्तिप्रतिपादनाच्च | ननु सुबालोपनिषदि नारायणस्य प्राथम्यमात्रं प्रतिपादितम्, तावता स्रष्टृत्वकल्पनासम्भवाच्छिवस्य कथं सृज्यत्वमुच्यते | नच न ब्रह्मा नेशानो नाग्नीषोमावित्यादिना ब्रह्मेशानाभ्यामपि प्राथम्यश्रवणेन तयोः सृज्यत्वं द्योत्यत इति वाच्यं, प्राथम्यमात्रेण स्रष्टृत्वप्रतिपादनासम्भवात् | तथैव लोके यज्ञदत्तः प्रथमो न तदानीं चैत्रमैत्रावास्तामित्यादौ यज्ञदत्तस्य प्राथम्यमात्रं द्योत्यते, चैत्रमैत्रयोरनन्तरोत्पन्नत्वमात्रं प्रतीयते | नैतावता तत्र जन्यजनकभावः कल्पयितुं शक्यते | प्रत्युत नारायण आसीदित्यनेन नारायणस्य मुख्यतया प्रथममुत्पत्तिः प्रतीयते, अनन्तरमेतयो रुद्रनारायणयोरुत्पत्तिः प्रतीयते | अतः क्रमाविवक्षया ब्रह्मविष्णुरुद्रेशास्ते सम्प्रसूयन्त इत्युत्पत्तौ प्रतिपादितायां सत्यां क्रमाका᳚न्क्षायां �एको हवै नारायण आसीन्न ब्रह्मा नेशान� इत्युत्पत्तिक्रमः प्रतिपाद्यत इति वक्तुमुचितत्वादिति चेन्न || नारायणाद्रुद्रो जायत इति नारायणोपनिषदि स्पष्टमेव नारायणाद्रुद्रस्य जन्यत्वश्रवणात् | एतदनुरोधेनैवात्र सुबालोपनिषदो नेयत्वाच्छिवस्य सृज्यत्वं सिद्धमिति पूर्वपक्षिणस्तृतीया कक्ष्या || अथ सिद्धान्तिनश्चतुर्थी कक्ष्या- श कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः� इति श्वेताश्वतरोपनिषद्वचनेन शिवस्यैव कारणत्वं प्रतिपाद्य, अन्यच्छिवस्य कारणं नास्तीति प्रत्यक्षनिषेधश्रवणान्नारायणाद्रुद्रो जायत इति वचनेन शिवस्य कथमुत्पत्तिर᳚न्गीकर्तुं शक्यते | नच नारायणाद्रुद्रो जायत इति श्रुतिवचनेन न कारणमिति वचनमौपचारिकमिति कल्पयितुं शक्यत इति वाच्यं, सोमः पवते जनिता मतीनामिति, ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त इति च वचनद्वयेन, न कारणमिति शिवस्य कारणान्तरनिषेधवचनेन च, नारायणाद्रुद्रो जायत इति
SK
वचनस्यैवान्यथा नेयत्वात् |
SK
पृ० ३४९) अन्यथानयनप्रकारस्तु- भक्तसौलभ्यार्थं विष्णोः सकाशादुत्पत्तिरिति वक्तुमुचितत्वात् | नच ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त इत्यत्रैव भक्तसौलभ्यप्रदर्शनार्थं शिवसकाशाद्विष्णोरुत्पत्तिरौपचारिंकीति कल्प्यतां, ब्रह्मसृज्यत्वस्यापि पुराणान्तरे विष्णुपुराणमहाभारतयोर्दर्शनाच्छिवस्यैव जन्यत्वं मुख्यं वक्तव्यमिति वाच्यं, भक्तत्वं यस्य स्पष्टं तस्यैव सौलभ्यार्थमुत्पत्तिः प्रामाणिकी | भक्तसौलभ्यार्थमवतारश्शिवस्य कल्प्यतां वा विष्णोर्वेति विशये प्राप्ते शिवस्यैव भक्तसौलभ्यार्थमुत्पत्तिरिति वक्तुमुचितं, तद्यथा हिरण्यगर्भादपि शिवस्योत्पत्तिर्विष्णुपुराणादौ श्रूयते | उपनिषत्सु विष्णोरुत्पत्तिः श्रूयते | बहुषु स्थलेषूत्पत्तिर्भक्तसौलभ्यार्थेति कल्पयितुं युक्तम् | परैरपि रामकृष्णाद्यवतारेषु वसुदेवदशरथकाश्यपादिभ्यो बहुभ्य उत्पत्तिं दृष्ट्वा भक्तसौलभ्यार्थं भगवतो नारायणस्य जनिर्न तात्विकीत्य᳚न्गीक्रियते | लोकेऽपि सार्वभौमस्य राज्ञो बहूनामाश्रितानां गृहागमन आश्रितवात्सल्यविशेषादागमनमिति राज्ञ आश्रितसौलभ्यं कथयन्ति | नत्वेकत्रागमने सति तथात्वमाश्रितसौलभ्यस्याव्यक्तत्वात्, कल्पनानौचित्याच्च | अतो नारायणस्य शिवादेक- स्मादेवोत्पत्तिश्रवणेन, हिरण्यगर्भस्य तस्मादुत्पत्त्यश्रवणात्, भक्तसौलभ्यार्थं नारायणस्योत्पत्तिरिति कल्पनानुपपन्नैव | किञ्च ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसृयन्त इति वाक्ये भक्तसौलभ्यार्थमाविर्भावा᳚न्गीकारे ब्रह्मेन्द्रादीनामपि भक्तसौलभ्यार्थमवतार इत्य᳚न्गीकर्तव्यं स्यात् | अर्धजरतीन्यायप्रसक्त्यैकरीत्यैवैकस्मिन्वाक्ये श्रूयमाणानां पदानामर्थकल्पनौचित्यात् | अपि च पुरुषो ह वै नारायणोऽकामयतेत्यत्र ह वैशब्दापबन्धेनैतस्या अनुवादत्वकल्पनायोग्यत्वे सति शिवस्य जन्यत्वं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त इति श्रूयमाणं पुरोवादत्वेन कल्प्यम् | न च वैपरीत्यं श᳚न्क्यं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त इति यावतामर्थानां नारायणाद्रुद्रो
SK
जायत इति वाक्येऽश्रूयमाणत्वेन पुरोवादत्वकल्पना-
SK
पृ० ३५०) योगात् | अतेव पूर्वतन्त्रे प्रतिपादितं, अष्टावुपभृतिगृह्णातीत्यत्र विहितस्याष्टगृहीताज्यस्य पुरोवादानुवादसंशये सति, यदुपभृति प्रयाजानुयाजेभ्यस्तदिति वाक्यमेव पुरोवादः | यदुपभृतिगृह्णात्यनुयाजेभ्यस्तद्गृह्णातीति वचनमनुवादकम् | तन्न्यायेन ह वैशब्दश्रवणेन नारायणोपनिषद्वाक्यस्यैवानुवादकत्वेनौपचारिकत्वस्य कल्पयितुमुचितत्वात् | अतेव पूर्वतन्त्रेऽनुवादे लक्षणा न दोष इति प्रतिपादितम् | ननु ङैवेह किञ्चनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते दिव्यो देव एको नारायण� इति सुबालोपनिषदि प्रपञ्चोत्पत्तेः प्राक् नारायणव्यतिरिक्तसमस्तदेवतानामसत्वमुपवर्ण्य नारायणस्यैकस्य सर्वजगत्कारणप्रतिपादनान्नारायण एव परं ब्रह्म | नच �अहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तौ व्यतिरिक्त� इत्यादिना देवान्प्रति शिववचनेन सर्वदेवतानिषेधपुरस्सरं शिवस्यावस्थानवर्णनात्तस्यैव जगत्काणत्वं युक्तमिति वाच्यं, सौबालश्रुतिविरोधात् | न चोभयत्रेतरनिषेधपूर्वकं सर्वकारणत्ववर्णनासम्भवेनैकस्योपचरितार्थकत्वावश्यंभावात्सुबालो पनिषदोऽथर्वशिरोवचनानुरोधाच्छिवपरत्वमुचितमिति वाच्यं, �आपो नारा इति प्रोक्ता आपो वै नरसूनवः | तासु तस्यायनं प्रोक्तं तेन नारायणः स्मृत� इत्यादिनिर्वचनानुसारेण देवताविशेषस्य संज्ञायामेव णत्वविधानादनितरसाधारणनारायणश्रुतिबलादवधृत् अजगत्कारणभावस्य सौबालश्रुतिसिद्धस्य विष्णोरेव सर्वकारणभाववर्णनपरत्वोचित्यादथर्वशिरोवचनस्थितस्य शिवशब्दस्य नारायणपरत्वौचित्यात्तस्यैव जगत्कारणत्वमितिपूर्वपक्षिणश्चतुर्थी कक्ष्या || सिद्धान्तिनस्तु सौबालश्रुतौ नारायणशब्दे संज्ञायामेव णत्वविधायकव्याकरणनिर्बन्धात्सौबालोपनिषदनुसारेणा थर्वशिरोवचनस्य विष्णुपरत्वेऽहमेकः प्रथममासमित्युत्तमपुरुषप्रयोगास᳚न्गतिस्तथा वर्तामि च भविष्यामिति चेति | तथाहि- �देवा ह वै स्वर्गं लोकमगमन् |
SK
पृ० ३५१) ते देवा रुद्रमपृच्छन् को भवानिति | साऽब्रवीदहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति सोऽन्तरादन्तरं प्राविशद्दिशश्चान्तरं सम्प्राविशत् | सोऽहं नित्यानित्यो ब्रह्माऽहं प्राञ्चोऽहं प्रत्यञ्चोऽह� मिति श्रूयते | तत्र रुद्रस्य सर्गाद्यसमये सर्वकारणभावेनावस्थायिनः स्वात्माभिप्रायेण सार्वात्म्योपदेशो युक्तः, �अस्मत्सामानाधिकरण्येऽस्मद्युत्तम� इति सूत्रेणोत्तमपुरुषविधानानुरूप्यात् || नन्वहं सूर्यश्चेति वामदेवसार्वात्म्योपदेश इव स्वान्तर्यामिपरमात्माभिप्रायेण सार्वात्म्योपदेशः | अतेव परमात्मनः खलु कारणत्वादिप्रसिद्धम् | तव कथमहमेकः प्रथममासमित्याद्युक्तिरिति श᳚न्काव्यवछेदाय रुद्रस्यैव वचनं सोऽन्तरादन्तरं प्राविशदिति | तत्र स इति परमात्मोच्यते, बुद्धिसन्निहितत्वात् | अन्तर्यामिब्रह्मणोक्तरीत्या सर्वशरीरगस्य परमात्मनो देवमनुष्यादिशरीराधिष्ठानद्वारा देवमनुष्यादिशब्दवाच्यत्ववत्सर्वशब्दवाच्यत्वस्याभ्युपगमेनाहमेकः प्रथममासमितिपूर्ववाक्येऽहंशब्दस्य स्वशरीरगपरमात्मपरतया प्रकृतत्वात्, सोऽन्तरादित्यादेरयमर्थः स परमात्मान्तरात्प्राणादेरप्यन्तरं जीववर्गमन्तर्यामिभावेन प्राविशदित्यर्थः | ततः परमात्मनारायणाभिप्रायेण रुद्रस्य सर्वकारणत्वोपदेश इति चेन्न सोऽन्तरादिवाक्यस्य रुद्रस्यैव सर्वान्तर्यामितया प्रवेशकथनपरत्वे बाधकाभावात् | पूर्ववाक्यमपि रुद्रस्यैव च सर्वकारणत्वप्रतिपादनपरम् | नच तथासति सोऽन्तरादित्यादे रुद्रवचनत्वा᳚न्गीकारे, अहं प्राविशदिति प्रयोगापत्तिरिति वाच्यं, नान्यः कश्चिन्मत्तो व्यतिरिक्त इत्यनन्तरमितिकरणेन रुद्रवचनसमाप्त्यवगमात् | सोऽन्तरादित्यादेः श्रुतिवाक्यत्वेन प्रविशदिति प्रयोगोपपत्तेः | नापि स प्राविशदित्येतदनन्तरमपि सोऽहं नित्यानित्य इत्यादिरुद्रवचनानुवृत्त्या रुद्रवचनसमाप्त्यसिद्धिः | अन्यथा मध्ये श्रुतिवचनेन रुद्रवचनसन्दर्भविच्छेदे पुनः साऽब्रवीदित्याद्यपेक्षणात्तदध्याहारप्रस᳚न्गादिति
SK
वाच्यं,
SK
पृ० ३५२) कृत्स्नरुद्रवाक्यपरिसमाप्त्यनन्तरं सोऽन्तरादित्यादेरन्वये सोऽब्रवीदित्याद्यध्याहारानपेक्षणात् | नच व्यवहितान्वये कश्चिद्दोषः, भवन्मतेऽपीतिशब्दस्य कृत्स्नरुद्रवचनसमाप्तावन्वये व्यवहितत्वान्वयदोषस्य तुल्यत्वात् || नच हेत्वर्थकत्वेनेतिकारस्य स्वस्थानेऽन्वयो लभ्येत् | परमात्मानुप्रवेशनेऽहमेकः प्रथममासमित्युक्तिरिति सन्दर्भस᳚न्गतेरिति वाच्यं, रुद्रादन्यस्य परमात्मनः प्रतिपादकशब्दाभावात् | नच स इति तच्छब्देन बुद्धिस्थः परमात्मा परामृश्यते, �तेन रक्तं रागा�दित्यादौ तच्छब्देन बुद्धिसन्निहितकषायादिद्रव्यपरामर्शवदिति वाच्यं, तेन रक्तमित्यादावव्यवस्थितानेकार्थपरामर्शेन दृष्टान्तवैषम्याद्व्यवस्थितैकार्थपरस्य सोऽन्तरादित्यादौ तच्छब्दस्य बुद्धिसन्निहितपरामर्शायोगात् | नच परमात्मनः सर्वशद्ववाच्यत्वेनाहं शद्वः परमात्मपर इति वाच्यं, �रुद्रमपृच्छन्, सोऽब्रवी� दिति प्रश्नोत्तरयोर्वैयधिकरण्यापातदोषप्रस᳚न्गात् | नच रुद्रशब्दोऽपि परमात्मनारायणपरः ततः प्रश्नोत्तरयोर्न वैयधिकरण्यदोष इति वाच्यं, देवैरन्तर्यामिणि पर्यवसानस्य प्रागनवगतत्वात् | अवगतत्वे सति परमात्मनः खलु कारणत्वादिप्रसिद्धं, तव कथमहमेकः प्रथममासमित्युक्तिरिति श᳚न्कानुदये न तदुत्तरत्वेन सोऽन्तरादन्तरं प्राविशदिति प्रतिवचनानुत्थानात् | ततः सोऽन्तरादिति श्रुतिवचनमेवेति रुद्रस्यैवान्तर्यामित्वप्रतिपादनौचित्यात्तस्मिन्मन्त्रे स्वात्माभिप्रायेणाहमेकः प्रथममासं वर्तामि च भविष्यामि चेत्युत्तमपुरुषप्रयोगानुरोधात्, नारायणपदस्यैकस्यैव लक्षणया शिवपरत्वाच्छिवस्यैव सर्वकारणत्वेन परब्रह्मभावो युक्त इति सिद्धान्तः | �विष्णुरात्माभगवतो भवस्यामिततेजस� इति भारतवचनन्तु, तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहमिति मोक्षधर्मे विष्णुवचनस्थितात्मशब्द इव मुख्य उपचरिते वाऽभेदे तात्पर्याद्यत्किञ्चिदेतत् || ननु �अव्यक्तमक्षरे लीयते, अक्षरं तमसि, तमः परे देव एकीभवती�ति
SK
सौबालश्रुतिपर्यालोचनया सर्गाद्यकालेऽव्यक्तादि-
SK
पृ० ३५३) क्रमेण परस्मिन्नारायणे एकीभवनानुवर्णनान्नारायणस्यैव परब्रह्मभावो युक्तः, एवमन्यत्र श्रुतिस्मृतिपुराणादिषु नारायणस्यैव तमः प्रेरकत्वश्रवणात्स एव परं ब्रह्म | न च �यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः | तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी�ति शिवस्यैव तमःप्रेरकत्वेन सर्वकारणत्वप्रतिपादनात्स एव परं ब्रह्मेति वाच्यं, श्वेताश्वतरमन्त्रस्यापि नारायणपरत्वात् | तथा हि- यदा तम इति श्वेताश्वतरमन्त्रे यदेति कालविशेषे प्राप्तस्य तमसोऽनुवादः स्वप्रापकमव्यक्तमक्षरे लीयते, अक्षरं तमसि, तमः परे देव एकीभवतीति सुबालोपनिषद्वाक्यमपेक्षते, अनुवादस्य पुरोवादसापेक्षत्वात् | तस्य तमसोऽधिष्ठातृत्वेन प्रतिपादनान्नारायण एव सोऽपि मन्त्रः पर्यवस्यति, उपचित्य पुरोवादानुरोधाय | ननु �तमो वेदमेकमासीदि�ति मैत्रायणीयश्रुतिवाक्यमिह पुरोवादः किं न स्यादिति चेन्न, तस्या अपि सामान्यश्रुतेः सौबालश्रुतिप्रतिपन्नविशेषपर्यवसायित्वेनाविशेषात् | एवञ्च शिव एव केवल इति मन्त्रस्थः शिवशब्दः शुभतया रूढ्या वा देवतान्तरवाचकोऽपि लक्षणया नारायणे वर्तयितव्यः | शर्वाणीह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते | आकाशं प्रत्यस्तं यान्ती� इत्यादिवाक्येषु ह वैशब्दोपनिबन्धेन कारणत्वानुवादस्य पुरोवादानुरोधान्नारायणविषयतयाऽऽकाशादिशब्दानामचेतनवाचिनामपि कथञ्चिन्नारायणे वृत्तिरभ्युपगम्यते | देवतान्तरवाचकत्वेनातिविप्रकृष्टस्य तत्र वृत्यभ्युपगमे को भारः ? किञ्च सर्वः शर्वः शिवः स्थाणुरिति नामसहस्रमध्यपाठान्नारायणे शिवशब्दस्य वृत्तिरुपपन्ना | तस्मान्मन्त्रोपनिषन्नारायणपरेति तस्यैव जगत्कारणत्वमिति पूर्वपक्षिणः || सिद्धान्तिनस्तु- �एको हि रुद्रो न द्वितीयाय तस्थुः, विश्वाधिको रुद्रो महर्षिः, मायिनन्तु महेश्वरम्, तमीश्वराणां परमं महेश्वर� मित्यादिमन्त्रान्तरपर्यालोचनया कार्त्स्न्येन मन्त्रोपनिषदः शिवपरत्वं प्रतीयते | नच
SK
�वेदाहमेतं पुरुषं महान्त� मित्यादिपुरुष-
SK
पृ० ३५४) सूक्तमन्त्रप्रत्यभिज्ञानान्मत्रोपनिषन्नारायणपरा | उभयोः प्रतिपाद्यभेदे ङान्यः पन्था अयनाय विद्यत� इति द्वयोरितरव्यवच्छेदेन मुक्त्युपायत्वावधारणासम्भवादिति वाच्यं, श्वेताश्वतरमन्त्रप्रत्यभिज्ञानादेव पुरुषसूक्तस्य शिवपरत्वौचित्यात् || ननु शहस्रशीर्षा पुरुष� इत्युपक्रमे पुरुषसंज्ञे शरीरेऽस्मिन् शयनात्पुरुषो हरिः, श्हकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते | भगवानिति शब्दोऽयं तथा पुरुष इत्यपि || निरुपाधि च वर्तेत वासुदेवे सनातने |� इति पुराणवचनावगमितनारायणैकान्त्यस्य पुरुषशब्दस्याम्नानेन मध्ये �वेदाहमेतं पुरुषं महान्त�मित्यत्र �महादेवं महापुरुषं वार्चये�दिति कल्पसूत्रावगमिततन्नामभावस्य महापुरुषशब्दस्याम्नानेन पुरुषसूक्तप्रतिपाद्यस्य महापुरुषस्यैव प्रतिपादकतया, तदेकवाक्यतापन्नस्य �अद्भ्यः सम्भूत� इति समनन्तरानुवाकस्यान्ते �ह्रीश्चते लक्ष्मीश्च पत्न्या�विति लक्ष्मीपतित्वलि᳚न्गाम्नानाच्च छान्दोग्यब्राह्मणे �इदं विष्णुः प्रक्षस्य विष्णुः प्रकाम्यमुशने ब्रुवाण� इति �वाराहमन्तं पुरुषव्रते चैषा वैष्णवी नाम संहिता, एतां प्रयुञ्जन्विष्णुं प्रीणाती�ति वैष्णव्यां संहितायां निवेशनेन, आथर्वणेऽष्टादशमहाशान्तिप्रकरणे तत्तद्दैवत्यासु शान्तिषु �वैष्णव्यां पुरुषसूक्त�मिति वैष्णव्यां शान्तौ विनियोजनेन, शौनकादिस्मृतौ नारायणसमाराधने विनियोजनेन, विष्णुपुराणादौ पुरुषसूक्तप्रक्रियया विष्णुस्तुतिदर्शनेन, �पुरुषेण नारायणेन यजमान उपतिष्ठते, अथ नारायणाभ्यामुपस्थान� मित्या-दिकल्पसूत्रे नारायणसमाख्यया व्यवहारेण च, पुरुषसूक्तं नारायणपरमिति चेन्न, अस्यामेवोपनिषदि �ततो यदुत्तरतरं तदरूपमनामयम् | य एतद्बिदुरमृतास्ते भवन्ति | अथेतरे दुःखमेवोपयन्ति | सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः | सर्वव्यापी च भगवांस्तस्मात्सर्वगतः शिव |� इति मन्त्राम्नानेन पुरुषसूक्तप्रतिपाद्यनारायणादुत्तरत्वेन शिवस्य प्रतिपादन एवास्यास्तात्पर्यावसानात् �तस्माद्यदा तम� इति
SK
मन्त्रः शिवस्य तमोविशेषा᳚न्कितसर्गाद्यसमय-
SK
पृ० ३५५) वर्तित्वेन सर्वकारणत्वं प्रतिपादयति | यदुक्तं �यदा तम� इत्यनुवाद इति तत्सत्यं, �तमो वा इदमेकमास, प्रजापतिर्वा इदमेकमासीन्नाह आसीन्न रात्रिरासी� दित्यादीनां पुरोवादत्वसम्भवात् | न दिवा न रात्रिरित्यादिर्नानुवादः, तद्वृत्तयोगेन तत्काले कस्यचिद्विधेयताप्रतीतेः, विधेयश्च न दिवानिशाविभागाभावः सदसदात्मकप्रपञ्चाभावो वा, उदाहृतपुरोवादद्वयादेव तत्प्रतीतेः | नहि किञ्चिदनूद्य किञ्चिद्विधातुं प्रवृत्तं वाक्यमनुवादायापेक्षते | पुरोवादादेव प्राप्तेऽर्थे पर्यवस्येत्, साफल्यमश्नुवीत | एवञ्च यदि शिवशब्द औत्सर्गिकं परमेश्वरपरत्वं हित्वा पुरोवादविशेषप्राप्ते नारायण एव पर्यवस्येत्तदा �यदा तम� इति किञ्चिद्विधातुमुद्यम्यार्धपथपर्यन्तमागतं वाक्यं किं तत्रैव विश्राम्यतु | नहि शिवशब्दस्य नारायणवृत्तित्वे पुरोवादाप्राप्तं कञ्चिदर्थं पश्यामः, ततः परमते वाक्यमेवेदं व्यर्थम् | तस्मात्सर्गाद्यसमये तमः प्रापकेषु वाक्येषु क्वचित्तदधिष्ठाता नारायणशब्देनोच्यते क्वचित्प्रजापतिशब्देन क्वचित्साधारणेन परमात्मशब्देन | विरुद्धविशेषद्वयश्रवणादनिर्णीतपर्यवसाने व्युत्थानप्रतिभासे तेषामेकविषयत्वं दर्शयितुं तेभ्यः प्राप्तं सर्गाद्यकालीनं तमोऽनूद्य शिवशब्देन तदधिष्ठातुः परमेश्वरत्वं तेभ्योऽप्राप्तं विदधातीति तत्सार्थकत्वस्य वक्तव्यत्वात्, तदुत्थाप्य पुरोवादस्थितनारायणशब्दस्यैव शिवे वृत्तिर्वक्तव्या | वरं हि वाक्यवैयर्थ्यात्पदमात्रस्य लक्षणा | अभ्युपगतञ्च पूर्वतन्त्रे �एकादशपशोरवदानानि तानि, द्विरवद्यती�ति पशौ चोदकप्राप्ताववदानद्वित्वस्य पुनर्विधायकवाक्यवैयर्थ्यपरिहाराय यद्यपि �चतुरवत्ती यजमानः पञ्चावत्त इव वपा कार्ये�ति वाक्ये वपापदस्य हृदयादिसाधारण्येन पाशुकहविर्मात्रे लक्षणा | तथाहि- हृदयादिष्ववदानपञ्चकसिध्यर्थमुपस्तरणाभिधारणयोः सतोः हृदयादिषु त्रिरवदानप्रसक्तौ हविर्द्विरेवावदेयं, उपस्तरणादिवृध्या तु भवतु स᳚न्ख्यापूरणमिति नियमेन
SK
भवति तत्सार्थकमिति | एवमुक्तेन प्रकारेण यदा तम इति पूर्वार्धं तमो वा इदमेकमासीदित्यादीनां केषाञ्चित्का-
SK
पृ० ३५६) रणवाक्यानां शिवे पर्यवसानं प्रतिपादयति | तथोत्तरार्धे तदक्षरमिति भागो �यथा सुदीप्तात्पावकाद्विस्फुलि᳚न्गाः सहस्रशः प्रभवन्ते सरूपाः | तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ती� त्यादिमुण्डकादिश्रुतीनां �तत्सवितुर्वरेण्य� मिति भागः सवितृमण्डलमध्यवर्तिनि परमपुरुषे जगत्कारणत्वनियतं सर्वान्तर्यामित्वलि᳚न्गं �धियो यो नः प्रचोदया� दित्युपवर्णयन्त्याः सावित्र्या ऋचः �प्रज्ञा च तस्मात्प्रसृता पुराणी�ति भागः �तदैक्षत बहुस्यां प्रजायेय, स ऐक्षत लोकान्नु सृजा इति, सोऽकामयत बहु स्यां प्रजायेयेति, तपसा चीयते ब्रह्म ततोऽन्नमभिजायत� इति स्रष्टुरादिसर्गपूर्वकाले स्रष्टव्यवस्तुजातालोचनमोक्षणादिशब्दैः प्रतिपादयतां छान्दोग्यादिश्रुतिकारणवाक्यानां शिवे पर्यवसानं प्रतिपादयति | एवमयं मन्त्रः कृत्स्नकारणवाक्यानां शिवविषयत्वमाविष्करोति || यत्तु पुरुषसूक्तप्रत्यभिज्ञानादिति तद्गर्भश्रावेण निरस्तम् | �या ते रुद्र शिवा तनूः, मानस्तोक� इत्यादि श्रीरुद्रमन्त्रप्रत्यभिज्ञानेन शिवपरत्वात् | ङान्यः पन्था अयनाये�ति तु श्वेताश्वतरेऽपि श्रूयमाणत्वात्, शिवस्य मुक्त्युपायत्वव्यवस्थितेः, �उतामृतत्वस्येशान� इतीशानशब्दश्रवणाद्वस्तुतः पुरुषसूक्तमपि शिवपरम् | श्हब्दादेव प्रमित� इति सूत्रे ईशानशब्दश्रुत्या ब्रह्मपरत्वमिति निर्णयाच्च | पुरुषशब्दोऽपि न नारायणवाचकः �पुरुषावात्ममानवा�विति सामान्यशक्तित एव देवताविशेषपरत्वस᳚न्गतेः | बर्हिराज्याधिकरणे बर्हिराज्यादिशब्दानामसंस्कृतदर्भघृतादौ शक्तानां संस्कृते विशिष्य शक्त्यन᳚न्गीकारात् | चित्राधिकरणे स्तोत्रविशेषनामत्वेन सिद्धस्य पृष्ठशब्दस्य क्वचित्पृष्ठैरुपचिष्ठत इत्यादौ लक्षणया प्रसिद्धिरस्तीत्येतज्ज्ञापनेन चरितार्थस्यापो वा ऋत्वियमार्च्छत्तासां वायुः पृष्ठे व्यवर्ततेत्यादेरार्थवादिकनिर्वचनस्य विशिष्य वामदेव्यादौ शक्तिकल्पकत्वमिति सर्वमीमांसकैरभ्युपगमात् | तस्मात्पुरुषशब्दस्य विशिष्यशक्त्यभावात्सामान्यशक्तस्य
SK
श्वेताश्वरमन्त्रेण विशेषे पर्यव-
SK
पृ० ३५७) सानप्रतिपादनात् शिवपरत्वमेव युक्तम् | अतेव महापुरुषशब्दस्य नारायणपरत्वं निरस्तम् | लक्ष्मीपतित्वमपि श्ह्रियं लक्ष्मीमौपलामम्बिका᳚न्गां | तस्यां कमण्डलारूढा शक्तिर्माहेश्वरी परा | महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरे�ति घृतसूक्तशिवपुराणोपबृंहणाभ्यां शिवस्यैव लि᳚न्गमाम्नायते | नारायणसमाख्यापि पुरुषसूक्तस्य नारायणर्षित्वेनोपपद्यते | नारायणसमाराधने विनियोगस्त्वग्निर्मुर्धेति मन्त्रस्याग्नेयस्या᳚न्गारकसमाराधने विनियोगवदुपपन्न एव | अन्यथा �यजेत्पुरुषसूक्तेन धनदं विश्वरूपिण�मिति विनियोगादन्यपरत्वप्रस᳚न्गात् | �जेष्ठसाम्नान्त्रयेणैव तथा देवव्रतैरपि | रथन्तरेण पुण्येन सूक्तेन पुरुषेण चे�ति शिवाभिषेकविनियोजकलि᳚न्गपुराणवचनादपि शिवपरत्वं सिध्यति | तस्मात्पुरुषसूक्तस्य शिवपरत्वात्तन्मन्त्रप्रत्यभिज्ञानादपि श्वेताश्वतरोपनिषदः शिवपरत्वात्तदनुरोधेन सर्वकारणवाक्यानां शिवपरत्वमेवेति सिद्धान्तः || अथ पूर्वपक्षः- महोपनिषदि �एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ नेमे द्यावापृथिव्या�वित्यादिना ब्रह्मेशानाग्निषोमद्यावापृथिवीनां सत्त्वनिषेधपूर्वकं जन्यत्वं वर्णयित्वा सर्गाद्यसमयेऽसहायस्यैकस्य नारायणस्यैव सर्वकारणभावेनावस्थानमुपवर्ण्यते | विध्यपेक्षया निषेधस्य प्रबलत्वादीशानस्य सर्वकारणत्ववर्णनासम्भवान्नारायण एव सर्वकारणवाक्यानां पर्यवसाने तस्यैव परब्रह्मभावो युक्तः | अतेव छागपशुन्यायेनापि सदेव सौम्येदमग्र आसीदित्यादि सदात्माक्षरब्रह्मशब्दैः सर्वकारणत्वप्रतिपादकानां सामान्यकारणवादानां नारायण एव पर्यवसानस्य युक्तत्वान्नारायण एव परं ब्रह्मेति पूर्वपक्षः || सिद्धान्तस्तु- �एको ह वै नारायण आसी� दित्यादिश्रुतिषु नारायणस्य प्रपञ्चस्रष्टृत्ववचनं क्वचित्कल्पविशेषे कल्पादौ प्रथमं परशिवादुत्पन्नस्य नारायणस्य तदितरप्रपञ्चस्रष्टुत्वपरतया योजयितुं शक्यत्वान्न कथञ्चिदपि परमशिवस्य
SK
परमकारणत्वा᳚न्गीकारेण विरुध्यते |
SK
पृ० ३५८) एको ह वै नारायण आसीदित्यस्य �प्रादुरासीत्तमोनुद� इति मानवीयोपबृंहणानुसारेण सर्गाद्यसमये ब्रह्मरुद्रेन्द्राद्युत्पत्तेः पूर्वमेकोऽसहायो नारायणः परमशिवादासीदुत्पन्न इत्यर्थप्रतीतेश्च | महोपनिषदि प्रतिपादितस्य भूतेन्द्रियादिसृष्टिक्रमेण सलिलमध्ये सृष्टब्रह्माण्डे नारायणेन चतुर्मुखः सृष्ट इत्यादेरर्थजातस्य मानववचनेष्वपि स्पष्टत्वात् | तस्मात्सर्वश्रुतिस्मृतिपुराणाद्यविरोधेन परमशिवस्य जगज्जन्मादिकरणत्वव्यवस्थितेः शिव एव परं ब्रह्म | तथा च मन्त्रवर्णः- �ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपि᳚न्गलम् | ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः ||� इति | अस्य हि मन्त्रस्य विरूपाक्षमित्यभिधानश्रुत्या ङमस्कृत्य महादेवमृतं सत्यमितीश्वर� मिति कौर्मे शिवनमस्कारे विनियोगेन �अथातो महादेवस्य पादोदकविधिं व्याख्यास्यामः� इत्युपक्रम्य ऋतं सत्यं परं ब्रह्मेति मन्त्रेण प्राशयेदिति बोधायनसूत्रे शिवपादोदकप्राशने विनियोगेन, �अथवा परमात्मानं परमानन्दविग्रहम् | गुरूपदेशाद्विज्ञेयं पुरुषं कृष्णपि᳚न्गलम् | ब्रह्म ब्रह्मपुरे गार्गी दहराब्जखमध्यमे | अभ्यासात्तं प्रपश्यन्ति सन्तस्त्वञ्च तथा कुरु ||� इति योगयाज्ञवल्क्ये पूर्वानुवाकविहित- शैवदहरविद्योपास्यरूपसमर्पकतया तदेकवाक्यतया स्फुटीकरणेन व्यक्तं शिवपरत्वम् | तस्मादेतन्मन्त्रानुरोधात्परमशिवस्य जगत्कारणत्वे सिद्धे �एको ह वै नारायण आसी� दिति महोपनिषद्वचनमपि न विरुध्यत इति सिद्धान्तः || ननु महोपनिषदि- �अथ पुनरेव नारायणः सोऽन्यत्कामो मनसा ध्यायत, तस्य ध्यानान्तस्थस्य ललाटात्त्र्यक्षः शूलपाणिः पुरुषोऽजायते� ति रुद्रस्य नारायणादुत्पत्तिश्रवणात्, तथा नारायणोपनिषदि ङारायणाद्ब्रह्मा जायते नारायणाद्रुदो जायत� इति रुद्रस्य नारायणादुत्पत्तिश्रवणात्, तस्य परमकारणत्वं स᳚न्गच्छते | अतेव महाभारते- �ब्रह्मा स्थाणुर्मनुर्दक्षा भृगुर्धर्मस्तपो दम�इत्यादिना, �एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः |
SK
तस्य देवस्य मर्यादां
SK
पृ० ३५९) पूजयन्ति सनातनी�मिति ब्रह्मेशयोर्दक्षमन्वादिवद्भगवन्नारायणकृतमर्यादानुवर्तित्वोक्तेश्च | तयोरपि ब्रह्मा ज्यायान्, अनुपदोदाहृतश्रुत्योपबृंहण एव प्रथममुत्पत्तिश्रवणात्, �एतौ द्वौ विवुधश्रेष्ठौ प्रसादक्रोधजौ मम | मया दर्शितपन्थानौ सृष्टिसंहारकारकौ || एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः | एष माता पिता चैव युष्माकं प्रपितामहः || अस्यैव योऽनुजो रुद्रो ललाटाद्यः समुत्थितः | मयाऽनुशिष्टो भविता सर्वभूतवरप्रदः� इति शिवस्य ब्रह्मानुजत्वोक्तेश्च, विष्णुपुराणादिषु तस्य ब्रह्मण एवोत्पत्तिप्रतिपादनाच्च | तस्मान्नारायणस्य सर्वकारणभावेन सर्वोत्कृष्टत्वाद्ब्रह्मशिवादीनां तत्परतन्त्रत्वाच्च स्थिरपुरुषार्थः प्रेप्सुभिः स एवोपासनीयः स एव प्रपत्तव्यः �कारणन्तु ध्येय� इत्याथर्वणश्रुतेः, �यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै | तः ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्य� इति श्वेताश्वतरमन्त्रवर्णनाच्चेति पूर्वपक्षः || सिद्धान्तस्तु- �त्रियक्षः शूलपाणिः पुरुषोऽजायते� त्यादि श्रुतिस्मृतिषु रुद्रस्य नारायणसृज्यत्ववर्णनं तत्सर्वं कल्पविशेषेषु संहाररुद्ररूपेण ततः प्रादुर्भावपरम् | �अहञ्च भवतोत्क्रान्तात्कल्पान्ते घोररूपधृक् | शूलपाणिर्भविष्यामि क्रोधजस्तव पुत्रकः� इति कौर्मे नारायणं प्रति शिवस्य वरदानुवचनेन तथा स्फुटीकरणात् | एवमेव �प्रादुरासीत्प्रभोर᳚न्के कुमारो नीललोहितः� इत्यादिषु रुद्रस्य ब्रह्मणः प्रादुर्भाववर्णनं तदपि लोकसृष्ट्यभिवृध्युपायप्रदर्शनेन ब्रह्मणोऽनुग्रहाय ततः प्रादुर्भावपरम् | ङिर्दिष्टः परमेशेन महेशो नीललोहितः | पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोऽनुज� इति वायूक्तेः, �अनादिनिधनो देवश्चैतन्यादिसमन्वितः | ज्ञानानि च वशे यस्य करणादीन्यशेषतः || अणिमादिगुणोपेतमैश्वर्यं न च कृत्रिम् | सृष्ट्यर्थं ब्रह्मणः पुत्रो ललाटादुत्थितः प्रभुः || इति भारतोक्तेः, एवमेव रुद्रस्य नियम्यत्ववचनं
SK
ब्रह्मनारायणांशविषयमवताररुद्रपरमिति वा मन्तव्यमिति सिद्धान्तः ||
SK
पृ० ३६०) ननु तैत्तरीयश्रुतौ ङारायणपरं ब्रह्म तत्त्वं नारायणः परः | नारायणपरो ज्योतिरात्मा नारायणः परः || नारायणपरो ध्याता ध्यानं नारायणः परः | यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा || अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः� इत्यादिना नारायणस्यैव परब्रह्मभावः स्पष्टमेव प्रतिपाद्यते | नच नारायणात्परंब्रह्मेति पञ्चमी समासाश्रयणेन नारायणात्परस्य परमशिवस्य परब्रह्मत्वं व्यवस्थाप्यतामिति वाच्यं, महोपनिषदि परब्रह्मप्रतिपादनप्रकरणे नारायणः परं ब्रह्मेति पदविच्छेदेनाध्ययनप्रदर्शनात्तदैकार्थ्यसम्पादनाय शुपांसुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजाल� इति सूत्रेण छान्दसे प्रथमाविभक्तेर्लुगादेशे कृते नारायणेत्यस्य नारायणपरं ब्रह्मेति प्रतिपादने तात्पर्यावसानात् | नारायणपरं ब्रह्मेति समस्तपदत्वेऽपि निषादस्थप्रत्यधिकरणन्यायेन समानाधिकरणसमानस्यैव ग्राह्यत्वात् | निषादस्थपत्यधिकरणे विभक्त्यर्थे लक्षणा, गौरवाभावेन व्यधिकरणतत्पुरुषापेक्षया �तत्पुरुषः समानाधिकरणः कर्मधारय� इत्यनुशासनसिद्धस्य कर्मधारयसमासस्यैव परमाभ्यर्हितत्वव्यवस्थापनात् | किञ्च �अहमेव परं ब्रह्म परं तत्त्वं पितामह | अहमेव परं ज्योतिः परमात्मा त्वहं विभुः ||� इति लि᳚न्गपुराणे ब्रह्माणं प्रति भगवद्वाक्येन नारायणस्य परब्रह्मता प्रतिपादकतयैवास्य मन्त्रस्योपबृंहणेन व्यधिकरणतत्पुरुषसमासकल्पनासम्भवाच्च | तस्मानारायण एव परं ब्रह्मेति तस्यैव सर्वदेवतोत्कर्षः || सिद्धान्तस्तु- नारायणपरं ब्रह्मेत्यादिना नारायणस्य परब्रह्मत्वप्रतिपादनं शिवप्रसादलब्धशिवाभेदात् | परमशिवाभेदभावनासिद्धतद्भावपरत्वेन वा शिवस्यैव परभावोपवर्णनपरम् | एकस्यां विद्यायामुपास्योपासकभावेन प्रधानोपसर्जनपरतया निबद्धयोस्तयोर्वस्तुतः परब्रह्मभावायोगे सत्य᳚न्गगुणविरोधाधिकरणन्यायेनोपसर्जनतद्भावोपवर्णनस्यैव मुख्यतया नेयत्वात् |
SK
�अ᳚न्गगुणविरोधे च तादर्थ्या�दित्यधिकरणे प्रतिपादितम्- एकाहादिदीक्षापक्षेषु दीक्षि-
SK
पृ० ३६१) णीयासोमयागयोरन्यतरस्य �य इष्ट्या� दिवाक्यप्राप्तपूर्वकालस्यासम्भवादावश्यके सोमयागे प्रधानानुग्रहस्योचितत्वाद्गुणभूताया दीक्षिणीयाया एव पूर्वकालत्यागो युक्त इति निर्णीतम् | तथैव नारायणात्परं ब्रह्मेति व्यधिकरणतत्पुरुषसमानाश्रयणेऽपि न दोषः, अ᳚न्गगुणाधिकरणन्यायेन प्रधानानुरोधेनार्थव्यवस्थितेर्नेयत्वात् || नच नारायणः परं ब्रह्मेति श्रुत्यन्तरे पदविच्छेदेनाध्ययनदर्शनात्पञ्चमीसमासास᳚न्गतिरिति वाच्यं, नारायणः परं ब्रह्मेति श्रुत्यन्तर एव सुपां सुलुगित्यादिसूत्रेण नारायणादितिपञ्चम्याः स्वादेशकल्पनया नारायणात्परं ब्रह्मेति श्रुत्यैकार्थप्रतिपादनसम्भवात् | नाप्यहमेव परं ब्रह्मेति लि᳚न्गपुराणवचनविरोधः, महालि᳚न्गप्रादुर्भावात्पूर्वं ब्रह्मनारायणयोरहमेव सर्वोत्कृष्ट इति परस्परविवादप्रस्तावे पठितस्य तदनन्तरं तद्विवादप्रशमनार्थोद्भूतमहालि᳚न्गमध्यसन्निहितस्य पशुपतेः �पश्यन्तं मां महादेवं भयं सर्वं विमुच्यताम् | युवां प्रसूतौ गात्राभ्यां मम पूर्वं महाबलौ || त्रिधा भिन्नोऽस्म्यहं विष्णो ब्रह्मविष्णु भवाख्यया | सर्गरक्षालयगुणैर्निष्कलः परमेश्वरः || सम्मोहं त्यजविष्णो त्व�मित्यादितत्वोपदेशेनापादितस्य ब्रह्मोत्कर्षवचनजातस्यैव तथात्वाव्यवस्थापकत्वात् श्रुतिसिद्धं शिवस्य सर्वकारणत्वमिति सिद्धान्तः || ननु �अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता� इति बह्वृचब्राह्मणे दीक्षिणीयायामिष्टौ यक्ष्यमाणदेवतापरिग्रहानुवर्णनदशायामग्नेरवमत्वं प्रतिपाद्य सर्वासामन्यासां देवतानामान्तरालिकत्वमुपवर्ण्य विष्णुः परम इति विष्णोः पारम्यश्रवणात्तस्यैव परमकारणत्वं न तद्भिन्नस्य परमशिवस्य परमकारणत्वं, विष्णोः पारम्यप्रतिपादकबह्वृचब्राह्मणविरोधात् | न चाग्निर्वै देवानामवमो विष्णुः परम इति दीक्षिणीष्टविषयार्थवादः, �विरोधे गुणवादः स्यादनुवादोऽवधारिते | भूतार्थवादस्तद्धानादर्थवादस्त्रिधामत ||� इति न्यायेन स्तावकतया
SK
नेयत्वान्न तस्य स्वार्थे तात्पर्यं, तस्माद्विष्णोः पार-
SK
पृ० ३६२) म्यवर्णनस्यार्थवादत्वेन स्वार्थे तात्पर्याभावान्न परमशिवस्य पारम्यप्रतिपादनेन विरोध इति वाच्यं, अग्नेरवमत्वस्य तदितरसर्वदेवतानां तन्मध्यगतत्वस्य च वस्तुवृत्तत्वाभावे �अग्निरवमो देवतानां विष्णुः परमो देवतानां तदुभयतः परिगृह्य दीक्षित� इति श्रुतेर्दीक्षिणीयायाः सोमे यक्ष्यमाणसर्वदेवतापरिग्रहार्थत्वं न सिध्येत्, तदसिद्धौ च पूर्वतन्त्रे �ग्रहणार्थञ्च पूर्वमिष्टेस्तदर्थत्वा� दित्यधिकरणसिद्धं सोमा᳚न्गदेवतापरिग्रहार्थमन्वाधानं न कर्तव्यम् | सोमे यक्ष्यमाणदेवतापरिग्रहार्थया दीक्षिणीययैव प्रस᳚न्गात्सर्वदेवतापरिग्रहसिद्धेरिति निर्णयस्य स᳚न्कर्षणकाण्डे दीक्षिणीया निर्धार्य संस्कारसंयोगाद्देवतान्तरपरिग्रहणश्रुतेरित्यधिकरणसिद्धस्य सोमे दीक्षिणीयायां विहितस्यैवाग्नेः सोमयागार्थधारणं न प्रतिकर्मोद्धरणं दीक्षिणीया परिगृहीतदेवताकोटिसंस्कारसंयोगादिति निर्णयस्य च बाधः स्यादित्यग्निर्वै देवानामिति नार्थवादः | तस्माद्विष्णुः परम इति पूर्वपक्षः || सिद्धान्तस्तु- �अग्निरवमो देवतानां विष्णुः परम इत्यस्यातिप्रबलानेकश्रुतिविरोधादुपचरितार्थत्वेऽपि दीक्षिणीया देवतापरिग्रहार्थत्वप्रतिपादनांशे विरोधाभावेन स्वार्थे प्रामाण्या᳚न्गीकारसम्भवात् | नचाग्निविष्ण्वोरधरोत्तरत्वाभावे, उभयतः परिग्रहालाभात्सर्वदेवतापरिग्रहो न सिध्यतीति वाच्यं, तयोरधरोत्तरकोटित्वेनोभयतः परिग्रहलाभेऽपि तदसिद्धितादवस्थ्यात् | नह्यधरोत्तरकोटिभूतदेवतायजने तन्मध्यगतदेवतान्तरपरिग्रहस्सिध्यति | वचनबलादुभयतः परिग्रहेण सर्वदेवतापरिग्रह इति चेत्तर्हि वचनबलादग्नावैष्णवयजनेन सर्वदेवता ग्राह्य इत्येतावांश्च | तत्र च यथा श्हूर्पेण जुहोति तेन ह्यन्नं क्रियत� इत्यत्र शूर्पस्यान्नकरणत्वकीर्तनं स्तावकतया न तस्य होमसाधनतोपयोगितया, तथाऽग्नावैष्णवयोरवमत्वपरमत्वकीर्तनमिह स्तावकतया न देवतान्तरपरिग्रहोपाधिकतयोपपद्यत इति न कश्चिद्विरोधः |
SK
वस्तुतोऽत्रावमपरमशब्दौ न निकर्षोत्कर्षपरौ, �अग्निरग्रे प्रथमो देवतानां संयातानामुत्तमो विष्णरासी� दितिमन्त्रे पृ० ३६३) दीक्षिणीयाया देवतापरिग्रहार्थत्वप्रतिपादक एव, प्रथमोत्तमशब्दाभ्यां तथा स्फुटीकरणात् | तत्र चोत्तमशब्दस्य �त्रिः प्रथमामन्वाह त्रिरुत्तमा�मित्यत्रेव प्रथमशब्दसमभिव्याहारात्प्राथम्यप्रतिकोटिभूतपश्चात्परत्वात् | अग्निरेतु प्रथमो देवतानां, अग्निर्मुखा वै देवा� इत्याद्यनेकमन्त्रब्राह्मणेष्वग्नेः प्राथम्यप्रतिपादनेनावमशब्दस्य तात्पर्यावसानावश्यं भावाच्च | तस्मात्परमशब्दस्य पाश्चात्यपरत्वात् | तावतैव वक्ष्यमाणदेवतापरिग्रहासम्भवेनार्थवादत्वस्य सिद्धत्वात्, विष्णोः पाश्चात्यदेवतात्वेऽपि परमशिवस्य परमकारणत्वेन विरोधाभावात्परमशिवस्यैव परब्रह्मत्वमिति सिद्धान्तः || ननु �जन्माद्यस्य यत� इति जगज्जन्मादिकारणत्वं ब्रह्मलक्षणं सूत्रितवतो ब्रह्ममीमांसासूत्रकृतस्तात्पर्यं नारायण एव पर्यवस्यतीति नारायणस्यैव जगत्कारणत्वं युक्तम् | तथाच �असृजत्सलिलं पूर्वं स तु नारायणः प्रभुः | ततस्तु भगवानद्भ्यो ब्रह्माणमसृजत्स्वयम् ||� इत्यादि नारायणस्यैव जगत्कारणत्वं लक्षणानुरोधादिति पूर्वपक्षः || सिद्धान्तस्तु-ब्रह्ममीमांसासूत्रकृता भगवता बादरायणेन स्वाभिमतपरब्रह्मख्यापनार्थं प्रवृत्ते महाभारते भीष्मपर्वणि सभापर्वणि च शिवस्यैव सर्वजगत्कारणत्वेन परब्रह्मत्वं कण्ठरवेण प्रतिपादितम् | तथाहि- यत्र भूतपतिः सृष्टा सर्वलोकान्सनातनः | उपास्यते तिग्मतेजावृतो भूतैः सहस्रशः || इत्यादि मैनाकवर्णनवचनैः, �ईश्वरश्चेतनः कर्ता� इति शान्तिपर्ववचनैः, स एष भगवानीशः सर्वतत्त्वादिरव्ययः | सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः || पृ० ३६४) सोऽसृजद्दक्षिणाद᳚न्गाद्ब्रह्माणं लोकसम्भवम् | वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः || युगान्ते चैव सम्प्राप्ते रुद्रं प्रभुमथासृजत् | इत्यद्यानुशासनिकवचनैः,
SK
अहं ब्रह्मा कपिलोऽथाप्यनन्तः पुरा सर्वे ब्रह्मणश्चातिवीराः | त्वत्तः सर्वे देवदेवप्रसूताः सर्वेशस्त्वं कारणात्मा त्वमीड्य || इति कृष्णकृतशिवस्तोत्रमध्यगतहरिवंशवचनैश्च, शिवस्यैव सर्वकारणत्वेन �जन्माद्यस्य यत� इत्यधिकरणसिद्धं ब्रह्मलक्षणमाविष्कृतम् | तस्मात्परमशिव एव परमकारणं क्वचिछ्रुतिपुराणभारतेषु नारायणस्य परमकारणत्वोपवर्णनन्तु परमशिवाभेदेन कृष्णाद्यवतारा नारायणस्यैवेति प्राञ्चः || वयन्तु ब्रूमः- परमशिवान्नारायणोऽयं भिन्न एव, तस्मिन्परब्रह्मधर्मकथनञ्चेत्थमुपपद्यते | तदुक्तं सुदर्शनाचार्यैः- आत्मोच्यते परमसौ परमञ्च तत्त्वं ज्योतिः परञ्च परमेश्वरपद्मनाभः | तद्भावनैकरसिकस्त्वदनन्यभावा- न्मन्त्री यथा गरुडभावनया गरुत्मान् || इति || नच वैपरीत्येन नारायणस्यैव परमकारणत्वेन शिवस्यैव नारायणभावनासिद्धं परमकारणत्वोपवर्णनमिति श᳚न्क्यम्, जगत्कारणे तत्तद्देवताविषयविरुद्धानेकविशेषश्रवणेन कस्य जगत्कारणत्वमिति विशये देवताविशेषनिश्चयैदंपर्येण प्रवृत्तश्रुत्यनुरोधेनैव तन्निर्णयो युक्तः, अनन्यपरश्रुतेः प्राबल्यात् | अतेव पौर्णमास्यामाग्नेयाग्निष्टोमयोः क्रमेणानुष्ठानेऽपेक्षिते श्रुतिक्रमेऽनुष्ठेयार्थस्मृत्येकप्रयोजनमन्त्रपाठक्रम एव नियामकः, न तद्विरोधिविधानेन चरितार्थ-
SK
पृ० ३६५) योर्ब्राह्मणयोः पाठक्रम इति �मन्त्रतस्तु विरोधे स्या�दिति पञ्चमाधिकरणे निर्णीतं, तथासति प्रकृतेऽपि सुबालाद्युपनिषत्सु सृष्टिप्रकरणेषु स्रष्टृसद्भावस्रष्टव्यपदार्थजातक्रमादिप्रतिपादनेन चरितार्थेषु तत्तद्देवताविशेषवाचकश्रुतिबलाद्देवतान्तरस्य कारणत्वप्रतीतावपि श्रुत्यन्तरप्रतिपादितं स्रष्टृसद्भावादिकं सिद्धं कृत्वा स्रष्टृब्रह्मणो देवताविशेषरूपेण निष्कर्षार्थं प्रवृत्तायां मन्त्रोपनिषदि हरशिवादिशब्दितस्य परमशिवस्य जगज्जन्मादिकारणत्वप्रतिपादनस्य प्रबलत्वात्परमशिवस्यैव जगत्कारणत्वेन परब्रह्मभावनिर्णयो व्यवतिष्ठते | एतेन सृष्टिप्रकरणेषु नारायणपदप्रयोगो बलवानिति परेषामभिमानो गलितः | नच तत्र तत्र सृष्टिप्रकरणे नारायणपदाभ्यासो बलीयानिति वाच्यं, सृष्टिप्रकरणेषु बहुशोऽभ्यस्तस्यापि नारायणशब्दस्य नारायणविषयकप्राणाकाशाक्षरादिशब्दवत्सम्भवात्, अनन्यपरश्रुतिविरोधे दुर्बलत्वात् | किञ्चाथर्वशिखायां �ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त� इत्यादिना ब्रह्मादीनां परमशिवस्य च कार्यकारणभावेन विशेषप्रतिपादनेन वैपरीत्यश᳚न्काविरोधात् | नहि नारायणस्य जनिश्रवणात्कार्यकोटौ निक्षिप्य परमशिवस्य जगत्कारणत्वप्रतिपादनं नारायणविषय- तया योजयितुं शक्यम् | नच �ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त� इति ब्रह्मरुद्रमध्यपठितो विष्णुशब्दस्तदवतारभूतरामकृष्णादिप्रतिपादक इति वाच्यं, प्रमाणाभावात् | किञ्च �यदा तम� इति मन्त्रोऽपि साक्षात्कारणवाक्यानां शिवविषयत्वं दर्शयन् सुबालोपनिषदादिषु नारायणकारणत्वप्रतिपादनस्यापि शिवविषयत्वं स्पष्टीकरोति | अतेव कृष्णस्य बहुधा सर्वकारणत्वं प्रतिपादयन्त्या भगवद्गीतायाः शिवपरत्वं कूर्मपुराणे पार्थं प्रति प्रतिपादितम्- ज्ञानं तदैश्वरं दिव्यं यथावद्विदितं त्वया | स्वयमेव हृषीकेशः प्रीत्योवाच सनातनम् ||
SK
पृ० ३६६) गच्छ गच्छ स्वकं स्थानं न शोकं कर्तुमर्हसि | भजस्व परया भक्त्या शरण्यशरणं शिवम् || इति || तस्यैश्वरं ज्ञानं वर्णयद्व्यासवचनं तत्रैवेश्वरगीतान्ते- ङारायणोऽपि भगवान्देवकीतनयो हरिः | अर्जुनाय स्वयं साक्षाद्दत्तवानिदमुत्तम् ||� इति तामीश्वरगीतार्थनिबन्धनरूपामुपवर्णयद्व्यासवचनं स्पष्टीकरोति- सर्वकारणमीशानः शिवः सत्यादिलक्षणः | न विष्णुर्न विरिञ्चिश्च न चेन्द्रो नापरः पुमान् || श्रुतयश्च पुराणानि भारतादीनि सत्तमाः | शिवमेव सदा साम्बं हृदि कृत्वा ब्रुवन्ति हि || इत्यादि | पराशरोपपुराणपर्यालोचनया स्मृतिपुराणादिषु देवतान्तरमधिकृत्य कारणत्ववादानां सर्वेषामपि शिवविषयर्त्वे स्पष्टीकरोति, तस्माद्देवतान्तरकारणत्वप्रतिपादकवाक्यानामेव परमशिवे पर्यवसानम् | नतु शिवस्य कारणत्वप्रतिपादकानामन्यत्र नारायणादौ पर्यवसानमिति शिवस्यैव सर्वजगत्कारणत्वेन परब्रह्मभावे भगवद्बादरायणस्य सूत्रकृतस्तात्पर्यमिति सिद्धान्तः || ननु मानवीयधर्मशास्त्रोपक्रमे �आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् | अप्रतर्क्यमनिर्देश्यं प्रसुप्तमिव सर्वतः || ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् | महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः || सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः | अप एव ससर्जादौ तासुवीर्यमपासृजत् || तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् || तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ||� इत्याद्यारभ्य, �आपो नारा इति प्रोक्ता आपो वै नरसूनवः | ता यदस्यायनं प्रोक्तं तेन नारायणः स्मृतः ||� इति वचनेन पितामहस्यापि जनके सकलजग-
SK
पृ० ३६७) त्कारणे परमपुरुषे नारायणनामनिरुक्त्या नारायणस्य जगत्कारणत्वप्रतिपादनात्तस्यैव जगत्कारणत्वं युक्तमिति पूर्वपक्षः || सिद्धान्तस्तु- प्रादुरासीस्तमोनुद इति वचने तमोनुद इति क्विप्प्रत्ययान्तोऽयं पञ्चम्यन्तः शब्दः प्रादुरासीदित्युक्ते कस्मादिति जनिकर्तृपुरुषान्तराका᳚न्क्षायां तदनुरोधेन तमः प्रेरणायाधिष्ठातुः परमशिवात्ततः शब्दोदिते प्रलयानन्तरकाले नारायणस्य प्रथमं प्रादुर्भावोक्त्या शिवस्यैव जगत्कारणत्वे पर्यवसानात् | नच �इगुपधज्ञापीकिरः क� इतीगुपधलक्षणे कप्रत्यये कृते तमोनुद इति प्रथमान्तपदमकारान्तं प्रादुर्भवितृनारायणविशेषणमिति वाच्यं, पश्चात्प्रादुर्भवितुर्नारायणस्य प्रादुर्भावात्पूर्वं सिद्धस्य तमसोऽधिष्ठातृत्वाऽयोगात् | तस्मात्तमोनुदः परमशिवान्नारायणः प्रादुरासीदिति परमशिवस्य नारायणजनकत्वे मनोस्तात्पर्यमवसीयते | अतेव मानवीयधर्मशास्त्रोपसंहारदशायां वचनानि- �प्रशासितारं सर्वेषामणीयांसमणोरपि | रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ||� इति परमपुरुषं निर्धार्य, �एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः | जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रव�दिति वचनप्रतिपादितेन �मूर्तयस्तस्य विख्याताः पञ्चब्रह्माह्वयाः पराः | सर्वलोकशरण्यस्य शिवस्य परमात्मनः ||� इत्यादित्यपुराणवचनानुसारिसद्योजातादिमूर्तिपञ्चकेन वा मूर्त्यष्टकान्त- र्गतपृथिव्यादिपञ्चकेन वा सकलप्राणिजातव्याप्तलि᳚न्गस्योपनिबन्धनात्, शिवस्यैव परभावे मनोस्तात्पर्यवसानाच्च | अतेव धर्मशास्त्रकारमूर्धन्यो योगियाज्ञवल्क्योऽपि- �पृथिव्यां वायुमारोप्य लकारेण समन्वितम् | ध्यायंश्चतुर्भुजाकारं ब्रह्माणं परमेष्ठिनम् || धारयेत्पञ्चघटिका धारणात्सिद्धिमाप्नुयात् | वारुणे वायुमारोप्य नकारेण समन्वितम् || शुद्धस्फटिकस᳚न्काशं पीतवाससमच्युतम् | धारयेत्पञ्चघटिकाः सर्वपापैः प्रमुच्यते || वह्नौ चानिलमारोप्य रेफाक्षरसमन्वितम् | त्यक्तञ्च वरदं रुद्रं
SK
तरुणादित्यसन्निभम् ||� इत्यादिना, �आकाशे वायुमारोप्य हकारेण समन्वितम् | पृ० ३६८) बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् || शुद्धस्फटिकस᳚न्काशं बालेन्दुकृतशेखरम् | पञ्चवक्त्रधरं सौम्यं दशबाहुं त्रिलोचनम् || सर्वायुधोद्योतिकरं सर्वभूषणभूषितम् | उमार्धदेहं वरदं सर्वकारणकारणम् || चिन्तयंश्चित्तविन्यस्तं मुहूर्तमपि धारयेत् | स एव मुक्त इत्युक्तः त्रिषु लोकेषु शिक्षितैः ||� इति ब्रह्मादीनां परमशिवपर्यन्तानां धारणमुपवर्ण्य प्रतिपादितम् | �एतदुक्तं भवत्यत्र गार्गि ब्रह्मविदां वरे | ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे || युक्तचित्तस्तदात्मानं योजयेत्परमेश्वरे |� इति परमशिवस्यैव सर्वकारणत्वं प्रतिपादितवानिति शिवस्यैव जगत्कारणत्वं सिद्धमिति सिद्धान्तः || ननु विष्णुपदी ग᳚न्गा शिवेन धृता | तदाहुः- आदावादिपितामहस्य नियमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् | भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते || इति, विष्णुपदी ग᳚न्गा क्वचिदूर्ध्वप्रसारितत्रिविक्रमचरणाम्बुजस᳚न्क्षालनार्थं सत्यलोकस्थितब्रह्मकमण्डलुविसृतजलरूपाऽभिधीयते | क्वचित्तु विष्णुचरणनिर्भिन्नोर्ध्वाण्डछिद्रविसृतबहिर्जलरूपा वर्ण्यते | वामनपुराणेऽपि- विष्ण्व᳚न्घ्रिणा प्रसरता कटाह भेदितेऽम्बरात् | कुटिला विष्णुपादान्तात्पपात कुटिला ततः || लोके विष्णुपदीत्येवं नाम्ना ख्यातिरभून्मुने || इति || महाभारते सभापर्वणि- तच्छिद्रात्स्यन्दिता तत्र पादभ्रष्टाऽथ निम्नगा | संसार सागरं साश्हू पावनी सागरा᳚न्गना || इति || पृ० ३६९) कूर्मपुराणे तु- �अथाण्डभेदादपतच्च शीतलं महाजलं पुण्यकृदोघजुष्ट�मित्युपवर्णितम् | विष्णुपुराणेऽपि- ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः | एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ||
SK
इत्युपक्रम्योक्तम्- �ततः प्रवहति ब्रह्मन्सर्वपापहरा सरित् | ग᳚न्गा देवा᳚न्गनाऽ᳚न्गानामनुरञ्जनपिञ्जरा || विष्णुपादविनिष्क्रान्ता प्लावयन्तीन्दुमण्डलम् | समन्ताद्ब्रह्मणः पुर्यां ग᳚न्गा पतति वै दिवः | वामपादाम्बुजा᳚न्गुष्ठनखस्रोतो विनिर्गता || विष्णोर्बिभर्ति यां भक्त्या शिरसाऽहर्निशं ध्रुवम् | ततः सप्तर्षयो यस्याः प्राणायामपरायणाः || तिष्ठन्ति वीचिमालाभिरुह्यमानजटान्तराः | वार्यौघसन्ततेर्यस्याः प्लावितं शशिमण्डलम् || भूयोऽधिकतरां कान्तिं वहत्येतदनुक्षपम् | मेरुपृष्ठे पतित्वोच्चैर्निष्क्रान्ता शशिमण्डलात् | जगतः पावनार्थाय या प्रयाति चतुर्दिशि | सीता चालकनन्दा च चक्षुर्भद्रा च संस्थिता || एकैव या चतुर्भेददिग्भेदगतिलक्षणा | भेदं चालकनन्दाख्यं यस्याः शर्वोऽपि दक्षिणम् || दधार शिरसा प्रीत्या वर्षाणामधिकं शतम् | शम्भोर्जटाकलापाच्च विनिष्क्रान्तास्थिशर्कराः | पावयित्वा दिवं निन्ये या पापान्सगरात्मजान् || इति || मार्कण्डेय पुराणेऽपि- ध्रुवाधारं जगद्योनेः पदं नारायणस्य यत् | ततः प्रवृत्ता या देवी ग᳚न्गा त्रिपथगामिनी || सा प्रविश्य सुधायोनिं सोममाधारमम्भसाम् | संवर्तमानार्करश्मिसन्ततिं लोकपावनीम् || पपात मेरुपृष्ठे च सा चतुर्धा ततो ययौ | इत्युपक्रम्य, सीतायाः पूर्वसमुद्रप्राप्तिमुक्त्वा, पृ० ३७०) तथैवालकनन्दाख्या दक्षिणाद्गन्धमादनात् | मेरुपादवनं गत्वा नन्दनं देवनन्दनम् || मानसञ्च महावेगात्पावयित्वा सरोवरम् | मानसाच्छैलराजात्तु रम्याद्रिशिखरं गता || तस्माच्च पर्वतान्सर्वान्दक्षिणे यत्र मोदिता | तान्पावयित्वा सम्प्राप्ता हिमवन्तं महागिरिम् || दधार तत्र तां शम्भुर्मुमोच वृषभध्वजः | भगीरथेनोपवासैः स्तुत्याचाराधितो विभुः || तत्र मुक्त्वा च शर्वेण सप्तधा लवणोदधिम् | प्रविवेश त्रिधा प्राच्यां सा तदा तु महानिति || भगीरथस्यानुरथं स्रोतसैकेन दक्षिणन् || इत्याद्युपवर्णितम् || स्कान्दे केदारखण्डे-
SK
स᳚न्कल्पेनैव ववृधे वामनो भगवानजः | पादैकेन मही व्याप्ता विष्णुना प्रभुविष्णुना || स स्वर्गोऽपि द्वितीयेन व्याप्तस्तेन महात्मना | सत्यलोकस्थितेनैव अम्भसाचावने जने || तत्पादसम्पर्कजलाच्च जाता पापापहा म᳚न्गलम᳚न्गला च | यया त्रिलोकी च कृता पवित्रा यया च सर्वे सगराः समृद्धाः || यया कपर्दः परिपूरितश्च शम्भोस्तदानीञ्च भगीरथेन || इति ||
SK
पृ० ३७१) महाभारते- �विष्णोः पादाच्छिंशुमाराद्ध्रुवाच्च सोमात्सूर्यान्मेरुरूपाच्च विष्णोः | समागता शिवमूर्ध्नो हिमाद्रि� मित्याद्युपवर्णितम् | तस्माद्ग᳚न्गाधारणं शिवस्यापकर्षहेतुरिति पञ्चषाक्षरश्रवणपरितुष्टानां कूपमण्डूकवत्प्रलपतां बालिशानां वादः || सिद्धान्तस्तु- ग᳚न्गाधारणन्तावदनन्यसाध्यमिति महाभारते भगीरथं प्रति ग᳚न्गावचनेनावगतम्- �करिष्यामि महाभाग वचस्ते नात्र संशयः | वेगन्तु मम दुर्धार्यं पतन्त्या गगनाद्द्रुतम् || न क्षमस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप | अन्यस्तु विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् ||� इत्यादिना || रामायणेऽपि भगीरथं प्रति ब्रह्मवचनेनावगतम्- �ग᳚न्गायाः पतनं राजन् पृथिवी न सहिष्यते | तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः ||� इति || भागवते तु- �कोऽपि धारयितुं वेगं पतन्त्या मे महीतले | न चेद्भूमितलं भित्वा नृप यास्ये रसातलम् ||� इति पृष्टवतीं ग᳚न्गाम्प्रति भगीरथवचनेनैवावगतम्- �धारयेद्भगवतो वेगं रुद्रस्त्वात्मा शरीरिणाम् | यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु ||� इति || इदञ्च ग᳚न्गाधारणं न केवलं भगीरथपितामहोत्तरणार्थं, किन्तु ग᳚न्गावेगाद्भूदावणपरिहारेण जगत्संरक्षणार्थमपि | सर्वोपकारकस्यागस्त्यनिपीतस्य समुद्रस्य परिपूरणार्थमित्यभिधीयते | तत्र ह्यारण्यपर्वण्यगस्त्यनिपीतस्य लोकपावनतया सर्वोपकारस्य समुद्रस्य परिपूरणोपायं चिन्तयता ब्रह्मणा भगीरथः स्वपितामहोत्तारणाय ग᳚न्गामानेष्यति तया च समुद्रस्य परिपूरणं भविष्यति विगतज्वराश्च देहिनो भवन्त्युक्तमिति प्रपञ्चितम् | एवमनन्यसाध्यं ग᳚न्गाधारणं जगत्संरक्षणार्थं शिवेन कृतं, नतु स्वस्यापि ग᳚न्गापावनीति तद्धारणं कृतम् | एवं लोकोपकारार्थं शिवेन कृतग᳚न्गाधारणमपि यदि विष्णुपद्या स्यात्तदा �यत्पादनिस्सृतसरित्प्रसरोदकेन तीर्थेन मूर्ध्नि विधृतेन शिवः शिवोऽभूत् | विष्णुपादविनिष्क्रान्ता प्लावयन्तीन्दुमण्डलम् |� इत्यादिवचनानामवकाशः
SK
स्यात् | इदन्तु धारणं भगीरथ- पृ० ३७२) प्रसादितायाश्चतुर्मुखलोकस्थिताया हैमवत्या ग᳚न्गाया इति विवेकः | तदुक्तम्- ग᳚न्गाऽपि नैव भवता गजचर्मधारि- न्मूर्ध्ना धृता मधुरिपोश्चरणात्क्षरन्ती | किन्तु प्रसादनपराय भगीरथाय दत्वा वरं शतधृतेः सदनात्क्षरन्ती || इति || इदमत्राकृतम्- द्विविधा ग᳚न्गा, एका हिमवतः कन्या ब्रह्मलोके प्रवहन्ती केनचिदंशेन ब्रह्मलोकाद्भूलोकं भगीरथेनानीता, अन्या तूर्ध्वप्रसारित्रिविक्रमरूपभगवच्चरणप्रभवा सत्यधः पतन्ती केनचिदंशेन व्योम्नि स्थिता देवानामुपयोगिन्यंशान्तरेण मेरोरुपरि ब्रह्मपुर्याश्च तिसृषु दिक्षु प्रवहन्त्यनिलेन चतुर्धा विभक्ता निपतन्ती प्राच्यादिसमुद्रान्प्रविष्टा | तथाहि- वामनपुराणे- श्वेता᳚न्गी पद्मपत्राक्षी नीलकुञ्चितमूर्धजा | श्वेतमाल्याम्बरधरा कुटिला नामजापरा || इति || उमाया जेष्ठां हिमवत्सुतां प्रस्तुत्योक्तम्- दिवाकरैश्च रुद्रैश्च वसुभिश्च तपस्विनी | कुटिला ब्रह्मलोकन्तु नीता शशिकरप्रभा || अथोचुर्देवताः सर्वाः किं न्वियं जनयिष्यति | पुत्रं तारकहन्तारं ब्रह्मन्व्याख्यातुमर्हसि || ततोऽब्रवीत्सुरपतिर्नेयं शक्ता तपस्विनी | शार्वं धारयितुं तेजो वराकीमुच्यतामियम् || ततस्तु कुटिला क्रुद्धा ब्रह्माणं प्राह नारद | यथा यतिष्ये भगवन् यथा शार्वं दुरुद्धरम् ||
SK
पृ० ३७३) धारयिष्याम्यहं तेजस्तथैव शृणु सत्तम | तपसाऽहं सुतप्तेन समाराध्य जनार्दनम् || यथा हरस्य तद्वीर्यं धारयिष्ये पितामह | तथा देव करिष्यामि सत्यं सत्यं मयोदितम् || ततः पितामहः क्रुद्धः कुटिलामतिदारुणाम् | भगवानादिशद्ब्रह्मा सर्वेशः स महामुने || यस्मान्मद्वचने पापे न स्थितं कुटिले त्वया | तस्मान्मच्छापनिर्दग्धा त्वमद्यैव भविष्यसि || इत्येवं ब्रह्मणा शप्ता हिमवद्दुहिता मुने | अम्भोमयी ब्रह्मलोकं प्लावयामास वेगिनी || तामुत्थितजलां दृष्ट्वा बबन्ध प्रपिताप्रहः | ऋक्सामाऽथर्वयजुषां वा᳚न्मयैर्बन्धनैर्दृढम् || सा बद्धा संस्थिता ब्रह्मन् तथैव गिरिकन्यका | अम्भोमयी प्लावयन्ती ब्रह्मणो विमला जटाः || इति || अत्र ग᳚न्गैव कुटिलेति नामान्तरेणोक्ता, �एते वै शैलराजस्य सुते लोकनमस्कृते | ग᳚न्गा च सरितां श्रेष्ठा उमादेवी च राघव ||� इति रामायणे हिमवत्सुतायामुमाजेष्ठायां कुटिलापदस्थाने ग᳚न्गापददर्शनात् || अथ जेष्ठां सुरास्सर्वे देवतार्थे चिकीर्षया | शैलेन्द्रं वरयामासुर्ग᳚न्गां त्रिपथगां नदीम् | ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् | स्वच्छन्दपथगां ग᳚न्गां त्रैलोक्यहितकाम्यया || पृ० ३७४) प्रतिगृह्य ततो देवास्त्रैलोक्यहितकारकाः | ग᳚न्गामादाय वै याताः कृतार्थेनान्तरात्मना ||
SK
इत्युदाहृतकुटिलावृत्तान्तस्य ग᳚न्गायामेव रामायणे स᳚न्क्षिप्य प्रतिपादनाच्च | एवं तावदाद्या हैमवती ग᳚न्गा ब्रह्मशापादसिद्धित्वं प्राप्ता भगीरथभक्त्यनुरोधाद्भुवं प्राप्ता सती त्रिपथगा जातेति सप्रमाणमुपवर्णितम् | अन्या तु विष्णुपदी ग᳚न्गा क्वचिदूर्ध्वप्रसारितत्रिविक्रमचरणाम्बुजस᳚न्क्षालनार्थं सत्यलोकस्थितब्रह्मकमण्डलुनिसृतजल रूपेति ग᳚न्गाद्वयस्य सिद्धत्वेन शिवशिरसि स्थिता ग᳚न्गा भिन्नेति नोक्तबालि शश᳚न्कावकाशः || नन्वस्त्वेवमेतत्तथापि विष्णुपदीनिर्गमनसमये तन्मार्गस्थिता हैमवती तया मिश्रिताऽभूत्, अतः पावनीति शिवेन मृर्ध्ना धृतेति श᳚न्कां हैमवत्याः शिवमूर्ध्नि सम्बन्धादेव पावनत्वप्रतिपादनेन निरसनं कृतं रामायणे विश्वामित्रवचनैः- आकाशादपतद्राम शिवे शिवशिरस्युत | अचिन्तयच्च सा देवी ग᳚न्गा परमदुर्धरा || विशाम्यहं हि पातालं स्रोतसा गृह्य श᳚न्करम् | तस्यावलेपनं ज्ञात्वा क्रुद्धः स भगवान् हरः || तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा | सा तस्मिन्पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि || तत्र देवर्षिगन्धर्ववसुधातलवासिनः | भवा᳚न्गपतितं तोयं पवित्रमिति पस्पृशुः || इति || अत्र शिवे शिवशिरस्युत, पुण्ये रुद्रस्य मूर्धनीति शिवपुण्यशब्दाभ्यां शिवमौलेः परमम᳚न्गलत्वं परमपवित्रत्वञ्चोक्तमिति शिवस्यैव सकलदेवतापारम्यमवगम्यत इति सिद्धान्तः ||
SK
पृ० ३७५) ननु सवितृमण्डलमध्यवर्तिन एव गायत्रीप्रतिपाद्यत्वेन सर्वोपास्यत्वस्य श्रुतिस्मृतिपुराणादिषु प्रतिपादितत्वात्तत्प्रतिपाद्यो नारायण एव | तथाहि- �अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः | तस्या यथा कप्यासं पुण्डरीकं, एवमक्षिणी� इत्यादिश्रुत्याऽऽदित्यमण्डलान्तर्वर्तिन एवोपास्यत्वेन विधानात् | तत्रोपास्यो विष्णुरेव, नतु शिवः | पुण्डरीकाक्षवचनस्य रूढ्या योगेन च नारायणपरत्वात् | अक्षिणी इति द्विवचनस्वारस्यान्नारायणपरत्वमेव, नतु शिवपरत्वं तस्य त्रिनेत्रत्वप्रसिद्धेः | अपि च पुरुषशब्दस्य �पुरु संज्ञे शरीरेऽस्मिन् शयनात्पुरुषो हरिः | शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते || भगवानिति शब्दोऽयं ततः पुरुष इत्यपि | निरुपाधि च वर्तते वासुदेवे सनातने� इति नारायणपरत्वेन निर्णीतोपबृंहणानुसारेण विष्णोरेवादित्यमण्डलान्तर्वर्तित्वेनोपास्यत्वम् | अतेव गायत्रीप्रतिपाद्यत्वमपि तस्यैवोपपद्यते | अतेव �ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः | केयूरवान्मकरकुण्डलवान्किरीटी हारी हिरण्मयवपुर्धृतश᳚न्खचक्रः� इत्यपि स᳚न्गच्छते | नचादित्यमण्डलमध्यवर्त्युपास्यमस्तु, तच्च मण्डलाभिमानिसूर्यरूपदेवता भवतु किं विष्णुपरत्वेनेति वाच्यं, आदित्यशब्दस्य मण्डलाभिमानिदेवतावाचकत्वेन कोशादिष्वसिद्धत्वात्, प्रथमान्तशब्दानां तद्व्यतिरिक्तार्थपरत्वेन स्वरसतः प्रतीयमानत्वान्नसूर्यपरत्वम् | न चादित्यशब्दस्य मण्डलाभिमानिवाचकस्य तदेकदेशे मण्डले �पुरोडाशकपालेन तुषानुपवपती�त्यत्रेवैकदेशलक्षणाम᳚न्गीकृत्य प्रथमान्तशब्दानां तदभिमानिदेवतापरत्वम᳚न्गीक्रियतामिति वाच्यं, मुख्याऽर्थे सम्भवति सति लक्षणाया अन्याय्यत्वात् | किञ्चान्तर्यामिब्राह्मणे �य आदित्ये तिष्ठान्नादित्यमन्तरो यमयति | यमादित्यो न वेदे� त्यादित्यशब्दस्य मण्डलाभिमानिजीववाचकत्व उपास्यवस्तुनस्तद्भिन्नत्वैतस्याः श्रुतेरेव प्रमाणत्वात्कथं
SK
सूर्यपरत्वं, तस्मात्सूर्य-
SK
पृ० ३७६) मण्डलमध्यवर्तिसूर्योपास्यो नारायण एवेति तस्यैव गायत्रीप्रतिपाद्यत्वेन सर्वोत्तमत्वमिति पूर्वपक्षः || सिद्धान्तस्तु- �असौ यस्ताम्रो अरुण उत बभ्रुः सुम᳚न्गलः | असौ योऽवसर्पति नीलग्रीवो विलोहितः� इति द्वाभ्यामृग्भ्यामादित्यमण्डलान्तर्वर्तित्वेन नीलग्रीवशब्दवाच्यस्य शिवस्यैव प्रतिपादनात् | अतो �य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यत� इति श्रुतेरप्यसौ यस्ताम्र इति श्रुतिप्रत्यभिज्ञानवशेन शिवपरत्वमेव || किञ्च नीलग्रीवशब्दश्रवणवन्नारायणादिशब्दानां कोशादिप्रसिद्धानां तत्राश्रवणात्कथं नारायणपरत्वेन निर्णीयते | न चाक्षिणी इति द्विवचनानुपपत्तिरिति वाच्यं, नहि द्विवचनं द्वित्वमात्रप्रतिपादकं तृतीयमक्षि नास्तीति प्रतिपादयितुं शक्नोति | नहि देवदत्तस्य द्वौ पुत्रौ धार्मिकावित्यत्र तृतीयः पुत्रो नास्तीति निश्चेतुं शक्यते, परन्तु तृतीयः पुत्रोऽधार्मिक इति निश्चयं जनयितुमलं भवति | तद्वदत्रापि परमेश्वरस्याक्षिद्वयं पुण्डरीकसदृशं, तृतीयन्तु वह्निज्वालामालाकुलमिति निर्णयो भवति द्विवचनेन | तस्माच्छिवपरत्वे न किञ्चिदपि बाधकम् || यदुक्तं पुरुषशब्दस्य नारायणपरत्वाच्छिवस्य कथमुपास्यत्वं सम्भवतीति तदत्यन्तास᳚न्गतम् | तथाहि- �ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपि᳚न्गलम् | पुरुषस्य विद्मः सहस्राक्षस्य महादेवस्य धीमहे�ति श्रुतिभ्यां, तत्पुरुषाय विद्महे� इति पञ्चब्रह्ममन्त्रान्तर्गतमन्त्रेण, �पुरुषो वै रुद्रस्सन्मह्ॐ नमो नम� इति त्वरितरुद्रेण, �अ᳚न्गुष्ठमात्रः पुरुषोऽ᳚न्गुष्ठञ्च समाश्रितः | ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभृत् |� इति तैत्तरीयमन्त्रेण, �अ᳚न्गुष्ठमात्रः पुरुषः, ईशानो भूतभव्यस्य स एवाद्यस्य ईश्वर� इति कठवल्लीमन्त्रेण च पुरुषशब्दस्य शिवपरत्वेन नामधेयेऽप्येकजीवातुसामानाधिकरण्यन्यायेन शिवपरत्वेन निर्णयात्कथं नारायणपरत्वम् | नच पुरुषावात्ममानवाविति कोशादात्मसामान्यमनुष्यवाचकस्य कथं शिवपरत्वं वक्तुं शक्यत इति वाच्यं,
SK
एवं सति प्राणाकाशज्योतिर्वै-
SK
पृ० ३७७) श्वानरादिशब्दानां निघण्टुकाव्यादिषु तत्तदर्थप्रतिपादकत्वेन प्रसिद्धानां परशिवे लौकिकमर्यादयाऽप्रसिद्धानां �आकाशस्तल्लि᳚न्गात् | वैश्वानरस्साधारणशब्दविशेषात् | ज्योतिश्चरणाभिधानात् | अतेव प्राणः |� इत्यादिभगवद्बादरायणसूत्रैः परमेश्वरपरत्वेन निर्णयो न स्यात् | अथ शब्दार्थनिर्णये कोशवदुपक्रमोपसंहाराभ्यासानितरसाधारणलि᳚न्गादयोऽप्यर्थनिर्णायक् आ इति | अतेव �अभ्यासे सति हि भूयस्त्वमर्थस्य भवति | नाल्पत्वमपि प्रागेवोपचरितार्थत्व� मिति भामत्यां टीकाकारैराचार्यवाचस्पतिमिश्रैः प्रतिपादितम् | अतेव नात्र शब्दार्थनिर्णायक इति शब्दार्थानभिज्ञकतिपयजनसम्मोहनमात्रमिति पुरुषशब्दस्य शिवपरत्वमेव || यदुक्तं पुरुसंज्ञे शरीरेऽस्मिन्निति योगमहिम्ना नारायणपरत्वमिति तदप्यतिमन्दम् | पुरि शयं पुरुषमीक्षत इति सामान्यनिरुक्तेः पूर्वोक्तसामानाधिकरण्यादिभिः श्रुत्यैव शिवपरत्वेन निर्णीतत्वात् || स्मृतिनिर्वचनस्य �विरोधेत्वनपेक्षं स्यादसतिह्यनुमान�मित्यधिकरणन्यायेन श्रुतिनिर्वचनापेक्षया दुर्बलत्वादनादरणीयत्वमेव || अतेवानेकश्रुतिबलात्, �ध्येयः सदा सवितृमण्डलमध्यवर्ती�ति श्लोकस्थितनारायणशब्दस्य नारायणस्य स्त्री नारायणीत्यत्रोपाध्यायी क्षत्रियी आर्यीतिवदर्थनिर्णये नारायणशब्दवाच्यः शिव एव | अतेव शौरमण्डलमध्यस्थं साम्बं संसारभेषजम् | नीलग्रीवं विरूपाक्ष� मित्यादि पुराणवचनमपि शिवपरत्वे स᳚न्गच्छते | तस्मात्सूर्यमण्डलमध्यवर्ती परशिव एवेति गायत्रीप्रतिपाद्यत्वमपि तस्यैवेति शिवस्यैव सर्वोत्तमत्वम् || नन्वादित्यमण्डलान्तर्वर्तित्वेनोपास्यत्वस्य वादेन सिद्धत्वेऽपि कथं गायत्रीप्रतिपाद्यत्वं शिवस्य | किन्तु नारायणस्यैवेति चेन्न, गायत्रीशब्दार्थापरिज्ञानिनामेवं श᳚न्कोपपद्यते | �यो देवस्सविताऽस्माकं धियो धर्मादगोचराः | प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्यमुपास्महे� इत्यार्षनिरुक्तेरादित्यमण्डलान्तर्वर्तित्वेनोपास्यत्वस्य गायत्र्यर्थकत्वेन
SK
पृ० ३७८) निर्णीतत्वात्, शिवस्यैव गायत्रीप्रतिपाद्यत्वे को विवादः ? ननु नारायणस्यैव गायत्रीप्रतिपाद्यत्वम् | तथाहि- �ज्योतिश्चरणाभिधाना� दित्यधिकरणे ज्योतिः शब्दवाच्यं परं ब्रह्म, चरणाभिधानात्पादाभिधानादित्युक्त्वा, पादाभिधा कुत्रेत्याका᳚न्क्षायां पूर्वस्मिन् खण्डे �तदेतदृचाभ्युक्तम्, तावानस्य महिमा, ततो ज्यायांश्चपुरुषः, पादोऽस्य सर्वा भूतानि� इति त्रिपादाभिधानं पूर्वं प्रतिपाद्य, �छन्दोऽभिधानान्नेति चेन्न, तथा चेतोऽर्पणनिगदात्तथाहि दर्शनम्� इति सूत्रे �गायत्री वा इदं सर्वं भूतं यदिदं किञ्च� इति गायत्र्या उपास्यत्वेन प्रतिपाद्यत्वात् | ज्योतिश्शब्दवाचस्य कथं परमेश्वरपरत्वमित्याक्षिप्य, गायत्रीद्वारा परमेश्वरस्यैवोपास्यत्वमिति वक्तव्ये पुरुषसूक्तमन्त्रप्रत्यभिज्ञानात्पुरुषसूक्तस्य नारायणपरत्वात्, तत्प्रत्यभिज्ञातस्य मन्त्रस्य तत्परत्वावश्यम्भावान्नारायणपरत्वं गायत्र्याः | किञ्च �यो देवस्सविताऽस्माक� मिति निरुक्तेः सामान्यरूपायाः शिवैकपरत्वाभावात्, छागो वा मन्त्रवर्णादिति षष्ठोपान्त्याधिकरणन्यायेन पूर्वोक्तयुक्त्युपोद्वलितेन नारायणपरत्वमेव, न शिवपरत्वेन किञ्चिल्लि᳚न्गवचनानि पश्यामः | अपिच भर्गशब्दस्य �भृञ् = भरणे, �रमु = क्रीडायां, �गमऌ = गतौ, इति धातुत्रयाद्भर्गशब्दस्य निष्पन्नत्वेन वायुपरत्वेन विष्णुरूपत्वाच्च | नच धातुत्रयाच्छब्दनिष्पत्तिरेव न भवतीति �भृजि = भर्जन्, इतिधातोर्निष्पन्नत्वेन संहारकारणे रुद्र एव पर्यवस्यति, नतु विष्ण्वावेवेति वाच्यं, �अदिभूभ्यां डुतजि� ति व्याकरणसूत्रसिद्ध अद = भक्षणे, भू = सत्तायामिति धातुद्वयनिष्पन्नाद्भुतशब्दवद्भर्गशब्दस्य विष्णुपरत्वोपपत्तेः | तस्माद्गायत्र्या विष्णुपरत्वान्नारायणः परब्रह्मेति सिद्धमिति चेदित्थमालोचनीयम्- पुरुषसूक्तप्रत्यभिज्ञानात्, �तावानस्य महिमे�ति ऋचो विष्णुपरत्वमिति यदवादि तदस᳚न्गतम्, पुरुषसूक्तस्य श्वेताश्वतरोपनिषदि प्रत्यभिज्ञायमानस्य शिवपरत्वेन बहुधा निर्णीतत्वेन
SK
तन्मन्त्रप्रत्यभिज्ञानेन विष्णुपरत्वाभावात् | तस्माद्गायत्री वा इदं सर्वमिति ब्राह्मणे प्रस्तुता गायत्री न पृ० ३७९) विष्णुपरा, किन्तु शिवपरा | किञ्च धीप्रेरकत्वं गायत्र्या श्रूयते | इदन्तु शिवस्यैवासाधारणं लि᳚न्गम् | तथाहि- �तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी�ति गायत्र्यर्थप्रत्यभिज्ञापनपुरस्सरं प्रज्ञाप्रेरकत्वं शिवस्यैव प्रतिपादयति | एवं मन्त्रान्तरेऽपि �हिरण्यगर्भं जनयामास पूर्वं स नो बुध्या शुभया संयुनक्तु, हिरण्यगर्भं पश्यत जायमानं स नो बुध्या शुभया संयुनक्तु, स नो देवः शुभया स्मृत्या संयुनक्तु� इत्यादिमन्त्रैः शिवस्यैव धीप्रेरकत्वमभ्यासवशेन सिद्धम् || यच्चोक्तं भर्गशब्दस्य धातुत्रयनिष्पन्नत्वाद्विष्णुपरत्वमिति तदप्यत्यन्तवैय्याकरणमर्यादानभिज्ञतामूलम् | तथाहि- एकस्य शब्दस्य धातुत्रयनिष्पन्नत्वं व्याकरणे क्वाप्यदृष्टचरम्, अद्भुतशब्दोत्पत्तिस्तु | अदिति निपात उपपदे भूधातोर्डुतच्प्रत्ययविधानाद्भवतीति तस्य धातुद्वयान्निष्पत्तिरेव नास्ति || किञ्च गायत्र्याः शिवपरत्व उपबृंहणवचनानि शिवरहस्ये हिमवत्खण्डे तृतीयांसे द्वितीयाध्याये- पुरा चकार गायत्री तपो घोरतरं परम् | प्रीतस्तत्तपसा शम्भुस्तद्भक्त्यापरभूतया || ततः परं स भगवान् भर्गः सर्गादिकारणम् | तामुवाचातिचतुरो घनगम्भीरया गिरा || त्वया तप्तं तपो घोरं कल्पानामयुतं ध्रुवम् | तेन प्रीतोऽस्म्यहं देवि वरं वृणु यथेच्छया || वरदेषु वरेण्योऽहं त्वदीप्सितवरप्रदः | किमदेयं मयाऽस्त्यत्र प्रीतोऽस्मि तपसाऽधुना || इति तद्वचनं श्रुत्वा प्रणम्य भुवि दण्डवत् | गायत्री मूर्तिमासाद्य सानन्दाश्रुपरिप्लुता || भगवन् देवदेवेश भर्ग संसारभञ्जक | प्रसिद्धकरुणासिन्धो वरं देहि मदीप्सितम् ||
SK
पृ० ३८०) मन्त्रः शिवपदाभावे जपायोग्य इति श्रुतिः | देवस्य सवितुर्बुद्धिः प्रबोधयति श᳚न्करः || स एव भगवान्भर्गो धियो यो नः प्रचोदयात् | देवस्य दीप्यमानस्य सवितुर्ज्ञानमुत्तमम् || प्रचोदयति विश्वात्मा वरेण्यं शिव एव सः | अन्यः को वा तद्वरेण्यं सवितुर्वा प्रचोदयात् || अस्माकमितरेषां वा स भर्गः श᳚न्करस्तु सः अस्य भर्गपदस्यैव माहात्म्यं श्रुतिषु श्रुतम् || संसारभर्जनाद्भर्गस्सोऽयं स्वर्गापवर्गदः || इत्याद्युपबृंहणवचनैश्च भर्गशब्दस्य शिवपरत्वमेवेति शिवस्यैव गायत्रीप्रतिपाद्यत्वं सिद्धमेवेति सिद्धान्तः || अथ परमशिवस्य प्रणववाच्यत्वं प्रतिपाद्यते- �प्रजापतिर्लोकानभ्यतपत्, तेषां तप्यमानानां या विद्या सम्प्रास्रवत्तामभ्यतपत् | तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्त, तान्यभ्यतपत्, तेभ्योऽभितप्तेभ्य ॐकारः सम्प्रास्रवत्, तद्यथा श᳚न्कुना सर्वाणि पर्णानि सन्तृण्णानि एवमो᳚न्कारेण सर्वा वाक् सन्तृण्णा | ॐकार एवेदं सर्वम्� इति सर्ववैदिकवाचां सारत्वेन सर्ववाचां लयाधारत्वेन च प्रतिपादनात्सर्ववागभ्यर्हितत्वेन प्रणवस्य सर्वोत्तरत्वात्, तद्वाच्यत्वं शिवस्येति शिव एव सर्वोत्तरः | �आत्मानमरणिं कृत्वा प्रणवञ्चोत्तरारणिम् | ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ||� इति श्वेताश्वतरोपनिषदि शिवरुद्रमहेश्वरादिशब्दसामानाधिकरण्याच्छिवपरत्वेन लोकप्रसिद्धायां देवशब्देन प्रणववाच्यत्वप्रतिपादनाच्छिवस्यैव सर्वोत्तरत्वम् || ननु प्रणववाच्यत्वं विष्णोरेव | �विष्णुं भास्वत्किरीटा᳚न्गदवलयगलाकल्पहारोदरा᳚न्घ्रि श्रोणीभूषं सुवक्षोमणिमकरमहाकुण्डलामण्डिता᳚न्ग� मिति
SK
पृ० ३८१) प्रणवध्यानश्लोकस्य विष्णुपरत्वेनैव विद्यमानत्वात् तत्र तत्रोपनिषदि �प्रणवो धनुः शरो ह्मात्मा ब्रह्म तल्लक्ष्यमुच्यत� इत्यादिब्रह्मात्मशब्दसामानाधिकरण्यात्, �अहमात्मा गुडाकेश� इति गीतावचनेनात्मशब्दस्य प्रणववाचकस्य विष्णावपि वृत्तिसम्भवात्, ऊं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधो मत� इति ब्रह्मशब्दसामानाधिकरण्येन ऊं तत्सदिति शब्दानां नारायणः परं ब्रह्मेति परब्रह्मशब्द वाच्यस्याभिदेयत्वसम्भवात्, नारायणस्यैव प्रणवशब्दवाच्यत्वम् | अतेवाभियुक्तवचनमपि सम्पद्यते �चिदंशं विभुं निर्मलं निर्विकल्पं निरीहं निराकारम्ॐकारगम्यम्� इति | तस्मात्प्रणववाच्यत्वं विष्णोरेव | अतेव रामायणे �त्वं यज्ञस्त्वं वषट्कारस्त्वम्ॐकारः प्रजापति�रिति | तस्माद्विष्णुरेव प्रणववाच्य इति सिद्धं सर्वोत्तरत्वमिति चेदत्रोच्यते- �यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः | तस्य प्रकृतिलीनस्य यः परस्स महेश्वर� इति तैत्तरीयश्रुतौ �प्रणवाद्या मुने वेदाः प्रणवे सम्प्रतिष्ठिताः |� इति वेदाद्यन्तयोः श्रवत्यनो᳚न्कतं पूर्वं परस्ताच्च विशीर्यत� इति मनुवचनेनावश्यं पठ्यमानप्रणववाच्यत्वेन महेश्वरशब्दाभिधेयशिवस्यैव प्रतिपादनात्, पूर्वोदाहृतश्वेता- श्वतरमन्त्रेण च शिवस्यैव प्रणवप्रतिपाद्यत्वेन निश्चितत्वात्, सामान्याकारेण ब्रह्मात्मशब्दैस्तत्तदुपनिषदि गीतायाञ्च पठ्यमानप्रणवः शिवपर एव | नच तस्य प्रकृतिलीनस्येति | प्रकृतावाकारे लीनस्य यः परः, इदं परस्तत्पर इत्यादौ वाच्ये परपदश्रवणेन यः परो वाच्यः स महेश्वरो महानीश्वर इत्यर्थविवरणेन आकारो विष्णुवाचक इति स्मृत्युपोद्वलितेन विष्णोरेव प्रणववाच्यत्वं नतु शिवस्येति वाच्यं, एवं क्लिष्टगत्या परशब्दस्योत्कृष्टवाचकस्य कोशमर्यादया शिवपरस्य �महेश्वरस्त्र्यम्बक एव नापर� इत्यभियुक्तकालिदासोक्त्या च महेश्वरशब्दस्य शिवपरत्वे सम्भवति त्वदभिमतसिध्यर्थं वक्रमार्गानुसरणस्यात्यन्तमन्याय्यत्वात् | एवञ्च तस्यायमर्थः- तस्य
SK
प्रणवस्य प्रकृतावाकारे लीनस्य विष्णोः पञ्चम्यर्थे पृ० ३८२) षष्ठी, यूपस्य स्वरुं करोति यूपात्स्वरुमुपादत्त इति वत् | विष्णोर्यः पर उत्कृष्टः स एव महेश्वर इति श्रुतिरेव प्रणवशब्दवाच्यत्वं विष्ण्वापेक्षया चोत्कर्षञ्च वदतीति शिवस्य प्रणवशब्दवाच्यत्वेन सर्वोत्कृष्टत्वम् | तत्राप्यकारोकारमकारेभ्यः कार्यमूर्तिवाचकेभ्यः सर्वोत्कृष्टस्यार्धमात्राकस्य नादस्यैव गम्यः शिव इति �अर्धमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवो᳚न्कार� इति प्रतिपादनात्, शिव एव प्रणवशब्दवाच्यः | अतेव शैवपुराण उपबृंहणमपि श्रूयते- प्रणवो वाचकस्तस्य शिवस्य परमात्मनः | अकारस्तु महान्बीजं रजः स्रष्टा चतुर्मुखः || उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः | मकारः पुरुषो बीजं तमः संहारको हरः || नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः | एवं त्रिसृभिरैवैतन्मात्राभिरखिलं त्रिधा || अभिधाय शिवात्मानं बोधयत्यर्धमात्रया | शिवो वा प्रणवो ह्येषः प्रणवो वा शिवः स्मृतः || वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते क्वचित् | इति प्रणवप्रकृत्यात्मकत्वेन विष्णोर्वर्णनात्, चतुर्थार्धमात्रवाच्यत्वेन परमशिवस्य तदुत्तीर्णत्वात्सर्वोत्तरत्वम् | अतेव श्रीमता पुष्पदन्तेन- त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा- नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति | तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् || इति साधूक्तम् | यदुक्तम्ॐकारगम्यमिति त्वम्ॐकारः प्रजापतिरिति
SK
पृ० ३८३) विष्णुभुज᳚न्गरामायणादिषु तत्सर्वं प्रणवविकृतिभूताकारवाच्यविष्णुपरत्वेनास्माकमनुकूलमेवेति न कश्चिद्विरोधः | यदुक्तं प्रणवध्यानश्लोकस्य विष्णुपरत्वमिति प्रणववर्णाभिमानिदेवताध्यानपरत्वेनापि व्याहृतिगायत्र्यादिध्यानवत्स᳚न्गतत्त्वात् | तावता शिवस्यैव प्रणववाच्यत्वे तन्नियामकत्वमिति �प्रणवो हि परं ब्रह्म प्रणवः परमं पदम् | साक्षात्परशिवो योगा� दित्याद्यनेकप्रमाणपर्यालोचनया च प्रणववाच्यः शिवः एव सर्वोत्तर इति सिद्धान्तः || अथ तारकविचारः- ननु काश्यां मणिकर्णिकायां मुमूर्षोः प्राणिनः �अस्य हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्ट� इति श्रुतिबोधितं मुक्त्यसाधारणकारणं तारकं किंरूपमित्याका᳚न्क्षायां �मुमूर्षोर्मणिकर्णिक्यामर्धोदकनिवासिनः | अहं दिशामि ते मन्त्रं तारकब्रह्मसंज्ञकम् || श्रीरामरामरामेति ह्येतत्तारकमुच्यते | अतस्त्वं जानकीनाथ परब्रह्म सुनिश्चित�मिति पद्मपुराणशिवराघवसंवादवचनपर्यालोचनया, तथा श्ह्री रामस्य मनुं काश्यां जजाप वृषभध्वजः | मन्वन्तरसहस्रन्तु जपहोमार्चनादिभि�रित्यादिप्रमाणैर्मुमुक्षुजनमुक्तिलक्ष्मी समधिगम्य मुख्यक्षेत्रभूतवाराणसीवासवतां कर्णाल᳚न्कारमणिकर्णिकार्धोदकवासिमुमुक्षजनदक्षिणकर्णे परमेश्वरेणोपदिश्यमानस्य हि जन्तोरिति श्रुतिप्रतिपाद्यमानमन्त्रेणैव भगवान् रुद्रस्तारकं ब्रह्म व्याचष्ट इति ह्रस्वजाबालानुमोदितं तारकशब्दार्थस्यानिर्धारितस्य निर्धारणार्थं साक्षात्परमेश्वरेणैव परमान्तर᳚न्गभूतां पार्वतीं प्रति �अहं दिशाभि ते मन्त्रं तारकब्रह्मसंज्ञित�मित्यारभ्य, श्ह्रीरामरामरामेति ह्येतत्तारकमुच्यत� इति श्रुत्यर्थनिर्णायकैः पुराणवचनै राममन्त्रस्यैव तारकत्वप्रतिपादनात्, श्रीरामस्य मनुं काश्यामित्या- दिना शिवस्योपासकत्वप्रतिपादनाच्च, विष्णुरेव सर्वोत्तम इति पूर्वपक्षः || सिद्धान्तस्तु- प्रणवस्यैव तारकत्वमिति प्रमाणसिद्धत्वेन तदितरमन्त्रस्य तारकत्वमर्थवादमात्रमिति प्रणवस्यैव
SK
तारकत्वं सिद्धम् || पृ० ३८४) तथाहि- अथर्वशिखाद्युपनिषद्वचनैस्तदनुसारिभिरभियुक्तवचनैश्च तदुपबृंहणभूतैः शिवरहस्यादिपुराणवचनैश्च प्रणवस्य वाराणस्यां मरणसमयोपदिश्यमानतारकमन्त्ररूपत्वं तद्व्यष्टिभूतपञ्चाक्षरीमन्त्रसहितस्य च तारकमन्त्ररूपत्वञ्च स्पष्टीकृतम् तथाहि- अनिलो मृगनाभिरेणुगन्धि- र्हरवामा᳚न्गकुचोत्तरीयजन्मा | हरते मरणश्रमं जनाना- मधिकाशि प्रणवोपदेशकाले || श्रीरामनामजपसीति च कर्णमूले मूढा वदन्ति न हि वेदविदो वदन्ति | त्वं तारकः खलु महेश्वर वेदसिद्धः काश्यां त्वमेव सततं प्रणवोपदेष्टा || काश्यां वर्णयिता शिवः परतरः पञ्चाक्षरं तारकं तच्चैवं प्रणवान्वितं श्रुतिशिरोरत्नं तदित्यादरात् | दूर्वासादिसमस्तमौनिनिकरैः काशी समाराधिता सेयं शम्भुसमाश्रिता शिवपुरी मुक्त्य᳚न्गना संश्रिता || इत्यादिश्रुतिपुराणाभियुक्तवचनशिवरहस्यवचनैः प्रणवशब्दस्य समष्टिरूपस्य तारकत्वेन निर्णयात्प्रणव एव तारकः, तस्य षडक्षरीरूपत्वेन षडाकृतीनां ङकारस्तारकाकारो मकारो दण्ड उच्यते | शिकारः कुण्डलाकारो वाकारश्चार्धचन्द्रकः || यकारो दर्पणाकारः प्रणवो ज्योतिरात्मकः |� इत्यादिवचनपर्यालोचनया प्रणवसमष्टिरूपतारकदण्डकुण्डलार्धचन्द्रदर्पणाकाराणां नकारमकारशिकारवाकारयकाराणां समष्टित्वेन प्रतिपादनात्, समष्टिव्यष्टिरूपयोः प्रणवपञ्चाक्षर्योरभेदात्प्रणववत्पञ्चाक्षर्या अपि तारकत्वं सिद्धम् | नच श्री
SK
पृ० ३८५) रामरामरामेति राममन्त्रस्य त्रिरुच्चरितस्य तारकत्वेनाभिहितत्वात्कथं प्रणवस्य तारकत्वमिति वाच्यं, �रमन्ते योगिनो ह्यन्ते सत्यानन्दे चिदात्मनि | इति रामपदेनासौ परं ब्रह्माभिधीयत� इत्युमासंहितावचनेन, रमन्ते योगिनोऽस्मिन्नित्यधिकरणार्थे करणाधिकरणयोश्चेति सूत्रेणाधिकरणार्थे घञ्विधानाच्च, मुमुक्षुयोगिजनोपास्यत्वं, तुर्याश्रमिषूपदेशस्य दृष्टत्वात्प्रणवस्यैव तद्वाचकत्वम् | अन्यथा दशरथकौसल्ययोरुत्पन्नस्य सीतावियोगेन साधारणमनुष्यवदत्यन्तदुःखितस्यागस्त्योपदेशमहिम्ना विरजादीक्षाद्वारा प्राप्तपाशुपतास्त्रस्य रामस्य तारकशब्दार्थत्वे बहुश्रुतिस्मृतिपुराणव्याकुलीभावप्रस᳚न्गात् | किञ्च यदि रामनाम्न एव पूर्वोक्तप्रमाणबलात्तारकत्वम᳚न्गीक्रियेत तदा रामस्य नारायणाभिन्नतया तन्मन्त्रोपदेशवशान्मुमूर्षूणां सर्वेषां मरणानन्तरं नारायणसारूप्यं स्यान्नतु शिवसारूप्यम् | किञ्च श्हशकोऽहं मशकोऽहं मात᳚न्गोऽहं पुरा मनुष्योऽहम् | इति जल्पन्त्यन्योन्यं काशीपुरवासिनूत्नपशुपतयः || वाराणसी वासवतां जनानां साधारणे श᳚न्करलाच्छनेऽपि | पार्थप्रहारव्रणमुत्तमा᳚न्गे प्राचीनमीशं प्रकटीकरोति ||� इत्यादि बहुप्रमाणविरोधः स्यात् | तस्मात्तारकमन्त्रः प्रणव एव तद्वाच्यः परमशिव एवेति शिवस्यैव सर्वोत्तमत्वं निर्विवादम् || पाशुपत्यवरणम्- ननु श्हम्भुरीशः पशुपति� रित्यभिधानकोशस्मृत्या शिवासाधारणनामत्वेन प्रसिद्धः पशुपतिशब्दः | स च योगरूढः प᳚न्कजादिपदवत् | ततो रुढ्युन्मेषवद्यागार्थस्यापि स्फुरणात्, पशूनां पतिः पशुपतिरिति व्युत्पत्त्या योगबलात्पाशुपत्यं शिवैकनिष्ठमिति वक्तव्यम् | प᳚न्कजनिकर्तृत्वस्य तृणादिसाधारण्येऽपि कमलमात्रोद्बोधवद्योगमहिम्ना प्रतीयमानं पाशुपत्यमागन्तुकं सहजसिद्धं वेति विशये प्रमाणपर्यालोचनयाऽऽगन्तुकमेवेति तस्यागन्तुकस्य पाशुपत्यस्य स्वस्मादुत्तीर्णादवाप्यतया स्वस्य निकर्षः पाशुपत्यदातुरुत्कर्षश्च सिध्यतीति तादृशपशुपतिशब्दपर्यायाः
SK
पृ० ३८६) शम्भ्वादिशब्दा अपि सर्वोत्तीर्णवस्तुवाचकाः | तत्र श्रुतिः यजुष्षष्ठकाण्डे द्वितीये प्रश्ने शोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसाविति तस्माद्रुद्रः पशुनामधिपति� रिति श्रुतिरेव रुद्रेण वरोवृत इति ब्रवीतीति शिवस्यागन्तुकमेवान्यप्रेरितं पाशुपत्यमिति पूर्वपक्षः || सिद्धान्तस्तु- अस्य वाक्यस्य प्रवृत्तेः प्रागेव वरेण वृतेन भाव्यम्, अन्यथा सोऽब्रवीदिति भूतार्थवादानुपपत्तेः | अतो यत्र यत्रानादिप्रवृत्तेः पूर्वपूर्वकल्पेष्विदं वाक्यं पठ्यते, ततस्ततः पूर्वसिद्धेन पाशुपत्येन भाव्यमित्यस्मादेव वाक्यात्पाशुपत्यमनादि सिध्यति | एवमेव हि यागहोमादीनां तया तया देवतया वरवरणलब्धत्वेन प्रतिपादितानां नित्यत्वं समर्थनीयम्, अन्यथा सर्वेषामपि वैदिककर्मणामनित्यत्वं प्रसज्येतेति कल्पभेदेन धर्माधर्मविप्लवः स्यात्, तस्माद्यथा नित्यसिद्धतत्तद्देवताकर्मसम्बन्धप्रत्यायनद्वारा तत्तत्सन्निधिश्रुतो वरवरणार्थवादः कर्मप्रशंसार्थः | एवमयमपि नित्यसिद्धपशुपतिभावप्रख्यापनद्वारा कर्मप्रशंसार्थोऽर्थवाद इत्यर्थः | इत्थमेव तत्र तत्र विष्णोरापतन्नत्यन्तापकर्षोऽपि परिहरणीयः | अन्यथा �त इषुं समस्कुर्वतां सोमं शल्यं विष्णुं ते जन�मिति त्रिपुरसंहारोपकरणभूताया इषोर्मध्यावयवतां देवैस्तदिच्छयैव नीतत्वेन श्रुतस्य विष्णोरत्यन्तापकर्षः समापतन्ननिवार्या स्यात् | तस्मात्कर्म प्रशंसार्थः पाशुपत्यवरणार्थत्वादः | तत्रायं निष्कर्षः- पाशुपतव्रतानुष्ठानाधीनः पशुत्वहरणरूपो मोक्षः, तदनुष्ठानञ्च देवमनुष्यादयो वयं पशवः, पशूनाञ्चास्माकं पतिः शिवः इति ज्ञानसापेक्षम्ः, पाशुपतव्रतानुष्ठानाभावात्तत्त्वज्ञानाभावादेव लोकस्य मुक्तिरेव न स्यादिति विचार्य सकललोकानुग्राहकः शिव एव वरणव्याजेन निजं नित्यसिद्धं पाशुपत्यं सर्वलोकप्रसिद्ध्यर्थं स्पष्टीचकारेति सिद्धान्तः || रुद्रस्य तामसत्वनिराकरणम- ननु शोऽरोदीद्योऽरोदीत्तद्रुद्रत्व�मिति
SK
पृ० ३८७) तैत्तरीयशाखायामाम्नानाद्रोदनस्य रुद्रपदप्रवृत्तिनिमित्तत्वात्तस्य तमोगुणमूलकत्वात्तामसत्वं रुद्रस्य, पालनरूपकार्यस्य सत्त्वगुणापाधिकत्वाद्विष्णोस्सात्त्विकत्वम् | अतः सत्त्वप्रवर्तकस्य विष्णोः परब्रह्मभावो युक्तः | रुद्रस्तु तम उपकरणं कृत्वा सर्वं जगत्संहरति नैर्घृण्यापादकतमोगुणोपकरणत्वं दोषत्वेन प्रसिद्धम् | अतः प्राकृतजनवत्तमोऽभिभूतत्वात्त्रिपुरदहनजलन्धरवधब्रह्मपञ्चमशिरोल् अवनदक्षाध्वरध्वंसनादिदेवतानिग्रहरूपानुचितकार्यकरणं रुद्रे दृश्यते | अत एवायं रुद्रो भीम उग्रः पशुपतिरिति व्यपदिश्यते | तथाच स्मशानवासः परेतभूतपतित्वं भस्मानुलेपोऽस्थिमालाक᳚न्कारादिधारणं विषपानं सन्ध्यासु भद्रकाल्यादिसंरम्भजनकं नर्तनं दिगम्बरत्वमित्यादि तमोऽभिभवानुरूपं शीलमपि परिदृश्यत इति रुद्रस्य परब्रह्मभावो न युक्तः | किन्तु सत्त्वोपाधिकपालनादिदर्शनाद्विष्णोरेव परब्रह्मभावो वक्तव्य इति पूर्वपक्षः || अथ तामसत्वं संहाररुद्रधर्ममपि परमशिवधर्ममभ्युपेत्य तस्य दोषत्वाभावं समर्थयामः- किमिह तावत्तामसत्वं दोषत्वेनापाद्यते, नैर्घृण्यापादकतमोगुणशालित्वं वा, प्राकृतजनवत्तमसाऽभिभूतत्वं वा ? नाद्यः, तस्यादोषत्वात् | तथाहि संसारमहारण्यगतागतातिश्रान्तान्प्राणिनः कञ्चित्कालं सुषुप्त्यापादनेन विश्रान्तिं प्रापयितुं सकलं जगत्सञ्जिहीर्षन्महादेवस्तत्संहारोपकरणतया तमो गृह्णाति, यथा चिरकालव्रणरुजार्त्या निद्राऽऽहाररहितानतिदुःखमनुभवतो मनुष्यान्व्रणरुजापनयनेन सुखयितुं तात्कालिकं किञ्चिद्दुःखकरमपि व्रणच्छेदं करिष्यन्व्रणवैद्यस्तदुपकरणतया शस्त्रं गृह्णाति, नच शस्त्रग्रहणं व्रणच्छेदनं तस्य नैर्घृण्यापादकम्, किन्त्वयं रक्षणीय इति परमदयालुत्वज्ञापकमेव | तदेतदुक्तं शिवपुराणे- ङिदानज्ञस्य भिषजो रुग्णे हिंसां प्रयुञ्जतः | न किञ्चिदपि नैर्घृण्यं घृणी शस्त्रप्रयोजकः ||� इत्यभिधानात् || न द्वितीयः,
SK
तमोऽभिभवकार्ययोर्नि-
SK
पृ० ३८८) द्रापारवश्यजाग्रत्कालिकानुचितविषयक्रौर्ययोरुद्रमूर्तावदर्शनात् | नच त्रिपुरदहनादिरस्तीति वाच्यं, तेषामुचितत्वात् | तथाहि निग्रहो द्विविधः- अनुग्रहोद्देश्यकस्तदनुद्देश्यकश्चेति | आद्यस्त्रिविधः- अनुग्राह्यानुग्रहोद्देश्यकः, अननुग्राह्योद्देश्यकः, उभयोद्देश्यकश्चेति | तत्राद्यः सदाचारानुवर्तनार्थं शिष्यादिनिग्रहः, स तु गुण एव | द्वितीयो बह्वितरानुग्राहश्चेन्न दोषः | एकस्मिन्निधनं प्रापिते दुष्टचारिणि बहूनां भवति क्षेमम्, तत्र पुण्यप्रदो वध इति वचनात्; स यथा मृगया व्याघ्रादिवधश्चोरवधश्च | उभयानुग्राहार्थो यथा �राज्ञा विधृतदण्डास्तु कृत्वा पापानि मानवाः | निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ||� एवं निर्दोषाणां मध्येऽन्यतमो निग्रहः शिवकृतः पुत्रादिनिग्रहवद्ब्रह्मादिनिग्रहोऽप्युचितविषय एव | तदुक्तं शिवपुराणे- �ये पुनर्निग्रहाः केचित् ब्रह्मादिषु च दर्शिताः | तेऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना || दण्डस्यास्याधिपत्यं हि श्रीकण्ठस्य न संशयः || श्रीकण्ठाख्यां शिवो मूर्तिं क्रीडन्तीमधितिष्ठति || सदोषा एव विध्याद्या निगृहिता यथोचितम् | ततस्तेऽपि विपाप्मानः पश्चादपि गतज्वराः || निग्रहोऽपि स्वरूपेण विदुषां न जुगुप्सितः | अतेव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते ||� इत्यादि || यदुक्तमुग्र इत्यादिव्यपदेश इति तत्रेदं वक्तव्यम्- उग्रशब्द उत्तरवाच्यप्यस्ति | �उग्रोऽस्युग्रोऽहं स जातेषु भूयास� मित्युग्रत्वशास्यत्वश्रवणात् | उत्पूर्वाद्गमेरुद्गच्छत्युत्तरो भवतीत्यस्मिन्नर्थे रुद्रेन्द्रेत्याद्यौणादिकसूत्रेण रप्रत्ययान्तत्वेन निपातित उग्रशब्दः शिवस्य सर्वोत्तरत्ववाची || भीमशब्दस्तु भय᳚न्करवाच्यप्यस्योत्कर्षमावहति | �यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम् | महद्भयं वज्रमुद्यतं य एवं विदुरमृतास्ते भवन्ती� ति मन्त्रेण सर्वजगद्भयहेतुत्वस्य सकलनियन्तृपरब्रह्मधर्मोपपादनात् | अतोऽस्य रुद्रस्य सत्त्वप्रवर्तकत्वादिलक्षणं सात्त्विकत्वं सत्त्वस्यैव प्रवर्तक इति
SK
श्वेताश्वतरप्रतिपादितम्- पृ० ३८९) अस्ति रुद्रस्य विप्रेन्द्रा अन्तः सत्त्वं बहिस्तमः | विष्णोरन्तस्तमः सत्त्वं बहिरस्ति रजोगुणः || अन्तर्बहिश्च तत्सर्वमस्ति तस्य प्रजापतेः | शौक्ल्यं सत्त्वगुणाज्जातं रागो जातो रजोगुणात् || कार्ष्ण्यन्तमो गुणाज्जातमिति विद्यात्समासतः | रुद्रस्य विग्रहं शुक्लं कृष्णं विष्णोश्च विग्रहम् | ब्रह्मणो विग्रहं रक्तं चिन्तयेद्भुक्तिमुक्तये || इत्यादि वचनैः, स᳚न्करास्सर्वदेवाः स्युर्वृषलस्तु पुरन्दरः | पितामहस्तु वैश्यः स्यात् क्षत्रियः परमो हरिः || ब्राह्मणो भगवान् रुद्रः सर्वेषामुत्तमोत्तमः || इत्यादि वचनैश्च , रुद्दुःखं दुःखहेतुर्वा तं द्रावयति नः प्रभुः | रुद्र इत्युच्यते सद्भिः शिवः परमकारणम् || रोदयस्यखिलाञ्जीवानन्तकाले यदृच्छया | अतः प्राज्ञैर्मुनिवरै रुद्र इत्यभिधीयते || इत्यादिस्कान्दलै᳚न्ग्यादिपूर्वोक्तश्वेताश्वतरोपनिषद्वाक्योपबृंहणवचनैस् तद्वाचकनामनिरुक्त्या च शिवस्यैव सात्त्विकत्वं विष्णोस्तामसत्वञ्च �त्वं देवेषु ब्राह्मणोऽहं मनुष्येष्वि�ति प्रपदब्राह्मणोक्त्या च शिवस्यैव ब्राह्मणत्वप्रतिपादनाद्विष्णोः क्षत्रियत्वप्रतिपादनाच्च शिवस्यैव सर्वोत्तरत्वमिति निर्विवादम् || अथ नमस्कारशेषित्वम्- �यो रुद्रोऽग्नौ योऽप्सु य ओषधीषु यो रुद्रो विश्वाभुवनानि विवेश तस्मै रुद्राय नमोऽस्तु | सर्वो वै
SK
पृ० ३९०) रुद्रस्तस्मै रुद्राय नमोऽस्त्वि�त्यादितैत्तिरीयश्रुत्या, नमस्तस्मै सुरेशाय गणानां पतये नमः | नमोऽस्तु स्थाणवे नित्यं नमस्तस्मै सुधन्वने || नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः || इत्यादि महाभारते द्रोणपर्वान्तिमाध्यायादिवचनैः शिवस्यैव नमस्कार शेषित्वं प्रदिपाद्यते || ननु ङमो विष्णवे बृहते करोमी�त्यस्यामृचि, ॐ इत्येकाक्षरं, नम इति द्वे अक्षरे, नारायणायेति पञ्चाक्षराणि, ॐ नमो नारायणायेत्यष्टाक्षराणीति मन्त्रे च विष्णुः प्रकीर्त्यते | एवं �आकाशात्पतितं तोयं यथा गच्छति सागरम् | सर्वदेवनमस्कारः केशवं प्रतिगच्छती�ति पुराणवचनात्तत्तद्देवतोद्देश्यकनमस्काराणामपि विष्ण्वैकगामित्वप्रतिपादनात्प्राणादिविशेषेण कैमुतिकन्यायद्योतकेन विष्णोरेव नमस्कारशेषित्वस्य स्फुटीकरणात्तस्यैव सर्वोत्तमत्वमिति पूर्वपक्षः || सिद्धान्तस्तु- सर्वेषु वेदस्थितेषु रुद्रसूक्तेषु नमस्कारपूर्वकमेव चतुर्थ्यन्तशिवपर्यायशब्दानुक्रमपाठदर्शनात्, विष्णोस्तु वेदत्रयेऽपि तदीयमन्त्रेषु क्वाचित्कतया विद्यमानत्वेऽपि तथा प्राचुर्याभावात्, अभ्यासे सति भूयस्त्वमर्थस्य भवति नाल्पत्वमपि | प्रागेवोपचरितार्थत्वमिति न्यायेन शिवस्यैव नमस्कारशेषित्वम्, न विष्णोः | नच सर्व देवनमस्कारः केशवं गच्छतीति पुराणवचनेन शिवादितत्तद्देवतोद्देश्यकनमस्काराणामपि विष्ण्वैकगामित्वप्रतिपादनेन प्रागुक्तयुक्तिः पराहतेति वाच्यम्, तैत्तिरीये �यस्मै नमस्तच्छिरोधर्मो मूर्धानं ब्रह्मोत्तरा हनुर्यज्ञाधरा विष्णुहृदयमि�ति तैत्तिरीयशाखाविहितसर्वदेवावयवकदिव्यशिंशुमारावयव्युपासनायामित् अरावयवरूपणेषु देवतान्तराणां प्रातिस्विकनामधेयग्रहणवत्, शिवस्याप्यवयवविशेषत्वेन रूपणार्थं नामधेये विहितव्ये तदगृहीत्वा पर्यायोक्ताल᳚न्काररीत्या नमस्कारशेषित्वं शिवासाधारणधर्मं सिद्धं कृत्वा �यस्मै न मस्तच्छिर� इति नमस्कारशेषित्वस्येतरव्यावृत्त-
SK
पृ० ३९१) त्वेन श्रुत्यैव स्फुटतरं प्रतिपादनात् | एतादृशश्रुतिविरुद्धमाकाशात्पतितं तोयमिति पुराणवचनम्, �विरोधे त्वनपेक्षं स्यादसति ह्यनुमान� मित्यधिकरणन्यायेन दुर्बलत्वात्स्वार्थपरं न भवतीति सर्वशब्दस्य स᳚न्कोचं कृत्वा, न हिंस्यात्सर्वभूतानीत्यत्र यागीयहिंसातिरिक्तत्वकल्पनवत्, विश्वजिति सर्ववेदसन्दद्यादिति सर्वस्वदाने विहिते आत्मपुत्रकलत्रकेसरिशद्विताश्वादिव्यतिरिक्तत्वकल्पनवच्च, शिवव्यक्तिरिक्तत्वकल्पनाया न्याय्यत्वात् | नच नमो विष्णवे महते करोमीति विष्णोर्नमश्शेषित्वं श्रूयत इति वाच्यम्, तन्मन्त्रोपक्रमे ङमो ब्रह्मणे नमोऽस्त्वग्नये नम ओषधीभ्य� इत्यादिना ब्रह्माग्निपृथिव्योषध्यादिसाधारण्येन विष्णोरपि नमस्कार्यत्वदर्शनान्नासाधारण्येन विष्णोरपि नमः शेषित्वमुक्तम् | अत एवोक्तं चतुर्वेदतात्पर्यस᳚न्ग्रहे- दत्तं नमः किमपि शुश्रुम देवताभ्य- स्त्वामन्तरेण नमसामवसानभूमिम् | तांस्ते गृहीतुमनलं न हि कश्चिदीष्टे चोरोपनीतमिहधारयितुं किरीटम् || इति || एतेनेतरदेवताप्रतिपादकमन्त्रेषु श्रूयमाणा नमस्कारा अपि शिवैकगामिन इति सिद्धान्तः || निखिलदेवासुरैर्दुग्धोदधिमन्थने प्रक्रान्ते तत्र कामधेनुकल्पवृक्षकौस्तुभकमलाचिन्तामण्युच्चैःश्रवस्सुधादीधितिसुधै रावतेषूत्पन्नेषु, अहमहमिकया परा᳚न्काष्ठा᳚न्गतया लोभसञ्जातया तेषु तेषु रमणीयेषु वस्तुषु तैस्तैर्नारायणपुरन्दरादिदैवैः प्राकृतमनुष्यैरिव गृहितेषु सत्सु तदनन्तरोत्पन्नं भुवनभीकरं सकलदेवतागर्वनिर्वापकं कालकूटमवलोक्य नारायणादिदेवेषु विषज्वालामाला-
SK
पृ० ३९२) दग्धा᳚न्गेष्वात्मानमपि विस्मृत्त्य पलायमानेष्वन्यत्र शरणमलब्ध्वा शिवचरणारविन्दमेव शरणं प्रपन्नेषु सत्सु परमकारुणिकः परमशिवः स्वात्मारामस्तान्नारायणादीन् भजमानान्दृष्ट्वा, आगतं घोररूपं कालकूटं जम्बूफलवद्धस्ते निधाय कवलीचकारेति भारतरामायणस्कान्दलैंगादिसकलपुराणप्रसिद्धमिति शिवस्यैव सर्वोत्कर्षः || ननु शिवस्य विषपानं न माहात्म्यद्योतकं भवति प्रत्युत विष्णोरेव माहात्म्यं प्रकटीकरोति || तथाहि- तन्त्रभागवते �तं दृष्ट्वा घोरस᳚न्काशं प्रादुर्भूतं महाविषम् | ध्यात्वा नारायणं देवं हृदये गरुडध्वजम् || अच्युतानन्तगोविन्दमन्त्रमानुष्टुभं शुभम् | ॐ नमस्सम्पुटीकृत्य जपन्विषधरो हरः || नामत्रयप्रभावाच्च विष्णोः सर्वगतस्य वै | विषं तदभवज्जीर्णं लोकसंहारकारक� मित्यादिप्रमाणपर्यालोचनया नारायणासाधारणाच्युतानन्तगोविन्दनामजपप्रभावाच्छिवो विषं दधारेति स्पष्टतया प्रतिपादनान्नारायणशिवयोरुपास्योपासकत्वमनेन स्पष्टीभवतीति नारायणस्यैव सर्वोत्तरत्वमिति पूर्वपक्षः || सिद्धान्तस्तु-शैवधर्मसंहितायाम्- पुरा सुरासुरास्सर्वे ममन्थुः क्षीरसागरम् | मन्थानं मन्दरं कृत्वा योक्त्रं कृत्वा च वासुकिम् || सुधार्थमभवत्तस्मात्कालकूटं महाविषम् | तं दृष्ट्वा विबुधाः सर्वे ततः शक्रपुरोगमाः || सम्भ्रान्ता विवशाधीना दुद्रुवुश्च महासुराः | दग्धास्त्रवस्त्रकवचा दग्धा᳚न्गा दग्धलोचनाः || अवदन्केचिदन्योन्यं प्रेक्ष्य देवाश्च दानवाः | दन्दह्यमानास्ते सर्वे दावा इव दवाग्निना || पृ० ३९३) हा हेति प्राकृतरवानवदन्विबुधाः सुराः | विनिर्गतास्ते सोष्माणो विशीर्णा हारभूषणाः ||
SK
इत्युपक्रम्य, क्षीराब्धिमथनोदितकालकूटगरलकरालज्वालामालाप्लुष्टा᳚न्गाः पुरन्दरप्रमुखा निखिला मखाशना भीतास्त्रातारमनवेक्षमाणाः स्वप्राणत्राणार्थं ब्राह्मणं गतास्ततः स्वयं देवांस्त्रातुमसमर्थो ब्रह्मा तैर्देवैस्सह विष्णुं त्रातारं मत्वा तत्सकाशमागत्य, विषाग्निना भीतेन देवान्पालयितुमशक्तेन ब्रह्मेन्द्रपुरोगमैः कैलासं प्रति गतेन विष्णुना प्रार्थ्यमानः कैलासद्वारि विद्यमानो गणनायको नन्दीश्वरस्तानालोक्य �गणपः प्राह सर्वज्ञो नेत्रैर्नीलाम्बुजप्रभैः | देवान् शतक्रतुमुखान् सयक्षोरगराक्षसान् || किमर्थं वै महाभागा भूता उद्विग्नचेतसः | दिव्याष्टगुणमैश्वर्यं भवतां सम्प्रकल्पितम् || तेन व्यावर्तितैश्वर्या यूयं शक्रपुरोगमाः | त्रैलोक्यस्येश्वराश्चैव सर्वे वै विगतज्वराः || सनारायणका देवाः सेन्द्रास्सवरुणोरगाः || तत्किमर्थं भयोद्विग्नाः मृगास्सिंहार्दिता इव || किं दुःखं तेन सन्तापः कुतो वा भयमागतम् | एतत्सर्वं यथान्यायं शीघ्रमाख्यातुमर्हथ� इत्यादिना पप्रच्छ | नन्दीश्वरपृष्टैर्ब्रह्मादिदेवैः शुरासुरैर्मथ्यमाने पयोराशौ गणेश्वर | भुज᳚न्गभृ᳚न्गस᳚न्काशं नीलजीमूतसन्निभम् || प्रादुर्भूतं विषं घोरं संवर्ताग्निसमप्रभम् | विषेणोत्तिष्ठमानेन कालानलसमत्विषा || निर्दग्धारुणगौरा᳚न्गो विष्णुः कृष्णत्वमागतः | तं दृष्ट्वा रक्तगौरा᳚न्गं कृतं कृष्णं जनार्दनम् || ततः सर्वे वयं भीताः श᳚न्करं शरणं गताः |� इत्यादिवचनैः सम्प्रार्थितः शैलादिः सनारायणकैर्देवैस्सह शिवसमीपं गत्वा देवागमनकार्यं विज्ञापितवान् | ततो विष्णुपुरोगमाः शिवं स्तुत्वा प्रणम्य कालकूटविषोपद्रवं निवेदितवन्तः | तदा करुणानिधिः परशिवः �अथ तस्य वचः श्रुत्वा देवानालोक्य चेश्वरः सस्मार च विषं घोरं युगान्ताग्निसमप्रभम् || स्मृत्वा विषं कदाग्रस्तमभवत्तत्क्षणाद्विभोः | तदा रेजे करतलं सभृ᳚न्गमिव वारिज�
SK
पृ० ३९४) मित्यादिना स्मृतिमात्रेण कालकूटे करस्थे सति �अथोवाच नमस्कृत्वा भगवान् पद्मसम्भवः | तत् पिबस्वेति सर्वज्ञं लोकानां हितकाम्यया |� इति ब्रह्मणा सम्प्रार्थ्यमानः श᳚न्करः �बाढमित्येव तद्वाक्यं प्रतिगृह्य घृणानिधिः | पपौ यथाऽमृतं सर्वं कालकूटं महाविषम् || एवं तद्ग्रसितं घोरं नीलनीरदसन्निभम् ||� इति भुवनं निर्भयं कर्तुं कालकूटं पपाविति बहुपुराणेषु सफुटतरं प्रतीयमानत्वेन, एवमेव रामायणभारतादिष्वितिहासेष्वपि विद्यमानत्वेन, शिव एव सर्वैः सेव्यः प्रपत्तव्यश्चेति || यच्चोक्तमच्युतानन्तगोविन्देति नामत्रयजपप्रभावाद्विषं जीर्णमभूदिति तदतिमन्दम्; नारायणध्यानपूर्वकं नामत्रयमनुस्मरन् शिवो विषं दधार, तच्च जीर्णत्वमप्यभजदित्यर्थे उदाहृतश्लोकत्रयेतिहासपुराणादिषु प्रसिद्धेषु काप्यदृष्टचरत्वेन भाल्लवेयादिश्रुतिवत्तैरेव कल्पितत्वात् || किञ्च ङामानि तव गोविन्द यानि सन्ति महान्ति च | तान्येव मम नामानि नात्र कार्या विचारणे� ति हरिवंशे कृष्णकैलासयात्रायां विष्णुं प्रतीश्वरवचनेनाच्युतादिनाम्नामवयवव्युत्पत्या नित्यत्वं सकलप्राणिनां कर्मानुकूलतया वेदनं प्रेरणं शिवस्यैव पूर्वोक्तसकलश्रुतिस्मृतिपुराणेतिहासवचनबलात्सम्भवति, नान्यस्येति तेषां त्रयाणां नाम्नामर्थपर्यालोचनया प्रमाणबलाच्च तत्रैव पर्यवसानं युक्तियुक्तमिति श्लोकत्रयस्यापि शिवपरत्वान्न काप्यनुपपत्तिरिति | तथा चायमर्थः सम्पद्यते अच्युतश्च्युतिरहितः, अनन्तोऽन्तरहितः, गा विन्दतीति व्युत्पत्त्या सकलप्राणिकृतशुभाशुभकर्मवेदनकर्ता, �जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते | तद्ब्रह्माऽहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते || इति, �त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् | तेभ्यो विलक्षणः साक्षी चिन्मात्रो हि सदाशिव� इति कैवल्यश्रुत्या, �अजात इत्येव कश्चिद्भीरुः प्रपद्यते | रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्य� मिति श्वेताश्वतरश्रुत्या च, शिवस्यैव
SK
नित्यत्वसर्वसाक्षित्वश्रवणात्तदितरस्य नारायणस्य
SK
पृ० ३९५) �ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते� इति श्रुत्या बहुधा जन्यत्वप्रतिपादनान्नामत्रयस्य नारायणपरत्वमिति न श᳚न्कावकाशः, किन्तु शिवपरत्वमेवेति सिद्धान्तः || ननु भगवान्प्राचेतसो मुनिवरः कमलासनवरलब्धसकलवेदार्थवेदनशीलः श्रीरामचन्द्रचरितात्मकं रामायणाख्यं महदादिकाव्यं निर्ममे | तस्मिन्महाकाव्ये श्रीरामचन्द्रगुणवर्णनद्वारा तस्यैव श्रीविष्णोः सर्वकारणत्वेन परब्रह्मभावं व्यक्तमेव प्रत्यपादयत् | तथाहि- �रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि� इति रामपदेनासौ परं ब्रह्माऽभिधीयते ||� इत्युमासंहितावचनोपपादितपरब्रह्मभावशालिरामचरितात्मके रामायणे शीतालक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः | वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् || अक्षय्यं मधुहन्तारं जानामि त्वां सुरोत्तमे�ति बालकाण्डे परशुरामकृतस्तोत्रे प्रतिपादनात्, श हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः | अर्थिंतो मानुषे लोके जज्ञे विष्णुः सनातन� इत्ययोध्याकाण्डे प्रथमसर्गेऽभिधानात्, �प्रीयते सततं रामः स हि विष्णुः सनातन� इत्युपसंहारदशायामुपपादनाच्च रामो विष्णुरेव स एव परं ब्रह्मेति पूर्वपक्षः || सिद्धान्तस्तु- रामायणस्यादिकाव्यत्वेन तस्योत्तमकाव्यस्य वाच्यार्थो रामस्य तव ब्रह्मभावः, व्यञ्जनावृत्त्या प्रतीयमानार्थस्तु शिवस्यैव परब्रह्मभावः | समागत्यागस्त्याश्रमप्रवेशसमये श्रीरामचन्द्रवचनैः, तत्र तत्र कविवचनैश्च स्पष्टीकृतः || तथाहि- �अत्र देवास्सगन्धर्वाः सिद्धाश्च परमर्षयः | अगस्त्यं नियताहारं सततं पर्युपासते� इत्यगस्त्याश्रमप्रवेशं वर्णयित्वाऽभिहितम्- श तत्र ब्रह्मणः स्थानं लक्ष्म्याः स्थानं तथैव च | विष्णोः स्थानं तथेन्द्रस्य स्थानं चैव विवस्वतः || सोमस्थानं भगस्थानं तथा कौबेरमेव च | धातुर्विधातुः स्थाने च वायोः स्थानं तथैव चे� त्यादिनाऽगस्त्यमुपासीनानां स्थानान्युक्तानि, तदाश्रमे निवसतां देवनामिव तत्र
SK
पृ० ३९६) शिवस्य स्थानं नोक्तम् | तस्माद्ब्रह्मविष्ण्वादय एवागस्त्यस्योपासकाः, नतु शिव इति द्योतनेन शिवस्य महिमा व्यञ्जितः | तथा च सकलैर्देवैरुपास्यमानस्यागस्त्यस्य तपोनिकरैराराधनीयः शिव एवेति पारिशेष्यात्सिध्यति | ततश्चेतरदेवानां शिवोपासकोपासकत्वसिद्धेस्तेभ्यः शिवस्यातितरामुत्कर्षः प्रतीयत इत्यर्थः | किञ्च लवणवधार्थं शत्रुघ्नं प्रेषयता रामचन्द्रेण तद्वधार्थं हरिमूर्तिरूपं किञ्चिदस्त्रं दत्वा तत्प्रभावो वर्णितः- ङायं मया शरः पूर्वं रावणस्य वधार्थिना | मुक्तः सत्रुघ्न भूतानां महांस्त्रासो भवेदिति� इत्युपवर्ण्य एवं भूतं शरं प्रयच्छतापि श्रीरामचन्द्रेणोक्तं यदा शिवेन स्वशूलाद्विनिष्कृष्य दत्तं शूलं लवणस्य हस्तेऽस्ति तदा केनाप्युपायेन स जेतुं न शक्य इति हस्ते शूलाभावसमये स निरुन्धानेन शरेण हन्तव्य इत्युपदिश्य रामेणोक्तम्- श्ह्रीमतो नीलकण्ठस्य कृत्यं हि दुरतिक्रम� मित्यादिना | ततोऽपि शिव एव परं ब्रह्मेति व्यञ्जयामासेति शिवस्य सर्वोत्कर्षसिद्धिः | श तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ | वेदोपबृंहणार्थाय तत्तावग्राहयत्प्रभु�रिति रामायणस्य वेदोपबृंहणार्थत्वोपपादनाद्रामायणकाव्यस्य व्यञ्जनावृत्त्या शिवे प्रतिपाद्ये सति वेदप्रतिपाद्यत्वमिति सिद्ध्यतीति शिव एव परमकारणमिति सिद्धान्तः || ननु महाभारतसारभूतभगवद्गीतायां पार्थं प्रति संसारसागरोत्तरणोपायोपदेशप्रस्तावनायाम् �ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया | तमेव शरणं गच्छ सर्वभावेन भारत | तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वत�मिति भगवता कृष्णेनोपदिष्टम् | तथा �तमेवचाद्यं रुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी�ति भगवता क्रियमाणं प्रपदनं किं विषयकमित्याका᳚न्क्षायाम् �उत्तमः पुरुषस्त्वन्यः परमात्म्येत्युदाहृतः | यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ||� इत्युक्त्वा, उपास्यं स्वान्यन्न भवति, किन्तु स्वस्वरूपमेवेति
SK
प्रतिपादितम्
SK
पृ० ३९७) �यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः | अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ||� इति क्षराक्षरातीतत्वेन स्वस्यैव ताभ्यामुत्तमत्वप्रतिपादनाद्विष्णोरेव परब्रह्मभावो युक्त इति पूर्वपक्षः || सिद्धान्तस्तु- पूर्वोदाहृतश्लोकेष्वन्यत्र च शिवासाधारणनाम्न ईश्वरशब्दस्याम्नानात् | विश्वरूपप्रदर्शनादिकं सर्वमपि शिवाभेदाच्छिवविषययोगाद्वोपपादनीयम् | पुरुषोत्तमनामधेयात्प्रथमश्रुतस्येश्वरनाम्नो बलवत्तया प्राधान्येनानुरोद्धव्यत्वात् || किञ्च श्थितोऽस्मिगतसन्देहः करिष्ये वचनं तवे�ति प्रतिज्ञातवानर्जुनो यावज्जीवं शिवपूजानिरतो वर्तत इति कृष्णेनापि गीतासु शिव एव सकलपरभावा᳚न्गशालित्वेन मुमुक्षुभिः शरणीकरणीयत्वेन चोपदिष्ट इत्यवधीयते || एतेन तमेव शरणं गच्छेत्यनन्तरं शर्वगुह्यतमम्भूयः शृणु मे परमं वच� इत्युपक्रम्य, सर्वधर्मान्परित्यज्य मामेकं शरणं व्रजे�ति यदुपदिष्टम्, तदनन्तरं �करिष्ये वचनं तवे�ति यत्प्रतिज्ञातम्, तद्विष्णुविषयकमिति श᳚न्का निरस्ता | तथासति शिवपूजां परित्यज्य विष्णुपूजाया एवार्जुनेन कर्तव्यतापत्तेः यावज्जीवं तेन शिवपूजैव कृता, न विष्णुपूजा | यावज्जीवशिवपूजानिष्ठत्वश्रुतेः | यत्तु शिवस्य रात्रिकर्तव्यनित्यपूजार्थं कॢप्तः सर्वोप्युपहारः कृष्णे समर्पित इति वचनं तदपि कृष्णमूर्तौ शिवभावोऽस्तीति शिवाराधनबुद्ध्यैतदभिप्रायम् | एवं कृष्णार्जुनयोः कैलासगमने सर्वोऽप्युपहार शिवसमीपे दृष्टोऽर्जुनेनेत्युक्तम्- �तं चोपहारं सकलं नेष्यन्नैतिकमात्मनः | ददर्श त्र्यम्बकाभ्यासे वासुदेवे निवेदित�मिति | �अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते | तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् | मामेव शरणं व्रज | अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्� इत्यादि भगवद्वचनं जानताऽर्जुनेन देवतान्तरं परित्यज्य यावज्जीवं शिवपूजनमेव कृतमिति न विवादः | तता गीताप्रतिपाद्यः शिव एवेति भारतसारत्वाद्गीताया भारतप्रतिपाद्यमानः शिव एवेति
SK
सिद्धान्तः ||
SK
पृ० ३९८) ननु �अग्नि रग्रे प्रथमो देवतानामग्निः सर्वदेवताः, राजानौ वा एतौ देवानां यदग्नीषोमौ | अग्निर्मुखं प्रथमो देवताना�मित्यादि श्रुतिवाक्यपर्यालोचनयाऽग्नेर्देवताप्राथम्यसार्वात्म्यदेवतानियामकत्वमुख् यत्वादिब्रह्मलि᳚न्गाम्नानादग्निरेव जगत्कारणं ब्रह्मोपास्यम्, सकलवैदिकैरग्निपरिचरणस्यैव तारकत्वेना᳚न्गीकारात् | तथा शूर्य आत्मा जगतस्तस्थुषुश्च | तरणिर्विश्वदर्शनो जोतिष्कृदसि सूर्य विश्वमाभासि भेषजं दृशे विश्वाय सूर्य �मित्यादिश्रुतिषु सूर्यस्य जगदात्मत्वविश्वप्रकाशकत्वाद्याम्नानात्स एवोपास्यः प्रपत्तव्यश्च | अत एव �असौ वा आदित्यो देव मध्वि�ति सकलदेवताजीवनोपायभूतं मधुत्वेन निरूपणमुदयास्तमयायत्तं सकलप्राणिदैनंदिनप्रलयः प्राणानादायोदेतीत्यादिना दर्शितः | सावित्रीमन्त्रोऽपि सवितृप्रकाशकः, सतूपनयनसंस्कारद्वारा ब्राह्मण्यापादक इति सुप्रसिद्धम् | ततः सूर्य एव परं ब्रह्म || तथा �गणानान्त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् | जेष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः शृण्वन्नूतिभिस्सीद सादन�मिति गणपतेर्जेष्ठराजत्वब्रह्मणस्पतित्वाम्नानात्तस्यैव पारम्यं युक्तम् | स्कान्दे गणेशपुराणे च प्रथमाध्याये- ङिर्गुणो निरह᳚न्कारो निर्विकल्पो निराकृतिः | निरामयो निरीहो यो गणेशोऽसौ निगद्यते || अरूपो रूपवांश्चैव नानारूपधरस्तथा | भक्तिगम्यस्वरूपोऽसौ ज्ञानगम्यस्वरूपवान् || चराचरहितार्थाय नामरूपावतारवान् | कदाचित्प्रलये जाते प्लवीभूते जगत्त्रये || योगशायी निराकारो गुणातीतो निराश्रयः | चिदानन्दघनो नित्यः स्वप्रकाशो जगन्मयः || चक्रे स ईक्षां पुरतो विधार्यश्च प्रतापवान् | मत्तो भिन्नो न चेहास्ति बिभेम्यहमतः कुतः || एकाकी तान्नु युक्त्वेति बहुस्यां जगदात्मना || इति मत्वा ससर्जाग्रे रजस्सत्त्वं तमस्तथा | गुणैस्त्रिभिस्तथाभूतो ब्रह्मविष्णुशिवाभिदः || इत्यादिपुराणवचनजातेन निर्गुणनिराकारवान् सच्चिदानन्दलक्षणो गणेशः प्रलयात्पूर्ववर्तीति ततो ब्रह्मादिजनक
SK
पृ० ३९९) इति तस्यैव जगज्जन्मादिकारणत्वेन परब्रह्मत्वं सिद्धम् || ङ किमिन्द्रत्वादुत्तरः, विश्वस्मादिन्द्र उत्तरः | इन्द्रो याताऽवसितस्य राजा� इत्यादिवाक्येष्विन्द्रस्य सर्वोत्तरत्वाम्नानात्तस्यैव परभावो युक्तः || इति पूर्वपक्षः || सिद्धान्तस्तु-तत्तदधिकारिविशेषसापेक्षोऽयं देवतान्तरपारम्यवादः | किञ्च सर्वगस्य परमेश्वरस्य सर्वशरीराधिष्ठानद्वारा सर्वशब्दवाच्यत्वस्या᳚न्गीकारात्परमेश्वरस्य वैभवान्तरवर्णनं करितुरगवरभूषणादिकमिव सचिवादीनां साधारणम् || �यद्यद्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा | तत्तदेवावगच्छ त्वं मम तेज्ॐऽशसम्भवमि�ति भगवद्गीतार्थपर्यालोचनया परमेश्वरविशेषत्ववर्णनात् || साधारणं जगत्कारणत्वन्तु परमेश्वरस्यैवेति श्वेताश्वतरादिमन्त्रसन्दर्भपर्यालोचनया परमशिवस्यैव पारम्योपपादनात्, ततो न वैभवान्तरशालिनामग्निसूर्यगणपतीन्द्रादीनामुत्तीर्णत्वम् | किन्तु शिवस्यैव सर्वोत्तरत्वापरभावो युक्त इति सिद्धान्तः || तस्मादेवं श्रुतिस्मृतिपुराणागमवचनार्थनिर्णायकपूर्वोत्तरमीमांशान्यायसहकृ ताभिः पूर्वोक्तयुक्तिभिर्जगज्जन्मादिकारणत्वं शिवस्यैवेति तस्यैव परभावो युक्तः || नच ङारायणाद्ब्रह्मा जायते, नारायणाद्रुद्रो जायत� इति नारायणोपनिषदा नारायणाद्ब्रह्मरुद्रादीनामुत्पत्तिः श्रूयत इति नारायणस्यैव जगज्जन्मादिकारणत्वं न शिवस्येति वाच्यम्, गुणमूर्तीनां कार्यकोटिप्रविष्टानां ब्रह्मविष्णुरुद्राणांभेदमादाय परस्परस्मादुत्पत्तिश्रवणेऽपि सृष्टिस्थितिसंहारतिरोधानानुग्रहरूपपञ्चकृत्यनियोजितब्रह्मविष्णुरुद्र् एश्वरसदाशिवमहालि᳚न्गशब्दितपरशिवस्य न कुत्रापि जनिः श्रूयत इति तस्यैव नित्यत्वं सर्वकारणत्वञ्च | तथाहि शैवे वायवीयसंहितायाम्- �त्रयस्ते कारणात्मानो जातास्साक्षान्महेश्वरात् | चराचरस्य विश्वस्य सृष्टिस्थित्यन्तहेतवः || तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः | पित्रा नियमिताः पूर्वं त्रयोऽपि त्रिषु कर्मसु ||
SK
पृ० ४००) ब्रह्मा सर्गे हरिस्त्राणे रुद्रस्संहरणे पुनः | त्रयोऽप्यन्योन्यमात्सर्यादन्योन्यातिशयार्थिनः || तपसा तोषयित्वा तं प्रेरकं परमेश्वरम् | लब्धाः सर्वात्मतां तस्य प्रसादात्परमेष्ठिनः || ब्रह्मनारायणौ पूर्वं रुद्रं कल्पान्तरेऽसृजत् | कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः || विष्णुश्च भगवान् रुद्रं ब्रह्माणमसृजत्पुनः | नारायणं पुनर्ब्रह्मा ब्रह्माणञ्च पुनर्भवः | एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः | परस्परस्माज्जायन्ते परस्परजयैषिणः || तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः | तानि तानि प्रणीतानि विद्वांस्तत्र न मुह्यति || इति || तथैव शैवोपागमे मृगेन्द्रोत्तरं गुणिरुद्रवाक्यम्- एकसप्ततिभिस्तैस्तु ज्ञेयं मन्वन्तरं मनोः | तैश्चतुर्दशभिः कल्पैर्ब्रह्मणस्तु दिनं मतम् || एतस्मिन्नन्तरे शक्रा मृता जाताः पुनः पुनः | शतत्रयं दिनं षष्टिस्तस्यैवं वर्ष उच्यते || तत्संख्येया शतं यावद्वर्षाणां ब्रह्मणः स्थितिः | तस्य वर्षशतं यावत्तावन्मासो हरेरतः || तेन मासेन वर्षाणां शतं यावद्धरेः स्थितिः | मम मासो भवेद्यावन्माधवो याति स᳚न्क्षयम् || वर्षाणां मे शतं यावद्धरेर्जन्मस्थिती पुनः | दिनमेकं तदीशस्य तदा मम शतं भवेत् || एकस्मिन्नन्तरे काले वयं जाताः पुनः पुनः | सदाशिवनिमेषाच्च तदा तस्यापि स᳚न्क्षयः || परस्या या त्रुटिश्चासौ तदासौ लयमाप्नुयात् | न भवो न मृतिस्तस्य शिवस्य परमात्मनः || इति || पृ० ४०१) तस्माज्जगज्जन्मादिकारणत्वान्नित्यत्वाच्च नित्यफलप्रेप्सुभिर्मुमुक्षुभिः शिव एक एव ध्यातव्यः पूजयितव्यो नमस्कर्तव्यः प्रपत्तव्यश्चेति सर्वमनवद्यम् ||
SK
इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्भोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थ लतत्त्वसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यमरितोण्टदार्यविरचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्यकेलदिसदाशिवराय नायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द्रधर्मपत्नीमल्लाम् बाहृदयानन्दबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे शिवोत्कर्षव्यवस्थापनं नामैकोनविंशतितमं प्रकरणम् || पृ० ४०२) वीरशैवानन्दचन्द्रिकायां वादकाण्डे विंशतितमं प्रकरणम् || श्रीगुरो शीलवद्भृ᳚न्गिवचोभिः प्रतिपादितम् | शिवोत्कर्षञ्चापकर्षं विष्णोः श्रुत्यागमोक्तितः || श्रुत्वा भवन्मुखाम्भोजनिस्सृतं वाक्सुधारसम् | आनन्दतुन्दिलोऽभूवं पुनः किं भृ᳚न्गिणोदितम् || पूर्वपक्षं शीलिनाऽथ कृतां सिद्धान्तपद्धतिम् | वद मे क्रमशः स्वामिन् श्रोतुमिच्छामि साम्प्रतम् || अत्यर्थं बहुशो दृष्टं तदेवात्र प्रकाश्यताम् | तन्त्रमूलत्वमाश्रित्य परभावः शिवस्य तु || आचारा वीरशैवानां लि᳚न्गधारणपूर्वकाः | साधितास्तत्र तन्त्राणां प्रामाण्यं नोपपद्यते || भृ᳚न्गिन् खण्डयसे यत्त्वं साधयाम्यहमाशु तत् || ननु �लि᳚न्गधारणप्रतिपादकाऽऽगमवचनानां वेदमार्गप्रच्युतानां तन्त्रमार्गप्रवेशन� मित्यादिस्मृतिपुराणवचननिकुरुम्बबलेनाप्रामाण्यं प्रतिपाद्य श्रुतिप्रमाणबलाल्लि᳚न्गधारणस्य वैदिकत्वं समर्थितम् || पृ० ४०३) यद्यागमानामप्रामाण्यमभ्युपगम्येत तदा लि᳚न्गधारणादीनां वीरशैवाचाराणां सर्वेषां वैदिकैराराध्यसम्प्रदायप्रवृत्तैरनुष्ठीयमानत्वं न स्यात् | न चेष्टापत्तिः, तदनुसारिणामागमप्रामाण्यप्रतिपादकानां वचनानां जागरूकत्वात् || तथाहि सूतसंहितायाम्- अष्टादशपुराणानां कर्ता सत्यवतीसुतः | कामिकादिप्रभेदस्य यथा देवो महेश्वरः || सिद्धान्तशिखामणौ-
SK
वेदसिद्धान्तयोरैक्यमेकार्थप्रतिपादनात् | प्रामाण्यं सदृशं ज्ञेयं पण्डितैरेतयोः सदा || क्रियासारे- अथवा शिवनिश्वासश्रुतिभ्यस्ते शिवागमाः | अधिकाः शिववक्त्रेभ्यः साक्षादेव विनिर्गताः || परस्पराऽविरुद्धार्थाः शिवोक्ता निगमागमाः | अल्पबुद्धिभिरन्योन्यविरोधः परिकल्प्यते || निगमानामागमानां परमाप्तोपदेशतः | प्रामाण्यमविशेषेण ज्ञातव्यं तत्त्वदर्शिभिः || इति वचनैर्वेदाऽविरुद्धवर्णाश्रमादिधर्मप्रतिपादकत्वेन सर्वाप्तपरमेश्वरैककर्तृकत्वेन चागमप्रामाण्यस्य शिष्टैरभ्युपगन्तव्यत्वादागमोक्ताऽऽचाराणां सर्वेषां वैदिकानुष्ठेयत्वं सिद्धम् || ननु- वैदिकं विहितं ज्ञानं भोगमोक्षप्रदायकम् | यदन्यत्रोदितं ज्ञानं न तन्मोक्षस्य साधनम् || श्रौतं ज्ञानं मोक्षलक्ष्मीप्रदमन्यन्न किञ्चन | श्रुतं वेदान्तविज्ञाननिश्चितार्था इति श्रुतौ || पृ० ४०४) श्रुत्यन्यत्वादागमानां तज्ज्ञानं नैव मोक्षदम् | अवैदिकानामुद्धारस्तन्त्रमार्गानुसारतः | सर्वज्ञेन शिवेनाऽपि शृण्वन्तीं पार्वतीं प्रति || स्त्रीत्वाद्देव्यास्त्वानुरूप्यात्कथितं तदवैदिकम् || इत्यादि- प्रमाणैर्वेदान्तजन्यज्ञानस्यैव मोक्षसाधनत्वं प्रतिपाद्यते || श्रौते ज्ञाने स्त्रीणामनधिकारं मनसि निधाय गौरीं प्रत्यागमानामेवोपदेशः कृतः | अतो वेदान्तजन्यज्ञानस्यैव साक्षान्मोक्षसाधनत्वम् | आगमादिजन्यज्ञानानां स्त्रीशूद्राद्यधिकारिणां परम्परया वेदान्तजन्यज्ञानयोग्यजन्मप्राप्त्यनन्तरं पुनर्वेदान्तजन्यज्ञानद्वारा मोक्षजनकत्वं वक्तव्यम् || किञ्चागमजन्यज्ञानस्य मोक्षसाधनत्वं न स᳚न्गच्छते, आगमानां मोहकशास्त्रत्वात् | तथाहि कूर्मपुराणे- त्वञ्च रुद्र महाबाहो मोहशास्त्राणि कारय | अतथ्यानि वितथ्यानि दर्शयस्व महाभुज || प्रकाशं कुरु चात्मानमप्रकाशञ्च मां कुरु || इति-
SK
पुराणवचनेन सत्त्वप्रधानविष्णूत्कर्षप्रतिपादकं शास्त्रं मोक्षसाधनं कलिदोषकलुषितान्तःकरणानां मानवानां चित्तशुद्धिरहितानामयोग्यम्, अतस्तद्योग्यं स्वोत्कर्षप्रतिपादकं मदुत्कर्षनिषेधकं शास्त्रं कुर्वित्यत्र तात्पर्येण रुद्रप्रणीतानामागमानां मोहकशास्त्रत्वात्तदुदितानामाचाराणां वैदिकैरननुष्ठेयता तज्जन्यज्ञानस्य मोक्षसाधनत्वाभावश्च प्रतीयते || किञ्चाष्टादशविद्यास्थानेष्वनन्तर्भावादागमानामप्रामाण्यम् | तथाहि- अ᳚न्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः | पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश || पृ० ४०५) आयुर्वेदो धनुर्वेदो गान्धर्वञ्चार्थशास्त्रकम् | उपवेदा इमे प्रोक्ताश्चत्वारस्तदनन्तरम् || आष्टदशानामेतासां विद्यानां भिन्नवर्त्मनाम् | आदिकर्ता कविः साक्षाच्छूलपाणिरिति श्रुतिः ||
SK
इत्यष्टादशविद्यास्थानानि | तत्र न तावदृग्वेदेऽन्तर्भावः, होतृगणोपयोगार्थप्रतिपादकत्वाभावात् | नापि यजुर्वेदे, अध्वर्युगणोपयोगित्वेन नियमितत्वाभावात् | नापि सामवेदे, उद्गातृगणापेक्षितार्थानभिधानात् | नाप्यथर्वणवेदे, आभिचारिकर्मैकप्रवृत्तत्वाभावात् | नाप्युपनिषत्सु, मन्त्रब्राह्मणान्यतररूपत्वेन ब्रह्मप्रतिपादकत्वाभावादुपनिषदागम इति संज्ञाभेदस्य विविक्ततया दर्शनाच्च | उपनिषदां सम्पदुपासना प्रतीकोपासनाऽह᳚न्ग्रहोपासना निर्गुणोपासनेति चातुर्विध्यम्; तत्र �वाचं धेनुमुपासीते�ति सम्पदुपासनायां वागादिकं विद्यमानं कृत्वा तत्र धेनुतादात्म्यभावनानैरन्तर्यं सम्पदुपासना || �आकाशं ब्रह्मेत्युपासीत, मनो ब्रह्मेत्युपासीते� त्यादिप्रतीकोपासनायामाकाशमनःप्रभृतीनां स्वतः सत्ताराहित्येन कृतानां ब्रह्मतादात्म्यभावनानैरन्तर्यं प्रतीकोपासना || �य एषोऽक्षिणि पुरुषो दृश्यते | एष आत्मेति होवाच | एतदमृतमेतदभयमेतद्ब्रह्म एनं संयद्वाम इत्याचक्षते | एष वामनिः स एष एव भामनि� रिति वामनीत्वभामनीत्वसंयद्वामत्वादिगुणविशिष्ट ईश्वरोऽहमस्मीति भावना नैरन्तर्यम्, �उमा सहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् | ध्यात्वा मुनिर्गच्छति भूतयोनिम्� इत्यत्रोमासहितत्वपरमेश्वरत्वप्रभुत्वत्रिलोचनत्वनीलकण्ठत्वादिगुणविश् इष्टं सदाशिवाख्यं ब्रह्माहमस्मीति भावनानैरन्तर्यमह᳚न्गहोपासना || न चात्र नीलकण्ठत्वादिगुणविशिष्टस्य ब्रह्मण उपासनीयस्य भिन्नत्वेन ध्येयतया प्रतिपादनादहं शब्दाभावात्तात्पर्याभावाच्च कथमह᳚न्ग्रहोपासनारूपत्वमिति वाच्यम्,
SK
पृ० ४०६) अस्यामेवोपनिषदि उत्तरत्र �जाग्रत्स्वप्नसुषुप्त्यादि प्रपञ्चं यत्प्रकाशते | तद्ब्रह्माऽहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ||� इति ब्रह्मात्मैक्यज्ञानस्य मोक्षसाधनत्वप्रतिपादनात् || एतत्त्रयातिरिक्ता निर्गुणोपासना | एवं विधोपासनाप्रतिपादनाभावाच्च | नापि तद᳚न्गेषु; तत्रापि न शिक्षायां, वेदवर्णस्वरमात्राद्युच्चारणक्रमप्रतिपादकत्वाभावात् | तत्र �व्रजनेज उदात्तश्चेदकारेण सहोच्यते | स्तुतं धृतं घृतेनोर्ध्वं हव्यपूर्वोऽन्त आहुत�मिति वर्णस्य, द्वादशाहीनस्येत्यत्राहर्गणवाचित्वे �अह्नः खः क्रता�विति खप्रत्ययविधानादन्तोदात्तत्वम् | न हीनोऽहीन इति नञ् तत्पुरुषे पूर्वपदप्रकृतिस्वरत्वाभावात्, हकारोपरिस्थितस्येकारस्य स्वरितत्वमिति स्वरस्य, ङातिव्यक्तं न चाव्यक्तमेवं वर्णानुदीरयेत् | पयः पूर्णमिवामत्रं मृदुधीरो यथामती� त्युच्चारणस्य, �चाषस्तु भाषते मात्रां द्विमात्रां वायसोऽब्रवीत् | त्रिमात्रान्तु शिखी रौति नकुलस्त्वर्धमात्रकम् ||� इति मात्रायाश्च शिक्षारूपा᳚न्गविषयत्वात् | नापि कल्पसूत्रेषु, श्रौता᳚न्गार्हकर्मप्रयोगक्रमतत्प्रकारविधायकत्वाभावात् | नापि व्याकरणे, सन्धिसमासप्रकृतिप्रत्ययविभागद्वारा शब्दनिष्पत्तिपरत्वाभावात् | नापि छन्दसि, वैदिकलौकिकछन्दोवर्णमात्रानियमपरत्वाभावात् | नापि निरुक्ते, ऋगर्थावबोधकशब्दार्थविवरणपरत्वाभावात् | नापि ज्योतिषे, श्रुतिस्मृतिचोदितधर्मानुष्ठानकालनिर्णायकत्वाभावात् | अतो न वेदा᳚न्गेष्वन्तर्भावः | नोपा᳚न्गेषु चतुर्षु | तत्रापि न मीमांसायां, श्रुतिस्मृत्युक्तधर्मविचारतल्लक्षणतत्प्रमाणतत्स्वरूपतत्साधनतत्प्रयु क्तितत्क्रमतदधिकारातिदेशतदूहतद्बाधतत्तन्त्रानुष्ठानतत्प्रस᳚न्गानु ष्ठानपरत्वाभावात् | नाप्युत्तरमीमांसायाम्, ब्रह्मविचारतल्लक्षणतत्प्रतिपादकतत्समन्वयतद्विरोधनिरासतत्साधनतत् फलपरत्वाभावात् | नापि न्यायविस्तरे, वेदार्थनिर्णयानुकूललौकिकन्यायसञ्चारलक्षणप्रमाणघटितपदार्थव् इवेचनानुकूलबुद्धिकौशलसम्पादकत्वा-
SK
पृ० ४०७) भावात् | नापि पुराणेषु, प्राकृतनैमित्तिकनित्यसृष्टिसंहारदेवताद्युत्पत्तिमन्वन्तरराजवंशानुच् अरितादिवर्णनतीर्थक्षेत्रमाहात्म्यादिवर्णनपरत्वाभावात् | नापि धर्मशास्त्रेषु, इतस्ततो विप्रकीर्णपरप्रकरणगतसिद्धवन्निर्देशादितिरोहितवेदमूलत्वेन वर्णाश्रमधर्मोपयोगिकालाचारश्राद्धप्रायश्चित्तदानशान्तिपूर्तव्यवह अरयोगादिप्रतिपादनपरत्वाभावात् | अतो नोपा᳚न्गेष्वन्तर्भावः | नाप्युपवेदेषु तत्रापि नायुर्वेदे, शरीरसंरक्षणानुकूलनिदानचिकित्सारूपस्कन्धत्रयात्मकत्वेन दृष्टफलसाधनत्वाभावात् | न धनुर्वेदे, वैरिनिरासोपयोगिशरीरव्यायामलक्ष्यवेधशरसन्धानाऽऽयुधोद्यमनिपातन लाघवसाधनप्रतिपादनपरत्वाभावात् | न गान्धर्वे, षड्जादिसप्तस्वराऽऽरोहावरोहक्रमभेदभिन्नग्रामत्रयमूर्छना कल्पितप्रधानरागमिश्ररागप्रयोगकालदेशतदनुगुणचञ्चत्पुटादितालमृ द᳚न्गादिवाद्यप्रभेदहस्तदृष्टिशिरः प्रभृत्य᳚न्गाभिनयक्रियारसादिप्रतिपादनपरत्वाभावात् | नाप्यर्थशास्त्रे, करादानप्रजारक्षणसामाद्युपायस्वाम्यमात्यादिराज्या᳚न्गसप्तकारिमित्राद् इद्वादशराजमण्डलषड्गुणशक्तित्रयत्रिवर्गादिविज्ञानतदनुगुणाऽऽचर णप्रतिपादनपरत्वाभावात् | तस्माद्वेदतद᳚न्गोपा᳚न्गोपवेदेष्वनन्तर्भावादागमा न प्रमाणम् || किञ्चानुमानमप्यस्मिन्नर्थे साधकम् | आगमा न प्रमाणं वेदाऽनुक्तार्थप्रतिपादकत्वात्, यत्र यत्र वेदाऽनुक्तार्थप्रतिपादकत्वं तत्र तत्राप्रमाणत्वम्, यथा पाञ्चरात्रपाशुपततन्त्रे, तत्र हि तप्तचक्रलि᳚न्गशूला᳚न्कनादिवेदविरुद्धार्थप्रतिपादनादप्रमाणत्वं सिद्धम् || न चायं हेतुः सत्प्रतिपक्षः- आगमाः प्रमाणं वेदोक्तधर्मप्रतिपादकत्वात्, स्मृतिवदिति वाच्यम्, यत्किञ्चिद्वेदोक्तार्थप्रतिपादकत्वं वा यावद्वेदोक्तार्थप्रतिपादकत्वं वा ? नाद्यः, अहिंसासत्यादिवेदोक्तधर्मप्रतिपादकबौद्धशास्त्रे व्यभिचारः | न द्वितीयः, यावद्वेदोक्तार्थप्रतिपादकत्वं स्मृतौ नास्तीति दृष्टान्ते हेत्वसिद्धिः | तस्मादनुमानेनाप्यागमा न प्रमाणमिति चेदत्रोच्यते-
SK
परमाप्तपरमेश्वरप्रणीतत्वेन वेदानामागमा- पृ० ४०८) नाञ्चाविशेषेण प्रामाण्यं वक्तव्यम् | �अष्टादशपुराणानां कर्ता सत्यवतीसुतः | कामिकादिप्रभेदानां यथा देवो महेश्वरः ||� इतिवचनादीश्वरकर्तृकत्वस्य सिद्धत्वात् || �वेदसिद्धान्तयोरैक्यमेकार्थप्रतिपादनात् | प्रामाण्यं सदृशं ज्ञेयं पण्डितैरेतयोः सदा || वेदधर्माभिधायित्वात्सिद्धान्ताख्याः शिवागमाः | वेदबाह्यविरोधित्वाद्वेदसम्मत उच्यते ||� तस्माद्वेदागमयोः परमाप्तप्रणीतत्वसाम्याद्वेदोक्त भस्मरुद्राक्षपञ्चाक्षरादिमन्त्रवर्णाश्रमादिधर्मप्रतिपादनसाम्याद्वेद् अबाह्यबौद्धचार्वाकादिमतप्रतिपाद्याऽऽचारविरोधित्वसाम्याच्च द्वयोः समानं प्रामाण्यम् || वस्तुतस्तु श्रुत्यपेक्षयाऽधिकमेवाऽऽगमानां प्रामाण्यं वक्तव्यम् | तथाहि- परमेश्वरस्य निश्वासरूपाणां श्रुतीनामेतावत्प्रामाण्यं चेदीशानवक्त्रात्ताल्वोष्ठपुटव्यापारपुरस्सरमुदितानामर्थप्रतिपादनस् अमर्थानामागमानां प्रामाण्यमधिकमेव || यदुक्तमवैदिकत्वादागमज्ञानं न मोक्षसाधनमिति तन्न, अवैदिकत्वस्यैव निर्वक्तुमशक्यत्वात् || यच्चोक्तमागमानामवैदिकत्वे पार्वतीं प्रति शिवोपदेश एव द्योतक इति तदत्यन्तास᳚न्गतम् | तथाहि- बृहदारण्यके चतुर्थाध्याये मैत्रेयीब्राह्मणे याज्ञवल्क्येन स्वभार्यां मैत्रेयीं प्रति �आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः� इति श्रवणमनननिदिध्यासनादीनामुपदेशात्तेषामवैदिकत्वं स्यात् | तथैव गार्ग्यब्राह्मणे गार्गीं प्रति �एतस्यैवाक्षरस्य प्रशासने गार्गी सूर्याचन्द्रमसौ तिष्ठत� इत्यादीनामर्थानामवैदिकत्वं स्यात् | स्त्रियं प्रत्युपदेशस्य तुल्यत्वात् | अतः स्त्रियं प्रत्युपदेशोऽवैदिकत्वद्योतक इति वचनं मूढसम्मोहकत्वादुपेक्षणीयम् || इत्यागमप्रामाण्यसमर्थनम् || इति वीरशैवानन्दचन्द्रिकायां वादकाण्डे आगमप्रामाण्यसमर्थनं नाम विंशतितमं प्रकरणम् || पृ० ४०९) वीरशैवानन्दचन्द्रिकायां वादकाण्डे एकविंशतितमं प्रकरणम् ||
SK
देशिकेन्द्र त्वया प्रोक्तं तन्त्रप्रामाण्यगोचरम् | भृ᳚न्गिशीलवतोर्वादमाकर्ण्याङन्दितोऽभवम् || अनन्तरं किमारब्धं भृ᳚न्गिणा शीलिना ततः | किन्तत्रोत्तरितं सर्वं तच्छ्रोतुं मेऽस्ति कौतुकम् || वदामि त्वं शृणु वचस्तयोर्वादात्मना स्थितम् | बसवेन्द्र महीपाल कुशाग्रविलसन्मते || शीलिन् शिवागमान् शैवपुराणवचनानि च | अवलम्ब्य शिवोत्कर्षो भवता साधितोऽभवत् || तत्रागमानां प्रामाण्यं साधितं भवताऽधुना | तत्र शैवपुराणानां प्रामाण्यं नोपपद्यते || तामसत्वमहादोषग्रासेन निहितात्मना | इमं वज्रप्रहारं त्वं परिहर्तुं यदिक्षमः || तदा मन्यामहे धन्यं मूर्धन्यं वाग्मिनां वयम् | जायते न हि विक्रान्त्यै मशकानान्तु हिंसनम् || पृ० ४१०) भृ᳚न्गिन्विकत्थसे भूयः कृत्वैव सुकराः क्रियाः जायन्ते मौनिनः सन्तः कुर्वन्तो दुष्कराः क्रियाः || पुराणानां तामसत्वं साध्यतां भवताऽधुना || निराकरोमि तच्चापि पश्य मे बुद्धिकौशलम् ||
SK
ननु शैवपुराणानां तामसत्वात्तदुक्तानां वीरशैवधर्माणां लि᳚न्गधारणादीनां कथं प्रामाण्यम् ? तथाहि- पुराणानां कर्ता चतुर्मुखः केषुचित्कल्पेषु सत्त्वेनोद्रिक्तो भवति, केषुचिद्रजसा केषुचित्तमसा | स यदा सत्त्वेनोद्रिक्तस्तदा वैष्णवानि पुराणानि प्रणिनीय, यदा रजसोद्रिक्तस्तदा ब्राह्माणि, यदा तमसोद्रिक्तस्तदा शैवानि || एवञ्च तमोगुणान्धब्रह्मप्रणीतानि शैवपुराणानि भ्रान्तजल्पितानीवाप्रमाणान्येव | वैष्णवपुराणानि तु सत्त्वोद्रिक्तब्रह्मप्रणीतानि प्राज्ञवाक्यानीव प्रमाणानि | यथोक्तम् मात्स्ये- श᳚न्कीर्णाः सात्त्विकाश्चैव राजसाश्चैव तामसाः | यस्मिन्कल्पेतु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा || तस्य तस्य तु माहात्म्यं तेन रूपेण वर्ण्यते | अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्तितम् || स᳚न्कीर्णेषु सरस्वत्याः पितृर्णाञ्च निगद्यते | सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः || तेष्वेव योगसंसिद्धा गमिष्यन्ति परा᳚न्गति� मिति || यद्यप्युदाहृतश्लोकेषु ब्रह्मणः कल्पभेदात्तत्तद्गुणोद्रिक्तत्वं न स्फुटं प्रतीयते; तथापि तत्तद्गुणाधिकमूर्तिमाहात्म्यस्य तत्तद्गुणोद्रिक्तब्रह्मप्रतिपाद्यतौचित्यात्, �जायमानं हि पुरुषं यः पश्येन्मधुसूदनः | सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः || पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः | रजसा तमसा चास्य मानसं समभिप्लुतम् ||� इति मोक्षधर्मवचनेन स्वकटाक्षेण सत्त्वादिप्रवर्तकविष्णुमाहात्म्यप्रतिपादनस्य सत्त्वादिमूलकत्वौचित्याच्च ब्रह्मणस्तत्तत्पुराणप्रणयनकाले तत्तद्गुणोद्रेकसिद्धिः | नचोदाहृतवचनजातस्य तामसमात्स्यपुराणान्तर्गततया सुतरामप्रमाणत्वे सति नाभिमतार्थसिद्धिः, प्रमाणत्वे
SK
पृ० ४११) तु व्याघात इति वाच्यम्, तामसपुराणान्तर्गतत्वेन हि मानान्तरविरोधे दुर्बलत्वादप्रामाण्यं भवेत् | नतु तदभावेऽपि सम्भवदौत्सर्गिकं प्रामाण्यं हातव्यमिति प्रामाण्यसम्भवात्; ब्रह्मशिवादिप्रतिपादनाभिनिविष्टस्य प्रबन्धस्य भगवत्प्रकर्षोक्तावाग्रहासम्भवेनास्य वचनस्य तत्परत्वोपपत्तेश्च | न चानेकपुराणाप्रामाण्यकल्पनादेकस्यैतस्याप्रामाण्यकल्पनं ज्यायः भूयसां बलीयस्त्वादिति वाच्यं, ब्रह्मशिवादिप्रतिपादकपुराणेष्वेतद्वचनप्रतिपाद्यस्य स्वकीयरजस्तमोमूलकत्वस्य कण्ठरवेण प्रतिषेधाभावान्न साक्षादस्ति विरोधः; किन्तु तेषु स्ववाचोद्घाटितं प्रामाण्यमेतद्वचनगम्यरजस्तमोमूलकत्वविरोधीति परम्परया विरोधः | तत्रापि नानेन वचनेन प्रागसिद्धं तेषामप्रामाण्यं प्रतिपाद्यते, किन्तु परस्परविरुद्धार्थानां सर्वेषां पुराणानां प्रामाण्यानुपपत्तौ क्वचिदप्रामाण्ये पर्यवसाययितव्ये विषयव्यवस्थामात्रतात्पर्येण प्रवृत्ततया विरोधाभावात् | एवं बलवताऽनेन निश्चितरजस्तमोमूलताकानां तेषां बहूनामपि बहुभ्रान्तवाक्यानामेकप्राज्ञवचनादिवदेतद्वचनाद्दुर्बलत्वात् || कि᳚न्च न केवलमियतैव तेषामप्रामाण्यं प्रत्यक्षश्रुतिविरोधादिभ्योऽपि तत्सिद्धेः | तथाहिः- श्रुतौ तावत्, ङारायणाद्रुद्रो जायते, नारायणाद्ब्रह्मा जायते | तस्मै विरूपाक्षाय ब्रह्मणः पुत्राय नम� इत्यादि वाक्यैर्नारायणस्य सर्वजनकत्वे रुद्रस्य तज्जन्यत्वं तज्जन्यब्रह्मजन्यत्वञ्च श्रूयते | नारायणस्य तज्जन्यत्वं तदुपासकत्वञ्च प्रतिपाद्यत इति श्रुतिविरोधः | किञ्च लै᳚न्ग्ये �युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ | अस्यैव दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः || वामपार्श्वे च मे विष्णुर्विश्वात्मा हृदयोद्भवः ||� इति शिवाद्ब्रह्मनारायणयोरुत्पत्तिमुक्त्वा प्रदेशान्तरे विष्णुं प्रति वचने �त्वत्कोपसम्भवो रुद्रस्तमसा च समावृतः | त्वत्प्रसादाज्जगद्धन्ता रजसा च पितामहः ||� इति नारायणाद्ब्रह्मरुद्रयोरुत्पत्तिश्च व्याख्यातः | तदेवं वक्तुस्तामसत्वदोषात्,
SK
श्रुतिविरोधात्,
SK
पृ० ४१२) स्वव्याघातात्, स्वोक्तार्थस्य प्रमाणत्वेनाभिमतपुराणान्तराननुगृहीतत्वात्, लै᳚न्ग्यस्यादौ �तस्माद्भवन्तं पृच्छामः सूत पौराणिकोत्तम | पुराणसंहितां पुण्यां लि᳚न्गमाहाम्यसंयुता� मिति विशेषनिष्ठप्रश्नोपक्रमेण प्रवृत्ततया लि᳚न्गमाहात्म्यवर्णनाग्रहस्य स्पष्टत्वात्, कौर्मादिषु नष्टकोशत्वप्रसिद्धेरतिविस्तृततया च सर्वेषां प्रक्षेपश᳚न्कासम्भवाच्च, शिवपुराणानां न प्रमाण्यं सम्भवति | विष्णुपुराणानान्तु सर्वप्रकारेणाप्युक्तवैपरित्यात्प्रामाण्यमस्ति | तथाहि- विष्णुपुराणस्य वक्ता पराशरः | स च वसिष्ठपुलस्त्यवरप्रसादलब्धदेवतापारमार्थ्यज्ञान इति विष्णुपुराणलै᳚न्ग्यादिषु प्रसिद्धम् | अतेव लै᳚न्ग्ये- �पराशरस्यावतारो व्यासस्य च शुकस्य चे�ति भगवतीव पराशरेऽप्युत्पत्तिरिति वक्तव्येऽवतार इति प्रयुक्तमित्येवं वक्तृगुणः | तथा �विष्णोः सकाशादुद्भूतं जगदेतच्चराचर� मिति वचनेन न ब्रह्मा नेशान इत्यादिश्रुत्याङुगुण्यम् | तथा सर्वत्र विष्णूत्कर्षस्यैव प्रतिपादनान्न क्वापि स्वव्याघातः || यत्तु तत्र तत्र कैलासयात्रादेवकीगर्भोत्पत्यादिपरत्वविरुद्धधर्मोपवर्णनं तत्प्रसक्तापकर्षस्पर्शस्य शर्वावर्तेषु विष्णोश्च जननं लीलयैव तत्� इत्यादिलीला- रूपत्वेन परिहृतत्वान्न क्वापि स्वव्याघातः | तथा विष्णुपुराणोक्तार्थस्य तद्विरुद्धलै᳚न्ग्यादिभिरपि शर्वे विष्णुमया देवाः सर्वे विष्णुमयाः गणाः | न हि विष्णुसमा काचिद्गतिरन्या विधीयते || इत्येव सततं वेदा गायन्ते नात्र संशयः | त्वत्कोपसम्भवो रुद्रस्तमसा च समावृतः || सर्वावर्तेषु विष्णोश्च जननं लीलयैव तत् |� इत्यादिना प्रतिपादितत्वेन सर्वपुराणसंवादितम् || तथा शोऽहमिच्छामि वै धर्मं श्रोतुं त्वत्तो यथा जगत् | बभूव भूयश्च यथा महाभाग भविष्यती� ति सामान्यतः प्रश्ने, �विष्णोः सकाशादुद्भूतं जगत्तत्रैव संस्थित�मिति विशेषनिष्ठोत्तररूपेण प्रवृत्ततया क्वचिदप्यस्याग्रहाभावः स्पष्ट इति तत्त्वावेदकत्वं स्फुटम् | तथा षट्सहस्र्या अपि श्रूयमाणतया
SK
न नष्टकोशत्वश᳚न्कावकाशः | अतेव नातिविस्तृततया पृ० ४१३) प्रक्षेपश᳚न्काभावश्चेति वैष्णवान्येव पुराणानि प्रमाणानि | शैवानि तु तदविरुद्धे प्रमाणानि भवन्त्यपि तद्विरुद्धे शिवोत्कर्षेण सर्वथैवाप्रमाणानीति || अत्रोच्यते- यद्यपि परैरित्थं शैववैष्णवपुराणानां वैलक्षण्यमुक्तमिति तद्वैपरीत्येन विष्णुपुराणानामप्रामाण्यं प्रतिपादनीयम् | तथापि तत्त्वाऽऽवेदनप्रवृत्तैरस्माभिर्न तथा कर्तृमुचितम् | नहि परेण भ्रान्तमिति स्वेनापि भ्रमितव्यम् | अतः सर्वपुराणप्रामाण्यव्यवस्थापकः सिद्धान्तः प्रस्तूयते-यत्तावदुक्तं वक्तुस्तामसत्वदोषादिति तदेवासिद्धम्, तथाहि- पुराणानां को वक्तेत्यभिमानः ? चतुर्मुख इत्युक्तमेवेति चेत्सत्यमुक्तम्, तदेव तु दुरुक्तं भवद्भ्रान्तिकल्पितसात्त्विकादिदुर्विभागकथाभिज्ञेन भवतैव प्रमाणतयाऽभ्युपगते च भारत एव शान्तिपर्वणि राजधर्मे शिव एव सर्वपुराणानामादिवक्तेत्युक्तत्वात् | तथाहि- भवश्च भगवान्ध्यात्वा चिरं शूलवरायुधम् | असृजत्सर्वशास्त्राणि महादेवो महेश्वरः || विद्याश्चतस्रः कूटस्थास्तासां भेदविकल्पनाः | अ᳚न्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः || पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश | आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः || अर्थशास्त्रञ्चतुर्थन्तु विद्या ह्यष्टादशैव तु | दश चाष्टौ च विख्याता एता धर्मस्य संहिताः || एतासामेव विद्यानां व्यासमाह महेश्वरः | शतानि त्रीणि शास्त्राणामाह तन्त्राणि सप्ततिम् || पृ० ४१४) इति सामान्यत उक्त्वा, तन्त्रं पाशुपतं नाम पाञ्चरात्रञ्च विश्रुतम् | योगशास्त्रञ्च विख्यातं तन्त्रं लोकायतं तथा || दश चाष्टौ च विज्ञेयाः पुराणा यज्ञसंहिताः | पुरा व्यासप्रणीताश्च तावदेव हि संहिताः || धर्मशास्त्राणि तावन्ति एकार्थानीति नान्यथा | एकार्थानि पुराणानि वेदाश्चैकार्थसंश्रयाः || इति ||
SK
तथा तत्र तत्र पाञ्चरात्रादिषु विष्ण्वादिकर्तृकत्वस्मरणस्य प्रवृत्तत्वपरत्वं दर्शयितुम् �कल्पे कल्पे महाभागैरृषिभिस्तत्त्वदर्शिभिः | ऋषिपुत्रैश्च तैस्तैर्हि विष्णुना च विकल्पितः ||� इत्यप्युक्तम् | तथाच �तस्मै वेदान्पुराणानि दत्तवानग्रजन्मन� इति पुराणवचनोपबृंहिततया �यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै� इत्यनुक्तपुराणसमुच्चयार्थकचकारवत्या श्रुत्या सर्गाद्यकाले शिवाल्लब्धानां पुराणानां प्रवक्ता परञ्चतुर्मुख इति सिद्धत्वेन तस्य पुराणप्रणेतृत्वाऽसिद्धेः | नच प्रवक्तुस्तमोऽभिभवो दोषाय, तस्य प्रणेतृदोषवत्प्रबलाप्रामाण्यानापादकत्वात्; अन्यथाऽस्मदादिपठितवेदवाक्यानामप्यप्रामाण्यापत्तेः | किञ्चायं पुराणानां प्रवक्ता वाऽस्तु प्रणेता वा, सर्वथाऽपि स यदि पुराणानि युगपदनुक्त्वा क्वचित्कल्पे कानिचित्क्वचित्कल्पेऽपराणि च प्रणयेत्तदा घटेतापि कथञ्चिदभिलषितलाभप्रत्याशा | तदेवासिद्धम्, यत्पुराणे यत्प्रकरणे विद्यमानं वचनमुदाहृत्य चिन्तयितुमिष्यते तत्रैव मात्स्ये तस्मिन्नेवपुराणस्वरूपविवेचनप्रकरणे तदुपक्रम एव- पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् | अनन्तरन्तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः || पृ० ४१५) पुराणमेकमेवासीत्तदा कल्पान्तरे नृप | त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् || निर्दग्धेषु च लोकेषु वारिपूरेण वै मया | अ᳚न्गानि चतुरो वेदान्पुराणं न्यायविस्तरम् || मीमांसां धर्मशास्त्रञ्च परिगृह्य मया कृतम् | मत्स्यरूपेण तु पुनः कल्पादावुदकार्णवे || अशेषमेतत्कथितमुदकान्तर्गतेन च | श्रुत्वा जगाद च मुनीन्प्रतिमत्तश्चतुर्मुखः || प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः | कालेन ग्रहणं दृष्ट्वा पुराणस्य ततो नृप || व्यासरूपमहं कृत्वा संहारादि युगे युगे | चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा || तथाष्टादशधा कृत्वा भूलोकेऽस्मिन्प्रकाशते | अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् || तदर्थश्च चतुर्लोके स᳚न्क्षेपेण निवेशितः |
SK
इति सर्गाद्यकल्पे युगपदेव ब्रह्ममुखाद्ब्रह्मपाद्मादिविभागस्य शतकोटिग्रन्थस᳚न्ख्याकस्य स्कान्दपुराणस्यैकस्यैव निर्गममुक्त्वा, ततः कल्पान्ते जगत्येकार्णवे सति नष्टेष्वध्येतृपुरुषेषु चतुर्दशविद्यास्थानान्यपि धारयता भगवता मत्स्यरूपेण �कल्पे कल्पे महाभागैरृषिभिस्तत्त्वदर्शिभिः | ऋषिपुत्रैश्च तैस्तैर्हि विष्णुना च विकल्पितः ||� इति महाभारतोक्तरीत्या प्रवचनमात्रं पुराणानां कृतम् | तन्मुखाच्च चतुर्मुखः श्रुत्वा, तथैवाखण्डरूपेण तत्पुराणं मुनिभ्य उपदिदेश | ततो बहुतिथे कालेऽतीते द्वापरान्ते प्रसक्ते मनुष्याणामायुर्ह्रासात्तावद्विस्तारपुराणस्कन्दाध्ययनाध्यापनशक्तिकौ ण्ठ्यं पर्यालोच्य लोकानु-
SK
पृ० ४१६) जिघृक्षया भगवतैव व्यासरूपेणाष्टादशधा विभागश्चतुर्लक्ष्या संक्षेपश्च कृत इति प्रतिपादनेन तत्रापि कल्पे ब्रह्मणा विभज्य कथनस्य कतिपयपुराणकथनस्य चासिद्धेः कथमभिमतलाभ इत्यास्तामेतत् || तत्तत्कल्पेषु ब्रह्मा तत्तद्गुणोद्रिक्त इति यदुक्तं तत्र वा किं प्रमाणम् ? न तावदुदाहृतं वचनम्, तत्रोक्तार्थबोधकशब्दाभावात् | न च तत्स्वरुपेणेत्येतदेव प्रामाण्यं भवतीति वाच्यम् | यच्च यस्मिन्कल्पे तु यत्प्रोक्तं तद्गुणाधिकत्वोक्तिरित्यादि तदतितुच्छं वर्ण्यवर्णकयोरैकरूप्यनियमासिद्धेः; न ह्यन्धेनैवान्धो बधिरेणैव बधिरो वर्णयितव्य इति नियमः; सात्त्विकेनैव व्यासेन तामसानामसुरादीनां वर्णनात् | ननु न सात्त्विकः तामससोत्कर्षं भ्रान्त्या वर्णयति, तामसस्तु तथा करोतीत्यौचित्यमिति चेत्तदपि न, एवमपि राजसोत्कर्षवर्णनस्यापि भ्रममूलकतया तत्रापि वक्तुस्तामसत्वे कल्पनीये राजसत्वकल्पनाऽयोगात् | रजसः प्रवृत्तिधर्मत्वेन तमोवदज्ञानजनकत्वाभावात्; कथञ्चिद्भावे व्यवस्थानुपपत्तेः, राजसतामसोत्कर्षवर्णनयोर्भ्रममूलकाविशेषे राजसोत्कर्षवर्णनं राजसेनैव, तामसोत्कर्षवर्णनं तामसेनैव कर्तव्यमिति व्यवस्थायां नियामकाभावात् || यदप्युक्तं तत्तद्गुणप्रवर्तकमहिमवर्णनस्य तत्तद्गुणमूलकत्वमिति तदपि न, प्राग्वदेवाप्रयोजकत्वात् | अन्यथा वातप्रकोपजनकपदार्थगुणपाठस्यापि वातमूलकत्वापत्तेः | किञ्च श᳚न्कीर्णेषु सरस्वत्याः पितृर्णाञ्च निगद्यत� इति श्रवणाद्यस्मि- न्कल्पे पितृसरस्वतीप्रतिपादकपुराणं प्रणिनाय तदाऽस्य स᳚न्कीर्णता कल्पनापत्तेः | न चेष्टापत्तिस्तादृशपुराणाभावात् | न च तादृशपुराणामेकं प्रणीय भागशस्तत्र प्रतिचिक्षपेति वाच्यं, पुराणानामादिकाल एव कॢप्तसंख्याश्रवणस्य तत्तदनुक्रमणिकाध्यायोक्तकथानुक्रमस्य च विरोधात् || यदप्युक्तं कल्पेषु सात्विकादिव्यपदेशानुपपत्या तत्प्रवर्तकस्य ब्रह्मणस्तत्तद्गुणोद्रेकसिद्धिरिति तदपि न, हेमन्तादिषु
SK
हिमकालादिव्यपदेशवत्कल्पानां तद्गुणप्राचुर्येण तत्तत्समाख्योपपत्तेरित्यास्तामिदमपि || यच्चोक्तं बहूनां पुराणानामप्रामाण्य-
SK
पृ० ४१७) कल्पनादेकस्य वचनस्याप्रामाण्यकल्पनं युक्तं भूयसां बलीयस्त्वादिति तन्न, भूयसां बलीयस्त्वं नास्ति साक्षाद्विरोधे त्वस्तीति कल्पयितुं शक्यत्वात् || यदप्युक्तं तत्रैव नानेन बहूनामप्रामाण्यं प्रतिपाद्यते, किन्त्वविशेषप्रसक्तस्य तस्य विशेषपर्यवसानं क्रियत इति तदप्यस᳚न्गतम्, किमनेन विरोधः परिहृतः ? बाढमिति चेदस्तु, तर्हि केनाप्रामाण्यं शिवपुराणानामापतितम् ? परस्परविरोधेनेति ब्रूमः; नैषः सर्वसाधारण इति स कथं शिवपुराणानामप्रामाण्यमापादयेत् ? एतद्वचनसाचिव्येनेति चेत्, हन्तैवमागतो विरोधः | परन्तु कश्चिदन्योऽपि हेतुरासीदित्यन्यदेतत् | उभयोर्हेतुत्वेऽपि प्राप्ताप्राप्ताविवेकेन परस्परविरोधे सिद्धस्याप्रामाण्यस्य स्थलविशेषनिर्णयमात्रेऽस्य व्यापार इति चेन्न, तन्निर्णयार्थमप्यप्रामाण्यव्याप्यतमोमूलकत्वप्रतिपादनमुखेन प्रवृत्तस्यास्त्येव वचनस्य बहुप्रमाणविरोधः, स च दुष्परिहर एवेतीदमप्यास्ताम् || यच्चोक्तमस्यैव वचनस्य तामसपुराणान्तर्वर्तितया कथं प्रामाप्यमिति श᳚न्कायाम्, मानान्तराविरोधात्सम्भवदौत्सर्गिकं प्रामाण्यमक्षतमिति तदप्ययुक्तम्, प्रागुदाहृतभारतवचने �पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दशे�ति विद्यापद- प्रयोगात्, �दश चाष्टौ च विख्याताः पुराणा धर्मसंहिताः� इति धर्मसंहितापदप्रयोगाच्च, प्रमाणत्वेन परिगणितासु विद्यासु पुराणं सामान्यत उपादाय, �एतासामेव विद्यानां व्यासमाह महेश्वर� इत्युपक्रम्य तद्विद्याभेदानुक्रमावसरे �दश चाष्टौ च विज्ञेयाः पुराणा यज्ञसंहिताः | पुरा व्यासप्रणीताश्च तावदेव हि संहिताः | धर्मशास्त्राणि तावन्ति एकार्थानीति नान्यथा | एकार्थानि पुराणानि वेदाश्चैकार्थसंश्रयाः� इत्यष्टादशपुराणानां परिगणनेन तेषु श्लोकमात्रस्याप्यप्रामाण्यानुपपत्तेः | नहि तत्र प्रत्यक्षादीनि प्रमाणानि भवितुमर्हन्ति | अपि च परस्परविरोधादप्रामाण्यमिति भ्रमोऽपि न कर्तव्यः, असिद्धेः, तत्रैव एकार्थानि पुराणानीति पठितत्वाच्च | मानान्तरविरोधो
SK
दुरुपपाद एव | का तर्हि तस्य वचनस्य गतिरिति चेत्, शृणु- पृ० ४१८) श᳚न्कीर्णाः सात्त्विकाश्चैव राजसाश्चैव तामसा� इति तत्तद्गुणप्रचुरतया कल्पांस्तथा तथा व्यपदिश्य, �अग्नेः शिवस्ये� त्यादिना तत्तद्गुणोत्कर्षवति काले तत्तद्गुणोपाधिकमूर्तेराधिक्यमुचितमित्यभिप्रायेण ब्रह्माद्युत्कर्षाणां कल्पभेदप्रवृत्तत्वमुपपाद्य, यस्मिन्कल्प इति श्लोके कल्प इति विषयसप्तमीं कृत्वा, यं कल्पं विषकीकृत्याधिकृत्य च यत्पुराणं प्रोक्तं प्रथममुक्तं ब्रह्मणा प्रशस्य प्राथम्यपरत्वेन केन प्रोक्तमित्यादाविव प्रोक्तशब्दस्य प्रथमवचनमात्रपरत्वात्; तत्स्वरूपेण तत्पुराणस्वरूपेण तस्य तस्य माहात्म्यं तत्तत्कल्पमाहात्म्यं वर्ण्यते | घनविद्युद्गर्जितादिवर्णनस्य वर्षाकालवर्णनत्ववत्तत्तत्कल्पवृत्यग्न्यादिमाहात्म्यवर्णनस्यैव तत्तत्कल्पवर्णात्मकत्वादिति प्रतिपादनेन भिन्नभिन्नकल्पविषयाणां पुराणानां नास्ति परस्परविरोध इत्येकार्थानि पुराणानिति भारतोक्तरीत्या सर्वपुराणप्रामाण्योपपादनतात्पर्यकत्वेन सामञ्जस्यात् | एवं कस्याप्यबाधेनोपपत्तौ कतिपयपुराणबाधस्य युक्तत्वात् स्पष्टश्चायमर्थः कौर्मशैवादिषु यथोक्तम्- अस᳚न्ख्याताः स्मृताः कल्पा ब्रह्मविष्णुशिवात्मकाः | कथिताश्च पुराणेषु मुनिभिः कालचिन्तकैः || सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः | तामसेषु महेशस्य राजसेषु प्रजापतेः || क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते | नानेन तेषामाधिक्यं न्यूनता वा कथञ्चन || तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः | तानि तानि प्रणीतानि विद्वांस्तत्र न मुह्यति || इति || किञ्चाष्टादशपुराणानां दानविधिं वक्तुमुपक्रम्य मध्ये, नन्वष्टादशानां प्रामाण्यं न सम्भवति, परस्परविरोधादतो लोकायतादि-
SK
पृ० ४१९) वदप्रमाणानामेषां दानेन कथं स्वर्गो भवत्विति श᳚न्कायां तत्परिहारार्थं प्रवृत्तेनानेन वचनेन यावन्ति दातव्यत्वेनाभिमतानि पुराणानि तावतां प्रामाण्यसमर्थनमेव कर्तुं न्याय्यम्, नतु तन्मध्ये कतिपयानाम् | तथा सत्यप्रमाणानां तेषामुत्तरत्र दानविधिर्विरुध्येत | तस्मात्परिहृतमेतद्यत्तावद्वक्तृदोष इति || यदप्युक्तं प्रत्यक्षश्रुतिविरोधादिति तदपि तुच्छम्, शिवाद्बह्मनारायणयोरुत्पत्तिवर्णनं हि प्रत्यक्षश्रुतिविरुद्धमित्यभिमानः, स एव भ्रममूलः | अथर्वशिरसि शर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते सर्वाणि चेन्द्रियाणि सहभूतैर्न कारणं कारणानां ध्यात्वा कारणं तु ध्येयः सर्वैश्वर्यसम्पन्नः सर्वेश्वरः शम्भुराकाशमध्ये� इति ब्रह्मविष्णुरुद्राणां शिवादुत्पत्ति श्रवणात् | किञ्चोदाहृतश्रुतिविरोधे विष्णुपुराणानामपि तुल्ये कथमेकत्र तदुद्भावनम् | नच नारायणादुद्रो जायत इति श्रुत्या कार्यत्वेनावगते रुद्रे श्रुत्यन्तरेण श्रूयमाणमपि ब्रह्मनारायणकारणत्वम्, �आत्मन आकाशः सम्भूत� इति श्रुत्या कार्यत्वेनावगते भूताकाशे शर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त� इति श्रुत्या प्रतिपादितं जगत्कारणत्वमिवान्वेतुमनर्हं सत्तदन्त-र्यामिणि परमात्मनि पर्यवस्यतीति न विष्णुपुराणस्य श्रुतिविरोध इति वाच्यम्, वैपरीत्यस्यापि सुवचत्वात् | अथर्व शिरसि कार्यत्वेन श्रुते विष्णौ श्रूयमाणं जगत्कारणत्वं तत्रान्वयमलभमानं सत्तदन्तर्यामिणि परमशिवे पर्यवस्यतीति || वस्तुतस्तु न कस्यापि पुराणस्य श्रुतिविरोधः, गुणमूर्तीनामन्योन्यस्मादुत्पत्तिमभिप्रेत्य नारायणाद्ब्रह्मेत्यादिश्रुतयः परमशिवादुत्पत्तिमभिप्रेत्य सर्वमिदमित्यादिश्रुतय इति सविस्तरं व्यवस्थापितमप्पयदीक्षितैः शिवार्कमणिदीपिकादिषु || यच्चोक्तं स्वव्याघातादप्रामाण्यमिति तदप्येतेनैव निराकृतम्, नारायणाद्रुद्रोत्पत्तिर्गुणिरुद्रविषया; त्रिमूर्तीनामुत्पत्तिस्तु परमशिवविषयेति व्यवस्थाभिप्रायकतया स्वव्याघातगन्धस्याप्यभावात् | यच्चोक्तं
SK
स्वोक्तार्थस्य प्रमाणत्वाभिमतपुराणान्तराननुगृहीतत्वमिति तदपि
SK
पृ० ४२०) तुच्छम्, शिवपुराणप्रतिपाद्यस्य शिवे ब्रह्मनारायणयोर्जनकत्वस्य तदुपास्यत्वस्य च परैः केवलमसूयितव्यस्य सर्वसम्प्रतिपन्ने महाभारत एव �असृजद्दक्षिणाद᳚न्गाद्ब्रह्माणं लोकसृष्टये | वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः� इति, �यस्य ब्रह्मा च विष्णुश्च त्वञ्च शक्त्या सहामरैः | अर्चयध्वे सदा लि᳚न्गं तस्मात्पूज्यतरो हि सः� इत्यादिना च प्रपञ्चितत्वात्; अपि च भवदभिमते पाद्मे शिवराघवसंवादे गारुडे शिवरहस्यपादे च शिवपुराणोक्तार्थानां सविस्तरतया प्रतिपादनाच्च || यच्चोक्तं �पुराणसंहितां दिव्यां लि᳚न्गमाहात्म्यसंयुता� मिति विशेषनिष्ठप्रश्नोपक्रमेण प्रवृत्ततया लि᳚न्गमाहात्म्ये आग्रहवत्वादप्रामाण्यं लै᳚न्ग्यस्येति तदपि न युक्तम्, नहि शब्दानां तात्पर्यादन्य आग्रहो नामास्ति तात्पर्यञ्च | मूर्धाभिषिक्तं प्रामाण्यनिदानमिति कथमप्रामाण्ये विरुद्धो हेतुरुपन्यस्तः | प्रत्युत यत्राग्रहो नास्ति तत्प्रमाणान्तरेण बाध्येतापि, यत्र त्वाग्रहो नास्ति तत्तत्सर्वथा बाध्यते अन्तरो विकल्पं वाऽनुभवेत् | नच माहात्म्यशब्दवाच्यप्रशंसायामाग्रहोऽपि, तद्घटके ब्रह्मनारायणजनकत्वादौ न प्रामाण्यमिति वाच्यम्, प्रशंसामात्रस्य तैरपि ज्ञाततया तद्घटकांश एव तेषां जिज्ञासायां तदुत्तरत्वेन प्रवृत्तस्य पुराणस्य तत्रैव तात्पर्यवत्वेन प्रमाणत्वात् | नच न ब्रूमस्तात्पर्यवत्वादिति, लि᳚न्गमाहात्म्यशुश्रुषुभिः पृष्टे �न बुद्धिभेदं जनयेदि�ति न्यायेन तत्त्वमाच्छाद्य तद्बध्यनुसारेणैव प्रवृत्ततया प्रशंसामात्रे तात्पर्यमिति, न वाच्यार्थे प्रामाण्यमिति वाच्यं, तत्त्वव्युत्पादनार्थं प्रवृत्तेषु पुराणेषु अप्रतिपन्नतत्त्वेन पृष्टे, अन्यथा बुध्या पृष्टेऽपि यथावत्त्वया पृष्टं नैतदेवं मन्तव्यमिदन्तु वस्तुतत्त्वमिति वक्तव्ये, तद्विहायान्यथा प्रवृत्तत्वा᳚न्गीकारे पुराणानां मोहशास्त्रत्वप्रस᳚न्गात्, मैत्रेयेण जगत्कारणं किमिति सामान्यतः पृष्टेऽपि चिरपरिचयास्तत्प्रकृतेरभिज्ञेनात एव विदिततदीयविष्णुभक्तिकेन पराशरेण न
SK
बुद्धिभेदमिति पृ० ४२१) न्यायात्तद्बध्यनुसारेण विष्णोः सकाशादुद्भूतं जगदित्याद्युक्तमिति वैपरीत्यस्यापि सुवचत्वाच्च || किञ्च लै᳚न्ग्ये तथात्वेऽपि शैवे प्रयागे विद्यमानानामृषीणां सूतं प्रति प्रश्ने �त्वमदृष्टवशादस्मद्दर्शनं समुपागतः | अकुर्वन् किमपि श्रेयो न वृथा गन्तुमर्हसि || तस्माच्छ्रेष्ठतरं पुण्यं सत्कथा ज्ञानसंहितम् | अपवर्गफलैकान्तमनाचारबहिष्कृतम् || जगतां सृष्टिसंहारस्थितिहेतुप्रदर्शकम् | वेदान्तसारसर्वस्वं पुराणं श्रावयाद्य नः ||� इति सामान्यनिष्ठप्रश्नोपक्रमेण प्रवृत्ते प्रामाण्यस्य त्वयापि वक्तव्यत्वात् | भागवते प्रामाण्यस्य त्वयैव वक्तव्यत्वाच्च | तत्र हि सूतं प्रति ऋषीणां प्रश्नोऽस्ति- शूत जानासि भद्रं ते भगवान् सात्वतां पतिः | देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया || तन्नु शुश्रूषमाणानामर्हस्यद्यानुवर्णितु�मिति विशेषस्यैव विषयी कृतत्वात्, �आपन्नः संस्तुतिं घोरा�मित्यादिभिश्चतुर्भिः श्लोकैस्तेषां भगवत्युत्कटाया भक्तेर्व्यक्तत्वात्, ततोऽपि पूर्वमेव प्रबन्धुप्रार्थनेऽपि �बत भागवतं रसालय�मिति विशेषनिष्ठतायाः प्रकटितत्वाच्च, तदुपक्रमेण प्रवृत्ते प्रबन्धे दुष्परिहरमप्राण्यम् | यदप्युक्तं कौर्मादिषु नष्टकोशत्व- प्रसिद्धिरिति तदप्यसारं या षट्सहस्रग्रन्थात्मिका ब्राह्मी संहिता प्रचरति सा न नष्टैव, मात्स्यवचनावगतसप्तदशसहस्रमध्ये ब्रह्मसंहितातिरिक्तोऽयमेकादशसहस्रग्रन्थात्मको भागः स नष्ट इति चेदस्तु को नेत्याह ? न हि वयं तत्रत्यानि वचनान्युदाहरामः | श्रूयमाणा तु या संहिता न तस्यां तदितरनाशप्रयुक्तं किञ्चिदिति श᳚न्काबीजमस्ति | तदितरभागस्य नष्टतया नानयापि संहितया तद्वदेव नष्टया भवितव्यम् | कस्यचिल्लोपस्य कस्यचिल्लोपे नियामकाभावात् | श्रूयमाणा तु केनचित्कल्पितेति स्यादनाश्वास इति चेन्न, अप्रयोजकत्वात् | नहीन्द्रादिव्याकरणनाशनिमित्तस्तिलमात्रोप्यनाश्वासः पाणिनीये तव मम वाऽस्ति | किञ्चैवं सति विष्णुपुराणे मात्स्यवचनावगत-
SK
पृ० ४२२) त्रयोविंशतिसहस्रमध्ये सप्तदशसहस्रीनाशप्रयुक्तो विद्यमानषट्सहस्र्यामनाश्वासो दुष्परिहर एवाऽऽपतेत् | यच्चोक्तमतिविस्तृततया प्रक्षेपश᳚न्कास्पदत्वमिति तद्धि न विविच्य प्रश्नमपि क्षमते, तथाहि- किमतिविस्तृतत्वं नाम किं स्वत एवाधिकग्रन्थवत्वं किं वा कॢप्तस᳚न्ख्यापेक्षयाऽधिकस᳚न्ख्यावत्वेनोपलभ्यमानत्वम् ? आद्ये, सर्वपुराणसाधारण्यान्नेष्टसिद्धिः | द्वितीये त्वसिद्धिः यो हि कॢप्तग्रन्थस᳚न्ख्या पुष्कला न लभ्यत इति नष्टकोशो भवतु ग्रन्थ इत्युपालभते तं प्रत्येव कथमुक्तलक्षणमतिविस्तृतत्वमापादनीयम् | इदमन्यद्वा किञ्चिदस्त्वतिविस्तृतत्वम्, सर्वथापि तत्किं वैष्णवपुराणेषु नास्ति ? तत्किं व्यर्थं परान्भ्रमयसीत्यास्तां तावदिदम् || यदप्युक्तं विष्णुपुराणं शिवपुराणोक्तदोषसप्तकराहित्यात्प्रमाणमिति तत्र प्रतिज्ञांश एकः साधुः, हेत्वंशस्तु न परीक्षाक्षमः; तथाहि- यत्तावदुक्तं वक्तृगुणरूपमाद्यवैलक्षण्यमुपपादयितुं पुलस्त्यवसिष्ठवरलब्धदेवतापारमार्थ्यज्ञानशालितया, शिवपुराणेष्वपि स्वोत्पत्ताववतारपदप्रयोगसूचितमहिमशालितया च, शिवपुराणवक्तृतामसचतुर्मुखापेक्षया पराशर उत्कृष्ट इति तद्विचारयामः- वक्तात्र किं प्रबन्धप्रणेता कविरभिमतः, उत कविना स्वग्रन्थे स्वप्रतिपाद्यार्थवक्तृत्वेन निबद्धः ? आद्ये, वैष्णवपुराणानां सत्त्वोद्रिक्तचतुर्मुखप्रणीतत्वस्य भवतैवोद्घोषितत्वेन पराशरोत्कर्षवर्णनस्य प्रकृतानुपयोगात् | द्वितीये, शिवपुराणवक्तुस्तामसत्वदोष इति वादस्यास᳚न्गतिः स्पष्टैव | तत्र हि मत्स्यकूर्मशिवादयो वक्तृत्वेन निबद्धा इति | तथाच पराशरानुग्राहकपुलस्त्याद्युपास्यमत्स्यकूर्मादिवक्तृकेभ्यः शिवपुराणेभ्यस्तदुपासकोपासकपराशरवक्तृकत्वमेव विष्णुपुराणानां महद्वैलक्षण्यमिति वादः कस्य न हासाय भवेत् ? यच्च तस्य माहात्म्यन्तदुत्पत्ताववतारपदप्रयोगात्साधितं तदपि तस्यैव सन्तोषाय | किमवतारपदं महतामुत्पत्तौ शक्तमित्यभिमानः, किं वा साधारण्येऽपि
SK
तत्रैव प्रयाग इति ? नाद्यः, शक्तिग्राहककोशव्याकरणादेरभावात् | पृ० ४२३) न द्वितीयः, असिद्धेः, शर्वे तेऽवतरिष्यन्ति ब्राह्मणाद्यासु योनिष्वि�ति गोतमशापदग्धानां पाषण्डानामुत्पत्तावप्यवतारपदप्रयोगात् | स तु लाक्षणिकः प्रयोग इति चेद्वैपरीत्यस्यापि सुवचत्वात् || यत्तु द्वितीयं वैलक्षण्यं प्रत्यक्षश्रुत्यनुसारादिति तदपि साधारणं सर्वपुराणानामिति प्रागेव प्रपञ्चितम् | यत्तु तृतीयं वैलक्षण्यं स्वव्याघाताभावादिति तदेवासिद्धम्, भागवत एव ङ ते गिरित्राखिललोकपालविरिञ्चिवैकुण्ठसुरेन्द्रगम्यम् | ज्योतिःपरं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेद�मिति प्रबन्धप्रतिपाद्यभगवदुत्कर्षविरोधिनोऽर्थस्य निबन्धनात् | तत्त्वतो व्याघाताभावोप्युभयसाधारण इति तत्कथावैलक्षण्यं भवेत् ? यच्च चतुर्थं वैलक्षण्यं पुराणान्तरसंवादरूपं तदपि साधारणमित्यवोचाम | ये च पञ्चमषष्ठवैलक्षण्ये सामान्यप्रश्नोपक्रमत्वनष्टकोशत्वरूपे ते अपि भागासिद्धे अतिप्रसक्ते चेति प्रागेवोक्तम् | यच्च सप्तमं वैलक्षण्यं नातिविस्तृतमिति तदपि निर्वक्तुमेवाशक्यमित्युक्तमेव | तदलमनेन मशकमृगयासंरम्भेणेत्युपरम्यते | तदेवं सिद्धमेव प्रामाण्यं सर्वेषां पुराणानामिति || इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्भोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थ लतत्त्वसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यमरितोण्टदार्यविरचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्यकेलदिसदाशिवराय नायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द्रधर्मपत्नीमल्लाम् बाहृदयानन्दनबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे शैवपुराणानां तामसत्वनिराकरणं नामैकविंशतितमं प्रकरणम् || पृ० ४२४) वीरशैवानन्दचन्द्रिकायां वादकाण्डे द्वाविंशतितमं प्रकरणम् ||
SK
श्रीगुरो षट्स्थलज्ञानसम्पत्तिसमुदञ्चित | शैवानां हि पुराणानां तामसत्वं निराकृतम् || अधुना शीलिना सम्यगित्युक्तं वचनं त्वया | श्रुत्वा सन्तुष्टचित्तोऽहं किमारब्धं पुनर्मुदा || भृ᳚न्गिणा शीलिना चाथ किमुत्तरितमद्य मे | श्रोतुमिच्छास्ति हृदये दयया वद साम्प्रतम् || बसवेन्द्र महीपाल बुद्धिस्ते सूक्ष्मदर्शिनी | यद्वक्तव्यं तयोर्वाक्यं तद्ब्रवीमि शृणु क्रमात् || शीलवद्वर्य भवता पुराणानां सयुक्तिकम् | तामसत्वनिरासाय यन्मानं कथितं मुदा || नैव तेनेष्टसिद्धिस्ते श्रीकण्ठाचार्यसम्मतम् | मतमस्ति महच्छैवं मया तेनैव साध्यते || पृ० ४२५) पश्यामस्तव सामर्थ्यं गर्वं मा वह पूर्ववत् | इति भृ᳚न्गिवचः श्रुत्वा हसन् सोऽप्यवदत्पुनः || कुर्वतोऽम्भोनिधेः पानं तटाकसरितां कियत् | त्वयोक्तस्य मतस्यास्य खण्डनं क्रियते मया ||
SK
�अथातो ब्रह्मजिज्ञासा� अथशब्द आनन्तर्यार्थकः, अथ वेदाध्ययनानन्तरम्, वेदाध्ययनस्य प्रकृतोपयोगित्वात्, अतो वेदाध्ययनस्य वृत्तत्वाद्ब्रह्मविचारः कर्तव्यः | धर्मविचारस्य ब्रह्मविचारोपयोगित्वाद्ब्रह्मविचारस्य तदनन्तरमारम्भः | ननु �ऋतं सत्यं परं ब्रह्म | ततः परं ब्रह्म परं बृहन्तम् | यथा निकायं सर्वभूतेषु गूढं विश्वस्यैकं परिवेष्टितारम् | ईशं तं ज्ञात्वा अमृता भवन्ति | सम्पश्यन्ब्रह्मपरमं याति नान्येन हेतुना� इत्यादिवचनैः प्रकरणोपोद्वलितैः शिवे परब्रह्मत्वस्य स्पष्टत्वात् किं विचारयितव्यमिति चेन्न, जीवो ब्रह्मेति केचिद्वदन्ति, केचिन्नारायणादयो ब्रह्मेति, तन्निराकरणार्थं ब्रह्मविचारारम्भः || ननु �अथातो धर्मजिज्ञासे�ति सूत्रेण धर्मविचारोपयोगित्वस्य वेदाध्ययनेऽभिदानात्तेनैवान्यविचारोपयोगित्वस्यापि दत्तोत्तरत्वात्पुनरथातो ब्रह्मजिज्ञासेति किमर्थमभिधीयत इति चेन्न, पृथगुच्यते ब्रह्मविचारः कर्तव्य इति | तत्प्रतिज्ञयैवैतत्प्रतिज्ञाकृतप्राया तर्हि पुनः प्रतिज्ञा किमर्था ? �अथातः शेषलक्षणम्, अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासे� तिवद्विषयान्तरारम्भार्थं प्रतिज्ञा वाच्या | कथमथातः शेषलक्षणमितिवद्विषयान्तरप्रतिज्ञेत्युच्यत इति वाच्यं, पूर्वोत्तरमीमांसयोरेकत्वान्न भेदः | अथवैकशास्त्रत्वाद्विषयान्तरारम्भ इति युक्तो वादः || �जन्माद्यस्य यतः� जगज्जन्मादिकारणत्वं ब्रह्मणो लक्षणम्, तच्च साम्बशिवे सम्भवति | शोमः पवते जनिता मतीनां जनितेन्द्रस्य जनिता बृहस्पतेर्जनितोत विष्णोः |� इति श्रुत्या, �यो
SK
पृ० ४२६) देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः | हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु� इति श्रुतिद्वयेन सर्वस्रष्टृविरिञ्चिसर्वपालकविष्णुकारणत्वप्रतिपादनात् सर्वकारणत्वं सिद्धमेव | शूक्ष्मातिसूक्ष्मं सलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम्� इति साक्षाद्विश्वस्रष्टृत्वं प्रतिपाद्यते; तस्मादपि साम्बशिवस्य जगत्कारणत्वं सिद्धमेव | नच �सोमः पवत� इति मन्त्रस्य सोमलतापरत्वात् कथं शिवपरत्वमुच्यत इति वाच्यम्, अथर्वशिखायाम् �ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त� इति स्पष्टं श्रुत्यर्थंप्रत्यभिज्ञाया निह्नोतुमशक्यत्वेन तस्या विष्ण्वादिकारणत्वनिर्णये साधकत्वात्सर्वकारणत्वसिद्धिः || तच्च सदाशिवाख्यं ब्रह्म न जीवाभिन्नम्, �पृथगात्मानं प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वमेति | ज्ञाज्ञौ द्बावजावीशानीशौ | अनन्तश्चात्मा विश्वरूपो ह्यकर्ता | द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते | तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति | जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः | ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्थे | छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च तृणाचिकेताः | अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः� इत्यादिश्रुतिभिर्जीवपरमात्मनोः स्पष्टं भेदस्य प्रतीयमानत्वात्कथमभेदः सिध्येत् | नच तत्त्वमस्यादिश्रुतिभिरभेदः सिध्यतीति वाच्यम्, शर्वाननशिरोग्रीवः सर्वभूतगुहाशयः | सर्वव्यापी स भगवांस्तस्मात्सर्वगतः शिवः | सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् | सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति | यो देवोऽग्नौ योऽप्सु यो विश्वं भुवनमाविवेश | य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः || यो रुद्रोऽग्नौ योऽप्सु य ओषधीषु यो रुद्रो विश्वाभुवनानि विवेश तस्मै रुद्राय नमोऽस्तु || विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् | संबाहुभ्यां धमति
SK
सम्पतत्त्रैर्द्यावाभूमी
SK
पृ० ४२७) जनयन् देव एकः� इत्यादिश्रुतिपर्यालोचनया शिवस्य सर्वशरीरित्वेन स्फुरणात्तत्त्वमस्यादिवाक्यानां विशिष्टाद्वैतपरत्वमेव | शिवस्य सर्वान्तर्यामित्वज्ञानमेव मोक्षसाधनम् || तथा च श्वेताश्वतराणां शाखासु श्रूयते- �ततः परं ब्रह्म परं बृहन्तं यथा निकायं सर्वभूतेषु गूढम् | विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वा अमृता भवन्ती�ति तस्मात् द्वैतज्ञानमेव मोक्षसाधनमिति || अत्रोच्यते- यदुक्तं विशिष्टाद्वैतज्ञानं मोक्षसाधनमिति तदत्यन्तानुपपन्नम् | तथाहि- �जाग्रत्स्वप्नसुषुप्त्यादि प्रपञ्चं यत्प्रकाशते | तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ||� इत्यादिकैवल्यश्रुत्या �अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवो᳚न्कारः | आत्मैव संविशत्यात्मनाऽऽत्मानम् |� इति माण्डूक्यश्रुत्या च, शिवाद्वैतस्यैव प्रतीयमानत्वेन तत्त्वमस्यादेः स्वार्थ एव तात्पर्यमवश्यं वाच्यम् | नच तद्ब्रह्माहमिति श्रुतिर्नाद्वैतपरा, किन्तु द्वैतस्य प्रामाणिकत्वेऽप्युपासनायामभेदोपासनाकार्येत्यभेदोपासनापरा | तथा माण्डूक्यश्रुतेरपि न शिवाद्वैते तात्पर्यम्, पूर्वस्मिन्खण्डे ङान्तः प्रज्ञं न बहिः प्रज्ञं नोभयतः प्रज्ञं न प्रज्ञं नाप्रज्ञमदृश्यमव्यवहार्यमग्राह्यमलक्षणमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवम द्वैतं चतुर्थं मन्यन्त� इति पक्षान्तरत्वेनोपन्यासादिति वाच्यम्, विश्वतैजसप्राज्ञव्यतिरिक्तस्य निष्कृष्टचैतन्यस्य शिवस्याद्वैतसम्भवो न तु विश्वतैजसप्राज्ञानामवस्थाभिमानिनामिति तत्र पक्षान्तरोपन्यासः, न तु शिवाद्वैते | अत एव कैवल्यश्रुतिः �त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् | तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ||� इति जाग्रदाद्यभिमानिविलक्षणस्य सदाशिवस्याखण्डचैतन्यस्याद्वैतयोग्यत्वाज्जीवाभेदं प्रतिपादयति | तस्मान्माण्डूक्यश्रुतिवशाच्छिवाद्वैतमेवा᳚न्गीकार्यं कैवल्यश्रुत्या पूर्वोदाहृतया च | न चाद्वैताभावेऽपि तथोपास्तिपरा सा श्रुतिरित्युक्तमिति वाच्यं, बह्वीनां
SK
पूर्वापरश्रुतीनां शिवाद्वैतान᳚न्गीकारे विरोधः स्यात् |
SK
पृ० ४२८) तथाहि- �यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् | सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् || तद्ब्रह्माद्वयमस्म्यहम् | अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रम् | पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं सुखरूपमस्मि ||� इत्यद्वैतस्यैव तात्पर्यविषयत्वेन प्रतिपादनात्कथं तत्त्वमस्यादिवाक्यानामौपचारिकत्वमुच्यते | किञ्च शिवाभेदं जीवस्य दृढीकृत्य जीवधर्म परमेश्वरस्य परमेश्वरधर्मांश्च जीवस्य सिद्धं वदति श एव मायापरिमौहितात्मा शरीरमास्थाय करोति सर्व�मित्यादिवचनैः | नच पूर्वं जीवाभिधानात्स एव मायेति तच्छब्देन जीवोऽभिधीयते न परमेश्वरे जीवाभेदं सिद्धं कृत्वा जीवधर्मवत्त्वमुच्यत इति वाच्यम्, �आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् |� इति परमात्मनः प्रणवाभिन्नत्वेनोपासनाभिधानमन्तरेण जीवगन्धस्यैव पूर्वमभावात् | तथैव जीवस्येश्वरधर्मासम्बन्धं सिद्धं वदति �पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्रम् | एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे�ति | ननु �एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् |� इत्यभिधानादेवं वेदन एव तात्पर्यमेतच्छ्रुतेः, नाद्वैत इति चेत् स द्वितीयस्य ब्रह्मणो- ऽद्वितीयत्वेनोपासनमित्यत्र प्रमाणाभावेन पूर्वापरपर्यालोचनयाऽत्रत्यश्रुतेः �ब्रह्मैव वसन् ब्रह्माप्येती�ति श्रुत्यन्तरेणाभेद एव तात्पर्यस्य प्रत्युतावश्यवक्तव्यत्वान्न द्वैतसिद्धिः | �त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी | त्वं जीर्णो दण्डेन वञ्चसी�ति पूर्वश्रुत्या शर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् | सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् | नवद्वारे पुरे देही हंसो लीलायते बहिः | वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च | अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः� इत्युत्तरश्वेताश्वतरश्रुत्या च स्पष्टं जीवे शिवाद्वैतं प्रतीयत इति तत्त्वमस्यादौ न काप्यनुपपत्तिः | यच्चोक्तं �द्वा सुपर्णा
SK
सयुजे� ति श्रुत्या द्वैतं प्रामाणिकं प्रतीयते | तथैव गीतायामपि �द्वाविमौ पुरुषौ
SK
पृ० ४२९) लोके क्षरश्चाक्षर एव च | क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यत� इति तदनुपपन्नम् | पै᳚न्गरहस्यब्राह्मणे जीवान्तःकरणयोरुभयोर्भेदपरतया व्याख्यातत्वेन त्वदभिमतद्वैतस्याप्रामाणिकत्वात् | एव᳚न्खलु पै᳚न्गिरहस्यब्राह्मणव्याख्यानं स्वाद्वत्तीति सत्त्वं अनश्नन्नभिचाकशीतित्यनश्नन्नन्योऽभिपश्यति, ज्ञोऽज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौ येन स्वप्नं पश्यति | अथ योऽयं शारीर उपद्रष्टा, इति जीवान्तःकरणयोरेव भेदस्य व्यक्तीकृतत्वेन जीवब्रह्मगन्धस्यैवाभावात् | द्वाविमौ पुरुषौ लोक इति गीतावचनमपि व्याख्यातश्रुत्युपबृंहणरूपत्वान्न जीवेशभेदपरम्, किन्त्वन्तःकरणजीवभेदपरमेव | किञ्च �क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारते�ति तत्रैवाद्वैतस्य दृढीकरणात् द्वाविमाविति वाक्यं पूर्वोक्ततात्पर्यकमेव | एतेन द्वैतश्रुतयः सर्वा अपि दत्तोत्तराः | यच्चोक्त �मथातः शेषलक्षणम्, अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासे�तिवन्न शास्त्रान्तरारम्भः किन्तु शास्त्रस्यैवैकस्य बहुप्रकारस्य प्रकारान्तरारम्भ इति तदतिमन्दं, विषयप्रयोजनकर्तृभेदस्य शास्त्रभेदप्रयोजकत्वेन सर्वत्र दृष्टतयाऽत्रापि शास्त्रभेदस्यावश्या᳚न्गीकार्यत्वात् | पूर्वमीमांसायाः विषयः कर्म, उत्तरमीमांसायाः विषयो ब्रह्म | प्रयोजनञ्च द्वयोर्भिन्नम् | एकत्र सहस्राधिकरणन्यायसहितधर्मज्ञानद्वाराऽनुष्ठानात्स्वर्गः प्रयोजनम्, अन्यत्र श्रवणादिद्वारा सम्यग्ज्ञानेन मोक्षः | तथैव कर्तृभेदः सर्वजनस्पष्टः | उभयोरेवं शास्त्रभेदप्रयोजके विद्यमाने कथमभेदः प्रतिपाद्यते | नच न्यायविचारात्मकत्वेनैक्यं क्रियत इति वाच्यम्, तर्हि बोधायनाऽऽपस्तम्बाश्ह्वलायनादिप्रयोगशास्त्राणामप्यैक्यं स्यात्, प्रयोगक्रमप्रतिपादकप्रकारस्यैक्यात् | ननु तथैवास्तु को नेत्याह, प्रयोगशास्त्रत्वेन तेषां सूत्राणामैक्यमेव | अत एव कल्पसूत्रमिति तेषां समाख्याप्येकैव | तथैवा᳚न्गानि वेदाश्चत्वार इति चतुर्दशविद्यास्थानाभिधानश्लोके अ᳚न्गानीत्यनेन
SK
षड᳚न्गानि गृहीत्वा तन्मध्येऽ᳚न्गत्वेन सर्वप्रयोगशास्त्रमेका᳚न्गत्वेन पठितम् | अत एव �प्रयोगशास्त्रमिति
SK
पृ० ४३०) चेत्� इत्यधिकरणे सर्वसूत्राणामैक्यम᳚न्गीकृत्यैव प्रामाण्याप्रामाण्यविचारः कृतः | तद्वदत्रापि पूर्वोत्तरमीमांसयोरभेद एवेति चेन्न, प्रतिपाद्यभेदे विना विचाररीत्यैक्येन शास्त्राभेदस्य सर्वथा वक्तुमशक्यत्वात्, अन्यथा शिक्षाव्याकरणयोरपि भेदो न स्यात् | तस्मादभिधेयभेदप्रयोजनभेदावेव शास्त्रभेदप्रयोजकावित्यवश्यं वाच्यम् | कर्तृभेदश्चाभ्युच्चयतया शास्त्रभेदप्रयोजको न मुख्यतया | योगवैद्यकामशब्दशास्त्राणां कर्तुर्भगवतः पतञ्जलेरेकत्वेऽपि शास्त्रभेदस्यातिस्पष्टत्वात् | प्रकृते तु विषयप्रयोजनकतृर्णां त्रयाणां भिन्नत्त्वाद्भेदो वक्तव्य एव | ननु शिक्षाव्याकरणयोर्भेदोऽस्तु शब्दशिक्षकत्वप्रकारैक्येऽपि तयोर्विषयप्रयोजनभेदस्य विद्यमानत्वात् | शिक्षायाः वेदशब्दतत्त्वं विषयः, व्याकरणस्य लौकिकवैदिकशब्दतत्त्वं विषय इति भेदस्य सत्त्वात् | नच प्रयोजनभेदो नास्तीति वाच्यम्, �एकः शब्दस्साधुस्सुष्ठुप्रयुक्तः स्वर्गे लोके कामधुग्भवति | मातापितरौ चास्य स्वर्गे लोके महीयेते� इति भगवद्भाष्यकारवचनेन �यस्तु मीमांसते वचः | तावुभौ पुण्यकर्माणौ सूर्यमण्डलभेदिनौ ||� इति पुराणवचनेन व्याकरणस्य श्वरमात्राविभागज्ञो वर्णक्रमविचक्षणः | पदक्रम- विशेषज्ञो गच्छेदाचार्यसंसद�मिति वचनेन व्यासाद्याचार्यस्थानप्राप्तेः शिक्षाफलस्य श्रूयमाणत्वात्फलभेदोऽप्यस्ति | तस्मात्तयोर्भेद उपपन्न एव | ननु प्रकृते फलभेदेऽपि श्रुतिवाक्यार्थतत्त्वविषयस्यैकत्वात्कथं भेद इति चेन्न, यया मत्या वेदाक्षरतत्त्वविषयैकत्वेऽपि लौकिकवर्णतत्त्वविभाजकत्वेन व्याकरणस्य वैदिकवर्णविभाजकत्वेन शिक्षायाश्च भेदं वदसि, तयैव मत्या पूर्वकाण्डवाक्यार्थोत्तरकाण्डवाक्यार्थविचारात्मकत्वेन भेदस्य सुखेन वक्तुं शक्यत्वात्पूर्वोत्तरमीमांसयोर्नैकशास्त्रत्वम् | किञ्च पूर्वकाण्डवाक्यार्थः कर्म, उत्तरकाण्डवाक्यार्थो ब्रह्मेति प्रकारविशेष्यभेदेन विषयभेदः स्पष्ट एव | शिक्षाव्याकरणविषयापेक्षया
SK
व्यतिरिक्ततया स्थितिः पूर्वमभाणि, तस्मान्न शास्त्रयोः पूर्वोत्तरमीमांसात्मकयोरभेदः | पृ० ४३१) अपि च श्रुतिवाक्यार्थविचारत्त्वेन पूर्वोत्तरमीमांसयोरेकत्वेऽपि सञ्चारणीयासञ्चारणीयन्यायेन सुतुरां भेदस्य सत्वात्कथमभेदः | प्रत्युतोत्तरतन्त्रविचारार्थं यथा पूर्वतन्त्रन्यायाः सर्वेऽप्यपेक्षिता नैवमुत्तरतन्त्रन्यायाः पूर्वतन्त्रे | तस्मादेतादृशभेदे विद्यमाने कः पण्डितः शास्त्रैक्यं ब्रूयात् | तस्मादैकशास्त्र्यं पूर्वोत्तरमीमांसयोरिति निरुपपत्तिकमेव | अवशिष्टं सर्वमपि रामानुजमतनिराकरणेन निराकृतप्रायमिति नात्र पिष्टपेषणन्यायेन लिखितव्यमित्युपेक्ष्य विसृष्टमस्माभिरिति सर्वं समञ्जसम् | इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्भोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थ लतत्त्वसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यमरितोण्टदार्यविरचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्यकेलदिसदाशिवराय नायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द्रधर्मपत्नीमल्लाम् बाहृदयानन्दनबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे नीलकण्ठमतप्रतिपादनतन्निराकरणं नाम द्वाविंशतितमं प्रकरणम् || पृ० ४३२) वीरशैवानन्दचन्द्रिकायां वादकाण्डे त्रयोविंशतितमं प्रकरणम् ||
SK
स्वामिन् श्रीतोण्टदाचार्य चक्रवर्तिन् गुरूत्तम | आरब्धं भृ᳚न्गिणा पूर्वं नीलकण्ठमतं ततः || तद्दूषणं शीलिनोक्तं निगमागमवर्त्मना | त्वदास्यकमलाच्छृत्वा सानन्दहृदयोऽभवम् || पुनस्ताभ्यां किमारब्धं श्रोतुमिच्छास्ति मे हृदि | करुणावारिधे मह्यं निरूपय महामते || श्रीमद्बसवभूपाल भूपालकुलनायक | भवतो बुद्धिकौशल्यं गुरोरप्यतिदुर्लभम् || तयोर्वादात्मकत्वेन बोद्धव्यं यत्तु तानहम् | तत्तेऽद्य सम्प्रवक्ष्यामि श्रूयतां सावधानतः || मतं श्रीशा᳚न्कराद्वैतमनेकश्रुतिसम्मतम् | महर्षिगणसंसेव्यं प्रसिद्धं परमुक्तिदम् || पृ० ४३३) किञ्च शैवं तत्पुराणस्मृतिधर्मसमन्वितम् | कथन्तु दूषणं कर्तुं समर्थोऽसि महीतले || मते तस्मिन् मयाऽऽरब्धे तव सत्यं पलायनम् | तथापि मास्तु ते भीतिरित्युक्त्वाऽभयद᳚न्करम् || ददामि शीर्षे ते शीलिन्नित्युक्ते भृ᳚न्गिणा तदा | समस्तमतसिद्धान्तगजकण्ठीरवेण च || शीलवच्छिवभक्ताग्रगण्येनोक्तं तदुत्तरम् | भृ᳚न्गिन् बुध्यानुगुण्येन भण्यते कुमते त्वया || वदाद्य तव विक्रान्तिं द्रष्टुमास्थीयतेऽधुना | पश्य मे भणतिं सम्यग्यदि सामर्थ्यमस्ति चेत् || त्वदुक्तिखण्डनं यावत्तावत्त्वं भाषसे मुदा | वद तन्मतसिद्धान्तं शृणु तत्र च दूषणम् ||
SK
�अथातो ब्रह्मजिज्ञासा� अथ शब्द आनन्तर्यार्थकः | अथ साधनचतुष्टयसम्पत्त्यनन्तरम्, अतः साधनसम्पत्तेर्वृत्तत्वात्, ब्रह्मजिज्ञासा ब्रह्मविषयकविचारः कर्तव्यः | साधनचतुष्ट्यञ्च नित्यानित्यवस्तुविवेकः, इहामुत्रफलभोगविरागः, शमादिसम्पत्तिः, मुमुक्षा च | विचारो नाम श्रवणमननात्मकक्रियाविशेषः | श्रवणं विदितपदपदार्थस᳚न्गतिकस्य गुरुमुखात्सोपबृंहणश्रुतिशिरो वाक्यार्थज्ञानजननानुकूलो व्यापारः | मननं तस्यैव श्रुतस्यार्थस्य सोपपत्तिकसूत्रभाष्यवार्तिकचिन्तितस्यार्थस्याद्वैतरूपस्य यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिक्रमापादितधार् आवाहिकज्ञानम् | तज्जन्याखण्डाकारवृत्तिः साक्षात्कारोऽज्ञाननिवृत्तिरूपस्वरूपमुक्तिसाधनम् | ऐहिकफलं पशुपुत्रमित्रकलत्रगृहक्षेत्रारामधनकनकवाहनकौशेयादि, आमुष्मिकममरत्वतत्त्ववित्त्वादि,
SK
पृ० ४३४) तत्रोभयत्रानभिलाषो वैराग्यम् | शमो नाम अन्तरिन्द्रियनिग्रहः | दमो नाम बहिरिन्द्रियनिग्रहः | मुमुक्षा मोक्षेच्छा | एतादृशसाधनचतुष्टयसम्पत्तिस्तुरीयाश्रम एव भवतीति तुरीयाश्रमिणामेव मुख्याधिकारो ब्रह्मविद्यायाम्, गृहस्थानां तु नित्यनैमित्तिककर्माधिकारित्वाद्ब्रह्मविद्यायामापाततोऽधिकारः | अत एव शन्यस्य श्रवणं कुर्या�दिति वचनमिति भगवत्पादमतम् | केचित्तु �कर्मणैव हि संसिद्धिमास्थिता जनकादयः |� इति वचनेनातुरसंन्यासविधानात्सन्यासस्य प्रयाजादिवददृष्टद्वाराऽ᳚न्गत्वमिति गृहस्थानामपि ब्रह्मविद्यायामधिकारित्वमस्तीत्याहुः || ब्रह्म किंलक्षणकमित्यपेक्षायाम् �जन्माद्यस्य यत� इति सूत्रेण ब्रह्मणो लक्षणमुच्यते | जगज्जन्मादिकारणत्वमितीदं तटस्थलक्षणम् | स्वरूपलक्षणन्तु सच्चिदानन्दत्वम् | ननु तटस्तलक्षणं स्वरूपलक्षणमिति कोऽयं भेदः क्रियते ? एकरूपेण लक्षणस्यावश्यं वक्तव्यत्वादितिचेन्न, जीवब्रह्मभेदस्य बहुस्मृतिविरोधात्तस्य समन्वयसूत्रे निराकरिष्यमाणत्वेन, तथैव �तदनन्यत्वमारम्भणशब्दादिभ्य� इति सूत्रेण जगतोऽनिचर्वनीयत्वस्य वक्ष्यमाणत्वाच्च, जगतो मिथ्यात्वेन तद्घटितलक्षणस्यापि व्यावहारिकमात्रस्य तात्त्विकत्वाभावाद्ब्रह्मणो लक्षितत्वापत्या स्वरूपलक्षणं भिन्नत्वेनाभिहितम् | तच्च ब्रह्म किम्प्रमाणकभित्याका᳚न्क्षायाम् श्हास्त्रयोनित्वा�दिति सूत्रेण शास्त्रप्रमाणकत्वं ब्रह्मणः, न तु प्रत्यक्षादिप्रमाणकत्वम् | तत्रापि ब्रह्मणोऽतीन्द्रियत्वेनाकाशवदप्रत्यक्षत्वात् | अत एव व्याप्तिप्रत्यक्षाभावेनावृत्तिकत्वेन च तद्व्याप्यलि᳚न्गाभावेन निर्गुणत्वेन च सामान्यतोऽनुमानं परिशेष्यानुमानञ्च न सम्भवति | तस्माच्छ्रुतिरेव प्रमाणमिति वक्तव्यम् | तथाच श्रुतिः- ङावेदविन्मनुते तं बृहन्तम् | तन्त्वौपनिषदं पुरुषं पृच्छामी�ति || ननु कथं ब्रह्मणः शास्त्रयोनित्वम्, कर्मकाण्डश्रुतीनां ब्रह्मपरत्वाभावात् | नच तन्त्वौपनिषदं पुरुषं पृच्छामीति श्रुतिपर्यालोचनया
SK
पृ० ४३५) ब्रह्मणः कर्मकाण्डश्रुतिविषयत्वाभावेऽप्युपनिषत्प्रमाणकत्वेन शास्त्रयोनित्वमिति वाच्यम्, सम्पदुपासनाप्रतीकोपासनाऽह᳚न्ग्रहोपासनाश्रुतीनामद्वैतब्रह्मप्रतिपाद कत्वाभावेन शास्त्रयोनित्वं दुष्करमेव ब्रह्मण इति श᳚न्कायाम् �तत्तु समन्वया�दिति सूत्रेणाद्वैतब्रह्मणि वेदान्ताभिधेयत्वं निर्णीयते | अत्रायमाशयः- तत्तु शास्त्रयोनित्वन्तु, तुशब्दः पूर्वपक्षनिवृत्तिद्योतनार्थः, समन्वयात्सम्यगनुगतत्वात् | सम्यगनुगतत्वं ब्रह्मणि श्रुतीनामुपक्रमोपसंहारैकवाक्यतया क्वचिदनन्यसाधारणलि᳚न्गेनाभ्यासेन च | तत्त्वमस्यादिश्रुतीनाम् �उततमादेशमप्राक्ष्यः, येनाश्रुतं श्रुतं भवति, अमतं मतमविज्ञातं विज्ञात�मिति प्रश्नानुसारेण प्रतिवचनस्य वक्तुमुचितत्वात्प्रश्नस्य ब्रह्मविज्ञानेन सर्वविज्ञानात्मकस्याभेदं विनाऽनुपपद्यमानत्वादुपसंहारे तत्त्वमसीति वाक्ये अद्वैतमेव मुख्यवृत्त्याऽभिधीयत इति निश्चीयते | अन्यथा पूर्वोत्तरसन्दर्भयोर्वैयधिकरण्यं स्यात् || अत एव पूर्वतन्त्रे द्वितीयाध्याये �पौर्णमासीवदुपांशुयाजःस्यात्� इत्यधिकरणे �विष्णुरुपांशुयष्टव्योऽजामित्वाय, प्रजापतिरुपांशुयष्टव्योऽजामित्वायाग्नीषोमावुपांशुयष्टव्योऽजामित्वा येत्यादिवाक्यानां तव्यप्रत्यययुक्तानामेकवाक्यत्वलोभेनानुवादकत्वम᳚न्गीकृत्योपक्रमस्थोपा. म्शुयाजमन्तरा यजतीति वाक्यस्य वर्तमानापदेशस्यापि विधायकत्वम᳚न्गीकृतम् | अत एव प्रथमाध्याये नामधेयपेटिकायाम् �पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाये� इत्यधिकरणे �वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते� इत्यारभ्य श्रुतानाम् �यदष्टाकपालो भवती�त्यादिवाक्यानामुपक्रमस्थवैश्वानरवाक्यैकवाक्यतार्थमर्थवाद त्वम᳚न्गीकृतम् | तन्न्यायेनात्रापि पूर्वोत्तरयोरेकवाक्यतासिद्धयेऽभेदोऽ᳚न्गीक्रियते | एवमेव �आनन्दमयोऽभ्यासादि�त्युत्तराधिकरणे �ब्रह्म पुच्छं प्रतिष्ठे� त्यद्वैतं ब्रह्मैव �असन्नेव स भवति, असद्ब्रह्मेति वेद चेत्, अस्ति ब्रह्मेति चेद्वेद, स एको ब्रह्मण आनन्दः, अधीहि भगवो
SK
ब्रह्मेति, तपसा पृ० ४३६) ब्रह्म विजिज्ञासस्व, तपो ब्रह्मेति, अन्नं ब्रह्मेति व्यजानात्, प्राणो ब्रह्मेति व्यजानात्, मनो ब्रह्मेति व्यजानात्, विज्ञानं ब्रह्मेति व्यजानात्, आनन्दा ब्रह्मेति व्यजानात्� इति पुनः पुनश्चाभ्यासात्प्रतिपाद्यते | �यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति� इति द्वैतविज्ञानस्य ब्रह्माभ्यासमध्येऽनर्थहेतुत्वमपि श्रूयते | एवमेवाकाशस्तल्लि᳚न्गादित्यधिकरणे �अस्य लोकस्य का गतिः | आकाश इति होवाचे�त्यत्राकाशशब्दस्य भूताकाशपरत्वे श एष परो वरीयानुद्गीथः | स एषोऽनन्त� इति श्रूयमाणमनन्ततादिकमनितरसाधारणं लि᳚न्गम् | एवमेव सर्वासामुपनिषदामद्वैते ब्रह्मण्यैव समन्वय आप्रथमाध्यायसमाप्तिप्रतिपाद्यते | केषाञ्चिदुपनिषद्वाक्यानामद्वैतब्रह्मप्रतिपत्तये मन्दानुग्रहार्थमह᳚न्ग्रहोपासनाप्रतिपादकत्वमास्थीयते | तद्यथा �एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेशः� इत्यादिषु | तस्माद्वेदान्तानामद्वैते ब्रह्मणि समन्वयः || ननु �भेदव्यपदेशाच्चान्यः | भेदव्यपदेशाच्च | शारीरश्चोभयेऽपि हि भेदेनाधीयते | अनुपपत्तेस्तु न शारीरः | गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् |� इत्यादिषु स्पष्टमेव जीवेश्वरयोः सूत्रकारेण भेदः प्रतिपाद्यते | तस्माद्भेदस्यैव सूत्रकारतात्पर्यविषयत्वमिति चेन्न �तदनन्यत्वमारम्भणशब्दादिभ्यः | अत एव चोपमा सूर्यकादिवत् | यथा च तक्षोभयथा | मायामात्रन्तु कार्त्स्नेन | अनभिव्यक्तस्वरूपत्वात् |� इत्यादिसूत्रेषु स्पष्टमेवानन्यत्वशब्देन, उपमा सूर्यकदृष्टान्तेन जीवस्यान्तःकरणप्रतिबिम्बताभिधानेन जीवेश्वरयोरद्वैतस्य सिद्धत्वेन भेदो न सूत्रकारतात्पर्यविषयीभूत एवेत्यद्वैतस्यैव सिद्धिः || यदुच्यते भगवत्पादैस्तदीयैर्वा᳚न्मुखाद्वितीयैरद्वैतवादिभिः ब्रह्माद्वितीयम्, जगदन्यत्सर्वं मिथ्या; मिथ्याशब्दश्चानिर्वचनीयार्थकोऽस्मिन् शास्त्रे विवक्षितः, नत्वसदर्थः | अनिर्वचनीयत्वञ्च
SK
पृ० ४३७) कार्यस्य कारणात्पृथक्, सदसत्त्वेन निर्वक्तुमयोग्यत्वम् | शुक्तिरजतञ्च स्वोपादानकारणाच्छुक्तितो विवर्तरूपात्तदज्ञानात्परिणामितश्च पृथक् सदसत्वेन निर्वक्तुमशक्यम्, एवं जगदपि स्वोपादानाद्विवर्तरूपाद्ब्रह्मणो मायातश्च तदज्ञानस्वभावात्परिणामतश्चानिर्वाच्यम् || तर्हि जगतः शुक्तिरजतवदुपादेयत्वं न स्यादित्याक्षेपे सति सत्तात्रयम᳚न्गीक्रियतेऽस्माभिः- शुक्तिरजतादिकं प्रातिभासिकं जगद् व्यावहारिकं ब्रह्म पारमार्थिकम् | तथाच जगतः शुक्तिरजतवदनिर्वचनीयत्वे समानेऽपि व्यावहारिकत्वं नामाधिकमपि प्रविष्टम्, तावता न मिथ्यात्वहानिः | तत्र च ङेह नानास्ति किञ्चन | अथात आदेशो नेति नेति, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य� मित्यादिश्रुतिः प्रमाणमिति भवतु नामैतद्ब्रह्माद्वितीयमिति जगदुपादानमिति च; तदंशेनास्माकं वीरमाहेश्वराणामद्वैतवादिनां भवतां भगवत्पादीयानाञ्च विवादः | तदन्यत्सर्वं नास्माकीनमानसोल्लासविकासं जनयितुमलं भवति | तथाहि- परिणाम्युपादानं विवर्तोपादानमित्युपादानद्वयकल्पने किं प्रमाणम् ? न तावत्सूत्रं, अस्मदनुकूलतयैव सूत्रस्य मानत्वात्, �आत्मकृतेः परिणामात्� इति | श्रुतावपि वाचारम्भणं विकारो नामधेयमिति परिणामवादानुकूल्यस्यैव विद्यमानत्वात् | �कटकमुकुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकम् | सुरपशुमनुजातिकल्पनाभि�रित्यादिस्मृत्या च स्वर्णकुण्डलन्यायस्य प्रतीयमानत्वात् | किञ्च युष्मन्मते उपादानद्वयकल्पनम्, अस्मन्मते तु एकोपादानकल्पनमिति लाघवसहकृतमस्मच्छ्रुतिस्मृतिवाक्यजातम् | अपिच प्रातिभासिकसत्तेत्यतिरिक्तसत्ता किमत्रा᳚न्गीक्रियते ? सत्ताद्वयं युष्माकमस्माकञ्च पर्याप्तत्वात् | तथाहि- जगद्ब्रह्मव्यतिरिक्तं नास्त्येव, ब्रह्मैव परमार्थसत् | जगत्तु व्यावहारिकमपि परमार्थसन्न भवति तद्यथा मृद्घटो मृदपेक्षया; घटेन जलमाहर, घटः स च्छिद्रो जातः, घटं पश्य, घटो नष्ट इत्यादिव्यवहारे
SK
पृ० ४३८) सत्यपि घटापेक्षया मृद एव पारमार्थिकत्वात् | मृदो घटान्वये सत्यपि घटस्य यावत्यां मृद्यन्वयो नास्ति शरावेऽभावात् | तस्माद्युष्माकमस्माकञ्च सत्ताद्वयमेव पर्याप्तमिति शेषं युक्तिक्षममेव न भवति | यदुक्तं जगदनिर्वचनीयमिति तत्रापि युक्तिं न पश्यामः, भेदेन स्वर्णापेक्षया कुण्डलं कर्णिका ललन्तिकेति निर्वक्तुं शक्यत्वात् | नच तथापि स्वर्णापेक्षया कुण्डलादीनां सत्वेन निर्वक्तुं शक्यत्वमस्तीति वाच्यं, सत्कुण्डलं सद्ग्रैवेयकमिति सत्ताप्रतीतेरपि भेदेन जायमानत्वात् | नच तथापि तत्र मृद एव सत्ता प्रतीयते न तद्व्यतिरिक्ता तर्हि सती मृदिति प्रतीतिः स्यात्, नतु कुण्डलादिकं सदिति तर्हि त्वमद्वैतवादी कथं भवसि | भेदेन स्वर्णात्कुण्डलमस्तीति जानन्नप्यद्वैतं वदसि खल्विति चेत्तर्हि वदामो रहस्यं सावधानं शृणु, भेदो द्विविधः- अन्योन्याभावात्मक एकः, अपरस्तु वैभागिकः | तत्र जगद्ब्रह्मणोरन्यमाध्ववत्पूर्वं भेदं न वदामः किन्तु द्वितीयं वैभागिकं जगद्ब्रह्मणोच्च वैभागिको भेद एव वर्तत इति कृत्वा नाद्वैतहानिः | तथाहि कुण्डलं स्वर्णादिविभक्ततयैव वर्तते | यदि नास्तीत्युच्यते तर्हि ग्रैवेयकेऽपि कुण्डलमिति प्रतीतिः स्यात्, स्वर्णस्य कुण्डल इव तत्रापि विद्यमानत्वात् | अतः किं वक्तव्यम्, कश्चिद्भेदोऽप्यस्ति स्वर्णकुण्डलयोः | स एव भेदो व्यावहारिक इति त्वयाप्युच्यते | ननु तवापि ममोपादानद्वयाद्भेदद्वयम᳚न्गीकर्तव्यमासीत्, तत्र द्वित्वकल्पनागौरवं तवाप्यनिवार्यमिति चेन्न | मत्कल्पनावत् त्वत्कल्पनायाः सर्वसम्मतत्वाभावेनास᳚न्ग्राह्यत्वात् | तथापि तार्किकैरपि मृदो घटं प्रत्युपादानत्वम᳚न्गीक्रियते, न शुक्तिरजते विवर्तोपादानम्, तथाऽन्योन्याभायोऽप्य᳚न्गीक्रियते, तैरपि विभागोऽप्य᳚न्गीक्रियत इत्यस्मन्मतं सर्वं सम्प्रत्युपपन्नम् | नच तथापि विभागस्यान्योन्याभावत्वं परैर्ना᳚न्गीक्रियत इति भवत्कल्पनाया न सर्वसम्मतत्वमिति वाच्यम् | विभागधर्मिणि परैर᳚न्गीकृते
SK
भेदत्वमात्रमस्माभिः कल्प्यते वीरशैवैः, अद्वैतवादिभिर्युष्माभिस्तु परासम्प्रतिपन्नः शुक्तिरजतयोः
SK
पृ० ४३९) कायकारणभावस्तत्र च रजतं प्रति शुक्तेरुपादानभावश्च स्वीकृत इति परासम्मतकल्पनाद्वयमासीद्भवताम् | प्रातिभासिकत्वकल्पनञ्च सर्वासम्मतमेवेति मत्कल्पनैव ज्यायसी || ननु जडस्य प्रपञ्चस्य शिवाद्वैता᳚न्गीकारे ब्रह्मवज्जगतश्चैतन्यं स्यात्, जडाजडमिति विभागोऽपि न स्यात्, सर्वस्य चेतनब्रह्मपरिणामत्वादिति चेन्न, इच्छाशक्तिवशेन चेतनाचेतनरूपेण ब्रह्मणः परिणामसम्भवात्, तथाच माया किमर्थम᳚न्गीक्रियताम् || यदुक्तं चेतनपरिणामरूपत्वे जगतश्चेतनत्वं स्यादिति तदपि सूत्रकारैरेव �दृश्यते तु� इत्यत्र परिहृतमेव | इत्थं खलु तत्सूत्रार्थः- गोमयादचेतनाच्चेतनवृश्चिकजन्म दृश्यते लोके | अतोऽचेतनस्य जगतश्चेतनसृष्टिर्न दोषावहेति | नातः कोऽप्यस्मिन्मतेऽनुपपत्त्यवकाशः || ननु परिणामवादा᳚न्गीकारे �कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा� इत्यादिदोषप्रस᳚न्गः, लोके तथा दृष्टत्वात् | क्षीरं हि दध्यात्मना परिणमत्सर्वस्वात्मादिनाशेनैव तत्तादात्म्यमापन्नम् | अतः परिणामवादोऽनुपपन्न इति चेन्न, उभयव्यपदेशात्त्वहिकुण्डलव�दिति सूत्रेण, �अश्मादिवच्च तदनुपपत्ति�रिति सूत्रेण च, परिणामवादस्यैव सूत्रकारतात्पर्यभूतत्वात् | अत एवाहिकुण्डलन्यायः सूत्रेऽभिहितः, क्षीरदधिन्यायापेक्षया पूर्वपक्षश्च कृतः || अथेच्छाशक्तिवशेन जडाजडरूपेण चिन्तामणिवत्कल्पवृक्षवत्कृत्स्नप्रसक्तिं विनैव परिणामः सम्भवति || ननु चिन्तामणिदृष्टान्तो भवतामिच्छाशक्तिवादिनां न स᳚न्गच्छते तत्रेच्छाशक्त्यभावादिति चेन्न, सर्वत्राखण्डाकारवृत्तेः प्राक्परमेश्वरेच्छाया नियामकत्वेन त्वयाप्य᳚न्गीकृतत्वेन देवानां भक्तानां तदिच्छां विना जडस्य तथाविधविभूतिकारित्वासम्भवात् | चेतनप्रेरणां विना जडमात्रस्पन्दनस्यासम्भावितत्वेनासम्भावितस्थले सर्वत्र तदिच्छयैव निर्वाहस्य वक्तुमुचितत्वात् | अत एव परमेश्वरस्य सर्वान्तर्यामित्वमन्तर्यामिब्राह्मणेऽभ्यधायि ||
SK
पृ० ४४०) ननु परमेश्वरस्यैव सर्वान्तर्यामित्वे तदिच्छायाः सर्वकार्यनियाकत्वे च विधिनिषेधप्रतिपादकशास्त्रवैय्यर्थं स्यादिति चेन्न, वृष्टिवत्सर्वसस्ये सर्वकार्ये परमेश्वरेच्छा नियामिका; सामान्यतस्तत्तद्बीजानां तत्तद᳚न्करोत्पत्ताविव तत्तज्जीवसुखदुःखानुभवे तत्तत्कर्म च कारणमिति न वैषम्यनैर्घृण्यविधिनिषेधप्रतिपादकशास्त्रवैय्यर्थ्यादिदोष इति परिणामवादे सर्वं शोभनतरमेव || इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्भोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थ लतत्त्वसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यमरितोण्टदार्यविरचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्यकेलदिसदाशिवराय नायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द्रधर्मपत्नीमल्लाम् बाहृदयानन्दनबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे अद्वैतमतनिरूपणतन्निराकरणप्रकारो नाम त्रयोविंशतितमं प्रकरणम् || पृ० ४४१) वीरशैवानन्दचन्द्रिकायां वादकाण्डे चतुर्विंशतितमं प्रकरणम् || देशिकेन्द्र त्वया प्रोक्तमधुना भृ᳚न्गिणेरितम् | अद्वैतमतसिद्धान्तं तद्दूषणमतः परम् || शीलिना कथितं सर्वं निगमागमयुक्तिभिः | समाकर्ण्य प्रहृष्टोऽहमभवं करुणाभरात् || ततः परं हि सञ्जातं संवादं भृ᳚न्गिशीलिनोः | श्रोतुमिच्छास्ति मच्चित्ते निरूपय महामते || शृणु भूप वदाम्यद्य भृ᳚न्गी शीलिनमब्रीत् | शीलिन्मतानि सर्वाणि विख्यातानि महीतले || अवैदिकानि यानीह वैदिकान्यपि यानि तु | कथितानि मया तानि खण्डितानि त्वयाऽधुना || सर्वोत्कृष्टं मतं किंवा जिज्ञासति मनो मम | कथय त्वं तदाचारे वर्तेय विनयान्वितः ||
SK
पृ० ४४२) इति भृ᳚न्ग्युक्तिमाकर्ण्य शीली भृ᳚न्गिणमब्रवीत् | भृ᳚न्गिन्नाकर्णयाद्य त्वं वच्मि सर्वोत्तरं मतम् || वीरशैवमतं लोके सर्वोत्कृष्टतमं क्षितौ | सर्वेषामपि देवानां यथा सर्वोत्तमः शिवः || वीरशैवसर्वोत्कृष्टत्वं प्रतिपाद्यते- अवैदिकलोकायतार्हतसौगतवैदिकगौतमीयकाणादकापिलपातञ्जलजैमिनीय् अवैयासिकविशुद्धाद्वैतमाध्वरामानुजीयादितत्तन्मतनिरसनपुरस्सरं निजलि᳚न्गा᳚न्गसामरस्यरूपविशिष्टाद्वैतमतनिष्ठ एकोत्तरशतप्रभेदभिन्नषट्स्थलज्ञानसम्पन्नस्त्रिविधवीरशैवदीक्षास ंयुक्तोऽष्टावरणपञ्चाचारपरायणो वीरशैवः सर्वोत्तमः || तथाहि पारमेश्वरतन्त्रे- विभूतिर्यस्य भालेऽस्ति कण्ठे लि᳚न्गं मदात्मकम् | रुद्राक्षधारणं देहे सोऽहं देवि न संशयः || इति || शा᳚न्करसंहितायाम्- यो हस्तपीठे निजमिष्टलि᳚न्गम्- विन्यस्य तल्लीनमनःप्रचारः | बाह्यक्रियासंकुलनिस्पृहात्मा- सम्पूजयत्य᳚न्ग स वीरशैवः || इति || ननु त्रिविधलि᳚न्गाष्टविधसमर्पणैकमानसानां वीरशैवानां सर्वोत्कृष्टत्वं न सम्भवति, तदनुगुणानां युक्तिप्रमाणानामभावात् | तथाहि- लोके तावद्ब्रह्मसृष्टौ वर्णाश्चत्वारो ब्राह्मणादयः, तदाश्रमाश्चत्वारः श्रुत्यागमपुराणेतिहासप्रसिद्धाः | तत्र न ब्राह्मणेष्वेषामन्तर्भावः गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणोपनिष्क्रमणान्नप्रा᳚ सनचौलोपनयनवेदप्राजापत्यसौम्याग्नेयवैश्वदेवात्म-
SK
पृ० ४४३) कव्रतचतुष्टयसमावर्तनविवाहपञ्चमहायज्ञौपासनस्थालीपाकवैश्वद् एवसर्पबलीशानबल्यष्टकमासश्राद्धाख्यसप्तपाकयज्ञाग्न्याधानाग्निह् ओत्रदर्शपौर्णमासपशुबन्धचातुर्मास्याग्रायणेष्टिसौत्रामण्याख्यसप्त हविर्यज्ञाग्निष्टोमात्यग्निष्टोमोक्थ्यषोडश्यतिरात्राऽऽप्तोर्यामवाजपेयाह्व् अयाः सप्तसंस्थाभिधानाः | ब्राह्मणानां शरीरस्य चत्वारिंशत्संस्काराणामष्टात्मगुणानां दयाक्षान्त्यनसूयाशौचानायासम᳚न्गलाकार्पण्यास्पृहाख्यानां यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहोञ्छशिलादिरूपासाधारणजीवि कानि यमानाञ्च ब्राह्मणधर्मतया श्रुतिस्मृतिपुराणेतिहासेषु प्रतिपादनात्, एतेषाञ्च वीरशैवैरनुष्टीयमानत्वाभावात्, ब्राह्मणेष्विवा᳚न्गिरोभृग्वत्रिविश्वामित्रकाश्यपवशिष्ठागस्त्याह्वयर्षिव् अंशोत्पत्तिसूचकानां गोत्रप्रवराणामभावात्, आपस्तम्बबोधायनभरद्वाजसत्याषाढवैखानसाग्निवेश्यप्रणीततैत्तिरि इययजुःशाखावलम्बिविप्रव्यवस्थाग्राह्यषट्सूत्राणाम्, ऋक्शाखावलम्ब्य् आश्वलायनसूत्रस्य, कुथुमसामशाखावलम्बिद्राध्यायनसूत्रस्य, तलवकारशाखावलम्बिग्राह्यजैमिनिसूत्रस्य, यजुः प्रथमवाजसनेयशाखावलम्बिमात्रग्राह्यकात्यायनसूत्रादीनां मान्यतमानां सम्बन्धाभावाच्च || न क्षत्रियवैश्ययोः, यजनाध्ययनप्रदानसहितपूर्वोक्तसंस्कारगोत्रसूत्रशाखानामभावात् || न शूद्रेष्वन्तर्भावः, त्रैवर्णिकशुश्रूषादास्योच्छिष्टभोजनतद्द्रव्योपजीवनामन्त्रकश्राद्धप् अञ्चमहायज्ञकरणवर्णविशेषदास्यकृतसूतकानुष्ठानादीनां शूद्रधर्माणामभावात् || न स᳚न्कीर्णेषु, मूर्धावसिक्ताम्बष्ठपारशवादिसमाख्यादीनामभावात् | तस्मान्न वर्णेष्वन्तर्भावः वर्णधर्मप्रतिपादकश्रुतिस्मृतिपुराणाध्ययनाध्यापनक्रमस्य वीरशैवेष्वदर्शनात् || �जन्मना जायते शूद्रः कर्मणा जायते द्विजः |� इत्यादिवचनपर्यालोचनया जन्ममात्रं मनुष्यमात्रस्यास्याविशिष्टम्, उपनयनादिमुख्यसंस्काराभावे ब्राह्मणादिकुलोत्पन्नस्यापि पातित्यश्रवणात् | तत एव वेदविद्याश्रवणेऽपि नाधिकारः, �अथाहास्य
SK
वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रे परिपूरणमुदाहारणे जिह्वाच्छेदो धारणे शरीरभेद आसनशयनवाक्पथिषु समप्रेप्सु-
SK
पृ० ४४४) र्दण्ड्य� इति गौतमीयधर्मसूत्रेऽभिधानात् | नच निषादस्थपतिन्यायेनोपनयनाद्यभावेऽपि वेदविद्याश्रवणाधिकार इति वाच्यम्, ङिषादस्थपतिं याजये�दिति विधिप्राप्तोऽयं याजमानमन्त्रश्रवणाधिकारः प्रकृते तादृशविधेरभावात् | नापि पत्न्या एवोपनयनाभावेऽपि वेदवाक्यश्रवणेऽधिकारः, �पत्नीं वाचयती�ति विधिवाक्यवद्वाचनविषयकविध्यनुपलम्भात् | किञ्च �ज्योतिष्टोमेन स्वर्गकामो यजेते�त्यादिना विशेषेणश्रूयमाणविधिवाक्यावगतकर्तृत्वस्य पत्न्याः सिद्धत्वात्, �धर्मे चार्थे च कामे च नातिचरितव्ये�ति श्रुतिवाक्येनापि कर्तृत्वस्य नियमनात्पत्न्या इव प्रकृते श्रुतिस्मृत्योरनुपलम्भात् | न चोपनयनं वेदाध्ययनार्थं कल्प्यतामिति वाच्यम्, अष्टमे वर्षे ब्राह्मणमुपनयेत्, एकादशे क्षत्रियं द्वादशे वैश्यमिति त्रैवर्णिकानामेवोपनयनविधानात् | अध्ययनस्याक्षरग्रहणरूपस्यार्थज्ञानद्वारकतदुक्तानुष्ठानपर्यवस अयित्वात् | वीरशैवेषु वेदोदीरितकर्मानुष्ठानादर्शनाच्च | नच लि᳚न्गधारणादिकं वैदिकं कर्मास्तीति वाच्यम्, तद्धारणप्रतिपादकमन्त्रब्राह्मणयोरदर्शनात् | अन्यथा त्रैवर्णिकानन्तर्गतानामपि वेदविद्यायामधिकारः स्यात् | तस्माद्वीरशैवमतमवैदिकं तन्मार्गावलम्बिनो वीरशैवा अप्यवैदिकास्ततस्तेषां श्रैष्ठ्यं नोपपद्यते | नच �अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिस᳚न्घजुष्ट� मित्यत्याश्रमोपनिषदि श्रवणाद्वीरशैवानामत्याश्रमित्वमिति वाच्यम्, आश्रम एषामस्तीत्याश्रमिणः, आश्रमिणोऽतिक्रान्ता अत्याश्रमिण इति प्राकृतानामाश्रमाणां कञ्चित्कालमनुष्ठायानन्तरमतिक्रमस्यापेक्षितत्वेन वीरशैवानामाश्रमित्वाभावेनात्याश्रमित्वस्याप्युपपादनासम्भवात् | प्रत्युत श्रुतिस्मृतिपुराणेतिहाससिद्धाननुष्ठानसूतकाचरणादिविरुद्धानुष्ठा नवीरशैवदीक्षानुवर्तनस्यापि तेषु दृष्टत्वात् | तस्माद्ब्रह्मक्षत्रविशामुत्तरमुत्तरं कनीयांसस्तेभ्यः शूद्राः कनीयांसस्तेभ्यः स᳚न्करा इति व्यवस्थायाः सप्रमाणत्वेन वीरशैवानां श्रैष्ठ्यं स्वान्तर᳚न्गमात्र-
SK
पृ० ४४५) परितोषकरं न प्रमाणानुरुद्धमिति पूर्वपक्षः || अत्रोत्तरमभिधीयते- वीरशैवानां नोत्कर्षः, युक्तिप्रमाणानामभावादिति | तत्र किमुत्कर्षे युक्तिनामभावः, प्रमाणानामभावः, किमुभयेषामभावो वा ? नाद्यः- प्रमाणासहकृते युक्तिमात्रस्य धनिकत्वप्रभुत्वादिलौकिकोत्कर्षसाधनत्वेऽप्यलौकिकोत्कर्षे प्रमाणसहकृतयुक्तेरेव तन्त्रत्वात् || न द्वितीयः- प्रमाणमात्रस्य पूर्वोत्तरमीमांसान्यायसहकृतस्योत्कर्षसाधनत्वान᳚न्गीकारात् | यथा �आदित्यो यूपो, यजमानः प्रस्तरः, अग्निर्वै ब्राह्मणः, अपशवो वा अन्ये गो अश्वेभ्यः� इत्यादौ प्रमाणमात्रेण न्यायरहितेनार्थसिद्धेरभावात् | न तृतीयः- युक्तिसहकृतानां बहूनां प्रमाणानां परमाप्तपरमेश्वरप्रणीतानां सत्त्वात् | तथाहि श᳚न्करसंहितायामुपरिभागे- क्रिमिकीटपत᳚न्गेभ्यः पशवः प्रज्ञयाऽधिकाः | पशुभ्योऽपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजातयः || द्विजातिष्वधिका विप्रा विप्रेषु क्रतुबुद्धयः | क्रतुबुद्धिषु कर्तारस्तेभ्यः सन्यासिनोऽधिकाः || तेषु विज्ञानिनः श्रेष्ठास्तेषु श᳚न्करपूजकाः | तेषु श्रेष्ठा महाभाग मम लि᳚न्गा᳚न्गस᳚न्गिनः || लि᳚न्गा᳚न्गस᳚न्गिष्वधिकः षट्स्थलज्ञानवान् भवेत् | तस्मादप्यधिको नास्ति त्रिषु लोकेषु सर्वदा || स वन्द्यः सर्वदा पूज्यः संसारविजिगीषुभिः | तस्मै देयं ततो ग्राह्यं स च पूज्यो यथाह्यहम् || इति || नन्विदमनुपपन्नम्, �प्रज्ञयाऽधिका� इत्यारभ्य ज्ञानतारतम्येनोत्कर्षापकर्षप्रतिपादनपराणि वचनानि पूर्वपक्षारम्भदशायां वीरशैवमात्रोद्देशेन वर्णान्तर्गतत्वानन्तर्गतत्वपर्यालोचनयोत्कर्षापकर्षमात्रप्रतिपादनात् | शा᳚न्करसंहितावचनानां द्विजातय इत्यारभ्योत्तरो-
SK
पृ० ४४६) त्तरोत्कर्षप्रतिपादनस्य त्रैवर्णिकविषयत्वेन योजनया तेषु धर्मतारतम्येनोत्कर्षप्रतिपादनेऽपि वीरशैवधर्ममात्रे प्राशस्त्यं पर्यवस्यतीति वीरशैवधर्मस्यापि त्रैवर्णिकविषयस्योत्कर्षापादने प्रमाणानां तात्पर्यावधारणौचित्याद्वीरशैवजातीयानां कस्मिन्वर्णेऽन्तर्भाव इत्याश᳚न्कायामुदाहृतवचनानामनुपयोगात् | अन्यथा न वर्णेष्वन्तर्भाव इत्युपपादितग्रन्थविरोधादिति चेन्न, त्रैवर्णिकानन्तर्भावेऽपि त्रैवर्णिकाभ्यधिकाप्राकृतब्राह्मण्यप्रतिपादकागमतदनुगुणश्रुत्यादीन् आं बहूनां सत्वात् | तथाहि सुप्रभेदागमे- अस्ति सच्चित्सुखाकारमलक्षणपदास्पदम् | निर्विकल्पं निराकारं निरस्ताशेषदूषणम् || इत्युपक्रम्य त्रिमूर्त्युत्तीर्णं परमशिवतत्त्वमभिधाय, शिवाभिधं परं ब्रह्म जगन्निर्मातुमिच्छया | स्वरूपमाददे किञ्चित्सुखस्फूर्तिविजृम्भितम् || इत्यादिना लीलासमासादितधर्मधर्मिभावमुपवर्ण्य धर्मसम्बन्धात्सिसृक्षायाम् �दिव्यमप्राकृतं नित्यं नीलकण्ठं त्रिलोचनं चन्द्रार्धशेखरं शुद्धं शुद्धस्फटिकसन्निभम्� इत्यादिना गुणमूर्तिभिरुपास्यं स्वरूपमभिधाय, तस्मिन्नप्राकृतगुणाधारत्वेन नित्यम᳚न्गलस्वरूपत्वेन समस्तलोकनिर्माणसमवायस्वरूपिणीं तद्भिन्नशक्तिमुपपाद्य तत्साहाय्येन �यो देवानां प्रथमः पुरस्ताद्विश्वाधिको रुद्रो महर्षि� रित्यादिश्रुतिसमधिगम्य हिरण्यगर्भोत्पत्तिमुक्त्वा, �यो ब्रह्माणं विदधाति पूर्वं यो वेदांश्च प्रहिणोति तस्मै� इत्यादिश्रुतिप्रतिपन्नं समस्तवेदविद्योपदेशं विधाय ततस्तस्मिन् हिरण्यगर्भे जगत्सिसृक्षायां मायावरणेन सृष्टिविषयकं ज्ञानमुक्त्वा त्रियम्बकं प्रति समस्तजगन्निर्माणोपायं प्रार्थितवता तेन हिरण्यगर्भेण त्वयैव सृष्टिः कार्या तां दृष्ट्वा तत्साजात्येनाहमपि सृजामीति प्रार्थितः शम्भुरित्युक्त्वा ||
SK
पृ० ४४७) ससर्जात्मसमप्रख्यान् सर्वज्ञान् सर्वशक्तिकान् | प्रबोधपरमानन्दपरिवाहितमानसान् || प्रमथान् विश्वनिर्माणप्रलयादिविधिक्षमान् | सृष्ट्वा प्रमथवर्गेषु वर्णाश्रमपरिक्रमान् || अप्राकृतसदाचारानुपादिशदथ प्रभुः | तस्मात्तद्गोत्रजास्सर्वे शिवभक्त्या धृतव्रताः || इति साक्षादेव शम्भोः प्रमथोत्पत्तिस्तेभ्यो वीरशैवानामुत्पत्तिप्रतिपादनेन त्रैवर्णिकेभ्यः प्रथममुत्पन्नत्वात्परमुत्कर्षः प्रतीयते || ननु वीरशैवानामप्राकृताष्टावरणपञ्चाचारस्थापनैकाग्रहृदयः श्रीमत्परमेश्वरानुज्ञातनन्दीश्वरापरावतारः श्रीबसवेश्वरः प्राकृतधर्मानुबद्धश्रद्धब्राह्मणकुलोत्पन्नमादाम्बामाधवाख्ययोः पुत्रत्वमुररीकृत्याविर्बभूव ततस्तत्राष्टवर्षपर्यन्तं मातृपितृगृहे चोषित्वा पश्चाद्वीरशैवधर्मानाचचारेति बसवेश्वरपुराणादिप्रबन्धेषु श्रुतत्वेन तस्य प्राकृताचारेष्वेवाभिनिवेशो दृष्ट इति कथं तदीयानामप्राकृताचारत्वमिति चेन्न, श्रीपरमेश्वरापरावतारस्य नन्दीश्वरस्य देव्यपेक्षया परमान्तर᳚न्गस्याधिगतसार्वज्ञ्यस्य प्रमथनायकस्य �भवद्भवनदेहलीबहुलतण्डुदण्डाहतित्रुटन्मुकुटकोटिभिर्मघवदादिभ् इर्भूयते | भजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसम्पदः प्रमथनाथ नाथामहे ||� इति प्रोक्तसर्वहरिविधिप्रमुखगीर्वाणगन्धर्वसिद्धविद्याधरकिन्नरकिंपुरुषन् इग्रहानुग्रहकारणत्वेन देदीप्यमानस्य �भो भो दिक्पतयः प्रयात पुरतः खं मुञ्चताम्भोमुचः पातालं व्रज मेदिनीं प्रविशत क्षोणीतलं पन्नगाः ब्रह्मन्नुन्नय दूरमात्मभवनं नाथस्य नो नृत्यतः शम्भोः स᳚न्कटमेतदित्यवतु नः प्रोत्सारणं नन्दिनः� इत्यादिना सकलप्रपञ्चमन्यथाकर्तृमनितरसाधारणचातुर्यधुरीणस्य नन्दीश्वरस्य �महीसुरः कश्चन माधवाख्यो महीतले मां प्रति पुत्रका᳚न्क्षी | तपस्यति त्वद्वृतमस्य पत्नी तनोति च त्वद्गतचित्तवृत्तिः || पुत्रत्वमासाद्य तयोः
SK
पृ० ४४८) पृथिव्यां श्रीवीरमाहेश्वर तत्र दार्ढ्यम् | विधेहि विद्वन् विविधैर्विहारैः पुत्रस्य पाषण्डपथःप्रवृत्तान् || इति बसवेश्वरपुराणोक्तश्लोकरीत्या, �यदा यदा हि धर्मस्य हानिश्शैवस्य जायते | तदा तदावतारोऽयं गणेशानां महीतल� इति श᳚न्करसंहितावचनाच्च, लोकानुग्रहार्थं वीरशैवमतोद्दिधीर्षया पररूपेण कृतलीलावतारस्य बसवेश्वरस्य देवतात्वेनोत्पत्तौ जातिनियमादरणे विशेष्यापेक्षाभावात् | तथैव तद्यथा अद्वैतस्थापकभगवच्छ᳚न्कराचार्याणाम् श्ह᳚न्करः श᳚न्करः साक्षाद्व्यासो नारायणःस्मृत� इति, चतुर्भिस्सह शिष्यैस्तु श᳚न्करोऽवतरिष्यती�ति भविष्यत्पुराणोक्त्या च श्रीपरमेश्वराभेदं प्राप्तवतां निषिद्धकेरलदेशे उत्पत्तिश्रवणस्य प्रसिद्धत्वात् | एवमेव पतञ्जलिरप्यादिशेषो गोणिकाख्यायां ब्राह्मण्यां योगपादादिविद्याप्रवर्तनेन लोकानुग्रहार्थं सप्तवर्षककुमाररूपेणाञ्जलौ पतन् पतञ्जलिनाम्नाऽवततारेति चिदम्बरमाहात्ये श्रूयते | अत एव वज्रसूच्यां �ऋष्यशृ᳚न्गो मृग्यां कौशिकः कुशात् गौतमः शशपृष्ठे जाम्बूको जम्बुक्यां वशिष्ठ उर्वश्यां वाल्मीकिर्वल्मीकाद्व्यासः कैवर्तकन्यायामगस्त्यः कलशे जातः� इति श्रुतत्वात् विश्वामित्रः क्षत्रियो नारदो दासीपुत्र इत्यादिश्रवणात्, एवमेव देवानां लोकानुग्रहार्थाय विष्ण्वादीनां स्वापेक्षया हीनजातावुत्पन्नत्वेऽपि दोषाभावश्रवणाच्च | प्रकृतेऽपि निरधिकरणदीक्षावतां श्रीसाम्बशिवेन प्रमथानां तद्वंशीयानां बसवेश्वरस्य च निकृष्टकुलोत्पन्नत्वेऽपि जात्यादिदोषप्रसक्तिर्नास्ति, तस्माद्बसवेश्वरस्य परमेश्वरावतारस्य लोकानुग्रहार्थं यत्र कुत्रापि जनेः सम्भवेप्यप्राकृतब्रह्मकुलोत्पन्नानां वीरशैवानामतिवर्णाश्रमिणां नैतादृशश᳚न्काकल᳚न्कलेशोऽपीति सर्वमनुकूलम् || ब्राह्मणाद्युत्पत्तिस्तु पुरुषसूक्तेऽभिहिता- �ब्राह्मणोऽस्य मुखमासीत् | बाहू राजन्यः कृतः | ऊरू तदस्य यद्वैश्यः | पद्भ्यां शूद्रोऽजायते�ति विराट्पुरुषाद्यथा तथोत्पत्तिश्रवणात्तदुपदिष्टश्रुतिस्मृतीतिहासप्रसिद्धवर्णाश्रमानुवर्
SK
तनतदतिक्रमणद्वारकात्याश्रमादि- पृ० ४४९) धर्माणां प्रतिपादनात्तेषां ब्राह्मणानां तदुदीरितधर्मानुवर्तनञ्च वीरशैवानामप्राकृतब्राह्मणत्वेन तत्सृष्टपरमेश्वरताल्वोष्ठपुटव्यापारादितः स्वतः प्रमाणभूतकामिकादिवातुलान्तदिव्यागमोक्तधर्मानुवर्तनन्तु स्वानुष्ठेयधर्मोपपादकागमाविरुद्धांश इति विवेकः || ननु वेदविद्यायाः परमाभ्यर्हितत्वेन तदुक्ताग्निष्टोमादिक्रमस्य धर्मस᳚न्घस्य श त्रिर्भिर्वेदैर्विधीयत� इत्यापस्तम्बीयसामान्यसूत्रेऽभिधानादागमेषु तदभावेऽपि ब्राह्मणैः प्राधान्येनानुष्ठेयस्तदविरुद्धागमोक्तालयोत्सवप्रतिष्ठादिधर्माश्च तथेति चेन्न, तेषां भिन्न विषयत्वात् | वीरशैवानुष्ठेयपञ्चाचाराष्टावरणक्रमस्य पिण्डादिज्ञानशून्यान्तैकोत्तरशतस्थलक्रमस्य यावद्धर्मस᳚न्घस्यागमेषु प्राधान्येनानुष्ठेयत्ववर्णनात्तेषां वीरशैवधर्माणां विशकलिततया तत्र तत्र श्रुतिषु प्रतिपादनात्, यत्र येषामाचाराणां क्रमोऽभिधीयते तेषां तदध्ययनादिकं प्राधान्येन; तदितरप्रमाणानुवर्तनन्तु स्वस्वाचाराविरोधेनेति सिद्धम् || यत्तु गर्भाधानादिसंस्कारराहित्येन तदन्तर्गतप्राजापत्यादिवेदव्रतराहित्यमित्याद्युपवर्णितं तदसत्, अप्राकृतनिर्माणवैचित्र्यप्रतिपादनेनाप्राकृतसृष्ट्यन्तर्गतानां तदनपेक्षणात् | तथाच सिद्धान्तशिखामणौ- विशुद्धाः प्राकृताश्चेति द्विविधा मानुषाः स्मृताः | शिवसंस्कारिणः शुद्धाः प्राकृता इतरे मताः || वर्णाश्रमादिधर्माणां व्यवस्था हि द्विधा मता | एका शिवेन निर्दिष्टा ब्रह्मणा कथिता परा || शिवोक्तधर्मनिष्ठा तु शिवाश्रमनिषेविणाम् | शिवसंस्कारहीनानां धर्मः पैतामहः स्मृतः || इति प्राकृताप्राकृतविभागो दर्शितः ||
SK
पृ० ४५०) यदपि गोत्रसूत्राद्यभावोपवर्णनं तदप्यापातरमणीयम् | तथाहि- रेणुकदारुकघण्टाकर्णगजकर्णानां प्रमथनायकानां सदाशिवमुखोद्भूतानां गोत्रप्रवर्तकानां चतुर्णां सत्वात् | एतेन न वेदविद्याध्ययनेऽधिकार इत्यादिगर्भस्रावेणैव निरस्तम् | अप्राकृतत्वेनैव ब्राह्मणेभ्योऽपि वैशिष्ट्यप्रतिपादनात् | यद्यप्यत्याश्रमित्वं नेति तदप्यविचारितरमणीयम् | हराश्रमानुवर्तनस्य सत्वात्परिपाकदशायां तदतिक्रमस्यापि सम्भवात्, �अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् | नराणां क्षीणपापानां शिवे भक्तिः प्रजायत� इत्यादिना जन्मान्तरीयाश्रमानुवर्तनतदतिक्रमयोरपि सम्भवाच्च || ननु प्रमथानां नित्यमुक्तानां कथं वंशप्रवर्तकत्वमिति चेन्न, अगस्त्यवशिष्ठादीनामिव लोकानुग्रहार्थं वीरशैवसम्प्रदायप्रवर्तनार्थं च वंशप्रवर्तनसम्भवात् | नच वंशप्रवृत्तेः स्त्रीमूलकत्वात्प्रमथानां रागद्वेषाद्यसम्भवेन नित्यमुक्तत्वेन कर्मानुष्ठानापेक्षाया अभावाच्च स्त्रीपरिग्रहाभावात्कथं वंशोत्पत्तिरिति वाच्यं, नित्यमुक्तानामपि दहरविद्याप्रकरणे �अथ यदि स्त्रीलोककामो भवती�त्यादिना सर्वस्वातन्त्र्यप्रदर्शनार्थं दारपरिग्रहप्रदर्शनात्प्रकृते प्रमथानामपि सर्वस्वातन्त्र्यप्रदर्शनार्थं गोत्रप्रवर्तकानां चतुर्णां वीरशैवसमयप्रवर्तकानां रेणुकादीनां दारपरिग्रहसम्भवात् | नच प्रमथानां दारपरिग्रहः क्वापि न श्रूयत इति श᳚न्कनीयम् | नन्दिकेश्वरस्य सुयशा नाम पत्नीति पुराणेषु श्रवणात् | अस्मिन्नर्थे मन्त्रा अपि वर्तन्ते | सप्तवाकयजान्तर्भूते ईशानबलौ चतुश्चत्वारिंशद्बलिप्रक्षेपप्रकरणे �ग्रहपोपस्पृशो ग्रहपाय स्वाहा | ग्रहप्युपस्पृशो ग्रहप्यै स्वाहा | द्वारापोपस्पृशो द्वारापाय स्वाहा | द्वाराप्युपस्पृशो द्वाराप्यै स्वाहा |� इत्यत्र द्वारापो नाम नन्दीशस्तस्य स्त्री द्वारापी �पुंयोगादाख्याया�मिति ᳚नीप् | तस्याः सुयशादेवीति नाम पुराणेषु प्रसिद्धमितीशानबलिप्रयोगविवरणे विलेखनात् | तथाच गोत्रप्रवर्तकानां रेणुकाद्याचार्याणां
SK
दारपरिग्रहेण सन्ततिपरम्परायाः सम्भवादेव पृ० ४५१) वीरशैवानां ते गोत्रप्रवर्तकाः | नच गोत्रप्रवर्तकानां तेषां मध्ये केषाञ्चिद्दारपरिग्रहश्रवणेऽपि केषाञ्चिद्दारपरिग्रहे प्रमाणाभवाद्गोत्रप्रवृत्तिनिर्वाहः कथमुपपद्यत इति वाच्यं, पुत्रपौत्रादिसन्ततिपरम्पराया गोत्रप्रापकत्ववत्, शिष्यप्रशिष्यप्रवाहस्यापि गोत्रसम्बन्धसम्पादकत्वसम्भवात् | अतेव क्षत्रियस्य स्वयं ब्राह्मणवशंसम्भवत्वाभावेन कर्मण्यधिकाराभावे प्राप्ते सति �पुरोहितस्य प्रवरेण राजा प्रवरं प्रवृणीत� इत्यापस्तम्बसूत्रवचनेन शिष्याणां क्षत्रियाणां याजकतया गुरुभूतब्राह्मणगोत्रवत्वश्रवणात् | किञ्च- रेणुको रेवणो रुद्रो मुनिर्नीलो महेश्वरः | घण्टासिद्धश्च सार᳚न्गो वृद्धोऽगस्त्यगुरुर्गुरुः || त्रिशिखोऽष्टजटः पञ्चवर्णकः सिद्धशासनः | इत्यादयो महाभागा महापूरुषसम्भवाः || इत्यादिना रेणुकाचार्यशिष्यपरम्परावर्णनानन्तरं, दारुको मरुलोऽमायश्चालवाण्डो महातपाः | ज्योतिर्मतिगुरुश्चिक्को व्याघ्रक्वन्थो बृहद्वधः || नारकन्थः पत्स्यकन्थो मुक्तकन्थो महामुनिः | एकादशशिखो योगी मल्लिकार्जुननामवान् || इत्यादिना दारुकगोत्रसम्प्रदायोऽभिहितः || घण्टाकर्णस्तथैकश्च रामो मुण्डी गुहेश्वरः | सुतारस्तारको मुक्ता नूपुरश्च पुराणकः || इत्यादयो घण्टाकर्णगोत्रजा अभिहिताः || गजकर्णो त्रिर᳚न्गुष्ठो मञ्चणः स᳚न्गमोऽव्ययः | कल्याणपण्डितः केशी माधवः श्रीपतिः प्रभुः || मल्लिकार्जुन इत्याद्या वामदेवमुखोद्गताः |
SK
पृ० ४५२) इत्यादिना गजकर्णवंशोऽभिहितः || तस्मात् रेणुकादीनां यथासम्भवमुत्पाद्योत्पादकभावो गुरुशिष्यभावश्च यथासम्भवं मूलागमेषु स्पष्टमभिहितः | एतच्च क्रियाकाण्डे स्पष्टमभिहितम् | तस्मादप्राकृतब्राह्मणानां वीरशैवानां गोत्रादिसद्भावात्सर्वोत्तरत्वं सिद्धम् || यत्तु वीरशैवानामत्याश्रमित्वं न सम्भवति, अत्याश्रमशब्दे अतिशब्दस्यातिक्रमणार्थकतया आश्रमधर्मानुष्ठानानन्तरभाविज्ञानविशेषलभ्यधर्मविशेषवत्ववर् णनौचित्यादिति तन्न श्वति पूजाया� मिति व्याकरणसूत्रेण, �तु हि च स्म ह वै पादपूरणे पूजने स्वति� इत्यव्ययवर्गे चातिशब्दस्य श्रैष्ठ्यार्थकतया श्रूयमाणत्वात्प्रकृते अतिक्रमणार्थकत्वासम्भवेऽपि प्रकर्षार्थकत्वसम्भवात् | तथाच अतिशयितः आश्रमः अत्याश्रमः, स एषामस्तीत्यत्याश्रमिणः | अथवा आश्रम एषां सन्तीत्याश्रमिणः अतिशयिता आश्रमिणः अत्याश्रमिणः इत्यर्थवर्णनयाऽत्याश्रमित्वस्य वीरशैवेषु सम्भवात्, प᳚न्कजादिशब्दवद्योगरूढ्या वीरशैवानुष्ठीयमानधर्मविशेषेऽत्याश्रमशब्दः प्रवर्तते, अतिशयितत्वन्त्वप्राकृतप्रमथसृष्टिपूर्वकमहेश्वरोपदिष्टत्वात् | तथाच आगमवचनानि- अतिवर्णाश्रमी प्रोक्तो गुरुस्सर्वाधिकारिणाम् | अन्येषां स भवेच्छ्रेष्ठो यथाहं पुरुषोत्तमः || अतिवर्णाश्रमी साक्षाद्गुरूणां गुरुरुच्यते | पञ्चाक्षरी पराविद्या शिवज्योतिरवाप्तये || ॐकारः प्रणवः सूक्ष्मो विद्यानां बीजमुत्तमम् | तत्त्वादशेषतत्त्वानि प्रणवेन विशोधयेत् || सितेनोद्धूलयेद्देहमग्निरित्यादिमन्त्रकैः | विचिन्तयेत्स्वात्मनि शम्भुमीशं शिवं परं शान्तमुमासहायम् | पृ० ४५३) भस्मा᳚न्गमाविष्कृतसर्वदीप्ति- मत्याश्रमाचारमिमं वदन्ति || लि᳚न्गं शिवो भवेत्क्षेत्रम᳚न्गसंयोग आश्रयः | तस्माल्लि᳚न्गा᳚न्गसंयुक्तः सोऽपि चात्याश्रमी भवेत् || एतद्वेदशिरोनिष्ठः प्राह पाशुपतं मुने | एतच्छिरोव्रतं प्राहुः केचिदत्याश्रमं बुधाः | केचिन्महाव्रतं प्राहुः केचिच्छाम्भवमैश्वरम् ||
SK
इति वचनेनाग्निरित्यादिमन्त्राभिमन्त्रितभस्मोद्धूलनत्रिपुण्ड्रधारणरुद्राक्ष धारणपूर्वकप्रणवसमभिव्याहृतपञ्चाक्षरीमन्त्ररत्नजपसहितपरशि वध्यानानुस्यूतपूजाविशेषविशिष्टो लि᳚न्गा᳚न्गसम्बन्धोऽत्याश्रमस्तद्वानत्याश्रमीति | एतद्व्रतस्यैव पाशुपतमिति, शिरोव्रतमिति, अत्याश्रम इति, महाव्रतमिति, शाम्भवमिति, ऐश्वरमिति चोपनिषत्सु प्रतिपादनाद्वीरशैवानामेवात्याश्रमित्वं, तेषामेव सर्वोत्कृष्टत्वं सिद्धम् || नन्वतिशयित आश्रमोऽत्याश्रमः, अतिशयिता आश्रमिणोऽत्याश्रमिण इति समासेऽतिशब्दार्थस्य प्राशस्त्यस्य धर्मे धर्मिणि वाऽन्वये सति प्रशस्ताश्रमित्वसम्पादनार्थमाश्रमधर्मा यावन्तोऽनुष्ठेयाः | ते च वेदसिद्धाश्चत्वारिंशत्संस्कारादयश्च | तेषां क्रमश्च श्रुतिस्मृतिकल्पसूत्राद्यवगम्यः | तेषां वीरशैवेष्वदर्शनादत्याश्रमित्वं सुतरां नोपपद्यत इति चेन्न, �अतिवर्णाश्रमाचाराः सम्भवन्त्यूर्ध्ववक्त्रतः | ते वै साक्षान्महादेवा मोदन्ते ह्यागमेषु चे�ति क्रियासारोक्तागमवचनपर्यालोचनया परमेश्वरोर्ध्ववक्त्रसम्भूतत्वे सत्यागममोदनस्यात्याश्रमधर्मत्वप्रतिपादनागमेषु च पञ्चाचाराष्टावरणषट्स्थलतत्त्वप्रतिपादनात्साकल्येन तदनुवर्तनोर्ध्ववक्त्रसम्भवयोरन्यत्रब्राह्मणा- दावदर्शनाद्वीरशैवजातीयमात्रे तेषां यथायोगं यथाविधि सम्यगनुष्ठानदर्शनात्तेषामेवात्याश्रमित्वं तानेवाधिकृत्य
SK
पृ० ४५४) मन्त्रोपनिषदपि प्रवृत्ता | किञ्च �पञ्चास्यपञ्चममुखाद्यतो जातास्ततोऽधिकाः | पञ्चमाः सर्ववर्णेभ्यो मद्भक्ता मत्प्रियाः सदे�ति कामिकागमवचनेन पूर्वोक्तवचनसहकृतेनेशानमुखादुत्पन्नानामत एव पञ्चममुखोत्पत्त्या पञ्चमसंज्ञकानां सर्ववर्णोत्तीर्णानामप्राकृतब्राह्मणादिधर्मनिरततया परिदृश्यमानानां वीरशैवानां सर्वोत्तमत्वं निर्विवादम् || ते च सामान्यविशेषनिराभारभेदभिन्नाः, श्रवणकीर्तनपादसेवनार्चनवन्दनदास्यसख्यात्मनिवेदनाख्यनवविधभक् तियुक्ताः कृच्छ्र चान्द्रायणादिव्यतिरिक्तं तत्स्थानीयशिवार्थनिर्मितशरीरसंशोषणं तपः | अग्निष्टोमादिव्यतिरिक्तं तत्स्थानापन्नशिवार्चनानुकूलव्यापारः कर्तव्यं कर्म | यागादिकर्मप्रतिपादकवेदभिन्नप्रणवपञ्चाक्षरीश्रीरुद्रादिशिवैकविष यकमन्त्राभ्यासो जपः | अन्यदेवतास्वरूपचिन्तनव्यतिरिक्तं शिवैकविषयधारावाहिकानुसन्धानं ध्यानम् | इतरशास्त्रप्रतिपाद्यार्थविवेचनव्यतिरिक्तं कामिकाद्यागममुख्यप्रतिपाद्यषट्स्थलतत्त्वबोध एव ज्ञानम् | एतादृशपञ्चप्रकारशिवभजनमेव पञ्चमहायज्ञाः, तन्निष्ठाः, हृदयाकाशभासमानप्राणलि᳚न्गाभिधानचित्सूर्यविषयकमानसानुसन्धा नमेव सन्ध्यावन्दनम्, तद्वन्तः, प्राणलि᳚न्गात्मकान्तर्ज्योतिरधिकरणमनःकरणकशब्दादिविषयाख्यहविः समर्पणमेव होमः, तच्छालीनः, सत्यक्षमादयाशौचनियममार्दवतपस्त्यागब्रह्मचर्यसन्तुष्ट्यार्जवाख्यैक् आदशधर्माः, तदासक्ताः, भक्तेषु कामः, अधर्मनिरतेषु क्रोधः, शिवार्चनायां लोभः, शिवे मोहो भक्तेतरेषु मदः शिवभक्तमार्गविमुखेषु मात्सर्यमित्यरिषड्वर्गस्य विषयभेदेन विनियोगसम्पादकाः, गुरुलि᳚न्गज᳚न्गमार्थं पचनं पतिव्रतायाः पत्युर्लि᳚न्गधारकदासीदासादिसंग्रहो लि᳚न्गमुद्रा᳚न्कितगृहमध्यवासस्तद᳚न्कितक्षत्रधान्योपजीवनं शिवभक्तेभ्यः कनकरजतवस्त्रभूषणादिनां प्रदानं भस्मस्पर्शनपूर्वकप्रतिग्रहपरिशुद्धद्रव्येण गुरुलि᳚न्गज᳚न्गमार्चनं दासत्ववीरदासत्वभृ-
SK
पृ० ४५५) त्यत्ववीरभृत्यत्वसमयस्थत्वकलावस्थित्वरूपषड्विधसज्जनत्वं गुरौ शिवाभिन्नत्वेन ज्ञानं स्वेष्टलि᳚न्गे मनोलयो ज᳚न्गमे आनन्दानुभवः एकादशविधप्रसादपरिज्ञानं भक्तिनिर्वहणं चेति षड्विधं व्रतमाचरन्तो, लि᳚न्गाचारसदाचारभृत्याचारशिवाचारगणाचारसमयाचाराश्चेति षड्व् इधाचाराः, तद्युक्ताः, अक्रोधसत्यवचनक्षमाभविभक्तविभेदनानुग्रहसत्पात्रद्रव्यार्पणरूपष ड्विधशीलवन्तः, अक्रोधगुरुशुश्रूषाशौचाहारलाघवाप्रमादा इति पञ्चविधनियमाः, गुरुप्रसादलि᳚न्गप्रसादज᳚न्गमप्रसादप्रसादिप्रसादाप्यायनप्रसादसमयप्र् असादज्ञानेन्द्रियरहितप्रसादान्तःकरणरहितप्रसादसद्भावप्रसादसम्मत् अप्रसादज्ञानप्रसादभेदेनैकादशविधप्रसादाः, गुरुपादोदकलि᳚न्गोदकमज्जनोदकस्पर्शनोदकावधानोदकसत्योदकादिभेदेन दशविधपादोदकानि सेवमानाः, परतत्त्वरूपमहालि᳚न्गैक्यानुसन्धानरूपं ज्ञानं भूतिः, तत्र महालि᳚न्गे मनोमज्जनं विजातीयप्रत्ययतिरस्कारपूर्वकसजातीयप्रत्ययप्रवाहीकरणरूपं स्नानं, सत्त्वरजस्तमोगुणजनितकार्यासंस्पर्शस्त्रिपुण्ड्रधारणं, एवमन्तस्नानोद्धूलनधारणनिष्ठाः, बाह्यानि तु कल्पोपकल्पानुकल्परूपक्रियाभेदजन्यभूतिभसितभस्मक्षाररक्षानामधेय् अपञ्चकविशिष्टविभूतिस्नानोद्धूलनधारणानि नियमादाचरन्तः, मनोबुद्ध्यहंकारचित्तश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायुपस्थ रूपाणां चतुर्दशाक्षाणामाचारादिलि᳚न्गमुखानां संशयनिश्चयगर्वस्मरणशब्दस्पर्शरूपरसगन्धवचनादानगमनविसर्ग अनन्दसंज्ञकचतुर्दशविषयाणां तत्तलि᳚न्गप्रसादानुभवसम्पादनार्थं तल्लि᳚न्गरूपतया धारणं चतुर्दशमुखरुद्राक्षधारणमान्तरं, बाह्यन्तु सूर्यचन्द्राग्निरूपपरमेश्वरत्रिनेत्रसम्भूताष्टत्रिंशद्भेदभिन्नरुद्राक् षाणां विधिवद्धारणं तन्वानाः, नमःशब्दप्रतिपाद्या᳚न्गशिवशब्दप्रतिपाद्यलि᳚न्गयोरयशब्दप्रतिपाद्यैक्य अनुसन्धानं पञ्चाक्षरीजप आन्तरः, बाह्यस्तु
SK
दुष्करगणनाकारादिक्षकारान्तमातृकामालास्थानापन्नसुकरगणनरुद्र अक्षमणिमालाकिरणपूर्वकोमानसोपांशुवाचकविधया पञ्चा-
SK
पृ० ४५६) क्षरीमन्त्रजपः, एवमुभयमाचरन्तः, त्रैकालिकाबाध्यत्वं सत्त्वं तदेव गुरुः, प्रकाशान्तरनिरपेक्षतया सर्वप्रकाशकत्वं चित्त्वं तदेव लि᳚न्गम्, वैषयिकानन्दतारतम्यविश्रान्तिभूम्यखण्डानन्द एव ज᳚न्गम आन्तरः, बाह्यस्तु पञ्चमुद्रान्वितो ज᳚न्गमः, प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वं नित्यत्वं तदेवान्तरः प्रसादः, बाह्यस्तु गुरुलि᳚न्गचरभक्तशेषरूपः शुद्धसिद्धप्रसिद्धाख्यः प्रसादः, सर्वमूर्तसंयोगित्वरूपपरिपूर्णत्वमेवान्तरं पादोदकं, बाह्यन्तु लि᳚न्गोदकपादोदकप्रसादोदकभेदेन त्रिविधं, एतादृशमानसानुसन्धानसंवलिताचरणीयधर्माचरणैकतानहृदयः, वेधामन्त्रक्रियारूपदीक्षात्रयेण स्वात्मगुरुलि᳚न्गज᳚न्गमानामैक्ययोगानुसन्धानलक्षणं योगा᳚न्गमिति, तदर्पितप्रसादस्य परमोपादेयत्वेन स्वीकारसुखपरिणमनलक्षणं भोगा᳚न्गमिति, गुरुलि᳚न्गज᳚न्गमेष्ववञ्चनया परित्यजनीयतनुमनोधनत्वरूपं त्यागा᳚न्गमित्येवं स्थूलसूक्ष्मकारणशरीराणां त्यागा᳚न्गभोगा᳚न्गयोगा᳚न्गतां सम्पाद्य, एषु गुरुणा दत्तं दृक्कलाग्राह्यं सकलमधोवृत्तखण्डिकावृत्तगोमुखनालगोलकात्मकषडवयवयुक्तं स्वसम्बन्धपूर्वकालिकभाव्यनेकजन्महेतुभूतसंचितकर्मरूपानिष्टपरिह अरद्वारा महालि᳚न्गैक्यरूपेष्टप्रापकत्वादिष्टशब्दितं लि᳚न्गं त्यागा᳚न्गशब्दिते स्थूलशरीरे षडन्यतमस्थाने सावधानं धृत्वा बाह्यैः षोडशोपचारैः सम्पूजनं बाह्यं कुम्भकशब्दितप्राणवायुनिरोधजनितकशेरुकादण्डान्तरस्थैकविंशतिग्र न्थिभेदनपूर्वककुण्डलिन्यूर्ध्वमुखीकरणद्वारा हृदयस्थितानाहतपद्माष्टदलव्यतिरिक्तचतुर्दलमध्यस्थकर्णिकान्तस्थित अ᳚न्गुष्ठपरिमाणविद्रुमप्रभप्राणशक्तिविशिष्टचित्स्वरूपमेव प्राणलि᳚न्गं मनोग्राह्यं सकलनिष्कलात्मकं क्षमात्मकाभिषेकसलिलजडाजडविवेकरूपवस्त्रसत्यवचनाभिधाभरणै हिकामुष्मिकविषयभोगास्स्थैर्यज्ञानपूर्वकेच्छानिवृत्त्याख्यवैराग्यात्मक्
SK
अपुष्पमाल्यविषयान्तरवैमुख्यपूर्वकमनोलयरूपसमाध्यात्मकगन्धाहमित् यभिमानराहित्यरूपनिरहंकाराख्याक्षतदृढविश्वासरूपश्रद्धानाम कधूपमूलाज्ञाननिवर्तकाखण्डाकारज्ञानात्मकदीपभ्रान्तिमूलप्रपञ् चज्ञानरा-
SK
पृ० ४५७) हित्यरूपनैवेद्यलौकिकविषयशब्दव्यवहारनिवृत्तिनियमरूपमौनाह्वयघण् टानादगन्धादिविषयार्पणरूपताम्बूलसंसारिकस्त्रीपुत्रादिविषयमहत्त् आराहित्यप्रदक्षिणसर्वप्रपञ्चतदात्मतावधारणात्मिकबुद्धिनमस्काररू पैर्भावकल्पितैः षोडशस᳚न्ख्याकैरदूषितैरान्तरैरुपचारैः पूजनमान्तरं प्राणलि᳚न्गपूजनं, योगा᳚न्गे निर्गुणे निराकारे अतेव निष्कले परात्परे तृप्तिरूपे मनोलयद्वारा स्वतादात्म्येनावस्थानं निरञ्जनार्चनमेवंविधलि᳚न्गत्रयोपासनातत्पराः || इत्थं च पूर्वोक्तलि᳚न्गत्रयं मूलप्रणवप्रकाशैकविग्रहं परशिवतत्त्वं करणान्तरनिरपेक्षतया भासमानत्वात्स्वप्रकाशं, कारणान्तरनिरपेक्षतया कुर्वाणत्वात्स्वतन्त्रं, अधिकरणान्तरनिरपेक्षतया वर्तमानत्वात्सर्वाधिकरणं सच्चिदानन्दलक्षणं परशिवतत्त्वं पूज्यपूजकभावलीलापन्नं सत्तर᳚न्गोत्पत्तेः प्राग्लहरीविशिष्टः समुद्र इव क्षुब्धं सदीषच्चलं भवति | ततोऽन्योन्यसमरसीभूतस्वतन्त्रस्वप्रकाशशान्तयोर्न्यूनाधिकभावाभ्यां द्वैविध्यं प्राप्नोति | तत्राधिकभावापन्नं स्वतन्त्रस्वप्रकाशतायां प्रतिस्फुरणगत्या प्रविष्टमूलप्रणवरूपशिवचैतन्यमेव लि᳚न्गतत्त्वं भवति | न्यूनीभूतस्वप्रकाशतायां तथैव प्रविष्टशिवचैतन्यमेवा᳚न्गतत्त्वं भवति | तत्र लि᳚न्गतत्त्वं तु तदेव सच्चिदानन्दप्रतिफलनकलनात्मकं भावलि᳚न्गं प्राणलि᳚न्गमिष्टलि᳚न्गमिति त्रिविधं भवति | पुनरिदं लि᳚न्गत्रयं प्रत्येकं द्विविधं भवति | तत्र भावलि᳚न्गं हि महालि᳚न्गं प्रसादलि᳚न्गमिति द्विविधं भवति | प्राणलि᳚न्गं तु ज᳚न्गमलि᳚न्गं शिवलि᳚न्गमिति द्विविधम् | इष्टलि᳚न्गं च गुरुलि᳚न्गमाचारलि᳚न्गमिति द्विविधं भवति | एवं लि᳚न्गस्थलं षड्विधं भवति | स्वतन्त्रस्वप्रकाशताशक्तिरेव क्रमादेषु लि᳚न्गेषु सूक्ष्मकार्यकारणप्रपञ्चोपादान- कारणीभूतचिच्छक्त्यपरपर्यायप्रणवरूपशान्त्यतीतोत्तराख्यकलेति, आनन्दरूपपराशक्त्यपरपर्याययकारमयशान्त्यतीतकलेति,
SK
औन्मुख्यलक्षणादिशक्त्यपरपर्यायवाकाररूपशान्तिकलेति, सूक्ष्मक्रियालक्षणेच्छाशक्त्यपरपर्यायशिकाररूपविद्याकलेति, बहिर्मुखज्ञा-
SK
पृ० ४५८) नशक्त्यपरपर्यायमकारमयप्रतिष्ठाकलेति, स्थूलोद्यमक्रियाशक्त्यपरपर्यायनकाररूपनिवृत्तिकलेति, षड्रूपतां भजति | एवं च महालि᳚न्गं तावत्सर्वपदार्थानुसन्धानलक्षणहृदयरूपत्वाद्विशुद्धानुसन्धातृरू पगोप्यमुखमित्युच्यते | प्रसादादिलि᳚न्गपञ्चकन्तु क्रमेण शब्दादि प्रतिनियतपदार्थानुसन्धातृरूपेशानतत्पुरुषाघोरवामदेवसद्योजाताख्य् अप्रकटपञ्चमुखमित्युच्यते | एवंविधलि᳚न्गतत्त्वस्य सागरतर᳚न्गन्यायेनाभेदपर्यवसायिभेदप्रतीतिलक्षणशुद्धानुसन्धातृ रूपत्वेनानुग्रहहेतुत्वादुपास्यत्वसू | एवम᳚न्गतत्त्वञ्च योगा᳚न्गं भोगा᳚न्गं त्यागा᳚न्गमिति त्रिविधम् | इदमपि प्रत्येकं द्विविधम् | योगा᳚न्गन्त्वैक्यं शरणमिति द्विधा भिद्यते | भोगा᳚न्गन्तु प्राणलि᳚न्गिप्रसादीति | त्यागा᳚न्गन्तु महेश्वरभक्तलक्षणमिति | एवं षड्विधा᳚न्गप्रकाशानां न्यूनीभावमापन्ना सा शक्तिरेव समरसभक्तिरित्यानन्दभक्तिरित्यनुभवभक्तिरित्यवधानभक्तिरिति नैष्टिकीभक्तिरिति श्रद्धाभक्तिरिति षड्विधभक्तिरूपतां, भावज्ञानमनोबुध्यहंकारचित्तलक्षणान्तःकरणषट्कातां, श्रोत्रादिज्ञानेन्द्रियरूपतां, शब्दादितद्विषयतृप्तिलक्षणषट्पदार्थतां, तद्वाचकषडक्षरीरूपतां, क्रियासाधनीभूतवागादिकर्मेन्द्रियरूपतां, सूक्ष्मरूपा- काशादिभूतपञ्चकसमष्टिरूपतां, सद्भावसुज्ञानसुमनोनिरहंकारसुबुद्धिसुचित्ताख्यषड्विधहस्तरूपतां, च प्राप्या᳚न्गतत्त्वं भवति | एवंविधा᳚न्गतत्त्वस्य महेश्वरीयलीलाशक्तिपरिकल्पितस᳚न्कुचितचिदादिशक्तिस्वभावत्वेऽपि सूक्ष्मरूपमानसव्योमाद्युपाधिसंवलितत्वेनोर्ध्वसृष्टिरूपविभागनिबन्ध् अनभेदप्रदानलक्षणशुद्धविद्याप्रमातृरूपत्वादुपासकत्वमुच्यते | एवं च लि᳚न्गतत्त्वस्य शरणतत्त्वम᳚न्गं, शरणस्य लि᳚न्गं प्राणः | अनयोर्बीजवृक्षन्यायेनान्योन्यसामरस्यमेव || एवं शरण एव लि᳚न्गं, लि᳚न्गमेव शरण इति | एवंविधशरणस्य स्वविमर्शगुरुकटाक्षसम्प्राप्तस्वात्मप्रत्यभिज्ञानशालित्वात्, एतन्मन एव
SK
प्रणवरूपमहालि᳚न्गं बाह्येन्द्रियलक्षणश्रोत्राद्येकैकेन्द्रियविषयशब्दादिसकलपदार्थाग्रहण साधनत्वेनान्तर्मुखत्वात्, नादसुनादमहानादरूपदेशिकवाक्यशास्त्रस्य
SK
पृ० ४५९) विवक्षाध्यवसायोक्तिरूपपश्यन्त्यादिक्रमेणानुग्रहात्मकप्रसादहेतुत्वात्, शब्दग्रहणसाधनं श्रोत्रमेव यकाररूपप्रसादलि᳚न्गम् | चरज᳚न्गमयोः पर्यायत्वात्तस्य त्वक् सर्वा᳚न्गं व्याप्तासती तत्र शीतादिस्पर्शज्ञानसाधनत्वाद्वाकारमयज᳚न्गमलि᳚न्गम् | महाप्रकाश एव नेत्रगोलकं प्रविष्टं सत्सकलरूपपदार्थप्रकाशनसाधनत्वान्नेत्रमेव शिकारमयशिवलि᳚न्गम् | गुरोर्मन्त्रमूर्तित्वात्, षडक्षरीमन्त्र एव मधुरादिषड्रसरूपतां प्राप्त इति तादृशमन्त्रोच्चारणरसास्वादनसाधनत्वाज्जिह्वैव मकारमयगुरुलि᳚न्गम् | ईडापि᳚न्गलाख्यनाडीद्वारा प्राणवायुसञ्चाराश्रयत्वात्सत्कर्माचरणहेतुभूतदेहशुद्धिरूपरेचनाद् इक्रमोत्पन्नप्राणायामाचरणाच्च घ्राणमेव नकारमयमाचारलि᳚न्गमिति भण्यते | एवं लि᳚न्गलक्षणमवगन्तव्यम् | अथ गुरुलि᳚न्गज᳚न्गमानामैक्यधिया भस्मरुद्राक्षादिशिवलांछनेषु शिवशरणेषु च प्रीतिलक्षणभक्तिमानेव भक्तः | शिव एव श्रीगुरुलि᳚न्गज᳚न्गमात्मक इति निष्ठावानेव महेश्वरः | गुरुलि᳚न्गज᳚न्गमपादोदकप्रसादभूतिरुद्राक्षमन्त्रलक्षणान्तर्गताद्यपञ् चविधवर्तनपञ्चाचारेषु विस्मृतिशून्यत्वेन सावधानभक्तिमानेव प्रसादी | व्याध्यादौ सम्प्राप्तेऽपि पादोदकप्रसादव्यतिरेकेण लि᳚न्गार्पितौषधं चाहं न स्वीकरोमीति पादोदकप्रसादस्वीकारनियमनिष्ठो लि᳚न्गमेव प्राणः प्राण एव लि᳚न्गमित्यनुसन्धानवानेव प्राणलि᳚न्गो | तादृशप्राणलि᳚न्गमेव पतिः स्वयमेव सतीति सतीपतिभावमापन्नः सत्याः सत्यन्तरं नास्तीत्यन्यसतीस᳚न्गं परित्यज्य स्वचिच्छक्तिसम्मेलनानन्दभरितः सन्निवृत्तिमार्गमवलम्ब्य भक्तिज्ञानवैराग्यसम्पन्न एव शरण इत्युच्यते || एवंविधसतीपतिभावनिवृत्या विषयान्तरभासनरहितः सन्विकल्पवैमुख्येन सर्वं शिवात्मकमिति विमृशन् शिखिकर्पूरयोगवदन्तर्मुखमहालि᳚न्गैकलोलीभूत एवैक्य इत्य᳚न्गस्थलं विमर्शनीयम् || एवं षड्विधाचारभेदेन भिन्नानामाचारादिषड्विधलि᳚न्गानां च सम्बन्धो विमर्शनीयः | अस्मिन्नर्थे
SK
श᳚न्करसंहितावचनानि- पृ० ४६०) आचारलि᳚न्गं घ्राणाख्यं भक्तस्थलसमाश्रयम् | निवृत्तिकलयोपेतं गन्धग्रहणसाधनम् || गुरुलि᳚न्गं च जिह्वाख्यं महेशस्थलसंश्रयम् | विद्याकलासमायुक्तं रूपग्रहणसाधनम् || त्वगाख्यं ज᳚न्गमं लि᳚न्गं प्राणलि᳚न्गिस्थलाश्रयम् | शान्त्याख्यकलया युक्तं स्पर्शग्रहणसाधनम् || प्रसादलि᳚न्गं श्रोत्राख्यं शरणस्थलसंश्रयम् | शान्त्यातीतकलोपेतं शब्दग्रहणसाधनम् || मानसन्तु महालि᳚न्गमैक्यस्थलसमाश्रयम् | शान्त्यतीतोत्तरोपेतं सर्वग्रहणसाधनम् || इति || अत्र मानसादीनां करणरूपत्वेऽपि घ्रातृत्वादिग्रहणचेतनधर्मस्य घ्रेयादिपदार्थस्वीकारसाधनत्वेन तदेकनिष्ठत्वाल्लि᳚न्गरूपत्वव्यपदेशः | भक्तादिलक्षणन्तु स्कान्दे शंकरसंहितायाम्- सदाचारः शिवे भक्तिर्लि᳚न्गे ज᳚न्गम एकधीः | लाञ्छने शरणे शक्तिर्भक्तस्थलमनुत्तमम् || परस्त्रियं परार्थं च वर्जयेद्भावशुद्धिमान् | लि᳚न्गनिष्ठानियुक्तात्मा माहेश्वरमहास्थलम् || लि᳚न्गार्पितपदार्थस्य सुखं भुक्त्वा समाहितः | अनर्पितविवर्जी च प्रसादस्थलमुत्तमम् || वायौ प्राणात्मके लि᳚न्गं लिंगे प्राणः समाहितः | सुखदुःखद्वयं नास्ति प्राणलि᳚न्गिस्थलं भवेत् || पृ० ४६१) पतिर्लि᳚न्गं सती चाहमिति यक्तः स्वयं प्रभुः | प्रापञ्चिकसुखं नास्ति शरणस्थलमुत्तमम् || षडूर्मयो न षड् भावा नास्ति चाष्टविधार्चनम् | निर्भावो निजलि᳚न्गैक्यः शिखिकर्पूरयोगवत् || इति ||
SK
एवं चात्रा᳚न्गस्थलस्य लि᳚न्गस्थलान्तर्गतत्वात्, शान्त्यतीतोत्तराख्यकलोपेतमहासादाख्यमहालि᳚न्गतत्त्वमेकं, शिष्टपञ्चलि᳚न्गगतकलापञ्चकं शिवसादाख्यामूर्तसादाख्यकर्तृसादाख्यरूपसादाख्यपञ्चकं मिलित्वा लि᳚न्गतत्त्वान्येकादशेति स᳚न्क्षेपः || एवं सति निष्कलघनलि᳚न्गतत्त्वस्य महालि᳚न्गं मानसाख्यान्तर्मुखं, प्रसादलि᳚न्गपञ्चकंबाह्यमुखपञ्चकम् | सादाख्यपञ्चकन्त्वीशानाद्यपरपर्यायनामधेयमिति तात्पर्यम् | अथ पुनस्तस्य महेशितुः स्थूलपञ्चनिर्माणलीलायामाचारलि᳚न्गनिष्क्रियाशक्त्यपरपर्याया निवृतिकलावशादहंकारादिभूम्यन्तत्रयोविंशतितत्त्वमूलकारणीभूतस् अत्त्वरजस्तमोगुणात्मकप्रकृत्यपरपर्यायमायातत्त्वमुत्पन्नं भवति | तत्र सात्विकादिप्रविष्टचैतन्यमेव रुद्रविष्णुब्रह्माख्यया व्यवह्रियते | क्रमेण वह्निसूर्यसोमाश्चैतदन्तर्गताः | ब्रह्मक्षत्रियवैश्यशूद्राख्याश्चत्वारो भेदाश्च | �चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागश� इति गीतोक्तेः | कथं गुणत्रयाद्वर्णचतुष्टयोत्पत्तिरिति नाश᳚न्कनीयं, �विश्वाधिको रुद्रो महर्षिः, पुरुषो वै रुद्रः सन्महो नमो नम� इति श्रुतेः | सत्त्वगुणप्रविष्टचैतन्यरूपमहर्षिरुद्रांशीभूतब्रह्मोत्पत्तिः सत्त्वगुणात् | रजोगुणाख्यमिश्रितत्वात्तद्गत- सत्त्वांशस्तु वैष्णवराजन्योत्पत्तिः | तद्गततम्ॐऽशेन ब्रह्मांशीभूतवैश्योत्पत्तिः | तमोगुणादिन्द्रांशीभूतशूद्रोत्पत्तिः | अन्ये देवाः स᳚न्कराः | उक्तञ्च पराशरोपपुराणे- श᳚न्कराः सर्वदेवाः स्युर्वृषलश्च पुरन्दरः | पितामहस्तु वैश्यः स्यात् क्षत्रियः परमो हरिः || ब्राह्मणो भगवान् रुद्रः सर्वेषामुत्तमोत्तमः | ब्रह्मभूतस्य रुद्रस्य ब्राह्मण्यं नैव हेतुजमिति || पृ० ४६२) ननु पुराणेषु सर्वत्र विष्णुः सात्त्विको रुद्रस्तामस इति श्रूयमाणत्वात्कथमुक्तसिद्धिरिति चेन्न, विष्णुरुद्रयोः सात्त्विकत्वतामसत्वोक्तेः पालनसंहारोपाधिकत्वात् | स्वभावतस्तु विष्णुस्तामसः, रुद्रः सात्त्विक एव | तदुक्तं भागवते-
SK
सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै- र्युक्तः परः पुरुष एक इहास्य धत्ते | स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः || न ते गिरिञाखिललोकपाल- विरिञ्चिवैकुण्ठसुरेन्द्रगम्यम् | ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेदम् || इति || अत्र प्रथमश्लोके यथासंख्याल᳚न्कारेण विष्णोः सात्विकत्वं रुद्रस्य तामसत्वं च पालनाद्युपाधिकृतं स्पष्टमेव प्रतीयते | कालकूटविषोल्बणप्रस्तावे रुद्रं प्रति �न ते गिरित्रे�ति ब्रह्मप्रोक्तवचनक्रमेण वैकुण्ठस्य तमोगुणत्वं सुरेन्द्रापरपर्यायरुद्रस्य सात्त्विकत्वञ्च स्वाभाविकं प्रतीयते | शुक्लवर्णत्वाद्रुद्रस्य कृष्णवर्णत्वाद्विष्णोरिति | अस्मिन्नर्थे स्कन्दपुराणे- शौक्ल्यं सत्त्वगुणाज्जातं रागो जातो रजोगुणात् | कार्ष्ण्यं तमोगुणाज्जातमिति विन्द्यात्समासतः || यस्य मायागतं सत्त्वं शरीरं स्यात्तमोगुणः | संहाराय त्रिमूर्तीनां स रुद्रः स्यान्न चापरः || तथा यस्य तमः साक्षाच्छरीरं सात्त्विको गुणः | पालनाय त्रिमूर्तीनां स विष्णुः स्यान्न चापरः || इति ||
SK
पृ० ४६३) अत्र ब्रह्मादिकीटान्ताः सकलास्त्रिमलिनः | विष्णुः प्रलयाकलः कलाशून्यत्वात्सदाऽज्ञानी, संहाराय मायैकमली | ऊर्ध्वकोटिगतत्यागा᳚न्गप्रकाशस्तु कर्मैकमलवासनाविशिष्टत्वान्मन्त्रः | भोगा᳚न्गभासस्तु कार्ममलवासनाक्षयौन्मुख्यरूपत्वान्मन्त्रेश्वरः | योगा᳚न्गप्रतिभासस्तु प्राप्तकार्ममलवासनाक्षयरूपत्वान्मन्त्रमहेश्वर इति भण्यते | एवमेते षड्विधप्रमातारः | निष्कलघनलि᳚न्गप्रकाशस्त्वनुत्पन्नमलोल्लासपूर्णाहंस्फुरण इति विवेकः || अत्रान्योन्याभावलक्षणभेदप्रपञ्चरूपमायाकार्यकोटिप्रविष्टम᳚न्गतत्त् वं पञ्चविंशतिसंख्याकमिति बोध्यम् | अत्रान्तःकरणत्रयं ज्ञानेन्द्रियपञ्चकं च सत्त्वकार्यम्, कर्मेन्द्रियपञ्चकं राजसम्, तन्मात्रपञ्चकं भूतपञ्चकं च तामसमित्यवगन्तव्यम् || अत्र �बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यत� इति भगवदुक्तेरनेकजन्मार्जितशिवपूजादिसत्कर्ममहिम्नेहजन्मनि गुरुकटाक्षवशादेवंविधषट्स्थलब्रह्मज्ञानं कश्चिदेव लब्ध्वा मुक्तो भवतीति सिद्धम् || अथोक्तलक्षणषट्स्थलब्रह्मविच्छरणस्य गोप्यादिसद्योजातान्तषण्मुखमुदितज्योतिर्बिन्द्वर्धचन्द्रकुण्डलदण्डतारक अकारषडक्षराण्येव षड्भूतानि भूत्वाऽ᳚न्गतामभजन्निति तद᳚न्गे षट्प्रणवरूपेष्टलि᳚न्गं सुस्थिरमास्ते | तत्पीठे ह्याचारलि᳚न्गं, खण्डिकावरणे गुरुलि᳚न्गं, वर्तुले शिवलि᳚न्गं, गोमुखे ज᳚न्गमलि᳚न्गं, योनिस्थाने प्रसादलि᳚न्गं, गोलके महालि᳚न्गमित्येवं षड्विधानां लि᳚न्गानां तत्तत्स्थानेषु प्रकाशमानत्वात्, तत्र भक्तस्तावदाचारलि᳚न्गस्य क्रियाशक्तियुक्तस्य श्रद्धाभक्त्या सुचित्तहस्ते गन्धपदार्थं धृत्वा नकारमन्त्रमनुस्मरन् घ्राणेन्द्रियमुखे समर्प्य तत्प्रसादभोगी भूत्वा परिणामो भवति | माहेश्वरो हि गुरुलि᳚न्गस्य ज्ञानशक्तियुक्तस्य निष्ठाभक्त्या सुबुद्धिहस्ते रसपदार्थं धृत्वा मकारमन्त्रमनुस्मरन् रसनेन्द्रियमुखेन समर्प्य तत्प्रसादं स्वीकृत्य परिणामी भवति || प्रसादी तु शिवलि᳚न्गस्येच्छाशक्तियुक्तस्य सावधानभक्त्या
SK
निरहंकारहस्तेन रूपपदार्थं परिगृह्य शिकारमन्त्रमनुस्मरन्नेत्रेन्द्रियमुखेन
SK
पृ० ४६४) समर्प्य तत्प्रसादभोगी भूत्वा परिणामी भवति || प्राणलि᳚न्गीत्वादिशक्तियुक्तज᳚न्गमलि᳚न्गस्यानुभवभक्त्या सुमनोहस्तेन स्पर्शपदार्थं धृत्वा वाकारमनुस्मरंस्त्वगिन्द्रियमुखे समर्प्य तत्प्रसादभोगी भूत्वा परिणामी भवति || शरणस्तु पराशक्तियुक्तप्रसादलि᳚न्गस्यानन्दभक्त्या सुज्ञानहस्तेन शब्दपदार्थं धृत्वा यकारमन्त्रमनुस्मरन् श्रोत्रेन्द्रियमुखे समर्प्य तत्प्रसादं भुक्त्वा परिणामी भवति || ऐक्यस्तु चिच्छक्तियुक्तमहालि᳚न्गस्य समरसभक्त्या सद्भावहस्तेन तृप्तिपदार्थं धृत्वा प्रणवमन्त्रमनुस्मरन्मनोमुखे समर्प्य तत्प्रसादतृप्तः सन्परिणामी भवति || अनेनैव क्रमेण मिश्रार्पणं विधिं वर्णयामः- आचारलि᳚न्गाय भोज्यमन्नादिकं, गुरुलि᳚न्गाय पेयं क्षीरादिकं, शिवलि᳚न्गाय भक्ष्यमपूपवटकादिकं, ज᳚न्गमलि᳚न्गाय चोष्यं मुद्गाढकयुषादिकं, प्रसादलि᳚न्गाय लेह्यं रसायनादिकमेतत्सर्वं महालि᳚न्गाय समर्प्य तत्प्रसादोपभोगी परिणामी भवति || अथ मिश्रार्पणम्- आचारलि᳚न्गान्तर्गताचारलि᳚न्गाय मूलकन्दादिगन्धसमर्पणम्, आचारलि᳚न्गान्तर्गतगुरुलि᳚न्गाय वृक्षवल्कलादिगन्धसमर्पणम्, आचारलि᳚न्गान्तर्गतचरलि᳚न्गाय कुड्मलादिसुगन्धसमर्पणम्, आचारलि᳚न्गान्तर्गतप्रसादलि᳚न्गाय फलादिगन्धसमर्पणं कृत्वा तत्प्रसादोपभोगी सन् परिणामि भवति | गुरुलि᳚न्गान्तर्गताचारलि᳚न्गाय मधुररसं, गुरुलि᳚न्गान्तर्गतगुरुलि᳚न्गाय कषायरसं, गुरुलि᳚न्गान्तर्गतशिवलि᳚न्गाय कटुरसं, गुरुलि᳚न्गान्तर्गतचरलि᳚न्गायाम्लरसं, गुरुलि᳚न्गान्तर्गतप्रसादलि᳚न्गाय तिक्तरसं, गुरुलि᳚न्गान्तर्गतमहालि᳚न्गाय लवणरसं समर्प्य तत्प्रसादसेवी भूत्वा सुखी भवति | शिवलि᳚न्गान्तर्गताचारलि᳚न्गाय पीतरूपं, शिवलि᳚न्गान्तर्गतगुरुलि᳚न्गाय श्वेतरूपं, शिवलि᳚न्गान्तर्गतशिवलि᳚न्गाय हरितरूपं, शिवलि᳚न्गान्तर्गतचरलि᳚न्गाय रक्तरूपं, शिवलि᳚न्गान्तर्गतप्रसादलि᳚न्गाय नीलरूपं, शिवलि᳚न्गान्तर्गतमहालि᳚न्गायैतत्सर्वं समर्प्य तत्प्रसादं निषेव्य
SK
सुखी भवति || ज᳚न्गमलि᳚न्गान्तर्गताचारलि᳚न्गाय कठिनस्पर्शं, चरलि᳚न्गान्तर्गतगुरुलि᳚न्गाय
SK
पृ० ४६५) मृदुस्पर्शं, चरलि᳚न्गान्तर्गतशिवलि᳚न्गायोष्णस्पर्शं, चरलि᳚न्गान्तर्गतज᳚न्गमलि᳚न्गाय शीतस्पर्शं, चरलि᳚न्गान्तर्गतप्रसादलि᳚न्गाय मिश्रस्पर्शं, चरलि᳚न्गार्गतमहालि᳚न्गाय तत्सर्वं समर्प्य तत्प्रसादोपभोगी सन् सुखी भवति || प्रसादलि᳚न्गान्तर्गताचारलि᳚न्गाय तालादिजन्यनादं, प्रसादलि᳚न्गान्तर्गतगुरुलि᳚न्गाय तन्त्रीजन्यनादं, प्रसादलि᳚न्गान्तर्गतशिवलि᳚न्गाय लगुडताडनजन्यं भेर्यादिनादं, प्रसादलि᳚न्गान्तर्गतज᳚न्गमलि᳚न्गाय वेण्वादिजन्यनादं, प्रसादलि᳚न्गान्तर्गत प्रसादलि᳚न्गाय गीतादिनादं, प्रसादलि᳚न्गान्तर्गतमहालि᳚न्गायैतत्सर्वं नादं समर्प्य तत्प्रसादोपभोगी सन्नानन्दी भवति || महालि᳚न्गान्तर्गताचारलि᳚न्गाय गन्धतृप्तिं, महालि᳚न्गान्तर्गतशिवलि᳚न्गाय रूपतृप्तिं, महालि᳚न्गान्तर्गतज᳚न्गमलि᳚न्गाय स्पर्शतृप्तिं, महालि᳚न्गान्तर्गतप्रसादलि᳚न्गाय शब्दतृप्तिं, महालि᳚न्गान्तर्गतमहालि᳚न्गाय सर्वतृप्तिं समर्प्य तत्प्रसादोपभोगी सन्प्रमोदमानो भवति || आचारलि᳚न्गायेन्द्रियार्थसंयोगकालम्, गुरुलि᳚न्गाय विषयज्ञानकालम्, शिवलि᳚न्गाय विषयनिश्चयरूपज्ञानकालम्, ज᳚न्गमलि᳚न्गाय विषयनिश्चयजन्यसन्तोषकालम्, प्रसादलि᳚न्गाय निश्चितवस्तुप्राप्तिकालम्, महालि᳚न्गाय निश्चितवस्तुप्राप्त्यनन्तर- सुखानुभवकालं समर्प्य लि᳚न्गभोगोपभोगी सन्परमानन्दभरितो भवति || एवं समर्पितवतः शरणस्य ज्ञप्तेर्ब्रह्मणि लीनत्वात्तद्वाचकषडक्षरमन्त्रमयत्वं भवति || �ॐकारो वदनं देवि नमःकारौ भुजद्वयम् | शिकारो देहमध्यं स्याद्वायकारौ पदद्वयम् || पीठपादादिजान्वन्तमानाभेर्मध्यमीरितम् | हृदयान्तं वर्तुलं स्यात्कण्ठान्तं गोमुखं तथा || भ्रूमध्यान्तं लि᳚न्गकण्ठो मस्तको लि᳚न्गमस्तकः ||� इति वचनात्तच्छरीरस्यापि मन्त्रलि᳚न्गरूपत्वादाचरणीयं किमपि नास्त्येव | सचैवं महाघनलि᳚न्गैक्यलोलीभूतः सन्नखण्डामर्षपरिबृंहितः सन्नास्ते | तदेवंविधषट्स्थलज्ञानवानेव सर्वोत्कृष्टः | अयमेवार्थः
SK
�कृमिकीटपत᳚न्गेभ्य� इत्यादिसूतसंहितावचननिकुरुम्बलेखने प्रागेव स्पष्टमुक्तः | पृ० ४६६) ततः स एव मुक्तः, स एव सर्ववन्द्यः, स एव सर्वोत्तरः, स एव दर्शनस्पर्शनव्यवहारादिभिः सर्वैः प्रपत्तव्यश्च || अस्मिन्नर्थे प्रमाणानि क्रियाकाण्डोपान्त्यप्रकरणे द्रष्टव्यानि बुद्धिशालिभिरिति सर्वं समञ्जसम् || श्रीमद्गुरो तव मुखाम्बुजनिस्सृताभि- र्वाग्भिः समस्तमतखण्डनमण्डनानि | वादात्मना विरचितानि सयुक्तिकानि तानि श्रुतानि खलु भृ᳚न्गिसुशीलिनोश्च || श्रीवीरशैवमहिमाढ्यमतप्रकर्षं सम्यक्समस्तनिगमागमसारभूतम् | श्रुत्वा प्रमोदमयदुग्धपयोधिवीची- दोलासिकासुखमनुत्तरमन्वभूवम् || ख्याता च लोके बसवक्षितीन्द्र ज्ञाने क्षमायां च शिवार्चनेऽपि | गम्भीरतायां प्रतिपादनेऽपि धैर्ये प्रतापे तव कीर्तिरास्ते || दुग्धाब्धिर्धवलांशुकत्वमयते कट्याञ्च वक्षस्थले स्वर्ग᳚न्गाशुचिकञ्चुकत्वमलिके पाटीरबिन्दुस्थितिम् | आकाशश्चिकुरश्रियं तमभितस्ताराः प्रसूनोपमां व्याप्ताया हरिदन्तरेषु बसवक्ष्मापालकीर्तिस्त्रियाः || चञ्चत्काञ्चनकुड्मले चरणयोर्गुल्फद्वये हेमजाः कि᳚न्किण्यः कटिसीम्नि काञ्चिघटिता क्षुद्रा च घण्टावली | पृ० ४६७) कण्ठे स्वर्णमणिस्रजः कनकजौ पाण्योर्लसत्कदुन्कौ ब्रह्माण्डानि विभान्ति धीरबसवक्ष्मापालकीर्तिस्त्रियाः || लि᳚न्गं स्फाटिकमुज्वलं हि बसवक्षोणीन्द्र ते सद्यशो- बिम्बं वारिधरोऽभिषेककलशस्तारा प्रसूनस्रजः | दीपौ सूर्यसुधाकरौ च गगनं धूपः समस्तं जग न्नैवेद्यं विदुषां मुहुः स्तुतिमयी घण्टाध्वनिर्भारती ||
SK
इति श्रीमदनादिनिरञ्जनज᳚न्गमापरावतारतोण्टदसिद्धेश्वरप्रसादासादित᳚ साम्भवागमाम्भोधिमथनजनितनिरुत्तरैकोत्तरशतस्थलभेदभिन्नषट्स्थ लतत्त्वसुधास्वादानन्दसन्दोहप्रदायकाचार्यवर्यमरितोण्टदार्यविरचिते यडवमुरारिकोटेकोलाहलैका᳚न्गिवीरवैरिसप्ता᳚न्गहरणपश्चिमसमुद्राधी श्वरविशुद्धवैदिकाद्वैतसिद्धान्तप्रतिष्ठापनाचार्यकेलदिसदाशिवराय नायकवंशदुग्धार्णवपूर्णचन्द्रवीरभद्रधरणीन्द्रधर्मपत्नीमल्लाम् बाहृदयानन्दबसववसुधास᳚न्क्रन्दनोपदेशे वीरशैवानन्दचन्द्रिकायां वादकाण्डे वीरशैवमतोत्कर्षतन्निष्ठशिवभक्तोत्कर्षनिरूपणं नाम चतुर्विंशतितमं प्रकरणम् || || वादकाण्डः समाप्तः ||

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. vīraśaivānandacandrikā [M00611].

Source