Sutra on the Miraculous Powers of the Buddha's Strength

Buddhabalādhānaprātihāryavikurvāṇanirdeśasūtra · Bउद्धबलाधानप्रातिहार्यविकुर्वाणनिर्देशसूत्र

Sutra on the Miraculous Powers of the Buddha's Strength

Buddhabalādhānaprātihāryavikurvāṇanirdeśasūtra

Bउद्धबलाधानप्रातिहार्यविकुर्वाणनिर्देशसूत्र

SK
Āर्यबुद्धबलाधानप्रातिहार्यविकुर्वाणनिर्देशनाम Mअहायानसूत्रम्
SK
एवं मया श्रुतम् / एकस्मिन् समये भगवान् महानदीनैरञ्जनातीरे सन्निषण्णः सार्धमार्यावलोकितेश्वर वज्रपाणि मैत्रेयमञ्जुश्रीपूर्वङ्गमैः सप्तबोधिसत्त्वसहस्रैः सार्धं सुभूति शारिपुत्रमौद्गल्यायनपुर्वङ्गमैः सर्वेर्महाश्रावकैः शक्रब्रह्मलोकपालराजामात्यब्राह्मणगृहपतिभिः सर्वैः सत्कृतः मानितः पूजितः / भगवान् भक्तकृत्यं कृत्वा मण्डलमालायां सन्निषण्णो धर्मप्रतिसंयुक्तया कथया एतान् सन्तोषयति सञ्चोदयति समुत्तेजयति संहर्षयति / मण्डलमालायास्तथागतो महर्द्धिनगरीं वाराणसीं गत्वा तस्यामाम्रपालीवने निषीदति स्म / अथ तस्मिन् समये महापृथिवी सङ्कम्पिता सम्प्रवेधिता / स्थितं तत्र महासिंहासनमेकं नानारत्नमयं सप्तकर्मकृतं योजनमात्रमुच्चमर्धयोजनमात्रविस्तृतं सुखचितमतिहर्षणीयं मनोज्ञं दिव्यभक्तसंस्तृतं नानादिव्यपुष्पफलप्रलम्बितं दिव्यगन्धवर्णयुक्तम् / तथागतानामवरोपितकुशलमूलमवलोक्य सर्वसत्त्वानामनुत्पत्तिधर्मक्षान्तिप्रतिलम्भो ऽभूत् /
SK
अथ भगवान् सिंहासनस्थितो बुद्धावतंसकनाम समाधिं प्रतिलेमे / अथ समाधेर्व्युत्थाय बोधिसत्त्वार्यावलोकितेश्वरं वज्रपाणिं चेदमवोचत् / अवलोकितेश्वर त्वं महालोकधातुं गत्वा च दशसु दिक्षु लोकधातौ विनेयसत्त्वानां कषाययुक्तानाम् अश्राद्धानां पापचरितानां क्लेशावृतानाम् अमातृज्ञानामपितृज्ञानाम् अश्रामण्यानाम् अब्राह्मण्यानां त्रिरत्नानभिश्राद्धानां तेषां सर्वेषां त्वं च वज्रपाणिश्च द्वौ महर्द्धिं समाधिबलं प्रतिपद्य अस्यां मण्डलमालायामभिसङ्क्षिप्य सङ्ग्रहं कुरुतम् /
SK
अथार्यावलोकितेश्वरो वज्रपाणिश्च तथागतस्य वचनं श्रुत्वा सर्वसत्त्वानवलोक्य समुत्तेजनं नाम समाधिं समापेदे / तेन समाधिबलेन महापृथिवी षड्विकारं कम्पिता प्रकम्पिता सम्प्रकम्पिता / त्रिसाहस्रमहासाहस्रलोकधातौ ब्रह्मलोकधातौ यावद् रूपलोकधातौ तयोः कायावभासप्रादुर्भावो ऽभूत् / अथ तदवभासत इमाः सञ्चोदना गाथा निश्चरन्ति स्म /
SK
अथ तदा कायावभासनिश्चरितगाथावसाने एकैकं पारम्पर्येण त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वे सत्त्वा विज्ञापिताः समुत्तेजिवाः / ते सर्वे सत्त्वा मिथ्यादृष्टिं परित्यज्य सम्यगदृष्टियुक्ता अभूवन् / ये मानमदस्तम्भयुक्तास्ते मानमदस्तम्भवियुक्ता अभूवन् / ये कामरागानुचरिताः प्रमत्तास्ते प्राणातिपातादत्तादानकामेषु मिथ्याचाराद्यष्टाकुशलधर्मेभ्यो निवृत्ताः आर्याष्टाङ्गिकमार्गे स्थापिताः / सर्वे ते औद्धत्यहास्यलास्यक्रीडालोभक्रोधेर्ष्यारागादि सर्वं परित्यज्य तथागतदर्शनसेवनपर्युपासनधर्मश्रवणकामा अभूवन् / देवनागयक्षगन्धर्वासुरकिन्नरगरुडमहोरगराजामात्यभिक्षुभिक्षुण्युपासकोपासिकाभिः सर्वे दिव्यपुष्पमाल्यगन्धचूर्णचीवरच्छत्रध्वजपताकादिभिः तथागतः पूजितः / अथ सर्वे ते येन महानगर्ययां वाराणस्याम् आम्रपालीवनं तेनोपसङ्क्रम्य तथागतानामवरोपितकुशलमूलपुण्यतेजसा तथागतस्योपरि पुष्पवर्गमभिप्रावर्षन् /
SK
अथ तदा भगवान् जम्बुद्वीपे आम्रपालीवनं समन्ततः नियुतशतसहस्रयोजनविस्तीर्णमध्यतिष्ठत् (BउBअल् १७७.१८) समं पाणितलमिव च दिव्यं मनोरमं वर्णोपेतम् / दिव्यपुष्पवृक्षगन्धवृक्षफलवृक्षमहारत्नवृक्षकल्पवृक्षवस्त्रवृक्षादिभिरलङ्कतं दिव्यसंहासनोपेतं रत्नपट्टादामाभिप्रभं पीतं दिव्यकिङ्किणीदामशब्दोपशोभितं तद् यथा सुखावतीलोकधातुः / तथा मनोज्ञं प्रह्लादनीयं प्रेमणीयम् अभिनन्दनीयं (BउBअल् १७८) सर्वबोधिसत्त्वश्रावकप्रत्येकबुद्धदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगो पासकोपासिकाराजामात्यब्राह्मणगृहपत्याकीर्णमध्यतिष्ठत् /
SK
अथार्यावलोकितेश्वरो बोधिसत्त्वो वज्रपाणिश्च समाधेर्व्युत्थाय येन भगवांस्तेनोपसङ्क्रान्तः / उपसङ्क्रम्य त्रिः प्रदक्षिणीकृत्य भगवन्तमेतदवोचत् / अस्ति भगवन् तथागतानामुपायकौशल्यं सत्त्वपरिपाकाय / बहवो भगवन् बोधिसत्त्वा महाश्रावका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगराजामात्यगृहपतयो भिक्षुभिक्षुण्युपासकोपासिकाः सन्निपतितास्तथागततेजसा ऋद्ध्यनुभावेन / साधु साधु कुलपुत्राः / एवमेव बहवो भो जिनपुत्रास्तथागतानामुपायकौशल्यं सत्त्वपरिपाकाय यथाशयानां यथा वैनयिककुशलमूलाधिगतानां नानाधिमुक्तानां सत्त्वानां चरिं ज्ञात्वा धर्मं देशयन्ति / केचित् सत्त्वा बोधिसत्त्ववैनेयाः केचिच्छ्रावकवैनेयाः केचित् प्रत्येकबुद्धवैनेयाः केचिद् देववैनेयाः केचित् शक्रवैनेयाः केचिद् ब्रह्मवैनेयाः केचिन्नागवैनेयाः केचिन्महर्धिकवैनेयाः केचिद्राजवैनेयाः केचित् समाधिवैनेयाः केचिद् धर्मश्रवणवैनेयाः केचित् प्रातिहार्यवैनेयाः केचित्तथागतपरिनिर्वाणवैनेयाः केचिद्धातुवैनेयाः केचित् चैत्यकरणप्रवेशविहारचङ्क्रमोद्यानकारापणकुशलमूलवैनेयोत्सुकाः केचित् प्रस्तरप्रतिबिम्बकारापणालेख्यसुवर्णरजतरैत्यप्रतिबिम्बकारापणकुशलमूलोतसुकवैनेयाः केचिद् भिक्षुसङ्घपूजनसत्करणकुशलमूलोत्सुकवैनेयाः केचित् (BउBअल् १७९) सूत्रपृच्छनलिखनपठनपूजनोत् सुकवैनेयाः केचिद्दीपपुष्पधूपगन्धमाल्याहाराभ्यलङ्करणोत्सुका भवन्ति / न परमार्थकुशलमूलधर्मोपेता न निर्वाणधर्मोपेताः / धर्माणामपि च भो जिनपुत्रा नास्ति तथागतानां किञ्चिदज्ञातं वा अदृष्टं वा अश्रुतं वा अविदितं वा / आगतं वा जानाति / अनागतं वा जानाति / अल्पं वा जानाति / बहुं वा जानाति / अतीतं जानाति / प्रत्युत्पन्नं जानाति / सर्वसत्त्वानामीर्यापथं जानाति / चरिं जानाति / धातुं जानाति / उत्पादं जानाति / उपपत्तिं जानाति / तद्यथा भो जिनपुत्रा वैद्यः सुशिक्षितः सर्वाष्टाङ्गायुर्वेदमुपगतः सर्वधातुकौशल्यसर्वद्रव्योपकरणप्रयोगाभियुक्तः सत्त्वानां नानाव्याधिशरीरपरिपीडितानां धातुं जानाति / बलं जानाति / वेलं जानाति / औषधं जानाति / वातिकं पैत्तिकं श्लैष्मिकं सान्निपातिकं रुधिरम् आमजं गुल्मिकं जलोदरं हृदरोगं कुष्ठं कण्डूं दद्रुं पिटकादीन् विषवैसर्पादीन् जानाति / स सर्वं ज्ञात्वा नानाविधानि द्रव्यौषधानि प्रयोज्य वमनविरेचनचूर्णयोगनस्तुकर्मसीराबन्धनधृततैलबालचूर्णयोगेन पाचनवनमप्रयोगोपायैः सर्वसत्त्वानां तान् सवव्याधीनुपशमयति / नानाव्याधितः परिमोक्ष्यन्ते नानाव्याधिभयेभ्यश्च / एवमेव भो जिनपुत्रास्तथागतो नानासमाधिऋद्धिपादबलवैशारद्यदिव्यचक्षुःश्रोत्रादिभिरष्टाङ्गायुर्वेदसमन्वागतः नानाधात्वाशयप्रयोगकुशलः रागद्वेषमोहव्याधिक्लेशोपक्लेशव्याधिपीडीतानां (BउBअल् १८०) सत्त्वानां मानमदमत्तता वृतानां कामशोकभयक्रोधावृतानां नरकतिर्यग्योनियमलोकभूमिपरिमोक्षणार्थं नानोपायकौशल्यैर्नानाप्रकारयोगैः नानासमाधिऋद्धिविक्रीडितैः सत्त्वान् परिमोचयति / यावदनुत्तरायां सम्यकम्बोधौ प्रतिष्ठाप्यानुपधिशेषे निर्वाणधातौ परिनिर्वापयति / अकुशलैर्धमैः परिमोक्ष्यते / आर्याष्टाङ्गे मार्गे प्रतिष्ठापयति / तद्यथापि कुलपुत्राः चन्द्रमण्डलमुपायाकौशल्य समन्वागतं यथाधातुकुशलमूलवैनेयान् सत्त्वानामर्थाय आत्मानमन्तर्हितं दर्शयति / अर्धचन्द्राकृतिमण्डलमुपदर्शयति / कृष्णपक्षशुक्लपक्षाण्युपदर्शयति / परिपूर्णचन्द्रमण्डलमुपदर्शयति / सर्वतमो ऽन्धकारं विधमयति / सर्वतृणवनगुल्मौषधिफलादीन् प्रह्लादयति / एवमेव भो जिनपुत्राः तथागतानां नानादुःखावृतानां सत्त्वानां नानाधातुवैनेयानां सत्त्वानां मार्गचर्याकौशल्यं परिनिर्वाणं दर्शयति / जातिं दर्शयति / चक्रवर्तिराज्यं दर्शयति / क्रीडारतिस्त्रीहास्यलास्यगन्धमाल्यरतिक्रीडां दर्शयति / गृहत्यागप्रव्रज्यादुष्करचर्यां दर्शयति / मारबलदमनधर्म चक्रप्रवर्तनं दर्शयति / यावन्महाधर्ममेघवृष्टया सर्वसत्त्वानां सन्तोषणमुपदर्शयति / परिनिर्वृता अपि तथागता नानाप्रयोगधातुपूजनस्तूपविहारप्रतिबिम्बकारापणप्रव्रज्याभिनिष्क्रमणभिक्षुसङ्घसत्कारविनयधर्मलिखनवाचनपठनादेव सर्वसत्त्वान् मोक्षयन्ति / शिक्षाधारणव्रतनियमोपवाससंवरग्रहणोपायकुशलैः सर्वसत्त्वान् मोक्षयन्ति / (BउBअल् १८१) सर्वनरकतिर्यग्योनियमलोकाक्षणापायदुर्गतिभ्यो यावत् प्रह्लादयन्ति / धर्मश्रवणेन अनुत्तरायां सम्यक्सम्बोधौ स्थापयन्ति /
SK
अथ तस्मिन् समये केषाञ्चिदल्पबुद्धीनां देवपुत्राणाम् एतदभवत् / किमयं तथागतः क्षिप्रमेव परिनिर्वाणधातौ प्रवेष्टुमिच्छतीति ते चिन्तयित्वा दुर्मनसः अभूवन् / ...द्यमित्यर्थं परिनिर्वाणं वर्णयति सूचयति / महापर्षत् सन्निपात्य नानाऋद्धिविकुर्वाणप्रातिहार्यं दर्शयति / तद्यथा पूर्वकैः तथागतैरर्हद्भिः सम्यक्सम्बुद्धैस्तथागतकृत्यं कृतं दीर्घतरमायुरधिष्ठाय सर्वसत्त्वान् जातिजराव्याधिच्युतिशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोक्ष्य तथायमनेन तथागतेन सर्वे तथागतकृत्यं नाद्यापि कृतम् / तस्मात् शोकव्यतिक्रमणं संवर्णयतीति चिन्तयित्वा ते तूष्णीमभूवन् /
SK
अथ मञ्जुश्रीः कुमारभूतस्तेषां देवपुत्राणां चेतसैव चित्तमाज्ञाय तान् देवपुत्रानेतदवोचत् / देवपुत्रा मा एवं चिन्तयत मा प्रव्याहरत / मा दिनमनसो भवत / बहूनितथागतानामुपायकुशलनानोपायप्रज्ञासमाध्यादिकुशलमूलबलप्रणिधानानि नानाशयानां सत्त्वानां धर्मं देशयन्ति / यथा मया देवपुत्राः तथागतानां पूर्वकाणां तथागतोपायकौशल्यम् ऋद्धिविकुर्वाणप्रातिहार्यं दृष्टं तथाहं जानामि / मा हि एव तथागतो बुद्धबलाधानप्रातिहार्यं नाम महासूत्रराजं प्रकाशयितुकामो ऽतिरेक कर्तुकामः / अपि च देवपुत्रा न तथागताः परिनिर्वान्ति / न तथागतानां परिनिर्वाणं संविद्यते / न आयुःक्षयो भवति / (BउBअल् १८२) अप्रमेयकल्पकोटीम् अनभिलाप्याकल्पास्तथागताः तिष्ठन्ति /
SK
अपि च उपायकौशल्येन सत्त्वानां परिनिर्वाणं दर्शयन्ति / न चाक्रान्तिर्न सङ्क्रान्तिः तथागतानां संविद्यते / सद्धर्मान्तर्धानं दर्शयन्ति / यथा यथा सत्त्वान् पश्यति परिनिर्वाणवैनेयः धातुवैनेयः कषायिकजातीयः तथागते अश्रद्दधानताम् अगुरुशुश्रूषितां गच्छति तथा तथागतः परिनिर्वाणं दर्शयति न चाक्रान्तिर्न सङ्क्रान्तिस्तथागतानां संविद्यते / सर्वसत्त्वाः परिपक्वकुशलमूला भवन्ति / तथागते दर्शनाभिकाङ्क्षिणः पूजार्हाः धर्मश्रवणाथिकाः / चन्द्रमण्डलं यथा रोचते तथा तदा तथागता लोक उत्पद्यन्ते बहुजनहिताय बहुजनसुखाय / यावद्देवानां च मुनुष्याणां च त्रिरत्नोद्दयोतनाय स्फुटनाय न च तथागतानां जातिः संविद्यते / तद् यथापि नाम कुलपुत्राः आदर्शमण्डले सुमृष्टे नाना रूपाणि दृश्यन्ते दृश्यं न संविद्यते न तत्रागमो दृश्यते न निर्गमः प्रतिबिम्बस्य एवमेव देवपुत्राः तथागतकायो द्रष्टव्यः / तद् यथापि नाम कुलपुत्रा मायकारःसुशिक्षितः नानानगरतोरणोद्यानां नानारथां चक्रवर्तिरूपां नानारतिक्रीडां दर्शयित्वा अन्तर्धापयति न च तस्याः क्रान्तिर्दृश्यते न आगमो न निर्गमः एवमेव तथागतानामुतपादपरिनिर्वाणं द्रष्टव्यम् / अपि च देवपुत्राः पूर्वप्रणिधानेन तथागताः परिनिर्वृता अपि कल्पपरिनिर्वृता अपि कल्पकोटीपरिनिर्वृता अपि सत्त्वानां पूजनसत्करणधातुस्तूपकारापणप्रतिबिम्बकारापणनामधेयग्रहणसद्धर्मधारणपूजना (BउBअल् १८३) नानालोकधातुव्यवस्थिता अपि मोक्षयन्ति सर्वनरकतिर्यग्योनियमलोकाक्षणदुर्गतिविनिपातेभ्यः सर्वदुःखेभ्यः यावदनुपूर्वेण अनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्यते / कः पुनर्वादो ये तथागतान् प्रत्यक्षपूजया पूजयिष्यन्ति गन्धपुष्पमाल्यविलेपनवस्त्राभरणैः / ये च देवपुत्राः केचित् सत्त्वा वर्षशतसहस्रकल्पकोटीपरिनिर्वृतान् प्राञ्जलिभूतान् एकवारान् नामधेयं ग्रहीष्यन्ति ऽनमो बुद्धायेति ऽ कृत्वा पुष्पमाकाशे क्षेपस्यन्ति ते सर्वे दुःखस्यान्तं करिष्यन्ति / तिष्ठत्वाकाशे पुष्पं ये केचित् सत्त्वाः अनुशिक्षमाणास्तथागतपूजार्थाय एकतथागतशिक्षामपि धारयिष्यन्ति एकदिवसम् एकरात्रिमुहूर्तं तथागतपूजनचिन्ताभियुक्ताः सर्वदुःखस्यान्तं कृत्वानुपूर्वेणानुत्तरां सम्यक्सम्बोधिमभिसम्बोधिष्यन्ति / ये च तथागतपूजायां दिश्यसिकनाम....वापि हास्यलास्यबालरतिक्रीडनकमेव कारयिष्यन्ति सर्वे ते दुःखस्यान्तं कृत्वानुत्तरां सम्यक्सम्बोधिमभिसम्बोधिष्यन्ति कः पुनर्वादो ये धातुस्तूपं धातुप्रतिमां वा कृत्वा सर्वसत्त्वदयापरज्ञाः ऽसर्वसत्त्वान् दुःखेभ्यः परिमोचयिष्यामीति ऽ अनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पाद्य दिव्यपुष्पगन्धमाल्यविलेपनचूर्णतूर्यच्छत्रध्वजपताकाभिः पूजयिष्यन्ति दर्शयिष्यन्ति तेजातिजरामरणदुःखोपायासेभ्यः परिमोक्ष्यन्ते /

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Buddhabalādhānaprātihāryavikurvāṇanirdeśasūtra (sa_buddhabalAdhAnaprAtihAryavikurvANanirdezasUtra.htm).

Source