Commentary on Valid Knowledge Pramāṇavārttikakārikā (without the svārthānumāna-chapter)
Pरमाणवार्त्तिककारिका (wइथोउत् थे स्वार्थानुमान-छप्तेर्)
1 SK Exप्लनतोर्य् Rएमर्क्स्
2 SK A नुम्बेर् ओf fइवे fइगुरेस् अत् थे लेfत् सिदे इन्दिचतेस् थे लोचतिओन् ओf थे केय् wओर्द् इन् थे बसिच् तेxत्स्. Iन् थे चसे ओf थे SV, थे HB अन्द् थे VN, थे fइर्स्त् थ्रेए fइगुरेस् इन्दिचते थे पगे नुम्बेर्, अन्द् थे लस्त् त्wओ इन्दिचते थे लिने नुम्बेर् (fओर् एxअम्प्ले, SV१६०२६=SV १६०,२६; HB०२३१४=HB २३,१४; VN०६११०=VN ६१,१०). Iन् थे चसे ओf थे PV अन्द् थे NB, थे सेचोन्द् fइगुरे इन्दिचतेस् थे छप्तेर् नुम्बेर् अन्द् थे लस्त् थ्रेए fइगुरेस् इन्दिचते थे करिक ओर् सुत्र नुम्बेर् (fओर् एxअम्प्ले, PV०२२३२=PV, थे Pरमनसिद्धि-छप्तेर् व्.२३२; NB०३०१५=NB, थे Pअरर्थनुमन-छप्तेर् सुत्र १५. Iन् थे चसे ओf थे SP, थे लस्त् त्wओ fइगुरेस् इन्दिचते थे करिक नुम्बेर् (fओर् एxअम्प्ले, SP०००१५=SP, व्.१५).
3 SK ३. Iन् थिस् दतबसे, सेन्तेन्चेस् अरे अर्तिfइचिअल्ल्य् दिविदेद् इन्तो wओर्द्-उनित्स्, अल्थोउघ् थेय् इन्वोल्वे अ फोनेतिच् fउसिओन् ओर् उनिओन् इन् थे बसिच् तेxत्स्. Fउर्थेर्, चोम्पोउन्द् wओर्द्स् अरे दिविदेद् इन्तो थेइर् स्होर्तेस्त् चोन्स्तितुतिवे एलेमेन्त्स् (wए उसे अ ह्य्फेन् तो इन्दिचते थत् ह्य्फेनतेद् एलेमेन्त्स् ओरिगिनल्ल्य् fओर्म् अ चोम्पोउन्द् wओर्द्) wइथ् थे fओल्लोwइन्ग् एxचेप्तिओन्स्:
4 SK ३.१. Tहे प्रेfइxएस् अ-, दुर्-, निह्- रेमैन् उन्दिविदेद्, इर्रेस्पेच्तिवे ओf अत्तछ्मेन्त् तो wओर्द्स् ओर् चोम्पोउन्द् wओर्द्स्.
5 SK ३.२. Sउffइxएस् मकिन्ग् अन् अद्वेर्ब्, fओर् एxअम्प्ले -वत्, -वस, अरे दिविदेद्. Bउत् सुffइxएस् मकिन्ग् अ पोस्सेस्सिवे अद्जेच्तिवे, fओर् एxअम्प्ले -वत्, -मत्, रेमैन् उन्दिविदेद्, अन्द् तेर्म्स् सुछ् अस् अ नुमेरल्+ -ध/-विध/-प्रकर रेमैन् अल्सो उन्दिविदेद्.
6 SK ३.३. Cओम्पोउन्द् wओर्द्स् wइथ् थे सुffइxएस् -त/-त्व ओर् -भव/-भुत fउन्दमेन्तल्ल्य् रेमैन् उन्दिविदेद्. Fओर् एxअम्प्ले: कर्यकरनभव/-भुत/-त.
7 SK ३.४. Cओम्पोउन्द् wओर्द्स् wइथ् एवम्-, तत्-, तथ-, पर-, यथ-, सु-, स्व- इन् थे wओर्धेअद् fउन्दमेन्तल्ल्य् रेमैन् उन्दिविदेद्. Fओर् एxअम्प्ले: एवम्जतिय, तदुत्पत्ति, तथक्र्त, परतन्त्र, यथर्थ, यथस्वम्, सुज्ननत्व, स्वभव.
8 SK ३.५. Sओमे चोम्पोउन्द् wओर्द्स् wहिछ् अरे रेगर्देद् अस् तेर्मिनोलोग्य् रेमैन् अल्सो उन्दिविदेद्. Fओर् एxअम्प्ले: अग्निहोत्र, अयोगव्यवच्छेद, अर्थपत्ति, पदर्थ, परमर्थ, प्रसज्यप्रतिसेध, विरुद्धव्यभिचरिन्, समनन्तरप्रत्यय, सम्तनपरिनम, समन्यलक्सन, स्वभवप्रतिबन्ध.
9 SK ४. Tहोसे तेर्म्स् wहोसे wओर्धेअद् इस् सुब्जेच्त् तो थे Sअन्धि रुलेस् (fओर् एxअम्प्ले, -द् धेतु-) अरे चितेद् इन् थेइर् ओरिगिनल् fओर्म् (fओर् एxअम्प्ले, -द् *हेतु-) fओर् थे सके ओf उसिन्ग् थिस् दतबसे तो मके अन् KWIC इन्देx.
10 SK १. Aउगुस्त्. १९९७ / Tसुकुब Mओतोइ ONO
11 SK Nओते: Tहिस् दतबसे इस् qउइते अ तेन्ततिवे ओने, अन्द् I मुस्त् अद्मित् थत् थेरे अरे अ लोत् ओf एर्रोर्स् अन्द् देfएच्त्स् इन् थिस् वेर्सिओन्. I wओउल्द् अप्प्रेचिअते इत् वेर्य् मुछ् इf थे उसेर् wओउल्द् पोइन्त् ओउत् अन्य् एर्रोर्स् इन् थिस् वेर्सिओन् सो थत् wए चन् मके अ बेत्तेर् नेw वेर्सिओन् इन् थे fउतुरे.
12 SK E-मैल्: ओनोलोगोस्.त्सुकुब.अच्.ज्प्
13 SK ०२००१ प्रमाणम् अविसंवादि ज्ञानम् अर्थक्रिया-स्थितिः ०२००१ अविसंवादनं शब्दे अप्य् अभिप्राय-निवेदनाद् ०२००२ वक्तृ-व्यापार-विषयो यो अर्थो बुद्धौ प्रकाशते ०२००२ प्रामाण्यं तत्र शब्दस्य न अर्थ-तत्त्व-निबन्धनम् ०२००३ गृहीत-ग्रहणान् न इष्टं सांवृतं धी-प्रमाणता ०२००३ प्रवृत्तेस् तत्-प्रधानत्वाद् हेय-उपादेय-वस्तुनि ०२००४ विषय-आकार-भेदाच् च धियो अधिगम-भेदतः ०२००४ भावाद् एव अस्य तद्-भावे स्वरूपस्य स्वतो गतिः ०२००५ प्रामाण्यं व्यवहारेण शास्त्रं मोह-निवर्तनम् ०२००५ अज्ञात-अर्थ-प्रकाशो वा स्वरूप-अधिगतेः परं ०२००६ प्राप्तं सामान्य-विज्ञानम् अविज्ञाते स्वलक्षणे ०२००६ यज् ज्ञानम् इत्य् अभिप्रायात् स्वलक्षण-विचारतः ०२००७ तद्वत् प्रमाणं भगवान् अभूत-विनिवृत्तये ०२००७ भूत-उक्तिः साधन-अपेक्षा ततो युक्ता प्रमाणता ०२००८ नित्यं प्रमाणं न एव अस्ति प्रामाण्याद् वस्तु-संगतेः ०२००८ ज्ञेय-अनित्यतया तस्या अध्रौव्यात् क्रम-जन्मनः ०२००९ नित्याद् उत्पत्ति-विश्लेषाद् अपेक्षाया अयोगतः ०२००९ कथंचिन् न उपकार्यत्वाद् अनित्ये अप्य् अप्रमाणता ०२०१० स्थित्वाप्रवृत्ति-संस्थान-विशेष-अर्थक्रिया-आदिषु ०२०१० इष्टसिद्धिर् असिद्धिर् वा दृष्टान्ते संशयो अथवा ०२०११ सिद्धं यादृग् अधिष्ठातृ-भाव-अभाव-अनुवृत्तिमत् ०२०११ संनिवेश-आदि तद् युक्तं अस्माद् यद् अनुमीयते ०२०१२ वस्तु-भेदे प्रसिद्धस्य शब्द-सामान्याद् अभेदिनः ०२०१२ न युक्ता अनुमितिः पाण्डु-द्रव्याद् इव हुताशने ०२०१३ अन्यथा कुम्भकारेण मृद्-विकारस्य कस्यचिद् ०२०१३ घट-आदेः करणात् सिध्येद् वल्मीकस्य अपि तत्-कृतिः ०२०१४ साध्येन अनुगमात् कार्ये सामान्येन अपि साधने ०२०१४ सम्बन्धि-भेदाद् भेद-उक्ति-दोषः कार्यसमो मतः ०२०१५ जात्य्-अन्तरे प्रसिद्धस्य शब्द-सामान्य-दर्शनात् ०२०१५ न युक्तं साधनं गोत्वाच् शब्द-आदीनां विषाणि-वत् ०२०१६ विवक्षा-परतन्त्रत्वान् न शब्दाः सन्ति कुत्र वा ०२०१६ तद्-भावाद् अर्थ-सिद्धौ तु सर्वं सर्वस्य सिध्यै ०२०१७ एतेन कापिल-आदीनाम् अचैतन्य-आदि चिन्तितम् ०२०१७ अनित्य-आदेश् च चैतन्यम् मरणात् त्वग्-अपोहतः ०२०१८ वस्तु-स्वरूपे असिद्धे अयं न्यायः सिद्धे विशेषणम् ०२०१८ अबाधकम् असिद्धाव् अप्य् आकाश-आश्रय-वद् ध्वनेः ०२०१९ असिद्धाव् अपि शब्दस्य सिद्धे वस्तुनि सिध्यति ०२०१९ औलूक्यस्य यथा बौद्धेन उक्तं मूर्त्य-आदि-साधनम् ०२०२० तस्य एव व्यभिचार-आदौ शब्दे अप्य् अव्यभिचारिणी ०२०२० दोष-वत् साधनं ज्ञेयं वस्तुनो वस्तु-सिद्धितः ०२०२१ यथा तत् कारणं वस्तु तथा एव तद्-अकारणम् ०२०२१ यदा त कारणं केन मतं न इष्टम् अकारणम् ०२०२२ शास्त्र-ओषध-अभिसम्बन्धाच् चैत्रस्य व्रण-रोहणे ०२०२२ असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते ०२०२३ स्वभाव-भेदेन विना व्यापारो अपि न युज्यते ०२०२३ नित्यस्य अव्यतिरेकित्वात् सामर्थ्यं च दुरन्वयम् ०२०२४ येषु सत्सु भवत्य् एव यत् तेभ्यो अन्यस्य कल्पने ०२०२४ तद्-हेतुत्वेन सर्वत्र हेतूनाम् अनवस्थितिः ०२०२५ स्वभाव-परिणामेन हेतुर् अङ्कुर-जन्मनि ०२०२५ भूम्य्-आदिस् तस्य संस्कारे तद्-विशेषस्य दर्शनात् ०२०२६ यथा विशेषेण विना विषय-इन्द्रिय-संहतिः ०२०२६ बुद्धेर् हेतुस् तथा इदं चेन् न तत्र अपि विशेषतः ०२०२७ पृथक् पृथग् अशक्तानां स्वभाव-अतिशये असति ०२०२७ संहताव् अप्य् असामर्थ्यं स्यात् सिद्धो अतिशयस् ततः ०२०२८ तस्मात् पृथग् अशक्तेषु येषु सम्भाव्यते गुणः ०२०२८ संहतौ हेतुता तेषां न ईश्वर-आदेर् अभेदतः ०२०२९ प्रामाण्यं च परोक्ष-अर्थ-ज्ञानं तत् साधनस्य च ०२०२९ अभावान् न अस्त्य् अनुष्ठानम् इति केचित् प्रचक्षते ०२०३० ज्ञानवान् मृग्यते कश्चित् तद्-उक्त-प्रतिपत्तये ०२०३० अज्ञा-उपदेश-करणे विप्रलम्भन-शङ्किभिः ०२०३१ तस्माद् अनुष्ठेय-गतं ज्ञानम् अस्य विचार्यताम् ०२०३१ कीट-संख्या-परिज्ञानं तस्य नः क्व उपयुज्यते ०२०३२ हेय-उपादेय-तत्त्वस्य हान्य्-उपायस्य वेदकः ०२०३२ यः प्रमाणम् असाव् इष्टो न तु सर्वस्य वेदकः ०२०३३ दूरं पश्यतु वा मा वा तत्त्वम् इष्टं तु पश्यतु ०२०३३ प्रमाणं दूर-दर्शी चेद् एत गृध्रान् उपास्महे ०२०३४ साधनं करुणा-अभ्यासात् स बुद्धेर् देह-संश्रयात् ०२०३४ असिद्धो अभ्यास इति चेन् न आश्रय-प्रतिषेधतः ०२०३५ प्राण-अपान-इन्द्रिय-धियां देहाद् एव न केवलात् ०२०३५ स्व-जाति-निरपेक्षाणां जन्म जन्म-परिग्रहे ०२०३६ अतिप्रसङ्गाद् यद् दृष्टं प्रतिसन्धान-शक्तिमत् ०२०३६ किम् आसीत् तस्य यन् न अस्ति पश्चाद् येन न सन्धिमत् ०२०३७ न स कश्चित् पृथिव्य्-आदेर् अंशो यत्र न जन्तवः ०२०३७ संस्वेदज-आद्या जायन्ते सर्वं बीज-आत्मकं ततः ०२०३८ तत् स्व-जात्य्-अनपेक्षाणाम् अक्ष-आदीनां समुद्भवे ०२०३८ परिणामो यथा एकस्य स्यात् सर्वस्य अविशेषतः ०२०३९ प्रत्येकम् उपधाते अपि न इन्द्रियाणां मनो मतेः ०२०३९ उपघातो अस्ति भङ्गे अस्यास् तेषां भङ्गश् च दृश्यते ०२०४० तस्मात् स्थित्य्-आश्रयो बुद्धेर् बुद्धिम् एव समाश्रितः ०२०४० कश्चिन् निमित्तम् अक्षाणां तस्माद् अक्षाणि बुद्धितः ०२०४१ यादृश्य्-आक्षेपिका सा आसीत् पश्चाद् अप्य् अस्तु तादृशी ०२०४१ तज्-ज्ञानैर् उपकार्यत्वाद् उक्तं काय-आश्रितं मनः ०२०४२ यद्य् अप्य् अक्षैर् विना बुद्धिर् न तान्य् अपि तया विना ०२०४२ तथा अप्य् अन्योन्य-हेतुत्वं ततो अप्य् अन्योन्य-हेतुके ०२०४३ न अक्रमात् क्रमिणो भावो न अप्य् अपेक्षा अविशेषिणः ०२०४३ क्रमाद् भावन्ती धीः कायात् क्रमं तस्य अपि शंसति ०२०४४ प्रतिक्षणम् अपूर्वस्य पूर्वः पूर्वः क्षणो भवेत् ०२०४४ तस्य हेतुर् अतो हेतुर् दृष्ट एव अस्तु सर्वदा ०२०४५ चित्त-अन्तरस्य सन्धाने को विरोधो अन्त्य-चेतसः ०२०४५ तद्वद् अप्य् अर्थतश् चित्तम् असन्धानं कुतो मतम् ०२०४६ असिद्ध-अर्थः प्रमाणेन किं सिद्धान्तो अनुगम्यते ०२०४६ हेतोर् वैकल्यतस् तच् चेत् किं तद् एव अत्र न उदितम् ०२०४७ तद्-धी-वद् ग्रहण-प्राप्तेर् मनो-ज्ञानं न स इन्द्रियात् ०२०४७ ज्ञान-उत्पादन-सामर्थ्य-भेदान् न सकलाद् अपि ०२०४८ अचेतनत्वान् न अन्यस्माद् हेत्व्-अभेदात् सहस्थितिः ०२०४८ अक्ष-वद् रूप-रस-वद् अर्थ-द्वारेण विक्रिया ०२०४९ सत्ता-उपकारिणी यस्य नित्यं तद्-अनुबन्धतः ०२०४९ स हेतुः सप्तमी तस्माद् उत्पादाद् इति च उच्यते ०२०५० अस्तु उपकारको वा अपि कदाचिच् चित्त-सन्ततेः ०२०५० वह्न्य्-आदि-वद् घट-आदीनां विनिवृत्तिर् न तावता ०२०५१ अनिवृत्ति-प्रसङ्गश् च देहे तिष्ठति चेतसः ०२०५१ तद्-भावे भावाद् वश्यत्वात् प्राण-अपानौ ततो न तत् ०२०५२ प्रेरण-आकर्षणे वायोः प्रयत्नेन विना कुतः ०२०५२ निर्ह्रास-अतिशय-आपत्तिर् निर्ह्रास-अतिशयात् तयोः ०२०५३ तुल्यः प्रसङ्गो अपि तयोर् न तुल्यं चित्त-कारणे ०२०५३ स्थित्य्-आवेधकम् अन्यच् च यतः कारणम् इष्यते ०२०५४ न दोषैर् विगुणो देहो हेतुर् वर्त्य्-आदि-वद् यदि ०२०५४ मृते शमीकृते दोषे पुनर् उज्जीवनं भवेत् ०२०५५ निवृत्ते अप्य् अनले काष्ठ-विकार-अविनिवृत्ति-वत् ०२०५५ तस्य अनिवृत्तिर् इति चेन् न चिकित्सा-प्रयोगतः ०२०५६ अपुनर्भावतः किंचिद् विकार-जननं क्वचित् ०२०५६ किंचित् विपर्ययाद् अग्निर् यथा काष्ठ-सुवर्णयोः ०२०५७ आद्यस्य अन्यो अप्य् असंहार्यः प्रत्यानेयस् तु यत् कृतः ०२०५७ विकारः स्यात् पुनर्भावः तस्य हेम्नि खरत्व-वत् ०२०५८ दुर्लभत्वात् समाधातुर् असाध्यं किंचिद् ईरितम् ०२०५८ आयुः क्षयाद् वा दोषे तु केवले न अस्त्य् असाध्यता ०२०५९ मृते विष-आदि-संहारात् तद् दंशच् छेदतो अपि वा ०२०५९ विकार-हेतोर् विगमे स न उच्छ्वसिति किं पुनः ०२०६० उपादान-अविकारेण न उपादेयस्य विक्रिया ०२०६० कर्तुं शक्य-अविकारेण मृदः कुण्ड-आदिनो यथा ०२०६१ अविकृत्य हि यद् वस्तु यः पदार्थो विकार्यते ०२०६१ उपादानं न तत् तस्य युक्तं गो-गवय-आदिवत् ०२०६२ चेतः-शरीरयोर् एवं तद्-हेतोः कार्य-जन्मनः ०२०६२ सहकारात् सहस्थानम् अग्नि-ताम्र-द्रवत्व-वत् ०२०६३ अनाश्रयात् सद्-असतोर् न आश्रयः स्थिति-कारणम् ०२०६३ सतश् चेद् आश्रयो न अस्याः स्थातुर् अव्यतिरेकतः ०२०६४ व्यतिरेके अपि तद्-हेतुस् तेन भावस्य किं कृतम् ०२०६४ अविनाश-प्रसङ्गः स नाश-हेतोर् मतो यदि ०२०६५ तुल्यः प्रसङ्गस् तत्र अपि किं पुनः स्थिति-हेतुना ०२०६५ आनाशक-आगमात् स्थानं ततश् चेद् वस्तु-धर्मता ०२०६६ नाशस्य सत्य-बाधो असाव् इति किं स्थिति-हेतुना ०२०६६ यथा जल-आदेर् आधार इति चेत् तुल्यम् अत्र च ०२०६७ प्रतिक्षण-विनाशे हि भावानां भाव-सन्ततेः ०२०६७ तथा उत्पत्तेः सहेतुत्वाद् आश्रयो अयुक्तम् अन्यथा ०२०६८ स्याद् आधारो जल-आदीनां गमन-प्रतिबन्धतः ०२०६८ अगतीनां किम् आधारैर् गुण-सामान्य-कर्मणाम् ०२०६९ एतेन समवायश् च समवायी च कारणम् ०२०६९ व्यवस्थितत्वं जात्य्-आदेर्न् निरस्तम् अनपाश्रयात् ०२०७० परतो भाव-नाशश् चेत् तस्य किं स्थिति-हेतुना ०२०७० स विनश्येद् विना अप्य् अन्यैर्न् न शक्ताः स्थिति-हेतवः ०२०७१ स्थितिमान् साश्रयः सर्वः सर्व-उत्पत्तौ च साश्रयः ०२०७१ तस्मात् सर्वस्य भावस्य न विनाशः कदाचन ०२०७२ स्वयं विनश्वर-आत्मा चेत् तस्य कः स्थापकः परः ०२०७२ स्वयं न नश्वर-आत्मा चेत् तस्य कः स्थापकः परः ०२०७३ बुद्धि-व्यापार-भेदेन निर्ह्रास-अतिशयाव् अपि ०२०७३ प्रज्ञा-आदेर् भवतो देह-निर्ह्रास-अतिशयौ विना ०२०७४ इदं दीप-प्रभा-आदीनाम् आश्रितानां न विद्यते ०२०७४ स्यात् ततो अपि विशेषो अस्य न चित्ते अनुपकारिणि ०२०७५ राग-आदि-वृद्धिः पुष्ट्य्-आदेः कदाचित् सुख-दुःखजा ०२०७५ तयोश् च धातु-साम्य-आदेर् अन्तरर्थस्य संनिधेः ०२०७६ एतेन संनिपात-आदेः स्मृति-भ्रंश-आदयो गताः ०२०७६ विकारयति धीर् एव अभ्यन्तरर्थ-विशेषजा ०२०७७ शार्दूल-शोणित-आदीनां सन्तान-अतिशये क्वचित् ०२०७७ मोह-आदयः सम्भवन्ति श्रवण-ईक्षणतो यथा ०२०७८ तस्मात् स्वस्य एव संस्कारं नियमेन अनुवर्तते ०२०७९ यथा श्रुत-आदि-संस्कारः कृतश् चेतसि चेतसि ०२०७९ कालेन व्यज्यते अभेदात् स्याद् देहे अपि ततो गुणः ०२०८० अनन्य-सत्त्व-नेयस्य हीन-स्थान-परिग्रहः ०२०८० आत्म-स्नेहवतो दुःख-सुख-त्याग-आप्ति-वाञ्छया ०२०८१ दुःखे विपर्यास-मतिस् तृष्णा च आबन्ध-कारणम् ०२०८१ जन्मिनो यस्य ते न स्तो न स जन्म अधिगच्छति ०२०८२ गत्य्-आगती न दृष्टे चेद् इन्द्रियाणाम् अपाटवात् ०२०८२ अदृष्टिर् मन्द-नेत्रस्य तनु-धूम-आगतिर् यथा ०२०८३ तनुत्वान् मूर्तम् अपि तु किंचित् क्वचिद् अशक्तिमत् ०२०८३ जल-वत् सूत-वद् हेम्नि न अदृष्टेर् असद् एव वा ०२०८४ पाण्य्-आदि-कम्पे सर्वस्य कम्प-प्राप्तेर् विरोधिनः ०२०८४ एकस्मिन् कर्मणो अयोगात् स्यात् पृथक् सिद्धिर् अन्यथा ०२०८५ एकस्य च आवृत्तौ सर्वस्य आवृत्तिः स्याद् अनावृत्तौ ०२०८५ दृश्येत रक्ते च एकस्मिन् रागो अरक्तस्य वा गतिः ०२०८६ न अस्त्य् एक-समुदायो अस्माद् अनेकत्वे अपि पूर्ववत् ०२०८६ अविशेषाद् अणुत्वाच् च न गतिश् चेन् न सिध्यति ०२०८७ अविशेषो विशिष्टानाम् ऐन्द्रियत्वम् अतो अनणुः ०२०८७ एतेन आवरण-आदीनाम् अभावश् च निराकृतः ०२०८८ कथं वा सूत-हेम-आदि-मिश्रं तप्त-उपल-आदि वा ०२०८८ दृश्यं पृथग् अशक्तानाम् अक्ष-आदीनां गतिः कथम् ०२०८९ संयोगाच् चेत् समानो अत्र प्रसङ्गो हेम-सूतयोः ०२०८९ दृश्यः संयोग इति चेत् कुतो अदृष्ट-आश्रये गतिः ०२०९० रस-रूप-आदि-योगश् च विरुद्ध उपचारतः ०२०९० इष्टस्/ चेद् बुद्धि-भेदो अस्तु पङ्क्तिर् दीर्घा इति वा कथम् ०२०९१ संख्या-संयोग-कर्म-आदेर् अपि तद्वत् स्वरूपतः ०२०९१ अभिलापाच् च भेदेन रूपं बुद्धौ न भासते ०२०९२ शब्द-ज्ञाने विकल्पेन वस्तु-भेद-अनुसारिणा ०२०९२ गुण-आदिष्व् इव कल्प्य-अर्थे नष्ट-अजातेषु वा यथा ०२०९३ मतो यद्य् उपचारो अत्र स इष्टो यन् निबन्धनः ०२०९३ स एव सर्व-भावेषु हेतुः किं न इष्यते तयोः ०२०९४ उपचारो न सर्वत्र यदि भिन्न-विशेषणम् ०२०९४ मुख्यम् इत्य् एव च कुतो अभिन्ने भिन्न-अर्थता इति चेत् ०२०९५ अनर्थ-अन्तर-हेतुत्वे अप्य् अपर्यायः सित-आदिषु ०२०९५ संख्या-आदि-योगिनः शब्दास् तत्र अप्य् अर्थ-अन्तरं यदि ०२०९६ गुण-द्रव्य-अविशेषः स्याद् भिन्नो व्यावृत्ति-भेदतः ०२०९६ स्याद् अनर्थ-अन्तर-अर्थत्वे अप्य् अकर्म-अद्रव्य-शब्द-वत् ०२०९७ व्यतिरेकी इव यच् च अपि सूच्यते भाव-वाचिभिः ०२०९७ संख्या-आदि-तद्वतः शब्दैस् तद्-धर्म-अन्तर-भेदकम् ०२०९८ श्रुतिस् तन्-मात्र-जिज्ञासोर् न वा क्षिप्त-अखिला परा ०२०९८ भिन्नं धर्मम् इव आचष्टे योगो अङ्गुल्या इति क्वचित् ०२०९९ युक्ता अङ्गुली इति सर्वेषाम् आक्षेपाद् धर्मि-वाचिनी ०२०९९ ख्यात-एक-अर्थ-अभिधाने अपि तथा विहित-संस्थितिः ०२१०० रूप-आदि-शक्ति-भेदानाम् अनाक्षेपेण वर्तते ०२१०० तत्-समान-फला अहेतु-व्यवच्छेदे घट-श्रुतिः ०२१०१ अतो न रूपं घट इत्य् एक-अधिकरणा श्रुतिः ०२१०१ भेदो अयम् ईदृशो जाति-समुदाय-अभिदायिनोः ०२१०२ रूप-आदयो घटस्य इति तत्-सामान्य-उपसर्जनाः ०२१०२ तच्-शक्ति-भेदाः ख्याप्यन्ते वाच्यो अन्यो अप्य् अनया दिशा ०२१०३ हेतुत्वे च समस्तानाम् एक-अङ्ग-विकले अपि न ०२१०३ प्रत्येकम् अपि सामर्थ्ये युगपद् बहु-सम्भवः ०२१०४ न अनेकत्वस्य तुल्यत्वात् प्राण-अपानौ नियामकौ ०२१०४ एकत्वे अपि बहु-व्यक्तिस् तद्-हेतोर् नित्य-संनिधेः ०२१०५ न अनेक-हेतुर् इति चेन् न अविशेषात् क्रमाद् अपि ०२१०५ न एक-प्राणे अप्य् अनेक-अर्थ-ग्रहणान् नियमस् ततः ०२१०६ एकया अनेक-विज्ञाने बुद्ध्या अस्तु सकृद् एव तत् ०२१०६ अविरोधात् क्रमेण अपि मा भूत् तद्-अविशेषतः ०२१०७ बहवः क्षणिकाः प्राणा अस्वजातीयकाः किल ०२१०७ तादृशाम् एव चित्तानां कल्प्यन्ते यदि कारणम् ०२१०८ क्रमवन्तः कथं ते स्युः क्रम-वद् हेतुना विना ०२१०८ पूर्व-स्व-जाति-हेतुत्वे न स्याद् आद्यस्य सम्भवः ०२१०९ तद् हेतुस् तादृशो न अस्ति सति वा अनेकता ध्रुवम् ०२१०९ प्राणानां भिन्न-देशत्वात् सकृज् जन्म धियामतः ०२११० यद्य् एक-कालिको अनेको अप्य् एक-चैतन्य-कारणम् ०२११० एकस्य अपि न वैकल्ये स्यान् मन्द-श्वसित-आदिषु ०२१११ अथ हेतुर् यथाभावं ज्ञाने अपि स्याद् विशिष्टता ०२१११ न हि तत् तस्य कार्यं यद्य् अस्य भेदान् न भिद्यते ०२११२ विज्ञानं शक्ति-नियमाद् एकम् एकस्य कारणम् ०२११२ अन्य-अर्थ-असक्ति-विगुणे ज्ञाने अनर्थ-अन्तर-ग्रहात् ०२११३ शरीरात् सकृद् उत्पन्ना धीः स्व-जात्या नियम्यते ०२११३ परतश् चेत् समर्थस्य देहस्य विरतिः कुतः ०२११४ अनाश्रयान् निवृत्ते स्याच् शरीरे चेतसः स्थितिः ०२११४ केवलस्य इति चेच् चित्त-सन्तानं स्थिति-कारणम् ०२११५ तद्-हेतु-वृत्ति-लाभाय न अङ्गतां यदि गच्छति ०२११५ हेतुर् देह-अन्तर-उत्पत्तौ पञ्च-आयतनम् ऐहिकम् ०२११६ तद्-अङ्ग-भाव-हेतुत्व-निषेधे अनुपलम्भनम् ०२११६ अनिश्चयकरं प्रोक्तम् इन्द्रिय-आद्य् अपि शेषवत् ०२११७ दृष्टा च शक्तिः पूर्वेषाम् इन्द्रियाणां स्व-जातिषु ०२११७ विकार-दर्शनात् सिद्धम् अपरापर-जन्म च ०२११८ शरीराद् यदि तज्-जन्म प्रसङ्गः पूर्ववद् भवेत् ०२११८ चित्ताच् चेत् तत एव अस्तु जन्म देह-अन्तरस्य च ०२११९ तस्मान् न हेतु-वैकल्यात् सर्वेषाम् अन्त्य-चेतसाम् ०२११९ असन्धिर् ईदृशं तेन शेषवत् साधनं मतम् ०२१२० अभ्यासेन विशेषे अपि लङ्घन-उदक-ताप-वत् ०२१२० स्वभाव-अतिक्रमो मा भूद् इति चेद् आहितः स चेत् ०२१२१ पुनर् यत्नम् अपेक्षेत यदि स्यात् अस्थिर-आश्रयः ०२१२१ विशेषो न एव बर्धेत स्वभावश् च न तादृशः ०२१२२ तत्र उपयुक्त-शक्तीनां विशेष-अनुत्तरान् प्रति ०२१२२ साधनानाम् असामर्थ्यान् नित्यं च अनाश्रय-स्थितेः ०२१२३ विशेषस्य अस्वभावत्वाद् वृद्धाव् अप्य् आहितो यदा ०२१२३ न अपेक्षेत पुनर् यत्नं यत्नो अन्यः स्याद् विशेष-कृत् ०२१२४ काष्ठ-पारद-हेम-आदेर् अग्न्य्-आदेर् इव चेतसि ०२१२४ अभ्यासजाः प्रवर्तन्ते स्व-रसेन कृपा-आदयः ०२१२५ तस्मात् स तेषाम् उत्पन्नः स्वभावो जायते गुणः ०२१२५ तद्-उत्तरोत्तरो यत्नो विशेषस्य विधायकः ०२१२६ यस्माच् च तुल्य-जातीय-पूर्व-बीज-प्रवृद्धयः ०२१२६ कृपा-आदि-बुद्धयस् तासां सत्य् अभ्यासे कुतः स्थितिः ०२१२७ न च एवं लङ्घनाद् एव लङ्घनं बल-यत्नयोः ०२१२७ तद्-हेत्वोः स्थित-शक्तित्वाल् लङ्घनस्य स्थित-आत्मता ०२१२८ तस्य आदौ देह-वैगुण्यात् पश्चाद्-वद् अविलङ्घनं ०२१२८ शनैर् यत्नेन वैगुण्ये निरस्ते स्व-बले स्थितिः ०२१२९ कृपा स्व-बीज-प्रभवा स्व-बीज-प्रभवैर् न चेत् ०२१२९ विपक्षैर् बाध्यते चेत् ते प्रयात्य् अत्यन्त-सात्मताम् ०२१३० तथा हि मूलम् अभ्यासः पूर्वः पूर्वः परस्य तु ०२१३० कृपा-वैराग्य-बोध-आदेश् चित्त-धर्मस्य पाटवे ०२१३१ कृपा-आत्मकत्वम् अभ्यासाद् घृणा-वैराग्य-राग-वत् ०२१३१ निष्पन्न-करुणा-उत्कर्ष-पर-दुःख-क्षमेर् इतः ०२१३२ दयावान् दुःख-हान-अर्थम् उपायेष्व् अभियुज्यते ०२१३२ परोक्ष-उपेय-तद्-हेतोस् तद्-आख्यानं हि दुष्करम् ०२१३३ युक्त्य्-आगमाभ्यां विमृशन् दुःख-हेतुं परीक्षते ०२१३३ तस्य अनित्य-आदि-रूपां च दुःखस्य एव विशेषणैः ०२१३४ यतस् तथा स्थिते हेतौ निवृत्तिर् न इति पश्यति ०२१३४ फलस्य हेतोर् हान-अर्थं तद्-विपक्षं परीक्षते ०२१३५ साध्यते तद्-विपक्षो अपि हेतो रूप-अवबोधतः ०२१३५ आत्म-आत्मीय-ग्रह-कृतः स्नेहः संस्कार-गोचरः ०२१३६ हेतुर् विरोधी नैरात्म्य-दर्शनं तस्य बाधकम् ०२१३६ बहुशो बहुधा उपायं कालेन बहुना अस्य च ०२१३७ गच्छन्त्य् अभ्यस्यतस् तत्र गुण-दोषाः प्रकाशताम् ०२१३७ बुद्धेश् च पाटवाद् हेतोर् वासनातः प्रहीयते ०२१३८ पदार्थ-वृत्तेः खङ्ग-आदेर् विशेषो अयं महा-मुनेः ०२१३८ उपाय-अभ्यास एव अयं तादर्थ्याच् शासनं मतम् ०२१३९ निष्पत्तेः प्रथमं भावाद् हेतुर् उक्तम् इदं द्वयम् ०२१३९ हेतोः प्रहाणं त्रि-गुणं सुगतत्वम् अनिश्रयात् ०२१४० दुःखस्य शस्तं नैरात्म्य-दृष्टेस् तद् युक्तितो अपि वा ०२१४० पुनर् आवृत्तिर् इत्य् उक्तौ जन्म-दोष-समुद्भवौ ०२१४१ आत्म-दर्शन-बीजस्य हानाद् अपुनरागमः ०२१४१ तद्-भूत-भिन्न-आत्मतया अशेषम् अक्लेश-निर्जरम् ०२१४२ काय-वाग्-बुद्धि-वैगुण्यं मार्ग-उक्त्य्-अपटुता अपि वा ०२१४२ अशेष-हानम् अभ्यासाद् उक्त्य्-आदेर् दोष-संक्षयः ०२१४३ न इत्य् एके व्यतिरेको अस्य सन्दिग्ध-अव्यभिचार्य् अतः ०२१४३ अक्षयित्वं च दोषाणां नित्यत्वाद् अनुपायतः ०२१४४ उपायस्य अपरिज्ञानाद् इति वा परिकल्पयेत् ०२१४४ हेतुमत्त्वाद् विरुद्धस्य हेतोर् अभ्यासतः क्षयात् ०२१४५ हेतु-स्वभाव-ज्ञानेन तज्-ज्ञानम् अपि साध्यते ०२१४५ तायः स्व-दृष्ट-मार्ग-उक्तिर् वैफल्याद् वक्ति न अनृतम् ०२१४६ दयालुत्वात् परार्थं च सर्व-आरम्भ-अभियोगतः ०२१४६ ततः प्रमाणं तायो वा चतुःसत्य-प्रकाशनम् ०२१४७ दुःखं संसारिणः स्कन्धा राग-आदेः पाटव-ईक्षणात् ०२१४७ अभ्यासान् न यदृच्छातो अहेतोर् जन्म-विरोधतः ०२१४८ व्यभिचारान् न वात-आदि-धर्मः प्रकृति-संकरात् ०२१४८ अदोषश् चेत् तद्-अन्यो अपि धर्मः किं तस्य न ईक्ष्यते ०२१४९ न सर्व-धर्मः सर्वेषां सम-राग-प्रसङ्गतः ०२१४९ रूप-आदि-वद् अदोषश् चेत् तुल्यं तत्र अपि चोदनम् ०२१५० आधिपत्यं विशिष्टानां यदि तत्र न कर्मणाम् ०२१५० विशेषे अपि च दोषानाम् अविशेषाद् असिद्धता ०२१५१ न विकाराद् विकारेण सर्वेषां न च सर्वजाः ०२१५१ कारणे वर्धमाने च कार्य-हानिर्न् न युज्यते ०२१५२ ताप-आदिष्व् इव राग-आदेर् विकारो अपि सुख-आदि-जः ०२१५२ वैषम्यजेन दुःखेन रागस्य अनुद्भवो यदि ०२१५३ वाच्यं केन उद्भवः साम्यान् मद-वृद्धिः स्मरस् ततः ०२१५३ रागी विषम् अदोषो अपि दृष्टः साम्ये अपि न अपरः ०२१५४ क्षयाद् असृक्-स्रुतो अप्य् अन्ये न एक-स्त्री-नियतो मदः ०२१५४ ते न एकस्यां न तीव्रः स्यात् अङ्ग-रूप-आद्य् अपि इति चेत् ०२१५५ न सर्वेषाम् अनेकान्तान् न च अप्य् अनियतो भवेत् ०२१५५ अगुण-ग्राहिणो अपि स्याद् अङ्गं सो अपि गुण-ग्रहः ०२१५६ यदि सर्वा गुण-ग्राही स्याद् हेतोर् अविशेषतः ०२१५६ यद् अवस्थो मतो रागी न द्वेषी स्याच् च तादृशः ०२१५७ तयोर् असमरूपत्वान् नियमश् च अत्र न ईक्ष्यते ०२१५७ सजाति-वासना-भेद-प्रतिबद्ध-प्रवृत्तयः ०२१५८ यस्य राग-आदयस् तस्य न एते दोषाः प्रसङ्गिनः ०२१५८ एतेन भूत-धर्मत्वं निषिद्धं निश्रयस्य च ०२१५९ निषेधान् न पृथिव्य्-आदि-निश्रिता धवला-आदयः ०२१५९ तद्-उपादाय शब्दश् च हेत्व्-अर्थः स्वाश्रयेण च ०२१६० अविनिर्भाग-वर्तित्वाद् आश्रया अयुक्तम् अन्यथा ०२१६० मद-आदि-शक्तेर् इव चेद् विनिर्भागो न वस्तुनः ०२१६१ शक्तिर् अर्थ-अन्तरं वस्तु नश्येन् न आश्रितम् आश्रये ०२१६१ तिष्ठत्य् अविकले याति तत्-तुल्यं चेन् न भेदतः ०२१६२ भूत-चेतनयोर् भिन्न-प्रतिभास-अवबोधतः ०२१६२ आविकारं च कायस्य तुल्य-रूपं भवेन् मनः ०२१६३ रूप-आदि-वद् विकल्पस्य का एव अर्थ-परतन्त्रता ०२१६३ अनपेक्ष्य यदा कायं वासना-बोध-कारणम् ०२१६४ ज्ञानं स्यात् कस्यचित् किंचित् कदाचित् तेन किंचन ०२१६४ अविज्ञानस्य विज्ञान-अनुपादानाच् च सिध्यति ०२१६५ विज्ञान-शक्ति-सम्बन्धाद् इष्टश् चेत् सर्व-वस्तुनः ०२१६५ एतत् सांख्य-पशोः को अन्यः सलज्जो वक्तुम् ईहते ०२१६६ अदृष्ट-पूर्वम् अस्ति इति तृण-अग्रे करिणां शतम् ०२१६६ यद् रूपं दृश्यतां यातं तद् रूपं प्राङ् न दृश्यते ०२१६७ शतधा विप्रकीर्णे अपि हेतौ तद् विद्यते कथम् ०२१६७ राग-आद्य्-अनियमो अपूर्व-प्रादुर्भावे प्रसज्यते ०२१६८ भूत-आत्मता-अनतिक्रान्तेः सर्वो राग-आदिमान् यदि ०२१६८ सर्वः समान-रागः स्याद् भूत-अतिशयतो न चेत् ०२१६९ भूतानां प्राणिता-भेदे अप्य् अयं भेदो यद् आश्रयः ०२१६९ तन् निर्ह्रास-अतिशय-वत् तद्-भावात् तानि हापयेत् ०२१७० न चेद् भेदे अपि राग-आदि-हेतु-तुल्य-आत्मता-अक्षयः ०२१७० सर्वत्र रागः सदृशः स्याद् हेतोः सदृशा-आत्मनः ०२१७१ न हि गो-प्रत्ययस्य अस्ति समान-अर्थ-भुवः क्वचित् ०२१७१ तारतम्यं पृथिव्य्-आदौ प्राणिता-आदेर् इह अपि वा ०२१७२ औष्ण्यस्य तारतम्ये अपि न अनुष्णो अग्निः कदाचन ०२१७२ तथा इह अपि इति चेन् न अग्नेर् औष्ण्याद् भेद-निषेधतः ०२१७३ तारतम्य-अनुभविनो यस्य अन्यस्य सतो गुणाः ०२१७३ ते क्वचित् प्रतिहन्यन्ते तद्-भेदे धवला-आदि-वत् ०२१७४ रूप-आदि-वन् न नियमस् तेषां भूत-अविभागतः ०२१७४ तत्-तुल्यं चेन् न राग-आदेः सह-उत्पत्ति-प्रसङ्गतः ०२१७५ विकल्प्य-विषयत्वाच् च विषया न नियामकाः ०२१७५ सभाग-हेतु-विरहाद् राग-आदेर् नियमो न वा ०२१७६ सर्वदा सर्व-बुद्धीनां जन्म वा हेतु-संनिधेः ०२१७६ कदाचिद् उपलम्भात् तद् अध्रुवं दोष-निश्रयात् ०२१७७ दुःखं हेतु-वशत्वाच् च न च आत्मा न अप्य् अधिष्ठितम् ०२१७७ न अकारणम् अधिष्ठाता नित्यं वा जनकं कथम् ०२१७८ तस्माद् अनेकम् एकस्माद् भिन्न-कालं न जायते ०२१७८ कार्य-अनुत्पादतो अन्येषु संगतेष्व् अपि हेतुषु ०२१७९ हेत्व्-अन्तर-अनुमानं स्यान् न एतन् नित्येषु विद्यते ०२१७९ कादाचित्कतया सिद्धा दुःखस्य अस्य सहेतुता ०२१८० नित्यं सत्त्वम् असत्त्वं वा अहेतोर् अन्य-अनपेक्षणात् ०२१८० तैक्ष्ण्य-आदीनां यथा न अस्ति कारणं कण्डक-आदिषु ०२१८१ तथा अकारणम् एतत् स्याद् इति केचित् प्रचक्षते ०२१८१ सत्य् एव यस्मिन् यज् जन्म विकारे वा अपि विक्रिया ०२१८२ तत् तस्य कारणं प्राहुस् तत् तेषाम् अपि विद्यते ०२१८२ स्पर्शस्य रूप-हेतुत्वाद् दर्शने अस्ति निमित्तता ०२१८३ नित्यानां प्रतिषेधेन न ईश्वर-आदेश् च सम्भवः ०२१८३ असामर्थ्याद् अतो हेतुर् भव-वाञ्छा-परिग्रहः ०२१८४ यस्माद् देश-विशेषस्य तत् प्राप्त्य्-आशाकृतो नृणाम् ०२१८४ सा भव-इच्छा आप्त्य्-अनाप्ति-इच्छोः प्रवृत्तिः सुख-दुःखयोः ०२१८५ यतो अपि प्राणिनः काम-विभव-इच्छे च ते मते ०२१८५ सर्वत्र च आत्म-स्नेहस्य हेतुत्वात् सम्प्रवर्तते ०२१८६ असुखे सुख-संज्ञस्य तस्मात् तृष्णा भव-आश्रयः ०२१८६ विरक्त-जन्म-अदृष्टेर् इत्य् आचार्याः सम्प्रचक्षते ०२१८७ अदेह-राग-अदृष्टेश् च देहाद् राग-समुद्भवः ०२१८७ निमित्त-उपगमाद् इष्टम् उपादानं तु वार्यते ०२१८८ इमान् तु युक्तिमन् विच्छन् बाधते स्व-मतं स्वयम् ०२१८८ जन्मना सहभावश् चेत् जातानां राग-दर्शनात् ०२१८९ सभाग-जातेः प्राक् सिद्धिः कारणत्वे अपि न उदितम् ०२१८९ अज्ञानम् उक्ता तृष्णा एव सन्तान-प्रेरणाद् भवे ०२१९० आनन्तर्यान् न कर्म अपि सति तस्मिन्न् असम्भवात् ०२१९० तद् अनात्यन्तिकं हेतोः प्रतिबन्ध-आदि-सम्भवात् ०२१९१ संसारित्वाद् अनिर्मोक्षो न इष्टत्वाद् अप्रसिद्धितः ०२१९१ यावद् आत्मनि न प्रेम्णो हानिः स परितस्यति ०२१९२ तावद् दुःखितम् आरोप्य न च स्वस्थो अवतिष्ठते ०२१९२ मिथ्या-अध्यारोप-हान-अर्थं यत्नो असत्य् अपि मोक्तरि ०२१९३ अवस्था-वीत-रागाणां दयया कर्मणा अपि वा ०२१९३ आक्षिप्ते अविनिवृत्ति-इष्टेः सहकारि-क्षयाद् अलम् ०२१९४ न आक्षेप्तुम् अपरं कर्म भव-तृष्णा-विलङ्घिनाम् ०२१९४ दुःख-ज्ञाने अविरुद्धस्य पूर्व-संस्कार-वाहिनी ०२१९५ वस्तु-धर्म-उदय-उत्पत्तिर् न सा सत्त्व-अनुरोधिनी ०२१९५ आत्म-अन्तर-समारोपाद् रागो धर्मे अतद्-आत्मके ०२१९६ दुःख-सन्तान-संस्पर्श-मात्रेण एव दया-उदयः ०२१९६ मोहश् च मूलं दोषाणां स च सत्त्व-ग्रहो विना ०२१९७ तेन आद्य-हेतौ न द्वेषो न दोषो अतः कृपा मता ०२१९७ न अमुक्तिः पूर्व-संस्कार-क्षये अन्य-अप्रतिसन्धितः ०२१९८ अक्षीण-शक्तिः संस्कारो येषां तिष्ठन्ति ते अनघाः ०२१९८ मन्दत्वात् करुणायाश् च न यत्नः स्थापने महान् ०२१९९ तिष्ठन्त्य् एव पर-अधीनाः येषां तु महती कृपा ०२१९९ सत्कायदृष्टेर् विगमाद् आद्य एव अभवो भवेत् ०२२०० मार्गे चेत् सहज-अहानेर् न हानौ वा भवः कुतः ०२२०० सुखी भवे अयं दुःखी वा मा भूवम् इति तृष्यतः ०२२०१ या एव अहम् इति धीः सा एव सहजं सत्त्व-दर्शनम् ०२२०१ न ह्य् अपश्यन्न् अहम् इति स्निह्यत्य् आत्मनि कश्चन ०२२०२ न च आत्मनि विना प्रेम्णा सुख-कामो अभिधावति ०२२०२ दुःख-उत्पादस्य हेतुत्वं बन्धो नित्यस्य तत् कुतः ०२२०३ अदुःख-उत्पाद-हेतुत्वं मोक्षो नित्यस्य तत् कुतः ०२२०३ अनित्यत्वेन यो अवाच्यः स हेतुर्न् न हि कस्यचित् ०२२०४ बन्ध-मोक्षाव् अवाच्ये अपि न विद्येते कथं च न ०२२०४ नित्यं तम् आहुर् विद्वांसो यः स्वभावो न नश्यति ०२२०५ त्यक्त्वा इमां ह्रेपणीं दृष्टिम् अतो नित्यः स उच्यताम् ०२२०५ उक्तो मार्गस्य तद् अभ्यासाद् आश्रयः परिवर्तते ०२२०६ सात्म्ये अपि दोष-भावश् चेन् मार्गवन् न अविभुत्वतः ०२२०६ विषय-ग्रहणं धर्मो विज्ञानस्य यथा अस्ति सः ०२२०७ गृह्यते सो अस्य जनको विद्यमान-आत्मना इति च ०२२०७ एषा प्रकृतिर् अस्यास् तन् निमित्त-अन्तरतः स्खलत् ०२२०८ व्यावृत्तौ प्रत्यय-अपेक्षम् अदृढं सर्प-बुद्धि-वत् ०२२०८ प्रभास्वरम् इदं चित्तं प्रकृत्या आगन्तवो मलाः ०२२०९ तत्-प्राग् अप्य् असमर्थानां पश्चाच् शक्तिः क्व तन्मये ०२२०९ न अलं प्ररोढुम् अत्यन्तं स्यन्दिन्याम् अग्नि-वद् भुवि ०२२१० बाधक-उत्पत्ति-सामर्थ्य-गर्भे शक्तो अपि वस्तुनि ०२२१० निरुपद्रव-भूत-अर्थ-स्वभावस्य विपर्ययैः ०२२११ न बाधा यत्नवत्त्वे अपि बुद्धेस् तत् पक्ष-पाततः ०२२११ आत्म-ग्रह-एक-योनित्वात् कार्यकारणभावतः ०२२१२ राग-प्रतिघयोर् बाधा भेदे अपि न परस्परम् ०२२१२ मोह-अविरोधान् मैत्र्य्-आदेर् न अत्यन्तं दोष-निग्रहः ०२२१३ तन्-मूलाश् च मलाः सर्वे स च सत्कायदर्शनम् ०२२१३ विद्यायाः प्रतिपक्षत्वाच् चैत्तत्वेन उपलब्धितः ०२२१४ मिथ्या-उपलब्धिर् अज्ञान-युक्तेस् च अन्यद् अयुक्तिमत् ०२२१४ व्याख्येयो अत्र विरोधो यस् तद्-विरोधाच् च तन्मयैः ०२२१५ विरोधः शून्यता-दृष्टेः सर्व-दोषैः प्रसिध्यति ०२२१५ न अक्षयः प्राणि-धर्मत्वाद् रूप-आदि-वद् असिद्धितः ०२२१६ सम्बन्धे प्रतिपक्षस्य त्याग-संसर्जनाद् अपि ०२२१६ न काठिन्य-वद् उत्पत्तिः पुनर् दोष-विरोधिनः ०२२१७ स आत्मत्वेन अनपायत्वाद् अनेकान्ताच् च भस्म-वत् ०२२१७ यः पश्यत्य् आत्मानं तत्र अहम् इति शाश्वतः स्नेहः ०२२१८ स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस् तिरस्कुरुते ०२२१८ गुण-दर्शी परितृष्यन् मम इति तत् साधनान्य् उपादत्ते ०२२१९ तेन आत्म-अभिनिवेशो यावत् तावत् स संसारे ०२२१९ आत्मनि सति पर-संज्ञा स्व-पर-विभागात् परिग्रह-द्वेषौ ०२२२० अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ०२२२० नियमेन आत्मनि स्निह्यंस् तदीये न विरज्यते ०२२२१ न च अस्त्य् आत्मनि निर्दोषे स्नेह-अपगम-कारणम् ०२२२१ स्नेहः सदोष इति चेत् ततः किं तस्य वर्जनम् ०२२२२ अदूषिते अस्य विषये न शक्यं तस्य वर्जनम् ०२२२२ प्रहाणिर् इच्छा-द्वेष-आदेर् गुण-दोष-अनुबन्धिनः ०२२२३ तयोर् अदृष्टिर् विषये न तु बाह्येषु यः क्रमः ०२२२३ न हि स्नेह-गुणात् स्नेहः किं त्व् अर्थ-गुण-दर्शनात् ०२२२४ कारणे अविकले तस्मिन् कार्यं केन निवार्यते ०२२२४ का वा सदोषता दृष्टा स्नेहे दुःख-समाश्रयः ०२२२५ तथा अपि न विरागो अत्र स्वत्व-दृष्टेर् यथा आत्मनि ०२२२५ न तैर् विना दुःख-हेतुर् आत्मा चेत् ते अपि तादृशाः ०२२२६ निर्दोषं द्वयम् अप्य् एवं वैराग्यं न द्वयोस् ततः ०२२२६ दुःख-भावनया अस्याच् चेद् अहि-दष्ट-अङ्ग-हानि-वत् ०२२२७ आत्मीय-बुद्धि-हान्या अत्र त्यागो न तु विपर्यये ०२२२७ उपभोग-आश्रयत्वेन गृहीतेष्व् इन्द्रिय-आदिषु ०२२२८ स्वत्व-धीः केन वार्येत वैराग्यं तत्र तत् कुतः ०२२२८ प्रत्यक्षम् एव सर्वस्य केश-आदिषु कलेवरात् ०२२२९ च्युतेषु सा घृणा बुद्धिर् जायते अन्यत्र सस्पृहा ०२२२९ समवाय-आदि-सम्बन्ध-जनिता तत्र हि स्व-धीः ०२२३० सम्बन्धः स तथा एव इति दृष्टाव् अपि न हीयते ०२२३० समवाय-आद्य्-अभावे अपि सर्वत्र अस्त्य् उपकारिता ०२२३१ दुःख-उपकारान् न भवेद् अङ्गुल्याम् इव चेत् स्व-धीः ०२२३१ न ह्य् एकान्तेन तद् दुःखं भूयसा सविष-अन्न-वत् ०२२३२ विशिष्ट-सुख-संगात् स्यात् तद्-विरुद्धे विरागिता ०२२३२ किंचित् परित्यजेत् सौख्यं विशिष्ट-सुख-तृष्णया ०२२३३ नैरात्म्ये तु यथालाभम् आत्म-स्नेहात् प्रवर्तते ०२२३३ अलाभे मत्तकाशिन्या दृष्टा तिर्यक्षु कामिता ०२२३४ यस्य आत्मा वल्लभः तस्य स नाशं कथम् इच्छति ०२२३४ निवृत्त-सर्व-अनुभव-व्यवहार-गुण-आश्रयम् ०२२३५ इच्छेत् प्रेम कथं प्रेम्णः प्रकृतिर् न हि तादृशी ०२२३५ सर्वथा आत्म-ग्रहः स्नेहम् आत्मनि द्रढयत्य् अलम् ०२२३६ आत्मीय-स्नेह-बीजं तत् तद्-अवस्थं व्यवस्थितम् ०२२३६ यत्ने अप्य् आत्मीय-वैराग्यं गुण-लेश-समाश्रयात् ०२२३७ वृत्तिमान् प्रतिबध्नाति तद् दोषान् संवृनोति च ०२२३७ आत्मन्य् अपि विरागश् चेत् न इदानीं यो विरज्यते ०२२३८ त्यजत्य् असौ यथा आत्मानं व्यर्था अतो दुःख-भावना ०२२३८ दुःख-भावनया अप्य् एष दुःखम् एव विभावयेत् ०२२३९ प्रत्यक्षं पूर्वम् अपि तत् तथा अपि न विरागवान् ०२२३९ यद्य् अप्य् एकत्र दोषेण तत् क्षणं चलिता मतिः ०२२४० विरक्तौ न एव तत्र अपि कामि इव वनित-अन्तरे ०२२४० त्याज्य-उपादेय-भेदे हि सक्तिर् या एव एक-भाविनी ०२२४१ सा बीजं सर्व-सक्तीनां पर्यायेण समुद्भवे ०२२४१ निर्दोष-विषयः स्नेहो निर्दोषः साधनानि च ०२२४२ एतावद् एव च जगत् क्व इदानीं स विरज्यते ०२२४२ सदोषता अपि चेत् तत्र तस्य तत्र आत्मन्य् अपि सा समा ०२२४३ तत्र अविरक्तस् तद्-दोषे क्व इदानीं स विरज्यते ०२२४३ गुण-दर्शन-सम्भूतं स्नेहं बाधित-दोष-दृक् ०२२४४ स च इन्द्रिय-आदौ न त्व् एवं बाल-आदेर् अपि दर्शनात् ०२२४४ दोषवत्य् अपि सद्भावात् स्वभावाद् गुणवत्य् अपि ०२२४५ अन्यत्र आत्मीयतायां वा व्यतीत-आदौ विहानितः ०२२४५ तत एव च न आत्मीय-बुद्धेर् अपि गुण-ईक्षणम् ०२२४६ कारणं हीयते स अपि तस्मान् न अगुण-दर्शनात् ०२२४६ अपि च असद् गुण-आरोपः स्नेहात् तत्र हि दृश्यते ०२२४७ तस्मात् त कारणा बाधी विधिस् तं बाधते कथम् ०२२४७ परापर-प्रार्थना अतो विनाश-उत्पत्ति-बुद्धितः ०२२४८ इन्द्रिय-आदेः पृथग् भूतम् आत्मानं वेत्त्य् अयं जनः ०२२४८ तस्मान् न एकत्व-दृष्ट्या अपि स्नेहः स्निह्यन् स आत्मनि ०२२४९ उपलम्भ-अन्तरङ्गेषु प्रकृत्या एव अनुरज्यते ०२२४९ प्रत्युत्पन्ना तु यो दुःखान् निर्वेदो द्वेष ईदृशः ०२२५० न वैराग्यं तदा अप्य् अस्य स्नेहो अवस्था-अन्तर् एषणात् ०२२५० द्वेषस्य दुःख-योनित्वात् स तावन् मात्र-संस्थितिः ०२२५१ तस्मिन्न् निवृत्ते प्रकृतिं स्वाम् एव भजते पुनः ०२२५१ औदासीन्यं तु सर्वत्र हान-उपादान-हानितः ०२२५२ वासी-चन्दन-कल्पानां वैराग्यं नाम कथ्यते ०२२५२ संस्कार-दुःखतां मत्वा कथिता दुःख-भावना ०२२५३ सा च नः प्रत्यय-उत्पत्तिः सा नैरात्म्य-दृग्-आश्रयः ०२२५३ युक्तिस् तु शून्यता-दृष्टेस् तद्-अर्थाः शेष-भावनाः ०२२५४ अनित्यात् प्राह तेन एव दुःखं दुःखान् निरात्मताम् ०२२५४ अविरक्तश् च तृष्णावान् सर्व-आरम्भ-समाश्रितः ०२२५५ सो अमुक्तः क्लेश-कर्मभ्यां संसारी नाम तादृशः ०२२५५ आत्मीयम् एव यो न इच्छेद् भोक्ता अप्य् अस्य न विद्यते ०२२५६ आत्मा अपि न तदा तस्य क्रिया-भोगौ हि लक्षणम् ०२२५६ तस्माद् अनादि-सन्तान-तुल्य-जातीय-बीजिकाम् ०२२५७ उत्खात-मूलां कुरुत सत्त्व-दृष्टिं मुमुक्षवः ०२२५७ आगमस्य तथा भाव-निबन्धनम् अपश्यताम् ०२२५८ मुक्तिम् आगम-मात्रेण वदन् न परितोषकृत् ०२२५८ न अलं बीज-आदि-संसिद्धो विधिः पुंसाम् अजन्मने ०२२५९ तैल-अभ्यङ्ग-अग्नि-दाह-आदेर् अपि मुक्ति-प्रसङ्गतः ०२२५९ प्राग् गुरोर् लाघवात् पश्चान् न पाप-हरणं कृतम् ०२२६० मा भूत् गौरवम् एव अस्य न पापं गुर्व्-अमूर्तितः ०२२६० मिथ्या-ज्ञान-तद्-उद्भूत-तर्ष-संचेतना-वशात् ०२२६१ हीन-स्थान-गतिर् जन्म तेन तच्छिन् न जायते ०२२६१ तयोर् एव हि सामर्थ्यं जातौ तन्-मात्र-भवतः ०२२६२ ते चेतने स्वयं कर्म इत्य् अखण्डं जन्म-कारणम् ०२२६२ गति-प्रतीत्योः कारण-अन्य-आश्रयस् तान्य् अदृष्टतः ०२२६३ अदृष्ट-नाशाद् अगतिस् तत् संस्कारो न चेतना ०२२६३ सामर्थ्यं करण-उत्पत्तेर् भाव-अभाव-अनुवृत्तितः ०२२६४ दृष्टं बुद्धेर्न् न च अन्यस्य तानि सन्ति न सन्ति किम् ०२२६४ धारण-प्रेरण-क्षोभ-निरोधाश् चेतना-वशाः ०२२६५ न स्युस् तेषाम् असामर्थ्ये तस्य दीक्षा-आद्य्-अनन्तरम् ०२२६५ अथ बुद्धेस् तदा अभावान् न स्युः सन्धीयते मलैः ०२२६६ बुद्धेस् तेषाम् असामर्थ्ये जीवतो अपि स्युर् अक्षमाः ०२२६६ निर्ह्रास-अतिशयात् पुष्टौ प्रतिपक्ष-स्व-पक्षयोः ०२२६७ दोषाः स्व-बीज-सन्ताना दीक्षिते अप्य् अनिवारिताः ०२२६७ नित्यस्य निरपेक्षत्वात् क्रम-उत्पत्तिर् विरुध्यते ०२२६८ क्रियायाम् अक्रियायां च क्रिया च सदृश-आत्मनः ०२२६८ ऐक्यं च हेतु-फलयोर् व्यतिरेके ततस् तयोः ०२२६९ कर्तृ-भोक्तृत्व-हानिः स्यात् सामर्थ्यं च न सिध्यति ०२२६९ अन्य-स्मरण-भोग-आदि-प्रसङ्गाश् च न सिध्यति ०२२७० अस्मृतेः कस्यचित् तेन ह्य् अनुभूतेः स्मृत-उद्भवः ०२२७० स्थिरं सुखं मम अहं च इत्य् आदि सत्य-चतुष्टये ०२२७१ अभूतान् षोडश-आकारान् आरोप्य परितृष्यति ०२२७१ तत्र एव तद्-विरुद्ध-आत्म-तत्त्व-आकार-अनुरोधिनी ०२२७२ हन्ति सा अनुचरां तृष्णां सम्यग्-दृष्टिः सुभाविता ०२२७२ त्रि-हेतोर्न् न उद्भवः कर्म-देहयोः स्थितयोर् अपि ०२२७३ एक-अभावाद् विना बीजं न अङ्कुरस्य इव जन्मनः ०२२७३ असम्भवाद् विपक्षस्य न हानिः कर्म-देहयोः ०२२७४ अशक्यत्वाच् च तृष्णायां स्थितायां पुनर् उद्भवात् ०२२७४ द्वय-क्षय-अर्थं यत्ने च व्यर्थः कर्म-क्षये श्रमः ०२२७५ फल-वैचित्र्य-दृष्टेश् च शक्ति-भेदो अनुमीयते ०२२७५ कर्मणां ताप-संक्लेशात् न एक-रूपात् ततः क्षयः ०२२७६ फलं कथंचित् तज्-जन्यम् अल्पं स्यान् न विजातिमत् ०२२७६ अथ अपि तपसः शक्त्या शक्ति-संकर-संक्षयैः ०२२७७ क्लेशात् कुतश्चिद् धीयेत अशेषम् अक्लेश-लेशतः ०२२७७ यदि इष्टम् अपरं क्लेशात् तत् तपः क्लेश एव चेत् ०२२७८ तत् कर्म-फलम् इत्य् अस्मान् न शक्तेः संकर-आदिकम् ०२२७८ उत्पित्सु-दोष-निर्घात-आद्ये अपि दोष-विरोधिनः ०२२७९ तज्जे कर्मणि शक्ताः स्युः कृत-हानिः कथं भवेत् ०२२७९ दोषा न कर्मणो दुष्टः करोति न विपर्ययात् ०२२८० मिथ्या-विकल्पेन विना न अभिलाषः सुखाद् अपि ०२२८० तायात् तत्त्व-स्थिर-अशेष-विशेष-ज्ञान-साधनम् ०२२८१ बोध-अर्थत्वाद् गमेर् बाह्य-शैक्ष-अशैक्ष-अधिकस् ततः ०२२८१ परार्थ-ज्ञान-घटनं तस्मात् तच् शासनं दया ०२२८२ ततः परार्थ-तन्त्रत्वं सिद्ध-अर्थस्य अविरामतः ०२२८२ दयया श्रेय आचष्टे ज्ञानात् सत्यं ससाधनम् ०२२८३ तच् च अभियोगवान् वक्तुं यतस् तस्मात् प्रमाणता ०२२८३ उपदेश-तथाभाव-स्तुतिस् तद् उपदेशतः ०२२८४ प्रमाण-तत्त्व-सिद्ध्य्-अर्थम् अनुमाने अप्य् अवारणात् ०२२८४ प्रयोग-दर्शनाद् वा अस्य यत् किंचिद् उदय-आत्मकम् ०२२८५ निरोध-धर्मकं सर्वं तद् इत्य् आदाव् अनेकधा ०२२८५ अनुमान-आश्रयो लिङ्गम् अविनाभाव-लक्षणम् ०२२८५ व्याप्ति-प्रदर्शनाद् हेतोः साध्येन उक्तं च तत् स्फुटम् ०३००१ मानं द्विविधं मेय-द्वैविध्यात् शक्त्य्-अशक्तितः ०३००१ अर्थक्रियायां केश-आदिर्न् न अर्थो अनर्थ-अधिमोक्षतः ०३००२ सदृश-असदृशत्वाच् च विषय-अविषयत्वतः ०३००२ शब्दस्य अन्य-निमित्तानां भावे धीः सद्-असत्त्वतः ०३००३ अर्थक्रियासमर्थं यत् तद् अत्र परमार्थसत् ०३००३ अन्यत् संवृतिसत् प्रोक्तं ते स्व-सामान्य-लक्षणे ०३००४ अशक्तं सर्वम् इति चेद् बीज-आदेर् अङ्कुर-आदिषु ०३००४ दृष्टा शक्तिः मता सा चेत् संवृत्या अस्तु यथा तथा ०३००५ सा अस्ति सर्वत्र चेद् बुद्धेर् न अन्वय-व्यतिरेकयोः ०३००५ सामान्यलक्षणे अदृष्टेश् चक्षू-रूप-आदि-बुद्धि-वत् ०३००६ एतेन समय-आभोग-आद्य्-अन्तरङ्ग-अनुरोधतः ०३००६ घट-उत्क्षेपण-सामान्यं संख्या-आदिषु धियो गताः ०३००७ केश-आदयो न सामान्यम् अर्थ-अनभिनिवेशतः ०३००७ ज्ञेयत्वेन ग्रहाद् दोषो न अभावेषु प्रसज्यते ०३००८ तेषाम् अपि तथाभावे अप्रतिषेधात् स्फुट-आभता ०३००८ ज्ञान-रूपतया अर्थत्वात् केश-आदि इति मतिः पुनः ०३००९ सामान्य-विषया केश-प्रतिभासम् अनर्थकम् ०३००९ ज्ञान-रूपतया अर्थत्वे सामान्ये चेत् प्रसज्यते ०३०१० तथा-इष्टत्वाद् अदोषो अर्थ-रूपत्वेन समानता ०३०१० सर्वत्र सम-रूपत्वात् तद्-व्यावृत्ति-समाश्रयात् ०३०११ तद् अवस्त्व्-अभिधेयत्वात् साफल्याद् अक्ष-संहतेः ०३०११ नाम-आदि-वचने वक्तृ-श्रोतृ-वाच्य-अनुबन्धिनि ०३०१२ असम्बन्धिनि नाम-आदाव् अर्थे स्याद् अप्रवर्तनम् ०३०१२ सारूप्याद् भ्रान्तितो वृत्तिर् अर्थे चेत् स्यान् न सर्वदा ०३०१३ देश-भ्रान्तिश् च न ज्ञाने तुल्यम् उत्पत्तितो धियः ०३०१३ तथाविधायाः अन्यत्र तत्र अनुपगमाद् धियः ०३०१४ बाह्य-अर्थ-प्रतिभासाया उपाये वा अप्रमाणता ०३०१४ विज्ञान-व्यतिरिक्तस्य व्यतिरेक-अप्रसिद्धितः ०३०१५ सर्व-ज्ञान-अर्थवत्त्वाच् चेत् स्वप्न-आदाव् अन्यथा ईक्षणात् ०३०१५ अयुक्तं न च संस्कारान् नील-आदि-प्रतिभासतः ०३०१६ नील-आद्य्-अप्रतिघातान् न ज्ञानं तद्-योग्य-देशकैः ०३०१६ अज्ञातस्य स्वयं ज्ञानान् नाम-आद्य् एतेन वर्णितः ०३०१७ सा एव इष्ट-अर्थवती केन चक्षुर्-आदि-मतिर् मता ०३०१७ अर्थ-सामर्थ्य-दृष्टेश् चेद् अन्यत् प्राप्तम् अनर्थकम् ०३०१८ अप्रवृत्तिर् असम्बन्धे अप्य् अर्थ-सम्बन्ध-वद् यदि ०३०१८ अतीत-अनागतं वाच्यं न स्याद् अर्थेन तत् क्षयात् ०३०१९ सामान्य-ग्रहणाच् शब्दाद् अप्रसङ्गो मतो यदि ०३०१९ तन् न केवल-सामान्य-अग्रहणाद् ग्रहणे अपि वा ०३०२० अतत्-समानता अव्यक्ती तेन नित्य-उपलम्भनम् ०३०२० नित्यत्वाच् च यदि व्यक्तिर् व्यक्तेः प्रत्यक्षतां प्रति ०३०२१ आत्मनि ज्ञान-जनने यच् शक्तं शक्तम् एव तत् ०३०२१ अथ अशक्तं कदाचिच् चेद् अशक्तं सर्वदा एव तत् ०३०२२ तस्य शक्तिर् अशक्तिर् वा या स्वभावेन संस्थिता ०३०२२ नित्यत्वाद् अचिकित्स्यस्य कस् तां क्षपयितुं क्षमः ०३०२३ तच् च सामान्य-विज्ञानम् अनुबन्धन् विभाव्यते ०३०२३ नील-आद्य्-आकार-लेशो यः स तस्मिन् केन निर्मितः ०३०२४ प्रत्यक्ष-प्रत्यय-अर्थत्वान् न अक्षाणां व्यर्थता इति चेत् ०३०२४ सा एव एक-रूपाच् शब्द-आदेर् भिन्न-आभासा मतिः कुतः ०३०२५ न जातिर् जातिमद् व्यक्ति-रूपं येन अपर-आश्रयम् ०३०२५ सिद्धं पृथक् चेत् कार्यत्वं ह्य् अपेक्षा इत्य् अभिधीयते ०३०२६ निष्पत्तेर् अपर-अधीनम् अपि कार्यं स्व-हेतुतः ०३०२६ सम्बध्यते कल्पनया किम् अकार्यं कथंचन ०३०२७ अन्यत्वे तद् असम्बद्धं सिद्धा अतो निःस्वभावता ०३०२७ जाति-प्रसङ्गो अभावस्य न अपेक्षा अभावतस् तयोः ०३०२८ तस्माद् अरूपा रूपाणाम् आश्रयेण उपकल्पिता ०३०२८ तद्-विशेष-अवगाह-अर्थैर् जातिः शब्दैः प्रकाश्यते ०३०२९ तस्यां रूप-अवभासो यस् तत्त्वेन अर्थस्य वा ग्रहः ०३०२९ भ्रान्तिः सा अनादि-कालीन-दर्शन-अभ्यास-निर्मिता ०३०३० अर्थानां यच् च सामान्यम् अन्य-व्यावृत्ति-लक्षणम् ०३०३० यन् निष्ठास् त इमे शब्दा न रूपं तस्य किंचन ०३०३१ सामान्य-बुद्धौ सामान्येन अरूपायाम् अपि ईक्षणात् ०३०३१ अर्थ-भ्रान्तिर् अपि इष्येत सामान्यं सा अप्य् अभिप्लवात् ०३०३२ अर्थ-रूपतया तत्त्वेन अभावाच् च न रूपिणी ०३०३२ निःस्वभावतया अवाच्यं कुतश्चिद् वचनान् मतम् ०३०३३ यदि वस्तु न वस्तूनाम् अवाच्यत्वं कथंचन ०३०३३ न एव वाच्यम् उपादान-भेदाद् भेद-उपचारतः ०३०३४ अतीत-अनागते अप्य् अर्थे सामान्य-विनिबन्धनाः ०३०३४ श्रुतयो निविशन्ते सद्-असद्-धर्मः कथं भवेत् ०३०३५ उपचारात् तद् इष्टं चेद् वर्तमान-घटस्य का ०३०३५ प्रत्यासत्तिर् अभावेन या पट-आदौ न विद्यते ०३०३६ बुद्धेर् अस्खलिता वृत्तिर् मुख्य-आरोपितयोः सदा ०३०३६ सिंहे माणवके तद्वद् घोषणा अप्य् अस्ति लौकिकी ०३०३७ यत्र रूढ्या असद्-अर्थो अपि जनैः शब्दो निवेशितः ०३०३७ स मुख्यस् तत्र तत्-साम्याद् गौणो अन्यत्र स्खलद् गतिः ०३०३८ यथाभावे अप्य् अभाव-आख्यां यथा-कल्पनम् एव वा ०३०३८ कुर्याद् अशक्ते शक्ते वा प्रधान-आदि-श्रुतिं जनः ०३०३९ शब्देभ्यो यादृशी बुद्धिर् नष्टे अनष्टे अपि दृश्यते ०३०३९ तादृश्य् एव सद्-अर्थानां न एतच् श्रोतृ-आदि-चेतसाम् ०३०४० सामान्य-मात्र-ग्रहणात् सामान्यं चेतसोर् द्वयोः ०३०४० तस्य अपि केवलस्य प्राग् ग्रहणं विनिवारितम् ०३०४१ परस्पर-विशिष्टानाम् अविशिष्टं कथं भवेत् ०३०४१ रूपं द्विरूपतायां वा तद्-वस्त्व् एकं कथं भवेत् ०३०४२ ताभ्यां तद्-अन्यद् एव स्याद् यदि रूपं समं तयोः ०३०४२ तयोर् इति न सम्बन्धो व्यावृत्तिस् तु न दुष्यते ०३०४३ तस्मात् समानता एव अस्मिन् सामान्ये अवस्तु-लक्षणम् ०३०४३ कार्यं च तद् अनेकं स्यान् नश्वरं च तन्-मतम् ०३०४४ वस्तु-सत्ता-अनुबन्धित्वाद् विनाशस्य न नित्यता ०३०४४ असम्बन्धश् च जातीनाम् अकार्यत्वाद् अरूपता ०३०४५ यच् च वस्तु-बलाज् ज्ञानं जायते तद् अपेक्ष्यते ०३०४५ न संकेतं न सामान्य-बुद्धिष्व् एतद् विभाव्यते ०३०४६ या अप्य् अभेद-अनुगा बुद्धिः काचिद् वस्तु-द्वये क्षणे ०३०४६ संकेतेन विना सा अर्थ-प्रत्यासत्ति-निबन्धना ०३०४७ प्रत्यासत्तिर् विना जात्या यथेष्टा चक्षुर्-आदिषु ०३०४७ ज्ञान-कार्येषु जातिर् वा यया अन्वेति विभागतः ०३०४८ कथंचिद् अपि विज्ञाने तद्-रूप-अनवभासतः ०३०४८ यदि नाम इन्द्रियाणां स्याद् द्रष्टा भासेत तद्-वपुः ०३०४९ रूपवत्त्वात् न जातीनां केवलानाम् अदर्शनात् ०३०४९ व्यक्ति-ग्रहे च तच् शब्द-रूपाद् अन्यन् न दृश्यते ०३०५० ज्ञान-मात्र-अर्थ-करणे अप्य् अयोग्य-मता एव तत् ०३०५० तद् अयोग्यतया अरूपं तद् ह्य् अवस्तुषु लक्षणम् ०३०५१ यथोक्त-विपरीतं यत् तत् स्वलक्षणम् इष्यते ०३०५१ सामान्यं त्रिविधं तच् च भाव-अभाव-उभय-आश्रयात् ०३०५२ यदि भाव-आश्रयं ज्ञानं भावे भाव-अनुबन्धतः ०३०५२ न उक्त-उत्तरत्वाद् दृष्टत्वाद् अतीत-आदिषु च अन्यथा ०३०५३ भाव-धर्मत्व-हानिश् चेद् भाव-ग्रहण-पूर्वकम् ०३०५३ तज्-ज्ञानम् इत्य् अदोषो अयं मेयं त्व् एकं स्वलक्षणम् ०३०५४ तस्माद् अर्थक्रिया-सिद्धेः सद्-असत्ता-विचारणात् ०३०५४ तस्य स्व-पररूपाभ्यां गतेर् मेय-द्वयं मतम् ०३०५५ अयथाभिनिवेशेन द्वितीया भ्रान्तिर् इष्यते ०३०५५ गतिश् चेत् पररूपेण न च भ्रान्तेः प्रमाणता ०३०५६ अभिप्राय-अविसंवादाद् अपि भ्रान्तेः प्रमाणता ०३०५६ गतिर् अप्य् अन्यथा दृष्टा पक्षश् च अयं कृत-उत्तरः ०३०५७ मणि-प्रदीप-प्रभयोर् मणि-बुद्ध्या अभिधावतः ०३०५७ मिथ्या-ज्ञान-अविशेषे अपि विशेषो अर्थक्रियां प्रति ०३०५८ यथा तथा अयथार्थत्वे अप्य् अनुमान-तद्-आभयोः ०३०५८ अर्थक्रिया-अनुरोधेन प्रमाणत्वं व्यवस्थितम् ०३०५९ बुद्धिर् यत्र अर्थ-सामर्थ्याद् अन्वय-व्यतिरेकिणी ०३०५९ तस्य स्वतन्त्रं ग्रहणम् अतो अन्यद् वस्त्व् अतीन्द्रियम् ०३०६० तस्य अदृष्ट-आत्म-रूपस्य गतेर् अन्यो अर्थ-आश्रयः ०३०६० तद्-आश्रयेण सम्बन्धी यदि स्याद् गमकस् तदा ०३०६१ गमक-अनुग-सामान्य-रूपेण एव तदा गतिः ०३०६१ तस्मात् सर्वः परोक्षो अर्थो विशेषेण न गम्यते ०३०६२ या च सम्बन्धिनो धर्माद् गतिर् धर्मिणि जायते ०३०६२ सा अनुमानं परोक्षाणाम् एकं तेन एव साधनम् ०३०६३ न प्रत्यक्ष-परोक्षाभ्यां मेयस्य अन्यस्य सम्भवः ०३०६३ तस्मात् प्रमेय-द्वित्वेन प्रमाण-द्वित्वम् इष्यते ०३०६४ त्र्य्-एक-संख्या-निरासो वा प्रमेय-द्वय-दर्शनात् ०३०६४ एकम् एव अप्रमेयत्वाद् असतश् चेन् मतं च नः ०३०६५ अनेकान्तो अप्रमेयत्वे असद्-भावस्य अपि निश्चयात् ०३०६५ तन् निश्चय-प्रमाणं वा द्वितीयं न अक्षजा मतिः ०३०६६ अभावे अर्थ-बलाज् जाते अर्थ-शक्त्य्-अनपेक्षणे ०३०६६ व्यवधान-आदि-भावे अपि जायेत इन्द्रियजा मतिः ०३०६७ अभावे विनिवृत्तिश् चेत् प्रत्यक्षस्य एव निश्चयः ०३०६७ विरुद्धं सा एव वा लिङ्गम् अन्वय-व्यतिरेकिणी ०३०६८ सिद्धं च पर-चैतन्य-प्रतिपत्तेः प्रमा-द्वयम् ०३०६८ व्यवहार-आदौ प्रवृत्तेश् च सिद्धस् तद्भाव-निश्चयः ०३०६९ प्रमाणम् अविसंवादात् त क्वचिद् व्यभिचारतः ०३०६९ न आश्वास इति चेल् लिङ्गं दुर्दृष्टेर् अतद् ईदृशम् ०३०७० यतः कदाचित् सिद्धा अस्य प्रतीतिर् वस्तुनः क्वचित् ०३०७० तद् अवश्यं ततो जातं तत् स्वभावो अपि वा भवेत् ०३०७१ स्व-निमित्तं स्वभावं वा विना न अर्थस्य सम्भवः ०३०७१ यच् च रूपं तयोर् दृष्टं तद् एव अन्यत्र लक्षणम् ०३०७२ स्वभावे स्व-निमित्ते वा दृश्ये दर्शन-हेतुषु ०३०७२ अन्येषु सत्स्व् अदृश्ये च सत्ता वा तद्वतः कथम् ०३०७३ अप्रामाण्ये च सामान्य-बुद्धेस् तल्-लोप आगतः ०३०७३ प्रेत्य-भाव-वद् अक्षैश् चेत् पर्यायेण प्रतीयते ०३०७४ तच् च न इन्द्रिय-शक्त्य्-आदाव् अक्ष-बुद्धेर् असम्भवात् ०३०७४ अभाव-प्रतिपत्तौ स्याद् बुद्धि-जन्म-अनिमित्तकम् ०३०७५ स्वलक्षणे च प्रत्यक्षम् अविकल्पतया विना ०३०७५ विकल्पेन न सामान्य-ग्रहस् तस्मिंस् ततो अनुमा ०३०७६ प्रमेय-नियमे वर्ण-अनित्यता न प्रतीयते ०३०७६ प्रमाणम् अन्यत् तद् बुद्धिर् विना लिङ्गेन सम्भवात् ०३०७७ विशेष-दृष्टे लिङ्गस्य सम्बन्धस्य अप्रसिद्धितः ०३०७७ तत् प्रमाण-अन्तरं मेय-बहुत्वाद् बहुता अपि वा ०३०७८ प्रमाणानाम् अनेकस्य वृत्तेर् एकत्र वा यथा ०३०७८ विशेष-दृष्टेर् एक-त्रि-संख्या-अपोहो न वा भवेत् ०३०७९ विषय-अनियमाद् अन्य-प्रमेयस्य च सम्भवात् ०३०७९ योजनाद् वर्ण-सामान्ये न अयं दोषः प्रसज्येत ०३०८० न अवस्तु रूपं तस्य एव तथा सिद्धे प्रसाधनात् ०३०८० अन्यत्र न अन्य-सिद्धिश् चेन् न तस्य एव प्रसिद्धितः ०३०८१ यो हि भावो यथाभूतो स तादृग् लिङ्ग-चेतसः ०३०८१ हेतुस् तज्जा तथाभूते तस्माद् वस्तुनि लिङ्गि-धीः ०३०८२ लिङ्ग-लिङ्गि-धियोर् एवं पारंपर्येण वस्तुनि ०३०८२ प्रतिबन्धात् तद्-आभास-शून्ययोर् अप्य् अवञ्चनम् ०३०८३ तद्-रूप-अध्यवसायाच् च तयोस् तद्-रूप-शून्ययोः ०३०८३ तद्-रूप-अवञ्चकत्वे अपि कृता भ्रान्ति-व्यवस्थितिः ०३०८४ तस्माद् वस्तुनि बोद्धव्ये व्यापकं व्याप्य-चेतसः ०३०८४ निमित्तं तत् स्वभावो वा कारणं तच् च तद् धियः ०३०८५ प्रतिषेधस् तु सर्वत्र साध्यते अनुपलम्भतः ०३०८५ सिद्धिं प्रमाणैर् वदताम् अर्थाद् एव विपर्ययात् ०३०८६ दृष्टा विरुद्ध-धर्म-उक्तिस् तस्य तत्-कारणस्य वा ०३०८६ निषेधे या अपि तस्य एव सा अप्रमाणत्व-सूचना ०३०८७ अन्यथा एकस्य भावस्य सद्भाव-उक्त्या परस्य तत् ०३०८७ न अस्तित्वं केन गम्येत विरोधाच् चेद् असाव् अपि ०३०८८ सिद्धः केन असहस्थानाद् इति चेत् तत् कुतो मतम् ०३०८८ दृश्यस्य दर्शन-अभावाद् इति चेत् सा अप्रमाणता ०३०८९ तस्मात् स्व-शब्देन उक्ता अपि सा अभावस्य प्रसाधिका ०३०८९ यस्या प्रमाणं सा अवाच्यो निषेधस् तेन सर्वथा ०३०९० एतेन तद्-विरुद्ध-अर्थ-कार्य-उक्तिर् उपवर्णिता ०३०९० प्रयोगः केवलं भिन्नः सर्वत्र अर्थो न भिद्यते ०३०९१ विरुद्धं तच् च सा उपायम् अविधाया अपि धाय च ०३०९१ प्रमाण-उक्तिर् निषेधे या न सा न्यायानुसारिणी ०३०९२ उक्त्य्-आदेः सर्ववित् प्रेत्य-भाव-आदि-प्रतिषेध-वत् ०३०९२ अतीन्द्रियाणाम् अर्थानां विरोधस्य अप्रसिद्धितः ०३०९३ बाध्यबाधकभावः कः स्यातां यद् युक्ति-संविदौ ०३०९३ तादृशो अनुपलब्धेश् चेद् उच्यतां सा एव साधनम् ०३०९४ अनिश्चयकरं प्रोक्तम् ईदृक् क्व अनुपलम्भनम् ०३०९४ तत्र अत्यन्तपरोक्षेषु सदसत्ता-विनिश्चयौ ०३०९५ भिन्नो अभिन्नो अपि वा धर्मः स विरुद्धः प्रयुज्यते ०३०९५ यथा अग्निर् अहिमे साध्ये सत्ता वा जन्म-बाधनी ०३०९६ यथा वस्त्व् एव वस्तूनां साधने साधनं मतम् ०३०९६ तथा वस्त्व् एव वस्तूनां स्व-निवृत्तौ निवर्तकम् ०३०९७ एतेन कल्पना-न्यस्तो यत्र क्वचन सम्भवाद् ०३०९७ धर्मः पक्षसपक्षान्यतरत्व-आदिर् अपोदितः ०३०९८ तत्र अपि व्यापको धर्मो निवृत्तेर् गमको मतः ०३०९८ व्याप्यस्य स्व-निवृत्तिश् चेत् परिच्छिन्ना कथंचन ०३०९९ यद् अप्रमाणता अभावे लिङ्गं तस्य एव कथ्यते ०३०९९ तद् अत्यन्त-विमूढ-अर्थम् आगोपालम् असंवृत्तेः ०३१०० एतावन् निश्चय-फलम् अभावे अनुपलम्भनम् ०३१०० तच् च हेतौ स्वभावे वा अदृश्ये दृश्यतया मते ०३१०१ अनुमानाद् अनित्य-आदेर् ग्रहणे अयं क्रमो मतः ०३१०१ प्रामाण्यम् एव न अन्यत्र गृहीत-ग्रहणान् मतम् ०३१०२ न अन्यास् या अनित्यता भावात् पूर्व-सिद्धः स च इन्द्रियात् ०३१०२ न अनेक-रूपो वाच्यो असौ वाच्यो धर्मो विकल्पजः ०३१०३ सामान्य-आश्रय-संसिद्धौ सामान्यं सिद्धम् एव तत् ०३१०३ तद्-असिद्धौ तथा अस्य एव ह्य् अनुमानं प्रवर्तते ०३१०४ क्वचित् तद् अपरिज्ञानं सदृश-अपर-सम्भवात् ०३१०४ भ्रान्तेर् अपश्यतो भेदं माया-गोलक-भेद-वत् ०३१०५ तथा ह्य् अलिङ्गम् आबालम् असंश्लिष्ट-उत्तर-उदयम् ०३१०५ पश्यन् परिच्छिनत्त्य् एव दीप-आदि-नाशिनं जनः ०३१०६ भाव-स्वभाव-भूतायाम् अपि शक्तौ फले अदृशः ०३१०६ अनानन्तर्यतो मोहो विनिश्चेतुर् अपाटवात् ०३१०७ तस्य एव विनिवृत्त्य्-अर्थम् अनुमान-उपवर्णनम् ०३१०७ व्ययस्यन्ति ईक्षणाद् एव सर्व-आकारान् महा-धियः ०३१०८ व्यावृत्तेः सर्वतस् तस्मिन् व्यावृत्ति-विनिबन्धनाः ०३१०८ बुद्धयो अर्थे प्रवर्तन्ते अभिन्ने भिन्न-आश्रया इव ०३१०९ यथा-चोदनम् आख्याश् च सो असति भ्रान्ति-कारणे ०३१०९ प्रतिभाः प्रतिसन्धत्ते स्व-अनुरूपाः स्वभावतः ०३११० सिद्धो अत्र अप्य् अथवा ध्वंसो लिङ्गाद् अनुपलम्भनात् ०३११० प्राग् भूत्वा ह्य् अभवद् भावो अनित्य इत्य् अभिधीयते ०३१११ यस्य उभय-अन्त-व्यवधि-सत्ता सम्बन्ध-वाचिनी ०३१११ अनित्यता श्रुतिस् तेन तावन्ताव् इति कौ स्मृतौ ०३११२ प्राक् पश्चाद् अप्य् अभावश् चेत् स एव अनित्यता न किम् ०३११२ षष्ठ्य्-आद्य्-अयोगाद् इति चेद् अन्तयोः स कथं भवेत् ०३११३ सत्ता-सम्बन्धयोर् ध्रौव्याद् अन्ताभ्यां न विशेषणम् ०३११३ अविशेषणम् एव स्याद् अन्तौ चेत् कार्य-कारणे ०३११४ असम्बन्धान् न भावस्य प्राग्-अभावं स वाञ्छति ०३११४ तद्-उपाधि-समाख्याने ते अप्य् अस्य च न सिध्यतः ०३११५ सत्ता स्व-कारण-अश्लेष-करणात् कारणं किल ०३११५ सा सत्ता स च सम्बन्धो नित्यौ कार्यम् अथ इह किम् ०३११६ यस्य अभावः क्रियेत असौ न भावः प्राग्-अभाववान् ०३११६ सम्बन्ध-अनभ्युपगमान् नित्यं विश्वम् इदं ततः ०३११७ तस्माद् अनर्थास् कन्दिन्यो अभिन्न-अर्थ-अभिमतेष्व् अपि ०३११७ शब्देषु वाच्य-भेदिन्यो व्यतिरेकास् पदं धियः ०३११८ विशेष-प्रत्यभिज्ञानं न प्रतिक्षण-भेदतः ०३११८ न वा विशेष-विषयं दृष्ट-साम्येन तद्-ग्रहात् ०३११९ निदर्शनं तद् एव इति सामान्य-अग्रहणं यदि ०३११९ निदर्शनत्वात् सिद्धस्य प्रमाणेन अस्य किं पुनः ०३१२० विस्मृतत्वाद् अदोषश् चेत् तद् एव अनिदर्शनम् ०३१२० दृष्टे तद्भाव-सिद्धिश् चेत् प्रमाणाद् अन्य-वस्तुनि ०३१२१ तत्त्व-आरोपे विपर्यासस् तत् सिद्धेर् अप्रमाणता ०३१२१ प्रत्यक्ष-इतरयोर् ऐक्याद् एक-सिद्धिर् द्वयोर् अपि ०३१२२ सन्धीयमानं च अन्येन व्यवसायं स्मृतिं विदुः ०३१२२ तल्-लिङ्ग-अपेक्षणान् नो चेत् स्मृतिर् न व्यभिचारतः ०३१२३ प्रत्यक्षं कल्पना-अपोढं प्रत्यक्षेण एव सिध्यति ०३१२३ प्रत्यात्मवेद्यः सर्वेषां विकल्पो नाम-संश्रयः ०३१२४ संहृत्य सर्वतश् चिन्तां स्तिमितेन अन्तर-आत्मना ०३१२४ स्थितो अपि चक्षुषा रूपम् ईक्षते सा अक्षजा मतिः ०३१२५ पुनर् विकल्पयन् किंचिद् आसीन् मे कल्पना ईदृशी ०३१२५ इच्छा च इति न पूर्व-उक्त-अवस्थायाम् इन्द्रियाद् गतौ ०३१२६ एकत्र दृष्टो भेदो हि क्वचिन् न अन्यत्र दृश्यते ०३१२६ न तस्मात् भिन्नम् अस्त्य् अन्यत् सामान्यं बुद्ध्य्-अभेदतः ०३१२७ तस्माद् विशेष-विषया सर्वा एव इन्द्रियजा मतिः ०३१२७ न विशेषेषु शब्दानां संकेतस्य अप्रवृत्तितः ०३१२८ अनन्वयाद् विशेषाणां संकेतस्य अप्रवृत्तितः ०३१२८ विषयो यश् च शब्दानां संयोज्येत स एव तैः ०३१२९ अस्य इदम् इति सम्बन्धे याव् अर्थौ प्रतिभासिनौ ०३१२९ तयोर् एव हि सम्बन्धो न तदा इन्द्रिय-गोचरः ०३१३० विशद-प्रतिभासस्य तदा अर्थस्य अविभावनात् ०३१३० विज्ञान-आभास-भेदश् च पदार्थानां विशेषकः ०३१३१ चक्षुषो अर्थ-अवभासे अपि यं परो अस्य इति शंसति ०३१३१ स एव योज्यते शब्दैर्न् न खल्व् इन्द्रिय-गोचरः ०३१३२ अव्यावृत-इन्द्रियस्य अन्य-वाङ् मात्रेण अविभावनात् ०३१३२ न च अनुदित-सम्बन्धः स्वयं ज्ञान-प्रसङ्गतः ०३१३३ मनसोर् युगपद् वृत्तेः सविकल्प-अविकल्पयोः ०३१३३ विमूढो लघुवृत्तेर् वा तयोर् ऐक्यं व्ययस्यति ०३१३४ विकल्प-व्यवधानेन विच्छिन्नं दर्शनं भवेत् ०३१३४ इति चेद् भिन्न-जातीय-विकल्पे अन्यस्य वा कथम् ०३१३५ अलात-दृष्टि-वद् भाव-पक्षश् चेद् बलवान् मतः ०३१३५ अन्यत्र अपि समानं तद् वर्णयोर् वा सकृच् श्रुतिः ०३१३६ सकृत् संगत-सर्व-अर्थेष्व् इन्द्रियेष्व् इह सत्स्व् अपि ०३१३६ पञ्चभिर् व्यवधाने अपि भात्य् अव्यवहित इव या ०३१३७ सा मतिर् नाम पर्यन्त-क्षणिक-ज्ञान-मिश्रणात् ०३१३७ विच्छिन्न-आभा इति तच् चित्रं तस्मात् सन्तु सकृद् धियः ०३१३८ प्रतिभास-अविशेषश् च सा अन्तर-अनन्तरे कथम् ०३१३८ शुद्धे मनो-विकल्पे च न क्रम-ग्रहणम् भवेत् ०३१३९ यो अग्रहः संगते अप्य् अर्थे क्वचिद् आसक्त-चेतसः ०३१३९ सक्त्या अन्य-उत्पत्ति-वैगुण्याच् चोद्यं वा एतद् द्वयोर् अपि ०३१४० शीघ्र-वृत्तेर् अलात-आदेर् अन्वय-प्रतिघातिनी ०३१४० चक्र-भ्रान्तिं दृशा धत्ते न दृशां घटनेन सा ०३१४१ केचिद् इन्द्रियजत्व-आदेर् बाल-धी-वद् अकल्पनाम् ०३१४१ आहुर् बाला विकल्पे च हेतुं संकेत-मन्दताम् ०३१४२ तेषां प्रत्यक्षम् एव स्याद् बालानाम् अविकल्पनात् ०३१४२ संकेत-उपाय-विगमात् पश्चाद् अपि भवेन् न सः ०३१४३ मनो अव्युत्पन्न-संकेतम् अस्ति तेन स चेन् मतः ०३१४३ एवम् इन्द्रियजे अपि स्याद् शेषवच् च इदम् ईदृशम् ०३१४४ यद् एव साधनं बाले तद् एव अत्र अपि कथ्यताम् ०३१४४ साम्याद् अक्ष-धियाम् उक्तम् अनेन अनुभव-आदिकम् ०३१४५ विशेषणं विशेष्यं च सम्बन्धं लौकिकीं स्थितिम् ०३१४५ गृहीत्वा संकलय्य एतत् तथा प्रत्येति न अन्यथा ०३१४६ यथा दण्डिनि जात्य्-आदेर् विवेकेन अनिरूपणात् ०३१४६ तद्वता योजना न अस्ति कल्पना अप्य् अत्र न अस्त्य् अतः ०३१४७ यद्य् अप्य् अन्वयि विज्ञानं शब्द-व्यक्त्य्-अवभासि तत् ०३१४७ वर्ण-आकृत्य्-अक्षर-आकार-शून्यं गोत्वं हि वर्ण्यते ०३१४८ समानत्वे अपि तस्य एव न ईक्षणं नेत्र-गोचरम् ०३१४८ प्रतिभास-द्वय-अभावाद् बुद्धेर् भेदश् च दुर्लभः ०३१४९ समवाय-अग्रहाद् अक्षैः सम्बन्ध-अदर्शनं स्थितम् ०३१४९ पटस् तन्तुष्व् इह इत्य् आदि-शब्दाश् च इमे स्वयं कृताः ०३१५० शृङ्गङ् गवि इति लोके स्याच् शृङ्गे गौर् इत्य् अलौकिकम् ०३१५० गव-आख्य-परिशिष्ट-अङ्ग-विच्छेद-अनुपलम्भनात् ०३१५१ तैस् तन्तुभिर् इयं शाटि इत्य् उत्तरं कार्यम् उच्यते ०३१५१ तन्तु-संस्कार-सम्भूतं न एक-कालं कथंचन ०३१५२ कारण-आरोपतः कश्चिद् एक-अपोधारतो अपि वा ०३१५२ तन्त्व्-आख्यां वर्तयेत् कार्ये दर्शयन् न आश्रयं श्रुतेः ०३१५३ उपकार्योपकारित्वं विच्छेदाद् दृष्टिर् एव वा ०३१५३ मुख्यं यद् अस्खलज् ज्ञानम् आदि-संकेत-गोचरः ०३१५४ अनुमानं च जात्य्-आदौ वस्तुनो न अस्ति भेदिनि ०३१५४ सर्वत्र व्यपदेशो हि दण्ड-आदेर् अपि सांवृतात् ०३१५५ वस्तु-प्रासाद-माला-आदि-शब्दाश् च अन्य-अनपेक्षिणः ०३१५५ गेहो यद्य् अपि संयोगस् तन् माला किं नु तद् भवेत् ०३१५६ जातिश् चेद् गेह एको अपि माला इत्य् उच्येत वृक्ष-वत् ०३१५६ माला-बहुत्वे तच् शब्दः कथं जातेर् अजातितः ०३१५७ माला-आदौ च महत्त्व-आदिर् इष्टो यश् च औपचारिकः ०३१५७ मुख्य-अविशिष्ट-विज्ञान-ग्राह्यत्वान् न औपचारिकः ०३१५८ अनन्यहेतुता तुल्या सा मुख्य-अभिमतेष्व् अपि ०३१५८ पदार्थ-शब्दः कं हेतुम् अन्यं षट्कं समीक्षते ०३१५९ यो यथा रूढितः सिद्धस् तत्-साम्य-आद्यस् तथा उच्यते ०३१५९ मुख्यो गौणश् च भावेष्व् अप्य् अभावस्य उपचारतः ०३१६० संकेत-अन्वयिनी रूढिर् वक्तुर् इच्छा अन्वयी च सः ०३१६० क्रियते व्यवहार-अर्थं छन्दः शब्द-अंश-नाम-वत् ०३१६१ वस्तु-धर्मतया एव अर्थास् तादृग् विज्ञान-कारणम् ०३१६१ भेदे अपि यत्र तज्-ज्ञानात् तत् तथा प्रतिपद्यते ०३१६२ ज्ञानान्य् अपि तथा भेदे अभेद-प्रत्यवमर्शने ०३१६२ इत्य् एतत् कार्य-विश्लेषस्य अन्वयो न एक-वस्तुनः ०३१६३ वस्तूनां विद्यते तस्मात् तन् निष्ठा वस्तुनि श्रुतिः ०३१६३ बाह्य-शक्ति-व्यवच्छेद-निष्ठा अभावे अपि तच्-श्रुतिः ०३१६४ विकल्प-प्रतिबिम्बेषु तन् निष्ठेषु निबध्यते ०३१६४ ततो अन्यापोह-निष्ठत्वाद् उक्ता अन्यापोह-कृच् श्रुतिः ०३१६५ व्यतिरेकी इव यज् ज्ञाने भात्य् अर्थ-प्रतिबिम्बकम् ०३१६५ शब्दात् तद् अपि न अर्थ-आत्मा भ्रान्तिः सा वासना-उद्भवा ०३१६६ तस्य अभिधाने श्रुतिभिर् अर्थे को अंशो अवगम्यते ०३१६६ तस्य अगतौ च संकेत-क्रिया व्यर्था तद् अर्थिका ०३१६७ शब्दो अर्थ-अंशकम् आह इति तत्र अन्यापोह उच्यते ०३१६७ आकारः स च न अर्थे अस्ति तम् वदन्न् अर्थ-भाक् कथम् ०३१६८ शब्दस्य अन्वयिनः कार्यम् अर्थेन अन्वयिना स च ०३१६८ अनन्वयी धियो अभेदाद् दर्शन-अभ्यास-निर्मितः ०३१६९ तद्-रूप-आरोप-गत्या अन्यव्यावृत्त-अधिगतेः पुनः ०३१६९ शब्द-अर्थो अर्थः स एव इति वचनेन विरुध्यते ०३१७० मिथ्या-अवभासिनो वा एते प्रत्ययाः शब्द-निर्मिताः ०३१७० अनुयान्ति इमम् अर्थ-अंशम् इति वा अपोह-कृच् श्रुतिः ०३१७१ तस्मात् संकेत-काले अपि निर्दिष्ट-अर्थेन संयुतः ०३१७१ स्व-प्रतीति-फलेन अन्यापोहः सम्बन्ध्यते श्रुतौ ०३१७२ अन्यत्र अदृष्ट्य्-अपेक्षत्वात् क्वचित् तद्-दृष्ट्य्-अपेक्षणात् ०३१७२ श्रुतौ सम्बध्यते अपोहो न एतद् वस्तुनि युज्यते ०३१७३ तस्माज् जात्य्-आदि-तद्-योगा न अर्थे तेषु च न श्रुतिः ०३१७३ संयोज्यते अन्यव्यावृत्तौ शब्दानाम् एव योजनात् ०३१७४ संकेत-स्मरण-उपायं दृष्ट-संकलन-आत्मकम् ०३१७४ पूर्व-अपर-परामर्श-शून्ये तच् चाक्षुषे कथम् ०३१७५ अन्यत्र गत-चित्तो अपि चक्षुषा रूपम् ईक्षते ०३१७५ तत् संकेत-अग्रहस् तत्र स्पष्टस् तज्जा च कल्पना ०३१७६ जायन्ते कल्पनास् तत्र यत्र शब्दो निवेशितः ०३१७६ तेन इच्छातः प्रवर्तेरन् न ईक्षेरन् बाह्यम् अक्षजाः ०३१७७ रूपं रूपम् इति ईक्षेत तद् धियं किम् इति ईक्षते ०३१७७ अस्ति च अनुभवस् तस्याः सो अविकल्पः कथं भवेत् ०३१७८ तस्य एव अनुभवे दृष्टं न विकल्प-द्वयं सकृत् ०३१७८ एतेन तुल्य-काल-अन्य-विज्ञान-अनुभवो गतः ०३१७९ स्मृतिर् भवेद् अतीते च सा अगृहीते कथं भवेत् ०३१७९ स्याच् च अन्य-धी-परिच्छेदा अभिन्न-रूपा स्व-बुद्धि-धीः ०३१८० अतीतम् अपदृष्टान्तम् अलिङ्गं च अर्थ-दर्शनम् ०३१८० सिद्धं तत् केन तस्मिन् हि न प्रत्यक्षं न लैङ्गिकम् ०३१८१ तत् स्वरूप-अवभासिन्या बुद्ध्या अनन्तरया यदि ०३१८१ रूप-आदिर् इव गृह्येत न स्यात् तत् पूर्व-धी-ग्रहः ०३१८२ सो अविकल्पः स्व-विषयो विज्ञान-अनुभवो यथा ०३१८२ अशक्य-समयं तद्वद् अन्यद् अप्य् अविकल्पकः ०३१८३ सामान्य-वाचिनः शब्दास् तद् एक-अर्था च कल्पना ०३१८३ अभावे निर्विकल्पस्य विशेष-अधिगमः कथम् ०३१८४ अस्ति चेन् निर्विकल्पं च किंचित् तत्-तुल्य-हेतुकम् ०३१८४ सर्वन् तथा एव हेतोर् हि भेदाद् भेदः फल-आत्मनाम् ०३१८५ अनपेक्षित-बाह्य-अर्थ-योजना समय-स्मृतेः ०३१८५ तथा अनपेक्ष्य समयं वस्तु-शक्त्या एव नेत्र-धीः ०३१८६ संकेत-स्मरण-अपेक्षं रूपं यद्य् अक्ष-चेतसि ०३१८६ अनपेक्ष्य न चेच् शक्यं स्यात् स्मृताव् एव लिङ्ग-वत् ०३१८७ तस्यास् तत्-संगम-उत्पत्तेर् अक्ष-धीः स्यात् स्मृतेर् न वा ०३१८७ ततः काल-अन्तरे अपि स्यात् क्वचिद् व्याक्षेप-सम्भवात् ०३१८८ क्रमेण उभय-हेतुश् चेत् प्राग् एव स्याद् अभेदतः ०३१८८ अन्यो अक्ष-बुद्धि-हेतुश् चेत् स्मृतिस् तत्र अप्य् अनर्थिका ०३१८९ यथा समित-सिद्ध्य्-अर्थम् इष्यते समय-स्मृतिः ०३१८९ भेदश् च असमितो ग्राह्यः स्मृतिस् तत्र किम् अर्थिका ०३१९० सामान्य-मात्र-ग्रहणे भेद-अपेक्षा न युज्यते ०३१९० तस्माच् चक्षुश् च रूपां च प्रतीत्य उदेति नेत्र-धीः ०३१९१ साक्षाच् चेत् ज्ञान-जनने समर्थो विषयो अक्ष-वत् ०३१९१ अथ कस्माद् द्वय-अधीन-जन्म तत् तेन न उच्यते ०३१९२ समीक्ष्य गमकत्वं हि व्यपदेशो न गृह्यते ०३१९२ तच् च अक्ष-व्यपदेशे अस्ति तद्-धर्मश् च नियोज्यताम् ०३१९३ ततो लिङ्ग-स्वभावो अत्र व्यपदेशे नियोज्यताम् ०३१९३ निवर्तते अव्यापकस्य स्वभावस्य निवृत्तितः ०३१९४ संचितः समुदायः सामान्यं तत्र च अक्ष-धीः ०३१९४ सामान्य-बुद्धिश् च अवश्यं विकल्पेन अनुबुध्यते ०३१९५ अर्थ-अन्तर-अभिसम्बन्धाज् जायन्ते ये अणवो अपरे ०३१९५ उक्तास् ते संचितास् ते हि निमित्तां ज्ञान-जन्मनः ०३१९६ अणूनां स विशेषश् च न अन्तरेण अपरान् अणून् ०३१९६ तद् एक-अनियमाज् ज्ञानम् उक्तं सामान्य-गोचरम् ०३१९७ अथ एक-आयतनत्वे अपि न अनेकं दृश्यते सकृत् ०३१९७ सकृद् ग्रह-अवभासः किं वियुक्तेषु तिल-आदिषु ०३१९८ प्रत्युक्तं लाघवं च अत्र तेष्व् एव क्रम-पातिषु ०३१९८ किम् न अक्रम-ग्रहस् तुल्य-कालाः सर्वाश् च बुद्धयः ०३१९९ काश्चित् तास्व् अक्रम-आभासाः क्रमवत्यो अपराश् च किम् ०३१९९ सर्व-अर्थ-ग्रहणे तस्माद् अक्रमो अयं प्रसज्यते ०३२०० न एकं चित्र-पतंग-आदि रूपं वा दृश्यते कथम् ०३२०० चित्रं तद् एकम् इति चेद् इदं चित्रतरं ततः ०३२०१ न एकं स्वभावं चित्रं हि मणि-रूपं यथा एव तत् ०३२०१ नील-आदि-प्रतिभासश् च तुल्यश् चित्र-पट-आदिषु ०३२०२ तत्र अवयव-रूपं चेत् केवलं दृश्यते तथा ०३२०२ नील-आदीनि निरस्य अन्यच् चित्रं चित्रं यद् ईक्षसे ०३२०३ तुल्य-अर्थ-आकार-कालत्वे न उपलक्षितयोर् धियोः ०३२०३ नाना-अर्था क्रमवत्या एका किम् एक-अर्था अक्रमा अपरा ०३२०४ वैश्वरूप्याद् धियाम् एव भावानां विश्वरूपता ०३२०४ तच् चेद् अनङ्गं केन इयं सिद्धा भेद-व्यवस्थितिः ०३२०५ विजातीनाम् अनारम्भान् न आलेख्य-आदौ विचित्र-धीः ०३२०५ अरूपत्वान् न संयोगश् चित्रो भक्तेश् च न आश्रयः ०३२०६ प्रत्येकम् अविचित्रत्वाद् गृहीतेषु क्रमेण च ०३२०६ न चित्र-धी-संकलनम् अनेकस्य एकया अग्रहात् ०३२०७ नाना-अर्था एका भवेत् तस्मात् सिद्धान्तो अप्य् अविकल्पिका ०३२०७ विकल्पयन्न् अप्य् एक-अर्थं यतो अन्यद् अपि पश्यति ०३२०८ चित्र-अवभासेष्व् अर्थेषु यद्य् एकत्वं न युज्यते ०३२०८ सा एव तावत् कथं बुद्धिर् एका चित्र-अवभासिनी ०३२०९ इदं वस्तु-बल-आयातं यद् वदन्ति विपश्चितः ०३२०९ यथा यथार्थाश् चिन्त्यन्ते विशीर्यन्ते तथा तथा ०३२१० किं स्यात् सा चित्रता एकस्यां न स्यात् तस्यां मताव् अपि ०३२१० यदि इदं स्वयम् अर्थानां रोचते तत्र के वयं ०३२११ तस्मान् न अर्थेषु न ज्ञाने स्थूल-भासस् तदात्मनः ०३२११ एकत्र प्रतिषिद्धत्वाद् बहुष्व् अपि न सम्भवः ०३२१२ परिच्छेदो अन्तर् अन्यो अयं भागो बहिर् इव स्थितः ०३२१२ ज्ञानस्य अभेदिनो भेद-प्रतिभासो ह्य् उपप्लवः ०३२१३ तत्र एकस्य अप्य् अभावेन द्वयम् अप्य् अवहीयते ०३२१३ तस्मात् तद् एव तस्य अपि तत्त्वं या द्वय-शून्यता ०३२१४ तद्-भेद-आश्रयिणी च इयं भावानां भेद-संस्थितिः ०३२१४ तद्-उपप्लव-भावे च तेषां भेदो अप्य् उपप्लवः ०३२१५ न ग्राह्य-ग्राहक-आकार-बाह्यम् अस्ति च लक्षणम् ०३२१५ अतो लक्षण-शून्यत्वान् निःस्वभावाः प्रकाशिताः ०३२१६ व्यापार-उपाधिकं सर्वं स्कन्ध-आदीनां विशेषतः ०३२१६ लक्षणं स च तत्त्वं न तेन अप्य् एते विलक्षणाः ०३२१७ यथा स्व-प्रत्यय-अपेक्षाद् अविद्या-उपप्लुत-आत्मनाम् ०३२१७ विज्ञप्तिर् वितथ-आकारा जायते तिमिर-आदि-वत् ०३२१८ असंविदित-तत्त्वा च सा सर्व-अपर-दर्शनैः ०३२१८ असम्भवाद् विना तेषां ग्राह्य-ग्राहक-विप्लवैः ०३२१९ तद्-उपेक्षित-तत्त्व-अर्थैः कृत्वा गज-निमीलनम् ०३२१९ केवलं लोक-बुद्ध्या एव बाह्य-चिन्ता प्रतन्यते ०३२२० नील-आदिश् चित्र-विज्ञाने ज्ञान-उपाधिर् अनन्यभाक् ०३२२० अशक्य-दर्शनस् तं हि पतत्य् अर्थे विवेचयन् ०३२२१ यद् यथा भासते ज्ञानं तत् तथा एव प्रकाशते ०३२२१ इति नाम एक-भावः स्याच् चित्र-आकारस्य चेतसि ०३२२२ पट-आदि-रूपस्य एकत्वे तथा स्याद् अविवेकिता ०३२२२ विवेकी न विवक्षा अन्यद् अविवेकी च न ईक्षते ०३२२३ को वा विरोधो बहवः संजात-अतिशयाः पृथक् ०३२२३ भवेयुः कारणं बुद्धेर् यदि न आत्म-इन्द्रिय-आदि-वत् ०३२२४ हेतु-भावाद् ऋते न अन्या ग्राह्यता नाम काचन ०३२२४ तत्र बुद्धिर् यद् आभासा तस्यास् तद्-ग्राह्यम् उच्यते ०३२२५ कथं वा अवयवी ग्राह्यः सकृत् स्व-अवयवैः सह ०३२२५ न हि गो-प्रत्ययो दृष्टः सास्ना-आदीनाम् अदर्शने ०३२२६ गुण-प्रधान-अधिगमः सह अप्य् अभिमतो यदि ०३२२६ सम्पूर्ण-अङ्गो न गृह्येत सकृन् न अपि गुण-आदिमान् ०३२२७ विवक्षा-परतन्त्रत्वाद् विशेषण-विशेष्ययोः ०३२२७ यद् अङ्ग-भावेन उपात्तन् तत् तेन एव हि गृह्यते ०३२२८ स्वतो वस्त्व्-अन्तर-अभेदाद् गुण-आदेर् भेदकस्य च ०३२२८ अग्रहाद् भेद-बुद्धिः स्यात् पश्यतो अप्य् अपरापरम् ०३२२९ गुण-आदि-भेद-ग्रहणान् नानात्व-प्रतिपद् यदि ०३२२९ अस्तु नाम तथा अप्य् एषां भवेत् सम्बन्धि-संकरः ०३२३० शब्द-आदीनाम् अनेकत्वात् सिद्धो अनेक-ग्रहः सकृत् ०३२३० संनिवेश-ग्रह-अयोगाद् अग्रहे संनिवेशिनाम् ०३२३१ सर्वतो विनिवृत्तस्य विनिवृत्तिर् यतो यतः ०३२३१ तद्-भेद-उन्नीत-भेदो असौ धर्मिणो अनेक-रूपता ०३२३२ ते कल्पिता रूप-भेदा निर्विकल्पस्य चेतसः ०३२३२ न विचित्रस्य चित्र-आभाः कादाचित्कस्य गोचरः ०३२३३ यद्य् अप्य् अस्ति सितत्व-आदिर् यादृग् इन्द्रिय-गोचरः ०३२३३ न सो अभिधीयते शब्दैर् ज्ञानयो रूप-भेदतः ०३२३४ एक-अर्थत्वे अपि बुद्धीनां नाना-आश्रयता स चेत् ०३२३४ श्रोतृ-आदि-चित्तानि इदानीं भिन्न-अर्थानि इति तत् कुतः ०३२३५ जातो नाम आश्रयो अन्योन्यः चेतसां तस्य वस्तुनः ०३२३५ एकस्य एव कुतो रूपं भिन्न-आकार-अवभासि तत् ०३२३६ वृत्तेर् दृश्य-अपरामर्शेन अभिधान-विकल्पयोः ०३२३६ दर्शनात् प्रत्यभिज्ञानं गव-आदीनां निवारितम् ०३२३७ अन्वयाच् च अनुमानं यद् अभिधान-विकल्पयोः ०३२३७ दृश्ये गव-आदौ जात्य्-आदेस् तद् अप्य् एतेन दूषितम् ०३२३८ दर्शनान्य् एव भिन्नान्य् अप्य् एकां कुर्वन्ति कल्पनाम् ०३२३८ प्रत्यभिज्ञान-संख्यातां स्वभावेन इति वर्णितम् ०३२३९ पूर्व-अनुभूत-ग्रहणे मानसस्य अप्रमाणता ०३२३९ अदृष्ट-ग्रहणे अन्ध-आदेर् अपि स्याद् अर्थ-दर्शनम् ०३२४० क्षणिकत्वाद् अतीतस्य दर्शने च न सम्भवः ०३२४० वाच्यम् अक्षणिकत्वे स्याल् लक्षणं स-विशेषणम् ०३२४१ निष्पादित-क्रिये कंचिद् विशेषम् असमादधत् ०३२४१ कर्मण्य् ऐन्द्रियम् अन्यद् वा साधनं किम् इति इष्यते ०३२४२ सकृद् भावश् च सर्वासां धियां तद्भाव-जन्मनाम् ०३२४२ अन्यैर् अकार्य-भेदस्य तद्-अपेक्ष-अविरोधतः ०३२४३ तस्माद् इन्द्रिय-विज्ञान-अनन्तर-प्रत्यय-उद्भवः ०३२४३ मनो अन्यम् एव गृह्णाति विषयं न अन्धदृक् ततः ०३२४४ स्वार्थ-अन्वय-अर्थ-अपेक्षा एव हेतुर् इन्द्रियजा मतिः ०३२४४ ततो अन्य-ग्रहणे अप्य् अस्य नियत-ग्राह्यता मता ०३२४५ तद् अतुल्य-क्रिया-कालः कथम् स्व-ज्ञान-कालिकः ०३२४५ सहकारि भवेद् अर्थ इति चेद् अक्ष-चेतसः ०३२४६ असतः प्राग् असामर्थ्यात् पश्चाच् च अनुपयोगतः ०३२४६ प्राग्भावः सर्व-हेतूनां न अतो अर्थः स्व-धिया सह ०३२४७ भिन्न-कालं कथं ग्राह्यम् इति चेद् ग्राह्यतां विदुः ०३२४७ हेतुत्वम् एव युक्तिज्ञा ज्ञान-आकार-अर्पण-क्षमम् ०३२४८ कार्यं ह्य् अनेक-हेतुत्वे अप्य् अनुकुर्वद् उदेति यत् ०३२४८ तत् तेन अर्पित-तद्-रूपं गृहीतम् इति च उच्यते ०३२४९ अशक्य-समयो ह्य् आत्मा राग-आदीनाम् अनन्यभाक् ०३२४९ तेषाम् अतः स्वसंवित्तिर् न अभिजल्प-अनुषङ्गिणी ०३२५० अवेदकाः परस्य अपि ते स्वरूपं कथं विदुः ०३२५० एक-अर्थ-आश्रयिणा वेद्या विज्ञानेन इति केचन ०३२५१ तद्-अतद्-रूपिणो भावास् तद्-अतद्-रूप-हेतुजाः ०३२५१ तत्-सुख-आदि किम् अज्ञानं विज्ञान-अभिन्न-हेतुजम् ०३२५२ सा अर्थे सति इन्द्रिये योग्ये यथास्वम् अपि चेतसि ०३२५२ दृष्टं जन्म सुख-आदीनां तत्-तुल्यं मनसाम् अपि ०३२५३ असत्सु सत्सु च एतेषु न जन्म-अजन्म वा क्वचित् ०३२५३ दृष्टं सुख-आदेर् बुद्धेर् वा त ततो न अन्यतश् च ते ०३२५४ सुख-दुःख-आदि-भेदश् च तेषाम् एव विशेषतः ०३२५४ तस्या एव यथा बुद्धेर् मान्द्य-पाटव-संश्रयाः ०३२५५ यस्य अर्थस्य निपातेन ते जाता धी-सुख-आदयः ०३२५५ तं मुक्त्वा प्रतिपद्येत सुख-आदीन् एव सा कथम् ०३२५६ अविच्छिन्ना न भासेत तत्-संवित्तिः क्रम-ग्रहे ०३२५६ तल्-लाघवाच् चेत् तत्-तुल्यम् इत्य् असंवेदनं न किम् ०३२५७ न च एकया द्वय-ज्ञानं नियमाद् अक्ष-चेतसः ०३२५७ सुख-आद्य्-अभावे अप्य् अर्थाच् च जातेः तच् शक्त्य्-असिद्धितः ०३२५८ पृथक् पृथक् च सामर्थ्ये द्वयोर् नील-आदि-वत् सुखम् ०३२५८ गृह्येत केवलं तस्य तद्-हेत्व्-अर्थम् अगृह्णतः ०३२५९ न हि संवेदनं युक्तम् अर्थेन एव सह-ग्रहे ०३२५९ किं सामर्थ्यं सुख-आदीनां न इष्टा धीर् यत् तद् उद्भवा ०३२६० विना अर्थेन सुख-आदीनां वेदने चक्षुर्-आदिभिः ०३२६० रूप-आदिः स्त्र्य्-आदि-भेदो अक्षणा न गृह्येत कदाचन ०३२६१ न हि सत्य् अन्तरङ्गे अर्थे शक्तेर् धीर् बाह्य-दर्शनी ०३२६१ अर्थ-ग्रहे सुख-आदीनां तज्-जानां स्याद् अवेदनम् ०३२६२ धियोर् युगपद् उत्पत्तौ तत्-तद्-विषय-सम्भवात् ०३२६२ सुख-दुःख-विदौ स्यातां सकृद् अर्थस्य सम्भवे ०३२६३ सत्य् आन्तरे अप्य् उपादाने ज्ञाने दुःख-आदि-सम्भवः ०३२६३ न उपादानं विरुद्धस्य तच् च एकम् इति चेन् मतम् ०३२६४ अविज्ञानस्य विज्ञानं केन उपादान-कारणम् ०३२६४ आधिपत्यं तु कुर्वीत तद्-विरुद्धे अपि दृश्यते ०३२६५ अक्ष्णोर् यथा एक आलोको नक्तंचर-तद्-अन्ययोः ०३२६५ रूप-दर्शन-वैगुण्य-अवैगुण्ये कुरुते सकृत् ०३२६६ तस्मात् सुख-आदयो अर्थानां स्व-संक्रान्त-अवभासिनाम् ०३२६६ वेदकाः स्वात्मनश् च एषाम् अर्थेभ्यो जन्म केवलम् ०३२६७ अर्थ-आत्मा स्वात्मभूतो हि तेषां तैर् अनुभूयते ०३२६७ तेन अर्थ-अनुभव-ख्यातिर् आलम्बस् तु तद्-आभता ०३२६८ कश्चिद् बहिः स्थितान् एव सुख-आदीन् अप्रचेतनान् ०३२६८ ग्राह्यान् आह न तस्य अपि सकृद् युक्तो द्वय-ग्रहः ०३२६९ सुख-आद्य्-अभिन्न-रूपत्वान् नील-आदेश् चेत् सकृद् ग्रहः ०३२६९ भिन्न-अवभासिनोर् ग्राह्यं चेतसोस् तद् अभेदि किम् ०३२७० तस्य अविशेषे बाह्यस्य भावना-तारतम्यतः ०३२७० तारतम्यं च बुद्धौ स्यान् न प्रीति-परितापयोः ०३२७१ सुख-आद्य्-आत्मतया बुद्धेर् अपि यद्य् अविरोधिता ०३२७१ स इदानीं कथं बाह्यः सुख-आद्य्-आत्मा इति गम्यते ०३२७२ अग्राह्य-ग्राहकत्वाच् चेद् भिन्न-जातीययोः ०३२७२ अग्राहकः स्यात् सर्वस्य ततो हीयेत भोक्तृता ०३२७३ कार्यकारणता अनेन प्रत्युक्त-अकार्यकारणे ०३२७३ ग्राह्यग्राहकता-अभावाद् भावे अन्यत्र अपि सा भवेत् ०३२७४ तस्मात् त आन्तरा एव संवेद्यत्वाच् च चेतनाः ०३२७४ संवेदनं न यद् रूपं न हि तत् तस्य वेदनम् ०३२७५ अतत्-स्वभावो अनुभवो बौद्धांस् तान् समवैति चेत् ०३२७५ मुक्त्वा अध्यक्ष-स्मृत-आकारां संवित्तिं बुद्धिर् अत्र का ०३२७६ तांस् तान् अर्थ-अनुपादाय सुख-दुःख-आदि-वेदनम् ०३२७६ एकम् आविर्भवद् दृष्टं न दृष्टं त्व् अन्यद् अन्तरा ०३२७७ संसर्गाद् अविभागश् चेद् अयो-गोलक-वह्नि-वत् ०३२७७ भेद-अभेद-व्यवस्था एवम् उच्छिन्ना सर्व-वस्तुषु ०३२७८ अभिन्न-वेदनस्य ऐक्ये यन् न एवं तद्-विभेद-वत् ०३२७८ सिध्येद् असाधनत्वे अस्य न सिद्धं भेद-साधनम् ०३२७९ भिन्न-आभः सित-दुःख-आदिर् अभिन्नो बुद्धि-वेदने ०३२७९ अभिन्न-आभे विभिन्ने चेद् भेद-अभेदौ किम् आश्रयौ ०३२८० तिरस्कृतानां पटुना अप्य् एकदा भेद-दर्शनात् ०३२८० प्रवाहे वित्ति-भेदानां सिद्धा भेद-व्यवस्थितिः ०३२८१ प्रागुक्तं योगिनां ज्ञानं तेषां तद् भावनाम् अयम् ०३२८१ विधूत-कल्पना-जालं स्पष्टम् एव अवभासते ०३२८२ काम-शोक-भय-उन्माद-चौर-स्वप्न-आद्य्-उपप्लुताः ०३२८२ अभूतान् अपि पश्यन्ति पुरतो अवस्थितान् इव ०३२८३ न विकल्प-अनुबद्धस्य स्पष्ट-अर्थ-प्रतिभासिता ०३२८३ स्वप्ने अपि स्मर्यते स्मार्तं च तत् तादृग् अर्थवत् ०३२८४ अशुभा पृथिवी कृत्स्न-आद्य्-अभूतम् अपि वर्ण्यते ०३२८४ स्पष्ट-आभं निर्विकल्पं च भावना-बल-निर्मितम् ०३२८५ तस्माद् भूतम् अभूतं वा यद् यद् एव अभिभाव्यते ०३२८५ भावना-परिनिष्पत्तौ तत् स्फुट-अकल्प-धी-फलम् ०३२८६ तत्र प्रमाणं संवादि यत् प्राङ् निर्णीत-वस्तु-वत् ०३२८६ तद्-भावनाजं प्रत्यक्षम् इष्टं शेषा उपप्लवाः ०३२८७ शब्द-अर्थ-ग्राहि यद् यत्र तज्-ज्ञानं तत्र कल्पना ०३२८७ स्वरूपं च न शब्द-अर्थस् तत्र अध्यक्षम् अतो अखिलम् ०३२८८ त्रिविधं कल्पना-ज्ञानम् आश्रय-उपप्लव-उद्भवम् ०३२८८ अविकल्पकम् एकं च प्रत्यक्ष-आभं चतुर्विधम् ०३२८९ अनक्षजत्व-सिद्ध्य्-अर्थम् उक्ते द्वे भ्रान्ति-दर्शनात् ०३२८९ सिद्ध-अनुमा-आदि-वचनं साधनाय एव पूर्वयोः ०३२९० संकेत-संश्रय-अन्य-अर्थ-समारोप-विकल्पने ०३२९० प्रत्यक्ष-असन् निवृत्तित्वात् कदाचिद् भ्रान्ति-कारणम् ०३२९१ यथा एव इयं परोक्ष-अर्थ-कल्पना स्मरण-आदिका ०३२९१ समय-अपेक्षिणी न अर्थं प्रत्यक्षं प्रत्यवस्यति ०३२९२ तथा अनुभूत-स्मरणम् अन्तरेण घट-आदिषु ०३२९२ न प्रत्ययो अनुयंस् तच् च प्रत्यक्षात् परिहीयते ०३२९३ अपवादश् चतुर्थो अत्र तेन उक्तम् उपघातजम् ०३२९३ केवलं तत्र तिमिरम् उपघात-उपलक्षणम् ०३२९४ मानसं तद् अपि इत्य् एके तेषां ग्रन्थो विरुध्यते ०३२९४ नील-द्वि-चन्द्र-आदि-धियां हेतुर् अक्षाण्य् अपि इत्य् अयम् ०३२९५ पारंपर्येण हेतुश् चेद् इन्द्रिय-ज्ञान-गोचरे ०३२९५ विचार्यमाणे प्रस्तावो मानसस्य इह कीदृशः ०३२९६ किं वा ऐन्द्रियं यद् अक्षाणां भाव-अभाव-अनुरोधि चेत् ०३२९६ तत्-तुल्यं विक्रिया-वच् चेत् सा इव इयं किं निषिध्यते ०३२९७ सर्प-आदि-भ्रान्ति-वच् च अस्याः स्याद् अक्ष-विकृताव् अपि ०३२९७ निवृत्तिर् न निवर्तेत निवृत्ते अप्य् अक्ष-विप्लवे ०३२९८ कदाचिद् अन्य-सन्ताने तथा एव अप्य् एत वाचकैः ०३२९८ दृष्ट-स्मृतिम् अपेक्षेत न भासेत परिस्फुटम् ०३२९९ सुप्तस्य जाग्रतो वा अपि या एव धीः स्फुट-भासिनी ०३२९९ सा निर्विकल्प-उभयथा अप्य् अन्यथा एव विकल्पिका ०३३०० तस्मात् तस्य अविकल्पे अपि प्रामाण्यं प्रतिषिध्यते ०३३०० विसंवादात् तद्-अर्थं च प्रत्यक्ष-आभं द्विधा उदितम् ०३३०१ क्रिया-साधनम् इत्य् एव सर्वं सर्वस्य कर्मणः ०३३०१ साधनं न हि तत् तस्याः साधनं या क्रिया यतः ०३३०२ तत्र अनुभव-मात्रेण ज्ञानस्य सदृश-आत्मनः ०३३०२ भाव्यं तेन आत्मना येन प्रतिकर्म विभज्यते ०३३०३ अनात्मभूतो भेदो अस्य विद्यमानो अपि हेतुषु ०३३०३ भिन्ने कर्मण्य् अभिन्नस्य न भेदेन नियामकः ०३३०४ तस्माद् यतो अस्य आत्म-भेदो अस्य अधिगतिर् इत्य् अयम् ०३३०४ क्रियायाः कर्म-नियमः सिद्धा सा तत्-प्रसाधना ०३३०५ अर्थेन घटयत्य् एनां न हि मुक्त्वा अर्थ-रूपताम् ०३३०५ अन्यः स्व-भेदाज् ज्ञानस्य भेदको अपि कथंचन ०३३०६ तस्मात् प्रमेय-अधिगतेः साधनं मेय-रूपता ०३३०६ साधने अन्यत्र तत्-कर्म-सम्बन्धो न प्रसिध्यति ०३३०७ सा च तस्य आत्मभूता एव तेन न अर्थ-अन्तरं फलम् ०३३०७ दधानं तच् च ताम् आत्मन्य् अर्थ-अधिगमन-आत्मना ०३३०८ सव्यापारम् इव आभाति व्यापारेण स्व-कर्मणि ०३३०८ तद्-वशात् तद्-व्यवस्थानाद् अकारकम् अपि स्वयम् ०३३०९ यथा फलस्य हेतूनां सदृश-आत्मतया उद्भवात् ०३३०९ हेतु-रूप-ग्रहो लोके क्रियावत्त्वे अपि कथ्यते ०३३१० आलोचना-अक्ष-सम्बन्ध-विशेषण-धियामतः ०३३१० न इष्टं प्रामाण्यम् एतेषां व्यवधानात् क्रियां प्रति ०३३११ सर्वेषाम् उपयोगे अपि कारकाणां क्रियां प्रति ०३३११ यद् अन्त्यं भेदकं तस्यास् तत्-साधकतमं मतम् ०३३१२ सर्व-सामान्य-हेतुत्वाद् अक्षाणाम् अस्ति न ईदृशम् ०३३१२ तद्-भेदे अपि ह्य् अभिन्नस्य तस्य इदम् इति तत् कुतः ०३३१३ एतेन शेषं व्याख्यातं विशेषण-धियां पुनः ०३३१३ अताद्रूप्ये न भेदो अपि तद्वद् अन्य-धियो अपि वा ०३३१४ न इष्टो विषय-भेदो अपि क्रिया-साधनयोर् द्वयोः ०३३१४ एक-अर्थत्वे द्वयं व्यर्थं न च स्यात् क्रम-भाविता ०३३१५ साध्यसाधनताभावः सकृद्-भावे धियो अंशयोः ०३३१५ तद्-व्यवस्था-आश्रयत्वेन साध्य-साधन-संस्थितिः ०३३१६ सर्व-आत्मना अपि सम्बद्धं कैश्चिद् एव अवगम्यते ०३३१६ धर्मैः स नियमो न स्यात् सम्बन्धस्य अविशेषतः ०३३१७ तद् अभेदे अपि भेदो अयं यस्मात् तस्य प्रमाणता ०३३१७ संस्काराच् चेद् अताद्रूप्ये न तस्य अप्य् अव्यवस्थितेः ०३३१८ क्रिया-करणयोर् ऐक्य-विरोध इति चेद् असत् ०३३१८ धर्म-भेद-अभ्युपगमाद् वस्त्व्-अभिन्नम् इति इष्यते ०३३१९ एवंप्रकारा सर्वा एव क्रिया-कारक-संस्थितिः ०३३१९ भावे ह्य् अभिन्न-अभिमतेष्व् अध्यारोपेण वृत्तितः ०३३२० का अर्थ संविद् यद् एव इदं प्रत्यक्षं प्रतिवेदनम् ०३३२० तद्-अर्थ-वेदनं केन ताद्रूप्याद् व्यभिचारि तत् ०३३२१ अथ सो अनुभवः क्व अस्य तद् एव इदं विचार्यते ०३३२१ सरूपवन्ति तत् केन स्थूल-आभासश् च ते अणवः ०३३२२ तन् न अर्थ-रूपता तस्य सत्य-अर्थ-अव्यभिचारिणी ०३३२२ तत् संवेदन-भावस्य न समर्था प्रसाधने ०३३२३ तत् सारूप्य-तदुत्पत्ती यदि संवेद्य-लक्षणम् ०३३२३ संवेद्यं स्यात् समान-अर्थं विज्ञानं समनन्तरम् ०३३२४ इदं दृष्टं श्रुतं वेदम् इति यत्र अवसाय-धीः ०३३२४ स तस्य अनुभवः सा एव प्रत्यासत्तिर् विचार्यते ०३३२५ दृश्य-दर्शनयोर् येन तस्य तत्-साधनं मतम् ०३३२५ तयोः सम्बन्धम् आश्रित्य द्रष्टुर् एष विनिश्चयः ०३३२६ आत्मा स तस्य अनुभवः स च न अन्यस्य कस्यचित् ०३३२६ प्रत्यक्ष-प्रतिवेद्यत्वम् अपि तस्य तदात्मता ०३३२७ न अन्यो अनुभाव्यस् तेन अस्ति तस्य न अनुभवो परः ०३३२७ तस्य अपि तुल्य-चोद्यत्वात् स्वयं सा एव प्रकाशते ०३३२८ नील-आदि-रूपस् तस्य असौ स्वभावो अनुभवश् च सः ०३३२८ नील-आद्य्-अनुभवः ख्यातः स्वरूप-अनुभवो अपि सन् ०३३२९ प्रकाशमानस् तादात्म्यात् स्वरूपस्य प्रकाशकः ०३३२९ यथा प्रकाशो अभिमतस् तथा धीर् आत्म-वेदिनी ०३३३० तस्याश् च अर्थ-अन्तरे वेद्ये दुर्घटौ वेद्य-वेदकौ ०३३३० अवेद्य-वेदक-आकारा यथा भ्रान्तैर् निरीक्ष्यते ०३३३१ विभक्त-लक्षण-ग्राह्य-ग्राहक-आकार-विप्लवा ०३३३१ तथा अकृत-व्यवस्था इयं केश-आदि-ज्ञान-भेद-वत् ०३३३२ यदा तदा न संचोद्य-ग्राह्य-ग्राहक-लक्षणा ०३३३२ तदा अन्य-संविदो अभावात् स्वसंवित् फलम् इष्यते ०३३३३ यदि बाह्यो अनुभूयेत को दोषो न एव कश्चन ०३३३३ इदम् एव किम् उक्तं स्यात् स बाह्यो अर्थो अनुभूयेत ०३३३४ यदि बुद्धिस् तद्-आकारा सा अस्त्य् आकार-निवेशिनी ०३३३४ सा बाह्याद् अन्यतो वा इति विचारम् इदम् अर्हति ०३३३५ दर्शन-उपाधि-रहितस्य अग्रहात् तद्-ग्रहे ग्रहात् ०३३३५ दर्शनं नील-निर्भासं न अर्थो बाह्यो अस्ति केवलः ०३३३६ कस्यचित् किंचिद् एव अन्तर्वासनायाः प्रबोधकम् ०३३३६ ततो धियां विनियमो न बाह्य-अर्थ-व्यपेक्षया ०३३३७ तस्माद् द्वि-रूपम् अस्त्य् एकं यद् एवम् अनुभूयते ०३३३७ स्मर्यते च उभय-आकारस्य अस्य संवेदनं फलम् ०३३३८ यदा निष्पन्न-तद्भाव इष्टो अनिष्टो अपि वा परः ०३३३८ विज्ञप्ति-हेतुर् विषयस् तस्याश् च अनुभवस् तथा ०३३३९ यदा सविषयं ज्ञानं ज्ञान-अंशे अर्थ-व्यवस्थितेः ०३३३९ तदा य आत्म-अनुभवः स एव अर्थ-विनिश्चयः ०३३४० यदि इष्ट-आकार आत्मा स्याद् अन्यथा वा अनुभूयते ०३३४० इष्टो अनिष्टो अपि वा तेन भवत्य् अर्थः प्रवेदितः ०३३४१ विद्यमाने अपि बाह्य-अर्थे यथानुभवम् एव सः ०३३४१ निश्चित-आत्मा स्वरूपेण न अनेक-आत्मत्व-दोषतः ०३३४२ यदि बाह्यं न विद्येत कस्य संवेदनं भवेत् ०३३४२ यद्य् अगत्या स्वरूपस्य बाह्यस्य एव न किं मतम् ०३३४३ अभ्युपाये अपि भेदेन न स्याद् अनुभवो द्वयोः ०३३४३ अदृष्ट-आवरणान् नो चेन् न नाम-अर्थ-वशा गतिः ०३३४४ तम् अनेक-आत्मकं भावम् एक-आत्मत्वेन दर्शयेत् ०३३४४ तद् अदृष्टं कथं नाम भवेद् अर्थस्य वेदकम् ०३३४५ इष्ट-अनिष्ट-अवभासिन्यः कल्पना न अक्ष-धीर् यदि ०३३४५ अनिष्ट-आदाव् असन्धानं दृष्टं तत्र अपि चेतसाम् ०३३४६ तस्मात् प्रमेये बाह्ये अपि युक्तं स्व-अनुभवः फलम् ०३३४६ यतः स्वभावो अस्य यथा तथा एव अर्थ-विनिश्चयः ०३३४७ तदा अर्थ-आभासता एव अस्य प्रमाणं न तु सन्न् अपि ०३३४७ ग्राहक-आत्मा अपरार्थत्वाद् बाह्येष्व् अर्थेष्व् अपेक्ष्यते ०३३४८ यस्माद् यथा निविष्टो असाव् अर्थ-आत्मा प्रत्यये तथा ०३३४८ निश्चीयते निविष्टो असाव् एवम् इत्य् आत्म-संविदः ०३३४९ इत्य् अर्थ-संवित् सा एव इष्टा यतो अर्थ-आत्मा न दृश्यते ०३३४९ तस्या बुद्धि-निवेश्य-अर्थः साधनं तस्य सा क्रिया ०३३५० यथा निविशते सो अर्थः तथा हि स प्रकाशते ०३३५० अर्थ-स्थितेस् तदात्मत्वात् स्वविद् अप्य् अर्थविन् मता ०३३५१ तस्माद् विषय-भेदो अपि न स्वसंवेदनं फलम् ०३३५१ उक्तं स्वभाव-चिन्तायां तादात्म्याद् अर्थ-संविदः ०३३५२ तथा अवभासमानस्य तादृशो अन्य-अदृशो अपि वा ०३३५२ ज्ञानस्य हेतुर् अर्थो अपि इत्य् अर्थस्य इष्टा प्रमेयता ०३३५३ यथा कथंचिन् न अस्य अर्थ-रूपं युक्त्या अवभासिनः ०३३५४ अविभागो अपि बुद्ध्य्-आत्म-विपर्यासित-दर्शनैः ०३३५४ ग्राह्य-ग्राहक-संवित्ति-भेदवान् इव लक्ष्यते ०३३५५ मन्त्र-आद्य्-उपप्लुत-अक्षाणां यथा मृच्छकल-आदयः ०३३५५ अन्यथा एव अवभासन्ते तद्-रूप-रहिता अपि ०३३५६ तथा एव अदर्शनात् तेषाम् अनुपप्लुत-चक्षुषाम् ०३३५६ दूरे यथा वा मरुषु महान् अल्पो अपि दृश्यते ०३३५७ यथा अनुदर्शनं च इयं मेय-मान-फल-स्थितिः ०३३५७ क्रियते अविद्यमाना अपि ग्राह्य-ग्राहक-संविदाम् ०३३५८ अन्यथा एकस्य भावस्य नाना-रूप-अवभासिनः ०३३५८ सत्यं कथं स्युर् आकारास् तद् एकत्वस्य हानितः ०३३५९ अन्यस्य अन्यत्व-हानेश् च न अभेदो अरूप-दर्शनात् ०३३५९ रूप-अभेदं हि पश्यन्ती धीर् अभेदं व्यवस्यति ०३३६० भावा येन निरूप्यन्ते तद्-रूपं न अस्ति तत्त्वतः ०३३६० यस्माद् एकम् अनेकं वा रूपं तेषां न विद्यते ०३३६१ साधर्म्य-दर्शनाल् लोके भ्रान्तिर्न् नाम उपजायते ०३३६१ अतदात्मनि तादात्म्य-व्यवसायेन न इह तत् ०३३६२ अदर्शनाज् जगत् यस्मिन्न् एकस्य अपि तदात्मनः ०३३६२ अस्ति इयम् अपि या त्व् अन्तर् उपप्लव-समुद्भवा ०३३६३ दोष-उद्भवा प्रकृत्या सा वितथ-प्रतिभासिनी ०३३६३ अनपेक्षित-साधर्म्य-दृग्-आदिस् तैमिर-आदि-वत् ०३३६४ तत्र बुद्धेः परिच्छेदो ग्राहक-आकार-सम्मतः ०३३६४ तादात्म्याद् आत्मवित् तस्य स तस्या साधनं ततः ०३३६५ तत्र आत्म-विषये माने यथा राग-आदि-वेदनम् ०३३६५ इयं सर्वत्र संयोज्या मान-मेय-फल-स्थितिः ०३३६६ तत्र अप्य् अनुभव-आत्मत्वात् ते योग्याः स्वात्मसंविदि ०३३६६ इति सा योग्यता मानम् आत्मा मेयः फलं स्ववित् ०३३६७ ग्राहक-आकार-संख्याता परिच्छेद-आत्मता आत्मनि ०३३६७ सा योग्यता इति च प्रोक्तं प्रमाणं स्वात्मवेदनम् ०३३६८ सर्वम् एव हि विज्ञानं विषयेभ्यः समुद्भवत् ०३३६८ तद्-अन्यस्य अपि हेतुत्वे कथं स्याद् विषय-आकृतिः ०३३६९ यथा एव आहार-काल-आदेर् हेतुत्वे अपत्य-जन्मनि ०३३६९ पित्रोस् तद् एकस्य आकारं धत्ते न अन्यस्य कस्यचित् ०३३७० तद्-हेतुत्वेन तुल्ये अपि तद्-अन्य-विषयं मतम् ०३३७० विषयत्वं तद्-अङ्गेन तद्-अभावे न तद् भवेत् ०३३७१ अनर्थ-आकार-शङ्का स्याद् अप्य् अर्थवति चेतसि ०३३७१ अतीत-अर्थ-ग्रहे सिद्धे द्विरूपत्व-आत्म-वेदने ०३३७२ नील-आद्य्-आभास-भेदित्वान् न अर्थो जातिर् अतद्वती ०३३७२ सा वा अनित्या न जातिः स्यान् नित्या वा जनिका कथम् ०३३७३ नाम-आदिकं निषिद्धं प्राङ् न अयम् अर्थवतां क्रमः ०३३७३ इच्छा-मात्र-अनुबन्धित्वाद् अर्थ-शक्तिर्न् न सिध्यति ०३३७४ स्मृतिश् च ईदृग्विधं ज्ञानं तस्याश् च अनुभवाद् भवः ०३३७४ स च अर्थ-आकार-रहितः सा इदानीं तद्वती कथम् ०३३७५ न अर्थाद् भावस् तदा अभावात् स्यात् तथा अनुभवे अपि सः ०३३७५ आकारः स च न अर्थस्य स्पष्ट-आकार-विवेकतः ०३३७६ व्यतिरिक्तं तम् आकारं प्रतीयाद् अपरस् तथा ०३३७६ नित्यम् आत्मनि सम्बन्धे प्रतीयात् कथितं च न ०३३७७ एका एकेन अभिसम्बन्धे प्रतिसन्धिर् न युज्यते ०३३७७ एक-अर्थ-अभिनिवेश-आत्मा प्रवक्तृ-श्रोतृ-चेतसोः ०३३७८ तद् एक-व्यवहारश् चेत् सादृश्याद् अतदाभयोः ०३३७८ भिन्न-आत्म-अर्थः कथं ग्राह्यस् तदा स्याद् धीर् अनर्थिका ०३३७९ तच् च अनुभव-विज्ञानम् उभय-अङ्ग-अवलम्बिना ०३३७९ एक-आकार-विशेषेण तज्-ज्ञानेन अनुबध्यते ०३३८० अन्यथा ह्य् अतद्-आकारं कथं ज्ञाने अधिरोहति ०३३८० एक-आकार-उत्तरं ज्ञानं तथा ह्य् उत्तरम् उत्तरम् ०३३८१ तस्य अर्थ-रूपेण आकाराव् आत्म-आकारश् च कश्चन ०३३८१ द्वितीयस्य तृतीयेन ज्ञानेन हि विविच्यते ०३३८२ अर्थ-कार्यतया ज्ञान-स्मृताव् अर्थ-स्मृतेर् यदि ०३३८२ भ्रान्त्या सङ्कलनं ज्योतिर् मनस्कारे च सा भवेत् ०३३८३ सर्वेषाम् अपि कार्याणां कारणैः स्यात् तथा ग्रहः ०३३८३ कुलाल-आदि-विवेकेन न स्मर्येत घटस् ततः ०३३८४ यस्माद् अतिशयाज् ज्ञानम् अर्थ-संसर्ग-भाजनम् ०३३८४ सारूप्यात् तत् किम् अन्यत् स्याद् दृष्टेश् च यमल-आदिषु ०३३८५ आद्या अनुभय-रूपत्वे ह्य् एक-रूपे व्यवस्थितम् ०३३८५ द्वितीयं व्यतिरिच्येत न परामर्श-चेतसा ०३३८६ अर्थ-संकलन-अश्लेषा धीर् द्वितीय-अवलम्बते ०३३८६ नील-आदि-रूपेण धियं भासमानां पुरस् ततः ०३३८७ अन्यथा ह्य् आद्यम् एव एकं संयोज्येत अर्थ-सम्भवात् ०३३८७ ज्ञानं न अदृष्ट-सम्बन्धं पूर्व-अर्थेन उत्तरोत्तरम् ०३३८८ सकृत्-संवेद्यमानस्य नियमेन धिया सह ०३३८८ विषयस्य ततो अन्यत्वं केन आकारेण सिध्यति ०३३८९ भेदश् च भ्रान्ति-विज्ञानैर् दृश्येत इन्दाव् इव अद्वये ०३३८९ संवित्ति-नियमो न अस्ति भिन्नयोर् नील-पीतयोः ०३३९० न अर्थो असंवेदनः कश्चिद् अनर्थस्य अपि वेदनम् ०३३९० दृष्टं संवेद्यमानं तत् तयोर् न अस्ति विवेकिता ०३३९१ तस्माद् अर्थस्य दुर्वारं ज्ञान-काल-अवभासिनः ०३३९१ ज्ञानाद् अव्यतिरेकित्वं हेतु-भेद-अनुमा भवेत् ०३३९२ अभावाद् अक्ष-बुद्धीनां सत्स्व् अप्य् अन्येषु हेतुषु ०३३९२ नियमं यदि न ब्रूयात् प्रत्ययात् समनन्तरात् ०३३९३ बीजाद् अङ्कुर-जन्म-अग्नेर् धूमात् सिद्धिर् अतीदृशी ०३३९३ बाह्य-अर्थ-आश्रयिणी या अपि कारक-ज्ञापक-स्थितिः ०३३९४ सा अपि तद्-रूप-निर्भासास् तथा नियत-संगमाः ०३३९४ बुद्धिर् आश्रित्य कल्प्येत यदि किं वा विरुध्यते ०३३९५ अनग्नि-जन्यो धूमः स्यात् तत्-कार्यात् कारणे अगतिः ०३३९५ न स्यात् कारणतायां वा कुत एकान्ततो गतिः ०३३९६ तत्र अपि धूम-आभासा धीः प्रबोध-पटु-वासनाम् ०३३९६ गमयेद् अग्नि-निर्भासां धियम् एव न पावकम् ०३३९७ तद्-योग्य-वासना-गर्भ एव धूम-अवभासिनीम् ०३३९७ व्यनक्ति चित्त-सन्तानो धियं धूमो अग्नितस् ततः ०३३९८ अस्त्य् एष विदुषां वादो बाह्यं त्व् आश्रित्य वर्ण्यते ०३३९८ द्वैरूप्यं सह-संवित्ति-नियमात् तच् च सिध्यते ०३३९९ ज्ञानम् इन्द्रिय-भेदेन पटु-मन्द-आविल-आदिकाम् ०३३९९ प्रतिभास-भिदाम् अर्थे बिभ्रद् एकत्र दृश्यते ०३४०० अर्थस्य अभिन्न-रूपत्वाद् एक-रूपं भवेन् मनः ०३४०० सर्वं तद्-अर्थम् अर्थाच् चेत् तस्य न अस्ति तद्-आभता ०३४०१ अर्थ-आश्रयेण उद्भवतस् तद्-रूपम् अनुक्रुवतः ०३४०१ तस्य केनचिद् अंशेन परतो अपि भिदा भवेत् ०३४०२ तथा ह्य् आश्रित्य पितरं तद्-रूपो अपि सुतः पितुः ०३४०२ भेदं केनचिद् अंशेन कुतश्चिद् अवलम्बते ०३४०३ मयूर-चन्द्रक-आकारं नील-लोहित-भास्वरम् ०३४०३ सम्पश्यन्ति प्रदीप-आदेर् मण्डलं मन्द-चक्षुषः ०३४०४ तस्य तद्-बाह्य-रूपत्वे का प्रसन्न-ईक्षणे अक्षमा ०३४०४ भूतं पश्यंश् च तद्-दर्शी कथं च उपहत-इन्द्रियः ०३४०५ शोधितं तिमिरेण अस्य व्यक्तं चक्षुर् अतीन्द्रियम् ०३४०५ पश्यतो अन्य-अक्ष-दृश्ये अर्थे तद्-अव्यक्तं कथं पुनः ०३४०६ आलोक-अक्ष-मनस्काराद् अन्यस्य एकस्य गम्यते ०३४०६ शक्तिर् हेतुस् ततो न अन्यो अहेतुश् च विषयः कथम् ०३४०७ स एव यदि धी-हेतुः किं प्रदीपम् अपेक्षते ०३४०७ दीप-मात्रेण सद्भावाद् उभयं न अपि कारणम् ०३४०८ दूर-आसन्न-आदि-भेदेन व्यक्त-अव्यक्तं न युज्यते ०३४०८ तत् स्याद् आलोक-भेदाच् चेत् तत् पिधान-अपिधानयोः ०३४०९ तुल्या दृष्टिर् अदृष्टिर् वा सूक्ष्मो अंशस् तस्य कश्चन ०३४०९ आलोकेन न मन्देन दृश्यते अतो भिदा यदि ०३४१० एकत्वे अर्थस्य बाह्यस्य दृश्य-अदृश्य-भिदा कुतः ०३४१० अनेकत्वे अणुशो भिन्नो दृश्य-अदृश्य-भिदा कुतः ०३४११ मान्द्य-पाटाव् अभेदेन भासो बुद्धि-भिदा यदि ०३४११ भिन्ने अन्यस्मिन्न् अभिन्नस्य कुतो भेदेन भासनम् ०३४१२ मन्दं तद् अपि तेजः किम् आवृत्तेर् इह सा न किम् ०३४१२ तनुत्वात् तेजसो अप्य् एतद् अस्त्य् अन्यत्र अप्य् अतानवम् ०३४१३ अत्यासन्ने च सुव्यक्तं तेजस् तत् स्याद् अतिस्फुटम् ०३४१३ तत्र अप्य् अदृष्टम् आश्रित्य भवेद् रूप-अन्तरं यदि ०३४१४ अन्योन्य-आवरणात् तेषां स्यात् तेजो विहतिस् ततः ०३४१४ तत्र एकम् एव दृश्येत तस्य अनावरणे सकृत् ०३४१५ पश्येत् स्फुट-अस्फुटं रूपम् एको अदृष्टेन वारणे ०३४१५ अर्थ-अनर्थौ न येन स्तस् तद्-अदृष्टं करोति किम् ०३४१६ तस्मात् संविद् यथाहेतु जायमान-अर्थ-संश्रयात् ०३४१६ प्रतिभास-भिदां धत्ते शेषाः कुमति-दुर्नयाः ०३४१७ ज्ञान-शब्द-प्रदीपानां प्रत्यक्षस्य इतरस्य वा ०३४१७ जनकत्वेन पूर्वेषां क्षणिकानां विनाशतः ०३४१८ व्यक्तिः कुतो असतां ज्ञानाद् अन्यस्य अनुपकारिणः ०३४१८ व्यक्तौ व्यज्येत सर्वो अर्थस् तद्-हेतोर् नियमो यदि ०३४१९ न एषा अपि कल्पना ज्ञाने ज्ञानं त्व् अर्थ-अवभासतः ०३४१९ तं व्यनक्ति इति कथ्येत तद्-अभावे अपि तत्-कृतम् ०३४२० न आकारयति च अन्यो अर्थो अनुपकारात् सह-उदितः ०३४२० व्यक्तो न आकारयन् ज्ञानं स्व-आकारेण कथं भवेत् ०३४२१ वज्र-उपल-आदिर् अप्य् अर्थः स्थिरः सो अन्य-अनपेक्षणात् ०३४२१ सकृत् सर्वस्य जनयेज् ज्ञानानि जगतः समम् ०३४२२ क्रमाद् भवन्ति तान्य् अस्य सहकार्य्-उपकारतः ०३४२२ आहुः प्रतिक्षणं भेदं स दोषो अत्र अपि पूर्ववत् ०३४२३ संवेदनस्य तादात्म्ये न विवादो अस्ति कस्यचित् ०३४२३ तस्य अर्थ-रूपता सिद्धा सा अपि सिध्यति संस्मृतेः ०३४२४ भेदेन अननुभूतेस् भिन्न-विभक्ते स्व-गोचरैः ०३४२४ एवम् एतन् न खल्व् एवम् इति सा स्यान् न भेदिनी ०३४२५ न च अनुभव-मात्रेण कश्चिद् भेदो विवेचकः ०३४२५ विवेकिनी न च अस्पष्ट-भेदे धीर् यमल-आदि-वत् ०३४२६ द्वैरूप्य-साधनेन अपि प्रायः सिद्धं स्ववेदनम् ०३४२६ स्वरूपभूत-आभासस्य तदा संवेदन-ईक्षणात् ०३४२७ धिया अतद्रूपया ज्ञाने निरुद्धे अनुभवः कुतः ०३४२७ स्वं च रूपं न सा वेत्ति इत्य् उत्सन्नो अनुभवो अर्थिनः ०३४२८ बहिर् मुखं च तज्-ज्ञानं भात्य् अर्थ-प्रतिभास-वत् ०३४२८ बुद्धेश् च ग्राहिका बुद्धिर् नित्यम् अन्तर्मुखा-आत्मनि ०३४२९ यो यस्य विषय-आभासस् तं वेत्ति न तद् इत्य् अपि ०३४२९ प्राप्ता का संविद् अन्या अस्ति ताद्रूप्याद् इति चेन् मतम् ०३४३० प्राप्तं संवेदनं सर्व-सदृशानां परस्परम् ०३४३० बुद्धिः सरूपा तद्-विच् चेत् न इदानीं वित्-सरूपिका ०३४३१ स्वयं सो अनुभवस् तस्या न स सारूप्य-कारणः ०३४३१ क्रिया-कर्म-व्यवस्थायास् तल्-लोके स्यान् निबन्धनम् ०३४३२ स्वभावभूत-तद्-रूप-संविद् आरोप-विप्लवात् ०३४३२ नील-आदेर् अनुभूत-आख्या न अनुभूतेः पर-आत्मनोः ०३४३३ धियो नील-आदि-रूपत्वे बाह्यो अर्थः किं प्रमाणकः ०३४३३ धियो अनील-आदि-रूपत्वे स तस्य अनुभवः कथम् ०३४३४ यदा संवेदन-आत्मत्वं न सारूप्य-निबन्धनम् ०३४३४ सिद्धं तत् स्वत एव अस्य किम् अर्थेन उपनीयते ०३४३५ सर्वात्मना हि सारूप्ये ज्ञानम् अज्ञानतां व्रजेत् ०३४३५ साम्ये केनचिद् अङ्गेन स्यात् सर्वं सर्व-वेदनम् ०३४३६ यथा नील-आदि-रूपत्वान् नील-आद्य्-अनुभवो मतः ०३४३६ तथा अनुभव-रूपत्वात् तस्य अप्य् अनुभवो भवेत् ०३४३७ न अनुभूतो अनुभव इत्य् अर्थ-वत् तद्-विनिश्चयः ०३४३७ तस्माद् अदोष इति चेत् न अर्थे अप्य् अस्त्य् एष सर्वदा ०३४३८ कस्माद् वा अनुभवे न अस्ति सति सत्ता-निबन्धने ०३४३८ अपि च इदं यद् आभाति दृश्यमाने सित-आदिके ०३४३९ पुंसां सित-आद्य्-अभिव्यक्ति-रूपं संवेदनं स्फुटम् ०३४३९ तत् किं सित-आद्य्-अभिव्यक्तेः पररूपम् अथ आत्मनः ०३४४० पररूपे अप्रकाशायां व्यक्तौ व्यक्तं कथं सितम् ०३४४० ज्ञानं व्यक्तिर् न सा व्यक्ता इत्य् अव्यक्तम् अखिलं जगत् ०३४४१ व्यक्तेर् व्यक्त्य्-अन्तर-व्यक्ताव् अपि दोष-प्रसङ्गतः ०३४४१ दृष्ट्या च अज्ञात-सम्बन्धं विशिनष्टि तया कथम् ०३४४२ यस्माद् द्वयोर् एक-गतौ न द्वितीयस्य दर्शनम् ०३४४२ द्वयोः संसृष्टयोर् दृष्टौ स्याद् दृष्टम् इति निश्चयः ०३४४३ सरूपं दर्शनं यस्य दृश्यते अन्येन चेतसा ०३४४३ दृष्ट-आख्या तत्र चेत् सिद्धं सारूप्ये अस्य स्ववेदनम् ०३४४४ अथ आत्म-रूपन् नो वेत्ति पररूपस्य वित् कथम् ०३४४४ सारूप्याद् वेदना-आख्या च प्राग् एव प्रतिपादिता ०३४४५ दृष्टयोर् एव सारूप्य-ग्रहो अर्थं च न दृष्टवान् ०३४४५ प्राक् कथं दर्शनेन अस्य सारूप्यं सो अध्यवस्यति ०३४४६ सारूप्यम् अपि न इच्छेद् यः तस्य न उभय-दर्शनम् ०३४४६ तदा अर्थो ज्ञानम् इति च ज्ञाते च इति गता कथा ०३४४७ अथ स्वरूपं सा तर्हि स्वयम् एव प्रकाशते ०३४४७ यत् तस्याम् अप्रकाशायाम् अर्थः स्याद् अप्रकाशितः ०३४४८ एतेन अनात्मवित् पक्षे सर्व-अर्थ-अदर्शनेन ये ०३४४८ अप्रत्यक्षां धियं प्राहुस् ते अपि निर्वर्णित-उत्तराः ०३४४९ आश्रय-आलम्बन-अभ्यास-भेदाद् भिन्न-प्रवृत्तयः ०३४४९ सुख-दुःख-अभिलाष-आदि-भेदा बुद्धय एव ताः ०३४५० प्रत्यक्षास् तद्-विविक्तं च न अन्यत् किंचिद् विभाव्यते ०३४५० यत् तज्-ज्ञानम् परो अप्य् एनां भुञ्जीत अन्येन विद् यदि ०३४५१ तज्जा तत् प्रतिभासा वा यदि धीर् वेत्ति न अपरा ०३४५१ आलम्बमानस्य अन्यस्य अप्य् अस्त्य् अवश्यम् इदं द्वयम् ०३४५२ अथ न उत्पद्यते तस्मान् न च तत् प्रतिभासिनी ०३४५२ सा धीर्न् निर्विषया प्राप्ता सामान्यं च तद्-अग्रहे ०३४५३ न गृह्यत इति प्रोक्तं न च तद्-वस्तु किंचन ०३४५३ तस्माद् अर्थ-अवभासो असौ न अन्यस् तस्या धियस् ततः ०३४५४ सिद्धे प्रत्यक्ष-भाव-आत्मविदौ गृह्णाति तत् पुनः ०३४५४ न अध्यक्षम् इति चेद् एष कुतो भेदः समर्थयोः ०३४५५ अदृष्ट-एक-अर्थ-योग-आदेः संविदो नियमो यदि ०३४५५ सर्वथा अन्यो न गृह्णीयात् संविद् भेदो अप्य् अपोदितः ०३४५६ येषां च योगिनो अन्यस्य प्रत्यक्षेण सुख-आदिकम् ०३४५६ विदन्ति तुल्य-अनुभवास् तद्वत् ते अपि स्युर् आतुराः ०३४५७ विषय-इन्द्रिय-सम्पात-अभावात् तेषां तद्-उद्भवम् ०३४५७ न उदेति दुःखम् इति चेत् न वै दुःख-समुद्भवः ०३४५८ दुःख-असंवेदनं किं तु दुःख-ज्ञान-समुद्भवः ०३४५८ न हि दुःख-आद्य्-असंवेद्यं पीडा-अनुग्रह-कारणम् ०३४५९ भासमानं स्वरूपेण पीडा दुःखं स्वयं यदा ०३४५९ न तद्-आलम्बनं ज्ञानं न तदा एवं प्रयुज्यते ०३४६० भिन्ने ज्ञानस्य सर्वस्य तेन आलम्बन-वेदने ०३४६० अर्थ-सारूप्यम् आलम्ब आत्मा वित्तिः स्वयं स्फुटः ०३४६१ अपि च अध्यक्षता अभावे धियः स्याल् लिङ्गतो गतिः ०३४६१ तच् च अक्षम् अर्थो धीः पूर्वो मनस्कारो अपि वा भवेत् ०३४६२ कार्य-कारण-सामग्र्याम् अस्यां सम्बन्धिना अपरम् ०३४६२ सामर्थ्य-अदर्शनात् तत्र न इन्द्रियं व्यभिचारतः ०३४६३ तथा अर्थो धी-मनस्कारौ ज्ञानं तौ च न सिध्यतः ०३४६३ न अप्रसिद्धस्य लिङ्गत्वं व्यक्तिर् अर्थस्य चेन् मता ०३४६४ लिङ्गं सा एव ननु ज्ञानं व्यक्तो अर्थो अनेन वर्णितः ०३४६४ व्यक्ताव् अननुभूतायां तद्-व्यक्तत्व-अविनिश्चयात् ०३४६५ अथ अर्थस्य एव कश्चित् स विशेषो व्यक्तिर् इष्यते ०३४६५ न अनुत्पाद-व्ययवतो विशेषो अर्थस्य कश्चन ०३४६६ तद् इष्टौ वा प्रतिज्ञानं क्षणभङ्गः प्रसज्यते ०३४६६ स च ज्ञातो अथवा अज्ञातो भवेज् ज्ञातस्य लिङ्गता ०३४६७ यदि ज्ञाते अपरिच्छिन्ने ज्ञातो असाव् इति तत् कुतः ०३४६७ ज्ञातत्वेन अपरिच्छिन्नम् अपि तद् गमकं कथम् ०३४६८ अदृष्ट-दृष्टयो अन्येन द्रष्टा दृष्टा न हि क्वचित् ०३४६८ विशेषः सो अन्य-दृष्टाव् अप्य् अस्ति इति स्यात् स्व-धी-गतिः ०३४६९ तस्माद् अनुमितिर् बुद्धेः स्व-धर्म-निरपेक्षिणः ०३४६९ केवलान् न अर्थ-धर्मात् कः स्व-धर्मः स्व-धियो परः ०३४७० यः प्रत्यक्षो धियो हेतुः तुल्य-कारण-जन्मनः ०३४७० तस्य भेदः कुतो बुद्धेर् व्यभिचार्य्-अन्यजश् च सः ०३४७१ रूप-आदीन् पञ्च विषयानि इन्द्रियाण्य् उपलम्भनम् ०३४७१ मुक्त्वा न कार्यम् अपरं तस्याः समुपलभ्यते ०३४७२ तत्र अत्यक्षं द्वयं पञ्चस्व् अर्थेष्व् एको अपि न ईक्ष्यते ०३४७२ रूप-दर्शनतो जातो यो अन्यथा व्यस्त-सम्भवः ०३४७३ यद् एवम् अप्रतीतं तल् लिङ्गम् इत्य् अप्य् अलौकिकम् ०३४७३ विद्यमाने अपि लिङ्गे तां तेन सार्धम् अपश्यतः ०३४७४ कथं प्रतीति-लिङ्गं हि न अदृष्टस्य प्रकाशकम् ०३४७४ तत एव अस्य लिङ्गात् प्राक् प्रसिद्धेर् उपवर्णने ०३४७५ दृष्टान्त-अन्तर-साध्यत्वं तस्य अपि इत्य् अनवस्थितिः ०३४७५ इत्य् अर्थस्य धियः सिद्धिः न अर्थात् तस्याः कथंचन ०३४७६ तद्-अप्रसिद्धाव् अर्थस्य स्वयम् एव अप्रसिद्धितः ०३४७६ प्रत्यक्षां च धियं दृष्ट्वा तस्याश् च इष्ट-अभिधा-आदिकम् ०३४७७ पर-चित्त-अनुमानं च न स्याद् आत्मन्य् अदर्शनात् ०३४७७ सम्बन्धस्य मनो-बुद्धाव् अर्थ-लिङ्ग-अप्रसिद्धितः ०३४७८ प्रकाशिता कथं वा स्यात् बुद्धिर् बुद्ध्य्-अन्तरेण वः ०३४७८ अप्रकाश-आत्मनोः सा स्याद् व्यङ्ग्यव्यञ्जकता कुतः ०३४७९ विषयस्य कथं व्यक्तिः प्रकाशे रूप-संक्रमात् ०३४७९ स च प्रकाशस् तद्-रूपः स्वयम् एव प्रकाशते ०३४८० तथा अभ्युपगमे बुद्धेः बुद्धौ बुद्धिः स्ववेदिका ०३४८० सिद्धा अन्यथा तुल्य-धर्मा विषयो अपि धिया सह ०३४८१ इति प्रकाश-रूपा नः स्वयं धीः सम्प्रकाशते ०३४८१ अन्यो अस्यां रूप-संक्रान्त्या प्रकाशः सम्प्रकाशते ०३४८२ सादृश्ये अपि हि धीर् अन्या प्रकाश्या न तया मता ०३४८२ स्वयं प्रकाशनाद् अर्थस् तद्-रूपेण प्रकाशते ०३४८३ यथा प्रदीपयोर् दीप-घटयोश् च तद्-आश्रयः ०३४८३ व्यङ्ग्यव्यञ्जकभावेन व्यवहारः प्रतन्यते ०३४८४ विषय-इन्द्रिय-मात्रेण न दृष्टम् इति निश्चयः ०३४८४ तस्माद् यतो अयं तस्य अपि वाच्यम् अन्यस्य दर्शनम् ०३४८५ स्मृतेर् अप्य् आत्मवित् सिद्धा ज्ञानस्य अन्येन वेदने ०३४८५ दीर्घ-आदि-ग्रहणं न स्याद् बहु-मात्र-अनवस्थितेः ०३४८६ अवस्थिताव् अक्रमायां सकृद् आभासनान् मतौ ०३४८६ वर्णः स्याद् अक्रमो दीर्घः क्रमवान् अक्रमां कथम् ०३४८७ उपकुर्याद् असंश्लिष्यन् वर्ण-भागः परस्परम् ०३४८७ अक्रमेण ग्रहाद् अन्त-क्रम-वद् धीश् च नो भवेत् ०३४८८ आन्त्यं पूर्व-स्थिताद् ऊर्ध्वं वर्धमानो ध्वनिर् भवेत् ०३४८९ स्थाने स्वयं न नश्येत् सा पश्चाद् अप्य् अविशेषतः ०३४८९ दोषो अयं सकृद् उत्पन्न-अक्रम-वर्ण-स्थिताव् अपि ०३४९० सकृद् यत्न-उद्भवाद् व्यर्थः स्याद् यत्नश् च उत्तरोत्तरः ०३४९० व्यक्ताव् अप्य् एष वर्णानां दोषः समनुषज्यते ०३४९१ अनेकया तद्-ग्रहणे या अन्त्या धीः सा अनुभूयते ०३४९१ न दीर्घ-ग्राहिका सा च तन् न स्याद् दीर्घ-धी-स्मृतिः ०३४९२ पृथक् पृथक् च बुद्धीनां संवित्तौ तद्-ध्वनिः श्रुतेः ०३४९२ अविच्छिन्न-आभता न स्याद् घटनं च निराकृतम् ०३४९३ विच्छिन्नं शृण्वतो अप्य् अस्य यद्य् अविच्छिन्न-विभ्रमः ०३४९३ ह्रस्व-द्वयोच् चारणे अपि स्याद् अविच्छिन्न-विभ्रमः ०३४९४ विच्छिन्ने दर्शने च अक्षाद् अविच्छिन्न-अधिरोपणम् ०३४९४ न अक्षात् सर्व-अक्ष-बुद्धीनां वितथत्व-प्रसङ्गतः ०३४९५ सर्व-अन्त्यो अपि हि वर्ण-आत्मा निमेष-तुलित-स्थितिः ०३४९५ स च क्रमाद् अनेक-अणु-सम्बन्धेन नितिष्ठति ०३४९६ एक-अण्व्-अत्यय-कालश् च कालो अल्पीयान् क्षणो मतः ०३४९६ बुद्धिश् च क्षणिका तस्मात् क्रमाद् वर्णान् प्रपद्यते ०३४९७ इति वर्णेषु रूप-आदाव् अविच्छिन्न-अवभासिनी ०३४९७ विच्छिन्ना अप्य् अन्यया बुद्धिः सर्वा स्याद् वितथ-अर्थिका ०३४९८ घटनं यच् च भावानाम् अन्यत्र इन्द्रिय-विभ्रमात् ०३४९८ भेद-अलक्षण-विभ्रान्तं स्मरणं तद्-विकल्पकम् ०३४९९ तस्य स्पष्ट-अवभासित्वं जल्प-संसर्गिणः कुतः ०३४९९ न अक्ष-ग्राह्ये अस्ति शब्दानां योजना इति विवेचितम् ०३५०० विच्छिन्नं पश्यतो अप्य् अक्षैर् घटयेद् यदि कल्पना ०३५०० अर्थस्य तत् संवित्तेश् च सततं भासमानयोः ०३५०१ बाधके असति सन् न्याये विच्छिन्न इति तत् कुतः ०३५०१ बुद्धीनां शक्ति-नियमाद् इति चेत् स कुतो मतः ०३५०२ युगपद् बुद्ध्य्-अदृष्टेश् चेत् तद् एव इदं विचार्यते ०३५०२ तासां समान-जातीये सामर्थ्य-नियमो भवेत् ०३५०३ तथा हि सम्यक् लक्ष्यन्ते विकल्पाः क्रम-भाविनः ०३५०३ एतेन यः समक्षे अर्थे प्रत्यभिज्ञान-कल्पनाम् ०३५०४ स्पष्ट-अवभासाअं प्रत्यक्षां कल्पयेत् सो अपि वारितः ०३५०४ केश-गोलक-दीप-आदाव् अपि स्पष्ट-अवभासनात् ०३५०५ प्रतीत-भेदे अप्य् अध्यक्षा धीः कथं तादृशी भवेत् ०३५०५ तस्मान् न प्रत्यभिज्ञानाद् वर्ण-आद्य्-एकत्व-निश्चयः ०३५०६ पूर्व-अनुभूत-स्मरणात् तद्-धर्म-आरोपणाद् विना ०३५०६ स एव अयम् इति ज्ञानं न अस्ति तच् च अक्षजे कुतः ०३५०७ न च अर्थ-ज्ञान-संवित्त्योर् युगपत् सम्भवो यतः ०३५०७ लक्ष्यते प्रतिभासौ द्वौ न अर्थ-अर्थ-ज्ञानयोः पृथक् ०३५०८ न ह्य् अर्थ-आभासि च ज्ञानम् अर्थो बाह्यश् च केवलः ०३५०८ एक-आकारम् अतिग्राह्ये भेद-अभाव-प्रसङ्गतः ०३५०९ सूपलक्ष्येण भेदेन यौ संवित्तौ न लक्षितौ ०३५०९ अर्थ-अर्थ-प्रत्ययौ पश्चात् स्मर्येते तौ पृथक् कथम् ०३५१० क्रमेण अनुभव-उत्पादे अप्य् अर्थ-अर्थ-मनसोर् अयम् ०३५१० प्रतिभासस्य नानात्व-चोद्य-दोषो दुरुद्धरः ०३५११ अर्थ-संवेदनं तावत् ततो अर्थ-आभास-वेदनम् ०३५११ न हि संवेदनं शुद्धं भवेद् अर्थस्य वेदनम् ०३५१२ तथा हि नील-आद्य्-आकार एक एकं च वेदनम् ०३५१२ लक्ष्यते न तु नील-आभे वेदने वेदनं परम् ०३५१३ ज्ञान-अन्तरेण अनुभवो भवेत् तत्र अपि च स्मृतिः ०३५१३ दृष्टा तद्-वेदनं केन तस्य अप्य् अन्येन चेद् इमाम् ०३५१४ मालां ज्ञान-विदां को अयं जनयत्य् अनुबन्धिनीम् ०३५१४ पूर्वा धीः सा एव चेन् न स्यात् संचारो विषय-अन्तरे ०३५१५ तां ग्राह्य-लक्षण-प्राप्ताम् आसन्नां जनिकां धियम् ०३५१५ अगृहीत्वा उत्तरं ज्ञानं गृह्णीयाद् अपरं कथम् ०३५१६ आत्मनि ज्ञान-जनने स्वभावे नियतां च ताम् ०३५१६ को नाम अन्यो विबध्नीयाद् बहिर्-अङ्गे अन्तरङ्गिकाम् ०३५१७ बाह्यः संनिहितो अप्य् अर्थः तां विबन्धुं हि न प्रभुः ०३५१७ धियं न अनुभवेत् कश्चिद् अन्यथा अर्थस्य संनिधौ ०३५१८ न च संनिहित-अर्था अस्ति दशा काचिद् अतो धियः ०३५१८ उत्सन्न-मूला स्मृतिर् अप्य् उत्सन्ना इत्य् उज्ज्वलं मतम् ०३५१९ अतीत-आदि-विकल्पानां येषां न अर्थस्य संनिधिः ०३५१९ संचार-कारण-अभावाद् उत्सीदेद् अर्थ-चिन्तनम् ०३५२० आत्मनि ज्ञान-जनने शक्ति-संक्षयतः शनैः ०३५२० विषय-अन्तर-संचारो यदि सा एव अर्थ-धीः कुतः ०३५२१ शक्ति-क्षये पूर्व-धियः न हि धीः प्राग् धिया विना ०३५२१ अन्य-अर्थ-असक्ति-विगुणे ज्ञाने ज्ञान-उदय-अगतेः ०३५२२ सकृद् विजातीय-जाताव् अप्य् एकेन पटीयसा ०३५२२ चित्तेन आहित-वैगुण्याद् आलयान् न अन्य-सम्भवः ०३५२३ न अपेक्षेत अन्यथा साम्यं मनो-वृत्तेर् मनो अन्तरम् ०३५२३ मनो-ज्ञान-क्रम-उत्पत्तिर् अप्य् अपेक्षा प्रसाधनी ०३५२४ एकत्वान् मनसो अन्यस्मिन् सक्तस्य अन्य-अगतेर् यदि ०३५२४ ज्ञान-अन्तरस्य अनुदयो न कदाचित् सहोदयात् ०३५२५ समवृत्तौ च तुल्यत्वात् सर्वदा अन्य-अगतिर् भवेत् ०३५२५ जन्म च आत्म-मनो योग-मात्रजानां सकृद् भवेत् ०३५२६ एका एव चेत् क्रिया एकः स्यात् किं दीपो अनेक-दर्शनः ०३५२६ क्रमेण अपि न शक्तं स्यात् पश्चाद् अप्य् अविशेषतः ०३५२७ अनेन देह पुरुषाव् उक्तौ संस्कारतो यदि ०३५२७ नियमः स कुतः पश्चाद् बुद्धेश् चेद् अस्तु सम्मतम् ०३५२८ न ग्राह्यता अन्या जननाज् जननं ग्राह्य-लक्षणम् ०३५२८ अग्राह्यं न हि तेजो अस्ति न च सौक्ष्म्य-आद्य्-अनंशके ०३५२९ ग्राह्यता-शक्ति-हानिः स्यान् न अन्यस्य जनन-आत्मनः ०३५२९ ग्राह्यताया न खल्व् अन्यज् जननं ग्राह्य-लक्षणे ०३५३० साक्षान् न ह्य् अन्यथा बुद्धे रूप-आदिर् उपकारकः ०३५३० ग्राह्यता-लक्षणाद् अन्यस् तद्भाव-नियमो अस्य कः ०३५३१ बुद्धेर् अपि तद् अस्ति इति सा अपि तत्त्वे व्यवस्थिता ०३५३१ ग्राह्य-उपादान-संवित्ती चेतसो ग्राह्य-लक्षणम् ०३५३२ रूप-आदेश् चेतसश् च एवम् अविशुद्ध-धियं प्रति ०३५३२ ग्राह्य-लक्षण-चिन्ता इयम् अचिन्त्या योगिनां गतिः ०३५३३ तत्र सूक्ष्म-आदि-भावेन ग्राह्यम् अग्राह्यतां व्रजेत् ०३५३३ रूप-आदि-बुद्धेः किं जातं पश्चाद् यत् प्राङ् न विद्यते ०३५३४ सति स्व-धी-ग्रहे तस्मात् सा एव अनन्तर-हेतुता ०३५३४ चेतसो ग्राह्यता सा एव ततो न अर्थ-अन्तरा गतिः ०३५३५ नाना-एक-शक्त्य्-अभावे अपि भावो नाना-एक-कार्यकृत् ०३५३५ प्रकृत्या एव इति गदितं नाना-एकस्मान् न चेद् भवेत् ०३५३६ न किंचिद् एकम् एकस्मात् सामग्र्याः सर्व-सम्भवः ०३५३६ एकं स्याद् अपि सामग्रयोर् इत्य् उक्तं तद् अनेककृत् ०३५३७ अर्थं पूर्वं च विज्ञानं गृह्णीयाद् यदि धीः परा ०३५३७ पूर्व-अपर-अर्थ-भासित्वाच् चिन्ता-आदाव् एक-चेतसि ०३५३८ अभिलाप-द्वयं नित्यं स्याद् दृष्ट-क्रमम् अक्रमम् ०३५३८ द्विर् द्विर् एकं च भासेत भासनाद् आत्म-तद्-विदोः ०३५३९ विषय-अन्तर-संचारे यद्य् अन्त्यं न अनुभूयते ०३५३९ पर-अनुभूतिवत् सर्वान् अनुभूतिः प्रसज्यते ०३५४० आत्म-अनुभूतं प्रत्यक्षं न अनुभूतं परैर् यदि ०३५४० आत्म-अनुभूतिः सा सिद्धा कृतो येन एवम् उच्यते ०३५४१ व्यक्ति-हेत्व्-अप्रसिद्धिः स्यान् न व्यक्तेर् व्यक्तम् इच्छतः ०३५४१ व्यक्त्य्-असिद्धाव् अपि व्यक्तं यदि व्यक्तम् इदं जगत् ०४००१ परस्य प्रतिपाद्यत्वाद् अदृष्टो अपि स्वयं परैः ०४००१ दृष्टः साधनम् इत्य् एके तत्-क्षेपाय आत्म-दृग्-वचः ०४००२ अनुमा-विषये न इष्टं परीक्षित-परिग्रहात् ०४००२ वाचः प्रामाण्यम् अस्मिन् हि न अनुमानं प्रवर्तते ०४००३ बाधनाय आगमस्य उक्तेः साधनस्य परं प्रति ०४००३ सो अप्रमाणं तदा असिद्धं तत्-सिद्धम् अखिलं ततः ०४००४ तद्-आगमवतः सिद्धं यदि कस्य क आगमः ०४००४ बाध्यमानः प्रमाणेन स सिद्धः कथम् आगमः ०४००५ तद्-विरुद्ध-अभ्युपगमस् तेन एव च कथं भवेत् ०४००५ तद्-अन्य-उपगमे तस्य त्याग-अङ्गस्य अप्रमाणता ०४००६ तत् कस्मात् साधनं न उक्तं स्व-प्रतीतिर् यद् उद्भवा ०४००६ युक्त्या यया आगमो ग्राह्यो ग्राहिका अस्य अपि सा न किम् ०४००७ प्राकृतस्य सतः प्राग् यैः प्रतिपत्त्य्-अक्ष-सम्भवौ ०४००७ साधनैः साधनान्य् अर्थ-शक्ति-ज्ञाने अस्य तान्य् अलम् ०४००८ विच्छिन्न-अनुगमा ये च सामान्येन अप्य् अगोचराः ०४००८ साध्य-साधन-चिन्ता अस्ति न तेष्व् अर्थेषु काचन ०४००९ पुंसाम् अभिप्राय-वशात् तत्त्व-अतत्त्व-व्यवस्थितौ ०४००९ लुप्तौ हेतु-तद्-आभासौ तस्य वस्त्व्-असमाश्रयात् ०४०१० सन्न् अर्थो ज्ञान-सापेक्षो न असन् ज्ञानेन साधकः ०४०१० सतो अपि वस्त्व्-असंश्लिष्टा असंगत्या सदृशी गतिः ०४०११ लिङ्गं स्वभावः कार्यं वा दृश्य-अदर्शनम् एव वा ०४०११ सम्बद्धं वस्तुतः सिद्धं तद् असिद्धं किम् आत्मनः ०४०१२ परेण अप्य् अन्यतो गन्तुम् अयुक्तं पर-कल्पितैः ०४०१२ प्रसङ्गो द्वय-सम्बन्धाद् एक-अभावे अन्य-हानये ०४०१३ तद्-अर्थ-ग्रहणं शब्द-कल्पना-आरोपित-आत्मनाम् ०४०१३ अलिङ्गत्व-प्रसिद्ध्य्-अर्थम् अर्थाद् अर्थ-प्रसिद्धितः ०४०१४ कल्पना-आगमयोः कर्तुर् इच्छा-मात्र-अनुरोधतः ०४०१४ वस्तुनश् च अन्यथा अभावात् कल्पिता व्यभिचारिणः ०४०१५ अर्थाद् अर्थ-गतेः शक्तिः पक्ष-हेत्व्-अभिधानयोः ०४०१५ न अर्थे तेन तयोर्न् न अस्ति स्वतः साधन-संस्थितिः ०४०१६ तत् पक्ष-वचनं वक्तुर् अभिप्राय-निवेदने ०४०१६ प्रमाणं संशय-उत्पत्तेः ततः साक्षान् न साधनम् ०४०१७ साध्यस्य एव अभिधानेन पारंपर्येण न अप्य् अलम् ०४०१७ शक्तस्य सूचकं हेतु-वचो अशक्तम् अपि स्वयम् ०४०१८ हेत्व्-अर्थ-विषयत्वेन तद्-अशक्त-उक्तिर् ईरिता ०४०१८ शक्तिस् तस्य अपि चेद् हेतु-वचनस्य प्रवर्तनात् ०४०१९ तत्-संशयेन जिज्ञासोर् भवेत् प्रकरण-आश्रयः ०४०१९ विपक्ष-उपगमे अप्य् एतत् तुल्यम् इत्य् अनवस्थितिः ०४०२० अन्तरङ्गं तु सामर्थ्यं त्रिषु रूपेषु संस्थितम् ०४०२० तत्र स्मृति-समाधानं तद्-वचस्य इव संस्थितम् ०४०२१ अख्यापिते हि विषये हेतु-वृत्तेर् असम्भवात् ०४०२१ विषय-ख्यापनाद् एव सिद्धौ चेत् तस्य शक्तता ०४०२२ व्याप्ति-पूर्वे विना अप्य् अस्मात् कृतकः शब्द ईदृशः ०४०२२ सर्वे अनित्या इति प्रोक्ते अप्य् अर्थात् तन् नाश-धीर् भवेत् ०४०२३ अनुक्ताव् अपि पक्षस्य सिद्धेर् अप्रतिबन्धतः ०४०२३ त्रिष्व् अन्यतम् अरूपस्य एव अनुक्तिर् न्यूनता उदिता ०४०२४ साध्य-उक्तिं वा प्रतिज्ञां स वदन् दोषैर् न युज्यते ०४०२४ साधन-अधिकृतेर् एव हेत्वाभास-प्रसङ्गतः ०४०२५ अविशेष-उक्तिर् अप्य् एक-जातीये संशय-अवहा ०४०२५ अन्यथा सर्व-साध्य-उक्तेः प्रतिज्ञात्वं प्रसज्यते ०४०२६ सिद्ध-उक्तेः साधनत्वाच् चेत् परस्य अपि न दुष्यते ०४०२६ इदानीं साध्य-निर्देशः साधन-अवयवः कथम् ०४०२७ साभास-उक्त्य्-आद्य्-उपक्षेप-परिहार-विडम्बना ०४०२७ असम्बद्धा तथा ह्य् एष न न्याय इति सूचितम् ०४०२८ गम्य-अर्थत्वे अपि साध्य-उक्तेर् असम्मोहाय लक्षणम् ०४०२८ तच् चतुर्-लक्षणं रूप-निपात-इष्ट-स्वयम्-पदैः ०४०२९ असिद्ध-असाधन-अर्थ-उक्त-वाद्य्-अभ्युपगम-ग्रहः ०४०२९ अनुक्तो अपि इच्छया व्याप्तः साध्य आत्म-अर्थ-वन् मतः ०४०३० सर्व-अन्य-इष्ट-निवृत्ताव् अप्य् आशङ्का-स्थान-वारणम् ०४०३० वृत्तौ स्वयं श्रुतेः प्राह कृता च एषा तद्-अर्थिका ०४०३१ विशेषस् तद्-व्यपेक्षातः कथितो धर्म-धर्मिणोः ०४०३१ अनुक्ताव् अपि वाञ्छाया भवेत् प्रकरणाद् गतिः ०४०३२ अनन्वयो अपि दृष्टान्ते दोषस् तस्य यथोदितः ०४०३२ आत्मा परश् चेत् सो असिद्ध इति तत्र इष्ट-घातकृत् ०४०३३ साधनं यद् विवादे न न्यस्तं तच् चेन् न साध्यते ०४०३३ किं साध्यम् अन्यथा अनिष्टं भवेद् वैफल्यम् एव वा ०४०३४ सद्वितीय-प्रयोगेषु निरन्वय-विरुद्धते ०४०३४ एतेन कथिते साध्यं सामान्येन अथ सम्मतम् ०४०३५ तद् एव अर्थ-अन्तर-अभावाद् देह-अनाप्तौ न सिध्यते ०४०३५ वाच्यं शून्यं प्रलपतां तद् एतज् जाड्य-चिन्तितम् ०४०३६ तुल्यं नाशे अपि चेच् शब्द-घट-भेदेन कल्पने ०४०३६ न सिद्धेन विनाशेन तद्वतः साधनाद् ध्वनेः ०४०३७ तथा अर्थ-अन्तर-भावे स्यात् तद्वान् कुम्भो अप्य् अनित्यता ०४०३७ विशिष्टा ध्वनिना अन्वेति नो चेन् न अयोग-वारणात् ०४०३८ द्विविधो हि व्यवच्छेदो वियोग-अपर-योगयोः ०४०३८ व्यवच्छेदाद् अयोगे तु न अन्येन अनन्वय-आगमः ०४०३९ सामान्यम् एव तत् साध्यं न च सिद्ध-प्रसाधनम् ०४०३९ विशिष्टं धर्मिणा तच् च न निरन्वय-दोषवत् ०४०४० एतेन धर्मि-धर्माभ्यां विशिष्टौ धर्म-धर्मिणौ ०४०४० प्रत्याख्यातौ निराकुर्वन् धर्मिण्य् एवम् असाधनात् ०४०४१ समुदाय-अपवादो हि न धर्मिणि विरुध्यते ०४०४१ साध्यं यतस् तथा न इष्टं साध्यो धर्मो अत्र केवलः ०४०४२ एकस्य धर्मिणः शास्त्रे नाना-धर्म-स्थिताव् अपि ०४०४२ साध्यः स्याद् आत्मना एव इष्ट इत्य् उपात्ता स्वयं-श्रुतिः ०४०४३ शास्त्र-अभ्युपगमाद् एव सर्व-आदानात् प्रबाधने ०४०४३ तत्र एकस्य अपि दोषः स्याद् यदि हेतु-प्रतिज्ञयोः ०४०४४ शब्द-नाशे प्रसाध्ये स्याद् गन्धे भू-गुणता-क्षतेः ०४०४४ हेतुर् विरुद्धो अप्रकृतेर् नो चेद् अन्यत्र सा समा ०४०४५ अथ अत्र धर्मी प्रकृतस् तत्र शास्त्र-अर्थ-बाधनम् ०४०४५ अथ वादि-इष्टतां ब्रूयाद् धर्मि-धर्म-आदि-साधनैः ०४०४६ कैश्चित् प्रकरणैर् इच्छा भवेत् सा गम्यते च तैः ०४०४६ बलात् तव इच्छा इयम् इति व्यक्तम् ईश्वर-चेष्टितम् ०४०४७ वदन् न कार्य-लिङ्गां तां व्यभिचारेण बाध्यते ०४०४७ अनान्तरीयके च अर्थे बाधिते अन्यस्य का क्षतिः ०४०४८ उक्तं च न आगम-अपेक्षम् अनुमानं स्व-गोचरे ०४०४८ सिद्धं तेन सुसिद्धं तन् न तदा शास्त्रम् ईक्ष्यते ०४०४९ वाद-त्यागस् तदा स्याच् चेन् न तदा अनभ्युपायतः ०४०४९ उपायो ह्य् अभ्युपाये अयम् अनङ्गं स तदा अपि सन् ०४०५० तथा विशुद्धे विषय-द्वये शास्त्र-परिग्रहम् ०४०५० चिकीर्षोः स हि कालः स्यात् तदा शास्त्रेण बाधनम् ०४०५१ तद्-विरोधेन चिन्तायास् तत् सिद्ध-अर्थेष्व् अयोगतः ०४०५१ तृतीय-स्थान-संक्रान्तौ न्यायः शास्त्र-परिग्रहः ०४०५२ तत्र अपि साध्य-धर्मस्य सम्बद्धस्य एव बाधनम् ०४०५२ परिहार्यं न च अन्येषाम् अनवस्था-प्रसङ्गतः ०४०५३ केन इयं सर्व-चिन्तासु शास्त्रं ग्राह्यम् इति स्थितिः ०४०५३ कृता इदानीम् असिद्धान्तैर् ग्राह्यो धूमेन न अनलः ०४०५४ रिक्तस्य जन्तोज् जातस्य गुण-दोषम् अपश्यतः ०४०५४ विलब्धा बत केन अमी सिद्धान्त-विषम् अग्रहाः ०४०५५ यदि साधन एकत्र सर्वं शास्त्रं निदर्शने ०४०५५ दर्शयेत् साधनं स्याद् इत्य् एषा लोकोत्तरा स्थितिः ०४०५६ असम्बद्धस्य धर्मस्य किम् असिद्धौ न सिध्यति ०४०५६ हेतुस् तत्-साधनाय उक्तः किं दुष्टस् तत्र सिध्यति ०४०५७ धर्मान् अनुपनीय एव दृष्टान्ते धर्मिणो अखिलान् ०४०५७ वाग्-धूम-आदेर् जनो अन्वेति चैतन्य-दहन-आदिकम् ०४०५८ स्वभावं कारणं वा अर्थो अव्यभिचारेण साधयन् ०४०५८ कस्यचिद् वाद-बाधायां स्वभावान् न निवर्तते ०४०५९ प्रपद्यमानश् च अन्यस् तं नान्तरीयकम् ईप्सितैः ०४०५९ साध्य-अर्थैर् हेतुना तेन कथम् अप्रतिपादितः ०४०६० उक्तो अनुक्तो अपि चेद् हेतुर् विरोधो वादिनो अत्र किम् ०४०६० न हि तस्य उक्ति-दोषेण स जातः शास्त्र-बाधनम् ०४०६१ बाधकस्य अभिधानाच् चेद् दोषो यदि वदेन् न सः ०४०६१ किं न बाधेत सो अकुर्वन् न युक्तं केन दुष्यति ०४०६२ अन्येषु हेत्वाभासेषु स्व-इष्टस्य एव अप्रसाधनात् ०४०६२ दुष्येद् व्यर्थ-अभिधानेन न अत्र तस्य प्रसाधनात् ०४०६३ यदि किंचित् क्वचिच् शास्त्रे न युक्तं प्रतिषिध्यते ०४०६३ ब्रुवाणो युक्तम् अप्य् अन्यद् इति राजकुल-स्थितिः ०४०६४ सर्वान् अर्थान् समीकृत्य वक्तुं शक्यं न साधनम् ०४०६४ सर्वत्र तेन उत्सन्ने अयं साध्य-साधन-संस्थितिः ०४०६५ विरुद्धयोर् एक-धर्मिण्य् अयोगाद् अस्तु बाधनम् ०४०६५ विरुद्ध-एकान्तिकेन अत्र तद्वद् अस्ति विरोधिता ०४०६६ अबाध्यबाधकत्वे अपि तयोः शास्त्र-अर्थ-विप्लवात् ०४०६६ असम्बन्धे अपि बाधा चेत् स्यात् सर्वं सर्व-बाधकम् ०४०६७ सम्बन्धस् तेन तत्र एव बाधनाद् अस्ति चेद् असत् ०४०६७ हेतोः सर्वस्य चिन्त्यत्वात् स्व-साध्ये गुण-दोषयोः ०४०६८ नान्तरीयकता-साध्ये सम्बन्धः सा इह न ईक्ष्यते ०४०६८ केवलं शास्त्र-पीडा इह दोषः सा अन्यकृते समा ०४०६९ शास्त्र-अभ्युपगमात् साध्यः शास्त्र-दृष्टो खिलो यदि ०४०६९ प्रतिज्ञा असिद्ध-दृष्टान्त-हेतु-वादः प्रसज्यते ०४०७० उक्तयोः साधनत्वेन नो चेद् ईप्सित-वादतः ०४०७० न्याय-प्राप्तं न साध्यत्वं वचनाद् विनिवर्तते ०४०७१ अनीप्सितम् असाध्यं चेद् वादिना अन्यो अप्य् अनीप्सितः ०४०७१ धर्मो असाध्यस् तदा असाध्यं बाधमानं विरोधि किम् ०४०७२ पक्ष-लक्षण-बाह्य-अर्थः स्वयं शब्दो अप्य् अनर्थकः ०४०७२ शास्त्रेष्व् इच्छा-प्रवृत्त्य्-अर्थो यदि शङ्का कुतो अन्वियम् ०४०७३ सो अनिषिद्धः प्रमाणेन गृह्णन् केन निवार्यते ०४०७३ निषिद्धश् चेत् प्रमाणेन वाचा केन प्रवर्त्यते ०४०७४ पूर्वम् अप्य् एष सिद्धान्तं स्व-इच्छया एव गृहीतवान् ०४०७४ कथंचिद् अन्यं स पुनर् ग्रहीतुं लभते न किम् ०४०७५ दृष्टेर् विप्रतिपत्तीनाम् अत्र अकर्षीत् स्वयं श्रुतिम् ०४०७५ इष्ट-अक्षतिम् असाध्यत्वम् अनवस्थां च दर्शयन् ०४०७६ समय-आहित-भेदस्य परिहारेण धर्मिणः ०४०७६ प्रसिद्धस्य गृहीत्य्-अर्थं जगाद अन्यः स्वयं-श्रुतिम् ०४०७७ विचार-प्रस्तुतेर् एव प्रसिद्धः सिद्ध आश्रयः ०४०७७ स्व-इच्छा-कल्पित-भेदेषु पदार्थेष्व् अविवादतः ०४०७८ असाध्यताम् अथ प्राह सिद्ध-आदेशेन धर्मिणः ०४०७८ स्वरूपेण एव निर्देश्य इति अनेन एव तद् गतम् ०४०७९ सिद्ध-साधन-रूपेण निर्देशस्य हि सम्भवे ०४०७९ साध्यत्वेन एव निर्देश्य इति इदं फल-वद् भवेत् ०४०८० अनुमानस्य सामान्य-विषयवं च वर्णितम् ०४०८० इह एवं न ह्य् अनुक्ते अपि किंचित् पक्षे विरुध्यते ०४०८१ कुर्याच् चेद् धर्मिणं साध्यं ततः किं तन् न शक्यते ०४०८१ कस्माद् हेत्व्-अन्वय-अभावान् न च दोषस् तयोर् अयम् ०४०८२ उत्तर-अवयव-अपेक्षो न दोषः पक्ष इष्यते ०४०८२ तथा हेत्व्-आदि-दोषो अपि पक्ष-दोषः प्रसज्यते ०४०८३ सर्वैः पक्षस्य बाधातस् तस्मात् तन्-मात्र-लिङ्गिनः ०४०८३ पक्ष-दोषा मता न अन्ये प्रत्यक्ष-आदि-विरोध-वत् ०४०८४ हेत्व्-आदि-लक्षणैर् बाध्यं मुक्त्वा पक्षस्य लक्षणम् ०४०८४ उच्यते परिहार-अर्थम् अव्याप्ति-व्यतिरेकयोः ०४०८५ स्वयं निपात-रूप-आख्या व्यतिरेकस्य बाधिकाः ०४०८५ सह अनिराकृतेन इष्ट-श्रुतिर् अव्याप्ति-बाधनी ०४०८६ साध्य-अभ्युपगमः पक्ष-लक्षणं तेष्व् अपक्षता ०४०८६ निराकृते बाधनतः शेषे अलक्षण-वृत्तितः ०४०८७ स्वयम् इष्ट-अभिधानेन गत-अर्थे अप्य् अवधारणे ०४०८७ कृत्य-अन्तेन अभिसम्बन्धाद् उक्तं काल-अन्तर-च्छिदे ०४०८८ इह अनङ्गम् इषेर्न् निष्ठा तेन ईप्सित-पदे पुनः ०४०८८ अङ्गम् एव तथा असिद्ध-हेत्व्-आदि प्रतिषिध्यते ०४०८९ अवाचकत्वाच् च अयुक्तं तेन इष्टं स्वयम् आत्मना ०४०८९ अनपेक्ष्य अखिलं शास्त्रं तद् अभीष्टस्य साध्यता ०४०९० तेन अनभीष्ट-संसृष्टस्य इष्टस्य अपि हि बाधने ०४०९० यथा साध्यम् अबाधातः पक्ष-हेतू न दुष्यतः ०४०९१ अनिषिद्धः प्रमाणाभ्यां स च उपगम इष्यते ०४०९१ सन्दिग्धे हेतु-वचनाद् व्यस्तो हेतोर् अनाश्रयः ०४०९२ अनुमानस्य भेदेन सा बाधा उक्ता चतुर्विधा ०४०९२ तत्र अभ्युपायः कार्य-अङ्गं स्वभाव-अङ्गं जगत् स्थितिः ०४०९३ आत्म-अपरोध-अभिमतो भूत-निश्चय-युक्त-वाक् ०४०९३ आप्तः स्व-वचनं शास्त्रं च एवम् उक्तं समत्वतः ०४०९४ यथा आत्मनो अप्रमाणत्वे वचनं न प्रवर्तते ०४०९४ शास्त्र-दृष्टे तथा न अर्थे विचारस् तद् अनाश्रये ०४०९५ तत् प्रस्ताव-आश्रयत्वे हि शास्त्रं बाधकम् इत्य् अमुम् ०४०९५ वक्तुम् अर्थं स्व-वाचा अस्य सहोक्तिः साम्य-दृष्टये ०४०९६ उदाहरणम् अप्य् अत्र सदृशं तेन वर्णितम् ०४०९६ प्रमाणानाम् अभावे हि शास्त्र-वाचोर् अयोगतः ०४०९७ स्व-वाग्-विरोधे विस्पष्टम् उदाहरणम् आगमे ०४०९७ दिङ्मात्र-दर्शनं तत्र प्रेत्य-धर्मो सुख-प्रदः ०४०९८ शास्त्रिणो अप्य् अतदालम्बे विरुद्ध-उक्तौ तु वस्तुनि ०४०९८ न बाधा प्रतिबन्धः स्यात् तुल्य-कक्ष्यतया द्वयोः ०४०९९ यथा स्व-वाचि तच् च अस्या तदा स्व-वचन-आत्मकम् ०४०९९ तयोः प्रमाणं यस्य अस्ति तत् स्याद् अन्यस्य बाधकम् ०४१०० प्रतिज्ञाम् अनुमानं वा प्रतिज्ञा-अपेत-युक्तिका ०४१०० तुल्य-कक्ष्या यथार्थं वा बाधेत कथम् अन्यथा ०४१०१ प्रामाण्यम् आगमानां च प्राग् एव विनिवारितम् ०४१०१ अभ्युपाय-विचारेषु तस्माद् दोषो अयम् इष्यते ०४१०२ तस्माद् विषय-भेदस्य दर्शनाय पृथक् कृतः ०४१०२ अनुमान-अबहिर्भूतो अप्य् अभ्युपायः प्रबाधनात् ०४१०३ अन्यथा अतिप्रसङ्गः स्याद् व्यर्थता वा पृथक् कृतेः ०४१०३ भेदो वाङ्-मात्र-वचने प्रतिबन्धः स्व-वाच्य् अपि ०४१०४ तेन अभ्युपगमाच् शास्त्रं प्रमाणम् सर्व-वस्तुषु ०४१०४ बाधकं यदि न इच्छेत् स बाधकं किं पुनर् भवेत् ०४१०५ स्व-वाग्-विरोधो अभेदः स्यात् स्व-वाक्-शास्त्र-विरोधयोः ०४१०५ पुरुष-इच्छा कृता च अस्य परिपूर्णा प्रमाणता ०४१०६ तस्मात् प्रसिद्धेष्व् अर्थेषु शास्त्र-त्यागे अपि न क्षतिः ०४१०६ परोक्षेष्व् आगम-अनिष्टौ न चिन्ता एव प्रवर्तते ०४१०७ विरोध-उद्भावन-प्राया परीक्षा अप्य् अत्र तद्-यथा ०४१०७ अधर्म-मूलं राग-आदि स्नानं च अधर्म-शोधनम् ०४१०८ शास्त्रं यत् सिद्धया युक्त्या स्व-वाचा च न बाध्यते ०४१०८ दृष्टे अदृष्टे अपि तद् ग्राह्यम् इति चिन्ता प्रवर्तते ०४१०९ अर्थेष्व् अप्रतिषिद्धत्वात् पुरुष-इच्छा-अनुरोधिनः ०४१०९ इष्ट-शब्द-अभिधेयत्वस्य आप्तो अत्र अक्षत-वाग् जनः ०४११० उक्तः प्रसिद्ध-शब्देन धर्मस् तद् व्यवहारजः ०४११० प्रत्यक्ष-आदिम् इति मान-श्रुत्य्-आरोपेण सूचितः ०४१११ तद्-आश्रय-भुवाम् इच्छा-वर्तित्वाद् अनिषेधिनाम् ०४१११ कृतानाम् अकृतानां वा योग्यं विश्वं स्वभावतः ०४११२ अर्थ-मात्र-अनुरोधिन्या भाविन्या भूतया अपि वा ०४११२ बाध्यते प्रतिरुन्धानः शब्द-योग्यतया तया ०४११३ तद्-योग्यता-बलाद् एव वस्तुतो घटितो ध्वनिः ०४११३ सर्वो अस्याम् अप्रतीते अपि तस्मिंस् तत्-सिद्धता ततः ०४११४ असाधारणता न स्यात् बाधा-हेतोर् इह अन्यथा ०४११४ तन् निषेधो अनुमानात् स्याच् शब्द-अर्थे अनक्ष-वृत्तितः ०४११५ असाधारणता तत्र हेतूनां यत्र न अन्वयि ०४११५ सत्त्वम् इत्य् अभ्युदाहारो हेतोर् एवं फलो मतः ०४११६ संकेत-संश्रयाः शब्दाः स च इच्छा-मात्र-संश्रयः ०४११६ न असिद्धिः शब्द-सिद्धानाम् इति शब्द-प्रसिद्ध-वाक् ०४११७ अनुमान-प्रसाध्येषु विरुद्धाव्यभिचारिणः ०४११७ अभावं दर्शयत्य् एवं प्रतीतेर् अनुमा त्व् अतः ०४११८ अथवा ब्रुवतो लोकस्य अनुमा अभाव उच्यते ०४११८ किं तेन भिन्न-विषया प्रतीतिर् अनुमानतः ०४११९ तेन अनुमानाद् वस्तूनां सद्-असत्ता-अनुरोधिनः ०४११९ भिन्नस्य अतद्-वशाद् वृत्तिस् तद् इच्छाजा इति सूचितम् ०४१२० चन्द्रतां शशिनो अनिच्छन् कां प्रतीतिं स वाञ्छति ०४१२० इति तं प्रत्य् अदृष्टान्तं तद्-असाधारणं मतम् ०४१२१ न उदाहरणम् एव इदम् अधिकृत्य इदम् उच्यते ०४१२१ लक्षणत्वात् तथा अवृक्षो धात्री इत्य् उक्तौ च बाधनात् ०४१२२ अत्र अपि लोके दृष्टत्वात् कर्पूर-रजत-आदिषु ०४१२२ समयाद् वर्तमानस्य का असाधारणता अभिधा ०४१२३ यदि तस्य क्वचित् सिध्येत् सिद्धं वस्तु-बलेन तत् ०४१२३ प्रतीति-सिद्ध-उपगमे अशशिन्य् अप्य् अनिवारणम् ०४१२४ तस्य वस्तुनि सिद्धस्य शशिन्य् अप्य् अनिवारणम् ०४१२४ तद्-वस्त्व्-अभावे शशिनि वारणे अपि न दुष्यति ०४१२५ तस्माद् अवस्तु-नियत-संकेत-ध्वनि-भाविनाम् ०४१२५ योग्याः पदार्था धर्माणाम् इच्छाया अनिरोधनात् ०४१२६ तां योग्यतां निरुन्धानं संकेत-अप्रतिषेधजा ०४१२६ प्रतिहन्ति प्रतीत-आख्या योग्यता विषया अनुमा ०४१२७ शब्दानाम् अर्थ-नियमः संकेत-अनुविधायिनाम् ०४१२७ न इत्य् अनेन उक्तम् अत्र एषां प्रतिषेधो विरुध्यते ०४१२८ नैमित्तिक्याः श्रुतेर् अर्थम् अर्थं वा पारमार्थिकम् ०४१२८ शब्दानां प्रतिरुन्धानो न बाध्यस् तेन वर्णितः ०४१२९ तस्माद् विषय-भेदस्य दर्शनाय पृथक्कृता ०४१२९ अनुमान-अबहिर्भूता प्रतीतिर् अपि पूर्ववत् ०४१३० सिद्धयोः पृथग्-आख्याने दर्शयंश् च प्रयोजनम् ०४१३० एते सहेतुके प्राह न अनुमा-अध्यक्ष-बाधने ०४१३१ तत्र अप्य् अध्यक्ष-बाधायां नाना-रूपतया ध्वनौ ०४१३१ प्रसिद्धस्य श्रुतौ रूपं यद् एव प्रतिभासते ०४१३२ अद्वयं शबल-आभासस्य अदृष्टेर् बुद्धि-जन्मनः ०४१३२ तद्-अर्थ-अर्थ-उक्तिर् अस्य एव क्षेपे अध्यक्षेण बाधनम् ०४१३३ तद् एव रूपं तत्र अर्थः शेषं व्यावृत्ति-लक्षणम् ०४१३३ अवस्तु-रूपं सामान्यम् अतस् तन् न अक्ष-गोचरः ०४१३४ तेन सामान्य-धर्माणां अप्रत्यक्षत्व-सिद्धितः ०४१३४ प्रतिक्षेपे अप्य् अबाधा इति श्रावण-उक्त्या प्रकाशितम् ०४१३५ सर्वथा अवाच्य-रूपत्वात् सिद्ध्या तस्य समाश्रयात् ०४१३५ बाधनात् तद्-बलेन उक्तः श्रवणेन अक्ष-गोचरः ०४१३६ सर्वत्र वादिनो धर्मो यः स्व-साध्यतया ईप्सितः ०४१३६ तद् धर्मवति बाधा स्यान् न अन्य-धर्मेण धर्मिणि ०४१३७ अन्यथा अस्य उपरोधः को बाधिते अन्यत्र धर्मिणि ०४१३७ गत-अर्थे लक्षणे न अस्मिन् स्व-धर्मि-वचनं पुनः ०४१३८ बाधायां धर्मिणो अपि स्यात् बाधा इत्य् अस्य प्रसिद्धये ०४१३८ आश्रयस्य विरोधेन तद्-आश्रित-विरोधनात् ०४१३९ अन्यथा एवंविधो धर्मः साध्य इत्य् अभिधानतः ०४१३९ तद् बाधाम् एव मन्येत स्व-धर्मि-वचनं ततः ०४१४० नन्व् एतद् अप्य् अर्थ-सिद्धं सत्यं केचित् तु धर्मिणः ०४१४० केवलस्य उपरोधे अपि दोषवत् ताम् उपागताः ०४१४१ यथा परैर् अनुत्पाद्या पूर्व-रूपन् न ख-आदिकम् ०४१४१ सकृच् शब्द-आद्य्-अहेतुत्वाद् इत्य् उक्ते प्राह दूषकः ०४१४२ तद्वद् वस्तु-स्वभावो असन् धर्मी व्योम-आदिर् इत्य् अपि ०४१४२ न एवम् इष्टस्य साध्यस्य बाधा क्वचन विद्यते ०४१४३ द्वयस्य अपि हि साध्यत्वे साध्य-धर्म-उपरोधि यत् ०४१४३ बाधनं धर्मिणस् तत्र बाधा इत्य् एतेन वर्णितम् ०४१४४ तथा एव धर्मिणो अप्य् अत्र साध्यत्वात् केवलस्य न ०४१४४ यद्य् एवम् अत्र बाधा स्यात् न अन्य-अनुत्पाद्य-शक्तिकः ०४१४५ सकृच् शब्द-आद्य्-अहेतुत्वात् सुख-आदिर् इति पूर्ववत् ०४१४५ विरोधिता भवेत् अत्र हेतुर् ऐकान्तिको यदि ०४१४६ क्रम-क्रिया अनित्यतयोर् अविरोधाद् विपक्षतः ०४१४६ व्यावृत्तेः संशयाद् एष शेषवद् भेद इष्यते ०४१४७ स्वयम् इष्टो यतो धर्मः साध्यस् तस्मात् तद्-आश्रयः ०४१४७ बाध्यो न केवलो न अन्य-संश्रयो वा इति सूचितम् ०४१४८ स्वयं श्रुत्या अन्य-धर्माणां बाधा अबाधा इति कथ्यते ०४१४८ तथा स्व-धर्मिणा अन्यस्य धर्मिणो अपि इति कथ्यते ०४१४९ सर्व-साधन-दोषेण पक्ष एव उपरुध्यते ०४१४९ तथा अपि पक्ष-दोषत्वं प्रतिज्ञा-मात्र-संज्ञिनः ०४१५० उत्तर-अवयव-अपेक्षो यो दोषः सो अनुबध्यते ०४१५० तेन इत्य् उक्तम् अतो अपक्ष-दोषो असिद्ध-आश्रय-आदिकम् ०४१५१ धर्मि-धर्म-विशेषाणां स्वरूपस्य च धर्मिणः ०४१५१ बाधा-साध्य-अङ्ग-भूतानाम् अनेन एव उपदर्शिता ०४१५२ तत्र उदाहृति-दिङ्मात्रम् उच्यते अर्थस्य दृष्टये ०४१५२ द्रव्य-लक्षण-युक्तो अन्यः संयोगे अर्थो अस्ति दृष्टि-भाक् ०४१५३ अदृश्यस्य अविशिष्टस्य प्रतिज्ञा निष्प्रयोजना ०४१५३ इष्टो ह्य् अवयवी कार्यं दृष्ट्या अदृश्येष्व् असम्भवी ०४१५४ अविशिष्टस्य च अन्यस्य साधने सिद्ध-साधनम् ०४१५४ गुरुत्व-अधोगती स्यातां यद्य् असौ स्यात् तुला-नतिः ०४१५५ तन् निर्गुण-क्रियस् तस्मात् समवायि न कारणम् ०४१५५ तत एव न दृश्यो असाव् अदृष्टेः कार्य-रूपयोः ०४१५६ तद्-बाधा-अन्य-विशेषस्य नान्तरीयक-भाविनः ०४१५६ आ सूक्ष्माद् द्रव्यम् आलायास् तुल्यत्वाद् अंशु-पात-वत् ०४१५७ द्रव्य-अन्तर-गुरुत्वस्य गतिर्न् न इत्य् अपरो अब्रवीत् ०४१५७ तस्य क्रमेण संयुक्ते पांशु-राशौ सकृद् युते ०४१५८ भेदः स्याद् गौरवे तस्मात् पृथक् सह च तोलिते ०४१५८ क्रमेण माषक-आदीनां संख्या-साम्यं न युज्यते ०४१५९ सर्षपाद् आ महा-राशेर् उत्तरोत्तर-वृद्धिमत् ०४१५९ गुरुत्वं कार्यम् आलाय यदि न एव उपलक्ष्यते ०४१६० आ सर्षपाद् गुरुत्वं तद् दुर्लक्षितम् अनल्पकम् ०४१६० तौल्यं तत्-कारणं कार्य-गौरव-अनुपलक्षणात् ०४१६१ नन्व् अदृष्टो अंशु-वत् सो अर्थो न च तत्-कार्यम् ईक्ष्यते ०४१६१ गुरुत्व-अगति-वत् सर्व-तद्-गुण-अनुपलक्षणात् ०४१६२ माषक-आदेर् अनाधिक्यम् अनतिः सा उपलक्षणम् ०४१६२ यथास्वम् अक्षेण अदृष्टे रूप-आदाव् अधिक-अधिके ०४१६३ अभ्युपायः स्व-वाग्-आदि-बाधायाः सम्भवेन तु ०४१६३ उदाहरणम् अप्य् अन्यद् दिशा गम्यम् यथोक्तया ०४१६४ त्रि-काल-विषयत्वात् तु कृत्यानाम् अतथात्मकम् ०४१६४ तथा परम् प्रतिन्यस्तम् साध्यं न इष्टं तदा अपि तत् ०४१६५ प्रत्यायन-अधिकारे तु सर्व-असिद्ध-अवरोधिनी ०४१६५ तस्मात् साध्य-श्रुतिर्न् न इष्टं विशेषम् अवलम्बते ०४१६६ तेन अप्रसिद्ध-दृष्टान्त-हेतु-उदाहरणं कृतम् ०४१६६ अन्यथा शश-शृङ्ग-आदौ सर्व-असिद्धे अपि साध्यता ०४१६७ सर्वस्य च अप्रसिद्धत्वात् कथंचित् तेन न क्षमः ०४१६७ कर्म-आदि-भेद-उपक्षेप-परिहार-अविवेचने ०४१६८ प्राग्-असिद्ध-स्वभावत्वात् साध्य-अवयव इत्य् असत् ०४१६८ तुल्य-सिद्धान्तता ते हि येन उपगम-लक्षणाः ०४१६९ समुदायस्य साध्यत्वे अप्य् अन्योन्यस्य विशेषणम् ०४१६९ साध्यं द्वयं तदा असिद्धं हेतु-दृष्टान्त-लक्षणम् ०४१७० असम्भवात् साध्य-शब्दो धर्मि-वृत्तिर् यदि इष्यते ०४१७० शास्त्रेण अलं यथायोगं लोक एव प्रवर्तताम् ०४१७१ साधन-आख्यान-सामर्थ्यात् तद्-अर्थे साध्यता गता ०४१७१ हेत्व्-आदि-लक्षणैर् व्याप्तेर् अनाशङ्क्यं च साधनम् ०४१७२ पूर्व-अवधारणे तेन प्रतिज्ञा-लक्षण-अभिधा ०४१७२ व्यर्था व्याप्ति-फला सा उक्तिः सामर्थ्याद् गम्यते ततः ०४१७३ विरुद्धता इष्ट-असम्बन्धो अनुपकार-सहास्थिती ०४१७३ एवं सर्व-अङ्ग-दोषाणां प्रतिज्ञा-दोषता भवेत् ०४१७४ पक्ष-दोषः पर-अपेक्षो न इति च प्रतिपादितम् ०४१७४ इष्ट-असम्भव्य्-असिद्धश् च स एव स्यात् निराकृतः ०४१७५ अनित्यत्व-सहेतुत्वे शब्द एवं प्रकीर्तयेत् ०४१७५ दृष्टान्त-आख्यान् अतो अन्यत् किम् अस्त्य् अत्र अर्थ-अनुदर्शनम् ०४१७६ विशेषे भिन्नम् आख्याय सामान्यस्य अनुवर्तने ०४१७६ न तद्-व्याप्तेः फलं वा किं सामान्येन अनुवर्तने ०४१७७ स्यान् निराकरणं शब्दे स्थितेन एव इत्य् अतो अब्रवीत् ०४१७७ विरुद्ध-विषये अन्यस्मिन् वदन्न् आह अन्यतां श्रुतेः ०४१७८ सा च भेद-अप्रतिक्षेपात् सामान्यानां न विद्यते ०४१७८ वृक्षो न शिंशपा एव इति यथा प्रकरणे क्वचित् ०४१७९ सर्व-श्रुतेर् एक-वृत्तिर्न् निषेधः स्यान् न तावता ०४१८० ज्ञाप्य-ज्ञापकयोर् भेदाद् धर्मिणो हेतु-भाविनः ०४१८० असिद्धेर् ज्ञापकत्वस्य धर्म्य्-असिद्धः स्व-साधने ०४१८१ धर्म-धर्मि-विवेकस्य सर्व-भावेष्व् असिद्धितः ०४१८१ सर्वत्र दोषस् तुल्यश् चेन् न संवृत्या विशेषतः ०४१८२ परमार्थ-विचारेषु तथाभूत-प्रसिद्धितः ०४१८२ तत्त्वान्यत्वं पदार्थेषु सांवृतेषु निषिध्यते ०४१८३ अनुमान-अनुमेय-अर्थ-व्यवहार-स्थितिस् त्व् इयम् ०४१८३ भेदं प्रत्यय-संसिद्धम् अवलम्ब्य च कल्प्यते ०४१८४ यथास्वं भेद-निष्ठेषु प्रत्ययेषु विवेकिनः ०४१८४ धर्मी धर्माश् च भासन्ते व्यवहारस् तद्-आश्रयः ०४१८५ व्यवहार-उपनीतो अत्र स एव अश्लिष्ट-भेद-धीः ०४१८५ साध्यः साधनतां नीतस् तेन असिद्धः प्रकाशितः ०४१८६ भेद-सामान्ययोर् धर्म-भेदाद् अङ्ग-अङ्गिता ततः ०४१८६ यथा अनित्यः प्रयत्न-उत्थः प्रयत्न-उत्थतया ध्वनिः ०४१८७ पक्ष-अङ्गत्वे अप्य् अबाधत्वान् न असिद्धिर् भिन्न-धर्मिणि ०४१८७ यथा अश्वो न विषाणित्वाद् एष पिण्डो विषाणवान् ०४१८८ साध्य-काल-अङ्गता वा न निवृत्तेर् उपलक्ष्य तत् ०४१८८ विशेषो अपि प्रतिज्ञा-अर्थो धर्म-भेदान् न युज्यते ०४१८९ पक्ष-धर्म-प्रभेदेन सुख-ग्रहण-सिद्धये ०४१८९ हेतु-प्रकरण-अर्थस्य सूत्र-संक्षेप उच्यते ०४१९० अयोगं योगम् अपरैर् अत्यन्तायोगम् एव च ०४१९० व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ०४१९१ विशेषण-विशेष्याभ्यां क्रियया च सहोदितः ०४१९१ विवक्षातो प्रयोगे अपि तस्य अर्थो अयं प्रतीयते ०४१९२ व्यवच्छेद-फलं वाक्यं यतश् चैत्रो धनुर्धरः ०४१९२ पार्थो धनुर्धरो नीलं सरोजम् इति वा यथा ०४१९३ प्रतियोगि-व्यवच्छेदस् तत्र अप्य् अर्थेषु गम्यते ०४१९३ तथा प्रसिद्धेः सामर्थ्याद् विवक्षा-अनुगमाद् ध्वनेः ०४१९४ तद् अयोगव्यवच्छेदाद् धर्मि-धर्म-विशेषणम् ०४१९४ तद्-विशिष्टतया धर्मो न निरन्वय-दोष-भाक् ०४१९५ स्वभाव-कार्य-सिद्ध्य्-अर्थं द्वौ द्वौ हेतु-विपर्ययौ ०४१९५ विवादाद् भेद-सामान्ये शेषो व्यावृत्ति-साधनः ०४१९६ न हि स्वभावाद् अन्येन व्याप्तिर् गम्यस्य कारणे ०४१९६ सम्भवाद् व्यभिचारस्य द्विधा वृत्ति-फलं ततः ०४१९७ प्रयत्नानन्तरं ज्ञानं प्राक् सतो नियमेन न ०४१९७ तस्य आवृत्त्य्-अक्ष-शब्देषु सर्वथा अनुपयोगतः ०४१९८ कदाचिन् निरपेक्षस्य कार्य-आकृति-विरोधतः ०४१९८ कादाचित्क-फलं सिद्धं तल्-लिङ्गं ज्ञानम् ईदृशम् ०४१९९ एतेन एव प्रसिद्धो अपि स्वभावस्य पृथक् कृतिः ०४१९९ कार्येण सह निर्देशे मा ज्ञासीत् सर्वम् ईदृशम् ०४२०० व्युत्पत्त्य्-अर्थी च हेतु-उक्तिर् उक्त-अर्थ-अनुमितौ कृता ०४२०० प्रभेद-मात्रम् आख्यातं लक्षणं तु न भिद्यते ०४२०१ तेन अत्र कार्य-लिङ्गेन स्वभावो अप्य् एकदेश-भाक् ०४२०१ सदृश-उदाहृतिश् च अतः प्रयत्नाद् व्यक्ति-जन्मनः ०४२०२ यन् नान्तरीयका सत्ता यो वा आत्मा स्वो अविभागवान् ०४२०२ स तेन अव्यभिचारी स्याद् इत्य् अर्थं तत् प्रभेदनम् ०४२०३ संयोग्य्-आदिषु येष्व् अस्ति प्रतिबन्धो न तादृशम् ०४२०३ न ते हेतव इत्य् उक्तं व्यभिचारस्य सम्भवात् ०४२०४ सति वा प्रतिबन्धेस् तु स एव गति-साधनः ०४२०४ नियमो ह्य् अविनाभावो अनित्यश् च न साधनम् ०४२०५ ऐकान्तिकत्वं व्यावृत्तेर् अविनाभाव उच्यते ०४२०५ तच् च न अप्रतिबद्धेषु तत एव अन्वय-स्थितिः ०४२०६ स्वात्मत्वे हेतु-भावे वा सिद्धे हि व्यतिरेकिता ०४२०६ सिध्यत्य् अतो विशेषे न व्यतिरेको न च अन्वयः ०४२०७ अदृष्टि-मात्रम् आदाय केवलं व्यतिरेकिता ०४२०७ उक्ता अनैकान्तिकस् तस्माद् अन्यथा गमको भवेत् ०४२०८ प्राण-आद्य्-अभावो नैरात्म्य-व्याप्ती इति विनिवर्तने ०४२०८ आत्मनो विनिवर्तेत प्राण-आदिर् यदि तच् च न ०४२०९ अन्यस्य विनिवृत्त्या अन्य-विनिवृत्तेर् अयोगतः ०४२०९ तदात्मा तत्-प्रसूतश् चेन् न एतद् आत्म-उपलम्भने ०४२१० तस्य उपलब्धाव् अगताव् अगतौ च प्रसिध्यति ०४२१० ते च अत्यन्तपरोक्षस्य दृष्ट्य्-अदृष्टी न सिध्यतः ०४२११ अन्यत्र अदृष्ट-रूपस्य घट-आदौ न इति वा कुतः ०४२११ अज्ञात-व्यतिरेकस्य व्यावृत्तेर् व्यापिता कुतः ०४२१२ प्राण-आदेश् च क्वचिद् दृष्ट्या सत्त्व-असत्त्वं प्रतीयते ०४२१२ तथा आत्मा यदि दृश्येत सत्त्व-असत्त्वं प्रतीयते ०४२१३ यस्य हेतोर् अभावेन घटे प्राणो न दृश्यते ०४२१३ देहे अपि यद्य् असौ न स्याद् युक्तो देहेन सम्भवः ०४२१४ भिन्ने अपि किंचित् साधर्म्याद् यदि तत्त्वं प्रतीयते ०४२१४ प्रमेयत्वाद् घट-आदीनां सात्मत्वं किं न मीयते ०४२१५ अनिष्टं चेत् प्रमाणं हि सर्व-इष्टीनां निबन्धनम् ०४२१५ भाव-अभाव-व्यवस्थां कः कर्तुं तेन विना प्रभुः ०४२१६ स्मृति-इच्छा-यत्नजः प्राण-निमेष-आदिस् तद्-उद्भवः ०४२१६ विषय-इन्द्रिय-चित्तिभ्यस् ताः स्व-जाति-समुद्भवाः ०४२१७ अन्योन्य-प्रत्यय-अपेक्षा अन्वय-व्यतिरेक-भाक् ०४२१७ एताव् अत्यात्मभावो अयम् अनवस्था-अन्य-कल्पने ०४२१८ श्रावणत्वेन तत्-तुल्यं प्राण-आदि-व्यभिचारतः ०४२१८ न तस्य व्यभिचारित्वाद् व्यतिरेके अपि चेत् कथम् ०४२१९ न असाध्याद् एव विश्लेषस् तस्य नन्व् एवम् उच्यते ०४२१९ साध्ये अनुवृत्त्य्-अभावो अर्थात् तस्य अन्यत्र अप्य् असौ समः ०४२२० असाध्याद् एव विच्छेद इति साध्ये अस्तिता उच्यते ०४२२० अर्थापत्त्या अत एव उक्तम् एकेन द्वय-दर्शनम् ०४२२१ ईदृग्-अव्यभिचारो अतो अनन्वयेषु न सिध्यति ०४२२१ प्रतिषेध-निषेधश् च विधानात् कीदृशो अपरः ०४२२२ निवृत्तिर्न् न असतः साध्याद् असाध्येष्व् एव नो ततः ०४२२२ न इति सा एव निवृत्तिः किं निवृत्तेर् असतो मता ०४२२३ निवृत्त्य्-अभावस् तु विधिर् वस्तु-भावो असतो अपि सन् ०४२२३ वस्त्व्-अभावस् तु न अस्ति इति पश्य बान्ध्य-विजृम्भितम् ०४२२४ निवृत्तिर् यदि तस्मिन् न हेतोर् वृत्तिः किं निषिध्यते ०४२२४ सा अपि न प्रतिषेधो अयं निवृत्तिः किं निषिध्यते ०४२२५ विधानं प्रतिषेधं च मुक्त्वा शाब्दो अस्ति न अपरः ०४२२५ व्यवहारः स च असत्सु न इति प्राप्ता अत्र मूकता ०४२२६ सतां च न निषेधो अस्ति सो असत्सु च न विद्यते ०४२२६ जगत्य् अनेन न्यायेन नञ्-अर्थः प्रलयं गतः ०४२२७ देश-काल-निषेधश् चेद् यथा अस्ति स निषिध्यते ०४२२७ न तथा न यथा सो अस्ति तथा अपि न निषिध्यते ०४२२८ तस्माद् आश्रित्य शब्द-अर्थं भाव-अभाव-समाश्रयम् ०४२२८ अबाह्य-आश्रयम् अत्र इष्टं सर्वं विधि-निषेधनम् ०४२२९ ताभ्यां स धर्मी सम्बद्धः ख्यात्य्-अभावे अपि तादृशः ०४२२९ शब्द-प्रवृत्तेर् अस्ति इति सो अपि इष्टो व्यवहार-भाक् ०४२३० अन्यथा स्यात् पदार्थानां विधान-प्रतिषेधने ०४२३० एक-धर्मस्य सर्वात्म-विधान-प्रतिषेधनम् ०४२३१ अनाना-आत्म-आत्मतया भेदे नाना-विधि-निषेध-वत् ०४२३१ एक-धर्मिण्य् असंहारो विधान-प्रतिषेधयोः ०४२३२ एकं धर्मिणम् उद्दिश्य नाना-धर्म-समाश्रयम् ०४२३२ विधाव् एकस्य तद्-भाजाम् इव अन्येषाम् उपेक्षकम् ०४२३३ निषेधे तद्-विविक्तं च तद् अन्येषाम् अपेक्षकम् ०४२३३ व्यवहारम् असत्य-अर्थं प्रकल्पयति धीर् यथा ०४२३४ तं तथा एव अविकल्प्य-अर्थ-भेद-आश्रयम् उपागताः ०४२३४ अनादि-वासना-उद्भूतं बाधन्ते अर्थं न लौकिकम् ०४२३५ तत्-फलो अतत्-फलश् च अर्थो भिन्न एकस् ततस् ततः ०४२३५ तैस् तैर् उपप्लवैर्न् नीत-संचय-अपचयैर् इव ०४२३६ अतद्वान् अपि सम्बन्धात् कुतश्चिद् उपनीयते ०४२३६ दृष्टिं भेद-आश्रयैस् ते अपि तस्माद् अज्ञात-विप्लवाः ०४२३७ सत्ता-साधन-वृत्तेश् च सन्दिग्धः स्याद् असन् न सः ०४२३७ असत्त्वं च अभ्युपगमाद् अप्रमाणान् न युज्यते ०४२३८ असतो अव्यतिरेके अपि सपक्षाद् विनिवर्तनम् ०४२३८ सन्दिग्धं तस्य सन्देहाद् विपक्षाद् विनिवर्तनम् ०४२३९ एकत्र नियमे सिद्धे सिध्यत्य् अन्य-निवर्तनम् ०४२३९ द्वैराश्ये सत्य् अदृष्टे अपि स्याद् अदृष्टेषु संशयः ०४२४० अव्यक्ति-व्यापिनो अप्य् अर्थाः सन्ति तज्-जाति-भाविनः ०४२४० क्वचिन् न नियमो दृष्ट्या पार्थिव-अलोह-लेख्य-वत् ०४२४१ भावे विरोधस्य अदृष्टौ कः सन्देहं निवर्तयेत् ०४२४१ क्वचिद् विनियमात् को अन्यस् तत्-कार्य-आत्मतया स च ०४२४२ नैरात्म्याद् अपि तेन अस्य सन्दिग्धं विनिवर्तनम् ०४२४२ अस्तु नाम तथा अप्य् आत्मा न अनैरात्म्यात् प्रसिध्यति ०४२४३ येन असौ व्यतिरेकस्य न अभावं भावम् इच्छति ०४२४३ यथा न अव्यतिरेके अपि प्राण-आदिर्न् न सपक्षतः ०४२४४ सपक्ष-अव्यतिरेकी चेद् हेतुर् हेतुर् अतो अन्वयी ०४२४४ न अन्वय्य् अव्यतिरेकी चेद् अनैरात्म्यं न सात्मकम् ०४२४५ यन् नान्तरीयकः स्वात्मा यस्य सिद्धः प्रवृत्तिषु ०४२४५ निवर्तकः स एव अतः प्रवृत्तौ च प्रवर्तकः ०४२४६ नान्तरीयकता सा च साधनं समपेक्षते ०४२४६ कार्ये दृष्टिर् अदृष्टिश् च कार्यकारणता हि ते ०४२४७ अर्थ-अन्तरस्य तद्-भावे अभावो नियमतो अगतिः ०४२४७ अभाव-असम्भवात् तेषाम् अभावे नित्य-भाविनः ०४२४८ कार्य-स्वभाव-भेदानां कारणेभ्यः समुद्भवात् ०४२४८ तैर् विना भवतो अन्यस्मात् तज्जं रूपं कथं भवेत् ०४२४९ सामग्री-शक्ति-भेदाद् हि वस्तूनां विश्वरूपता ०४२४९ सा चेन् न भेदिका प्राप्तम् एक-रूपम् इदं जगत् ०४२५० भेदक-अभेदकत्वे स्याद् व्याहता भिन्न-रूपता ०४२५० एकस्य नाना-रूपत्वे द्वे रूपे पावक-इतरौ ०४२५१ तत् तस्य अजननं रूपम् अन्यस्य यदि सा एव सा ०४२५१ न तस्य अजननं रूपं तत् तस्याः सम्भवेत् कथम् ०४२५२ ततः स्वभावौ नियताव् अन्योन्यं हेतु-कार्ययोः ०४२५२ तस्मात् स्व-दृष्टाव् इव तद् दृष्टे कार्ये अपि गम्यते ०४२५३ एकं कथम् अनेकस्मात् क्लेद-वद् दुग्ध-वारिणः ०४२५३ द्रव-शक्तेर् यतः क्लेदः सा त्व् एका एव द्वयोर् अपि ०४२५४ भिन्न-अभिन्नः किम् अस्य आत्मा भिन्नो अथ द्रवता कथम् ०४२५४ अभिन्ना इत्य् उच्यते बुद्धेस् तद्-रूपाया अभेदतः ०४२५५ तद्वद् भेदे अपि दहनो दहन-प्रत्यय-आश्रयः ०४२५५ येन अंशेन अदधद् धूमं तेन अंशेन तथा गतिः ०४२५६ दहन-प्रत्यय-अङ्गाद् एव अन्य-अपेक्षात् समुद्भवात् ०४२५६ धूमो अतद्-व्यभिचारि इति सिद्धं कार्यं तथा परम् ०४२५७ धूम-इन्धन-विकार-अङ्गता-पदे दहन-स्थितेः ०४२५७ अनग्निश् चेद् अधूमो असौ सधूमश् चेत् सपावकः ०४२५८ नान्तरीयकता ज्ञेया यथास्वं हेत्व्-अपेक्षया ०४२५८ स्वभावस्य यथोक्तं प्राक् विनाश-कृतकत्वयोः ०४२५९ अहेतुत्व-गति-न्यायः सर्वो अयं व्यतिरेकिणः ०४२५९ अभ्यूह्यः श्रावणत्व-उक्तेः कृतायाः साम्य-दृष्टये ०४२६० हेतु-स्वभाव-व्यावृत्त्या एव अर्थ-व्यावृत्ति-वर्णनात् ०४२६० सिद्ध-उदाहरणा इत्य् उक्त-अनुपलब्धिः पृथग् न तु ०४२६१ तत्र अप्य् अदृश्यात् पुरुषात् प्राण-आदेर् अनिवर्तनात् ०४२६१ सन्देह-हेतुता-आख्यात्या दृश्य-अर्थे सा इति सूचितम् ०४२६२ अनङ्गीकृत-वस्त्व्-अंशो निषेधः साध्यते नया ०४२६२ वस्तुन्य् अपि तु पूर्वाभ्यां पर्युदासो विधानतः ०४२६३ तत्र उपलभ्येष्व् अस्तित्वम् उपलब्धेर् न च अपरम् ०४२६३ इत्य् अज्ञ-ज्ञापनाय एक-अनुपाख्य-उदाहृतिर् मता ०४२६४ विषय-असत्त्वतस् तत्र विषयि प्रतिषिध्यते ०४२६४ ज्ञान-अभिधान-सन्देहं यथा अदाहाद् अपावकः ०४२६५ तथा अन्या न उपलभ्येषु न अस्तिता अनुपलम्भनात् ०४२६५ तज्-ज्ञान-शब्दाः साध्यन्ते तद्भावात् तन्-निबन्धनाः ०४२६६ सिद्धो हि व्यवहारो अयं दृश्य-अदृष्टाव् असन्न् इति ०४२६६ तस्याः सिद्धाव् असन्दिग्धौ तत्-कार्यत्वे अपि धी-ध्वनी ०४२६७ विद्यमाने हि विषये मोहाद् अत्र अननुब्रुवन् ०४२६७ केवलं सिद्ध-साधर्म्यात् स्मार्यते समयं परः ०४२६८ कार्यकारणता यद्वत् साध्यते दृष्ट्य्-अदृष्टितः ०४२६८ कार्य-आदि-शब्दा हि तयोर् व्यवहाराय कल्पिताः ०४२६९ कारणात् कार्य-संसिद्धिः स्वभाव-अन्तर्गमाद् इयम् ०४२६९ हेतु-प्रभेद-आख्यायेन दर्शित-उदाहृतिः पृथक् ०४२७० एक-उपलम्भ-अनुभवाद् इदं न उपलभे इति ०४२७० बुद्धेर् उपलभे वा इति कल्पिकायाः समुद्भवः ०४२७१ विशेषो गम्यते अर्थानां विशिष्टाद् एव वेदनात् ०४२७१ तथाभूत-आत्म-संवित्तिर् भेद-धी-हेतुर् अस्य च ०४२७२ तस्मात् स्वतो धियोर् भेद-सिद्धिस् ताभ्यां तद्-अर्थयोः ०४२७२ अन्यथा ह्य् अनवस्थानाद् भेदः सिध्येन् न कस्यचित् ०४२७३ विशिष्ट-रूप-अनुभवान् न अतो अन्य-अन्य-निराक्रिया ०४२७३ तद्-विशिष्ट-उपलम्भो अतः तस्य अप्य् अनुपलम्भनम् ०४२७४ तस्माद् अनुपलम्भो अयं स्वयं प्रत्यक्षतो गतः ०४२७४ स्व-मात्र-वृत्तेर् गमकस् तद्-अभाव-व्यवस्थितेः ०४२७५ अन्यथा अर्थस्य नास्तित्वं गम्यते अनुपलम्भतः ०४२७५ उपलम्भस्य नास्तित्वम् अन्येन इत्य् अनवस्थितिः ०४२७६ अदृश्ये निश्चय-अयोगात् स्थितिर् अन्यत्र वार्यते ०४२७६ यथा अलिङ्गो अन्य-सत्त्वेषु विकल्प-आदिर् न सिध्यति ०४२७७ अनिश्चय-फला ह्य् एषा न अलं व्यावृत्ति-साधने ०४२७७ आद्या अधिक्रियते हेतोर् निश्चयेन एव साधने ०४२७८ तस्याः स्वयं प्रयोगेषु स्वरूपं वा प्रयुज्यते ०४२७८ अर्थ-बाधन-रूपं वा भावे भावाद् अभावतः ०४२७९ अन्योन्य-भेद-सिद्धेर् वा ध्रुव-भाव-विनाश-वत् ०४२७९ प्रमाण-अन्तर-बाधाद् वा सापेक्ष-ध्रुव-भाव-वत् ०४२८० हेत्व्-अन्तर-समूहस्य संनिधौ नियमः कुतः ०४२८० भाव-हेतु-भवत्वे किं पारंपर्य-परिश्रमैः ०४२८१ नाशनं जनयित्वा अन्यं स हेतुस् तस्य नाशनः ०४२८१ तम् एव नश्वरं भावं जनयेद् यदि किं भवेत् ०४२८२ आत्म-उपकारकः कः स्यात् तस्य सिद्ध-आत्मनः सतः ०४२८२ न आत्म-उपकारकः कः स्यात् तेन यः समपेक्ष्यते ०४२८३ अनपेक्षश् च किं भावो अतथाभूतः कदाचन ०४२८३ यथा न क्षेप-भाग् इष्टः स एव उद्भूत-नाशकः ०४२८४ क्षणम् अप्य् अनपेक्षत्वे भावो भावस्य न इति चेत् ०४२८४ भावो हि स तथाभूतो अभावे भावस् तथा कथम् ०४२८५ ये अपर-अपेक्ष-तद्भावास् तद्भाव-नियता हि ते ०४२८५ असम्भवाद् विबन्धे च सामग्री कार्य-कर्मणि ०४२८६ अनध्यवसित-अवगाहनम् अनल्प-धी-शक्तिना अप्य् ०४२८६ अदृष्ट-परमार्थ-सारम् अधिक-अभियोगैर् अपि ०४२८६ मतं मम जगत्य् अलब्ध-सदृश-प्रतिग्राहकम् ०४२८६ प्रयास्यति पयोनिधेः पय इव स्व-देहे जराम्
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Dharmakīrti: Pramāṇavārttikakārikā (without the svārthānumāna-chapter) (sa_dharmakIrti-pramANavArttikakArikA.htm).
Source