The Upanishad of the Essence of Brahman

Brahmabindūpaniṣad · Bरह्मबिन्दूपनिषद्

The Upanishad of the Essence of Brahman

Brahmabindūpaniṣad

Bरह्मबिन्दूपनिषद्

SK
ॐ मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धम् एव च / अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् // Bर्ब्Uप्_१ //
SK
मन एव मनुष्याणां कारणं बन्धमोक्षयोः / बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् // Bर्ब्Uप्_२ //
SK
यतो निर्विषयस्यास्य मनसो मुक्तिर् इष्यते / तस्मान् निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा // Bर्ब्Uप्_३ //
SK
निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि / यदा यात्य् उन्मनीभावं तदा तत् परममदम् // Bर्ब्Uप्_४ //
SK
तावद् एव निरोद्धव्यं यावद्धृदि गतं क्षयम् / एतज् ज्ञानं च मोक्षं च अतो ऽन्यो ग्रन्थविस्तरः // Bर्ब्Uप्_५ //
SK
नैव चिन्त्यं न चाचिन्त्यम् अचिन्त्यं चिन्त्यम् एव च / पक्षपातविनिर्मुक्तं ब्रह्म सम्पद्यते तदा // Bर्ब्Uप्_६ //
SK
स्वरेण संधयेद् योगम् अस्वरं भावयेत् परम् / अस्वरेण हि भावेन भावो नाभाव इष्यते // Bर्ब्Uप्_७ //
SK
तद् एव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् / तद् ब्रह्माहम् इति ज्ञात्वा ब्रह्म सम्पद्यते ध्रुवम् // Bर्ब्Uप्_८ //
SK
निर्विकल्पम् अनन्तं च हेतुदृष्टान्तवर्जितम् / अप्रमेयम् अनाद्यं च ज्ञात्वा च परमं शिवम् // Bर्ब्Uप्_९ //
SK
न निरोधो न चोत्पत्तिर् न वन्द्यो न च शासनम् / न मुमुक्षा न मुक्तिश् च इत्य् एषा परमार्थता // Bर्ब्Uप्_१० //
SK
एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु / स्थानत्रयाद् व्यतीतस्य पुनर्जन्म न विद्यते // Bर्ब्Uप्_११ //
SK
एक एव हि भूतात्मा भूते भूते व्यवस्थितः / एकधा बहुधा चैव दृश्यते जलचन्द्रवत् // Bर्ब्Uप्_१२ //
SK
घटसंभृतम् आकाशं लीयमाने घटे यथा / घटो लीयेत नाकाशं तद्वज् जीवो घटोपमः // Bर्ब्Uप्_१३ //
SK
घटवद् विविधाकारं भिद्यमानं पुनः पुनः / तद्भग्नं न च जानाति स जानाति च नित्यशः // Bर्ब्Uप्_१४ //
SK
शब्दमायावृतो यावत् तावत् तिष्ठति पुष्करे / भिन्ने तमसि चैकत्वम् एकम् एवानुपश्यति // Bर्ब्Uप्_१५ //
SK
शब्दाक्षरं परं ब्रह्म यस्मिन् क्षीणे यद् अक्षरम् / तद् विद्वान् अक्षरं ध्यायेद् यदीच्छेच्छान्तिम् आत्मनः // Bर्ब्Uप्_१६ //
SK
द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् / शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति // Bर्ब्Uप्_१७ //
SK
ग्रन्थम् अभ्यस्य मेधावी ज्ञानविज्ञानतत्त्वतः / पलालम् इव धान्यार्थी त्यजेद् ग्रन्थम् अशेषतः // Bर्ब्Uप्_१८ //
SK
गवाम् अनेकवर्णानां क्षीरस्याप्य् एकवर्णता / क्षीरवत् पश्यते ज्ञानं लिङ्गिनस् तु गवां यथा // Bर्ब्Uप्_१९ //
SK
घृतम् इव पयसि निगूढं भूते भूते च वसति विज्ञानम् / सततं मन्थयितव्यं मनसा मन्थानभूतेन // Bर्ब्Uप्_२० //
SK
ज्ञाननेत्रं समादाय चरेद् वह्निम् अतः परम् / निष्कलं निर्मलं शान्तं तद् ब्रह्माहम् इति स्मृतम् // Bर्ब्Uप्_२१ //
SK
सर्वभूताधिवासं च यद् भूतेषु वसत्य् अधि / सर्वानुग्राहकत्वेन तद् अस्म्य् अहं वासुदेव // Bर्ब्Uप्_२२ //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Brahmabindūpaniṣad (sa_brahmabindUpaniSad.htm).

Source