Compendium of Actions
Kriyāsaṃgrahakārikā
Kरियासंग्रहकारिका
SKपरीक्षा गुरुशिष्याणां गुरोरध्येषणा ततः / मन्त्रसेवां गुरुः कुर्यात् ततो भूमेः परीक्षणम्
SKदेवतायोगयुक्तः सन् महीपूजां विधाय च / देवतोत्थापनं कृत्वा शोधयेन्मेदिनीं ततः
SKयवानां रोपणं कृत्वा जाङ्गुली चापि पूजयेत् / सूत्रं संपात्य यत्नेन वास्तुनागं परीक्षयेत्
SKइष्टकालक्षणं सम्यग् ज्ञात्वादिग्रहणं ततः / सम्यगायव्ययौ ज्ञात्वा प्रासादस्य च लक्षणम्
SKदेवदिक्पालवसुधाः सम्पूज्य च यथाविधि / ईतिकारोपणं कृत्वा होमं कुर्यात् प्रमोहनम्
SKवनयात्रा ततो द्वारं सम्यगुत्थापयेत्सुधीः / संस्थाप्य च शिरोदारु जुहुयादमृतानलम्
SKवज्राचार्यप्रवेशो ऽस्मिन् समाधित्रयभावना / परिक्रमार्थसूत्राणां पातनं रजसामपि
SKअग्निक्रियाविधानं च पिण्डिकास्थापनं ततः / सव्यक्षणेन निष्पाद्य प्रतिमां स्थापयेत्ततः
SKचित्रकर्म वलिः पिण्डी गण्डिकालक्षणं ततः / एतेषां च प्रतिष्ठानं प्रव्रज्याग्रहणं तथा
SKलक्षणं धर्मधातूनां ध्वजानामवरोपणम् / जीर्णोद्धारोपसंहारौ पूजयेद् गणमण्डलम्
SK/ क्रियासंग्रहकारिका समाप्ता //
SK/ कृतिरियं नागार्जुनपादानाम् //