सप्तविधानां धर्माणां पञ्चप्रकाराणां च तेषां हेतूनां निरोधस्तावद् ऽहेतुं तेषां च यो निरोधःऽ इत्यादिनाभिहितः | स एवोपशमः मोक्षो निर्वाणमिति | स च केनोक्तः? ऽतथागतो ह्यवदत् | इति | तेनोपदिष्ट इत्यभिप्रायेण तथा कथितम् |
SK
अर्थानां यथा स्थितिस्तथा (यथावत्) अवबोधात् ऽतथागतःऽ इत्युच्यते | वस्तूनां यथा स्थितिः, तस्या अभ्रान्ततया अन्येभ्यो देशनाद् वा ऽतथागतःऽ | एवंविधो यो देशकः, यश्चैवं स्वयं बोधकः श्रवणशीलयुक्तश्च स ऽएवंवादीऽ (महाश्रमणः) इत्युक्तः |