Twenty Verses on the Mahayana

Mahāyānaviṃśikā · Mअहायानविंशिका

Twenty Verses on the Mahayana

Mahāyānaviṃśikā

Mअहायानविंशिका

SK
न ज्ञानाच्छून्यता नाम काचिदन्या हि विद्यते / विविक्ताव्यतिरेकित्वं विवेकस्य यतो मतम्
SK
द्वयशून्यम् हि विज्ञानम् अन्यथा न प्रसज्यते / द्वयासत्त्वान् निवृत्तस्य द्वयात्मत्वप्रसन्गतः
SK
तच्छुरुततथतारूपो भगवान् एव भण्यते / वेद्यवेदकसद्भावविकल्पाद्यसमाश्रयः
SK
चित्तमात्रं निराभासं विहारो बुद्धभूस्तथा / एतद्धि भाषितं बुद्धैर्भासन्ते भाषयन्ति च
SK
चित्तं हि भूमयः सप्त निराभासा त्विहाष्टमी / द्वे भूमयो विहारो ऽत्र ऽशेषा भूमिर्ममात्मिका
SK
देश्यन्ते भूमयः सप्त बुद्धैश्चित्तवशं गताः / कायवाक्चित्तदौष्ठुल्यं सप्तम्यां न प्रवर्तते
SK
अष्टम्यां आश्रयस्तस्य स्वप्नो ऽप्यसुखसंभवः / - - - - - - - - - - - - - - - - // ७
SK
१. अवाच्यो वाचकैर्धर्मः कृपया येन देशितः / नमो ऽचिन्त्यप्रभवाय बुद्धायासङ्गबुद्धये
SK
२. स्वभावेन न चोत्पन्ना निर्वृताश्च न तत्त्वतः / यथाकाशं तथा बुद्धाः सत्त्वाश्चैवैकलक्षणाः
SK
३. पारावारं न चोत्पन्नाः स्वभावेन प्रतित्यजाः / ते ऽपि शून्या हि संस्काराः सर्वज्ञज्ञानगोचराः
SK
४. सर्वभावाः स्वभावेन प्रतिबिम्बसमा मताः / शुद्धाः शिवस्वभावाश्च अद्वयास्तथतासमाः
SK
५. असत्यात्मनि चात्मत्वं कल्पयित्वा पृथग्जनाः / सुखदुःखम् अभिज्ञाश्च सर्वम् एषां च तत्त्वतः
SK
६. षड्गतिर्यश्च संसारः स्वर्गश्च परमं सुखम् / नरके च महद्दुःखं जराव्याधिरपी यताम्
SK
७. अभूतां कल्पनां कृत्वा पच्यन्ते नरकादिषु / स्वदोषेनैव दह्यन्ते वेणवो वह्निना यथा
SK
८. यथा माया तथा सत्त्वा विषयान् परिभुञ्जते //
SK
मायामयीं गतिं यान्ति प्रतीत्योत्पादरूपिणीम्
SK
९. यथा चित्रकरो रूपं यक्षस्यातिभयङ्करं / बिभेति स्वयम् आलिख्य संसारे ऽप्य् अबुधस्तथा
SK
१०. यथा पङ्कं स्वयं कृत्वा कश्चित् पतति बालिशः / तथासत्कल्पनापङ्के मग्नाः सत्त्वा दुरुत्तरे
SK
११. अभावं भवतो दृष्ट्वा दुःखां विन्दति वेदनाम् / शङ्काविषेण बाधन्ते विषया वितथास्तथा
SK
१२. तांस्चैवाशरणान् दृष्ट्वा करुणाधीरमानसाः / नियोजयन्ति संबोधौ सत्त्वान् बुद्धा हितंकराः
SK
१३. ते ऽपि संभृतसंभाराः प्राप्य ज्ञानम् अनुत्तरम् / कल्पनाजालनिर्मुक्ता बुद्धा स्युर्लोकबन्धवः
SK
१४. यतो ऽजातम् अनुत्पन्नं सम्यक् सत्त्वार्थदर्शिनः / ततः शून्यं जगद् दृष्ट्वा आदिमध्यान्तवर्जितम्
SK
१५. तेन पश्यन्ति संसारं निर्वाणं च न चात्मनः / निर्लेपं निर्विकारं च आदिमध्यान्तभास्वरम्
SK
१६. स्वप्नानुभूतविषयं प्रतिबुद्धो न पश्यति / मोहनिद्राविबुद्धश्च संसारं नैव पश्यति
SK
१७. मायां विधाय मायवी उपसंहरते यदा / तदा न विद्यते किंचिद् धर्माणां सा हि धर्मता
SK
१८. चित्तमात्रम् इदं सर्वं मायाकारवद् उत्थितम् / ततः शुभाशुभं कर्म ततो जन्म शुभाशुभम्
SK
१९. कल्पयन्ति यथा लोकं नोत्पन्नाश्च स्वयं जनाः / उत्पादो हि विकल्पो ऽयं अर्थो बाह्यो न विद्यते
SK
२०. अस्वभावेषु भावेषु नित्यात्मसुखसंज्ञिनः / भवार्णवे भ्रमन्त्यस्मिन् बाला मोहतमोवृताः
SK
कल्पनाजलपूर्णस्य संसारसुमहोदधेः / अनाक्रम्य महायानं को वा पारं तरिष्यति
SK
महायानविंशिका कृतिरार्यनागार्जुनपादानां /

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Nāgārjuna: Mahāyānaviṃśikā (sa_nAgArjuna-mahAyAnaviMzikA.htm).

Source