1 SK योगवासिष्ठ ओf वाल्मीकि श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशाख्यव्याख्यासहितः Wइथ् थे चोम्मेन्तर्य् वासिष्ठमहारामायणतात्पर्यप्रकाश पणशीकरोपह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा सम्पादितः Eदितेद् ब्य् Vअसुदेव ळxमन ष्हर्म Pअन्सिकर् १९१८ प्रथमः सर्गः १ श्रीवसिष्ठ उवाच | अथ स्थितिप्रकरणादनन्तरमिदं शृणु | उपशमप्रकरणं ज्ञातं निर्वाणकारि यत् || १ || भुवनरचनपालनोपशान्तिप्रथितमहाविभवस्वभावपूर्णम् | निगमहृदयसाक्षि निष्प्रपञ्चं निजसुखबोधघनं शिवं प्रपद्ये || १ || मध्याह्नशङ्खध्वनिना सभोत्थानमिहोच्यते | वसिष्ठस्याह्निकं रात्रौ विश्वामित्रसहस्थितिः || १ || उत्पत्तिप्रकरणे सर्वसृष्टिश्रुतितात्पर्योद्घाटनाय मनोधीनैव सर्वप्रपञ्चरचनेति दर्शितम् | स्थितिप्रकरणे च सर्वजगत्स्थितिप्रतिपादकश्रुतितात्पर्यप्रदर्शनाय मनःस्थित्यधीनैव सर्वप्रपञ्चस्थितिरिति दर्शितम् | इदानीं यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छत एतस्मिंस्तेजोमण्डल एकीभवन्ति सुषुप्तिकाले सकले विलीने यत्प्रयन्त्यभिसंविशन्ति यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय गताः कलाः पञ्चदश प्रतिष्ठाम् एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति इत्यादीनां सुषुप्तिप्रलयसमाधिसाक्षात्कारविदेहकैवल्येषु प्रपञ्चोपशमाज्जीवस्य ब्रह्मस्वभावताप्राप्तिप्रतिपादनेन प्रत्यग्ब्रह्मैकरसाखण्डवस्तुलक्षकश्रुतीनामपि मन उपशमादेव सर्वप्रपञ्चोपशमेन स्वरूपप्रतिष्ठायां तात्पर्यमिति रहस्योद्घाटनायोपशमप्रकरणमारभमाणः पूर्वोत्तरप्रकरणयोः संगतिं दर्शयन् विषयप्रयोजने निर्दिश्य शिष्यमवधानयन्प्रतिजानीते - अथेति | अथ स्थितिप्रतिपादकश्रुतितात्पर्यवर्णनानान्तरमुपसंहारबोधकश्रुतितात्पर्यवर् णनस्यावसरसंगतिरित्यर्थः | ज्ञातं निर्वाणकारीति | तथाच पूर्वप्रकरणप्रयोजनमेवास्यापीत्येककार्यकारितासंगतिरपि दर्शिता बोध्या || १ || श्रीवाल्मीकिरुवाच |
2 SK शरत्तारकिताकाशस्तिमितायां सुसंसदि | कथयत्येवमाह्लादि वसिष्ठे पावनं वचः || २ || शरत्तारकितेत्यादिकथासंदर्भः समयोचिताचारावश्यकत्वद्योतनार्थः | शरदि तारकितः संजाततारक आकाश इव स्तिमितायाम् | सर्वेषां सप्तम्यन्तपदानां मध्याह्न शङ्खानां स्वन उदभूदिति चतुर्दशे श्लोके संबन्धः || २ || श्रवणार्थित्वमौनस्थपार्थिवे संसदन्तरे | निर्वात इव निस्पन्दकमले कमलाकरे || ३ || श्रवणार्थित्वेन मौनस्थाः पार्थिवा यत्र | संसदन्तरे सभामध्ये || ३ || विलासिनीषु संशान्तमदमोहबलासु च | शममन्तः प्रयान्तीषु चिरप्रव्रजितास्विव || ४ || कराम्भोरुहहंसेषु लीनेषु श्रवणादिव | मुक्तघुर्घुरवादेषु वायसेषु तराविव || ५ || संनिधानाद्विलासिनीनां कराम्भोरुहेषु हंसायमानेषु चामरेषु श्रवणाच्छ्रुतार्थे समाधिना लीनेष्विवेति निःस्पन्दत्वदर्शनादुत्प्रेक्षा | मुक्तघुर्घुरवादेषु त्यक्तकङ्कणकिङ्किणीरवेषु | वयांस्येव वायसास्तेषु | तराविति सदस उपमा || ५ || नासाग्रपरिविश्रान्ततर्जन्यङ्गुलिकोटिषु | विचारयत्सु विज्ञानकलां तज्ज्ञेषु राजसु || ६ || तज्ज्ञेषु विचारज्ञेषु || ६ || रामे विकासमायाते प्रभात इव पङ्कजे | परित्यक्ततमःपीठे सूर्योदय इवाम्बरे || ७ || तमसो भूमावेव घनत्वादुपरितनाम्बरपीठत्वेनोत्प्रेक्षा | यथा आचार्यागमने शिष्य उत्तिष्ठन् पीठं परित्यजति तद्वत्सूर्यस्योदये परित्यक्ततमःपीठे सतीत्यर्थः || ७ || आकर्णयति वासिष्ठीर्गिरो दशरथे रसात् | कलापिनीव जीमूतनिर्ह्रादान्मुक्तवर्षणात् || ८ || रसात् प्रेमार्द्रभावात् | तस्योपमा मुक्तवर्षणादिति | मुक्तवर्षणप्रयुक्तादाद्रींभावादिति यावत् || ८ || आहृत्य सर्वभोगेभ्यो मनो मर्कटचञ्चलम् | श्रवणं प्रति यत्नेन सारेण मन्त्रिणि स्थिते || ९ || यत्नेन आहृत्य परावर्त्य स्थिते || ९ || वसिष्ठोक्त्या परिज्ञातस्वात्मनीन्दुकलामले | लक्ष्मणे विलसल्लक्ष्ये शिक्षाबलविचक्षणे || १० ||
3 SK शिक्षाबलविचक्षणत्वादेव विलसद्धृदि स्फुरल्लक्ष्यं ब्रह्म यस्य तथाभूते || १० || शत्रुघ्ने शत्रुदलने चेतसा पूर्णतां गते | अलमानन्दमायाते राकाचन्द्रोपमे स्थिते || ११ || अलं पूर्णमानन्दमायाते प्राप्ते || ११ || सुमित्रे मित्रतां याते मानसे दुःखशीलिते | विकासिहृदये जाते तत्काल इव पङ्कजे || १२ || सुमित्रे मन्त्रिविशेषे दुःखशीलिते मानसे मित्रतां वश्यतां याते सति विकासिहृदये जाते | अम्बुजपक्षे आप्रातर्मानसे सरसि मनसि च दुःखेन शीलिते चिन्तिते शोभने मित्रे सूर्ये मित्रतामुदयेन प्रीतिकरतां याते सति तत्काले विकासिहृदये जाते || १२ || तत्रस्थेषु तथान्येषु तदा मुनिषु राजसु | सुधौतचित्तरत्नेषु प्रोल्लसत्स्विव चेतसा || १३ || प्रोल्लसत्स्विव जातेष्विति यथायोगं विपरिणामेन सर्वत्रानुषज्जते || १३ || उदभूत्पूरयन्नाशाः कल्पाभ्ररवमांसलः | अथ मध्याह्नशङ्खानामब्धिघोषसमः स्वनः || १४ || आशा दिशः | कल्पाभ्ररव हव मांसलोबलवान् || १४ || महता तेन शब्देन तिरोधानं मुनेर्गिरः | ययुर्जलदनादेन कोकिलध्वनयो यथा || १५ || मुनेर्वसिष्ठस्य || १५ || मुनिरन्तरयांचक्रे स्वां वाचमथ संसदि | जितसारो गुणः केन महता समुदीर्यते || १६ || अन्तरयांचक्रे तिरोदधे उपसंजहारेति यावत् | जितोऽभिभूतः सारो जनाह्लादकाशो यस्य तथाविधो गुणः केन महता अभिज्ञेनाभ्युदीर्यते प्रकटीक्रियते || १६ || मुहूर्तमात्रं बिभ्रभ्य श्रुत्वा मध्याह्ननिःस्वनम् | घने कोलाहले शान्ते रामं मुनिरुवाच ह || १७ || रामाद्यतनमेतावदाह्निकं कथितं मया | प्रातरन्यत्तु वक्ष्यामो वक्तव्यमरिमर्दन || १८ || अह्ना निर्वृत्तमाह्निकम् | वक्ष्यामो वयमिति शेषः || १८ || इदं नियतितः प्राप्तं कर्तव्यं तद्द्विजन्मनाम् | मध्याह्नमुपपन्नं यत्कर्तव्यं नावसीदति || १९ || मध्याह्नं मध्याह्ने यदुपपन्नं युक्तं द्विजन्मनां नियतितः प्राप्तं कर्तव्यं कर्म नावसीदतीति यत् तदिदं मयापि कर्तव्यमित्यन्वयः || १९ ||
4 SK त्वमप्युत्तिष्ठ सुभग समस्ताचारसत्क्रियाम् | आचराचारचतुरस्नानदानार्चनादिकाम् || २० || इत्युक्त्वा मुनिरुत्तस्थौ समं दशरथः प्रभुः | ससदाः सेन्दुरादित्य उदयाद्रितटादिव || २१ || मुनिना समं ससदाः सभाप्त्यसर्वजनसहितो दशरथोऽप्युत्तस्थौ || २१ || तयोरुत्तिष्ठतोः सर्वा सभोत्थातुमकम्पत | मन्दवातपरामृष्टा नलिनीवालिलोचना || २२ || अलिलोचणा इति सभाया अपि विशेषणम् || २२ || उत्तस्थौ सावतंसोत्थभृङ्गमण्डलमण्डिता | करिसेनेव सन्धयद्रावालोलकरपुष्करा || २३ || अत्रत्यमध्याह्नकाले अस्ताचले सूर्योदयकालः करिणामुत्थानयोग्य इत्याशयेन संध्याद्राविति | विन्ध्याद्राविति पाठे स्थानोपमा || २३ || परस्पराङ्गसंघट्टचूर्णिताङ्गदमण्डली | रत्नपूर्णारुणाम्भोदसन्ध्यासमयसूचनी || २४ || यतो रत्नपूर्णा अतः सादृश्यादरुणाम्भोदसंध्यासमयस्य सूचनी | स्मारिकेति यावत् || २४ || पतदुत्तंसविभ्रान्तभृङ्गोपहितघुंघुमा | मुकुटोद्दामविद्योतशक्रचापीकृताम्बरा || २५ || पतद्भिरुत्तंसविभ्रान्तैर्भृङ्गैराहितघुंघुमा | मुकुटानामुद्दामैर्नानामणिविद्योतैः शक्रचापीकृतमम्बरमाकाशं वस्त्रजातं वा यया सा || २५ || कान्तालताहस्तदलचारुचामरमञ्जरी | वनलेखेव विक्षुब्धवरवारणमण्डला || २६ || कान्तालक्षणानां लतानां हस्तलक्षणेषु दलेषु पल्लवेषु चारुचामरलक्षणा मञ्जर्यो यस्यां तथाविधा वनलेखेवेत्यर्थः || २६ || कचत्कटकभारक्तीकृतान्योन्यतताम्बरा | वातव्याधूतपुष्पेव मन्दारवनमालिका || २७ || कचन्तीभिः कटकभाभिः रक्तीकृतान्यन्योन्यमाकर्षणात्ततानि विस्तृतान्यम्बराणि यस्याम् || २७ || कर्पूरकणनीहाररचितामलवारिदा | शरद्दिक्तटमालेव प्रसृताशेषभूमिका || २८ || कर्पूरकणलक्षणैस्तत्सदृशैश्च नीहारैर्हिमकणैरुड्डीयमानै रचिता अमलाः शुभ्रा वारिदा यया | अत एव नीहारकाशपुष्पादिभिर्व्याप्ताशेषभूमिका शरद्दिक्तटमालेव स्थिता || २८ ||
5 SK लोलमौलिमणिप्रान्तपाटलाम्बरकोटरा | संध्येवाफुल्लनीलाब्जा कार्यसंहारकारिणी || २९ || कार्याणां दिनकृत्यानामुपसंहारकारिणी || २९ || रत्नांशुसलिलापूरमुखपद्मनिरन्तरा | पद्मिनीवालिवलिता नूपुरारवसारसा || ३० || संतता सा सभोत्तस्थौ भूभृच्छतसमाकुला | भूतसंततिसंभ्रान्ता सृष्टिर्नवमिवोदिता || ३१ || भूभृतां राज्ञां पर्वतानां च शतैः || ३१ || प्रणम्याथ नृपं भूपा निर्ययुर्नृपमन्दिरात् | शक्रचापीकृता रत्नैरम्बुधेरिव वीचयः || ३२ || सुमन्त्रो मन्त्रिणश्चैव वसिष्ठमथ भूमिपम् | प्रणम्य जग्मुः स्नानाय रसविज्ञानकोविदाः || ३३ || रसे ब्रह्मरसे जले च विहारविज्ञाने कोविदाः || ३३ || वामदेवादयश्चान्ये विश्वमित्रादयस्तथा | वसिष्ठं पुरतः कृत्वा तस्थुरावर्ननोन्मुखाः || ३४ || आवर्जनमनुज्ञा तदुन्मुखास्तत्प्रतीक्षाः || ३४ || राजा दशरथस्तत्र पूजयित्वा मुनिव्रजम् | तद्विसृष्टो जगामाथ स्वकार्यार्थमरिन्दमः || ३५ || वनं वनास्पदा जग्मुर्व्योम व्योमनिवासिनः | नगरं नागराश्चैव प्रातरागमनाय ते || ३६ || वनास्पदा वानप्रस्थाः || ३६ || महीपतिवसिष्ठाभ्यां प्रणयात्प्रार्थितः प्रभुः | वसिष्ठसद्मनि निशां विश्वामित्रोऽत्यवाहयत् || ३७ || वसिष्ठः सह विप्रेन्द्रैः पार्थिवैर्मुनिभिस्तथा | उपास्यमानो रामाद्यैः सर्वैर्दशरथात्मजैः || ३८ || जगाम स्वाश्रमं श्रीमान्सर्वलोकनमस्कृतः | अनुयातः सुरौघेन ब्रह्मलोकमिवाब्जजः || ३९ || तस्मात्प्रदेशाद्रामादीन्पुनर्दशरथात्मजान् | सर्वान्विसर्जयामास पादोपान्ते नतानसौ || ४० || तस्मादाश्रमप्रदेशात् || ४० || नभश्चरान्धरणिचरानधश्चरा- न्विसृज्य संस्तुतगुणगोचरांश्च तान् | यथाक्रमं स्वगृहमुदारसत्त्ववां- श्चकार तां द्विजजनवासरक्रियाम् || ४१ || अधश्चरान्नागान् | संस्तुतानां प्रशस्तानां गुणानां गोचरानाश्रयानिति यावत् | यथाक्रमं विसृज्य स्वगृहं प्रविश्येति शेषः | द्विजजनानां वासरोचितां पञ्चयज्ञक्रियां चकारेत्यर्थः || ४१ ||
6 SK इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो० उपशमप्रकरणे आह्निकवर्णनं नाम प्रथमः सर्गः || १ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे आह्निकवर्णनं नाम प्रथमः सर्गः || १ || द्वितीयः सर्गः २ श्रीवाल्मीकिरुवाच | ते समेत्य गृहं गत्वा राजपुत्राः शशित्विषः | चक्रुः सर्वमशेषेण स्वसद्मसु दिनक्रमम् || १ || इहाह्निकक्रिया रात्रौ रामस्य श्रुतचिन्तनम् | बुद्धेः श्रुतार्थे स्थैर्यार्थ प्रार्थना चोपवर्ण्यते || १ || दिनक्रममाह्निकम् || १ || वसिष्ठो राघवश्चैव राजानो मुनयो द्विजाः | इति चक्रुः स्वकार्याणि तथा स्वगृहवीथिषु || २ || इति वक्ष्यमाणप्रकारेण चक्रुः | स्वगृहेषु वीथिषु तथा बहिश्च यान्युचितानीत्यर्थः || २ || सस्नुः कमलकह्लारकुमुदोत्पलहारिषु | जलाशयेषु चक्राह्वहंससारसराजिषु || ३ || गोभूतिलहिरण्यानि शयनान्यासनानि च | ददुर्दानानि विप्रेभ्यो भाजनान्यंशुकानि च || ४ || हेमरत्नविचित्रेषु स्वेषु चामरसद्मसु | आनर्चुरच्युतेशानहुताशार्कादिकान्सुरान् || ५ || अमरसद्मसु देवालयेषु | स्वेषु स्वगृहेषु च || ५ || पुत्रपौत्रसुहृद्भृत्यबन्धुमित्रगणैः सह | तत आस्वादयामासुर्भोजनान्युचितानि वै || ६ || एतस्मिन्समये चास्मिन्नगरे दिवसोऽभवत् | तनुरष्टाङ्गशेषत्वाद्दृष्टो न च मनोहरः || ७ || दिवसस्तनुः सूक्ष्मोऽभवत् | अष्टाङ्गशेषत्वादष्टमभागशेषत्वात् || ७ || सायन्तनदिनान्तं ते तत्कालोचितचेष्टया | अनयन्नंशुभिः सार्धं यावदस्तं ययौ रविः || ८ || तत्कालोचितचेष्टया पुराणधर्मशास्त्रावलोकनादिरूपया || ८ || संध्यां ववन्दिरे सुष्ठु जेपुश्चैवाघमर्षणम् | पेठुः स्तोत्राणि पुण्यानि जगुर्गाथा मनोहराः || ९ || ततश्चाभ्युदिता श्यामा कामिनीशोकहारिणी | क्षीरोदादिव माहेन्द्री चन्द्रावश्यायदायिनी || १० || तत इत्युपात्तस्य तदुत्तरकालस्य क्षीरोदः कामिन्या ऐन्द्री दिक् कान्तसंगमप्रयुक्तशोकहरणानन्दस्य चन्द्रसंगमप्रयुक्तस्तापोपशमनोऽवश्याय इति क्रमेणोपमानानि || १० ||
7 SK शनैरास्तीर्णपुष्पेषु कीर्णकर्पूरमुष्टिषु | दीर्घेन्दुबिम्बरम्येषु तस्थुस्तल्पेषु राघवाः || ११ || दीर्घीभूतमिन्दुबिम्बमिव रम्येषु || ११ || अथ रामादृतेऽन्येषां तत्र तद्व्यवहारिणी | व्यतीयाय शनैः श्यामा मुहूर्त इव शोभना || १२ || तद्व्यवहारिणी तत्कालोचितविषयभोगनिद्रादिव्यवहारवती || १२ || तस्थौ रामस्तु तामेव वासिष्ठीं वचनावलीम् | चिन्तयन्मधुरोदारां करिणीं कलभो यथा || १३ || कलभः करिशावः करिणीं मातरं यथा || १३ || किमिदं नाम संसारभ्रमणं किमिमे जनाः | भूतानि च विचित्राणि किमायान्ति प्रयान्ति किं || १४ || चिन्ताप्रकारमेव प्रपञ्चयति - किमित्यादिना || १४ || मनसः कीदृशं रूपं कथं चैतत्प्रशाम्यति | मायेयं सा किमुत्था स्यात्कथं चैव निवर्तते || १५ || निवृत्तयानया कः स्याद्गुणो दोषोऽथ वा भवेत् | कथमात्मनि चैवायं तते संकोच आगतः || १६ || सर्वभोग्यभोक्तृभोगनिवृत्तेर्दोषः पुरुषार्थविघातो भवेत् | तते आकाशादपि विस्तीर्णे || १६ || किमुक्तं स्याद्भगवता मुनिना मनसः क्षये | किं चिन्द्रियजये प्रोक्तं किमुक्तमथवात्मनि || १७ || किं साधनं फलं चोक्तं स्यात् | आत्मनि विज्ञाते इति शेषः || १७ || जीवश्चित्तं मनो मायेत्येवमादिभिराततैः | रूपैरात्मैव संसारं तनोतीममसन्मयम् || १८ || एभिरेवं मनोमात्रतन्तुवद्धैः क्षयं गतैः | दुःखोपशान्तिरेतानि सुचिकित्स्यानि नः कथम् || १९ || दुःखोपशान्तिः सिद्ध्यतीति शेषः | एतानि मनो मायादिरूपाणि || १९ || भोगाभ्रमालावलयां धीबलाकामिमां कथम् | पृथक्करोमि पयसो धारां हंस इवाम्भसः || २० || भुज्यन्त इति भोगा विषयास्त एव संस्कारात्मना घनीभूय चित्ताकाशावरकत्वाद्दुःखसहस्रधारावर्षित्वाच्चाभ्राणि तान्यनुसृत्य मालेव वलयति वेष्टयतीति मालावलयां धीवृत्तिलक्षणां बलाकां बकीं कथं पृथक्करोमि | वेवेकेन परावर्तयामीति यावत् | पयसो दुग्धस्य धारां भागमिति यावत् || २० ||
8 SK भोगास्त्यक्तुं न शक्यन्ते तत्त्यागेन विना वयम् | प्रभवामो न विपदामहो संकटमागतम् || २१ || ननु किं विमर्शेन त्यज्यन्तां भोगास्तत्राह - भोगा इति | विपदां प्रतीकारे इति शेषः | सर्वात्मना भोगत्यागे जीवनासिद्धेस्तदर्थमल्पस्यापि भोगस्योपादाने वासनावृद्धेः संकटमागतमित्यर्थः || २१ || मनोमात्रमिदं प्राप्यं तच्चैवेदं प्रयोजनम् | संपन्नं नो गिरिगुरु मौर्ख्याद्यक्षः शिशोरिव || २२ || संकटान्तरमप्याह - मनोमात्रमिति | इदं प्राप्यमवश्यप्राप्तव्यमात्मतत्त्वं मन एव मीयते प्रमीयतेऽनयेति मात्रा प्रमाणं यस्य तथाविधम् | तच्च मनो नोऽस्माकमिदं बाह्यमेव विषयजातमेव प्रयुज्यते येन तत्प्रयोजनं निष्पत्तिहेतुभूतं पुरुषार्थभूतं च यस्य तथाविधं सन्मौर्ख्याद्गिरितोऽपि गुरु दुरुद्धरं संपन्नम् | यथा शिशोर्मौर्ख्यात्कल्पितो यक्षः | तथाच विषयाधीनसिद्धिकं मनस्तेभ्यो निवर्तयितुमेवाशक्यं निःस्वरूपतापत्तेस्तदनिवृत्तौ तु न तत्त्वसाक्षात्कारे प्रमाणं तत्कर्तु शक्यमिति संकटान्तरमित्यर्थः || २२ || परमां शान्तिमागत्य गतसंसारसंभ्रमा | बालेव लब्धदयिता कंचित्प्राप्स्यति नो मतिः || २३ || यदि तु निर्वासनं सर्वविषयोपशमेऽपि ब्रह्माकारतामात्रावलम्बनेन मनोऽवस्थापयितुं शक्येत तदा स्यादभिलषितसिद्धिरिति चिन्तयन्नाह - परमामिति | लब्धो दयितः कान्तो यया तथाविधा बाला तरुणीव लब्धब्रह्माकारा सती कंचिदन्यं नो प्राप्स्यति | न स्मरिष्यतीत्यर्थः || २३ || कदोपशान्तसंरम्भं विगताशेषकौतुकम् | अपापामात्मविश्रान्तं [अपापपदविश्रान्तं इति पाठः] मम स्यात्पावनं मनः || २४ || तां दशां प्राप्तुमुत्कण्ठते - कदेत्यादिना | संरम्भः क्रोधः | कौतुकं कामः | पापग्रहणं पुण्यतदुभयकार्याणामप्युपलक्षणम् || २४ || कलाकलापसंपूर्णाच्छशाङ्कादपि शीतले | पदे सुरूढं विश्रम्य भ्रमिष्यामि कदा जगत् || २५ ||
9 SK सप्तमभूमिकापर्यन्तं सुरूढं यथा स्यात्तथा विश्रम्य | जीवन्मुक्तिसुखं प्राप्येति यावत् || २५ || कलनापेलवं रूपमुत्सृज्यालीनमात्मनि | कदैष्यति मनः शान्तिमम्भसीव तरङ्गकः || २६ || आत्मनि आलीनं तिरोहितं सत् || २६ || तृष्णातरङ्गाकुलितमाशामकरमालिनम् | कदा संसारजलधिं तीर्त्वा स्यामहमज्वरः || २७ || कदोपशमशुद्धासु पदवीषु विचक्षणाः | मुमुक्षूणां निवत्स्यामो निःशोकं समदर्शनाः || २८ || मुमुक्षूणां प्राप्यासु पदवीषु पदेषु || २८ || संतापितसमस्ताङ्गः सर्वधातुभयंकरः | संसृतिज्वर आदीर्घः कदा नाशमुपैष्यति || २९ || अङ्गानि स्त्रीपुत्रपश्वादीनि हस्तपादादीनि च धातवः स्वर्णरूप्यादयस्त्वगसृङ्मांसादयश्च तेभ्यः क्षीयमाणेभ्यो भयंकरः || २९ || निर्वातदीपलेखेव कदा चित्तं गतव्यथम् | शममेष्यति हे बुद्धे सुप्रकाशघनान्तरम् || ३० || कदेन्द्रियाणि दुःखेभ्यः संतरिष्यन्ति हेलया | दुरीहादग्धदेहानि गरुत्मन्त इवार्णवान् || ३१ || विषयाभिमुखाकर्षणदुरीहाभिर्दुश्चेष्टाभिर्दग्धो देहो यैस्तथाविधानीन्द्रियाणि विषयहेलया कदा दुःखानि संतरिष्यन्तीत्यर्थः | अथवा इन्द्रियाणि कर्तॄणि | दुरीहा दुष्टविषयाभिलाषस्तत्प्रयुक्तानि दग्धदेहानि भाविनानाशरीराणि कर्मभूतानि विषयहेलया दुःखेभ्यः दुःखानि परिहर्तुं कदा तरिष्यन्तीति योजना | दुःखेभ्य इति सुखदुःखतत्क्रियायाम् इति चौरादिकाद्दुःखधातोर्भावे घञि तुमर्थाच्च भाववचनात् इति चतुर्थी || ३१ || अयं सोऽहं रुदन्मूढ इति व्यर्थाहितो भ्रमः | शरदीवासितो मेघः कदा नाशमुपैष्यति || ३२ || पशुपुत्रधनान्नपानादीनामलाभवियोगादिना रुदति मूढे मयि रोदननिमित्तभूतोऽयं देह एव स प्रसिद्ध आत्मा अहं चेति व्यर्थं पूर्वपूर्वदेहवासनाकामकर्मपरम्पराहितो भ्रमः प्रबोधवैमल्ये शरदि प्रवृत्तायां वार्षिकोऽसितो मेघ इव कदा नाशमुपैष्यतीत्यर्थः || ३२ || मन्दारवनलेखासु या मतिः सा तृणायते | याचे तत्पदमात्मीयं संप्राप्स्यामः कदा वयम् || ३३ ||
10 SK उत्कटया मुमुक्षया स्वर्गोऽपि स्वस्य तृणवद्भातीत्याह - मन्दारेति | मतिः सुखानुभवः | अहं याचे वाञ्छामीति यावत् | वयमिति अस्मदो द्वयोश्च इति बहुवचनम् || ३३ || वीतरागजनप्रोक्ता निर्मला ज्ञानदृष्टयः | कच्चित्पदं त्वयि मनः करिष्यन्तीति मे वद || ३४ || इदानीं मन-आदीन्विवेकग्रहणाय प्रार्थयते - वीतरागेत्यादिना | हे मनः त्वयि पदं स्थानं कञ्चित्करिष्यन्ति || ३४ || हा तात मातः पुत्रेति गिरामासामहं पुनः | भाजनं चित्त माभूवं भोजनं दुःखभोगिनाम् || ३५ || अहं दुःखलक्षणानां भोगिनामजगराणां भोजनं भक्ष्यं सन्नासामाक्रन्दगिरां पुनर्भाजनं माभूवमित्यन्वयः || ३५ || हे बुद्धे भगिनि भ्रातुरर्थितां पूरयाशु मे | आवयोर्दुःखमोक्षाय विचारय मुनेर्गिरः || ३६ || जीवबुद्ध्योरेकाविद्योदरोद्भूतत्वाद्भगिनीति संबोधनम् | मुनेर्वसिष्ठस्य || ३६ || त्वां पादपतितः प्रीत्या याचे सति सुते मते | तेन भव्ये भवोच्छेदभूतये सुस्थिरा भव || ३७ || सति साध्वि | शास्त्रसज्जनप्रसादेन पश्चादुत्पन्नत्वात्सुते पुत्रि | मते सन्मते | तेन मत्प्रार्थनेन | भवोच्छेदोपलक्षितपूर्णतासंपदे || ३७ || वसिष्ठमुनिना प्रोक्ता विरक्ताः प्रथमं गिरः | ततो मुमुक्षोराचार उत्पत्तीनां क्रमस्ततः || ३८ || एवं प्रार्थनया स्थिरीकृतां मतिं वैराग्यप्रकरणादिप्रकरणचतुष्टयार्थस्मरणे क्रमान्नियुङ्क्ते - वसिष्ठेति | प्रोक्ता मन्मुखेन वादिताः स्वयंप्रोक्ताश्च स्थितिप्रकरणान्ता गिरः || ३८ || ततः स्थितिप्रकरणं समं दृष्टान्तसुन्दरम् | विज्ञानगर्भसुलभं यथावत्स्मर हे मते || ३९ || विज्ञानगर्भं सुलभं सरलं च | विज्ञानगर्भैरधिकारिभिराख्यानैर्वा सुलभं सुबोधमिति वा || ३९ || कृतमति शतशो विचारितं य- द्यदि तदुपैति न मानसस्य बुद्धिः | भवति तदफलं शरद्घनाभं सततमतो मतिरेव कार्यसारः || ४० ||
11 SK ननु मनसः प्राक्प्रार्थितत्वात्तत एव प्रकरणचतुष्टयार्थावधारणसिद्धेः किमर्थं तद्व्यतिरेकेण पुनर्मतिः प्रार्थ्यते तत्राह - कृतमतीति | मानसस्य मनसः कृतमतिनिपुणं यथा स्यात्तथा शतशो यद्वस्तु विचारितं भवति तद्बुद्धिरध्यवसानमतिर्यदि नोपैति नाङ्गीकरोति तर्हि तत्तथा विचारितमप्यफलं शरद्धनवन्नश्यत्येव न स्थिरीभवतीत्यर्थः | अतः श्रवणेन विचारितेऽपि तत्त्वे मतिर्मननकृताध्यवसायबुद्धिरेव सततं कार्ये कर्तव्यार्थविषये सारो मुख्यो भवतीति मननाय पृथक् तत्प्रार्थनं युक्तमेवेत्यर्थः || ४० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे उपदेशानुवर्णनं नाम द्वितीयः सर्गः || २ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे उपदेशानुवर्णनं नाम द्वितीयः सर्गः || २ || तृतीयः सर्गः ३ श्रीवाल्मीकिरुवाच | तस्यैवंप्रायया तत्र ततयोदारचिन्तया | सा व्यतीयाय रजनी पद्मस्येवार्ककाङ्क्षिणः || १ || उषःस्नानगृहायातरामप्रभृतिभिः सह | वसिष्ठस्य सभायानं प्रस्तावश्चात्र कीर्त्यते || १ || स्य रामस्य | एवंप्रायया उक्तप्रकारया | ततया विस्तृतयता चिन्तया || १ || किंचित्तमःकडारासु किंचिदप्यरुणासु च | नभोविरलतारासु दिक्षु संमार्जितास्विव || २ || तमोभिः कडारासु कपिशवर्णासु || २ || प्रभाततूर्यघोषेण सममिन्दुसमाननः | उत्तस्थौ राघवः श्रीमान्पद्मः पद्मकरादिव || ३ || प्रातःस्नानविधिं कृत्वा संपाद्य भ्रातृभिः पुनः | प्रहिताल्पपरीवरो वसिष्ठसदनं ययौ || ४ || संपाद्य निर्वर्त्य संध्यावन्दनादिकमित्यौचित्याद्गम्यते | भ्रातृभिः प्रहितः प्रेषितः अल्पः परीवारः परिजनो यस्य | भ्रातृभिः सह प्रहितः आप्ततमोऽल्पः परीवारो यस्येति वा || ४ || समाधिसंस्थमे कान्ते मुनिमात्मपरायणम् | दूर एवाननामासौ रामो विनतकन्धरः || ५ || समाधिसंस्थमिति | पूर्वमेव स्नात्वा प्रातःकृत्यं निर्वर्त्य समाधिसंस्थमिति गम्यते || ५ ||
12 SK तं प्रणम्याङ्गणे तस्थुस्तस्मिंस्ते विनयान्विताः | यावत्तमः समालूनं व्यक्तं दिङ्मुखमण्डलम् || ६ || ते रामादयो यावत्तमः सम्यगालूनं छिन्नं भवति तावत्तस्थुः || ६ || राजानो राजपुत्राश्च ऋषयो ब्राह्मणास्ततः | आययुः सदनं मौनं ब्रह्मलोकमिवामराः || ७ || मौनं निःशब्दं यथा स्यात्तथा || ७ || तद्वसिष्ठस्य सदनं बभूव जनसंकुलम् | हस्त्यश्वरथसंबाधं पार्थिवाचारशोभनम् || ८ || पार्थिवोचिताचारेऽपि पार्थिवसदनमिव शोभनं शोभमानम् || ८ || क्षणाद्वसिष्ठो भगवान्विरराम समाधितः | आचारेणोपचारेण जग्राह प्रणतं जनम् || ९ || विनयाद्याचारेण प्रियवचनाद्युपचारेण || ९ || तथानुयातो मुनिभिर्विश्वामित्रान्वितो मुनिः | आरुरोह रथं श्रीमान्सहसाब्जमिवाब्जजः || १० || ययौ गृहं दाशरथं सैन्येन महता वृतः | ब्रह्मेव शक्रनगरं समस्तसुरमालितः || ११ || विवेशावनतां तत्र रम्यां दाशरथीं सभाम् | हंसयूथानुवलितो राजहंस इवाब्जिनीम् || १२ || अवनतां प्रणम्रजनाम् || १२ || त्रीणि तत्र पदान्याशु तदा दशरथो नृपः | निर्जगाम महावीरः सिंहासनसमुत्थितः || १३ || निर्जगाम अभिजगाम || १३ || विविशुस्तत्र ते सर्वे नृपा दशरथादयः | वसिष्ठाद्याश्च मुनयो ऋषयो ब्राह्मणास्तथा || १४ || मन्त्रिणश्च सुमन्त्राद्याः सौम्याद्याश्च विपश्चितः | राजपुत्राश्च रामाद्या मन्त्रिपुत्राः शुभादयः || १५ || अमात्याद्याः प्रकृतयः सुहोत्राद्याश्च नागराः | मालवाद्यास्तथा भृत्याः पौराद्याश्चैव मालिनः || १६ || अथ तेषूपविष्टेषु स्वेषु स्वेष्वासनेषु च | सर्वेष्वेवोपविष्टेषु वसिष्ठोन्मुखदृष्टिषु || १७ || तेषु मुनिनृपमन्त्रिप्रभृतिषु प्रथममुपविष्टेषु सत्सु पश्चादन्येष्वपि सर्वेषूपविष्टेष्वित्यर्थः | सर्वेष्वेवेत्यादीनां सर्गसमाप्तिपर्यन्तं सर्वेषां सप्तम्यन्तानामुत्तरसर्गस्थ इदं दशरथो वाक्यमुवाचेत्यत्र संबन्धः || १७ || सभाकलकले शान्ते मौनसंस्थेषु बन्दिषु | वृत्तासु स्थितिवार्तासु सौम्ये तस्मिन्सभान्तरे || १८ ||
13 SK सभायाः कलकले कोलाहले | स्थितिवार्तासु परस्परं रात्रिसुखावस्थितिप्रश्नप्रतिवचनवार्तासु वृत्तासु सतीषु || १८ || स्फुरत्पवनमालासु विशत्स्वम्भोजकोटरात् | परागेषु विलोलेषु मुक्तादामसु चञ्चलम् || १९ || अम्भोजकोटरान्निर्गत्य सभां विशत्स्विति शेषः | अत एवाम्भोजानां परागेषु मुक्तादामसु चञ्चलं यथा स्यात्तथा विलोलेषु लम्पटेषु || १९ || बृहत्कुसुमदोलाभ्यः प्रसृताभ्यः समंततः | वाति मांसलमामोदमादाय मधुरानिले || २० || वातायनेषु मृदुषु कुसुमाकीर्णभूमिषु | पर्यङ्केषूपविष्टासु पश्यन्तीषु पुरंध्रिषु || २१ || मृदुषु पर्यङ्केषु || २१ || जालागतार्ककरलोलविलोचनासु रत्नप्रभानिकरपिङ्गलकोमलासु | संत्यक्तचापललवं चपलासु तासु मौन्स्थितासु सितचामरधारिणीषु || २२ || जालागतैरर्ककरैरवलोकनप्रतिघाताल्लोलानि विलोचनानि यासाम् | रत्नप्रभानिकरैः पिङ्गलासु कोमलासु सुकुमारीषु तासु प्रागुक्तासु सितचामरधारिणीषु संत्यक्तचापललवं यथा स्यात्तथा मौनस्थितासु || २२ || मुक्ताफलप्रतिफलप्रतिमार्करश्मि- रागोदरास्वजिरभूमिषु पुष्पकौघम् | नासादयत्यभिनवातपबिम्बबुद्ध्या भ्रान्ते भ्रमत्यलिकुले नभसीव मेघे || २३ || नानारत्नखचितास्वजिरभूमिषु मुक्ताफलानां प्रतिफलानि प्रतिच्छायास्तत्प्रतिमा अर्करश्मिरागा उदरे यासां तथाविधासु नानापुष्पाकारचित्रासु जातासु अभिनवातपबिम्बा एवेमे इति भ्रान्तिबुद्ध्या अलिकुले पुस्पकौघं विकीर्णपुष्पसमूहं नासादयति अलभमाने अत एव भूम्यस्पर्शान्नभसि मेघ इव भ्रमति सति || २३ || पुण्यैर्वसिष्ठवदनप्रसृतं श्रुतं य- त्तत्संततिप्रसृतविस्मयमार्यलोके | सत्संगमे मृदुपदाक्षरमुग्धवाक्य- मन्योन्यमीप्सितमनल्पगुणाभिरामम् || २४ ||
14 SK तस्मिन्सत्संगमे सतां समाजे आर्यलोके बहुमतजने प्राक्संचितैः पुण्यैर्यद्वसिष्ठवदनप्रसृतं वचनं श्रुतं तस्य संतत्या हृदि विस्तारेण प्रसृतविस्मयमुद्भूताश्चर्यं यथा स्यात्तथा अन्योन्यमीप्सितमभिमतमनल्पगुणाभिरामं मृदुपदाक्षरमुग्धवाक्यं भाषमाणे सतीति शेषः || २४ || दिग्भ्यः पुराच्च गगनाच्च वनाच्च सिद्ध- विद्याधरार्यमुनिविप्रगणे वसिष्ठम् | मौनप्रप्राणमभितः प्रविशत्यशब्दं सोपांशु गौरववता सह जातवाक्ये || २५ || वनाच्च समागते इति शेषः | विद्याधराणामार्यमुनीनामन्येषां च विप्राणां गणे वसिष्ठमभितो मौनप्रणामं प्रणम्य अशब्दं पिहितास्यं यथा स्यात्तथा प्रविशति सति | ततो गौरववता गरीयसा अवश्यसंभाष्येण सह सोपांशु अतिमन्दस्वरं कर्णसन्निधौ जातवाक्ये सति | वसिष्ठमभित इति अभितः परितः समयानिकषाहाप्रतियोगेऽपि इति षष्ठ्यर्थे द्वितीया || २५ || उन्निद्रकोकनदकोमलकोशकृष्ट- मग्नालिजालमकरन्दसुवर्णरागैः | आपिङले मरुति वाति विलोलघण्टा- टाकारगीतविनिपीतनिशान्तगीते || २६ || उन्निद्राणां कोकनदानां रक्तकमलानां कोमलेभ्यः कोशेभ्यः कृष्टानां प्राक्तदन्तर्मग्नानामलिजालानां मकरन्दानांसुवर्णानां परागाणां च रागै रञ्जनैरापिङ्गले ईषत्पिङ्गलवर्णे मरुता स्वाभिमर्शाद्विलोलानां गृहप्रान्तघण्टानां टांकारगीतैर्विनिपीतान्यभिभूतानि निशान्तानां गृहाणां गीतानि येन तथाविधे मरुति वाति सति | घण्टाजिह्वाग्रे पिप्पलपत्राकाररचनान्मन्दवातैरपि गृहपटलघण्टावलिध्वननं दक्षिणदेशे नेपाले च प्रसिद्धम् || २६ || अगुरुतगरधूमे चन्दनामोदमिश्रे सरसकुसुमदामोद्दामगन्धाङ्किताभ्रे | सरति सति वितानाम्भोरुहामोदलेशै- श्चलकुसुमरजोङ्के शब्दविज्ञातभृङ्गम् || २७ ||
15 SK चन्दनामोदैर्मिश्रे चलकुसुमरजोभिरङ्क्यत इत्यङ्कस्तथाविधे अत एव सरसानां कुसुमदाम्नामुद्दामैर्गन्धैरङ्कितानि सुरभितान्यभ्राणि येन तथाविधे अगुरुतगरनिर्यासधूमे तन्नीलिम्ना तिरोहितवर्णत्वाच्छब्धैरेव विज्ञाता नतु साक्षाद्दृष्टा भृङ्गा यस्मिन्कर्मणि तद्यथा स्यात्तथा वितानवद्धानामम्भोरुहाणामामोदलेशैः सह सरति ऊर्ध्वं प्रवहति सतीत्यर्थः || २७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे सभासंस्थानवर्णनं नाम तृतीयः सर्गः || ३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे सभासंस्थानवर्णनं नाम तृतीयः सर्गः || ३ || चतुर्थः सर्गः ४ श्रीवाल्मीकिरुवाच | मेघगम्भीरया वाचा विश्रब्धपदसुन्दरम् | इदं दशरथो वाक्यमुवाच मुनिनायकम् || १ || राज्ञा वसिष्ठवाक्यानां प्रशंसा मुनिवाक्यतः | रामेण चिन्तितार्थानामनुवादश्च वर्ण्यते || १ || विश्रब्धैर्विश्वासातिशयप्रकाशकैः पदैः सुन्दरम् || १ || भगवन्ह्यस्तनेन त्वं वाक्यसंदर्घजन्मना | कच्चिन्मुक्तोऽसि खेदेन तपःकार्श्यातिशायिना || २ || ह्यस्तनेन पूर्वेद्युर्भवेन वाक्यसंदर्भोच्चारणजन्मना खेदेन श्रमेण || २ || ह्यस्तनोक्तो य आनन्दी विविक्तो वचसां गणः | अमृतावर्षणेनेव तेनैवाश्वासिता वयम् || ३ || आनन्दी श्रोत्रानन्दनशीलः | विविक्तो विशदः || ३ || चन्द्रांशव इवोत्सार्य तमांस्यमृतनिर्मलाः | अन्तःशीतलयन्त्येता महताममला गिरः || ४ || तमांसि अज्ञानान्यन्धकारांश्च || ४ || अपूर्वाह्लाददायिन्य उच्चैस्तरपदाश्रयाः | अतिमोहापहारिण्यः सूक्तयो हि महीयसाम् || ५ || इदानीं चन्द्रांशुभ्योऽप्युत्कर्षमाह - अपूर्वेति | अपूर्वः अनास्वादितपूर्वः कारणशून्यश्चानन्दो ब्रह्मसुखं प्रयोजनम् | तदेव मानुषानन्दादिहैरण्यगर्भानन्दान्तविषयसुखेभ्य उच्चैस्तरं पदं तदाश्रयास्तद्विषयाः | अतिमोहापहारिण्य इत्यनर्थनिवृत्तिरूपं प्रयोजनान्तरं तासामुक्तम् || ५ ||
16 SK आत्मरत्नावलोकैकदीपिका सरसात्मिका | यमाद्युक्तिलतोदेति स वन्द्यः सुजनद्रुमः || ६ || युक्तिलक्षणा ज्योतिर्लता यस्मादुदेति यमाश्रित्योदेति || ६ || दुरीहितं दुर्विहितं सर्वं सज्जनसूक्तयः | प्रमार्जयन्ति शीतांशोस्तमःकाण्डमिवाङ्घ्रयः || ७ || दुरीहितं मानसदोषम् | दुर्विहितं शारीरदोषम् | सर्वं समस्तेन्द्रियदोषम् | शीतांशोश्चन्द्रस्याङ्घ्रयः किरणाः || ७ || तृष्णालोभादयोऽस्माकं संसारनिगडा मुने | तवोक्त्या तनुतां याताः शरदीवासिताम्बुदाः || ८ || तानेव स्पष्टमाह - तृष्णेति | तनुतामल्पावशेषताम् || ८ || संप्रवृत्ता वयं द्रष्टुमात्मानमपकल्मषम् | रसाञ्जनानीतदृशो जात्यन्धा इव काञ्चनम् || ९ || रसः सिद्धरसस्तद्रचितैः सिद्धाञ्जनैरानीतदृशो ब्रह्मरसाभ्यञ्जनेनानीतप्रत्यग्दृशश्च || ९ || संसारवासनानाम्नी मिहिका हृदयाम्बरे | प्रवृत्ता तनुतां गन्तुं त्वदुक्तिशरदेव नः || १० || हृदयाम्बरे स्थितेति शेषः | रूपकबलादेवान्तर्भूते | इवार्थे गम्यमाने पुनरिवशब्दप्रयोग उत्प्रेक्षाद्योतनार्थः || १० || मुने मन्दारमञ्जर्यस्तरङ्गा वामृताम्भसः | न तथा ह्लादयन्त्यन्तर्यथोदारधियां गिरः || ११ || अमृताम्भसः अमृताम्भोधेः || ११ || यद्यद्राघव संयाति महाजनसपर्यया | दिनं तदिह सालोकं शेषास्त्वन्धा दिनालयः || १२ || यद्यद्दिनं महतां जनानां ब्रह्मविदां सपर्यया पूजया संयात्यपयाति | सालोकं सप्रकाशम् | अन्धास्तमोवृताः || १२ || राम राजीवपत्राक्ष प्रकृतार्थमिहाव्ययम् | मुनिमाबोधय पुनः प्रसादे समवस्थितम् || १३ || आबोधय पृच्छ || १३ || इत्युक्तो भूभृता तत्र रामाभिमुखमास्थितः | उवाचेदमुदारात्मा वसिष्ठो भगवान्मुनिः || १४ || आस्थित्त उपविष्टः || १४ || श्रीवसिष्ठ उवाच | राघव स्वकुलैकेन्दो यन्मयोक्तं महामते | कच्चित्स्मरसि वाक्यार्थं पूर्वापरविचारितम् || १५ || उत्पत्तीनां विचित्राणां सत्त्वादिगुणभेदतः | कच्चित्स्मरसि सर्वासां विभागमरिमर्दन || १६ || सर्वासां प्रागुक्तजीवजातीनाम् || १६ ||
17 SK कश्चित्सर्वमसर्वं च सदसच्च सदोदितम् | रूपं स्मरसि वेत्स्येव विविक्तं परमात्मनः || १७ || सर्वं नटवन्मायया जगद्वेषेण स्थितं ब्रह्म | असर्वं निष्प्रपञ्चम् | सत्स्थूलमसत्सूक्ष्मं सत्यासत्यरूपं वा मदुक्तं स्मरसि स्वबुद्ध्या दृश्येभ्यो विविक्तं वेत्स्येव वा || १७ || यथेदमुदितं विश्वं विश्वेशादेव चेश्वरात् | कच्चित्स्मरसि तत्साधो साधुवादैकभाजन || १८ || विश्वेशात्सर्वशक्तिसंपन्नादीश्वराद्ब्रह्मणः | एवकारः सांख्याद्यभिमतप्रधानादिकारणवादनिरासार्थः | साधुवादाः प्रशंसाः सदुपदेशाश्च || १८ || रूपं कच्चिदविद्याया बलाद्भङ्गुरमाततम् | अनन्तमन्तवच्चैव सम्यक्स्मरसि सन्मते || १९ || बलात्कालबलात् | संख्यया अनन्तं देशकालादिना त्वन्तवत् || १९ || चित्तमेव नरो नान्यदिति यत्प्रतिपादितम् | लक्षणादिविचारेण कच्चित्स्मरसि साधु तत् || २० || वाक्यार्थश्चाखिलः कच्चित्त्वया राम विचारितः | ह्यस्तनस्य विचारस्य रात्रौ हृदि निवेशितः || २१ || ह्यस्तनस्य विचारस्य श्रवणस्य विषयो वाक्यार्थो विचारितो मननेन परिष्कृतः || २१ || भूयोभूयः परामृष्टं हृदये सुनियोजितम् | प्रयोजनं फलत्युच्चैर्न हेलाहतसंस्थितेः || २२ || हेलया अनादरेण हता संस्थितिरुपदिष्टार्थधारणं येन तथाविधस्य पुरुषाधमस्य न फलतीत्यर्थः || २२ || भाजनं त्वं विविक्तानां वचसां शुद्धिशालिनाम् | विविक्तहृदयः कण्ठे मुक्तानामिव राघव || २३ || विविक्तहृदयो विवेकशालिमनाः विशालवक्षाश्च || २३ || श्रीवाल्मीकिरुवाच | कमलासनपुत्रेण मुनिना समहौजसा | एवं वितीर्णावसरो रामो वाक्यमुवाच ह || २४ || श्रीराम उवाच | भगवन्सर्वधर्मज्ञ तवैवैतद्विजृम्भितम् | यदहं परमोदारो बुद्धवान्वचनं तव || २५ || विजृम्भितं प्रभाविस्तारः || २५ || यदादिशसि तत्सर्वं तथैव न तदन्यथा | अपास्तनिद्रेण मया वाक्यार्थो हृदि चिन्तितः || २६ || तथैव कृतमिति शेषः | तदेव स्पष्टमाह - अपास्तेति || २६ ||
18 SK भवान्धकारक्षतये भवतोक्तिविवस्वता | ह्यःप्रसादितमाह्लादि वाग्रश्मिपटलं प्रभो || २७ || भवता कर्त्रा उक्तिलक्षणेन विवस्वता सूर्येण करणेन | उक्तौ उपदेशेनार्थप्रकाशनविषये विवस्वता सूर्यभूतेन भवतेति सामानाधिकरण्यं वा | आह्लादि जाड्यशीतापनयसुखकरम् || २७ || तदतीतमदीनात्मन्सर्वमन्तःकृतं मया | रम्यं पुण्यं पवित्रं च रत्नवृन्दमिवान्वितम् || २८ || अन्तःकृतं हृदि कृतम् | अन्वितं क्रमयुक्तम् || २८ || हितानुबन्धि हृद्यं च पुण्यमानन्दसाधनम् | शिरसा ध्रियते कैर्नो सिधैस्त्वदनुशासनम् || २९ || सर्वानिष्टहानानुबन्धित्वान्मधुरतरत्वात्परमपुरुषार्थसाधनत्वादनुल्लण् ^घ्यशासनत्वाच्च तव वचनमवश्यं शिरसा प्रणम्य हृदि कार्यमित्याशयेनाह - हितानुबन्धीति | सिद्धैर्देवभेदैर्योगमन्त्रादिसिद्धैः स्वतःसिद्धैः सनकादिभिर्वा कैर्न शिरसा ध्रियते || २९ || प्रतिक्षिपन्तः संसारमिहिकावरणं वयम् | प्रसन्नास्त्वत्प्रसादेन वर्षान्त इव वासराः || ३० || स्वस्मिन्नुपदेशस्य नैष्फल्यशङ्कां वारयन्नाह - प्रतिक्षिपन्त इति | निरस्यन्त इत्यर्थः | वर्षान्ते शरदि || ३० || आपातमधुरारम्भं मध्ये सौभाग्यवर्धनम् | अनुत्तमफलोदर्कं पुण्यं त्वदनुशासनम् || ३१ || उपदेशस्य कालत्रयेऽपि हितकारितामाह - आपातेति | आपाते श्रवणकाले | मध्ये मननदिध्यासनकाले | सौभाग्यस्य अन्तर्मुखताप्रयुक्तस्य शमादिसंपत्सुखस्य | अनुत्तमं मोक्षाख्यं फलं यत्र तथाविध उदर्क उत्तरकालो यस्य तत् || ३१ || विकासिसितमम्लानमाह्लादितशुभाशुभम् | त्वद्वचःकुसुमं नित्यं श्रीमत्फलदमस्तु नः || ३२ || सितं स्वच्छं शुभ्रं च | आह्लादितानि आनन्दैकरसीकृतानि शुभाशुभानि पुण्यपापानि तत्फलानि च येन | आह्लादिताः शुभा देवा अशुभाः सर्पादयश्च येन | त्वद्वचोलक्षणं कुसुमं कल्पवृक्षपुष्पम् || ३२ ||
19 SK सकलशास्त्रविचारविशारद प्रसृतपुण्यजलैकमहाहद | भज भृशं विततव्रत संप्रति प्रसृततां हतकिल्बिष संततिम् || ३३ || इदानीं गुरुं तीर्थत्वान्महाह्रदत्वेन रूपयन्संबोध्य पुनः शिष्टार्थोपदेशवाक्प्रवाहं प्रार्थयते - सकलेति | देशकालशास्त्रविचारेषु [देशकालेति सकलशब्दार्थः] विशारद हे प्रसृताचारपुण्यजलानामेकमहाह्रद विततव्रत मां प्रति [अयं संततिपदस्यार्थः तथाच त्वत्संततिं मां प्रतीत्यर्थः | रामस्य विद्यावंशत्वेन वसिष्ठसंतानत्वात्] संप्रति प्रसृततां उपदेशवाक्प्रसरं भजेत्यर्थः | ह्रदपक्षे सकलशास्त्रलक्षणानां वीनां हंसादिपक्षिणां चारैर्विशारद शोभमान | विततानि विस्तारितानि व्रतानि मुनिभिर्यत्र | स्नातॄणां हतानि किल्बिषाणि येन | एवंविध हे प्रसृतपुण्यजलैकमहाह्रद त्वं संप्रति इदानीं संततिं वाक्संतानरूपां प्रसृततां प्रवाहं भजेत्यर्थः | मां प्रतीत्यन्ते पाठे मद्विशुद्धये इत्यर्थः || ३३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपाये उपशमप्रकरणे राघवप्रश्नो नाम चतुर्थः सर्गः || ४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे राघवप्रश्नो नाम चतुर्थः सर्गः || ४ || पञ्चमः सर्गः ५ श्रीवसिष्ठ उवाच | इदमुत्तमसिद्धान्तसुन्दरं सुन्दराकृते | उपशान्तिप्रकरणं शृणुष्वावहितो हितम् || १ || अविवेकप्रवृद्धाया मनोमात्रजगत्स्थितेः | इहोपशमनोपायक्रमः सम्यगुदीर्यते || १ || अवहितः सावधानचित्तः || १ || दीर्घसंसारमायेयं राम राजसतामसैः | धार्यते जन्तुभिर्नित्यं सुस्तम्भैरिव मण्डपः || २ || प्रागुक्तमनूद्य प्रस्तुतेन संगमयति - दीर्घेति | राजसतामसैः प्रागुक्तजीवैर्धार्यते | पुरुषो वा अक्षितिः सहीदमन्नं धियाधिया जनयते कर्मभिः इत्यादिश्रुतेरिति भावः || २ || सत्त्वस्थजातिभिर्धीरैस्त्वादृशैर्गुणबृंहितैः | हेलया त्यज्यते पक्वा [तुच्छे इति पाठः] मायेयं त्वगिवोरगैः || ३ ||
20 SK प्रागुक्तलक्षणैः सत्त्वस्थजातिभिः राजससात्त्विकैः शुद्धसात्त्विकैश्च || ३ || ये सत्त्वजातयः प्राज्ञास्तथा राजससात्त्विकाः | विचारयन्ति ते साधो जगत्पूर्वपरम्पराम् || ४ || केनोपायेन त्यज्यते तमाह - ये इति | पूर्वपरम्परां मूलपरम्परां अन्नेन सोम्य शुङ्गेनापोमूलमन्विच्छ इत्यादिश्रुतिदर्शिताम् || ४ || शास्त्रसज्जनसत्कार्यसङ्गेनोपहतैनसाम् | सारावलोकिनी बुद्धीर्जायते दीपिकोपमा || ५ || सत्कार्याणि यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् इति भगवदुक्तानि || ५ || स्वयमेव विचारेण विचार्यात्मानमात्मना | यावन्नाधिगतं ज्ञेयं न तावदधिगम्यते || ६ || स्वयमेवेति | उद्धरेदात्मनात्मानं इति न्यायादिति भावः | नाधिगतं न ज्ञातम् | अधिगम्यते प्राप्यते || ६ || प्रज्ञावतां नयवतां धीराणां कुलशालिनाम् | जात्या राजससत्त्वानां मुख्यस्त्वं रघुनन्दन || ७ || त्वयि तु तत्प्राप्तियोग्यतास्त्येवेत्याह - प्रज्ञावतामिति | नयवतां प्रमाणकुशलानाम् || ७ || स्वयमालोकय प्राज्ञ संसारारम्भदृष्टिषु | किं सत्यं किमसत्यं वा भव सत्यपरायणः || ८ || आलोकय विचारेण पश्य || ८ || आदावन्ते च यन्नासि कीदृशी तस्य सत्यता | आदावन्ते च यन्नित्यं तत्सत्यं नाम नेतरत् || ९ || अस्तीति सत् सदेव सत्यमसत्ताविरुद्धस्वभावं तद्विरुद्धं नास्तिस्वभावं कथं संभवेत् | स्वभावविपर्यासायोगादिति भावः | नित्यं नियतसत्स्वभावम् || ९ || आद्यन्तासन्मये यस्य वस्तुन्यासज्जते मनः | तस्य मुग्धपशोर्जन्तोर्विवेकः केन जन्यते || १० || आसज्जते सत्यबुद्ध्या रज्यते || १० || जायते मन एवेह मन एव विवर्धते | सम्यग्दर्शनदृष्ट्या तु मन एव हि मुच्यते || ११ || मनोरथरचितप्रासादवन्मनोमात्रकार्यत्वादपि न सत्यताप्रसक्तिर्जगत इत्याशयेनाह - जायत इति || ११ || श्रीराम उवाच | ज्ञातमेतन्मया ब्रह्मन्यथास्मिन्भुवनत्रये | मन एव हि संसारिजरामरणभाजनम् || १२ || प्रश्नः स्पष्टः || १२ ||
21 SK यस्तस्योत्तरणोपायस्तन्मे ब्रूहि सुनिश्चितम् | हार्दं तमस्त्वयार्केण राघवाणां विनाश्यते || १३ || श्रीवसिष्ठ उवाच | पूर्वं राघव शास्त्रेण वैराग्येण परेण च | तथा सज्जनसङ्गेन नीयतां पुण्यतां मनः || १४ || प्रथमं शास्त्रसज्जनसङ्गाभ्यां वैराग्यादिसाधनचतुष्टयं संपाद्यमित्याह - पूर्वमिति | पुण्यतां ज्ञानोदययोग्यतापादिकां विशुद्धिम् || १४ || सौजन्योपहितं चेतो यदा वैराग्यमागतम् | तदानुगम्या गुरवो विज्ञानगुरवोऽपि ये || १५ || सौजन्यं निरभिमानिता | ये गुरवो विज्ञानेन सर्वशास्त्ररहस्यज्ञानेन गुरवो गरीयांसोऽपि शब्दादुपदेशकौशलेन शिष्यबोधनसमर्थाश्च भवन्ति ते विधिना अनुगम्याः || १५ || ततस्तस्योपदिष्टेन कृत्वा ध्यानार्चनादिकम् | क्रमेण पदमाप्नोति तद्यत्परमपावनम् || १६ || उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् | ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् इत्यादिश्रुतेः प्रथमं गुरूपदिष्टमार्गेण सगुणेश्वरध्यानार्चनादिकं कृत्वा तदनुग्रहाद्वक्ष्यमाणविचारादिकमेणेत्यर्थः || १६ || विचारेणावदातेन पश्यत्यात्मानमात्मना | इन्दुना शीतलेनान्तर्विश्वं खमिव तेजसा || १७ || विश्वं कृत्स्नं खमिन्दुना तेजसा पूर्णमिव || १७ || तावद्भवमहाम्भोधौ जनस्तृणवदुह्यते | विचारतटविश्रान्तिमेति यावन्न चेतसा || १८ || चेतसा बुद्धिप्लवेन विचारलक्षणे तटे यावद्विश्रान्तिं स्थैर्य नैति || १८ || विचारेण परिज्ञातवस्तुनोऽस्य जनस्य धीः | सर्वानध्ःकरोत्याधीन्सौम्याम्भ इव वालुकाः || १९ || आधीन् मानसदुःखानि | अधःकरोति निरस्यतीति यावत् | सौम्यं निम्नप्रसन्नम् || १९ || इदं रुक्ममिदं भस्म परिज्ञातमिति स्फुटम् | न यथा हेमकारस्य हेमज्ञानात्मनस्तथा || २० ||
22 SK भस्मनि गूढं हेम अन्यैर्विवेक्तुमशक्यमपि यथा हेमज्ञनात्मनः सदा हेमपरिशोधनेन तद्विवेककुशलात्मनो हेमकारस्य इदं रुक्ममिदं भस्मेति स्फुटं परिज्ञातमिति न तदलाभमोहस्यावसरस्तथा अयमज्ञदृशा प्रसिद्धो मनागात्मा परिच्छिन्नजीवश्चिरं विचारेण विविच्य स्वात्मनि अवगते सति अक्षयः कालादिपरिच्छेदशून्यः स्वत एव स्फुटं भवतीति कुतो मोहस्यावसर इति परेणान्वयः || २० || अक्षयोऽयं मनागात्मा स्वात्मन्यवगते चिरम् | भवतीति नरस्येह मोहस्यावसरः कुतः || २१ || अपरिज्ञातसारे हि मनोऽन्तर्यदि मुह्यते | ज्ञातसारे त्वसंदिग्धमसती किल मूढता || २२ || अपरिज्ञातसारे पुरुषे | यदि मुह्यति तर्हि मुह्यतां नामेति शेषः | असती असंभावितैव किलेत्यर्थः || २२ || हे जना अपरिज्ञात आत्मा वो दुःखसिद्धये | परिज्ञातस्त्वनन्ताय सुखायोपशमाय च || २३ || इदानीमनुक्रोशात्सर्वश्रोतृजनान्प्रत्याह - हे जना इति | यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति तत्त्वेव भयं विदुषोऽमन्वानस्य इत्यादिश्रुतेरिति भावः | परिज्ञातस्त्विति | रस ह्येवायं लब्ध्वानन्दी भवति | सर्वान्कामानाप्त्वाऽमृतः समभवत् | ज्ञात्वा तं मृत्युमत्येति | आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन इत्यादिश्रुतेरिति भावः || २३ || मिश्रीभूतमिवानेन देहेनोपहतात्मना | व्यक्तीकृत्य स्वमात्मानं स्वस्था भवत मा चिरम् || २४ || व्यक्तीकृत्य पञ्चकोशविवेकेन दृष्ट्वा || २४ || देहेनास्य न संबन्धो मनागेवामलात्मनः | हेम्नः पङ्कलवेनेव तद्गतस्यापि मानवाः || २५ || व्यक्तीकरणमेव स्फुटयति - देहेनेत्यादिना | अप्यर्थे एवकारः || २५ || पृथगात्मा पृथग्देही जलपद्मलवोपमौ | ऊर्ध्ववाहुर्विरौम्येष न च कश्चिच्छृणोति मे || २६ ||
23 SK आत्मा ब्रह्म देही जीवश्च यथा पद्माधारमहाजलं पद्मपत्रनिविष्टजललवश्चोपाधित एव पृथङ्न वस्तुतस्तद्वदित्यर्थः | ननु महाजलस्य पद्मपत्रारोहपरिच्छेदादौ वाय्वादिनिमित्तं प्रसिद्धम् | पूर्णात्मनः परिच्छेदेन देहारोहणे किं निमित्तमिति चेदसकृदुद्घोषितं पापिष्ठं मन एव | अतस्तन्नाशायैव यत्नः कार्य इत्याशयेनानुक्रोशादाक्रोशति - ऊर्ध्वबाहुरित्यादिना || २६ || जडधर्मि मनो यावद्गर्तकच्छपवत्स्थितम् | भोगमार्गवदामूढं विस्मृतात्मविचारणम् || २७ || दुर्वासनापङ्कगर्ते कच्छपवन्निलीनं कठोरं च भोगप्राप्तौ मार्गवद्द्वारभूतैरिन्द्रियैर्विषयेष्वामूढं मनो यावत्स्थितं तावत्संसारतिमिरं सेन्दुना सवह्निना अपिशब्दान्नक्षत्रमण्यादिसर्वतेजःसहितेन अर्कद्वादशकेनापि मनाक् ईषदपि न भिद्यते इति परेण सहान्वयः || २७ || तावत्संसारतिमिरं सेन्दुनापि सवह्निना | अर्कद्वादशकेनापि मनागपि न भिद्यते || २८ || संप्रबुद्धे हि मनसि स्वां विवेचयति स्थितिम् | नैशमर्कोदय इव तमो हार्दं पलायते || २९ || स्वां पारमार्थिकीं स्थितिं विवेचयति अनृताद्विविच्य पश्यति सति || २९ || नित्यमुत्तमबोधाय योगशय्यागतं मनः | बोधयेद्भवभेदाय भवो ह्यत्यन्तदुःखदः || ३० || योगो देहादितादात्म्याध्यासस्तल्लक्षणायां शय्यायां गतं सुप्तं समाधिविश्रान्तिं कृत्वेति वा || ३० || यथा रजोभिर्गगनं यथा कमलमम्बुभिः | न लिप्यते हि संश्लिष्टैर्देहैरात्मा तथैव च || ३१ || कथं बोधयेत्तदाह - यथेति || ३१ || कर्दमादि यथा हेम्ना श्लिष्टिमेति पृथक्स्थितम् | नान्तःपरिणतिं याति जडो देहस्तथात्मना || ३२ || हेमतादात्म्यापत्तिलक्षणां परिणतिमन्तर्वस्तुतो न याति || ३२ || सुखदुःखानुभावित्वमात्मनीत्यवबुध्यते | असत्यमेव गगने बिन्दुताम्लानते यथा || ३३ ||
24 SK अनुभावित्वमनुसारित्वमनुभवितृत्वं च इत्यवबुध्यते मूढ इति शेषः | बिन्दुता तद्यथावटरकाणि संपतन्तीव दृश्यन्ते इति श्रुत्यनुभवसिद्धा बिन्दुसहस्राकारता | म्लानता मालिन्यम् || ३३ || सुखदुःखे न देहस्य सर्वातीतस्य नात्मनः | एते ह्यज्ञानकस्यैव तस्मिन्नष्टे न कस्यचित् || ३४ || यदि नात्मनः सुखदुःखे तर्हि किं देहस्य नेत्याह - सुखदुःखे इति | तर्हि कस्य तत्राह - एते इति | अज्ञानमेवाज्ञानकं तस्यैव || ३४ || न कस्यचित्सुखं किंचिद्दुःखं च नच कस्यचित् | सर्वमात्ममयं शान्तमनन्तं पश्य राघव || ३५ || आत्ममयमात्मविवर्तम् | शान्तं नित्यप्रशान्तम् || ३५ || इमा याः परिदृश्यन्ते वितताः सृष्टिदृष्टयः | पयसीव तरङ्गास्ते पिच्छं व्योम्नीव चात्मनि || ३६ || विवर्ततां दृष्टान्तेन दर्शयति - इमा इति | व्योम्नि पिच्छं अर्धनिमीलिताक्षस्य सूर्याभिमुखं शयानस्य भ्रान्त्या प्रसिद्धम् || ३६ || यथा मणिर्ददात्यात्मच्छायाः स्वयमकारणम् | तेजोमयीस्तथैवायमात्मा सृष्टीः प्रयच्छति || ३७ || तेजोमयीरात्मच्छायाः स्वकान्तीर्ददाति प्रसारयति | अकारणमक्रियाव्यापृत इति यावत् | प्रयच्छति प्रसारयति || ३७ || आत्मा जगच्च सुमते नैकं न द्वैतमप्यसत् | आभासमात्रमेवेदमित्थं संप्रति जृम्भते || ३८ || नैकं नाद्वयम् न द्वैतं न नानापि यतो जगद्रूपमसत् | नह्यसता सतोऽभेदो भेदो वा निरूपयितुं शक्यत इत्यर्थः | संप्रत्यज्ञानकाले || ३८ || समस्तं खल्विदं ब्रह्म सर्वमात्मैवमाततम् | अहमन्यदिदं चान्यदिति भ्रान्तिं त्यजानघ || ३९ || परमार्थतस्तु भ्रान्तेरपि पृथग्दुर्निरूपत्वात् ब्रह्मैवेदं सर्वमात्मैवेदं सर्वम् इति श्रुत्युक्तदृशा ब्रह्मैव सर्वमित्याह - समस्तमिति || ३९ || तते ब्रह्मघने नित्ये संभवन्ति न कल्पनाः | विच्छित्तयः पयोराशौ यथा राम न सन्मयाः || ४० || तते दैशिकपरिच्छेदरहिते | ब्रह्मघने वस्तुकृतपरिच्छेदरहिते | नित्ये कालिकपरिच्छेदशून्ये || ४० ||
25 SK एकसिन्नेव सर्वस्मिन्परमात्मनि वस्तुनि | द्वितीया कल्पना नास्ति वह्नौ हिमकणो यथा || ४१ || वास्तवैकत्वविरोधादपि न द्वैतकल्पना सतीत्याह - एकस्मिन्नेवेति || ४१ || भावयन्नात्मनात्मानं चिद्रूपेणैव चिन्मयम् | ऋजूज्ज्वलमये ह्यात्मा स्वयमात्मनि जृम्भते || ४२ || इदानीं तादृशात्मपरिचयेन तत्र विश्रान्तये सदा तद्भावना कार्येत्याह - ṛjūjjvalamaye māyākauṭilyamālinyarahite iti yāvat || 42 || na śokosti na mohosti na janmāsti na janmavān | yadastīha tadevāsti vijvaro bhava rāghava || 43 || tadbhāvapannasya jīvanmuktiviśrāntiṃ darśayati - na śoka ityādinā || 43 || nirdvandvo nityasattvastho niryogakṣema ātmavān | advitīyo viśokātmā vijvaro bhava rāghava || 44 || nirdvandvaḥ śītoṣṇādiśārīradvandvavikṣeparahitaḥ | nityasattve sthitatvādrajastamaḥprayuktamānasavikṣeparahitaḥ | ata eva tadubhayaparihāropāyayogakṣemacintojjhitaḥ || 44 || samaḥ svasthaḥ sthiramatiḥ śāntaśokamanā muniḥ | maunī varamaṇisvaccho vijvaro bhava rāghava || 45 || viviktaḥ śāntasaṃkalpo dhīradhīrvijitāśayaḥ | yathāprāptānuvartī ca vijvaro bhava rāghava || 46 || viviktaḥ avidyātatkāryanirṇiktaḥ | vijitāśayaḥ svādhīnacittaḥ || 46 || vītarāgo nirāyāso vimalo vītakalmaṣaḥ | nādātā na parityāgī vijvaro bhava rāghava || 47 || viśvātītapadaṃ prāptaḥ prāptaprāptavyapūritaḥ | pūrṇārṇavavadakṣubdho vijvaro bhava rāghava || 48 || vikalpajālanirmukto māyāñjanavivarjitaḥ | ātmanātmani tṛptātmā vijvaro bhava rāghava || 49 || anantāpāraparyantavapurātmavidāṃvara | dharādharaśirodhīro vijvaro bhava rāghava || 50 || dharādharāṇāṃ śira iva śreṣṭho meruḥ sa iva dhīraḥ || 50 || yathāprāptānubhavanātsarvatrānabhivāñchanāt | tyāgādānaparityāgādvijvaro bhava rāghava || 51 || ātmanyevātmanaudāryaṃ bhaja pūrṇa ivārṇavaḥ | ātmanyevātmanāhlādaṃ bhaja pūrṇendubimbavat || 52 ||
26 SK औदार्यमकार्पण्यम् | पूर्णकामतामिति यावत् | आह्लादं सर्वतापोपशमसुखम् || ५२ || विश्वप्रपञ्चरचनेयमसत्यरूपा नासत्यरूपमनुधावति राम तज्ज्ञः | तज्ज्ञोऽसि शान्तकलनोऽसि निरामयोऽसि नित्योदितोऽसि भव सुन्दर शान्तशोकः || ५३ || उक्तमर्थं संगृह्योपदिशन्नुपसंहरति - विश्वेति | स्पष्टोऽर्थः || ५३ || एकातपत्रमवनौ गुरुणोपदिष्टं सम्यक्सुपालय चिरं समयेह दृष्ट्या | राज्यं समस्तगुणरञ्जितराजलोक- स्त्यागो न युक्त इह कर्मसु नापि रागः || ५४ || यदि तज्ज्ञोऽसत्यं नानुधावति तर्हि किं मम राज्यादिना पारिव्राज्यमेव युक्तमिति रामाशयमालक्ष्याह - एकेति | गुरुणा पित्रा उपदिष्टमाज्ञप्तमेकातपत्रं राज्यं समस्तगुणरञ्जिता राजानो लोकाः प्रजाश्च येन तथाविधः सन् समया दृष्ट्या चिरं सम्यक् सुपालय | प्रारब्धत्वादवश्यभोक्तव्येषु कर्मसु तत्फलेषु च त्यागो न युक्तो नापि रागो युक्त इत्यर्थः | त्यक्त्वा कर्मफलासङ्गं नित्ययुक्तो निराश्रयः | कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः | इति भगवद्वचनादिति भावः || ५४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु उपशमप्रकरणे प्रशमोपदेशो नाम पञ्चमः सर्गः || ५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे प्रशमोपदेशो नाम पञ्चमः सर्गः || ५ || षष्ठः सर्गः ६ श्रीवसिष्ठ उवाच | इमं विश्वपरिस्पन्दं करोमीत्यस्तवासनम् | प्रवर्तते यः कार्येषु स मुक्त इति मे मतिः || १ || इह कर्मगतीः पूर्वमुक्त्वा चरमजन्मनाम् | जीवन्मुक्त्यै गुणावाप्तौ सामान्यक्रम ईर्यते || १ || गुणार्जनक्रमस्य वक्ष्यमाणस्य प्रकृतसंबन्धं दर्शयितुं प्रस्तुतं निरासङ्गविहिताप्रतिषिद्धकार्यप्रवृत्त्या जीवन्मुक्तं लक्षयति - इममिति | विश्वं कृत्स्नं परिस्पन्दं श्रुतिस्मृतिसदाचारप्राप्तव्यवहारमयस्कान्तवत्सन्निधिमात्रेण करोमीत्यस्तवासनं प्रवर्तते नत्वज्ञ इव कर्तृत्वाभिनिवेशेनेत्यर्थः || १ ||
27 SK पौरुषीं तनुमाश्रित्य केचिदेतत्क्रियारताः | स्वर्गान्नरकमायान्ति स्वर्गं च नरकात्पुनः || २ || कर्मफलासङ्गादेवाज्ञानामनर्थप्राप्तिरिति दर्शयति - पौरुषीमिति | पौरुषीं मानुषीं तनुं देहमाश्रित्य प्राप्यापि केचिन्मूढा एतस्यां निरासङ्गकर्मानुष्ठानलक्षणायां क्रियायामरताः कामात्मानः काम्यकर्मभिः स्वर्ग भुक्त्वा ततः कतिपयकर्मानुशयावशेषेण [कपूय इति पाठः] नरकमायान्ति || २ || केचित्त्वकर्मणि रता विरता अपि कर्मणः | नरकान्नरकं यान्ति दुःखाद्दुःखं भयाद्भयम् || ३ || अकर्मणि निषिद्धकर्मणि रताः | कर्मणः सत्कर्मणो विरताः | तथाच स्मृतिः - विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् | अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति || इति || ३ || केचित्स्ववासनातन्तुबद्धाः कर्मफलोदिताः | तिर्यक्त्वात्स्थावरतनुं यान्ति तिर्यक्तनुं ततः || ४ || नरकोपभुक्तदुष्कर्मफलक्रमेण तिर्यग्योनिषु उदिता जाताः || ४ || केचिदात्मविदो धन्या विचारितमनोदृशः | विच्छिन्नतृष्णानिगडा यान्ति निष्केवलं पदम् || ५ || राजसतामसान् शुद्धतामसांश्चोक्त्वा शुद्धसात्त्विकजीवानाह - केचिदिति | विचारितो मनोदृक् मनःसाक्ष्यात्मा यैस्ते निष्केवलं परमकैवल्यरूपं पदम् || ५ || पुरा कतिपयान्येव भुक्त्वा जन्मानि राघव | अस्मिञ्जन्मनि यो मुक्तस्तस्माद्राजससात्त्विकः [तस्माद्राजस इत्यत्र स स्याद्राजस इति पाठो युक्तः] || ६ || राजससात्त्विकान्दर्शयति - पुरेति | कतिपयान्युत्तरोत्तरोत्कृष्टानि मानुषजन्मानि || ६ || जातोऽसौ वृद्धिमभ्येति पार्वणश्चन्द्रमा इव | कुटजं प्रावृषीवैनं सौभाग्यमनुगच्छति || ७ || तस्य शान्त्यादिगुणैरभिवृद्धिमाह - जात इत्यादिना | सौभाग्यं साधनचतुष्टयम् | कुटजपक्षे पुष्पश्रीः || ७ || यस्येदं जन्म पाश्चात्यं तमाश्वेव महामते | विशन्ति विद्या विमला मुक्ता वेणुमिवोत्तमम् || ८ || विद्या ब्रह्मविद्योपायसर्वविद्याः | वेणुमिवेति वेणुविशेषस्यापि मुक्ताकरत्वप्रसिद्धेः || ८ ||
28 SK आर्यता हृद्यता मैत्री सौम्यता करुणा ज्ञता | समाश्रयन्ति तं नित्यमन्तःपुरमिवाङ्गनाः || ९ || ज्ञता परोक्षप्रायं ज्ञानम् || ९ || यः कुर्वन्सर्वकार्याणि पुष्टे नष्टेऽथ तत्फले | समः सन्सर्वकार्येषु न तुष्यति न शोचति || १० || तस्योपक्रमोक्तजीवन्मुक्तलक्षणोपक्रममाह - य इति | पुष्टे प्रवृद्धे || १० || तमांसीव दिवा यान्ति तत्र द्वन्द्वानि संक्षयम् | शरदीव घनास्तत्र गुणा गच्छन्ति शुद्धताम् || ११ || द्वन्द्वानि सुखदुःखादीनि | प्राङ्मलिना अपि धृतिश्रद्धाह्रीप्रभृतयो गुणाः || ११ || पेशलाचारमधुरं सर्वे वाञ्छन्ति तं जनाः | वेणुं मधुरनिध्वानं वने वनमृगा इव || १२ || वेणुं कीचकम् | मारुतपूर्णरन्ध्रत्वेन मधुरनिध्वानम् || १२ || नरं पाश्चात्यजन्मानमेवंप्राया गुणश्रियः | जातमेवानुधावन्ति बलाका इव वारिदम् || १३ || जातमेवेति बाल्यात्प्रभृत्येवेति यावत् || १३ || ततोऽसौ गुणसंपूर्णो गुरुमेवानुगच्छति | स तमेवं विवेके वै नियोजयति पावने || १४ || एवंगुणसंपत्तौ गुरुमुखाच्छ्रवणाधिकारो नापक्वचित्तानामित्याशयेनाह - तत इति | एवं प्राङ्मदुक्तप्रकारे आत्मानात्मतत्त्वविवेके उपायानुपदिश्य स्वबुद्ध्यापि कार्ये मनने नियोजयती त्यर्थः || १४ || विचारवैराग्यवता चेतसा गुणशालिना | देवं पश्यत्यथात्मानमेकरूपमनामयम् || १५ || एवंगुणसंपन्नस्यैव गुरुपूर्वकश्रवणादिना साक्षात्कारलाभं दर्शयति - विचारेति | एकरूपमानन्दैकरसम् || १५ || तनोत्ययं विचारेण चारुणा शान्तचेतसा | प्रबोधनाय प्रथमं मनोमननमान्तरम् || १६ || नियोजयतीत्यत्र सूचितं मननं विवृणोति - तनोतीति || १६ || ये हि पाश्चात्यजन्मानस्ते हि सुप्तं मनोमृगम् | प्रबोधयन्ति प्रथमं गुणहीनं महागुणाः || १७ || गुणहीनं निर्गुणं ब्रह्मैव यथा भवति तथा प्रबोधयन्तीत्यर्थः || १७ || प्रथितगुणान्सुगुरून्निषेव्य यत्ना- दमलधिया प्रविचार्य चित्तरत्नम् | गतिममलामुपयान्ति मानवास्ते परमवलोक्य चिरं प्रकाशमन्तः || १८ ||
29 SK उक्तमर्थ संक्षिप्योपसंहरति - प्रथितेति | ते उक्तगुणसंपन्नाश्चरमजन्मानो मानवाः प्रथितगुणान् प्रख्यातजीवन्मुक्तलक्षणगुणान् सुगुरून् यत्नान्निषेव्य तद्दर्शितयुक्तिभिरमलधिया चित्तान्तर्गतं रत्नं प्रत्यगात्मानं प्रविचार्य रत्नपरीक्षावन्मननेन परीक्ष्य चित्तान्तःप्रकाशं परं प्रत्यगभिन्नं ब्रह्म चिरमवलोक्य साक्षादनुभूय तत्साक्षात्कारमात्रेण तद्भावलाभलक्षणाममलां मायातत्कार्यसर्वमलनिर्मुक्तां परमपुरुषार्थलक्षणां गतिमुप समीपे स्वस्थान एव यान्ति लभन्ते नोपासकवदुत्क्रम्य लोकान्तरं गत्वेत्यर्थः || १८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे प्रथमोपदेशो नाम षष्ठः सर्गः || ६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे प्रथमोपदेशो नाम षष्ठः सर्गः || ६ || सप्तमः सर्गः ७ श्रीवसिष्ठ उवाच | एष तावत्क्रमः प्रोक्तः सामान्यः सर्वदेहिनाम् | इममन्यं विशेषं त्वं शृणु राजीवलोचन || १ || इह स्वेन विचारेण किंचिद्व्युत्पन्नचेतसः | वर्ण्यते ज्ञानसंप्राप्तिप्रकाशफलपातवत् || १ || उक्तं सामान्यक्रममनूद्य कस्यचिद्भाग्यवतो विनैव तं दैवोपनीतेन स्वविचारमात्रेणैव सहसा सर्वगुणसंपत्सहितज्ञानोदयलक्षणं विशेषं दर्शयति - एष इत्यादिना || १ || अस्मिन्संसारसंरम्भे जातानां देहधारिणाम् | अपवर्गक्षमौ राम द्वाविमावुत्तमौ क्रमौ || २ || अपवर्गक्षमौ मोक्षफलोपहितौ | इमौ उक्तवक्ष्यमाणौ || २ || एकस्तावद्गुरुप्रोक्तादनुष्ठानाच्छनैः शनैः | जन्मना जन्मभिर्वापि सिद्धिदः समुदाहृतः || ३ || एकेन जन्मना बहुभिर्वा जन्मभिः सिद्धिदो मोक्षप्रापकः समुदाहृतः | प्रागुक्त इत्यर्थः || ३ || द्वितीयस्त्वात्मनैवाशु किंचिद्व्युत्पन्नचेतसा | भवति ज्ञानसंप्राप्तिराकाशफलपातवत् || ४ || आत्मना स्वेनैव दैवोपनीतजीवजगत्तत्त्वविचारवता ज्ञानसंप्राप्तिर्भवतीत्यर्थः || ४ ||
30 SK नभःफलनिपाताभज्ञानसंप्रतिपत्तये | तत्रेमं शृणु वृत्तान्तं प्राक्तनं कथयामि ते || ५ || द्वितीये क्रमे जनकाख्यायिकामुदाहरिष्यन्भूमिकां रचयति - नभःफलेति || ५ || शृणु सुभग कथां महानुभावा व्यपगतपूर्वशुभाशुभार्गलौघाः | खपतितफलवत्परं विवेकं चरमभवा विमलं समश्नुवन्ति || ६ || हे सुभग चरमभवाश्चरमजन्मानो महानुभावाः पुरुषाः परं विवेकं यथा खपतितफलवत्समश्नुवन्ति तथा वक्ष्यमाणां कथां शृण्वित्यर्थः || ६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मोक्षोपायेषूपशमप्रकरणे आकाशफलप्राप्तिवज्ज्ञानसंप्राप्तिक्रमसूचनं नाम सप्तमः सर्गः || ७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे आकाशफलप्राप्तिवज्ज्ञानसंप्राप्तिक्रमसूचनं नाम सप्तमः सर्गः || ७ || अष्टमः सर्गः ८ श्रीवसिष्ठ उवाच | अस्त्यस्तमितसर्वापदुद्यत्संपदुदारधीः | विदेहानां महीपालो जनको नाम वीर्यवान् || १ || जनकेन वसन्तेऽत्र वने विहरता क्वचित् | सिद्धगीताः शुभाः श्लोकाः श्रुता इत्युपवर्ण्यते || १ || विदेहानां जनपदानां महीपालो राजा || १ || कल्पवृक्षोऽर्थिसार्थानां मित्राब्जानां दिवाकरः | माधवो बन्धुपुष्पाणां स्त्रीणां मकरकेतनः || २ || अर्थिसार्थानां याचकजनसङ्घानाम् | बन्धुलक्षणानां पुष्पाणां माधवी वसन्तः || २ || द्विजकैरवशीतांशुर्द्विषत्तिमिरभास्करः | सौजन्यरत्नजलधिर्भुवं विष्णुरिवास्थितः || ३ || भुवं विष्णुर्भवानिव आस्थितः पालनार्थमाश्रितः || ३ || प्रफुल्लबाललतिके मञ्जरीपुञ्जपिञ्जरे | स कदाचिन्मधौ मत्ते कोकिलालापलासिनि || ४ || प्रफुल्ला बाललतिका यत्र | अनुकम्पायां कन् | मत्ते मत्तवद्विजृम्भमाणे अत एव कोकिलालापैर्लासिनि नृत्यतीव स्थिते मधौवसन्ते || ४ || ययौ कुसुमिताभोगं सुविलासलताङ्गनम् | लीलयोपवनं कान्तं नन्दनं वासवो यथा || ५ || सुविलासा लता एवाङ्गनालता अङ्गनाश्च वा यत्र || ५ ||
31 SK तस्मिन्वरवने हृद्ये केसरोद्दाममारुते | दूरस्थानुचरः सानुकुञ्जेषु विचचार ह || ६ || केसरेषूद्दामा रजःसौगन्ध्यमकरन्दकणापहरणसमर्था नतु पांसुविकिरणादौ | मन्दसुरभिशीता इति यावत् | तथाविधा मारुता यत्र | सानुकुञ्जेषु क्रीडाशैलप्रस्थप्ररूढेषु लतागृहेषु || ६ || अथ शुश्राव कस्मिंश्चित्तमालवनगुल्मके | सिद्धानामप्रदृश्यानां स्वप्रसङ्गादुदाहृताः || ७ || अप्रदृश्यानामन्तर्हितानाम् | स्वप्रसङ्गात् स्वानुग्रहार्थमिति यावत् || ७ || विविक्तवासिनां नित्यं शैलकन्दरचारिणाम् | इमाः कमलपत्राक्ष गीता गीतात्मभावनाः || ८ || श्रुतिस्मृतिपुराणेतिहासैर्गीतमात्मानं श्रवणमात्रेण भावयन्ति यथा स्वयमेव साक्षाद्भवति तथा कुर्वन्तीति गीतात्मभावनाः | गीताः स्मार्तोपनिषदः शुश्राव || ८ || सिद्धा ऊचुः | द्रष्टृदृश्यसमायोगात्प्रत्ययानन्दनिश्चयः | यस्तं स्वमात्मतत्त्वोत्थं निःस्पन्दं समुपास्महे || ९ ||
32 SK द्रष्टुश्चक्षुरादिद्वारा विषयप्रमातुर्दृश्येन स्रक्चन्दनवनितादिविषयेण समायोगात्संनिकर्षाज्जाते प्रत्यये विषयाकारबुद्धिवृत्तौ स्वयं प्रथमानो य आनन्दरूपो निश्चयस्तं तत्स्वभावमेव आत्मतत्त्वपरिशोधनेन उत्थं निरतिशयभूमात्मनाविर्भूतं स्वमात्मानं निःस्पन्दं निर्विकल्पसमाधिनिरस्तबाह्यान्तःकरणस्पन्दं यथा स्यात्तथा समुपास्महे निरन्तरमनुभवामः | अयं भावः - विषयाकारवृत्तौ स्वयं प्रथमान आनन्दो न विषयकोटौ | जडत्वप्रसङ्गात् | नापि कर्तृकरणवृत्तिकोटौ | तेषां कारकत्वेन तच्छेषतानुभवविरोधात् | तस्मात्साक्षिकोटावेव | साक्ष्येव ह्यविद्यावरणमन्दीकृतचिदानन्दस्वभावोऽन्यमहंकारात्मानं कल्पयित्वा तच्छेषतामिवापन्नो विषयाकारवृत्त्याविर्भूतं स्वानन्दं तच्छेषतामिव नयन् न स्वात्मानं निरतिशयानन्दं प्रतिबुद्ध्यते अतस्तमेव स्वतत्त्वविचारोत्थनिरतिशयानन्दस्वभावं समाहितेन मनसा वयमुपास्महे एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेर्ब्रह्मानन्दस्यैवाविद्यया विषयाकारवृत्तिपरिच्छेदेन विषयानन्दत्वविभावनादिति | अथवा द्रष्टुः पुरुषस्य दृश्यस्य वियदादेश्च बाह्याध्यात्मिकवैषम्यप्रविलापनेन समे परिशिष्टसन्मात्रस्वभावे आत्यन्तिकाभेदापत्तिलक्षणादायोगान्मेलनारूढाद्योगादिति व्युत्पत्त्या निर्विकल्पकसमाधिपरिपाकाद्वा प्रत्ययः प्रत्येयः स्वानुभवादेव विश्वसनीयो भूमानन्दनिश्चयो यस्तमात्मनस्तत्त्वेन यथार्थरूपेणोत्थं प्रकटीभूतं स्वं निस्पन्दं समुपास्महे इत्यर्थः | अथवा द्रष्टुर्बुद्धेर्दृश्यानां विषयाणां चोपचयापचयजाड्यप्रियाप्रियादिरूपसाम्येन समादायोगात्संबन्धात्तदुभयान्तरालिकस्तदुभयविलक्षणत्वात्प्रत्यय एवानन्द इति निश्चीयत इत्यानन्दनिश्चयस्तं निस्पन्दं सक्रियवृत्त्युपाधिनिर्मुक्तमत एवात्मतत्त्वोत्थं स्वीययथार्थरूपेणाविर्भूतं चिदानन्दैकरसं स्वं प्रत्यगात्मानं समुपास्मह इत्यर्थः | अथवा य आत्मा अहमिति द्रष्टा इदं ममेति
33 SK दृश्यैश्चान्योन्यतादात्म्यसंसर्गाध्यासलक्षणात्समायोगात्प्रतीयते अनुभूयते शुनकसूकरादिभिरपीति प्रत्ययो विषयानन्द एव पुरुषार्थ इति निश्चयवान्संसरति | स्वा स्वीया या मा प्रमा वेदान्तजन्याखण्डाकारवृत्तिस्तया आत्मतत्त्वोत्थं स्वीयपारमार्थिकरूपेणाविर्भूतं कृत्वा निस्पन्दं निश्चलं समुपास्मह इत्यर्थः | अथवा यः प्रत्ययः स्वप्रकाश आनन्दैकरसः स्वरूपनिश्चयो द्रष्टृदृश्यसमायः सन् द्रष्टृदृश्याकारमायासहितो भूत्वा अगात् स्वरूपप्रच्युतोऽभूत्तमानन्दनिश्चयं चरमसाक्षात्कारवृत्त्यारूढा या स्वात्मभूतैव मा तया दृष्टृदृश्यमायानिरासेनात्मतत्त्वेनोत्थमित्यादि प्राग्वत् | अथवा द्रष्टृदृश्यसमाः यः अगादिति च्छेदः | य आत्मा तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मात् इत्यादिश्रुत्यनुभवसिद्धात्परमप्रेमास्पदत्वप्रत्ययादानन्दरूपत्वेन निश्चेतुं योग्योऽपि विवेकविचारादिप्रत्ययाभावाद्द्रष्टृदृश्यसमा भोक्तृभोग्यप्रायाः संसारदशा अगात् तं यस्तम् | यसु प्रयत्ने क्तः | विवेकवैराग्यश्रवणमननादिप्रयत्नैः साक्षात्कृतं स्वेनैव मिमीते परिच्छिनत्ति हिनस्ति वा सर्व द्रष्टृदृश्यद्वैतजातमिति स्वमं यदात्मतत्त्वं तद्भावेनोत्थितं निस्पन्दं पुनः संसारप्रसक्तिशङ्काशून्यं सम्यगुपेत्य सर्वसामीप्यावधि प्रत्यगात्मतया प्राप्य आस्महे तिष्ठामह इत्यर्थः || ९ || अन्ये ऊचुः | द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह | दर्शनप्रथमाभासमात्मानं समुपास्महे || १० || तमेवात्मानं निष्कृष्य करतलामलकवद्दर्शयन्त इवान्ये प्राहुः - द्रष्टृदर्शनेति | द्रष्ट्रादित्रिपुटीत्यागेनावस्थाद्वयनिरासः | वासनया सहेत्यनेनतु तदुभयबीजवासनासंभृतसौषुप्ताज्ञानस्यापि निरासः उक्तः | दर्शनाच्चक्षुषमानसादिवृत्तेः प्रथमं पूर्वमेव तदुत्पत्तिसाक्षितया भासमानमित्यनेन पूर्वसिद्धस्त्रिपुटीसाक्षी सर्वानुभवसिद्धो विविच्य दर्शितः | तमेव सबीजत्रिपुटीत्यागात्तुरीयमात्मानं समुपास्मह इत्यर्थः || १० || अन्ये ऊचुः |
34 SK द्वयोर्मध्यगतं नित्यमस्तिनास्तीति पक्षयोः | प्रकाशनं प्रकाश्यानामात्मानं समुपास्महे || ११ || दर्शनप्रथमाभासे साक्षिणि ये अस्तिनास्तीति विप्रतिपद्यन्ते तान्प्रत्यपि तदुभयपक्षाविरुद्धं साक्षिणं दर्शयन्तोऽन्ये प्राहुः - द्वयोरिति | ये तावदस्ति दर्शनप्रथमाभासः परंतु सोऽपि जन्य एव न नित्य इत्याहुस्तेषां पूर्वपूर्वतदाभासानां स्वप्रकाशत्वे स्वविषयत्वे वा स्वमात्राभानपरिक्षीणत्वात्पूर्वोत्तरविज्ञानास्पर्शित्वाच्च न तदुत्पत्त्यादिसाक्षिता निर्वहतीति तत्साक्षी अन्य आवश्यक इति तत्पक्षमध्यगतं तदविरुद्धं येऽपि नास्तित्याहुस्तेषां नास्तिताया अपि निःसाक्षिकाया असिद्धेस्तत्पक्षसाधकत्वेन तन्मध्यगतमित्यर्थः | अथवा जगतः अस्तित्वं आविर्भूतावस्थाकार्यम् | नास्तित्वं तु तिरोभावावस्थाकारणम् | असद्वा इदमग्र आसीत्ततो वै सदजायत इति श्रुतेः | तयोरुभयोरयौगपद्यात्पक्षयोः पाक्षिकयोरनुगतसन्मात्ररूपेण मध्यगतमित्यर्थः अथवा अस्तिनास्तीति पक्षयोः कल्पितविरुद्धकोट्योर्द्वयोरप्यधिष्ठानतया मध्यगतमित्यर्थः | अत एव कल्पितानास्तित्वस्याधिष्ठानस्पर्शान्नित्यं प्रकाश्यानां भावाभावानां प्रकाशकम् || ११ || अन्ये ऊचुः | यस्मिन्सर्वं यस्य यतः सर्वं यस्मायिदम् [यस्मा इदम् इति क्वचित्] | येन सर्वं यद्धि सर्वं तत्सत्यं समुपास्महे || १२ || यस्मिन्सर्वमिति | यस्मै इदमिति च्छेदः | सप्तमीविभक्तिमारभ्य व्युत्क्रमेण सर्वा विभक्तयः षण्णां कारकाणां संबन्धप्रातिपदिकार्थाभेदस्य च प्रदर्शनायात्र निर्दिष्टाः | तथाच यद्ब्रह्म सर्वाधारत्वात्सर्वस्वामित्वादेः सर्वोपादाननिमित्तावधिभावात्सर्वपारार्थ्यसंप्रदानादिभावनिर्वाहकत्वात्स् अर्वकर्तृकरणादिभावाच्च मायया सर्वजगद्व्यवहारनिर्वाहकं सर्वात्मकं च भवति तत्सर्वाधिष्ठानं परमार्थसत्यं प्रत्यगात्मैवेति बोधेन सम्यगुपेत्य तद्भूता आस्महे इत्यर्थः || १२ || अन्ये ऊचुः | अशिरस्कं हकारान्तमशेषाकारसंस्थितम् | अजस्रमुच्चरन्तं स्वं तमात्मानमुपास्महे || १३ ||
35 SK अः शिर इव प्रथमो यस्य तमकारादिमित्यर्थः | हकारोऽन्ते यस्य तं हकारान्तमहंपदमशेषवस्तुप्रकाशकवेदशास्त्रादिशब्दजालप्रकृतिभू तानामशेषवर्णानामक्षरसमाम्नाये अकारहकारान्तरालनिवेशादशेषजगदाकारे सप्रपञ्चे ब्रह्मणि न हन्यते न हीयते इति व्युत्पत्त्या अह व्याप्ताविति धातुनिष्पत्त्या च न शिष्यते आकारो यस्मिन्नित्यशेषाकारे निर्गुणे च संस्थितं तात्पर्यनिष्ठां प्राप्तमजस्रं क्रियमाणेषु स्वव्यवहारेषु उच्चरन्तं अहंकारोपाधिनिरासेन तं वर्णिताहंपदार्थं आत्मा वा इदमेक एवाग्र आसीत् इत्यादिश्रुतिप्रसिद्धब्रह्मात्मानमुपास्महे निरन्तरं भावयाम इत्यर्थः | अथवा अशेषवस्त्वाकारसंस्थितं लवरयंहं इति हकारान्तं पञ्चबीजप्रतिपाद्यपञ्चमहाभूतात्मकं जगत् अशिरस्कं शिरोभूतमूलाज्ञानरहितं कर्तुमिव अस्त्यस्यति वा मायान्तं जगदिति व्युत्पत्त्याऽस्मच्छब्दनिष्पन्नमकारशिरस्कहकारान्तमहंपदमजस्रमुच्चर न्तम् | युष्यसिभ्यां मदिक् इत्यस्तेरस्यतेर्वास्मच्छब्दव्युत्पादनादित्यर्थः | अथवा अशेषजगदाकारसंस्थितं निष्प्रमाणकत्वेन निर्मूलत्वाच्छ्रुतिशिरोबाह्यत्वाचाशिरस्कं हकारान्तं सोऽहं परमार्थासङ्गचिदेकरसत्वादजस्रमुच्चरन्तं उदस्य चरन्तमुद्धृत्य भक्षयन्तं वा स्वं प्रत्यग्रूपमात्मानमुपास्महे इत्यर्थः | संग्रहे तु सशिरस्कं हकारादिमिति पाठः | तस्य च सुरनरतिर्यगाद्यशेषशरीराकारेषु संस्थितं सशिरस्कं हकारादि हंस इति मन्त्रमजपागायत्रीरूपेण षट्शताधिकैकविंशतिसहस्रसंख्यया अजस्रं प्रत्यहं श्वासोच्छ्वासच्छलेनोच्चरन्तमित्यर्थः | उदश्चरः सकर्मकात् इत्यात्मनेपदविषये लटः शत्रादेशश्छान्दसः | अथवा पूर्वरूपेणापहारान्न शिष्यते अकारो यत्र तदशेषाकारं सो इति पदं तत्र संस्थितं अत एव अशिरस्कं शिरोभूतप्रथमवर्णरहितं हकारान्तं हकारमात्रावशेषं अहंपदं सोहंमन्त्रमिति यावत् | अजस्रमुच्चरन्तमित्यादि प्राग्वत् || १३ || अन्ये ऊचुः |
36 SK संत्यज्य हृद्गुहेशानं देवमन्यं प्रयान्ति ये | ते रत्नमभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभाः || १४ || हृद्गुहेशानं अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः | अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ईशानो भूतभव्यस्य स एवाद्य स उश्वः इत्यादिश्रुतिप्रसिद्धमिति भावः || १४ || अन्ये ऊचुः | सर्वाशाः किल संत्यज्य फलमेतदवाप्यते | येनाशाविषवल्लीनां मूलमाला विलूयते || १५ || अन्ये तत्प्राप्तौ वैराग्यमेव मुख्यं साधनमित्याहुः - सर्वाशा इति | एतत् हृदयस्थं ज्ञानफलं ब्रह्म अवाप्यते लभ्यते | येन तल्लाभेन मूलमालावासनाजालजटिलहृदयग्रन्थिः | रसोऽप्यस्य परं दृष्ट्वा निवर्तते इति भगवद्वचनादिति भावः || १५ || अन्ये ऊचुः | बुद्ध्वाप्यत्यन्तवैरस्यं यः पदार्थेषु दुर्मतिः | बध्नाति भावनां भूयो नरो नासौ स गर्दभः || १६ || पदार्थेषु भोग्यविषयेषु | भावनां भोगतृष्णाम् || १६ || अन्ये ऊचुः | उत्थितानुत्थितानेतानिन्द्रियाहीन्पुनः पुनः | हन्याद्विवेकदण्डेन वज्रेणेव हरिर्गिरीन् || १७ || अन्ये इन्द्रियनिग्रह एव मुख्यं साधनमित्याशयेनाहुः - उत्थितानिति | हरिरिन्द्रः | तथाच ब्रह्मवैवर्ते एकमेकं कालकूटमिन्द्रियं नाशकृत्पुनः | तदेव शोधितं साक्षाद्विषमप्यमृतं यथा इति | तथाच भारतेऽपि - इन्द्रियाण्येव तत्सर्व यत्स्वर्गनरकावुभौ | निगृहीतविसृष्टानि स्वर्गाय नरकाय च || १७ || अन्ये ऊचुः | उपशमसुखमाहरेत्पवित्रं सुशमवतः शममेति साधुचेतः | प्रशमितमनसः स्वके स्वरूपे भवति सुखे स्थितिरुत्तमा चिराय || १८ ||
37 SK अन्ये तु उपशम एव मुख्यं साधनमितरत्सर्वं तदर्थमित्याशयेनोपसंहरन्ति - उपशमेति | उपशमो बाह्याभ्यन्तरेन्द्रियव्यापारोपरमस्तेन विक्षेपदुःखोपशमवदाविर्भूतमात्मसुखमाहरेत्संपादयेत् | तद्धि न विषयसुखवद्दोषहेतुः किंतु चित्तप्रसादहेतुत्वात्पवित्रम् | शमवशतो निरिन्धनाग्निवच्चेतः शममुपक्षयं प्रयाति | एवं प्रशमितमनसः सुखे निरतिशयानन्दे स्वके स्वीये परमार्थस्वरूपे स्थितिर्भूमिका परम्परारोहणक्रमेणोत्तमा सप्तमभूमिकाप्रतिष्ठालक्षणा चिराय विदेहकैवल्यावधि भवतीत्यर्थः || १८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सिद्धगीतानामाष्टमः सर्गः || ८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे सिद्धगीतानामाष्टमः सर्गः || ८ || नवमः सर्गः ९ श्रीवसिष्ठ उवाच | इति सिद्धगनोद्गीता गीताः श्रुत्वा महीपतिः | विषादमाजगामाशु भीरू रणरवादिव || १ || इह श्रुतवतो राज्ञो निर्वेदाद्गृहमीयुषः | विमर्शेनार्थमूलानां मनोनिर्णय ईर्यते || १ || भीरुर्भयशीलः | ढ्रलोपे पूर्वस्य दीर्घो णः || १ || जगाम परिवारं स्वमाकर्षन्स्वगृहं प्रति | स्वतीरवृक्षानुगतः सरिदोघ इवार्णवम् || २ || स्वं स्वीयं परिवारम् || २ || परिवारमशेषेण विसृज्य स्वं स्वमालयम् | एक एवारुरोहाग्र्यं गृहमर्क इवाचलम् || ३ || स्वं स्वमालयं गृहं प्रति विसृज्य | गृहं गृहप्रासादम् | अचलमुदयाद्रिम् || ३ || तत्र प्रोड्डयनालोलखगपक्षतिचञ्चलाः | आलोकयṁल्लोकगतिर्विललापेदमाकुलः || ४ || प्रोड्डयने आलोलाः खगानां पक्षतयः पक्षमूलानीव चञ्चलाः | सोद्वेगं भङ्गुरा इति यावत् | लोकगतीर्देहादिदृश्यपदार्थस्थितीः | इदं वक्ष्यमाणप्रकारं विललाप || ४ || हा कष्टमतिकष्टासु लोकलोलदशास्वयम् | पाषाणेष्विव पाषाणा आलुठामि बलादहम् || ५ || लोकानां जीवानां लोलासु जन्मजराभयमरणादिना लोलासु दशासु | पाषाणदृष्टान्तो मौर्ख्यकठोरताद्योतनार्थः || ५ ||
38 SK अपर्यन्तस्य कालस्य कोऽप्यंशो जीव्यते मया | तस्मिन्भावं निबध्नामि धिङ्मामधमचेतनम् || ६ || जीवधातोरकर्मकत्वेऽपि कालभावाध्वगन्तव्याः कर्मसंज्ञास्त्वकर्मणां इति कात्यायनवचनाज्जीव्यते इति काले कर्मणि लः | तस्मिंस्तादृशेऽपि जीवने भावमाशाम् || ६ || कियन्मात्रमिदं नाम राज्यमाजीवितं मम | किमेतेन विना दुःखं तिष्ठामि हतधीर्यथा || ७ || आजीवितं जीवितावधि राज्यम् | एतेनैतावन्मात्रेण संतुष्टः सन् हतधीर्मूर्ख इव दुःखं भाविदुःखप्रतिकारचिन्तां विना किं तिष्ठामीत्यर्थः | अथवा एतेन एतावन्मात्रेण हतधीर्विनष्टबुद्ध्युपाधिर्जीवन्मुक्त इव विना दुःखं निर्दुःखं तिष्ठामि किं इति काक्वा योज्यम् || ७ || आदावन्तेऽप्यनन्तोऽहं मध्ये पेलवजीवितः | बालश्चित्रेन्दुनेवाहं किं मुधा धृतिमास्थितः || ८ || ननु देह एवात्मा तस्य नाशे सहैव तेन सर्वदुःखनिवृत्तिः किं न स्यान्नेत्याह - आदाविति | कामकर्मवासनाबीजमन्तरेण भोगवैचित्र्यप्रयोजकजन्मासिद्धेर्विधिनिषेधमोक्षशास्त्रप्रामाण्यानुरोधाच् चानादिरनन्तश्चाहं न देहमात्र इत्यर्थः | चित्रलिखितेनानिन्दुनैवेन्दुबुद्ध्या गृहीतेन बाल इवानात्मनैवात्मतया गृहीतेन देहेनेत्यर्थः | धृतिमाश्वासम् || ८ || प्रपञ्चरहितेनाहमिन्द्रजालेन जालिना | हा कष्टमतिमुह्यामि केनास्मि परिमोहितः || ९ || केन जालिना ऐन्द्रजालिकेन परिमोहितोऽस्मि || ९ || यद्वस्तु यच्च वा रम्यं यदुदारमकृत्रिमम् | किंचित्तदिह नास्त्येव किंनिष्ठेह मतिर्मम || १० || वसतीति वस्तु सत्यम् रम्यं सुखैकरूपम् उदारमपरिच्छिन्नम् अकृत्रिममजन्यं च तत्तादृशं किंचिदपि इह जगति नास्त्येव | कस्मिन् निष्ठा विश्रान्तिर्यस्याः सा किंनिष्ठा भवत्विति शेषः || १० || दूरस्थमप्यदूरस्थं यन्मे मनसि वर्तते | इति निश्चित्य बाह्यार्थभावनां संत्यजाम्यहम् || ११ ||
39 SK ननु दूरदेशे तादृशं वस्तु प्रसिद्धं स्यान्नेत्याह - दूरस्थमिति | दूरस्थत्वेन प्रसिद्धमपि यत्किंचिद्वस्तु अदूरस्थमेव | कुतः | यद्यस्मान्मे मनसि वर्तते | नहि मनो देहाद्बहिर्दूरं व्रजति | तथा सति दूरे एव तत्प्रथानुभूयेत न हृदि | हृद्येव हि सर्वे बाह्यवस्तुबोधमनुभवन्ति | तस्माद्दूरादिकल्पनाप्यन्तर्भासमाना न वास्तवीत्यनर्थ एवेति तद्भावना त्याज्यैव नोपादेयेत्यर्थः || ११ || लोकाजवं जवीभावः सलिलावर्तभङ्गुरः | दृष्टोऽद्यापि हि दुःखाय केयमास्था सुखं प्रति || १२ || लोकानां जनानां भोगार्थं धनार्जनादिप्रवृत्तिरूप आजवं जवीभावः सलिलावर्त इव भङ्गुरो नश्वरफलो जन्ममरणादिदुःखहेतुश्च बहुशो दृष्टः | सुखं विषयसुखं प्रति || १२ || प्रत्यब्दं प्रतिमासं च प्रत्यहं च प्रतिक्षणम् | सुखानि दुःखपिण्डानि दुःखानि तु पुनः पुनः || १३ || उक्तमेव प्रपञ्चयति - प्रत्यब्दमित्यादिना | दुःखपिण्डानि दुःखनिबिडानि | एवार्थे तुशब्दः || १३ || परामृष्टं विशिष्टं हि दृष्टं नष्टं न भावितम् | अत्रस्थं न तदस्तीह सतां यत्रास्तु संस्थितिः || १४ || अत्र संसारे तिष्ठतीत्यत्रस्थं किंचित्कालं दृष्टं सद्य एव नष्टं स्वराज्यादिपदं तुच्छत्वान्न भावितं न चिन्तितमेव | हि यतो विशिष्टं सर्वोत्कृष्टत्वेन प्रसिद्धमैन्द्रप्राजापत्यादिपदमपि परामृष्टं विचारितं सतां विवेकिनां संस्थितिरात्यन्तिकविश्रान्तिर्यत्रास्तु तादृशमिह नास्त्येवेत्यर्थः || १४ || अद्य ये महतां मूर्ध्नि ते दिनैर्निपतन्त्यधः | हतचित्तमहत्तायां कैषा विश्वस्तता बत || १५ || हतेत्यधिक्षेपार्थं चित्तविशेषणम् | महत्तायां राज्यादिवैभवोत्कर्षे | हतचित्तमहंतायाम् इति पाठे तु हतचित्तं यथा स्यात्तथा अहंतायां राज्याभिमाने इति योज्यम् || १५ || अरज्जुरेव बद्धोऽहमपङ्कोऽस्मि कलङ्कितः | पतितोस्म्युपरिस्थोपि हा ममात्मन्हता स्थितिः || १६ || आत्मन्निति संबोधनम् | आत्मनि स्वस्वभावे स्थितिर्हतेति सुब्लुकि सप्तम्यन्तं वा योज्यम् || १६ ||
40 SK कस्मादकस्मान्मोहोयमागतो धीमतोऽपि मे | असितः पिहितालोको भास्कराग्रमिवाम्बुदः || १७ || असितः श्यामः | भास्करस्य अग्रं पुरोदेशम् || १७ || क इमे मे महाभोगाः क इमे मम बान्धवाः | बालो भूतमयेनेव संकेतेनाहमाकुलः || १८ || संकेतेन ममतालक्षणसंबन्धकल्पनेन || १८ || स्वयमेव निबध्नामि जरामरणरागिणीम् | किमिमामहमेतेषु धृतिमुद्वेगकारिणीम् || १९ || एतेषु भोगादिषु जरामरणयोः रागिणीं प्रियसखीगिवानयित्रीम् | धृतिं आस्थाम् || १९ || यातु तिष्ठतु वा सम्यङ् ममैतां प्रति को ग्रहः | बुद्बुदश्रीरिवैषा हि मथ्यैवेत्थमुपस्थिता || २० || एतां भोगबान्धवादिसंपदं प्रति को ग्रह आग्रहः || २० || ते महाविभवा भोगास्ते सन्तः स्निग्धबान्धवाः | सर्वं स्मृतिपथं प्राप्तं वर्तमानेऽपि का धृतिः || २१ || ते चक्रवर्तिनां पृथुमरुत्तादीनां प्रसिद्धा महाविभवाः | सन्तः सद्गुणाः | सर्वमिति सामान्ये नपुंसकम् | का धृतिरास्था || २१ || क्व धनानि महीपानां ब्रह्मणः क्व जगन्ति वा | प्राक्तनानि प्रयातानि केयं विश्वस्तता मम || २२ || ब्रह्मणः प्राक्तनहिरण्यगर्भस्य | जगन्ति भुवनानि क्व प्रयातानि मम निधनादिष्विति शेषः || २२ || गिलितानीन्द्रलक्षाणि बुद्बुदानीव वारिणि | मां जीवितनिबद्धास्थं विहसिष्यन्ति साधवः || २३ || गिलितानि कालेनेति शेषः | गलितानि इति वा पाठः | साधवो विवेकिनः || २३ || ब्रह्मणां कोटयो याता गताः सर्गपरम्पराः | प्रयाताः पांसुवद्भूपाः का धृतिर्मम जीविते || २४ || कोटिग्रहणमानन्त्योपलक्षणम् संसारस्यानादित्वात् | धृतिरास्था || २४ || संसाररात्रिदुःस्वप्ने चेत्ये [चेत्यदेहभये इति पाठः] देहमये भ्रमे | आस्थां चेदनुबध्नामि तत्रेमां तु धिगस्थितिम् || २५ || संसार एव रात्रिस्तमोमयत्वात्तत्र ये दुःस्वप्नभूते देहमये देहप्रचुरे अहंममताव्यवहारभ्रमे अस्थितिममर्यादामविवेकितामिति यावत् || २५ || अयं सोऽहमिति व्यर्थकल्पनाऽसत्स्वरूपिणी | अहंकारपिशाचेन किमज्ञवदहं स्थितः || २६ ||
41 SK अयमिति देहसंनिहिते अपरोक्षताकल्पनम् | स इति तद्विप्रकृष्टे परोक्षताकल्पना | अहमिति देहे आत्मताकल्पना | सा त्रिविधापि असत्स्वरूपिण्येव | अतः अहंकारपिशाचेन मोहित इति शेषः | अहमज्ञवत्किं किमर्थं निर्विचार एतावन्तं कालं स्थित इत्यर्थः || २६ || हतं हतमिदं कस्मादायुराततयानया | पश्यन्नपि न पश्यामि सूक्ष्मया काललेखया || २७ || सूक्ष्मया क्षणलवमुहूर्तादिरूपया काललेखया इदमायुर्हतं हतं प्रतिक्षणं मुहुर्मुहुश्छिन्नं पश्यन्नपि कस्मान्न पश्यामि न विमृशामीत्यर्थः || २७ || पादपीठे कृतेशानाः शार्ङ्किक्रीडनकन्दुकाः | कालकापालिकाग्रस्ताः किमास्थे मयि वल्गसि || २८ || पादपीठे पादपीठवद्रचितेषु भुवनेषु कृताः प्रतिमावद्रचिता नमिता वा ईशाना ईश्वरा ब्रह्मादयोऽपि यैः | शार्ङ्गिणो विष्ण्वादिदेहाः क्रीडनकन्दुका इव मुहुर्मुहुर्युद्धादिव्यवहारेषु नभस्युत्क्षिप्ता यैः | तहाविधा महाकल्पलक्षणकालरूपा ब्रह्मकपालपाणित्वात्कापालिका रुद्रास्तेऽपि महाकालेन ग्रस्ताः | आस्थे हे जीविताशे मयि किं वल्गसि नृत्यसि || २८ || अजस्रमुपयान्त्येते यान्ति चाद्यापि वासराः | अविनष्टैकसद्वस्तुर्दृष्टो नाद्यापि वासरः || २९ || उपयान्ति आगच्छन्ति | अद्यास्मिन्नपि वयसि यान्ति वृथैवापगच्छन्ति | अविनष्टं नित्यमेकं सन्निर्दोषमानन्दैकरसं वस्तु लब्धं यस्मिंस्तथाविधो वासरोऽद्यापि अद्यतनकालावधि न दृष्टः || २९ || सारसाः सरसीवैते सर्वस्मिञ्जनचेतसि | भोगा एव स्फुरन्त्यन्तर्न तु स्वपददृष्टयः || ३० || स्वं प्रत्यगात्मभूतं यत्परमं पदं तस्य दृष्टयः साक्षात्काराः || ३० || कष्टात्कष्टतरं प्राप्तो दुःखाद्दुःखतरं गतः | अद्यापि न विरक्तोस्मि हा धिङ्मामधमाशयम् || ३१ || रागलोभादिदूषितत्वादधम आशयो मनो यस्य तम् || ३१ || येषु येषु दृढा बद्धा भावना भव्यवस्तुषु | तानि तानि विनष्टानि दृष्टानि किमिहोत्तमम् || ३२ || भावना प्रीतिः | भव्येषु रमणीयेषु वस्तुषु विषयेषु || ३२ ||
42 SK यन्मध्ये यच्च पर्यन्ते यदापाते मनोरमम् | सर्वमेवापवित्रं तद्विनाशामेध्यदूषितम् || ३३ || मध्ये मनोरमं वयः | पर्यन्ते मनोरमो धर्मः | आपाते मनोरमा विषयाः || ३३ || येषु येषु पदार्थेषु धृतिं बध्नाति मानवः | तेषु तेष्वेव तस्यायं दृष्टो नाशोदयो भृशम् || ३४ || धृतिमास्थाम् | तस्य मानवस्य | अयं प्रसिद्धः | नाशोदयो दुःखप्रादुर्भावः || ३४ || श्वःश्वः पापीयसीमेष श्वःश्वः क्रूरतरामपि | श्वःश्वः स्वेदकरीमेति दशामिह जडो जनः || ३५ || अज्ञस्योत्तरकालेऽपि विश्रान्तिप्रत्याशा नास्तीत्याह - श्वःश्व इति | रागलोभाद्यभिवृद्ध्या पापीयसीम् | हिंसादिप्रवृत्त्या क्रूरतराम् | तत्फलकाले खेदकरीम् || ३५ || अज्ञानैकहतो बाल्ये यौवने मदनाहतः | शेषे कलत्रचिन्तार्तः किं करोति कदा जडः || ३६ || शेषे वयसि | कलत्रं तदुपलक्षितं कुटुम्बं तद्भरणादिचिन्तया आर्तः | वित्तार्तः इति पाठे कलत्रवित्तादिक्षयेणार्तः | कदा किं स्वोद्धारसाधनं करोति | न कदाचिदपीत्यर्थः || ३६ || आगमापायि विरसं दशावैषम्यदूषितम् | असारसारं संसारं किं तत्पश्यति दुर्मतिः || ३७ || आगमापायि आद्यन्तयोरसत् | भोगकालेऽपि विरसम् | दारिद्र्यरोगवार्धकादिदशावैषम्यैर्दूषितम् | असारमेव सारं सारबुद्ध्या गृहीतम् | किं वृथा पश्यति | यत्पश्यति तत्किंनिमित्तमिति वार्थः || ३७ || राजसूयाश्वमेधाद्यैरिष्ट्वा यज्ञशतैरपि | महाकल्पान्तमप्यंशं स्वर्गं प्राप्नोति नाधिकम् || ३८ || ननु यत्र दुःखेन संभिन्नम् इत्यादिश्रुत्युक्तलक्षणः स्वर्गः सारभूतः किं न स्यात्तत्राह - राजसूयेति | महाकल्पान्तं ब्रह्मादिभोग्यमपि स्वर्ग महाकालदृशा अंशं क्षणभोग्यप्रायमल्पमेव प्राप्नोति नत्वधिकमपरिच्छिन्नमित्यसार एव स इत्यर्थः || ३८ || कोऽसौ स्वर्गोऽस्ति भूमौ वा पाताले वा प्रदेशकः | न यत्राभिभवन्त्येता दुर्भ्रमर्य इवापदः || ३९ ||
43 SK न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति इति श्रुतेः स्वर्गिणामप्यसुरादिपीडाश्रुतेश्च न दुःखासंबिन्नत्वमपि तस्य संभवतीत्याशयेनाह - कोऽसाविति || ३९ || निजचेतोबिलव्यालाः शरीरस्थलपल्लवाः | आधयो व्याधयश्चैते निवार्यन्ते कथं किल || ४० || किंच देहाभिमाने सत्याधिव्याध्योर्दुर्निवारत्वान्न क्वाप्यज्ञस्य विश्रान्तिरस्तीत्याशयेनाह - निजेति || ४० || सतोऽसत्ता स्थिता मूर्ध्नि मूर्ध्नि रम्येष्वरम्यता | सुखेषु मूर्ध्नि दुःखानि किमेकं संश्रयाम्यहम् || ४१ || भङ्गुरत्वदुःखग्रस्तत्वाभ्यां सर्वस्यामङ्गलतामेव प्रपञ्चयति - सत इत्यादिना | सतः वर्तमानकालदृश्यस्य | असत्ता नाशः || ४१ || जायन्ते च म्रियन्ते च प्राकृताः क्षुद्रजन्तवः | धरा तैरेव नीरन्ध्रा दुर्लभाः साधुसाधवः || ४२ || प्राकृताः प्रकृतिस्वाभाविकमज्ञानं तन्मोहिताः | नीरन्ध्रा निबिडितेति यावत् || ४२ || नीलोत्पलालिनयनाः परमप्रेमभूषणाः | हासायैव विलासिन्यः क्षणभङ्गितया स्थिताः || ४३ || हासायैव योग्या इति शेषः || ४३ || येषां निमेषणोन्मेषैर्जगतां प्रलयोदयौ | तादृशाः पुरुषाः सन्ति मादृशां गणनैव का || ४४ || ननु राजत्वात्सर्वनियमनसमर्थस्योत्तमपुरुषस्य तव कुतो नाश्वासस्तत्राह - येषामिति || ४४ || सन्ति रम्यतराद्रम्याः सुस्थिरादपि सुस्थिराः | चिन्तापर्यवसानेयं पदार्थश्रीः किमीहसे || ४५ || चिन्ता अर्जनरक्षणवियोगादिना | चिन्तैव पर्यवसानं फलं यस्यास्तथाविधेयं पदार्थश्रीरतस्तां किमीहसे इच्छसि || ४५ || संपदश्च विचित्रा यास्ताश्चेच्चित्तेन संमताः | तत्ता अपि महारम्भा हन्त मन्ये महापदः || ४६ || या नानारत्नगजवाजिधनदारादिभेदेन विचित्राः संपदस्ताश्चेच्चित्तेन संमता बहुमताः स्युस्तत्तर्हि ता अपि महारम्भा बहुप्रयत्नलभ्या दुःखरक्ष्या अवश्यापायिन्यश्चेति महापद इत्येव मन्ये इत्यर्थः || ४६ || आपदोऽपि विचित्रा यास्ताश्चेन्मनसि संमताः | तत्ता अपि महारम्भा मन्ये मनसि संपदः || ४७ ||
44 SK एवं या दारिद्र्यबन्धुराज्यादिनाशलक्षणा आपदोपि यदि साधुसङ्गतीर्थतपःप्रबोधादिप्रापणेन विचित्राः श्रेय एवेति मनसि संमताश्चेत्ता अपि विवेकवैराग्यादिमहारम्भाः संपद एव मन्ये इत्यर्थः || ४७ || मनोमात्रविवर्तेऽस्मिञ्जगत्यब्धिन्दुभङ्गुरे | ममेदमित्यपूर्वेयं कुतस्त्याऽक्षरमालिका || ४८ || तस्मादसत्ये जगति ममताभिवृद्धिरेव विपत् | वेवेकात्तत्परिक्षय एव संपदित्याशयेन जगतो ममतानर्हत्वं दर्शयति - मनोमात्रेति | अब्धौ प्रतिबिम्बित इन्दुरिव भङ्गुरे भङ्गस्वभावे मिथ्याभूते च | अक्षरमालिका पदवाक्यात्मिका वर्णपङ्क्तिः कुतस्त्या | निरर्थिकेति यावत् || ४८ || काकतालीययोगेन संपन्नायां जगत्स्थितौ | धूर्तेन कल्पिता व्यर्थं हेयोपादेयभावना || ४९ || काकतालीययोगेन काकागमनमिव तच्छिरसि तालपतनमिवाविचारमात्रकृतेन स्वसंबन्धेन | धूर्तेन भोगलम्पटेन मनसा || ४९ || इयत्ताच्छिन्नतप्तासु सुखनाम्नीषु दृष्टिषु | कास्वेतास्वनुरक्तोऽस्मि पतङ्गोऽग्निशिखास्विव || ५० || देशकालवस्तुकृतया इयत्तया आच्छिन्नासु परिच्छिन्नासु त्रिविधतापग्रस्तत्वात्तप्तासु | दीपाग्निशिखापक्षे स्पष्टम् || ५० || वरमेकान्तदाहेषु लुठनं रौरवाग्निषु | नत्वालूनविवर्तासु स्थितं संसारवृत्तिषु || ५१ || निरन्तरदुःखभोगोऽभ्यासात्सह्योऽपि स्यात् सुखभोगविच्छिन्नाभ्यासो दुःखभोगोऽयं दुःसह एवेत्याशयेनाह - वरमेति | आलूना विच्छिन्नाः सुखदुःखपरिवर्ता यासु | स्थितं स्थितिः | भावे क्तः || ५१ || संसार एव दुःखानां सीमान्त इति कथ्यते | तन्मध्यपतिते देहे सुखमासाद्यते कथम् || ५२ || विषयसुखानां सुखता नास्त्येव किंतु दुःखविशेषरूपतैवेति युक्त्योपपादयति - संसार इति || ५२ || अकृत्रिममहादुःखे संसारे ये व्यवस्थिताः | त एतेऽन्यानि दुःखानि जानते मधुराण्यलम् || ५३ ||
45 SK कथं तर्हि सुखत्वानुभवस्तत्र युक्तिमाह - अकृत्रिमेति | खड्गाघातानुभवात्कशाघातानुभवः सुखमितिवद्दुःखान्येव मधुराणि सुखानि जानते मन्यन्त इत्यर्थः || ५३ || अहमप्यधमोत्कृष्टकाष्ठलोष्टसमस्थितिः | अज्ञैरेवागतः साम्यं परमामृष्टवस्तुभिः || ५४ || श्रुतिस्मृत्यादिप्रमाणकुशलो मेधावी विचारपटुरप्यहं परमत्यन्तमेव न मृष्टानि न विचारितानि शास्त्रलोकप्रमाणवस्तूनि यैस्तैरज्ञैर्मूर्खैः साम्यमित्यर्थः || ५४ || सहस्राङ्कुरशाखात्मफलपल्लवशालिनः | अस्य संसारवृक्षस्य मनो मूलमहाङ्कुरः || ५५ || इदानीं स्वस्य प्रमाणकुशलतां संसारमूलावधारणेन सफलयति - सहस्रेति | अङ्कुराः संकल्पाः शाखा देहभुवनादयः | आत्मा शाखाद्यवयवी विराट् | फलानि सुखदुःखे | पल्लवा रागलोभास्तैः शालिनः शोभमानस्य || ५५ || संकल्पमेव तन्मन्ये संकल्पोपशमेन तत् | शोषयामि यथा शोषमेति संसारपादपः || ५६ || मनसोऽपि रहस्यं स्वेन ज्ञातमेवेत्याह - संकल्पमेवेति || ५६ || आकारमात्ररम्यासु मनोमर्कटवृत्तिषु | परिज्ञातास्विहाद्यैव न रमे नाशनीष्वहम् || ५७ || मनोमर्कटस्य वृत्तिषु चापलेषु | अद्यैव अद्यप्रभृति || ५७ || आशापाशशतप्रोताः पातोत्पातोपतापदाः | संसारवृत्तयो भुक्ता इदानीं विश्रमाम्यहम् || ५८ || पातोऽधोगतिः | उत्पात ऊर्ध्वगतिः अपकर्षोत्कर्षौ वा | उपतापो दुःखम् || ५८ || हा हतोऽस्मि विनष्टोऽस्मि मृतोऽस्मीति पुनःपुनः | शोचितं गतमेवाहमिदानीं नानुरोदिमि || ५९ || इति मया यत्पुनःपुनः प्राक् शोचितं तद्गतमेव | अहमिदानीं नानुरोदिमि न शोचामीत्यर्थः || ५९ || प्रबुद्धोऽस्मि प्रहृष्टोऽस्मि दृष्टश्चोरोऽयमात्मनः | मनो नाम निहन्म्येनं मनसास्मि चिरं हतः || ६० || कुतो नानुशोचसि तत्राह - प्रबुद्धोऽस्मीति | आत्मनः स्वपारमार्थिकरूपधनस्य चोरोऽपहर्ता | न केवलं चोरत्वादेव निहन्म्यपि तु वैरित्वादपीत्याह - मनसेति || ६० ||
46 SK एतावन्तमिमं कालं मनोमुक्ताफलं मम | अविद्धमासीदधुना विद्धं तु गुणमर्हति || ६१ || अविद्धमलक्षीकृतम् | मुक्ताफलपक्षे अच्छिद्रितम् | गुणं शमदमादिम् | मुक्तापक्षे सूत्रम् || ६१ || मनस्तुषारकणिका विवेकार्कातपेन मे | चिरप्रवृत्तये नूनमचिराल्लयमेष्यति || ६२ || चिरं अनादिब्रह्मतत्त्वं तत्र प्रवृत्तये प्रतिष्ठार्थम् | तुषारकणिकापक्षे चिरप्रवृत्तिः सदागतिर्वायुस्तत्प्राप्तये | यदा वा आप उच्छुष्यन्ति वायुमेवापियन्ति इति श्रुतेरित्यर्थः || ६२ || विविधैः साधुभिः सिद्धैरहं साधु प्रबोधितः | आत्मानमनुगच्छामि परमानन्दसाधनम् || ६३ || विविधैरुपदेशैः | सिद्धविशेषणं वा | अनुगतिमात्रेण परमानन्दस्य स्वस्यैव साधनम् | अभेदेऽप्युपचारात्करणता || ६३ || आत्मानं मणिमेकान्ते लब्ध्वैवालोकयन्सुखम् | तिष्ठाम्यस्तमितान्येहः शारदीवाचलेऽम्बुदः || ६४ || अतः परमात्मनिष्ठां कदापि न त्यक्ष्यामीत्याह - आत्मानमिति | अचले हिमवदादौ || ६४ || अयमहमिदमाततं ममेति स्फुरितमपास्य बलादसत्यमन्तः | रिपुमतिबलिनं मनो निहत्य प्रशममुपैमि नमोऽस्तु ते विवेक || ६५ || इदानीमुक्तं संक्षिप्योपसंहरन् विवेकगुरुं नमस्यति - अयमिति | अयं देहोऽहमिति इदं धनराज्यादि ममेति स्फुरितमाततमसत्यरूपं ज्ञानबलादपास्य समाध्यभ्यासेनातिबलिनं मनोरिपुं निःशेषं हत्वा सप्तमभूमिकाविश्रान्तिलक्षणं प्रशममुपैमि प्राप्नोमि || ६५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० उपशमप्रकरणे जनकवितर्को नाम नवमः सर्गः || ९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे जनवितर्को नाम नवमः सर्गः || ९ || दशमः सर्गः १० श्रीवसिष्ठ उवाच | इति चिन्तयतस्तस्य पुरः संप्रविवेश ह | प्रतीहारः परो भानोः स्यन्दनाग्र इवारुणः || १ || द्वाःस्थेन प्रार्थितेऽन्यत्र माध्याह्निकविधिक्रमे | तूष्णीं विचारो भूयोऽपि जनकस्योपवर्ण्यते || १ ||
47 SK प्रतीहारो द्वारपालः | उपसर्गस्य घञ्यमनुष्ये बहुलम् इति दीर्घः || १ || प्रतीहार उवाच | देव दोःस्तम्भविश्रान्तसमस्तवसुद्धाभर | संपादयोत्तिष्ठ दिनव्यापारं नृपतोचितम् || २ || दोःस्तम्भयोर्विश्रान्तः समस्तवसुधाभरो यस्य | नृपताया उचितमनुरूपम् || २ || एताः कुसुमकर्पूरकुङ्कुमाम्बुघटाः स्त्रियः | स्नानभूमौ स्थिताः सज्जा नद्यो मूर्तियुता इव || ३ || तत्र सामग्रीसिद्धिमाह - एता इत्यादिना || ३ || एताः कमलकह्लारकाननभ्रान्तषट्पदाः | कृताः कमलिनीपाशरचितांशुकमण्डपाः || ४ || कमलिनीपाशैः सपद्मबिसरज्जुभी रचिताः परितश्चारुनिर्मिताः कनकचित्रांशुमण्डपा यासु तथाविधा अत एव एताः कर्बुरवर्णाः कमलिन्याः कमलवत्याः सरस्यास्तीरभुव इति परेणान्वयः || ४ || एताः कमलिनीतीरभुवश्छत्रैः प्रपूरिताः | सचामररथेभाश्वैः स्नानावसरसेविनाम् || ५ || तथा स्नानावसरे सेवन्ते तच्छीलानां जनानां चामरै रथैरिभैरश्वैश्च सहितैश्छत्रैश्च प्रपूरिताः | अनेन हंससारसनक्रपद्मादिसहितसरसीसाम्यापत्तिस्तीरभुवोऽर्थाद्गम्यते || ५ || समग्रसुमनःपूर्णैरन्नौषधिपरिप्लुतैः | सज्जीकृताः पटलकैर्देवार्चनगृहास्तथा || ६ || समग्रैः सुमनोभिः पुष्पैराप्तभृत्यैश्च पूर्णैः | अन्नैः पक्वैरोषधिभिर्यवाङ्कुरादिभिश्च परिप्लुतैः परिष्कृतैः | रत्नौषधीति पाठे स्पष्टम् | पटलकैः प्रान्तभागैः | हे देवेति संबुद्धिः | अर्चनगृहा देवब्राह्मणातिथिपूजागृहाः | देवार्चनगृहाः इत्यैकपद्यं वा || ६ || स्नातः पवित्रहस्तश्च परिजप्याघमर्षणः | त्वामेव प्रेक्षते देव दक्षिणार्हो द्विजव्रजः || ७ || तव स्नानकाले परितो जप्या जपितव्या अघमर्षणमन्त्रा येन अत एव दक्षिणार्हः || ७ || लसच्चामरहस्ताभिः पाल्यते परमेश्वर | सज्जीकृतास्ते कान्ताभिः शीता भोजनभूमयः || ८ || लेपनचन्दनोदकसेकादिपरिष्कृतत्वाच्छीताः शीतलाः || ८ ||
48 SK शीघ्रमुत्तिष्ठ भद्रं ते निपतं कार्यमाचर | न कालमतिवर्तन्ते महान्तः स्वेषु कर्मसु || ९ || प्रतीहारपतावित्थमुक्तवत्यथ पार्थिवः | तथैव चिन्तयामास चित्रां संसारसंस्थितिम् || १० || कियन्मात्रमिदं नाम राज्यं सुखमिति स्थितम् | न प्रयोजनमेतेन ममेह क्षणभङ्गिना || ११ || सर्वमेव परित्यज्य मिथ्याशम्बरडम्बरम् | एकान्त एव तिष्ठामि संशान्त इव वारिधिः || १२ || शम्बरपदेन शाम्बरीमाया लक्ष्यते | मिथ्याशम्बरं मृगतृष्णाजलं तत्सदृशं वा || १२ || अलमेभिरसत्प्रायैर्मम भोगविजृम्भितैः | त्यक्त्वा सर्वाणि कर्माणि सुखं तिष्ठामि केवलम् || १३ || चित्त चातुर्यमेतस्माद्भोगाभ्यासकुसंभ्रमात् | त्यज जन्मजराजाड्यजालजम्बालशान्तये || १४ || हे चित्त चातुर्यं सुखलवास्वादचतुरतां त्यज || १४ || दशासु स्वासु यास्वेव संभ्रमं चित्त पश्यसि | ताभ्य एवाभिरचितं परमं दुःखमेष्यसि || १५ || यासु दशासु विषयाभिलाषतत्प्रयत्नतदुपभोगतदनुस्मरणादिरूपासु | संभ्रमं सुखलवास्वादभ्रान्तिंमुत्साहं वा || १५ || प्रवृत्तं सन्निवृत्तं सद्भूयोभूयश्चिरंचिरम् | भोगभूमिषु सर्वासु चित्तं तृप्तिं न गच्छति || १६ || भोगाशया प्रवृत्तं सत् भोगशक्तिकुण्ठीभावाल्लोकशास्त्रादिभयाच्च निवृत्तं सत् || १६ || तस्मात्पापालमनया तुच्छया भोगचिन्तया | भवत्यकृत्रिमा तृप्तिर्येनाभिपत तं ततः || १७ || ततः कृत्रिमसुखानामनर्थबीजत्वाद्येन हेतुना अकृत्रिमा प्रीतिर्भवति तं हेतुं पत | लभस्वेति यावत् || १७ || इति संचिन्त्य जनकस्तूष्णीमेव बभूव ह | शान्तचापलचेतस्त्वाल्लिपिकर्मार्पितोपमः || १८ || प्रतीहारोऽपि नोवाच गौरवेण भयेन च | पुनर्वाक्यं महीपानां चित्तवृत्तिषु शिक्षितः || १९ || चित्तवृत्तिषु चित्तानुवर्तनेषु || १९ || तूष्णीमथ क्षणं स्थित्वा जनको जनजीवितम् | पुनः संचिन्तयामास मनसा शमशालिना || २० || जनजीवितं प्राणिजीवननिदानम् | येन जातानि जीवन्ति इति श्रुतेः || २० ||
49 SK किमुपादेयमस्तीह यत्नात्संसाधयाम्यहम् | कस्मिन्वस्तुनि बध्नामि धृतिं नाशविवर्जिते || २१ || किं मे क्रियापरतया किं मे निष्क्रिययापि वा | न तदस्ति विनाशेन वर्जितं यत्किलोदितम् || २२ || अपि वा कार्यमिति शेषः | यत्किल उदितं जन्म प्राप्तं तत् विनाशेन वर्जितं नास्ति | जन्यभावस्य विनाशनियमादिति भावः || २२ || क्रियावानक्रियो वास्तु कायोऽयमसदुत्थितः | समस्थितस्य शुद्धस्य चितः का नाम मे क्षतिः || २३ || समस्थितस्य देहचलनाचलनदशयोस्तुल्यरूपस्थितेः | चितश्चिन्मात्रस्वभावस्य || २३ || नाभिवाञ्छाम्यसंप्राप्तं संप्राप्तं न त्यजाम्यहम् | स्वस्थ आत्मनि तिष्ठामि यन्ममास्ति तदस्तु मे || २४ || यन्मम प्रारब्धोपनीतमस्ति तदेवास्तु नान्यदित्यर्थः | अथवा यन्मम निरतिशयानन्दरूपमान्तरमस्ति तदेवास्तु न बाह्यं किंचिदित्यर्थः || २४ || न ममेह कृतेनार्थो नाकृतेनेह कश्चन | क्रिययाऽक्रियया वापि यत्प्राप्तं तदसन्मयम् || २५ || अकृतेन उपेक्षणेन | कश्चन अनर्थ इति शेषः | अक्रियया उपेक्षया | प्राप्तं दुःखमसन्मयं मायामयम् | मिथ्यैवेति यावत् || २५ || अकुर्वतः कुर्वतो वा युक्तायुक्ताः क्रिया मम | नाभिवाञ्छितमस्तीह यदुपादेयतां गतम् || २६ || युक्ताः शास्त्रविहिताः | अयुक्ता लोकप्राप्ताः || २६ || तदुत्थाय क्रमप्राप्तां कायोऽयं प्रकृतां क्रियाम् | करोत्वस्पन्दिताङ्गस्तु किमयं साधु शुष्यति || २७ || पूर्वपूर्वव्यवहारक्रमप्राप्ताम् | अस्पन्दिताङ्गस्त्वयं देहः शुष्यति तत्किं साधु आवश्यकं नेत्यर्थः || २७ || स्थिते मनसि निष्कामे समे विगतरञ्जने | कायावयवजौ कार्यौ स्पन्दास्पन्दौ फले समौ || २८ || कार्यौ प्रारब्धकर्मोपनीतौ | पुण्यपापानुदयलक्षणे फले समौ || २८ || कर्मजासु फलश्रीषु मनसा कर्तृभोक्तृते | तस्मिन्प्रशान्तिमायाते कृतमप्यकृतं नृणाम् || २९ || तत्कुतस्तत्राह - कर्मजास्विति | कृतमप्यकृतं भुक्तमप्यभुक्तमित्यपि योज्यम् || २९ ||
50 SK यो निश्चयोऽन्तः पुरुषस्य रूढः क्रियास्वसौ तन्मयतामुपैति | अनामयं मे पदमाहता धी- रधीरतामन्तरलं त्यजामि || ३० || पुरुषस्यान्तर्य एव निश्चयः कर्ता भोक्तेति वा असौ पुरुषः सर्वासु देहादिक्रियासु तन्मयतां स्वनिश्चितार्थमयतामुपैतीति वस्तुस्थितिः | सांप्रतं तु मे मम धीरनामयं कर्तृभोक्तृतारोगशून्यमात्मपदमाहता आविद्धा तद्दृढनिश्चयासंपन्नेत्यर्थः | अतः अन्तश्चित्ते कृताकृतफलावश्यंभावाय पुनर्जन्मादिप्राप्तिशङ्कानिमित्तामिष्टानिष्ठप्राप्तिविघातनिमित्तां चाधीरतामलमत्यन्तमेव त्यजामीत्यर्थः || ३० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपाये उपशमप्रकरणे जनकनिश्चयो नाम दशमः सर्गः || १० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे जनकनिश्चयो नाम दशमः सर्गः || १० || एकादशः सर्गः ११ श्रीवसिष्ठ उवाच | इति संचिन्त्य जनको यथाप्राप्तां क्रियामसौ | असक्तः कर्तुमुत्तस्थौ दिनं दिनपतिर्यथा || १ || कृताह्निकस्य राज्ञोऽत्र निशान्ते वर्ण्यते पुनः | विवेकैर्बहुभिश्चित्रैः स्वचित्तस्य प्रबोधनम् || १ || असक्तः कर्तृत्वभोक्तृत्वाभिमानलक्षणासङ्गरहितः || १ || इष्टानिष्टाः परित्यज्य चेतसा वासनाः स्वयम् | यथाप्राप्तं चकारासौ जाग्रत्येव सुषुप्तवत् || २ || इदं मे इष्ठमिदं मेऽनिष्टमिति कल्पनानिमित्तभूता वासनाः | सुषुप्तवदिति | स्थूलसूक्ष्मदेहाद्यभिमानाभावे जाग्रत्सुषुप्तयोर्विशेषाभावादिति भावः || २ || संपाद्य तदहःकार्यमार्यावर्जनपूर्वकम् | अनयच्छर्वरीमेकस्तयैव [मेकान्तयैव इति पाठः] ध्यानलीलया || ३ || आर्याणां पूज्यानां देवब्राह्मणादीनामावर्जनं पूजादानादिना समाधानम् | अहःकार्यमाह्निकम् || ३ || मनः समरसं कृत्वा संशान्तविषयभ्रमम् | शर्वर्यां क्षीयमाणायामित्थं चित्तमबोधयत् || ४ || समरसं समाहितं कृत्वा | इत्थं वक्ष्यमाणदिशा || ४ || चित्त चञ्चल संसार आत्मनो न सुखाय ते | शममेहि शमाच्छान्तं सुखं सारमवाप्यते || ५ ||
51 SK शान्तं निर्विक्षेपं सारभूतमात्मसुखम् || ५ || यथा यथा विकल्पौघान्संकल्पयसि हेलया | तथा तथैति स्फारत्वं संसारस्तव चिन्तया || ६ || शतशाखत्वमायाति सेकेन विटपी यथा | अनन्ताधित्वमायासि शठभोगेच्छया तथा || ७ || अनन्ताधित्वमसंख्यव्यथाशालितामायासि प्राप्नोषि त्वम् || ७ || चिन्ताजालविलासोत्था [अत्र विकल्पोत्या इति पाठः] जन्मसंसारसृष्टयः | तस्मात्त्यक्त्वा विचित्रां त्वं चिन्तामुपशमं व्रज || ८ || यतो जन्मसंसारसृष्टयो विषयचिन्ताजालविकल्पोत्था इति पूर्वेणान्वयः || ८ || संसारसृष्टितरलामिमां तुलय सुन्दर | अस्यां चेत्सारमाप्नोषि तदेतामेव संश्रय || ९ || हे सुन्दर विवेकिन् इमां संसारसृष्टिं शमसुखं च तुलय तुलामारोप्येव बुद्ध्या कः सार इति परीक्षस्व | तरलामित्यनेन नश्वरत्वाद्विक्षेपदुःखजटिलत्वाच्च नास्त्यत्र सार इति सूचितम् || ९ || आस्थां यस्मात्परित्यज्य दृश्यदर्शनलालसात् | मैतद्गृहाण मा मुञ्च स्वेच्छया विहरेच्छया || १० || यस्मादियमसारा तस्मादस्यामास्थां परित्यज्य एतदसारं दृश्यं दर्शनयोग्यमेतदिति दर्शनलालसात्प्रियं मा गृहाण अप्रियं च दर्शनानर्हमिति द्वेषान्मा मुञ्च किंतूभयसाक्षिस्वात्ममात्रेच्छया आत्मकामः सन् इच्छया स्वैरं विहर || १० || इदं दृश्यमसत्सद्वाप्युदेत्वस्तमुपैतु वा | साधो विषमतां गच्छ मैतदीयैर्गुणागुणैः || ११ || असत्प्रागविद्यमानं सुखदुःखसाधनमुदेतु सांप्रतं सद्विद्यमानमस्तं नाशमुपैतु वा | मा तदागमापायप्रयुक्तहर्षविषादलक्षणां विषमतां गच्छेत्यर्थः || ११ || मनागपि न संबन्धस्तव दृश्येन वस्तुना | अविद्यमानरूपेण संबन्धः कोऽयमीदृशः || १२ || ननु सति तत्संबन्धे कथं तत्प्रयुक्तवैषम्यवर्जनसंभवस्तत्राह - मनागपीति || १२ || असत्त्वमेतच्च न सद्द्वयोरेवासतोः सतोः | संबन्ध इति चित्रेयमपूर्वैवाक्षरावली || १३ ||
52 SK हे मनः त्वमसत् | एतद्दृश्यं च न सत् | अप्यर्थे एवकारः | अतो द्वयोरपि बन्ध्यापुत्रखपुष्पयोरिवासतोः सतोर्निःस्वरूपस्थितिकयोः संबन्ध इत्यक्षरावली उक्तिः अपूर्वा | आश्चर्यैवेत्यर्थः || १३ || असदेतत्तु सच्चेत्त्वं तथापि किल सुन्दर | सङ्गः सदसतोः कीदृग्वद त्वं मर्त्यजीवयोः || १४ || यदि मन्यसे नाहमसत् सत्य आत्मैवाहं दृश्यमेवासदिति तथापि न संबन्धघटनेत्याह - असदिति | मर्त्यजीवयोः सदा मृतजीवतोः || १४ || चित्त त्वमथ दृश्यं च द्वे एव यदि सन्मये | सदास्थिते तत्प्रसरः कुतो हर्षविषादयोः || १५ || द्वयोरपि सत्त्वमेव नासत्त्वं कस्यचिदपीति कल्पेऽपि कदापीष्टवियोगाभावान्न हर्षविषादप्रसक्तिरित्याह - चित्तेति | हे चित्त त्वं इति च्छेदः || १५ || तस्मान्महाधिं मुञ्च त्वं मूकमुल्लासमाहर | संक्षुब्धाम्बुधिमाविष्टां त्यजाभव्यामिमां स्थित्म् || १६ || महान्तमाधिं विषादं मूकं तूष्णींभूतं सदात्मस्वरूपस्थितावुत्साहमाहर समाध्यभ्यासेन संपादय | संक्षुब्धं संक्षोभो विक्षेपस्तल्लक्षणमम्बुधिम् || १६ || कन्दुकालातवद्व्यर्थमात्मनैव परिज्वलन् | मा मोहमलमासाद्य मन्दतां गच्छ सन्मते || १७ || कन्दुकालातमुत्सवेषु जनकौतुकार्थमाग्नेयद्रव्यरचितं कन्दुकाकारमलातयन्त्रम् | तद्धि स्वत एव ज्वलत्पुनःपुनरुच्छलति | मोहं अलमिति वा मोहलक्षणं मलमिति वा || १७ || न तदिहास्ति समुन्नतमुत्तमं व्रजसि येन परां परिपूर्णताम् | तदवलम्ब्य बलादति धीरतां जहिहि चञ्चलतां शठ रे मनः || १८ || इह दृश्यवर्गमध्ये येन लब्धेन त्वं परिपूर्णतां व्रजसि तत्तादृशं किमपि नास्ति | कथं तर्हि पूर्णतालाभस्तमुपायमाह - तदिति | तत्तस्मादभ्यासवैराग्यबलादतिधीरतामवलम्ब्य तद्ब्रह्मावलम्ब्यातिधीरतां प्राप्येति वा | चञ्चलतां जहिहि त्यज || १८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे चित्तानुशासनं नामैकादशः सर्गः || ११ ||
53 SK इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे चित्तानुशासनं नामैकादशः सर्गः || ११ || द्वादशः सर्गः १२ श्रीवसिष्ठ उवाच | एवं विचारयंस्तत्र स्वराज्ये जनको नृपः | चकाराखिलकार्याणि न मुमोह च धीरधीः || १ || वर्ण्यते जनकस्यात्र जीवन्मुक्ततया स्थितिः | विचारप्रज्ञयोश्चित्रं माहात्म्यमपि विस्तरात् || १ || न मुमोह अहंममताभ्यां पूर्ववदित्यर्थः || १ || न मनः प्रोल्ललासास्य क्वचिदानन्दवृत्तिषु | केवलं सुषुप्तसंस्थं सदैव व्यवतिष्ठत || २ || आनन्दवृत्तिषु हर्षस्थानेषु | सुषुप्ताविव संस्था निर्विक्षेपस्थितिर्यस्मिन्निति व्यवस्थितिक्रियाविशेषणम् || २ || ततःप्रभृत्यसौ दृश्यं नाजहार न वात्यजत् | केवलं विगताशङ्कं वर्तमाने व्यवस्थितः || ३ || वर्तमाने तत्कालोपस्थिते दृश्ये | व्यवस्थितः अलंबुद्ध्या स्थितः || ३ || अनारतविवेकेन तेन सद्यः सनातनम् | पुनः कलङ्गं नैवाप्तमम्बरेणेव राजसम् || ४ || अनारतविवेकेन सदा विचारवता | सनातनं अनादिस्वभावप्राप्तम् | कलङ्कमहंममाभिमानमालिन्यम् | राजसं रजोगुणेन धूलिभिश्च प्रसञ्जितम् || ४ || स्वविवेकानुसंधानादिति तस्य महीपतेः | सम्यग्ज्ञानमनन्ताभमलं विमलतां ययौ || ५ || अनन्ताभमपरिच्छिन्नब्रह्माकारम् || ५ || अनामृष्टविकल्पांशुश्चिदात्मा विगतामयः | उदियाय हृदाकाशे तस्य व्योम्नीव भास्करः || ६ || विक्षेपैर्मेघपटलैश्च अनामृष्टविकल्पा असंपादितरञ्जनाभेदा अंशवः प्रकाशा यस्य | विगता देहभेदनिरोधप्रयुक्ता आमया दुःखानि यस्य || ६ || स ददर्शाखिलान्भावांश्चिच्छक्तौ समवस्थितान् | आत्मभूताननन्तात्मा सर्वभूतात्मकोविदः || ७ || चिच्छक्तौ चिदात्मनि समवस्थितानध्यस्तान् अत एव परमार्थदृशा आत्मभूतान् || ७ || प्रहृष्टो न बभूवासौ क्वचिन्न च सुदुःखितः | प्रकृतेर्व्यवहारत्वात्सदैव सममानसः || ८ || प्रकृतेर्मायाया एव सर्वव्यवहाररूपत्वादसङ्गात्मासंस्पर्शदर्शनात्सममानसः || ८ ||
54 SK जीवन्मुक्तो बभूवाऔ ततःप्रभृति मानदः | जनको जरठज्ञानी ज्ञातलोकपरावरः || ९ || जरठज्ञानी ज्ञानवृद्ध इति यावत् || ९ || राज्यं कुर्वन्विदेहानां जनको जनजीवितम् | नैव हर्षविषादाभ्यां सोऽवशः परितप्यते || १० || जनानां जीवितमिव प्रिय इति यावत् || १० || नास्तमेति न चोदेति गुणदोषविचेष्टितैः || ११ || मानसैर्गुणदोषविचेष्टितैरस्तं स्वरूपतिरोधानं उदयं पुनस्तदाविर्भावं च नैति बाह्यैश्च राज्योत्थैरर्थानर्थैर्न हृष्यति न ग्लायतीति व्युत्क्रमेणान्वयः || ११ || अर्थानर्थैः स राज्योत्थैर्न ग्लायति न हृष्यति | कुर्वन्नपि करोत्येष न किंचिदपि कुत्रचित् | स तिष्ठत्येव सततं सर्वदैवान्तरे चितः || १२ || न किंचिदपि करोति अकर्त्रात्मभूतत्वादित्यर्थः | तदेवाह - स इति || १२ || सुषुप्तावस्थितस्यैव जनकस्य महीपतेः | भावनाः सर्वभावेभ्यः सर्वथैवास्तमागताः || १३ || भावना रागादिवासनाः || १३ || भविष्यं नानुसंधत्ते नातीतं चिन्तयत्यसौ | वर्तमाननिमेषं तु हसन्नेवानुवर्तते || १४ || वासनाक्षयफलमाह - भविष्यमिति | वासनावशात्पूर्वोत्तरानुसंधानं तेन प्राक्तनानिष्टकारिषु द्वेष आगामिप्रियार्थं रागस्ततः प्रवृत्तिरिति सर्वानर्थप्रसक्तिः | वर्तमानमात्रदर्शनं तु दुःखस्यानुपेक्षया नाप्रियतानुसंधानमिति सहजानन्दानुवृत्त्या हसन्नेवेत्यर्थः || १४ || स्वविचारवशेनैव तेन तामरसेक्षण | प्राप्तं प्राप्यमशेषेण राम नेतरयेच्छया || १५ || आख्यानोपक्रमबीजं स्मारयन्नुपसंहरति - स्वविचारेति | अशेषेण निरवशेषेण प्राप्तं ज्ञानमात्रेण विस्मृतकण्ठचामीकरवल्लब्धम् | तेन जनकेन || १५ || तावत्तावत्स्वकेनैव चेतसा प्रविचार्यते | यावद्यावद्विचाराणां सीमान्तः समवाप्यते || १६ || तथाच फलपर्यन्तं विचारः कार्यो नान्तरा निर्वेदाद्धेय इत्याह - तावदिति | प्रविचार्यते प्रविचारयेदित्यर्थः || १६ || न तद्गुरोर्न शास्त्रार्थान्न पुण्यात्प्राप्यते पदम् | यत्साधुसङ्गाभ्युदिताद्विचारविशदाद्धृदः || १७ ||
55 SK गुर्वादीनां साधनानामसाधनत्ववादो विचारप्राधान्यबोधनार्थः | अपशवो वा अन्ये गो अश्वेभ्यः पशवो गो अश्वाः इतिवत् || १७ || सुन्दर्या निजया बुद्ध्या प्रज्ञयेव वयस्यया | पदमासाद्यते राम न नामक्रिययान्यया || १८ || सुन्दर्या सच्छास्त्रविवेकाद्परिष्कृतया | ऊहापोहकुशला मतिः प्रज्ञा तया वयस्यया सख्या || १८ || यस्योज्ज्वलति तीक्ष्णाग्रा पूर्वापरविचारिणी | प्रज्ञादीपशिखा जातु जाड्यान्ध्यं तं न बाधते || १९ || जाड्यमज्ञानं तल्लक्षणमान्ध्यं तमः || १९ || दुरुत्तरा या विपदो दुःखकल्लोलसंकुलाः | तीर्यते प्रज्ञया ताभ्यो नावापद्भ्यो महामते || २० || ताभ्यो विपत्रदीभ्यः प्रज्ञया नावा तीर्यते जनैरिति प्रसिद्धम् || २० || प्रज्ञाविरहितं मूढमापदल्पापि बाधते | पेलवाचानिलकला सारहीनमिवोलपम् || २१ || पेलवा मृदुला अनिलस्य कला लेशः | उलपं तृणविशेषम् || २१ || प्रज्ञावानसहायोऽपि विशास्त्रोऽप्यरिमर्दन | उत्तरत्येव संसारसागराद्राम पेलवात् || २२ || असहायो गुर्वादिसहायशून्यः | विशास्त्रः शास्त्रश्रवणशून्योऽपि | इयमपि प्रशंसार्थमेवात्युक्तिः | आचार्याद्धैव विद्या विदिता सापिष्ठं प्रापत् इत्यादिश्रुतिविरोधात् | हे राम पेलवाज्ज्ञानमात्रबाध्यत्वेनातिकोमलात् || २२ || प्रज्ञावानसहायोऽपि कार्यान्तमधिगच्छति | दुष्प्रज्ञः कार्यमासाद्य प्रधानमपि नश्यति || २३ || लोकेऽपि प्रज्ञावतो मन्त्र्यादेर्बलान्तरवद्भ्यः प्राबल्यं प्रसिद्धमित्याह - prajā caramasākṣātkāravṛttistadvānātmā sarveṣāṃ kāryaprapañcānāmantaṃ bādhaṃ sarveṣāmavaśyakartavyapuruṣārthānāmantamavadhiṃ paramapuruṣārtha ca adhigacchati | duṣprajño mohastu sarvaprapañcasaṃtānalakṣaṇaṃ kāryajātamāsādya tanmūlatvātpradhānaṃ sadapi jñānamātreṇa naśyatītyarthaḥ | jñājñapakṣabhedena [jñānapakṣa iti kvacit] vā yojyam || 23 || śāstrasajjanasaṃsargaiḥ prajñāṃ pūrvaṃ vivardhayet | sekasaṃrakṣaṇārambhaiḥ phalaprāptau latāmiva || 24 || prājñatā tarhi kenopāyena labhyā tatrāha - śāstreti || 24 ||
56 SK प्रज्ञाबलबृहन्मूलः काले सत्कार्यपादपः | फलं फलत्यतिस्वादु भासो बिम्बमिवैन्दवम् || २५ || प्रज्ञाबलमेव बृहत् मूलं यस्य तथाविधः | सत्कार्यं सत्कर्म प्राक्तनभाग्यं तल्लक्षणः पादपः | भासः सूर्यप्रकाशः स यथा शुक्लपक्षे क्रमेण चन्द्रमण्डलं प्रविष्टः पूर्णममृतमयं चन्द्रबिम्बं फलति तद्वत् | अथवा ऐन्दवं बिम्बं कर्तृ | तद्यथा जगत्तिमिरापहा भासश्चन्द्रिकाः फलति तद्वन्मूलाज्ञाननिबर्हणक्षममात्मज्ञानं फलतीत्यर्थः || २५ || य एव यत्नः क्रियते बाह्यार्थोपार्जने जनैः | स एव यत्नः कर्तव्यः पूर्वं प्रज्ञाविवर्धने || २६ || यो यादृशः यत्न उद्यओगः | स तादृशः | तथाच नाधिकः श्रमोऽस्तीत्यर्थः || २६ || सीमान्तं सर्वदुःखानामापदां कोशमुत्तमम् | बीजं संसारवृक्षाणां प्रज्ञामान्द्यं विनाशयेत् || २७ || सर्वेषां दुःखानां दुर्दशानां सीमान्तं परमावधिम् || २७ || स्वर्गाद्यद्यच्च पातालाद्राज्याद्यत्समवाप्यते | तत्समासाद्यते सर्वं प्रज्ञाकोशान्महात्मना || २८ || एवं प्रज्ञाकोशस्यापि सर्वसंपदवधित्वमिति दर्शयति - स्वर्गादिति | यत्समवाप्यते सुखमिति शेषः | स्वर्लोकादपि रम्याणि पातालानीति नारदः | जगाद द्युसदां मध्ये पातालेभ्यः समागतः || इति पौराणिकवचनात्पातालेऽपि सुखातिशयः प्रसिद्धः || २८ || प्रज्ञयोत्तीर्यते भीमात्तस्मात्संसारसागरात् | न दानैर्न च वा तीर्थैस्तपसा नच राघव || २९ || आत्यन्तिकदुःखक्षयोऽपि प्रज्ञैकफलमित्याह - प्रज्ञयेति | दानतपःप्रभृतीनामल्पपापक्षयफलत्वादिति भावः || २९ || यत्प्राप्ताः संपदं दैवीमपि भूमिचरा नराः | प्रज्ञापुण्यलतायास्तत्फलं स्वादु समुत्थितम् || ३० || यच्चान्यत्स्वर्गादि दानादिकर्मणां फलं तदपि प्रज्ञाफलमेवेत्याह - यदिति | भूमिचरा अपि नरा दैवीं नभश्चरत्वादिलक्षणां संपदं प्राप्ता इति यत्तदपीत्यर्थः || ३० || प्रज्ञया नखरालूनमत्तवारणयूथपाः | जम्बुकैर्विजिताः सिंहाः सिंहैर्हरिणका इव || ३१ ||
57 SK सामान्यैरपि भूपत्वं प्राप्तं प्रज्ञावशान्नरैः | स्वर्गापवर्गयोग्यत्वं प्राज्ञस्यैवेह दृश्यते || ३२ || प्रज्ञया वादिनः सर्वे स्वविकल्पविलासिनः | जयन्ति सुभटप्रक्यान्नरानप्यतिभीरवः || ३३ || सुभटप्रख्यान् वादशूरानिति यावत् || ३३ || चिन्तामणिरियं प्रज्ञा हृत्कोशस्था विवेकिनः | फलं कल्पलतेवैषा चिन्तितं संप्रयच्छति || ३४ || भव्यस्तरति संसारं प्रज्ञयापोह्यतेऽधमः | शिक्षितः पारमाप्नोति नावा नाप्नोत्यशिक्षितः || ३५ || शिक्षितो नौकानयनशिक्षावान्कैवर्तः || ३५ || धीः सम्यग्योजिता पारमसम्यग्योजिताऽपदम् | नरं नयति संसारे भ्रमन्ती नौरिवार्णवे || ३६ || धीर्नौरिव सम्यग्विवेकवैराग्यादिसन्मार्गे योजिता चेत्पारं नयति | असम्यग् रागद्वेषलोभाद्यसन्मार्गे योजिता तु आपदं नयति प्रापयतीत्यर्थः || ३६ || विवेकिनमसंमूढं प्राज्ञमाशागणोत्थिताः | दोषा न परिबाधन्ते सन्नद्धमिव सायकाः || ३७ || आशा तृष्णा तत्पक्षीया गणा लोभमोहक्रोधचिन्तादयस्तेभ्य उत्थिता दोषा द्वेषचिन्ताविषादादयः | संनद्धं वर्मनद्धम् || ३७ || प्रज्ञयेह जगत्सर्वं सम्यगेवाङ्ग दृश्यते | सम्यग्दर्शनमायान्ति नापदो नच संपदः || ३८ || सम्यक् गुणदोषतत्त्वविवेकेन दृश्यते | सम्यग् दर्शनं यस्य तं सम्यग्दर्शनं पुरुषम् || ३८ || पिधानं परमार्कस्य जडात्मा विततोऽसितः | अहंकाराम्बुदो मत्तः प्रज्ञावातेन बाध्यते || ३९ || परमः परमात्मा तल्लक्षणस्यार्कस्य पिधानं तिरोधायकः | लडयोरभेदादम्बुदपक्षे जलात्मा | विततो विस्तीर्णः | असितोऽस्वच्छो नीलश्च || ३९ || पदमतुलमुपैतुमिच्छतोच्चैः प्रथममियं मतिरेव लालनीया | फलमभिलषता कृषीवलेन प्रथमतरं ननु कृष्यते धरैव || ४० || लालनीया बाल इव क्रमाद्विवेकशिक्षणेन शोधनीया | फलं कृषिफलं धान्याभिवृद्धिम् | नन्विति प्रसिद्धौ || ४० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे प्रज्ञामाहात्म्यं नाम द्वादशः सर्गः || १२ ||
58 SK इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे प्रज्ञामाहात्म्यं नाम द्वादशः सर्गः || १२ || त्रयोदशः सर्गः १३ श्रीवसिष्ठ उवाच | एवं जनकवद्राम विचार्यात्मानमात्मना | पदं विदितवेद्यानामविघ्नेनाधिगच्छसि || १ || जनकस्य विचारं तं दृष्टान्तीकृत्य विस्तरात् | चित्तप्रशमनोपायाः कीर्त्यन्त इह युक्तिभिः || १ || अविघ्नेन असंभावनादिप्रतिबन्धकनिरासेन || १ || ये हि पाश्चात्यजन्मानः प्राज्ञा राजससात्त्विकाः | प्राप्नुवन्ति स्वयं प्राप्यं ते जना जनका इव || २ || रजसा पुरुषप्रयत्नसंभवात्सत्त्वेन च चित्तप्रसादोपचयाद्राजससात्त्विका एव स्वविवेकेनाकाशफलपातवज्ज्ञानप्राप्तावप्यधिकारिण इति भावः || २ || तावत्तावद्विजित्यारीनिन्द्रियाख्यान्पुनःपुनः | यावदात्मात्मनैवायमात्मन्येव प्रसीदति || ३ || ते कथं प्राप्नुवन्ति तदाह - तावत्तावदिति | सत्त्वोपचयाद्यावदात्मा आत्मनि प्रसीदति तावत्तावद्रजसो विष्टम्भशक्त्या इन्द्रियारीन्पुनःपुनर्विजित्येत्यर्थः || ३ || प्रसन्ने सर्वगे देवे देवेशे परमात्मनि | स्वयमालोकिते सर्वाः क्षीयन्ते दुःस्वदृष्टयः || ४ || अध्यात्माधिकारात्सर्वेषां देवानामिन्द्रियाणामीशे वशिनि देवे परमात्मनि स्वयमालोकिते सति || ४ || मुष्टयो मोहबीजानां वृष्टयो विविधापदाम् | कुदृष्टयः क्षयं यान्ति दृष्टे तस्मिन्परावरे || ५ || मोहबीजानां दुर्वासनानां मुष्टयो मुष्टिवदन्तर्दृढं संग्राहकाश्चित्तक्षेत्रे उप्यमानाश्च विविधानामाध्यात्मिकादिभिन्नानामापदां दुःखानां वृष्टयो वृष्टिवदकस्मात्सर्वतः क्षारयित्र्यः | कुदृष्टयोऽहंममतादिप्रत्ययलक्षणा हृदयग्रन्थयः | परा मानुषानन्दादिहैरण्यगर्भानन्दान्ताः सुखोत्कर्षा अवरा न्यूना यस्मात्तथाविधे | तथाच श्रुतिः - भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः | क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इति || ५ || सदा जनकवद्राम सर्वारम्भवदात्मना | प्रज्ञयात्मानमालक्ष्य लक्ष्मीवानुत्तमो भव || ६ ||
59 SK प्रज्ञया विवेकबुद्ध्या आत्मानं स्वं सर्वारम्भवत्सर्वजगदुत्पत्त्याद्यधिष्ठानं ब्रह्म तदात्मना आलक्ष्य साक्षादनुभूय परमपुरुषार्थलक्ष्मीवानुत्तमः सर्वोत्कृष्टो भवेत्यर्थः || ६ || नित्यमन्तर्विचारस्य पश्यतश्चञ्चलं जगत् | जनकस्येव कालेन स्वयमात्मा प्रसीदति || ७ || इदानीमात्मप्रसादोपाये विचार एव मुख्य इत्याह - नित्यमिति | चञ्चलमनित्यं भ्रमणस्वभावं च || ७ || न दैवं नच कर्माणि न धनानि न बान्धवाः | शरणं भवबीतानां स्वप्रयत्नादृते नृणाम् || ८ || विचारस्यापि मूलं पुरुषप्रयत्न एवेत्याशयेनाह - नेति || ८ || ये दैवनिष्ठाः कृत्यादौ कुविकल्पपरायणाः | तेषां मन्दा मतिस्तात नानुगम्या विनाशनी || ९ || ननु दैववशात्स्वयमेव कालेन ज्ञानं भविष्यति किमस्मत्प्रयत्नेनेति ये मन्यन्ते तन्निन्दति - य इति | कृतिर्यत्नः | आदिपदाद्विवेकवैराग्यविचारादयस्तेषु | दैवे प्रतिकूले किं स्वप्रयत्नसहस्रेण सेत्स्यति बहूनां यतमानानां दैवोपहतानां काममन्युभिर्भ्रंशदर्शनादित्यादिकुविकल्पपरायणाः || ९ || विवेकं परमाश्रित्य विलोक्यात्मानमात्मना | धिया विरागोद्धुरया संसारजलधिं तरेत् || १० || एषा सा कथिता राम नभःफलनिपातवत् | सुखदा ज्ञानसंप्राप्तिरज्ञानतरुशातनी || ११ || एषा जनकाख्यायिकोदाहरणप्रपञ्चिता || ११ || जनकस्येव सद्बुद्धेः स्वयमेव विलोकिनः | विकासमेत्ययं देही देवः प्रातरिवाम्बुजम् || १२ || देही देहान्तर्हृदि स्थितो देवः परमात्मा || १२ || संसारमननं चित्रं विचारेण विलीयते | गलद्वशीकृतस्पर्शमातपेन हिमं यथा || १३ || संसारस्य मननं विकल्पनं चिन्तनं वा | वशीकृतस्पर्शमपहृतशैत्यम् || १३ || अयमेवाहमित्यस्या निशाया उदिते क्षये | स्वयं सर्वगतः स्फारः स्वालोकः संप्रवर्तते || १४ || देहाहंभावत्याग एव पूर्णात्मदर्शने मुख्यं साधनमित्याह - अयमिति || १४ || अयमेवाहमित्यस्मिन्संकोचे विलयं गते | अनन्तभुवनव्यापी विस्तार उपजायते || १५ ||
60 SK जनकेन परित्यक्ता यथाहंकारवासना | तथा त्वमपि सद्बुद्धे विचार्यान्तः परित्यज || १६ || अहंकाराम्बुदे क्षीणे चिद्व्योम्नि विमले तते | नूनं संप्रौढतामेति स्वालोको भास्करः परः || १७ || नूनं निश्चयेन अवश्यमिति यावत् | स्वालोकात्मा भास्करः सूर्यः संप्रौढतां शरदीव स्फुटप्रकाशताम् || १७ || एतावदेवातितमो यदहंभावभावनम् | तस्मिंश्च शममानीते प्रकाश उपजायते || १८ || अतितमः तमसो मुख्यं बलमिति यावत् || १८ || नाहमस्ति न चान्योस्ति नच नास्तीति भावितम् | मनः प्रशान्तिमायातं नोपादेयेषु मज्जति || १९ || अहमहंता नास्ति | अस्मच्छब्दार्थस्याप्यहंकारस्याप्रत्यक्त्वविवक्षणान्न तदभिधानायोत्तमपुरुषः कृतः | अहमर्थस्य तदन्यस्य च निषेधे शून्यताप्रसक्तिमाशङ्क्योक्तं नच नास्तीति | उभयसाक्षिणः सत्त्वादिति भावः | उपादेयेषु उपादानार्हेषु विषयेषु || १९ || उपादेयानुपतनं हेयैकान्तविवर्जनम् | यदेतन्मनसो राम तद्बन्धं विद्धि नेतरत् || २० || उपादेयेषु रागो हेयेषु द्वेषश्च मानसः पुरुषस्य बन्धो नान्य इत्याह - उपादेयेति || २० || मा खेदं भज हेयेषु नोपादेयपरो भव | हेयादेयदृशौ त्यक्त्वा शेषस्थः स्वच्छतां व्रज || २१ || हेयादेयदृशौ रागद्वेषात्मकवृत्ती | शेषस्तत्साक्षी तत्स्थस्तदेकनिष्ठः सन् स्वच्छतां विक्षेपकालुष्यशून्यताम् || २१ || येषामिदमुपादेयमिदं हेयमिति स्थितिः | विलीना ते न वाञ्छन्ति त त्यजन्तीह किंचन || २२ || इति स्थितिरेवंरूपा व्यवस्था येषां सर्वत्रहेयानुपादेयात्ममात्रतादर्शनाद्विलीना ते पुरुषाः || २२ || हेयोपादेयकलने क्षीणे यावन्न चेतसः | न तावत्समता भाति साभ्रे व्योम्नीव चन्द्रिका || २३ || समता अविषमब्रह्मात्मता || २३ || अवस्त्विदमिदं वस्तु यस्येति लुलितं मनः | तस्मिन्नोदेति समता शाखोट इव मञ्जरी || २४ ||
61 SK अवस्तु अप्रशस्तं वस्तु अतो हेयं वस्तु प्रशस्तं वस्तु अत उपादेयमिति यस्य मनः अन्तर्लुलितं लोलतां गतमित्यर्थः | शाखोटो वृक्षविशेषः महापुष्पफलपल्लवोऽनुपजीव्यच्छायः प्रसिद्धः || २४ || युक्तायुक्तैषणा यत्र लाभालाभविलासिनी | समता स्वच्छता तत्र कुतो वैराग्यभासिनी || २५ || युक्तमनुकूलमत इदं मे भूयादित्येषणालाभविलासिनी | अयुक्तं प्रतिकूलमिदमतो मे कदापि माभूदित्यरागविलासिनी एषणा इच्छा द्वेषश्च यत्र यस्मिन्पुरुषे || २५ || एकस्मिन्ब्रह्मतत्त्वेऽस्मिन्विद्यमाने निरामये | नानाऽनानातया नित्यं किमयुक्तं क्व युक्तता || २६ || तत्र समतास्वच्छतयोः संभावने को विरोधस्तमाह - एकस्मिन्निति | नानाऽनानातया भेदाभेदविकल्पनया | यद्यसङ्गाद्वितीयानन्दा अभिन्नास्तर्हि आत्मत्वादेव सर्वेऽप्यनुकूला एव | यदि भिन्नास्तथाप्यात्मास्पर्शान्नानुकूला न वा प्रतिकूला इति न तदापि तयोरवकाश इति भावः || २६ || ईप्सितानीप्सिताशङ्के मर्कट्यौ चित्तपादपे | चञ्चले स्फुरतो यस्मिन्कुतस्तस्येह सौम्यता || २७ || तस्य चित्तपादपस्य | सौम्यता निष्कम्पता || २७ || निराशता निर्भयता नित्यता समता ज्ञता | निरीहता निष्क्रियता सौम्यता निर्विकल्पता || २८ || इदानीं जीवन्मुक्तलक्षणभूतान्पञ्चदशगुणानाह - निराशतेति द्वाभ्याम् | निरीहता मनश्चापलाभावः | निष्क्रियता शारीरकर्तृत्वाभिनिवेशाभावः | सौम्यता सदाप्रसन्नता || २८ || धृतिर्मैत्री मतिस्तुष्टिर्मृदुता मृदुभाषिता | हेयोपादेयनिर्मुक्ते ज्ञे तिष्ठन्त्यपवासनम् || २९ || मैत्री सर्वभूतसुहृत्त्वम् | मतिर्मननशीलता | यदि गुणास्तिष्ठन्ति तर्हि तद्वासनयैव तस्य बन्धः स्यादित्याशङ्क्याह - अपवासनमिति | वासनाबीजस्याज्ञानस्य नष्टत्वादिति भावः || २९ || धावमानमधोभागे चित्तं प्रत्याहरेद्बलात् | प्रत्याहारेण पतितमधो वारीव सेतुना || ३० ||
62 SK इदानीं रामस्य तद्गुणार्जने उपायमाह - धावमानमित्यादिना | अधोभागे निकृष्टेषु विषयेषु | प्रत्याहारेण विषयेभ्यः सर्वबाह्येन्द्रियाणां परावर्तनेन | अधःपतितं प्रवाहोन्मुखं वारि सेतुनेव || ३० || बाह्यानर्थानिमांस्त्यक्त्वा तिष्ठन्गच्छन्स्वपन्श्वसन् | सर्वथा सर्वदा सर्वानान्तरांश्च विचारय || ३१ || बाह्येष्वर्थेष्वात्मताभ्रान्त्यप्रसक्तेस्त्याग एवोपायः | आन्तरेषु तु तत्प्रसक्तेः | सर्वदा सर्वप्रकारेण तत्र रत्नतत्त्वपरीक्षावद्विचारः कार्य इत्याह- बाह्यानिति | तथाचाहुर्वृद्धाः - गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा | न विचारपरं चेतो यस्यासौ मृत उच्यत इति || ३१ || गृहीततृष्णाशफरि वासनाजालमाविलम् | संसारवारिप्रसृतं चिन्तातन्तुभिराततम् || ३२ || अनया मदुपदिष्टया बुद्धिलक्षणया शलाकया कर्तर्या वासनालक्षणं जालमानायं छिन्धीति परेणान्वयः | गृहीतास्तृष्णाशफर्यो येन मोहशैवालैराविलं मलिनम् | संसारलक्षणे वारिणि प्रसृतं प्रसारितम् | चिन्तालक्षणैस्तन्तुभिराततं निर्मितम् || ३२ || अनया तीक्ष्णया तात च्छिन्धि बुद्धिशलाकया | वात्ययेवाम्बुदं काले वहन्त्या वितते पदे || ३३ || वितते विस्तीर्णतरे पदे आकाशे ब्रह्मणि च वहन्त्येति वात्याशलाकयोर्विशेषणम् || ३३ || अस्य संसारवृक्षस्य मूलं दोषाङ्कुरास्पदम् | भव्यधीरेण धैर्येण प्रोद्धरोद्धुरया धिया || ३४ || हे भव्य धीरेण चिराभ्यासदृढीकृतेनैकात्मस्थैर्यलक्षणेन चित्तधैर्येण संपन्नया अत एवोद्धुरया अनादिकालनिमग्नात्मोद्धारसमर्थया अपरोक्षसाक्षात्कारधिया संसारवृक्षस्य मूलं सवासनमज्ञानं छिन्धीत्यर्थः || ३४ || मनसैव मनश्छित्त्व कुठारेणेव पादपम् | पदं पावनमासाद्य सद्य एव स्थिरो भव || ३५ || ननु सति विक्षेपहेतौ मनसि कथं मूलच्छेदस्तत्राह - मनसैवेति | यथा अग्रनिविष्टलोहेन पादपावयवकाष्ठात्मना कुठारेण पादपश्छिद्यते तद्वदग्रनिवेशितवृत्तिद्धब्रह्मचैतन्येन मनसैव मनश्च्छित्त्वेत्यर्थः || ३५ ||
63 SK मनसैव मनच्छित्त्वा विस्मृत्या चरमं मनः | वर्तमानमपि च्छित्त्वा च्छिन्नसंसारतां व्रज || ३६ || ननु पूर्वसिद्धमनस उक्तोपायेन च्छेदनेपि भाविमनोवृत्तीनां वर्तमानब्रह्माकारमनोवृत्तेर्वा कथं छेदनं तत्राह - विस्मृत्येति | विस्मृतिर्वासनोच्छेदस्तया चरममुत्तरकालप्रसक्तं वृत्तिरूपम् | असत्यां वासनायामग्रेऽपि वृत्त्यनुदयात् | वर्तमानं कतकरेणुन्यायेन स्वेनैव स्वस्य निरासाच्छित्त्वा || ३६ || मोहो विस्मृत्य संसारं न भूयः परिरोहति | चित्तं विस्मृत्य संसारो न भूयः परिरोहति || ३७ || नन्वेवमपि तत्त्वविदो जीवनसिद्धये तदुपादानभूताविद्याख्यो मोहोऽवश्यमभ्युपगन्तव्यः स एव पुनः संसारं प्ररोहयिष्यतीत्याशङ्क्याह - मोह इति | परिरोहति प्ररोहति | वासनाक्षयलक्षणे विस्मरणे सति तस्य बीजशक्त्यभावादिति भावः | तर्हि संसारस्तस्मिन्मोहक्षेत्रे स्वयमेव प्ररोहतु तत्राह - चित्तमिति | चित्तसंस्कारोच्छेदलक्षणे चित्तविस्मरणे सति न चेत्यस्य प्ररोहः संभवति | चित्तसंस्कारस्यापि चेत्यारोपबीजत्वादिति भावः || ३७ || तिष्थन्गच्छन्स्वपञ्जाग्रन्निवसन्नुत्पतन्पतन् | असदेवेदमित्यन्तर्निश्चित्यास्थां परित्यज || ३८ || चित्तचेत्योभयविस्मरणे तदास्थात्याग एवोपाय इत्याह - तिष्ठन्निति || ३८ || समतामलमाश्रित्य संप्राप्तं कार्यमाहरन् | अचिन्तयंस्तथाऽप्राप्तं विहरेह हि राघव || ३९ || आस्थापरित्यागे समतापि सिद्ध्यतीत्याशयेनाह - समतामिति | तथा अप्राप्तमिति च्छेदः || ३९ || यथा शर्वोऽपि लिङ्गानि न बिभर्ति बिभर्ति च | त्वमेवमिह कार्याणि कुरु मा कुरु चानघ || ४० || यथा शर्वो महेश्वरः क्षित्याद्यष्टमूर्तिलक्षणानि लिङ्गानि शुद्धचिन्मात्रदृशा न बिभर्ति जगदाकारविवर्तमायाधिष्ठानत्वात्सन्निधिमात्रेण बिभर्ति च तेन सर्वकर्ता च भवति एवं त्वमपि राज्यादिकार्याण्यनास्थया सन्निधिमात्रेण कुरु अकर्त्रात्मनिश्चयान्मा कुरु चेत्यर्थः || ४० ||
64 SK त्वमेव वेत्ता त्वमजस्त्वमात्मा त्वं महेश्वरः | आत्मनोऽव्यतिरिक्तः संस्त्वयेत्थमिदमाततम् || ४१ || किंच नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता इत्यादिश्रुतेः सर्व शरीरेषु त्वमेव वेत्ता वेदिता | इड भावश्छान्दसः | सत्तार्थाद्विद्यतेर्वा तृच् | परमार्थसन्नित्यर्थः | अजो जन्मादिविक्रियाशून्यः | सर्वस्यात्मा प्रत्यक्चिद्रसः प्रागुक्तो महेश्वरश्च त्वमेव | आत्मनः स्वस्वभावादव्यतिरिक्तः अप्रच्युतस्वभाव एव सन् | एवंभूतेन त्वया स्वमोहादित्थमिदमाततं विस्तारितं नान्येनेत्यर्थः || ४१ || येनात्मदृश्यसद्भावादभितो भावनोज्झिता | स न संगृह्यते दोषैर्हर्षामर्षविषादजैः || ४२ || यदि मयैवेदमाततं तर्हि कथं ममात्र हर्षामर्षदोषोदयस्तत्राह - येनेति | येन तत्त्वविदा आत्मदृश्यस्य सद्भावात्परमार्थसन्मात्रताभावनादभितोऽन्यदिति भावना उज्झिता त्यक्ता स न दोषैः संगृह्यते अतस्त्वमप्युज्झेत्यर्थः || ४२ || रागद्वेषविनिर्मुक्तः समलोष्टाश्मकाञ्चनः | युक्त इत्युच्यते योगी त्यक्तसंसारवासनः || ४३ || स यत्करोति यद्भुङ्क्ते यद्ददाति निहन्ति यत् | तत्र मुक्तधियस्तस्य समता सुखदुःखयोः || ४४ || प्राप्तं कर्तव्यमेवेति त्यक्तेष्टानिष्टभावनः | प्रवर्तते यः कार्येषु न स मज्जति कुत्रचित् || ४५ || चित्सत्तामात्रमेवेदमिति निश्चयवन्मनः | त्यक्तभोगाभिमननं शममेति महामते || ४६ || इदं जगत् स्वयं च | भोगाभिमननं भोगचिन्ता सा त्यक्ता येन || ४६ || मनः प्रकृत्यैव जडं चित्तत्त्वमनुधावति | मांसगर्धेन मार्जारो वने मृगपतिं यथा || ४७ || चित्सत्तामात्रमेवेदमिति यदुक्तं तदुपपादयति - मन इत्यादिना | यतो जडं अतः स्वतः सेद्धुं परं साधयितुं चासमर्थत्वात्स्वसिद्धये स्वविषयसिद्धये च स्वसाक्षिभूतं स्वप्रकाशचिद्रूपं तत्त्वं पारमार्थिकं वस्तु अनुधावत्यनुसरति | यथा स्वजीवनाय स्वपुत्रादिभरणाय च मार्जारः सिंहमनुसरति तद्वदित्यर्थः || ४७ ||
65 SK सिंहवीर्यवशाल्लब्धं मांसं भुङ्क्तेऽनुगो हरेः | चिद्वीर्यवशतः प्राप्तं दृश्यमाश्रयते मनः || ४८ || दृश्यं स्वं स्वविषयं च आश्रयते उपजीवति || ४८ || मन एवमसत्कल्पं चित्प्रसादेन जीवति | भावयन्विश्वमेवैकं चिन्तामेत्य चिदप्युत || ४९ || अस्त्वेवं किं ततस्तत्राह - मन इति | एवंच सति मनः असत्कल्पं शून्यप्रायं मिथ्येति सिद्धमित्यर्थः | कथं जीवति तदाह - भावयन्निति | एकमद्वितीयमात्मानं विस्मृत्य विश्वं जगदाकारमेव भावयन् | छान्दसो लिङ्गव्यत्ययः | कल्पयत्सज्जगदाकारं भूत्वा जीवतीत्यर्थः | अत एव चिन्तामात्मस्मृतिमेत्य प्राप्य उत पुनश्चिदपि भवति मनस्त्वं जहातीत्यर्थः || ४९ || जडं यत्किल निर्हीनं चिता दीपिकयौजसा | तन्मनः शवसंकाशमचिदुत्तिष्ठते कथम् || ५० || मनसः प्रकाशशक्तिरिव स्पन्दशक्तिरपि चिदधीनैवेत्याह - जडमिति | चिल्लक्षणया दीपिकया ओजसा बलेन च विना | उत्तिष्ठते स्पन्दते || ५० || चित्स्वभावपरामृष्टा स्पन्दशक्तिरसन्मयी | कल्पना चित्तमित्युक्त्या कथ्यते शास्त्रदृष्टिभिः || ५१ || अत एव चिति स्पन्दकल्पनैव मन इति विद्वत्प्रवादोऽप्यस्तीत्याह - चित्स्वभावेति || ५१ || यश्चित्तफणिफूत्कारः सैवेयं कलनोच्यते | चिदेवाहमिति ज्ञात्वा सा चित्तामेव गच्छति || ५२ || स्पन्दशक्तेरेव विलासश्चित्तं तद्वृत्तयश्चेत्याह - य इति | फूत्कारग्रहणं विषस्याप्युपलक्षणम् | तथाच चित्तादित्रिपुटी दृश्याकारतैव कलनेत्यर्थः | चित्तां शुद्धचिन्मात्रताम् || ५२ || चेत्येन रहिता यैषा चित्तद्ब्रह्म सनातनम् | चेत्येन सहिता यैषा चित्सेयं कलनोच्यते || ५३ || तथाच चितश्चेत्यत्याग एव ब्रह्मता पर्यवसन्नेत्याह - चेत्येनेति || ५३ || किंचिदामृष्टरूपं यद्ब्रह्म तच्च स्थिरं मनः | कल्पना सत्सदैवैतत्सदिवोपस्थिता हृदि || ५४ ||
66 SK कलनैव मननान्मनो भवतीत्याह - किंचिदिति | तद्ब्रह्मैव किंचिदामृष्टरूपं कलना सत् सदैव हृदि सदिव उपस्थिता संकल्पविकल्पकल्पना भूत्वा स्थिरं एतत्प्रसिद्धं मनो भवतीत्यर्थः || ५४ || चित्तमित्येव रूढेयं यदैव कलनोदिता | तदैव चित्त्वं विस्मृत्य सा जडेव व्यवस्थिता || ५५ || नित्यानुभवस्वभावस्य स्वरूपविस्मरणे कलनैव स्मृतित्वमापन्नचित्ततां गच्छतीत्याह - चित्तमिति | तदा परोक्षतापत्तियोग्या जडताप्यस्याः संपन्नेत्याह - जडेवेति || ५५ || संपन्ना कलनानाम्नी संकल्पानुविधायिनी | अवच्छेदवती वाग्रा हेयोपादेयधर्मिणी || ५६ || अतीतविषयाकारकल्पनेन चित्ततामिव अनागतविषयाकारकल्पनेन संकल्पविकल्पानुविधानान्मनस्तामपि सा प्राप्तेत्याशयेनाह - संपन्नेति | एवमवच्छेदवती द्विधा परिच्छिन्ना सती प्राक्तनेष्टानिष्टसाधनसाजात्यमध्यवस्य भावीष्टानिष्टसाधनतां संकल्प्य हेयोपादेयधर्मिणी अग्रा मुख्या चिदेव संपन्नेत्यर्थः || ५६ || सैषा चिदेव जगतामागतेव स्वशक्तितः | न संप्रबोधिता यावद्रूपं तावन्न बुध्यते || ५७ || मनः प्रकृत्यैवेत्यादिनोपपादितं चित्सत्तामात्रमेवेदमित्यंशं पिण्डीकृत्योपसंहरति - सैषैति | स्वशक्तितः स्वीयमायाशक्तिवशात् | गुरुशास्त्रस्वविचारैर्यावन्न संप्रबोधिता तावद्वास्तवं पूर्णानन्दाद्वयरूपं न बुध्यत इत्यर्थः || ५७ || अतः शास्त्रविचारेण वैराग्येण परेण च | निग्रहेणेन्द्रियाणां च बोधयेत्कलनां स्वयम् || ५८ || बोधयेज्जडाकारकलनालक्षणादवस्थात्रयस्वप्नाद्व्यावर्तयेदित्यर्थः || ५८ || कलना सर्वजन्तूनां विज्ञानेन शमेन च | प्रबुद्धा ब्रह्मतामेति भ्रमतीतरथा जगत् || ५९ || विज्ञानेन शास्त्रजन्यज्ञानेन | शमेन विज्ञानशमाभ्यामप्रबोधने || ५९ || व्यामोहमदिरामत्तं लुठितां विषयावटे | आत्मावेदनसंसुप्तां कलनामेव बोधयेत् || ६० || व्यामोहो रागः | आत्मनः अवेदनमज्ञानं निद्रा तेन संसुप्ताम् || ६० ||
67 SK अप्रबुद्धा यदा ह्येषा न किंचिदवबुध्यते | संकल्पकलनेवान्तर्दृश्यमानाप्यसन्मयी || ६१ || ननु कलना यदि सुप्ता कथं जगदवबुध्यते अवबोधे वा तस्याः प्रसिद्धचित्स्वभावात्कोऽतिशयस्तत्राह - अप्रबुद्धेति | यन्मन्यसे जगदवबुध्यत इति तन्न किंचिदवबुध्यते | जगतोऽनवबोधमात्रविलसितत्वात् | यतो दृश्यमानापि जगत्स्थितिः सांकल्पिकप्रासादकलनेव असन्मयीत्यर्थः || ६१ || तया परमया दृष्ट्या कलनैषान्तरस्थया | मञ्जरी गन्धशक्त्येव पदार्थेषु विराजते || ६२ || विषयांशपरित्यागेऽवशिष्टा कलनैवात्मेत्युक्ते वृत्तिज्ञानमेवायमात्मेति मा ग्राहीति तत्साक्षिणीं तदान्तरीं शुद्धचितं विविच्य दर्शयति - तयेत्यादिना | एषा चित्तवृत्तिरूपा कलना अन्तरस्थया तया सर्वसाक्षिण्या परमया दृष्ट्या व्याप्ता सती पदार्थेषु स्वस्वविषयेषु विराजते प्रकाशनसमर्था भवति न स्वत इत्यर्थः || ६२ || तनुः संकल्पिता यैषा कलनेति जगत्त्रये | सा हि किंचिद्विजानाति नित्यं ज्ञानैकधर्मिणी || ६३ || यदि सा सर्वसाक्षिणीं कुतस्तत्तदन्तःकरणधर्मानेव प्रकाशयति न सर्व तत्राह - तनुःसंकल्पितेति | या एषा ज्ञानैकधर्मिणी नित्यबोधस्वभावा साक्षिचित्सा परिच्छिन्नवृत्तिकलनोपाधिवशात्तनुरल्पैवेति जगत्त्रयेऽपि तैस्तैः प्राणिभिः संकल्पिता अतः किंचिदल्पमेव तत्तदन्तःकरणादि विजानातीत्यर्थः || ६३ || चेतनेन जडा राम कलनोपलरूपिणी | पद्मिनीवातपेनासौ परेणैव प्रबोध्यते || ६४ || वृत्तिरूपा तु कलना विवेके उपलरूपिणी पाषाणकल्पा जडैव | अत एव चेतनेन साक्षिणा प्रबोध्यते || ६४ || यथा शिलामयी कन्या चोदितापि न नृत्यति | तथेयं कलना देहे न किंचिदवबुध्यते || ६५ || ये तु नैयायिकप्रभृतयो नित्यसाक्षिणमजानानाः परप्रकाशस्यैवानित्यज्ञानस्य अर्थप्रकाशतां मन्यन्ते तान्बहुभिर्दृष्टान्तैरुपहसति - यथेत्यादिना || ६५ || लिपिकर्मनृपैर्युद्धं क्व कृतं घर्घरारवम् | क्वचिन्न चन्द्रकिरणैरोषध्यः प्रतिबोधिताः || ६६ ||
68 SK अचेतनस्यान्तःकरणतद्वृत्त्यादेर्नित्यचित्संनिधानाभावे विषयोन्मुखप्रवृत्तिरेव दुर्लभा दूरे तत्प्रकाशकतेत्याशयेनाह - लिपिकर्मेति | लिपिकर्मभिश्चित्रलिखितैर्नृपैः | प्रतिबोधिता आप्यायिताः || ६६ || असृगालिप्तगात्रैश्च शवैः क्व परिवल्गितम् | क्व गीतं मधुरध्वानं वनपाषाणखण्डकैः || ६७ || परिवल्गितं धावितम् || ६७ || क्व पुंसा विहितैरर्कैः क्षपितं यामिनीतमः | क्व संकल्पमयैश्छाया क्रियते व्योमकाननैः || ६८ || पुंसा विहितैः शिलादिना निर्मितैः || ६८ || क्व जडैरुपलाकारैर्मिथ्याभ्रमभरोत्थितैः | मृगतृष्णामयैरेभिर्मनोभिः क्रियते क्रिया || ६९ || यथातपे क्षते स्फारे मृगतृष्णातरङ्गिणी | कलना तद्वदेवेयं स्फुरत्यात्मनि सत्यलम् || ७० || नित्यचिदात्मानभ्युपगमे कलनाद्यध्यास एव न सिध्येदित्याशयेनाह - यथेति || ७० || यदेतत्स्पन्दितं नाम तन्मनोऽधिगतं शठैः | मरुतां विद्धि तां शक्तिमन्तः प्राणशरीरिणीम् || ७१ || चितः परिच्छेदस्पन्दकल्पनैव मन इत्युक्तम् इदानीं सैव चिदचिदंशविवेके चिदंशस्यात्ममात्रत्वाज्जडांश एव परिशिष्यते तथाविधा तु स्पन्दशक्तिः प्राण एवेति तन्निरोधे कृते न मनो नाम पृथङ्निरोध्यमस्तीति वक्तुं भूमिकां रचयति - यदेतदिति | शठैः स्ववञ्चकैरज्ञैः | अन्नमयान्तःप्राणशरीरिणीं प्राणमयकोशात्मिकाम् || ७१ || येषां संविदनाक्रान्ता संकल्पलवनिश्चयैः | अनाक्षिप्तरसाकारा प्रभैषा पारमात्मिकी || ७२ || सा प्राणशक्तिः संकल्पादुत्थिता निःसंकल्पानां योगिनां चिदात्मैव सा पृथगस्तीत्याह - येषामिति | न आक्षिप्तः कल्पितः रस्यन्त इति रसा विषयास्तदाकारो यया || ७२ || अयं सोऽहमिदं तन्म इति या कलनाविला | प्राणात्मतत्त्वयोस्तस्याः संज्ञा जीवेति कथ्यते || ७३ ||
69 SK सैव अहंममेत्याक्षिप्तरसाकारा यदा तदा विना स्पन्दं तदाक्षेपायोगात्स्पन्दात्मकप्राणतत्त्वस्य चिदात्मकस्यात्मतत्त्वस्य च पृथगिव संजातस्याविवेकात्पुनरैक्याध्यासेनाविला जडसंवलितचिद्रूपा कलना जीव प्राणधारण इति धात्वर्थानुगमाज्जीवतीति जीवेति संज्ञा कथ्यत इत्यर्थः || ७३ || धीश्चित्तं जीव इत्येताः संकल्पस्यासतो मताः | संज्ञाः संकल्पितास्तज्ज्ञैर्न राम परमार्थतः || ७४ || एवमन्या अपि संज्ञास्तस्याः प्रसिद्धा इत्याह - धीरिति || ७४ || मनो नो न मतिर्नापि धीरेषा न शरीरकम् | अस्तीह परमार्थेन स्वात्मैवेहास्ति सर्वदा || ७५ || कुतो न परमार्थतस्तत्राह - मन इति | यतः परमार्थेन मनश्चित्तं बुद्धिः शरीरमित्येतदुपलक्षितं दृश्यमात्रमिहात्मनि नास्ति अप्राणो ह्यमनाः शुभ्रः अकायमव्रणमस्नाविरम् अस्थूलमनणु इत्यादिश्रुतिशतेन विद्वदनुभवैर्युक्तिभिश्च बाधितत्वादिति भावः || ७५ || आत्मैवेदं जगत्सर्वमात्मा कालक्रमस्तथा | स चाकाशादच्छतरो नास्तीवास्त्येव चामलः || ७६ || यद्यात्मैवास्ति तर्हि स कुतो न भाति जगद्रूपेण वा को भाति तत्राह - आत्मैवेति || ७६ || अच्छत्वादसदाभासः संविद्रूपतया तु सत् | आत्मा सर्वपदातीतः स्वानुभूत्यानुभूयते || ७७ || कुतो नास्तीव कुतश्चास्त्येवेति निश्चयस्तत्राह - अच्छत्वादिति | अछत्वाच्चक्षुरादियोग्यताप्रयोजकस्थौल्यनैल्याद्यभावादसन्निवाभासत इत्यसदाभासः | चिद्रूपतया स्वपरप्रथानिर्वाहकत्वात्तु सत् | अत एव स्वानुभूत्यैवानुभूयते न करणैरित्यर्थः || ७७ || मनस्तत्र परिक्षीणं यत्र संवित्परात्मनः | अन्धकारक्षयस्तत्र यत्रालोकः प्रवर्तते || ७८ || स्थौल्याद्यभावात्करणान्तराणि तत्र न प्रवर्तन्तां मनस्तु सूक्ष्मतयार्थनिर्णयनिमित्तत्वेन प्रसिद्धं कुतो नप्रवर्तते तत्राह - मन इति | सत्यं तत्र मनः प्रवर्तेत यदि तद्दर्शनकाले स्वयं न नश्येत् मनसस्त्वज्ञानकार्यत्वात्तद्दर्शनवृत्त्युदयसमकालमेवाविद्यया सह क्षयान्न तद्दर्शनशक्ततेत्यर्थः || ७८ ||
70 SK यत्रात्मसंविदोऽच्छायाः संकल्पोत्थतया मताः | तत्रात्मनो विस्मरणं स्मरणं चित्तजन्मनः || ७९ || क्व तर्हि मनसः प्रवृत्तिशक्तिस्तदाह - यत्रेति | यत्र यस्यां दशायामच्छायाः स्वच्छतराया आत्मरूपायाः संविदः संकल्पवशाद्बाह्यविषयाकारोत्थतया बाह्यार्थाः प्रकाश्यत्वेनाभिमतास्तत्र पारमार्थिकस्यात्मनो विस्मरणं चित्तजन्मनो मिथ्यार्थस्य स्मरणं दर्शनमित्यादिप्रसिद्धमित्यर्थः || ७९ || परस्य पुंसः संकल्पमयत्वं चित्तमुच्यते | अचित्तत्वमसंकल्पान्मोक्षस्तेनाभिजायते || ८० || स्वोद्भवप्रतिकूलत्वादपि न मनस आत्मदर्शनशक्तिरस्तीत्याह - परस्येति | संकल्पमयत्वाधीनोद्भवं मनः सर्वसंकल्पक्षयोपलक्षिते मोक्षात्मनि कथं प्रवर्तेतेति भावः || ८० || एतावच्चेतसो जन्म बीजं संसारभूतये | संकल्पोन्मुखतां यातः संविदो वा किलात्मनः || ८१ || अत एव संकल्पचित्तजन्मबीजमित्यसकृदा वेदितमित्याह - एतावदिति | संकल्पोन्मुखतां यातो गच्छत आत्मनो यत् संविदश्चित्स्वभावाद्वा विकल्पनमीषदन्यथाभावलक्षणमेतावदेव चेतसो जन्म किलेत्यन्वयः || ८१ || निर्विकल्पाच्चितः सत्ता संकल्पाङ्ककलङ्किता | कलनेत्युच्यते तेन पुंस्त्ववद्बुद्ध्यते मनः || ८२ || उक्तमेव स्फुटीकृत्याह - निर्विकल्पादिति | निर्विकल्पात्प्रच्युतेति शेषः | यथा स्त्र्यादिसंकल्पकलनया पुंस्त्वं पुंव्यञ्जनं बुद्ध्यते प्रजाप्रसवार्थमाविर्भवति तथा मनोऽपि जगत्प्रसवार्थमित्यर्थः | तथाच बादरायणस्यापि सूत्रम् पुंस्त्वादिवदपि हि लोके इति || ८२ || प्राणशक्तौ निरुद्धायां मनो राम विलीयते | द्रव्यच्छायानु तद्द्रव्यं प्राणरूपं हि मानसम् || ८३ || यदेतत्स्पन्दितं नामेत्यादिना यत् प्रस्तुतं तस्य प्रयोजनमाह - प्राणशक्ताविति | यथा द्रव्यस्य दर्पणादेः संबन्धिनी छाया प्रतिच्छाया तस्मिन्द्रव्ये विलीने तद्द्रव्यमनु विलीयते तद्वत् | तत्कुतः | यतो यथा प्रतिबिम्बं दर्पणस्यैव कल्पितं रूपं तथा मानसं मनोऽपि प्राणस्यैव रूपमित्यर्थः || ८३ ||
71 SK देशान्तरानुभवनं प्राणो वेत्ति हृदि स्थितम् | स्पन्दवेदनतो यत्तन्मन इत्यभिधीयते || ८४ || प्राणरूपं मानसमिति कुतो ज्ञातं तत्राह - देशान्तरेति | यतः प्राणो जीवन्पुरुषो दूरदेशान्तरस्यानुभवनं मानसानुभवं हृदि स्थितं वेत्ति हृदि मे तस्य देशस्यानुभवोऽस्तीत्यनुभवति | तत्र देशान्तरसंबन्धस्य स्पन्दमन्तरेणासिद्धेर्वेदनांशस्य चित्संवलनमन्तरेणायोगात्स्पन्दवेदनोभयशक्तियोगात्प्राण एव मन इत्यभिधीयत इत्यर्थः || ८४ || वैराग्यात्कारणाभ्यासाद्युक्तितो व्यसनक्षयात् | परमार्थावबोधाच्च रोध्यन्ते प्राणवायवः || ८५ || इत्थं प्राणनिरोधेन मनोनिरोधसिद्धये तयोरैक्यं व्युत्पाद्येदानीं निरोधोपायमाह - वैराग्यादिति | कारणं प्राणायामस्तस्याभ्यासात् | योगो युक्तिः समाधिस्तस्मात् | चित्तस्य बाह्यविषयोपसर्पणदुरभ्यासो व्यसनं तस्य क्षयात् || ८५ || दृषदो विद्यते शक्तिः कदाचिच्चलनैधसाम् | न पुनर्मनसामस्ति शक्तिः स्पन्दावबोधने || ८६ || इदानीं अन्नमयं हि सोम्य मन आपोमयः प्राणः इति श्रुत्या भिन्नोपादानकयोः प्राणमनसोर्भेद इति पक्षेऽपि मनसः स्वतःस्पन्दशक्तेश्चिच्छक्तेश्चाभावात्प्राणचिदात्माधीने एव ते इति प्राणनिरोधे निरोधोपपत्तिरित्याशयेनाह - दृषद इति | एधःशब्देन काष्ठवाचिना तत्कार्यज्वलनशक्तिर्लक्ष्यते | दृषदः शिलाया अपि कदाचिच्चलनशक्तिर्ज्वलनशक्तिश्च विद्यते संभवेत् नतु मनसां स्पन्दविषये अवबोधविषये वा शक्तिरस्तीत्यर्थः || ८६ || स्पन्दः प्राणमरुच्छक्तिश्चलद्रूपैव सा जडा | चिच्छक्तिः स्वात्मनः स्वच्छा सर्वदा सर्वगैव सा || ८७ || कयोस्तर्हि ते शक्ती तावाह - स्पन्द इति || ८७ || चिच्छक्तेः स्पन्दशक्तेश्च संबन्धः कल्प्यते मनः | मिथ्यैव तत्समुत्पन्नं मिथ्या ज्ञानं तदुच्यते || ८८ || किं तर्हि मनस्तदाह - चिच्छक्तेरिति || ८८ || एषा ह्यविद्या कथिता मायैषा सा निगद्यते | परमेतत्तदज्ञानं संसारादिविषप्रदम् || ८९ ||
72 SK अविद्या कार्याविद्या | माया विक्षेपशक्तिः | एतन्मन एवाज्ञानसर्वस्वनिर्वाहकत्वादज्ञानम् || ८९ || चिच्छक्तेः स्पन्दशक्तेश्च सङ्गे संकल्पकल्पनम् | न कृतं चेत्परिक्षीणास्तदिमा भवभीतयः || ९० || संकल्पकल्पनं संकल्पकल्पननिमित्तमिति यावत् | अत एव निमित्ताजनने नैमित्तिकापायसिद्धिरित्याह - न कृतं चेदिति || ९० || वायुतः स्पन्दशक्तिर्या सा चिता चेत्यते यदा | सचेत्या चित्तदैवान्तः संकल्पाद्याति चित्तताम् || ९१ || वायोरिति वायुतः | षष्ठ्यन्तात्सार्वविभक्तिकस्तसिः || ९१ || चित्ततैषा चितो मिथ्या कल्पिता बालयक्षवत् | अखण्डमण्डलाकारस्पन्दरूपा चिदेव यत् || ९२ || न विद्यन्तेऽखण्डमण्डलाकारस्पन्दरूपाणि यस्यां तथाविधा चिदेव यद्यस्मात्परमार्थ इत्यर्थः || ९२ || सैषा चित्ता तदन्येन केन संबाध्यते किल | अखण्डशक्तेरिन्द्रस्य केन स्यात्सह संगरः || ९३ || सा उक्ताखण्डपूर्णतालक्षणा चित्ता चित्स्वभावता तदन्येन केन संबाध्यते खण्ड्यते | किलेति तदसंभावनाद्योतनार्थः | किं तदधीनसिद्धिकेन उतान्येन अन्यस्याप्रसिद्धेः | चिदधीनसिद्धिकस्य चिद्बाधनाशक्तेर्बाधस्यापि सिद्धेश्चित्सत्ताधीनत्वाच्चित्खण्डनमन्तरेण चिदन्तराले अचित्सिद्ध्ययोगाच्चेति भावः | तद्विदन्ते इति पाठे तु तां तादृशीं चित्स्वभावतां स्वस्य वेत्तिति तद्वित् अन्ते सकार्याविद्यानाशे सति केन संबाध्यते इति योज्यम् | इन्द्रस्य देवराजस्य परमेश्वरस्य वा || ९३ || अतः संबन्धिनोऽभावात्संबन्धोऽत्र न विद्यते | संबन्धेन विना कस्य सिद्धं तत्कीदृशं मनः || ९४ || अतोऽचितश्चिदविरोधायोगाद्विरोधे चित्सत्ताबाधितस्थितिकत्वाच्च कीदृशं मनः | यदि जडमपि स्वसत्तायामन्यनिरपेक्सं स्वतःसिद्धमुच्येत तथापि तदनुभवितुस्तत्संबन्धिनश्चेतनस्यान्यस्याभावाच्चित्संबन्धेन विना तन्मनः कस्य सिद्धं कीदृशं वा तत्स्यात् | अनुभवानारोहे अलीकस्य तस्य च विशेषासिद्धेरिति भावः || ९४ ||
73 SK चित्स्पन्दयोरेकतायां किं नाम मन उच्यते | का सेना हयमातङ्गसङ्गसंघट्टनं विना || ९५ || इत्थं चित्स्पन्दयोर्भेदपक्षे मनसोऽलीकतामुक्त्वा एकतापक्षे तु सुतरां तथेत्याह - चित्स्पन्दयोरिति | चित्स्पन्दयोरेकता चिदपलापेन तावदशक्या वक्तुम् | स्पन्दसाधकाभावप्रसङ्गात् | परिशेषात्स्पन्दापलापेनैकत्वोक्तौ राजातिरिक्तगजतुरगाद्यपलापे सेनास्वरूपासिद्धिवन्मनसः सुतरामसिद्धिरित्यर्थः || ९५ || तस्मान्नास्त्येव दुष्टात्म चित्तं राम जगत्त्रये | सैषा सम्यक्परिज्ञानाच्चेतसो जायते क्षतिः || ९६ || तस्मात्पक्षद्वयेऽप्यसंभवाच्चित्तं मनो नास्त्येव तत्त्वज्ञानान्नास्तीति निश्चय एव मनोनाश इत्यर्थः || ९६ || मुधा मैवमनर्थाय मनः संकल्पयानघ | मनो मिथ्यासमुदितं नास्त्यत्र परमार्थतः || ९७ || मा त्वमन्तः क्वचित्किंचित्संकल्पय महामते | मनः संकल्पकं राम यस्मान्नास्तीह कुत्रचित् || ९८ || असम्यग्ज्ञानसंभूता कल्पना मृगतृष्णिका | हृन्मरौ तव संशान्ता सम्यगालोकनान्मुने || ९९ || हृत्पदेन हृदयान्तस्थप्रत्यगात्मोच्यते | तल्लक्षणे मरौ | असम्यग्ज्ञानेन संभूता | मुने इति रामसंबोधनं मननप्रवणताविधानार्थम् || ९९ || जडत्वान्निःस्वरूपत्वात्सर्वदैव मृतं मनः | मृतेन मार्यते लोकश्चित्रेयं मौर्ख्यचक्रिका || १०० || मरणं यदि चैतन्यनिवृत्तिर्यदि वा निःस्वरूपतापत्तिस्तदुभयमपि मनस्यस्तीति नित्यमृतम् | मौर्ख्यचक्रिका चक्रवत्परिवर्तमाना मौर्ख्यपरम्परा || १०० || यस्य नात्मा न देहोऽस्ति नाधारो नापि चाकृतिः | तेनेदं भक्ष्यते सर्वं चित्रेयं मौर्ख्यवागुरा || १०१ || आत्मा स्वरूपम् | आकृतिरवयवसंस्थानं जातिर्वा || १०१ || सर्वसामग्र्यहीनेन हन्यते मनसापि यः | नीलोत्पलदलाघातैर्मन्ये दलितमस्तकम् || १०२ || सामग्र्यं शस्त्रास्त्रदेहहस्तपादादियुद्धसामग्री तेन हीनेन | दलितमस्तकं तं इति शेषः || १०२ || जडेन मूकेनान्धेन निहतो मनसापि यः | मन्ये स दह्यते मूढः पूर्णचन्द्रमरीचिभिः || १०३ ||
74 SK विद्यमानोऽपि यः शूरो लोकस्तेनाभिभूयते | अविद्यमानमेवेदं हन्यते मुग्धतोदिता || १०४ || तेन अविद्यमानेन मनसा विद्यमानः | शूरः शत्रुजयसर्वसामग्रीसंपन्नोऽपि लोको मूढजनोऽभिभूयते | विवेकिभिश्च वैराग्यादिभिर्महाप्रयत्नसंपाद्यैः साधनैर्महता योगध्यानसमाध्यभ्याससाक्षात्कारोपायेनाविद्यमानमेव हन्यते इतीयं सर्वा विकल्पना मुग्धतैवोदिता न पारमार्थिकीत्यर्थः | तथाचाहुः स्वामिनः समसरमिति निरविदमिति समतरमिति चेह सहजसान्द्रसुखे | केवलचिद्गगने मयि केयमहो विफलबहुविकल्पलता || इति || १०४ || मिथ्यासंकल्पकलितं मिथ्यावस्थितिमागतम् | अन्विष्टमपि नो दृष्टं का तस्य किल शक्तता || १०५ || शक्तता अभिभवितुमिति शेषः || १०५ || अहो नु खलु चित्रेयं मायामयविधायिनी | चेतसाप्यतिलोलेन लोकोऽयमभिभूयते || १०६ || महामायावित्वेन प्रसिद्धस्य मयस्यापि विधायिनी निर्मात्री || १०६ || मौर्ख्यं यदापदान्विष्टः का हि नापदजानतः | पश्य मौर्ख्यादियं सृष्टिरज्ञानेनैव जन्यते || १०७ || यदा मौर्ख्य तदा स पुरुषः सर्वेणाप्यापदा [अत्र सर्वयाप्यापदा | सर्वेणापि प्रकारेणेत्यर्थ इति युक्तम्] अन्विष्टः परिमृग्य आश्रितो नात्र विप्रतिपत्तिः | हि यस्मादजानतो मूर्खस्य का आपन्नास्ति सर्वाप्यस्त्येवेत्यर्थः | न विद्यते ज्ञानं यस्य सः अज्ञानः मूर्खात्मा तेन मौर्ख्याद्दुष्कर्मादिद्वारा इयं सर्वापन्निधिभूता सृष्टिः | आपदां निष्ठेति पाठे तु स्पष्टम् || १०७ || हा कष्टमपि दुर्बुद्धेः सृष्टिर्मौर्क्यवशं गता | असतैव यदेतेन जीवेनाप्युपपाद्यते || १०८ || इयं सृष्टिर्मनोदेहादिदुर्बुद्धेर्निमित्तान्मौर्ख्यस्य वशं गता मौर्ख्येण पीड्यमानाप्येतेन प्रसिद्धेन जीवेनाप्यसता असन्मार्गानुवर्तनेनैवोत्तरोत्तरदुःखायोपपाद्यते | तथाचान्धस्येव जडस्य मन आदेः स्वाभाविकमौर्ख्यात्पीडितस्य पुनस्तद्दुःखाभिज्ञेन जीवेनापि पीडनं कष्टात्कष्टतरमनुचितमित्यर्थः || १०८ ||
75 SK मन्ये मौर्ख्यमयी सृष्टिरियमत्यन्तपेलवा | वास्तरङ्गप्रवाहेण कणशः परिशीर्यते || १०९ || अत्यन्तपेलवा अविचारमात्रसिद्धत्वाद्विचारमात्रेण बाधितुं शक्येति यावत् | तत्र तादृशान्विचारमात्रनिरस्यान्दृष्टान्तानाह - वारित्यादिना | यथा वाः वारि स्वकल्पितेन तरङ्गप्रवाहेण पिष्यमाणं कणशः परिशीर्यते इति भ्रान्तिवदित्यर्थः || १०९ || नीलाञ्जनालवालेन यन्त्रेणैव विचूर्ण्यते | इन्दोराभोगपूर्णस्य करस्पर्शेन मुह्यति || ११० || तदेव वारि यत्रावर्तस्तत्र नीलाञ्जनवर्णेन आलवालेन मध्यच्छिद्रवता पेषणयन्त्रेणैव विचूर्ण्यते | तदेव वारि यत्र कम्पते तत्र आभोगेन मण्डलेन पूर्णस्येन्दोः करस्पर्शेन मुह्यति उन्मादपरवशतां गच्छतीति च भ्रान्तिर्यथा तद्वदित्यर्थः || ११० || रिपुभिर्नयनोन्मुक्तैर्दृष्टः सूत्रैर्निबध्यते | संकल्पकृतया शूरसेनया परिभूयते || १११ || रिपुभिर्दृष्टो दृष्टमात्रः पुरुषो नयनोन्मुक्तैर्नेत्रसृष्टैः सूत्रैर्बध्यत इत्यादिभ्रान्तिवदित्यर्थः | अथवा मन्ये इत्यादि असती मृगतृष्णावास्तरङ्गप्रवाहादिनापीयं सृष्टिर्विनाशयितुं शक्यते किं पुनः शास्त्रीयोपायेनेति मन्ये इत्येवं योज्यम् || १११ || तस्मात्किलेयं मनसा न स्थितेनैव कुत्रचित् | कल्पितेन मुधान्येन कृपणेन निहन्यते || ११२ || तस्मादतिपेलवत्वादियं मूर्खलोकमयी सृष्टिर्निहन्यत इति परेण सहान्वयः || ११२ || मूर्खलोकमयी सृष्टिर्मन एवासदुत्थितम् | यः शक्तो न वशीकर्तुं नासौ रामोपदिश्यते || ११३ || तस्मान्मनोवशीकरणाशक्तो नाध्यात्मशास्त्राधिकारीत्याह - मन एवेति || ११३ || अभिजाताऽस्वरूपैषा प्रज्ञा क्षोदेषु न क्षमा | नोपदेशगिरां योग्या परिपूर्णेव संस्थिता || ११४ ||
76 SK कुतो नोपदिश्यते तत्राह - अभिजातेति | यतस्तस्यैषा प्रज्ञा अभितो जाता अभिजाता बाह्यविषयेष्वेव निरूढा तावतैव परिपूर्णेव संस्थिता न मनोनिग्रहोद्युक्ता | अस्वरूपा न विद्यते आन्तरं स्वरूपं यस्यास्तथाविधा प्रत्यक्प्रवणा न भवतीत्यर्थः | अत एव क्षोदेषु सूक्ष्मार्थविचारेषु न क्षमा || ११४ || बिभेत्येषापि वीणायास्तन्त्रीगुणतनुध्वनेः | बन्धोरपि सनिद्रस्य बिभेति वदनद्युतेः || ११५ || अत एव धैर्यहेत्वभावात्सर्वतो बिभेतीत्याह - बिभेतीति || ११५ || असतोऽपि जनादुच्चैर्गीताद्भीता पलायते | स्वेनैव मनसाप्यज्ञा किलैषा विवशीकृता || ११६ || असतोऽपि शत्रुजनात्प्रतारकादिभिरायातस्ते शत्रुजन इत्युच्चैर्गीताद्भीता सती पलायते | किं बहुना स्वेन स्वीयेनैव मनसापि विवशीकृता भीषिता किमन्येनेत्यर्थः || ११६ || सुखलवविवशा द्विषेव तप्ता हृदयगतेन निजेन चेतसैव | विधुरितधिषणा न वेत्ति सत्यं तदपि कथं परिमोहितो मुधैव || ११७ || इदानीं सा दुष्प्रज्ञा बिभेतु नाम तथापि न तद्वशेन पुरुषस्य व्यामोहो युक्त इति प्राक्प्रस्तुतमेवोपसंहरति - सुखेति | यतः सा प्रज्ञा विषसंपृक्तमोदकास्वादसुखलवप्रायेण विषयसुखलवेन मरणोन्मुखीव विवशा द्विषेव प्रहरता हृदयगतेन चेतसैव तप्ता संतापिता विधुरिता शून्या धिषणा विवेकबुद्धिर्यस्यास्तथाविधा सत्यं तु सुतरां न वेत्ति तत्तथाभूतयापि तया पुरुषो मुधैव परिमोहितः स्वच्छचित्तात्स्वजनासंतप्ताद्विवेकबुद्धिमतः सत्यस्वरहस्यवेदिनः शत्रोः सकाशान्मोहो युक्तो नतु तद्विपरीताया दुष्प्रज्ञायाः सकाशादिति भावः || ११७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे मनोविनिवारणं नाम त्रयोदशः सर्गः || १३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे मनोनिवारणं नाम त्रयोदशः सर्गः || १३ || चतुर्दशः सर्गः १४ श्रीवसिष्ठ उवाच | संसारसागरासारकल्लोलैरुह्यमानया | मतेर्मानद मूकत्वं यया जनतयार्जितम् || १ ||
77 SK उपेक्ष्यानुपदेशार्हान्नानायोनिषु दुःखिनः | मनोनिर्मार्जनोपायस्तदर्हेभ्योऽत्र वर्ण्यते || १ || तत्रादौ मन एवासदुत्थितम् | यः शक्तो न वशीकर्तुं नासौ रामोपदिश्यते इति प्राक्प्रस्तुतानुपदेशानधिकारिजनानेवोपेक्षणीयतया वर्णयति - संसारेत्यादिना | संसारसागरस्य असारकल्लोलभूतैर्विषयसुखाभिलाषैरुह्यमानया निरन्तरं प्रवर्त्यमानया यया जनतया मनोनिग्रहविवेकवैराग्यादिविषये अपेक्षाभावाद्विदुषः प्राप्यापि प्रश्नप्रार्थनाद्यकरणान्मतेर्मूकत्वमेवाश्रितं सा जनता मया आत्मलाभोपायप्रचुरोत्कृष्टकलाशालिभिर्विचारोक्तिभिरिह जगत्यस्मिन् शास्त्रे नोपदिश्यते इति द्वयोरन्वयः || १ || आत्मलाभमयोदारकलाभिरिह सा मया | विचारोक्तिभिरेताभिः शास्त्रेऽस्मिन्नोपदिश्यते || २ || न पश्यत्येव योऽत्यर्थं [यो नित्यं इति पाठः] तस्य कः खलु दुर्मतिः | विचित्रमञ्जरी चित्रं संदर्शयति काननम् || ३ || योऽन्ध इत्येव वक्तव्ये नित्यं न पश्यतीत्युक्तिश्चक्षुष्मानपि यो दुरदृष्टद्वेषादिना न पश्यति तस्यापि तत्प्रदर्शनमनुचितमिति सूचनार्थम् || ३ || कः कुष्ठघर्घरघ्राणं नानामोदविचारणे | मूर्खमात्मोपदेशेन प्रमाणीकुरुतेऽमतिः || ४ || कुष्ठरोगविशीर्णघर्घरस्वननादिघ्राणं यस्य तं पुरुषं कोऽमतिर्निर्बुद्धिर्नानामोदानां विचारणे परीक्षणे प्रमाणीकुरुते आमोदतत्त्वनिर्णेतृत्वेनाश्रयतीत्यर्थः || ४ || विपर्यस्तेन्द्रियं मत्तं मदिराघूर्णितेक्षणम् | धर्मनिर्णयसाक्षित्वे कः प्रमाणीकरोत्यधीः || ५ || कः शवं वा श्मशानस्थं समवायकथाशतम् | परिपृच्छति संदेहे कश्च मूर्खं प्रशास्ति च || ६ || समवाया जनसमूहास्तत्रत्यं कथाशतम् || ६ || येनाशयबिलस्थोऽपि मूकोन्धोऽपि न निर्जितः | मनोव्यालः स दुर्बुद्धिः कथं नामोपदिश्यते || ७ || आशेते अस्मिन्नित्याशयो हृदयं तद्बिलस्थः || ७ || जितमेव मनो विद्धि वस्तुतो यन्न विद्यते | निकटात्सा चिरास्तैव या शिला नैव विद्यते || ८ ||
78 SK तर्हि किं विवेकिनोऽपि मनोजयोऽशक्यो नेत्याह - जितमेवेति | निकटात्स्वसंनिधेः अस्ता दूरनिरस्तैव || ८ || मनो न विजितं राम येनासदपि दुर्धिया | तेनाग्रस्तविषेणैव म्रियते विषमूर्च्छया || ९ || अग्रस्तविषेणेति सर्पदंशाद्यभावस्याप्युपलक्षणम् || ९ || ज्ञः पश्यति सदैवात्मा स्पन्दने प्राणशक्तयः | इन्द्रियाणि स्वधर्मेषु मनो राम किमुच्यते || १० || वस्तुतो यन्न विद्यते इत्येतदुपपादयति - ज्ञ इति | किमर्थप्रथार्थं मन उत स्पन्दार्थमुत ज्ञानकर्मेन्द्रियप्रयोजनसिद्धये | तत्त्रयमपि प्राणप्रेरितैरिन्द्रियरुपनीतानामर्थानां साक्षिणैव प्रथासंभवान्न मनसः कृत्यमस्तीति भावः || १० || प्राणानां स्पन्दनी शक्तिर्ज्ञानशक्तिः परात्मनः | इन्द्रियाणां निजा शक्तिरेकः कोऽत्र निबध्यते || ११ || ननु सर्वशक्तिभिर्निबद्धं मनः किं न स्यादिति चेन्न इयमुक्तिर्विवेके घटते वीणामधुरध्वनिवत्समाजेनापि समुदितव्यवहारसिद्धेरित्याशयेनाह - प्राणानामिति | तथाच यथा तैर्थिकसमाजस्नानदानगानस्तवनादिव्यवहारो न सर्वशक्तिमदेकप्रयुक्तस्तद्वदयमपीत्यर्थः || ११ || सर्वास्तदंशवस्तस्य [सर्वास्ता अंशव इति पाठः] सर्वशक्तेः किलात्मनः | पृथक्ता वाच्यता चेयं कुतो नाम तवोत्थिता || १२ || यदि कश्चिद्ब्रूयात्संघातस्य संहन्तृपरार्थत्वनियमादत्रापि कश्चिदपेक्षित इति तर्ह्यस्यापि संघातस्य जगत्संघातान्तःपातात्सर्वेषां सर्वा व्यवहारशक्तयः सर्वनिर्मातुरीश्वरस्यात्मन एवांशव इति तादर्थ्यमेवास्यापि सिद्ध्येन्नाचेतनमनोर्थत्वमिति न प्रतिशरीरभिन्ना चेतनमनःसिद्धिरित्याशयेनाह - सर्वा इति | वाच्यता मन आदिशब्दवाच्यता || १२ || किं नाम जीव इत्युक्तं येनेहान्धीकृतं जगत् | चित्तं चैवासदेव त्वं विद्धि का तस्य शक्तता || १३ ||
79 SK तर्ह्यस्तु जीवश्चेतनोऽस्याधिष्ठाता स च न चित्ताख्य मनःप्रग्रहेण विना इन्द्रियाश्वानधिष्ठातुं शक्नोतीति चित्तमपि सिद्धमेवेति चेत्तत्राह - किं नामेति | जीव इति चित्तमेव चेति यत्त्वयोक्तं तदुभयं किं नाम | किमात्मातिरिक्तं चेतनान्तरमुताचेतनम् | नाद्यः नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता इति श्रुत्या ब्रह्मातिरिक्तचेतनान्तरस्य प्रतिषेधात् | द्वितीये त्वाह - का तस्य शक्ततेति | अचेतनस्य चेतनार्थत्वावश्यकतया इन्द्रियेभ्यो विशेषाभावात्तदधिष्ठानशक्त्यभावात् | अतस्त्वं तदुभयमसदेव विद्धित्यर्थः || १३ || मनोनिर्दघ्ददृष्टीनां दृष्ट्वा दुःखपरम्पराम् | मतिर्मे करुणाक्रान्ता राम मुग्धेव तप्यते || १४ || स्वकल्पितेन मनसा निर्दग्धा परमार्थदृष्टिर्येषाम् | तद्दुःखनिवारणोपायस्यान्वेषणे वर्षकोटिभिरप्यलाभान्मुग्धा व्यामोहमिवापन्ना || १४ || कः किलात्र कुतः खेदो यन्मूर्खः परितप्यते | दुःखायैव हि जायन्ते करभाः प्राकृतास्तथा || १५ || सनिमित्तकं हि दुःखं निमित्तनिवारणेन वारयितुं शक्यम् मूर्खाणां तु निर्निमित्तमेव दुःखमतो दुर्वारमेवेत्याशयेनाह - कः किलेति | करभा गर्दभाः प्रकृता मूर्खाश्च अतः शोच्या एवेत्यर्थः | अथवा नैते शोच्याः ईदृशां मूढयोनीनामसंख्यातानां दर्शनेन तद्वदेवोपेक्षार्हत्वादित्याशयेन इयमुक्तिः || १५ || विनाशायैव जायन्ते जडा देहेष्वबुद्धयः | अनारतोदयाः पापा बुद्बुदा जलधेरिव || १६ || उक्ताथविवरणाय नानायोनिभेददुःखिन उदाहर्तुं पीठिकां रचयति - विनाशायैवेति | पापाः यतः पापकारिण इत्यर्थः || १६ || कियन्तः पश्य पशवः प्रत्यहं प्रतिमण्डलम् | सूनावद्भिर्निहन्यन्ते कैवात्र परिदेवना || १७ || अज्ञानां योनिभेदेषु दुःखवैचित्र्याणि वैराग्यदार्ढ्यायोदाहरति - कियन्त इत्यादिना | प्रतिमण्डलं प्रतिदेशम् | सूना पशुहिंसास्थानं तद्बद्भिस्तदधिष्ठितैः पुरुषैः || १७ || अर्बुदान्यनिलो हन्ति क्षमाजातेषु चान्वहम् | दंशानां मशकानां च कैवात्र परिदेवना || १८ ||
80 SK क्षमाजातेषु भूम्युद्भवजन्तुषु मध्ये अनिलो दंशानां मशकानां चार्बुदान्यसंख्यातानि हन्ति || १८ || दिशं प्रति गिरीन्द्रेषु पुलिन्दाद्या वने वने | निघ्नन्ति मृगलक्षाणि कैवात्र परिदेवना || १९ || दिशं प्रति प्रतिदिशम् | वीप्सायां द्विर्वचनस्याव्ययीभावारम्भसामर्थ्याद्विकल्पितत्वेऽप्यन्यतरस्यावश्यकत्वा दुभयाभावश्छान्दसः || १९ || जले जलचरव्यूहान्सूक्ष्मान्स्थूलो निकृन्तति | ग्रासार्थं निर्दयो मत्स्यः कैवात्र परिदेवना || २० || लिक्षामणुकणक्षामां क्षुधा खादति मक्षिका | तां कोशकारः क्षुधितो दंशस्तमपि चञ्चलम् || २१ || इदानीं दुर्बलानां प्रबलैः पीडनं परम्परयोपपादयति - लिक्षेत्यादिना | अणुकणवत्क्षामां लिक्षां वस्त्रयूकां मक्षिका क्षुधा बुभुक्षया खादति | कोशकार ऊर्णनाभिः कीटविशेषो वा | दंशो वनमक्षिका || २१ || तं दंशं दर्दुरो भुङ्क्ते व्यालस्तमपि दर्दुरम् | सर्पमुग्रं खगो हन्ति बभ्रुश्चैनं निकृन्तति || २२ || दर्दुरो भेकः | खगो गरुडादिः | बभ्रुर्नकुलश्चैनं सर्पम् || २२ || बभ्रुं हिनस्ति मार्जारो मार्जारं श्वा निकृन्तति | ऋक्षः कौलेयकं हन्ति ऋक्षं व्याघ्रो निकृन्तति || २३ || ऋक्षो भल्लूकः | रिच्छ इति पाठे श्वापदविशेषः || २३ || सिंहोऽभिभवति व्याघ्रं शरभः सिंहमत्ति च | शरभो नाशमायाति मत्तमेघविलङ्घने || २४ || मत्तस्य गर्जतो मेघस्य विलङ्घने स्वोपरिभागे गमने प्रसक्ते तदसहनेनोत्पत्त्य शिलातले निपातान्नाशमायातीति प्रसिद्धमित्यर्थः || २४ || मेघा वातैर्विधूयन्ते वायवो गिरिभिर्जिताः | गिरयो वज्रनिष्पिष्टाः शक्रस्य वशगः पविः || २५ || वज्रेण निष्पिष्टाः खण्डिताः | पविर्वज्रोऽपि शक्रस्य वशगः | शक्रेण बलाद्वशीकृत इति यावत् || २५ || विष्णुना क्रियते शक्रो विष्णुर्गच्छति जन्तुताम् | सुखदुःखदशामेतां जरामरणपालिताम् || २६ ||
81 SK क्रियते वशग इत्यनुवर्तते | जन्तुतां मत्स्यकूर्मवराहादितिर्यग्जन्त्ववतारान् | अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति संकल्प्य जीवात्मना विष्णोरेव प्रवेशाज्जीवभावेन सर्वजन्तुशरीरित्वात्सर्वजन्त्वात्मकतां वा | अत एव विशिनष्टि - सुखदुःखेति जरामरणाभ्यां स्वभोज्यमन्नमिव यावदायुःपालिताम् || २६ || जन्तवोऽपि महाकाया अपि विद्यायुधान्विताः | लिक्षाभिरङ्गलग्नाभिरुपजीव्यन्त एव हि || २७ || लिक्षाग्रहणं मशकमत्कुणमक्षिकाक्रव्यादाद्युपलक्षणम् | उपजीव्यन्ते भक्ष्यन्ते || २७ || अजस्रमेवमालूनविशीर्णं भूतजङ्गलम् | परस्परमलं मोहादद्यते रक्ष्यतेऽपि च || २८ || आधिभौतिकैरालूनं आध्यात्मिकैराधिदैविकैश्च दुःखैर्विशीर्णं भूतजङ्गलं प्राणिवृन्दम् | अद्यते भक्ष्यते उत्तरकाले भक्षणायेदानीं रक्ष्यते | अपिशब्दादर्धं भक्षयित्वार्धं रक्ष्यते || २८ || अनारतं विनश्यन्ति विविधा भूतजातयः | अनारतं च जायन्ते लिक्षायूकापिपीलिकाः || २९ || अनारतं संततम् | यूकाः शिरोरुहजाः | लिक्षायूकापिपीलिका इति क्षुद्रजन्तवः इत्येकवद्भावाकरणं छान्दसम् | नच सर्वो द्वन्द्वो विभाषैकवद्भवति इति तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् इत्यत्र बहुवचनग्रहणेन ज्ञापनात्सिद्धमिति युक्तम् | ज्ञापकस्य सजातीयापेक्षत्वेन तस्याप्राप्तविभाषात्वादन्यथा प्राणितूर्याद्यङ्गद्वन्द्वेऽपि विभाषापत्तेरिति || २९ || जलकोशेषु जायन्ते मत्स्येभमकरादयः | भूमावन्तः प्रजायन्ते कीटौघा वृश्चिकादयः || ३० || बाधकपरम्परां समाप्य प्रकृतमनुवर्तते - जलकोशेष्विति | जलकोशेषु जलाशयेषु | इभा इभाकारा जलजन्तुविशेषाः || ३० || अन्तरिक्षेऽपि जायन्ते आकाशविहगादयः | वनवीथिषु जायन्ते सिंहव्याघ्रमृगादयः || ३१ ||
82 SK आकाशविहगाः क्षुद्रपक्षिविशेषास्ते हि सदा भ्रमन्तोऽन्तरिक्ष एव प्रसूयन्ते प्रसूतं चाण्डमधःपातात्प्रागेव भित्त्वा निर्गताः शावकाः सद्यः संजातपक्षा अन्तरिक्षमेवोत्पत्त्य भ्रमन्तीति लोकप्रवादप्रसिद्धम् | आदिपदात्पिशाचा भूतवेतालादयो ग्राह्याः || ३१ || प्राण्यङ्गेष्वपि जायन्ते विचित्राः ककुभं प्रति | स्थावरेष्वपि जायन्ते घुणा जघनकादयः || ३२ || प्राण्यङ्गेषु कृमियूकादयः | ककुभं प्रति प्रतिदिशम् | घुणाः काष्ठकृमयः जघनका भ्रमरिकाकाराः काष्ठकीटाः | आदिपदात्पत्रफलपुष्पाद्युद्भवाः कृमिमशकभेदा गृह्यन्ते || ३२ || शिलान्तरेषु जायन्ते कीटभेकघुणादयः | विष्ठायामपि जायन्ते नानाकीटगणास्तथा || ३३ || एवमेतेष्वसंख्येषु जन्मस्वपचयेषु च | अजस्रं करुणावन्तो नन्दन्तु प्ररुदन्तु वा || ३४ || उपसंहृत्य प्रस्तुते योजयति - एवमिति | नन्दन्तु प्ररुदन्तु वेति द्वेषाभावात्परपीडाभिनन्दनमिव स्नेहाभावाद्रोदनमप्यनुचितमित्युपेक्षैव युक्तेति भावः || ३४ || अनारतमृतावस्मिन्ननारतसमुद्भवे | संसारसंभ्रमे युक्ता न तुष्टिर्न च दुःखिता || ३५ || उक्तमेव स्पष्टमाह - अनारतेति || ३५ || पङ्क्तयस्त्वेवमेवेमा वृक्षपर्णगणैः समाः | उत्पत्त्योत्पत्त्य लीयन्ते भूतानां भूरिसंभवाः || ३६ || भूतानां पङ्क्तयः समूहाः | एवमेव वृथैवेत्यर्थः || ३६ || यः प्रवृत्तः कुबुद्धीनां दयावान्दुःखमार्जने | स्वगतच्छत्रनिर्मृष्टसूर्यांशु खिद्यते नभः || ३७ || यः दयावान्सन्कुबुद्धीनां दुःखमार्जने प्रवृत्तः सः नभः कृत्स्नमाकाशं स्वगतेन च्छत्रेण निर्मृष्टसूर्यांशु निवारितातपं कर्तुं खिद्यते श्राम्यतीत्यर्थः | खिद्यते न सः इति पाठे तु किं न खिद्यते इति काक्वा योज्यम् || ३७ || न तिर्यक्समधर्माण उपदेश्या नरा भुवि | कथार्थकथनेनार्थः कः स्थाणुनिकटे वने || ३८ || किं किल स्फारमनसां पशूनां च विशेषणम् | कृष्यन्ते पशवो रज्ज्वा मनसा मूढचेतसः || ३९ || स्फारमनसां विषयविस्तारितमनसाम् | विशेषणं विशेषः || ३९ ||
83 SK स्वचित्तपङ्कमग्नानां स्वनाशारब्धकर्मणाम् | मूर्खाणामापदं दृष्ट्वा प्ररुदन्त्युपला अपि || ४० || उपलाः पाषाणा अपि प्ररुदन्ति किं पुनः सचेतना इत्यतिशयोक्तिः || ४० || अनिर्जितात्मचित्तानां समन्ताद्दुःखदा दशाः | तन्मार्जनं कृतप्रज्ञो नाऽतः संप्रतिपद्यते || ४१ || समन्तात्सर्वदेशेषु सर्वदा च दुःखदा दशाः पूर्णाः सन्तीति शेषः | अतः कृत्स्नभूमिपांसुसंमार्जनवदशक्यत्वान्न संप्रतिपद्यत इत्यर्थः || ४१ || विनिर्जितात्मचित्तानां दुःखानि रघुनन्दन | सुविचार्याणि तेनात्र ज्ञातज्ञेयः प्रवर्तताम् || ४२ || सुविचार्याणि रलयोरभेदासुविचाल्यानि | सुखनिरस्यानीत्यर्थः तेन हेतुना | अत्र तन्मार्जने | ज्ञातज्ञेयस्तत्त्ववित् || ४२ || मनो नास्ति महाबाहो मा मुधोप प्रकल्पय | अनेन कल्पितेन त्वं वेतालेनेव हन्यसे || ४३ || प्रासङ्गिकीमधिकारिचिन्तां समाप्य प्रस्तुतमेवानुवर्तमान आह - मन इति || ४३ || यावद्विस्मृतवानात्मतत्त्वं मूढो भवद्भवान् | तावत्तव मनोव्यालो बभूवाभ्युदितस्ततः || ४४ || यदि नास्ति तर्हि प्रतियोग्यप्रसिद्धौ निषेधानवकाशमाशङ्क्याह - यावदिति | तथाच प्राक्तनीमज्ञदशामादाय प्रसिद्धिरुपपन्नेत्यर्थः || ४४ || इदानीं भवता ज्ञातं यथाभूतमरिंदम् | संकल्पाद्वर्धते चित्तं तदेवाशु परित्यज || ४५ || यथाभूतं परमार्थात्मरूपम् || ४५ || दृश्यमाश्रयसीदं चेत्तत्सचित्तोऽसि बान्धवान् | दृश्यं संत्यजसीदं चेत्तत्सचित्तोसि मोक्षवान् || ४६ || बन्धमोक्षरहस्यमाह - दृश्यमिति || ४६ || अयं गुणसमाहारो बन्धायैव समाश्रितः | संत्यक्तो भव मोक्षाय यथेच्छसि तथा कुरु || ४७ || किं तर्हि दृश्यतत्त्वं तदाह - अयमिति | त्रिगुणात्मकमायामय इत्यर्थः || ४७ || नाहं नेदमिति ध्यायंस्तिष्ठ त्वमचलाचलः | अनन्ताकाशसंकाशहृदयो हृदयेश्वरः || ४८ || अहमित्यान्तरं दृश्यं इदमिति बाह्यं च नस्त्येवेति ध्यायन् | अचलः पर्वत इवाचलः स्थिरः | हृदयेश्वर आत्मा || ४८ ||
84 SK आत्मनो जगतश्चास्य त्वमङ्ग कलनामलम् | राम द्वित्वमयीं त्यक्त्वाशेषस्थः सुस्थिरो भव || ४९ || अहमिदमिति द्वित्वमयीं कलनां अलं सर्वात्मना त्यक्त्वेत्यर्थः || ४९ || आत्मनो जगतश्चान्तर्द्रष्टृदृश्यदशान्तरे | दर्शनाख्ये स्वमात्मानं सर्वदा भावयन्भव || ५० || ननु तदुभयकलनात्यागे किमवशिष्यते यत्र स्थितिरुपदिश्यते तदाह - आत्मन इति | द्रष्टृदृश्यदशयोरन्तरे अन्तराले इत्येतावत्युक्ते वृत्तिज्ञानस्याप्यान्तरालिकत्वाद्ग्रहणं स्यात्तन्माभूदित्यात्मनो जगतश्चान्तरिति | तथाच त्रिपुट्यनुस्यूतसन्मात्ररूपे दर्शनाख्ये त्रिपुटीसाक्षिस्वभावे स्थितं स्वमात्मानं भावयन् भव आस्व || ५० || स्वाद्यस्वादकसंत्यकं स्वाद्यस्वादकमध्यगम् | स्वादनं केवलं ध्यायन्नित्यमात्ममयो भव || ५१ || चाक्षुषत्रिपुटीवद्रासनादित्रिपुटीष्वपि स एव तत्साक्षी परिचेय इत्याशयेनाह - rāmānubhavanīyasya tathānubhavituḥ svayam | avalambya nirālambaṃ madhyaṃ madhye sthiro bhava || 52 || anumityādyanubhavāntareṣvapyevaṃ bodhyamityāśayenāha - rāmeti | nirālambaṃ ālambo viṣayabhūtastripuṭyaṃśastadvyatiriktaṃ madhyaṃ tadāntaraṃ hṛdayamadhye avalambya sthiro bhavetyarthaḥ || 52 || bhavabhāvanayā hīnaṃ bhāvābhāvadaśojjhitam | bhāvayannevamātmānamātmasaṃsthaḥ svayaṃ bhava || 53 || bhavasya bhāvanā saṃskāravaśāddarśanaṃ svapnadaśeti yāvat | bhāvadaśā jāgrat | abhāvadaśā suptiḥ | bhāvābhāvadṛśojjhitam iti pāṭhe tadubhayadarśanojjhitamityarthaḥ || 53 || ātmasattāṃ tyajannetāṃ cetyaṃ bhāvayasi svayam | yadā rāma tadā yāsi cittatāmatiduḥkhadām || 54 || etāṃ śuddhacinmātrasvabhāvāmātmasattāṃ pramādāttyajan yadā cetyaṃ tadatiriktaṃ bhāvayasi tadā cittatāṃ yāsītyanvayaḥ || 54 || cittatāṃ śṛṅkhalāmetāṃ svarūpajñānayuktitaḥ | bilāccittānmahābāho svātmasiṃhaṃ vimocaya || 55 ||
85 SK स्वरूपज्ञानयुक्तितो भङ्क्त्वेति शेषः | चित्ताच्चितलक्षणाद्बिलात्पञ्जरात् | बलादिति पाठे तु मननादिकृतज्ञानदार्ढ्यबलात् || ५५ || परमात्मदशां त्यक्त्वा चेत्यं परिपतन्नलम् | यदा गच्छसि संकल्पं चेत्यं स्ंपश्यसे तदा || ५६ || संपश्यसे पश्यसि | पदव्यत्ययश्छान्दसः || ५६ || आत्मनो व्यतिरिक्तं सच्चित्तमित्यङ्ग संविदा | मनः संपद्यए दुःखि क्षीयते त्यक्तया तया || ५७ || कथं चेत्यपरिपतनं तेन च कथं संकल्पगमनं कथं वा तत्क्षयस्तदाह - आत्मन इति | हे अङ्ग यदा चित्तं पूर्वानुभवजनितदृश्यसंस्कारोद्बोधे सति चिदेव किंचित्स्थौल्यमिवापन्नं चित्तमिति संविदा आत्मनो व्यतिरिक्तं सत् सिद्धं भवति तदैव पुनःपुनर्मननाद्दृढीभूतं संकल्पसमर्थं सन्मनः संपद्यते तदेव दुःखि | तया स्वव्यतिरिक्तसत्तासंविदा त्यक्तया तु क्षीयते || ५७ || आत्मैवेदं जगत्सर्वमित्यन्तः संविदोदये | क्व चेता क्व च वा चित्तं किं चेत्यं चेतनं च किम् || ५८ || एतदेव स्पष्टमाह - आत्मैवेदमिति | संविदेव संविदा | भागुरिमतेन हलन्ताट्टाप् | तस्या उदये सति चेता चेतिता उपहितः चित्तमुपाधिः चेत्यं तद्वृत्तिव्याप्यम् | चेतनं वृत्तिरिति चतुष्कमपि किं | न किंचिदवशिष्यत इत्यर्थः || ५८ || अहमात्मेति जीवोऽस्मीत्येतावच्चित्तकं विदुः | अनेनेत्थमनाद्यन्तं दुःखं राघव तन्यते || ५९ || इति एवमनुभूयमानदेहेन्द्रियादिशाली जीवोऽस्मि || ५९ || अहमात्मा न जीवाख्याः सत्ताः सन्तीतराः क्वचित् | इत्येव चित्तोपशमः परमं सुखमुच्यते || ६० || आत्मा ब्रह्मैव न जीवाख्या ब्रह्मेतराः सत्तः परमार्थसत्याः सन्ति || ६० || आत्मैवेदं जगदिति जाते राघव निश्चये | असत्ता चेतसो जाता भवत्येव न संशयः || ६१ || सर्वस्य जगतो ब्रह्मभावे तदन्तर्गतचित्तस्याप्यसत्ता अर्थात्संपन्ना भवत्येवेत्याह - आत्मैवेदमिति || ६१ || एवं सत्यावबोधेन स्वात्मैवेदमिति स्थित्ः | मनः सुगलितं विद्धि सूर्यभासा तमो यथा || ६२ ||
86 SK मनोनाशोपायमुक्तमुपसंहरति - एवमिति || ६२ || मनःसर्प शरीरस्थो यावत्तावन्महद्भयम् | तस्मिन्नुत्सारिते योगाद्भयस्यावसरः कुतः || ६३ || अथ तत्फलान्याह - मनःसर्प इत्यादिना | योगात्समाधेः प्रतीचो ब्रह्मैक्यलक्षणमिलनाद्वा | ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति | आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन इत्यादिश्रुतेरिति भावः || ६३ || भ्रान्तिमात्रोत्थितश्चित्ते वेतालोऽतिबलोऽनघ | सम्यग्ज्ञानेन मन्त्रेण प्रसभं विनिपात्यताम् || ६४ || देहगेहाद्गते चित्तयक्षे बलवतां वरे | निराधिर्विगतोद्वेगस्तिष्ठ नास्ति भयं तव || ६५ || आधिग्रहणं सर्वदुःखोपलक्षणम् | उद्वेगो दुःखासहिष्णुतया व्याकुलता || ६५ || नीराग एव निरुपार्जन एव चास्मी- त्येतावतैव गलिता तव चित्तसत्ता | निर्दुःखमुत्तमपदं परमं गतोऽसि तिष्ठोपशान्तपरमैषण एवमन्तः || ६६ || आत्मलाभेनावाप्तसर्वकामत्वान्निरागोऽत एव निरुपार्जनो बाह्यसुखसाधनोपार्जनशून्यः | एवंच मुमुक्षापि न परिशिष्टेति न तदर्थमपि प्रवृत्तिप्रसक्तिरित्याशयेनाह - उपशान्तपरमैषण इति || ६६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु उपशमप्रकरणे स्वचित्तनिरूपणं नाम चतुर्दशः सर्गः || १४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे स्वचित्तनिरूपणं नाम चतुर्दशः सर्गः || १४ || पञ्चदशः सर्गः १५ श्रीवसिष्ठ उवाच | एतामनुसरन्राम चित्तसत्तामपावनीम् | संसारबीजकणिकां जीवबन्धनवागुराम् || १ || आत्मा मनस्त्वमापन्नो बध्यते संसृतौ यया | सा तृष्णाऽनर्थबीजानां सुविचित्रोपवर्ण्यते || १ ||
87 SK चित्तनाशने परमपुरुषार्थप्राप्तिरुक्ता इदानीं चित्तानुसरणे तृष्णाभिवृद्ध्या अनर्थपरम्पराप्राप्तिरिति दर्शयितुं भूमिकां रचयति - एतमित्यादिना | आत्मा एतां चित्तसत्तामनुसरन् संस्त्यक्तस्वीयब्रह्मात्मरूपाभो भूत्वा मलिनामविद्यापिहितामिन्द्रियवृत्त्यधीनाभिव्यक्तिकां दृशं ज्ञानमापतच्चित्तमेवानुरुद्ध्य चित्तकल्पितदेहादिसंघातमात्रोऽहमिति संधत्ते चित्तोपनीतनानाविषयकलनाप्रयुक्तं रागद्वेषवासनामलं च धत्ते इति द्वयोरन्वय || १ || आत्मा त्यक्तात्मरूपाभो मलिनामाप् तद्दृशम् | चित्तं समनुसंधत्ते धत्ते च कलनामलम् || २ || वर्धमानमहामोहदायिनी भयकारिणी | तृष्णा विषलतारूपा मूर्च्छामेव प्रयच्छति || ३ || धत्तां नाम किं ततस्तत्राह - वर्धमानेति | मरणमूर्च्छाभ्रान्तिसहस्रहेतुत्वाद्विषलतारूपा तृष्णा अस्मै कलनामलधारिणे आत्मने मूर्च्छामेव प्रयच्छति न सुखलेशमपीत्यर्थः || ३ || यदा यदोदेति तदा महामोहप्रदायिनी | तृष्णा कृष्णानिशेवेयमनन्तात्मविकारिणी || ४ || वर्धमानमहामोहदायिनीत्येतद्विवृणोति - यदेति | कृष्णानिशा वार्षिकीतमिस्रा | सापि हि अनन्तात्मन्याकाशे मेघविस्फूर्जितवृष्ठ्याद्यनेकविकारिणी || ४ || कल्पानलशिखादाहं सोढुं शक्ता हरादयः | तृष्णानलशिखादाहं सोढुं शक्ता न केचन || ५ || भयकारिणीत्येतदपि विवृणोति - कल्पानलेति | न केचन धीरा इति शेषः || ५ || तीक्ष्णा कृष्णा सुदीर्घा च वहत्यङ्गं सदा निजम् | शीतलैवासुखोदर्का घोरा तृष्णाकृपाणिका || ६ || कृपाणिका असिः | तीक्ष्णेत्याद्यसित्वोपपादनम् | निजमङ्गं सदा वहति कृंततीति यावत् | असुखः उदर्कः फलकालो यस्याः || ६ || यान्येतानि दुरन्तानि दुर्जराण्युन्नतानि च | तृष्णावल्ल्याः फलानीह तानि दुःखानि राघव || ७ || विषलतेत्येतद्विशदयति - यानीति | दुर्जराणि रजयितुमशक्यानि | दुर्निवाराणीति यावत् || ७ || अदृश्यैवात्ति मांसास्थिरुधिरादि शरीरकात् | मनोबिलविलीनैषा तृष्णावनशुनी नृणाम् || ८ || वनशुनी वृकी || ८ ||
88 SK क्षणमुल्लासमायाति क्षणमायाति शून्यताम् | जडा विदलयत्याशु तृष्णाप्रावृट्तरङ्गिणी || ९ || क्षणमुल्लासं वृद्धिम् | विशेषणान्युभयत्र योज्यानि | जडा शीतला मलिना च | विदलयति शिलाकण्टकारण्यादिप्रवेशं नीत्वा खण्डयति | प्रावृट्तरङ्गिणी वर्षाभिवृद्धनदी || ९ || दृष्टदैन्यो हतस्वान्तो हतौजा याति नीचताम् | मुह्यते रौति पतति तृष्णयाभिहतो जनः || १० || मूर्च्छामेव प्रयच्छतीत्येतद्विवृणोति - दृष्टदैन्य इति || १० || न स्थिता कोटरे यस्य तृष्णाकृष्णभुजङ्गमी | तस्य प्राणानिलाः स्वस्थाः पुंसो हृदयरन्ध्रगाः || ११ || तृष्णाक्षये सर्वदुःखहानिः सर्वपुण्योदयश्च सिद्ध्यतीत्याह - न स्थितेत्यादिना || ११ || नूनमस्तंगतो यत्र तृष्णाकृष्णनिशाक्रमः | पुण्यानि तत्र वर्धन्ते शुक्लपक्ष इवेन्दवः || १२ || यो न तृष्णाघुणावल्ल्या क्षतः पुरुषपादपः | पुण्यप्रसूनैः स सदा दशां याति विकासिनीम् || १३ || अनन्ताकुलकल्लोला विवर्तावर्तसंकुला | प्रवहत्याशयारण्ये तृष्णान्धानां नदी नृणाम् || १४ || अन्धानां विवेकदृष्टिहीनानां नृणामाशयश्चित्तं तल्लक्षणेऽरण्ये अनन्तव्याकुलतालक्षणकल्लोलवती भ्रान्तिलक्षणैरावर्तैश्च संकुला तृष्णानदी नूनं वहति प्रवहति || १४ || तृष्णयेमे जनाः सर्वे सूत्रयन्त्रपतत्रिवत् | भ्राम्यन्ते प्रविशीर्यन्ते संह्रियन्ते च भूरिशः || १५ || सूत्रेण यन्त्र्यते बध्यते इति सूत्रयन्त्रः पतत्री पक्षी तद्वत् | प्रथमं वित्तस्यार्जनाय भ्राम्यन्ते ततो रक्षणव्ययक्षयचिन्ताशोकैः पक्षलुञ्चनैरिव प्रविशीर्यन्ते अन्ते च संह्रियन्ते मार्यन्ते || १५ || मूलान्यपि सुसूक्ष्माणि कठिनाशयकर्कशा | तृष्णा परशुधारेव वल्गन्ती विनिकृन्तति || १६ || धर्मज्ञानमूलानि दयाविवेकादीनि सुसूक्ष्माणि ईषदङ्कुरितान्यपि कठिनेन निर्दयेनाशयेन कर्कशा | वल्गन्ती तत्कालं निपतन्ती || १६ || निपतत्यवटे मूढस्तृष्णामनुसरज्जनः | नीलामनुपतञ्छ्वभ्रतृणशाखां यथैणकः || १७ ||
89 SK अवटे नरकान्धकूपे | नीलां हरिताम् | श्वभ्रस्य कूपस्य मुखे रूढस्य तृणस्य शाखामनुपतन् एणको हरिण इव || १७ || नोन्मत्तपि जरा चक्षुस्तथा जरयति क्षणात् | यथा जरयति क्षामा तृष्णा हृदयरूपिका || १८ || उन्मत्ता प्ररूढतमापि जरा चक्षुर्जरयत्यन्धयति | हृदयस्था रूपिका पिशाची || १८ || तृष्णयाशयकौशिक्या हृद्यमङ्गलभूतया | रूढया भगवानेष विष्णुर्वामनतां गतः || १९ || अमङ्गलभूतया हृदि रूढया कृतनीडया || १९ || कयाचिदेव दैविक्या हृदि ग्रथितयानया | तृष्णया भ्राम्यते व्योम्नि रज्ज्वेवार्कोऽन्वहं किल || २० || दैविक्या देवेनेश्वरेण प्रयुक्तया देवभोग्यसुखवविषयया वा तृष्णया रज्ज्वेव बद्ध इति शेषः || २० || सर्वदुःखमयाकारां जगतीजीवनच्छिदम् | तृष्णां परिहरेत्क्रूरामुरगीमिव दूरगः || २१ || जगतीपदेन जगतीस्थाः सर्वप्राणिनो लक्ष्यन्ते || २१ || तृष्णया वायवो वान्ति शैलास्तिष्ठन्ति तृष्णया | तृष्णयैव धरा धात्री त्रैलोक्यं तृष्णया धृतम् || २२ || सर्वसंसारस्थितिस्तृष्णावशादेवेत्याशयेनाह - तृष्णयेति || २२ || सर्वैव लोकयात्रेयं प्रोता तृष्णावरत्रया | रज्जुबन्धाद्विमुच्यन्ते तृष्णाबन्धान्न केचन || २३ || वरत्रा चर्ममयी रज्जुः || २३ || तस्माद्राघव तृष्णां त्वं त्यज संकल्पवर्जनात् | मनस्त्वकल्पनं नास्ति निर्णीतमिति युक्तितः || २४ || संकल्पवर्जनमात्रेण कथं तृष्णात्यागसिद्धिस्तत्राह - मन इति | अकल्पनं संकल्परहितं मनो नास्ति | मनसोऽभावे कुतस्तृष्णाप्रसक्तिरिति भावः || २४ || अयं त्वमहमित्येव प्रथमं तावदाशये | मां दुराशां महाबाहो संकल्पय तमोमयीम् || २५ || त्वं अयं देहोऽहमिति दुराशां सर्वदुराशानिमित्तमभिमानं मा संकल्पय || २५ || एतां दुःखप्रसविनीमनात्मन्यात्मभावनाम् | न भावयसि चेद्राम तदा तज्ज्ञेषु गण्यसे || २६ || एतामहंभावमयीमपुण्यां छित्त्वानहंभावशलाकयैव | स्वभावनां भव्य भवान्तभूमौ भवाभिभूताखिलभूतभीतिः || २७ ||
90 SK अनहंभावलक्षणया शलाकया कर्तर्या अहंभावमयीमेतां तृष्णां छित्त्वा हे भव्य भवस्यान्तो बाधस्तद्भूमौ ब्रह्मणि सप्तमभूमिकाभेदे वा भव आस्स्वेत्यर्थः || २७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे तृष्णावर्णनं नाम पञ्चदशः सर्गः || १५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे तृष्णावर्णनं नाम पञ्चदशः सर्गः || १५ || षोडशः सर्गः १६ श्रीराम उवाच | स्वभावगम्भीरमेतद्भगवन्वचनं तव | यदहंकारतृष्णां त्वं मा गृहाणेति वक्षि माम् || १ || वर्ण्यते वासनात्यागो ध्येयज्ञेयविभागतः | तेनात्र जीवन्मुक्तानां विदेहानां च लक्षणम् || १ || जीवता देहेऽहंभावस्य त्यक्तुमशक्यत्वाच्छिष्यमरणे गुरोस्तात्पर्यायोगादेतामहंभावमयीं तृष्णां चित्त्वेत्याद्युक्तेस्तात्पर्यमनवधारयन् रामः पृच्छति - स्वभावेत्यादिना || १ || यद्यहंकारसंत्यागं करोमि तदिदं प्रभो | त्यजामि देहनामानं संनिवेशमशेषतः || २ || अशेषत इति | प्राणाहंकारयोरेकतापत्तेस्त्वयैवोक्तत्वात्प्राणान्परिशेष्याहंकारत्यागासं भवात्प्राणानामप्यनवशेषणेनेत्यर्थः || २ || जानुस्तम्भेन महता धार्यते सुतरुर्यथा | अहंकारेण देहोऽयं तथैव किल धार्यते || ३ || जानुस्तम्भेन जानुवत्प्रसृतमूलबन्धविष्टम्भेन || ३ || अहंकारक्षये देहः किलावश्यं विनश्यति | मूले क्रकचसंलूने सुमहानिव पादपः || ४ || तदेव व्यतिरेकेण द्रढयति - अहंकारेति || ४ || तत्कथं संत्यजाम्येन जीवामि च कथं मुने | एनमर्थं विनिश्चित्य वद मे वदतां वर || ५ || श्रीवसिष्ठ उवाच | सर्वत्र वासनात्यागो राम राजीवलोचन | द्विविधः कथ्यते तज्ज्ञैर्ज्ञेयो ध्येयश्च मानद || ६ ||
91 SK ज्ञेयो विदुषां समाधिकाले विदेहकैवल्ये च ज्ञानबाधितः | अधिष्ठानमात्रपरिशेषात्मा ध्येयः | व्युत्थानकाले वाक्यजन्याखण्डाकारवृत्त्या सवासनस्याज्ञानस्य बाधेऽपि जीवन्मुक्तिशास्त्रानुरोधात्प्रारब्धफलभोगशेषाच्च तन्निर्वाहाय बाधितानुवृत्तेरविद्यालेशपरिशेषस्य विक्षेपांशाबाधस्य वाभ्युपगमादनध्यस्ताहंभावेन देहेन भोगहेतुव्यवहारासिद्धेस्तात्कालिकाहंकाराभासानुवृत्तेर्विद्वदनुभव- dhyānaprāyatvāddhyeya iva dhyeya iti dvividha ityarthaḥ || 6 || ahameṣāṃ padārthānāmete ca mama jīvitam | nāhamebhirvinā kaścinna mayaite vinā kila || 7 || tatra dvitīyamupapādayati - ahamiti | vivekidṛśātra dvāvahaṃpratyayagocarau pratīyete | eko dehendriyabuddhimanaḥsāpekṣaḥ saṃghātātmā putramitrakalatradhanādimamatānirūpakaḥ | aparo'khaṇḍaikasvabhāvo'vasthātrayamaraṇamūrcchājanmāntarasādhāraṇaścinm ātrasvabhāvo vivekapariśiṣṭaḥ | tatrādyasya svarūpaṃ prathamaṃ vicārya nirdhāryamityāha - ahamiti | eṣāṃ dehendriyādīnāṃ bāhyānnapānādīnāṃ copabhuktānāṃ padārthānāṃ saṃghātātmetyarthaḥ | ete dehādayo'nnādayaśca mama jīvitaṃ svarūpasiddhinimittam | ata evaibhirvinā'haṃ na kaścidvyavahārapade prasiddho'smītyantaḥprathamasyāhaṃpadārthasya niścayaṃ kṛtvā manasā saha pṛthakkaraṇe saṃghātātmānamatyantāsadrūpameva vicārya dvitīye pariśiṣṭacidrūpeṇāhaṃpadārthasya na me ete padārthā iti niṣkṛṣṭabodhena tathaiva bhāvite sati yo bhāvanātmā vāsanātyāgaḥ sa dhyeya iti mayā kīrtita iti trayāṇāmarthaḥ || 7 || ityantarniścayaṃ kṛtvā vicārya manasā saha | nāhaṃ padārthasya na me padārtha iti bhāvite || 8 || antaḥśītalayā buddhyā kurvatyā līlayā kriyām | yo nūnaṃ vāsanātyāgo dhyeyo rāma sa kīrtitaḥ || 9 || sarvaṃ samatayā buddhvā yaṃ kṛtvā vāsanākṣayam | jahāti nirmamo dehaṃ jñeyo'sau vāsanākṣayaḥ || 10 ||
92 SK प्रथमं वासनाक्षयमुपपादयति - सर्वमिति | सर्वं जगत्समतया समं ब्रह्म तद्भावेन बुद्ध्वा साक्षात्कृत्य भूमिकाभ्यासक्रमेण यं वासनाक्षयं कृत्वा निर्ममो निरहंकारश्च निर्विकल्पकसमाधिस्थः प्रारभ्दक्षयेण वा यत्सर्वथा देहं जहाति असौ ज्ञेयो वासनाक्षय इत्यर्थः || १० || अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः | तिष्ठति ध्येयसंत्यागी जीवन्मुक्तः स उच्यते || ११ || तत्र द्वितीयमुदाहरति - अहंकारेति | लीलया लोकसंप्रहोचितव्यवहारेण यस्तिष्ठति स ध्येयसंत्यागी ध्येयवासनात्यागवान् || ११ || निर्मूलकलनां त्यक्त्वा वासनां यः शमं गतः | ज्ञेयत्यागमयं विद्धि मुक्तं तं रघुनन्दन || १२ || आद्यमुदाहरति - निर्मूलेति | मूलाज्ञानेन सह कलनां त्यक्त्वेत्यर्थः | ज्ञेयत्यागमयं ज्ञानबाधितसवासनाज्ञानपरिशिष्टचिन्मात्रप्रधानम् || १२ || ध्येयं तं वासनात्यागं कृत्वा तिष्ठन्ति लीलया | जीवन्मुक्ता महात्मानः सुजना जनकादयः || १३ || उक्तमेव प्रपञ्चयति - ध्येयमित्यादिना | लीलया व्यवहारेण || १३ || ज्ञेयं तु वासनात्यागं कृत्वोपशममागताः | विदेहमुक्तास्तिष्ठन्ति ब्रह्मण्येव परावरे || १४ || द्वावेव राघव त्यागौ समौ मुक्तपदे स्थितौ | द्वावेतौ ब्रह्मतां यातौ द्वावेव विगतज्वरौ || १५ || अप्यर्थे एवकारः || १५ || युक्तायुक्तमती स्वासे केवलं विमलेऽनघ | एकः स्थितः स्फुरद्देहः शान्तदेहः स्थितोऽपरः || १६ || युक्तमतिः समाध्यारूढः | अयुक्तमतिर्व्युत्थानव्यवहारवान् | एतौ युक्तायुक्तमती द्वावपि सुखेन आस्यते विश्रम्यते अस्मिन्निति स्वासे विमले अविद्यामलनिर्मुक्ते ब्रह्मण्येव केवलं स्थितौ | कस्तर्हि विशेषस्तमाह - एक इति | एको व्युत्थितः | अपरः समाहितः || १६ || एकः सदेहो निर्मुक्तस्तिष्ठत्यपगतज्वरः | त्यक्तदेहो विमुक्तोऽन्यो वर्ततेऽज्ञेयवासनः || १७ || अज्ञेयवासन इति च्छेदः || १७ || आपतत्सु यथाकालं सुखदुःखेष्वनारतम् | न हृष्यति ग्लायति यः स मुक्त इति होच्यते || १८ ||
93 SK व्यवहरतो मुक्तस्य लक्षणान्याह - आपतत्स्वित्यादिना || १८ || ईप्सितानीप्सिते न स्तो यस्येष्टानिष्टवस्तुषु | सुषुप्तवच्चरति यः स मुक्त इति कथ्यते || १९ || ईप्सितानीप्सिते इच्छाद्वेषौ | अज्ञदृशा इष्टानिष्टत्वेन संमतेषु वस्तुषु सुषुप्तवदनासक्त इति यावत् || १९ || हेयोपादेयकलने ममेत्यहमिहेति च | यस्यान्तः संपरिक्षीणे स जीवन्मुक्त उच्यते || २० || इह देहे तत्संबन्धिनि च अहमिति ममेति च कलने इति योजना || २० || हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः | न परामृश्यते योऽन्तः स जीवन्मुक्त उच्यते || २१ || सुषुप्तवत्प्रशमितभाववृत्तिना स्थितं सदा जाग्रति येन चेतसा | कलान्वितो विधुरिव यः सदा मुदा निषेव्यते मुक्त इतीह स स्मृतः || २२ || येन पुंसा सुषुप्तवत्प्रशमिता भाववृत्तयः पदार्थेष्वास्था यस्य तथाविधेन चेतसोपलक्षितेन जाग्रति जागरेपि सदा स्थितम् | भावे क्तः | यश्च सदा मुदा स्वाभाविकहर्षेण कलान्वितः पूर्णकलो विधुश्चन्द्र इव प्रसादेन निषेव्यते स इह जगति मुक्तो जीवन्मुक्त इति स्मृत इत्यर्थः || २२ || श्रीवाल्मीकिरुवाच | इत्युक्तवत्यथ मुनौ दिवसो जगाम सायंतनाय विधयेऽस्तमिनो जगाम | स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम || २३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे तृष्णाचिकित्सा नाम षोडशः सर्गः || १६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे तृष्णाचिकित्सा नाम षोडशः सर्गः || १६ || एकादशो दिवसः || सप्तदशः सर्गः १७ श्रीवसिष्ठ उवाच | विदेहमुक्ता ये राम ते गिरामिह गोचरे | नैव तिष्ठन्ति तस्मात्त्वं जीवन्मुक्तिमिमां शृणु || १ || यादृशैर्निश्चयैर्युक्तो जीवन्मुक्तो न बध्यते | अज्ञश्च बध्यते भूयस्तद्विभागोऽत्र वर्ण्यते || १ ||
94 SK रामस्येङ्गितैर्विदेहमुक्तलक्षणजिज्ञासां प्रतिलक्ष्य तस्यैकरूप्येण लक्षणाद्यभावाद्वाचां कुण्ठीभावोक्त्यैव निरतिशयस्वप्रकाशभूमानन्दमात्रपरिशेषस्तत्स्वरूपलक्षणमिति सूचयन् जीवन्मुक्तिलक्षणेष्वेवावश्योपादेयान्विशेषान्वक्तुं प्रतिजानीते - वेदेहमुक्ता इति || १ || प्राकृतान्येव कर्माणि [कार्याणीति पाठः] यया वर्जितवाञ्छया | क्रियन्ते तृष्णयेमानि तां जीवन्मुक्ततां विदुः || २ || ननु तर्हि जीवन्मुक्तानां तत्तद्वर्णाश्रमोचितकर्मफलतृष्णा यद्यस्ति तर्हि अज्ञवदेव तद्भोगाय पुनर्देहबन्धोऽपि स्यात् | यदि नास्ति तर्हि प्रवृत्तिरेव न स्यात् प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति न्यायादिति दोषं परिहर्तुं ज्ञाज्ञयोः प्रवर्तकशुद्धाशुद्धतृष्णावैलक्षण्यमुपपादयितुमुपक्रमते - प्राकृतान्येवेत्यादिना | प्राकृतानि तत्तद्वर्णाश्रमस्वभावप्रापितानि | वाञ्छा विषयास्वादनोत्साह || २ || या स्थितिस्तृष्णया जन्तोर्बाह्यार्थे बद्धभावया | तं बन्धमाहुराचार्याः संसारनिगडं दृढम् || ३ || बद्ध उत्साहदृढीकृतो भावः संसारसत्यताबुद्ध्या भोगोत्साहो यया || ३ || नूनमुज्झितसंकल्पा हृदि बाह्ये विहारिणी | वासना योदिता सेह जीवन्मुक्तशरीरिणी || ४ || भोग्यवर्गाणामनृतत्वनिश्चयेन हृदि उज्झितभोगसंकल्पा बाह्ये लोकसंग्रहमात्रप्रयोजनेन विहारिणी वासना तृष्णा जीवन्मुक्तानां शरीरमात्राश्रितेत्यर्थः || ४ || बाह्यार्थव्यसनोच्छूना तृष्णा बद्धेति राघव | सर्वार्थव्यसनोन्मुक्ता तृष्णा मुक्तेति कथ्यते || ५ || उक्तलक्षणे एव तृष्णे प्रपञ्चयिष्यन् पिण्डीकृत्याह - बाह्येति | व्यसनं लाम्पट्यम् || ५ || पूर्वं यस्यास्तु तृष्णाया वर्तमानेऽपि शाश्वती | निर्दुःखता निष्कलता सा मुक्तेति बुधैः स्मृता || ६ || पूर्वं विषयप्राप्तेः प्राक्काले | विषयनाशोत्तरकालस्याप्युपलक्षणमेतत् | निर्दुःखता रागविरहादिप्रयुक्तदुःखशून्यता | विषयप्राप्तिकालेऽपि निष्कलता निरुच्छूनता || ६ || इदमस्तु ममेत्यन्तर्यैषा राघव भावना | तां तृष्णां शृङ्खलां विद्धि कलनां च महामते || ७ ||
95 SK तामेतां सर्वभावेषु सत्स्वसत्सु च सर्वदा | संत्यज्य परमोदारः परमेति महामनाः || ८ || परं जीवन्मुक्तिपदम् || ८ || बन्धाशामथ मोक्षाशां सुखदुःखदशामपि | त्यक्त्वा सदसदाशां च तिष्ठाक्षुब्धमहाब्धिवत् || ९ || बध्नन्तीति बन्धा देहादयस्तदाशाम् | मोक्षस्तन्निवृत्तिस्तदाशाम् | बन्धमिथ्यात्वनिश्चये तन्निवृत्तेरनाशास्यत्वान्नहि जागरूकः स्वाप्ननिगडबन्धमोक्षमाशास्त इति भावः | सुखदुःखदशानामपि मिथ्यात्वनिश्चय एवात्र त्यागः || ९ || अजरामरमात्मानं बुद्ध्वा बुद्धिमतां वर | जरामरणशङ्काभिर्मा मनः कलुषं कृथाः || १० || पदार्थ तत्त्वं नेदं ते नायं त्वमसि राघव | किंचित्तदन्यदेवेदमन्य एवासि राघव || ११ || आशात्यागे उपायमाह - पदार्थेति | इदं दृश्यं पदार्थतत्त्वं पदार्थरूपं ते तव न | त्वमपि न | तत्तस्मात्परमार्थसत्यादन्यदेव किंचित्तुच्छमित्यर्थः || ११ || असदभ्युदिते विश्वे सतीवासति संस्थिते | त्वयि तत्तामतिगते तृष्णायाः संभवः कुतः || १२ || अन्यच्च राम मनसि पुरुषस्य विचारिणः | जायते निश्चयः साधो स्फाराकारश्चतुर्विधः || १३ || हे राम अन्यच्च वक्ष्यमाणं चतुर्विधनिश्चयभेदं शृण्विति शेषः | तमेवाह - मनसीति || १३ || आपादमस्तकमहं मातापितृविनिर्मितः | इत्येको निश्चयो राम बन्धायासद्विलोकनात् || १४ || अतीतः सर्वभावेभ्यो वालाग्रादप्यहं तनुः | इति द्वितीयो मोक्षाय निश्चयो जायते सताम् || १५ || सर्वेभ्यो देहेन्द्रियादिभेदेभ्योऽतीतोऽतिरिक्तः | तनुः सूक्ष्मः स्थौल्यरहित इति यावत् | त्वंपदार्थशोधनविधयास्य मोक्षहेतुत्वम् || १५ || जगज्जालपदार्थात्मा सर्वमेवाहमक्षयः | तृतीयो निश्चयश्चेत्थं मोक्षायैव रघूद्वह || १६ || तृतीय इति | अस्याप्याध्यात्मिकपरिच्छिन्नात्मताभ्रमनिवृत्त्या तत्पदार्थेन सहैव शोधनसंभवान्मोक्षोपयोगः || १६ || अहं जगद्वा सकलं शून्यं व्योमसमं सदा | एवमेष चतुर्थोऽन्यो निश्चयो मोक्षसिद्धये || १७ ||
96 SK अहमित्याध्यात्मिकपरिच्छेदोपाधिः जगदिति आधिदैविकाद्युपाधिः | सदा कालत्रयेऽपि | एषः सर्वदृश्यबाधात्मनिश्चयः || १७ || निश्चयेषु चतुर्ष्वेषु बन्धाय प्रथमः स्मृतः | त्रयो मोक्षाय कथिताः शुद्धभावनयोत्थिताः || १८ || एतेषां प्रथमः प्रोक्तस्तृष्णाया बन्धयोग्यता | शुद्धतृष्णास्त्रयः स्वच्छा जीवन्मुक्तविलासिनः || १९ || तृष्णाभेदनिरूपणेऽस्य विभागस्य का प्रसक्तिस्तत्राह - एतेषामिति | अस्मिन्सत्येव तृष्णाया बन्धकत्वादयमेव बन्धहेतुरित्यर्थः | शुद्धा निर्दोषा तृष्णा येषु ते शुद्धतृष्णाः उत्तरे त्रयो निश्चयाः || १९ || सर्वमात्माहमेवेति निश्चयो यो महामते | तमादाय विषादाय न भूयो याति मे मतिः || २० || तत्र तृतीयस्य प्रयोजनमाह - सर्वमिति || २० || तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमात्मनः | सर्वमात्मेति तेनान्तर्निश्चयेन न बध्यते || २१ || शून्यं तत्प्रकृतिर्माया ब्रह्मविज्ञानमित्यपि | शिवः पुरुष ईशानो नित्य आत्मैव कथ्यते || २२ || चतुर्थस्य शून्यवादिमतप्रविष्टतां वारयन्नाह - शून्यमिति | परिशिष्टात्मैव वादिभिः शून्यादिशब्दैः कथ्यते नावस्त्वित्यर्थः || २२ || सदा सर्वं सदेवेदं नेह द्वित्वान्यते क्वचित् | विद्येते विद्यया व्याप्तं जगन्नेतरया धिया || २३ || विद्यया परमार्थस्वरूपदृष्ट्या जगद्व्याप्तं ग्रस्तम् | इतरया पूर्ववद्भ्रान्तिधिया न || २३ || आपातलमनन्तात्मा पूरितोऽम्भोधिरम्बुधिः | आब्रह्मस्तम्बपर्यन्तं जगदापूर्णमात्मना || २४ || यथा अनन्तात्मा अपरिच्छेद्यपरिणाहोऽम्भोधिरापातालमम्बुभिः पूरितस्तथेत्यर्थः || २४ || अतः सत्यमृतं नित्यं नानृतं विद्यते क्वचित् | वार्येव सकलाम्भोधिर्न तरङ्गादयः क्वचित् || २५ || अस्त्वापूर्णं किं ततस्तत्राह - अत इति | अतः ऋतं प्रमाणबोधितं ब्रह्मैक्यमेव नित्यं सत्यम् | तद्व्यतिरेकेणामृतं जगद्रूपं न विद्यत इति सिद्धमित्यर्थः || २५ || पृथक्कटककेयूरनूपुरादि न काञ्चनात् | भिन्नास्तरुतृणाकारकोटयश्चैव नात्मनः || २६ ||
97 SK काञ्चनान्न पृथक् | आत्मनः पृथिव्यात्मनः सकाशान्न भिन्नाः || २६ || द्वैताद्वैतसमुद्भेदैर्जगन्निर्माणलीलया | परमात्ममयी शक्तिरद्वैतैव विजृम्भते || २७ || कथं तर्हि जलसमुद्रादौ जगति भेदाभेदप्रत्ययस्तत्राह - द्वैताद्वैतेति | अद्वैता परमात्मयी शक्तिर्ब्रह्मसत्तैवाज्ञान्प्रति द्वैताद्वैतसमुद्भेदैर्विजृम्भत इत्यर्थः || २७ || आत्मीये परकीये च सर्वस्मिन्नेव सर्वदा | नष्टे वोपचिते कार्ये सुखदुःखे गृहाण मा || २८ || अस्त्वेवं किं ततस्त्राह - आत्मीये इति | स्वीये परकीये वा पुत्रमित्रादौ सर्वस्मिन् जगति च उपचिते नष्टे वा सुखदुःखे अभिज्ञस्त्वं मा गृहाणेत्यर्थः || २८ || भावाद्वैतमुपाश्रित्य सत्ताद्वितमयात्मकः | कर्माद्वैतमनादृत्य द्वैताद्वैतमयो भव || २९ || कथं तर्हि मया व्यवहर्तव्यमिति चेद्ब्रह्मवद्द्वैताद्वैतालम्बनेनैवेति तद्विभज्याह - भावाद्वैतमिति | ब्रह्मवदेव त्वं परमार्थतः सत्ताद्वैतमयात्मक एव सन् व्यवहारकालेऽपि भावनया अद्वैतमेवोपाश्रित्य तत्तत्प्राणिकर्मफलदाने ब्रह्मेव वर्णाश्रमधर्मव्यवस्थापनकर्मविषये अद्वैतं सर्वथैवानादृत्य व्यवहरन् यथोचितं द्वैताद्वैतोभयपरो भवेत्यर्थः | अद्वैते कर्मणामेवासिद्धेरैकरूप्येण सर्वत्र कथंचिदद्वैताचरणे जगद्व्यवस्थाधर्मशास्त्रादिबाधप्रसङ्गाच्च तत्र द्वैताश्रयणमेवोचितमिति भावः || २९ || भवभूमिषु भीमासु भावभावनवात्यया | मा पतोत्पातपूर्णासु दरीष्वन्तः करी यथा || ३० || भावेऽपि द्वैताश्रयणे का क्षतिस्तत्राह - भवेति | उत्पातैरशुभनिमित्तैः पूर्णासु | दरीग्रहणेन गर्तो लक्ष्यते | तथाच संसारगर्तपात एव तत्र क्षतिरिति भावः || ३० || द्वैतं न संभवति चित्तमयं महात्म- न्नात्मन्यथैक्यमपि न द्वितयोदितात्म | अद्वैतमैक्यरहितं सततोदितं स- त्सर्वं न किंचिदपि चाहुरतः स्वरूपम् || ३१ ||
98 SK सत्तद्वैतमुक्तमुपपादयति - द्वैतमिति | द्वैतं परमार्थसन्न संभवति | यतस्तच्चित्तमयं चित्तकल्पितमेव न वस्तुस्पर्शि परैरप्यपेक्षाबुद्धिजन्यत्वाभ्युपगमात्तन्नाशे नाशाभ्युपगमाच्च | एवमात्मन्यैक्यमेकत्वाख्यसंख्यागुणोऽपि न संभवति यतस्तदपि द्वित्वादिव्यावर्तकत्वेनैव कल्पितत्वाद्द्वितयादेवोदित आत्मा स्वरूपं यस्य तथाभूतम् | अतः अद्वैतमैक्येन च रहितं स्वसिद्धवप्यन्यनिरपेक्षत्वात्सततोदितं सत्सन्मात्रं ब्रह्म ऐक्यनिरासात्सर्व द्वैतनिरासान्न किंचिदपीति च | तस्मात्तत्सर्वमभवत् नेह नानास्ति किंचन इत्यादिश्रुतयस्तदनुभविनश्च लक्षणया आहुरित्यर्थः || ३१ || नैवाहमस्ति नच नाम जगन्ति सन्ति सर्वं च विद्यत इदं ननु निर्विकारम् | विज्ञानमात्रमवभासत एव शान्तं नासन्न सज्जगदिदं च सदेति विद्धि || ३२ || अहमिति युष्मदात्मप्रविभक्तरूपं नैवास्ति अस्मदर्थप्रविभक्तरूपाणि युष्मदादिजगन्ति च न सन्ति किंतु सर्वमिदं निर्विकारं विज्ञानमात्रमेव विद्यते | तदवभासतस्तत्साक्षात्कारमात्रतः शान्तमिदं तु जगत्सदा नासत् न सच्चेति विद्धित्यर्थः || ३२ || परममृतमनाद्यं भासनं सर्वभासा- मजरमजमचिन्त्यं निष्कलं निर्विकारम् | विगतकरणजालं जीवनं जीवशक्तेः सकलकलनहीनं कारणं कारणानाम् || ३३ || पुनस्तन्निश्चयमेव दृढमाशिषापि संपादयति - परमिति द्वाभ्याम् | जीवशक्तेः प्राणस्य जीवनं प्राणनव्यवहारनिमित्तम् | प्राणस्य प्राणम् इत्यादिश्रुतेः || ३३ || सततमुदितमीशं व्यातते चित्प्रकाशे स्थितमनुभवबीजं स्वात्मभावोपदेश्यम् | स्वदनमनुचितोऽन्तर्ब्रह्म सर्वं सदैव त्वमहमपि जगच्चेत्यस्तु ते निश्चयोन्तः || ३४ || अनुभवानां चाक्षुषादीनां बीजं मूलभूतम् | स्वात्मभावः स्वस्वरूपावस्थितिस्तेन दशमस्त्वमसीतिवच्छब्दापरोक्षापादनेनोपदेश्यं अन्तःस्वदनमान्तरानन्दैकरसं ब्रह्मैव त्वमहं जगच्च न ततोऽन्यदस्तीत्यनुसृत्य चित उपचितो निश्चयस्तेऽन्तरस्त्वित्याशीरुपदेशश्च || ३४ ||
99 SK इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपाये उपशमप्रकरणे तृष्णाविच्छेदोपदेशो नाम सप्तदशः सर्गः || १७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे तृष्णाविच्छेदोपदेशो नाम सप्तदशः सर्गः || १७ || अष्टादशः सर्गः १८ श्रीवसिष्ठ उवाच | युक्ताशयानां महतामहतानां कुदृष्टिभिः | स्वभावोऽयं महाबाहो लीलया चरतामिह || १ || यया स्थित्या स्थितो विद्वान्संसारे नावसीदति | सा स्थितिर्विस्तरेणात्र राघवायोपदिश्यते || १ || युक्ताशयानां समाहितमनसाम् | कामलोभादिकुदृष्टिभिरहतानामदूषितानामयं वक्ष्यमाणप्रकारः स्वभावः स्थितिः श्रूयतामिति शेषः || १ || विहरन्नपि संसारे जीवन्मुक्तमना मुनिः | आदिमध्यान्तविरसा विहसेज्जागतीर्गतीः || २ || आदौ जन्मादिदुःखैर्मध्ये आध्यात्मिकादिदुःखैरन्ते मृत्युनरकादिदुःखैर्विरसाः | विहसेत् हासयोग्यतया तुच्छीकृत्य पश्येत् || २ || सर्वप्रकृतकार्यस्थो मध्यस्थः सर्वदृष्टिषु | ध्येयं तं वासनात्यागमवलम्ब्य व्यवस्थितः || ३ || सर्वेषु प्रकृतेषु तत्तत्कालप्रसक्तेषु कार्येषूचिताचरणेषु तिष्ठतीति स्थः सर्वासु शत्रुमित्रादिदृष्टिषु मध्यस्थः समः तं ज्ञेयो ध्येयश्चेति द्विधा वर्णितवासनात्यागयोर्मध्ये ध्येयं वासनात्यागमवलम्ब्येत्यर्थः || ३ || सर्वत्र विगतोद्वेगः सर्वार्थपरिपोषकः | विवेकोद्द्योतदृष्टात्मा प्रबोधोपवनस्थितिः || ४ || सर्वेषामर्थस्याभिमतस्य परिपोषको न कस्यचिद्विप्रियकारी | प्रबोधलक्षणे उपवने स्थितिर्यस्य || ४ || सर्वातीतपदालम्बी पूर्णेन्दुशिशिराराशयः | नोद्वेगी नच तुष्टात्मा संसारे नावसीदति || ५ || सर्वशत्रुषु मध्यस्थो दयादाक्षिण्यसंयुतः | प्राप्तकर्मकरोऽग्र्याणां संसारे नावसीदति || ६ || समः [मूलस्थितपाठे सर्वशत्रुषु मध्यस्थपदमहिम्ना मित्रेषु च मध्यस्थः उभयत्र रागद्वेषशून्यत्वात्सम इत्यर्थः] शत्रौ च मित्रे चेति पाठः स्पष्टः | अग्र्यणां गुरुप्रभृतीनां समयोचितप्राप्तसेवापरिपालनादिकर्मकरः || ६ ||
100 SK नाभिनन्दति न द्वेष्टि न शोचति न काङ्क्षति | मौनस्थः प्रकृतारम्भी संसारे नावसीदति || ७ || मौनस्थो मितभाषी | प्रकृतारम्भी आवश्यककार्येष्वनलसः || ७ || पृष्टः सन्प्रकृतं वक्ति न पृष्टः स्थाणुवत्स्थितः | ईहितानीहितैर्मुक्तः संसारे नावसीदति || ८ || तदेवाह - पृष्ट इति || ८ || सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् | आशयज्ञश्च भूतानां संसारे नावसीदति || ९ || अभिमतं प्रियं वक्ता | चोदित आक्षिप्तः पेशलोक्तिमान् चतुरं समाधाता || ९ || युक्तायुक्तदृशा ग्रस्तमाशोपहतचेष्टितम् | जानाति लोकदृष्टान्तं करकोटरबिल्वत् || १० || इदं युक्तमिदमयुक्तमिति वैषम्यदृशा | जानाति अपक्षपातितया पश्यति | अत एव करकोटरः करतलगर्तस्तत्प्रतिष्ठितबिल्वफलवत्स्पष्टमित्युक्तम् | एकतरपक्षपाते तु तत्पक्षदोषा अपरपक्षगतगुणाश्च रागद्वेषपिहितत्वाना स्पष्टं भासन्त इति || १० || परं पदमुपारूढो भङ्गुरां जागतीं स्थितिम् | अन्तःशीतलया बुद्ध्या हसन्निव निरीक्षते || ११ || अत एव वैषम्यदर्शनादेः फलमपि जनानां हसन्निव ताटस्थ्येनैव पश्यतीत्याह - परमिति || ११ || जितचित्ता महात्मानो ये हि दृष्टपरावराः | स्वभाव ईदृशस्तेषां कथितस्तव राघव || १२ || उपसंहरति - जितेति || १२ || वयं तु वक्तुं मूर्खाणामजितात्मीयचेतसाम् | भोगकर्दममग्नानां न विद्मोऽभिमतं मतम् || १३ || मुक्तस्थितिरिव बद्धस्थितिरपि तदाशयोद्घाटनेन वर्ण्यतामिति चेन्मूर्खमनोरथभ्रान्तीनां तत्प्रयुक्तदुश्चेष्टानां तत्फलदुःखवचित्र्याणां चानन्त्यान्न सा वर्णयितुं शक्येत्याशयेनाह - teṣāmabhimatā nāryo bhāvābhāvavibhūṣitāḥ | jvālānarakavahnīnāṃ yāstāḥ kanakarociṣaḥ || 14 ||
101 SK तेषां मूर्खाणां नार्यः स्त्रियोऽभिमता अभिलषिता याः भावानां विवेकबुद्धीनामत्यन्ताभावैः पूर्वसंचितसुकृतानां प्रध्वंसाभावैः संभावितसुकृततपःसंयमादीनां प्रागभावपरिपालनैश्च विभूषिता आपादमस्तकमलंकृताः | अत एव नरकवह्नीनां कनकसमानरोचिषो ज्वाला एव ता इत्यर्थः || १४ || अनर्थगहनाश्चार्था व्यर्थानर्थकदर्थनाः | दिशन्तो दुःखसंरम्भमभितः प्रहितापदः || १५ || तथा मूर्खाणामभिलषिता अर्था धनानि ते च अनर्थगहना अर्जने पालने व्यये नाशे च बह्वायासाधर्मराशिनिमित्तभूताः | व्यर्था अनर्थप्रयोजककलहवैरादिकदर्थनाश्च येभ्यस्तथाविधाश्चेत्यर्थः || १५ || फलसंधीनि कर्माणि नानाचारमयानि च | सुखदुःखावपूर्णानि तानि वक्तुं न शक्नुमः || १६ || ननु तेषां तादृशैरप्यर्थैर्यज्ञादिसत्कर्माचरणसिद्धेर्निस्तारः स्यान्नेत्याह - फलसंधीनीति | यानि मूर्खाणां यज्ञादिकर्माणि तान्यपि फलाभिसंधियुक्तान्येव न निरभिसंधीनि | नानाविधैर्दम्भमानमदमात्सर्याद्याचारैर्दुराचारैश्च प्रचुराणि अत एव पुनर्जन्मादिप्रयुक्तसुखदुःखैरवपूर्णानीति मूर्खाणां किंचिदपि निस्तारनिमित्तं वक्तुं न शक्नुम इत्यर्थः || १६ || पूर्णां दृष्टिमवष्टभ्य ध्येयत्यागविलासिनीम् | जीवन्मुक्ततया स्वस्थो लोके विहर राघव || १७ || अतस्त्वमपि विद्वच्चरित्रेणैव विहर नान्येनेत्याह - पूर्णामित्यादिना || १७ || अन्तः संत्यक्तसर्वाशो वीतरागो विवासनः | बहिः सर्वसमाचारो लोके विहर राघव || १८ || उदारः पेशलाचारः सर्वाचारानुवृत्तिमान् | अन्तः सर्वपरित्यागी लोके विहर राघव || १९ || सर्वेषामज्ञानामपि कर्माद्याचारेषु अनुवृत्तिमान् | न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् इति भगवद्वचनादिति भावः || १९ || प्रविचार्य दशाः सर्वा यदतुच्छं परं पदम् | तदेव भावेनालम्ब्य लोके विहर राघव || २० || सर्वाः संसारदशाः परमार्थस्वरूपावस्थितिभूमिकाभेददशाश्च || २० ||
102 SK अन्तर्नैराश्यमादाय बहिराशोन्मुखेहितः | बहिस्तप्तोऽन्तराशीतो लोके विहर राघव || २१ || आशोन्मुखानामिव ईहितानि चेष्टा यस्य | सर्वात्मना नैराश्यप्रकटने धनमित्रादिसंग्रहायोगाद्राज्यपरिपालनानिर्वाहादिति भावः | अत एव धनादिनाशे बहिस्तप्त इव तप्तः | अन्तस्तु आशीतः सर्वतः शीतलः || २१ || बहिः कृत्रिमसंरम्भो हृदि संरम्भवर्जितः | कर्ता बहिरकर्तान्तर्लोके विहर राघव || २२ || ज्ञातवानसि सर्वेषां भावानां सम्यगन्तरम् | यथेच्छसि तथा दृष्ट्या लोके विहर राघव || २३ || अन्तरं व्यवहारतः परमार्थतश्च सारासारतारतम्यम् | अतः सद्व्यवहारे अतिसर्गस्तवेत्याह - यथेच्छसीति || २३ || कृत्रिमोल्लासहर्षस्थः कृत्रिमोद्वेगगर्हणः | कृत्रिमारम्भसंरम्भो लोके विहर राघव || २४ || त्यक्ताहंकृतिराश्वस्तमतिराकाशशोभनः | अगृहीतकलङ्काङ्को लोके विहर राघव || २५ || चन्द्रस्तु रात्रावहमेव प्रकाशक इति गृहीताहंकृतिः क्षयरोगित्वादनाश्वस्तमतिर्गृहीतकलङ्कलाञ्छनश्च त्वं तु न तथेति व्यतिरेकः || २५ || आशापाशशतोन्मुक्तः समः सर्वासु वृत्तिषु | बहिः प्रकृतिकार्यस्थो लोके विहर राघव || २६ || प्रकृतिस्तत्तद्वर्णाश्रमस्वभावस्तदुचितकार्यस्थः प्रजाहितकार्यस्थो वा || २६ || न बन्धोऽस्ति न मोक्षोऽस्ति देहिनः परमार्थतः | मिथ्येयमिन्द्रजालश्रीः संसारपरिवर्तिनी || २७ || समः सर्वासु वृत्तिष्विति यदुक्तं तद्बन्धमोक्षादिवैषम्यप्रतिषेधेनोपपादयति - न बन्ध इत्यादिना || २७ || भ्रान्तिमात्रमिदं मोहाज्जगद्राघव दृश्यते | जनितप्रत्ययं स्फारं जलं तीव्रातपे यथा || २८ || जलं मृगतृणोदकम् || २८ || अबद्धस्यैकरूपस्य सर्वगस्यात्मनः कथम् | बन्धः स्यात्तदभावे तु मोक्षः कस्य विधीयते || २९ || कुतो न बन्धोऽस्ति तत्र युक्तिमाह - अबद्धस्येति | असङ्गस्येत्यर्थः | विधीयते यत्नेन संपाद्यते || २९ || अतत्त्वज्ञानजातेयं संसारभ्रान्तिरातता | तत्त्वज्ञानात्क्षयं याति रज्ज्वामिव भुजङ्गधीः || ३० ||
103 SK तर्हि किं तत्त्वज्ञानं व्यर्थं नेत्याह - अतत्त्वेति || ३० || ज्ञातवानसि तत्त्वं स्वमेकया सूक्ष्मया धिया | जातोऽसि निरहंकारो व्योमवत्तिष्ठ निर्मलः || ३१ || ज्ञोऽसि त्वित्थं तदखिलाः सुहृद्बान्धववासनाः | संत्यजासत्स्वभावस्य का नाम किल भावना || ३२ || ज्ञः साक्ष्यसि तत्तस्मात्सुहृद्बान्धवविषया ममतावासनाः | असत्स्वभावस्य अविद्यमानस्वरूपस्य सुहृदादेर्भावना चिन्तना का नाम | न युक्तेत्यर्थः || ३२ || अपि चेत्थं तदन्यस्त्वं सत्त्ववाननुमीयसे | इदं प्रथमतः प्राप्तं परमादपि कारणात् || ३३ || अपि च इत्थं मदुक्तप्रकारेण वासनात्यागे ताभ्योऽन्यः परिशिष्टः साक्षी त्वं परमार्थसत्त्ववान्परिशेषादनुमीयते | प्रथमतः वासनात्यागात्पूर्वं ते परमात्कारणाद्ब्रह्मणः प्रलयसुषुप्त्योर्नित्यप्राप्तादपि इदं परिच्छिन्नासत्यरूपमेव प्राप्तं न परमार्थसत्यरूपमिति वासनात्याग एव तत्प्राप्तिहेतुर्नान्य इत्यर्थः | अथवा अपि चेति समुच्चये | तदन्यस्तस्मादसत्स्वभावादन्यः परमार्थसत्स्वभावस्त्वं स्वभावेनैवासत्स्वभावेभ्योऽविद्यातत्कार्येभ्यः सत्त्ववान् बलवाननुमीयसे | अतः परमादाद्यादविद्यालक्षणात्कारणादपि इदं प्रथमतः अनादिकालात्प्राप्तं बन्धमपि इत्थं वासनावदेव संत्यजेत्यनुषज्यते || ३३ || भोगबन्धुजगद्भावैः कर्मभिश्च शुभाशुभैः | आत्मनो नास्ति संबन्धः किमेताननुशोचसि || ३४ || भोगैस्तत्साधकैर्बन्धुभिर्जगद्भावैः स्रक्चन्दनादिभिस्तत्प्राप्तिनिमित्तैः शुभाशुभैः कर्मभिश्च || ३४ || आत्मतत्त्विकसारोऽहमिति जातधियो भयैः | न ते रामास्ति संबन्धः किं बिभेषि जगद्भ्रमात् || ३५ || आत्मतत्त्वमेवैकः सारः सत्यः परमानन्दो यस्य तथाविधोऽहमिति जाता धीर्यस्य | भयैर्भयहेतुभिः || ३५ || अजातस्य सतो बन्धोर्बन्धुदुःखसुखभ्रमैः | कस्ते राघव संबन्धो यदेताननुशोचसि || ३६ ||
104 SK मम तत्त्वविदः स्वतो दुःखं माभूत् बन्धूनामज्ञत्वेन दुःखित्वात्तद्दुःखसमागमैर्दुःखं तु दुर्वारमिति चेत्तत्राह - अजातस्येति | मिथ्यात्वाद्बन्धौ अजाते सतीत्यर्थः | षष्ठी चानादरे इति षष्ठी | अथवा बन्धोः संबन्धितयाऽजातस्य तवेति योज्यम् || ३६ || त्वं चेद्बभूविथ पुरा तथेदानीं भविष्यसि | अद्य चेह स्थितोऽसीति ज्ञातवानसि निश्चयम् || ३७ || एवमात्मनोऽसङ्गत्वाद्वितीयत्वदर्शने शोकासंभव उक्तः इदानीमस्त्वात्मा सङ्गी तथापि स किं नित्य उत क्षणिक उत प्रागभाववद्घटादिवद्वा कालान्तरे नश्वरः सर्वेष्वपि पक्षेषु बन्धुशोको न युक्त इति प्रौढ्या समाधित्सुराद्ये कल्पे तावदाह - त्वं चेदिति | पुरा पूर्वजन्मसु बभूविथ तथा भाविजन्मसु भविष्यसि | अद्येदानीमिह जन्मनि च स्थितोऽसीत्येवंस्वभावमात्मानं यदि निश्चयं दृढं ज्ञातवानसि तदा अनन्तरगान्वर्तमानान्निकटस्थितान्सन्निहितान्बन्धून् प्राणादीनिवेत्यध्याहारः | अनन्तजन्मस्वतीतान्सुबहून् कस्मान्नानुशोचसि | विनिगमनाविरहात्सर्वशोकाशक्तेश्च न क्वापि शोको युक्त इति भावः || ३७ || तदानन्तरगानन्यान्प्राणादीन्निकटस्थितान् | बन्धूनतीतान्सुबहून्कस्मात्त्वं नानुशोचसि || ३८ || पूर्वमन्यस्तथेदानीं बभूविथ भविष्यसि | यदि राम तथापि त्वं सद्रूपं किं विमुह्यसि || ३९ || द्वितीयेऽप्याह - पूर्वमिति | इदानीमन्यः अग्रेऽप्यन्यो भविष्यसि इति क्षणिकमात्मानं यदि जानासि तथापि त्वं किं सद्रूपमालम्ब्य विमुह्यसि शोचसि | द्वितीयक्षणे शोच्यस्य शोचितुश्चासत्त्वेन शोकावसराभावादित्यर्थः || ३९ || पुरा भूत्वाद्य भूत्वा च भूयश्चेन्न भविष्यसि | तथापि क्षीणसंसारः किमर्थमनुशोचसि || ४० || तृतीयेऽप्याह - पुरेति | तथाप्यात्मनाशादेव क्षीणसंसारः || ४० || तस्मान्न दुःखिता युक्ता प्राकृते जागते क्रमे | तथैव मुदिता युक्ता युक्तं कार्यानुवर्तनम् || ४१ ||
105 SK यदा आत्मनो जन्मादिसङ्गित्वेऽपि शोको न युक्तस्तदा किं वाच्यमसङ्गोदासीननित्यकूटस्थस्वप्रकाशपूर्णानन्दैकरसत्वे स न युक्त इतीत्याशयेनोपसंहरति - तस्मादिति | मुदिता सहजसंतोषवृत्तिः || ४१ || मा गच्छ दुःखितां राम सुखितामपि मा व्रज | समतामेहि सर्वत्र परमात्मा हि सर्वगः || ४२ || अनन्तः सत्स्वरूपस्त्वं खमिवातिततान्तरम् | प्रकाशो नित्यशुद्धस्त्वं ज्वालनामिव कोटरम् || ४३ || यथा ज्वालानां कोटरे सर्वतः प्रभाव्याप्ते तमसो नावकाशस्तद्वत्त्वय्यपि तमोदुःखादेरिति भावः || ४३ || जागतानां पदार्थानामदृष्टात्मतनुस्तनुः | हृत्स्थोऽसि हारमुक्तानामेकस्तन्तुरिवाततः || ४४ || त्वमेव सर्वान्तर इत्याह - जागतानामिति | न दृष्टा आत्मनस्तनुः स्वरूपं यस्य | तनुः सूक्ष्मः हारभूतमुक्ताफलानां तन्तुरिवाततोऽनुस्यूतः || ४४ || संसारस्थितिरेवेयं यद्भूत्वा भूयते पुनः | अज्ञेनैव न तज्ज्ञेन ज्ञोऽसि राम सुखी भव || ४५ || पुनर्जन्मशङ्कां वारयति - संसारेति | भूत्वा उत्पद्य पुनर्भूयते || ४५ || स्वरूपमिदमस्यास्तु संसृतेः सतताधिमत् | अज्ञानात्स्फारतामेति ज्ञातवानसि सन्मते || ४६ || स्वरूपं स्वभावः | सततमाधिमत् दुःखबहुलम् || ४६ || रूपं किमन्यद्भवतु भ्रममात्रादृते भ्रमे | स्वप्नमात्रादृते स्वप्ने भवत्यन्यो हि कः क्रमः || ४७ || स्वरूपं तत्त्वमिति न मन्तव्यमित्याह - रूपमिति | भ्रान्त्यन्तरेषु तत्त्वाप्रसिद्धेरत्रापि न तत्त्वमस्तीत्यर्थः || ४७ || सर्वशक्तेरियं शक्तिर्भ्रममात्रमयं तथा | राम दृश्यत एवेदमाभानमतिभास्वरम् || ४८ || ननु निस्तत्त्वं कथं सदिति दृश्यते तत्राह - सर्वेति | आभानं जगदाकारभानम् | अतिभास्वरं व्यक्तम् || ४८ || सुबन्धुः कस्यचित्कः स्यादिह नो कश्चिदप्यरिः | सदा सर्वे स सर्वस्य सर्वं सर्वेश्वरेच्छया || ४९ || जगतो भ्रान्तिमात्रताप्रदर्शनायानियतस्वभावतां दर्शयति - सुबन्धुरित्यादिना | सर्वस्य सर्वेऽपि सर्वे अरयो मित्राणि उदासीनाश्चेत्यर्थः || ४९ ||
106 SK आलूनशीर्णमखिलमिदमन्योन्यसंश्रितम् | अनारतं याति जगत्तरङ्गौध इवाम्भसः || ५० || अन्योन्यसंश्रितं परस्परनिमित्तम् || ५० || अध ऊर्ध्वत्वमायाति यात्यूर्ध्वत्वमधस्तथा | संसारस्य चलस्यास्य चक्रनेमिरिवाभितः || ५१ || अध इति | प्रत्यक्षं चेदं ज्योतिश्चक्रभागानां भूमेश्चेति भावः || ५१ || स्वर्गस्था नरकं यान्ति नारकाश्च त्रिविष्टपम् | योनेयोन्यन्तरं यान्ति द्वीपाद्द्विपान्तरं जनाः || ५२ || एवमुत्कर्षापकर्षावप्यनियतावेवेत्याह - स्वर्गस्था इति || ५२ || धीराः कार्पण्यमायान्ति कृपणा यान्ति धीरताम् | परिस्फुरन्ति भूतानि पातोत्पातशतभ्रमैः || ५३ || धीरा अप्रार्थनशीलाः || ५३ || एकरूपस्थिरं चक्रं स्वच्छं संतापवर्जितम् | नेह संप्राप्यते किंचिदग्नौ हिमकणो यथा || ५४ || उपसंहरति - एकरूपेति | चक्रं पदार्थमण्डलम् || ५४ || ये ये नाम महाभागा बहवो बान्धवास्तथा | विनष्टा एव दृश्यन्ते ते ते कतिपयैर्दिनैः || ५५ || विनाशस्तु सर्वत्र नियत इत्याह - ये ये इति || ५५ || परतात्मीयतान्यत्वत्वत्वमत्त्वादिभावना | नेह सत्या महाबाहो द्विचन्द्रादिदृशो यथा || ५६ || अस्त्वनियतता किं ततस्तत्राह - परतेति || ५६ || अयं बन्धुः परश्चायमयं चाहमयं भवान् | इति मिथ्यादृशो राम विगलन्तु तवाधुना || ५७ || विगलन्तु विशीर्यन्ताम् || ५७ || क्रीडार्थं व्यवहारस्थ एताभिर्हतदृष्टिभिः | आमूलमन्तश्छिन्नाभिर्बहिर्विहर हेलया || ५८ || हतदृष्टिभिर्बाधितानुवृत्तिदृष्टिभिः | आमूलमज्ञानवासनाभ्यां सह अन्तश्छिन्नाभिः || ५८ || संसारसरणावस्यां तथा विहर सुव्रत | न यथैव श्रमश्रान्तो वासनाभारवानिव || ५९ || वासनाभारवान् अज्ञ इव श्रमश्रान्तो यथा न भवस्येव तथा अस्यां संसारसरणौ विहर || ५९ || यथा यथैषा कार्याणि वासनाक्षयकारिणी | विचारणा तवोदेति संशाम्यन्ति तथा तथा || ६० ||
107 SK कदा तर्हि मम व्यवहारोपरमो भविष्यति तत्राह - यथा यथेति | वासनाक्षयकारिणी विचारणा यथा यथोदेति तथा तथा कार्याणि व्यवहाराः प्रशाम्यन्ति उपरंस्यन्त इत्यर्थः || ६० || अयं बन्धुरयं नेति गणना लघुचेतसाम् | उदारचरितानां तु विगतावरणैव धीः || ६१ || विगतं अयमेव बन्धुरिति परिच्छेदलक्षणं आवरणं यस्यास्तादृश्येव सर्वत्र समतादर्शिनीत्यर्थः || ६१ || न तदस्ति न यत्राहं न तदस्ति न यन्मम | इति निर्णीय धीराणां विगतावरणैव धीः || ६२ || उक्तमेवार्थ कारणोपन्यासेन विवृणोति - न तदिति || ६२ || नास्तमेति न चोदेति यश्चिदाकाशवन्महान् | सर्वं संपश्यति स्वस्थः स्वस्थो भूमितलं यथा || ६३ || स्वस्थः स्वरूपप्रतिष्ठितो विक्षेपदुःखोपशमस्वास्थ्यवान्वा || ६३ || सर्वा एव हि ते भूतजातयो राम बन्धवः | अत्यन्तासंयुता एतास्तव राम न काश्चन || ६४ || सर्वा इति | अनादौ संसारे सर्वयोनिषु स्वस्य बहुशो जन्मानुभवादित्यर्थः | बन्धुत्वेनात्यन्तमसंयुताः काश्चन काश्चिदपि न पर्यायेण सर्वैः सह संबन्धादित्यर्थः | अथवा देहद्वारकपरम्परासंबन्धापेक्षया सर्वजीवैः सह साक्षादैकात्म्यसंबन्धस्यान्तरङ्गत्वात्तेन संबन्धेनात्यन्तासंयुता न काश्चनेत्यर्थः || ६४ || विविधजन्मशताहितसंभ्रमे जगति बन्धुरबन्धुरितीक्षणम् | भ्रमदशैव विवल्गति वस्तुत- स्त्रिभुवनं चिरबन्धुरबन्ध्वपि || ६५ || उक्तमेवार्थ संक्षिप्य विवृण्वन्नुपसंहरति - विविधेति | विविधैर्नानायोनिविचित्रैर्जन्मशतैराहिताः संभ्रमा यस्मिंस्तथाविधे जगति अयं बन्धुरयमबन्धुरिति ईक्षणं भेददर्शनं भ्रमदशैव विवल्गति विजृम्भते | वस्तुतस्तु जीवभावदृष्टौ त्रिभुवनं त्रिभुवनस्थं जीवजातं निजबन्धुर्ब्रह्मभावदृष्टौ तु स्वयमेव सर्वमित्यबन्ध्वपि तदेवेत्यर्थः || ६५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे जीवन्मुक्तवर्णनं नामाष्टादशः सर्गः || १८ ||
108 SK इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे जीवन्मुक्तवर्णनं नामाऽष्टादशः सर्गः || १८ || एकोनविंशः सर्गः १९ अत्रैवोदाहरन्तीममितिहासं पुरातनम् | भ्रात्रोस्त्रिपथगातीरे संवादं मुनिपुत्रयोः || १ || इहोक्तसिद्धये पुण्यपावनाख्यानमुच्यते | पुण्यो यत्पितृशोकार्तं पावनं समबोधयत् || १ || अत्र उक्तार्थविषये || १ || अयं बन्धुरयं नेति कथाप्रस्तावतः स्मृतम् | इतिहासमिमं पुण्यमाश्चर्यं शृणु राघव || २ || अस्त्यस्य जम्बूद्वीपस्य कस्मिंश्चिद्गिरिकुञ्जके | वनव्यूहमहोत्तंसं महेन्द्रो नाम पर्वतः || ३ || मध्ये | निर्धारणे सप्तमी | पुञ्जके इति पाठः स्पष्टः || ३ || कल्पद्रुमवनच्छायाविश्रान्तमुनिकिन्नरः | शृङ्गैराततमाकाशं जितवान्यः समुन्नतैः || ४ || आततं विस्तीर्णमप्याकाशं शृङ्गैर्जितवान् व्याप्तवान् || ४ || ब्रह्मलोकान्तरप्राप्तशृङ्गकन्दरचारिभिः | सामवेदप्रतिध्वानघुंघुमैर्गायतीव यः || ५ || ब्रह्मलोकेत्यतिशयोक्तिः || ५ || यः पयोमेदुरैर्मेघैर्लसितैः शृङ्गकोटिषु | लताकुसुमसंप्रोतैः कुन्तलैरिव राजते || ६ || पयोमेदुरैर्नीलैरिति यावत् | लसितैर्विद्युद्भिर्विराजमानैः | कुन्तलैः केशैः || ६ || यस्तदोड्डयनोत्कानां [यस्तटोड्डयनोत्कानां इति टीकाकृत्संमतः पाठः] शरभाणां विजृम्भितैः | विस्फूर्जति गुहावक्रैः कल्पाभ्राणि हसन्निव || ७ || तटेषु उड्डयने उत्कानां सोत्कण्ठानां शरभाणामष्टापदानां विजृम्भितैर्विस्फूर्जति गर्जति [गर्जति इति क्वचिन्न पठ्यते] || ७ || येन निर्झरनिर्ह्रादैः कन्दरान्तरचारिभिः | समुद्रजलकल्लोलविलासो विजितोऽभितः || ८ || कन्दरान्तरेषु चारिभिः प्रतिध्वनितैरिति यावत् | कल्लोलानां विलासः सगर्जितनृत्यम् || ८ || तस्यैकदेशे वितते रत्नसानौ मनोरमे | मुनिभिः स्नानपानार्थं व्योमगङ्गावतारिता || ९ || रत्नमये सानौ प्रस्थदेशे व्योमगङ्गा मन्दाकिनी || ९ || तस्यास्त्रिपथगायास्तु तीरे विकसितद्रुमे | रत्नाद्रितटविद्योते कचत्कनकपिञ्जरे || १० ||
109 SK रत्नाद्रेर्मेरोस्तटमिव विद्योतमाने || १० || आसीदभ्युदितज्ञानस्तपोराशिरुदारधीः | मुनिदीर्घतपा नाम तपो मूर्तमिवापरम् || ११ || अभ्युदितं ज्ञानं परमात्मबोधो यस्य | मूर्त धृतशरीरम् || ११ || मुनेर्बभूवतुस्तस्य पुत्रौ द्वाविन्दुसुन्दरौ | पुण्यपावननामानौ द्वौ कचाविव वाक्पतेः || १२ || द्वौ कचाविवेत्यभूतोपमा | वाक्पतेर्बृहस्पतेः || १२ || स ताभ्यां सह पुत्राभ्यां भार्यया च सहैकया | उवास सरितस्तीरे तस्मिन्सफलपादपे || १३ || अथ काले तयोस्तस्य पुत्रयोर्ज्ञानवानभूत् | पुण्यो नाम च यो ज्येष्ठो गुणज्येष्ठश्च राघव || १४ || ज्ञानवान् तत्त्ववित् || १४ || पावनोर्धप्रबुद्धोऽभूत्पूर्वसंध्याम्बुजं यथा | मौर्ख्यादधिगतो नाप्तः पदे दोलायितः स्थितः || १५ || अर्धप्रबुद्ध इत्यस्य विवरणं मौर्ख्यादधिगतो निर्गतः | पदे परमात्मवस्तुनि चानाप्तः | अन्तराले दोलायितः स्थितः || १५ || ततो वहत्यकलिते काले कलितकारणे | संवत्सरशते जीर्णदीर्घदेहलतायुषि || १६ || अकलिते प्राणिभिरायुःक्षयत्वेनालक्षिते | संवत्सरशतात्मके | देहलता च आयुश्च देहलतायुषी जीर्णे देहलतायुषी येन तथाविधे काले वहत्यतिक्रामति सति मुनिर्देहं जहाविति व्यवहितेन संबन्धः || १६ || अस्माद्भङ्गुरभूताढ्याद्वृत्तान्तशतभीषणात् | रतिमुत्सृज्य संसाराज्जराजर्जरजीवितः || १७ || जन्मजरामरणस्वर्गपातनरकादिवृत्तान्तशतैर्भीषणात्संसाराद्रति- 17 || kalanāpakṣiṇī nīḍaṃ dehaṃ dīrghatapā muniḥ | jahau giriguhāgehe bhāraṃ vaivadhiko yathā || 18 || yathā vaivadhiko vīvadhavāhako gehe vīvadhabhāraṃ jahāti tathetyarthaḥ | vivadhavīvadhaśabdāvubhayato baddhaśikye skandavāhye kāṣṭhaviśeṣe vartete || 18 || praśāntakalanārambhaṃ cetyariktacidāspadam | padaṃ jagāma nīrāgaṃ puṣpagandha ivāmbaram || 19 ||
110 SK प्रशान्ताः कलनारम्भा यत्र | चेत्यै रिक्ता रहिता याश्चितस्तत्तज्जीवचैतन्यानि तेषामास्पदं प्रतिष्ठाभूतं परमपदम् | यथा पुष्पगन्धोऽम्बरमाकाशं गच्छति तद्वत् || १९ || अथ भार्या मुनेर्देहं प्राणापानविवर्जितम् | दृष्ट्वा विलुलितं भूमौ विनालमिव पङ्कजम् || २० || चिरमभ्यस्तया योगयुक्त्या पतिवितीर्णया | तत्याज तनुमम्लानां षट्पदी पद्मिनीमिव || २१ || पत्या वितीर्णया उपदिष्टया योगयुक्त्या | अम्लानां रोगजरादिम्लानिरहितामपि तनुं तत्याज || २१ || भर्तारमेवानुययौ जनस्यादृष्टतां गता | प्रभागगनकोशस्थमस्तं यातमिवोडुपम् || २२ || ब्रह्मीभूतं भर्तारमेव अनुययौ स्वयमपि ब्रह्मीभावं प्रापेति यावत् | नहि ब्रह्मविदां देशान्तरे गतिरस्ति | न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते इति श्रुतेः || २२ || मातापित्रोस्तु गतयोरौर्ध्वदेहिककर्मणि | पुण्य एव स्थितोऽव्यग्रः पावनो दुःखमाययौ || २३ || अव्यग्रो विशोकः || २३ || शोकोपहृतचित्तोऽसौ भ्रमन्काननवीथिषु | ज्यायांसमनवेक्ष्यैव पावनो विललाप ह || २४ || ज्यायांसं ज्येष्ठभ्रातरं अनवेक्ष्य | तद्वद्धैर्यमनाल्म्ब्येति यावत् || २४ || अथौर्ध्वदेहिकं कृत्वा मातापित्रोरुदारधीः | आययौ विपिने पुण्यः पावनः शोकलालसम् || २५ || पुण्य उवाच | किं पुत्र घनतां शोकं नयस्यान्ध्यैककारणम् | बाष्पधाराधरं घोरं प्रावट्काल इवाम्बुजम् || २६ || पितृसमो ज्येष्ठ इति शास्त्रात्पुत्रेति संबोधनम् | शोकं दुःखमूष्माणं च | घनतां निबिडतां मेघतां च | अत एव बाष्पधाराधरमान्ध्यैककारणमिति च श्लेषात् साधारणे विशेषणे | आम्बुजं अम्बुजसंबन्धिनमम्बुजसदृशनेत्रसंबन्धिनं च || २६ || पिता तव महाप्राज्ञ गतः सार्धं त्वदम्बया | स्वामेव परमात्मात्मपदवीं मोक्षनामिकाम् || २७ || तत्स्थानं सर्वजन्तूनां तद्रूपं विजितात्मनाम् | स्वभावमभिसंपन्ने किं पितर्यनुशोचसि || २८ ||
111 SK स्थानं उत्पत्त्यादिकालत्रयेऽप्याधारभूतम् | जन्तूनां जननधर्मिणां प्राणिनाम् | विजितात्मनां ब्रह्मविदाम् | रूपं स्वरूपम् | अत एव न पितुः शोच्यतेत्याह - स्वभावमिति || २८ || ईदृशी तु त्वया बद्धा भावनेह विमोहजा | संसारे यदशोच्योऽपि त्वया तातोनुशोच्यते || २९ || ईदृशी इयमेव मम माता अयमेव मम पितेत्येवंरूपा | यत् यया भावनया || २९ || न सैव भवतो माता नासावेव पिता तव | न भवानेष तनयस्तयोर्निःसंख्यपुत्रयोः || ३० || निःसंक्याः संख्यातुमशक्याः पुत्रा ययोः || ३० || मातापितृसहस्राणि समतीतानि ते सुत | बहून्यम्बुप्रवाहस्य निम्नानीव वने वने || ३१ || निम्नानि गम्भीरस्थानानीव || ३१ || असंख्यपुत्रयोर्नैव भवानेव सुतस्तयोः | सरित्तरङ्गवत्पुत्र गताः पुत्रगणा नृणाम् || ३२ || हे पुत्र नृणामन्येषामपि || ३२ || अस्मत्पित्रोरतीतानि पुत्रलक्षाण्यनेकशः | पत्रकोरकवृन्तानि लताविटपयोरिव || ३३ || विटपग्रहणेन विटपी लक्ष्यते | विटपिनोरिवेति वा पाठः || ३३ || मित्रबान्धववृन्दानि जन्तोर्जन्मनि जन्मनि | ऋतावृतावतीतानि फलानीव महातरोः || ३४ || शोचनीया यदि स्नेहान्मातापितृसुताः सुत | तदतीता न शोच्यन्ते किमजस्रं सहस्रशः || ३५ || न शोच्यन्ते त्वयेति शेषः || ३५ || प्रपञ्चोऽयं महाभाग दृश्यते जागते भ्रमे | परमार्थेन ते प्राज्ञ नास्ति मित्रं न बान्धवाः || ३६ || जागते जगत्कल्पनानिमित्ते भ्रमे मोहे सत्येव दृश्यते | परमार्थेन परमार्थतस्तु ते तव न | तथाचोक्तं वार्तिके - अविद्यास्तीत्यविद्यायामेवासित्वा प्रकल्प्यते | ब्रह्मदृष्ट्या त्वविद्येयं न कथंचन युज्यते इति || ३६ || न नाश इव हि भ्रातः परमार्थेन विद्यते | महत्यपि चिरातप्ते मराविव पयोलवाः || ३७ || परमार्थेन परमार्थदृष्ट्या मरोर्मरुत्वादेव पयोलवा न सन्ति तत्र चिरातप्ते सुतराम् | तथा ब्रह्मस्वाभाव्यादेव नाशो नास्ति तत्र तत्त्वबोधे सुतरामिति द्योतनायापिशब्दः || ३७ ||
112 SK एता याः प्रेक्षसे लक्ष्मीश्छत्रचामरचञ्चलाः | स्वप्न एव महाबुद्धे दिनानि त्रीणि पञ्च वा || ३८ || लक्ष्मीः राज्यादिसंपदः | स्वप्न एव ता इति शेषः || ३८ || दृष्ट्या तु पारमार्थिक्या पुत्रं सत्यं विचारय | नैव त्वं न वयं चैव भ्रान्तिमन्तः परित्यज || ३९ || अयं गतो मृतश्चायमिति दुर्दृष्टयः पुरः | स्वसंकल्पोपतापोत्था दृश्यन्ते नतु सत्यतः || ४० || स्वसंकल्पलक्षणो य उपतापः संनिपातभ्रमस्तदुत्थाः पुरो दृश्यन्ते || ४० || अज्ञानविस्तीर्णमरौ विलोलं शुभाशुभस्यन्दमयैस्तरङ्गैः | सवासनानाममरीचिवारि परिस्फुरत्येतदनन्तरूपम् || ४१ || अज्ञानलक्षणेनातपेन विस्तीर्णे आच्छन्ने मरौ मरुभूमिसदृशे आत्मनि | स्वसंकल्पवासनानामकं मरीचिवारि मृगतृष्णोदकम् || ४१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषुपशमप्रकरणे पावनबोधनं नामैकोनविंशः सर्गः || १९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे पावनबोधनं नामैकोनविंशः सर्गः || १९ || विंशः सर्गः २० पुण्य उवाच | कः पिता किं च वा मित्रं का माता के च बान्धवाः | स्वबुद्ध्यैवावधूयन्ते वात्यया जनपांसवः || १ || नानायोनिषु जन्मानि पावनस्यात्मनस्तथा | इह पुण्येन कीर्त्यन्ते शोकमोहापनुत्तये || १ || शोकस्य मोहमूलकत्वान्मोहापनयनेनैवास्य शोकोऽपनेय इति मन्यमानः पुण्यस्तद्विषयाणां पित्रादीनामनिर्वचनीयत्वान्मिथ्यात्वं प्रतिज्ञाय ज्ञानापनोद्यतामाह - कः पितेति | कः किंस्वरूपः | तत्त्वतो निर्वक्तुमशक्याः सर्वेऽपीत्यर्थः | स्वबुद्ध्या स्वभ्रान्त्यैवावधूयन्ते उत्थाप्यन्ते | अथवा स्वविवेकबुद्धिलक्षणया वात्यया स्वजनपांसवोऽवधूयन्ते निरस्यन्ते || १ || बन्धुमित्रसुतस्नेहद्वेषमोहदशामयः | स्वसंज्ञामात्रकेणैव प्रपञ्चोऽयं वितन्यते || २ || स्नेहद्वेषमोहदशालक्षण आमयो रोगः | स्वसंज्ञा स्वकृतः संकेतस्तन्मात्रकेणैव || २ || बन्धुत्वे भावितो बन्धुः परत्वे भावितः परः | विषामृतदशेवेह स्थितिर्भावनिबन्धनी || ३ ||
113 SK उक्तमुपपादयति - बन्धुत्वे इति | भावितो दृढभावनया संकेतितः | परत्वे शत्रुत्वे | यथा विषकृतिभिर्विषस्य जीवनहेतुत्वेन दृढभावनात्तान्प्रति अमृतदृशा अन्यस्तद्विपरीतभावनाद्विषदशा चेति भावनिबन्धनी स्थितिस्तद्वदित्यर्थः || ३ || एकत्वे विद्यमानस्य सर्वगस्य किलात्मनः | अयं बन्धुः परश्चायमित्यसौ कलना कुतः || ४ || आस्तां बन्धुतत्त्वचिन्ता तदनुशोचिनस्तव स्वतत्त्वविमर्शमात्रेण ते निरसितुं शक्या इत्याशयेनाह - एकत्वे इति | सर्वदेहेष्वेकत्वे अभिन्नत्वे || ४ || रक्तमांसास्थिसंघाताद्देहादेवास्थिपञ्जरात् | कोऽहं स्यामिति चेत्तेन स्वयं पुत्र विचारय || ५ || नन्वहं कथं सर्वदेहेष्वेक इति चेदहं प्रत्ययवेद्यमेव कोऽसाविति विमृशेत्याह - रक्तेति | रक्तादिजडसंघाताद्देहादन्यश्चेतनस्वभावः कोऽहं स्यामिति विचारयेत्यर्थः || ५ || दृष्ट्या तु पारमार्थिक्या न कश्चित्त्वं न वास्म्यहम् | मिथ्याज्ञानमिदं पुण्यः पावनश्चेति वल्गति || ६ || त्वं पावनशब्दवाच्यो देहादिर्न कश्चित् | अहं पुण्यशब्दवाच्यः | मिथ्याज्ञानं देहात्मताभ्रम एव वल्गति प्रथते || ६ || कस्ते पिता कश्च सुहृत्का माता कश्च वा परः | खस्यानन्तविलासस्य किमत्वं किं स्वमुच्यताम् || ७ || एवं पित्रादिशरीरमपि विमर्शे भ्रान्तिरेवेत्याह - क इति | यदि तु देहाद्युपाधिनिष्कृष्टं चिदाकाशमेवाहं त्वं पित्रादयश्चेति मन्यसे तदा मम पिता मम भ्रातेत्यादिभेदघटितः स्वत्वादिसंबन्धो न घटत एवेत्याह - खस्येति | खस्य चिदाकाशस्य || ७ || असि चेत्त्वं तदन्येषु यातेषु बहुजन्मसु | ये बन्धवो ये विभवाः किं तानपि न शोचसि || ८ || लिङ्गशरीराण्येवाहं मद्बान्धवाश्चेति चेत्तत्राह - असि चेदिति | त्वं मद्व्यावृत्तलिङ्गात्मा असि चेत्तत्तदा यातेष्वतीतेषु किं किमर्थं न शोचसि || ८ || बभूवुस्ते सुपुष्पासु स्थलीषु मृगयोनिषु | बहवो बन्धवो मार्गास्तान्कथं नानुशोचसि || ९ || जन्मान्तरबन्धून्प्रपञ्चयति - बभूवुरित्यादिना | मार्गाः मृगयोनिजा जीवाः || ९ ||
114 SK बभूवुस्ते सपद्मासु तटीष्वम्भोजिनीषु ते | हंसस्य बन्धवो हंसास्तान्कथं नानुशोचसि || १० || अम्भोजिनीषु पद्मवनीषु नद्यादितटीषु हंसस्य ते ते तत्कालप्रसिद्धा हंसा बन्धवो बभूवुः | तटीष्वम्भोधियोषिताम् इति पाठे नदीनां तटीष्वित्यर्थः || १० || बभूवुस्तेऽलमन्यत्र चित्रासु वनराजिषु | बहवो बन्धवो वृक्षास्तान्कथं नानुशोचसि || ११ || अन्यत्रान्येषु जन्मसु | अलमत्यन्तं बन्धवो बभूवुः || ११ || बभूवुस्ते महोग्रेषु शिखरेषु महीभृताम् | बहवो बान्धवाः सिंहास्तान्कथं नानुशोचसि || १२ || बभूवुस्ते स्रवन्तीषु सरःस्वम्भोजिनीषु च | बहवो बन्धवो मत्स्यास्तान्कथं नानुशोचसि || १३ || स्रवन्तीषु नदीषु || १३ || बभूविथ दशार्णेषु कपिलो वनवानरः | राजपुत्रस्तुषारेषु पुण्ड्रेषु वनवायसः || १४ || इदानीं भ्रातुर्जन्मभेदान्योगबलेन दृष्टान्विशिष्य स्मारयन्नाह - बभूविथेति | दशार्णतुषारपुण्ड्रादयो देशविशेषाः || १४ || हैहयेषु च मातङ्गस्त्रिगर्तेषु च गर्दभः | शाल्वेषु सरमापुत्रः पतत्री सरलद्रुमे || १५ || सरमा शुनी तस्याः पुत्रः | पतत्री पक्षी अर्थाच्छाल्वेष्वेव || १५ || विन्ध्याद्रौ पिप्पलो भूत्वा घुणो भूत्वा महावटे | मन्दरे कुक्कुटो भूत्वा विप्रो जातोऽसि कन्दरे || १६ || घुणः काष्ठकीटकः अर्थान्मन्दरस्यैव कन्दरे दरीप्रदेशे || १६ || कोसलेषु द्विजो भूत्वा भूत्वा वङ्गेषु तित्तिरिः | अश्वो भूत्वा तुषारेषु जातस्त्वं ब्रह्मणोऽध्वरे || १७ || पुष्करेषु प्रसिद्धे ब्रह्मणः प्रजापतेरध्वरे जातः पशुरिति शेषः | यातः इति वा पाठः || १७ || यः कीटस्तालकन्दान्तर्मशको य उदुम्बरे | यः प्राग्बको विन्ध्यवने स त्वं पुत्र ममानुजः || १८ || तालतरोः कन्दो मूलं तदन्तः | त्रीण्यपि जन्मानि विन्ध्यवने || १८ || हिमवत्कन्दरे भूर्जतनुत्वग्ग्रन्थिकोटरे | पिपीलिको यः षण्मासान्सोऽयं त्वमनुजो मम || १९ || भूर्जवृक्षस्य तन्वी मृदुला या त्वक् तद्ग्रन्थिप्रभवे कोटरे बिले || १९ ||
115 SK स्थितः सीमान्तकुग्रामगोमये यश्च वृश्चिकः | सार्धसंवत्सरं साधो सोऽयं त्वमनुजो मम || २० || अर्थात्स्वदेशसीमाया अन्ते यः कुग्रामस्तत्रत्ये शुष्कगोमयोत्करे || २० || पुलिन्दीस्तनपीठेषु निलीनं येन कानने | षट्पदेनेव पद्मेषु सोऽयं त्वमनुजो मम || २१ || लीनं अर्थात्पुलिन्दीशिशुज्न्म प्राप्येति गम्यते || २१ || एतास्वन्यासु बह्वीषु जनयोनिषु पुत्रक | जातोऽसि जम्बूद्वीपेऽस्मिन्पुरा शतसहस्रशः || २२ || इत्थं तवात्मनश्चैव प्राक्तनं वासनाक्रमम् | पश्यामि सूक्ष्मया बुद्ध्या सम्यग्दर्शनशुद्धया || २३ || ममापि बह्व्यो बहुधा योनयो मोहमन्थराः | समतीताः स्मराम्यद्य ता ज्ञानोदितया दृशा || २४ || भ्रातृजन्मोक्तीरुपसंहृत्य स्वजन्मभेदान्वक्तुमारभते - ममापीति | मोहमन्थरा अज्ञानजडाः || २४ ||| त्रिगर्तेषु शुको भूत्वा भेको भूत्वा सरित्तटे | वनेषु लावको भूत्वा जातोऽहमिह कानने || २५ || लावकः क्षुद्रपक्षिविशेषः || २५ || भुक्त्वा पुलिन्दतां विन्ध्ये कृत्वा वङ्गेषु वृक्षताम् | उष्ट्रत्वमपि विन्ध्याद्रौ जातोऽहमिह कानने || २६ || वृक्षतां कृत्वा वृक्षजन्म भुक्त्वेत्यर्थः | उष्ट्रत्वमुष्ट्रजन्म | न्युब्जत्वम् इति पाठेऽपि न्युब्जपृष्ठमुष्ट्रत्वमेव भुक्त्वेह जात इत्यर्थः || २६ || यश्चातको हिमगिरौ यो राजा पौण्ड्रमण्डले | व्याघ्रो यः सह्यकुञ्जेषु स एवाहं [स एवेह इति पाठः] तवाग्रजः || २७ || यो गृध्रो दशवर्षाणि यो ग्राहो मासपञ्चकम् | यः समानां सिंहः स एवेह तवाग्रजः || २८ || इहास्मिञ्जन्मनि || २८ || आन्ध्रग्रामचकोरेण तुषारनृपराजिना | श्रीशैलाचार्यपुत्रेण दम्भवत्कथ्यते मया || २९ || तुषारेषु हिमवत्प्रदेशेषु नृपवद्विराजनशीलेन माण्डलिकेनेत्यर्थः | अपुण्यस्य स्वस्य लोकवञ्चनाय पुण्यनाम्ना प्रख्यापनं दम्भस्तद्वत्स्थितेन मयेत्युत्प्रेक्षा | मयेदं कथ्यते तव इति पाठे तु स्पष्टम् || २९ || सर्वे विविधसंसारा विविधाचारचेष्टिताः | विलासा जन्मनो भ्रान्ते स्मर्यन्ते प्राक्तना मया || ३० ||
116 SK जन्मनः जन्मभेदरूपाया भ्रान्तेर्विलासाः || ३० || एवं स्थिते जगज्जाता बान्धवाः शतशो गताः | पितरो मातरश्चैव भ्रातरः सुहृदस्तथा || ३१ || उपसंहृत्य प्रकृते योजयति - एवं स्थिते इति || ३१ || कांस्तान्समनुशोचावो न शोचावश्च कानपि | बन्धूनिहातिशोचाव ईदृश्येव जगद्गतिः || ३२ || तान् प्राक्तनान्बन्धून्कान् शोचावः | तान्बन्धूनतिक्रम्य इह कान् शोचावः | न कांश्चिदपि शोचावः | यत ईदृश्येव जगद्गतिरित्यर्थः || ३२ || अनन्ताः पितरो यान्ति यान्त्यनन्ताश्च मातरः | इह संसारिणां पुंसां वनपादपपर्णवत् || ३३ || किं प्रमाणमतः पुत्र दुःखस्यात्र सुखस्य च | तस्मात्सर्वं परित्यज्य तिष्ठावः स्वच्छतां गतौ || ३४ || किं प्रमाणमवधिः | सर्वं शोकं दृश्यमात्रं वा || ३४ || प्रपञ्चभावनां त्यक्त्वा मनस्यहमिति स्थिताम् | तां गतिं गच्छ भद्रं ते यां यान्ति गतिकोविदाः || ३५ || गतिकोविदा आत्मावगतिकुशलाः || ३५ || इहाजवं जवीभावं पतनोत्पतनात्मकम् | न [नानुशोचन्ति इति पाठः] च शोचन्ति सुधियश्चिरं वल्गन्ति केवलम् || ३६ || पतनमधोगतिरुत्पतनमूर्ध्वगतिस्तदात्मकं आजवं जवीभावमविश्रान्तभ्रमणम् | केवलं निरभिमानतया वल्गन्ति व्यवहरन्ति || ३६ || भावाभावविनिर्मुक्तं जरामरणवर्जितम् | संस्मरत्मानमव्यग्रो मा विमूढमना भव || ३७ || न ते दुःखं न ते जन्म न ते माता न ते पिता | आत्मैवसि न सद्बुद्धे त्वमन्यः कश्चिदेव हि || ३८ || त्वमात्मैवासि नान्यः अनात्मभूतदेहादिः कश्चित्त्वमसीत्यर्थः || ३८ || अस्यां संसारयात्रायां नानाभिनयदायिनः | अज्ञा एव नराः साधुरसभावसमन्विताः || ३९ || नर्तकवन्नानाभिनया अभिनिवेशचेष्टास्तद्दायिनस्तत्कारिणोऽज्ञामूढा एव नराः साधुरसभावः पुरुषार्थसारताबुद्धिस्तत्समन्विता इत्यर्थः || ३९ || मध्यस्थदृष्टयः स्वस्था यथाप्राप्तार्थदर्शिनः | तज्ज्ञास्तु प्रेक्षका एव साक्षिधर्मे व्यवस्थिताः || ४० ||
117 SK तज्ज्ञास्तत्त्वज्ञास्तु तटस्थदृष्टय उदासीनाः प्रेक्षका एव | अत एव साक्षिधर्मे व्यवस्थिता || ४० || कर्तारोऽपि न कर्तारो यथा दीपा निशागमे | आलोककर्मणामेवं तज्ज्ञा लोकस्थिताविह || ४१ || निशाया आगमे आगमने सति आलोककर्मणां प्रकाशनक्रियाणां यथा दीपाः संनिधिमात्रेण कर्तारोऽपि अव्याप्रियमाणत्वादकर्तार एवं तज्ज्ञा लोकव्यवहारस्थितावित्यर्थः || ४१ || प्रतिबिम्बे न दृश्यन्ते स्वात्मबिम्बगतैरपि | यथा दर्पणरत्नाद्यास्तथा कार्ये महाधियः || ४२ || दृष्टान्तान्तरमाह - प्रतिबिम्बे इति | यथा करादिगतदर्पणा रत्नाद्याः प्रतिबिम्बोपाधयः स्वात्मनो बिम्बभूतसर्वदेहगतैः सर्वैर्धर्मैः सहापि स्वात्मनि कृते प्रतिबिम्बे बिम्बधर्मान्तरवत्स्वयं निविष्टा न दृश्यन्ते तद्वत्स्वात्मन्यध्यस्ते कार्ये कर्तारोऽपि मधाधियः स्वयमभिनिविष्टा न भवन्तीत्यर्थः || ४२ || सर्वैषणामयकलङ्कविवर्जितेन स्वस्थात्मभावकलितेन हृदब्जमध्ये | पुत्रात्मनात्मनि महामुनिनामुनैव संत्यज्य संभ्रममलं परितोषमेहि || ४३ || हे पुत्र सर्वैरेषणामयकलङ्कैर्विवर्जितेन अत एव मुनिना मननशीलेन आत्मना स्वेनैव हृदब्जमध्ये स्वस्थात्मस्वभावेन कलितेन साक्षात्कृतेन संसारसंभ्रमं अलं निःशेषं त्यक्त्वा अमुना परिशिष्टेनात्मनैव परितोषमेहीत्यर्थः || ४३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु उपशमप्रकरणे पावनबोधो नाम विंशः सर्गः || २० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे पावनबोधो नाम विंशः सर्गः || २० || एकविंशः सर्गः २१ श्रीवसिष्ठ उवाच | एवं प्रबोधितस्तेन तदा पुण्येन पावनः | प्रबोधमाप प्राकाश्यं प्रभात इव भूतलम् || १ || तृष्णापाशक्षयो मोक्षो ह्याशया चित्तवृत्तयः | निराशस्यात्मपूर्णस्य स्वतो मुक्तिरितीर्यते || १ || प्रबोधं परिनिष्ठितमात्मनिश्चयम् || १ || उभावपि ततः सिद्धौ ज्ञानविज्ञानपारगौ | विचेरतुर्वने तस्मिन्यावदिच्छमनिन्दितौ || २ ||
118 SK यावदिच्छं प्रारब्धक्षयपर्यन्तमिति यावत् || २ || ततः कदाचित्कालेन निर्वाणपदमागतौ | तौ विदेहौ गतस्नेहौ दीपाविव शमं गतौ || ३ || गतस्नेहौ क्षीणतैलौ || ३ || एवं प्राग्भुक्तदेहानामनन्ता जनबन्धुता | आः कैः किं गृह्यते ताभ्यः किं वा संत्यज्यतेऽनघ || ४ || उक्तमाख्यानमुपसंहृत्य प्रकृते योजयति - एवमिति | जनबन्धुता सुहृज्जनबन्धुसमूहः | आः इति विस्मये निपातः | गृह्यते शोच्यत्वेनोपादीयते || ४ || तस्मादासामनन्तानां तृष्णानां रघुनन्दन | उपायस्त्याग एवैको न नाम परिपालनम् || ५ || आसां सर्वशोकादिमूलभूतानां प्रतिविषयमनन्तानाम् | परिपालनं विषयसंपादनैरभिवर्धनम् || ५ || चिन्तनेनैधते चिन्ता त्विन्धनेनेव पावकः | नश्यत्यचिन्ततेनैव विनेन्धनमिवानलः || ६ || विषयाचिन्तनमेव तत्परित्याग इत्याशयेनाह - चिन्तनेनेति | एधते वर्धते || ६ || ध्येयत्यागरथारूढः करुणोदारया दृशा | लोकमालोकयन्दीनमातिष्ठोत्तिष्ठ राघव || ७ || ध्येयत्यागः प्राग्वर्णितध्येयवासनात्यागः | करुणा सर्वभूतानुकम्पा | आतिष्ठ अनुतिष्ठ | प्रकृतव्यवहारमिति शेषः || ७ || एषा ब्रह्मी स्थितिः स्वच्छा निष्कामा विगतामया | एनां प्राप्य महाबाहो विमूढोऽपि न मुह्यति || ८ || विमूढो व्यवहारेष्वचतुरोऽपि न मुह्यति || ८ || एकं विवेकं सुहृदमेकां प्रौढसखीं धियम् | आदाय विहरन्नेवं संकटेषु न मुह्यति || ९ || विवेकलक्षणं सुहृदं मित्रम् | धियं परमार्थबोधलक्षणां प्रियसखीम् || ९ || विनिवारितसर्वार्थादपहस्तितबान्धवात् | न स्वधैर्यादृते कश्चिदभ्युद्धरति संकटात् || १० || विनिवारिताः परित्यक्ताः सर्वे अर्था धनानि येन | अपहस्तिता अन्तःस्नेहविच्छेदादपहस्तिता हस्तेन ककुदि प्रणोद्य निरस्ता इव बान्धवा येन | अभ्युद्धरति संकटादुन्नयति स्वमिति शेषः || १० || वैराग्येणाथ शास्त्रेण महत्त्वादिगुणैरपि | यत्नेनापद्विघातार्थं स्वयमेवोन्नयेन्मनः || ११ ||
119 SK उन्नयेत् उत्कर्षं नयेत् विषयगर्तादुद्धरेद्वा || ११ || न तत्त्रिभुवनैश्वर्यान्न कोशाद्रत्नधारिणः | फलमासाद्यते चित्ताद्यन्महत्त्वोपबृंहितात् || १२ || तत् सर्वदुःखप्रशमनोपलक्षितनिरतिशयानन्दलाभलक्षणं फलम् | महत्त्वं तुच्छविषयानभिलाषस्तेनोपवृंहितादुपचितात् || १२ || तदेतस्मिञ्जगत्कुक्षौ पातोत्पातनदोलनैः | पतन्ति पुरुषा ये वै मनस्तेषां गतज्वरम् || १३ || पाता अधोगतयः उत्पतनान्यूर्ध्वगतयः दोलनानि मर्त्यलोकेष्वेव जन्मपरम्परया भ्रमणानि च तैस्तन्निमित्तभूतैर्विषयाभिलाषैर्ये पतन्ति तेषां मनः सदैव गतज्वरं प्राप्तसंतापमेव न कदाचिद्विश्राम्यतीत्यर्थः | अथवा पूर्वश्लोकान्नेत्यनुवर्त्य ये न पतन्ति तेषां मनोगतज्वरं निःसंतापमिति व्याख्येयम् | पुनन्ति यतन्ते इति वा पाठे पातयन्त्युत्पातयन्ति च ये विषयरागास्ते पातोत्पातनास्तेभ्यो दोलनैरुत्क्षेपणैः प्रत्याहारोपायैरात्मनि स्थैर्यापादनेन ये मनः पुनन्ति यतन्ते वा तेषां मनोगतज्वरं शान्तत्रिविधतापं भवतीति व्याख्येयम् || १३ || पूर्णे मनसि संपूर्णं जगत्सर्वं सुधाद्रवैः | उपानद्गूढपादस्य ननु चर्मास्तृतैव भूः || १४ || ननु संतापहेतुष्वाध्यात्मिकाधिदैविकाधिभौतिकेषु रोगवर्षातपचोरसर्पादिषु सत्सु कथं मनःप्रशान्तिमात्रेण सर्वतापनिवृत्तिस्तत्राह - पूर्णे इति | त्रिविधा अपि संतापा मनोदोषमूला एव | मनसि विशुद्धब्रह्मामृतरसपूर्णे सति सर्वं जगदानन्दपूर्णमेव भाति | यथा मृदुलोपानद्भ्यां संवृतचरणस्य कुशकण्टकादिसंकुलापि सर्वा भूर्मृदुलतरचर्मास्तृतैव भाति तद्वदित्यर्थः || १४ || वैराग्यात्पूर्णतामेति मनो नाशावशानुगम् | आशया रिक्ततामेति शरदेव सरोमलम् || १५ || न आशावशानुगमिति च्छेदः | रिक्ततां शुष्कार्णवोदरकल्पताम् | सरोमलं भिन्नतडागपङ्कः | सरोजलम् इति वा पाठः || १५ || हृदयं शून्यतामेति प्रकटीकृतकोटरम् | अगस्तिपीतार्णववदाशाविवशचेतसाम् || १६ ||
120 SK रिक्ततामेतीत्येतद्दृष्टान्तेन विवृणोति - हृदयमिति | कोटरस्य प्रकटीकरणपत्रान्तर्गतलोभदैन्यादिदोषाणां ग्राहभुजङ्गादीनां च स्फुटं प्रकाशनम् || १६ || यस्य चित्ततरौ स्फारे तृष्णाचपलमर्कटी | न वल्गति महत्तस्य राजते हृद्वनं ततम् || १७ || स्फारे धर्मज्ञानवैराग्यशान्तिदान्त्यादिपुष्पफलपल्लवादिसमृद्धे चित्ततरौ मनोवृक्षे | हृवनं मनोबुद्धिरहंकारश्चित्तमिति चतुर्विधवृक्षघटितमन्तःकरणवनम् || १७ || पद्माक्षकोशं त्रिजगद्गोष्पदं योजनव्रजम् | निमेषार्धं महाकल्पः स्पृहारहितचेतसाम् || १८ || निःस्पृहं प्रशंसति - पद्माक्षेत्यादिना | त्रिजगत्त्रैलोक्यमपि पद्मबीजकोशवदल्पमिति यावत् | अपरिच्छिन्नब्रह्मसुखदृशा ब्रह्माण्डान्तर्गतसुखलवानामल्पतरत्वात् | एवं नित्यसर्वगतब्रह्मदृशा देशकालपरिच्छिन्नाधिपत्यादिविभवोऽप्यल्प एवेत्याशयेनाह - गोष्पदमिति || १८ || शीतता सा न शीतांशोर्न हिमाचलकन्दरे | न रम्भाचन्दनावल्यां निःस्पृहेषु मनःसु या || १९ || शीतता निस्तापाह्लादः | रम्भाः कदल्यश्चन्दनतरवश्च तदावल्यां तद्वने यथायोग्यं तत्संश्लेषे वा || १९ || न तथा भाति पूर्णेन्दुर्न पूर्णः क्षीरसागरः | न लक्ष्मीवदनं कान्तं स्पृहाहीनं यथा मनः || २० || यथाब्दलेखा शशिनं सुधालेपं मषी यथा | दूषयत्येवमेवान्तर्नरमाशापिशाचिका || २१ || अब्दलेखा मेघराजिः | मषी कज्जलद्रवः | दूषयति मलिनयति || २१ || आशाख्याश्चित्तवृक्षस्य शाखाः स्थगितदिक्तटाः | तासु च्छिन्नास्वरूपत्वं याति चित्तमहाद्रुमः || २२ || स्थगितदिक्तटा आच्छादितदिगन्ताः | अरूपत्वं ब्रह्मतां स्थाणुतां च || २२ || छिन्नतृष्णामहाशाखे चित्तस्थाणौ स्थितिं गते | एकरूपतया धैर्यं प्रयाति शतशाखताम् || २३ || निरोधककुवृक्षे च्छिन्ने तदधः प्ररूढः सद्वृक्ष इव पश्चाद्धैर्यं शतशाखतां प्रयाति | वर्धत यावत् || २३ || अनस्तमितधैर्येण तेन चित्ते क्षयं गते | तत्पदं प्राप्यते राम यत्र नाशो न विद्यते || २४ ||
121 SK अस्तु धैर्याभिवृद्धिः किं ततस्तत्राह - अनस्तमितेति | अनस्तमितधैर्येण अभिवृद्धवैराग्यजितेन्द्रियत्वद्वन्द्वसहिष्णुत्वादिधैर्यवता पुरुषेण || २४ || एतासां चित्तवृत्तीनामाशानामुत्तमाशयः | न ददासि प्ररोहं चेत्तद्भयं नास्ति राघव || २५ || प्ररोहं पुनः प्ररोहावकाशं न ददासि चेत्तत्तर्हि जन्मादिभयं नास्तीत्यर्थः || २५ || चित्तं वृत्तिविहीनं ते यदा यातमचित्तताम् | तदा मोक्षमयीमन्तः सत्तामाप्नोषि तां तताम् || २६ || ततां पूर्णाम् || २६ || चित्तकौशिकपक्षिण्या तृष्णया क्षुब्धयान्तरे | अमङ्गलानि विस्तारमलमायान्ति राघव || २७ || चित्ते प्रविष्टया कौशिकपक्षिण्या उलूक्या | यदा कदाचिद्गृहेऽपि उलूकी प्रविष्टा चेन्मृत्युदारिद्र्योपप्लवाद्यमङ्गलानि भवन्तीति ज्योतिःशास्त्रादौ प्रसिद्धम् | सा चेद्देहान्तश्चित्ते निरन्तरं प्रविश्य सर्वव्यवहारेषु क्षुब्धा तिष्ठति तदा तया अमङ्गलानि सर्वाण्येव अलं विस्तारमायान्तीति किं वाच्यमिति भावः || २७ || चिन्तनं वृत्तिरित्युक्तं वर्तते चित्तमाशया | चित्तवृत्तिमतो ह्याशां त्यक्त्वा निश्चित्ततां व्रज || २८ || ननु आशात्यागमात्रेण कथं चित्तोपशमः संकल्पविचिकित्साधृत्यधृत्यादिवृत्त्यन्तरैरपि तत्प्ररोहस्य दुर्वारत्वादित्याशङ्कां सर्ववृत्तीनामाशामूलताप्रदर्शनेन परिहरति - cākṣuṣādivṛttiprasaktirastīti cintanameva tadā cittasya vṛttiḥ pariśiṣyata iti prāguktam | cintane ca cittamāśayaiva pravartate | āśāsyānāmeva viṣayāṇāṃ cintanadarśanāt | saṃkalpādivṛttīnāṃ ca cintitārthaviṣayatayā cintāpūrvakatvāccintāmūlabhūtāmāśākhyāṃ cittavṛttiṃ tyaktvā niścittatāṃ vrajetyarthaḥ || 28 || yo yayā vartate vṛttyā sa tayaiva vinā kṣayī | ataścittopaśāntyarthaṃ tadvṛttiṃ prakṣayaṃ naya || 29 || jvālauṣṇyakṣaye vahneriva vṛttikṣaye manasa upaśamaḥ siddhyatītyāha - yo yayeti | tayaiva vinā tadvṛtterātyantikanirodhena kṣayī apakṣayakrameṇa naśyati || 29 ||
122 SK प्रशमितसकलैषणो महात्म- नभव भवबन्धमपास्य मुक्तचित्तः | मनसि निगडरज्जवः कदाशाः परिगलितासु च तासु को न मुक्तः || ३० || उक्तमर्थं संगृह्योपसंहरति - प्रशमितेति | हे महात्मन त्वं प्रशमितपुत्रवित्तलोकादिसकलैषणः सन् भवबन्धमाशाख्यमपास्य मुक्तचित्तो जीवन्मुक्तो भव | यतः कुत्सिता आशा मनसि विद्यमाना आत्मनो निगडरज्जवो निगडवद्रज्जुवच्च बन्धनहेतवः | तासु परिगलितासु सतीषु को न मुक्तः | सर्वोऽपि जन्तुर्मुच्यत एवेत्यर्थः || ३० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे तृष्णाविचिकित्सायोगोत्पत्तिर्नामैकविंशः सर्गः || २१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे तृष्णाविचिकित्सायोगोत्पत्तिर्नामैकविंशः सर्गः || २१ || द्वाविंशः सर्गः २२ श्रीवसिष्ठ उवाच | अथवा रघुवंशाख्यनभःपूर्णनिशाकर | बलिवद्बुद्धिभेदेन ज्ञानमासादयामलम् || १ || बल्याख्यानमुपक्रम्य पातालमिह वर्ण्यते | बलेश्च राज्यं निर्वेदान्मेरुशृङ्गे विचारणा || १ || इदानीं पद्माक्षकोशं त्रिजगदिति विवेकोदये त्रैलोक्यैश्वर्यस्याप्यल्पत्वं यदुक्तं तदुपपादनाय बल्याख्यानं वक्तुकामो वसिष्ठो भूमिकां रचयति - अथवेति | बुद्धिभेदेन अकस्माद्विचारोदयेन || १ || श्रीराम उवाच | भगवन्सर्वधर्मज्ञ त्वत्प्रसादान्मया हृदि | प्राप्तं प्राप्तव्यमखिलं विश्रान्तं चामले पदे || २ || प्राप्तव्यमखिलं सर्वात्मकं ब्रह्म हृदि प्राप्तं तस्मिन्नेवामले पदे विश्रान्तं च || २ || शरदीवाम्बरादभ्रमदभ्रं मम चेतसः | विभो व्यपगतं सर्वं तृष्णाख्यं तन्महातमः || ३ || अदभ्रमनल्पं तृष्णाख्यं तत्प्रसिद्धं महातमो मम चेतसः सकाशादपगतम् || ३ || अमृतापूरितः खस्थः शीतलात्मा महाद्युतिः | तिष्ठाम्यानन्दवानन्तः सायं पूर्ण इवोडुराट् || ४ || अमृतापूरित इत्यादिविशेषणानि स्वस्य उडुराजस्य च साधारणानि || ४ ||
123 SK अशेषसंशयाम्भोदशरत्समय किंत्वहम् | तृप्तिमेषां न गच्छामि वचसां वदतस्तव || ५ || अशेषाणां संशयलक्षणानामम्भोदानां शरत्समय इव निवारक इति गुरुसंबोधनम् | वदतस्तव एषां वचसां श्रवणविषये तृप्तिं अलंबुद्धिं न गच्छामि || ५ || बलेर्विज्ञानसंप्राप्तिं पुनर्मद्बोधवृद्धये | विभो कथय खिद्यन्ते सन्तो नावनतं प्रति || ६ || विज्ञानस्य संप्राप्तिं प्राप्तिप्रकारम् | अवनतं प्रणामोपनतं शिष्यं प्रति उपदेशने इति शेषः || ६ || श्रीवसिष्ठ उवाच | शृणु राघव ते वक्ष्ये बलेर्वृत्तान्तमुत्तमम् | श्रुतेन येन तं तत्त्वबोधं प्राप्स्यसि शाश्वतम् || ७ || तं तादृशं तत्त्वबोधं विचारपूर्वकतत्त्वावधारणम् | शाश्वतं नित्यात्मलाभफलम् | शाश्वतं नित्यं तत्त्वभूतमात्मस्वरूपबोधमिति वा || ७ || अस्त्यस्मिञ्जगतः कोशे कस्मिंश्चिद्दिङ्निकुञ्जके | पातालमिति विख्यातो लोको भूमेरधः स्थितः || ८ || जगतः कोशे ब्रह्माण्डे | दिग्लक्षणे निकुञ्जके अल्पे कुञ्जे || ८ || क्षीरोदार्णवजाताभिर्दिरधाभिरमृतांशुभिः | क्वचिद्दानवकन्याभिर्भाति निर्विवरान्तरः || ९ || क्षीरोदार्णवे क्षीरसमुद्रे जाताभिः | दानवानामर्णवोदरेऽपि निवासप्रसिद्धेः | अत एव तत्रोत्पन्नस्यामृतस्यांशुभिरवयवैर्दिग्धाभिरुपचिताभिरिव रम्याभिः | निर्विवरान्तरः पूर्ण इति यावत् || ९ || जिह्वागणोद्दामरवैर्विलोलरसनायुगैः | क्वचिद्भोगिभिरापूर्णः सहस्रशतमस्तकैः || १० || द्व्यादिद्विसहस्रान्तसंख्याकैर्जिह्वागणैरितरापेक्षया द्विगुणं व्याकरणच्छन्दः शास्त्रादिव्याख्यानादुद्दामरवैः | अत एव विलोलरसनायुगैः | भोगिभिः शेषादिभिः || १० || देहाद्रिवलिताशेषविश्वोद्धरणघस्मरैः | क्वचिद्दनुसुतैर्व्याप्तश्चलद्भिरिव मेरुभिः || ११ || देहाद्रिभिर्वलितं व्याप्तमशेषं जगद्येषां तथाविधैर्विश्वोद्धरणस्य धर्मस्य यज्ञहविषो वा घस्मरैर्बलाद्भक्षकैः | कर्मधारयः || ११ ||
124 SK कुम्भकूटाग्रविश्रान्तवसुधामण्डलोदरैः | क्वचिद्दिग्दन्तिभ्रिदन्तद्रुमाद्रिभिरुपाश्रितः || १२ || कुम्भलक्षणानां कूटानां शिखराणामग्रेषु विश्रान्तं वसुधामण्डलस्योदरं मध्यं येषाम् | उदरग्रहणादधोजम्बूद्वीपप्रान्तेष्वेव दिक्षु मध्यतनमण्डपस्तम्भवद्दिग्गजानां भूमिधारणे निवेश इति गम्यते | अत एव जम्बूद्वीपभुवं खनद्भिः सगरपुत्रैः प्रतिदिशं दिग्गजा दृष्टा इति पूर्वरामायणेऽप्युक्तम् | दन्तलक्षणानां द्रुमाणामद्रिभिः पर्वतवदाश्रयभूतैः || १२ || महाकटकटाशब्दत्रस्तभूतपरम्परैः | क्वचिद्दुर्गन्धभूताभैरधोनारकमण्डलैः || १३ || दुर्गन्ध इति भूतानां नारकि प्राणिनां आभाः स्वकर्मैकृताः प्रतिभासा यत्र | अधः सर्वाधः | तत्र हि पुराणेषु नरकाः प्रसिद्धाः || १३ || आभूतलमभिप्रोतसप्तपातालमण्डलैः | क्वचिद्रत्नाकरैर्व्याप्तः पातालैर्विवरैरिव || १४ || क्वचित् अधस्तननारकप्रदेशमारभ्य आभूतलं उपरितनास्मदीयभूतलपर्यन्तं सप्तापूपप्रोतलोहशलाकावत् प्रोतसप्तपातालमण्डलैः रत्नानामाकरभूतैर्मेर्वादिगिरिपादैर्व्याप्तः | क्वचिच्च विवरैरिव संकुचितप्रायैः पातालैः पातालावयवैर्व्याप्तः || १४ || सुरासुरशिरःसुप्तपादाम्भोरुहपांसुना | क्वचिद्भगवता तेन कपिलेन पवित्रितः || १५ || सुराणामसुराणां च शिरःसु सुप्ता इव विश्रान्ताः पादाम्भोरुहपांसवो यस्य तथाविधेन | त्रैलोक्यवन्दितेनेति यावत् || १५ || आसुरीसंभृतानन्तपूजनक्रीडनैषिणा | क्वचिद्भगवता तेन हाटकेशेन पालितः || १६ || आसुरीभिरसुरस्त्रीभिः सेनाभिर्वा संभृतैरनन्तैर्बहुविधोपकरणैः पूजनानि क्रीडनानि च एष्टुमभिलषितुं शीलं यस्य तथाविधेन हाटकेशेन स्वर्णलिङ्गात्मना पुराणेषु प्रसिद्धेन शिवेन || १६ || तस्मिन्नसुरदोस्तम्भधार्यमाणमहाभरे | बभूव दानवो राजा विरोचनसुतो बलिः || १७ || तस्मिन् पाताललोके | असुराणां दोस्तम्भैर्धार्यमाणो महान् भरो राज्यभारो [राज्यभार इत्यग्रिगं पदं क्वचिन्न लभ्यते] यत्र || १७ ||
125 SK साक्रन्देन समं सर्वैः सुरविद्याधरोरगैः | पादसंवाहनं यस्य सुरराजेन वाञ्छितम् || १८ || तस्य पराक्रममाह - साक्रन्देनेति | आक्रन्दो रोदनं तत्सहितेन | वाञ्छितं बलादिति शेषः || १८ || कोशस्त्रैलोक्यरत्नानां पाता सर्वशरीरिणाम् | धर्ता भुवनधर्तृणां यस्य पालयिता हरिः || १९ || कुतस्तस्येदृशं सामर्थ्यं तत्राह - कोश इति | त्रैलोक्यलक्षणानां रत्नानां कोश इव स्वोदरे रक्षिता | भुवनधर्तॄणां त्रैलोक्यपालकानां इन्द्रमनुशेषादीनां धर्ता आधारभूतः | यस्य बलेः || १९ || ऐरावणस्य संशोषं यन्नाम्ना कटभित्तयः | केकयेवाहिहृन्नाड्यो जग्मुराजग्मुरार्तताम् || २० || ऐरावणस्यैरावतस्य | कटभित्तयः गण्डस्थलानि | बहुवचनं सप्तानां मदस्थानानामुपलक्षणार्थम् | यन्नाम्ना श्रुतेनेति शेषः | केकया मयूरवाअण्या अहीनां हृन्नाड्यो हृदयशिरा इव शोषं जग्मुरार्ततां भयस्विन्नतां चाजग्मुः || २० || प्रतापोग्रोष्मभिर्यस्य कल्पकाल इवाब्धयः | ययुः शोषोन्मुखाः सप्त सप्ततां कुपिताकृतेः || २१ || कुपिताकृतेर्यस्य प्रतापस्य उग्रैर्दुःसहैरूष्मभिरुष्णस्पर्शैः सप्त महाब्धयः शोषोन्मुखाः सन्तः कल्पकाल इव गर्तसंख्यामात्रेण सप्ततां ययुर्न जलादिपूरसंख्ययेत्यर्थः || २१ || यदध्वराग्र्यधूमाभ्रराजयो वलिताब्धयः | ब्रह्माण्डकोटरस्यास्य सदा कवचतां ययुः || २२ || अध्वराग्र्याः अश्वमेधास्तदीयधूमप्रभवा अभ्रपङ्क्तयः | जलपानाय वलिता अब्धयो याभिः | कोटरपदेन तत्स्थाः प्राणिनो गृह्यन्ते | वृष्ट्या जगत्पालनहेतुत्वादावरकत्वाच्च कवचतां वर्मताम् || २२ || यस्य दृष्टिदृढाघातनुन्नाधारकुलाचलाः | विनमन्ति दिशः सर्वा लताः फलनता इव || २३ || दृष्ट्या दृढाघातस्तिर्यक्प्रेक्षणं तेन नुन्ना भूम्याधारकुलाचला यासां तथाविधा दिशः | भूमेर्नमने दिशामधःप्रदेशे दर्शनान्नमनोत्प्रेक्षा || २३ || लीलाविजितनिःशेषभुवनाभोगभूषणः | दशकोटीः स वर्षाणि दैत्यो राज्यं चकार ह || २४ ||
126 SK लीलया विजिता अशेषाणां भुवनाभोगानां लोकसंस्थानां भूषणभूता इन्द्रादयो येन || २४ || अथ गच्छत्स्वनल्पेषु युगेष्वावर्तवृत्तिषु | सुरासुरमहौघेषु प्रोत्पतत्सु पतत्सु च || २५ || आवर्तवृत्तिषु जलावर्तसदृशस्वभावेषु || २५ || अजस्रमतिभुक्तेषु त्रैलोक्योदारवृत्तिषु | भोगेष्वभजदुद्वेगं बलिर्दानवनायकः || २६ || त्रैलोक्येऽप्युदारवृत्तिषूत्कृष्टस्थितिषु भोगेषु भुक्तेषु सत्सु विषयभूतेषु च उद्वेगं वैरस्यमभजत् || २६ || मेरुशृङ्गशिखारत्नकृतवातायनस्थितः | एकदा चिन्तयामास स्वयं संसारसंस्थितिम् || २७ || मेरुशृङ्गस्य शिखायामग्रभागे रत्नकृतहर्म्यवातायने स्थित उपविष्टः सन् || २७ || कियन्तमिदमक्षुण्णशक्तिनैव मयाधुना | साम्राज्यमिह कर्तव्यं विहर्तव्यं जगत्त्रये || २८ || न क्षुण्णा परैरकुण्ठिता शक्तिर्यस्य अथाविधेन मया || २८ || महता मम राष्ट्रेण त्रैलोक्याद्भुतकारिणा | किं वा भवति भुक्तेन भूरिभोगातिहारिणा || २९ || राष्ट्रेण भुक्तेन किं वा भवति | भूरिभिर्भोगैरितिशयेन हारिणा मनोहारिणा || २९ || आपातमात्रमधुरमावश्यकपरिक्षयम् | भोगोपभोगमात्रं मे किं नामेदं सुखावहम् || ३० || भोगोपभोगमात्रं कृत्स्नोपभोगः | पुरुषार्थान्तरव्यावृत्तये वा मात्रशब्दः || ३० || पुनर्दिनैककलनाशर्वरीसंस्थितिः पुनः | पुनस्तान्येव कर्माणि लज्जायै नच तुष्टये || ३१ || तान्येव स्नानभोजनशयनादीनि | नाभिनवं किंचित्कर्म सुखं वस्तीत्यर्थः | अतो महतां पुरो लाम्पट्यं लज्जायै नतु तुष्टये || ३१ || पुनरालिङ्ग्यते कान्ता पुनरेव च भुज्यते | सेयं शिशुजनक्रीडा लज्जायै महतामिह || ३२ || उक्तमेव स्फुटयति - पुनरित्यादिना || ३२ || तमेव भुक्तविरसं व्यापारौघं पुनःपुनः | दिवसे दिवसे कुर्वन्प्राज्ञः कस्मान्न लज्जते || ३३ || पुनर्दिनं पुना रात्रिः पुनः कार्यप्रम्पराः | पुनःपुनरहं मन्ये प्राज्ञस्येयं विडम्बना || ३४ ||
127 SK प्राज्ञस्य दृश्या इयं विडम्बना पुनःपुनः कृतानुकरणमिवोपहासहेतुरित्यर्थः || ३४ || ऊर्मितां पुनरासाद्य पुनरेति निरूर्मिताम् | यथा जलं तथैवायं तां तामेति क्रियां जनः || ३५ || व्यर्थकृतानुकरणे दृष्टान्तमाह - ऊर्मितामिति || ३५ || उन्मत्तचेष्टिताकारा पुनःपुनरियं क्रिया | जनं हासयते प्राज्ञं बाललीलोपमा मुहुः || ३६ || कृतयाप्यनया नित्यं क्रियया कृतकार्यया | कोऽर्थः स्यात्तदृशो येन पुनः कर्म न विद्यते || ३७ || येन लब्धेन पुनः कर्म न विद्यते कृतकृत्यता स्यात्तादृशोऽर्थः कः स्यात् || ३७ || कियन्तमथवा कालमिदमाडम्बरं महत् | इहास्माभिरनुष्ठेयं किं तावत्समवाप्यते || ३८ || महदाडम्बरं दृष्टादृष्टार्थकर्मजातम् || ३८ || अनन्तेयं शिशुक्रीडा वस्तुशून्यैव वस्तुतः | आवृत्त्या क्रियते व्यर्थमनर्थप्रसरार्थिभिः || ३९ || अनन्ता प्रवाहानन्ता | उत्पन्नप्रध्वंसस्वभावत्वात् | वस्तुतः परमार्थतो वस्तुशून्यैव इयं शिशुक्रीडा अनर्थप्रसरो दुःखपरम्पराप्राप्तिस्तदर्थिभिः क्रियते || ३९ || फलमेकं महोदारं नेह पश्यामि किंचन | कार्यमस्तीतरत्प्राप्ते यस्मिन्नाम न किंचन || ४० || यस्मिन्प्राप्ते सति इतरन्न किंचन कार्य कर्तव्यमस्ति तादृशं फलं पुरुषार्थमिह न किंचन पश्यामि || ४० || भोगादृते किमन्यत्स्यात्तद्भव्यमविनाशि यत् | एवं संचिन्तयाम्याशु दध्यौ मत्वेत्यसौ बलिः || ४१ || भोगात् क्षणिकतुच्छविषयसुखादृतेऽन्यद्यदविनाशि नित्यं तद्भव्यं सुखं किं स्यादेवं संचिन्तयामीति मत्वा असौ बलिराशु दध्यावित्यन्वयः || ४१ || अथाभ्युवाचासुरराडाः संस्मृतमिति क्षणात् | स्वात्मन्येव मनस्यर्थं सभ्रूभङ्गं विमर्शयन् || ४२ || ध्यानेन संस्कारोद्बोधात्सविमर्शां प्राक्स्वपृष्ठपित्रुपदेशक्रमस्मृतिं दर्शयति - अथेति | अथ क्षणादात्मनि स्वस्मिन्नेव उवाच | आः इति स्मरणद्योतको निपातः | किमुवाच तदाह - संस्मृतं सम्यङ्मया स्मृतमिति स्मृतार्थं मनस्येव विमर्शयन्विमृशन् | प्रेषणाध्यारोपाण्णिच् || ४२ ||
128 SK पुरा किलेह भगवान्पृष्टोऽभूत्स विरोचनः | पिता मयात्मतत्त्वज्ञो दृष्टलोकपरावरः || ४३ || स्मृतमर्थे क्रमेणाह - पुरा किलेत्यादिना || ४३ || यथा सकलदुःखानां सुखानां च महामते | यत्र सर्वे भ्रमाः शान्ताः कोऽसौ सीमान्त उच्यते || ४४ || किं पृष्टस्तदाह - यथेत्यादिना | यथेति तत्प्रकारोपक्रमार्थः | सकलदुःखानां सांसारिकसुखानां च परिहारप्राप्न्युपायगोचराः सर्वे व्यवहारभ्रमा यत्र शान्ता असौ संसारसीम्नोऽन्तोऽवधिः कः उच्यते प्राज्ञैरित्यर्थः || ४४ || क्वोपशान्तो मनोमोहः क्वातीताः सकलैषणाः | विरामरहितं कुत्र तात विश्रमणं चिरम् || ४५ || विरामः पुनरावृत्तिस्तद्रहितं विश्रमणं विश्रान्तिः || ४५ || किं प्राप्तेह समस्तेभ्यः प्राप्येऽस्मिंस्तृप्तिमान्पुमान् | किं दृष्ट्वा दर्शनं भूयो न तातोपकरोत्यलम् || ४६ || पुमान् किं सुखं प्राप्ता प्राप्तवान् सन्नस्मिन्नेव देहे समस्तेभ्यो ब्रह्मलोकान्तविषयेभ्यः प्राप्ये सुखे या तृप्तिराशापरिपूर्तिस्तद्वान् स्यादिति शेषः | नोपकरोति फलान्तरेण | एकविज्ञानेन सर्वविज्ञानं सिद्ध्यतीत्यर्थः || ४६ || अत्यन्तबहवोऽप्येते भोगा हि न सुखावहाः | क्षोभयन्ति मनो मोहे पातयन्ति सतामपि || ४७ || कुतस्ते तज्जिज्ञासा तत्राह - अत्यन्तेति | कुतो न सुखावहास्तत्राह - क्षोभयन्तीति || ४७ || तत्ताताविहतानन्दसुन्दरं किंचिदेव मे | तादृक्कथय यत्रस्थश्चिरं विश्रान्तिमेम्यहम् || ४८ || इत्याकर्ण्य पुरा निशाकरकरस्पर्धालुगुच्छस्खल- त्पुष्पापूरकृतावगुण्ठनपदस्योक्तं तले तेन मे | पित्रा स्वर्गहृतस्य सागरतरोः संरोपितस्याजिरे स्फाराकाररसायनासवसमं संमोहशान्त्यै वचः ||
129 SK पुरा पूर्वकाले निशाकरस्य चन्द्रस्य करैः किरणैः सह सौन्दर्यामृतरसपूर्णत्वादिगुणाधिक्यात्स्पर्धालुभ्यो गुच्छेभ्यः पुष्पफलस्तबकेभ्यः स्खलतां पुष्पाणां फलानां चापूरेण समूहेन कृतमवगुण्ठनं यस्य तथाविधं पदं मूलस्थानं यस्य तथाविधस्य स्वर्गात् हृतस्य बलादानीतस्य अजिरे स्वाङ्गणे संरोपितस्य सागरतरोः क्षीरसमुद्रोत्पन्नस्य कल्पवृक्षस्य तले उपविष्टेन मे मम पित्रा विरोचनेन इति प्रागुक्तप्रकारं प्रश्नमाकर्ण्य तस्य कल्पतरोः स्फाराकारै रसायनलक्षणैरासवैर्मकरन्दैः समं तुल्यं सुरभि मधुरं जरामरणदुःखनिवारणं चेति यावत् | वचः संमोहशान्त्यै मदीयाज्ञानभ्रमनिवारणाय यदुक्तं तन्मया स्मृतमित्यर्थः || ४९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे विरोचनस्मरणं नाम द्वाविंशः सर्गः || २२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे विरोचनस्मरणं नाम द्वाविंशः सर्गः || २२ || त्रयोविंशः सर्गः २३ विरोचन उवाच | अस्ति पुत्रातिविततो देशो विपुलकोटरः | त्रैलोक्यानां सहस्राणि यत्र मान्ति बहून्यपि || १ || वक्तुं चित्तजयं राजमन्त्र्युपाख्यानमुच्यते | तत्रात्र मन्त्रिणो वीर्यमप्रतिद्वन्द्वमूर्जितम् || १ ||
130 SK चित्तं वृत्तिविहीनं ते यदा यातमचित्तताम् | तदा मोक्षमयीमन्तः सत्तामाप्नोषि तां तताम् | इति मोक्षस्य चित्तजयाधीनत्वमुक्तं चित्तजये च आत्यन्तिक आशात्याग उपाय उक्तः स चात्मदर्शनमन्तरेण न सिद्ध्यति | विषया विनिवर्तन्ते निराहारस्य देहिनः | रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते || इति भगवद्वचनात् | आत्मदर्शनं च मनोजयमन्तरेण न सिद्ध्यतीत्यन्योन्याश्रयतापन्नमिदमशक्यमेवेत्याशङ्कां परिहर्तुं साधनद्वययौगपद्याभ्यासाद्युपायभेदं वक्तुं बल्युपाख्यानान्तराले राजमन्त्र्युपाख्यानं विरोचनमुखेन प्रस्तौति - अस्ति पुत्रेत्यादिना | देशो मोक्षाख्यः || १ || यत्र नाम्भोदयो नापि सागरा वा न चाद्रयः | न वनानि न तीर्थानि न नद्यो न सरांसि च || २ || न मही नापि चाकाशं न द्यौर्न पवनादयः | न चन्द्रार्कौ न लोकेशा न देवा नच दानवाः || ३ || न भूतयक्षरक्षांसि न गुल्मा न वनश्रियः | न काष्ठतृणभूतानि स्थावराणि चराणि च || ४ || नापो न ज्वलनो नाशा नोर्ध्वं नाधो न विष्टपम् | न लोको नातपो नाहं न हरीन्द्रहरादयः || ५ || एक एवास्मि सुमहांस्तत्र राजा महाद्युतिः | सर्वकृत्सर्वगः सर्वः स च तूष्णीं व्यवस्थितः || ६ || राजा आत्मा | तूष्णीं व्यवस्थितः | कूटस्थ इति यावत् || ६ || तेन संकल्पितो मन्त्री सर्वसन्मन्त्रणोन्मुखः | अघटं घटयत्याशु घटं विघटयत्यलम् || ७ || मन्त्री मनः | अघटमत्यन्तानुपपन्नमप्यात्मनः संसारित्वं घटयति | घटं घटमानमपि पूर्णानदेकरसत्वं विघटयति नास्ति न भातीत्यपलापयति || ७ || भोक्तुं न किंचिच्छक्नोति न च जानाति किंचन | राजार्थं केवलं सर्वं करोत्यज्ञोऽपि सन्सदा || ८ || अज्ञोऽपि जडोऽपि सन् || ८ || स एव सर्वकार्यैककर्ता तस्य महीपतेः | राजा केवलमेकान्ते स्वस्थ एवावतिष्ठते || ९ || एकान्ते अद्वितीयस्वभावे || ९ || बलिरुवाच | आधिव्याधिविनिर्मुक्तः कः स देशो महामते | कथमासाद्यते चापि केन वाधिगतः प्रभो || १० ||
131 SK बलिप्रश्ना निगदव्याख्याताः || १० || कः स तादृग्विधो मन्त्री राजा चापि महाबलः | हेलालूनजगज्जालैर्योऽस्माभिरपि नो जितः || ११ || अपूर्वमेतदाख्यानं ममामरभयपद | कथयापनयास्माकं हृद्व्योम्नः संशयाम्बुदम् || १२ || कथया अस्माभिस्तदजये निमित्तकथनेन || १२ || विरोचन उवाच | स तत्र मन्त्री बलवान्देवासुरगणैः सुत | समेतैर्लक्षगुणितैरपि नाक्रम्यते मनाक् || १३ || तत्रादावन्ते पृष्टं तदजये निमित्तमेव विस्तरेणाह - स तत्रेत्यादिना | मनाक् ईषदपि || १३ || नासौ सहस्रनयनो न यमो न धनेश्वरः | नामरो नासुरो वापि यदि पुत्रक जीयते || १४ || स मन्त्री किं द्वितीय इन्द्र उत यम उत कुबेर उत कश्चिदमरोऽसुरो वा महानुभावो यतो जेतुमशक्यो नेत्याह - नासाविति | यदि सहस्राक्षादिः कश्चित्स्यात्तर्हि त्वया जीयत एवेत्यर्थः || १४ || तत्रासिमुसलप्रासवज्रचक्रगदादयः | हेतयः कुण्ठतां यान्ति दृषदीवोत्पलाहतिः || १५ || किं मम आयुधानि भटा वा न सन्ति सन्तु नाम नासौ तद्विषय इत्याह - तत्रेति || १५ || गम्योऽसौ नास्त्रशस्त्राणां न भटोद्भवकर्मणाम् | तेन देवासुराः सर्वे सर्वदैव वशीकृताः || १६ || प्रत्युत त्वदादयस्तेनैव जिता इत्याह - तेनेति || १६ || अविष्णुनापि तेनेह हिरण्याक्षादयोऽसुराः | पातिताः कल्पवातेन मेरुकल्पद्रुमा इव || १७ || अस्मत्पूर्वजादयोऽपि तेनैव वशीकृत्य विष्णुना घातिता इत्याशयेनाह - अविष्णुनापीति | कल्पवातेन प्रलयवायुना || १७ || नारायणादयो देवा अपि सर्वावबोधिनः | तेनाक्रम्य यथाकाममवटेषु निवेशिताः || १८ || सर्वेषामवबोधिनो विवेकोपदेष्टारोऽपि तेनैव भृगुशापादिनिमित्तापादनेनाक्रम्य वशीकृत्य | अवटेषु गर्भश्वभ्रेषु || १८ || तत्प्रसादेन साटोपं पञ्चमात्रशरः स्मरः | त्रैलोक्यमिदमाक्रम्य सम्राडिव विवल्गति || १९ || स्मरः कामः पञ्चमात्रशरोऽपि तत्प्रसादेनेदं त्रैलोक्यमाक्रम्य जित्वा विवल्गति विजृम्भते || १९ ||
132 SK सुरासुरौघगृह्योऽपि गुणहीनोऽपि दुर्मतिः | दुराकृतिरपि क्रोधस्तत्प्रसादेन जृम्भते || २० || सुरासुरौघा गृह्या अस्वैरिणो येन | पदास्वैरिबाह्यापक्ष्येषु च इति क्यप् || २० || देवासुरसहस्राणां संगरो यः पुनः पुनः | तदेतत्क्रीडनं तस्य मन्त्रिणो मन्त्रशालिनः || २१ || स मन्त्री केवलं पुत्र तेनैव प्रभुणा यदि | जीयते तत्सुजेयोऽसावन्यथा त्वचलोपमः || २२ || प्रभुणा आत्मना | यदि जीयते तत्तदा सुजेयो जय्यः || २२ || तस्यैव तत्प्रभोः काले जेतुं तं मन्त्रिणं निजम् | इच्छा संजायते तेन जीयतेऽसावयत्नतः || २३ || काले बहुतरसुकृतपरिपाकाद्विवेकोदयकाले | अयत्नतो ज्ञानमात्रतः || २३ || त्रैलोक्यबलिनां मल्लमुच्छ्वासितजगत्त्रयम् | जेतुं चेदस्ति ते शक्तिस्तत्पराक्रमवानसि || २४ || त्रैलोक्ये यावन्तो बलिनस्तेषां मल्लं बलेन जेतारम् | उच्छ्वासितं म्रियमाणजन्तुवदूर्ध्वश्वसनशीलं कृतं जगत्त्रयं येन | तत्तर्हि || २४ || तस्मिन्नभ्युदिते सूर्ये त्रैलोक्यकमलाकराः | इमे विकासमायान्ति विलीयन्तेऽस्तमागते || २५ || तस्य न सर्वजयशक्तिमात्रं किंतु त्रैलोक्यजननादिशक्तिरप्यस्तीत्याह - तस्मिन्निति | तस्मिन् सूर्ये इति व्यस्तरूपकम् || २५ || तमेवमेकया बुद्ध्या व्यामोहपरिहीनया | यदि जेतुं समर्थोऽसि धीरस्तदसि सुव्रत || २६ || एकया निश्चितया एकाग्रया च | तत्तर्हि धीरोऽसि || २६ || तस्मिञ्जिते जिता लोका भविष्यन्त्यजिता अपि | अजिते त्वजिता एते चिरकालजिता अपि || २७ || तस्मादनन्तसिद्ध्यर्थं शाश्वताय सुखाय च | तज्जये यत्नमातिष्ठ कष्टयापि हि चेष्टया || २८ || अनन्ता याः सिद्धयस्तदर्थम् | अन्तो मृत्युस्तदभावोऽनन्तं मृत्युजयस्तत्सिद्ध्यर्थं च | कष्टया श्रमसाध्ययापि सर्वत्यागादिचेष्टया || २८ || ससुरदनुजनागयक्षसंघं सनरमहोरगकिन्नरं समेतम् | त्रिजगदपि वशीकृतं समन्ता- दतिबलिना ननु हेलयैव तेन || २९ || पुनस्तत्प्रभावमेवोक्तमनूद्योपसंहरति - ससुरेति | नागा दिग्गजाः | महोरगाः शेषादयः || २९ ||
133 SK इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे विरोचनवचनं नाम त्रयोविंशः सर्गः || २३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे विरोचनवचनं नाम त्रयोविंशः सर्गः || २३ || चतुर्विंशः सर्गः २४ बलिरुवाच | केनोपायेन बलवान्स तात परिजीयते | कोऽसावतिमहावीर्यः सर्वं प्रकथयाशु मे || १ || इद दुर्मन्त्रिणस्तस्य जयोपायः प्रकिर्त्यते | राजसंदर्शनोपायवैराग्यादिसमन्वितः || १ || प्रश्नः स्पष्टः || १ || विरोचन उवाच | मन्त्रिणस्तस्य तनय नित्याजेयस्थितेरपि | शृणु वच्मि सुसाधत्वं येनासौ परिजीयते || २ || सुसाधत्वं सुखजयोपायमिति यावत् || २ || पुत्र युक्त्या गृहीतोऽसौ क्षणादायाति वश्यताम् | युक्तिं विना दहत्येष आशीविष इवोद्धतः || ३ || बालवल्लालयित्वैनं युक्त्या नियमयन्ति ये | राजानं तं समालोक्य पदमासादयन्ति ते || ४ || लालयित्वा अल्पविषयप्रदानेन मुहुर्विषयदोषख्यापनेन च वञ्चयित्वा | युक्त्या राजयोगाख्यया | पदं राजपदम् || ४ || दृष्टे तस्मिन्महीपाले स मन्त्री वशमेति च | तस्मिंश्च मन्त्रिण्याक्रान्ते स राजा दृश्यते पुनः || ५ || पुनःशब्दो वाक्यालंकारार्थः || ५ || यावन्न दृष्टो राजासौ तावन्मन्त्री न जीयते | मन्त्री च यावन्न जितस्तावद्राजा न दृश्यते || ६ || राजन्यदृष्टे दुर्मन्त्री स दुःखाय फलत्यति | मन्त्रिण्यनिर्जिते राजा सोऽत्यन्तं यात्यदृश्यताम् || ७ || अति दुःखाय रागद्वेषादीन्फलति || ७ || अभ्यासेनोभयं तस्मात्सममेव समारभेत् | राजसंदर्शनं तस्य मन्त्रिणश्च पराजयम् || ८ || संदर्शनपराजयशब्दौ तत्तदुपायपरौ || ८ || पौरुषेण प्रयत्नेन स्वभ्यासेन शनैःशनैः | द्वयं संपाद्य यत्नेन देशमाप्नोषि तं शुभम् || ९ || द्वयं राजसंदर्शनं मन्त्रिपराजयं च || ९ || त्वमभ्यासे फलीभूते तं देशमभिगच्छसि | यदि दैत्येन्द्र तद्भूयो मनागपि न शोचसि || १० || फलीभूते सफलीभूते ज्ञानफलात्मना परिणते वा || १० ||
134 SK संशान्तसकलायासा नित्यप्रमुदिताशयाः | साधवस्तत्र तिष्ठन्ति प्रशान्ताशेषसंशयाः || ११ || तत्र के तिष्ठन्ति तानाह - संशान्तेति | निवृत्तसर्वानर्था निरतिशयनित्यानन्दपूर्णाश्च ये साधवस्ते तत्र तिष्ठन्तीत्यर्थः || ११ || शृणु कः पुत्र देशोऽसौ सर्वं प्रकटयामि ते | देशनाम्ना मयोक्तस्ते मोक्षः सकलदुःखहा || १२ || इदानीं गूढोक्तिं विवरीतुमाह - शृण्विति || १२ || राजा तु तत्र भगवानात्मा सर्वपदातिगः | तेन मन्त्री कृतः प्राज्ञो मनो नाम महामते || १३ || सर्वाणि मानुषानन्दादिहैरण्यगर्भानन्दान्तपदान्यतीत्य गच्छतीति सर्वपदातिगः सर्ववाढ्यनसागोचरश्च | प्राज्ञः सर्वप्रज्ञासमष्टिरूपः || १३ || मनोनिष्ठतया विश्वमिदं परिणतिं गतम् | घटत्वेनेव मृत्पिण्डो धूमोऽम्बुदतयैव च || १४ || मनोनिष्ठतया मनसि वासनात्मकसूक्ष्मभावेन स्थितयेत्यर्थः | परिणतिः स्थौल्यम् | घटत्वेन घटभावेन | मृत्पिण्डः पिण्डान्तर्गतमृद्भागः || १४ || तस्मिञ्जिते जितं सर्वं सर्वमासादितं भवेत् | दुर्जयं तद्विजानीयाद्युक्त्यैव परिजीयते || १५ || जेतव्यं सर्वं जितमासादयितव्यं सर्वमासादितं भवेदित्यर्थः || १५ || बलिरुवाच | या युक्तिर्भगवंस्तस्य चित्तस्याक्रमणे स्फुटम् | तां मे कथय तत्तावद्यथा जेष्यामि दारुणम् || १६ || आक्रमणे आस्कन्दने | जये इति यावत् || १६ || विरोचन उवाच | विषयान्प्रति भोः पुत्र सर्वानेव हि सर्वथा | अनास्था परमा ह्येषा सा युक्तिर्मनसो जये || १७ || अनास्था अस्पृहा | युक्तिरुपायः || १७ || एषैव परमा युक्तिरनयैव महामदः | स्वमनोमत्तमातङ्गो द्रागित्येवावदम्यते || १८ || द्रागित्येव झटित्येव | अवदम्यते अवमत्य दम्यते | मुक्तिमिच्छसि चेत्तात विषयान्विषवत्त्यज इत्यभियुक्तोक्तेः || १८ || एषा ह्यत्यन्तदुष्प्रापा सुप्रापा च महामते | अनभ्यस्तातिदुष्प्रापा स्वभ्यस्ता प्राप्यते सुखम् || १९ || इषा युक्तिः || १९ || क्रमादभ्यस्यमानैषा विषयारतिरात्मज | सर्वतः स्फुटतामेति सेकसिक्ता लता यथा || २० ||
135 SK विषयेष्वरतिर्विरक्तिः | स्फुटतां शान्त्यादिविटपविस्तारव्यक्तताम् || २० || नासाद्यते ह्यनभ्यस्ता काङ्क्षतापि शठात्मना | पुत्र शालिरिवाव्युप्ता तस्मादेनां समाहर || २१ || शठात्मना भोगलुब्धमनसा | अव्युप्ता सुक्षेत्रेष्वनुप्ता | समाहर अभ्यासेन स्थिरीकुरु || २१ || तावद्भ्रमन्ति दुःखेषु संसारावटवासिनः | विरतिं विषयेष्वेते यावन्नायान्ति देहिनः || २२ || विरतिं वैराग्यम् || २२ || अभ्यासेन विना कश्चिन्नाप्नोति विषयारतिम् | अप्यत्यन्तबलो देही देशान्तरमिवागतिः || २३ || अगतिर्गमनशून्यः || २३ || ध्येयत्यागमतोऽजस्रं ध्यायता देहधारिणा | भोगेष्वरतिरभ्यासाद्वृद्धिं नेया लता यथा || २४ || ध्येयत्यागं प्रागुक्तजीवन्मुक्तिहेतुध्येयवासनात्यागम् | ध्यायता वाञ्छता || २४ || पुरुषार्थादृते पुत्र नेह संप्राप्यते शुभम् | क्रियाफलं परिप्राप्तुं हर्षामर्षविवर्जितम् || २५ || नाकस्मात्सर्वे विषयास्त्युक्तुं शक्याः किंतु क्रमेणैकैकं विषयं चिरं त्यक्त्वा सकृत्सकृत्कदाचित्सेवमानः क्रमात्सर्व वैराग्यपरिपाके त्यजेत् तत्र च पुरुषप्रयत्नदार्ढ्ये पुनर्हर्षामर्षलौल्यप्रसङ्गवारकमावश्यकमित्याशयेनाह - पुरुषार्थादिति | पुरुषार्थः पुरुषप्रयत्नस्तस्मादृते हर्षामर्षविवर्जितं क्रियाफलं परिप्राप्तुमनुकूलं शुभं साधनं न संप्राप्यते || २५ || दैवमित्युच्यते लोके न दैवं देहवत्क्वचित् | अवश्यं भवितव्याख्या स्वेहया [१] नियतिश्च या || २६ || ननु दैवादेव तत्प्राप्तिः किं न स्यात्तत्राह - दैवमिति | स्वा स्वीया या नियतिप्रयुक्ता शुभाशुभक्रिया सैव नरैर्मानुषदृष्टिभिर्दैवशब्देनोच्यते न इतरैर्दिव्यशास्त्रीयदृष्टिमद्भिरिति परेणान्वयः || २६ || उच्यते दैवशब्देन सा नरैरेव नेतरैः | यद्यस्येह यदा यत्र संपन्नं समतां गतम् || २७ || ननु विनापि प्रयत्नं दैवादेव केषांचिद्धर्षामर्षोपशमो दृश्यते तत्कथं तत्राह - यदिति | हर्षामर्षहेतुकर्मक्षये सति यदेव हर्षामर्षविनाशाय संपन्नं तदेव जनैर्दैवमिति कथ्यत इत्यर्थः || २७ ||
136 SK हर्षामर्षविनाशाय तद्दैवमिति कथ्यते | दैवं नियतिरूपं च पौरुषेणोपजीयते || २८ || अस्तु त्वदुक्तमेव दैवं किं ततस्तत्राह - दैवमिति | मदुक्तं नियतिरूपं दैवं तु वैराग्यदार्ढ्याभ्यासादिपौरुषेण उपसमीपे अल्पकालेनैव जीयते मरुभूमितत्त्वज्ञानविलासेन मृगतृष्णाभ्रम इवेत्यर्थः || २८ || सम्यग्ज्ञानविलासेन मृगतृष्णाभ्रमो यथा | यथा संकल्प्यते यद्यत्पौरुषेण तथैव तत् || २९ || ननु यदि दैवाख्या नियतिः पौरुषाख्यया तया जीयते तर्हि तस्याः फलनियमाभावादनियतत्वप्रसङ्ग इति चेदिष्टापत्तिः | सर्वेषु मनःसंकल्पजेष्वसति बाधके प्रमाणैः फलवत्तया गृहीतत्वे फलवत्त सुखप्रदमित्येव नियमाभ्युपगमादित्याह - यथेति || २९ || फलवत्तागृहीतत्वे फलवत्तासुखप्रदम् | कर्ता नो मन एवेह यत्कल्पयति तत्तथा || ३० || नचैवमनियतित्वप्रसङ्गः मनसा कर्त्रा ईदृशनियमस्यैव कल्पनान्नियतित्वव्यवहारसिद्धेरित्याशयेनाह - कर्तेति | कर्ता जीवो नः अस्माकं मते मन एव || ३० || नियतिं यादृशीमेतत्संकल्पयति सा तथा | नियतानियतान्कांश्चिदर्थाननियतानपि || ३१ || नियतिं यादृशीमेतत्संकल्पयतीत्येतदुपपादयति - नियतानियतानिति | उत्सर्गतः फलनियतानपवादविषयेष्वनियतान् व्यावहारिकानर्थाननियतान् अत्यन्तं फलानियतान् प्रातिभासिकानपि करोतीति परेणान्वयः || ३१ || करोति चित्तं तेनैतच्चित्तं नियतियोजकम् | नियत्यां नियतं कुर्वन्कदाचित्स्वार्थनामिकाम् || ३२ ||
137 SK तेन हेतुना एतच्चित्तं स्वसंकल्पितार्थानुसारेण फलनियतेरपि योजकमुपपादकमित्यर्थः | अत एवार्थस्य पारमार्थिकत्वे तद्विषयबोधस्य नियतफलत्वमेव न दैववत्कर्मवद्वा अनियतफलत्वमित्याशयेनाह - नियत्यामिति | अयं चित्तात्मा जीवः कदाचिन्मोक्षाधिकृतजन्मनि नियत्यां नित्यनियतैकस्वभावे परमात्मनि स्वार्थनामिकां प्रत्यक्परमार्थगोचरसाक्षात्कारनामिकां नियतिं समानाकारवृत्तिधारां निर्विकल्पकसमाधिमिति यावत् | कुर्वन्नस्मिन् जगत्कोशे व्योम्नि मारुत इव असङ्गः स्फुरति स्वस्वभावे प्रकाशत इत्यर्थः || ३२ || स्फुरत्यस्मिञ्जगत्कोशे जीवो व्योम्नीव मारुतः | नियत्या विहितं कुर्वन्कदाचिन्नियतिं चरः || ३३ || कदाचिद्व्युत्थानकाले नियत्याशास्त्रलक्षणया विहितं स्वस्वाश्रमोचितं कर्म कुर्वन् संज्ञार्थमज्ञजनबोधनार्थमेते याज्ञिकाः शिष्टाः सदाचारप्रवर्तका इत्यादिना लोके रूढः प्रख्यातो नियतिशब्दो यस्य तथाविधः सन्स्फुरति | यथा सानुर्गिरिप्रस्थः स्वयमचलस्वभावोऽपि पवनवेगाच्चलत्सु वृक्षेषु चल इव स्थिरेषु च स्थिर इव स्फुरति तद्वदित्यर्थः || ३३ || संज्ञार्थं रूढनियतिशब्दः स्फुरति सानुवत् | तस्माद्यावन्मनस्तावन्न दैवं नियतिर्न च || ३४ || अतस्त्वयापि यावज्जीवं चरमोक्तचरितद्वयमवलम्ब्यतामित्याह - तस्मादिति || ३४ || मनस्यस्तंगते साधो यद्भवत्यस्तु तत्तथा | जीवो हि पुरुषो जातः पौरुषेण स यद्यथा || ३५ || तदुत्तरं किं भविष्यति तत्राह - मनसीति | पुरुषो जातः कर्मज्ञानाधिकारिशरीरं प्राप्तः सन्यद्यथा संकल्पयति तत्तथा भवतीति स्वायत्ते संकल्पे पौरुषेण वैराग्यादिसाधनानि संपाद्य परमपुरुषार्थात्मकब्रह्मात्मभाव एव संकल्पनीयो न संसार्यात्मभाव इत्याशयेनाह - पुरुषार्थादृते इत्यादिना || ३५ || संकल्पयति लोकेऽस्मिंस्तत्तथा तस्य नान्यथा | पुरुषार्थादृते पुत्र न किंचिदिह विद्यते || ३६ || परं पौरुषमाश्रित्य भोगेष्वरतिमाहरेत् | न भोगेष्वरतिर्यावज्जायते भवनाशनी || ३७ ||
138 SK न परा निर्वृतिस्तावत्प्राप्यते जयदायिनी | विषयेषु रतिर्यावत्स्थिता संमोहकारिणी || ३८ || यावद्विषयेषु रतिरस्ति तावद्विलोलान्दोलनस्थितिर्भोगलक्षणैर्भोगिभरैः सर्पभारैः प्रोता ग्रथिता अत एव दुःखदा कदाशालक्षणा भवदशादोला प्रेङ्खोलिका वैराग्यश्रवणसमाध्याद्यभ्यासेन विना कदाचन कदापि न निवर्तते नावरितुं शक्येति परेण सहान्वयः || ३८ || तावद्भवदशादोला विलोलान्दोलनस्थितिः | अभ्यासेन विना पुत्र न कदाचन दुःखदा || ३९ || भोगभोगिभरप्रोता कदाशा विनिवर्तते || ४० || बलिरुवाच | भोगेष्वरतिरेवान्तः कथं सर्वासुरेश्वर | स्थितिमायाति जीवस्य दीर्घजीवितदायिनी || ४१ || दीर्घजीवितं नित्यात्मभावेन स्थितिः || ४१ || विरोचन उवाच | आत्मावलोकनलता फलिनी फलति स्फुटम् | जीवस्य भोगेष्वरतिं शरदीव महालता || ४२ || फलिनी मोक्षफलवती भोगेष्वरतिं वैराग्यमवान्तरफलं फलति | यथा द्राक्षादिमहालता शरदि शलाटुं फलति तद्वत् || ४२ || आत्मावलोकनेनैषा विषयारतिरुत्तमा | हृदये स्थितिमायाति श्रीरिवाम्भोजकोटरे || ४३ || श्रीर्लक्ष्मीः | अम्भोजकोटरे पद्मगर्भे || ४३ || तस्मात्प्रज्ञानिकाषेण विचारेणातिचारुणा | देवमालोकयेद्भोगाद्रतिं चावहरेत्समम् || ४४ || प्रज्ञामणेर्निकाषेण शाणस्थानीयेन विचारेण | समं तुल्यकालम् || ४४ || चित्तस्य भोगैर्द्वौ भागौ शास्त्रेणैकं प्रपूरयेत् | गुरुशुश्रूषया चैकमव्युत्पन्नस्य सत्क्रमे || ४५ || तत्र चित्तपरिपाकभेदानुसारेण भूमिकाभेदान् विवक्षुः प्रथमभूमिकामाह - चित्तस्येति | भोगैर्देहमात्रोपायैर्द्वौ दिनस्य कालभागौ शास्त्रेण श्रवणेन | अव्युत्पन्नस्य चित्तस्य सत्क्रमे सन्मार्गारम्भे शास्त्रोक्तक्रमे इति वा || ४५ || किंचिद्व्युत्पत्तियुक्तस्य भागं भोगैः प्रपूरयेत् | गुरुशुश्रूषया भागौ भागं शास्त्रार्थचिन्तया || ४६ ||
139 SK तज्जये तदुत्तरभूमिकामाह - किंचिदिति | आत्मज्ञाने लब्धचमत्कारस्येति यावत् | अत एव भोगेष्वनास्थोदयाद्भागन्यूनतापत्तिः | गुरुशुश्रूषायां च भागान्तरवृद्धिः | चिरं गुरुसन्निधाने सत्यवसरे गुरुषु स्वसंदेहप्रश्नसंभवादिति भावः || ४६ || व्युत्पत्तिमनुयातस्य पूरयेच्चेतसोऽन्वहम् | द्वौ भागौ शास्त्रवैराग्यैर्द्वौ ध्यानगुरुपूजया || ४७ || तज्जये तदुत्तरभूमिकामाह - व्युत्पत्तिमिति | रत्नतत्त्ववच्चिरपरीक्षणेन तत्त्वतोऽवधारणं व्युत्पत्तिस्तामनुयातस्य चेतसो द्वौ भागौ शास्त्रवैराग्यैः समुच्चितैः पूरयेत् | द्वौ तु ध्यानैर्गुरुपूजनेन च क्रमात्पूरयेत् || ४७ || साधुतामागतो जीवो योग्यो ज्ञानकथाक्रमे | निर्मलाकृतिरादत्ते पट उत्तमरञ्जनाम् || ४८ || चतुर्विधेऽपि क्रमे शुद्धचित्त एवाधिकारी नान्य इत्याह - साधुतामिति | पटो निर्मलाकृतिः सम्यक्परिशुद्धसंस्थान एवोत्तमां कुसुम्भकिंशुकादिरञ्जनामादत्ते न मलिन इत्यर्थः || ४८ || शनैः शनैर्लालनीयं युक्तिभिः पावनोक्तिभिः | शास्त्रार्थपरिणामेन पालयेच्चित्तबालकम् || ४९ || ईषन्मलिनस्य तर्हि कथं तत्राह - शनैरिति | युक्तिभिर्दुःखान्वयव्यतिरेकप्रदर्शनैः पावनोक्तिभिः श्रुतिस्मृतिगुरूक्तिभिः शास्त्रार्थे चित्तस्य परिणामश्चिरपरिशीलनेन शर्करामलकवन्मधुरैकरस्य परिणतिस्तेन || ४९ || परे परिणतं ज्ञाने शिथिलीभूतदुर्ग्रहम् | ज्योत्स्नाऽहीनस्फटिकवच्चेतः शीतं विराजते || ५० || शिथिलीभूतो दुर्ग्रहो बाह्यमलिनजडाकारग्रहणं यस्य | ज्योत्स्नया अहीनेन अपृथग्भूतेन स्फटिकेन तुल्यं चित्प्रकाशसमरसमिति यावत् | लीनेति पाठे स्पष्टम् | शीतं निस्तापम् || ५० || प्रज्ञया परया ऋज्व्या भोगानामीश्वरस्य च | सममेवाथ देहस्य रूपमाश्ववलोकयेत् || ५१ ||
140 SK कीदृशी परे परिणतिस्तां दर्शयति - प्रज्ञयेति | ऋज्व्या गलितभेदवैषम्यकौटिल्यया परया ब्रह्माकारया प्रज्ञया भोगानां करणकर्मभावव्युत्पत्तिभिरिन्द्रियविषयतद्वृत्तीनामीश्वरस्य तत्स्वामिनो जीवस्य अथ देहस्य भोगायतनस्य च समं तुल्यं सच्चिदानन्दाद्वयैकरसमधिष्ठानब्रह्मस्वरूपमेवावलोकयेत् समं तुल्यकालमेवाधिष्ठानरूपमवलोकयेदिति वा || ५१ || प्रज्ञाविचारवशतः सममेव सदा सुत | आत्मावलोकनं तृष्णासंत्यागं च समाहरेत् || ५२ || विचारफलतृष्णासंत्यागोऽप्यात्यन्तिकस्तदैव भवतीत्याशयेनाह - प्रज्ञेति || ५२ || परदृष्टौ वितृष्णत्वं तृष्णाभावे च दृक्परा | एते मिथः स्थिते दृष्टी तेजोदीपदशे यथा || ५३ || विचारफलं पुरुषापराधनिवृत्तिर्ज्ञानफलं मूलाविद्यानिवृत्तिश्च न पृथक्सिद्ध्यत इत्याह - परदृष्टाविति | यथा वह्नेस्तेजोदशा प्रभावस्था दीपदशा दीपाकारावस्था च तिमिरतैलोभयनिवर्तिके मिथः अन्योन्ययौगपद्येन स्थिते तद्वदित्यर्थः || ५३ || भोगपूगे गतास्वादे दृष्टे देवे परावरे | परे ब्रह्मणि विश्रान्तिरनन्तोदेति शाश्वती || ५४ || आस्वाद्यत इत्यास्वादो रसः | गतरस इत्यर्थः || ५४ || विषयाकलितानन्दमनन्तोदेति निर्वृतिः | न कदाचन जीवानामात्मविश्रवणादृते || ५५ || भोगास्वादलम्पटानां तु नात्मानन्दप्राप्तिरस्तीत्याह - विषयेति | विषयेष्वेव आकलितः सारतया गृहीत आनन्दो यस्मिन्कर्मणि तथा आस्वादयतां जीवानां कदाचन कदापि न निर्वृतिर्निरतिशयानन्दो नास्ति || ५५ || यज्ञदानतपस्तीर्थसेवाभिर्जायते सुखम् | न तपोभिर्न दानेन न तीर्थैरपि जायते || ५६ || आत्मावलोकनेनैषा विषयारतिरुत्तमा | हृदये स्थितिमायातीति यदुक्तं तत्केचिन्न मृष्यन्ति यज्ञादिभिरेव चित्तशुद्ध्या विषयारतिसंभवादिति तान्प्रत्याह - viratirjāyata iti pareṇānvayaḥ || 56 || bhogeṣu viratirjantoḥ svabhāvālokanādṛte | kayācidapi no yuktyā buddhirātmāvalokane || 57 ||
141 SK एवं भोगवैराग्याभ्यासपुरुषप्रयत्नं विना केनाप्युपायान्तरेण आत्मावलोकनेऽपि बुद्धिर्न प्रवर्तत इत्याह - कयाचिदिति || ५७ || स्वप्रयत्नादृते पुंसः श्रेयसे संप्रवर्तते | भोगसंत्यागसंप्राप्तपरमार्थादृते सुत || ५८ || न ब्रहपदविश्रान्तिसुखमासाद्यते परम् | आब्रह्मस्तम्बपर्यन्ते जगत्यस्मिन्न कुत्रचित् || ५९ || तद्वदाश्वस्यते भाते परमे कारणे यथा | पौरुषं यत्नमाश्रित्य दैवं कृत्वा सुदूरतः || ६० || आश्वस्यते विश्रम्यते | भाते स्वात्मतया अभिव्यक्ते परमे कारणे परमात्मनि || ६० || भोगान्विगर्हयेत्प्राज्ञः श्रेयोद्वारदृढार्गलान् | प्रौढायां भोगगर्हायां विचार उपजायते || ६१ || विचारः सदसद्विवेकः || ६१ || वृद्धायां प्रावृषि श्रीमाञ्शरत्काल इवामलः | विचारो भोगगर्हातो विचाराद्भोगगर्हणम् || ६२ || वृद्धायां सस्याद्यभिवृद्धियुक्तायाम् | शाल्यादिफलसंपदा श्रीमान् | तयोरप्यन्योन्याधीना अभिवृद्धिरिति युगपद्वर्धनीयतेत्याह - विचार इति || ६२ || अन्योन्यमेते पूर्येते समुद्रजलदाविव | भोगगर्हाविचारश्च स्वात्मालोकश्च शाश्वतः || ६३ || यथा समुद्रेण रश्मिद्वारा जलदाः पूर्यन्ते जलदैश्च वृष्टिद्वारा समुद्रस्तद्वत् | इदानीं त्रयाणां युगपद्वर्धनीयतामाहा - भोगगर्हेति | आत्मालोक आत्मदर्शनम् || ६३ || अन्योन्यं साधयन्त्यर्थं सुस्निग्धाः सुहृदो यथा | पूर्वं दैवमनादृत्य पौरुषेण प्रयत्नतः || ६४ || दन्तैर्दन्तान्प्रसंपीड्य भोगेष्वरतिमाहरेत् | देशाचाराविरुद्धेन बान्धवैकमतेन च || ६५ || प्रथमं भोगारतिरेव महता प्रयत्नेनावश्यं साध्येत्याह - दन्तैरिति | तदर्थमुपायमाह - देशेति | तत्तद्वर्णविहितप्रतिग्रहाद्युपायेषु देशबन्धुजनसंमत एव परिग्राह्यो नान्य इत्याशयः || ६५ || पौरुषेण क्रमेणादौ धनानि समुपार्जयेत् | धनैरभ्याहरेद्भव्यान्सुजनान्गुणशालिनः || ६६ || पौरुषेण तत्तद्वर्णोत्पन्नपुरुषोचितेन प्रतिग्रहादिक्रमेण | अभ्याहरेत् | आराध्य वशीकुर्यादिति यावत् || ६६ ||
142 SK प्रवर्तते समासङ्गात्तेषां भोगविगर्हणा | ततो विचारस्तदनु ज्ञानं शास्त्रार्थसंग्रहः || ६७ || तदनु विचारानन्तरं ज्ञानं विचारितवाक्यार्थज्ञानं तदनु गतिसामान्यन्यायालोचनाच्छास्त्रार्थसंग्रहः सर्वश्रुतीनामद्वितीये ब्रह्मणे तात्पर्यनिर्णयो भवतीत्यर्थः || ६७ || ततः क्रमेण परमपदप्राप्तिः प्रजायते | यदा तूपरते काले विषयेभ्यो विरम्यसे || ६८ || ततो मनननिदिध्यासनक्रमेण भूमिकारोहणक्रमेण वा इत्थं सांप्रतं विषयविरामेण परमपदप्राप्त्युपाय उक्तः | विषयांस्त्यक्तुमसमर्थश्चेद्यौवनकाले उपरते सति यदा विषयेभ्यो विरम्यसे तदैव विचारवशतः परमं पदमेष्यसि नाधुनेत्यर्थः || ६८ || तदा विचारवशतः परमं पदमेष्यसि | सम्यक्प्राप्स्यसि विश्रान्तिमात्मन्यत्यन्तपावने || ६९ || एवं विषयोपरमावश्यकत्वे सतीदानीमेवोपरमस्ते युक्त इत्याशयेनाह - सम्यगिति || ६९ || न पुनः कल्पनापङ्के दुःखाय निपतिष्यसि | स्थितापि नास्था ते शुद्ध नमस्तेऽस्तु सदाशिव || ७० || हे शुद्ध ते तव | भोगस्थानस्थितापि यया कालान्तरप्रतीक्षा स्यादतस्त्वं सदाशिव एव अतस्ते सांप्रतमेव ब्रह्मभूताय नमोऽस्त्वित्यनुचितोऽपि पुत्रदृशा नमस्कारो ब्रह्मदृष्ट्या कृतः || ७० || देशक्रमेण धनमल्पविगर्हणेन तेनाङ्ग साधुजनमर्जय मानपूर्वम् | तत्संगमोत्थविषयाद्यवहेलनेन सम्यग्विचारविभवेन तवात्मलाभः || ७१ ||
143 SK उक्तमर्थं संक्षिप्योपसंहरति - देशेति | देशाचाराविरुद्धक्रमेण धनं अर्जयेति शेषः | तेन धनेन अल्पस्य तुच्छतरस्य भोगस्य विगर्हणेन | भोगार्थं धनव्ययमकृत्वेति यावत् | साधुजनं ब्रह्मविज्जनं प्रणिपातसेवान्नाच्छादनादिसन्मानपूर्वकं अर्जय | शास्त्रपूर्वमिति पाठे तु तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् इति शास्त्रोक्तरीत्येत्यर्थः | ततः सत्संगमोत्थेन विषयतद्रागद्वेषाद्यवहेलनेन साधनचतुष्टयसंपत्त्या प्रवृत्तेन सम्यगध्यात्मशास्त्रविचारस्य विभवेन ते तव आत्मलाभो विस्मृतकण्ठचामीकरलाभवद्भविष्यतीत्यर्थः || ७१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे चित्तविचिकित्सायोगोपदेशो नाम चतुर्विंशः सर्गः || २४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे चित्तविचिकित्सायोगो नाम चतुर्विंशः सर्गः || २४ || पञ्चविंशः सर्गः २५ बलिरुवाच | एतन्मे कथितं पूर्वं पित्रा चारुविचारिणा | इदानीं संस्मृतं दिष्ट्या संप्रबोधमहं गतः || १ || इह भूयो बलेरन्तर्विवेकेन्दुशुभोदयः | संदेहशान्तये शुक्रचिन्तेच्छातोऽनुवर्ण्यते || १ || अवान्तराख्यानमुपसंहृत्य प्रकृते योजयति - एतदिति || १ || अद्येयं मम संजाता भोगान्प्रत्यरतिः स्फुटम् | दिष्ट्या शमसुखं स्वच्छं विशाम्यमृतशीतलम् || २ || पुनरापूरयन्नाशां पुनरप्याहरन्धनम् | पुनरावर्जयन्कातां खिन्नोऽस्मि विभवस्थितौ || ३ || पुनरिति वीसितम् | पुनःपुनरित्यर्थः | आवर्जयन् प्रार्थनादिना अनुकूलयन् | विभवस्थितौ संपत्परिपालनविषये खिन्नः संतप्तोऽस्मि || ३ || अहो नु खलु रम्येयं शमभूः शीतलान्तरा | सर्वा एव शमं यान्ति सुखदुःखदृशः शमे || ४ || शमे शान्तिगुणे | सर्वा एव सुखदुःखदृशः समं नाशं यान्ति || ४ ||
144 SK शाम्यामि परिनिर्वामि सुखमासे शमे [मुद्रितपुस्तकेषु प्रायः समे इत्येव पाठो लभ्यते स त्वसंगत इत्यन्यादर्शगतः शमे इत्ययं पाठः टीकाकृदनुमत्यादृतः] स्थितः | अयमन्तः प्रहृष्यामि चन्द्रबिम्ब इवार्पितः || ५ || शमे स्थितः प्रतिष्ठितोऽहं शाम्यामीति सर्वतापोपशमोक्तिः | चन्द्रबिम्बेऽर्पित इव परिनिर्वामीति चित्तस्य निरतिशयसुखपारवश्योक्तिः | सुखमास इति तद्धेतुसुखात्मना स्थित्युक्तिः | अन्तरिति सर्वत्र संबाध्यते | अयं प्रहृष्यामीति हर्षलिङ्गपुलकाद्यतिशयोक्तिः || ५ || उत्ताण्डवन्मनोरंहःप्रोषितोरुशरीरकम् | अनारतपरिक्षोभं हा दुःखं विभवार्जनम् || ६ || उत्ताण्डवशब्दात् सर्वप्रातिपदिकेभ्य आचारे क्विब्वक्तव्यः इति क्विपि लटः शत्रादेशः | भोगोत्कण्ठया उत्ताण्डवतो मनसो रंहोभिः प्रोषितं दग्धं देशभ्रमणशीलं वा उरु प्रधानं शरीरं उरु शरीरं वा यस्मिन् अत एवानारतपरिक्षोभं विभवार्जनं दुःखमेव | हा इति खेदे || ६ || अङ्गमङ्गेन संपीड्य मांसं मांसेन च स्त्रियः | पुराहमभवं प्रीतो यत्तन्मोहविजृम्भितम् || ७ || इदानीं तत्फलस्त्र्यादिभोगस्वरूपमप्यसारतया विविच्य परिशोचति - अङ्गमित्यादिना || ७ || दृष्टान्तदृष्टयो दृष्टा भुक्तं भोक्तव्यमक्षतम् | आक्रान्तमखिलं भूतं जातं किमिव शोभनम् || ८ || सर्वेषां विभवानां दृष्टान्तभूतमहाविभवदृष्टयः स्वेन दृष्टाः | अक्षतं परैरव्याहतं भोक्तव्यं राज्यभोगादि भुक्तम् | अखिलं भूतं प्राणिजातमाक्रान्तं स्वसामर्थ्येन नामितमिति यावत् | तथापि किमिव शोभनं शाश्वतसुखं जातम् | अनादौ संसारे सर्वेषामपि कदाचिदेवं वैभवसंभवात्स्वस्यापि पूर्ववच्छतशो दुर्दशासहस्रस्याग्नेऽपि संभावितत्वाच्च न किंचिच्छोभनमित्यर्थः || ८ || पुनस्तान्येव तान्येव तत्रेहान्यत्र वापि च | इतश्चेतश्च वस्तूनि नापूर्वं नाम किंचन || ९ ||
145 SK अभिनवचमत्कारान्तरादर्शनाच्चर्वितचर्वणप्रायत्वाच्च नैहिकामुष्मिकभोगानां सारतास्तीत्याह - पुनरिति | तत्र स्वर्गादौ | इह भुवि | अन्यत्र नागलोकादौ || ९ || सर्वमेव परित्यज्य परिहृत्य धिया स्वयम् | स्वस्थ एवावतिष्ठेऽहं पूर्णात्पूर्ण इवात्मनि || १० || पूर्णात्स्वरूपाद्बोधतः प्राप्तात्पूर्ण इवेत्यपूर्णताभ्रान्तिनिरास एव नापूर्वपूर्णताप्राप्तिरस्तीति द्योतनाय | अथवा पूर्णाच्चन्द्रान्निमित्तात्पूर्णः क्षीराब्धिरिवेत्यर्थः || १० || पाताले भूतले स्वर्गे स्त्रियो रत्नोपलादयः | सारं तदपि तुच्छेन कालेनाशु निगीर्यते || ११ || यदपि भोग्यमज्ञदृष्ट्या सारत्वेन गृहीतं तदपि नश्वरत्वाद्दुःखाय पर्यवसितं तद्दृशाप्यसारमेवेत्याशयेनाह - पाताल इति || ११ || एतावन्तमहं कालं भृशं बालोऽभवं पुरा | यः कुर्वन्द्वेषममरैस्तुच्छया जगदिच्छया || १२ || तुच्छया जगदाधिपत्येच्छया अमरैः सह द्वेषं कुर्वन्नहं मृशं बालो मूर्ख एवाभवमित्यर्थः || १२ || मनोनिर्माणमात्रेण जगन्नाम्ना महाधिना | त्यक्तेनानेन कोऽर्थः स्यात्को नु रागो महात्मनः || १३ || जगन्नाम्ना जगदाधिपत्यनाम्ना महता आधिना मानसदुःखेन अत्यक्तेनेति [पूर्वार्धेन मिलितोच्चारणात्] च्छेदः | अर्थः पुरुषार्थः स्यात् | अनुरागे हि सति तत्र पुरुषार्थताबुद्धिः स एव नास्तीत्याह - क इति || १३ || कष्टं चिरतरं कालमनर्थोऽर्थधिया मया | अज्ञानमदमत्तेन कालेन स्वेन सेवितः || १४ || कालेन स्वमृत्युभूतेन स्वेनैव मया अनर्थः अर्थधिया सेवित इत्यर्थः || १४ || तरत्तरलतृष्णेन किमिवास्मिञ्जगत्त्रयम् | मया न कृतमज्ञेन पश्चात्तापाभिवृद्धये || १५ || एतया तदलं मेऽस्तु तुच्छया पूर्वचिन्तया | पौरुषं याति साफल्यं वर्तमानचिकित्सया || १६ || अथवा किं मम गतशोकेन सांप्रतिकमोहचिकित्सया पुरुषजन्मसाफल्योपायं चिन्तयामीत्याह - एतयेति || १६ || अद्यापरिमिताकारकारणैकतयात्मनि | सर्वतः सुखमभ्येति रसायनमिवार्णवे || १७ ||
146 SK अपरिमिताकारं अपरिच्छिन्नस्वरूपं यत्कारणं ब्रह्म तदेकतया तदभेदस्थित्या आत्मनि सर्वतः पूर्णं सुखमर्णवे क्षीरसमुद्रे रसायनममृतमथनेनेव यथा सर्वतः अभ्येत्याविर्भवति तथा अद्य औशनसं शुक्रं पृच्छामीति परेणान्वयः || १७ || कोऽयं तावदहं किं स्यादात्मेत्यात्मावलोकनम् | पृच्छाम्यौशनसं नाथं नूनमज्ञानशान्तये || १८ || अयं प्रपञ्चः कः | अहं अहंप्रत्ययवेद्यं जीवतत्त्वं किम् | इत्यात्मा अवलोक्यते येन तदात्मावलोकनमुपायं नाथं कुलगुरुत्वात्कुलस्येश्वरमुशनसमेवौशनसं पृच्छामि प्रक्ष्यामि || १८ || संचिन्तयामि परमेश्वरमाशु शुक्र- मुद्यत्प्रसादमथ तेन गिरोपदिष्टे | तिष्ठाम्यनन्तविभवे स्वयमात्मनात्म- न्यक्षीणमर्थमुपदेशगिरः फलन्ति || १९ || अहं परमेश्वरं योगसिद्धत्वात्सर्वकामेश्वरम् | स्वाश्रितेष्वाशु उद्यत्प्रसादं शुक्रं संचिन्तयामि | तेन शुक्रेण गिरा उपदिष्टे अनन्तविभवे आत्मनि स्वयमात्मनैव तिष्ठामि स्थास्यापि | वर्तमानसामीप्ये लट् | तत्रावस्थाने केन हेतुना तवाश्वासस्तत्राह - अक्षीणमिति | यतो महतामुपदेशगिरोऽक्षीणमक्षयमर्थं फलन्ति न कदाचिद्विफलीभवन्तीत्यर्थः || १९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उपशमप्रकरणे बलिचिन्तासिद्धान्तयोगोपदेशो नाम पञ्चविंशः सर्गः || २५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे बालचिन्तासिद्धान्तयोगोपदेशो नाम पञ्चविंशः सर्गः || २५ || षड्विंशः सर्गः २६ श्रीवसिष्ठ उवाच | इति संचिन्त्य बलवान्बलिरामीलितेक्षणः | दध्यौ कमलपत्राक्षं शुक्रमाकाशमन्दिरम् || १ || स्मृत्या यातस्य शुक्रस्य संक्षेपेण बलिं प्रति | तत्त्वसारोपदेशोऽथ नभोगतिरिहेर्यते || १ || आकाशो ब्रह्माकाश एव मन्दिरं विश्रान्तिस्थानं यय तम् || १ || सर्वस्थं चिन्तयानं तु नित्यध्यानोऽथ भार्गवः | चेतःस्थं ज्ञातवान् शिष्यं बलिं गुर्वर्थिनं पुरे || २ ||
147 SK अथ नित्यध्यानोऽभीक्ष्णं ध्यानपरो भार्गवः सर्वान्तरब्रह्मरूपत्वात्सर्वस्थं स्वं चिन्तयानं स्वचेतःस्थं बलिं शिष्यं गुर्वर्थिनं तत्त्वजिज्ञासया स्वदर्शनेच्छुं ज्ञातवानित्यन्वयः || २ || अथ सर्वगतानन्तचिदात्मा भार्गवः प्रभुः | आनिनाय स देहं स्वं रत्नवातायनं बलेः || ३ || अथ स भार्गवः स्वं देहं बलेः रत्नवातायनं रत्नगवाक्षस्थानं प्रति आनिनाय | स्वयमाजगामेति यावत् || ३ || गुरुदेहप्रभाजालपरिमृष्टतनुर्बलिः | बुबुधे प्रातरर्कांशुसंबोधितमिवाम्बुजम् || ४ || परिमृष्टतनुः संस्पृष्टशरीरः | संबोधितं विकासितम् || ४ || तत्र रत्नार्घ्यदानेन मन्दारकुसुमोत्करैः | पादाभिवन्दनैरेनं पूजयामास भार्गवम् || ५ || रत्नार्घ्यपरिपूर्णाङ्गं कृतमन्दारशेखरम् | महार्हासनविश्रान्तमथोवाच गुरुं बलिः || ६ || बलिरुवाच | भगवंस्त्वत्प्रसादोत्था प्रतिभेयं पुरस्तव | नियोजयति मां वक्तुं कार्यं कर्तुमिवार्कभाः || ७ || प्रतिभा नवनवोन्मेषशालिनी बुद्धिः यथा प्रातरुदिता अर्कभा ब्राह्मणादीन् संध्यावन्दनादिकार्यं कर्तुं सन्निधानमात्रेण नियोजयति तद्वत् || ७ || भोगान्प्रति विरक्तोऽस्मि महासंमोहदायिनः | तत्तत्त्वं ज्ञातुमिच्छामि महासंमोहहारि यत् || ८ || यत्स्वज्ञानमात्रेण महासंमोहहारि तत्तादृशं तत्त्वम् || ८ || कियन्मात्रमिदं भोगजालं किंमयमेव वा | कोऽहं कस्त्वं किमेते वा लोका इति वदाशु मे || ९ || कियती मात्रा उत्कर्षावधिर्यस्य तत् | भोगजालं विषयसुखम् | किंमयं किंप्रकृतिकमिति भोगतत्त्वप्रश्नः | कोऽहं कस्त्वमिति भोक्तृतत्त्वप्रश्नः | किमेते लोका इति भोग्यतत्त्वप्रश्नः | लोक्यन्ते इति लोका इति व्युत्पत्तेः || ९ || शुक्र उवाच | बहुनात्र किमुक्तेन खं गन्तुं यत्नवानहम् | सर्वदानवराजेन्द्र सारं संक्षेपतः शृणु || १० ||
148 SK भोक्रादित्रिपुटीभेदस्यैकस्यां चिति कल्पितत्वात्संक्षेपतस्तदुपदेशेनैव प्रश्नत्रयस्याप्युत्तरं सुवचमित्याशयं द्योतयन्नाह - बहुनेति | खं आकाशमार्गम् | सारं प्रश्नत्रयसारम् || १० || चिदिहास्ति हि चिन्मात्रमिदं चिन्मयमेव च | चित्त्वं चिदहमेते च लोकाश्चिदिति संग्रहः || ११ || इह जगति चिदस्ति | हिशब्दस्तत्सिद्धेरन्यनिरपेक्षत्वप्रसिद्धिद्योतनाय | अत इदं चिद्दृश्यं चिदधीनसिद्धिकं भोगजातं चिदेव मात्रा उत्कर्षावधिर्यस्य तथाविधम् | यतो वाचो निवर्तन्ते इति श्रुत्या पूर्णचित एव सर्वानन्दोत्कर्षावधित्वोक्तेः | चित्येव भेदवैचित्र्याध्यासाच्चिन्मयमेव च एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेः | एवं तत्त्वमस्यहं ब्रह्मास्मि एष ब्रह्मैष इन्द्रः नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता इत्यादिश्रुतिशतेभ्यस्त्वमहमादिभोक्तृतत्त्वमपि चिन्मात्रमेवेत्याह - tatsattāsphūrtyościdadhīnatvāt brahmaivedaṃ viśvamidaṃ variṣṭhaṃ ityādiśruteścetyāśayenāha - ete ceti || 11 || bhavyo'si cettadetasmātsarvamāpnoṣi niścayāt | no cettadbahvapi proktaṃ tvayi bhasmani hūyate || 12 || bhavatīti bhavyaḥ śraddadhāno vivekī || 12 || ciccetyakalanābandhastanmuktirmuktirucyate | cidacetyākhilātmeti sarvasiddhāntasaṃgrahaḥ || 13 || citaścetyākārakalanaiva bandhaḥ acetyā cetyākāranirmuktā | akhilātmā pūrṇātmā || 13 || enaṃ niścayamādāya vilokayasi helayā | svayamevātmanātmānamanantaṃ padamāpsyasi || 14 || vilokayasi cediti śeṣaḥ | ātmanāṃ akhaṇḍākāravṛttyā rūḍhapratīcā || 14 || khaṃ vrajāmyahamatraiva munayaḥ sapta saṃgatāḥ | kenāpi surakāryeṇa vastavyaṃ tatra vai mayā || 15 || khaṃ devalokaḥ | vastavyaṃ avaśyaṃ saṃnidhātavyam | bhāve tavyaḥ || 15 || rājanyāvadayaṃ dehastāvanmuktadhiyāmapi | yathāprāptakriyātyāgo rocate na svabhāvataḥ || 16 || nanu muktadhiyaḥ kṛtakṛtyasya tava tatra agamane kā kṣatistatrāha - rājanniti || 16 ||
149 SK इति कथितवताथ भार्गवेण स्फुटजलराशिपथा महाजवेन | प्लुतमलिशबले नभोन्तराले तरलतरङ्गवदाकुले ग्रहौघैः || १७ || अथ इति कथितवता भार्गवेण ग्रहौघैराकुले अत एव पुष्परेणुव्याप्तोऽलिरिव शबले किर्मीरे नभोन्तराले स्फुटेन जलराशेर्मेघस्य समुद्रस्य च पथा उपरिमार्गेण तरलतरङ्गवन्महाजवेन प्लुतं उड्डीनम् | भावे क्तः || १७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे बल्युपदेशयोगो नाम षड्विंशः सर्गः || २६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे बल्युपदेशयोगो नाम षड्विंशः सर्गः || २६ || सप्तविंशः सर्गः २७ श्रीवसिष्ठ उवाच | सुरासुरसभाज्येष्ठे तस्मिन्भृगुसुते गते | मनसा चिन्तयामास बलिर्बुद्धिमतां वरः || १ || शुक्रोपदिष्टमार्गेण सर्वं विमृशतो बलेः | चित्पूर्णानन्दविश्रान्त्या चिरं स्थितिरिहोच्यते || १ || सुरासुरसभासु ज्येष्ठे प्रशस्यतमे | ज्यचेति प्रशस्यशब्दस्येष्ठनि ज्यादेशः || १ || युक्तमुक्तं भगवता चिदेवेदं जगत्त्रयम् | चिदहं चिदिमे लोकाश्चिदाशाश्चिदियं क्रिया || २ || यच्चिन्तयामास तदाह - युक्तमित्यादिना || २ || सबाह्याभ्यन्तरं सर्वं चिदेव परमार्थतः | अस्ति चिद्व्यतिरेकेण नेह किंचन कुत्रचित् || ३ || अयमादित्य इत्यर्को न चिता यदि चेत्यते | तदर्कतमसोर्भेदः क इहेवोपलभ्यते || ४ || युक्ततामुपपादयति - अयमादित्य इत्यादिना | चेत्यते संज्ञायते | तमोघटदीपादिव्यावृत्ततया [व्यावृत्तता इत्यपि क्वचित्] यदि न प्रकाश्यत इत्यर्थः | भेदो व्यावृत्तिर्विच्छित्तिवैधर्म्यं च | इवशब्दो वाक्यालंकारार्थः || ४ || इयं भूरिति भूरेषा चिता यदि न चेत्यते | भूमेः किं नाम भूमित्वं तद्भव्ये भव्यतां गतम् || ५ || भूमित्वं जलादिव्यावृत्तरूपं किम् | एवमग्रेऽपि सर्वत्र | भव्यतां निरूढतां गतं प्राप्तम् || ५ || इमा दिशो दिश इति चेत्यन्ते न चिता यदि | तत्किं नाम दिशां दिक्त्वं शैलानां चापि काद्रिता || ६ ||
150 SK शैलेष्वपि इमे शैला इति यदि न चेत्यन्ते इत्यर्थाद्गम्यते || ६ || इदं जगज्जगदिति चिता यदि न चेत्यते | तत्किं जगत्त्वं जगतो नभस्त्वं नभसोऽथ किम् || ७ || जगत् क्रियावन्मूर्तद्रव्यं नभस्त्वमूर्तम् || ७ || कायोऽयं पर्वताकारश्चिता यदि न चेत्यते | तत्किं नाम शरीरत्वं शरीरस्य शरीरिणाम् || ८ || भूतेषूक्त्वा भौतिकेष्वाह - काय इति | पर्वताकारः | स्थूल इति यावत् || ८ || चिदिन्द्रियाणि चित्कायश्चिन्मनश्चित्तदेषणा | चिदन्तश्चिद्बहिश्चित्खं चिद्भावाश्चिद्भवस्थितिः || ९ || खं शून्यमसत् | भावास्तद्विलक्षणाः सन्तः | भवस्थितिस्तदुभयसंवलनात्कादाचित्कीसत्ता || ९ || चितैवैनमहं सर्वं स्पर्शनैषणपूर्वकम् | करोमि मात्रासंस्पर्शं शरीरेण न किंचन || १० || स्पर्शनैषणं भोगेच्छा तत्पूर्वकं मात्राणां शब्दादिविषयाणां संस्पर्शं भोगम् | शरीरेणेति | अचेतनस्य भोक्तृत्वायोगादिति भावः || १० || किमनेन शरीरेण काष्ठलोष्टसमेन मे | अशेषजगदेकात्मा चिदहं चेतनात्मकः || ११ || यदि शरीरेण न किंचन तर्हि शरीराभिमानो वृथैवेति त्याज्य एवेत्याह - किमनेनेति | तत्त्यागे निरुपाधिचितां भेदकाभावात्सर्वचिदैकात्म्यसिद्धिरपरोलाभ इत्याशयेनाह - अशेषेति | चेतनात्मक इति | चेतना चित् तदात्मकत्वस्य सर्वत्राविशेषादिति हेतुप्रदर्शनार्थम् || ११ || अहं चिदम्बरे भानावहं चिद्भूतपञ्जरे | सुरासुरेषु चिदहं स्थावरेषु चरेषु च || १२ || अम्बरे आकाशे | भानौ सूर्यादितेजसि | भूतपञ्जरे अवशिष्टभूतत्रये | सुरासुरादिस्थावरजङ्गमदेहेषु च | या चित्सा अहमेव सैवाहमिति वार्थः || १२ || चिदस्तीह द्वितीया हि कल्पनैव न विद्यते | द्वित्वस्यासंभवाल्लोके कः शत्रुः कश्च वासुहृत् || १३ || एवं सर्वचिदैक्ये भेदप्रत्ययानां पृथगनवशेषाद्व्याघाताच्च द्वित्वस्यासंभवाच्छत्रुमित्रादिकल्पनापि दूरनिरस्तेत्याह - चिदस्तीति || १३ || बलिनाम्नः शरीरस्य च्छिन्ने शिरसि भासुरे | चितः किं तद्भवेच्छिन्नं सर्वलोकावपूरणात् || १४ ||
151 SK अस्तु वा देहादिद्वैतं तथाप्यसङ्गपूर्णचिन्मात्ररूपस्य मम न तत्क्षत्या कापि क्षतिरस्तीत्याह - बलिनाम्न इति || १४ || चिता संचेतितो द्वेषो द्वेषो भवति नान्यथा | तस्माद्द्वेषादयः सर्वे भावाभावाश्चिदात्मकाः || १५ || अस्तु वा तच्चित एव च्छिन्नं तथापि च्छेद्यच्छेदनादिभावाभावानां तद्गोचररागद्वेषादीनां च चिदधीनकल्पनत्वेन चिदव्यतिरेकान्न चित्प्रतिकूलं किंचिदापन्नमित्याशयेनाह - चितेति || १५ || न चितो व्यतिरेकेण प्रविचार्यापि किंचन | आसाद्यते किल स्फारादस्मात्त्रिभुवनोदरात् || १६ || न द्वेषोऽस्ति न रागोऽस्ति न मनो नास्य वृत्तयः | चिन्मात्रस्यातिशुद्धस्य विकल्पकलना कुतः || १७ || चिदहं सर्वगो व्यापी नित्यानन्दमयात्मकः | विकल्पकलनातीतो द्वितीयांशविवर्जितः || १८ || प्रतिकूलाप्रसिद्धौ चितो नित्यानुकूलप्रथमानतालक्षणा आनन्दात्मना स्वत एव परिशिष्यत इत्याशयेन नित्यानन्दमयात्मक इत्युक्तिः || १८ || चितश्चिदिति यन्नाम निर्नामाया न नाम तत् | शब्दात्मिकैषा चिच्छक्तिः परिस्फुरति सर्वगा || १९ || जगद्रूपनामकल्पनावच्चितः स्वनामकल्पनापि स्वविवर्त एवेत्याह - चित इति | सर्वगा सर्वनामरूपकल्पनाधिष्ठानचिच्छक्तिरेव स्वनामशब्दात्मिकेव परिस्फुरतीत्यर्थः || १९ || दृश्यदर्शननिर्मुक्तकेवलामलरूपवान् | नित्योदितो निराभासो द्रष्टास्मि परमेश्वरः || २० || एवं च कोऽहमिति प्रश्नोत्तरमपि स्वयमेव मयावगतमित्याह - दृश्येति || २० || कल्पनाविकलाकारः कालकान्तकलामयः | आभासमात्रमुदितो नित्याभासविवर्जितः || २१ || ईदृशे भारूपैकस्वरूपे अस्मिन्मयि नित्यस्वात्मावभासविवर्जितः के जले अलकान्ते केशाग्रे वा प्रतिबिम्बितचन्द्रकलाप्रायः शुक्लपक्षकाले उपचयात्कान्ताः कला यस्य चन्द्रस्य तत्प्रायो वा स्वकल्पनारूपो विकलाकारः परिच्छिन्नजीवभावो य उदितः स आभासमात्रं भ्रान्तिरेव न वास्तव इत्यर्थः || २१ || भारूपैकस्वरूपेऽस्मिन्स्वरूपेण जयाम्यहम् | चेत्यरञ्जनरिक्ताय विमुक्ताय महात्मने || २२ ||
152 SK अत एव तं जीवभावं चरमसाक्षात्कारवृत्तीद्धेन स्वरूपेणैवाहं जयाम्यभिभवामि | जितजीवभावः स्वात्मैव परमेश्वर इति तं नमस्यति - चेत्येत्यादिना || २२ || प्रत्यक्चेतनरूपाय स्वरूपाय नमोऽस्तु ते | चितये चेत्यमुक्ताय युक्त्या युक्ताय योग्यया || २३ || योग्यया युक्त्या प्रत्यक्परागभेदान्वययोग्येनाखण्डाभेदेन युक्ताय साक्षात्कारयोग्यया मनननिदिध्यासनयुक्त्या युक्तायेति वा मह्यं प्रत्यग्रूपाय ते ब्रह्मणे नमोऽस्तु || २३ || सर्वावभासदीपाय [रूपाय इति पाठः] मह्यमेव नमोऽस्तु ते | चेत्यनिर्मुक्तचिद्रूपं विष्वग्विश्वावपूरकम् || २४ || संशान्तसर्वसंवेद्यं सच्चिन्मात्रमहं महत् | आकाशवदनन्तोऽहमप्यणोरणुराततः || २५ || नासादयन्ति मामेताः सुखदुःखदशा दृशः | संवेदनमसंवेद्यमचेत्यं चेतनं ततम् || २६ || वर्तमानविषये संवेदनमसंवेद्यं अतीतानागतविषये अचेत्यं चेतनम् | उभयत्र चाक्षुषादिवृत्तीनां स्मृत्यादिवृत्तीनां च व्यावृत्तये असंवेद्यमचेत्यमिति च विशेषणे || २६ || न शक्ता मां परिच्छेत्तुं भावाभावा जगद्गताः | अथ चैते जगद्भावाः परिच्छिन्दन्तु मामिमम् || २७ || परिच्छेत्तुं देशतः कालतो वस्तुतो वा इयत्त्वे व्यवस्थापयितुं न शक्ताः | भावाभावयोः प्रत्युत साक्षिपरिच्छेद्यत्वादिति भावः | यदि ब्रूया न वयमियत्त्वे व्यवस्थापनं परिच्छेदं ब्रूमः किंतु तत्त्वावधारणं तदनुकूलाश्च प्रमाणादयो जगद्भवास्तत्त्वतः परिच्छिन्दन्त्येवात्मानमिति तत्राह - अथ चेति | प्रकारान्तरद्योतनार्थोऽथशब्दः || २७ || यथाभिमतमेवैते मत्तो न व्यतिरेकिणः | यदि [मयि इत्यपि क्वचिल्लभ्यते] स्वभावभूतेन वस्तुना वस्तु नीयते || २८ ||
153 SK एवं परिच्छेदनं मम यथाभिमतं संमतमेव | यतस्ते मत्स्वरूपपरिच्छेदमात्रेण मत्तो न व्यतिरेकिणो मदेकपरिशेषाः | अहमेव संपद्यन्त इत्यर्थः | एवंभूतैश्च परिच्छेदे वामहस्तगतस्य धनस्य दक्षिणहस्तेन नयने हरणे परावृत्य दाने वा हस्तद्वयाभिन्नस्य देहात्मकस्य देवदत्तस्य यथा न धनक्षतिस्तद्वन्न काचित्क्षतिरित्याह - यदीति || २८ || ह्रियते दीयते वापि तत्किं कस्य किल क्षतम् | सर्वदा सर्वमेवाहं सर्वकृत्सर्वसंगतः || २९ || वस्तुतस्तु तत्त्वबोधात्पूर्वमपि जगत्स्वयमेवेति प्रागपि न किंचिदुदितं क्षतं वेत्याशयेनाह - सर्वदेति || २९ || चेत्यमस्म्यहमेवैतन्न किंचिदपि चोदितम् | किं संकल्पविकल्पाभ्यां चितं चिदियमेकिका || ३० || अहमेकिका चित् चिद्भूतस्य च मम संकल्पविकल्पाभ्यां किं चितमुपचितमपचितं वा || ३० || संक्षोभयाम्यहं तावच्छाम्याम्यात्मनि पावने | इति संचिन्तयन्नेव बलिः परमकोविदः || ३१ || अज्ञानात्संक्षोभयामि तत्त्वबोधाच्च शाम्यामि इति संचिन्तयन्बलिः ॐकारात्स्थूलसूक्ष्मसंक्षोभाभ्यां तद्बीजाज्ञानेन च संवलितं चैतन्यं बोधयदकारादिमात्रात्रयं विहाय परमर्धमात्रार्थं तुरीयं भावयन् स्वात्मतयानुभवंस्तत्र समाहितः स्थितः || ३१ || ॐकारादर्धमात्रार्थं भावयन्मौनमास्थितः | संशान्तसर्वसंकल्पः प्रशान्तकलनागणः || ३२ || निःशङ्कमपि दूरास्तचेत्यचिन्तकचिन्तनः | ध्यातृध्येयध्यानहीनो निर्मलः शान्तवासनः || ३३ || दूरे अस्तानि चेत्यचिन्तकचिन्तनानि येन | त्रिपुटीमात्रत्यागोपलक्षणमेतत् | तत्र हेतुः - ध्यात्रिति || ३४ || बभूवावातदीपाभो बलिः प्राप्तमहापदः | उपशान्तमनास्तत्र रत्नवातायने बलिः | अवसद्बहुकालं स समुत्कीर्ण इवोपले || ३४ || उपले समुत्कीर्णः टङ्कच्छेदनिष्पादितः पुरुष इव || ३४ || प्रशमितैषणया परिपूर्णया मननदोषदशोज्झितयैतया | बलिरराजत निर्मलसत्तया विघनमच्छतयेव शरन्नभः || ३५ ||
154 SK बलिः प्रशमितैषणया अत एव परिपूर्णया अत एव विषयमननदोषदशाभिरुज्झितया एतया निर्मलब्रह्मभावप्राप्तिलक्षणया सत्तया विघनं गतमेघं शरन्नभ इव अराजत || ३५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो० उपशमप्रकरणे बलिविश्रान्तिर्नाम सप्तविंशः सर्गः २७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे बलिविश्रान्तिर्नाम सप्तविंशतितमः सर्गः || २७ || अष्टाविंशः सर्गः २८ श्रीवसिष्ठ उवाच | अथ ते दानवास्तत्र बलेरनुचरास्तदा | तद्गेहं स्फाटिकं सौधमुच्चैरारुरुहुः क्षणात् || १ || निश्चेष्टं बलिमालोक्य विषण्णैर्दानवैः स्मृतः | शुक्रस्तत्स्थितिमाख्याय तेषां शोकमिहाहरत् || १ || तस्य बलेर्गेहं आश्रयभूतं सौधम् || १ || डिम्भाद्या मन्त्रिणो धीराः सामन्ताः कुमुदादयः | सुराद्याश्चैव राजानो वृत्ताद्या बलहारिणः || २ || अनुचरानेव नामभिरुद्दिशति - डिम्भाद्या इत्यादिना || २ || हयग्रीवादयः सैन्याश्चाक्राजाद्याश्च [चक्रेत्यपि पाठः] बान्धवाः | लडुकाद्याश्च सुहृदो बल्लूकाद्याश्च लालकाः || ३ || कुबेरयमशक्राद्या उपायनकराः सुराः | यक्षविद्याधरा नागाः सेवावसरकाङ्क्षिणः || ४ || रम्भातिलोत्तमाद्याश्च चामरिण्यो वराङ्गनाः | सागराः सरितः शैला दिशश्च विदिशस्तथा || ५ || दिशो विदिशश्च दिगधिदेवतास्तात्वधिकृता जनाश्च || ५ || सेवार्थमाययुस्तस्य तं प्रदेशं तदा बलेः | अन्ये च बहवः सिद्धास्त्रैलोक्यओदरवासिनः || ६ || सिद्धाः देवयोनिविशेषाः || ६ || ध्यानमौनसमाधिस्थं चित्रार्पितमिवाचलम् | नमत्किरीटावलयो ददृशुर्बलिमादृताः || ७ || शिरोनमनान्नमन्त्यः किरीटावलयो येषाम् | आदृताः सादराः || ७ || तं दृष्ट्वा कृतकर्तव्यप्रणामास्ते महासुराः | विषादविस्मयानन्दभयमन्थरतां ययुः || ८ ||
155 SK कृतः अवश्यकर्तव्यः प्रणामो यैः | सुहृदो विषादमन्थरताम् उदासीना विस्मयमन्थरताम् तत्त्वविदस्त्वानन्दमन्थरताम् अनभिज्ञोपजीविनस्तूभयमन्थरतां ययुः | अथवा प्राणसंशयाद्विषादमन्थरताम् सुखप्रसाददर्शनाद्विस्मयमन्थरताम् रोमाञ्चाद्यानन्दलिङ्गदर्शनादानन्दमन्थरताम् चिरमनुत्थाने त्राणादर्शनाद्भयमन्थरतां ययुरित्यर्थः || ८ || मन्त्रिणः प्रविचार्यात्र किं प्राप्तमिति दानवाः | भार्गवं चिन्तयामासुर्गुरुं सर्वविदांवरम् || ९ || चिन्तनानन्तरं दैत्या भार्गवं भास्वरं वपुः | ददृशुः कल्पितं प्राप्तं गन्धर्वनगरं यथा || १० || कल्पितं सप्तर्षिसभागतेनैव भार्गवेण योगबलाद्बलिसौधदेशे प्राप्तात्वेन कल्पितम् || १० || पूज्यमानोऽसुरगणैर्निविष्टो गुरुविष्टरे | ददर्श ध्यानमौनस्थं भार्गवो दानवेश्वरम् || ११ || विश्रम्य स क्षणमिव प्रेमवानवलोक्य च | बलिं विचारयन्दृष्ट्वा परिक्षीणभवभ्रमम् || १२ || इवशब्दो विश्रान्तेरपि कल्पितत्वद्योतनार्थः || १२ || देहरश्मिशतैर्दत्तदीप्तिभिः क्षीरसागरम् | क्षिपन्निव सभामाह हसन्वाक्यमिदं गुरुः || १३ || क्षिपन् प्रसारय निन्दन्वा | सभां तत्स्थान्दैत्यान् हसन्ननभिज्ञताख्यापनायोपहसन् || १३ || अतिमात्रमिदं दैत्याः स्वविचारणयैव यत् | संप्राप्तविमलावासः सिद्धोऽयं भगवान्बलिः || १४ || हे दैत्याः अयं बलिः स्वविचारणयैव संप्राप्तो विमल आवासः सर्वाधिष्ठानं ब्रह्म येन तथाविध इति यत्तदतिमात्रम् | अतिशयोऽस्य सुखविश्रान्तेरित्यर्थः || १४ || अयं तदेवमेवेह तिष्ठन्दानवसत्तमाः | स्वात्मनि स्थितिमाप्नोतु पदं पश्यत्वनामयम् || १५ || तत्तस्मादयमेव समाहितस्तिष्ठन् निरतिशयानन्दे स्वात्मनि स्थितिं चिरावस्थानमाप्नोतु || १५ || श्रान्तो विश्राममायातः क्षीणचित्तभवभ्रमः | शान्तसंसारनीहारो वाचनीयो न दानवाः || १६ || न वाचनीयो न संभाषणीयः तूष्णीमाध्वमिति यावत् || १६ ||
156 SK स्व एवालोक एतेन संप्राप्तोऽज्ञानसंकटे | शान्तेऽत्र संभ्रमे सौरो दिनेनेव करोत्करः || १७ || अत्र भुवि रात्र्यन्धकारनिद्रादिसंभ्रमे शान्ते सति दिनेन दिवसेन सौरः करोत्करः किरणसमूह इव | एतेन बलिना अज्ञानसंकटे शान्ते सति स्व एवालोकः संप्राप्तः || १७ || स्वयमेव हि कालेन प्रबोधमयमेष्यति | बीजकोशात्स्वसंवित्त्या सुप्तमूर्तिरिवाङ्कुरः || १८ || बीजकोशाद्बीजपुटात् स्वसंवित्त्या मूर्च्छितावस्थाप्रच्युत्या | अङ्कुराहंभावप्रबोधेनेति यावत् || १८ || कुरुध्वं स्वामिकार्याणि सर्वे दानवनायकाः | बलिर्वर्षसहस्रेण समाधेर्बोधमेष्यति || १९ || स्वामिकार्याणि राज्यतन्त्राणि || १९ || इत्युक्ता गुरुणा तत्र हर्षामर्षविषादजाम् | दैत्याश्चिन्तां जहुः शुष्कां मञ्जरीमिव पादपाः || २० || दैत्यग्रहणं देवानामप्युपलक्षणम् | अत एव दुर्हृदो हर्षजां द्विषोऽमर्षजां सुहृदुपजीविनश्च विषादजां चिन्तां जहुः || २० || वैरोचनिसभासंस्थां विधाय प्राग्व्यवस्थया | स्वव्यापारपरास्तस्थुः सर्व एवासुरास्ततः || २१ || प्राग्व्यवस्थया पूर्वकॢप्तराज्यतन्त्रव्यवहारक्रमेण || २१ || नरा मही महिपतयो रसातलं ग्रहा नभस्त्रिदशगणास्त्रिविष्टपम् | दिशोऽद्रयो [अस्मिन्पद्ये छन्दोभेदः] दिक्पतयश्च कंदरा- न्वनेचरा गगनचराश्च खं ययुः || २२ || आगन्तुका नरनागादयस्तदा किं चक्रुस्तदाह - नरा इति | ययुरिति सर्वत्र संबध्यते | अद्रयः कुलाचलाधिदेवता दिक्पतयो दिक्पालाश्च स्वाः स्वा दिशो ययुः | वनेचरा ऋक्षवानरादियूथपतयः किष्किन्धादिकन्दरान् ययुः | गगनचरा गरुडसंपातिजटायुप्रभृतयः || २२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे बलिसमाधानवर्णनं नामाष्टाविंशः सर्गः || २८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे बलिसमाधानवर्णनं नामाष्टाविंशः सर्गः || २८ || एकोनत्रिंशः सर्गः २९ श्रीवसिष्ठ उवाच |
157 SK अथ वर्षसहस्रेण दिव्येनासुरपुङ्गवः [सत्तम इति पाठः] | देवदुन्दुभिनिर्घोषैर्बुबुधे भगवान्बलिः || १ || जीवन्मुक्तस्य राज्यश्रीः पाताले रोधनं बलेः | रामाय बलिवत्पूर्णस्थितिश्चात्रोपदिश्यते || १ || वर्षसहस्रेणेति समाधेर्वर्ष सहस्रेणात्यन्तसंयोगादपवर्गे तृतीया || १ || बलौ प्रबुद्धे तद्बालं विरेजे नगरं तदा | वैरिञ्च इव सूर्यौघ उदिते कमलाकरः || २ || बलेरिदं बालं नगरं वैर्ञ्चे विरिञ्चेरायतनभूतगगने सूर्यौघे सूर्यकिरणप्रवाहे उदिते सति कमलाकरः पद्माकर इव विकासश्रीमानित्यर्थः | सर्गौघे सर्वौघे इति पाठयोस्तु सर्व पदार्थजातं सर्गं वा ओघयति समर्थयतीति व्युत्पत्त्या सूर्य एव ग्राह्यस्तस्मिन्नुदिते सतीतर्थः | ओघृ सामर्थ्ये इति धातोर्ण्यन्तात्कर्मण्यण् || २ || बलिः प्रबुद्ध एवासौ यावन्नायान्ति दानवाः | तावत्संचिन्तयामास समाधिसदने क्षणम् || ३ || समाधिसदने प्रागुक्तसमाधिस्थाने || ३ || अहो नु रम्या पदवी शीतला पारमार्थिकी | अहमस्यां क्षणं स्थित्वा परां विश्रान्तिमागतः || ४ || समाधिसुखमग्नस्य दिव्यवर्षसहस्रमपि क्षणवद्गतमिति क्षणं स्थित्वेत्युक्तिः || ४ || तदेतामेव पदवीमवलम्ब्य करोम्यहम् | भवतीहोपभुक्ताभिः किं मे बाह्यविभूतिभिः || ५ || करोमि विश्रान्तिमिति शेषः | बाह्यविभूतिभिरुपभुक्ताभिर्मे किं भवति | न किंचिदीदृशं विश्रान्तिसुखमित्यर्थः || ५ || ऐन्दवेष्वपि बिम्बेषु न तथानन्दवीचयः | तोषयन्ति यथान्तर्मे संसिद्धिभवभूतयः || ६ || तदेवाह - ऐन्दवेष्विति | संसिद्धिः समाधिपरिपाकस्तद्भवा भूतय आनन्दाः | एकस्मिन्नेव इयत्तया अपरिच्छेद्यत्वाद्बहुत्वकल्पनया बहुवचनम् || ६ || इति भूयोऽपि विश्रान्त्यै कुर्वाणं गलितं मनः | बलिमावारयामासुर्दैत्याश्चन्द्रमिवाम्बुदाः || ७ || आवारयामासुरागत्य परिवव्रुः || ७ || तानालोक्य पुनर्दध्यौ तत्प्रणामाकुलेक्षणः | तैः कुलाचलसंकाशैः परिवीतवपुस्त्विदम् || ८ ||
158 SK पुनःशब्दः पूर्वसमाधिसंकल्पपरावृत्तिद्योतनार्थः || ८ || चितः क्षीणविकल्पस्य किमुपादेयमस्ति मे | मनस्तदभिपातित्वाद्याति तद्रसतामलम् || ९ || उपादेयबुद्ध्या हि बाह्यार्थदर्शने मनस्तदभिपातित्वात्तद्रागितालक्षणं मलं याति न दर्शनमात्रेणेत्यर्थः || ९ || मोक्षमिच्छाम्यहं कस्माद्बद्धः केनास्मि वै पुरा | अबद्धो मोक्षमिच्छामि केयं बालविडम्बना || १० || ननु मोक्षेच्छया समाध्यवलम्बनियमोऽस्तु तत्राह - मोक्षमिति | ज्ञानेन त्रैकालिके अविद्यातत्कार्यबाधे सति बन्धस्यैवादर्शनादिति भावः | बालानां मूर्खाणां विडम्बना चेष्टानुकृतिः || १० || न बन्धोस्ति न मोक्षोस्ति मौर्ख्यं मे क्षयमागतम् | किं मे ध्यानविलासेन किं वा ध्यानेन मे भवेत् || ११ || ध्यानाध्यानभ्रमौ त्यक्त्वा पुंस्त्वं स्वमवलोकयत् | यदायाति तदायातु न मे वृद्धिर्न वा क्षयः || १२ || स्वं प्रत्यग्रूपं पुंस्त्वमात्मतत्त्वं दृक्स्वभावादेव बहिरप्यौदासीन्येनावलोकयत्सद्यद्वस्तु प्रति आयाति तदायातु स्फुरतु नाम नैतावता मेऽज्ञानामिव देहादितादात्म्याध्यासात्तद्वृद्धिक्षयप्रयुक्तौ वृद्धिक्षयौ स्तो येनानर्थः स्यादित्यर्थः | अयं श्लोकः क्वचिदेवास्ति न सर्वत्र || १२ || न ध्यानं नापि वाऽध्यानं न भोगान्नाप्यभोगिताम् [नाथ भोगिता इति पाठः] | अभिवाञ्छामि तिष्ठामि सममेव गतज्वरः || १३ || न मे वाञ्छा परे तत्त्वे न मे वाञ्छा जगत्स्थितौ | न मे ध्यानदशाकार्यं [अत्र ध्यानदृशा कार्य इति साधु] न कार्यं विभवेन मे || १४ || नाहं मृतो न जीवामि न सन्नासन्न सन्मयः | नेदं मे नैव चान्यन्मे नमो मह्यमहं बृहत् || १५ || देहसंबन्धाभावान्न मृतः | प्राणसंबन्धाभावान्न जीवामि | सन्मूर्तः | सन्मयस्तद्विकारः | इदं देहभुवनादि | अन्यद्देहान्तरभुवनान्तरादि || १५ || इदमस्तु जगद्राज्यं तिष्ठाम्यत्र तु संस्थितः | नेह वास्तु जगद्राज्यं तिष्ठाम्यात्मनि शीतलः || १६ ||
159 SK किं मे ध्यानदृशा कार्यं किं राज्यविभवश्रिया | यदायाति तदायातु नाहं किंचन मे क्वचित् || १७ || न किंचिदपि कर्तव्यं यदि नाम मयाधुना | तत्कस्मान्न करोमीदं किंचित्प्रकृतकर्म वै || १८ || कर्तव्यं कर्तृत्वास्थया निर्वर्तनीयम् | तत्तर्हि किंचित् अनास्थितचेष्टासाध्यं प्रकृतं कर्म राज्यपरिपालनं किं कुतो न करोमि || १८ || इति निर्णीय पूर्णात्मा बलिर्ज्ञानवतां वरः | दैत्यानालोकयामास पद्मानीव दिवाकरः || १९ || दृष्टिपातविभागेन सर्वेषां दनुजन्मनाम् | शिरःप्रणामाञ्जग्राह पुष्पामोदानिवानिलः || २० || दृष्टिपातानां विभागेन तत्तदुचितवैचित्र्येण || २० || अथ वैरोचनिस्तत्र ध्येयत्यागमयात्मना | मनसा सकलान्येव राजकार्याणि संव्यघात् || २१ || ध्येयो वासनात्यागः प्राग्वर्णितस्तन्मयात्मना तद्विलासप्रचुरेण || २१ || द्विजान्देवान्गुरूंश्चैव पूजयामास पूजया | संमानयामास सुहृद्बन्धुसामन्तसज्जनान् || २२ || पूजा पाद्यार्घ्यादि उचितदानसंभावनादिसत्कारः संमाननमिति भेदः || २२ || अर्थेनापूरयामास भूत्यानर्थिगणांस्तथा | ललना लालयामास विचित्रविभवार्पणैः || २३ || इत्यसौ ववृधे तस्मिन्राज्ये सकलशासने | यज्ञं प्रति बभूवाथ मतिरस्य कदाचन || २४ || असौ बलिः सकलानां देवासुरादीनां शासने आज्ञापनविषये राज्ये ववृधे | राज्याङ्गाद्यभिवृद्धिं प्रापेत्यर्थः | अथ कदाचन यज्ञं प्रति अस्य मतिरिच्छा बभूव || २४ || तर्पिताशेषभुवनं देवर्षिगणपूजितम् | सह शुक्रादिभिर्मुख्यैः स चकार महामखम् || २५ || महामखं अश्वमेघम् || २५ || बलिर्भोगभरस्यार्थी नेति निर्णीय माधवः | बलेरीहितसिद्ध्यर्थं सिद्धिदस्तन्मखं ययौ || २६ || भोगैककृपणायेदं जगज्जङ्गलखण्डकम् | दातुं शोच्याय शक्राय वयोज्येष्ठाय कार्यवित् || २७ || भोगे एकस्मिन्नेव आसक्तत्वात्कृपणाय अत एव शोच्याय | कार्यमवश्यकर्तव्यं शक्रसुकृतफलप्रदानं वेत्तीति कार्यवित् भिक्षणचातुर्यविद्वा || २७ ||
160 SK क्रममाणो बलेनात्र वञ्चयित्वा बलिं हरिः | बबन्ध पातालतले भूगेह इह वानरम् || २८ || बलेन मायाबलेन क्रममाणस्त्रीन् लोकानिति शेषः || २८ || अद्यासौ संस्थितो राम पुनरिन्द्रत्वहेतुना | जीवन्मुक्तवपुः स्वस्थो नित्यं ध्यानविषण्णधीः || २९ || अद्य अद्यापि | असौ बलिः पाताले पुनरिन्द्रत्वहेतुना प्रारब्धेनोपलक्षित इति शेषः | स्थितः | ध्याने निर्विकल्पसमाधौ विषण्णा गलिता धीर्यस्य || २९ || पातालकुहरे तिष्ठञ्जीवन्मुक्तगतिर्बलिः | आपदं संपदं दृष्ट्या समयैव स पश्यति || ३० || नास्तमेति न चोदेति तत्प्रज्ञा सुखदुःखयोः | समा स्थिरकरा चित्रलेख्या सूर्यावलिर्यथा || ३१ || समा उदयास्तमयरहिता | स्थिराः करा मरीचयो यस्याः | चित्रस्य लेखनं चित्रलेख्या तत्संबन्धिनी सूर्यावलिः सूर्यमण्डलं यथा तथेत्यर्थः || ३१ || आविर्भावतिरोभावसहस्राणीह जीवताम् | तन्मनाश्चिरमालोक्य भीमेषु विरतिं गतम् || ३२ || जीवतां जीवनास्थावतां भोगलम्पटानां बिभवानां जन्मादीनां चाविर्भावतिरोभावसहस्राणि चिरमालोक्य तस्य बलेर्मनो विरतिं वैराग्यं गतम् || ३२ || दशकोटीश्च वर्षाणामनुशास्य जगत्त्रयम् | अन्ते विरक्ततां प्राप्तमुपशान्तं बलेर्मनः || ३३ || ऊहापोहसहस्राणि भावाभावशतानि च | बलिना परिदृष्टानि क्व समाश्वासमेत्यसौ || ३४ || सुखदुःखयोरूहापोहयोरागमापाययोः सहस्राणि | भावाभावयोः संपद्विपदोः शतानि च | सहस्रशतशब्दावसंख्येयपरौ || ३४ || भोगाभिलाषं संत्यज्य बलिः संपूर्णमानसः | आत्मारामस्थितो नित्यं मध्ये पातालकोटरे || ३५ || सप्तपातालानां मध्यभूते रसातलाख्ये पातालकोटरे यावद्विपत्क्षयं स्थितः || ३५ || पुनरेतेन बलिना जगदिन्द्रतयाखिलम् | अनुशास्यमिदं राम बहून्वर्षगणानिह || ३६ || अनुशास्यं स्वामिभावेन आज्ञाप्यं भविष्यतीत्यर्थः || ३६ || न तस्येन्द्रपदप्राप्त्या तुष्टिः समुपजायते | न तस्य स्वपदभ्रंशादुद्वेग उपजायते || ३७ ||
161 SK समः सर्वेषु भावेषु सर्वदैवोदिताशयः | संप्राप्तमाहरन्स्वस्थ आकाश इव तिष्ठति || ३८ || उदिताशयः संतुष्टचित्तः | संप्राप्तं प्रारब्धोपनीतमाहरन्नुपभुञ्जानः || ३८ || बलेर्विज्ञानसंप्राप्तिरेषा ते कथिता मया | एतां दृष्टिमवष्टभ्य त्वमप्यभ्युदितो भव || ३९ || बलिचरित्रमुपसंहृत्य रामायोपदिशति - बलेरित्यादिना | अभ्युदितो जीवन्मुक्त्यभ्युदयवान् || ३९ || बलिवत्प्रविवेकेन नित्योऽहमिति निश्चयात् | पदमासादयाद्वैतं पौरुषेणैव राघव || ४० || प्रविवेकेन स्वविचारेण || ४० || द्वे चाष्टौ चैव वर्षाणां कोटीर्भुक्त्वा जगत्त्रयम् | अन्ते वैरस्यमापन्नो बलिरप्यसरोत्तमः || ४१ || द्वे चाष्टौ च | दशकोटीरिति यावत् || ४१ || तस्मादवश्यवैरस्यं भोगभारमरिंदम | संत्यज्य सत्यमानन्दमवैरस्यं पदं व्रज || ४२ || अवश्यं वैरस्यं दुःखपर्यवसानं यस्य | अवैरस्यं निर्दुःखम् || ४२ || इमा दृश्यदृशो राम नानाकारविकारदाः | नेह कान्ततया ज्ञेया दूराच्छैलशिला इव || ४३ || कान्ततया रम्यतया | तत्र दूरस्थाः पर्वता रम्याः इति प्रसिद्धं दृष्टान्तमाह - दूरादिति || ४३ || धावमानमिहामुत्र लुठितं लोकवृत्तिषु | संस्थापय निबद्ध्यैतच्चेतो हृदयकोटरे || ४४ || इह ऐहिकभोगेषु अमुत्र पारलौकिकभोगेषु धावमानम् | लोकवृत्तिषु पामरचेष्टासु लुठितं प्रवृत्तम् || ४४ || चिदादित्यो भवानेव सर्वत्र जगति स्थितः | कः परस्ते क आत्मीयः परिस्खलसि किं मुधा || ४५ || ननु शत्रुमित्रयोः कथं समदृष्टिः स्यात्तत्राह - चिदादित्य इति | आदित्य इव सर्वावभासिका चित् चिदादित्यः | तथाच त्वमेव शत्रुदेहादावपि प्रकाशक आत्मेति न वैषम्ये हेतुरस्तीति भावः || ४५ || त्वमनन्तो महाबाहो त्वमाद्यः पुरुषोत्तमः | त्वं पदार्थशताकारैः परिस्फूर्जसि चिद्वपुः || ४६ || ननु जीवस्य मम कथमीश्वरात्मसमदर्शनं तत्राह - त्वमिति | जडवैषम्यमप्यानन्त्येनैव नाशङ्क्यमित्याशयेनाह - त्वं पदार्थशताकारैरिति || ४६ ||
162 SK त्वयि सर्वमिदं प्रोतं जगत्स्थावरजंगमम् | बोधे नित्योदिते शुद्धे सूत्रे मणिगणा यथा || ४७ || तत्संभावनार्थमाह - त्वयीति || ४७ || न जायसे न म्रियसे त्वमजः पुरुषो विराट् | चिच्छुद्धा जन्ममरणभ्रान्तयो मा भवन्तु ते || ४८ || कालकृतवैषम्याण्यपि परिहर्तुमाह - न जायसे इति || ४८ || समस्तजन्मरोगाणां प्रविचार्य बलाबलम् | तृष्णामुत्सृज्य भोगानां भोक्तैव भव केवलम् || ४९ || तृष्णावृद्धौ जन्मादिरोगाणां प्राबल्यं तृष्णापक्षये च तेषां दौर्बल्यमित्यन्वयव्यतिरेकाभ्यां परीक्ष्येत्यर्थः | भोगानां तृष्णामुत्सृज्य भोक्ता भोगसाक्षिचिन्मात्रमेव भव || ४९ || त्वयि स्थिते जगन्नाथे चिदादित्ये सदोदिते | इदमाभासते सर्वं संसारस्वप्नमण्डनम् || ५० || त्वदीयचिद्बलादेव जगत्सिद्धमित्याह - त्वयीति || ५० || मा विषादं कृथा व्यर्थं सुखदुःखैषणा न ते | शुद्धचित्तोऽसि सर्वात्मा सर्ववस्त्ववभासकः || ५१ || शुद्धचित्तः प्रबुद्धचित्तः || ५१ || पूर्वमिष्टमनिष्टं त्वमनिष्टं चेष्टमित्यपि | परिकल्प्य तदभ्यासात्तत्ततोऽपि परित्यज || ५२ || यद्यशुद्धचित्तोऽसि तथापि तच्छुद्धये क्रमादुपायं शृण्वित्याह - पूर्वमिति | यद्यदिष्टं मनःप्रियं तदनिष्टमनर्थसाधनं यच्चानिष्टमप्रियं मनसस्तपःक्लेशेन्द्रियसंयमप्राणायामादि तत्सर्वमिष्टमावश्यकं ममेति प्रथमं परिकल्प्य सप्तमभूमिकापरिपाकपर्यन्तं तदभ्यासात्तज्जये सति तत् तां कल्पनामपि ततः परित्यजेत्यर्थः || ५२ || इष्टानिष्टदृशोस्त्यागे समतोदेति शाश्वती | तया हृदयवर्तिन्या पुनर्जन्तुर्न जायते || ५३ || तत्त्यागफलमाह - इष्टेति | हृदयवर्तिन्या अभ्यासाद्धृदये स्थिरीकृतया || ५३ || येषु येषु प्रदेशेषु मनो मज्जति बालवत् | तेभ्यस्तेभ्यः समाहृत्य तद्धि तत्त्वे नियोजयेत् || ५४ || तत्त्वे तत्तदधिष्ठानचिन्मात्रे | तथाच भगवताप्युक्तम् यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् | ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् || इति || ५४ ||
163 SK एवमभ्यागताभ्यासं मनोमत्तमतंगजम् | निबध्य सर्वभावेन परं श्रेयोऽधिगम्यते || ५५ || सर्वभावेन सर्वप्रयत्नेन सर्वात्मभावेन च | निबध्य निरुध्य || ५५ || मा शरीरयथार्थज्ञैर्मिथ्यादृष्टिहताशयैः | धूर्तैः संकल्पविक्रीतैर्विमूढैः समतां व्रज || ५६ || शरीर मेव यथार्थं परमार्थ इति ये जानन्ति तैः | भोगसंकल्पेभ्यो विक्रीतैरिव तत्परवशैः || ५६ || अकिंचनात्स्वनिर्णीतौ लम्बमानात्परोक्तिषु | न मौर्ख्यादधिको लोके कश्चिदस्तीह दुःखदः || ५७ || पराधीनप्रज्ञानां स्वयंविचारासमर्थानां मौर्ख्यमेव महाननर्थ इत्याह - अकिंचनादिति | स्वस्यात्मतत्त्वस्य निर्णीतौ निर्णयविषये अकिंचनात् विवेकवैराग्याद्युपायदरिद्रात् | परेषां प्रतारकाणां मूर्खाणां चोक्तिषु अन्धगोलाङ्गलन्यायेनावलम्बमानात् || ५७ || त्वमेतदविवेकाब्भ्रमुदितं हृदयाम्बरे | विवेकपवनेनाशु दूरं नय महामते || ५८ || एतन्मौर्ख्यलक्षणमविवेकाब्भरणादविवेकाब्भ्रम् || ५८ || आत्मनैव प्रयत्नेन यावदात्मावलोकने | न कृतोऽनुग्रहस्तावन्न विचारोदयो भवेत् || ५९ || मौर्ख्यनिरासहेतुर्विचारः स च बहुजन्मसंचितसुकृतपरिपाकजादात्मानुग्रहादेव भवतीत्याह - आत्मनैवेति | प्रयत्नेन श्रवणवैराग्यादिपुरुषप्रयत्नेन || ५९ || वेदवेदान्तशास्त्रार्थतर्कदृष्टिभिरप्ययम् | नात्मा प्रकटतामेति यावन्न स्वमवेक्षितम् || ६० || सत्यपि वैराग्यविचारश्रवणादौ बहिर्मुखदृष्टेर्ज्ञानानुदयात्प्रत्यग्दृष्टिरप्यावश्यकीत्याशयेनाह - pratyagdṛśāṃ vimokṣāya vibandhāya parāgdṛśām || iti || 60 || tvamātmanyātmanā rāma prasāde samavasthitaḥ | prāpto'si vitataṃ bodhaṃ madvacasyeva budhyase || 61 || tarhi pratyagdṛṣṭirevaikā jñānāyāstu kiṃ gurūpadeśenetyāśaṅkyāha - madvacasyeveti | madupadeśe satyevetyarthaḥ | balavadapi śikṣitānāmātmanya pratyayaṃ cetaḥ itinyāyādguruśāstroktisaṃvāde satyeva svapratyaye viśvāsādasaṃdigdhabodhasiddhiriti dyotanāyaivakāraḥ || 61 ||
164 SK विकल्पांशविहीनस्य त्वयैषा चिद्विवस्वतः | गृहीता वितता व्याप्तिर्मदुक्त्या परमात्मनः || ६२ || अमुमेवार्थं स्पष्टमाह - विकल्पेति | संदेहादिचित्तविकल्पैरविषयीकृतस्येत्यर्थः | वितता व्याप्तिस्त्रेधाप्यपरिच्छिन्नता || ६२ || विलीनसर्वसंकल्पः शान्तसंदेहविभ्रमः | क्षीणकौतुकनीहारो जातोऽसि विगतज्वरः || ६३ || कौतुकं बाह्यार्थचमत्कारकुतूहलमात्मतत्त्वजिज्ञासाकुतूहलं च स एव नीहारोऽवश्यायः || ६३ || यदुपगच्छसि पासि निहंसि वा पिबसि विस्मयसे च विवर्धसे | तदपि तेन तदास्तु यदा मुने विगतबोधकलङ्कविशङ्कितः || ६४ || हे मुने मननशील राम त्वं यदा विगतो बोधस्य बोधैकरस्यात्मतत्त्वस्य कलङ्क आवरणं विशङ्कितं विक्षेपश्च यस्य तथाविधो भविष्यसि तदा ते यदप्राप्तं ज्ञानं तत्साधनं च विचारगुरुशास्त्रोपदेशाद्युपगच्छसि मोक्षार्थं स्वीकरोषि यच्च विवेकवैराग्यादि पासि यत्नेन रक्षै यच्चालस्यप्रमादादिदोषजातं निहंसि यत्नेन जयसि यच्च समाधिसुखामृतं पिबसि यच्चोत्तरोत्तरभूमिकाधिरोहणेन विस्मयसे यच्च सप्तमभूमिकाविश्रान्त्या पूर्वपूर्वावस्थाधिकसुखोत्कर्षाद्विवर्धसे तदपि तदा नास्तु किंतु ब्रह्मैव यथास्थितं तिष्ठेत्यर्थः || ६४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उपशमप्रकरणे बलेर्विज्ञानप्राप्तिर्नामैकोनत्रिंशः सर्गः || २९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे बलेर्विज्ञानप्राप्तिर्नामैकोनत्रिंशः सर्गः || २९ || त्रिंशः सर्गः ३० श्रीवसिष्ठ उवाच | अथेमं परमं राम विज्ञानाभिगमे क्रमम् | शृणु दैत्येश्वरः सिद्धः प्रह्रादः स्वात्मना यथा || १ || हिरण्यकशिपोर्वीर्यं प्रह्रादादिसुतोद्भवः | नृसिंहेन वधः शोकादौर्घ्वंदहिकमुच्यते || १ ||
165 SK इत्थं केवलं काकतालीयन्यायप्रवृत्तात्स्वविचाराच्छास्त्राचार्योपदेशानुगृहीताच्च ज्ञानोदयक्रमो निरूपितः | इदानीमुपासितेश्वरानुग्रहजन्याद्विचाराज्ज्ञानोदयप्रकारं वर्णयितुं प्रह्रादोपाख्यानमाचिख्यासुर्वसिष्ठस्तच्छ्रवणे राममवधापयति - अथेति | विज्ञानस्याभिगमे आभिमुख्येन प्राप्तौ | निष्प्रत्यूहप्राप्ताविति यावत् | तथाच भगवतैवोक्तम् जरामरणमोक्षाय मामाश्रित्य यतन्ति ये | ते ब्रह्म तद्विदुः कृत्स्नम् इति || १ || आसीत्पातालकुहरे विद्रावितसुरासुरः | हिरण्यकशिपुर्नाम नारायणपराक्रमः || २ || नारायणस्य पराक्रम इवेत्यर्थे पूर्वपदं लक्षणया वर्तते | उष्ट्रमुखः खरमुख इत्यत्रोष्ट्रशब्दस्तन्मुखसदृशार्थ इवेति बोध्यम् | इवार्थवृत्तिमध्यमपदलोपी वा बहुव्रीहिः || २ || आक्रान्तभुवनाभोगः स जहार हरेर्जगत् | षट्पदस्य बृहत्पत्रं राजहंस इवाम्बुजम् || ३ || नारायणपराक्रमत्वोपपादकं विशेषणमाक्रान्तभुवनाभोग इति | भुवनपदेन त्रीण्यपि भुवनानि गृह्यन्ते | स हिरण्यकशिपुर्हरेरिन्द्रादाच्छिद्य जगत्त्रिभुवनैश्वर्यं जहार | षट्पदस्य रात्रौ गृहभूतं प्रातर्विकासेन बृहत्पत्रमम्बुजं राजहंस इव सुरासुरशब्दस्तत्तदधिपतिपरः || ३ || चकार जगतां राज्यं समाक्रान्तसुरासरः | दन्ती निरस्तहंसौधो नलिन्यामलिनामिव || ४ || नलिन्यां अलिनां भ्रमराणां राज्यं निरस्तहंसौघो दन्तीवेत्युपमानुरोधाज्जगदुद्द्वेजकता गम्यते || ४ || अथासावसुराधीशः कुर्वंस्त्रिभुवनेशताम् | कालेन सुषुवे पुत्रानङ्कुरानिव माधवः || ५ || माधवो वसन्तकालः || ५ || तेऽवर्धन्ताचिरेणैव तेजस्यूर्जितबालकाः | दशार्कांशुशतानीव व्योमाक्रान्तिविलासिनः || ६ || तेजस्यूर्जिता वयसा बालकाः | दश दशसंख्याकानि अर्कस्यांशुशतानीव | व्योमा क्रान्तिराकाशव्याप्तिः सुरलोकाक्रमणं च तया विलासिनः || ६ || प्रह्रादनामा बलवान्प्रधानात्मा बभूव ह | तेषां मध्ये महार्हाणां मणीनामिव कौस्तुभः || ७ ||
166 SK तेषां मध्ये प्रह्रादनामा प्रधानात्मा युवराजो बभूव | हेत्यैतिह्ये || ७ || तेनाराजत पुत्रेण हिरण्यकशिपुर्भृशम् | सर्वसौन्दर्ययुक्तेन वसन्तेनेव वत्सरः || ८ || अथ पुत्रसहायोऽसौ बलकोशसमन्वितः | आजगाम मदं दैत्यस्त्रिगण्डगलितेभवत् || ९ || त्रीणि गण्डोपलक्षितमुखाश्रितानि गलितानि मदधारा यस्य तथाविधो य इभस्तद्वत् | यद्यपि सप्त मदस्थानानि प्रसिद्धानि तथापि प्राधान्यात्त्रिण्युपात्तानि | उक्तस्त्रिगण्डगलितो यो गजः षष्टिहायनः इत्यभियुक्तवचनात् षष्टिहायने भवदिति वा || ९ || तत्तापाक्रान्तितापेन त्रिजगन्ति विकासिना | कल्पान्तसूर्यगणवन्नवयैव करश्रिया || १० || विकासिना विजृम्भमाणेन | आक्रान्तिरास्कन्दनं तत्प्रयुक्तेन तापेन पीडनेन | नवया तरुणया नित्याभिनवया च करश्रिया किरणकान्त्या करग्रहणप्रयुक्तसंपदा च || १० || अखिद्यन्तास्य तेनाथ सूर्येन्दुप्रमुखाः सुराः | दुर्विलासविलोलस्य बालस्येव स्वबन्धवः || ११ || तेन आक्रान्तितापेन || ११ || प्रार्थयांचक्रिरेऽथाजं दैत्येन्द्रेभपतेर्वधे | न क्षमन्ते महान्तोपि पौनःपुन्येन दुष्क्रियाम् || १२ || पौनःपुन्येन पुनःपुनर्भावेन कृतां दुष्क्रियामपराधम् || १२ || ततः प्रलयपर्यस्तजगद्घर्घरजृम्भितम् | दिग्दन्तिदशनप्रख्यनखवज्रादिजृम्भितम् || १३ || ततस्तदनन्तरं माधवः प्रलयपर्यस्तेत्यादि विशेषणविशिष्टं नारसिंहं वपुः कृत्वा महासुरं हिरण्यकशिपुं अहन् इति सप्तमेन संबन्धः | प्रलये पर्यस्तं जगदिव घर्घरं ध्वनत् जृम्भितं गात्रविनमनं यस्य तत् | दिग्दन्तिदशनप्रख्यैर्नखैर्वज्रादिभिरिव जृम्भितं यत्र || १३ || स्थिरविद्युल्लताजालभासुरद्विजमण्डलम् | दशदिक्कोटरोद्भ्रान्तज्वलज्ज्वलनकुण्डलम् || १४ || स्थिराण्यवञ्चलानि विद्युल्लताजालानीव भासुराणि द्विजानां दन्तानां मण्डलानि यस्य | दिक्श्रोत्रकत्वाद्दशसु दिक्कोटरेषूद्भ्रान्तज्वलज्ज्वलनाः कुण्डलानीव यस्य || १४ ||
167 SK समस्तकुलशैलेन्द्रपिण्डपीठोद्भटोदरम् | दोर्द्रुमाधूतनिर्धूतस्फुरद्ब्रह्माण्डखर्परम् || १५ || समस्तानां कुलशैलेन्द्राणां पिण्डपीठं पिण्डाकारसंस्थानमिवोद्भटं भीषणमुदर यस्य | दोर्द्रुमाणामाधूतैः परिवर्तनैर्निर्धूतमत एव स्फुरत्संचलद्विदीर्यमाणं ब्रह्माण्डखर्परं यस्य || १५ || वदनोदरनिष्क्रान्तवातोत्सारितपर्वतम् | त्रिजगद्दहनोद्युक्तकोपकल्पाग्निगर्वितम् || १६ || वदनेन उदरान्निष्क्रान्तैः श्वासवातैरुत्सारिताः पर्वता यस्य || १६ || सटाविकटपीनांसस्पन्दप्रेरितभास्करम् | रोमकूपलसद्वह्निपुञ्जापिञ्जरपर्वतम् || १७ || कुलाचलमहाकुड्यघटनोद्भटदिक्तटम् | सर्वावयवनिष्क्रान्तपट्टिशप्रासतोमरम् || १८ || कुलाचलैरुत्खातैर्महाकुड्यस्थ घटनायां रचनायामिव उद्भटानि उद्युक्तानि दिक्तटानि यत्र | सर्वावयवेभ्यो निष्क्रान्तानि पट्टिशप्रासतोमराण्यायुधविशेषा यस्य || १८ || नारसिंहं वपुः कृत्वा माधवोऽहृन्महासुरम् | लसत्कटकटारावं तुरङ्गममिव द्विपः || १९ || तथाविधं नारसिंहं वपुः कृत्वेत्यर्थः | अहन् हतवान् | हन्तेर्लङि तिप इति लोपे हल्ङ्यादिलोपः | लसत्कटकटारावमिति क्रियाविशेषणम् | तेन विदार्याहन्निति गम्यते | तुरंगमस्यापि द्विपेन विदारणं युद्धेषु प्रसिद्धम् || १९ || पौरमासुरमुद्वान्तैर्ददाहेक्षणवह्निभिः | स सर्वभूतकल्पान्ते जगज्जालमिवानलः || २० || आसुरं पौरं पुरवास्तव्यसर्वजन्तुं पुरोपकरणं च | ईक्षणवह्निभिर्नेत्रानलैः || २० || नृसिंहमारुते तस्मिन्भृशं क्षोभमुपागते | विस्फूर्जितघनास्फोटैरेकार्णव इवाकुले || २१ || विस्फूर्जितसदृशैर्घनैरास्फोटैर्बाहुध्वनिभिः | प्रलयपक्षे घनानां संवर्तमेघानामास्फोटैर्गर्जितैः | एकार्णवे जलप्रलये || २१ || दुद्रुवुर्दानवौघास्ते दिग्ज्वलन्मशका इव | उपाययुरदृश्यत्वं दीपा इव गतत्विषः || २२ || दिक्षु ज्वलन्तो मशका इव || २२ || अथ विद्रुतदैत्येन्द्रं दग्धान्तःपुरमण्डलम् | बभूव पातालतलं कल्पक्षुण्णजगत्समम् || २३ ||
168 SK कल्पेन प्रल्यकालेन क्षुण्णं चूर्णितं यज्जगत्तत्समम् || २३ || अकालकल्पान्तविधौ हत्वा दैत्यं शनैर्विभौ | क्वापि याते समाश्वस्तसुरसंरम्भपूजिते || २४ || अकाले कल्पान्तविधानसदृशे युद्धे दैत्यं हिरण्यकशिपुं हत्वा समाश्वस्तैः सुरैः संरम्भेण आदरनिर्भरेण पूजिते विभौ नृसिंहे क्वापि वाचामगोचरे स्वपदे याते सति || २४ || मृतशिष्टा दनुसुताः प्रह्रादपरिपालिताः | दग्धं तं देशमाजग्मुः सरः शुष्कमिवाण्डजाः || २५ || अण्डजाः पक्षिणः || २५ || तत्र कालोचितां कृत्वा स्वनाशपरिदेवनाम् | और्ध्वदेहिकसत्कारं चक्रुः प्रेतेषु बन्धुषु || २६ || स्वानां बान्धवानां नाशप्रयुक्तां परिदेवनां विलापम् || २६ || हतबन्धुजनं प्लुष्टबन्धुबान्धवमण्डलम् | शनैराश्वासयामासुर्मृतशिष्टं स्वकं जनम् || २७ || प्लुष्टं दग्धं सप्राणं बन्धूनां तद्बान्धवानां च मण्डलं समूहम् || २७ || चित्रार्पितोपमदुराकृतयो निरीहा दीनाशया हि महताम्बुरुहोपमानाः | शोकोपतप्तमनसोऽसुरनायकास्ते दग्धद्रुमा इव निरस्तविकारमासन् || २८ || निरीहाश्चिन्तया निश्चेष्टाः अत एव चित्रार्पितोपमाः दुःखिता आकृतयो येषां ते प्रह्रादादयोऽसुरनायका दग्धा दग्धपत्रशाखा द्रुमा इव निरस्तविकारं निश्चेष्टं आसन् | स्थाणूनां वायुना चलनाभावः प्रसिद्धः || २८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० उपशमप्रकरणे प्रह्रादविश्रान्तौ हिरण्यकशिपुवधो नाम त्रिंशः सर्गः || ३० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे हिरण्यकशिपुवधो नाम त्रिंशत्तमः सर्गः || ३० || एकत्रिंशः सर्गः ३१ श्रीवसिष्ठ उवाच | अथ दुःखपरीतात्मा हरिणा हतदानवे | प्रह्रादश्चिन्तयामास मौनी पातालकोटरे || १ || हरिविक्रमचिन्तात्र स्वजनक्षेमचिन्तनम् | प्रह्रादस्य हरेर्भक्त्या तद्भावश्चोपवर्ण्यते || १ || हता दानवा यस्मिंस्तथाविधे पातालकोटरे || १ || को न्वस्माकमुपायः स्याद्य एवेहासुराङ्कुरः | तीक्ष्णाग्रो जायते तं तं भुङ्क्ते शाखामृगो हरिः || २ ||
169 SK उपैतीत्युपायः सहायः | तीक्ष्णाग्रः संपत्पल्लवोद्गमक्षमो य एषासुरवृक्षाणामङ्कुरप्रायस्तेजस्वी जायते तं तं भुङ्क्ते | हरिपदस्य शाखामृगपदेन व्याख्यानमङ्कुरविनाशकत्वोपपादनार्थमधिक्षेपार्तह् च || २ || न कदाचन पाताले दैत्या दोर्दण्डशालिनः | स्थिरा बभूवुरुद्भिन्नाः पद्मा इव हिमाचले || ३ || उद्भिन्ना अङ्कुरिता वीर्यविकसिता वा || ३ || उत्पत्त्योत्पत्त्य नश्यन्ति भासुराकारघर्घराः | क्षीणप्रस्फुरितारम्भास्तरङ्गा इव वारिधेः || ४ || नश्यन्त्यसुरा इत्यनुषज्यते || ४ || सबाह्याभ्यन्तरं कष्टं समग्रालोकहारिणः | रिपवः प्रौढिमायाता अपूर्वतिमिरभ्रमाः || ५ || कष्टमिति खेदे | आलोक्यन्त इत्यालोका बाह्यराज्यादिसंपदः | आभ्यन्तरा उत्साहहर्षप्रसादसुखविश्रान्त्यादिसंपदश्च त एव आलोकाः प्रकाशास्तेषां हारिणोऽपहरणशीलाः | अत एव अपूर्वस्तिमिरभ्रमो येषु तथाविधा रिपवो देवाः प्रौढिमुत्कर्षम् || ५ || तमःप्रपूर्णहृदयाः संकुचत्पत्रसंपदः | सुहृदः खेदमायान्ति निशीथकमलाकराः || ६ || तमसा कश्मलान्धकारेण प्रपूर्णहृदयाः संकुचन्त्यः पत्रस्थानीयाः संपदो येषां तथाविधाः सुहृल्लक्षणा निशीथकमलाकराः खेदमायान्ति || ६ || तातस्य मलिनैर्नूनं पादपीठोपमर्दकैः | सुरैर्विषय आक्रान्तो मृगैरिव महावनम् || ७ || मलिनैर्द्वेषकलुषैस्तातस्य प्रणामकाले पादपीठोपमर्दकैः सुरैर्विषयो देश आक्रान्तो नूनमिति वितर्के | महावनं सिंहवनम् || ७ || निरुद्यमा गतश्रीका दीनाः प्रकटिताशयाः | बान्धवा न विराजन्ते पद्माः प्लुष्टदला इव || ८ || प्रकटिताशयाः ख्यापितहार्ददुःखाः | प्लुष्टदला ग्रीष्मदग्धपत्राः || ८ || स्फुरन्त्यसुरवीराणां गृहेष्वविरतानिलैः | धूसरा भस्मनीहारा धूपधूमभरा इव || ९ || अविरतैरनिलैरुत्पातघातैः कीर्यमाणा भस्मलक्षणा नीहाराः प्राक्तनधूपधूमभरा इव स्फुरन्ति || ९ || हृतद्वारकपाटासु दैत्यान्तःपुरभित्तिषु | प्रभा मरकतस्येव जाता नवयवाङ्कुराः || १० ||
170 SK प्राङ्मरकतस्य प्रभा इव सांप्रतं यवानां नवाङ्कुरा जाताः || १० || त्रिलोकीनाभिनलिनीमत्तेभा दानवा अपि | देववद्दैन्यमायाताः किमसाध्यमहो विधेः || ११ || त्रिलोक्या नाभिनलिनी मेरुस्तदुपमर्दे मत्तेभभूता अपि दानवाः प्राग्देवा इव दैन्यमायाताः | किमित्याक्षेपे | असाध्यं नास्तीत्यर्थः || ११ || मनाक्चलति पर्णेऽपि दृष्टारिभयभीतयः | वध्वस्त्रस्यन्ति विध्वस्ता मृग्यो ग्रामगता इव || १२ || वध्वो दैत्यसीमन्तिन्यस्त्रस्यन्ति उद्विजन्ति || १२ || आसुरीकर्णपूरार्थं फुल्ला रत्नगुलुच्छकाः | नरसिंहकरालूनाः स्थाणुतामागता द्रुमाः || १३ || रत्नमया गुलुच्छकाः स्तबका येषां तथाविधा द्रुमा दिव्यवृक्षाः || १३ || दिव्याम्बरलतापत्रा रत्नस्तबकदन्तुराः | पुनरारोपितास्तत्र नन्दने कल्पपादपाः || १४ || दिव्यान्यम्बराणि येषु तथाविधा लताः शाखाः पत्राणि च येषाम् | रत्नस्तबकैर्दन्तुराः | दन्त उन्नत उरच् | पुनरित्यनेन पूर्वं तत आनीता इति गम्यते || १४ || पुरा त्वमरबन्दीनामसुरैः संस्तुतं मुखम् | अद्य त्वसुरबन्दीनां सुरैरालोकितं मुखम् || १५ || बन्दीनां बन्दीकृतस्त्रीणाम् | संस्तुतं सप्रशंसं दृष्टम् || १५ || मन्ये दानमहानद्यः सुरेभकटभित्तिषु | प्रवृत्तास्ता भविष्यन्ति शैलसानुष्विवापगाः || १६ || दानानि मदधारास्तल्लक्षणा महानद्यः | मन्ये इति वितर्के || १६ || अस्माकमिभगण्डेषु दानदाहविभूतयः | लसन्ति मरुखण्डेषु संशुष्केष्विव धूलयः || १७ || दानस्य मदस्य दाहस्तत्प्रयुक्ता विभूतयो भस्मानि || १७ || विकासिसितमन्दारमकरन्दारुणानिलाः | ते मेरुशिखरैस्तुल्या दैत्या दुर्लभतां गताः || १८ || विकासिनां सितमन्दाराणां सपरागैर्मकरन्दैररुणा रञ्जिता अङ्गस्पर्शिनोऽनिला येषाम् | अत एव मेरुशिखरैस्तुल्याः || १८ || सुरगन्धर्वसुन्दर्यो दानवान्तःपुरोचिताः | अद्य मेरौ स्थितिं याता मञ्जर्य इव पादपे || १९ || कष्टं तात पुरंध्रीणां शुष्काम्बुरुहनीरसाः | विलासाः सुरनारीभिर्भत्र्स्यन्ते लास्यलीलया || २० ||
171 SK लास्यलीलया नृत्येषु विडम्बनलीलया || २० || पूर्वं यैरेव मत्तातश्चामरैरुपवीजितः | सहस्रनयनः स्वर्गे कष्टं तैरेव वीज्यते || २१ || इयमस्माकमप्यापदागता दैन्यदायिनी | तस्यैकस्य प्रसादेन दुष्पौरुषगतेर्हरेः || २२ || अस्माकं महाप्रभावाणामपि दुःखा पौरुषगतिः पराक्रमस्मरणमपि यस्य || २२ || तद्दोर्वनघनच्छायालब्धविश्रान्तयः सुराः | न कदाचन तप्यन्ते हिमाद्रेरिव सानवः || २३ || तप्यन्ते वयमिव संतप्यन्ते || २३ || शौरिशौर्याग्रशिखरसंश्रयेणाश्रितश्रियः | अस्मान्समुपरुन्धन्ति शुनः शाखामृगा इव || २४ || शौरेर्हरेः शौर्य पराक्रमस्तदेव गिरेस्तरोर्वा शिखरस्याग्रमग्रशिखरं तत्संश्रयेण आश्रितश्रियः प्राप्तसंपदो देवा गिरितरुशिखरसंश्रयाः शाखामृगा मर्कटा शुनः कुक्कुरानिवास्मान्वलवतोऽपि समुपरुन्धन्ति पाताले नियच्छन्ति || २४ || तेनासुरपुरन्ध्रीणां नित्यं मण्डनमण्डने | मुखपद्मे स्थितं बाष्पमञ्जिनीनां हिमं यथा || २५ || मण्डनानामलंकाराणामपि मण्डनभूते मुखपद्मे बाष्पमस्रं तेन शौरिशौर्येण हेतुना नित्यं स्थितम् | अब्जिनीनां मुखभूते पद्मे हिममवश्यायबिन्दुर्यथा यद्वदित्यर्थः || २५ || शीर्णभिन्नलुठद्भित्तिर्जगज्जरठमण्डपः | अयं नीलमणिस्तम्भैस्तद्भुजैरेव धार्यते || २६ || अर्थादसुरविक्रमैः शीर्णो विदारितोऽत एव लुठद्भित्तिर्जगल्लक्षणो जरठमण्डपो जीर्णालयो नीलमणिस्तम्भप्रायैस्तस्य शौरेर्भुजैरेव धार्यते अवष्टभ्यते || २६ || स धर्ता सुरसैन्यस्य मज्जतो विपदर्णवे | क्षीरोदोदरमग्नस्य मन्दरस्येव कच्छपः || २७ || कच्छपः कच्छपावतारः स इव स शौरिर्धर्ता धारयिता || २७ || एते तातादयः सर्वे तेनैवासुरसत्तमाः | पातिताः क्षुब्धकल्पान्तवातेनेव कुलाचलाः || २८ || स एक एव संहारकर्मक्षमभुजानलः | सुरसार्थगुरुः श्रीमान्विषमो मधुसूदनः || २९ || विषम आक्रमितुमशक्य इति यावत् || २९ ||
172 SK दैत्यदोर्दण्डपरशोस्तस्य वीर्येण वीर्यवान् | दानवान्बाधते शक्रो बालकानिव मर्कटः || ३० || दैत्यदोर्दण्डखण्डने परशुभूतस्य | यथा महामर्कटवीर्येण वीर्यवान्मर्कटो बालकान्बाधते तद्वत् || ३० || दुर्जयः पुण्डरीकाक्षः प्रविमुक्तायुधोऽपि सन् | नासौ शस्त्रास्त्रविच्छेदैर्वज्रसारो विदीर्यते || ३१ || शस्त्रास्त्रकृतैर्विच्छेदैः खण्डनैः | वज्रादपि सारो दृढतरः || ३१ || अभ्यस्ता बहवस्तेन मिथः प्रेरितपर्वताः | भीमाः समरसंरम्भाः सममस्मत्पितामहैः || ३२ || प्रेरिताः क्षिप्ताः पर्वता यत्र तथाविधाः समरसंरम्भा युद्धकौशलविशेषा अस्मत्पितामहैः सह युद्ध्वा अभ्यस्ताः शिक्षिता इत्युत्प्रेक्षा || ३२ || तासु तास्वतिघोरासु विततास्वतिराजिषु [अरिराजिषु इति पाठो युक्तः] | यो न भीत इदानीं स भयमेष्यति का कथा || ३३ || भयमेष्यति इति का कथा कः प्रसङ्ग इत्यर्थः || ३३ || उपायमेकमेवेमं हरेराक्रमणे स्फुटम् | मन्ये तद्व्यतिरेकेण विद्यते न प्रतिक्रिया || ३४ || आक्रमणे वशीकरणे | प्रतिक्रिया तत्कृत पीडाप्रतीकारः || ३४ || सर्वात्मना सर्वधिया सर्वसंरम्भरंहसा | स एव शरणं देवो गतिरस्तीह नान्यथा || ३५ || कुतो न विद्यते तत्राह - सर्वात्मनेति | इह जगति सर्वात्मना सर्ववस्तुस्वभावेन सर्वधिया सर्वबुद्धिभेदेन सर्वसंरम्भरंहसा सर्वक्रियोद्योगेन च शरणार्थिनां स एव शरणं नान्यथा गतिरस्तीत्यर्थः || ३५ || न तस्मादधिकः कश्चिदस्ति लोकत्रयान्तरे | प्रलयस्थितिसर्गाणां हरिः कारणतां गतः || ३६ || नन्वन्ये शरणं किं न स्युस्तत्राह - नेति || ३६ || अस्मान्निमेषादारभ्य नारायणमजं सदा | संप्रपन्नोऽस्मि सर्वत्र नारायणमयो ह्यहम् || ३७ || इति निश्चित्य सर्वभावेन तत्प्रतिपत्तिं संकल्पयति - अस्मादिति | किं देशकालवस्तुभेदेन प्रपद्यसे नेत्याह - सर्वत्रेति | सर्वदेशकालवस्तुष्वहं नारायणमयः || ३७ ||
173 SK नमो नारायणायेति मन्त्रः सर्वार्थसाधकः | नापैति मम हृत्कोशादाकाशादिव मारुतः || ३८ || निरन्तरतत्प्रतिपत्तिधारणानुस्मरणजपसाधनं श्रौतं तन्मन्त्रमनुस्मृत्य निरन्तरं तज्जपं संकल्पयति - नमो नारायणायेति | सप्रणवोऽयं शुचेः शुद्धे देशादावेव जपार्हो न निरन्तरमिति निष्प्रणवोपादानम् | हृत्कोशादित्युक्तिर्मानसजपमुख्यताद्योतनार्था || ३८ || हरिराशा हरिर्व्योम हरिरुर्वी हरिर्जगत् | अहं हरिरमेयात्मा जातो विष्णुमयो ह्यहम् || ३९ || सर्वत्र नारायणमयो ह्यहमित्युक्तं विशदयति - हरिरिति | आशा दिशः | विष्णुमयो भावनेन विष्णुप्रायः | स्त्रीमयो जाल्म इतिवद्भावनाकृततद्भावलक्षणे प्राचुर्ये मयट् || ३९ || अविष्णुः पूजयन्विष्णुं न पूजाफलभाग्भवेत् | विष्णुर्भूत्वा यजेद्विष्णुमयं विष्णुरहं स्थितः || ४० || किमर्थमेवम् कल्पयसि तत्राह - अविष्णुरिति | नाविष्णुः पूजयेद्विष्णुं नाशिवः पूजयेच्छिवम् इति विध्यनुरोधादित्यर्थः || ४० || हरिः प्रह्रादनामा यो मत्तो नान्यो हरिः पृथक् | इति निश्चयवानन्तर्व्यापकोऽहं च सर्वतः || ४१ || यो हरिः स एव प्रह्रादनामा | नान्योऽतोऽस्ति द्रष्टा इत्यादिश्रुतेः | मत्तः प्रतीचश्चान्यो हरिः पृथक् आत्मान्तरभृतो नास्ति || ४१ || अनन्तमिदमाकाशमापूर्य विनतासुतः | कनकाङ्गो ममाङ्गानामयमासनतां गतः || ४२ || इदानीं हरेर्वाहनायुधामरणशरीरादीनि स्वात्मनः कल्पयति - अनन्तमित्यादिना | आपूर्य स्थित इति शेषः | कनकमिवाङ्गं यस्य स्वर्णवर्ण इत्यर्थः || ४२ || करशाखैकविश्रान्तसर्वहेतिविहंगमाः | नखांशुमञ्जरीकीर्णा महामरकतद्रुमाः || ४३ || कराणां शाखास्वङ्गेषु एकविश्रान्ता नित्यविश्रान्ताः सर्वे हेतयश्चक्रगदानन्दकाद्यायुधलक्षणा विहङ्गमाः पक्षिणो येषाम् | नखकान्तिलक्षणमञ्जरीभिः कीर्णा अत एव महामरकतद्रुमभूताः | मृदुमन्दारदामदिग्धे अंसमण्डले मूलप्रदेशौ येषाम् | समुद्रमथनकाले मन्दरेणाघृष्टकेयूरा मम हरेश्चत्वार एते बाहव इति द्वयोरन्वयः || ४३ ||
174 SK इमे ते मृदुमन्दारदामदिग्धांसमण्डलाः | मन्दराघृष्टकेयूराश्चत्वारो मम बाहवः || ४४ || चलच्छशिकलापूरचारुचामरधारिणी | इयं मे पार्श्वगा लक्ष्मीः क्षीरोदकुहरोत्थिता || ४५ || हेलाविलुब्धभुवना त्रैलोक्यतरुमञ्जरी | इयं मे पाश्वगा कीर्तिरचलामलभासिनी || ४६ || हेलया अयत्नेनैव विलुब्धानि विलोभितानि श्रवणसस्पृहीकृतानि भुवनानि तत्स्था जना यया | अत एव त्रैलोक्यलक्षणतरोर्मञ्जरीव विराजमाना हरेः कीर्तिर्मूर्तिमती मे पार्श्वगा वर्तते || ४६ || अनारतजगज्जालनवनिर्माणकारिणी [जरज्जाल इत्यपि पाठः] | इयं मे पार्श्वगा माया स्वेन्द्रजालविलासिनी || ४७ || पार्श्वगा पार्श्वान्तरे स्थिता जयानाम्नी लक्ष्मीसखी || ४७ || इयं सा हेलयाक्रान्तत्रैलोक्यतरुखण्डिका | जया स्फुरति मे पार्श्वे लता कल्पतरोरिव || ४८ || इमौ मे नित्यशीतोष्णौ देवौ शीतांशुभास्करौ | प्रकटीकृतसंसारौ मुखमध्ये विलोचने || ४९ || ममेयमुत्पलश्यामा पीनाम्भोधरसुन्दरी | श्यामीकृतककुप्चक्रा देहदीप्तिर्विसर्पिणी || ५० || देहदीप्तिः शरीरकान्तिः || ५० || अयं मम करे शङ्खः पाञ्चजन्यः स्फुरद्ध्वनिः | मूर्तं खमिव शब्दात्मा क्षीरोद इव संस्थितः || ५१ || क्षीरोद इव शुभ्र इति शेषः || ५१ || अयं मे कर्णिकाकोशनिलीनब्रह्मषट्पदः | पद्मः करतले श्रीमान्स्वनाडीकुहरोद्भवः || ५२ || स्वस्य नाडीकुहरं नाभिस्तदुद्भवः | तथाच नाभिपद्ममेव कदाचित्करेण धार्यते कदाचिन्नाभाविति गम्यते || ५२ || इयं मे रत्नचित्राङ्गी सुमेरुशिखरोपमा | हेमाङ्गदा गदा गुर्वी दैत्यदानवमर्दिनी || ५३ || हेमाङ्गदा हेमपिनद्धा गदा || ५३ || अयं मे भास्कराकार [भास्वराकार इति पाठः] उद्यदंशुः सुदर्शनः | ज्वालाजटिलपर्यन्तपरिपाटलदिक्तटः || ५४ || परितः पाटलवर्णानि दिक्तटानि यस्मात् | अनेनासुररुधिराक्तता गम्यते || ५४ || अयं मे केतुमद्वह्निसुन्दरो ज्वलितोऽसितः | कुठारो दैत्यवृक्षाणां नन्दयन्नन्दकः स्थितः || ५५ ||
175 SK केतुमान् धूमरेखावान्वह्निरिव सुन्दरः | अत एवासितः | दैत्यवृक्षाणां कुठार इव च्छेत्ता | देवान् नन्दयन् नन्दको भगवत्खड्गः || ५५ || इदं मे शरधाराणां पुष्करावर्तकोपमम् | शार्ङ्गं धनुरहीन्द्राभमिन्द्रकार्मुकसुन्दरम् || ५६ || इन्द्रकार्मुकमिव सुन्दरं नानामणिचित्रम् || ५६ || इमान्यहमनन्तानि जगन्ति जठरे चिरम् | बिभर्मि जातनष्टानि वर्तमानान्यनेकशः || ५७ || सांप्रतं जातानि चिरनष्टानि चिरजातवर्तमानानि च | भविष्यतामप्युपलक्षणमेतत् || ५७ || इमौ मही मे चरणाविदं मे गगनं शिरः | इदं वपुर्मे त्रिजगदिमे मे कुक्षयो दिशः || ५८ || इदानीं हरेर्विराड्रूपमपि स्वस्यैवेत्याह - इमाविति | मही मे इमौ चरणावित्यन्वयः | कुक्षय इति बहुत्वं दिग्बहुत्वाददितिः पाशानितिवत् || ५८ || साक्षादयमहं विष्णुर्नीलमेघोदरद्युतिः | सुपर्णपर्वतारूढः शङ्खचक्रगदाधरः || ५९ || एते मत्तः पलायन्ते समग्रा दुष्टचेतसः | तार्णास्तरलसंचाराः पवनादिव राशयः || ६० || तार्णा राशयः शुष्कतृणराशयः || ६० || अयं नीलोत्पलश्यामः पीतवासा गदाधरः | लक्ष्मीवान्गरुडारूढः स्वयमेवाहमच्युतः || ६१ || को मामेति विरुद्धात्मा त्रैलोक्यदहनक्षमम् | स्वनाशाय ततः क्षुब्धं कालाग्निं शलभो यथा || ६२ || विरुद्धात्मा द्विषन् एति युद्धायागच्छति | य आगच्छति स यतः स्वनाशायैवागच्छति नान्यत्तदागमनफलमित्यर्थः || ६२ || इमे मे तैजसीं सृष्टिं ममाग्रस्थाः सुरासुराः | न शक्नुवन्ति संरोद्धुं चक्षुर्मन्दाः प्रभा इव || ६३ || तैजसीं सृष्टिं तेजोज्वालाप्रसरं संरोद्धुं प्रशमयितुं सोढुं वा || ६३ || इमं मामीश्वरं विष्णुं ब्रह्मेन्द्राग्निहरादयः | स्तुवन्त्यनन्तया वाचा बहुवक्रसमुत्थया || ६४ || अयं विजृम्भितैश्वर्यो जातोऽहमजिताकृतिः | सर्वद्वन्द्वपदातीतो महिम्ना परमेण हि || ६५ || अजितो विष्णुस्तदाकृतिः परमेण महिम्ना प्रभावेण परमार्थस्वभावेन च | एष नित्यो महिमा इति श्रुतेः || ६५ ||
176 SK त्रिभुवनभवनोदरैकमूर्ति प्रसभविभिन्नसमस्तदुष्टसत्त्वम् | घनगिरितृणकाननान्तरस्थं सकलभयापहरं वपुः प्रणौमि || ६६ || त्रिभुवनभवनमुदरे यस्य तथाविधैका मूर्तिर्यस्य तत् | घना मेघाः गिरयस्तृणानि काननानि चेत्येतदादि सर्ववम्तूनामान्तरे अधिष्ठानभावे स्थितं अत एव तत्त्वतः साक्षात्कारमात्रेण सकलभयापहरं वैष्णवं वपुर्विराड्रूपं देवतारूपं परब्रह्मात्मकं चाहमेवेति मां प्रणौमीत्यर्थः || ६६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो उपशमप्रकरणे प्रह्रादनिर्वाणे नारायणीकरणं नामैकत्रिंशः सर्गः || ३१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे नारायणीकरणं नामैकत्रिंशः सर्गः || ३१ || द्वात्रिंशः सर्गः ३२ श्रीवसिष्ठ उवाच | प्रह्राद इति संचिन्त्य कृत्वा नारायणीं तनुम् | पुनः संचिन्तयामास पूजार्थमसुरद्विषः || १ || विष्णोर्मानसपूजात्र बाह्यपूजाऽसुरैः सह | श्रुत्वा विस्मितदेवानां हरेः पृच्छा च वर्ण्यते || १ || स्वतनुं भावनया नारायणीं नारायणात्मिकां कृत्वा || १ || वपुषो वैष्णवादस्मान्मा भून्मूर्तिः परावरा | अयं प्राणप्रवाहेण बहिर्विष्णुः स्थितोऽपरः || २ || अस्मान्मया परिकल्पितात्त्रिविधाद्वैष्णवाद्वपुषोऽन्या परा समष्टिरूपा अवरा व्यष्टिदेवतारूपा वा मा भूत् किंत्वयमेव मद्रूपो विष्णुर्हृदयात्प्राणप्रवाहेण पुष्पाञ्जलिभावनया बहिरावाहितः सन् यावत्पूजाकालमपर इव स्थितः कल्प्यत इत्यर्थः || २ || वैनतेयसमारूढः स्फुरच्छक्तिचतुष्टयः | शङ्खचक्रगदापाणिः श्यामलाङ्गश्चतुर्भुजः || ३ || स कीदृशस्तमाह - वैनतेयेति द्वाभ्याम् | स्फुरत् क्रियाज्ञानेच्छानुग्रहाख्यं शक्तिचतुष्टयं यस्य || ३ || चन्द्रार्कनयनः श्रीमान्कान्तनन्दकनन्दनः | पद्मपाणिर्विशालाक्षः शार्ङ्गधन्वा महाद्युतिः || ४ || कान्तेन नन्दकेन खड्गेन नन्दनः स्वजनान्दनः || ४ || तदेनं पूजयाम्याशु परिवारसमन्वितम् | सपर्यया मनोमय्या सर्वसंभाररम्यया || ५ ||
177 SK परिवारैः संकर्षणप्रद्युम्नादिव्यूहैः पार्षदैश्च समन्वितम् || ५ || तत एनं महादेवं पूजयिष्याम्यहं पुनः | पूजया बाह्यसंभोगमहत्या बहुरत्नया || ६ || महादेवं पूज्यं देवं स्वकुलदेवशिवाभिन्नं वा | बाह्यैः संभोगैः संभारैर्महत्या विस्तृतया || ६ || प्रह्राद इति संचिन्त्य संभारभरभारिणा | मनसा पूजयामास माधवं कमलाधवम् || ७ || कमला लक्ष्मीस्तस्या धवं पतिम् || ७ || रत्नौघपात्रपटलैश्चन्दनादिविलेपनैः | धूपैर्दीपैर्विचित्रैश्च नानाविभवभूषणैः || ८ || रत्नौघखचितानां पात्राणां पटलैः प्रान्तैरभिषेचनैरिति शेषः | नानाविभवैर्भूषणैरलंकारैः || ८ || मन्दारमालावलनैर्हेमाब्जपटलोत्करैः | कल्पवृक्षलतागुच्छै रत्नस्तबकमण्डलैः || ९ || पल्लवैर्दिव्यवृक्षाणां नानाकुसुमदामभिः | किंकिरातैर्बकैः कुन्दैश्चम्पकैरसितोत्पलैः || १० || किं किरातादयो यथायोगं पुष्पजातिभेदा बोध्याः || १० || कह्लारैः कुमुदैः काशैः खर्जूरैश्चूतकिंशुकैः | अशोकैर्मदनैर्बिल्वैः कर्णिकारैः किरातकैः || ११ || कदम्बैर्बकुलैर्निम्बैः सिन्दुवारैः सयूथकैः | पारिभद्रैर्गुग्गुलीभिर्बिन्दुकैः पुष्पकोत्करैः || १२ || प्रियङ्गुपटलैः पाटैः पाटलैर्धातुपाटलैः | आम्रैराम्रातकैर्गव्यैर्हरीतकबिभीतकैः || १३ || शालतालतमालानां लताकुसुमपल्लवैः | कोमलैः कलिकाजालैः सहकारैः सकुङ्कुमैः || १४ || सकुङ्कुमैः काश्मीरद्रवाक्तैः || १४ || केतकैः शतपत्रैश्च तथैलामञ्जरीगणैः | सर्वसौन्दर्यसंमानैः स्वयमात्मार्पणैरपि || १५ || सर्वैर्धूपदीपनैवेद्यताम्बूलदर्पणच्छत्रचामरनीराजनपुष्पाञलिप्रदक्ष् इणानमस्कारादिभिः सौन्दर्ययुक्तैः संमानैरुपचारैः || १५ || हरिं परमया भक्त्या जगद्विभवभव्यया | मनसा पूजयामास प्रह्रादोऽन्तःपुरे पतिम् || १६ || जगति ये ये विभवाः प्रसिद्धास्तैस्तैरुपकरणीकृतैर्भव्यया भक्त्या पतिं जगत्पतिं स्वस्वामिनं वा || १६ ||
178 SK अथ देवगृहे तस्मिन्बाह्यार्थैः परिपूर्णया | पूजया पूजयामास दानवेशो जनार्दनम् || १७ || अथ मानसपूजानन्तरम् | तस्मिन्नन्तःपुरे स्थिते देवगृहे || १७ || बहिर्द्रव्यैरनेनैव क्रमेण परमेश्वरम् | पुनःपुनः पूजयित्वा तुष्टिमान्दानवोऽभवत् || १८ || अनेन मानसपूजोक्तेनैव क्रमेण || १८ || ततस्ततः प्रभृत्येव प्रह्रादः परमेश्वरम् | तथैव [तयैव इत्यपि क्वचित्] प्रत्यहं भक्त्या पूजयामास पूर्णया || १९ || अथ तस्मिन्पुरे दैत्यास्ततः प्रभृति वैष्णवाः | सर्व एवाभवन्भव्या राजा ह्याचारकारणम् || २० || राजा हीति | राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः | तद्धर्ममनुवर्तन्ते यथा राजा तथा प्रजाः || इति न्यायादित्यर्थः || २० || जगाम वार्ता गगनं देवलोकमथारिहन् | विष्णोर्द्वेषं परित्यज्य भक्ता दैत्याः स्थिता इति || २१ || वार्ता जगाम चारमुखादित्यर्थाद्गम्यते || २१ || देवा विस्मयमाजग्मुः शक्राद्याः समरुद्गणाः | गृहीता वैष्णवी भक्तिर्दैत्यैः किमिति राघव || २२ || किं कस्माद्गृहीतेति || २२ || क्षीरोदे भोगिभोगस्थं बिबुधा विस्मयाकुलाः | जग्मुरम्बरमुत्सृज्य हरिमाहवशालिनम् || २३ || अम्बरं अमरावतीम् || २३ || तत्रैनं दैत्यवृत्तान्तं कथयामासुरस्य ते | पप्रच्छुश्चैनमासीनमपूर्वाश्चर्यविस्मयम् || २४ || अस्य अस्मै हरये | एनं हरिम् || २४ || विबुधा ऊचुः | किमेतद्भगवन्दैत्या विरुद्धा ये सदैव ते | ते हि तन्मयतां याता मायेयमिति भाव्यते || २५ || ते विरुद्धास्त्वां द्विषन्त इति यावत् | तन्मयतां त्वन्मयताम् || २५ || क्व किलात्यन्तदुर्वृत्ता दानवा दलिताद्रयः | क्व पाश्चात्यमहाजन्मलभ्या भक्तिर्जनार्दने || २६ || द्वेषाद्दलिताः अद्रयस्त्वद्भक्तदेवमुन्यावासा यैः || २६ || प्राकृतो गुणवाञ्जात इत्येषा भगवन्कथा | अकालपुष्पमालेव सुखायोद्वेजनाय च || २७ || प्राकृतः पामरः | एषा कथा | औत्पातिकी अकाल पुष्पमालेव || २७ ||
179 SK नोपपन्नं हि यद्यत्र तत्र तत्र विराजते | मध्ये काचकलापस्य महामूल्यो मणिर्यथा || २८ || न उपपन्नं युक्तम् || २८ || यो यो यादृग्गुणो जन्तुः स तामेवैति संस्थितिम् | सदृशेष्वप्यजेषु श्वा न मध्ये रमते क्वचित् || २९ || ननु कश्यपवंश्यत्वाद्युष्मत्सदृशा एव ते इति चेद्गुणवैषम्यान्नेत्याशये नाहुः - यो य इति | तामसस्तामसीं राजसो राजसीं सात्त्विकस्तु सात्त्विकीं संस्थितिमेतीति युक्तमित्यर्थः || २९ || न तथा दुःखयन्त्यङ्गे मज्जन्त्यो वज्रसूचयः | वैसादृश्येन संबद्धा यथैता वस्तुदृष्टयः || ३० || वैसादृश्येन अनौचित्येन | तथाच हरिणोक्तम् - शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः | प्रभुर्धनपरायणः सततदुर्गतिः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे || इति || ३० || यद्यत्र क्रमसंप्राप्तमुपपन्नमनिन्दितम् | तदेव राजते तत्र जलेऽम्भोजं नतु स्थले || ३१ || क्रमो योग्यता तया संप्राप्तम् || ३१ || क्वाधमः प्राकृतारम्भो हीनकर्मरतिः सदा | वराको दानवो [दानवस्तुच्छजातिः इति क्वचित्पाठः] हीनजातिर्भक्तिः क्व वैष्णवी || ३२ || हीनजातिस्तामसयोनिः || ३२ || कमलिनी परुषोषरभूगता सुखयतीह यथा न दुराश्रया | दितिसुतोऽपि हि माधवभक्तिमा- निति कथा न तथेश सुखाय नः || ३३ || कमलिनी परुषायां तप्तायामूषरभुवि गता इति कथा यथा श्रोतॄन्न सुखयति तथा हे ईश दितेः सुतः संततिरपि माधवे भक्तिमानिति | दुराश्रया अधमाश्रयविषया कथापि नः तथैव न सुखायेत्यर्थः || ३३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे विवुधवाक्यं नाम द्वात्रिंशः सर्गः || ३२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे विबुधवाक्यं नाम द्वात्रिंशः सर्गः || ३२ || त्रयस्त्रिंशः सर्गः ३३ श्रीवसिष्ठ उवाच | गर्जन्तमतिसंरब्धं सुरलोकमथारिहा | उवाच माधवो वाक्यं शिखिवृन्दमिवाम्बुदः || १ ||
180 SK हरिभक्त्यात्र दैत्यस्य विवेकादिगुणोदयः | हरिं प्रसन्नं दृष्ट्वाग्रे स्तवश्चैवोपवर्ण्यते || १ || अनुचितदर्शनादतिसंरब्धं कुपितमत एव गर्जन्तं प्रागुक्तप्रकारेण उच्चैराक्रुश्य पृच्छन्तं सुरलोकमथ माधव उवाचेत्यन्वयः || १ || श्रीभगवानुवाच | विबुधा मा विषण्णाः स्थ प्रह्रादो भक्तिमानिति | पाश्चात्यं जन्म तस्येदं मोक्षार्होऽसावरिंदमः || २ || स्वत एव बलिनो दैत्यास्त्वद्भक्त्याप्युपस्कृता बलवत्तरा भविष्यन्ति कुतो न विषादस्तत्राह - मोक्षार्ह इति | यतो मोक्षार्हस्ततो न वस्तुच्छं राज्यसुखं स वाञ्छतीत्यर्थः || २ || अत उत्तरमेतेन गर्भता दनुजन्मना | न कर्तव्या प्रदग्धेन बीजेनेवाङ्कुरक्रिया || ३ || एतेन दनुजन्मना अतोऽस्माज्जन्मन उत्तरकालं गर्भता मातृगर्भे वसतिर्न कर्तव्या || ३ || गुणवान्निर्गुणो जात इत्यनर्थक्रमं विदुः | निर्गुणो गुणवाञ्जात इत्याहुः सिद्धिदं क्रमम् || ४ || देवैरुक्तं तस्य भगवद्भक्त्यनौचित्यदोषं परिहरति - गुणवानिति | जातश्चेति [चेदिति इत्यपि पाठः] शेषः | अनर्थक्रमं अनर्थपर्यवसितं पुरुषार्थविघातकं च क्रमं विदुः आहुश्च विद्वांसः || ४ || आत्मीयानि विचित्राणि भुवनान्यमरोत्तमाः | प्रयात नासुखायैषा प्रह्रादी गुणितेह वः || ५ || प्राह्लादी प्रह्रादसंबन्धिनी मद्भक्त्यादिगुणिता वः असुखाय न || ५ || श्रीवसिष्ठ उवाच | इत्युक्त्वा विबुधांस्तत्र क्षीरोदार्णववीचिषु | अन्तर्धानं ययौ देवस्तटतापिच्छगुच्छवत् || ६ || तटोत्पन्नतापिच्छस्य नीलं गुच्छं यथा उन्नतासु वीचिषु व्यवधानादन्तर्धानं याति तद्वत् || ६ || सोऽपि संपूजितहरिः सुरौघो व्रजदम्बरम् | पुनर्मन्दरनिर्धूतात्कणजालमिवार्णवात् || ७ || पूर्वमम्बरादर्णवे पतितं कणजालं मन्दरनिर्धूतादर्णवात्पुनरम्बरमिव || ७ || प्रह्रादं प्रति गीर्वाणास्ततः स्निग्धत्वमाययुः | महान्तो यत्र नोद्विग्नास्तत्र विश्वासवन्मनः || ८ ||
181 SK स्निग्धत्वं सौहृदम् | यत्र यस्मिन्पुरुषे विषये वा महान्तः स्वपूज्याः पित्राचार्यादयो नोद्विग्नास्तत्र तस्मिन्बालामामपि मनो विश्वासवत्प्रसिद्धमित्यर्थः || ८ || प्रत्यहं पूजयामास देवदेवं जनार्दनम् | मनसा कर्मणा वाचा प्रह्रादो भक्तिमानिति || ९ || अथ पूजापरस्यास्य समवर्धन्त कालतः | विवेकानन्दवैराग्यविभवप्रमुखा गुणाः || १० || आनन्दो यथाप्राप्तेन संतोषः || १० || नाभ्यनन्ददसौ भोगपूगं शुष्कमिव द्रुमम् | न चारमत कान्तासु मृगो लोकमहीष्विव || ११ || लोकमहीषु जनाकीर्णभूमिष्विव || ११ || न रेमे लोकचर्यासु शास्त्रार्थकथनादृते | न जायते रतिस्तस्य दृश्ये स्थल इवाब्जिनी || १२ || लोकचर्यासु अशास्त्रीयलोकवृत्तेषु | दृश्ये दर्शनार्हे समाजोत्सवादिकौतुके || १२ || न विशश्राम चेतोऽस्य भोगरोगानुरञ्जने | मुक्ताफलमसंश्लिष्ठं मुक्ताफल इवामले || १३ || भोगरूपाणां रोगाणां विषयापथ्यसेवनेनानुकूलाचरणे | असंश्लिष्टमग्रथितमच्छिद्रितं वा || १३ || त्यक्तभोगादिकलनं विश्रान्तिमनुपागतम् | चेतः केवलमस्यासीद्दोलायामिव योजितम् || १४ || कथं तर्हि चेत आसीत्तदाह - त्यक्तेति | दोलायां योजितमिव नैकतरभागविश्रान्तमन्तरालालम्बीत्यर्थः || १४ || प्राह्लादीं तां स्थितिं विष्णुर्देवः क्षीरोदमन्दिरात् | विवेद सर्वगतया धिया परमकान्तया || १५ || परमकान्तया शुद्धसत्त्वात्मिकया धिया ज्ञानशक्त्या विवेद विदितवान् || १५ || अथ पातालमार्गेण विष्णुराह्लादिताग्रतः | पूजादेवगृहं तस्य प्रह्रादस्य समाययौ || १६ || आह्लादिता भक्ताह्लादकर्ता | एतस्यैवानन्दत्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेः सर्वानन्दकर्ता वा | पूजादेवगृहं गत्वा प्रह्रादस्य अग्रतः समाययौ || १६ || विज्ञायाभ्यागतं देवं पूजया द्विगुणेद्धया | दैत्येन्द्रः पुण्डरीकाक्षमादरात्पर्यपूजयत् || १७ || द्विगुणेनोपकरणोपचारेण इद्धया दीप्तया || १७ || पूजागृहगतं देवं प्रत्यक्षावस्थितं हरिम् | प्रह्रादः परमप्रीतो गिरा तुष्टाव पुष्टया || १८ ||
182 SK पुष्टया हर्षोपचितया || १८ || प्रह्राद उवाच | त्रिभुवनभवनाभिरामकोशं सकलकलङ्कहरं परं प्रकाशम् | अशरणशरणं शरण्यमीशं हरिमजमच्युतमीश्वरं प्रपद्ये || १९ || त्रिभुवनस्य यद्भवनं सुरक्षितस्थितिस्तदनुकूलमभिरामं कोशगृहम् | स्वान्तःस्थितत्रिभुवनस्य स्वेनैव पालनात् | सकलस्य बाह्याभ्यन्तरस्य कलङ्कस्य तमसः हरं अपहर्तारम् | परं सूर्यचन्द्राग्निवाक्करणप्रकाशेभ्योऽप्युत्कृष्टं स्वयंज्योतिः प्रकाशम् | न विद्यतेऽन्यच्छरणं येषां ते अशरणास्तेषां शरणं रक्षकम् | अविनाशित्वाच्छरण्यं शरणार्हम् | ईशं सर्वशक्तिसंपन्नम् | अत एव रजसा अजं सत्त्वेनाच्युतं तमसा चेश्वरं सर्वदुःखहरत्वाद्धरिं त्वां प्रपद्ये इत्यर्थः || १९ || कुवलयदलनीलसंनिकाशं शरदमलाम्बरकोटरोपमानम् | भ्रमरतिमिरकज्जलाञ्जनाभं सरसिजचक्रगदाधरं प्रपद्ये || २० || कुवलयदलेनोत्पलेन नीलमणिना च संनिकाशं समानकान्तिम् || २० || विमलमलिकलापकोमलाङ्गं सितदलपङ्कजकुड्मलाभशङ्खम् | श्रुतिरणितविरञ्चिचञ्चरीकं स्वहृदयपद्मदलाश्रयं प्रपद्ये || २१ || अलिकलापमिव कोमलानि सुन्दराण्यङ्गानि यस्य | सितदलपङ्कजस्य पुण्डरीकस्य कुड्मलमिव आभातीति सितदलपङ्कजकुड्मलाभः शङ्खो यस्य | श्रुतय एव रणितानि गुञ्जारवा यस्य तथाविधो विरिञ्चिनामा चञ्चरीको नाभिपद्मे भृङ्गो यस्य | स्वानां स्वभक्तानां हृदयपद्मदलान्याश्रय आधारो यस्य तम् || २१ || सितनखगणतारकावकीर्णं स्मितधवलाननपीवरेन्दुबिम्बम् | हृदयमणिमरीचिजालगङ्गं हरिशरदम्बरमाततं प्रपद्ये || २२ || हरिलक्षणं शरदम्बरं शरत्कालाकाशं प्रपद्ये | शरदम्बरत्वोपपादनाय विशिनष्टि - सितनखेत्यादि | स्मितेन धवलमाननलक्षणं पीवरं पूर्णमिन्दुबिम्बं यस्य | हृदयमणिः कौस्तुभस्तन्मरीचिजालान्येव गङ्गा मन्दाकिनी यत्र || २२ ||
183 SK अविरलकृतसृष्टिसर्वलीनं सततमजातमवर्धनं विशालम् | गुणशतजरठाभिजातदेहं तरुदलशायिनमर्भकं प्रपद्ये || २३ || अविरला निबिडा कृता सृष्टिः सर्वाप्यसंबाधं लीना निविष्टा यस्मिन् | स्वयं तु सततमजातमनुत्पन्नमत एवाऽवर्धनं वृद्ध्यादिविकारशून्यम् | कथं तस्य देहित्वं तत्राह - गुणेति | सत्त्वादिमायागुणप्रयुक्तैर्गुणशतैरनन्तकल्याणगुणैर्जरठोऽतिचिरंतनोऽभिज् आतः सुन्दरो देहो यस्य तथाविधम् | प्रलयकाले वटतरुदले शायिनमर्भकं प्रपद्ये इत्यर्थः || २३ || नवविकसितपद्मरेणुगौरं स्फुटकमलावपुषा विभूषिताङ्गम् | दिनशमसमयारुणाङ्गरागं कनकनिभाम्बरसुन्दरं प्रपद्ये || २४ || नवविकसितस्य नाभिपद्मस्य रेणुभिर्गौरं पीतमर्थादुदरदेशे | स्फुटेन प्रकाशमानेन कमलाया लक्ष्म्या वपुषा विभूषितमङ्गं वक्षो वामोरुर्वा यस्य | दिनशमसमयः सायंकाल इवारुणो रक्तचनदनकाश्मीराद्यङ्गरागो यस्य || २४ || दितिसुतनलिनीतुषारपातं सुरनलिनीसततोदितार्कबिम्बम् | कमलजनलिनीजलावपूरं हृदि नलिनीनिलयं विभुं प्रपद्ये || २५ || कमलजो ब्रह्मा तन्नलिन्या जलेनावपूर्यत इति जलावपूरस्तडागस्तद्रूपम् | हृदि प्रसिद्धा नलिनी हृत्पद्ममिति यावत् || २५ || त्रिभुवननलिनीसितारविन्दं तिमिरसमानविमोहदीपमग्र्यम् | स्फुटतरमजडं चिदात्मतत्त्वं जगदखिलार्तिहरं हरिं प्रपद्ये || २६ || त्रिभुवननलिन्याः सिते अरविन्दे करे यस्य सूर्यस्य तथाभूतम् | अत एव तिमिरसमानस्य विमोहस्य दीपम् | अग्र्यं श्रेष्ठम् | किं भौतिकप्रकाशोऽसौ नेत्याह - स्फुटतरमिति | स्फुटतरं नित्यस्वप्रकाशमत एवाजडं चिद्रूपमात्मतत्त्वमत एव साक्षात्कारमात्रेण जगतां जगद्गतजीवानामखिलार्तिहरम् || २६ || श्रीवसिष्ठ उवाच | इति गुणबहुलाभिर्वाग्भिरभ्यर्चितोऽसौ हरिरसुरविनाशः श्रीनिषण्णांसदेशः | जलद इव मयूरं प्रीतिमान्प्रीयमाणं कुवलयदलनीलः प्रत्युवाचासुरेन्द्रम् || २७ ||
184 SK इति उक्तप्रकाराभिर्गुणैर्बहुलाभिः स्तुतिवाग्भिरभ्यर्चितः | श्रिया निषण्ण आलिङ्गित्ॐऽसदेशो यस्य तथाविधो हरिर्जलदो मयूरमिव असुरेन्द्रं प्रह्रादं प्रत्युवाच || २७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे नारायणागमनं नाम त्रयस्त्रिंशः सर्गः || ३३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे नारायणागमनं नाम त्रयस्त्रिंशः सर्गः || ३३ || चतुस्त्रिंशः सर्गः ३४ श्रीभगवानुवाच | वरं गुणनिधे दैत्यकुलचूडामहामणे | गृहाणाभिमतं भूयो जन्म दुःखोपशान्तये || १ || हरेर्वरादिह प्राप्य प्रह्रादः सुविचारणाम् | निरस्यानात्मवर्गं स्वमपश्यच्चित्सदद्वयम् || १ || हे दैत्यकुलचूडामहामणे त्वं वरं गृहाण || १ || प्रह्राद उवाच | सर्वसंकल्पफलद सर्वलोकान्तरस्थित | यदुदारतमं वेत्सि तदेवादिश मे विभो || २ || सर्वेषां लोकानां प्राणिनामन्तरे हृदये स्थित | उदारतमं सर्वकार्पण्यनिवारकमिति यावत् | आदिश आज्ञापयेति विनयोक्त्यां याचनम् || २ || श्रीभगवानुवाच | सर्वसंभ्रमसंशान्त्यै परमाय फलाय च | ब्रह्मविश्रान्तिपर्यन्तो विचारोऽस्तु तवानघ || ३ || एवं प्रार्थितो विष्णुः स्वविचारोत्पन्नब्रह्मात्मतत्त्वसाक्षात्कारविश्रान्तिमन्तरेण नात्यन्तिककार्पण्यनिवृत्तिरिति मन्यमानस्तदनुरूपं वरं दिशति - सर्वेति | सर्वसंभ्रमसंशान्तिरात्यन्तिकानर्थनिवृत्तिः | परमं फलं निरतिशयानन्दावाप्तिः || ३ || श्रीवसिष्ठ उवाच | इत्युक्त्वा दितिपुत्रेन्द्रं विष्णुरन्तरधीयत | कृतघर्घरनिर्ह्रादस्तरङ्गस्तोयधेरिव || ४ || विष्णावन्तर्हिते देवे पूजायां कुसुमाञ्जलिम् | पाश्चात्यं दानवस्त्यक्त्वा मणिरत्नपरिष्कृतम् || ५ || पद्मासनस्थोऽतिमुदा ह्य्पविश्य वरासने | स्तोत्रपाठविधावन्तश्चिन्तयामास चेतसा || ६ || वरासने उपविश्य पद्मासनस्थः संस्तोत्रपाठविधानकाले अन्तर्वक्ष्यमाणप्रकारेण चिन्तयामास || ६ ||
185 SK विचारवानेव भवान्भवत्विति भवारिणा | देवेनोक्तोऽस्मि तेनान्तः करोम्यात्मविचारणम् || ७ || भवः संसारस्तदरिणा तन्निवारकेण | तेन हेतुना || ७ || किमहं नाम तावत्स्यां योऽस्मिन्भुवनडम्बरे | वच्मि गच्छामि तिष्ठामि प्रयत्नेनाहरामि च || ८ || तत्र सर्वस्य दृश्यस्यात्मार्थत्वादात्मन एव प्राधान्यं निश्चित्य स एवास्मिन् कः स्यादिति विचारयति - किमहमित्यादिना | प्रयत्नेन सर्वोद्योगेन | आहरामि विषयानुपभुञ्जे || ८ || जगत्तावदिदं नाहं सवृक्षतृणपर्वतम् | यद्बाह्यमलमत्यन्तं तत्स्यां कथमहं किल || ९ || तत्र देहाद्बाह्यं तावन्नात्मेत्याह - जगदिति || ९ || असन्नभ्युदितो मूकः पवनैः स्फुरितः क्षणम् | कालेनाल्पेन विलयी देहो नाहमचेतनः || १० || देहोऽपि नाहमित्याह - असन्निति | मूकोऽनभिज्ञत्वादेव वक्तुमसमर्थः | पवनैः प्राणवायुभिः क्षणं स्वसंचारक्षणे स्फुरितः संचलितः || १० || जडया कर्णशष्कुल्या कल्प्यमानः क्षणक्षयी | शून्याकृतिः शून्यभवः शब्दो नाहमचेतनः || ११ || एवं शब्दादिविषया अपि नात्मेत्याह - जडयेत्यादिना | जडया अचिद्रूपया कल्प्यामानस्तारो मन्द्रः पदं वाक्यमित्यादिभेदैः समर्थ्यमानः | क्षयित्वादेव शून्याकृतिः | शून्यादाकाशाद्भवतीति भवः | यद्यप्याकाशो न शून्यस्वभावस्तथाप्यात्मसत्तातः पृथक्करणे निःस्वरूप इति शून्यत्वोक्तिः || ११ || त्वचा क्षणविनाशिन्या प्राप्यमप्राप्यमप्यथ | चित्प्रसादोपलब्धात्मस्पर्शनं नास्म्यचेतनम् || १२ || प्राप्यमप्राप्यमपि कदाचित्प्राप्यम् | स्पर्शनं उष्णत्वादि | न नित्यप्राप्तस्वभाव आत्मा भवितुमर्हतीति भावः || १२ || बद्धात्मा जिह्वया तुच्छो लोलया लोलसत्तया | स्वल्पस्पन्दो द्रव्यनिष्ठो रसो नाहमचेतनः || १३ || लोलसत्तया अनित्यया लोलया चलया जिह्वया बद्धात्मा संबद्धस्वभावो रसनेन्द्रियाधीनसिद्धिक इति यावत् | स्वल्पो जिह्वाग्रात्कण्ठपर्यन्तः स्पन्द आस्वादप्रसरो यस्य || १३ ||
186 SK दृश्यदर्शनयोर्लीनं क्षयिक्षणविनाशिनोः | केवले द्रष्टरि क्षीणं रूपं नाहमचेतनम् || १४ || दृश्ये द्रव्ये दर्शने चक्षुषि च लीनं तदुभयाधीनसिद्धिकमिति यावत् | क्षणविनाशिनोरनित्ययोः | केवले द्रष्टरि उपभोगजननेन क्षीणमुपक्षीणम् || १४ || नासयाप्यन्धजडया क्षयिण्या परिकल्पितः | पेलवोऽनियताकारो गन्धो नाहमचेतनः || १५ || अन्धवज्जडया अप्रकाशया | नासया घ्राणेन्द्रियेण | कालेनान्यथा परिणामादनियताकारः || १५ || निर्ममोऽमननः शान्तो गतपञ्चेन्द्रियभ्रमः | शुद्धचेतन एवाहं कलाकलनवर्जितः || १६ || शब्दाविषयाणामनात्मत्ववचनं वचनादानादीनामपि समानं सत्सर्वत्र त्रिपुटीनां न्यायसाम्यादनात्मत्वोपलक्षणम् | तेनाहंकारमनोबुद्धिचित्तत्रिपुट्या अप्यनात्मत्वेन निरासे शुद्धचिन्मात्रमेवात्मा परिशिष्ट इत्याशयेनाह - निर्मम इति || १६ || चेत्यवर्जितचिन्मात्रमहमेषोऽवभासकः | सबाह्याभ्यन्तरव्यापी निष्कलामलसन्मयः || १७ || चेतनपदेन चेतनावतो जडाशस्यापि ग्रहणं माभूदिति तत्परिशोधायाह - anena cetaneneme sarve ghaṭapaṭādayaḥ | sūryāntā avabhāsyante dīpenottamatejasā || 18 || itthaṃ tvaṃpadārtha pariśuddhaṃ vicārya tanmukhenaiva tatpadārthamapi pariśodhyāvadhārayitumupakramate - anenetyādinā | anyanirapekṣatvāduttamatejasā cetanena dīpena || 18 || ā idānīṃ smṛtaṃ satyametattadakhilaṃ mayā | nirvikalpacidābhāsa eṣa ātmāsmi sarvagaḥ || 19 || nirvikalpo viyadādivikalpaśūnyaścillakṣaṇa ābhāsaḥ prakāśa eṣa ātmāsmīti anātyeśvaranirāsaḥ || 19 || anenaitāḥ sphurantīha vicitrendriyavṛttayaḥ [paṅktaya ityapi pāṭhaḥ] | tejasāntaḥprakāśena yathāgnikaṇapaṅktayaḥ || 20 || agnibhūtā aṅgārakaṇapaṅktayo yathetyarthaḥ || 20 || anenaitāḥ sphurantīha [sphuraritaḥ iti pāṭhaḥ] vicitrendriyapaṅktayaḥ | sarvagena nidāghena yathā marumarīcikāḥ || 21 || anenaitatpadārthānāṃ vastutvaṃ pratipādyate | śuklādiguṇavattvaṃ svaṃ pradīpeneva vāsasām || 22 ||
187 SK सर्वपदार्थानां स्फूर्तिरिव सत्ताप्येतदधीनैवेत्याह - अनेनेति | सत्तोपपादने प्रदीपदृष्टान्तः स्फूर्तिसत्तयोरभेदद्योतनार्थः || २२ || असावेव हि भूतानां सर्वेषामेव जाग्रताम् | सर्वानुभविताभूमिरात्मा मुकुरवत्स्थितः || २३ || जाग्रतां सचेतसामिति यावत् | सर्वासामनुभव एषामस्तीत्यनुभविनो देहेन्द्रियमनोबुद्ध्यादयस्तद्भावानां अनुभवितानामनुभवानां भूमिः परं विश्रान्तिस्थानम् | यथा मुकुरः सर्ववस्तुप्रतिबिम्बविश्रान्तिभूस्तद्वत् || २३ || तस्यैकस्याविकल्पस्य चिद्दीपस्य प्रसादतः | उष्णोऽर्कः शिशिरश्चन्द्रो घनोऽद्रिर्विद्रुतं पयः || २४ || पदार्थानां स्वभाववैचित्र्याण्यप्येतदधीनसिद्धिकानीत्याह - तस्येति | घनः कठिनः | विद्रुतं द्रवम् [दुतम् इति पाठः] || २४ || सातत्येनानुभूतानां सर्वेषां च जगत्स्थितौ | एतत्कारणमाद्यं तत्कारणं नास्य विद्यते || २५ || सातत्येन आकाशाद्वायुर्वायो रग्निरग्नेरापः इत्यादिक्रमेण श्रुतिप्रत्यक्षादिना अनुभूतानां सर्वेषां पदार्थानां जगति उत्पत्त्यादिव्यवस्थितौ एतदाद्यं कारणम् | तनोतीति तत् सद्रूपेण सर्वकार्यव्यापकम् || २५ || सातत्येनानुभूतानां पदार्थानामनेन तत् | पदार्थत्वमुदेत्युच्चैः प्रतापेनेव तप्तता || २६ || तत् प्रसिद्धं वियदादिपदार्थत्वम् | प्रतापेन ग्रीष्मार्कतापेन भूम्यादेस्तप्ततेव || २६ || अनाकारात्कारणाच्च सर्वकारणकारणात् | एतस्मादिदमुत्पन्नं जगच्छैत्यं हिमादिव || २७ || परमार्थतोऽनाकारात्कारणत्वाद्याकारशून्यात् अविद्यया कारणभूताच्च सर्वेषां ब्रह्मादिकारणानां कारणादेतस्मात्प्रत्यग्रूपद्ब्रह्मण इदं जगदुत्पन्नम् || २७ || ब्रह्मविष्ण्विन्द्ररुद्राणां कारणानां जगत्स्थितौ | एतत्कारणमाद्यं तत्कारणं नास्य विद्यते || २८ || सर्वकारणकारणादित्येतद्विवृणोति - ब्रह्मविष्ण्विति || २८ || चिच्चेत्यद्रष्टृदृश्यादिनामभिर्वर्जितात्मने | स्वयं सकृद्विभाताय मह्यमस्मै नमो नमः || २९ || सकृद्विभाताय नित्यस्वप्रकाशाय || २९ ||
188 SK एतस्मिन्सर्वभूतानि निर्विकल्पचिदात्मनि | गुणभूतानि भूतेशे तिष्ठन्ति विविशन्ति च || ३० || कारणत्वात्सर्गहेतुत्ववत्स्थितिप्रलयहेतुत्वमप्यस्यैवेत्याह - एतस्मिन्निति | गुणभूतात्प्रधानभूतानि गुणवदपृथक्सत्ताकानि वा विविशन्ति प्रविशन्ति | तथाच यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुत्युक्तब्रह्मलक्षणस्यास्मिन्नेव समन्वयः इत्यर्थः || ३० || यत्किलानेन कलितं चेतनेनातरात्मना | तत्तद्भवति सर्वत्र नेतरत्सदपि स्थितम् || ३१ || कारणे सूक्ष्मरूपेण स्थितमिदानीं सद्वर्तमानमपि यदनेनेश्वरेण चेतनेनान्तरात्मनोत्तरक्षणेऽस्त्विति कलितं संकल्पितं तत्तद्भवत्युत्तरक्षणे नेतरदित्यर्थः || ३१ || यच्चिता कलितं किंचित्तदाप्नोति निजं पदम् | यच्चिताकलितं नेह तत्सदप्यन्तमागतम् || ३२ || कलितं स्वीयसत्तास्फुर्तिप्रदानेनोज्जीवितम् | निजं घटोऽस्तीत्यादिव्यवहारपदम् | अन्तमसत्त्वलक्षणं नाशमागतं प्राप्तम् || ३२ || इमे घटपटाकाराः पदार्थशतपङ्क्तयः | जागत्यो विपुलादर्शे ह्यस्मिन्व्योमनि बिम्बिताः || ३३ || एतद्वृद्धं वृद्धतरे क्षयि क्षयिणि जायते | पदार्थे सदसच्चापि प्रतिबिम्बार्कवत्स्थितम् || ३४ || एवं वृद्ध्यादिभावविकारा अप्येतस्मिन्नेवाध्यस्ता इत्याह - एतदिति | यथा प्रतिबिम्बार्के क्षयवृद्धी तद्रूपेण स्थिते बिम्बे एवाध्यस्ते अन्यवृत्तितयेव विभाव्येते तद्वदित्यर्थः || ३४ || अदृश्यं सर्वभूतानां प्राप्यं गलितचेतसाम् | एतत्तद्दृश्यते सद्भिः परं व्योमातिनिर्मलम् || ३५ || सर्वेषां भूतानामज्ञानाम् | गलितचेतसां दृश्यमिति वक्तव्ये प्राप्यमित्युक्तिर्दर्शनप्राप्त्योर्भेदाभावद्योतनायेत्याशयेन व्याचष्टे - एतत्तदिति || ३५ || इयमभ्युदयं याति नानादृश्यसुमञ्जरी | आचारचञ्चरीकाढ्या एतस्मात्कारणद्रुमात् || ३६ || ये तु कारणस्यैकदेशे परिणामो जगदिति कल्पयन्ति तेषां कल्पनाप्यस्मिन्नेव नान्यत्रेत्याशयेनाह - इयमिति द्वाभ्याम् || ३६ || अस्मादियमुदेत्युच्चैः संसाररचनाचला | विचित्रतरुगुल्माढ्या शैलादिव वनावली || ३७ ||
189 SK सर्वेषामविभिन्नोऽसौ त्रैलोक्योदरवर्तिनाम् | ब्रह्मादीनां तृणान्तानां चिदात्मा संप्रकाशकः || ३८ || अस्मिन्नेव कल्पनेति कुतो ज्ञातमिति चेदेतदभिन्नस्फूर्तिकत्वाज्जगत इत्याह - सर्वेषामिति || ३८ || एकोऽसावहमाद्यन्तरहितः सर्वगाकृतिः | चराचराणां भूतानामन्तः स्वानुभवः स्थितः || ३९ || अस्य तस्य ममेमानि स्थावराणि चराणि च | परिसंख्यादिहीनानि शरीराणि बहूनि च || ४० || परिच्छिद्य संख्यागणना व्यक्तीयत्ता | आदिपदाद्देशेयत्ताकालेयत्ते गृह्येते || ४० || एकोऽसावनुभूत्यात्मा स्वानुभूतिवशात्स्वयम् | सर्वदृग्द्रष्टृदृश्यत्वात्सहस्रकरलोचनः || ४१ || स्वानुभूतिवशात्स्वात्मनि क्रियाविरोधेनानुभूत्यन्तरा घटनात्स्वप्रकाशानुभूत्यात्मायमित्यर्थः | परप्रकाशनेऽप्यस्य संकोचाभावेन सर्वदृग्द्रष्टृदृश्यासाक्षितया भास्या यस्य तथाविधत्वात्प्रतिशरीरमात्मभेदासिद्धावयमेव सर्वेषां करलोचनैः सहस्रकरलोचन इत्यर्थः || ४१ || एषोऽसावहमाकाशे सूर्यदेहेन चारुणा | विहरामीतरेणापि वायुदेहेन वायुना || ४२ || सर्वात्मभावं स्वस्य प्रत्येकमाह - एषोऽसाविति | एष प्रत्यक्षोऽसावीश्वरभूतोऽहं सूर्यभूतः सन्सूयदेहेन विहरामि | एवं वायुना वायुदेहेन || ४२ || ममैतद्वपुरानीलं शङ्खचक्रगदाधरम् | सर्वसौभाग्यसीमान्तं ह्यस्मिञ्जगति वल्गति || ४३ || वल्गति व्यवहरति || ४३ || अहमस्मिन्समुद्भूतः पद्मासनगतः सदा | निर्विकल्पसमाधिस्थः परां निर्वृतिमागतः || ४४ || अहं त्रिनेत्रयाऽकृत्या गौरीवक्राब्जषट्पदः | सर्गान्ते संहरामीदं कूर्मोऽङ्गपटलं यथा || ४५ || आकृत्या मूर्त्या || ४५ || अहमिन्द्रेण रूपेण त्रिलोकीमखिलामिमाम् | पालयामि क्रमप्राप्तां मठिकामिव तापसः || ४६ || क्रमप्राप्तां मन्वन्तरक्रमप्राप्ताम् || ४६ || स्त्रीपुमानहमेवैतत्कुमारो ह्यहमित्यपि | जीर्णोऽहं देहधारित्वाज्जातोऽहं विश्वतोमुखः || ४७ ||
190 SK त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी | त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः इति श्रुतिं स्वात्मनि स्वानुभवेन संवादयति - स्त्रीति || ४७ || अहं तृणलतागुल्मजालं रसतया स्थितः | उत्थापयामि चिद्भूमेः कूपोऽन्तरलतामिव || ४८ || रसतया जीवसारतया जलतया च | कूपो जीर्णकूपः || ४८ || स्वलीलार्थमिदं चारु जगदाडम्बरं ततम् | मयाभिजातबालेन पङ्कक्रीडनकं यथा || ४९ || अभिजातेन क्रीडनकनिर्माणकुशलेन बालेन || ४९ || मयेदमाप्यते सर्वं सत्ता मां प्राप्य गच्छति | मत्परित्यक्तमेतच्च सदप्येव न किंचन || ५० || आप्यते कारणभावेन व्याप्यते | कार्यस्य च सत्ताप्रविलयेन मां प्राप्य गच्छति तिरोभवति | मया स्वतत्त्वदर्शनेन परित्यक्तमेतज्जगज्जिवन्मुक्तव्यवहारे सदपि न किंचन || ५० || मयि स्फारे चिदादर्शे प्रतिबिम्बं यदागतम् | तदस्ति नेतरद्यस्मान्मत्तोअण्यन्नेह विद्यते || ५१ || कुसुमेष्वहमामोदः पुष्पपत्रेष्वहं छविः | छविष्वहं रूपकला रूपेष्वनुभवोऽप्यहम् || ५२ || इदानीमीश्वरभूतस्य स्वस्य विभूतिविस्तरमुपभोगेनुभवान्तरमाह - कुसुमेष्विति || ५२ || यद्यत्किंचिदिदं दृश्यं जगत्स्थावरजङ्गमम् | सर्वसंकल्परहितं तच्चित्तत्त्वमहं परम् || ५३ || दृश्यं दर्शनार्ह स्थावरं जंगमं वा विभूतिमच्छ्रीमदूर्जितं वा तस्य सर्वस्योत्कर्षनिमित्तं चिदात्मतत्त्वं अहमेव किं संकल्पादिदूषितजीवरूपेण नेत्याह - सर्वसंकल्परहितमिति | अत एव परम् || ५३ || आद्या रसमयी शक्ती रसौघो विस्तृतो यया | सा यथा दारुकुड्येषु तथाहं सर्ववस्तुषु || ५४ || रसमयी आद्या शक्तिः रसतन्मात्रा यथा सागरनदी सरःकूपादिरसौघो जलौघः सन् विस्तृतः सैव जलभूता शक्तिर्दारुषु वृक्षेषु शाखापल्लवाद्युद्भवनिमित्ततया कुड्येषु च तृणयवाङ्कुराद्युद्भवनिमित्ततया प्रसृता तथाहं सर्ववस्तुषु तत्तत्कार्योद्भवनिमित्ततया प्रसृत इत्यर्थः || ५४ ||
191 SK परमां तामहं सर्वपदार्थान्तरवर्तिताम् | उपेत्य संविद्वैचित्र्यं प्रतनोमि स्वयेच्छया || ५५ || स्वसृष्टकार्यान्तरानुप्रवेशेन जीवसंविद्वैचित्र्येऽपि स्वयमेव हेतुरित्याह - ghṛtaṃ yathāntaḥ payaso rasaśaktiryathā jale | cicchaktiḥ sarvabhāveṣu tathāntarahamāsthitaḥ || 56 || idaṃ jagattrikālasthaṃ citi madhye ca saṃsthitam | cetyopacārarahitaṃ vastujātamivāvanau || 57 || cetyopacāraścetyaprathā tadrahitaṃ jaḍamiti yāvat | trikālasthamatītaṃ vartamānaṃ bhaviṣyaccedaṃ jagat citi cidrūpe mayi madhye ekāṃśe vyavasthitam | yathā tṛṇakāṣṭhaloṣṭhādivastujātamavanau tadvat || 57 || bharitāśeṣadikkukṣistyaktasaṃkocavibhramaḥ | sarvasthaḥ sarvakartā ca virāṭ samrāḍahaṃ sthitaḥ || 58 || vividho vyaṣṭibhedena rājata iti virāṭ | samyaksamaṣṭibhāvena rājata iti samrāṭ | athavā viśeṣeṇa rājāntarebhyo rājata iti virāṭ | samrāṭ sarveṣāṃ rājñāmājñāpayitā || 58 || apūrvamanibaddhendramaśastradalitāmaram | aprārthitaṃ me saṃprāptaṃ jagadrājyamidaṃ tatam || 59 || indrādhikarājyāprāpteḥ kathaṃ samrāṭtvaṃ tatrāha - apūrvamiti || 59 || aho nu vitatātmāsmi na māmyapyātmanātmani | kalpāntapavanādhūta ekārṇava ivārṇave || 60 || na māmi kusūle dhānyamiva samāveśaṃ na prāpnomi | arṇave prāktanārṇavaparimāṇe || 60 || nātmanyantamavāpnomi svasthe'ntaḥ svadite svayam | kṣīravārinidhau paṅguḥ sarīsṛpa iva sphuran || 61 || antaḥ svayaṃ svadite svenaiva niratiśayānandātmanā svadamāne | paṅguḥ kuṇṭhitagatiḥ sarīsṛpaḥ sarpaḥ sphuran saṃcaran || 61 || svalpeyaṃ maṭhikā brāhmī jagannāmnī susaṃkaṭā | gajo bilva iva svāṅge na māti vipulaṃ vapuḥ || 62 || brāhmī maṭhikā brahmāṇḍaḥ | susaṃkaṭā saṃkucitagarbhā | vipulaṃ vistṛtaṃ vapurmatsvarūpaṃ na māti na samāviśati || 62 || viriñcibhavanātpāre tattvānte'pyāharatpadam | prasaratyeva me rūpamadyāpi na nivartate || 63 ||
192 SK उत्तरोत्तरदशगुणपार्थिवाद्यावरणावृताद्ब्रह्माण्डलक्षणाद्विरिञ्चिभव नात्पारेपरतश्चतुर्विंशतिसंख्यानां सांख्यवैष्णवादितन्त्रप्रसिद्धानां षट्त्रिंशत्संख्यानां शैवपाशुपताभिमतानां वा तत्त्वनामन्तेऽपि पदमाहरत् क्रममाणमिति यावत् | मे रूपं प्रसरत्येवेति वास्तवस्यैव विस्तारस्य प्रसारत्वेन कल्पना || ६३ || अयं नामाहमित्यन्तः कुतो निरवलम्बना | अपर्यन्ताकृतेरेषा किलासीत्स्वल्पता मम || ६४ || अयं देहादिरहमिति कल्पना कुत आसीदियन्तं कालमित्यर्थः || ६४ || भवानयमयं चाहमिति मिथ्यैव विभ्रमः | को देहः कोऽप्यदेहो वा को मृतः कश्च जीवति || ६५ || देहस्यैवाप्रसिद्धावदेहोऽपि कः | वन्ध्यापुत्रस्येव तद्धन्तुरप्यप्रसिद्धेः | एवं को मृतः प्राणस्यैवाप्रसिद्धौ कस्तेन वियुक्तः | कश्च जीवति प्राणान् धारयति || ६५ || वराकाः पेलवधियो बभूवुर्मे पितामहाः | ये साम्राज्यमिदं त्यक्त्वा रेमिरे भवभूमिषु || ६६ || मिथ्या साम्राज्यासक्तान्स्वपितामहादीनिदानीमनुशोचति - वराका इति | पेलवधियः क्षुद्रधिय इति यावत् || ६६ || क्वेयं किल महादृष्टिर्भरिता ब्रह्मबृंहिता | क्व सरीसृपभीमाशा भीमा राज्यविभूतिभिः [विभूतयः इति पाठश्चेत्साधु] || ६७ || सरीसृपाः सर्पा इव भीमाभिराशाभिर्मीमाः || ६७ || अनन्तानन्दसंभोगा परोपशमशालिनी | शुद्धेयं चिन्मयी दृष्टिर्जयत्यखिलदृष्टिषु || ६८ || सर्वभावान्तरस्थाय चेत्यमुक्तचिदात्मने | प्रत्यक्चेतनरूपाय मह्यमेव नमो नमः || ६९ || जयाम्यहमजो जातो जीर्णसंसारसंसृतिः | प्राप्तप्राप्यो महात्मायं जीवामि च जयामि च || ७० || यतोऽहं चिरभुक्तमन्नमिव जीर्णा संसारसंसृतिर्येन तथाविधः सन् अजो जातः अतो जयामि सर्वतो जेतव्यजयफलं सर्वानर्थनिवृत्तिं प्राप्तोऽस्मि | किंच प्राप्तानि प्राप्तव्यानि सर्वाणि सुखानि येन तथाविधः सन् जीवामि जीवितसाफल्यं प्राप्तोऽस्मि | अत एव जयामि सर्वोत्कर्षेण वर्ते चेत्यर्थः || ७० ||
193 SK इदमुत्तमसाम्राज्यं बोधं संत्यज्य शाश्वतम् | न रमेऽहमरम्यासु राज्यदुःखविभूतिषु || ७१ || दारुवारिदृषन्मात्रे लुलितो यो धरातले | धिग्वराकमनात्मज्ञं तं कुदानवकीटकम् || ७२ || वनदुर्गे दारुणि जलदुर्गे वारिगिरिदुर्गे च दृषदः मिन्वन्तीति मात्राः विपत्सु शरणं यत्र तथाविधे धरातले भूतले स्वामित्वाभिमानेन यो लुलितो लोलतां गतस्तं कुदानवलक्षणं कीटकम् | कीटकेष्वपि दारुकीटकानां दारुभिर्दुर्गभूतैर्वारिकीटकानां वारिणा दृषत्संधिगतवृश्चिकादिकीटकानां दृषद्भिश्च त्राणदर्शनात्स्वतः स्वत्राणशक्तेस्तुल्यत्वादित्यर्थः || ७२ || अविद्यैकात्मभिर्द्रव्यैरविद्यामयमङ्गकम् | अज्ञेन संतर्पयता किं नाम गुरुणा कृतम् || ७३ || कार्यकारणयोरभेदादविद्यैकात्मकैः | द्रव्यैरन्नपानादिविषयैः | गुरुणा पित्रा || ७३ || वर्षाणि कतिचित्प्राप्य जगच्छ्रीमठिकामिमाम् | किं नाम प्रापदुचितं हिरण्यकशिपुः किल || ७४ || जगत्त्रैलोक्यं तल्लक्षणां श्रीयुक्तां मठिकाम् | उचितं काश्यपे कुले जन्मनोनुरूपं परमपुरुषार्थम् || ७४ || अनास्वाद्येदमानन्दं जगद्राज्यशतान्यपि | समास्वादयता नेह किंचिदास्वादितं भवेत् || ७५ || अयमात्मैवानन्द इदमानन्दस्तम् | इदं जडदुःखरूपमपि देहेन्द्रियविषयाद्यानन्दयति आनन्दरूपतयानुभावयतीति वा इदमानन्दस्तम् || ७५ || न किंचिद्येन संप्राप्तं तेनेदं परमामृतम् | संप्राप्यान्तः प्रपूर्णेन सर्वं प्राप्तमखण्डितम् || ७६ || एकसंप्राप्त्यैव विनैव विषयं सर्वविषयसुखप्राप्तिमाह - न किंचिदिति | अखण्डितं निरन्तरम् || ७६ || त्यक्त्वा पदमिदं मूर्खो मितमेति न पण्डितः | उष्ट्रो हि त्यक्तसुलतः कण्टकं याति नेतरः || ७७ || त्यक्ता सुलता फलभरानतद्राक्षादिवल्ली येन तथाविधः सन् || ७७ || परां दृष्टिमिमां त्यक्त्वा दग्धराज्ये रमेत कः | कस्त्यक्त्वेक्षुरसं प्राज्ञः कटु निम्बपयः पिबेत् || ७८ || निम्बपयः पिचुमन्दपत्ररसम् || ७८ ||
194 SK मूर्खा एव हि ते सर्वे बभूवुर्मे पितामहाः | इमां दृष्टिं परित्यज्य रेमिरे राज्यसंकटे || ७९ || रेमिरे ये इति शेषः || ७९ || क्व फुल्लानन्दनस्थल्यः क्व दग्धमरुभूमयः | क्वेमा बोधदृशः शान्ताः क्व भोगेष्वात्मबुद्धयः || ८० || भोगेषु भोगायतनदेहादिषु || ८० || न किंचिदपि त्रैलोक्ये यद्राज्यमपि वाञ्छते | सर्वमस्त्येव चित्तत्त्वे तत्कस्मान्नानुभूयते || ८१ || न किंचिदपि सुखमिति शेषः | राज्यमपि प्राप्येति शेषः || ८१ || चिता सर्वस्थया स्वस्थसमया निर्विकारया | सर्वया सर्वदा सर्वं सर्वतः साधु लभ्यते || ८२ || सर्वं सुखं तत्साधनं च || ८२ || भासिनी तैजसी शक्तिरमृतप्राप्तिरैन्दवी | ब्राह्मी महत्ता महती शाक्री त्रैलोक्यराजता || ८३ || तत्कुतस्तत्राह - भासिनीत्यादिना | यतः भासिन्यादयस्तत्तत्सुखनिमित्ता विचित्राः शक्तयः परया चिता क्रियन्ते इत्यष्टमेनान्वयः | ब्राह्मी हैरण्यगर्भी | महत्ता मान्यता | महती सर्वोत्कृष्टा || ८३ || परमा पूर्णता शार्वी जयलक्ष्मीश्च वैष्णवी | मानसी शीघ्रगतिता बलवत्ता च वायवी || ८४ || शर्वः शिवस्तत्संबन्धिनी परमा पूर्णता निरतिशयज्ञानैश्वर्यानन्दशक्तिसंपूर्णता || ८४ || आग्नेयी दाहकलना पायसी रसनिर्वृतिः | मौनी महातपःसिद्धिर्विद्या बार्हस्पती तथा || ८५ || पायसी जलसंबन्धिनी रसनिर्वृत्तिराप्यायकता | मौनी भृग्वादिमुनिसंबन्धिनी विद्या वाक्पतिता || ८५ || वैमानिकी व्योमगतिः स्थिरता चापि पार्वती | गम्भीरताथ सामुद्री मैरवी च महोन्नतिः || ८६ || शमश्रीः सौगती सौम्या मादिरी मदलोलता | माधवी पुष्पमयता वार्षिकी [शारदी घनसस्यतेति पाठः] घनशब्दिता || ८७ || सौगती सुगतराद्धान्तसिद्धा शमश्रीः शून्यतालक्षण सर्वोपप्लवशान्तिः | अथवा शोभना गतिः सुगतिर्ब्रह्मसाक्षात्कारस्तत्संबन्धिनी शमश्रीः सर्वानर्थनिर्वापणशक्तिः || ८७ || याक्षी च मायामयता नाभसी निष्कलङ्कता | शीततापि च तौषारी नैदाघी तापतप्तता || ८८ ||
195 SK मायामयता मायाप्रचुरता | निष्कलङ्कता निर्लेपता || ८८ || एताश्चान्यास्तथा बव्ह्यो देशकालक्रियात्मिकाः | नानाकारविकारोत्थास्त्रिकालोदरसंस्थिताः || ८९ || त्रिकालोदरसंस्थिता अतीता अनागता वर्तमानाश्चेत्यर्थः || ८९ || विचित्राः शक्तयः स्वस्थसमया निर्विकारया | चिता क्रियन्ते परया कलाकलनयुक्तया || ९० || स्वस्थया स्वभावादप्रच्युतया अत एव समया एकरूपया | निर्विकारया वास्तवविकारशून्यया चिता | कलाकलनं तच्छक्तिकार्यानुसंधानं तद्युक्तया || ९० || विकल्पहीना चित्सर्वा पदार्थशतदृष्टिषु | सममेवाभिपतति प्रभा प्राभाकरी यथा || ९१ || ननु विचित्राणामर्थानां विचित्रप्रथादर्शनात्कथं चितः समता तत्राह - विकल्पेति | सर्वासर्ववृत्तिप्रविष्टापि चित्तवृत्तिगतैर्विकल्पवैचित्र्यैर्लिप्यते | यथा प्राभाकरी प्रभा न वृत्तिकृतैः स्थाणुपुरुषादिविकल्पैस्तद्वदित्यर्थः || ९१ || सर्वाशाकोशविश्रान्तां पदार्थपटलीं महीम् | कालत्रयेहाकलितां यथानुभवति क्षणात् || ९२ || दिक्कालभेदप्रयुक्तमपि वैषम्यमस्या नास्तीत्याह - सर्वाशेति | महीं वह्वीम् | अनुभवति प्रकाशयति सौरी प्रभा यथा तथा चिदपि चेतति प्रथयतीति परेणान्वयः || ९२ || तथा समस्तसंसारबृहद्दृश्यदशाश्रियम् | कालत्रयस्थाममला चिच्चेतति तदात्मिका || ९३ || तुल्यकालपरामृष्टा त्रिकालकलनाशता | अनन्तभुवनाभोगा परिपूर्णैव शुद्धचित् || ९४ || देशकालभेदाश्च स्वाप्रदेशकालदैर्घ्ये इवाभिन्नकालयैव चिता भास्यन्त इत्याह - तुल्यकालेति | तुल्यशब्दोऽभिन्नपरः | तथा च परिपूर्णा अखण्डैव शुद्धचिदभिन्नकालपरामृष्टैव सती अतीतादित्रिकालकलनाशतभिन्नेव प्रत्यक्षानुमित्युपमित्याद्यनन्तमानमेयपुरुषभेदभिन्नाभोगेव च भातीत्यर्थः || ९४ || परामृष्टत्रिकालाया दृष्टानन्तदृशश्चितः | समतापरपर्याया पूर्णतैवावशिष्यते || ९५ || अत एव कालभेदे वृत्तिभेदेऽपि च तत्साक्षिण्याश्चितो न भेद इति पूर्णतैवेत्याह - परामृष्टेति || ९५ ||
196 SK तुल्यकालावबुद्धेन स्वादुना कटुनापि चित् | समेन समतामेति मधुनिम्बानुभूतिवत् || ९६ || अत एव मधुरद्वयस्य तिक्तद्वयस्य वा युगपदास्वादे विषयभेदेऽपि नानुभूतिभेद इति विषयादिभेदो न चिद्भेदप्रयोजक इत्याह - तुल्यकालेति | समेन तुल्यरसेन स्वादुना मधुरद्वयेन | तत्र मधुनिम्बाद्येकैकानुभूतिवदिति चिदभेदे दृष्टान्तः || ९६ || त्यक्तसंकल्पकलया सूक्ष्मया चिद्व्यवस्थया | सर्वभावानुगतया सत्ताद्वैतैकरूपया || ९७ || घटपटादिविचित्रा पदार्थश्रीरपि त्यक्तपरस्परव्यावर्तकभेदसंकल्पकलया सूक्ष्मया सत्ताद्वैतैकरूपया चिद्व्यवस्थया तुल्यकालमनुभूयमाना साम्येनैवानुभूयते न भेदवैषम्येणेति न विषयादिभेदश्चिद्भेदक इति द्वयोरर्थः || ९७ || विचित्रापि पदार्थश्रीरन्योन्यवलितान्तरा | तुल्यकालानुभवना साम्येनैवानुभूयते || ९८ || भावेनाभावमाश्रित्य भावस्त्यजति दुःखताम् | प्रेक्ष्य भावमभावेन भावस्त्यजति दुष्टताम् || ९९ || भेदसंकल्पकलात्यागे उपायमाह - भावेनेति | भावेन चित्तेन वाचारम्भणश्रुत्या नेतिनेत्यादिश्रुत्या आचार्योपदेशस्वविचारादिना च दृश्यजातस्याभावमाश्रित्य स चित्तरूपो भावो दुःखतां शोकमोहादिपरिणामं सद्यस्त्यजति | तथापि रागादिसंस्कारदुष्टतया कालान्तरे पुनः शोकाद्युद्भवः स्यादतः सर्वदृश्यप्रतिषेधलक्षणेनाभावेन भावं परमार्थसदद्वैतानन्दस्वभावमात्मानं प्रेक्ष्य स चित्तलक्षणो भावो रागादिदुष्टतामपि जहाति | रसोऽप्यस्य परं दृष्ट्वा निवर्तते इति भगवद्वचनात् | अतो बीजाभावाद्भेदसंकल्पकलात्यागः सिद्ध इत्यर्थः || ९९ || कालत्रयमपश्यन्त्या हीनायाश्चेत्यबन्धनैः | चितश्चेत्यमुपेक्षिण्याः समतैवावशिष्यते || १०० || उक्तमर्थं भङ्ग्यन्तरेणोपपादयति - कालत्रयमिति | वर्तमानं चेत्यं दृश्यं उपेक्षिण्या अतीतचेत्यवासनाबन्धनैर्हीनायाश्चेत्याधारं कालत्रयमप्यपश्यन्त्याश्चितो न भाव्यपि चेत्ययोगः संभाव्यत इति समतैव परिशिष्यत इत्यर्थः || १०० ||
197 SK याति वाचामगम्यत्वादसत्तामिव शाश्वतीम् | नैरात्म्यसिद्धान्तदशामुपयातेव तिष्ठति || १०१ || उपयातेवेति | वस्तुतस्तु नोपयाता यतस्तिष्ठति सतोऽसत्त्वायोगादिति भावः || १०१ || भवत्यात्मा तथा ब्रह्म न किंचिच्चाखिलं च वा | परमोपशमेऽलीना मोक्षनाम्ना परोच्यते || १०२ || यस्तिष्ठति स शास्त्रीयव्यवहारे प्रत्यक्त्वादात्मा भवति तथा बृहत्त्वाद्ब्रह्म भवति | परमार्थदृशा तु वाचां प्रवृत्त्यभावान्न किंचित् | यदि च प्रवृत्तिनिमित्तकल्पनया शब्दप्रवृत्तिरुच्येत तदा संकोचकारणभावात्सर्वप्रवृत्तिनिमित्तकल्पनादखिलं च | यतो वाचो निवर्तन्ते अप्राप्य मनसा सह तस्मात्तत्सर्वमभवत् इति च श्रुतौ द्वेधापि निरूपणादिति भावः | सर्वदृश्यानां परमोपशमे सति तदवधित्वादलीना परा समता मोक्षनाम्नोच्यत इत्यर्थः || १०२ || संकल्पकलिता त्वेषा मन्दाभासतया जगत् | न सम्यक्पश्यतीदं चिद्दृष्टिः पटलिनी यथा || १०३ || इत्थं भेदसंकल्पकलनात्यागः सोपायो वर्णितः | इदानीं संकल्पकलने चितो मान्द्यप्रसरक्रममाह - संकल्पे इत्यादिना | जगत्सम्यक्पारमार्थिकरूपेण न पश्यति | पटलिनी पटलावरणवती || १०३ || ईहानीहामयैरन्तर्या चिदावलिता मलैः | सा हि नोड्डयितुं शक्ता पाशबद्धेव पक्षिणी || १०४ || ईहानीहामयैरिष्टानिष्टसंकल्पनरूपैर्मलैः उड्डयितुं सर्वनभो व्याप्तुं नभसा गन्तुं च || १०४ || संकल्पकलनेनैव ये केचन जना इमे | पतिता मोहजालेषु विनेत्रा इव पक्षिणः || १०५ || संकल्पजालवलितैर्विषयावटपातिभिः | पदवी गतबाधेयं न दृष्टा मत्पितामहैः || १०६ || इयं गतबाधा निर्दुःखा अपरिच्छिन्नात्मपदवी न दृष्टा || १०६ || दिनैः कतिपयैरेव स्फुरिता धरणीतले | वराकास्तेन ते नष्टा मशकाः कुहरेष्विव || १०७ || तेन आत्मपदव्यदर्शनेन | ते मत्पितामहाः || १०७ || यद्यज्ञास्यन्निमे तत्त्वं भोगदुःखार्थिनस्तदा | भावाभावान्धकूपेषु नापतिप्यन्हताशयाः || १०८ ||
198 SK हताशया दुर्बुद्धयः | इमे मत्पितामहा यदि आत्मतत्त्वमज्ञास्यंस्तदा नापतिष्यन् | हेतुहेतुमत्त्वे लिङ्निमित्ते क्रियातिपत्तौ ऌङ् || १०८ || इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः | धराविवरमग्नानां कीटानां समतां गताः || १०९ || द्वन्द्वमोहेन सुखदुःखशीतोष्णाद्यर्जनप्रतीकाराभिनिवेशेन || १०९ || ईहितानीहिताकाराः कलनामृगतृष्णिकाः | सत्यावबोधमेघेन यस्य शान्ताः स जीवति || ११० || सत्यावबोधमेघेन द्वन्द्वतापोपशान्त्या शान्ताः | स जीवति सार्थकजीवन इति यावत् || ११० || कुतः किलास्याः शुद्धाया अविच्छिन्नामलाकृतेः | चन्द्रिकाया रुचः कोष्णाः कलङ्काः कलनाश्चितः || १११ || सत्यावबोधमात्रेण कथं तच्छान्तिरिति चेदसत्त्वदेवेत्याह - कुत इति | कोष्णा मन्दोष्णाः | कलङ्काः श्यामिकाः || १११ || आत्मनेऽस्तु [आत्मने तु नमो इति पाठः] नमो मह्यमविच्छिन्नचिदात्मने | लोकालोकमणे देव चिरेणाधिगतोऽस्यहो || ११२ || इदानीमखण्डवाक्यार्थं साक्षात्कृत्य तद्भावेऽवस्थितमात्मानमतिदुर्लभमधिगतं प्रणयान्नमस्यति - आत्मने इति | लोकस्यालोको ज्ञानप्रकाशस्तन्निमित्तभूतमणे | चिरेणेति | तथाचोक्तं स्वाराज्यसिद्धौ अपि भूपरमाणुभूरिसंख्येष्वपयातेषु चतुर्मुखेष्वलब्धात् | अपदुःखनिरन्तसौख्यसिन्धोर्न च लाभोऽस्ति परो निजात्मलाभात् || इति || ११२ || परामृष्टोऽसि लब्धोऽसि प्रोदितोऽसि चिराय च | उद्धृतोसि विकल्पेभ्यो योसि सोसि नमोस्तु ते || ११३ || प्रोदितः स्वीयपरमार्थरूपेणाभिव्यक्तः || ११३ || मह्यं तुभ्यमनन्ताय मह्यं तुभ्यं शिवात्मने | नमो देवाधिदेवाय पराय परमात्मने || ११४ || प्रथमे मह्यंतुभ्यमिति पदे परस्परविशेषणेन शोधनार्थे | अत एवानन्ताय | द्वितीये तु अखण्डैकरसतालक्षणः वाक्यार्थलाभार्थे | अत एव शिवात्मने देवानां ब्रह्मादीनां सर्वेन्द्रियप्राणमनसां चधिदेवाय अधिष्ठाय प्रकाशकाय || ११४ ||
199 SK गतघनपरिपूर्णमिन्दुबिम्बं गतकलनावरणं स्वमेव रूपम् | स्ववपुषि मुदिते स्वयं स्वसंस्थं स्वयमुदितं स्ववशं स्वयं नमामि || ११५ || गतघनं निरस्तमेघावरणं परिपूर्णमिन्दुबिम्बमिवेति शेषः | स्ववपुषि स्वात्मनि मुदिते आनन्दैकरसे स्वयमनन्याधारतया स्वेन पारमार्थिकरूपेण संस्थं विश्रान्तम् | निराधारमिति यावत् | स्वयमुदितं स्वप्रकाशं स्ववशं स्वाधीनस्वानन्दं स्वयमनन्योऽहं नमामि | सर्वोत्कर्षेणानुसंदधे इत्यर्थः || ११५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे प्रह्रादात्मोपदेशयोगो नाम चतुस्त्रिंशः सर्गः || ३४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे प्रह्रादात्मोपदेशयोगो नाम चतुस्त्रिंशः सर्गः || ३४ || पञ्चत्रिंशः सर्गः ३५ प्रह्राद उवाच | मोमित्येकोचिताकारो विकारपरिवर्जितः | आत्मैवायमिदं सर्वं यत्किंचिज्जगतीगतम् || १ || साक्षात्कृतमिहात्मानं निर्वर्ण्यान्तः प्रणम्य च | तद्बलेन जितान्बन्धाननुसंधाय नन्दति || १ || ओमिति | ओमिति ब्रह्म ओमितीदं सर्वं एतद्वै सत्यकाम परं चापरं च ब्रह्म यद्ॐकारः इत्यादिश्रुतेः सर्वाध्यारोपवद्ब्रह्मबोधकः सर्वापवादपरिशिष्टतद्बोधकश्च ओमित्येक एव उचितः स्वानुरूपः अभिधानाकारो यस्य | जगती जगत् तद्गतं यत्किंचित्तत्सर्वमयमनुभूयमान आत्मैव || १ || मेदोस्थिमांसमज्जासृगतीतोऽप्येष चेतनः | अन्तरस्थो हि सूर्यादीन्प्रकाशयति दीपकः || २ || देहमात्रान्तर्गतोऽयं कथं बाह्यं सूर्यादि सर्वमिदं स्यादिति चेत्तत्प्रकाशकत्वादित्याह - मेद इति | नायं मेदोऽस्थ्याद्यात्मकदेहपरिमितः किंतु तदतीतोऽपि | यतः सूर्याद्यन्तरस्थः || २ || उष्णीकरोति दहनं रसयत्यमृतं रसम् | इन्द्रियानुभवान्भुङ्क्ते भोगानिव महीपतिः || ३ ||
200 SK कथं तत्प्रकाश्यत्वमात्रेण सर्वं तदात्मकं तत्राह - उष्णीकरोतीति | यतो दहनादेरुष्णादिस्वभावता चिदधीनोष्णताभानाधीना अतश्चिदात्मैव स्वसत्तया दहनमुष्णीकरोति | एवं रसं जलं स्वसत्तयैवामृतं लब्धसत्ताकं रसयति रसतया विभावयति | एवमन्यानपि इन्द्रियानुभवान्स्पर्शादिस्वभावानर्थान्स्वसत्तयैव संपाद्य भुङ्क्ते || ३ || तिष्ठन्नपि हि नासीनो गच्छन्नपि न गच्छति | शान्तोऽपि व्यवहारस्थः कुर्वन्नपि न लिप्यते || ४ || तिष्ठन् सदा निष्क्रियोऽपि न आसीन उपविष्ट इव धावनादिव्यवहारादुपरतः | वाय्वादित्यात्मना सदागतित्वात् | तथा कालात्मना सदा गच्छन्नपि कुलालचक्रमिव न तिलमात्रमन्यतो गच्छति | शान्तो निर्व्यवहारोऽपि सर्वव्यवहारस्थः || ४ || पूर्वमद्य तथेदानीमिहामुत्रोभयत्र च | विहितोऽविहितोऽप्येष समः सर्वासु वृत्तिषु || ५ || ननु पूर्वकृतेनाद्य सुखदुःखाभ्यां लिप्यते | इदानीमिहकृतेनाग्रेऽमुत्र लिप्स्यते तत्कथं कुर्वन्नपि न लिप्यत इत्युच्यते तत्रह - पूर्वमिति | इहास्मिन् लोके अमुत्र परलोके उभयत्र इहलोकसंधिभूते स्वप्रस्थाने च विहितः शास्त्रानिषिद्धशुभकर्मफलभुक् अविहितः शास्त्रनिषिद्धाशुभकर्मफलभुगपि सन् सर्वासु भोगवृत्तिषु सम एव | दृश्यैर्भोगैर्दृशो विकारासिद्धेरित्यर्थः || ५ || उद्भवत्यभयो भावं भुवनानि ततस्ततः | ब्रह्मादितृणपर्यन्तं जगदावर्तयन्स्थितः || ६ || भोक्रस्पर्शिभिर्भोगैः कथं कर्मणां साफल्यं तत्राह - उद्भवतीति | वस्तुतोऽभय एवात्मा तत्तत्कर्मानुरूपं स्वयमुद्भवति उद्भूतं च ब्रह्मादितृणपर्यन्तं भोक्तृभोग्यभावं तदधिकरणानि चतुर्दशभुवनानि चेति जगत्स्वसंनिधिमात्रेणावर्तयन् स्थितस्तदेवास्य कर्मफलमित्यर्थः || ६ || नित्यस्पन्दमयो नित्यमपि देवात्सदागतेः | स्थाणोरप्यक्रियो नित्यमाकाशादप्यलेपकः || ७ ||
201 SK नन्वस्पन्दः कथमावर्तयेत्तत्राह - नित्येति | नित्यात्मसत्ताया एव स्पन्दसत्तात्वान्नित्यं स्पन्दमयो नित्यमक्रियो नित्यमलेपकश्च || ७ || मनांसि क्षोभयत्येष पल्लवानीव मारुतः | वाहयत्यक्षपङ्क्तिं स्वामश्वालीमिव सारथिः || ८ || ननु मन इन्द्रियाणि वा देहादि प्रवर्तयन्ति नात्मा तत्राह - मनांसीति | अक्षपङ्क्तिमिन्द्रियपङ्क्तिम् || ८ || अतिदुर्विधवद्देहगेहे कर्मरतः सदा | सम्राडिवात्मनि स्वस्थः संस्थितो भोगभुग्विभुः || ९ || अत्यन्ता दुर्विधा दुर्दशा यस्य तद्वत् | इवशब्दो दुर्विधाया मिथ्यात्वद्योतनार्थः पूर्वविरुद्धदशास्वपि योज्यः || ९ || एष एव सदाऽन्विष्यः स्तुत्यो ध्यातव्य एव तु | जरामरणसंमोहादनेनोत्तीर्य गम्यते || १० || अनेन अन्विष्टेनेति शेषः || १० || सुलभश्चायमत्यन्तं सुजेत्यश्चाप्तबन्धुवत् | शरीरपद्मकुहरे सर्वेषामेव षट्पदः || ११ || सुलभो ज्ञानमात्रेण लब्धुं शक्यः | सुजेयः स्मृतिमात्रेण वशीकर्तुं योग्यः || ११ || अनाक्रुष्टोऽप्यनाहूतः स्वदेहादेव लभ्यते | मनागेवोपहूतोऽपि क्षणाद्भवति सन्मुखः || १२ || दूरस्थस्य मित्रादेराक्रुश्याह्वानाल्लाभः | ईषद्दुरस्थस्य त्वाह्वानमात्रादस्य तु लाभेन तदुभयापेक्षेति भावः | उपहूतः प्रणवोच्चारणेनानुस्मृतः || १२ || नास्य संसेव्यमानस्य सर्वसंपत्तिशालिनः | धनानामीश्वरस्येव स्मयो गर्वो यथा भवेत् || १३ || धनानामीश्वरस्य धनिकस्य यथा स्मयो मानो गर्वः परावहेलना संभाव्यते तथास्य नेत्यर्थः || १३ || आमोद इव पुष्पेषु तैलं तिलकणेष्विव | रसजातिष्विवास्वादो देवो देहेषु संस्थितः || १४ || कथमयं देहेऽस्ति तदाह - आमोद इति | आस्वादो माधुर्यम् || १४ || अविचारवशादेष हृदयस्थोऽपि चेतनः | न ज्ञायते चिरादृष्टो [चिराद्दृष्टो इत्यपि पाठः] दृष्टबन्धुरिवाग्रतः || १५ || चिरं प्रागदृष्टः संप्रत्यग्रतो दृष्टो बन्धुः पित्रादिरिव || १५ || विचारणापरिज्ञात एतस्मिन्परमेश्वरे | अभ्युदेति परानन्दो लब्धे प्रियजने यथा || १६ ||
202 SK अस्मिन्दृष्टे परे बन्धावुद्दामानन्ददायिनि | आयान्ति दृष्टयस्तास्ता याभिर्भङ्गो विलीयते || १७ || भङ्गो मरणादिर्विच्छेदः || १७ || त्रुट्यन्ते सर्वतः पाशाः क्षीयन्ते सर्वशत्रवः | न कृन्तन्ति मनांस्याशा गृहाणीव दुराखवः || १८ || पाशाः स्नेहादयः | शत्रवः कामादयः | आशास्तृष्णाः || १८ || अस्मिन्दृष्टे जगद्दृष्टं श्रुतेऽस्मिन्सकलं श्रुतम् | स्पृष्टे चास्मिञ्जगत्स्पृष्टं स्थितेऽस्मिन्संस्थितं जगत् || १९ || तदेकविज्ञानेन सर्वविज्ञानमाह - अस्मिन्निति | स्थितेऽस्मिन्निति तत्सत्ताधीनसत्ताकं जगदित्यर्थः || १९ || एष जागर्ति सुप्तानां प्रहरत्यविवेकिनाम् | हरत्यापदमार्तानां वितरत्यमहात्मनाम् || २० || एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः इति श्रुतिमालम्ब्याह - एष इति | अमहात्मनां परिच्छिन्नात्मकेश्वरोपासकानाम् | आर्तानामापदं हरति वितरति वाञ्छितमिति शेषः || २० || विचरत्येष लोकेषु जीव एव जगत्स्थितौ | विलसत्येव भोगेषु प्रस्फुरत्येव वस्तुषु || २१ || जगत्स्थितौ एष आत्मा जीव एव भूत्वा विचरति भोगेषु विलसति | वस्त्रालंकारसमाजोत्सवादिवस्तुषु स्फुरति शोभते || २१ || आत्मनात्मानमेवातः शान्तेनानुभवन्भवी | स्थितः सर्वेषु देहेषु तीक्ष्णत्वं मरिचेष्विव || २२ || असाधारणजीवभेदभ्रमदशायामप्यस्य न साधारणैकात्म्यस्फूर्तिक्षतिरित्याह - आत्मनेति || २२ || चेतनाकलनारूपी सबाह्याभ्यन्तराश्रितः | जगत्पदार्थसंभारे सत्तासामान्यमास्थितः || २३ || पूर्वोत्तरानुसंधानं चेतना वर्तमानदर्शनं कलना तद्रूपी सबाह्येष्वाभ्यन्तरेषु चेतनोपाधिषु आश्रितः | जगत्पदार्थानां संभारे तु अधिष्ठानसत्तासामान्यमात्रस्वभावं सर्वानुगतमास्थितः || २३ || एष शून्यत्वमाकाशे स्पन्द एष सदागतौ | प्रकाशश्चैव तेजस्तु पयस्स्वेष रसः परः || २४ || काठिन्यमवनावेवमौष्ण्यमेव हुताशने | शैत्यमेष निशानाथे सत्ता चैष जगद्गणे || २५ || मषीपिण्डे यथा कार्ष्ण्यं शैत्यं हिमकणे यथा | यथा पुष्पेषु सौगन्ध्यं देहे देहपतिस्तथा || २६ ||
203 SK तथा देहपतिरात्मा देहे प्रकाशतः इत्यर्थः || २६ || यथा सर्वगता सत्ता कालः सर्वगतो यथा | प्रभुशक्तिर्मही यस्य सर्वदेशगता यथा || २७ || प्रकाशतामेव मन-इन्द्रियादिव्यावृत्तां सर्वक्षेत्रसाधारणीं दृष्टान्तैर्दर्शयति - यथेति द्वाभ्याम् || २७ || रूपालोकमनस्कारयुक्तं सत्त्वं तथात्मनः | नित्यः सोऽयं महादेवो देवानामेव बोधकः || २८ || यथैते दृष्टान्तास्तथा रूपालोकैश्चक्षुरादिव्यापारैर्मनस्कारैर्मानसव्यापारैश्च युक्तं यद्बाह्याभ्यन्तरप्रकाशनं तदात्मनः कृत्यमिति प्रकाशैकस्वभावः स इत्यर्थः | एवमधिदैवं सर्वदेवानां सूर्येन्द्रचन्द्रादीनामपि बोधकोऽयं प्रसिद्धो महादेवोऽहमेवास्मीति प्रेणान्वयः || २८ || अहमेवास्मि मे नास्ति कलनापि किलेतरा | रेणुनेवाणुना व्योम्नि पद्मपत्रमिवाम्भसा || २९ || अणुना सूक्ष्मतमेन रेणुना || २९ || संभ्रमेणेव पाषाणे संबन्धो मयि नेतरैः | सुखदुःखश्रियो देहे मा पतन्तु पतन्तु वा || ३० || संभ्रमेण भयकम्पादिना || ३० || तुम्बकोपरि धाराश्च का नः क्षतिरुपस्थिता | दीपाङ्गातिगतो रज्ज्वा नालोको बध्यते यथा || ३१ || तुम्बकः अलाबूः | इवार्थे चकारः | जलधारा इवेत्यर्थः | नः अस्माकं तुम्बकाकाशकल्पानामिति भावः | दीपाङ्गानि तैलवर्तिपात्राण्यतिक्रम्य निर्गतो दीपालोको यथा रज्ज्वा न बध्यते || ३१ || तथा नायमहं बद्धः सर्वभावगणातिगः | संबन्धः कोऽस्तु नः कामैर्भावाभावैरथेन्द्रियैः || ३२ || केन संबध्यते व्योम केन संबाध्यते मनः | शरीरे शतधा याते खण्डना का शरीरिणः || ३३ || संबाध्यते अभिहन्यते | अमूर्तत्वादिति भावः || ३३ || कुम्भे भग्ने क्षते क्षीणे कुम्भाकाशस्य का क्षतिः | पिशाचक इवादृश्यो मनो नामोदितं मुधा || ३४ || कपालशो भग्ने छिद्रीभावेन क्षते मृदपचयेन क्षीणे || ३४ || जडे तस्मिन्क्षते बोधात्का नः क्षतिरुपस्थिता | सुखदुःखमयी यस्य वासना तन्मनो मम || ३५ ||
204 SK बोधान्मनोव्यतिरिक्तात्मदर्शनात् | यस्य सुखदुःखमयी वासना तत्तादृशं मनः पूर्वमज्ञतादशायामभवन्नेदानीमस्तीत्यर्थः || ३५ || अभवत्पूर्वमद्यैका संपन्नाऽतनुनिर्वृतिः | अन्यो भुङ्क्तेऽन्य आदत्तेऽप्यन्यस्यानर्थसंकटः || ३६ || अतनुरपरिच्छिन्ना निर्वृतिः सुखविश्रान्तिः || ३६ || अन्यः पश्यत्यहो मौर्ख्यं कस्येयं खलु चक्रिका | भुङ्के प्रकृतिरादत्ते मनोदेहस्य संकटः || ३७ || एषां भोक्रादीनामैक्यादध्यासलक्षणं मौर्ख्यं कस्यैन्द्रजालिकस्य चक्रिका चक्रवत्परिवर्तनचातुरीत्यर्थः | भोक्रादिभेदं दर्शयति - भुङ्क्ते इति || ३७ || दुष्टात्मा मौर्ख्यमस्तीह न किंचित्केवले क्षतिः | न मे भोगस्थितौ वाञ्छा न च भोगविवर्जने || ३८ || प्रकृत्यादिदुष्टः दोषारोपित आत्मा | विमर्शेन किंचिन्मौर्ख्यमस्ति तेनाक्षतिरित्यर्थः || ३८ || यदायाति तदायातु यत्प्रयाति प्रयातु तत् | सुखेषु मम नापेक्षा नोपेक्षा दुःखवृत्तिषु || ३९ || सुखदुःखान्युपायान्तु यान्तु वाप्यहमेषु कः | वासना विविधा देहे त्वस्तं चोदयमेव वा || ४० || प्रयान्तु नाहमेतासु न चैता मम काश्चन | एतावन्तमहं कालमज्ञानरिपुणा हतः || ४१ || एता वासनाः || ४१ || हृत्वा विवेकसर्वस्वमेकान्तमवपोथितम् | वैष्णवेन प्रसादेन स्वसमुत्थेन चारुणा || ४२ || अज्ञानरिपुणावपोथितं हिंसितम् | अवबोधितम् इति पाठे अविवेकसर्वस्वमिति च्छेदः | वैष्णवेन प्रसादेनानुग्रहेण मे अविवेकसर्वस्वं हृत्वा एकान्तं नियतैकस्वभावं ब्रह्म अवबोधितम् || ४२ || इदानीं संपरिज्ञाय मयैष परिमोषितः | अहंकारपिशाचोऽयं शरीरतरुकोटरात् || ४३ || परिमोषितोऽपहारितः || ४३ || परावबोधमन्त्रेण मयेदानीमपाकृतः | निरहंकारयक्षोऽयं मच्छरीरमहाद्रुमः || ४४ || इदानीं मच्छरीरमहाद्रुमो निर्गतोऽहंकारयक्षो यस्मात्तथाविधः सन् पुण्यतामायातः || ४४ || पुण्यतामलमायातः प्रफुल्ल इव राजते | प्रशान्तमोहदारिद्र्यो दुराशादोषसंक्षये || ४५ ||
205 SK विवेकधनसंभारान्स्थितोऽस्मि परमेश्वरः | ज्ञातं ज्ञातव्यमखिलं दृष्टा द्रष्टव्यदृष्टयः || ४६ || विवेकधनसंभारान् प्राप्येति शेषः || ४६ || तत्प्राप्तमधुना येन नाप्राप्तमवशिष्यते | दिष्ट्या दूरोज्झितानर्थामपेतविषयोरगाम् || ४७ || संशान्तमोहनीहारां शान्ताशामृगतृष्णिकाम् | रजोरहितसर्वाशां शीतलोपशमद्रुमाम् || ४८ || प्राप्तोऽस्मि विततां भूमिमुन्नतां पारमार्थिकीम् | स्तुत्या प्रणत्या विज्ञप्त्या शमेन नियमेन च || ४९ || विष्णोः स्तुत्या प्रणत्या विज्ञप्त्या प्रार्थनया च वरमुखेन लब्धः || ४९ || लब्धोऽयं भगवानात्मा दृष्टश्चाधिगतः स्फुटम् | अहंकारपदातीतश्चिरात्संस्मृतिमागतः || ५० || स्वभावाद्भगवानात्मा विष्णोर्ब्रह्म सनातनम् | इन्द्रियोरगगर्तेषु मरणश्वभ्रभूमिषु || ५१ || विष्णोः प्रसादाद्ब्रह्म आत्मा संस्मृतिमागत इति पूर्वेणान्वयः | इन्द्रियेत्यादेरहं समवमोषित इति चतुर्थेनान्वयः | इन्द्रियाण्येवोरगगर्ताः सर्पबिलानि येषु | एवमुत्तरत्रापि बहुव्रीहयः || ५१ || तृष्णाकरञ्जकुञ्जेषु कामकोलाहलेषु च | वासनावनजालेषु जन्मकूपान्तरेषु च || ५२ || वासनावनजालेष्विति सर्वसप्तम्यन्तानां विशेष्यम् || ५२ || दुःखदावाग्निदाहेषु दुःखदावाग्निहारिषु | पातोत्पातदशालक्षैर्मज्जनोन्मज्जनभ्रमैः || ५३ || दुःखान्येव दावाग्निदाहो यत्र | दुःखाः दावाग्नय इव हारिणः परधनप्राणापहारिणश्चोरा यत्र | पातोत्पातसदृशैर्विपत्संपद्दशालक्षैः | मज्जनप्रायैरधोगतिभिरुन्मज्जनप्रायैः सद्गतिभिः || ५३ || आविर्भावतिरोभावैराशापाशविचेष्टनैः | अहं चिरमहंकारद्विषा समवमोषितः || ५४ || अहं चिरमहंकारलक्षणेन द्विषा सम्यगवमोषितः आत्मप्रमोषेण पीडितः || ५४ || निशायामल्पवीर्यात्मा पिशाचेनेव जङ्गले | स्वयमेव त्वथेदानीं क्रियाशक्त्या स्वयैव हि || ५५ || शौरिणा व्यपदेशेन प्रसन्नविष्णुव्याजेन स्वयं स्वेनैव विवेकश्रीः प्रबोधिता उद्दीपिता | तया विवेकश्रिया ईशाने ईश्वरे स्वात्मनि प्रबुद्धे भवति प्रबुद्धे सति || ५५ ||
206 SK शौरिणा व्यपदेशेन विवेकश्रीर्विबोधिता | प्रबुद्धे भवतीशाने तमहंकारराक्षसम् || ५६ || न पश्यामि नभोदीपे ज्वलिते तिमिरं यथा | तस्याहंकारयक्षस्य मनोविवरवासिनः || ५७ || दीपस्येव प्रशान्तस्य न वेद्मि गतिमीश्वरः | दृष्ट एव त्वयीशाने पलायनपरायणः || ५८ || संपन्नो मदहंकारश्चोरः सूर्योदये यथा | असदभ्युत्थिते तस्मिन्नहंकारे पिशाचवत् || ५९ || असतोऽज्ञानात्प्रागभ्युत्थिते संप्रति गते सति निर्गतो गोनसोऽजगरो यस्मात्तथाविधो द्रुमो वृक्षवान् आराम इव | द्रुशब्दाद्वृक्षवाचकान्मत्वर्थे द्युद्रुभ्यां मः इति मप्रत्ययः || ५९ || गते तिष्ठाम्यहं स्वस्थो निर्गोनस इव द्रुमः | शाम्यामि परिनिर्वामि जगत्यस्मिन्प्रबोधवान् || ६० || तस्करेणोज्झितोऽस्मीति निर्वृतोऽस्मि चिरोदयम् | शैत्यमभ्यागतोस्म्यन्तः शान्ताशामृगतृष्णिकः || ६१ || तस्करेण आत्मप्रमोषकेणाहंकारेण || ६१ || प्रावृडम्बुभरस्नातः शान्तदाव इवाचलः | प्रमार्जितेहमित्यस्मिन्पदे स्वार्थविचारतः || ६२ || शान्तदावो निर्वाणदवाग्निरचलः पर्वत इव || ६२ || को मोहः कानि दुःखानि काः कदाशाः क आधयः | नरकस्वर्गमोक्षादिभ्रमाः सत्यामहंकृतौ || ६३ || के आधयो मानसव्यथाः | परलोकदुःखादिचिन्तया कुतो नाधयः स्युस्तत्राह - नरकेति || ६३ || भित्तावेव प्रवर्तन्ते चित्रेहा न नभस्तले | अहंकारकलापित्ते चित्ते ज्ञानचमत्कृतिः | न राजतेंऽशुके म्लाने यथा कुङ्कुमरञ्जना || ६४ || ननु सत्येवाहंकारे मोहादिप्रशमचमत्कृतिः किं न स्यात्तत्राह - अहंकारेति | अहंकारकलालक्षणे पित्ते पित्तजोन्मादे सति || ६४ || निरहंकारजलदे तृष्णासारविवर्जिते | भाति चित्तशरद्व्योम्नि स्वच्छता कान्तिशालिनी || ६५ || इदानीं सरःसमुद्रादिनानाभावैरात्मानं रूपयन्नमस्यति - निरहंकारेत्यादिना | कान्तिशालिनी आत्मचन्द्रप्रकाशशालिनी | स्वच्छता नैर्मल्यम् || ६५ || निरहंकारपङ्काय संप्रसन्नान्तराय च | मह्यमानन्दसरसे तुभ्यमात्मन्नमो नमः || ६६ ||
207 SK मह्यं प्रत्यगात्मभूताय | तुभ्यं ब्रह्मणे | एवमग्रेऽपि || ६६ || शान्तेन्द्रियोग्रग्राहाय क्षीणचित्तौर्ववह्नये | आनन्दाम्बुधये तुभ्यं मह्यमात्मन्नमो नमः || ६७ || गताहंकारमेघाय शान्ताशादाववह्नये | मह्यमानन्दशैलाय विश्रान्ताय नमो नमः || ६८ || विश्रान्ताय अचलाय || ६८ || प्रफुल्लानन्दपद्माय शान्तचिन्तामयोर्मये | मह्यं सन्मानसायात्मंस्तुभ्यमन्तर्नमो नमः || ६९ || सद्ब्रह्म तल्लक्षणाय | मानसाय देवसरसे || ६९ || संविदाभासपक्षाय पद्मकोटरवासिने | सर्वमानसहंसाय स्वात्मनेऽन्तर्नमो नमः || ७० || संविदाभासौ बुद्धितद्वृत्तिप्रतिबिम्बचैतन्ये एव पक्षौ यस्य || ७० || कलाकलितरूपाय निष्कलायामृतात्मने | सदोदिताय पूर्णात्मन् शशिने ते नमो नमः || ७१ || कलाभिः एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च इति श्रुत्युक्ताभिः सप्तदशभिः षोडशकलः सोम्य पुरुष इति श्रुतिदर्शिताभिर्वा | चन्द्रपक्षे तु प्रसिद्धाभिः | निष्कलाय निरवयवाय | चन्द्रपक्षे कलाव्यतिरिक्तदेवतात्मने || ७१ || सदोदिताय शान्ताय महाहृद्ध्वान्तहारिणे | सर्वगायाप्यदृश्याय चित्सूर्याय नमो नमः || ७२ || चित्सूर्ये प्रसिद्धसूर्यात्सदोदितायेत्यादिविशेषणैर्विशेषो दर्शितः | शान्ताय अतापकाय | अदृश्याय दृश्यविलक्षणाय || ७२ || अस्नेहस्नेहदीपाय वृत्तिनिष्क्रान्तवर्तिने | स्वभावाधारधीराय चिद्दीपाय नमो नमः || ७३ || अस्नेहो निस्तैलः | स्नेहं परमप्रेमाणं दीपयतीति स्नेहदीपः | अथवा पुत्रमित्रधनादिष्वस्नेहाः यतयस्तेषां स्नेहेन दीप्यते | सर्ववस्तुस्वभावानामाधाराय | धीराय धीप्रकाशकाय || ७३ || मदनानलसंतप्ते शीतेन मनसा मनः | भग्नमन्तर्मया तप्तमयसेव बलादयः || ७४ || इदानीं स्वपौरुषं सफलमित्यभिनन्दति - मदनेत्यादिना | यथा अयसा कार्ष्णायसटङ्केन तप्तमयो भज्यते तथा शीतेन शमादियुक्तेन मनसा मदनानलसंतप्तं मनो मया भग्नमित्यर्थः || ७४ ||
208 SK इन्द्रियेणेन्द्रियं छित्त्वा छित्त्वा च मनसा मनः | अहंकृतिमहंकृत्या छित्त्वा शेषो जयाम्यहम् || ७५ || प्रत्यक्प्रवणेनेन्द्रियेण चक्षुरादिना पराक्प्रवणं तदेव छित्त्वा | एवं मनोहंकारयोरपि बोध्यम् | शेषोऽवशिष्टचिन्मात्रोऽहम् || ७५ || भावेनाभावमाच्छिद्य हित्वा तृष्णामतृष्नया | निष्पिष्य प्रज्ञयाऽप्रज्ञां ज्ञोऽज्ञः सत्योसि ते नमः || ७६ || भावेन श्रद्धया | अभावमश्रद्धाम् | ऊहापोहवती बुद्धिः प्रज्ञा तया अविचारसंदेहादिलक्षणामप्रज्ञाम् | अज्ञो ज्ञातृत्वाभिमानशून्यो ज्ञो ज्ञप्तिमात्रस्वभाव एव सत्योऽसि तादृशाय ते तुभ्यं [अत्र मह्यं इति क्वचित्पठ्यते] नमः || ७६ || मनसा मनसि च्छिन्ने निरहंकारतां गते | भावेन गलिते भावे स्वच्छस्तिष्ठामि केवलः || ७७ || भावेन ब्रह्माहंभावेन देहाद्यहंभावे गलिते || ७७ || निर्भावं निरहंकारं निर्मनस्कमनीहितम् | केवलं स्पन्दशुद्धात्मन्येव [आत्मन्येतत्तिष्ठति इति पाठः] तिष्ठति मे वपुः || ७८ || निर्भावं भावनाहेतुबुद्धिशून्यम् | अनीहितं इच्छाहेतुचित्तशून्यम् | स्पन्दः प्राणनक्रिया तन्मात्रेण शुद्ध आत्मा यस्य तथाविधे जीवन्मुक्तात्मनि तिष्ठति जीवति | तथा च श्रुतिः तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च इति || ७८ || हेलानुकम्पितानन्तविश्वेशादतिशायिनी | परमोपशमोपेता जातेयं मम निर्वृतिः || ७९ || हेलयैव अनुकम्पिता भोगैश्वर्यदाएनेनानुगृहीता अनन्ताः स्वभक्ता येन तथाविधाद्विश्वेशाद्ब्रह्मविष्ण्वादेरप्यतिशायिनी उत्कृष्टा निर्वृतिर्निरतिशयानन्दविश्रान्तिः || ७९ || प्रशान्तमोहवेतालो गताहंकारराक्षसः | कदाशारूपिकोनमुक्तो जातोऽस्मि विगतज्वरः || ८० || रूपिका पिशाची तयोन्मुक्तः | अत एव विगतज्वरः || ८० || तृष्णारज्जुगुणं छित्त्वा मच्छरीरकपञ्जरात् | न जाने क्व गतोड्डीय दुरहंकृतिपक्षिणी || ८१ || उद्धूलिते घनाज्ञानकुलाये कायपादपात् | न जाने गत उड्डीय क्वाहंभावविहंगमः || ८२ || उद्धूलिते ज्ञानाभ्यासपेषणेन धूलीकृत्योड्डायिते || ८२ ||
209 SK दुराशादीर्घदौरात्म्यधूसरा भोगभस्मना | भयभोगिहिता दिष्ट्या भूयस्यो वासनाः क्षताः || ८३ || दुराशाभिर्दीर्घैर्दौरात्म्यैर्दुष्टदेहाद्यात्मत्वाभिमानैश्च धूसरा मलिना | भयलक्षणानां भोगिनां सर्पाणां हिता | भूयस्यो दुर्वासनाः भोगान्भस्मयतीति भोगभस्म समाधिस्तेन क्षता उच्छिन्नाः || ८३ || एतावन्तमहं कालं कोऽभुवं चित्रमीदृशम् | येनाहमेष मिथ्यैव दृढाहंकारतां गतः || ८४ || इदानीं निद्राक्षये स्वाप्नदुर्दशामिव प्राक्तनीमहंकारदशां स्मृत्वा विस्मयते - एतावन्तमिति | चित्रमाश्चर्यम् || ८४ || अद्याहमस्मि जातोऽयमहमद्य महामतिः | अहंकारमहाभ्रेण यत्कृष्णेनालमुज्झितः || ८५ || अद्याहमयमनुभूयमाननिरतिशयानन्दस्वभावो जातः प्रादुर्भूतः | यद्यतोऽहं महती अपरिच्छिन्नब्रह्माकारा मतिः साक्षात्कारवृत्तिर्यस्य तथाविधः सन्नहंकारमहाभ्रेणालं निःशेषमुज्झितः | निर्मुक्त इत्यर्थः || ८५ || दृष्टोऽयमात्मा भगवांस्तथैवाधिगतो मया | आलब्धश्चानुभूतोऽङ्गं स्वानुभूतौ नियोजितः || ८६ || महामतिरित्येतद्विशदयति - दृष्ट इति | वाक्यप्रमाणेन दृष्टो मननेनाधिगतः समाधौ मनसा चिराश्लेषमालब्धसमाध्यनुभूतश्चाङ्गं स्वदेहमिव सदा स्वानुभूतौ नियोजितः | तथाचाहुः देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् | आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते || इति || ८६ || गतास्पदं गतमननं गतैषणं तिरस्कृतं निपुणमहंकृतिभ्रमैः | निरीहितं व्यपगतरागरञ्जनं विकौतुकं प्रशममिदं गतं मनः || ८७ || सांप्रतं निर्दोषविक्षेपं स्वमनः प्रशमं गतमित्याह - गतास्पदमिति | गतास्पदं निर्विषयम् | विषयाणां मननाद्धि तेष्वेषणा प्रसिद्धेति मूलोच्छित्त्या गतमननं गतैषणं च | निपुणं नितरां तिरस्कृतं निराकृतमुज्झितमिति यावत् | अत एव निरीहितं निश्चेष्टम् | कौतुकं भोगोत्कण्ठा तद्रहितम् | अत एव निरिन्धनाग्निवत्प्रशमं गतमित्यर्थः || ८७ ||
210 SK दुरुत्तराः समविषमा महापदः सुदुःसहाः प्रभवनदीर्घदोषदाः | गताः क्षयं समधिगतो महेश्वर- श्चिदद्वयोऽपगामचित्त्वमन्तरे || ८८ || मनःप्रशमादेव सर्वापन्निवृत्तिं निरतिशयानन्दात्मावाप्तिं च वदन्नुपसंहरति - दुरुत्तरा इति | प्रभवनानि नानायोनिजन्मपरंपराः दीर्घा दोषाः कामलोभमोहादयस्तत्प्रदाः समाश्चिरकालैकरूपदुःखाः विषमाः प्रतिक्षणविचित्रदुःखा महापदः क्षयं गताः | चिदद्वयो महेश्वरः पूर्णानन्दात्मा समधिगतः प्राप्तः | तत्कुतः | यतः अन्तरे प्रत्यगात्मन्यचित्त्वमज्ञानजाड्यं ज्ञानेनापगतं बाधितमित्यर्थः || ८८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे ब्रह्मात्मचिन्ता [१] नाम पञ्चत्रिंशः सर्गः || ३५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे ब्रह्मात्मचिन्ता [ब्रह्मतात्मलाभचिन्ता इति पाठः] नाम पञ्चविंशः सर्गः || ३५ || षट्त्रिंशः सर्गः ३६ प्रह्राद उवाच | आत्मा सर्वपदातीतश्चिरात्संस्मृतिमागतः | दिष्ट्या लब्धोऽसि भगवन्नमस्तेस्तु महात्मने || १ || आत्मानं दुर्लभं प्राप्य प्रह्रादः प्रणमन्मुहुः | स्तौति नन्दति कान्तेव कान्तेन रमते रहः || १ || सर्वेभ्यो मानुषानन्दादिहैरण्यगर्भान्तेभ्यः पदेभ्यः सुखोत्कर्षस्थानेभ्योऽप्यतीतो निरतिशयानन्दरूपः आत्मा प्रत्यक् | महात्मने अपरिच्छिन्नस्वभावाय || १ || अभिवन्द्याथ चालोक्य चिरमालिङ्ग्यसे मया | कोऽन्यः स्यात्त्वदृते बन्धुर्भगवन्भुवनत्रये || २ || चिरमालिङ्ग्यसे क्षीरोदकवत्समरसवृत्त्या समाधावनुभूयसे | बन्धुः परमप्रियः || २ || हंसि पासि ददासि त्वं स्तौषि यासि विवल्गसि | अयं प्राप्तोसि दृष्टोसि किं करोषि क्व गच्छसि || ३ ||
211 SK यावन्न प्राप्तो न दृष्टश्च तावन्मृत्युर्भूत्वा अभक्तान् हंसि | भक्तान्पासि | उपासनाकर्मभिराराधितो ददासि | स्तावकादिरूपेण स्तौषि | गन्तृरूपेण यासि | सर्वरूपेण च विवल्गसि व्यवहरसि | मया तु अयं नित्यापरोक्षस्वभावः प्राप्तो दृष्टश्च | अतः परं मां प्रति किं करोषि क्व वा गच्छसि | न त्वयेदानीमन्यतो गन्तुं किंचित्कर्तुं वा पूर्ववच्छक्यमित्यर्थः || ३ || स्वसत्तापूरिताशेषविश्व विश्वजनीन भोः | सर्वत्र लक्ष्यसे नित्यमधुना क्व पलायसे || ४ || विश्वेभ्यो जनेभ्यो हित विश्वजनीन || ४ || आवयोरन्तरं भूरि जन्मव्यवहितान्तरम् | अदूरमद्य संपन्नं दिष्ट्या दृष्टोऽसि बान्धव || ५ || अन्तरमन्तर्धायकमज्ञानम् | अभूदिति शेषः | अद्य तन्नाशाददूरमत्यन्ताभेदलक्षणमतिसामीप्यं संपन्नम् || ५ || नमस्ते कृतकृत्याय कर्त्रे भर्त्रे नमोस्तु ते | नमः संसारवृन्ताय नित्याय विमलात्मने || ६ || संसारलक्षणस्य पर्णस्य वृन्ताय || ६ || नमश्चक्राब्जहस्ताय नमश्चन्द्रार्धधारिणे | नमो विबुधनाथाय नमस्ते पद्मजन्मने || ७ || विबुधनाथायेन्द्ररूपाय || ७ || वाच्यवाचकदृष्ट्यैव भेदो योऽयमिहावयोः | असत्या कल्पनैवेषा वीचिवीच्यम्भसोरिव || ८ || वाच्यवाचकदृष्ट्या व्यवहारदृष्ट्या | एषा व्यवहारदृष्टिर्भिदा च || ८ || त्वमेवानन्तयानन्तवस्तुवैचित्र्यरूपया | भावाभावविलासिन्या नित्ययैव विजृम्भसे || ९ || अनन्तया कल्पनयेति शेषः | नित्यया प्रवाहानाद्यया [प्रवाहनद्या इत्यपि क्वचित्] || ९ || नमो द्रष्ट्रे नमः स्रष्ट्रे नमोऽनन्तविकासिने | नमः सर्वस्वभावाय नमस्ते सर्वगात्मने || १० || आदौ सृज्यपदार्थानां द्रष्ट्रे | ततः स्रष्ट्रे | सृष्ट्वा चानन्तरूपैर्विकासिने | अत एव सर्वस्वभावाय | अधिष्ठानतया सर्वगात्मने || १० || प्रतिजन्म चिरं बह्व्यो दीर्घदुःखवता मया | त्वया मयोपदिष्टेन दग्धेनापहतौजसा || ११ ||
212 SK एतावन्तं कालं मद्रूपेण त्वमेव मच्छन्दानुवर्तनाच्छान्त इदानीं त्वयैव त्वं विश्रान्तये लब्ध इत्याह - प्रतिजन्मेति | मया मद्भावापन्नेन जीवभूतेन त्वया मया स्वकामादिदोषानुसारेणोपदिष्टेनासन्मार्गेण प्रवृत्तत्वाद्दग्धेन अत एवापहतौजसा तिरोहितेश्वरभावेन || ११ || आलोकिता लोकदृशो दृष्टा दृष्टान्तदृष्टयः | न प्राप्तस्तत्त्वयाऽनेन किंचिदासादितं भवेत् || १२ || त्वया लोकदृश ऊर्ध्वाधोमध्यलोकसंचारभ्रमास्तेषु विवेकानुकूलदृष्टान्तदृष्टयश्च आलोकिताः | तत्तस्माद्बहिर्लोकदर्शनात्वं त्वया न प्राप्तः | अनेन लोकत्रयदर्शनेन च किंचित्स्वल्पमपि पुरुषार्थरूपमासादितं न भवेत् नाभूदिति द्वयोरर्थः || १२ || सर्वं मृत्काष्ठपाषाणवारिमात्रमिदं जगत् | नेहास्ति त्वदृते देव यत्प्राप्तौ नाभिवाञ्छति || १३ || कुतो नाभूत्तत्राह - सर्वमिति | नाभिवाञ्छति पुरुषार्थेच्छा पूर्णा भवति तत्तादृशं वस्तु त्वदृते त्वां विना इह जगति अन्यन्नास्तीत्यर्थः || १३ || देवायमद्य लब्धोऽसि दृष्टोऽस्यधिगतोऽसि च | संप्रप्तोऽसि गृहीतोऽसि नमस्तेस्तु न मुह्यसि || १४ || न मुह्यसि | मोहनिस्तीर्णोऽसीति यावत् || १४ || योऽक्ष्णोः कनीनिकारश्मिजालप्रोतवपुः स्थितः | देव दर्शनरूपेण कथं सोऽत्र न दृश्यते || १५ || कथमहं दृष्ट इति चेच्चाक्षुषादिसर्ववृत्तिप्रथारूपेण प्रतिबोधविदितं मतमिति श्रुतिदर्शितोपायेनेत्याह - य इति | चक्षुर्द्वारान्तःकरणस्य घटादिदेशनिर्गमने तदवच्छिन्नचैतन्यात्माऽक्षिकनीनिकारश्मिजालप्रोतवपुःस्थित इत्यर्थः | एवमग्रेऽप्यूह्यम् || १५ || यस्त्वक्स्पर्शौ स्पृशन्सर्वं गन्धं तैलं तिले यथा | स्पर्शमन्तःकरोत्येष स कथं नानुभूयते || १६ || त्वचं स्पर्शमौष्ण्यादिकं च स्पृशन् स्पार्शनवृत्त्या व्याप्नुवन् यथा तिलेऽन्तर्गतं तैलं तिलसंयुक्तपुष्पगन्धमन्तःकरोति गृह्णाति तद्वत्स्पर्शं शीतादि अन्तःकरोति व्याप्य प्रकाशयति || १६ || यः शब्दश्रवणादन्तः शब्दशक्तिं परामृशन् | रोमाञ्चं जनयत्यङ्गे स दूरस्थः कथं भवेत् || १७ ||
213 SK शब्दशक्तिं गानकाव्यादिगुणचमत्कारम् | परामृशन् प्रकाशयन् || १७ || जिह्वापल्लवलग्नानि स्वदितस्याग्रतोऽपि च | स्वदन्ते यस्य वस्तूनि स्वदते स न कस्य च || १८ || वस्तूनि मधुराम्लादीनि अग्रतः पुरस्तादेव स्वदितस्य स्वारसिकप्रेमविषयस्य स्वदन्ते | स्वदते सुखात्मना स्फुरति || १८ || पुष्पगन्धानुपादाय घ्राणहस्तेन देहकम् | य आलोकयति प्रीत्या कस्यासौ न करे स्थितः || १९ || घ्राणहस्तेन हस्तवदुपादानकारणेन घ्राणेन कण्ठधृतस्रजः पुष्पाणां गन्धानुपादाय मालालंकृतं स्वं देहकमालोकयति पश्यति | करे स्थित इव स्फुटं प्रत्यक्षः इत्यर्थः || १९ || वेदवेदान्तसिद्धान्ततर्कपौराणगीतिभिः | यो गीतः स कथं ह्यात्मा विज्ञातो याति विस्मृतिं || २० || सैवेह देहभोगाली सुभगापीयमद्य मे | अन्तर्न स्वदते स्वच्छे त्वयि दृष्टे परावरे || २१ || त्वया विमलदीपेन भानुः प्रकटतां गतः | त्वया शीततुषारेण चन्द्रः शिशिरतां गतः || २२ || येन सूर्यस्तपति तेजसेद्धः इत्यादिश्रुतिदृशाप्याह - त्वयेति || २२ || त्वयैते गुरवः शैलास्त्वयैते द्युचरा धृताः | त्वयैवेयं धरा धीरा त्वयैवाम्बरमम्बरम् || २३ || द्युचरा नभश्चरा वाय्वादयः | धीरा निश्चला | अम्बरमवकाशदम् || २३ || दिष्ट्या मत्तामसि प्राप्तो दिष्ट्या त्वत्तामहं गतः | अहं त्वं त्वमहं देव दिष्ट्या भेदोऽस्ति नावयोः || २४ || दिष्ट्या भाग्येन | अहं त्वं त्वमहमिति व्यतिहारेणाभेदो दृढीकृतः || २४ || अहं त्वमितिशब्दाभ्यां पर्यायाभ्यां महात्मनः | तव वा मम वा शाखा संयुक्ताभ्यां नमो नमः || २५ ||
214 SK इदानीमखण्डार्थे प्रमाणतया संपन्नावहंत्वंशब्दौ नमस्यति - अहमिति | लक्ष्यस्य महात्मनो बोधने पर्यायाभ्याम् | तव कारणोपाधिविशिष्टस्य वाच्यार्थस्य मम कार्योपाधिविशिष्टस्य वाच्यार्थस्य वा शाखावदेकदेशभूताभ्यामुपाधिभ्यां भेदकल्पनात्संयुक्ताभ्यां सामानाधिकरण्येनान्विताभ्यामहंत्वमिति शब्दाभ्याम् | नमो नम इत्यादरादभ्यासः | द्वौ वाशब्दौ शाखाद्वयसंबन्धयोर्मिथ्यात्वद्योतनार्थौ || २५ || नमो मह्यमनन्ताय निरहंकाररूपिणे | नमो मह्यमरूपाय नमः समसमात्मने || २६ || इदानीमखण्डार्थं प्रत्यक्प्राधान्येन प्रणम्य तस्यैव ब्रह्मतां दर्शयति - नम इत्यादिना || २६ || मय्यात्मनि समे स्वच्छे साक्षिभूते निराकृतौ | दिक्कालाद्यनवच्छिन्ने स्वात्मन्येवेह तिष्ठसि || २७ || हे ब्रह्मन् त्वं मय्यात्मनि प्रत्यक्स्वभाव एव तिष्ठसि न कदाचित्पराग्भावे इत्यर्थः || २७ || मनः प्रक्षोममायाति स्फुरन्तीन्द्रियवृत्तयः | शक्तिरुल्लसति स्फारा प्राणापानप्रवाहिनी || २८ || तत्कुतो ज्ञातं तत्राह - मन इति | केनेषितं पतति प्रेषितं मनः इत्यादिश्रुतिदर्शितेन मनःप्रभृतीनामयस्कान्तवत्प्रवर्तकत्वेन ज्ञातमित्यर्थः || २८ || वहन्ति देहयन्त्राणि कृष्टान्याशावरत्रया | चर्ममांसास्थिदिग्धानि मनःसारथिमन्ति च || २९ || अयं संविद्वपुरहं न काचिन्न कृतास्पदः | देहः पततु वोदेतु यथाभिमतयेच्छया || ३० || तर्हि त्वं किं प्राणनादिशक्तिरुत देहकृतास्पदोऽहंकारादिर्वा नेत्याह - अयमिति | अयमहं संविद्वपुरेव नतु काचिच्छक्तिर्नापि ध्येयकृतास्पदः [देहकृत इति पाठः] | तर्हि ते किं देहेनेति चेन्न किंचिदित्याह - देह इति || ३० || चिरादहमहं जातः स्वात्मलाभश्चिरादयम् | चिरादुपशम याति कल्पस्यान्ते जगद्यथा || ३१ || उपशमं याति भ्रम इति शेषः || ३१ || चिरात्संसारगामित्वाद्दीर्घे संसारवर्त्मनि | विश्रान्तोऽस्मि चिरं श्रान्तः कल्पस्यान्त इवानलः || ३२ ||
215 SK संसारगामित्वात्संसारे भ्रमणशीलत्वात् | एतावत्कालं संसारवर्त्मनि श्रान्तोऽहं संप्रति विश्रान्तः || ३२ || सर्वातीताय सर्वाय तुभ्यं मह्यं नमो नमः | तेभ्योऽपि च नमस्तेस्तु ये मां त्वां प्रवदन्ति च || ३३ || ये गुरवो वेदान्ताश्च त्वां मां मद्रूपमेव प्रवदन्ति || ३३ || अखिलानन्तसंभोगा न स्पृष्टा दोषवृत्तिभिः | जयत्यकृतसंरम्भा साक्षिता परमात्मनः || ३४ || अखिला अनन्ताः संभोगाः प्रकाश्या यस्यास्तथाविधापि प्राकाश्यदोषवृत्तिभिरस्पृष्टा | न कृतः संरम्भोऽभिनिवेशो यया | उदासीनेत्यर्थः | अत एव जयति || ३४ || आत्मन्पुष्प इवामोदो भस्त्रापिण्ड इवानिलः | तिले तैलमिवास्मिंस्त्वं सर्वत्र वपुषि स्थितः || ३५ || त्वमेव सर्वत्र सार इत्याह - आत्मन्निति || ३५ || हंसि पासि ददासि त्वमवस्फूर्जसि वल्गसि | अनहंकृतिरूपोऽपि चित्रेयं तव मायिता || ३६ || सर्वकर्तापि त्वमेवेत्याह - हंसीति || ३६ || जयामीशज्वलद्दीप्तिः सर्वमुन्मीलयञ्जगत् | जयाम्युपरतारम्भो जगद्भूयो निमीलयन् || ३७ || सर्गकाले ईशेन त्वया चिदात्मना ज्वलद्दीप्तिर्बहिरन्तश्चार्थप्रकाशनेनोज्ज्वलितोऽहं जीवभावेनानुप्रविश्य नामरूपात्मकं सर्वं जगदुन्मीलयन्व्याकुर्वंस्त्वदात्मनैव जयामि वशीकृत्य पालयामि | प्रलयकाले चाहमुपरतारम्भो जगद्भूयः पुनर्निमीलयन्नुपसंहरन्नपि त्वदात्मनैव जयाम्यभिभवामीत्यर्थः || ३७ || परमाणोस्तवैवान्तरिदं संसारमण्डलम् | वटत्वं वटधानायां बभूवास्ति भविष्यति || ३८ || परमाणोरत्यन्तसूक्ष्मस्य | दुर्लक्ष्यस्येत्यर्थः | वटत्वं वटव्यक्तिसंवलिता जातिः || ३८ || हयद्विपरथाकारैर्यद्वत्खे दृश्यतेऽम्बुदः | तद्वदालोक्यसे देव पदार्थशतविभ्रमैः || ३९ || भावानां भूरिभङ्गानामभवाय भवाय च | भव भावविमुक्तात्मा भावाभावबहिष्कृतः || ४० ||
216 SK इदानीं स्वयं मुक्तात्मा स्वाभिन्नाय बद्धात्मने मोक्षोपायमुपदिशति - भावानामित्यादिना | भूरिभङ्गानां बहुविधविकारस्वभावानां अभवाय बाधाय भवाय निरतिशयानन्दस्वरूपाविर्भावाय च असङ्गात्मदर्शनेन भावाभावाभ्यां बहिष्कृतो विविक्तः संस्तद्भावेनैव सदा विमुक्तात्मा भव | मा पुनर्बन्धं प्रतिपद्यस्वेत्यर्थः || ४० || जहि मानं महाकोपं कालुष्यं क्रूरतां तथा | न महान्तो निमज्जन्ति प्राकृते गुणसंकटे || ४१ || तदुपायभूतां पूर्वपीठिकामुपदिशति - जहीत्यादिना || ४१ || प्राक्तनीं दीर्घदौरात्म्यदशां स्मृत्वा पुनःपुनः | कोहं किं तद्बभूवेति हसन्मुक्ताच्छटासितम् || ४२ || इति विचार्येति शेषः | मुक्तानां छटाः कणा इव सितं शुभ्रं यथा स्यात्तथा हसन् प्राक्तनीं दीर्घदौरात्म्यदशां जहीति पूर्वेणान्वयः || ४२ || ते प्रयाताः समारम्भा गतास्ते दग्धवासराः | येषु चिन्तानलज्वालाजालाकीर्णो भवानभूत् || ४३ || अद्य त्वं देहनगरे राजा स्फारमनोरथः | न दुःखैर्गृह्यसे नापि सुखैर्व्योम करैरिव || ४४ || करैर्मुष्टिभिर्व्योमेव || ४४ || अद्येन्द्रियदुरश्वांश्च जित्वा जितमनोगजः | भोगारिमभितो भङ्क्त्वा साम्राज्यमधितिष्ठसि || ४५ || अपाराम्बरपान्थस्त्वमजस्रास्तमयोदयः | अवभासकरो नित्यं बहिरन्तश्च भास्करः || ४६ || बहिः अविद्यादृशि अन्त्ऽह् स्वरूपदृशि च यथाक्रममजस्रमस्तमय उदयश्च यस्य | अथवा अजस्रमभीक्ष्णं जगतः अस्तमयोदयौ प्रलयसर्गौ यस्मादित्यर्थः | भास्करपक्षे स्पष्टम् || ४६ || सर्वदैवासि संसुप्तः शक्त्या संबोध्यसे विभो | भोगालोकनलीलार्थं कामिन्या कामुको यथा || ४७ || यद्येवं तर्हि सर्वत्र तथा कुतो नावगच्छामि तत्राह - सर्वदैवेति | सर्वदा अनादिकालात्सुप्तोऽसि | शक्त्या भोजकादृष्टशक्त्या भोगालोकनलीलार्थं तावन्मात्रं संबोध्यसे न पूर्णात्मरूपेणेत्यर्थः || ४७ || दृक्षुद्राभिरुपानीतं दूराद्रूपमधु त्वया | पीयते स्वीकृतं शक्त्या नेत्रवातायनस्थया || ४८ ||
217 SK भोगालोकनलीलामेव विशदयति - दृक्क्षुद्राभिरिति | दृश इन्द्रियवृत्तयस्तल्लक्षणाभिः क्षुद्राभिर्मधुमक्षिकाभेदैः | रूपादिलक्षणं मधु क्षौद्रम् | नेत्रादिवातायनस्थया चिच्छक्त्या || ४८ || ब्रह्माण्डकोटराध्वान्ताः प्राणापानपरैस्त्वया | गतागतैर्ब्रह्मपुरे संप्रेक्ष्यन्ते प्रतिक्षणम् || ४९ || योगिनामुत्क्रमणकाले सुषुम्नादिमार्गप्रकाशोऽपि त्वदधीन एवेत्याह - ब्रह्माण्डेति | प्राणापानशब्दाभ्यां तन्निरोधाभ्यासो लक्ष्यते | तत्परैर्योगिभिर्ब्रह्मोपलब्धिस्थानत्वाद्ब्रह्मपुरे देहे प्रतिक्षणमभ्यस्तैर्हृदि संपिण्डितानां प्राणानामुत्क्रम्य परकायप्रवेशलोकान्तरसंचाराद्यनुकुलैर्नानानाडीमार्गेषु गतागतैः संचारैर्ब्रह्माण्डान्तरं गन्तुमर्चिरादिमार्गेण सूर्यमण्डलं गन्तुं वा ब्रह्माण्डकोटरस्य ब्रह्मरन्ध्रस्य च संबन्धिनः अध्वान्ताः सुषुम्नादिमार्गपर्वाणि त्वयैव स्वयंज्योतिषा करणेन संप्रेक्ष्यन्ते स्फुटं दृश्यन्ते | हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामतीति श्रुतेर्यद्यपि सर्वेषां मरणेन [मरणे इति पाठः] नाडीद्वारप्रकाश आत्मज्योतिरधीन एव तथाप्ययोगिनां पीडापारवश्यादिना तदवधानाशक्तेर्योगिनां चाभ्यासकाले मरणकाले च सावधानत्वात्त एवोदाहृताः || ४९ || देहपुष्पे त्वमामोदो देहेन्दौ त्वमृतामृतम् | रसस्त्वं देहविटपे शैत्यं देहहिमे भवान् || ५० || ऋतं परमार्थसत्यभूतममृतम् [सत्यमृतामृतम् इति पाठः] | देहलक्षणे विटपे शाखायं रागादिपल्लवोद्गमनिमित्तभूतो रसः || ५० || त्वय्यस्ति विस्मयस्नेहः शरीरक्षीरसर्पिषि | त्वमन्तरस्य देहस्य दारुण्यग्निरिव स्थितः || ५१ || सर्वप्राणिनां शरीरे स्मयस्य गर्वस्य निमित्तभूतः स्नेहो योऽस्ति स शरीरलक्षणस्य क्षीरस्य सर्पिषि घृतवत्सारभूते त्वय्येव सोऽस्ति | त्वया तदभिमानत्यागे स्नेहादर्शनादित्यर्थः || ५१ || त्वमेवानुत्तमास्वादः प्राकाश्यं तेजसामपि | अवगन्ता त्वमर्थानां त्वं भासामवभासकः || ५२ ||
218 SK अनुत्तमास्वादोऽतिमधुरोऽमृतस्वरूप इति यावत् | तेजसां सूर्यादीनाम् | अधिदैवं प्राकाश्यं प्रकाशनिमित्तम् | अध्यात्मं च भासां चक्षुरादिकरणानामवभासकः || ५२ || स्पन्दस्त्वं सर्ववायूनां त्वं मनोहस्तिनो मदः | प्रज्ञानलशिखायास्त्वं प्राकाश्यं तैक्ष्ण्यमेव च || ५३ || वायूनां प्राणानां स्पन्दयतीति स्पन्दः | मनोलक्षणस्य हस्तिनो मद इव भ्रान्तिनिमित्तम् | तैक्ष्ण्यमौष्ण्यनिमित्तम् || ५३ || त्वद्वशादियमात्मीया वाचा संप्रविलीयते | दीपवत्पुनरन्यत्र समुदेति कुतोऽपि सा || ५४ || वाचा वाणी | आपं चैव हलन्तानाम् इति भागुरिमतेन टाप् | त्वद्वशात्त्वयोपसंहारात्संप्रविलीयते उपशाम्यति मरणमूर्च्छास्वप्नेषु | अन्यत्र देहान्तरेषु || ५४ || त्वयि संसारवर्तिन्यः पदार्थावलयस्तथा | कटकाङ्गदकेयूरयुक्तयः कनके यथा || ५५ || पदार्थावलयः समुद्यन्तीति विपरिणामेनानुषज्यते || ५५ || भवानयमयं चाहंत्वंशब्दैरेवमादिभिः | स्वयमेवात्मनात्मानं लीलार्थं स्तौषि वक्षि च || ५६ || त्वयैव स्वात्मनि मदादिशब्दैर्व्यवहारः क्रियते न त्वत्तोऽन्योऽस्तीत्याह - भवानिति | स्तौषि गुणैः | वक्षि अन्यत् || ५६ || मन्दानिलविनुन्नोऽब्दो गजाश्वनरदृष्टिभिः | यथा संलक्ष्यते व्योम्नि तथा त्वं भूतदृष्टिभिः || ५७ || अब्दो मेघः || ५७ || यथा हयगजाकारैर्ज्वाला लसति वह्निषु | तथैवाव्यतिरिक्तैस्त्वं दृश्यसे भुवि सृष्टिषु || ५८ || प्रत्येकं ज्वलत्सु काष्ठेषु कासांचिज्ज्वालानां हयाद्याकारतापि कदाचिद्दृश्यते || ५८ || त्वं ब्रह्माण्डकमुक्तानामच्छिन्नस्तन्तुराततः | क्षेत्रं त्वं भूतसस्यानां चिद्रसायनसेवितम् || ५९ || ब्रह्माण्डलक्षणानां मुक्तानां मुक्ताफलानाम् | जलतेज- asattadanabhivyaktaṃ padārthānāṃ prakāśyate | tvayā tattvaṃ yathā paktyā māṃsānāṃ svādavedanam || 60 || kṣetratvamupapādayati - tvayeti | tvayā anabhivyaktamata- स्वरूपं सर्गेण प्रकाश्यते | यथा पक्त्या पाकेन मांसानां स्वादवेदनमास्वादनार्हा स्वादुता प्रकाश्यते तद्वत् || ६० ||
219 SK विद्यमानापि वस्तुश्रीर्न स्थिता त्वयि न स्थिते | वनितारूपलावण्यसत्तेव गतचक्षुषः || ६१ || एवं चित्प्रकाशानाकलितं सदप्यसत्प्रायमेवेत्याह - विद्यमानेति | वनितासंबन्धिनी रूपलावण्यसत्तेव || ६१ || सदपीह न सत्तयै वस्तु नावर्जितं त्वया | तृप्तये न स्वलावण्यं मुकुरात्प्रतिबिम्बितम् || ६२ || अनावर्जितं अर्थक्रियाशक्त्या अननुगृहीतं सत्प्रतीतमपि न सत्तायै अर्थक्रियायै समर्थमित्यर्थः | मुकुराद्दर्पणान्निमित्तात्प्रतिबिम्बितं स्वलावण्यं स्वमुखसौन्दर्यं कान्तानां चुम्बनाधरास्वादनाद्यर्थक्रियाप्रयुक्ततृप्तये कामोपशमाय नालमित्यर्थः || ६२ || लुठति त्वां विना देहः काष्ठलोष्टसमः क्षितौ | सन्नप्यसन्नगोच्छ्रायः श्यामास्विव रविं विना || ६३ || नगस्य गिरेर्वृक्षस्य चोच्छ्राय औन्नत्यं सन् विद्यमानोऽप्यभानादसन्नसत्प्रायः | श्यामासु तमिस्रासु || ६३ || सुखदुःखक्रमः प्राप्य भवन्तं परिनश्यति | प्राकाश्यमासाद्य यथा तमस्तेजोऽथवा हिमम् || ६४ || प्राप्य साक्षादनुभूय | प्राकाश्यं सूर्यप्रकाशम् | तेजो दीपनक्षत्रादिप्रभा || ६४ || त्वदालोकनयैवैते स्थितिं यान्ति सुखादयः | सूर्यालोकनया प्रातर्वर्णाः शुक्लादयो यथा || ६५ || यतस्त्वदालोकनयैव लब्धात्मानस्ते सुखादयः अतश्चरमसाक्षात्कारेद्धस्य ते तव संबन्धक्षण एव विनश्यन्ति परटु त्वया दृष्टा एव व्रजन्त्यपगच्छन्ति नोपायान्तरेणेत्यर्थः || ६५ || लब्धात्मानो विनश्यन्ति संबन्धक्षण एव ते | ते तमांसीव दीपस्य दृष्टा एव व्रजन्त्यलम् || ६६ || तमस्ता तमसो दीपासत्तायां स्फुटतां गता | दीपसंबन्धसमये सा चोत्पद्य विनश्यति || ६७ || दीपस्यासत्तायामविद्यमानतायां स्फुटतां गता तमसस्तमस्ता दीपालोकसंबन्धसमये सैवोत्पद्य स्वधर्मिणो वियुज्य विनश्यति तद्धर्मी तु सन्मात्रस्वभावो न नश्यतीत्यर्थः | एवार्थे चकारः || ६७ || तदेवं सुखदुःखश्रीर्दृष्त्वैव त्वामनामयम् | जायते जातमात्रैवं सर्वनाशेन नश्यति || ६८ ||
220 SK दृष्टान्तोक्तं दार्ष्टान्तिके योजयति - तदेवमिति | सर्वनाशेनेति | बीजभावेन सहेत्यर्थः || ६८ || भङ्गुरत्वादिह स्थातुं कालं नाणुमपि क्षमा | निमेषलक्षभागाख्या तन्वी कालकला यथा || ६९ || सुखदुःखश्रीर्विषयापगमे स्वरसभङ्गुरत्वादिह नित्यनिरतिशयानन्दप्रकाशात्मनि अणुमपि कालं क्षणमपि स्थातुं न क्षमा | यथा निमेषकालस्य लक्षतमभागत्वेन प्रसिद्धा तन्वी अतिसूक्ष्मा कालकला स्वत एव नश्यति तद्वदित्यर्थः || ६९ || गान्धर्वी नगरी तन्वी सुखदुःखादिभावना | स्फुरति त्वत्प्रसादेन त्वयि दृष्टे विलीयते || ७० || एवमतिसूक्ष्मकालत्वाल्लक्षयितुमशक्या गान्धर्वनगरीव मिथ्याभूतापि सुखदुःखादिभावना अज्ञातत्वत्प्रसादेन स्थिरेव सत्येव स्फुरति त्वयि दृष्टे सति विलीयते नश्यतीत्यर्थः || ७० || त्वदालोकेक्षणोद्भूता त्वदालोकेक्षणक्षया | मृतेव जाता जातेव मृता केनोपलक्ष्यते || ७१ || अज्ञातत्वदालोकलक्षणेनेक्षणेन दुष्टचक्षुषोद्भूता | सुज्ञातत्वदालोकेक्षणक्षया | एवंभूतेयं मृता स्वप्ने पुनर्जातेव स्वप्नजाता जागरे पुनर्मृतेवेत्यर्थः || ७१ || क्षणमप्यस्थिरं वस्तु कथं कार्यकरं भवेत् | तरङ्गैरुत्पलाकारैर्माला कथमवेक्ष्यते || ७२ || मिथ्यावस्तूनां क्षणस्थायित्वस्यापि दुर्घटत्वादर्थक्रियाकारित्वमत्याश्चर्यमित्याह - क्षणमपीति | उत्पलाकारैरुत्पलबुद्ध्या कल्पिताकारैः || ७२ || यदा वा जातनिर्नष्टं क्रियां वस्तु करिष्यते | तदा रमेत लोकोऽयं मालां कृत्वा तडिद्गणैः || ७३ || ननु सौगतदर्शनवदत्रापि क्षणिकैरर्थक्रिया किं न स्यात्तत्राह - यदा वेति | न प्रामाणिकी सौगतैरप्यर्थक्रिया साधयितुं शक्येति भावः || ७३ || इमां सुखादिकां लक्ष्मीं विवेकिजनचेतसि | स्थितः सन्नेव गृह्णासि न जहासि समस्थितिम् || ७४ || इमामुक्तरीत्या दुर्घटामपि सुखदुःखादिकां लक्ष्मीं तद्दुर्घटताभिज्ञानां विवेकिजनानां चेतसि स्थितः सन् गृह्णास्येव | अविवेकिभ्यो विवेकिषु यो विशेषस्तमाह - न जहासीति || ७४ ||
221 SK अविवेकिषु योऽसि त्वं सहजात्मन्यदृच्छया | तद्रूपकथनेनालं ममानल्पपदास्पद || ७५ || अविवेकिषु तर्हि कीदृशोऽहमिति प्रश्ने तु नोत्तरमस्ति अविवेकिकल्पनानामानन्त्यादनियतत्वाच्चेत्याह - अविवेकिष्विति | यदृच्छया आकस्मिकनानावासनोद्बोधेन निमित्तेन मम वाणीति शेषः | नालं न समर्था हे अनल्पानामनन्तानां पदानां रूपभेदानां नाम्नां च आस्पद इत्यसामर्थ्योपपादकं संबोधनम् || ७५ || निरीहेण निरंशेन निरहंकृतिना त्वया | सता वाप्यसता वापि कर्तृत्वमुररीकृतम् || ७६ || अनल्पपदास्पदत्वे च कर्तृत्वाध्यासो मूलमित्याशयेनाह - निरीहेणेति | सता मूर्तस्थूअल्देहोपाधिना | असता अमूर्तसूक्ष्मदेहोपाधिना | वाशब्दः स्वप्ने सूक्ष्मस्य स्वातन्त्र्यद्योतनार्थः | अपिशब्दो जागरे देहद्वयसमुच्चयेन कर्तृत्वद्योतनार्थः || ७६ || जय प्रोड्डामराकार जय शान्तिपरायण | जय सर्वागमातीत जय सर्वागमास्पद || ७७ || इदानीं विवेक्यविवेकिप्रसिद्धरूपद्वयेनापि स्तौति - जयेति द्वाभ्याम् | प्रोड्डामरो ब्रह्माण्डाद्यतिविस्तृत आकारो यस्य | आगमग्रहणं सर्वप्रमाणोपलक्षणम् | सर्वागमास्पद सर्वप्रमाणवेद्य || ७७ || जय जात जयाजात जय क्षत जयाक्षत | जय भाव जयाभाव जय जेय जयाजय || ७८ || जेय आविद्यकरूपेण जेतुं योज्य | स्वाभाविकेन त्वजय अजय्य || ७८ || उल्लसाम्युपशाम्यामि तिष्ठाम्यधिगतोऽस्मि च | जयी जयाय जीवामि नमो मह्यं नमोऽस्तु ते || ७९ || अत एवाहमाविद्यकरूपजयवत्त्वाज्जयी | प्रारब्धशेषस्यापि जयाय जीवामि || ७९ || त्वयि स्थिते मयि विगतामयात्मनि स्वसंस्थितौ व्यपगतरागरञ्जने | क्व बन्धनं क्व च विपदः क्व संपदो भवाभवौ क्व शममुपैमि शाश्वतम् || ८० || त्वत्स्वरूपेणावस्थितौ मम सर्वानर्थनिराससिद्धिः संपन्नेत्युपसंहरति - bhavābhavau janmamaraṇe kva | ataḥ śāśvataṃ śamaṃ sukhaviśrāntimupaimi prāpnomītyarthaḥ || 80 ||
222 SK इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे आत्मस्तवनं नाम षट्त्रिंशः सर्गः || ३६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे आत्मस्तवनं नाम षट्त्रिंशः सर्गः || ३६ || सप्तत्रिंशः सर्गः ३७ श्रीवसिष्ठ उवाच | इति संचिन्तयन्नेव प्रह्रादः परवीरहा | निर्विकल्पपरानन्दसमाधिं समुपाययौ || १ || इह भूयः समाधिस्थे प्रह्रादे दानवं पुरम् | अनायकं दस्युहतं दुर्दशापन्नमीर्यते || १ || इति वर्णितप्रकारमात्मानं संचिन्तयन् || १ || निर्विकल्पसमाधिस्थश्चित्रार्पित इवाचलः | शैलादिव समुत्कीर्णो बभौ स्वपदमास्थितः || २ || स्वपदं स्वरूपसाम्राज्यम् || २ || तथानुतिष्ठतस्तस्य कालो बहुतरो ययौ | स्वगृहे भुवनस्थस्य मेरोरिव सुरद्विषः || ३ || स्वगृहे तथा समाधौ तिष्ठतस्तस्य सुरद्विषः प्रह्रादस्य भुवनमध्यस्थरूपमेरोरिव बहुतरः कालो ययौ || ३ || बोधितोऽप्यसुराधीशैर्नाबुध्यत महामतिः | अकाले बहुसेकोऽपि बीजकोशादिवाङ्कुरः || ४ || बीजकोशाद्बीजपुटात् || ४ || एवं वर्षसहस्राणि पीनात्माऽतिष्ठदेकदृक् | शान्त एवासुरपुरे मार्तण्ड इव चोपले || ५ || पीनं प्रवृद्धतमं ब्रह्म तदात्मा | पीनांस इति पाठे स्पष्टम् | एकदृक् बाह्यदृक् | शून्य इति यावत् उपले उत्कीर्णो मार्तण्डः सूर्य इव | निश्चल इति यावत् || ५ || परानन्ददशैकान्तपरिणामितया तया | निरानन्दं पराभासमिवाभासपदं गतः || ६ || तया परानन्दो भूमाख्यस्तद्दशायामेकान्तमेकरसं परिणामी परिणतस्तत्तया निरानन्दमत्यन्तासत्प्राय आनन्दो यस्मिंस्तथाविध परः परमात्मा न भासते यस्मिंस्तथाविधं मरणमिव प्राप्तो देहमात्रावशेषमाभासपदं द्रष्टृजनप्रतीतियोग्यत्वं गतः || ६ || एतावताथ कालेन तद्रसातलमण्डलम् | बभूवाराजकं तीक्ष्णं मात्स्यन्यायकदर्थितम् || ७ || मात्स्यन्यायो बलवद्भिः स्वजातीयैरन्यैश्च दुर्बलानां निष्कारणं वधादिस्तेन कदर्थितं पीडितम् || ७ ||
223 SK हिरण्यकशिपौ क्षीणे समाधौ तत्सुते स्थिते | न बभूवापरः कश्चिद्राजा दनुसुतालये || ८ || तत्कुतस्तत्राह - हिरण्यकशिपाविति | दनुसुतालये दैत्यपुरे || ८ || असुरेशार्थिनां तेषां दानवानां समाधितः | परेणापि प्रयत्नेन प्रह्रादो न व्यबुध्यत || ९ || दानवानां परेणापि प्रयत्नेन प्रह्रादः समाधितो नावबुध्यत || ९ || न प्रापुर्विकसद्रूपं पतिं तममरारयः | लसत्पत्रलताजालं निशि पद्ममिवालयः || १० || विकसद्रूपं प्रबोधवन्तमिति यावत् | न प्रापुर्नापश्यन् || १० || संविद्वादो न तस्यान्तरबोध्यत विचेतसः | भुवश्चेष्टाक्रम इव पौरुषो गतभास्वतः || ११ || संविद्वादः प्रबोधवार्तापि | विचेतसो गलितचित्तस्य | गतो भास्वान्सूर्यो यस्याः सकाशात्तथाविधाया भुवो भूमेरन्तः पौरुषः सुषुप्तपुरुषसंबन्धी स्नानदानप्रस्थानधावनादिचेष्टाक्रम इव || ११ || अथोद्विग्नेषु दैत्येषु गतेष्वभिमतां दिशम् | विचरत्सु यथाकाममराजनि पुरे पुरा || १२ || उद्विग्नेषु दुर्बलेषु दैत्येषु गतेषु बलवत्सु च दैत्येषु यथाकामं दस्युवद्यथेच्छं विचरत्सु व्यवहरत्सु सत्सु पातालं चिराय मात्स्यन्यायविपर्यस्तमभूदिति परेणान्वयः || १२ || चिराय पातालमभूदभूपालतया तया | मात्स्यन्यायविपर्यस्तमस्तंगतगुणक्रमम् || १३ || बलिमुक्ताबलपुरं [भुक्ताबल इति पाठोऽपेक्षितः] मर्यादाक्रमवर्जितम् | सर्वार्ताशेषवनितं परस्परहृताम्बरम् || १४ || मात्स्यन्यायमेव तत्रोवपादयति - बलीत्यादिना | बलिभिर्बलवद्भिर्मुक्तान्यपहृतान्यबलानां पुराणि यत्र | सर्वेभ्य आर्ताः पीडिता अशेषा वनिताः स्त्रियो यत्र || १४ || प्रलापाक्रन्दपुरुषं विसंस्थानपुरान्तरम् | लुठदुद्याननगरं व्यर्थानर्थकदर्थितम् || १५ || विसंस्थानं भग्नसंनिवेशम् | उद्याननगरपदाभ्यां तत्स्था वृक्षा जनाश्च लक्ष्यन्ते || १५ || चिन्तापरासुरगणं निरन्नफलबान्धवम् | अकाण्डोत्पातविवशं ध्वस्ताशामुखमण्डलम् || १६ || ध्वस्तानि रेणुव्याप्तान्याशानां दिशां मुखमण्डलानि यत्र || १६ ||
224 SK सुरार्भकपराभूतं भूतैराक्रान्तमन्त्यजैः | भूतरिक्तमलक्ष्मीकमुच्छिन्नप्रायकोटरम् || १७ || सुराणामर्भकैरपि पराभूतं तिरस्कृतम् | अन्त्यजैस्तामसैर्भूतैश्चण्डालश्वशृगालरक्षःपिशाचादिभिः || १७ || अनियतवनितार्थमन्त्रयुद्धं हृतधनदारविरावितं समन्तात् | कलियुगसम्योद्भटोत्कटाभं तदसुरमण्डलमाकुलं बभूव || १८ || न नियतानि नियमवन्ति वनिता अर्था धनानि मन्त्राः सौहार्दसंकेता युद्धानि तन्निमित्तवैराणि च यस्य | कलियुगसमये उद्भटाः परस्वहरणशूरा ये उत्कटाः क्रूरा दस्यवस्तदाभम् | अत एवाकुलं सर्वतो भयोद्विग्नं बभूव || १८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे असुरमण्डलव्याकुलीभवनं नाम सप्तत्रिंशः सर्गः || ३७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे असुरमण्डलव्याकुलीभवनं नाम सप्तत्रिंशः सर्गः || ३७ || अष्टत्रिंशः सर्गः ३८ श्रीवसिष्ठ उवाच | अथाखिलजगज्जालक्रमपालनदेवनः | क्षीरोदनगरे शेषशय्यासनगतो हरिः || १ || जगद्व्यवस्थासिद्ध्यर्थं हरेश्चिन्तोपवर्ण्यते | इह दैत्यकुलं त्रातुं प्रह्रादस्य प्रबोधने || १ || अखिलानां जगज्जालसंबन्धिनां क्रमाणां नियतीनां पालनमेव देवनं क्रीडनं यस्य || १ || प्रावृण्निद्राव्युपरमे देवार्थमरिसूदनः | धिया विलोकयामास कदाचिज्जागतीं गतिम् || २ || प्रावृण्निद्राव्यपगमे | कार्तिकान्ते इति यावत् | देवानामर्थ प्रयोजनं साधयितुमिति शेषः | अनेन देवैः काले स्तुत्या प्रबोधित इति गम्यते | जानतीं त्रैलोक्यसंबन्धिनीं गति तात्कालिकस्थितिम् || २ || त्रिविष्टपं स्वमनसा पार्थिवं चावलोक्य सः | आचारमाजगामाशु पातालमरिपालितम् || ३ || विलोकनक्रममेव विविच्याह - त्रिविष्टपमित्यादिना | पार्थिवं भूलोकसंबन्धिनमाचारं जनानां शुभाशुभाचरणम् | मनसा पातालमाजगाम पातालस्थितिं पर्यालोचितवानिति यावत् || ३ ||
225 SK तत्र स्थिरसमाधाने स्थिते प्रह्राददानवे | दृष्ट्वा संपदमिन्द्रस्य पुरे प्रौढिमुपागताम् || ४ || तत्र पाताले प्रह्राददानवे स्थिरे समाधाने समाधौ स्थिते सति इन्द्रस्य पुरे स्वर्गे प्रौढिमभिवृद्धिमुपागतां संपदं दृष्ट्वा पूर्वं क्षीरोदार्णवशायिनः पश्चात्प्रबुध्य व्यालतल्पतलस्थस्य तत्रापि पद्मासनबन्धेन स्थितस्य शङ्खचक्रगदापाणेर्विष्णोर्मनः स्वकल्पितेनातिभास्वता त्रैलोक्याब्जस्य महता अलिना भ्रमरभूतेन शरीरेण इदं वक्ष्यमाणप्रकारं कर्तव्यं संचिन्तयामासेति त्रयाणामन्वयः || ४ || व्यालतल्पतलस्थस्य क्षीरोदार्णवशायिनः | शङ्खचक्रगदापाणेर्देहस्यान्तरचारिणः || ५ || पद्मासनस्थस्य मनः शरीरेणातिभास्वता | इदं संचिन्तयामास त्रैलोक्याब्जमहालिना || ६ || प्रह्रादे पदविश्रान्ते पाताले गतनायके | कष्टं सृष्टिरियं प्रायो निर्दैत्यत्वमुपागता || ७ || पदं समाधिसाम्राज्यपदं तत्र विश्रान्ते || ७ || दैत्याभावे सुरश्रेणी निर्जिगीषुपदं गता | शममेष्यत्यदृष्टाब्दपटलेषु सरिद्यथा || ८ || शममरागद्वेषताम् | न दृष्टान्यब्दपटलानि येषु तथाविधेषु अनावृष्टिकालेषु || ८ || मोक्षाख्यं निर्गतद्वन्द्वं ततो यास्यति तत्पदम् | क्षीणाभिमानविरसा लतेव प्रविशुष्कताम् || ९ || ततः शमान्निर्गतद्वन्द्वं गतशीतोष्णादिद्वन्द्वोपप्लवमद्वितीयमिति वा | विरसा स्वर्गसुखाद्विरक्ता जलसेकशून्या च || ९ || देवौघे शान्तिमायाते भुवि यज्ञतपःक्रिया | चिदेवत्वफलाः सर्वाः शममेष्यन्त्यसंशयम् || १० ||
226 SK द्वेष्याभावात्स्वर्गसुखे दुर्लभत्वादर्शनादुपेक्षापत्तेः स्वतः सात्त्विकत्वाच्च देवौघे शान्तिमायाते सति | मुक्तेश्च बिभ्यतो देवा मोहेनापि दधुर्नरान् | तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः | तस्मादेतेऽसुरा विघ्नमाचरन्ति शपन्ति च | प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः | संन्यासिनोऽपि दृश्यन्ते देवसंदूषिताशयाः || इत्यादिश्रुतिस्मृतिवार्तिकादिप्रसिद्धदेवसंदूषिताशयत्वासिद्धेर्मनुष्याणाम् अपि शमादिप्रसङ्गे भुवि यज्ञतपःक्रिया अदेवत्वफलाः सत्यः शममुत्सादमेष्यन्तीत्यर्थः || १० || क्रियास्वथोपशान्तासु भूर्लोकोऽस्तमुपैष्यति | असंसारप्रसङ्गोऽथ तस्य नाशे भविष्यति || ११ || अस्तु क्रियोत्सादः का क्षतिस्तत्राह - क्रियास्विति | भूर्लोकग्रहणं कर्मभूमिपरम् | अस्तं वैयर्थ्यं तस्य नाशे वैयर्थ्ये कर्माधीनसंसारस्योच्छेदप्रसङ्ग इत्यर्थः || ११ || आकल्पान्तं त्रिभुवनं यदिदं कल्पितं मया | नाशमेष्यत्यकालेन तापे हिमकणो यथा || १२ || अस्त्वेवं किं ततस्ते क्षतं तत्राह - आकल्पान्तमिति || १२ || किमेवमस्मिन्नाभोगे विलीय क्षयमागते | कृतं मयेह भवति स्वलीलाक्षयकारिणा || १३ || अस्मिन् आभोगे जगत्संस्थाने विलीय क्षयमागते सति स्वलीलायाः क्षयकारिणा मया किमुचितं कृतं भवति न किंचिदित्यर्थः || १३ || ततोऽहमपि शून्येऽस्मिन्नष्टचन्द्रार्कतारके | वपुःप्रशान्तिमाधाय स्थितिमेष्यामि तत्पदे || १४ || ततः स्वलीलाक्षयादहमपि लीलार्थस्य वपुषः प्रशममुपसंहारमाधाय संपाद्य अपुनःसंसारोद्भवाय तस्मिन्पूर्णात्मपदे स्थितिमेष्यामि प्राप्स्यामि | संभावनाधिकेऽपि भविष्यति ऌडेव || १४ || अकाण्ड एवमेवं हि जगत्युपशमं गते | नेह श्रेयो न पश्यामि मन्ये जीवन्तु दानवाः || १५ ||
227 SK एवमेवमुक्तनानाप्रकारभेदेन अकाण्डे अनवसरे जगत्युपशमं गते सति इह देवमनुष्यादिजीववर्गे श्रेयो न पश्यामीति न अपितु पश्याम्येव | वैराग्यात्प्रकृतौ लयः इति स्मृतेः प्रकृतिलये सुषुप्ताविव सर्वदुःखोपशमलक्षणश्रेयःसिद्धेः किंतु तमेवैतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति अनेकजन्मसंसिद्धस्ततो याति परां गतिम् इत्यादिश्रुतिस्मृतिसिद्धानेकजन्मानुष्ठितनिष्कामकर्मसाध्यविविदिषातत्त्वसाक् षात्काराभावान्मूलाज्ञानावरणानिवृत्तेर्वीजे सति पुनरावृत्तिशङ्काप्रसक्तेश्च न निरतिशयानन्दावाप्तिलक्षणं श्रेयः कस्यचित्सिद्ध्यतीति मन्ये | अतः क्रमेण सर्वेषां तल्लाभार्थं दान वा जीवन्त्वित्यर्थः || १५ || दैत्योद्योगेन विबुधास्ततो यज्ञतपःक्रियाः | तेन संसारसंस्थानं न संसारक्रमोऽन्यथा || १६ || तमेव क्रमं पुनः संक्षिप्याह - दैत्येति | विबुधा देवाः | ततस्तेभ्यो विबुधेभ्यः || १६ || तस्माद्रसातलं गत्वा यथावत्स्थापयाम्यहम् | स्वे क्रमे दानवाधीशमृतुः पुनरिव द्रुमम् || १७ || यथावत् यथापूर्वम् | ऋतुर्वसन्तादिः || १७ || विना प्रह्रादमथ चिदितरं दानवेश्वरम् | करोमि तदसौ मन्ये देवानासादयिष्यति || १८ || प्रह्रादस्य त्वयं देहः पश्चिमः पावनो महान् | आकल्पमिह वस्तव्यं देहेनानेन तेन च || १९ || एवं हि नियतिर्देवी निश्चिता पारमेश्वरी | प्रह्रादेन यथाकल्पं स्थातव्यमिह देहिना || २० || तस्मात्तमेव गत्वा तु दैत्येन्द्रं बोधयाम्यहम् | गर्जन्गिरिनदीसुप्तं मयूरमिव वारिदः || २१ || गर्जन्वारिदः || २१ || जीवन्मुक्तसमाधिस्थः करोत्वसुरनाथताम् | मणिर्मुक्तमनस्कारः प्रतिबिम्बक्रियामिव || २२ || जीवन्मुक्तानां यः सदातनः असंसक्तिलक्षणः समाधिस्तत्स्थः | मुक्तमनस्कारः मनस्तच्चेष्टारहितः | प्रतिबिम्बक्रियां स्वस्मिन् सन्निहितवस्तुप्रतिबिम्बधारणम् || २२ || नहि नश्यति सर्गोऽयमेवं सह सुरासुरैः | भविष्यति च तद्द्वन्द्वं तन्मे क्रीडा भविष्यति || २३ ||
228 SK तत् प्रसिद्धम् | द्वन्द्वपदेन तत्क्रिया युद्धं लक्ष्यते || २३ || सर्गक्षयोदयावेतौ सुसमौ मम यद्यपि | तथापीदं यथासंस्थं भवत्वन्येन किं मम || २४ || सर्गस्य सृज्यस्य जगतः क्षयोदयौ | प्राक्तनसर्गसंस्थामनतिक्रम्येति यथासंस्थम् | पदार्थानतिवृत्तावव्ययीभावः || २४ || भावाभावेषु यत्तुल्यं तन्नाशे तत्स्थितौ च वा | यः प्रयत्नस्त्वबुद्धित्वात्तद्योगगमनं भवेत् || २५ || ननु योगनिद्रया स्वरूपसुखगमनं मुक्त्वा दैत्यपुरगमनं तवानुचितमित्याशङ्क्याह - भावेति | अबुद्धित्वादभिनिवेशविरहाद्यो गमनादिप्रयत्नस्तद्योगगमनमेव भवेन्नान्यतो गमनम् | यतो यद्योगनिद्राप्राप्यं सुखं गमनयत्नादेर्भावाभावेषूत्पत्त्यनुत्पत्तिषु तन्नाशे तत्स्थितौ च सममित्यर्थः || २५ || तस्मात्प्रयामि पातालं बोधयाम्यसुरेश्वरम् | स्थैर्यं यामि न संसारलीलां संपादयाम्यहम् || २६ || गच्छन्नप्यहं स्थैर्यमचलत्वमेव यामि यतो नाज्ञवत्संसारलीलां संपादयामीत्यर्थः || २६ || असुरपुरमवाप्य प्रोद्धताचारघोरं कमलमिव विवस्वान्दैत्यमुद्बोधयामः | जगदिदमखिलं स्वस्थैर्यमभ्यानयामो घनविधिरिव शैले चञ्चलं मेघजालम् || २७ || प्रोद्धतानां निर्मर्यादानां दस्यूनामाचारेण घोरं भयानकमसुरपुरमवाप्य गत्वा विवस्वान्सूर्यः कमलमिव दैत्यं प्रह्रादं समाधेरुद्बोधयामः | तेन चेदमखिलं जगत्प्रागुक्तरीत्या स्थैर्यमभ्यानयामः | यथा घनान्विधत्ते इति घनविधिर्वर्षर्तुश्चञ्चलं मेघजालं शैले हिमवदादौ स्थैर्यमभ्यानयति तद्वदित्यर्थः || २७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषुपशमप्रकरणे परमेश्वरवितर्को नामाष्टत्रिंशः सर्गः || ३८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे परमेश्वरवितर्को नामाष्टत्रिंशः सर्गः || ३८ || एकोनचत्वारिंशः सर्गः ३९ श्रीवसिष्ठ उवाच | इति संचिन्त्य सर्वात्मा क्षीरोदादात्मकात्पुरात् | चचाल परिवारेण सह सानुरिवाचलः || १ ||
229 SK हरिर्दैत्यपुरं गत्वा शङ्खनादप्रबोधितम् | प्रह्रादमवदद्राज्यमाकल्पं पाल्यतामिति || १ || क्षीरोदान्तर्गतश्वेतद्वीपान्तर्गतादात्मकादात्मीयात्पुरात् | परिवारेण सहेति शेषः | सानुः प्रस्थस्तेन सहितः अचलो मन्दर इव | अचलः परमार्थतश्चलनशून्य इति वा || १ || क्षीरोदतलरन्ध्रेण तेनैव स्तम्भिताम्भसा | प्रह्रादनगरं प्राप शक्रलोकमिवापरम् || २ || धातृसंकल्पादेव स्तम्भितं पातालकुहराप्रवेशि अम्भो यस्मिंस्तथाविधेन क्षीरोदस्य तलरन्ध्रेणाधश्छिद्रेण | शक्रलोकमिव रम्यमित्यर्थः || २ || हेममन्दिरकोशस्थं ददर्शात्रासुरं हरिः | अथ शैलगुहालीनं समाधिस्थमिवाब्जजम् || ३ || अथ अत्र प्रह्रादनगरे | असुरं प्रह्रादम् | शैलस्य मेरोर्गुहायां लीनमब्जजं ब्रह्माणमिव || ३ || तत्र ते तेजसा दैत्या वैष्णवेनावधूलिताः | दूरं ययुर्दिनेशांशुवित्रस्ता इव कौशिकाः || ४ || अवधूलिताः धूलिवदवधूताः | कौशिका उलूकाः || ४ || द्वित्रैः सहासुरैर्मुख्यैः परिवारयुतो हरिः | प्रविवेशासुरगृहं तारावानिव खं शशी || ५ || वैनतेयासनस्थोऽसौ लक्ष्मीविधुतचामरः | स्वायुधादिपरीवारो देवर्षिमुनिवन्दितः || ६ || महात्मन्संप्रबुध्यस्वेत्येवं विष्णुरुदाहरन् | पाञ्चजन्यं प्रदध्मौ च ध्वनयन्ककुभां गणम् || ७ || ककुभां दिशाम् || ७ || महता तेन शब्देन वैष्णवप्राणजन्मना | तुल्यकालपरिक्षुब्धकल्पाभ्रार्णवरंहसा || ८ || प्राणो बलं तज्जन्मना | तुल्यकालपरिक्षुब्धानि प्रलयाभ्राणि प्रलयार्णवाश्च तद्रंहसा | रहःशब्देन तत्प्रभवो ध्वनिर्लक्ष्यते || ८ || आसुरी जनता भूमौ पपातागतसंभ्रमा | मत्तलीलाभ्रनादेन राजहंसावली यथा || ९ || आगतसंभ्रमा प्रोद्भूतभयमूर्च्छा || ९ || जहर्ष जनितानन्दा वैष्णवी गतसंभ्रमा | जनता जलदध्वानफुल्लेव कुटजावली || १० || बभूव संप्रबुद्धात्मा दानवेशः शनैःशनैः | मेघावसर उत्फुल्लकदम्ब इव कानने || ११ || दानवेशः प्रह्रादः || ११ ||
230 SK ब्रह्मरन्ध्रकृतोत्थाना प्राणशक्तिरथासुरम् | शनैराक्रम्यामास गङ्गा सर्वमिवार्णवम् || १२ || संप्रबोधक्रमं प्रपञ्चयति - ब्रह्मरन्ध्रेत्यादिना | आक्रमयामास आपूरयामास || १२ || क्षणादाक्रमयामास प्राणश्रीः सर्वतोऽसुरम् | उदयानन्तरं सौरी प्रभेव भुवनान्तरम् || १३ || प्राणेषु रन्ध्रनवके प्रवृत्तेष्वथ तस्य चित् | चेत्योन्मुखी बभूवान्तः प्राणदर्पणबिम्बिता || १४ || प्राणेषु इन्द्रियेषु | प्राणो लिङ्गदेहस्तल्लक्षणे दर्पणे बिम्बिता प्रतिफलिता || १४ || चेतनीयोन्मुखी चेत्यं चिन्मनस्तामुपाययौ | द्वित्वं मुकुरसंक्रान्ता मुखश्रीरिव राघव || १५ || चेतनीयविषयोन्मुखी चित् चेत्याकारसंस्कारोद्बोधाच्चेत्यमिव भूत्वा चिज्जडोभयरूपतालक्षणां मनस्तामुपाययौ प्राप || १५ || किंचिदङ्कुरिते चित्ते नेत्रे विकसनोन्मुखे | शनैर्बभूवतुस्तस्य प्रातर्नीले यथोत्पले || १६ || तस्य नेत्रे शनैर्विकसनोन्मुखे बभूवतुः || १६ || प्राणापानपरामृष्टानाडीविवरसंविदः | वातार्तस्येव पद्मस्य स्पन्दोऽस्य समजायत || १७ || प्राणापानाभ्यामन्तःप्रविष्टाभ्यां परामृष्टाया उद्बोधिताया आसमन्तान्नाडीविवरेषु संविदः संवेदनान्निमित्तात् | वातेनार्तस्य नुन्नस्य पद्मस्येव अस्य तद्देहस्य स्पन्द ईषच्चलनं समजायत || १७ || निमेषान्तरमात्रेण मनः पीवरतां ययौ | तस्मिन्प्राणवशात्पूर्णे तरङ्ग इव वारिणि || १८ || अथासौ विकसन्नेत्रमनःप्राणवपुर्बभौ | अर्धोदित इवादित्ये सरः स्फुरितपङ्कजम् || १९ || अस्मिन्नवसरे यावद्बुध्यस्वेत्यवदद्विभुः | प्रबुद्धस्तावदेषोऽभूद्बर्ही घनरवादिव || २० || बर्ही मयूरः | घनरवान्मेघशब्दात् || २० || प्रफुल्लनयनं जातमननं पीवरस्मृतिम् | उवाचैनं त्रिलोकेशः पुरा नाभ्यब्जजं यथा || २१ || जातमननं संजातप्रह्रादाहंभावप्रत्यभिज्ञम् | पीवरी सम्यगुपचिता पूर्वावस्थादिस्मृतियस्य तम् || २१ || साधो स्मर महालक्ष्मीमात्मीयां स्मर चाकृतिम् | अकाण्ड एव किं देहविरामः क्रियते त्वया || २२ ||
231 SK महतीं लक्ष्मीं दैत्यराज्यश्रियमात्मीयां स्वीयामाकृतिं देहाकारं च स्मर | त्वया देहविस्मरणेनाऽकाण्डेऽनवसर एव देहस्य विरामोऽवसानं किं किमर्थं क्रियते || २२ || हेयोपादेयसंकल्पविहीनस्य शरीरगैः | भावाभावैस्तवार्थः किमुत्तिष्ठोत्तिष्ठ संप्रति || २३ || ननु न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति इति श्रुतेः सर्वजनानां तथानुभवाच्चानर्थहेतुर्देहस्मरणमिति चेत्तत्राह - हेयेति | हेयोपादेयसंकल्पत्यागे सत्यपि देहे प्रियाप्रियैर्भावाभावेस्तवार्थो नास्तीति नानर्थप्रसक्तिरित्यर्थः || २३ || मन्त(?)व्यमिह देहेन कल्पं यावदनेन ते | वयं हि नियतिं विद्मो यथाभूतामनिन्दिताम् || २४ || कियत्कालं तर्हि देहधारणं तत्राह - स्थातव्यमिति | नियतिं त्वदायुर्नियमम् || २४ || जीवन्मुक्तेन भवता राज्य एवेह तिष्ठता | क्षेपणीया गतोद्वेगमाकल्पान्तमियं तनुः || २५ || क्षेपणीया व्यवहारे प्रेरणीया || २५ || तन्वां कल्पान्तशीर्णायां स्वे महिम्नि त्वयानघ | वस्तव्यं स्फुटिते कुम्भे कुम्भाकाशेन खे यथा || २६ || कल्पान्ते तर्हि मया कथं स्थेयं तदाह - तन्वामिति | स्वे महिम्नि स्वात्मभूते निरतिशयमहत्त्वे | स्वे महाकाशे || २६ || कल्पान्तस्थायिनी शुद्धा दृष्टलोकपरावरा | इयं तव तनुर्जाता जीवन्मुक्तविलासिनी || २७ || नोदिता द्वादशादित्या न प्रलीनाः शिलोच्चयाः | न जगज्ज्वलितं साधो तनुं त्यजसि किं मुधा || २८ || तर्हि किं कल्पान्तः संनिहितो नेत्याह - नोदिता इत्यादिना || २८ || वायुर्वहति नोन्मत्तस्त्र्लोकीभस्मधूसरः | लोलामरकपालाङ्कस्तनुं त्यजसि किं मुधा || २९ || लोलान्यमराणां शिरःकपालान्यङ्कश्चिहं यस्य तथाविधः || २९ || अशोक इव मञ्जर्यः पुष्करावर्तविद्युतः | न स्फुरन्ति जगत्कोशे तनुं त्यजसि किं मुधा || ३० || पुष्करावर्ताख्येषु संवर्तमेघेषु विद्युतस्तडितो न स्फुरन्ति | इदानीमिति सर्वत्रानुषङ्गः || ३० || धरासाररणच्छैलाः प्रज्वलज्ज्वलनोज्ज्वलाः | ककुभो न विशीर्यन्ते तनुं त्यजसि किं मुधा || ३१ ||
232 SK धराया भूमेर्दह्यमानाया आसमन्तात्सरणं सारः प्रकम्पस्तेन विदीर्यमाणत्वाद्रणन्तः शैला यासु | ककुभो दिशः | अमूर्तानां विशरणायोगाद्दिगन्तस्था ब्रह्माण्डभित्तयो गृह्यन्ते || ३१ || न ब्रह्मविष्णुरुद्राख्यत्रयीशेषमिदं स्थितम् | जगज्जरठजीमूतं तनुं त्यजसि किं मुधा || ३२ || इदं जगत् जरठाः प्रवृद्धा जीमूताः प्रलयमेघा यस्मिंस्तथाविधं सत् ब्रह्मविष्णुरुद्राख्यदेवत्रयीमात्रशेषं भूत्वा न स्थितम् || ३२ || न चेहाद्रिदलश्रेणिमात्रैकानुमितान्तराः | दिशो जर्जरतां यातास्तनु त्यजसि किं मुधा || ३३ || अद्रेर्लोकालोकाचलस्य भूपद्मदलप्रायैः शृङ्गैरनुमितमन्तरं भेदो यासां न सूर्योदयादिना तथाविधा दिशो ब्रह्माण्डभित्तयः || ३३ || स्फुटदद्रीन्द्रटंकाराः कराः सौरा भ्रमन्ति खे | कल्पाभ्राणि न गर्जन्ति तनुं त्यजसि किं मुधा || ३४ || स्फुटतो दीर्यमाणस्याद्रीन्द्रस्य मेरोरिव टंकारा ध्वनयो येषां सौरा द्वादशादित्यसंबन्धिनः कराः किरणा न भ्रमन्तीति नञनुषज्जते || ३४ || अहं भूतावकीर्णासु सालोकासु खगध्वजः | विहरामि दशाशासु मा देहमवधीरय || ३५ || भूतावकीर्णास्वण्डजादिचतुर्विधप्राणिव्याप्तासु | अहं विष्णुर्विहरामि | मा अवधीरय त्यज | तथा चेदानीं तव मरणं न शोभत इत्यर्थः || ३५ || इमे वयमिमे शैला भूतानीमान्ययं भवान् | इदं जगदिदं व्योम मा देहमवधीरय || ३६ || पीवराज्ञानयोगेन यस्य पर्याकुलं मनः | दुःखानि विनिकृन्तन्ति मरणं तस्य राजते || ३७ || कस्य तर्हि मरणमुचितं तमाह - पीवरेत्यादिना | यस्य मनः अज्ञानयोगेन दुःखानि विनिकृन्तन्ति तस्य मरणं राजते | अत्यन्तपीडितो जीवः स्थूलदेहं विमुञ्चति इति स्मृतिसिद्धमरणहेतूपपत्तेरित्यर्थः || ३७ || कृशोऽतिदुःखी मूढोऽहमेताश्चान्याश्च भावनाः | मतिं यस्यावलुम्पन्ति मरणं तस्य राजते || ३८ || आशापाशनिबद्धोऽन्तरितश्चेतश्च नीयते | यो विलोलमनोवृत्त्या मरणं तस्य राजते || ३९ ||
233 SK यस्य तृष्णाः प्रभञ्जन्ति हृदयं हृतभावनाः | प्ररोहमिव गर्धेभ्यो मरणं तस्य राजते || ४० || हृतभावना अपहृतविवेकाङ्कुरास्तृष्णा यस्य हृदयं प्रभञ्जन्ति आमृद्रन्ति यथा महाफलं शाल्याद्यङ्कुरप्ररोहं गर्धेभ्यस्तदभिलाषि पश्वादिभ्यो मूढाः प्रभञ्जन्ति तद्वत् || ४० || चित्तवृत्तिलता यस्य तालोत्तालमनोवने | फलिता सुखदुःखाभ्यां मरणं तस्य राजते || ४१ || तालवृक्षवदुत्ताले रागाद्युच्छ्रायवति मनोलक्षणे वने || ४१ || रोमराजीलताजालं यस्येमं देहदुर्द्रुमम् | अनर्थौघो हरत्युच्चैर्मरणं तस्य राजते || ४२ || रोमराज्येव लताजालं शाखासमूहो यस्मिंस्तथाविधं देहलक्षणं दुर्द्रुमं विषवृक्षं कामाद्यनर्थलक्षण ओघश्चण्डमारुतप्रवाहो हरति || ४२ || यस्य स्वदेहविपिनमाधिव्याधिदवाग्नयः | दहन्ति लोलाङ्गलतं मरणं तस्य राजते || ४३ || कामकोपात्मका यस्य स्फूर्जन्त्यजगरास्तनौ | अन्तःशुष्कद्रुमस्येव मरणं तस्य राजते || ४४ || अन्तः कोटरान्तः || ४४ || योऽयं देहपरित्यागस्तल्लोके मरणं स्मृतम् | न सता नासता तेन कारणं वेद्यवेदनम् || ४५ || मरणस्वरूपपर्यालोचनेऽपि तत्त्वज्ञस्य तन्न संभवतीत्याह - योऽयमिति | स्मृतं प्रसिद्धम् | तच्च तत्त्वविदो न सता आत्मना संपादयितुं शक्यं नाप्यसता तेन देहेन संपादयितुं शक्यं सदात्मनो निष्क्रियतया त्यागक्रियायोगात् | असङ्गस्य देहसङ्गाप्रसिद्धेश्च असता स्वप्रित्यागस्य दूरनिरस्तत्वाच्च | ननु देहस्यासत्त्वे किं कारणं तदाह - कारणमिति | वेद्यस्य प्रमाणैरवश्यवेदनार्हस्य स्वात्मनो वेदनं ज्ञानमेव देहाद्यसत्त्वे कारणम् | देहादिसद्भावप्रत्ययस्याज्ञाननिबन्धनत्वादित्यर्थः || ४५ || यस्य नोत्क्रामति मतिः स्वात्मतत्त्वावलोकनात् | यथार्थदर्शिनो ज्ञस्य जीवितं तस्य शोभते || ४६ ||
234 SK कस्य तर्हि जीवितं शोभते तमाह - यस्येत्यादिना | तथाच न देहात्प्राणोत्क्रमणं किंत्वात्मतत्त्वान्मतेरुत्क्रमणमेव तच्च ज्ञस्य नास्त्येवेति सदैव तस्य जीवितं शोभते | अज्ञस्य तु मतिः सदैव स्वात्मतत्तादुत्क्रामतीत्यसौ नित्यमृतस्वरूप इति भावः || ४६ || यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते | यः समः सर्वभावेषु जीवितं तस्य राजते || ४७ || किंचैकदेहाभिमाने तत्त्यागो मरणं स्यात् यस्य तु स नास्ति यस्य बुद्धिस्तदीयप्रियाप्रियैर्न लिप्यते स सर्वेषु भावेषु देहेषु विषयेषु च समः साधारणात्मा तस्य मरणासंभवाज्जीवितमेव राजते इत्यर्थः | एवमग्नेऽप्यूह्यम् || ४७ || योऽन्तःशीतलया बुद्ध्या रागद्वेषविमुक्तया | साक्षिवत्पश्यतीदं हि जीवितं तस्य राजते || ४८ || येन सम्यक्परिज्ञाय हेयोपादेयमुज्झता | चित्तस्यान्तेऽर्पितं चित्तं जीवितं तस्य शोभते || ४९ || सम्यगसारतया परिज्ञाय | चित्तस्यान्ते अवसानभूते साक्षिणि || ४९ || अवस्तुसदृशे वस्तुन्यसक्तं कलनामले | येन लीनं कृतं चेतो जीवितं तस्य शोभते || ५० || अवस्तु शुक्तिरजतादि तत्सदृशे वस्तुनि वस्तुवद्भासमाने बाह्यार्थकलनात्मकमले असक्तं चेतो ब्रह्मण्येव लीनं घृतकाठिन्यमिव विलीनं कृतमित्यर्थः || ५० || सत्यां दृष्टिमवष्टभ्य लीलयेयं जगत्क्रिया | क्रियतेऽवासनं येन जीवितं तस्य राजते || ५१ || जगत्क्रिया जगतो व्यवहारः || ५१ || नान्तस्तुष्यति नोद्वेगमेति यो विहरन्नपि | हेयोपादेयसंप्राप्तौ जीवितं तस्य शोभते || ५२ || हेयस्य दुःखहेतोः संप्राप्तौ नोद्वेगमेति | उपादेयस्य सुखसाधनस्य प्राप्तौ नान्तस्तुष्यति || ५२ || शुद्धपक्षस्य शुद्धस्य हंसौघः सरसो यथा | यस्माद्गुणौघो निर्याति जीवितं तस्य शोभते || ५३ || शुद्धास्तत्त्वविद एव पक्षाः स्वीया यस्य स्वयं च शुद्धस्य | सरःपक्षे शुद्धः शुभ्रा हंसा बकादयः पक्षा यस्य | स्वतःशुद्धस्य निर्मलस्य पवित्रस्य च | गुणाः शान्तिक्षमामाधुर्यादयः शैत्यसौरभ्यादयश्च || ५३ ||
235 SK यस्मिन्श्रुतिपथं प्राप्ते दृष्टे स्मृतिमुपागते | आनन्दं यान्ति भूतानि जीवितं तस्य शोभते || ५४ || श्रुती कर्णौ तत्पथम् || ५४ || यस्योदयेषु हृदयेन [हृदयेषु इति पाठः] जनाम्बुजानि जीवालिमन्ति सकलानि विलासवन्ति | तस्यैव भाति परिजीवितमक्षयेन्दो- रापूर्णतेव दनुजेश्वर नेतरस्य || ५५ || यस्य उदयेषु संपत्सु उद्गमनेषु च जीवलक्षणभ्रमरवन्ति जनलक्षणान्यम्बुजानि कुमुदानि विलासवन्ति आनन्दितानि भवन्ति | अक्षयेन्दोः क्षयरोगनिर्मुक्तचन्द्रस्य आपूर्णतेव तस्यैव तत्त्वविदो जीवितं राजते नेतरस्याज्ञस्येत्यर्थः || ५५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मोक्षो० उपशमप्रकरणे प्रह्रादनिर्वाणे नारायणवचनोन्यासो नामैकोनचत्वारिंशः सर्गः || ३९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे नारायणवचनोपन्यासो नामैकोनचत्वारिंशः सर्गः || ३९ || चत्वारिंशः सर्गः ४० श्रीभगवानुवाच | स्थैर्यं देहस्य दृष्टस्य जीवितं प्रोच्यते जनैः | देहान्तरार्थं देहस्य संत्यागो मरणं स्मृतम् || १ || सदेहोऽपि विदेहोऽत्र कूटस्थोऽपि क्रियापरः | यथा व्यवहरेज्ज्ञानी स क्रमो हरिणोच्यते || १ || जीवन्मुक्तस्यापि प्रह्रादस्य संनिधिमात्रेण राज्यपरिपालननिर्वाहोपायमुपदिदिक्षुर्भगवान्वासुदेवः सत्यपि देहे तस्य तत्संबन्धाभावात्प्रागुक्ते जीवितमरणे गौणे एव न मुख्ये इति वक्तुं जीवनमरणयोर्लोकप्रसिद्धं स्वरूपमाह - स्थैर्यमिति | देहान्तरार्थं पुनर्देहान्तरग्रहणाय पूर्वदेहस्य संत्याग उत्क्रम्य गमनं प्राणानां मरणं स्मृतम् | मृङ् प्राणत्यागे इति धात्वर्थप्रसिद्धेरित्यर्थः || १ || द्वाभ्यां चैवासि पक्षाभ्यामाभ्यां मुक्तो महामते | किं ते मरणमस्तीह किं वा जीवितमस्ति ते || २ || द्वाभ्यां देहस्थैर्यप्राणोत्क्रमणपक्षाभ्याम् | अशरीरं शरीरेषु न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते इति श्रुतेरिति भावः || २ || निदर्शनार्थमेतत्तु मयोक्तमरिमर्दन | न त्वं जीवसि सर्वज्ञ म्रियसे न कदाचन || ३ ||
236 SK कथं तर्हि जीवितं तव शोभते मरणं न शोभते इति त्वयोक्तं तत्राह - निदर्शनार्थमिति | ज्ञानाज्ञानगुणदोषप्रपञ्चनार्थमित्यर्थः || ३ || देहसंस्थोऽप्यदेहत्वाददेहोऽसि विदेहदृक् | व्योमसंस्थोऽप्यसक्तत्वादव्योमेव हि मारुतः || ४ || अदेहत्वे विदेहदृक् विगतदेहदृष्टिरिति हेतुः | असक्तत्वादासङ्गविरहात् || ४ || स्पर्शसंबोधकारित्वाद्देह एवास्ति सुव्रत | उत्सेधारोधकत्वेन खमुत्सेधस्य कारणम् || ५ || देहसंस्थत्वं कथं ज्ञायते तत्राह - स्पर्शेति | देहे शीतोष्णादिस्पर्शसंवेदननिमित्तत्वादन्यत्र तददर्शनाद्देह एवास्ति भवानिति शेषः | त्वाचे [त्वचि इति क्वचित्] स्पर्शसंवेदने कथमसङ्गात्मा कारणमिति तत्र दृष्टान्तमाह -उत्सेधेति | यथा तरूत्सेधे अरोधकत्वात्खमुत्सेधकारणमित्युच्यते तद्वदित्यर्थः || ५ || प्रबुद्धो ज्ञातवस्तुत्वाद्देहः क्व शमिनामिह | इदं त्वेकं परिच्छिन्नं रूपमज्ञेषु दुःस्थितम् || ६ || अदेहत्वं तर्हि कथं तत्राह - प्रबुद्ध इति | त्वं ज्ञाततत्त्वत्वात्प्रबुद्धः प्रबोधे च सति शमिनां सर्वद्वैतोपशमवतां देहः क्व वर्तते | नहि स्वप्नोपशमे स्वाप्नदेहोऽस्ति | इदं त्वेकं परिच्छिन्नं देहरूपमज्ञेष्वप्रबोधवत्सु दुःस्थितमसंभाव्यमपि स्थितमित्यर्थः || ६ || सर्वदा सर्वमेवासि चित्प्रकाशः परैकधीः | को देहः कोऽप्यदेहस्ते यं गृह्णासि जहासि च || ७ || यद्यज्ञोऽपि देहे स्थित्वा देही तर्ह्यहमपि देहे स्पर्शवेदनात्स्थितस्तद्वत्किं न स्यां तत्राह - सर्वदेति | प्रकाशकत्वेन स्थितिः सर्वदा सर्ववस्तुष्वपि तुल्येति सर्वमेव त्वमसि नाज्ञवद्देहमात्रमित्यर्थः | एवंच तव कः पदार्थो देहः स्याद्यमहंबुद्ध्या गृह्णासि गृह्णीयाः | अदेहोऽपि कः स्याद्यमनहंबुद्ध्या जहासि त्यजेरित्यर्थः || ७ || समुदेतु वसन्तो वा वातु वा प्रलयानिलः | भावाभावविहीनस्य किमभ्यागतमात्मनः || ८ ||
237 SK ननु यदुपचयात्स्वस्य हर्षोपचयो यन्नाशनिमित्तदर्शनाच्च विषादः स देह इतरस्त्वदेह इति भेदः किं न स्यादिति चेन्न | तत्त्वविदो हर्षविषादहेत्वसंभवादित्याह - समुदेत्वित्यादिना | भाव्यते प्रीत्या स्मर्यत इति भावः प्रियम् | न भाव्यते इत्यभावोऽप्रियं तदुभयविहीनस्येत्यर्थः || ८ || प्रलुठत्स्वपि शैलेषु कल्पाग्निषु दहत्स्वपि | वहत्सूत्पातवातेषु स्वात्मन्येव हि तिष्ठति || ९ || तिष्ठति तत्त्वज्ञ इति शेषः || ९ || सर्वभूतानि तिष्ठन्तु सर्वमेव प्रयातु वा | नश्यन्तु वाथ वर्धन्तामात्मन्येवाभितिष्ठति || १० || क्षीयते न क्षयं प्राप्ते वर्धमाने न वर्धते | न स्पन्दते स्पन्दमाने देहेऽस्मिन्परमेश्वरः || ११ || देहस्याहमहं देहीति क्षीणे चित्तविभ्रमे | त्यजामि न त्यजामीति किं मुधा कलनोदिता || १२ || देहस्य संबन्धिन्यहमिति तादात्म्याध्यासलक्षणे देहीति तद्धर्मसंसर्गाध्यासलक्षणे च चित्तविभ्रमे क्षीणे सति मुधा निर्हेतुका निष्फला च त्यजामि न त्यजामीति कलना किमुदिता स्यात् | नैवोदेतीत्यर्थः || १२ || इदं कृत्वा करोमीदमिदं त्यक्त्वेदमित्यलम् | इति तत्त्वविदां तात संकल्पाः संक्षयं गताः || १३ || त्यक्त्वेदं त्यक्ष्यामीति शेषः || १३ || प्रबुद्धाः सर्वकर्तारः करिष्यन्तीह किंचन | न तस्याकरणे नित्यमकर्तृत्वपदं गताः || १४ || सर्वकर्तारोऽपि किंचन किंचिदपि न करिष्यन्तीति पूर्वार्धे नञोऽन्वयः | तस्य कदाप्यकरणे नित्यमेव ते अकर्तृत्वपदं गतास्तिष्ठन्तीत्यर्थः || १४ || अकर्तृत्वादभोक्तृत्वमर्थादेव समागतम् | संगृहीतं किलानुप्तं केनेह भुवनत्रये || १५ || तत्फलमाह - अकर्तृत्वादिति | अनुप्तं वापादिना अनिष्पादितं व्रीह्यादि || १५ || शान्ते कर्तृत्वभोक्तृत्वे शान्तिरेवेह शिष्यते | प्रौढिमभ्यागता सैव मुक्तिरित्युच्यते बुधैः || १६ || शान्तिर्निर्विक्षेपता | प्रौढिं कर्तृत्वमूलोच्छेदेन प्ररूढताम् || १६ || प्रबुद्धाश्चिन्मयाः शुद्धाः सर्वमाक्रम्य संस्थिताः | किं त्यक्तं परिगृह्णन्तु किं गृहीतं त्यजन्तु वा || १७ ||
238 SK उक्तं व्यक्तौपपादयति - प्रबुद्धा इत्यादिना | आक्रम्य परमार्थस्वरूपाविर्भावेण परिभूय त्यक्तं अप्राप्तं किं फलमैहिकं परिगृह्णन्तु || १७ || ग्राह्यग्राहकसंबन्धप्रमितावयविक्रमैः | हीनः प्रमेयावयवैः किं गृह्णातु जहातु किम् || १८ || ग्राह्यग्राहकतत्संबन्धलक्षणैरज्ञदशाप्रमितक्रियाकारकसंबन्धघट् इतावान्तरवाक्यार्थलक्षणावयविक्रमैर्महावाक्यप्रमेयावयवैरङ्गप्रध् आनक्रियाकलापलक्षणविकारैर्हीनः कूटस्थात्मा तद्घटिअसाङ्गप्रधानक्रियानिष्पादनसाध्यं पारलौकिकं स्वर्गादिफलं वा किं गृह्णन्तु किं जहात्वित्यर्थः || १८ || ग्राह्यग्राहकसंबन्धे क्षीणे शान्तिरुदेत्यलम् | स्थितिमभ्यागता शान्तिर्मोक्षनाम्नाभिधीयते || १९ || ऐहिकामुष्मिकेष्टानिष्टसाधनहानोपादाननिमित्तग्राह्यग्राहक- sthitimabhyāgatā mokṣanāmnocyata ityuktopapādanopasaṃhāraḥ || 19 || tatra sthitāḥ sadā śāntāstvādṛśāḥ puruṣottamāḥ | suṣuptāvayavaspandasādharmyeṇa caranti hi || 20 || evaṃ sthitānāmapi yāvatprārabdhakṣayaṃ vyavahārasiddhau dṛṣṭāntamāha - प्राणोदरान्नरसादिस्पन्दं जीवनादृष्टात्मसंनिधिमात्रेणाचरन्तीत्युच्यते तद्वज्जीवन्मुक्ता अपि चरन्ति | व्यवहरन्तीत्यर्थः || २० || परावबोधविश्रान्तवासनो जगति स्थितिम् | अर्धसुप्त इवेहेमां त्वं पश्यात्मस्थया धिया || २१ || तद्वत्त्वमपि राज्यपालनमाचरेत्याशयेनाह - परावबोधेति | अर्धसुप्तः सुषुप्तजाग्रत्संधिस्थः || २१ || न रमन्ते हि रम्येषु स्वात्मन्येव गताशयाः | नोद्विजन्तेऽन्यदुःखेषु स्वात्मन्येकरसायनाः || २२ || रम्येषु अनात्मस्विति शेषः | आत्मान्येषु आत्मास्पर्शिषु दुःखेषु | स्वात्मन्येव एकं रसायनमिव मधुरं सुखं येषाम् | तथाचोक्तं वार्तिके दुःखी यदि भवेत्साक्षी कः साक्षी दुःखितो भवेत् | दुःखिनः साक्षिता नास्ति साक्षिणो दुःखिता कुतः इति || २२ || नित्यप्रबुद्धा गृह्णन्ति कार्याणीमान्यसङ्गिनः | मुकुरा इव बिम्बानि यथाप्राप्तान्यवाञ्छया || २३ ||
239 SK सुखदुःखाभावे तत्प्राप्तिपरिहारार्थानि कार्याणि कथं गृह्णन्ति तत्राह - jāgrati svātmani svasthāḥ suptāḥ saṃsārasaṃsthitau | bālavatpravivepante suṣuptasaddaśāśayāḥ || 24 || tarhi te kiṃ svātmanyapyāsthāśūnyā netyāha - jāgratīti | tathāca yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī iti bhagavatāpi teṣāmātmāsthā darśinā | pravivepante prakampante | vyavaharantīti yāvat || 24 || tvamajitapadavīmupāgato'ntaḥ kamalajavāsaramekameva bhuktvā | guṇagaṇakalitāmihaiva lakṣmīṃ vraja paramāspadamacyutaṃ mahātman || 25 || vivakṣitārthaṃ saṃkṣipyopasaṃharati - tvamiti | he mahātman tvamantaḥ ajitasya viṣṇoḥ padavīṃ paramātmapadaṃ samāgataḥ prāptavānsannekaṃ kamalajavāsaraṃ kalpaparyantamihaiva pātāle guṇagaṇaiḥ kalitāṃ rājyalakṣmīṃ bhuktvā acyutaṃ videhakaivalyākhyaṃ cyutirahitaṃ paramāspadaṃ paramapadaṃ vrajetyarthaḥ || 25 || ityārṣe śrīvāsiṣṭhamahārāmāyaṇe vālmīkīye mokṣopāyeṣūpaśamaprakaraṇe prahrādabodhanaṃ nāma catvāriṃśaḥ sargaḥ || 40 || iti śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśe upaśamaprakaraṇe prahrādabodhanaṃ nāma catvāriṃśaḥ sargaḥ || 40 || ekacatvāriṃśaḥ sargaḥ 41 śrīvasiṣṭha uvāca | jagadratnasamudgena trailokyādbhutadarśinā | ityukte padmanābhena jyotsnāśītalayā girā || 1 || gṛhītaśāsanāddaityātpūjāṃ saṃprāpya sānugaḥ | daityarājye'bhiṣicyainaṃ varairacchandayaddhariḥ || 1 || pralaye jagallakṣaṇānāṃ ratnānāṃ svāntaḥ praveśanātsamudrena saṃpuṭakena sṛṣṭikāle trailokyalakṣaṇādbhutapradarśanaśīlena padmanābhena viṣṇudehena iti prāguktaprakāreṇokte sati || 1 || prahrādanāmā deho'sau vikāśinayanāmbujaḥ | mudovāca vaco dhīro gṛhītamananakramaḥ || 2 || prahrādanāmā asau prāgukto deho gṛhītamananakramaḥ san mudā uvāca | dehagrahaṇamātmani vyavahartṛtāvāraṇārtham || 2 || prahrāda uvāca |
240 SK हिताहितविचारेण राजकार्यशतेन च | अत्यहं श्रमितो देव क्षणं विश्रामतां गतः || ३ || असुराणां किं हितं देवानां किसहितमिति विचारेण श्रमितः श्रमं प्रापितः | क्षणमिति समाधौ कालदैर्घ्याप्रत्ययादुक्तम् || ३ || भगवंस्त्वत्प्रसादेन स्थितिः सम्यगथागता | समाधावसमाधौ च रूपेणाहं समः सदा || ४ || स्थितिस्तत्त्वबोधेन स्वरूपावस्थितिः | रूपेण पारमार्थिकस्वरूपेण | सदा समाध्यसमाध्योः सदेहविदेहमुक्त्योश्च || ४ || चिरमन्तर्महादेव दृष्टोऽस्यमलया धिया | पुनर्बहिरयं दृष्ट्या दिष्ट्या देव प्रदृश्यसे || ५ || इमौ श्लोकौ क्वचिदेव पुस्तके दृश्येते | अन्तर्धिया अखण्डमानससाक्षात्कारवृत्त्या दृष्टोऽसि | बहिर्दृष्ट्या चक्षुषा दिष्ट्या भाग्यवशेन दृश्यसे || ५ || अहमासमनन्तायामस्यां दृष्टौ महेश्वर | सर्वसंकल्पमुक्तायां व्योम व्योम्नीव निर्मले || ६ || अस्यामान्तर्यां दृष्टौ || ६ || न शोकेन न मोहेन न च वैराग्यचिन्तया | न देहत्यागकार्येण न संसारभयेन च || ७ || तत्र शोकमोहादिनिमित्तवशादहं समाधिं नाश्रितो येन मम देहत्यागप्रसक्तिः स्यादित्याह - न शोकेनेति || ७ || एकस्मिन्विद्यमाने हि कुतः शोकः कुतः क्षतिः | कुतो देहः क्व संसारः क्व स्थितिः क्व भयाभये || ८ || दृष्ट एव ते पितृराज्यादिनाशादिः शोकहेतुस्तं कथमपलपसि तत्राह - एकस्मिन्निति | सत्यमत्र दृष्टो नत्वद्वैतात्मनि स इति न तद्धेतुको मे समाधिरित्यर्थः || ८ || यथेच्छयैवामलया केवलं स्वयमुत्थया | एवमेवाहमवसं वितते पावने पदे || ९ || तर्हि समाधेस्तो को हेतुरिति चेद्विचारजा विश्रान्तीच्छैवेत्याह - यथेच्छयेति | एवमेव देहत्यागाद्यभिसन्धिं विनैव || ९ || हा विरक्तोऽस्मि संसारं त्यजामीतीयमीश्वर | अप्रबुद्धदृशां चिन्ता हर्षशोकविकारदा || १० || नच वैराग्यचिन्तयेति वैराग्यापह्नवो न युक्तस्तस्य विचारपूर्वके समाधावनुकूलत्वादिति चेत्तत्राह - हा विरक्त इति || १० ||
241 SK देहाभावे न दुःखानि देहे दुःखानि मे मतिः | इति चिन्ताविषव्याली मूर्खमेवावलुम्पति || ११ || वैराग्यस्य समाधिहेतुत्वे रागवद्देहस्यापि दुःखहेतुत्वानुभवात्तत्त्यागस्यापि समाधिनिमित्तता स्यात् सोऽप्यतत्त्वविद एव वाञ्छितो न ममेत्याह - देहाभाव इति || ११ || इदं सुखमिदं दुःखमिदं नास्तीदमस्ति मे | इति दोलायितं चेतो मूढमेव न पण्डितम् || १२ || अत एव सुखलिप्सया दुःखनिवृत्तिलिप्सयापि वा न समाधिरित्याह - इदमिति | मूढमेव अवलुम्पतीत्यनुकृष्यते || १२ || अहमन्योऽन्य एवायमित्यज्ञानां तु वासना | दूरोदस्तात्मबुद्धीनां जयत्यसुमतामिह || १३ || तर्ह्यस्तु भेदवासनाक्षयेच्छया समाधिस्तत्राह - अहमन्य इति | दूरोदस्ता आत्मबुद्धिस्तत्त्वज्ञानं यैस्तेषामज्ञानामेव जयति न तत्त्वविदामित्यर्थः | असुमतां प्राणिनाम् || १३ || इदं त्याज्यमिदं ग्राह्यमिति मिथ्या मनोभ्रमः | नोन्मत्ततां नयत्यन्तर्ज्ञमज्ञमिव दुर्धियः || १४ || तर्हि संसारत्यागाय मोक्षग्रहणाय वा समाधिरस्त्विति चेत्तत्राप्याह - इदमिति | इति प्रसिद्धो दुर्धियः संबन्धी भ्रमः अज्ञमिव ज्ञं नोन्मत्ततां नयतीत्यन्वयः || १४ || सर्वस्मिन्नात्मनि तते त्वयि तामरसेक्षण | हेयोपादेयपक्षस्था द्वितीया कलना कुतः || १५ || तत्कुतस्तत्राह - सर्वस्मिन्नित्यादिना || १५ || विज्ञानाभासमखिलं जगत्सदसदुत्थितम् | किं हेयं किमुपादेयमिह यत्त्यज्यते न वा || १६ || भ्रान्तिविज्ञाने शुक्तिरजतादिवदाभासते न परमार्थत इति विज्ञानाभासम् | सत आत्मनोऽसतो मायायाश्चान्योन्यतादात्म्याध्यासलक्षणान्मिथुनीकरणादुत्थितम् || १६ || केवलं स्वस्वभावेन द्रष्टृदृश्ये विचारयन् | क्षणं विश्रान्तवानन्तः परमात्मनात्मनि || १७ || अत एव मम तत्त्वविचारविश्रान्तिरेव समाधिः संपन्न इत्याह - केवलमिति || १७ || भावाभावविनिर्मुक्तो हेयोपादेयवर्जितः | एवमासमहं पूर्वमधुनेत्थं व्यवस्थितः || १८ ||
242 SK पूर्व समाधिकाले | अधुना व्युत्थानकाले | इत्थं त्वदाज्ञप्तार्थोपादानयोग्यतया व्यवस्थितोऽस्मीत्यर्थः || १८ || स मयात्मीयमापन्नं सर्वमात्मात्मतां गतः | करोम्यहं महादेव तुभ्यं यत्परिरोचते || १९ || स आत्मतां स्वस्वभावं गत आत्मा अहं मया आत्मीयं स्वकर्तव्यतां प्राप्तं सर्व त्वदाज्ञप्तं कार्य करोमि | किं स्वरागेण करिष्यसि नेत्याह - तुभ्यमिति | त्वदिच्छानुवर्तितयेत्यर्थः || १९ || त्वमयं पुण्डरीकाक्षः पूज्यस्तावज्जगत्त्रये | तन्मत्तः प्रकृतिप्राप्तां पूजामादातुमर्हसि || २० || यथा त्वदाज्ञप्तं राज्यं नियतिप्राप्तमहमङ्गीकरोमि तथा त्वमपि मद्दत्तां पूजां सर्वेश्वरत्वात्तव नियतिप्राप्तां गृहाणेत्याह - त्वमिति | प्रकृतिः शास्त्रलोकप्रसिद्धा नियतिः || २० || इत्युक्त्वा दानवाधीशः पुरः क्षीरोदशायिनः | शैलेन्द्र इव पूर्णेन्दुमर्धपात्रमुपाददे || २१ || शैलेन्द्र उदयाद्रिः || २१ || सायुधं साप्सरोवृन्दं ससुरं सखगाधिपम् | पूजयामास गोविन्दं सत्रैलोक्यमथाग्रगम् || २२ || सत्रैलोक्यमुदरान्तःस्थितत्रैलोक्यसहितम् | अग्रगं पुरःस्थितम् || २२ || सबाह्याभ्यन्तरभ्रान्तभुवनं भुवनेश्वरम् | पूजयित्वाथ तिष्ठन्तमुवाच कमलापतिः || २३ || बाह्येषु रोमकूपादिषु आभ्यन्तरेषु बस्तिजठरहृदयादिषु च भ्रान्तानि परिवर्तमानानि भुवनानि यस्य तम् || २३ || श्रीभगवानुवाच | उत्तिष्ठ दानवाधीश सिंहासनमुपाश्रय | यावदाश्वभिषेकं ते स्वयमेव ददाम्यहम् || २४ || पाञ्चजन्यरवं श्रुत्वा य इमे समुपागताः | सिद्धाः साध्याः सुरौघास्ते कुर्वन्तु तव मङ्गलम् || २५ || इत्युक्त्वा पुण्डरीकाक्स्ॐ दानवं सिंहविष्टरे | योजयामास योग्यं तं मेरुशृङ्ग इवाम्बुदम् || २६ || सिंहविष्टरे सिंहासने || २६ || अथैनं हरिराहूतैः क्षीरोदाद्यैर्महाब्धिभिः | गङ्गादिभिः सरित्पूरैः सर्वतीर्थजलैस्तथा || २७ || सर्वविप्रर्षिसङ्घैश्च सर्वसिद्धगणैः सह | पुनर्विद्याधरयुतो लोकपालसमन्वितः || २८ ||
243 SK पुनःशब्दस्वारस्यात्पूर्वं स्वयमेक एवाभ्यषिञ्चिद्विद्याधरादिभिः सह पुनरुत्साहातिशयादभ्यषिञ्चदिति गम्यते || २८ || अभ्यषिञ्चदमेयात्मा दैत्यराज्ये महासुरम् | मरुद्गणैः स्तूयमानं पूर्वं स्वर्गे हरिं यथा || २९ || हरिमिन्द्रम् || २९ || सुरासुरैः स्तूयमानं स्तूयमानः सुरासुरैः | अभिषिक्तमुवाचेदं प्रह्रादं मधुसूदनः || ३० || श्रीभगवानुवाच | यावन्मेरुर्धरा यावद्यावच्चन्द्रार्कमण्डले | अखण्डितगुणश्लाघी तावद्राजा भवानघ || ३१ || धरा पृथ्वी | धराः अन्ये पर्वताश्चेति वा || ३१ || इष्टानिष्टफलं त्यक्त्वा समदर्शनया धिया | वीतरागभयक्रोधो राज्यं समनुपालय || ३२ || राज्येऽस्मिन्भोगसंपूर्णे दृष्टानुत्तमभूमिना | न गन्तव्यस्त्वयोद्वेगः स्वर्गे मानवकेऽथवा || ३३ || दृष्टा अनुत्तमा निरतिशयानन्दभूमिर्येन तथाविधेन त्वया राज्ये उद्वेगः अरतिलक्षणो न गन्तव्यस्तथा पित्रादिवत्स्वर्गे देवलोके मानवे भूलोके च उद्वेगो न गन्तव्यो न गमयितव्यः || ३३ || देशकालक्रियाकारैर्यथाप्राप्तासु दृष्टिषु | प्रकृतं कार्यमातिष्ठ त्यक्त्वा मानसमास्स्व भो || ३४ || यथाप्राप्तासु प्रजाशात्रवादिनिग्रहानुग्रहादिदृष्टिषु तत्तत्पुरुषानुरूपैर्देशकालक्रियाकारैः प्रकृतं प्रसञ्जितं वधबन्धदण्डादिकार्यमातिष्ठ अनुतिष्ठ | मानसं रागादिवैषम्यं त्यक्त्वा आस्स्व || ३४ || अतिदेहतयेदंताममतापरिवर्जितम् | भावाभावे समं कार्यं कुर्वन्निह न बाध्यसे || ३५ || अतिदेहतया देहातिरिक्तात्मभावेन | भावाभावे लाभालाभे || ३५ || दृष्टसंसारपर्यायस्तुलितातुलतत्पदः | सर्वं सर्वत्र जानासि किमन्यदुपदिश्यते || ३६ || व्यवहारे परमार्थे च त्वमेव निपुणोअषीति नोपदेश्यं तवास्तीत्याह - दृष्टेति || ३६ || वीतरागभयक्रोधे त्वयि राजनि राजति | नेदानीं दुःखदुर्ग्रन्थिर्नासुरान्दलयिष्यति || ३७ || अनेन तव पूर्वमनोरथोऽपि सेत्स्यतीत्याह - वीतेति | दुःखदुर्ग्रन्थिरसुरेष्विदानीं न स्थास्यति देवस्थश्च स मद्द्वारा असुरान्न दलयिष्यतीत्यर्थः || ३७ ||
244 SK बाष्पश्रीर्नासुरीकर्णमञ्जरीः प्लावयिष्यति | वनराजिमिवोन्मत्ता सरित्तारतरङ्गिणी || ३८ || उन्मत्ता वर्षाभिवर्धिता सरिन्नदी | तारतरङ्गिणी बृहत्तरङ्गा || ३८ || अद्यप्रभृत्यसंप्राप्तदानवामरसंगरम् | निर्मन्दराम्भोनिधिवज्जगत्स्वस्थमिव स्थितम् || ३९ || जगत्स्वास्थ्यमपि सेत्स्यतीत्याह - अद्येति | निर्मन्दरो निर्गतमन्थाचलो योऽम्भोनिधिस्तद्वत् || ३९ || देवासुरकुटुम्बिन्यो भर्तृष्वन्तःपुरेषु च | स्वेष्वेव यान्तु विश्वासमपरस्परमाहृताः || ४० || अपरस्परमाहृताः परस्परभर्तृभिरबन्दीकृताः || ४० || भवबहुलनिशानितान्तनिद्रा- तिमिरमपास्य सदोदिताशयश्रीः | दनुसुत वनिताविलासरम्यां चिरमजितामुपभुङ्क्ष्व राज्यलक्ष्मीम् || ४१ || हे दनुसुत त्वं बहुलनिशा कृष्णपक्षरात्रिस्तत्रत्यनितान्तनिद्रातिमिरप्रायमज्ञानान्धकारमपास्य सदा उदिता आशयश्रीः स्वप्रकाशब्रह्मात्मस्फूर्तिर्यस्य तथाविधः सन् वनितानामसुरस्त्रीणां संभजनीयशान्त्यादीनां च विलासैः रम्याम् | अजितां शत्रुभिः कामादिषट्कैश्चापराभूतां राज्यलक्ष्मीं स्वाराज्यलक्ष्मीं च चिरमुपभुङ्क्ष्वेत्याशीः || ४१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे प्रह्रादाभिषेको नामैकचत्वारिंशः सर्गः || ४१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे प्रह्रादाभिषेको नामैकचत्वारिंशः सर्गः || ४१ || द्विचत्वारिंशः सर्गः ४२ श्रीवसिष्ठ उवाच | इत्युक्त्वा पुण्डरीकाक्षः सनरामरकिन्नरः | द्वितीय इव संसारश्चचालासुरमन्दिरात् || १ || विष्णोः क्षीरोदगमनमाख्यानफलमुत्तमम् | समाधिमुक्तव्युत्थाने हेतुश्चात्रोपवर्ण्यते || १ || सनरामरकिन्नरत्वादेव द्वितीयः संसार इव विस्तृतः | चचाल जगाम || १ || प्रह्रादादिविनिर्मुक्तैः पश्चात्पुष्पाञ्जलिव्रजैः | पूर्यमाणो विहङ्गेशपाश्चायाङ्गरुहोत्करैः || २ || विहङ्गेशस्य गरुडस्य पाश्चात्येष्वङ्गरुहेषु उत्करवद्राशीभूतैः पुष्पाञ्जलिव्रजैः || २ ||
245 SK क्रमात्क्षीरोदमासाद्य विसृज्य सुरवाहिनीम् | भोगिभोगासने तस्थौ श्वेताब्ज इव षट्पदः || ३ || भोगिभोगासने विष्णुः शक्रः स्वर्गे सहामरैः | पाताले दानवाधीश इति तस्थुर्गतज्वराः || ४ || एषा ते कथिता राम निःशेषमलनाशिनी | प्राह्रादी बोधसंप्राप्तिरैन्दवद्रवशीतला || ५ || ऐन्दवो द्रवोऽमृतमिव शीतला || ५ || तां तु ये मानवा लोके बहुदुष्कृतिनोऽपि हि | धिया विचारयिष्यन्ति ते प्राप्स्यन्त्यचिरात्पदम् || ६ || सामान्येन विचारेण क्षयमायाति दुष्कृतम् | योगवाक्यविचारेण को न याति परं पदम् || ७ || दुष्कृतपदेन पापं तन्मूलमज्ञानं च || ७ || अज्ञानमुच्यते पापं तद्विचारेण नश्यति | पापमूलच्छिदं तस्माद्विचारं न परित्यजेत् || ८ || मयोक्तं न पापमेवेत्याह - अज्ञानमिति || ८ || इमां प्रह्रादसंसिद्धिं प्रविचारयतां नृणाम् | सप्तजन्मकृतं पापं क्षयमायात्यसंशयम् || ९ || सप्तजन्मकृतमित्यापातविचारफलमेतत् | ज्ञानफलपर्यन्तेन तु विचारेण प्रारब्धफलातिरिक्तसर्वपापक्षयः प्रसिद्ध एवेति || ९ || श्रीराम उवाच | परे पदे परिणतं पाञ्चजन्यस्वनैर्मनः | कथं प्रबुद्धं भगवन्प्रह्रादस्य महात्मनः || १० || समाधिमुक्तस्य विदेहमुक्तेन सह विश्रान्तिसुखादिसाम्ये पुनर्व्युत्थानहेतुं जिज्ञासमानो रामः पृच्छति - परे इति | मनसो विलये पाञ्चजन्यस्वनश्रवणमपि दुर्लभमिति कथं तेन प्रबोध इति भावः || १० || श्रीवसिष्ठ उवाच | द्विविधा मुक्तता लोके संभवत्यनघाकृते | सदेहैका विदेहान्या विभागोऽयं तयोः शृणु || ११ || प्रारब्धशेषोद्बोधितशुद्धवासनासहितभगवदिच्छैव तत्प्रबोधे हेतुरिति विशेषं वक्तुं सदेहविदेहमुक्ती विभज्य दर्शयति - द्विविधेत्यादिना | विभागो विभाजकलक्षणभेदः | अयं वक्ष्यमाणप्रकारः || ११ || असंसक्तमतेर्यस्य त्यागादानेषु कर्मणाम् | नैषणा तत्स्थितिं विद्धि त्वं जीवन्मुक्ततामिह || १२ ||
246 SK कर्मणामिष्टानिष्टानां त्यागादानेषु विषयेषु एषणा रागो नास्ति | तस्य तां स्थितिं जीवन्मुक्ततां विद्धि || १२ || सैव देहक्षये राम पुनर्जननवर्जिता | विदेहमुक्तता प्रोक्ता तत्स्था नायान्ति दृश्यताम् || १३ || देहपदेन तद्धारणहेतुः प्रारब्धशेषो लक्ष्यते | तस्य भोगेन क्षये सतीत्यर्थः || १३ || सृष्टबीजोपमा भूयो जन्माङ्कुरविवर्जिताः [जन्मान्तरेति पाठः] | हृदि जीवद्विमुक्तानां शुद्धा भवति वासना || १४ || भृष्टानि भर्जितानि बीजान्युपमा येषामिति पुनर्दृश्यतानवाप्तौ हेतुगर्भं विशेषणम् | जीवन्मुक्तेषु तु समाधिव्युत्थानेन पुनर्देहदृश्यतायां हेतुरस्तीत्याह - हृदीति | शुद्धा आसङ्गमालिन्यनिर्मुक्ता || १४ || पावनी परमोदारा शुद्धसत्त्वानुपातिनी | आत्मध्यानमयी नित्यं सुषुप्तस्येव तिष्ठति || १५ || पावनी शुद्धब्रह्मात्मभावना पवित्रा परमोदारा तृष्णाकार्पण्यरहिता | अन्तःकरणस्य ब्रह्मणिल येऽपि वासनास्थितौ दृष्टान्तमाह - सुषुप्तस्येवेति || १५ || अपि वर्षसहस्रान्ते तयैवान्तरवस्थया | सति देहे प्रबुध्यन्ते जीवन्मुक्ता रघूद्वह || १६ || देहपदेनात्रापि तद्धारणहेतुः प्रारब्धशेषो लक्ष्यते || १६ || प्रह्रादोऽन्तस्थया शुद्धसत्त्ववासनया स्वया | बोधमाप महाबाहो शङ्खशब्दावबुद्धया || १७ || सैव प्रह्रादबोधेऽपि हेतुरित्याह - प्रह्राद इति || १७ || हरिरात्मा हि भूतानां तस्य यत्प्रतिभासते | तत्तथैव भवत्याशु सर्वमात्मैव कारणम् || १८ || लीने श्रोत्रे शङ्खशब्दस्याप्यग्रहात्तावन्मात्रेण कथं बोध इत्याशङ्कां परिहरन्नाह - हरिरिति | आत्मा कारणात्मा | सत्यसंकल्प इति यावत् || १८ || प्रबोधमेतु प्रह्रादो यदैवेति विचिन्तितम् | आत्मन्यकारणेनैव भूतानां कारणेन च | सृष्ट्यर्थं वपुरात्तं हि वासुदेवमयात्मना || २० || अकारणेनैव शुद्धात्मना भूतानां कारणेनाव्याकृतेन चकारात्कामकर्मादिना च निमित्तेन आत्मन्येव जगत्सृष्ट्यर्थं वासुदेवमयात्मना वपुः शरीरमात्रं गृहीतम् | हिशब्दस्तथा श्रुतिस्मृतिपुराणप्रसिद्धिद्योतनार्थः || २० ||
247 SK आत्मावलोकनेनाशु माधवः परिदृश्यते | माधवाराधनेनाशु स्वयमात्मावलोक्यते || २१ || अत एव तद्वपुर्दर्शने आत्मदर्शनं सिद्ध्यत्यात्मदर्शने च तद्दर्शनं सुलभमित्याह - आत्मेति || २१ || एतां दृष्टिमवष्टभ्य राघवात्मावलोकने | विहराशु विचारात्मा पदं प्राप्स्यसि शाश्वतम् || २२ || विहर यतस्व || २२ || दुःखासारवती राम संसारप्रावृडातता | जाड्यं ददाति परमं विचारार्कमपश्यताम् || २३ || दुःखान्येव आसारा धारासंपातास्तद्वती | जाड्यं मौर्ख्यं रोगं च || २३ || प्रसादादात्मनो विष्णोर्मायेयमतिभासुरा | प्रबाधते न धीरांस्तु यक्षी मन्त्रवतो यथा || २४ || यक्षीग्रहणं सर्वपिशाचाद्युपलक्षणम् | मन्त्रवतो मन्त्रसिद्धान् || २४ || आत्मेच्छयैव घनतां समुपागतान्त- रात्मेच्छयैव अनुतामुपयाति काले | संसारजालरचनेयमनन्तमाया- ज्वालेह वातवलयादिव पावकस्य || २५ || संसारजालरचनालक्षणा अनन्तस्य विष्णोरियं माया तस्यैवात्मन इच्छयैव घनतां देहादिघनानर्थभावं समुपागता | सा च निर्व्याजभक्तिप्रणिधानाद्याराधितस्य तस्यात्मन इच्छयैव विवेकविचारादिजन्मकाले तनुतां ह्रासमुपयाति | यथा पावकस्य ज्वाला वातवलयादेव घनतामुपयाति अन्ते च तद्वशादेव तनुतामुपयाति तद्वत् | अत ईश्वरप्रसादजनितविचारादिनैवावश्यं ज्ञानलाभ इत्याख्यानतात्पर्यमिति भावः | तथाच भगवतो बादरायणस्य सूत्रम् पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ इति | मत्तः स्मृतिर्ज्ञानमपोहनं च इति भगवद्वचनं चेति भावः || २५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो० उपशमप्रकरणे प्रह्रादव्यवस्था नाम द्विचत्वारिंशः सर्गः || ४२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे प्रह्रादव्यवस्था नाम द्विचत्वारिंशः सर्गः || ४२ || त्रिचत्वारिंशः सर्गः ४३ श्रीराम उवाच | भगवन्सर्वधर्मज्ञ शुद्धैस्त्वद्वचनांशुभिः | निर्वृताः स्म शशाङ्कस्य करैरोषधयो यथा || १ ||
248 SK ईशप्रसादलभ्येऽपि नेश्वरे दीयतां भरः | पौरुषेणेन्द्रियाक्रान्त्या साध्यं ज्ञानमितीर्यते || १ || निर्वृता आह्लादिताः स्म || १ || कर्णाभिवाञ्छयमानानि पवित्राणि मृदूनि च | सुखयन्ति गृहीतानि पुष्पाणीव वचांसि ते || २ || कर्णाभ्यां श्रवणायावतंसनाय चाभिवाञ्छ्यमानानि | पुष्पपक्षे गुरुदेवतादिप्रसादरूपतया पापापहारित्वात्पवित्राणि पुष्पाण्युत्पलादीनीव || २ || पौरुषेण प्रयत्नेन सर्वमासाद्यते यदि | प्रह्रादस्तत्कथं बुद्धो न माधववरं विना || ३ || तत्तर्हि प्रह्रादो माधवस्य वरं विनापि स्वपौरुषेणैव कथं न प्रबुद्धवान् | अतः स्वपौरुषादेव सर्वत्र ज्ञानलाभ इति प्रागुक्तनियमभङ्ग इत्यर्थः || ३ || श्रीवसिष्ठ उवाच | यद्यद्राघव संप्राप्तं प्रह्रादेन महात्मना | तत्तदासादितं तेन पौरुषादेव नान्यतः || ४ || स्वपौरुषसाध्यायां पुरुषार्थसिद्धौ माधववरोऽपि द्वारविशेष एव न स्वतन्त्र इति नोक्तनियमभङ्ग इत्याशयेन संक्षिप्योत्तरमाह - यद्यदिति || ४ || आत्मा नारायणश्चैव न भिन्नस्तिलतैलवत् | तथैव शौक्ल्यपटवत्कुसुमामोदवत्तथा || ५ || अथवा विष्णोः प्रह्रादात्मभेदाभावात्तत्प्रयत्नप्राप्तो वरः प्रह्रादप्रयत्नादेवेति वात्र परिहारः सुलभ इत्याशयेनाह - आत्मेत्यादिना | यथा तिलान्तर्गतं ततो निःसारितं च तैलं न भिन्नं तद्वत् | नन्वेवं सति विकारिता स्यादिति दृष्टान्तान्तरमाह - शौक्ल्यपटवदिति | यथा कुसुमानां सार आमोदस्तद्वज्जीवानां परमार्थसारो विष्णुरिति वा अभेदो ज्ञेय इत्याह - कुसुमेति || ५ || यो हि विष्णुः स एवात्मा यो ह्यात्मासौ जनार्दनः | विष्ण्वात्मशब्दौ पर्यायौ यथा विटपिपादपौ || ६ || अथवा कार्यकारणोपाधित्यागे परिशिष्टचिन्मात्रस्यात्यन्ताभेद एवेति लक्ष्यपरयोर्विष्ण्वात्मशब्दयोः पर्यायतैवेत्याह - य इति | विटपवत्त्वपादकरणकपानकर्तृत्वोपाधिभेदेऽप्यखण्डवृक्षस्वरूपे यथा विटपिपादपशब्दयोः पर्यायता तद्वदित्यर्थः || ६ ||
249 SK प्रह्रादनामा प्रथममात्मैव स्वयमात्मना | स्वयैव परया शक्त्या विष्णुभक्तौ नियोजितः || ७ || प्रह्रादो ह्यात्मनैवैनं वरमर्जितवान्स्वयम् | स्वयं विचारगं कृत्वा स्वयं विदितवान्मनः || ८ || आत्मना स्वात्मभूतेनैव विष्णुना स्वमनः स्वयमेव विचारगं कृत्वा स्वात्मानं स्वयमेव विदितवानित्यर्थः || ८ || कदाचिदात्मनैवात्मा स्वयं शक्त्या प्रबुध्यते | कदाचिद्विष्णुदेहेन भक्तिलभ्येन बोध्यते || ९ || शक्त्या स्वप्रयत्नकृतविचारबलेन | भक्तिलक्षणप्रयत्नलभ्येन विष्णुदेहद्वारेणेत्यर्थः || ९ || चिरमाराधितोऽप्येष परमप्रीतिमानपि | नाविचारवतो ज्ञानं दातुं शक्नोति माधवः || १० || अन्वयेन दर्शितमर्थं व्यतिरेकस्यापि प्रदर्शनेन द्रढयति - चिरमिति || १० || मुख्यः पुरुषयत्नोत्थो विचारः स्वात्मदर्शने | गौणो वरादिको हेतुर्मुख्यहेतुपरो भव || ११ || आत्मावबोधपर्यन्तो विचारोऽस्त्विति वरं ददतो हरेः पुरुषप्रयत्नोत्थो विचार एव मुख्योअभिमतो न वरः | अन्यथा ज्ञानमस्त्वित्येव वरदानप्रसङ्गादित्याशयेनाह - मुख्य इति || ११ || पूर्वमेव बलात्तस्मादाक्रम्येन्द्रियपञ्चकम् | अभ्यसन्सर्वयत्नेन चित्तं कुरु विचारवत् || १२ || यद्विषयप्रयत्नाद्विचारोदयस्तं दर्शयति - पूर्वमिति | पञ्चकग्रहणं दशकोपलक्षणम् || १२ || यद्यदासाद्यते किंचित्केनचित्क्वचिदेव हि | स्वशक्तिसंप्रवृत्त्या तल्लभ्यते नान्यतः क्वचित् || १३ || स्वस्य शक्तिर्यत्नस्तत्प्रयुक्तया संप्रवृत्त्या शुभाचरणेन || १३ || पौरुषं यत्नमाश्रित्य प्रोल्लङ्घ्येन्द्रियपर्वतम् | संसारजलधिं तीर्त्वा पारं गच्छ परं पदम् || १४ || विना पुरुषयत्नेन दृश्यते चेज्जनार्दनः | मृगपक्षिगणं कस्मात्तदासौ नोद्धरत्यजः || १५ || दृश्यते तत्त्वतः साक्षात्क्रियते | नोद्धरतिं नात्मतत्त्वं दर्शयति | आत्मदर्शनमेवोद्धार इत्याशयः || १५ || गुरुश्चेदुद्धरत्यज्ञमात्मीयात्पौरुषादृते | उष्ट्रं दान्तं बलिवर्दं तत्कस्मान्नोद्धरत्यसौ || १६ ||
250 SK विनैव शिष्यप्रयत्नं शक्तिपातादिना गुरुस्तमुद्धरतीति योगशास्त्रादौ सिद्धमिति तत्रानैकान्त्यमाशङ्क्याह - गुरुश्चेदिति | गुरुभक्त्यादियत्न एव तत्रापि ज्ञानजनने गुर्वनुग्रहं द्वारीकरोतीति भावः || १६ || न हरेर्न गुरोर्नार्थात्किंचिदासाद्यते महत् | आक्रान्तमनसः स्वस्माद्यदासादितमात्मनः || १७ || अर्थाद्धनात् | अमृतत्वस्य तु नाशास्ति वित्तेन इति श्रुतेरिति भावः | आक्रान्तमनसो ज्ञानदार्ढ्येन बाधितमनसो यदात्मनः स्वस्मान्महत्परमपुरुषार्थरूपमासादितं तत् || १७ || अभ्यासवैराग्ययुतादाक्रान्तेन्द्रियपन्नगात् | नात्मनः प्राप्यते यत्तत्प्राप्यते न जगत्त्रयात् || १८ || यत्परमपुरुषार्थरूपम् || १८ || आराधयात्मनात्मानमात्मनात्मानमर्चय | आत्मनात्मानमालोक्य संतिष्ठस्वात्मनात्मनि || १९ || आराधय उत्कृष्टबुद्ध्या श्रवणादिना साधय सिद्धं च निरन्तरानुसंधानेनार्चय | आलोक्य तत्त्वतः साक्षात्कृत्य संतिष्ठस्व तत्रैव सम्यगवतिष्ठस्व | तद्भावान्न च्यवस्वेत्यर्थः || १९ || शास्त्रयत्नविचारेभ्यो मूर्खाणां प्रपलायिनाम् | कल्पिता वैष्णवी भक्तिः प्रवृत्त्यर्थं शुभस्थितौ || २० || यदि स्वप्रयत्नजविचारादेव ज्ञानोदयस्तर्हि किमर्थं शास्त्रेषु विष्ण्वादिभक्तिविधानं तत्राह - शास्त्रेति | विषयासक्तिप्राबल्यादध्यात्मशास्त्रेभ्य इन्द्रियजयादियत्नेभ्यो विचारेभ्यश्च प्रपलायिनां दूरी भूतानां मूर्खाणां कथंचिच्छुभस्थितौ सन्मार्गे प्रवृत्त्यर्थमित्यर्थः || २० || अभ्यासयत्नौ प्रथमं मुख्यो विधिरुदाहृतः | तदभावे तु गौणः स्यात्पूज्यपूजामयक्रमः || २१ || उक्तमेवार्थमुपपत्तिभिर्द्रढयति - अभ्यासेत्यादिना || २१ || अस्ति चेदिन्द्रियाक्रान्तिः किं प्राप्यं पूजनैः फलम् | नास्ति चेदिन्द्रियाक्रान्तिः किं प्राप्यं पूजनैः फलम् || २२ || विचारोपशमाभ्यां हि न विनासाद्यते हरिः | विचारोपशमाभ्यां च मुक्तस्याब्जकरेण किम् || २३ ||
251 SK आसाद्यते स्वात्मभावेन तत्त्वतो लभ्यते | हरिः पूर्णानन्दात्मा | विचारोपशमाभ्यामेव मुक्तस्य परमपुरुषार्थं प्राप्तस्याब्जकरेण हरिदेहेन किमधिकं प्राप्यमस्तीत्यर्थः | अथवा विचारोपशमाभ्यां मुक्तस्य रहितस्य विषयासक्तस्य अब्जकरेणेश्वरेणापि किं हितं कर्तुं शक्यमित्यर्थः || २३ || विचारोपशमोपेतं चित्तमाराधयात्मनः | तस्मिन्सिद्धे भवान्सिद्धो नो चेत्त्वं वनगर्दभः || २४ || आराधय प्रसादय | सिद्धे प्रसन्ने सति भवानपि सिद्धः परमपुरुषार्थलक्षणां सिद्धिं प्राप्तः || २४ || क्रियते माधवादीनां प्रणयप्रार्थना स्वयम् | तथैव क्रियते कस्मान्न स्वकस्यैव चेतसः || २५ || क्रियते यथेति शेषः || २५ || सर्वस्यैव जनस्यास्य्स् विष्णुरभ्यन्तरे स्थितः | तं परित्यज्य ये यान्ति बहिर्विष्णुं नराधमाः || २६ || मनोभक्तिरेव मुख्या विष्णुभक्तिर्नतु बाह्येत्याह - सर्वस्येत्यादिना || २६ || हृद्गुहावासिचित्तत्त्वं मुख्यं सानातनं वपुः | शङ्खचक्रगदाहस्तो गौण आकार आत्मनः || २७ || चिल्लक्षणं तत्त्वमबाधितं वस्तु सनातनमेव सानातनं शाश्वतं वपुः स्वरूपे | गौणो मायागुणकल्पित आगन्तुक इति यावत् || २७ || यो हि मुख्यं परित्यज्य गौणं समनुधावति | त्यक्त्वा रसायनं सिद्धं साध्यं संसाधयत्यसौ || २८ || रसायनममृतम् | साध्यमोदनादि संसाधयति कृष्यादिनोत्पादयति || २८ || यस्तु भोः स्थितिमेवास्यामात्मज्ञानचमत्कृतौ | नासादयति संमत्तमनाः स रघुनन्दन || २९ || कस्तर्हि बाह्यविष्णुभक्तावधिकारी तमाह - यस्त्विति द्वाभ्याम् | य आत्मतत्त्वचमत्कृतौ स्थितिं नासादयत्येव स श᳚खचक्रगदापाणिं परमेश्वरमर्चयेदित्यन्वयः || २९ || अप्राप्तात्मविवेकोऽन्तरज्ञचित्तवशीकृतः | शङ्खचक्रगदापाणिमर्चयेत्परमेश्वरम् || ३० || काले निर्मलतामेति चित्तं वैराग्यकारिणा || ३१ || वैराग्यकारिणा तपसा || ३१ || नित्याभ्यासविवेकाभ्यां चित्तमाशु प्रसीदति | आम्र एव दशामेति साहकारीं शनैः शनैः || ३२ ||
252 SK आशुग्रहणं प्रसादावश्यंभावद्योतनार्थम् | सहकारः पुष्पफलाद्यतिसौरभस्तद्भावलक्षणां दशाम् || ३२ || एतदप्यात्मनैवात्मा फलमाप्नोति भाषितम् | हरिपूजाक्रमाख्येन निमित्तेनारिसूदन || ३३ || शास्त्रे हरिपूजाक्रमाख्येन निमित्तेन यत्फलं भाषितमेतदप्यात्मना स्वेनैव संकल्पितं प्राप्नोतीत्यर्थः || ३३ || वरमाप्नोति यो वापि विष्णोरमिततेजसः | तेन स्वस्यैव तत्प्राप्तं फलमभ्यासशाखिनः || ३४ || योऽपि विष्णोः सकाशाद्वरं प्राप्नोति तेनापि स्वस्य स्वीयस्यैवाभ्यासशाखिनः फलं प्राप्तं नाकस्मिकमित्यर्थः || ३४ || सर्वेषामुत्तमस्थानां सर्वासां चिरसंपदाम् | स्वमनोनिग्रहो भूमिर्भूमिः सस्यश्रियामिव [स्वस्य इति पाठः] || ३५ || उत्तमस्थानां प्रशस्तपुरुषार्थाभिनिवेशानां चिरसंपदां चिरभोग्यमन्वादिसंपदां च स्वमनोनिग्रह एव भूमिरुद्भवस्थानमित्यर्थः || ३५ || अप्युर्वीस्वननोत्कस्य कर्षतोऽपि शिलोच्चयम् | स्वमनोनिग्रहादन्यो नोपायोऽस्तीह कश्चन || ३६ || उर्वीखननोत्कस्य सगरसुतादेः शिलोच्चयं मन्थाचलं कर्षतो देवासुरादेरपि | निधिरत्नादिलाभायोर्वीखननाद्युत्कस्य वा | मनस ऐकाग्र्यं विना महाकार्यासिद्धेरित्याशयः || ३६ || तावज्जन्मसहस्राणि भ्रमन्ति भुवि मानवाः | यावन्नोपशमं याति मनोमत्तमहार्णवः || ३७ || ब्रह्मविष्ण्विन्द्ररुद्राद्याश्चिरसंपूजिता अपि | उपप्लवान्मनोव्याधेर्न त्रायन्तेऽपि वत्सलाः || ३८ || वत्सला दयावन्तोऽपि ब्रह्माद्या मनोव्याधेरुपप्लवान्न त्रायन्ते || ३८ || आकारभासुरं त्यक्त्वा बाह्यमान्तरमप्यजम् | कुरु जन्मक्षयायाशु संविन्मात्रैकचिन्तनम् || ३९ || बाह्यं बहिरिन्द्रियगम्यमान्तरमन्तःकरणगम्यं चाकारभासुरं विषयरूपं त्यक्त्वा अजं जन्मादिविक्रियशून्यम् | संविन्मात्रस्यैकमखण्डाकारं चिन्तनं कुर्वित्यर्थः || ३९ || संवेद्यनिर्मुक्तनिरामयैक- संविन्मयास्वादमनन्तरूपम् | सन्मात्रमास्वादय सर्वसारं पारं परं प्राप्स्यसि जन्मनद्याः || ४० ||
253 SK उक्तमेव व्यक्तोक्त्योपसंहरति - संवेद्येति | हे राम त्वं संवेद्यैर्बाह्यान्तरविषयैर्निर्मुक्तं यन्निरामयैकसंविन्मय स्वयमेवास्वदते निरतिशयानन्दात्मना स्फुरति तथाविधं सन्मात्रं निरन्तरं तदाकारवृत्त्या आस्वादय | एवमास्वादयन् जन्मनद्याः परं पारं प्राप्स्यसीत्यर्थः || ४० || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे प्रह्रादविश्रान्तिर्नाम त्रिचत्वारिंशः सर्गः || ४३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे प्रह्रादविश्रान्तिर्नाम त्रिचत्वारिंशः सर्गः || ४३ || चतुश्चत्वारिंशः सर्गः ४४ श्रीवसिष्ठ उवाच | रामापर्यवसानेयं माया संसृतिनामिका | आत्मचित्तजयेनैव क्षयमायाति नान्यथा || १ || मनोनैराश्यसिद्ध्यर्थं मृषा दुःखस्वरूपता | दृश्यस्य विस्तरेणास्मिन्गाध्याख्याने प्रदर्श्यते || १ || तत्र विष्णुवराद्गाधेर्जले मायानिरीक्षणे | गृहे मृतस्य नीतस्य श्मशाने दाह ईर्यते || २ || अपर्यवसाना अपरिमितभ्रान्तिहेतुरिति यावत् || १ || जगन्मायाप्रपञ्चस्य वैचित्र्यप्रतिपत्तये | इतिहासमिमं वक्ष्ये शृणुष्वावहितोऽनघ || २ || अवहितः सावधानचित्तः || २ || अस्त्यस्मिन्वसुधापीठे कोसलो नाम मण्डलः | कल्पवृक्षवनं मेराविव रत्नगणाकरः || ३ || मण्डलो देशविशेषः | मेरौ कल्पवृक्षवनं नन्दनादीव || ३ || तत्राभूद्ब्राह्मणः कश्चिद्गुणी गाधिरिति श्रुतः | परमश्रोत्रियो धीमान्धर्ममूर्तिरिव स्थितः || ४ || तत्र तस्मिन्मण्डले || ४ || आबाल्यात्प्रविरक्तेन चेतसा स व्यराजत | निष्कलङ्कावदातेन भुवनं नभसा यथा || ५ || निष्कलङ्कावदातेनेति नभसोऽपि विशेषणम् || ५ || किमप्यभिमतं कार्यं विनिधाय स्वचेतसि | बन्धुवृन्दाद्विनिष्क्रम्य तपस्तप्तुं वनं ययौ || ६ || कार्यं तपःप्रयोजनम् || ६ || उत्फुल्लकमलं प्राप सरस्तत्र स विप्रराट् | चन्द्रः प्रसन्नविमलं तारासारमिवाम्बरम् || ७ || तत्र वने | तारा अश्विन्याद्याः सारादर्शनीयतमा यस्मिन् || ७ ||
254 SK आशौरिदर्शनं तस्मिंस्तपोर्थं सरसि द्विजः | आकण्ठमम्बुनिर्मग्नः प्रावृट्पद्म इवाविशत् || ८ || आशौरिदर्शनं विष्णुदर्शनपर्यन्तं तपोर्थं सरसि प्रावृटपद्म इव आकण्ठमम्बुनिर्मग्नः सन् आविशत् प्रविश्य स्थित इत्यर्थः || ८ || ययौ मासाष्टकं तस्य मग्नस्य सरसोऽम्भसि | वासपङ्कजसंकोचमनाग्भग्नमुखच्छवेः || ९ || वासो निवासस्थानं तत्रत्यानां पङ्कजानां सूर्यवियोगेन संकोचे तत्संवासस्नेहान्मनाग्भग्ना मुखच्छविर्यस्य || ९ || अथैनं तपसा तप्तमाजगामैकदा हरिः | निदाघार्तं घनः श्यामः प्रावृषीव धरातलम् || १० || श्याम इति हरेरपि विशेषणम् || १० || श्रीभगवानुवाच | विप्रोत्तिष्ठ पयोमध्याद्गृहाणाभिमतं वरम् | अभीप्सितफलोपेतो जातस्ते नियमद्रुमः || ११ || नियमद्रुमस्तपोवृक्षः | अभीप्सितेन फलेन उपेतः फलितो जात इत्यर्थः || ११ || ब्राह्मण उवाच | असंक्येयजगद्भूतहृत्पद्म कुहरालिने | जगत्त्रयैकनलिनीसरसे विष्णवे नमः || १२ || असंख्येयानां जगति विद्यमानानां भूतानां प्राणिनां हृत्पद्मकुहरस्थाय श्यामत्वादलिने भृङ्गाय || १२ || मायामिमां त्वद्रचितां भगवान्पारमात्मिकीम् | द्रष्टुमिच्छामि संसारनाम्नीमान्ध्यैककारिणीम् || १३ || पारमात्मिकीं परमात्मन्यध्यस्ताम् || १३ || श्रीवसिष्ठ उवाच | इमां द्रक्ष्यसि मायां त्वं ततस्त्यक्ष्यसि चेत्यजः | उक्त्वा ययावदृश्यत्वं गान्धर्वमिव पत्तनम् || १४ || मायादर्शनमात्रेण परमपुरुषार्थफलकस्य स्वाराधनतपसः सार्थक्यालाभात्ततस्त्यक्ष्यसि चेत्यप्रार्थितोऽपि भगवता द्वितीयो वरो दत्तः | अदृश्यत्वमन्तर्धानम् || १४ || गते विष्णौ समुत्तस्थौ जलात्स ब्राह्मणेश्वरः | शीतलामलमूर्तित्वादिन्दुः क्षीरोदकादिव || १५ || बभूव परितुष्टात्मा दर्शनेन जगत्पतेः | दर्शनस्पर्शनैरिन्दोरुत्फुल्लमिव कैरवम् || १६ || दर्शनस्पर्शनैरित्युक्तेः स्थावराणामपि चाक्षुषादिज्ञानमस्तीति गम्यते || १६ ||
255 SK अथास्य कतिचित्तस्मिन्दिवसा निर्ययुर्वने | हरिसंदर्शनानन्दवतो ब्राह्मणकर्मणा || १७ || ब्राह्मणकर्मणा तपःस्वाध्यायातिथिपूजनादिना || १७ || एकदारब्धवान्स्नानं सरस्युदितपङ्कजे | चिन्तयन्वैष्णवं वाक्यं महर्षिरिव मानसे || १८ || उदितपङ्कजे फुल्लपद्मे | यथा महर्षिर्योगबलेनातीतानागतं द्रष्टुं मानसे चिन्तयति तद्वत् || १८ || अथ स्नानविधावन्तर्जलमेष चकार ह | सकलाघविघातार्थं परिवर्तमिवात्मना || १९ || सकलाघविघातार्थमघमर्षणार्थमन्तर्जलं परिवर्तमावर्तमिव सकुशेन करेण चकारेत्यर्थः || १९ || अन्तर्जलविहौ तस्मिन्विस्मृतध्यानमन्त्रधीः | पर्यस्तसंवित्प्रसरः सोऽपश्यज्जलमध्यतः || २० || अन्तर्जलं निमज्ज्य प्रणवादिमन्त्रस्मरणलक्षणे अघमर्षणविधौ पर्यस्तो विपरीत्ग्रहणोन्मुखः संवित्प्रसरो यस्य तथाविधः सन् || २० || मृतमात्मानमात्मीये सदने शोच्यतां गतम् | पतितं वातवेगेन कन्दरान्तरिव द्रुमम् || २१ || कन्दरान्तर्दरीगर्भे पतितं द्रुममिव || २१ || प्राणापानप्रवाहेण मुक्तमन्तमुपागतम् | संशान्तावयवस्पन्दं निर्वात इव खण्डकम् || २२ || मृतमित्यस्य विवरणं प्राणापानेति | निर्वातपतितं कदल्यादिखण्डकमिव || २२ || पाण्डुराननमाम्लानं वृक्षपर्णमिवारसम् | शवीभूतमिवाग्लानं छिन्ननालमिवाम्बुजम् || २३ || शवीभूतं | इवकारो मिथ्यात्वपरो नोपमार्थः || २३ || विपर्यस्तेक्षणं प्रातर्मग्नतारमिवाम्बरम् | सावग्रहमिव ग्रामं सर्वतः पांसुधूसरम् || २४ || अवग्रहो वर्षप्रतिरोधस्तेनोद्वस्तं ग्राममिव || २४ || बाष्पक्लिन्नमुखैर्दीनैः करुणाक्रन्दकारिभिः | आवृतं बन्धुभिः खिन्नैः कुररैरिव पादपम् || २५ || करुणया आक्रन्दो रोदनं तत्कारिभिः | कुररैः पक्षिविशेषैः || २५ || सेतुभङ्गगलद्वारिह्रियमाणमुखाब्जया | नलिन्या समधर्मिण्या भार्यया पादयोः श्रितम् || २६ || सेतुभङ्गाद्गलद्भिः प्रवहद्भिर्करिभिर्ह्रियमाणं मुखमिव अब्जं यस्यास्तथाविधया नलिन्या कमलिन्या || २६ ||
256 SK ताराक्रन्दरणद्रेफप्रलापालापलुब्धया | मात्रा गृहीतं चिबुके नवव्यञ्जनलाञ्छिते || २७ || तारेणोच्चतरेणाक्रन्देन रणन्तो रेफा द्विरेफा इव प्रलापे अनर्थकव्यक्तवाक्ये दीर्घस्वरालापे च लुब्धया आसक्तया | नवैर्व्यञ्जनैः श्मश्रुभिर्लाञ्छिते चिह्निते || २७ || अन्यैः पार्श्वगतैर्दीनैः स्रवदश्रुमुखैर्जनैः | श्रितं गलदवश्यायैः शुष्कपर्णैरिव द्रुमम् || २८ || श्रितं परिवेष्टितम् || २८ || वियोगभीत्या संयोगपरिहारपरैरिव | दूरं विप्रसृतैरङ्गैरनात्मीयैरिवावृतम् || २९ || संयोगा विप्रयोगान्ताः इति न्यायप्रापितवियोगभीत्या संयोगपरिहारपरैरिवेत्युत्प्रेक्षा | अङ्गैर्हस्तपादादिभिः | अनात्मीयैरस्वीयैरस्वजनैरिव वेत्युपमा || २९ || परस्परमलग्नाभ्यामोष्ठाभ्यां दशनैः सितैः | सविरागमिवाम्लानैर्हसन्तं स्वात्मजीवितम् || ३० || आम्लानैरीषन्मलिनैर्दशनैः स्वात्मजीवितमेतावत्कालं वृथेति हसन्तं सविरागं विरक्तपुरुषमिव || ३० || मौनध्यानमिवापन्नं पङ्कादिव विनिर्मितम् | अप्रबोधाय संसुप्तं विश्राम्यन्तमिवोच्चकैः || ३१ || मौनध्यानमित्याद्याश्चतस्र उत्प्रेक्षाः || ३१ || बान्धवाक्रन्दसंरम्भकोलाहलगता गिरः | स्नेहभावविचारार्थं शृण्वन्तमिव यत्नतः || ३२ || बान्धवेषु कस्याधिकः स्नेहः कस्याल्प इति तत्तदाशयविमर्शार्थं यत्नतोऽवहितमनस्कतया तूष्णीं तदाक्रन्दान्शृण्वन्तमिव || ३२ || अथ तत्कालकल्लोलप्रलापाकुलचेष्टितैः | अथ क्रमेण स्वजनैर्निष्कालितं गृहाद्बहिर्निष्कासितमिति परेणान्वयः || ३३ || क्रमेण स्वजनैः क्षुब्धैस्ताराक्रन्दादिघर्घरैः | निष्कालितममङ्गल्यमपुनर्दर्शनाय वै || ३४ || नीतं श्मशानं मांसान्त्रवसापङ्ककलङ्कितम् | शुष्काशुष्करसक्लिन्नं कंकालशतसंकुलम् || ३५ || मांसान्त्रेत्यादिजरत्खगमित्यन्तानि श्मशानविशेषणानि || ३५ || गृध्राभ्रच्छन्नसूर्यांशुचिताज्वलननिस्तमः | शिवाशिवमुखज्वालाजालपल्लवितावनि || ३६ || शिवानामशिवैर्मुखनिर्गतज्वालाजालैः पल्लवितेवावनिर्यस्य || ३६ ||
257 SK वहद्रक्तसरित्स्नातमग्नकङ्कोग्रवायसम् | रक्तार्द्रतन्त्रीप्रसरजालाबद्धजरत्खगम् || ३७ || वहद्रक्तसरित्सुकेचित्स्नाताः केचिन्मग्नाश्च कङ्का उग्रवायसाश्च यत्र | रक्तैरार्द्राणां तन्त्रीणां प्रसरलक्षणैर्जालैरानायैराबद्धा जरत्खगा वृद्धपक्षिणो यत्र || ३७ || तत्र ते ज्वलने दीप्ते चक्रुस्तं भस्मसाच्छवम् | बान्धवाः सलिलापूरं समुद्रा इव वाडवे || ३८ || वाडवे वडवाग्नौ समुद्राः स्वसलिलापूरं यथा भस्मसाच्चक्रुस्तद्वत् || ३८ || चितिश्चटचटास्फोटैः शवमाशु ददाह सा | शुष्केन्धनबहूच्छूनज्वालाजालजटावली || ३९ || शुष्कैरिन्धनैर्बहु उच्छूना अभिवृद्धा ज्वालाजाललक्षणा जटावलिर्यस्याः सा चितिश्चिता चटचटाशब्दैस्तं शवमाशु ददाह || ३९ || अभ्युल्लसत्कटकटारवमुक्तगन्ध- व्याप्ताम्बुवाहपटलोऽस्थिचयं हुताशः | दन्ती सरन्ध्रमिव वेणुवनं समन्ता- दुद्वान्तमेदुररसं दलयांचकार || ४० || अभ्युल्लसद्भिः कटकटारवैर्मुक्तैर्गन्धैश्च व्याप्तान्यम्बुवाहपटलानि येन तथाविधो हुताशोऽग्निः समन्तादुद्वान्ता उद्गीर्णा मेदुरा उपचिता रसा यस्मात्तथाविधमस्थिचयं दन्ती सरन्ध्रं वेणुवनमिव दल्यांचकार | विदलयामासेत्यर्थः || ४० || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते गाधिविनाशो नाम चतुश्चत्वारिंशः सर्गः || ४४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे गाधिविनाशो नाम चतुश्चत्वारिंशः सर्गः || ४४ || पञ्चचत्वारिंशः सर्गः ४५ श्रीवसिष्ठ उवाच | अथापश्यदसौ गाधिः स्वाधिपीवरया धिया | अन्तर्जलस्थ एवान्तरात्मनात्मनि निर्मले || १ || इहास्य पुल्कसीकुक्षौ जन्म कैरातकी स्थितिः | मृतबन्धोः कीरपुरे राज्यप्राप्तिश्च वर्ण्यते || १ || स्वस्याधिभिर्मानसदुःखैः पीवरया उपचितया | इत आरभ्य सर्वेषां कारकाणां विंशतितमश्लोकस्थे अपश्यदित्यत्र क्रमेणान्वयः || १ || भूतमण्डलपर्यन्तग्रामोपान्तनिवासिनाम् | श्वपचानां स्त्रिया गर्भे स्थितिमात्मानमाकुलम् || २ ||
258 SK भूतमण्डलाख्यो देशभेदस्तस्य पर्यन्तः सीमा तत्रत्यग्रामस्य उपान्ते संनिहितभूमौ निवासिनाम् || २ || गर्भयासभराक्रान्तं पीडितं पेलवाङ्गकम् | श्वपचीहृदये सुप्तं स्वविष्ठायामिवाकुलम् || ३ || गर्भवासपदेन तत्रत्यदुःखानि लक्ष्यन्ते तद्भरेणाक्रान्तम् | पीडितमित्यादिस्तस्यैव प्रपञ्चः || ३ || शनैः पक्वतया काले प्रसूतं मेचकच्छविम् | श्वपच्या प्रावृषेवाब्दं श्याममावलितं मलैः || ४ || श्वपच्या काले प्रसूतम् | अब्दं मेघम् || ४ || संपन्नं श्वपचागारे शिशुं श्वपचवल्लभम् | इतश्चेतश्च गच्छन्तमुत्पीडमिव यामुनम् || ५ || यामुनं यमुनाप्रवाहपतितमुत्पीडमुत्तंसोत्पलमिव || ५ || द्वादशाब्ददशां यातं संस्थितं षोडशाब्दिकम् | पीवरांसमुदाराङ्गं पयोदमिव मेदुरम् || ६ || सारमेयपरीवारं विहरन्तं वनाद्वनम् | निघन्तं मृगलक्षाणि पौलिन्दीं स्थितिमागतम् || ७ || सारमेयाः श्वान एव मृगयाद्यर्थं परीवारो यस्य | पौलिन्दीं कैरातीं स्थितिं वृत्तिम् || ७ || तमाललतयेवाथ श्रितं श्वपचकान्तया | स्तनस्तबकशालिन्या नवपल्लवहस्तया || ८ || अथ श्वपचकन्यया श्रितम् | कृतोद्वाहमिति यावत् || ८ || श्यामया मलिनाकारदशनामलमालया | वनपल्लवया भूरिविलासवलिताङ्गया || ९ || दन्तधावनाभावान्मलिनाकारा स्वाभाविकशौक्ल्यादमला दशनमाला यस्यास्तया | वनपल्लवान् यान्त्यनुगच्छन्ति तथाविधैर्भूरिविलासैर्वलिताङ्गया | वनपल्लवशब्दे उपपदे यातेः क्विप् || ९ || विलसन्तं वनान्तेषु तया सह नवेष्टया | श्यामलं श्यामया भृङ्गं भृङ्ग्येव कुसुमर्द्धिषु || १० || नवत्वादेवेष्टया नवं नित्यामिनवं यथा स्यात्तथा इष्टया वा | कुसुमर्द्धिषु पुष्पसमृद्धमत्सु वनान्तेषु || १० || वनपर्णलतापत्रे वसन्तं व्यसनातुरम् | विन्ध्यकान्तारमाकारमभ्यागतमिवोद्भटम् || ११ || आकारमभ्यागतं गृहीतपुरुषाकारं विन्ध्यकान्तारमिवेत्युत्प्रेक्षा || ११ || विश्रान्तं वनकुञ्जेषु सुप्तं गिरिदरीषु च | निलीनं पत्रपुञ्जेषु गुल्मकेषु कृतालयम् || १२ ||
259 SK किंकिरातावतंसाढ्यं यूथिकास्रग्विभूषितम् | केतकोत्तंससुभगं सहकारस्रगाकुलम् || १३ || किंकिरातादिपदैस्तत्तन्मञ्जर्यो गृह्यन्ते || १३ || लुलितं पुष्पशय्यासु भ्रान्तमद्रितटीषु च | तज्ज्ञं काननकोशेषु बहुज्ञं मृगमारणे || १४ || काननकोशेषु विषयेषु तज्ज्ञमसाधारणज्ञानवन्तमित्यर्थः | बहुज्ञं पण्डितम् || १४ || प्रसूतमथ शैलेषु पुत्रान्निजकुलाङ्कुरान् | अत्यन्तविषमोदन्तान्खदिरः कण्टकानिव || १५ || अत्यन्तं विषमाः श्रोतुमप्यशक्या उदन्ताश्चरित्राणि येषाम् || १५ || कलत्रवन्तं संपन्नं स्थितं प्रक्षीणयौवनम् | शनैर्जर्जरतां यातं वृष्टिहीनमिव स्थलम् || १६ || ततो भूतग्रहग्रामजन्मदेशमुपेत्य तम् | संस्थितं मठिकां पर्णैः कृत्वा दूरे मुनीन्द्रवत् || १७ || भूतग्रहो भूतमण्डलाख्यो देशस्तदीयग्रामसंबन्धिनीं जन्मभूमिमुपेत्य दूरे तालादिपर्णैर्मठिकां कुटीं कृत्वा स्थितम् || १७ || जराजरठतां यातं स्वदेहसमपुत्रकम् | जीर्णप्रायरसश्वभ्रतमालतरुसंनिभम् || १८ || स्वदेहसमप्रमाणाः पुत्रा यस्य | जीर्णप्राया रसा यस्य तथाविधेन श्वभोर्त्पन्नतमालतारुणा संनिभं सदृशम् || १८ || प्रौढं श्वपचगार्हस्थ्यं कुर्वाणं बहुबान्धवम् | क्रूरनामार्थवचनं परां वृद्धिमुपागतम् || १९ || क्रूराणि नामान्याख्या अर्थाः क्रियावचनानि च यस्य | परां कुटुम्बवृद्धिमुपागतं स्वं अपश्यदिति | एतदन्तानां सर्वविशेषणानां परेणान्वयः || १९ || अथापश्यदसौ गाधिर्यावत्तस्य कलत्रिणः | जरठः श्वपचेभ्यश्च स्वात्मनो भ्रमहारिणः || २० || अन्येभ्यः श्वपचेभ्यो जरठोऽसौ गाधिः | अथानन्तरं भ्रमहारिणः भ्रान्तिमेवानुवर्तमानस्य कलत्रिणः कुटुम्बिनः स्वात्मनः स्वस्य यावत्कलत्रं कुटुम्बमभूत्तन्मृत्युना आवृत्य अशेषेण निःशेषतया नीतमपश्यदिति द्वयोरन्वयः | यथा आसारसलिलेन वृष्टिजलप्रवाहेण वनपतितशुष्कपर्णगणो नीयते तद्वदित्यर्थः || २० ||
260 SK तत्कलत्रमशेषेण नीतमावृत्य मृत्युना | आसारसलिलेनाशु वनपर्णगणो यथा || २१ || प्रलपत्येक एवासावटव्यां दुःखकर्शितः | वियूथ इव सारङ्गो विगतास्थोऽश्रुलोचनः || २२ || अथासौ जरठ एक एव अटव्यां प्रलपति रोदिति || २२ || दिनानि कतिचित्तत्र नीत्वा शोकपरीतधीः | जहौ स्वदेशं संशुष्कपद्मं सर इवाण्डजः || २३ || अण्डजो हंसादिः || २३ || विजहार बहून्देशाननास्थश्चिन्तयान्वितः | प्रेर्यमाण इवान्येन वातनुन्न इवाम्बुदः || २४ || अन्येन प्रेर्यमाणः पराधीन इव || २४ || एकदा प्राप कीराणां मण्डले श्रीमतीं पुरीम् | खेचरो विहरञ्शून्ये सद्विमानमिवाम्बरे || २५ || कीराणां जानपदानामावासभूते मण्डले | शून्ये अम्बरे विहरन् संचरन् || २५ || नृत्यद्रत्नांशुकच्छन्नमार्गवृक्षलताङ्गनम् | आगुल्पाकीर्णकुसुमं चन्दनागुरुसुन्दरम् || २६ || नृत्यतो रत्नैरंशुकैश्च च्छन्ना मार्गस्था वृक्षा लता अङ्गनाश्च यस्मिंस्तथाविधं राजमार्गमध्यमवापेति परेणान्वयः || २६ || सामन्तैर्ललनाभिश्च नागरैश्च निरन्तरम् | स्वर्गमार्गोपमं राजमार्गमध्यमवाप सः || २७ || निरन्तरं निबिडितम् || २७ || मणिरत्नकृतागारं तत्र मङ्गलहस्तिनम् | ददर्शामरशैलेन्द्रमिव संचारचञ्चलम् || २८ || मणिरत्नैर्मणिश्रेष्ठैः कृतागारं कृताश्रयं कृतजालकम् | शैलेन्द्रपक्षे कृतदेवसदनम् | अमरशैलेन्द्रं मेरुम् || २८ || मृते राजनि राजार्थं विहरन्तमितस्ततः | रत्नज्ञमिव रत्नार्थं चिन्तामणिदिदृक्षया || २९ || इतस्ततो विहरन्तं संचरन्तम् | रत्नज्ञं रत्नपरीक्षाकुशलं पुरुषम् || २९ || तमसौ श्वपचो नागं कौतुकोद्धुरया दृशा | चिरमालोकयामास स्पन्दयुक्ताचलोपमम् || ३० || असौ श्वपचः || ३० || आलोकयन्तमादाय तं करेण स वारणः | स्वकटेऽयोजयन्मेरुस्तटेऽर्कमिव सादरम् || ३१ || स्वस्य कटे गण्डस्थले अयोजयत् आरोहयामास || ३१ || तस्मिन्कटगते ने दुर्जयदुन्दुभयोऽभितः | कल्पाम्बुद इवाकाशमधिरूढे महार्णवाः || ३२ ||
261 SK महान्तोऽर्णवाः समुद्रा इव || ३२ || पूरिताशो बभौ राजा जयतीति जनस्वनः | उदभूत्संप्रबुद्धानां विहगानामिवारवः || ३३ || आशा दिशो मनोरथाश्च || ३३ || उदभूद्बन्दिवृन्दानां घनकोलाहलस्ततः | वेलाविलुलिताम्बूनामम्बुधीनामिव ध्वनिः || ३४ || तं तत्रावरयामासुर्मण्डनार्थं वराङ्गनाः | क्षीरोदगतविभ्रान्ता लहर्य इव मन्दरम् || ३५ || आवरयामासुः परिवव्रुः | क्षीरोदस्य गतेन मथनकृतक्षोमेण विभ्रान्ताः || ३५ || मानिन्यस्तं गुणप्रोतैर्नानारत्नैरपूरयन् | नानाप्रभाप्रभातार्का वेला इव तटाचलम् || ३६ || गुणेषु सूत्रेषु प्रोतैर्ग्रथितैर्मालाभुतैरिति यावत् | नानावर्णमणिषु प्रतिबिम्बनात्तत्तत्प्रभाभिः प्रभातोऽर्को यासु तथाविधाः वेलाः स्वतटस्थमचलं गिरिमिव || ३६ || तुषारशिशिरस्पर्शैस्तास्तं हारैरभूषयन् | श्यामा वननदीपूरैर्वर्षाः शृङ्गमिवोत्तमम् || ३७ || श्यामाः युवत्यः | वर्षाः वृष्टयो वननदीनां पुरैस्तन्मध्यपतितं गिरिशृङ्गमिव || ३७ || विचित्रवर्णसौगन्ध्यैः पुष्पैरावलयन्स्त्रियः | अनं मधुश्रिय इव तं लोलकरपल्लवाः || ३८ || नानावर्णरसामोदैस्तास्तमाशु विलेपनैः | अलेपयन्प्रभाजालैर्नगोऽभ्रमिव धातुभिः || ३९ || नगो गिरिर्धातुभिर्लक्षणया धातुसंबन्धिभिः प्रभाजालैरभ्रमाकाशं मेघमिव वा || ३९ || रत्नकाञ्चनकान्तोऽसावाददे चित्तमाततम् | संध्याभ्रतारेन्दुनदीव्याप्तं मेरुरिवाम्बरम् || ४० || रत्नकाञ्चनभूषणैः कान्तो भूषितोऽसौ राजा चित्तमाददे तासामिति शेषः || ४० || भूषितः सविलासाभिर्बालवल्लीभिरावृतः | रत्नपुष्पांशुकाकीर्णः कल्पवृक्ष इवाबभौ || ४१ || तादृशं तमुपाजग्मुः परिवारसमन्विताः | सर्वाः प्रकृतयः फुल्लं मार्गद्रुममिवाध्वगाः || ४२ || ता एनमासने सैंहे तत्राभिषिषिचुः क्रमात् | तस्मिन्नेव गजे शक्रमैरावत इवामराः || ४३ || ता प्रकृतयः सैंहे आसने उपवेश्य क्रमाद्ब्राह्मणादिवर्णक्रमादभिषिषिचुः | अभिषिच्य च तस्मिन्प्रागुक्ते गजे उपवेश्यानुजग्मुरित शेषः || ४३ ||
262 SK एवं स श्वपचो राज्यं प्राप कीरपुरान्तरे | आरण्यं हरिणं पुष्टमप्राणमिव वायसः || ४४ || कीरीकरतलाम्भोजप्रमृष्टचरणाम्बुजः | सर्वाङ्गे कुङ्कुमालेपैः संध्याम्बुधरशोभनः || ४५ || जज्वाल कीरनगरे नागरीगणवानसौ | सिंहीगणयुतः सिंहो यथा कुसुमिते वने || ४६ || हरिहतकरिकुम्भोन्मुक्तमुक्ताकलाप- प्रविरचितशरीरः शान्तचिन्ताविषादः | अरमत सह सद्भिस्तत्र भोगैः सरस्यां रविकरमदतप्तो वारिपूरैरिवेभः || ४७ || हरिणा सिंहेन हताद्विदारितात्करिकुम्भादुन्मुक्तानां मुक्ताफलानां कलापैः प्रविरचितं भूषितं शरीरं यस्य | शान्ताः प्राक्तन चिन्ता विषादाश्च यस्य तथाविधः संस्तत्र नगरे सद्भिर्मन्त्रिपौरादिभिः सह भोगैररमत रेमे | यथा रविकरैर्मदेन च तप्त इभः सरस्यां वारिपूरै रमते तद्वत् || ४७ || परिविसृतनृपौजाः सर्वदिक्संस्थिताज्ञः कतिपयदिवसेहासिद्धदेशव्यवस्थः | प्रकृतिभिरलमूढाशेषराजन्यभारः स गवल इति नाम्ना तत्र राजा बभूव || ४८ || परितो विसृतं प्रसृतं नृपौजो राजशक्तिर्यस्य | अत एव सर्वदिक्षु संस्थिता आज्ञा यस्य | कतिपयदिवसैरीहया स्वेच्छयैव सिद्धा राज्यव्यवस्था यस्य स श्वपचो गवल इत्यभिनवेन नाम्ना प्रसिद्धस्तत्र कीरदेशे राजा बभूवेत्यर्थः || ४८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे गाथिवृत्तान्ते श्वपचराज्यलाभो नाम पञ्चचत्वारिंशः सर्गः || ४५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे श्वपचराज्यलाभो नाम पञ्चचत्वारिंशः सर्गः || ४५ || षट्चत्वारिंशः सर्गः ४६ श्रीवसिष्ठ उवाच | विलासिनीभिर्वलितो मन्त्रिमण्डलपूजितः | वन्दितः सर्वसामन्तैश्छत्रचामरलालितः || १ || इह तं श्वपचाच्छ्रुत्वा श्वपचं ज्वलनं जने | प्रविष्टे सोऽपि निर्दग्धः प्रबुद्धो गाधिरीर्यते || १ || विलासिनीभिर्वलित इत्यादिविशेषणः स विस्मृतात्मस्वभावोऽभूदिति तृतीयेनान्वय्ः || १ ||
263 SK सिद्धानुशासनः कान्तो ज्ञातराज्यगुणक्रमः | वीतशोकभयायासप्रज्ञः [प्रजः इति साधीयानत्र] प्राप्तमहादशः || २ || सिद्धमप्रतिहतमनुशासनमाज्ञापनं यस्य | वीतशोकभयायासाः प्रजा यस्य || २ || विस्मृतात्मस्वभावोऽभूदनिशं स्तवमङ्गलैः | आनन्दपूर्णया वृत्त्या भृशं क्षीब इवासवैः || ३ || क्षीणो मत्त इव || ३ || कीरेषु श्वपचो राज्यं वर्षाण्यष्टौ चकार ह | आर्यवृत्तमशेषेण तावत्कालं बभार ह || ४ || आर्यवृत्तं दयादाक्षिण्यशौचादि || ४ || यदृच्छयैकदाथासावतिष्ठत्त्यक्तभूषणः | अतमस्तारकेन्द्वर्कतेजोऽम्भोदमिवाम्बरम् || ५ || न विद्यन्ते तमस्तारकेन्द्वर्कतेजांस्यम्भोदाश्च यस्मिंस्तथाविधमम्बरमिव सर्वतो नीलः || ५ || वह्वमन्यत नो हारकेयूरवलयान्यसौ | प्रभुताबृंहितं चेतो नाहार्यमभिनन्दति || ६ || किमर्थं त्यक्तभूषणस्तत्राह - बह्विति | प्रभुतया बृंहितमुपचितम् | आहार्य कृत्रिमं भूषणादि नाभिनन्दति || ६ || एक एवाजिरं बाह्यं तादृग्वेषः स निर्ययौ | मुख्याङ्गं णान्नभोभागादस्तं गच्छन्निवांशुमान् || ७ || आन्तरान्मुख्यजनाश्रितादङ्गणाद्बाह्यं नीचजनसाधारणमजिरमङ्गणं निर्ययौ | यथा अस्तं गच्छन्गमिष्यन्नंशुमान्मुख्याद्गगनाङ्गणात्प्रान्तनभोभागं निर्याति तद्वत् || ७ || तत्रापश्यद्धनं श्यामं पीनं श्वपचपेटकम् | गायन्मृदु वसन्तोत्थं कोकिलानामिव व्रजम् || ८ || श्वपचानां पेटकं संघम् | मृदु मधुरं गायत् || ८ || धुनानं वल्लकीतन्त्रीं करपल्लवलीलया | मृदुरेफं रणद्रेफामलिश्रेणिमिव द्रुमम् || ९ || वल्लक्या वीणायास्तन्त्रीं गुणम् | मृदुरेफं मृदुस्वरम् | द्रुमं धुनानां कम्पयन्तीम् | रणन्तो रेफाः पक्षा यस्यास्तथाविधामलिश्रेणिं भ्रमरपङ्क्तिमिव || ९ || एकस्तस्मात्समुत्तस्थौ जरावान्रक्तलोचनः | काचशृङ्गहिमापूर्णमिव श्वपचनायकः || १० || हिमैरापूर्णं काचमयं गिरेः शृङ्गमिव स्थितः श्यामो धूलिधूसर इति यावत् || १० ||
264 SK भो कटंजेति सहसा वदन्कीरमहीपतिम् | इह राजा भवन्तं वा कच्चिद्गेयक्रियाविदम् || ११ || कटंजेति पूर्वनाम्ना वदन् संबोधयन् || ११ || रक्तकण्ठं मानयति रागवानिव कोकिलम् | आपूरयति वा कच्चिद्गृहवस्त्रासनार्पणैः || १२ || रक्तकण्ठं मधुरकण्ठध्वनिम् | मानयति बहुमन्यते किम् | रागवान् स्वरवित् कान्ताद्यनुरागवान्वा | गृहस्य वस्त्रासनानां चार्पणैर्दानैः || १२ || मधू रसालविटपं फलपुष्पभरैरिव | दर्शनेन तवाद्याहं परां निर्वृतिमागतः || १३ || मधुर्वसन्तः | रलोपे दीर्घः | निर्वृतिं सुखम् || १३ || पद्मं सूर्योदयेनेव चन्द्रोदय इवौषधी | आनन्दानामशेषाणां लाभानां महतामपि || १४ || विश्रामाणामनन्तानां सीमान्तो बन्धुदर्शनम् | श्वपचे प्रवदत्येवं राजा यावत्तया तया | वकार तत्कालजया चेष्टयैवावधीरणम् || १५ || सीमान्तः परमावधिः | सीमन्तः केशवेशे इत्युक्तेः पररूपाभावः | अवधीरणं तिरस्कारं तद्व्याजेन गूहनमिति यावत् || १५ || तावद्वातायनगताः कान्ताः प्रकृतयस्तथा | श्वपचोऽयमिति ज्ञात्वा म्लानतामलमाययुः || १६ || अलमत्यन्तम् | म्लोआनतां क्षीणहर्षताम् || १६ || पद्मास्तुषारप्रावृष्ट्या ग्रामाः सावग्रहा इव | दाववन्त इवाद्रीन्द्रा नागरा न विरेजिरे || १७ || तुषारैः प्राति पूरयतीति तया तुषारप्रावृष्ट्या | इवेत्यत्रापि संबध्यते | प्रा पूरणे इत्यस्मात्क्विपि तृतीयैकवचने आतो धातोः इत्यालोपः | सावग्रहा अनावृष्टिपीडिताः दवे भवो दावोऽग्निस्तद्वन्त इव || १७ || नृपोऽवधीरयामास तां तां श्वपचसंकथाम् | वृक्षाग्रगतमार्जारफेत्कारं मृगराडिव || १८ || अवधीरयामास निर्भर्त्सयामास | संकथां संभाषाम् || १८ || सत्वरं प्रविवेशान्तःपुरमाम्लानमानवम् | राजहंस इवावर्षे सीदत्सरसिजं सरः || १९ || सीदत्सरसिजं शुध्यत्पङ्कजम् || १९ || सर्वावयवविश्रान्तां म्लानतामयमाययौ | जानुस्तम्भान्तरमहारन्ध्राग्निरिव दुर्द्रुमः || २० ||
265 SK सर्वेष्ववयवेषु विश्रान्तां व्याप्ताम् | जान्विव स्तभ्राति विष्टभ्रोतीति जानुस्तम्भो मूलभागस्तदन्तरालस्थे महारन्ध्रे कोटरे अग्निर्यस्य | दुर्द्रुमः शाल्मल्यादिः || २० || तत्रापश्यदसौ सर्वं विषण्णवदनं जनम् | जालं कुङ्कुमपुष्पाणां भुक्तमूलमिवाखुना || २१ || जालपदेन पुष्पजालास्पदं गुल्मं [गुल्मं इति क्वचिन्न पठ्यते] गृह्यते | आखुना मूषकेण भुक्तमूलं खण्डितमूलम् || २१ || मन्त्रिणो नागरा नार्यस्ततस्ते तं महीपतिम् | नास्प्राक्षुरपि तिष्ठन्तं गृह एव शवं यथा || २२ || गृहे एव तिष्ठन्तमपि नास्प्राक्षुर्न स्पृष्टवन्तः || २२ || भृत्याश्चाकृतसत्कारं दूर एनमथात्यजन् | दुःखयुक्ता घनस्नेहा अपि बालाः शवं यथा || २३ || अनानन्दमुखं श्यामं शरीरं श्रीविवर्जितम् | दग्धं स्थलमिवैनं ते वह्वमन्यन्त नाकुलाः || २४ || दग्धं स्थलं श्मशानदेशमिव || २४ || धूमायमानदेहस्य परितापदशावती | नाढौकतास्य जनता पार्श्वमग्निर्गिरेरिव || २५ || जनता जनसमूहोऽस्य पार्श्वं नाढौकत नासर्पत | गिरेः पार्श्वं वप्रशिलाभागमग्निरिव || २५ || मन्दोत्साहाः समुद्भूताः सभ्यसंघातवर्जिताः | न तदाज्ञाः पदं प्रापुर्भस्मनीवाम्बुविप्रुषः || २६ || स आज्ञाशक्त्या तां कुतो न वशीचकार तत्राह - मन्दोत्साहा इति | सभ्यैर्भटादिसंघातैश्च वर्जिता उपेक्षितास्तदाज्ञाः पदं विषयमाज्ञापनयोग्यं पुरुषं न प्रापुः || २६ || क्रूरकर्मकराकारात्संगताशुभदायिनः | तस्माद्विशेषेण जना राक्षसादिव दुद्रुवुः || २७ || संगतेन अशुभस्य पापस्य वधादेश्च दायिनः | राक्षसादिव भीता इति शेऽः || २७ || एक एव बभूवासौ जनमध्यगतोऽपि सन् | अर्थादिगुणनिर्मुक्तः परदेश इवाध्वगः || २८ || अर्था धनानि | आदिपदात्स्वजनसुहृदादयो गृह्यन्ते || २८ || भृशमालपतेऽप्यस्मै नालापं नागरा ददुः | मुक्ताजालयुतायापि कीचकायाध्वगा इव || २९ || वेणूनामपि मुक्ताकरत्वान्मुक्ताजालयुताय वायुना कूजते कीचकाय वेणुजातिभेदाय || २९ ||
266 SK अथ सर्वे वयं दीर्घकालं श्वपचदूषिताः | प्रायश्चित्तैर्न शुद्ध्यामः प्रविशामो हुताशनम् || ३० || इति निर्णीय नगरे नागरा मन्त्रिणस्तथा | अभितो ज्वालयामासुश्चिताः शुष्केन्धनैधिताः || ३१ || शुष्कैरिन्धनैरेधिता वर्धिताः || ३१ || ज्वलितास्वभितस्तासु तारकास्विव खे तदा | बभूव नगरं सर्वमाक्रन्दपरमानवम् || ३२ || तारकास्विव ज्वलितासु दीप्यमानासु सतीषु | अकर्मकत्वात्कर्तरि क्तः | नगरपदेन तत्स्था जना लक्ष्यन्ते || ३२ || करुणारावमुखरैः कलत्रिर्बाष्पवर्षिभिः | अवष्टब्धं ज्वलत्कुण्डोपान्तमन्दरुदत्प्रजम् || ३३ || तदेव नगरं वर्णयति - करुणेत्याद्यष्टभिः | अवष्टब्धं कराद्यवलम्बेन विष्टब्धम् | ज्वलतां कुण्डानामुपान्ते मन्दा व्यामूढा रुदन्तश्च प्रजा यत्र || ३३ || अग्निकुण्डप्रविष्टानां मन्त्रिणां भृत्यरोदनैः | रुदत्क्रन्दद्दृढतरमरण्यमिव मारुतैः || ३४ || रुदत् अश्रून्विमुञ्चत् | क्रन्दत् आक्रुशदिति भेदः | मारुतैः सावश्यायझञ्झानिलैः || ३४ || चितादीपितविप्रेन्द्रमांसमांसलगन्धया | जातनीहारमुत्पातवात्ययावकरोद्धतैः || ३५ || चितास्वादीपितानां विप्रेन्द्राणां मांसैर्मासल उपचितो गन्धो यस्यास्तया वात्यया अवकरेभ्य उत्करेभ्य उत्थितै रजोभिर्जातनीहारमुद्भूतमिहिकमिव स्थितम् || ३५ || वक्रैर्व्योभाभवच्छन्नभास्करं जलदैरिव || ३६ || वातेन दीर्घैर्दूरप्रसृतैर्वसागन्धैर्दूरादानीतैः खगैः पक्षिभिः पिशाचादिभिश्चोर्जितैस्तेषां चक्रैर्मण्डलैर्जलदैश्च्छन्नभास्करं व्योमेव नगरमभवत् || ३६ || वातोद्धूतचितावह्निप्रज्वलद्व्योममण्डलम् | उड्डीनाग्निकणव्राततारासारदिगन्तरम् || ३७ || प्रमत्ततस्करक्रन्दद्वेल्लद्बालकुमारकम् | संत्रस्तनागरापास्तजीविताख्यमसंस्थिति || ३८ ||
267 SK पुनः कीदृशं तदभवत्तदाह - प्रमत्तेति | प्रमत्तैरुद्धतैस्तस्करैर्भूषणाद्यपहारकाले क्रन्दन्तो वेल्लन्तः कम्पन्तो बालाः कुमारा ईषत्प्रौढाश्च यत्र | संत्रस्तैर्नागरैरपास्तं त्यक्तं जीवितं आख्या स्वनाम च यत्र | असंस्थिति निर्मर्यादम् || ३८ || अलक्षितगृहं चौरलुण्ठिताखिलसंचयम् | त्यक्तपुत्रकलत्रं तन्मरणव्यग्रनागरम् || ३९ || मरणाय व्यग्रास्त्वरमाणा नागरा यत्र तथाविधमभवदित्यनुषज्जते || ३९ || तस्मिंस्तथा वर्तमाने कष्टे विधिविपर्यये | अशेषजनताशेषकल्पान्तसदृशस्थितौ || ४० || राज्यसज्जनसंपर्कपवित्रीकृतधीरधीः | गवलश्चिन्तयामास शोकेनाकुलचेतनः || ४१ || मदर्थे हि कदर्थोऽयं देशेऽस्मिन्स्थितिमागतः | अकालकल्पान्तमयः सर्वनायकनाशनः || ४२ || अयं कदर्थोऽनर्थः || ४२ || किं मे जीवितदुःखेन मरणं मे महोत्सवः | लोकनिन्द्यस्य दुर्जन्तोर्जीवितान्मरणं वरम् || ४३ || इति निश्चित्य गवलो ज्वलिते ज्वलने पुनः | पतङ्गवदनुद्वेगमकरोदाहुतिं वपुः || ४४ || वपुः स्वशरीरं ज्वलितेऽनले आहुतिमकरोत् || ४४ || तस्मिन्बलाद्गवलनाम्नि हुताशराशौ देहे पतत्यवयवाकुलतां प्रयाते | स्वाङ्गावदाहदहनस्फुरणानुरोधा- दन्तर्जले झटिति बोधमवाप गाधिः || ४५ || तस्मिन् गवलनाम्नि देहे निर्वेदबलाद्धुताशराशौ पतति सति स्वाङ्गानां हस्तपादादीनामवदाहे दहने यानि स्फुरणानि संचलनानि तदनुरोधादघमर्षणं कुर्वन्गाधिरन्तर्जले झटिति बोधमवापेत्यर्थः || ४५ || श्रीवाल्मीकिरुवाच | इत्युक्तवत्यथ मुनौ दिवसो जगाम सायंतनाय विधयेऽस्तमिनो जगाम | स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम || ४६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो उपशमप्रकरणे गाधिवृत्तान्ते राज्यभ्रंशो नाम षट्चत्वारिंशः सर्गः || ४६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे राज्यभ्रंशो नाम षट्चत्वारिंशः सर्गः || ४६ || || द्वादशो दिवसः ||
268 SK सप्तचत्वारिंशः सर्गः ४७ श्रीवसिष्ठ उवाच | मुहूर्तद्वितयेनाथ गाधिराधिभवभ्रमात् | प्रशशामाकुलीभावो वेलावर्त इवाम्बुधेः || १ || गाधिः स्वमतिथेः [स्वप्नमिव स्मृत्वेति पाठः] श्रुत्वा तत्कीरनृपचेष्टितम् | गत्वा दृष्ट्वा मुहुः पृष्ट्वा विस्मितोऽभूदितीर्यते || १ || आधिरूपात्प्रागुक्तभवभ्रमात्प्रशशाम | आकुलीभवत्यस्मिन्नित्याकुलीभावः | अधिकरणे घञ | वेलासन्निहित आवर्त इव || १ || मनोनिर्माणसंमोहात्तस्मात्स विरराम ह | कल्पान्तसमये ब्रह्मा जगद्विरचनादिव || २ || बोधमाप शनैः शान्तः स्वमेवोन्निद्रधीरिव | क्षीबतायां प्रशान्तायां यथा परिणताशयः || ३ || स्वं प्राक्तनगाध्यहंभावलक्षणं बोधमाप | उन्निद्रा व्यपेतनिद्रा धीर्यस्य स इव | क्षीबतायां मदिरादिमदे | परिणताशयः स्वच्छचित्तः || ३ || अयं सोऽहमिदं कार्यमिदं नेति ददर्श ह | निशाव्यपगमे लोको यथा क्षीणे तमःपटे || ४ || यो जले स्नानायावतीर्णः सोऽयं गाधिरहम् | स्नानशेषतर्पणादिकृत्यं मे कार्यम् | इदं प्राग्दृष्टचण्डालराज्यादि न कार्यम् | लोको जनो यथा पश्यति तद्वत् || ४ || स्मृतस्वरूपोऽथ पदमुद्दध्रे स जलान्तरात् | शिशिरान्ते प्रवृत्तास्यं सरोजमिव माधवः || ५ || पदं पादमुद्दध्रे उद्धृतवान् | शिशिरान्ते शीतापगमे प्रवृत्तास्यं संजातमुकुलमुखम् | माधवो वसन्तः || ५ || एतद्वारिककुब्ब्व्योमवतीं वसुमतीमिमाम् | अन्यामिव पुनः पश्यन्विस्मयं परमं ययौ || ६ || एषा चासौ वारिककुब्व्योमवती चेति वा एतैः परिदृश्यमानैर्वार्यादिभिस्तद्वतीमिति वा विग्रहः || ६ || कोऽहं किमिव पश्यामि किमकार्षमहं किल | एवं विचारयंश्चितं सभ्रूभङ्गमभूत्क्षणम् || ७ || सभ्रूभङ्गं एवमन्तर्विचारयन्नभूत् || ७ || श्रान्तस्तत्क्षणमात्रेण संभ्रमं दृष्टवानहम् | इति विज्ञाय सलिलादुदस्थादुदयार्कवत् || ८ || तत्तस्माच्छ्रान्तिवशात् क्षणमात्रेण | संभ्रमं महाभ्रमम् | उदस्थात् | लुङि गातिस्था इति सिचो लुक् | उदयो गिरिः कालो वा तत्रत्यार्कवत् || ८ ||
269 SK चिन्तयामास च तटे क्व सा माता क्व सा प्रिया | यदाहं मृतिमायातो मध्ये मातृमहेलयोः || ९ || चिन्ताप्रकारमेव दर्शयति - क्वेत्यादिना | महिलाशब्दस्यैव महेलेति च्छान्दसो गुणः || ९ || बालस्य मातापितरौ नष्टौ किल ममामतेः | वातनीतस्य पत्रस्य वल्लीवृक्षमिवासिना || १० || अमतेः अप्रौढचित्तावस्थस्य | वातनीतस्य पत्रस्य पर्णस्य मातापितृस्थानीयं वल्लिवृक्षं असिनेव मृत्युना नष्टौ || १० || अविवाहोऽस्मि जानामि न स्वरूपमपि स्त्रियः | दुष्टायाः क्षोभकारिण्या मदिराया इव द्विजः || ११ || द्विजो विप्रो मदिरायाः स्वरूपं रसमिव || ११ || अतिदूरतरीभूताः स्वदेशस्य स्वबान्धवाः | के नाम मम येषां ते मध्ये जीवं त्यजाम्यहम् || १२ || स्वदेशस्य जन्मभूमेः | स्वा बान्धवाः ज्ञातयः | येषां मध्ये अहं जीवं त्यजामि मरणं दृष्ट्वानस्मि ते के नामेति संबन्धः || १२ || तस्मादेतत्समुद्भूतमहं किं नाम दृष्टवान् | विविधारम्भसंरम्भं गन्धर्वनगरं यथा || १३ || विविधं आरभ्यत इत्यारम्भं पदार्थजातं संरम्भं जन्माद्यभिनिवेशं च किं नाम दृष्टवान् || १३ || तदास्तामेतदेषा हि बन्धुमध्ये मृतस्थितिः | मायामोहे मनागस्मिन्न सत्यमुपलभ्यते || १४ || स्वप्नस्येव बाधान्मिथ्यात्वं निश्चित्योपेक्षते - तदास्तामिति | तत्तस्मादेषा भ्रान्तिरास्तां नामेत्यर्थः || १४ || नित्यमेवमनन्तासु भ्रान्तिदृष्टिषु देहिनाम् | चेतो भ्रमति शार्दूलो वनराजिष्विवोन्मदः || १५ || अवधार्येति तं चित्ते मोहं गाधिर्निनाय सः | दिनानि कतिचित्तस्मिन्स्वक एवाश्रमे तदा || १६ || स्वक एवाश्रमे कतिचिद्दिनानि निनाय || १६ || एकदा गाधिमगमत्कश्चित्तत्र प्रियोऽतिथिः | ब्रह्माणमिव दुर्वासाः स विशश्राम सश्रमः || १७ || कृशत्वात्सश्रमः सोऽतिथिस्तदाश्रमे विशश्राम विश्रान्तिमकरोत् | सायमुवासेति यावत् || १७ || परमां तुष्टिमानीतः फलपुष्परसाशनैः | सोऽतिथिर्गाधिना तेन वसन्तेनेव पादपः || १८ || तुष्टिं तृप्तिम् || १८ ||
270 SK मिथो वन्दितसंध्यौ तौ कृतजाप्यावुभावपि | क्रमाच्छयनमासाद्य तस्थतुर्मृदुपल्लवम् || १९ || ततः प्रावर्तते [प्रावर्तत इति छेदः] शान्ता तयोस्तापसयोः कथा | स्वव्यापारोचिता पुष्पश्रीरिवर्तुत्वमाशयोः || २० || स्वस्वतपोध्यानादिव्यापाराणामुचिता अनुरूपा कथा प्रावर्तत | ई [प्रावर्तत ई इति छेदः] इति खल्वर्थे निपातः | शान्ता शान्तिरसप्रधाना | स्वक्रियया ऋतूनामृतुत्वं मिनोति परिच्छिनत्तीति ऋतुत्वमः सूर्यस्तस्य आशाया उत्तरदिशश्च योगे वसन्ते तदुचिता पुष्पश्रीरिव || २० || तं पप्रच्छातिथिं गाधिः प्रसङ्गपतितं वचः | किं ब्रह्मन्सुकृशाङ्गस्त्वं किमिति श्रमवानसि || २१ || तयोर्वार्ताप्रसङ्गपतितम् || २१ || अतिथिरुवाच | ममातिकार्श्यश्रमयोर्भगवन् शृणु कारणम् | कथयामि तथाभूतं वयं नासत्यवादिनः || २२ || वयं | अस्मदो द्वयोश्चेति बहुवचनम् || २२ || अस्त्यस्मिन्वसुधापीठे उत्तराशानिकुञ्जके | कीरो नामातिविख्यातः श्रीमाञ्जनपदो महान् || २३ || तत्राहमवसं मासं पूज्यमानः पुरे जनैः | नानात्मस्वादलोलात्मा चित्तवेतालमोहितः || २४ || नानाविधा आत्मनः स्वदन्ते रोचन्त इति नानात्मस्वादा भोज्यभेदास्तेषु लोभो गार्ध्यं तदात्मा तत्प्रधानः सन् | कुतस्त्वमेवमभूस्तत्राह - चित्तेति || २४ || एकदैकेन तत्रोक्तं कथाप्रस्तावतः क्वचित् | इहाभूच्छ्वपचो राजा वर्षाण्यष्टौ द्विजेति मे || २५ || ततो ग्रामेषु तत्पृष्टैः प्रोक्तं सकलजन्तुभिः | राजा बभूव श्वपचो वर्षाण्यष्टाविहेति तैः || २६ || सोऽयमन्ते परिज्ञातः प्रविष्टो ज्वलनं जवात् | ततो द्विजशतानीह प्रविष्टानि हुताशनम् || २७ || स श्वपचः | अन्ते अष्टमवर्षान्ते || २७ || इति तेषां मुखाच्छ्रुत्वा तस्मान्निर्गत्य मण्डलात् | प्रयागेऽकरवं शुद्ध्यै प्रायश्चित्तमहं द्विज || २८ || शुद्ध्यै तद्देशवासदोषशान्त्यै || २८ || कृत्वा चान्द्रायणस्यान्ते तृतीयस्याद्य पारणम् | इहाहमागतस्तेन श्रान्तोस्म्यतिकृशोस्मि च || २९ || श्रीवसिष्ठ उवाच |
271 SK इति श्रुतवता तेन गाधिना स तदा द्विजः | भूयः पृष्टोऽप्येतदेव कथयामास नान्यथा || ३० || अथ विस्मयवान्गाधिस्तां नीत्वा तत्र शर्वरीम् | जगद्गेहमहादीपे रवावुदयमागते || ३१ || अथ गाधिः रवौ उदयमागते स्वातिथौ आपृच्छ्य गते सति विस्मयेनोद्धुरया गरीयस्या धिया इदं वक्ष्यमाणं संचिन्तयामासेति परेण संबन्धः || ३१ || कृतप्रात्तःस्नानविधावापृच्छय स्वातिथौ गते | इदं संचिन्तयामास विस्मयोद्धुरया धिया || ३२ || यन्मया संभ्रमे दृष्टं सत्यभूतं द्विजेन तत् | उक्तं ममेति किं नाम स्यान्मायाशम्बाक्रमः || ३३ || मया यत्संभ्रमे भ्रान्तिदशायां दृष्टं तद्द्विजेनातिथिना सत्यभूतमुक्तं मम इति एवंरूपमिदं किं मायालक्षणः शम्बरस्यासुरस्य रचनाक्रमः स्यात् | संभावनायां लिङ || ३३ || य *? धुमध्ये मरणं मया तद्दृष्टमात्मनः | सा मायैव न संदेहः शेषं पश्यामि तस्य तम् || ३४ || सा माया मिथ्यैव तत्र न संवादो द्रष्टुं शक्यः | शेषमवशिष्टं तस्यातिथेश्चान्द्रायणनिमित्तं तमात्मश्वपचोदन्तं पश्यामि द्रक्ष्यामीत्यर्थः || ३४ || तदात्मश्वपचोदन्तं द्रष्टुं तावदखिन्नधीः | भूतमण्डलपर्यन्तग्रामं गच्छामि सत्वरम् || ३५ || तदेवाह - तदिति | तस्य तदवस्थस्यात्मनः श्वपचस्य उदन्तं वृत्तान्तम् || ३५ || इति संचिन्तयन्गन्तुं मण्डलान्तरमादरात् | उत्तस्थौ भास्करः पार्श्वं मेरोर्द्रष्टुमिवोद्यतः || ३६ || इति संचिन्तयन् गाधिर्मण्डलान्तरं द्रष्टुमुत्तस्थौ | उद्यत उद्युक्तः || ३६ || मनोराज्यमपि प्राज्ञा लभन्ते व्यवसायिनः | गाधिना स्वप्नसंदृष्टं गत्वा लब्धमखण्डितम् || ३७ || तत्कथं द्रष्टुं शक्यमिति चेत्पुरुषप्रयत्नस्यालभ्यं नास्तीत्याह - मनोराज्यमिति || ३७ || सर्वमध्यवसायेन दुष्प्रापमपि लभ्यते | पश्यन्गाधिर्जगन्मायां प्रमेयीकर्तुमुद्यतः || ३८ || प्रमेयीकर्तुं चक्षुःप्रमाणगोचरीकर्तुम् || ३८ || विनिर्गत्याभवन्मार्गे प्रावृडोघजवेन सः | देशानुल्लङ्घयामास बहून्वाततुरङ्गवत् || ३९ ||
272 SK स मार्गे प्रावृषि य ओघो जलप्रवाहस्तज्जवेन त्वरमाणोऽभवत् | वात एव तुरंगो वाहनं यस्य मेघस्य तद्वत् || ३९ || तच्चेदृशनिजाचारं भूतमण्डलमागतः | करभः कण्टकार्थ्येकः कारञ्जमिव काननम् || ४० || ईदृशः प्राग्दृष्टप्रकारो निजाचारो यस्मिंस्तद्भूतमण्डलं च प्रथममागतः || ४० || तत्र संवित्स्थितेनैव संनिवेशेन वै पुनः | अपश्यद्ग्रामकं कंचिद्गन्धर्व इव पत्तनम् || ४१ || संविदि बुद्धौ स्थितेनैव स्मर्यमाणेनैव सन्निवेशेन संस्थानविशेषेण स्थितं कंचिद्वामकमपश्यत् || ४१ || ददर्श तस्य पर्यन्ते तमेव श्वपचालयम् | अधस्ताद्भूवनस्येव पाताले नरकव्रजम् || ४२ || चित्तचिन्तितविस्तारं तन्निवेशमयं परम् | गन्धर्ववदसावात्मश्वपचत्वं दृष्टवान् || ४३ || चित्ते चिन्तितो जन्मादिविस्तारो यत्र तथाविधं स प्राग्दृष्टो यो गृहादिनिवेशस्तत्प्रचुरं आत्मनः श्वपचत्वं च लिङ्गैः पुनर्दृष्टवानित्यर्थः || ४३ || तेनैव संनिवेशेन प्राग्दृष्टं श्वपचास्पदम् | तस्य कामपि वैराग्यपदवीमनयन्मनः || ४४ || तच्छ्वपचास्पदं कर्तृ तस्य मनः कामपि वैराग्यपदवीमनयत्प्रापयामास || ४४ || प्रावृडासारलुठितं भित्तिजातयवाङ्कुरम् | पर्यस्तच्छादनार्धाङ्कं किंचिदादृष्टतल्पकम् || ४५ || तदेव वर्णयति - प्रावृडित्यादिना | किंचिदादृष्टं प्रत्यभिज्ञातं तल्पकं शयनकटखण्डादि यस्मिन् || ४५ || दारिद्र्यं तद्दृढमिव दौर्भाग्यमिव कुड्यमत् | भ्रष्टाङ्गमिव दौरात्म्यं दौःस्थित्यमिव खण्डितम् || ४६ || कुड्यमत् भित्त्यवशेषगृहाकारमिति यावत् | यवादित्वादवत्वम् | भ्रष्टाङ्गं स्खलितावयवं चौर्यादिदौरात्म्यमिव | दौःस्थित्यं दुर्दशाम् | खण्डितं छिन्नैकदेशम् || ४६ || गाधिर्दन्तावदलितैर्गवाश्वमहिषास्थिभिः | धवलैर्व्याप्तपर्यन्तं साक्ष्यं कर्तुमिव स्थितैः || ४७ || गाधिश्चिरमालोकयामासेति तृतीयेन संबन्धः || ४७ || भुक्तं पीतं पुरा तेन येषु खर्परकेषु वै | तैरस्पन्दाभ्रसलिलैः पानपूर्णैरिवावृतम् || ४८ ||
273 SK अस्पन्दान्यभ्रसलिलानि [न्यभ्रमसलिलानीति क्वचित्] दैवागतवृष्टिजलानि येषु तैः || ४८ || ताभिरेवान्त्रतन्त्रीभिः संशुष्काभिर्लतावृतैः | तृष्णाभिरिव दीर्घाभिः परितः परिवेष्टितम् || ४९ || लतावृतैर्लतावत्स्तम्भादिपरिवेष्टनैः परितः परिवेष्टितम् | आत्ततन्त्रीभिः इति पाठे लतानामावृतैरावरणैरात्ताभिस्तन्त्रीभिः प्रतानैः परिवेष्टितमित्यर्थः || ४९ || चिरमालोकयामास स तदात्मगृहं जवात् | प्राक्तनं शुष्कशवतां यातं देहमिवात्मवान् || ५० || शुष्कशवप्रायतां यातं स्वदेहमिव | आत्मवान् तत्त्ववित् || ५० || अतिविस्मयमातस्थौ ग्रामकं समुपाययौ | उल्लङ्घ्य म्लेच्छनगरमार्यदेशमिवाध्वगः || ५१ || तत्स्वगृहमुल्लङ्घ्य | तत्समीपस्थं ग्रामकं कुग्रामम् || ५१ || तत्रापृच्छज्जनं साधो कच्चित्स्मरति भो भवान् | प्राग्वृत्तमस्य ग्रामस्य पर्यन्ते श्वपचक्रमम् || ५२ || श्वपचक्रमं श्वपचवृत्तान्तम् || ५२ || सर्व एव हि धीमन्तश्चिरवृत्तमपि स्फुटम् | करस्थमिव पश्यन्ति मयेति सुजनाच्छ्रुतम् || ५३ || पश्यन्ति स्फुटं स्मरन्तीति यावत् || ५३ || अत्र श्वपचमेकान्ते वासिनं वृद्धमुत्तमम् | स्मरस्येनं किमुत भो दुःखानामिव देहकम् || ५४ || यदि जानासि भोः साधो तन्मे कथय तत्त्वतः | पान्थ संशयविच्छेदे महत्पुण्यफलं स्मृतम् || ५५ || भूयो भूय इति ग्राम्याः पृष्टा गाधिद्विजन्मना | अनल्पस्मयसंरम्भमार्तेनेव चिकित्सकाः || ५६ || अनल्पः स्मयो विस्मयः संरम्भः प्रश्नोद्योगश्च यस्मिन्कर्मणीति क्रियाविशेषणम् | आर्तेन रोगार्तेन || ५६ || ग्राम्या ऊचुः | यथा कथयसि ब्रह्मंस्तत्तथा न तदन्यथा | कटंजनामा श्वपच इहाभूद्दारुणाकृतिः || ५७ || पुत्रपौत्रसुहृद्भृत्यबन्धुस्वजनपेटकम् | यस्यातिविस्तीर्णमभूत्पत्रवृन्दं तरोरिव || ५८ || यस्य वृद्धस्य तत्सर्वं कलत्रं मृत्युराच्छिनत् | अद्रेः पुष्पफलोपेतं दावो वनमिवानलः || ५९ || दवे भवो दावः || ५९ ||
274 SK यस्ततो देशमुत्सृज्य ययौ कीरपुरान्तरम् | वर्षाण्यष्टावनुद्वेगं तत्र राजा बभूव सः || ६० || यस्तत्रार्थं परिज्ञाय जनैर्दूरे निराकृतः | यथा राशिरनर्थस्य यथा ग्रामे विषद्रुमः || ६१ || ततो जनेऽग्निं प्रविशत्यात्मना यो हुताशनम् | आर्यतामार्यसंसर्गादागतः प्रविवेश ह || ६२ || किं त्वमेव प्रयत्नेन श्वपचं पृच्छसि प्रभो | किं ते बन्धुरसौ कच्चिदभवस्त्वं स्वतोऽथवा || ६३ || स ते बन्धुः किमभवत् | अथवा त्वं स्वतः स्वयमेव तद्बन्धुरभवः || ६३ || एवं कथयतो ग्राम्यान्गाधिः पृच्छन्पुनःपुनः | सर्वेषु तत्र प्रान्तेषु मासमेकमुवास सः || ६४ || तत्र ग्रामे | सर्वेषु प्रान्तेषु तत्तद्वासयोग्यगृहेष्विति यावत् || ६४ || यथा तेनानुभूतं तच्छ्वापचं तत्तथैव तैः | ग्रामीणैस्तस्य कथितं सर्वैरेवावखण्डितम् || ६५ || अव्याहतं सकलभूतमुखादथैत- दाकर्ण्य सम्यगवलोक्य यथानुभूतम् | गाधिः शशाङ्कमलवद्धृदयेऽधिरूढं गूढाकृतिः परमविस्मयमाजगाम || ६६ || सकलभूतभुखादव्याहतममृषार्थकं वाक्यमाकर्ण्य स्वयं चाबाधितप्रत्यभिज्ञया यथानुभूतमवलोक्य लज्जया गूढाकृतिर्गाधिः शशाङ्कस्येन्दोर्मलवत्कलङ्कमिव स्वहृदये अधिरूढं परमं विस्मयमाजगाम प्रापेत्यर्थः || ६६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते प्रत्यक्षावलोकनं नाम सप्तचत्वारिंशः सर्गः || ४७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे प्रत्यक्षावलोकनं नाम सप्तचत्वारिंशः सर्गः || ४७ || अष्टचत्वारिंशः सर्गः ४८ श्रीवसिष्ठ उवाच | लुठितं श्वपचागारे पुनर्विस्मयमाययौ | गाधेर्मनो हि नायाति तृप्तिमाश्चर्यदर्शने || १ || गाधिना कीरनगरं गत्वा दृष्ट्वा च विस्मयात् | तपसा तोषितो विष्णुः सर्वं मायेत्युवाच तम् || १ || लुठितं परिवृत्तम् | चिरमासक्तमिति यावत् || १ || तत्रावलोकयामास स्थानानि सदनानि च | कल्पक्षोभविवृत्तानि जगन्तीवाम्बुजोद्भवः || २ ||
275 SK कल्पः संवर्तस्तदीये क्षोभे उपप्लवे विवृत्तानि भग्नानि | अम्बुजोद्भवो ब्रह्मा || २ || उवाच स्वात्मनैवेदमरण्ये लुठितालये | शुष्कास्थिमालावलिते पिशाचक इव द्रुमे || ३ || लुठितालये भग्नगृहे | स्वमनस्येव उवाच | द्रुमे श्मशानवृक्षे || ३ || इमास्ता मृतमातङ्गदन्तमाला वृतौ कृताः | अद्यापि संस्थिताः कल्पं प्रतिमेरुशिखा इव || ४ || यदुवाच तदाह - इमास्ता इत्यादिना | वृतौ प्राकारे कृताः शूलवन्निखाता मृतमातङ्गदन्तमालास्ता इमाः | प्रत्यक्षं प्रत्यभिज्ञायन्त इत्यर्थः | कल्पं प्रलयकालं प्रति लक्षीकृत्य मेरोः शिखाः शिखराणीव || ४ || इह तद्वानरीमांसं पक्ववंशाङ्कुरैः सह | भुक्तं पुरासवोन्मत्तैः सह श्वपचबन्धुभिः || ५ || पक्वैर्वशाङ्कुरैः करीरव्यञ्जनेः सह || ५ || आलिङ्ग्य श्वपचश्यामामिह केसरि वर्मणि | सुप्तमापीय मैरेयं तिक्तं गजमदेन च || ६ || केसरिणोऽश्वस्य चर्मणि | गजमदेन तिक्तमित्युक्त्या हस्तिपकात्क्रीतं मैरेयमिति गम्यते | मैरेये मदशक्त्युत्कर्षाय हस्तिपका गजमदमपि मेलयन्तीति प्रसिद्धम् || ६ || कौलेयककुटुम्बिन्यः पिण्याकपलवर्धिताः | इह बद्धा वरत्राभिर्मृतेभरदकाष्ठके || ७ || कौलेयककुटुम्बिन्यः शुन्यः | पिण्याकैः पलैर्मांसैश्च वर्धिताः | वरत्राभिश्चर्मरज्जुभिः || ७ || इह वारणमुक्तानां ददासीत्पिठर त्रयम् | पिनद्धं माहिषेणोग्रचर्मणाम्बुदशोभिना || ८ || वारणमुक्तानां गजमौक्तिकानां पिठरत्रयं उखात्रयप्रमाणं दत् गजदन्तरचितं पात्रमिहास्मिन्स्थले आसीत् || ८ || स्थलीष्वेतासु तास्वत्र सह श्वपचबालकैः | चिरं विलुठितं चूतपत्रपुञ्जे पिकैरिव || ९ || एतासु दृश्यमानासु | तासु पूर्वदृष्टासु | अत्रास्मिन् ग्रामान्ते | विलुठितं पांसुक्रीडास्वित्यर्थः || ९ || अत्र तदालनिःश्वासरणद्वंशप्रवृत्तवत् | गीतं पीतं शुनीरक्तं साधिता शवभूषितः || १० ||
276 SK बालानां निःश्वासैर्मुखवातैः रणतां वंशानां प्रवृत्तं स्वरतालप्रवृत्तिस्तद्वत्तदनुरूपतया गीतम् | शवान् भूषयितुं शीलं यस्येति शवभूषि श्मशानमाल्यचन्दनादि तस्मादिति ततः | साधिता सर्वेषामलंक्रियेति शेषः || १० || अत्र सार्धं कुटुम्बेन जन्यत्रेषु कुटुम्बिना | मृत्तं तत्कृतमुन्नादं कल्लोलैर्जलधाविव || ११ || जन्यत्रेषु विवाहेषु || ११ || अत्रोड्डयनलोलानां काकभासपतत्त्रिणाम् | धृतानामन्यदाशार्थं ग्रथितं वंशपञ्जरम् || १२ || अन्यदा अशनं आशः दिनान्तरे भक्षणं तदर्थम् | दासार्थम् इति पाठे तु दसु हिंसायाम् इत्यस्माद्धम् | दिनान्तरे हिंसनार्थमित्यर्थः || १२ || श्रीवसिष्ठ उवाच | एवंप्रायाः स्मरन्गाधिः प्राक्तनीः श्वपचक्रियाः | विस्मयोत्कम्पितशिरा धातुश्चेष्टां परामृशत् || १३ || परामृशत् तर्कितवान् || १३ || चचाल तस्माद्दीर्घेण देशात्कालेन कार्यवित् | भूतमण्डलमुत्सृज्य प्राप देशान्तरं क्रमात् || १४ || सपुल्लङ्घ्य नदीशैलमण्डलारण्यसंततिम् | तुषाराद्रिकुक्षौ रत्नमिव श्रेष्ठं जनास्पदं जनपदं प्राग्दृष्टकीरदेशमित्यर्थः || १५ || तत्र प्राप महीपालनगरं नगसंनिभम् | जगद्भ्रमणखिन्नात्मा स्वर्लोकमिव नारदः || १६ || नगसंनिभं पर्वतवदुन्नतप्रासादं रत्नाद्याढ्यं च || १६ || अथात्मनानुभूतानि दृष्टान्यसेवितानि च | स्थानानि नगरे पश्यन्पप्रच्छ जनमादृतः || १७ || अनुभूतानि स्वगृहप्रासादादीनि | दृष्टानि परगृहप्रासादादीनि | आसेवितान्यारामस्थानशालादीनि स्थानानि || १७ || साधो स्मरसि किंचित्त्वमिह श्वपचमीश्वरम् | यदि जानासि तत्त्वं मे वर्णयाशु यथाविधि || १८ || यथाविधि विधिं विधानमनतिक्रम्येत्यर्थः || १८ || नागरा ऊचुः | अमूदिहाष्टौ वर्षाणि श्वपचो भूमिपो द्विज | राजत्वमर्पितं यस्य नाम मङ्गलहस्तिना || १९ || नामेति प्रसिद्धौ || १९ || अन्ते च संपरिज्ञातः स प्रविष्टो हुताशनम् | अद्य द्वादशवर्षाणि समतीतानि तापस || २० ||
277 SK यं यं पृच्छत्यसौ गाधिर्जनं जातकुतूहलः | तस्य तस्य मुखादेव शृणोत्यास्वादयत्यपि || २१ || अन्तः स्वप्रत्यभिज्ञासंवादादास्वादयति चमत्कारमनुभवत्यपीत्यर्थः || २१ || अथापश्यत्पुरे तस्मिन्नृपं सबलवाहनम् | देवं चक्रधरं विष्णुं मन्दिरान्निर्गतं बहिः || २२ || तस्य भगवदनुग्रहात्तस्मिन्पुरे राजरूपेण भगवद्दर्शनमभूदित्याह - mandirarādrājasadanādbahirnirgatam || 22 || sa dṛṣṭvā sthagitākāśaṃ calareṇupayodharaiḥ | prāktanīṃ rājatāṃ smṛtvā samuvācāti vismayaḥ || 23 || bāhyavastu darśanavyāmohacittasya tasya dṛṣṭāyāmapi bhagavanmūrtau tatra bhāvo vicāro'pi vā nābhūtkiṃtu prāktaneṣu svānubhūtastrīcchatracāmarādiṣu pratyabhijñākautukeṣveva cittaṃ babhrāmetyāśayenāha - sa iti | calairudgatai reṇulakṣaṇaiḥ payodharairmeghaiḥ sthagitamācchāditamākāśaṃ yena tathāvidhaṃ tatsainyaṃ dṛṣṭvetyarthaḥ || 23 || imāstāḥ kīrakāminyaḥ padmagarbhopamatvacaḥ | kanakadravavarṇinyo lolanīlotpalekṣaṇāḥ || 24 || tā imāḥ pratyabhijñātāḥ kīranṛpateḥ kāminyo veśyāḥ || 24 || cāmaraughā ime candrakarasaṃpiṇḍapāṇḍurāḥ | sthiranirjharasaṃkāśāḥ kāśapuṣpacayā iva || 25 || candrakarāṇāṃ [etadagre saṃpiḍanaṃ iti kvacitpaṭhyate] saṃpiṇḍaḥ piṇḍībhāva iva pāṇḍurāḥ | sthirā mūrtībhāvātsthairyamāpannā ye nirjharā girivāriprapātāstatsaṃkāśāḥ || 25 || kāntābhiravadhūyante bālavyajanararājayaḥ | imāstā vanavallībhirdīpyamānā ivarddhayaḥ || 26 || ṛddhayaḥ puṣpamañjarīsamṛddhaya iva || 26 || imāstā mattamātaṅgaghaṭā ghaṭitadiktaṭāḥ | saṃkalpapādapā meroriva śṛṅgaparamparāḥ || 27 || mattamātaṅgānāṃ ghaṭāḥ saṅghāḥ | ghaṭitā dantāgranirbhinnā diktaṭā yābhistāḥ | saṃbhāvanayātiśayoktiḥ | saṃkalpānusāriphaladāḥ pādapā yeṣu || 27 || ete te yamavārīśakuberapratimaujasaḥ | sāmantā vāsavasyeva lokapālā mahībhṛtaḥ || 28 ||
278 SK वासवस्य यमादयो लोकपाला इव महीमृत एते सामन्ता अवान्तरदेशाधीशाः || २८ || इमास्ताः सर्ववस्त्वोघाः सर्वाभिमतदास्तताः | कल्पवृक्षलताकुञ्जसुन्दर्यो गृहपङ्क्तयः || २९ || सर्वे धनधान्यादिवस्त्वोघा यासु || २९ || इदं तत्कीरजनताराज्यं प्राग्भुक्तमद्य मे | आत्मजन्मान्तराचार एव प्रत्यक्षतां गतम् || ३० || प्राग्भुक्तमद्यजन्मान्तराचारो जन्मान्तरचरित्रमिव प्रत्यक्षतां गतम् || ३० || सत्यं स्वप्न इवायं मे जाग्रद्भूतः पुनः स्थितः | न जाने किंकृतोत्थाना मायेयं प्रविजृम्भते || ३१ || सत्य निश्चितं प्राक्स्वप्न इव दृष्टः पुनर्जाग्रद्भूतः स्थितः | किं केन किमर्थं वा कृतमुत्थानमाविर्भावो यया || ३१ || अहो नु खलु दीर्घेण मनोमोहेन वल्गता | वैवश्यमुपनीतोऽहं जालेनेव शकुन्तकः || ३२ || वैवश्यमस्वाधीनताम् || ३२ || हा धिक्कष्टबुद्धं मे मनो वासनया हतम् | पश्यति भ्रमजालानि विततानि शिशोरिव || ३३ || अबुद्धमप्रबुद्धम् || ३३ || एषा हि माया महती तेन मे चक्रधारिणा | दर्शितेत्यधुना साधु मया स्मृतमखण्डितम् || ३४ || तेन प्राक्प्रसादितेन चक्रधारिणा विष्णुना || ३४ || तदिदानीं तथा यत्नं करिष्ये गिरिकन्दरे | यथा कुसंभ्रमस्यास्य जाने जन्म तथा स्थितिम् || ३५ || जन्मस्थितिपदाभ्यां तन्निमित्तं लक्ष्यते || ३५ || इति संचिन्त्य नगराद्गाधिस्तस्माज्जगाम ह | कन्दरं प्राप्य शैलस्य तस्थौ विश्रान्तसिंहवत् || ३६ || तत्र संवत्सरं सार्धं पयश्चुलुकभोजनम् | तपश्चक्रे महातेजास्तुष्टये शार्ङ्गधन्वनः || ३७ || पयश्चुलुकस्य भोजनं पानं कुर्वन्निति शेषः | शाङ्गधन्वनो विष्णोः | धनुषश्च इत्यनङ् || ३७ || अथास्य पुण्डरीकाक्षः पयोमूर्तिरुपाययौ | प्रसादमुत्पलश्यामः शरदीव महाह्रदः || ३८ || पय इव प्रसादस्वभावा मूर्तिर्यस्य | ह्रदपक्षे पय एव मूर्तिः स्वरूपं यस्य || ३८ || तमाजगाम शैलेन्द्रकन्दरं द्विजमन्दिरम् | पयोधरवदच्छाच्छच्छविर्व्योमन्यथावसत् || ३९ ||
279 SK द्विजस्य गाधेर्मन्दिरं निवासभूतं कन्दरम् | पयोधरवदच्छादप्यच्छा निर्मलतरा छविः कान्तिर्यस्य | पयोधरवद्व्योमन्यावसदतिष्ठदिति वा || ३९ || श्रीभगवानुवाच | गाधे कच्चित्त्वया दृष्टा माया मम गरीयसी | दृष्टं त्वया जगज्जालचेष्टितं दैष्टिकात्मकम् || ४० || दिष्टं दैवमेव मतिः प्रतीतिनिमित्तं यस्य न वस्तुतदात्मकम् || ४० || चित्ताभिगत एतस्मिन्प्राप्ते सम्यगनिन्दितः | तपो गिरितटे कुर्वन्किमन्यदभिवाञ्छसि || ४१ || चित्तेनाभिगते वाञ्छिते एतस्मिन् मन्मायादर्शने प्राप्ते सति पुनर्गिरितटे तपः कुर्वन्ननिन्दितः शुद्धस्त्वमन्यत्किमभिवाञ्छसीत्यन्वयः || ४१ || श्रीवसिष्ठ उवाच | एवं वदन्तमालोक्य हरिं गाधिर्द्विजोत्तमः | अर्चां कुसुमपूरेण पादयोः पर्यपूरयत् || ४२ || अर्चां नित्यं पूज्यमानां भगवत्प्रतिमां पादयोरर्चां पूजां कुसुमपूरेण करोन्मुक्तपुष्पप्रवाहेण पयःपूरवत् पूर्णा चकारेति वा | अनेन पूजाकाले भगवदागमनं गम्यते || ४२ || दत्त्वार्घ्यं कीर्णकुसुमः प्रणम्याशु प्रदक्षिणैः | विष्णुमाह द्विजो वाक्यमम्भोदमिव चातकः || ४३ || अर्घ्यं उत्तरार्घ्यम् | प्रदक्षिणैः सह प्रणम्य प्रणामान्तां पूजां समाप्य || ४३ || गाधिरुवाच | देव यैषा त्वया माया दर्शिताऽतितमोमयी | महीं प्रातरिवादित्यस्तां मे प्रकटतां नय || ४४ || भ्रमं यं पश्यति मनो वासनामलमालितम् | स्वप्नवत्स कथं देव जाग्रत्यपि हि दृश्यते || ४५ || यस्तत्र ज्ञातव्यांशस्तमाह - भ्रममिति | भ्रमं मिथ्याविषयजातम् || ४५ || मुहूर्तमुपलब्धश्च जलान्तः स्वप्नविभ्रमः | कथं प्रत्यक्षतां प्राप्तो ममामलपदास्पद || ४६ || प्रत्यक्षतां चिरं चक्षुरादिगोचरताम् | अमलमविद्यामलरहितं पदमास्पदं प्रतिष्ठा यस्य || ४६ || दैर्घ्यादैर्घ्येऽस्य कालस्य शरीरस्य भवाभवाः | कथमन्तस्थिता न स्युर्मदीयैः श्वपचभ्रमैः || ४७ ||
280 SK मदीयैः श्वपचभ्रमैः कृते अस्य कालस्य दैर्घ्यादैर्घ्ये तथा श्वपचशरीरस्य भवाभवा उत्पत्तिनाशाश्च अन्तर्मनस्येव स्थिताः कथं न स्युः बहिस्ते कथं तिष्ठनितीत्यर्थः || ४७ || श्रीभगवानुवाच | गाधे स्वाधिविधूतस्य स्वरूपस्यैतदात्मकम् | चेतसोऽदृष्टतत्त्वस्य यत्पश्यत्युरुविभ्रमम् || ४८ || हे गाधे भवान्यत् उरु महज्जगद्विभ्रमं पश्यति तत् अदृष्टतत्त्वस्य अत एव स्वनिष्ठैराधिभिर्वाअनारोगैर्गृहीतस्य चेतसश्चित्तभावापन्नस्यात्मस्वरूपस्य एतदात्मकं रूपं भासते तद्वस्तुतो नान्तर्न वा बहिर्नाल्पं न वा दीर्घमित्यर्थः || ४८ || बहिर्न किंचिदप्यस्ति खाद्र्यब्ध्युर्वीदिगादिकम् | एतत्स्वचित्त एवास्ति पत्रपुञ्जमिवाङ्कुरे || ४९ || यदि चास्तीति मन्यसे तर्हि स्वचित्त एवस्तीत्याह - बहिरिति | खमाकाशम् अद्रयः पर्वताः उर्वी पृथ्वी दिशश्चेत्यादिकं जगदित्यर्थः || ४९ || फलादि स्फारतामेति यथैव बहिरङ्कुरात् | बहिः प्रकटतां याति तथा पृथ्व्यादिचेतसः || ५० || सत्यं पृथ्व्यादि चित्तस्थं न बहिष्ठं कदाचन | अङ्कुरस्थः पल्लवस्तु तस्माद्यस्मात्फलश्रियः || ५१ || यस्माद्धेतोः फलश्रियस्तस्माद्दृश्यन्ते इति शेषः || ५१ || रूपालोकमनस्कारतत्ताकालक्रियात्मकम् | कुम्भकारो घटमिव चेतो हन्ति करोति च || ५२ || वर्तमानविषये चक्षुरादिना रूपालोकः | भाविनि च मनसा समर्थनान्मनस्कारः | अतीते च स्मर्यमाणे तत्ता तन्निरूपकास्त्रिविधाः कालस्तद्व्यञ्जिका च सूर्यादिक्रियेत्येवमात्मकम् | हन्ति स्वात्मन्युपसंहरति करोति सृजति च || ५२ || आबालमेतत्पुरुषैः सर्वैरेवानुभूयते | स्वप्नभ्रममदावेगरागरोगादिदृष्टिषु || ५३ || सर्वानुभवसिद्धं चेदमित्याह - आबालमिति || ५३ || चित्ते वृत्तान्तलक्षाणि संस्थितान्यात्तवासने | पादपे फलपुष्पाणि मूलाक्रान्तावनाविव || ५४ || मूलैराक्रान्ता अवनिः पृथ्वी येन तथाविधे पादपे इवेति मनसोऽप्यधिष्ठानसदवष्टम्भबलाज्जगद्धारकत्वमिति द्योतनार्थम् || ५४ ||
281 SK त्यक्तावनेर्विटपिनो भूयः पत्राणि नो यथा | निर्वासनस्य जीवस्य पुनर्जन्मादि नो तथा || ५५ || त्यक्तावनेरुन्मूलितस्येति यावत् || ५५ || यत्रानन्तजगज्जालं संस्थितं तेन तेजसा | श्वपचत्वं प्रकटितं यदि तद्विस्मयोऽत्र किम् || ५६ || तथा चेदं श्वपचत्वं मनःस्थितानन्तवासनाजाले एकदेशप्रकटनमित्याह - यत्रेति || ५६ || अवबुद्धा श्वपचता प्रतिभासवशात्त्वया | यथैवानल्पसंरम्भा विचित्राधिविकारदा || ५७ || तव सत्यत्वेनाभिमतमतिथ्यागमनादिप्रपञ्चजातमपि श्वपचत्ववन्मनःस्थमेवेत्याह - अवबुद्धेत्यादिना || ५७ || तथैवातिथिरायातो भुक्तवान्सुप्तवान्द्विजः | कथां कथितवांश्चेति दृष्टवानसि संभ्रमम् || ५८ || तथैवोत्थाय गच्छामि प्राप्तोऽहं भूतमण्डलम् | इमे भूता इमे ग्रामा दृष्टवानसि संभ्रमम् || ५९ || इमे ग्रामा इति संभ्रमं दृष्टवानसीति सर्वत्र इतिशब्दोऽध्याहार्यः || ५९ || तथैवेदं कटंजस्य प्राक्तनं लुठितं गृहम् | जनैरुक्तं कटंजस्य दृष्टवानसि संभ्रमम् || ६० || तथैव कीरनगरं प्राप्तोऽस्मि कथितं च मे | कीरैः श्वपचराजत्वं दृष्टवानसि सभ्रमम् || ६१ || एवं सर्वं त्वया दृष्टं मोहजालं द्विजोत्तम | यत्सत्यमिति जानासि यच्चासत्यमवैषि च || ६२ || वासनावलितं चेतः किं नामान्तर्न पश्यति | सार्थितं दृश्यते स्वप्ने वर्षसाध्यं प्रयोजनम् || ६३ || साधितं क्षणेनैव सिद्धम् || ६३ || सर्वमेतन्महाबुद्धे व्यामोहाद्दृष्टवानसि || ६४ || गच्छता भवता भूतदेशं पान्थेन कन्दरे | कस्मिंश्चिद्विप्र विश्रान्तं कुरङ्गेणेव कानने || ६५ || किंच त्वयेदानीमपि न भूतमण्डले कीरनगरे वा गतं किंत्वतिथिवाक्यं श्रुत्वा भूतदेशं र्पति गच्छता प्रस्थितेन पान्थेन त्वया पथि कस्मिंश्चिद्गिरिकन्दरे विश्रान्तं तत्रैव श्रमेण मूढत्वात्परवशचित्तत्वात्स्वप्नवदिदं तद्भूतमण्डलमिदं तच्छ्वपचागारमित्यादि दृष्टं न परमार्थत इति द्वयोरर्थः || ६५ ||
282 SK तत्रैव श्रममूढत्वादिदं तद्भूतमण्डलम् | इदं तच्छ्वपचागारमिति दृष्टं न सत्यतः || ६६ || तथैव कीरनगरं दृष्टवानसि तत्तथा | तदैव चान्यदा वापि मायार्थं हि भवान्द्विज || ६७ || तत्तस्मिन्कन्दरे तदैव श्रमकाले कीरनगरं दृष्टवानसि अन्यदा अघमर्षणकाले वापि तथविअ मायामयमर्थं भवान् दृष्टवानित्यर्थः || ६७ || सर्वदैव समग्रासु विहरन्नसि दृष्टवान् | दिक्षु प्रोन्मत्तक इव विभ्रमं मनसा मुने || ६८ || चले [जलकन्दरे तदा इति पाठः] कन्दरे तदेति च देशकालनियमो भ्रमस्य नास्ति यावत्तत्त्वबोधं सर्वदा भ्रान्त्यैव विहरणादिव्यवहारदर्शनादित्याशयेनाह - सर्वदैवेति || ६८ || तदुत्तिष्ठ निजं कर्म कुर्वंस्तिष्ठोपशान्तधीः | न स्वकर्म विना श्रेयः प्राप्नुवन्तीह मानवाः || ६९ || निजं ब्रह्मचर्याश्रमोचितमग्निकार्यस्वाध्यायादि कर्म || ६९ || श्रीवसिष्ठ उवाच | इति निगदितवान्स पद्मनाभो भुवनगतापसवृन्दपूज्यमानः | विबुधमुनिगणैः पवित्रहस्तै- र्वृत उदधिं निजमस्पदं जगाम || ७० || भुवनगैस्त्रिभुवनगतैस्तापसवृन्दैः पूज्यमानः स पद्मनाभ इति उक्तप्रकारेण निगदितवान्सन् भगवच्चरणस्पर्शसेवादिना पवित्रहस्तैर्विबुधमुनिगणैर्वृतः सन् निजमास्पदं गृहभूतं क्षीरोदधिं जगामेत्यर्थः || ७० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते मायामहत्त्वकथनं नामाष्टचत्वारिंशः सर्गः || ४८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे मायामहत्त्वकथनं नामाष्टचत्वारिंशः सर्गः || ४८ || एकोनपञ्चाशः सर्गः ४९ श्रीवसिष्ठ उवाच | अथ गाधिर्गते विष्णौ पुनर्भूतादिकं क्रमात् | स्वयं मोहविचारार्थं बभ्रामाभ्रमिवाम्बरे || १ || गाधिर्देशौ पुनर्गत्वा हरिं पृष्ट्वा पुनः पुनः | सर्वं मायेति निश्चित्य जीवन्मुक्तोऽभवत्क्रमात् || १ ||
283 SK तथैवोत्थाय गच्छामि प्राप्तोऽहं भूतमण्डलाम् | इमे भूता इमे ग्रामा दृष्टवानसि संभ्रमम् || नातिथिर्न च भूतानि न कीरास्ते न तत्पुरम् || इत्यादिभगवद्वचनार्थं त्वसंभावनाविपरीतभावनादार्ढ्यादप्रतिपद्यमानो गाधिर्जगदधिष्ठानात्मतत्त्वसाक्षात्कारं विनैव पूर्वदृष्टदेशादीनां बाधोऽस्ति न वेति परीक्ष्यानुभवितुकामः पुनर्भूतमण्डलादिदेशान् बभ्रामेत्याह - अथेति | भूतादिकं भूतमण्डलादिदेशम् | आत्मनः स्वस्य श्वपचत्वादिवृत्तान्तं तथा पूर्वानुभूतवदेवोपलभ्य || १ || उपलभ्य तथैवात्मवृत्तान्तं जनतस्ततः | हरिमाराधयामास पुनरद्रिगुहां गतः || २ || श्रुत्वा लिङ्गैर्दृष्ट्वा च भगवद्वाक्यतात्पर्यभोधाय पुनर्हरिमारधयामासेत्यर्थः || २ || आजगामैनमल्पेन कालेनाथ जनार्दनः | सकृदाराधनेनैव माधवो याति बन्धुताम् || ३ || उवाच गाधिं भगवान्मयूरमिव वारिदः | किं त्वं प्रार्थयसे भूयस्तपसेति प्रसादवान् || ४ || प्रसादवान् प्रसन्नः सन् || ४ || गाधिरुवाच | भ्रान्तोऽस्मि देव षण्मासान्भूतकीरजनास्पदम् | तत्र व्यभिचरत्यस्मद्वृत्तान्तो न कथास्वपि || ५ || कथासु जनप्रवादेषु | अपिपदाल्लिङ्गप्रत्यभिज्ञादिसंवादेष्वपि न व्यभिचरतीत्यर्थः || ५ || मायया भूतभूर्दृष्टा त्वयेत्युक्तोऽस्मि किं प्रभो | मोहनाशाय महतां वचो नो मोहवृद्धये || ६ || अस्तु तथा किं ततस्तत्राह - माययेति | मायादृष्टार्था अवश्यं कालान्तरे व्यभिचरन्ति अव्यभिचारिणश्चैतेऽर्थाः कथं मायेत्यवधारयितुं शक्या इति मोहवृद्धये त्वद्वचनं संपन्नमिति भावः || ६ || श्रीभगवानुवाच | काकतालीययोगेन चेतसि श्वपचस्थितिः | सर्वेषां भूतकीराणां तवेव प्रतिबिम्बति || ७ || मायिकस्यापि कथास्वव्यभिचारे उपपत्तिमाह - काकतालीयेति | प्रसिद्धभूतदेशजानां कीरदेशजानां च जनानां चेतसि तव चेतसीव कठंजकश्वपचस्य स्थितिरपरोक्षतया भ्रान्त्या प्रतिबिम्बतीत्यर्थः || ७ ||
284 SK तेनाङ्ग तव वृत्तान्तं यथावत्कथयन्ति ते | प्रतिभासो हि नायाति पुनरप्रतिभासताम् || ८ || तथाच तेऽपि स्वभ्रान्त्यैव तथा वदन्तीत्यार्थसमाजग्रस्तस्तद्वचनसंवादो न सत्यतापादक इत्याह - तेनेति | प्रतिभास इति | विना भाधमिति शेषः || ८ || केनचिच्छ्वपचेनान्ते ग्रामस्य रचितं गृहम् | तत्त्वया दृष्टमाविष्टमिष्टकाखण्डतां गतम् || ९ || प्रत्यभिज्ञासंवादस्य तर्हि का गतिस्तामाह - केनचिदिति | आविष्टं मयेदं प्राग्रचितमिति भ्रान्त्यभिनिवेशविषयीकृतम् || ९ || कदाचित्प्रतिभैकैव बहूनामपि जायते | काकोलतालस्थितिवद्विचित्रा हि मनोगतिः || १० || प्रतिभा भ्रान्तिरूपः प्रतिभास एका एकरूपैव | काकोलो द्रोणकाकाख्यः काकजातिभेदस्तस्य ताले पक्वतालफले तालमूले वा स्थितिरुपवेशनं तद्वत् || १० || तथाहि बहवः स्वप्नमेकं पश्यन्ति मानवाः | स्वापभ्रमदमैरेयमदमन्थरचित्तवत् || ११ || स्वापो निद्रा तद्वद्भ्रमदेन मैरेयमदेन मन्थरचित्ता यथा बहवस्तुल्यरूपा घूर्णमाना इव दिशः पश्यन्ति तद्वत् || ११ || एकस्यामेव लीलायां रमन्ते बहुबालकाः | एकस्यामेव नीलायां वनस्थल्यामिवैणकाः || १२ || एकस्यामेव सिकतादिसंनिवेशसंकेतकल्पितगृहप्रासाददुर्गादिभ्रमलीलायां बहवो बालका रमन्ते | नीलायां शाद्वलश्यामलायां वनस्थल्याम् | एणका मृगपोताः || १२ || बहवस्तुल्यकालं च प्रतिभासेन कर्मणाम् | जना यतन्ते स्वफलपाकेऽतिबहुलाकृतौ || १३ || अतिबहुलाकृतौ वधबन्धपराजयपलायनादिनानाकारे स्वप्रारब्धफलपाके लभ्येऽपि बहवः सैनिकादिजनास्तुल्यकालं जयलाभभोगादीनां तुल्यरूपाणां कर्मणां प्रयोजनानां भ्रान्त्या प्रतिभासेन तल्लोभाद्युद्धादिना यतन्ते इति प्रसिद्धमित्यर्थः || १३ || प्रतिबन्धाभ्यनुज्ञानां कालो दातेति या श्रुतिः | विप्र संकल्पमात्रोऽसौ कालो ह्यात्मनि तिष्ठति || १४ ||
285 SK यदि मानसकल्पनैव जगत्तर्हि हेमन्तादिः कालो व्रीह्याद्यङ्कुरोदयस्य प्रतिबन्धको यवादीनां चाभ्यनुज्ञातेति लोकप्रसिद्धेर्बाधः स्यान्मानसकल्पनायां बाह्यकालस्य व्यवस्थापकत्वायोगादित्याशङ्कां गाधेः परिहरन्नाह - प्रतिबन्धेति | श्रुतिर्लौकिकप्रवादश्रवणम् | सा न विरुध्यत इति शेषः | यतोऽसौ प्रतिबन्धाभ्यनुज्ञानहेतुरपि कालः संकल्पमात्रः | दिग्विशेषावच्छिन्नां सूर्यक्रियां दृष्ट्वा मनसैव यथाशास्त्रं मासर्त्वादिभेदकल्पनादिति भावः | कस्तर्ह्यकल्पितः कालस्तमाह - काल इति | यस्त्वकल्पितोऽखण्डः कालः परमात्मा स स्वात्मन्येव तिष्ठति न कस्यचित्प्रतिबन्धमभ्यनुज्ञां वा ददातीत्यर्थः || १४ || अमूर्तो भगवान्कालो ब्रह्मैव तमजं विदुः | न जहाति न चादत्ते किंचित्कस्य कदेति च || १५ || अमुमेवार्थं स्पष्टयति - अमूर्त इत्यादिना || १५ || लौकिको यस्त्वयं कालो वर्षकल्पयुगात्मकः | संकल्प्यते पदार्थौघैः पदार्थौघश्च तेन तु || १६ || आद्यस्य संकल्पात्मतामुपपादयति - लौकिक इति | जन्यमात्रस्य कालोपाधित्वात्सूर्यक्रियाचन्द्रपिण्डादिपदार्थौघैः संकल्प्यते | तेन च प्रतिबन्धानुज्ञाभ्यां सर्वपदार्थौघस्तत्क्रियाफलादिव्यवस्था च संकल्प्यत इत्यर्थः | तुशब्दश्चार्थे || १६ || समानप्रतिभासोत्थसंभ्रमं भ्रान्तचेतसः | तथा तं दृष्टवन्तस्ते भूतकीरजनोच्चयाः || १७ || प्रासङ्गिकीं शङ्कां परिहृत्य प्रकृतमालम्ब्याह - समानेति | भूतदेशजाःकीरदेशजाश्च जनोच्चया जनसमूहाः || १७ || स्वव्यापारपरो भूत्वा धियात्मानं विचारय | साधो गतमनोमोहमिहैवास्व व्रजाम्यहम् || १८ || तर्हि मया किं कार्यं तत्राह - स्वव्यापारेति | स्ववर्णाश्रमोचिताचरणपर इत्यर्थः || १८ || इत्युक्त्वा भगवान्विष्णुर्जगामान्तर्धिमीश्वरः | अतिष्ठत्कन्दरे गाधिराधिपीवरया धिया || १९ || आधिपीवरया चिन्तोपचितया || १९ || ततः कतिपयेष्वद्रौ मासेष्वतिगतेषु सः | पुनराराधयामास पुण्डरीककरं द्विजः || २० ||
286 SK ददर्श चैकदा नाथमागतं प्रणनाम तम् | पूजयामास मनसा चोक्तेनोवाच चेश्वरम् || २१ || मनसा चकाराद्वचसा कर्मणा च पूजयामास उक्तेन प्रश्नानुज्ञावाक्येनोवाच पप्रच्छ च || २१ || गाधिरुवाच | भगवन्संस्मरंश्चैतामात्मनः श्वपचस्थितम् | इमां संसारमायां च परिमुह्यामि चेतसा || २२ || इमां जननमरणाद्यनर्थबहुलां संसारमायां च संस्मरन् || २२ || तदुक्त्वास्व यथावस्तु महामोहनिवृत्तये | एकस्मिन्नेव विमले मां नियोजय कर्मणि || २३ || तत्तस्माद्धेतोर्महामोहस्य निवृत्तये उपायमुक्त्वा झटिति न गच्छ किंतु यावत्संशयमोहोच्छेदमास्व तिष्ठेत्यर्थः || २३ || श्रीभगवानुवाच | ब्रह्मन् जगदिदं मायामहाशम्बरडम्बरम् | सर्वा आश्चर्यकलनाः संभवन्तीह विस्मृतेः || २४ || विस्मृतेः स्वात्मतत्त्वविस्मरणात् | आवरणनिमित्तादज्ञानादिति यावत् || २४ || भूतकीरपुरे मोहाद्दृष्टवांस्तत्तथा भवान् | इत्येतत्संभवत्येव दृश्यते हि जनैर्भ्रमः || २५ || मायायां चासंभावितसहस्रमपि संभवत्येवेत्याह - भूतेति | तच्छ्वपचत्वादि तथा तत्तत्प्रकारेण दृष्टवानित्येतन्मोहादज्ञानात्संभवत्येव | तथाहि जनैर्निद्रादावसंभावितगोचरोऽपि भ्रमो दृश्यत इत्यर्थः || २५ || भूतास्त्वमिव कीराश्च दृष्टवन्तस्तथा भ्रमम् | मुधैवेत्यपि सत्याभं समकालादिसंभवात् || २६ || मुधा मिथ्यैव | इति एवं मिथ्यास्वभावमपि सत्याभं दृष्टवन्त इत्यर्थः | समेन संकल्पेन समकालादेः संभवादित्यर्थः || २६ || इदं तु शृणु वक्ष्यामि यथाभूतमनिन्दितम् | यथैति तनुतां चिन्ता मार्गशीर्षलतेव ते || २७ || यथाभूतं यथास्थितम् | अनिन्दितं तव श्वपचनिन्दासंबन्धनिवारकमित्यर्थः | तनुतामपक्षयम् || २७ || योऽसौ कटंजको नाम श्वपचो भूतमण्डले | तेनैव संनिवेशेन स तथैवाभवत्पुरा || २८ || तेन त्वद्दृष्टसदृशेनैव संनिवेशेन शरीरग्रामगृहदाराद्याकारेण तथैव युक्तोऽभवदित्यर्थः || २८ || बभूव कीरनृपतिः प्रविवेशानलं ततः || २९ ||
287 SK तथैवेति सर्वत्रानुषञ्जनीयम् || २९ || भवतः केवलं चित्ते जलान्तर्वर्तिनस्तदा | प्रतिभाता तथाभूता कटंजाचारसंस्थितिः || ३० || यदि तथाभूतोऽन्योऽभूत्तर्हि मम कथं तदनुभवपथं प्राप्तं तत्राह - kevalaṃ pratibhātā matsaṃkalpavaśādityarthaḥ || 30 || draṣṭānubhūtamapyarthaṃ kadācidvismaratyalam | kadācidapyadṛṣṭaṃ tu cetaḥ paśyati dṛṣṭavat || 31 || kadāpyadṛṣṭasya deśāntarasthasyātītasya ca kathaṃ purovartamānatayā darśanaṃ tatrāha - draṣṭeti | yathā anubhūtamapi vismarati tathā adṛṣṭamapi paśyatītyarthaḥ || 31 || yathā svapnamanorājyadhātusaṃsthitivibhramāḥ | jāgratyapi tathaivāṅga dṛśyante manasā svayam || 32 || dhātusaṃsthitiḥ saṃnipātaḥ || 32 || bhaviṣyadbhūtakālasthaṃ yathā traikālyadarśinaḥ | pratibhāmeti gādhe yatkaṭaṃjācaritaṃ tathā || 33 || yathā traikālyadarśino yogino dṛṣṭyā bhaviṣyadapi vastu taduttarakālikeṣu dṛśyamāneṣu bhūtakālasthaṃ bhavati tathā he gādhe atītamapi kaṭaṃjācaritaṃ vartamānapratibhāmetītyarthaḥ || 33 || ayaṃ so'hamidaṃ tanma iti majjati nātmavān | ayaṃ so'hamidaṃ tanma iti majjatyanātmavān || 34 || nanvanātmanyanātmīye ca kaṭaṃjake tadīyagṛhakalatrādau ca mama sa evāhaṃ tadīyameva tanme madīyamiti kathaṃ majjanamiti cedatyalpamidamucyate | anātmavidāṃ sarveṣāmapyanātmani dehe anātmīye ca gṛhakalatrādāvahaṃmametyabhimānadarśanādātmavida eva kevalaṃ tanmajjanābhāvādityāśayenāha - ayamiti || 34 || sarvamevāhameveti tattvajño nāvasīdati | na gṛhṇāti padārtheṣu vibhāgānarthabhāvanam || 35 || sarvāhaṃbhāvanayāpi tattvavidastatra na majjanaṃ paricchinnāhaṃbhāvasyaiva majjanahetutvādityāha - sarvameveti || 35 || tenāsau bhramayogeṣu sukhaduḥkhavilāsiṣu | na nimajjati magno'pi tumbīpātramivāmbhasi || 36 || sarvāhaṃbhāve'pyahaṃkārasattvānmagnaprāyo'pi || 36 ||
288 SK त्वं तावद्वासनाजालग्रस्तचित्तो विचेतनः | किंचिच्छेषमहाव्याधिरिव न स्वस्थमागतः || ३७ || अहं तर्हि कीदृश इति चेदान्तरालिक इत्याह - त्वमिति | स्वस्थं स्वरूपावस्थितमात्मानमागतः प्राप्तः || ३७ || ज्ञानस्यापरिपूर्णत्वान्न शक्नोषि मनोभ्रमम् | विनिवारयितुं मेघसम्यग्यत्नवानिव || ३८ || मेघपदेन तत्कार्यं वृष्टिर्लक्ष्यते | गृहरचनपरगृहप्रवेशादिसम्यग्यत्नशून्यः पुरुष इव || ३८ || यदेव ते मनोमात्रे सहसा प्रतिभासते | तरुरुच्चजनेनेव तेनैवाक्रम्यसे क्षणात् || ३९ || आक्रम्यसे तदभिमानेन परिभूयसे || ३९ || चित्तं नाभिः किलास्येह मायाचक्रस्य सर्वतः | स्थीयते चेत्तदाक्रम्य तन्न किंचित्प्रबाधते || ४० || नाभिर्मध्यम् | सर्वतो भ्रमत इति शेषः | तच्चित्तमाक्रम्य आत्मनि प्रविलापनेन तिरस्कृत्य | तन्मायाचक्रं किंचिदपि न प्राबधते || ४० || त्वमुत्तिष्ठ गिरेः कुञ्जे दशवर्षाण्यखिन्नधीः | तपः कुरु ततो ज्ञानमनन्तं समवाप्स्यसि || ४१ || तपश्चित्तनिरोधाभ्यासम् || ४१ || इत्युक्त्वा पुण्डरीकाक्षस्तत्रैवान्तरधीयत | वाताभ्रवद्दीपकवद्यमुनोत्पीडवत्क्षणात् || ४२ || वातलीनाभ्रवन्निर्वाणदीपकवद्यमुनातरङ्गवच्चेति मालोपमा || ४२ || गाधिर्विवेकवशजं वैराग्यपदमागतः | शरत्समयपर्यन्ते वैरस्यमिव पादपः || ४३ || वैरस्यमस्निग्धताम् || ४३ || विचित्रं चेष्टितं धातुरसमञ्जसमागतम् | भ्रमद्भ्रमभरोन्मुक्तमतिर्मन्दमगर्हयत् || ४४ || भ्रमता भ्रमभरेणोन्मुक्ता मतिर्यस्य तथाविधः सन् धातुः प्राक्तनकर्मलक्षणस्य दैवस्यासमंजसमयुक्तश्वपचभावादिप्रदर्शनरूपं विचित्रं चेष्टितमगर्हयत् || ४४ || जगाम करुणार्द्रात्मा नियमायोत्तमश्रिये | विश्रान्त्यै ऋष्यमूकं तु पयोधर इवाचलम् || ४५ || नियमाय चित्तनियमनाभ्यासाय | ऋषमूकं मतङ्गाश्रमस्थमचलम् || ४५ || निरस्ताशेषसंकल्पस्तपस्तत्र चकार ह | दशवर्षाणि तेनासावात्मज्ञानमवाप ह || ४६ ||
289 SK तपः मनसश्चेन्द्रियाणां च ऐकाग्र्यं परमं तपः इति प्रसिद्धम् || ४६ || अरमत तदनु स्वां प्राप्य सत्तां महात्मा ह्यपगतभयशोको भोगभूवावनीषु | सततमुदितजीवन्मुक्तरूपः प्रशान्तः सकल इव शशाङ्को भूर्णितापूर्णचेताः || ४७ || तदनु आत्मज्ञानप्राप्त्यनन्तरं महात्मा गाधिः स्वां पारमार्थिकीं सत्तां प्राप्य अपगतभयशोकः सन् सततमुदितं जीवत एव मुक्तरूपं यस्य तथाविधः अत एवापरिच्छिन्नस्वानन्दमदेन घूर्णितमापूर्ण च चेतो यस्य तथाविधः सन् सकलः कलापूर्णः शशाङ्क इवापरिच्छिन्ने ब्रह्माकाशे अरमत विजहार | विश्रान्तिं प्रापेत्यर्थः || ४७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते गाधेर्ज्ञानप्राप्तिर्नामैकोनपञ्चाशः सर्गः || ४९ || इति श्रीवासिष्ठमहारामायाणतात्पर्यप्रकाशे उपशमप्रकरणे गाधेर्ज्ञानप्राप्तिर्नामैकोनपञ्चाशः सर्गः || ४९ || गाध्युपाख्यानं संपूर्णम् | पञ्चाशः सर्गः ५० श्रीवसिष्ठ उवाच | एवमेषातिवितता दुर्ज्ञाना रघुनन्दन | महामोहमयी माया विषमा पारमात्मिकी || १ || चित्तस्याक्रमणोपाया ज्ञानमाहात्म्यमुत्तमम् | चेतोहिपीनतादोषहेतवश्चात्र कीर्तिताः || १ || वर्णितं गाध्युपाख्यानं प्रकृते योजयति - एवमित्यादिना | दुर्ज्ञाना अचिन्त्या | पारमात्मिकी परमात्ममात्राश्रयविषया || १ || क्व मुहूर्तद्वयस्वप्नसंभ्रमाल्लोकदृष्टता | क्वानेकवर्षसंभुक्तश्वपचावनिपभ्रमः || २ || दुर्ज्ञानतामेव त्रेधा दर्शयति - क्वेति द्वाभ्याम् || २ || क्व संभ्रमोपलब्धत्वं क्व प्रत्यक्षनिदर्शनम् | क्वासत्यत्वमसंदिग्धं क्व सत्यपरिणामिता || ३ || अतो वच्मि महाबाहो मायेयं विषमान्वहम् | असावधानमनसं संयोजयति संकटे || ४ || श्रीराम उवाच | एवमस्य कथं ब्रह्मन्मायाचक्रस्य रोधनम् | कुर्युः प्रवहतो वेगात्सर्वाङ्गच्छेदकारिणः || ५ ||
290 SK चित्तं नाभिः किलास्येह मायाचक्रस्य सर्वतः | स्थीयते चेत्तदाक्रम्य तन्न किंचित्प्रबाधते || इति यद्भगवतान्ते उपदिष्टं तदुपायं जिज्ञासू रामः पृच्छति - एवमिति | कुर्युरधिकारिण इति शेषः | पूर्णानन्दात्मनः परिच्छेददुःखापादनमेवाङ्गच्छेदसाम्यादङ्गच्छेदस्तत्कारिणः || ५ || श्रीवसिष्ठ उवाच | अस्य संसाररूपस्य मायाचक्रस्य राघव | चित्तं विद्धि महानाभिं भ्रमतो भ्रमदायिनः || ६ || भगवदुपदिष्टमायाचक्रावष्टम्भप्रकारं प्रथमं प्रपञ्चयितुमुक्तमनुवदति - अस्येत्यादिना || ६ || तस्मिन्द्रुतमवष्टब्धे धिया पुरुषयत्नतः | गृहीतनाभिवहनान्मायाचक्रं निरुध्यते || ७ || मायाचक्रं गृहीता नाभिर्यस्य तत्तथाविधं सद्वहनाद्भ्रमणान्निरुध्यते | निवर्तते इति यावत् || ७ || अवष्टब्धमनोनाभिमोहचक्रं न गच्छति | यथा रज्ज्वां निरुद्धायां कीलकं रज्जुवेष्टितम् || ८ || यथा बालानां कांस्यादिमयं क्रीडाचक्रं तन्तुवेष्टितनाभिकीलकं तर्जन्यग्रनिबद्धायां रज्ज्वां तन्तौ निरुद्धायां न गच्छति न भ्रमति तद्वत् || ८ || चक्रयुद्धैकतज्ज्ञोऽसि कस्माज्जानासि नानघ | चक्रं नाभाववष्टब्धं वशमायाति नान्यथा || ९ || किंच हे राघव त्वं चक्रयुद्धेष्वेको मुख्यस्तज्ज्ञश्च विष्टम्भभ्रमणाद्यभिज्ञोऽसि अतः कस्मादुक्तदृष्टान्तं न जानासि || ९ || चित्तं नाभिमवष्टभ्य तस्माद्यत्नेन राघव | संसारचक्रं वहनादात्मनः परिरोधय || १० || आत्मनो वहनाज्जन्मपरम्पराप्रापणात् सम्यङ्निरोधय निरुन्धि || १० || एतां युक्तिं विना दुःखमनन्तमितमात्मनः | अस्यां दृष्टौ क्षणादन्तं गतमेवावलोकय || ११ || एतां चित्तरोधनलक्षणां युक्तिं योगमुपायं विना आत्मनोऽनन्तं दुःखमितं प्राप्तम् | तच्च दुःखमस्यां दृष्टौ प्राप्तायां सत्यामन्तं नाशं गतमेव अवलोकय | मदुक्तार्थे संशये त्वं तथा कृत्वा पश्येत्यर्थः || ११ || चित्ताक्रमणमात्रात्तु परमादौषधादृते | प्रयत्नेनापि संसारमहारोगो न शाम्यति || १२ ||
291 SK उपायान्तरं च नास्तीत्याह - चित्तेति || १२ || तस्माद्राघव संत्यज्य तीर्थदानतपःक्रियाः | श्रेयसे परमायान्तश्चित्तमेव वशं कुरु || १३ || चित्तान्तरेव संसारः कुम्भान्तः कुम्भखं यथा | चित्तनाशे न संसारः कुम्भनाशे न कुम्भखम् || १४ || तत्रोपपत्तिमाह - चित्तन्तरिति || १४ || चिरं संसरणाकाशकोटरं चित्तकुम्भखम् | विनाश्यातुलिताकाशस्वरूपं रूपमाविश || १५ || यथा कुम्भखे निरुद्धो मशकादिः स्वदुःखसंसरणाकाशकोटरं दैवात्कुम्भनाशेन विनाश्यातुलितमनुपमं महाकाशस्वरूपमाविश्य मुक्तबन्धः सुखी भवति तथा त्वमपि चित्तनाशेन चित्तकुम्भखं विनाश्य अतुलितं ब्रह्माकाशमाविशेत्यर्थः || १५ || वर्तमानमनायासं भजद्बाह्यधिया क्षणम् | भूतं भविष्यदभजद्याति चित्तमचित्तताम् || १६ || चित्तनाशे तर्हि क उपायस्तमाह - वर्तमानमिति | भूतभविष्यद्विषयानुसंधानत्यागादेव क्रमाच्चित्तं क्षीयत इत्यर्थः || १६ || संकल्पांशानुसंधानवर्जनं चेत्प्रतिक्षणम् | करोषि तदचित्तत्वं प्राप्त एवासि पावनम् || १७ || भाविविषयसंकल्पस्य तदंशभूतार्थानुसंधानस्य च वर्जनं प्रतिक्षणं सावधानतया करोषि चेत्तत्तर्हि || १७ || यावत्संकल्पकलना तावच्चीत्तविभूतयः | यावज्जलदविस्तारस्तावत्खजलबिन्दवः || १८ || खजलस्य वर्षस्य बिन्दवः || १८ || सचित्तं चेतनं यावत्तावत्संकल्पकल्पनम् | सचन्द्रांशु जगद्यावत्तावत्प्रालेयलेशकाः || १९ || एवं संकल्पा अपि सति चित्ते दुर्वारा इत्याह - सचित्तमिति | चेतनं चिदात्मरूपम् || १९ || चेतनं चित्तरिक्तं चेद्भावितं तत्स्वसंसृतेः | आमूलमेव दग्धानि विद्धि मूलानि सिद्धवत् || २० || चित्तरिक्तं चित्तात्पृथक्कृतं कूटस्थमिति यावत् | तत्तदा स्वसंसृतेर्मूलानि कामकर्मवासनादीनि आमूलं मूलाज्ञानेन सह दग्धानीति सिद्धवत्कारेण महासिद्धसाम्येन वा विद्धीत्यर्थः || २० || चेतनं चित्तरिक्तं हि प्रत्यक्चेतनमुच्यते | निर्मनस्कस्वभावं तन्न तत्र कलनामलः || २१ ||
292 SK नन्वस्तु दाहस्तथापि चेतने पुनः कलनामलवशाच्चित्तादिसमुद्भवः किं न स्यादित्याशङ्क्याह - चेतनमिति || २१ || सा सत्यता सा शिवता सावस्था पारमात्मिकी | चित्तरहितचेतनस्वरूपं यत्सैव परमार्थसत्यता | शिवता निरतिशयानन्दरूपता | सैव परमात्मस्वभावभूता अवस्था | सर्वज्ञता सर्वावभासकचिद्रूपता | दृष्टिः परमार्थदृक् | यत्र यस्यामवस्थायाम् | क्षतमिति निन्दार्थं विशेषणम् || २२ || मनो यत्र तु तत्राशास्तत्र दुःखसुखानि च | सदा संनिधिमायान्ति श्मशान इव वायसाः || २३ || निन्द्यताबीजान्येव दर्शयति - मन इति || २३ || वस्तुतत्त्वावबोधेन सर्वभावव्यवस्थितेः | ससृतिव्रततेर्बीजं संकल्पेनोपजायते || २४ || ननु विदुषामपि मनोऽस्ति तत्राप्याशादीनि कुतो नोपजायन्ते तत्राह - संसृतीति | सत्यमस्ति तथापि तेषां मानसे संकल्पे आशादिसर्वभावव्यवस्थापिकायाः संसारवल्ल्या वासनात्मकं बीजमेव न जायते वस्तुतत्त्वावबोधेन बाधितत्वादित्यर्थः || २४ || शास्त्रसज्जनसंपर्कसंतताभ्यासयोगतः | जागतानामवस्तुत्वं भावानामवगम्यते || २५ || वस्तुत्वेनावगतानां केनोपायेनावस्तुत्वावगमलक्षणो बाधस्तमाह - शास्त्रेति || २५ || अविवेकादुपाहृत्य चेतसोद्यमनिश्चयैः | बलात्कारेण संयोज्यं शास्त्रसत्पुरुषक्रमैः || २६ || उपाहृत्य निवर्त्य | उद्यमः पुरुषयत्नस्तत्सहितैरवश्यमस्मिञ्जन्मनि ज्ञानं साधयामीति दृढनिश्चयैः || २६ || मुख्यं कारणमात्मैव परमात्मावलोकने | अगाधे पतितं रत्नं रत्नेनैवावलोक्यते || २७ || किं मुख्यं कारणमवलम्ब्य शास्त्रादिनाप्यात्मान्वेष्य इति चेत्स्वयंज्योतिरूपं प्रत्यगात्मानमेव | तद्वेद्यवैलक्षण्येन तस्यैव स्वतः प्रथमानत्वादित्याशयेनाह - मुख्यमिति | रत्नेन प्रकाशमानेन स्वेनैवेत्यर्थः || २७ || स्वानुभूतानि दुःखानि स्वात्मैव त्यक्तुमिच्छति | तेनात्मैवात्मविज्ञाने हेतुरेकः परः स्मृतः || २८ ||
293 SK उक्तां मुख्यकारणतां स्फुटयति - स्वेति | स्वेनानुभूतानि दृश्यजातानि दुःखान्येवेति विवेकेन येन हेतुना त्यक्तुमिच्छति तेनैव हेतुना स्वात्मवलोकने तत्प्रतिकूलस्वभावः स्वयं मुख्यो हेतुः | नहि स्वयमप्यसुखजडस्वभावत्वे तत्प्रतिकूलः स्यादिति भावः || २८ || प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि | निरस्तमननानन्तसंविन्मात्रपरो भव || २९ || तस्मात्त्वं सदा तदेकप्रवणो भव तल्लाभायेत्याह - प्रलपन्नित्यादिना || २९ || जायमानस्तथा जीवन्म्रियमाणः क्रियारतः | स्वात्मन्यमलतां प्राप्ते संविदंशे स्थिरो भव || ३० || जन्ममरणग्रहणं तत्समसुखदुःखदुर्दशान्तरेष्वदप्यात्मप्रवणताया अविस्मरणविधानार्थम् | शोधनेनामलतां प्राप्ते संविन्मात्रांशे || ३० || ममेदं तदयं सोऽहमिति संत्यज्य वासनाः | एकनिष्ठतयान्तस्थसंविन्मात्रपरो भव || ३१ || इदं पुरोवर्ति तद्दूरस्थं च मम | अयं स प्रत्यभिज्ञायमानो देहोऽहमिति वासनाः सम्यक् त्यक्त्वा || ३१ || वर्तमानभविष्यन्त्योः स्थित्योरादेहमेकधीः | स्वसंवित्त्यानुसंधानसमाधानपरो भव || ३२ || वर्तमाना बाल्यादिस्थितिर्भविष्यन्ती यौवनराज्यादिस्थितिस्तयोरनुसंधानं ध्यानं समाधानं समाधिः || ३२ || बाल्ययौवनवृद्धेषु दुःखेषु च सुखेषु च | जाग्रत्स्वप्नसुषुप्तेषु स्वसंवित्तिपरो भव || ३३ || उक्तमेव स्पष्टमाह - बाल्येति || ३३ || मलं संवेद्यमुत्सृज्य मनो निर्गलयन्परम् | आशापाशमलं छित्त्वा स्वसंवित्तिपरो भव || ३४ || संवेद्यं बाह्यविषयलक्षणम् || ३४ || शुभाशुभस्वसंकेतसंशान्ताविषूचिकः | नष्टेष्टानिष्टदृष्टिस्त्वं संवित्सारपरो भव || ३५ || शुभाशुभलक्षणौ यौ स्वसंकल्पकृतसंकेतौ तयोः संशान्ता आशाविषूचिका यस्य | अत एव नष्टेनिष्टा दृष्टिर्यस्य || ३५ || सकर्तृकर्मकरणान्स्वास्पर्शानन्तरा स्पृशन् | निर्विकल्पनिरालम्बः स्वचिन्मात्रपरो भव || ३६ ||
294 SK कर्ता विज्ञानमयः कर्म बाह्यविषयाः करणानीन्द्रियाणि तत्सहितान् | स्वं न स्पृशन्तीति स्वास्पर्शानेवंविधसंसारान् स्वस्यान्तरा मध्ये मणिः स्वान्तर्गतप्रतिबिम्बानिव स्पृशन्प्रथयन् || ३६ || जाग्रत्येव हि संसुप्तां भावयन्सुस्थिरां स्थितिम् | सर्वमस्मीति संचिन्त्य सत्तैकात्मवपुर्भव || ३७ || संसुप्तां सुषुप्तवन्निर्विकल्पाम् || ३७ || नानाऽनानादशमुक्तो युक्तो मुक्ततया समे | समग्रकलनादीपः स्वचिन्मात्रपरो भव || ३८ || नानादशा जाग्रत्स्वप्नौ अनानादशा सुषुप्तिस्ताभ्यां सृष्टिप्रलयदशाभ्यां वा मुक्तः | समग्रस्य दृश्यस्य कलनायां प्रथायां दीपः | समस्तानां सकलनानाबुद्धिवृत्तीनां दीपवत्प्रकाशक इति वा || ३८ || आत्मतापरते त्यक्त्वा निर्विभागो जगत्स्थितौ | वज्रस्तम्भवदात्मानमवलम्ब्य स्थिरो भव || ३९ || आत्मता स्वता परता तदन्यता ते त्यक्त्वा || ३९ || स्थित्वान्तर्मानसान्पाशानाशारूपानुदारया | धिया धैर्यैकधर्मिण्या निर्धर्माधर्मतां व्रज || ४० || निर्धर्माधर्मतां धर्माधर्मरहितताम् || ४० || समास्वादयतस्तत्त्वं स्वसंवेदनधर्मिणः | विषं हालाहलमपि यास्यत्यमृततामथ || ४१ || सर्वस्यामृतत्वे संपन्ने विषस्याप्यमृतताया अर्थसिद्धत्वादिति भावः || ४१ || तदोदेति महामोहः संसृतिभ्रमकारणम् | निर्मलाया निरंशायाः संवित्तेश्चामतिर्यदा || ४२ || अमतिर्विस्मृतिः | अज्ञानमिति यावत् || ४२ || तदा संक्षीयते मोहः संसारभ्रमकारणम् | निर्मलायां निरंशायां स्वसंवित्तौ स्थितिर्यदा || ४३ || स्वरूपमनुयातस्य तीर्णस्याशामहार्णवम् | प्रसरिष्यति ते संवित्सूर्यांशुरिव सर्वतः || ४४ || तीर्णस्येति | स्वरूपप्राप्त्यैवाशामहार्णवतरणात् रसोऽप्यस्य परं दृष्ट्वा निवर्तते इति भगवद्वचनादिति भावः || ४४ || स्वभावमालोकयत आनन्दाद्वयसंस्थितेः | रसायनमपि स्वादु राम प्रतिविषायते || ४५ ||
295 SK मुक्तस्यान्यत्राशासंभावना दूरे प्रत्युतामृतादिरसायनास्वादेऽप्यात्मानन्दास्वादविघ्नत्वसंभावनया विषवद्धेयताबुद्ध्युदयादित्याशयेनाह - स्वभावमिति | प्रतिकूलं विषमिवाचरति प्रतिविषायते || ४५ || तैर्नो भजामहे पुंभिर्ये स्वभावमुपागताः | शेषाः पुरुषनामानो गर्दभा दीर्घबाहवः || ४६ || ये पुरुषा नोऽस्माकं स्वभावं प्रत्यगात्मभावमुपागता जीवन्मुक्ताः पुंजन्मसार्थकीकरणात्पुरुषार्थसाधनात्सफलपौरुषत्वाच्च पुंभिस्तैः पुरुषधौरेयैः सह भजामहे सदा मैत्रीमिति शेषः | अन्ये तु पुरुषार्थोपयोगिपौरुषहीनत्वान्नाममात्रेण पुरुषा नार्थलेशेनापीति गर्दभवदुपेक्ष्या एव न दर्शनादियोग्या अपीत्याशयेनाह - शेषा इति || ४६ || पर्वतात्पर्वतं यान्ति पुरोऽद्रेरिव दन्तिनः | परां कोटिं प्रयातस्य स्वसंवित्त्युन्नतस्थितेः || ४७ || नन्वन्येऽपि योगिन उपासकाश्च जगति महान्तः सन्त्येव तेभ्योऽपि तत्त्वविद एव क उत्कर्स्ऽस्तत्राह - पर्वतादिति | स्वसंवित्त्या सर्वोन्नतस्थितेरत एव परां कोटिमुत्कर्षकाष्ठां प्रयातस्य तत्त्वविदः पुरो योगिप्रभृतयो ज्ञानार्थंतांस्तान्महत उपसर्पन्तोऽद्रेर्मेर्वादेः पुरो दन्तिनः प्रत्यन्तपर्वतात्पर्वतान्तरं यान्तीव भासन्ते न मेरुरिव सर्वोन्नता दृढविश्रान्ताश्चेत्यर्थः || ४७ || अदृष्टादृश्यसीम्नोऽन्तः सूर्यादीन्यखिलान्यपि | न तेजांस्युपकुर्वन्ति स्वसंविद्दिव्यचक्षुषः || ४८ || स्वसंवित्त्या उन्नतस्थितिमुपपादयति - अदृष्टेति | प्राक्केनाप्यदृष्टाः सांप्रतमग्रे च अदृश्या द्रष्टुमशक्याः सीमानोऽवधयो यस्य तथाविधस्य स्वसंविल्लक्षणं दिव्यं चक्षुर्यस्य तस्य तत्त्वविदः अन्तः कल्पितानि सूर्यादीन्यखिलान्यपि तेजांसि नोपकुर्वन्तीति स्वसंवित्त्यैव तस्योन्नतस्थितिरित्यर्थः || ४८ || अवस्तुतां व्रजन्त्येते माध्याह्ना इव दीपकाः | अर्कादयो महालोका विद्ययाधिगतात्मनः || ४९ || न केवलं नोपकर्तुं शक्नुवन्ति किंतु तत्पुरतोऽवस्तुतामेव गच्छन्तीत्याह -
296 SK तेज्ॐशुषु प्रभावेषु बलिष्वपि महत्स्वपि | सर्वेषून्नतियुक्तेषु तत्त्वज्ञः परमोन्नतः || ५० || अत उक्तं सिद्धमित्याह - तेज्ॐशुष्विति | तेजसः अंशुषु कार्येषु प्रकाशनेषु योगसिद्धिवशित्वाअदिप्रभावेषु बलिषु शरीरादिबलवत्सु ऐश्वर्यायुरादिना महत्सु अन्येष्वपि वाग्मित्वाद्युन्नतियुक्तेषु सर्वेषु मध्ये परमोन्नतः | सर्वौन्नत्यानामेतस्मिन्नध्यस्तत्वादिति भावः || ५० || भान्तीह भासा यस्यार्कवह्नीन्दुमणितारकाः | तथा जगति राजन्ते ज्ञातज्ञेया नरोत्तमाः || ५१ || यस्य जगदीश्वरस्य भासा भान्ति तथा तत्तुल्यतयेत्यर्थः || ५१ || धराविवरकीटेभ्यो गर्धभेभ्योऽपि मानवः | तिर्यग्भ्यश्चाप्यतत्त्वज्ञा राम तुच्छतराः स्मृताः || ५२ || तुच्छतरा मूढतराः | तत्त्वज्ञानाभावे ततोऽप्यधमतमयोनिकोटिप्राप्तेर्दुर्वारत्वादिति भावः || ५२ || तावत्संमोहवेतालो देही यावदनात्मवान् | आत्मज्ञ एव संयुक्तश्चेतनेनेति तद्विदः || ५३ || सतोऽप्यात्मनोऽज्ञानेनासत्त्वापादनादनात्मवान् अत एवासावचेतन इति आत्मज्ञ एव चेतनेन संयुक्त इति तद्विद आहुरिति शेषः || ५३ || अनात्मज्ञो हि दुःखेहः प्रस्फुरन्नपि भूतले | शव एव भ्रमत्युच्चैरात्मज्ञस्तु सचेतनः || ५४ || दुःखदाहार्था ईहा चेष्टा यस्य | एवार्थे तुशब्दः || ५४ || दूरादात्मज्ञता याति चित्ते पीवरतां गते | आलोकलक्ष्मीरभितो महामेघ इवोत्थिते || ५५ || चित्ते पीवरतां स्थौल्यं गते सति | आत्मज्ञता ईषत्संपादितापि दूराद्याति || ५५ || भोगाभोगतिरस्कारैः कार्श्यं नेयं शनैर्मनः | रसापहारैस्तज्ज्ञेयन् कालेनाजीर्णपर्णवत् || ५६ || अतः कारणान्मनः प्राप्तानां भोगानां विषयाणामाभोगः सेवनं तत्तिरस्कारैरप्राप्तानां रसस्याभिलाषस्यापहारैश्च चिराभ्यस्तैः कालेन आजीर्णपर्णवत्कार्श्यमपचयं नेयमित्यर्थः || ५६ || अन्यात्मन्यात्मभावेन देहमात्रास्थयानया | पुत्रदारकुटुम्बैश्च चेतो गच्छति पीनताम् || ५७ || के ते मनःपीनताहेतवो यद्वर्जनेन तत्कार्श्यं स्यात्तानाह - अनात्मनीत्यादिना || ५७ ||
297 SK अहंकारविकारेण ममतामलहेलया | इदं ममेति भावेन चेतो गच्छति पीनताम् || ५८ || विकारेण विकासेन | ममतालक्षणे मले हेलया लीलया आसक्त्येति यावत् | सर्वममतामूलमाह - इदमिति | इदं शरीरं मम आत्मा भोगायतनं वेति भावेनेत्यर्थः || ५८ || जरामरणदुःखेन व्यर्थमुन्नतिमीयुषा | दोषाशीविषकोशेन चेतो गच्छति पीनताम् || ५९ || तमेव भावं विशिनष्टि - जरेति || ५९ || आधिव्याधिविलासेन समाश्वासेन संसृतेः | हेयादेयप्रयत्नेन चेतो गच्छति पीनताम् || ६० || संसृतेः समाश्वासेन रम्यताचिरस्थायितादिविश्वासेन || ६० || स्नेहेन धनलोभेन लाभेन मणियोषिताम् | आपातरमणीयेन चेतो गच्छति पीनताम् || ६१ || आस्थादानेन चारेण चित्ताहिर्याति पीनताम् || ६२ || चारेण नानाविषयसंचारेण || ६२ || आगमापायवपुषा विषवैषम्यशंसिना | भोगाभोगेन भीमेन चेतो गच्छति पीनताम् || ६३ || आगमापायौ वपुःस्वभावौ यस्य विषेणेव वैषम्यं दाहमूर्छादिव्याकुलता तच्छंसिना | तत्पर्यवसितेनेति यावत् | भोगानामाभोगेन प्राग्व्याख्यातेन || ६३ || शरीरदुःश्वभ्रचिरप्ररूढं चिन्ताचयोच्चाकृतिमञ्जरीकम् | जरामृतिव्याधिफलौघनम्रं कामोपभोगौघविकासिपुष्पम् || ६४ || शरीरलक्षणे दुष्टश्वभ्रे चिराय प्ररूढमेनं चित्तविषद्रुमं त्वमशङ्कं विचारसारक्रकचेन च्छिन्धीति परेणान्वयः | चिन्ताचया एव उच्चाकृतयो मञ्जर्यो यस्मिन् | नद्यृतश्च इति कप् || ६४ || विचारसारक्रकचेन चित्त- विषद्रुमं त्वद्भुतमद्रिकल्पम् | आशामहाशाखमशङ्कमेनं छिन्धि प्रसह्यात्र विकल्पपत्रम् || ६५ || विकल्पा एव पत्राणि यस्मिन् || ६५ || मत्तेक्षणं चैकतटोपवेशं विश्रान्तिसौख्येष्वसमर्थमुग्रम् | आलोकनोत्कं सुजनक्रमाब्ज- खण्डस्य चण्डं सुखदुःखगण्डम् || ६६ ||
298 SK इदानीं तदेव चेतो गजत्वेन वर्णयति - मत्तेक्षणमिति द्वाभ्याम् | हे राघवराजसिंह त्वमुक्तदशविशेषणविशिष्ट चेतोगजं सुतीक्ष्णया धीकरजाग्रपङ्क्त्या विदारयेति द्वितीयेनान्वयः | मत्ते स्वविवेकप्रमादवती मदघूर्णे च आगमानुमानलक्षणे ईक्षणे यस्य तम् | एकस्मिन् बहिर्मुखलक्षणे संसाराद्रितटे उपवेशनमुपवेशो यस्य तम् | अत एवान्तर्मुखविश्रान्तिसौख्येष्वसमर्थम् | द्वेषासूयादिभीषणत्वादुग्रम् | सुजनैः क्रम्यन्त इति सुजनक्रमाः शमदमतितिक्षादयस्तल्लक्षणस्याब्जखण्डस्य पद्मवनस्यालोकने उत्कं सोत्कण्ठं परंतु चण्डमतिकोपनं तद्रक्षणायोग्यमिति यावत् | सुखदुःखे एव शीतोष्णबाष्पमदस्राविणौ गण्डौ यस्य || ६६ || चेतोगजं कायकुकाननस्थं सुतीक्ष्णया धीकरजाग्रपङ्क्त्या | विदारयादीर्घविकारदन्तं क्रियाकरं राघव राजसिंह || ६७ || आदीर्घाः कामादिविकारा एव दन्तौ यस्य अत एव धर्यादिवप्रविदारणक्रियाकरम् || ६७ || रतिं गतं नित्यमसत्प्रदेशे शरीरमांसग्रसनेन पुष्टम् | दुष्टक्रिअयकर्कशचञ्चुदण्ड- मेकेक्षणं पुष्टम्ॐशुकृष्णम् || ६८ || असति कुत्सिते स्त्रीव्यञ्जनश्मशानादिप्रदेशे रतिमासक्तिं गतम् | शरीरलक्षणस्य मांसस्य ग्रसनेनेवान्तर्भावापादनेन पुष्टमुपचितम् | दुष्टक्रिया परमर्मतोदनं तत्र कर्कशश्चञ्चुदण्डस्त्रोट्यग्रं तत्सदृशौष्ठव्यापारो यस्य | एकस्मिन्स्वार्थ एव ईक्षणं दर्शनं यस्य | पुष्टैस्तम्ॐशुभिस्तामसवृत्तिभिः कृष्णं मलिनम् | काकपक्षे चत्वारि विशेषणानि स्पष्टानि | पुष्टास्तम्ॐशवोऽन्धकारभागा इव कृष्णं निजचित्तकाकं कायकुलायकोशाद्दूरे समुत्सारयेत्युत्तरेणान्वयः || ६८ || दूरे समुत्सारय भारभूतं दुश्चेष्टितं कर्कशमारटन्तम् | गन्धोद्गतं कायकुलायकोशा- द्दोषोपशान्त्यै निजचित्तकाकम् || ६९ || वोढुरात्मनो वृक्षादेश्च वृथाश्रमहेतुत्वाद्भारभूतम् | गन्धेभ्यो दुर्वासनाभ्य उद्गतमाविर्भूतं प्रस्थितं च || ६९ ||
299 SK तृष्णापिशाचया परिचर्यमाणं विश्रान्तमज्ञानमहावटेषु | भ्रान्तं चिरं देहशतेष्वटव्यां स्वसंसृतौ चेतनवर्जितेषु || ७० || तदेव चित्तं पिशाचत्वेन रूपयंस्तदनुत्सादने मोक्षासिद्धिमाह - तृष्णेति द्वाभ्याम् | अज्ञानलक्षणेषु महत्सु वटेष्ववटेषु वा | देहशतेषु अनन्तकोटिदेहलक्षणाया मटव्यामिति व्यस्तरूपकम् | स्वस्य चित्तस्य संसृतावपसरणे चेतनवर्जितेषु | प्रत्यक्षमचेतनेष्विति यावत् | ईदृशमेनं चित्तपिशाचं स्वचिदात्मनो गेहभूताद्धृदयाद्यावन्नोत्सारयेत्तावदात्मस्वभावभूतासिद्धिर्मुक्तिः कुत इत्युभयोरन्वयः || ७० || विवेकवैराग्यगुरुप्रयत्न- मन्त्रैः स्वतन्त्रैः स्वचिदात्मगेहात् | नोत्सादयेच्चित्तपिशाचमेनं यावत्कुतस्तावदिहात्मसिद्धिः || ७१ || शुभाशुभास्यं हतमानवौघं चिन्ताविषं कायकुकञ्चुकं च | अजस्रमच्छश्वसनाशनं च सर्वस्य नानाभयनाशदं च || ७२ || इदानीं मनोऽहित्वेन रूपयंस्त्याजयति - शुभेति द्वाभ्याम् | शुभाशुभलक्षणमास्ये भवमास्यम् | शरीरावयवाद्यत् | दंस्ट्राद्वयं यस्य | अच्छः श्रमादिदोषापरामृष्टः श्वसनः प्राणवायुरशनं यस्य पवनाशनत्वात् | नानाविधं भयं नाशं मरणं च ददातीति नानाभयनाशदम् || ७२ || हृदब्जदुःशाल्मलिकोतरस्थ- ममोघया चित्खगमन्त्रशक्त्या | नीत्वा शमं राम मनोमहाहिं भयं भृशं प्रोज्झ्य भवाभयात्मा [अभवात्मा इति पाठः] || ७३ || ईदृशं मनोलक्षणं महाहिममोघया चित्खगस्य चिदेकरसगरुडस्य बोधका ये सत्यं ज्ञानमनन्तं ब्रह्म इत्यादिमन्त्रास्तेषां शक्त्या शमं मूलाज्ञानेन सहोच्छेदं नीत्वा भयं भृशं निःशेषं प्रोज्झ्य विहाय अभवोऽभयो वा आत्मा भवेत्यर्थः || ७३ || अमङ्गलाकारधरः शरीर- शवावलीसंततसेवनेन | दिगावलीसंभ्रमणश्रमार्तः श्मशानसेवी वपुषा क्षतेन || ७४ ||
300 SK तदेव चित्तं गृध्रत्वेन रूपयति - अमङ्गलेति द्वाभ्याम् | शरीरलक्षणानां शवावलीनां संततं सेवनेनानुसंधानेन भक्षणेन च | काककञ्कचञ्चुप्रहारैरपमानव्ययशोकभयादिभिश्च क्षतेन वपुषा सुषुप्तौ श्मशानवृक्षं तत्सदृशसुप्तदेहं च सेवते तच्छीलः || ७४ || भोगामिषो दिक्ष्वभिधावमान उत्कन्धरो धीरविवृद्धगर्धः | उड्डीय वै गच्छति चित्तगृध्रो देहद्रुमात्तन्निपुणं जयस्ते || ७५ || अधीरो बिवृद्धश्च गर्धोऽभिलाषो यस्य ईदृशश्चित्तगृध्रो यदि ते देहद्रुमादुड्डीय गच्छति तत्तर्हि ते निपुणं नितरां जय इत्यर्थः || ७५ || भ्रान्तं वनान्तेषु दिगन्तरेषु फलार्थिनं चञ्चलमाकुलाङ्गम् | जन्मावनेर्जन्ममहिं प्रयातं संसारबन्धं जनतां हसन्तम् || ७६ || तदेव मन इदानीं मर्कटत्वेन रूपयति - भ्रान्तमिति द्वाभ्याम् | एकस्या जन्मभूमेर्जन्मनून्यन्तरं प्रयातम् | जनतां जनसमूहं तदीयसंसारबन्धं च हसन्तं स्वचेष्टितैर्विडम्बयन्तम् || ७६ || द्रुमेऽक्षिनासाकुसुमे भुजादि- शाखे विलोलाङ्गुलिजालपत्रे | समुल्लसन्तं परिमारयान्त- र्मनोमहामर्कटमङ्ग सिद्ध्यै || ७७ || अक्षिनासयोः समाहारोऽक्षिनासं तदेव आसमन्तात्कुसुमानि यस्मिन् | भुजकरादयः शाखा यस्मिन् | विलोलाङ्गुलिजालं पत्राणि यस्मिन् | ईदृशे देहवृक्षे समुल्लसन्तं मनोमहामर्कटं परितोऽभिरोधेन [परितो निरोधेन इत्यपि पाठः] मारयेत्यर्थः || ७ || अभ्युत्थितं सत्फलसंक्षयाय लसन्मुखासङ्गितडित्प्रकाशम् | वर्षन्तमासारमनर्थसार्थ- मान्दोलितं वासनावात्ययान्तः || ७८ || इदानीं तदेव चित्तं मेघत्वेन रूपयति - अभ्युत्थितमिति द्वाभ्याम् | सत्फलस्य परमार्थसुखस्य पक्वसस्यफलस्य च क्षयाय अकाले समुपस्थितम् | मुखे मुखसदृशबहिर्मुखवृत्त्यग्रे आसङ्गी प्रतिबिम्बनेन विषक्तस्तडित्सड्र्शश्चिदाभासप्रकाशो यस्य | अनर्थसार्थरूपमासारं वर्षन्तम् | वासनानि वासनास्तल्लक्षणया वात्यया अन्तः आन्दोलितं परिवर्तितम् || ७८ ||
301 SK संकल्पसंकल्पनवर्जनोग्र- मन्त्रप्रभावाद्धृदयाम्बरस्थम् | सोत्साहमुत्सादय चित्तमेघं बृहत्फलं प्राप्य भवालमाद्यः || ७९ || हृदयाम्बरस्थमीदृशं चित्तमेघं संकल्पानां यानि सम्यक्कल्पनानि पुनःपुनःसमर्थनानि तेषां वर्जनरूपादुग्रमन्त्रप्रभावात् सोत्साहं उत्सारय तेन च बृहज्जीवन्मुक्तिफलं प्राप्य आद्यः पूर्वसिद्धस्वभावो नित्यमुक्तात्मैव अलं सम्यग्भवेत्यर्थः || ७९ || ग्रन्थीकृतं कर्मभिरात्मसृष्टे- र्मन्त्रैरभेद्यं ज्वलनैरदग्धम् | पीडां परामात्मनि कल्पयन्तं समस्तजात्यन्तरदीर्घदाम || ८० || इदानीं तदेव चित्तं पाशत्वेन रूपयति - ग्रन्थीकृतमिति द्वाभ्याम् | आ आत्मसृष्टेरात्मोपादानकं कल्पादिसर्गं मर्यादीकृत्य अद्यतनकालपर्यन्तं कृतैः सुकृतदुष्कृतकर्मभिर्निरन्तरं ग्रन्थीकृतं गन्थिदानेन दृढीकृतम् | अत एव समस्तानां जात्यन्तराणां नानायोनिजन्मभेदानां क्रमाद्बन्धनाय दीर्घदामेव स्थितम् || ८० || संप्रोतनिःसंख्यशरीरमालं बलादसंकल्पनमात्रशस्त्रैः | छित्त्वा स्वयं राघव चित्तपाशं यथासुखं त्वं विहरास्तशङ्कः || ८१ || अत एव संप्रोता निःसंख्याः शरीरमाला यस्मिन् | अस्तशङ्क्ःअ पुनर्जन्मशङ्काशून्यः || ८१ || फूत्कारदग्धाखिलपान्थलोक- मत्यन्तदुष्प्रापपरप्रबोधम् | आशीविषं शोषितलोकखण्डं व्यात्त्यामिषोद्धूतशरीरदण्डम् || ८२ || इदानीं तत्संकल्पमजगरत्वेन रूपयंस्तद्वधोपायमाह - फूत्कारेति द्वाभ्याम् | फूत्कारेण क्रोधादिरूपसविषश्वासेन दग्धा अखिलाः पान्थलोका दक्षिणोत्तरमार्गगा जीवा येन | आशीविषं विषधरम् | अत एव शोषिताः संतापिता लोकखण्डा भुवनभेदा येन | व्यात्त्या तृष्णालक्षणमुखव्यादानेन विषयामिषार्थं उद्धूतः कम्पितश्चतुर्विधशरीरदण्डो येन || ८२ || आमन्थरं देहगुहासु गुप्तं संकल्पघोराजगरं जवेन | अकामनानाममहानलेन बलेन दग्ध्वा विभवो भव त्वम् || ८३ ||
302 SK मोक्षोद्योगालसत्वादामन्थरं मन्दगतिमीदृशं संकल्पघोराजगरं अकामना परवैराग्यं तन्नाम्ना महता अनलेन वह्निना दग्ध्वा भस्मीकृत्य निजे पूर्णानन्दविभवः त्वं भवेत्यर्थः || ८३ || चित्तेन चेतः शममाशु नीत्वा शुद्धेन घोरास्त्रमिवास्त्रयुक्त्या | चिराय साधो त्यज चञ्चलत्वं विमर्कटो वृक्ष इवाक्षतश्रीः || ८४ || वैराग्येण संकल्पजये चित्तशुद्धौ सत्यां तथैव बोधसमाधिक्रमेण चित्तजयोऽपि सिद्ध्यतीत्याह - चित्तेनेति | सहसा कृतार्थताबुद्ध्या प्रयत्नोपरमो माभूदिति चिरायेति | तत्फलमाह - त्यजेति || ८४ || अमलमिति च कृत्वा चेतसा वीतशङ्क- मुपशमितमनोऽन्तः सर्वमादेहमेव | तृणलवलघु पश्यṁल्लीलया हेयदृष्ट्या पिब विहर रमस्व प्राप्तसंसारपारः || ८५ || आत्यन्तिकचित्तोपशमो निःशेषं देहादावहंममताभिमानत्यागसिद्ध्या जीवन्मुक्तिविहारसुखं सिद्ध्यतीत्याशयेनोपसंहरति - अमलमिति | इति उक्तप्रकारेण चकारात्प्रागुपदिष्टतत्त्वावबोधेन च अन्तः प्रत्यगात्मन्युपशमितमनोऽमलं निरस्तरागादिमलं कृत्वा तादृशेन चेतसा आदेहं स्थूलसूक्ष्मकारणदेहपर्यन्तं सर्वमेव दृश्यं हेयदृष्ट्या तृणलवादपि लघु तुच्छतरं स्वाप्नशरीरादिवदत्यन्तोपेक्षार्हमसदेवेति पश्यन् प्राप्तसंसारपारस्त्वं प्रारब्धशेषभोगार्थया आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः इति श्रुतिदर्शितया लीलया लोकसंग्रहाय सोमादि पिब ऋत्विगादिमिर्यज्ञेषु विहर शास्त्राविरुद्धे लौकिकेपि रमस्व च न तेन तव [तत्र इति पाठः] पुनर्बन्धप्रसक्तिरित्यर्थः || ८५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे राघवाशयविनियोगो नाम पञ्चाशः सर्गः || ५० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे राघवाशयविनियोगो नाम पञ्चाशः सर्गः || ५० || एकपञ्चाशः सर्गः ५१ श्रीवसिष्ठ उवाच | क्षुरधारोपमानासु चित्तवृत्तिषु तिष्ठ मा || १ ||
303 SK उद्दालकमुनेः शान्ते पदे विश्रान्तिमिच्छतः | युञ्जानस्य मनोदोषैर्विक्षेपो बहुधेर्यते || १ || श्रवणमननाभ्यामवधारितेप्यात्मतत्त्वे चित्तविश्रान्तिमन्तरेण निर्विक्षेपजीवन्मुक्तिसुखाप्राप्तिरिति तदर्थं समाध्याभ्यसेष्वप्रमादेन बोधवर्धनमावश्यकमित्युद्दालकचरित्रवर्णनमुखेनोपदि- paridīrghāsviti | aihikāmuṣmikadūrasthaviṣayāsaṅgātparidīrghāsu vāsanāpracuratvāttanvīṣu pramādyato jhaṭityeva samādhisukhavicchedakṣatahetutvātsutīkṣṇāsu ātmapratibimbagrahaṇayogyatālakṣaṇanairmalyātsitāsu ata eva kṣuradhāropamānāsu cittasya vṛttiṣu cāritryeṣu pramādādviśvasto mā tiṣṭhetyarthaḥ || 1 || kālena mahatā kṣetre jāteyaṃ buddhivallari | vṛddhiṃ vivekasekena naya tāṃ nayakovida || 2 || satkulakṣetre jātāyāṃ kāyalatāyāṃ cittaśuddhiśravaṇādidohadopāyairiyaṃ paramātmaparicayalakṣaṇā buddhivallarī tava jātā tāṃ bāhyadṛśyavyāvṛttilakṣaṇavivekāmṛtasekena vṛddhiṃ nayetyarthaḥ || 2 || yāvanmlāyati no kāyalatikā kālabhāsvatā | bhūtale'patitāṃ tāvadenāmuddhṛtya dhāraya || 3 || sā ca bālyātprabhṛti sicyamānā vardhate vārdhakādinā kāyalatāmlānau patanasaṃbhāvanāttaduddhāro'pyaśakyo dūre tanmañjarīvardhanamityāśayenāha - yāvaditi | bhūtale apatitāṃ enāṃ kāyalatāṃ guruśuśrūṣāśravaṇādinā uddhṛtya buddhivallarīṃ pālayetyarthaḥ || 3 || madvākyārthaikatattvajña madvākyārthaikabhāvanāt | sukhamāpnoṣi sarpāriyathābhraravabhāvanāt || 4 || vivekasekaśca vakṣyamāṇākhyānarūpamadvākyārthasyaiva śrutvāvadhārya punaḥpunarbhāvanaṃ tatraiva sarvamananayuktīnāṃ sattvādityāśayenāha - madvākyeti | sarpārirmayūro yathā abhraravasya meghagarjitasya bhāvanātsukhamāpnoti tadvadityarthaḥ || 4 || uddālakavadālūnaṃ viśīrṇaṃ bhūtapañcakam | kṛtvā kṛtvā dhiyā dhīradhīrayāntarvicāraya || 5 ||
304 SK तामेवाख्यायिकामवतार्य तदर्थविचारकर्तव्यतामाह - उद्दालकवदिति | देहाद्यारम्भकं बाह्यप्रपञ्चारम्भकं च भूतपञ्चकं तत्त्वंपदार्थशोधपरया धिया अन्नेन सोम्य शुङ्गेनापोमूलमन्विच्छ इति श्रुतिदर्शितयुक्त्या कारणव्यतिरिक्तकार्याङ्कुराप्लापादालूनं मूलाविद्याविशरणाद्विशीर्णं च कृत्वा तदधिष्ठानसन्मात्रन्वेषणे धीरेभ्योऽपि धीरया धिया अन्तर्विचारयेत्यर्थः || ५ || श्रीराम उवाच | केन क्रमेण भगवन्मुनिनोद्दालकेन तत् | भूतपञ्चकमालूनं कृत्वान्तः प्रविचारितम् || ६ || श्रीवसिष्ठ उवाच | शृणु राम यथापूर्वं भूतवृन्दविचारणात् | उद्दालकेन संप्राप्ता परमा दृष्टिरक्षता || ७ || जगज्जीर्णगृहस्यास्य कोणे कस्मिंश्चिदातते | भूमेरनिलदिग्नाम्नि भूभृद्भाण्डसमाकुले || ८ || भूभृत एव न्युब्जीकृतभाण्डानि तैः समाकुले इति गृह्कोणसाम्योपपादकं विशेषणम् || ८ || गन्धमादनशैलेन्द्रनाम्नि काचित्किल स्थली | विद्यते कीर्णकुसुमा द्रुमकर्पूरकेसरा || ९ || पुष्पितद्रुमा एव कर्पूरसदृशपरागैः केसरैश्च सर्वतो व्याप्तत्वात्कर्पूरकेसरा यस्याम् || ९ || विचित्रवर्णविहगा नानावल्लीविलासिनी | वनेचरव्याप्ततटी पुष्पकेसरभासिनी || १० || क्वचित्स्फीतमहारत्ना क्वचिल्लोलाम्बुजोत्पला | क्वचिन्नीहारकबरी सरसीदर्पणा क्वचित् || ११ || सरस्यो महासरांस्येव दर्पणानि यस्याम् || ११ || तत्र कस्मिंश्चिदुदिते सानौ सरलपादपे | आगुल्पाकीर्णकुसुमे स्निग्धच्छायमहाद्रुमे || १२ || सानौ प्रस्थप्रदेशे || १२ || उद्दालको नाम मुनिर्मौनी मानी महामतिः | अप्राप्तयौवनः पूर्वमुवासोद्दामतापसः || १३ || मानी अवश्यं यत्नैः पुरुषार्थं साधयिष्यामीत्यभिमानवान् आगमानुमानादिमानकुशलश्च | महामतिरक्षुद्रमनाः || १३ || प्रथमं तु बभूवासावल्पप्रज्ञो विचारवान् | अप्राप्तपदविश्रान्तिरप्रबुद्धः शुभाशयः || १४ || शुभाशयः प्रबोधानुकूलसुकृतसंभृतान्तःकरणः || १४ || ततः क्रमेण तपसा शास्त्रार्थनियमैः क्रमैः | विवेक आजगामैनं नवर्तुरिव भूतलम् || १५ ||
305 SK क्रमैरभ्यासपरिपाकक्रमैः | नवर्तुराद्यर्तुर्वसन्तः || १५ || अथेमं चिन्तयामास संसारामयभीरुधीः | एकान्त एव निवसन्कदाचित्कान्तमानसः || १६ || इमं वक्ष्यमाणप्रकारं चिन्तयामास | कान्तमानसः शुभचित्तः | क्लान्तमानसः इति पाठे स्पष्टम् || १६ || किं तत्प्राप्यं प्रधानं स्याद्यद्विश्रान्तौ न शोच्यते | यत्प्राप्य जन्मना भूयः संबन्धो नोपजायते || १७ || प्राप्यानां पुरुषार्थानां मध्ये प्रधानं प्राप्यं मोक्षाख्यं किं तत्स्यात् || १७ || कदाहं त्यक्तमनने पदे परमपावने | चिरं विश्रान्तिमेष्यामि मेरुशृङ्ग इवाम्बुदः || १८ || त्यक्तानि मननानि मनोव्यापारा यत्र || १८ || कदा शममुपैष्यन्ति ममान्तर्भोगसंविदः | आलोलकल्लोलरवा ऊर्मयोऽम्बुनिधाविव || १९ || भोगसंविदो भोगतृष्णाः || १९ || इदं कृत्वेदमप्यन्यत्कर्तव्यमिति कल्पनाम् | कदान्तर्विहसिष्यामि पदविश्रान्तया धिया || २० || कदा विकल्पजालं मे न लगिष्यति चेतसि | स्थितमप्युज्झितासङ्गं पयः पद्मदले यथा || २१ || आभासमात्रेण स्थितमप्युपेक्ष्यमाणत्वादुज्झितासङ्गम् || २१ || कदा बहुलकल्लोलां नावा परमया धिया | परितीर्णो भविष्यामि मत्तां तृष्णातरङ्गिणीम् || २२ || मत्तां अविवेकप्रवृद्धाम् || २२ || कदेमां जागतैर्भूतैः क्रियमाणामसन्मयीम् | क्रियामपहसिष्यामि बाललीलामिवाकुलाम् || २३ || क्रियां बाह्यप्रवृत्तिम् | आकुलां व्यग्रचित्ताम् || २३ || कदा विकल्पपर्यस्तं मनो दोलावदोलनम् | शममेष्यति मे शान्तवातौजस इव भ्रमः || २४ || विकल्पैः पर्यस्तं विक्षिप्तम् | दोलेव अवदोलनं यस्य तदविश्रान्तम् | शान्तवातौजसः प्रशान्तोन्मादवातरोगस्य भ्रमो विक्षिप्ततेव || २४ || कदोदितवपुर्भासा विहसञ्जागतीर्गतीः | अन्तः संतोषमेष्यामि विराडात्मेव पूर्णधीः || २५ || उदितवपुष आविर्भूतस्वरूपस्य भासा स्वप्रकाशस्फुरणेन | विराट्ब्रह्माण्डशरीर आत्मेव स्वान्तः पूर्णधीः || २५ || अन्तः समसमाकारः सौम्यः सर्वार्थनिस्पृहः | कदोपशममेष्यामि मन्थमुक्तामृताब्धिवत् || २६ ||
306 SK समेन परमात्मना सम एकरसः समेन समाहितेन विष्णुना समः सश्रीकश्च आकारो यस्य | सर्वेष्वर्थेषु धर्मार्थकामेषु अमृतकौस्तुभादिषु च निस्पृहः | मन्थेन मथनविक्षेपेण मुक्तोऽमृताब्धिः क्षीरार्णवस्तद्वत् || २६ || कदेमामचलां दृश्यश्रियमाशाशतात्मिकाम् | सर्वां सुषुप्तवत्पश्यन्भविष्याम्यन्तराततः [अन्तरानत इति पाठः] || २७ || सुषुप्तवत्सन्मात्रात्मना पश्यन् || २७ || सबाह्याभ्यन्तरं सर्वं शान्तकल्पनया धिया | पश्यंश्चिन्मात्रमखिलं भावयिष्याम्यहं कदा || २८ || भावयिष्यामि तद्भावनया स्थिरो भविष्यामि || २८ || कदोपशान्तचित्तात्मा चित्तामुपगतः पराम् | परमालोकमेष्यामि जात्यन्धविगमादिव || २९ || परां चित्तां चिदेकरसताम् | परं परमात्मानं पुरःस्थितपुरुषान्तरं च | जात्यन्ध इति भावप्रधानो निर्देशः | जात्यन्धतासदृशानादिमूलाज्ञानापगमादिति भावः || २९ || कदाभ्यासोपलभ्येन चित्प्रकाशेन चारुणा | दूरादालोकयिष्यामि तन्वीं कालकलामिमाम् || ३० || तन्वीं बाधितानुवृत्तिरूपत्वात्तुच्छामल्पावशिष्टां चायुःशेषलक्षणां कालकलामात्मास्पर्शिताद्दूरादेवालोकयिष्यामीत्यर्थः || ३० || ईहितानीहितैर्मुक्तो हेयोपादेयवर्जितः | कदान्तस्तोषमेष्यामि स्वप्रकाशपदे स्थितः || ३१ || कदाशाकौशिकीकीर्णा जाड्यजीर्णहृदम्बुजा | क्षयमेष्यति कृष्णेयं कदा मे दोषयामिनी || ३२ || जाड्येन मौर्ख्येण हिमेन च जीर्णं जरितं हृदम्बुजं यया | दोषोऽविद्यातमस्तल्लक्षणा यामिनी रात्रिः || ३२ || कदोपशान्तमननो धरणीधरकन्दरे | समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना || ३३ || निर्विकल्पसमाधिना शान्तमननश्चिदैकरस्यविगलितमनोवृत्तिः || ३३ || कदा मे मानमातङ्गः स्वाभिमानमहामदः | सत्त्वावबोधहरिणा हतो नाशमुपैष्यति || ३४ || मानोहंकारस्तल्लक्षणो मातङ्गः स्वे स्वांशभूता अभिमानवृत्तय एव महान्तो मदप्रवाहा यस्य | सत्त्वं परमार्थसन्मात्रं तदवबोधलक्षणेन हरिणा सिंहेन || ३४ ||
307 SK निरंशध्यानविश्रान्तेर्मूकस्य मम मूर्धनि | कदा तार्णं करिष्यन्ति कुलायं वनघूर्णिकाः || ३५ || निरंशे निर्विकल्पे ध्याने विश्रान्तिर्यस्य | मूकस्य मौनव्रतिनो मम मूर्धनि | तार्णं तृणमयं कुलायं नीडम् | घूर्णिकाः पक्षिभेदाः || ३५ || कदा निःशङ्कमुरसि ध्यानधीरधियः खगाः | मम विश्रान्तिमेष्यन्ति शैलस्थाण्वचलस्थितेः || ३६ || ध्याने धीरा स्थिरा धीर्यस्य | उरसि उरोलम्बिजटाग्ररचितनीडे इति यावत् || ३६ || तृष्णाकरञ्जजटिलां जन्मजर्जरगुल्मिकाम् | संसारारण्यसरसीं त्यक्त्वा यास्याम्यहं कदा || ३७ || तृष्णालक्षणैस्तीररुहैः करञ्जैर्जटिलाम् | जन्मान्येव कामादिमृगसंचारजर्जराणि गुल्मान्तराणि यस्याम् || ३७ || इति चिन्तापरवशो वन उद्दालको द्विजः | पुनः पुनस्तूपविशन्ध्यानाभ्यासं चकार ह || ३८ || न स लेभे समाधानप्रतिष्ठां प्रीतिदायिनीम् || ३९ || कदाचिद्बाह्यसंस्पर्शपरित्यागादनन्तरम् | तस्यागच्छच्चित्तकपिः प्रोद्वेगं सत्त्वसंस्थितौ || ४० || प्रत्याहारेण बाह्यानां विषयसंस्पर्शानां त्यागादनन्तरं सत्त्वगुणप्रधानसमाधिसंस्थितौ प्रसक्तायां रजसा क्षोभ्यमाणं भयारत्यालस्यादिरूपं प्रोद्वेगमगमत् | अथवा सत्त्वसंस्थितौ सात्त्विकदेवादिभोग्ये विषये सात्त्विकवृत्तिसुखास्वादे वा प्रोद्वेगं मनोरथैश्चलनमगमत् || ४० || कदाचिदान्तरान् स्पर्शान्परित्यज्य मनःकपिः | लोलत्वात्तस्य संयातो विषयं विषदग्धवत् || ४१ || आन्तरान् समाधिसुखस्पर्शान् | विषेण दग्धो मृतो यथा लोकान्तरं प्रयाति तद्वत् | तत्पक्षे आन्तरान् जाठराग्निसंबन्धिनः स्पर्शान् देहोष्मणः || ४१ || कदाचिदुदितार्काभं तेजो दृष्ट्वान्तरे मनः | विषयोन्मुखतां यातं तस्य तामरसेक्षण || ४२ || आन्तरे हार्दब्रह्मणि उदितार्काभं तेजो दृष्ट्वा | तथा च श्रुतिः - नीहारधूमार्कानलानिलानां खद्योतविद्युत्स्फटिकशशीनाम् | एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे इति || ४२ ||
308 SK आन्तरान्ध्यतमस्त्यागं कृत्वा विषयलम्पटम् | तस्योड्डीय मनो याति कदाचित्त्रस्तपक्षिवत् || ४३ || आन्तरस्यान्ध्यतमसोऽज्ञानान्धकारस्य ईषद्ब्रह्माभिव्यक्त्या त्यागं ईषत्प्रशमं कृत्वा तदानीमेव विषयवासनोद्बोधात्तल्लम्पटं भूत्वेत्यर्थः || ४३ || बाह्यानाभ्यन्तरान्स्पर्शांस्त्यक्त्वा निद्रां च तन्मनः | तमस्तेजोन्तिके लेभे कदाचिच्छाश्वतीं स्थितिम् || ४४ || बाह्याभ्यन्तरस्पर्शौ व्याख्यातौ | तमसोऽज्ञानस्य तेजस आत्मज्योतिषश्चान्तराले संधौ लीनं सन्निद्रामेव शाश्वतीं चिरानुवृत्तां स्थितिं लेभे || ४४ || इति पर्याकुलस्यान्तः स खलु ध्यानवृत्तिषु | दरीष्वन्वहमुग्रासु वातमग्न इव द्रुमः || ४५ || दरीषु ध्यानसंरूढमननः [मनसः पर्याकुलस्य इत्यपि पाठः] सः पर्याकुलस्य मनसो मध्ये मध्ये वातेन सन्निहितजले मग्नो मज्जितो द्रुमो यथा तथा तृष्णालक्षणैस्तीरतरङ्गकैर्दोलायितवपुः सन् संकटे अतिष्ठदिति परेण सहान्वयः || ४५ || अतिष्ठध्यानसंरूढमननः संकटे यथा | दोलायितवपुस्तुच्छतृष्णातीरतरङ्गकैः || ४६ || अथ पर्याकुलमना विजहार मुनिर्गिरौ | प्रत्यहं दिवसाधीशो महामेराविवैककः || ४७ || विजहार संचचार | महामेरौ सदैवार्कपादसंबन्धदर्शनात्तत्रार्कविहरणकल्पनयोपमोक्तिः || ४७ || समस्तभूतदुष्प्रापामेकदा प्राप कन्दराम् | संशान्तसर्वसंचारां मुनिर्मोक्षदशामिव || ४८ || समस्तभूतदुष्प्रापामत एव संशान्तसर्वसंचाराम् | कन्दरामोक्षदशासाधारणे विशेषणे | आसर्गसमाप्तेः कन्दरैवं विशेष्यते || ४८ || अपर्याकुलितां वातैरप्राप्तमृगपक्षिणीम् | अदृष्टां देवगन्धर्वैः परमाकाशशोभनाम् || ४९ || परमाकाशो ब्रह्मेव शोभमानाम् || ४९ || पुष्पप्रकरसंछन्नां मृदुशाद्वलकोमलाम् | ज्योतीरसाश्मसंप्रोतैः कृतां मरकतैरिव || ५० || ज्योतीरूपो रसश्चन्द्रस्तदश्मभिश्चन्द्रकान्तैः सह संप्रोतैर्घटितैर्मरकतमणिभिः कृतामिव || ५० ||
309 SK सुस्निग्धशीतलच्छायां प्रकटां रत्नदीपकैः | सुगुप्तां वनदेवीनामन्तःपुरकुटीमिव || ५१ || द्वारि सुस्निग्धशीतलच्छायाम् || ५१ || कुलम्बनाहिमालोकां नात्युष्णां नातिशीतलाम् | शारदस्योदितार्कस्य हेमगौरीं प्रभामिव || ५२ || कौ द्वारभूमौ लम्बन्ते प्रसरन्तीति कुलम्बनाः | अहिमाः शीतनिवारणमात्रक्षमा आलोका यस्याम् | अत एव नात्युष्णां नातिशीतलाम् | उदितार्कस्य बालसूर्यस्य | हेमेव गौरीं पीताम् || ५२ || बालालोकपरिम्लानां कोमलाशब्दमारुताम् | मञ्जरीजटिलोपेतां बालां मालावतीमिव || ५३ || बालेन आलोकेन परिम्लानां शुष्काम् | अनेन गुहा प्रा᳚मुखीति गम्यते | कोमलो मन्दः अशब्दश्च मारुतो यस्याम् | तेन प्रत्यग्भागेऽपि गवाक्षवत्ता गम्यते | मञ्जरीजटिलैस्तरुभिरुपेताम् | अनेन सुरभिता गम्यते | स्वयंवरोद्युक्तां मालावतीं बालां राजकन्यामिव स्थितामित्यर्थः || ५३ || उपशमपदवीमिवानुरूपां कमलजविश्रमणाय योग्यरूपाम् | कुसुमनिकरकोमलाभिरामां सरसिजकोटरकोमलां समन्तात् || ५४ || सरसिजकोटरमिव कोमलाम् | अत एव कमलजस्य धातुर्विश्रमणाय योग्यरूपाम् | समन्तात्कुसुमनिकरैश्च कोमलां रम्याम् | उपशमपदवीमिव सदैवाश्रयितुमनुरूपां कन्दरां प्रापेति पूर्वत्र संबन्धः || ५४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे उद्दालकमनोरथो नामैकपञ्चाशः सर्गः || ५१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे उद्दालकमनोरथो नामैकपञ्चाशः सर्गः || ५१ || द्विपञ्चाशः सर्गः ५२ स तां विवेश धर्मात्मा गन्धमादनकन्दराम् | चित्रभ्रमणसंप्राप्तामलिः पद्मकुटीमिव || १ || गुहायामासनस्थेन समाधिं प्रविविक्षता | चित्तप्रबोधनोपायाश्चिन्तिता इह वर्णिताः || १ || चित्रेण बहुविधेन भ्रमणेनान्वेषणेन | पद्मकुटीमिवेत्यनेन प्रविष्टस्य तत्र निरतिशयानन्दरसपानविश्रान्तिर्भविष्यतीति गम्यते || १ || समाधानोन्मुखतया प्रविशन्स व्यराजत | सर्गव्यापारविरतावात्मपुर्यामिवाब्जजः || २ ||
310 SK आत्मनः पुर्यां सत्यलोकस्थायामपराजिताख्यायां भगवन्नाभिपद्मलक्षणायां वा || २ || चकारासनमम्लानैः पत्रैरन्तस्वगुच्छकम् | मृदुमेघविधिर्वृन्दमम्भोदमिव तत्र सः || ३ || अन्ते मध्ये स्वं शरीरं गुच्छमिव यस्मिन्भासते तथाविधं अन्तेषु स्वानि तत्तत्पत्रसंबद्धानि पुष्पगुच्छानि वा यस्मिन् तथाविधमासनम् | मेघान्विदधातीति मेघविधिरिन्द्रोऽम्भोदं मेघं वृन्दं कदम्बितमिव | तत्पक्षे अन्तेषु प्रसृतानि स्वगुच्छानीव विद्युतो यस्मिन्निति योज्यम् || ३ || स तत्प्रस्तारयामास पृष्ठे चारु मृगाजितम् | नीलरत्नतटे मेरुस्तारासारमिवाम्बरम् || ४ || तत्तस्यासनस्य पृष्ठे उपरि तत्स्वकक्षास्थं मृगाजिनमिति वा | तारा एव सारा बहुमूल्यरत्नानि यस्मिन् | अनेन तत्पृषताजिनमिति [पुरुषताजिनं इति पाठः] गम्यते || ४ || स तत्रोपाविशद्वृत्तीश्चेतसस्तनुतां नयन् | अन्तःशुद्धवपुः शृङ्गे वृष्य मूक इवाम्बुदः || ५ || चेतसो वृत्तिर्जडविषयत्यागेन तनुतां लघुताम् | यथा अम्बुदो वृष्य वृष्ट्या स्वजाड्यं विहाय शुद्धवपुः शुभ्ररूपो मूको निर्गर्जनः सन् गिरिशृङ्गे उपविशति तद्वत् | वृष्येत्यसमासे ल्यप् छान्दसः | ऋष्यमूक इति पाठे ऋष्यमूकाख्ये सह्यशृङ्गे || ५ || बुद्धवत्सुदृढं बद्धपद्मासन उदङ्मुखः | पार्ष्णिभ्यां वृषणौ धृत्वा चकार ब्राह्ममञ्जलिम् || ६ || बुद्धवत्प्रबुद्धकपिलादिवत् | पद्मासनग्रहणं सिद्धासनोपलक्षणम् | पार्ष्णिभ्यां वृषणौ धृत्वेत्युक्तेस्तत्रैवोपपत्तेः | ब्राह्ममञ्जलिं ब्रह्मादिगुरुपरम्पराप्रणामाञ्जलिम् || ६ || वासनाभ्यः समाहृत्य मनोमृगमुपप्लुतम् | निर्विकल्पसमाध्यर्थं चकारेमां विचारणाम् || ७ || उप समीपे विषयेषु प्लुतं धाविताम् || ७ || अयि मूर्ख मनः कोऽर्थस्तव संसारवृत्तिभिः | धीमन्तो न निषेवन्ते पर्यन्ते दुःखदां क्रियाम् || ८ || अयीति कोमलामन्त्रणे || ८ || अनुधावति यो भोगांस्त्यक्त्वा शमरसायनम् | संत्यज्य मन्दारवनं स याति विषजङ्गलम् || ९ || मन्दारा देवतरुभेदास्तेषां वनम् || ९ ||
311 SK यदि यासि महीरन्ध्रं ब्रह्मलोकमथापि वा | तन्न निर्वाणमायासि विनोपशमनामृतम् || १० || महीरन्ध्रं पातालम् | निर्वाणं निरतिशयसुखविश्रान्तिम् || १० || आशाशतावपूर्णत्वे त्वमेवं सर्वदुःखदम् | त्यज्य याहि परं श्रेयः परमेकान्तसुन्दरम् || ११ || त्वं भोगाशाशतेनावपूर्णत्वे सति एवं प्रागुक्तरीत्या सर्वदुःखदं भवसि | अतः परं भोगाशास्त्यज्य त्यक्त्वा | ल्यप् छान्दसः | निर्दुःखनिरतिशयानन्दरूपत्वादेकान्तसुन्दरं परं श्रेयो निर्वाणं याहि || ११ || इमा विचित्राः कलना भावाभावमयात्मिकाः | दुःखायैव तवोग्राय न सुखाय कदाचन || १२ || इष्टसंपादनं भावः अनिष्टनिवारणमभावः तत्प्रचुरा विचित्राः कलना विषयाः || १२ || शब्दादिकाभिरेताभिः किं मूर्ख हतवृत्तिभिः | भ्रमस्यविरतं व्यर्थं मेघे मण्डूकिका यथा || १३ || हतशब्दो निन्दार्थः | मण्डूकिका यथा मेघे शब्दादिकाभिर्व्यर्थवृत्तिभिर्भ्रमति तथेत्यर्थः || १३ || मनोमण्डूकिके व्यर्थमियन्तं कालमन्धया | भ्रमन्त्या भुवनं क्षिप्रं किं समासादितं त्वया || १४ || तदेव स्पष्टमाह - मन इति | भुवनं जगज्जलं च || १४ || यस्मात्किंचिदवाप्नोषि यस्मिन्वहसि निर्वृतिम् | तस्मिंश्चेतः शमे मूर्ख नानुबध्नासि किं पदम् || १५ || किंचिदवाङ्मनसगम्यं विदेहकैवल्यसुखम् | निर्वृतिं जीवन्मुक्तिविश्रान्तिसुखं वहसि प्राप्नोषि तस्मिन् शमे सर्ववृत्त्युपरमलक्षणे समाधौ हे चेतः पदं व्यवसायं किं नानुबध्नासि || १५ || आगत्य श्रोत्रतां मूर्ख व्यर्थोत्थानोपबृंहिताम् | धिया शब्दानुसारिण्या मृगवन्मा क्षयं व्रज || १६ ||
312 SK कलना दुःखायैवेति यदुक्तं तत्प्रत्येकं दृष्टान्तोदाहरणैः प्रपञ्चयति - आगत्येत्यादिना | व्यर्थेन बहिर्मुखतालक्षणेनोत्थानेन उपबृंहितामुपचितां श्रोत्रेन्द्रियतादात्म्यापत्तिरूपां श्रोत्रतामागत्य प्राप्य | प्राणन्नेव प्राणो नाम भवति वदन्वाक्पश्यंश्चक्षुः शृण्वन् श्रोत्रं इति लिङ्गादात्मनः श्रवणादिकाले श्रोत्रादिभावः श्रुतेरिव भावः | लुब्धकगीतघण्टास्वनमोहितमृगवत् || १६ || त्वक्तामागत्य दुःखाय स्पर्शोन्मुखतया धिया | मूर्ख मा बद्धतामेहि गजीलुब्धगजेन्द्रवत् || १७ || त्वक्तां त्वगिन्द्रियताम् | गजी करेणुस्तस्यां तत्स्पर्शलुब्धगजेन्द्रवत् | सुशिक्षितया करिण्या वनगजेन्द्रं प्रलोभ्याकृष्य गर्तपातादिना हस्तिपका बध्नन्तीति प्रसिद्धम् || १७ || रसनाभावमागत्य गर्द्धेनान्ध दुरन्धसाम् | मा नाशमेहि बडिशपिण्डीलम्पटमत्स्यवत् || १८ || हे अन्ध दुरन्धसां दुरन्नानां गर्द्धेनाभिलाषेण || १८ || चाक्षुषीं वृत्तिमाश्रित्य प्रभारूपचयोन्मुखीम् | मा गच्छ दग्धतां मुग्ध कान्तिलुब्धपतङ्गवत् || १९ || चाक्षुषीं वृत्तिं चक्षुष्टाम् | प्रभा कान्तिस्तत्संबन्धी यो रूपचयो नानारूपभेदस्तदुन्मुखीं तत्प्रवणाम् || १९ || घ्राणमार्गमुपाश्रित्य शरीराम्भोजकोटरे | गन्धोन्मुखतया बन्धं मा त्वं संश्रय भृङ्गवत् || २० || गजोन्मृदितपद्मगर्भस्थभृङ्गवत् || २० || कुरङ्गालिपतङ्गेभमीनास्त्वेकैकशो हताः | सर्वैर्युक्तैरनर्थैस्तु व्याप्तस्याज्ञ कुतः सुखम् || २१ || एकैकसक्तयाप्येवमनर्थे सर्वसक्तस्य तव दुर्वारमेव निरतिशयदुःखमित्याह - कुरङ्गेति | अनर्थैरनर्थसाधनैः शब्दादिभिर्युक्तैर्मिलितैः | हे अज्ञेति चित्तसंबोधनम् || २१ || हे चित्त वासनाजालं बन्धाय भवतोहितम् | स्वात्मनः सहजः फेनस्ततः कुकृमिणा यथा || २२ ||
313 SK कुत्सितेन कृमिणा कोशकारकीटेन सहजः स्वाभाविकः स्वलालाफेनः स्वात्मनो बन्धाय यथा कोशात्मना ततो विस्तारितस्तथा वासनाजालं स्वात्मनो बन्धाय ऊहितं कुवितर्कनिर्मितमित्यर्थः | भवतः अहितमिति वा छित्त्वा ततमिति लिङ्गविपरिणामेन योज्यम् || २२ || यदि शाम्यसि निर्मूलं तदनन्तो जयस्तव || २३ || कथं तर्हि प्रमादकृतस्यास्य बन्धस्य जयस्तत्राह - शरदभ्रेति | प्रथमं कर्मोपासनादिभिः शरदभ्रवच्छुद्धिमागत्य ततः श्रवणादिपरिपाकाज्ज्ञानोदयेन निर्मूलं यदि शाम्यसि तत्तदा अनन्तो जय इत्यर्थः || २३ || क्षयोदयदशाधात्रीं पर्यन्तपरितापिनीम् | जानन्नपि जगत्सृष्टिं न त्यक्ष्यसि विनंक्ष्यसि || २४ || वक्तव्यं सर्वं पिण्डीकृत्यकोक्त्याह - क्षयेति | क्षयोदयौ जन्ममरणे दशा बाल्याद्या दारिद्र्याद्याश्च तासां धात्रीम् | पर्यन्ते मरणोत्तरमपि नरकस्थावरादिगतिपरितापनशीलाम् | जगत्सृष्टिं जागतीं प्रवृत्तिम् || २४ || करोम्यथ किमर्थं वा तवैतदनुशासनम् | विचारणवतः पुंसश्चित्तमस्ति हि नानघ || २५ || अथवा अहितस्य चित्तस्य नानुशासनं कार्यं किंतु बलान्निगृह्य विचारेणोच्छेद एव कार्य इत्याशयेनाह - करोमीति | अनुशासनं हितोपदेशम् || २५ || यावदज्ञानघनता तावत्प्रघनचित्तता | यावत्प्रावृड्जलदता तावन्नीहारभूरिता || २६ || अथवा न चित्तोच्छेदेऽपि पृथग्यत्नः कार्यस्तस्य मूलाज्ञानान्वयव्यतिरेकानुविधायितया तदुच्छेदेनैवोच्छेदः साध्य इत्याशयेनाह - यावदिति त्रिभिः || २६ || यावदज्ञानतनुता तावच्चित्तस्य तानवम् | प्रावृट्परिक्षयो यावत्तावन्नीहारसंक्षयः || २७ || उत्तरौ यावत्तावदिति निपातौ यावांस्तावानित्यर्थकौ || २७ || यावत्तानवमायातं शुद्धं चित्तं विचारतः | तावत्तत्क्षीणमेवाहं मन्ये शारदमेघवत् || २८ || तानवं वासनाक्षयेण सौक्ष्म्यम् || २८ || अनुशासनमेतद्यदसतो नश्यतोऽथ वा | क्रियते तन्नभोवारिपवनाहननैः समम् || २९ ||
314 SK अविवेकिनश्चित्तमनुशासनायोग्यमेव विवेकिनस्तु नश्यदवस्थं नष्टं वा तत्सुतरां तथेत्याशयेनाह - अनुशासनमिति | नभसो वारिणः पवनस्य च आहननैस्ताडनैः समं व्यर्थमिति यावत् || २९ || तस्मात्संक्षीयमाणत्वात्त्यजामि त्वामसन्मयम् | मौर्ख्यं परममेवाहुः परित्याज्यानुशासनम् || ३० || उक्तमेवानुवादेनोपसंहरति - तस्मादिति || ३० || निर्विकल्पोऽस्मि चिद्दीपो निरहंकारवासनः | त्वयाहंकारबीजेन न संबद्धोऽस्म्यसन्मय || ३१ || आत्मनस्तदसंबन्धदर्शनमेव तत्त्याग इत्याशयेनाह - निर्विकल्प इति || ३१ || अयं सोऽहमिति व्यर्थं दुर्दृष्टिरवलम्बिता | त्वया मूढविनाशाय शङ्काविषविषूचिका || ३२ || मम कोऽपराधो येन मां विनाशाय परित्यजसीति चेद्देहादावहंतादुर्दृष्ट्यवलम्बनमेवेत्याह - अयमिति | सा च दुर्दृष्टिः शङ्काविषप्रयुक्ता विषूचिकेव मिथ्याहेतुकापि मूढानां विनाशायैव संपद्यत इत्यपराध इत्यर्थः || ३२ || अनन्तस्यात्मतत्त्वस्य तन्वीति मनसि स्थितिः | न संभवति बिल्वान्तर्वासितादन्तिनोर्यथा || ३३ || कुतो मिथ्यात्वमिति चेदनुपपन्नत्वादेवेत्याह - अनन्तस्येति | इति एवंरूपे परिच्छिन्ने मनसि तन्वी परिच्छिन्ना स्थितिर्देहाद्यहंभावेन स्थितिर्न संभवति नोपपद्यत इत्यर्थः | वासिता करिणी दन्ती च तयोर्बिल्वान्तस्थितिर्यथा न संभवति तथेत्यर्थः || ३३ || महाश्वभ्रीव गम्भीरा दुःखदा वासनाश्रिता | त्वयैषा बत चित्तेति नैनामनुसराम्यहम् || ३४ || चित्तस्य त्याज्यत्वे हेत्वान्तरमप्याह - महाश्वभ्रीति | हे चित्त त्वया महती श्वभ्री जीर्णकूपादिरिव गम्भीरा अदृश्यतला कामक्रोधलोभादिसर्पवृश्चिकपिशाचालयत्वाद्दुःखदा दुर्वासनैव स्वाल्यत्वेनाश्रिता | वतेति खेदे | अहं तु एनां नानुसरामीति तदनुसारिणं त्वां त्यजामीत्यर्थः || ३४ || कः किलायं मुधा मोहो बालस्येवाविचारिणः | अयं सोऽहमिति भ्रान्तिस्त्वहंतापरिकल्पिता || ३५ ||
315 SK किं चायं देहः स आत्माहमिति भ्रान्तिस्तु या त्वया अहंतापरिकल्पिता अयं बालस्येवाविचारिणो मोहो विचारिणो मम कः किल | न कश्चिदपीति नास्त्येवेत्यर्थः || ३५ || पादाङ्गुष्ठाच्छिरो यावत्कणशः प्रविचारितम् | न लब्धोऽसावहं नाम कः स्यादहमिति स्थितः || ३६ || तन्नास्तित्वमेव विमृश्य विशदयति - पादाङ्गुष्ठादित्याना | कणशो विविच्येति शेषः || ३६ || भरिताशेषदिक्कुञ्जं यत्स्यामेकं जगत्त्रये | संवेदनमसंवेद्यं सर्वत्रविगतात्मकम् || ३७ || यद्यहंपदार्थो नास्त्येव तर्हि कस्त्वं तत्राह - भरितेति द्वाभ्याम् | भरिताशेषदिक्कुञ्जं दिक्कृतपरिच्छेदरहितम् | एकं वस्तुकृततद्रहितम् | असंवेद्यं क्रमसंवेद्यावस्थात्रयलक्षणकालकृतपरिच्छेदशून्यम् | अत एव सर्वत्र सर्वेषु प्रकारेषु विगतो वस्त्वन्तरात्मा यस्य | ईदृशं संवेदनमेवाहं स्यामित्यर्थः || ३७ || दृश्यते यस्य नेयत्ता न नाम परिकल्पना | नैकता नान्यतैवेह न महत्ता न चाणुता || ३८ || इयत्ता परिच्छिन्नं रूपम् | एकता एकत्वसंख्या | अन्यता अदन्यसंख्या | महत्ताणुते परिमाणे || ३८ || वेद तत्त्वां स्वसंवेद्यमाततं दुःखकारणम् | विवेकजेन बोधेन तदिदं हन्यसे मया || ३९ || यतोऽहं संवेदनात्मा तत्तस्मात्साक्षिभूतेन स्वेन संवेद्यं त्वां चित्तं वेद पश्यामि | ततो दुःखकारणत्वादेव इदं वक्ष्यमाणं विवेकमादाय हन्यसे || ३९ || इदं मांसमिदं रक्तमिमान्यस्थीनि देहके | इमे ते श्वासमरुतः कोऽसावहमिति स्थितः || ४० || विवेचनप्रकारमेव दर्शयति - इदमित्यादिना || ४० || स्पन्दो हि वातशक्तीनामवबोधो महाचितः | जरा मृतिश्च कायेऽस्मिन्कोऽसावहमिति स्थितः || ४१ || स्पन्दांशः सर्वोऽपि वातशक्तीनां प्राणानाम् | अवबोधांशस्तु महाचितः परमात्मनः | जरा मृतिश्चेत्येते कायकोटौ || ४१ || मांसमन्यदसृक्वान्यदस्थीन्यन्यानि चित्त हे | बोधोऽन्यः स्पन्दनं चान्यत्कोसावहमिति स्थितः || ४२ || अन्यदहंपदार्थाद्व्यतिरिक्तम् || ४२ ||
316 SK इदं घ्राणमियं जिह्वा त्वगियं श्रवणे इमे | इदं चक्षुरसौ स्पर्शः कोऽसावहमिति स्थितः || ४३ || यथाभूततया नाहं मनो न त्वं न वासना | आत्मा शुद्धचिदाभासः केवलोऽयं विजृम्भते || ४४ || यथाभूततया परमार्थतया विचारे मनः अहं न | न त्वं चित्तमहं वासनापि नाहम् | आत्मा तु सर्वथा अहंतया न स्पृष्ट इत्याह - आत्मेति || ४४ || अहमेवेह सर्वत्र नाहं किंचिदपीह वा | इत्येव सन्मयी दृष्टिर्नेतरो विद्यते क्रमः || ४५ || तस्मिन्नात्मनि यद्यध्यारोपदृष्टिस्तर्ह्यहमेव सर्वत्राधिष्ठानमिति सर्वमेवाहम् | यद्यपवाददृष्टिस्तर्हि नाहं किंचिदपीति नैकदेहमात्रपरिच्छिन्नाहंभावलक्षण इतरोऽहंकारक्रमो विद्यत इत्यर्थः || ४५ || चिरमज्ञानधूर्तेन पोथितोऽस्मि त्वहंतया | वृकेण दृप्तेनाटव्यां लब्धेन पशुपोतकः || ४६ || अज्ञानलक्षणेन धूर्तेन कितवेनाहंतया वञ्चनया चिरं पोथितः संक्लेशितोऽस्मि | लब्धेनेति भावे क्तः | विप्रलम्भेनेत्यर्थः | मृगपोतक इवेति शेषः | लब्ध्वेव इति पाठः साधुः | पोतको वत्सः || ४६ || दिष्ट्येदानीं परिज्ञातो मयैवाज्ञानतस्करः | पुनर्न संश्रयाम्येनं स्वरूपार्थापहारिणम् || ४७ || स्वं पारमार्थिकं यद्रूपं तल्लक्षणस्यार्थस्य धनस्यापहारिणम् || ४७ || निर्दुःखो दुःखयोग्यस्य नाहं तस्य न चैष मे | कश्चिद्भवति शैलस्य तत्स्थ एव यथाम्बुदः || ४८ || परस्परविरुद्धस्वभावयोः संबन्धोऽपि नास्ति दूरे ऐक्यमित्याशयेनाह - निर्दुःख इति | शैलस्याम्बुदो यथा कश्चिदपि न भवति तद्वत् || ४८ || भूत्वा त्वहमिदं वच्मि वेद्मि तिष्ठामि यामि च | आत्मावलोकनेनाहमनहंकारतां गतः || ४९ || यदि ते सर्वथाहंकारादिर्नास्ति तर्हि कथं वचनादिना व्यवहरसि तत्राह - भूत्वेति | नट इव तात्कालिकेन तद्भावकल्पनेनाहंकारो भूत्वा इदं त्वदुपदेशवचनादि वच्मि चक्षुरादिना वेद्मि || ४९ || नूनमेवाहमेवैते मन्ये ज्ञाश्चक्षुरादयः | यान्तु तिष्ठन्तु वा देहे ममैते तु न किंचन || ५० ||
317 SK नूनं निश्चितमेव मन्ये | इमे चक्षुरादयस्तत्त्वतोऽहमेव | यदि मद्व्यतिरिक्तास्तर्ह्यज्ञा जडा देहे तिष्ठन्तु यान्तु वा नैते मम किंचनेत्यर्थः || ५० || कष्टं कोऽयमहं नाम कथं केनोपकल्पितः | जगद्बालकवेतालस्तालोत्तालातुलाकृतिः || ५१ || तालादप्युत्ताला दीर्घा अतुला आकृतिर्यस्य || ५१ || एतावन्तं चिरं कालं व्यर्थमालुठितोऽवटे | अहमत्र तृणोन्मुक्ते दुरद्रौ हरिणो यथा || ५२ || इदानीं प्राक्तनीमविचारदशामनुशोचति - एतावन्तमिति || ५२ || स्वार्थमालोकने चक्षुर्यदितून्मुखतां गतम् | तदहं नाम कोसौ स्याद्योऽस्मिन्दुःखे न मोहितः || ५३ || इदानीं प्रतीन्द्रियविषयसंबन्धमहंप्रत्ययास्पदं मृगयति - स्वार्थमित्यादिना || ५३ || स्पर्शनाय निजे तत्त्वे यदि जाता त्वगुन्मुखी | तत्कोयं स्यादहं नाम कुपिशाच इवोदितः || ५४ || निजे तत्त्वे विषये || ५४ || रसेष्वभिनिषण्णेऽस्मिन्स्वक्रमे रसनेन्द्रिये | अहं मृष्टभुगित्येष कुतस्त्यः कुत्सितो भ्रमः || ५५ || स्वक्रमे स्वविषये | सामान्ये एकवचनं पदसंस्कारपक्षाश्रयात् || ५५ || शब्दशक्तिं गते श्रोत्रे वराके स्वार्थपीडिते | तदहंकारदुःखस्य निर्बीजस्य क आगमः || ५६ || शब्दशक्तिं शब्दलक्षणविषयम् | स्वार्थः श्रवणतृष्णा तेन पीडिते वशीकृते | आगमः प्रसङ्गः || ५६ || आत्मंभरित्वेन निजे घ्राणे स्वं गन्धमागते | अहं घ्रातेति यो माता तं चौरं नैव वेद्म्यहम् || ५७ || आत्मंभरितया स्वोदरपूरकतया गर्धेनेति यावत् | मातात्राभिमन्ता || ५७ || मृगतृष्णाक्रमेणैषा भावना व्यर्थभाविनी | भावस्तस्यामसत्यायां यः सोऽयमिति संभ्रमः || ५८ || एषा उक्तस्थलेषु प्रसिद्धा भावना अहंताकल्पना | तस्यां भावनायामसत्यायां निर्विषयायां सत्यामयं देहः सः अहमिति भावः | संभ्रमो भ्रान्तिरेवेति सर्वथा देहाहंभाववासना त्याज्येत्यर्थः || ५८ || वासनाहीनमप्येतच्चक्षुरादीन्द्रियैः स्वतः | प्रवर्तते बहिः स्वार्थे वासना नात्र कारणम् || ५९ ||
318 SK ननु वासनाभावे बाह्यप्रवृत्तीनां सर्वतोपरमः स्यादिति जीवनमेव पुरुषस्य न स्यात्तत्राह - वासनाहीनमपीति | एतत् शरीरं स्वार्थे जीवनहेतौ कर्मणि वासनाहीनमपि प्रवर्तते | दामव्यालकटानां प्राग्युद्धादिप्रवृत्तिवर्णनादिति भावः || ५९ || वासनारहितं कर्म क्रियते ननु चित्त हे | केवलं नानुभूयन्ते सुखदुःखदृशोऽग्रगाः || ६० || यदि प्रवर्तते तर्हि तत्प्रयुक्तं दुःखमपि भविष्यत्येवेति वासनात्यागात्को गुणस्तत्राह - वासनेति | तात्कालिकभोगाभासे अहं दुःखीति नाभिमानः अग्रगाः भाविन्यस्तु सुखदुःखदृशो नानुभूयन्त इति तत्प्रयुक्ता शोकमोहभयविषादचिन्तोद्वेगादिसर्वसंतापशान्तिरेवास्य गुण इति भावः || ६० || तस्मान्मूर्खाणीन्द्रियाणि त्यक्त्वान्तर्वासनां निजाम् | कुरुध्वं कर्म हे सर्वं न दुःखं समवाप्स्यथ || ६१ || इदानीमिन्द्रियाणि संबोध्यामुमर्थं विविच्योपदिशति - तस्मादित्यादिना || ६१ || भवद्भिरेव दुःखाय वासनावासिता मुधा | बालैः पङ्कक्रीडनकं विनाशेनेव खिन्नता || ६२ || बालैः प्रथमं पङ्कक्रीडनकमिव पश्चात्तद्विनाशेन खिन्नतेव च भवद्भिर्विषयार्जने तद्विनाशे च दुःखायैव भोगवासनाऽज्ञात्मनि वासितेत्यर्थः || ६२ || वासनाद्या दृशः सर्वा व्यतिरिक्तास्तु नात्मनः | जलादिव तरङ्गाद्या ज्ञस्यैवान्यस्य नानघ || ६३ || अत एव विदुषामज्ञानबाधिताः सह स्वकार्यैः शुद्धात्मैव संपन्ना इति न पृथक्संतीत्याह - वासनाद्या इति | आद्यपदेन तत्कार्यरागप्रवृत्त्यादिर्गृह्यते |ज्ञस्यैव ता न सन्ति नान्यस्याज्ञस्येत्यर्थः || ६३ || तृष्णयैव विनष्टाः स्थ व्यर्थमिन्द्रियबालकाः | कोशकारकुकृमयस्तन्तुनेव स्वयंभुवा || ६४ || अत एवाज्ञैस्तृष्णयैवेन्द्रियाणि नाशितानीत्याह - तृष्णयैवेति | स्वयंभुवा स्वत एवोद्भूतया || ६४ || तृष्णयैवेह लुठथ जरामरणसंकटे | भ्रमद्दृष्ट्येव शिखरिपथिकाः श्वभ्रभूमिषु || ६५ ||
319 SK इह अधःसंसारशिलाकण्टकभुवि लुठथ | यथा शिखरिपथिकाः पर्वतशिखरे गच्छन्तः पित्तवशाद्भ्रमन्त्या दृष्ट्या शिखरात्पतिता अधो विषमेषु लुठन्ति तद्वत् || ६५ || वासनैवेह भवतां हेतुरेकत्र बन्धने | रज्जुः शून्याशयप्रोता मुक्तानामातता यथा || ६६ || यथा मुक्तानां शून्ये छिद्रिते आशये गर्भे प्रोता आतता दीर्घा रज्जुस्तन्तुर्बन्धने हेतुस्तद्वत् || ६६ || कल्पनामात्रकलिता सत्यैषा हि न वस्तुतः | असंकल्पनमात्रेण दात्रेणेव विलूयते || ६७ || कल्पनाद्भ्रान्तिस्तन्मात्रेण कलिता संपादिता | एषा वासना || ६७ | एषा हि भवतामेव विमोहाय क्षयाय च | वातलेखेव दीपानां स्फुरतामपि तेजसाम् || ६८ || भवतां चित्तेन्द्रियाणाम् | वर्धमाना विमोहाय | क्षयाय मरणादिदुःखाय | स्फुरतां तेजसामुल्काविद्युदादीनामपि || ६८ || हे चित्त सर्वेन्द्रियकोश तस्मा- त्सर्वेन्द्रियैरैक्यमुपेत्य नूनम् | आलोक्य चात्मानभसत्स्वरूपं निर्वाणमेवामलबोधमास्स्व || ६९ || तस्मादुक्तहेतोः सर्वेन्द्रियाणां कोशवदाधार हे चित्त त्वं सर्वेन्द्रियैः सह ऐक्यमैकमत्यमुपेत्य नूनं निश्चयेनात्मानं स्वमसत्स्वरूपं मिथ्याभूतमित्यालोक्य स्वसाक्षिनिर्वाणमलबोधमात्रं तत्त्वतो भूत्वा आस्स्व न भूयश्चित्तरूपमादत्स्वेत्यर्थः || ६९ || विषयविषविषूचिकामनन्तां निपुणमहंस्थितिवासनामपास्य | अभिमतपरिहारमन्त्रयुक्त्या भव विभवो भगवान्भियामभूमिः || ७० || सर्वशास्त्रतत्त्वज्ञाभिमता ये द्वैतवासनापरिहारास्तल्लक्षणया अभिलषितविषयत्यागलक्षणया मन्त्रयुक्त्या अनन्तामसंख्यदुःखामहंस्थितिरहंकारस्तद्वासनालक्षणां विषमविषसदृशाज्ञानप्रयुक्तां विषूचिकां निपुणमपास्य विभवो विसंसारः सन् भियां मरणादिसर्वभयानामभूमिरनास्पदं भगवान्पूर्णानन्दात्मैव भवेत्यर्थः || ७० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उपशमप्रकरणे उद्दालकविचारो नाम द्विपञ्चाशः सर्गः || ५२ ||
320 SK इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे उद्दालकविचारो नाम द्विपञ्चाशः सर्गः || ५२ || त्रिपञ्चाशः सर्गः ५३ उद्दालक उवाच | अपारपर्यन्तवपुः परमाण्वणुरेव च | चिदचेत्या तदाक्रान्तौ न शक्ता वासनादयः || १ || वासनाभिरलेपित्वमहंकारेण चात्मनः | शरीरमनसोर्वैरमित्याद्यत्रोपपाद्यते || १ || परिच्छिन्नस्तिलादिः कुसुमादिभिर्वास्यते आत्मपितु(?) *? विद्यते पारं परावधिः पर्यन्ताः पूर्वपश्चिमपार्श्वावधयश्च यस्यास्तथाविधस्वरूपा | तथा स्थूलाः पृथिव्यप्तेजोवायवः कस्तूर्यादिना वास्यन्ते चित्तु परमाणोरपञ्चीकृताकाशादव्याकृताकाशाच्चाणुः सूक्ष्मतमा अतस्तस्या आक्रान्तौ ईषदपि स्पर्शे वासनादयो न शक्ता इत्यर्थः | साक्षत्तत्स्पर्शाशक्तावपि तच्चेत्यस्पर्शद्वारा तत्संबन्धप्रसक्तिशङ्कावारणाय विशिनष्टि - अचेत्येति || १ || मनः शेमुष्यहंकारप्रतिबिम्बैर्जडेन्द्रियैः | वासनावितताः शून्या वेतालत्रासनोद्यताः || २ || ननु त्वदप्रकाशितविषये वासनोदयादर्शनात्त्वयैव विततास्ताः कथं त्वदस्पर्शिन्यस्तत्राह - मन इति | न मया ताः वितताः किंतु जडेन्द्रियैरुपात्तानां विषयाणां शेमुष्यां बुद्धौ अहंकारे च चित्प्रतिबिम्बैर्हेतुभिस्तत्सूक्ष्मावस्थारूपा अत एव शून्या असद्रूपा अपि वेताला इव त्रासनोद्यता वासनावितता विस्तारिता मनः अनुभवतीति परेणान्वयः || २ || तत्कृतेभ्यो विचारेभ्योऽनुभूतेभ्योऽपि भूरिशः | भूयोऽप्यनुभवत्यन्तरहं हि चिदलेपिका || ३ || जागरे भूरिशः कृतेभ्यो विषयविचारेभ्योऽनुभूतेभ्यश्च विषयेभ्यो भूयोऽपि स्वप्नेऽन्तर्नाडीच्छिद्रान्तर्वासनामयानेव विषयांस्तन्मनः अनुभवति | नच बुद्ध्यहंकारकृतेन मनोनुभूतेन वा मम लेपः | हि यस्मादलेपिका चेदेवाहं न मन आदिसंघातात्मेत्यर्थः | तथाच श्रुतिः - || svadurbhāvoparacitāṃ dehaḥ saṃsārasaṃsthitim | gṛhṇātvatha tyajatu vāpyahaṃ hi cidalepikā || 4 || evaṃ sthūladehakṛtenāpi na lepa ityāha - svadurbhāveti | durbhāvā duśceṣṭāstairuparacitām || 4 ||
321 SK चितो न जन्ममरणे सर्वगायाश्चितः किल | किं नाम म्रियते जन्तुर्मार्यते केन वापि किम् || ५ || अत एव जन्ममरणे अपि स्वस्य न स्त इत्याह - चित इति | सर्वगत्वाच्चित्त्वाच्चेति हेतुगर्भे विशेषणे इति द्योतनाय किलेति निपातः | अविनाश्यदिवितीयात्मदर्शने वध्यघातकबुद्धिर्निर्विषयैव संपद्यत इत्यात्यन्तिकाभयसिद्धिरित्याशयेनाह - किं नामेति || ५ || चितो न जीवितेनार्थः सर्वात्मा सर्वजीवितम् | किं प्राप्स्यति कदात्मैषा प्रायता यदि जीवितम् || ६ || यस्य हि जीवितेनार्थास्तस्य मरणाद्भयं स्यान्न त्वसौ चित इत्याह - चित इति | यतः सर्वात्मा चिदेव सर्ववस्तूनां जीवितम् | एवमस्याः सर्वदेशकालवस्तुषु प्रायता विस्तृता स्वरूपचिदेव यदि जीवितं तदा तेन जीवितेन कदा किमन्यदप्राप्तं प्राप्स्यति यदर्थं तदिच्छेत्यर्थः || ६ || जीव्यते म्रियते चेति कुविकल्पकमालिनी | कलना मनसामेव नात्मनो विमलात्मनः || ७ || मरणजीवनयोर्मनःकल्पनामात्रत्वादपि न तद्द्वेषवाञ्छाप्रसक्तिरित्याह - जीव्यत इति || ७ || यो ह्यहंभावतां प्राप्तो भावाभावैः स गृह्यते | आत्मनो नास्त्यहंभावो भावाभावाः कुतोऽस्य ते || ८ || यो हि देहाहंभावतां प्राप्तः स देहभावाभावरूपैर्जन्ममरणैर्गृह्यते || ८ || अहंभावो मुधा मोहो मनश्च मृगतृष्णिका | जडः पदार्थसंभारः कस्याहंकारभावना || ९ || देहाहंभावना किमहंकारस्य उत मनस उत पदार्थवर्गस्य | तत्राद्यौ न प्रमाणवेद्यावित्यसद्रूपौ | पदार्थास्त्वत्यन्तजडा नाभिमानयोग्या इति निर्विषया निराश्रया च सेत्याह - अहंभाव इति | अहंभावोऽहंकारः || ९ || रक्तमांसमयो देहो मनो नष्टं विचारणात् | जडाश्चित्तादयः सर्वे कुतोऽहंभावभावना || १० || उक्तमेवार्थं भङ्ग्यन्तरेण विस्तरेणाह - रक्तेत्यादिना || १० || आत्मंभरितया नित्यमिन्द्रियाणि स्थितान्यलम् | पदार्थाश्च पदार्थत्वे कुतोऽहंभावभावना || ११ ||
322 SK आत्मंभरितया स्वस्वविषयमात्रव्यापृततालक्षणस्वोदरमात्रपूरकतया नाहंकारपुष्टिलक्षणपरोपकारितयेत्यर्थः | पदार्थत्वे पदार्थस्वरूपे || ११ || गुणा गुणार्थे वर्तन्ते प्रकृतौ प्रकृतिः स्थिता | सदेव सति विश्रान्तं कुतोऽहंभावभावना || १२ || गुणाः सत्त्वादयो गुणानामर्थे प्रकाशप्रवृत्तिमोहलक्षणे स्वव्यापारे | प्रकृतौ गुणसाम्यावस्थालक्षणे स्वभावे | प्रकृतिः प्रधानाख्या माया | सद्ब्रह्म सति स्वात्मभूते सत्स्वभावे एव विश्रान्तम् || १२ || सर्वगं सर्वदेहस्थं सर्वकालमयं महत् | केवलं परमात्मानं चिदात्मैवेह संस्थितः || १३ || इहास्मिन्देहे यश्चिदात्मा सोऽपि सर्वगत्वादिविशेषणं परमात्मानमेवाहमिति संधाय स्थितः | सोऽपि नाहंकारास्पदमित्यर्थः || १३ || एवं किमाकृतिः को वा किमादेशश्च किंकृतः | किंरूपः किंमयः कोहं किं गृह्णामि त्यजामि किम् || १४ || एवं सति अहमित्येतद्देहमात्राभिमानी किमाकृतिः किंजातीयः कीदृशसंस्थानो वा तत्त्वतः को वा किमादेशः क इति निर्देशार्हः केन हेतुना वा कृतः किंवर्णः कस्य विकारः | तद्भावेन किं वा गृह्णामि अतद्भावेन किं वा त्यजामि || १४ || तेनाहं नाम नेहास्ति भावाभावोपपत्तिमान् | अनहंकाररूपस्य संबन्धः केन मे कथम् || १५ || अतो निर्वक्तुमयोग्यत्वान्मिथ्यैवाहंकार इति नात्मनस्तत्संबन्ध इत्याह - तेनेति | भावत्वे अभावत्वे वा उपपत्तिमान् || १५ || असत्यलमहंकारे संबन्धः कस्य केन कः | संबन्धाभावसंसिद्धौ विलीना द्वित्वकल्पना || १६ || द्वित्वकल्पना त्वमहमिति द्वैविध्यकल्पना || १६ || एवं ब्रह्मात्मकमिदं यत्किंचिज्जगति स्थितम् | सदेवास्मि तदेवास्मि परिशोचामि किं मुधा || १७ || एवं सद्वस्तुव्यतिरिक्तेदंपदार्थपरिमार्गणेऽपि तस्य मिथयत्वमेव पर्यवस्यतीति सद्ब्रह्माद्वैतसाम्राज्यं प्रतिष्ठितमिति न शोकस्यावकाश इत्याह - एवमिति || १७ || एकस्मिन्नेव विमले पदे सर्वगते स्थिते | अहंकारकलङ्कस्य कथं नामोदयः कुतः || १८ ||
323 SK सदद्वैतसिद्धिबलादप्यहंकारो निरसितुं शक्य इत्याशयेनाह - एकस्मिन्निति || १८ || नास्त्येव हि पदार्थश्रीरात्मैवास्तीह सर्वगः | पदार्थलक्ष्म्यां सत्यां च संबन्धोस्ति न कस्यचित् || १९ || अस्तु वा पदार्थलक्ष्मीस्तथापि संबन्धो दुर्वच इति न तत्साधकप्रमाणादिप्रसरात्तत्सिद्धिरिति प्रौढिं निदर्शयन्नाह - पदार्थलक्ष्म्यामिति || १९ || इन्द्रियैरिन्द्रियैरङ्गैर्मनो मनसि वल्गति | चिदलिप्तवपुः केन संबन्धः कस्य किं कथम् || २० || असंबन्धमेवोपपादयति - इन्द्रियैरिति | अङ्गैः स्वावयवत्वेन कल्पितैरिन्द्रियैरिन्द्रियैः सर्वेन्द्रियैर्मनो मनस्येव स्वप्नवद्वल्गति न बाह्यार्थान्स्प्रष्टुं क्षमते | चित्तु इन्द्रियैर्बाह्यार्थैश्च अलिप्ततनुरसङ्गस्वभावा | एवंच कस्य केन सह संबन्धः कथं वा केन वा सिद्ध्यतीत्यर्थः || २० || उपलायःशलाकानां संबन्धो न यथा मिथः | तथैकत्रापि दृष्टानां देहेन्द्रियमनश्चिताम् || २१ || असंबन्धे दृष्टान्तमाह - उपलेति || २१ || असदभ्युत्थिते व्यर्थमहंकारमहाभ्रमे | ममेदमिदमस्येति विपर्यस्तमिदं जगत् || २२ || कुतस्तर्हि लौकिकानां ममेदं धनमित्यादिव्यवहारस्तत्राह - असदिति | विपर्यस्तं भ्रान्तम् || २२ || अतत्त्वालोकजातेयमहंकारचमत्कृतिः | तापेन हिमलेखेव तत्त्वालोके विलीयते || २३ || आत्मनो व्यतिरेकेण न किंचिदपि विद्यते | सर्वं ब्रह्मेति मे तत्त्वमेतत्तद्भावयाम्यहम् || २४ || इति मे मम प्रतीचस्तत्त्वं यदनुभवसिद्धं वा तत्त्वम् || २४ || अहंकारभ्रमस्यास्य जातस्याकाशवर्णवत् | अपुनःस्मरणं मन्ये नूनं विस्मरणं वरम् || २५ || इदानीमहंकारमार्जनोपायमाह - अहंकारेति | प्राग्व्याख्यातम् || २५ || समूलं संपरित्यज्य चिरायाहंकृतिभ्रमम् | तिष्ठाम्यात्मनि शान्तात्मा शरत्खं शरदीव खे || २६ || शरत्खं शरदि खे निर्मले स्वस्वभाव इव || २६ || ददात्यनर्थनिचयं विस्तारयति दुष्कृतम् | विस्तारयति संतापमहंभावोनुसंहितः || २७ ||
324 SK सति तस्मिन्का क्षतिस्तामाह - ददातीत्यादिना || २७ || स्फुरत्यहंकारघने हृद्व्योम्नि सलिलात्मनि | विकसत्यभितः कायकदम्बे दोषमञ्जरी || २८ || सलिलात्मनि दुर्वासनासलिलगर्भे || २८ || मरणं जीवितोपान्तं जीवितं मरणान्तगम् | भावोऽभावाद्व्यवच्छिन्नः कष्टेयं दुःखवेदना || २९ || मरणं मरणादिपारलौकिकदुःखम् | जीवितं पुनर्जन्म तदुपान्तं तदवधिकम् | एवं जीवितमैहिकदुःखं मरणान्तगं मरणावधिकम् | भावो भोग्यवर्गः अभावान्नाशाद्व्यवच्छिन्नः खण्डितः || २९ || इदं लब्धमिदं प्राप्स्यामीत्यार्तिर्दाहकारिणी | न शाम्यत्यर्करत्नानां ग्रीष्मेऽग्निरिव दुर्धियाम् || ३० || अर्करत्नानां सूर्यकान्तमणीनां ग्रीष्मकाले अग्निरिव न शाम्यति नित्यमुद्भवत्येवेत्यर्थः || ३० || नास्तीदमिदमस्तीति चिन्ता धावत्यहंकृतिम् | जडाशया जडामभ्रमाला शैलावलीमिव || ३१ || जडाशया जडाश्रया जलाश्रया च | धावत्यनुसरति | शैलावलीपक्षे जडां गुरुतराम् || ३१ || अहंभावे परिक्षीणे शुष्कः संसारपादपः | भूयः प्रयच्छत्यरसो न पाषाणवदङ्कुरम् || ३२ || न प्रयच्छति न जनयति | यतः अरसः रागलक्षणाङ्गरजननशक्तिशन्यः अत एव पाषाण तुल्यः || ३२ || स्वतृष्णाकृष्णभोगिन्यो देहद्रुमकृतालयाः | क्वापि यान्ति विचारात्मन्यागते विनतासुते || ३३ || विचारात्मनि विचाररूपे | विनतासुते गरुडे || ३३ || असदभ्युत्थिते विश्वे तज्जाते भ्रमसन्मये | असन्मयपरिस्पन्दे त्वहं त्वं चेति कः क्रमः || ३४ || असतो मिथ्याभूतादज्ञानादभ्युत्थिते अत एव भ्रमादध्यासादेव सन्मये | विश्वस्यासत्त्वेपि तत्प्रयुक्तो व्यवहारः सत्यः स्यादित्यत आह - असन्मयपरिस्पन्दे इति | भेदव्यवहारमात्रस्यासन्मयत्वे त्वमहमिति क्रमो भेदव्यवहारोऽपि कः || ३४ || इदं जगदुदेत्यादावकारणमकारणात् | यदकारणमुद्भूतं [कारणमुच्छूनमित्यपि पाठः] तत्सदित्युच्यते कथम् || ३५ ||
325 SK अत एवाकारणं सत्यप्रयोजनशून्यमेव अकारणत्वानर्हादेवाज्ञानादुदेति | ततः किं तत्राह - यदिति || ३५ || अपर्यन्तपुराकाले मृदि कुम्भ इवाकृतिः | देहोऽभवदिदानीं तु तथैवास्ति भविष्यति || ३६ || एवंचोत्पत्तेः पुरो देहादेर्यादृशी स्थितिस्तादृश्येव सर्वदेति सिद्धमित्याह - अपर्यन्तेति | मृदि कुम्भरूपा आकृतिः संस्थानमिव | तुशब्दोऽप्यर्थे || ३६ || मध्येतरपयोमात्रं कंचित्कालं चलाचलम् | आद्यन्तसौम्यते त्यक्त्वा वारि वीचितया यथा || ३७ || उक्तेऽर्थे दृष्टान्तमाह - मध्येति | यथा वारि मध्येतरयोः पूर्वोत्तरकालयोरविकृतपयोमात्रं मध्ये तु कंचित्कालं चलाचलं चञ्चलं सदाद्यन्तयोः पूर्वोत्तरकालयोः प्रसिद्धे सौम्यते त्यक्त्वा वीचितया स्थितं वार्येव न वस्त्वन्तरं तद्वद्देहाद्यपि कालत्रयेऽपि ब्रह्मैव न वस्त्वन्तरमस्तीत्यर्थः || ३७ || अस्मिन्क्षणपरिस्पन्दे देहे विसरणोन्मुखे | तरङ्गे च निबद्धास्था ये हतास्ते कुबुद्धयः || ३८ || क्षणपरिस्पन्दे अस्मिन्देहे विसरणोन्मुखे तरङ्गे च ये अहंत्वेन निबद्धास्थास्ते कुबुद्धयस्तन्नाशेनैव हता इत्यर्थः || ३८ || प्राक्पुरस्ताच्च सर्वाणि सन्ति वस्तूनि नाभितः | मध्ये स्फुटत्वमेतेषां कैवास्था हतरूपिणी || ३९ || देशतः परिच्छिन्नत्वादपि देहादिवस्तुषु नास्था युक्तेत्याह - प्रागिति | मध्ये स्वाधिकरणवितस्त्यादिमितदेशमात्रे स्फुटत्वं विद्यमानतया प्रतीयमानत्वं तदपि कार्त्स्न्यैकदेशाभ्यां विकल्प्य विमर्शे दुर्वचमेवेति तत्रापि निर्विषयत्वाद्धतरूपिणी आस्था कैव | अनुचितैवेति भावः || ३९ || चित्तं पूर्वं पुरस्ताच्च चिद्देशं शान्तमित्यपि | सदसद्वा स्वसंलीनं मध्येऽस्मिन्किं तवोदितम् || ४० ||
326 SK उक्तं न्यायं लिङ्गेपि दर्शयंस्तस्यापि तथात्वमाह - चित्तमिति | चित्तं चित्तोपलक्षितं लिङ्गं स्वोत्पत्तेः पूर्वं पूर्वकाले पुरस्तात्पुरोदेशे च चिद्देहं स्वसाक्षिचिन्मात्रस्वभावम् | एवं उत्तरकाले देशान्तरे च शान्तं नष्टं इति अनयैव [अनयैवेत्यादिर्विचार्योशः] देशतः परिच्छिन्नमपि खे संलीनमिवात्यन्ततिरोहितं सदसद्वेति दुर्वचम् | एवंविधं चित्तं मध्ये सांप्रतमेतद्देशे सद्व्यतिरिक्तं किमुदितम् | न किंचिदित्यर्थः || ४० || यथा स्वप्नविकारेषु यथा संभ्रमदृष्टिषु | यथा वा मदलीलासु यथा नौयानसंभ्रमे || ४१ || यदि स्थूलसूक्ष्मदेहाद्यसदेव कीदृशस्तर्हि तत्प्रतिभासस्तत्राह - यथेत्यादिना | संभ्रमाव्याघ्रचोरादिभयानि तद्दृष्टिषु असत्स्वपि व्याघ्रादिषु सर्वत्र व्याघ्रादिशङ्का भवति तद्वत् || ४१ || यथा धातुविकारेषु यथा चेन्द्रियविक्लवे | यथातिसंभ्रमानन्दे दोषावेशदशासु च || ४२ || धातुविकारेषु वातपित्तादिसन्निपातेषु | चक्षुरादीन्द्रियस्य तिमिरादौ विक्लवे दोषे द्विचन्द्रादिभ्रमे | अतिसंभ्रमहेतौ अतिप्रियतमलाभादिप्रयुक्ते आनन्दे | विधुरादीनां कामादिसोषावेशदशासु च यथा सदसतोर्भावाभावयो रूपं चलं प्रतीतिकालमात्रस्थायि किंचित्कामिन्यादिरूपं दृश्यते झटित्येव बाधात्क्षीयते च तथैव एषा भ्रान्तिरिति प्रेणान्वयः || ४२ || दृश्यते क्षीयते चैव रूपं सदसतोश्चलम् | तथैवेयमिह त्वेषा काले न्यूनातिरिक्तता || ४३ || यो विशेषस्तमाह - इह त्विति | स्वप्नादयोऽल्पकालाः जगद्भ्रमस्तु यावन्मोक्षमिति काले न्यूनातिरिक्ततैव विशेष इत्यर्थः || ४३ || सा च त्वया कृता नित्यं चित्त दुःखसुखोदये | यथा वियोगयामिन्यो मतयो हन्ति रागिणम् || ४४ ||
327 SK हे चित्त सा काले न्यूनातिरिक्तता त्वया व्यावहारिकवस्तुषु सत्यताभ्रान्त्या वियोगसंयोगाभ्यां नित्यं दुःखसुखयोरुदये निमित्ततया कृता सती त्वां हन्ति पीडयति | यथा असत्यपि भार्यापुत्रादिमरणे प्रतारकवाक्यादुत्पन्नास्तन्मरणमतयस्तत्कल्पितवियोगयामिन्यश्च रागिणं घ्नन्ति तद्वदित्यर्थः || ४४ || मयैवेहासदभ्यासान्मिथ्या सदिव लक्ष्यसे | मृगतृष्णेव तेनैतत्त्वत्कृतं मत्कृतं भवेत् || ४५ || अथवा नायं तवापराधः किंतु त्वय्यहंभावाभ्यासिनो ममैवापराधो येन मिथ्याभूतमपि त्वं सदिव लक्ष्यसे | त्वत्कृतं च सर्वं मत्कृतं संपन्नमित्यर्थः || ४५ || यदिदं किंचिदाभोगि तत्सर्वं दृश्यमण्डलम् | अवस्त्विति विनिर्णीय मनो यात्यमनःपदम् || ४६ || अत एव त्वदीयविवेकज्ञानादेव मदपराधरूपस्य तव शान्तिरित्याह - यदिदमिति || ४६ || अवस्त्विदमिति स्फारे रूढे मनसि निश्चये | हेमन्त इव मञ्जर्यः क्षीयन्ते भोगवासनाः || ४७ || त्वद्धेतुभोगवासनानामपि तत एव क्षय इत्याह - अवस्त्विति || ४७ || चित्त्वाद्दृष्टात्मना नूनं संत्यक्तमननौजसा | मनसा वीतरागेण स्वयं स्वस्थेन भूयते || ४८ || अथवा चित्प्रतिबिम्बग्रहणेन चित्त्वाद्वीतरागेण अत एव संत्यक्तमननव्यसनेन चरमसाक्षात्कारवृत्त्या दृष्टात्मना मनसा स्वयमेव स्वस्थेन मोक्षविश्रान्तिमता भूयते न मया सदैकरूपत्वादित्याशयेनाह - चित्त्वादित्यादिना || ४८ || परमात्मानले क्षिप्तं संवृत्त्यावयवं स्वयम् | दग्ध्वात्मानमलं चित्तं शुद्धतामेति शाश्वतीम् || ४९ || चित्तं स्वयमेव बहिः प्रवृत्तं स्वावयवमिन्द्रियादि संवृत्त्य तत्त्वबोधेन परमात्मानलक्षिप्तं सदात्मानं चित्तस्वरूपं दग्ध्वा अलमत्यन्तं शाश्वतीं नित्यां शुद्धतामेतीत्यर्थः || ४९ || देहमन्यतया दृष्ट्वा त्यक्त्वा विषयवासनाम् | विनाशमुररीकृत्य मनो जयति वीरवत् || ५० ||
328 SK यथा वीरः पुरुषो युद्धे स्वदेहं स्वर्गगामिस्वान्यतया दृष्ट्वा तद्देहसंबन्धिगृहक्षेत्रधनादिविषयवासनां च त्यक्त्वा मरणमप्यङ्गीकृत्य ब्रह्मलोकं जयति तद्वन्मनोऽपीत्यर्थः || ५० || मनः शत्रुः शरीरस्य शरीरं मनसो रिपुः | एकाभावेन नश्येते आधाराधेयकार्यवत् || ५१ || इदानीं देहमनसोः परस्परतप्यतापकतया विरोधं परस्परतादात्म्याभिमानात्परस्पराभिवृद्ध्या परस्परोपजीव्यतामेकतराभिमानोच्छेदेनोभयोच्छेदं च विस्तरेण दर्शयितुमुपक्रमते - मन इति | शत्रुरिपुशब्दौ तापकपरौ | एकाभावेन एकतरवासनोच्छेदेन | यथा आधाराधेययोर्जलघटयोः कार्यभूतः संयोग एकतरनाशेन नश्यति तद्वत् || ५१ || रागद्वेषवतोर्नित्यमन्योन्यातिविरुद्धयोः | एतयोर्मूलकाषेण विनाशः परमं सुखम् || ५२ || तथाच परस्परोपजीवित्वाद्रागवतोः परस्परोपतापकत्वाद्द्वेषवतोर्व्याघ्रयोः सतोर्वनहरिणस्येव एतयोः सतोर्न जीवस्य सुखं किंत्वेतयोर्मूलकाषेण मूलाज्ञाननाशेन विनाश एव परमं सुखमित्यर्थः || ५२ || एतयोरेकसंस्थाने मृतिरित्येव या कथा | सा व्योम्न्यया स्त्रिया भुक्ता धरेति कथया समा || ५३ || ननु मरणेन भोगायतनदेहनाशादेव सर्वदुःखपरिहारः किं न स्यात्तत्राह - एतयोरिति | देहनाशेऽप्येकस्य मनसः संस्थाने देहकल्पनाया अनिवारणान्मृतिरिति कथा व्योम्नि अया गच्छन्त्या स्त्रिया धरा भूमिर्भुक्ता ग्रस्ता इति कथया समा | असंभावितार्थेत्यर्थः | अयतेः क्विपि यलोपे टापि सवर्णदीर्घे आ तया अया | अयःस्त्रिया इति पाठे तु अयोविकारभूतया स्त्रीप्रतिमया व्योम्नि धरा भुक्तेति कथया समेत्यर्थः | अयःप्रतिमाया व्योम्नि गमनं तत्र धराभक्षणं च यथा अत्यन्तासंभावितं तथा मनसि सति मरणमपीति भावः || ५३ || अकृत्रिमविरोधस्थौ यत्र संघटितावुभौ | धारा इव पतन्त्येव तत्रानर्थपरम्पराः || ५४ || तयोः सतोः का क्षतिस्तत्राह - अकृत्रिमेति | युध्यतोरन्तराले स्थितस्य देहे खड्गशरादिधारा इव || ५४ ||
329 SK मिथो विरुद्धसंसर्गे रतिमेत्यधमो हि यः | त्यक्तव्यः स पतद्वारावग्निराशावलेपने || ५५ || मिथो विरुद्धे देहमनसी संसृज्येते अस्मिन्निति विरुद्धसंसर्गो वैषयिकसुखभोगस्तस्मिन् योऽधमो रतिमास्थामेति स पुरुषः अलेपने निरावरणे पतद्वारौ पतन्ति वारीणि समुद्रोदकानि यस्मिंस्तथाविधे अग्निराशौ वडवानले त्यक्तव्यः | स तत्रापि रतिमेष्यतीत्यर्थः || ५५ || संकल्पेन मनः पुष्ट्वा शरीरं बालयक्षवत् | आयुरेवाशनान्यस्मै स्वदुःखानि प्रयच्छति || ५६ || रागद्वेषवतोरिति यदुक्तं तत्र मनसो देहे रागद्वेषांशौ दर्शयति - संकल्पेनेति | मनः स्वसंकल्पेन बालो यक्षमिव शरीरं परिकल्प्य अस्मै आ आयुः यावदायुःकालं अशनं परिकल्प्य पुष्ट्वा स्वाभिनिवेशनिमित्तानि सर्वदुःखानि प्रयच्छतीत्यर्थः || ५६ || तर्दुःखैस्तापितो देहो मनो हन्तुमथेच्छति | पुत्रोऽपि हन्ति पितरमाततायिपदं गतम् || ५७ || देहस्यापि मनसि द्वेषांशं सहनिमित्तेन दर्शयति - तैरिति | दुर्विस्ऽयसेवनेन मनसि रागद्वेषशोकमोहपापादिजननेन तत्पीडयितुमिच्छतीत्यर्थः | ननु मनोजनितत्वात्पुत्रप्रायो देहः पितृस्थानीयं मनः कथं हन्तुमिच्छति तत्राह - पुत्र इति | उद्यतासिं विषाग्निं च शापोद्यतकरं तथा | आथर्वणेन हन्तारं पिशुनं चैव राजसु | भार्यातिक्रमिणं चैव विद्यात्सप्ताततायिनः | इति विष्णुकात्यायनोक्तानामाततायिनां पदं स्वपीडाव्यवसायं गतं प्राप्तमित्यर्थः || ५७ || नास्ति शत्रुः प्रकृत्यैव न च मित्रं कदाचन | सुखदं मित्रमित्युक्तं दुःखदाः शत्रवः स्मृताः || ५८ || तस्य शत्रुतां लोकप्रसिद्धन्यायेनोपपादयति - नास्तीति || ५८ || देहो दुःखान्यनुभवन्स्वमनो हन्तुमिच्छति | देहं मनः स्वदुःखानां संकेतं कुरुते क्षणात् || ५९ || संकेतं निकेतम् | भोगायतनमिति यावत् || ५९ || एवं मिथो दुःखदयोः श्लिष्टयोः कः सुखागमः | एतयोर्देहमनसोर्जात्यैवातिविरुद्धयोः || ६० ||
330 SK विरोधमुपपादितमनूद्य तत्र सुखदौर्लभ्यमुक्तमुपसंहरति - एवमिति || ६० || मनस्येव परिक्षीणे न देहो दुःखभाजनम् | तत्क्षयोत्कतया नित्यं देहोऽपि परिधावति || ६१ || मनसि क्षीणे तु न देहस्य दुःखप्रसक्तिरस्तीत्याह - मनसीति | अतस्तत्क्षये उत्कतया सोत्कण्ठतया ज्ञानतत्साधनोपायेषु परिधावति | यतते इति यावत् || ६१ || नष्टानष्टमनर्थाय शरीरं पदमापदाम् | अलब्धात्मविवेकेन मनसा सुप्रजायते || ६२ || तर्हि मनोऽपि देहनाशायैव कुतो न यतते तत्राह - नष्टेति | अलब्धात्मविवेकेन मनसा नष्टं नाशितमनाशितं वा शरीरमापदां पदं सदनर्थायैव सुप्रजायते इति तन्नाशान्मनसो नेष्टसिद्धिरित्यर्थः || ६२ || एते मनःशरीरे हि मिथः पीवरतां गते | जडरूपे हि वपुषा पयोदसरसी यथा || ६३ || मिथः अनुग्रहादिति शेषः | सरस्यपि हविर्यज्ञादिनिष्पत्तिद्वारा पयोदानुग्राहिका क्वचित्संभवेदित्युपमोपपत्तिः || ६३ || मिथो दुःखाय संपन्ने एकरूपे द्विधा स्थिते | व्यवहारपरे सार्धं लोके वार्यनलाविव || ६४ || मिथो विरुद्धयोरनयोः किमर्थं सहभाव इति चेद्वारिवह्न्यो पाकार्थमिव पुरुषस्य भोगमोक्षोपायव्यवहारार्थमित्याशयेनाह - मिथ इति | विरुद्धतया द्विधा स्थिते अप्येते अन्योन्यतादात्म्याध्यासादेकरूपे सति दुःखाय दुःखानि भोक्तुं परिहर्तुं च साकं भोगमोक्षव्यवहारसाधनपरे संपन्ने इत्यर्थः || ६४ || चित्ते क्षयिणि संक्षीणे देहो ह्यामूलितो भवेत् | वर्धमाने तरुरिव शतशाखः प्रवर्तते || ६५ || देहस्य चित्ताधीनतोक्तेः फलमाह - चित्ते इति || ६५ || क्षीयते मनसि क्षीणे देहः प्रक्षीणवासनः | मनो न क्षीयते क्षीणे देहे तत्क्षपयेन्मनः || ६६ || संकल्पपादपं तृष्णालतं छित्त्वा मनोवनम् | विततां भुवमासाद्य विहरामि यथासुखम् || ६७ || अतो मन एव नाशयामीत्याह - संकल्पेति || ६७ || प्रक्षीयमाणमेवेदं न मनो मनसि स्थितम् | प्रशाम्यद्वासनाजालं प्रावृडन्त इवाम्बुदः || ६८ ||
331 SK संकल्पनाशे च मनो मनसि मन्ःस्वभावेन स्थितमिति प्रशाम्यद्वासनाजालं सत् प्रावृडन्तेऽम्बुद इव नङ्क्ष्यतीत्यर्थः || ६८ || धातूनां संनिवेशोऽयं देहनामा रिपुर्मम | प्रक्षीयमाणे मनसि गलत्वेषोऽवतिष्ठतु || ६९ || त्वगसृङ्मांसमेदोस्थिमज्जाशुक्राख्यानां धातूनां संनिवेशत्मकोऽयं देहो मनसि प्रक्षीयमाणे गलतु तिष्ठतु वा न काचित्क्षतिरित्यर्थः || ६९ || यदर्थं किल भोगश्रीर्वाञ्छते स्वकलेवरम् | तन्मे नापि न तस्याहं कोऽर्थः सुखलवेन मे || ७० || तिष्ठति देहे दुःखमपि किं न स्यादिति चेत्तत्संबन्धहेतोर्मनसो नाशात्संबन्ध एव नास्ति दूरे दुःखप्रसक्तिरित्याशयेनाह - यदर्थमिति || ७० || नाहं देह इति त्वस्मिन्युक्तिमाकर्णय क्रमे | सर्वाङ्गेष्वपि सत्स्वेव शवः कस्मान्न वल्गति || ७१ || नाहं देह इत्यस्मिन् क्रम्यते बुध्यत इति क्रमोऽवश्यज्ञातव्यार्थस्तस्मिन्युक्तिमुपपत्तिम् | वल्गति दर्शनश्रवणादिना व्यवहरति || ७१ || तस्माद्देहादतीतोऽहं नित्योऽनस्तमितद्युतिः | यः सङ्गं भास्वता प्राप्य वेद्मि व्योमनि भास्करम् || ७२ || तस्माच्छवस्य बोधाद्यदर्शनात् | यो विभुत्वेन सूर्यमण्ड.एऽपि सत्त्वाद्भास्वता सङ्गं प्राप्य व्योमनि भास्करंवेद्मि स एव चिद्रूपोऽहमित्यर्थः || ७२ || नाज्ञोऽहं नच मे दुःखं नानर्थो न च दुःखिता | शरीरमस्तु मावास्तु स्थितोस्मि विगतज्वरः || ७३ || यत्रात्मा तत्र न मनो नेन्द्रियाणिन वासनाः | पामराः परितिष्ठन्ति निकटे न महीभृतः || ७४ || भूम्नि तु मन आदेः प्रसक्तिरेव नास्तीत्याह - यत्रेति | श्रेष्ठसंनिधौ क्षुद्राणामनवस्थाने लोकप्रसिद्धिमुदाहरति - पामरा इति | महीभृतो राज्ञः || ७४ || पदं तदनुयातोऽस्मि केवलोस्मि जयाम्यहम् | निर्वाणोस्मि निरंशोस्मि [निरीहोस्मि निरंशोस्मि इति व्युत्क्रमेण क्वचित्पठ्यते] निरीहोस्मि निरीप्सितः || ७५ || तत्पदमनुयातः प्राप्तोऽस्मि || ७५ || इदानीमस्म्यसंबद्धो मनोदेहेन्द्रियादिभिः | पृथक्कृतस्य तैलस्य तिलैर्विगलनैरिव || ७६ ||
332 SK स्वस्मात्पदवरादस्माल्लीलया चलितस्य मे | पृथक्कृतमतेः किंच परिवारो ह्ययं शुभः || ७७ || किंच प्रारब्धशेषभोगलीलया स्वात्मरूपात्पदवराद्व्यवहाराभासे चलितस्य पूर्ववासनया पृथक्कृतमतेरयं देहेन्द्रियादिर्मे परिवारः परिजन इव विनोदहेतुरित्यर्थः || ७७ || स्वच्छतोर्जितता सत्ता हृद्यता सत्यता ज्ञता | आनन्दितोपशमिता सदा च मृदुभाषिता || ७८ || तस्यां लीलायां स्वच्छतादिगुणसंपदः स्वस्य हृदयवल्लभाः कान्ता इति रूपयति - स्वच्छतेत्यादित्रिभिः | ऊर्जितता पूर्णकामता | ज्ञता विदितात्मता || ७८ || पूर्णतोदाराअ सत्या कान्तिमत्तैकतानता | सर्वैकता निर्भयता क्षीणद्वित्वविकल्पता || ७९ || उदारता निर्लोभता | सत्या अबाधितस्वभावता || ७९ || नित्योदिताः समाः स्वस्थाः सुन्दर्यः सुभगोदयाः | ममैकात्ममतेर्नित्यं कान्ता हृदयवल्लभाः || ८० || एता मम नित्यमुदिता अभ्युदयशालिन्यः कान्ताः || ८० || सर्वथा सर्वदा सर्वं सर्वस्मिन्संभवत्यतः | सर्वं प्रति मम क्षीणे वाञ्छावाञ्छे सुखासुखे || ८१ || संभवति कल्पनयेति शेषः | अतः सर्वं विषयजातं प्रति वाञ्छावाञ्छे रागद्वेषौ | सुखासुखे तत्फले सुखदुःखे || ८१ || विगतमोहतया विमनस्तया गतविकल्पनचित्ततया स्फुटम् | उपरमाम्यहमात्मनि शीतले घनलवः शरदीव नभस्तले || ८२ || अतोऽहं शरदि नभस्तले घनलवो मेघखण्ड इव शीतले निस्तापे आत्मनि दृश्यभावं परित्यज्य विश्राम्यामीत्यर्थः || ८२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे उद्दालकविचारविलासो नाम त्रिपञ्चाशः सर्गः || ५३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे उद्दालकविचारविलासो नाम त्रिपञ्चासः सर्गः || ५३ || चतुःपञ्चाशः सर्गः ५४ श्रीवसिष्ठ उवाच | इति निर्णीय ततया धिया धवलया मुनिः | बद्धपद्मासनस्तस्थावर्धोन्मीलितलोचनः || १ ||
333 SK दहनाप्लावनाद्यैः स्वां भावयन्वैष्णवीं तनुम् | धूत्वा विकल्पान्विश्रान्तः समाधौ स इतीर्यते || १ || धवलया विशुद्धया ततया अक्षुद्रया धिया इति उक्तरीत्या निर्णीय || १ || ओमित्येतत्परं ब्रह्म निर्णीय स मुनिस्तदा | ॐकारोच्चारितो येन तेनाप्तं परमं पदम् || २ || स मुनिरुद्दालकः | येन ॐकार उच्चारितस्तेन परमं पदमाप्तं प्राप्तमेव | यलोपासिद्धेः संधिरार्षः | यत ओमित्येतदक्षरं परस्य ब्रह्मणोऽभिधानत्वात्प्रतीकत्वाच्च परमेव ब्रह्म इति निर्णीय तार उच्चैः स्वरो यस्य तथाविधम् | ऊर्ध्वगतो ध्वनिर्यस्य तथाविधं ओङ्कारं अकरोत् उच्चारितवानिति परेणान्वयः || २ || ॐकारमकरोत्तारस्वरमूर्ध्वगतध्वनिम् | सम्यगाहतलाङ्गूलं घण्टाकुण्डमिवारवम् || ३ || सम्यगाहतं लङ्गूलं लम्बमानजिह्वाकारं लोहं यस्मिंस्तथाविधं घण्टायाः कुण्डं मुखाकाशमारवं नादमिव || ३ || ओमुच्चारयतस्तस्य संवित्तत्त्वे तदुन्मुखे | यावद्ॐकारमूर्धस्थे वितते विमलात्मनि || ४ || कियत्कालम्ॐकारमकरोत्तत्राह - ॐमिति | ॐकारं पुनःपुनरुच्चारयतस्तस्योद्दालकस्य मूलाधारमारभ्य ब्रह्मरन्ध्रपर्यन्तं प्रसिद्धायामस्य्ॐकारस्य मूर्धस्थे अर्धमात्रोपरमोर्ध्वमभिव्यक्ते [अर्धे मात्रोपरमो इति पाठः] वितते अमलात्मनि ब्रह्मणि संविद्ॐकाराकारवृत्त्युपहितं चैतन्यं तत्त्वं कूटस्थजीवचैतन्यं च यावत्तदुन्मुखे अखण्डब्रह्मचैतन्योन्मुखे भवतस्तावत्कालम्ॐकारमकरोदिति पूर्वेण संबन्धः || ४ || सार्धत्र्यंशात्ममात्रस्य प्रथमेंऽशे स्फुटारवे | प्रणवस्य समाक्षुब्धप्राणारणितदेहके || ५ ||
334 SK तत्र निर्विकल्पसमाधिप्रतिष्ठायोग्यतासिद्ध्यर्थं प्रथमं तेनैव प्रणवेन स्थूलदेहस्य शोषणादहनदुष्टभस्मांशनिरसनाप्लावनदिव्यदेहान्तरनिर्माणाद्यपि प्रथमं तद्भावनया वृत्तमित्याह - सार्धत्र्यंशेत्यादिना | सार्धत्र्यंशा अर्धमात्रासहिता अकारोकारमकाराख्या आत्ममात्राः स्वावयवा यस्य तथाविधस्य प्रणवस्य प्रथमेंऽशे उदात्ते अकारभागे स्फुटारवे उच्चैःस्वरेणाभिव्यक्ततारभावे अत एव सम्यगाक्षुब्धैर्बहिर्निर्गमनोद्युक्तैः प्राणैर्मूलाधारमारभ्य ओष्ठपुटावधि रणितदेहके जाते सति रेचकाख्यः प्राणनिष्क्रमणक्रमोऽखिलं कायं रिक्तीचकार रेचनेन शोषयामासेति द्वयोरर्थः || ५ || रेचकाख्योऽखिलं कायं प्राणनिष्क्रमणक्रमः | रिक्तीचकार पीताम्बुरगस्त्य इव सागरम् || ६ || अतिष्ठत्प्राणपवनश्चिद्रसापूरिताम्बरे | त्यक्तदेहः परित्यक्तनीडः खग इवाम्बरे || ७ || तस्य रेचितः प्राणपवनः क्वातिष्ठत्तत्राह - अतिष्ठदिति | चिद्रसेन ब्रह्मभावनाभिव्यक्तहार्दरसेन आपूरिते अम्बरे बाह्याकाशे || ७ || हृदयाग्निर्ज्वलज्ज्वालो ददाह निखिलं वपुः | उत्पातपवनोद्भूतो दावः शुष्कमिव द्रुमम् || ८ || तदानीं भावनया यद्वृत्तं तदाह - हृदयाग्निरिति | प्राणानां निष्क्रमणसंघर्षणाद्धृदये भावनयोद्भूतो वह्निः | दवे अरण्ये भवो दावोऽग्निः || ८ || यावदित्थमवस्थैषा प्रणवप्रथमक्रमे | बभूव न हठादेव हठयोगो हि दुःखदः || ९ || प्रणवस्य पूर्वोक्ते प्रथमक्रमे प्रथमेंशे | इदं च सर्वं भावनया वृत्तं न हठादेव | तत्कुतस्तत्राह - हठयोग इति | हठात्प्राणानां निर्गमने मूर्च्छामरणादिप्रसङ्गादिति भावः || ९ || अथेतरांशावसरे प्रणवस्य समस्थितौ | निष्कम्पकुम्भको नाम प्राणानामभवत्क्रमः || १० || इतर्ॐश उकारभागस्तस्य अनुदात्तमन्द्रोच्चारणावसरे कुम्भस्थजलवन्निश्चलपूर्णत्वात्कुम्भको नाम क्रमः || १० || न बहिर्नान्तरे नाधो नोर्ध्वे नाशासु तत्र ते | संक्षोभमगमन्प्राणां आपः संस्तम्भिता इव || ११ ||
335 SK उक्तं कुम्भकनाम विशदयति - न बहिरिति || ११ || दग्धदेहपुरो वह्निः शशामाशनिवत्क्षणात् | अदृश्यत सितं भस्म शारीरं हिमपाण्डुरम् || १२ || अशनिवद्वैद्युताग्निवत् || १२ || यत्र कर्पूरशय्यायां सुप्तानीव सुखोचितम् | शरीरास्थीनि लक्ष्यन्ते निष्पन्दानि सितानि च || १३ || यत्र यस्यामवस्थायां शरीरास्थीनि कर्पूरधूलिरचितायां शय्यायां सुप्तानीव भावनादृशा लक्ष्यन्ते || १३ || तद्भस्म पवनानीतं सास्थि वायुरयोजयत् | स्वदेहे भृशमुत्सन्ने त्रिनेत्रव्रतवानिव || १४ || वात्या पवनैरूर्ध्वमानीतं सास्थि अस्थिसहितं तद्भस्म वायुरूर्ध्वप्रवाही चण्डपवनस्त्रिनेत्रस्य रुद्रस्य व्रतमस्थिभस्मधारणं तद्वानिव भृशमुत्सन्ने तपःकृश इव अलक्ष्ये स्वदेहे अयोजयत् | उद्धूलयामासेति यावत् || १४ || तच्चण्डपवनोद्धूतमावृत्त्य गगनं क्षणात् | शरदीवाभ्रमिहिका क्वापि भस्मास्थिमद्ययौ || १५ || तत् अस्थिमद्भस्म क्वापि ययौ || १५ || यावदित्थमवस्थैषा प्रणवस्यापरे क्रमे | बभूव न हठादेव हठयोगो हि दुःखदः || १६ || प्रणवस्य मध्यमभागसाध्ये कुम्भकाख्ये क्रमे इत्थमेषाप्यवस्था भावनयैव बभूव नतु हठात् || १६ || ततस्तृतीयावसरे प्रणवस्योपशान्तिदे | पूरणात्पूरको नाम प्राणानामभवत्क्रमः || १७ || तृतीयावसरे तृतीयभागोच्चारणावसरे | यद्यपि रेचकपूरककुम्भकेषु समग्रस्यैव प्रणवस्य साधनत्वं प्रसिद्धं तथापि रेचके आदिभाग एव तायते कुम्भके मध्यमभाग एव पूरके चरमभाग एव | कण्ठान्निर्गच्छता प्राणेन कण्ठ्यभागस्यैवाभिव्यक्तेः संकुचद्भ्यामोष्ठाब्यामुकारभागस्यैवाभिव्यक्तेरोष्ठसंपुटिते मकारभागाभिव्यक्तौ पुनः प्रविशत्यपि प्राणे तत्संस्कारस्यैवानुवर्तनादिति तत्तद्भागावसरविभागोक्तिरिति बोध्यम् || १७ || अस्मिन्नवसरे प्राणाश्चेतनामृतमध्यगाः | व्योम्नि शीतलतामीयुर्हिमसंस्पर्शसुन्दरीम् || १८ || चेतना जीवचित् तस्यां भावितं यदमृतं तन्मध्यगाः | व्योम्नि बहिराकाशे || १८ ||
336 SK क्रमाद्गगनमध्यस्थाश्चन्द्रमण्डलतां ययुः | धूमा गगनकोशस्थाः शीतलाम्बुदतामिव || १९ || गगनकोशस्था धूमा नीहारभागाः शीतलाम्बुदभावमिव || १९ || कलाकलापसंपूर्णे ते तस्मिंश्चन्द्रमण्डले | पुण्यराशाविवापूर्णे रसायनमहार्णवे || २० || अमृतमयानां कलानां कलापैः संघातैः संपूर्णे अत एव रसायनमहार्णवे तस्मिंश्चन्द्रमण्डले पुण्यराशौ धर्ममेघाख्यसमाधाविवाह्लादेनापूर्णे ते प्राणवायवो रसायनमया अमृतमयाः किरणधाराः संपन्ना इति परेणान्वयः || २० || रसायनमया धाराः संपन्नाः प्राणवायवः | मणियष्टिसमाकारा जालेष्विन्दोरिवांशवः || २१ || मणियष्ठिः स्फटिकदण्डस्तत्समाकाराः || २१ || सा पपाताम्बराद्धारा शेषे शारीरभस्मनि | रसायनी हरशिरःपतितेव सुरापगा || २२ || शेषे पवनावधूतावशिष्टे | रसानामयनी प्रवहणी || २२ || उदभूदिन्दुबिम्बाभं चतुर्बाहुवपुस्तया | प्रस्फुरन्मन्दरादब्धेः पारिजात इव द्रुमः || २३ || तया धारया | मथनेन प्रस्फुरन्मन्दरो यस्मिंस्तथाविधादब्धेः पारिजातो द्रुम इव || २३ || उद्दालकशरीरं तन्नारायणतयोदितम् | प्रफुल्लनेत्रवक्त्राब्जमाबभौ दीप्तिसुन्दरम् || २४ || नारायणतया नारायणशरीरतया || २४ || रसायनमयाः प्राणास्तच्छरीरमपूरयन् | सलिलौघा इव सरो वृक्षं मधुरसा इव || २५ || मधौ वसन्ते पल्लवोद्गमहेतवो भौमा रसाः वृक्षमिव चेति परमोपमा || २५ || अन्तःकुण्डलिनीं प्राणाः पूरयामासुरादृताः | चक्रानुवर्तप्रसृतां पयांसीव सरिद्वराम् || २६ || चक्राकारैरनुवृत्तैरावर्तैः प्रसृतां प्रवहन्तीं सरिद्वरां गङ्गाम् | सरित्पतिम् इति पाठे प्रसृतमिति पाठ्यम् || २६ || प्रकृतस्थं बभूवास्य तच्छरीरं द्विजन्मनः | प्रावृट्शरीरविगमे धौतं तलमिवावनेः || २७ ||
337 SK दहनप्लावनादिना विष्णुशरीरात्मनोत्पत्तिकथनस्य प्रयोजनमाह - प्रकृतस्थमिति | यथा अवनेस्तलं शरदि चरमवृष्ट्या धौतं सद्यःशोषितं च सत् प्रावृट्कालप्रसिद्धस्य पङ्कशैवलादिदूषितस्य शरीरस्य स्वाकारस्य विगमे प्रसन्नं निर्मलं च सद्व्यवहारिणां प्रकृतयात्रादिकार्ययोग्यं भवति तथा अस्य तत् शरीरमपि दहनप्लावनादिभावनाधौतं विकलुषं सत्प्रकृतसमाधिकार्यस्थं बभूवेत्यर्थः || २७ || अथ पद्मासनगतः कृत्वा देहे स्थितिं दृढम् | आलान इव मातङ्गं निबद्ध्येन्द्रियपञ्चकम् || २८ || पद्मासनबन्धेन स्थितिं कृत्वा देहे इन्द्रियपञ्चकं बद्ध्वा || २८ || निर्विकल्पसमाध्यर्थंव्यवसायमुपाददे | स्वभावं स्वच्छतां नेतुं शरत्काल इवामलम् || २९ || स्वभावं स्वात्मानं स्वमनो वा || २९ || प्रशान्तवातहरिणमाशादिगणगामिनम् | चिन्तया हृदयं निन्ये दूराद्रज्ज्वेव कीलकम् || ३० || स्वभावमेव विशिनष्टि - प्रशान्तेति | प्राणायामाभ्यासात्प्रशान्ताः प्राणादिवातहरिणा यस्मिन् | आशा तृष्णालोभ उत्कलिका प्रतीक्षेत्यादिभेदप्रसिद्धेन गणेन बहिर्गमनशीलं स्वभावं प्रशान्तवातहरिणं कृत्वा स्वच्छतां नेतुं व्यवसायमुपाददे इति पूर्वेणान्वयः | एवं कुर्वतो यद्वृत्तं तदाह - चिन्तयेति | तस्य हृदयं मनः पूर्वानुभूतगृहक्षेत्रपुत्रमित्रादिचिन्तया निन्ये | यथा अदृढनिखातमश्वादिबन्धनकीलकं तदाकृष्टया रज्ज्वा उत्खायापनीयते तद्वत् || ३० || धावमानमधो मत्तं चित्तं विमलमाकुलम् | बलात्संरोधयामास सेतुर्जलमिव द्रुतम् || ३१ || तदा स यच्चकार तदाह - धावमानमिति | धावमानं चित्तं विवेकबलाद्विमलं कृत्वा संरोधयामासेत्यर्थः | द्रुतं द्रवणोन्मुखं जलं सेतुरालिरिव | द्रुतं शीघ्रमिति वा || ३१ || निमिमील दृशावर्धं परिपक्ष्मलपक्ष्मके | निस्पन्दतारामधुरे संध्याकाल इवाम्बुजे || ३२ ||
338 SK ततः स किं चकार तदाह - निमिमीलेति | परस्पराग्रग्रथनात्परित उभयतः पक्ष्मलानि पक्ष्मवन्तीव पक्ष्माणि ययोस्तथाविधे | निस्पन्दाभ्यां ताराभ्यां कनीनिकाभ्यां मधुरे सुन्दरे दृशौ अर्धं निमिमील निमीलितवान् | अम्बुजपक्षे निस्पन्दौ तारे कनीनिके इव मधु रातः पिबत इति मधुरौ भ्रमरौ ययोस्ते || ३२ || सौम्यतामनयन्मौनी [क्षोभवैषम्यादिरहितताम्] प्राणापानजवं मुखे | श्वसनं श्रेयसे देशे प्रशस्तः समयो यथा || ३३ || तस्य प्रथमं राजयोगानुकूलं वाक्प्राणापाननिरोधमाह - सौम्यतामिति | यथा चक्रवर्तिनां जन्मादिनिमित्तभूतः प्रशस्तः समयो जगच्छ्रेयसे शुभसूचनाय शैत्यमान्द्यादिगुणं श्वसनं वायुं तज्जन्मदेशे समं स्तिमितं नयति तद्वत् | तथाचोक्तं भगवता - प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ इति || ३३ || तिलेभ्य इव तैलानि पृथक् चक्रे प्रयत्नतः | इन्द्रियाणीन्द्रियार्थेभ्यः कूर्मोऽङ्गानीव गोपयन् || ३४ || तस्य प्रत्याहारक्रममाह - तिलेभ्य इत्यादिना | इन्द्रियाणीत्येतद्रोपयन्नित्यत्रापि संबध्यते || ३४ || बाह्यस्पर्शानशेषेण जहौ दूरे स धीरधीः | सहसा कुण्डकच्छन्नो मणिर्दूरत्विषो यथा || ३५ || बाह्येति | कुण्डकेन अल्पपिठरेणाच्छन्नः पिहितो मणिर्दूरप्रसृतास्त्विषो रश्मीन् || ३५ || विलीनानान्तरांश्चक्रे स्पर्शानुज्झितदर्शनात् | रसान्विटपकोशस्थान्मार्गशीर्ष इव द्रुमः || ३६ || आन्तरान्मनोवासनारूपान् स्पर्शान्विषयानधिष्ठानतत्त्वे आकर्षणेन बाधाद्विलीनांश्चक्रे || ३६ || रुरोध गुदसंकोचान्नवद्वारानिलानथ | मुखसंस्थगितः कुम्भो रन्ध्रकोशनिवेतरान् || ३७ || पार्ष्णिना मूलाधारावष्टम्भेन गुदसंकोचान्नवद्वारानिलान् हृदये रुरोध | यथा अधोमुखपूर्णकुम्भो मुखे दृढं संस्थगितः पिहितोऽन्तर्वायुप्रवेशमन्तरेण च्छिद्रान्तरेभ्यो जलक्षरणायोगादितरान् रन्ध्रकोशान् रुणद्धि तद्वत् || ३७ || स्वात्मरत्नप्रकाशाढ्यां स्पष्टां कुसुमलाञ्छिताम् | दधार कन्धरां धीरो मेरुः शृङ्गशिखामिव || ३८ ||
339 SK स्वात्मैव रत्नं तत्प्रकाशेन स्वात्मनो रत्नानां प्रकाशैश्च आढ्याम् | रजस्तमोभ्यामनावरणात्स्पष्टाम् | प्रसन्नमुखपद्मकुसुमेन कल्पद्रुमकुसुमैश्च लाञ्छिताम् | यथा मेरुस्तथाविधां स्वशृङ्गलक्षणां शिखां धारयति तद्वत् || ३८ || बभार हृदयाकाशे मनः संयममागतम् | विन्ध्यखात इवोन्मत्तं गजं युक्तिवशीकृतम् || ३९ || धारणामाह - बभारेति | एकविषये धारणाध्यानसमाधयः संयमस्तं प्रति आगतमुन्मुखम् | युक्तिभिः प्रत्याहारोपायेर्वशीकृतम् || ३९ || शरन्नभोवदासाद्य निर्मलामतिसौम्यताम् | जहार परिपूर्णाब्धेर्निर्वातस्याचलां श्रियम् || ४० || धारणया चित्तप्रसादात्परिपूर्णात्मध्यानविश्रान्तिमाह - शरन्नभोवदिति || ४० || दुधावातिविकल्पौघान्प्रतिभासमुपेयुषः | पुरः परिस्फुरद्रूपान्मशकानिव मारुतः || ४१ || ब्रह्माकारकतिपयचित्तवृत्तिधाराविच्छेदिनो मध्ये मध्ये प्रतिभासमुपेयुषो विपरीतभावनाविकल्पौघान् दुधाव निरस्तवान् || ४१ || आगच्छतो यथाकामं प्रतिभासान्पुनः पुनः | अच्छिनन्मनसा शूरः खड्गेनेव रणे रिपून् || ४२ || विकल्पौघे परालूने सोऽपश्यद्धृदयाम्बरे | तमच्छन्नविवेकार्कं लोलकज्जलमेचकम् || ४३ || तमस्तमोगुणोद्रेकप्रयुक्तमन्धकारम् || ४३ || तमप्युन्मार्जयामास सम्यक्स्वान्तविवस्वता | सम्यग्ज्ञानोदितेनाशु पवनेनेव कज्जलम् || ४४ || सत्त्वगुणोद्भावनप्रदीप्तसम्यग्ज्ञानोदितेन स्वान्तं मनस्तद्रूपेण विवस्वता सूर्येण || ४४ || तमस्युपरते कान्तं तेजःपुञ्जं ददर्श सः | शार्वरे तिमिरे शान्ते प्रातःसंध्यामिवाम्बुजम् || ४५ || सत्त्वगुणोद्भावनव्यग्रस्य तदनुरूपस्तेजःपुञ्जभ्रमस्तस्याभूदित्याह - tallulāva sthalābjānāṃ vanaṃ bāla iva dvipaḥ | apibaccāpyasṛkpūraṃ vetāla iva vegataḥ || 46 || tatkiṃ tadvirodhirajoguṇādyudbhavena lulāva netyāha - apibaditi | adhiṣṭhānatattvadarśanena bādhādagrasadityarthaḥ | asṛkpūraṃ raktapravāham | tejaso lohitavarṇatvādasṛgupamā || 46 ||
340 SK तेजस्युपरते तस्य घूर्णमानं मनो मुनेः | निशाब्जवदगान्निद्रां लोलं क्षीबवदेव वा || ४७ || रजसा समाधानाच्चालितस्य चित्तस्य विषयालाभेन विलयान्निद्रामज्जनमाह - madirāmattastadvadeva vā || 47 || meghamālāmiva marudvyālo nīlābjinīmiva | yāminīmiva tīkṣṇāṃśustāmapyāśu lulāva saḥ || 48 || vyālaśabdena bhujaṃganāgaparyāyeṇa ṣiṅgo gajo vā lakṣyate | lulāva vivekaprabodheneti bhāvaḥ || 48 || nidrāvyapagame tasya bhāvayāmāsa tanmanaḥ | vyomaśyāmaladṛgjanturnabhasīva śikhaṇḍakān || 49 || vyoma śyāmalaṃ paśyatīti vyomaśyāmaladṛk | yadā sūryātapasaṃmukhe vyomni prasāritadṛṣṭirjantuḥ keśoṇḍravaṭarakābhāsamayūraśikhaṇḍakākārān vibhāvayati tadvanmano nānāvāsanāparikalpitarūpavadvyoma bhāvayāmāsetyarthaḥ || 49 || payoda iva tāpicchaṃ nīhāramiva mārutaḥ | dīpastama ivācchātma tadapyāśu mamārja saḥ || 50 || tāpicchaṃ tamālapuṣpaṃ taddhi vṛṣṭyā śīryate śyāmatāṃ ca jahātīti | acchātma svacchasvabhāvaṃ tadvyomāpi mamārja || 50 || vyomasaṃvidi [saṃvidvinaṣṭāyāṃ ityapi pāṭhaḥ] naṣṭāyāṃ mūḍhaṃ tasyābhavanmanaḥ | nidrāyāṃ tu vilīnāyāṃ maireyamadavāniva || 51 || mūḍhaṃ kaśmalopahatam || 51 || mohamapyeṣa manasastaṃ mamārja mahāśayaḥ | yāminījanitaṃ jāḍyaṃ bhuvanādiva bhāskaraḥ || 52 || mamārja viśodhyāpaninye || 52 || tatastejastamonidrāmohādiparivarjitam | kāmapyavasthāmāsādya viśaśrāma manaḥ kṣaṇam || 53 || kāmapi vācāmagocarāṃ nirvikalpasamādhyavasthām | viśaśrāma viśrāntiṃ prāpa | kṣaṇamalpakālam || 53 || viśramyāśu papātāṅga saṃvidaṃ viśvarūpiṇīm | seturuddhaṃ sarovāri pratīpaṃ svamivāspadam || 54 ||
341 SK विक्षेपसंस्कारप्राबल्यात्तत्र स्थैर्य न प्रापेत्याह - विश्रम्येति | अङ्गेति संबोधनम् | विश्वरूपिणीं बाह्यप्रपञ्चसमाकारां वृत्तिसंविदं पपात प्रापेति यावत् | प्राग्बाह्याकारादाकृष्य पूर्णात्मनि निरुद्धस्य परावृत्त्य पुनर्बाह्याकारापत्तावनुरूपं दृष्टान्तमाह - सेत्विति | यथा सरोवारि कुल्याद्वारा केदारे प्रवेशितं केदारमापूर्य तत्सेतुरुद्धं सत्कुल्याद्वारा परावृत्य प्रतीपं प्रतिकूलप्रवाहं सत्पुनः स्वास्पदं सर एव प्रविशति तद्वदित्यर्थः || ५४ || चिरानुसंधानवशात्स्वदनाच्च स्वसंविदः | ततश्चिन्मयतामागाद्धेम नूपुरतामिव || ५५ || बाह्यसंविदः परावृत्य पुनः स्वसंविदं प्रति नीयमानस्य अन्तराले सविकल्पकसमाधिप्राप्तिमाह - चिरेति | प्राग्ध्यानादिना चिरानुसंधानवशात्समाधावानन्दानुभवेन स्वदनाच्च हेतोस्तत्संस्कारेण पुनस्तत्राकृष्यमाणं मनस्ततोऽन्तराले चिन्मयतां चित्प्रचुरसविकल्पसमाधिरूपतामागात् | यथा हेम चरणवलयतानुरूपां नूपुरतां याति तद्वदित्यर्थः || ५५ || चित्तत्वमथ संत्यज्य चित्तं चित्तत्त्वतां गतम् | अन्यदेव बभूवाशु पङ्कः कुम्भस्थितो यथा || ५६ || एवं सविकल्पकसमाधिना क्रमेण निरिन्धनाग्निवत् प्रक्षीयमाणं क्षीरोदकवच्चिदैकरस्यं जगामेत्याह - चित्तत्वमिति | चित्तं स्वीयं चित्तत्वं संत्यज्य चिदेव यत्तत्त्वं तद्भावं गतं सत् पूर्वावस्थातोऽन्यदेव बभूव | यथा कुम्भस्थितपङ्किलजलपङ्को जलशोषे कुम्भमालिप्य कुम्भभावमेव गच्छति तद्वदित्यर्थः || ५६ || चेत्यं संत्यज्य चिच्छुद्धा चित्सामान्यमथाययौ | त्यक्तवीच्यादिभेदोऽब्धिर्वाःसामान्यमिवैकधीः || ५७ || चित्तस्य चित्तभावापगमे तत्प्रतिबिम्बचितन्यस्य बिम्बचित्सामान्यैक्यं वृत्तमित्याह - चेत्यमिति | चेत्यं स्वावभास्यं वृत्त्याकारं संत्यज्य प्रतिबिम्बचिच्छुद्धा सती सर्ववृत्तिसाधारणसाक्षिचित्सामान्यभावमुपाययौ यतः सा एकधीः एकरसीभूता स्वोपाधिबुद्धिर्यस्यास्तथाविधेत्यर्थः || ५७ ||
342 SK त्यक्तभूतौघमननं ततो विश्वंभरं महत् | चिदाकाशं ततः शुद्धं सोऽभवद्बोधमागतः || ५८ || एवं निर्विकल्पसमाधिप्रतिष्ठितस्योद्दलकस्य तत्परिपाकात्तत्त्वसाक्षात्कारं तत्फलं ब्रह्म वेद ब्रह्मैव भवति इति श्रुतिदर्शितं ब्रह्मभावं च दर्शयति - त्यक्तेति | ततस्तदनन्तरं उद्दालकस्ततस्तादृशस्य समाधेर्बोधं तत्त्वसाक्षात्कारमागतः सन् विश्वंभरं सर्वजगदधिष्ठानं त्यक्तभूतौघमननं द्वैतप्रतिभासरहितं शुद्धं महच्चिदाकाशमभवत् || ५८ || तत्र प्रापदथानन्दं दृश्यदर्शनवर्जितम् | अनन्तमुत्तमास्वादं रसायनमिवार्णव || ५९ || तद्भाव एव निरतिशयानन्दावाप्तिरिति दर्शयति - तत्रेति | उत्तमैर्ब्रह्मादिभिरास्वाद्यत इत्युत्तमास्वादम् | रसानां सर्वविषयसुखकणानामयनमाधारभूतमर्णवमिव स्थितम् || ५९ || शरीरात्समवेतोऽसौ कामप्यवनिमागतः | सत्तासामान्यरूपात्मा बभूवानन्दसागरः || ६० || तामेव दशां वर्णयति - शरीरादित्यादिना | शरीरात्सम्यगवमत्य इतो निर्गत इव शोधित इति यावत् || ६० || द्विजचेतनहंसोऽसावानन्दसरसि स्थितः | अतिष्ठच्छरदच्छे खे कलापूर्ण इवोडुपः || ६१ || उडुपश्चन्द्रः || ६१ || बभूवावातदीपाभो लिपिकर्मार्पितोपमः | वीतवीच्यम्बुधिप्रख्यो वृष्टमूकाम्बुदस्थितिः || ६२ || पूर्व वृष्टः पश्चाच्छरदि मूको निर्गतजलश्च योऽम्बुदस्तत्सदृशस्थितिः || ६२ || अथैतस्मिन्महालोके तिष्ठन्नुद्दालकश्चिरम् | अपश्यद्व्योमगान्सिद्धानमरानपि भूरिशः || ६३ || तत्पदारूढो ब्रह्मलोकान्तसिद्धिगणान् पादपातेन प्रार्थयतोऽपि कटाक्षेणापि न पश्यतीत्येतद्दर्शयति - अथेत्यादिना || ६३ || आगतानि विचित्राणि सिद्धिजालानि चाभितः | शक्रार्कपददातॄणि नीरन्ध्राण्यप्सरोगणैः || ६४ || तानि नादरयांचक्रे सिद्धिवृन्दानि स द्विजः | गम्भीरमतिरक्षुब्धो विलासानिव शैशवान् || ६५ || सिद्धिसार्थमनादृत्य तस्मिन्नानन्दमन्दिरे | अतिष्ठदथ षण्मासान्दिक्तटेऽर्क इवोत्तरे || ६६ ||
343 SK आनन्दस्य मन्दिरे | तस्मिंस्तादृशसमाधौ | उत्तरे उतरायणाधारे दिक्तटेऽर्क इव षण्मासम् || ६६ || जीवन्मुक्तपदं तत्तद्यावत्संप्राप्तवान्द्विजः | तत्र सिद्धाः सुराः साध्याः स्थिता ब्रह्महरादयः || ६७ || तत्तदुत्तरोत्कृष्टं सप्तमभूमिकाप्रतिष्ठम् | सुरा देवाः सिद्धा देवयोनिभेदाः साध्या गणदेवताः | सुरेभ्यस्तेषां पृथग्ग्रहणं गोबलीवर्दन्यायेन || ६७ || आनन्दे परिणामित्वादनानन्दपदं गतः | नानन्दे न निरानन्दे ततस्तत्संविदाबभौ || ६८ || तस्मिंश्चानन्दे रसास्वादलक्षणचित्तपरिणामशून्यत्वान्न विद्यते आनन्दोऽस्येति व्युत्पन्नमनानन्दपदं गतः प्राप्तः | ततस्तस्माद्धेतोस्तस्य संविदात्मचैतन्यं न विषयिणामिव क्षुद्रानन्दे बभौ नापि निरानन्दे दुःखे किंतु स्वप्रकाशैकरसपूर्णमवतस्थे इत्यर्थः || ६८ || क्षणं वर्षसहस्रं वा तत्र लब्ध्वा स्थितिं मनः | रतिमेति न भोगौघे दृष्टस्वर्ग इवावनौ || ६९ || तत्प्राप्तौ न पुनः क्षुद्रानन्दस्पृहोद्भव इत्याह - क्षणमिति | दृष्टस्वर्गोऽनुभूतस्वर्गविभवः पुरुषः | अवनौ भूलोकसुखे || ६९ || तत्पदं सा गतिः शान्ता तच्छ्रेयः शाश्वतं शिवम् | तत्र विश्रान्तिमाप्तस्य भूयो नो भाधते भ्रमः || ७० || तदेव सर्वोत्कृष्टमिति वर्णयति - तदित्यादिना || ७० || तत्पदं साधवः प्राप्य दृश्यदृष्टिमिमां पुनः | नायान्ति खदिरोद्यानं लब्धचैत्ररथा इव || ७१ || तां महानन्दपदवीं चित्तादासाद्य देहिनः | दृश्यं न बहु मन्यन्ते राजानो दीनतामिव || ७२ || श्रवणमननसमाध्परिष्कृताच्चित्तादासाद्य अपरोक्षतया प्राप्य | वित्तात् इति पाठे विचारितशास्त्रात् || ७२ || चेतस्तत्पदविश्रान्तं बुद्धं दृश्यदशां प्रति | कदर्थाद्बोधमायाति नायात्येवाथवानघ || ७३ || बुद्धं चित्तं दृश्यदशां समाधिव्युत्थानदशां प्रति कदर्थात् परेषां महतः प्रयत्नाद्बोधमायाति षष्ठभूमिकायाम् | नायात्येव सप्तमभूमिकायाम् || ७३ || उद्दालकोऽत्र षण्मासान्दूरोत्सारितसिद्धिभूः | उषित्वोन्मिषितोम्भोदकोशादर्को मधाविव || ७४ ||
344 SK अम्भोदकोशान्नीहारपटलात् | मधौ चैत्रे || ७४ || ददर्श संप्रबुद्धात्मा पुनः परमतेजसः | प्रणामलालसाः स्निग्धाश्चन्द्रबिम्बवपुर्धराः || ७५ || प्राग्दृष्टा एव रमणीर्द्युविमानपरम्पराश्च पुनर्ददर्शेति परेणान्वयः || ७५ || रमणीर्गौरमन्दाररेणुभ्रमरचामराः | स्फुरत्पताकापटला द्युविमानपरम्पराः || ७६ || गौरमन्दाररेणच्छन्ना भ्रमराश्चामराणि च यासाम् | स्फुरन्ति पताकापटलानि यास्विति च साधारणे विशेषणे || ७६ || अस्मदादीन्मुनीन्दर्भपवित्राङ्ककराम्बुजान् | विद्याधरीभिर्वलितान्विद्याधरपतीनपि || ७७ || विद्याधरपतीनपि ददर्शेत्यनुकृष्यते || ७७ || ते तमूचुर्महात्मानमुद्दालकमुनिं तथा | प्रसादेन प्रणामान्नो भगवन्नवलोकय || ७८ || ते वैमानिका मुनयश्च तमुद्दलकमूचुर्हे भगवन् नः अस्मान् प्रणामात्प्रसादेनानुग्रहदृशा अवलोकय || ७८ || आरुह्येदं विमानं त्वमेहि त्रैविष्टपं पुरम् | स्वर्ग एव हि सीमान्तो जगत्संभोगसंपदाम् || ७९ || एहि आगच्छ | स्वर्गस्यानुपेक्षायां हेतुमाहः - स्वर्ग एवेति || ७९ || आकल्पमुचितान्भुङ्क्ष्व भोगानभिमतान्विभो | स्वर्गादिफलभोगार्थमेवाशेषतपःक्रियाः || ८० || आकल्पं द्विपरार्धावसानान्तकालम् | अनेनैव सर्वेषां तपःक्लेशादिसार्थक्यमित्याहुः - स्वर्गादीति || ८० || हारचामरधारिण्यो विद्याधरवराङ्गनाः | पश्येमास्त्वामुपासीनाः करिण्यः करिणं यथा || ८१ || कामो धर्मार्थयोः सारः कामसाराः सुयोषितः | वसन्त इव मञ्जर्यः स्वर्ग एव भवन्ति ताः || ८२ || धर्मार्थयोः फलत्वात्सारः || ८२ || एवं कथयतः सर्वानतिथीनित्यसौ मुनिः | परिपूज्य यथान्यायमतिष्ठद्गतसंभ्रमम् || ८३ || गतसंभ्रमं मिथ्यात्वादिनिश्चयाद्विगतकुतुहलं यथा स्यात्तथा अतिष्ठत् || ८३ || नाभ्यनन्दन्न तत्याज तां विभूतिं स धीरधीः | भो सिद्धा व्रजतेत्युक्त्वा स्वव्यापारपरोऽभवत् || ८४ || स्वव्यापारः समाधिस्तत्परोऽभवत् || ८४ ||
345 SK अथ स्वधर्मनिरतं भोगेष्वरतिमागतम् | तमुपास्य ययुः सिद्धा दिनैः कतिपयैः स्वयम् || ८५ || उपास्य चिरप्रतीक्षाप्रणामप्रशंसादिनोपचर्यं || ८५ || जीवन्मुक्तः स च मुनिर्विजहार यथासुखम् | यावदिच्छं वनान्तेषु मुनीनामाश्रमेषु च || ८६ || मेरुमन्दरकैलासहिमवद्विन्ध्यसानुषु | द्वीपोपवनदिक्कुञ्जजङ्गलारण्यभूमिषु || ८७ || ततःप्रभृति संप्राप्तपदमुद्दालको द्विजः | गुहासु गिरिकुक्षीणामवसद्व्यानलीलया || ८८ || संप्राप्तपदं यथा स्यात्तथा अवसत् | ध्यानलीलयेत्यनेन ध्यानमपि तस्य लीलैव न तेनापि तस्य साध्यमस्तीति सूचितम् || ८८ || कदाचिदह्ना मासेन कदाचिद्वत्सरेण च | कदाचिद्वत्सरौघेण ध्यानासक्तो व्यबुध्यत || ८९ || ध्यानासक्तः समाधिमारूढः || ८९ || उद्दालकस्तदारभ्य व्यवहारपरोऽपि सन् | सुसमाहित एवासौ चित्तत्त्वैकत्वमागतः || ९० || व्यवहारकालेऽपि सुसमाहित एव नाज्ञवद्विक्षेप वानित्यर्थः || ९० || चित्तत्त्वैकघनाभ्यासान्महाचित्त्वमुपेत्य सः | बभूव सर्वत्र समस्तेजः सौरमिवावनौ || ९१ || चित्तत्त्वमन्तःकरणतद्वृत्त्यनुगततत्साक्षिचिन्मात्रं तस्यैव विविच्य दर्शनधारालक्षणात्समाधिरूढाभ्यासान्महाचित्त्वमपरिच्छिन्न- snehadveṣavarjanātkāruṇyādaviṣamabrahmabhāvadarśanācca samaḥ | anena tasya kramātpañcamabhūmeḥ ṣaṣṭhabhūmikāprāptiruktā || 91 || citsāmānyacirābhyāsātsattāsāmānyametya saḥ | dṛśye'smiṃścitraravivannāstamāyānna codayam || 92 || athāsya saptamabhūmikāviśrāntiṃ darśayati - citsāmānyeti | sarvathā dṛśyasya tatsaṃskārasya cocchede tatprathārūpatvalakṣaṇacittvavyavahārasyāpyuparamātsvaprakāśanirati- दृश्ये एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्ति इत्यादिश्रुतिदर्शितमाविर्भावतिरोभावलक्षणमस्तमयमुदयं च नायात् | तद्बीजाविद्याकामकर्मवासनानामत्यन्तोच्छेदादिति भावः || ९२ ||
346 SK शमपरपदलाभप्राप्तिसंशान्तचेता गलितजननपाशः [नाश इत्यपि पाठः] क्षीणसंदेहदोलः | शरदि खमिव शान्तं व्याततं चोर्जितं च स्फुटममलमचेतस्तद्वपुः संबभार || ९३ || एतामेव स्थितिं प्रपञ्चयन्नुपसंहरति - शमेति | सर्वविक्षेपोपशमनान्निरतिशयानन्दरूपपरपदलाभप्राप्तेश्च सम्यक् शान्तं गलितं मनो यस्य | अत एव सर्वकर्मबीजक्षयाद्गलितजननपाशः क्षीणाः संदेहदोलावस्थाश्च [संदेहाः दोला इत्यपि पाठः] यस्य तथाविधः सन् शरदि खमिव शान्तं प्रशान्ताविद्यामेघडम्बरम् | व्याततमपरिच्छिन्नमत एव निरङ्कुशबृहत्त्वान्निरतिशयसत्तास्फूर्तिसुखोत्कर्षादूर्जितं निरावरणत्वात् स्फुटं प्राक्तनदशाया अत्यन्तविस्मरणादचेतस्तद्ब्रह्मस्वभावापन्नं वपुः स्वरूपं संबभार न प्रागिवोद्दालकवपुरित्यर्थः || ९३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे उद्दालकविश्रान्तिर्नाम चतुःपञ्चाशः सर्गः || ५४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे उद्दालकविश्रान्तिर्नाम चतुःपञ्चाशः सर्गः || ५४ || पञ्चपञ्चाशः सर्गः ५५ श्रीराम उवाच | आत्मज्ञानदिनैकार्क मत्संशयतृणानल | अज्ञानदाहशीतांशो सत्तासामान्यमीश किम् || १ || सत्तासामान्यलक्ष्मास्य युक्त्या देहोज्ज्ञा(?)नक्रमः | त्यक्तदेहेन खिंखिन्या भूषाकॢप्तिश्च वर्ण्यते || १ || गुरुं स्तुतिभिः प्रसाद्य रामश्चरमपर्यायोक्तसत्तासामान्यं लक्षणैर्जिज्ञासमानः पृच्छति - आत्मज्ञानेति | अज्ञानप्रयुक्ततापत्रयलक्षणस्य दाहस्य संतापस्य शीतांशोः | अज्ञानान्धकारोच्छेदे तत्प्रयुक्तसंशयविपर्ययाद्युच्छेदे तत्प्रयुक्तसर्वदुःखोच्छेदे च त्वमेव समर्थ इति विशेषणत्रयतात्पर्यार्थः | ईशेत्युक्तिर्गुरावीश्वरदृष्टिरेव सदा कार्या न साधारणबुद्धिरिति द्योतनाय || १ || श्रीवसिष्ठ उवाच | यदा संक्षीयते चित्तमभावात्यन्तभावनात् | चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा || २ ||
347 SK षष्ठभूमिकायां चिदवान्तरभेदान्परिमृज्य चित्सामान्यस्वरूपभूतस्य चेत्याभावस्यात्यन्तभावनाच्चेत्यसंस्काराणामात्यन्तिकोच्छेदे सति यदा चित्तं संक्षीयते तदा स्वमात्रसत्तया स्वतः सिद्ध्यन्ती परिशिष्टा चिदचिदुभयानुगतसत्तैव सत्तासामान्यमित्यर्थः || २ || नूनं चेत्यांशरहिता चिद्यदात्मनि लीयते | असद्रूपवदत्यच्छा सत्तासामान्यता तदा || ३ || सर्ववृत्तिप्रतिबिम्बिता चित् सर्वदृश्यबाधे चेत्यांशैर्वृत्तितद्विषयै रहिता सती यदा स्वात्मनि बिम्बचैतन्ये लीयते तदा तस्य बिम्बस्य असद्रूपं यस्मिंस्तदसद्रूपमाकाशस्तद्वदत्यच्छा सत्तासामान्यता बोध्येत्यर्थः || ३ || यदा सर्वमिदं किंचित्सबाह्याभ्यन्तरात्मकम् | अपलप्य वसेच्चेतः सत्तासामान्यता तदा || ४ || चेतश्चित्तवृत्त्यभिव्यक्ताखण्डचैतन्यम् || ४ || यदा सर्वाणि दृश्यानि सत्तासामान्यवेदनम् | स्वरूपेण स्वरूपाभं सत्तासामान्यता तदा || ५ || यदा सर्वाणि भूतानि स्वपारमार्थिकरूपेण स्वरूपमेव आभा स्वप्रथा यस्य नान्या तथाविधं सत्तासामान्यात्मकं वेदनं चिन्मात्रं भवतीति शेषः || ५ || कूर्मोऽङ्गानीव दृश्यानि लीयन्ते स्वात्मनात्मनि | अभावितान्येव यदा सत्तासामान्यता तदा || ६ || अभावितानि भावनयत्नं विनैव सहजदृशेत्यर्थः || ६ || दृष्टिरेषा हि परमा सदेहादेहयोः सदा | मुक्तयोः संभवत्येव तुर्यातीतपदोपमा || ७ || एषा सप्तमभूमिकारूढदृष्टिर्यतस्तुर्यातीतपदोपमा अतः सदेहादेहमुक्तयोः समानस्वरूपस्थितौ विशेषोऽस्तीत्यर्थः || ७ || व्युत्थितस्य भवत्येषा समाधिस्थस्य चानघ | ज्ञस्य केवलमज्ञस्य न भवत्येष बोधजा || ८ || सेयं दृष्टिः पञ्चमादिभूमिकास्वपि समाधिस्थस्य भवति सप्तमभूमिकारूढस्य तु व्युत्थितस्यापि | केवलमज्ञस्य न भवत्येवेत्यर्थः || ८ || अस्यां दृशि स्थिताः सर्वे जीवन्मुक्ता महाशयाः | सिद्धा रसा इव भुवि व्योमवीथ्यामिवानिलाः || ९ ||
348 SK सर्वेऽपि जीवन्मुक्ता अस्यां दृशि स्थिताः सन्तो भुवि सिद्धा रसाः पारदादय इव व्योमवीथ्यामनिला इव च ऐहिकामुष्मिकभोगतृष्णारजोभिरस्पृष्टास्तिष्ठन्तीत्यर्थः || ९ || अस्मत्प्रभृतयः सर्वे नारदाद्याश्च राघव | ब्रह्मविष्ण्वीश्वराद्याश्च दृष्टावस्यां व्यवस्थिताः || १० || तानेवोदाहरति - अस्मत्प्रभृतय इति | अस्मत्प्रभृतयो भुवि नारदाद्या व्योमवीथ्यां ब्रह्माद्यास्तदूर्ध्वलोकेष्वित्यर्थः || १० || एतामालम्ब्य पदवीं समस्तभयनाशिनीम् | उद्दालकोऽसाववसद्यावदिच्छं जगद्गृहे || ११ || यावदिच्छमाप्रारब्धक्षयम् || ११ || अथ कालेन बहुना बुद्धिस्तस्य बभूव ह | विदेहमुक्तस्तिष्ठामि देहं त्यक्त्वेति निश्चलाः || १२ || निश्चला दृढा || १२ || एवं चिन्तितवानद्रेर्गुहायां पल्लवासने | बद्धपद्मासनस्तस्थावर्धोन्मीलितलोचनः || १३ || चिन्तितवान् चिन्तितार्थदृढनिश्चयवान्सन् || १३ || संयम्य गुदसंरोधाद्द्वाराणि नव चेतसः | मात्रास्पर्शान्विचिन्वानो भावितस्वाङ्गचिद्धनः || १४ || मात्रास्पर्शान्शब्दस्पर्शादिगोचरवृत्तिर्विचिन्वानो बदराणीवैकैकश उपसंहृत्य हृदि निवेशयन् हृदि निविष्ठानां च तेषां परमार्थरूपो भावितः स्वाङ्गमिव स्वात्मनैकीकृतश्चिद्रूपो घनः सैन्धवधनवदेकरसो येन || १४ || संरुद्धप्राणपवनः समसंस्थानकन्धरः | तालुमूलतलालग्नजिह्वामूलो लसन्मुखः || १५ || समसंस्थाना कन्धरा कण्ठो यस्य | तालुमूलतले आलग्नेन कण्ठच्छिद्रे कवाटवन्निवेशितेन जिह्वामूलेनोन्नतमिव लसन्मुखं यस्य || १५ || न बहिर्नान्तरे नाधो नोर्ध्वे नार्थे न शून्यके | संयोजितमनोदृष्टिर्दन्तैर्दन्तानसंस्पृशन् || १६ || अर्थे रूपादिविषये | न संयोजिते मनोदृष्टी येन || १६ || प्राणप्रवाहसंरोधसमः स्वच्छाननच्छविः | अङ्ग चित्संविदुत्तानरोमकण्टकिताङ्गभूः || १७ ||
349 SK प्राणादिप्रवाहाणां संरोधेन समस्तक्रियाकृतदेहमनःकरणचाञ्चल्यशून्यः स्वच्छाननच्छविः प्रसन्नवदनः | अङ्गेति संबोधने | चित्संविदा चिद्रूपाब्रह्मानन्दानुभवेन उत्तानैरूर्ध्वर्जुभी रोमभिः कण्टकिता संजातकण्टका अङ्गभूर्यस्य || १७ || अङ्गचित्संविदाभ्यासाच्चित्सामान्यमुपाददे | तदभ्यासादवापान्तरानन्दस्पन्दमुत्तमम् || १८ || तस्यानन्दाविर्भावे पूर्वोक्तमेव क्रममाह - अङ्गेति | अङ्गेष्वन्तःकरणैकदेशभूतवृत्तिभेदेषु प्रतिबिम्बिता चित् अवच्छिन्ना संविदा च स्वोपाधिभूतवृत्तिभेदानां विलयाभ्यासाद्बिम्बभूतचित्सामान्यमुपाददे प्रविवेश | बिम्बभूतचिन्मात्रानुसंधानाभ्यासाच्च अन्तर्हृदि उत्तमं सर्वोत्कृष्टमानन्दस्पन्दं अवाप अन्वभूदित्यर्थः || १८ || तदास्वादनतो लीनचित्सामान्यदशाक्रमम् | विश्वंभरमनन्तात्म सत्तासामान्यमाययौ || १९ || तस्य पूर्ववत् सत्तासामान्यानुप्रवेशमाह - तदास्वादनत इति | यावन्न निरतिशयानन्दास्वादनं तावदेव चित्तं निरोधक्लेशासहिष्णुतया बहिः प्रवर्तते | आस्वादिते त्वानन्दे तत्रैव गुडपिपीलिकान्यायेनासक्तं स्वरूपमपि विस्मृत्य स्वानुगतं चित्सामान्यं निरतिशयस्वप्रकाशसत्तासामान्यभावं नयति स एव चित्सामान्यदशाक्रमस्य लयस्तस्य सत्तासामान्यप्राप्तिश्चेति भावः || १९ || तस्थौ समसमाभोगः परां विश्रान्तिमागतः | अनानन्दसमानन्दमुग्धमुग्धमुखद्युतिः || २० || तत्रैव तस्यापुनरावर्तिनीं स्थितिमाह - तस्थाविति | समेभ्योऽपि सम आत्यन्तिकविक्षेपवैषम्यशून्य आभोगः स्वरूपं यस्य | न विद्यन्ते आनन्दाः समा यस्य तथाविधानन्देन प्रसन्नतमत्वान्मुग्धेभ्यः सुन्दरेभ्योऽपि मुग्धा मुखद्युतिर्यस्य तथाविधः सन् || २० || संशान्तानन्दपुलकः पदं प्राप्यामलं गतः | चिरकालपरिक्षीणमननादिभवभ्रमः || २१ || आनन्दाविर्भावलिङ्गरोमाञ्चादीनामपि क्रमादुपरममाह - संशान्तेति | जीवन्नेव पदं प्राप्य प्रारब्धभोगहेतुमलशेषक्षयादमलं गतः सन् || २१ ||
350 SK बभूव स महासत्त्वो लिपिकर्मार्पितोपमः | समः कलावपूर्णेन शरदच्छाम्बरेन्दुना || २२ || कलाभिरवपूर्णेन || २२ || उपशशाम शनैर्दिवसैरसौ कतिपयैः स्वपदे विमलात्मनि | तरुरसः शरदन्त इवामले रविकरौजसि जन्मदशातिगः || २३ || न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते इति श्रुत्युक्तरीत्या तत्रैव तत्प्राणानां तप्तोदकौष्ण्यवत्क्रमादुपशममभिप्रेत्याह - उपशशामेति | शरदन्ते हेमन्ते तरूणां रसो रविकरौजसीव विमले स्वपदे उपशशाम || २३ || गतसकलविकल्पो निर्विकारोऽभिरामः सकलमलविलासोपाधिनिर्मुक्तमूर्तिः | विगलितसुखमाद्यं तत्सुखं प्राप यस्मिं- स्तृणमिव जलराशावूह्यते शक्रलक्ष्मीः || २४ || प्राणाद्युपशमे परिशिष्टं तत्स्वरूपं वर्णयति - गतेत्यादिना | अग्निविस्फुलिङ्गवत्प्रागुपाधिभिर्विगलितानि निःसृतानि हैरण्यगर्भान्तविषयसुखानि यस्मात्तथाविधं आद्यं तद्वाचामगोचरं सुखं स प्राप | यस्मिन्सुखे शक्रलक्ष्मीरप्यब्धौ तृणमिव ऊह्यते [आद्ये स उह्यत इति च्छेदः] प्रवाह्यते तर्क्यते वा तद्दर्शिभिरित्यर्थः || २४ || अपरिमितनभोन्तर्व्यापिदिग्व्यापि पूर्णं भुवनभरणशीलं भूरिभव्योपसेव्यम् | कथनगुणमतीतं सत्यमानन्दमाद्यं परमसुखमनन्तं ब्राह्मणोऽसौ बभूव || २५ || असौ ब्राह्मण उद्दालकः प्रतिब्रह्माण्डं भेदादपरिमितान्यनन्तानि नभांसि अन्तः स्वोदरे व्याप्नुवन्ति या दिशस्ता अपि व्याप्तुं शीलमस्य | अनेन देशकृतपरिच्छेदनिरासः | सर्वदा सर्ववस्तुषु पूर्णम् | सर्ववस्त्वाधारभुवनानां भरणं धारणं पोषणं च शीलं यस्य | अनेन सर्वाधिष्ठानतोक्त्या वस्तुकृतभेदनिरासः | भूरिभिर्भव्यैर्भाग्यैरुत्तमजनैश्चोपसेव्यम् | कथनगुणं वाक्प्रवृत्तिनिमित्तधर्मान् अतीतं अनन्तमाद्यं कालकृतपरिच्छेदहीनमत एव सत्यादिलक्षणम् | आनन्दयति सुखैकरसीकरोत्यखिलमित्यानन्दं भूमाख्यं परमसुखं बभूवेत्यर्थः || २५ ||
351 SK गतवति पदमाद्यं चेतसि स्वच्छभावं द्विजतनुरथ मासैः सोपविष्टैव षड्भिः | रविकरपरितप्ता वातभांकाररम्या तनुतरुभुजतन्त्री शैलवीणा बभूव || २६ || अथ तच्चेतसि जीवे स्वच्छभावं निर्मलस्वरूपमाद्यं पदं गतवति सति तस्य द्विजस्य तनुः शरीरं तत्रोपविष्टैव सती षड्भिर्मासै रविकरैः परितप्ता शुष्का सती प्रवहद्वातघट्टनजैर्भाकारैः क्वणितै रम्या तनुतरूणां बालवृक्षलक्षणानां भुजानां वादनयोग्याभिः शिरातन्त्रीभिः शैलस्य पर्वतस्य वीणेव विलासहेतुर्बभूवेत्युत्प्रेक्षा || २६ || अथ बहुतरकालेनैतदद्रेर्भुवं ता- मुपययुरगकन्यासंयुता मातरः खात् | अभिमतफलसिद्ध्यै संयुता एव सर्वा अनलमिव शिखानां पङ्क्तयः पिङ्गकेश्यः || २७ || अथ बहुतरकालेन | षण्मासेनेति यावत् | एतत् वृत्तम् | किम् | खान्नभस्तलादगकन्यासंयुताः परस्परसहचारितानियमात्सर्वाः संयुताः सदा मिलिता एव स्थिता ब्राह्म्याद्या मातरः कस्यचिद्भक्तस्याभिमतफलसिद्ध्यै शिखानां ज्वालानां पङ्क्तयः अनलमिव तामद्रेर्भुवमुपययुः || २७ || दिनकरकरशुष्कं विप्रकंकालकं त- ज्झटिति मुकुटकोटौ खड्गखट्वाङ्गमध्ये | सकलविबुधवन्द्या खिंखिनी देवदेवी निशि नवतरवृत्ता कान्तकान्तिं चकार || २८ || तासां मातॄणां मध्ये निशि रात्रौ नवनवभूषावैचित्र्यान्नवतराणि लास्यादिवृत्तानि यस्यास्तथाविधा | सकलैर्ब्रह्मादिभिर्विबुधैर्वन्द्या | देवानामपि देवी पूज्या | खिंखिनी चामुण्डा | दिनकरस्य करैः शुष्कं तद्विप्रस्योद्दालकस्य कंकालकं शवं झटिति उद्यतयोः खड्गखट्वाङ्गयोर्मध्ये अन्तरालस्थायां स्वमुकुटस्य किरीटस्य कोटौ कान्तकान्तिं भूषणं भूषणं चकारेत्यर्थः || २८ || इत्युद्दालकदेहकं सुविलसन्मायूरबर्हव्रज- व्यालोलाब्दलवे नवैर्विवलिते मन्दारमालागणैः | शेते खिंखिनिका महाभगवती लीलाललामे लता- जाले भृङ्ग इवान्तपुष्पपटले पश्चादुपागच्छति || २९ ||
352 SK यस्य मूढदृष्टिकल्पितो मलमांसादिमयः स्थूलदेहोऽपि त्रिजगद्वन्द्याया देव्याः शिरोभूषणतया सर्वोत्कर्ष प्राप्तस्तेन सर्वोत्कृष्टं पदं प्राप्तमिति किं वाच्यमिति ज्ञानमाहात्म्योत्कर्ष दर्शयन्नाह - इतीति | इति उक्तरीत्या उद्दालकस्य कुत्सितो देहो देहकं सुष्ठु विलसति विराजमाने मायूरबर्हाणां व्रजः समूहस्तल्लक्षणा व्यालोलाः कम्पमाना अब्दलवा मेघखण्डा यस्मिन् | नवैः प्रत्यग्रैर्मन्दारमालागणैर्विवलिते वेष्टिते खिंखिनिकाख्याया महत्या भगवत्या लीलार्थे ललामे शिरोभूषणमाल्ये अन्तेषु अग्रभागेषु पुष्पपटलानि यस्य तथाविधे वेणीच्छलात्पश्चात्पृष्ठत उपागच्छति लताजाले भृङ्ग इव शेते सुखविश्रान्तिं भजते इत्युत्प्रेक्षा || २९ || एषोद्दालकचित्तवृत्तिकलनावल्ली विवेकस्फुर- त्स्वानन्दप्रविकासभासिकुसुमा हृत्कानने विस्तृता || रूढा यस्य कदाचिदेव विहरन्नप्येव सच्छायया नासावेति वियोगमेति सफलेनोच्चैस्तरां संगमम् || ३० || उक्तमुद्दालकाख्यानमुपसंहरंस्तत्परिशीलनपराणां संसारतापोपशमं परमपुरुषार्थफललाभं च दर्शयति - एषेति | सर्वदृश्यविवेके स्फुरन्यः स्वानन्दः स एव प्रविकासैर्भासीनि कुसुमानि यस्यास्तथाविधा एषा दर्शितप्रकारा उद्दालकचित्तवृत्तेर्विदेहकैवल्यप्राप्त्यन्तसकलचरित्रस्य [उद्दालके चित्तवृत्तेः इति पाठः] कलना आदरनैरन्तर्याभ्यां शिक्षा तल्लक्षणा कल्पवल्ली यस्य हृत्कानने रूढा प्रादुर्भूता सती उत्तरोत्तरभूमिकाधिरोहणक्रमेण विस्तृता असौ पुरुषस्तापत्रयार्कसंकुले व्यवहारकान्तारे विहरन्संचरन्नपि सत्यशान्तिदान्त्यादिगुणसुरभिशीतलया सहजसंतोषलक्षणया छायया | अप्यर्थे एवकारः | कदाचिदपि वियोगं नैति न प्राप्नोत्येव | किंच स उच्चैस्तरां सर्वोत्कृष्टतमेन मोक्षफलेन संगमं पुनरावृत्तिरहितं स्वात्मभावेन संबन्धमेति प्राप्नोतीत्यवश्यं सा वल्ली हृदि संरोप्य विस्तारणीयेत्यर्थः || ३० ||
353 SK इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो० उपशमप्रकरणे उद्दालकनिर्वाणं नाम पञ्चपञ्चाशः सर्गः || ५५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे उद्दालकनिर्वाणं नाम पञ्चपञ्चाशः सर्गः || ५५ || षट्पञ्चाशः सर्गः ५६ श्रीवसिष्ठ उवाच | क्रमेणानेन विहरन्विचार्यात्मानमात्मना | विश्रान्तिमेहि वितते पदे पद्मदलेक्षण || १ || निर्मृष्टमायातिमिरः प्रबुद्धो ध्वस्तवासनः | व्यवहारप्रसक्तोऽपि समाधिस्थ इतीर्यते || १ || अनेन उक्तप्रकारेण विचारवैराग्यसमाध्यभ्यासक्रमेण विहरन् || १ || शास्त्रार्थगुरुचेतोभिस्तावत्तावद्विचार्यते | सर्वदृश्यक्षयाभ्यासाद्यावदासाद्यते पदम् || २ || शास्त्रश्रवणेन अर्थतत्त्वपरीक्षणेन गुरुवचनविश्वासेन स्वचित्तशोधनेन च सर्वदृश्यबाधेन परमपदविश्रान्तिपर्यन्तमवश्यं विचारः कर्तव्य इति तात्पर्यार्थः || २ || वैराग्याभ्यासशास्त्रार्थप्रज्ञागुरुमयक्रमैः [गुरुयमक्रमैरिति पाठः | तत्र यमशब्देन मनोनिग्रहो ज्ञेयः] | पदमासाद्यते पुण्यं प्रज्ञयैवैकयाथवा || ३ || संप्रबोधवती तीक्ष्णा कलङ्करहिता मतिः | सर्वसामग्र्यहीनापि पदं प्राप्नोति शाश्वतम् || ४ || प्रज्ञास्वरूपमाह - संप्रबोधवतीति | प्राप्नोति प्रापयति || ४ || श्रीराम उवाच | भगवन्भूतभव्येश कश्चिज्जातसमाधिकः | प्रबुद्ध इव विश्रान्तो व्यवहारपरोऽपि सन् || ५ || कश्चित्प्रबुद्धो व्यवहारपरोऽपि सन् जातसमाधिक इव विश्रान्त इत्यन्वयः || ५ || कश्चिदेकान्तमाश्रित्य समाधिनियतः स्थितः | तयोस्तु कतरः श्रेयानिति मे भगवन्वद || ६ || श्रीवसिष्ठ उवाच | इमं गुणसमाहारमनात्मत्वेन पश्यतः | अन्तःशीतलता यासौ समाधिरिति कथ्यते || ७ || अन्तःशीतलता पूर्णकामता ज्ञानप्रतिष्ठाफलं तल्लाभे विक्षेपप्रसक्त्यभावात्सैव समाधिरभिधीयत इत्यर्थः | मनसि सति दृश्यैर्विक्षेपहेतुः संबन्धः स्यान्नतु मम तदस्तीति निश्चित्येत्यर्थः || ७ ||
354 SK दृश्यैर्मनसि संबन्ध इति निश्चित्य शीतलः | कश्चित्संव्यवहारस्थः कश्चिद्ध्याने व्यवस्थितः || ८ || दृश्यैर्मननसंबन्धः इति पाठस्तु स्पष्ट एव || ८ || द्वावेतौ राम सुखितावन्तश्चेत्परिशीतलौ [संपन्नाविति पाठः] | अन्तःशीतलता या स्यात्तदनन्ततपःफलम् || ९ || समाधिस्थानकस्थस्य चेतश्चेद्वृत्तिचञ्चलम् | तत्तस्य [तत्तर्हीत्यर्थः] तत्समाधानं सममुन्मत्तताण्डवैः || १० || उन्मत्तताण्डवस्थस्य चेतश्चेत्क्षीणवासनम् | तदस्योन्मत्तवृत्तं तत्समं बुद्धसमाधिना || ११ || व्यवहारी प्रबुद्धो यः प्रबुद्धो यो वने स्थितः | द्वावेतौ सुसमौ नूनमसंदेहं पदं गतौ || १२ || असंदेहं सर्वसंएधोच्छेदि परमपदं गतौ तत्र प्रतिष्ठितौ चेत्यर्थः || १२ || अकर्तृ कुर्वदप्येतच्चेतः प्रतनुवासनम् | दूरं गतमना जन्तुः कथासंश्रवणे यथा || १३ || व्यवहारिणः कर्तृत्वप्रयुक्तो बन्धः किं न स्यात्तत्राह - अकर्त्रिति | प्रतनुवासनं निर्वासनम् | यथा कान्तादिकथासंश्रवणे अन्यत्र प्रसक्तमनाः कुर्वन्नपि रागादिविकारानुदयात्तत्प्रयुक्तैर्दोषैर्न बध्यते तद्वदित्यर्थः || १३ || अकुर्वदपि कर्तेव चेतः प्रघनवासनम् | निस्पन्दाङ्गमपि स्वप्ने श्वभ्रपातस्थिताविव || १४ || निस्पन्दान्यङ्गानि देहावयवा यस्य तथाविधमपि सुप्तस्य मनः श्वभ्रपातं तत्र स्थितौ च यथा कर्तृ तद्वत् || १४ || चेतसो यदकर्तृत्वं तत्समाधानमुत्तमम् | तं विद्धि केवलीभावं सा शुभा निर्वृतिः परा || १५ || निर्वृतिः सुखविश्रान्तिः || १५ || चेतश्चलाचलत्वेन परमं कारणं स्मृतम् | ध्यानाध्यानदृशोस्तेन तदेवानङ्कुरं कुरु || १६ || ध्यानाध्याने समाध्यसमाधी तद्दृष्ट्योः | अनङ्कुरं अङ्कुरबीजवासनाशून्यमिति यावत् || १६ || अवासनं स्थिरं प्रोक्तं मनोध्यानं तदेव तु | स एव केवलीभावः शान्ततैव च सा सदा || १७ || तनुवासनमत्युच्चैः पदायोद्यतमुच्यते | अवासनं मनो कर्तृपदं तस्मादवाप्यते || १८ ||
355 SK तनुवासनं चतुर्थादिभूमिकासु क्षीयमाणवासनम् | अवासनं क्षीणवासनं पदं सप्तमभूमिकाप्रतिष्ठा || १८ || घनवासनमेतत्तु चेतः कर्तृत्वभाजनम् | सर्वदुःखप्रदं तस्माद्वासनां तनुतां नयेत् || १९ || प्रशान्तजगदास्थोऽन्तर्वीतशोकभयैषणः | स्वस्थो भवति येनात्मा स समाधिरिति स्मृतः || २० || प्रशान्ता जगति देहादिदृश्ये आस्था अहंममताभिनिवेशो यस्य | स्वस्थः स्वरूपप्रतिष्ठो येनोपायेन भवति || २० || चेतसा संपरित्यज्य सर्वभावात्मभावनाम् | यथा तिष्ठसि तिष्ठ त्वं तथा शैले गृहेऽथवा || २१ || सर्वेषु भावेषु आत्मभावनां अहंममताध्यासम् | शैले समाहितो गृहे व्यवहरन्वा || २१ || गृहमेव गृहस्थानां सुसमाहितचेतसाम् | शान्ताहंकृतिदोषाणां विजनावनभूमयः || २२ || अरण्यसदने तुल्ये समाहितमनोदृशाम् | भवतामिह भूतानां भूतानां महतामिव || २३ || इह नित्यापरोक्षे प्रत्यगात्मनि भूतानां स्थितानाम् | महतां भूतानामाकाशादीनामिव || २३ || शान्तचित्तमहाभ्रस्य जनज्वालोज्ज्वलान्यपि | नगराण्यपि शून्यानि वनान्यवनिपात्मज || २४ || शान्तचित्तमहाभ्रस्य शरदकाशकल्पस्येत्यर्थः || २४ || वृत्तिमच्चित्तमत्तस्य विजनानि वनान्यपि | नगराणि महालोकपूर्णानि परवीरहन् || २५ || रागादिवृत्तिमता चितेन मत्तस्य || २५ || व्युत्थितं चित्तमभ्येति भ्रमस्यान्तः सुषुप्तताम् | निर्वाणमेति निर्वाणं यथेच्छसि तथा कुरु || २६ || व्युत्थितं रागादिविक्षिप्तं चित्तं नानाविधविषयभ्रमस्यान्तर्लयेन पुनर्व्युत्थानसहस्रबीजभूतां सुषुप्ततामेति | निर्वाणं शान्तरागादिवासनं तु चित्तं निर्वाणं मोक्षमेति || २६ || सर्वभावपदातीतं सर्वभावात्मकं च वा | यः पश्यति सदात्मानं स समाहित उच्यते || २७ ||
356 SK तर्हि प्राक्कथं व्यवहार्यव्यवहारिणोस्तत्त्वविदोस्तुल्यः समाधिरुक्तस्तत्राह - सर्वेति | तत्त्ववित्समाधौ सर्वभावपदातीतं पश्यति व्यवहारे तु सर्वभावात्मकं पश्यतीत्येकपिण्डमात्राहंमानाभावान्न तस्य रागादिरिति न विक्षेपप्रसक्तिरिति भावः || २७ || ईहितानीहिते क्षीणे यस्यान्तर्वितताकृतेः | सर्वे भावाः समा यस्य स समाहित उच्यते || २८ || उक्तमेवार्थ फलत आह - ईहितेति | ईहितानीहिते रागद्वेषौ || २८ || सदात्मना सदेवेदं जगत्पश्यति नो मनः | यथा स्वप्ने तथैवास्मिञ्जाग्रत्यपि जनेश्वर || २९ || कथं सर्वे भावाः समास्तद्दर्शयति - सदात्मनेति | तस्य मनो यथा स्वप्ने तथा जाग्रत्यपि इदं दृश्यं सदात्मना सदेव पश्यति | जगत् सद्व्यतिरिक्तरूपं नो पश्यतीत्यर्थः || २९ || यथा विपणिकालोका विहरन्तोऽप्यसत्समाः | असंबन्धात्तथा ज्ञस्य ग्रामोपि विपिनोपमः || ३० || नगराण्यपि शून्यानीति यदुक्तं तदुपपादयति - यथेति | विपणिका पण्यवीथिका तत्र समवेता अपि बहवो जनाः स्वस्वकार्ये व्यवहरन्तोऽप्युदासीनस्यानुपकारित्वादसत्प्रायास्तद्वत् || ३० || अन्तर्मुखमना नित्यं सुप्तो बुद्धो व्रजन्नपि | पुरं जनपदं ग्राममरण्यमिव पश्यति || ३१ || सर्वमाकाशतामेति नित्यमन्तर्मुखस्थितेः | सर्वथानुपयोग्यत्वाद्भूताकुलमिदं जगत् || ३२ || भूतैः प्राणिभिः पृथिव्यादिभिश्चाकुलमपि बाधितत्वादाकाशतां शून्यताम् || ३२ || अन्तःशीतलतायां तु लब्धायां शीतलं जगत् | विज्वराणामिव नृणां भवत्याजीवितस्थितेः || ३३ || आजीवितस्थितेः यावज्जीवम् || ३३ || अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् | भवत्यखिलजन्तूनां यदन्तस्तद्बहिः स्थितम् || ३४ || यस्मादन्तर्यद्यादृशं तप्तं शीतलं वा चित्तं तदेव बहिर्जगदाकारेण स्थितमित्यर्थः || ३४ || दयुः क्षमा वायुराकाशं पर्वताः सरितो दिशः | अन्तःकरणतत्त्वस्य भागा बहिरिव स्थिताः || ३५ || तदेवाह - द्यौरिति || ३५ ||
357 SK वटधाना वट इव यदन्तःस्थं सदात्मनः | तद्बहिर्भासते भास्वद्विकासे पुष्पगन्धवत् || ३६ || न बहिष्ठं न [न वान्तस्थं इत्यपि क्वचित्पठ्यते] चान्तःस्थं क्वचित्किंचन विद्यते | यद्यथा कचितं चित्त्वात्तत्तथा तत्त्वमुत्थितम् || ३७ || अध्यारोपदृष्ट्योक्त्वा अपवाददृष्ट्या आह - न बहिष्ठमिति | कथं तर्हि तत्र जगदाकारभानं तत्राह - यदिति | यद्वस्तु प्राग्वासनाबलाद्यथा कचितं तथा तद्वेषेण परमार्थतत्त्वमेवोत्थितमित्यर्थः || ३७ || आत्मतत्त्वान्तरं भाति बहिष्ट्वेन जगत्तया | कर्पूरमिव गन्धेन संकोचे प्रविकासि च || ३८ || आत्मतत्त्वरूपं यदान्तरं वस्तु तदेव बहिष्ट्वेन जगत्तया भाति | तत्तदुपाध्यनुसारिसंकोचेऽपि सति प्रविकासि च भवति | यथा संपुटान्तःस्थं कर्पूरं गन्धरूपेण तथा भाति भवति चेत्यर्थः || ३८ || आत्मैव स्फुरति स्फारं जगत्त्वेनाप्यहंतया | बाह्यत्वेनान्तरत्वेन स च नासन्न सन्विभुः || ३९ || न असन् चक्षुराद्यदृश्याहंकारादिरूपः | नापि सन् तद्दृश्यबाह्यस्थूलरूपः | किंतु विभुरुभयानुस्यूतसन्मात्ररूप इत्यर्थः || ३९ || बहिष्ठेनान्तरं बाह्यमन्तःस्थेनान्तरस्थितम् | यथाविदितमात्मायं स्वचित्तमनुपश्यति || ४० || अत एवायमात्मा आन्तरं स्वचित्तमेव यथा विदितं पूर्वपूर्ववेदनानुसारेण बहिष्ठेन बहिर्मुखेन चक्षुरादिना बाह्यं जगदाकारमनुपश्यति | अन्तःस्थेन जाग्रद्वासनादिना आन्तरे हृदि स्थितं स्वप्नराज्याद्यनुपश्यतीत्यर्थः || ४० || सबाह्याभ्यन्तरं शान्तमात्मनो भेदितं जगत् | अहन्त्वादिस्थिते भेदे भूरिभङ्गभयं तु तत् || ४१ || न बहिष्ठं न चान्तःस्थमिति यदुक्तं तद्युक्त्यानुभावयति - सबाह्येति | सबाह्याभ्यन्तरं द्विविधमपि जगदुभयानुस्यूतसदात्मनः सकाशाद्भेदितं पृथक्कृतं सदसदेवेति शान्तं मृतमेवेत्यर्थः | तत्पृथक्करणाभावे तु तत्सत्तयैव बाह्याभ्यन्तरभेदे स्थिते सति तदहंममताध्यासात्तत्तद्भङ्गे भूरिभङ्गभयं भवेदित्यर्थः || ४१ ||
358 SK द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः | कल्पादिरेव ज्वलितं सर्वमाधिहतात्मनः || ४२ || भूरिभङ्गभयमुपपादयति - द्यौरिति | तत्तदाधिभिर्हतात्मनो द्युक्षमादि सर्वं वस्तु तापत्रयज्वालाज्वलितं सत् तथाविधः कल्पादिः प्रलयारम्भसमय एव सदा संपद्यत इत्यर्थः || ४२ || यस्त्वात्मरतिरेवान्तः कुर्वन्कर्मेन्द्रियैः क्रियाः | न वशो हर्षशोकाभ्यां स समाहित उच्यते || ४३ || सन्मात्रात्मदर्शने तु कर्मेन्द्रियैर्व्यवहारेऽपि अभिमानाभावान्न हर्षशोकादिविक्षेपलेशस्यापि प्रसक्तिरिति सदासमाधिस्थतुल्यतैव फलतीत्याशयेनाह - यस्त्वित्यादिना || ४३ || यः सर्वगतमात्मानं पश्यन्समुपशान्तधीः | न शोचति ध्यायति वा स समाहित उच्यते || ४४ || स पूर्वापरपर्यन्तां यः पश्यञ्जागतीं गतिम् | दृष्टिष्वेतासु हसति स समाहित उच्यते || ४५ || पूर्वपर्यन्त उत्पत्तिः अपरपर्यन्तो नाशः तत्सहिताम् | एतासु मूढजनप्रसिद्धास्वहंममतादृष्टिषु || ४५ || समे परेऽपि नाहंता न जगज्जन्मनो मयि | वीचिवृन्देष्विवातप्ता नाकाशे फलधातवः || ४६ || किमर्थं हसतीति चेदहंममेति दृष्टिगोचरयोरभिमानाभिमन्तव्यलक्षणयोरहंताजगतोराश्रयस्यैवासिद्द् ह्या मिथ्यात्वादित्याह - समे इति | ते हि सर्वानुभवसिद्धप्रत्यक्स्वभावे मयि वा स्यातां श्रुतिसिद्धब्रह्मस्वभावे वा | न तावन्मयि | दृशो दृश्याश्रयत्वायोगान्नापि परे ब्रह्मणि | असङ्गाद्वयकूटस्थस्वरूपे समे तस्मिन्नहंताजगज्जन्मादिवैषम्याधारत्वायोगात् | यथा शरदातपसंभिन्नेषु दूराद्दृश्यमानेषु वीचिवृन्देषु दृश्यमाना आतप्ता प्रतप्तद्रुतरजतप्राया विस्फुरन्ती पुञ्जीभूता कान्तिर्न वीचिवृन्देष्वन्तरस्ति समीपोपसर्पणे तेषु निमज्ज्यान्वेषणे चादर्शनात् | नापि तदन्तर्बहिष्ठे आकाशे असङ्गकूटस्थे चतुर्विधक्रियाफलधात्वदर्शनेन वीचिक्रियाजन्यफलाश्रयत्वस्य दूरनिरस्तत्वात् | अतः सा कान्तिरिवाहंताजगतो अपि निराश्रयत्वान्मिथ्यैवेत्यर्थः || ४६ ||
359 SK यस्यान्तरस्थिताहन्त्वं न विभागादि नो मनः | न चेतनाचेतनत्वे सोऽस्ति नास्तीतरो जनः || ४७ || अहंताजगद्भेदं निरस्य तद्द्रष्टृभेदं निरस्यति - यस्येति | यस्य ज्ञस्य अन्तः आन्तरं प्रत्यगात्मरूपं न स्थितं अहन्त्वं यस्मिंस्तथाविधं संपन्नं दृश्यजगद्विभागादिकं मनश्च नास्ति तस्य तदधीनकल्पने चेतनाचेतने अपि न स्तः | अतः स एक एव सर्वात्मास्ति तदितरो जनश्चेतनधातुर्नास्ति | नान्योऽतोऽष्ति द्रष्टा इत्यादिश्रुतेरित्यर्थः || ४७ || व्योमस्वच्छो बहिष्ठेहां सम्यगाचरतीह यः | हर्षामर्षविकारेषु काष्ठलोष्टसमः शमः || ४८ || तस्य लक्षणान्याह - व्योमेति द्वाभ्याम् | सम्यक् शास्त्रशिष्टाचाराविरोधेन | शमः शान्तिस्वभावः || ४८ || आत्मवत्सर्वभूतानि परद्रव्याणि लोष्टवत् | स्वभावादेव न भयाद्यः पश्यति स पश्यति || ४९ || अर्थोऽतनुस्तनुर्वापि नासद्रूपेण चेत्यते | सद्रूपो नानुभूतोऽज्ञे न ज्ञेनैव न तत्तया || ५० || तत्त्वज्ञस्यैव समदर्शित्वे उपपत्तिमाह - अर्थ इति | अज्ञेन मूढेन अतनुर्महान् हिरण्यगर्भैश्वर्यान्तस्तनुरल्पः काकिणीमात्रोपि वा कनककामिन्यादिरर्थो विषयः असद्रूपेण मिथ्यात्वेन न चेत्यते न दृश्यते तदधिष्ठानसद्रूपश्च नानुभूत इति न तत्तयासन्मात्रस्वभावेनापि चेत्यते | ज्ञेन तत्त्वविदैव तथा दृश्यत इति तस्यैवोभयथापि समदर्शित्वमुपपद्यत इत्यर्थः || ५० || ईदृशाशयसंपन्नो महासत्त्वपदं गतः | तिष्ठतूदेतु वा यातु मृतिमेतु न तत्स्थितिम् || ५१ || यस्याशये समदर्शनं निरूढं स सर्वत्र सर्वास्वप्यवस्थासु न हर्षविषादादिना लिप्यत इत्याह - ईदृशेत्यादिना | तिष्ठत्वकिंचनः | उदेतु ऐश्वर्याद्यभ्युदयं प्राप्नोतु वा | मृतिं पुत्रबान्धवादिमरणम् | तत्स्थितिं अभ्युदयस्थितिं नैतु || ५१ || वसतूत्तमभोगाढ्ये स्वगृहे वा जनाकुले | सर्वभोगोज्झिताभोगे सुमहत्यथवा वने || ५२ || उद्दाममन्मथं पानतत्परो वापि नृत्यतु | सर्वसङ्गपरित्यागी सममायातु वा गिरौ || ५३ ||
360 SK उद्दाममन्मथमिति क्रियाविशेषणम् | समं निर्विकारम् || ५३ || चन्दनागुरुकर्पूरैर्वपुर्वा परिलिम्पतु | ज्वालाजटिलविस्तारे निपतत्वथवाऽनले || ५४ || पापं करोतु सुमहद्वहुलं पुण्यमेव च | अद्य वा मृतिमायातु कल्पान्तनिचयेन वा || ५५ || नासौ किंचिन्न तत्किंचित्कृतं तेन महात्मना | नासौ कलङ्कमाप्नोति हेम पङ्कगतं यथा || ५६ || असौ समदर्शी | किंचिन्मरणदुःखादिविकारिदेहमन-आदिरहंताश्रयः | अत-एव तेन न किंचित्कृतम् || ५६ || संवित्पुरुषशब्दार्थैः स कलङ्कैः कलङ्क्यते | अहंत्वंवासनारूपैः शुक्तिकारजतोपमैः || ५७ || अज्ञेषु तर्हि कस्य कलङ्कस्तं दर्शयति - संविदिति | सकलङ्कैः शास्त्रानभ्यनुज्ञातसेवनदूषितैर्वासनारूपैरैन्द्रियकसंविद्भिस्तदायतनेन् अ पुरुषेण देहेन तद्भोग्यैः शब्दार्थरूपैर्विषयैश्च अहन्त्वमहंकारप्रधानलिङ्गात्मा || ५७ || समस्तवस्तुप्रशमात्सम्यग्ज्ञानाद्यथास्थितेः | स्वभावस्योपशान्तोन्तःकलङ्कोऽसत्तया स्वतः || ५८ || कस्मादुपायादन्तःकलङ्कोपशमस्तमाह - समस्तेति | स्वभावस्य चित्तस्य कलङ्को बाधादसत्तया स्वतः प्रशान्तो भवतीति शेषः || ५८ || अहंत्ववासनानर्थप्रसूतेः संविदात्मनः | पुरुषस्य विचित्राणि सुखदुःखानि जन्मनि || ५९ || संसारदुःखप्राप्तेस्तर्हि किं कारणं तदाह - अहंत्वेति | अहंत्वाध्यासाद्वासनालक्षणानामनर्थानां प्रसूतेरुद्बोधात्पुरुषस्य जन्मनि सन्तीत्यर्थः || ५९ || रज्ज्वां सर्पभ्रमे शान्तेऽहिर्नेति निर्वृतिर्यथा | अहंत्वभावसंशान्तौ तथान्तः समता मता || ६० || अत-एवाहन्त्वशान्त्या संसारदुःखनिवृत्तिरित्याह - रज्ज्वामिति | समता सर्वदुःखवैषम्यशून्यता || ६० || यत्करोति यदश्नाति यद्ददाति जुहोति वा | न तज्ज्ञस्य न तत्र ज्ञो मा करोतु करोतु वा || ६१ || दुष्कृतफलमिव सुकृतफलमपि ज्ञस्य नास्तीति तस्य सर्वकर्तव्यहानिरित्याह - यदित्यादिना || ६१ || कर्मणास्ति न तस्यार्थो नार्थस्तस्यास्त्यकर्मणा | यथास्वभावावगमात्स आत्मन्येव संस्थितः || ६२ ||
361 SK अकर्मणा कर्मत्यागेन || ६२ || इच्छास्ततः समुद्यन्ति न मञ्जर्य इवोपलात् | याश्चोद्यन्ति च ताः सर्वाः स एवाप्स्विव वीचयः || ६३ || फलेच्छया हि तदुपाये कर्मणि प्रवृत्तिः स्यात्सैव तस्य पूर्णत्वान्नोदेतीत्याह - इच्छा इति | कदाचिद्वासनाभ्यासादुदिता अपीच्छाः परमार्थदृशा तस्य स्वात्मभूता एवेत्याह - याश्चेति || ६३ || सकलमिदमसावसौ च सर्वं जगदखिलं न विभागितात्र काचित् | परमपुरुषपावनैकरूपी स सदिति तत्सदकिंचिदेव नासौ || ६४ || तस्य सर्वात्मतां सर्वस्य तदात्मतां च द्रढयन्नुभयोर्निष्प्रपञ्चचिन्मात्रतैव परमार्थतः फलितेति दर्शयति - kācinnāsti | evaṃ bhedakānāṃ kāryakāraṇopādhīnāṃ tattatsākṣīcinmātratve sa tattvavit sarvajagadadhiṣṭhānasanmātrameva | yato'sau paramaḥ pūrṇatvātpuruṣaḥ sarvadoṣāsparśācca pavano yaḥ paramātmā tadekarūpīti anayā rītyā akiṃcitsarvadvaitabandhanirmuktasatsvarūpamātrapariśiṣṭo'sau nityamuktaḥ saṃpanna ityarthaḥ || 64 || ityārṣe śrīvāsiṣṭhamahārāmāyaṇe vālmīkīye de0 mokṣopāyeṣūpaśamaprakaraṇe dhyānavicāro nāma ṣaṭpañcāśaḥ sargaḥ || 56 || iti śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśe upaśamaprakaraṇe dhyānavicāro nāma ṣaṭpañcāśaḥ sargaḥ || 56 || saptapañcāśaḥ sargaḥ 57 śrīvasiṣṭha uvāca | yadātmamaricasyāntaścittvāttīkṣṇatvavedanam | tadahaṃtādi bhedādi deśakālādi cetyataḥ || 1 || ajñātasvasvabhāvā ciddṛktvāddṛśyasvabhāvatām | yāṃ dhatte sā cideveti cidanyanneti varṇyate || 1 || evaṃ sarvajagataścidabhede paramārthataḥ siddhe vyavahāre'pi jagadvaicitryaṃ tattadrūpacitsvabhāva eveti phalitamityāha - yadityādinā | ātmaiva svaprakāśataikṣyaṃ maricaṃ tasya cittvāttaikṣṇyaprathārūpaṃ yadvedanaṃ tatsthānīyaṃ ajñātabrahmasvabhāva eva ahaṃtātvaṃtādirūpaṃ ghaṭakuḍyabhedādirūpaṃ tadādhāradeśakālādirūpaṃ ca jagaditi | ataścidabhedasādhanātphalitamityarthaḥ || 1 ||
362 SK यदात्मलवणस्यान्तश्चित्त्वाल्लवणवेदनम् | तदहंतादि भेदादि देशकालादि मत्स्थितम् || २ || स्वतो यदन्तरात्मेक्षोश्चित्त्वान्माधुर्यवेदनम् | तदहंतादि भेदादि जगत्तत्त्वादि जृम्भितम् || ३ || तत्त्वादिना तत्तदाकारभेदेन जृम्भितमभिव्यक्तम् || ३ || स्वतो यदात्मदृषदश्चित्त्वात्काठिन्यवेदनम् | तदहंतादि भेदादि देशकालादितां गतम् || ४ || स्वतो यदात्मशैलस्य ज्ञतया जाड्यवेदनम् | तदहंतादि भेदादि भुवनादीति संस्थितम् || ५ || जाड्यं गौरवम् || ५ || स्वतो यदात्मतो यस्य चिद्द्रवत्वादिवर्तनम् | तदावर्ताद्यहंतादिभेदाद्याकारिता इव || ६ || आकारितास्तत्तदाकारवता इव स्थितमित्यनुषज्यते || ६ || स्वतो यदात्मवृक्षस्य शाखादिस्तस्य वेदनम् | तदहंतादि भेदादि भुवनादीव सत्स्फुरत् || ७ || सत् वर्तमानं तथा स्फुरद्भासमानम् || ७ || यदात्मगगनस्यान्तश्चित्त्वाच्छून्यत्ववेदनम् | तदहंतादि भेदादि भुवनादीति भावनम् || ८ || भावनं कल्पनम् || ८ || यदात्मगगनस्यान्तश्चित्त्वात्सौषिर्यवेदनम् | तदहंतादि भेदादि शरीरादि च दीपितम् || ९ || द्रव्याद्बहिःशून्यत्वम् मूर्तद्रव्यान्तश्छिद्रता तु सौषिर्यमिति भेदः || ९ || स्वतो यदात्मकुड्यस्य नैरन्तर्यं निरन्तरम् | तदहंतादिभेदेन चित्ताद्बहिरिव स्थितम् || १० || नैरन्तर्य निबिडता | बहिर्दृश्यत्वाच्चिद्व्यतिरिक्तमिवेत्यर्थः || १० || स्वतो यदात्मसत्तायाश्चित्त्वात्सत्त्वैकवेदनम् | तदहंतादि भेदादि चेतनानीतिवत्स्थितम् || ११ || चेतनानि चिदाभासाः || ११ || अन्तरात्मप्रकाशस्य स्वतो यदवभासनम् | तदहंतादि चित्त्वादि जीव इत्येव वेद सः || १२ || चित्त्वं वृत्तिभेदभिन्नचिदाभासेष्वनुगतं सामान्यं वेद कल्पयति स जीवः || १२ || अन्तरस्ति यदात्मेन्दोश्चिद्रूपं चिद्रसायनम् | स्वत आस्वादितं तेन तदहंतादिनोदितम् || १३ || रसायनममृतम् | स्वत आस्वादितं स्वप्रकाशतया अनुभूतम् | उदितमाविर्भूतम् || १३ || परमात्मगुडस्यान्तर्यच्चित्स्वादूदयात्मकम् | तदेवास्वाद्यते तेन स्वतोऽहंतादि नान्तरे || १४ ||
363 SK आन्तरे स्वात्मन्येव || १४ || परमात्ममणेश्चित्त्वाद्यदन्तः कचनं स्वयम् | चेतनात्मपदे चान्तरहमित्यादि वेत्त्यसौ || १५ || चेतनारूपे आत्मपदे स्वरूपे || १५ || न च किंचन वेत्त्यन्तर्वेद्यस्यासंभवादिह | न चास्वादयति स्वादु स्वाद्यस्यासंभवादयम् || १६ || मायिकजगदाकारानुभवस्य स्वप्रकाशस्वात्मानुभवमात्रत्वव्युत्पादनाय पश्यति वेत्त्यास्वादयत्यास्वाद्यते इति कर्मकर्तृभावव्यपदेशो न तद्भेदसाधनाशयेनेत्याह - न चेति || १६ || न च किंचिच्चिनोत्यन्तश्चेत्यस्यासंभवे सति | विन्दते न च वा किंचिद्वेद्यस्यासंभवादसौ || १७ || चिनोति चैतन्यान्तरात्मना विकरोति | वेद्यस्य लभ्यस्य || १७ || असदाभास एवात्मा अनन्तो भरिताकृतिः | स्थितः सदैवैकघनो महाशैल इवात्मनि || १८ || असन् आभासत इत्याभासो जगदाकारो यस्मिंस्तथाविध एव || १८ || अनया तु वचोभङ्ग्या मया ते रघुनन्दन | नाहंतादिजगत्तादिभेदोस्तीति निदर्शितम् || १९ || तर्हि यदात्ममरिचस्येत्याद्युक्तेः कोऽभिप्रायस्तमाह - अनयेति || १९ || न चित्तमस्ति नो चेता न जगत्तादिविभ्रमः | वृष्टमूकाम्बुदसितं शान्तं शाम्यति केवलम् || २० || पूर्वं वृष्टो वृष्टवान्पश्चाच्छरदि मूकस्तूष्णींभूतोऽम्बुद इव सितं शुद्धमधिष्ठानसन्मात्रतया परिशिष्टं बाधितं जगत् शान्तमेव शाम्यतीत्यर्थः || २० || यथावर्तादितामेति द्रवत्वाद्वारि वारिणि | तदाहंतादितामेति ज्ञप्ता ज्ञप्तौ ज्ञ आत्मनि || २१ || ज्ञप्ता मायावी ज्ञः सर्वज्ञः स्वमायावृते ज्ञप्तिरूपे आत्मनि अहंतादिरूपतां जीवजगद्भावमिति यावत् || २१ || यथा द्रवत्वं पयसि यथा स्पन्दः सदागतौ | अहंतादेशकालादि तथा ज्ञे ज्ञप्तिमात्रके || २२ || सदागतौ वायौ | परमार्थतो ज्ञप्तिमात्ररूपे ज्ञे सर्वज्ञेश्वरे || २२ || ज्ञो ज्ञतायां शिव ज्ञानं जानाति ज्ञानबृंहया | ज्ञायतेऽहंतदि ज्ञेन जीवादीत्यभिजीवनैः || २३ ||
364 SK यदि जीवजगद्रूपे ज्ञप्तेरनन्ये तर्हि ज्ञप्ते जीवेश्वरभावयोः को विशेषस्तमाह - ज्ञ इति | ज्ञ ईश्वरो ज्ञतायामीश्वरभावे शिवं निरतिशयानन्दरूपं स्वरूपज्ञानं [स्वरूपज्ञानबृंहया इति मुद्रितपुस्तके पाठः] ज्ञानबृंहया अनावरणापरिच्छेदलक्षणया ज्ञानाभिवृद्ध्या सदैव जानाति | अहंतादि अहंकारस्थूलदेहरूपजीवभावे तु ज्ञेन चेतनभूतेनापि अभिजीवनैर्जीवनहेतुभिः प्राणकरणविषयसंबन्धाद्यासैर्जीवादिरूप एवात्मेति ज्ञायते न तत्त्वत इति विशेष इत्यर्थः || २३ || यथोदेति ययाऽज्ञस्य तृप्तिर्ज्ञानेन यादृशी | अनन्ये वान्यता बुद्धा स तथा जृम्भते तया || २४ || अत-एव जीवस्य यथा यथा भ्रान्तिस्तथा तथेश्वरो विवर्तत इत्याह - यथेति | यया यया कामकर्मवासनया यादृशविषयज्ञानेन अज्ञस्य यथा येन येन दर्शनलाभोपभोगवैचित्र्यप्रकारेण यादृशी प्रियओदप्रमोदादिनानाप्रकारा तृप्तिरुपभोग उदेति अनन्ये स्वरूपे भोक्तृभोग्य्भोगवैचित्र्यरूपा अन्यता वा ज्ञेन बुद्धा स परमेश्वरस्तया तया तदीयकामादिवासनया तथा तथा जृम्भते स्वगात्राणि विनामयति विवर्तते | वैचित्र्यं धत्ते इति यावत् || २४ || जीवनं ज्ञातता ज्ञाता जीवनं जीवजीवनम् | अत्यन्तमस्ति नो भेदश्चिद्रूपत्वे ज्ञजीवयोः || २५ || यदा त्वनेन सच्छास्त्रसद्रूपदेशाद्भोग्यस्य जगतो ज्ञातता अधिष्ठानसन्मात्ररूपा स्फूर्तिरेव जीवनं सारः परमार्थस्थितिर्ज्ञाता जीवानां सर्वेषां यदधीनं जीवनं तादृशानन्दरूपमेव जीवनं भोक्तुः सारो ज्ञातस्तदा भोग्यभोक्रधिष्ठानयोर्द्वयोरपि चिद्रूपत्वे परिशिष्टे ज्ञजीवयोर्जीवेश्वर्योर्भेदोऽस्त्यन्तं नास्ति | सर्वथैव निवर्तत इत्यर्थः || २५ || यथा ज्ञजीवयोर्नास्ति भेदो नाम तथैतयोः | भेदोऽस्ति न ज्ञशिवयोर्विद्धि शान्तमखण्डितम् || २६ || जीवेश्वरभेदकाज्ञाने नष्टे प्राज्ञतुरीयभेदोऽपि निवृत्त इत्यखण्डपूर्णानन्दैकरसचिन्मात्रसाम्राज्यं सिद्धमित्याह - यथेति || २६ ||
365 SK सर्वं प्रशान्तमजमेकमनादिमध्य- माभास्वरं स्वदनमात्रमचेत्यचिह्नम् | सर्वं प्रशान्तमिति शब्दमयी तु दृष्टि- र्बोधार्थमेव हि मुधैव तदोमितीदम् || २७ || निष्कृष्टार्थमनूद्योपसंहरति - सर्वमिति | सर्वं जगत् आसमन्तात् भास्वरं पूर्णस्वप्रकाशरूपं स्वदनमात्रमानन्दैकरसं चेत्यैर्विषयैश्चिह्नेन स्वव्यावर्तकधर्मेण च रहितं प्रशान्तं ब्रह्म तदेव सर्वं प्रशान्तमिति तात्कालिकशब्दमयी पदवाच्यार्थाभेदसंसर्गगोचरा आहार्या भेददृष्टिः साक्षात्प्रयोजनशून्यत्वान्मुधैव | हि यस्मात्कारणाद्विरोधप्रतिसंधाने भागस्त्यागलक्षणाश्रयद्वारा लक्ष्यार्थाखण्डबोधार्थमेव | तद्वाक्यबोधमखण्डार्थरूपं तु ओमिति ॐकार्ऽम् जगद्ब्रह्म चैकीकृत्य विराठिरण्यगर्भाव्याकृततुरीयात्मकान् अकासेकारमकारार्धमात्रापादांश्चतुर्धा विभज्य पूर्वपूर्वपादानुत्तरोत्तरेषु प्रविलाप्यार्धमात्रया यदद्वयं पूर्णानन्दैकरसं नित्यापरोक्षप्रत्यक्चिन्मात्ररूपं लक्ष्यते इदमेव न संसृष्टरूपमित्यर्थः || २७ || इत्यार्षे श्रीवासिष्ठमहारमायणे वाल्मीकीये दे० मोक्षोपायेषूपशमपकरणे भेदनिरासो नाम सप्तपञ्चाशः सर्गः || ५७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे भेदनिरासो नाम सप्तपञ्चाशः सर्गः || ५७ || अष्टपञ्चाशः सर्गः ५८ श्रीवसिष्ठ उवाच | अत्रैवोदाहरन्तीममितिहासं पुरातनम् | किरातेशस्य सुरघोर्वृत्तान्तं विस्मयास्पदम् || १ || किरारेशस्य सुरघोर्निर्वेदोऽत्रोपवर्ण्यते | माण्डव्येनोपदेशश्च सर्वत्यागाद्युपायतः || १ || अत्रास्मिन् शब्दमयी दृष्टिर्बोधार्थमेवेत्युक्तेऽर्थे || १ || उत्तरस्या दिशो मेदः कर्पूरपटलं भुवः | संभूतं हसनं शार्वं शुक्लो वा चान्द्र आतपः || २ ||
366 SK सुरघोर्निवासदेशं वक्तुं तत्संनिहितं हिमवच्छृङ्गं वर्णयति - उत्तरस्या इत्यादिना | मेदः सार इति यावत् | भुवः संभूतं निर्गतं कर्पूराणां पटलं राशिः | शार्व हसनं चान्द्र आतपो वेति प्रत्येकमुत्प्रेक्षा | अथवा दिशो मेदः हसनं चान्द्र आतपो वा भुवः भूमिं प्राप्य कर्पूरपटलं संभूतमित्यौत्प्रेक्षिकवैकल्पिकनानाहेतूपपाद्या एकैव विशिष्टोत्प्रेक्षा || २ || हिमाद्रेः शृङ्गमस्तीह कैलासो नाम पर्वतः | शैलकुञ्जरनिर्मुक्तकलापस्येव नायकः || ३ || हिमाद्रेः शृङ्गमिति विशेषणान्मेरुसंनिहितप्रसिद्धरजतादेरयमन्य इति गम्यते | शैलकुञ्जरेण पर्वतश्रेष्ठेन हिमवता निर्मुक्तस्य धृतस्य शृङ्गपरम्परालक्षणस्य मुक्ताकलापस्य नायको मणिरिव स्थित इत्यर्थः | शैलस्थकुञ्जरेभ्यो निर्गलितस्य मुक्ताकलापस्य नायकः संग्राहको राशिरिवेति वा || ३ || विष्णोः क्षीरोदक इव स्वर्गः सुरपतेरिव | अब्जजस्येव नाभ्यब्जं गृहं यः शशिमौलिनः || ४ || नाभ्यब्जं विष्णुनाभिकमलम् | गृहं श्वशुरकल्पितमित्यर्थाद्गम्यते || ४ || रुद्राक्षवृक्षदोलाभिः साप्सरोभिर्विभाति यः | लोलरत्नशलाकाभिर्लहरीभिरिवार्णवः || ५ || रुद्राक्षवृक्षेषु लम्बमानाभिर्दिलाभिः प्रेङ्क्षोलिकाभिः | लोलरत्नशलाकाभिरिति लहरीणामपि विशेषणम् || ५ || गणाङ्गनानामनिशं मत्तानां चरणैर्हताः | अशोका इव राजन्ते यत्राशोका विलासिनः || ६ || गणाङ्गनानां प्रमथस्त्रीणाम् || ६ || संचरञ्शंकरो दिक्षु भृगुष्विन्दुमणिद्रवैः | निवर्तन्ते प्रवर्तन्ते यत्राजस्रं च निर्झराः || ७ || यत्र यासु दिक्षु संचरन् भवति तत्र भृगुषु प्रपातस्थलेषु प्रवर्तन्ते अन्यासु निवर्तन्ते || ७ || यो लतावृक्षगुल्मौघवापीह्रदनदीनदैः | मृगैर्मृगगणैर्भूतैर्ब्रह्माण्डवदिवावृतः || ८ ||
367 SK ब्रह्माण्डवदिवेति | उक्तार्थानामपि प्रयोगो दृश्यते | यथा द्वावपूपावानयेति महाभाष्योक्तिदर्शनात् | द्योतकानां बहूनामपि उद्यन्तं वा आदित्यमग्निरनुसमारोहति इतिवत्सहप्रयोगसंभवाद्वतिनोक्तेऽपि सादृश्ये इवशब्दप्रयोगः | अण्डवद्विराडाकारविशिष्टं ब्रह्मेवेति मतुबन्तं वा योज्यम् || ८ || तस्य हेमजटा नाम किराताः संस्थिताः स्थले | पिपीलिका वटतरोर्मूलकोशगता इव || ९ || तस्य हिमवच्छृङ्गस्य | स्थले मूलदेशे || ९ || कैलासपादारण्यानां रुद्राक्षैस्तरुगुल्मकैः | वसन्ति धूकवत्क्षुद्रास्ते वै निकटजीविनः || १० || तेषां जीवनोपायमाह - कैलासेति | कैलासाख्यशृङ्गस्य पादाः प्रत्यन्तपर्वतास्तदीयानामरण्यानां संबन्धिभि रुद्राक्षैरन्यैश्च तरुगुल्मकैः फलपुष्पकाष्ठमूलाद्युपजीवनेन निकटजीविनः || १० || आसीत्तेषामुदारात्मा राजा परपुरंजयः | जयलक्ष्म्या भुज इव यः प्रजायाश्च दक्षिणः || ११ || जयलक्ष्म्या भुज इव परपुरंजयः प्रजायाः पालने च दक्षिणो राजा वक्ष्यमाणविशेषणैर्ब्रह्मविद्याधिकारदर्शनाच्चासौ क्षत्रिय इति गम्यते || ११ || सुरघुर्नाम बलवान्सुरघोरारिदर्पहा | अर्कः पराक्रम इव मूर्तिमानिव मारुतः || १२ || पराक्रमे अर्क इवेति योजना || १२ || जितो वै राज्यविभवैर्धनैर्गुह्यकनायकः | शतक्रतुगुरुर्बोधैः काव्यैरसुरदेशिकः || १३ || राज्यविभवैर्धनैश्च गुह्यकनायको राजराजो धनेश्वरोऽपि जितस्तेनेति शेषः | काव्यै रसालंकारादिशालिप्रबन्धरचनैरसुरदेशिकः शुक्रः || १३ || स चक्रे राजकार्याणि निग्रहानुग्रहक्रमैः | यथाप्राप्तान्यखिन्नाङ्गो दिनानीव दिवाकरः || १४ || तज्जाभ्यां सुखदुःखाभ्यामथ तस्याभ्यभूयत | स्वगतिर्वागुराबन्धैः श्लिष्टाङ्गस्येव पक्षिणः || १५ || किमार्तं पीडयाम्येनं तिलान्यन्त्रमिवौजसा | सर्वेषामेव भूतानां ममेवार्तिः प्रजायते || १६ || दुःखवशाच्चिन्ताशोकाद्युद्भवं दर्शयति - किमार्तमिति | एनं प्रजाजनम् || १६ ||
368 SK धनमस्मै प्रयच्छामि धनेनानन्दवाञ्जनः | भवत्यहमिवाशेषस्तदलं मेऽतिनिग्रहैः || १७ || कर्तव्यसंशये प्रथमां कोटिं दर्शयति - धनमिति | तत्तस्माद्धेतोः | आर्तायास्मै जनाय धनं प्रयच्छामि | अतिनिग्रहैश्च अलं | प्रयोजनं नास्तीत्यर्थः || १७ || अथवा निग्रहं प्राप्तं करोम्येतेन वै विना | वर्तते न प्रजैवेयं विना वारि सरिद्यथा || १८ || द्वितीयां दर्शयति - अथवेति | एतेन निग्रहेण विना प्रजा न वर्तत एव | स्वस्वमर्यादायामिति शेषः || १८ || हा कष्टमेव [कष्टमेव इत्यपि क्वचित्पाठः] निग्राह्यो नित्यानुग्राह्य एष मे | दिष्ट्याद्य सुखवानस्मि कष्टमद्यास्मि दुःखवान् || १९ || निग्राह्यो वधबन्धादिना दण्ड्य || १९ || इति दोलायितं [लोलायितं इति पाठः] चेतो न विशश्राम भूपतेः | एकत्राम्बुमहावर्ते चिरतृष्णमिव भ्रमत् || २० || एकत्र न विशश्राम | यथा तृषितनिद्राणस्य चिरतृष्णं मनः अम्बुमहावर्ते भ्रमति तद्वत् || २० || अथैकदा गृहं तस्य माण्डव्यो मुनिराययौ | भ्रान्ताशेषककुप्कुञ्जो वासवस्येव नारदः || २१ || भ्रान्तान्यशेषाणि ककुप्कुञ्जानि दिङ्मण्डलानि येन || २१ || तमसौ पूजयामास पप्रच्छ च महामुनिम् | संदेहदुर्द्रुमस्तम्भपरशुं सर्वकोविदम् || २२ || सुरघुरुवाच | भवदागमनेनास्मि मुने निर्वृतिमागतः | परमां वसुधापीठं संप्राप्त इव माधवे || २३ || परमां निर्वृतिं सुखम् | माधवे वसन्ते विष्णौ वा || २३ || अद्य तिष्ठाम्यहं नाथ धन्यानां धुरि धर्मतः | विकासि रविणेवाब्जं यत्त्वयास्म्यवलोकितः || २४ || भगवन्सर्वधर्मज्ञ चिरं विश्रान्तवानसि | तदमुं संशयं छिन्धि ममार्कस्तिमिरं यथा || २५ || यदि विश्रान्तवान् गतश्रमोऽसि तत्तर्हि | अथवा परमपदे चिरं विश्रान्तवानसि तत्तस्माद्धेतोः || २५ || महतां संगमेनार्तिः कस्य नाम न नश्यति | संदेहं तु परामार्तिमाहुरार्तिविदो जनाः || २६ || मन्निग्रहानुग्रहजा मद्भृत्यवपुषि स्थिताः | कषन्ति मामलं चिन्ता गजं हरिनखा इव || २७ ||
369 SK भृत्यग्रहणं शत्रुमित्रादिसर्वोपलक्षणम् | वपुषि विषये स्थिता निरूढाः | कषन्ति पीडयन्ति || २७ || तद्यथा समतोदेति सूर्यांशुरिव सर्वदा | मतौ मम मुने नान्या तथा करुणया कुरु || २८ || समता समदृष्टिः | अन्या विषमदृष्टिर्यथा नोदेति तथा || २८ || माण्डव्य उवाच | स्वयत्नेन स्वसंस्थेन स्वेनोपायेन भूपते | एषा मनःपेलवता हिमवत्प्रविलीयते || २९ || वैराग्यत्यागादिरूपेण स्वयत्नेन श्रवणमननादिना स्वव्यञ्जकोपायेन | स्वसंस्थेन स्वात्मबोधपर्यवसितेन | पेलवता मृदुता | हर्षविषादस्थानकण्टकसहस्रवेधार्हतेति यावत् || २९ || स्वविचारणयैवाशु शाम्यत्यन्तर्मनोज्वरः | शरदागममात्रेण मिहिका महती यथा || ३० || स्वेनैव मनसा स्वानि स्वशरीरगतानि च | विचारयेन्द्रियाण्यन्तः कीदृशान्यथ कानि च || ३१ || स्वानि स्वीयानि पुत्रमित्रादीनि स्वशरीरगतानीन्द्रियाणि चादन्यानि च तत्त्वतः कानि युक्तितः कीदृशानि चेति विचारयेत्यर्थः || ३१ || कोऽहं कथमिदं किंवा कथं मरणजन्मनी | विचारयान्तरेवं त्वं महत्तामलमेष्यसि || ३२ || अविचाराध्यस्तपरिच्छिन्नतापगमान्महत्ताम् || ३२ || विचारणा परिज्ञातस्वभावस्य सतस्तव | हर्षामर्षदशाश्चेतस्तोलयिष्यन्ति नाचलम् || ३३ || स्रतः परमार्थवस्तुभूतस्य तव अचलं चेतो न तोलयिष्यन्ति | तुलायामिव नोन्नमनानमनाभ्यामनियतस्थितिं करिष्यन्तीत्यर्थः || ३३ || मनः स्वरूपमुत्सृज्य शममेष्यति विज्वरम् | भूतपूर्ववपुर्भूत्वा तरङ्गः पयसीव ते || ३४ || विज्वरं ते मनः स्वं मनोरूपमुत्सृज्य भूतपूर्ववपुः पूर्वसिद्धब्रह्मस्वभावं भूत्वा शमं निर्विक्षेपतामेष्यति || ३४ || तिष्ठदेव मनोरूपं परित्यक्ष्यति तेऽनघ | कलङ्कविकलं कालं मन्वन्तरगताविव || ३५ ||
370 SK तर्हि किं मनसः सत्तैव नङ्क्ष्यति नेत्याह - तिष्ठदेवेति | यथा पूर्वमनोरन्ते कलिकालं प्राप्य कलङ्कैः पापैर्विकलं भुवनं पुनर्मन्वन्तरगतौ सत्यां तिष्ठदेव कलङ्कं त्यजति तद्वन्मनोऽपि जीवन्मुक्तव्यवहारक्षमतया तिष्ठदेव पूर्वतनं मनोरूपं त्यजतीत्यर्थः || ३५ || अनुकम्प्या भविष्यन्ति श्रीमन्तः सर्व एव ते | दृष्टतत्त्वस्य तुष्टस्य जनाः पितुरिवावनौ || ३६ || न केवलं दुःखनिवृत्तिरेव ज्ञानफलं किंतु निरतिशयानन्दसाम्राज्यमपि यत्र ब्रह्मादयोऽप्यनुकम्प्या इत्याह - अनुकल्प्या इति || ३६ || विवेकदीपदृष्टात्मा मेर्वब्धिनभसामपि | अधो [अथो इति पाठः] करिष्यसि नृप महत्तामुत्तमार्थदाम् || ३७ || यदा आकाशादीनामपि महत्ता तत्सत्ताधीना तदा तस्य निरतिशयं महत्त्वं किं वाच्यमित्याशयेनाह - विवेकेति | विवेकजन्येन ज्ञानदीपेन दृष्ट आत्मा येन || ३७ || महत्तामागते चेतस्तव संसारवृत्तिषु | न निमज्जति हे साधो गोष्पदेष्विव वारणः || ३८ || कृपणं तु मनो राजन्पेलवेऽपि निमज्जति | कार्ये गोष्पदतोयेऽपि जीर्णाङ्गो मशको यथा || ३९ || कृपणं कामकार्पण्यदूषितम् | पेलवे क्षुद्रेऽपि कार्ये | निमज्जति मुह्यति || ३९ || चेतोवासनया पङ्के कीटवत्परिमज्जसि | दृश्यमात्रावलम्बिन्या स्वया दीनतया तया || ४० || तया प्रसिद्धया || ४० || तावत्तावन्महाबाहो स्वयं संत्यज्यतेऽखिलम् | यावद्यावत्परालोकः परमात्मैव शिष्यते || ४१ || तर्हि कियत्सु विषयेषु कियत्कालं वा वैराग्यं कर्तव्यमिति चेत्तत्राह - तावदिति | स्वयंज्योतिरात्ममात्रपरिशेषानुभवपर्यन्तमित्यर्थः || ४१ || तावत्प्रक्षाल्यते धातुर्यावद्धेमैव शिष्यते | तावदालोक्यते सर्वं यावदात्मैव लभ्यते || ४२ || नानाश्रुतिशास्त्रपर्यालोचनमप्यात्मदर्शनपर्यन्तमेवेत्याह - तावदिति | धातुः स्वर्णाकरधातुः | सर्वमध्यात्मशास्त्रम् || ४२ || सर्वः सार्विकया बुद्ध्या सर्वं सर्वत्र सर्वदा | सर्वथा संपरित्यज्य स्वात्मनात्मोपलभ्यते || ४३ ||
371 SK सार्विकया सर्ववस्तुभूतया बुद्ध्या सर्वदा सर्वत्र देशे सर्वं दृश्यं सर्वथा परित्यज्य सर्वः पूर्णात्मा स्वात्मनैवोपलभ्यते न कदाचित्कुत्रचित्कथंचित्कतिपयविषयत्यागमात्रेणेत्यर्थः || ४३ || यावत्सर्वं न संत्यक्तं तावदात्मा न लभ्यते | सर्वावस्थापरित्यागे शेष आत्मेति कथ्यते || ४४ || उक्तमेवार्थं व्यतिरेकमुखेनापि द्रढयति - यावदिति | तत्कुतस्तत्राह - सर्वेति || ४४ || यावदन्यन्न संत्यक्तं तावत्सामान्यमेव हि | वस्तु नासाद्यते साधो स्वात्मलाभे तु का कथा || ४५ || सामान्यं लोकव्यवहारसाधारणं गोधनादि | अप्यर्थे एवकारः | यावदन्यत्तद्विरोधि वस्तु न संत्यक्तं तावन्नासाद्यते || ४५ || यत्र सर्वात्मनैवात्मा लाभाय यतति स्वयम् | त्यक्तान्यकार्यं प्राप्नोति तन्नाम नृप नेतरत् || ४६ || यत्र यस्मिन्विषये | तत् तं विषयम् || ४६ || स्वात्मावलोकनार्थं तु तस्मात्सर्वं परित्यजेत् | सर्वं किंचित्परित्यज्य यद्दृष्टं तत्परं पदम् || ४७ || सर्वं दृश्यं परित्यज्य यत्किंचित्सर्वथा परित्यक्तुमशक्यं दृष्टं तदेव परं पदमित्यर्थः || ४७ || सकलकारणकार्यपरम्परा- मयजगद्गतवस्तुविजृम्भितम् | अलमपास्य मनः स्ववपुस्ततः परिविलाप्य यदेति तदेव तत् || ४८ || मनः सकलकारणकार्यपरम्परामये जगति मणिषु सूत्रमिवानुगते सन्मात्रे स्वकल्पनया विजृम्भितं सद्व्यतिरिक्तं सर्वं रूपं अलं निःशेषमपास्य ततस्तदनन्तरं स्ववपुर्मनोरूपमपि मूलाज्ञाननाशाद्बाधेन परिविलाप्य यत्सच्चिन्मात्रैकरसं वस्तु एति प्राप्नोति तदेव तद्ब्रह्मरूपमित्यर्थः || ४८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सुरघुवृत्तान्ते माण्डव्योपदेशो नामाष्टपञ्चाशः सर्गः || ५८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे माण्डव्योपदेशो नामाष्टपञ्चाशः सर्गः || ५८ || एकोनषष्टितमः सर्गः ५९ श्रीवसिष्ठ उवाच |
372 SK इत्युक्त्वा भगवानेनं सुरघुं रघुनन्दन | ययौ स्वमेव रुचिरं माण्डव्यो मौनमण्डलम् || १ || बाह्यमाभ्यन्तरं चैव दृश्यं संत्यजतो रहः | इह राज्ञो विचारेण स्वात्मलाभ उदीर्यते || १ || गते वरमुनौ राजा गत्वैकान्तमनिन्दितम् | धिया संचिन्तयामास को नामाहमिति स्वयम् || २ || उक्त्वा उपदिश्य | स्वं स्वीयं मौनमण्डलं मुन्यावासदेशम् || १ || नाहं मेरुर्न मे मेरुर्जगन्नाहं न मे जगत् | नाहं शैला न मे शैला धरा नाहं न मे धरा || ३ || तत्रादौ बाह्ये दृश्ये आत्मतामात्मीयतां च विचार्य निरस्यति - नाहमित्यादिषड्भिः | जगत्पदेन ऊर्ध्वाधोलोका गृह्यन्ते || ३ || किरातमण्डलं नेदं मम नाहं च मण्डलम् | निजसंकेतमात्रेण केवलं देश एव मे || ४ || निजः संकेतः सर्वजनसंमत्या पट्टाभिषेकादिना अहं राजेति कल्पना तावन्मात्रेण || ४ || त्यक्तो मयैष संकेतो नाहं देशोन वैष मे | इदानीं नगरं शिष्टमेष एवात्र निश्चयः || ५ || अत्र एतस्मिन्नगरेऽपि संकेतत्यागादेष एव निश्चयः || ५ || पताकावनपङ्क्त्याढ्या भृत्योपवनसंकुला | गजाश्वसामन्तयुता पुरी नाहं न मे पुरी || ६ || तमेव निश्चयं स्फुटमाह - पताकेति || ६ || व्यर्थसंकेतसंबन्धं संकेतविगमे क्षतम् | भोगवृन्दं कलत्रं च नाहं नैतन्ममाखिलम् || ७ || व्यर्थेन संकेतेन संबध्यत इति संबन्धम् || ७ || एवं सभृत्यं सबलं सवाहनपुरान्तरम् | नाहं राज्यं न मे राज्यं संकेतो ह्ययमाकुलः || ८ || आकुलः काकिणीकार्षापणसंबन्धवदन्धपरम्पराव्यवहारसिद्ध इति यावत् || ८ || देहमात्रमहं मन्ये हस्तपादादिसंयुतम् | तदिदं तावदाश्वन्तरलमालोकयाम्यहम् || ९ || संकेतमात्रत्यागोपायेन बाह्यैः संबन्धं निरस्य अचेतनत्वहेतुना देहेन्द्रियादिभिरपि तं निरसितुमारभते - देहमात्रमित्यादिना || ९ || तदत्र तावन्मांसास्थि नाहमेतदचेतनम् | न चैतन्मम संश्लेषमेत्यब्जस्य यथा जलम् || १० || संश्लेषं संबन्धमपि नैति | असङ्गत्वादित्यर्थः || १० ||
373 SK मांसं जडं न तदहं नैवाहं रक्तमप्यलम् | जडान्यस्थीनि नैवाहं न चैतानि मम क्वचित् || ११ || कर्मेन्द्रियाणि नैवाहं न च कर्मेन्द्रियाणि मे | जडं यत्किल देहेऽस्मिंस्तदहं नैव चेतनः || १२ || नाहं भोगा न मे भोगा न मे बुद्धीन्द्रियाणि च | जडान्यसत्स्वरूपाणि न च बुद्धीन्द्रियाण्यहम् || १३ || बुद्धिन्द्रियाणि ज्ञानेन्द्रियाणि || १३ || मूलं संसृतिदोषस्य मनो नाहं जडं हि तत् | अथ बुद्धिरहंकार इति दृष्टिर्मनोमयी || १४ || अथ बुद्धिरहंकार इति या दृश्यत इति दृष्टिः सापि नाहं न ममेत्यनुषज्यते | यतः सा मनोमयी अन्तःकरणावस्था | भेदरूपेति यावत् || १४ || मनोबुद्धीन्द्रियाद्यन्तो भूतकोशश्चलद्वपुः | नाहमेवं शरीरादि शिष्टमालोकयाम्यहम् || १५ || शरीरादिमनोबुद्धिन्द्रियाद्यन्तो भूतकोशः स्थूलसूक्ष्मभूतसंघात एवमुक्तरीत्या नाहम् | शिष्टमवशिष्टमालोकयामि | दृष्ट्वा विचारयामीति यावत् || १५ || शेषस्तु चेतनो जीवः स चेच्चेत्येन चेतति | अन्येन बोध्यमानोऽसौ नात्मतत्त्ववपुर्भवेत् || १६ || चेतनः प्रमाता चेत्येन प्रमेयेण सह चेतति | तथाच अहमिदं चेत्यामीति त्रिपुटीसाक्षिणा बोध्यमानोऽसौ प्रमाता नात्मनस्तत्त्ववपुस्तात्त्विकं रूपमिति संभाव्यत इत्यर्थः || १६ || एवं त्यजामि संवेद्यं चेत्यं नाहं हि तत्किल | शेषो विकल्परहितो विशुद्धचिदहंस्थितः || १७ || एवमनयैव युक्त्या साक्षिसंवेद्यं प्रमितिं प्रमेयं च त्यजामि | हि यस्माच्चेत्यं नाहं किलेति प्रसिद्धम् | विशुद्धचित् शुद्धसाक्षी अहमात्मेति स्थितः | निश्चये प्रतिष्ठित इत्यर्थः || १७ || चित्रमेषोऽस्मि लब्धात्मा जातः कालेन कार्यवान् | एष सोऽहमनन्तात्मा नातोऽस्य परमात्मनः || १८ || तद्दर्शनमात्रेण कण्ठचामीकरवत्तल्लाभमाश्चर्यभूतं दर्शयति - चित्रमिति | कालेनानादिकालादारभ्य यतमानोऽप्यद्य कार्यवान् परमपुरुषार्थफलवान् जातोऽस्मीत्यर्थः || १८ || ब्रह्मणीन्द्रे यमे वायौ सर्वभूतगणे तथा | स एष भगवानात्मा तन्तुर्मुक्तास्विव स्थितः || १९ ||
374 SK एष ब्रह्मैष इन्द्रः इत्यादिश्रुतिगणाननुभवेन संवादयति - ब्रह्मणीति || १९ || चिच्छक्तिरमला सैषा चेत्यामयविवर्जिता | भरिताशेषदिक्कुञ्जा भैरवाकारधारिणी || २० || अज्ञानां भयहेतुत्वाद्भैरवाकारधारिणी || २० || सर्वभावगता सूक्ष्मा भावाभावविवर्जिता | आब्रह्मभुवनान्तःस्था सर्वशक्तिसमुद्गिका || २१ || सर्वेषु भावेषु मनोवृत्तिषु गता | प्रतिबोधविदितं मतम् इति श्रुतेः || २१ || सर्वसौन्दर्यसुभगा सर्वप्राकाश्यदीपिका | सर्वसंसारमुक्तानां तन्तुराततरूपिणी || २२ || सर्वसौन्दर्यं निरतिशयानन्दस्तेन सुभगा पूर्णा | संसारलक्षणानां मुक्तानां मुक्ताफलानाम् || २२ || सर्वाकारविकाराढ्या सर्वाकारविवर्जिता | सर्वभूतौघतां याता सर्वदा सर्वतां गता || २३ || चतुर्दशविधान्येषा भूतानि भुवनोदरे | एतन्मयीयं कलना जागती वेदनात्मिका || २४ || भुवनसंख्यया चतुर्दशविधानि भूतानि धत्ते इति शेषः || २४ || मिथ्यावभासमात्रं तु सुखदुःखदशागतिः | नानाकारमयाभासः सर्वमात्मैव चित्परा || २५ || सोऽयमात्मा मम व्यापी सेयं यदवबोधनम् | सेयमाकलिताङ्गाभा करोति नृपविभ्रमम् || २६ || व्यापी जगदनुगतः | अवबोधनं मद्रुद्धिसाक्षी | सेयं चिद्द्रष्टृदृश्यमेदनाकलितशरीरा सती नृपोऽहमिति विभ्रमं करोति | प्राक्कृतवतीत्यर्थः || २६ || अस्या एव प्रसादेन मनो देहरथे स्थितम् | संसारजाललीलासु याति वल्गति नृत्यति || २७ || इदं मनःशरीरादि न किंचिदपि वस्तुतः | नष्टे न किंचिदप्यस्मिन्परिनश्यति पेलवे || २८ || जगज्जालमयं नृत्तमिदं चित्तनटैस्ततम् | एतयैवैकया बुद्ध्या दृश्यते दीपलेखया || २९ || एतया उक्तया साक्षीरूपया || २९ || कष्टं मुधैव मे चिन्ता निग्रहानुग्रहस्थितौ | बभूव देहनिष्ठेह न किंचिदपि देहकम् || ३० || अहो त्वहं प्रबुद्धोऽस्मि गतं दुर्दर्शनं मम | दृष्टं द्रष्टव्यमखिलं प्राप्तं प्राप्यमिदं मया || ३१ ||
375 SK सर्वं किंचिदिदं दृश्यं दृश्यते यज्जगद्गतम् | चिन्निष्पन्दांशमात्रांशान्नान्यत्किंचन शाश्वतम् || ३२ || चितो यो निष्पन्दो मायया जीवभावभ्रमस्तदंशः सप्तदशकलिङ्गभ्रमस्तस्य मात्रा बाह्यान्तःकरणभेदभ्रमास्तदंशो जाग्रत्स्वप्नदृश्यभ्रमस्तस्मादन्यत्किंचिच्छाश्वतं कालत्रयाबाध्यं दृश्यं न विद्यत इत्यर्थः || ३२ || क्व तौ कीदृग्विधौ वापि किंनिष्ठौ वा किमात्मकौ | निग्रहानुग्रहौ लोके हर्षामर्षक्रमौ तथा || ३३ || एवं जगतो मृषात्वे निग्रहानुग्रहक्रमौ तत्प्रयोजकहर्षामर्षक्रमौ च निराश्रयौ निष्प्रकारौ निर्विषयौ निःस्वरूपौ च संपन्नावित्याह - क्वेति || ३३ || किं सुखं किं नु वा दुःखं सर्वं ब्रह्मेदमाततम् | अहमासं मुधा मूढ दिष्ट्या मूढोऽस्म्यहं स्थितः || ३४ || स्वमोहेऽपगते सुखदुःखादिप्रसक्तिरेव नास्तीत्याह - किमिति | सांप्रतममूढः स्वरूपे स्थितोऽस्मीत्यर्थः || ३४ || किमस्मिन्नेवमालोके शोच्यते किं विमुह्यते | किं प्रेक्ष्यते किं क्रियते स्थीयते वाथ गम्यते || ३५ || एवमानन्दैकरसपूर्णस्वभावेनालोक्यते अनुभूयत इत्येवमालोकस्तस्मिन् | किंशब्दा आक्षेपे | शोकादिसंभावनैव नास्तीत्यर्थः || ३५ || किंचिदेवमिदं नाम चिदाकाशं विराजते | नमो नमस्ते निस्तत्त्व दिष्ट्या दृष्टोऽसि सुन्दर || ३६ || किंचिदलौकिकचमत्कारम् | इदं चिदाकाशम् || ३६ || अहो नु संप्रबुद्धोऽस्मि सम्यग्ज्ञातमलं मया | नमो मह्यमनन्ताय सम्यग्ज्ञानोदयाय च || ३७ || सम्यग्ज्ञाने उदय आविर्भावो यस्य तथाविधाय | चकारः पूर्वश्लोकनमस्कार्यसमुच्चयार्थः | सम्यग्ज्ञानलक्षणायाभ्युदयाय चेति वा || ३७ || विगतरञ्जननिर्विषयस्थिति- र्गतभवभ्रमरञ्जितवर्जिते | स्थिरसुषुप्तकलाभिगतस्ततः समसमं निवसाम्यहमात्मनि || ३८ ||
376 SK विगतरञ्जनत्वादेव निर्मृष्टावस्थात्रयविषयस्थितिरिति शोधितत्वंपदार्थनिर्देशः | गतभवभ्रमत्वादेव वियदाद्यध्यारोपरञ्जितवर्जिते इति शोधिततत्पदार्थनिर्देशः | भावे क्तः | स्थिरया सुषुप्तिकलया स्वाप्यययुक्त्येव उपाधिविगमादभिगत एकीभूत इत्यखण्डैक्यनिर्देशः | ततस्तस्मादहमात्मनि प्रत्यग्ब्रह्मणि समसममात्यन्तिकाभेदलक्षणपरमसाम्येन निवसामि न कदाचिदपि मे पुनर्वैषम्यप्रसक्तिरिति फलावस्थानिर्देशः || ३८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सुरघुवृ० सुरघुविश्रान्तिर्नामैकोनषष्टितमः सर्गः || ५९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे सुरघुविश्रान्तिर्नामैकोनषष्टितमः सर्गः || ५९ || षष्टितमः सर्गः ६० श्रीवसिष्ठ उवाच | इति हेमजटाधीशो लेभे पदमनुत्तमम् | विवेकाध्यवसायेन ब्राह्मण्यमिव गाधिजः || १ || आदेहपातं सुरघोरसङ्गाचार उच्यते | जीवन्मुक्तस्य तस्याथ देहशान्तौ खवस्थितिः || १ || गाधिजो विश्वमित्रः || १ || अनर्थाकारकार्यासु नासीच्चेष्टासु खेदवान् | भूयोभूयः प्रयुक्तासु दिनमालास्विवेश्वरः || २ || भूयोभूयः पुनःपुनः प्रयुक्तासु अनुष्ठितासु धर्मार्थप्राप्त्युपायचेष्टासु परिचेष्टितैर्दैवादनर्थाकाराणि विफलानि दुःखपर्यवसितानि वा कार्याणि फलानि यासां तथाविधासु सतीषु खेदवान्नासीत् | ईश्वरो दिनेश्वरः सूर्यः || २ || ततःप्रभृति सोऽतिष्ठत्सर्वदा विगतज्वरः | समासमे स्वके कार्ये जलौघाग्र इवाचलः || ३ || समासमे अनुग्रहनिग्रहरूपे निजे राजोचिते कार्ये यथा नदीमध्यगत्ऽह् पर्वतो निष्कम्पस्तिष्ठति तद्वत् || ३ || हर्षामऋसविनिर्मुक्तः प्रत्यहं कार्यमाहरन् | उदारगम्भीरवपुर्जहाराम्बुनिधेः श्रियम् || ४ || कार्यमायव्ययादि | आहरन् कुर्वन् || ४ || सुषुप्तपदधर्मिण्या चित्तवृत्त्या व्यराजत | निष्कम्पया प्रकाशिन्या दीपः स्वशिखयेव सः || ५ || सुषुप्ताविव निश्चलयेति यावत् || ५ ||
377 SK न निर्घृणो दयावान्नो न द्वन्द्वी नाथ मत्सरी | न सुधीर्नासुधीर्नार्थी नानर्थी स बभूव ह || ६ || अमत्सरी इति पाठे अत्यन्तनिर्मत्सरवत्परदोषोपेक्षकः || ६ || समदर्शनया नित्यं वृत्त्याऽचापलधीरया | अन्तःशीतलया रेजे परिपूर्णार्णवेन्दुवत् || ७ || अचापलधीरयेति च्छेदः | परिपूर्णौ यौ अर्णवेन्दू तद्वत् || ७ || सर्वं चित्तत्त्वकलनं जगदित्यवलोक्य सः | प्रशान्तसुखदुःखश्रीस्तस्य पूर्णा मतिर्बभौ || ८ || स इत्यस्य समसमाधिस्थोऽभूदिति परेणान्वयः | तत्र हेतुर्यतस्तस्य परिपूर्णा मतिर्बभाविटि || ८ || उल्लसन्विकसन्पूर्णस्तिष्ठन्गच्छन्विशन्स्वपन् | अभूतसमसमाधिस्थः प्रबुद्धश्चिल्लयं गतः || ९ || उल्लसन्वपुषा | विकसंश्चेतसा || ९ || स कुर्वन्विगतासङ्गं राज्यं राजीवलोचनः | अतिष्ठदक्षताकारो भूरिवर्षशतान्यथ || १० || संनिवेशमिमं देहनामकं तदनु स्वयम् | स जहौ तेजसाक्रान्तो रूपं हिमकणो यथा || ११ || आक्रान्तः शोषितः | रूपं मूर्ताकारम् || ११ || विवेश परमाद्यन्तकारणं कारणेश्वरम् | प्रज्ञया सरितां वारि परिपूर्णमिवाम्बुधिम् || १२ || सर्वेषामेवान्तःकारणानां हिरण्यगर्भादीनामीश्वरं नियन्तारम् | सर्वजगतामाद्यन्तयोः सृष्टिप्रलययोः कारणं परं ब्रह प्रज्ञया साक्षात्कारवृत्त्या जन्मादिहेतुबीजमर्णवमिव विवेशेत्यर्थः || १२ || अधिगतविमलैकरूपतेजा विजनदशां समुपेत्य शान्तशोकः | अलमभवदसौ परस्वरूपं घटखमिवाम्बरसंयुतं महात्मा || १३ || तत्प्रविश्यासौ कीदृगभूत्तदाह - अधिगतेति | असौ सुरघुः प्रज्ञया अधिगतं स्वात्मतया प्राप्तं विमलमेकरूपमानन्दैकरसं तेजः स्वप्रकाशात्मरूपं येन तथाविधः सन् विजनां जन्मादिविक्रियाहीनां दशां समुपेत्य शान्तसर्वशोकः सन् घटभङ्गे घटखमम्बरेण महाकाशेन संयुतमेकीभूतमिव परस्वरूपएम्व अभवत् | तदेवास्य निर्वाणमित्यर्थः || १३ ||
378 SK इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सुरघुवृत्तान्ते सुरघुनिर्वाणं नाम षष्टितमः सर्गः || ६० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे सुरघनिर्वाणं नाम सष्टितमः सर्गः || ६० || एकषष्टितमः सर्गः ६१ श्रीवसिष्ठ उवाच | एवमुत्पलपत्राक्ष राघवाघविपर्यये | पदमासादयाद्वन्द्वं विशोको भव भूतये || १ || सहजैकसमाधानलक्षणप्रतिपत्तये | परिघेणात्र संवादः सुरघोरुपवर्ण्यते || १ || हे राघव एव सुरघुवत्त्वमपि अघस्य हर्षशोकादिनिमित्तस्य पापस्य विपर्यये तत्त्वबोधेन समूलमुच्छेदे सति || १ || एतां दृष्टिमवष्टभ्य न मनः परितप्यते | घोरे तमसि निर्मग्नं लब्धदीपं शिशुर्यथा || २ || शिशुर्बाल इव घोरे अज्ञानतमसि निर्मग्नं मन एतां दृष्टिमवष्टभ्य लब्धदीपं प्राप्तप्रकाशं सन्न परितप्यते || २ || विवेकावस्थया चेतस्तथैवायाति निर्वृतिम् | पतच्छ्वभ्रे दृढतृणप्रचयालम्बनादिव || ३ || श्वभ्रे मोहान्धकूपे पतन्मनस्तथा तादृश्या सुरघूपवर्णितप्रकारयैव विवेकावस्थया दृढस्य तृणप्रचयस्य कक्षस्य आलम्बनादिव निर्वृतिं विश्रान्तिसुखम् || ३ || अथैतां पावनीं दृष्टिं भावयित्वाप्युदाहरन् | नित्यमेकसमाधानो भव भूषितभूतलः || ४ || भावयित्वा पुनःपुनः परिशीलनेन स्वयं दृढीकृत्यान्येभ्योऽप्युदाहरन्नुपदिशन् || ४ || श्रीराम उवाच | कथमेकसमाधानं कीदृशं वा मुनीश्वर | वाताहतमयूराङ्गरुहलोलं मनो भवेत् || ५ || वातैराहतं मयूराङ्गरुहं बर्हमिव लोल चपलं मन एकसमाधानं कथं केन प्रकारेण भवेत् || ५ || श्रीवसिष्ठ उवाच | शृणु तस्यैव सुरघोः प्रबुद्धस्य सतस्तदा | पर्णादस्य [परिघस्य नामान्तरमेतत्] च राजर्षे संवादमिममद्भुतम् || ६ || राघवैकसमाधानबोधितायोजितात्मनोः | परस्परं समालापमिमं प्रकथयामि ते || ७ || हे राघव एकसमाधाने बोधित आयोजित आत्मा ययोः || ७ ||
379 SK बभूव पारसीकानां पार्थिवः परवीरहा | परिघो नाम विख्यातः परिघः स्यन्दने यथा || ८ || पारसीका देशविशेषाः | पार्थिवो राजा | स्यन्दने रथे परिघोऽक्षदण्ड इवाधारभूतः || ८ || स बभूव परं मित्रं सुरघो रघुनन्दन | नन्दनोद्यानसंस्थस्य मदनस्येव माधवः || ९ || माधवो वसन्तः || ९ || कदाचित्परिघस्याभूदवर्षं मण्डले महत् | कल्पान्त इव संसारे प्रजादुष्कृतदोषजम् || १० || अवर्षमनावृष्टिः | किं राजदोषान्नेत्याह - प्रजेति || १० || विनेशुर्जनतास्तत्र बह्व्यः क्षुत्क्षामजीविताः | ज्वलिते विपिने वह्नौ यथा भूतपरम्पराः || ११ || तद्दुःखं परिघो दृष्ट्वा विषादमतुलं ययौ | तत्याजाश्वखिलं राज्यं दग्धं ग्राममिवाध्वगः || १२ || प्रजानाशप्रतीकारेष्वसमर्थो विरागवान् | जगाम विपिने कर्तुं तपोऽजिनमुनीन्द्रवत् || १३ || अजिनप्रधाना मुनीन्द्रा अजिनमुनीन्द्रास्तद्वत् || १३ || पौराणामपरिज्ञाते कस्मिंश्चिद्दूरकानने | समुवास विरक्तात्मा लोकान्तर इवापरे || १४ || अपरे द्वितीये लोकान्तरे परलोक इवेत्युत्प्रेक्षा || १४ || तपश्चरञ्छान्तमतिर्दान्तः कन्दरमन्दिरे | स्वयं शीर्णानि शुष्काणि तत्र पर्णान्यभक्षयत् || १५ || अतिविरक्तत्वात्पर्णकुट्यादिपरिग्रहोऽप्यस्य नाभूदिति सूचनाय कन्दरमन्दिरे इत्युक्तम् || १५ || चिरं हुताशवच्छुष्कपर्णान्येवाथ भक्षयन् | पर्णाद इति नामासौ प्राप मध्ये तपस्विनाम् || १६ || असौ परिघः || १६ || ततःप्रभृति पर्णादनामा राजर्षिसत्तमः | जम्बूद्वीपे बभूवासौ विख्यातो मुनिसद्मसु || १७ || ततो वर्षसहस्रेण तपसा दारुणात्मना | प्रापदभ्यासवशतो ज्ञानमात्मप्रसादजम् || १८ || आत्मप्रसादश्चित्तशुद्धिरीश्वरानुग्रहश्च तस्माज्जातं तत्त्वज्ञानं प्रापत्प्राप्तवान् || १८ || बभूव विगतद्वन्द्वो निराशः शान्तमानसः | नीरागो निरनुक्रोशो जीवन्मुक्तः प्रबुद्धधीः || १९ || विजहार यथाकामं त्रिलोकीमठिकामिमाम् | सिद्धसाध्यैः समं साधो सहंसालिरिवाब्जिनीम् || २० ||
380 SK सिद्धैरारूढैः साध्यैरारूरुक्षुभिश्च कदाचित्परिवृतः | हंसैः सहितः सहंसोऽलिर्भ्रमरोऽब्जिनीं कमलिनीमिव || २० || एकदा तस्य सदनं हेमचूडमहीपतेः | प्राप रत्नविनिर्माणं मेरोः शृङ्गमिवापरम् || २१ || हेमचूडः स्वर्णजटाख्यो देशस्तन्महीपतेः सुरघोः || २१ || ते तत्र प्राक्तने मित्रे पूजामकुरुतां मिथः | पूर्णौ विज्ञातविज्ञेयौ मौर्ख्यगर्भाद्विनिर्गतौ || २२ || मौर्ख्यगर्भः संसारस्तस्माद्विनिर्गतौ जीवन्मुक्तावित्यर्थः || २२ || अहो नु बत कल्याणैः फलितं मम पावनैः | संप्राप्तवानहं यत्त्वामित्यन्योन्यमथोचतुः || २३ || कल्याणैः सुकृतैः | फलितमिति भावे क्तः || २३ || आलिङ्गितशरीरौ तावन्योन्यानन्दिताकृती | एकासने विविशतुश्चन्द्रार्काविव भूधरे || २४ || परिघ उवाच | परमानन्दमायातं चेतस्त्वद्दर्शनेन मे | इन्दुबिम्ब इवोन्मग्नं मनः शीतलतां गतम् || २५ || चितिशक्तिप्रधाने आनन्दाविर्भावो मननशक्तिप्रधाने तापोपशम इति विशेषद्योतनाय चेतो मन इति भेकोक्तिः || २५ || अकृत्रिमसुखं प्रेम वियोगे शतशाखताम् | प्रयाति पल्वलतटेऽच्छिन्नमूल इव द्रुमः || २६ || अच्छिन्नमूलश्छिन्नशाखो द्रुमः इवेति योज्यम् || २६ || विश्रब्धास्तान्कथालापांस्ता लीलास्तच्च चेष्टितम् | संस्मृत्य प्राक्तनं साधो हृष्यामि च पुनःपुनः || २७ || विश्रब्धान् विश्वासगर्भान् | तान् प्राक्तनान्सुखदुःखकथालापान् || २७ || ज्ञानमेतन्मया प्राप्तं त्वया ज्ञातं यथाऽनघ | माण्डव्यस्य प्रसादेन परमात्मप्रसादजम् || २८ || त्वया यथा माण्डव्यस्य प्रसादेन ज्ञातं तथैव मया परमात्मन ईश्वरस्य तपसाऽराधितस्य प्रसादजमेतज्ज्ञानं प्राप्तम् || २८ || अद्य कच्चिददुःखस्त्वं कच्चिद्विश्रान्तवानसि | परमे कारणे मेराविव भूमण्डलाधिपः || २९ || परमे कारणे विवर्तोपादानत्वोपलक्षिते ब्रह्मणि कच्चिदुत्तरोत्तरभूमिकापरिपाकेन विश्रान्तवानसि || २९ || कच्चित्परमकल्याण आत्मारामतया तव | प्रसादो जायते चित्ते शरदीव सरोम्भसि || ३० ||
381 SK प्रसादो रजस्तमोभ्यामनावरणम् || ३० || कच्चित्करोषि समया सुप्रसन्नगभीरया | दृष्ट्या सुभग कार्याणि कार्याण्येव नराधिप || ३१ || कार्याणि सर्वजनहितत्वादवश्यकर्तव्यान्येव कार्याणि कर्माणि करोषि || ३१ || निराधिव्याधयो धीराः कच्चित्संपन्नशालयः | जनतास्तव देशेषु तिष्ठन्ति विगतज्वरम् || ३२ || जनताः प्रजासमूहाः || ३२ || कच्चिदुद्दामफलिनी फलिनीव फलानता | धरा तव फलापूरैर्भृशं धारयति प्रजाः || ३३ || धरा पृथ्वी उद्दामफलिनी उत्कृष्टसस्यादिफलवती फलैरानता फलिनी कल्पलतेव तव प्रजाः फलापूरैः काले काले तत्तदभिलषितफलपूरणैर्भृशमतिशयेन धारयति बिभर्ति पोषयति कच्चित् || ३३ || कच्चित्तव दिगन्तेषु चन्द्रस्येवांशुपञ्जरम् | तुषारनिकराकारं प्रसृतं पावनं यशः || ३४ || चन्द्रस्य अंशुपञ्जरं किरणजालमिव || ३४ || कच्चिद्गुणगणैरेता दिशो निर्विवरीकृताः | त्वया सरोम्भसाऽबाह्या बिसानामिव भूमयः || ३५ || सरोम्भसा तडागोदकेन अवाह्याः स्वान्तर्गता बिसानां मृणालानां भूमय इव त्वया दिशो गुणगणैर्यशोभिर्निर्विवरीकृताः पूरिताः कच्चित् || ३५ || कच्चित्कलमकेदारकोणस्थानेषु हृष्यतीः | प्रतिग्रामं कुमार्यस्ते गायन्त्यानन्दनं यशः || ३६ || कलमकेदाराणां कोणाश्चतुष्कसंधयस्तत्रत्येष्वासन्दीस्थानेषु | हृष्यतीर्हृष्यन्त्यः | छान्दसो विभक्तिव्यत्ययः || ३६ || कुशलं तव धान्येषु धनेषु विभवेषु च | भृत्येषु च कलत्रेषु पुत्रेषु नगरेषु च || ३७ || आधिव्याधिविहीनेयं कच्चित्कायलता तव | फलं फलति पुण्याख्यं यदिहामुत्र चोदितम् || ३८ || इह ऐहिकफलत्वेन चोदितं कारीर्यादि | अमुत्र पारलौकिकफलत्वेन चोदितं ज्योतिष्टोमादि || ३८ || आपातरमणीयेषु वर्तेतात्यन्तवैरिषु | कच्चिद्विषयसर्पेषु सविरागं मनस्तव || ३९ || तव मनो विषयसर्पेषु कच्चित्सविरागं वर्तेत वर्तते || ३९ || अहो बत चिरं कालमावां विश्लेषमागतौ | कालेन श्लेषितौ भूयो वसन्ताद्रितटाविव || ४० ||
382 SK न ता जगति विद्यन्ते सुखदुःखदशाः सखे | जीवद्भिर्या न दृश्यन्ते संयोगजवियोगजाः || ४१ || इष्टानिष्टजनस्ऽम्योगजास्तद्वियोगजाश्च सुखदुःखदशाः || ४१ || तथैतास्वतिदीर्घासु दशास्वन्यत्वमागताः | भूयो वयमपि श्लिष्टाश्चित्रो हि नियतेर्विधिः || ४२ || अन्यत्वं वियोगमागताः प्राप्ताः | नियतेः प्राणिकर्मानुसारिण्या ईश्वरेच्छाया विधिर्विलासश्चित्रः अद्भुतः || ४२ || सुरघुरुवाच | भगवन्नियतेरस्या गतिं सर्पगतेरिव | दैविक्याः को हि जानाति गम्भीरां विस्मयप्रदाम् || ४३ || परिघोक्तमर्थमनुमोदमानः सुरघुरपि तमेवाह - भगवन्नित्यादिना | दैविक्याः देव ईश्वरस्तदिच्छारूपायाः || ४३ || त्वमहं च व्यपोह्येति दूरे दूरदशासु च | अद्य संघटितौ भूयः किमसाध्यमहो विधेः || ४४ || देशतो दूरे कालतश्च दूरदशासु इति एवं व्यपोह्य वियोज्य || ४४ || वयं त्वद्य महासत्त्व भृशं कुशलिनः स्थिताः | त्वदागमनपुण्येन परां पावनतां गताः || ४५ || पश्य त्वदागमक्षीणपापानां पुण्यपादपैः | तथा फलितमस्माकं न यथा वयमाकुलाः || ४६ || तथा तादृशचित्तसमाधानात्मना फलितं यथा वयं न व्याकुलाः सर्वव्याकुलतानिर्मुक्ताः कृतकृत्याः संपन्नाः || ४६ || सर्वाः संपत्तयोऽस्माकं राजर्षे संस्थिताः पुरे | भवदागमनेनाद्य प्रयाताः शतशाखताम् || ४७ || शतशाखतां | सर्वतः फलोन्मुखतामिति यावत् || ४७ || विकिरति परितो रसायनाना- मिव निकरं मधुरं महानुभाव | तव वचनमवेक्षणं च पुण्यं परमपदप्रतिमो हि साधुसङ्गः || ४८ || हे महानुभाव पुण्यं तव वचनमवेक्षणं दर्शनं च परितो रसायनानाममृतानां निकरं विकिरति वर्षतीव | हि यस्मात्साधूनां सङ्गः समागमः परमपदप्रतिमः | मोक्षसुखप्राप्तितुल्य इत्यर्थः || ४८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे सुरघुवृ० सुरघुपरिघसमागमो नामैकषष्टितमः सर्गः || ६१ ||
383 SK इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे सुरघुपरिघसमागमो नामैकषष्टितमः सर्गः || ६१ || द्विषष्टितमः सर्गः ६२ श्रीवसिष्ठ उवाच | अथैवंप्रायया तत्र विश्रम्भकथया चिरम् | प्राक्तनस्नेहगर्भिण्या स्थित्वोवाचायुधाभिधः || १ || अज्ञानावरणे ध्वस्ते नित्यचित्शुरणस्थितेः | सदैवैकसमाधानं विदुषामत्र वर्ण्यते || १ || आयुधस्याभिधेव अभिधा नाम यस्य स आयुधाभिधः परिघः || १ || परिघ उवाच | यद्यत्संसारजालेऽस्मिन्क्रियते कर्म भूमिप | तत्समाहितचित्तस्य सुखायान्यस्य नानघ || २ || किमयं तत्त्वविदो व्यवहारसमाध्योः सुखतारतम्यं वक्ष्यत्युत नेति परीक्षणाय प्रथमं स्वानुभवमुद्घाटयति - यद्यदिति | अन्यस्य अज्ञस्य || २ || कच्चित्संकल्परहितं परं विश्रमणास्पदम् | परमोपशमं श्रेयः समाधिमनुतिष्ठसि || ३ || एवं स्वानुभवमुद्घाट्य तत्सवाद्यसवादी वेति परानुभवं जिज्ञासमानः समाधौ विश्रान्त्याधिक्यमिव दर्शयन्पृच्छति - कच्चिदिति | विक्षेपदुःखानां परममुपशमं सांसारिकसुखेभ्यश्च श्रेयः प्रशस्यतरम् | सामान्ये व्यत्ययेन वा क्लीबता || ३ || सुरघुरुवाच | एतन्मे ब्रूहि भगवन्सर्वसंकल्पवर्जितम् | परमोपशमं श्रेयः समाधिर्हि किमुच्यते || ४ || समाहितचित्तस्य सर्वं कर्म सुखायेति पश्यतस्ते समाधौ विश्रान्त्याधिक्यदर्शनं व्यवहारसमाधिभेदाभ्युपगमेन प्रश्नश्चानुपपन्न एवेति एवदनुभवसंवाद्येव ममाप्यनुभव इत्याशयेन सुरघुः संकल्परहितं परमोपशमं श्रेय इति तदुक्तांशस्यात्मस्वरूपेऽपि संभवात्तावदभ्युपगच्छन् विश्रमणास्पदं समाधिमनुतिष्ठसीत्यंशस्य समाधेयस्याविश्रमहेतोर्मनसो बाधितत्वादेवासंभवं मन्यमान आक्स्.इपति - एतदिति | सर्वसंकल्पवर्जितं परमोपशमं श्रेय इत्येतन्मे मह्यं युक्तत्वाद्ब्रूहि | समाधिरनुष्ठेय इति किमर्थं त्वयोच्यत इत्यर्थः || ४ ||
384 SK यो ज्ञो महात्मन्सततं तिष्ठन्व्यवहरंश्च वा | असमाहितचित्तोऽसौ कदा भवति कः किल || ५ || यो ज्ञस्तत्त्ववित् स व्यवहरन्नपि कः किंस्वरूपः किल | यतः सदैवानावृताद्वयचित्स्वभावोऽसौ कदा असमाहितचित्तो भवति | न कदाचिदपीत्यर्थः || ५ || नित्यं प्रबुद्धचित्तास्तु कुर्वन्तोऽपि जगत्क्रियाः | आत्मैकतत्त्वसंनिष्ठाः सदैव सुसमाधयः || ६ || यदि तु निश्चलात्मस्वरूपावस्थितिरेव समाधिस्तेऽभिमतः स्यात्तर्हि स सदैवास्तीति नानुष्ठेयं किंचिदस्तीत्याह - नित्यमिति || ६ || बद्धपद्मासनस्यापि कृतब्रह्माञ्जलेरपि | अविश्रान्तस्वभावस्य कः समाधिः कथं च वा || ७ || यदि त्वं मामज्ञं मन्यसे तदापि समाध्युपदेशोऽनुपपन्न इत्याशयेनाह - बद्धेति | कथं केनोपायेन वा | यत्र चित्तं समाधेयं तस्यैवापरिचयादित्यर्थः || ७ || तत्त्वावबोधो भगवन्सर्वाशातृणपावकः | प्रोक्तः समाधिशब्देन नतु तूष्णीमवस्थितिः || ८ || तत्त्वावबोध इति सम्यक् समूलसर्वाशाविषयबाधेन आत्मनः परमार्थस्वरूपे आधानं समाधिरिति व्युत्पत्तेरिति भावः || ८ || समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी | साधो समाधिशब्देन परा प्रज्ञोच्यते बुधैः || ९ || अबाधितात्मदर्शनरूपा परा प्रज्ञा || ९ || अक्षुब्धा निरहंकार द्वन्द्वेष्वननुपातिनी | प्रोक्ता समाधिशब्देन मेरोः स्थिरतराकृतिः || १० || तामेव फलतो वर्णयति - अक्षुब्धेति द्वाभ्याम् || १० || निश्चिन्ताधिगताभीष्टा हेयोपादेयवर्जिता | प्रोक्ता समाधिशब्देन परिपूर्णा मनोगतिः || ११ || यतःप्रभृति बोधेन युक्तमात्यन्तिकं मनः | तदारभ्य समाधानमव्युच्छिन्नं महात्मनः || १२ || सा तु मम पूर्वमेव सिद्धेति नानुष्ठेयेत्याशयेनाह - यत इत्यादिना || १२ || नहि प्रबुद्धमनसो भूत्वा विच्छिद्यते पुनः | समाधिर्दूरमाकृष्टो बिसतन्तुः शिशोरिव || १३ || यथा दूरमाकृष्टो बिसतन्तुः क्रीडतः शिशोर्हस्ताद्विच्छिद्यते तद्वदिति व्यतिरेके दृष्टान्तः || १३ ||
385 SK समग्रं दिनमालोकाद्विरमत्यक्षयो यथा | आजीवितान्तं नो प्रज्ञा तथा तत्त्वावलोकनात् || १४ || ननु ब्रह्माकारवृत्तिविच्छेदे व्युत्थानात्समाधिविच्छेदस्तस्य स्यात्तत्राह - viramatīti saṃbadhyate | tathā prajñā brahmākāravṛttirapi ājīvitāntaṃ videhakaivalyaparyantaṃ tattvālokanānno viramati | dṛḍhasaṃskārabalādanuvartata evetyarthaḥ || 14 || ajasramambuvahanādyathā nadyā na ruddhyate | tathā vijñānadṛgbodhātkṣaṇamātraṃ na ruddhyate || 15 || svarūpācchādakasyājñānasya sakṛduditayā vṛttyā niḥśeṣanāśe punarāvarakābhāvādvā tasya na svarūpanirodhalakṣaṇasamādhibhaṅgaprasaktirityāśayenāha - ajasramiti | na ruddhyate āvaraṇena na pratibadhyate || 15 || na vismaratyavirataṃ yathā kālaḥ kalāgatim | na vismaratyavirataṃ svātmānaṃ prājñadhīstathā || 16 || paramapremāspadatvādvā sakṛllabhasya tasya na vismaraṇaprasaktirityāśayenāha - na vismaratīti dvābhyām || 16 || na vismarati sarvatra yathā satatago gatim | na vismarati niśceyaṃ cinmātraṃ prājña dhīstathā || 17 || gatiṃ kālakalā yadvaccinvānā samavasthitā | ciccitiścetyarahitā cinvānā gatayastathā || 18 || bhagnāvaraṇa ātmaiva yāvajjivaṃ svākāravṛttiparamparāṃ janayannevāste ityāśayenāha - gatimiti | kālasya kalā mūrtiḥ sūryādiḥ | ciccitiścaitanyasphūrtiḥ | rāhoḥ śira itivadupacāraḥ | gatayaḥ svākāravṛttiḥ | chāndaso vibhaktivyatyayaḥ || 18 || yathā sattāvihīnātmā padārtho nopalabhyate | tathātmajñānahīnātmā kālo jñasya na labhyate || 19 || bodhasya tajjivanakāladharmatvādvā na vicchedaprasaktirityāśayenāha - yatheti || 19 || na saṃbhavati saṃsāre guṇahīno guṇī yathā | na saṃbhavatyātmasaṃvidvarjito hyātmavāṃstathā || 20 || agnyauṣṇyavattatsvabhāvatvādvā na vicchedaprasaktirityāśayenāha - na saṃbhavatīti || 20 || sarvadaivāsmi saṃbuddhaḥ sarvadaivāsmi nirmalaḥ | sarvadaivāsmi śāntātmā sarvadāsmi samāhitaḥ || 21 ||
386 SK भेदः केन समाधेर्मे जन्यते कथमेव वा | आत्मनोऽव्यतिरेकेण नित्यमेव सदात्मता || २२ || भेदो विच्छेदः | मत्समाधेरात्मस्वरूपादव्यतिरेकेण हेतुनेत्यर्थः | सदात्मता सत्ता सिद्धेत्यर्थः || २२ || तस्मात्कदाचिदपि मे नासमाधिमयं मनः | न वा समाहितं नित्यमात्मतत्त्वैकसंभवात् || २३ || यदि मनोऽस्तीति मन्यसे तर्हि सदा समाहितमेव यदि तु नास्तीति तदा समाधिरपि मास्तु विक्षेपहेतोरेवाप्रसक्तेरित्याशयेनोपसंहरति - तस्मादिति || २३ || सर्वगः सर्वदैवात्मा सर्वमेव च सर्वथा | असमाधिर्हि कोऽसौ स्यात्समाधिरपि कः स्मृतः || २४ || नित्यं समाहितधियः सुसमा महान्त- स्तिष्ठन्ति कार्यपरिणामविभागमुक्ताः | तेनासमाहितसमाहितभेदभङ्ग्या नित्योदितः क्व नु स उत्तमवाक्प्रपञ्चः || २५ || सम्यक् पृथक्त्वबाधेनाहिता धीर्यैः | तेन हेतुना असमाहितसमाहितभेदभङ्ग्या प्रवृत्तस्त्वद्वाक्यप्रपञ्चः क्व नु कस्मिन्नर्थे व्यवतिष्ठेत | अतो मिथ्यैवोदित इत्यर्थः || २५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे समाधिनिश्चयो नाम द्विषष्टितमः सर्गः || ६१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरने समाधिनिश्चयो नाम द्विषष्टितमः सर्गः || ६२ || त्रिषष्टितमः सर्गः ६३ परिघ उवाच | राजन्नूनं प्रबुद्धोऽसि प्राप्तवानसि तत्पदम् | संशीतलान्तःकरणः पूर्णेन्दुरिव राजसे || १ || परिघेण परीक्ष्यात्र स्तुतः स सुरघुर्निजाम् | सहजस्थितिमेवात्र वर्णयामास विस्तरात् || १ || नूनं निश्चयेन प्रबुद्धस्तत्त्वविदसि | परीक्षणेन मया प्रबुद्धस्त्वमसीति वा || १ || आनन्दमधुसंपूर्णो [आनन्दमधुसंपूर्णलक्ष्म्या इति पाठः] लक्ष्म्या च परया श्रितः | शीतलः स्निग्धमधुरो राजीवमिव राजसे || २ || आनन्दलक्षणेन मधुना मकरन्देन संपूर्णः | राजीवं पद्ममिव राजसे || २ || निर्मलो विततः पूर्णो गम्भीरः प्रकटाशयः | वेलानिलविलासेन मुक्तोऽब्धिरिव राजसे || ३ ||
387 SK निर्मलत्वादेव प्रकटः स्पष्टदृश्य आशयोऽन्तःप्रदेशो मनश्च यस्य || ३ || स्वच्छ आनन्दसंपूर्णो नष्टाहंकारवारिदः | स्फुटो विस्तीर्णगम्भीरः शरत्खमिव राजसे || ४ || सर्वत्र लक्ष्यसे स्वस्थः सर्वत्र परितुष्यसि | सर्वत्र वीतरागोऽसि राजन्सर्वत्र राजसे || ५ || सर्वत्र इष्टानिष्टविषये || ५ || सारासारपरिच्छेदपारगस्त्वं महाधिया | जानासि सर्वमेवेदं यथास्थितमखण्डितम् || ६ || परिच्छेदो विचार्य निर्णयस्तत्पारगः | अखण्डितमपरिच्छिन्नब्रह्मरूपम् || ६ || भावाभावपरिच्छेदतत्त्वज्ञमुदिताशयम् | गमागमदशालौल्यमुक्तं तव वपुः स्थितम् || ७ || तत्त्वज्ञेत्यन्तं संबोधनम् | उदिताशयमिति वा छेदः | गमागमौ आरोहावरोहौ तत्प्रयोजिका भोगरागितादशा तया तत्प्रयुक्तलौल्येन च मुक्तम् || ७ || वस्तुनाऽवस्तुनेवान्तरमृतेनेव सागरः | अपुनःप्रक्षयायैव परे तृप्तोऽसि सुन्दर || ८ || न विद्यते वस्तु परमार्थवस्तु यस्मात्तथाविधेन वस्तुना स्वात्मना स्वान्तःस्थेन अमृतेन सागर इव पदे स्वे महिम्नि तृप्तोऽसि || ८ || सुरघुरुवाच | न तदस्ति मुने वस्तु यत्रोपादेयतास्ति नः | यावतिकिंचिदिदं दृश्यं तावदेतन्न किंचन || ९ || तदुक्तं सर्वं युक्तिभिः समर्थयन्ननुमोदमानः सुरघुरुवाच - न तदित्यादिना | न किंचन | अनृतमित्यर्थः || ९ || उपादेयस्य चाभावाद्धेयमप्यस्ति किं किल | प्रतियोगि व्यवच्छेद्यं विना हेयं किमुच्यते || १० || उपात्तस्य त्यागो हि हानं तत्र प्रतियोगि हानप्रतिकूलं हानेन व्यवच्छेद्यं विनाश्यं उपादानं विना हेयमिति किमुच्यते वक्तुं शक्यते | न किंचिदित्यर्थः || १० || तुच्छत्वात्सर्वभावानामतुच्छत्वाच्च कालतः | चिरं मम परिक्षीणे तुच्छातुच्छे मनःस्थिती || ११ || ननु तुच्छं हेयमतुच्छमुपादेयं किं न स्यात्तत्राह - तुच्छत्वादिति | यथाहुः बद्धमुक्तो महीपालो ग्राममात्रेण तुष्यति | स एव पूर्व संपूर्णो न राज्यं बहु मन्यते || इति || ११ ||
388 SK देशकालवशादेव तुच्छस्यातुच्छतामिह | अतुच्छस्य तु तुच्छत्वं वर्ज्ये निन्दास्तुती बुधैः || १२ || इह मन्यन्ते इति शेषः | अतो न किंचित्तुच्छातुच्छबुद्ध्या निन्द्यं स्तुत्यं वेत्याह - वर्ज्ये इति || १२ || रागान्निन्दास्तुती लोके रागश्च परिवाञ्छितम् | वाञ्छिते च महोदारं वस्तु शोभनबुद्धिना || १३ || त्रैलोक्ये च स्त्रियः शैलाः समुद्रवनराजयः | भूतानि वस्तुशून्यानि सारो नास्त्यत्र वस्तुतः || १४ || वस्तुशब्दो भावप्रधानः | सत्यत्वशून्यानीत्यर्थः || १४ || मांसास्थिदारुमृद्रत्नमये जगति जर्जरे | वाञ्छनीयविहीनेऽस्मिञ्शून्ये किमिव वाञ्छ्यते || १५ || अध्यात्मं मांसास्थिमये अधिभूतं च दारुमृद्रत्नादिमये | रत्नशब्दः शिलापरः || १५ || वाञ्छायां विनिवृत्तायां संक्षयो द्वेषरागयोः | दिनलक्ष्म्यां व्यपेतायामालोकातपयोरिव || १६ || अलमतिविततैर्वचःप्रपञ्चै- रियमुचितेह सुखाय दृष्टिरेका | उपशमितरसं समंमनोऽन्त- र्यदि मुदितं तदनुत्तमा प्रतिष्ठा || १७ || यदि सर्वमेवासारं किं तर्हि सारभूतं सेवितुमुचितं तदाह - अलमिति | यदि मन उपशमितरसं सर्वतो नीरोगं समं विक्षेपवैषम्यरहितं सदन्तः स्वात्मन्येव मुदितं तत्तर्हि सैवोत्तमा प्रतिष्ठा विश्रान्तिरियमेवैकदृष्टिः सुखाय सदा सेवितुमुचितेत्यर्थः || १७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो० उपशमप्रकरणे सुरघुपरिघनिश्चयो नाम त्रिषष्ठितमः सर्गः || ६३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे सुरघुपरिघनिश्चयो नाम त्रिषष्टितमः सर्गः || ६३ || चतुःषष्टितमः सर्गः ६४ श्रीवसिष्ठ उवाच | सुरघुः परिघश्चैव विचार्येति जगद्भ्रमम् | मिथः प्रपूजितौ तुष्टौ स्वय्वापारपरौ गतौ || १ || यैरुपायैरुपायज्ञो मनोदोषैर्न बाध्यते | आत्मा चोद्ध्रियते दुःखात्त उपाया इहोदिताः || १ || इति वर्णितप्रकारेण विचार्य || १ || तदेव राघव श्रुत्वा परमं बोधकारणम् | अनेनैव विबोधेन भव लब्धास्पदः स्फुटम् || २ ||
389 SK तत् वर्णितसंविवादरूपं बोधकारणं श्रुत्वा | एतावदेव श्रुत्वावधारितं बोधाय पर्याप्तमिति सूचनाय प्रथम एवकारः | एतावद्बोध एव सुप्रतिष्ठितः परमपदप्राप्तये पर्याप्त इति द्योतनाय द्वितीयः || २ || परया प्रज्ञया धीरविचारगततीक्ष्णया | गलत्यलमहंकारकालमेघे हृदम्बरे || ३ || धीरैर्विद्वद्भिः सह विचारेण धीरेण निश्चलेन स्वविचारेण च गततीक्ष्णया प्राप्तनिशितभावया हृदम्बरे अहंकारलक्षणे कालमेघे गलति सति || ३ || समस्तलोकानुमते सफले ह्लादकारिणि | निर्मले वितते चेतः शरत्काल उपस्थिते || ४ || समस्तेत्यादिविशेषणानि शरत्कालेऽपि योज्यानि || ४ || ध्येये शरण्ये सुगमे सकलानन्दसंपदि | सुप्रसन्ने चिदाकाशे स्थीयते परमात्मनि || ५ || सर्वानर्थनिवर्तकत्वाच्छरण्ये || ५ || यो नित्यमध्यात्ममयो नित्यमन्तर्मुखः सुखी | नित्यं चिदनुसंधानो मनःशोकैर्न बाध्यते || ६ || अध्यात्ममय आत्मैकविचारप्रचुरः | अन्तर्मुखो बाह्यासक्तिशून्यः | चित्येवानुसंधानं पुनःपुनरादरादास्वादनं यस्य || ६ || व्यवहारपरोऽत्युच्चै रागद्वेषमयोऽपि सन् | नान्तःकलङ्कमायाति पद्मो जलगतो यथा || ७ || रागद्वेषमयो रागद्वेषप्रचुर इव मूढैः कल्प्यमानोऽपि || ७ || सम्यग्विज्ञानवान्शुद्धो योऽन्तःशान्तमना मुनिः | न बाध्यते स मनसा करिणेव मृगाधिपः || ८ || भोगैकशरणं दीनं न चित्तं ज्ञस्य विद्यते | नन्दने दुर्द्रुम इव ज्ञचित्तं हि महावपुः || ९ || दुर्द्रुमो विषकण्टकवृक्षः | हि यस्माज्ज्ञस्य चित्तं महावपुः | क्षुद्रसुखलवनिःस्पृहमिति यावत् || ९ || विरक्तो जन्ममरणे यथा दुःखी न मानवः | परिज्ञाताखिलाविद्यं तथा चित्तं न दुःखितम् || १० || यथा विरक्तो मानवो जायामरणे सति कामुक इव न दुःखी तथा परितो विचार्य ज्ञाता अखिला विषयेन्द्रियशरीरादिसर्वदृश्यरूपा अविद्या मिथ्याभ्रान्तिर्येन तथाविधं ज्ञचित्तं न दुःखितं भवतीत्यर्थः || १० ||
390 SK परिज्ञातमनोमोहो जगद्भावोद्भवत्मना | स्पृश्यते नैनसा साधो रजसेव नभस्तलम् || ११ || तस्य भाविदुःखहेतुपापसंबन्धोऽपि नास्तीत्याह - परिज्ञातेति | जगति व्यवहारपदे भावः कर्तृत्वाभिमानस्तस्मादुद्भवतीति जगद्भावोद्भवं तदात्मना एनसा पापेन || ११ || अविद्यासंपरिज्ञातमिदमेव महौषधम् | अविद्याविततव्याधेस्तिमिरस्येव दीपकम् || १२ || अविद्यालक्षणजगदाकारविस्तीर्णव्याधेरविद्यामात्रं जगदिति सम्यक्परिज्ञातं विचारजन्यं ज्ञानमेव महौषधमित्यर्थः || १२ || अविद्या संपरिज्ञाता यदैव हि तदैव हि | सा परिक्षीयते भूयः स्वप्नेनेव हि भोगभूः || १३ || यथा स्वप्नोऽयमिति परिज्ञातेन स्वप्नेन तद्भोगभूः परिक्षीयते तद्वत् || १३ || व्यवहारपरोऽप्यन्तरसक्तमतिरेकधीः | स्पृश्यते नैनसा साधुर्मत्स्येक्षणमिवाम्भसा || १४ || मत्स्यानामीक्षणं चक्षुरम्भसा न स्पृश्यते तद्वत् | तत्स्पर्शे पिहिताक्षाणां तेषां जले दर्शनादिव्यवहारो न स्यादिति भावः || १४ || प्राप्ते चिद्भासुरालोके प्रक्षीणाऽज्ञानयामिनी | शेमुषी परमानन्दमागता ज्ञस्य राजते || १५ || शेमुषी प्रज्ञा || १५ || अज्ञाननिद्रोपशमे जनो ज्ञानार्कबोधितः | तत्प्रबोधमवाप्नोति पुनर्येन न मुह्यति || १६ || ज्ञायतेऽनेनेति ज्ञानं शास्त्रं तद्रूपेणार्केण बोधितः | तत्तादृशं प्रबोधम् || १६ || दिनानि जीव्यते तानि सानन्दास्ते क्रियाक्रमाः | आत्मचन्द्रोदिता येषु चिज्ज्योत्स्ना हृदयाम्बरे || १७ || इदानीं विद्यां स्तौति - दिनानीत्यादिना | जीव्यते इति भावे लः | दिनानीति कालाध्वनोरत्यन्तसंयोगे द्वितीया नतु कर्मणि | येषु दिनेषु चिज्ज्योत्स्ना हृदयाम्बरे आह्लादयति विराजतेवेति शेषः || १७ || नरो मोहसमुत्तीर्णः सततं स्वात्मचिन्तया | अन्तःशीतलतामेति स्वामृतेनेव चन्द्रमाः || १८ || तानि मित्राणि शास्त्राणि तानि तानि दिनानि च | विरागोल्लासवान्येभ्य आत्मचित्तोदयः स्फुटम् || १९ || येभ्यो मित्रादिभ्यो निमित्तेभ्यो विरागोल्लासवान् आत्माकारवृत्तिलक्षणश्चित्ताभ्युदयः स्फुटं सिद्ध्यतीति शेषः || १९ ||
391 SK चिरं शोचन्ति ते दीना जन्मजङ्गलवीरुधः | आत्मावलोकने हेला येषामविगतैनसाम् || २० || हेला अवहेलनम् | उपेक्षेति यावत् | अविगतैनसामक्षीणपापानाम् || २० || आशापाशशतैर्बद्धं भोगोलपसुलालसम् | जराजर्जरिताकारं शोकोच्छ्वासकदर्थितम् || २१ || इत आरभ्य सर्वेषां द्वितीयान्तपदानां नवमश्लोकस्थे जीवबलीवर्द उत्तारयेदित्यत्र संबन्धः | उलपास्तृणविशेषाः || २१ || व्यूढदुःखमहाभारं जन्मजङ्गलजीवितम् | कुकर्मकर्दमालिप्तं मोहपल्वलशायिनम् || २२ || विशेषेण ऊढो दुःखमहाभारो येन || २२ || रागदंशावलीदष्टं कृष्टं तृष्णावरत्रया | मनोवणिङ्निकेतस्थं बन्धुबन्धननिश्चलम् || २३ || वरत्रया चर्ममय्या नासारज्ज्वा | मनोलक्षणस्य वणिजो निकेते आज्ञालक्षणे संकेते निवासे च स्थितम् | बन्धुजनलक्षणैर्बन्धनैर्निश्चलं चलितुमशक्तम् || २३ || पुत्रदारजराजीर्णे मग्नोन्मग्नं कुकर्दमे | श्रान्तं विगतविश्रामं भग्नमादीर्घवर्त्मनि || २४ || कुकर्दमे गोमयपङ्के || २४ || गमागमपरिक्षीणं संसारारण्यचारिणम् | अलब्धशीतलच्छायं तीव्रतापोपतापितम् || २५ || आकारभासुरं दीनं बाह्यैराक्रान्तमिन्द्रियैः | कर्मघण्टारवाक्रान्तं क्रान्तं दुष्कृतताडनैः || २६ || बहिराकारमात्रेण भासुरमन्तस्तु दीनम् | बाह्यैरिन्द्रियैश्चक्षुरादिभिराक्रान्तमारूढम् | कर्मपदेन काम्यकर्मप्ररोचकार्थवादा लक्ष्यन्ते | तल्लक्षणेन घण्टारवेणाक्रान्तं भ्रमितम् || २६ || आविर्भावतिरोभावचक्रावर्तधुरोद्वहम् | अज्ञानविकटाटव्यां लुठितं सन्नगात्रकम् || २७ || चक्रावर्तधुरा शकटभारः | सा हि शकटचक्रैरावर्तते तदुद्वहम् || २७ || निजानर्थसदामग्नं सीदमानमकिंचनम् | सन्नाङ्गं कर्मभारेण करुणाक्रन्दकारिणम् || २८ || करुणं यथा स्यात्तथा आक्रन्दकारिणम् || २८ || राम जीवबलीवर्दमिमं संसारपल्वलात् | परमं यत्नमास्थाय चिरमुत्तारयेद्बलात् || २९ || चिरं परमं यत्नमास्थाय ज्ञानबलादुत्तारयेदित्यर्थः || २९ ||
392 SK तत्त्वावलोकनात्क्षीणे चित्ते नो जायते पुनः | जीवः कदाचन तदा भवेत्तीर्णभवार्णवः || ३० || उत्तारितस्य पुनः पङ्कमज्जनशङ्कां वारयति - तत्त्वेति || ३० || महानुभावसंपर्कात्संसारार्णवलङ्घने | युक्तिः संप्राप्यते राम स्फुटा नौरिव नाविकात् || ३१ || उत्तारणोपायज्ञानलाभस्तु सद्गुरोरभिगमनात्सिद्ध्यतीत्याशयेनाह - महानुभावेति || ३१ || यस्मिन्देशमरौ तज्ज्ञो नास्ति सज्जनपादपः | सफलः शीतलच्छायो न तत्र निवसेद्बुधः || ३२ || देशो मरुरिव देशमरुस्तस्मिन् || ३२ || स्निग्धशीतवचःपत्रे सच्छाये स्मितपुष्पके | क्षणाद्विश्रम्यते राम भृशं सुजनचम्पके || ३३ || सुजनलक्षणे चम्पकवृक्षे | विशेषणान्युभयसाधारण्येन योज्यानि || ३३ || तदभावे महामोहतापसंपत्तिदायिनि | किंचिज्जातविवेकेन स्वप्तव्यं नेह धीमता || ३४ || तदभावे स्वात्मलाभविश्रान्त्यभावे इह संसारे न स्वप्तव्यम् || ३४ || आत्मैव ह्यात्मनो बन्धुरात्मनात्मैवमुद्धरेत् | नात्मानमवलेपेन जन्मपङ्कार्णवे क्षिपेत् || ३५ || एवमनेनोपायेन उद्धरेदात्मानमित्यर्थः | अवलेपेन देहाभिमानगर्वेण || ३५ || किमिदं कथमायातं किंमूलमिति किंक्षयम् | देहदुःखमिति प्राज्ञैः प्रेक्षणीयं प्रयत्नतः || ३६ || कस्मात्क्षयो यस्य किंक्षयम् | देहाधीनं दुःखं प्रेक्षणीयं स्वबुद्ध्या शास्त्रसज्जनसहायेन च विचारणीयम् | द्वावितिशब्दौ विचार्यविचारप्रकारबाहुल्यद्योतनार्थौ || ३६ || न धनानि न मित्राणि न शास्त्राणि न बान्धवाः | नराणामुपकुर्वन्ति मग्नस्वात्मसमुद्धृतौ || ३७ || शास्त्राण्यनात्मशास्त्राणि || ३७ || मनोमात्रेण सुहृदा सदैव सहवासिना | सह किंचित्परामृश्य भवत्यात्मा समृद्धृतः || ३८ || किं तर्ह्युपकरोति तदाह - मनोमात्रेणेति | सुहृदा परिशुद्धेनेति यावत् || ३८ || वैराग्याभ्यासयत्नाभ्यां स्वपरामर्शजन्मना | तत्त्वालोकनपोतेन तीर्यते भवसागरः || ३९ || शोच्यमानं जनैर्नित्यं दह्यमानं दुराशया | नात्मानमवमन्येत प्रोद्धरेदेनमादरात् || ४० ||
393 SK नावमन्येत नोपेक्षेत || ४० || अहंकारमहालानं तृष्णारज्जुं मनोमदम् | जन्मजम्बालनिर्मग्नं जीवदन्तिनमुद्धरेत् || ४१ || आलानं गजबन्धनस्तम्भः | जम्बाले पङ्के निर्मग्नम् || ४१ || अयमेतावतैवात्मा त्रातो भवति राघव | यदपास्य विमूढत्वमहंकारः प्रमार्ज्यते || ४२ || विमूढत्वं स्वात्माज्ञानम् || ४२ || एतावतैव सन्मार्गे याति प्रकटतामलम् | यदपास्य मनोजालमहंभावो विलूयते || ४३ || सतः परमात्मनो मार्गणं मार्गो बोधपर्यन्तो विचारस्तस्मिन् प्रकटतां स्फुटावलोकनताम् | मनोरचितं बाह्याध्यात्मिकासक्तिजालम् || ४३ || एतावतैव देवेशः परमात्मावगम्यते | काष्ठलोष्टसमत्वेन देहो यदवलोक्यते || ४४ || तत्रापि दुस्त्यजदेहाभिमानत्याग एव मुख्य इत्याशयेनाह - एतावतैवेति || ४४ || अहंकाराम्बुदे क्षीणे दृश्यते चिद्दिवाकरः | ततस्तत्परिणामेन तत्पदं समवाप्यते || ४५ || तस्य दर्शनस्य परिणामेन भूमिकापरिपाकेन चिद्दिवाकरभावापत्त्या वा || ४५ || यथा ध्वान्तसमुच्छेदे स्वयमालोकवेदनम् | तथाहंकारविच्छेदे स्वयमात्मावलोकनम् || ४६ || अवलोकनं सिद्ध्यतीति शेषः || ४६ || अहंकारे परिक्षीणे यावस्था सुखमोदजा | सावस्था भरिताकारा सा सेव्या संप्रयत्नतः || ४७ || सुखमोदो निरतिशयानन्दविश्रान्तिस्तज्जा ताद्रूप्येणाविर्भूता निर्विकल्पावस्था || ४७ || परिपूर्णार्णवप्रख्या न वा गोचरमेति नः | नोपमानमुपादत्ते नानुधावति रञ्जनम् || ४८ || तामेव वर्णयति - परुपूर्णेत्यादिना | रञ्जनं दृश्योपरागम् || ४८ || केवलं चित्प्रकाशांशकलिका स्थिरतां गता | तुर्या चेत्प्राप्यते दृष्टिस्तत्तया सोपमीयते || ४९ || तयैव सोपमीयते नान्यत्तदुपमानमस्तीत्यर्थः || ४९ || अदूरगतसादृश्यात्सुषुप्तस्योपलक्ष्यते | सावस्था भरिताकारा गगनश्रीरिवातता || ५० ||
394 SK केन तर्हि निदर्शनेन तत्संभावना स्यात्तदाह - अदूरेति | निर्विक्षेपत्वांशे सन्निहितात्सादृश्यादित्यर्थः | उप समीपे लक्ष्यते | अज्ञानावरणं चेत्तदा न स्यात्तर्हि तुर्यावस्थैव स्यादित्यनया रीत्येत्यर्थः || ५० || मनोहंकारविलये सर्वभावान्तरस्थिता | समुदेति परानन्दा या तनुः पारमेश्वरी || ५१ || घटविलये तदाकाशस्य महाकाशत्वमिव मनोहंकारोपाधिविलये त्वंपदलक्ष्यस्य तत्पदलक्ष्यात्मस्वभावता सिद्ध्यतीत्याह - मन इति || ५१ || सा स्वयं योगसंसिद्धा सुषुप्तादूरभाविनी | न गम्या वचसां राम हृद्येवेहानुभूयते || ५२ || सुषुप्त अदूरभाविनी संनिहिता हृद्येवानुभूयते स्वानुभवतिरिक्तं तत्परिचायकं नास्तीत्यर्थः || ५२ || अनुभूतिं विना तत्त्वं खण्डादेर्नानुभूयते | अनुभूतिं विना रूपं नात्मनश्चानुभूयते || ५३ || यथा खण्डाद्यसाधारणगवादिस्वरूपपरिचये नानुभवादन्यन्मानं तथा आत्मन्यपीत्याह - अनुभूतिमिति | आत्मनो रूपं परमार्थस्वरूपम् | चोऽप्यर्थः || ५३ || अखिलमिदमनन्तमात्मतत्त्वं दृढपरिणामिनि चेतसि स्थितेऽन्तः | बहिरुपशमिते चराचरात्मा स्वयमनुभूयत एव देवदेवः || ५४ || इदमखिलमात्मतत्त्वमेव तर्हि तत्कथमनुभूयते तत्राह - दृढेति | चेतसि बहिर्विषयेषूपशमिते अन्तः प्रत्यगात्मनि क्षीरोदकवदैकरस्येन दृढं परिणामिनि स्थिते निश्चले सति चराचराणामात्मा प्रत्यग्भृतो देवानां चक्षुरादीनां देवः साक्षितया प्रकाशयिता स्वयं साक्षादनुभूयत एव नात्र संशयः कार्य इत्यर्थः || ५४ || तदनु विषयवासनाविनाश- स्तदनु शुभः परमः स्फुटप्रकाशः | तदनु च समतावशात्स्वरूपे परिणमनं महतामचिन्त्यरूपम् || ५५ ||
395 SK एवं चतुर्थभूमिकायामात्मानुभवे तदनु पञ्चमभूमिकायामात्यन्तिकविषयवासनाविनाशास्तदनु षष्ठभूमिकायां विनैव यत्नं शुभः परमपुरुषार्थरूपः स्वात्मनः स्फुटः प्रकाशः सदैव पूर्णभावानुभवः सिद्ध्यति | तदनु सप्तमभूमिकायां समाध्यसमाध्योः समतावशादात्यन्तिकवैषम्यनिवृत्तेः समुद्रान्तर्विलीनसैन्धवघनवत्सुखैकरसतया परिणमनं सिद्ध्यति तत्तु महतां ब्रह्मादीनामपि इयत्तयाऽचिन्त्यरूपम् | यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति श्रुतेरित्यर्थः || ५५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषूपशमप्रकरणे उपदेशो नाम चतुःषष्टितमः सर्गः || ६४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे उपदेशो नाम चतुःषष्टितमः सर्गः || ६४ || पञ्चषष्टितमः सर्गः ६५ श्रीवसिष्ठ उवाच | मनसैव मनश्छित्त्वा यद्यात्मा नावलोक्यते | ममेत्यहमिति त्यक्त्वा तत्तामरसलोचन || १ || सह्याख्यशैलस्तत्रात्रेराश्रमस्तत्र वर्ण्यते | विलासभासयोर्जन्मकर्मशोकोदयक्रमः || १ || आत्मदर्शनोपायोपेक्षणे शोकमोहादिदुःखपरम्परा दुर्वारेत्यर्थे भासविलासाख्यायिकामवतारयिष्यन्नाह - मनसैवेति | यदि नावलोक्यते तत्तर्हि जगद्दुःखं यथा चित्रगतो रविर्नास्तमेति तथा नास्तमेतीति परेणान्वयः || १ || नास्तमेति जगद्दुःखं यथा चित्रगतो रविः | आयात्यापदनन्तत्वं महार्णववदातता || २ || आपदनन्तत्वमपरिच्छेद्यत्वमायाति || २ || पुनःपुनरुपायाति जलकल्लोलकारणम् | मेघनीलतमःश्यामा संसृतिप्रावृडाकुला || ३ || मेघैर्नीलतमोभिश्च श्यामा संसृतिलक्षणा प्रावृट् वर्षर्तुः || ३ || अत्रैवोदाहरन्तीममितिहासं पुरातनम् | संवादं सुहृदोः सह्यसानौ भासविलासयोः || ४ || सुहृदोर्मित्रयोः शुद्धचित्तयोश्च || ४ || अस्त्युत्सेधजिताकाशः पीठेन जितभूतलः | तलेन जितपातालस्त्रिलोकविजयो गिरिः || ५ || पीठेन उपत्यकाभागेन तलेन भूम्यन्तः प्रविष्टमूलभागेन | जितशब्द आक्रान्तपरः || ५ ||
396 SK असंख्यकुसुमापूरोऽसंख्यनिर्मलनिर्झरः | गुह्यकारक्षितनिधिः सह्यनामाऽविषह्यभाः || ६ || अविषह्या दृक्प्रसरप्रतिघातिनी भा रत्नादिदीप्तिर्यस्मिन् || ६ || मुक्तापटलसंपूर्णैर्भानुभासुरभित्तिभिः | भासुरः काञ्चनतटैः कटैरिव सुरद्विपः || ७ || भानुभिः सूर्यरत्नादिकिरणैर्भासुरभित्तिभिर्दीप्तवप्रैः | पाटलभित्तिभिः इति पाठेऽप्येवम् | काञ्चनैस्तटैर्नितम्बैः कटैर्गण्डैः | जात्याख्यायां इति बहुवचनम् || ७ || क्वचित्पुष्पभरासारो धातुसाराततः क्वचित् | क्वचित्फुल्लसरःसारो रत्नशालिशिलः क्वचित् || ८ || धातुसारैर्हरितालमनःशिलागैरिकादिभिराततः || ८ || इति रटन्निर्झरवानितः क्वणितकीचकः | इतो रटद्गुहावात इतः षट्पदघुंघुमः || ९ || इत इत इति प्रदेशभेदोक्तिः || ९ || सानौ गीतोऽप्सरोवृन्दैर्वने मृगखगारवः | अधित्यकायां मत्ताभ्रो गगनेषु खगारवः || १० || सानौ प्रस्थे | मत्तानीव गर्जन्त्यभ्राणि यस्मिन् || १० || विद्याधराश्रितगुहो भृङ्गगीताम्बुजाकरः | किरातगीतपर्यन्तः खगगीतवनद्रुमः || ११ || स्कन्धेषु देवैर्वलितः पादेषु वलितो नरैः | पाताले वलितो नागैर्जगद्गृहमिवापरम् || १२ || जगत्पदेन लोकत्रयवासिनो लक्ष्यन्ते | तेषां गृहमिव त्रैलोक्यलक्षणं ब्रह्माण्डगृहमिवेति वा स्थित इति शेषः || १२ || कन्दरेषु श्रितः सिद्धैर्निधानैरन्तराश्रितः | चन्दनेषु श्रितो नागैः सिंहैः शृङ्गशिखासु च || १३ || निधानैर्निखातधनैः || १३ || पुष्पाभ्रसंवीतवपुः पुष्परेण्वभ्रपांसुलः | पुष्पवात्याभ्रहृद्भ्रान्तः पुष्पपादपपाण्डुरः || १४ || अधःपतितपुष्पाणि सद्यःपतितपुष्पाणामन्तरिक्षस्था रेणवः पतमानपुष्पाणि वृक्षस्थपुष्पाणि चाभ्रत्वेन क्रमाद्वर्ण्यन्ते || १४ || धातुधूल्यभ्रकपिलो रत्नोपलतलस्थितैः | मन्दारगैरिव पुरस्त्रीगणैरलमाश्रितः || १५ || मन्दारः कल्पवृक्षमेदस्तद्रैस्तदारूढैरिव || १५ || अभ्रनीलांशुकच्छन्ना मूकरत्नविभूषणाः | शिलाः कनकसुन्दर्यो यत्र शृङ्गाभिसारिकाः || १६ ||
397 SK शिला एवाभिसारिकात्वेनोत्प्रेक्षते - अभ्रेति | क्वणन्मञ्जीरादिखचितरत्नानामभिसारविरोधित्वान्मूकरत्नविभूषिताः | शृङ्गैरभिसारिका इवाश्लिष्टत्वात् शृङ्गाभिसारिकाः || १६ || तत्रोत्तरतटे सानौ विनम्रफलपादपे | रत्नपुष्करिणीजालवहन्निर्झरवारिणि || १७ || तत्र उत्तरतटे अत्रेराश्रमोऽस्तीति चतुर्थेन संबन्धः || १७ || चूतद्रुमलतोन्मुक्तपुष्पस्तबकदन्तुरे | विफुल्लाङ्कोलपुन्नागनीलनीरजदिक्तटे || १८ || चूतद्रुमाणां लताभिः शाखाभिरुन्मुक्तैरूर्ध्वभागे प्रसारितैः पुष्पस्तबकैर्दन्तुरे उन्नतदन्तवत्स्थिते | नीलनीरजानि नीलोत्पलानि || १८ || लतावितानच्छन्नार्के रत्नांशुभग्भास्वरे | स्रवज्जम्बूरसस्यूते स्वलोकाह्लादकारिणि || १९ || स्वर्लोकः स्वर्गस्थानमिवाह्लादकारिणि || १९ || ब्रह्मलोकसमः स्वर्गरम्यः शिवपुरोपमः | अत्रेरस्त्याश्रमः श्रीमान्सिद्धश्रमहरो महान् || २० || महत्यत्राश्रमे तस्मिंस्तापसौ द्वौ बभूवतुः | कोविदौ तु नभोमार्ग इव शुक्रबृहस्पती || २१ || महति विस्तीर्णे | कोविदौ विद्वांसौ | शुक्रबृहस्पती इति तयोर्नामनिर्देशोऽपि || २१ || तयोरथैकास्पदयोस्तत्राभूतां सुतावुभौ | फुल्लाङ्कुरौ शुद्धतनू सरस्यम्बुजयोरिव || २२ || अम्बुजयोः पद्मगुल्मयोः फुल्लारौ पुष्पप्रकृतिभूते कलिके इव || २२ || विलासभासनामानौ वृद्धिमाययतुः क्रमात् | तौ पित्रोः पल्लवे दीर्घे लतापादपयोरिव || २३ || लतापादपयोः पल्लवे इव वृद्धिमाययतुः || २३ || आस्तामन्योन्यसुस्निग्धौ सुहृदौ वल्लभौ मिथः | तिलतैलवदाश्लिष्टौ तौ पुष्पामोदवत्स्थितौ || २४ || नाऽयुक्तौ पुत्रयुक्तौ तु सुरक्ताविव दंपती | एकं द्वित्वमिवापन्नां सममासीत्तयोर्मनः || २५ || नायुक्तौ न वियुक्तौ | पुत्रार्थ युक्तौ परस्परं च सुरक्तौ दंपती इव || २५ || तौ तथान्योन्यमुदितौ मनोहरतराकृती | तस्थतुः स्वाश्रमे मौने सरोज इव षट्पदौ || २६ || मौने मुद्रिते मुनियुक्ते च || २६ ||
398 SK प्रापतुर्यौवनं बाल्यमुत्सृज्य नववल्लभौ | कालेनाल्पतरेणैव चन्द्रसूर्याविवोदितौ || २७ || जग्मतुर्देहमुत्सृज्य ततस्तौ पितरौ तयोः | स्वर्गं जरार्तावुड्डीय नीडादिव विहंगमौ || २८ || पञ्चत्वं गतयोः पित्रोर्दीनवक्रौ बभूवतुः | तप्ताङ्गौ विगतोत्साहौ पद्माविव जलोद्धृतौ || २९ || पञ्चत्वं मरणं गतयोः सतोः || २९ || तत्रौर्ध्वदैहिकं कृत्वा चक्राते परिदेवनम् | लोकस्थितिरलङ्घ्या हि महतामपि मानद || ३० || और्ध्वदैहिकमित्यनुशतिकादित्वादुभयपदवृद्धिः | परिदेवनं विलापम् || ३० || कृत्वौर्ध्वदैहिकमथो व्यथयाभिभूतौ शोकोत्थया करुणयार्तगिरा विलप्य | चित्रार्पिताविव निरस्तसमस्तचेष्टौ तौ संस्थितौ सुखमशून्यहृदौ विवृत्तौ || ३१ || निरस्तसमस्तचेष्टौ चेत्किं मृतौ नेत्याह - अशून्यहृदाविति | तथाच मूर्च्छितौ विवृतौ विवृत्तौ संपन्नावित्यर्थः || ३१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषूपशमप्रकरणे भासविलासवृत्तान्ते सह्यगिरिवर्णनं नाम पञ्चषष्टितमः सर्गः || ६५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे सह्य गिरिवर्णनं नाम पञ्चषष्ठितमः सर्गः || ६५ || षट्षष्तितमः सर्गः ६६ श्रीवसिष्ठ उवाच | अतिशोकपराभूतौ तस्थतुर्दृढतापसौ | तापसंशुष्कसर्वाङ्गौ तावरण्यद्रुमाविव || १ || अप्रबुद्धमतेरत्र दुःखाब्धौ परिवर्तनम् | भासस्य वचनेनात्र विस्तरेण प्रकाश्यते || १ || अरण्यद्रुमपक्षे तापेनातपसंबन्धिना ग्रीष्मातपेन दावाग्निना च संशुष्कसर्वाङ्गौ || १ || विरक्तौ विपिने कालं क्षेपयामासतुर्द्विजौ | वियूथाविव सारङ्गावनास्थामगतौ पराम् || २ || अनास्थां गृहक्षेत्रधनादावनासक्तिम् || २ || जग्मुर्दिनानि मासाश्च वर्षाण्यथ तयोस्तदा | क्रमाद्द्वावपि संयातौ जरां श्वभ्रद्रुमाविव || ३ || अप्राप्तविमलज्ञानौ चिराज्जर्जरतापसौ | तावेकदा संघटिताविदमन्योन्यमूचतुः || ४ || संघटितौ कंचित्कालं दैवाद्वियुज्य पुनर्मिलितौ || ४ || विलास उवाच |
399 SK जीविताग्र्यद्रुमफल हृदावासामृताम्बुधे | जगत्यस्मिन्महाबन्धो भास स्वागतमस्तु ते || ५ || जीविताग्र्यं श्रेष्ठं जीवनं तल्लक्षणद्रुमफलभूत हृदि आवासो यस्य तथाविधामृताम्बुधे इति मैत्र्यतिशयोद्दीपने विशेषणे || ५ || एतावत्यो दिनावल्ल्यो मद्वियोगवता त्वया | वद क्व क्षपिताः साधो कच्चित्ते सफलं तपः || ६ || कच्चित्ते विज्वराः बुद्धिः कच्चिज्जातस्त्वमात्मवान् | कच्चित्फलितविद्यस्त्वं कच्चित्कुशलवानसि || ७ || आत्मवान् प्रबोधलब्धात्मा अत-एव फलितविद्यः || ७ || श्रीवसिष्ठ उवाच | इत्युक्तवन्तं संसारसमुद्विग्नमलं तथा | प्राहाप्राप्तमहाज्ञानं सुहृत्सुहृदमादरात् || ८ || अलं स्पष्टं प्राह || ८ || भास उवाच | साधो स्वागतताद्यैव दिष्ट्या दृष्टोऽसि मानद | कुशलं तु कुतोऽस्माकं संसारे तिष्ठतामिह || ९ || यावन्नाधिगतं ज्ञेयं यावत्क्षीणा न चित्तभूः | यावत्तीर्णो न संसारस्तावन्मे कुशलं कुतः || १० || चित्ते भवतीति चित्तभूः कामसंकल्पादिः || १० || आशा यावदशेषेण न लूनाश्चित्तसंभवाः | वीरुधो दात्रकेणेव तावन्नः कुशलं कुतः || ११ || वीरुधो लतापाशाः | दात्रकेण शङ्कुलादिना || ११ || यावन्नाधिगतं ज्ञानं यावन्न समतोदिता | यावन्नाभ्युदितो बोधस्तावन्नः कुशलं कुतः || १२ || ज्ञानं शोधिततत्त्वं पदार्थज्ञानम् बोधोऽखण्डवाक्यार्थ इति भेदः || १२ || आत्मलाभं विना साधो विना ज्ञानमहौषधम् | उदेति पुनरेवेयं दुःसंसृतिविषूचिका || १३ || शैशवाङ्कुरितोज्जृम्भान्नवयौवनपल्लवः | जराकुसुमितोऽभ्येति पुनः संसारदुर्द्रुमः || १४ || शैशवलक्षणमङ्कुरितस्योज्जृम्भणमुज्जृम्भस्तमतीत्येति ल्यब्लोपे हेतौ वा पञ्चमी || १४ || कायजीर्णतरोरस्माद्बान्धवाक्रन्दषट्पदा | जराकुसुमितोदेति [पुष्पसितेति पाठः] पुनर्मरणमञ्जरी || १५ || बान्धवानामाक्रन्दा एव षट्पदा लक्षणया तद्गुञ्जारवा यस्याम् | जरया कुसुमिता संजातकुसुमा || १५ || भुक्तकर्मर्तुविरसा पुराणदिवसोम्भिता | नीयते नीरसप्राया पुनः संवत्सरावली || १६ ||
400 SK मरणोत्तरं दैवान्नरकस्थावरतिर्यग्जन्मप्राप्तौ भुक्तानि दुष्कृतकर्माणि येषु तथाविधैः शीतोष्णवातवर्षादंशमशकादिसंकुलैर्वसन्तादि- puṇyasaṃcayānadhikārātpūrvasaṃcitapuṇyavyayāddharṣāmarṣāsūyākāmādido ṣabahulatvācca śamadamādyasaṃbhavena jñānasyāpi daurlabhyātkevalabhogaikalampaṭatayā purāṇaiḥ prāgbahuśo'nubhūtatvādabhinavavisayābhāvātpurātanaprāyaireva divasaiḥ umbhitā pūritā ata-eva nīrasaprāyā saṃvatsarāvalī punarvṛthaiva nīyate ityarthaḥ || 16 || mahādarīṣu dehādrestṛṣṇākaṇṭakitāsvapi | phalavyālāsu ca punaḥ kriyāsu pariluṭhyate || 17 || daivātpunarmānuṣye tatrāpi durlabhatame brāhmaṇādiśarīre prāpte'pi sāṃpratike deha iva bhogalampaṭatayaiva bhramaṇaṃ durvāramityāśayenāha - mahādarīṣviti | viṣayabhogalakṣaṇāni phalānyeva vyālā yāsu | tattṛṣṇāsahasraiḥ saṃjātakaṇṭakāsu dehalakṣaṇasyādrermahābhīṣaṇadarīprāyacchidrasthendriyāsaktiṣu aihikāmuṣmikabhogopāyalaukikavaidikakriyāsu ca pariluṭhyate na tatrāpyātmavivekasaṃbhāvanāstītyarthaḥ || 17 || duḥkhaiḥ sukhalavākārairdīrghādīrghaiḥ śubhāśubhaiḥ | aparyāptāgamāpāyāḥ prayāntyāyānti rātrayaḥ || 18 || cirālpakālabhogyatvābhyāṃ dīrghādīrghairduḥkhaiḥ aparyāptā asamāptā āgamāpāyā yāsu | rātrigrahaṇaṃ kālamātropalakṣaṇam | prayānti sarvajanmasviti śeṣaḥ || 18 || ayathārthakriyārambhaiḥ kadāśāveśapallavaiḥ | kṣīyate karmabhistucchairāyurāhatakarmabhiḥ || 19 || uktameva tatkāraṇamukhenāha - ayathāartheti | ayathārthā mithyābhūtāḥ kriyābhirārabhyanta iti kriyārambhāḥ phalāni yeṣāṃ tathāvidhaiḥ karmabhiḥ āhatāni mṛṣābhūtāni karmāṇi yeṣāṃ tathāvidhairjantubhirāyuḥ kṣīyate vināśyate || 19 || unmūlitāśrayālāno manomattamataṅgajaḥ | tṛṣṇākareṇukonnidro dūraṃ viparidhāvati || 20 ||
401 SK जन्मनि जन्मनि विवेकविरोधि प्राबल्यं तत्सहायदौर्बल्यं च प्रपञ्चयति - tadunmūlitaṃ yena | tṛṣṇāpadena tadviṣayo lakṣyate | tallakṣaṇāyāṃ kareṇukāyāṃ sakāmatvādunnidro nirnidraḥ || 20 || jihvācapalatālagnaḥ kāyadrumamahālaye | pataccintāmaṇau vṛddho garddhagṛdhro vivardhate || 21 || vyartha patan paramapuruṣārthopayogī āyurlakṣaṇo vivekalakṣaṇaśca cintāmaṇiryasmāttathāvidhe kāyalakṣaṇadrumasthe mahati hṛdayalakṣaṇe ālaye nīḍe garddhaḥ svādvannādyabhilāṣaḥ sa eva gṛdhraḥ || 21 || nīrasā niḥsukhā laghvī patatpelavagātrikā | jīrṇaparṇasavarṇeyaṃ kṣīyate divasāvalī || 22 || śramadaurbalyāmayādinā patanti pelavāni kāryākṣamāṇi bhavanti gātrāṇi yasyām | divasāvalīpadena tatparicchinnā kāyalatā gṛhyate || 22 || avamānarajodhvastamastaṃgatavapuḥśriyam | mukhaṃ dhūsaratāmeti himaiḥ padmamivāhatam || 23 || vārdhakye putrabhṛtyāvamānaiḥ rajobhiśca dhvastam | astaṃ gatā vapuḥśrīryasya tathāvidham | klībe amo'luk chāndasaḥ || 23 || śuṣyataḥ kāyasarasaḥ pragaladyauvanāmbhasaḥ | rājahaṃsaḥ kṣaṇādāyuranivarti palāyate || 24 || rājahaṃsa iveti śeṣaḥ || 24 || kālānilabaloddhūtājjarjarājjīvitadrumāt | bhogapuṣpāṇi divasaparṇāni nipatantyadhaḥ || 25 || bhogalakṣaṇāni puṣpāṇi divasarūpāṇi parṇāni ca adho nipatanti | apayāntīti yāvat || 25 || bhogabhogiśriteṣvantarduḥkhadarduradhāriṣu | manomohāndhakūpeṣu pūreṣu vinimajjati || 26 || bhogeṣu nivṛtteṣvapi bhogāśā tadaśaktiduḥkhaṃ tatprayuktacintāśokamohādhiśca vardhata evetyāśayenāha - bhogetyādinā || 26 || nānānurañjanāspṛṣṭā tṛṣṇā taralapelavā | caityamagrapatākeva dūraṃ samadhirohati || 27 || caityaṃ devādyāyatanam | agre baddhā patākeva dūramucchritaṃ yathā syāttathā || 27 || asya saṃsāratantrasya bṛhatkālabilāspadaḥ | jīvitāśāmayaṃ tantumantakākhurnikṛntati || 28 ||
402 SK संसारलक्षणस्य तन्त्रस्य प्रवाण्याः जीविताशाप्रचुरमायुस्तन्तुम् || २८ || यौवनोत्कटकल्लोला वहल्लोलासिफेनिला | परावर्तमहावर्ता याति जीवितदुर्नदी || २९ || वहल्लोलासिसदृशक्रोधद्वेषभयादिना फेनिला | परावर्ता लोभतृष्णादिना भ्रमणान्येव महान्त आवर्ता यस्याः || २९ || कलाकुलजगत्कार्यकल्लोलाकुलसंकुला | क्रियासरिदपर्यन्ता वहत्याकुलकोटरा || ३० || शिल्पतर्कनीतिशास्त्रादिभिः कलाकुलैः कौशलवृन्दैर्जगद्व्यवहारकार्यलक्षणैश्च कल्लोलैराकुला संकुला च क्रिया प्रवृत्तिस्तल्लक्षणा सरित् प्रतिजन्म एवमेव वहतीत्यर्थः || ३० || अनन्ता बन्धुजनतानद्यो गम्भीरकोटरे | अजस्रं निपतन्त्येता वितते कालसागरे || ३१ || देहरत्नशलाकेयं नाशपङ्कार्णवोदरे | न ज्ञायते क्व मग्नेति तात जन्मनि जन्मनि || ३२ || देह एव परमपुरुषार्थसाधनत्वाद्रत्नशलाका || ३२ || चिन्ताचक्रे चिरं बद्धं कुक्रियाचारचञ्चुरम् | चेतो भ्रमति सामुद्रे गर्तावर्ते तृणं यथा || ३३ || गर्तावर्ते सच्छिद्रावर्ते || ३३ || उह्यमानमनन्तेषु चेतः कार्यमहोर्मिषु | क्षणमेति न विश्रान्तिं चिन्ताताण्डविताशयम् || ३४ || इदं कृतं करोमीदं करिष्यामीदमित्यलम् | कलनाजालवलिता मूर्च्छिता मतिपक्षिणी || ३५ || कलनाजाले वलिता बद्धा सती मूर्च्छिता मोहितः || ३५ || अयं सुहृदयं शत्रुरिति द्वन्द्वमहाद्विपः | विनिकृन्तति मर्माणि यथा नीलोत्पलानि मे || ३६ || नीलोत्पलानि यथा विनिकृन्तति तथा मे मम मर्माण्यपि || ३६ || चिन्तानद्या महावर्ते वीचिकानिचये चिरम् | क्षणादुच्छूनतामेति मनोमीनः क्षणाद्गतिः || ३७ || उच्छूनतां विवृद्धिम् | क्षणान् अतन्ति गतयो यस्य स क्षणाद्गतिश्चपल इत्यर्थः || ३७ || अनात्मीयानि दुःखानि भून्येवंविधान्ययम् | आत्मबुद्ध्या विचिन्वानो जनो गच्छति दीनताम् || ३८ || अनात्मीयान्यात्मासंस्पर्शीनि अनात्मदेहादिनिमित्तानि च | देहादावात्मबुद्ध्या || ३८ ||
403 SK बहुविधसुखदुःखमध्यपाती विततजरामरणप्रवातभग्नः | जगदुदरगिरौ लुठञ्जनोऽयं गतरसपर्णवदेति जर्जरत्वम् || ३९ || सर्वजन्मसु दुःखस्थानानामानन्त्यं दर्शयन्नुपसंहरति - बहुविधेति | जरामरणलक्षणेन प्रवातेन चण्डवायुना भग्नः पुनःपुनरामर्दितो जगल्लक्षणे उदयगिरौ लुठन्नयं जनो गतरसपर्णवत् शुष्कपर्णवत् || ३९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० उपशमप्रकरणे भासविलासवृत्तान्ते अनित्यताप्रतिपादनं नाम षट्षष्टितमः सर्गः || ६६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे अनित्यताप्रतिपादनं नाम षट्षष्टितमः सर्गः || ६६ || सप्तषष्टितमः सर्गः ६७ श्रीवसिष्ठ उवाच | एवं तौ कुशलप्रश्नं कृतवन्तौ परस्परम् | कालेनासाद्य विमलं ज्ञानं मोक्षं ततो गतौ || १ || देहात्मनोरसंबन्धं समर्थयितुमीर्यते | अन्तःसक्तिकृतो बन्धस्तत्त्यागाच्च निवार्यते || १ || एवमुक्तप्रकारसंसारासारताविचारबहुलं कुशलप्रश्रम् || १ || ततो वच्मि महाबाहो यथा ज्ञानेतरा गतिः | नास्ति संसारतरणे पाशबन्धस्य चेतसः || २ || पाशा इव बन्धा बन्धनहेतवो यस्मिंस्तथाविधस्य चेतसः संसरणं संसारस्तस्य तरणे गतिरुपायः || २ || इदं भव्यमतेर्दुःखमनन्तमपि पेलवम् | कुखगस्याऽतरोऽम्भोधिः सर्पारेर्गोष्पदायते || ३ || इदं वर्णितप्रकारं दुःखं भव्यमतेर्विवेकिनः पेलवं कोमलम् | सुखोच्छेद्यमिति यावत् | अतरो दुस्तरः | सर्पारेर्गरुडस्य || ३ || देहातीता महात्मानश्चिन्मात्रस्वात्मनि स्थिताः | दूराद्देहं समीक्षन्ते प्रेक्षको जनतामिव || ४ || देहद्वयाभिमानत्याय एव तदुच्छेदोपाय इत्याशयेनाह - देहातीता इत्यादिना || ४ || देहे दुःखातिसंक्षुब्धे का नः क्षतिरुपस्थिता | रथे विधुरिते भग्ने सारथेः केव खण्डना || ५ || दुःस्थितिः इति पाठे दुःस्थितिः क्षतिरित्यर्थः || ५ || मनसि क्षुब्धतां याते चित्त्वस्याङ्ग किमागतम् | तरङ्गजलसंताने वैपरीत्यं किमम्बुधेः || ६ ||
404 SK चित्त्वस्य चित्स्वभावस्यात्मनः | वैपरीत्यं पूर्णतास्वरूपप्रच्युतिः || ६ || केऽभवन्पयसां हंसाः पयसामुपलाश्च के | काः शिलाः किल दारूणां के भोगाः परमात्मनः || ७ || अहंतात्यागे कस्यापि क्वापि ममताप्रसक्तिरेव नास्तीत्याशयेनाह - केऽभवन्नित्यादिना | नह्यचेतनानामसङ्गचितो वा ममताप्रसक्तिरस्तीति भवः || ७ || संबन्धः क इव श्रीमन् शैलापरसमुद्रयोः | अन्तरे गिरिसंबाधे कश्च चित्तत्त्वबन्धयोः || ८ || अन्तरे मध्ये | गिरिभिः संबाधे संकुलत्वेऽपि | चित्तत्त्वं परमात्मा बन्धः संसारस्तयोः कः संबन्धः | नह्याकाशः पाशैर्बध्यत इति भावः || ८ || अप्युत्सङ्गोह्यमानानि पद्मानि सरिदम्भसाम् | कानि नाम भवन्तीह शरीराणि तथात्मनः || ९ || उत्सङ्गे अङ्के इव उह्यमानानि धार्यमाणान्यपि पद्मानि || ९ || संघट्टात्काष्ठपयसोर्यथोत्तुङ्गाः कणादयः | देहात्मनोः समायोगात्तथैताश्चित्तवृत्तयः || १० || संघट्टादभिघातात् | समायोगादन्योन्यतादात्म्याध्यासात् सुखदुःखादिचित्तवृत्तयः || १० || संबन्धाद्दारुपयसां प्रतिबिम्बानि दारुणः | यथा पयसि लक्ष्यन्ते शरीराणि तथात्मनि || ११ || देहसंबन्धस्याध्यासिकत्वे दृष्टान्तमाह - संबन्धादिति | संबन्धात्संनिधिमात्रान्निमित्तात् || ११ || यथा दर्पणवीच्यादौ प्रतिबिम्बानि वस्तुतः | नासत्यानि च सत्यानि शरीराणि तथात्मनः || १२ || दारुवार्युपलास्फोटे दुःखिता न यथा क्वचित् | संयुक्तेषु वियुक्तेषु न तथा पञ्चसु क्षतिः || १३ || पञ्चसु देहाद्याकारपरिणतेषु भूतेषु कशाचन्दनादिसंयुक्तेषु स्त्रीपुत्रादिवियुक्तेषु च क्षतिर्दुःखदिप्रसक्तिः || १३ || दारुसंश्लेषितात्तोयात्कम्पशब्दादयो यथा | प्रजायन्ते तथैवास्माद्देहाच्चित्परिबोधितात् || १४ || चिता संनिधिमात्रेणाधिष्ठाय परितो बोधितात् || १४ || न शुद्धजडयोरेताः संविदश्चिच्छरीरयोः | एता ह्यज्ञानमात्रस्य तस्मिन्नष्टे चिदेव नः || १५ || भासमानाः सुखदुःखादिसंविदः कस्य तर्हीति चेन्न कस्यापीत्याह - नेति || १५ ||
405 SK यथा न कस्यचिद्वारिदारुश्लेषेऽनुभूतयः | तथा न कस्यचिद्देहदेहिसङ्गेऽनुभूतयः || १६ || अनुभूतयः सुखदुःखानुभवाः | देहदेहिनोर्देहतदभिमानिनोः सङ्गे || १६ || अज्ञस्यायं यथा दृष्टः संसारः सत्यतां गतः | न ज्ञस्यायं यथाभूतः संसारः सत्यतां गतः || १७ || तर्हि ज्ञाज्ञयोरविशेषः किं न स्यात्तत्राह - अज्ञस्येति || १७ || अन्तःसङ्गविहीनास्तु यथा स्नेहा दृषज्जले | तथासक्तमनोवृत्तौ बाह्यभोगानुभूतयः || १८ || कीदृश्यस्तर्हि ज्ञस्य प्रारब्धभोगानुभूतयस्तत्राह - अन्तरिति | अन्तःसङ्गोऽभिमानोऽन्तरनुप्रवेशश्च | स्नेहाः संबन्धाः | दृषदां जलानां च समाहारे || १८ || अन्तःसङ्गेन रहितो यद्वत्सलिलकाष्ठयोः | संबन्धस्तद्वदेवान्तरसङ्गो देहदेहिनोः || १९ || असङ्गः परमार्थसङ्गशून्यः || १९ || अन्तःसङ्गेन रहितः संबन्धो जलकाष्ठयोः | स देहदेहिनोश्चैवं प्रतिबिम्बाम्भसोस्तथा || २० || जलकाष्ठयोर्यद्वदिति शेषः | स संबन्धः | चकारोऽप्यर्थः | पूर्वं सलिलकाष्ठोपन्यासः संसर्गाभावे दृष्टान्तार्थ इह तादात्म्याभावे इत्यपौनरुक्त्यम् || २० || स्थिता सर्वत्र संवित्तिः शुद्धा संवेद्यवर्जिता | द्वित्वोपलाञ्छिता त्वन्या दुःसंवित्तिर्न विद्यते || २१ || ननु सुखदुःखादिसंवित्तिनिषेधे संवित्त्यन्तराप्रसिद्धेः शून्यता स्यादित्याशङ्क्याह - स्थितेति | न विद्यते तद्विषयानिरूपणादित्यर्थः || २१ || अदुःखमेति दुःखित्वमन्तःसंवेदना स्फुटम् | स्फारो भवति वेतालो वेतालत्वेन भावितः || २२ || असतोऽप्यज्ञानाद्भ्रान्त्या अस्तीति भानं प्रसिद्धमित्याह - अदुःखमिति || २२ || असंबन्धोऽपि संबन्धो भवत्यन्तर्विनिश्चयात् | स्वप्नाङ्गनासुरतवत्स्थाणुवेतालसङ्गवत् || २३ || संबन्ध आध्यासिकयोगः | आद्यः संसर्गाध्यासे द्वितीयस्तादात्म्याध्यासे दृष्टान्तः || २३ || असत्प्रायो हि संबन्धो यथा सलिलकाष्ठयोः | तथैव मिथ्यासंबन्धः शरीरपरमात्मनोः || २४ ||
406 SK अन्तःसङ्गं विना नाम्बु काष्ठपातैः प्रगृह्यते | आत्माऽङ्गसङ्गरहितो देहदुःखैर्न दह्यते || २५ || अन्तःसङ्गं विना अहंताध्यासाभावात् | न प्रगृह्यते न पीड्यते यथेत्यर्थः | अङ्गसङ्गरहितो देहाध्यासशून्यः || २५ || देहभावनयैवात्मा देहदुःखवशे स्थितः | तत्त्यागेन ततो मुक्तो भवतीति विदुर्बुधाः || २६ || अन्तःसङ्गविहीनत्वाद्दुःखवन्त्यङ्ग नो यथा | पत्राम्बुमलदारूणि श्लिष्टान्यपि परस्परम् || २७ || दार्वन्तान्यर्थात्पल्वलपतितानि || २७ || अन्तःसङ्गेन रहिता यान्ति निर्दुःखतां पराम् | श्लिष्टान्यपि तथैवात्मदेहेन्द्रियमनांस्यलम् || २८ || रहिता रहितानि | शसश्छान्दसो डादेश. ता ता पिण्डानां प्रजुहोमीतिवत् || २८ || अन्तःसङ्गो हि संसारे [संसारः इत्यपि पाठः] सर्वेषां राम देहिनाम् | जरामरणमोहानां तरूणां बीजकारणम् || २९ || अन्तःसंसङ्गवाञ्जन्तुर्मग्नः संसारसागरे | अन्तःसंसक्तिमुक्तस्तु तीर्णः संसारसागरात् || ३० || अन्तःसंसङ्गवच्चित्तं शतशाखमिवोच्यते | अन्तःसंसङ्गरहितं विलीनं चित्तमुच्यते || ३१ || शतशाखमनन्तशाखम् | कामवृत्तीनामानन्त्यात् || ३१ || भग्नस्फटिकवद्विद्धि मनः सक्तमपावनम् | अभग्नस्फटिकाभासमसक्तं विद्धि मे मनः || ३२ || यथा भग्नमन्तर्विदीर्णं स्फटिकलिङ्गादि अपावनं पूजाद्ययोग्यं तद्वत् || ३२ || असक्तं निर्मलं चित्तं मुक्तं संसार्यपि स्फुटम् | सक्तं तु दीर्घतपसा युक्तमप्यतिबन्धवत् || ३३ || अन्तःसक्तं मनो बद्धं मुक्तं सक्तिविवर्जितम् | अन्तःसंसक्तिरेवैकं कारणं बन्धमोक्षयोः || ३४ || अन्तःसंसक्तिमुक्तस्य कुर्वतोऽपि न कर्तृता | गुणदोषवती तोये दारुवाहननौर्यथा || ३५ || दारूणि काष्ठभारा वाह्यन्ते उत्तार्यन्ते यया तथाविधा नौर्यथा स्वयं दारुभूतापि दारुगतैश्छेदभेददाहादिगुणदोषैर्जलगतैश्चलनपरिवर्तननैर्मल्यपङ्क् इलत्वादिगुणदोषैश्च न तद्वती तथेत्यर्थः || ३५ ||
407 SK अन्तःसंसक्तितो जन्तोरकर्तुरपि कर्तृता | सुखदुःखवति स्वप्ने संभ्रमोन्मुखता यथा || ३६ || संभ्रमोन्मुखता व्याघ्रादिभयपलायनादिव्याकुलता || ३६ || चित्ते कर्तरि कर्तृत्वमदेहस्यापि [कर्तृत्वं देहस्यापि हि इति पाठश्चिन्त्यः] विद्यते | स्वप्नादाविव विक्षुब्धसुखदुःखदृशोपमम् || ३७ || अदेहस्य देहचेष्टाशून्यस्यापि स्वपुत्रमृत्ययुद्धादि पश्यतो जाग्रतोऽपि स्वप्नादाविव कर्तृत्वं विद्यते | यतो विक्षुब्धसुखदुःखदर्शनेन मुख्यकर्त्रुपममेव तदपीत्यर्थः || ३७ || अकर्तरि मनस्यन्तरकर्तृत्वं स्फुटं भवेत् | शून्यचित्तो हि पुरुषः कुर्वन्नपि न चेतति || ३८ || न चेतति नाभिमन्यते | नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् इति भगवद्वचनात् || ३८ || चेतसा कृतमाप्नोषि चेतसा न कृतं तु न | न क्वचित्कारणं देहो न च चित्तेन कर्तृता || ३९ || न चेति | हेतौ चकारः | नहि चित्ते कर्तृताशक्तिर्नास्ति येन देहः कर्ता कल्प्येतेत्यर्थः || ३९ || असंसक्तमकर्तेव कुर्वदेव मनो विदुः | न कर्मफलभोक्तृत्वमसक्तं प्रतिपद्यते || ४० || अप्यर्थे द्वितीय एवकारः || ४० || ब्रह्महत्याश्वमेधाभ्यामसंसक्तो न लिप्यते | दूरस्थकान्तासंलीनमनाः कार्यैरिवाग्रगैः || ४१ || अग्रगैः पुरोगतैः शीतोष्णानुभवादिकार्यैः | तच्चोर्वश्यासक्तस्य पुरूरवसः प्रसिद्धमिन्द्राहल्याख्याने च प्राक्प्रपञ्चितमिति भावः || ४१ || अन्तःसंसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् | बहिःकुर्वन्नकुर्वन्वा कर्ता भोक्ता न हि क्वचित् || ४२ || मधुरवृत्तिर्निर्विक्षेपसौख्यं तद्वान् || ४२ || अन्तःसंसक्तिमुक्तं यन्मनः स्यात्तदकर्तृकम् | तद्विमुक्तं प्रशान्तं तत्तद्युक्तं तदलेपकम् || ४३ || संसक्तित्यागमात्रेण सर्वे जीवन्मुक्तगुणा मनसि सिद्ध्यन्तीत्याशयेनाह - अन्तरिति || ४३ || तस्मात्सर्वपदार्थानां श्लिष्टानां निश्चितं बहिः | सर्वदुःखकरीं क्रूरामन्तःसक्तिं विवर्जयेत् || ४४ ||
408 SK उपसंहरति - तस्मादिति | सर्वान्तरस्यात्मनो बहिर्बहिःश्लिष्ठानां पञ्चकोशलक्षणानां भोग्यवर्गलक्षणानां च बन्धभूतानां सर्वपदार्थानां निरासे इदमेवैकं मुख्योपायतया निश्चितं यत्सर्वदुःखकरीमन्तःसक्तिं विवर्जयेत् | विवर्जनमित्यर्थः || ४४ || विरहितमलमन्तःसङ्गदोषेण चेतः शममुपगतमाद्यं व्योमवन्निर्मलाभम् | सकलमलविमुक्तेनात्मनैकत्वमेति स्थिरमणिनिभमम्भोवारिणी वारिनीले || ४५ || अन्तःसङ्गः संसक्तिस्तद्दोषेणालमत्यन्तं विरहितमत- pratyaktattvamupagataṃ cetparātmanā ekatvamaikarasyameti | yathā sthiramaṇiḥ sphaṭikastannibhamambhaḥ arā niśitadhārā yeṣāṃ santi te ariṇaḥ khaḍgādaya nīle yamunādivāriṇi militamekatvameti tadvadityarthaḥ || 45 || ityārṣe śrīvāsiṣṭhamahārāmāyaṇe vālmīkīye de0 mokṣopāyeṣūpaśamaprakaraṇe antaḥsaṃsaṅgavicāro nāma saptaṣaṣṭitamaḥ sargaḥ || 67 || iti śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśe upaśamaprakaraṇe antaḥsaṃsaṅgavicāro nāma saptaṣaṣṭitamaḥ sargaḥ || 67 || aṣṭaṣaṣṭitamaḥ sargaḥ 68 śrīrāma uvāca | kīdṛśo bhagavansaṅgaḥ kathaṃ bandhāya vā nṛṇām | kaśca mokṣāya kathitaḥ kathaṃ vaiṣa cikitsyate || 1 || lakṣmasaṃsaktyasaṃkaktyościkitsopāyasaṃyutaiḥ | vandyāvandhyāvibhāgaśca phalaṃ cātropavarṇyate || 1 || kathaṃ kena prakāreṇa kiṃprakāraśca bandhāya kaśca kīdṛśaśca mokṣāya kathaṃ kenopāyena cikitsyate || 1 || śrīvasiṣṭha uvāca | dehadehivibhāgaikaparityāgena bhāvanāt | dehamātre tu viśvāsaḥ saṅgo bandhārha ucyate || 2 || dehasya kṣetrasya dehinaḥ kṣetrajñasya ca yo jāḍyacitsvabhāvatālakṣaṇo vibhāgo viruddhasvabhāvatā tasya ekaparityāgenātyantāparyālocanenānyonyatādātmyadharmavinimayabhāvanāddeha mātre ātmatāviśvāso yaḥ sa eva bandhārho bandhahetuḥ saṅga ityarthaḥ || 2 || anantasyātmatattvasya saparyantatvaniścaye | yatsukhārthitvamant'h sa saṅgo bandhārha ucyate || 3 ||
409 SK लक्षणान्तराण्याह - अनन्तस्येत्यादिना | सपर्यन्तत्वं त्रिविधपरिच्छेदसहितत्वं तन्निश्चये सति स्वापरिच्छिन्नसुखस्वभावविस्मरणाद्यद्विषयेभ्यः सुखार्थित्वमित्यर्थः || ३ || सर्वमात्मेदमखिलं किं वाञ्छामि त्यजामि किम् | इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थितिम् || ४ || तद्विरोधिनीमसङ्गस्थितिं लक्षयति - सर्वमिति || ४ || नाहमस्मि न चान्योऽस्ति मा भवन्तु भवन्तु वा | सुखान्यसक्त इत्यन्तः कथ्यते मुक्तिभाङ्नरः || ५ || अहं अहंकारपरिच्छिन्नो नास्मि | मदन्यश्च नास्ति | अतो मिथ्याभूते देहादौ विषयसुखानि मा भवन्तु भवन्तु वा | अहं तु देहाद्यसङ्गस्वभाव इत्येवं दृढनिश्चयादसक्तः || ५ || नाभिनन्दति नैष्कर्म्यं नकर्मस्वनुषज्जते | सुसमो यः फलत्यागी सोऽसंसक्त इति स्मृतः || ६ || नैष्कर्म्य सर्वकर्मत्यागम् | फलमनुलक्ष्य सज्जते अभिनिविशते | सुसमः सिद्ध्यसिद्ध्योरिति शेषः || ६ || आत्मतत्त्वैकनिष्ठस्य हर्षामर्षवशं मनः | यस्य नायत्यसक्तोऽसौ जीवन्मुक्तः स कथ्यते || ७ || सर्वकर्मफलादीनां मनसैव न कर्मणा | निपुणं यः परित्यागी सोऽसंसक्त इति स्मृतः || ८ || लोकसंग्रहस्यावश्यकत्वद्योतनाय न कर्मणेति || ८ || असंसङ्गेन सकलाश्चेष्टा नाना विजृम्भिताः | चिकित्सिता भवन्तीह श्रेयः संपादयन्ति च || ९ || त्रीन्प्रश्नान्समाधाय चतुर्थप्रश्नं समाधत्ते - असंसङ्गेनेति | चेष्टा दुश्चेष्टाः नानाविधैः फलरागैर्विजृम्भिताः | श्रवणादिचेष्टाश्च निर्विघ्नतया श्रेयः संपादयन्ति || ९ || संसक्तिवशतः सर्वे वितता दुःखराशयः | प्रयान्ति शतशाखत्वं श्वभ्रकण्टकवृक्षवत् || १० || इदानीं संसक्तिफलानि प्रपञ्चयति - संसक्तिवशत इत्यादिना || १० || रज्जुकृष्टघनघ्राणो यद्गत्या पथि गर्दभः | भारं वहति भीतात्मा तत्संसक्तिविजृम्भितम् || ११ || गर्दभानामपि नासारज्जुर्देशभेदे प्रसिद्धा | ग्राम्यपशुजन्ममात्रोपलक्षणमेतत् | एवमग्रेऽपि | संसक्तेर्विजृम्भितं फलविस्तारः || ११ ||
410 SK शीतवातातपक्लेशमेकदेशनिषण्णया | तरुर्वहति यत्तन्वा तत्संसक्तिविजृम्भितम् || १२ || एकदेशे निषण्णया तन्वा स्थावरदेहेन वहति | अनुभवतीति यावत् || १२ || धराविवरनिर्मग्नो यत्कीटः पीडिताङ्गकः | क्षिणोति विकलः कालं तत्संसक्तिविजृम्भितम् || १३ || क्षुत्क्षामकुक्षिः क्षपयत्यायुर्व्याघातभीरुधिः | पक्षी वृक्षशिखाशायी तत्संसक्तिविजृम्भितम् || १४ || व्याघातः शरपाषाणमृद्गुटिकाद्यभिघातस्तस्मात्प्रतिक्षणं भीरुर्भयवती धीर्यस्य || १४ || दूर्वाङ्कुरतृणाहारः किरातशरपीडया | जहाति यन्मृगो देहं तत्संसक्तिविजृम्भितम् || १५ || कृमिकीटत्वमायान्ति जायमानाः पुनः पुनः | यदिमा जनता जीर्णास्तत्संसक्तिविजृम्भितम् || १६ || जनताः पुण्यपापाधिकारिजनसमूहाः || १६ || उत्पत्त्योत्पत्त्य लीयन्ते तरङ्गिणि तरङ्गवत् | भूतानि यदनन्तानि तत्संसक्तिविजृम्भितम् || १७ || तरङ्गिणि तरङ्गवति जलाशये तरङ्गवत् || १७ || वीरुत्तृणदशां याता म्रियन्ते यत्पुनःपुनः | नरा विगतसंचारास्तत्संसक्तिविजृम्भितम् || १८ || वीरुत् लता || १८ || रसातलरसायोगात्तृणगुल्मलतादयः | जनयन्ति यदाकारं तत्संसक्तिविजृम्भितम् || १९ || रसाया भूमेस्तले निपतितस्य रसस्य जलस्य आयोगादुपयोगान्मूलैः पानात् | जनयन्तीति यत्तदिति संबन्धः || १९ || स्वानर्थान्तरसंकाशपदार्थशतसंकुला | यत्संसारनदी मत्ता तत्संसक्तिविजृम्भितम् || २० || स्वस्याः अनर्थान्तराण्यनर्थादनर्थान्तराण्यनर्थपरंपरास्तत्संकाशैर्विच्छेदभ् रान्तिनिपातादिविक्षेपसहस्रहेतुभिर्बाह्याभ्यन्तरपदार्थशतैः संकुला | मत्ता प्रवृद्धा || २० || संसक्तिर्द्विविधा प्रोक्ता वन्द्या वन्ध्या च राघव | वन्ध्या सर्वत्र मूढानां वन्द्या तत्त्वविदां निजा || २१ || वन्द्या प्रशस्या | वन्ध्या पुरुषार्थफलशून्या || २१ || आत्मतत्त्वावबोधेन हीना देहादिवस्तुजा | भूयः संसारसक्तिर्या दृढा वन्ध्येति कथ्यते || २२ || या दृढा संसारे सक्तिः सा वन्ध्या || २२ ||
411 SK आत्मतत्त्वावबोधेन सत्यभूतविवेकजा | वन्द्या हि कथ्यते सक्तिर्भूयः संसारवर्जिता || २३ || शङ्खचक्रगदाहस्तो देवो विविधयेहया | वन्द्यसंसक्तिवशतः परिपाति जगत्त्रयम् || २४ || वन्द्यसंसक्तेर्जीवन्मुक्तव्यवहारादिसर्वोत्कर्स्ऽनिर्वाहकत्वं प्रपञ्चयति - anāratanirālambaṃ vyoma vartmani pānthatām | vandyasaṃsaktivaśataḥ karoti raviranvaham || 25 || anārataṃ saṃtatam | raviḥ pānthatāṃ karoti | saṃcaratīti yāvat || 25 || mahākalpasamādhānacirakalpitakalpanam | vandyasaṃsaktivaśato brāhmaṃ sphurati vai vapuḥ || 26 || mahākalpaḥ prākṛtapralayastatra samādhānaṃ videhakaivalyaviśrāntistadartha ciraṃ dviparārdhakālaṃ kalpitāḥ sargādikalpanā yena | brāhmaṃ hairaṇyagarbhaṃ vapuḥ sphurati vyavaharati || 26 || līlayā lalanālānalīnaṃ bhūtivibhūṣitam | vandyasaṃsaktivaśataḥ śarīraṃ śāṅkaraṃ sthitam || 27 || lalanā gaurī tallakṣaṇe ālāne bandhanastambhe līlayaiva līnaṃ saktam || 27 || vijñānagatayaḥ siddhā lokapālāstathetare | vandyasaṃsaktivaśatastiṣṭhanti jagato'ṅgaṇe || 28 || vijñāne brahmatattvabodhe gatirdṛḍhapratiṣṭhā yeṣām || 28 || dhatte śārirayantraughamanyā bhuvanasaṃtatiḥ | vandyasaṃsaktivaśato jarāmṛtivivarjitam || 29 || lokatrayādanyā | bhuvanasaṃtatipadena maharjanastapaḥsatyādilokasthāstattvavido lakṣaṇayocyante || 29 || manaḥ patati bhogeṣu gṛdhro māṃsalaveṣviva | vandyasaṃsaktivaśato vyarthayā ramyaśaṅkayā || 30 || vandhyasaṃsaktervandhyātvamupapādayati - mana iti || 30 || saṃsaktivaśato vāti vāyurbhuvanakoṭare | pañcabhūtāni tiṣṭhanti vahatīryaṃ jagatsthitiḥ || 31 || muktāmuktasādhāraṇaṃ vyavahāramātraṃ saṃsaktinirvāhyamiti prapañcayan darśayati - saṃsaktivaśata ityādinā || 31 || divi devā bhuvi narāḥ pātāle bhogino'surāḥ | brahmāṇḍodumbaraphale sphuranmaśakavatsthitāḥ || 32 ||
412 SK जायन्ते च म्रियन्ते च निपतन्त्यत्पतन्ति च | भूतानि यदनन्तानि तरङ्गिणि तरङ्गवत् || ३३ || उत्पत्त्योत्पत्त्य लीयन्ते तत्संसक्तिविजृम्भितम् | भूतानि विरसं भूयो निर्झराम्बुकणा इव || ३४ || विरसं यथा स्यात्तथा उत्पत्त्योत्पत्त्य || ३४ || परस्परनिगीर्णाङ्गा जनता जाड्यजर्जरा | संभ्रान्ता प्रभ्रमत्यङ्ग शीर्णपर्णमिवाम्बरे || ३५ || मात्स्यन्यायेन परस्परनिगीर्णाङ्गा || ३५ || नक्षत्रचक्रं गगने द्रुमे मशकसंततिः | स्फुरत्यावर्तवृत्त्यैव पातालेऽङ्ग जलौघवत् || ३६ || मशकसंततिरिवेति शेषः | अङ्गेत्यामन्त्रणे || ३६ || पातोत्पातदशाजीर्णं कालबालककन्दुकम् | अद्यापि न जहातीन्दुर्जलमामलिनं वपुः || ३७ || पातोत्पातौ उदयास्तमयौ वृद्धिक्षयौ पतनोत्पतने च सदैव तद्दशया जीर्णं शिथिलं अत-एव कालरूपबालकस्य कन्दुकभूतं जलं जलमयं लडयोरभेदाज्जडं च आमलिनं कलङ्कम्लानं चेति बहुदोषत्वाद्धातुं योग्यमपि वपुः संसक्तिवशादेवाद्यापि न जहाति || ३७ || नानापारयुगावर्तदुःखालोकनकर्कशम् | न लुनाति मनःखण्डं दुःखिगीर्वाणमण्डलम् || ३८ || नानाविधानामपाराणां युगावर्तदुःखानामालोकनेन पुनःपुनरनुभवेन कर्कशं कठोरं मनोलक्षणं खण्डकं छेदनचिकित्स्यं व्रणविशेषं तद्दुःखेन सदा दुःख्यपि गीर्वाणमण्डलमिन्द्रादिदेवसमूहः संसक्तिवशादेव न लुनाति च्छेदनेन न चिकित्सते || ३८ || वासनामात्रवशतः परे व्योमनि केनचित् | इदमारचितं चित्रं विचित्रं पश्य राघव || ३९ || संसक्तिश्च विवेकमात्रजन्यबोधेनोच्छेत्तुं शक्येति दर्शयितुं तद्विषयस्य जगतो वासनामात्रकल्पितत्वमाह - वासनेति || ३९ || मनःसङ्गैकरङ्गेण शून्ये व्योम्नि जगन्मयम् | यदिदं रचितं चित्रं तत्सत्यं न कदाचन || ४० || मनसः सङ्गः संसक्तिस्तल्लक्षणेनैकेनैव रङ्गेण रञ्जकद्रव्येण || ४० || संसक्तमनसामस्मिन्संसारे व्यवहारिणाम् | अत्ति तृष्णा शरीराणि तृणान्यग्निशिखा यथा || ४१ || तृष्णा शरीराण्यत्ति भक्षयति || ४१ ||
413 SK परिसक्तमतेर्देहान्सिकताः पत्युरम्भसाम् | कः शक्तः परिसंख्यातुं त्रसरेणुगणं यथा || ४२ || संसक्तिदोषात्प्राप्तानां तृष्णया भक्षितानां देहानामानन्त्यमाह - परिसक्तेति | परितो विषयेषु सक्तमतेर्जीवस्य | अम्भसां पत्युः समुद्रस्य सिकताः परिसंख्यातुं गणयितुम् || ४२ || मुक्तालताया गङ्गाया मेरोरापादमस्तकम् | तरङ्गमुक्ता गण्यन्ते न देहाः सक्तचेतसाम् || ४३ || मेरोरापादमस्तकं लम्बिन्या अत-एव मुक्तालतात्वेनोत्प्रेक्ष्याया गङ्गायास्तरङ्गलक्षणा मुक्ता गण्यन्ते कदाचिद्गणयितुं शक्यन्ते सक्तचेतसां देहास्तु नेत्यर्थः || ४३ || संसक्तमनसामेता रम्यान्तःपुरपङ्क्तयः | रचिता रौरवा वीचिकालसूत्रादिनामिकाः || ४४ || अग्निशस्त्रादिप्रदीप्तत्वाद्गम्याः यातनाख्यनायिकाः संभोगस्थानत्वादन्तःपुरपङ्क्तयो रचिताः कर्मशिल्पिनेत्यर्थः || ४४ || सक्तचित्तं जनं दुःखशुष्कमिन्धनसंचयम् | ज्वलतां नरकाग्नीनां विद्धि तेन ज्वलन्ति ते || ४५ || दुःखजालमिदं नाम यत्किंचिज्जगतीगतम् | संसक्तमनसामर्थे तत्सर्वं परिकल्पितम् || ४६ || संसक्तचित्तमायान्ति सर्वा दुःखपरम्पराः | जलकल्लोलवलिता महानद्य इवाम्बुधिम् || ४७ || संसक्तचित्तं प्रति आयान्ति || ४७ || मनःसंसर्गरूपिण्या भारभूतशरीरया | क्षयोदयदशार्थिन्या सर्वं ततमविद्यया || ४८ || संसर्गः संसक्तिस्तद्विषयः अत-एव स्वयं शिरसि गृहीतः शिलादिभार इव अवश्यवोढव्यत्वेन भारभूतं शरीरं यया | क्षयो मरणं उदयो जन्म तदुभयदुर्दशां जीवस्य प्रार्थयन्त्येव स्थितया अविद्यया सर्वं दुःखजालं ततमित्यर्थः || ४८ || असंसङ्गेन भोगानां सर्वा राम विभूतयः | परं विस्तारमायान्ति प्रावृषीव महापगाः || ४९ || संसक्तित्यागस्तु सर्वसुखावह इत्याह - असंसङ्गेनेत्यादिना || ४९ || अन्तःसंसङ्गमङ्गानामङ्गारं विद्धि राघव | अनन्तःसङ्गमङ्गानां विद्धि राम रसायनम् || ५० || अनन्तःसङ्गमन्तःसङ्गपरित्यागम् || ५० ||
414 SK संसङ्गेनान्तरस्थेन दह्यते प्रकृतिः स्वयम् | स्वकलोत्थे नैरकाङ्क्षी पावकेन यथौषधिः || ५१ || एरा एरकास्तृणविशेषास्तानवलम्बनाय काङ्क्षते इति एरकाङ्क्षी | कर्मण्यण् | ओषधिर्लता यथा स्वं कलयन्ति मिश्रयन्ति यानि तृणानि तदुत्थेन पावकेन दह्यते तथा प्रकृतिकार्यदेहादिसंसङ्गात्प्रकृतिभूतः स्वयं जीवोऽपि दह्यत इत्यर्थः || ५१ || सर्वत्रासक्तमाशान्तमनन्तमिव संस्थितम् | असत्कल्पं सदाभासं सुखायैव मनो भवेत् || ५२ | असक्तं मनः सर्वत्र सुखायैव | अनन्तमाकाशमिव संस्थितम् || ५२ || विद्यादृशि प्रोदयमागतेन क्षयं त्वविद्याविषये गतेन | सर्वत्र संसक्तिविवर्जितेन स्वचेतसा तिष्ठति यः स मुक्तः || ५३ || असत्कल्पतां सदाभासतां च विषयविभागेन विवृण्वन्नुपसंरति - विद्यादृशीति | प्रकृष्टमुदयं सूर्यादिवदविर्भावम् || ५३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सङ्गविचारयोगोपदेशो नामाष्टषष्टितमः सर्गः || ६८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे सङ्गविचारयोगोपदेशो नामाष्टषष्टितमः सर्गः || ६८ || एकोनसप्ततितमः सर्गः ६९ श्रीवसिष्ठ उवाच | सर्वदा सर्वसंस्थेन सर्वेण सह तिष्ठता | सर्वकर्मरतेनापि मनः कार्यं विजानता || १ || मनः सर्वार्थसंसक्तित्यागाच्चिन्मात्रसुस्थिरम् | चिन्मात्रशेषं येन स्यात्स क्रमोऽत्र निगद्यते || १ || विजानता विवेकिना सर्वदा तत्तत्कालोचितसर्वव्यवहारसंस्थेन तत्तद्व्यवहारोचितेष्टमित्रभृत्यपुत्रदारादिना सर्वेण सह तिष्ठता अनिषिद्धलौकिकशास्त्रीयसर्वकर्मरतेनापि मनो वक्ष्यमाणलक्षणं कार्यमित्यर्थः | अथवा एकैककालदेशमित्रभृत्यादिसाह्येन कतिपयकर्मरतत्वापादकपरिच्छिन्नसंसक्तिनिवारणाय प्रथमं सर्वदेशकालादिसर्वोपकरणसंपत्त्या सर्वजगद्व्यवहारकर्मरतेनापि स्वेन भूत्वा पश्चाद्वक्ष्यमाणप्रकारं मनः कार्यमित्यर्थः || १ ||
415 SK न सक्तमिह चेष्टासु न चिन्तासु न वस्तुषु | नाकाशे नाप्यधो नाग्रे न दिक्षु न लतासु च || २ || चेष्टादिकालकलनान्तेषु मनः सक्तं न कार्यमिति संबन्धः | साध्यविषयासु चेष्टासु | अतीतविषयासु चिन्तासु | वर्तमानेषु वस्तुषु | अग्रे मध्ये | लतासु दिक्शाखाप्रायासु विदिक्षु || २ || न बहिर्विपुलाभोगे न चैवेन्द्रियवृत्तिषु | नाभ्यन्तरे न च प्राणे न मूर्धनि न तालुनि || ३ || बहिराधिभौतिके | विपुले३ आभुज्यत इत्याभोगे कलत्रभृत्यादिविषये | तद्भोगलक्षणास्विन्द्रियवृत्तिषु | आभ्यन्तरे आध्यात्मिके | प्राणमूर्धादीनि योगशास्त्रोक्तानि तत्तत्काम्यसिद्ध्यनुकूलानि धारणास्थानानि तेष्वपि || ३ || न भ्रूमध्ये न नासान्ते न मुखे न च तारके | नान्धकारे न चाभासे न चास्मिन्हृदयाम्बरे || ४ || तारके दक्षिणाक्षिकनीनिकायाम् || ४ || न जाग्रति न च स्वप्ने न सुषुप्ते न निर्मले | नासिते न च वा पीतरक्तादौ शबले न च || ५ || निर्मले शुद्धसत्त्वगुणे | असिते तमसि | पीतरक्तादौ रजसि | शबले गुणसमाहारे || ५ || न चले न स्थिरे नादौ न मध्ये नेतरत्र च | न दूरे नान्तिके नाग्रे न पदार्थे न चात्मनि || ६ || चले कार्यवर्गे | स्थिरे कारणे अव्यक्ते | आदिमध्येतराः सर्गादिकालास्तेषु | दूरादिषु दिक्परिच्छेदेषु | पदार्थे नामरूपसमाहारे | आत्मनि जीवे || ६ || न शब्दस्पर्शरूपेषु न मोहानन्दवृत्तिषु | न गमागमचेष्टासु न कालकलनासु च || ७ || रूपान्तग्रहणं रसगन्धयोरप्युपलक्षणम् | मोहो विषयाभिलाषपारवश्यम् | आनन्दवृत्तयोविषयोपभोगफलानि तेष्वपि | गमागमचेष्टासु खेचरत्वादिसिद्धिषु | कालकलनासु अतीतानागतज्ञताचिरजीवनादिसिद्धिषु || ७ || केवलं चिति विश्रम्य किंचिच्चेत्यावलम्बिनि | सर्वत्र नीरसमिव तिष्ठत्वात्मरसं मनः || ८ ||
416 SK किंचिच्चेत्यं निश्चला बुद्धिस्तदवलम्बिनि तत्साक्षिणि | आत्मरसं भूमानन्दप्रवणमत-एव सर्वत्र नीरसम् || रसोऽप्यस्य परं दृष्ट्वा निवर्तते इति भगवद्वचनात् | इवकारस्तादृशमनःस्थितेरपि मिथ्यात्वद्योतनार्थः || ८ || तत्रस्थो विगतासङ्गो जीवोऽजीवत्वमागतः | व्यवहारमिमं सर्वं मा करोतु करोतु वा || ९ || अजीवत्वं ब्रह्मताम् || ९ || अकुर्वन्नपि कुर्वाणो जीवः स्वात्मरतिः क्रियाः | क्रियाफलैर्न संबन्धमायाति खमिवाम्बुदैः || १० || स्वात्मरतिः स्वात्मैकप्रियः || १० || अथवा तमपि त्यक्त्वा चेत्यांशं शान्तचिद्धनः | जीवस्तिष्ठतु संशान्तो ज्वलन्मणिरिवात्मनि || ११ || चेत्याशं प्रागुक्तं बुद्धिसाक्षित्वम् || ११ || निर्वाणमात्मनि गतः सततोदितात्मा जीवोऽरुचिर्व्यवहरन्नपि रामभद्र | नो सङ्गमेति गतसङ्गतया फलेन कर्मोद्भवेन सहतीव च देहभारम् || १२ || अरुचिर्व्यवहारफलेच्छाशून्यो जीवो गतसंगतया सङ्गनिमित्ताविद्याकामकर्मवासनाशून्यतया हेतुना कर्मोद्भवेन फलेन सङ्गं नो एति किंतु यावत्प्रारब्धक्षयं देहभारमात्रं सहतीव | तस्य तावदेव चिरं यावन्न विमोक्ष्ये इत्यादिश्रुतेरिति भावः || १२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे शान्तिसमायातयोगोपदेशो नामैकोनसप्ततितमः सर्गः || ६९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे शान्तिसमायातयोगोपदेशो नामैकोनसप्ततितमः सर्गः || ६९ || सप्ततितमः सर्गः ७० श्रीवसिष्ठ उवाच | असंसङ्गसुखाभ्याससंस्थितैर्विततात्मभिः | व्यवहारिभिरप्यन्तर्वीतशोकभयैः स्थितम् || १ || असङ्गसुखविश्रान्तो व्यवहारसमुद्भवैः | यथा न दूयते दोषैस्तथा युक्त्योपपाद्यते || १ || असंसङ्गसुखस्याभ्यासो निरन्तरमास्वादनं तत्र स्थितैर्विश्रान्तैः || १ || प्रक्षुब्धाक्षुब्धदेहस्याविसंवादेन संविदः | अन्तःपूर्णस्य वदने श्रीरिन्दोरिव लक्ष्यते || २ ||
417 SK तेषां तथा स्थितिः केन लिङ्गेन ज्ञाता तदाह - प्रक्षुब्धेति | यतः प्रक्षोभनिमित्तैः पुत्रधननाशबन्धनापमानादिभिः प्रक्षुब्धदेहवल्लक्ष्यमाणस्यापि वस्तुतस्तद्रहितस्य संविदश्चित्तवृत्तेः | परमार्थसुखे अविसंवादेन अविप्रलम्भेन हेतुना अन्तःपूर्णस्य | इन्दुपक्षे ज्योतिश्चक्ररथादिगत्या प्रक्षुब्धदेहस्यापि स्वासने स्थिरत्वादक्षुब्धदेहस्य | संवेदयतीति संवित्सूर्यस्तस्य अविसंवादेन पौर्णमास्यामत्यन्तसांमुख्यादवैषम्येणान्तरमृतैः पूर्णस्य वदनसदृशे बिम्बे || २ || चेत्यहीनं चिदालम्बं मनो यस्य गतज्वरम् | तेनाम्बु कतकेनेव जनता संप्रसीदति || ३ || यदनुग्रहादन्येऽपि क्षोभमालिन्यान्मुच्यन्ते तस्य निर्विक्षोभत्वं किं वाच्यमित्याशयेनाह - चेत्येति || ३ || नित्यमात्मदृशा लीनो ज्ञः स्वस्थश्चञ्चलोऽपि सन् | क्षुब्धो दृश्यत एवासौ प्रतिबिम्बार्कवन्मुधा || ४ || आत्मारामा महात्मानः प्रबुद्धः परमोदयाः | बहिः पिच्छाग्रतरला अन्तर्मेरुरिवाचलाः || ५ || चित्तमात्मत्वमायातं सुखदुःखानुरञ्जनम् | नोपैति रङ्गसंयुक्तो मसृणः स्फटिको यथा || ६ || विक्षोभदर्शनेऽपि तदभावे दृष्टान्तमाह - चित्तमिति | रङ्गो रञ्जकोपाधिर्जपाकुसुमादिः | मसृणः स्निग्धः || ६ || संसारदृष्टिरुदितं ज्ञातलोकपरावरम् | न रञ्जयति सच्चित्तं जललेखा यथाम्बुजम् || ७ || उदितं निरतिशयानन्दाभ्युदयं प्राप्तवन्तम् | ज्ञातं लोकानां परं ईश्वरतत्त्वमवरं जीवतत्त्वं च येन || ७ || आत्मध्यानमयोऽध्याने प्रबोधं परमात्मनः | कलनामलनिर्मुक्तः स्वसक्त इति कथ्यते || ८ || यावदयमन्तः स्वसक्तो न भवति तावद्बाह्येषु असंसक्तिर्दुर्लभेत्याशयेन स्वसंसक्तलक्षणमाह - आत्मेति | यदा अयं परमात्मनः प्रबोधं प्राप्य कलनाहेतुभिर्मलैर्निर्मुक्तः सन् अध्यानेऽपि निरतिशयानन्दातमनः स्वतःस्फुरणान्निर्विकल्पसमाधाविव सदैव आत्मध्यानमय इव सुखमग्नो भवति तदा स्वसक्त इति कथ्यत इत्यर्थः || ८ ||
418 SK आत्मारामतया जीवो यात्यसंसङ्गतामिह | आत्मज्ञानेन संसङ्गस्तनुतामेति नान्यथा || ९ || ज्ञानपरिपाकोत्कर्षादात्मसक्त्युत्कर्षक्रमेण संसङ्गः क्षीयत इत्याह - आत्मारामतयेति || ९ || जाग्रत्येव सुषुप्तस्थो जीवो भवति राघव | अस्यां दिशि गतोऽद्वन्द्वो नित्यानस्तमयोदयः || १० || अस्यां उक्तलक्षणायां स्वसंसक्तिदृशि गतः परिणतः | अद्वन्द्वः प्रियाप्रियरहितः || १० || अत्र प्रौढिमुपायातः सूर्यतामेति पावनीम् | परिणामवशादिन्दुरमावास्यार्कतामिव || ११ || प्रौढिं अभ्यसक्रमात्प्ररूढताम् | परिणामः क्रमात्कलापचयस्तद्वशाज्जलमये मण्डले सूर्यप्रतिबिम्बात्मा इन्दुर्यथा अमावास्यायां स्वबिम्बभूतार्कतामेति तद्वदित्यर्थः || ११ || चित्ते चित्तदशाहीने या स्थितिः क्षीणचेतसाम् | सोच्यते शान्तकलना जाग्रत्येव सुषुप्तता || १२ || जाग्रत्येव सुषुप्तस्थ इति यदुक्तं तद्विशदयति - चित्ते इति || १२ || तां सुषुप्तदशामेत्य जीवन्व्यवहरन्नरः | सुखदुःखवरत्राभिर्न कदाचन कृष्यते || १३ || जाग्रत्येव सुषुप्तस्थो यः करोति जगत्क्रियाम् | तं यन्त्रपुत्रकमिव नायाति सुखदुःखदृक् || १४ || निरहंभावसाम्याद्यन्त्रपुत्रको नर्तकप्रतिमा तत्तुल्यदेहम् || १४ || चित्तस्य बाधिका शक्तिर्भावाभावोपतापदा | आत्मतामागते चित्ते तस्य किं बाधते कथम् || १५ || चित्तस्य बाधिका पीडाकरी अहंभावलक्षणैव शक्तिः सा हि अनिष्टानामिष्टानां च भावाभावभ्यामागमापायाभ्यामुपतापदा || १५ || सुषुप्तबुद्धिः कर्माणि पूर्वमेवावहेलया | कुर्वन्न बध्यते जीवो जीवन्मुक्ततया स्थितः || १६ || पूर्वं साधनदशामारभ्यैवावहेलया अभिनिवेशत्यागेन || १६ || सौषुप्तीं वृत्तिमाश्रित्य कुरु मा कुरु वानघ | कर्म प्रकृतिजं पाकवशादुपगतं स्थितम् || १७ || प्रकृतिर्वर्णाश्रमस्वभावस्तज्जं तदुचितं प्रारब्धपाकवशादुपगतं प्राप्तं लोकशास्त्रस्थितम् || १७ || नादानं न परित्यागः कर्मणोऽज्ञाय रोचते | तिष्ठन्त्यवगतात्मानो यथाप्राप्तानुवर्तिनः || १८ ||
419 SK ये त्वाश्रमोचितमपि कर्म त्याज्यएम्वेति मन्यन्ते तान्प्रत्याह - नादानमिति || १८ || कुर्वन्नपि न कर्तासि सुषुप्त्यैकस्थया धिअया | अकर्तापि च कर्तासि यथेच्छसि तथा कुरु || १९ || यदि तत्त्वशो यदि वा अतत्त्वज्ञ इति पूर्वोत्तरवाक्ययोः शेषः || १९ || यथा न किंचित्कलयन्मञ्चके स्पन्दते शिशुः | तथा फलान्यकलयन्कुरु कर्माणि राघव || २० || न किंचित्प्रयोजनं कलयन्संकल्पयन् | सहजानन्दलीलयैव स्पन्दते || २० || अचेत्यचित्पदस्वस्थो [स्वच्छ इति पाठः] जाग्रत्यपि सुषुप्तधीः | यद्यत्करोति लब्धात्मा तस्मिंस्तस्य न कर्तृता || २१ || तच्छब्दो वीप्सितो बोध्यः || २१ || दशामासाद्य सौषुप्तीं स्वचित्ते च विवासनः | अन्तः शीतलतामेति ज्ञो रसेन यथा शशी || २२ || सुषुप्तस्थो महातेजाः पूर्णः पूर्णेन्दुबिम्बवत् | समः सर्वास्ववस्थासु भवत्यद्रिर्यथर्तुषु || २३ || यथा अद्रिः षट्स्वपि ऋतुषु अविकृतत्वात्समस्तद्वत्सर्वासु आपत्संपदवस्थासु समो भवतीत्यर्थः || २३ || सुषुप्तसंस्थो धीरात्मा बहिरायाति लोलताम् | क्रियासु नो भवत्कम्पः प्रस्पन्दित इवाचलः || २४ || धीरात्मा लौकिकवैदिकक्रियासु बहिरेवमेव लोलतामिवायाति नोऽन्तर्भवन् कम्पो यस्य तथाविधो भवति तथा वायुना बहिर्वृक्षतृणादौ प्रस्पन्दितोऽचलः पर्वतस्तद्वदित्यर्थः || २४ || सुषुप्तावस्थितो भूत्वा देहं विगतकल्मषः | पातयाश्वथा वा दीर्घं कालं धारय शैलवत् || २५ || क्रियास्विव तस्य मरणजीवनयोरप्यविकारिता तुल्येत्याशयेनाह - सुषुप्तेति || २५ || एषैव राम सौषुप्ती स्थितिरभ्यासयोगतः | प्रौढा सती तुर्यमिति कथिता तत्त्वकोविदैः || २६ || ननु विदुषां सदैव तुर्यस्थितिर्युक्ता न सौषुप्ते सेति शङ्कामालक्ष्याह - एषैवेति || २६ || आनन्दमय एवान्तः प्रक्षीणसकलामयः | अत्यन्तास्तं गतमना भवति ज्ञो महोदयः || २७ ||
420 SK तर्हि सौषुप्ती स्थितिरित्युक्तेः कोऽभिप्रायस्तमाह - आनन्दमय इति | निर्दुःखत्वे सति निरतिशयसुखसमृद्धता सौषुप्ते आनन्द *? ये सत्त्वात्तद्विवक्षया तथोक्तिरित्यर्थः || २७ || तत्रस्थो ज्ञः प्रमुदितः परमानन्दघूर्णितः | लीलामिवेमां रचनां सदा समनुपश्यति || २८ || तत्स्थस्य कीदृशं जगद्दर्शनं तदाह - तत्रेति || २८ || वीतशोकभयायासो गतसंसारसंभ्रमः | तुर्यावस्थामुपारूढो भूयः पतति नात्मवान् || २९ || ननु तां लीलां पश्यंस्तत्र स पुनः पतेदपि नेत्याह - वीतेति || २९ || प्राप्य स्वां पदवीं पुण्यां यथेदं भ्रमितं जगत् | शैलसंस्थ इवाधःस्थं हसन्पश्यति धीरधीः || ३० || कुतो न पतति तत्राह - प्राप्येति | यतो दोषदृष्ट्या हसन्पश्यति न पुरुषार्थबुद्ध्येत्यर्थः || ३० || अस्यां तु तुर्यावस्थायां स्थितिं प्राप्याविनाशिनीम् | आनन्दैकान्तलीनत्वादनानन्दपदं गतः || ३१ || अनानन्दमहानन्दकलातीतस्ततोऽपि हि | मुक्त इत्युच्यते योगी तुर्यातीतं पदं गतः || ३२ || इत्थं यावज्जीवं तस्य तुरीयस्थितिमुक्त्वान्ते विदेहस्य तुर्यातीतस्थितिमाह - अनानन्देति | अनानन्दमवस्थात्रयपदं तदपेक्ष्य तुर्यपदं महानन्दमिति तज्जिवन्मुक्तस्य सदा भवति | विदेहमुक्तौ तु अनानन्दस्मरणायोगात्तदपेक्षया महत्त्वकलनायोगात्तदतीतस्ततोऽपि मुक्तस्तुर्यातीतपदं गत इत्युच्यत इत्यर्थः || ३२ || परिगलितसमस्तजन्मपाशः सकलविलीनतमोमयाभिमानः | परमरसमयीं प्रयाति सत्तां जलगतसैन्धवखण्डवन्महात्मा || ३३ || तामेव स्थितिं वर्णयन्नुपसंहरति - परिगलितेति | यतः सकला विलीनास्तमोमया अभिमाना यस्य अत-एव परिगलितसमस्तजन्महेतुकामकर्मवासनापाशो महात्मा जलगतसैन्धवखण्डवत्खिल्यभावविलयात्परमो रस्यत इति रस आनन्दो रसनैकवेद्यांशश्च तन्मयीं सत्तां परमार्थस्थितिं प्रयातीत्यर्थः || ३३ ||
421 SK इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे असंसङ्गविकल्पोपदेशो नाम सप्ततितमः सर्गः || ७० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे असंसङ्गसविकल्पोपदेशो नाम सप्ततितमः सर्गः || ७० || एकसप्ततितमः सर्गः ७१ श्रीवसिष्ठ उवाच | यावत्तुर्यपरामर्शस्तावत्केवलतापदम् | जीवन्मुक्तस्य विषयो वचसां च रघूद्वह || १ || परस्याव्यवहार्यत्वात्तुर्यमत्रोपवर्ण्यते | शरीरादिनिरासेन यथा मोहाज्जनिक्रमः || १ || तुर्यातीतपदस्य वागादिव्यवहाराविषयत्वं दर्शयितुं भूमिकां रचयति - cinmātrapariśeṣāvasthitilakṣaṇaturyasya yāvatparāmarśaḥ sākṣādanubhavastāvanmātraṃ kevalatāpadaṃ jīvanmuktasya śrutyādivacasāṃ ca viṣayaḥ | vākyajanyākhaṇḍākāravṛttestāvatyeva paryavasānāditi bhāvaḥ || 1 || ata ūrdhvamadehānāṃ muktānāṃ vacasāṃ tathā | viṣayo na mahābāho purus.āṇāmivāmbaram || 2 || tata ūrdhvaṃ adehānāṃ muktānāṃ prāpyamapi turyātītapadaṃ teṣāṃ vedavacasāṃ ca viṣayo na tadviṣayatāpādanahetormanasaḥ kṣayāt | yathā vāyugamyamambaramākāśaṃ puruṣāṇāṃ manuṣyāṇāṃ viṣayo na tadvadityarthaḥ || 2 || sā hi viśrāntipadavī dūrebhyo'pi davīyasī | gamyā videhamuktānāṃ khalekheva nabhasvatām || 3 || gamyā prāpyā | khalekhā vyomavīthī | nabhasvatāṃ vāyunāmiva || 3 || suṣuptāvasthayā kaṃcitkālaṃ bhuktvā jagatsthitim | turyatāmeti tadanu paramānandaghūrṇitaḥ || 4 || ataḥ sadehamuktānāṃ pañcamabhūmikākrameṇa saptamāntabhūmikāsveva sthitirityāha - suṣupteti || 4 || turyātītadaśāṃ tajjñā yathā yāntyātmakovidāḥ | tathādhigaccha nirdvandvaṃ padaṃ raghukulodvaha || 5 || jñānadārḍhyaṃ tu turyātītapadaviśrāntiparyantaṃ tvayā kāryaṃ nāntarālikabhūmikāmātraparyavasitamityāha - turyātīteti || 5 || suṣuptāvasthayā rāma bhava saṃvyavahāravān | citrendoriva te na staḥ kṣayodvegāvarindama || 6 ||
422 SK तत्र प्रथमं पञ्चमभूमिकैव शास्त्रीयव्यवहारनिर्वाहार्थमभ्यसनीयेत्याशयेनाह - सुषुप्तावस्थयेति | क्षयो मृत्युः कलापचयश्च | उद्वेगो भयं राहूपरोधश्च || ६ || शरीरसंनिवेशस्य क्षये स्थैर्येच संविदः | मा गृहाण भ्रमो ह्येष शरीरमिति जृम्भते || ७ || ननु देहनाशे संविन्नाशस्याप्यवर्जनात्कथं संविदात्मनो मे न क्षयस्तत्राह - शरीरेति | संविदः क्षयं स्थैर्यं चेति शेषः || ७ || देहनाशेन कोऽर्थस्ते कोऽर्थस्ते देहसंस्थया | भव त्वं प्रकृतारम्भस्तिष्ठत्वेष यथास्थितम् || ८ || यदि देह इति भ्रमस्तर्हि स एव नश्यतां तत्राह - देहेति | प्रकृते स्वात्मबोधस्थैर्ये आरम्भः प्रयत्नो यस्य तथाविधो भव | एष देहः || ८ || ज्ञातवानसि तत्सत्यं बुद्धवानसि तत्पदम् | प्राप्तवानसि रूपं स्वं विशोको भव भूतये || ९ || स्वात्मबोधे संदेहं वारयति - ज्ञातवानसीति | सत्यं जगदधिष्ठानतत्त्वम् | पदं अवस्थात्रयाधिष्ठानम् | स्वं रूपं अखण्डवाक्यार्थस्वरूपम् || ९ || ईप्सितानीप्सितं त्यक्त्वा शीतलालोकशोभया | अन्धकारात्तथाम्भोदान्मुक्तं खमिव शोभते [शोभसे इति पाठश्चेदनुगुणः स्यात्] || १० || खं अर्थाच्छरद्राकाकाशम् || १० || मनस्तवात्मसंपन्नं नाधः समनुधावति | योगमन्त्रतपःसिद्धः पुरुषः खादिवावनिम् || ११ || अधः अर्वाक्तनविषयसुखे | सिद्धः खेचरसिद्धिं प्राप्तः खात् खं विहाय यथा अवनिं न समनुधावति तद्वत् || ११ || इह शुद्धा चिदेवास्ति पारावारविवर्जिता | अयं सोऽहमिदं तन्म इति ते मास्तु विभ्रमः || १२ || पारावारे परार्वाचीतीरे | परिच्छेद इति यावत् || १२ || आत्मेति व्यवहारार्थमभिधा कल्पिता विभोः | नामरूपादिभेदस्तु दूरमस्मादलं गतः || १३ || यदि शुद्धा चिदेकैवास्ति तर्ह्यात्मेति तद्व्यतिरिक्ता अभिधा कथं तत्राह - आत्मेति || १३ || जलमेव यथाम्भोधिर्न तरङ्गादिकं पृथक् | आत्मैवेदं तथा सर्वं न भूतोयादिकं पृथक् || १४ ||
423 SK यथा समस्ताज्जलधौ जलादन्यन्न लभ्यते | तथैव जगतः स्फारादात्मनोऽन्यन्न लभ्यते || १५ || समस्तात्पूर्णाज्जलात् | जगतः स्फाराज्जगदात्मना विस्तृतात् || १५ || अयं सोऽहमिति प्राज्ञ क्व करोषि व्यवस्थितिम् | किं तत्त्वं किं च वा ते स्यात्किं तत्त्वं किं च वा न ते || १६ || देहादिभावेषु यत्त्वं यच्च ते तत्किम् | यत्र त्वं यच्च वा न ते तत्किम् | अध्यासदृशा कस्यापि त्वदात्मतायास्त्वत्संसृष्टतायाश्चासंभवादधिष्ठानदृशा सर्वत्रैव तत्संभवाच्चेति भावः || १६ || न द्वित्वमस्ति नो देहाः संबन्धो न च तैः स्थितः | संभाव्यते कलङ्को वा भानोरिव तमःपटैः || १७ || परमार्थतस्तु द्वित्वमेव नास्तीति तदधीना देहतत्संबन्धतदुपादानकलङ्कादिसंभावना दूरनिरस्तेत्याह - नेति || १७ || द्वित्वमभ्युपगम्यापि कथयामि तवारिहन् | देहादिभिः सद्भिरपि न संबन्धो विभोर्भवेत् || १८ || अभ्युपगतेऽपि द्वैते देहादिसत्यत्वे च चिदात्मनस्तत्संस्पर्शो न संभवत्येवेति प्रौढिमादर्शयन्नाह - द्वित्वमित्यादिना || १८ || छायातपप्रसरयोः प्रकाशतमसोर्यथा | न संभवति संबन्धस्तथा वै देहदेहिनोः || १९ || आद्य एकप्रदेशप्रसरणलक्षणे संसर्गे द्वितीयस्तादात्म्ये दृष्टान्तः || १९ || यथा शीतोष्णयोर्नित्यं परस्परविरुद्धयोः | न संभवति संबन्धो राम देहात्मनोस्तथा || २० || अविनाभाविनोर्यस्तु संबन्धः कथमेतयोः | जडचेतनयोर्देहदेहिनोरनुभूयते || २१ || मास्तु संयोगस्तादात्म्यं वा समवायस्तु किं न स्यात्तत्राह - अविनाभाविनोरिति | अयुतसिद्धयोरित्यर्थः || २१ || चिन्मात्रस्यात्मनो देहसंबन्ध इति या कथा | सैषा दुरवबोधार्था दावाग्नौ जलधिर्यथा || २२ || या कथा उक्तिः | देहस्य चिदाश्रयत्वे विषयत्वायोगादस्फुरणापत्तेर्विषयत्वे चाश्रयत्वायोगात्समवायद्यसिद्धेर्विषयतासंबन्धस्य च मिथ्यार्थसाधारणस्य सत्यत्वायोगाद्दुरवबोधार्थेत्यर्थः | अग्नौ जलधिरिति कथेति शेषः || २२ ||
424 SK सत्यावलोकनेनैषा मिथ्यादृष्टिर्विनश्यति | अवलोकनया साम्यमातपे जलधिर्यथा || २३ || तर्ह्यस्त्वध्यस्त एव संबन्धस्तत्राप्याह - सत्येति | देहात्मसंबन्धाध्यासस्य आत्माधिष्ठानकत्वे आत्मदर्शनादेव बाधः स्यादित्यर्थः | साम्यं अध्यस्तवैषम्यं बाधं यथा यातीति शेषः || २३ || चिदात्मा निर्मलो नित्यः स्वावभासो निरामयः | देहस्त्वनित्यो मलवांस्तेन संबध्यते कथम् || २४ || शुद्धमपापविद्धम् इत्यादिश्रुतिसिद्धस्वाभाविकशुद्ध्या विरोधादप्यात्मा नाशुद्धं देहादि स्पृशतीत्याह - चिदात्मेति || २४ || स्पन्दमायाति वातेन भूतैर्वा पीवरीकृतः | देहस्तेन न संबन्धो मनागेव सहात्मना || २५ || नन्वात्मसंबन्धाभावे देहस्य स्पन्दादिः कथं मृतदेहे तददर्शनादिति चेत्तत्राह - स्पन्दमिति | वातेन प्राणवायुना | भूतैरन्नादिभिः प्राणावष्टम्भहेतुभिः पीवरीकृत उपचितः | आहितबल इति यावत् | तथाच स्पन्दे प्राणो बलं वा हेतुर्नात्मेत्यर्थः | अप्यर्थे एवकारः | न संबन्धो देहस्य || २५ || सिद्धे द्वित्वेऽपि देहस्य न संबन्धस्य संभवः | द्वित्वासिद्धौ तु सुमते कलनैवेदृशी कुतः || २६ || एवं द्वैतसत्यत्वाभ्युपगमे यदा न संबन्धस्तदा किं वक्तव्यं तदनभ्युपगमे इति प्रौढिवादमुपसंहरन्नाह - सिद्धे इति | सिद्धे सत्ये || २६ || इत्येतदेव तत्सत्त्वे तत्रैवान्तःस्थितिं कुरु | न बन्धोऽस्ति न मोक्षोऽस्ति कदाचित्कस्यचित्क्वचित् || २७ ||
425 SK ननु द्वित्वासिद्धिरेव कुत इत्याशङ्क्य संबन्धदूषणार्थं दर्शिता युक्तीस्तत्राप्यतिदिशति - इतीति | तस्य द्वित्वस्य सत्त्वे सत्यत्वे केनचिदाशङ्क्यमाने सति इति प्रागुक्तमेतदेव युक्तिजातमुपन्यसनीयम् | द्वितीयसिद्धौ हि द्वित्वं स्यात् | द्वितीयं चिच्चेत्तत्र भेदकाभावः | जडं चेच्छायातपादिवद्विरोधात्पूर्वसिद्धचिद्विरुद्धं न सिद्ध्यति | चिच्च स्वासंबद्धं जडं साधयतीति कथा दुरवबोधार्था | अध्यस्तं चेत्सत्यचिदवलोकनमात्राद्विनश्येत् | निर्मलासङ्गत्वाद्यात्मस्वभावविरुद्धं च मलिनं जडं असङ्गेन कथं साध्येतेत्यादियुक्तीनामत्रापि साम्यादिति भावः | अतो द्वैतभ्रमं विहाय तत्र अद्वितीयचिन्मात्र एव स्थितिं कुरु | तत्र च बन्धमोक्षादिशङ्कैव नास्तीत्यर्थः || २७ || सर्वमात्ममयं शान्तमित्येवं प्रत्ययं स्फुटम् | सबाह्याभ्यन्तरं राम सर्वत्र दृढतां नय || २८ || कीदृशी सा स्थितिर्या मया कार्या तामाह - सर्वमिति || २८ || सुखी दुःखी विमूढोऽस्मीत्येता दुर्दृष्टयः स्मृताः | आसु चेद्वस्तुबुद्धिस्ते तच्चिरं दुःखमिच्छसि || २९ || सर्वात्मदृष्टिश्च विरुद्धदुर्दृष्टिनिरासे दृढीभवति नान्यथेत्याशयेनाह - सुखीति | तत् तर्हि || २९ || यः क्रमः शैलतृणयोः कौशेयोपलयोस्तथा | साम्यं प्रति स एवोक्तः परमात्मशरीरयोः || ३० ||
426 SK ननु देहदुःखादयोऽपि प्रत्यक्षादिभिः पुरस्कृताः आत्मापि श्रुतियुक्तिभिः पुरस्कृतस्तदनयोस्तुल्यत्वे को विशेषो येनात्मदृष्टिमवलम्ब्य देहादिदृष्टिर्निरसनीयेत्युच्यते तत्राह - य इति | क्रमो विशेषः | यथा चक्षुषा दूराच्छैलतृणयोर्मध्ये महत्त्वात्स्थिरत्वाच्च शैलदृष्टिः सुकरा | चलत्वात्पेलवत्वाच्च तृणदृष्टिर्दुष्करा | यथा वा त्वचा मृदुत्वात्सुखस्पर्शत्वाच्च कौशेयस्पर्श उपादेयः कठोरत्वाद्दुःखदत्वाच्च उपलस्पर्शो हेयस्तथा अपरिच्छिन्नत्वात्सदा स्वप्रकाशत्वादानन्दरूपत्वाच परमातम्दृष्टिः सुकरा उपादेया च | देहाद्यनात्मदृष्टिस्तु पेलवत्वादस्थिरत्वान्मन-आदिसापेक्षत्वाच्च दुष्करा हेया चेति महदन्तरमस्तीति न साम्यमित्यर्थः || ३० || यथा तेजस्तिमिरयोर्न संबन्धो न तुल्यता | अत्यन्तभिन्नयो राम तथैवात्मशरीरयोः || ३१ || विरुद्धत्वादपि संबन्धवत्सादृश्यमपि निरसितुं शक्यमित्याशयेनाह - yathā śītoṣṇayoraikyaṃ kathāsvapi na dṛśyate | jaḍaprakāśayoḥ śleṣo na tathātmaśarīrayoḥ || 32 || virodhādeva tādātmyaśaṅkāyāḥ prasaktireva nāstītyāśayenāha - yatheti | śleṣaḥ saṃyogastasyāpyasaṃbhave aikyaṃ dūranirastamityāśayaḥ || 32 || dehaścalati vātena tenaivāyāti gacchati | śabdaṃ karoti vātena dehanāḍīvilāsinā || 33 || pūrvamātmasaṃbandhābhāve'pi dehaceṣṭādervātena gatārthatoktā atra tu ātmaikyābhāve'pīti na paunaruktyam || 33 || śabdaḥ kacaṭataprāyaḥ sphuratyantaḥ samīraṇaiḥ | yathā prajāyate vaṃśāddeharandhrāttathaiva hi || 34 || deharandhraṃ kaṇṭhastadudgataiḥ prāṇasamīraṇaiḥ kaṇṭhatālvādisthāneṣu jihvādinābhihatya niḥsāryamāṇaiḥ kavargacavargaṭavargādiḥ śabdaḥ sphuratīti pratyakṣasiddhamityarthaḥ | vaṃśātsacchidrakīcakāt || 34 || kanīnikāparispandaścakṣuḥspandasya mārutāt | indriyasphuraṇātsaiva saṃvitkevalamātmanaḥ || 35 ||
427 SK एवं चक्षुरादिसर्वेन्द्रियस्पन्दोऽपि वायुत एव | आत्मनस्तु केवलं संविदेव कृत्यं नान्यदित्याह - कनीनिकेति | विषयप्रदेशे चक्षुःस्पन्दस्य निमित्तभूतः कनीनिकापरिस्पन्दोऽपि मारुतादेव | एवं सर्वेन्द्रियस्फुरणाज्जायमाना सा स्फूर्तिलक्षणा संविदेव केवलमात्मनो नान्यदित्यर्थः || ३५ || आकाशोपलकुड्यादौ सर्वत्रात्मदशा स्थिता | प्रतिबिम्बमिवादर्शे चित्त एवात्र दृश्यते || ३६ || यद्यपि सा संवित्सर्वगता सदातनी च तथापि चित्ततद्वृत्तिष्वेवाभिव्यक्ता नान्यत्रेत्याह - आकाशेति || ३६ || शरीरालयमुत्सृज्य यत्र चित्तविहंगमः | स्ववासनावशाद्याति तत्रैवात्मानुभूयते || ३७ || अत-एव तद्गमनादेवात्मनः परलोकगमनादिव्यवहारोऽपीत्याह - शरीरेति || ३७ || यत्र पुष्पं तत्र गन्धसंविदः संस्थिता यथा | यत्र चित्तं हि तत्रात्मसंविदः संस्थितास्तथा || ३८ || सर्वत्र स्थितमाकाशमादर्शे प्रतिबिम्बति | यथा तथात्मा सर्वत्र स्थितश्चेतसि दृश्यते || ३९ || अपामवनतं स्थानमास्पदं भूतले यथा | अन्तःकरणमेवात्मसंविदामास्पदं तथा || ४० || अवनतं निम्नम् | आत्मसंविदां चित्प्रतिबिम्बानाम् || ४० || सत्यासत्यं जगद्रूपमन्तःकरणबिम्बिता | आत्मसंवित्तनोतीदमालोकमिव सूर्यभा || ४१ || सत्यं व्यावहारिकम् | असत्यं प्रातिभासिकम् | अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति श्रुतेरिति भावः || ४१ || अन्तःकरणमेवातः कारणं भूतसंसृतौ | आत्मा सर्वातिगत्वात्तु कारणं सदकारणम् || ४२ || अन्तःकरणं तत्समष्ट्यात्मा हिरण्यगर्भः | प्रतिबिम्बद्वारा कारणं सदपि स्वतः अकारणम् || ४२ || अविचारणमज्ञानं मौर्ख्यमाहुर्महाधियः | संसारसंसृतौ सारमन्तःकरणकारणम् || ४३ || अन्तःकरणस्य तर्हि किं कारणं तदाह - अविचारणमिति | पर्यायत्रयोपादानं प्रसिद्धिद्योतनार्थम् || ४३ || असम्यक्प्रेक्षणान्मोहाच्चेतःसत्तां गृहीतवत् | संमोहबीजकणिकां तमोऽर्कादिव दृश्यते || ४४ ||
428 SK असम्यक्प्रेक्षणादन्यथा ग्रहणसंस्कारबलान्मोहात् | संमोहानां भ्रमाणां बीजधानाभूताम् | चेतःसत्तां चित्ताकारपरिणामम् | यतः संमोहादर्कात्तम इवात्यन्तासंभावितापि जन्मजरामरणाद्यनर्थपरम्परा दृश्यत इत्यर्थः | अथवा अज्ञानं सर्वैः स्वात्मनि अहमज्ञ इति प्रत्यक्षं दृश्यते | यथा अर्कात्तद्वासि तमो राहुर्दृश्यते तद्वदित्यर्थः || ४४ || यथा भूतात्मतत्त्वैकपरिज्ञानेन राघव | असत्तामेत्यलं चेतो दीपेनेव तमः क्षणात् || ४५ || केन तर्हि चित्तनाशस्तदाह - यथेति || ४५ || संसारकारणमितः स्वयं चेतो विचारयेत् | जीवोऽन्तःकरणं चित्तं मनश्चेत्यादिनामकम् || ४६ || केनोपायेनात्मतत्त्वपरिज्ञानं तदाह - संसारेति | इत एतस्माद्धेतोः संसारकारणमज्ञानं इतः प्राप्तोऽधिकारी स्वयमिति वा यं विचारयेत्तमाह - जीव इति | जीवादीनि नामानि यस्य तम् | आदिपदादुत्पत्तिप्रकरणोक्तनामान्तराणामपि संग्रहः || ४६ || श्रीराम उवाच | एताः संज्ञाः प्रभो ब्रह्मंश्चेतसो रूद्ःइमागताः | कथमित्येव कथय मयि मानद सिद्धये || ४७ || रूढि योगरूढिम् | कथं केन योगेन | सिद्ध्ये तदुक्तविचारसिद्धये || ४७ || श्रीवसिष्ठ उवाच | सर्वे भावा इमे नित्यमात्मतत्त्वैकरूपिणः | चित्तात्तरङ्गकगणा जलैककलिता यथा || ४८ || तत्रादौ रूढियोगांशाभ्यां जीवनाम निर्वक्तुं वसिष्ठः पीठिकां रचयति - सर्वे भावा इत्यादिना | भावाः पदार्था आत्मतत्त्वेन सह ऐक्याध्यासादेकरूपिणः समष्टिचित्तादेवोत्पन्ना इति प्रागुक्तस्मारणम् || ४८ || आत्मा स्पन्दैकरूपात्मा स्थितस्तेषु क्वचित्क्वचित् | तरङ्गेषु विलोलेषु पयोधेः सलिलं यथा || ४९ || उत्पन्नानां च स्थावरविभागे निमित्तमाह - आत्मेत्यादिना || ४९ || क्वचिदस्पन्दरूपात्मा स्थितस्तेषु महेश्वरः | तरङ्गत्वमयातेषु जलभावो जलेष्विव || ५० || तत्रोपलादयो भावा अलोलाः स्वात्मनि स्थिताः | सुराफेनवदुत्स्पन्दा लोलास्तु पुरुषादयः || ५१ ||
429 SK तत्र तेषु शरीरेषु सर्वशक्तिस्तदत्मनः | कलिताऽज्ञानकलना तेनाज्ञानमसौ स्थितः || ५२ || कलितस्य कल्पितस्याज्ञानस्य कलना प्रसिद्धा | तेन हेतुना तत्स्वकल्पितमज्ञानं स्वयमेव भूत्वा प्रलयसुषुप्त्योः स्थितः || ५२ || तदज्ञानमनन्तात्मभूषितं जीव उच्यते | स संसारे महामोहमायापञ्जरकुञ्जरः || ५३ || अनन्तेनात्मना प्रतिबिम्बभावापन्नेन भूषितमिव स्फुरत | स एव रूढ्यंशेन जीव उच्यते || ५३ || जीवनाज्जीव इत्युक्तोऽहंभावः स्यात्त्वहंतया | बुद्धिर्निश्चायकत्वेन संकल्पकलनान्मनः || ५४ || तत्र योगांशमाह - जीवनादिति | प्राणधारणादित्यर्थः | अहंनाम निर्वक्ति - अहंभावादिति | सोऽहमित्यग्रे व्याहरत्तस्मादहंनामाभवत् इति श्रुतेः | नामान्तराण्यपि निराह - बुद्धिरित्यादिना || ५४ || प्रकृतिः प्रकृतित्वेन देहो दिग्धतया स्थितः | जडः प्रकृतिभावेन चेतनः स्वात्मसत्तया || ५५ || दिग्धतया उपचिततया | प्रकृतिभावेन अज्ञानांशप्राधान्येन | स्वात्मसत्तया चित्प्राधान्येन || ५५ || जडाजडदृशोर्मध्यं यत्तत्त्वं पारमात्मिकम् | तदेतदेव नानात्वं नानासंज्ञाभिराततम् || ५६ || जडाजडदृशोरज्ञानतत्साक्षिणोर्मध्यमान्तरालिकं साभासं मनस्तदेतदेव नानात्वं प्राप्य जीवबुद्धिमनश्चित्ताहंकारादिनानासंज्ञाभिराततमित्यर्थः || ५६ || एवं स्वरूपं जीवस्य बृहदारण्यकादिषु | बहुधा बहुषु प्रोक्तं वेदान्तेषु किलानघ || ५७ ||
430 SK परमात्मन एवोपाधिप्रवेशेन औपाधिकनानासंज्ञालाभे श्रुतीः प्रमाणयति - एवमिति | स एष इह प्रविष्ट आनखाग्रेभ्यः इत्युपक्रम्योक्तम् प्राणन्नेव प्राणो नाम भवति वदन्वाक् पश्यंश्चक्षुः शृण्वन् श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव इति | तथा स समानः सत्रभौ लोकावनुसंचरति ध्यायतीव लेलायतीव स धीः स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि इति | तथा श्रुत्यन्तरे बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः | वालाग्रशतभागस्य शतधा कल्पितस्य च | भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते इति | तत्सृष्ट्वा तदेवानुप्राविशत् | तदनुप्रविश्य सच्च त्यच्चाभवत् इति | तैत्तिरीयके स एतं सीमानं विदार्यैतया द्वारा प्रापद्यत तस्मादिदन्द्रो नाम | यदेतद्धृदयं मनच्चैतत्संज्ञानमाज्ञानं विज्ञानं प्रज्ञानम् इत्याद्यैतरेयके | त्वमेकोऽसि बहूननुप्रविष्टः | एको देवो बहुधा विचार एकः सन् बहुधा विचार इत्यादिश्रुतिशतेषु च बहुधा प्रोक्तमित्यर्थः || ५७ || अज्ञैस्त्वेतासु संज्ञासु कुविकल्पकुतार्किकैः | मोहाय केवलं मूढैर्व्यर्थमास्थाः प्रकल्पिताः || ५८ || अत-एवावैदिककुतार्किकाणामन्यथान्यथा जीवस्वरूपकल्पना नादर्तव्येत्याशयेनाह - अज्ञैरिति | आस्थाः अभिनिवेशाः || ५८ || एवमेष महाबाहो जीवः संसारकारणम् | मूकेनातिवराकेण देहकेनेह किं कृतम् || ५९ || एवं च न शुद्धात्मनः संसारिता नापि देहस्य किंत्वान्तरालिकस्य जीवस्यैवेति सिद्धमित्याशयेनाह - एवमिति | मूकेन वागादिशून्येन | जडेनेति यावत् || ५९ || आधाराधेययोरेकनाशे नान्यस्य नष्टता | यथा तथा शरीरादिनाशे नात्मनि नष्टता || ६० || अत-एव देहनाशेऽपि न जीवनाश इत्याह - आधारेति | नाशे न इति च्छेदः || ६० || एकपर्णरसे क्षीणे रसो नैति यथा क्षयम् | याति पर्णरसश्चार्करश्मिजालान्तरे यथा || ६१ || शरीरसंक्षये देही न क्षयं याति कस्यचित् | निर्वासनश्चेत्तद्व्योम्नि तिष्ठत्यात्मपदे तथा || ६२ ||
431 SK सवासनश्चेत् शरीरसंक्षये वासनायां तिष्ठति | निर्वासनश्चेद्व्योम्नि ब्रह्माकाशस्वभावे तिष्ठतीत्यर्थः || ६२ || देहनाशे विनष्टोऽस्मीत्येवं यस्याऽमतेर्भ्रमः | मातुः स्तनतटात्तस्य मन्ये वेताल उत्थितः || ६३ || अमतेर्मूर्खस्य यस्य | अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इति श्रुतेरभयहेतौ देहनाशे भयहेतुत्वलक्षणविपरीतदर्शिनो मूढस्य मातुः स्तनादपि वेतालोत्थानसंभावनया स्तन्यपानेन जीवनमपि दुर्लभं स्यादित्याशयः || ६३ || यस्य ह्यात्यन्तिको नाशः स्यादसावुदितः स्मृतः | चित्तनाशो हि नाशः स्यात्स मोक्ष इति कथ्यते || ६४ || देहस्य जीवव्यतिरिक्तत्वान्मातु तन्नाशाद्भयं चित्तस्य जीवस्वरूपत्वात्तन्नाशात्तु जीवस्य भयं युक्तमेवेति चेत्तत्राह - यस्येति | यस्य उपाधेर्वज्रनिगडवद्बन्धनभूतस्यात्यन्तिको नाशः स्याचेदसौ जीवः स्मृतः प्रत्यभिज्ञातब्रह्मभावः सन्नुदितो निरतिशयानन्दलक्षणमभ्युदयं प्राप्तो भवति तादृशचित्तनाशो हि जीवस्य विनाशः स्यात्संभाव्यते स च तस्य मोक्षः परमपुरुषार्थ इति शास्त्रे कथ्यते | अतस्तस्मादपि भयसंभावना अत्यन्तमनुचित्तैवेत्यर्थः || ६४ || मृतो नष्ट इति प्रोक्तो मन्ये तच्च मृषा ह्यसत् | स देशकालान्तरितो भूत्वा भूत्वानुभूयते || ६५ || स जीवः | अनुभूयते पुनर्देहान्तरग्रहणे दृश्यते || ६५ || इहोह्यन्ते जनैरेवं तरङ्गान्तस्तृणैरिव | मरणव्यपदेशासु देशकालतिरोहितैः || ६६ || इह संसारे मरणव्यपदेशासु नदीषु तरङ्गान्तस्तृणायमानैर्जनैर्जीवैरिह संसारे देशकालतिरोहितैः स्वरूपैः एवं वर्णितप्रकारा मृतो नष्टो जातोऽभिवृद्धः सुखी दुःखीत्यादिभावा ऊह्यन्ते भ्रान्त्या वितर्क्यन्त इत्यर्थः || ६६ || वासनावस्थितो जीवो यात्युत्सृज्य शरीरकम् | कपिर्वनतरुं त्यक्त्वा तर्वन्तरमिवास्थितः || ६७ || तथा ऊहनवैचित्र्ये वासनावैचित्र्यं हेतुरित्याशयेनाह - वासनेति || ६७ || पुनस्तदपि संत्यज्य गच्छत्यन्यदपि क्षणात् | अन्यस्मिन्वितते देशे कालेऽन्यस्मिंश्च राघव || ६८ ||
432 SK इतश्चेतश्च नीयन्ते जीवा वासनया स्वया | चिरं तदपिजीविन्या धूर्त्या धात्र्येव बालकाः || ६९ || तान् जीवानपिधाय तिरस्कृत्य जीवितुं शीलं यस्याः सा तदपिजीविनी तथाविधया वासनया धूर्त्या | पुंयोगान्ङीष् | धूर्तासक्तया धात्र्या उपमात्रा || ६९ || वासनारज्जुवलिता जीर्णाः पर्वतकुक्षिषु | जरयन्त्यतिदुःखेन जीवितं जीवजीविकाः || ७० || वासनारज्जुभिर्वलिता वेष्टिताः जीवा एव परस्परोपयोगाज्जिविका जीवनोपायो येषां तथाविधा जीवाः पूर्वं जीर्णाः सांप्रतं जरयन्ति || ७० || जरठजरदुपोढदुःखभाराः परिणतिजर्जरजीविताश्च सत्यः | हृदयजनितवासनानुवृत्त्या नरकभरे जनताश्चिरं पतन्ति || ७१ || जनता जीवा हृदयविहितवासनानुवृत्त्या निमित्तेन जरठेभ्योऽपि जरन्तो जीर्णाः सन्त उपोढा दारिद्र्यरोगवियोगादिदुःखभारा यैस्तथाविधाः परिणत्या नानायोनिदुर्दशापरिणामैर्जर्जरं दुःखैः खण्डेन शिथिलीकृतमिव जीवितं यासां तथाविधाश्च सत्यो नरकभरेषु चिरं पतन्ति वसन्तीत्यहो वासनादोषप्रयुक्ता अनन्ता दुर्दशेत्यर्थः || ७१ || श्रीवाल्मीकिरुवाच | इत्युक्तवत्यथ मुनौ दिवसो जगाम सायंतनाय विधयेऽस्तमिनो जगाम | स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम || ७२ || इत्यार्षे श्रीवासिष्ठमहारामाय.एन् वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे संसारोपदेशो नामैकसप्ततितमः सर्गः || ७१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे संसारोपदेशो नामैकसप्ततितमः सर्गः || ७१ || || त्रयोदशो दिवसः || द्विसप्ततितमः सर्गः ७२ श्रीवसिष्ठ उवाच | देहे जाते न जातोऽसि देहे नष्टे न नश्यसि | त्वमात्मन्यकलङ्कात्मा देहस्तव न कश्चन || १ || भौतिकत्वाच्छरीरस्य शोकमोहाद्ययोग्यता | दृश्यदर्शनसंबन्धः साक्षी शुद्धश्च वर्ण्यते || १ || पूर्वार्धार्थे उत्तरार्धार्थो हेतुः || १ || यः कुण्डबदरन्यायो या घटाकाशसंस्थितिः | तत्रैकस्मिन्क्षते क्षीणे द्वे इति व्यर्थकल्पना || २ ||
433 SK ननु गौरोऽहं स्थूलोऽहमिति आत्मनि देहतादात्म्यानुभवाद्देहनाशे कथमात्मस्थितिस्तत्राह - य इति | संस्थितिर्मर्यादा सैवात्र ग्राह्या न तादात्म्यम् | तत्रैवं सति एकस्मिन्कुण्डे घटे वा क्षते नष्टे सति द्वे अपि क्षीणे इति मूढानां व्यर्थकल्पनेत्यर्थः || २ || विनाशिनि विनष्टेऽस्मिन्देहे स्वां स्थितिमागते | विनश्यामीति यः खेदी तं धिगस्त्वन्धचेतसम् || ३ || विनाशिनि नश्वरस्वभावे || ३ || यादृशो रश्मिरथयोः स्नेहोद्वेगविवर्जितः | संबन्धस्तादृशो देहचित्तेन्द्रियमुखैश्चितेः || ४ || यद्यात्मनो देहादितादात्म्यं नास्ति तर्हि कथं शाखाकम्पेन वृक्ष इव तत्प्रवृत्त्यायं संसरति तत्राह - यादृश इति | स्नेहः प्रीतियोग्यता उद्वेगो द्वेषयोग्यता ताभ्यां विवर्जितः || ४ || गतेतरेतरापेक्षः सरःपङ्कामलाम्भसाम् | यथा राघव संबन्धस्तथा देहेन्द्रियात्मनाम् || ५ || इतरेतरापेक्षा परस्परानुरागः || ५ || यादृशोऽध्वा गताध्वानां निरास्थापरिदेवनः | संयोगो विप्रयोगश्च तादृशो देहदेहिनोः || ६ || गताध्वानामध्वगानां आस्था अहंममताभिमानः परिदेवनं तद्वियोगजो विलापः तदुभयायोग्य इत्यर्थः || ६ || यथा कल्पितवेतालविकारभयभीतयः | मिथ्यैव कल्पिता एते तथा स्नेहसुखादयः || ७ || तत्कुतस्तत्राह - यथेति | कल्पितवेतालस्य विकाराः करालवदनदशनव्यादानादयस्तज्जन्यात्प्रथमभयात्पुनः- bhūtapañcakasaṃpiṇḍādracitā janatāḥ pṛthak | ekasmādeva viṭapādvicitrā iva putrikāḥ || 8 || kāṣṭhetaratkāṣṭhabhāre kiṃcidanyanna dṛśyate | bhūtapiṇḍetaraddehe kiṃcidanyanna dṛśyate || 9 || bhūtapañcakavikṣobhanāśotpādeṣu he janāḥ | harṣāmarṣaviṣādānāṃ kiṃ bhavanto vaśaṃ gatāḥ || 10 || ko nāmātiśayaḥ puṃsāṃ strīnāmnyaparanāmni ca | pelave bhūtasaṃghāte prodbhūtajanapātavat || 11 ||
434 SK स्वदेहे स्नेहाद्ययोग्यत्वमुपपाद्य स्त्र्यादिपिण्डेऽपि तद्दर्शयति - क इति | पतङ्गवद्व्यामोहरागाभ्यां प्रोद्भूतानां जनानां विषयाग्नौ पातवद्दृश्यमाना चेष्टा येनातिशयेनोपपद्येत सोऽतिशयः को नामेत्यर्थः || ११ || संनिवेशांशवैचित्र्यमज्ञानामेव तुष्टये | तज्ज्ञानां तु यथाभूतभूतपञ्चकदर्शनम् || १२ || सुकुमारसुन्दरावयवसंनिवेशविशेष एव सोऽतिशयो दृश्यते तत्राह - संनिवेश इति || १२ || मिथः शिलापुत्रकयोर्यथैकोपलपुत्रयोः | श्लिष्टयोरपि नो रागस्तथा चित्तशरीरयोः || १३ || भ्रात्रादिषु रागं वारयति - मिथ इति | एकोपलपुत्रयोरेकोपलजन्ययोः | श्लिष्टयोराश्लिष्टयोः || १३ || मृत्पुंसां यादृशोऽन्योन्यमाशयः संगमे भवेत् | बुद्धिन्द्रियात्ममनसां संगमे तादृशोऽस्तु ते || १४ || मृन्निर्मितानां पुंसां प्रतिमानां संगमे सत्यपि यादृशो ममतादिशून्य आशयो भावो भवेदित्याशयकल्पनयोक्तिः || १४ || नान्योन्यस्नेहसंबन्धभाजनं शैलपुत्रकाः | देहेन्द्रियात्मप्राणाश्च कस्यात्र परिदेवना || १५ || इतश्चेतश्च जातानि यथा संश्लेषयन्त्यलम् | तरङ्गास्तृणजालानि तथा भूतानि देहदृक् || १६ || इतश्च इतश्च भिन्नप्रदेशयोर्जातानि तृणजालानि || १६ || संयुज्यन्ते वियुज्यन्ते तृणान्यब्धिजले यथा | मुक्तान्तःकलनं देहे भूतान्यात्मनि वै तथा || १७ || मुक्तान्तःकलनं निर्मुक्तरागाभिमानं यथा स्यात्तथा भूतानि पुत्रपश्वादिप्राणिनः पृथिव्यादीनि वा स्वारब्धे देहे स्वाधिष्ठाने आत्मनि च तथा संयुज्यन्ते वियुज्यन्ते चेत्यर्थः || १७ || आत्मा चित्ततया देहभूतान्याश्लेषयन्स्थितः | तृणान्यावृत्तवृत्तान्तकलनोत्सिक्तमब्धिवत् || १८ || यथा अब्धिरावृत्तवृत्तन्त आवर्ताकारस्तत्कल्पनेन उत्सिक्तमुपचितं वेषं प्राप्य तृणकाष्ठादीन्याश्लेषयन् स्थितस्तथा आत्मापि चित्ततया चित्तवेषं प्राप्येत्यर्थः || १८ || प्रबोधाच्चेत्यतां त्यक्त्वा व्रजत्यात्मात्मतां स्वयम् | स्वस्पन्दवशतो वारि त्यक्त्वाच्छत्वमिवाच्छतां || १९ ||
435 SK केनोपायेन तर्हि आत्मा भूताश्लेषनिमित्ताच्चित्तभावान्मुच्यते तमाह - प्रबोधादित्यादिना | त्यक्त्वा आच्छत्वमनच्छत्वम् | नञ्तत्पुरुषे नकारलोपे सवर्णदीर्घो नुडभावश्छान्दसः || १९ || ततो विश्लिष्टभूतौघो देहं संप्रति पश्यति | वायुस्कन्धगतो जन्तुर्वसुधामण्डलं यथा || २० || विश्लिष्टभूतौघो मनःकृतभूताश्लेषनिर्मुक्तः | संप्रति प्रबोधकाले | वायुस्कन्धे गतः खेचरो देवादिः || २० || पृथग्भूतगणं दृष्ट्वा देहातीतो भवत्यजः | परं प्रकाशमायाति सूर्यकान्तिरिवाहनि || २१ || तत्फलमाह - पृथगिति || २१ || जानात्यथात्मनात्मानं मानमेयामयोज्झितम् | मुक्तक्षीबतयेवान्तः स्वां संविदमनुस्मरन् || २२ || मुक्तक्षीबतया निर्मुक्तमदिरामदतया || २२ || आत्मैव स्पन्दते विश्वं वस्तुजातैरिवोदितम् | तरङ्गकणकल्लोलैरनन्ताम्ब्वम्बुधाविव || २३ || एवंप्रायमहाबोधा वीतरागा गतैनसः | जीवन्मुक्ताश्चरन्तीह महासत्त्वपदं गताः || २४ || यथा चरन्ति विविधैर्मणिरत्नैर्महोर्मयः | निरस्तवासनाश्चित्तव्यवहारैस्तथोत्तमाः || २५ || विविधैर्मणिश्रेष्ठैः संबध्यमाना अपि तदनासक्त्या तेषु शिलाशकलादिसाम्येन यथा चरन्ति व्यवहरन्ति || २५ || न कूलकाष्ठैर्जलधिर्न रजोभिर्नभस्तलम् | न म्लायति निजैर्लोकव्यवहारैरिहात्मवान् || २६ || यथा तद्वदिति पदे अत्राध्याहार्ये || २६ || गतैरभ्यागतैः स्वच्छैश्चपलैर्मलिनैर्जडैः | न रागो नाम्बुधेर्द्वेषो भोगैश्चाधिगतात्मनः || २७ || स्वच्छैर्न रागो मलिनैर्न द्वेषः | विशेषणान्युभयत्र योज्यानि | अधिगतात्मनस्तत्त्वविदः || २७ || यन्मनोमननं किंचित्समग्रं जगति स्थितम् | तच्चेत्योन्मुखचित्तत्त्वविलासोल्लसनं विदुः || २८ || कुतो न रागस्तत्राह - यदिति | मनोमननं सर्वं चिद्बिलास एवेति ते यतो विदुरित्यर्थः || २८ || यदहं यच्च भूतादि कालत्रितयभावि यत् | दृश्यदर्शनसंबन्धविस्तारैस्तद्विजृम्भते || २९ ||
436 SK यदहमादि सर्वं दृश्यदर्शनसंबन्धविस्तारैर्भाति तत्केवलं मन एव विजृम्भते नान्यदित्यर्थः || २९ || यद्दृश्यं तदसत्सद्वा दृष्टिमेकामुपाश्रितम् | अन्यत्त्वलेपकं तस्माद्धर्षशोकदृशौ कुतः || ३० || इह दृक् दृश्यं चेति द्वयमध्ये एकां दृष्टिमुपाश्रितं तदधीनसिद्धिकं यद्दृश्यं तदसत्सद्वेत्यनिर्णीतत्वाद्धर्षशोकायोग्यम् | अन्यत्स्वतःसिद्धं दृग्रूपं त्वलेपकमसङ्गमुत्पन्नाभ्यामपि हर्षशोकाभ्यां न युज्यत इति तयोरुभयथापि संभावनैव नास्तीत्यर्थः || ३० || असत्यमेवासत्यं हि सत्यं सत्यं सदेव हि | सत्यासत्यमसद्विद्धि तदर्थं किं नु मुह्यसि || ३१ || किंचासत्ये विषये हर्षशोकौ सत्ये वा सत्यासत्ये वा न त्रिष्वपि कल्पेषु तद्योग्यतेत्याह - असत्यमेवेति | असत्यमसत्यमेव | तत्र हर्षशोकयोर्निर्विषयता स्पष्टैव | सत्यं तु नित्यसत्त्वाल्लाभप्रयुक्तहर्षस्यापगमप्रयुक्तशोकस्य चायोग्यं स्पष्टमेव | यत्तु तृतीयं सत्यासत्यं तच्च विरुद्धैक्यायोगादसदेवेत्याद्यकल्पमेव प्रविशति | तथाच न किंचित्तद्योग्यं जगत्यस्तीति तद्विषये मोहोऽयुक्त एवेत्यर्थः || ३१ || असम्यग्दर्शनं त्यक्त्वा सम्यक्पश्य सुलोचन | न क्वचिन्मुह्यति प्रौढः सम्यगदर्शनवानिह || ३२ || दृश्यदर्शनसंबन्धविस्तारैस्तद्विजृम्भते | दृश्यदर्शनसंबन्धे यत्सुखं पारमात्मिकम् || ३३ || किंच भोगसुखार्थं सर्वैर्दृश्यदर्शनयोर्विषयेन्द्रिययोः संबन्ध इष्यते तत्राभिव्यज्यमानं पारमात्मिकमेव स्वप्रकाशत्वादनुभूत्यभिन्नं वृत्त्युपाधिकृतभेदतारतम्यादिनिरासेनाखण्डैक्ये ब्रह्मैव तदित्याह - anubhūtimayaṃ tasmātsāraṃ brahmeti kathyate | dṛśyadarśanasaṃbandhe sukhasaṃvidanuttamā || 34 || dadātyajñāya saṃsāraṃ jñāya mokṣaṃ sadodayam | dṛśyadarśanasaṃbandhasukhamātmavapurviduḥ || 35 || viṣayākāravṛttyā āsvādyamānaṃ viṣaye rāgādidoṣajananena saṃsāraṃ dadāti | tadvivekenākhaṇḍaikātmabhāvena gṛhyamāṇaṃ tu mokṣamityarthaḥ || 35 ||
437 SK तद्दृश्यवलितं बन्धस्तन्मुक्तं मुक्तिरुच्यते | दृश्यदर्शनसंबन्धसुखसंविदनामया || ३६ || क्षयातिशयमुक्ता चेत्तन्मुक्तिः सोच्यते बुधैः | दृश्यदर्शनसंबन्धे यानुभूतिः स्वगोचरा || ३७ || क्षयातिशयौ पुण्यतारतम्यप्रयुक्तवृत्तिनाशवैशद्योत्कर्षप्रयुक्तौ तन्मुक्ता चेत् | स्वगोचरा अखण्डपूर्णानन्दस्फुरणात्मिका || ३७ || दृश्यदर्शननिर्मुक्ता तामालम्ब्य भवाभवः | सौषुप्ती दृष्टिरेषा हि यात्येवं स.प्रकाशते || ३८ || एवमुक्तस्वरूपालंबने सौषुप्ती स्वरूपावरणदृष्टिर्याति अपगच्छति | एषा स्वरूपदृष्टिः संप्रकाशते || ३८ || एवं च याति तुर्यत्वमेवं मुक्तिरिति स्मृता | दृश्यदर्शनमुक्तायां युक्तायां परया धिया || ३९ || दृश्यदर्शनसंबन्धसंविदस्यां तु राघव | नात्मा स्थूलो न चैवाणुर्न प्रत्यक्षो न चेतरः || ४० || दृश्यदर्शनसंबन्धसंवित् | एवं तुर्यत्वमेतीति पूर्वत्रान्वयः | तुर्यतालक्षणायां मुक्तौ यादृश आत्मा परिशिष्यते तं दर्शयति - अस्यां त्वित्यादिना || ४० || न चेतनो न च जडो न चैवासन्न सन्मयः | नाहं नान्यो न चैवैको नानेको नाप्यनेकवान् || ४१ || चेतनश्चैतन्यवान् | सन्मयः अस्तित्वाख्यद्वितीयभावविकारप्रचुरः | एकः एकत्वसंख्यागुणाश्रयः || ४१ || नाभ्याशस्थो न दूरस्थो नैवास्ति न च नास्ति च | न प्राप्यो नाति चाप्राप्यो न वा सर्वो न सर्वगः || ४२ || अभ्याशे समीपे तिष्ठतीत्यभ्याशस्थः | अस्ति सत्ताश्रयः || ४२ || न पदार्थो नापदार्थो न पञ्चात्मा न पञ्च च | यदिदं दृश्यतां प्राप्तं मनःशष्ठेन्द्रियास्पदम् || ४३ || न पदार्थो वाच्यत्वायोगात् | नापदार्थस्तुर्यादिपदलक्ष्यत्वात् | पञ्चानां भूतानामात्मा नेति न | पञ्चभूतस्वभावश्च नेत्यर्थः | उक्तार्थे उपपत्तिमाह - यदिदमिति || ४३ || तदतीतं पदं यत्स्यात्तन्न किंचिदिवेह तत् | यथाभूतमिदं सम्यग्ज्ञस्य संपश्यतो [संपश्यते इति मुद्रितपुस्तके पाठः] जगत् || ४४ || यथाभूतं यथास्थितं सम्यक् तत्त्वतः संपश्यतः || ४४ ||
438 SK सर्वमात्ममयं विश्वं नास्त्यनात्ममयं क्वचित् | काठिन्यद्रवणस्पन्दस्वावकाशावलोकनैः || ४५ || कथं तर्हि भूम्यादिभूतता दृश्यते तत्राह - काठिन्येति | आत्मैव स्वस्मिन् काठिन्यद्रवणस्य स्पन्दस्य खाख्यबृहच्छिद्रस्य अवकाशस्य प्रकाशस्य च अवलोकनैः क्रमाद्भूवार्यादिषु जगद्भावेषु नटवत्स्थित इत्यर्थः || ४५ || आत्मैव सर्वं सर्वेषु भूवार्यनिलखाग्निषु | सत्तैवास्ति न वस्तूनां या या राम चिता विना | व्यतिरिक्तं ततोऽस्मीति विद्धि प्रोन्मत्तजल्पितम् || ४६ || कथमात्मैवैवं स्थित इति निश्चितं तत्राह - सत्तैवेति | वस्तूनां या या सत्ता सा चिता तत्प्रथात्मना विना यतो नास्ति तत इत्यर्थः || ४६ || एको जगन्ति सकलानि समस्तकाल- कल्पक्रमान्तरगतानि गतागतानि | आत्मैव नेतरकलाकलनास्ति काचि- दित्थंमतिर्भव तयातिगतो महात्मन् || ४७ || उक्तं सर्वं पिण्डीकृत्योपसंहरति - एक इति | समस्ते काले अनन्तेषु कल्पक्रमेषु च अन्तरे मध्ये गतानि निविष्टानि जगन्ति तेषु सकलानि गतागतानि जीवसंसरणानि च एक आत्मैव | इतरकलाकलना काचिन्नास्त्येव | हे महात्मन् त्वं इत्थंमतिः संस्तया मत्या संसारमतिगतो भवेत्यर्थः || ४७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषूपशमप्रकरणे मोक्षस्वरूपोपदेशो नाम द्विसप्ततितमः सर्गः || ७२ || इति श्रीवासिष्ठम्हारामायणतात्पर्यप्रकाशे उपशमप्रकरणे मोक्षस्वरूपोपदेशो नाम द्विसप्ततितमः सर्गः || ७२ || त्रिसप्ततितमः सर्गः ७३ श्रीवसिष्ठ उवाच | एवंविचारया दृष्ट्या द्वैतत्यागेन राघव | स्वभावः प्राप्यते तज्ज्ञैस्तज्ज्ञैश्चिन्तामणिर्यथा || १ || द्वे अहंभावने ग्राहेय् त्याज्याहंभावना परा | अहंभावत्रयापाये मुक्त्यनिच्छा न कीर्त्यते || १ || स्वभावः स्वस्वरूपावस्थितिलक्षणा मुक्तिः | तज्ज्ञैरात्मज्ञैः | तज्ज्ञैश्चिन्तामणितत्त्वज्ञैर्देवैः || १ || अथेमामपरां दृष्टिं शृणु रामानया यथा | दृश्यस्यात्मानमचलं भविष्यसि च दिव्यदृक् || २ ||
439 SK सर्वाहंभावदृष्टिं दर्शयितुं प्रक्रमते - अथेति || २ || अहं खमहमादित्यो दिशोऽहमहमप्यधः | अहं दैत्या अहं देवा लोकाश्चाहमहं महः || ३ || महश्चन्द्रादिप्रभा || ३ || अहं तमोऽहमभ्राणि भूः समुद्रादिकं त्वहम् | रजो वायुरथाग्निश्च जगत्सर्वमिदं त्वहम् || ४ || रजो रेणुः || ४ || जगत्त्रयेऽहं सर्वत्र य आत्मैव किलास्थितः | कोऽहं किमन्यद्देहादि द्वित्वमेकस्य कीदृशम् || ५ || सर्वातिरिक्तः परिच्छिन्नः कोऽहम् | मदन्यद्देहादि किम् | सर्वभूतस्यैकस्य मम द्वित्वं स्वगतभेदरूपं कीदृशम् || ५ || इति निश्चयवानन्तर्भूतमात्मतया जगत् | पश्य हर्षविषादाभ्यां नावशः परिभूयसे || ६ || इति विचार्य निश्चयवान्संस्तदनन्तरं स्वान्तर्भूत जगदात्मतया पश्य || ६ || तन्मयेऽस्मिन्किल जगत्यखिले संस्थितेऽनघ | किमात्मीयं परं किं स्यात्कमलेक्षण कथ्यताम् || ७ || तन्मये आत्मसमये | स्वार्थे मयट् || ७ || किं तज्ज्ञव्यतिरेकेण विद्यते यदुपागतम् | हर्षमेतु विषादं वा विषादे ज्ञो जगन्मयः || ८ || यदुपागतं चेदिति शेषः | विषादे तु दृश्यमाने अज्ञ एवासौ | यतो जगन्मयो न चिन्मय इत्यर्थः || ८ || अहंकारदृशावेते सात्त्विके द्वेऽतिनिर्मले | तत्त्वज्ञानात्प्रवर्तेते मोक्षदे पारमार्थिके || ९ || एते वक्ष्यमाणे | संधिरार्षः || ९ || परोऽणुः सकलातीतरूपोऽहं चेत्यहंकृतिः | प्रथमा सर्वमेवाहमित्यन्योक्ता रघूद्वह || १० || अणुः आकाशवदस्थूलस्वभावः | सकलादवस्थात्रयदृश्यादतीतः || १० || अहंकारदृगन्या तु तृतीया विद्यतेऽनघ | देहोऽहमिति तां विद्धि दुःखायैव न शान्तये || ११ || विद्यते स्वभावतो न शास्त्रतः || ११ || अथ चैतत्त्रयमपि त्यक्त्वा सकलसिद्धये | यच्छेषं तदुपालम्ब्य तिष्ठावष्टब्धतत्परः || १२ || यत् शेषं शिष्यमाणं निरहंभावं पूर्णचिन्मात्रम् || १२ || सर्वातीतस्वरूपोऽपि सर्वसत्तातिगोऽपि च | असत्तापूरितजगदस्त्येवात्मा प्रकाशकः || १३ ||
440 SK शोधनेन सर्वातीतस्वरूपो बाधनेन तु सर्वासत्तां गतः | सर्वबाधे आत्मापरिशेषशङ्कां वारयति - असत्तेति | असत्तया जगद्बाधोपायेनैव स्वेन आपूरितं जगद्येन || १३ || स्वानुभूत्यैव पश्याशु स एवासि सदोदितः | साशयं हृदयग्रन्थिं त्यज तत्त्वविदांवर || १४ || युक्तयः शास्त्राणि गुरुवचनानि च दिक्प्रदर्शनमात्रं तत्परिचयस्तु स्वानुभवेनैवेत्याशयेनाह - स्वानुभूत्येति | आशया देहादिवासनास्तत्सहितं हृदयग्रन्थिमहंकारतादात्म्याध्यासम् || १४ || नात्मास्त्यनुमया राम न चाप्तवचनादिना | सर्वदा सर्वथा सर्वं स प्रत्यक्षोऽनुभूतितः || १५ || ननु तं त्वौपनिषदं पुरुस्ऽं पृच्छामि इति श्रुतेर्धर्माधर्मादिवच्च्रुतितद्दर्शितयुक्तिमात्रविश्वासादलौकिक आत्मास्तीति ज्ञायते स कथं स्वानुभववेद्यः स्यात्तत्राह - नेति | न धर्मादिवदत्यन्तपरोक्षात्मसद्भावं प्रतिपादयितुं श्रुत्यादयः प्रवृत्ताः किंतु सर्वानुभवसिद्धसत्ताकमात्मानं विवेचयितुमिति भावः || १५ || यदिदं स्पर्शनं स्पन्दं किंचिद्यत्संविदाद्यपि | तत्सर्वमात्मा भगवान्दृश्यदर्शनवर्जितः || १६ || सर्वेषां स प्रत्यक्ष इति यदुक्तं तदुपपादयति - यदिदमिति | बाह्याभ्यन्तरविषयेषु अन्तःकरणवृत्तिस्पन्दनात्स्पन्दि यद्दर्शनं साक्षादर्थप्रथारूपमपरोक्षं प्रसिद्धं यच्च किंचिदनुमित्युपमितिशाब्दसंविदाद्यपि प्रसिद्धं तत्सर्वं दृश्यस्य विषयस्य दर्शनस्यान्तःकरणवृत्त्युपाधेश्च वर्जने भगवान्स्वप्रकाश आत्मैव नित्यापरोक्षः सर्वानुभवसिद्धः परिशिष्यत इत्यर्थः | तथाच श्रुतिः प्रतिबोधविदितं मतममृतत्वं हि विन्दते इति || १६ || न सन्नासन्नसौ देवो नाणुर्नापि महानसौ | नाप्येतयोर्दृशोर्मध्यं स एवेदं च सर्वतः || १७ || तस्य प्रत्यक्षपरोक्षवेद्यव्यक्ताव्यक्तोभयवैलक्षण्योक्त्या दृश्यदर्शननिर्मुक्ततामुपपादयति - न सन्नासन्निति | तस्मिन् जगद्बाधप्रदर्शनेनापि तदुपपादयति - स एवेति || १७ ||
441 SK स एव चैवं वदति स च वक्तुं न युज्यते | न तदन्यदिदं तात पश्यात्मानमनामयम् || १८ || एवं वागादिकर्मेन्द्रियप्रवृत्तिनिमित्ततया च तदव्यवहार्यं तं परिचीय वागादेस्तद्विषयस्य च तत्र बाधेन स एव परिशेष्य इत्याशयेनाह - स एवेति | इदं वागादि तद्व्यवहार्यं च || १८ || नात्मायमयमप्यात्मा संज्ञाभेद इति स्वयम् | तेनैव सर्वगतया शक्त्या स्वात्मनि कल्पितः || १९ || आत्मानात्मनामरूपविभागस्तेनैव स्वाज्ञानशक्त्या कल्पित इति बाध्यत्वोपपत्तिरित्याशयेनाह - नेति || १९ || संस्थितः स हि सर्वत्र त्रिषु कालेषु भास्करः [भास्वरः इति पाठः] | सूक्ष्मत्वात्सुमहत्त्वाच्च केवलं न विभाव्यते || २० || नित्यापरोक्षस्वप्रकाशपूर्णस्वभावोऽपि सूक्ष्मत्वात्स्थूलासक्तबुद्धिभिः स न विभावयितुं शक्य इत्यर्थः || २० || सत्स्वनन्तपदार्थेषु जीवत्वेनाभिबिम्बति | आत्मा पुर्यष्टकादर्शे स्वभाववशतः स्वतः || २१ || स्थूलासक्तौ तु तस्य मोहात्पुर्यष्टकोपाधौ प्रतिबिम्बनेन जीवभावापतीर्निमित्तमित्याशयेनाह - सत्स्विति | सत्सु सर्गक्रमेणोत्पन्नेषु भोग्यभोगायतनाद्यनेकपदार्थेषु || २१ || पुर्यष्टकोदयादेव स्वयमात्मानुभूयते | सर्वदा सर्वसंस्थः खे घनास्पन्दादिवानिलः || २२ || अनुभूयते अहमित्यभिव्यक्तस्वरूपः क्रियते | घनेन मूर्तेन व्यजनादिना | आस्पन्दान्नोदनात् || २२ || चिदात्मा सर्वगो व्यापी न क्वचिन्नाम संस्थितः | यद्वत्सर्वपदार्थानां सत्ता तद्वन्महेश्वरः || २३ || नामेत्यवधारणे | क्वचिद्देहे एव संस्थित इति नेत्यर्थः || २३ || सति पुर्यष्टके तस्मिञ्जीवः स्फुरति नोपले | सति वायाविव रजः सति दीप इवेक्षणम् || २४ || परिच्छिन्नाहंतया स्फुरणे तु पुर्यष्टकं हेतुरित्याह - सतीति || २४ || इयं पुर्यष्टके स्वेच्छा स्वात्मन्येवात्मनि स्थिते | सति स्फुरत्यभ्युदिते भानाविव जनैषणा || २५ ||
442 SK पुर्यष्टके इयं प्रसिद्धा स्वेच्छाप्रीतिर्विचित्रभोगेच्छा च परमप्रेमास्पदे निरतिशयानन्दे स्वात्मनि स्थिते स्फुरति | यथा भानौ सूर्ये नभसि स्थिते सति सर्वजनानां तत्तत्क्रियाफलैषणा स्फुरति तद्वत् | आत्मनस्तु कामाय सर्वं प्रियं भवति इति श्रुतेरात्मैव सर्वव्यवहारदूरोऽपि प्रियाप्रियादिसर्वव्यवहारनिर्वाहक इत्यर्थः || २५ || यदि सूर्ये स्थिते व्योम्नि तादृशोचितसंस्थितिः | नश्यति व्यवहारोऽयं भास्करे तत्किमागतम् || २६ || अस्त्वेवं किं ततस्तत्राह - यदीति | तादृशे तत्तदेषणाफले उचिता अनुरूपा स्थितिर्यस्य || २६ || यद्यात्मनि स्थिते देवे तत्सत्ता लब्धसंस्थितिः | देहो नाशमुपायाति तत्किं नष्टमिहात्मनि [नष्टमिहात्मन इति पाठः] || २७ || न जायते न म्रियते नादत्ते नाभिवाञ्छति | न मुक्तो न च बद्धोऽयमात्मा सर्वस्य सर्वदा || २८ || आत्मा तर्हि स्वतः कीदृशस्तमाह - नेति || २८ || आत्माप्रबोधाभ्युदिता निरात्मन्यात्मतां गता | सर्परज्जुभ्रमाकारा भ्रान्तिर्दुःखाय केवलम् || २९ || अत-एव तस्याज्ञानादेवानर्थभ्रान्तिरित्याह - आत्मेति || २९ || अनादित्वान्न जातोऽयमजाततान्न नश्यति | आत्मात्मव्यतिरिक्तं तु नाभिवाञ्छत्यसंभवात् || ३० || प्रबोधे तर्हि कीदृशस्तमाह - अजातत्वादिति || ३० || दिक्कालाद्यनवच्छेदान्न बद्धोऽयं कदाचन | बन्धाभावे क्व मुक्तिः स्यादमोक्षस्तेन संस्थितः || ३१ || एवंगुणविशिष्टोऽयमात्मा सर्वस्य राघव | अविचारवशान्मूढो लोकोऽयं परिरोदिति || ३२ || एवंगुणविशिष्ट इत्थंस्वभाव इति यावत् || ३२ || सम्यगालोकिताशेषपूर्वापरजगत्क्रमः | मा शोकं गच्छ सुमते मौर्ख्योपगतलोकवत् || ३३ || मौर्ख्येणोपगता ये लोका जनास्तद्वत् || ३३ || द्वे एव कलने त्यक्त्वा मोक्षबन्धात्मिके यथा | विदुषा व्यवहर्तव्यं यन्त्रणेवात्ममौनिना || ३४ ||
443 SK यथा पर्वतदेशे जलयन्त्रेण पेषणे प्रवृत्ते तत्संनिधिमात्रेण तत्कुर्वाणेनेव स्थितेन आत्मना स्वतस्तु मौनिना कामादिव्यापारशून्येन पुरुषेण स्थीयते तथा विदुषा देहादिना व्यवहर्तव्यमित्यर्थः || ३४ || न मोक्षो नभसः पृष्ठे न पाताले न भूतले | मोक्षो हि चेतो विमलं सम्यग्ज्ञानविबोधितम् || ३५ || सम्यग्ज्ञानेन विबोधितं बोधात्ममात्रतां नीतम् || ३५ || सकलाशास्वसंसक्त्या यत्स्वयं चेतसः क्षयः | स मोक्षनाम्ना कथितस्तत्त्वज्ञैरात्मदर्शिभिः || ३६ || आशास्वाशास्यमानेषु विषयेष्वसंसक्त्या | स्वयं स्वपरिणामबोधवृत्त्या क्षयः || ३६ || यावत्प्रबोधो विमलो नोदितस्तावदेव सः | मौर्ख्याद्दीनतया राम भक्त्या मोक्षोभिवाञ्छ्यते || ३७ || दीनतया कार्पण्येन | भक्त्या नित्यप्राप्तेऽप्यप्राप्तिकल्पनया || ३७ || परं प्रबोधमासाद्य चित्ते चित्तत्त्वतां गते | दश मोक्षा न वाञ्छ्यन्ते किमुतैको हि मोक्षकः || ३८ || चित्तत्त्वतां पारमार्थिकचिन्मात्रताम् | स्वात्मव्यतिरिक्ता दशमोक्षाश्चेत्स्युस्तेऽपि न वाञ्छ्यन्ते किमुत एकोऽल्पो मोक्षो मोक्षको वाञ्छ्यते इत्यर्थः || ३८ || अयं मोक्षस्त्वयं बन्धः पेलवां कलनामिति | परित्यज्य महात्यागी स त्वमेव भवाभव || ३९ || हे अभव सः मोक्षस्त्वमेव भव || ३९ || परिगलितविकल्पनां प्रयातः सगरसुतौघनिखातमेखलाङ्कम् | अवनिवलयमन्तरस्तसङ्ग- श्चिरमनुपालय सर्वदोदितश्रीः || ४० || परिगलिता विकल्पना यत्र तथाविधां दशां प्रयातस्त्वं सगरसुतैर्निखाता मेखला समुद्रस्तदङ्कं तच्चिह्नितमवनिवलयं चिरमनुपालय | यतस्त्वमन्तः अस्तसङ्गस्ततस्ते राज्यादिपालनं न दोषायेत्यर्थः || ४० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे स्वात्मविचारो नाम त्रिसप्ततितमः सर्गः || ७३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे स्वामविचारो नाम त्रिसप्ततितमः सर्गः || ७३ || चतुःसप्ततितमः सर्गः ७४ श्रीवसिष्ठ उवाच |
444 SK लीलयाऽपश्यति वपुः कालेनात्मनि जायते | रम्यस्यापश्यतो वक्रं हृदि दौरूप्यधीरिव || १ || प्रमादासंसृतिभ्रान्तिः प्रबोधात्पूर्णता सदा | जीवन्मुक्तिगुणालिश्च विस्तरेणात्र वर्ण्यते || १ || अविचारवशान्मूढो लोकोऽयं परिरोदिति इति यदुक्तं तदादौ प्रपञ्चयति - लीलयेत्यादिना | प्रलयसुषुप्त्योरज्ञानावृतत्वान्निरतिशयानन्दरूपत्वात्परमप्रेमास्पदं स्वस्वरूपमपश्यति आत्मनि कामकर्मवासनापरिपाकक्रमप्राप्तेन सर्गजागरादिकालेन लीलया चिद्विलासेनैव वपुः सूक्ष्मस्थूलसमष्टिव्यष्टिशरीरं जायते | यथा रम्यस्य कान्तापुत्रादेर्वक्रमपश्यतो विरहिपुरुषस्य हृदि म्लानिकार्श्यादिदौरूप्यापादिका दौर्मनस्यधीर्निरन्तरं जायते तद्वदित्यर्थः || १ || तद्वशादियमायाता महती मेदुरोदरा | माया मदमहाशक्तिः सुरास्वादलवादिव || २ || तस्य देहद्वयस्य वशात्तदहंभावाध्यासेन तद्वशताप्राप्तेरियं निरतिशयानर्थरूपा माया मिथ्याभूतैव रागलोभमोहादिर्मदस्य महाशक्तिरायाता || २ || तयानया विकारिण्या तदतद्भावभूतया | इदं संपन्नमखिलं तापादिव मरौ पयः || ३ || तयानया रागादिशक्त्या | प्रवृत्तिभोगपुण्यपापवासनाद्यनर्थपरम्पराविकारवत्या | तस्य परमात्मनः अतद्भावोऽन्यथाभावस्तेन भूतया लब्धसत्तया || ३ || मनो बुद्धिरहंकारो वासनाश्चेन्द्रियाण्यपि | एवंकलितनामाङ्कैः स्फुरत्यात्माब्धिरम्बुभिः || ४ || एवं कलितानि नामान्यङ्कानि रूपाणि च यैस्तथाविधैः स्वस्वरूपाम्बुभिः || ४ || चित्ताहंकारयोर्द्वित्वं वचस्यस्ति न वस्तुतः | यच्चित्तं स ह्यहंकारो योऽहंकारो मनो हि तत् || ५ || अनर्थप्राप्तिप्रकारमुक्त्वा तदुच्छेदोपायं वक्तुं प्रथममर्थचेतनाच्चित्तं तन्मननान्मनस्तदध्यवसायाद्बुद्धिस्तदभिमानादहंकार इति एकमेवान्तःकरणमङ्कुरकाण्डमूलप्ररोहशाखादिप्ररोहक्रमेण वृक्स्ऽ इव सर्वतः प्रसृतमवतिष्ठत इत्याह - चित्तेति द्वाभ्याम् || ५ ||
445 SK व्यतिरिक्तं हिमाच्छौक्त्यमिति संकल्प्यते यथा | मुधैव कल्प्यते भेदश्चित्ताहंकारयोस्तथा || ६ || मनोहंकारयोरन्तर्द्वयोरेकतरक्षये | क्षीणे द्वे एव हि यथा पटशौक्लथे पटक्षये || ७ || ऐक्योक्तिफलमाह - मन इति || ७ || तुच्छां मोक्षधियं त्यक्त्वा बन्धबुद्धिं तथैषणाम् | स्ववैराग्यविवेकाभ्यां केवलं क्षपयेन्मनः || ८ || इदानीं तदुच्छेदोपायमाह - तुच्छामिति || ८ || मोक्षो मेऽस्त्विति चिन्तान्तर्जाता चेदुत्थितं मनः | मननोत्के मनस्युच्चैर्वपुर्दोषाय केवलम् || ९ || मोक्षेच्छा कुतस्त्याज्या तत्राह - मोक्ष इति | मनसि मननोत्के सति तदेव वपुः शरीराकारं भवति तच्च पुनर्बहिर्मुखतापादनाद्दोषायेत्यर्थः || ९ || आत्मन्यतीते सर्वस्मात्सर्वभूतेऽथवा तते | को बन्धः कश्च वा मोक्षो निर्मूलं मननं कुरु || १० || परिच्छिन्नवपुर्भाव एवास्य दोषो न शुद्धात्मभावो जगदात्मभावो वेत्याशयेनाह - आत्मनीति | तस्मात्परिच्छेदमननमेव निर्मूलं कुर्वित्यर्थः || १० || वायुः स्पन्दनधर्मत्वाद्यदा चलति देहके | तदा स्फुरति हस्ताङ्गरसनापल्लवावली || ११ || प्राणादिवाय्वधीनचलनादिधर्मकदेहादिवैलक्षण्यमात्मनो दर्शयति - वायुरित्यादिना | स्फुरति संचलति || ११ || पादपे पल्लवश्रेणीं चालयत्यनिलो यथा | तथैवाङ्गावलीं वायुर्देहे संचालयत्यलम् || १२ || चित्सर्वव्यापिनी सूक्ष्मा न चला नैव चाल्यते | न स्वतः स्पन्दमायाति देवाचल इवानिलैः || १३ || देवाचलो मेरुः || १३ || प्रतिबिम्बितसर्वार्था केवलं स्वात्मनि स्थिता | प्रकाशयति बोधेन जगन्तीमानि दीपवत् || १४ || नन्वस्तु शुद्धात्मभावे एवं सर्वात्मभावे तु शाखाचलनाद्वृक्षस्येवात्मनश्चलनं दुर्वारमिति चेत्तत्राह - प्रतिबिम्बितेति | तथाच चलदनेकप्रतिबिम्बात्मभावापन्नापि स्फटिकशिला यथा कूटस्था तथा आत्मापीति भावः || १४ || तत्र कोऽयं मुधा मोहो भवतामतिदुःखदः | अयं सोऽहं ममाङ्गानि ममेदं चेति दुर्धियाम् || १५ ||
446 SK तत्रैवमत्यन्तवैधर्म्ये सति अयं देहः स प्रसिद्धोऽहम् | इदं बाह्यं स्त्रीपुत्रादि च मम इति मोहः | भवतामिति रामेतरजनान्प्रत्युक्तिः | दुस्थिता धीर्येषाम् | यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः इति ध्यायत्यर्थ प्रति दुरः अगतित्वात् गैकारकेतरपूर्वपदस्य यण् नेष्यते इत्युक्तेर्न यण् || १५ || इति कल्लोलहतया दृशा नित्यमनित्यया | ज्ञत्वकर्तृत्वभोक्तृत्वक्रिया समुपलभ्यते || १६ || एवमत्यन्तवैधर्म्येऽपि देहे ज्ञत्वादय आत्मनि कर्तृत्वादयश्च विरुद्धधर्मा अविद्याकल्लोलरागाद्युपहतया देहादितादात्म्यसंसर्गाध्यासप्रयुक्तत्वादनित्यया भ्रान्तिदृशैवोपलभ्यन्त इत्यर्थः || १६ || तत्रायमहमागन्ता भोक्ता कर्तेति जायते | मुधैवाज्ञाततापोत्था मृगतृष्णेव वासना || १७ || उपलब्ध्यनुसारेणैवोत्तरोत्तरभ्रान्तिबीजभूता वासनापि जायत इत्याह - तत्रेति | अज्ञातः तूलाज्ञानावृतस्तापो मरुदातपस्तदुत्था || १७ || अज्ञतैषा मनोमत्तमृगं विषयतर्षुलम् | असत्यैव हि सत्येव मृगतृष्णेव कर्षति || १८ || विज्ञाता सत्यरूपाङ्ग नाशं याति पलायते | विप्रमध्यात्परिज्ञाता यथा चाण्डालकन्यका || १९ || अविद्या संपरिज्ञाता न चैनं [एनं मनोमृगम्] परिकर्षति | मृगतृष्णा परिज्ञाता तर्षुलं नावकर्षति || २० || परमार्थावबोधेन समूलं राम वासना | दीपेनेवान्धकारश्रीर्गलत्यालोक एति च || २१ || आलोकः अपरिच्छिन्नात्मप्रकाशः | एति आविर्भवति || २१ || नास्त्यविद्येति संजाते निश्चये शास्त्रयुक्तितः | गलत्यविद्या तापेन तुषारकणिका यथा || २२ || देहस्यास्य जडस्यार्थे किं भोगैरितिनिश्चयः | भिनत्त्याशामलं ज्ञाता पञ्जरं केसरी यथा || २३ || इतिनिश्चय इति बहुव्रीहिः | ज्ञाता तत्त्वज्ञः | आशाप्रयोजकं मलमज्ञानं भिनत्ति || २३ || आशापरिकरे राम नूनं परिहृते हृदा | पुमानागतसौन्दर्यो ह्लादमायाति चन्द्रवत् || २४ || आशायाः परिकरे परिवारभूते देहाभिमानादौ || २४ ||
447 SK परां शीतलतामेति वृष्टिधौत इवाचलः | निर्वृतिं परमां धत्ते प्राप्तराज्य इवाधमः || २५ || अधमो दरिद्रः || २५ || शोभते परया लक्ष्म्या शरदीव नभस्तलम् | आत्मन्येव न मात्युच्चैः कल्पस्यान्त इवार्णवः || २६ || न माति न संमितो भवति | न परिच्छिद्यत इति यावत् || २६ || भवत्यपेतसंरम्भो वृष्टिमूक इवाम्बुदः | तिष्ठत्यात्मनि संवेत्ता प्रशान्त इव वारिधिः || २७ || अपेतसंरम्भस्त्यक्तदुरभिनिवेशः | वर्षासु वृष्ट्या शरदि मूको गर्जनादिशून्यः || २७ || परं धैर्यमुपादत्ते स्थैर्यं मेरुरिवाचलः | राजते स्वच्छया लक्ष्म्या शान्तेन्धन इवानलः || २८ || धैर्यं विषयैरप्रधृष्यताम् | स्थैर्यं भयस्थानैरप्रकम्प्यताम् || २८ || भवत्यात्मनि निर्वाणः प्रशान्त इव दीपकः | तृप्तिमायाति परमां नरः पीतामृतो यथा || २९ || अन्तर्दीपो घट इव मध्यज्वाल इवानलः | स्फुरद्दीप्तिर्मणिरिव प्रयात्यन्तः प्रकाशताम् || ३० || सर्वात्मकं सर्वगतं सर्वेशं सर्वनायकम् | सर्वाकारं निराकारं स्वमात्मानं प्रपश्यति || ३१ || व्यवहारे सर्वाकारं परमार्थतो निराकारम् || ३१ || हसत्यलमतीतास्ताः [अतीताः स्वाः इत्यपि क्वचित्] पेलवा दिवसावलीः | यासु स्मरशरश्रेणीचपलं चित्तमास्थितम् || ३२ || सङ्गरङ्गविनिष्क्रान्तः शान्तमानमनोज्वरः | अध्यात्मरतिरासीनः पूर्णः पावनमानसः || ३३ || विषयिजनसङ्गाद्विषयानुरञ्जनाच्च विनिष्क्रान्तः || ३३ || निर्मृष्टकामपङ्काङ्कश्छिन्नबन्धनिजभ्रमः | द्वन्द्वदोषभयोन्मुक्तस्तीर्णसंसारसागरः || ३४ || शीतोष्णसुखदुःखादयो द्वन्द्वदोषाः || ३४ || प्राप्तानुत्तमविश्रान्तिर्लब्धालभ्यपरास्पदः | अनिवृत्तिपदं प्राप्तो मनसा कर्मणा गिरा || ३५ || अनिवृत्तिपुनरावृत्तिशून्यं पदं साम्राज्यम् | मनसेत्यादेरुत्तरत्रान्वयः || ३५ || सर्वाभिवाञ्छितारम्भो न किंचिदपि वाञ्छति | सर्वानुमोदितानन्दो न किंचिदनुमोदते || ३६ || सर्वैर्जनैरुपादेयतया अभिवाञ्छित आरम्भश्चारित्र्यं यस्य | आनन्दश्चारित्र्यफलम् || ३६ ||
448 SK न ददाति न चादत्ते न स्तौति न च निन्दति | नास्तमेति न चोदेति न तुष्यति न शोचति || ३७ || अस्तं स्वरूपतिरोधानं नैति नोदेति | उदयं पुनः स्वरूपाविर्भावं च नैति सकृद्विभातत्वादित्यर्थः || ३७ || सर्वारम्भपरित्यागी सर्वोपाधिविवर्जितः | सर्वाशासंपरित्यागी जीवन्मुक्त इति स्मृतः || ३८ || सर्वैषणाः परित्यज्य चेतसा भव मौनवान् | धारा निरवशेषेण यथा त्यक्त्वा पयोधरः || ३९ || रामं प्रति तल्लक्षणानि शिक्षयति - सर्वैषणा इत्यादिना | निरवशेषेण निःशेषतया धाराः जलानि त्यक्त्वा पयोधरो यथा भवति तथेत्यर्थः || ३९ || न तथा सुखयत्यङ्ग संलग्ना वरवर्णिनी | यथा सुखयति स्वान्तमिन्दुशीता निराशता || ४० || एषणात्यागमेव प्रशंसति - न तथेत्यादिना || ४० || न तथेन्दुः सुखयति कण्ठलग्नोऽपि राघव | नैराश्यं सुखयत्यन्तर्यथा सकलशीतलम् || ४१ || सकलं जगच्छीतलं यस्मात्तत्सकलशीतलम् || ४१ || पुष्पपूर्णनवलतो न तथा राजते मधुः | यथोदारमतिर्मौनी नैराश्यसममानसः || ४२ || न हिमाद्रेर्न मुक्ताभ्यो न रम्भाभ्यो न चन्दनात् | न च चन्द्रमसः शैत्यं नैराश्याद्यदवाप्यते || ४३ || अपि राज्यादपि स्वर्गादपीन्दोरपि माधवात् | अपि कान्तासमासङ्गान्नैराश्यं परमं सुखम् || ४४ || तृणवन्नोपकुर्वन्ति यत्र त्रिभुवनश्रियः | सा परा निर्वृतिः साधो नैराश्यादुपलभ्यते || ४५ || आपत्करञ्जपरशुं पराया निर्वृतेः पदम् | पुष्पगुच्छं शमतरोरालम्बस्व निराशताम् || ४६ || गोष्पदं पृथिवी मेरुः स्थाणुराशाः समुद्गिकाः | तृणं त्रिभुवनं राम नैराश्यालंकृताकृतेः || ४७ || स्थाणुश्छिन्नावशिष्टतरुः | आशा दिशः | समुद्रिकाः क्षुद्रसंपुटिकाः || ४७ || दानादानसमाहारविहारविभवादिकाः | क्रिया जगति हस्यन्ते निराशैः पुरुषोत्तमैः || ४८ ||
449 SK दानं लौकिकं शास्त्रीयं च | आदानं धनादेः स्वीकारः | समाहारः संग्रहेण कोशाद्युपचयः | विहारो धनव्ययेन पुत्रक्रीडनम् | विभवा वस्त्रालंकारान्नपानादिसंभारसंपत्तयस्तदादिकाः | हस्यन्ते वह्वायासतुच्छफलानर्थबीजस्य मूढैरन्यथाभिमतत्वेन हासयोग्यत्वादिति भावः || ४८ || पदं यस्य न बध्नाति कदाचित्कलना हृदि | तृणीकृतत्रिभुवनः केनासाधुपमीयते || ४९ || कलना आशा || ४९ || इदमेवास्त्विदं मास्तु ममेति हृदि रञ्जना | न यस्यास्ति तमात्मेशं तोलयन्ति कथं जनाः || ५० || आत्मनो मनस ईशं स्वाधीनचित्तम् | आत्मा स्वयमेवेशः सर्वेश्वरस्तं वा || ५० || सर्वसंकटपर्यन्तमसंकटमलं सुखम् | सौभाग्यं परमं बुद्धेर्नैराश्यमवलम्ब्यताम् || ५१ || पर्यन्तं पारम् | बुद्धेः परमं सौभाग्यं सार्थक्यम् || ५१ || नाशास्तेनत्वमाशानां विद्धि मिथ्याभ्रमं जगत् | वहद्रथस्थदिक्चक्रपरावर्तवदुत्थितम् || ५२ ||
450 SK हे राम ते तव आशा न सन्ति | त्वं च आशानां संबन्धी नासि | अतो वैराग्यादिसाधनसंपत्त्या मुख्याधिकारित्वात्तत्त्वज्ञानसंपत्त्या जगत् वहति धावति रथे स्थितस्य पुंस उभयपार्श्वदिशोर्भ्रान्त्या तरुगुल्मादेश्चक्राकारपरावर्तवन्मिथ्याभ्रममात्रं विद्धित्यर्थः | अथवा न आशाऽवलम्ब्यताम् | आशानां स्तेनत्वं विवेकविज्ञानापहारेणात्मसुखविभ्रंशकत्वमेव | जागतं हि सुखं मूढैराशासहस्रैराशास्यते | जगत्तु मिथयभ्रमं वहति रथे स्थितयोश्चक्रयोरूर्ध्वाधोदिक्षु परावर्तो यद्वन्नेम्यवलम्बिपिपीलिकादेः पतनपेषणाद्यनर्थहेतुस्तद्वत्स्वावलम्बिनां जननमरणाद्यनर्थार्थमेवोत्थितं विद्धित्यर्थः | अथवा ननु उत्कृष्टसुखाशया निकृष्टसुखाशाप्रमोषदर्शनात्पूर्वपूर्वाशाप्रमोषार्थमाशान्तरो- - neti | utkṛṣṭāśānāṃ nikṛṣṭāstenatvaṃ abhipretya nairāśyaṃ mayoktamiti na viddhi | yato jaganmithyāvastuṣveva āśāparamparājananena bhramayati tathāvidham | utkarṣanirūpakāpakarṣasyaivāprasiddheḥ | yato vahadrathasthasya dikcakreṣu paryāyeṇa parāvarto bhramaṇaṃ vahadrathavegena diṅmoho vā tadvadutthitaṃ tadityarthaḥ | athavā na āśāstenatvamāśānām | vit hi iti cchedaḥ | vit ātmavettā kiṃcidapi nāśāste na vāñchati | hi yasmājjaganmithyābhramam | nāśāsyaṃ puruṣārtharūpaṃ jagatyasti atastvaṃ āśānāṃ saṃbandhī na bhavetyarthaḥ | śeṣaṃ prāgvat || 52 || kiṃ muhyasi mahābāho mūrkhavadvodhito'pi san | mamedaṃ tadayaṃ so'hamityudbhrāntena cetasā || 53 || ātyantikanairāśyopāyamanviṣya tadadarśanānmuhyamānamiva rāmamupalakṣya dehādāvahaṃmamatātyāga eva prāguktastadupāya ityāgraheṇa smārayannāha - पूर्वोत्तरकालप्रसिद्धः अयं वर्तमानकाले प्रत्यक्ष अहमेवेति किं मुह्यसीत्यर्थः || ५३ || आत्मैवेदं जगत्सर्वं नानातेह न विद्यते | एकरूपं जगज्ज्ञात्वा धीरैर्नाम न खिद्यते || ५४ || अस्त्वेवं तथापि कथमाशाखेदनिवृत्तिस्तत्राह - आत्मैवेति || ५४ ||
451 SK यथाभूतपदार्थौघदर्शनादेव राघव | परमाश्वासनं बुद्धेर्नैराश्यमधिगच्छति || ५५ || यथाभूतानां यथार्थात्मभूतानां पदार्थौघानां दर्शनात् || ५५ || भावाभावविसंवादमुक्तमाद्यन्तयोः स्थितम् | यद्रूपं तत्समालम्ब्य पदार्थानां स्थितिं कुरु || ५६ || कीदृशं तर्हि सर्वपदार्थानां यथार्थरूपं तदाह - भावेति | विसंवादो विकल्पः || ५६ || वैराग्यवीरमनसो मायेयमतिमोहिनी | पलाय्य याति संसारी मृगी केसरिणो यथा || ५७ || सर्वविकल्पपरित्यागलक्षणमहावैराग्येण वीरं मनो यस्य तस्मात् || ५७ || कान्तामुद्दाममदनां लोलां वनलतामिव | जर्जरोपलपाञ्चालीसमां पश्यति धीरधीः || ५८ || एवं कामादिदोषा अपि पलायन्त इत्याशयेनाह - कान्तामिति | जर्जरा या उपलपाञ्चाली पाषाणप्रतिमा तत्समाम् || ५८ || भोगा नानन्दयन्त्यन्तः खेदयन्ति न चापदः | दृश्यश्रियो हरन्त्यङ्ग नतमद्रिमिवानिलाः || ५९ || हरन्ति धैर्यात्प्रच्यावयन्ति | अङ्गेति संबोधने || ५९ || रक्तबालाङ्गनस्यापि ज्ञस्योदारधिया मुनेः | कणशः पांसुतां यान्ति मनसः स्मरसायकाः || ६० || रक्ता अनुरक्ता बालाङ्गना यस्मिंस्तथाविधस्यापि || ६० || रागद्वेषैः स्वरूपज्ञो नावशः परिकृष्यते | स्पन्द एवास्य नैताभ्यां किमुताक्रमणं भवेत् || ६१ || स्वरूपमात्मतत्त्वं तज्ज्ञः || ६१ || समदृष्तलतालोलवनितोऽद्रिशिलाकृतिः | रमते नैष भोगेषु पान्थो मरुमहीष्विव || ६२ || समं तुल्यरूपं यथा स्यात्तथा दृष्टे लता च लोलवनिता च येन | अत- ayatnopanataṃ sarvaṃ līlayā'saktamānasaḥ | bhuṅkte bhogabharaṃ prājñastvālokamiva locanam || 63 || tarhi kimāhārādyapi tyajati tatrāha - ayatneti | sarvamaniṣiddhānnapānādi | līlayā dehadhāraṇamātranukūlaceṣṭayā | asaktamānasatve locanadṛṣṭāntaḥ || 63 || kākatālīyavatprāptā bhogālī lalanādikā | svāditāpyaṅga dhīrasya na duḥkhāya na tuṣṭaye || 64 ||
452 SK गृहस्थस्य तत्त्वविदः स्वललनादिभोगास्वादेऽपि न कश्चिद्रागिवदतिशयभ्रमोऽस्तीत्याह - काकेति || ६४ || सम्यग्दृष्टपथं तज्ज्ञं सुखदुःखमती मनाक् | द्वे वीच्याविव शैलेन्द्रं क्षोभं नेतुं न शक्नुतः || ६५ || सम्यक् दृष्टः परिचितः पन्थाः प्रत्यग्दृष्टिमार्गो येन तम् | ऋक्पूरब्धूःपथाम् - इति अप्रत्यये भस्य टेर्लोपः | शैलेन्द्रं मन्दरम् || ६५ || हेलयालोकयन्भोगान्मृदुर्दान्तो गतज्वरः | स्वमेव पदमालम्ब्य सर्वभूतान्तरस्थितम् || ६६ || हेलया अवहेलनया | असत्यताबुद्ध्येत्यर्थः | आलोकयन् स्वमात्मपदमेवालम्ब्य तिष्ठतीति शेषः || ६६ || ज्ञस्तिष्ठति गतव्यग्रो व्यग्रेणापि समन्वितः | जगन्ति जनयन्नेव ब्रह्मेवात्मपरायणः || ६७ || व्यग्रेण तत्तत्कालोचितक्रियाव्यापृतेनापि देहेन्द्रियादिना समन्वितो ज्ञस्तत्त्ववित् गतव्यग्रो निर्विक्षेप एव तिष्ठति | ब्रह्मा हिरण्यगर्भ इव || ६७ || आपतत्सु यथाकालं यथादेशं यथाक्रमम् | सुखदुःखेषु न क्षोभमेति भूबृदृतुष्विव || ६८ || भूभृत् पर्वतः | ऋतुषु वसन्तादिषु || ६८ || मज्जतोऽपि बहुज्ञस्य राम कर्मेन्द्रियभ्रमैः | असक्तमनसो नित्यं न किंचिदपि मज्जति || ६९ || कर्मेन्द्रियाणां वागादीनां भ्रमैर्व्यापारैर्विषयेषु मज्जतोऽपि || ६९ || कलङ्क्यन्तः कलङ्केन प्रोच्यते हेम नान्यथा | भावासक्त्या समासक्त उक्तो जन्तुर्हि नान्यथा || ७० || अन्तर्दोषसङ्गस्यैव दूषकत्वं न बहिःसङ्गस्येत्यत्र दृष्टान्तमाह - कलङ्कीति | हेम अन्तःकलङ्केनैव कलङ्कि उच्यते अन्यथा बहिः पङ्कादिलेपेन तथा नोच्यते तद्वदित्यर्थः || ७० || शरीराद्व्यतिरिक्तं ज्ञं पश्यतः प्रविवेकिनः | विकर्तिताङ्गकस्यपि न किंचित्प्रविकर्तितम् || ७१ || अन्तःसङ्गत्यागे देहदुःखादेरपि न प्रसक्तिरित्याह - शरीरादिति || ७१ || सकृत्प्रभातं विमलं यज्ज्ञातं ज्ञातमेव तत् | नहि बन्धुः परिज्ञातः पुनरज्ञाततां व्रजेत् || ७२ || देहातिरिक्तात्मविस्मरणे तर्हि पुनर्दुःखं स्यात्तत्राह - सकृदिति | न विस्मरणप्रसक्तिरित्यर्थः || ७२ ||
453 SK सर्पभ्रान्तौ निवृत्तायां न रज्ज्वां सर्पभावना | पुनरेति यथा प्रावृण्नदी गिरितटाच्च्युता || ७३ || विस्मरणाप्रसक्तौ सदृष्टान्तोपपत्तिकं कारणमाह - सर्पेत्यादिना || ७३ || न हेम तापशुद्धाङ्गं स्वभावमलमागतम् | कर्दमे मग्नमपि सत्समादत्ते मलं पुनः || ७४ || अलमत्यन्तं स्वभावं हेममात्रतामागतं प्राप्तम् || ७४ || क्षीणे स्वहृदयग्रन्थौ न बन्धोऽस्ति पुनर्गुणैः | यत्नेनापि पुनर्बद्धं केन वृन्ते च्युतं फलम् || ७५ || वृक्षस्थवृन्ताच्च्युतं फलं पुनर्वृन्ते केन समर्थेनापि महतापि प्रयत्नेन पूर्ववद्वद्धम् | केनचिदित्यर्थः || ७५ || अवच्छेदविचाराभ्यामभितः खण्डशो गतम् | पाषाणं च मणिं चैव संधातुं कस्य शक्तता || ७६ || यथा पाषाणान्तर्गतं मणिं पाषाणच्छेदनेन मणितत्त्वविचारेण च अभितः अमण्यंशखण्डनतो गतं प्राप्तं पुनः पूर्ववत्तं पाषाणं मणिं च संधातुं कस्याभाग्यस्य शक्ततास्तीत्यर्थः || ७६ || विज्ञातायामविद्यायां कः पुनः परिमज्जति | परिज्ञाय श्वपाकानां यात्रां कः प्रेक्षते द्विजः || ७७ || यात्रां उत्सवसमाजगमनम् || ७७ || शुद्धाम्भसि यथा क्षीरधीर्विचारान्निवर्तते | संसारवासना तद्वद्धीविचारान्निवर्तते || ७८ || क्षीरधीर्दुग्धभ्रान्तिः | धीविचाराद्धीस्थात्मदर्शनात् || ७८ || मध्वम्बुशङ्कया तावद्विप्रवर्यैः प्रपीयते | यावन्नात्र परिज्ञातं परिज्ञातं प्रहीयते || ७९ || मधु मद्यम् | अम्बुशङ्कया जलभ्रान्त्या || ७८ || रूपलावण्ययुक्तापि चित्रकान्तेव कामिनी | द्रव्यमात्रसमारम्भात्तत्त्वविद्भिर्विलोक्यते || ८० || चित्रलिखिता कान्ता स्त्रीप्रतिमेव || ८० || यथा मषीकुसुम्भादि स्त्रियाश्चित्रे तथैव हि | जीवत्या अपि केशोष्ठं कस्तां परि किल ग्रहः || ८१ ||
454 SK यथा चित्रे स्त्रिया मषीकुसुम्भादिरङ्गभेदाः पञ्चभूतमात्रं तथा जीवत्याः केशोष्ठाद्यपीति तत्त्वतः स्त्र्यादिविषयो यथा अनुभूयमानाद्रूपात्तत्त्वतोऽन्यथैव वर्तते तथा स्वात्मानुभवोऽपि परमप्रेमास्पदत्वेन प्रसिद्धादानन्दरूपादन्यथैव किं न स्यादिति चेत्तत्राह - अनुभूत इति | यथा गुडस्य स्वादुर्मधुरसोऽनुभूतस्य गुडस्य अनुभवकारणस्य जिह्वादेरनुभवितुर्देवदत्तादेर्वा दाहविकर्तनादियत्नशतैरपि नासौ माधुर्यानुभवः किंतु तिक्ताद्यनुभव इत्यन्यथाकर्तुं न शक्यते आत्मनस्तात्त्विकानन्दानुभवोऽपि तथैवेत्यर्थः || ८२ || अनुभूतो गुडः स्वादुरपि दाहविकर्तनैः | न शक्यतेऽन्यथाकर्तुं तत्त्वालोकस्तथात्मनः || ८२ || यदा सकृदप्यनुभूतो नान्यथाकर्तु शक्यस्तदा तदैकव्यसनितया सदैवानुभूयमानस्तु सुतरामित्याशयेनाह - परव्यसनिनीत्यादिना || ८३ || परव्यसनिनी नारी व्यग्रापि गृहकर्मणि | तदेवास्वदयत्यन्तः परसङ्गरसायनम् || ८३ || एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः | न शक्यते चालयितुं देवैरपि सवासवैः || ८४ || परव्यसनिनी नारी केन भर्त्रा बलीयसा | विस्मारिता स्वसंकल्पकान्तसङ्गमहोत्सवम् || ८५ || जगत्समरसानन्दचिदालोकावलम्बनम् | केन विस्मार्यते बुद्धिस्तत्त्वज्ञस्य महात्मनः || ८६ || जगत्पदेन जागताः सर्वे विषयानन्दभेदा लक्ष्यन्ते | ते सर्वे नानापुष्परसा मधुभाव इव यत्र समरसा भवन्ति तादृशस्वात्मानन्दचिदालोकस्य अवलम्बनं निरन्तरास्वादधारां प्राप्ता तत्त्वज्ञस्य बुद्धिः केन विस्मारयितुं शक्यत इत्यर्थः | तथाचोक्तं शिवधर्मोत्तरे - ज्ञानामृतरसो येन सकृदास्वादितो भवेत् | विहाय सर्वकार्याणि मनस्तत्रैव धावति || इति || ८६ || समग्रसुखदुःखाढ्यं व्यवहारमखण्डितम् | कुर्वन्कुलजनायत्तो भर्तृश्वशुरखेदितः || ८७ || व्यवहारं गृहकर्म अखण्डितं सदा कुर्वन् भर्त्रा श्वशुराभ्यां च खेदितः पीडितोऽपि परव्यसनवान्वधूलोक इति परेणान्वयः || ८७ ||
455 SK यथा संकल्पकान्तेन भवत्यानन्दमन्थरः | वधूलोको व्यसनवान्दुःखवृन्दैर्न बाध्यते || ८८ || तथा विगलिताविद्यो व्यवहारपरोऽप्यलम् | सम्यग्दृष्टिः सदाचारो मुदमेत्यन्तरात्मना || ८९ || छिद्यते न निकृत्ताङ्गो गलदश्रुर्न रोदिति | दह्यते न प्रदग्धोऽपि नष्टोऽपि न विनश्यति || ९० || तत्रापि सप्तमभूमिकामारूढस्य स्थैर्यातिशयमाह - छिद्यत इति | नष्टः विनष्टदेहोऽपि || ९० || व्यपगतसुखदुःखसंनिपातो विधिविधुरेष्वपि संकटेष्वचित्तः | विलसतु सदने पुरोत्तमे वा विततगिरौ विपिने तपोवने वा || ९१ || अचित्तो मनोनाशपर्यन्तभूमिकाप्रतिष्ठितः पुरुषधौरेयो विधिना प्राक्तनप्रारब्धफलेन कर्मणा विधुरेषु भोगशून्येषु दारिद्र्यादिषु माण्डव्यवच्छूलाधिरोहणादिसंकटेषु वा पुरोत्तमे सदने वा विततगिरौ विपिने तपोवने वा निवसतु तथापि सदा व्यपगतसुखदुःखसंनिपात एवास्ते न मनागपि सांसरिकैर्हर्षशोकैः स्पृश्यत इत्यर्थः || ९१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे वैराग्योपदेशो नाम चतुःसप्ततितमः सर्गः || ७४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे वैराग्योपदेशो नाम चतुःसप्ततितमः सर्गः || ७४ || पञ्चसप्ततितमः सर्गः ७५ श्रीवसिष्ठ उवाच | जनकः संस्थितो राज्ये व्यवहारपरोऽपि सन् | विगतज्वर एवान्तरनाकुलमतिः सदा || १ || महत्स्वप्यधिकारेषु हर्षशोकाद्यसङ्गिनः | इहोक्ता बहवो मुक्ता देवासुरनरादयः || १ || जनको वैदेहः || १ || पितामहो दिलीपस्ते सर्वारम्भपरोऽप्यलम् | वीतरागतयैवान्तर्बुभुजे भेदिनीं चिरम् || २ || निरञ्जनतया बुद्धो जनतां पालयंश्चिरम् | जीवन्मुक्ताकृतिर्नित्यं मनू राज्यमपालयत् || ३ || निरञ्जनतया रागादिकालुष्यरहिततया | बुद्धः प्रबुद्धो मनुः || ३ || विचित्रबलयुद्धेषु व्यवहारेषु भूरिषु | मान्धाता सुचिरं तिष्ठन्प्राप्तवान्वै परं पदम् || ४ ||
456 SK विचित्राणि बलानि सैन्यानि बाहुबलानि च येषु तथाविधेषु युद्धेषु || ४ || बलिः पातालपीठस्थः कुर्वन्सदिव संस्थितिम् | सदा त्यागी सदाऽसक्तो जीवन्मुक्त इति स्थितः || ५ || सत् यथार्थमिव संस्थितिं व्यवहारम् | दिवसस्थितिम् इति पाठे सः दिवसानां पातालनिवासाय हरिणा नियमितानां स्थितिं पालनम् || ५ || नमुचिर्दानवाधीशोओ देवद्वन्द्वपरः सदा | नानाचारविचारेषु क्वचिन्नान्तरतप्यत [मांतरलिप्यत इति पाठः] || ६ || देवैः सह द्वन्द्वे युद्धे मर्यादाव्युत्क्रमे वा परस्तत्परः | नानाविधानां देवासुराचाराणां विचारेषु विमर्शेषु || ६ || वासवाजौ तनुत्यागी वृत्रो विततमानसः | अन्तःशान्तमना मानी चकार सुरसंगरम् || ७ || संगरं युद्धम् || ७ || कुर्वन्दानवकार्याणि पातालतलपालकः | अनपायं निराक्रोशं प्रह्रादो ह्लादमागतः || ८ || निराक्रोशं वाचामगोचरं ह्लादं सुखम् || ८ || शम्बरैकपरोऽप्यन्तःशम्बरैकतयोदितः | संसारशम्बरं राम शम्बरस्त्यक्तवानिदम् || ९ || शाम्बरं माया तदेकपरोऽप्यन्तःशम्बरं हार्दचिदाकाशस्तदेकतया उदित आविर्भूतः || ९ || असक्तबुद्धिर्हरिणा कुर्वन्दानवसंगरम् | परां संविदमासाद्य कुशलस्त्यक्तवानिदम् || १० || कुशलः स एव अन्यो वा कुशलनामा दानवः || १० || सर्वामरमुखो वह्निः क्रियाजालपरो ह्यपि | यज्ञलक्ष्मीश्चिरं भुङ्क्ते मुक्त एवेह तिष्ठति || ११ || पीयमानः सुरैः सर्वैः सोमः समरसाशयः | क्वचिदेति न संसङ्गमाक्रान्तावम्बरं यथा || १२ || समं ब्रह्मैव रसो रसायनं पुनरुज्जिवनामृतमन्तर्यस्य | संसङ्गं सुखदुःखादिसंसर्गम् | आक्रान्तौ पद्भ्यामाक्रमणे | अम्बरमाकाशम् || १२ || बृहस्पतिर्देवगुरुर्दारार्थं चन्द्रयोध्यपि | आचरन्दिवि चित्रेहां मुक्त एव ह्यवस्थितः || १३ || दारार्थं चित्रां ईहां देवपौरोहित्याधिकारचेष्टाम् || १३ || शुक्रोऽम्बरतलद्योती बुधः सर्वार्थपालकः | निर्विकारमतिः कालं नयत्यसुरदेशिकः || १४ ||
457 SK बुधो विद्वान् | नीतिशास्त्रप्रणयनेन सर्वेषामर्थानामभिमतानां पालकः || १४ || जगद्भूतगणाङ्गानि चिरं संचारयन्नपि | सर्वदा सर्वसंचारी मुक्त एव समीरणः || १५ || जगन्ति ऊर्ध्वभुवनानि भूतगणानां प्राणिनिकायानामङ्गानि च || १५ || लोकाजवं जवीभावप्रोद्वेगज्ञोऽप्यखिन्नधीः | ब्रह्मा सममना राम क्षिपयत्यायुराततम् || १६ || लोकानां प्राणिनां आजवं जवीभावा ऊर्ध्वाधोमध्यगतिभिः परिवर्तास्तत्प्रयुक्ताः प्रोद्वेगाश्च तज्ज्ञोऽपि | आततं द्विपरार्धकालविस्तीर्णम् || १६ || रजामरणयुद्धादिद्वन्द्वसंगरलीलया | चरती [चरतीहाचिरं इति पाठः] ह चिरं कालं मुक्तोऽपि भगवान्हरिः || १७ || मुक्तो नित्यमुक्तोऽपि || १७ || मुक्तेनापि त्रिनेत्रेण सौन्दर्यतरुमञ्जरी | देहार्धे धार्यते गौरी कामुकेनेव कामिनी || १८ || इवकारेण न स कामुको नापि सा कामिनी किंतु ब्रह्मब्रह्मविद्ये एव ते इति ध्वनितम् || १८ || मुक्तयापि गले बद्धो गौर्या गौरस्त्रिलोचनः | संशुद्ध इव मुक्तानां हारः शशिकलामलः || १९ || गुहो गहनधीर्वीरस्तारकादिरणक्रियाम् | मुक्तोऽपि कृतवान्सर्वं ज्ञानरत्नैकसागरः || २० || गहनधीर्विचित्रदुरवगाहबुद्धिः || २० || भृङ्गीशो रक्तमांसं स्वं स्वमात्रे प्रवितीर्णवान् | मुक्तयैव धिया राम धीरया ध्यानधौतया || २१ || भृङ्गीशोऽत्र भृङ्गीरिटिः शिवगणविशेषः | स हि देवीमनादृत्य शिवस्यैवाराधनपरः कुपितया देव्या मातृपितृभागात्ममांसास्थिमयदेहस्य स्वीयं मातृभागं परावृत्य याचितः स्वमात्रे देव्यै स्वं रक्तमांसमुत्कृत्त्य ददाविति पुराणेषु प्रसिद्धम् || २१ || मुनिर्मुक्तस्वभावोऽपि जगज्जङ्गलखण्डकम् | नारदो विजहारेमं शीतया [अत्र लीलयेति पाठोऽपेक्षितः] कार्यशीलया || २२ || कार्य कलहकौतुकप्रवर्तनं तच्छीलया || २२ || जीवन्मुक्तमना मान्यो विश्वामित्रोऽप्ययं प्रभुः | वेदोक्तां मखनिर्माणक्रियां समधितिष्ठति || २३ || धारयत्यवनीं शेषः करोत्यर्को दिनावलीम् | यमो यमत्वं कुरुते जीवन्मुक्ततयैव हि || २४ ||
458 SK यमत्वं दण्डनम् || २४ || अन्येऽप्यस्मिंस्त्रिभुवने यक्षासुरनराः सुराः | शतशो मुक्ततां याताः सन्तस्तिष्ठन्ति संसृतौ || २५ || संस्थिता व्यवहारेषु विचित्राचारधारिषु | अन्तराशीतलाः केचित्केचिन्मूढाः शिलासमाः || २६ || विचित्रशोकमोहाद्यनर्थप्रसञ्जकेषु पुत्रदारधनभूत्यादिसंग्रहपूर्वकयुद्धवधबन्धाद्याचारधारिष्वपि राज्यादिव्यवहारेषु संस्थिता अन्तः आशीतलाः केचिन्मुक्ताः || २६ || परमं बोधमासाद्य केचित्काननमागताः | यथा भृगुभरद्वाजविश्वामित्रशुकादयः || २७ || केचित्तु चित्तविक्षेपनिवृत्त्यर्थं काननमाश्रिताः | तानुदाहरति - यथेत्यादिना || २७ || केचिद्राज्येषु तिष्ठन्ति च्छत्रचामरपालिताः | यथा जनकशर्यातिमान्धातृसगरादयः || २८ || केचिद्व्योमनि तिष्ठन्ति धिष्ण्यचक्रान्तरस्थिताः | यथा बृहस्पत्युशनश्चन्द्रसूर्यमुनीश्वराः || २९ || ग्रहनक्षत्रादीनां धिष्ण्यमाधारभूतं ज्योतिश्चक्रं तदन्तरे स्थिताः | मुनीश्वराः सप्तर्षयः || २९ || केचित्सुरपदे याता विमानावलिमास्थिताः | यथाग्निवायुवरुणयमतुम्बुरुनारदाः || ३० || केचित्पातालकुहरे जीवन्मुक्ता व्यवस्थिताः | यथा बलिसुहोत्रान्धप्रह्रादाह्लादपूर्वकाः || ३१ || तिर्यग्योनिष्वपि सदा विद्यन्ते कृतबुद्धयः | देवयोनिष्वपि प्राज्ञा विद्यन्ते मूर्खबुद्धयः || ३२ || तिर्यग्योनिषु गरुडहनुमज्जाम्बवदादयः || ३२ || सर्वं सर्वेण सर्वत्र सर्वथा सर्वदैव हि | संभवत्येव सर्वात्मन्यात्मन्याततरूपिणि || ३३ || ननु सात्त्विकतमत्वात्स्वभावतोऽभिव्यक्तज्ञानैश्वर्येषु देवयोनिषु कथं मूर्खाः संभवन्तीति चेत्सर्वशक्तेरीश्वरता [ईश्वरस्य इति पाठः] सर्वभावेन सर्वत्र सर्वप्रकारेण सर्वदा स्थितत्वात्सर्वात्मन्यात्मनि स्वप्नादावसंभावितसहस्रस्यापि दर्शनान्नासंभावना क्वापि कस्यचिदपि कार्येत्याह - सर्वमिति || ३३ || विधेर्विचित्रा नियतिरनन्तारम्भमन्थरा | संनिवेशांशवैचित्र्यात्सर्वं सर्वत्र दृश्यते || ३४ || उक्तार्थं स्फुटमाह - विधेरिति || ३४ ||
459 SK विधिर्दैवं विधिर्धाता सर्वेशः शिव ईश्वरः | इति नामभिरात्मा नः प्रत्यक्चेतन उच्यते || ३५ || कोऽसौ विधिस्तमाह - विधिरिति | आद्यं विधिपदं विरिञ्चिद्वारा द्वितीयं विष्णुद्वारा परमात्मनो नामेति न पौनरुक्त्यम् | नः अस्माकं सर्वेषामात्मा | अन्तः इति पाठे तु कोशपञ्चकान्तस्थः | चिच्छक्तिशबलत्वाच्चेतनः || ३५ || अस्त्यवस्तुनि वस्त्वन्तः काञ्चनं सिकतास्विव | अस्ति वस्तुन्यवस्त्वन्तर्मलं हेमकणेष्विव || ३६ || यत्रात्यन्तमसंभाविते अपि वस्त्वस्तुनी परस्परान्तः संभाविते तत्र किमन्यदसंभावितं स्यादित्याशयेनाह - अस्तीत्यादिना || ३६ || अयुक्ते युक्तता युक्त्या प्रेक्ष्यमाणा प्रदृश्यते | पापस्य हि भयाल्लोको राम धर्मे प्रवर्तते || ३७ || अत्यन्तायुक्ते पापेऽपि फलतो भीषणतया धर्मे पुरुषप्रवर्तकतालक्षणो महान्गुणो युक्त्या विमर्शे दृश्यत इत्यर्थः || ३७ || असत्ये सत्यता साधो शाश्वती परिलक्ष्यते | शून्येन ध्यानयोगेन शाश्वतं पदमाप्यते || ३८ || फलतः सत्यता | सर्वशून्यताध्याने ध्यानसाक्षिणः स्वप्रकाशात्मनो दुरपह्नवत्वादर्थादेव यथार्थतन्मात्रपरिशेषसिद्धेरिति भावः || ३८ || यन्नास्ति तदुदेत्याशु देशकालविलासतः | शशकाः शृङ्गवन्तो हि दृश्यन्ते शम्बरस्थितौ || ३९ || शम्बरस्थितौ ऐन्द्रजालिकसर्गे || ३९ || ये वज्रसाराः सुदृढा दृश्यन्ते ते क्षयं गताः | कल्पस्यान्ते यथेन्द्वर्कधराब्धिविबुधादयः || ४० || वज्रसारा येषां कदाप्यसंभावितः क्षयस्तेऽपीत्यर्थः || ४० || इति पश्यन्महाबाहो भावाभावभवक्रमम् | हर्षामर्षविषादेहाः संत्यज्य समतां व्रज || ४१ || प्रासङ्गिकस्य असंभावितसंभवोपपादनस्यापि प्रकृतमेव फलं दर्शयन्नुपसंहरति - इतीति || ४१ || असत्सदेव भातीह सदसच्चापि दृश्यते | आस्थानास्थे परित्यज्य तेनाशु समतां व्रज || ४२ || मुक्तौ राघव लोकेऽस्मिन्न प्राप्तिः संभवत्यलम् | अप्रवृत्तौ विवेकस्य मग्ना हि जनकोटयः || ४३ ||
460 SK नन्वेवं सति विदेहमुक्तावपि पुनः संसारप्राप्तिः संभाविता स्यात्तत्राह - tattvajñānasyāpravṛttau ajñānadaśāyāmevātyantāsaṃbhāvitānarthakoṭisaṃbhāvanalakṣaṇe bhrame magnāḥ na muktau | tanmajjananimittājñānasya naṣṭatvāditi bhāvaḥ || 43 || muktau rāghava loke'sminprāptirasti sadaiva hi | pravṛttyā hi vivekasya vimuktā bhūtakoṭayaḥ || 44 || nityaprāptātmarūpatvādapi mukternāpāyaśaṅkāsti vismṛtakaṇṭhacāmīkaravadvivekamātreṇa tallābhādityāha - muktāviti || 44 || pravivekāvivekābhyāṃ sulabhālabhyatāṃ gatā | muktirmanaḥkṣayaprāptyā vivekaṃ tena dīpaya || 45 || pravivekātsulabhāpi avivekādalabhyatāṃ gatā muktiḥ || 45 || ātmāvalokane yatnaḥ kartavyo bhūtimicchatā | sarvaduḥkhaśiraścheda ātmālokena jāyate || 46 || bhūtiṃ muktimicchatā || 46 || nīrāgā nirupāsaṅgā jīvanmuktā mahādhiyaḥ | saṃbhavantīha bahuśaḥ suhotrajanakā iva || 47 || pūrvakālikānāṃ jīvanmuktisaṃbhave'pi nedānīṃtanānāṃ sā saṃbhāvitetyāśaṅkāṃ vārayati - nīrāgā iti | nirupāsaṅgā nirabhiniveśāḥ | ihāsminnapi kāle || 47 || tasmāttvamapi vairāgyavivekoditadhīradhīḥ | jīvanmukto vihara bho samaloṣṭāśmakāñcanaḥ || 48 || dvividhā muktatā loke vidyate dehadhāriṇām | sadehaikā videhānyā vibhāgo'yaṃ tayoḥ śṛṇu || 49 || idānīṃ jīvanmuktividehamuktyorbhedanimittaṃ vaktumupakramate - dvividhetyādinā || 49 || asaṃsaṅgātpadārthānāṃ manaḥśāntirvimuktatā | satyasatyapi dehe sā saṃbhavatyanaghākṛte || 50 || tatrādau ubhayasādhāraṇamuktiśabdārthaṃ darśayati - asaṃsaṅgāditi || 50 || snehasaṃkṣayamevāṅga viduḥ kaivalyamuttamam | tatsaṃbhavati dehasya bhāve cābhāva eva ca || 51 || tatropapattimāha - sneheti | sneha ātmatābhramātprītistatsaṃkṣayam || 51 || yo jīvati gatasnehaḥ sa jīvanmukta ucyate | sasnehajīvito baddho mukta eva tṛtīyakaḥ || 52 ||
461 SK यत्नो यत्नेन कर्तव्यो मिक्षार्थं युक्तिपूर्वकम् | यत्नयुक्तिविहीनस्य गोष्पदं दुस्तरं भवेत् || ५३ || साधनचतुष्टयमध्ये यत्नेन पूर्वपूर्वसिद्धौ उत्तरोत्तरजयेऽपि यत्नः कर्तव्यः | युक्तयः प्रमाणतात्पर्यप्रमेयतत्त्वावधारणानुकूलास्तर्कास्तत्पूर्वकम् || ५३ || न त्वनध्यवसायस्य दुःखाय विपुलात्मने | आत्मा परवशः कार्यो मोहमाश्रित्य केवलम् || ५४ || युक्त्यनिव्तो यत्न आत्मतत्त्वाध्यवसायपर्यन्तं कार्यो न सहसा अनध्यवसाये निर्वेदादन्तराले यत्नोपरमेण पुनरात्मा अनर्थवशे कार्यं इत्याह - न त्विति | अनध्यवसायस्य अनध्यवसाये सति यत्नानादरादित्यर्थः | षष्ठी चानादरे इति भावलक्षणे षष्ठी || ५४ || सुमहद्धैर्यमालम्ब्य मनसा व्यवसायिना | विचारयात्मनात्मानमात्मनश्चिरसिद्धये | वितताध्यवसायस्य जगद्भवति गोष्पदम् || ५५ || उक्तमेवार्थ स्फुटमाह - सुमहदिति | व्यवसायिना फलपर्यन्तं प्रयत्नानुपरमदृढनिश्चयवता | चिरसिद्धय इति | सति प्रतिबन्धे बहुभिर्जन्मभिर्वा सिद्धिमुद्दिश्येत्यर्थः || ५५ || यदुपगतः सुगतः पदं प्रधानं यदपगतोऽध्रुवतां नृपश्च कश्चित् | यदुपगताः पदमुत्तमं महान्तः प्रयतनकल्पतरोर्महाफलं तत् || ५६ ||
462 SK यत्स्वयंज्योतिरात्ममात्रपरिशेषाख्यं पदम् | सुगतो बुद्धः शोभनं विवेकं गतः कपिलश्च बहु विचार्याप्यध्यवसातुमसामर्थ्याद्यस्मादपगतः सन्नात्मनोऽध्रुवतां क्षणिकविज्ञानसंतानात्मतां गुणत्रयसाम्यावस्थालक्षणं प्रधानं पदं वस्तु उपगतः | एवं कश्चिद्वेदनिन्दकत्वादग्राह्यनामा अर्हदाख्यो नृपः क्षत्रियोऽपि यदपगतः सन्नात्मानं चित्स्वभावमभ्युपगम्यापि देहपरिमाणत्वाभ्युपगमाद्धस्तिमशकशरीरानुप्रवेशे अवयवोपचयापत्त्या अध्रुवतामुपगत इत्यनुत्तमे एव मिथ्यापदे ते निमग्नाः | महान्तो वेदरहस्यनिष्णातास्तु उत्तमं सत्यादिलक्षणं यत्पदमुपगता यथार्थतः प्राप्तवन्तस्तन्महद्भिर्यत्प्राप्तं पदं वेदोक्तमार्गेण प्रयतनलक्षणस्य कल्पतरोर्महाफलमिति तथैवान्योऽपि प्रयतेतेत्यर्थः || ५६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे मुक्तामुक्तविचारो नाम पञ्चसप्ततितमः सर्गः || ७५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे मुक्तामुक्तविचारो नाम पञ्चसप्ततितमः सर्गः || ७५ || षट्सप्ततितमः सर्गः ७६ श्रीवसिष्ठ उवाच | ब्रह्मणः समुपायान्ति जगन्तीमानि राघव | स्थैर्यं यान्त्यविवेकेन शाम्यन्त्येव विवेकतः || १ || इह संसारजलधिः स्त्रीवीचिरुपवर्ण्यते | ततस्तत्तरणोपायस्तीर्णे क्रीडा यथासुखम् || १ || अविज्ञाताद्ब्रह्मणः समुपायान्त्याविर्भवन्ति अविवेकेन स्थैर्ययान्ति | अनेनानर्थजन्मस्थित्योर्निमित्तं दर्शितम् | तन्निवृत्त्युपायमाह - शाम्यन्तीति || १ || जगज्जालजलावर्तवृत्तयो ब्रह्मवारिधौ | संख्यातुं केन शक्यन्ते भासां च त्रसरेणवः || २ || भासां जालसूर्यमरीचीनां संबन्धिनस्रसरेणवश्च संख्यातुं न शक्यन्ते || २ || असम्यक्प्रेक्षणं विद्धि कारणं जगतः स्थितौ | संसारशान्तये कान्त कारणं सम्यगीक्षणम् || ३ || हे कान्तेति रामसंबोधनम् || ३ || अयं हि परदुष्पारो घोरः संसारसागरः | विना युक्तिप्रयत्नाभ्यामस्माद्राम न तीर्यते || ४ ||
463 SK परं अत्यन्तं दुर्गमं पारं यस्य || ४ || यस्यायं सागरः पूर्णो मोहाम्बुभरपूरितः | अगाधमरणावर्तकल्लोलाकुलकोटरः || ५ || तमेव संसारसागरं वर्णयति - यस्येत्यादिना | अयं वक्ष्यमाणविविधविशेषणविशिष्टः संसारलक्षणः सागरो यस्य मोहाम्बुभरेण पूरितः सन् पूर्णस्तेनैव तन्निमग्ने न उत्तीर्यते चेदिति सप्तमेनान्वयः | अगाधैर्मरणलक्षणैरावर्तैः कल्लोलैर्बृहत्तरङ्गैश्च आकुलकोटरः || ५ || प्रभ्रमत्पुण्यडिण्डीरो ज्वलन्नरकवाडवः | तृष्णाविलोललहरिर्मनोजलमतङ्गजः || ६ || पुण्यान्येव डिण्डीराः फेना यस्य | वाडवो वडवानलः | जलोद्भवो मतङ्गजसदृशो यादोभेदः || ६ || आलीनजीवितसरिद्भोगरत्नसमुद्गकः | क्षुब्धरोगोरगाकीर्ण इन्द्रियग्राहघर्घरः || ७ || आ समन्ताल्लीना उपक्षीणा जीवितसरितो यत्र | इन्द्रियग्राहैर्घर्घरः कृतविक्षोभध्वनिः || ७ || पश्यास्मिन्प्रसृता राम वीचयश्चारुचञ्चलाः | इमा मुग्धाङ्गनानाम्न्यः शिखराकर्षणक्षमाः || ८ || तत्र स्त्रियो वीचित्वेन वर्णयति - पश्येत्यादिना | शिखरवद्धीराणामप्याकर्षणे क्षमाः || ८ || छदश्रीपद्मरागाढ्या नेत्रनीलोत्पलाकुलाः | दन्तपुष्पफलाकीर्णाः स्मितफेनोपशोभिताः || ९ || छदा रदनच्छदास्तच्छ्रीभिः पद्मरागाढ्याः | पुष्पफलैर्मुकुलैराकीर्णाः || ९ || केशेन्द्रनीलवलया भ्रूविलासतरङ्गिताः | नितम्बपुलिनस्फीताः कण्ठकम्बुविभूषिताः || १० || कण्ठलक्षणैः कम्बुभिः शङ्खैर्विभूषिताः || १० || ललाटमणिपट्टाढ्या विलासग्राहसंकुलाः | कटाक्षलोलगहना वर्णकाञ्चनवालुकाः || ११ || ललाटलक्षणैर्मणिपट्टैः रत्नफलकैराढ्याः | कटाक्षैर्लोलत्वाद्गहना दुरवगाहाः | वर्णा देहकान्तय एव काञ्चनवालुका यासाम् || ११ || एवं विलोललहरीभीमात्संसारसागरात् | उत्तिर्यते चेन्मग्नेन तत्परं पौरुषं भवेत् || १२ || सत्यां प्रज्ञामहानावि विवेके सति नाविके | संसारसागरादस्माद्यो न तीर्णो धिगस्तु तम् || १३ ||
464 SK अपारावारमाक्रम्य प्रमेयीकृत्य सर्वतः | संसाराब्धिं गाहते यः स एव पुरुषः स्मृतः || १४ || आक्रम्य तत्त्वदर्शनेन बाधित्वा | अत-एव तं प्रमेयब्रह्ममात्रं कृत्वा गाहते प्रविशति प्रत्यञ्चमपि तद्भावं नयतीति यावत् || १४ || विचार्यार्यैः सहालोक्य धिया संसारसागरम् | एतस्मिंस्तदनु क्रीडा शोभते राम नान्यथा || १५ || तदनु तत्त्वबोधानन्तरम् | एतस्मिन् ब्रह्मत्वमापन्ने जगति || १५ || इह भव्यो भवान्साधो विचारपरया धिया | त्वयाधुनैव तेनायं संसारः प्रविचार्यते || १६ || भवान् भव्यो धन्यः | यतस्त्वया तेन भव्यत्वेन अधुना अस्मिन्वयस्येव || १६ || भवानिव विचार्यादौ संसारमतिकान्तया | मत्या यो गाहते लोको नेहासौ परिमज्जति || १७ || गाहते प्रविशति ब्रह्मेति शेषः | लोकोऽधिकारिजनः || १७ || पूर्वं धिया विचार्यैते भोगा भोगिभयप्रदाः | भोक्तव्याश्चरमं राम गरुडेनेव पन्नगाः || १८ || पूर्वं भोगा उपेक्ष्या इति शेषः | यथा गरुडेनामृताहरणात्पूर्वं पन्नगा उपेक्षिताः पश्चान्मातृशापमोचनानन्तरं निःशङ्कं भुज्यन्ते तद्वत् || १८ || विचार्य तत्त्वमालोक्य सेव्यन्ते या विभूतयः | ता उदर्कोदया जन्तोः शेषा दुःखाय केवलम् || १९ || लोकेऽप्ययं राजकीयविभूत्युपभोगे न्यायः प्रसिद्ध इत्याह - विचार्येति | तत्त्वं राजप्रसादानुग्रहादिरहस्यम् || १९ || बलं बुद्धिश्च तेजश्च दृष्टतत्त्वस्य वर्धते | सवसन्तस्य वृक्षस्य सौन्दर्याद्या गुणा इव || २० || तत्त्वबोधोत्तरमेव भोगजरणोपपादकविशेषणसंपत्तिर्न पूर्वमिति दर्शयति - बलमिति || २० || घनरसायनपूर्णसुशीतया विमलया समया सततं श्रिया | शिशिररश्मिरिवातिविराजसे विदितवेद्य सुखं रघुनन्दन || २१ ||
465 SK रामस्य भोगजरणासमार्थ्यशङ्कावारणाय तत्त्वबोधसंपत्तिं दर्शयति - घनेति | हे रघुनन्दन त्वं विदितवेद्यतया हेतुना इदानीं घनेन रसायनेन आनन्दामृतेन पूर्णया सुशीतया निरस्तन्त्रिविधतापया श्रिया शिशिररश्मिः पूर्णचन्द्र इव अतिविराजसे | चन्द्रपक्षे समया अभितः पूर्णमण्डलत्वादवक्रया || २१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे संसारसागरसाम्यप्रतिपादनं नाम षट्सप्ततितमः सर्गः || ७६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे संसारसागरसाम्यप्रतिपादनं नाम षट्सप्ततितमः सर्गः || ७६ || सप्तसप्ततितमः सर्गः ७७ श्रीराम उवाच | समासेन मुने भूयो दृष्टतत्त्वचमत्कृतेः | कथयोदारवृत्तान्ते कस्ते वचसि तृप्यति || १ || धार्या मन्दारमालेव विबुधैः शिरसोरसा | जीवन्मुक्तगुणैर्माला वसिष्ठेनात्र गुम्फ्यते || १ || समासेन तत्रतत्रोक्तानामेकत्र संग्रहेण | उदारं वृत्तान्तं चरित्रम् | लक्षणभूतान्गुणानिति यावत् || १ || श्रीवसिष्ठ उवाच | जीवन्मुक्तस्य बहुधा कथितं लक्षणं मया | भूयोऽपि त्वं महाबाहो कथ्यमानमिदं शृणु || २ || इदं संग्रहरूपम् || २ || सुषुप्तवदिदं नित्यं पश्यत्यपगतैषणः | असद्रूपमिवासक्तं सर्वत्राखिलमात्मवान् || ३ || व्यवहारदृशा सुषुप्तवत्तमोमात्रम् | परमार्थदृशा तु बाधितानुवृत्तिमात्रत्वादसद्रूपमिव || ३ || कैवल्यमिव संप्राप्तः परिसुप्तमना इव | घूर्णमान इवानन्दी तिष्ठत्यधिगतात्मदृक् || ४ || नादत्तमप्युपादत्ते गृहीतमपि पाणिना | अन्तर्मुखतयोदात्तरूपया समया धिया || ५ || आदत्तं प्रथमं चक्षुरादिना उपात्तं पश्चात्पाणिना गृहीतमपि धनवस्त्रालंकारादि धिया नोपादत्ते | आदिकर्मणि निष्ठा | अत-एव तादेशानिष्टिः || ५ || यन्त्रपुत्रकसंचार इतीमं जनताक्रमम् | अन्तःसंलीनया दृष्ट्या पश्यन्हसति शान्तधीः || ६ ||
466 SK जनतायाः क्रमं व्यवहारं असङ्गोदासीनात्मसंनिधिमात्रप्रवृत्तत्वात्काष्ठादिप्रतिमासंचारसदृश इति पश्यन् || ६ || नापेक्षते भविष्यं च वर्तमाने न तिष्ठति | न संस्मरत्यतीतं च सर्वमेव करोति च || ७ || न तिष्ठति न आस्थां करोति || ७ || सुप्तः प्रबुद्धो भवति प्रबुद्धोऽपि च सुप्तवान् | सर्वं कर्म करोत्यन्तर्न करोति च किंचन || ८ || व्यवहारविषये सुप्तप्रायोऽपि स्वात्मनि प्रबुद्धो भवति | या निशा सर्वभूतानां तस्यां जागर्ति संयमी इति भगवद्वचनम् | व्यवहारे प्रबुद्धः कुशलतमोऽपि सुप्तवानेवास्ते न तत्कौशलफलेन रज्यत इत्यर्थः || ८ || अन्तःसर्वपरित्यागी नित्यमन्तरनेषणः | कुर्वन्नपि बहिः कार्यं सममेवावतिष्ठते || ९ || अत-एव तस्य सदैव समा स्थितिरित्याह - अन्तरिति || ९ || बहिः प्रकृतसर्वेहो यथाप्राप्तक्रियोन्मुखः | स्वकर्मक्रमसंप्राप्तबन्धुकार्यानुवृत्तिमान् || १० || स्वकर्म तत्तद्देहवर्णाश्रमोचितं कर्म पितृपितामहादिक्रमसंप्राप्तं राज्यादिबन्धुकार्याणि दानमानादीनि च तन्मात्रानुवृत्तिमान् || १० || समग्रसुखभोगात्मा सर्वाशास्विव संस्थितः | करोत्यखिलकर्माणि त्यक्तकर्तृत्वविभ्रमः || ११ || समस्ताः सुखभोगा आत्मैव यस्य समस्तानां सुखभोगानां स्वयमात्मेति वा | अत-एवाज्ञदृशा भोगकाले सर्वविषयाशासु संस्थित आस्थावानिव भाति नाज्ञवद्भोक्तृत्वाभिमानेनेत्यर्थः || ११ || उदासीनवदासीनः प्रकृतः क्रमकर्मसु | नाभिवाञ्छति न द्वेष्टि न शोचति न हृष्यति || १२ || कर्मसु प्राप्तमिष्टानिफलमिति शेषः || १२ || अनुबन्धपरे जन्तावसंसक्तेन चेतसा | भक्ते भक्तसमाचारः शठे शठ इव स्थितः || १३ || अनुबन्ध आनुकूल्यप्रातिकूल्याचरणं तत्परे || १३ || बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान् | युवा यौवनवृत्तेषु दुःखितेष्वनु दुःखितः || १४ || प्रवृत्तवाक्पुण्यकथो दैन्याद्व्यपगताशयः | धीरधीरुदितानन्दः पेशलः पुण्यकीर्तनः || १५ ||
467 SK पूर्वोक्तबालादिसमवृत्ते यो विशेषस्तमाह - प्रवृत्तेति | प्रवृत्ता वाग्यस्य तथाविधः सन् पुण्याः कथाः कथयति न बालादिवद्वृथा प्रलापीत्यर्थः | एवमन्यदप्यूह्यम् | पुण्यानि कीर्तनानि चरित्रवर्णनानि लोके यस्य || १५ || प्राज्ञः प्रसन्नमधुरः पूर्णः स्वप्रतिभोदये | निरस्तखेददौर्गत्यः सर्वस्मिन्स्निग्धबान्धवः || १६ || सर्वस्मिन् जने || १६ || उदारचरिताकारः समः सौम्यसुखोदधिः | सुस्निग्धः शीतलस्पर्शः पूर्णचन्द्र इवोदितः || १७ || शीतलः सर्वतापहारी स्पर्शः सङ्गो यस्य || १७ || न तस्य सुकृतेनार्थो न भोगैर्न च कर्मभिः | न दुष्कृतैर्न भोगानां संत्यागेन न बन्धुभिः || १८ || न दुष्कृतैरिति निषिद्धाचरणपरिहारार्थम् | अत-एव भोगानामनिषिद्धानाम् || १८ || न कार्यकारणारम्भैर्न निष्कृततया तथा | न बन्धेन न मोक्षेण न पातालेन नो दिवा || १९ || अवश्यकार्याणां ऐहिकामुष्मिकफलकारणानां कर्मणामारम्भैः | निष्कृततया भावे क्तः | निष्क्रियतया इति वा पाठः | दिवा स्वर्गेण || १९ || यथावस्तु यथादृष्टं जगदेकमयात्मकम् | तदा बन्धविमोक्षाणां न क्वचित्कृपणं मनः || २० || बन्धानां सांसारिकसुखानां विमोक्षाणां सर्वदुःखतत्कारणनिवृत्तीनां च मध्येन क्वचित् कृपणं कार्पण्ययुक्तं मनो भवतीत्यर्थः || २० || सम्यग्ज्ञानाग्निना यस्य दग्धाः संदेहजालिकाः | निःशङ्कमलमुड्डीनस्तस्य चित्तविहङ्गमः || २१ || संदेहलक्षणा जालिकाः पञ्जराणि | तथाच सति मनसि कार्पण्यसंभावना स्यात्तदेव तस्य नास्तीत्यर्थः || २१ || यस्य भ्रान्तिविनिर्मुक्तं मनः समरसं स्थितम् | नास्तमेति न चोदेति व्योमवत्सर्वदृष्टिषु || २२ || समरसं ब्रह्मीभूतम् || २२ || मञ्जूषायां निषण्णस्य यथा बालस्य चेष्टते | अङ्गावल्यनुसंधानवर्जितं यस्य वै तथा || २३ ||
468 SK मनसोऽभावे कथं कायचेष्टाद्युपपत्तिस्तत्राह - मञ्जूषायामिति | दोलासुखशय्यायामित्यर्थः | तस्य हि स्वानन्दाविर्भावोल्लासादेवाङ्गचलनं तद्यथा महाराजो वा महाब्राह्मणो वा महाकुमारो वा अतिघ्नीमानन्दस्य गत्वा शयीत इति श्रुत्यादिप्रसिद्धमीश्वरनृत्यवत् || २३ || घूर्णन्क्षीव इवानन्दी मन्दीभूतपुनर्भवः | अनुपादेयबुद्ध्या तु न स्मरत्यकृतं कृतम् || २४ || अनुपादेयबुद्ध्या नियमेन कृताकृतस्मारिकायाः क्रियाफलोपादेयताबुद्धेरभावादित्यर्थः || २४ || सर्व सर्वप्रकारेण गृह्णाति च जहाति च | अनुपादेयसर्वार्थो बालवच्च विचेष्टते || २५ || सर्वमित्यादि बालपक्षेऽपि योज्यम् || २५ || स तिष्ठन्नपि कार्येषु देशकालक्रियाक्रमैः | न कार्यसुखदुःखाभ्यां मनागपि हि गृह्यते || २६ || कार्यप्रयुक्ताभ्यां सुखदुःखाभ्याम् || २६ || बहिः प्रकृतसर्वार्थोऽप्यन्तः पुनरनीहया | न सत्तां योजयत्यर्थे न फलान्यनुधावति || २७ || अर्थे बाह्यार्थे सत्तां सत्यताबुद्ध्या आस्थाम् | अत-एव फलान्यनुधावति || २७ || नोपेक्षते दुःखदशं न सुखाशामपेक्षते | कार्योदये नैति मुदं कार्यनाशे न खिद्यते || २८ || उप समीपे संनिहितामपि दुःखदशां नेक्षते || २८ || अपि शीतरुचावर्के सुतप्तेऽपीन्दुमण्डले | अप्यधः प्रसरत्यग्नौ [प्रतपति इति पाठः] विस्मयोऽस्य न जायते || २९ || अर्के शीतरुचौ जातेऽपि | इन्दुमण्डले सुतप्ते संपन्नेऽपि | अग्नौ अधः अधोमुखे प्रसरति ज्वलत्यपि | अस्य विस्मय आश्चर्यबुद्धिर्न जायते || २९ || चिदात्मन इमा इत्थं प्रस्फुरन्तीह शक्तयः | इत्यस्याश्चर्यजालेषु नाभ्युदेति कुतूहलम् || ३० || कुतो न जायते तत्राह - चिदात्मन इति | शक्तयो मायाः || ३० || न दयादैन्यमादत्ते न क्रौर्यमनुधावति | न लज्जामनुसंधत्ते नालज्जत्वं च गच्छति || ३१ || लज्जा अपमानभैक्षचर्यादौ | अकार्येष्वलज्जत्वं न गच्छति || ३१ || न कदाचन दीनात्मा नोद्धतात्मा कदाचन | न प्रमत्तो न खिन्नात्मा नोद्विग्नो न च हर्षवान् || ३२ ||
469 SK नास्य चेतसि सुस्फारे शरदम्बरनिर्मले | कोपादयः प्रजायन्ते नभसीव नवाङ्कुराः || ३३ || अनारतपतज्जातभूतायां जगतः स्थितौ | क्व कथं किल कासौ स्यात्सुखिताऽसुखिताथवा || ३४ || अनारतमविरतं पतन्ति म्रियन्ते जातान्युत्पन्नानि च भूतानि प्राणिनो यस्याम् | अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् इति भगवद्दर्शितन्यायादिति भावः | किंवृत्तत्रयं देशकालतः प्रकारतः स्वरूपतश्च असंभावितत्वलाभाय || ३४ || फेनाजवं जवीभावे जले भूतक्रमे तथा | क्व किलेदं कुतः कोऽतः प्रसङ्गः सुखदुःखयोः || ३५ || उक्तं दृष्टान्तेन समर्थयति - फेनेति | फेनानां तरङ्गप्रयुक्ते आजवं जवीभावे भ्रमणे | इदं स्थैर्यं क्व कुतो वा | अतः सुखदुःखयोः कः प्रसङ्गः || ३५ || भावाभावैरपर्यन्तैरजस्रं जन्तुसंभवैः | न विशीर्यन्ति नोद्यन्ति दृष्टिसृष्टिक्षमा नराः || ३६ || न विशीर्यन्ति न नश्यन्ति न खिद्यन्ति च | नोद्यन्ति न जायन्ते न हृष्यन्ति च | प्रातिभासिकस्य जगतो दृष्टिरेव सृष्टिस्तत्र क्षमाः अहमेवात्मनि जगन्मायां सृजामीति पश्यन्तो जीवन्मुक्ताः || ३६ || निमेषं प्रति यामिन्यां यथान्याः स्वप्नदृष्टयः | क्षणोत्पत्तिविनाशिन्यस्तथैता लोकदृष्टयः || ३७ || किंच प्रतिक्षणपरिणामिनो हि सर्वे भावाः इति न्यायात्प्रतिक्षणं भिद्यमानेषु जगद्धर्मेष्वनुवर्तमानः स्थायी सदात्मा स्वप्न इव स्वात्मन्येव दृश्यवान् षड्भावविकारान्प्रतिक्षणं कल्पयन्पश्यतीत्येव तेषां निश्चये कुतो हर्षादिप्रसक्तिरित्याशयेनाह - निमेषमित्यादिना | वीप्साद्योती प्रतिशब्दः कर्मप्रवचनीयः | द्विर्वचनाव्ययीभावयोरन्यतरस्यावश्यं प्राप्तेस्तदकरणं छान्दसम् || ३७ || अनारतसमुत्पत्तावनारतविनाशिनि | कः क्रमो दग्धसंसारे कारुण्यानन्दयोरिह || ३८ || क्रमणं क्रमः प्रसङ्गः || ३८ || शुभाशुभावात्सुखाभावे स्थितिं याते विलक्षणाः | कीदृश्यः कथमायाताः क्व वा ता दुःखसंविदः || ३९ ||
470 SK किंच शुभकर्मफलेषु प्रसिद्धेषु सत्सु तद्विरोधिनः पुत्रवियोगदुःखादयः पदं लभेरन् जीवन्मुक्तानां शुभस्यैवाभावादुभयाप्रसक्तिरित्याह - शुभाभावादिति | विलक्षणाः शुभफलेभ्यो विलक्षणाः | किंवृत्तानि पूर्ववत् || ३९ || सुखसंवेदनान्तोत्था स्वबीजं वितनोति या | शान्ता दुःखदशा सेयं कथमन्तर्हिते सुखे || ४० || या दुःखदशा सुखसंवेदनस्य सुखानुभवस्य अने उत्था लब्धसत्ताका सती स्वबीजं स्वकार्यं शोकमोहादि वितनोति विस्तारयति सेयं दुःखदशा शुभकर्माभावाच्छान्ते सुखे स्वयमपि शान्तैवेति निर्हेतुका कथं संभवेदिति पूर्वोक्तार्थस्यैव स्फुटीकरणम् || ४० || क्षीणाभ्यां सुखदुःखाभ्यां हेयोपादेययोः क्षये | ईप्सितानीप्सिते क्व स्तो गलितेऽथ शुभाशुभे || ४१ || रम्यारम्यदृशोर्नाशाद्याते भोगामिवाञ्छने | नैराश्ये संततं प्रौढे हिमवद्विगलेन्मनः || ४२ || किं ततस्तत्राह - रम्येति | याते अपगते सति | नैराश्ये प्रौढे निरूढे सति || ४२ || आमूलान्मनसि क्षीणे संकल्पस्य कथा च का | तिलेष्विवातिदग्धेषु तैलस्य कलना कुतः || ४३ || अस्तु मनोनाशस्ततोऽपि किं तत्राह - आमूलादिति || ४३ || भावेष्वभावघनभावनया महात्मा निर्मुक्तसंकलनमम्बरवत्स्थितेषु | चित्तं प्रति स्वमुदितो विततैकरूपी ज्ञस्तिष्ठति स्वपिति जीवति नित्यतृप्तः || ४४ || अभावघनभावनय स्वव्यतिरिक्तं नाश्त्येवेति दृढनिश्चयेन सर्वेषु भावेषु दृश्यपदार्थेषु निर्मुक्तसंकलनं निःसंकल्पविकल्पं यथा स्यात्तथा अम्बरवत्सन्मात्रस्वभावेन स्थितेषु सत्सु परिच्छेदहेत्वभावाद्विततैकरूपि महात्मा ज्ञो नित्यतृप्तः सन् स्वेनैव निरतिशयानन्दात्मना मुदित आनन्दी सन् जाग्रत्स्वप्नयोर्यथाप्राप्तार्थालोचनमात्ररूपं चित्तं प्रति तिष्ठति तल्लये सुषुप्तौ स्वपिति यावत्प्रारब्धक्षयं च जीवतीत्यर्थः || ४४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे जीवन्मुक्तस्वरूपवर्णनं नाम सप्तसप्ततितमः सर्गः || ७७ ||
471 SK इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे जीवन्मुक्तस्वरूपवर्णनं नाम सप्तसप्ततितमः सर्गः || ७७ || अष्टसप्ततितमः सर्गः ७८ श्रीवसिष्ठ उवाच | यथालातपरिस्पन्दादग्निचक्रं प्रदृश्यते | असदेव सदाभासं चित्तस्पन्दात्तथा जगत् || १ || चित्तस्पन्दाज्जगद्भ्रान्तिश्चित्तस्पन्दश्च यादृशः | योगश्च तन्निरोधार्थः सम्यगत्र निगद्यते || १ || अलातस्य ज्वलदुल्मुकस्य परिस्पन्दाद्भ्रमणाद्रात्रावग्निमयं चक्रं भ्रान्त्या यथा दृश्यते तथेत्यर्थः || १ || यथा जलपरिस्पन्दाद्व्यतिरिक्त इवाम्भसः | दृश्यते वर्तुलावर्तश्चित्तस्पन्दात्तथा जगत् || २ || वर्तुलनाभ्याकार आवर्तः || २ || यथा व्योम्नीक्षणस्पन्दात्पिच्छमौक्तिकमण्डलम् | दृश्यते सदिवासत्यं चित्तस्पन्दात्तथा जगत् || ३ || ईक्षणयोर्नेत्रयोरातपसांमुख्येन स्पन्दात्पिच्छाकारमन्यतः स्पन्दान्मौक्तिकमण्डलमिव दृश्यते || ३ || श्रीराम उवाच | येन प्रस्पन्दते चित्तं येन न स्पन्दते तथा | तद्ब्रह्मन्ब्रुहि मे येन चिकित्सेयं तदेव हि || ४ || येन स्वभावेन प्रस्पन्दते येनोपायेन न स्पन्दते || ४ || श्रीवसिष्ठ उवाच | यथा शौक्ल्यहिमे राम तिलतैललवौ यथा | यथा कुसुमसौगन्ध्ये तथौष्ण्यदहनौ यथा || ५ || स्पन्दस्वभावश्चित्तात्पृथक्कृत्य वक्तुमशक्य इति दृष्टान्तैरेव तं दर्शयति - यथेत्यादिना | तिलश्च तैललवश्च तौ | यथाशब्दः समुच्चये || ५ || तथा राघव संश्लिष्टौ चित्तस्पन्दौ तथैव हि | अभिन्नौ केवलं मिथ्या भेदः कल्पित एतयोः || ६ || अत्राप्याद्यस्तथाशब्दः समुच्चये द्वितीयो दार्ष्टान्तिकोपबन्धार्थः | सर्वत्र गुणगुण्यादावविचाराद्भेदसहिष्णुरभेद एव संश्लेषः | तत्र विचारे भेदांशो मिथ्या अभेदांशो वास्तव इति दर्शयति - अभिन्नाविति || ६ || चित्तचित्तपरिस्पन्दपक्षयोरेकसंक्षये | स्वयं गुणगुणी [गुणो गुणी इति युक्तम्] स्थित्वा नश्यतो द्वौ न संशयः || ७ ||
472 SK अभेदांश एव कल्पितः किं न स्यादित्याशङ्कां परिहरन्येन न स्पन्दते तथेति प्रश्नांशस्योत्तरमाह - चित्तेति | यः स्वयं कारणात्मा गुणो गुणी चेति विकल्पितस्तदात्मना स्थित्वैव द्वावपि गुणगुणिविकल्पौ नश्यन्तो न निरन्वयेनेत्यर्थः | तथाचैककारणात्मना स्थित्वैव गुणगुणिभेदनाशदर्शनाद्भेदांश एव कल्पितो नाभेदांश इत्येतन्मनःस्पन्दयोरेकतरनाशाधीनात्यन्तिकोभयनिवृत्यैव चित्तं न स्पन्दते नतु जीवति मनसि तत्स्पन्दो वारयितुं शक्य इत्येतच्च सिद्धमिति भावः || ७ || द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव | योगस्तद्वृत्तिरोधो हि ज्ञानं सम्यगवेक्षणम् || ८ || अत-एव स्पन्दनिरोधेनोभयनाशार्थ ज्ञानक्रमश्च शास्त्रे दर्शित इत्याह - द्वौ क्रमाविति || ८ || श्रीराम उवाच | कदा कीदृक्कया युक्त्या प्राणापाननिबन्धया | योगनाम्न्या मनः शान्तिमेत्यनन्तसुखप्रदाम् || ९ || तत्राद्यं क्रमं प्रथमं जिज्ञासमानो रामः पृच्छति - कदेति | प्राणापानयोर्निबन्धनं प्राणापाननिबन्धा | भावे गुरोश्च हलः इत्यप्प्रत्ययः | प्राणापाननिरोधलक्षणयेत्यर्थः || ९ || श्रीवसिष्ठ उवाच | देहेऽस्मिन्देहनाडीषु वातः स्फुरति योऽभितः | स्पन्देष्विव भुवो वारि स प्राण इति कीर्तितः || १० || आसर्गसमाप्तेरस्यैव प्रश्नस्योत्तरं वर्णयिष्यंश्चित्तस्पन्दस्य प्राणस्पन्दाधीनतां वक्तुं प्रथमं प्राणस्वरूपमाह - देहेस्मिन्नित्यादिना | देहनाडीषु द्वासप्ततिर्द्वासप्ततिः प्रतिशाखं नाडीसहस्राणि भवन्त्यासु व्यानश्चरति इति श्रुतेरित्यर्थः | यथा भुवः स्पन्देषु स्पन्दनमार्गभूतेषु विवरेषु वारि जलं सर्वतो व्याप्य स्फुरति तद्वत् || १० || तस्य स्पन्दवशादन्तः क्रियावैचित्र्यमीयुषः | अपानादीनि नामानि कल्पितानि कृतात्मभिः || ११ || ननु प्राणो बहिरेव याति देहे त्वपानादयोऽन्ये वायवः संचरन्ति तत्राह - तस्येति | ते प्राणस्यैव वृत्तिभेदा नान्ये इत्यर्थः || ११ || आमोदस्य यथा पुष्पं शौक्ल्यस्य तु हिनं यथा | तथैव रस आधारश्चित्तस्याभिन्नतां गतः || १२ ||
473 SK वारिदृष्टान्तोपपत्तये रस इति विशेषणम् | आपोमयः प्राणः इति एतमेवाङ्गिरसं मन्यन्ते प्राणो वा अङ्गानां रसः च श्रुतेरिति भावः | चित्तस्य कोशवत्सर्वतः संश्लेषेणाभिन्नतामिव गत आधारः | प्राणबन्धनं हि सोम्य मनः तस्य पुरुषविधतामन्वयं पुरुषविधः इत्यादिश्रुतेरिति भावः || १२ || अन्तःप्राणपरिस्पन्दात्संकल्पकलनोन्मुखी | संवित्संजायते यैषा तच्चित्तं विद्धि राघव || १३ || अत-एव तत्स्पन्दस्य चित्तस्पन्दहेतुतेत्याह - अन्तरिति | संकल्पग्रहणं वृत्तिमात्रोपलक्षणम् || १३ || प्राणस्पन्दाच्चितः स्पन्दस्तत्स्पन्दादेव संविदः | चक्रावर्तविधायिन्यो जलस्पन्दादिवोर्मयः || १४ || चितः स्पन्दश्चिदाभासव्याप्तवृत्तिभेदः | संविदस्तत्तद्विषयाकारप्रथाः || १४ || चित्तं प्राणपरिस्पन्दमाद्दुरागमभूषणाः | तस्मिन्संरोधिते नूनमुपशान्तं भवेन्मनः || १५ || प्राणपरिस्पन्दं प्राणाधीनपरिस्पन्दम् | आगमभूसणाः प्राणबन्धनं हि सोम्य मनः प्राणाद्वा एष उदेति प्राणेऽस्तमेति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रम् इत्यादिश्रुतिरहस्यज्ञाः || १५ || मनःस्पन्दोपशान्त्यायं संसारः प्रविलीयते | सूर्यालोकपरिस्पन्दशान्तौ व्यवहृतिर्यथा || १६ || अस्त्वेवं ततः किं तत्राह - मन इति || १६ || श्रीराम उवाच | अनिशं चरतां देहगेहे गगनगामिनाम् | प्राणादीनां परिस्पन्दो वायूनां रोध्यते कथम् || १७ || देहलक्षणे स्वगेहे हृदयादिस्थानेषु द्वासप्ततिसहस्रनाडीभेदेषु च अनिशं चरतां गगनेषु मुखनासिकादिच्छिद्रेषु बाह्याकाशे च गमनशीलानाम् || १७ || श्रीवसिष्ठ उवाच | शास्त्रसज्जनसंपर्कवैराग्याभ्यासयोगतः | अनास्थायां कृतास्थायां पूर्वसंसारवृत्तिषु || १८ || प्राणस्पन्दनिरोधे निरालम्बनसालम्बनादिराजयोगोपायान्वक्तुमुपक्रमते - ātyantikaparityāgādyamaniyamaśamadamādivirodhyabhyāsāccatyantamanāsthāyā ṃ hṛdi kṛtapratiṣṭhāyāṃ satyām || 18 || yathābhivāñchitadhyānācciramekatayoditāt | ekatattvaghanābhyāsātprāṇaspando niruddhyate || 19 ||
474 SK प्रथमं स्थूले शिखरे चन्द्रबिम्बे मणिदेवतामूर्त्यादौ वा यत्रैव मनोऽस्य रमते तत्रैव निरोधोऽभ्यसनीय इत्याह - यथाभिवाञ्छितेति | एकतया एकाग्रतया उदितात् | एकाग्रतालक्षणं परिणामं प्राप्येत्यर्थः | तदनन्तरं यत्कार्यं तदाह - एकतत्त्वेति || १९ || पूरकादिनिजायामाद्दृढाभ्यासादस्वेदजात् | एकान्तध्यानसंयोगात्प्राणस्पन्दो निरुद्ध्यते || २० || पूरककुम्भकरेचकक्रमेण प्राणनिरोधसहिताद्वा दुर्दान्तचित्तस्पन्दनिरोधः कार्य इत्याह - पूरकेति | पूरकादिना निजस्य स्वस्य प्राणस्यायामात् || २० || ॐकारोच्चारणप्रान्तशब्दतत्त्वानुभावनात् | सुषुप्ते संविदो जाते प्राणस्पन्दो निरुद्ध्यते || २१ || दीर्घोच्चारितप्रणवतुर्यमात्रालम्बनयोगाद्वा संविदो बाह्यार्थसंवेदनस्य सुषुप्ते आत्यन्तिकोपरमे जाते सति || २१ || रेचके नूनमभ्यस्ते प्राणे स्फारे खमागते | न स्पृशत्यङ्गरन्ध्राणि प्राणस्पन्दो निरुद्ध्यते || २२ || इदानीं रेचकपूरकयोरेकैकस्यापि श्वासप्रश्वासशिथिलीकरणे कालदैर्घ्याभिवर्धनसहितध्यानाभ्यासादपि तन्निरोध इत्याह - रेचके इति द्वाभ्याम् | स्फारे विपुलीभूते प्राणे छिन्नाभ्रवत् क्रमात् खं शून्यभावं बाह्याकाशं वा आगते अङ्गरन्ध्राणि नासाविवराणि न स्पृशति सति || २२ || पूरके नूनमभ्यस्ते पूराद्गिरिघनस्थिते | प्राणे प्रशान्तसंचारे प्राणस्पन्दो निरुद्ध्यते || २३ || अन्तःपूरात्पूरणाद्गिरौ घना मेघा इव यावत्पूर्ति मन्दमुपचीयमाने स्थिते निश्चले सति || २३ || कुम्भके कुम्भवत्कालमनन्तं परितिष्ठति | अभयसात्स्तम्भिते प्राणे प्राणस्पन्दो निरुद्ध्यते || २४ ||
475 SK पूर्त्यनन्तरं कुम्भके पूर्णकुम्भवदनन्तं कालं स्तम्भिते प्राणे परितिष्ठति सति | उक्तत्रिविधप्राणायामक्रमश्च पातञ्जले शास्त्रे प्रपञ्चितः तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः | तस्मिन्प्रागुक्ते आसनजये सति बाह्यस्य वायोरायमनं श्वासः कौष्ठ्यस्य वायोर्निस्सारणं प्रश्वासः तयोर्गतिविच्छेद उभयाभावलक्षणः प्राणायामः कार्य इत्यर्थः | स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः | यत्र प्रश्वासपूर्वको गतिनिरोधः स बाह्यः | यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः | तृतीयः स्तम्भवृत्तिर्यत्रोभयाभावः सकृत्प्रयत्नाद्भवति | यथा तप्ते न्यस्तमुपले जलं सर्वतः संकोचमापद्यते तथा द्वयोर्युगपद्गत्यभाव इति | त्रयोऽप्येते देशपरिदृष्टाः बहिस्तूललवस्पन्दादिना अन्तर्नाभ्यादिस्पन्दादिना च इयानस्य विषयो देश इति | कालेन परिदृष्टाः क्षणानामियत्तावधारणेन | संख्याभिः परिदृष्टा एतावत्संख्यश्वासप्रश्वासकालैः प्रथमो द्वितीयस्तृतीय उद्बोधित इति | एवं मृदुरेवं मध्य एवं तीव्र इति च | स खल्वेवमभ्यस्तः प्राणायामः प्रविकस्वरतूलपिण्डवन्मन्दाकृष्टबिसतन्तुवद्वा दैर्घ्यसौक्ष्म्यापन्नैः प्राणैर्दीर्घः सूक्ष्मश्च भवतीत्यर्थः | अभ्यासात्स्तम्भिते प्राणे इत्यनेन च तत्परिपाकलभ्यश्चतुर्थोऽपि प्रकारः सूचितः | सोऽपि पतञ्जलिना दर्शितः बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः इति | पूर्वोक्तोभयजयात्तदाक्षेपपूर्वकः प्राणगत्यभावः स्थिरश्चतुर्र्थः प्राणायाम इत्यर्थः | प्राणायामप्रतिष्ठाफलमपि पतञ्जलिनोक्तम् ततः क्षीयते प्रकाशावरणम् | धारणासु च योग्यता मनसः इति | तपि न परमं प्राणायामात्ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्येति भाष्यम् || २४ || तालुमूलगतां यत्नाज्जिह्वयाक्रम्य घण्टिकाम् | ऊर्ध्वरन्ध्रगते प्राणे प्राणस्पन्दो निरुद्ध्यते || २५ ||
476 SK घण्टिकां व्यात्तास्यस्य जिह्वामूले स्तनवल्लम्बमानतया दृश्यमानामिन्द्रयोनिम् | अन्तरेण तालुके य एष स्तन इवावलम्बते सेन्द्रयोनिः इति श्रुतेः | तां परिवृत्तया वर्धनाभ्यासादिप्रयत्नादन्तःप्राणसंचारमार्गे मूर्धरन्ध्रे प्रवेश्यमानया जिह्वया आक्रम्य निष्पीड्याधःकृत्य प्राणे ऊर्ध्वरन्ध्रे ब्रह्मरन्ध्रे गते प्रवेश्य धारिते सतीत्यर्थः | अनेन लम्बिकायोगसमुच्चिता नभोधारणा दर्शिता | तत्प्रकारश्च भगवता स्कन्देनोक्तः रसनां तालुविवरे निधायोर्ध्वमुखोऽमृतम् | धयन्निर्जरतां गच्छेदाषण्मासान्न संशयः || ऊर्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः | मासार्धेन न संदेहो मृत्युं जयति योगवित् || आकाशं च मरीचिवारिसदृशं यद्ब्रह्मरन्ध्रस्थितं यन्नाथेन सदाशिवेन सहितं शान्तं हकाराक्षरम् | प्राणं विलीय पञ्चघटिकं चित्तान्वितं धारयेदेषा मोक्षकवाटपाटनपटुः प्रोक्ता नभोधारणा || इति || २५ || समस्तकलनोन्मुक्ते न किंचिन्नामसूक्ष्मखे | ध्यानात्संविदि लीनायां प्राणस्पन्दो निरुद्ध्यते || २६ || समस्ताः कलना विकारास्तदुन्मुक्तेऽत-एव न किंचिन्नामनि सूक्ष्मे हार्दाकाशे संविदि अन्तर्बाह्यसंवेदनवृत्तिमात्रे निर्विकल्पसमाधिना लीनायां सत्याम् || २६ || द्वादशाङ्गुलपर्यन्ते नासाग्रे विमलाम्बरे | संविद्दृशि प्रशाम्यन्त्यां प्राणस्पन्दो निरुद्ध्यते || २७ || नासाग्रोपलक्षितद्वादशाङ्गुलपरिमितबाह्याकाशे चक्षुर्मनसोर्निरोधाद्वा तन्निरोधा इत्याह - द्वादशेति || २७ || अभ्यासादूर्ध्वरन्ध्रेण तालूर्ध्वं द्वादशान्तगे | प्राणे गलितसंवृत्ते प्राणस्पन्दो निरुद्ध्यते || २८ || लम्बिकायोगाऽसमुच्चिताद्वा उपायान्तराभ्यस्तात्प्रागुक्तनभोधारणात्तन्निरोधसिद्धिरित्याह - अभ्यासादिति | द्वादशान्तं ब्रह्मरन्ध्रस्थानं तद्गे प्राणे गलितप्राये संवृत्ते सति || २८ || भ्रूमध्ये तारकालोकशान्तावन्तमुपागते | चेतने केतने बुद्धे प्राणस्पन्दो निरुद्ध्यते || २९ ||
477 SK एवं खेचरीमुद्रापि प्राणस्पन्दनिरोधहेतुरित्याह - भ्रूमध्ये इति | तारकयोश्चक्षुःकनीनिकयोरालोकस्य तेजसश्चक्षुरिन्द्रियस्येति यावत् | चिरनिरोधाच्छान्तौ उपरमे सति तथा जिह्वाग्रे प्राणे च प्रागुक्तरीत्या कपालकुहरप्रवेशादन्तं द्वादशान्तमुपागते सति केतने भ्रूमध्ये अविमुक्तस्थाने य एषोऽक्षरोऽनन्तः इति जाबालश्रुत्याअदिप्रसिद्धे चेतने चिन्मात्रस्वभावे परमेश्वरे आत्मतया बुद्धे सतीत्यर्थः | खेचरीमुद्रापि स्कन्देनोक्ता - कपालकुहरे जिह्वा प्रविष्टा विपरीतगा | भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी || न पीड्यते स रोगेण न च लिप्येत कर्मणा | बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् || इति || २९ || झटित्येव यदुद्भूतं ज्ञानं तस्मिन्दृढाश्रिते | असंश्लिष्टविकल्पांशे प्राणस्पन्दो निरुद्ध्यते || ३० || गुरोरीश्वरस्य वा अनुग्रहात्काकतालीयन्यायेन झटित्येवोद्भूते ज्ञाने झटित्येव चित्तविकल्पोपशमाद्वा तन्निरोध इत्याह - झटित्येवेति || ३० || चिरं कालं हृते कान्तव्योमसंवेदनान्मुने | अवासनान्मनोध्यानात्प्राणस्पन्दो निरुद्ध्यते || ३१ || अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः इत्यादिश्रुतिप्रसिद्धे दहराकाशे वा चिरं चित्तनिवेशात्तत्साक्षात्कारे तत्सिद्धिरित्याह - चिरमिति | तथाचोक्तं पातञ्जले - हृदये चित्तसंवित्स्वार्थसंयमात्पुरुषज्ञानम् इति च || ३१ || श्रीराम उवाच | ब्रह्मन् जगति भूतानां हृदयं तत्किमुच्यते | इदं सर्वं महादर्शे यस्मिंस्तत्प्रतिबिम्बति || ३२ || हृदयशब्दस्य पुण्डरीकाकारमांसविशेषे मनसि परमात्मनि च प्रयोगदर्शनात्संदिहानस्य प्रश्नः | प्रतिबिम्बति आदर्शे प्रतिबिम्ब इव स्फुरति || ३२ || श्रीवसिष्थ उवाच | साधो जगति भूतानां हृदयं द्विविधं स्मृतम् | उपादेयं च हेयं च विभागोऽयं तयोः शृणु || ३३ || तत्र मांसमनसोः परिच्छिन्नत्वादैक्यमेव प्रकल्प्य द्वेधा विभागो बोध्यः || ३३ ||
478 SK इयत्तया परिच्छिन्ने देहे यद्वक्षसोऽन्तरम् | हेयं तद्धृदयं विद्धि तनावेकतटे स्थितम् || ३४ || संविन्मात्रं तु हृदयमुपादेयं स्थितं स्मृतम् | तदन्तरे च बाह्ये च न च बाह्ये न चान्तरे || ३५ || ननु आत्मनि हृदयशब्दो हृदयमात्रस्थितिकत्वाद्गौणः किं न स्यादित्याशङ्क्याह - तदन्तरे चेति || ३५ || तत्तु प्रधानं हृदयं तत्रेदं समवस्थितम् | तदादर्शः पदार्थानां तत्कोशः सर्वसंपदाम् || ३६ || अस्मिन्द्यावापृथिवी अन्तरेव समाहिते इति श्रुतेरिति भावः || ३६ || सर्वेषामेव जन्तूनां संविद्धृदयमुच्यते | न देहावयवैकांशो जडजीर्णोपलोपमः || ३७ || तस्मात्संविन्मये शुद्धे हृदये हृतवासनः | बलान्नियोजिते चित्ते प्राणस्पन्दो निरुध्यते || ३८ || एभिः क्रमैस्तथान्यैश्च नानासंकल्पकल्पितैः | नानादेशिकवक्त्रस्थैः प्राणस्पन्दो निरुध्यते || ३९ || अभ्यासेन निराबाधमेतास्ता योगयुक्तयः | उपायतामुपायान्ति भव्यस्य भवभेदने || ४० || सहसा हठयोगे प्रवृत्तिं वारयितुमाह - अभ्यासेनेति | हठान्निरोधे तु रोगाद्या बाधा स्यादेवेति भावः || ४० || अभ्यासाद्दृढतां यातो वैराग्यपरिलाञ्छितः | यथावासनमायामः प्राणानां सफलः स्मृतः || ४१ || यथावासनं यदा या या वासना उद्भवन्ति तदा तत्तन्निरोधायेत्यर्थः | अथवा मुमुक्षावासनायां मोक्षफलेन सफलो भोगवासनायां तु तत्तद्भोगसिद्धिवैचित्र्यफलेन सफल इत्यर्थः || ४१ || भ्रूनासातालुसंस्थासु द्वादशाङ्गुलिकोटिषु | अभ्यासाच्छाम्यति प्राणो दूरे गिरिनदी यथा || ४२ ||
479 SK अत-एव तत्तत्सिद्धिफलभेदार्थपातञ्जलशास्त्रे भ्रूमध्यादिस्थानभेदेन धारणाभेदा दर्शिता इत्याशयेनाह - भ्रूनासेति \/ तालुसंस्था तालुसंस्थानं कण्ठाग्रादारभ्य द्वादशाङ्गुलिमितप्रदेशकोटिः सीमा द्वादशान्तः | पुरुषभेदाद्बहुवचनम् | यथाह पतञ्जलिः नाभिचक्रे कायव्यूहज्ञानम् कण्ठकूपे क्षुत्पिपासानिवृत्तिः कूर्मनाड्यां स्थैर्यम् कण्ठकूपादधः कूर्मपृष्ठवदुन्नतप्रदेशे कूर्मनाडी प्रसिद्धा मूर्धज्योतिषि सिद्धदर्शनम् इत्यादि | शिरः कपालच्छिद्रे भास्वरज्योतिर्मूर्धज्योतिः | गिरिनदी निर्झरः | सा यथा दूरे गत्वा तत्रैव लीयते तद्वत् || ४२ || भूयोभूयश्चिराभ्यासाज्जिह्वाप्रान्तेन तालुनि | घण्टिका स्पृश्यते प्राणो येनोच्चैर्निवहत्यलम् || ४३ || जिह्वयाक्रम्य घण्टिकाम् इति यत्प्रागुक्तं तत्रोपायमाह - भूय इति | स्पृश्यते आक्रम्यते || ४३ || विकल्पबहुलास्त्वेते स्वाभ्यासेन समाधयः | परमोपशमायाशु संप्रयान्त्यविकल्पताम् || ४४ || एतेषां समाधिभेदानां तत्तत्सिद्धिफलेषु विकल्पबहुलत्वेऽपि निष्कामस्य परमोपशमफले अविकल्पतैव सर्वेषामित्याह - विकल्पेति || ४४ || आत्मारामो वीतशोको भवत्यन्तःसुखः पुमान् | अभ्यासादेव नान्यस्मात्तस्मादभ्यासवान्भव || ४५ || अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते | मनः प्रशममायाति निर्वाणमवशिष्यते || ४६ || वासनावलितं जन्म मोक्षं निर्वासनं मनः | प्राणं च राम गृह्णाति यथेच्छसि तथा कुरु || ४७ || वासनावलितं मनो जन्मशरीरं तत्र प्राणं चाभिमानेन गृह्णाति | निर्वासनं तु मोक्षम् || ४७ || प्राणस्पन्दो मनोरूपं तस्मात्संसृतिविभ्रमः | तस्मिन्नेव शमं याते दीयते संसृतिज्वरः || ४८ || एवं उक्ताभ्यासप्रकारेण दीयते खण्ड्यते | चिकित्स्यत इति यावत् || ४८ || विकल्पांशक्षयाज्जन्तोः पदं तदवशिष्यते | यतो वाचो निवर्तन्ते समस्तकलनान्विताः || ४९ || यत्र सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् | यत्र नेदं यतो नेदं यन्नेदं नेदृशं जगत् || ५० ||
480 SK इदं दृश्यं यत्र नेत्याधेयतया यतो नेत्युपादेयतया यन्नेति तादात्म्येन च सच्चिदात्मसंबन्धनिषेधान्न केनाप्यंशेन जगद्ब्रह्मसदृशमित्यर्थः || ५० || विनाशित्वाद्विकल्पत्वाद्गुणित्वान्निर्गुणात्मनः | यस्य नो सदृशो दृष्टो दृष्टान्तः कश्चिदेव हि || ५१ || अत-एव विनाशित्वादिधर्मके जगति न कश्चिदपि ब्रह्मणो दृष्टान्तोऽस्तीत्याह - विनाशित्वादिति || ५१ || स्वादनी सर्वशालीनां दीपिका सर्वतेजसाम् | कलना सर्वकामानामन्तश्चिच्चन्द्रिकोदिता || ५२ || यदि न कश्चिद्दृष्टान्तस्तर्हि कथं तत्परिचयस्तत्राह - स्वादनीति | रसरूपादिगोचरबाह्यवृत्तित्रिपुटीनां कामाद्यान्तरवृत्तित्रिपुटीनां च भासकतया तत्परिचेयमित्यर्थः || ५२ || यस्मात्कल्पतरोबह्व्यः संसारफलपङ्क्तयः | अनारतं बहुरसा जायन्ते च पतन्ति च || ५३ || फलमतः उपपत्तेः इति न्यायाद्विचित्रकर्मफलोदयक्षयनिमित्ततया वा तत्परिचेयमित्याह - यस्मादिति || ५३ || तत्पदं सर्वसीमान्तमवलम्ब्य महामतिः | यः स्थितः स्थिरधीस्तज्ज्ञः स जीवन्मुक्त उच्यते || ५४ || तत्परिचयावलम्बने पुरुषार्थसिद्धिं दर्शयन्नुपसंहरति - तदिति द्वाभ्याम् || ५४ || विगतसर्वसमीहितकौतुकः समुपशान्तहिताहितकल्पनः | सकलसंव्यवहारसमाशयो भवति मुक्तमनाः पुरुषोत्तमः || ५५ || विगतानि सर्वाणि समीहितकौतुकानि कामभोगोत्कण्ठा यस्य | अत-एव तदनुकूलप्रतिकूलेषु समुपशान्ता हिताहितवासना यस्य | अत-एव सकलेषु संव्यवहारेषु समो हर्षविषादशून्य आशयो यस्य | ईदृशो मुक्तमनाः पुरुषश्रेष्ठो भवति | भगवान्विष्णुरपि भवतीत्यर्थः || ५५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० देवदूतोक्ते मोक्षोपायेषूपशमप्रकरणे योगवर्णनं नामाष्टसप्ततितमः सर्गः || ७८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे योगवर्णनं नामाष्टसप्ततितमः सर्गः || ७८ || एकोनाशीतितमः सर्गह् ७९ श्रीराम उवाच |
481 SK योगयुक्तस्य चित्तस्य शम एव निरूपितः | सम्यग्ज्ञानमिदानीं मे कथयानुग्रहात्प्रभो || १ || उद्दिष्टौ चित्तनाशाय योगज्ञानक्रमौ हि यौ | तयोराद्ये परिज्ञाते द्वितीयोऽत्र निरूप्यते || १ || द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव इत्युद्दिष्टक्रमयोर्मध्ये आद्यश्चित्तस्य शमो नाशप्रकारो निरूपितस्त्वयेत्यर्थः || १ || श्रीवसिष्ठ उवाच | अनाद्यन्तावभासात्मा परमात्मेह विद्यते | इत्येको निश्चयः स्फारः सम्यग्ज्ञानं विदुर्बुधाः || २ || लक्षणस्वरूपसाधनादिभिः सम्यग्ज्ञानं प्रपञ्चयिष्यन् प्रथममात्मपरिचयेन जगद्बाधात्मतालक्षणं तल्लक्षणमाह - अनाद्यन्तेति | एकः असाधारणः | स्फारः अपरिच्छिन्नाकारः || २ || इमा घटपटाकाराः पदार्थशतपङ्क्तयः | आत्मैव नान्यदस्तीति निश्चयः सम्यगीक्षणम् || ३ || एवं जगद्बाधेनात्मपरिचयात्मता वा तल्लक्षणमित्याह - इमा इति || ३ || असम्यग्वेदनाज्जन्म मोक्षः सम्यगवेक्षणात् | असम्यग्वेदनाद्रज्जुः सर्पो नो सम्यगीक्षणात् || ४ || सम्यग्ज्ञानस्य मोक्षसमर्थतां दर्शयति - असम्यगिति | सम्यगीक्षणान्नो सर्पः | सर्पभावान्मोक्ष इति यावत् || ४ || संकल्पांशविनिर्मुक्ता संवित्संवेद्यवर्जिता | संवित्त्याभिसमाख्याता मुक्तावस्तीह नेतरत् || ५ || मुक्तौ तर्हि किं परिशिष्यते तदाह - संकल्पेति | संवित्त्या स्वप्रकाशस्वभावेनैव अभितः सम्यक् आख्याता प्रथमाना | इह मुक्तौ || ५ || सा शुद्धरूपा विज्ञाता परमात्मेति कथ्यते | शुद्धा त्वशुद्धरूपान्तरविद्येत्युच्यते बुधैः || ६ || अप्यर्थे तुशब्दः || ६ || संवित्तिरेव संवेद्यं नानयोर्द्वित्वकल्पना | चिनोत्यात्मानमात्मैव रामैवं नान्यदस्ति हि || ७ || तथाचाविज्ञानकृत एव संवित्तिसवेद्ययोर्भेदो न वास्तव इत्याह - संवित्तिरेवेति | चिनोति अज्ञानात्संचिनोति ज्ञानात्तु परिचिनोतीत्यर्थह् || ७ || यथाभूतात्मदर्शित्वमेतावद्भुवनत्रये | यदात्मैव जगत्सर्वमिति निश्चित्य पूर्णता || ८ || निष्कृष्टं सम्यग्ज्ञानस्वरूपमाह - यथाभूतेति || ८ ||
482 SK सर्वमात्मैव कौ दिष्टौ भावाभावौ क्व च स्थितौ | क्व बन्धमोक्षकलने किमन्यद्राम शोच्यते || ९ || दिष्टौ निर्दिष्टौ | निष्कृष्य निरूपितावित्यर्थः | किमन्यदस्ति यदर्थं शोच्यते मूढेरिति शेषः || ९ || न चेत्यमन्यन्नो चित्तं ब्रह्मैवेदं विजृम्भते | सर्वमेकं परं व्योम को मोक्षः कस्य बन्धता || १० || ब्रह्मेदं बृंहिताकारं बृहद्वृहदवस्थितम् | ज्ञानादस्तमितद्वित्वं भवात्मैव त्वमात्मना || ११ || बृहतोऽपि बृहद्ब्रह्म स्वात्मन्येव मायया नटवद्बृंहिताकारं इदं दृश्यं व्यवस्थितम् || ११ || सम्यगालोकिते रूपे काष्ठपाषाणवाससाम् | मनागपि न भेदोऽस्ति क्वासि संकल्पनोन्मुखः || १२ || सम्यक् अधिष्ठानसन्मात्ररूपेणालोकिते सति क्वासि | नह्येकरूपे हेयोपादेये संकल्पनं विकल्पनं वा संभवतीत्यर्थः || १२ || आदावन्ते च संशान्तं स्वरूपमविनाशि यत् | वस्तु नामात्मनश्चैव तन्मयो भव राघव || १३ || अविनाशि यत्स्वरूपं तदेव वस्तु | नामेति प्रसिद्धौ | आत्मनश्च स्वरूपमेवंविधमतस्तन्मयो भवेत्यर्थः || १३ || परं व्योमेदमखिलं जगत्स्थावरजङ्गमम् | सुखदुःखक्रमः कुत्र विज्वरो भव राघव || १४ || परं निरतिशयानन्दरूपं ब्रह्म || १४ || द्वैताद्वेतसमुद्भूतैर्जरामरणविभ्रमैः | स्फुरत्यात्मभिरात्मैव चित्रैरम्ब्विव वीचिभिः || १५ || स्फुरति अज्ञस्येति शेषः || १५ || शुद्धमात्मानमालिङ्ग्य नित्यमन्तस्थया धिया | यः स्थितस्तं क आत्मेहं भोगा बन्धयितुं क्षमाः || १६ || तं तत्त्वज्ञम् | के भोगाः || १६ || कृतस्फारविचारस्य मनोभोगादयोऽरयः | मनागपि न भिन्दन्ति शैलं मन्दानिला इव || १७ || मनोभोगः कामस्तदादयः षडरयः || १७ || अविचारिणमज्ञानं मूढमाशापरायणम् | निगिरन्तीह दुःखानि बका मत्स्यमिवाजलम् || १८ || अजलं जलान्निर्गतमल्पजलस्थं वा || १८ || जगदात्मैव सकलमविद्या नास्ति कुत्रचित् | इति दृष्टिमवष्टभ्य सम्यग्रूपः स्थिरो भव || १९ ||
483 SK नानात्वमस्ति कलनासु न वस्तुतोऽन्त- र्नानाविधासु सरसीषु जलादि नान्यत् | इत्येकनिश्चयमयः पुरुषो विमुक्त इत्युच्यते समवलोकितसम्यगर्थः || २० || जलादि आदिपदात्तरङ्गफेनबुद्बुदादि जलान्नान्यत् | यथेति शेषः | इति विविच्य समवलोकितसम्यगर्थस्तदेकनिश्चयप्रधानः पुरुष आत्यन्तिकचित्तनाशादिव्मुक्त इत्युच्यत इत्यर्थः || २० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सम्यग्ज्ञानलक्षणनिरूपणं नामैकोनाशीतितमः सर्गः || ७९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे सम्यग्ज्ञानलक्षणनिरूपणं नामैकोनाशीतितमः सर्गः || ७९ || अशीतितमः सर्गः ८० श्रीवसिष्ठ उवाच | इदमनः कलयतो भोगान्प्रति विवेकिनः | पुरःस्थितानपि सदा स्पृहैवाङ्ग न जायते || १ || यस्मिन्विमर्शे सुदृढे दिव्यभोगेष्वपि स्पृहा | नोदेत्यपि पुरःस्थेषु स विमर्शोऽत्र वर्ण्यते || १ || इदं वक्ष्यमाणं विमर्शोपदर्शनम् | पुरःस्थितानपि भोगान्प्रति स्पृहा न जायत एवेत्यन्वयः || १ || चक्षुरालोकनायैव जीवस्तु सुखदुःखयोः | भारायैव बलीवर्दो भोक्ता द्रव्यस्य नायकः || २ || तत्रादौ चक्षुषा इष्टानिष्टरूपे आलोचिते चक्षुरहंताभिनिवेशाज्जीवस्य सुखदुःखे दृश्येते तत्र चक्षुः प्रति स्वामितैवास्य नत्वहंतेति विमर्शेन दुःखादिप्रसक्तिरिति दर्शयति - चक्षुरिति | बलीवर्द एव भारवहनदुःखाय न तस्य भारद्रव्यस्य च नायकः | नह्यसौ बलीवर्द इत्यर्थः || २ || नयने रूपनिर्मग्ने क्षोभः क इव देहिनः | गर्दभे पल्वले मग्ने कैव सेनापतेः क्षतिः || ३ || स्वामित्वमपि तस्य न चक्षुर्मात्रे किंतु कार्यकरणसंघातकामकर्मवासनातत्फलभेदेष्वनन्तेषु | तत्र अहंकारबुद्धिमनःप्राणपरम्परया कथंचित्स्वत्वकोटिनिविष्टस्यैकस्य चक्षुषः कदाचिदनिष्टरूपसंप्रयोगे का वा गणना कुतो वास्य दुःखप्रसक्तिरित्याशयेनाह - नयने इति | गर्दभे सेनान्तर्गतरजकगर्दभे || ३ ||
484 SK रूपकर्दममेतन्मानयनास्वादयाधम | नश्यत्येतन्निमेषेण भवन्तमपि हिंसति || ४ || स्वामित्वादेव तन्निवारयितुमपि शक्यमित्याशयेनाह - रूपेति | एतत् स्त्रीपुत्रादिसौन्दर्यलक्षणं रूपम् | हिंसति नाशयति | छान्दसो विकरणव्यत्ययः | हे अधम मूढतम || ४ || येनैव संख्या क्रियते येनैवाऽस्वाऽनुगम्यते | तदीयैः कर्मभिः क्षिप्रं प्राज्ञः क्रूरो निबध्यते || ५ || प्राज्ञस्तर्हि कीदृशः क्वचिन्निबध्यते तत्राह - येनेति | क्रूरो निशितमतिः प्राज्ञस्तु येनान्तर्गतेन चिदात्मनैव सम्यक् ख्यानं संख्या प्रकाशो बाह्याभ्यन्तरार्थप्राप्त्या क्रियते येनैव अस्वा अनात्मभूता कोशपरम्परा आत्म तादात्म्यारोपेणानुगम्यते तदीयैः औदासीन्येन यथाप्राप्तार्थप्रकाशनलक्षणैः कर्मभिश्चरित्रैर्निबध्यते अभ्यासेन संबध्यते न मूढवद्रूपकर्दमास्वादनकर्मभिः | तथाच त्वमप्युदासीनं सद्रूपं प्रकाशय नतु तदास्वादयेत्यर्थः || ५ || उत्पन्नध्वंसि चापातमात्रहृद्यमसन्मयम् | रूपमाश्रय मा नेत्र विनाशायाविनाशिने || ६ || उत्पन्नध्वंसि आपातमात्रहृद्यं चेति विशेषणे असन्मयमित्यस्योपपत्तये | अविनाशिने अनिवार्याय विनाशाय मृत्युमुखप्रवेशाय || ६ || साक्षिवत्त्वंस्थितं नेत्र रूपमात्मनि तिष्ठति | आलोकं कालवशतस्त्वमेकं किं प्रतप्यसे || ७ || किंच रूपविषये सदा सर्वार्थप्रकाशने निरपेक्षसमर्थेऽपि परमात्मनि उदासीने स्थिते सति हे नेत्र कालवशतः कदाचिदेव दीपाद्यालोकं प्राप्य प्रकाशयत् त्वमेवैकं किं किमर्थं प्रतप्यसे अतस्त्वमपि साक्षिवत्स्थितं सद्रूपं पश्येत्यर्थः || ७ || सलिलस्पन्दवद्दृष्टिः पिच्छिकेवाम्बरोत्थिता | सुजातिबन्धा स्फुरति तव चित्त किमागतम् || ८ ||
485 SK इदानीं चक्षुषा भ्रान्त्या रूपे आलोकितेऽपि चित्तस्य तदभिनिवेशे हेतुर्नास्तीत्याह - सलिलेति | हे चित्त इयं विचित्ररूपदृष्टिर्नद्यादिसलिले नानाविधा नियतस्पन्दवैचित्र्यवदनियता | अम्बरे सूर्यालोकाभिमुखसाश्रुनेत्रनिरीक्षिता मयूरपिच्छिकेव मिथ्याभूता च गौरयमश्वोऽयं स्त्रीपिण्डोऽयमित्येव नानाविधसुजातिदुर्जातिविकल्पानुबन्धा चक्षुषः स्फुरति तत्र तव किमागतं येन त्वं रज्यसे तप्यसे चेत्यर्थः || ८ || कल्पाम्भसीव शफरी चित्ते स्फुरणधर्मिणि | स्वयं स्फुरत्यहंकारस्त्वमयं प्रोत्थितः कुतः || ९ || अस्तु वा चित्ते चक्षुर्दृष्टार्थाकारा वृत्तिस्तथाप्यभिनिवेशहेतोरहंकारस्य निमित्तं नास्तीत्याह - कल्पेति | चित्ते स्वयं रूपाद्याकारः स्फुरति चेत्स्फुरतु नाम अयमहंकारस्त्वं कुतः प्रोत्थितः || ९ || आलोकरूपयोर्नित्यं जडयोः स्फुरतोर्मिथः | आधाराधेययोश्चितं व्यर्थमाकुलता तव || १० || किंच स्त्रीपिण्डादिलक्षणं रूपं सूर्याद्यालोकमाश्रित्य स्फुरति सूर्यालोकश्च पिण्डाश्रित इत्यन्योन्यसंयोगे सौन्दर्यभ्रान्त्या कामादिना चित्तस्य व्याकुलता प्रसिद्धा सा च तयोश्चित्तेनासंबन्धाद्व्यर्थेत्यर्थः || १० || रूपालोकमनस्काराः परस्परमसङ्गिनः | संपन्ना इव लक्ष्यन्ते वदनादर्शबिम्बवत् || ११ || असंबन्धमेव दृष्टान्तेन स्फुटयति - रूपेति | चक्षुषा बहिः रूपालोकनं मनसा चान्तःसंकल्पादयो मनस्कारा इति भिन्नदेशत्वादेवेति भावः | संपन्नाः संलग्ना इव || ११ || अज्ञानजन्तुना ह्येते श्लिष्टा जाता निरन्तराः | अज्ञाने ज्ञान्गिलिते पृथक्तिष्ठन्त्यसन्मयाः || १२ || तत्संलग्नताभ्रान्तौ चाज्ञानमेव निमित्तमित्याह - अज्ञानेति | पृथग्विश्लिष्टास्तु असन्मया बाधिताः सन्तः अधिष्ठानमात्रपरिशेषेण तिष्ठन्ति || १२ || मनःकल्पनया ह्येते सुसंबद्धाः परस्परम् | रूपालोकमनस्कारा दारुणी जतुना यथा || १३ || दारुणी काष्ठे | जतुना लाक्षया || १३ || स्वमनोमननं तन्तुर्मनोभ्यासेन यत्नतः | विचाराच्छेदमायाति च्छिन्नैवाज्ञानभावना || १४ ||
486 SK स्वमनोमननमेव तन्तुः कोशकारतन्तुवत्स्वबन्धनं स च मन्दमध्यमाधिकारिणोर्वैराग्यशमदमनिरोधादिमनोभ्यासेन यत्नतो विचाराच्छेदमायाति | मुख्याधिकारिणस्तु सहसोत्पन्नज्ञानेन तस्मिंश्छिन्ने सति स्वभावत एवाज्ञानभावना छिन्नैव नैव प्रवर्तत इत्यर्थः || १४ || अज्ञानसंक्षयात्क्षीणे मनसीमे पुनर्मिथः | रूपालोकमनस्काराः संघट्टन्ते न केचन || १५ || तत्र द्वितीयस्यानायास इत्याह - अज्ञानेति || १५ || सर्वेषां चित्तमेवान्तरिन्द्रियाणां प्रबोधकम् | तदेव तस्मादुच्छेद्यं पिशाच इव मन्दिरात् || १६ || प्रथमेन तु यत्नेन चित्तमुच्छेद्यमित्याह - सर्वेषामिति || १६ || चित्त वल्गसि मिथ्यैव दृष्टोऽन्तो भवतो मया | आद्यन्तयोः सुतुच्छं त्वं वर्तमाने विनश्यसि || १७ || इदानीं चित्तमेव संबोध्य बोधयति - चित्तेत्यादिना | अन्तो बाधोपायः | यत आद्यन्तयोः सुतुच्छं अतो वर्तमानकालेऽपि विनश्यसि असदसि | नहि पूर्वोत्तरकालयोस्तुच्छो वन्ध्यापुत्रो वर्तमानकाले संभवतीत्यर्थः || १७ || मुधा पञ्चभिराकारैः किमन्तः परिवल्गसि | यस्त्वां स्वमिति जानाति तस्यैव परिवल्गसि || १८ || पञ्चभिरिन्द्रियोपनीतैः शब्दाद्याकारैः | यस्त्वदभिमानी प्रमाता त्वां स्वं मदीयमिति जानाति तस्यैव त्वमुपकरणतया परिवल्गसि न त्वसङ्गोदासीनचिदेकरसस्य ममेत्यर्थः || १८ || त्वद्वल्गनं मे कुमनो न मनागपि तुष्टये | मायामनःस्पन्द इव व्यर्थं वृत्तिषु दह्यसे || १९ || तुष्टिग्रहणं विषादस्याप्युपलक्षणम् | ऐन्द्रजालिकमायाप्रयुक्ते मनसो नानाविषयदर्शनाकारस्पन्दे इव || १९ || तिष्ठ वा गच्छ वा चित्त नासि मे न च जीवसि | प्रकृत्यासि मृतं नित्यं विचारात्सुमृतं स्मृतम् || २० || प्रकृत्या स्वीयमिथ्यास्वभावेनैव मृतं निरात्मकमसि विचारात्तु तथा स्मृतं सत् सुमृतं अत्यन्तासदसीत्यर्थः || २० || निस्तत्त्वं त्वं जडं भ्रान्तं शठं नित्यमृताकृते | मूढ एव त्वयाज्ञेन बाध्यो न प्रविचारवान् || २१ ||
487 SK वयमज्ञातवन्तस्त्वां मौर्ख्येणाशु मृतं भवत् | मृतमस्काकमद्यासि दीपानां तिमिरं यथा || २२ || एतावत्कालं वयं त्वां मृतं भवत् नैरात्म्येन वर्तमानं अज्ञातवन्तो न ज्ञातवन्तः | अद्य आत्मतत्त्वदर्शनकाले || २२ || शठेन भवता दीर्घकालं देहगृहं मम | उपरुद्धमभूत्सर्वं साधुसंसर्गवर्जितम् || २३ || साधवः शमदमविचारबोधादयस्तत्संसर्गवर्जितम् || २३ || जडे प्रेतसमाकारे गते त्वयि मनःशठे | सर्वसज्जनसंसेव्यमिदं देहगृहं मम || २४ || शमादय एव सज्जनाः || २४ || पूर्वमेवासि नासीस्त्वं संप्रत्येव शठं जगत् | न भविष्यसि चेदानीं वेताल किं न लज्जसे || २५ || हे जगद्रूप चित्तवेताल शठं त्वं पूर्वमेव नासीः संप्रति च नास्येव अग्रे च न भविष्यसि | एवं मया कालत्रये निषेध्यमानोऽपि इदानीमत्र स्थातुं किं न लज्जसे | अहो तव निर्लज्जतेत्यर्थः || २५ || सह तृष्णापिशाचीभिः सह कोपादिगुह्यकैः | निर्गच्छ चित्तवेताल शरीरसदनान्मम || २६ || यदि सलज्जोऽसि तर्हि निर्गच्छेत्याह - सहेति || २६ || दिष्ट्या विवेकमात्रेण निर्गतो देहमन्दिरात् | प्रमत्तश्चित्तवेतालः कुवृकः कन्दरादिव || २७ || अहो नु चित्रं सुमहज्जडेन क्षणभङ्गिना | मनःशठेन सर्वोऽयं नीतो विवशतां जनः || २८ || चित्तवञ्चितजनाननुशोचति - अहो इति || २८ || कस्ते पराक्रमः किं ते बलं कस्ते समाश्रयः | यदि वल्गसि मामेकं जनानां बाधसे मृतम् || २९ || जनानां मध्ये मृतं मरणधर्मकदेहात्मदर्शनात्स्वतो मृतं बाधसे अयं कस्ते पराक्रमः | एकमद्वितीयात्मभूतं मां प्रति यदि वल्गसि आगन्तुं शक्नोषि तदा ते पराक्रम इति शेषः || २९ || सर्वथैवासि न मया दीनचित्तक मार्यसे | मृतमित्यवबुद्धं त्वमद्य केवलमज्ञ हे || ३० || हे अज्ञ दीनचित्तक मया अद्य न मार्यसे यतः पूर्वमेव सर्वथैव त्वं मृतमिति अवबुद्धम् | अयमेव वध इत्यर्थः || ३० ||
488 SK एतावन्तमहं कालं त्वां ज्ञात्वा जीवदास्थिति | श्लिष्टः प्रभूतसङ्गासु चिरं संसृतिरात्रिषु || ३१ || जीवदास्थिति जीवत इव आस्थितिः स्वरूपसत्ता यस्य तथाविधं ज्ञात्वा श्लिष्टस्त्वया सह तादात्म्येन संगतः || ३१ || चित्तं मृतं हि नास्तीदमित्यद्याधिगतं मया | तेन त्वदाशां संत्यज्य तिष्ठाम्यात्मनि केवलम् || ३२ || दिष्ट्या चित्तं मृतमिति ज्ञातमद्य मया स्वयम् | न शठेन समं नेयं समग्रं जीवितं निजम् || ३३ || बोधोत्तरं जीवन्मुक्तानां निश्चित्तमेवायुःशेषनयनमुचितमित्याह - न शठेनेति || ३३ || उत्सार्य देहसदनान्मनःशठमहं क्षणात् | अहं स्वस्थः स्थितोऽस्म्यन्तर्वेतालपरिवर्जितः || ३४ || शठानां कामक्रोधलोभादीनां महं उत्सवभूतं मनो देहसदनादुत्सार्य || ३४ || चित्तवेताललब्धेन चिरं कालं मयात्मना | कृता विकारा विविधाः स्वयं स्मृत्वा हसाम्यहम् || ३५ || चित्तवेतालेन लब्धेन विप्रलब्धेन आत्मना तदात्मभूतेन मया | इदानीं स्वयं परमार्थात्मभूतोऽह तान्विकारान्स्मृत्वा हसामीत्यर्थः || ३५ || चिरान्निपातितो दिष्ट्या विचारासिपरार्दितः | हृद्गेहाच्चित्तवेतालस्तालोतालसमुन्नतिः || ३६ || निपातितो निपात्येव मारितः || ३६ || प्रशान्ते चित्तवेताले पवित्रां पदवीं गते | दिष्ट्या शरीरनगरे सुखं तिष्ठामि केवलम् || ३७ || कामादिमलाभावात्पवित्रां पदवीमिन्द्रियद्वारमार्ग गते प्राप्ते || ३७ || मृतं मनो मृता चिन्ता मृतोऽहंकारराक्षसः | विचारमन्त्रेण समः स्वस्थस्तिष्ठामि केवलम् || ३८ || समो निरस्तवैषम्यः सन् || ३८ || किं मनो मे ममाशा का को मेऽहंकारको भवेत् | दिष्ट्या व्यर्थं कलतं मे नष्टमेतदशेषतः || ३९ || कलत्रं पोष्यवर्गः || ३९ || एकस्मै कृतकृत्याय नित्याय विमलात्मने | निर्विकल्पचिदाख्याय मह्यमेव नमो नमः || ४० || इदानीं परिशिष्टं निरतिशयानन्दैकरसमात्मानमतिशयेन नमस्यति - एकस्मै इत्यादिना || ४० || न शोकोऽस्ति न मोहोऽस्ति न चैवाहमहं स्वयम् | नच नाहं नचान्योऽहं मह्यमेव नमो नमः || ४१ ||
489 SK अहमहं अहमभिमानप्रधानजडांशो नैव | नच नाहं अहंकारप्रत्यक्चिदात्मा नेति च न || ४१ || न ममाशा न कर्माणि न संसारो न कर्तृता | न भोक्तृता न देहो मे मह्यमेव नमो नमः || ४२ || नाहमात्मा न वा कोऽन्यो नाहमस्मि न चेतरः | सर्वमेवाहमेतस्मै मह्यमेव नमो नमः || ४३ || आत्मा आत्मशब्दप्रत्ययविषयो न | तथाच बृहदारण्यकभाष्ये तद्वार्तिके च आत्मेत्येवोपासीतेत्यत्र इतिशब्द आत्मशब्दप्रत्ययविषयत्वनिवारणार्थ इत्युक्तम् | न वा अन्यः अनात्माहम् | कोऽन्यस्तत्त्वदृशा संभाव्यते यदहं स्याम् | एवमहंशब्दप्रत्ययविषयस्तदितरश्च नाहम् | एवंच स्वेतराप्रसिद्धेः स्वयमेव सर्वमिति सर्वमेवाहमित्यर्थः || ४३ || अहमादिरहं धाता चिदहं भुवनान्यहम् | मम नास्ति व्यवच्छेदो मह्यमेव नमो नमः || ४४ || आदिर्भुवनानां कारणम् | धाता धारयिता | व्यवच्छेदस्त्रिविधपरिच्छेदः || ४४ || निर्विकाराय नित्याय निरंशाय महात्मने | सर्वस्मै सर्वकालाय मह्यमेव नमो नमः || ४५ || सर्वकालाय सनातनाय || ४५ || नीरूपाय निराख्याय प्रकाशाय महात्मने | स्वयमात्मैकसंस्थाय मह्यमेव नमो नमः || ४६ || समां सर्वगतां सूक्ष्मां जगदेकप्रकाशिनीम् | सत्तामुपगतोऽस्म्यन्तर्मह्यमेव नमो नमः || ४७ || साद्र्यब्ध्युर्वी नदी सेयं नाहमेवाहमेव वा | जगत्सर्वं पदार्थाढ्यं मह्यमेव नमो नमः || ४८ || अद्रयश्च अब्धयश्च उर्वी च नद्यश्च एतैः सहिता सा प्रसिद्धा इयं वर्तमाना दृश्यश्रीर्नाहम् | एवमतीतानागतपदार्थाढ्यं जगत्सर्वमपि नाहमहमेव वेति योज्यम् || ४८ || व्यपगतमननं समाभिरामं प्रकटितविश्वमविश्वमप्यनन्तम् [अरूपं इति पाठः] | स्वयमजमजरं गुणादतीतं वपुरहमच्युतमीश्वरं नमामि || ४९ ||
490 SK व्यपगतानि मननानि मनोविकल्पा यस्मादत एव समाभिरामं प्रकटितविश्वमनन्तं अच्युतम् | कुतः | उत्थितस्वरूपादप्रच्युतं ईष्टे अविद्यातत्कार्यनिरासे समर्थीभवतीतीश्वरं वपुः स्वरूपं नमामि | सर्वोत्कर्षेण प्रपन्नोऽस्मीत्यर्थः || ४९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषूपशमप्रकरणे दृश्यदर्शनसंबन्धो नामाशीतितमः सर्गः || ८० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे दृश्यदर्शनसंबन्धो नामाशीतितमः सर्गः || ८० || एकाशीतितमः सर्गः ८१ श्रीवसिष्ठ उवाच | एवं विचार्य बुद्ध्वान्तः पुनरित्थं विचार्यते | तत्त्वविद्भिर्महाबाहो ज्ञेय आत्मा महात्मभिः || १ || यत्नैः प्राक्चित्तवेतालो देहगेहाद्विवासितः | इहानुभवयुक्तिभ्यां चित्तासत्तोपपाद्यते || १ || आत्मा ज्ञेयः अवश्यं ज्ञातव्य इति विचारतत्त्वविद्भिः पुनरित्थं वक्ष्यमाणप्रकारेण विचार्यते चित्तमिति शेषः || १ || आत्मैवेदं जगदिति सत्यं चित्तेन मार्जितम् | उत्थितं स्यात्कुतश्चित्तमहो चित्तमवस्तु यत् || २ || येन चित्तेन आत्मैवेदमिति बोधेन जगन्मार्जितंतच्चितं कुत उत्थितं स्यात् यज्जगदन्तःपातेन स्वयमप्यवस्तु | अहो इत्याश्चर्ये || २ || अविद्यत्वादचित्तत्त्वान्मायात्वाच्चासदेव हि | ध्रुवं नास्त्येव वा चित्तं भ्रमादन्यत्खवृक्षवत् || ३ || अवस्तुत्वमेव साधयति - अविद्यत्वादिति | जडत्वाच्चित्तान्तरशून्यत्वान्मायाकार्यत्वाच्च ध्रुवं निश्चयेन चित्तं नास्त्येवेत्यसदेव | अथवा खवृक्षवद्भ्रमादेवान्यद्वस्तुतस्तु शुद्धं खगिवात्मैव तदित्यर्थः || ३ || सिद्धः स्थाणुपरिस्पन्दो नौगतस्य यथा शिशोः | अबुद्धस्य न बुद्धस्य तथा चित्तमसन्मयम् || ४ || यथा नैकागतस्य शिशोर्बालस्य स्थाणुपरिस्पन्दो भ्रान्तिमात्रसिद्धस्तद्वदबुद्धस्य चित्तं सिद्धमपि बुद्धस्यात्मविदो न सिद्धं किंत्वसन्मयमेवेत्यर्थः || ४ || मौर्ख्यमोहभ्रमे शान्ते चित्तं नोपलभामहे | चक्रारोहभ्रमस्यान्ते पर्वतस्पन्दनं यथा || ५ ||
491 SK तैलेक्ष्वादियन्त्रचक्रारोहणप्रयुक्तभ्रमस्यान्ते तदवरोहणोत्तरमित्यर्थः || ५ || एवं हि चित्तं नास्त्येव ब्रह्मैवास्ति तथात्मकम् | पदार्थभावनाश्चित्तात्तेनासत्या मयोज्झिताः || ६ || यतो बाह्याभ्यन्तरपदार्थभावना असतश्चित्तात्प्रसृतास्तेन हेतुना असत्या इति मया उज्झितास्त्यक्ताः || ६ || जातोऽस्मि शान्तसंदेहः स्थितोऽस्मि विगतज्वरः | तथा तिष्ठामि तिष्ठामि तथैव विगतैषणम् || ७ || यथा येन पारमार्थिकस्वभावेन तिष्ठामि तथैवेदानीं स्वानुभवेनापि तिष्ठामि नान्यथाभूत इत्यर्थः || ७ || चित्ताभावे परिक्षीणा बाल्यतृष्णादयो गुणाः | आलोकोपरमे चित्रा वर्णाख्या इव संविदः || ८ || बाल्यं बालस्य कर्म चापलम् | वर्णान् रूपभेदानाख्यान्ति प्रथयन्ति तथाविधाश्चाक्षुषसंविद इव || ८ || मृतं चित्तं गता तृष्णा प्रक्षीणो मोहपञ्जरः | निरहंकारता जाता जाग्रत्यस्मिन्प्रबुद्धवान् || ९ || अस्मिन्नहमात्मनि जाग्रति अपगताज्ञाननिद्रे सति अहं प्रबुद्धवान् स्वाभाविकं स्वरूपमित्यर्थः || ९ || एकमेव जगच्छान्तं नानात्वं न सदित्यपि | किमन्यद्विमृशाम्यन्तः कथयैवालमेतया || १० || जगत् शान्तं सदेकं ब्रह्मैव | एतया असद्विषयिण्या कथयैवालम् | प्रयोजनं नास्तीत्यर्थः || १० || निराभासमनाद्यन्तं पदं पावनमागतः | सौम्यः सर्वगतः सूक्ष्मः स्थित आत्मास्मि शाश्वतः || ११ || निर्गत आभासश्चिदाभासलक्षणा जीवता यत्र || ११ || यदस्ति यच्च नास्तीह चित्ताद्यात्माद्यवस्तु च | तत्खादच्छतरं शान्तमनन्ताग्राह्यमाततम् || १२ || यल्लोके व्यवहारदृशा चित्तादिश्रुतिदृशा च आत्मब्रह्मचैतन्यादि च अस्तीति च प्रसिद्धम् | यच्च रज्जुसर्पादि वन्ध्यापुत्रादि च नास्तीति प्रसिद्धं वस्त्ववस्तु च तत्सर्वं खादाकाशादप्यच्छतरं निर्मलतरं अग्राह्यं स्वप्रकाशं ब्रह्मैवाततं तस्मिन्नेव सदसद्रूपविकल्पारोपादित्यर्थः || १२ || चित्तं भवतु मा वान्तर्म्रियतां स्थितिमेतु वा | को विचारणयार्थो मे चिरं साम्योदितात्मनः || १३ ||
492 SK विचाराकारको मौर्ख्यादहमासं मितस्थितिः | विचारेणामिताकारः क्व नामाहं विचारकः || १४ || अहमेतावत्कालं मौर्ख्याद्विचारस्य अकारकः अकर्ता सन् मितस्थितिः परिच्छिन्नदेहादिस्वभाव आसम् | संप्रति विचारेण अमिताकारः सन् विचारकः अहं क्व नाम गत इति न निरूपयितुं शक्य इत्यर्थः || १४ || मृतेऽपि मनसीयं मे विकल्पश्रीर्निरर्थिका | मनोवेतालवृत्त्यर्थं किमर्थमुपजायते || १५ || मनसि मृते सति विचारकोऽस्ति न वेति विकल्पश्रीरपि निरर्थिका मनोवेतालस्य वृत्त्यर्थं पुनर्जीवनार्थं किमर्थमुपजायते | अतस्तामिमां प्रजहामीति परेण संबन्धः || १५ || तामिमां प्रजहाम्यन्तः संकल्पकलनामिति | निर्णीयोमिति शान्तात्मा तिष्ठाम्यात्मनि मौनवत् || १६ || ओमिति ॐकारलक्ष्ये तुरीये आत्मनि मौनवदिति स्थितिक्रियादृष्टान्तः || १६ || अश्नन्गच्छन्स्वपंस्तिष्ठन्निति राघव चेतसा | सर्वत्र प्रज्ञया तज्ज्ञः प्रत्यहं प्रविचारयेत् || १७ || कृतं विचारमुपसंहांस्तस्य सदैव कर्तव्यतामाह - अश्नन्निति | यथाहुः गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा | न विचारपरं चेतो यस्यासौ मृत उच्यते || इति || १७ || प्रविचार्य स्वसंस्थेन स्वस्थेन स्वेन चेतसा | तिष्ठन्ति विगतोद्वेगं सन्तः प्रकृतकर्मसु || १८ || प्रकृतकर्मसु स्वस्ववर्णाश्रमोचिताचारेषु || १८ || विगतमानमदा मुदिताशयाः शरदुपोढशशाङ्कसमत्विषः | प्रकृतसंव्यवहारविहारिण- स्त्विह सुखं विहरन्ति महाधियः || १९ || शरदा उपोढेन शशाङ्केन समा त्विट् प्रसन्नमुखकान्तिर्येषाम् || १९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे चित्तासत्ताप्रतिपादनं नामैकाशीतितमः सर्गः || ८१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे चित्तासत्ताप्रतिपादनं नामैकाशीतितमः सर्गः || ८१ || द्व्यशीतितमः सर्गः ८२ श्रीवसिष्ठ उवाच | विचार एवं विदुषा संवर्तेन कृतः पुरा | कथितो मम विन्ध्याद्रौ तेनैव विदितात्मना || १ ||
493 SK इहेन्द्रियाणि च मनो व्यर्थचेष्टादिहेतुभिः | वीतहव्येन बोध्यन्ते आत्मैकाग्र्यप्रसिद्धये || १ || कृतस्य विचारस्य सांप्रदायिकत्वं दर्शयति - विचार इति | संवर्तेन बृहस्पतिभ्रात्रा || १ || एतां दृष्टिमवष्टभ्य विचारपरया धिया | संसारसागरादस्मात्तारतम्येन संतर || २ || तारतम्येन उत्तरोत्तरचित्तविश्रान्तिप्रकर्स्ऽपरिपाकप्रयुक्तभूमिकारोहणक्रमेण || २ || अथेमामपरां राम शृणु दृष्टिं पदप्रदाम् | मुनिना वीतहव्येन ययाऽस्थितमशङ्कितम् || ३ || अपरां इन्द्रियमनःप्रबोधनरूपां यया दृष्ट्या वीतहव्येन मुनिना अशङ्कितं निःशङ्कं पदमास्थितमधिरूढमित्यर्थः | यथा इति पाठे येन प्रकारेण || ३ || वीतहव्यो महातेजा विबभ्राम वने पुरा | विन्ध्यशैलदरीर्दीर्घा रविर्मेरुदरीरिव || ४ || विन्ध्यशैलदरीः समाध्यनुकूला अन्वेषमाणो विबभ्राम् || ४ || अस्मात्क्रियाक्रमाद्घोरात्संसारभ्रमदायिनः | आधिव्याधिमयाकारात्कालेनोद्वेगमाययौ || ५ || कुतस्तस्य समाधीच्छाभूत्तत्राह - अस्मादिति || ५ || निर्विकल्पसमाध्यंशलभ्योदारपरेच्छया | स जहार जगज्जीर्णां स्वव्यापारपरम्पराम् || ६ || जहार उपसंजहार | संन्यस्तवानिति यावत् || ६ || विवेश रम्भारचितं निजं पर्णोटजान्तरम् | कृतगौरं सुसौगन्ध्यमलिनीलमिवोत्पलम् || ७ || रम्भारचितं कदलीदलनिर्मितम् | कृता गौराः श्वेताः पीताश्च कर्पूराः परागाश्च येन अत-एव सुसौगन्ध्यम् || ७ || तत्रासने समे शुद्धे स्वास्तीर्णहरिणाजिने | विशश्रामाचले शान्ते वीतवर्ष इवाम्बुदः || ८ || शान्ते निस्तापे | अचलेशस्य हिमवतोऽन्ते प्रान्ते वा || ८ || बद्धपद्मासनस्तस्थौ पार्ष्ण्योरधिकराङ्गुलिः | शृङ्गवच्छान्तचलनमतिष्ठत्स्पष्टकन्धरम् || ९ || पार्ष्ण्योः पादतलमूलयोरधि उपरि कराङ्गुलयो यस्य तथाविधः सन् | असमर्थसमासश्छान्दसः | स्पष्टकन्धरं ऊर्द्व्हीकृतग्रीवं यथा स्यात्तथा || ९ || स जहारालमालोकाद्दिग्विकीर्णं मनः शनैः | विशन्मेरुदरीं सायं भानुर्भास इवोत्करम् || १० ||
494 SK दिक्षु इन्द्रियालोकान्निमित्ताद्विकीर्णं मनस्तन्निग्रहोपायेन जहार हृद्युपसंजहार | शनैर्वक्ष्यमाणप्रबोधनक्रामदित्यर्थः || १० || बाह्यानाभ्यन्तरांश्चैव स्पर्शान्परिजहत्क्रमात् | इदमाकलयामास मनसा विगतैनसा || ११ || बाह्यानैन्द्रियकानाभ्यन्तरान्मानसांश्च विषयस्पर्शान्परिजहत्यजन्सन् | नाभ्यस्ताच्छतुः इति नुम्निषधः | इदं वक्ष्यमाणमाकलयामास विचारयामास || ११ || अहो नु चञ्चलमिदं प्रत्याहृतमपि क्षणात् | न मनः स्थैर्यमायाति तरङ्गप्रौढपर्णवत् || १२ || तरङ्गैः प्रौढेन प्रवाहितेन पर्णेन तुल्यं तरङ्गप्रौढपर्णवत् || १२ || चक्षुरादिभिरुद्दामै रूपैराहितसंभ्रमैः | अजस्रमुत्पतत्येव वीटेव तलताडिता || १३ || चक्षुरादिभिराहितसंभ्रमैर्नानाविषयरूपैर्निमित्तैः उत्पतति नृत्यति | वीष्टेव कन्दुक इव || १३ || त्यजदेवानुगृह्णाति वृत्तीरिन्द्रियवर्धिताः | यस्मान्निवार्यते तस्मिन्प्रोन्मत्त इव धावति || १४ || पूर्वपूर्ववृत्तीस्त्यजदेव तत्तदनुसारिणीरुत्तरोत्तरवृत्तिर्गृह्णाति || १४ || घटात्पटमुपायाति पटाच्छकटमुत्कटम् | चित्तमर्थेषु चरति पादपेष्विव मर्कटः || १५ || पञ्चद्वाराणि मनसश्चक्षुरादीन्यमून्यलम् | दग्धेन्द्रियाभिधानानि तावदालोकयाम्यहम् || १६ || एवं चित्तदोषानालोच्य तन्निर्गमद्वाराण्यालोचितवानित्याह - पञ्चेति | दग्धशब्दो निन्दार्थः | छान्दसत्वात् कुत्सितानि कुत्सनैः इति समासो नाश्रितः || १६ || हे हे हतेन्द्रियगणाः किं मे बोधाय नेह वः | वेला विलुलिताम्बूनामब्धीनामिव चञ्चलाः || १७ || इदानीमिन्द्रियाण्येव निर्भर्त्स्य बोधयति - हे हे इति | हे चञ्चलाः हतेन्द्रियगणाः मे मम बोधाय समाधिना चिरमात्मदर्शनाय वः वेला अवसरो नास्ति किम् || १७ || मा कुरुध्वमनर्थाय चापलं चपलाशयाः | स्मरतातीतवृत्तीनि दुःखजालानि भूरिशः || १८ || रूपाणि मनसो यूयं जडा एव किलाधमाः | जडे तूत्सिक्तता व्यर्थं मृगतृष्णेव वल्गति || १९ ||
495 SK यूयं मनस एव द्वारभेदेन कल्पितानि स्वरूपाणि | जडे रलयोरभेदाज्जले च उत्सिक्तता तरङ्गोत्सेकवत्तेव व्यर्थं वल्गति || १९ || असारात्मस्वरूपाणामनालोकवती सदा | अन्धानामुद्धतिर्येयं सा दृश्यायैव जायते || २० || असारात्म अनृतं स्वरूपं येषां तथाविधानां भवतामनालोकवती [अनालोकवतामात्मज्ञानशून्यानां इति मूले टीकायां च पाठः] आत्मज्ञानशून्या या समुद्धतिर्दुर्विनयादमार्गे प्रवृत्तिः सेयमन्धानां सादृश्याय उपमार्थमेव जायते | अमार्गे धावतामन्धानां कूपे पातस्योपमा जायत इत्यर्थः || २० || चिदात्मा भगवान्सरं साक्षित्वेन करोम्यहम् | हतेन्द्रियगणा यूयं किं निरर्थकमाकुलाः || २१ || यदि वयं जडाः कस्तर्हि दर्शनादिना सर्वव्यवहारं करोति तत्राह - चिदात्मेति || २१ || मिथ्यैव मे विवल्गन्ति नीरूपा नयनादयः | अलातचक्रप्रतिमाः सर्परज्जुभ्रमोपमाः || २२ || नीरूपाः सत्यस्वरूपशून्याः || २२ || तेनात्मना बहुज्ञेन निर्ज्ञाताश्चक्षुरादयः | मनागपि न संबन्धो द्युपातालतलाद्रिवत् || २३ || येन साक्षिणा बहुज्ञेन सर्वावभासकेन नयनादयः परिज्ञातास्तेन सह एषां मनागपि संबन्धो नास्ति | यथा द्युपातालतलयोः पातालाद्रिभ्यां दिवो वा पातालतलाद्रिभिस्तद्वदित्यर्थः || २३ || भीतः पान्थ इवाहिभ्यः पुक्कसेभ्य इव द्विजः | दूरे तिष्ठति चिन्मात्रमिन्द्रियेभ्यस्त्वनामयम् || २४ || चिन्मात्रं चिदेकरसः प्रत्यगात्मा परग्भ्य इन्द्रियेभ्यो दूरं तिष्ठति | पराञ्चि खानि व्यतृणत्स्वयंभूः इति श्रुतेरिति भावः || २४ || चित्सत्तामात्रकेणालं संक्षोभो भवतां मिथः | तिष्ठति स्वैरमादित्ये दिनकार्यवतामिव || २५ || तर्हि कथमिन्द्रियव्यापारे आत्मनो निमित्तताप्रसिद्धिस्तत्राह - चित्सत्तेति | दिनकार्याणि श्राद्धकृष्यादीनि तद्वताम् || २५ || चित्त चारण चार्वाक चतुर्दिक्कुक्षिभिक्षुक | श्वेव व्यर्थमनर्थाय मैवं विहर हे जगत् || २६ ||
496 SK इदानीं चित्तं संबोध्य बोधयति - चित्तेत्यादिना | इन्द्रियाणां बहिर्मुखताप्रचारहेतुत्वाच्चारण | देहात्माभिमानित्वाच्चार्वाक | चतसृषु दिक्षु कुक्षिभरणाय भिक्षुक || २६ || अहं चिद्वदिति व्यर्थमसत्या तव वासना | अत्यन्तभिन्नयोरैक्यं नास्ति चिन्मनसोः शठ || २७ || चिद्वत् चेतनमिति वासनाभ्रान्तिः || २७ || जीवाम्येवाहमित्येषा तवाहंकारदुर्मतिः | मिथ्यैव जाता दुःखाय न सत्या सत्यवर्जिता || २८ || न सत्येति | नह्यहंकाराधीनजीवनं सत्यम् | असत्यपि तस्मिन् सुषुप्तौ जीवनदर्शनात् | इतोऽपि मिथैव सा यतः सत्येन परमात्मना वर्जिता | न प्राणेन नापानेन मर्त्यो जीवति कश्चन | इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ इति श्रुतेरित्यर्थः || २८ || अहंकारोदये सोऽस्मीत्येतां संरब्धतां त्यज | न किंचिदपि मूर्ख त्वं किं व्यर्थं तरलायसे || २९ || अहंकारस्य अभिमानाख्यपरिणामस्य उदये जाते स कार्यकारणसंघातात्मास्मीत्येतां संरब्धतामभिमानम् || २९ || संविच्चित्त्वमनाद्यन्तं संविदोऽन्यन्न विद्यते | देहेस्मिंस्तन्महामूर्ख किं त्वं स्याश्चित्तनामकम् || ३० || तवैव स्वरूपं दुर्लभं त्वया अभिमानेनान्यरक्षणं तु दूरनिरस्तमित्याशयेनाह - संविदिति || ३० || विषपर्यवसानेयं रसायनवदुत्थिता | भोक्तृताकर्तृताशङ्का बत चित्त मुधैव हि || ३१ || परिणामे विषपर्यवसाना | भोगकाले रसायनवदुत्थिता || ३१ || मोपहासपदं गच्छ मूर्खेन्द्रियगणाश्रयम् | न कर्ता त्वं न भोक्ता त्वं जडोऽस्यन्येन बोध्यसे || ३२ || इन्द्रियगणानामाश्रयणमाश्रयं कृत्वेति शेषः | अन्येन साक्षिणा || ३२ || कस्त्वं भवसि भोगानां के वा भोगा भवन्ति ते | जडस्यात्मैव ते नास्ति बन्धुमित्रादि तत्कुतः || ३३ || भोगानुभवशक्तिशून्यस्य जडस्य मिथ्याभूतस्य च तव भोगाशा व्यर्थेत्याह - कस्त्वमिति || ३३ || यज्जडं तद्धि नस्त्येव सदेवासत्तयान्वितम् | ज्ञत्वकर्तृत्वभोक्तृत्वमन्यत्वानामसंभवात् || ३४ ||
497 SK आत्मैव ते नास्तीत्येतदुपपादयति - यदिति | सत् परसत्तावशाद्विद्यमानतया भासमानमेव स्फटिके लौहित्यमिव स्वतः असत्तयान्वितम् | ज्ञत्वं च कर्तृत्वं च भोक्तृत्वं च मन्यते पूर्वापरमनुसंधत्ते इति मन्यस्तत्त्वं च तेषां चैतन्यमन्तरेणासंभवात् || ३४ || प्रत्यक्चेतनरूपश्चेत्त्वं तदात्मैव ते वपुः | भावाभावमयी चित्तसत्ता ते केव दुःखदा || ३५ || तर्ह्यहं प्रत्यक्चैतन्यरूपमेव किं न स्यामिति चेत्तर्हि तव सदा निर्विकल्पैव स्थिर्युक्ता नतु दुःखदा कर्तृत्वभोक्तृत्वभावाभावविकल्पमयीत्याह - प्रत्यगिति | नच सर्वविकल्पत्यागे चित्तता तवास्तीति भावः || ३५ || यथा कर्तृत्वभोक्तृत्वे मिथ्यैवाधिगते त्वया | मया ते हि प्रमार्ज्येते शृणु युक्त्या कथं शनैः || ३६ || अचेतनत्वे तु अयत्नेनैव कर्तृत्वादिकं प्रमार्जितुं शक्यमित्याह - यथेति || ३६ || स्वयं तावद्भवानेष जडो नास्त्यत्र संशयः | जडस्य कीदृक्कर्तृत्वं नृत्यन्तीह कथं शिलाः || ३७ || शिलाः शिलापुत्रिकाः || ३७ || उपजीव चिरं तस्माच्छुद्धं तद्भागमैश्वरम् | जीवसीच्छसि हंसि त्वं वृथा यासि विवल्गसि || ३८ || यदि ब्रुषे काष्ठप्रतिमा चेतनव्यापारमुपजीव्य नृत्यन्ती दृष्टेति तर्हि त्वमपि तदैश्वरं चिदाभासभागमुपजीव | तथाच प्रतिमानृत्यफलभोक्ता यथा चेतन एव न प्रतिमा तथा त्वत्कृतजीवनादिफलभोक्ता चिदात्मैवेति त्वं वृथा जीवनाद्यर्थं धावसीत्यर्थः || ३८ || क्रियते यत्तु यच्छक्त्या तत्तेनैव कृतं भवेत् | लुनाति दात्रं पुंशक्त्या लावकः प्रोच्यते पुमान् || ३९ || दात्रं शङ्कुला || ३९ || हन्यते यस्तु यच्छक्त्या स तेनैव हतो भवेत् | निहन्ति खड्गः पुंशक्त्या हन्तैव प्रोच्यते पुमान् || ४० || पुमानेव हन्ता प्रोच्यत इत्यन्वयः || ४० || पीयते यस्तु यच्छक्त्या पीतं तेनैव तद्भवेत् | पात्रेण पीयते पानं पाता यस्तूच्यते नरः || ४१ || यस्तु नरः स एव पाता उच्यते न पात्रम् || ४१ ||
498 SK प्रकृत्येवासि सुजडः समस्तज्ञेन बोध्यसे | तेनात्मैवात्मनात्मानं चिनोतीदं हि नो भवत् || ४२ || चिनोति भोक्तृभोग्यकरणोपकरणादिभावेन स्वप्न इव संचिनोति | भवच्छब्दस्य सर्वनाम्नो नपुंसके भवदिति रूपम् || ४२ || अनारतं बोधयति त्वामात्मा परमेश्वरः | बोधनीया बुधैर्मूढाः किलावृत्तिशतैरपि || ४३ || बोधयति चिदाभासव्याप्त्या स्फोरयति | युक्तं चैतदित्याह - बोधनीया इति || ४३ || आत्मसत्तैव बोधैकरूपिणी स्फुरतीह हि | तयैव चित्तशब्दार्थावङ्गीकृत्य त्वया स्थितम् || ४४ || अत-एव बोधसत्ताधीनस्तव नामरूपाभ्यामात्मलाभ इत्याह - आत्मेति || ४४ || एवं चित्त त्वमज्ञानादात्मशक्तेरुपागतम् | ज्ञाने त्वया विगलितं तीव्रे हिममिवातपे || ४५ || तथाचात्मैव स्वाज्ञानात्त्वमिव संपन्नः स्वज्ञानात्त्वद्भावान्मुच्यत इत्याह - एवमिति | विगलितं भावे क्तः || ४५ || तस्मान्मृतं त्वं मूढं त्वं नासि त्वं परमार्थतः | तदेवाहमिति व्यर्थमतो मास्त्वसुखाय ते || ४६ || तदात्मैवाहमिति तादात्म्याध्यासो मास्तु | असुखाय जन्मादिदुःखाय || ४६ || असत्या चित्तकलना इन्द्रजाललता इव | विज्ञानमात्रमेवेह ब्राह्ममङ्गं विजृम्भितम् || ४७ || ब्राह्मं अङ्गं स्वरूपम् || ४७ || नरामरजगद्रूपैर्ब्राह्मी शक्तिरुदेत्यलम् | सामुद्रकणकल्लोलजालैर्वेलेव वल्गति || ४८ || शक्तिश्चिच्छक्तिसंवलिता माया | अत-एव वेलेव || ४८ || चिन्मयश्चेद्भवेर्मूढ तत्तस्मात्परमात्पदात् | नित्यमव्यतिरिक्तं त्वं [व्यतिरिक्तस्त्वमित्येव पाठो युक्तः] किमन्यत्परिशोचसि || ४९ || हे मूढ त्वं आत्मत्वबोधाच्चिन्मयश्चेद्भवेस्तत्तर्हि चितो भेदकारणाभावात्परमात्पदान्नित्यमव्यतिरिक्त एव || ४९ || सर्वगं सर्वभावस्थं सर्वरूपं हि तत्पदम् | तत्प्राप्तौ सर्वमेवाज्ञ प्राप्तं भवति सर्वदा || ५० || तदा अप्राप्तविषयाभावादनुशोको निर्विषयो न संभाव्य इत्याशयेनाह - सर्वगमिति | सर्वेष्वतीतानागतभावेष्वपि स्थितम् | कालकृतपरिच्छेदशून्यमिति यावत् || ५० ||
499 SK न त्वमस्ति न देहोस्ति ब्रह्मास्तीह महत्स्फुरत् | अहंत्वमिति निःस्पन्दे स्फुरत्यार्तिर्हि कस्य का || ५१ || तदा त्वं पृथङ्नास्ति | छान्दसः पुरुषव्यत्ययः | अहंत्वमित्याभासो निःस्पन्दे आत्मनि स्फुरति अतः कस्य का वा आर्तिः || ५१ || आत्मा चेत्त्वं तदात्मैव सर्वगोऽस्तीह नेतरः | आत्मनोऽन्यज्जडत्वं चेत्तत्त्वं नास्त्यस्ति तद्वपुः || ५२ || उक्तकल्पद्वयं पुनः स्पष्टमाह - आत्मेति || ५२ || आत्मैव सर्वं त्रिजगत्तदन्यत्तु न किंचन | तत्त्वं किंचित्त्वमात्मान्यद्यदि तत्त्वं न किंचन् || ५३ || तत्तस्माद्यदि त्वं किंचिदात्मान्यद्यदि भवसि तदा किंचन तत्त्वं परमार्थरूपं नेत्यर्थः || ५३ || अहं त्विदमहं तन्म इति व्यर्थं किमीहसे | असद्वपुः किं स्फुरति शशशृङ्गेण को हतः || ५४ || अहं तु इदं बालशरीरम् | अहं तद्वृद्धशरीरम् | तद्बालशरीरसंबन्धि क्रीडोपकरणादि वृद्धशरीरसंबन्धिपुत्रपौत्रादि च मे मम इति व्यर्थ किमीहसे | नह्यात्मभूतस्य शरीरता वास्तवीत्यसद्वपुः किं स्फुरतीत्यर्थः || ५४ || तृतीया कलना नास्ति चिज्जडांशेतरा शठ | छायातपनयोर्मध्ये तृतीयेवानुरञ्जना || ५५ || तर्हि चिदचिद्व्यतिरिक्तं तृतीयं स्वरूपमहं किं न स्यां तत्राह - तृतीयेति | यथा जगति च्छायातपान्यतरानुरञ्जना सर्ववस्तुष्वस्त्येव तृतीया विधा नास्ति तद्वदित्यर्थः || ५५ || सत्यावलोकनाज्जाते चित्तजाड्यदृशोः क्षये | संपद्यते यत्तु तज्जं स्वसंवेदनमात्रकम् || ५६ || तर्ह्ययं तत्त्वतः किंस्वरूपमिति चेच्चरमसाक्षात्कारवृत्त्या अविद्यया सह त्वदीयजाड्यस्य त्वदन्तर्गतचिदाभासस्य च क्षये चरमसाक्षात्कारवृत्त्याविर्भूतं यत्स्वप्रकाशपूर्णात्मरूपं तदेव त्वमित्याह - सत्येति | तज्जं तस्मात्सत्यावलोकमादाविर्भूतम् || ५६ || तेन मूढ न कर्तृत्वं न भोक्तृत्वं तवापि हि | तदेवासि परं ब्रह्म त्यज मौर्ख्यं भवात्मवान् || ५७ || केवलं ज्ञत्वविषयमुपदेशार्थसिद्धये | त्वया करणभूतेन करोत्यात्मेति कथ्यते || ५८ ||
500 SK यद्यहमात्मैव तर्हि मनसैवानुद्रष्टव्यं मनसैवेदमाप्तव्यं नेह नानास्ति किंचन इत्यादिश्रुतिषु मम आत्मोपकरणत्वं कथमुक्तं तत्राह - tattvamasītyādyupadeśānāṃ prayojanasiddhaye karaṇatvena kalpitena tvayā kevalaṃ śuddhaṃ svatattvaṃ jñatvaṃ caramasākṣātkārastadviṣayaṃ karoti | yathā svamukhatattvaṃ didṛkṣurdarpaṇopādhyadhirūḍhena svamukhenaiva karaṇena mukhaṃ paśyati tadvaditi bhāvaḥ || 58 || asatsvarūpaṃ karaṇaṃ jaḍaṃ niravalambanam | niḥspandanaṃ na spandeta kartṛsaṃbodhanaṃ vinā || 59 || yadi tvaṃ karaṇasvabhāvameva svaṃ manyase tarhi tava calane'pi svataḥ sāmarthya nāstīti kartṛtvābhimānastava vṛthaivetyetadupapādayati - asatsvarūpamityādinā | niḥspandanaṃ svataḥ spandanaśaktirahitam | kartṛsaṃbodhanaṃ caitanyakṛtaṃ kartavyārthaprakāśam || 59 || akartuḥ karaṇasyāsya śaktiḥ kācinna vidyate | dātrasya lāvakābhāve kartuṃ kimiva śaktatā || 60 || akartuṃ kartranadhiṣṭhitasya || 60 || khaḍgaprahāravicchedakriyāyāṃ puṃsi śaktatā | na khaḍge sujaḍe citta sarvāṅgeṣvapi śaktatā || 61 || sarvāṅgeṣu āmūlāgraṃ sarvāvayaveṣu sarveṣvaṅgeṣu upakaraṇeṣu satsvapīti vā || 61 || tasmānnāsi sakhe kartṛ mā vyarthaṃ duḥkhabhāgbhava | parārthaṃ kleśitā mūrkha prākṛteṣu na śobhate || 62 || prākṛteṣu pāmaratulyeṣu prakṛtikāryeṣu | ātmanastu śobhata eva || 62 || īśvaro nedṛśaḥ śocyo yastvayā sadṛśo bhavet | naca tasya kṛtenārtho nākṛteneha kaścana || 63 || nanvīśvara eva mohājjīvatāṃ prāptaḥ aśanāyādinā pīḍyamānaḥ kathaṃ mayopekṣaṇīya iti tadartha sarvaprayatnairghaṭamānamahaṃ tamanuśaucāmīti cettatrāha - īśvara iti | yastvayā sadṛśaḥ sa eva tvayā śocayaḥ | īśvarastu nedṛśa ityarthaḥ || 63 || garvāttupakaromyenamiti kevalamalpadhīḥ | kliśyate vasatāṃ tvartho na kiṃcidupayujyate || 64 ||
501 SK गर्वात्कार्यकारणसंघाताभिमानादेनमात्मानमुपकरोमीति भ्रान्त्या त्वया अल्पा परिच्छिन्ना धीर्बुद्धिः क्लिश्यते पीड्यते | संघाते वसतां पञ्चप्राणमनोबुद्धिदशेन्द्रियाणां सर्वेषामचेतनत्वाद्भोगैर्नार्थ इति न किंचित्कस्यचिदुपयुज्यत इत्यर्थः || ६४ || कर्तुर्भोगेश्वरस्यैवमर्थे चेदनुवर्तसे | तदस्य काचिन्नेच्छेह तृप्तत्वात्सर्वदैव हि || ६५ || अतः परिशेषादीश्वरस्यार्थे त्वत्प्रवृत्तिर्वाच्या तत्र तूक्तमेवोत्तरमित्याह - akṛtrimāvabhāsena sarvagena cidātmanā | ekenaivedamāpūrṇaṃ kalpanaivāsti netarā || 66 || kutastasya neccheti cetpūrṇatvādadvayatvāccetyāha - akṛtrimeti || 66 || ekānekāvabhāsena samastena tadātmanā | ātmanyevāntarātmāntaḥ kriyate kiṃ kimiṣyate || 67 || sarvasya jagataḥ svātmani tenaiva kalpitatvenāprāptatvābhāvādapi tatra tasya necchetyāha - eketi | ātmanā ātmanyevāvidyakena ekānekāvabhāsena tajjagadrūpaṃ kriyate tatra kiṃ kimalabhyaṃ yadiṣyate || 67 || tvādṛśasya tu dṛṣṭyaiva kṣubdhatā jāyate mudhā | ālokya rājamahiṣīṃ yūno madamayīṃ tathā || 68 || yadi sarvamīśvarasvaṃ tarhi tatra kathaṃ mamecchā tatrāha - tvādṛśasyeti | mūrkhasyetyarthaḥ || 68 || ātmanā saha saṃbaddhaṃ cetaḥ kartrasi sundara | kiṃtu nāsyāsi saṃbandhi kusumasya yathā phalam || 69 || tarhi teneśvareṇaiva saṃbadhya tadanugrahādbhogān lapsyāmi tatrāha - ātmaneti | ātmasaṃbandhecchāyā ramaṇīyatvātsundareti | asyātmanaḥ saṃbandhi saṃbandhayogyaṃ nāsi | yathā kusumādutpannamapi phalaṃ kusumabahirmukhatvāttatsaugandhādyupabhogasaṃbandhayogyaṃ na bhavati tadabhivṛddhau kusumasyaiva tirobhāvāttadvattvamapītyarthaḥ || 69 || dvitīyena samaṃ yaiṣā tattāvadbhavanaikatā | sā saṃbandhagatiḥ proktā prāgdvitvādadhunaikatā || 70 ||
502 SK संबन्धयोग्यतामुपपादयितुं मुख्यसंबन्धलक्षणमाह - द्वितीयेनेति | एकस्य द्वितीयेन समं एकतरक्रियया उभयक्रियया च मिलनात्तस्य पूर्वस्य तावद्भवनमपरान्तर्भावस्तेन एकता वा सा संबन्धगतिः संबन्धस्य फलतो लक्षणमित्यर्थः | तदेव संक्षिप्याह - प्रागिति || ७० || नानाप्रकाररचना नानारूपक्रियोन्मुखी | सुखदुःखदशाऽहेतुर्भवान्नैकविधास्मृता || ७१ || तादृशे च मिख्ये संबन्धे भवान् अहेतुः | यतस्तव स्वतो नैकविधा कार्त्यतश्च नानाप्रकाररचना नानारूपविहितनिषिद्धक्रियोन्मुखी सुखदुःखदशा आ समन्तात्स्मृता प्रसिद्धेत्यर्थः || ७१ || संबन्धः समयोर्दृष्टस्तथार्धसमयोरपि | न विलक्षणयोश्चान्यस्तस्मिन्सति जगत्त्रये || ७२ || समयोः क्षीरयोः | अर्धसमयोः क्षीरनीरयोः | विलक्षणयोर्वारिवह्न्योरिवात्यन्तविरुद्धयोः यतस्तस्मिन्विरुद्धसंनिपाते सति अन्य एकतरस्य नाश एव दृष्टो न संबन्धावस्थानमित्यर्थः || ७२ || द्रव्यान्तरगुणा द्रव्याण्याश्रयन्ति बहून्यलम् | संविदश्च्यवनं दुःखं संविदो मा च्युतो भव || ७३ || ननु शब्दस्पर्शरूपादिविरुद्धगुणवतामपि सूक्ष्मभूतानां पञ्चीकरणेन संबन्धवन्मम आत्मसंबन्धः किं न स्यात्तत्राह - द्रव्यान्तरेति | तत्र न परस्परविरुद्धता यतो द्रव्यान्तरगुणा अपि परस्परमेलने पञ्चीकृतद्रव्याण्याश्रयन्ति | तथा चाहुः शब्दैकगुणमाकाशं शब्दस्पर्शगुणो मरुत् | शब्दस्पर्शरूपगुणैस्त्रिगुणं तेज उच्यते | शब्दस्पर्शरूपरसगुणैरापश्चतुर्गुणाः | शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा मही || इति | इह तु संविज्जाड्ययोर्विरोधाज्जडात्त्वत्तः संविदश्च्यवनं चेत्साधकाभावाज्जडांशो न सिद्ध्यत्येवेति त्वदसिद्धिप्रसङ्गदुःखम् | संविदः सकाशात्तव च्यवनं चेत्त्वया स्वनाशार्थमेवात्मसंबन्धोऽपेक्षितः स्यात् | अत आत्मसंबन्धमपेक्षमाण उभयथापि त्वं संविदः सकाशान्मा च्युतो भवेत्यर्थः || ७३ ||
503 SK एतावतैकध्यानेन नित्यध्यानोऽथवात्मदृक् | अभावे दुःखदस्यान्तर्दृशा दृश्यस्य वस्तुनः || ७४ || अथवा अन्तर्दृशा संविदा दुःखदस्य दृश्यस्य त्वदादेर्वस्तुनः अभावे नाशे सति निर्दुःखनिरतिशयानन्दात्ममात्रपरिशेषः | एतावता चेत्संतुष्यसि तदा एकाग्रेण ध्यानेन नित्यध्यानश्चिरमविच्छिन्नसमाधिः सन् आत्मदृगात्मदर्शी भवेत्यर्थः || ७४ || संकल्पोन्मुखतां विद्धि दुःखदां संविदश्च्युतिम् | जडेषूपलभूतेषु मनोदेहेन्द्रियादिषु || ७५ || समाधावेव तव सुखं नतु संकल्पोन्मुखत्वे | यतः संकल्पैर्निर्झरोदकं शिलासु च्युतमिव देहादिषु च्युता संविदिन्द्रियद्वारैर्बहुधा विभज्यमाना विशीर्यत इवेति तदेव दुःखमित्याह - संकल्पेति || ७५ || कीदृशी कर्तृता चित्त पुष्पं व्योम्नि कथं भवेत् | निरस्तकलना पङ्के मननध्वंसरूपिणि || ७६ || ननु नाहं संकल्पयामि किंत्वात्मैव कर्तृतास्वभावात्संकल्पयतीति चेन्नैतदित्याह - कीदृशीत्यादिना || ७६ || नचैवात्मनि कर्तृत्वं संभवत्यम्बराङ्गवत् | अयं केवलमात्मैव नानानानातयात्मनि || ७७ || त्वत्कल्पितया नानानानातया आत्मा केवलं स्फुरत्येव न कल्पयतीत्यर्थः || ७७ || स्फुरत्यब्धिरिवाम्भोभिः फेनबुद्बुदवीचिभिः | आभासमात्रे सर्वस्मिन्स्फुरत्यस्मिंश्चिदात्मनि || ७८ || द्वितीया नास्ति कलना तप्ताङ्गार इवाम्बुधौ | कलनारहिते देवे देहे मनसि वा जडे || ७९ || यथा अम्बुधौ तप्ताङ्गारो नास्ति तद्वत् | एवमात्मदेवे कलनारहिते सति देहे मनसि च जडे सति विवेकदृशा इदमन्यदिदमशुभमिदं नान्यदिदं शुभमित्याद्यसत्कल्पना कल्पकाभावादेव नास्तीति संवेद्यरहिता संविदेव सा नेतरदिति सिद्धमिति परेणान्वयः || ७९ || संवित्संवेद्यनिर्मुक्ता सारं सुन्दर नेतरत् | इदमन्यदिदं नान्यच्छुभं वाऽशुभमेव च || ८० || इत्यसत्कल्पना नास्ति यथा नभसि काननम् | संवेद्यरहितं संविन्मात्रमेवेदमाततम् | तत्रायमहमन्योऽयमित्यसत्कलना कथम् || ८१ || तदेव स्पष्टमाह - संवेद्येति || ८१ ||
504 SK अनादिमति नीरूपे सर्वगे विततात्मनि | आरोपयेत्कः कलनामृग्वेदं व्योम्नि को लिखेत् || ८२ || ऋग्वेदग्रहणं लेख्यमात्रोपलक्षणम् || ८२ || नित्योदिते सकलवस्तुपदार्थसारे संवित्स्थिते भरितनिर्भरभूरिदिक्कम् | आत्मन्यसत्यमिव साधु गतेऽमलत्वात् क्षीणौ सुखासुखलवौ मम वै स मोहः || ८३ || हे चित्त त्वया अमलत्वात्स्वनैर्मल्यात्सकलेषु वस्तुत्वेन प्रसिद्धेषु पदेष्वर्थेषु च सारभूते संविन्मात्रस्वभावस्थिते आत्मनि भरितानिर्भरभूरिदिक्कं यथा स्यात्तथा साधु असंदिग्धापरोक्षतया गते अवगते सति मम सुखासुखलवौ असत्यमिव मृगतृष्णोदकरज्जुसर्पशुक्तिरजतादिकमिव क्षीणौ यतः वै इति निश्चयेन स प्राक्तनसुखदुःखप्रत्ययो मोहो भ्रान्तिरेव न यथार्थ इत्यर्थः || ८३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे इन्द्रियानुशासनयोगोपदेशो नाम द्व्यशीतितमः सर्गः || ८२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे इन्द्रियानुशासनयोगोपदेशो नाम द्व्यशीतितमः सर्गः || ८२ || त्र्यशीतितमः सर्गः ८३ श्रीवसिष्ठ उवाच | भूयो मुनिवरो धीरो धिया धवलमेधया | स्वमिन्द्रियगणं गुप्तो बोधयामास साध्विदम् || १ || समस्तदोषानर्थाप्तिश्चित्तेन्द्रियगणे सति | समस्तगुणसौख्याप्तिस्तदसत्त्वेऽत्र कीर्त्यते || १ || धवला शुद्धा मेधा धारणा यस्यास्तथाविधया धिया | गुप्तो रहःस्थः || १ || तच्चेन्द्रियगणस्यार्थे शृणु वक्ष्यामि ते स्फुटम् | श्रुत्वा तद्भावनामेत्य परां निर्दुःखतां व्रज || २ || इन्द्रियगणस्यार्थे तत्तेन कृतं रहसि प्रबोधनं ते स्फुटं वक्ष्यामि || २ || भवतामात्मसत्तैषा दुःखायैवान्तदायिनी | असत्यामात्मनः सत्तां तद्भवन्तस्त्यजन्त्विति || ३ ||
505 SK हे इन्द्रियादिगणाः भवतामेषा अविचारदृशा प्रसिद्धा आत्मसत्ता स्वीया विद्यमानता जीवनकाले बहुतरानर्थदुःखायैव तदूर्ध्वं चान्तदायिनी पुनःपुनर्मृत्युनरकादिदायिनी तत्तस्मादिति प्राग्दर्शितविचारेण तामात्मनः असत्यां सत्तां त्यजन्तु || ३ || मदीयेनोपदेशेन सत्तैषा भवतां क्षयम् | गतैवेति स्फुटं मन्ये यूयं ह्यज्ञानसंभवाः || ४ || मदीयेन प्राक्कृतेनात्मतत्त्वोपदेशेन | हि यतो यूयमज्ञानसंभवाः | उपदेशेनाज्ञाने नष्टे न सत्तां लप्स्यथेत्यर्थः || ४ || स्वसत्ता स्फुटतां याति दुःखाय तव चित्तक | तप्तकाञ्चनरुल्लासो दाहायैव स्वपार्श्वयोः || ५ || इदानीं चित्तं प्रत्यपि तथैवाह - स्वसत्तेति | तप्तकाञ्चनमिव ज्वलन् रौति ध्वनतीति तप्तकाञ्चनरुत् अग्निस्तस्मिन् लासः क्रीडा बालानां पक्षिणां वा पार्श्वयोर्दाहायैव || ५ || पश्य त्वयि सति भ्रान्तजलकल्लोलसंकुलाः | विशन्ति कालजलधिं संसाअसरितां गणाः || ६ || चित्तेन्द्रियगणसत्ताप्रयुक्तामनर्थपरम्परां दर्शयति - पश्येत्यादिना | लडयोरभेदाज्जडानां मूर्खाणां रागद्वेषादिकल्लोलैः संकुलाः || ६ || पतन्त्यहमहमिकाविहितान्योन्यचिन्तिताः | कुतोऽपि दुःखावलयो धारा आसारगा इव || ७ || अहमहमिकाः परस्पराहंकारास्ताभिर्विहितान्यन्योन्यवधपराजयपीडनादिचिन्तनानि यासु ताः || ७ || परिस्फुरत्यपर्यन्ता हृदयोन्मूलनोद्यता | आक्रन्दकारिणी क्रूरा भावाभावविषूचिका || ८ || भावाभावौ संपद्विपदौ || ८ || कासश्वासरणद्भृङ्गा कलेवरजरद्द्रुमे | विकसत्यमलोद्योता जरामरणमञ्जरी || ९ || कल्लोलव्यालवलिते शरीरश्वभ्रकोटते | घननीहारखे स्वान्तश्चिन्ताचपलमर्कटी || १० || कल्लोलैर्मनोरथतरङ्गैर्व्यालैर्वलिते शरीरश्वभ्रकोटरे हृदये | घननीहाराणि निबिडजाड्यानि खानीन्द्रियच्छिद्रद्वाराणि यस्य | चिन्तालक्षणा चपला जालरचनव्यग्रा मर्कटी ऊर्णनाभिकीटिका भ्रमतीति शेषः || १० || लोभनाट्यारटत्पक्षी तीक्ष्णया द्वन्द्वतुण्डया | कायजीर्णद्रुमादस्माद्गुणखण्डं निकृन्तति || ११ ||
506 SK लोभलक्षणैर्नाट्यैः स्वविलासैरारटन् कूजन् पक्षी तीक्ष्णया सुखदुःखादिद्वन्द्वलक्षणया तुण्डया चञ्च्वा गुणखण्डं शान्तिदान्तिधर्मादिफलपुष्पलक्षणं गुणसमूहं निकृन्तति || ११ || हृदयावकरं कीर्णमितश्चेतश्च कर्कशः | अपवित्रो दुराचारः कुरुते कामकुक्कुटः || १२ || कामलक्षणः कुक्कुटो रागादिवासनाकीर्णं हृदयं मनस्तल्लक्षणं अवकरं उत्करं कुरुते पुनःपुनः पादाभ्यां विकिरतीत्यर्थः || १२ || महत्यां मोहयामिन्यामुल्बणोऽज्ञानकौशिकः | श्मशान इव वेतालः परिवल्गति हृद्द्रुमे || १३ || अज्ञानं भ्रान्तिज्ञानं तल्लक्षणः कौशिक उलूकः || १३ || एताश्चान्याश्च बह्व्योऽपि त्वयिन्द्रियगणे सति | पिशाच्य इव शर्वर्यां प्रवल्गन्त्यशुभश्रियः || १४ || त्वयि त्वसति हे साधो सर्वा एव शुभश्रियः | प्रभात इव पद्मिन्यः सालोकं विलसन्त्यलम् || १५ || इदानीं चित्तेन्द्रियगणासत्त्वे सर्वगुणसंपत्तिं दर्शयति - त्वयीत्यादिना | असत्त्वे साधुरेवेति तथा संबोधनम् | शुभश्रियो वक्ष्यमाणगुणश्रियः सालोकं विवेकालोकसहितं यथा स्यात्तथा | प्रभातपक्षेऽपि यथायोगं योज्यम् | एवमग्रेऽपि || १५ || प्रशान्तमोहमिहिकं राजते हृदयाम्बरम् | निर्मलालोकवलितं नीरजस्कतरान्तरम् || १६ || हृदयाम्बरं हार्दं ब्रह्म नीरजस्कतरमत्यन्तापगतरजोगुणमान्तरं मनो यस्मिन् || १६ || अशङ्कितनभःकोशपतिताकुलपूरवत् | नापतन्ति विकल्पौघाश्चिरं वैकल्यकारिणः || १७ || अशङ्कितं निःशङ्कमेव नभःकोशे पतिता निर्गता वाय्वादिना आकुलाश्च ये आसारपूरास्तद्वत् वैकल्यकारिणो विक्षेपहेतवो विकल्पौघा नापतन्ति || १७ || सर्वस्याह्लादनी शान्ता मैत्री परमपावनी | अभ्युदेति हृदो हृद्या सुतरोरिव मञ्जरी || १८ || अन्तश्छिद्रवती जाड्ययुक्तायुक्तगुणा स्वयम् | चिन्ता शोषमुपायाति हिमदग्धेव पद्मिनी || १९ || अन्तश्छिद्रमपूर्णता | जाड्ययुक्तेषु मूर्खेष्वेव आयुक्ता उपयोजिता विद्याकौशलादिगुणा यया | पद्मिनीपक्षे स्पष्टम् || १९ ||
507 SK आलोकः स्फुटतामन्तरायात्यज्ञानसंक्षये | प्रशाम्यत्यम्बुदे व्योम्नि शरदीवार्कमण्डलम् || २० || अन्तः आलोकः स्वीयज्ञानप्रकाशः | स्फुटतां प्रकटताम् || २० || प्रसन्नं स्फारगाम्भीर्यमक्षुब्धमपराहतम् | हृदयं समतामेति शान्तवात इवार्णवः || २१ || अपराहतं वैषम्यहेतुभिरपरिभूतं हृदयं मनः || २१ || अमृतापूरपूर्णेन नित्यानन्दमयेन च | स्थीयते पुरुषेणान्तः शीतेन शशिना यथा || २२ || संविदः स्फुटतामन्तरायान्त्यज्ञानसंक्षये | संविदंसैकविश्रान्तं समग्रं सचराचरम् || २३ || संविद आत्माकारवृत्तयः स्फुटतां पूर्णत्वापादकं विकासं यान्ति | तेन च सचाराचरं समग्रं जगद्बाधितं सत् संविदंशैकविश्रान्तं भवतीति शेषः || २३ || भाव्यते भरिताकारं वपुरानन्दमन्थरम् | न भवत्यसुसङ्गानामाशापाशविधायिनाम् || २४ || वपुः आत्मस्वरूपं भरिताकारं पूर्णं भाव्यतेऽनुभूयते नतु आशापाशविधायिनां असुसङ्गानां प्राणसंबद्धानां देहादीनां पक्षे भवतीत्यर्थः | अथवा वपुः शरीरमानन्दाविर्भावमन्थरं सदमृतप्राशनेनेव भरिताकारं भाव्यते नत्वन्नपानाद्याशापाशविधायिनामसुसङ्गानां प्राणाद्यासङ्गपाप्मनां पक्षे भवतीत्यर्थः || २४ || दग्धानामिव पर्णानां रसानां पुनरागतिः | पुंसां क्षपितसंसारजराजन्ममहाध्वनाम् || २५ || यथा तरोर्दावदग्धानां पर्णानां पुनर्वर्षासु पल्लवोदयेन आगमो भवति तद्वत् ज्ञानाग्निक्षपितसंसारजराजन्मोपल्क्षितमहाध्वनामपि पुंसां रसानामारोग्यतुष्टिपुष्टिकान्त्यादिगुणानां पुनरागमो भवतीत्यर्थः || २५ || अपुनर्भ्रमणायात्मद्रुमे विश्रम्यते चिरम् | एवंप्रायास्तथान्याश्च भवन्ति गुणसंपदः || २६ || निरतिशयानन्दात्मनि पुनरावृत्तिरहिता विश्रान्तिरेव सर्वगुणसीमा तदानुषङ्गिका अन्ये गुणास्त्वनन्ता न वर्णयितुं शक्या इत्याशयेनोपसंहरति - अपुनरिति || २६ || असति त्वयि सर्वाशिन्सर्वाशाक्षयसंक्षये | पक्षयोरेतयोश्चित्तसत्तासत्तास्वरूपयोः || २७ ||
508 SK एतयोरत्यन्तात्मभावेन स्थितिरात्यन्तिकनैरात्म्यस्वीकारो वेत्येतयोः पक्षयोर्मध्ये || २७ || येनैव पश्यसि श्रेयस्तमेवाङ्गीकुरु क्षणम् | स्वात्मभावस्तव सुखं मन्ये मानवतां वर || २८ || तत्र प्रथमपक्षो वरीयानित्याह - स्वात्मेति || २८ || तमेव भावयाभावं सुखत्यागो हि मूढता | यदि त्वस्ति भवेत्सत्यमन्तर्भावितचेतनम् || २९ || अभावं भावान्तरशून्यम् | ननु किमर्थमन्तर्भावितचेतनपूर्वसिद्धमनोरूपेणैव जीवनं मम नेच्छसि किमर्थं वा ममात्यन्तमभावमिवेच्छसि तत्राह - यदीत्यादिना | हे चित्त तव अन्तर्भावितचेतनं यत्प्रसिद्धं रूपमस्ति तद्यदि सत्यं भवेत्तत्तर्हि तेन रूपेण जीवतस्तवाभावं क इच्छति | किंतु त्वं तेन रूपेण नास्त्यसि असदसि | अहं सत्येन श्रुतिशास्त्रानुभवादिना विचार्य वदामि नापातदर्शनेनेत्यर्थः || २९ || जीवतस्तत्तवात्यन्तमभावं क इवेच्छति | किंतु नास्त्यसि सत्येन वदामि तव सुन्दर || ३० || तेन मिथ्यैव जीवामीत्याशया मा सुखी भव | पूर्वमेवासि नास्त्येव यावद्भ्रान्त्या त्वदस्तिता || ३१ || एतदत्यन्तात्मभावेनावस्थानं तवापि हितमित्याह - तेनेति | पूर्वं प्राथमकल्पिकमेवासि यावत् यतः || ३१ || सैवेदानीं विचारेण भृशं क्षयमुपागता | एतावदेव ते रूपं साधो यदविचारणम् || ३२ || सैव भ्रान्तिः || ३२ || विचारे विहिते सम्यक्समरूपं समं स्थितम् | अविचारात्प्रजातं त्वमनालोकात्तमो यथा || ३३ || समरूपं सन्मात्ररूपं समं विक्षेपवैषम्यशून्यं स्थितम् | अनालोकात्प्रकाशाभावात् || ३३ || विचारेणोपशान्तं त्वमालोकेनतमो यथा | एतावन्तं सखे कालं बभूवाल्पविवेकिता || ३४ || तवानेनाभिपीनत्वमभूद्दुःखैककारणम् | मोहसंकल्पमात्रेण बालबेतालवद्भवेत् || ३५ || अनेन अल्पविवेकत्वेन हेतुना | नन्वसतः पीनत्वं कथं भवेत्तत्राह - मोहेति || ३५ || द्वन्द्वं चाद्यन्तसंकल्पक्षीणं क्षयि भव स्थितम् | इदानीमुदितं नित्यं स्वप्राग्रूपे क्षयं गते || ३६ ||
509 SK पीनत्वं तत्प्रयुक्तं सुखदुःखादिद्वन्द्वं च अभूदिति पूर्वेणान्वयः | यतः स्रष्टुराद्यन्तसंकल्पेन संकल्पकाल एव क्षीणमतः क्षयीति द्वन्द्वविशेषणम् | यस्य विवेकस्य प्रसादेन इदानीं ज्ञानोदयकाले आविद्यके स्वप्राग्रूपे क्षयं गते सति नित्यमनाद्यन्तमात्मरूपमुदितं तस्मै विवेकाय नमो नम इति परेणान्वयः || ३६ || विवेकस्य प्रसादेन विवेकाय नमो नमः | बहुधापि प्रबुद्धस्त्वं चित्तकाप्यनुबोधितः || ३७ || हे चित्तक त्वं स्वतोऽपि बहुधा प्रबुद्धः शास्त्रेणाप्यनुबोधितः || ३७ || चित्ततायां प्रनष्टायां स्थितस्त्वं परमेश्वरः | प्राक्स्वरूपविलासस्ते श्रेयसे स्थितिमागतः || ३८ || प्रागपि त्वं परमेश्वरः स्थितः संप्रत्यपि प्रबोधतस्ते स्वरूपविलासः स्थितिमागत इति महेश्वर एवेति परेणान्वयः || ३८ || समस्तवासनोन्मुक्तः संप्रत्यसि महेश्वरः | यस्याविवेकादुत्पत्तिः स विवेकाद्विनश्यति || ३९ || प्रकाशेन प्रयात्यन्तमनालोकोऽभवत्तमः | अनिच्छतोऽपि ते साधो विचारे स्थितिमागते || ४० || सर्वतोऽयमुपायातो विनाशः सुखसिद्धये | तस्मान्नास्त्यसि निर्णीतमिति सिद्धान्तयुक्तिभिः || ४१ || चित्तेन्द्रियेश्वर स्वस्ति भवते त्वन्तमागतः | नित्यं पूर्वमभूताय नास्तिरूपाय संप्रति || ४२ || वित्त्वेति पाठे हे इन्द्रियेश्वर सिद्धान्तयुक्तिभिः इति वित्त्वा स्वरूपं लब्ध्वा अन्तं संसारपारमागतो भव | ते तुभ्यं स्वस्ति अस्तु | मनसः कालत्रयेऽप्यसत्त्वमाह - नित्यमिति || ४२ || भविष्यते च नोदर्कं स्वमनः स्वस्ति तेऽस्त्विति | परिनिर्वामि शान्तोऽस्मि दिष्ट्यास्मि विगतज्वरः || ४३ || चित्तासत्तयैव परमपुरुषार्थसिद्धिं दर्शयति - परिनिर्वामीत्यादिना || ४३ || स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदे स्थितः | अतो नास्त्येव नास्त्येव संसारे चित्तमस्थिति || ४४ || आत्मा त्वस्त्वेव चास्त्वेव यस्मादन्यत्र विद्यते | अयमात्माहमेवासौ नास्त्यन्यन्मदृते क्वचित् || ४५ || स्फुरच्चिदेव बोधात्मा सर्वत्राहं स्थितः सदा | अयमात्मेति कलना मन्ये नो निर्मलान्तरे || ४६ ||
510 SK शुद्धचिदेकरसे अयमात्मेति कलनापि यत्र दुर्लभा तत्र दूरेऽन्यकलनेत्याशयेनाह - अयमिति || ४६ || प्रतियोगिव्यवच्छेदकलनैकस्य वै कुतः | अहं तेनायमात्मेति कलनामनुदाहरन् | मौनी स्वात्मनि तिष्ठामि तरङ्ग इव वारिणि || ४७ || अत-एव तद्वाचामविषय इत्याह - अहमिति | अनुदाहरन् अनभिलपन् || ४७ || संशान्ताअसनमनाश्रितचेतनांश- मप्राणसंचरणमस्तमितांशदोषम् | संवेद्यवर्जितमुपेत्य सुसंविदंशं शाम्यामि मौनमहमेव निरीहमन्तः || ४८ || अहं अन्तः स्वहृदि संवेद्येन जडांशेन वर्जितम् | तत्कारणाविद्याया अपि बाधात्संशान्तवासनम् | चिदाभासस्यापि पृथगनवस्थानादनाश्रितचेतनांशम् | तदधीनक्रियाशक्तेरप्युपरमादप्राणसंचरणम् | भेदकाभावादेव अस्तगितांशभेदम् | सममेकरसम् | चिदंशं चिन्मात्रलक्षणम् | जगद्बाधपरिशिष्टांशम् | उपेत्य निरीहं निर्मनश्चेष्टं मौनं निर्वाग्व्यापारं च शाम्यामि | विश्रान्तोऽस्मीत्यर्थः || ४८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे चित्तासत्ताविचारयोगोपदेशो नाम त्र्यशीतितमः सर्गः || ८३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे चित्तासत्तविचारयोगोपदेशो नाम त्र्यशीतितमः सर्गः || ८३ || चतुरशीतितमः सर्गः ८४ श्रीवसिष्ठ उवाच | इति निर्णीय स मुनिर्वीतहव्यो विवासनः | आसीत्समाधावचलो विन्ध्यकन्दरकोटरे || १ || समाधिर्वीतहव्यस्य धराविवरसंस्थितिः | हृदि विद्याधरेन्द्रत्वगणत्वाद्युपवर्ण्यते || १ || इति उक्तप्रकारेण निर्णीय निश्चित्य || १ || अपरिस्पन्दिताशेषसंविदानन्दसुन्दरः | बभावस्तंगतमनाः स्तिमिताम्भोधिशोभनः || २ || अपरिस्पन्दितो यः अशेषः पूर्णः स्वप्रकाशसंविद्रूप आनन्दस्तद्रूपः सन् सुन्दरः || २ || अन्तरेव शशामास्य क्रमेण प्राणसंततिः | ज्वालाजालपरिस्पन्दो दग्धेन्धन इवानलः [अनले इति पाठः] || ३ || अनन्तर्निष्ठतां याते बाह्यार्थे चाप्यसंस्थिते | शेषेऽन्तर्लब्धसंस्थाने तस्यास्फुरितपक्ष्मणी || ४ ||
511 SK तस्यार्धोन्मीलिते अक्षिणी वर्णयति - अनन्तरिति द्वाभ्याम् | नात्यन्तमन्तर्निष्ठतां निमीलनं याते | शेषे उन्मीलितांशातिरिक्तांशे || ४ || घ्राणप्रान्तगताल्पाल्पसमालोके इवेक्षणे | अर्धकुड्मलितैः पद्मैः श्रियमाययतुः समाम् || ५ || घ्राणप्रान्तो नासाग्रं तत्र गतः प्रसृतः अल्पादल्पः सम उभयतस्तुल्य आलोकः प्रकाशो ययोस्ते इव लक्ष्यमाणे ईक्षणे चक्षुषी || ५ || समकायशिरोग्रीवस्थानकः स महामतिः | आसीच्छैलादिवोत्कीर्णश्चित्रार्पित इवाथवा || ६ || तथाभितिष्ठतस्तस्य [तथापि तिष्ठतः इति पाठः] संवत्सरशतत्रयम् | कोटरे विन्ध्यकच्छस्य ययावर्धमुहूर्तवत् || ७ || कच्छस्य निर्झरसंनिहितदेशस्य || ७ || एतावन्तमसौ कालं नाबुद्ध्यत किलात्मवान् | जीवन्मुक्ततया ध्यानी न च तत्याज तां तनुम् || ८ || तावत्कालं स सुभगो न प्राबुध्यत योगवित् | उदारैरम्बुदारावैरासारभरघर्घरैः || ९ || आसारभराणां वर्षनिर्झरधारासंपातानां घर्घरैः स्वनैरपि || ९ || पर्यन्तमण्डलाधीशमृगयानतबृंहितैः [आगत इत्युभयत्र पाठः] | पक्षिवानरनिर्ह्रादैर्मातङ्गास्फोटनिःस्वनैः || १० || पर्यन्तवासिनां मण्डलाधीशानां सामन्तानां मृगयासु आनतानामागतानां [आगत इत्युभयत्र पाठः] गजानां बृंहितैर्गर्जितैः | सर्वत्र अपिशब्दो योज्यः || १० || सिंहसंरम्भरटितैर्निर्झरारावसीत्कृतैः | विषमाशनिसंपातैर्जनकोलाहलैर्घनैः || ११ || सिंहानां संरम्भरटितैः सक्रोधगर्जनैः || ११ || प्रमत्तशरभास्फोटैर्भूकम्पतटघट्टनैः | वनदाहधमध्वानैर्जलौघाहतिवल्गनैः || १२ || भूकम्पेन विशीर्णानां तटानां गिरिवप्राणां घट्टनैरास्फालनैः | वनदाहेषु धमैरग्निसंयोगैस्तत्प्रयुक्तध्वानैश्च | जलस्य ओघैराहतय आस्फालनानि वल्गनानि वहनानि च तैरपि || १२ || महोपलतटाघातैर्धरणीतलमृज्जलैः | जलौघान्दोलनायातैस्तापैरनलकर्कशैः || १३ ||
512 SK धरणीतलात्प्रसृतैर्मृत्पङ्किलजलैः | अनलवत्कर्कशैस्तापैर्ग्रीष्मादितापैरपि न प्राबुध्यतेति सर्वत्र योज्यम् || १३ || केवलं वहति स्वैरं काले गलितकारणम् | परियान्तीषु वर्षासु लहरीष्विव वारिणी || १४ || गलितकारणं निष्प्रयोजनं काले वहति सति असौ प्रावृडोघविनुन्नेन पङ्केन उपर्युपरि प्रचीयमानेन अल्पेनैव कालेन उर्वीतले धरणीविवरे भूगर्भे कृतः प्रवेशित इति द्वयोरन्वयः || १४ || स्वल्पेनैव हि कालेन तस्मिन्पर्वतकन्दरे | प्रावृडोघविनुन्नेन पङ्केनोर्वीतले कृतः || १५ || तत्रासाववसद्भूमौ कोटरे संकटोदरे | पङ्कसंपीडितस्कन्धः पर्वतेषु शिला यथा || १६ || संपीडितः संश्लिष्टः स्कन्धो यस्येत्यर्थः | नहि तस्य समाध्सुखनिमग्नस्य पीडास्ति || १६ || शतत्रये स वर्षाणामथ याते स्वयंप्रभुः | व्यबुध्यतात्मरूपात्मा धराकोटरपीडितः || १७ || संविदेवास्य तं देहं जग्राहोर्वीनिपीडितम् | तनुः प्राणमयस्पन्दः प्राणसंसरणं विना || १८ || एवं संकटस्थस्य कथं जीवनमभूत्तत्राह - संविदेवेति | जीवनादृष्टलिङ्गदेहप्रतिबिम्बिता संविदेवास्य तं देहं जग्राह उपादाय पालितवती | प्राणमयः प्राणवृत्तिरूपः स्पन्दस्तु न जग्राह | यतस्तनुः सूक्ष्मः | प्राणसंसरणाभावादित्यर्थः || १८ || उत्पत्तिप्रौढिमासाद्य कलना हृदयान्तरे | स्वमनोरूपिणी तस्य हृद्येवानुबभूव सा || १९ || वर्षशतत्रयानन्तरं तस्य यद्वृत्तं तदाह - उत्पत्तीति | अथ तस्य कलना जीवसंवित् प्रारब्धशेषभोगाय हृदयान्तर उत्पत्त्या उन्मेषक्रमेण प्रौढिं स्थौल्यमासाद्य स्वमनोरूपिणी भूत्वा वक्ष्यमाणं सर्व कल्पनया हृद्येव अनुबभूव अनुभूतवतीत्यर्थः || १९ || कैलासकानने कान्ते कदम्बस्य तरोस्तले | मुनित्वं शतमब्दानां जीवन्मुक्तात्मनिर्मलम् || २० || यदनुबभूव तदेवाह - कैलासेत्यादिना || २० || विद्याधरत्वं वर्षाणां शतमाधिविवर्जितम् | युगपञ्चकमिन्द्रत्वं प्रणतं सुरचारणैः || २१ || इन्द्रत्वं देवराजत्वम् || २१ ||
513 SK श्रीराम उवाच | शक्रत्वादिषु तेष्वस्य प्रतिभासेषु भो मुने | नियमोऽनियमश्चैव दिक्कालनियतेः कथम् || २२ || कैलासकानने इत्यादिर्दिङ्नियमः युगपञ्चकमित्यादिः कालनियमः अल्पकाल एव हृदयप्रदेश एव तदनुभवादनियमश्च कथमुपपद्यते | दिक्कालनियतेरन्यथाकर्तुमशक्यत्वादिति प्रश्नार्थः || २२ || श्रीवसिष्ठ उवाच | सर्वात्मिकैषा चिच्छक्तिर्यत्रोदेति यथा यथा | तथा तत्राशु भवति तथात्मैकस्वभावतः || २३ || असार्वात्म्येन ज्ञातायां चिति अल्पयोरपि देशकालयोर्विस्तृतदेशकालान्तरकल्पनासामर्थ्ये भवत्येव नियतिविरोधो नतु सर्वात्मिकायां सर्वशक्तिसंपन्नायां परिज्ञातायामित्याशयेन परिहरति - yathā yatra yadā buddhau niyamaḥ sa tadā sthitaḥ | deśakālādiniyamakramāṇāṃ tanmayātmatā || 24 || svabuddhyā anubhūyamānayoreva deśakālayoḥ saṃkocavaipulyaniyamāniyamau viruddhau nānanubhūyamānena saha anubhūyamānasya tau | alpataranāḍīkuhareṣvalpakāle vistṛtadeśakālasvapnānubhavadar᳚anādityāśayenāha - yatheti | yatra yadā buddhau yathā anubhavastadā tathā niyamaḥ sthita ityarthaḥ | tanmayātmatā buddhimayātmanyadhyastatā yata ityarthaḥ | tanmayātmanām iti pāḥe hetugarbha viśeṣaṇam || 24 || tena nānāvidhānyeṣa jaganti paridṛṣṭavān | hṛdi saṃvedanākāśe vītahavyo vivāsanaḥ || 25 || tenoktahetudvayena || 25 || samyagbodhavatāmeṣā vāsanaiva na vāsanā | jñānāgnidagdhā'dagdhasya kaiva bījasya bījatā || 26 || bījaśaktināśāddagdhasya upalabhyamānatvādadagdhasya | bharjitasyeti yāvat || 26 || kalpamekaṃ gaṇatvaṃ sa candramauleścakāra ha | samastavidyānipuṇaṃ trikālāmaladarśanam || 27 || śaṅkāṃ samādhāya prastutameva varṇayati - kalpamityādinā | gaṇatvaṃ gāṇapatyam || 27 || yo yādṛgdṛḍhasaṃskāraḥ sa taṃ paśyati tādṛśam | jīvanmuktatayaivaitadvītahavyo'nubhūtavān || 28 ||
514 SK जीवन्मुक्तस्यापि तस्य भोजकप्रारब्धकर्मोद्बोधितदृढसंस्कार एव देहभोगादिवैचित्र्यप्रतिभासे हेतुरित्याह - य इति || २८ || श्रीराम उवाच | एवं स्थिते मुनिश्रेष्ऽथ जीवन्मुक्तमतेरपि | बन्धमोक्षदृशः सन्ति वीतहव्यात्मनो यथा || २९ || रामशङ्का स्पष्टा || २९ || श्रीवसिष्ठ उवाच | यथास्थितमिदं विश्वं शान्तमाकाशनिर्मलम् | ब्रह्मैव जीवन्मुक्तानां बन्धमोक्षदृशः कुतः || ३० || दग्धपटन्यायेनासतः प्रारब्धशेषेण प्रतिभासो बाधितानुवृत्तिमात्रं न बन्ध इत्याशयेन परिहरति - यथास्थितमित्यादिना || ३० || एतत्संविन्नभो भाति यत्र यत्र यथा यथा | तत्र तत्र तथा तावत्तावत्तद्विन्दते ततम् || ३१ || विदन्ते लभत इव || ३१ || तेनानुभूतानि बहून्यनुभूयन्त एव च | जगन्ति सर्वात्मतया ब्रह्मरूपेण राघव || ३२ || ईश्वरस्यास्मदीयजगत्प्रतिभासवद्वा तस्य विनैव बन्धं तत्प्रतिभास इत्याशयेनाह - तेनेति || ३२ || धराकोटरनिर्मग्नवीतहव्यचिदात्मसु | जगत्सु तेष्वसंख्येषु नीरूपेषु महात्मसु || ३३ || वीतहव्यहृदुपलक्षितचैतन्यस्यैवास्मदादिसर्वात्मत्वात्सर्वजन्तूनां जगदनुभवोऽपि तस्यैवेत्यपि सुवचमित्याशयेनाह - धरेत्यादिना | नीरूपेषु निःस्वरूपेषु प्रतिभासतो महात्मसु विशालतमेषु जगत्सु भुवनेषु यः शक्रोऽभूत् सोऽद्य दीनेसु देशविशेषेषु | दिनानां निवासो जनपद इत्यर्थे जातस्य तद्धितस्य जनपदे लुप् इति लुपि युक्तवद्भावाद्बहुवचनम् || ३३ || यः शक्रोऽनवबुद्धात्मा सोऽद्य दीनेषु पार्थिवः | कर्तुं प्रवृत्तो मृगयां क्षणेऽस्मिन्नपि कानने || ३४ || यो हंसोऽनवबुद्धात्मा पाद्मे पैतामहेऽभवत् | स्थितः स एव दाशेन्द्रः कैलासवनकुञ्जके || ३५ || पैतामहे पाद्मे कल्पे वीतहव्यस्य गाणपत्यकाले कैलासवनकुञ्जके तत्क्रीडाहंसो योऽभवत् स एव इदानीं दाशेन्द्रो निषादराजो भूत्वा स्थितोऽस्तीत्यन्वयः | एवमग्रेऽपि || ३५ || यो राजानवबुद्धात्मा भूमेः सौराष्ट्रमण्डले | स एषोऽद्य स्थितोऽन्ध्राणां ग्रामे बहुलपादपे || ३६ ||
515 SK श्रीराम उवाच | मानसः किल सर्गोऽसौ वीतहव्यस्य तत्र ये | देहिनो भ्रान्तिपात्रं [भ्रान्तिमात्रं इति पाठः] चेत्तद्देहाकारिणः कथम् || ३७ || गुरूक्तेः सर्वात्मताभिप्रायमप्रतिपद्यमानान् जनांस्तच्छङ्कोद्घाटकेन गुरुमुखेन बोधयिष्यन् रामः पृच्छति - मानस इति | तद्देहाकारिणः शक्रहंसादिदेहाकारिणः सचेतनाः कथमित्यर्थः || ३७ || श्रीवसिष्थ उवाच | यदि भ्रान्त्येकमात्रात्म वीतहव्यस्य तज्जगत् | तदिदं नाम ते राम किं भूयः परिभासते || ३८ || सर्वस्यापि जगतो मनःकार्यत्वस्य भ्रान्तिमात्रत्वस्य च बहुश उक्तत्वात्तुल्यत्वे यदिदं नाम ते प्रसिद्धं जगत्किं कथं सचेतनैर्युक्तं प्रतिभासत इत्यर्थः || ३८ || इदमप्यङ्ग चिन्मात्रं मनोमात्रभ्रमोपमम् | तदपि व्योम चिन्मात्रं मनोमात्रं भ्रमोपमम् || ३९ || द्वयोः साम्यमेव दर्शयति - इदमिति || ३९ || वस्तुतस्तु न तद्राम जगन्नैव न चेतरत् | तवापि न जगत्सत्ता ब्रह्मेदं भाति केवलम् || ४० || एवमेतज्जगत्सदृशं न | इतरदेतद्विलक्षणं च न | सालक्षण्यवैलक्षण्ययोः प्रतियोगिसिद्धिमन्तरेणायोगादिति भावः || ४० || भावि भूतं भविष्यच्च यथेदं च तथेतरत् | जगत्सर्वमिदं दृश्यं संविन्मात्रमनोमयम् || ४१ || संविन्मात्रत्वेनावशिष्टं यन्मनस्तदेव तन्मयम् || ४१ || एवंरूपमिदं यावन्न परिज्ञातमीदृशम् | वज्रसारदृढं तावज्ज्ञातं सत्परमाम्बरम् || ४२ || अज्ञानान्मन एवेदमित्थं संप्रविजृम्भते | प्रत्युल्लासविलासाभ्यां जलमम्बुनिधाविव || ४३ || प्रत्युल्लास उत्पत्तिर्विलासोवृद्ध्यादिपरिणामस्ताभ्याम् || ४३ || यथास्थितेनैव चिदम्बरेण स्वचित्तमेवैति मनोभिधानम् | स्फारं कृतं तेन जगच्च दृश्य- मेवं ततं नैव ततं च किंचित् || ४४ ||
516 SK उक्तमर्थं संक्षिप्याह - यथास्थितेनेति | अविकृतेनैव चिदाकाशस्वभावेन मायया किंचिच्चेतयदिवात्मानं कल्पयच्चित्तं सत्तस्यैव पुनःपुनर्मननान्मनोभिधानमेति तेन च स्फारं जगत्संपन्नमिति एवं दृश्यं जगत्ततम् | परमार्थतस्तु किंचिदपि नैव ततमित्यर्थः || ४४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे वीतहव्यमनोजगद्वर्णनं नाम चतुरशीतितमः सर्गः || ८४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे वीतहव्यमनोजगद्वर्णनं नाम चतुरशीतितमः सर्गः || ८४ || पञ्चाशीतितमः सर्गः ८५ श्रीराम उवाच | अथ किं वीतहव्यः स्वं स्थितं तस्मिन्धरोदरे | कथमुद्धृतवान्देहं स संपन्नश्च किं कथम् || १ || मुनेः पिङलमाविश्य समुद्धारस्तनोरिह | जीवन्मुक्तस्थितिश्चान्त्यः समाधिश्चोपवर्ण्यते || १ || समुद्धारस्य तत्प्रकारस्य तदुत्तरचर्याया विदेहमुक्तपरिशिष्टतद्रूपस्य च चतुर्भिः किंवृत्तैः क्रमात्प्रश्नः || १ || श्रीवसिष्ठ उवाच | अनन्तरमनन्तात्म वीतहव्याभिधं मनः | स्वमेवात्मचमत्कारमात्रं समवबुद्धवान् || २ || अनन्तात्म अपरिच्छिन्नब्रह्माकारं समवबुद्धवान् | समाधावित्यर्थः || २ || शार्वस्यास्य गणस्याभूत्प्राग्ज्योतिःस्मरणे स्वयम् | इच्छा कदाचित्सकलप्राग्जन्मालोकनोन्मुखी || ३ || प्राक्तनं ज्योतिश्चिदात्मा तस्य स्मरणे ध्यानकाले || ३ || अशेषान्स ददर्शाथ नष्टानष्टान्स्वदेहकान् | अनष्टानां ततो मध्यात्तत्तत्कोटरसंस्थितम् || ४ || नष्टानष्टान् कांश्चिन्नष्टान् कांश्चिदनष्टान् | तत्तदनष्टदेहहृदयकोटरे जीवटोपाख्यानवक्ष्यमाणन्यायेन स्वकल्पनयैव संस्थितं वीतहव्यदेहमित्यर्थः || ४ || यदृच्छयैव प्रोद्धर्तुं देहं तस्याभवन्मतिः | अपश्यत्तत्तथा तत्र पङ्के कीटमिव स्थितम् || ५ || शरीरं वीतहव्याख्यं धराकोटरपीडितम् | प्रावृडोघोपनीतं तत्पृष्ठस्थपङ्कमण्डलम् || ६ ||
517 SK प्रावृष ओघेन पूरेण उपनीतं किंचिद्दूरं प्रवाहितम् | पृष्ठस्थेत्युक्त्या अधोमुखतया पातितमित्यपि गम्यते || ६ || तृणजालावकीर्णत्वग्देहपृष्ठमृदं तथा | एतद्दृष्ट्वा महातेजा धराविवरयन्त्रितम् || ७ || तृणानां काशादीनां जालैरवकीर्णा निबद्धास्त्वग्देहपृष्ठमृदा [१] यस्य | देहपदेन तदवयवा लक्ष्यन्ते || ७ || भूयोऽपि चिन्तयामास धिया परमबोधया | सर्वसंपीडिताङ्गत्वात्कायो मे प्राणवायुभिः || ८ || प्राणवायुभिः | तत्संचारैरिति यावत् || ८ || मुक्तश्चलितुमाकर्तुं शक्नोति न मनागपि | तज्ज्ञात्वा प्रविशाम्याशु देहमेवं विवस्वतः || ९ || आकर्तुमीषदपि कर्तुम् | क्रियामनाक्त्वात्तच्छक्तिमनाक्त्वमिति न पौनरुक्त्यम् | तत्तस्मात्तदुद्धारार्थमुपायं ज्ञात्वा | एवं परकायप्रवेशयोगप्रकारेण || ९ || तदीयः पिङ्गलो देहमुद्धरिष्यति मे ततः | अथवा किं ममैतेन शाम्याम्यहमविघ्नतः || १० || तदीयस्तत्सेवकः | पिङ्गलाख्यो गणस्तदाज्ञया उद्धरिष्यति | तस्य चिन्तान्तरमाह - अथवेति | एतेन देहेन शाम्यामि विदेहमुक्त्येत्यर्थः || १० || निर्वामि स्वं पदं यामि कोऽर्थो मे देहलीलया | इति संचिन्त्य मनसा वीतहव्यो महामते || ११ || तूष्णीं स्थित्वा क्षणं भूयश्चिन्तयामास भूतले | उपादेयो हि देहस्य न मे त्यागो न संश्रयः || १२ || त्यागः संश्रयो वा नोपादेयो नापेक्षणीयो विशेषाभावात् || १२ || यादृशो देहसंत्यागस्तादृशो देहसंश्रयः | तद्यावदस्ति देहोऽयं न यावदणुतां गतः || १३ || तदेवाह - यादृश इति | अणुतां धूलीभावम् || १३ || तावदेनमुपारुह्य किंचित्प्रविहराम्यहम् | पिङ्गलेन शरीरं स्वमुद्धर्तुं तापनं वपुः || १४ || पिङ्गलेन पिङ्गलद्वारा उद्धर्तुम् | तापनं सौरं वपुः प्रविशामि || १४ || प्रविशामि नभःसंस्थं मुकुरं प्रतिबिम्बवत् | इत्यसौ मुनिरादित्यं विवेशानिलरूपधृक् || १५ || अनिलरूपधृक् सूक्ष्मीभूत इति यावत् || १५ || पुर्यष्टकवपुर्भूत्वा भस्त्राखमिव चानलः | भगवान्मुनिरप्येनं हृद्गतं मुनिनायकम् || १६ ||
518 SK पुर्यष्टकं प्राग्व्याख्यातं लिङ्गशरीरं तद्वपुः | भस्त्राखं चर्मपेश्याकाशम् | मुनिर्मननशीलो भगवान् सूर्यो हृद्गतं हृदि प्रविष्टं तं मुनिनायकं दृष्ट्वा तस्य कार्यं तत्पौर्वापर्यं च दृष्ट्वा विन्ध्यभूधरकोशगतं गतसंविदं मृतप्रायं मुनिकलेवरं ददर्शेति व्यवहितेनान्वयः || १६ || दृष्ट्वासौ चिन्तयन्कार्यं पौर्वापर्यमुदारधीः | विन्ध्यभुधरभूकोशमन्तर्मुनिकलेवरम् || १७ || तृणोपलपरिच्छन्नं ददर्श गतसंविदम् | ऋषेश्चिकीर्षितं ज्ञात्वा भानुर्गगनमध्यगः || १८ || ततो रविः किं चकार तदाह - ऋषेरिति || १८ || धरातो मुनिमुद्धर्तुमादिदेशाग्रगं गणम् | वीतहव्वमुनेः संवित्सा पुर्यष्टकरूपिणी || १९ || मुनिं मुनिशरीरम् | गणं पिङ्गलाख्यम् | सूर्यहृत्प्रविष्टा मुनेः संवित्किं चकार तदाह - वीतहव्येति || १९ || रविं वातमयी पूज्यं प्रणनामाशु चेतसा | भानुनाप्यभ्यनुज्ञातो मानपूर्वकमग्रगम् || २० || स मुनिर्भानुना हृद्येव बहुमानपूर्वकमभ्यनुज्ञातः सन् स्वकार्यार्थं प्रस्थितं पिङ्गलस्य आकारं शरीरं विवेश || २० || विवेश पिङ्गलाकारं विन्ध्यकन्दरगामिनम् | पिङ्गलोऽसौ नभस्त्यक्त्वा कुञ्जकुञ्जरसुन्दरम् || २१ || कुञ्जैर्लतागृहैः कुञ्जरैश्च सुन्दरम् || २१ || प्राप विन्ध्यवनं प्रावृण्मत्ताभ्राम्बरभासुरम् | उद्दधार धराकोशान्नखनिष्कृष्टभूतलः || २२ || प्रावृषि मत्तान्यभ्राणि यस्मिंस्तथाविधमम्बरमिव | तत्पक्षे कुञ्जैः कुञ्जरैरिव च सुन्दरमिति योज्यम् | नखैर्निष्कृष्टं खातं भूतलं येन तथाविधः पिङ्गलः || २२ || कलेवरं मुनेः पङ्कान्मृणालमिव सारसः | मौनं पुर्यष्टकमथ स्वं विवेश कलेवरम् || २३ || मुनेः संबन्धि मौनं पुर्यष्टकं पिङ्गलदेहात्स्वं कलेवरं विवेश || २३ || नभस्तलपरिभ्रान्तो विहङ्गम इवालवम् | प्रणेमतुर्मिथो मूर्तवीतहव्यनभश्चरौ || २४ || आलयं स्वनीडम् | मूर्तः प्राप्तमूर्तिर्वीतहव्यश्च नभश्चरपिङ्गलश्च मिथः अन्योन्यं प्रणेमतुः || २४ ||
519 SK बभूवतुः स्वकार्यैकतत्परौ तेजसां निधी | जगाम पिङ्गलो व्योम मुनिश्च विमलं सरः || २५ || सरः स्नानार्थम् || २५ || तारकाकारकुमुदं सूर्यांशुकवदाकृति | वीतहव्यो ममज्जाशु सरस्युद्भिन्नपङ्कजे || २६ || सूर्येण अंशुकवती पीतरक्ताम्बरालंकृतेव आकृतिर्यस्य | बालार्करागरञ्जितोदकमिति यावत् || २६ || पङ्कपल्वललीलान्ते वने कलभको यथा | तत्र स्नात्वा जपं कृत्वा पूजयित्वा दिवाकरम् | मनोभूषितया तन्वा पूर्ववत्पुनराबभौ || २७ || पङ्कयुक्तेषु पल्वलेषु लीलाया अन्ते अवसाने | मनोभूषितया मननादिव्यवहारवत्या || २७ || मैत्र्या तया समतया परया च शान्त्या सत्प्रज्ञया मुदितया कृपया श्रिया च | युक्तो मुनिः सकलसङ्गविमुक्तचेता विन्ध्ये सरित्तटगतो दिनमेव रेमे || २८ || दिनं दिनमात्रमेव रेमे न चिरम् | समाधिप्रच्युतस्तस्थावित्यर्थः || २८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे वीतहव्यसमाधियोगोपदेशो नाम पञ्चाशीतितमः सर्गः || ८५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे वीतहव्यसमाधियोगोपदेशो नाम पञ्चाशीतितमः सर्गः || ८५ || षडशीतितमः सर्गः ८६ श्रीवसिष्ठ उवाच | दिनान्ते स समाधातुं पुनरेव मनो मुनिः | विवेश कांचिद्विततां विज्ञातां विन्ध्यकन्दराम् || १ || पुनः समाधिः षड्रात्रं जीवन्मुक्तस्थितिश्चिरम् | रागादिभ्योऽञ्जलिर्मुक्तौ समाधिश्चास्य वर्ण्यते || १ || विज्ञातां प्राक्परिचिताम् || १ || तदेवात्मानुसंधानमत्यजन्सममिन्द्रियैः | चेतसा कल्यामास दृष्टलोकपरावरः || २ || दृष्टो लोके परः सारः अवरः असारश्च येन || २ || पूर्वमेवेन्द्रियगणो मया परिहृतः स्फुटम् | इदानीं चिन्तया नार्थः पुनर्विततया माम् || ३ || यत्कलयामास तदाह - पूर्वमित्यादिना || ३ || अस्तिनास्तीतिकलनां भङ्क्त्वा मृद्वीं लतामिव | शेषं तु बद्धसंस्थानस्तिष्ठाम्यचलशृङ्गवत् || ४ ||
520 SK अस्तिनास्तीति द्विविधां दृश्यकलनाम् | शेषमवशिष्टं तदुभयसाक्षिचिन्मात्रमवलम्ब्येति शेषः | बद्धसंस्थानः समकायशिरोग्रीवो दृढासनश्च || ४ || उदितोऽस्तं गत इव स्वस्तं गत इवोदितः | समः समरसाभासस्तिष्ठामि स्वच्छतां गतः || ५ || उदितो जीवन्नप्यस्तं गतो मृत इवाज्ञदृशा तत्त्वदृशा तु तद्विपरीतः | समरसाभास एकरसचिन्मात्ररूपः || ५ || प्रबुद्धोऽपि सुषुप्तस्थः सुषुप्तस्थः प्रबुद्धवत् | तुर्यमालम्ब्य कायान्तस्तिष्ठामि स्तम्भितस्थितिः || ६ || प्रबुद्धो जाग्रदपि सुषुप्तस्थो द्वैतजालमपश्यन् | एवं सुषुप्तोऽपि स्वस्वरूपस्फुटानुभवात्प्रबुद्धवत् | तुर्य स्थूलसूक्ष्मकारणनिर्मुक्तं पदम् || ६ || स्थितः स्थाणुरिवैकान्ते स्वान्तान्ते सर्वतः स्थिते | सत्त्वसामान्यसाम्ये हि तिष्ठाम्यपगतामयः || ७ || स्वान्तस्यान्ते पारभूते निर्मनने सर्वतः स्थिते पूर्णे सत्तासामान्यलक्षणे परमसाम्ये || ७ || इति संचिन्त्य स ध्याने पुनस्तस्थौ दिनानि षट् | ततः प्रबोधमापन्नः क्षणसुप्त इवाध्वगः || ८ || ततः सिद्धः स भगवान्वीतहव्यो महातपाः | विजहार चिरं कालं जीवन्मुक्ततया तदा || ९ || सिद्धो व्युत्त्थानेऽपि समाहितस्थितिः || ९ || वस्तु नाभिननन्दासौ निनिन्द न कदाचन | न जगाम तथोद्वेगं न च हर्षमवाप सः || १० || नाभिननन्द गुणदृशा | न निनिन्द दोषदृशा || १० || गच्छतस्तिष्ठतश्चैव तस्यैवमभवद्धृदि | विनोदाय विचित्तस्य कथा स्वमनसा सह || ११ || कथा वक्ष्यमाणविचारलक्षणा | बाधितानुवृत्तस्वमनसा सह || ११ || अव्ययेन्द्रियवर्गेश मनः शमवता त्वया | पश्यानन्दसुखं कीदृग्विधमासादितं ततम् || १२ || अव्ययस्य विषयोपभोगप्रयुक्तसामर्थ्यव्ययरहितस्येन्द्रियवर्गस्य ईश स्वामिन् हे मनः आनन्दयत्याह्लादयति सर्वं जगदित्यानन्दं तथाविधं सुखम् | निरतिशयानन्दरूपं सु शोभनं खं आकाशमिति वा || १२ || एषैवाविरतं तस्मान्नीरागैव दशा त्वया | अवलम्ब्या परित्याज्यं चापलं चलतां वर || १३ ||
521 SK त्वया अग्रेऽपि एषैव नीरागैव दशा अवलम्ब्या | द्वावेकाराववधारणदार्ढ्याय || १३ || भो भो इन्द्रियचौरा हे हताशा हतनामकाः | युष्माकं नायमात्मास्ति न भवन्तस्तथात्मनः || १४ || हे हताशा इति आशानां पृथक् संबोधनम् | अयं मयानुभूयमान आत्मा युष्माकं नास्ति || १४ || व्रजतां वो विनाशांशमाशा वो विफलीकृताः | न समर्थाः समाक्रान्तौ भवन्तो भङ्गुराश्रयाः || १५ || एवं सदात्मसंबन्धाभावाद्वः स्वरूपमवशिष्टं विनाशांशं असत्त्वपक्षं व्रजताम् | समाक्रान्तौ ममेति शेषः || १५ || वयमात्मेति यैषा वो वो भभूव किल वासना | तत्त्वविस्मृतिजाता हि दृष्टरज्जुभुजङ्गवत् || १६ || प्राक्तर्ह्यस्माकं त्वत्समाक्रान्तौ कुतः सामर्थ्यमभूदिति चेदात्मतादात्म्याद्यध्यासबलादित्याह - वयमिति || १६ || अनात्मन्यात्मता सैषा सैषा वस्तुन्यवस्तुता | अविचारेण वै जाता विचारेण क्षयं गता || १७ || भवन्तोऽन्ये वयं चान्ये ब्रह्मान्यत्कर्तृता परा | अन्यो भोक्तान्य आदत्ते को दोषः कस्य कीदृशः || १८ || एवं विवेकदर्शने कस्यापि भवत्प्रयुक्तदोषसंबन्धोऽपि नास्त्येवेत्याह - भवन्त इति | भवन्तः करणभूताः | वयमभिमन्तारः | ब्रह्म अद्वयम् | कर्तृता प्राणप्रयुक्तक्रियानिमित्तता | भोक्ता चिदाभासः | आदत्ते मनः || १८ || वनेभ्यो दारु संजातं रज्जवो वेणुचर्मणः | वासी चायःफलान्येव तक्षा ग्रासार्थमुद्यतः || १९ || एवं चेत्कथं व्यवहारकार्यनिष्पत्तिरिति चेत्काकतालीयन्यायादिति गृहदृष्टान्तेनाह - वनेभ्य इत्यादिना | वेणुत्वचा काष्ठभारबन्धनम् | वासी प्रसिद्धा | चकारात्कुठारटङ्किकादयः | अयसः फलानि प्रयोजनानि लोककृदुदरभरणप्रयुक्तानीति यावत् | एवं तक्षा स्वग्रासार्थमुद्यतो न गृहसिद्धये || १९ || इत्थं यथेह सामग्र्या स्वशक्तिस्थपदार्थया | संपन्ना काकतालीया दृढा वरगृहाकृतिः || २० || एवं च भिन्नप्रयोजनैः क्रियाकारकैरर्थान्निष्पद्यमाना गृहाकृतिः काकतालीयन्यायादेवेत्यर्थः || २० ||
522 SK संपन्नाः काकतालीयात्स्वशक्तिनियतेन्द्रियाः | तथैव कलिका लोलं केव कस्यात्र खण्डना || २१ || तथा इहापि कार्यकरणसंघाते दर्शनश्रवणवचनादानादिफलकस्वस्वशक्तिभिर्नियतानि ज्ञानकर्मेन्द्रियाणि यासां तथाविधाव्यवहारकार्यकलिकाः काकतालीयादेव लोलं चलं यथा स्यात्तथा संपन्नाः | तत्र कस्य केव खण्डना क्षतिरस्ति | न काचित्कस्यचिदित्यर्थः || २१ || विस्मृतिर्विस्मृता दूरं स्मृतिः स्फुटमनुस्मृता | सत्सज्जातमसच्चासत्क्षतं क्षीणं स्थितं स्थितम् || २२ || विस्मृतिरविद्या | स्मृतिरात्मविद्या | तत्फलमाह - सदिति || २२ || एवंविधेन भगवान्विचारेण महातपाः | सोऽतिष्ठन्मुनिशार्दूलो बहून्वर्षगणानिह || २३ || अपुनर्भवनायैव यत्र चिन्तान्तमागता | मूढता च सुदूरस्था तत्रासाववसत्सदा || २४ || अन्तं नाशमागता | तत्र तस्मिन् पूर्णानन्दस्वप्रकाशपदे || २४ || यथाभूतपदार्थौघदर्शनोत्थमनर्थकम् | ध्यानाश्वासनमालम्ब्य सोऽवसत्सुखगः सदा || २५ || यथा स्थिते वस्तुनि कदाचिद्भ्रान्त्या विचित्रपदार्थौघदर्शनादुत्थं प्रसक्तमनर्थकं व्यर्थमेवानाश्वासं वारयितुं पुनःपुनर्ध्यानाश्वासनमालम्ब्येत्यर्थः || २५ || हेयादेयसमासङ्गत्यागादानदृशोः क्षये | वीतहव्यमुनेरासीदिच्छानिच्छातिगं मनः || २६ || तस्य प्रारब्धशेषक्षये कीदृशं मन आसीत्तदाह - हेयेति | हानयोग्यानामादानयोग्यानां च विषयाणां समासङ्गे प्राप्तावपि हानादानदृशोः क्षये || २६ || विदेहकेवलीभावे सीमन्ते जन्मकर्मणाम् | संसारसङ्गसंत्यागरसासवनवेच्छया || २७ || प्रतिभासमात्रेणापि स्थितस्य देहादिसंसारसङ्गस्य संत्यागे परिशिष्यमाणे ब्रह्मरसमकरन्दे नवेच्छया उत्कण्ठया विवेशेति परेणान्वयः | संत्यागे वाञ्छामापातिशायिनीं इति पाठे तु स्पष्टम् || २७ || विवेश स तयैवान्ते सह्याद्रौ हेमकन्दरम् | अपुनःसङ्गमायाशु जगज्जालमवेक्ष्य सः || २८ || तया वाञ्छया || २८ ||
523 SK बद्धपद्मासनः स्थित्वा तत्रोवाचात्मनात्मनि | राग नीरागतां गच्छ द्वेष निर्द्वेषतां व्रज || २९ || सहजशत्रुषु रागद्वेषादिष्वपि निर्द्वेषतां मैत्रीं च भावयन् गन्तुकाम इव हितमुपदिशन् प्रणम्य तानामन्त्रयते - रागेत्यादिना || २९ || भवद्भ्यां सुचिरं कालमिह प्रक्रीडितं मया | भोगा नमोस्तु युष्मभ्यां जन्म कोटिशतान्यहम् || ३० || भवद्भिर्लालितो लोके लालकैरिव बालकः | इमामपि परां पुण्यां निर्वाणपदवीमहम् || ३१ || येन विस्मारितस्तस्मै सुखायास्तु नमो नमः | त्वदुत्तप्तेन हे दुःख मयात्मान्विष्ट आदरात् || ३२ || सुखाय विषयसुखलवाय | त्वया उत्तप्तेन संतापितेन मया || ३२ || तस्मात्त्वदुपदिष्टोऽयं मार्गो मम नमोऽस्तु ते | त्वत्प्रसादेन लब्धेयं शीतला पदवी मया || ३३ || तस्माद्गुरुणेव त्वया उपदिष्टोऽयं विवेकमार्गः || ३३ || दुःखनाम्ने दुःखतत्त्व सुखदात्मन्नमोस्तु ते | कल्याणमस्तु ते मित्र संसारासारजीवित || ३४ || हे दुःखस्य तत्त्वभूत सुखद आत्मन् इदानीं ज्ञानजननोपकारिणं देहं प्रार्थ्यामन्त्रयति - कल्याणमित्यादिना || ३४ || देह स्थितिरियं यामो वयमात्मीयमास्पदम् | प्रयोजनानां जन्तूनामहो नु विषमा गतिः || ३५ || हे देह इयमावयोर्वियुक्तिस्थितिरनादिनियतिस्वभावः | संयोगा विप्रयोगान्ताः इति न्यायादिति भावः | जन्तूनां प्राणिनां संबन्धिनां प्रयोजनानां स्वार्थानामियं गतिः रीतिर्विषमा | यल्लिप्सया अत्यन्तमित्रस्वजनानपि विहाय पुरुषा धावन्तीति भावः || ३५ || देहेनापि वियुज्येऽहं भूत्वा जन्मशतान्यपि | मित्रकाय मया यत्त्वं त्यज्यसे चिरबान्धवः || ३६ || तदेव स्वस्याप्युपस्थितमित्याह - देहेनापीति || ३६ || त्वयैवात्मन्युपानीता सात्मज्ञानवशात्क्षतिः | अधिगम्यात्मविज्ञानमात्मनाशः कृतस्त्वया || ३७ || नायं ममापराधस्त्वया स्वनाशार्थमेव मदुपकारः कृत इत्यनुशोचन्निवाह - त्वयैवेति || ३७ || देह नान्येन भग्नोऽसि त्वयैवैतदुपासितम् | एकाकिन्यापि शुष्यन्त्या प्रशान्ते मयि दीनया || ३८ ||
524 SK एतत्त्वयैवोपासितमनुष्ठितम् | इदानीं तृष्णां [तृष्णीं इति मुद्रितपुस्तके पाठः] प्रार्थयते - एकाकिन्येति || ३८ || त्वया दुःखं न कर्तव्यं मातस्तृष्णे व्रजाम्यहम् | क्षन्तव्याः काम भगवन्विपरीतापराधजाः || ३९ || त्वज्जयार्थं त्वद्विपरीतवैराग्यसेवनाद्यपराधजा मद्दोषाः || ३९ || दिषा उपशमैकान्तं व्रजाम्यादिश मङ्गलम् | चिराच्चिराय चेदानीमम्ब तृष्णे किलावयोः || ४० || उपशमैकान्तं आत्यन्तिकोपशमम् | आदिश आशास्व | पुनरावृत्त्या तृष्णामुखदर्शनप्रसक्तिं वारयन्नाह - चिरादिति | चिरादपि चिराय | शाश्वत इति यावत् | इदानीं आरभ्येति शेषः || ४० || वियोगो योगदोषेण प्रणामोऽयं स पश्चिमः | नमः सुकृतदेवाय भवतेऽस्तु त्वया पुरा || ४१ || सुकृतं पुण्यं तल्लक्षणाय देवाय || ४१ || नरकेभ्यः समुत्तार्य स्वर्गेऽहमभियोजितः | कुकार्यक्षेत्ररूढाय नरकस्कन्धवाहिने || ४२ || कुकार्यं निषिद्धाचरणं तल्लक्षणे क्षेत्रे भूमौ रूढाय | नरकलक्षणानां स्कन्धानां बृहच्छाखानां वहनशीलाय || ४२ || शासनापुष्पभाराय नमो दुष्कृतशाखिने | येन सार्धं चिरं वह्न्यो भुक्ताः प्राकृतयोनयः || ४३ || शासनाः यातना एव पुष्पभारो यस्य || ४३ || अद्यप्रभृत्यदृश्याय तस्मै मोहात्मने नमः | प्रध्वनद्वंशमधुरवचसे पत्रवाससे || ४४ || प्रध्वनद्भिर्वंशैः कीचकैर्मधुरवचसे | शीर्णपत्राण्येव वासांसि यस्यास्तथाविधायै गुहालक्षणायै तपस्विन्यै || ४४ || नमो हुआतपस्विन्यै वयस्यायै समाधिषु | संसाराध्वनि खिन्नस्य त्वं ममाश्वासकारणम् || ४५ || आश्वासकारणमित्यजहल्लिङ्गं गुहाविशेषणम् || ४५ || आसीर्वयस्या सुस्निग्धा सर्वलोभापहारिणी | सर्वसंकटखिन्नेन दोषेभ्यो द्रवता मया || ४६ || सुस्निग्धा अत्यन्तस्नेहवती वयस्या आसीः अभूः | पूर्णात्मविश्रान्तिदानेन सर्वलोभापहारिणी | दोषेभ्यः समाधिविघ्नेभ्यः || ४६ || त्वमेका शोकनाशार्थमाश्रिता परमा सखी | संकटावटकुञ्जेषु हस्तालम्बनदायिने || ४७ ||
525 SK इदानीं दण्डकाष्ठगुणान्वर्णयंस्तन्नमस्यति - संकटेति | संकटे श्वसर्पादिभयेषु विषमप्रदेशेषु च | तथा अवटेषु गर्तेषु कुञ्जेषु च हस्तस्य आलम्बनदायिने || ४७ || वार्धकैकान्तसुहृदे दण्डकाष्ठाय ते नमः | अस्थिपञ्जरमात्मीयं तथा रक्तान्त्रतन्तुकम् || ४८ || इदानीं देहभागं सर्वं देहाय निवेदयति - अस्थीति || ४८ || एतावन्मात्रसारैकं गृहीत्वा गच्छ देहक | पयःक्षोभप्रकारेभ्यः स्नानेभ्योऽपि नमोऽस्तु ते || ४९ || एतावन्मात्रमेव सारं तत्त्वं यस्य तथाविधमेकं स्वमसाधारणभागं गृहीत्वा गच्छ स्वाः प्रकृतीः | हे देहक पयसो जलस्य त्वदीयमलदौर्गन्ध्यस्वेदादिना दूषणाद्ये क्षोभा अपराधास्तदीयप्रकारभेदरूपेभ्यस्ते स्नानेभ्यः शुचित्वसंपादनओपायेभोऽपि नमोऽस्तु || ४९ || नमोस्तु व्यवहारेभ्यः संसृतिभ्यो नमोस्तु ते | एते भवन्तः सहजाः प्राक्तनाः सुहृदो मया || ५० || तथा भोजनशयनाभ्यञ्जनालंकरणादिव्यवहारेभ्यस्तत्सामग्री संपादनायेतस्ततो धावनलक्षणाभ्यस्ते संसृतिभ्यश्च नमोऽस्तु | हे प्राणाः सहजाः सुहृदः मया अद्य सुहृदां नमस्कारक्रमेण एते भवन्तोऽपि उत्कृता उत्कृष्टाः कृताः | नमस्क्र्ता इति यावत् || ५० || क्रमेणाद्योत्कृताः प्राणाः स्वस्ति वोऽस्तु व्रजाम्यहम् | भवद्भिः सह चित्रासु मया बह्वीषु योनिषु || ५१ || प्राक्तनसुहृत्त्वमेव वर्णयति - भवद्भिरिति || ५१ || विश्रान्तं गिरिकुञ्जेषु श्रान्तं लोकान्तरेषु च | क्रीडितं पुरपीठान्तरुषितं पर्वतेषु च || ५२ || पुराणां पीठानां सिद्धक्षेत्राणां चान्तः || ५२ || स्थितं कार्यविलासेषु प्रस्थितं विविधाध्वसु | न तदस्ति जगत्कोशे भवद्भिः सह यन्मया || ५३ || न कृतं न हृतं यातं न दत्तं नावलम्बितम् | इदानीं स्वां दिशं यान्तु भवन्तो याम्यहं प्रियाः || ५४ || न कृतं न हृतं न दत्तं च हस्ताभ्याम् | न यातं पद्भ्याम् | नावलम्बितं मनसा च | भवन्तः स्वां दिशं प्रकृतिं यान्तु | अहं ब्रह्म यामि | हे प्रियाः || ५४ ||
526 SK सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः | संयोगा विप्रयोगान्ताः सर्वे संसारवर्त्मनि || ५५ || किमर्थमस्मान्प्रकृतिषु विलापयसि कार्यकरणसंघातात्मनैव स्थित्वा भोग्यनिचयानेव पूर्ववत्कुतो न प्राप्स्यामस्तत्राह - सर्वे इति | हे सर्वे प्राणादयः || ५५ || अयं चाक्षुष आलोको विशत्वादित्यमण्डलम् | विशन्तु वनपुष्पाणि सौगन्ध्यानन्दसंविदः || ५६ || इदानीं प्रत्येकमिन्द्रियादीनां प्राप्तव्याः प्रकृतिर्विभज्य दर्शयति - अयमित्यादिना | सौगन्ध्यानन्दसंवित्पदेन तत्करणं घ्राणेन्द्रियं लक्ष्यते | वनपुष्पपदेन च गन्धमात्रसारा पृथिवी || ५६ || प्राणानिलस्तथा स्पन्दं विशत्वद्य प्रभञ्जनम् | विशन्त्वाकाशकुहरं शब्दश्रवणशक्तयः || ५७ || इन्दुमण्डलमायान्तु रसनारसशक्तयः | निर्मन्दर इवाम्भोधिर्गतार्क इव वासरः || ५८ || एवमिन्दुमण्डलपदेनापो ग्राह्या इति क्रमेण गताः कलाः पञ्चदश प्रतिष्ठाम् इति श्रुतिप्रदर्शितदिशा सर्वे स्वां स्वां प्रकृतिं यान्त्वित्यर्थः | एवं युष्मासु उपाधिभूतेषु गतेषु भवत्प्रतिबिम्बितचिदाभासात्माजीवभूतोऽहमपि स्वबिम्बभूते प्रणवार्धमात्रालक्ष्ये ब्रह्मात्मनि प्रशाम्यामीत्याह - निर्मन्दर इत्यादिना || ५८ || शरदीव घनः स्वैरं प्राप्तः कल्पान्तसर्गवत् | ॐकारान्ते स्वमननं प्रशाम्याम्यात्मनात्मनि | दग्धेन्धन इवार्चिष्मान्निःस्नेह इव दीपकः || ५९ || स्वं ईरयति जनयतीति स्वैरं स्वोपादानं विलयेन प्राप्तो घन इव कल्पान्ते प्रलयकाले सर्गवत्प्रपञ्च इव च | स्वमननं सुष्ठु अमननमात्यन्तिकमनःशान्तिर्यथा स्यात्तथा || ५९ || व्यपगताखिलकार्यपरम्परः सकलदृश्यदशातिगतस्थितिः | प्रणवशान्त्यनुसंसृतिशान्तधी- र्विगतमोहमलोऽयमहं स्थितः || ६० || दीर्घोच्चारितस्य प्रणवस्य ब्रह्मरन्ध्रे शान्तिमनुसृत्य शान्ता ब्रह्माकारतामात्रप्राप्त्या उपरता धीर्यस्य | तत एव विगतप्रारब्धप्रतिबद्धशिष्टाविद्यालेशमला || ६० ||
527 SK इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे इन्द्रियवर्गनिराकरणोपदेशो नाम षडशीतितमः सर्गः || ८६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे इन्द्रियवर्गनिराकरणोपदेशो नाम षडशीतितमः सर्गः || ८६ || सप्ताशीतितमः सर्गः ८७ श्रीवसिष्ठ उवाच | एवं कलितवानन्तः प्रशान्तमननैषणः | शनैरुच्चारयंस्तारं प्रणवं प्राप्तभूमिकः || १ || येन क्रमेण संप्राप्तो वीतगव्यो विदेहताम् | प्रणवान्तं समालम्ब्य स क्रमोऽत्र निरूप्यते || १ || एवं वक्ष्यमाणक्रमेण तारमत्युच्चैःस्वरं प्रणवं शनैर्दैर्घ्यावादनेनोच्चारयन्सन् मननैषणाप्रशान्तिक्रमेण प्राप्तषष्ठसप्तमभूमिको भूत्वा अन्तः स्वहृदि ब्रह्म कलितवान्प्राप्तवान् || १ || मात्रादिपादभेदेन प्रणवं संस्मरन्यतिः | अधयरोपापवादेन स्वरूपं शुद्धमव्ययम् || २ || यतिः संन्यासी वीतहव्यः | ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वम्ॐकार एव यच्चान्यत्त्रिकालातीतं तदप्य्ॐकार एव इति माण्डुक्यश्रुतिदर्शितक्रमेण अकारोकारमकाराख्यमात्राभिरर्धमात्रया च कल्पितेन स्थूलसूक्ष्माव्याकृततुरीयलक्षणपादभेदेन प्रणवं संस्मरन्सन् पञ्चीकरणोक्तेन विराठिरण्यगर्भाव्याकृतलक्षणानां पादानां तुर्ये प्रथमं जागरितस्थानो बहिःप्रज्ञः इत्यादिश्रुत्युक्तदिशा अध्यारोपेण नान्तः प्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानधनम् इत्याद्यपवादेन च स्थूलसूक्ष्मकारणरूपानपि सबाह्याभ्यन्तरान्भागांस्त्यक्त्वा शुद्धमव्ययं स्वरूपं दृष्ट्वा प्रपञ्चोपशमं शिवं शान्तमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः इति श्रुत्युक्ते तुर्त्ये तत्रात्मनि तिष्ठन्सन् प्रणवपर्यन्तं दीर्घनिःस्वनतन्तुना सह इन्द्रियतन्मात्रजालं जहाविति षष्ठेन संबन्धः || २ || सबाह्याभ्यन्तरान्भागान्स्थूलान्सूक्ष्मतरानपि | त्रैलोक्यसंभवांस्त्यक्त्वा संकल्पाकल्पकल्पितान् || ३ ||
528 SK तिष्ठन्नक्षुभिताकारश्चैन्तामणिरिवात्मनि | संपूर्ण इव शीतांशुर्विश्रान्त इव मन्दरः || ४ || कुम्भकारगृहे चक्रे संरोधित इव भ्रमात् | अम्भोधिरिव संपूर्णस्तिमितस्फारनिर्मलः || ५ || भ्रमाद्भ्रमणात्संरोधिते सति कुम्भकारगृहे चक्रमिवाक्षुभिताकारः || ५ || शान्ततेजस्तमःपुञ्जं विगतार्केन्दुतारकम् | अधूमाभ्ररजःस्वच्छामनन्तं शरदीव खम् || ६ || तेजस्तमसोर्युगपच्छान्त्यप्रसिद्धेरभूतोपमेयम् || ६ || सहप्रणवपर्यन्तदीर्घनिःस्वनतन्तुना | जहाविन्द्रियतन्मात्रजालं गन्धमिवानिलः || ७ || प्रणवस्य पर्यन्तोऽग्रभागस्तल्लक्षणेन दीर्घनिःस्वनतन्तुना सह जहाचित्यादिसर्वः स्थूलसूक्ष्मेतरानपि त्यक्त्वेत्यस्यैव प्रपञ्चः || ७ || ततो जहौ तमोमात्रं प्रतिभातमिवाम्बरे | उत्तिष्ठत्प्रस्फुरद्रूपं प्राज्ञः कोपलवं यथा || ८ || तत उत्तुष्ठत् साक्षिणा प्रस्फुरद्रूपं तमोमात्रम् || ८ || प्रतिभातं ततस्तेजो निमेषार्धं विचार्य सः | जहौ बभूव च तदा न तमो न प्रकाशकम् || ९ || तामवस्थामथासाद्य मनसा तन्मनस्तृणम् | मनागपि प्रस्फुरितं निमिषार्धादशातयत् || १० || तां तमःप्रकाशशून्यामवस्थामासाद्य तत्कल्पनाहेतुं मनस्तृणं अशातयत् छिन्नवान् || १० || ततोऽङ्ग संविदं स्वस्थां प्रतिभासमुपागताम् | सद्यो जातशिशुज्ञानसमानकलनामलम् || ११ || अङ्गेति संबोधने | प्रतिभासं निवातदीपवत्स्फुटप्रकाशतामालम्ब्य तामपि कलनां तत्प्ररोहात्प्रागेव निमेषार्धार्धभागेन कालेन जहौ | स एव चितश्चेत्यदशात्याग इत्यर्थः || ११ || निमेषार्धार्धभागेन कालेन कलनां प्रभुः | जहौ चितश्चेत्यदशां स्पन्दशक्तिमिवानिलः || १२ || पश्यन्तीपदमासाद्य सत्तामात्रात्मकं ततः | प्रसुप्तपदमालम्ब्य तस्थौ गिरिरिवाचलः || १३ || अनया रीत्या साक्षिमात्रपरिशेषलक्षणं पश्यन्तीपदमासाद्य तदेव वियदादिबाधपरिशिष्टसत्तामात्रात्मकं कारणतत्त्वमिति तद्भावस्थितिलक्षणं सुषुप्तपदमालम्ब्येत्यर्थः || १३ ||
529 SK ततः सुषुप्तसंस्थानं स्थित्वा स्थित्वा विभुर्मनाक् | सुषुप्ते स्थैर्यमासाद्य तुर्यरूपमुपाययौ || १४ || एते एव षष्ठसप्तमभूमिके सदेहावस्थे | ततः साक्षिसदैकरस्ये निरतिशयाखण्डानन्दाविर्भावात्प्रारब्धशेषेण सहात्यन्तिकप्रतिभासनाशे विदेहकैवल्यावाप्तिं दर्शयति - तुर्यरूपमिति || १४ || निरानन्दोऽपि सानन्दः सच्चासच्चपि तत्र सः | आसीन्न किंचित्किंचित्तत्प्रकाशस्तिमिरं यथा || १५ || ततः किमासीदिति चतुर्थप्रश्नस्योत्तरमाह - निरानन्द इत्यादिना | विषयानन्दशून्योऽपि स्वरूपेणैव सानन्दः | स्वातिरिक्तसत्ताशून्योऽपि सद्रूप इत्येवं सर्व योज्यम् | यथा नक्तं दृशां तिमिरमेव प्रकाशस्तद्वत् || १५ || अचिन्मयं चिन्मयं च नेति नेति यदुच्यते | ततस्तत्संबभूवासौ यद्गिरामप्यगोचरः || १६ || चेत्याभावादचिन्मयं स्वतश्चिदेव चिन्मयम् || १६ || तदसौ सुसमं स्फारं पदं परमपावनम् | सर्वभावान्तरगतमभूत्सर्वविवर्जितम् || १७ || यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां वरम् | विज्ञानमात्रं विज्ञानविदां यदमलं पदम् || १८ || सर्ववादिभिर्नानाविकल्पैः स्वस्वसिद्धान्ततया विकल्पितमपि तदेवेत्याह - यदित्यादिना || १८ || पुरुषः सांख्यदृष्टीनामीश्वरो योगवादिनाम् | शिवः शशिकलाङ्कानां कालः कालैकवादिनाम् || १९ || शशिकलाङ्कानां शैवानाम् | शिवमतस्थानाम् इति पाठेऽपि स एवार्थः || १९ || आत्मात्मनस्तद्विदुषां नैरात्म्यं तादृशात्मनाम् | मध्यं माध्यमिकानां च सर्वं सुसमचेतसाम् || २० ||
530 SK तत् आत्मनो विदुषामात्मा | न लोकेति निषेधविषये षष्ठी छान्दसी | नैरात्म्यं क्षणिकविज्ञानसंतानः | स हि स्थायित्वेन भासमानो नास्त्येवेति नैरात्म्यम् | तादृशात्मनां सौत्रान्तिकवैभाषिकाणाम् | माध्यमिकानां चिदचिन्मध्यमशून्यमात्रं तत्त्वमिति वादिनाम् | सुसमचेतसां जीवन्मुक्तानां सर्व निरवशेषपूर्णम् | शून्यवादिभिरुपक्रम्य सर्ववादिभिरुपसंहारस्तयोः परिच्छेदापरिच्छेदवादे परमावधिता इतरेषां तु आन्तरालिकमतानामुभयमिश्रणं तारतम्यवैचित्र्येणोत्थानमिति द्योतनायेति बोध्यम् || २० || यत्सर्वशास्त्रसिद्धान्तो यत्सर्वहृदयानुगम् | यत्सर्वं सर्वगं सार्वं यत्तत्तत्सदसौ स्थितः || २१ || सर्वस्य तत्त्वं सार्वं ईदृशं यत्सत् असौ तत्सत् तद्भूत्वा स्थित इत्यर्थः || २१ || यदनुत्तमनिःस्पन्दं दीप्यते तेजसामपि | स्वानुभूत्यैकमात्रं यद्यत्तत्तत्सदसुअ स्थितः || २२ || यत् अनुत्तमनिःस्पन्दमत्यन्तनिष्क्रियम् | व्योम्न्यपि जन्मादिक्रियासत्त्वात्ततोऽपि कूटस्थमित्यर्थः | तेजसामपि भासकतयेति शेषः | यत्स्वानुभूत्यैकमात्रं यत्तत्प्रसिद्धं सत् तदसाविति प्राग्वत् || २२ || यदेकं चाप्यनेकं च साञ्जनं च निरञ्जनम् | यत्सर्वं चाप्यसर्वं च यत्तत्तत्सदसौ स्थितः || २३ || अजमजरमनाद्यनेकमेकं पदममलं सकलं च निष्कलं च | स्थित इति स तदा नभःस्वरूपा- दपि विमलस्थितिरीश्वरः क्षणेन || २४ || स वीतहव्य इति उक्तक्रमेण मुक्तदृशा नभःस्वरूपादपि निर्मलस्थितिः सन्नजमजरमनाद्येकममलं निष्कलं पदं भूत्वा स्थितः | बद्धदृशा तु क्षणेन ईश्वरः सन् स्वकार्यभेदैरनेकं सकलं च भूत्वा स्थित इत्यर्थः || २४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे वीतहव्यनिर्वाणो नाम सप्ताशीतितमः सर्गः || ८७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे वीतहव्यनिर्वाणो नाम सप्ताशीतितमः सर्गः || ८७ || अष्टाशीतितमः सर्गः ८८ श्रीवसिष्ठ उवाच |
531 SK प्राप्य संसृतिसीमान्तं दुःखाब्धेः पारमागतः | वीतहव्यः शशामैवमपुनर्मनने मुनिः || १ || वीतहव्ये विमुक्ते तत्प्राणानां हृदि सल्लयः | वर्ण्यते देहसंशोषः कलानां कारणे लयः || १ || एवमुक्तरीत्या अपुनर्मनने आत्यन्तिकमनोनाशे सति || १ || तस्मिंस्तथोपशान्ते हि परां निर्वृतिमागते | पयःकण इवाम्भोधौ स्वे पदे परिणामिनि || २ || परिणामिनि परिनिष्ठिते सति | अपरिणामिनीति वा छेदः || २ || तथैव तिष्ठन्निःस्पन्दः स कायो म्लानिमाययौ | अन्तर्विरसतां प्राप्य मार्गशीर्षान्तपद्मवत् || ३ || मार्गशीर्षस्यान्ते हेमन्ते पद्मवत् || ३ || तस्य देहद्रुमान्तःस्थं त्यक्त्वा हृन्नीडमाययुः | प्रोड्डीय विहगायन्तो यन्त्रोन्मुक्ता इवासवः || ४ || सर्वदेहव्यापिनां प्राणानां हृद्युपसंहारमाह - तस्येति | तस्य असवः प्राणा देहद्रुमस्यान्तःस्थं हृन्नीडं त्यक्त्वा बहिराययुरिति तु न व्याख्येयम् | न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन् ब्रह्माप्येति इत्यादिश्रुतिविरोधापत्तेः सर्वकर्मवासनानाशेनोत्क्रमणे बीजप्रयोजनयोरभावाच्चेति | विहगायन्तो विहगवदाचरन्तः | लोहितादित्वात्क्यम् | यन्त्रेभ्य उन्मुक्ताः शिला इव || ४ || भूतेष्वेव प्रतिष्ठानि भूतानि सकलान्यलम् | मांसास्थियन्त्रदेहस्तु वनावनितलेऽवसत् || ५ || इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति तद्यथा पेशस्करी पेशसो मात्रामुपादाय इत्यादिश्रुत्या तदनन्तरप्रतिपत्तौ रंहति परिष्वक्तः प्रश्ननिरूपणाभ्याम् इति वादरायणोक्तन्यायाच्च पूर्वजन्मानुष्ठिताग्निहोत्रादिकर्मसमवाय्यपूशब्दवाच्यसोमाज्यपयः- ākāśādikrameṇa pṛthivyāṃ vrīhiyavapuruṣayoṣidanupraveśena purus.ākāratāprāptyavagamāttāsāṃ bhūtamātrāṇāṃ kāraṇānupraveśamāha - bhūteṣveveti | sakalāni prāṇādināmāntaṣoḍaśakalāsahitāni | yastu pitṛmātṛmalajaḥ sthūlatarāṃśaḥ sa tatraiva sthita ityāha - māṃseti || 5 || cidarṇavapratiṣṭhā ciddhātavo dhātuṣu sthitāḥ | sve svarūpe sthitaṃ sarvaṃ munāvupaśamaṃ gate || 6 ||
532 SK चित् लिङ्गे बिम्बिता जीवचित्स्वबिम्बभुते चिदर्णवे प्रविष्टेव | धातवस्त्वगसृङ्मांसमेदोस्थिमज्जाशुक्राणि | धातुषु स्वोपादानेषु || ६ || एषा ते कथिता राम विचारशतशालिनी | विश्रान्तिर्वीतहव्यस्य प्रज्ञयैनां विवेचय || ७ || उपसंहरति - एषेति || ७ || एवंप्रकारया चार्व्या स्वविचारणयेद्धया | तत्त्वमालोक्य तत्सारमातिष्ठोत्तिष्ठ राघव || ८ || चार्व्या रमणीयया | वोतो गुणवचनात् इति ङीष् || ८ || यदेतदखिलं राम भवते वर्णितं मया | यदिदं वर्णयाम्यद्य वर्णयिष्यामि यच्च वा || ९ || इदानीं भगवान्वसिष्ठः कृपातिशयेनोक्तोच्यमानवक्ष्यमाणग्रन्थस्य चिरायुर्भिः सर्वदर्शिभिरस्मदादिभिः सर्वप्रकारैरसकृत्कृतानां विचाराणां लोकशास्त्रश्रुतिभिरन्वयव्यतिरेकाभ्यां च परीक्ष्य भूयोभूयो दर्शनस्य च ऐकात्म्यदृष्टिमवलम्ब्य ज्ञानप्रतिष्ठाप्राप्तिरेव फलं नातः परं पुरुषैः संपाद्यमस्तीति निर्णीतमिति विश्वासदार्ढ्यायाह - यदेतदित्यादिना || ९ || त्रिकालदर्शिना नित्यं चिरं च किल जीवता | विचारितं च दृष्टं च मया तदखिलं स्वयम् || १० || तदेताममलां दृष्टिमवलम्ब्य महामते | ज्ञानमासादय परं ज्ञानान्मुक्तिर्हि लभ्यते || ११ || ज्ञानान्निर्दुःखतामेति ज्ञानादज्ञानसंक्षयः | ज्ञानादेव परा सिद्धिर्नान्यस्माद्राम वस्तुतः || १२ || ज्ञानेन सकलामाशां विनिकृत्य समन्ततः | शातिताशेषचित्ताद्रिर्वीतहव्यो मुनीश्वरः || १३ || शातितः खण्डितः अशेषः संस्कारशेषेणाप्यनवशेषितश्चित्ताद्रिर्येन तथाविधोऽभूरिति शेषः || १३ || वीतहव्यात्मिका संवित्संकल्पजगतीति सा | अनुभूतवती दृश्यमिदमेव च तज्जगत् || १४ ||
533 SK ननु वीतहव्येन स्वहृदि संकल्पमयं जगत्तत्र गुणत्वं चानुभूतमित्युक्तं तज्जगदन्तर्गतं सूर्यं प्रविश्य तत्रत्र्यपिङ्गलद्वारा एतज्जगद्भूप्रतिष्ठस्वदेहोद्धारः कथं कृतः | नहि स्वाप्नकुद्दालैर्जाग्रन्निधिखननं दृष्टमिति रामाशङ्कां लिङ्गैरालक्ष्याह - वीतहव्येति | सा वीतहव्यात्मिका संवित् [संतानसंवित् इति पाठः] स्वहृदयोपलक्षिते ब्रह्मणि इदमस्मदादिसाधारणमेव दृश्यं स्वसंकल्पजगती इत्यनुभूतवती नापूर्वमित्यर्थः || १४ || वीतहव्यो मनोमात्रं मनोहंत्वमिवैन्द्रियः | मनो जगदिदं कृत्स्नमन्यतानन्यते तु के || १५ || इतश्चेदमेव तज्जगदित्याह - वीतहव्य इति | ऐन्द्रियः अस्मदादिचक्षुरादिदृश्यो वीतहव्योऽस्मदीयमनोमात्रम् | यतोऽस्मन्मन एवाहमिव त्वमिव भासते | मन एवेदं कृत्स्नं जगत्तत्रान्यतानन्यते के | नहि वन्ध्याभेदेन तत्पुत्रा भिद्यन्ते न भिद्यन्ते एवेत्यर्थः || १५ || अधिगतपरमार्थः क्षीणरागादिदोषः सकलमलविकारोपाधिसङ्गाद्यपेतः | चिरमनुसृतमन्तः स्वं स्वभावं विवेकी पदममलमनन्तं प्राप्तवान्शान्तशोकः || १६ || एवं रामं समाधाय प्रकृतमेवार्थमाह - अधिगतेति | सकलेभ्योऽविद्याकामकर्मादिमलेभ्यस्तत्प्रयुक्तेन्द्रियविकारेभ्यो देहत्रयोपाधिभ्यस्तत्प्रयुक्तप्रियसङ्गादिभ्यश्चापेतो विवेकी स वीतहव्यश्चिरं चित्तशुद्ध्युपायानुष्ठानैः श्रवणमनननिदिध्यासनसाक्षात्कारसमाधिभूमिकाभ्यासैरन्तः स्वहृद्यनुभूतमनुसरणेनाभिमुखीकृतं स्वस्वभावभूतममलमनन्तं मोक्षपदं प्राप्तवानित्यर्थः || १६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे वीतहव्यविश्रान्तिर्नामाष्टाशीतितमः सर्गः || ८८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे वीतहव्यविश्रान्तिर्नामाष्टाशीतितमः सर्गः || ८८ || एकोननवतितमः सर्गः ८९ श्रीवसिष्ठ उवाच | वीतहव्यवदात्मानं नीत्वा विदितवेद्यताम् | वीतरागभयोद्वेगस्तिष्ठ राघव सर्वदा || १ ||
534 SK अनिच्छाशान्तमोहानां नभोगत्यादिसिद्धिषु | श्वापदाद्यैरधृष्यत्वं तत्तनोश्चात्र कीर्त्यते || १ || आत्मानं स्वम् | नीवह्योर्हरतेश्च इति कात्यायनवचनाद्द्विकर्मता || १ || त्रिंशद्वर्षसहस्राणि विजहार यथासुखम् | वीतहव्यो वीतशोकस्तथा विहर राघव || २ || अन्ये च राजन्मुनयो ज्ञातज्ञेया महाधियः | यथावसन्स्वराष्ट्रे त्वं तथैवास्व महामते || ३ || सुखदुःखक्रमैरात्मा न कदाचन गृह्यते | सर्वगोऽपि महाबाहो किं मुधा परिशोचसि || ४ || बहवो विदितात्मानो विहरन्तीह भूतले | न केचन वशं यान्ति दुःखस्याङ्ग भवानिव || ५ || अङ्गेति संबोधनम् || ५ || स्वस्थो भव भवोदारः समो भव सुखी भव | सर्वगस्त्वं त्वमात्मैव तव नास्ति पुनर्भवः || ६ || उदारः अन्तः सर्वत्यागशीलः || ६ || हर्षामर्षविकाराणां जीवन्मुक्ता भवादृशाः | न केचन वशं यान्ति मृगेन्द्राः शिखिनामिव || ७ || शिखिनां मयूराणाम् || ७ || श्रीराम उवाच | अनेनैव प्रसङ्गेण संशयोऽयं ममोदितः | शरत्काल इवाम्भोदं तं मे त्वं तनुतां नय || ८ || जीवन्मुक्तशरीराणां कथमात्मविदां वर | शक्तयो नेह दृश्यन्ते आकाशगमनादिकाः || ९ || शरीराणामित्युक्तेः सति प्रारब्धे वीतहव्यस्य विद्याधरादिभोग इव मानस्यः सिद्धयः संभवन्त्येवेत्याशयः || ९ || श्रीवसिष्ठ उवाच | आकाशगमनादीनि यान्येतानि रघूद्वह | प्रमाणिताः पदार्थानां सहजाः खलु शक्तयः || १० || प्रमाणिताः प्रमाणैरुपलब्धाः | ता अग्नेरूर्ध्वज्वलनमिव देवयोनीनां स्वभावसिद्धाः || १० || यद्विचित्रं क्रियाजालं दृश्यते गम्यते पुनः | राम वस्तुस्वभावोऽसौ न तदात्मविदां मतम् || ११ || नभोगमनादिक्रियाजालं वस्तुस्वभावस्तत्तद्योनिदेहस्वभावः मशकादीनामपि नभोगति शक्तिदर्शनादिति भावः | मतं वाञ्छितम् || ११ || अनात्मविदमुक्तोऽपि नभोविहरणादिकम् | द्रव्यकर्मक्रियाकालशक्त्या [व्याख्यानुसारेण मन्त्रक्रियेति पाठो युक्त इत्यवगम्यते] प्राप्नोति राघव || १२ ||
535 SK तर्हि मनुष्याणां योगसिद्ध्या नभोगमनादिप्राप्तिः कथं तत्राह - अनात्मविदिति | मण्यौषधादिद्रव्यशक्त्या मन्त्रशक्त्या योगाभ्यासादिक्रियाशक्त्या तत्परिपाककालशक्त्या च कदाचिदेव प्राप्नोति | दृष्टान्तार्थं वा कालग्रहणम् | यथा पिपीलिका ग्रीष्मान्तकालशक्त्या पक्षोद्गमान्नभोगतिं प्राप्नोति तद्वत् || १२ || नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्मवान्स्वयम् | आत्मनात्मनि संतृप्तो नाविद्यामनुधावति || १३ || एष नभोगत्यादिर्न विषयोऽभिलाषयोग्यस्तुच्छत्वात् | आत्मवान् लब्धात्मा | अविद्यामाविद्यकं तुच्छफलम् || १३ || ये केचन जगद्भावास्तानविद्यामयान्विदुः | कथं तेषु किलात्मज्ञस्त्यक्ताविद्यो निमज्जति || १४ || अविद्यामपि ये युक्त्या साधयन्ति सुखात्मिकाम् | ते ह्यविद्यामया एव नत्वात्मज्ञास्तथाक्रमाः || १५ || युक्त्या योगाभ्यासादिश्रमसहस्रेण | तथाक्रमास्तथाविधाः || १५ || तत्त्वज्ञोऽवाप्यतत्त्वज्ञो यः कालद्रव्यकर्मभिः | यथाक्रमं प्रयतते तस्योर्ध्वत्वादि सिद्ध्यति || १६ || तर्हि किं तत्त्वज्ञानां तत्संपादनशक्तिर्नास्त्येव नेत्याह - तत्त्वज्ञ इति | कालेन चिरकालप्रयत्नेन द्रव्यकर्मभिर्यथाशास्त्रोक्तक्रमं य एव प्रयतते तस्य ऊर्ध्वत्वं नभोगतिस्तदादि सिद्ध्यति || १६ || आत्मवानिह सर्वस्मादतीतो विगतैषणः | आत्मन्येव हि संतुष्टो न करोति न चेहते || १७ || न तस्यार्थो नभोगत्या न सिद्ध्या न च भोगकैः | न प्रभावेण नो मानैर्नाशामरणजीवितैः || १८ || प्रभावेण सर्वाधिपत्यनिग्रहानुग्रहसामर्थ्येन | मानैः स्वोत्कर्षख्यापनगर्वैः || १८ || नित्यतृप्तः प्रशान्तात्मा वीतरागो विवासनः | आकाशसदृशाकारस्तज्ज्ञ आत्मनि तिष्ठति || १९ || अशङ्क्तोपयातेन दुःखेन च सुखेन च | तृप्यत्यपगतासङ्गो जीवेन मरणेन च || २० || तृप्यति स्वाभाविकीं तृप्तिं न जहाति | जीवेन जीवनेन || २० || समुद्रः सरितेवान्तः क्रमसंप्राप्तवस्तुना | समेन विषमेणापि तिष्ठत्यात्मानमर्चयन् || २१ ||
536 SK समेन स्वानुकूलेन विषमेण प्रतिकूलेनापि प्रारब्धक्रमसंप्राप्तभोग्यवस्तुना | समुद्रपक्षे ओघतृणकाष्ठादिवस्तुना | अर्चयन् अखण्डाकारवृत्तिपुष्पैः पूजयन् || २१ || नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन | न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः || २२ || अर्थव्यपाश्रयः प्रयोजनोपजीवनम् || २२ || यस्तु वाऽभावितात्मापि सिद्धिजालानि वाञ्छति | स सिद्धिसाधकैर्द्रव्यैस्तानि साधयति क्रमात् || २३ || अभावितात्मा आत्मज्ञानलेशशून्योऽपि || २३ || सिद्ध्यतीत्थमिदं युक्त्यैवेत्ययं नियतेः क्रमः | त्र्यक्षादिभिः सुरवरैर्व्यर्थीकर्तुं न शक्यते || २४ || मणिमन्त्रादियुक्त्यैव आकाशगमनादि इत्थं सिद्ध्यतीति तत्तच्छास्त्रप्रसिद्धो नियतेः क्रमः तत्तन्नियतिकर्तृभिस्त्र्यक्षादिभिरपि व्यर्थीकर्तुं न शक्यते || २४ || स्वभाव एष वस्तूनां स्वतःसिद्धिर्हि नान्यतः | नियतिं न जहात्येव शशाङ्क इव शीतताम् || २५ || या तु देवादीनां स्वतः खेचरत्वादिसिद्धिरेष वस्तुस्वभावः अत-एव सा उत्पत्तिमारभ्य यावज्जीवं स्थायिनीत्याह - न जहात्येवेति || २५ || सर्वज्ञोऽपि बहुज्ञोऽपि माधवोऽपि हरोऽपि च | अन्यथा नियतिं कर्तुं न शक्तः कश्चिदेव हि || २६ || द्रव्यकालक्रियामन्त्रप्रयोगाणां स्वभावजाः | एतास्ताः शक्तयो राम यद्व्योमगमनादिकम् || २७ || यथा विषाणि निघ्नन्ति मदयन्ति मधूनि च | वमयन्ति च शुक्तानि मदनानि फलानि च || २८ || विषघ्नौषधादिद्रव्यशक्तिवदेव मणिमन्त्रादिशक्तिरपि स्वस्वकार्यसमर्थेव्याह - यथेति | विषघ्नद्रव्यमणिमन्त्रादिशक्तयो यथा विषाणि निघ्नन्ति | मधूनि यथा मदयन्ति | यथा शुक्तानि माक्षिकमधूनि मदनफलानि वा खादितानि वमयन्ति उद्गिरणं कारयन्ति || २८ || तथा स्वभाववशतो द्रव्यकालक्रियाक्रमाः | नियतं साधयन्त्याशु प्रयोगं युक्तियोजिताः [युक्तयोजिताः इति टीकानुगुणः पाठः] || २९ || प्रयुज्यत इति प्रयोगं सिद्धिजातं नियतमवश्यं साधयन्ति | युक्तैर्योगादिकुशलैः पुरुषैर्योजिताः प्रयुक्ताः || २९ ||
537 SK एतस्मात्समतीतस्य त्यक्ताविद्यस्य राघव | आत्मज्ञानस्य नास्त्यत्र कर्तृताकर्तृतानघ || ३० || एतस्माद्द्रव्यकालक्रियाक्रमलक्षणादविद्याविषयात्समतीतस्य त्यक्ताविद्यस्य बाधिताज्ञानस्य आत्मज्ञानस्य अत्र नभोगमनादिसिद्धिजाले कर्तृता कारणता अकर्तृता विरोधिता वा नास्तीत्यर्थः || ३० || द्रव्यदेशक्रियाकालयुक्तयः साधुसंविदः | परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन || ३१ || यथा आत्मज्ञानस्य क्रियाफले अनुपयोगस्तथा ज्ञानफले द्रव्यदेशक्रियादेरप्यनुपयोग इत्याह - द्रव्येति | साधुसंविदस्तत्त्वज्ञानस्य || ३१ || यस्येच्छा विद्यते काचित्स सिद्धिं साधयत्यलम् | आत्मज्ञस्य तु पूर्णस्य नेच्छा संभवति क्वचित् || ३२ || सर्वेच्छाजालसंशान्तावात्मलाभोदयो हि यः | तद्विरुद्धा कथं कस्मादिच्छा संजायतेऽनघ || ३३ || कुतो न संभवति तत्राह - सर्वेति || ३३ || यथोदेति च यस्येच्छा स तया यतते तथा | यथाकालं तदाप्नोति ज्ञो वाप्यज्ञतरोऽपि वा || ३४ || निरिच्छोऽपि तत्त्ववित्कौतुकाद्यतते चेत्तस्य भवन्त्येव सिद्धय इत्याशयेनाह - यथेति || ३४ || वीतहव्येन यतितं नो ज्ञानेच्छेन किंचन | ज्ञानेच्छेनाशु यतितं प्रोत्थितोऽसौ यथा वने || ३५ || वीतहव्यस्य तर्हि सिद्धयः कुतो न जातास्तत्राह - वीतहव्येनेति | सिद्धीच्छया नो यतितम् | तत्कुतस्तत्राह - ज्ञानेच्छेनेति | ज्ञानेच्छया इतरेच्छाप्रतिबन्धादित्यर्थः | ज्ञानेच्छया तु तेन यतितमेव | यथा असौ वने ज्ञानाभ्यासाय प्रोत्थित उद्युक्त इति प्राग्वर्णितमेवेत्यर्थः || ३५ || एवं कालक्रियाकर्मद्रव्ययुक्तिस्वभावजाः | यथेच्छमेव सिद्ध्यन्ति सिद्धयः स्वाः क्रमार्जिताः || ३६ || याः फलावलयो येन संप्राप्ताः सिद्धिनामिकाः | तास्तेनाधिगता राम निजात्प्रयतनद्रुमात् || ३७ || सिद्धिविषये ज्ञानविषये वा अनुपरतस्य प्रयत्नस्यावश्यफलवत्ता मुमुक्षुव्यवहारप्रकरणे विस्तरेण प्रपञ्चितेत्याह - याः फलेति | यच्छब्दो वीप्सितो द्रष्टव्यः | संप्राप्ताः दृश्यन्त इति शेषः || ३७ ||
538 SK महतां नित्यतृप्तानां तज्ज्ञानां भावितात्मनाम् | ईहितं संप्रयातानां नोपकुर्वन्ति सिद्धयः || ३८ || ईहितं सर्वाभिलषितं परमप्रेमास्पदमात्मसुखमिति यावत् || ३८ || श्रीराम उवाच | अयं मे संशयो ब्रह्मन्वीतहव्यस्य सा तनुः | क्रव्यादैर्न कथं भुक्ता कथं क्लिन्ना न भूतले || ३९ || क्लिन्ना पङ्कादिक्लेदान्न विशीर्णेत्यर्थः || ३९ || तदैव वीतहव्योऽसौ कथं वनगतः प्रभो | विदेहमुक्ततां शीघ्रं यथावदिति मे वद || ४० || तदा भूप्रवेशकाले एव | इति एतत्प्रश्नद्वयोत्तरं यथावद्वद || ४० || श्रीवसिष्ठ उवाच | या संविद्वलिता साधो वासनामलतन्तुना | सुखदुःखदशादाहभागिनी भवतीह सा || ४१ || तत्र प्रथमप्रश्नस्योत्तरं वक्तुं भूमिकां रचयति - येति | या अज्ञसंविद्देहाहंभाववासनारूपेण रागादिमलदूषितेन तन्तुना वलिता दृढं वेष्टिता भवति सैव देहच्छेदभेदादिप्रयुक्तसुखदुःखदशालक्षणदाहभागिनीत्यर्थः || ४१ || निर्मुक्तवासना शुद्धसंविन्मात्रमयी तु सा | तनुस्तिष्ठति तच्छेदे शक्ता नेह हि केचन || ४२ || सा जिवान्मुक्ततनुर्बाधितत्वादधिष्ठानशुद्धसंविन्मात्रमयी तिष्ठति | तस्य संविन्मात्रस्य च्छेदे कऽपि क्रव्यादादयो न शक्ताः | अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च इति भगवद्वचनादिति भावः || ४२ || शृणु युक्त्या कया योगी तनुच्छेदादिविभ्रमैः | नाक्रम्यते महाबाहो बहुवर्षशतैरपि || ४३ || उपपत्त्यन्तरं वक्तुं प्रतिजानीते - शृण्विति || ४३ || चेतः पदार्थे पतति यस्मिन्यसिन्यदा यदा | तन्मयं तद्भवत्याशु तस्मिंस्तस्मिंस्तदा तदा || ४४ || तथा दृष्टारि हि मनो विकारमुपगच्छति | दृष्टमित्रं सुहृद्यत्वं स्वयमित्यनुभूयते || ४५ || तथा हीति संबन्धः | दृष्टः अरिर्द्वेष्टा येन तथाविधं मनः अरिद्वेषप्रतिबिममिव द्वेषादिविकारमुपगच्छति | दृष्टमित्रं तु मनस्तदीयहृदयप्रीतिप्रतिबिम्बमिव सुष्ठु हृद्यत्वमुपगच्छति | इत्ययमर्थः सर्वैः स्वयं प्रत्यक्षमनुभूयत इत्यर्थः || ४५ ||
539 SK रागद्वेषविहीने तु पथिके पादपे गिरौ | भवत्यरागद्वेषं च स्वयमित्यनुभूयते || ४६ || अत-एव एकस्य रागद्वेषशून्यत्वे अन्यस्यापि न दृश्यत इत्याह - रागेति | पथिके उदासीनपुरुषे पादपे गिरौ च विषये मनः अरागद्वेषं भवतीत्यर्थः || ४६ || मृष्टे लौल्यमुपादत्ते दुर्भोज्ये याति निःस्पृहम् | वैरस्यं याति कटुनि स्वयमित्यनुभूयते || ४७ || एवमचेतनेषु भोज्यादिष्वपि प्रीत्यप्रीत्यौदासीन्यानि तद्गतगुणदोषतदुभयाभावप्रतिबिमनादेव मनसि प्रसिद्धावित्याशयेनाह - मृष्टे इति | दुर्भोज्ये नीरसे निःस्पृहं स्पृहाभावम् | अर्थाभावेऽव्ययीभावे ह्रस्वः | वैरस्याभावस्याप्युपलक्षणमेतत् || ४७ || समसंविद्विलासाढ्ये यद्यदा यतिदेहके | हिंस्रचेतः पतत्याशु समतामेति तत्तदा || ४८ || अस्त्वेवं प्रकृते किं ततस्तत्राह - समेति | समो रागद्वेषवैषम्यशून्यो यः संविद्विलासस्तेन आढ्ये संपन्नतमे यतिदेहके योगिशरीरे यत् हिंस्राणां क्रव्यादानां चेतो यदा पतति तत् तदा आशु तत्कालमेव योगिसंवित्समताप्रतिबिम्बनादिव समतामेति | अतो न तत्कृतहिंसाप्रसक्तिरित्यर्थः | तथाचाहिंसाप्रतिष्ठां प्रस्तुत्य प्तञ्जलिनोक्तं तत्संनिधौ वैरत्यागः इति || ४८ || समसङ्गविमुक्तत्वाच्छेदादौ न प्रवर्तते | पान्थो व्यर्थं पथि ग्रामे यथा ग्रामीणकर्मणि || ४९ || हिंस्रोऽपि समस्य समदर्शिनो यतेः सङ्गेन द्वेषादिभ्यो विमुक्तत्वात्कस्यापि च्छेदनादौ न प्रवर्तते | यथा ग्रामीणकर्मणि ग्रामसन्निहितवनलताच्छेदादौ पान्थो न प्रवर्तते तद्वत् || ४९ || योगिदेहसमीपात्तु गत्वा प्राप्नोति हिंस्रताम् | यद्यद्भवति तत्राशु तथारूपेंअ न संशयः || ५० || योगिदेहसमीपादन्यत्र गत्वा तत्र दोषादियुक्तं यद्यज्जन्तुजातं भवति तत्तदनुरूपां हिंस्रतां प्राप्नोति || ५० || इति हिंस्रैर्मृगव्याघ्रसिंहकीटसरीसृपैः | न च्छिन्ना वीतहव्यस्य तनुर्भूतलशालिनी || ५१ || इति एतस्मात्कारणद्वयात् || ५१ ||
540 SK सर्वत्र विद्यते संवित्काष्ठलोष्टोपलादिके | सत्तासामान्यरूपेण संस्थिता मूकबालवत् || ५२ || कथं क्लिन्ना न भूतले इति प्रश्नस्योत्तरमाह - सर्वत्रेत्यादिना || ५२ || पोप्ल्यमाना तरला केवलं परिदृश्यते | तन्वी पुर्यष्टकेष्वेव प्रतिबिम्बजलेष्विव || ५३ || तर्हि पुर्यष्टकेष्वेव कथं तदुपलभस्तत्राह - पोप्लूयमानेति | प्लवमानेव तरला परिणामसहस्रविस्ऽमा तन्वी परिच्छिन्ना च सा परिदृश्यते | असमाहितचित्तैरिति शेषः || ५३ || तेन भूजलवाय्वग्निसंवित्त्या समरूपया | निर्विकारं तनुर्नीता वीतहव्यस्य राघव || ५४ || तेन वीतहव्यस्य पुर्यष्टकेन तत्त्वबोधसमाधिभ्यां समरूपया अविषमस्वभावं नीतया भूजलादिसंवित्त्या तनुर्निर्विकारं सर्वविकारशून्यब्रह्मभावं नीता अतो न विकारं गतेत्यर्थः || ५४ || अन्यच्च शृणु मे राम स्पन्दो नाशस्य कारणम् | विकारः स च चित्तोत्थो वातजो वा जगत्स्थितौ || ५५ || अन्यद्युक्त्यन्तरमपि शृणु | तदेवाह - स्पन्द इत्यादिना | जगत्स्थितौ लोकव्यवहारे प्रसिद्ध इत्यर्थः || ५५ || प्राणानां प्राणनं स्पन्दस्तच्छान्तौ ते दृषत्समाः | यतः स्थिता धारणया तेनानष्टास्य सा तनुः || ५६ || ते प्राणा देहे दृषत्समा दृढीभूता यतो हेतोः स्थितास्तेन हेतुना || ५६ || सबाह्याभ्यन्तरं स्पन्दश्चित्तजो वातजोऽथवा | न यस्य विद्यते तस्य दूरस्थौ प्रकृतिक्षयौ || ५७ || बाह्यो हस्तपादादिराभ्यन्तरः प्राणादिस्तत्सहिते देहे | प्रकृतिर्वृद्ध्यादिः क्षयः अपक्षयादिश्च || ५७ || सबाह्याभ्यन्तरे शान्ते स्पन्दे तत्त्वविदां वर | धातवः संस्थितिं देहे न त्यजन्ति कदाचन || ५८ || धातवस्त्वगादयः | संस्थितिं पूर्वावस्थाम् || ५८ || संशान्ते देहप्रस्पन्दे चित्तवातमये तथा | धातवो मैरवं स्थैर्यं यान्ति संस्तम्भितात्मकाः || ५९ || मैरवं मेरुसंबन्धि | मेरुतुल्यमिति यावत् || ५९ || तथा च दृश्यते लोके स्पन्दशान्तौ दृढा स्थितिः | दारुणामिव धीराणां शवाङ्गानामचोपता || ६० ||
541 SK स्पन्दयतीति स्पन्दः प्राणस्तच्छान्तौ | शवाङ्गानां च अचोपता अकम्पता | चुप मन्दायां गतौ भावे घञ् || ६० || इति वर्षसहस्राणि देहा जगति योगिनाम् | न क्लिद्यन्ते न भिद्यन्ते मग्नवज्जलदा इव || ६१ || इति अनया युक्त्या | जलदा इव न क्लिद्यन्ते भूमग्नशिलावन्न भिद्यन्ते इति व्युत्क्रमेणान्वयः || ६१ || तदैव वीतहव्योऽसौ शृणु किं नोपशान्तवान् | देहमुत्सृज्य तत्त्वज्ञो ज्ञातज्ञेयवतां वरः || ६२ || चरमप्रश्नमनूद्योत्तरमाह - तदैवेत्यादिना | ज्ञातं ज्ञेयं ब्रह्म यैरुपायैस्तद्वतां परिज्ञातात्मवतां वा || ६२ || ये हि विज्ञातविज्ञेया वीतरागा महाधियः | विच्छिन्नग्रन्थयः सर्वे ते स्वतन्त्रास्तनौ स्थिताः || ६३ || स्वतन्त्रा अपराधीनाः | तस्य ह न देवाश्च नाभूत्या ईशते आत्मा ह्येषां स भवति इति श्रुतेः || ६३ || दैवं वापि च कर्माणि प्राक्तनान्यैहिकानि च | वासना वा न तेषां तच्चेतो नियमयन्त्यलम् || ६४ || स्वातन्त्र्यमेवोपपादयति - दैवमिति | प्राक्तनकर्मफलप्रदानोन्मुख ईश्वरो दैवं कर्मप्राधान्यवादे कर्मणि च तेषां प्रारब्धशेषभोगाय प्रवृत्तं चेतो न नियमयन्ति नान्यथा प्रवर्तयितुमीशते || ६४ || तेन तत्त्वविदां तात काकतालीयवन्मनः | यद्यद्भावयति क्षिप्रं तत्तदाशु करोत्यलम् || ६५ || काकतालीयवदाकस्मिकं प्रारब्धोपनीतं यद्यज्जीवनं मरणं वा || ६५ || काकतालीययोगेन वीतहव्यस्य संविदा | सांप्रतं जीवितं बुद्धं तदेवाशु स्थिरीकृतम् || ६६ || यदा तु तस्य प्रतिभा विदेहोन्मुक्ततां गता | तदा विदेहमुक्तोऽभूदसौ स्वातन्त्र्यसंस्थितिः || ६७ || यदा तु प्रारब्धसमाप्तौ प्रतिभा संविद्गता भावितवती || ६७ || विगतवासनमाशु विपाशता- मुपगतं मन आत्मतयोदितम् | यदभिवाञ्छति तद्भवति क्षणा- त्सकलशक्तिमयो हि महेश्वरः || ६८ ||
542 SK उक्तमेव संक्षिप्योपसंहरति - विगतेति | विपाशतामुपगतमत-एव वास्तवात्मस्वभावेनोदितं मनस्तदुपाधिर्जीव एव | हि यस्मात्सकलशक्तिमयो महेश्वरः शिव एव स्वयं जात इत्यर्थः | तथाचाहुः तुषेण बद्धो व्रीहिः स्यात्तुषाभावे तु तण्डुलः | पाशबद्धः सदा जीवः पाशमुक्तः सदाशिवः || इति || ६८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सद्विलासविचारयोगोपदेशो नामैकोननवतितमः सर्गः || ८९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे सद्विलासविचारयोगोपदेशो नामैकोननवतितमः सर्गः || ८९ || नवतितमः सर्गः ९० श्रीवसिष्ठ उवाच | यदा ह्यस्तंगतप्रायं जातं चित्तं विचारतः | तदा हि वीतहव्यस्य जाता मैत्र्यादयो गुणाः || १ || मैत्र्यादिगुणसंपन्नस्तथा निष्कलतां गतः | द्विविधश्चित्तनाशोऽत्र विस्तरेणोपवर्ण्यते || १ || अस्तंगतप्रायं भर्जितबीजवदङ्कुरशक्त्या अस्तं गतम् प्रतिभासतस्तु नास्तं गतमित्यर्थः || १ || श्रीराम उवाच | विचाराभ्युदयाच्चित्तस्वरूपेऽन्तर्हिते मुने | मैत्र्यादयो गुणा जाता इत्युक्तं किं त्वया प्रभो || २ || इति त्वया किं किमभिप्रायमुक्तम् || २ || ब्रह्मण्यस्तं गते चित्ते कस्य मैत्र्यादयो गुणाः | क्व वा परिस्फुरन्तीति वद मे वदतां वर || ३ || अस्तं गते बाधिते सति | कस्य किं बाधितस्य उत अधिष्ठानस्य क्व वा किंचिदाभासे उत बिम्बचिति स्फुरन्ति | नहि बाधिताया मृगतृष्णानद्या मरुभूमेर्वा शैत्यमाधुर्यपावनत्वादयो गुणाः संभवन्ति न वा तद्भासकं किंचिदस्तीति भावः || ३ || श्रीवसिष्ठ उवाच | द्विविधश्चित्तनाशोऽस्ति सरूपोऽरूप एव च | जीवन्मुक्तः सरूपः स्यादरूपो देहमुक्तिजः || ४ || सरूपः स्फटिकभित्तिगतस्वप्रतिबिम्बे पुरुषान्तरभ्रमाभासवत्प्रतिभासमानतद्रूपसहितस्तद्रहितश्च || ४ || चित्तसतेह दुःखाय चित्तनाशः सुखाय तु | चित्तसत्तं क्षयं नीत्वा चित्तं नाशमुपानयेत् || ५ ||
543 SK तामसैर्वासनाजालैर्व्याप्तं यज्जन्मकारणम् | विद्यमानं मनो विद्धि तद्दुःखायैव केवलम् || ६ || चित्तस्य सत्ता तर्हि कीदृशी तामाह - तामसैरिति | तामसैः अबाधिताज्ञानप्रभवैः || ६ || प्राक्तनं गुणसंभारं ममेति बहु मन्यते | यत्तु चित्तमतत्त्वज्ञं दुःखितं जीव उच्यते || ७ || प्राक्तनमनाद्यध्याससिद्धं देहेन्द्रिय विषयादेर्गुणसंभारं धर्मजातमात्मसंसर्गाध्यासान्ममेत्यभिमन्यते || ७ || विद्यमानं मनो यावत्तावद्दुःखक्षयः कुतः | मनस्यस्तं गते जन्तोः संसारोऽस्तमुपागतः || ८ || दुःखमूलमवष्टब्धमस्मिन्नेव विनिश्चलम् | विद्यमानं मनो विद्धि दुःखवृक्षवनाङ्कुरम् || ९ || अस्मिन्नज्ञजन्तावेव वासनाप्ररोहजालेरवष्टब्धं दृढप्रतिष्ठितं विद्यमानं मनो दुःखतरोर्मूलं विद्धि | दुःखवृक्षवनस्य अङ्कुराः प्ररोहा यस्मात्तथाविधम् || ९ || श्रीराम उवाच | नष्टं कस्य मनो ब्रह्मन्नष्टं वा कीदृशं भवेत् | कीदृशश्चास्य नाशः स्यात्सत्ता नाशस्य कीदृशी || १० || नाशस्य अभावतां गतस्य सत्ता विद्यमानता व्यवहारक्षमता कीदृशी किंलक्षणा || १० || श्रीवसिष्ठ उवाच | चेतसः कथिता सत्ता मया रघुकुलोद्वह | अस्य नाशमिदानीं त्वं शृणु प्रश्नविदां वर || ११ || कथिता तामसैर्वासनाजालैः इत्यादिग्रन्थेन || ११ || सुखदुःखदशा धीरं साम्यान्न प्रोद्धरन्ति यम् | निःश्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः || १२ || यं धीरं बाह्या आभ्यन्तरा वा सुखदशाः साम्यात् समस्वभावपूर्णानन्दैकरसस्वात्मप्रतिष्ठायाः सकाशान्न प्रोद्धरन्ति न चालयन्ति तस्य चित्तं मृतं नष्टं विदुः || १२ || अयं सोहमयं नाहमिति चिन्ता नरोत्तमम् | खर्वीकरोति यं नान्तर्नष्टं तस्य मनो विदुः || १३ || अयं सप्तवितस्तिमितो देहः स प्रसिद्धोऽहम् | अयं तदतिरिक्तः सर्वो नाहम् | इति चिन्ता भावना यं न खर्वीकरोति | न परिच्छिनत्तीति यावत् || १३ || आपत्कार्पण्यमुत्साहो मदो मान्द्यं महोत्सवः | यं नयन्ति न वैरूप्यं तस्य नष्टं विदुर्मनः || १४ ||
544 SK वैरूप्यं मुखवैवर्ण्यम् || १४ || एष साधो मनोनाशो नष्टं चेह मनो भवेत् | चित्तनाशदशा चैषा जीवन्मुक्तस्य विद्यते || १५ || लक्षणोक्तिमुपसंहरति - एष इति || १५ || मनस्तां मूढतां विद्धि यदा नश्यति सानघ | चित्तनाशाभिधानं हि तदा सत्त्वमुदेत्यलम् || १६ || मनस्तां परमार्थताभ्रान्त्या दृश्यमननयोग्यताम् | सत्त्वं शुद्धसत्स्वभावत्वम् || १६ || तस्य सत्त्वविलासस्य चित्तनाशस्य राघव | जीवन्मुक्तस्वभावस्य कैश्चिच्चित्ताभिधा कृता || १७ || कैश्चित्तद्व्यवहाराभासदर्शिभिः || १७ || मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तमवासनम् | भूयो जन्मविनिर्मुक्तं जीवन्मुक्तमनोऽनघ || १८ || तदेव सत्त्वं जीवन्मुक्तमनोमैत्र्यादिभिर्गुणैर्युक्तं भवति || १८ || व्याप्तं वासनया यत्स्याद्भूयो जननमुक्तया | जीवन्मुक्तमनाःसत्ता राम तत्सत्त्वमुच्यते || १९ || वासनया ब्रह्माकारवासनया | सत्त्वनाम्ना व्यवह्रियते || १९ || संप्रत्येवानुभूतत्वात्सत्त्वाप्त्या तन्वसंयुतः | सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते || २० || संप्रति व्युत्थानकाले | प्रतिभासतोऽनुभूतत्वात्सरूपः साकार इव सत्त्वस्य सन्मात्रस्वभावस्याप्त्या प्राप्त्या च तन्वसंयुतो देहादिपरिच्छेदमस्पृशन्मननीयाभावान्मनोनाशश्चासावित्यर्थः | अनेन सत्ता नाशस्य कीदृशीति प्रश्नांशः समाहितः || २० || मैत्र्यादयोऽथ मुदिताः शशाङ्क इव दीप्तयः | जीवन्मुक्तमनोनाशे सर्वदा सर्वथा स्थिताः || २१ || अत-एव मैत्र्यादिगुणा अपि प्रतिभासतस्तत्रोपपन्ना इत्याह - मैत्र्यादय इति | मुदिताः प्रसन्नाः || २१ || जीवन्मुक्तमनोनाशे सत्त्वनाम्नि हिमालये | वसन्त इव मञ्जर्यः स्फुरन्ति गुणसंपदः || २२ || हिमस्य संतोषशैत्यस्य आलये || २२ || अरूपस्तु मनोनाशो यो मयोक्तो रघुद्वह | विदेहमुक्त एवासौ विद्यते निष्कलात्मकः || २३ || द्वितीयं मनोनाशं दर्शयति - अरूपस्त्विति || २३ || समग्राग्र्यगुणाधारमपि सत्त्वं प्रलीयते | विदेहमुक्ते विमले पदे परमपावने || २४ ||
545 SK सत्त्वं प्रातिभासिकं मनः || २४ || विदेहमुक्तविषये तस्मिन्सत्त्वक्षयात्मके | चित्तनाशे विरूपाख्ये न किंचिदपि विद्यते || २५ || न किंचिदपि दृश्यम् | यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा इति श्रुतेरित्यर्थः || २५ || न गुणा नागुणास्तत्र न श्रीर्नाश्रीर्न लोलता | न चोदयो नास्तमयो न हर्षामर्षसंविदः || २६ || उक्तमेव प्रपञ्चयति - न गुणा इत्यादिना || २६ || न तेजो न तमः किंचिन्न संध्या दिनरात्रयः | न दिशो न च वाकाशो नाधो नानर्थरूपता || २७ || न वासना न रचना नेहानीहे न रञ्जना | न सत्ता नापि वाऽसत्ता नच साध्यं हि तत्पदम् || २८ || सत्ता भावः | असत्ता अभावः || २८ || अतमस्तेजसा व्योम्ना वितारेन्द्वर्कवायुना | तत्समं शरदच्छेन निःसंध्येनारजस्त्विषा || २९ || रजोभिस्त्विषा सूर्यज्योतिषा च रहितेन || २९ || ये हि पारं गता बुद्धेः संसाराचरणस्य [संसाराडम्बरस्य च इति पाठः] च | तेषां तदास्पदं स्फारं पवनानामिवाम्बरम् || ३० || आस्पदं प्रतिष्ठा || ३० || संशान्तदुःखमजडात्मकमेव सुप्त- मानन्दमन्थरमपेतरजस्तमो यत् | आकाशकोशतनवोऽतनवा महान्त- स्तस्मिन्पदे गलितचित्तलवा वसन्ति || ३१ || अजडात्मकमेव सत् सुप्तमिवोन्मेषादिक्रियारहितम् | अतनवो विदेहमुक्ताः | तस्मिन्पद गलितः प्रातिभासिकचित्तलवओऽपि येषां तथाविधाः सन्तस्तस्मिन्पदे वसन्ति | अपुनरावृत्त्या स्थिरीभवन्तीत्यर्थः || ३१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे चितोपदेशविचारयोगोपदेशो नाम नवतितमः सर्गः || ९० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे चित्तोपदेशविचारयोगोपदेशो नाम नवतितमः सर्गः || ९० || एकनवतितमः सर्गः ९१ श्रीराम उवाच | परमाकाशकोशाद्रिरूढलोकान्तरद्रुमम् | तारकापुष्पशबलं देवसुरविहंगमम् || १ || संसृतिव्रततेर्बीजं शरीरं तस्य मानसम् | प्राणस्पदो वासना च तद्बीजे इति वर्ण्यते || १ ||
546 SK ब्रह्मण्यध्यस्ते चतुर्दशभुवनाकारे जगति प्रसृताया जीवसंसरणलताया बीजपरम्परावधि मूलोच्छेदोपायजिज्ञासया प्रष्टुकामो रामः प्रथमं जगद्वनत्वेन वर्णयति - परमेत्यादिना | परमाकाशकोशस्य निर्विशेषब्रह्मणोऽद्रिवदवरोधकत्वादद्रौ अव्याकृते रूढानि लोकान्तराणि विचित्रभुवनब्रह्माण्डभेदा एव द्रुमा वृक्षा यस्मिन् | एवं तारकापुष्पशबलमित्यादिविशेषणान्यपि वनरूपकोपपादकानि || १ || विद्युन्मञ्जरितोपान्तनीलनीरदपल्लवम् | सर्वर्तुरम्यचन्द्रार्कगणरम्यकदन्तुरम् || २ || विद्युद्भर्मञ्जरितेषु संजातमञ्जरीकेषु दिक्शाखाग्रेषु नीलादिवर्णा नीरदा मेघा एव पल्लवास्ताम्रहरितादिवर्णपर्णानि यस्मिन् | चन्द्रार्कग्रहगणलक्षणै रम्यकैर्विकासरमणीयैः पुष्पैर्दन्तुरमुन्नतदन्तं प्रहसदिव स्थितम् || २ || सप्ताब्धिवापीवलितं सरिच्छतमनोहरम् | चतुर्दशविधानन्तभूतजातोपजीवितम् || ३ || लोकभेदाच्चतुर्दशविधैः प्रत्येकमनन्तैर्भूतजातैरुपजीवितम् || ३ || जगत्काननमाक्रम्य स्थितायाः कृतजालकम् | ब्रह्मन्संसृतिमृद्वीकालताया वितताकृतेः || ४ || ईदृशं जगत्काननमाक्रम्य वासनाप्रतानैः सर्वतः संवेष्ट्य कृतजालकं यथा स्यात्तथा स्थितायाः संसृतिर्जीवसंसरणं तल्लक्षणाया मृद्वीका द्राक्स्.आ तल्लतायाः || ४ || जरामरणपर्वायाः सुखदुःखफलावलेः | आरूढमूलमालाया [प्ररूढेति पाठः] मोहसेकजलाञ्जलेः || ५ || जरामरणान्येव पर्वाणि काण्डग्रन्थयो यस्याः | पर्वशब्दः अकारान्तोऽपि क्वचिदस्ति | मोहा एव सेकजलाञ्जलयो यस्याः || ५ || किं बीजमथ बीजस्य तस्य किं बीजमुच्यते | अथ तस्यापि किं बीजं बीजं तस्यापि किं भवेत् || ६ || बीजपरम्पराचतुष्टयप्रश्नः || ६ || सर्वमेतत्समासेन पुनर्बोधविवृद्धये | सिद्धये ज्ञानसारस्य वद मे वदतांवर || ७ || श्रीवसिष्ठ उवाच | अन्तर्लीनघनारम्भशुभाशुभमहाङ्कुरम् | संसृतिव्रततेर्बीजं शरीरं विद्धि राघव || ८ ||
547 SK अन्तर्लिङ्गदेहे लीनानि प्रच्छन्नानि घनारम्भाणि विचित्रानन्तकार्यारम्भकाणि शुभाशुभकर्माण्येव महान्तोऽङ्कुरा यस्मिन् || ८ || शाखाप्रतानगहना फलपल्लवशालिनी | तेनेयं भवति स्फीता शरदीव वसुन्धरा || ९ || इयं संसृतिव्रततिस्तेन तादृशशरीरेण स्फीता अभिवृद्धा भवति | वसुन्धरा सस्यसंपदेति शेषः || ९ || भावाभावदशाकोशं दुःखरत्नसमुद्गकम् | बीजमस्य शरीरस्य चित्तमाशावशानुगम् || १० || तस्य किं बीजमुच्यते इति द्वितीयप्रश्नस्योत्तरमाह - भावेति | भावो विभवोपचयः | अभावस्तदपक्षयः | आशायाः वशं सदनुगं भृत्यभूतम् || १० || चित्तादिदमुदेत्युच्चैः सदसच्चाङ्गजालकम् | तथा चैतत्स्वयं स्वप्नसंभ्रमेष्वनुभूयते || ११ || सद्वर्तमानमसदतीतानागतं च अङ्गजालकं शरीरजातम् | चित्ताच्छरीरोद्भवे स्वाप्नानुभवं प्रमाणयति - तथा चैतदिति || ११ || यथा गन्धर्वसंकल्पात्पुरमेवं हि चेतसः | सवातायनमाकारभासुरं जायते वपुः || १२ || यथा गन्धर्वाणां मुमूर्षोरुत्पादितप्रदर्शनसंकल्पाच्चेतसः सकाशादेव पुरं जायते तद्वद्वपुः शरीरमित्यर्थः || १२ || यदिदं किंचिदाभोगि जागतं दृश्यतां गतम् | रूपं तच्चेतसः स्फारं घटादित्वं मृदो यथा || १३ || किंच नात्रासंभावना युक्ता सर्वस्य जगतो हैरण्यगर्भमनोविकारमात्रत्वस्य सर्वश्रुतिपुराणप्रसिद्धत्वादित्याह - यदिदमिति || १३ || द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः | एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना || १४ || अथ तस्यापि किं बीजमिति तृतीयप्रश्नस्योत्तरमाह - द्वे इति | दृढा भावना वासना || १४ || यदा प्रस्पन्दते प्राणो नाडीसंस्पर्श्नोद्यतः | तदा संवेदनमयं चित्तमाशु प्रजायते || १५ || आद्यमुपपादयति - यदेति | संवेदनमयं चिद्विकारप्रायम् || १५ || यदा न स्पन्दते प्राणः शिरासरणिकोटरे | असंवित्तिवशात्तेन चित्तमन्तर्न जायते || १६ ||
548 SK शिरासरणयो द्वासप्ततिसहस्रनाडीमार्गास्तेषां कोटरे छिद्रे | असंवित्तिर्बाह्यसंवेदनसंस्कारानुद्बोधस्तद्वशात् || १६ || प्राणस्पन्दनमेवेदं चित्तद्वारेण दृश्यते | जगन्नामागतं व्योम्नि नीलत्वादिवदीदृशम् || १७ || हैरण्यगर्भचितो जगदाकारभावोऽपि समष्टिप्राणस्पन्दनप्रयुक्त एवेति स्वचित्तस्पन्ददृष्टान्तेन लक्ष्यत इत्याह - प्राणेति | दृश्यते लक्ष्यते || १७ || प्राणस्पन्दनसुप्ता च तच्छान्तिः शान्तिरुच्यते | प्राणसंस्पन्दनासंविद्याति वीटेव चोदिता || १८ || एवं समष्टिप्राणस्पन्दनविषये सुप्ता उपरता तस्याश्चितः शान्तिर्निष्क्रियतैव शान्तिर्जगत्प्रलयो मोक्षो वा उच्यत इत्यर्थः | वीटा कन्दुकः | चोदिता कराभिहता || १८ || संव्त्स्फुरति देहेषु प्राणस्पन्दप्रबोधिता | चक्रावर्तैरङ्गणेषु वीटेव करताडिता || १९ || सती सर्वगता संवित्प्राणस्पन्देन बोध्यते | सूक्ष्मात्सूक्ष्मतराकारा गन्धलेखेव वायुना || २० || संवित्संरोधने श्रेयः परमं विद्धि राघव | कारणाक्रमणं यत्र क्षोभस्तत्र न विद्यते || २१ || संविदः संरोधनमविक्षिप्तता | श्रेयो मोक्षः क्षोभकारऽनस्य प्राणस्पन्दस्य आक्रमणं प्राणायामाभ्यासेन नाशः || २१ || संवित्समुदितैवाशु याति संवेद्यमादरात् | संवेदनादनन्तानि ततो दुःखानि चेतसः || २२ || किमर्थ संरोधः संविदश्चित्ताकारेण समुद्भवे को दोषस्तत्राह - संविदिति | संवेद्यं बाह्यविषयं प्रति आदराद्रागाद्याति | ततश्च तदुपभोगसंवेदनादनन्तानि दुःखानीत्यर्थः || २२ || संसुप्तान्तरबोधाय संवित्संतिष्ठते यदा | लब्धं भवति लब्धव्यं तदा तदमलं पदम् || २३ || यदा तु बाह्यविषये संसुप्तप्राया सती आन्तरस्यात्मनो बोधाय संतिष्ठते उद्युक्ता भवति तदेत्यर्थः || २३ || तस्मात्प्राणपरिस्पन्दैर्वासनाचोदनैस्तथा | नो चेत्संविदमुच्छूनां करोषि तदजो भवान् || २४ ||
549 SK प्राप्तपरिस्पन्दैर्वासनानां चोदनै रागातिशयेनोद्भावनैश्च संविदमुच्छूनां मूढा यथा कुर्वन्ति तथा न करोषि चेत् | अथवा परिरत्र वर्जने | प्राणानां परिस्पन्दैः स्पन्दवर्जनैर्वासनानां चोदनैरपनोदनैश्च संविदं नोच्छूनामुच्छूनताप्रयुक्तमनस्त्वापत्तिशून्यां करोषि चेत्तत्तर्हि भवानजो जन्मादिसर्वविक्रियाशून्यो मुक्त एवासीत्यर्थः || २४ || संविदुच्छूनतां चित्तं विद्धि तेनेदमाततम् | अनर्थजालमालूनविशीर्णजनजीवकम् || २५ || आलूनाः खण्डिता विशीर्णा झर्झरिताश्च जनजीवका येन || २५ || योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् | प्राणायामैस्तथा ध्यानैः प्रयोगैर्युक्तिकल्पितैः || २६ || योगशास्त्रोक्तैः सद्गुरुसंप्रदायादिसिद्धयुक्तिकल्पितैस्तदुपायाभ्यासप्रयोगैः || २६ || चित्तोपशान्तिफलदं परमं साम्यकारणम् | सुभगं संविदः स्वास्थ्यं प्राणसंरोधनं विदुः || २७ || प्राणसंरोधनमेव फलामेदरूपेण प्रशंसति - चित्तेति || २७ || ज्ञानवद्भिः प्रकटितामनुभूतां च राघव | चित्तस्योत्पत्तिमपरां वासनाजीवितां शृणु || २८ || चित्तस्य बीजान्तरं वर्णयितुं प्रतिजानीते - ज्ञानवद्भिरिति | प्रकटितां सम्यगुपदिष्टां स्वयं चानुभूताम् | वासनाभिराजीवितामुज्जीविताम् || २८ || दृढभावनया त्यक्तपूर्वापरविचारणम् | यदादानं पदार्थस्य वासना सा प्रकीर्तिता || २९ || तत्रादौ वासनास्वरूपमाह - दृढेति | प्राक्तन्या दृढभावनया देहादिपदार्थानामहंममेत्यादिरूपसंस्कारात्मना यदादानं तच्चेत्त्यक्तपूर्वापरविचारणं भवति तदा सा वासयति देहादिभावेनात्मानं भावयतीति व्युत्पत्त्या वासना प्रकीर्तितेत्यर्थः | तथाच पूर्वापरविचारवतां जीवन्मुक्तानां देहादिसंस्कारो न वासनाविरोधिविचारास्कन्दितत्वेन् तेषां देहादिभावेन वासयितुमशक्यत्वादिति भावः || २९ || भावितस्तीव्रसंवेगादात्मना यत्तदेव सः | भवत्याशु महाबाहो विगतेतरसंस्मृतिः || ३० ||
550 SK अज्ञात्मनस्तु विरोधाभावात्तीव्रसंवेगभावनादार्ढ्येन [वेग इति पदं क्वचिन्न पठ्यते] देहादिभावे वासयितुं शक्नोत्येवेत्याशयेनाह - भावित इति || ३० || तादृग्रूपः स पुरुषो वासनाविवशीकृतः | यत्पश्यति तदेतत्तत्सद्वस्त्विति विमुह्यति || ३१ || सा देहादावात्मतामिव बाह्यार्थे सत्तामपि दर्शयतीत्याह - तादृगिति | वसतीति वस्तु | तदात्मसत्तया वासयतीति वासनेति व्युत्पत्तेस्तत्रापि संभवादिति भावः || ३१ || वासनावेगवैवश्यात्स्वरूपं प्रजहाति तत् | भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव || ३२ || तत् वासनोपस्थापितं जगद्रूपं सर्वम् || ३२ || असम्यग्ज्ञानवानेव भवत्याधिपरिप्लुतः | अन्तस्थया वासनया विषेणेव वशीकृतः || ३३ || त्यक्तपूर्वापरविचारणमित्यस्य व्यावर्त्यमाह - असम्यगित्यादिना || ३३ || असम्यग्दर्शनं यस्मादनात्मन्यात्मभावनम् | यदवस्तुनि वस्तुत्वं तच्चित्तं विद्धि राघव || ३४ || सैव चितश्चित्तभावेन [चितः इति मुद्रितपुस्तके न लभ्यते] वासनाप्रयुक्ता उत्पत्तिरित्याशयेनाह - असम्यगिति || ३४ || दृढाभ्यासपदार्थैकवासनादतिचञ्चलम् | चित्तं संजायते जन्मजरामरणकारणम् || ३५ || यदा न वास्यते किंचिद्धेयोपादेयरूपि यत् | स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते || ३६ || अत-एव वासनानाशाच्चितः स्वास्थ्यलक्षणा मुक्तिरित्याह - यदेति | न वास्यते न सत्तां प्राप्यते || ३६ || अवासनत्वात्सततं यदा न मनुते मनः | अमनस्ता तदोदेति परमोपशमप्रदा || ३७ || यदा किंचिन्न संवित्तौ स्फुरत्यभ्रमिवाम्बरे | तदा पद्म इवाकाशे चित्तमन्तर्न जायते || ३८ || आकाशे पद्ममिव अन्तः चिति चित्तं न जायते || ३८ || यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि | तदा हृदम्बरे शून्ये कथं चित्तं प्रजायते || ३९ || एतावन्मात्रकं मन्ये रूपं चित्तस्य राघव | यद्भावनं वस्तुनोऽन्तर्वस्तुत्वेन रसेन च || ४० || रसेन रागेण || ४० ||
551 SK न किंचित्कल्पनायोग्यं दृश्यं भावयतस्ततः | आकाशकोशस्वच्छस्य कुतश्चित्तोदयो भवेत् || ४१ || कल्पनाया युक्तिभिः समर्थनाया अयोग्यम् || ४१ || यदभावनमास्थाय यदभावस्य भावनम् | यद्यथावस्तुदर्शित्वं तदचित्तत्वमुच्यते || ४२ || इदानीमचित्ततां लक्षयति - यदिति | अभावनं बाह्यार्थास्मरणं निरोधयोगमस्थाय सर्वदृश्यमार्जनलक्षणस्य अभावस्य यत्संपादकं परमार्थात्मदर्शनाविर्भूतस्वरूपं तदित्यर्थः || ४२ || सर्वमन्तः परित्यज्य शीतलाशयवर्ति यत् | वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतम् || ४३ || तर्हि जीवन्मुक्तानां सवृत्तिके चित्ते सति कथमचित्तत्वं तत्राह - सर्वमिति | नहि दग्धपटाभासेन सपटत्वं वक्तुं शक्यमिति भावः || ४३ || वासनाया रसाध्यानाद्रागो यस्य न विद्यते | तस्य चित्तमचित्तत्वं गतं सत्त्वं तदुच्यते || ४४ || विषयरसानामाध्यानप्रयुक्तो रागो रञ्जना | पटभस्मेव परिशिष्टमधिष्ठानं सत्त्वं तदुच्यत इत्यर्थः || ४४ || घना न वासना यस्य पुनर्जननकारिणी | जीवन्मुक्तः स सत्त्वस्थश्चक्रभ्रमवदास्थितः || ४५ || तर्हि जीवन्मुक्तः कथं व्यवहारमास्थित इति चेत्कृतकार्यकुलालचक्रभ्रमवदित्याह - घनेति || ४५ || भृष्टबीजोपमा येषां पुनर्जननवर्जिता | वासनारसनिर्हीना जीवन्मुक्ता हि ते स्थिताः || ४६ || सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः | अचित्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः || ४७ || देहान्ते प्रारब्धक्षये | तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये इति श्रुतेरिति भावः || ४७ || द्वे बीजे राम चित्तस्य प्राणस्पन्दनवासने | एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः || ४८ || ननु वासनाबीजनाशेपि बीजान्तराच्चित्तोदयः किं न स्यात्तत्राह - द्वे इति || ४८ || मिथः कारणमेते हि बीजे जन्मनि चेतसः | जलाङ्गीकरणे राम जलाशयघटाविव || ४९ ||
552 SK चेतसो जन्मनि एते मिथो मिलिते कारणं नैकैकमित्यर्थः | यथा घटाकाशेन जलाङ्गीकरणे जलाशयो घटश्च मिलितौ कारणं नैकैकं तद्वत् || ४९ || घना न वासना यस्य पुनर्जननकारिणी | बीजाङ्कुरवदेते हि संस्थिते तिलतैलवत् || ५० || घना वासना एकैव आयस्य बलात्कृत्य पुनर्जननकारिणी नेत्यर्थः | बीजं तस्यापि किं भवेदिति चतुर्थप्रश्नस्याप्युत्तरमनवस्थां परिहरन्नाह - बीजाङ्कुरवदिति | एते प्राणस्पन्दनवासने तिलेषु तैलवत्परस्परान्त स्थे तथा बीजाङ्कुरन्यायेन कालाकाङ्क्षिक्रमे परस्परस्य कारणे इति परेणान्वयः || ५० || अविनाभाविनी नित्यं कालाकाङ्क्षिक्रमे तथा | सर्वमुत्पादयत्येतच्चित्तकः संविदात्मकः || ५१ || एवं चित्तस्यापि तदुभय प्रति इन्द्रियसुखदुःखादिकं च प्रति कारणनास्तीत्याह - सर्वमिति || ५१ || यथाप्राणेन्द्रियानन्दमानन्दपवनावुभौ | चित्तस्योत्पादिके सार्धं यदैते वासने तदा || ५२ || यथाक्रमं प्रथमं प्राणं तत इन्द्रियाणि ततस्तत्प्रयुक्तमानन्दमिति सर्वमित्यर्थः | एवं पूर्वोपभुक्तस्य विषयानन्दस्य तात्कालिकजीवनलक्षणस्य पवनस्पन्दस्य च वासनात्मनापि चित्तोत्पादकत्वमस्तीत्याह - आनन्दपवनाविति | यदा आनन्दपवनावुभौ वासने संपन्ने तदा सार्ध मिलित्वा चित्तस्योत्पादिके इत्यन्वयः || ५२ || आमोदपुष्पवत्तैलतिलवच्च व्यवस्थिते | वासनावशतः प्राणस्पन्दस्तेन च वासना || ५३ || अतः परस्पराश्रयत्वं परस्परहेतुत्वं चानयोरुपपन्नमिति नानवस्थादोषप्रसक्तिरित्याशयेनोक्तमेव पुनराह - आमोदेत्यादि || ५३ || जायते चित्तबीजस्य तेन बीजाङ्कुरक्रमः | वाअनोत्प्लवमानत्वात्संवित्प्रक्षोभकर्मणा || ५४ || बीजाङ्कुरक्रमो जायते | उपपन्न इति यावत् | उभयोश्चित्तोत्पादकत्वप्रकारं दर्शयति - वासनेति || ५४ || प्राणस्पन्दं बोधयति तेन चित्तं प्रजायते | प्राणः स्पन्दनधर्मित्वात्स्पन्दते स्पृष्टहृद्गुणः || ५५ || स्पृष्टा नुन्ना हृद्गुणा रागादिवासना येन || ५५ ||
553 SK संविदं बोधयंस्तेन चित्तबालः प्रजायते | एवं हि वासनाप्राणस्पन्दौ द्वौ तस्य कारणम् || ५६ || तयोरेकक्षये नाशो द्वयोश्चित्तस्य राघव | सुखदुःखमनःस्पन्दं शारीरकबृहत्फलम् || ५७ || अत-एव एकस्मिंश्च तयोः क्षीणे इति प्रागुक्तमुपपन्नमित्याह - तयोरिति | द्वयोस्तत्कार्यचित्तस्य च नाश इत्यर्थः | चित्तमेव वृक्षत्वेन वर्णयंस्तस्य वासनाक्षयादुन्मूलनमाह - सुखेत्यादिना | सुखदुःखाकुलं मननं मनस्तदेव स्पन्दो यस्य | शरीरमेव शारीरकम् || ५७ || कार्यपल्लविताकारं कृतिव्रततिवेष्टितम् | तृष्णाकृष्णाहिवलितं रागरोगब्कालयम् || ५८ || अज्ञानमूलं सुदृढं लीनेन्द्रियविहंगमम् | वासना क्षयमानीता चित्तवृक्षं क्षणेन हि || ५९ || क्षयमानीता वासना ईदृशं चित्तवृक्षं क्षणेन प्रपातयतीति परेणान्वयः || ५९ || प्रपातयति वातौघः कालपक्वफलं यथा | पाण्डुरीकृतसर्वाशं स्थगिताखिलदर्शनम् || ६० || तदेव चित्तं वात्यारजःपुञ्जत्वेन रूपयंस्तस्य पवननिरोधादिव प्राणस्पन्दनिरोधात्प्रविलयं दर्शयति - पाण्डुरीकृतेत्यादिना | पाण्डुरीकृतेत्यादिविशेषणानि श्लेषादिना उभयत्र योज्यानि | आशा दिशः उपचारा तृष्णावन्तश्च | स्थगितमाच्छादितमखिलदर्शनं पूर्णचिद्रूपं सर्वजननेत्रं च येन || ६० || विलोलजलदाकारमज्ञानावकरोत्थितम् | तृष्णातृणलवव्याप्तं स्तम्भाकृति शरीरकम् || ६१ || अवकर उत्करः | स्तम्भप्रायं शरीरकं प्रसिद्धं वात्यासंस्थानं च यस्य || ६१ || स्फुरत्तनु तनुक्षुभ्दं सुखमुत्प्लवनं प्रति | अन्तःस्थितमहालोकमपश्यत्प्रविलीयते || ६२ || स्फुरद्भिस्तनुतनुभिरल्पाल्पैर्वृत्तिभेदैर्वात्यापोतैश्च क्षुब्धम् | सर्वदिक्षु उत्प्लवनं प्रति सुखं अनायासदक्षम् | अन्तः स्थितं महालोकं ब्रह्म सौरालोकं च अपश्यत् द्रष्टुमक्षमम् | ईदृशं चित्तवात्यारजः पवनस्पन्दरोधात् क्षणात्प्रविलीयत इत्यन्वयः || ६२ || पवनस्पन्दरोधाच्च राम चित्तरजः क्षणात् | वासनाप्राणपवनस्पन्दयोरनयोर्द्वयोः || ६३ ||
554 SK बीजान्तरमप्याह - वासनेति || ६३ || संवेद्यं बीजमित्युक्तं स्फुरतस्तौ यतस्ततः | हृदि संवेद्यमाप्यैव प्राणस्पन्दोऽथ वासना || ६४ || संवेद्यं प्रियाप्रियं शब्दादि | आप्य स्मृत्वा || ६४ || उदेति तस्मात्संवेद्यं कथितं बीजमेतयोः | संवेद्यसंपरित्यागात्प्राणस्पन्दनवासने || ६५ || समूलं नश्यतः क्षिप्रं मूलच्छेदादिव द्रुमः | संविदं विद्धि संवेद्यं बीजं धीरतया विना || ६६ || संविदभेदभावनमेव संवेद्यपरित्याग इत्याह - संविदमिति | तदेवोपपादयति - बीजमित्यादिना | संविदेव स्वीयां धीरतां परित्यज्य संवेद्यमिव संपन्नं सत् चित्तबीजम् || ६६ || न संभवति संवेद्यं तैलहीनस्तिलो यथा | न बहिर्नान्तरे किंचित्संवेद्यं विद्यते पृथक् || ६७ || नहि संविदं विना संवेद्यं संभवति | प्रसिद्ध्यतीत्यर्थः || ६७ || संवित्स्फुरन्ती संकल्पात्संवेद्यं पश्यति स्वतः | स्वप्ने यथात्ममरणं तथा देशान्तरस्थितिः || ६८ || चार्थे तथाशब्दः | यथा स्वप्ने आत्मनो मरणं देशान्तरस्थितिश्च स्वचमत्कारयोगेनैव | जाग्रत्संवेद्यमपि संविदस्तथेत्युत्तरत्रान्वयः || ६८ || स्वचमत्कारयोगेन संवेद्यं संविदस्तथा | स्ववेदनं स्वसंकल्पात्संविदो यत्र वर्तते || ६९ || यत्र यस्यां विवेकदशायां स्वतत्त्ववेदनं वर्तते तत् स्वसंवेदनमपि स्वसंकल्पादिजन्यं तथा स्वप्नवदेव | नह्यद्वये स्वसंवेदनं विवेकविचारादयो वा परमार्थतः संभवन्तीति || ६९ || जगज्जालमतो भाति तदिदं रघुनन्दन | यथा बालस्य वेतालः स्वसंकल्पोद्भवाद्भवेत् [ससङ्कल्पोद्भवात् इति पाठः] || ७० || स्वसंकल्पोद्भवाद्भ्रमात् || ७० || पुरुषत्वं यथा स्थाणोः संवेद्यं संविदस्तथा | यथा चन्द्रार्करश्मीनां दण्डता रेणुता तथा || ७१ || चन्द्रार्करश्मीनां वातायनप्रविष्टानां दण्डाकारता तदन्तरे भ्रमत्त्रसरेण्वाकारता च भवेत्तथा || ७१ || यथा नौस्थाचलस्पन्दः संवेद्यं संविदस्तथा | एतन्मिथ्या हि दुर्ज्ञानं सम्यग्ज्ञानाद्विलीयते || ७२ ||
555 SK दुर्ज्ञानं भ्रान्तिज्ञानम् | विलीयते बाध्यते || ७२ || रज्ज्वामिव भुजङ्गत्वं द्वीन्दुत्वं स्वीक्षितादिव | शुद्धैव संवित्त्रिजगत्संवेद्यं नान्यदस्त्यलम् || ७३ || स्वीक्षितान्निर्दोषदर्शनादिव | सम्यग्ज्ञानं तर्हि कीदृशं तदाह - शुद्धैवेति || ७३ || इत्यन्तर्निश्चयो रूढः सम्यग्ज्ञानं विदुर्बुधाः | पूर्वं दृष्टमदृष्टं वा यदस्याः प्रतिभासते || ७४ || तेन संमार्जनीयं यत्तद्दर्शयति - पूर्वमिति || ७४ || संविदस्तत्प्रयत्नेन मार्जनीयं विजानता | तदमार्जनमात्रं हि महासंसारसंगतम् || ७५ || महता संसारेण संगतं संबन्ध आत्मनः || ७५ || तत्प्रमार्जनमात्रं तु मोक्ष इत्यनुभूयते | संवेदनमनन्ताय दुःखाय जननात्मने || ७६ || संवेदनं वेद्यदर्शनम् | जननात्मने जन्मादिरूपाय दुःखाय || ७६ || असंवित्तिरजाड्यस्था सुखायाजननात्मने | अजडो गलितानन्दस्त्यक्तसंवेदनो भव | असंवेद्यप्रबुद्धात्मा यस्तु स त्वं रघूद्वह || ७७ || असंवित्तिर्वेद्यादर्शनं अजाड्ये चिदेकरसस्वभावे प्रतिष्ठिता अजननात्मने नित्यात्मस्वरूपाय यतो भवति अतस्त्वमपि त्यक्तसंवेदनः सन् अजडः गलित एकरसीभूतः पूर्णानन्दो भवेत्यर्थः | यः असंवेद्योऽपि स्वतः प्रबुद्ध आत्मा स एव त्वं भवसि नान्यः || ७७ || श्रीराम उवाच | अजडश्चाप्यसंवित्तिः कीड्र्शो भवति प्रभो | असंवित्तौ च जाड्यं तत्कथं वा विनिवर्तते || ७८ || जाड्यत्यागे संवेदनपरिशेषः संवेदनत्यागे जाड्यपरिशेषो वा अवश्यंभावीत्यजडः असंवित्तिश्चेति विरुद्धस्वभाव एकः कथं भवतीति प्रश्नः | विरोधमेव स्फुटीकृत्य दर्शयति - असंवित्ताविति || ७८ || श्रीवसिष्ठ उवाच | यः सर्वत्रानवस्थास्थो विश्रान्तास्थो न कुत्रचित् | जीवो न विन्दते किंचिदसंविदजडो हि सः || ७९ ||
556 SK सं सत्यतया बाह्यार्थवेदनं संविदिति व्युत्पत्तेर्बाधिताअर्थाभासैर्व्यवहाराभासं दर्शयन्नपि जीवन्मुक्तजीवः सर्वत्र वर्तमानविषये अनवस्थितास्थः कुत्रचित् अतीतानागतविषये च वासनाक्षयान्न विश्रान्तास्थ इति न किंचिद्वेद्यं विन्दत इति तदंशे काष्ठलोष्टवदसंविदित्युच्यते | स्वतस्तु स्वप्रकाशचिदेकरसपूर्णत्वादजडश्चेत्यर्थः || ७९ || संविद्वस्तुदृशालम्बः स यस्येह न विद्यते | सोऽसंविदजडः प्रोक्तः कुर्वन्कार्यशतान्यपि || ८० || संविच्छब्दस्य उक्तां व्युत्पत्तिं दर्शयन्नुक्तमेव समर्थयति - संविदिति | वस्तुदृशा सत्यत्वबुद्ध्या चितो बाह्यार्थालम्बनमेव संविदित्युच्यत इत्यर्थः | एतेन सर्वत्रानवस्थास्थ इति पदस्य तात्पर्यमुद्घाटितम् || ८० || संवेद्येन हृदाकाशो मनागपि न लिप्यते | यस्यासावजडा संविज्जीवन्मुक्तश्च कथ्यते || ८१ || विश्रान्तास्थो न कुत्रचिदित्यस्याप्यतीतविषये तात्पर्यमुद्घाटयंस्तदेवाह - yadā na bhāvyate kiṃcinnirvāsanatayātmani | bālamūkādivijñānamiva ca sthīyate sthiram || 82 || anāgataviṣaye'pi tasya tamudghāṭayati - yadeti dvābhyām || 82 || tadā jāḍyavinirmuktamacchavedanamātatam | āśritaṃ bhavati prājño yasmādbhūyo na lipyate || 83 || samastavāsanātyāgī nirvikalpasamādhitaḥ | nīlatvamiva khātsphāra ānandaḥ saṃpravartate || 84 || śaṅkāṃ samādhāya prakṛtaṃ samarthayannāha - samasteti || 84 || yoginastatra tiṣṭhanti saṃvedanamasaṃvidaḥ | tanmayatvādanādyantaṃ tadapyantarvilīyate || 85 || nanvanyākārasaṃvedanābhāvepi brahmākāravṛttirūpaṃ saṃvedanaṃ samādhāvapi durvāramiti kathamasaṃvittvaṃ tatrāha - tanmayatvāditi | anādyantamaparicchinnabrahmākāraṃ tatsaṃvedanamapi sveddhena brahmajyotiṣā bādhyamānaṃ tadantareva vilīyata ityarthaḥ || 85 || gacchaṃstiṣṭhanspṛśañjighrannapi tena sa ucyate | ajaḍo galitānandastyaktasaṃvedanaḥ sukhī || 86 ||
557 SK एतां दृष्टिमवष्टभ्य कष्टया यत्नचेष्टया | तर दुःखाम्बुधेः पारमपारगुणसागर || ८७ || कष्टया प्राणायामादिश्रमसाध्यया || ८७ || यथा बीजाद्बृहद्वृक्षो व्योम व्याप्नोति कालतः | तथैवेदं स्वसंकल्पात्संवेद्यमसदुत्थितम् || ८८ || चिदात्मा स्वात्मनः स्वयमेव मिथ्याभूतं बन्धं मोक्षं कल्पयतीत्याह - यथेत्यादिना || ८८ || यदा संकल्प्य संकल्प्य संवित्स्वं विन्दते वपुः | तदास्य जन्मजालस्य सैव गच्छति बीजताम् || ८९ || कदा कथमुत्थितं तदाह - यदेति | संकल्प्य संकल्प्य पुनःपुनः संकल्पं कृत्वा स्वं सांकल्पिकं वपुः स्वरूपं यदा विन्दते तदा || ८९ || जनयित्वात्मनात्मानं मोहयित्वा पुनःपुनः | स्वयं मोक्षं नयत्यन्तः संवित्स्वं विद्धि राघव || ९० || अन्तः हृदिस्थं आत्मतत्त्वं वेत्तीति वित् पश्यत्सत् स्वयं क्वं मोक्षं नयति | हीति विद्वदनुभवप्रसिद्धौ || ९० || यदेव भावयत्येषा तदेव भवति क्षणात् | न भवद्भूमिकामुक्ता समायाति चिराद्वपुः || ९१ || तर्हि इदानीमेव सर्वेषां संवित् स्वात्मभावनया स्वस्वरूपं स्वैरं कुतो नायाति तत्राह - नेति | भवन्तीति भवन्तो रागादयस्तद्भूमिकाभ्यः अमुक्ता सती चिरादपि स्वं वपुर्नायाति || ९१ || देवो नासौ सुरो रक्षो यक्षः किं किन्नरो जनः | आत्मैवाद्यविलासिन्या जगन्नाट्यं प्रनृत्यति || ९२ || अत-एवास्य देवगन्धर्वादयः कल्पितवेषा न वास्तवा इत्याह - देव इति | आद्यया आदिसिद्धया विलासिन्या स्वमायया || ९२ || बद्ध्वात्मानं रुदित्वा च कोशकारकृमिर्यथा | चिरात्केवलतामेति स्वयं संवित्स्वभावतः || ९३ || यथा मायावी नटः आत्मानं बध्नन्निव मोचयन्निव दर्शयति तद्वदित्याह - बद्ध्वेति || ९३ || जगज्जलधिजालानां संविज्जलमलं गता | एषैवापूर्वदिक्चक्रं स्फुरत्यद्र्यादितां गता || ९४ || अलं पर्याप्तिं गता संविदेव जगज्जलधिजालानां जलम् | अपूर्वं दिक्चक्रं दिङ्माण्डलमप्येषैव | अद्र्यादितां पर्वतादिभावमेषैव गता || ९४ ||
558 SK द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः | इत्यस्या वीचयः प्रोक्ताः संवित्सलिलसंततेः || ९५ || संविन्मात्रं जगत्सर्वं द्वितीया नास्ति कल्पना | इत्येव सम्यग्ज्ञानेन संविद्गच्छति नान्यताम् || ९६ || नान्यतामनन्यतामद्वयतामित्यर्थः || ९६ || यदा न विन्दते किंचित्स्पन्दते न न वेपते | स्वात्मन्येव स्थितिं याति संविन्नो लिप्यते तदा || ९७ || कदास्याः सम्यग्ज्ञानं भवति तत्राह - यदेति | किंचिच्चलनं स्पन्दः सम्यक्कम्पनं वेपनमिति भेदः || ९७ || अथास्याः संविदो राम सन्मात्रं बीजमुच्यते | संविन्मात्रादुदेत्येषा प्राकाश्यमिव तेजसः || ९८ || एवं परिशोध्य परिशेषिता संविदन्तःकरणप्रतिबिम्बसंविदेवेति श्रोतॄणां भ्रान्तिं वारयन्नग्निविस्फुलिङ्गन्यायेन तद्बीजभूतां सन्मात्ररूपां ब्रह्मसंविदं दर्शयति - अथेति | एषा प्रतिबिम्बसंवित् बिम्बभूतात्संविन्मात्ररूपाद्ब्रह्मणः सकाशादुदेति | यथा सूर्यादितेजसः सकाशात्प्रकाश एव प्राकाश्यं प्रभा उदेति तद्वत् || ९८ || द्वे रूपे तत्र सत्ताया एकं नानाकृति स्थितम् | द्वितीयमेकरूपं तु विभागोऽयं तयोः शृणु || ९९ || सन्मात्रमित्युक्ते अर्थक्रियासामर्थ्यलक्षणं घटपटादिनिष्ठं व्यावहारिकसत्त्वमेव तद्बीजं दर्शितमिति भ्रान्तिर्मा भूदिति तद्विलक्षणं दर्शयितुं सत्ताद्वैविध्यमाह - द्वे रूपे इत्यादिना || ९९ || घटता पटता चैव त्वत्ता मत्तेति कथ्यते | सत्तारूपविभागेन यत्तन्नानाकृति स्थितम् || १०० || घटत्वपटत्वादयस्त्वत्तामत्ताद्युपाधयश्चार्थक्रियाभेदेषु स्वरूपयोग्यतालक्षणा व्यावहारिकसत्ताविशेषा एवेत्याशयः || १०० || विभागं तु परित्यज्य सत्तैकात्मतया ततम् | सामान्येनैव सत्ताया रूपमेकमुदाहृतम् || १०१ || सामान्येन सर्वजगदधिष्ठानतालक्षणेन साधारणस्वभावेनैव || १०१ || विशेषं संपरित्यज्य सन्मात्रं यदलेपकम् | एकरूपं महारूपं सत्तायास्तत्पदं विदुः || १०२ || पदं वस्तुतत्त्वम् || १०२ ||
559 SK रूपं नानाकृतित्वेन सत्ताया न कदाचन | असंवेद्यं संभवति तस्मादेतदवस्तुकम् || १०३ || व्यावहारिकसत्त्वं तु न वास्तवमित्याह - रूपमिति | यतस्तद्घटत्वादिरूपं कपालचूर्णधूल्याद्यवस्थास्वसंवेद्यं नानुवर्तमानतया दृश्यते अतः सत्यं न संभवतीत्यर्थः || १०३ || एकरूपं तु यद्रूपं सत्ताया विमलात्मकम् | न कदाचन तद्याति नाशं नापि च विस्मृतिम् || १०४ || सर्वावस्थानुगतं तु सद्रूपं न तथेत्याह - एकरूपमिति | नापि च विस्मृतिमित्यनेन तस्य सदा स्फुरद्रूपतया नित्यचिदेकरसता दर्शिता || १०४ || कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि | विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव || १०५ || अतीतानागतेष्वस्तीति व्यवहारादर्शनाद्वर्तमानकाल एव सर्ववस्तूनां सत्तेति केचित् | अवयवानामेव पुञ्जीभूयावयव्याकारेण स्फुरणात्कला अवयवा एव परमाणुरूपा जगत्सत्तेत्यपरे | अवयविष्वप्यनुगता सत्ता जातिरन्यास्तीत्यपरे | एवमन्येऽप्यन्यथान्यथा स्वस्वबुद्ध्यनुसारेण कल्पयन्ति तत्कल्पितां विभागकलनामित्यर्थः || १०५ || कालसत्ता स्वसत्ता च प्रोन्मुक्तकलना सती | यद्यप्युत्तमसद्रूपा तथाप्येषा न वास्तवी || १०६ || यद्यपि सर्वं जगदिव कालादिसत्ताप्यध्यस्तभेदकलनात्यागे सन्मात्रपरिशेषादुत्तमसत्तैव तथापि विभक्तरूपेण बाधार्हत्वान्न वास्तवीत्यर्थः || १०६ || विभागकलना यत्र विभिन्नपददायिनी | नानाताकारणं दृष्ट्वा तत्कथं पावनं भवेत् || १०७ || सत्तासामान्यमेवैकं भावयत्सकलं वपुः | परिपूर्णपरानन्दी तिष्ठाभरितदिग्भरः || १०८ || आ समन्ताद्भरिताः पूरिता दिग्भरा दिशस्तदाधेयसर्वपदार्थाश्च येन सत्तासामान्यरूपेण तथाविधः सन् || १०८ || सत्ता सामान्यमात्रस्य या कोटिः कोविदेश्वर | सैवास्य बीजतां याता तत एव प्रवर्तते || १०९ || सामान्यमात्रस्य कोटिः परमावधिभूता या सत्ता सैव अस्य जगतः प्रतिबिम्बचितश्च बीजतां याता || १०९ ||
560 SK सत्तासामान्यपर्यन्ते यत्तत्कलनयोज्झितम् | पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते || ११० || सत्तासामान्यस्य सर्वसत्तानां पर्यन्ते परावधौ || ११० || सत्ता लयं याति यत्र निर्विकारं च तिष्ठति | भूयो नावर्तते दुःखे तत्र लब्धपदः पुमान् || १११ || सत्ता सद्धर्मतापि यत्र धर्मधर्मिविभागविलयाल्लयं याति तत्र लब्धपदो यो भवति स एव पुरुषार्थसाधनसमर्थत्वात्पुमान् | अन्यस्तु स्त्रीप्राय इति भावः || १११ || तद्धेतुः सर्वहेतूनां तस्य हेतुर्न विद्यते | संसारः सर्वसाराणां तस्मात्सारं न विद्यते || ११२ || तदेव परमपुरुषार्थतां दर्शयितुं प्रशंसति - तदित्यादिना || ११२ || तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः | इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः || ११३ || सर्वे भावा इमे तत्र स्वदन्ते साधुवारिधेः [अत्र स्वादुवारिधेः इति टीकाकृदभिमतः पाठः स एव समीचीनः] | षड्रसा इव जिह्वायाः प्रकटत्वं प्रयान्ति च || ११४ || तत्र तस्मिन्प्रत्यग्रूपे अध्यस्तत्वात्स्वदन्ते इन्द्रियप्रीतिं जनयन्ति | स्वादुवारिधेरानन्दसमुद्रात्तस्मादेव | प्रकटत्वं सत्तां स्फुर्तिं च || ११४ || तस्मादच्छतरस्यापि चिदाकाशस्य वै पदम् | सर्वेषां स्वादुजातीनामलमास्वादनं च तत् || ११५ || यस्मादस्वादुभूता अपि विषयास्तद्योगात्स्वदन्ते तस्मात्कारणात्तच्चिदाकाशस्य पदं स्वरूपं सर्वेषां स्वादुजातीनामानन्दानां प्रियाणां च मध्ये अलमत्यन्तमास्वादनमानन्दरूपं प्रियतमं चेत्यर्थः || ११५ || जायते वर्तते चैव वर्धते स्पृश्यतेऽथ वा | तिष्ठन्ति च गलन्तीह तत्राङ्ग जगतां गणाः || ११६ || तस्मिन्नेव आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते | आनन्देन जातानि जीवन्ति | आनन्दं प्रयन्त्यभिसंविशन्तीति श्रुत्युक्तजगज्जन्मादिकारणत्वलक्षणसमन्वयं दर्शयति - जायते इति | वर्तते अस्ति स्पृश्यते विपरिणामेन | तिष्ठन्त्यपक्षयोन्मुखाः | श्रुतौ जन्मादित्रयग्रहणं षड्भावविकारोपलक्षणमित्याशयः || ११६ ||
561 SK तत्तद्गुरु गरिष्ठानां तत्तल्लघु लघीयसाम् | तत्तत्स्थूलं स्थविष्ठानामणीयस्तदणीयसाम् || ११७ || गुरुलध्वादिवैचित्र्यस्यापि तदेव निर्वाहकमित्याशयेनाह - तत्तदिति | द्वितीयास्तच्छब्दाः प्रसिद्धिपराः || ११७ || दवीयसां दविष्ठं तदन्तिकानां तदन्तिकम् | कनीयसां कनीयस्तत्तज्ज्येष्ठं ज्यायसामपि || ११८ || दवीयसां दूरतराणां दविष्ठं दूरतमम् | दूरशब्दादिष्ठेयसुनोः स्थूलदूर - इत्यादिना यणादिपरलोपः पूर्वस्य गुणश्च | एवं युवाल्पयोः कन् प्रशस्यवृद्धयोर्ज्यादेशः || ११८ || तेजसामपि तत्तेजस्तमसामपि तत्तमः | वस्तूनामपि तद्वस्तु दिशामप्यङ्ग दिक्परा || ११९ || तन्न किंचिच्च किंचिच्च तत्तदस्तीव नास्ति च | तत्तदृश्यमदृश्यं च तत्तदस्मि न चास्मि च || १२० || न किंचिल्लोकप्रसिद्धम् | किंचिदल्पतरमपि प्रसिद्धं तदेव | अस्तीव भावात्मकम् | नास्त्यभावात्मकम् | अस्मि प्रत्यक्तया | न चास्मि अहंतया | द्वितीयश्चकारो मम न ममेति चानुक्तसमुच्चयार्थः || १२० || राम सर्वप्रयत्नेन तस्मिन्परमपावने | पदे स्थितिमुपायासि यथा कुरु तथानघ || १२१ || यथा उपायासि | वर्तमानसामीप्ये भविष्यति लट् | तथा कुरु || १२१ || तदमलमजरं तदात्मतत्त्वं तदवगतावुपशान्तिमेति चेतः | अवगतविततैकतत्स्वरूपो भवभयमुक्तपदोऽसि तच्चिराय || १२२ || आत्मनस्तत्त्वं पारमार्थिकरूपं तदेव | तस्य अवगतौ साक्षादनुभवे सति च तत उपशान्तिं भाधमेति | अतस्त्वं यदा अवगतविततैकतत्स्वरूपो भवसि तत्तदैव चिराय अपुनरावृत्तये भवभयमुक्तपरमपदस्वरूप एवासीत्यर्थः || १२२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे संसृतिबीजविचारयोगोपदेशो नामैकनवतितमः सर्गः || ९१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे संसृतिबीजविचारयोगोपदेशो नामैकनवतितमः सर्गः || ९१ || द्विनवतितमः सर्गः ९२ श्रीराम उवाच |
562 SK एतानि तानि प्रोक्तानि त्वया बीजानि मानद | कतमस्य प्रयोगेण शीघ्रं तत्प्राप्यते पदम् || १ || इहोक्तस्थितिभेदेषु यत्नगौरवलाघवम् | वासनादिक्षयज्ञानसहाभ्यास उदीर्यते || १ || एतानि तानि पूर्वोक्तानि संसृतिव्रततेर्देहादीनि बीजानि त्वयोक्तानि तेषां कतमस्योपायस्य प्रयोगेण निवृत्त्या परमं पदं प्राप्यते इत्यर्थः | अथवा एतानि संनिहितानि अथास्याः संविदो राम सन्मात्रं बीजमुच्यते इत्यादिना यानि भूमिकाभेदरूपाणि मोक्षबीजानि त्वयोक्तानि तेषु कतमस्य प्रयोगेण आश्रयणेन || १ || श्रीवसिष्ठ उवाच | एतेषां दुःखबीजानां प्रोक्तं यद्यन्मयोत्तरम् | तस्य तस्य प्रयोगेण शीघ्रमासाद्यते पदम् || २ || तत्र प्रथमव्याख्यानुसारेणोत्तरमाह - एतेषामिति || २ || सत्तासामान्यकोटिस्थे द्रागित्येव पदे यदि | पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाम् || ३ || द्वितीयानुसारेणाप्याह - सत्तेत्यादिना | सत्तासामान्यं शोधिततत्पदार्थस्तस्य कोटिः पराकाष्ठा तत्स्थे चिद्रूपशोधितत्वंपदार्थैक्येनाखण्डैकरसे पदे स्थितिं निश्चलतां चित्तस्य बध्नासि चेदिति परेणान्व्यः || ३ || स्थितिं बध्नासि तत्त्वज्ञ क्षणमप्यक्षयात्मिकाम् | क्षणेऽस्मिन्नेव तत्साधु पदमासादयस्यलम् || ४ || किं भावनयैव नेत्याह - तत्त्वज्ञेति | तत्त्वतः साक्षात्कृत्येति यावत् || ४ || सत्तासामान्यरूपे वा करोषि स्थितिमङ्ग चेत् | तत्किंचिदधिकेनेह यत्नेनाप्नोषि तत्पदम् || ५ || तत्राशक्तावप्याह - सत्तेति | शोधिते जगत्कारणतत्त्वे इत्यर्थः | किंचिदिति | अखण्डैक्यबोधे यत्नापेक्षणादिति भावः || ५ || संवित्तत्त्वे कृतध्यानो यदि तिष्ठसि चानघ | तद्यत्नेनाधिकेनोच्चैरासादयसि तत्पदम् || ६ || संवित्तत्त्वे शोधितत्वंपदार्थे | समानं पूर्वेण || ६ || संवेद्ये केवले ध्यानं न संभवति राघव | सर्वत्र संभवादस्याः संवित्तेरेव सर्वदा || ७ ||
563 SK ननु शोधनेन संविदंशस्य हाने संवेद्यांशस्यैव ध्यानमप्युपायः किं न स्यादिति चेदशक्यत्वादित्याह - संवेद्ये इति | संवेद्येभ्यः पुरः स्फुरन्त्याः संविदः पिधातुमशक्यत्वात्तत्पिधाने संवेद्यस्फूर्तेरेवाभावेन तद्ध्यानायोगाच्चेति भावः || ७ || यच्चिन्तयसि यद्यासि यत्तिष्ठसि करोषि च | तत्र तत्र स्थिता संवित्संविदेव तदेव सा || ८ || चिन्तनचिन्तनीयादीनां संविदधीनसिद्धिकत्वं दर्शयति - यदिति | यच्चिन्तयसि तत्संविदेव | या चिन्ता सापि संविदेव | संवित्तत्त्वकत्वात्सर्वस्येत्यर्थः || ८ || वासनासंपरित्यागे यदि यत्नं करोषि च | तत्ते शिथिलतां यान्ति सर्वाधिव्याधयः क्षणात् || ९ || उपायान्तरमाह - वासनेति | चकारान्मनोनाशे च | तत्तर्हि || ९ || पूर्वेभ्यस्तु [पूर्वोक्तेभ्यः प्रयत्नेभ्यो इति टीकाकुत्संमतः पाठः] प्रयत्नेभ्यो विषमोऽयं हि संस्मृतः | दुःसाध्यो वासनात्यागः सुमेरून्मूलनादपि || १० || किमसौ पूर्वोक्तेभ्यः सुगमो नेत्याह - पूर्वोक्तेभ्य इति || १० || यावद्विलीनं न मनो न तावद्वासनाक्षयः | न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति || ११ || असुकरत्वमुपपादयितुं परस्पराधीनतामाह - यावदिति || ११ || यावन्न तत्त्वविज्ञानं तावच्चित्तशमः कुतः | यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम् || १२ || एवं तत्त्वज्ञानेनापि सह परस्पराश्रयता अनयोरस्तीत्याह - यावदिति || १२ || यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः | यावन्न तत्त्वसंप्राप्तिर्न तावद्वासनाक्षयः || १३ || तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च | मिथः कारणतां गत्वा दुःसाध्यानि स्थितान्यतः || १४ || तस्माद्राघव यत्नेन पौरुषेण विवेकिना | भोगेच्छां दूरतस्त्यक्त्वा त्रयमेतत्समाश्रयेत् || १५ || कस्तर्हि तत्सिद्धावुपाय इति चेद्वैराग्यपूर्वकं सहैव त्रयाणामभ्यास इत्याह - तस्मादिति || १५ || सर्वथा [सर्व एते इति पाठः] ते समं यावन्न स्वभ्यस्ता मुहुर्मुहुः | तावन्न पदसंप्राप्तिर्भवत्यपि समाशतैः || १६ ||
564 SK समं युगपत् | समाशतैर्वर्षशतैः || १६ || वासनाक्षयविज्ञानमनोनाशा महामते | समकालं चिराभ्यस्ता भवन्ति फलदा मुने || १७ || एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् | तन्न सिद्धिं प्रयच्छन्ति मन्त्राः संकीलिता इव || १८ || संकीलिता मूर्च्छामरणादिमन्त्रशास्त्रोक्तदोषैः प्रतिबद्धाः || १८ || चिरकालोपरचिता अप्येते सुधियापि च | एकशः परमभ्येतुं न शक्ताः सैनिका इव || १९ || उपरचिताः सेवादिना वशीकृत्य स्वकार्ये उद्योजिताः | परं शत्रुं परमात्मानं च अभिमुखतया एतुं गन्तुम् | सैनिकाः सेनाभटा इव || १९ || सममुद्योगमानीताः सन्त एते हि धीमता | संसाराब्धिं निकृन्तन्ति जलान्यद्रितटानिव || २० || जलानि पूरात्मना मिलितानि || २० || वासनाक्षयविज्ञानमनोनाशाः प्रयत्नतः | समं सेव्यास्तव चिरं तेन तात न लिप्यसे || २१ || न लिप्यसे अलेपके स्वभावे स्थास्यसि || २१ || त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः | निःशेषमेव त्रुट्यन्ति बिसच्छेदाद्गुणा इव || २२ || हृदयग्रन्थयः अन्तःकरणतद्धर्मतादात्म्यसंसर्गाध्यासाः त्रुट्यन्ति च्छिद्यन्ते | गुणास्तन्तव इव || २२ || जन्मान्तरशताभ्यस्ता राम संसारसंस्थितिः | सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् || २३ || ननु त्रयाणामपि चिराभ्यासः किमर्थं तत्राह - जन्मान्तरेति | शतशब्द आनन्त्ये | संसारसन्ततिर्द्वैतवासना || २३ || गच्छन्शृण्वन्स्पृशञ्जिघ्रंस्तिष्ठञ्जाग्रत्स्वपंस्तथा | श्रेयसे परमायास्य त्रयस्याभ्यासवान्भव || २४ || वासनासंपरित्यागसमं प्राणनिरोधनम् | विदुस्तत्त्वविदस्तस्मात्तदाप्येवं समाहरेत् || २५ || त्रिभिः सह चतुर्थः प्राणायामोऽप्यभ्यसनीय इत्याह - वासनेति | समाहरेदभ्यसेत् || २५ || वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम् | प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु || २६ || प्राणायामचिराभ्यासैर्युक्त्या च गुरुदत्तया | आसनाशनयोगेन प्राणस्पन्दो निरुद्ध्यते || २७ ||
565 SK योगाभ्यासकुशलगुरूपदिष्टयुक्त्या स्वस्तिकाद्यासनजयेन हितमितमेध्याशनैर्यमनियमादियोगेन चेत्यर्थः || २७ || यथाभूतार्थदर्शित्वाद्वासना न प्रवर्तते | आदावन्ते च वस्तूनामविसंवादि यत्स्थितम् || २८ || सर्ववस्तूनामादावन्ते चकारान्मध्ये च अविसंवादि अविप्रलम्भि यत्सन्मात्ररूपं स्थितं स एव यथाभूतार्थस्तद्दर्शित्वादित्यर्थः || २८ || रूपं तद्दर्शनं ज्ञानं क्षीयते तेन वासना | निःसङ्गव्यवहारित्वाद्भवभावनवर्जनात् || २९ || निःसङ्गं बहिर्मुखजनसङ्गरहितं निःसंकल्पं च यथा प्राप्तव्यवहारशीलत्वात् | भवभावनानि सांसारिकमनोरथास्तेषां वर्जनात् || २९ || शरीरनाशदर्शित्वाद्वासना न प्रवर्तते | वासनाविभवे नष्टे न चित्तं संप्रवर्तते || ३० || वासनालक्षणे विभवे धनसंचये नष्टे सति लज्जयेव न प्रवर्तते || ३० || संशान्ते पवनस्पन्दे यथा पांसुर्नभस्तले | यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि || ३१ || पांसोरिव चित्तस्यापि पवनाधीनस्पन्दत्वादिति भावः || ३१ || तस्माज्जगति जायन्ते पांसवोऽवकारादिव | प्राणस्पन्दजये यत्नः कर्तव्यो धीमतोच्चकैः || ३२ || अवकरात्पांसुराशेरिव || ३२ || उपविश्योपविश्यैकचित्तकेन मुहुर्मुहुः | अथवैनं क्रमं त्यक्त्वा चित्ताक्रमणमेव चेत् || ३३ || हठयोगाभ्यासाशक्तौ राजयोगोऽभ्यसनीय इत्याह - अथवेति || ३३ || रोचते तत्तदाप्नोषि कालेन बहुना पदम् | न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् || ३४ || बहुनेति | दुर्दान्तस्य चित्तस्याल्पकालाभ्यासेन वशीकर्तुमशक्यत्वादिति भावः | युक्तिं अध्यात्मविद्यासाधुसंगसहितं दर्शितं द्विविधं योगं विना || ३४ || अङ्कुशेन विना मत्तं यथा दुष्टं मतङ्गजम् | अध्यात्मविद्याधिगमः साधुसङ्गम एव च || ३५ || तदेवाह - अध्यात्मेति || ३५ || वासनासंपरित्यागः प्राणस्पन्दनिरोधनम् | एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल || ३६ || याभिस्तज्जीयते क्षिप्रं धाराभिरिव भूरजः | सतीषु युक्तिष्वेतासु हठान्नियमयन्ति ये || ३७ ||
566 SK यद्यपि प्राणसंरोधनं दुर्दान्तदमनोपायत्वाद्धठ एव तथापि सच्छास्त्रगुरूपदिष्टमार्गरहितोऽन्ये चोपवेशनशयनकायशोषणमन्त्रयन्त्रश्मशानसाधनादिसाहसरूपा हटा अत्र निवार्यन्त इति बोध्यम् || ३७ || चेतस्ते दीपमुत्सृज्य विनिघ्नन्ति तमोऽञ्जनैः | विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम् || ३८ || ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः | चित्तं चित्तस्य वाऽदूरं संस्थितं स्वशरीरकम् || ३९ || उक्तलक्षणां चतुर्विधां युक्तिं समुत्सृज्य उपायान्तरेण चित्तं चित्तसन्निहितं शरीरं ये साधयन्ति स्थिरीकर्तु यतन्ते तान्पुरुषान् हठान् वृथाश्रमान्विदुः सांप्रदायिका इत्यर्थः || ३९ || साधयन्ति समुत्सृज्य युक्तिं ये तान्हठान्विदुः | भयाद्भयमुपायान्ति क्लेशात्क्लेशं व्रजन्ति ते || ४० || किंच तेषां सच्छास्त्रमार्गविभ्रंशादनर्थपरम्परैव फलति न चित्तादिजय इत्याह - भयादिति || ४० || निर्धृतिं नाधिगच्छन्ति दुर्भगा इव जन्तवः | भ्रमन्ति गिरिकूटेषु फलपल्लवभोजनाः || ४१ || निर्धृतिं सम्यग्धैर्यविश्रान्तिम् | दुर्भगाः पापिनो जन्तव इव || ४१ || मुग्धमुग्धधियो भीता वराका हरिणा इव | मतिरालूनशीर्णाङ्गी तदीया पेलवाङ्गिका || ४२ || न क्वचिद्याति विश्वासं मृगी ग्रामगता यथा | कल्लोलकलितं चेतस्तेषां जल इवाऽहिते || ४३ || आऽहिते भयस्थाने | अहिते इति वा च्छेदः || ४३ || प्रोह्यते प्रपतद्दूरं तृणं गिरिनदीष्विव | कालं यज्ञतपोदानतीर्थदेवार्चनभ्रमैः || ४४ || प्रोह्यते रागादिना बलान्नीयते दूरम् | प्रपत्तद्विषयानुपातिस्वभावम् | निश्चितमोक्षफलकधर्ममेघाख्यसमाध्यभ्यासं विहाय बहुक्लेशाल्पफलकसंदिग्धमोक्षफलकयज्ञदानाद्यनुष्ठानमपि क्लेशमात्रमिति प्रकृतप्रशंसार्थमाह - कालमित्यादिना | कालं चिरं क्षपयन्तीति संबन्धः || ४४ || चिरमाधिशतोपेताः क्षपयन्ति मृगा इव | आत्मतत्त्वं विधिवशात्कदाचित्केचिदेव ते || ४५ ||
567 SK दुःखदोषशतादग्धा विदन्ति न विदन्ति वा | आगमापायिनोऽनित्या नरकस्वर्गमानुषैः || ४६ || यतः दुःखानां रागादिदोषाणां च शतैरादग्धाः अतो न विदन्ति विदन्ति वा | अनित्या एकत्रास्थिराः | नरकस्वर्गमानुषैर्भोगभेदैर्निमित्तैः पातोत्पातकरा आकारा देहभेदा येषां तथाविधा भूत्वा क्षीयन्ते मरणादिना पीड्यन्ते || ४६ || पातोत्पातकराकाराः क्षीयन्ते कन्दुका इव | इतो गच्छन्ति नरकं ततः स्वर्गमिहैव च || ४७ || इहैव दंशमशकादिजन्मावृत्तिभिर्निवर्तन्ते परिवर्तन्ते || ४७ || आवृत्तिभिर्निवर्तन्ते सरसीव तरङ्गकाः | तस्माच्चैतां परित्यज्य दुर्दृष्टिं रघुनन्दन || ४८ || एतां वर्णितहटादिलक्षणाम् || ४८ || शुद्धां संविदमाश्रित्य वीतरागः स्थिरो भव | ज्ञानवानेव सुखवान्ज्ञानवानेव जीवति | ज्ञानवानेव बलवांस्तस्माज्ज्ञानमयो भव || ४९ || आश्रित्य ज्ञात्वा || ४९ || संवेद्यवर्जितमनुत्तममाद्यमेकं संवित्पदं विकलनं कलयन्महात्मन् | हृद्येव तिष्ठ कलनारहितः क्रियां तु कुर्वन्नकर्तृपदमेत्य शमोदितश्रीः || ५० || विकलनं निर्विकल्पं निर्वासनं निर्विकारं च कलना चेतसो बाह्योन्मुखता तद्रहितस्तन्निरोधशीलः सन् हृदि हार्दे ब्रह्मण्येव तिष्ठ | व्युत्थानकाले तु यथोचितां क्रियां कुर्वन्नपि असंगशमेन उदिता श्रीः प्रागुक्तजीवन्मुक्तगुणसंपद्यस्य तथाविधः सन् अकर्तृपदमेत्य तिष्ठेत्यर्थः || ५० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे संसृतिनिराकरणक्रमयोगोपदेशो नामद्विनवतितमः सर्गः || ९२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे संसृतिनिराकरणक्रमयोगोपदेशो नाम द्विनवतितमः सर्गः || ९२ || त्रिनवतितमः सर्गः ९३ श्रीवसिष्ठ उवाच | मनागपि विचारेण चेतसः स्वस्य निग्रहः | मनागपि कृतो येन तेनाप्तं जन्मनः फलम् || १ || विचारप्रौढिवैराग्यसद्गुणैर्बोधसंस्थितौ | विषयैरप्रधृष्यत्वाद्वर्ण्यतेऽत्र समास्थितिः || १ ||
568 SK तत्रादावल्पतरस्य पि विचारस्य चित्तनिग्रहस्य च रुच्युत्पादनप्रवर्तनद्वारा क्रमान्मोक्षे पर्यवसानं भवतीत्याह - मनागिति | जन्मनः फलमित्यनेन विचारशून्यस्य जन्मैव निष्फलमिति ध्वनितम् || १ || विचारकणिका यैषा हृदि स्फुरति पेलवा | एषैवाभ्यासयोगेन प्रयाति शतशाखताम् || २ || तस्य तन्मसाफल्योपयोगितामुपपादयति - विचारेत्यादिना | विचारकल्पवृक्षस्य कणिका अङ्कुरः || २ || किंचित्प्रौढविचारं तु नरं वैराग्यपूर्वकम् | सं * *? न्ति गुणाः शुद्धः सरः पूर्णमिवाण्डजः || ३ || गुणाः प्रागुक्तशमदमादयः | अण्डजाः पक्षिणो मत्स्याश्च || ३ || सम्यग्विचारिणं प्राज्ञं यथाभूतावलोकिनम् | आसादयन्त्यपि स्फारा नाविद्याविभवा भृशम् || ४ || यथाभूतं यथार्थमात्मतत्त्वमवलोकयितुं शीलमस्य | स्फाराः प्रचयप्रकर्षाभ्यां ख्याता अपि हैरण्यगर्भपदान्ता अविद्याकार्यभूता विभवा नासादयन्ति न प्रलोभयन्ति || ४ || किं कुर्वन्तीह विषया मानस्यो वृत्तयस्तथा | आधयो व्याधयो वापि सम्यग्दर्शनसन्मतेः || ५ || किं कुर्वन्ति कं विकारं जनयन्ति | निर्विकारात्मभूतत्वात्तस्येति भावः || ५ || क्व [क्वोन्नमत् इति पाठः] भ्रमत्पवनापूरास्तडित्पटलपाटलाः | पुष्करावर्तजलदा गृहीता बालमुष्टिभिः || ६ || तत्प्रलोभनासामर्थ्यमेवान्योक्तिभिर्द्रढयति - क्वेत्यादिना | पुष्करावर्ताख्याः प्रलयजलदा बालमुष्टिभिः क्व गृहीताः || ६ || क्व नभोमध्यसंस्थेन्दुर्मुग्धैर्मणिसमुद्गकैः [सुन्दरैः] | मुग्धयाऽङ्गनया बद्धो मुग्धेन्दीवरशङ्कया || ७ || मुग्धैर्विकाशरम्यैरिन्दीवरैः स्वनेत्रशोभापराभवशङ्कया तद्विकाशहेतुर्नभोमध्यसंस्थेन्दुर्मणिमयैः समुद्गकैः संपुटकैः क्व बद्धः || ७ || क्व कटप्रोच्चलद्भृङ्गमण्डलोत्पलशेखराः | मुग्धस्त्रीश्वासमधुरैर्मशकैर्मथिता गजाः || ८ ||
569 SK कटेभ्यो गण्डस्थलेभ्यः प्रोच्चलन्ति भृङ्गमण्डलान्येवोत्पलसादृश्यादुत्पलानि शेखरेषु येषां तथाविधा गजा मुग्धस्त्रीश्वासैरपि पराणुद्यमानत्वात्तेष्वपि मधुरैः सौम्यैर्निर्वीर्यैरिति यावत् | मशकैः क्व मथिता निहताः | मुग्धस्त्रीभिः श्वासेन गजवधाय प्रेरणाद्वा मधुरैरुत्साहरम्यैः || ८ || क्वेभमुक्ताफलोल्लासलसत्सन्नखपञ्जराः | सिंहाः समरसंरब्धा हरिणैः प्रविमर्दिताः || ९ || इभानां स्वविदारितगजानां मुक्ताफलसंबन्धिभिरुल्लासैः कान्तिभिर्लसन्तो नखरपञ्जरा येषाम् || ९ || क्व विषोल्लासनिर्यासदग्धोन्नतवनद्रुमाः | क्षुधिताजगराः क्षुब्धैर्निगीर्णा बालदर्दुरैः || १० || विषस्योल्लास उपचयस्तत्प्रयुक्तैर्निर्यासप्रायैर्विषबिन्दुभिर्दग्धा उन्नता वनद्रुमा यैः अथवा सृक्किदेशात्स्वदेहे मुहुः प्रसृतार्धशुष्कविषोल्लासा एव निर्यासा येषां तथाविधाः श्यामत्वादुत्थितत्वाच्च दग्धशाखखर्जूरद्रुमप्रायाः | देश विशेषे द्रुमवदुत्थिता मनुष्यवत्कूजन्तः श्यामा अजगरविशेषा वृक्षभ्रान्त्या समीपगतान्मनुष्यादीन्परिवृत्तेन व्यात्तेन मुखेन झटिति ग्रसन्तीति प्रसिद्धम् | बालदर्दुरैः क्षुद्रभेकैः || १० || क्व प्राप्तभूतिको धीरो ज्ञातज्ञेयो विवेकवान् | आक्रान्तः किल विक्रान्तो विषयेन्द्रियदस्युभिः || ११ || प्राप्तचतुर्थपञ्चमादिभूमिकः | विक्रान्त उत्तरभूमिकाजये उद्युक्तः || ११ || विचारधियमप्रौढां हरन्ति विषयारयः | प्रचण्डपवनामृद्वीं कृत्तवृन्तां लतामिव || १२ || तत्पूर्वभूमिकास्वेवापक्वचित्तानां विघ्नप्रसक्तिर्नोत्तरत्रेत्याह - विचारेति | कृत्तवृन्तां छिन्नप्रतानवतीम् [प्रतानवन्धनां इति पाठः] || १२ || न विवेकलवं प्रौढं भङ्क्तुं शक्ता दुराशयाः | कल्पक्षोभमहाधीरं शैलं मन्दानिला इव || १३ || दुष्टा आशयाः रागादिवृत्तयो भङ्क्तुं विनाशयितुं न शक्ताः | यथा अवान्तरकल्पक्षोभेषु महाधीरं मेर्वादिशैलं भङ्क्तुं मन्दानिला न शक्तास्तद्वत् || १३ ||
570 SK अगृहीतमहापीठं [महीपीठं इति पाठश्चिन्त्यः] विचारकुसुमद्रुमम् | चिन्तावात्याविधुन्वन्ति नास्थिरस्थितिसुस्थितम् || १४ || न गृहीतं महत् पीठं मूलबन्धनं येन तम् | विचाराः कादाचित्का आर्तवकुसुमप्राया एव नतु फलितास्तथाविधद्रुमप्रायम् || १४ || गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा | न विचारमयं चेतो यस्यासौ मृत उच्यते || १५ || अत-एव विचारविच्छत्तिकाले प्रमादाद्रागादिमृत्युनाऽसौ ग्रस्यत इत्याशयेनाह - गच्छत इति | यस्य यदा तदा असौ मृत इति योज्यम् | तथा चोक्तं लैङ्गे - सा हानिस्तन्महच्छिद्रं सान्धता सा च मूकता | यत्क्षणं वा मुहूर्तं वा शिवमेकं न चिन्तयेत् || इति || १५ || किमिदं स्याज्जगत्किं स्याद्देहमित्यनिशं शनैः | विचारयाध्यात्मदृशा स्वयं वा सज्जनैः सह || १६ || स्वयमेक एकान्ते वा सज्जनैर्गुरुसतीर्थ्यादिभिः सह वा || १६ || अन्धकारहरेणाशु विचारेण परं पदम् | दृश्यते विमलं वस्तु प्रदीपेनेव भास्वता || १७ || विचारस्य फलावश्यंभावमाह - अन्धकारेति | प्रमादान्धकारहरेण || १७ || ज्ञानेन सर्वदुःखानां विनाश उपजायते | कृतालोकविलासेन तमसामिव भानुना || १८ || ज्ञानफले द्वे आह - ज्ञानेनेति द्वाभ्याम् || १८ || ज्ञाने प्रकटतां याते ज्ञेयं व्ययमुदेत्यलम् | रवावभ्युदिते भूमावालोक इव निर्मलः || १९ || येन शास्त्रविचारेण ब्रह्मतत्त्वं प्रबुद्ध्यते | तद्भानमुच्यते ज्ञेयादभिन्नमिव संस्थितम् || २० || ज्ञानलक्षणमाह - येनेति | ज्ञेयब्रह्माकारत्वाद्भेदबाधरूपत्वाच्चाभिन्नमिव संस्थितं दृढप्रतिष्ठितम् || २० || विचारोत्थात्मविज्ञानं ज्ञानमङ्ग विदुर्बुधाः | ज्ञेयं तस्यान्तरेवास्ति माधुर्यं पयसो यथा || २१ || सयग्ज्ञानसमालोकः पुमान्ज्ञेयमयः स्वयम् | भवत्यापीतमैरेयः सदा मदमयो यथा || २२ || सदा ज्ञेयमयः अनुभूयमानब्रह्मानन्दप्रचुरः || २२ || समं स्वरूपममलं ज्ञेयं ब्रह्म परं विदुः | ज्ञानाभिगममात्रेण तत्स्वयं संप्रसीदति || २३ ||
571 SK संप्रसीदति निरस्ताविद्यातत्कार्यपङ्कं भवति || २३ || ज्ञानवानुदितानन्दो न क्वचित्परिमज्जति | जीवन्मुक्तो गतासङ्गः सम्राडात्मेव तिष्ठति || २४ || सम्राट् राजाधिराजस्तदात्मेव पूर्णमनोरथः || २४ || ज्ञानवान्हृद्यशब्देषु वीणावंशरवादिषु | कामिन्याः कान्तगीतेषु संभोगमलिनेषु च || २५ || तस्य रागिजनस्पृहणीयेषु भावेष्वनासङ्गं प्रपञ्चयति - ज्ञानवानित्यादिना | सर्वेषां सप्तम्यन्तानां रतिं न निबध्नातीति व्यवहितेनान्वयः || २५ || वसन्तमदमत्तानां षट्पदानां स्वनेषु च | प्रावृट्प्रसरपुष्पेषु जलदस्तनितेषु च || २६ || प्रावृट्प्रसरप्रयुक्तपुष्पेषु || २६ || उत्ताण्डवशिखण्डेषु केकाकलरवेषु च | रणिताम्भोदखण्डेषु सारसक्वणितेषु च || २७ || कर्तर्यादिकरान्तेषु गम्भीरमुरजेषु च | ततावनद्धसुषिरचित्रवाद्यस्वनेषु च || २८ || कर्तरीसूचीशलाकासूत्रकण्टककरान्तापायवादनीयेषु वाद्यभेदेषु | तन्त्रीभिस्ततं वीणादि | चर्मणा अवनद्धं मुरजादि | सुषिरमन्तश्छिद्रं वंशादि | चित्रं परिशेषाद्घनं कांस्यतालादि च यद्वाद्यं तत्स्वनेषु च || २८ || केषुचिन्न निबध्नाति रूक्षेषु मधुरेषु च | रणितेषु रतिं राम पद्मेष्विव निशाकरः || २९ || ज्ञानवान्बालकदलीस्तम्भपल्लवपालिषु [राजिषु इति पाठः] | सुरगन्धर्वकन्याङ्गलतानन्दनकेलिषु || ३० || बालकदलीस्तम्भानां पल्लवपङ्क्तयो यत्र | सुरगन्धर्वकन्यानामिवाङ्गानि अवयवा यासां तथाविधलताशालिनन्दने केलिषु क्रीडासु | तासामङ्गलताभिर्नन्दने केलिषु वा || ३० || केषु क्वचिन्न बध्नाति स्वायत्तेष्वप्यसक्तधीः | राम स्पर्शरतिं धीरो हंसो मरुमहीष्विव || ३१ || स्पर्शरतिं भोगेच्छाम् || ३१ || ज्ञानवान्पिण्डखर्जूरकदम्बपनसादिषु | मृद्वीकौर्वारुकाक्षोटबिम्बजम्बीरजातिषु || ३२ || पिण्डखर्जूरादयः फलजातिभेदाः || ३२ || मदिरामधुमैरेयमाध्वीकासवभूमिषु | दधिक्षीरधृतामिक्षानवनीतौदनादिषु || ३३ || मदिरादयो मद्यजातिभेदाः | तप्ते पयसि दधिसेकात्पिण्डीभूतं द्रव्यमाभिक्षा || ३३ ||
572 SK षद्रसेषु विचित्रेषु लेह्यपेयविलासिषु | फलेष्वन्येषु मूलेषु शाकेष्वप्यामिषेषु च || ३४ || आमिषेषु मांसेषु || ३४ || केषुचिन्नानुबध्नाति तृप्तमूर्तिरसक्तधीः | आस्वादनरतिर्विप्रः स्वशरीरलवेष्विव || ३५ || स्वशरीरलवेषु स्वमांसखण्डेष्विव || ३५ || ज्ञानवान्यमचन्द्रेन्द्ररुद्रार्कानिलसद्मसु | मेरुमन्दरकैलाससह्यदर्दुरसानुषु || ३६ || दिक्पालपङ्क्तिपाठाद्रुद्र ईशानः || ३६ || कौशेयदलजालेषु चन्द्रबिम्बकलादिषु | कल्पपादपकुञ्जेषु देहशोभाविलासिषु || ३७ || कौशेयानीव मृदुस्निग्धानि दलजालानि पल्लवसमूहा येष्विति प्राक्तनसानुविशेषणम् | देहशोभया दिव्यशरीरसंपत्त्या विलसनशीलेषु || ३७ || रत्नकाञ्चनकुड्येषु मुक्तामणिमयेषु च | तिलोत्तमोर्वशीरम्भामेनकाङ्गलतासु च || ३८ || कुड्यपदेन तदवयविनो गृहा लक्ष्यन्ते || ३८ || केषुचिद्दर्शनं श्रीमान्नाभिवाञ्छत्यसक्तधीः | परिपूर्णमना मानी मौनी शत्रुषु चाचलः || ३९ || अचलः द्वेषाद्यप्रकम्प्यः || ३९ || ज्ञानवान्कुन्दमन्दारकह्लारकमलादिषु | कुमुदोत्पलपुन्नागकेतक्यगुरुजातिषु || ४० || कुन्दादिषु पुष्पजातिषु || ४० || कदम्बचूतजम्ब्वम्रकिंशुकाशोकशाखिषु | कदम्बादिवृक्षजातिषु | जपादिगुल्मवल्लीजातिषु || ४१ || चन्दनागुरुकर्पूरलाक्षामृगमदेषु च | काश्मीरजलवङ्गैलाकङ्कोलतगरादिषु || ४२ || चन्दनादिष्वङ्गरागभेदेषु | लाक्षा अलक्तकरसः || ४२ || केषुचिन्न निबध्नाति सौगन्ध्यरतिमेकधीः | समबुद्धिरविक्षोभो मद्यामोदेष्विव द्विजः || ४३ || द्विजो मद्यामोदेष्विव रतिं न निबध्नाति प्रियाप्रिययोः समबुद्धिः | अप्रियेष्वविक्षोभश्च || ४३ || अब्धौ गुडगुडारावे प्रतिश्रुत्खस्वने गिरौ | निनादे च मृगेन्द्राणां न क्षुभ्यति मनागपि || ४४ || एवं भयहेतुध्वनिभ्यस्तस्य भयं न जायत इत्याह - अब्धावित्यादिना | प्रतिश्रुत्प्रतिध्वनिस्तद्रूपे खस्वने आकाशजशब्दे || ४४ || द्विषद्भेरीनिनादेन पटहारणितेन च | कटुकोदण्डघोषेण न बिभेति मनागपि || ४५ || पटह आडम्बराख्यो वाद्यविशेषः || ४५ ||
573 SK मत्तवारणबृंहासु वेतालकलनासु च | पिशाचरक्षःक्ष्वेडासु मनागपि न कम्पते || ४६ || मत्तवारणानां बृंहासु गर्जितेषु | बृंहेः गुरोश्च हलः इत्यप्रत्ययः | वेतालानां कलनासु कलहादिध्वनिषु | पिशाचरक्षसां क्ष्वेडासु सिंहनादेषु || ४६ || अशनिस्वनघोषेण नगस्फोटरवेण च | ऐरावणनिनादेन सम्यग्ध्यानी न कम्पते || ४७ || ऐरावण ऐरावतस्तस्य निनादेन || ४७ || वहत्क्रकचकाषेण सितासिदलनेन च | शराशनिनिपातेन कम्पते न स्वरूपतः || ४८ || वहतश्चलतः क्रकचस्य काषेण घर्षणेन | स्वरूपतः स्वरूपस्थितिलक्षणात्समाधेर्न कम्पते न चलतीत्यर्थः || ४८ || नानन्दमेत्युपवने न खेदमुपगच्छति | न खेदमेति मरुषु नानन्दमुपगच्छति || ४९ || पूताङ्गारसमाकल्पसैकतेष्वपि धन्वसु | पुष्पप्रकरसंछन्नमृदुशाद्वलभूमिषु || ५० || पूतैर्भस्मापसरणेनोज्ज्यलितैरङ्गारैः समानि अकल्पान्यसह्यानि सैकतानि येषु तथाविधेषु धन्वसु मरुदेशेषु || ५० || क्षुरधारासु तीक्ष्णासु शय्यासु च नवोत्पलैः | उन्नताचलदेशेषु कूपकोशतलेषु च || ५१ || कूपकोशस्य कूपोदरस्य तलेष्वधोभूमिषु || ५१ || शिलास्वर्कांशुरूक्षासु मृद्वीषु ललनासु च | संपत्स्वापत्सु चोग्रासु रमणेषूत्सवेषु च || ५२ || अर्काशुरूक्षासु प्रतप्तासु कठनासु च | रमणेषु क्रीडनेषु || ५२ || विहरन्नपि नोद्वेगी नानन्दमुपगच्छति | नतर्मुक्तमना नित्यं कर्मकर्तेव तिष्ठति || ५३ || भारवहनादिकर्मकर्ता श्रान्तः पुरुषो भारोत्तारण इवान्तर्मुखमना विश्रान्तिसुखमनुभवन्नदासीनस्तिष्ठतीत्यर्थः || ५३ || अयःसंकुचिताङ्गासु नरकारण्यभूमिषु | परस्परेरितानन्तकुन्ततोमरवृष्टिषु || ५४ || अयोयन्त्रैः संकुचिताङ्गासु माण्डव्यस्येव प्रारब्धशेषोपनीतासु नरकारण्यभूमिषु || ५४ || न बिभेति न वादत्ते वैवश्यं न च दीनताम् | समः स्वस्थमना मौनी धीरस्तिष्ठति शैलवत् || ५५ || वैवश्यं व्याकुलताम् || ५५ ||
574 SK अपवित्रमपथ्यं च विषसिक्तं मलाद्यपि | भुक्त्वा जरयति क्षिप्रं क्लिन्नं नष्टं च मृष्टवत् || ५६ || मलादि गोमयाद्यपि | क्लिन्नं सार्द्रीभूतम् | नष्टं गतरसमपि | मृष्टं परिष्कृतमन्नं तद्वत् || ५६ || बिम्बप्रतिविषाकल्कक्षीरेक्षुसलिलान्धसाम् | असक्तबुद्धिस्तत्त्वज्ञो भवत्यास्वादने समः || ५७ || सद्योबुद्धिहरत्वेन प्रसिद्धस्य बिम्बफलस्य प्रतिविषाणां विषप्रायाणामाकल्कानां सर्वतः कषायाणां क्षीरस्येक्षोः सलिलस्य अन्धस ओदनस्य च आस्वादने विषयसमस्तुल्यचित्तो भवतीत्यर्थः || ५७ || मैरेयमदिराक्षीररक्तमेदोरसासवैः | रूक्षास्थितृणकेशान्तैर्न हृष्यति न कुप्यति || ५८ || रक्षःपिशाचादिष्वपि जीवन्मुक्तानां संभवात्तत्साधारण्येनाह - मैरेयेति || ५८ || जीवितस्यापि हर्तारं दातारं चैकरूपया | दृशा प्रसादमाधुर्यशालिन्या परिपश्यति || ५९ || तस्य शत्रुमित्रयोरपि समदृष्टिमाह - जीवितस्येति | जीवितस्य दातारमित्यपि संबन्धः || ५९ || स्थिरास्थिरशरीरेषु रम्यारम्येषु वस्तुषु | न हृष्यति ग्लायति वा सदा समतयेद्धया || ६० || स्थिरेषु चिरस्थायिषु देवादिशरीरेष्वस्थिरेषु मर्त्यादिशरीरेषु च | रम्यारम्येषु तद्भोग्यवस्तुषु च | समतया इद्धया दीप्तया || ६० || मुक्तास्थत्वादनास्थेयरूपत्वाज्जगतः स्थितौ | नूनं विदितवेद्यत्वान्नीरागत्वात्स्वचेतसः || ६१ || चेतसो नीरागत्वाद्विदितवेद्यत्वाच्च हेतोर्जगत् स्थितौ मुक्तास्थत्वाद्विषयाणां च मिथ्यात्वेन आस्थायामयोग्यरूपत्वाच्च अक्षस्य विषयस्थितौ प्रसरं सदा विचाररससेवनात्कदाचिदपि न ददाति | कस्यचिदपि न ददातीति द्वयोरन्वयः || ६१ || न कस्यचिन्नो कदाचिदक्षस्य विषयस्थितौ | ददाति प्रसरं साधुराधिप्रोज्झितया धिया || ६२ || अतत्त्वज्ञमविश्रान्तमलब्धात्मानमस्थितम् [अस्थितिं इति पाठः] | निगिरन्तीन्द्रियाण्याशु हरिणा इव पल्लवम् || ६३ || किं तर्हि इन्द्रियाणि निगिरन्ति तमाह - अतत्त्वज्ञमिति द्वाभ्याम् || ६३ ||
575 SK उह्यमानं भवाम्भोधौ वासनावीचिवेल्लितम् | निगिरन्तीन्द्रियग्राहा महाक्रन्दपरायणम् || ६४ || विचारिणं भव्यपदं विश्रान्तिधियमात्मनि | न हरन्ति विकल्पौघा जलौघा इव पर्वतम् || ६५ || लोभादिविकल्पा अप्यात्मज्ञं न चालयन्तीत्याह - विचारिणमित्यादिना || ६५ || सर्वसंकल्पसीमान्ते विश्रान्ता ये परे पदे | तेषां लब्धस्वरूपाणां मेरुरेव तृणायते || ६६ || जगज्जरत्तृणलवो विषं चामृतमेव च | क्षणः कल्पसहस्रं च सममाततचेतसाम् || ६७ || आततचेतसां पूर्णात्माकारविस्तृतचित्तानाम् || ६७ || संविन्मात्रं जगदिति मत्वा मुदितबुद्धयः | संविन्मयत्वादन्तस्थजगत्का विहरन्त्यमी || ६८ || सर्वस्य जगत आन्तरप्रत्यङ्मात्रत्वदर्शनादन्तस्थजगत्काः || ६८ || संविन्मात्रपरिस्पन्दे जागते वस्तुपञ्जरे | किं हेयं किमुपादेयमिह तत्त्वविदां मतम् || ६९ || संविदेवेदमखिलं भ्रान्तिमन्यां त्यजानघ | संविन्मयवपुः स्फारं किं जहाति किमीहते || ७० || ईहते इच्छति | उपादत्ते इति यावत् || ७० || यदेतज्जायते [जीयते इति पाठश्चिन्त्यः] भूमेर्भविष्यत्पल्लवाङ्कुरम् | तत्संविदेव प्रथते तथा तत्त्वाङ्कुरस्थितम् || ७१ || अतीते स्पृहाया अदर्शनादज्ञहरिणस्पृहणीयं वर्तमानं भूमेः सकाशाद्यत्पल्लवाङ्कुरप्रायं विषयजातं जायते यच्च भविष्यत्तत्सर्व तत्त्वज्ञ दृशा यथा संविदेव प्रथते तथा वियदादितत्त्वाङ्कुरमिव स्थितं शब्दस्पर्शादिविषयान्तरमपीत्यर्थः || ७१ || आदावन्ते च यन्नास्ति वर्तमानेऽपि तस्य च | कंचित्काललवं दृष्टा सत्तासौ संविदो भ्रमः || ७२ || उक्तार्थसिद्धौ युक्तिमाह - आदाविति | चकारस्त्वर्थे | तस्य वर्तमाने मध्ये कंचित्काललवं दृष्टा संविदो भ्रम एवेत्यर्थः || ७२ || इति मत्वा धियं त्यक्त्वा भावाभावानुपातिनीम् | निःसङ्गसंविद्भारूपो भव भावान्तमागतः || ७३ || इति उक्तमर्थ मत्वा मननेन दृढीकृत्य भावाभावविकल्पानुपातिनीं धियं त्यक्त्वा || ७३ ||
576 SK कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि | कर्म कुर्वन्नकुर्वन्वा निःसङ्गः सन्न लिप्यते || ७४ || केवलैरासङ्गदोषशून्यैः | कुर्वन्व्युत्थानकाले | अकुर्वन्समाधिकाले || ७४ || गतसङ्गेन मनसा कुर्वन्नपि न लिप्यते | सुखदुःखैर्महाबाहो मनोरथदशास्विव || ७५ || मनोरथदशासु मनोराज्यविभवेषु नष्टेष्वनष्टेषु वा यथा सुखदुःखैर्न लिप्यते तद्वत् || ७५ || गतसङ्गां मतिं कुर्वन्कुर्वन्नप्यङ्गयष्टिभिः | न लिप्यते सुखैर्दुःखैर्मनोरथदशास्विव || ७६ || अकर्त्रभोक्रात्मदर्शनेन मतिं गतसङ्गां कुर्वन् | अङ्गयष्टिभिः शरीराद्युपकरणैः कुर्वन्व्यवहरन्नपि || ७६ || गतसङ्गमना दृष्ट्या पश्यन्नपि न पश्यति | एतदन्यस्थचित्तत्वाद्वालेनाप्यनुभूयते || ७७ || अन्यस्थचित्तत्वादिति अन्यव्यासक्तचित्तत्वात्पश्यन्नपि न पश्यतीत्येतद्बालेन अपिशब्दादन्यैश्च सर्वैरनुभूयत इत्यर्थः | अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषम् इति श्रुतिरप्यत्र संवादिनीति भावः || ७७ || गतसङ्गमना जन्तुः पश्यन्नेव न पश्यति | न शृणोत्यपि शृण्वंश्च न स्पृशत्यपि च स्पृशन् || ७८ || न जिघ्रत्यपि संजिघ्रन्नुन्मिषन्निमिषन्नपि | पदार्थे च पतत्येव बलात्पतति नाप्ययम् || ७९ || उन्मिषन्नेत्रे उन्मीलयन्नपि निमिषन्ननुन्मीलयन्नेव | एवं कर्मेन्द्रियगणे च पदार्थे स्वस्वविषये संस्कारबलात्पतत्यपि सति अयं न पतति || ७९ || देशान्तरस्थचेतोभिरेतदात्मगृहस्थितैः | अप्रौढमतिभिः साधु मूर्खैरप्यनुभूयते || ८० || एतत्पश्यतोऽप्यदर्शनादिदेशान्तरस्थचेतोभिरन्यत्र गतमानसैरात्मनः स्वस्य गृहे स्थितैर्मूर्खैः पामरैरप्रौढमतिभिर्बालपश्वादिभिश्च साधु सम्यगनुभूयत इति नात्र विवाद इत्यर्थः || ८० || सङ्गः कारणमर्थानां सङ्गः संसारकारणम् | सङ्गः कारणमाशानां सङ्गः कारणमापदाम् || ८१ || तथाच संसक्तिपूर्वकं पदार्थदर्शनमेव बन्धहेतुर्नासंसक्तचित्तस्येत्याशयेनाह - सङ्ग इति || ८१ ||
577 SK सङ्गत्यागं विदुर्मोक्षं सङ्गत्यागादजन्मता | सङ्गं त्यज त्वं भावानां जीवन्मुक्तो भवानघ || ८२ || मोक्षं वर्तमानदेहादिसंबन्धनिवृत्तिम् | अजन्मता भाविदेहादिबन्धनिवारणमिति भेदः || ८२ || श्रीराम उवाच | सर्वसंशयनीहारशरन्मारुत हे मुने | सङ्गः कुमुच्यते ब्रूहि समासेन मम प्रभो || ८३ || किमिति सामान्ये नपुंसकम् | प्रश्नः स्पष्टः || ८३ || श्रीवसिष्ठ उवाच | भावाभावे पदार्थानां हर्षामर्षविकारदा | मलिना वासना यैषा सा सङ्ग इति कथ्यते || ८४ || इष्टानिष्टपदार्थानां भावाभावे संयोगे वियोगे च हर्षामर्षविकारदा रागादिवासनैव सङ्ग इति कथ्यते इत्यर्थः || ८४ || जीवन्मुक्तशरीरणामपुनर्जन्मकारिणी | मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना || ८५ || तामसङ्गाभिधां विद्धि यावद्देहं च भाविनी | त * * *? त्क्रियते कर्म न तद्बन्धाय वै पुनः || ८६ || यावद्देहं प्रारभशेषक्षयपर्यन्तम् || ८६ || अजीवन्मुक्तरूपाणां दीनानां मूढचेतसाम् | युक्ता [युक्तामर्थविषादाभ्यां इति पाठः] हर्षविषादाभ्यां बन्धनी वासना भवेत् || ८७ || सैवोक्ता सङ्गशब्देन पुनर्जननकारिणी | तया यत्क्रियते कर्म तद्बन्धायैव केवलम् || ८८ || एवं रूपं परित्यज्य सङ्गं स्वात्मविकारदम् | यदि तिष्ठसि निर्व्यग्रः कुर्वन्नपि न लिप्यसे || ८९ || निर्व्यग्रः स्वस्थः || ८९ || हर्षामर्षविषादाभ्यां यदि गच्छसि नान्यताम् | वीतरागभयक्रोधस्तदसङ्गोऽसि राघव || ९० || समाहारद्वन्द्वगर्भेतरेतरयोगद्वन्द्वविवक्षणाद्धर्षामर्षविषादाभ्याम् इति द्विवचनम् | अन्यतां वैरूप्यम् || ९० || दुःखैर्न ग्लानिमायासि यदि हृष्यसि नो सुखैः | आशावैवश्यमुत्सृज्य तदसङ्गोऽसि राघव || ९१ || आशया वैवश्यं पारवश्यम् || ९१ || विहरन्व्यवहारेषु सुखदुःखदशासु च | न विमुञ्चसि सत्साम्यं तदसङ्गोऽसि राघव || ९२ || सत्साम्यं ब्रह्मैकरस्यं न विमुञ्चसि यदीत्यनुषङ्गः || ९२ ||
578 SK संवेद्यो यदि चैवात्मा वेदिते लक्ष्यते समः | यथाप्राप्तानुवर्ती च तदसङ्गोऽसि राघव || ९३ || आत्मा चित्तस्वभावः || ९३ || असङ्गतामनायासाज्जीवन्मुक्तस्थितिं स्थिराम् | अवलम्ब्य समः स्वस्थो वीतरागो भवानघ || ९४ || जीवन्मुक्तमतिर्मौनी निगृहीतेन्द्रियग्रहः | अमानमदमात्सर्यमार्यस्तिष्ठति विज्वरम् || ९५ || निगृहीताः इन्द्रियलक्षणा गृह्णन्ती * *? हाः पाशा येन || ९५ || सदा समग्रेऽपि हि वस्तुजाले समाशयोऽप्यन्तरदीनसत्त्वः | व्यापारमात्रात्सहजात्क्रमस्थान्न किंचिदप्यन्यदसौ करोति || ९६ || भोगविक्षेपादिहेतौ वस्तुजाले सदा समग्रे प्रचुरतरे सत्यपि समाशयः | अन्तर्बहिरप्यदीनं स्पृहा याञ्चादिदैन्यवर्जितं सत्त्वं यस्य स्ववर्णाश्रमोचितसहजक्रमस्थाद्व्यापारमात्रादन्यत्किंचिदप्यसौ न करोति || ९६ || यदेव किंचित्प्रकृतं क्रमस्थं कर्तव्यमात्मीयमसौ तदेव | संसर्गसंबन्धविहीनयैव कुर्वन्न खेदं रमते धियान्तः || ९७ || संसर्गः क्रियाभिनिवेशः संबन्धः फलाभिलाषस्तद्विहीनयैव धिया अन्तः स्वात्मनि रमते || ९७ || अथापदं प्राप्य सुसंपदं वा महामतिः स्वप्रकृतं स्वभावम् | जहाति नो मन्दरवेल्लितोऽपि शौक्ल्यं यथा क्षीरमयाम्बुराशिः || ९८ || स्वं स्वीयं प्रकृतं पूर्वसिद्धं शान्तिदान्तिप्रसादसमदर्शनादिस्वभावं नो जहाति | यथा मन्दरेण वेल्लितो मथितोऽपि क्षीरमयाम्बुराशिः सहजं शौक्ल्यं न जहाति तद्वत् || ९८ || संप्राप्य साम्राज्यमथापदं वा सरीसृपत्वं सुरनाथतां वा | तिष्ठत्यखेदोदयमस्तहर्षं क्षयोदयेष्विन्दुरिवैकरूपः || ९९ || आपदं दारिद्र्यादि | सरीसृपत्वं डुण्डुभादियोनिम् | अखेदोदयं अस्तहर्षं चेति स्थितिक्रियाविशेषणे | क्षयोदयेषु कलानामुपचयापचयकालेषु उदयास्तमयकालेषु वा || ९९ || निरस्तसंरम्भमपास्तभेदं प्रशान्तनानाफलवल्गुवेषम् | विचारयात्मानमदीनसत्त्वो यथा भवस्युत्तमकार्यनिष्ठः || १०० ||
579 SK दर्शितलक्षणजीवन्मुक्तिसुखप्राप्तौ रागद्वेषभेदवासनाक्षयाभ्याससहित आत्मविचार एवोपाय इति तमेव रामायोपदिशन्नुपसंहरति - निरस्तेति | संरम्भः क्रोधः | त्रीण्यपि क्रियाविशेषणानि | यथा येन विचारेण उत्तमकार्यमवश्यसंपाद्यं चरमपुरुषार्थस्तन्निष्ठो भवसि तथा विचारयेत्यर्थः || १०० || तयोदितप्रसरविलासशुद्धया गतज्वरं पदमवलम्बयामलम् | धियेद्धया पुनरिह जन्मबन्धनै- र्न बध्यसे समधिगतात्मदृश्यया || १०१ || तया विचारणया उदितप्रसरस्य समाधेर्विलासेन सर्ववासनाक्षयाच्छुद्धया समधिगतमात्मरूपं दृश्यमवश्यद्रष्टव्यं वस्तु यया तथाविधया अत-एव अविद्यातत्कार्यदाहक्षमतया इद्धया दीप्तया धिया गतज्वरं निर्दुःखनिरतिशयानन्दरूपं परमपदमवलम्बय अध्यास्व | तदवलम्बने पुरावृत्तिशङ्कावारणायाह - पुनरिहेति | तस्मात्तत्त्वसाक्षात्कारेणैवाविद्यातत्कार्यसर्वानर्थोपशमनान्नित्यनिरतिशया नन्दस्वरूपे प्रतिष्ठेति सिद्धम् || १०१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते द्वात्रिंशत्साहस्र्यां संहितायां मोक्षोपायेषु उपशमप्रकरणे समदर्शनं नाम त्रिनवतितमः सर्गः || ९३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे समदर्शनं नाम त्रिनवतितमः सर्गः || ९३ || इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीमत्सर्वज्ञसरस्वती- śrīmadānandabodhendrasarasvatyākhyabhikṣuṇā viracite śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśe upaśamaprakaraṇaṃ saṃpūrṇam || || samāptamidaṃ upaśamaprakaraṇam ||
Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. yogavāsiṣṭha part 5 with commentary tātparyaprakāśa [M00339].
Source