Commentary on the Five Topics

Pañcārthabhāṣya · पञ्चार्थभाष्यम्

Commentary on the Five Topics

Pañcārthabhāṣya

पञ्चार्थभाष्यम्

SK
Pआशुपतसूत्र, १
SK
अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः || PS_१.१ ||
SK
* हितार्थम् अखिलं येन सृष्टं ब्रह्मादिकं जगत् / प्रणम्य तं पशुपतिं शिरसा सदसस्पतिम् / अर्थातिशयसम्पन्नं ज्ञानातिशयम् उत्तमम् / पञ्चार्थं क्रियते भाष्यं कौण्डिन्येनानुपूर्वशः // PSBह्_१.१:१ * आह वक्ष्यति भगवान् पञ्चार्थम् // PSBह्_१.१:२ * अथास्यादिसूत्रं किम् इति // PSBह्_१.१:३ * अत्रोच्यते अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः इति // PSBह्_१.१:४ * एतत् प्रथमसूत्रं शास्त्रादाव् उच्चार्यते // PSBह्_१.१:५ * तदनन्तरं पदविग्रहः क्रियते // PSBह्_१.१:६ * तदुपयोगिनं योगविधिं व्याख्यास्याम इति // PSBह्_१.१:७ * अष्टपदं सूत्रम् // PSBह्_१.१:८ * तत्र अथ अतः इति द्वे पदे नैपातिके // PSBह्_१.१:९ * पशुपतेर् इत्य् एतत् पदं परिग्रहार्थेनोच्चार्यते // PSBह्_१.१:१० * पाशुपतम् इति तद्धितम् // PSBह्_१.१:११ * योगविधिम् इति सामासिकम् // PSBह्_१.१:१२ * वि आङ् इति द्वे पदे / ख्यास्याम इत्य् आख्यातिकम् // PSBह्_१.१:१३ * आह किं प्रयोजनं पदविग्रहः क्रियते // PSBह्_१.१:१४ * तद् उच्यते अर्थप्रसिद्ध्यर्थम् // PSBह्_१.१:१५ * कस्माद् अर्थाप्रसिद्धिः पदानाम् // PSBह्_१.१:१६ * यस्मात् पृथगर्थानीह पदानि भवन्ति // PSBह्_१.१:१७ * यस्माद् एवं ह्य् आह // PSBह्_१.१:१८ * यथा विवृतगात्रोऽ पि शिरसि प्रावृतो नरः / नाभिव्यक्तिं व्रजत्य् एवं सूत्रं विग्रहवर्जितम् // PSBह्_१.१:१९ * एवम् अर्थप्रसिद्ध्यर्थं पदविग्रहः क्रियते // PSBह्_१.१:२० * आह उक्तः पदविग्रहः प्रयोजनं च // PSBह्_१.१:२१ * इदं तु वाच्यम् अथ शास्त्रादिः कः इति // PSBह्_१.१:२२ * अत्रोच्यते अथातः पशुपतेर् इत्य् एष तावच् छास्त्रादिः // PSBह्_१.१:२३ * तत्र शास्त्रं तन्त्रं ग्रन्थो विद्या च // PSBह्_१.१:२४ * ग्रन्थार्थयोस् तदधिगमोपायत्वात् // PSBह्_१.१:२५ * पारिमाण्यम् अथशब्दादिशिवान्तं प्रवचनम् // PSBह्_१.१:२६ * संख्या पञ्चाध्यायाः पञ्च ब्रह्माणि अधिकरणं च // PSBह्_१.१:२७ * अथशब्दातःशब्दव्याख्यानवचनस्नानशयनाद्युपदेशाच् च शिष्याचार्ययोः प्रसिद्धिः // PSBह्_१.१:२८ * कैवल्यगतानाम् अपि दुःखित्वदर्शनात् कार्यकारणप्रत्यक्षदर्शी विप्रत्वाद् उपायोपेयप्रत्यक्षदर्शित्वाच् च प्रश्नप्रतिवक्ता ऐश्वर्यावस्थश् चैव मुक्तत्वान् मनोऽमनःसंस्थश् च कामित्वाद् अतः सर्वाचार्यविशिष्टो ऽयम् आचार्य इति // PSBह्_१.१:२९ * तथा ब्राह्मणग्रहणात् स्त्रीप्रतिषेधाद् इन्द्रियजयोपदेशाच् च उक्तं हि / बाधिर्यम् आन्ध्यम् अघ्रत्वं मूकता जडता तथा / उन्मादः कौण्यं कुष्ठित्वं क्लैब्यं गुदावर्तपङ्गुता // PSBह्_१.१:३० * आदिरहितः पट्विन्द्रियो ब्राह्मणः शिष्यः // PSBह्_१.१:३१ * स चान्यविशिष्टो ऽयं शिष्य इति // PSBह्_१.१:३२ * तथा देवादिभ्यश् च क्रीडाधर्मित्वात् क्रीडानिमित्ता ईश्वरप्रवृत्तिः // PSBह्_१.१:३३ * अनुग्रहार्था चाचार्यस्य प्रवचनवक्तृत्वे प्रवृत्तिः // PSBह्_१.१:३४ * तथा भजनचोदनप्रसादशिवत्वलिप्सोपदेशाद् दुःखान्तार्थिनः शिष्यस्येहोपसदनप्रवृत्तिः // PSBह्_१.१:३५ * न तु धर्मार्थकामकैवल्यार्थात्रेति // PSBह्_१.१:३६ * तथा कामित्वाद् इन्द्रकौशिकादिभ्यश् चाचार्यो दिव्यो निरतिशयक्रीडैश्वर्यस्वाभाव्याद् इत्य् अर्थः // PSBह्_१.१:३७ * चोदनोपसदनसंस्कारवश्यादिदुःखैर् अभिभूतत्वाच् चादिव्या इन्द्रकौशिकाद्याः शिष्या इति // PSBह्_१.१:३८ * तथा शिष्टप्रामाण्यात् कामित्वाद् अजातत्वाच् च मनुष्यरूपी भगवान् ब्राह्मणकायम् आस्थाय कायावतरणे अवतीर्ण इति // PSBह्_१.१:३९ * तथा पद्भ्याम् उज्जयिनीं प्राप्तः / कस्मात् / शिष्टप्रामाणत् चिह्नदर्शनश्रवणाच् च / अत्याश्रमप्रसिद्धं लिङ्गमास्थाय प्रवचनम् उक्तवान् भस्मस्नानशयनानुस्नाननिर्माल्यैकवासोग्रहणाद् अधिकरणप्रसिद्ध्यर्थं च स्वशास्त्रोक्ते आयतने शिष्यसम्बन्धार्थं शुचौ देशे भस्मवेद्यामुषितः / अतो रुद्रप्रचोदितः कुशिकभगवान् अभ्यागत्याचार्ये परिपूर्णपरितृप्त्याद्युत्कर्षलक्षणानि विपरीतानि चात्मनि दृष्ट्वा पादाव् उपसंगृह्य न्यायेन जातिं गोत्रं श्रुतम् अनृणत्वं च निवेदयित्वा कृतक्षणम् आचार्यं काले वैद्यवद् अवस्थितम् आतुरवद् अवस्थितः शिष्यः पृष्टवान् भगवन् किम् एतेषाम् आध्यात्मिकाधिभौतिकाधिदैविकानां सर्वदुःखानाम् ऐकान्तिको ऽत्यन्तिको व्यपोहो ऽस्त्य् उत नेति / अथोक्तपरिग्रहाधिकारलिप्सासु परापदेशेनोपदेशे सच्छिष्यसाधकपाठप्रसिद्ध्यर्थं कारणपदार्थाधिगमार्थं चात्मनि परापदेशं कृत्वा भगवान् एवोक्तवान् अथेति / अत्र पूर्वप्रकृतापेक्षायाम् अथशब्दः / कथम् / शिष्येणोदीरितं पूर्वं प्रश्नम् अपेक्ष्योक्तवान् अथेति / एवम् अयम् अथशब्दः पृष्टप्रतिवचनार्थो ऽस्ति / स दुःखान्त इत्य् अर्थः / आह किं परीक्षिताय शिष्याय दुःखान्तः प्रतिज्ञातः उतापरीक्षितायेति / उच्यते परीक्षिताय / यस्माद् आह इति / अत्र अतःशब्दः शिष्यगुणवचने / यस्माद् अयं ब्रह्मावर्तदेशजः कुलजः पट्विन्द्रियो विविदिषादिसम्पन्नः शिष्यः / पूर्वं चात्रार्थतो ऽतः शब्दो द्रष्टव्यः / अथ स दुःखान्तः कुतः प्राप्यते केन वाभ्युपायेनेति / तद् उच्यते पशुपतेः / प्रसादाद् इति वाक्यशेषः / अत्र पशूनां पतिः // PSBह्_१.१:४० * पशुपतिः / अत्र पशवो नाम सिद्धेश्वरवर्जं सर्वे चेतनावन्तः / कार्यकरणाञ्जना निरञ्जनाश् च पशवः / आह किं तेषां पशुत्वम् / उच्यते अनैश्वर्यं बन्धः / कारणशक्तिसन्निरोधलक्षणम् अस्वातन्त्र्यम् अनैश्वर्यं बन्धो ऽनाडिः / बन्धगुण इत्य् उपचर्यते / तत् कथंलक्षणम् इति चेत् / तद् उच्यते पश्यनात् पाशनाच् च पशवः / तत्र पाशा नाम कार्यकरणाख्याः कलाः / ताश् च कला उपरिष्टाद् वक्ष्यामः / ताभिः पाशिताः बद्धाः संनिरुद्धाः शब्दादिविषयपरवशाश् च भूत्वावतिष्ठन्ते इत्य् अतो ऽवगम्यते ऽस्वातन्त्र्यम् अनैश्वर्यं बन्धः / कार्यकरणरहितस्य पशुत्वं निवर्तत इति चेत् / तद् उच्यते संहृतानाम् अपि पुनः पुनः संबन्धग्रहणाच् छास्त्रे / किं चान्यत् / पश्यनाच् च पशवः / यस्माद् विभुत्वे ऽपि चित्समवेतत्वे ऽपि च शरीरमात्रम् एव पश्यन्त्य् उपलभन्ति च न बहिर्द्धानि / कार्यकरणरहिताश् च न कार्यकरणं प्रतिपद्यते त्यजन्ति वा / धर्माधर्मप्रकाशदेशकालचोदनाद्यपेक्षितत्वाच् च / अतः सुष्ठूक्तं पश्यनात् पाशनाच् च पशवः / यस्माद् उक्तं सांख्ययोगेन ये मुक्ताः सांख्ययोगेश्वराश् च ये / ब्रह्मादयस् तिर्यगन्ताः सर्वे ते पशवः स्मृताः // PSBह्_१.१:४१ * पतिः कस्मात् / आप्ति पाति च तान् पशून् इत्य् अतः पतिर् भवति / तान् केनाप्नोति केन रक्षति / ततो विभुशक्त्या / यस्मात् तत्रापि शक्तिम् अस्यानन्तां नातिवर्तन्ते / विप्रत्वाच् चास्यानन्ता ज्ञानशक्तिः अपरिमिता / तया अपरिमितया अपरिमितान् एव प्रत्यक्षान् पशून् आप्नोतीति पतिः / तथा पालयतीति प्रभुशक्तिः / कस्मात् / तच्छन्दात् तेषां प्रवृत्तिनिवृत्तिः स्थितिर् इष्टानिष्टस्थानशरीरेन्द्रियविषयादिप्राप्तिर् भवति / तत्परिदृष्टानां तत्प्रचोदितानां चेत्य् अर्थः / एवं // PSBह्_१.१:४२ * पशुपतेर् इति कार्यकारणयोः प्रसादस्य चोद्देशः / तस्मात् प्रसादात् स दुःखान्तः प्राप्यते / न तु ज्ञानवैराग्यधर्मैश्वार्यत्यागमात्राद् इत्य् अर्थः / आह कुत्रस्थस्य कदा कीदृशस्य वा स भगवान् प्रसीदतीति / उच्यते यदानेन तु तत् प्राप्तं भवति / आह किं तद् इति / उच्यते पाशुपतम् अत्र पशुपतिनोक्तं परिगृहीतं पशुपतिम् अधिकृत्य चारभ्यत इति पाशुपतम् / यथा वैष्णवं मानसम् इति / किं तद् इति / उच्यते योगम् / अत्रात्मेश्वरसंयोगो योगः / स पुनः पुरुषस्याध्ययनादिनैमित्तिकत्वाद् अन्यतरकर्मजः स्थाणुश्येनवत् / चोदनाध्ययनादिवचनाद् मेषवद् उभयकर्मजः / यस्मात् सति विभुत्वे अनधिकारकृतत्वाद् वियोगस्य / वियुक्तस्यैव च संयोग उपदिश्यते / विषयरक्तविरक्तवत् क्रियायोगे / इह तु समाधिलक्षणे योगे संनियम इति / आह किं परिज्ञानमात्राद् एव तद्योगः प्राप्यते / उच्यते / यस्माद् आह तत्प्राप्तौ विधिं व्याख्यास्यामः / अत्र योगस्य विधिः योगविधिर् इति षष्ठीतत्पुरुषसमासः / अत्र सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणक्रियासु विधिसंज्ञा यज्ञविधिवत् / न तु सेनावनादिवत् / कस्मात् / क्रियाणां क्षणिकानां समुदायासम्भवात् / यद्य् एवं विधिः कस्मात् / विधायकत्वाद् विधिः / उपायोपेयभावाच् च / विधिम् इति कर्म / एव सदुःखान्तः कार्यं कारणं योगो विधिर् इति पञ्चैव पदार्थाः समासत उद्दिष्टाः / ते व्याख्येयाः / व्याख्यानम् एतेषां विस्तरविभागविशेषोपसंहारनिगमनानि / तस्माद् अन्यद् व्याख्येयम् अन्यद् व्याख्यानम् / यस्माद् आह व्याख्यास्यामः / अत्र विः विस्तरे विभागे विशेषे च भवति / तत्र विस्तर इति प्रत्यक्षानु // PSBह्_१.१:४३ * मानाप्तवचनम् इति प्रमाणान्य् अभिधीयन्ते / तत्र प्रत्यक्षं द्विविधम् इन्द्रियप्रत्यक्षम् आत्मप्रत्यक्षं च / इन्द्रियप्रत्यक्षम् इन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धघटाहाः व्याख्यानतापमूत्रपुरीषमांसलवणप्राणायामैः सिद्धम् / आत्मप्रत्यक्षं तदुपहारकृत्स्नतपोदुःखान्तादि वचनात् सिद्धम् / यथा प्रस्थेन मितो व्रीहिः प्रस्थः / परमार्थतस् त्व् इन्द्रियार्थसम्बन्धव्यञ्जकसामग्र्यं धर्माधर्मप्रकाशदेशकालचोदनाद्यनुगृहीतं सत् प्रमाणम् उत्पद्यते / आत्मप्रत्यक्षं तु चित्तान्तःकरणसम्बन्धसामग्र्यम् / अनुमानम् अपि प्रत्यक्षपूर्वकं चित्तात्मान्तःकरणसम्बन्धसामग्र्यं च धर्माधर्मप्रकाशदेशकालचोदनादिस्मृतिहेतुकम् उत्पत्त्यनुग्रहतिरोभावकालादि / तैश् चोत्तरसृष्टिकर्तृत्वम् अनुमीयते कारणस्य / अतो नोत्सूत्रम् / तच् च द्विविधं दृष्टं सामान्यतोदृष्टं च / तत्र दृष्टम् अपि द्विविधं पूर्ववच्छेषवच् च / तत्र पूर्वदृष्टो ऽयं षडङ्गुलीयकः स एवेति पूर्ववत् / विषाणादिमात्रदर्शनाद् गौर् इति शेषवत् / सामान्यतोदृष्टम् अपीह गतिपूर्विकां देशान्तरप्राप्तिं दृष्ट्वा चास्यादित्यादिगतिप्रसिद्धिः / त्रैकाल्ये ऽप्य् अर्थाधिगमे निमित्तं प्रमाणम् / आगमो नाम आ महेश्वराद् गुरुपारम्पर्यागतं शास्त्रम् / आगमो ऽलौकिकादिव्यवहारहेतुर् आचक्षितः स्मृतः / रुद्रः प्रोवाच वचनात् सिद्धिः / एष्व् एवोपमानार्थापत्तिसम्भवाभावैतिह्यप्रतिभादीनां व्याख्यायमानानाम् अन्तर्भावः / एवम् एतानि त्रीणि प्रमाणानि / प्रमापयिता भगवांश् चोदकः / प्रमाता पुरुषः / प्रमेयाः कार्यकारणादयः पञ्च पदार्थाः / प्रमितिः संवित् / संवित् संचिन्तनं सम्बोधो विद्याभिव्यक्तिर् इत्य् अर्थः / उद्देशनिर्देशाधिगमाच् च विर् विस्तरे भवति / विभागो नाम पदपदार्थसूत्रप्रकरणाध्यायाद्यसंकरः / विशेषो // PSBह्_१.१:४४ * नाम साध्यसाधनव्यतिरेकः / आङ् इति व्याख्यामर्यादायां भवति / पदात् पदं सूत्रात् सूत्रं प्रकरणात् प्रकरणम् अध्यायाद् अध्यायम् आ बोधाद् आ परिसमाप्तेर् इति मर्यादावस्थस्यैव च वक्ष्यामः / ख्या प्रकथने / प्रतीताप्रतीताभिः संज्ञाभिः वेदादिविहिताभिव्यतिरेकेण च व्याख्यास्यामः / स्या इत्य् एष्ये काले / यावद् अयम् आचार्यो गृहस्थादिभ्यो ऽभ्यागतं पूर्वम् अतःशब्दात् परीक्षितं ब्राह्मणं व्रतोपवासाद्यं महादेवस्य दक्षिणस्यां मूर्तै सद्योजातादिसंस्कृतेन भस्मना संस्करोति उत्पत्तिलिङ्गव्यावृत्तिं कृत्वा मन्त्रश्रावणं च करोति तावद् एष्यः कालः क्रियते / म इति प्रतिज्ञायां भवति / उत्थानादिगणे सम्यग्व्वावस्थितस्य व्याख्येयव्याख्यानयोर् भगवान् एव क्रमशो वक्ता / स्थूलोपायपूर्वकत्वात् सूक्ष्मविधेयाधिगमस्य पूर्वाश्रमनियमप्रतिषेधार्थम् अत्याश्रमयमनियमप्रसिद्ध्यर्थं च विधिः प्रथमं व्याख्यायते / इत्य् अत्रायं पदार्थोपन्यासः परिसमाप्त इति // PSBह्_१.१:४५ * अत्राह प्रतिपन्नांशो यथाविधि प्रथमं व्याख्यायते / इदम् इदानीं चिन्त्यम् / अथास्य कश् चादिः किं मध्यं को ऽन्तः कत्यङ्गो वा विधिर् इति / तद् उच्यते भस्मनाद्यो निन्दामध्यो मूढान्तश् च विधिः / स च त्र्यङ्गो दानयजनतपोङ्ग इति / तत् कथम् अवगम्यते यस्माद् इदम् आरभ्यते // PSBह्_१.१:४६
SK
भस्मना त्रिषवणं स्नायीत || PS_१.२ ||
SK
* अत्र भस्म वामद्रव्यं यद् अग्नीन्धनसंयोगान् निष्पन्नम् // PSBह्_१.२:१
SK
* तत् परकृतं पार्थिवं भुक्तं दीप्तिमत् // PSBह्_१.२:२
SK
* ग्रामादिभ्यो भैक्ष्यवद् भस्मार्जनं कर्तव्यम् // PSBह्_१.२:३
SK
* स्नानशयनानुस्नानकृत्यबन्धुत्वान् निष्परिग्रहत्वाद् अहिंसकत्वाद् उत्कृष्टम् एव शुचि प्रभूतं ग्राह्यं साधनत्वात् // PSBह्_१.२:४
SK
* अलाभे स्वल्पम् अपि ग्राह्यम् // PSBह्_१.२:५
SK
* आधारो ऽप्य् अलाबुचर्मवस्त्रादिर् अत्र प्रसिद्धः // PSBह्_१.२:६
SK
* आह किं तेन भस्मना कर्तव्यम् // PSBह्_१.२:७
SK
* तद् उच्यते भस्मनेति तृतीया करणार्थे कर्तुः क्रियाम् आदिशति यथा वाश्या तक्षणं बुद्ध्या पिधानम् // PSBह्_१.२:८
SK
* आह अथ कस्मिन् काले सा क्रिया कर्तव्येति // PSBह्_१.२:९
SK
* त्रिषवणम् इति // PSBह्_१.२:१०
SK
* द्विगुः समासः // PSBह्_१.२:११
SK
* त्रीणीति संख्या // PSBह्_१.२:१२
SK
* सवनम् इति कालनिर्देशः // PSBह्_१.२:१३
SK
* पूर्वसंध्या मध्याह्नसंध्या अपरसंध्येति संध्यात्रयम् // PSBह्_१.२:१४
SK
* त्रिषवणं त्रिसंध्यं त्रिकालम् इत्य् अर्थः // PSBह्_१.२:१५
SK
* आह त्रिषवणं किम् अनेन कर्तव्यम् // PSBह्_१.२:१६
SK
* तद् उच्यते स्नायीत // PSBह्_१.२:१७
SK
* अत्र स्नानं शौचकार्येण शरीरेष्व् आगन्तुकानां स्नेहत्वग्लेपमलगन्धादीनां भस्मनापकर्षणं कर्तव्यम् // PSBह्_१.२:१८
SK
* स्नानं तु भस्मद्रव्यगात्रसंयोजनम् // PSBह्_१.२:१९
SK
* परमार्थतस् तु स्नानादि पुण्यफलसंयोगधर्मात्मवचनाद् आत्मशौचम् एवैतत् // PSBह्_१.२:२०
SK
* केवलं स्नानाद्यकलुषापहतपाप्मादिवचनात् कार्यकरणव्यपदेशेनात्मशौचं व्याख्यायते // PSBह्_१.२:२१
SK
* इत इत्य् एतद् आज्ञायां नियोगे च // PSBह्_१.२:२२
SK
* नियोगत्वान् निगतं नियतत्वान् निगम इत्य् अर्थः // PSBह्_१.२:२३
SK
* कस्मात् // PSBह्_१.२:२४
SK
* प्रतितन्त्रसिद्धत्वाद् अहिंसकत्वान् निःश्रेयसहेतुत्वाच् च // PSBह्_१.२:२५
SK
* भस्मना स्नेयं न चाद्भिर् विपरीतत्वाद् इत्य् अर्थः // PSBह्_१.२:२६
SK
* किं स्नानम् एवैवं भस्मना कर्तव्यम् // PSBह्_१.२:२७
SK
* उच्यते // PSBह्_१.२:२८
SK
* यस्माद् आह // PSBह्_१.२:२९
SK
भस्मनि शयीत || PS_१.३ ||
SK
* अत्र भस्म तद् एव // PSBह्_१.३:१
SK
* निरुक्तम् अस्य पूर्वोक्तम् // PSBह्_१.३:२
SK
* भस्मनि इत्य् औपश्लेषिकं संनिधानम् // PSBह्_१.३:३
SK
* शय इत्य् उपशमस्य विश्रामस्याख्या // PSBह्_१.३:४
SK
* इत इत्य् एतद् आज्ञायां नियोगे च // PSBह्_१.३:५
SK
* भस्मन्य् एव रात्रौ स्वप्तव्यं नान्यत्रेत्य् अर्थः // PSBह्_१.३:६
SK
* उक्तं हि / यथा मृगा मृत्युभयस्य भीता उद्विग्नवासा न लभन्ति निद्राम् / एवं यतिर् ध्यानपरो महात्मा संसारभीतो न लभेत निद्राम् // PSBह्_१.३:७ * किं च विशेषार्थित्वात् // PSBह्_१.३:८ * विशेषार्थी चायं ब्राह्मणः // PSBह्_१.३:९ * उक्तं हि / न विशेषार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति / हयानाम् इव जात्यानाम् अर्धरात्रार्धशायिनाम् // PSBह्_१.३:१० * तस्मात् परिवृष्टे भूप्रदेशे दिवा परिग्रहं कृत्वा भस्मास्तीर्याध्ययनाध्यापनध्यानाभिनिविष्टेन प्रवचनचिन्तनाभिनिवेशैश् च श्रान्तेन बाहूपधानेन सद्योजातादिसंस्कृते भस्मनि रात्रौ स्वप्तव्यम् इत्य् अर्थः // PSBह्_१.३:११ * किम् अर्थम् इति चेत् // PSBह्_१.३:१२ * उच्यते तपोऽर्थं भूप्रदेशे शौचार्थं विश्रामार्थं वा // PSBह्_१.३:१३ * समविषमनिम्नोन्नतायां भूमौ यामं यामद्वयं वा स्वप्तव्यम् इत्य् अर्थः // PSBह्_१.३:१४ * आह किं स्नानं शयनं च भस्मना प्रयोजनद्वयम् एवात्र कर्तव्यम् उतान्यद् अपि // PSBह्_१.३:१५ * सवनान्तस्थस्यास्याशौचकं प्राप्तस्य निर्घातकं किम् इति // PSBह्_१.३:१६ * तद् उच्यते // PSBह्_१.३:१७
SK
अनुस्नानम् || PS_१.४ ||
SK
* मन्त्रादिस्नानवत् // PSBह्_१.४:१
SK
* अत्र अनु इति पृष्ठकर्मक्रियायां भवति // PSBह्_१.४:२
SK
* अनुपानानुगमनवत् // PSBह्_१.४:३
SK
* स्नानं तु भस्मद्रव्यसंयोजनम् एव // PSBह्_१.४:४
SK
* सवनत्रये स्नानस्यान्तरेषु भुक्तोच्छिष्टक्षुतनिष्ठीवितमूत्रपुरीषोत्सर्गादिनिमित्तकम् अशौचकम् अभिसमीक्ष्य तद् अनुस्नानं कर्तव्यम् // PSBह्_१.४:५
SK
* किम् अर्थम् इति चेत् शौचार्थं लिङ्गाभिव्यक्त्यर्थं च // PSBह्_१.४:६
SK
* स्नेयम् इत्य् अर्थः // PSBह्_१.४:७
SK
* आह किं भस्मैवैकं लिङ्गाभिव्यक्तिकारणम् // PSBह्_१.४:८
SK
* भक्तिविवृद्धौ वा अप्रतिषिद्धस्य साधनं किम् इति // PSBह्_१.४:९
SK
* तद् उच्यते // PSBह्_१.४:१०
SK
निर्माल्यम् || PS_१.५ ||
SK
* अत्र भस्मवल् लोकादिप्रसिद्धं निर्माल्यम् // PSBह्_१.५:१
SK
* निर् इति निर्मुक्तस्याख्या // PSBह्_१.५:२
SK
* माल्यम् इति पुष्पसमूहपर्यायः // PSBह्_१.५:३
SK
* तत् परकृतं कारणमूर्त्यारोपितावतारितं निष्परिग्रहं पद्मोत्पलाद्यम् // PSBह्_१.५:४
SK
* भक्तिविवृद्ध्यर्थं लिङ्गाभिव्यक्त्यर्थं च तद् धार्यम् इत्य् अर्थः // PSBह्_१.५:५
SK
* आह भस्मनिर्माल्येन तस्य लिङ्गं व्यक्तं भवतीति क्व सिद्धम् // PSBह्_१.५:६
SK
* तद् उच्यते इह // PSBह्_१.५:७
SK
* यस्माद् आह // PSBह्_१.५:८
SK
लिङ्गधारी || PS_१.६ ||
SK
* अत्र यथान्येषाम् अपि वर्णाश्रमिणाम् आश्रमप्रतिविभागकराणि लिङ्गानि भवन्ति // PSBह्_१.६:१
SK
* तत्र गृहस्थस्य तावद् वासस् त्रयं वैणवी यष्टिः सोदकं च कमण्डलु सोत्तरोष्ठवपनं यज्ञोपवीतादि लिङ्गम् // PSBह्_१.६:२
SK
* तथा ब्रह्मचारिणो ऽपि दण्डकमण्डलुमौञ्जीमेखलायज्ञोपवीतकृष्णाजिनादि लिङ्गम् // PSBह्_१.६:३
SK
* तथा वानप्रस्थस्यापि करीरचीरवल्कलकूर्चजटाधारणादि लिङ्गम् // PSBह्_१.६:४
SK
* तथा भिक्षोस् त्रिदण्डमुण्डकमण्डलुकाषायवासोजलपवित्रस्थलपवित्रादि लिङ्गम् // PSBह्_१.६:५
SK
* एवम् इहापि यद् एतत् पाशुपतयोगाधिकरणं लिङ्गम् इत्य् आश्रमप्रतिविभागकरं भस्मस्नानशयनानुस्नाननिर्माल्यैकवासादिनिष्पन्नं स्वशरीरलीनं पाशुपतम् इति लौकिकादिज्ञानजनकं तत् // PSBह्_१.६:६
SK
* लीयनाल् लिङ्गनाच् च लिङ्गम् // PSBह्_१.६:७
SK
* तद् धारयन् लिङ्गधारी भवति // PSBह्_१.६:८
SK
* दण्डधारिवद् इत्य् अर्थः // PSBह्_१.६:९
SK
* आह अथैते स्नानशयनानुस्नानादयो ऽर्थाः क्व कर्तव्याः // PSBह्_१.६:१०
SK
* कुतो वा निर्माल्यस्यार्जनं कर्तव्यम् // PSBह्_१.६:११
SK
* कुत्रस्थेन वा तद् धार्यम् // PSBह्_१.६:१२
SK
* कृतलिङ्गेन वा क्व वस्तव्यम् // PSBह्_१.६:१३
SK
* तद् उच्यते आयतने // PSBह्_१.६:१४
SK
* यस्माद् आह // PSBह्_१.६:१५
SK
आयतनवासी || PS_१.७ ||
SK
* अथ भस्मनिर्माल्यवल् लोकादिप्रसिद्धम् आयतनम् // PSBह्_१.७:१
SK
* आङ् इति मर्यादायां भवति // PSBह्_१.७:२
SK
* यस्माद् एते गृहस्थादयः प्रयतनियतशुचिसाध्वाचाराः स्वस्वमर्यादयोपतिष्ठन्ते यजन्ति च शान्तिकपौष्टिकादिभिः क्रियाभिर् इति // PSBह्_१.७:३
SK
* यजनाच् चायतनम् // PSBह्_१.७:४
SK
* तस्मिन् परकृत आयतने वस्तव्यम् इति वासी इत्य् आयतनं च परिगृह्णाति // PSBह्_१.७:५
SK
* भूप्रदेशे आकाशे वृक्षमूले बहिः प्रादक्षिण्येन वा यत्र क्वचित् प्रतिवसन् शिष्टमर्यादया आयतनवासी भवति // PSBह्_१.७:६
SK
* पुलिनवासवद् वसेद् इत्य् अर्थः // PSBह्_१.७:७
SK
* पुण्यफलावाप्तिश् चास्याशु भवति // PSBह्_१.७:८
SK
* उक्तं हि / ग्रामे वा यदि वारण्ये पुण्यस्थानं हि शूलिनः // PSBह्_१.७:९ * आवासो धर्मतृप्तानां सिद्धिक्षेत्रं हि तत् परम् // PSBह्_१.७:१० * आह तस्मिन्न् आयतने प्रतिवसता काः क्रियाः कर्तव्याः // PSBह्_१.७:११ * किं स्नानाद्या उपलेपनाद्या वा // PSBह्_१.७:१२ * आहोस्विद् दृष्टा अस्यान्या वैशेषिक्यः क्रियाः कर्तव्याः // PSBह्_१.७:१३ * यथा चान्या वैशेषिक्यः क्रियाः कर्तव्याः प्रयोजनं च वक्ष्यामः - // PSBह्_१.७:१४
SK
हसितगीतनृत्तडुंडुंकारनमस्कारजप्योपहारेणोपतिष्ठेत् || PS_१.८ ||
SK
* अथ त्रिषु स्नानकालेषु सद्योजातादिसंस्कृतेन भस्मना जपता स्नात्वा जपतैवायतनम् अभिगन्तव्यम् // PSBह्_१.८:१
SK
* अभिगम्य च यत् पूर्वं जपति तत् प्रत्याहारार्थं जप्यम् ॐ ॐ ॐ // PSBह्_१.८:२
SK
* हसितादीनि तु कृत्वा यत् पश्चाज् जपति तन्नियमार्थं जप्यम् // PSBह्_१.८:३
SK
* तद् अत्र हसितं नाम यद् एतत् कण्ठौष्ठपुटविस्फूर्जनम् अट्टहासः क्रियते तद्धसितम् // PSBह्_१.८:४
SK
* गीतम् अपि गान्धर्वशास्त्रसमयानभिष्वङ्गेण यत्र भगवतो महेश्वरस्य सभायां गौणद्रव्यजकर्मजानि नामानि चिन्त्यन्ते तत् // PSBह्_१.८:५
SK
* संस्कृतं प्राकृतं परकृतम् आत्मकृतं वा यद् गीयते तद् गेयम् // PSBह्_१.८:६
SK
* नृत्तम् अपि नाट्यशास्त्रसमयानभिष्वङ्गेण हस्तपादादीनाम् उत्क्षेपणम् अवक्षेपणम् आकुञ्चनं प्रसारणं चलनम् अनवस्थानम् // PSBह्_१.८:७
SK
* निगमकाले नियमार्थं गेयसहकृतं नृत्तं प्रयोक्तव्यम् // PSBह्_१.८:८
SK
* डुंडुंकारो नाम य एष जिह्वाग्रतालुसंयोगान् निष्पद्यते पुण्यो वृषनादसदृशः सः // PSBह्_१.८:९
SK
* डुंडुंकरणं डुंडुंकारः // PSBह्_१.८:१०
SK
* कारशब्दो डुंडुंकारस्योपहाराङ्गावधारणार्थः // PSBह्_१.८:११
SK
* नम इति // PSBह्_१.८:१२
SK
* नाप्य् ओष्ठीयं कर्तव्यं नोपांशु // PSBह्_१.८:१३
SK
* मानसं तु नमस्करणं नमस्कारः // PSBह्_१.८:१४
SK
* कारशब्दो वाचिकोपांशुप्रतिषेधार्थं मानसोपहाराङ्गावधारणार्थं चेत्य् अर्थः // PSBह्_१.८:१५
SK
* जप्यं नाम सद्योजातादिष्व् अक्षरपङ्क्त्यां मनसा भावस्य संचारविचारः // PSBह्_१.८:१६
SK
* तज् जप्यम् // PSBह्_१.८:१७
SK
* उपेति विशेषणे क्रियोपसंहारे समस्तत्वे च // PSBह्_१.८:१८
SK
* उपहरणाद् उपहारो व्रतं नियम इत्य् अर्थः // PSBह्_१.८:१९
SK
* उपह्रियते निवेद्यते नियोगमात्रकर्तृत्वात् साधकेनेत्य् उपहारः // PSBह्_१.८:२०
SK
* उपतिष्ठेत् // PSBह्_१.८:२१
SK
* अत्रोपेत्य् अभ्युपगमे // PSBह्_१.८:२२
SK
* अभ्युपगतेन विधिस्थेन प्रणतविनतेनेत्य् अर्थः // PSBह्_१.८:२३
SK
* तिष्ठेद् इत्य् ऐकाग्र्यं प्रत्याहाराभावस्थितिम् एवाधिकुरुते // PSBह्_१.८:२४
SK
* सर्वकरणानां वृत्तौ प्रत्याहारं कृत्वा कायिकवाचिकमानसिकाभिः क्रियाभिर् उपहारं कृत्वा भृत्यवद् उपहारेण स्थेयम् // PSBह्_१.८:२५
SK
* अपसव्यं च प्रदक्षिणम् उपरिष्टाद् वक्ष्यामः // PSBह्_१.८:२६
SK
* आह कस्य निर्माल्यं धार्यम् // PSBह्_१.८:२७
SK
* कस्य वा आयतने वस्तव्यम् // PSBह्_१.८:२८
SK
* क्व चोपस्थेयम् इति // PSBह्_१.८:२९
SK
* तद् उच्यते // PSBह्_१.८:३०
SK
महादेवस्य दक्षिणामूर्तेः || PS_१.९ ||
SK
* अत्र महान् इत्य् अभ्यधिकत्वे // PSBह्_१.९:१
SK
* सर्वक्षेत्रज्ञानाम् अभ्यधिक उत्कृष्टो व्यतिरिक्तश् च भवतीत्य् अभ्यधिकः // PSBह्_१.९:२
SK
* ऋषिर् विप्रः अधिपतिः // PSBह्_१.९:३
SK
* सदाशिवत्वम् अभ्यधिकत्वं च प्रवक्ष्यामः // PSBह्_१.९:४
SK
* अत्र देव इति दिवु क्रीडायाम् // PSBह्_१.९:५
SK
* क्रीडाधर्मित्वात् // PSBह्_१.९:६
SK
* अग्न्युष्णत्ववत् // PSBह्_१.९:७
SK
* क्रीडावान् एव भगवान् विद्याकलापशुसंज्ञकं त्रिविधम् अपि कार्यम् उत्पादयति अनुगृह्णाति तिरोभावयति च // PSBह्_१.९:८
SK
* उक्तं हि / अप्रचोद्यः प्रचोद्यैस् तु कामकारकरः प्रभुः / क्रीडते भगवान् लोकैर् बालः क्रीडनकैर् इव // PSBह्_१.९:९ * देवस्य इति षष्ठी // PSBह्_१.९:१० * स्वस्वामिभावः सम्बन्धः // PSBह्_१.९:११ * परिग्रहार्थम् एवाधिकुरुते // PSBह्_१.९:१२ * अत्र दक्षिणेति दिक्प्रतिविभागे भवति // PSBह्_१.९:१३ * आदित्यो दिशो विभजति // PSBह्_१.९:१४ * दिशश् च मूर्तिं विभजन्ति // PSBह्_१.९:१५ * मूर्तिनाम यद् एतद् देवस्य दक्षिणे पार्श्वे स्थितेनोदङ्मुखेनोपान्ते यद् रूपम् उपलभ्यते वृषध्वजशूलपाणिनन्दिमहाकालोर्ध्वलिङ्गादिलक्षणं यद् वा लौकिकाः प्रतिपद्यन्ते महादेवस्यायतनम् इति तत्रोपस्थेयम् // PSBह्_१.९:१६ * दक्षिणामूर्तिग्रहणात् पूर्वोत्तरपश्चिमानां मूर्तीनां प्रतिषेधः // PSBह्_१.९:१७ * मूर्तिनियोगाच् च मूर्त्यभावे नियमलोपः // PSBह्_१.९:१८ * भैक्ष्यानुपयोगान् निर्घातानाम् उक्तत्वाच् चेत्य् अर्थः // PSBह्_१.९:१९ * विधिर् इत्य् उपदिष्टानाम् अर्थानां भस्मस्नानोपदेशाद् अप्सु स्नानादीनां प्रतिषेधः // PSBह्_१.९:२० * भस्मशयनोपदेशाद् विषयशयनादीनां प्रतिषेधः // PSBह्_१.९:२१ * आयतने वसत्य् अर्थोपदेशाच् छेषवसत्य् अर्थप्रतिषेधः // PSBह्_१.९:२२ * हसिताद्युपदेशाच् छेषोपहारप्रतिषेधः // PSBह्_१.९:२३ * निर्माल्योपदेशात् प्रत्यग्राणां माल्यानां प्रतिषेधः // PSBह्_१.९:२४ * भस्मनिर्माल्यलिङ्गोपदेशाच् छेषलिङ्गप्रतिषेधः // PSBह्_१.९:२५ * महादेवग्रहणाद् अन्यदेवताभक्तिप्रतिषेधः // PSBह्_१.९:२६ * दक्षिणामूर्तिग्रहणात् पूर्वपश्चिमानां मूर्तीनां प्रतिषेधः // PSBह्_१.९:२७ * एवं दक्षिणामूर्तिर् इत्य् उक्ते अस्य ब्राह्मणस्य पूर्वप्रसिद्धा नियमा नियमैः प्रतिषिध्यन्ते // PSBह्_१.९:२८ * कीलकप्रतिकीलकवत् पुराणोदकनवोदकवच् चेति // PSBह्_१.९:२९ * अत्रेदं भस्मप्रकरणं समाप्तम् // PSBह्_१.९:३० * आह नियमाभिधानाद् एव हि संशयः // PSBह्_१.९:३१ * यत्र यमास् तत्र नियमाः // PSBह्_१.९:३२ * मिथुनम् एवैतद् यस्मात् // PSBह्_१.९:३३ * अतो न संशयः // PSBह्_१.९:३४ * यमा अस्मिन् तन्त्रे के चिन्त्यन्ते // PSBह्_१.९:३५ * उच्यते प्रसिद्धा यमाः अहिंसादय इति // PSBह्_१.९:३६ * अत्र त्व् अन्येषाम् // PSBह्_१.९:३७ * अहिंसा ब्रह्मचर्यं च सत्यासंव्यवहारकौ / अस्तेयम् इति पञ्चैते यमा वै संप्रकीर्तिताः // PSBह्_१.९:३८ * अक्रोधो गुरुशुश्रूषा शौचम् आहारलाघवम् / अप्रमादश् च पञ्चैते नियमाः संप्रकीर्तिताः // PSBह्_१.९:३९ * तद्वद् अस्माकं न भवति // PSBह्_१.९:४० * कस्मात् // PSBह्_१.९:४१ * नियमनिवृत्तिदर्शनात् // PSBह्_१.९:४२ * अस्मिन् हि तन्त्रे कालान्तरिता नियमा निवर्तन्ते // PSBह्_१.९:४३ * कथम् आ देहपाताद् यमानां न निवृत्तिर् अस्ति // PSBह्_१.९:४४ * कस्मात् // PSBह्_१.९:४५ * हिंसादिदोषात् // PSBह्_१.९:४६ * तस्माद् अहिंसाद्या दश सर्वे ते यमाः प्रत्यवगन्तव्यः // PSBह्_१.९:४७ * आह यद्य् एवं निगमनिवृत्तौ भ्रष्टनियमस्य पतनप्रसङ्गः // PSBह्_१.९:४८ * उच्यते अवसितप्रयोजनत्वान् न पतनप्रसङ्गः // PSBह्_१.९:४९ * किं च यमानां प्राधान्यात् // PSBह्_१.९:५० * उक्तं हि पतति नियमवान् यमेष्व् असक्तो न तु यमवान् नियमालसो ऽवसीदेत् // PSBह्_१.९:५१ * इति यमनियमौ समीक्ष्य बुद्ध्या यमबहुलेष्व् अतिसंदधीत बुद्धिम् // PSBह्_१.९:५२ * तस्मान् न पतनप्रसङ्गः // PSBह्_१.९:५३ * अतः प्रसिद्धा यमा अहिंसादयः // PSBह्_१.९:५४ * आह किं प्रसिद्धा इति कृत्वा गृह्यन्ते आहोस्विच् छक्यम् एतेषां यमानां सर्वज्ञोक्तशास्त्रतः सद्भावो वक्तुम् // PSBह्_१.९:५५ * उच्यते यद्य् अन्यत्र प्रसिद्धा इति क्व // PSBह्_१.९:५६ * तत्र चिन्त्यते // PSBह्_१.९:५७ * कस्मात् // PSBह्_१.९:५८ * कृतोपदेशात् // PSBह्_१.९:५९ * यस्मादुक्तं सूत्रतःकृतम् इत्यत्र // PSBह्_१.९:६० * कृताप्रतिषेधा कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा द्रष्टव्येत्यर्थः // PSBह्_१.९:६१ * सा च हिंसा त्रिविधा भवति // PSBह्_१.९:६२ * दुःखोत्पादनम् अण्डभेदः प्राणनिर्मोचनमिति // PSBह्_१.९:६३ * तत्र दुःखोत्पादनं नाम क्रोशनतर्जनताडननिर्भर्त्सनादिबहुभेदोऽपि चतुर्विधस्यापि भूतग्रामस्य मनोवाक्कायकर्मभिर् अभिद्रोहो न कर्तव्यः // PSBह्_१.९:६४ * एवम् अहिंसा भवत्येतेषां जन्तूनाम् // PSBह्_१.९:६५ * अण्डभेदो नाम दाहतापधूमोपरोधपरिहारार्थम् अग्निकरणादानसम्प्रदानप्रतिनिधानसंधुक्षणादीनि न कुर्यात् नैव कारयेत् // PSBह्_१.९:६६ * तथा प्राणनिर्मोचनं नाम वस्त्रशिक्यभस्माधारभैक्ष्यभाजनादीनि मुहुर्मुहुर् विवेचयितव्यानि // PSBह्_१.९:६७ * कस्मात् // PSBह्_१.९:६८ * प्राणिनो हि सूक्ष्मचारिणः क्षिप्रमेव विलयं प्रयान्ति // PSBह्_१.९:६९ * तस्मात् सूक्ष्मैर् अङ्गपवित्रैः पक्ष्मचामरतालवृन्तैर् वस्त्रान्तरैर् वा मुहुर्मुहुर् विग्रन्थोदकेन वा // PSBह्_१.९:७० * हरितेषु तृणेषु न संसिक्ते भूप्रदेशे भवति // PSBह्_१.९:७१ * वसन्तग्रीष्महैमान्तिकान् अष्टौ मासान् भिक्षुर् विचक्रमेत् // PSBह्_१.९:७२ * दयार्थं सर्वभूतानाम् एकत्र वर्षासु वसेत् // PSBह्_१.९:७३ * वर्षाभेदं तु यः कुर्याद् ब्राह्मणो योगदीक्षितः / प्राजापत्येन कृच्छ्रेण ततः पापात् प्रमुच्यते // PSBह्_१.९:७४ * शारीरं दृश्यते यत्र भयं कस्यांचिद् आपदि / दुर्दिने राष्ट्रभङ्गे वा वर्षास्वपि व्यतिक्रमेत् // PSBह्_१.९:७५ * नासूर्यं च व्रजेन्मार्गं नादृष्टां भूमिम् आक्रमेत् / परिपूनाभिरद्भिश्च नित्यं कुर्यात् प्रयोजनम् // PSBह्_१.९:७६ * संवत्सरकृतं पापं मत्स्यबन्धस्य यद् भवेत् / एकाहात् तदवाप्नोति अपूतजलसंग्रही // PSBह्_१.९:७७ * दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् / सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् // PSBह्_१.९:७८ * हिंसकास्तु निवर्तन्ते ब्रह्मत्वमपि ये गताः / तस्मादपूतमुदकं नोपयुञ्जीत योगवित् // PSBह्_१.९:७९ * अथ नष्टे पवित्रे च गृह्णीयात् त्रिषु वै सकृत् / नदीप्रस्रवणे चैव गृहस्थेषु च साधुषु // PSBह्_१.९:८० * काण्डानि यानि गृह्यन्ते कन्दाश्चैव प्ररोहिणः / बीजानि चैव पक्वानि सर्वाण्येतानि वर्जयेत् // PSBह्_१.९:८१ * यदा न कुर्याद् द्रोहं च सर्वभूतेषु दारुणम् / कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा // PSBह्_१.९:८२ * यो न हिंसति भूतानि स्थावराणि चराणि च / आत्मानमिव सर्वाणि सो ऽमृतत्वाय कल्पते // PSBह्_१.९:८३ * न यज्ञदानैर्न तपोऽग्निहोत्रैर्न ब्रह्मचर्यैर् न च सत्यवाक्यैः / न वेदविद्याध्ययनैर् व्रतैर्वा प्राप्यं फलं यद्य् अहिंसकस्य // PSBह्_१.९:८४ * यो दद्यात् काञ्चनं मेरुं कृत्स्नां चैव वसुंधराम् / समुद्रं रत्नपूर्णं वा न तुल्यं स्यादहिंसया // PSBह्_१.९:८५ * इत्येवम् अहिंसा तन्त्रे सिद्धा // PSBह्_१.९:८६ * तथा ब्रह्मचर्यं च तन्त्रे सिद्धम् // PSBह्_१.९:८७ * कस्मात् // PSBह्_१.९:८८ * स्त्रीप्रतिषेधात् इन्द्रियजयोपदेशाच् च त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्तम् // PSBह्_१.९:८९ * विशेषेण तु जिह्वोपस्थयोरिति // PSBह्_१.९:९० * अत्राह विशेषग्रहणं किंप्रयोजनम् // PSBह्_१.९:९१ * त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्त्वा जिह्वोपस्थयोर् विशेषग्रहणं किंप्रयोजनं क्रियते // PSBह्_१.९:९२ * उच्यते प्रधानत्वात् // PSBह्_१.९:९३ * तन्मूलत्वादितरप्रवृत्तेः // PSBह्_१.९:९४ * तन्मूला हीतरेषां प्रवृत्तिर्भवति // PSBह्_१.९:९५ * कथम् // PSBह्_१.९:९६ * जिह्वेन्द्रियविषये उपस्थेन्द्रियविषये वा सक्तः त्रयोदशभिः प्रवर्तते // PSBह्_१.९:९७ * अत एतदुक्तं विशेषेण जिह्वोपस्थयोरिति // PSBह्_१.९:९८ * जिह्वोपस्थनिमित्तं हि पतनं सर्वदेहिनाम् / तस्माद् अमित्रवत् पश्येज् जिह्वोपस्थं हि मानवः // PSBह्_१.९:९९ * अथवा मनःपूर्वकत्वात् सर्ववृत्तीनां तन्निग्रहात् सर्ववृत्तीनां निग्रहः कृतो भवति // PSBह्_१.९:१०० * उक्तं हि / मनो हि मूलं सर्वेषामिन्द्रियाणां प्रवर्तने / शुभाशुभास्ववस्थासु तच् च मे सुव्यवस्थितम् // PSBह्_१.९:१०१ * पुनरप्युक्तम् / इन्द्रियैः प्रसृतैर् दुःखमिन्द्रियैर् निभृतैः सुखम् / तस्माद् इन्द्रियरूपेभ्यो यच् छेदात्मानमात्मना // PSBह्_१.९:१०२ * इन्द्रियाणि हि तत् सर्वं यत् स्वर्गनरकाव् उभौ / निगृहीतविसृष्टानि स्वर्गाय नरकाय च // PSBह्_१.९:१०३ * अतो जन्म अतो दुःखमतो मृत्युभयं तथा / इन्द्रियाणां प्रसङ्गाद् वै तस्मादेतान् जयामहे // PSBह्_१.९:१०४ * इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्यसंशयम् / संनियम्य तु तान्येव ततः सिद्धिं नियच्छति // PSBह्_१.९:१०५ * रज्जुरेषा निबन्धाय या स्त्रीषु रमते मतिः / छित्त्वैनां कृतिनो यान्ति नैनां त्यजति दुष्कृती // PSBह्_१.९:१०६ * स्त्रीहेतोर्निर्गमो ग्रामात् स्त्रीकृते क्रयविक्रयः / स्त्रियो मूलमनर्थानां नैनां प्राज्ञः परिष्वजेत् // PSBह्_१.९:१०७ * विषमग्निरसिर्बाणः स्फुटं कृत्वा विभीषिका / माया रूपवती ह्य् एषा यां स्त्रियं मन्यते जनः // PSBह्_१.९:१०८ * अमेध्यपूर्णे कृमिजन्तुसंकुले स्वभावदुर्गन्ध अशौच अध्रुवे / कडेबरे मूत्रपुरीषभाजने रमन्ति मूर्खा न रमन्ति पण्डिताः // PSBह्_१.९:१०९ * माद्यतीति स्त्रियं दृष्ट्वा सुरां पीत्वा न माद्यति / तस्माद् दृष्टिमदां नारीं दूरतः परिवर्जयेत् // PSBह्_१.९:११० * अधोमुखेनादंष्ट्रेण जघनान्तरचारिणा / सर्वशास्त्राचिकित्स्येन जगद् दष्टं भगाहिना // PSBह्_१.९:१११ * लोमशेन कुरूपेण दुर्गन्धेन कुचर्मणा / हरिणीपदमात्रेण सर्वम् अन्धीकृतं जगत् // PSBह्_१.९:११२ * दीप्ताङ्गारसमा नारी घृतकुम्भसमः पुमान् / ये प्रसक्ता विलीनास्ते ये स्थितास्ते दिवं गताः // PSBह्_१.९:११३ * यथाग्निरेधःसंवृद्धो महाज्योतिः प्रकाशते / तथेन्द्रियनिरोधेन स्वात्मज्योतिः प्रकाशते // PSBह्_१.९:११४ * ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः / ये स्थिता ब्रह्मचर्येण ब्राह्मणा दिवि ते स्थिताः // PSBह्_१.९:११५ * क्षीरं पिबन्ति मधु ते पिबन्ति सोमं पिबन्त्यमृतेन सार्धम् / मृत्योः पुरस्तादमरा भवन्ति ये ब्राह्मणा ब्रह्मचर्यं चरन्ति // PSBह्_१.९:११६ * इत्येवं ब्रह्मचर्यं तन्त्रे सिद्धम् // PSBह्_१.९:११७ * तथा सत्यं तन्त्रे सिद्धम् // PSBह्_१.९:११८ * तच् च द्विविधम् // PSBह्_१.९:११९ * तद्यथा परिदृष्टार्थभूतार्थं वचनं वाक्सत्यं चेति // PSBह्_१.९:१२० * तत्र परिदृष्टार्थभूतार्थं वचनं सत्यं तन्त्रे सिद्धम् // PSBह्_१.९:१२१ * कस्मात् // PSBह्_१.९:१२२ * व्याख्यानोपदेशात् विद्वदुपदेशाच् च // PSBह्_१.९:१२३ * तथा वाक्सत्यमपि तन्त्रे सिद्धम् // PSBह्_१.९:१२४ * कस्मात् // PSBह्_१.९:१२५ * वाग्विशुद्ध्युपदेशात् // PSBह्_१.९:१२६ * इह स्वशास्त्रोक्तं भाषतोऽनृतमपि सत्यमापद्यते // PSBह्_१.९:१२७ * कस्मात् // PSBह्_१.९:१२८ * शुद्धिवृद्धिकरत्वात् // PSBह्_१.९:१२९ * यस्मादाह / स्वर्गमनृतेन गच्छति दयार्थमुक्तेन सर्वभूतानाम् / सत्येनापि न गच्छति सतां विनाशार्थमुक्तेन // PSBह्_१.९:१३० * पुनस्त्वाह / गोब्राह्मणार्थे ऽवचनं हिमस्ति न स्त्रीषु राजन् न विवाहकाले / प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि // PSBह्_१.९:१३१ * सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यमप्रियम् / प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः // PSBह्_१.९:१३२ * यथा हि तेषामेव भूतानां हितमनृतमपि सत्यमापद्यते एवमिहाप्यस्माकं स्वशास्त्रोक्तं भाषतामनृतमपि सत्यमापद्यते // PSBह्_१.९:१३३ * कस्मात् // PSBह्_१.९:१३४ * विधिविहितत्वात् // PSBह्_१.९:१३५ * इत्येतदपि तत्र सिद्धम् // PSBह्_१.९:१३६ * तथा असंव्यवहारस्तन्त्रे सिद्धः // PSBह्_१.९:१३७ * कस्मात् // PSBह्_१.९:१३८ * अव्यक्तप्रेतोन्मत्तमूढोपदेशात् // PSBह्_१.९:१३९ * नेह लोके अव्यक्तप्रेतोन्मत्तमूढाः संव्यवहारं कुर्वन्ति यस्माद् अतोऽत्रासंव्यवहारस्तन्त्रे सिद्धः // PSBह्_१.९:१४० * संव्यवहारश्च पुनर्द्विविधः // PSBह्_१.९:१४१ * तद्यथा क्रयावक्रयसंव्यवहारा राजकुलसंव्यवहारश्चेति // PSBह्_१.९:१४२ * अत एकतरेणाप्यत्राधिकृतस्यात्मपीडा परपीडा चावर्जनीये भवतः // PSBह्_१.९:१४३ * तत्र यद्यात्मानं पीडयति तेनेहैव लोके दुःखी भवति // PSBह्_१.९:१४४ * स्यात् परं पीडयति तत्राप्यस्याधर्मो दुःखादिफलः प्रचीयते // PSBह्_१.९:१४५ * तेनामुष्मिन् लोके तीव्रं दुःखमनुभवति // PSBह्_१.९:१४६ * तस्मादुभयथापि संव्यवहारो वर्जनीयः // PSBह्_१.९:१४७ * भवति ह्य् अपि / यश्च पापं प्रकुरुते यश्च पापं प्रशंसति / सहायश्चोपभोक्ता च सर्वे ते समकर्मिणः // PSBह्_१.९:१४८ * उक्तं हि / विक्रये तु महान् दोषो विक्रयात् पतते यतः / एष एव क्रये दोषस्तस्मात् तं परिवर्जयेत् // PSBह्_१.९:१४९ * प्रच्छन्नं कुरुते पापं न मे जानाति कश्चन / मुच्यते जनवादेभ्यस्तस्मात् पापान् न मुच्यते // PSBह्_१.९:१५० * पुनरप्युक्तम् / आदित्यचन्द्राव् अनिलोऽनलश्च द्यौर् भूमिर् आपो हृदयं यमश्च / अहश्च रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम् // PSBह्_१.९:१५१ * नारम्भशीलो न च दम्भशीलः शास्त्रोपदिष्टानि करोत्यदीनः / यमेषु युक्तो नियमेषु चैव मुनिर् भवत्य् एष्व् अजरोऽमरश्च // PSBह्_१.९:१५२ * तथा अस्तेयं तन्त्रे सिद्धम् // PSBह्_१.९:१५३ * कस्मात् // PSBह्_१.९:१५४ * अवासोपदेशात् अनुत्सृष्टान्नप्रतिषेधाच् च // PSBह्_१.९:१५५ * इह विद्यमानस्याप्येकस्य वाससो मलवद् अवस्थितस्यावासोपदेशात् परिग्रहपरित्याग उपदिश्यते // PSBह्_१.९:१५६ * किंचान्यदपि // PSBह्_१.९:१५७ * परित्यक्तानाम् अन्नपानादीनामुपयोगो दृष्टो यस्मात् // PSBह्_१.९:१५८ * अतोऽत्रास्तेयं तन्त्रे सिद्धम् // PSBह्_१.९:१५९ * स्तेयं च पुनः षड्विधम् // PSBह्_१.९:१६० * तत्र अदत्तादानम् अनतिसृष्टग्रहणम् अनभिमतग्रहणम् अनधिकारप्रतिग्रहः अनुपालम्भः अनिवेदितोपयोगश्चेति // PSBह्_१.९:१६१ * अदत्तस्य ग्रहणमदत्तादानम् // PSBह्_१.९:१६२ * अनतिसृष्टग्रहणं नाम बालोन्मत्तप्रमत्तवृद्धदुर्बलानां वित्तापहरणम् // PSBह्_१.९:१६३ * अनभिमतग्रहणं नाम कीटभ्रमरपक्षिपतंगादीनाम् अनभिप्रेतद्रव्यापहरणम् // PSBह्_१.९:१६४ * अनधिकारप्रतिग्रहो नाम इह शास्त्रे अनभ्यनुज्ञातानाम् अर्थानां गोभूहिरण्यद्विपदचतुष्पदादीनां ग्रहणम् // PSBह्_१.९:१६५ * अनुपालम्भो नाम कुहककल्कनडम्भविस्मापनवर्धापनादिभिर् उपायैः परेभ्यो हिरण्याच् छादनोपयोगः // PSBह्_१.९:१६६ * अनिवेदितोपयोगो नाम भक्ष्यभोज्यलेह्यपेयचोष्यादीनाम् अन्यतमं यत्किंचिद् गुरवे ऽनिवेदितम् उपयुङ्क्ते स उच्यते अनिवेदितोपयोग इति // PSBह्_१.९:१६७ * एवं षड्विधं स्तेयम् // PSBह्_१.९:१६८ * अस्य षड्विधस्यापि स्तेयस्य परिवर्जनम् अस्तेयमाहुराचार्याः // PSBह्_१.९:१६९ * भवति ह्य् अपि / यदेतद् धनमित्याहुः प्राणा ह्य् एते बहिश्चराः / स तस्य हरते प्राणान् यो यस्य हरते धनम् // PSBह्_१.९:१७० * उक्तं हि / सर्वस्वपरिमोष्टा च जीवितान्तकरश्च यः / द्वाव् एतौ समकर्माणौ तस्मात् स्तेयं विवर्जयेत् // PSBह्_१.९:१७१ * न स्तेनस्य परो लोको नायं लोको दुरात्मनः / शङ्कितः सर्वभूतानां द्रोहात्मा पाप एव सः // PSBह्_१.९:१७२ * मृदमापस्तथा यानं पत्त्रं पुष्पं फलान्यपि / असंवृतानि गृह्णीयात् पवित्रार्थीह कार्यवान् // PSBह्_१.९:१७३ * नद्यश्च वाप्यः कूपाश्च तटाकानि सरांसि च / असंवृतानि गृह्णीयात् प्राजापत्येन कर्मणा // PSBह्_१.९:१७४ * इत्य् एवमस्तेयं तन्त्रे सिद्धम् // PSBह्_१.९:१७५ * अक्रोधस्तन्त्रे सिद्धः // PSBह्_१.९:१७६ * कस्मात् // PSBह्_१.९:१७७ * शूद्रप्रतिषेधात् अतितापोपदेशाच् च // PSBह्_१.९:१७८ * इहाध्यात्मिकाधिभौतिकाधिदैविकानां सर्वद्वंद्वानां मनसि शरीरे च उपनिपतितानां सहिष्णुत्वम् अप्रतीकारश्चेति यस्मात् कृतो ऽत्राक्रोधस् तन्त्रे सिद्धः // PSBह्_१.९:१७९ * क्रोधश्च पुनश्चतुर्विधः // PSBह्_१.९:१८० * तद्यथा भावलक्षणः कर्मलक्षणः वैकल्यकरः उद्वेगकरश्चेति // PSBह्_१.९:१८१ * तत्र भावलक्षणो नाम सः यत्रासूयाद्वेषमदमानमात्सर्यादयो भावाः प्रवर्तन्ते // PSBह्_१.९:१८२ * कर्मलक्षणो नाम यत्र कलहवैरसंप्रहरणाद्या भावाः प्रवर्तन्ते // PSBह्_१.९:१८३ * वैकल्यकरो नाम यत्र पाणिपादनासाक्ष्यङ्गुलिप्रहरणादयो भावाः प्रवर्तन्ते // PSBह्_१.९:१८४ * उद्वेगकरो नाम यत्र स्वात्मानं परात्मानं वा प्राणैर् वियोजयति // PSBह्_१.९:१८५ * इत्येवं चतुर्विधः क्रोधः // PSBह्_१.९:१८६ * अस्य चतुर्विधस्यापि क्रोधस्य परिवर्जनम् अक्रोधमाहुराचार्याः // PSBह्_१.९:१८७ * तस्माद् देशजातिकुलकर्मसम्बन्धनिन्दायां करणक्रियायां कार्यनिन्दायाम् आहारनिन्दायां वाधिकृतेन क्रोधो न कर्तव्यः // PSBह्_१.९:१८८ * तत्र देशनिन्दा तावद् भवति // PSBह्_१.९:१८९ * तद्यथा यत्र भवान् जातस्तत्र देशे ब्राह्मणा एव न सन्तीति यदि कश्चिदधिक्षेपं कुर्यात् तत्र क्रोधो न कर्तव्यः // PSBह्_१.९:१९० * तत्रैतत् स्याद् एवमभिहिते तीव्रदुःखं मानसमभिव्यज्यते // PSBह्_१.९:१९१ * कथमत्र क्रोधो न भविष्यतीति // PSBह्_१.९:१९२ * उच्यते न भविष्यति // PSBह्_१.९:१९३ * कस्मात् // PSBह्_१.९:१९४ * परिसंख्यानसामर्थ्यात् // PSBह्_१.९:१९५ * इह मनुष्यलोके देशोऽयं नाम मातापितृहेतुकः औपचयिकः कार्यपिण्डः शरीराख्यः // PSBह्_१.९:१९६ * स तस्माद् भवः // PSBह्_१.९:१९७ * क्षेत्रज्ञस्तु चेतनः सर्वगतः शुचिः // PSBह्_१.९:१९८ * अस्य चास्माकं चान्तरमविदितम् // PSBह्_१.९:१९९ * अपरिदृष्टार्थे भवानेतद् वा ब्रूयात् // PSBह्_१.९:२०० * अतः क्रोधनिमित्तासंभवात् परिसंख्यानसामर्थ्येन क्रोधो न कार्यः // PSBह्_१.९:२०१ * एवं शेषेष्वपि द्रष्टव्यम् // PSBह्_१.९:२०२ * भवति ह्य् अपि / शृङ्गवान् नखवान् दंष्ट्री विकृतो रुधिराशनः / राक्षसो वा पिशाचो वा क्रोधिष्णुर् जायते नरः // PSBह्_१.९:२०३ * पुनश्चाह / कङ्कगृध्रसृगालेषु दंशेषु मशकेषु च / पन्नगेषु च जायन्ते नराः क्रोधपरायणाः // PSBह्_१.९:२०४ * विद्विष्टः सर्वभूतानां बह्वमित्रो ऽल्पबान्धवः / क्रूरधर्मा दुराचारः क्रोधिष्णुर् जायते नरः // PSBह्_१.९:२०५ * क्रुद्धः करोति पापानि क्रुद्धः पापानि भाषते / क्रुद्धो भवति निर्लज्जस्तस्मात् क्रोधं विवर्जयेत् // PSBह्_१.९:२०६ * तथा चोक्तम् / यत् क्रोधनो जपति यच् च जुहोति यद्वा यद्वा तपस्तप्यति यद् ददाति तत्सर्वम् / वैवस्वतो हरति पूर्तममुष्य सर्वं मिथ्या श्रुतं भवति तस्य शमोऽपि तस्य // PSBह्_१.९:२०७ * धन्यास्ते पुरुषव्याघ्रा ये बुद्ध्या क्रोधमुत्थितम् / शमयन्ति महात्मानो दीप्तमग्निमिवाम्भसा // PSBह्_१.९:२०८ * यतो रूपं ततो ज्ञानं यतो ज्ञानं ततस्तपः / यतस्तपस्ततः सिद्धिर्यतः सिद्धिस्ततः क्षमा // PSBह्_१.९:२०९ * क्षमा सर्वपरं मित्रं क्रोधः सर्वपरो रिपुः / क्षमावतामयं लोकः परो लोकः क्षमावताम् // PSBह्_१.९:२१० * एतस्मात् कारणात् क्षन्तव्यम् इत्य् एवमक्रोधस्तन्त्रे सिद्धः // PSBह्_१.९:२११ * तथा गुरुशुश्रूषा तन्त्रे सिद्धा // PSBह्_१.९:२१२ * कस्मात् // PSBह्_१.९:२१३ * व्याख्यानोपदेशाद् विद्वदुपदेशाच् च // PSBह्_१.९:२१४ * इह चोक्तं विधिं व्याख्यास्यामः इति // PSBह्_१.९:२१५ * अत्राण् इति मर्यादायाम् // PSBह्_१.९:२१६ * म इति प्रतिज्ञायां भवति // PSBह्_१.९:२१७ * मयि वर्तते // PSBह्_१.९:२१८ * मयि तिष्ठतीति // PSBह्_१.९:२१९ * यदि चेष्टे वत्स्यसि यदि चेष्टे स्थास्यसि ततस्ते वक्ष्यामः // PSBह्_१.९:२२० * तत्रेष्टमित्यष्टाङ्गं ब्रह्मचर्यं मर्यादामधिकुरुते // PSBह्_१.९:२२१ * तद्यथा उत्थानप्रत्युत्थानाभिवादनगुरुकार्यहितकारी अनुत्तरोत्तरवादी पूर्वोत्थायी जघन्यसंवेशी प्रेषिताप्रेषितसर्वकार्यकृतज्ञः सर्वनिवेदितात्मा दक्षो दाक्षिण्यानुरक्तः स्नानोद्वर्तनसंवाहनादिभिः क्रियाविशेषैः छायेवानुगतो नित्यमिदं कृतम् इदं करिष्ये किं करवाणीति भूत्वा गुरवे ऽहरहर् वर्तितव्यम् // PSBह्_१.९:२२२ * यस्तु विद्यां गुरोरधिकृत्य बहुभ्यः सम्प्रयच्छति अनेनास्य विद्याया दानेन गुरवः शुश्रूषिता भवन्ति // PSBह्_१.९:२२३ * क्षीणे च ब्रह्मचर्ये नियतं गुरुषु यद् गौरवं तद् ब्रह्मचर्यम् // PSBह्_१.९:२२४ * भवति ह्य् अपि / गुरुर्देवो गुरुः स्वामी गुरुर्माता गुरुः पिता / यस्यैवं निश्चितो भावः श्रेयस्तस्य न दूरतः // PSBह्_१.९:२२५ * अग्निसूर्येन्दुताराभिश्चाक्षुषो ऽर्थः प्रकाशते / भूतं भव्यं भविष्यं च गुरुवाक्यैः प्रकाशते // PSBह्_१.९:२२६ * देशकैर्गम्यतेऽध्वानं देशकैर्गम्यतेऽर्णवः / देशकैर्गम्यते स्वर्गो गुरुर्मोक्षस्य देशकः // PSBह्_१.९:२२७ * अमृतस्य प्रदातारं यो गुरुं ह्य् अवमन्यते / षष्टिवर्षसहस्राणि नरकं पर्युपासते // PSBह्_१.९:२२८ * गुरोर्यत्र परीवादो निन्दा यत्र प्रवर्तते / कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः // PSBह्_१.९:२२९ * आचार्यं पूजयेद् यस्तु सर्वावस्थं हि नित्यशः / पूजितस्तेन भवति शिवो वै नात्र संशयः // PSBह्_१.९:२३० * आचार्यमूर्तिमास्थाय शिवो ज्ञानं प्रयच्छति / तस्माद् वै नावमन्तव्य आचार्यः श्रेय इच्छता // PSBह्_१.९:२३१ * ग्रन्थार्थविदुषे नित्यं योगमार्गानुदर्शिने / सर्वार्थेनापि कर्तव्यः परितोषो विजानता // PSBह्_१.९:२३२ * ऋचं वा यदि वार्धर्चं पादं वा यदि वाक्षरम् / सकाशाद् यस्य गृह्णीयान् नियतं तत्र गौरवम् // PSBह्_१.९:२३३ * लिङ्गकर्त्री यथा माता शास्त्रकर्ता यथा पिता / प्रबोधकृद् गुरुस्तेषां तदेवायतनं महत् // PSBह्_१.९:२३४ * इत्येवं गुरुशुश्रूषा तन्त्रे सिद्धा // PSBह्_१.९:२३५ * तथा शौचं तन्त्रे सिद्धम् // PSBह्_१.९:२३६ * कस्मात् // PSBह्_१.९:२३७ * भस्मस्नानोपदेशात् // PSBह्_१.९:२३८ * तच् च शौचं त्रिविधम् // PSBह्_१.९:२३९ * तद् यथा गात्रशौचं भावशौचम् आत्मशौचं चेति // PSBह्_१.९:२४० * तत्र भस्मस्नानोपदेशात् प्रसिद्धं भस्मना गात्रशौचम् // PSBह्_१.९:२४१ * आह यदुक्तं प्रसिद्धं भस्मना गात्रशौचमिति एतदेवायुक्तम् // PSBह्_१.९:२४२ * कस्मात् // PSBह्_१.९:२४३ * पूर्वोत्तरव्याघातात् // PSBह्_१.९:२४४ * इह पुरस्तादुक्तं प्रसिद्धा यमा अहिंसादयो भवन्ति // PSBह्_१.९:२४५ * यदिह भूयोऽपि अप्रसिद्धं भस्मना गात्रशौचमित्यभिधीयते // PSBह्_१.९:२४६ * तस्मादिदं पूर्वोत्तरं न संगच्छति // PSBह्_१.९:२४७ * व्याहतं च भवति // PSBह्_१.९:२४८ * एष दोष इत्यतः पूर्वोत्तरव्याघातात् // PSBह्_१.९:२४९ * तत्र यदुक्तं प्रसिद्धं भस्मना गात्रशौचमित्येतदयुक्तम् // PSBह्_१.९:२५० * उच्यते नायं दोषः // PSBह्_१.९:२५१ * कस्मात् // PSBह्_१.९:२५२ * प्रसिद्धिदर्शनात् // PSBह्_१.९:२५३ * इहान्यत्रापि प्रसिद्धं भस्मना गात्रशौचमिति // PSBह्_१.९:२५४ * एवं ह्य् आह / संसर्गजाश्च ये दोषा ये चान्ये पितृमातृजाः / अन्नपानकृताश्चैव संकरा देहमाश्रिताः / सर्वांस्तान् दहते भस्म अस्थिमज्जागतानपि // PSBह्_१.९:२५५ * पुनश्चाह / केशकीटोपपन्नानि दुष्टान्नानि च यानि वै / भस्मना स्पृष्टमात्राणि भोज्यान्य् आहुर् मनीषिणः // PSBह्_१.९:२५६ * पुनरप्युक्तम् / मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा / भस्मोद्ध्वस्तो भस्मराशौ शयानो रुद्राध्यायी मुच्यते पातकेभ्यः // PSBह्_१.९:२५७ * यः स्नानम् आचरेन् नित्यमाग्नेयं संयतेन्द्रियः / कुलैकविंशमुद्धृत्य स गच्छेत् परमां गतिम् // PSBह्_१.९:२५८ * एवमन्यत्रापि प्रसिद्धं भस्मना गात्रशौचम् // PSBह्_१.९:२५९ * तस्माद् युक्तं वक्तुं प्रसिद्धा यमा अहिंसादय इति // PSBह्_१.९:२६० * तथोपस्पर्शनप्राणायामजप्यैः अकलुषमतिर्भवतीति भावशौचं तन्त्रे सिद्धम् // PSBह्_१.९:२६१ * भावमन्तर्गतं दुष्टं न स्नानमपकर्षति / भावशुद्धिः परा शुद्धिः शेषं शृङ्गारमार्जनम् // PSBह्_१.९:२६२ * मृत्तिकानां सहस्रेण जलकुम्भशतेन च / न शुध्यन्ति दुरात्मानः पापोपहतचेतसः // PSBह्_१.९:२६३ * सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः / सर्वभूतदया शौचम् अद्भिः शौचं तु पञ्चमम् // PSBह्_१.९:२६४ * शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा / प्रतिग्रहे तथारम्भे इन्द्रियाणां च गोचरे // PSBह्_१.९:२६५ * यस्मादाह / सर्वस्वमपि यो दद्यात् कलुषेणान्तरात्मना / न तेन धर्मभाग् भवति भाव एवात्र कारणम् // PSBह्_१.९:२६६ * यथा यथा हि पुरुषः कल्याणीं कुरुते मतिम् / तथा तथास्य सिध्यन्ति सर्वार्था नात्र संशयः // PSBह्_१.९:२६७ * इत्येवं भावशौचं तन्त्रे सिद्धम् // PSBह्_१.९:२६८ * तथात्मशौचं तन्त्रे सिद्धम् // PSBह्_१.९:२६९ * कस्मात् // PSBह्_१.९:२७० * यस्माद् अवमानपरिभवपरिवादाद्यैर् अपहतपाप्मा भवति इत्यात्मशौचं तन्त्रे सिद्धम् // PSBह्_१.९:२७१ * यस्माद् अन्यैर् अप्युक्तं / कृत्स्नां महीं पर्यटतः सशैलवनकाननाम् / अपमानात् परं नास्ति साधनं मनुरब्रवीत् // PSBह्_१.९:२७२ * इत्येवं शौचं तन्त्रे सिद्धम् // PSBह्_१.९:२७३ * तथा आहारलाघवं तन्त्रे सिद्धम् // PSBह्_१.९:२७४ * कस्मात् / भैक्षोत्सृष्टयथालब्धोपदेशात् // PSBह्_१.९:२७५ * स्वल्पमपि अनुपायतोऽर्जितमलघु प्रभूतमपि उपायतोऽर्जितं लघ्वेव द्रष्टव्यम् // PSBह्_१.९:२७६ * उक्तं हि / चरेन्माधुकरीं वृत्तिं वल्मीकनिचयोपमाम् / अक्रुद्धश् चाप्रहृष्टश् च तपस्तद्धि सनातनम् // PSBह्_१.९:२७७ * यश्चरेत् सर्वभोज्येषु भैक्ष्यं च व्यवहारतः / भुञ्जीत प्रतिगृह्णीयात् प्रशस्तानां स्वकर्मसु // PSBह्_१.९:२७८ * चातुर्वर्ण्यं चरेद् भैक्ष्यं पतितांस्तु विवर्जयेत् / पयश्चापश्च भैक्ष्यं च सममेतन् न संशयः // PSBह्_१.९:२७९ * भैक्ष्यशेषं तु यो भिक्षुर्यदि किंचित् समुत्सृजेत् / ग्रासे ग्रासे तु कर्तव्याः प्राणायामास्त्रयस्त्रयः // PSBह्_१.९:२८० * संनिधानं न कुर्वीत सर्वावस्थोऽपि योगवित् / संनिधानकृतैर्दोषैर्यतिः संजायते कृमिः // PSBह्_१.९:२८१ * माधुकरम् असंकल्पं प्राक्प्रवृत्तमयाचितम् / तत्तत्कालोपपन्नं च भैक्ष्यं पञ्चविधं स्मृतम् // PSBह्_१.९:२८२ * गृहाद् गृहं पर्यटंस्तु न गृहं परिवर्जयेत् / परस्य वचनं श्रुत्वा दुष्टवेश्म विवर्जयेत् // PSBह्_१.९:२८३ * अदुष्टापतितं साधुं भिक्षुको यो व्यतिक्रमेत् / स तस्य सुकृतं दत्त्वा दुष्कृतं प्रतिपद्यते // PSBह्_१.९:२८४ * तथैव च गृहस्थस्य निराशो भिक्षुको व्रजेत् / स तस्येष्टं च पूर्तं च भिक्षुरादाय गच्छति // PSBह्_१.९:२८५ * अकृते वैश्वदेवे तु भिक्षुके गृहमागते / उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत् // PSBह्_१.९:२८६ * वैश्वदेवकृतान् दोषान् शक्तो भिक्षुर्व्यपोहितुम् / नहि भिक्षुकृतान् दोषान् वैश्वदेवो व्यपोहति // PSBह्_१.९:२८७ * दशाहं द्वादशाहं वा यत्र भिक्षा न लभ्यते / तद् गृहं वर्जयेद् भिक्षुरूषराणीव कर्षकः // PSBह्_१.९:२८८ * चतुरक्षरसंयुक्तां भिक्षां तु समुदाहरेत् / एष प्रव्रजिनां धर्मः शेषस्तु क्रयविक्रयः // PSBह्_१.९:२८९ * न हसेन् न चाभिप्रेक्षेत् भिक्षामिच्छंस्तु भिक्षुकः / गोदोहमात्रं संतिष्ठेन् नोपतिष्ठेत् कदाचन // PSBह्_१.९:२९० * जरामरणगर्भेभ्यो भीतस्य नरकादपि / भयात् क्षपयते यस्मात् तस्माद् भैक्ष्यमिति स्मृतम् // PSBह्_१.९:२९१ * दधिभक्षाः पयोभक्षा ये ऽन्ये यावकभक्षिणः / सर्वे ते भैक्ष्यभक्षस्य कलां नार्हन्ति षोडशीम् // PSBह्_१.९:२९२ * तप्तकाञ्चनवर्णेन गवां मूत्रेण यावकम् / पिबेद् द्वादश वर्षाणि न तद् भैक्ष्यसमं भवेत् // PSBह्_१.९:२९३ * मासि मासि कुशाग्रेण यः पिबेत् सोममग्रजः / भैक्ष्यं चाव्यवहारेण तुल्यं भवति वा न वा // PSBह्_१.९:२९४ * भैक्ष्यमन्नं परं श्रेयो भैक्ष्यमन्नं परं शुचि / भैक्ष्यं हि व्रतिनां श्रेष्ठं भैक्ष्यमेव परा गतिः // PSBह्_१.९:२९५ * यद्यज् जलं निर्धमनेष्व् अपेयं नदीगतं तत् पुनरेव पेयम् / तथान्नपानं विधिपूर्वमागतं द्विजातिपात्रान्तरितं न दुष्यति // PSBह्_१.९:२९६ * लवणमलवणं वा स्निग्धम् अस्नेहिकं वा सहरसविरसं वा शुष्कमन्नं द्रवं वा / यदि इह निरवद्यं भुञ्जते भैक्ष्यमन्नं स खलु भवति भिक्षुर्भिक्षुधर्मादलुप्तः // PSBह्_१.९:२९७ * तथोत्सृष्टं यथालब्धं च तत्रैवावसरप्राप्तत्वात् प्रतितन्त्रसिद्धान्तसिद्धं सूत्रतो ऽर्थनिर्देशं करिष्यामः // PSBह्_१.९:२९८ * इत्येवमाहारलाघवं तन्त्रे सिद्धम् // PSBह्_१.९:२९९ * तथा अप्रमादस्तन्त्रे सिद्धः // PSBह्_१.९:३०० * कस्मात् // PSBह्_१.९:३०१ * अप्रमादोपदेशात् जप्योपदेशाच् च // PSBह्_१.९:३०२ * इह नित्यं यमेष्व् अप्रमत्तेनोपस्थितस्मृतिना भवितव्यम् // PSBह्_१.९:३०३ * उक्तं हि / अप्रमादो दमस्त्यागो ब्राह्मणस्य हयाः स्मृताः / शीलरश्मिसमायुक्तैर् धेयात्मा मानसे रथे // PSBह्_१.९:३०४ * तं ब्रह्मरथमारुह्य गर्भजन्मजरायुतान् / छिन्दन् मृत्युभयान् पाशान् ब्रह्मभूतोऽवतिष्ठते // PSBह्_१.९:३०५ * इत्येवमप्रमादस्तन्त्रे सिद्धः // PSBह्_१.९:३०६ * एवं प्रसिद्धा यमा अहिंसादयः // PSBह्_१.९:३०७ * आह अविशेषदोषान् न प्रसिद्धा यमाः // PSBह्_१.९:३०८ * इहान्येषामप्यहिंसादीनि धर्मसाधनानि // PSBह्_१.९:३०९ * इहापि च शास्त्रे तान्येव // PSBह्_१.९:३१० * तस्मात् साध्यसाधननिष्ठास्व् अप्यविशेषः // PSBह्_१.९:३११ * उच्यते न // PSBह्_१.९:३१२ * अतिप्रसङ्गादनेकान्ताच् च // PSBह्_१.९:३१३ * यदि धर्मसाधनास्तित्वमात्रसाधर्म्याद् अहिंसादीनां त्यागः क्रियते तस्मात् कार्यकारणक्षेत्रज्ञधर्माधर्मसुखदुःखसंसारपदार्थादयो ऽपि त्याज्याः // PSBह्_१.९:३१४ * अथ नैवम् अनेकान्तः // PSBह्_१.९:३१५ * किंच त्यागे कृतिहिंसादीनां धर्मसाधनत्वप्रसङ्गः // PSBह्_१.९:३१६ * किंच अतिदानातियजनातितपोऽतिगत्यनावृत्त्यादिभिः यमनियमगर्भत्वाद् विधेः सिद्धम् // PSBह्_१.९:३१७ * नियमविशेषणाच् च नाविशेषः // PSBह्_१.९:३१८ * तस्माद् युक्तमुक्तं प्रसिद्धा यमा अहिंसादय इति // PSBह्_१.९:३१९ * अत एतदुक्तंमहादेवस्य दक्षिणामूर्तेः इति // PSBह्_१.९:३२० * अत्रेदं यमप्रकरणं समाप्तम् // PSBह्_१.९:३२१ * आह तस्मिन्न् आयतने प्रतिवसतः का मात्रा // PSBह्_१.९:३२२ * सा वाच्या गृहस्थादिवत् // PSBह्_१.९:३२३ * तदुच्यते न // PSBह्_१.९:३२४ * यस्माद् आह // PSBह्_१.९:३२५
SK
एकवासाः || PS_१.१० ||
SK
* अत्र एकम् इति संख्या // PSBह्_१.१०:१
SK
* वास इत्य् आच्छादने भवति // PSBह्_१.१०:२
SK
* तस्य वासः पञ्चविधम् अण्डजं वोडजं वालजं वल्कलजं चर्मजं वा // PSBह्_१.१०:३
SK
* यत् कुशलेनाभ्युपायेनोपपद्यते तद् एकपटलम् अनेकपटलं वा ग्राम्यादिभ्यो निष्परिग्रहं कौपीनप्रच्छादनमात्रं लज्जाप्रतीकारार्थं चैकं वासो ग्राह्यम् // PSBह्_१.१०:४
SK
* अस्यैव च सूत्रस्य सामर्थ्यात् सर्वद्रव्यपरित्यागे कृते एकवासोमात्रपरिग्रहः संस्कर्तव्यः शिष्यः / आह लज्जाविनिवृत्तिर् अस्य कदा भवतीति / उच्यते ज्ञानाकलुषाभ्याम् / अत्र यदा प्राप्तज्ञानः क्षीणकलुषश् च भवति तदा तस्य लज्जानिवृत्तिः // PSBह्_१.१०:५ * आह किं विनिवृत्तायाम् अपि लज्जायां नियतम् एवैकं वासो ग्राह्यम् आहोस्विद् अनियतम् इति / उच्यते अनियतम् यस्माद् आह // PSBह्_१.१०:६
SK
अवासा वा || PS_१.११ ||
SK
* अत्र अकारो वासःप्रतिषेधे वर्तते / अवाससा नग्नेन यथा जातेन निष्परिग्रहेण भवितव्यम् / आह अवासस्त्वे किं ते प्रयोजनम् / तद् वाच्यम् एकवासस्त्ववत् / तद् उच्यते निष्परिग्रहार्थम् अमङ्गलख्यापनार्थं चेति प्रयोजनद्वयं द्रष्टव्यम् / वाशब्दः शक्त्यशक्त्योर् विचारणे / यद्य् अशक्तस् तदा अनग्नेनैकवाससा भाव्यम् / यदि शक्तस् तदा अवाससा नग्नेन यथाजातेन निष्परिग्रहेण भवितव्यम् इत्य् अर्थः / न तु वा विकल्पे / विकल्पार्थासंभवाद् इत्य् अर्थः // PSBह्_१.११:१ * आह तस्मिन्न् आयतने प्रतिवसता किम् आ देहपाताद् अनिर्गच्छतैव स्थेयं ध्यानैकनिष्ठेन शिलावद् आहोस्विद् दृष्टो ऽस्यायतनान् निर्गमः भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादिप्रवेशो वा / उच्यते दृष्टः / यस्मात् // PSBह्_१.११:२
SK
मूत्रपुरीषं नावेक्षेत् || PS_१.१२ ||
SK
* अत्र मूत्रं च पुरीषं च मूत्रपुरीषम् / चार्थे द्वंद्वसमासः अत्र मूत्रं नाम यद् एतद् उदरपर्युषितं निःसरति बहिः स्रवति तन् मूत्रम् // PSBह्_१.१२:१ * मोचनान् मूत्रम् // PSBह्_१.१२:२ * मूत्रत्वाभिसम्बन्धाद्धि मूत्रं लोकादिप्रसिद्धम् इत्य् अर्थः // PSBह्_१.१२:३ * पुरीषं नाम यद् एतत् पीतखादितावलीढानाम् आहारविशेषाणाम् आध्यात्मिकेन अग्निना परिपक्वम् अपानेन स्खलति तत् पुरीषम् // PSBह्_१.१२:४ * पुरान् निर्गतत्वात् पुरीषत्वाभिसम्बन्धाद् वा पुरीषं लोकादिप्रसिद्धम् इत्य् अर्थः // PSBह्_१.१२:५ * नकारो दर्शनप्रतिषेधे // PSBह्_१.१२:६ * न द्रष्टव्यम् इत्य् अर्थः // PSBह्_१.१२:७ * अव इति अपवर्जनं नाम प्रतिषेधे जातिग्रहणेन्द्रियान्तरप्रतिषेधे चेत्य् अर्थः // PSBह्_१.१२:८ * ईक्ष दर्शने // PSBह्_१.१२:९ * यद् एतन् निजं बुद्धीन्द्रियं चक्षुर् अनेन चक्षुषा अनया बुद्ध्या मनुष्यादीनां मूत्रपुरीषं न द्रष्टव्यम् // PSBह्_१.१२:१० * न तु गवादीनाम् इत्य् अर्थः // PSBह्_१.१२:११ * आह किं मूत्रपुरीषसंदर्शनमात्रम् एवास्य प्रतिषिध्यते // PSBह्_१.१२:१२ * उच्यते न // PSBह्_१.१२:१३ * यस्माद् आह // PSBह्_१.१२:१४
SK
स्त्रीशूद्रं नाभिभाषेत् || PS_१.१३ ||
SK
* अत्र स्त्री च शूद्रश् च स्त्रीशूद्रम् // PSBह्_१.१३:१
SK
* चार्थे द्वंद्वसमासः // PSBह्_१.१३:२
SK
* अत्र स्त्री नाम सेयं लोकप्रसिद्धा स्तनजघनकेशवती हावभावविलासयुक्ता पुरुषभावस्वभाविका दिव्या मानुषा अतिरतिरसा विषयमूर्तिर् इति कृत्वा प्रतिषिध्यते // PSBह्_१.१३:३
SK
* अनुभाषणपूर्विका चास्याः प्राप्तिर् भविष्यतीत्यतः स्त्री नाभिभाषितव्येत्य् अर्थः // PSBह्_१.१३:४
SK
* शूद्रो नामायं लोकादिप्रसिद्धस् त्रिवर्णपरिचारकः // PSBह्_१.१३:५
SK
* शोचनाद् द्रोहणाच् च शूद्रः // PSBह्_१.१३:६
SK
* स खल्व् अदयालुर् इति कृत्वा प्रतिषिध्यते // PSBह्_१.१३:७
SK
* किम् अर्थम् // PSBह्_१.१३:८
SK
* तेनाक्रुष्टश् चाभिहतश् च वा क्रुद्धस् तद्वधार्थं प्रवर्तते अतो जातिज्ञानतपःश्रुतहानिर् भवति // PSBह्_१.१३:९
SK
* सूचिते चावमानाद्यभावे ऽवमानाद्यभावात् सूचिवृद्धयोर् अभावः // PSBह्_१.१३:१०
SK
* अकलुषसूत्रे चास्य दोषनिर्देशं करिष्यामः // PSBह्_१.१३:११
SK
* नकारो भाषणप्रतिषेधे // PSBह्_१.१३:१२
SK
* नाभिभाषितव्यम् इत्य् अर्थः // PSBह्_१.१३:१३
SK
* अभिशब्दः प्रसङ्ग इति // PSBह्_१.१३:१४
SK
* प्रतिषेधे जातिग्रहणे चेतरप्रतिषेधे चेत्य् अर्थः // PSBह्_१.१३:१५
SK
* भाष व्यक्तायां वाचि // PSBह्_१.१३:१६
SK
* यद् एतत् कर्मेन्द्रियं वाग् अनया वाण्या इति // PSBह्_१.१३:१७
SK
* अतः स्त्रीशूद्रं नाभिभाषितव्यम् इत्य् अर्थः // PSBह्_१.१३:१८
SK
* आह नावेक्षेन् नाभिभाषेद् इत्य् उक्ते ऽथ किम् अनेन साधकेनान्धमूकवद् अवस्थातव्यम् इति // PSBह्_१.१३:१९
SK
* उच्यते न // PSBह्_१.१३:२०
SK
* यस्माद् आह // PSBह्_१.१३:२१
SK
यद्य् अवेक्षेद् यद्य् अभिभाषेत् || PS_१.१४ ||
SK
* अत्र यदि यदि इत्य् आशङ्कायाम् // PSBह्_१.१४:१
SK
* नाभिभाषेद् इति वचनान् निषिद्धे ऽप्य् अर्थे गुर्वर्थम् आत्मार्थं वा भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादीन् प्रविष्टस्य विण्मूत्रयोः स्त्रीशूद्रयोश् च दर्शनम् अभिभाषणं च भविष्यतीति कृत्वा // PSBह्_१.१४:२
SK
* अत एतद् उक्तं सर्वज्ञेन भगवता यद्य् अवेक्षेद् यद्य् अभिभाषेद् इति // PSBह्_१.१४:३
SK
* अवश्यं भवेद् इत्य् अर्थः // PSBह्_१.१४:४
SK
* आह दृष्टे चाभिभाषिते चोपहतेन निर्घातनं किं कर्तव्यम् // PSBह्_१.१४:५
SK
* तद् उच्यते उपस्पर्शनम् // PSBह्_१.१४:६
SK
* यस्मात् // PSBह्_१.१४:७
SK
उपस्पृश्य || PS_१.१५ ||
SK
* अत्र उप इत्य् अभ्युपगमे // PSBह्_१.१५:१
SK
* अभ्युपगमनेन कलुषमतिनेत्य् अर्थः // PSBह्_१.१५:२
SK
* स्पृश्य इति भस्मद्रव्यगात्रसंयोजनम् एव // PSBह्_१.१५:३
SK
* उपस्पृश्येति स्नानपर्यायः // PSBह्_१.१५:४
SK
* सचैलोदकस्पर्शनवत् // PSBह्_१.१५:५
SK
* स च भस्मना कर्तव्यः नाद्भिः // PSBह्_१.१५:६
SK
* कस्मात् // PSBह्_१.१५:७
SK
* पूर्वोत्तरव्याघातात् // PSBह्_१.१५:८
SK
* स्नानस्याप्रसङ्गाच् च // PSBह्_१.१५:९
SK
* उपस्पृश्येति निष्ठा // PSBह्_१.१५:१०
SK
* आह उपस्पृश्य यदि कलुषं न क्षीणं स्यात् ततो निर्घातनं किं कर्तव्यम् // PSBह्_१.१५:११
SK
* तद् उच्यते साकाङ्क्षत्वान् निष्ठाशब्दस्य प्राणायामः कर्तव्यः // PSBह्_१.१५:१२
SK
* यस्माद् आह // PSBह्_१.१५:१३
SK
प्राणायामं कृत्वा || PS_१.१६ ||
SK
* अत्र प्राणो नाम य एष मुखनासिकाभ्यां निःसरति वायुर् एष प्राणः // PSBह्_१.१६:१
SK
* तस्य आयामो निग्रहो निरोधः स प्राणायामः // PSBह्_१.१६:२
SK
* स च पुरुषवृत्तिर् द्रष्टव्यः // PSBह्_१.१६:३
SK
* कस्मात् // PSBह्_१.१६:४
SK
* ज्ञानेच्छाप्रयत्नपूर्वकत्वात् प्राणायामस्य च // PSBह्_१.१६:५
SK
* एकोद्धातो द्विर् उद्धातो वा // PSBह्_१.१६:६
SK
* तथा विंशतिमात्रश् चतुर्विंशतिमात्रस् त्रिंशन्मात्रो वा // PSBह्_१.१६:७
SK
* मात्रा त्व् अक्षिनिमेषकालः // PSBह्_१.१६:८
SK
* स यथाशक्ति यथाबलं कर्तव्यः // PSBह्_१.१६:९
SK
* तस्माद् उपस्पृश्य पद्मकस्वस्तिकोपस्थाञ्जलिकार्धचन्द्रपीठकदण्डायतसर्वतोभद्रादीनाम् अन्यतमेनासनबन्धेन प्राङ्मुख उदङ्मुखो वा उपविश्यैतान्य् अङ्गानि कृत्वा ग्रीवाम् उन्नाम्य पूरणपूर्वको वा रेचकपूर्वको वा तावत् कर्तव्यो यावन् निगृहीता वायवो ध्यानीभूतश् च भवति // PSBह्_१.१६:१०
SK
* तत्र ध्यानीभूतो नाम यदा दन्तिवद् अन्तःशरीरं पूर्णं भवति // PSBह्_१.१६:११
SK
* निगृहीतानां तु लक्षणं यदा कूर्मवद् अन्तःशरीरे उच्छ्वासप्रत्युच्छ्वासा वर्तन्ते स्वच्छेन्द्रियश् च भवति तदा मन्तव्या निगृहीता वायव इति // PSBह्_१.१६:१२
SK
* ततः शनैः शनैर् मोक्तव्या नासिकया यथोत्पलपत्त्रम् अपि नासापुटस्थं न कम्पयति // PSBह्_१.१६:१३
SK
* तद् अत्र प्रश्नाक्रान्तौ क्रमेणाक्रमितव्यः अन्तर्भावे ऽन्तरे वायवो भावयितव्याः // PSBह्_१.१६:१४
SK
* अन प्राणने // PSBह्_१.१६:१५
SK
* आङ् इति आसनबन्धनिभृतनिगृहीतकलुषक्षपणविसर्गादिमर्यादाम् अधिकुरुते // PSBह्_१.१६:१६
SK
* यम् उ बन्धने // PSBह्_१.१६:१७
SK
* बन्धयितव्याः // PSBह्_१.१६:१८
SK
* डुकृञ् करणे द्रष्टव्यः // PSBह्_१.१६:१९
SK
* त्वा इति कर्मनिष्ठायाम् // PSBह्_१.१६:२०
SK
* विच्छेदवद् इत्य् अर्थः // PSBह्_१.१६:२१
SK
* आह अथ कृते प्राणायामे यदि कलुषं न क्षीणं स्यात् ततो ऽनेन किं कर्तव्यम् // PSBह्_१.१६:२२
SK
* तद् उच्यते जप्यम् // PSBह्_१.१६:२३
SK
* यस्माद् आह // PSBह्_१.१६:२४
SK
रौद्रीं गायत्रीं बहुरूपीं वा जपेत् || PS_१.१७ ||
SK
* अत्र त्वाशब्दसामर्थ्याद् गम्यते प्राणसंयमेन समं जप्यं कर्तव्यम् // PSBह्_१.१७:१
SK
* उपस्पर्शनवत् // PSBह्_१.१७:२
SK
* तस्माद् अत्र रौद्री नाम तत्पुरुषा // PSBह्_१.१७:३
SK
* रौद्री च कस्मात् // PSBह्_१.१७:४
SK
* रुद्रस्योपस्थापकत्वाद् रौद्री // PSBह्_१.१७:५
SK
* रुद्रो वास्यां चिन्त्यते रुद्रप्रापकत्वाद् वा रौद्री // PSBह्_१.१७:६
SK
* आह सद्योजातादिबहुप्रकारा तत्र का सा रौद्री // PSBह्_१.१७:७
SK
* तद् उच्यते गायत्री // PSBह्_१.१७:८
SK
* अत्र या रौद्री सा गायत्री // PSBह्_१.१७:९
SK
* गायत्री च कस्मात् // PSBह्_१.१७:१०
SK
* गीता गातारं त्रायत इति // PSBह्_१.१७:११
SK
* गायत्रे वा छन्दसि वर्तत इति गायत्री // PSBह्_१.१७:१२
SK
* अत्र रौद्रीग्रहणाद् वैदिक्यादिगायत्रीप्रतिषेधः // PSBह्_१.१७:१३
SK
* इह तु गायत्रीग्रहणात् सद्योजातादीनां प्रतिषेधः // PSBह्_१.१७:१४
SK
* गायत्रीम् इति कर्म // PSBह्_१.१७:१५
SK
* बहुरूपी नामाघोरा // PSBह्_१.१७:१६
SK
* बहुरूपी च कस्मात् // PSBह्_१.१७:१७
SK
* बहुरूपस्योक्तपरिग्रहेष्व् आकारेषु वर्तत इति बहुरूपी // PSBह्_१.१७:१८
SK
* बहुरूपो वा अस्यां चिन्त्यत इति बहुरूपप्रापकत्वाद् बहुरूपी // PSBह्_१.१७:१९
SK
* बहुरूपीम् इति कर्म // PSBह्_१.१७:२०
SK
* वा इति विकल्पे // PSBह्_१.१७:२१
SK
* उभयोर् अपि ब्रह्मत्वम् उभयोर् अपि तुल्यार्थसाधकत्वम् उभे अपि महेश्वरपरिगृहीते इत्य् अत एकाम् अनेकां वा उपस्पृश्य जपेद् इति मानसी क्रियेत्य् अर्थः // PSBह्_१.१७:२२
SK
* आह उपस्पर्शनप्राणायामजप्याधिकृतस्य का कार्यनिष्पत्तिः // PSBह्_१.१७:२३
SK
* तद् उच्यते अकलुषत्वम् // PSBह्_१.१७:२४
SK
* यस्माद् आह // PSBह्_१.१७:२५
SK
अकलुषमतेः || PS_१.१८ ||
SK
* इति // PSBह्_१.१८:१
SK
* अत्र अकलुषा यस्य मतिः सो ऽयम् अकलुषमतिः // PSBह्_१.१८:२
SK
* बहुव्रीहिसमासः // PSBह्_१.१८:३
SK
* अत्राकारः कलुषप्रतिषेधे // PSBह्_१.१८:४
SK
* भावकालुष्यम् एवात्र कालुष्यम् // PSBह्_१.१८:५
SK
* कथं गम्यते // PSBह्_१.१८:६
SK
* प्राक्सिद्धत्वात् // PSBह्_१.१८:७
SK
* इह च पुरस्ताद् उक्तम् // PSBह्_१.१८:८
SK
* नावेक्षेन् नाभिभाषेद् इत्य् उक्ते अर्थापन्नं दृष्टे चाभिभाषिते च द्वेषेच्छाक्रोधा उत्पद्यन्ते // PSBह्_१.१८:९
SK
* ते चोत्पन्ना मताव् अभिव्यज्यन्ते // PSBह्_१.१८:१०
SK
* कालतिलकादिदर्शनवत् // PSBह्_१.१८:११
SK
* अभिव्यक्तेश् चोच्यते कलुषितो ऽहं व्याहतो ऽहं मलिनीकृतो ऽहम् इति // PSBह्_१.१८:१२
SK
* अतो द्वेषेच्छाक्रोधनिमित्तत्वान् मूत्रपुरीषस्त्रीशूद्रप्रतिषेधः क्रियते // PSBह्_१.१८:१३
SK
* यदा त्व् एते द्वेषादयो भावा बीजक्षये सति नोत्पद्यन्ते तदा परं भावशौचं प्रत्यवगन्तव्यम् // PSBह्_१.१८:१४
SK
* कलुषमतेर् इति // PSBह्_१.१८:१५
SK
* नैमित्तिकं च कलुषम् // PSBह्_१.१८:१६
SK
* न च निमित्तानित्यत्वान् नैमित्तिकं नित्यं भवति // PSBह्_१.१८:१७
SK
* बीजक्षये ऽङ्कुरवत् // PSBह्_१.१८:१८
SK
* न च यत्रैव कलुषम् उत्पद्यते तत्रैवोपस्पर्शनादीनि कर्तव्यानि // PSBह्_१.१८:१९
SK
* आयतने तु कर्तव्यानि // PSBह्_१.१८:२०
SK
* अथापि कलुषम् उत्पन्नं प्रध्वस्तं स्यात् तथापि तदर्थं न कर्तव्यानि // PSBह्_१.१८:२१
SK
* यदा तु तद् अवस्थितं सम्भवति शिरोरोगादिवत् तदा कर्तव्यानि // PSBह्_१.१८:२२
SK
* अत्र मतिर् इति बुद्धिर् इत्य् अनर्थान्तरम् // PSBह्_१.१८:२३
SK
* अत्रापि करणव्यपदेशेनात्मशौचं व्याख्यायत इत्य् अर्थः // PSBह्_१.१८:२४
SK
* आह अकलुषमतिना साधकेन किं कर्तव्यम् // PSBह्_१.१८:२५
SK
* तद् उच्यते चरितव्यम् // PSBह्_१.१८:२६
SK
* यस्माद् आह // PSBह्_१.१८:२७
SK
चरतः || PS_१.१९ ||
SK
* अत्र चरतः इति धर्मार्जनम् अधिकुरुते // PSBह्_१.१९:१
SK
* भैक्ष्यचरणवत् तपश् चरितव्यं विहर्तव्यं तपसो ऽर्जनं कर्तव्यं न स्थेयम् इत्य् अर्थः // PSBह्_१.१९:२
SK
* चरत इति वर्तमानकालः // PSBह्_१.१९:३
SK
* अकलुषमतेश् चरतो वा अस्य का कार्यनिष्पत्तिः // PSBह्_१.१९:४
SK
* तद् उच्यते // PSBह्_१.१९:५
SK
ततो ऽस्य योगः प्रवर्तते || PS_१.२० ||
SK
* अत्र ततः इति चर्यापदेशे // PSBह्_१.२०:१
SK
* ततः चर्याभिनिवेशाद् अनन्तरं तज्जन्यधर्माद् इत्य् अर्थः // PSBह्_१.२०:२
SK
* अस्य इति साधकापदेशे // PSBह्_१.२०:३
SK
* यो ऽयम् अकलुषमतिश् चरति तस्येत्य् अर्थः // PSBह्_१.२०:४
SK
* आह किं भवतीति // PSBह्_१.२०:५
SK
* तद् उच्यते योगः प्रवर्तते // PSBह्_१.२०:६
SK
* अध्ययनध्यानादिलक्षणः क्रियायोगश् चरतः प्रवर्तत इत्य् अर्थः // PSBह्_१.२०:७
SK
* अत्रात्मेश्वरसंयोगो योगः प्रत्येतव्यः // PSBह्_१.२०:८
SK
* प्र इति आदिकर्मणि आरम्भे भवति // PSBह्_१.२०:९
SK
* यदा अकलुषमतिश् चरति तदा प्रवर्तत इत्य् अर्थात् // PSBह्_१.२०:१०
SK
* तत्र यतः प्रवर्तते // PSBह्_१.२०:११
SK
* विषयेभ्यः // PSBह्_१.२०:१२
SK
* प्रत्याहृतचित्तस्य यत् प्रवर्तते तद्योगः // PSBह्_१.२०:१३
SK
* यथा प्रवर्तते // PSBह्_१.२०:१४
SK
* क्रमशः // PSBह्_१.२०:१५
SK
* येन प्रवर्तते // PSBह्_१.२०:१६
SK
* तपसा प्रवर्तते // PSBह्_१.२०:१७
SK
* यस्य प्रवर्तते // PSBह्_१.२०:१८
SK
* आत्मनः साधकस्य // PSBह्_१.२०:१९
SK
* यस्मिन् प्रवर्तते // PSBह्_१.२०:२०
SK
* यो ऽयम् आत्मन्य् आत्मभावः स महेश्वरे प्रवर्तत इत्य् अर्थः // PSBह्_१.२०:२१
SK
* एवं यस्माद् द्रव्यावस्थानकालदेशक्रियाप्रयोगोच्चावचप्रयोजनयमनियमवृत्तिवसत्यर्थप्राणायामप्रत्याहारनिमित्तप्रतिषेधसंशयनिर्घातनशौचनियोगफलोपायाश् च व्याख्याताः अतो ऽत्रायतनप्रकरणं समाप्तम् // PSBह्_१.२०:२२
SK
* अत्राह किं प्रयोजननिष्ठं तन्त्रम् // PSBह्_१.२०:२३
SK
* उच्यते न // PSBह्_१.२०:२४
SK
* योगनिष्ठम् // PSBह्_१.२०:२५
SK
* यस्माद् आह युक्तोत्तरे सत्य् अपि पदार्थवैलक्षण्ये रङ्गपताकादिवच्छिष्यप्रलोभनार्थम् इदम् आरभ्यते // PSBह्_१.२०:२६
SK
दर्शनश्रवणमननविज्ञानानि चास्य प्रवर्तन्ते || PS_१.२१ ||
SK
* अत्र दूरं नाम यद् एतद् दर्शनाद्यं विकरणान्तं माहेश्वरम् ऐश्वर्यम् अनेन कदाचित् प्राप्तपूर्वकं तस्मिंस् तत्प्राप्तौ च // PSBह्_१.२१:१
SK
* दर्शनादिष्व् आधिकारिको ऽत्र दूरशब्दो द्रष्टव्यः // PSBह्_१.२१:२
SK
* तत्प्राप्तिश् च योगप्रवृत्तितः // PSBह्_१.२१:३
SK
* आह यद्य् एवं सूत्रतो ऽभिधीयन्तां दर्शनादयः // PSBह्_१.२१:४
SK
* तद् उच्यन्ते // PSBह्_१.२१:५
SK
* दर्शनम् इत्य् अत्रापि च नस्त्रिकं चिन्त्यते // PSBह्_१.२१:६
SK
* द्रष्टा दर्शनं दृश्यम् इति // PSBह्_१.२१:७
SK
* अत्र द्रष्टा सिद्धः // PSBह्_१.२१:८
SK
* दर्शनम् अस्य सिद्धिः ज्ञानम् // PSBह्_१.२१:९
SK
* द्रष्टव्यानि रूपाणि // PSBह्_१.२१:१०
SK
* तत् कृत्स्नेषु विषयेषु समासविस्तरविभागविशेषतश् च दर्शनं प्रवर्तत इत्य् अर्थः // PSBह्_१.२१:११
SK
* तथा श्रवणम् इत्य् अत्रापि नस्त्रिकं चिन्त्यन्ते // PSBह्_१.२१:१२
SK
* श्रोता श्रवणं श्रव्यम् इति // PSBह्_१.२१:१३
SK
* तत्र श्रोता सिद्धः // PSBह्_१.२१:१४
SK
* श्रवणम् अस्य सिद्धिर् ज्ञानम् // PSBह्_१.२१:१५
SK
* श्रव्याः शब्दाः // PSBह्_१.२१:१६
SK
* तद् अस्य सिद्धस्य श्राव्येष्व् अर्थेषु समासविस्तरविभागविशेषतश् च श्रवणं प्रवर्तत इत्य् अर्थः // PSBह्_१.२१:१७
SK
* तथा मननम् इत्य् अत्रापि च नस्त्रिकं चिन्त्यते // PSBह्_१.२१:१८
SK
* मन्ता मननं मन्तव्यम् इति // PSBह्_१.२१:१९
SK
* अत्र मन्ता सिद्धः // PSBह्_१.२१:२०
SK
* मननम् अस्य सिद्धिर् ज्ञानम् // PSBह्_१.२१:२१
SK
* मन्तव्यानि परचित्तानि // PSBह्_१.२१:२२
SK
* देवमनुष्यतिर्यग्योनीनां धर्मार्थकाममोक्षचित्तानां मन्ता भवतीत्य् अर्थः // PSBह्_१.२१:२३
SK
* तथा विज्ञानम् इत्य् अत्रापि नस्त्रिकं चिन्त्यन्ते // PSBह्_१.२१:२४
SK
* विज्ञाता विज्ञानं विज्ञेयम् इति // PSBह्_१.२१:२५
SK
* तत्र विज्ञाता सिद्धः // PSBह्_१.२१:२६
SK
* विज्ञानम् अस्य सिद्धिर् ज्ञानम् // PSBह्_१.२१:२७
SK
* विज्ञेया वृत्तयः // PSBह्_१.२१:२८
SK
* अस्य सिद्धस्य प्रवर्तन्ते स्वतः प्रादुर्भवन्तीत्य् अर्थः // PSBह्_१.२१:२९
SK
* अस्य ज्ञानम् अस्ति नेति // PSBह्_१.२१:३०
SK
* उच्यते अस्ति // PSBह्_१.२१:३१
SK
* यस्माद् आह // PSBह्_१.२१:३२
SK
सर्वज्ञता || PS_१.२२ ||
SK
* अत्रोक्तेषु दृश्यश्रव्यादिषु च अशेषेषु सिद्धेश्वरपश्वादिषु निर्विशेषवाची सर्वशब्दो द्रष्टव्यः // PSBह्_१.२२:१
SK
* ज्ञता इत्य् अत्रापि च नस् त्रिकं चिन्त्यते // PSBह्_१.२२:२
SK
* ज्ञाता ज्ञानं ज्ञेयम् इति // PSBह्_१.२२:३
SK
* तत्र ज्ञाता सिद्धः ज्ञानम् अस्य सिद्धिर् ज्ञानम् // PSBह्_१.२२:४
SK
* ज्ञेयं कार्यं कारणं सिद्धाश् चेति // PSBह्_१.२२:५
SK
* तस्माद् एका ज्ञानशक्तिर् अपरिमितेन ज्ञेयेनानेकेनानेकधोपचर्यते // PSBह्_१.२२:६
SK
* स्फटिकादित्यवच् चास्य सर्वतः प्रवर्तत इत्य् अर्थः // PSBह्_१.२२:७
SK
* आह किम् अयं सिद्धो ज्ञानमात्रसंतुष्टः पङ्गुवद् उत क्रियाशक्तिर् अप्य् अस्ति नेति // PSBह्_१.२२:८
SK
* उच्यते अस्ति // PSBह्_१.२२:९
SK
* यस्माद् आह // PSBह्_१.२२:१०
SK
मनोजवित्वम् || PS_१.२३ ||
SK
* अत्रागन्तुकत्वात् सर्वज्ञानशक्तिर् उक्ता // PSBह्_१.२३:१
SK
* न तु ऋषित्वविप्रत्ववद् इत्य् अर्थः // PSBह्_१.२३:२
SK
* यस्मात् अत्र मनोजववद् इत्य् एवं प्राप्ते समानोपमानत्वान् मनोजवित्वम् इत्य् उक्तम् // PSBह्_१.२३:३
SK
* मनोजववत् // PSBह्_१.२३:४
SK
* आह // PSBह्_१.२३:५
SK
* को ऽर्थः सूत्रस्य // PSBह्_१.२३:६
SK
* उच्यते यादृङ् मनसो जवित्वम् आशुकारित्वम् ईदृशम् अस्य सिद्धस्य कर्तृत्वे शीघ्रत्वम् // PSBह्_१.२३:७
SK
* न चास्य प्रजापतिवत् तपोनिमित्तत्वाद् भावोत्तरा प्रवृत्तिः // PSBह्_१.२३:८
SK
* किंतु भावस्य बलीयस्त्वात् प्रवृत्तेर् उत्पन्नस्वभावः करोमीति कृतम् एव भवति // PSBह्_१.२३:९
SK
* विनाशयामीति विनष्टं वा // PSBह्_१.२३:१०
SK
* कस्मात् // PSBह्_१.२३:११
SK
* दृक्क्रिययोर् अप्रतीघातत्वात् // PSBह्_१.२३:१२
SK
* त्वम् इति भावनिर्देशाद् गम्यते वित्तम् अस्य शक्तिः सामर्थ्यम् // PSBह्_१.२३:१३
SK
* ऐश्वर्यम् ईदृशम् इत्य् अर्थः // PSBह्_१.२३:१४
SK
* आह किम् अस्य सिद्धस्य कर्तव्यं करणं कुतो वा करोति // PSBह्_१.२३:१५
SK
* तद् उच्यते // PSBह्_१.२३:१६
SK
कामरूपित्वम् || PS_१.२४ ||
SK
* कामरूपी इत्य् अत्रापि च नस् त्रिकं चिन्त्यते // PSBह्_१.२४:१
SK
* कामी कामः काम्यम् इति // PSBह्_१.२४:२
SK
* तत्र कामी सिद्धः // PSBह्_१.२४:३
SK
* कामो ऽस्येच्छा // PSBह्_१.२४:४
SK
* काम्यानि रूपाणि // PSBह्_१.२४:५
SK
* कथम् // PSBह्_१.२४:६
SK
* कमु इच्छायां भवति // PSBह्_१.२४:७
SK
* रूपाणि यावन्ति यादृशानि चेच्छति तावन्ति तादृशानि च करोति // PSBह्_१.२४:८
SK
* आत्मायत्तानि चास्य रूपकरणानि पृथिव्यादीनि // PSBह्_१.२४:९
SK
* विभुत्वाच् च करणानां यत्र यत्र रूपाण्य् अभिनिर्वर्तयति तत्र तत्र चास्य बुद्ध्यादीनां करणानां वृत्तिलाभो भवति // PSBह्_१.२४:१०
SK
* चक्षुरादिवद् दृष्टान्तात् // PSBह्_१.२४:११
SK
* नाधिष्ठाता इति चेत् // PSBह्_१.२४:१२
SK
* तच् च न // PSBह्_१.२४:१३
SK
* कस्मात् // PSBह्_१.२४:१४
SK
* यस्माद् आह रूपीति // PSBह्_१.२४:१५
SK
* अत्र रूपाण्य् अधितिष्ठतीति रूपी // PSBह्_१.२४:१६
SK
* दण्डिवत् // PSBह्_१.२४:१७
SK
* रूपिवचनाच् च सर्वेषाम् एव रूपाणां युगपद् एवाधिष्ठाता भवति // PSBह्_१.२४:१८
SK
* विभुत्वाद् अभिन्नो महेश्वरात् // PSBह्_१.२४:१९
SK
* इदं च रुद्रसायुज्यनिर्देशाद् गम्यते // PSBह्_१.२४:२०
SK
* त्वम् इति भावनिर्देशाद् गम्यते वित्तम् अस्य शक्तिः सामर्थ्यम् // PSBह्_१.२४:२१
SK
* ऐश्वर्यम् ईदृशम् इत्य् अर्थः // PSBह्_१.२४:२२
SK
* आह परिमितेषु कृत्येषु अशक्तिदर्शनात् संदेहः // PSBह्_१.२४:२३
SK
* अथ किम् अयं सिद्धस् तेषां स्वकृतानां रूपाणां संहारे शक्तः उत विश्वामित्रवद् अशक्तः इति // PSBह्_१.२४:२४
SK
* उच्यते // PSBह्_१.२४:२५
SK
* यस्माद् आह // PSBह्_१.२४:२६
SK
विकरणः || PS_१.२५ ||
SK
* अत्र विः विनाशे विनाकरणे // PSBह्_१.२५:१
SK
* विकरणो भवति // PSBह्_१.२५:२
SK
* विशिखविरथवत् // PSBह्_१.२५:३
SK
* करणप्रतिषेधात् कार्यप्रतिषेधः कृतो भवति // PSBह्_१.२५:४
SK
* कस्मात् // PSBह्_१.२५:५
SK
* विशिष्टत्वाद् ग्राहकत्वात् सूक्ष्मत्वाच् च करणानाम् // PSBह्_१.२५:६
SK
* तस्माद् विकरण इति कैवल्यम् // PSBह्_१.२५:७
SK
* आह अविशेषाद् इह सांख्ययोगादीनाम् अपि सहैश्वर्येण कार्यकरणत्यागं कृत्वा कैवल्यनिष्ठा // PSBह्_१.२५:८
SK
* इहापि च शास्त्रे // PSBह्_१.२५:९
SK
* कथं तस्माद् अविशेषः // PSBह्_१.२५:१०
SK
* अथ मतिः निरतिशये मोक्षे नास्ति वैषम्यं तथाप्य् अतिदानादिभिः साध्यसाधननिष्ठातो ऽथ विशेषः उच्यते // PSBह्_१.२५:११
SK
* नाविशेषः // PSBह्_१.२५:१२
SK
* यस्माद् आह // PSBह्_१.२५:१३
SK
धर्मित्वं च || PS_१.२६ ||
SK
* अत्र गुणधर्मेणायं धर्मी भवति // PSBह्_१.२६:१
SK
* यद् एतद् दर्शनाद्यं विकरणान्तं माहेश्वरम् ऐश्वर्यम् अस्येशप्रसादात् स्वगुणसंवृत्तं तेनायं गुणधर्मेण धर्मी भवति // PSBह्_१.२६:२
SK
* कुतः // PSBह्_१.२६:३
SK
* त्वम् इति भावनिर्देशाद् गम्यते // PSBह्_१.२६:४
SK
* ऋते ऽपि कार्यकरणे ज्ञाता कर्ता च भवति // PSBह्_१.२६:५
SK
* ततश् च कैवल्याद्याः सर्वनिष्ठा विशेषिता भवन्ति // PSBह्_१.२६:६
SK
* चशब्दो ऽत्र ज्ञानक्रियाशक्तिसमारोपणार्थः // PSBह्_१.२६:७
SK
* एवम् अत्रास्य सिद्धस्य कामरूपिविकरणवचनात् स्वकृतेषु रूपेषु प्रभुत्वं विभुत्वं गुणधर्मित्वं च व्याख्यातम् // PSBह्_१.२६:८
SK
* एतद् युक्तोत्तरे प्रसादाद् गुणाः प्रवर्तन्त इत्य् अर्थः // PSBह्_१.२६:९
SK
* अत्रेदम् आधिकारिकम् ऐश्वर्यप्रकरणं परिसमाप्तम् इति // PSBह्_१.२६:१०
SK
* आह किं परकृतेष्व् अपि देवमनुष्यतिर्यग्योनिरूपेष्व् अस्य सिद्धस्य प्रभुत्वं विभुत्वं चास्ति नेति // PSBह्_१.२६:११
SK
* उच्यते अस्ति // PSBह्_१.२६:१२
SK
* यस्माद् आह // PSBह्_१.२६:१३
SK
सर्वे चास्य वश्या भवन्ति || PS_१.२७ ||
SK
* अत्र सर्वे निरवशेषाः पशुधर्माण इत्य् अर्थः // PSBह्_१.२७:१
SK
* चशब्दः स्वकृतपरकृतरूपसमुच्चयार्थः // PSBह्_१.२७:२
SK
* परकृतेष्व् अपि देवादिरूपेषु प्रभुत्वं विभुत्वं चास्तीति // PSBह्_१.२७:३
SK
* अस्य इति सिद्धस्येत्य् अर्थः // PSBह्_१.२७:४
SK
* वश्याः विधेयाः // PSBह्_१.२७:५
SK
* वशवर्तिनश् च भवन्तीत्य् अर्थः // PSBह्_१.२७:६
SK
* भवन्ति इति भूतार्थवादो निःसंशयम् // PSBह्_१.२७:७
SK
* आह किम् अयं सिद्धस् तेषां कदाचिद् वश्यो भवति नेति // PSBह्_१.२७:८
SK
* उच्यते न // PSBह्_१.२७:९
SK
* यस्माद् आह // PSBह्_१.२७:१०
SK
सर्वेषां चावश्यो भवति || PS_१.२८ ||
SK
* अत्रापि सर्वशब्दः पशुष्व् एव // PSBह्_१.२८:१
SK
* सर्वेषाम् इति न्यूनपरिग्रहे // PSBह्_१.२८:२
SK
* चशब्दो ऽभ्यधिकत्वे // PSBह्_१.२८:३
SK
* अभ्यधिक उत्कृष्टो व्यतिरिक्तश् च भवतीत्य् अर्थः // PSBह्_१.२८:४
SK
* अवश्य इति // PSBह्_१.२८:५
SK
* अकारो भूतपूर्वं वश्यत्वं प्रतिषेधयति // PSBह्_१.२८:६
SK
* भवति इति भूतार्थवादो निःसंशयम् // PSBह्_१.२८:७
SK
* यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वेषां शक्तेर् अवश्यो भवतीत्य् अर्थः // PSBह्_१.२८:८
SK
* आह किं स्वशक्त्याध्याक्रान्ता वश्या भवन्ति आहोस्विद् धर्ममर्यादां रक्षन्ति गुरुशिष्यवत् // PSBह्_१.२८:९
SK
* गुरोः शक्तः शिष्यो नाध्याक्रान्तः // PSBह्_१.२८:१०
SK
* यस्माद् आह // PSBह्_१.२८:११
SK
सर्वांश् चाविशति || PS_१.२९ ||
SK
* अत्रापि सर्वशब्दः पशुष्व् एव निरवशेषवाची द्रष्टव्यः // PSBह्_१.२९:१
SK
* चशब्दः पूर्वोक्तसमुच्चये // PSBह्_१.२९:२
SK
* न केवलम् अस्य ते वश्याः किं त्व् आवेश्याश् चेति // PSBह्_१.२९:३
SK
* अत्र आङ् इति आवेशनमर्यादाम् अधिकुरुते // PSBह्_१.२९:४
SK
* विश प्रवेशने // PSBह्_१.२९:५
SK
* स तस्य ज्ञानक्रिययोर् विभुत्वे ऽपि शक्तिसंयोगाद् आविश्य प्रत्ययलोपं कर्तुं समर्थो भवतीत्यर्थः // PSBह्_१.२९:६
SK
* आह किम् अयं सिद्धस् तेषां कदाचिद् आवेश्यो भवति नेति // PSBह्_१.२९:७
SK
* उच्यते न // PSBह्_१.२९:८
SK
* यस्माद् आह // PSBह्_१.२९:९
SK
सर्वेषां चानावेश्यो भवति || PS_१.३० ||
SK
* अत्रापि सर्वशब्दः पशुष्व् एव // PSBह्_१.३०:१
SK
* सर्वेषाम् इति न्यूनपरिग्रहे // PSBह्_१.३०:२
SK
* चशब्दो ऽभ्यधिकत्वे // PSBह्_१.३०:३
SK
* अभ्यधिक उत्कृष्टो व्यतिरिक्तश् च भवतीत्यर्थः // PSBह्_१.३०:४
SK
* अनावेश्य इति // PSBह्_१.३०:५
SK
* अकारा भूतपूर्वम् आवेश्यत्वं प्रतिषेधयति // PSBह्_१.३०:६
SK
* अनावेश्यधर्मा भवति // PSBह्_१.३०:७
SK
* न व्याधिशेषवद् अवस्थानम् भवति इति भूतार्थवादो निःसंशयम् // PSBह्_१.३०:८
SK
* यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वेषां चानावेश्यो भवतीत्य् अर्थः // PSBह्_१.३०:९
SK
* आह किम् आवेशनमात्र एव शक्तो यक्षरक्षःपिशाचादिवद् उत प्राणैर् अपि विप्रयोगं यातनाभिश् च संयोगं कर्तुं शक्तो भवतीति // PSBह्_१.३०:१०
SK
* उच्यते शक्तः // PSBह्_१.३०:११
SK
* यस्माद् आह // PSBह्_१.३०:१२
SK
सर्वे चास्य वध्या भवन्ति || PS_१.३१ ||
SK
* अत्रापि सर्वशब्दः पशुष्व् एव निरवशेषवाची द्रष्टव्यः // PSBह्_१.३१:१
SK
* चशब्दः समुच्चये // PSBह्_१.३१:२
SK
* न केवलम् अस्य ते वश्याः आवेश्याश् च किंतु वध्याश् चेति // PSBह्_१.३१:३
SK
* अस्य इति सिद्धापदेशे // PSBह्_१.३१:४
SK
* वध्या इति // PSBह्_१.३१:५
SK
* वध प्राणविप्रयोगे यातनायां च // PSBह्_१.३१:६
SK
* प्राणैर् अपि विप्रयोगं यातनाभिश् च संयोगं कर्तुं समर्थो भवतीत्यर्थः // PSBह्_१.३१:७
SK
* भवन्ति इति भूतार्थवादो निःसंशये // PSBह्_१.३१:८
SK
* यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वे चास्य वध्या भवन्तीत्यर्थः // PSBह्_१.३१:९
SK
* आह किम् अयं सिद्धस् तेषां कदाचिद् वध्यो भवति नेति // PSBह्_१.३१:१०
SK
* उच्यते न // PSBह्_१.३१:११
SK
* यस्माद् आह // PSBह्_१.३१:१२
SK
सर्वेषां चावध्यो भवति || PS_१.३२ ||
SK
* अत्रापि सर्वशब्दः पशुष्व् एव // PSBह्_१.३२:१
SK
* सर्वेषाम् इति न्यूनपरिग्रहे // PSBह्_१.३२:२
SK
* चशब्दो ऽभ्यधिकत्वे // PSBह्_१.३२:३
SK
* अभ्यधिकः उत्कृष्टो व्यतिरिक्तश् च भवतीत्यर्थः // PSBह्_१.३२:४
SK
* अवध्य इति // PSBह्_१.३२:५
SK
* अकारो भूतपूर्वं वध्यत्वं प्रतिषेधयति // PSBह्_१.३२:६
SK
* यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वेषां चावध्यो भवतीत्यर्थः // PSBह्_१.३२:७
SK
* एवं परकृतेष्वपि देवादिशरीरेषु रूपेषु प्रभुत्वं विभुत्वं च व्याख्यातम् // PSBह्_१.३२:८
SK
* अत्रेदं षट्सूत्रीप्रकरणं परिसमाप्तम् // PSBह्_१.३२:९
SK
* आह किम् अस्य सिद्धस्यैतदैश्वर्यं नित्यम् आहोस्वित् पार्थिवाप्यतैजसवायव्यव्योममानसाहंकारिकमहदात्मकादिवद् अनित्यम् इति // PSBह्_१.३२:१०
SK
* उच्यते नित्यम् // PSBह्_१.३२:११
SK
* यस्माद् आह // PSBह्_१.३२:१२
SK
अभीतः || PS_१.३३ ||
SK
* अत्र अक्षयादिवचनविरोधाद् अधीतश् चरतीति पाठानुपपत्तिः // PSBह्_१.३३:१
SK
* तस्माद् अतीतानागतवर्तमानकालभयं न विद्यत इत्य् अतो ऽभीतः // PSBह्_१.३३:२
SK
* आह अभीतानाम् अपि ब्रह्मादीनां संहारे क्षयः श्रूयते // PSBह्_१.३३:३
SK
* तस्मान् नाभीतत्वात् नित्यम् // PSBह्_१.३३:४
SK
* अभीतस्य वा किं लक्षणम् // PSBह्_१.३३:५
SK
* तद् उच्यते // PSBह्_१.३३:६
SK
अक्षयः || PS_१.३४ ||
SK
* अत्र अकारः क्षयप्रतिषेधे // PSBह्_१.३४:१
SK
* अत्र क्षयो नाम सति पुरुषनित्यत्वे पूर्वम् अस्य ब्राह्मणस्य तैस् तैर् ऐश्वर्यैर् अपकर्षः // PSBह्_१.३४:२
SK
* आहंकारिकमहदात्मकादिभिर् अनित्यो योगः // PSBह्_१.३४:३
SK
* अयं तु अनेन नित्येन माहेश्वरेणैश्वर्येण योगात् पुरुषः अक्षयः इत्य् उपचर्यते // PSBह्_१.३४:४
SK
* राजकोशवत् कुटुम्बिद्रव्यवत् // PSBह्_१.३४:५
SK
* आह ईश्वराणाम् अपि ययातिप्रभृतीनां जराभिभवनाद् अथ किम् अयं जीर्यते नेति // PSBह्_१.३४:६
SK
* अक्षयस्य वा किं लक्षणम् // PSBह्_१.३४:७
SK
* तद् उच्यते // PSBह्_१.३४:८
SK
अजरः || PS_१.३५ ||
SK
* अत्र अकारो जरां प्रतिषेधति // PSBह्_१.३५:१
SK
* अत्र जरा नाम पलितस्खलित्यादिलक्षणा कार्यस्य दृक्क्रियाशक्तिहानिश् च करणानाम् // PSBह्_१.३५:२
SK
* कस्मात् // PSBह्_१.३५:३
SK
* तत्फलभोक्तृत्वाद् अयं जीर्यत इत्य् उपचर्यते // PSBह्_१.३५:४
SK
* इदानीं तु कामित्वाद् विकरणधर्मित्वाच् च नास्तीत्यतः अजर इत्युच्यते // PSBह्_१.३५:५
SK
* आह अजराणाम् अपि देवादीनां संहाराद् अर्वाङ् मृत्युर् दृश्यते // PSBह्_१.३५:६
SK
* अथ किम् अस्य मृत्युर् विद्यते नेति // PSBह्_१.३५:७
SK
* अजरस्य वा किं लक्षणम् // PSBह्_१.३५:८
SK
* तद् उच्यते // PSBह्_१.३५:९
SK
अमरः || PS_१.३६ ||
SK
* अत्र अकारो मृत्युप्रतिषेधे // PSBह्_१.३६:१
SK
* मृङ् प्राणत्यागे // PSBह्_१.३६:२
SK
* अत्र प्राणादिवृत्तिनिरोधो मृत्युरित्युच्यते // PSBह्_१.३६:३
SK
* कस्मात् // PSBह्_१.३६:४
SK
* तत्फलभोक्तृत्वात् // PSBह्_१.३६:५
SK
* सो ऽस्य कामित्वाद् विकरणधर्मित्वाच् च नास्तीत्यतः // PSBह्_१.३६:६
SK
* अमर इत्युच्यते // PSBह्_१.३६:७
SK
* तस्मादभीताक्षयादिवचनान् नित्यमैश्वर्यम् इति सिद्धम् // PSBह्_१.३६:८
SK
* आह // PSBह्_१.३६:९
SK
सर्वत्र चाप्रतिहतगतिर् भवति || PS_१.३७ ||
SK
* सर्वत्र अभिप्रेतार्थेषु प्रवर्तमानस्य महेश्वरेणापि अप्रतिबन्धधर्मित्वम् अप्रतीघातः // PSBह्_१.३७:१
SK
इत्य् एतैर् गुणैर् युक्तो भगवतो महादेवस्य महागणपतिर् भवति || PS_१.३८ ||
SK
* इत्य् एतैः पूर्वोक्तैः अवश्यत्वानावेश्यत्वावध्यत्वाभीतत्वाक्षयत्वाजरत्वामरत्वाप्रतीघातत्वाख्यैः अष्टभिर् गुणैः सिद्धिलक्षणैर् युक्तो भगवतो महादेवस्य महागणपतिर् भवति // PSBह्_१.३८:१
SK
* सर्वपशुभ्यो ऽभ्यधिकत्वम् ऐश्वर्यातिशयान् महत्त्वम् // PSBह्_१.३८:२
SK
* गणाः नन्दिमहाकालादयः // PSBह्_१.३८:३
SK
* सर्वपश्वादिकार्यस्वामित्वं पतित्वम् // PSBह्_१.३८:४
SK
* एवम् अध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् // PSBह्_१.३८:५
SK
अत्रेदं ब्रह्म जपेत् || PS_१.३९ ||
SK
* बृहच् च तेभ्यः सर्वब्रह्मभ्यः स्वयं भवति // PSBह्_१.३९:१
SK
* जपेद् इति च मानसक्रिया // PSBह्_१.३९:२
SK
* जप्यं प्रत्यवगन्तव्यम् // PSBह्_१.३९:३
SK
* उक्तम् आह जपयज्ञस्तु यज्ञानां विशिष्टो दशभिर्गुणैः // PSBह्_१.३९:४
SK
* उपांशु स्याच्छतगुणः साहस्रो मानसः स्मृतः // PSBह्_१.३९:५
SK
* अतो मनसैव जप्तव्यम् // PSBह्_१.३९:६
SK
* किम् अर्थमिति चेत् // PSBह्_१.३९:७
SK
* तदुच्यते अधर्मव्युच्छित्त्यर्थं धर्मस्य चाभिवृद्ध्यर्थं तस्य चाकुशलेभ्यो व्यावर्तनार्थं ब्रह्मण्यनवरतपदपङ्क्त्याम् उपनिबन्धनार्थं चेत्यर्थः // PSBह्_१.३९:८
SK
* आह किं पुनस्तद् ब्रह्मेति // PSBह्_१.३९:९
SK
* अत्रोच्यते सद्योजाताद्यम् // PSBह्_१.३९:१०
SK
* अथवात्र ब्रह्माध्याययोर् दूरस्थः सम्बन्धः // PSBह्_१.३९:११
SK
* कथम् // PSBह्_१.३९:१२
SK
* पशुपतेर् इत्युक्ते संदेहः // PSBह्_१.३९:१३
SK
* किंनरपतिसुरपतिप्रजापतिप्रभृतिवद् अस्यैश्वर्यं कृतम् अनित्यम् आगन्तुकं वा // PSBह्_१.३९:१४
SK
* किं चास्य जन्म मृत्युर् वा विद्यते नेति // PSBह्_१.३९:१५
SK
* उच्यते न // PSBह्_१.३९:१६
SK
* यस्माद् आह // PSBह्_१.३९:१७
SK
सद्योऽजातं प्रपद्यामि || PS_१.४० ||
SK
* अत्र सद्यः इत्य् अस्मिन् पदे ऽर्थद्वयं चिन्त्यते // PSBह्_१.४०:१
SK
* संश् च आद्यश् च // PSBह्_१.४०:२
SK
* आप्तिपालनवत् // PSBह्_१.४०:३
SK
* अत्र सद् इति नित्यत्वे // PSBह्_१.४०:४
SK
* कस्मात् // PSBह्_१.४०:५
SK
* विनाशहेत्वभावात् // PSBह्_१.४०:६
SK
* नित्यं ध्रुवम् अविनाशि पत्युः पतित्वं नान्येषाम् इत्य् अतोऽभिधीयते सद् इति // PSBह्_१.४०:७
SK
* आह किम् अयम् आदिमत्त्वे सति नित्यो मोक्षवत् // PSBह्_१.४०:८
SK
* उच्यते न // PSBह्_१.४०:९
SK
* यस्माद् आह आद्यः // PSBह्_१.४०:१०
SK
* तद्व्यतिरिक्तस्य // PSBह्_१.४०:११
SK
* हेतोर् असंभवाद् आद्यमन् आगन्तुकं पत्युः पतित्वं नान्येषाम् इत्यर्थः // PSBह्_१.४०:१२
SK
* आह किं नित्यानादित्वे सति पुरुषवज् जायते // PSBह्_१.४०:१३
SK
* उच्यते न // PSBह्_१.४०:१४
SK
* यस्माद् आह अजातः // PSBह्_१.४०:१५
SK
* अत्र अकारो जन्ममृत्युप्रतिषेधे // PSBह्_१.४०:१६
SK
* जन्ममृत्युरहितो भगवान् निरञ्जनः // PSBह्_१.४०:१७
SK
* कस्मात् // PSBह्_१.४०:१८
SK
* साञ्जनवृत्त्यलाभात् // PSBह्_१.४०:१९
SK
* निरभिमानित्वं नान्येषाम् इत्यतः // PSBह्_१.४०:२०
SK
* अजातम् इति कर्म // PSBह्_१.४०:२१
SK
* आह अथैतत् सत्त्वम् आद्यत्वम् अजातत्वं च गुणं कारणे ज्ञात्वा साधकेन किं कर्तव्यम् // PSBह्_१.४०:२२
SK
* तद् उच्यते प्रपत्तव्यम् // PSBह्_१.४०:२३
SK
* यस्माद् आह प्रपद्यामि // PSBह्_१.४०:२४
SK
* इति साधकापदेशः // PSBह्_१.४०:२५
SK
* यथा अग्ने व्रतपते व्रतं चरिष्यामि इति // PSBह्_१.४०:२६
SK
* अत्र प्रशब्दः कारणान्तरेषु सत्त्वाद्यत्वाजातत्वप्रतिषेधार्थो भृशार्थश् च // PSBह्_१.४०:२७
SK
* तस्मात् सर्वभावानभिष्वङ्गेण तद् एव कारणं प्रपत्तव्यम् // PSBह्_१.४०:२८
SK
* शरणम् अभ्युपगन्तव्यम् इत्य् अर्थः // PSBह्_१.४०:२९
SK
* आह अत्र प्रपन्नः किं करिष्यति // PSBह्_१.४०:३०
SK
* किं वा दास्यति // PSBह्_१.४०:३१
SK
* तद् उच्यते पूजां करिष्यत्य् आत्मानं च दास्यति // PSBह्_१.४०:३२
SK
* यथाह // PSBह्_१.४०:३३
SK
सद्योऽजाताय वै नमः || PS_१.४१ ||
SK
* आह सत्त्वम् आद्यत्वम् अजातत्वं च पूर्वोक्तम् // PSBह्_१.४१:१
SK
* सद्योऽजाताय इति चतुर्थी // PSBह्_१.४१:२
SK
* वैशब्दः सम्भावने // PSBह्_१.४१:३
SK
* सत्त्वम् आद्यत्वम् अजातत्वं च धर्मान् संभाव्य ब्रवीति सद्योऽजाताय वै नमः // PSBह्_१.४१:४
SK
* नम इत्य् आत्मप्रदाने पूजायां च // PSBह्_१.४१:५
SK
* नमस्कारेणात्मानं प्रयच्छति पूजां च प्रयुङ्क्त इत्य् अर्थः // PSBह्_१.४१:६
SK
* आह किं प्रयोजनम् आत्मानं महेश्वराय प्रयच्छति // PSBह्_१.४१:७
SK
* किम् अस्य दुःखं वा // PSBह्_१.४१:८
SK
* किं वा महेश्वरान् मृगयते // PSBह्_१.४१:९
SK
* किं वा स्वयम् उत्पादितानुगृहीततिरोभावितानां पशूनां पतिः उत परैरिति // PSBह्_१.४१:१०
SK
* उच्यते स्वयम् // PSBह्_१.४१:११
SK
* यस्माद् आह // PSBह्_१.४१:१२
SK
भवे भवे नातिभवे || PS_१.४२ ||
SK
* अत्र भवे भवे इति वीप्सा // PSBह्_१.४२:१
SK
* भव इति विद्याकलापशूनां समस्तानां ग्रहणम् // PSBह्_१.४२:२
SK
* भवः कस्मात् // PSBह्_१.४२:३
SK
* भवनभावनकृतत्वात् // PSBह्_१.४२:४
SK
* यस्माद् देवमनुष्यतिर्यक्त्वेन भावयति च तानीश्वरः // PSBह्_१.४२:५
SK
* धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणां भवनभावनत्वाद् भवः // PSBह्_१.४२:६
SK
* तस्य भूयोभूय उत्पत्त्यनुग्रहतिरोभावं च दृष्ट्वा // PSBह्_१.४२:७
SK
* वीप्सायाः उत्पत्ताव् उत्पत्ताव् अनुग्रहेऽनुग्रहे तिरोभावे तिरोभावे चेत्य् अर्थः // PSBह्_१.४२:८
SK
* नातिभवे इति // PSBह्_१.४२:९
SK
* नकारः कार्यत्वं प्रतिषेधयति // PSBह्_१.४२:१०
SK
* अतिशयितभवेषु मा भवामीत्यर्थः // PSBह्_१.४२:११
SK
* आह किं भवाद् वियोगमात्रम् एवैकं मृगयते // PSBह्_१.४२:१२
SK
* तद् उच्यते न // PSBह्_१.४२:१३
SK
* यस्माद् आह // PSBह्_१.४२:१४
SK
भजस्व माम् || PS_१.४३ ||
SK
* अत्र भज इत्यनुग्रहे // PSBह्_१.४३:१
SK
* स्व इति कारणापदेशे // PSBह्_१.४३:२
SK
* माम् इत्यात्मापदेशे // PSBह्_१.४३:३
SK
* भजस्व मां त्रायस्व माम् अनुगृह्णीष्व मामित्यर्थः // PSBह्_१.४३:४
SK
* आह कम् आमन्त्रयते // PSBह्_१.४३:५
SK
* कं प्रपद्यते // PSBह्_१.४३:६
SK
* कस्मै नमस्कारं करोति // PSBह्_१.४३:७
SK
* कस् तं पुरुषं भवान् मोक्षयति // PSBह्_१.४३:८
SK
* कं वा ब्रवीति भजस्व मामिति // PSBह्_१.४३:९
SK
* तद् उच्यते यस्माद् आह // PSBह्_१.४३:१०
SK
भवोद्भवः || PS_१.४४ ||
SK
* अत्र भव इति विद्याकलापशूनामेव ग्रहणम् // PSBह्_१.४४:१
SK
* तस्योत्पत्तिकर्ता भगवान् इत्यतो भवोद्भव इति // PSBह्_१.४४:२
SK
* अत्रोत्पादकानुग्राहकतिरोभावकधर्मि कारणम् उत्पाद्यानुग्राह्यतिरोभाव्यधर्मि कार्यम् इत्येतत् कार्यकारणयोर् लक्षणम् // PSBह्_१.४४:३
SK
* एतस्मिन् कारणे प्रपत्त्यादि क्रमोपयोगि द्रष्टव्यम् // PSBह्_१.४४:४
SK
* एवमत्र भगवत्कौण्डिन्यकृते पञ्चार्थभाष्ये प्रथमोऽध्यायः सह ब्रह्मणा ग्रन्थतो ऽर्थतश्च परिसमाप्त इति // PSBह्_१.४४:५
SK
Pआशुपतसूत्र, २
SK
वामः || PS_२.१ ||
SK
* नामभिः श्रेष्ठ इत्यर्थः // PSBह्_२.१:१
SK
* उक्तं हि / पुरुषध्वजशृङ्गेषु हविर्भूषणलक्ष्मसु / वामः श्रेष्ठेष्ववक्रेषु नवस्वर्थेषु कीर्तितः // PSBह्_२.१:२ * आह किंनिमित्तास्योत्पादकादिप्रवृत्तिः किंप्रयोजना वा // PSBह्_२.१:३ * तद् उच्यते // PSBह्_२.१:४
SK
देवस्य || PS_२.२ ||
SK
* इति // PSBह्_२.२:१
SK
* अत्र देव इति दिवु क्रीडायाम् // PSBह्_२.२:२
SK
* क्रीडाधर्मित्वात् क्रीडानिमित्ता // PSBह्_२.२:३
SK
* क्रीडावानेव स भगवान् विद्याकलापशुसंज्ञकं त्रिविधमपि कार्यम् उत्पादयन् अनुगृह्णाति तिरोभावयति चेत्य् अतो देवः // PSBह्_२.२:४
SK
* प्रवृत्तिश्चोत्पत्त्यादिफला द्रष्टव्या // PSBह्_२.२:५
SK
* देवस्य इति तद्धर्मित्वे षष्ठी // PSBह्_२.२:६
SK
* आह किं नामद्वयमेवात्र कारणे वितन्यते अर्थद्वयमेव वा आहोस्विद् अन्यदप्यस्ति नेति // PSBह्_२.२:७
SK
* उच्यतेऽस्ति // PSBह्_२.२:८
SK
* यस्माद् आह // PSBह्_२.२:९
SK
ज्येष्ठस्य || PS_२.३ ||
SK
* इति // PSBह्_२.३:१
SK
* अत्र परत्वाज् ज्येष्ठः // PSBह्_२.३:२
SK
* केषां केन वा परः // PSBह्_२.३:३
SK
* तद् उच्यते सिद्धसाधकपशूनाम् // PSBह्_२.३:४
SK
* तदायत्तत्वात् सिद्धसाधकभावस्य सर्वपशूनां च प्रवृत्तिनिवृत्तिस्थित्यादिफलानाम् इत्यतो ज्येष्ठः परतरः // PSBह्_२.३:५
SK
* परतमश्चेति // PSBह्_२.३:६
SK
* अकृतकं चास्यैश्वर्यम् // PSBह्_२.३:७
SK
* उक्तं हि / दृक्क्रियालक्षणा शक्तिस्तत्त्वधर्मोऽस्य नित्यता / श्रेष्ठोऽतः सर्वभूतेषु तस्मादेष परः स्मृतः // PSBह्_२.३:८ * इत्येवं परत्वाज् ज्येष्ठः // PSBह्_२.३:९ * अत्रापि ज्येष्ठस्येति तद्धर्मित्वे षष्ठी // PSBह्_२.३:१० * आह किं नामत्रयम् एवात्र कारणे चिन्त्यते अर्थत्रयमेव वा आहोस्विद् अन्यदप्यस्ति नेति // PSBह्_२.३:११ * उच्यतेऽस्ति // PSBह्_२.३:१२
SK
रुद्रस्य || PS_२.४ ||
SK
* इति // PSBह्_२.४:१
SK
* अत्र रुतस्य भयस्य द्रावणात् संयोजनाद् रुद्रः तत्र रुतम् अभिलाप इत्यनर्थान्तरम् // PSBह्_२.४:२
SK
* द्रावणं नाम // PSBह्_२.४:३
SK
* भयं विविधम् // PSBह्_२.४:४
SK
* उक्तं हि / नानाविधैः कृतैर्यस्माद् भयैश्च विविधैस्तथा / संयोजयति भूतानि तस्माद् रुद्र इति स्मृतः // PSBह्_२.४:५ * अत्रापि तद्धर्मित्वे षष्ठी // PSBह्_२.४:६ * आह किं तत् // PSBह्_२.४:७ * कीदृशं वा तदस्येति // PSBह्_२.४:८ * उच्यते // PSBह्_२.४:९
SK
कलितासनम् || PS_२.५ ||
SK
* अत्र त्रिविधेन कार्येण विद्याकलापशुसंज्ञकेन तत्रैव स्थित्युत्पत्तिप्रलयान् प्राप्नुवता कलितं शोभितशब्दितं नभस्ताराभिर् इवेत्यर्थः // PSBह्_२.५:१
SK
* आह यदेतत् पत्युः पतित्वं शक्तिः सामर्थ्यमैश्वर्यं स्वगुणः सद्भावः सतत्त्वं तत्त्वधर्मः तद् आसनम् // PSBह्_२.५:२
SK
* नतु पद्मासनवदुपवेशनलक्षणम् इत्यर्थः आसनं कस्मात् // PSBह्_२.५:३
SK
* आस्तेऽस्मिन् आसनम् // PSBह्_२.५:४
SK
* कार्यमनेन वा अध्यास्त इत्यासनमित्यर्थः // PSBह्_२.५:५
SK
* अत आसनम् // PSBह्_२.५:६
SK
* अतोऽव्ययोऽमृतो भगवान् कामतः स्वशक्तिस्थं कार्यं स्वशक्त्या अध्यास्ते // PSBह्_२.५:७
SK
* तस्मादासनस्थं कार्यं कारणं चेति // PSBह्_२.५:८
SK
* आह कार्यकारणयोर्वृत्तिसंकरदोषो गोजाविमहिषीक्षीरवत् // PSBह्_२.५:९
SK
* तदुत न // PSBह्_२.५:१०
SK
* अङ्गुल्यग्ररूपादिवद् इत्यसंकरः // PSBह्_२.५:११
SK
* दीपादित्यप्रकाशनयनरश्मिवच् चासंकरः // PSBह्_२.५:१२
SK
* आह संकरे अपरिच्छेददोषः ईश्वरपुरुषविद्याकलानां माक्षिककोटद्रव्यवत् // PSBह्_२.५:१३
SK
* तदुच्यते एकोत्तरोत्कर्षेण व्याप्यव्यापकभावेनावस्थितानां तत्त्वादीनां नापरिच्छेददोषः सूत्रत्वाद् व्यापकं महेश्वरतत्त्वं व्याप्यं पुरुषादिपञ्चविंशकम् // PSBह्_२.५:१४
SK
* तथा आत्मत्वाद् व्यापकं पुरुषतत्त्वं व्याप्यं प्रधानादिचतुर्विंशकम् // PSBह्_२.५:१५
SK
* तथा व्यापकं प्रधानं व्याप्यं बुद्ध्यादित्रयोविंशकम् // PSBह्_२.५:१६
SK
* व्यापिका भवति बुद्धिः व्याप्यम् अहंकारादिद्वाविंशकम् // PSBह्_२.५:१७
SK
* तथा व्यापको भवत्यहंकारः व्याप्यान्येकादशेन्द्रियाणि दशविधं च कार्यम् // PSBह्_२.५:१८
SK
* व्यापकान्येकादशेन्द्रियाणि व्याप्यानि पञ्चभूतसूक्ष्माणि शब्दादीनि // PSBह्_२.५:१९
SK
* तथा व्यापकानि पञ्चभूतसूक्ष्माणि शब्दादीनि व्याप्यानि आकाशादीनि पञ्चमहाभूतानि // PSBह्_२.५:२०
SK
* तथा व्यापकमाकाशं व्याप्यं वाय्वादिभूतचतुष्कम् // PSBह्_२.५:२१
SK
* तथा व्यापको भवति वायुः व्याप्यं तेजःप्रभृति भूतत्रयम् // PSBह्_२.५:२२
SK
* तथा व्यापकं भवति तेजः व्याप्यम् अबादिद्वयम् // PSBह्_२.५:२३
SK
* तथा व्यापिका भवन्त्यापः व्याप्या पृथिवी // PSBह्_२.५:२४
SK
* व्यापिका पृथिवी व्याप्यानि भूम्युदकरसलक्षणानि कार्याणि // PSBह्_२.५:२५
SK
* तथा व्यापकानि भूम्युदकरसलक्षणानि कारणानि व्याप्यं देवमनुष्यतिर्यग्योनि तृणौषधिवृक्षगुल्मलतावनस्पत्यादिकार्यम् अनेकविधम् अतो नापरिच्छेददोषः // PSBह्_२.५:२६
SK
* आह वृत्त्यसंकरग्रहणे दृष्टान्ताभावाद् अयुक्तम् तदुच्यते हरिद्रोदकवद् व्याप्यं व्यापकं च तद्यथा हरिद्रोदके स्निग्धत्वशैत्यादिधर्मैर् अपां ग्रहणं गन्धवर्णघनक्षारत्वादिभिर् हरिद्रायाः // PSBह्_२.५:२७
SK
* तथार्णवदेवादिस्थानशरीरेन्द्रियविषयादिसंनिवेशेन सुखदुःखसंनिपातेन चेश्वरस्य // PSBह्_२.५:२८
SK
* एवं पुरुषस्यापि // PSBह्_२.५:२९
SK
* ईश्वरस्यापि अपरिणामिधर्मित्वात् सुखदुःखदातृत्वाच् च प्रधानधर्माधर्मादीनां ग्रहणम् // PSBह्_२.५:३०
SK
* तथा प्रधानस्य मानससंकल्पालोचनगमनादिभिः करणग्रामस्य विषयाणां च ग्रहणम् // PSBह्_२.५:३१
SK
* तथा धृतिसंग्रहपक्तिव्यूहावकाशदानादिभिर् धर्मैः पृथिव्यादीनां ग्रहणमिति प्रधानवादिनो मन्यन्ते // PSBह्_२.५:३२
SK
* आह अथेह तन्त्रे कथं कार्यकारणावस्थानम् // PSBह्_२.५:३३
SK
* तद् वाच्यम् // PSBह्_२.५:३४
SK
* तदुच्यते इह यस्माद् आह शर्वसर्वेभ्यः इति वचनाद् यथासम्भवम् // PSBह्_२.५:३५
SK
* सति विभुत्वे स्ववृत्त्या कार्यकारणयोः सर्वगतत्वेऽपि स्ववृत्त्यसंकरः तस्माद् आसनस्थं कार्यं कारणं चेति // PSBह्_२.५:३६
SK
* आह किं तद् आसनस्थं कार्यम् आसने नित्यम् आहोस्विद् अनित्यमिति // PSBह्_२.५:३७
SK
* उच्यते नित्यं कार्यम् // PSBह्_२.५:३८
SK
* कस्मात् // PSBह्_२.५:३९
SK
* पत्युर् भवति // PSBह्_२.५:४०
SK
* कारणेश्वरनित्यत्वात् पतिनित्यत्वम् // PSBह्_२.५:४१
SK
* इह सद्योजातादिवचनात् पालको नित्यः // PSBह्_२.५:४२
SK
* पालकनित्यत्वाच् च पाल्यमपि नित्यम् // PSBह्_२.५:४३
SK
* कस्मात् // PSBह्_२.५:४४
SK
* न ह्य् असति पाल्ये पालक इत्येव // PSBह्_२.५:४५
SK
* सति नित्यत्वे तान्येव पश्वादीनि संयोजयति // PSBह्_२.५:४६
SK
* मृल्लोहमयप्राकारादिवद् दृष्टान्तात् // PSBह्_२.५:४७
SK
* वृत्तिलाभश्चोत्पत्तिरित्युच्यते // PSBह्_२.५:४८
SK
* स्थितिस्थानशरीरेन्द्रियविषयाद्यायतनानां परस्परोपकाराच् चानुग्रहः ईश्वरचोदनानुग्रहः वियोजनं वृत्तिलोपश्च // PSBह्_२.५:४९
SK
* लोपोऽभावः // PSBह्_२.५:५०
SK
* तस्मात् त्रिष्वपि कालेषु आसनस्थं कार्यं द्रष्टव्यम् // PSBह्_२.५:५१
SK
* पृथिव्यां बीजवद् इत्यर्थः // PSBह्_२.५:५२
SK
* आह किं तत् कार्यं भगवान् युगपदुत्पादयति क्रमशो वा // PSBह्_२.५:५३
SK
* किं वा कर्मापेक्षः अनपेक्षो वा // PSBह्_२.५:५४
SK
* तदुच्यते यथेष्टम् // PSBह्_२.५:५५
SK
* यस्मादाह // PSBह्_२.५:५६
SK
सार्वकामिक इत्याचक्षते || PS_२.६ ||
SK
* अत्र सर्वशब्दो विद्यादिकार्यनिरवशेषवाची द्रष्टव्यः // PSBह्_२.६:१
SK
* कामिक इत्यत्रापि नस्त्रिकं चिन्त्यते // PSBह्_२.६:२
SK
* कामी कामः काम्यमिति च तत्र कामी ईश्वरः // PSBह्_२.६:३
SK
* कामोऽस्येच्छा // PSBह्_२.६:४
SK
* काम्यं विद्यादिकार्यम् // PSBह्_२.६:५
SK
* तदक्रमेण क्रमशो वा यथेष्टमुत्पादयति // PSBह्_२.६:६
SK
* कस्मात् // PSBह्_२.६:७
SK
* कामित्वात् // PSBह्_२.६:८
SK
* अकर्मापेक्षित्वं चास्यात एव सिद्धम् // PSBह्_२.६:९
SK
* कर्मकामिनश्च महेश्वरमपेक्षन्ते न तु भगवानीश्वरः कर्म पुरुषं वापेक्षते // PSBह्_२.६:१०
SK
* अतो न कर्मापेक्ष ईश्वरः // PSBह्_२.६:११
SK
* इतिशब्दोऽर्थानां निर्वचनत्वात् प्रकरणपरिसमाप्त्यर्थः // PSBह्_२.६:१२
SK
* आह कामित्वं तत्त्ववैधर्म्यं कुर्यात् // PSBह्_२.६:१३
SK
* कार्यत्वेन वा परिणामित्वम् आत्मनो बन्धमोक्षविपर्ययं वा कुर्यात् // PSBह्_२.६:१४
SK
* तदुच्यते यस्मादाह आङ् इति // PSBह्_२.६:१५
SK
* आङ् इति कार्यकारणत्वम् आत्मनो मुक्तानां च मर्यादा // PSBह्_२.६:१६
SK
* तदुच्यते उत्पाद्यानुग्राह्यतिरोभाव्यकल्पकत्वाभावकत्वेनापरिणामित्वम् आत्मनो मुक्तानां च पुनर्दुःखैर् असंयोजनम् इत्येषा कारणमर्यादा // PSBह्_२.६:१७
SK
* स्थाप्या च कार्यमर्यादा // PSBह्_२.६:१८
SK
* तदुच्यते उत्पाद्यानुग्राह्यतिरोभाव्यकाल्प्यविकार्यमर्यादा // PSBह्_२.६:१९
SK
* तदन्यचोद्याधिष्ठेयत्वं च // PSBह्_२.६:२०
SK
* चक्षिङ् कथने // PSBह्_२.६:२१
SK
* भगवता कार्येभ्यो भवता रुद्रेणाचक्षितम् // PSBह्_२.६:२२
SK
* भगवतो महेश्वरस्य शक्तिः सनातनी // PSBह्_२.६:२३
SK
* तद्विद्यादिकार्यं कलितम् इत्येषोऽर्थः // PSBह्_२.६:२४
SK
* तथा चोक्तं वर्णितमित्यर्थः // PSBह्_२.६:२५
SK
* अत्रेदमाधिकारिकं कार्यकारणप्रकरणं परिसमाप्तमिति // PSBह्_२.६:२६
SK
* किं नाम कामित्वं रुद्रकामित्वं च // PSBह्_२.६:२७
SK
* एतदेव कारणे महाभाग्यम् आहोस्विदन्यदस्ति // PSBह्_२.६:२८
SK
* उच्यते अस्ति // PSBह्_२.६:२९
SK
* यस्मादाह // PSBह्_२.६:३०
SK
अमङ्गलं चात्र मङ्गलं भवति || PS_२.७ ||
SK
* अमङ्गलम् इति अत्र साधनजातम् अधिकुरुते तदुद्देशेन तु मङ्गलवचननिर्देशं करोति // PSBह्_२.७:१
SK
* चशब्दः कारणगुणवचनोपक्षेपे द्रष्टव्यः // PSBह्_२.७:२
SK
* उपक्षिप्योत्तरत्र मङ्गलं प्रदक्षिणं च वक्ष्यामः // PSBह्_२.७:३
SK
* तस्मादुभयं रुद्रे देवाश्च पितरश्च इत्युपरिष्टाद् वक्ष्यामः // PSBह्_२.७:४
SK
* अत्रशब्दे मूर्त्यधिष्ठातरि मनःसंज्ञे कारणे सकले उपतिष्ठता अपसव्यसम्बन्धो द्रष्टव्यः // PSBह्_२.७:५
SK
* मङ्गलम् इत्यत्रापि चामङ्गले वक्तव्ये मङ्गलमेव तद् वक्ष्यामः // PSBह्_२.७:६
SK
* तद् उच्यते अत्र अमङ्गलं नाम नग्नत्वापसव्यत्वसम्बन्धो हसिताद्यः साधनवर्गः // PSBह्_२.७:७
SK
* स त्किह कारणमूर्तिसामर्थ्यान्मङ्गलं भवति // PSBह्_२.७:८
SK
* शैलोदोमावनवत् // PSBह्_२.७:९
SK
* मङ्गलं साधनं धर्मनिष्पादकम् // PSBह्_२.७:१०
SK
* भवति इति भूतार्थवादो निःसंशयम् // PSBह्_२.७:११
SK
* कारणमूर्तौ क्रियमाणममङ्गलं मङ्गलं भवतीत्यर्थः // PSBह्_२.७:१२
SK
* आह किं नग्नत्वम् अपसव्यत्वं वा साधनद्वयमेवोच्यते // PSBह्_२.७:१३
SK
* न // PSBह्_२.७:१४
SK
* यस्मादाह // PSBह्_२.७:१५
SK
अपसव्यं च प्रदक्षिणम् || PS_२.८ ||
SK
* नग्नत्वं च साधनम् एवेत्यर्थः // PSBह्_२.८:१
SK
* अत्रामङ्गलनिर्देशार्थत्वात् प्रत्याहारवद् उपहारसामान्यमात्रख्यापनाच् च पृथगपसव्यारम्भः // PSBह्_२.८:२
SK
* तस्मादत्र अपसव्यं नाम यत् सव्याद् विपरीतम् // PSBह्_२.८:३
SK
* चशब्दः समुच्चये // PSBह्_२.८:४
SK
* न केवलं कारणमूर्तिसामर्थ्याद् अमङ्गलं मङ्गलमापद्यते अपसव्यं च प्रदक्षिणमापद्यत इत्यर्थः // PSBह्_२.८:५
SK
* प्रदक्षिणं नाम यद् अन्येषाम् अपसव्यं तदिह प्रदक्षिणं धर्मनिष्पादकं भवति // PSBह्_२.८:६
SK
* ननु यत् तेषां प्रदक्षिणं कस्मात् // PSBह्_२.८:७
SK
* उत्सूत्रादिदोषाद् अप्स्नानादिवद् इत्यर्थः // PSBह्_२.८:८
SK
* आह समस्तानां कारणगुणानां तु वचनं किमस्ति नेति // PSBह्_२.८:९
SK
* उच्यते अस्ति // PSBह्_२.८:१०
SK
* यस्मादाह // PSBह्_२.८:११
SK
तस्मादुभयथा यष्टव्यः || PS_२.९ ||
SK
* इति // PSBह्_२.९:१
SK
* अत्र तस्माच्छब्दः कारणगुणवचने // PSBह्_२.९:२
SK
* के कारणगुणा इति // PSBह्_२.९:३
SK
* तदुच्यते पतित्वसत्त्वाद्यत्वाजातत्वोत्पादकानुग्राहकतिरोभावकत्वतपावावेदे वामदेवज्येष्ठरुद्रकामित्वं च मङ्गलावाप्तिः प्रदक्षिणावाप्तिश्च // PSBह्_२.९:४
SK
* एतान् कारणगुणान् ज्ञात्वा // PSBह्_२.९:५
SK
* अतो ब्रवीति तस्मादिति // PSBह्_२.९:६
SK
* अथैतत् कारणगुणवचनं ज्ञात्वा साधकेन किं कर्तव्यम् // PSBह्_२.९:७
SK
* तदुच्यते उभयथा यष्टव्यः // PSBह्_२.९:८
SK
* अत्रोभयथा द्विधेत्यर्थः // PSBह्_२.९:९
SK
* यष्टव्य इत्यत्रापि नस्त्रिकं चिन्त्यते // PSBह्_२.९:१०
SK
* यष्टा यजनं यष्टव्यमिति // PSBह्_२.९:११
SK
* अत्र यष्टा साधकः // PSBह्_२.९:१२
SK
* यष्टव्यो भगवान् महेश्वरः // PSBह्_२.९:१३
SK
* यजनं भावना // PSBह्_२.९:१४
SK
* यजनम् अध्ययनध्यापनस्मरणाद्यम् // PSBह्_२.९:१५
SK
* तत्फलदेवनित्यता सायुज्यम् इत्युत्तरत्र वक्ष्यामः // PSBह्_२.९:१६
SK
* आह अनिर्देशात् संदेहः // PSBह्_२.९:१७
SK
* कथमुभयथा // PSBह्_२.९:१८
SK
* द्विधा निर्देशो वाच्यः // PSBह्_२.९:१९
SK
* तदुच्यते // PSBह्_२.९:२०
SK
देववत् पितृवच् च || PS_२.१० ||
SK
* कथमिति // PSBह्_२.१०:१
SK
* उच्यते पूर्वमस्य ब्राह्मणस्य देवयजने पितृयजने चाधिकारोऽधिगतः // PSBह्_२.१०:२
SK
* तस्मात् तेभ्यो देवपितृभ्यो भक्तिव्यावर्तनं कृत्वा उभयथापि महेश्वरे भावम् अवस्थाप्य यजनं कर्तव्यं नान्यस्य // PSBह्_२.१०:३
SK
* चशब्दः प्रतिषेधे // PSBह्_२.१०:४
SK
* यत् तत् पूर्वं देवपितृषु कारकत्वं संभावितं तत् तेषु न विद्यते // PSBह्_२.१०:५
SK
* अतस्तेषां यजनं न कर्तव्यम् इत्यर्थः // PSBह्_२.१०:६
SK
* आह यद्येवं तस्माद् उच्यतां देवपित् णां को दोषः यस्मात् ते न यष्टव्याः // PSBह्_२.१०:७
SK
* रुद्रे वा को गुणः यस्मात् स एव यष्टव्यः // PSBह्_२.१०:८
SK
* इति निर्देशो वाच्यः // PSBह्_२.१०:९
SK
* अप्स्नानादिवत् // PSBह्_२.१०:१०
SK
* तदुच्यते // PSBह्_२.१०:११
SK
उभयं तु रुद्रे देवाः पितरश्च || PS_२.११ ||
SK
* तत्रोभयं द्वयं समस्तम् इत्यर्थः // PSBह्_२.११:१
SK
* तुशब्दो देवपितृषु वैशेषिकं कारणत्वं व्यावर्तयति रुद्रे इति कारणापदेशम् // PSBह्_२.११:२
SK
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् // PSBह्_२.११:३
SK
* रुद्र इति वैषयिकं संनिधानम् // PSBह्_२.११:४
SK
* अत्र शक्तिर्विषय इत्य् अनर्थान्तरम् // PSBह्_२.११:५
SK
* ते देवपितरो रुद्रशक्त्यां हार्यधार्यकार्यत्वेन वर्तन्ते आधीयन्ते विषये वर्तन्त इत्यर्थः // PSBह्_२.११:६
SK
* देवाः पितरश्च // PSBह्_२.११:७
SK
* तत्र देवा इति ऋभुषु ब्रह्मादिपिशाचान्तेषु मनुष्यतिर्यग्योनिवर्जं सामान्यसंज्ञा // PSBह्_२.११:८
SK
* विधिवत् // PSBह्_२.११:९
SK
* पितर इति विशेषसंज्ञा भस्मस्नानादिवद् इत्यर्थः // PSBह्_२.११:१०
SK
* ब्राह्मणदेवदत्तादिवच् च // PSBह्_२.११:११
SK
* अत्राह सामान्यविशेषसंज्ञाभिधाने किं प्रयोजनमिति चेत् // PSBह्_२.११:१२
SK
* तदुच्यते त्रिविधस्यापि कार्यस्य रुद्रे हार्यधार्यकार्यज्ञापनार्थं किंच कालक्रियास्वाहास्वधामन्त्रान्यत्वदर्शनाद् देवपितृयजनापहृतचित्तव्यावर्तनार्थत्वाच् च // PSBह्_२.११:१३
SK
* तस्माद् अन्यानन्यत्वेनापि व्याख्यानम् अदुष्टम् // PSBह्_२.११:१४
SK
* चशब्दोऽभ्यधिकत्वे // PSBह्_२.११:१५
SK
* देवपितृवत् सत्त्वस्य त्रिविधस्यापि कार्यस्येश्वरे प्रतिष्ठाप्रसवसंयोगवियोगसुखमोहबन्धमोक्षदातृत्वेन च स एव परं कारणं समस्तत्वेनाप्यते इत्येवं चशब्दोऽभ्यधिकत्वे द्रष्टव्यः तस्माद् दुःखान्तार्थिना ते देवपितरो न यष्टव्याः // PSBह्_२.११:१६
SK
* तदर्थे भगवान् महेश्वरो यष्टव्य इत्यर्थः // PSBह्_२.११:१७
SK
* अत्रेदम् आनुषङ्गिकं कार्यकारणप्रकरणं परिसमाप्तम् // PSBह्_२.११:१८
SK
* अत उत्तरस्य विधिप्रकरणस्य सत्यपि पदार्थवैलक्षण्ये साध्यसाधनभावाद् यजनेन सह सम्बन्धं करिष्यामः // PSBह्_२.११:१९
SK
* कस्मात् // PSBह्_२.११:२०
SK
* इह पुरस्तादुक्तम् उभयथा यष्टव्यः देववत् पितृवच् च // PSBह्_२.११:२१
SK
* यत्र पूर्वं देवपितृभ्यो व्यावर्तितया भक्त्या महेश्वरं यजतोऽनवगमात् स्वात्मेश्वरसंयोगं योगं प्राप्स्यसि तत्फलं वक्ष्यामः // PSBह्_२.११:२२
SK
* येन च बलेनोपबृंहितस्य तत्रैव यजने उद्योगोऽभिनिवेशश्च भविष्यति तद् बलं वक्ष्यामः // PSBह्_२.११:२३
SK
* तद्बलप्राप्तौ चोपायं वक्ष्यामः // PSBह्_२.११:२४
SK
* तदुच्यते // PSBह्_२.११:२५
SK
हर्षाप्रमादी || PS_२.१२ ||
SK
* इति // PSBह्_२.१२:१
SK
* अथवान्यो दूरस्थः सम्बन्धः // PSBह्_२.१२:२
SK
* यस्माद् उच्यते यस्य येनार्थसम्बन्धो दूरस्थस्यापि तेन तदर्थोत्पत्तिः समाना // PSBह्_२.१२:३
SK
* आनन्तर्येऽपि असंबन्धो ग्रहणक्षयादिवन् न त्व् अत्र अमङ्गलादिभिः // PSBह्_२.१२:४
SK
* कस्मात् // PSBह्_२.१२:५
SK
* शेषाभावात् // PSBह्_२.१२:६
SK
* एवमिहापि दूरस्थः सम्बन्धः // PSBह्_२.१२:७
SK
* कस्मात् // PSBह्_२.१२:८
SK
* इह पुरस्तादुक्तम् अकलुषमतेः चरतः ततोऽस्य योगः प्रवर्तते // PSBह्_२.१२:९
SK
* अत्र कलुषव्यतिरेकेण ये ऽन्ये योगव्याघातकरा हेतवः तान् वक्ष्यामः // PSBह्_२.१२:१०
SK
* यथा चैका चरितव्या योगप्रापिका इति व्याख्यास्यामः // PSBह्_२.१२:११
SK
* तथा चर्यान्तरेण तपसा योगप्राप्तिर्यथा भवति तद् बलं वक्ष्यामः // PSBह्_२.१२:१२
SK
* तद्बलप्राप्तौ चोपायं वक्ष्यामः // PSBह्_२.१२:१३
SK
* हर्षाप्रमादी इति // PSBह्_२.१२:१४
SK
* अत्र हर्षो नाम दिव्येषु विषयेषु विधानजधर्मप्रकाशितेषु प्रीतितुष्टिप्रमोदाः // PSBह्_२.१२:१५
SK
* ते त्व् इह प्राप्त्यादिव विश्वामित्रादिस्वरूपा द्रष्टव्याः // PSBह्_२.१२:१६
SK
* कथंलक्षणा इति चेत् // PSBह्_२.१२:१७
SK
* तदुच्यते कार्यकरणविशुद्धिलक्षणाः तत्र कार्यविशुद्धिस् तावद् यदैतद् देवशरीरं ज्वलन्तं भासा दीप्यन्तं दिवि भुव्यन्तरिक्षे च रुक्मदण्डवद् उच्छ्रितमात्मानं पश्यति तदा दिवि अणिमा लघिमा महिमा इति त्रयः कार्यगुणा भवन्ति // PSBह्_२.१२:१८
SK
* अन्तरिक्षे च यस्माद्धर्मविशेषात् // PSBह्_२.१२:१९
SK
* तथा करणविशुद्धिरपि गरिमादिभिः बाह्यैरन्तः करणेन च दूरविषयग्राहकत्वालोचनसंकल्पाध्यवसायाभिमानादयो भवन्ति // PSBह्_२.१२:२०
SK
* कस्मात् // PSBह्_२.१२:२१
SK
* धर्मादिवचनात् // PSBह्_२.१२:२२
SK
* अपिच प्राप्तिः प्राकाम्यम् ईशित्वं वशित्वं च यत्र कामावसायित्वमिति पञ्च करणगुणा भवन्ति // PSBह्_२.१२:२३
SK
* इत्येवं यदन्येषाम् अणिमाद्यष्टगुणं चतुःषष्टिविकल्पं धर्मकार्यम् ऐश्वर्यं तदिह शास्त्रे हर्ष इति संज्ञितम् // PSBह्_२.१२:२४
SK
* तेषु मदम् अकुर्वन् हर्षाप्रमादी भवति // PSBह्_२.१२:२५
SK
* धर्मविद्याबलेनेत्य् अर्थः // PSBह्_२.१२:२६
SK
* आह कुत्रस्थस्य ते हर्षा अभिव्यज्यन्ते कीदृशस्य वा // PSBह्_२.१२:२७
SK
* तदुच्यते // PSBह्_२.१२:२८
SK
चर्यायां चर्यायाम् || PS_२.१३ ||
SK
* अत्र चर्यायां चर्यायाम् इति वीप्सा // PSBह्_२.१३:१
SK
* आह अनिर्देशादिह वीप्सा एकवचनद्विवचनबहुवचनेषु भवति // PSBह्_२.१३:२
SK
* तत्रैकवचने तावद् भवति // PSBह्_२.१३:३
SK
* यस्मादुक्तम् / अद्य ते रुधिरं तीव्रं पिबामि पुरुषाधम / वदेदानीं सुसंरब्धः पुनर्गौरिति गौर् इति // PSBह्_२.१३:४ * इति // PSBह्_२.१३:५ * तथा द्विवचनेऽपि भवति / उभौ ध्वजौ वातमलौ शुशुभाते रथे रथे / संरब्धौ परमक्रुद्धौ युधि घ्नन्तौ परस्परम् // PSBह्_२.१३:६ * तथा बहुवचनेऽपि भवति // PSBह्_२.१३:७ * यस्मादुक्तम् / पुरुषे पुरुषे बुद्धिः सा सा भवति निश्चिता / तुष्यन्ति च पृथक् सर्वे ते मनुष्यास्तथा तथा // PSBह्_२.१३:८ * इत्यतः संशयः // PSBह्_२.१३:९ * अतः किमेका चरिः उत चरिद्वयम् उत चरिबहुत्वमिति // PSBह्_२.१३:१० * उच्यते एका चरिः क्रियाबहुत्वेऽपि भवति // PSBह्_२.१३:११ * यथायतने लोके च // PSBह्_२.१३:१२ * तत्रायतने स्नानहसिताद्याः लोके च क्राथनस्पन्दनाद्याः विधिक्रियाः इत्येवं चरिक्रियातत्त्वं दृष्ट्वा वीप्सार्थेनाभिहितं चर्यायां चर्यायां क्रियायामित्यर्थः // PSBह्_२.१३:१३ * तस्मात् सकृदुच्चारिता वीप्सा बहुवचनेऽपि भवति // PSBह्_२.१३:१४ * वृक्षबलिवत् // PSBह्_२.१३:१५ * किंच माहात्म्यमिति चर्योत्तरसम्बन्धात् कथ्यते एका चरिः क्रियाबहुत्वे भवति // PSBह्_२.१३:१६ * कार्यकरणविशुद्धिलक्षणा हर्षा इत्युक्तम् // PSBह्_२.१३:१७ * न च विभा कार्यकरणैश्वर्याभिनिवेशः शक्यते कर्तुमित्यतोऽवगम्यते कार्यकरणवतश्चरतो महिमानोऽभिव्यज्यन्त इत्यर्थः // PSBह्_२.१३:१८ * आह अप्रमत्तस्याचरतः का कार्यनिष्पत्तिः // PSBह्_२.१३:१९ * तदुच्यते // PSBह्_२.१३:२०
SK
माहात्म्यमवाप्नोति || PS_२.१४ ||
SK
* माहात्म्यं नाम अर्यम् अप्रकाशवत् // PSBह्_२.१४:१
SK
* तदुत यस्य सांनिध्याद् अयं ब्राह्मणः परिदृष्टार्थोऽपि भूत्वा दुष्टाश्वतररथस्थानीयैर् देहेन्द्रियादिभिर् अपनीयते अपह्रियते तद् अमाहात्म्यम् // PSBह्_२.१४:२
SK
* विधियोगाभिनिवेशासामर्थ्यम् अधर्मबलम् // PSBह्_२.१४:३
SK
* उक्तं हि / ह्रियते बुद्धिर्मनोऽपि नरस्य देहेन्द्रियैः / अमूढसंज्ञो दुर्दान्तैर् दुष्टाश्वैरिव सारथिः // PSBह्_२.१४:४ * माहात्म्यमतो विपरीतम् // PSBह्_२.१४:५ * यस्य सांनिध्याद् अयं ब्राह्मणः स्नानशयनानुस्नानादिक्राथनस्पन्दनाध्ययनध्यानस्मरणकरणसमर्थो भवति परया श्रद्धया युक्तस् तन्माहात्म्यम् // PSBह्_२.१४:६ * आह किं तदिति // PSBह्_२.१४:७ * उच्यते यदेतत् प्रभ्रष्टस्य तपसो वीर्यं तपोबलं तपःशक्तिस् तन्माहात्म्यम् // PSBह्_२.१४:८ * कथं गम्यते // PSBह्_२.१४:९ * चर्यानन्तरोक्तत्वात् // PSBह्_२.१४:१० * यदनन्तरं यदवाप्नोति तत एव तद् आसादयतीत्यर्थः // PSBह्_२.१४:११ * आह प्राप्नोतीति अस्तु पाठः // PSBह्_२.१४:१२ * लब्धुर् भविष्यतीत्युच्यते // PSBह्_२.१४:१३ * अवरम्य क्षणगतिप्रीतिप्राप्त्यर्थत्वात् तेन विधिचरणेन रक्षते हर्षविशेषाणाम् अभिप्रीतिविशेषणम् अतिगतिसंस्तवनावाप्तिश् च // PSBह्_२.१४:१४ * तस्मान् मन्त्रबलवद् धर्मबलमेवास्य माहात्म्यम् अवाप्नोतीत्यर्थः // PSBह्_२.१४:१५ * आह कः सो ऽभ्युपायः // PSBह्_२.१४:१६ * कानि वा तानि धर्मसाधनानि यैर् हर्षोत्पत्तिर् माहात्म्यलाभश्च भवति // PSBह्_२.१४:१७ * चरिक्रियाणां वा कतिविधो विभागः // PSBह्_२.१४:१८ * दानादीनां वा पूर्वोक्तानां विशेषणं किमस्ति नेति // PSBह्_२.१४:१९ * उच्यतेऽस्ति // PSBह्_२.१४:२० * यस्मादाह // PSBह्_२.१४:२१
SK
अतिदत्तम् अतीष्टम् || PS_२.१५ ||
SK
* अत्र कुदानानि गोभूहिरण्यसुवर्णादीनि // PSBह्_२.१५:१
SK
* कस्मात् // PSBह्_२.१५:२
SK
* अनैकान्तिकानात्यन्तिकसातिशयफलत्वात् कुपथाध्वप्रवादाच् च // PSBह्_२.१५:३
SK
* तस्मादत्र अतिशब्दो विशेषणम् // PSBह्_२.१५:४
SK
* अतिदानं चात्मप्रदानम् // PSBह्_२.१५:५
SK
* कस्मात् // PSBह्_२.१५:६
SK
* आत्मनः दातृत्वाद् भूयो दानप्रयोजनाभावात् // PSBह्_२.१५:७
SK
* स्थानशरीरेन्द्रियविषयाद्यप्रापकत्वात् // PSBह्_२.१५:८
SK
* ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेर् एकान्तेनैवानावृत्तिफलत्वाद् असाधारणफलत्वाच् चात्मप्रदानम् अतिदानम् // PSBह्_२.१५:९
SK
* तथा कुयजनान्य् अग्निष्टोमादीनि // PSBह्_२.१५:१०
SK
* कस्मात् // PSBह्_२.१५:११
SK
* संग्रहप्रतिग्रहहिंसादियुक्तेन श्रवेणाभिनिर्वृत्तिदर्शनात् पत्त्रीरात्रिजदेवतादिसाधारणफलत्वाद् अनित्यसातिशयसंकीर्णफलत्वाच् च कुयजनान्य् अग्निष्टोमादीनि // PSBह्_२.१५:१२
SK
* तस्माद् अत्रातिशब्दो विशेषणम् // PSBह्_२.१५:१३
SK
* अतियजनं नाम यदायतने लोके वा // PSBह्_२.१५:१४
SK
* तत्रायतने स्नानहसिताद्या लोके च क्राथनस्पन्दनाद्या विधिक्रिया // PSBह्_२.१५:१५
SK
* कस्मात् // PSBह्_२.१५:१६
SK
* संग्रहप्रतिग्रहहिंसादिरहितेन क्रमेण स्वशरीरसमुत्थाभिः कायिकवाचिकमानसिकाभिरिज्यते यस्मात् // PSBह्_२.१५:१७
SK
* अतश्चेत्युच्यते अतियजनम् // PSBह्_२.१५:१८
SK
* आह किं दानं यजनं च साधनद्वयम् एवात्रातिशब्देन विशिष्टं कर्तव्यमिति // PSBह्_२.१५:१९
SK
* उच्यते न // PSBह्_२.१५:२०
SK
* यस्मादाह // PSBह्_२.१५:२१
SK
अतितप्तं तपस्तथा || PS_२.१६ ||
SK
* अतिशब्दो विशेषणे // PSBह्_२.१६:१
SK
* नायान्त्याध्यात्मिकाधिभौतिकाधिदैविकास् तेषां स्वशास्त्रोक्तेन क्रमेण मनसि संमतानां मतानाम् अनुपायतः प्रतीकारम् अकुर्वतां तपो निष्पद्यते // PSBह्_२.१६:२
SK
* यत्र तृतीयायाम् आत्मसंयोगान् निष्पद्यते तत् तप इत्यर्थः // PSBह्_२.१६:३
SK
* तदा शयनार्थे कथम् // PSBह्_२.१६:४
SK
* तथातितापेभ्यो ऽतितपो निष्पद्यते तथा दानयजनाभ्याम् अपीति // PSBह्_२.१६:५
SK
* तथाशब्दः साधनत्रयोपसंहारार्थः // PSBह्_२.१६:६
SK
* यदा ददाति तदा यजति तप्यति च // PSBह्_२.१६:७
SK
* यदापि यजति तदा ददाति तप्यति च // PSBह्_२.१६:८
SK
* यदा तप्यति तदा ददाति यजति च // PSBह्_२.१६:९
SK
* एवमादिदीक्षाप्रभृतिर् अस्य ब्राह्मणस्य // PSBह्_२.१६:१०
SK
* एभिस् त्रिभिर् उपायैर् गङ्गास्रोतोवद् धर्मस्यायो ऽधर्मस्य व्ययो भवति तदातिदानादिनिष्पन्नेन प्रकृष्टेन तपसा अस्य ब्राह्मणस्य हर्षोत्पत्तिर्माहात्म्यलाभश्च सम्भवतीत्यर्थः // PSBह्_२.१६:११
SK
* आह अतिदानादिनिष्पन्नेन प्रकृष्टेन तपसास्य ब्राह्मणस्य का गतिर्भवतीति // PSBह्_२.१६:१२
SK
* उच्यते अभ्युदयकैवल्यव्यतिरेकेण // PSBह्_२.१६:१३
SK
अत्यागतिं गमयते || PS_२.१७ ||
SK
* अत्र अतिशब्दो विशेषणे // PSBह्_२.१७:१
SK
* आङ् इति मर्यादायां भवति // PSBह्_२.१७:२
SK
* कथम् अध्ययनध्यानादिरहितमपि साधकं तपोऽतिगतिं गमयति तदभ्यासो हरत्येनम् इति वचनात् // PSBह्_२.१७:३
SK
* अतिगतिरिति योगपर्यायः // PSBह्_२.१७:४
SK
* कथं गम्यते // PSBह्_२.१७:५
SK
* तपःकार्यत्वाद् आनन्त्यब्रह्मसायुज्यवत् // PSBह्_२.१७:६
SK
* सांख्ययोगाभ्युदयादिगतिविशेषविशेषितत्वाद् उपरिष्टाद् वर्तत इत्यर्थः // PSBह्_२.१७:७
SK
* तस्मात् तपसः फलं विशेषार्थमभिधीयते योगोऽतिगतिमिति // PSBह्_२.१७:८
SK
* अतिगतिमिति कर्म // PSBह्_२.१७:९
SK
* गमयते // PSBह्_२.१७:१०
SK
* न तावद् गतः गमिष्यति किंतु गमयतीत्यर्थः // PSBह्_२.१७:११
SK
* आह अतिदानाद् यथावत् तपसो गुणवचनं किमस्ति नेति // PSBह्_२.१७:१२
SK
* उच्यते अस्ति // PSBह्_२.१७:१३
SK
* यस्मादाह // PSBह्_२.१७:१४
SK
तस्मात् || PS_२.१८ ||
SK
* इति // PSBह्_२.१८:१
SK
* अत्र तस्माच्छब्दस् तपसो गुणवचने // PSBह्_२.१८:२
SK
* तस्मादतिदानादिनिष्पन्नो धर्मोऽत्यागतिं गमयते निरतिशयां प्रापयति // PSBह्_२.१८:३
SK
* न स्थानशरीरेन्द्रियविषयादिप्राप्तौ // PSBह्_२.१८:४
SK
* ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेर् एकान्तेनैवानावृत्तिफलत्वं च दृष्ट्वा // PSBह्_२.१८:५
SK
* अतो ब्रवीति तस्मादिति // PSBह्_२.१८:६
SK
* आह अत्यन्ततपसो गुणवचनं ज्ञात्वा कारणं च साधकेन किं कर्तव्यम् // PSBह्_२.१८:७
SK
* तदुच्यते तदर्थमेव // PSBह्_२.१८:८
SK
भूयस्तपश्चरेत् || PS_२.१९ ||
SK
* अत्र भूयः पुनःसंधाने द्रष्टव्यः इष्टापूर्तवत् // PSBह्_२.१९:१
SK
* कथम् // PSBह्_२.१९:२
SK
* हर्षेष्व् अभिसक्तस्य मुहूर्तमर्धमुहूर्तं वा साधनेभ्यो व्युच्छेदं दृष्ट्वा संधाने भूयःशब्दोऽभिहितः // PSBह्_२.१९:३
SK
* तस्मादत्र तपस्तदेव // PSBह्_२.१९:४
SK
* निरुक्तमस्य पूर्वोक्तम् // PSBह्_२.१९:५
SK
* चरेद् इत्यर्जनम् अधिकुरुते // PSBह्_२.१९:६
SK
* धर्मानेकसंशयान्यत्वाच् च अपुनरुक्तोऽयं चरशब्दो द्रष्टव्यः // PSBह्_२.१९:७
SK
* आह यद्येवं तस्मादुच्यतां हर्षाणां को दोषोऽभिव्यज्यते // PSBह्_२.१९:८
SK
* माहात्म्यस्य वा को गुणः यस्मात् तद् ग्राह्यमिति // PSBह्_२.१९:९
SK
* तदुच्यते कुरुते माहात्म्यम् // PSBह्_२.१९:१०
SK
* यस्मादाह // PSBह्_२.१९:११
SK
नान्यभक्तिस्तु शंकरे || PS_२.२० ||
SK
* अयं नकारो ऽन्यभक्तिप्रतिषेधे // PSBह्_२.२०:१
SK
* भक्तिर्भावनेत्यर्थः // PSBह्_२.२०:२
SK
* तुशब्दो विशेषणे // PSBह्_२.२०:३
SK
* कथम् // PSBह्_२.२०:४
SK
* ये हर्षेष्वभिसक्ताः दूष्यतः तस्करत्वमापन्नाः ते विशेषेण तु शंकराद् दूरस्था भवन्ति // PSBह्_२.२०:५
SK
* शंकरः कस्मात् // PSBह्_२.२०:६
SK
* समस्तसुखनिर्वाणकरत्वाच् छंकरः // PSBह्_२.२०:७
SK
* शंकरे इत्यौपश्लेषिकं संनिधानम् // PSBह्_२.२०:८
SK
* शंकरे भावना कर्तव्या नान्यत्रेत्य् अर्थः // PSBह्_२.२०:९
SK
* उक्तं हि / कर्मणा मनसा वाचा यद् अश्लक्ष्णं निषेवते / तदभ्यासो हरत्येनं तस्मात् कल्याणमाचरेत् // PSBह्_२.२०:१० * एवमेते महात्मानः प्राहुर् अध्यात्मचिन्तकाः / यच्चित्तस् तन्मयो भावो गुह्यमेतत् सनातनम् // PSBह्_२.२०:११ * गच्छंस् तिष्ठन् शयानो वा जाग्रच् चैव स्वपंस्तथा / शंकरे भावनां कुर्याद् यदीच्छेद् योगमात्मनः // PSBह्_२.२०:१२ * यस्मात् क्षयान्ते त्रैलोक्यं शंकरे याति संक्षयम् / तस्मात् संवर्तको धाता शंकरस्त्वभिधीयते // PSBह्_२.२०:१३ * एवं शंकरे भाव उपश्लेषितव्यो नान्यत्रेत्य् अर्थः // PSBह्_२.२०:१४ * एवं परिसमाप्तिं कृत्वा युक्तं वक्तुम् // PSBह्_२.२०:१५
SK
अत्रेदं ब्रह्म जपेत् || PS_२.२१ ||
SK
* इति // PSBह्_२.२१:१
SK
* अस्य पूर्वोक्तोऽर्थः // PSBह्_२.२१:२
SK
* आह धर्मपरिणामकत्वात् शंकरत्वात् सुखद ईश्वरोऽभिहितः // PSBह्_२.२१:३
SK
* अथान्तरसृष्ट्यां सुखदुःखकारणं किं भवति धर्माधर्मसत्त्वरजोवद् उत नेति // PSBह्_२.२१:४
SK
* उच्यते अत्र य उपायः सुखदः तथा वक्ष्यामः यथावान् यत्र व्यवस्थिते संसारगते कार्ये स एव कारणं परम् // PSBह्_२.२१:५
SK
* ननु कोर्यकलवन् निरधिकारस् तथा वक्ष्यामो विस्तरशश् चास्मिन् ब्रह्मणि कारणशक्तिं वक्ष्यामः // PSBह्_२.२१:६
SK
* शक्तिं च ज्ञात्वा यथा साधकोऽष्टभिर् नमस्कारैरात्मानं ददाति तथा वक्ष्यामः // PSBह्_२.२१:७
SK
* अत इदमारभ्यते // PSBह्_२.२१:८
SK
वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः || PS_२.२२ ||
SK
* इति // PSBह्_२.२२:१
SK
* प्रयोगान्यत्वात् प्रयोजनान्यत्वाच् चापुनरुक्ता वामदेवादिशब्दा द्रष्टव्याः // PSBह्_२.२२:२
SK
* अत्र वामत्वं देवत्वं ज्येष्ठत्वं रुद्रत्वं च पूर्वोक्तम् // PSBह्_२.२२:३
SK
* वामदेवज्येष्ठरुद्रायेति चतुर्थी // PSBह्_२.२२:४
SK
* नम इत्यात्मप्रदाने पूजायां च // PSBह्_२.२२:५
SK
* सम्भावनान्यत्वाच् चापुनरुक्ताः सर्वनमस्कारा द्रष्टव्याः // PSBह्_२.२२:६
SK
* आह किं चतुष्कमेवात्र कारणे चिन्त्यते // PSBह्_२.२२:७
SK
* नामचतुष्कापदेशेन वा नाम्नि नमस्कारो द्रष्टव्यः // PSBह्_२.२२:८
SK
* उच्यते न // PSBह्_२.२२:९
SK
* यस्मादाह // PSBह्_२.२२:१०
SK
कालाय नमः || PS_२.२३ ||
SK
* अत्र काल इत्येष महेश्वरपर्यायः कस्मात् पूर्वोत्तरसूत्रसामर्थ्यात् // PSBह्_२.२३:१
SK
* कालयते यस्मात् क्षेत्रसाधिनिष्ठानि स्थानानि कलादिशरीरेन्द्रियविषयादिभ्यो वियोगेनेति ततः कालः // PSBह्_२.२३:२
SK
* उक्तं हि // PSBह्_२.२३:३
SK
* ब्रह्मादिभूर्जपर्यन्तं जगद् एतच् चराचरम् / यतः कलयते रुद्रः कालरूपी ततः स्मृतः // PSBह्_२.२३:४ * काल्यान् कलयते यस्मात् कलाभ्यः कालपर्ययात् / कलनात् कालनाच् चापि काल इत्यभिधीयते // PSBह्_२.२३:५ * एवं कालो हि भगवान् // PSBह्_२.२३:६ * काल्याः क्षेत्रज्ञाः // PSBह्_२.२३:७ * स्थानानि तु ब्रह्मेन्द्रदेवपित्रादिवचनाद् ब्राह्मं प्राजापत्यं सौम्यम् ऐन्द्रं गान्धर्वं याक्षं राक्षसं पैशाचमिति // PSBह्_२.२३:८ * तथा ब्राह्मणशूद्रगोमृगसर्वभूतकृतान्नादिवचनात् तथा मानुषपशुमृगपक्षिसरीसृपस्थावरादीनां ग्रहणम् // PSBह्_२.२३:९ * तथा योगेश्वरा देवेष्वन्तर्भूताः // PSBह्_२.२३:१० * कस्मात् // PSBह्_२.२३:११ * धर्मबाहुल्यात् // PSBह्_२.२३:१२ * तथा नारकास् तिर्यक्ष्व् अन्तर्भूताः // PSBह्_२.२३:१३ * कस्मात् // PSBह्_२.२३:१४ * अधर्मबाहुल्यात् // PSBह्_२.२३:१५ * एवं स्थानतश्चतुर्दशकः संसार इत्युपचर्यते // PSBह्_२.२३:१६ * एतेषु कलादिवचनान् महेश्वरो निमित्तम् // PSBह्_२.२३:१७ * कस्मात् // PSBह्_२.२३:१८ * पूर्वोत्तरशरीरेषु भोगलोपाभिव्यक्तिमात्रत्वात् // PSBह्_२.२३:१९ * आदिमान् संसारो द्रष्टव्यः // PSBह्_२.२३:२० * तत्फलभोक्तृत्वात् कार्यकरणयोर् अनादित्वाद् अनादिर् अकृताभ्यागमाद् इत्येतद् भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कालाय नमः // PSBह्_२.२३:२१ * अत्रापि कालाय इति चतुर्थी // PSBह्_२.२३:२२ * नम इत्यात्मप्रदाने पूजायां च // PSBह्_२.२३:२३ * सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः // PSBह्_२.२३:२४ * आह अथ स्थानशरीरेन्द्रियविषयादीनां किमेष भगवान् प्रभुः कर्ता भवति नेति // PSBह्_२.२३:२५ * उच्यते प्रभुः कर्तैव // PSBह्_२.२३:२६ * यस्मादाह // PSBह्_२.२३:२७
SK
कलविकरणाय नमः || PS_२.२४ ||
SK
* अत्र कला नाम कार्यकरणाख्याः कलाः // PSBह्_२.२४:१
SK
* तत्र कार्याख्याः पृथिव्यापस्तेजो वायुराकाशः // PSBह्_२.२४:२
SK
* आकाशः शब्दगुणः // PSBह्_२.२४:३
SK
* शब्दस्पर्शगुणो वायुस्तौ च रूपं च तेजसि / ते रसश्च जले ज्ञेयास्ते च गन्धः क्षिताव् अपि // PSBह्_२.२४:४ * शब्दस्पर्शरूपरसगन्धाः // PSBह्_२.२४:५ * तथा करणाख्याः श्रोत्रं त्वक् चक्षुः जिह्वा घ्राणं पादः पायुः उपस्थः हस्तः वाक् मनः अहंकारः बुद्धिर् इति // PSBह्_२.२४:६ * तासां विकरणो भगवानीश्वरः // PSBह्_२.२४:७ * कस्मात् // PSBह्_२.२४:८ * दृक्क्रियाशक्त्योरप्रतीघातात् // PSBह्_२.२४:९ * विकरणत्वं नाम स्थानशरीरेन्द्रियविषयादिसंनिवेशेन विस्तरविभागविशेषतश्च कार्यकरणाख्याभिः कलाभिर् धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्यादिभिश्च क्षेत्रज्ञसंयोजनमित्येतद् भगवत्य् अभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कलविकरणाय नमः // PSBह्_२.२४:१० * अत्रापि कलविकरणाय इति चतुर्थी / नम इत्यात्मप्रदाने पूजायां च // PSBह्_२.२४:११ * सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमःशदः // PSBह्_२.२४:१२ * आह कालनविकरणत्वाद् अवान्तरसृष्ट्यां कर्मक्षये वृत्तिलाभे चापेक्षते नेति // PSBह्_२.२४:१३ * धर्मज्ञानवैराग्यैश्वर्यादीनां वा किमेष भगवान् प्रभुर्भवति नेति // PSBह्_२.२४:१४ * उच्यते प्रभुः // PSBह्_२.२४:१५ * यस्मादाह // PSBह्_२.२४:१६
SK
बलप्रमथनाय नमः || PS_२.२५ ||
SK
* बलं नाम धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणि इच्छाद्वेषप्रयत्नादीनि विद्यावर्गः रूपाणि // PSBह्_२.२५:१
SK
* प्र इति भृशार्थे कामित्वाकर्षणे च // PSBह्_२.२५:२
SK
* मथनत्वं नाम बलवृत्तिनिरोधनम् उदधिमथनवत् // PSBह्_२.२५:३
SK
* न वाग्निज्ञानादीनि दुर्बलानि // PSBह्_२.२५:४
SK
* यस्मादुक्तम् / न ह्य् अतेजस्विनाशाय तैजसाः प्रभवन्ति वै / बलान्यतिबलान्यस्य न भवेऽतिबलानि वै // PSBह्_२.२५:५ * इत्येवं भगवत्यभ्यधिकत्वं शेषेषु पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं बलप्रमथनाय नमः // PSBह्_२.२५:६ * अत्रापि बलप्रमथनाय इति चतुर्थी // PSBह्_२.२५:७ * नम इत्यात्मप्रदाने पूजायां च // PSBह्_२.२५:८ * सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः // PSBह्_२.२५:९ * आह केषां कालनविकरणमथनानि करोति // PSBह्_२.२५:१० * तदुच्यते भूतानाम् // PSBह्_२.२५:११ * यस्मादाह // PSBह्_२.२५:१२
SK
सर्वभूतदमनाय नमः || PS_२.२६ ||
SK
* अत्र कलावचने पुनरुक्तिदोषान् न पृथिव्यादिषु सर्वशब्दः // PSBह्_२.२६:१
SK
* किं तु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतशब्दः // PSBह्_२.२६:२
SK
* आह भूतत्वानुपपत्तेर्न चेतनेषु सर्वभूतशब्दः // PSBह्_२.२६:३
SK
* तदुच्यते दमनाय // PSBह्_२.२६:४
SK
* शमु दमु उपशमे // PSBह्_२.२६:५
SK
* देवमनुष्यादीनां स्थानशरीरेन्द्रियविषयादिषु या रतिः रञ्जनाधिवासना तत्सर्वम् अन्तरदृष्ट्या सर्वमीश्वरकृतमेव द्रष्टव्यमित्येतद् भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं सर्वभूतदमनाय नमः // PSBह्_२.२६:६
SK
* अत्रापि सर्वभूतदमनाय इति चतुर्थी // PSBह्_२.२६:७
SK
* नम इत्यात्मप्रदाने पूजायां च // PSBह्_२.२६:८
SK
* सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः // PSBह्_२.२६:९
SK
* आह कीदृशे महेश्वरे कालनादिशक्तिरुच्यते किं सकले निष्कले उत उभयोरपि // PSBह्_२.२६:१०
SK
* उच्यते उभयोरपि // PSBह्_२.२६:११
SK
* यस्मादाह // PSBह्_२.२६:१२
SK
मनोऽमनाय नमः || PS_२.२७ ||
SK
* अत्र मनःशब्देनान्तःकरणं तत्तन्त्रत्वाद् उदाहरणार्थत्वाच् च मनोग्रहणस्य उभयात्मकत्वाच् च मनसः सर्वकरणग्रहणानुग्रहणाच् च कार्यग्रहणमित्यतः कार्यकरणाधिष्ठातृत्वाच् च सकल इत्युपचर्यते // PSBह्_२.२७:१
SK
* तथा चैतादृशमनसः प्रतिषेधादत्र कार्यकरणरहितो निष्कलो भगवान् अमन इत्युच्यते // PSBह्_२.२७:२
SK
* तस्मात् सकलेतरानुग्राहकानादिशक्तिर् विद्यते // PSBह्_२.२७:३
SK
* उक्तं हि / अपाणिपादोदरपार्श्वजिह्वः अतीन्द्रियो व्यापिस्वभावसिद्धः / पश्यत्य् अचक्षुः स शृणोत्यकर्णो न चास्त्यबुद्धं न च बुद्धिरस्ति / स वेत्ति सर्वं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् // PSBह्_२.२७:४ * इत्येतद् भगवत्यभ्यधिकत्वं शेषेषु च न्यूनत्वं च ज्ञात्वा युक्तं वक्तुं मनोऽमनाय नमः // PSBह्_२.२७:५ * मनोऽमनाय इति चतुर्थी // PSBह्_२.२७:६ * नमु इत्यात्मप्रदाने पूजायां च // PSBह्_२.२७:७ * सम्भावनान्यत्वाच् चापुनरुक्ताः सर्वे नमःशब्दा द्रष्टव्याः // PSBह्_२.२७:८
SK
Pआशुपतसूत्र, ३
SK
अव्यक्तलिङ्गी || PS_३.१ ||
SK
* इति // PSBह्_३.१:१
SK
* अत्र अकारो लिङ्गव्यक्तत्वं प्रतिषेधति // PSBह्_३.१:२
SK
* अवसितप्रयोजनः पूर्वोक्तैर् लिङ्गोपकरणैर् अनुस्नाननिर्माल्यैकवासाद्यैः प्रयोजनैर् विनिवृत्तैर् लोकतस् त्रिषु स्नानं कुर्वन्नपि // PSBह्_३.१:३
SK
* षडाश्रमलिङ्गानुपलब्धावनवधृतोक्तलिङ्गवद् अव्यक्ताः क्रियाः कार्याः // PSBह्_३.१:४
SK
* आह कया वा मर्यादया कस्मिन् वा काले सा क्रिया कर्तव्या // PSBह्_३.१:५
SK
* तद् उच्यते // PSBह्_३.१:६
SK
व्यक्ताचारः || PS_३.२ ||
SK
* अत्र व्यक्तशब्दो दिवसमधिकुरुते // PSBह्_३.२:१
SK
* व्यक्ताः स्फुटाः प्रकाशाः // PSBह्_३.२:२
SK
* अहनीत्यर्थः // PSBह्_३.२:३
SK
* आङ् इत्य् अवमानादिनिष्पत्तिमर्यादाम् अधिकुरुते // PSBह्_३.२:४
SK
* चार इति क्राथनादीनाम् उद्देशः // PSBह्_३.२:५
SK
* तान् क्राथनादीन् साधको नटदवस्थितो रङ्गवल् लौकिकानधिजन्य नाटकवद् आचारानाचरति करोति प्रयुङ्क्त इत्यतोऽयं व्यक्ताचारः // PSBह्_३.२:६
SK
* आह अव्यक्तलिङ्गिनो व्यक्ताचारस्य का कार्यनिष्पत्तिः // PSBह्_३.२:७
SK
* तदुच्यते अवमानः // PSBह्_३.२:८
SK
* यस्मादाह // PSBह्_३.२:९
SK
अवमतः || PS_३.३ ||
SK
* अत्र अव वर्जने // PSBह्_३.३:१
SK
* मानेन तेषां लिङ्गाचारज्ञानविधिविपरीतप्रवृत्तिं दृष्ट्वा सर्वदोषदुष्टोऽयमिति मानसाधेनावमाने यो जनः परिवर्जयतान्यतो ऽयमबहुमतत्वं प्राप्नोति // PSBह्_३.३:२
SK
* उक्तं च // PSBह्_३.३:३
SK
* अमृतस्येव लिप्सेत नैव मानं विचक्षणः / विषस्येव जुगुप्सेत सन्मानस्य सदा द्विजः // PSBह्_३.३:४ * सुखं ह्य् अवमतः शेते सर्वसङ्गविवर्जितः / दोषान् परस्य न ध्यायेत् तस्य पापं सदा मुनिः // PSBह्_३.३:५ * आह केष्वव्यक्तलिङ्गिना व्यक्ताचारेणावमतेन भवितव्यमिति // PSBह्_३.३:६ * तदुच्यते // PSBह्_३.३:७
SK
सर्वभूतेषु || PS_३.४ ||
SK
* अत्र सर्वभूतशब्दो वर्णाश्रमिषु द्रष्टव्यः // PSBह्_३.४:१
SK
* कस्मादुच्यते वर्णाश्रमिष्विति // PSBह्_३.४:२
SK
* भूतेषु इत्युक्तं नतु देवतिर्यग्योनिम्लेच्छादिषु // PSBह्_३.४:३
SK
* कस्मात् // PSBह्_३.४:४
SK
* व्यक्ताचारावमानदानादानविरोधात् // PSBह्_३.४:५
SK
* उक्तं हि / धन्यो देशो यत्र गावः प्रभूताः मेध्यं चान्नं पार्थिवा धर्मशीलाः / पुण्या नद्यः सर्वलोकोपभोग्यास् तांस् तान् देशान्सिद्धिकामो व्रजेत // PSBह्_३.४:६ * भूतेषु इति सामीपिकं संनिधानम् // PSBह्_३.४:७ * भूतसमीपे भूताभ्याशे भूतानामध्यक्ष इत्यर्थः // PSBह्_३.४:८ * सामीपिकव्याख्यानेनावमानदेशादिस्पष्टतरत्वाद् अस्य विध्याचरणम् // PSBह्_३.४:९ * असुरेषु इत्याचरणज्ञापकाच् च // PSBह्_३.४:१० * आह अवमतेन सर्वभूतेषु किं कर्तव्यम् // PSBह्_३.४:११ * तदुच्यते चरितव्यम् // PSBह्_३.४:१२ * यस्मादाह // PSBह्_३.४:१३
SK
परिभूयमानश्चरेत् || PS_३.५ ||
SK
* अत्र परि सर्वतोभावे // PSBह्_३.५:१
SK
* पगक्ष्याः परीक्ष्या इत्यर्थः // PSBह्_३.५:२
SK
* भूय इति बहुधा // PSBह्_३.५:३
SK
* यष्टिमुष्ट्यादिभिः संयोजनं परिभवः // PSBह्_३.५:४
SK
* कायिक इत्यर्थः // PSBह्_३.५:५
SK
* मान इति साधककालकर्माभिधाने // PSBह्_३.५:६
SK
* परिभूयमानेनैव // PSBह्_३.५:७
SK
* स परिभवो दरिद्रपुरुषराजाभिषेक इव द्रष्टव्यः // PSBह्_३.५:८
SK
* कनकपाषाणवद् इन्द्रकीलकवच् च भवितव्यम् // PSBह्_३.५:९
SK
* चरेद् इत्यर्जनमधिकुरुते // PSBह्_३.५:१०
SK
* धर्मार्जने नियोगे च निन्दित इति गर्हिताभ्याख्याने चरितव्यमित्यर्थः // PSBह्_३.५:११
SK
* आह अवमतस्य परिभूयमानस्याचरतः किं तापशान्तिरेव उत शुद्धिर् अप्यस्ति // PSBह्_३.५:१२
SK
* उच्यते अस्ति // PSBह्_३.५:१३
SK
* यस्मादाह // PSBह्_३.५:१४
SK
अपहतपाप्मा || PS_३.६ ||
SK
* भवतीति वाक्यशेषो वचनाधिकाराद् गम्यते // PSBह्_३.६:१
SK
* अत्र अप वर्जने आघाते नाशे च // PSBह्_३.६:२
SK
* अपहता अन्यतनष्टा इत्यर्थः // PSBह्_३.६:३
SK
* पाप्मानोऽत्र द्विविधाः सुलक्षणाः दुःखलक्षणाश्च // PSBह्_३.६:४
SK
* तत्र सुखलक्षणाः उन्मादः मदः मोहः निद्रा आलस्यं कोणता अलिङ्गः नित्यमसद्वादित्वं बहुभोजनमित्येवमाद्याः // PSBह्_३.६:५
SK
* तथा दुःखलक्षणाःशिरोरोगदन्तरोगाक्षिरोगाद्याः // PSBह्_३.६:६
SK
* एवमेते पाप्मान आत्मगताः कायकरणेष्व् आदर्शप्रतिरूपकवदभिव्यक्ताः // PSBह्_३.६:७
SK
* कृत्स्नाः अपहताः पाप्मानः सो ऽयमपहतपाप्मा भवतीत्यर्थः // PSBह्_३.६:८
SK
* आह किमवमानः परिभवश्च कायिकं मानसं साधनद्वयमेवास्य पापक्षयशुद्धिहेतुः आहोस्विद् वाचिकमप्यस्ति नेति // PSBह्_३.६:९
SK
* उच्यते यस्मादाह // PSBह्_३.६:१०
SK
परेषां परिवादात् || PS_३.७ ||
SK
* अत्र परा नाम स्वपरसमयाधिकृता ये अवमानादिभिः संयोजयन्ति तेषाम् // PSBह्_३.७:१
SK
* परेषाम् इति षष्ठीबहुवचनम् // PSBह्_३.७:२
SK
* आह स्वपरवाक्यावमानादिभिः शुद्धिरेवास्य न तु वृद्धिः // PSBह्_३.७:३
SK
* सा च साधकस्य फलाभिधानाद् अतिदानादिष्वित्युच्यते न पूर्वकृतसुकृतदानविवक्षया // PSBह्_३.७:४
SK
* परि इति च सर्वतोभावे // PSBह्_३.७:५
SK
* वद वादः // PSBह्_३.७:६
SK
* अव्यक्तोऽयं प्रेतोऽयम् उन्मत्तोऽयं मूढोऽयं मूर्खोऽयं निद्राविष्टो वायुरुद्धोऽयं दुष्काम्य् असम्यक्कारी असम्यग्वादी इत्येवमुग्रैर्वचोभिर् अभिघ्नन्तीति वादाः // PSBह्_३.७:७
SK
* वादाद् इति निमित्तपञ्चमी द्रष्टव्या // PSBह्_३.७:८
SK
* तस्मादवमानादिभिः परान् संयोजयता स्वयमेवात्मा संयोक्तव्यः // PSBह्_३.७:९
SK
* अन्यथा पाशमात्रः स्यादिति // PSBह्_३.७:१०
SK
* पाप्मनां वा जानपदेशात् संदेहः // PSBह्_३.७:११
SK
* कस्य कार्यं पाप्मनः // PSBह्_३.७:१२
SK
* कथं वा तेषां कार्यकरणेष्वभिव्यक्तानां परसमुत्थैरवमानादिभिर्निर्घातनं भवति // PSBह्_३.७:१३
SK
* तदुच्यते // PSBह्_३.७:१४
SK
* यस्मादाह // PSBह्_३.७:१५
SK
पापं च तेभ्यो ददाति || PS_३.८ ||
SK
* अत्र पापम् इत्यधर्मपर्यायः // PSBह्_३.८:१
SK
* तद्यथा / आगोऽपरागो मुसलं दुरितं दुष्कृतं तरून् / पापं पाप्मानं वृजिनं स्तेयम् // PSBह्_३.८:२ * इत्येकार्थवाचकाः शब्दाः // PSBह्_३.८:३ * इह चोक्तं पापमिति // PSBह्_३.८:४ * पापं च कस्मात् // PSBह्_३.८:५ * पावकपासकत्वात् पापम् // PSBह्_३.८:६ * पावयति यस्मात् शिरोरोगदन्तरोगाक्षिरोगादिभिः पातयति नरकादिषु पासयति वानिष्टाभिः कार्यकरणाख्याभिः कलाभिरिति // PSBह्_३.८:७ * अतः पावकपातकपासकत्वात् पापम् // PSBह्_३.८:८ * एवंच बीजाङ्कुरवत् पापपाप्मनां हेतुहेतुमत्त्वोपनयो द्रष्टव्यः // PSBह्_३.८:९ * बीजपापप्रसवाः पाप्मान इत्यर्थः // PSBह्_३.८:१० * तेभ्य इति चतुर्थी सम्प्रदानार्था // PSBह्_३.८:११ * अथ एवमवमानादिभिः संयोजयन्ति तेभ्यो ददाति प्रयच्छति संक्रामयतीत्यर्थः // PSBह्_३.८:१२ * आह किमवमानादिभिः शुद्धिरेवास्य न तु वृद्धिरिति // PSBह्_३.८:१३ * तदुच्यते वृद्धिरप्यस्ति // PSBह्_३.८:१४ * यस्मादाह // PSBह्_३.८:१५
SK
सुकृतं च तेषामादत्ते || PS_३.९ ||
SK
* अत्र सु प्रशंसायाम् // PSBह्_३.९:१
SK
* कृतम् इति धर्मपर्यायः // PSBह्_३.९:२
SK
* चशब्दः शुद्धिसमुच्चयार्थः पूर्वधर्मनियोगार्थश्च // PSBह्_३.९:३
SK
* तेषाम् इति // PSBह्_३.९:४
SK
* ये अवमानादिभिः संयोजयन्ति तेषामित्यर्थः // PSBह्_३.९:५
SK
* तेषामिति षष्ठीग्रहणमनभिव्यक्तस्य कृत्स्नस्यादानज्ञापनार्थम् // PSBह्_३.९:६
SK
* आदत्ते // PSBह्_३.९:७
SK
* आ ग्रहणे // PSBह्_३.९:८
SK
* स्वात्मनि करोति विषमं वा इहातुरवदित्यर्थः // PSBह्_३.९:९
SK
* आह अतिदानाद्यतितपोवद् अवमानादिसाधनं गुणवचनं किमस्ति नेति // PSBह्_३.९:१०
SK
* उच्यते अस्ति // PSBह्_३.९:११
SK
* यस्मादाह // PSBह्_३.९:१२
SK
तस्मात् || PS_३.१० ||
SK
* इति / अत्र तस्माच्छब्दः अवमानादिसाधनगुणवचने // PSBह्_३.१०:१ * कथम् // PSBह्_३.१०:२ * यस्मादवमानादिभिः पापपाप्मनां क्षये शुद्धिः सुकृतादाने च वृद्धिर्भवति // PSBह्_३.१०:३ * यस्माच् च तन्निष्ठालौकिकशरीरेन्द्रियविषयादिप्रापकः ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तिर् एकान्तेनात्यन्तिकी भवति // PSBह्_३.१०:४ * अतो ब्रवीति तस्मादिति // PSBह्_३.१०:५ * आह अथैतद् अवमानादिसाधनमेव कर्तव्यम् // PSBह्_३.१०:६ * किं वा अव्यक्तावस्थानैव चरितव्यम् // PSBह्_३.१०:७ * तदुच्यते न // PSBह्_३.१०:८ * यस्मादाह // PSBह्_३.१०:९
SK
प्रेतवच् चरेत् || PS_३.११ ||
SK
* अत्र पुरुषाख्यः प्रेतः न मृताख्यः // PSBह्_३.११:१
SK
* कस्मात् // PSBह्_३.११:२
SK
* आचरणोपदेशात् // PSBह्_३.११:३
SK
* वद् इति किंचिदुपमा // PSBह्_३.११:४
SK
* उन्मत्तसदृशदरिद्रपुरुषस्नातमलदिग्धाङ्गेन रूढश्मश्रुनखरोमधारिणा सर्वसंस्कारवर्जितेन भवितव्यम् // PSBह्_३.११:५
SK
* अतो वर्णाश्रमव्युच्छेदो वैराग्योत्साहश्च जायते // PSBह्_३.११:६
SK
* प्रयोजननिष्पत्तिश्च भवति अवमानादि // PSBह्_३.११:७
SK
* चरेद् इत्याज्ञामधिकुरुते // PSBह्_३.११:८
SK
* धर्मार्जने नियोगे च // PSBह्_३.११:९
SK
* संशयान्यत्वाच् चापुनरुक्तोऽयं चरशब्दो द्रष्टव्यः // PSBह्_३.११:१०
SK
* आह चरतोऽस्य के क्रियाविशेषाः // PSBह्_३.११:११
SK
* का वार्थनिष्पत्तिः // PSBह्_३.११:१२
SK
* आचाराणां वा को विस्तारः // PSBह्_३.११:१३
SK
* तदुच्यते // PSBह्_३.११:१४
SK
क्राथेत वा || PS_३.१२ ||
SK
* अत्र यदा प्राप्तज्ञानः क्षीणकलुषश्च कृताभ्यनुज्ञः तदा आचार्यसकाशान् निष्क्रम्यागत्य प्रत्यगारं नगरं वा प्रविश्य यत्र लौकिकानां समूहस्तत्र तेषां नातिदूरे नातिसंनिकर्षे यत्र च तेषां नोपरोधो दृष्टिनिपातश्च भवति तत्र हस्त्यश्वरथपदातीनां पन्थानं वर्जयित्वोपविश्य निद्रालिङ्गशिरश्चलितजृम्भिकादीनि प्रयोक्तव्यानि // PSBह्_३.१२:१
SK
* तत्रैवानेनासुप्तेन सुप्त इव भवितव्यम् // PSBह्_३.१२:२
SK
* ततः प्राणरेचनस्य वायोः कण्ठदेशे पुरुपुरुशब्दः कर्तव्यः // PSBह्_३.१२:३
SK
* ततस्ते मनसा वा वाचा वा निद्राविष्टोऽयमिति लौकिकाः प्रपद्यन्ते परिभवन्ति च // PSBह्_३.१२:४
SK
* अनेनानृताभियोगेनास्य यत् तेषां सुकृतं तदागच्छति // PSBह्_३.१२:५
SK
* अस्यापि च यत् पापं तत् तान् प्रति // PSBह्_३.१२:६
SK
* एवं क्राथनम् इति क्रिया // PSBह्_३.१२:७
SK
* इत इत्य् अभियजन आज्ञायां नियोगे च // PSBह्_३.१२:८
SK
* वाशब्दः क्राथनस्पन्दनादिविभागे द्रष्टव्यः // PSBह्_३.१२:९
SK
* आह अविभक्ताभिधानादेव क्राथनस्पन्दनादीनां विभागसिद्धिः हसितादिवत् // PSBह्_३.१२:१०
SK
* कस्माद् भाविवचनं भवति // PSBह्_३.१२:११
SK
* उच्यते पृथगभिधाने सत्यपि हसितगीतनृत्यवत् संदेहः // PSBह्_३.१२:१२
SK
* पृथगभिधाने सत्यपि हसितगीतयोः पृथक् पृथक् प्रयोगः // PSBह्_३.१२:१३
SK
* अत्र विभक्तयोस्तु गीतनृत्ययोः // PSBह्_३.१२:१४
SK
* अध्ययनयन्त्रणयोश्च // PSBह्_३.१२:१५
SK
* तस्मात् पृथगभिधानमनुरतो वा विभागे भवतान्यदोषः // PSBह्_३.१२:१६
SK
* ततः क्राथनक्रिययावमानादिषु निष्पन्नेषु क्राथनादि संसृष्टं समुत्सृज्य शीघ्रमुत्थातव्यम् // PSBह्_३.१२:१७
SK
* यथा लौकिकानां सम्प्रत्ययो भवति किमप्यनेन स्वप्नान्तरे भयं दृष्टमिति // PSBह्_३.१२:१८
SK
* अत उत्थाय शिरःपाण्यादीनामन्यतमं स्पन्दितव्यम् // PSBह्_३.१२:१९
SK
* यस्मादाह // PSBह्_३.१२:२०
SK
स्पन्देत वा || PS_३.१३ ||
SK
* अत्र स्पन्दनमिति ज्ञानेच्छामधिकुरुते // PSBह्_३.१३:१
SK
* कस्मात् // PSBह्_३.१३:२
SK
* ज्ञानेच्छाप्रयत्नपूर्वकं शरीरावयवाः स्पन्दयितव्याः // PSBह्_३.१३:३
SK
* द्रष्टारो हि वायुसंसृष्टो ऽयमिति लौकिकाः प्रतिपद्यन्ते परिभवन्ति च // PSBह्_३.१३:४
SK
* अनेनानृताभियोगेनास्य तत्पुण्यमागच्छति अस्यापि च यत् पापं तान् गच्छति // PSBह्_३.१३:५
SK
* एवं स्पन्दनम् इति क्रिया // PSBह्_३.१३:६
SK
* इत इत्य् अभियजन आज्ञायां नियोगे च // PSBह्_३.१३:७
SK
* एवमादिसाधने सति वा विकल्पे रौद्रीबहुरूपीवत् // PSBह्_३.१३:८
SK
* अवस्थानक्राथनोत्थानस्पन्दनादौ वाशब्दो द्रष्टव्यः // PSBह्_३.१३:९
SK
* आह अभिप्रस्थितस्य धर्मसाधनं किमस्ति नेति // PSBह्_३.१३:१०
SK
* उच्यते अस्ति // PSBह्_३.१३:११
SK
* यस्मादाह // PSBह्_३.१३:१२
SK
मण्टेत वा || PS_३.१४ ||
SK
* वेति पादवैकल्यमधिकुरुते // PSBह्_३.१४:१
SK
* मण्टने च प्रयुक्ते वक्तारो वदन्त्युपहतम् अस्य पादेन्द्रियम् // PSBह्_३.१४:२
SK
* कृत्स्नस्याशुभस्य च वृत्तिर् अस्मिञ्छरीरे उपलभ्यते // PSBह्_३.१४:३
SK
* उक्तं हि / दारिद्र्यं व्याधिभूयिष्ठता मूर्खत्वं चारूपता भ्रंशतापि / देहोत्पत्तिर्वर्णहीने कुले वा प्रत्यादेशः कर्मणां दुष्कृतानाम् // PSBह्_३.१४:४ * द्रष्टारो हि उपहतपाद इति प्रपद्यन्ते परिभवन्ति च // PSBह्_३.१४:५ * अनेनानृताभियोगेन यत् तेषां सुकृतं तदस्यागच्छति // PSBह्_३.१४:६ * अस्यापि च यत् पापं तान् गच्छति // PSBह्_३.१४:७ * एवं मण्टनम् इति क्रिया // PSBह्_३.१४:८ * इत इत्यभियजने आज्ञायां नियोगे च // PSBह्_३.१४:९ * वाशब्दः क्राथनस्पन्दनमण्टनादिविभागे द्रष्टव्यः // PSBह्_३.१४:१० * आह स्त्रीष्वधिकारिकर्मसाधनं किमस्ति नेति // PSBह्_३.१४:११ * उच्यते अस्ति // PSBह्_३.१४:१२ * यस्मादाह // PSBह्_३.१४:१३
SK
शृङ्गारेत वा || PS_३.१५ ||
SK
* अत्र शृङ्गारणमिति भावप्रसादमधिकुरुते // PSBह्_३.१५:१
SK
* कथम् // PSBह्_३.१५:२
SK
* स्त्रीजनसमूहस्यानुपरोधे नातिदूरे नातिसंनिकर्षे अधिदृष्टिनिपाते स्थित्वैकां रूपयौवनसम्पन्नां स्त्रियम् अधिकृत्यालोचनसंकल्पाध्यवसायाभिमानादयः प्रयोक्तव्याः // PSBह्_३.१५:३
SK
* अयुक्ता चेच्छावलोके हि सति केशसंयमनादीनि कामलिङ्गानि प्रयोक्तव्यानि // PSBह्_३.१५:४
SK
* ततः स्त्रीपुंनपुंसकादयो वक्तारो वदन्त्यब्रह्मचारी काम्ययमिति // PSBह्_३.१५:५
SK
* अनेनानृताभियोगेनास्य यत् तेषां सुकृतं तदागच्छति अस्यापि यत् पापं तत् तेषां गच्छत्येव // PSBह्_३.१५:६
SK
* शृङ्गारणम् इति क्रिया // PSBह्_३.१५:७
SK
* इत इत्यभियजने आज्ञायां नियोगे च वाशब्दः क्राथनस्पन्दनमण्टनशृङ्गारणादिक्रियान्तराणां विकल्पे // PSBह्_३.१५:८
SK
* क्रियान्यत्वाच् चापुनरुक्तोऽयं वाशब्दो द्रष्टव्यः // PSBह्_३.१५:९
SK
* आह क्राथनादिक्रियाचतुष्कं यस्य नास्ति तस्य सामान्यत्वात् // PSBह्_३.१५:१०
SK
* उक्तं हि / ये हि वै दीक्षितं यजमानं पृष्ठतोऽपवदन्ति ते तस्य पाप्मानमभिव्रजन्ति // PSBह्_३.१५:११ * पृष्ठतः पदमग्रतः पार्श्वतश्च योज्यम् // PSBह्_३.१५:१२ * तस्मात् क्राथेत वा स्पन्देत वा मण्टेत वा शृङ्गारेत वा // PSBह्_३.१५:१३ * कस्मात् // PSBह्_३.१५:१४ * अतियजनादिविशेषितत्वात् // PSBह्_३.१५:१५ * कस्मात् // PSBह्_३.१५:१६ * सर्वज्ञवचनाद् अर्थाविसंवादित्वाच् च लोकापरिग्रहाभावः // PSBह्_३.१५:१७ * आह क्रियाचतुष्कमेवात्र कर्तव्यमिति // PSBह्_३.१५:१८ * उच्यते न // PSBह्_३.१५:१९ * यस्मादाह // PSBह्_३.१५:२०
SK
अपितत्कुर्यात् || PS_३.१६ ||
SK
* अत्र अपिशब्दः क्राथनादिसर्वक्रियासमुच्चयवचने // PSBह्_३.१६:१
SK
* तद् इति अनैकान्ते // PSBह्_३.१६:२
SK
* कुर्याद् इति कुशलां हासवृत्तिमधिकुरुते // PSBह्_३.१६:३
SK
* यमानामविरोधिनां शुविरूपकाणां द्रव्याणां काष्ठलोष्टादीनां ग्रहणधारणसंस्पर्शनादीनि कर्तव्यानि // PSBह्_३.१६:४
SK
* ततस्ते वक्तारो वदन्ति असम्यक्कारी शुच्यशुच्योः कार्याकार्ययोर् अविभागज्ञ इति // PSBह्_३.१६:५
SK
* अनेनानृताभियोगेनास्य धर्माधर्मयोश्च हानादानशुद्धिर्भवति // PSBह्_३.१६:६
SK
* आह किं क्रियापञ्चकमेवात्र कर्तव्यम् // PSBह्_३.१६:७
SK
* तदुच्यते न // PSBह्_३.१६:८
SK
* यस्मादाह // PSBह्_३.१६:९
SK
अपितद्भाषेत् || PS_३.१७ ||
SK
* अत्र अपिशब्दः सर्वेन्द्रियवृत्त्यपादानसम्भावने // PSBह्_३.१७:१
SK
* तद् इति अनैकान्ते // PSBह्_३.१७:२
SK
* भाषेद् इति वाक्यवृत्तिमधिकुरुते // PSBह्_३.१७:३
SK
* इत्पदम् अपार्थकं पुनरुक्तं व्याहतं भाषितव्यमिति // PSBह्_३.१७:४
SK
* ततस्ते वक्तारो वदन्ति असम्यग्वादी वाच्यावाच्ययोर् अविभागज्ञ इति // PSBह्_३.१७:५
SK
* अनेनानृताभियोगेनास्य धर्माधर्मयोस् त्यागादानशुद्धिर्भवति // PSBह्_३.१७:६
SK
* आह किं हसितादिवद् यथापाठक्रमेणैव क्राथनादयः प्रयोक्तव्याः // PSBह्_३.१७:७
SK
* किं वा प्रयोजनं कर्तव्यम् // PSBह्_३.१७:८
SK
* तदुच्यते परिभवादिनिष्पत्त्यर्थम् // PSBह्_३.१७:९
SK
* यस्मादाह // PSBह्_३.१७:१०
SK
येन परिभवं गच्छेत् || PS_३.१८ ||
SK
* अत्र यच्छब्दः अतिक्रान्तापेक्षणे वीप्सायां च // PSBह्_३.१८:१
SK
* परिभवः पूर्वोक्तः // PSBह्_३.१८:२
SK
* गच्छेद् इत्यवमानपरिभवपरिवादाः प्राप्तव्या इत्यर्थः // PSBह्_३.१८:३
SK
* एवमत्र व्यक्ताचारसमासोक्तानां क्राथनादीनामाचाराणां विस्तरविभागविशेषोपसंहारादयश् च व्याख्याता इत्यर्थः // PSBह्_३.१८:४
SK
* आह कियन्तं कालं परिभवादयः प्राप्तव्याः // PSBह्_३.१८:५
SK
* कीदृशेन वा // PSBह्_३.१८:६
SK
* तदुच्यते // PSBह्_३.१८:७
SK
परिभूयमानो हि विद्वान् कृत्स्नतपा भवति || PS_३.१९ ||
SK
* अत्र परि सर्वतोभावे // PSBह्_३.१९:१
SK
* भूय इत्यनेकशोऽवमानादयः प्राप्तव्याः // PSBह्_३.१९:२
SK
* मान इत्यस्य पूर्वोक्तोऽर्थः // PSBह्_३.१९:३
SK
* हिशब्दः कृत्स्नतपौत्कर्षे // PSBह्_३.१९:४
SK
* उत्कर्षापेक्षो द्रष्टव्यः // PSBह्_३.१९:५
SK
* विद्या नाम या ग्रन्थार्थवर्तिपदार्थानाम् अभिव्यञ्जिका विप्रत्वलक्षणा // PSBह्_३.१९:६
SK
* न्यायात् पदार्थानाम् अधिगतप्रत्ययो लाभमलोपायाभिज्ञः विद्वानित्युच्यते // PSBह्_३.१९:७
SK
* कृत्स्नमिति प्रयोगप्राप्तौ पर्याप्तिमधिकुरुते न तु हर्षादिप्राप्ताव् इत्यर्थः // PSBह्_३.१९:८
SK
* कृत्स्नतपाः पर्याप्ततपाः साधक इत्यर्थः // PSBह्_३.१९:९
SK
* भवति इति भूतार्थवादो निःसंशयम् // PSBह्_३.१९:१०
SK
* यदा यमनियमेषु दृढो भूत्वा क्राथनादीन् प्रयुङ्क्ते तदा कृत्स्नतपा भवति // PSBह्_३.१९:११
SK
* कृत्स्नस्य तपसो लक्षणमात्मप्रत्यक्षं वेदितव्यम् // PSBह्_३.१९:१२
SK
* एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् // PSBह्_३.१९:१३
SK
अत्रेदं ब्रह्म जपेत् || PS_३.२० ||
SK
* इति // PSBह्_३.२०:१
SK
* अस्य पूर्वोक्तोऽर्थः // PSBह्_३.२०:२
SK
* किंपुनस्तद् ब्रह्मेति // PSBह्_३.२०:३
SK
* तदुच्यते // PSBह्_३.२०:४
SK
अघोरेभ्यः || PS_३.२१ ||
SK
* अथवा ब्रह्मणा सह ब्रह्मसम्बन्धो भवति // PSBह्_३.२१:१
SK
* कथम् // PSBह्_३.२१:२
SK
* मनोग्रहणाद् रूपादिविहीना अर्थाः // PSBह्_३.२१:३
SK
* किं तानि सुरूपाणि सलक्षणानि विलक्षणानि उत सलक्षणविलक्षणानीति // PSBह्_३.२१:४
SK
* किं परिमितानि उत अपरिमितानि उत परिमितापरिमितानि // PSBह्_३.२१:५
SK
* उच्यते कारणत्वबहुत्वेनोक्तस्य भगवतो रूपनानात्वं वैलक्षण्यावैलक्षण्यं परिमितापरिमितत्वं चोच्यते अघोरेभ्यः // PSBह्_३.२१:६
SK
* अकारो रूपाणां घोरत्वं प्रतिषेधति // PSBह्_३.२१:७
SK
* अघोराण्यतिशान्तानि अनुग्रहकराणीत्यर्थः // PSBह्_३.२१:८
SK
* एभ्य इत्यपरिमितापरिसंख्यातेभ्य इत्यर्थः // PSBह्_३.२१:९
SK
* आह किमेतान्येव एभ्य एव वा // PSBह्_३.२१:१०
SK
* तदुच्यते न // PSBह्_३.२१:११
SK
* यस्मादाह // PSBह्_३.२१:१२
SK
अथ घोरेभ्यः || PS_३.२२ ||
SK
* अत्र अथशब्दो घोररूपोपाधिको द्रष्टव्यः घोराणि अशिवानि अशान्तानि अननुग्रहकारीणीत्यर्थः // PSBह्_३.२२:१
SK
* एभ्य इत्यपरिमितापरिसंख्यातेभ्य इत्यर्थः // PSBह्_३.२२:२
SK
* आह किमेतान्येव द्विसंस्थानसंस्थेभ्य एव वा // PSBह्_३.२२:३
SK
* उच्यते यस्मादाह // PSBह्_३.२२:४
SK
घोरघोरतरेभ्यश्च || PS_३.२३ ||
SK
* अत्र घोर इत्येतद् भगवतो नामधेयम् // PSBह्_३.२३:१
SK
* द्वितीयो घोरशब्दो रूपेषु द्रष्टव्यः // PSBह्_३.२३:२
SK
* तर विशेषणे // PSBह्_३.२३:३
SK
* शानतरादिवत् // PSBह्_३.२३:४
SK
* तेभ्यो घोरेभ्यो ऽघोरेभ्यश्च यान्यन्यानि पशूनां सम्मोहकराणि तानि घोरतराणीत्यर्थः // PSBह्_३.२३:५
SK
* एभ्य इत्यपरिमितासंख्यातेभ्य इत्यर्थः // PSBह्_३.२३:६
SK
* चशब्दो घोराघोररूपोपसंहारे द्रष्टव्यः // PSBह्_३.२३:७
SK
* एतान्येव त्रिसंख्यानि रूपाणि नान्यानीत्यर्थः // PSBह्_३.२३:८
SK
* आह कुतस्तानि रूपाणि करोति // PSBह्_३.२३:९
SK
* कुत्रस्थानि वा // PSBह्_३.२३:१०
SK
* तदुच्यते // PSBह्_३.२३:११
SK
सर्वेभ्यः || PS_३.२४ ||
SK
* अत्र यानि रूपकारणे // PSBह्_३.२४:१
SK
* सर्वत्वं कस्मात् // PSBह्_३.२४:२
SK
* सर्वत्रानवकाशदोषात् सूच्यग्रे द्विनाभीयबदरवत् // PSBह्_३.२४:३
SK
* किंतु कारणशक्तेर् अव्याहतत्वाच् च // PSBह्_३.२४:४
SK
* सर्वत्र तानीत्यर्थः // PSBह्_३.२४:५
SK
* आह रूपकरणे करणेष्वस्याप्रतिघात इति क्व सिद्धम् // PSBह्_३.२४:६
SK
* तदुच्यते इह // PSBह्_३.२४:७
SK
* यस्मादाह // PSBह्_३.२४:८
SK
शर्वसर्वेभ्यः || PS_३.२५ ||
SK
* अत्र शर्व इत्येतद् भगवतो नामधेयम् // PSBह्_३.२५:१
SK
* शर्वः कस्मात् // PSBह्_३.२५:२
SK
* विद्यादिकार्यस्य शरणाच्छर्व इत्युच्यते // PSBह्_३.२५:३
SK
* सर्वं विद्यादिकार्यं रुद्रस्थम् // PSBह्_३.२५:४
SK
* सर्वस्मिंश्च भगवांश्चोदकः कारणत्वेन सर्वत्र // PSBह्_३.२५:५
SK
* सर्वशब्दः त्रिसंख्येष्वपि एषु निरवशेषवाची द्रष्टव्यः // PSBह्_३.२५:६
SK
* एभ्य इत्यपरिमितासंख्येभ्य इत्यर्थः // PSBह्_३.२५:७
SK
* आह अथैतां रूपविभूतिं ज्ञात्वा साधकेन किं कर्तव्यम् // PSBह्_३.२५:८
SK
* तदुच्यते // PSBह्_३.२५:९
SK
नमस्ते अस्तु रुद्ररूपेभ्यः || PS_३.२६ ||
SK
* अत्र नम इत्यात्मप्रयुक्त इत्यर्थः ते इति कारणापदेशे // PSBह्_३.२६:१
SK
* नमस्तुभ्यं नमस्ते // PSBह्_३.२६:२
SK
* अथवा नमस्कारेणात्मानं प्रदाय धर्मप्रचयपरिग्रहमिच्छन्ति // PSBह्_३.२६:३
SK
* अथ कतमोऽयं परिग्रहः // PSBह्_३.२६:४
SK
* तदुच्यते विशिष्टे परिग्रहात् // PSBह्_३.२६:५
SK
* तदुच्यते ऽत्र रुद्र इति कारणापदेशे // PSBह्_३.२६:६
SK
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् // PSBह्_३.२६:७
SK
* रूपाणि यानि शरीराण्युत्पादयति तेभ्यो रूपेभ्य इत्यर्थः // PSBह्_३.२६:८
SK
* अत्र रूपव्यपदेशेन रूपिणि नमस्कारो द्रष्टव्यः // PSBह्_३.२६:९
SK
* कस्मात् // PSBह्_३.२६:१०
SK
* तदभिसंधिप्रयोगात् // PSBह्_३.२६:११
SK
* शिवपुरि उपस्थानवत् // PSBह्_३.२६:१२
SK
* एभ्य इति // PSBह्_३.२६:१३
SK
* अपरिमितासंख्यातेभ्य इत्यर्थः // PSBह्_३.२६:१४
SK
* रूपनिर्देशार्थान्यत्वाच् च पुनरुक्तापुनरुक्ताभ्यां शब्दा द्रष्टव्याः // PSBह्_३.२६:१५
SK
Pआशुपतसूत्र, ४
SK
गूढविद्या तपआनन्त्याय प्रकाशते || PS_४.१ ||
SK
* गुहू रक्षणे // PSBह्_४.१:१
SK
* रक्षितव्या न प्रकाशयितव्येत्यर्थः // PSBह्_४.१:२
SK
* गोपनं नामाप्रकाशनम् // PSBह्_४.१:३
SK
* विद्या पूर्वोक्ता स्वपरान्यप्रकाशिका प्रदीपवत् // PSBह्_४.१:४
SK
* लिङ्गैर्गोप्या रूढविद्या साधके इत्यर्थः // PSBह्_४.१:५
SK
* आह गूढविद्ये साधके का कार्यनिष्पत्तिः // PSBह्_४.१:६
SK
* तदुच्यते तपआनन्त्याय प्रकाशते इत्येष पाठः // PSBह्_४.१:७
SK
* अथवा कुरवोन्महितवत् तपोऽनन्त्याय प्रकाशत इत्येष वा पाठः // PSBह्_४.१:८
SK
* तस्मादत्र तपस्तदेव // PSBह्_४.१:९
SK
* निरुक्तमस्य पूर्वोक्तम् // PSBह्_४.१:१०
SK
* अन् इत्यपि नियोगपर्यायः गम्यते // PSBह्_४.१:११
SK
* तपःकार्यत्वाद् अतिगतिसायुज्यवत् // PSBह्_४.१:१२
SK
* आह किं परिमितेष्वर्थेष्वानन्त्यशब्दः उतापरिमितेषु किं वा परिमितापरिमितेष्विति // PSBह्_४.१:१३
SK
* उच्यते परिमितापरिमितेष्वर्थेषु आनन्त्यशब्दः // PSBह्_४.१:१४
SK
* तत्र तावद् ईश्वरस्यैकैकशः परिमितेषु तेष्वेव विभुत्वाद् अपरिमितेषु तथा परिमितापरिमितेष्वर्थेषु अभिव्यक्तास्य शक्तिः // PSBह्_४.१:१५
SK
* तस्य कुशलाकुशलेषु भावेष्व् आनन्त्यशब्दः // PSBह्_४.१:१६
SK
* यस्मादुक्तं न चैतास्तनवः केवलं मम इति // PSBह्_४.१:१७
SK
* तथा रुद्रः समुद्रो हि अनन्तो भास्करो नभः / आत्मा ब्रह्म च वाक् चैव न शक्यं भेददर्शनम् // PSBह्_४.१:१८ * अनात्मविद्भिरध्यस्तां पङ्क्तिं योजनमायताम् / वेदवित् पुनते पार्थ नियुक्तः पङ्क्तिमूर्धनि // PSBह्_४.१:१९ * तथा च वेदवित् पङ्क्तिमात्मवित् पुनते द्विजः / आनन्त्यं पुनते विद्वान् नाभात्वं यो न पश्यति // PSBह्_४.१:२० * आनन्त्याय इति चतुर्थी तस्मात् तप एतत् न तु विद्या कार्या // PSBह्_४.१:२१ * प्रकाशो नाम भावप्रकाश्यम् न तु प्रदीपवत् // PSBह्_४.१:२२ * कथम् // PSBह्_४.१:२३ * योगाधिकृतस्य प्रदीपस्थानीतयमानैजस्थानीयम् आवारकम् अभिभूय प्रकाशते // PSBह्_४.१:२४ * चक्षुःस्थानीयया विद्यया कुशलविवेकादिकार्यं माहात्म्यातिगतिप्रकाशप्रवृत्तिस्मृतिसायुज्यस्थित्यादिप्रकाशनं तपःकार्यमित्यर्थः एवं च गुप्ते ब्राह्मणे तप आनन्त्याय प्रकाशत इत्यर्थः // PSBह्_४.१:२५ * आह स्वभावगुप्तत्वाद् अतीन्द्रियात्मगती विद्या गोप्येति // PSBह्_४.१:२६ * तदुच्यते अव्यक्तप्रेताद्यवस्थानैर् लिङ्गैर्गोप्या इत्यर्थः // PSBह्_४.१:२७ * आह कानि पुनस्तानि विद्यालिङ्गानि यैर् गुप्तैर् विद्या गुप्ता भवति // PSBह्_४.१:२८ * तदुच्यते व्रतादीनि // PSBह्_४.१:२९ * यस्मादाह // PSBह्_४.१:३०
SK
गूढव्रतः || PS_४.२ ||
SK
* अत्र गूढं प्रच्छन्नम् अप्रकाशमित्यर्थः // PSBह्_४.२:१
SK
* व्रतं नाम यदायतने स्नानहसिताद्यः साधनवर्गस्तद् व्रतम् // PSBह्_४.२:२
SK
* कस्मात् // PSBह्_४.२:३
SK
* साकृतत्वाद् यस्मादयं ब्राह्मणस्तथा प्रयुङ्क्ते यथा लौकिकानां धर्मसाधनभावो न विद्यत इति अतो गूढव्रत इति // PSBह्_४.२:४
SK
* आह अव्यक्तप्रेतत्वादेव गूढत्वप्राप्तेः पुनरुक्तमिति // PSBह्_४.२:५
SK
* उच्यते ऽर्थान्यत्वाद् अपुनरुक्तम् // PSBह्_४.२:६
SK
* तत्रावस्थानमात्रम् एवाव्यक्तम् // PSBह्_४.२:७
SK
* इह तु स्नानहसितादिगोपनम् // PSBह्_४.२:८
SK
* अपि च तत्र निष्पन्नं लिङ्गम् अव्यक्तम् // PSBह्_४.२:९
SK
* इह तु निष्पत्तिकाले च गोपनोपदेशः // PSBह्_४.२:१०
SK
* न वाव्यक्तप्रेतत्वं वा विद्यालिङ्गम् // PSBह्_४.२:११
SK
* अतश्चापुनरुक्तम् // PSBह्_४.२:१२
SK
* तस्माद् गूढव्रतोपदेशाय स्थानापदेशापवादाय स्थाने वस्तव्यम् // PSBह्_४.२:१३
SK
* स्नानहसितादयश्च गूढाः कर्तव्याः // PSBह्_४.२:१४
SK
* एवं विद्या गुप्ता भवतीत्यर्थः // PSBह्_४.२:१५
SK
* आह किं व्रतमेवैकं विद्यालिङ्गं गोप्यम् आहोस्विद् अन्यदप्यस्ति नेति // PSBह्_४.२:१६
SK
* उच्यते ऽस्ति // PSBह्_४.२:१७
SK
* यस्मादाह // PSBह्_४.२:१८
SK
गूढपवित्रवाणिः || PS_४.३ ||
SK
* अत्र गूढा गुप्ता प्रच्छन्ना अप्रकाशेत्यर्थः // PSBह्_४.३:१
SK
* पवित्रा नाम सत्या संस्कृता अर्घ्यहेतुः सम्पन्ना न तु विपरीतेत्यर्थः // PSBह्_४.३:२
SK
* सा गोप्या // PSBह्_४.३:३
SK
* किमर्थमिति चेत् // PSBह्_४.३:४
SK
* तदुच्यते जातिज्ञानतपःस्तवसूचनार्थम् // PSBह्_४.३:५
SK
* यथा शरदं कुररः सूचयति // PSBह्_४.३:६
SK
* उक्तं हि / शरदं कुररः प्राह वसन्तं प्राह कोकिलः / प्राह वर्षा मयूरश्च वाक् पवित्राह ब्राह्मणम् // PSBह्_४.३:७ * तथा / वागेव हि मनुष्यस्य श्रुतमाख्याति भाषिता / दीपयन्ती यथा सर्वं प्रभा भानुमिवामला // PSBह्_४.३:८ * अतो जातिज्ञानतपःस्तवा भवन्ति // PSBह्_४.३:९ * स्तविते चावसानादिमत्त्वयोः पुण्यपापक्षयवृद्ध्योरभावः // PSBह्_४.३:१० * अत एतदुक्तं गूढपवित्रवाणिरिति // PSBह्_४.३:११ * आह किं व्रतं वाणी च द्वयमेवात्र गोप्यम् आहोस्विद् अन्यदप्यस्ति नेति // PSBह्_४.३:१२ * उच्यते अस्ति // PSBह्_४.३:१३ * यस्मादाह // PSBह्_४.३:१४
SK
सर्वाणि द्वाराणि पिधाय || PS_४.४ ||
SK
* इति // PSBह्_४.४:१
SK
* अत्र सर्वशब्दो द्वारप्रकृतेर् निरवशेषवाची द्रष्टव्यः // PSBह्_४.४:२
SK
* द्वाराणि क्राथनादीनि // PSBह्_४.४:३
SK
* द्वाराणि च कस्मात् // PSBह्_४.४:४
SK
* धर्माधर्मयोर् आयव्ययहेतुत्वाद् द्वाराणि // PSBह्_४.४:५
SK
* द्वाराणीति बहुवचनं विज्ञानयन्त्रेन्द्रियवत् // PSBह्_४.४:६
SK
* पिधाय इति प्राक्साधनप्रयोगमधिकुरुते // PSBह्_४.४:७
SK
* कथम् // PSBह्_४.४:८
SK
* अस्थानकालदेशक्रियाप्रयोगप्रयोजनान्तराणि विधिवद् विवेच्य यदा सम्यङ् मायया संनाद्यभेदक्रमेण प्रयुक्तानि तदा पिहितानि भवन्तीत्यर्थः // PSBह्_४.४:९
SK
* आह केन तानि पिधेयानि // PSBह्_४.४:१०
SK
* तदुच्यते // PSBह्_४.४:११
SK
बुद्ध्या || PS_४.५ ||
SK
* यस्मादस्य श्रोत्रेन्द्रियवत् पिधायेति सम्यग् ज्ञानप्रयोगे सर्वज्ञेन भगवता विद्यानुगृहीतया बुद्ध्या पिधानमुक्तं तस्मादत्र करणाख्या बुद्ध्येति न ज्ञानाख्या // PSBह्_४.५:१
SK
* कथं गम्यते // PSBह्_४.५:२
SK
* बुद्ध्येति तृतीयाप्रयोगात् // PSBह्_४.५:३
SK
* भस्मना स्नानवत् // PSBह्_४.५:४
SK
* न ज्ञानाख्या // PSBह्_४.५:५
SK
* यस्य विज्ञानाख्या बुद्धिर्न ज्ञानाख्या कथं गम्यते // PSBह्_४.५:६
SK
* तस्य प्राग् ज्ञानोत्पत्तेर् अचेतनपुरुषस्तस्य ह्य् अज्ञानाद् असंबोध्यः स्यात् // PSBह्_४.५:७
SK
* तस्मादत्र त्रिकं चिन्त्यते पिधाता पिधानं पिधेयमिति तत्र पिधाता साधकः // PSBह्_४.५:८
SK
* पिधानमस्य विद्यानुगृहीता बुद्धिः // PSBह्_४.५:९
SK
* पिधेयं व्रतं वाणी द्वाराणि चेति // PSBह्_४.५:१०
SK
* क्रमवृत्तित्वाच् च बुद्धेरेव प्रयुङ्क्ते शेषाण्य् अकर्तृत्वेनैवाप्रयुक्तानि // PSBह्_४.५:११
SK
* तदा पिहितानि भवन्तीत्यर्थः // PSBह्_४.५:१२
SK
* अत्रेदं विद्याज्ञानप्रकरणं परिसमाप्तमिति // PSBह्_४.५:१३
SK
* आह किमव्यक्तप्रेत इत्यवस्थानद्वयमेवात्र कर्तव्यम् // PSBह्_४.५:१४
SK
* वागादीनि वा गोपायित्वा साधकेन किं कर्तव्यम् // PSBह्_४.५:१५
SK
* उच्यते // PSBह्_४.५:१६
SK
उन्मत्तवदेको विचरेत लोके || PS_४.६ ||
SK
* अत्र बुद्ध्या अन्तःकरणानां श्रोत्रादीनां च बाह्यानां वृत्तिविभ्रमः कर्तव्योऽसति विषये विषयग्रहणम् // PSBह्_४.६:१
SK
* अत्र / पञ्चोन्मादाः समाख्याता वातपित्तकफात्मकाः / चतुर्थः संनिपातस्तु अभिघातस्तु पञ्चमः // PSBह्_४.६:२ * एवं ग्रहबहुत्वे सति यो ऽयं वातपित्तश्लेष्मणां समूहः सांनिपातिकोऽयं महाग्रहः // PSBह्_४.६:३ * एवं साधनप्रयोगः कर्तव्यः // PSBह्_४.६:४ * तत्र यदि कश्चिद् ज्ञानजिज्ञासनार्थं दयार्थम् अनुग्रहार्थं वा पृच्छति तं निवर्तयित्वा ब्रूयात् समयतः प्रविशस्वेति // PSBह्_४.६:५ * ततो द्वारेण प्रविश्य विपरीतम् अविपरीतं वा यदि कश्चिद् ब्रूयात् को भवानिति ततो वक्तव्यं माहेश्वरोऽहं कौमारो ऽहमिति दुरत्ययं कृतं च ममानेनेति // PSBह्_४.६:६ * ततो जिघांसनार्थं मया स्पृष्टो न तु विषयक्रीडार्थं वा // PSBह्_४.६:७ * ततः परिवर्जयति इत्येवं लौकिकपरीक्षकाणां सम्मोहनार्थम् उक्तम् उन्मत्तवद् इति // PSBह्_४.६:८ * किंचिदुन्मत्तप्रेतवत् तस्यान्तःकरणादिवृत्तिविभ्रममात्रं परिगृह्यते // PSBह्_४.६:९ * एक इत्य् असंवहता चिन्त्यते // PSBह्_४.६:१० * एकेनेतरेभ्यो विच्छिन्नेनासहायेनेत्य् अर्थः आह एकेन किं कर्तव्यमिति // PSBह्_४.६:११ * उच्यते विहर्तव्यम् // PSBह्_४.६:१२ * यस्मादाह विचरेत // PSBह्_४.६:१३ * अत्र विर्विस्तरे // PSBह्_४.६:१४ * चरेत्यार्जनम् अधिकुरुते धर्मार्जने // PSBह्_४.६:१५ * ईत इत्याज्ञायां नियोगे च // PSBह्_४.६:१६ * विस्तरनियोग विशेषतश्च विहर्तव्यमित्यर्थः // PSBह्_४.६:१७ * आह क्व विहर्तव्यमिति // PSBह्_४.६:१८ * उच्यते लोके // PSBह्_४.६:१९ * त्रिवर्णाश्रमिषु लोकसंज्ञा न तु ब्रह्मलोकादिषु // PSBह्_४.६:२० * कस्मात् // PSBह्_४.६:२१ * उत्कृष्टेष्व् असंभवात् // PSBह्_४.६:२२ * लोके इति सामीपिकं संनिधानम् // PSBह्_४.६:२३ * परवर्णा लोकास्तेषु तदध्यक्षेषु विहर्तव्यमित्यर्थः // PSBह्_४.६:२४ * आह कां वृत्तिमास्थाय लोके विहर्तव्यम् सर्वभक्षमेव // PSBह्_४.६:२५ * उच्यते न // PSBह्_४.६:२६ * यस्मादाह // PSBह्_४.६:२७
SK
कृतान्नमुत्सृष्टम् उपाददीत || PS_४.७ ||
SK
* अत्र कृतग्रहणादकृतानां बीजकाण्डफलादीनां प्रतिषेधः // PSBह्_४.७:१
SK
* कृतं भिन्नोद्भिन्नाद्यं तद् भैक्षम् उत्सृष्टं यथालब्धं विधिना प्राप्तमुपयोज्यम् // PSBह्_४.७:२
SK
* अत्र कृतग्रहणादकृतप्रतिषेधः अकृतप्रतिषेधाच् च कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा द्रष्टव्या // PSBह्_४.७:३
SK
* आह किं तत् कृतं नाम बुद्धिघटाद्यम् // PSBह्_४.७:४
SK
* तदुच्यते न // PSBह्_४.७:५
SK
* यस्मादाह अन्नम् // PSBह्_४.७:६
SK
* तत्रान्नवचनाद् अनन्नप्रतिषेधः // PSBह्_४.७:७
SK
* तच् च द्वियोनि इन्द्राभिषिक्तम् इन्द्रियाभिषिक्तं च तत्रेन्द्राभिषिक्तं व्रीहियवाद्यम् // PSBह्_४.७:८
SK
* इन्द्रियाभिषिक्तं तु मांसम् // PSBह्_४.७:९
SK
* तत् पञ्चविधम् भक्ष्यं भोज्यं लेह्यं पेयं चोष्यमिति // PSBह्_४.७:१०
SK
* तथा षड्रसं मधुराम्ललवणतिक्तकटुकषायम् इति // PSBह्_४.७:११
SK
* आह तस्य कृतान्नस्यार्जनं कुतः कर्तव्यम् // PSBह्_४.७:१२
SK
* तदुच्यते उत्सृष्टम् // PSBह्_४.७:१३
SK
* अत्रोत्सृष्टग्रहणाद् भैक्षयथालब्धप्रतिषेधः // PSBह्_४.७:१४
SK
* किं कारणम् // PSBह्_४.७:१५
SK
* सूनादिदोषपरिहारार्थत्वान्नस्तेयप्रतिग्रहादिदोषात् // PSBह्_४.७:१६
SK
* तच् च त्रिविधमुत्सृष्टम् // PSBह्_४.७:१७
SK
* तद् यथा निसृष्टं विसृष्टम् अतिसृष्टमिति // PSBह्_४.७:१८
SK
* तत्र सनिमित्तं परित्यक्तमन्नं पानं वा तन् निसृष्टम् // PSBह्_४.७:१९
SK
* गोब्राह्मणादिनिमित्तं त्यक्तं विसृष्टम् // PSBह्_४.७:२०
SK
* अतिसृष्टम् अन्यतः परित्यक्तम् // PSBह्_४.७:२१
SK
* दयार्थम् आनृशंसार्थं वा यदि कश्चिद् दद्यात् तदपि ग्राह्यमेव // PSBह्_४.७:२२
SK
* आह अनेन साधकेन किं कर्तव्यमिति // PSBह्_४.७:२३
SK
* उच्यते उपयोक्तव्यम् // PSBह्_४.७:२४
SK
* यस्मादाह उपाददीत अत्रोपेत्य् अभ्युपगमे // PSBह्_४.७:२५
SK
* अत्यन्तासन्मानसयन्त्रस्थेनेत्यर्थः // PSBह्_४.७:२६
SK
* आददीत इत्युपयोगे ग्रहणे च विवक्षितसूत्रग्रहणे त्वावद् भवति // PSBह्_४.७:२७
SK
* तदुक्तम् / संचित्वा नरमेवैनं कामानामवितृप्तिकम् / व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति // PSBह्_४.७:२८ * इति // PSBह्_४.७:२९ * उपयोगेऽपि नाथकणादवत्सम् // PSBह्_४.७:३० * तस्मादुपयोक्तव्यमिति // PSBह्_४.७:३१ * ईत इत्याज्ञायां नियोगे च // PSBह्_४.७:३२ * तदुत्सृष्टं विधिप्राप्तमुपयोक्तव्यम् // PSBह्_४.७:३३ * अन्यथा हि विधिव्यपेतेन क्रमेण वृत्त्यर्जनं न कर्तव्यमित्यर्थः // PSBह्_४.७:३४ * आह व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टोपयोगे च वर्ततः के वार्था निष्पद्यन्ते // PSBह्_४.७:३५ * असन्मानप्रकरणस्य वा परिसमाप्तिः किमस्ति नेति // PSBह्_४.७:३६ * उच्यते अस्ति // PSBह्_४.७:३७ * यस्मादाह // PSBह्_४.७:३८
SK
उन्मत्तो मूढ इत्येवं मन्यन्ते इतरे जनाः || PS_४.८ ||
SK
* अत्र उन्मत्तः स एव // PSBह्_४.८:१
SK
* निरुक्तमस्य पूर्वोक्तम् मूढ इति // PSBह्_४.८:२
SK
* मुहु अपरिज्ञाने // PSBह्_४.८:३
SK
* अव्यक्तोऽयं प्रेतोऽयम् उन्मत्तोऽयं मूढोऽयं मूर्खोऽयमिति वक्तारो वदन्तीत्यर्थः // PSBह्_४.८:४
SK
* इतिशब्दोऽर्थानां निर्वचनत्वात् प्रकरणपरिसमाप्त्यर्थः // PSBह्_४.८:५
SK
* एवं यस्माद् अवस्थानकालदेशक्रियाप्रयोगप्रयोजनगोपनवसत्यर्थकृत्स्नतपांसि च व्याख्यातानि // PSBह्_४.८:६
SK
* एवम् इत्यतिक्रान्तापेक्षणे // PSBह्_४.८:७
SK
* मन्यते इत्यवधारणे // PSBह्_४.८:८
SK
* इतरे इति गृहस्थब्रह्मचारिवानप्रस्थभिक्षुपाषण्डिनां ब्रह्मचर्याधिकृतानां ग्रहणम् // PSBह्_४.८:९
SK
* जना इति // PSBह्_४.८:१०
SK
* जनी प्रादुर्भावे // PSBह्_४.८:११
SK
* जना इति वर्णाश्रमिणां जनानाम् अधिकृतानां ग्रहणम् उक्तं हि / जनेन हि जनो जातः जनं जनयसे जन / जनं शोचसि नात्मानं मात्मानं शोच मा जनम् // PSBह्_४.८:१२ * इत्येवं वक्तारो वदन्तीत्यर्थः // PSBह्_४.८:१३ * अत्रेदम् आधिकारिकम् असन्मानचरिप्रकरणं समाप्तम् // PSBह्_४.८:१४ * आह व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टोपयोगे च ततः को गुणः यं गुणं ज्ञात्वा अव्यक्तप्रेतोन्मत्ताद्या वादा निष्पाद्या इति // PSBह्_४.८:१५ * तदुच्यते तं गुणं ज्ञात्वा वक्ष्यामः // PSBह्_४.८:१६ * अपि च अव्यक्तप्रेतोन्मत्ताद्यं ब्राह्मणकर्मविरुद्धं क्रमं दृष्ट्वा यावदयं शिष्यः एनमर्थं न ब्रवीति तत्तस्य हृदिस्थम् अशङ्कितम् उपलभ्योत्तरं ब्रूम इति कृत्वा भगवानिदं सूत्रमुवाच // PSBह्_४.८:१७
SK
असन्मानो हि यन्त्राणां सर्वेषामुत्तमः स्मृतः || PS_४.९ ||
SK
* अत्र अकारो मानप्रतिषेधे // PSBह्_४.९:१
SK
* मानोऽत्र द्विविधः // PSBह्_४.९:२
SK
* जात्यभिमानो गृहस्थाभिमानश्च // PSBह्_४.९:३
SK
* तत्र जात्यभिमानो नाम ब्राह्मणोऽहमिति // PSBह्_४.९:४
SK
* पूज्यत्वाद् ऊर्ध्वगमनादीनां कार्याणाम् उच्छ्रितत्वात् त्रयाणामपि वर्णानामुपदेशेन गुरुत्वाद् यज्ञकर्तृत्वात् त्रैलोक्यस्थितिहेतोः ब्राह्मणोऽहमिति प्रथमो मानो जात्युत्कर्षात् // PSBह्_४.९:५
SK
* तथा ब्राह्मणानामपि गृहस्थादीनां पूज्यत्वात् तत्कृतमानश्च // PSBह्_४.९:६
SK
* एतच् च मानद्वयमव्यक्तलिङ्गवचनात् प्रतिषिद्धम् // PSBह्_४.९:७
SK
* तथा वित्तं बन्धुर्यशः कर्म विद्या भवति पञ्चमी / एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् // PSBह्_४.९:८ * एतानि चैकवासःप्रेताचरणगूढव्रतोपदेशिना सूत्रतः प्रतिषिद्धानीत्यतो मानो न कर्तव्यः // PSBह्_४.९:९ * सन् इति प्रशंसायामस्तित्वे च // PSBह्_४.९:१० * अग्रे तदसन्मानचरिप्रकरणविशिष्टं च // PSBह्_४.९:११ * हिशब्दो ऽयमुत्तमोत्कर्षापेक्षो द्रष्टव्यः // PSBह्_४.९:१२ * यन्त्राणि अग्निष्टोमादीनि मासोपवासादीनि च गृहस्थादीनां शुद्धिवृद्धिकराणि // PSBह्_४.९:१३ * यन्त्राणि च कस्मात् // PSBह्_४.९:१४ * यन्त्रं कर्मादयः // PSBह्_४.९:१५ * यस्माद् अयन्त्रा लौकिका अमर्यादावस्था भवन्तीत्यतो यन्त्राणाम् // PSBह्_४.९:१६ * यन्त्राणाम् इति षष्ठीबहुवचनम् // PSBह्_४.९:१७ * आह बहुवचनप्रयोगात् संदेहः अथ कियतां यन्त्राणाम् // PSBह्_४.९:१८ * तदुच्यते सर्वेषाम् // PSBह्_४.९:१९ * अत्र सर्वेषाम् इत्यशेषाणामित्यर्थः // PSBह्_४.९:२० * सर्वेषामिति षष्ठीबहुवचनम् // PSBह्_४.९:२१ * आह षष्ठ्याः साकाङ्क्षत्वात् संदेहः // PSBह्_४.९:२२ * तेषां कारणात्मानो वर्तन्ते // PSBह्_४.९:२३ * तदुच्यते उत्तमः // PSBह्_४.९:२४ * अत्रोत्तम इति श्रेष्ठत्वे परमविशुद्धित्यागादानभावादिषु // PSBह्_४.९:२५ * उक्तं हि / वरेण्यः सत्तमो मुख्यो वरिष्ठः शोभनोऽथवा / उत्तमश्चापरार्धश्च स्वर्थः श्रेष्ठार्थवाचकाः // PSBह्_४.९:२६ * श्रेष्ठः // PSBह्_४.९:२७ * इह चोक्तम् उत्तम इति // PSBह्_४.९:२८ * आह असन्मानः सर्वयन्त्राणामुत्तम इति क्व सिद्धम् // PSBह्_४.९:२९ * उच्यते इह // PSBह्_४.९:३० * यस्मादाह स्मृतः // PSBह्_४.९:३१ * अत्र स्मृत इत्युक्तपर्यायः महेश्वरेणोक्तं प्रोक्तं कथितं वर्णितमित्यर्थः // PSBह्_४.९:३२ * विशिष्टः कस्मात् // PSBह्_४.९:३३ * सर्वज्ञवचनाद् अविसंवादित्वाच् च // PSBह्_४.९:३४ * नहि प्रत्यक्षदर्शिनां वचनानि विसंवदन्तीत्यर्थः // PSBह्_४.९:३५ * आह अस्मिन् क्रमे उत्तमत्वेन व्याख्यायमानं क आद्यः शोधकः // PSBह्_४.९:३६ * केन वा इदं विधानं चीर्णम् // PSBह्_४.९:३७ * आचरता वा किं फलं प्राप्तम् // PSBह्_४.९:३८ * सो ऽस्मत्प्रत्ययार्थम् वाच्यः // PSBह्_४.९:३९ * तदुच्यते // PSBह्_४.९:४०
SK
इन्द्रो वा अग्रे असुरेषु पाशुपतमचरत् || PS_४.१० ||
SK
* अत्र देवतानां राजा इन्द्रः // PSBह्_४.१०:१
SK
* कथं गम्यते असुरेष्वाचरणवचनात् // PSBह्_४.१०:२
SK
* ब्राह्मणश्चायमिन्द्रः श्रेष्ठः // PSBह्_४.१०:३
SK
* सूत्रे ब्राह्मणग्रहणात् शूद्रप्रतिषेधाच् च // PSBह्_४.१०:४
SK
* इदि परमैश्वर्ये धातुः तस्येन्द्रः // PSBह्_४.१०:५
SK
* इन्द्र उत्कृष्टः श्रेष्ठः देवगन्धर्वयक्षराक्षसपितृपिशाचादीनां श्रेष्ठो न तु ब्रह्मादीनाम् // PSBह्_४.१०:६
SK
* किं तु स्वर्गिणां मध्ये ऐश्वर्येण विद्यया आज्ञया चेत्य् अतः श्रेष्ठत्वाद् इन्द्रः // PSBह्_४.१०:७
SK
* वाशब्दः सम्भावने // PSBह्_४.१०:८
SK
* अन्यैरपि देवश्रेष्ठैरिदं विधानमाचीर्णम् // PSBह्_४.१०:९
SK
* कुतस्तर्हि युष्मदादिभिर् मनुष्यमात्रैः // PSBह्_४.१०:१०
SK
* तस्मात् संभाव्योऽयमर्थः // PSBह्_४.१०:११
SK
* आह कदा चीर्णमिति // PSBह्_४.१०:१२
SK
* उच्यते ऽग्रे // PSBह्_४.१०:१३
SK
* अत्राग्र इति पूर्वकालमधिकुरुते // PSBह्_४.१०:१४
SK
* कुशिकेशानसम्बन्धात् प्राक् // PSBह्_४.१०:१५
SK
* प्रथमम् अमरैश्चीर्णम् // PSBह्_४.१०:१६
SK
* कृतत्रेताद्वापरादिषु युगेष्वित्यर्थः // PSBह्_४.१०:१७
SK
* आह केष्वाचीर्णमिति // PSBह्_४.१०:१८
SK
* उच्यते असुरेषु // PSBह्_४.१०:१९
SK
* अत्रासुरा नाम सुरेतराः स्तेययुक्ताः // PSBह्_४.१०:२०
SK
* प्राणापहरणाद् वा असुराः प्रजापतिपुत्रा विज्ञेयाः // PSBह्_४.१०:२१
SK
* असुरेष्विति सामीपिकं संनिधानम् // PSBह्_४.१०:२२
SK
* असुरसमीपे असुराभ्याशे असुराणामध्यक्ष इत्यर्थः // PSBह्_४.१०:२३
SK
* आह किं तदिति // PSBह्_४.१०:२४
SK
* उच्यते पाशुपतम् // PSBह्_४.१०:२५
SK
* अत्र पशुपतिनोक्तपरिग्रहाधिकारेषु वर्तत इति पाशुपतम् // PSBह्_४.१०:२६
SK
* पशुपतिर्वास्मिन् चिन्त्यत इति पाशुपतम् // PSBह्_४.१०:२७
SK
* पशुपतिप्रापकत्वाद् वा पाशुपतम् // PSBह्_४.१०:२८
SK
* पाशुपतमिति समस्तस्य सम्पूर्णस्य विधानस्यैतद् ग्रहणम् // PSBह्_४.१०:२९
SK
* कस्मात् // PSBह्_४.१०:३०
SK
* व्यक्तलिङ्गपूर्वकत्वाद् अव्यक्तादिक्रमस्य // PSBह्_४.१०:३१
SK
* तस्मात् कृत्स्नमिदमेव विधानमाचीर्णमिन्द्रेण दुःखान्तार्थिना शुद्धिवृद्ध्यर्थम् // PSBह्_४.१०:३२
SK
* धर्मबाहुल्यात् सुराणां भुव्याचीर्णम् // PSBह्_४.१०:३३
SK
* अचरद् इत्यतीतः कालः // PSBह्_४.१०:३४
SK
* अतीते काले चीर्णवान् इत्यर्थः // PSBह्_४.१०:३५
SK
* आह इन्द्रेणासुरेष्वाचरता किं फलं प्राप्तम् // PSBह्_४.१०:३६
SK
* तदुच्यते // PSBह्_४.१०:३७
SK
स तेषामिष्टापूर्तमादत्त || PS_४.११ ||
SK
* स इतीन्द्रग्रहणम् तेषाम् इत्यसुरनिर्देशः // PSBह्_४.११:१
SK
* इष्टापूर्तम् इति द्वंद्वसमासः // PSBह्_४.११:२
SK
* इष्टं च पूर्तं चेष्टापूर्तम् तत्र यन् मन्त्रपूर्वकेण विधिना दत्तं हुतं स्तुत्यादिनिष्पन्नं सुकृतं तद् इष्टम् // PSBह्_४.११:३
SK
* यद् अमन्त्रपूर्वकेणैव तत् पूर्तम् // PSBह्_४.११:४
SK
* इन्द्रेणासुरेभ्यः केनोपायेन दत्तमिति // PSBह्_४.११:५
SK
* उच्यते // PSBह्_४.११:६
SK
मायया सुकृतया समविन्दत || PS_४.१२ ||
SK
* क्राथनस्पन्दनादिप्रयोगैः धिक्कृतस्य निद्राविष्टो वायुसंस्पृष्टो मन्दकारी असम्यक्कारी असम्यग्वादीति यो ऽयं दुष्टशब्दो ऽभियोगशब्दश्च निष्पद्यते तस्मिन्न् अनृते मायासंज्ञा // PSBह्_४.१२:१
SK
* मानसकायिकाभियोगे च // PSBह्_४.१२:२
SK
* मायया इति तृतीया // PSBह्_४.१२:३
SK
* सुकृतया इति // PSBह्_४.१२:४
SK
* सु प्रशंसायाम् तया सुकृतया सम्यक् प्रयुक्तयेति साधकसाधनप्राधान्यम् // PSBह्_४.१२:५
SK
* अविन्दत इति प्राप्तौ प्राधान्ये च // PSBह्_४.१२:६
SK
* स तेषाम् इष्टापूर्तम् आदत्तेति // PSBह्_४.१२:७
SK
* उक्तं हि / आक्रोशमानो नाक्रोशेन्मन्युरेव तितिक्षति / स तेषां दुष्कृतं दत्त्वा सुकृतं चास्य विन्दति // PSBह्_४.१२:८ * आह उत्तम इन्द्रः // PSBह्_४.१२:९ * स तेषामिष्टापूर्तम् इत्युक्ते परापदेशेनास्य वृत्तिर् निर्गुणीकृता // PSBह्_४.१२:१० * अथात्मापदेशोऽत्र किमस्ति नेति // PSBह्_४.१२:११ * उच्यते अस्ति // PSBह्_४.१२:१२ * यस्मादाह // PSBह्_४.१२:१३
SK
निन्दा ह्य् एषानिन्दा तस्मात् || PS_४.१३ ||
SK
* अत्रावमानपरिभवाद्या निन्दा // PSBह्_४.१३:१
SK
* कुत्सा गर्हा इत्यर्थः // PSBह्_४.१३:२
SK
* शब्दो निन्दोत्तमोत्कर्षोपक्षेपे द्रष्टव्यः // PSBह्_४.१३:३
SK
* उत्तमाधिकाराद् गम्यते // PSBह्_४.१३:४
SK
* एषा इत्यतिक्रान्तापेक्षणे // PSBह्_४.१३:५
SK
* अवमानपरिभवपरिवादाद्या निन्देत्यर्थः // PSBह्_४.१३:६
SK
* अनिन्दा इत्यकारो निन्दितत्वं प्रतिषेधति // PSBह्_४.१३:७
SK
* अनिन्दा अकुत्सा अगर्हा इत्यर्थः // PSBह्_४.१३:८
SK
* अत्र तस्माच्छब्दः पूर्वोत्तरं चापेक्षते // PSBह्_४.१३:९
SK
* तत्र पूर्वाकाङ्क्षायां तावत् कृत्स्ना निन्दाप्रकरणगुणवचने // PSBह्_४.१३:१०
SK
* यस्माद् इन्द्रस्यापि शुद्धिवृद्धिकारिणी आत्मापदेशेन परापदेशेन च भगवता असन्मानचरिर् गुणीकृता तस्मादित्यर्थः // PSBह्_४.१३:११
SK
* आह निराकाङ्क्षानिर्देशात् संदेहो यथा यथा वर्णितं तथा तथा च व्याख्यातम् // PSBह्_४.१३:१२
SK
* निन्दाया अनिन्दितत्वं गुणं ज्ञात्वा साधकेन किं कर्तव्यम् // PSBह्_४.१३:१३
SK
* तदुच्यते // PSBह्_४.१३:१४
SK
निन्द्यमानश्चरेत् || PS_४.१४ ||
SK
* अत्र निन्दा पूर्वोक्ता // PSBह्_४.१४:१
SK
* निन्द्यमानेनैव निन्दायाः वर्तमानकाल इत्यर्थः // PSBह्_४.१४:२
SK
* चरेद् इत्य् आर्जनम् अधिकुरुते // PSBह्_४.१४:३
SK
* धर्मार्जने नियोगे च // PSBह्_४.१४:४
SK
* संशयान्यत्वाच् चापुनरुक्तश् चरिशब्दो द्रष्टव्यः // PSBह्_४.१४:५
SK
* अत्रेदम् आनुषङ्गिकम् असन्मार्गचरिप्रकरणं परिसमाप्तम् // PSBह्_४.१४:६
SK
* आह निन्द्यमानश् चरेदित्युक्त्वा आद्यं विधानमाचरतः को ऽर्थो निष्पद्यते // PSBह्_४.१४:७
SK
* निष्पन्नेन वा कथम् अभिलप्यते // PSBह्_४.१४:८
SK
* तदुच्यते // PSBह्_४.१४:९
SK
अनिन्दितकर्मा || PS_४.१५ ||
SK
* अत्र चर्योत्तरसम्बन्धाद् गम्यते यदेतदनिन्दितं कर्म धर्मः स एव निन्द्यमानस्याचरतो निष्पद्यते // PSBह्_४.१५:१
SK
* अतः अनिन्दितकर्मा भवतीत्यर्थः // PSBह्_४.१५:२
SK
* आह निन्द्यमानस्याचरतो ऽनिन्दितं कर्म भवतीति क्व सिद्धम् // PSBह्_४.१५:३
SK
* तदुच्यते इह यस्मादाह // PSBह्_४.१५:४
SK
सर्वविशिष्टोऽयं पन्थाः || PS_४.१६ ||
SK
* अत्र अयम् इति प्रत्यक्षे // PSBह्_४.१६:१
SK
* यथायं पुरुषः // PSBह्_४.१६:२
SK
* यथाविधिश् चरिरिति याः क्रियाः अत्राधिकृतस्यानिन्दितं कर्म भवतीत्याह भगवान् // PSBह्_४.१६:३
SK
सत्पथः || PS_४.१७ ||
SK
* कस्मात् / रुद्रसमीपप्रापणसामर्थ्यात् // PSBह्_४.१७:१ * अनावृत्तिप्रापणसामर्थ्याच् चाविकलः // PSBह्_४.१७:२ * तस्मात् सर्वज्ञवचनाविसंवादित्वाच् चायं सत्पथ इत्यर्थः // PSBह्_४.१७:३ * आह किमन्यत्र पन्थानो न सन्ति इति // PSBह्_४.१७:४ * उच्यते सन्ति // PSBह्_४.१७:५ * किंतु // PSBह्_४.१७:६
SK
कुपथास्त्वन्ये || PS_४.१८ ||
SK
* अत्र कु कुत्सायां भवति // PSBह्_४.१८:१
SK
* कस्मात् // PSBह्_४.१८:२
SK
* कुशब्दप्रयोगाद् गम्यते // PSBह्_४.१८:३
SK
* कुपुरुषवत् // PSBह्_४.१८:४
SK
* पन्थानो विधय उपाया इत्यर्थः // PSBह्_४.१८:५
SK
* तुशब्दो ऽनावृत्त्युत्कर्षे // PSBह्_४.१८:६
SK
* अन्ये इति // PSBह्_४.१८:७
SK
* गृहस्थब्रह्मचारिवानप्रस्थभिक्षुपाषाण्डिनां पन्थानः // PSBह्_४.१८:८
SK
* ते कुपथाः // PSBह्_४.१८:९
SK
* न // PSBह्_४.१८:१०
SK
* आह अयमेव सत्पथः शेषाः कुपथा इति क्व सिद्धम् // PSBह्_४.१८:११
SK
* किं वास्य सत्पथत्वम् // PSBह्_४.१८:१२
SK
* शेषाणां वा कुपथत्वं किमिति // PSBह्_४.१८:१३
SK
* उच्यते इह // PSBह्_४.१८:१४
SK
* यस्मादाह // PSBह्_४.१८:१५
SK
अनेन विधिना रुद्रसमीपं गत्वा || PS_४.१९ ||
SK
* अत्र अनेन इत्य् अनपेक्षणे / विधिना भस्मस्नानक्राथनादिनोपायेनेत्य् अर्थः // PSBह्_४.१९:१ * विधिनेति तृतीया // PSBह्_४.१९:२ * रुद्र इति कालोपदेशे // PSBह्_४.१९:३ * रुद्रस्य रुद्रत्वं पूर्वोक्तम् // PSBह्_४.१९:४ * समीपम् इति योगपर्यायः // PSBह्_४.१९:५ * कथं गम्यते // PSBह्_४.१९:६ * विध्यनन्तरोक्तत्वात् // PSBह्_४.१९:७ * सति विधिविषयत्वे पुरुषेश्वरयोर् विषयाधिकारकृतं वियोगं दृष्ट्वा ज्ञानपरिदृष्टेन विधिनाध्ययनध्यानाधिकृतो विशुद्धभावः समीपस्थ इत्यर्थः // PSBह्_४.१९:८ * गतिः प्राप्तिर्भावस्येत्यर्थः // PSBह्_४.१९:९ * त्वा इति विधिकर्मणोर्निष्ठा // PSBह्_४.१९:१० * आह अत्रैवं विध्याचरणं समीपगमनं च कस्योपदिश्यते // PSBह्_४.१९:११ * उच्यते न तीर्थयात्रादिधर्मवत् सर्वेषाम् // PSBह्_४.१९:१२ * किंतु संस्कारवद् ब्राह्मणस्यैव // PSBह्_४.१९:१३ * यस्माद् आह // PSBह्_४.१९:१४
SK
न कश्चिद् ब्राह्मणः पुनरावर्तते || PS_४.२० ||
SK
* अत्र नकारोपदेशो ऽन्याचरणप्रतिपत्तिप्रतिषेधार्थः // PSBह्_४.२०:१
SK
* कश्चिद् इति गृहस्थाद्यः // PSBह्_४.२०:२
SK
* स्थानमात्रवैलक्षण्यदर्शनाद् ब्राह्मणेष्वेव कश्चिच् छब्दः // PSBह्_४.२०:३
SK
* गृहस्थो ब्रह्मचारी वानप्रस्थो भिक्षुर् एकवेदो द्विवेदस् त्रिवेदश् चतुर्वेदो गायत्रीमात्रसारो वानेन विधिना रुद्रसमीपं प्राप्तः सन् न कश्चिद् ब्राह्मणः पुनरावर्तत इत्यर्थः // PSBह्_४.२०:४
SK
* ब्राह्मणग्रहणं ब्राह्मण्यावधारणार्थं ब्राह्मण एव नान्य इत्यर्थः // PSBह्_४.२०:५
SK
* क्षेत्रज्ञे च ब्राह्मणसंज्ञा // PSBह्_४.२०:६
SK
* कस्मात् // PSBह्_४.२०:७
SK
* उपचयजन्मयोगात् संस्कारयोगात् श्रुतयोगाच् च ब्राह्मणः // PSBह्_४.२०:८
SK
* पुनःशब्दः पुनरावृत्तिप्रतिषेधे // PSBह्_४.२०:९
SK
* यथा पूर्वसंज्ञानादिभिर् गत्वा आवर्तते पुनः पुनः तथानेन विधिना रुद्रसमीपं गत्वा न सकृदावर्तते // PSBह्_४.२०:१०
SK
* पुनः पुनः सर्वथापि नावर्तत इत्यर्थः // PSBह्_४.२०:११
SK
* आङ् इति स्वशास्त्रोक्तमर्यादाम् अधिकुरुते अभिविध्यर्थं च // PSBह्_४.२०:१२
SK
* ये चानेन विधिनाक्षपिताज्ञानकलुषपापमायादयः क्षीणाः ते पुनः पुनरावर्तन्ते // PSBह्_४.२०:१३
SK
* न तैः सह संयोगो भवति // PSBह्_४.२०:१४
SK
* न चापरं जन्म प्रतिपद्यत इत्यर्थः // PSBह्_४.२०:१५
SK
* एवम् अध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् // PSBह्_४.२०:१६
SK
अत्रेदं ब्रह्म जपेत् || PS_४.२१ ||
SK
* अस्य पूर्वोक्तोऽर्थः // PSBह्_४.२१:१
SK
* आह किं पुनस्तद् ब्रह्म // PSBह्_४.२१:२
SK
* तद् उच्यते कारणादिभावेनोक्तस्य भगवत एकत्वं साधको ज्ञात्वा तत्साधनम् आरभते // PSBह्_४.२१:३
SK
तत्पुरुषाय विद्महे || PS_४.२२ ||
SK
* अत्र पूर्वं कारणत्वबहुत्वनानात्वेनोपदिष्टस्य परामर्शः तद् इति // PSBह्_४.२२:१
SK
* पुरुष इति पौरुष्यानुपूरणाच् च पुरुषः // PSBह्_४.२२:२
SK
* पौरुष्यमस्यानेकेषु रूपेष्ववस्थानात् // PSBह्_४.२२:३
SK
* तत्संस्थानि रूपाणि अघोरादीनि // PSBह्_४.२२:४
SK
* तत्पुरुषायेति चतुर्थी // PSBह्_४.२२:५
SK
* यथा ग्रामाय तत्त्वं ज्ञातुमिच्छति तथा पुरुषाय तत्त्वं ज्ञातुमिच्छति // PSBह्_४.२२:६
SK
* विद्मह इति // PSBह्_४.२२:७
SK
* विद ज्ञाने // PSBह्_४.२२:८
SK
* विद्महे जानीमहे उपलभामह इत्यर्थः // PSBह्_४.२२:९
SK
* आह पुरुषबहुत्वात् संदेहः // PSBह्_४.२२:१०
SK
* अथ कतमस्मै पुरुषाय // PSBह्_४.२२:११
SK
* तदुच्यते // PSBह्_४.२२:१२
SK
महादेवाय धीमहि || PS_४.२३ ||
SK
* अत्र महादेवत्वं च पूर्वोक्तम् महादेवायेति चतुर्थी // PSBह्_४.२३:१
SK
* धीमहि इति // PSBह्_४.२३:२
SK
* धीङ् संश्लेषणे // PSBह्_४.२३:३
SK
* ध्यायेमहि लीयामहे ज्ञानक्रियाशक्तिभ्यां संयुज्यामह इत्यर्थः // PSBह्_४.२३:४
SK
* अत्र धी इति ज्ञानशक्तिपर्यायः // PSBह्_४.२३:५
SK
* यया सर्वपदार्थानां तत्त्वमधिगच्छति सा ज्ञानशक्तिः // PSBह्_४.२३:६
SK
* महि इति क्रियाशक्तिपर्यायः // PSBह्_४.२३:७
SK
* यया विधियोगाचरणसमर्थो भवति सा क्रियाशक्तिरित्यर्थः // PSBह्_४.२३:८
SK
* आह अथैते दृक्क्रियाशक्ती महादेवात् साधकः किं स्वशक्तित आसादयति आहोस्वित् परशक्तितः उतोभयशक्तितः // PSBह्_४.२३:९
SK
* तदुच्यते परशक्तितः // PSBह्_४.२३:१०
SK
* यस्मादाह // PSBह्_४.२३:११
SK
तन् नो रुद्रः प्रचोदयात् || PS_४.२४ ||
SK
* तद् इति दृक्क्रियाशक्त्योर्ग्रहणम् // PSBह्_४.२४:१
SK
* न इत्यात्मापदेशे // PSBह्_४.२४:२
SK
* अस्माकमित्यर्थः // PSBह्_४.२४:३
SK
* रुद्र इति कारणापदेशे // PSBह्_४.२४:४
SK
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् // PSBह्_४.२४:५
SK
* प्र इत्यादिकर्मणि // PSBह्_४.२४:६
SK
* चुद प्रेरणे // PSBह्_४.२४:७
SK
* चोदनं नाम ज्ञानक्रियाशक्तिसंयोगः // PSBह्_४.२४:८
SK
* याद् इति लिप्सा // PSBह्_४.२४:९
SK
* संयोजयस्व मामित्यर्थः // PSBह्_४.२४:१०
SK
* उक्तं हि रुद्रस्येच्छापूर्वको यो योगो ज्ञानक्रियाशक्तिभ्यां पश्वादिषु सम्भवः तच्चोदनम् आहुर् आचार्याः // PSBह्_४.२४:११
SK
Pआशुपतसूत्र, ५
SK
असङ्गः || PS_५.१ ||
SK
* अत्र अकारः सङ्गप्रतिषेधे // PSBह्_५.१:१
SK
* अत्र सङ्गो नाम यदेतत् पुरुषे विषयित्वम् // PSBह्_५.१:२
SK
* तेन विषयित्वेन योगादधर्मेण चायं पुरुषो यदा अध्ययनध्यानादिभ्यश्च्यवति // PSBह्_५.१:३
SK
* दृष्टान्तश्रवणप्रेक्षणलक्षणो वनगजवत् त्रैकाल्यम् इत्य् अर्थः // PSBह्_५.१:४
SK
* असङ्गित्वम् अप्य् अतीतानागतवर्तमानानां विषयाणामनुचिन्तनं भिक्षुवत् // PSBह्_५.१:५
SK
* एवं महेश्वरे भावस्थितिस् तदसङ्गित्वमित्यर्थः // PSBह्_५.१:६
SK
* आह किम् असङ्गित्वम् एवैकमुक्तं नान्यल् लक्षणम् // PSBह्_५.१:७
SK
* उच्यते यस्मादाह // PSBह्_५.१:८
SK
योगी || PS_५.२ ||
SK
* इति // PSBह्_५.२:१
SK
* अत्र योगो नामात्मेश्वरसंयोगो योगः प्रत्येतव्यः // PSBह्_५.२:२
SK
* उक्तं हि / शङ्खदुन्दुभिनिर्घोषैर् विविधैर् गतिवादितैः / क्रियमाणैर्न बुध्येत एतद् युक्तस्य लक्षणम् // PSBह्_५.२:३ * इति // PSBह्_५.२:४ * आह किं लक्षणद्वयमेवात्र युक्तस्योच्यते // PSBह्_५.२:५ * न // PSBह्_५.२:६ * यस्मादाह // PSBह्_५.२:७
SK
नित्यात्मा || PS_५.३ ||
SK
* अत्र नित्यत्वविशेषणेनानित्यत्वं निवर्तते // PSBह्_५.३:१
SK
* नित्यत्वं नाम सति विभुत्वे पुरुषेश्वरयोर् मनसा सह गतस्यात्मताभावस्य वृत्त्याकारस्य विषयं प्रति क्रमो ऽक्षोपो ऽवस्थानं वृक्षशकुनिवत् // PSBह्_५.३:२
SK
* तस्मिन् निर्वृत्ते महेश्वरे युक्तो नित्य इत्युच्यते // PSBह्_५.३:३
SK
* आत्मा इति क्षेत्रज्ञमाह // PSBह्_५.३:४
SK
* कथं गम्यते // PSBह्_५.३:५
SK
* चित्तस्थित्युपदेशाद् योगार्थं विद्याचरणोपदेशाद् असङ्गयोगियुक्तात्माजमैत्रादीनां चेतने सम्भवात् न त्व् अचेतनेषु कार्यकरणप्रधानादिषु // PSBह्_५.३:६
SK
* तस्मिंश् चेतने आत्मशब्दः // PSBह्_५.३:७
SK
* आत्मा च कस्मात् // PSBह्_५.३:८
SK
* अततीत्यात्मा // PSBह्_५.३:९
SK
* आपूर्य कार्यकरणं विषयांश् चेतयतीत्य् आत्मा // PSBह्_५.३:१०
SK
* उक्तं हि / यद् आप्नोति यद् आदत्ते यच् चात्ति विषयान् पुनः / यच् चास्य सततं भावः तस्मादात्मेति संज्ञितः // PSBह्_५.३:११ * स च श्रोता स्प्रष्टा द्रष्टा रसयिता घ्राता मन्ता वक्ता बोद्धा इत्येवमादिः // PSBह्_५.३:१२ * उक्तं हि / पुरुषश् चेतनो भोक्ता क्षेत्रज्ञः पुद्गलो जनः / अणुर् वेदो ऽमृतः साक्षी जीवात्मा परिभूः परः // PSBह्_५.३:१३ * इति / तस्य सुखदुःखेच्छाद्वेषप्रयत्नचैतन्यादिभिर् लिङ्गैर् अधिगमः क्रियत इत्यर्थः // PSBह्_५.३:१४ * आह किं लक्षणत्रयमेवास्य युक्तस्योच्यते // PSBह्_५.३:१५ * न यस्मादाह // PSBह्_५.३:१६
SK
अजः || PS_५.४ ||
SK
* अत्र अज इत्यर्थान्तरप्रादुर्भावप्रतिषेधो ऽभिधीयते // PSBह्_५.४:१
SK
* अत्रार्थान्तरं नाम शब्दस्पर्शरूपरसगन्धान्तरम् अध्ययनध्यानस्मरणादयः // PSBह्_५.४:२
SK
* तेषु न जायत इति अजः // PSBह्_५.४:३
SK
* आह किं लक्षणचतुष्कमेवास्य युक्तस्योच्यते // PSBह्_५.४:४
SK
* न // PSBह्_५.४:५
SK
* यस्मादाह // PSBह्_५.४:६
SK
मैत्रः || PS_५.५ ||
SK
* अत्र मैत्र इति समतायां भवति // PSBह्_५.५:१
SK
* यथा मैत्र आदित्यः // PSBह्_५.५:२
SK
* सर्वभूतस्थिते च महेश्वरे स्थितचित्तः इच्छाद्वेषविनिवृत्तो ऽप्रवृत्तिमान् मैत्र इत्युच्यते // PSBह्_५.५:३
SK
* तस्मात् कार्यकरणवान् एव चित्तस्थितिसमकालम् एवासङ्गादिभावेन जायते // PSBह्_५.५:४
SK
* आह अथ कथं पुनरेतद् गम्यते // PSBह्_५.५:५
SK
* यथा कार्यकरणवान् एव चित्तस्थितिसमकालम् एवासङ्गादिभावेन जायते // PSBह्_५.५:६
SK
* उच्यते गम्यते // PSBह्_५.५:७
SK
* यस्मादाह // PSBह्_५.५:८
SK
अभिजायते || PS_५.६ ||
SK
* अत्र अभिशब्दो विशेषणे // PSBह्_५.६:१
SK
* को विशेष इति चेत् // PSBह्_५.६:२
SK
* तदुच्यते // PSBह्_५.६:३
SK
* यस्मादयं सङ्गी अयोगी अनित्यात्मा अनजो ऽमैत्रश् च भूत्वा असङ्गादिभावेन जायत इत्येष विशेषः // PSBह्_५.६:४
SK
* जायते इति // PSBह्_५.६:५
SK
* जनी प्रादुर्भावे // PSBह्_५.६:६
SK
* तस्मात् कार्यकरणवान् एव चित्तस्थितिसमकालम् एवासङ्गादिभावेन युगपज् जायते अवश्यादिवद् इत्यर्थः // PSBह्_५.६:७
SK
* असङ्गादिभावे को ऽसाव् अभ्युपायो येन जायते // PSBह्_५.६:८
SK
* उच्यते // PSBह्_५.६:९
SK
इन्द्रियाणामभिजयात् || PS_५.७ ||
SK
* अत्र जितता जयः // PSBह्_५.७:१
SK
* तस्माज् जयाद् असङ्गतादि भवति // PSBह्_५.७:२
SK
* अत्र परिग्रहतयेश्वराणि इन्द्रियाणि बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि // PSBह्_५.७:३
SK
* तेषाम् अभिजयाद् इत्यर्थः // PSBह्_५.७:४
SK
* आह कथं बुद्धिसिद्धिरिति चेत् // PSBह्_५.७:५
SK
* तदुच्यते सिद्धत्वात् // PSBह्_५.७:६
SK
* अत्र मतिबुद्धिपिधानस्थापनोद्देशाद् घटपटवत् सिद्धत्वाच् च बुद्धिः सिद्धा तथा परोपदेशात् स्वात्मपरात्मप्रतिविभागदर्शनात् सुरोऽहं नरोऽहमिति भिन्नवृत्तित्वाच् चाहंकारः सिद्धः // PSBह्_५.७:७
SK
* तथा मनः प्रवर्तते मनोजवी मनोऽमन इति संकल्पविकल्पवृत्तिनानात्वं च सिद्धम् // PSBह्_५.७:८
SK
* एवं त्रिकालवृत्त्यन्तःकरणं पुरुषस्य व्याख्यातम् // PSBह्_५.७:९
SK
* तथा बुद्धीन्द्रियाणां श्रोत्रं व्याख्यातम् // PSBह्_५.७:१०
SK
* परपरिवादादिवचनाद् उच्चैरुभयथा प्रमुखे द्विर् अधिष्ठाने संनिविष्टं सामन्ताच्छब्दव्यञ्जनसमर्थं सिद्धम् // PSBह्_५.७:११
SK
* तथातितपोपदेशात् त्वग् अन्तर्बहिश्च शरीरं व्याप्य संनिविष्टा स्पर्शव्यञ्जनसमर्था सिद्धा // PSBह्_५.७:१२
SK
* तथा मूत्रपुरीषदर्शनप्रतिषेधात् कृतान्नादिवचनाच् च चक्षुः उच्चैर् उभयथा प्रमुखे द्विर् अधिष्ठाने संनिविष्टं घटरूपादि व्यञ्जनसमर्थं सिद्धम् // PSBह्_५.७:१३
SK
* तथा मांसलवणोपदेशाज् जिह्वा तन्मुखे मांसपेश्यां संनिविष्टा रसज्ञानजननसमर्था सिद्धा // PSBह्_५.७:१४
SK
* तथा प्राणायामोपदेशाद् घ्राणं प्रमुखे उच्चैरुभयथा द्विर् अधिष्ठाने संनिविष्टं गन्धग्रहणसमर्थं सिद्धम् // PSBह्_५.७:१५
SK
* एवमधिकारिवृत्तिभिर्बुध्यत्य् एभिः पुरुष इति बुद्धीन्द्रियाणि // PSBह्_५.७:१६
SK
* तथा कर्मेन्द्रियाणि // PSBह्_५.७:१७
SK
* मण्टनविहरणोपदेशात् पादेन्द्रियम् अधस्ताद् द्विर् अधिष्ठाने संनिविष्टं गमनक्रियासमर्थं सिद्धम् // PSBह्_५.७:१८
SK
* तथा मूत्रपुरीषदर्शनप्रतिषेधात् पाय्विन्द्रियं गुह्यप्रदेशे संनिविष्टम् उत्सर्गक्रियासमर्थं सिद्धम् // PSBह्_५.७:१९
SK
* तथा स्त्रीप्रतिषेधाद् उपस्थेन्द्रियं त्रिवलीगुह्यप्रदेशसंनिविष्टम् आनन्दक्रियासमर्थं सिद्धम् // PSBह्_५.७:२०
SK
* तथा अपि तत्कर्मोपदेशात् हस्तेन्द्रियम् उच्चैरुभयथा द्विर् अधिष्ठाने भुजान्तर्देशे संनिविष्टम् आदानक्रियासमर्थं सिद्धम् // PSBह्_५.७:२१
SK
* तथा अपि तद्भाषणोपदेशाद् वागिन्द्रियं वाक्तालुजिह्वादिषु स्थानेषु संनिविष्टं वचनक्रियासमर्थं सिद्धम् // PSBह्_५.७:२२
SK
* अत्र विकारतद्वृत्तिभिः कर्मोत्पत्तिः पुरुषे इति कर्मेन्द्रियाणि एवमेतानि त्रयोदश करणानीन्द्रियाणि सूत्रतो व्याख्यातानि // PSBह्_५.७:२३
SK
* कस्मात् // PSBह्_५.७:२४
SK
* इन्द्रियाणामिति सामान्यग्रहणाद् विकरणवत् सामान्यप्रतिषेधाच् च // PSBह्_५.७:२५
SK
* इन्द्रियाणाम् इति षष्ठीबहुवचनम् // PSBह्_५.७:२६
SK
* उक्तं हि / आदानाद् ग्रहणात् त्यागाद् रङ्गणाद् गमनात् तथा / इङ्गनाद्रवणाच् चैव तस्माद् इन्द्रियमुच्यते // PSBह्_५.७:२७ * अभिजयाद् इति // PSBह्_५.७:२८ * अभिशब्दः अत्यन्तविजये वशीकरणे च // PSBह्_५.७:२९ * आक्रम्य वशीकर्तव्यानि // PSBह्_५.७:३० * वायुकामक्रोधपाटलिपुत्रवत् // PSBह्_५.७:३१ * तस्माद् अकुशलेभ्यो व्यावर्तयित्वा कामतः कुशलं योजितानि तदा जितानि भवन्ति // PSBह्_५.७:३२ * तस्माद् उक्तम् इन्द्रियाणाम् अभिजयादिति असङ्गादिजन्मनिमित्तत्वात् पञ्चमी द्रष्टव्या // PSBह्_५.७:३३ * आह अन्यत्र सांख्ययोगादीनाम् असङ्गादियुक्ताः मुक्ताः शान्तिं प्राप्ताः // PSBह्_५.७:३४ * निरभिलप्या मुक्ता इत्युच्यन्ते मुक्त एव न युक्त इति क्व सिद्धम् // PSBह्_५.७:३५ * तदुच्यते इह यस्मादाह // PSBह्_५.७:३६
SK
रुद्रः प्रोवाच तावत् || PS_५.८ ||
SK
* तत्र रुद्र इति कारणापदेशे // PSBह्_५.८:१
SK
* रुद्रत्वं पूर्वोक्तम् // PSBह्_५.८:२
SK
* प्र इत्यभिधानविशुद्धौ // PSBह्_५.८:३
SK
* प्रसन्नेन्द्रियवत् // PSBह्_५.८:४
SK
* वच व्यक्तायां वाचि // PSBह्_५.८:५
SK
* प्रोवाच इति // PSBह्_५.८:६
SK
* एवं यत् सांख्यं योगश्च वर्णयति असङ्गादियुक्ताः मुक्ताः शान्तिं प्राप्ता इति तदविशुद्धं तेषां दर्शनम् // PSBह्_५.८:७
SK
* तैमिरिकस्य चक्षुषश् चन्द्रदर्शनवत् // PSBह्_५.८:८
SK
* अयं तु युक्त एव न मुक्त इति विशुद्धमेतद्दर्शनं द्रष्टव्यम् // PSBह्_५.८:९
SK
* कस्मात् // PSBह्_५.८:१०
SK
* सर्वज्ञवचनाद् अविसंवादित्वाच् चैतद् गम्यम् // PSBह्_५.८:११
SK
* एवम् एतन् नान्यथेत्यर्थः // PSBह्_५.८:१२
SK
* किंचान्यद् इदम् अथशब्दादि शिवान्तं प्रवचनं रुद्रप्रोक्तं तावत् सर्वतन्त्राणां श्रेष्ठम् // PSBह्_५.८:१३
SK
* तस्मात् कारणशास्त्रयोः परप्रमाणभावो ऽवधार्यत इत्यर्थः // PSBह्_५.८:१४
SK
* अत्र श्लोको निर्वचनः // PSBह्_५.८:१५
SK
* आह किम् एतानीन्द्रियाणि परिज्ञानमात्राद् एव जितानि भवन्ति प्रधानवत् // PSBह्_५.८:१६
SK
* तदुच्यते न ज्ञानेन वचनादिभिरेषां जयः कर्तव्यः यस्मादेषां जये भगवता वसत्यर्थवृत्तिबलक्रियालाभाय वसता इत्यतस् तज्जये वसत्यर्थ एव तावद् उच्यते // PSBह्_५.८:१७
SK
* यस्मादाह // PSBह्_५.८:१८
SK
शून्यागारगुहावासी || PS_५.९ ||
SK
* इति // PSBह्_५.९:१
SK
* अत्र शून्यमेवागारं शून्यागारम् // PSBह्_५.९:२
SK
* शून्यं विविक्तं निर्जनमित्यर्थः // PSBह्_५.९:३
SK
* आगारम् इति गृहपर्यायः आगारं गृहं वेश्म सदनमिति पर्यायः // PSBह्_५.९:४
SK
* गुहू संवरणे // PSBह्_५.९:५
SK
* प्रविष्टं साधकम् आवरयति गोपयतीति गुहा // PSBह्_५.९:६
SK
* आह आवरकत्वाविशेषाच् छून्यागारगुहयोर् अविशेष इति चेत् तदुच्यते मृत्तृणकाष्ठादिकृतम् अगारं पर्वतगुहाद्या गुहा // PSBह्_५.९:७
SK
* तस्मान् नाविशेष इति // PSBह्_५.९:८
SK
* यथा सति विभुत्वे ज्ञत्वं साधर्म्यं पुरुषेश्वरयोः सर्वज्ञत्वतो विशेषः // PSBह्_५.९:९
SK
* तस्माद् आयतने ऽविविक्तदोषं दृष्ट्वा शून्यागारे गुहायां वा यथोपपत्तितो विचार्य विविक्तं विवेच्य यन्मात्रस्थानासनशयनादिभिर् उपजीवति तन्मात्रं संस्करणमर्यादयोपयोगक्रियाभिनिविष्टेन वस्तव्यम् // PSBह्_५.९:१०
SK
* वसतिसंयोगाद् गुहावासी भवति // PSBह्_५.९:११
SK
* पुलिनवासिवत् // PSBह्_५.९:१२
SK
* आह तत् कथं ज्ञेयं यथा जितानीन्द्रियाणि // PSBह्_५.९:१३
SK
* तेषां जितानां वा किं लक्षणम् // PSBह्_५.९:१४
SK
* तदुच्यते // PSBह्_५.९:१५
SK
देवनित्यः || PS_५.१० ||
SK
* अत्र देवो भगवान् // PSBह्_५.१०:१
SK
* तत्र यदास्य भगवति देवे नित्यता कथम् // PSBह्_५.१०:२
SK
* अध्ययनध्यानाभ्यां देवे ऽधिकृतस्य प्राधान्येन निश्चलता वर्तते // PSBह्_५.१०:३
SK
* स्वल्पतरव्यवधानेऽपि अतियोगाभ्यासनिरन्तरप्राप्तिः // PSBह्_५.१०:४
SK
* स्मृतिस्तु देवनित्यतेत्यर्थः // PSBह्_५.१०:५
SK
* आह देवनित्यतायाः किं लक्षणम् // PSBह्_५.१०:६
SK
* तदुच्यते जितेन्द्रियत्वम् // PSBह्_५.१०:७
SK
* यस्मादाह // PSBह्_५.१०:८
SK
जितेन्द्रियः || PS_५.११ ||
SK
* अत्र जितेन्द्रियत्वं नाम उत्सर्गनिग्रहयोग्यत्वम् // PSBह्_५.११:१
SK
* इन्द्रियाणि बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि पूर्वोक्तानि // PSBह्_५.११:२
SK
* तानि यदा अकुशलेभ्यो व्यावर्तयित्वा कामतः कुशले योजितानि हतविषदर्वीकरवद् अवस्थितानि भवन्ति तदा देवनित्यो जितेन्द्रिय इत्यर्थः // PSBह्_५.११:३
SK
* आह किं देवनित्यतैवास्य परो निष्ठायोगः // PSBह्_५.११:४
SK
* उच्यते न // PSBह्_५.११:५
SK
* यस्मादाह // PSBह्_५.११:६
SK
षण्मासान्नित्ययुक्तस्य || PS_५.१२ ||
SK
* अथवान्यो दूरस्थः सम्बन्धः // PSBह्_५.१२:१
SK
* यस्मादुक्तम् / यस्य येनार्थसम्बन्धो दूरस्थमपि तेन हि / अर्थतो ऽन्यसमानानाम् आनन्तर्ये ऽप्यसंगतिः // PSBह्_५.१२:२ * एवमिहापि दूरस्थः सम्बन्धः कस्मात् // PSBह्_५.१२:३ * इह पुरस्तादुक्तं विज्ञानानि चास्य प्रवर्तन्ते इति एतैर् गुणैर् युक्त इति च // PSBह्_५.१२:४ * कियता कालेनास्य ते गुणाः प्रवर्तन्ते // PSBह्_५.१२:५ * किं युक्तस्य किं वियुक्तस्य किं युगपत् क्रमशो वा किं सकलस्य निष्कलस्य वेति // PSBह्_५.१२:६ * इत्येषाम् अर्थानाम् अनिर्वचनानां निर्वचनार्थमिदमारभ्यते // PSBह्_५.१२:७ * यस्मादाह षण्मासान्नित्ययुक्तस्य // PSBह्_५.१२:८ * अत्र षड् इति संख्या मासान् इति कालनिर्देशः // PSBह्_५.१२:९ * मनुष्यगणनया त्रिंशद्दिवसो मासः // PSBह्_५.१२:१० * द्वादश मासाः संवत्सरः // PSBह्_५.१२:११ * द्वादश पक्षा अर्धसंवत्सरः // PSBह्_५.१२:१२ * षण्मासानिति // PSBह्_५.१२:१३ * तस्मात् षष्ठप्रथममासयोरभ्यन्तरे // PSBह्_५.१२:१४ * नित्ययुक्तस्य // PSBह्_५.१२:१५ * संततमविच्छिन्नमित्यर्थः // PSBह्_५.१२:१६ * युक्त इति // PSBह्_५.१२:१७ * आत्मेश्वरसंयोगो योगः // PSBह्_५.१२:१८ * नित्ययुक्तस्य इति षष्ठी // PSBह्_५.१२:१९ * आह अस्य युक्तस्य किं भवति // PSBह्_५.१२:२० * तदुच्यते // PSBह्_५.१२:२१
SK
भूयिष्ठं सम्प्रवर्तते || PS_५.१३ ||
SK
* अत्र भूयिष्ठम् इति क्रमे प्राये च भवति // PSBह्_५.१३:१
SK
* यथा क्रमशो ददाति आदित्यो वा गतो भूयिष्ठम् // PSBह्_५.१३:२
SK
* तस्मात् सूच्यग्रेणोत्पलपत्त्रशतभेदनक्रमवत् क्रमाद् दूरदर्शनादयः प्रवर्तन्त इत्यर्थः // PSBह्_५.१३:३
SK
* सम् इत्येकीभावे // PSBह्_५.१३:४
SK
* निष्कलस्य कार्यकरणरहितस्येत्यर्थः // PSBह्_५.१३:५
SK
* प्र इत्यादिकर्मण्य् आरम्भे भवति // PSBह्_५.१३:६
SK
* युक्तोत्तरे प्रभावाद् गुणाः प्रवर्तन्ते इत्यर्थः // PSBह्_५.१३:७
SK
* वर्तते कस्मिन् // PSBह्_५.१३:८
SK
* दर्शनं दृश्ये श्रवणादि श्रव्यादिष्वित्यर्थः // PSBह्_५.१३:९
SK
* तस्मात् षष्ठप्रथममासयोरभ्यन्तरे नित्ययुक्तस्य क्रमशो गुणाः सम्प्रवर्तन्ते // PSBह्_५.१३:१०
SK
* कुतः // PSBह्_५.१३:११
SK
* महेश्वरप्रसादात् // PSBह्_५.१३:१२
SK
* अशिवत्वसंज्ञके विनिवृत्ते शिवत्वप्रसादाभ्यां गुणाः प्रवर्तन्ते // PSBह्_५.१३:१३
SK
* गुणशब्दो दूरदर्शनादिवचनः // PSBह्_५.१३:१४
SK
* आह कां वृत्तिमास्थाय शून्यागारे गुहायां वासः कार्यः // PSBह्_५.१३:१५
SK
* तदुच्यते // PSBह्_५.१३:१६
SK
भैक्ष्यम् || PS_५.१४ ||
SK
* भिक्षाणां समूहो भैक्ष्यं कापोतवत् // PSBह्_५.१४:१
SK
* तच् च नगरग्रामादिभ्यो गृहाद् गृहं पर्यटतो भक्ष्यभोज्यादीनाम् अन्यतमं यत् प्राप्यते कृतान्नादिवचनाद् भैक्ष्यम् // PSBह्_५.१४:२
SK
* भयक्षपणाद् भैक्ष्यम् // PSBह्_५.१४:३
SK
* भिक्षावचनाद् अभैक्ष्यप्रतिषेधः // PSBह्_५.१४:४
SK
* आह आधारात्तु कृत्वा संदेहः अथ कुत्र तद् भैक्ष्यं ग्राह्यम् // PSBह्_५.१४:५
SK
* तदुच्यते पात्रे // PSBह्_५.१४:६
SK
* यस्मादाह // PSBह्_५.१४:७
SK
पात्रागतम् || PS_५.१५ ||
SK
* अत्र भैक्ष्यवत् प्रसिद्धं पात्रम् // PSBह्_५.१५:१
SK
* अलाबुदारुवस्त्रादीनाम् अन्यतमं यत् प्राप्यते तत् खलु हिंसास्तेयादिरहितेन क्रमेणाहारे यत्पर्याप्तं ग्राह्यम् // PSBह्_५.१५:२
SK
* तस्मिन् तदफलके पात्रे आगतं पात्रागतमित्यर्थः // PSBह्_५.१५:३
SK
* आह ब्रह्मचारिकल्पे मधुमांसलवणवर्जमिति // PSBह्_५.१५:४
SK
* तत् किं मधुमांसादीन्य् एकान्तेनैव दुष्टानीति // PSBह्_५.१५:५
SK
* तदुच्यते न // PSBह्_५.१५:६
SK
* यस्मादाह // PSBह्_५.१५:७
SK
मांसम् अदुष्यं लवणेन वा || PS_५.१६ ||
SK
* तत्र भैक्ष्यवत् प्रसिद्धं मांसम् // PSBह्_५.१६:१
SK
* यस्य माहिषवाराहादीनाम् अन्यतमं यत् प्राप्यते तत् खलु हिंसास्तेयरहितत्वात् // PSBह्_५.१६:२
SK
* लवणेन वा // PSBह्_५.१६:३
SK
* अत्र लवणं नाम सैन्धवसौवर्चलाद्यं मांसवत् प्रसिद्धम् // PSBह्_५.१६:४
SK
* तद् एतन् मांससमसंसृष्टं वा भैक्ष्यविधिना प्राप्तम् // PSBह्_५.१६:५
SK
* अदुष्यम् अकुत्सितम् अगर्हितमित्यर्थः // PSBह्_५.१६:६
SK
* वा विकल्पे // PSBह्_५.१६:७
SK
* मांसेन वा लवणेन वा उभाभ्यामपि साक्षाद्वा अदुष्यम् इत्यर्थः // PSBह्_५.१६:८
SK
* आह भैक्ष्यालाभकाले अपर्याप्तिकाले वा किमनेन कर्तव्यम् // PSBह्_५.१६:९
SK
* तदुच्यते अपः पीत्वा स्थेयम् // PSBह्_५.१६:१०
SK
* यस्मादाह // PSBह्_५.१६:११
SK
आपो वापि यथाकालमश्नीयादनुपूर्वशः || PS_५.१७ ||
SK
* अत्र आण् आपः आपः // PSBह्_५.१७:१
SK
* आङ् इति अत्र संवृतपरिपूतादिमर्यादाम् अधिकुरुते कृतान्नोत्सृष्टवद् अपदान्तरितत्वात् // PSBह्_५.१७:२
SK
* द्वितीयास्थाने प्रथमा द्रष्टव्या // PSBह्_५.१७:३
SK
* आपोऽत्र लोकादिप्रसिद्धाः // PSBह्_५.१७:४
SK
* तृणादिव्यावृत्तम् उदकमित्यर्थः // PSBह्_५.१७:५
SK
* वा विभागे // PSBह्_५.१७:६
SK
* अन्यद् भैक्ष्यम् अन्या आप इति // PSBह्_५.१७:७
SK
* अपिशब्दः सम्भावने // PSBह्_५.१७:८
SK
* अप्य् अपः पीत्वा स्थेयं न तु शास्त्रव्यपेतेन क्रमेण वृत्त्यर्जनं कर्तव्यमित्यर्थः // PSBह्_५.१७:९
SK
* यथा इतिशब्दः समानार्थे // PSBह्_५.१७:१०
SK
* यथा भैक्ष्योपदेशं कृत्वा योगकर्मण्युद्यमः कर्तव्य इति व्याख्यातं तथा अपः पीत्वेति // PSBह्_५.१७:११
SK
* कालोऽत्र द्विविधः अलाभकालः अपर्याप्तिकालश्च // PSBह्_५.१७:१२
SK
* तत्र यदा ग्रामं नगरं वा कृत्स्नमटित्वा न किंचिदासादयति सः अलाभकालः अपर्याप्तिकालो नाम यदा भिक्षां भिक्षाद्वयं वा आसादयति तदा अपः पीत्वापि स्थेयम् // PSBह्_५.१७:१३
SK
* आह एवं स्थितेन किमनेन कर्तव्यम् // PSBह्_५.१७:१४
SK
* तदुच्यते उपयोक्तव्यम् // PSBह्_५.१७:१५
SK
* यस्मादाह अश्नीयादनुपूर्वशः इति // PSBह्_५.१७:१६
SK
* अश्नीयादिति योगक्रियानुपरोधेनाहारलाघवमर्यादाम् अधिकुरुते // PSBह्_५.१७:१७
SK
* अश भोजने // PSBह्_५.१७:१८
SK
* अश्नीयादनुपूर्वशः // PSBह्_५.१७:१९
SK
* अनु पृष्ठकर्मक्रियायाम् // PSBह्_५.१७:२०
SK
* अनुपूर्वश इति अतिक्रान्तापेक्षणे प्रकारवचने च // PSBह्_५.१७:२१
SK
* यथापूर्वं ग्रामादि प्रविश्य भैक्ष्यार्जनं कृत्वालाभकाले अपर्याप्तिकाले वा तदनु पश्चाद् अपः पीत्वा स्थेयमिति कृत्वा भगवता एतदुक्तम् अश्नीयादनुपूर्वश इति // PSBह्_५.१७:२२
SK
* अत्र श्लोको निर्वचनः // PSBह्_५.१७:२३
SK
* आह शून्यागारगुहावस्थस्येन्द्रियजयेन वर्ततोऽस्य बलं किं चिन्त्यते किमकलुषत्वमेव // PSBह्_५.१७:२४
SK
* तदुच्यते न // PSBह्_५.१७:२५
SK
* यस्मादाह // PSBह्_५.१७:२६
SK
गोधर्मा मृगधर्मा वा || PS_५.१८ ||
SK
* अत्र गौर् लोकादिप्रसिद्धो मृगवत् खुरककुदविषाणसास्नादिमान् इति // PSBह्_५.१८:१
SK
* तथा मृगोऽपि गोद्रव्यवल् लोकादिप्रसिद्धः कृष्णमृगादीनाम् अन्यतमः // PSBह्_५.१८:२
SK
* तयोस्तु सति धर्मबहुत्वे समानो धर्मो गृह्यते आध्यात्मिकादिद्वंद्वसहिष्णुत्वम् // PSBह्_५.१८:३
SK
* तदुत्तरत्र वक्ष्यामः // PSBह्_५.१८:४
SK
* गोमृगधर्मग्रहणं तु परस्परविशेषणार्थम् // PSBह्_५.१८:५
SK
* वाशब्दो विकल्पार्थः // PSBह्_५.१८:६
SK
* क्रियासामान्यदृष्ट्या रौद्रीबहुरूपीवद् एकधर्मेण चैकधर्मेण वा स्थेयमित्यर्थः // PSBह्_५.१८:७
SK
* आह केन बलेनास्य कार्यनिष्पत्तिः // PSBह्_५.१८:८
SK
* तदुच्यते // PSBह्_५.१८:९
SK
अद्भिरेव शुचिर्भवेत् || PS_५.१९ ||
SK
* अत्र अद्भिः आङ् इव अद्भिरेव आपो जलमित्यादिप्रसिद्धाः पूर्वोक्ताः // PSBह्_५.१९:१
SK
* अद्भिरिति तृतीया // PSBह्_५.१९:२
SK
* आङ् इति पूर्वप्रसिद्धमात्रादिमर्यादाम् अधिकुरुते // PSBह्_५.१९:३
SK
* गोमृगवद् द्वंद्वसहिष्णुत्वमर्यादायां च // PSBह्_५.१९:४
SK
* इव इति उपमायाम् // PSBह्_५.१९:५
SK
* यथा अद्भिश्च मृद्भिश्च प्रक्षालितानि वस्त्रादीनि शुद्धानि भवन्ति तद्वत् // PSBह्_५.१९:६
SK
* गोमृगधर्मित्वेन बलेन शुचिर्भवतीति // PSBह्_५.१९:७
SK
* उच्यते न // PSBह्_५.१९:८
SK
* यस्मादाह गोमृगयोर् अकुशलधर्मप्रतिषेधं कुशलधर्मे च नियोगं सिद्धशक्तिप्रशंसया असिद्धशक्तिप्रतिषेधं च वक्ष्यामः // PSBह्_५.१९:९
SK
* तदाह // PSBह्_५.१९:१०
SK
सिद्धयोगी न लिप्यते कर्मणा पातकेन वा || PS_५.२० ||
SK
* असिद्धस्तु सर्वथापि वर्तमानो लिप्यत इत्यर्थः // PSBह्_५.२०:१
SK
* अतो योगी सिद्ध इत्येवं प्राप्ते सुखमुखोच्चारणार्थम् उक्तं सिद्धयोगी इति // PSBह्_५.२०:२
SK
* अत्र // PSBह्_५.२०:३
SK
* योगो नामात्मेश्वरयोर्योगः // PSBह्_५.२०:४
SK
* तेनायं योगी // PSBह्_५.२०:५
SK
* सिद्धो नाम दर्शनाद्यैश्वर्यं प्राप्तः // PSBह्_५.२०:६
SK
* स खलु वशीकरणावेशनपालनादिप्रवीणः // PSBह्_५.२०:७
SK
* न लिप्यते न संयुज्यत इत्यर्थः // PSBह्_५.२०:८
SK
* आह केन न लिप्यते // PSBह्_५.२०:९
SK
* तदुच्यते कर्मणा // PSBह्_५.२०:१०
SK
* अत्र कर्मणेत्युच्यते // PSBह्_५.२०:११
SK
* कस्मात् // PSBह्_५.२०:१२
SK
* कृतकत्वात् // PSBह्_५.२०:१३
SK
* कर्मणेति तृतीया // PSBह्_५.२०:१४
SK
* इष्टस्थानशरीरेन्द्रियविषयसम्बन्धकृतेन कर्मणा न लिप्यते न संयुज्यत इत्यर्थः // PSBह्_५.२०:१५
SK
* आह अनिन्दितेन शुभेन कर्मणा न संयुज्यत इत्युच्यते आहो अथ किमशुभेन कर्मणा लिप्यते नेति // PSBह्_५.२०:१६
SK
* तदुच्यते न // PSBह्_५.२०:१७
SK
* यस्मादाह पातकेन // PSBह्_५.२०:१८
SK
* अत्र पापाख्येन पातकेन वानिष्टस्थानशरीरेन्द्रियविषयगतो ऽशुभं भुङ्क्ते तेनाप्यशुभेन कर्मणा न लिप्यते न युज्यत इत्यर्थः // PSBह्_५.२०:१९
SK
* वा त्रिकल्पे // PSBह्_५.२०:२०
SK
* पातकेन वा अपातकेन वा समस्ताभ्यां वा वशीकरणावेशनपालनादिषु प्रवर्तमानो न लिप्यते न संयुज्यत इत्यर्थः // PSBह्_५.२०:२१
SK
* कस्मात् // PSBह्_५.२०:२२
SK
* सिद्धिसामर्थ्यात् // PSBह्_५.२०:२३
SK
* असिद्धश्चायं योगी ब्राह्मणो गोमृगधर्मावस्थो यदि सर्वथापि गोमृगवत् प्रवर्तते ततो लिप्यते // PSBह्_५.२०:२४
SK
* तस्माद् गोमृगयोर् अकुशलधर्मो न ग्राह्यः // PSBह्_५.२०:२५
SK
* कुशलधर्मश्च स्वाध्यात्मिकादिद्वंद्वसहिष्णुत्वं परिगृह्यते // PSBह्_५.२०:२६
SK
* तेनायं शुचिर्भवति // PSBह्_५.२०:२७
SK
* आह किमस्याशौचम् // PSBह्_५.२०:२८
SK
* तदुच्यते द्वंद्वैर् योगव्यासङ्गकरैः कामक्रोधशिरोरोगादिनिमित्तैः शीतादिभिरन्यैर्वा // PSBह्_५.२०:२९
SK
* न लिप्यते न संयुज्यत इत्यर्थः // PSBह्_५.२०:३०
SK
* कस्मात् // PSBह्_५.२०:३१
SK
* प्राप्तबलत्वादित्यर्थः // PSBह्_५.२०:३२
SK
* अत्र श्लोको निर्वचनः // PSBह्_५.२०:३३
SK
* आह शून्यागारगुहावस्थस्येन्द्रियजये वर्ततः काः क्रियाः कर्तव्याः // PSBह्_५.२०:३४
SK
* किं स्नानहसिताद्याः क्राथनस्पन्दनमण्टनाद्या वा // PSBह्_५.२०:३५
SK
* तदुच्यते न // PSBह्_५.२०:३६
SK
* यस्मादाह // PSBह्_५.२०:३७
SK
ऋचमिष्टामधीयीत गायत्रीमात्मयन्त्रितः || PS_५.२१ ||
SK
* अत्र ऋचम् ऋचामित्यप्यदुष्टः पाठः // PSBह्_५.२१:१
SK
* अत्र ऋचा नामाघोरा // PSBह्_५.२१:२
SK
* कथं गम्यते // PSBह्_५.२१:३
SK
* ऋङ्मध्यात् // PSBह्_५.२१:४
SK
* सद्योजाततत्पुरुषेशानवद् अर्चिवर्चगाः // PSBह्_५.२१:५
SK
* इष्टा चेयं तत्र तत्र जप्तव्यत्वेन गुणीकृतत्वात् // PSBह्_५.२१:६
SK
* पूर्वोत्तरसूत्रेषु जप्तव्यत्वेन गायत्र्या सहाध्यानाद् आशुभावसमाध्यासादनाच् च इष्टा // PSBह्_५.२१:७
SK
* अध्ययनम् इति जप्यपर्यायः // PSBह्_५.२१:८
SK
* ईत इत्याज्ञायां नियोगे च // PSBह्_५.२१:९
SK
* मानसम् एवाधीयीतेत्यर्थः // PSBह्_५.२१:१०
SK
* आह किम् ऋचैवैकाध्येतव्या // PSBह्_५.२१:११
SK
* उच्यते न // PSBह्_५.२१:१२
SK
* यस्माद् आह गायत्रीम् इति // PSBह्_५.२१:१३
SK
* गायत्री नाम तत्पुरुषा // PSBह्_५.२१:१४
SK
* निरुक्तमस्याः पूर्वोक्तम् // PSBह्_५.२१:१५
SK
* मानसम् एवाधीयीतेत्यर्थः // PSBह्_५.२१:१६
SK
* आह कीदृशो ऽधीयीतेति // PSBह्_५.२१:१७
SK
* तदुच्यते आत्मयन्त्रितः // PSBह्_५.२१:१८
SK
* आत्मयन्त्रणमिति प्रत्याहारपर्यायः // PSBह्_५.२१:१९
SK
* आत्मेति क्षेत्रज्ञ उच्यते // PSBह्_५.२१:२०
SK
* आत्मत्वमस्य चैतन्यम् // PSBह्_५.२१:२१
SK
* आप्तव्यं कार्यं करणं विषयाश्च // PSBह्_५.२१:२२
SK
* आत्मयन्त्रणमित्यत्र सति त्रिके युज्यते // PSBह्_५.२१:२३
SK
* यन्त्रणं नाम यथायम् आत्मभावो ब्रह्मण्य् अक्षरपदपङ्क्त्यां युक्तो वर्तते तदात्मा यन्त्रितो भवति // PSBह्_५.२१:२४
SK
* कथम् // PSBह्_५.२१:२५
SK
* नृत्यप्रसक्तचित्तदृष्टान्तात् कस्मात् // PSBह्_५.२१:२६
SK
* आत्मात्मभावयोर् अव्युच्छेदात् // PSBह्_५.२१:२७
SK
* गुणगुणिनोरपि तथा युगपद्भावः // PSBह्_५.२१:२८
SK
* कथम् // PSBह्_५.२१:२९
SK
* यष्टुं प्रवृत्तो यन्त्रयितुं च प्रवृत्त एव भवति // PSBह्_५.२१:३०
SK
* भिक्षुवत् // PSBह्_५.२१:३१
SK
* तस्माद् यन्त्रणमेवैष प्रत्याहार इति // PSBह्_५.२१:३२
SK
* आह अत्र गायत्रीबहुत्वात् संदेहः // PSBह्_५.२१:३३
SK
* कथमवगम्यते ऋचा अघोरेण वा तत्पुरुषेणेति // PSBह्_५.२१:३४
SK
* उच्यते गम्यते // PSBह्_५.२१:३५
SK
* यस्मादाह // PSBह्_५.२१:३६
SK
रौद्रीं वा बहुरूपीं वा || PS_५.२२ ||
SK
* अत्र रौद्री नाम तत्पुरुषा // PSBह्_५.२२:१
SK
* निरुक्तमस्याः पूर्वोक्तम् // PSBह्_५.२२:२
SK
* वाशब्दो रौद्रीबहुरूप्योः प्रतिविभागे द्रष्टव्यः // PSBह्_५.२२:३
SK
* बहुरूपी नामाघोरा // PSBह्_५.२२:४
SK
* वा विकल्पे // PSBह्_५.२२:५
SK
* तुल्यफलत्वात् // PSBह्_५.२२:६
SK
* वेत्यत एका चैका वा // PSBह्_५.२२:७
SK
* आत्मयन्त्रितो ऽधीयीत इत्यर्थः // PSBह्_५.२२:८
SK
* आह आत्मयन्त्रितस्याधीयतः का कार्यनिष्पत्तिः // PSBह्_५.२२:९
SK
* तदुच्यते // PSBह्_५.२२:१०
SK
अतो योगः प्रवर्तते || PS_५.२३ ||
SK
* अत्र अत इति कारणापदेशे // PSBह्_५.२३:१
SK
* आत्मयन्त्रितोऽधीयीतेत्यर्थः // PSBह्_५.२३:२
SK
* तस्मादनेन कारणेन हेतुना निमित्तेनेत्यर्थः // PSBह्_५.२३:३
SK
* योग इति // PSBह्_५.२३:४
SK
* आत्मेश्वरसंयोगो योग इति मन्तव्यः // PSBह्_५.२३:५
SK
* प्र इत्यादिकर्मणि // PSBह्_५.२३:६
SK
* प्रवर्तते इत्यस्य पूर्वोक्तोऽर्थः // PSBह्_५.२३:७
SK
* अत्र श्लोको निर्वचनः // PSBह्_५.२३:८
SK
* आह ऋचम् अधीयता ब्रह्मण्यक्षरपदपङ्क्त्यां किं युक्तेनैव स्थेयम् // PSBह्_५.२३:९
SK
* आहोस्विद् दृष्टा अस्यान्या सूक्ष्मतरा उपासना क्रियाध्याननमःस्तव्यम् // PSBह्_५.२३:१०
SK
* उच्यते दृष्टा // PSBह्_५.२३:११
SK
* यस्मादाह // PSBह्_५.२३:१२
SK
ॐकारमभिध्यायीत || PS_५.२४ ||
SK
* अत्र ॐ इत्येष जप्यपर्यायो वामदेवादिवत् // PSBह्_५.२४:१
SK
* कारशब्दो ऽवधारणे द्रष्टव्यः // PSBह्_५.२४:२
SK
* किंकारणम् // PSBह्_५.२४:३
SK
* उक्तं हि / प्रणवे नित्ययुक्तस्य व्याहृतिषु च सप्तसु / त्रिपदायां च गायत्र्यां न मृत्युर्विन्दते परम् // PSBह्_५.२४:४ * इत्यत ॐकार एवावधार्यते ध्येयत्वेन न तु गायत्र्यादयः // PSBह्_५.२४:५ * अभिर् अभ्यासे // PSBह्_५.२४:६ * ॐकारसंनिकृष्टचित्तेन भवितव्यम् // PSBह्_५.२४:७ * ध्यै चिन्तायाम् // PSBह्_५.२४:८ * ध्यानं चिन्तनमित्यर्थः // PSBह्_५.२४:९ * उक्तं हि / ध्यै चिन्तालक्षणं ध्यानं ब्रह्म चौंकारलक्षणम् / धीयते लीयते वापि तस्माद् ध्यानमिति स्मृतम् // PSBह्_५.२४:१० * मुहूर्तार्धं मुहूर्तं वा प्राणायामान्तरेऽपि वा // PSBह्_५.२४:११ * ध्येयं चिन्तयमानस्तु पापं क्षपयते नरः // PSBह्_५.२४:१२ * ईत इत्याज्ञायां नियोगे च // PSBह्_५.२४:१३ * ॐकार एव ध्येयो नान्य इत्यर्थः / आह ॐकारो ध्येयः // PSBह्_५.२४:१४ * को वा ध्यानदेशः // PSBह्_५.२४:१५ * कस्मिन् वा देशे धारणा कर्तव्या // PSBह्_५.२४:१६ * ध्यायमानेन वा किं कर्तव्यम् // PSBह्_५.२४:१७ * तदुच्यते // PSBह्_५.२४:१८
SK
हृदि कुर्वीत धारणाम् || PS_५.२५ ||
SK
* तत्र हृदि इत्यात्मपर्यायः // PSBह्_५.२५:१
SK
* कस्मात् // PSBह्_५.२५:२
SK
* पूर्वोत्तरसामर्थ्यात् // PSBह्_५.२५:३
SK
* यो ऽर्थो यत्र मिलति स तत्र स्थापयितव्यः स एवार्थो धारयितव्यः // PSBह्_५.२५:४
SK
* किंच वेदप्रामाण्यादुक्तम् / अङ्गादङ्गात् सम्भवसि हृदयाद् अधिजायसे / आत्मा वै पुत्रनामासि स जीव शरदः शतम् // PSBह्_५.२५:५ * अन्यत्रापि आत्मा विजायते पुत्र आत्मा वै आत्मनः पिता / आत्मप्रजो भविष्यामि परमं हृदयं हि सः // PSBह्_५.२५:६ * अतो हृदयमात्मेत्युक्तम् // PSBह्_५.२५:७ * प्रकुरुते भावं बुद्धिरध्यवसायिताम् // PSBह्_५.२५:८ * हृदयं प्रियाप्रिये वेत्ति त्रिविधा करणस्थितिः // PSBह्_५.२५:९ * तथा लोकेऽपि सन्ति वक्तारो हृदयं ते ज्ञास्यति // PSBह्_५.२५:१० * किमुक्तं भवति // PSBह्_५.२५:११ * आत्मा ते ज्ञास्यतीति // PSBह्_५.२५:१२ * अतोऽवगम्यते हृदीत्यात्मपर्यायः // PSBह्_५.२५:१३ * हृदीति औपश्लेषिकं संनिधानम् // PSBह्_५.२५:१४ * अत्र तु ॐकारो धार्यो नात्मा किंतु य एवात्मन्यात्मभावः // PSBह्_५.२५:१५ * तस्य्ॐकारात् प्रच्युतस्य विषयेभ्यो वृत्तिविकारमात्रेण गतस्य प्रत्यानयनं प्रत्याहारः // PSBह्_५.२५:१६ * प्रत्याहृत्य हृदि धारणा कर्तव्या // PSBह्_५.२५:१७ * धार्यं च्ॐकारानुचिन्तनम् // PSBह्_५.२५:१८ * तत्रैव सुदीर्घकालम् अवस्थानमध्ययनम् // PSBह्_५.२५:१९ * तद्धारणाहितं परं ध्यानम् // PSBह्_५.२५:२० * निष्ठायोगस्तु स्थापयित्वेति वक्ष्यामः // PSBह्_५.२५:२१ * कुर्वीत इति // PSBह्_५.२५:२२ * डुकृञ् करणे // PSBह्_५.२५:२३ * तस्य सप्तम्यन्ते कुर्वीतेति भवति // PSBह्_५.२५:२४ * हृदि धारणा कर्तव्या // PSBह्_५.२५:२५ * ईत इत्याज्ञायां नियोगे च // PSBह्_५.२५:२६ * पादजानुकटिनासिकादिस्थानेषु धारणाकर्तव्यताप्रतिषेधार्थो नियोगः // PSBह्_५.२५:२७ * हृदि धार्या नान्यत्रेत्यर्थः // PSBह्_५.२५:२८ * आह ॐकारः किं परप विष्णुरुमा कुमारश्च चतस्रो ऽर्धमात्रा वा // PSBह्_५.२५:२९ * उत समानपुरुष इति // PSBह्_५.२५:३० * उच्यते न // PSBह्_५.२५:३१ * यस्मादाह // PSBह्_५.२५:३२
SK
ऋषिर् विप्रो महानेषः || PS_५.२६ ||
SK
* अत्र ऋषिः इत्येतद् भगवता नामधेयम् // PSBह्_५.२६:१
SK
* ऋषिः कस्मात् // PSBह्_५.२६:२
SK
* ऋषिः क्रियायाम् // PSBह्_५.२६:३
SK
* ऋषित्वं नाम क्रियाशंसनादृषिः // PSBह्_५.२६:४
SK
* तथा कृत्स्नं कार्यं विद्याद्यमीशत इत्यतः ऋषिः // PSBह्_५.२६:५
SK
* तथा विप्र इत्येतदपि भगवतो नाम // PSBह्_५.२६:६
SK
* विप्रः कस्मात् // PSBह्_५.२६:७
SK
* विद ज्ञाने // PSBह्_५.२६:८
SK
* विप्रत्वं नाम ज्ञानशक्तिः // PSBह्_५.२६:९
SK
* व्याप्तमनेन भगवता ज्ञानशक्त्या कृत्स्नं ज्ञेयमित्यतो विप्र इति // PSBह्_५.२६:१०
SK
* तथा महान् इत्यभ्यधिकत्वे // PSBह्_५.२६:११
SK
* यदेतद् दृक्क्रियालक्षणमस्ति अनागन्तुकम् अकृतकमैश्वर्यं तद्गुणसद्भावः सतत्त्वं तत्त्वधर्मः तदकृतकं पुरुषचैतन्यवत् तन् नान्यस्येत्यतो ऽभ्यधिकः उत्कृष्टोऽतिरिक्तश्चेति महान् // PSBह्_५.२६:१२
SK
* एष इति प्रत्यक्षे // PSBह्_५.२६:१३
SK
* एष यो मया पूर्वम् ॐ इति श्रोत्रप्रत्यक्षीकृतो ऽर्थः असौ विष्णूमाकुमारादीनाम् अन्यतमो न भवति // PSBह्_५.२६:१४
SK
* कस्मात् // PSBह्_५.२६:१५
SK
* ऋषित्वाद् विप्रत्वान् महत्त्वाच् चेत्यर्थः // PSBह्_५.२६:१६
SK
* आह ऋषित्वं विप्रत्वं च कीदृशे महेश्वरे चिन्तनीयम् // PSBह्_५.२६:१७
SK
* कीदृशो वा ॐकारो ध्येयः // PSBह्_५.२६:१८
SK
* तदुच्यते // PSBह्_५.२६:१९
SK
वाग्विशुद्धः || PS_५.२७ ||
SK
* अत्रापि वाग्विशुद्ध इत्यपि भगवतो नामधेयम् // PSBह्_५.२७:१
SK
* न अमी इत्यन्यो भगवान् // PSBह्_५.२७:२
SK
* स यथा ह्य् अथो हित्वा वाणीं मनसा सह रूपरसगन्धविद्यापुरुषादिपरो निष्कलो ध्येयः // PSBह्_५.२७:३
SK
* यस्मादुक्तम् / आकृतिमपि परिहृत्य ध्यानं नित्यं परे रुद्रे / येन प्राप्तं योगे मुहूर्तमपि तत् परो योगः // PSBह्_५.२७:४ * परमयोग इत्यर्थः // PSBह्_५.२७:५ * आह अथ यथायं बालवन् निष्कलस्तथा किं समानपुरुषः // PSBह्_५.२७:६ * तदुच्यते न // PSBह्_५.२७:७ * यस्मादाह तदाप्ययम् // PSBह्_५.२७:८
SK
महेश्वरः || PS_५.२८ ||
SK
* अत्रानाद्यज्ञानद्यतिना ऋषित्वविप्रत्वसंज्ञकेन महता ऐश्वर्येण महेश्वर इति सिद्धम् इह तु यदायं वाग्विशुद्धो निष्कलस्तदा किं समानपुरुषवद् अनीश्वर इत्यस्य संशयस्य संव्युदासार्थम् उच्यते महेश्वर इति // PSBह्_५.२८:१
SK
* यस्माद् अस्यैश्वर्यं निष्कलस्यापि स्वगुणसद्भावः सतत्त्वं तत्त्वधर्मः // PSBह्_५.२८:२
SK
* तदकृतकत्वं पुरुषचैतन्यवत् // PSBह्_५.२८:३
SK
* अतस् तदाप्ययं महानेवेश्वरो महेश्वरः // PSBह्_५.२८:४
SK
* तस्मादकृतक एव महच्छब्द इत्यतो महेश्वर इति // PSBह्_५.२८:५
SK
* एवम्ॐकारमिति ध्येयमुक्तम् // PSBह्_५.२८:६
SK
* ध्येयगुणीकरणमुक्तम् ऋषिर् विप्रो महानेष इति // PSBह्_५.२८:७
SK
* ध्येयावधारणमुक्तं वाग्विशुद्धो निष्कल इति // PSBह्_५.२८:८
SK
* ध्येयशक्तिप्रशंसा चोक्ता महेश्वर इति // PSBह्_५.२८:९
SK
* एवं यस्मादिन्द्रियजये वर्तते अतो वसत्यर्थवृत्तिबलक्रियालाभादयश्च व्याख्याता इति // PSBह्_५.२८:१०
SK
* अतोऽत्र युक्तं वक्तुम् // PSBह्_५.२८:११
SK
* शून्यागारगुहाप्रकरणं परिसमाप्तमिति // PSBह्_५.२८:१२
SK
* आह शून्यागारगुहायां यदा जितानीन्द्रियाणि देवनित्यता च प्राप्ता भवति तदा किं तदेव भैक्ष्यं वृत्तिमास्थाय तत्रैवानेन दुःखान्तप्राप्तेः स्थेयम् // PSBह्_५.२८:१३
SK
* आहोस्विद् दृष्टोऽस्यापि वसत्यर्थो वृत्तिर्बलक्रियालाभाश्चेति // PSBह्_५.२८:१४
SK
* उच्यते दृष्टः // PSBह्_५.२८:१५
SK
* यस्मादाह // PSBह्_५.२८:१६
SK
(...) || PS_५.२९ ||
SK
* आह शून्यागारगुहाम् उत्सृज्य प्रयोजनाभावात् श्मशाने संक्रान्तिरयुक्तेति चेत् // PSBह्_५.२९:१
SK
* तदुच्यते न // PSBह्_५.२९:२
SK
* योगव्यासङ्गपरिहारार्थत्वात् // PSBह्_५.२९:३
SK
* इहावस्थानाद् अवस्थानं प्राप्य ब्राह्मणस्य सर्वत्र वसत्यर्थवृत्तिबलक्रियालाभादयो ऽयुतसिद्धा वक्तव्याः // PSBह्_५.२९:४
SK
* तत्रादिधर्मा अप्यस्य तावदायतने वसत्यर्थः वृत्तिर्भैक्ष्यं बलमष्टाङ्गं ब्रह्मचर्यं क्रियाः स्थानहसिताद्याः स्नानं कलुषापोहः शुद्धिः ज्ञानावाप्तिः अकलुषत्वं च लाभा इति // PSBह्_५.२९:५
SK
* तथा असन्मानपरिभवोपदेशाद् आयतने वसत्यर्थः वृत्तिरुत्सृष्टं बलमकलुषत्वम् इन्द्रियद्वारपिधानं च क्रिया इन्द्रियाणि पिधाय उन्मत्तवदवस्थानं पापक्षयाच् छुद्धिः लाभस्तु कृत्स्नो धर्मस्तुल्येन्द्रियजये वर्तते // PSBह्_५.२९:६
SK
* तथा वसत्यर्थः शून्यागारगुहा वृत्तिर्भैक्ष्यं बलं गोमृगयोः सहधर्मित्वं क्रिया अध्ययनध्यानाद्या अजितेन्द्रियवृत्तितापोहः शुद्धिः लाभस्तु देवनित्यता जितेन्द्रियत्वं चेति // PSBह्_५.२९:७
SK
* तथेहापि श्मशाने वसत्यर्थः वसन् धर्मात्मा // PSBह्_५.२९:८
SK
* यथालब्धमिति वृत्तिः क्रिया स्मृतिः अस्मृत्यपोहः शुद्धिः लाभस्तु सायुज्यम् // PSBह्_५.२९:९
SK
* तथोत्तरत्र ऋषिर् इति वसत्यर्थः बलमप्रमादः प्रसाद उपायः दुःखापोहः शुद्धिः गुणावाप्तिश्च लाभ इति // PSBह्_५.२९:१०
SK
* तथोक्तं च / पञ्च लाभान् मलान् पञ्च पञ्चोपायान् विशेषतः / यस्तु बुध्यति पञ्चार्थे स विद्वान् नात्र संशयः // PSBह्_५.२९:११ * प्रथमो विद्यालाभस्तपसो लाभोऽथ देवनित्यत्वम् / योगो गुणप्रवृत्तिर्लाभाः पञ्चेह विज्ञेयाः // PSBह्_५.२९:१२ * अज्ञानमधर्मश्च विषयाभ्यासः स्थितेरलाभश्च / अनैश्वर्यं च मला विज्ञेयाः पञ्च पञ्चार्थे // PSBह्_५.२९:१३ * वासो ध्यानम् अखिलकरणनिरोधस्तथा स्मृतिश्चैव / प्रसाद इति चोपाया विज्ञेयाः पञ्च पञ्चार्थे // PSBह्_५.२९:१४ * वासार्थो लोकश्च शून्यागारं तथा श्मशानं च / रुद्रश्च पञ्च देशा नियतं सिद्ध्यर्थमाख्याताः // PSBह्_५.२९:१५ * तस्माद्युक्तमुक्तम् // PSBह्_५.२९:१६ * स एव प्रागुक्तः सम्बन्धः श्मशानवासी इति // PSBह्_५.२९:१७ * अत्र श्मशानं नाम यद् एतल् लोकादिप्रसिद्धं लौकिकानां मृतानि शवानि परित्यजन्ति तत् // PSBह्_५.२९:१८ * शवसम्बन्धात् श्मशानम् तस्मिन्न् आकाशे वृक्षमूले यथानभिष्वङ्गमर्यादया जितद्वंद्वेन स्मृतिक्रियानिविष्टेन वस्तव्यम् // PSBह्_५.२९:१९ * वसतिसंयोगात् श्मशानवासी भवति पुलिनवासिवद् इत्यर्थः // PSBह्_५.२९:२० * आह किमस्य गोमृगयोः सहधर्मित्वमेव बलम् // PSBह्_५.२९:२१ * तदुच्यते न // PSBह्_५.२९:२२ * यस्मादाह // PSBह्_५.२९:२३
SK
श्मशानवासी || PS_५.३० ||
SK
* अत्र धर्मो नाम य एष यमनियमपूर्वको ऽभिव्यक्तो माहात्म्यादिधर्मः स पूर्वोक्तः // PSBह्_५.३०:१
SK
* सो ऽस्यात्मनि प्रचितः // PSBह्_५.३०:२
SK
* तेन धर्मेण धर्मात्मा भवतीत्यर्थः // PSBह्_५.३०:३
SK
* आह किमस्य भैक्ष्यमेव वृत्तिः // PSBह्_५.३०:४
SK
* उच्यते न // PSBह्_५.३०:५
SK
* यस्मादाह // PSBह्_५.३०:६
SK
धर्मात्मा || PS_५.३१ ||
SK
* अत्र यथा इति समानार्थे अम्लादिषु जितेन्द्रियत्वात् // PSBह्_५.३१:१
SK
* लब्धम् आसादितम् अप्रार्थितम् इत्यर्थः // PSBह्_५.३१:२
SK
* उप इति समीपधारणे // PSBह्_५.३१:३
SK
* तद् यथालब्धमन्नपानं श्मशानादनिर्गच्छता दिवसे दिवसे जीवनाय स्थित्यर्थं तदुपजीवन् यथालब्धोपजीवको भवतीत्यर्थः // PSBह्_५.३१:४
SK
* आह किं जीवनमेव परो लाभ इति // PSBह्_५.३१:५
SK
* उच्यते न // PSBह्_५.३१:६
SK
* यस्मादाह // PSBह्_५.३१:७
SK
यथालब्धोपजीवकः लभते रुद्रसायुज्यम् || PS_५.३२ ||
SK
* अत्र लभते विन्दते आसादयतीत्यर्थः रुद्र इति कारणापदेशे // PSBह्_५.३२:१
SK
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् // PSBह्_५.३२:२
SK
* साक्षाद् रुद्रेण सह संयोगः सायुज्यम् // PSBह्_५.३२:३
SK
* भावग्रहणम् आत्मेश्वराभ्याम् अन्यत्र प्रतिषेधार्थम् // PSBह्_५.३२:४
SK
* योगस्य सम्यक्त्वं सायुज्यमिति योगपर्यायो ऽवगम्यते // PSBह्_५.३२:५
SK
* धर्मात्मवचनाद् अतिगत्यानन्त्यवद् इत्यर्थः // PSBह्_५.३२:६
SK
* आह तत् केनोपायेन लभते // PSBह्_५.३२:७
SK
* किमध्ययनध्यापनाभ्यामेव // PSBह्_५.३२:८
SK
* तदुच्यते न // PSBह्_५.३२:९
SK
* यस्मादाह // PSBह्_५.३२:१०
SK
सदा रुद्रमनुस्मरेत् || PS_५.३३ ||
SK
* अत्र सदा नित्यं सततमव्युच्छिन्नमिति रुद्रमिति कारणापदेशे // PSBह्_५.३३:१
SK
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् // PSBह्_५.३३:२
SK
* रुद्रमिति द्वितीया कर्मणि // PSBह्_५.३३:३
SK
* अनु पृष्ठकर्मक्रियायाम् // PSBह्_५.३३:४
SK
* पूर्वोक्तो ध्येयोऽर्थः सततम् अनुस्मर्तव्यः / स्मृतिः चिन्तायाम् // PSBह्_५.३३:५ * ऊष्मवदवस्थितस्य कर्मणश्च्युतिहेतोः क्षपणार्थं सततम् अनुस्मर्तव्यः // PSBह्_५.३३:६ * स्मृतिस्तु देवनित्यतेत्यर्थः // PSBह्_५.३३:७ * ततः क्षीणे कर्मणि तद्दोषहेतुजालमूलविशिष्टस्य प्रत्यासैकनिमित्ताभावात् सायुज्यप्राप्तौ न पुनः संसारः // PSBह्_५.३३:८ * अत्र श्लोको निर्वचनः // PSBह्_५.३३:९ * आह अज्ञानकलुषपापवासनादिप्रसङ्गप्रसरणसम्भवात् संदेहः // PSBह्_५.३३:१० * सूक्ष्मवदवस्थिते कर्मणि क्षीणे ऽत्यन्तविशुद्धः सायुज्यमासादयति आहोस्विद् अविशुद्ध इति // PSBह्_५.३३:११ * उच्यते विशुद्धः // PSBह्_५.३३:१२ * यस्मादाह // PSBह्_५.३३:१३
SK
छित्त्वा दोषाणां हेतुजालस्य मूलम् || PS_५.३४ ||
SK
* अत्र व्युत्क्रमाभिधानाच् छेदः क्रमशो योजनीयः // PSBह्_५.३४:१
SK
* यन्त्रणधारणात्मकश्छेदो द्रष्टव्यः // PSBह्_५.३४:२
SK
* किमर्थम् // PSBह्_५.३४:३
SK
* सूक्ष्मवदवस्थितस्य कर्मणः क्षयार्थं वसत्यर्थादिनिर्देशार्थत्वात् // PSBह्_५.३४:४
SK
* किंच अर्थानाम् अनिर्वचनार्थत्वात् तत्र जप एव केवलोऽभिहितः // PSBह्_५.३४:५
SK
* इह तु यत इन्द्रियाणि जेतव्यानि यो जेता यया जेतव्यानि यथा जेतव्यानि यत्प्रयोजनं जेतव्यानि यस्मिंश्च जिते जितानि भवन्ति तद् वक्ष्यामः // PSBह्_५.३४:६
SK
* तथा यस्यात्मवृत्तिर् अध्ययनध्यानस्मरणादि च वक्ष्यामः // PSBह्_५.३४:७
SK
* तथा यत आत्मा छेत्तव्यः छेत्तारं छेदकरणं छेदप्रयोजनं छेद्यं छित्तिं यस्मिन् छिन्ने छिन्नं भवति तद् वक्ष्यामः // PSBह्_५.३४:८
SK
* तदुच्यते छित्त्वा // PSBह्_५.३४:९
SK
* अत्र छेदो नाम आत्मभावविश्लेषणमात्रम् // PSBह्_५.३४:१०
SK
* विच्छेदवचनाद् गम्यते // PSBह्_५.३४:११
SK
* त्वा इति शून्यागारगुहावस्थितस्याध्ययनध्यानधारणयन्त्रणादिकं गम्यते // PSBह्_५.३४:१२
SK
* आह किं तत् // PSBह्_५.३४:१३
SK
* केभ्यो वा छेत्तव्यम् // PSBह्_५.३४:१४
SK
* तदुच्यते दोषाणां हेतुजालस्य मूलम् इति // PSBह्_५.३४:१५
SK
* अत्र दोषाः शब्दस्पर्शरूपरसगन्धाः // PSBह्_५.३४:१६
SK
* कस्मात् // PSBह्_५.३४:१७
SK
* कामार्जनादिमूलत्वात् // PSBह्_५.३४:१८
SK
* यस्मादुक्तम् / कामः क्रोधस्तथा लोभो भयं स्वप्नश्च पञ्चमः / रागो द्वेषश्च मोहश्च // PSBह्_५.३४:१९ * तथा अर्जनरक्षणक्षयसङ्गहिंसादयो दोषाः // PSBह्_५.३४:२० * अर्जनं नाम प्रतिग्रहजयक्रयविक्रयनिर्वेश्यादिषु वर्णिनां विषयार्जनोपायाः // PSBह्_५.३४:२१ * एतेषु च विषयाणामर्जने वर्ततात्मपीडा परपीडा वा अवर्जनीये भवतः // PSBह्_५.३४:२२ * तत्र यद्यात्मानं पीडयति तेन इहैव लोके दुःखी भवति // PSBह्_५.३४:२३ * स्यात् परं पीडयति तत्राप्यस्याधर्मो दुःखादिफलः संचीयते // PSBह्_५.३४:२४ * तच् च दुःखं नान्योऽनुभवति कर्तैवानुभवति // PSBह्_५.३४:२५ * अपि च किम्पाकफलोपमा विषयाः // PSBह्_५.३४:२६ * तद्यथा श्रूयते लवणसागरसंनिकर्षे कालयवनद्वीपे किम्पाका नाम विषवृक्षाः // PSBह्_५.३४:२७ * तत्फलान्य् आस्वादेनामृतोपमानि च केचिदज्ञानाद् गुडवद् भक्षयन्ति // PSBह्_५.३४:२८ * भक्षितानि च तानि मूर्छां छर्दिं च जनयन्ति // PSBह्_५.३४:२९ * तत्तीव्रदुःखाभिभूताः पञ्चत्वमापुः // PSBह्_५.३४:३० * श्रुत्वा तु सुहृदां वाक्यं यो नरो ह्य् अवमन्यते / स दह्यते विपाकान्ते किम्पाकैरिव भक्षितैः // PSBह्_५.३४:३१ * एवं किम्पाकफलोपमा विषयाः सेव्यमानाः सुखं जनयन्ति // PSBह्_५.३४:३२ * परिणामे संसारे जन्मनिमित्तत्वाद् दुःखानि प्रतिपद्यन्ते // PSBह्_५.३४:३३ * इत्येवं विषयाणामर्जने दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् // PSBह्_५.३४:३४ * तथा ऽन्यः कथम् // PSBह्_५.३४:३५ * अस्त्वेष विषयाणामर्जने दोषः // PSBह्_५.३४:३६ * स भवतु तेषाम् // PSBह्_५.३४:३७ * न वयं तत् प्रतिषेधयामः // PSBह्_५.३४:३८ * अयं त्व् अन्यः कष्टो विषयदोषः // PSBह्_५.३४:३९ * कश्चासाव् इति // PSBह्_५.३४:४० * उच्यते रक्षणदोषः // PSBह्_५.३४:४१ * अर्जितानाम् अप्येषाम् अवश्यम् एवोद्यतायुधेन रक्षा विधातव्या // PSBह्_५.३४:४२ * कस्मात् // PSBह्_५.३४:४३ * नृपदहनतस्करदायादसाधारणफलत्वात् // PSBह्_५.३४:४४ * तत्रात्मपीडा // PSBह्_५.३४:४५ * परपीडायां च यथोक्तः // PSBह्_५.३४:४६ * उक्तं हि / स्वद्रव्यं पुरुषं चोराः स्वमांसं पिशिताशिनः / क्लेशयन्ति यथा घोरास् तथाहि विषया नरम् // PSBह्_५.३४:४७ * क्लेशं समनुभुङ्क्ते च विषयाणां परिग्रहात् / तेषामेव परित्यागात् सर्वक्लेशक्षयो भवेत् // PSBह्_५.३४:४८ * आत्मदुःखोपघातार्थं त्यागधर्मं समाचरेत् / नापरित्यज्य विषयान् विषयी सुखमेधते // PSBह्_५.३४:४९ * विषयाणामर्जनादौ दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् // PSBह्_५.३४:५० * तथा अन्यः कथम् // PSBह्_५.३४:५१ * अस्त्वेष विषयाणाम् अर्जनरक्षणादौ दोषौ भवतस्तेषाम् // PSBह्_५.३४:५२ * न वयं तौ प्रतिषेधयामः // PSBह्_५.३४:५३ * अयं त्व् अन्यः कष्टतरो विषयाणां दोषः // PSBह्_५.३४:५४ * कश्चासाव् इति // PSBह्_५.३४:५५ * उच्यते क्षयो दोषः // PSBह्_५.३४:५६ * अर्जितानां सुरक्षितानाम् अप्येषाम् अवश्यम् एवाभ्युपगन्तव्यः // PSBह्_५.३४:५७ * विषयक्षये च पुनर्विषयिणां तीव्रदुःखमभिव्यज्यते // PSBह्_५.३४:५८ * मत्स्यादिवद् यथोदकक्षये नदीनां तद्वत् तस्माद् अशोभनम् // PSBह्_५.३४:५९ * उक्तं हि / त्रय एव ह्रदा दुर्गाः सर्वभूतापहारिणः / स्त्रियो ऽन्नपानम् ऐश्वर्यं तेषु जाग्रथ ब्राह्मणाः // PSBह्_५.३४:६० * नास्ति ज्ञानसमं चक्षुर्नास्ति क्रोधसमो रिपुः / नास्ति लोभसमं दुःखं नास्ति त्यागात् परं सुखम् // PSBह्_५.३४:६१ * इति // PSBह्_५.३४:६२ * एवं विषयाणां क्षयदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् // PSBह्_५.३४:६३ * तथान्यः कथम् इति // PSBह्_५.३४:६४ * सन्त्वेते विषयदोषाः // PSBह्_५.३४:६५ * अयमन्यतरः कष्टतरो दोषः कश्चासाव् इति // PSBह्_५.३४:६६ * उच्यते सङ्गदोषः // PSBह्_५.३४:६७ * यदि तावद् अर्जनं क्रियते रक्षणं च क्षये च पुनः पुनरर्जनं क्रियते रक्षणं च // PSBह्_५.३४:६८ * यदि सङ्गदोषो न स्यात् // PSBह्_५.३४:६९ * कथम् // PSBह्_५.३४:७० * यावद् अयम् इन्द्रिययुक्तो विषयान् अभिलषति तावदस्य तृप्तिरुपशान्तिरौत्सुक्यविनिवृत्तिश्च न भवति // PSBह्_५.३४:७१ * भूय एव विषयान् अन्वेष्टुम् आरभते // PSBह्_५.३४:७२ * ततः पुनरतृप्त्यादयो भवन्ति तद्वत् // PSBह्_५.३४:७३ * तस्माद् अशोभनम् // PSBह्_५.३४:७४ * उक्तं हि / न जातु कामः कामानाम् उपभोगेन शाम्यति / हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते // PSBह्_५.३४:७५ * यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः / नालमेकस्य तत् तृप्त्यै तस्माद् विद्वान् शमं व्रजेत् // PSBह्_५.३४:७६ * इति // PSBह्_५.३४:७७ * एवं विषयाणां सङ्गदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् // PSBह्_५.३४:७८ * तथान्यः कथम् इति // PSBह्_५.३४:७९ * सन्त्वेते विषयाणामर्जनादयो दोषाः // PSBह्_५.३४:८० * ते भवन्तु तेषाम् // PSBह्_५.३४:८१ * न वयं तान् प्रतिषेधयामः // PSBह्_५.३४:८२ * अयं त्व् अन्यः कष्टतमो विषयाणां दोषः // PSBह्_५.३४:८३ * कश्चासाव् इति // PSBह्_५.३४:८४ * उच्यते हिंसादोषः // PSBह्_५.३४:८५ * शक्यमेतेषां विषयाणाम् अर्जनादि कर्तुम् इन्द्रियलौल्यदोषोऽपि भवतु // PSBह्_५.३४:८६ * यदि हिंसादोषो न स्यात् // PSBह्_५.३४:८७ * कथम् // PSBह्_५.३४:८८ * एतेषामेव विषयाणामुपभोगे वर्तता अवश्यमेव हिंसादिदोषाः कर्तव्याः // PSBह्_५.३४:८९ * कस्मात् // PSBह्_५.३४:९० * नानुपहत्य भूतानि विषयोपभोगः शक्यते कर्तुम् // PSBह्_५.३४:९१ * तत्र शब्दनिमित्तं तावदयं क्रियते // PSBह्_५.३४:९२ * तद्यथा वीणानिमित्तं खदिरादीन् छिद्यमानान् दृष्ट्वा तन्त्रीनिमित्तं वा कांश्चिद्धिंस्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः क्रियते कदनं कर्म क्रियते स वक्तव्योऽत्र ते न शोभनोऽयम् // PSBह्_५.३४:९३ * यदा भिक्षाप्रदगृहेषु रम्यान् शब्दान् श्रोष्यसि तत्र परः परितोषो भविष्यति // PSBह्_५.३४:९४ * तथा सूत्रादिनिमित्तं तावद् भूतवधः क्रियते // PSBह्_५.३४:९५ * तद्यथा कोशकारादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः कदनं कर्म क्रियते // PSBह्_५.३४:९६ * स वक्तव्योऽत्र ते न शोभनोऽयम् यदा भिक्षदगृहेषु मृदुतरस्पर्शानि वासांसि प्राप्स्यसि तत्र ते परः परितोषो भविष्यति // PSBह्_५.३४:९७ * तथा रूपनिमित्तं तावद् भूतवधः क्रियते // PSBह्_५.३४:९८ * तद्यथा अशोकादीन् वृक्षान् छिद्यमानान्दृष्ट्वा हस्तिनश्च दन्तनिमित्तं वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनो ऽयं भूतवधः कदनं कर्म क्रियते स वक्तव्योऽत्र ते न शोभनोऽयम् // PSBह्_५.३४:९९ * यदा भिक्षदगृहम् अलंकृतकवाटगोपुरं द्रक्ष्यसि तत्र ते परः परितोषो भविष्यति // PSBह्_५.३४:१०० * तथा रसनिमित्तं तावद् भूतवधः क्रियते // PSBह्_५.३४:१०१ * तद्यथा तित्तिरिमयूरवराहादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनो ऽयं भूतवधः क्रियते // PSBह्_५.३४:१०२ * स वक्तव्योऽत्र ते न शोभनोऽयम् // PSBह्_५.३४:१०३ * यदा भिक्षदगृहेषु षड्रसमांसप्रकारैर् भोक्ष्यसे तत्र ते परः परितोषो भविष्यति // PSBह्_५.३४:१०४ * तथा गन्धनिमित्तं तावद् भूतवधः क्रियते / तद्यथा पञ्चनखादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः कदनं कर्म क्रियते // PSBह्_५.३४:१०५ * स वक्तव्योऽत्र ते न शोभनोऽयम् // PSBह्_५.३४:१०६ * यदा भिक्षदगृहेषु सुगन्धान् गन्धान् प्राप्स्यसि तत्र ते परितोषो भविष्यति // PSBह्_५.३४:१०७ * एवम् / कामः क्रोधश्च लोभश्च भयं स्वप्नश्च पञ्चमः / रागो द्वेषश्च मोहश्च / इति // PSBह्_५.३४:१०८ * अर्जनरक्षणक्षयसङ्गहिंसादिमूलत्वाद् अतोऽत्र शब्दादयो विषया दोषाः // PSBह्_५.३४:१०९ * दोषाश्च कथम् // PSBह्_५.३४:११० * चित्तवैचित्ये // PSBह्_५.३४:१११ * दूषयन्तीति दोषाः // PSBह्_५.३४:११२ * दूषयन्ति यस्माद् अध्ययनध्यानादिनिष्ठं साधकं विचित्तं कुर्वन्तीति दोषाः // PSBह्_५.३४:११३ * दोषाणाम् इति षष्ठीबहुवचनम् // PSBह्_५.३४:११४ * आह किं दोषाणामेव दोषेभ्य एव वा छेत्तव्यमुक्तम् // PSBह्_५.३४:११५ * न // PSBह्_५.३४:११६ * यस्मादाह हेतुः // PSBह्_५.३४:११७ * अत्र हेतुरधर्मः // PSBह्_५.३४:११८ * कस्मात् // PSBह्_५.३४:११९ * चित्तच्युतिहेतुत्वात् यस्मात् तेनाविष्टः साधको ऽध्ययनस्मरणादिभ्यश् च्यवतीत्यतो ऽत्राधर्मो हेतुः धर्मस्तु स्थित्यादिहेतुः // PSBह्_५.३४:१२० * आह कस्यायं हेतुः // PSBह्_५.३४:१२१ * उच्यते जालस्य // PSBह्_५.३४:१२२ * अत्र यदा अधर्मः कूटस्थो ऽनारब्धकार्यस् तदा हेतुरित्युच्यते // PSBह्_५.३४:१२३ * यदा त्व् अज्ञानवासनावशाद्धृत्या स्थित्यादिभावम् आपन्नस्तदा जालाख्यां लभते // PSBह्_५.३४:१२४ * कस्मात् // PSBह्_५.३४:१२५ * जालादिवत् समूहस्येत्यर्थः // PSBह्_५.३४:१२६ * अन्यस्य तन्मयकारणस्याभावात् // PSBह्_५.३४:१२७ * जालस्येति षष्ठी छेदनशेषत्वे वर्तते // PSBह्_५.३४:१२८ * अतश्छिन्नमेव भवति // PSBह्_५.३४:१२९ * कस्मात् // PSBह्_५.३४:१३० * दोषचित्तसंनिपातप्रभवत्वाद्धेतुजालयोः // PSBह्_५.३४:१३१ * आह किं प्रतिसम्बन्धि दोषहेतुजालसंश्लिष्टं भवति // PSBह्_५.३४:१३२ * तदा कथमभिलप्यते // PSBह्_५.३४:१३३ * तदुच्यते मूलम् // PSBह्_५.३४:१३४ * अत्र मूलमित्युक्ते कस्येति भवति // PSBह्_५.३४:१३५ * दोषचित्तसंनिपातप्रभवत्वाद्धेतुजालयोः प्रवृत्तेर् इत्यतो ऽवगम्यते संयोगमूलमेवात्र मूलमिति // PSBह्_५.३४:१३६ * आह केनायं छेत्ता मूलच्छेदं करोति // PSBह्_५.३४:१३७ * तदुच्यते // PSBह्_५.३४:१३८
SK
बुद्ध्या || PS_५.३५ ||
SK
* अन्तःकरणाख्या बुद्धिरित्युक्ता // PSBह्_५.३५:१
SK
* तया धर्मस्मृतिचोदनादिसहितया विद्यागृहीतया बुद्ध्या छेद्यं स्थाप्यं चेत्यर्थः // PSBह्_५.३५:२
SK
* आह किं दोषादिसहगतवधादिविश्लिष्टमपि तत् परतन्त्रमुच्यते // PSBह्_५.३५:३
SK
* न // PSBह्_५.३५:४
SK
* यस्मादाह मूलाख्यायां निवृत्तायाम् // PSBह्_५.३५:५
SK
संचित्तम् || PS_५.३६ ||
SK
* अत्र सम् इति दोषादिविश्लिष्टं स्वयमेव स्वगुणत्वेन परिगृह्यते अग्न्युष्णत्ववदित्य् आनुबन्धित्वाच् चेत्यर्थः // PSBह्_५.३६:१
SK
* आह किं तद् इति // PSBह्_५.३६:२
SK
* उच्यते चित्तम् // PSBह्_५.३६:३
SK
* अत्र चिती संज्ञाने चेतयति चिनोति वा अनेनेति चित्तम् // PSBह्_५.३६:४
SK
* चेतयति सुखं दुःखं पदार्थान् चिनोति धर्माधर्मौ अर्जयतीत्यतः चेतयति चिनोति वा अनेनेति चित्तम् // PSBह्_५.३६:५
SK
* चित्तं मनो ऽन्तःकरणमित्यर्थः // PSBह्_५.३६:६
SK
* अत्र त्व् एतेभ्यो दोषहेतुत्वादिभ्यो युगपच् छेत्तव्यं विद्यमानेभ्यस्तु क्रमशः क्षपणमिति // PSBह्_५.३६:७
SK
* आह छित्त्वा तच् चित्तं किं कर्तव्यम् // PSBह्_५.३६:८
SK
* उच्यते रुद्रस्थम् // PSBह्_५.३६:९
SK
* यस्मादाह // PSBह्_५.३६:१०
SK
स्थापयित्वा च रुद्रे || PS_५.३७ ||
SK
* अत्र ष्ठा गतिनिवृत्तौ // PSBह्_५.३७:१
SK
* चित्तस्य रुद्राद् अव्यवधानं स्थितिरित्युच्यते // PSBह्_५.३७:२
SK
* वा इति श्मशानाद्यवस्थस्य स्मृतिकर्मणो निष्ठा // PSBह्_५.३७:३
SK
* चशब्दः समुच्चये // PSBह्_५.३७:४
SK
* न केवलं छित्त्वा स्थेयं किंतु स्थापयितव्यं चेत्यर्थः // PSBह्_५.३७:५
SK
* रुद्रे इति कारणापदेशे // PSBह्_५.३७:६
SK
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् रुद्र इत्यौपश्लेषिकं संनिधानम् // PSBह्_५.३७:७
SK
* रुद्रे चित्तम् उपश्लेषयितव्यं नान्यत्रेत्य् अर्थः // PSBह्_५.३७:८
SK
* एवं विषयेभ्य इन्द्रियाणां जयः कर्तव्यः // PSBह्_५.३७:९
SK
* अत्र यो जेता आत्मा // PSBह्_५.३७:१०
SK
* यया जेतव्यानि बुद्ध्या // PSBह्_५.३७:११
SK
* यथा जेतव्यानि क्रमशश्च // PSBह्_५.३७:१२
SK
* यत्प्रयोजनं जेतव्यानि चित्तस्थित्यर्थम् // PSBह्_५.३७:१३
SK
* यस्मिंश्च जिते जितानि भवन्ति चित्तम् इत्येतदपि व्याख्यातम् // PSBह्_५.३७:१४
SK
* एवं जपयन्त्रणधारणात्मकच्छेदादिष्वपि योज्यम् // PSBह्_५.३७:१५
SK
* तथान्तःकरणवृत्तिम् आस्थाय कालविशेषनिमित्तरश्मिमणिदीपवत् तथात्मवृत्तिरध्ययनध्यानस्मरणादीनि चित्तस्थितिश्च व्याख्याता // PSBह्_५.३७:१६
SK
* श्लोको निर्वचनः // PSBह्_५.३७:१७
SK
* आह कार्यकरणं च तच् चित्तस्थितिसमकालम् एव रुद्रे स्थितानि तानि युक्तानि // PSBह्_५.३७:१८
SK
* अथ किं तान्येव युक्तस्य लक्षणानि इति // PSBह्_५.३७:१९
SK
* उच्यते न // PSBह्_५.३७:२०
SK
* यस्मादाह // PSBह्_५.३७:२१
SK
एकः क्षेमी सन् वीतशोकः || PS_५.३८ ||
SK
* अत्र धर्माधर्मयोर् वृत्त्योरुपरमे अवसितप्रयोजनत्वात् पक्वफलवत् सर्पकञ्चुकवद् गतप्रायेषु कार्यकरणेषु रुद्रे स्थितचित्तो निष्कल एक इत्यभिधीयते // PSBह्_५.३८:१
SK
* तथा योगव्यासङ्गकरे ऽधर्मे निवृत्ते दोषादिविश्लिष्टो निस्तीर्णकान्तारवद् अवस्थितो रुद्रे स्थितचित्तः क्षेमी इत्यभिधीयते // PSBह्_५.३८:२
SK
* तथा सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणासु क्रियासु विनिवृत्तासु रुद्रे स्थितचित्तो निष्क्रियः सन् इत्यभिधीयते // PSBह्_५.३८:३
SK
* आह अथ निष्क्रियोऽयमिति कथमवगम्यते // PSBह्_५.३८:४
SK
* किं चात्र युक्तस्य लक्षणत्रयमेव // PSBह्_५.३८:५
SK
* उच्यते न // PSBह्_५.३८:६
SK
* यस्मादाह वीतशोकः // PSBह्_५.३८:७
SK
* अत्र शोकश्चिन्तेत्यनर्थान्तरम् // PSBह्_५.३८:८
SK
* सा च चिन्ता द्विविधा भवति // PSBह्_५.३८:९
SK
* कुशला चाकुशला च // PSBह्_५.३८:१०
SK
* तत्र कुशला नाम अध्ययनध्यानस्मरणाद्या // PSBह्_५.३८:११
SK
* अकुशला नाम अनध्ययनाध्यानास्मरणाद्या // PSBह्_५.३८:१२
SK
* एवं जपयन्त्रणधारणादींश्च करिष्यामि न करिष्यामीत्येवम् अनेकविधायामपि चिन्तायां विनिवृत्तायां व्यपगतशोको वीतशोक इत्यभिधीयते // PSBह्_५.३८:१३
SK
* एवमत्र योगपदार्थः समाप्तः // PSBह्_५.३८:१४
SK
* कस्मात् // PSBह्_५.३८:१५
SK
* अर्थानां निर्वचनत्वात् // PSBह्_५.३८:१६
SK
* यस्माद् अस्याध्यायस्यादाव् उद्दिष्टा ये पदार्थास्ते दोषच्छेदासङ्गस्थित्यादिषु व्याख्याताः // PSBह्_५.३८:१७
SK
* एवमनेन युक्तेन ब्रह्मादयो देवा विशेषिता भवन्ति // PSBह्_५.३८:१८
SK
* तदसङ्गादिवचनात् // PSBह्_५.३८:१९
SK
* आह अथ सांख्ययोगमुक्ताः किं न विशेषिताः // PSBह्_५.३८:२०
SK
* उच्यते विशेषिताः // PSBह्_५.३८:२१
SK
* कथम् // PSBह्_५.३८:२२
SK
* तज्ज्ञानातिशयात् // PSBह्_५.३८:२३
SK
* कथम् // PSBह्_५.३८:२४
SK
* सांख्ययोगमुक्ताः कैवल्यगताः स्वात्मपरात्मज्ञानरहिताः संमूर्छितवत् स्थिताः // PSBह्_५.३८:२५
SK
* अस्य तु ज्ञानमस्ति // PSBह्_५.३८:२६
SK
* यस्मादाह // PSBह्_५.३८:२७
SK
अप्रमादी गच्छेद् दुःखानामन्तम् ईशप्रसादात् || PS_५.३९ ||
SK
* इति // PSBह्_५.३९:१
SK
* एवं कुर्वन् सर्वज्ञो ऽस्यासंमोहं ज्ञापयति // PSBह्_५.३९:२
SK
* उक्तम् / कार्यकरणाञ्जनेभ्यो निरञ्जनेभ्यश्च सर्वपुरुषेभ्यः / अप्राप्तान्तं पुरुषं यो ऽभ्यधिकं वर्णयेत् स बुधः // PSBह्_५.३९:३ * आह गतं यद् गन्तव्यम् // PSBह्_५.३९:४ * अथ किमयमुपचारः // PSBह्_५.३९:५ * उच्यते न // PSBह्_५.३९:६ * अपरिज्ञानान् नास्माकं योगनिष्ठं तन्त्रम् // PSBह्_५.३९:७ * अपितु तत्कैवल्यव्यतिरिक्तोऽपि सर्वज्ञेनोच्यते // PSBह्_५.३९:८ * अप्रमादाद् गच्छेद् दुःखानाम् अन्तमीशप्रसादात् // PSBह्_५.३९:९ * अत्र प्रमादशब्दो ऽनागतानवधानगतत्वं पारतन्त्र्यं च ख्यापयतीत्यर्थः // PSBह्_५.३९:१० * तदङ्कुरपरिरक्षणवद् अनागतकालप्रतीकारकरणेन चैवायम् अप्रमादीशब्दो द्रष्टव्यः // PSBह्_५.३९:११ * तस्माद् युक्तेनैवाप्रमादिना स्थेयम् // PSBह्_५.३९:१२ * तथा वर्तमानेन माहेश्वरमैश्वर्यं प्राप्तमेवेत्युक्तम् // PSBह्_५.३९:१३ * गच्छेद् इति गतिः प्राप्तिर्भवति // PSBह्_५.३९:१४ * गमॢ सृपॢ गतौ // PSBह्_५.३९:१५ * प्राप्नोतीत्यात्मेति पत्त्रपाण्डुताफलपाकवत् // PSBह्_५.३९:१६ * कथम् // PSBह्_५.३९:१७ * तस्मिन्नेव प्रवर्ततो यो ऽयं दुःखापोहो गुणस्तत्रेयं गतिरिति संज्ञा क्रियत इत्यर्थः // PSBह्_५.३९:१८ * दुःखानाम् इत्यत्र प्रसिद्धानि दुःखान्याध्यात्मिकाधिभौतिकाधिदैविकानि // PSBह्_५.३९:१९ * तत्राध्यात्मिकं द्विविधं दुःखं शारीरं मानसं च // PSBह्_५.३९:२० * तत्र मनसि भवं मानसं क्रोधलोभमोहभयविषादेर्ष्यासूयाद्वेषमदमानमात्सर्यारत्याद्यविशेषदर्शनादिनिमित्तं तद् दुःखम् // PSBह्_५.३९:२१ * तथा शारीरमपि शिरोरोगदन्तरोगाक्षिरोगज्वरप्रतिमत्स्यातिसारकासश्वासोदरामयादिनिमित्तोत्पन्नं दुःखम् // PSBह्_५.३९:२२ * तथान्यदपि पञ्चविधं दुःखं भवति // PSBह्_५.३९:२३ * तद्यथा गर्भजन्माज्ञानजरामरणम् इति // PSBह्_५.३९:२४ * तत्र गर्भे तावद् यदायं पुरुषो मातुरुदरे न्यस्तगात्रः खण्डशकटस्थ इव पुमान् नियमश्रमम् अनुभवमानो ऽवकाशरहितः आकुञ्चनप्रसारणादिष्व् अपर्याप्तावकाशः सर्वक्रियासु निरुद्ध इत्येवम् अद्वारके अन्धतमसि मूढो बन्धनस्थ इव पुमान् अवश्यं समनुभवति // PSBह्_५.३९:२५ * कस्मात् // PSBह्_५.३९:२६ * चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च न तु कार्यकरणानि // PSBह्_५.३९:२७ * कस्मात् // PSBह्_५.३९:२८ * अचेतनावादभोक्तृत्वाद् अतन्मयत्वाच् च // PSBह्_५.३९:२९ * तथा जन्मदुःखमपि // PSBह्_५.३९:३० * यदायं पुरुषो जायमानः पुरीषपङ्कमग्नवदनो मूत्रधाराभिर् अभिषिच्यमानो देहे संवृतद्वारके योनिनिःसरणसंकटे ऽत्यर्थं पीड्यमानो ऽस्थिमर्मबन्धनैः प्रघृष्यमाणो विक्रोशन् निनदंश् च जायते // PSBह्_५.३९:३१ * पश्चात् पुनस्तस्यानुचितेन बाह्येन वायुना जननावर्तेन स्पृष्टस्य तीव्रं दुःखमभिव्यज्यते // PSBह्_५.३९:३२ * राजपुष्टकादिवत् // PSBह्_५.३९:३३ * तेन चास्य जात्यन्तरादिस्मृतिहेतुसंस्कारलोपो भवति // PSBह्_५.३९:३४ * एव जन्मदुःखं पुरुष एवानुभवति // PSBह्_५.३९:३५ * कस्मात् // PSBह्_५.३९:३६ * चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च // PSBह्_५.३९:३७ * न तु कार्यकरणानि // PSBह्_५.३९:३८ * कस्मात् // PSBह्_५.३९:३९ * अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च // PSBह्_५.३९:४० * तथा अज्ञानदुःखमपि अहंकारसत्कृतगात्रो न जानन् को ऽहं कुतोऽहं कस्याहं केन वा बन्धनेन बद्धोऽहमिति किं कारणं किमकारणं किं भक्ष्यं किमभक्ष्यं किं पेयं किमपेयं किं सत्यं किमसत्यं किम् ज्ञानं किमज्ञानम् इत्यज्ञानदुःखं पुरुष एवानुभवति // PSBह्_५.३९:४१ * कस्मात् // PSBह्_५.३९:४२ * चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च // PSBह्_५.३९:४३ * न तु कार्यकरणानि // PSBह्_५.३९:४४ * कस्मात् // PSBह्_५.३९:४५ * अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च // PSBह्_५.३९:४६ * तथा जरादुःखमपि // PSBह्_५.३९:४७ * यदायं पुरुषो जराजर्जरितः कृशशरीरः शिथिलीकृतनयनकपोलनासिकाभ्रूदशनावरणः क्रौञ्चजानुरिव निर्विण्णो ऽक्षिदूषिकादिष्वपकर्षणादिष्व् असमर्थो विहंग इव लूनपक्षो लङ्घनप्लवनधावनादिष्व् असमर्थः पूर्वातीतानि भोगव्यायामशिल्पकर्माण्य् अनुस्मरमाणः स्मृतिवैकल्यम् आपन्नो ऽवश्यं क्लेशमनुभवति // PSBह्_५.३९:४८ * कस्मात् // PSBह्_५.३९:४९ * चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च // PSBह्_५.३९:५० * न तु कार्यकरणाणि // PSBह्_५.३९:५१ * कस्मात् // PSBह्_५.३९:५२ * अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च // PSBह्_५.३९:५३ * तथा मृत्युदुःखमपि // PSBह्_५.३९:५४ * यदायं पुरुषो मरणसमये श्लथकरणः शिरोधरम् अवलम्बमानः श्वासनोच्छ्वसनतत्परः खुरुखुरायमाणकण्ठः स्वोपार्जितमणिकनकधनधान्यपत्नीपुत्रपशुसंघातः कस्य भविष्यतीत्य् अनुतप्यमानः विषयाननु दोदूयमानः सलिलादि याचमानो विरक्तवदनो मर्मभिश् छिद्यमानैर् अवश्यं क्लेशमनुभवति // PSBह्_५.३९:५५ * कस्मात् // PSBह्_५.३९:५६ * चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च // PSBह्_५.३९:५७ * न तु कार्यकरणानि // PSBह्_५.३९:५८ * कस्मात् // PSBह्_५.३९:५९ * अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च // PSBह्_५.३९:६० * उक्तं हि / गर्भे प्रविशन् दुःखं निवसन् दुःखं विनिष्क्रमन् दुःखम् / जातश्च दुःखम् ऋच्छति तस्मादपुनर्भवः श्रेयान् // PSBह्_५.३९:६१ * इति // PSBह्_५.३९:६२ * तथान्यदपि पञ्चविधं दुःखं भवति // PSBह्_५.३९:६३ * तद्यथा इहलोकभयं परलोकभयम् अहितसंप्रयोगः हितविप्रयोगः इच्छाव्याघातश्चेति // PSBह्_५.३९:६४ * तथान्यदपि त्रिविधं दुःखं भवति // PSBह्_५.३९:६५ * आध्यात्मिकमज्ञानं पुरुषे आधिभौतिकं विषयित्वम् आधिदैविकं च पशुत्वं त्रिविधम् अपरं प्राहुः // PSBह्_५.३९:६६ * इत्येवमादीनि बाधनाया अप्रीतिफलाया जन्मनिमित्तत्वाद् दुःखानीत्युपचर्यन्ते // PSBह्_५.३९:६७ * आह चरणाधिकारे ऽनतिप्रसादाद् अशिवत्वसंज्ञके सर्वाण्य् अनतिप्रसादबीजत्वात् कुतो नात्यन्तनिवृत्तानि भवन्ति // PSBह्_५.३९:६८ * कस्मात् // PSBह्_५.३९:६९ * संहारं प्राप्तस्य निगडमुक्ताधिकारवन् मुक्ताव् अतिशयितगुणप्राप्त्यर्थम् उच्यते गच्छेद् दुःखानामन्तम् // PSBह्_५.३९:७० * दुःखानाम् अत्यन्तं परमापोहो गुणावाप्तिश्च परं भवतीति // PSBह्_५.३९:७१ * तदुभयमपि इत एव भवतीति // PSBह्_५.३९:७२ * तदाह ईशप्रसादात् // PSBह्_५.३९:७३ * अत्रेश इत्येतद् भगवतो नामधेयम् // PSBह्_५.३९:७४ * ईशः कस्मात् // PSBह्_५.३९:७५ * विद्यादिकार्यस्येशनादीशः // PSBह्_५.३९:७६ * प्रसादो नाम सम्प्रदानेच्छा // PSBह्_५.३९:७७ * तस्मात् प्रसादात् सर्वदुःखापोहो गुणावाप्तिश् चदिम् उपाध्यन्तरात् परपरिवादादिवचनात् शुद्धिरिव युगपदित्यर्थः // PSBह्_५.३९:७८ * एवम् अयम् अथशब्दः // PSBह्_५.३९:७९ * पशुपतेर् इत्युद्दिष्टयोर् दुःखान्तप्रसादयोर् गच्छेद् दुःखानाम् अन्तमीशप्रसादादिति दुःखान्तं परिसमाप्तमिति // PSBह्_५.३९:८० * एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् // PSBह्_५.३९:८१
SK
अत्रेदं ब्रह्म जपेत् || PS_५.४० ||
SK
* इति // PSBह्_५.४०:१
SK
* अस्य पूर्वोक्तोऽर्थः // PSBह्_५.४०:२
SK
* विधिनैव पूर्वोक्तेन विधिना जप्तव्यम् // PSBह्_५.४०:३
SK
* न तु दुःखान्तगतेन गणपतिवदित्यर्थः // PSBह्_५.४०:४
SK
* आह कामित्वात् कृपया भगवता दुःखान्तो दत्तः स्वेच्छयैव न पुनरदुःखान्तं करिष्यति // PSBह्_५.४०:५
SK
* अथाशक्तस् तथाप्यस्य शक्तिव्याघातः पाचकवद् अकर्मापेक्षत्वं चोच्यते // PSBह्_५.४०:६
SK
* अत्र यथा नित्यो दुःखान्तस्तथा वक्ष्यामः // PSBह्_५.४०:७
SK
* यथा च काङ्क्षतो लिप्सतश् च साधकाधिकारनिवृत्तिस्तथा वक्ष्यामः // PSBह्_५.४०:८
SK
* पदार्थनिगमनार्थे चोच्यते // PSBह्_५.४०:९
SK
ईशानः सर्वविद्यानाम् || PS_५.४१ ||
SK
* अत्र ईशनाद् ईशानः // PSBह्_५.४१:१
SK
* अत्रेशनाद् ईशान इत्युक्तं कारणम् // PSBह्_५.४१:२
SK
* ईशानः प्रभुः धातेत्यर्थः // PSBह्_५.४१:३
SK
* आह कस्यायमीशानः // PSBह्_५.४१:४
SK
* तदुच्यते सर्वस्येशानः / सर्वशब्दो विद्याप्रकृतेर् निरवशेषवाची द्रष्टव्यः // PSBह्_५.४१:५ * विद्यानां धर्मार्थकामकैवल्यतत्साधनपराणाम् ईशानः विद्यानामिति षष्ठीबहुवचनम् // PSBह्_५.४१:६ * आह किं विद्यानामेवेशानः न तु विद्याभिर्ये विदन्ति // PSBह्_५.४१:७ * उच्यते // PSBह्_५.४१:८
SK
ईश्वरः सर्वभूतानाम् || PS_५.४२ ||
SK
* अत्र निरतिशय ऐश्वर्येण ईश्वरः // PSBह्_५.४२:१
SK
* पुरुषः चैतन्यवद् इत्यर्थः // PSBह्_५.४२:२
SK
* आह कस्यायमीश्वरः // PSBह्_५.४२:३
SK
* तदुच्यते सर्वभूतानाम् / अत्र चेतनाचेतनेषु सर्वशब्दः न केवलं पृथिव्यादिषु किंतु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतप्रकृतेर्निरवशेषवाची सर्वशब्दो द्रष्टव्यः // PSBह्_५.४२:४ * कस्माद् भूतानि // PSBह्_५.४२:५ * भावनत्वाद् भूतानीत्युक्तम् भूतानामिति षष्ठीबहुवचनम् // PSBह्_५.४२:६ * आह अत्र केचिद् विद्याभूतव्यतिरिक्तं ब्रह्माणमिच्छन्ति // PSBह्_५.४२:७ * तस्यायं किं प्रभुर्भवति नेति // PSBह्_५.४२:८ * उच्यते प्रभुः // PSBह्_५.४२:९ * यस्मादाह // PSBह्_५.४२:१०
SK
ब्रह्मणोऽधिपतिर्ब्रह्मा || PS_५.४३ ||
SK
* अत्र यो ऽयं विरिञ्चिः परमः पतिः सर्वचेतनव्यतिरिक्तः क्षेत्रज्ञः तस्मिन् ब्रह्मसंज्ञा // PSBह्_५.४३:१
SK
* न तु प्रधानादिषु // PSBह्_५.४३:२
SK
* कस्मात् // PSBह्_५.४३:३
SK
* अधिपतिवचनविरोधात् // PSBह्_५.४३:४
SK
* ब्रह्म च कस्मात् // PSBह्_५.४३:५
SK
* बृंहणत्वाद् बृहत्त्वाद् ब्रह्मा // PSBह्_५.४३:६
SK
* बृंहयते यस्माद् विद्याकलाभूतानि बृहच् च तेभ्य इत्यतो ऽधिपतिर्ब्रह्मा // PSBह्_५.४३:७
SK
* ब्रह्मण इति षष्ठी // PSBह्_५.४३:८
SK
* अधिर् अधिष्ठातृत्वे // PSBह्_५.४३:९
SK
* तत्स्वाभाव्यात् संहृते चासंहृते च कार्य इत्यर्थः // PSBह्_५.४३:१०
SK
* पत्युः पतिः अधिपतिः // PSBह्_५.४३:११
SK
* राजराजवत् // PSBह्_५.४३:१२
SK
* पतिः पालने पतिर्दर्शने भोगे च // PSBह्_५.४३:१३
SK
* पालयते यस्माद् ब्रह्मादीन् ईश्वरः // PSBह्_५.४३:१४
SK
* पाति ब्रह्मादिकार्यम् / अधिपतिः ब्रह्मा // PSBह्_५.४३:१५ * अधिपतिरीश्वरः // PSBह्_५.४३:१६ * एवं बृंहयते यस्माद् विद्यादिकार्यं बृहच् च तेभ्य इत्यतो ऽधिपतिर्ब्रह्मा भगवानिति // PSBह्_५.४३:१७ * आह अत्र कार्यकरणमहाभाग्यम् एवात्र ब्रह्मणि चिन्त्यते न तु साधकस्य लिप्सा लाभो वेति // PSBह्_५.४३:१८ * उच्यते न // PSBह्_५.४३:१९ * यस्मादाह // PSBह्_५.४३:२०
SK
शिवो मे अस्तु || PS_५.४४ ||
SK
* अत्र येषां साधिकारत्वाद् अनतिप्रसन्नस् तेषामशिवत्वं दृष्ट्वा दुःखान्तं गतेषु च शिवत्वं दृष्ट्वा आह शिवो मे अस्तु इति // PSBह्_५.४४:१
SK
* मे इत्यात्मापदेशे ममेत्यर्थः // PSBह्_५.४४:२
SK
* अस्त्विति काङ्क्षायाम् // PSBह्_५.४४:३
SK
* काङ्क्षति लिप्सति मृगयतीत्यर्थः // PSBह्_५.४४:४
SK
* आह कियन्तं कालं भगवानस्य शिवो भवति // PSBह्_५.४४:५
SK
* तदुच्यते नित्यम् // PSBह्_५.४४:६
SK
* यस्मादाह // PSBह्_५.४४:७
SK
सदा || PS_५.४५ ||
SK
* अत्र सदा नित्यं संततम् अव्युच्छिन्नमित्यर्थः // PSBह्_५.४५:१
SK
* आह कमेवमाह // PSBह्_५.४५:२
SK
* को वास्य शिवो भवतीति // PSBह्_५.४५:३
SK
* उच्यते // PSBह्_५.४५:४
SK
शिवः || PS_५.४६ ||
SK
* अत्र शिव इत्येतदपि भगवतो नाम // PSBह्_५.४६:१
SK
* शिवः कस्मात् // PSBह्_५.४६:२
SK
* परिपूर्णपरितृप्तत्वाच्छिवः // PSBह्_५.४६:३
SK
* तस्मात् सदाशिवोपदेशान् नित्यो दुःखान्तः // PSBह्_५.४६:४
SK
* कारणाधिकारनिवृत्तिः // PSBह्_५.४६:५
SK
* तदर्थं नित्यो दुःखान्त इति सिद्धम् // PSBह्_५.४६:६
SK
* एवमेते पञ्च पदार्थाः कार्यकारणयोगविधिदुःखान्ताः समासविस्तरविभागविशेषोपसंहारनिगमनतश् च व्याख्याताः // PSBह्_५.४६:७
SK
* उक्तं हि // PSBह्_५.४६:८
SK
* आदौ यद् भवति समासोक्तं मध्ये तस्य विस्तरतश् च विभागतश् चोपनयनिगमनेन सतामप्येष निश्चयः // PSBह्_५.४६:९
SK
* इति // PSBह्_५.४६:१०
SK
* अत्र तावत् पतिरिति कारणपदार्थस्योपदेशः समासेन // PSBह्_५.४६:११
SK
* विस्तरस्तु वामो देवो ज्येष्ठो रुद्रः कामः शंकरः कालः कलविकरणो बलविकरणोऽघोरो घोरतरः सर्वः शर्व तत्पुरुषो महादेव ॐकार ऋषिर् विप्रो महानीश ईशान ईश्वरो ऽधिपतिर्ब्रह्मा शिव इत्येवमाद्यो विस्तरः // PSBह्_५.४६:१२
SK
* विभागोऽपि अन्यत् पतित्वम् अन्यद् अजातत्वम् अन्यद् भवोद्भवत्वमित्याद्यो विभागः // PSBह्_५.४६:१३
SK
* विशेषः अन्येषां प्रधानादीनि अस्माकं तद्व्यतिरिक्तो भगवानीश्वरः // PSBह्_५.४६:१४
SK
* कारणाधिकारे यस्मादाह ईश्वरः सर्वभूतानामिति // PSBह्_५.४६:१५
SK
* एष उपसंहारः सार्वकामिक इत्याचक्षते // PSBह्_५.४६:१६
SK
* निगमनम् ईश ईशान ईश्वरोऽधिपतिर्ब्रह्मा शिव इति // PSBह्_५.४६:१७
SK
* तथा पशुरिति कार्यपदार्थस्योद्देशः // PSBह्_५.४६:१८
SK
* तस्य विस्तरो विद्या कला पशवः // PSBह्_५.४६:१९
SK
* उत्पाद्या अनुग्राह्यास् तिरोभाव्यकाल्प्यविकार्यम् अस्पदस्य बोध्यधिष्ठेयत्वे चेत्येवम् आद्यः सूत्रविद्याधर्मार्थकामैर् भेदैर् दुःखान्तः विद्या // PSBह्_५.४६:२०
SK
* कला द्विविधाः // PSBह्_५.४६:२१
SK
* कार्याख्याः करणाख्याश् च // PSBह्_५.४६:२२
SK
* तत्र कार्याख्याः पृथिव्याद्याः // PSBह्_५.४६:२३
SK
* करणाख्या बुद्ध्याद्याः // PSBह्_५.४६:२४
SK
* पशवश् च त्रिविधाः // PSBह्_५.४६:२५
SK
* देवा मनुष्यास् तिर्यञ्चः // PSBह्_५.४६:२६
SK
* तत्र देवा अष्टविधा ब्रह्माद्याः // PSBह्_५.४६:२७
SK
* मानुष्यं चानेकविधं ब्राह्मणाद्यम् // PSBह्_५.४६:२८
SK
* तिर्यग्योनि च पञ्चविधं पशुमृगाद्यम् // PSBह्_५.४६:२९
SK
* पशवः साञ्जना निरञ्जनाश् च // PSBह्_५.४६:३०
SK
* एवमाद्यो विस्तरः // PSBह्_५.४६:३१
SK
* विभागोऽपि अन्या विद्या अन्याः कलाः अन्ये च पशव इत्येवमाद्यो विभागः // PSBह्_५.४६:३२
SK
* विशेषः अन्येषां प्रधानादीनि कारणानि तानीह शास्त्रे कार्यत्वेन व्याख्यातानि // PSBह्_५.४६:३३
SK
* तत्र प्रधानं कारणम् अन्येषां तदिह शास्त्रे पश्यनात् पाशकत्वात् कार्यत्वेन व्याख्यातम् // PSBह्_५.४६:३४
SK
* तथा पुरुषः कारणमन्यत्र इह शास्त्रे पशुत्वात् कार्यत्वेन व्याख्यातः // PSBह्_५.४६:३५
SK
* तथा कर्ममध्यत्वात् कालः स्वभावः उपसंहारवत् // PSBह्_५.४६:३६
SK
* भूतानि विकार्यत्वात् कार्यत्वेन व्याख्यातानि // PSBह्_५.४६:३७
SK
* इत्येष विशेषः // PSBह्_५.४६:३८
SK
* उपसंहारः सार्वकामिक इत्यर्थः // PSBह्_५.४६:३९
SK
* निगमनं विद्याकलाभूतानि ब्रह्मेति // PSBह्_५.४६:४०
SK
* तथा योगमिति योगपदार्थस्योद्देशः // PSBह्_५.४६:४१
SK
* तस्यैवं चरतः योगः प्रवर्तते उभयथा यष्टव्यः अत्यागतिं गमयते नान्यभक्तिस्तु शंकरे एवं देवनित्यतानित्ययुक्तता अध्ययनं ध्यानं स्मरणं नित्यसायुज्यमिति विस्तरः विभागः क्रियालक्षणं क्रियोपरमलक्षणं दूरदर्शनश्रवणमननविज्ञानानि गणपतिः भूयिष्ठं सम्प्रवर्तते सिद्धः गच्छेद् दुःखानामन्तम् इत्येवमाद्यो विभागः // PSBह्_५.४६:४२
SK
* ज्ञानशक्तिः क्रियाशक्तिश्च // PSBह्_५.४६:४३
SK
* तत्र ज्ञानशक्तिः श्रवणाद्या // PSBह्_५.४६:४४
SK
* क्रियाशक्तिः मनोजवित्वाद्या // PSBह्_५.४६:४५
SK
* इत्येवमाद्यो विभागः // PSBह्_५.४६:४६
SK
* विशेषः अन्येषां कैवल्यम् इह तु विशेषो विकरणमिति // PSBह्_५.४६:४७
SK
* प्रतिकरण इति कैवल्यधर्मातिशक्तिर् निष्कलम् ऐश्वर्यमित्येष विशेषः // PSBह्_५.४६:४८
SK
* उपसंहारः इत्य् एभिर् गुणैर्युक्त इति // PSBह्_५.४६:४९
SK
* अतो यावन्ति वाक्यविशेषाणि संनिकृष्टविप्रकृष्टानि निर्वचनानि तानि च सर्वनिर्वचनानीति कृत्वा युक्तमुक्तम् // PSBह्_५.४६:५०
SK
* एवमत्र श्रीभगवत्कौण्डिन्यविरचिते श्रीमद्योगपाशुपतशास्त्रसूत्रव्याख्याने पञ्चार्थभाष्ये पञ्चमोऽध्यायः सह ब्रह्मणा ग्रन्थतो ऽर्थतश्च परिसमाप्त इति // PSBह्_५.४६:५१
SK
* शुभम् // PSBह्_५.४६:५२

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Pañcārthabhāṣya: GRETIL corpustei HTML transform of Kauṇḍinya's Pañcārthabhāṣya (Pāśupatasūtra commentary).

Source