Smaller Pure Land Sutra

Smaller Sukhāvatīvyūha · Sमल्लेर् Sउखावतीव्यूह

Smaller Pure Land Sutra

Smaller Sukhāvatīvyūha

Sमल्लेर् Sउखावतीव्यूह

SK
// नमः सर्वज्ञाय //
SK
एवं मया श्रुतं / एकस्मिन् समये भगवाञ् श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिंडदस्यारामे महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैर् अभिज्ञानाभिज्ञातैः स्थविरैर् महाश्रावकैः सर्वैर् अर्हद्भिः / तद्यथा स्थविरेण च शारिपुत्रेण महामौद्गल्यायनेन च महाकाश्यपेन च महाकप्फिणेन च महाकात्यायनेन च महाकौष्ठिलेन च रेवतेन च शुद्धिपंथकेन च नंदेन चानंदेन च राहुलेन च गवांपतिना च भरद्वाजेन च कालोदयिना च वक्कुलेन चानिरुद्धेन च / एतैश् चान्यैश् च संबहुलैर् महाश्रावकैः संबहुलैश् च बोधिसत्त्वैर् महासत्त्वैः / तद्यथा मंजुश्रिया च कुमारभूतेनाजितेन च बोधिसत्त्वेन गंधहस्तिना च बोधिसत्त्वेन नित्योद्युक्तेन च बोधिसत्त्वेनानिक्षिप्तधुरेण च बोधिसत्त्वेन / एतैश् चान्यैश् च संबहुलैर् बोधिसत्त्वैर् महासत्त्वैः / शक्रेण च देवानाम् इंद्रेण ब्रह्मणा च सहांपतिना / एतैश् चान्यैश् च संबहुलैर् देवपुत्रनयुतशतसहस्रैः
SK
P--O.९३:J.१९६ तत्र खलु भगवान् आयुष्मंतं शारिपुत्रम् आमंत्रयति स्म / अस्ति शारिपुत्र पश्चिमे दिग्भाग इतो बुद्धक्षेत्रं कोटिशतसहस्रं बुद्धक्षेत्राणाम् अतिक्रम्य सुखावती नाम लोकधातुः / तत्रामितायुर्नाम तथागतो ऽर्हन् सम्यक्संबुद्ध एतर्हि तिष्ठति ध्रियते यापयति धर्मं च देशयति / तत् किं मन्यसे शारिपुत्र केन कारणेन सा लोकधातुः सुखावतीत्य् उच्यते / तत्र खलु पुनः शारिपुत्र सुखावत्यां लोकधातौ नास्ति सत्त्वानां कायदुःखं न चित्तदुःखं अप्रमाणान्य् एव सुखकारणानि / तेन कारणेन सा लोकधातुः सुखावतीत्य् उच्यते
SK
पुनर् अपरं शारिपुत्र सुखावती लोकधातुः सप्तभिर् वेदिकाभिः सप्तभिस् तालपंक्तिभिः किंकिणीजालैश् च समलंकृता समंततो ऽनुपरिक्षिप्ता चित्रा दर्शनीया चतुर्णां रत्नानां / तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य / एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रं
SK
पुनर् अपरं शारिपुत्र सुखावत्यां लोकधातौ सप्तरत्नमय्यः पुष्करिण्यः / तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहित- मुक्तस्याश्मगर्भस्य मुसारगल्वस्य सप्तमस्य रत्नस्य / अष्टांगोपेतवारि- परिपूर्णाः समतीर्थकाः काकपेया(१) सुवर्णवालुकासंस्तृताः / तासु च पुष्करिणीषु समंताच् चतुर्दिशं चत्वारि सोपानानि चित्राणि दर्शनीयानि चतुर्णां रत्नानां / तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य / तासां च पुष्करिणीनां समंताद् रत्नवृक्षा जाताश् चित्रा दर्शनीया सप्तानां रत्नानां / तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तस्याश्मगर्भस्य मुसारगल्वस्य सप्तमस्य P--O.९४:J.१९८ रत्नस्य / तासु च पुष्करिणीषु संति पद्मानि जातानि नीलानि नीलवर्णानि नीलनिर्भासानि नीलनिदर्शनानि / पीतानि पीतवर्णानि पीतनिर्भासानि पीतनिदर्शनानि / लोहितानि लोहितवर्णानि लोहितनिर्भासानि लोहितनिदर्शनानि / अवदातान्य् अवदातवर्णान्य् अवदातनिर्भासान्य् अवदातनिदर्शनानि / चित्रानि चित्रवर्णानि चित्रनिर्भासानि चित्रनिदर्शनानि शकटचक्र- प्रमाणपरिणाहानि / एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रं
SK
पुनर् अपरं शारिपुत्र तत्र बुद्धक्षेत्रे नित्यप्रवादितानि दिव्यानि तूर्याणि सुवर्णवर्णा च महापृथिवी रमणीया / तत्र च बुद्धक्षेत्रे त्रिष्कृत्वो रात्रौ त्रिष्कृत्वो दिवसस्य पुष्पवर्षं प्रवर्षति दिव्यानां मांदारवपुष्पाणां / तत्र ये सत्त्वा उपपन्नास् त एकेन पुरोभक्तेन कोटिशतसहस्रं बुद्धानां वंदंत्य् अन्यांल् लोकधातून् गत्वा / एकैकं च तथागतं कोटिशतसहस्राभिः पुष्पवृष्टिभिर् अभ्यवकीर्य पुनर् अपि ताम् एव लोकधातुम् आगच्छंति दिवाविहाराय / एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रं
SK
पुनर् अपरं शारिपुत्र तत्र बुद्धक्षेत्रे संति हंसाः क्रैंचा मयूराश् च / ते त्रिष्कृत्वो रात्रौ त्रिष्कृत्वो दिवसस्य संनिपत्य संगीतिं कुर्वंति स्म स्वकस्वकानि च रुतानि प्रव्याहरंति / तेषां प्रव्याहरताम् इंद्रियबलबोध्यंगशब्दो निश्चरति / तत्र तेषां मनुष्याणां तं शब्दं श्रुत्वा बुद्धमनसिकार उत्पद्यते धर्ममनसिकार उत्पद्यते संघमनसिकार उत्पद्यते // तत् किं मन्यसे शारिपुत्र तिर्यग्योनिगतास् ते P--O.९५:J.२०० सत्त्वाः / न पुनर् एवं द्रष्टव्यं / तत् कस्माद् धेतोः / नामापि शारिपुत्र तत्र बुद्धक्षेत्रे निरयाणां नास्ति तिर्यग्योनीनां यमलोकस्य नास्ति / ते पुनः पक्षिसंघास् तेनामितायुषा तथागतेन निर्मिता धर्मशब्दं निश्चारयंति / एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रं
SK
पुनर् अपरं शारिपुत्र तत्र बुद्धक्षेत्रे तासां च तालपंक्तीनां तेषां च किंकिणीजालानां वातेरितानां वल्गुर् मनोज्ञः शब्दो निश्चरति / तद्यथापि नाम शारिपुत्र कोटिशतसहस्रांगिकस्य दिव्यस्य तूर्यस्य चार्यैः(२) संप्रवादितस्य वल्गुर् मनोज्ञः शब्दो निश्चरति एवम् एव शारिपुत्र तासां च तालपंक्तीनां तेषां च किंकिणीजालानां वातेरितानां वल्गुर् मनोज्ञः शब्दो निश्चरति / तत्र तेषां मनुष्याणां तं शब्दं श्रुत्वा बुद्धानुस्मृतिः काये संतिष्ठति धर्मानुस्मृतिः काये संतिष्ठति संघानुस्मृतिः काये संतिष्ठति / एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रं
SK
तत् किं मन्यसे शारिपुत्र केन कारणेन स तथागतो ऽमितायुर् नामोच्यते / तस्य खलु पुनः शारिपुत्र तथागतस्य तेषां च मनुष्याणाम्(३) अपरिमितम् आयुःप्रमाणं / तेन कारणेन स तथागतो ऽमितायुर् नामोच्यते / तस्य च शारिपुत्र तथागतस्य दश कल्पा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य
SK
तत् किं मन्यसे शारिपुत्र केन कारणेन स तथागतो ऽमिताभो नामोच्यते / तस्य खलु पुनः शारिपुत्र तथागतस्याभाप्रतिहता सर्वबुद्धक्षेत्रेषु / तेन कारणेन स तथागतो ऽमिताभो नामोच्यते //
SK
P--O.९६:J.२०२ तस्य च शारिपुत्र तथागतस्याप्रमेयः श्रावकसंघो येषां न सुकरं प्रमाणम् आख्यातुं शुद्धानाम् अर्हतां / एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रं
SK
पुनर् अपरं शारिपुत्र ये ऽमितायुषस् तथागतस्य बुद्धक्षेत्रे सत्त्वा उपपन्नाः शुद्धा बोधिसत्त्वा अविनिवर्तनीया एकजातिप्रतिबद्धास् तेषां शारिपुत्र बोधिसत्त्वानां न सुकरं प्रमाणम् आख्यातुम् अन्यत्राप्रमेयासंख्येया इति संख्यां गच्छंति // तत्र खलु पुनः शारिपुत्र
SK
तद्यथापि नाम शारिपुत्र अहम् एतर्हि तां परिकीर्तयामि एवम् एव P--O.९७:J.२०४ शारिपुत्र पूर्वस्यां दिश्य् अक्षोभ्यो नाम तथागतो मेरुध्वजो नाम तथागतो महामेरुर् नाम तथागतो मेरुप्रभासो नाम तथागतो मंजुध्वजो नाम तथागत एवंप्रमुखाः शारिपुत्र पूर्वस्यां दिशि गंगानदीवालुकोपमा बुद्धा भगवंतः स्वकस्वकानि बुद्धक्षेत्राणि जिह्वेंद्रियेण संच्छादयित्वा निर्वेठनं कुर्वंति / प्रतीयथ यूयम् इदम् अचिंत्यगुण- परिकीर्तनं सर्वबुद्धपरिग्रहं नाम धर्मपर्यायं
SK
एवं दक्षिणस्यां दिशि चंद्रसूर्यप्रदीपो नाम तथागतो यशःप्रभो नाम तथागतो महार्चिस्कंधो नाम तथागतो मेरुप्रदीपो नाम तथागतो ऽनंतवीर्यो नाम तथागत एवंप्रमुखाः शारिपुत्र दक्षिणस्यां दिशि गंगानदीवालुकोपमा बुद्धा भगवंतः स्वकस्वकानि बुद्धक्षेत्राणि जिह्वेंद्रियेण संच्छादयित्वा निर्वेठनं कुर्वंति / प्रतीयथ यूयम् इदम् अचिंत्यगुणपरिकीर्तनं सर्वबुद्धपरिग्रहं नाम धर्मपर्यायं
SK
एवं पश्चिमायां दिश्य् अमितायुर् नाम तथागतो ऽमितस्कंधो नाम तथागतो ऽमितध्वजो नाम तथागतो महाप्रभो नाम तथागतो महारत्नकेतुर् नाम तथागतः शुद्धरश्मिप्रभो नाम तथागत एवंप्रमुखाः शारिपुत्र पश्चिमायां दिशि गंगानदीवालुकोपमा बुद्धा भगवंतः स्वकस्वकानि बुद्धक्षेत्राणि जिह्वेंद्रियेण संच्छादयित्वा निर्वेठनं कुर्वंति / प्रतीयथ यूयम् इदम् अचिंत्यगुणपरिकीर्तनं सर्वबुद्धपरिग्रहं नाम धर्मपर्यायं
SK
एवम् उत्तरायां दिशि महार्चिस्कंधो नाम तथागतो वैश्वानरनिर्घोषो नाम तथागतो दुंदुभिस्वरनिर्घोषो नाम तथागतो P--O.९८:J.२०६ दुष्प्रधर्षो नाम तथागत आदित्यसंभवो नाम तथागतो जलेनिप्रभो नाम तथागतः प्रभाकरो नाम तथागत एवंप्रमुखा(५) शारिपुत्रोत्तरायां दिशि गंगानदीवालुकोपमा बुद्धा भगवंतः स्वकस्वकानि बुद्धक्षेत्राणि जिह्वेंद्रियेण संच्छादयित्वा निर्वेठनं कुर्वंति / प्रतीयथ यूयम् इदम् अचिंत्यगुणपरिकीर्तनं सर्वबुद्धपरिग्रहं नाम धर्मपर्यायं
SK
एवम् अधस्तायां दिशि सिंहो नाम तथागतो यशो नाम तथागतो यशःप्रभासो नाम तथागतो धर्मो नम तथागतो धर्मधरो नाम तथागतो धर्मध्वजो नाम तथागत एवंप्रमुखाः शारिपुत्राधस्तायां दिशि गंगानदीवालुकोपमा बुद्धा भगवंतः स्वकस्वकानि बुद्धक्षेत्राणि जिह्वेंद्रियेण संच्छादयित्वा निर्वेठनं कुर्वंति / प्रतीयथ यूयम् इदम् अचिंत्यगुणपरिकीर्तनं सर्वबुद्धपरिग्रहं नाम धर्मपर्यायं
SK
एवम् उपरिष्ठायां दिशि ब्रह्मघोषो नाम तथागतो नक्षत्रराजो नाम तथागत इंद्रकेतुध्वजराजो नाम तथागतो गंधोत्तमो नम तथागतो गंधप्रभासो नाम तथागतो महार्चिस्कंधो नाम तथागतो रत्नकुसुमसंपुष्पितगात्रो नाम तथागतः सालेंद्रराजो नाम तथागतो रत्नोत्पलश्रीर् नाम तथागतः सर्वार्थदर्शो नाम तथागतः सुमेरुकल्पो नाम तथागत एवंप्रमुखाः शारिपुत्रोपरिष्ठायां दिशि गंगानदीवालुकोपमा बुद्धा भगवंतः स्वकस्वकानि बुद्धक्षेत्राणि जिह्वेंद्रियेण संच्छादयित्वा निर्वेठनं कुर्वंति / प्रतीयथ यूयम् इदम् अचिंत्यगुणपरिकीर्तनं सर्वबुद्धपरिग्रहं नाम धर्मपर्यायं
SK
P--O.९९:J.२०८ तत् किं मन्यसे शारिपुत्र केन कारणेनायं धर्मपर्यायः सर्वबुद्धपरिग्रहो नामोच्यते / ये केचिच् छारिपुत्र कुलपुत्रा वा कुलदुहितरो वास्य धर्मपर्यायस्य नामधेयं श्रोष्यंति तेषां च बुद्धानां भगवतां नामधेयं धारयिष्यंति सर्वे ते बुद्धपरिगृहीता भविष्यंत्य् अविनिवर्तनीयाश् च भविष्यंत्य् अनुत्तरायां सम्यक्संबोधौ(६) / तस्मात् तर्हि शारिपुत्र श्रद्दधाध्वं प्रतीयथ माकांक्षयथ मम च तेषां च बुद्धानां भगवतां / ये केचिच् छारिपुत्र कुलपुत्रा वा कुलदुहितरो वा तस्य भगवतो ऽमितायुषस् तथागतस्य बुद्धक्षेत्रे चित्तप्रणिधानं करिष्यंति कृतं वा कुर्वंति वा सर्वे ते ऽविनिवर्तनीया भविष्यंत्य् अनुत्तरायां सम्यक्संबोधौ(६) तत्र च बुद्धक्षेत्र उपपत्स्यंत्य् उपपन्ना वोपपद्यंति वा / तस्मात् तर्हि शारिपुत्र श्राद्धैः कुलपुत्रैः कुलदुहितृभिश् च तत्र बुद्धक्षेत्रे चित्तप्रणिधिर् उत्पादयितव्यः
SK
तद्यथापि नाम शारिपुत्राहम् एतर्हि तेषां बुद्धानां भगवताम् एवमचिंत्यगुणान् परिकीर्तयामि एवम् एव शारिपुत्र ममापि ते बुद्धा भगवंत एवमचिंत्यगुणान् परिकीर्तयंति / सुदुष्करं भगवता शाक्यमुनिना शाक्याधिराजेन कृतं / सहायां लोकधाताव् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वलोकविप्रत्ययनीयो धर्मो देशितः कल्पकषाये सत्त्वकषाये दृष्टिकषाय आयुष्कषाये क्लेशकषाये
SK
तन् ममापि शारिपुत्र परमदुष्करं यन् मया सहायां लोकधाताव् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वलोकविप्रत्ययनीयो धर्मो देशितः सत्त्वकषाये दृष्टिकषाये क्लेशकषाय आयुष्कषाये कल्पकषाये
SK
P--O.१००:J.२१० इदम् अवोचद् भगवान् आत्तमनाः /(७) आयुष्माञ् शारिपुत्रस् ते च भिक्षवस् ते च बोधिसत्त्वाः सदेवमानुषासुरगंधर्वश् च लोको भगवतो भासितम् अभ्यनंदन्
SK
// सुखावतीव्यूहो नाम महायानसूत्रं //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Smaller Sukhāvatīvyūha (sa_smaller-sukhAvatIvyUha.htm).

Source