The Crest-Jewel of Discrimination
Vivekacuḍāmaṇi
विवेकचूडामणिः
SKसर्व-वेदान्त-सिद्धान्त-गोचरं तमगोचरम् & गोविन्दं परमानन्दं सद्-गुरुं प्रणतो ऽस्म्य् अहम्
SKजन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् & आत्मानात्म-विवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः मुक्तिर् नो शत-जन्म-कोटि-सुकृतैः पुण्यैर् विना लभ्यते
SKदुर्लभं त्रयम् एवैतद्देवानुग्रहहेतुकम् & मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः
SKलब्ध्वा कथंचिन् नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् & यस्त्व् आत्म-मुक्तौ न यतेत मूढधीः स ह्य् आत्म-हा स्वं विनिहन्त्यसद्ग्रहात्
SKइतः को न्वस्ति मूढात्मा यस् तु स्वार्थे प्रमाद्यति & दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम्
SKवदन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवताः & आत्मैक्यबोधेन विनापि मुक्तिः न सिध्यति ब्रह्मशतान्तरे ऽपि
SKअमृतत्वस्य नाशास्ति वित्तेनेत्य् एव हि श्रुतिः & ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः
SKअतो विमुक्त्यै प्रयतेत् विद्वान् संन्यस्तबाह्यार्थसुखस्पृहः सन् & सन्तं महान्तं समुपेत्य देशिकं तेनोपदिष्टार्थसमाहितात्मा
SKउद्धरेदात्मनात्मानं मग्नं संसारवारिधौ & योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया
SKसंन्यस्य सर्वकर्माणि भवबन्धविमुक्तये & यत्यतां पण्डितैर् धीरैर् आत्माभ्यास उपस्थितैः
SKचित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये & वस्तुसिद्धिर्विचारेण न किंचित् कर्मकोटिभिः
SKसम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा & भ्रान्तोदितमहासर्पभयदुःखविनाशिनी
SKअर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः & न स्नानेन न दानेन प्राणायमशतेन वा
SKअधिकारिणमाशास्ते फलसिद्धिर्विशेषतः & उपाया देशकालाद्याः सन्त्यस्मिन्सहकारिणः
SKअतो विचारः कर्तव्यो जिज्ञासोर् आत्मवस्तुनः & समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम्
SKमेधावी पुरुषो विद्वानुहापोहविचक्षणः & अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः
SKविवेकिनो विरक्तस्य शमादिगुणशालिनः & मुमुक्षोर् एव हि ब्रह्मजिज्ञासायोग्यता मता
SKसाधनान्यत्र चत्वारि कथितानि मनीषिभिः & येषु सत्स्व् एव सन्निष्ठा यदभावे न सिध्यति
SKआदौ नित्यानित्यवस्तुविवेकः परिगम्यते & इहामुत्रफलभोगविरागस्तदनन्तरम् \ शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम्
SKब्रह्म सत्यं जगन्मिथ्येत्य् एवंरूपो विनिश्चयः & सो ऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः
SKतद्वैराग्यं जिहासा या दर्शनश्रवणादिभिः & देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि
SKविरज्य विषयव्राताद्दोषदृष्ट्या मुहुर्मुहुः & स्वलक्ष्ये नियतावस्था मनसः शम उच्यते
SKविषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके & उभयेषामिन्द्रियाणां स दमः परिकीर्तितः \ बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा
SKसहनं सर्वदुःखानामप्रतीकारपूर्वकम् & चिन्ताविलापरहितं सा तितिक्षा निगद्यते
SKशास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् & सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते
SKसर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा & तत्समाधानमित्युक्तं न तु चित्तस्य लालनम्
SKअहंकारादिदेहान्तान् बन्धानज्ञानकल्पितान् & स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता
SKमन्दमध्यमरूपापि वैराग्येण शमादिना & प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम्
SKवैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते & तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः
SKएतयोर् मन्दता यत्र विरक्तत्वमुमुक्षयोः & मरौ सलीलवत्तत्र शमादेर्भानमात्रता
SKमोक्षकारणसामग्र्यां भक्तिर् एव गरीयसी & स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते
SKस्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः & उक्तसाधनसंपन्नस्तत्त्वजिज्ञासुरात्मनः \ उपसीदेद्गुरुं प्राज्ञ्यं यस्माद्बन्धविमोक्षणम्
SKश्रोत्रियो ऽवृजिनो ऽकामहतो यो ब्रह्मवित्तमः & ब्रह्मण्य् उपरतः शान्तो निरिन्धन इवानलः \ अहेतुकदयासिन्धुर्बन्धुरानमतां सताम्
SKतमाराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः & प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः
SKस्वामिन् नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ & मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या
SKदुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः & भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यद्यदहं न जाने
SKशान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः & तीर्णाः स्वयं भीमभवार्णवं जनान् अहेतुनान् यान् अपि तारयन्तः
SKअयं स्वभावः स्वत एव यत्पर- श्रमापनोदप्रवणं महात्मनाम् & सुधांशुरेष स्वयमर्ककर्कश- प्रभाभितप्तामवति क्षितिं किल
SKब्रह्मानन्दरसानुभूतिकलितैः पूर्तैः सुशीतैर् युतैः युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर् वाक्यामृतैः सेचय & संतप्तं भवतापदावदहनज्वालाभिरेनं प्रभो धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः
SKकथं तरेयं भवसिन्धुमेतं का वा गतिर्मे कतमो ऽस्त्य् उपायः & जाने न किञ्ज्चित्कृपयाव मां प्रभो संसारदुःखक्षतिमातनुष्व
SKतथा वदन्तं शरणागतं स्वं संसारदावानलतापतप्तम् & निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या दद्यादभीतिं सहसा महात्मा
SKविद्वान् स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधु यथोक्तकारिणे & प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात्
SKमा भैष्ट विद्वंस्तव नास्त्य् अपायः संसारसिन्धोस्तरणे ऽस्त्य् उपायः & येनैव याता यतयो ऽस्य पारं तम् एव मार्गं तव निर्दिशामि
SKअस्त्य् उपायो महान् कश्चित्संसारभयनाशनः & तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि
SKवेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् & तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु
SKश्रद्धाभक्तिध्यानयोगाम्मुमुक्षोः मुक्तेर्हेतून्वक्ति साक्षाच्छ्रुतेर्गीः & यो वा एतेष्व् एव तिष्ठत्यमुष्य मोक्षो ऽविद्याकल्पिताद्देहबन्धात्
SKअज्ञानयोगात्परमात्मनस्तव ह्यनात्मबन्धस्तत एव संसृतिः & तयोर् विवेकोदितबोधवन्हिः अज्ञानकार्यं प्रदहेत्समूलम्
SKकृपया श्रूयतां स्वामिन् प्रश्नो ऽयं क्रियते मया & यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात्
SKको नाम बन्धः कथम् एष आगतः कथं प्रतिष्ठास्य कथं विमोक्षः & को ऽसावनात्मा परमः क आत्मा तयोर् विवेकः कथम् एतदुच्यताम्
SKधन्यो ऽसि कृतकृत्यो ऽसि पावित ते कुलं त्वया & यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि
SKऋणमोचनकर्तारः पितुः सन्ति सुतादयः & बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन
SKमस्तकन्यस्तभारादेर्दुःखमन्यैर् निवार्यते & क्षुधादिकृतदुःखं तु विना स्वेन न केनचित्
SKपथ्यमौषधसेवा च क्रियते येन रोगिणा & आरोग्यसिद्धिर्दृष्टास्य नान्यानुष्ठितकर्मणा
SKवस्तुस्वरूपं स्फुटबोधचक्षुषा स्वेनैव वेद्यं न तु पण्डितेन & चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यमन्यैर् अवगम्यते किम्
SKअविद्याकामकर्मादिपाशबन्धं विमोचितुम् & कः शक्नुयाद्विनात्मानं कल्पकोटिशतैर् अपि
SKन योगेन न सांख्येन कर्मणा नो न विद्यया & ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा
SKवीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम् & प्रजारञ्ज्जनमात्रं तन् न साम्राज्याय कल्पते
SKवाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् & वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये
SKअविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला & विज्ञाते ऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला
SKशब्दजालं महारण्यं चित्तभ्रमणकारणम् & अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञैस्तत्त्वम् आत्मनः
SKअज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना & किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः
SKन गच्छति विना पानं व्याधिरौषधशब्दतः & विनापरोक्षानुभवं ब्रह्मशब्दैर् न मुच्यते
SKअकृत्वा दृश्यविलयमज्ञात्वा तत्त्वम् आत्मनः & ब्रह्मशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर् नृणाम्
SKअकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् & राजाहमिति शब्दान्नो राजा भवितुमर्हति
SKआप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्षणं स्वीकृतिं निक्षेपः समपेक्षते नहि बहिः शब्दैस्तु निर्गच्छति & तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः
SKतस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये & स्वैर् एव यत्नः कर्तव्यो रोगादाव् इव पण्डितैः
SKयस्त्वयाद्य कृतः प्रश्नो वरीयाञ्ज्छास्त्रविन्मतः & सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः
SKशृणुष्वावहितो विद्वन्यन्मया समुदीर्यते & तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे
SKमोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यन्तमनित्यवस्तुषु & ततः शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ताखिलकर्मणां भृशम्
SKततः श्रुतिस् तन्मननं सतत्त्व- ध्यानं चिरं नित्यनिरन्तरं मुनेः & ततो ऽविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृच्छति
SKयद्बोद्धव्यं तवेदानीमात्मान् आत्मविवेचनम् & तदुच्यते मया सम्यक् श्रुत्वात्मन्यवधारय
SKमज्जास्थिमेदःपलरक्तचर्म- त्वगाह्वयैर् धातुभिरेभिरन्वितम् & पादोर् उवक्षोभुजपृष्ठमस्तकैः अङ्गैर् उपाङ्गैर् उपयुक्तमेतत्
SKअहंममेतिप्रथितं शरीरं मोहास्पदं स्थूलमितीर्यते बुधैः & नभोनभस्वद्दहनाम्बुभूमयः सूक्ष्माणि भूतानि भवन्ति तानि
SKपरस्परांशैर् मिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतवः & मात्रास्तदीया विषया भवन्ति शब्दादयः पञ्च सुखाय भोक्तुः
SKय एषु मूढा विषयेषु बद्धा रागोरुपाशेन सुदुर्दमेन & आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः
SKशब्दादिभिः पञ्चभिर् एव पञ्च पञ्चत्वमापुः स्वगुणेन बद्धाः & कुरङ्गमातङ्गपतङ्गमीन- भृङ्गा नरः पञ्चभिरञ्चितः किम्
SKदोषेण तीव्रो विषयः कृष्णसर्पविषाद् अपि & विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम्
SKविषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् & स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्य् अपि
SKआपातवैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतियातुमुद्यतान् & आशाग्रहो मज्जयते ऽन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात्
SKविषयाख्यग्रहो येन सुविरक्त्यसिना हतः & स गच्छति भवाम्भोधेः पारं प्रत्यूहवर्जितः
SKविषमविषयमार्गैर् गच्छतो ऽनच्छबुद्धेः प्रतिपदमभियातो मृत्युरप्येष विद्धि & हितसुजनगुरुक्त्या गच्छतः स्वस्य युक्त्या प्रभवति फलसिद्धिः सत्यम् इत्य् एव विद्धि
SKमोक्षस्य कांक्षा यदि वै तवास्ति त्यजातिदूराद्विषयान्विषं यथा & पीयूषवत्तोषदयाक्षमार्जव- प्रशान्तिदान्तीर्भज नित्यमादरात्
SKअनुक्षणं यत्परिहृत्य कृत्यं अनाद्यविद्याकृतबन्धमोक्षणम् & देहः परार्थो ऽयममुष्य पोषणे यः सज्जते स स्वमनेन हन्ति
SKशरीरपोषणार्थी सन् य आत्मानं दिदृक्षति & ग्राहं दारुधिया धृत्वा नदि तर्तुं स गच्छति
SKमोह एव महामृत्युर्मुमुक्षोर्वपुरादिषु & मोहो विनिर्जितो येन स मुक्तिपदमर्हति
SKमोहं जहि महामृत्युं देहदारसुतादिषु & यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम्
SKत्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंकुलम् & पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः
SKपञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा & समुत्पन्नमिदं स्थूलं भोगायतनम् आत्मनः \ अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः
SKबाह्येन्द्रियैः स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् & करोति जीवः स्वयमेतद् आत्मना तस्मात्प्रशस्तिर्वपुषो ऽस्य जागरे
SKसर्वापि बाह्यसंसारः पुरुषस्य यदाश्रयः & विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः
SKस्थूलस्य संभवजरामरणानि धर्माः स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः & वर्णाश्रमादिनियमा बहुधामयाः स्युः पूजावमानबहुमानमुखा विशेषाः
SKबुद्धीन्द्रियाणि श्रवणं त्वगक्षि घ्राणं च जिव्हा विषयावबोधनात् & वाक्पाणिपादा गुदमप्युपस्थः कर्मेन्द्रियाणि प्रवणेन कर्मसु
SKनिगद्यते ऽन्तःकरणं मनोधीः अहंकृतिश्चित्तमिति स्ववृत्तिभिः & मनस्तु संकल्पविकल्पनादिभिः बुद्धिः पदार्थाध्यवसायधर्मतः
SKअत्राभिमानादहमित्यहंकृतिः & स्वार्थानुसन्धानगुणेन चित्तम्
SKप्राणापानव्यानोदानसमाना भवत्यसौ प्राणः & स्वयम् एव वृत्तिभेदाद्विकृतिभेदात्सुवर्णसलिलादिवत्
SKवागादि पञ्च श्रवणादि पञ्च प्राणादि पञ्चाभ्रमुखानि पञ्च & बुद्ध्याद्यविद्यापि च कामकर्मणी पुर्यष्टकं सूक्ष्मशरीरमाहुः
SKइदं शरीरं शृणु सूक्ष्मसंज्ञितं लिङ्गं त्वपञ्चीकृतसंभवम् & सवासनं कर्मफलानुभावकं स्वाज्ञानतो ऽनादिरुपाधिर् आत्मनः
SKस्वप्नो भवत्यस्य विभक्त्यवस्था स्वमात्रशेषेण विभाति यत्र & स्वप्ने तु बुद्धिः स्वयम् एव जाग्रत् कालीननानाविधवासनाभिः
SKकर्त्रादिभावं प्रतिपद्य राजते यत्र स्वयं भाति ह्ययं परात्मा & धीमात्रकोपाधिरशेषसाक्षी न लिप्यते तत्कृतकर्मलेशैः \ यस्मादसङ्गस्तत एव कर्मभिः न लिप्यते किंचिद् उपाधिना कृतैः
SKसर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिद् आत्मनः पुंसः & वास्यादिकम् इव तक्ष्णस्तेनैवात्मा भवत्यसङ्गो ऽयम्
SKअन्धत्वमन्दत्वपटुत्वधर्माः सौगुण्यवैगुण्यवशाद्धि चक्षुषः & बाधिर्यमूकत्वमुखास्तथैव श्रोत्रादिधर्मा न तु वेत्तुर् आत्मनः
SKउच्छ्वासनिःश्वासविजृम्भणक्षुत् प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः & प्राणादिकर्माणि वदन्ति तज्ञाः प्राणस्य धर्मावशनापिपासे
SKअन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि & अहमित्यभिमानेन तिष्ठत्याभासतेजसा
SKअहंकारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् & सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते
SKविषयाणामानुकूल्ये सुखी दुःखी विपर्यये & सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः
SKआत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः & स्वत एव हि सर्वेषामात्मा प्रियतमो यतः \ तत आत्मा सदानन्दो नास्य दुःखं कदाचन
SKयत्सुषुप्तौ निर्विषय आत्मानन्दो ऽनुभूयते & श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति
SKअव्यक्तनाम्नी परमेशशक्तिः अनाद्यविद्या त्रिगुणात्मिका परा & कार्यानुमेया सुधियैव माया यया जगत्सर्वमिदं प्रसूयते
SKसन्नाप्यसन्नाप्युभयात्मिका नो भिन्नाप्यभिन्नाप्युभयात्मिका नो & साङ्गाप्यनङ्गा ह्युभयात्मिका नो महाद्भुतानिर्वचनीयरूपा
SKशुद्धाद्वयब्रह्मविभोधनाश्या सर्पभ्रमो रज्जुविवेकतो यथा & रजस्तमःसत्त्वमिति प्रसिद्धा गुणास्तदीयाः प्रथितैः स्वकार्यैः
SKविक्षेपशक्ती रजसः क्रियात्मिका यतः प्रवृत्तिः प्रसृता पुराणी & रागादयो ऽस्याः प्रभवन्ति नित्यं दुःखादयो ये मनसो विकाराः
SKकामः क्रोधो लोभदम्भाद्यसूया अहंकारेर्ष्यामत्सराद्यास्तु घोराः & धर्मा एते राजसाः पुम्प्रवृत्तिः यस्मादेषा तद्रजो बन्धहेतुः
SKएषावृतिर्नाम तमोगुणस्य शक्तिर्मया वस्त्ववभासते ऽन्यथा & सैषा निदानं पुरुषस्य संसृतेः विक्षेपशक्तेः प्रवणस्य हेतुः
SKप्रज्ञावान् अपि पण्डितो ऽपि चतुरो ऽप्य् अत्यन्तसूक्ष्मात्मदृग्- व्यालीढस् तमसा न वेत्ति बहुधा संबोधितो ऽपि स्फुटम् & भ्रान्त्यारोपितम् एव साधु कलयत्यालम्बते तद्गुणान् हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः
SKअभावना वा विपरीतभावना असंभावना विप्रतिपत्तिरस्याः & संसर्गयुक्तं न विमुञ्चति ध्रुवं विक्षेपशक्तिः क्षपयत्यजस्रम्
SKअज्ञानमालस्यजडत्वनिद्रा- प्रमादमूढत्वमुखास्तमोगुणाः & एतैः प्रयुक्तो नहि वेत्ति किंचिन् निद्रालुवत्स्तम्भवद् एव तिष्ठति
SKसत्त्वं विशुद्धं जलवत्तथापि ताभ्यां मिलित्वा सरणाय कल्पते & यत्रात्मबिम्बः प्रतिबिम्बितः सन् प्रकाशयत्यर्क इवाखिलं जडम्
SKमिश्रस्य सत्त्वस्य भवन्ति धर्माः त्वमानिताद्या नियमा यमाद्याः & श्रद्धा च भक्तिश्च मुमुक्षता च दैवी च सम्पत्तिरसन्निवृत्तिः
SKविशुद्धसत्त्वस्य गुणाः प्रसादः स्वात्मानुभूतिः परमा प्रशान्तिः & तृप्तिः प्रहर्षः परमात्मनिष्ठा यया सदानन्दरसं समृच्छति
SKअव्यक्तमेतत्त्रिगुणैर् निरुक्तं तत्कारणं नाम शरीरम् आत्मनः & सुषुप्तिरेतस्य विभक्त्यवस्था प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः
SKसर्वप्रकारप्रमितिप्रशान्तिः बीजात्मनावस्थितिर् एव बुद्धेः & सुषुप्तिरेतस्य किल प्रतीतिः किंचिन् न वेद्मीति जगत्प्रसिद्धेः
SKदेहेन्द्रियप्राणमनो ऽहम् आदयः सर्वे विकारा विषयाः सुखादयः & व्योमादिभूतान्यखिलं न विश्वं अव्यक्तपर्यन्तमिदं ह्यनात्मा
SKमाया मायाकार्यं सर्वं महदादिदेहपर्यन्तम् & असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम्
SKअथ ते संप्रवक्ष्यामि स्वरूपं परम् आत्मनः & यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते
SKअस्ति कश्चित्स्वयं नित्यमहंप्रत्ययलम्बनः & अवस्थात्रयसाक्षी संपञ्चकोशविलक्षणः
SKयो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु & बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम्
SKयः पश्यति स्वयं सर्वं यं न पश्यति कश्चन & यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम्
SKयेन विश्वमिदं व्याप्तं यं न व्याप्नोति किंचन & अभारूपमिदं सर्वं यं भान्त्यमनुभात्ययम्
SKयस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः & विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव
SKअहङ्कारादिदेहान्ता विषयाश्च सुखादयः & वेद्यन्ते घटवद् येन नित्यबोधस्वरूपिणा
SKएषो ऽन्तरात्मा पुरुषः पुराणो निरन्तराखण्डसुखानुभूतिः & सदैकरूपः प्रतिबोधमात्रो येनेषिता वागसवश्चरन्ति
SKअत्रैव सत्त्वात्मनि धीगुहायां अव्याकृताकाश उशत्प्रकाशः & आकाश उच्चै रविवत्प्रकाशते स्वतेजसा विश्वमिदं प्रकाशयन्
SKज्ञाता मनो ऽहंकृतिविक्रियाणां देहेन्द्रियप्राणकृतक्रियाणाम् & अयो ऽग्निवत्ताननुवर्तमानो न चेष्टते नो विकरोति किंचन
SKन जायते नो म्रियते न वर्धते न क्षीयते नो विकरोति नित्यः & विलीयमाने ऽपि वपुष्यमुष्मिन् न लीयते कुम्भ इवाम्बरं स्वयम्
SKप्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः सदसदिदमशेषं भासयन्निर्विशेषः & विलसति परमात्मा जाग्रदादिष्ववस्था- स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः
SKनियमितमनसामुं त्वं स्वमात्मानम् आत्मन्य् अयमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् & जनिमरणतरङ्गापारसंसारसिन्धुं प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः
SKअत्रानात्मन्यहमिति मतिर्बन्ध एषो ऽस्य पुंसः प्राप्तो ऽज्ञानाज्जननमरणक्लेशसंपातहेतुः & येनैवायं वपुरिदमसत्सत्यमित्य् आत्मबुद्ध्या पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोशकृद्वत्
SKअतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा & ततो ऽनर्थव्रातो निपतति समादातुरधिकः ततो यो ऽसद्ग्राहः स हि भवति बन्धः शृणु सखे
SKअखण्डनित्याद्वयबोधशक्त्या स्फुरन्तमात्मानमनन्तवैभवम् & समावृणोत्यावृतिशक्तिरेषा तमोमयी राहुरिवार्कबिम्बम्
SKतिरोभूते स्वात्मन्यमलतरतेजोवति पुमान् अनात्मानं मोहादहमिति शरीरं कलयति & ततः कामक्रोधप्रभृतिभिरमुं बन्धनगुणैः परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति
SKमहामोहग्राहग्रसनगलितात्मावगमनो धियो नानावस्थां स्वयमभिनयंस्तद्गुणतया & अपारे संसरे विषयविषपूरे जलनिधौ निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः
SKभानुप्रभासंजनिताभ्रपङ्क्तिः भानुं तिरोधाय विजृम्भते यथा & आत्मोदिताहंकृतिर् आत्मतत्त्वं तथा तिरोधाय विजृम्भते स्वयम्
SKकवलितदिननार्थे दुर्दिने सान्द्रमेघैः व्यथयति हिमझंझावायुरुग्रो यथैतान् & अविरततमसात्मन्यावृते मूढबुद्धिं क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः
SKएताभ्याम् एव शक्तिभ्यां बन्धः पुंसः समागतः & याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्ययम्
SKबीजं संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरो रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोओ ऽसवः शाखिकाः & अग्राणीन्द्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः
SKअज्ञानमूलो ऽयमनात्मबन्धो नैसर्गिको ऽनादिरनन्त ईरितः & जन्माप्ययव्याधिजरादिदुःख- प्रवाहपातं जनयत्यमुष्य
SKनास्त्रैर् न शस्त्रैर् अनिलेन वन्हिना छेत्तुं न शक्यो न च कर्मकोटिभिः & विवेकविज्ञानमहासिना विना धातुः प्रसादेन शितेन मञ्जुना
SKश्रुतिप्रमाणैकमतेः स्वधर्म निष्ठा तयैवात्मविशुद्धिरस्य & विशुद्धबुद्धेः परम् आत्मवेदनं तेनैव संसारसमूलनाशः
SKकोशैर् अन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति & निजशक्तिसमुत्पन्नैः शैवालपटलैर् इवाम्बु वापीस्थम्
SKतच्छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम् & तृष्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः
SKपञ्चानाम् अपि कोशानामपवादे विभात्ययं शुद्धः & नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयंज्योतिः
SKआत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा & तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम्
SKमुञ्जादिषीकाम् इव दृश्यवर्गात् प्रत्यञ्चमात्मानमसङ्गमक्रियम् & विविच्य तत्र प्रविलाप्य सर्वं तद् आत्मना तिष्ठति यः स मुक्तः
SKदेहो ऽयमन्नभवनो ऽन्नमयस्तु कोशः चान्नेन जीवति विनश्यति तद्विहीनः & त्वक्चर्ममांसरुधिरास्थिपुरीषराशिः नायं स्वयं भवितुमर्हति नित्यशुद्धः
SKपूर्वं जनेरधिमृतेर् अपि नायमस्ति जातक्षणः क्षणगुणो ऽनियतस्वभावः & नैको जडश्च घटवत्परिदृश्यमानः स्वात्मा कथं भवति भावविकारवेत्ता
SKपाणिपादादिमान्देहो नात्मा व्यङ्गे ऽपि जीवनात् & तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः
SKदेहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः & सत एव स्वतःसिद्धं तद्वैलक्षण्यम् आत्मनः
SKशल्यराशिर्मांसलिप्तो मलपूर्णो ऽतिकश्मलः & कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः
SKत्वङ्मांसमेदो ऽस्थिपुरीषराशा- वहंमतिं मूढजनः करोति & विलक्षणं वेत्ति विचारशीलो निजस्वरूपं परमार्थ भूतम्
SKदेहो ऽहम् इत्य् एव जडस्य बुद्धिः देहे च जीवे विदुषस्त्वहंधीः & विवेकविज्ञानवतो महात्मनो ब्रह्माहम् इत्य् एव मतिः सदात्मनि
SKअत्रात्मबुद्धिं त्यज मूढबुद्धे त्वङ्मांसमेदो ऽस्थिपुरीषराशौ & सर्वात्मनि ब्रह्मणि निर्विकल्पे कुरुष्व शान्ति परमां भजस्व
SKदेहेन्द्रियादावसति भ्रमोदितां विद्वानहं तां न जहाति यावत् & तावन् न तस्यास्ति विमुक्तिवार्ताप्य् अस्त्वेष वेदान्तनयान्तदर्शी
SKछायाशरीरे प्रतिबिम्बगात्रे यत्स्वप्नदेहे हृदि कल्पिताङ्गे & यथात्मबुद्धिस्तव नास्ति काचिज् जीवच्छरीरे च तथैव मास्तु
SKदेहात्मधीर् एव नृणामसद्धियां जन्मादिदुःखप्रभवस्य बीजम् & यतस्ततस्त्वं जहि तां प्रयत्नात् त्यक्ते तु चित्ते न पुनर्भवाशा
SKकर्मेन्द्रियैः पञ्चभिरञ्चितो ऽयं प्राणो भवेत्प्राणमयस्तु कोशः & येनात्मवानन्नमयो ऽनुपूर्णः प्रवर्तते ऽसौ सकलक्रियासु
SKनैवात्मापि प्राणमयो वायुविकारो गन्तागन्ता वायुवदन्तर्बहिरेषः & यस्मात् किंचित् क्वापि न वेत्तीष्टमनिष्टं स्वं वान्यं वा किंचन नित्यं परतन्त्रः
SKज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात् कोशो ममाहमिति वस्तुविकल्पहेतुः & संज्ञादिभेदकलनाकलितो बलीयांस् तत्पूर्वकोशमभिपूर्य विजृम्भते यः
SKपञ्चेन्द्रियैः पञ्चभिर् एव होतृभिः प्रचीयमानो विषयाज्यधारया & जाज्वल्यमानो बहुवासनेन्धनैः मनोमयाग्निर्दहति प्रपञ्चम्
SKन ह्यस्त्य् अविद्या मनसो ऽतिरिक्ता मनो ह्यविद्या भवबन्धहेतुः & तस्मिन्विनष्टे सकलं विनष्टं विजृम्भिते ऽस्मिन्सकलं विजृम्भते
SKस्वप्ने ऽर्थशून्ये सृजति स्वशक्त्या भोक्त्रादिविश्वं मन एव सर्वम् & तथैव जाग्रत्य् अपि नो विशेषः तत्सर्वमेतन्मनसो विजृम्भणम्
SKसुषुप्तिकाले मनसि प्रलीने नैवास्ति किंचित् सकलप्रसिद्धेः & अतो मनःकल्पित् एव पुंसः संसार एतस्य न वस्तुतो ऽस्ति
SKवायुनानीयते मेधः पुनस्तेनैव नीयते & मनसा कल्प्यते बन्धो मोक्षस्तेनैव कल्प्यते
SKदेहादिसर्वविषये परिकल्प्य रागं बध्नाति तेन पुरुषं पशुवद्गुणेन & वैरस्यमत्र विषवत् सुवुधाय पश्चाद् एनं विमोचयति तन्मन एव बन्धात्
SKतस्मान्मनः कारणमस्य जन्तोः बन्धस्य मोक्षस्य च वा विधाने & बन्धस्य हेतुर्मलिनं रजोगुणैः मोक्षस्य शुद्धं विरजस्तमस्कम्
SKविवेकवैराग्यगुणातिरेकाच् छुद्धत्वमासाद्य मनो विमुक्त्यै & भवत्यतो बुद्धिमतो मुमुक्षोस् ताभ्यां दृढाभ्यां भवितव्यमग्रे
SKमनो नाम महाव्याघ्रो विषयारण्यभूमिषु & चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः
SKमनः प्रसूते विषयानशेषान् स्थूलात्मना सूक्ष्मतया च भोक्तुः & शरीरवर्णाश्रमजातिभेदान् गुणक्रियाहेतुफलानि नित्यम्
SKअसङ्गचिद्रूपममुं विमोह्य देहेन्द्रियप्राणगुणैर् निबद्ध्य & अहंममेति भ्रमयत्यजस्रं मनः स्वकृत्येषु फलोपभुक्तिषु
SKअध्यासदोषात्पुरुषस्य संसृतिः अध्यासबन्धस्त्वमुनैव कल्पितः & रजस्तमोदोषवतो ऽविवेकिनो जन्मादिदुःखस्य निदानमेतत्
SKअतः प्राहुर्मनो ऽविद्यां पण्डितास्तत्त्वदर्शिनः & येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम्
SKतन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा & विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते
SKमोक्षैकसक्त्या विषयेषु रागं निर्मूल्य संन्यस्य च सर्वकर्म & सच्छ्रद्धया यः श्रवणादिनिष्ठो रजःस्वभावं स धुनोति बुद्धेः
SKमनोमयो नापि भवेत्परात्मा ह्याद्यन्तवत्त्वात्परिणामिभावात् & दुःखात्मकत्वाद्विषयत्वहेतोः द्रष्टा हि दृश्यात्मतया न दृष्टः
SKबुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः & विज्ञानमयकोशः स्यात्पुंसः संसारकारणम्
SKअनुव्रजच्चित्प्रतिबिम्बशक्तिः विज्ञानसंज्ञः प्रकृतेर्विकारः & ज्ञानक्रियावानहमित्यजस्रं देहेन्द्रियादिष्वभिमन्यते भृशम्
SKअनादिकालो ऽयमहंस्वभावो जीवः समस्तव्यवहारवोढा & करोति कर्माण्य् अपि पूर्ववासनः पुण्यान्यपुण्यानि च तत्फलानि
SKभुङ्क्ते विचित्रास्व् अपि योनिषु व्रजन् नायाति निर्यात्यध ऊर्ध्वमेषः & अस्यैव विज्ञानमयस्य जाग्रत्- स्वप्नाद्यवस्थाः सुखदुःखभोगः
SKदेहादिनिष्ठाश्रमधर्मकर्म- गुणाभिमानः सततं ममेति & विज्ञानकोशो ऽयमतिप्रकाशः प्रकृष्टसान्निध्यवशात्परात्मनः & अतो भवत्येष उपाधिरस्य यद् आत्मधीः संसरति भ्रमेण
SKयो ऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्ययं ज्योतिः & कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः
SKस्वयं परिच्छेदमुपेत्य बुद्धेः तादात्म्यदोषेण परं मृषात्मनः & सर्वात्मकः सन्न् अपि वीक्षते स्वयं स्वतः पृथक्त्वेन मृदो घटान् इव
SKउपाधिसंबन्धवशात्परात्मा ह्युपाधिधर्माननुभाति तद्गुणः & अयोविकारानविकारिवन्हिवत् सदैकरूपो ऽपि परः स्वभावात्
SKभ्रमेणाप्यन्यथा वास्तु जीवभावः परात्मनः & तदुपाधेरनादित्वान्नानादेर्नाश इष्यते
SKअतो ऽस्य जीवभावो ऽपि नित्या भवति संसृतिः & न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद
SKसम्यक्पृष्टं त्वया विद्वन्सावधानेन तच्छृणु & प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना
SKभ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः & न घटेतार्थसंबन्धो नभसो नीलतादिवत्
SKस्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य प्रत्यग्बोधानन्दरूपस्य बुद्धेः & भ्रान्त्या प्राप्तो जीवभावो न सत्यो मोहापाये नास्त्य् अवस्तुस्वभावात्
SKयावद्भ्रान्तिस्तावदेवास्य सत्ता मिथ्याज्ञानोज्जृम्भितस्य प्रमादात् & रज्ज्वां सर्पो भ्रान्तिकालीन एव भ्रान्तेर्नाशे नैव सर्पो ऽपि तद्वत्
SKअनादित्वमविद्यायाः कार्यस्यापि तथेष्यते & उत्पन्नायां तु विद्यायामाविद्यकमनाद्य् अपि
SKप्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति & अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम्
SKअनादेर् अपि विध्वंसः प्रागभावस्य वीक्षितः & यद्बुद्ध्युपाधिसंबन्धात्परिकल्पितम् आत्मनि
SKजीवत्वं न ततो ऽन्यस्तु स्वरूपेण विलक्षणः & संबन्धस्त्व् आत्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः
SKविनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा & ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम्
SKतदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति & ततो विवेकः कर्तव्यः प्रत्यगात्मसदात्मनोः
SKजलं पङ्कवदत्यन्तं पङ्कापाये जलं स्फुटम् & यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः
SKअसन्निवृत्तौ तु सदात्मना स्फुटं प्रतीतिरेतस्य भवेत्प्रतीचः & ततो निरासः करणीय एव सदात्मनः साध्वहमादिवस्तुनः
SKअतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक् & विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः & दृश्यत्वाद्व्यभिचारित्वान्नानित्यो नित्य इष्यते
SKआनन्दप्रतिबिम्बचुम्बिततनुर्वृत्तिस्तमोजृम्भिता स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः & पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं सर्वो नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना
SKआनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा & स्वप्नजागरयोरीषदिष्टसंदर्शनाविना
SKनैवायमानन्दमयः परात्मा सोपाधिकत्वात्प्रकृतेर्विकारात् & कार्यत्वहेतोः सुकृतक्रियाया विकारसङ्घातसमाहितत्वात्
SKपञ्चानाम् अपि कोशानां निषेधे युक्तितः श्रुतेः & तन्निषेधावधि साक्षी बोधरूपो ऽवशिष्यते
SKयो ऽयमात्मा स्वयंज्योतिः पञ्चकोशविलक्षणः & अवस्थात्रयसाक्षी सन्निर्विकारो निरञ्जनः \ सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता
SKमिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु & सर्वाभावं विना किंचिन् न पश्याम्यत्र हे गुरो \ विज्ञेयं किमु वस्त्वस्ति स्वात्मनात्मविपश्चिता
SKसत्यमुक्तं त्वया विदन्निपुणो ऽसि विचारणे & अहमादिविकारास्ते तदभावो ऽयमप्यनु
SKसर्वे येनानुभूयन्ते यः स्वयं नानुभूयते & तमात्मानं वेदितारं विद्दि बुद्ध्या सुसूक्ष्मया
SKतत्साक्षिकं भवेत्तत्तद्यद्यद्येनानुभूयते & कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते
SKअसौ स्वसाक्षिको भावो यतः स्वेनानुभूयते & अतः परं स्वयं साक्षात्प्रत्यगात्मा न चेतरः
SKजाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं यो ऽसौ समुज्जृम्भते प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नैकधा & नानाकारविकारभागिन इमान् पश्यन्नहंधीमुखान् नित्यानन्दचिद् आत्मना स्फुरति तं विद्धि स्वमेतं हृदि
SKघटोदके बिम्बितमर्कबिम्बम् आलोक्य मूढो रविम् एव मन्यते & तथा चिदाभासमुपाधिसंस्थं भ्रान्त्याहम् इत्य् एव जडो ऽभिमन्यते
SKघटं जलं तद्गतमर्कबिम्बं विहाय सर्वं विनिरीक्ष्यते ऽर्कः & तटस्थ एतत्त्रितयावभासकः स्वयंप्रकाशो विदुषा यथा तथा
SKदेहं धियं चित्प्रतिबिम्बम् एवं विसृज्य बुद्धौ निहितं गुहायाम् & द्रष्टारमात्मानमखण्डबोधं सर्वप्रकाशं सदसद्विलक्षणम्
SKनित्यं विभुं सर्वगतं सुसूक्ष्मं अन्तर्बहिःशून्यमनन्यम् आत्मनः & विज्ञाय सम्यङ्निजरूपमेतत् पुमान् विपाप्मा विरजो विमृत्युः
SKविशोक आनन्दघनो विपश्चित् स्वयं कुतश्चिन् न बिभेति कश्चित् & नान्यो ऽस्ति पन्था भवबन्धमुक्तेः विना स्वतत्त्वावगमं मुमुक्षोः
SKब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् & येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधैः
SKब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः & विज्ञातव्यमतः सम्यग्ब्रह्माभिन्नत्वम् आत्मनः
SKसत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतःसिद्धम् & नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति
SKसदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनो ऽभावात् & न ह्यन्यदस्ति किंचित् सम्यक् परमार्थतत्त्वबोधदशायाम्
SKयदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् & तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम्
SKमृत्कार्यभूतो ऽपि मृदो न भिन्नः कुम्भो ऽस्ति सर्वत्र तु मृत्स्वरूपात् & न कुम्भरूपं पृथगस्ति कुम्भः कुतो मृषा कल्पितनाममात्रः
SKकेनापि मृद्भिन्नतया स्वरूपं घटस्य संदर्शयितुं न शक्यते & अतो घटः कल्पित एव मोहान् मृद् एव सत्यं परमार्थभूतम्
SKसद्ब्रह्मकार्यं सकलं सदेवं तन्मात्रमेतन् न ततो ऽन्यदस्ति & अस्तीति यो वक्ति न तस्य मोहो विनिर्गतो निद्रितवत्प्रजल्पः
SKब्रह्मैवेदं विश्वम् इत्य् एव वाणी श्रौती ब्रूते ऽथर्वनिष्ठा वरिष्ठा & तस्मादेतद्ब्रह्ममात्रं हि विश्वं नाधिष्ठानाद्भिन्नतारोपितस्य
SKसत्यं यदि स्याज्जगदेतद् आत्मनो ऽनन्तत्त्वहानिर्निगमाप्रमाणता & असत्यवादित्वमपीशितुः स्यान् नैतत्त्रयं साधु हितं महात्मनाम्
SKईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः & न च मत्स्थानि भूतानीत्य् एवम् एव व्यचीकॢपत्
SKयदि सत्यं भवेद्विश्वं सुषुप्तामुपलभ्यताम् & यन्नोपलभ्यते किंचिद् अतो ऽसत्स्वप्नवन्मृषा
SKअतः पृथङ्नास्ति जगत्परात्मनः पृथक्प्रतीतिस्तु मृषा गुणादिवत् & आरोपितस्यास्ति किमर्थवत्ताद् धिष्ठानमाभाति तथा भ्रमेण
SKभ्रान्तस्य यद्य् अद्भ्रमतः प्रतीतं भ्रामैव तत्तद्रजतं हि शुक्तिः & इदंतया ब्रह्म सदैव रूप्यते त्वारोपितं ब्रह्मणि नाममात्रम्
SKअतः परं ब्रह्म सदद्वितीयं विशुद्धविज्ञानघनं निरञ्जनम् & प्राशान्तमाद्यन्तविहीनमक्रियं निरन्तरानन्दरसस्वरूपम्
SKनिरस्तमायाकृतसर्वभेदं नित्यं सुखं निष्कलमप्रमेयम् & अरूपमव्यक्तमनाख्यमव्ययं ज्योतिः स्वयं किंचिद् इदं चकास्ति
SKज्ञातृज्ञेयज्ञानशून्यमनन्तं निर्विकल्पकम् & केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः
SKअहेयमनुपादेयं मनोवाचामगोचरम् & अप्रमेयमनाद्यन्तं ब्रह्म पूर्णमहं महः
SKतत्त्वंपदाभ्यामभिधीयमानयोः ब्रह्मात्मनोः शोधितयोर्यदीत्थम् & श्रुत्या तयोस्तत्त्वमसीति सम्यग् एकत्वम् एव प्रतिपाद्यते मुहुः // २४१.
SKऐक्यं तयोर् लक्षितयोर् न वाच्ययोः निगद्यते ऽन्योन्यविरुद्धधर्मिणोः & खद्योतभान्वोर् इव राजभृत्ययोः कूपाम्बुराश्योः परमाणुमेर्वोः
SKतयोर् विरोधो ऽयमुपाधिकल्पितो न वास्तवः कश्चिदुपाधिरेषः & ईशस्य माया महदादिकारणं जीवस्य कार्यं शृणु पञ्चकोशम्
SKएतावुपाधी परजीवयोस्तयोः सम्यङ्निरासे न परो न जीवः & राज्यं नरेन्द्रस्य भटस्य खेटक् तयोर् अपोहे न भटो न राजा
SKअथात आदेश इति श्रुतिः स्वयं निषेधति ब्रह्मणि कल्पितं द्वयम् & श्रुतिप्रमाणानुगृहीतबोधात् तयोर् निरासः करणीय एव
SKनेदं नेदं कल्पितत्वान् न सत्यं रज्जुदृष्टव्यालवत्स्वप्नवच्च & इत्थं दृश्यं साधुयुक्त्या व्यपोह्य ज्ञेयः पश्चादेकभावस्तयोर् यः
SKततस्तु तौ लक्षणया सुलक्ष्यौ तयोर् अखण्डैकरसत्वसिद्धये & नालं जहत्या न तथाजहत्या किन्तूभयार्थात्मिकयैव भाव्यम्
SKस देवदत्तो ऽयमितीह चैकता विरुद्धधर्मांशमपास्य कथ्यते & यथा तथा तत्त्वमसीतिवाक्ये विरुद्धधर्मानुभयत्र हित्वा
SKसंलक्ष्य चिन्मात्रतया सदात्मनोः अखण्डभावः परिचीयते बुधैः & एवं महावाक्यशतेन कथ्यते ब्रह्मात्मनोर् ऐक्यमखण्डभावः
SKअस्थूलमित्येतदसन्निरस्य सिद्धं स्वतो व्योमवदप्रतर्क्यम् & अतो मृषामात्रमिदं प्रतीतं जहीहि यत्स्वात्मतया गृहीतम् \ ब्रह्माहम् इत्य् एव विशुद्धबुद्ध्या विद्धि स्वमात्मानमखण्डबोधम्
SKमृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाहितं तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् & यस्मान्नास्ति सतः परं किम् अपि तत्सत्यं स आत्मा स्वयं तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम्
SKनिद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः & यस्माद् एवमिदं शरीरकरणप्राणाहमाद्यप्यसत् तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम्
SKयत्र भ्रान्त्या कल्पित तद्विवेके तत्तन्मात्रं नैव तस्माद्विभिन्नम् & स्वप्ने नष्टं स्वप्नविश्वं विचित्रं स्वस्माद्भिन्नं किन्नु दृष्टं प्रबोधे
SKजातिनीतिकुलगोत्रदूरगं नामरूपगुणदोषवर्जितम् & देशकालविषयातिवर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि
SKयत्परं सकलवागगोचरं गोचरं विमलबोधचक्षुषः & शुद्धचिद्घनमनादि वस्तु यद् ब्रह्म तत्त्वमसि भावयात्मनि
SKषड्भिरूर्मिभिरयोगि योगिहृद्- भावितं न करणैर् विभावितम् & बुद्ध्यवेद्यमनवद्यमस्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि
SKभ्रान्तिकल्पितजगत्कलाश्रयं स्वाश्रयं च सदसद्विलक्षणम् & निष्कलं निरुपमानवद्धि यद् ब्रह्म तत्त्वमसि भावयात्मनि
SKजन्मवृद्धिपरिणत्यपक्षय- व्याधिनाशनविहीनमव्ययम् & विश्वसृष्ट्यवविघातकारणं ब्रह्म तत्त्वमसि भावयात्मनि
SKअस्तभेदमनपास्तलक्षणं निस्तरङ्गजलराशिनिश्चलम् & नित्यमुक्तमविभक्तमूर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि
SKएकम् एव सदनेककारणं कारणान्तरनिरास्यकारणम् & कार्यकारणविलक्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि
SKनिर्विकल्पकमनल्पमक्षरं यत्क्षराक्षरविलक्षणं परम् & नित्यमव्ययसुखं निरञ्जनं ब्रह्म तत्त्वमसि भावयात्मनि
SKयद्विभाति सदनेकधा भ्रमान् नामरूपगुणविक्रियात्मना & हेमवत्स्वयमविक्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि
SKयच्चकास्त्यनपरं परात्परं प्रत्यगेकरसम् आत्मलक्षणम् & सत्यचित्सुखमनन्तमव्ययं ब्रह्म तत्त्वमसि भावयात्मनि
SKउक्तमर्थमिमम् आत्मनि स्वयं भावयेत्प्रथितयुक्तिभिर्धिया & संशयादिरहितं कराम्बुवत् तेन तत्त्वनिगमो भविष्यति
SKसंबोधमात्रं परिशुद्धतत्त्वं विज्ञाय सङ्घे नृपवच्च सैन्ये & तदाश्रयः स्वात्मनि सर्वदा स्थितो विलापय ब्रह्मणि विश्वजातम्
SKबुद्धौ गुहायां सदसद्विलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् & तद् आत्मना यो ऽत्र वसेद्गुहायां पुनर्न तस्याङ्गगुहाप्रवेशः
SKज्ञाते वस्तुन्य् अपि बलवती वासनानादिरेषा कर्ता भोक्ताप्यहमिति दृढा यास्य संसारहेतुः & प्रत्यग्दृष्ट्यात्मनि निवसता सापनेया प्रयत्नान् मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत्
SKअहं ममेति यो भावो देहाक्षादावनात्मनि & अध्यासो ऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया
SKज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् & सो ऽहम् इत्य् एव सद्वृत्त्यानात्मन्यात्ममतिं जहि
SKलोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् & शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु
SKलोकवासनया जन्तोः शास्त्रवासनयापि च & देहवासनया ज्ञानं यथावन्नैव जायते
SKसंसारकारागृहमोक्षमिच्छोर् अयोमयं पादनिबन्धशृङ्खलम् & वदन्ति तज्ज्ञाः पटु वासनात्रयं यो ऽस्माद्विमुक्तः समुपैति मुक्तिम्
SKजलादिसंसर्गवशात्प्रभूत- दुर्गन्धधूतागरुदिव्यवासना & संघर्षणेनैव विभाति सम्यग्- विधूयमाने सति बाह्यगन्धे
SKअन्तःश्रितानन्तदूरन्तवासना- धूलीविलिप्ता परम् आत्मवासना & प्रज्ञातिसंघर्षणतो विशुद्धा प्रतीयते चन्दनगन्धवत् स्फुटम्
SKअनात्मवासनाजालैस्तिरोभूतात्मवासना & नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटम्
SKयथा यथा प्रत्यगवस्थितं मनः तथा तथा मुञ्चति बाह्यवासनाम् & निःशेषमोक्षे सति वासनानां आत्मानुभूतिः प्रतिबन्धशून्या
SKस्वात्मन्य् एव सदा स्थित्वा मनो नश्यति योगिनः & वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु
SKतमो द्वाभ्यां रजः सत्त्वात्सत्त्वं शुद्धेन नश्यति & तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु
SKप्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः & धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु
SKनाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् & वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु
SKश्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यम् आत्मनः & क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु
SKअनादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः & तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु
SKतत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः & ब्रह्मण्य् आत्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु
SKअहंभावस्य देहे ऽस्मिन्निःशेषविलयावधि & सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु
SKप्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता & तावन्निरन्तरं विद्वन्स्वाध्यासापनयं कुरु
SKनिद्राया लोकवार्तायाः शब्दादेर् अपि विस्मृतेः & क्वचिन्नावसरं दत्त्वा चिन्तयात्मानम् आत्मनि
SKमातापित्रोर् मलोद्भूतं मलमांसमयं वपुः & त्यक्त्वा चाण्डालवद्दूरं ब्रह्मीभूय कृती भव
SKघटाकाशं महाकाश इवात्मानं परात्मनि & विलाप्याखण्डभावेन तूष्णी भव सदा मुने
SKस्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना & ब्रह्माण्डम् अपि पिण्डाण्डं त्यज्यतां मलभाण्डवत्
SKचिदात्मनि सदानन्दे देहारूढामहंधियम् & निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा
SKयत्रैष जगदाभासो दर्पणान्तः पुरं यथा & तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि
SKयत्सत्यभूतं निजरूपमाद्यं चिदद्वयानन्दमरूपमक्रियम् & तदेत्य मिथ्यावपुरुत्सृजेत शैलूषवद्वेषमुपात्तमात्मनः
SKसर्वात्मना दृश्यमिदं मृषैव नैवाहमर्थः क्षणिकत्वदर्शनात् & जानाम्यहं सर्वमिति प्रतीतिः कुतो ऽहम् आदेः क्षणिकस्य सिध्येत्
SKअहंपदार्थस्त्वहमादिसाक्षी नित्यं सुषुप्ताव् अपि भावदर्शनात् & ब्रूते ह्यजो नित्य इति श्रुतिः स्वयं तत्प्रत्यगात्मा सदसद्विलक्षणः
SKविकारिणां सर्वविकारवेत्ता नित्याविकारो भवितुं समर्हति & मनोरथस्वप्नसुषुप्तिषु स्फुटं पुनः पुनर्दृष्टमसत्त्वमेतयोः
SKअतो ऽभिमानं त्यज मांसपिण्डे पिण्डाभिमानिन्य् अपि बुद्धिकल्पिते & कालत्रयाबाध्यमखण्डबोधं ज्ञात्वा स्वमात्मानमुपैहि शान्तिम्
SKत्यजाभिमानं कुलगोत्रनाम- रूपाश्रमेष्वार्द्रशवाश्रितेषु & लिङ्गस्य धर्मान् अपि कर्तृतादिंस् त्यक्ता भवाखण्डसुखस्वरूपः
SKसन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः & तेषाम् एवं मूलं प्रथमविकारो भवत्यहंकारः
SKयावत्स्यात्स्वस्य संबन्धो ऽहंकारेण दुरात्मना & तावन् न लेशमात्रापि मुक्तिवार्ता विलक्षणा
SKअहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते & चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः
SKयो वा पुरे सो ऽहम् इति प्रतीतो बुद्ध्या प्रकॢप्तस्तमसातिमूढया & तस्यैव निःशेषतया विनाशे ब्रह्मात्मभावः प्रतिबन्धशून्यः
SKब्रह्मानन्दनिधिर्महाबलवताहंकारघोराहिना संवेष्ट्य् आत्मनि रक्ष्यते गुणमयैश्चण्डेस्त्रिभिर्मस्तकैः & विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्षत्रयं निर्मूल्याहिमिमं निधिं सुखकरं धीरो ऽनुभोक्तुंक्षमः
SKयावद्वा यत् किंचिद् विषदोषस्फूर्तिरस्ति चेद्देहे & कथम् आरोग्याय भवेत्तद्वदहन्तापि योगिनो मुक्त्यै
SKअहमो ऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या & प्रत्यक्तत्त्वविवेकादिदमहमस्मीति विन्दते तत्त्वम्
SKअहंकारे कर्तर्यहमिति मतिं मुञ्च सहसा विकारात्मन्य् आत्मप्रतिफलजुषि स्वस्थितिमुषि & यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुला प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम्
SKसदैकरूपस्य चिदात्मनो विभोर् आनन्दमूर्तेरनवद्यकीर्तेः & नैवान्यथा क्वाप्यविकारिणस्ते विनाहमध्यासममुष्य संसृतिः
SKतस्मादहंकारमिमं स्वशत्रुं भोक्तुर्गले कण्टकवत्प्रतीतम् & विच्छिद्य विज्ञानमहासिना स्फुटं भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम्
SKततो ऽहम् आदेर्विनिवर्त्य वृत्तिं संत्यक्तरागः परमार्थलाभात् & तूष्णीं समास्स्वात्मसुखानुभूत्या पूर्णात्मना ब्रह्मणि निर्विकल्पः
SKसमूलकृत्तो ऽपि महानहं पुनः व्युल्लेखितः स्याद्यदि चेतसा क्षणम् & संजीव्य विक्षेपशतं करोति नभस्वता प्रावृषि वारिदो यथा
SKनिगृह्य शत्रोरहमो ऽवकाशः क्वचिन् न देयो विषयानुचिन्तया & स एव संजीवनहेतुरस्य प्रक्षीणजम्बीरतरोर् इवाम्बु
SKदेहात्मना संस्थित एव कामी विलक्षणः कामयिता कथं स्यात् & अतो ऽर्थसन्धानपरत्वम् एव भेदप्रसक्त्या भवबन्धहेतुः
SKकार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते & कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत्
SKवासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना & वर्धते सर्वथा पुंसः संसारो न निवर्तते
SKसंसारबन्धविच्छित्त्यै तद् द्वयं प्रदहेद्यतिः & वासनावृद्धिरेताभ्यां चिन्तया क्रियया बहिः
SKताभ्यां प्रवर्धमाना सा सूते संसृतिम् आत्मनः & त्रयाणां च क्षयोपायः सर्वावस्थासु सर्वदा
SKसर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः & सद्भाववासनादार्ढ्यात्तत्त्रयं लयमश्नुते
SKक्रियानाशे भवेच्चिन्तानाशो ऽस्माद्वासनाक्षयः & वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते
SKसद्वासनास्फूर्तिविजृम्भणे सति ह्यसौ विलीनाप्यहमादिवासना & अतिप्रकृष्टाप्यरुणप्रभायां विलीयते साधु यथा तमिस्रा
SKतमस्तमःकार्यमनर्थजालं न दृश्यते सत्युदिते दिनेशे & तथाद्वयानन्दरसानुभूतौ न वास्ति बन्धो न च दुःखगन्धः
SKदृश्यं प्रतीतं प्रविलापयन्सन् सन्मात्रमानन्दघनं विभावयन् & समाहितः सन्बहिरन्तरं वा कालं नयेथाः सति कर्मबन्धे
SKप्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन & प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः
SKन प्रमादादनर्थो ऽन्यो ज्ञानिनः स्वस्वरूपतः & ततो मोहस्ततो ऽहंधीस्ततो बन्धस्ततो व्यथा
SKविषयाभिमुखं दृष्ट्वा विद्वांसम् अपि विस्मृतिः & विक्षेपयति धीदोषैर् योषा जारम् इव प्रियम्
SKयथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति & आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम्
SKलक्ष्यच्युतं चेद्यदि चित्तमीषद् बहिर्मुखं सन्निपतेत्ततस्ततः & प्रमादतः प्रच्युतकेलिकन्दुकः सोपानपङ्क्तौ पतितो यथा तथा
SKविषयेष्वाविशच्चेतः संकल्पयति तद्गुणान् & सम्यक्संकल्पनात्कामः कामात्पुंसः प्रवर्तनम्
SKअतः प्रमादान् न परो ऽस्ति मृत्युः विवेकिनो ब्रह्मविदः समाधौ & समाहितः सिद्धिमुपैति सम्यक् समाहितात्मा भव सावधानः
SKततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः & पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते
SKसंकल्पं वर्जयेत्तस्मात्सर्वानर्थस्य कारणम् & जीवतो यस्य कैवल्यं विदेहे स च केवलः \ यत् किंचित् पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः
SKयदा कदा वापि विपश्चिदेष ब्रह्मण्य् अनन्ते ऽप्य् अणुमात्रभेदम् & पश्यत्यथामुष्य भयं तदैव यद्वीक्षितं भिन्नतया प्रमादात्
SKश्रुतिस्मृतिन्यायशतैर् निषिद्धे दृश्ये ऽत्र यः स्वात्ममतिं करोति & उपैति दुःखोपरि दुःखजातं निषिद्धकर्ता स मलिम्लुचो यथा
SKसत्याभिसंधानरतो विमुक्तो महत्त्वमात्मीयमुपैति नित्यम् & मिथ्याभिसन्धानरतस्तु नश्येद् दृष्टं तदेतद्यदचौरचौरयोः
SKयतिरसदनुसन्धिं बन्धहेतुं विहाय स्वयमयमहमस्मीत्य् आत्मदृष्ट्यैव तिष्ठेत् & सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या हरति परमविद्याकार्यदुःखं प्रतीतम्
SKबाह्यानुसन्धिः परिवर्धयेत्फलं दुर्वासनाम् एव ततस्ततो ऽधिकाम् & ज्ञात्वा विवेकैः परिहृत्य बाह्यं स्वात्मानुसन्धिं विदधीत नित्यम्
SKबाह्ये निरुद्धे मनसः प्रसन्नता मनःप्रसादे परमात्मदर्शनम् & तस्मिन्सुदृष्टे भवबन्धनाशो बहिर्निरोधः पदवी विमुक्तेः
SKकः पण्डितः सन्सदसद्विवेकी श्रुतिप्रमाणः परमार्थदर्शी & जानन्हि कुर्यादसतो ऽवलम्बं स्वपातहेतोः शिशुवन्मुमुक्षुः
SKदेहादिसंसक्तिमतो न मुक्तिः मुक्तस्य देहाद्यभिमत्यभावः & सुप्तस्य नो जागरणं न जाग्रतः स्वप्नस्तयोर् भिन्नगुणाश्रयत्वात्
SKअन्तर्बहिः स्वं स्थिरजङ्गमेषु ज्ञात्वात्मनाधारतया विलोक्य & त्यक्ताखिलोपाधिरखण्डरूपः पूर्णात्मना यः स्थित एष मुक्तः
SKसर्वात्मना बन्धविमुक्तिहेतुः सर्वात्मभावान् न परो ऽस्ति कश्चित् & दृश्याग्रहे सत्युपपद्यते ऽसौ सर्वात्मभावो ऽस्य सदात्मनिष्ठया
SKदृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः & संन्यस्ताखिल-धर्म-कर्म-विषयैर् नित्यात्मनिष्ठापरैः तत्त्वज्ञैः करणीयम् आत्मनि सदानन्देच्छुभिर्यत्नतः
SKसर्वात्मसिद्धये भिक्षोः कृतश्रवणकर्मणः & समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः
SKआरूढशक्तेरहमो विनाशः कर्तुन् न शक्य सहसापि पण्डितैः & ये निर्विकल्पाख्यसमाधिनिश्चलाः तानन्तरानन्तभवा हि वासनाः
SKअहंबुद्ध्यैव मोहिन्या योजयित्वावृतेर्बलात् & विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः
SKविक्षेपशक्तिविजयो विषमो विधातुं निःशेषमावरणशक्तिनिवृत्त्यभावे & दृग्दृश्ययोः स्फुटपयोजलवद्विभागे नश्येत्तदावरणम् आत्मनि च स्वभावात् \ निःसंशयेन भवति प्रतिबन्धशून्यो विक्षेपणं नहिं तदा यदि चेन्मृषार्थे
SKसम्यग्विवेकः स्फुटबोधजन्यो विभज्य दृग्दृश्यपदार्थतत्त्वम् & छिनत्ति मायाकृतमोहबन्धं यस्माद्विमुक्तस्तु पुनर्न संसृतिः
SKपरावरैकत्वविवेकवन्हिः दहत्यविद्यागहनं ह्यशेषम् & किं स्यात्पुनः संसरणस्य बीजं अद्वैतभावं समुपेयुषो ऽस्य
SKआवरणस्य निवृत्तिर्भवति हि सम्यक्पदार्थदर्शनतः & मिथ्याज्ञानविनाशस्तद्विक्षेपजनितदुःखनिवृत्तिः
SKएतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् & तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा
SKअयो ऽग्नियोगाद् इव सत्समन्वयान् मात्रादिरूपेण विजृम्भते धीः & तत्कार्यमेतद्द्वितयं यतो मृषा दृष्टं भ्रमस्वप्नमनोरथेषु
SKततो विकाराः प्रकृतेरहंमुखा देहावसाना विषयाश्च सर्वे & क्षणे ऽन्यथाभावितया ह्यमीषाम् असत्त्वमात्मा तु कदापि नान्यथा
SKनित्याद्वयाखण्डचिदेकरूपो बुद्ध्यादिसाक्षी सदसद्विलक्षणः & अहंपदप्रत्ययलक्षितार्थः प्रत्यक् सदानन्दघनः परात्मा
SKइत्थं विपश्चित्सदसद्विभज्य निश्चित्य तत्त्वं निजबोधदृष्ट्या & ज्ञात्वा स्वमात्मानमखण्डबोधं तेभ्यो विमुक्तः स्वयम् एव शाम्यति
SKअज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा & समाधिनाविकल्पेन यदाद्वैतात्मदर्शनम्
SKत्वमहमिदमितीयं कल्पना बुद्धिदोषात् प्रभवति परमात्मन्यद्वये निर्विशेषे & प्रविलसति समाधावस्य सर्वो विकल्पो विलयनमुपगच्छेद्वस्तुतत्त्वावधृत्या
SKशान्तो दान्तः परमुपरतः क्षान्तियुक्तः समाधिं कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् & तेनाविद्यातिमिरजनितान्साधु दग्ध्वा विकल्पान् ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः
SKसमाहिता ये प्रविलाप्य बाह्यं श्रोत्रादि चेतः स्वमहं चिदात्मनि & त एव मुक्ता भवपाशबन्धैः नान्ये तु पारोक्ष्यकथाभिधायिनः
SKउपाधिभेदात्स्वयम् एव भिद्यते चोपाध्यपोहे स्वयम् एव केवलः & तस्मादुपाधेर्विलयाय विद्वान् वसेत्सदाकल्पसमाधिनिष्ठया
SKसति सक्तो नरो याति सद्भावं ह्येकनिष्ठया & कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते
SKक्रियान्तरासक्तिमपास्य कीटको ध्यायन्नलित्वं ह्यलिभावमृच्छति & तथैव योगी परमात्मतत्त्वं ध्यात्वा समायाति तदेकनिष्ठया
SKअतीव सूक्ष्मं परमात्मतत्त्वं न स्थूलदृष्ट्या प्रतिपत्तुमर्हति & समाधिनात्यन्तसुसूक्ष्मवृत्या ज्ञातव्यमार्यैर् अतिशुद्धबुद्धिभिः
SKयथा सुवर्णं पुटपाकशोधितं त्यक्त्वा मलं स्वात्मगुणं समृच्छति & तथा मनः सत्त्वरजस्तमोमलं ध्यानेन सन्त्यज्य समेति तत्त्वम्
SKनिरन्तराभ्यासवशात्तदित्थं पक्वं मनो ब्रह्मणि लीयते यदा & तदा समाधिः सविकल्पवर्जितः स्वतो ऽद्वयानन्दरसानुभावकः
SKसमाधिनानेन समस्तवासना- ग्रन्थेर्विनाशो ऽखिलकर्मनाशः & अन्तर्बहिः सर्वत एव सर्वदा स्वरूपविस्फूर्तिरयत्नतः स्यात्
SKश्रुतेः शतगुणं विद्यान्मननं मननाद् अपि & निदिंध्यासं लक्षगुणमनन्तं निर्विकल्पकम्
SKनिर्विकल्पकसमाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम् & नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत्
SKअतः समाधत्स्व यतेन्द्रियः सन् निरन्तरं शान्तमनाः प्रतीचि & विध्वंसय ध्वान्तमनाद्यविद्यया कृतं सदेकत्वविलोकनेन
SKयोगस्य प्रथमद्वारं वाङ्निरोधो ऽपरिग्रहः & निराशा च निरीहा च नित्यमेकान्तशीलता
SKएकान्तस्थितिरिन्द्रियोपरमणे हेनुर्दमश्चेतसः संरोधे करणं शमेन विलयं यायादहंवासना & तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः
SKवाचं नियच्छात्मनि तं नियच्छ बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि & तं चापि पूर्णात्मनि निर्विकल्पे विलाप्य शान्तिं परमां भजस्व
SKदेहप्राणेन्द्रियमनोबुद्ध्यादिभिरुपाधिभिः & यैर् यैर् वृत्तेःसमायोगस्ततद्भावो ऽस्य योगिनः
SKतन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् & संदृश्यते सदानन्दरसानुभवविप्लवः
SKअन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते & त्यजत्यन्तर्बहिःसङ्गं विरक्तस्तु मुमुक्षया
SKबहिस्तु विषयैः सङ्गं तथान्तरहमादिभिः & विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः
SKवैराग्यबोधौ पुरुषस्य पक्षिवत् पक्षौ विजानीहि विचक्षण त्वम् & विमुक्तिसौधाग्रलताधिरोहणं ताभ्यां विना नान्यतरेण सिध्यति
SKअत्यन्तवैराग्यवतः समाधिः समाहितस्यैव दृढप्रबोधः & प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः मुक्तात्मनो नित्यसुखानुभूतिः
SKवैराग्यान् न परं सुखस्य जनकं पश्यामि वश्यात्मनः तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् & एतद्द्वारमजस्रमुक्तियुवतेर्यस्मात्त्वमस्मात्परं सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे
SKआशां छिन्द्धि विषोपमेषु विषयेष्वेषैव मृत्योः कृतिस् त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्चातिदूरात्क्रियाः & देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि त्वं द्रष्टास्यमनो ऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः
SKलक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् & ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्यानिशं ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर् भृशम्
SKअनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् & चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम्
SKएष स्वयंज्योतिरशेषसाक्षी विज्ञानकोशो विलसत्यजस्रम् & लक्ष्यं विधायैनमसद्विलक्षणम् अखण्डवृत्त्यात्मतयानुभावय
SKएतमच्छीन्नया वृत्त्या प्रत्ययान्तरशून्यया & उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम्
SKअत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन् & उदासीनतया तेषु तिष्ठेत्स्फुटघटादिवत्
SKविशुद्धमन्तःकरणं स्वरूपे निवेश्य साक्षिण्य् अवबोधमात्रे & शनैः शनैर् निश्चलतामुपानयन् पूर्णं स्वमेवानुविलोकयेत्ततः
SKदेहेन्द्रियप्राणमनो ऽहम् आदिभिः स्वाज्ञानकॢप्तैर् अखिलैर् उपाधिभिः & विमुक्तमात्मानमखण्डरूपं पूर्णं महाकाशमिवावलोकयेत्
SKघटकलशकुसूलसूचिमुख्यैः गगनमुपाधिशतैर् विमुक्तमेकम् & भवति न विविधं तथैव शुद्धं परमहमादिविमुक्तमेकम् एव
SKब्रह्मादिस्तम्बपर्यन्ता मृषामात्रा उपाधयः & ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम्
SKयत्र भ्रान्त्या कल्पितं तद्विवेके तत्तन्मात्रं नैव तस्माद्विभिन्नम् & भ्रान्तेर्नाशे भाति दृष्टाहितत्त्वं रज्जुस्तद्वद्विश्वम् आत्मस्वरूपम्
SKस्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः & स्वयं विश्वमिदं सर्वं स्वस्मादन्यन् न किंचन
SKअन्तः स्वयं चापि बहिः स्वयं च स्वयं पुरस्तात् स्वयम् एव पश्चात् & स्वयं ह्यावाच्यां स्वयमप्युदीच्यां तथोपरिष्टात्स्वयमप्यधस्तात्
SKतरङ्गफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण जलं यथा तथा & चिद् एव देहाद्यहमन्तमेतत् सर्वं चिद् एवैकरसं विशुद्धम्
SKसदेवेदं सर्वं जगदवगतं वाङ्मनसयोः सतो ऽन्यन्नास्त्य् एव प्रकृतिपरसीम्नि स्थितवतः & पृथक् किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया
SKक्रियासमभिहारेण यत्र नान्यदिति श्रुतिः & ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये
SKआकाशवन्निर्मलनिर्विकल्पं निःसीमनिःस्पन्दननिर्विकारम् & अन्तर्बहिःशून्यमनन्यमद्वयं स्वयं परं ब्रह्म किमस्ति बोध्यम्
SKवक्तव्यं किमु विद्यते ऽत्र बहुधा ब्रह्मैव जीवः स्वयं ब्रह्मैतज्जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः & ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्तबाह्याः स्फुटं ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैतद्ध्रुवम्
SKजहि मलमयकोशे ऽहंधियोत्थापिताशां प्रसभमनिलकल्पे लिङ्गदेहे ऽपि पश्चात् & निगमगदितकीर्तिं नित्यमानन्दमूर्तिं स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ
SKशवाकारं यावद्भजति मनुजस्तावदशुचिः परेभ्यः स्यात्क्लेशो जननमरणव्याधिनिलयः & यदात्मानं शुद्धं कलयति शिवाकारमचलम् तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिर् अपि
SKस्वात्मन्यारोपिताशेषाभासर्वस्तुनिरासतः & स्वयम् एव परं ब्रह्म पूर्णमद्वयमक्रियम्
SKसमाहितायां सति चित्तवृत्तौ परात्मनि ब्रह्मणि निर्विकल्पे & न दृश्यते कश्चिदयं विकल्पः प्रजल्पमात्रः परिशिष्यते यतः
SKअसत्कल्पो विकल्पो ऽयं विश्वमित्येकवस्तुनि & निर्विकारे निराकारे निर्विशेषे भिदा कुतः
SKद्रष्टुदर्शनदृश्यादिभावशून्यैकवस्तुनि & निर्विकारे निराकारे निर्विशेषे भिदा कुतः
SKकल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि & निर्विकारे निराकारे निर्विशेषे भिदा कुतः
SKतेजसीव तमो यत्र प्रलीनं भ्रान्तिकारणम् & अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः
SKएकात्मके परे तत्त्वे भेदवार्ता कथं वसेत् & सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः
SKन ह्यस्ति विश्वं परतत्त्वबोधात् सदात्मनि ब्रह्मणि निर्विकल्पे & कालत्रये नाप्यहिरीक्षितो गुणे न ह्यम्बुबिन्दुर्मृगतृष्णिकायाम्
SKमायामात्रमिदं द्वैतमद्वैतं परमार्थतः & इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते
SKअनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् & पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः
SKचित्तमूलो विकल्पो ऽयं चित्ताभावे न कश्चन & अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि
SKकिम् अपि सततबोधं केवलानन्दरूपं निरुपममतिवेलं नित्यमुक्तं निरीहम् & निरवधिगगनाभं निष्कलं निर्विकल्पं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ
SKप्रकृतिविकृतिशून्यं भावनातीतभावं समरसमसमानं मानसं बन्धदूरम् & निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ
SKअजरममरमस्ताभाववस्तुस्वरूपं स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् & शमितगुणविकारं शाश्वतं शान्तमेकं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ
SKसमाहितान्तःकरणः स्वरूपे विलोकयात्मानमखण्डवैभवम् & विच्छिन्द्धि बन्धं भवगन्धगन्धितं यत्नेन पुंस्त्वं सफलीकुरुष्व // ४११.
SKसर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम्| भावयात्मानम् आत्मस्थं न भूयः कल्पसे ऽध्वने
SKछायेव पुंसः परिदृश्यमान् माभासरूपेण फलानुभूत्या & शरीरमाराच्छववन्निरस्तं पुनर्न संधत्त इदं महात्मा
SKसततविमलबोधानन्दरूपं समेत्य त्यज जडमलरूपोपाधिमेतं सुदूरे & अथ पुनर् अपि नैष स्मर्यतां वान्तवस्तु स्मरणविषयभूतं पल्पते कुत्सनाय
SKसमूलमेतत्परिदाह्य वन्हौ सदात्मनि ब्रह्मणि निर्विकल्पे & ततः स्वयं नित्यविशुद्धबोधा नन्दात्मना तिष्ठति विद्वरिष्ठः
SKप्रारब्धसूत्रग्रथितं शरीरं प्रयातु वा तिष्ठतु गोर् इव स्रक् & न तत्पुनः पश्यति तत्त्ववेत्ता- (आ)नन्दात्मनि ब्रह्मणि लीनवृत्तिः
SKअखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः & किमिच्छन् कस्य वा हेतोर् देहं पुष्णाति तत्त्ववित्
SKसंसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः & बहिरन्तः सदानन्दरसास्वादनम् आत्मनि
SKवैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् & स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम्
SKयद्य् उत्तरोत्तराभावः पूर्वपूर्वन्तु निष्फलम् & निवृत्तिः परमा तृप्तिरानन्दो ऽनुपमः स्वतः
SKदृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् & यत्कृतं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम् \ पश्चान्नरो विवेकेन तत् कथं कर्तुम् अर्हति
SKविद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तदीक्षितम् & तज्ज्ञाज्ञयोर् यन्मृगतृष्णिकादौ नोचेद्विदां दृष्टफलं किमस्मात्
SKअज्ञानहृदयग्रन्थेर्विनाशो यद्य् अशेषतः & अनिच्छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः
SKवासनानुदयो भोग्ये वैरागस्य तदावधिः & अहंभावोदयाभावो बोधस्य परमावधिः \ लीनवृत्तैर् अनुत्पत्तिर्मर्यादोपरतेस्तु सा
SKब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधीर् अन्यावेदितभोग्यभोगकलनो निद्रालुवद्बालवत् & स्वप्नालोकितलोकवज्जगदिदं पश्यन् क्वचिल् लब्धधीर् आस्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि
SKस्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते & ब्रह्मण्य् एव विलीनात्मा निर्विकारो विनिष्क्रियः
SKब्रह्मात्मनोः शोधितयोर् एकभावावगाहिनी & निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते \ सुस्थितासौ भवेद्यस्य स्थितप्रज्ञः स उच्यते
SKयस्य स्थिता भवेत्प्रज्ञा यस्यानन्दो निरन्तरः & प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते
SKलीनधीर् अपि जागर्ति जाग्रद्धर्मविवर्जितः & बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते
SKशान्तसंसारकलनः कलावान् अपि निष्कलः & यस्य चित्तं विनिश्चिन्तं स जीवन्मुक्त इष्यते
SKवर्तमाने ऽपि देहे ऽस्मिञ्छायावदनुवर्तिनि & अहन्ताममताभावो जीवन्मुक्तस्य लक्षणम्
SKअतीताननुसन्धानं भविष्यदविचारणम् & औदासीन्यम् अपि प्राप्तं जीवन्मुक्तस्य लक्षणम्
SKगुणदोषविशिष्टे ऽस्मिन्स्वभावेन विलक्षणे & सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम्
SKइष्टानिष्टार्थसम्प्राप्तौ समदर्शितयात्मनि & उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम्
SKब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः & अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम्
SKदेहेन्द्रियादौ कर्तव्ये ममाहंभाववर्जितः & औदासीन्येन यस् तिष्ठेत्स जीवन्मुक्तलक्षणः
SKविज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् & भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्षणः
SKदेहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके & यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते
SKन प्रत्यग्ब्रह्मणोर् भेदं कदापि ब्रह्मसर्गयोः & प्रज्ञया यो विजानिति स जीवन्मुक्तलक्षणः
SKसाधुभिः पूज्यमाने ऽस्मिन् पीड्यमाने ऽपि दुर्जनैः & समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः
SKयत्र प्रविष्टा विषयाः परेरिता नदीप्रवाहा इव वारिराशौ & लिनन्ति सन्मात्रतया न विक्रियां उत्पादयन्त्येष यतिर्विमुक्तः
SKविज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः & अस्ति चेन् न स विज्ञातब्रह्मभावो बहिर्मुखः
SKप्राचीनवासनावेगादसौ संसरतीति चेत् & न सदेकत्वविज्ञानान्मन्दी भवति वासना
SKअत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि & तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः
SKनिदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते & ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात्
SKसुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते & फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित्
SKअहं ब्रह्मेति विज्ञानात् कल्पकोटिशतार्जितम् & सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत्
SKयत्कृतं स्वप्नवेलायां पुण्यं वा पापम् उल्बणम् & सुप्तोत्थितस्य किं तत् स्यात् स्वर्गाय नरकाय वा
SKस्वम् असङ्गम् उदासीनं परिज्ञाय नभो यथा & न श्लिष्यति च यत् किंचित् कदाचिद् भाविकर्मभिः
SKन नभो घटयोगेन सुरागन्धेन लिप्यते & तथात्मोपाधियोगेन तद्धर्मैर् नैव लिप्यते
SKज्ञानोदयात्पुरारब्धं कर्मज्ञानान् न नश्यति & अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत्
SKव्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ & न तिष्ठति छिनत्य् एव लक्ष्यं वेगेन निर्भरम्
SKप्राब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः सम्यग्ज्ञानहुताशनेन विलयः प्राक्षंचितागामिनाम् & ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः तेषां तत्त्रितयं नहि क्वचिद् अपि ब्रह्मैव ते निर्गुणम्
SKउपाधितादात्म्यविहीनकेवल- ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः & प्रारब्धसद्भावकथा न युक्ता स्वप्नार्थसंबन्धकथेव जाग्रतः
SKन हि प्रबुद्धः प्रतिभासदेहे देहोपयोगिन्य् अपि च प्रपञ्चे & करोत्यहन्तां ममतानिदन्तां किन्तु स्वयं तिष्ठति जागरेण
SKन तस्य मिथ्यार्थसमर्थनेच्छा न संग्रहस्तज्जगतो ऽपि दृष्टः & तत्रानुवृत्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इतीष्यते ध्रुवम्
SKतद्वत्परे ब्रह्मणि वर्तमानः सदात्मना तिष्ठति नान्यदीक्षते & स्मृतिर्यथा स्वप्नविलोकितार्थे तथा विदः प्राशनमोचनादौ
SKकर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् & नानादेर् आत्मनो युक्तं नैवात्मा कर्मनिर्मितः
SKअजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोघवाक् & तद् आत्मना तिष्ठतो ऽस्य कुतः प्रारब्धकल्पना
SKप्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः & देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः
SKशरीरस्यापि प्रारब्धकल्पना भ्रान्तिर् एव हि & अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः \ अजातस्य कुतो नाशः प्रारब्धमसतः कुतः
SKज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि & तिष्ठत्ययं कथं देह इति शङ्कावतो जडान्
SKसमाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः & न तु देहादिसत्यत्वबोधनाय विपश्चिताम्
SKपरिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् & एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन
SKसद्गनं चिद्घनं नित्यमानन्दघनमक्रियम् & एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन
SKप्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् & एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन
SKअहेयमनुपादेयमनादेयमनाश्रयम् & एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन
SKनिर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् & एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन
SKअनिरूप्य स्वरूपं यन्मनोवाचामगोचरम् & एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन
SKसत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् & एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन
SKनिरस्तरागा विनिरस्तभोगाः शान्ताः सुदान्ता यतयो महान्तः & विज्ञाय तत्त्वं परमेतदन्ते प्राप्ताः परां निर्वृतिम् आत्मयोगात्
SKभवानपीदं परतत्त्वम् आत्मनः स्वरूपमानन्दघनं विचार्य & विधूय मोहं स्वमनःप्रकल्पितं मुक्तः कृतार्थो भवतु प्रबुद्धः
SKसमाधिना साधुविनिश्चलात्मना पश्यात्मतत्त्वं स्फुटबोधचक्षुषा & निःसंशयं सम्यगवेक्षितश्चेच् छ्रुतः पदार्थो न पुनर्विकल्प्यते
SKस्वस्याविद्याबन्धसंबन्धमोक्षात् सत्यज्ञानानन्दरूपात्मलब्धौ & शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं चान्तःसिद्धा स्वानुभूतिः प्रमाणम्
SKबन्धो मोक्षश्च तृप्तिश्च चिन्तारोग्यक्षुदादयः & स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम्
SKतटस्थिता बोधयन्ति गुरवः श्रुतयो यथा & प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया
SKस्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् & संसिद्धः संमुखं तिष्ठेन्निर्विकल्पात्मनात्मनि
SKवेदान्तसिद्धान्तनिरुक्तिरेषा ब्रह्मैव जीवः सकलं जगच्च & अखण्डरूपस्थितिर् एव मोक्षो ब्रह्माद्वितीये श्रुतयः प्रमाणम्
SKइति गुरुवचनाच्छ्रुतिप्रमाणात् परमवगम्य सतत्त्वम् आत्मयुक्त्या & प्रशमितकरणः समाहितात्मा क्वचिदचलाकृतिर् आत्मनिष्ठतो ऽभूत्
SKकिंचित् कालं समाधाय परे ब्रह्मणि मानसम् & उत्थाय परमानन्दादिदं वचनमब्रवीत्
SKबुद्धिर्विनष्टा गलिता प्रवृत्तिः ब्रह्मात्मनोर् एकतयाधिगत्या & इदं न जाने ऽप्य् अनिदं न जाने किं वा कियद्वा सुखमस्त्य् अपारम्
SKवाचा वक्तुमशक्यम् एव मनसा मन्तुं न वा शक्यते स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम् & अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो यस्यांशांशलवे विलीनमधुनानन्दात्मना निर्वृतम्
SKक्व गतं केन वा नीतं कुत्र लीनमिदं जगत् & अधुनैव मया दृष्टं नास्ति किं महदद्भुतम्
SKकिं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् & अखण्डानन्दपीयूषपूर्णे ब्रह्ममहार्णवे
SKन किंचिद् अत्र पश्यामि न शृणोमि न वेद्म्य् अहम् & स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः
SKनमो नमस्ते गुरवे महात्मने विमुक्तसङ्गाय सदुत्तमाय & नित्याद्वयानन्दरसस्वरूपिणे भूम्ने सदापारदयाम्बुधाम्ने
SKयत्कटाक्षशशिसान्द्रचन्द्रिका- पातधूतभवतापजश्रमः & प्राप्तवानहमखण्डवैभवा- नन्दम् आत्मपदमक्षयं क्षणात्
SKधन्यो ऽहं कृतकृत्यो ऽहं विमुक्तो ऽहं भवग्रहात् & नित्यानन्दस्वरूपो ऽहं पूर्णो ऽहं त्वदनुग्रहात्
SKअसङ्गो ऽहम् अनङ्गो ऽहम् अलिङ्गो ऽहम् अभङ्गुरः & प्रशान्तो ऽहम् अनन्तो ऽहम् अमलो ऽहं चिरन्तनः
SKअकर्ताहमभोक्ताहमविकारो ऽहम् अक्रियः & शुद्धबोधस्वरूपो ऽहं केवलो ऽहं सदाशिवः
SKद्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम् & नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा
SKनाहमिदं नाहमदो ऽप्य् उभयोर् अवभासकं परं शुद्धम् & बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम्
SKनिरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् & नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम्
SKनारायणो ऽहं नरकान्तको ऽहं पुरान्तको ऽहं पुरुषो ऽहम् ईशः & अखण्डबोधो ऽहम् अशेषसाक्षी निरीश्वरो ऽहं निरहं च निर्ममः
SKसर्वेषु भूतेष्व् अहम् एव संस्थितो ज्ञानात्मनान्तर्बहिराश्रयः सन् & भोक्ता च भोग्यं स्वयम् एव सर्वं यद्यत्पृथग्दृष्टमिदन्तया पुरा
SKमय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः & उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात्
SKस्थुलादिभावा मयि कल्पिता भ्रमाद् आरोपितानुस्फुरणेन लोकैः & काले यथा कल्पकवत्सराय- णर्त्वादयो निष्कलनिर्विकल्पे
SKआरोपितं नाश्रयदूषकं भवेत् कदापि मूढैर् अतिदोषदूषितैः & नार्द्रिकरोत्यूषरभूमिभागं मरीचिकावारि महाप्रवाहः
SKआकाशवल्लेपविदूरगो ऽहं आदित्यवद्भास्यविलक्षणो ऽहम् & अहार्यवन्नित्यविनिश्चलो ऽहं अम्भोधिवत्पारविवर्जितो ऽहम्
SKन मे देहेन संबन्धो मेघेनेव विहायसः & अतः कुतो मे तद्धर्मा जाक्रत्स्वप्नसुषुप्तयः
SKउपाधिरायाति स एव गच्छति स एव कर्माणि करोति भुङ्क्ते & स एव जीर्यन् म्रियते सदाहं कुलाद्रिवन्निश्चल एव संस्थितः
SKन मे प्रवृत्तिर्न च मे निवृत्तिः सदैकरूपस्य निरंशकस्य & एकात्मको यो निविडो निरन्तरो व्योमेव पूर्णः स कथं नु चेष्टते
SKपुण्यानि पापानि निरिन्द्रियस्य निश्चेतसो निर्विकृतेर्निराकृतेः & कुतो ममाखण्डसुखानुभूतेः ब्रूते ह्यनन्वागतमित्य् अपि श्रुतिः
SKछायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुःष्ठु वा & न स्पृशत्य् एव यत् किंचित् पुरुषं तद्विलक्षणम्
SKन साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् & अविकारमुदासीनं गृहधर्माः प्रदीपवत्
SKरवेर्यथा कर्मणि साक्षिभावो वन्हेर्यथा दाहनियामकत्वम् & रज्जोर्यथारोपितवस्तुसङ्गः तथैव कूटस्थचिदात्मनो मे
SKकर्तापि वा कारयितापि नाहं भोक्तापि वा भोजयितापि नाहम् & द्रष्टापि वा दर्शयितापि नाहं सो ऽहं स्वयंज्योतिरनीदृगात्मा
SKचलत्युपाधौ प्रतिबिम्बलौल्यम् औपाधिकं मूढधियो नयन्ति & स्वबिम्बभूतं रविवद्विनिष्क्रियं कर्तास्मि भोक्तास्मि हतो ऽस्मि हेति
SKजले वापि स्थले वापि लुठत्वेष जडात्मकः & नाहं विलिप्ये तद्धर्मैर् घटधर्मैर् नभो यथा
SKकर्तृत्वभोक्तृत्वखलत्वमत्तता- जडत्वबद्धत्वविमुक्ततादयः & बुद्धेर्विकल्पा न तु सन्ति वस्तुतः स्वस्मिन् परे ब्रह्मणि केवले ऽद्वये
SKसन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि & किं मे ऽसङ्गचितस्तैर् न घनः क्वचिदम्बरं स्पृशति
SKअव्यक्तादिस्थूलपर्यन्तमेतत् विश्व यत्राभासमात्रं प्रतीतम् & व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं ब्रह्माद्वैतं यत्तदेवाहमस्मि
SKसर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगं सर्वशून्यम् & नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माद्वैतं यत्तदेवाहमस्मि
SKयत्प्रत्यस्ताशेषमायाविशेषं प्रत्यग्रूपं प्रत्ययागम्यमानम् & सत्यज्ञानानन्तमानन्दरूपं ब्रह्माद्वैतं यत्तदेवाहमस्मि
SKनिष्क्रियो ऽस्म्य् अविकारो ऽस्मि निष्कलो ऽस्मि निराकृतिः & निर्विकल्पो ऽस्मि नित्यो ऽस्मि निरालम्बो ऽस्मि निर्द्वयः
SKसर्वात्मको ऽहं सर्वो ऽहं सर्वातीतो ऽहम् अद्वयः & केवलाक्षण्डबोधो ऽहम् आनन्दो ऽहं निरन्तरः
SKस्वाराज्यसाम्राज्यविभूतिरेषा भवत्कृपाश्रीमहिमप्रसादात् & प्राप्ता मया श्रीगुरवे महात्मने नमो नमस्ते ऽस्तु पुनर्नमो ऽस्तु
SKमहास्वप्ने मायाकृतजनिजरामृत्युगहने भ्रमन्तं क्लिश्यन्तं बहुलतरतापैर् अनुदिनम् & अहंकारव्याघ्रव्यथितमिममत्यन्तकृपया प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो
SKनमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः & यदेतद्विश्वरूपेण राजते गुरुराज ते
SKइति नतमवलोक्य शिष्यवर्यं समधिगतात्मसुखं प्रबुद्धतत्त्वम् & प्रमुदितहृदयं स देशिकेन्द्रः पुनरिदमाह वचः परं महात्मा
SKब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्व् अपि & रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां दृश्यते तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम्
SKकस्तां परानन्दरसानुभूति- मृत्सृज्य शून्येषु रमेत विद्वान् & चन्द्रे महाल्हादिनि दीप्यमाने चित्रेन्दुमालोकयितुं क इच्छेत्
SKअसत्पदार्थानुभवेन किंचिन् न ह्यस्ति तृप्तिर्न च दुःखहानिः & तदद्वयानन्दरसानुभूत्या तृप्तः सुखं तिष्ठ सदात्मनिष्ठया
SKस्वम् एव सर्वथा पश्यन्मन्यमानः स्वमद्वयम् & स्वानन्दमनुभुञ्जानः कालं नय महामते
SKअखण्डबोधात्मनि निर्विकल्पे विकल्पनं व्योम्नि पुरप्रकल्पनम् & तदद्वयानन्दमयात्मना सदा शान्तिं परामेत्य भजस्व मौनम्
SKतूष्णीमवस्था परमोपशान्तिः बुद्धेरसत्कल्पविकल्पहेतोः & ब्रह्मात्मन ब्रह्मविदो महात्मनो यत्राद्वयानन्दसुखं निरन्तरम्
SKनास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् & विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः
SKगच्छंस्तिष्ठन्नुपविशञ्छयानो वान्यथापि वा & यथेच्छया वेसेद्विद्वानात्नारामः सदा मुनिः
SKन देशकालासनदिग्यमादि- लक्ष्याद्यपेक्षाप्रतिबद्धवृत्तेः & संसिद्धतत्त्वस्य महात्मनो ऽस्ति स्ववेदने का नियमाद्यवस्था
SKघटो ऽयमिति विज्ञातुं नियमः को ऽन्ववेक्षते & विना प्रमाणसुष्ठुत्वं यस्मिन् सति पदार्थधीः
SKअयमात्मा नित्यसिद्धः प्रमाणे सति भासते & न देशं नापि कालं न शुद्धिं वाप्यपेक्षते
SKदेवदत्तो ऽहम् इत्य् एतद् विज्ञानं निरपेक्षकम् & तद्वद् ब्रह्मविदो ऽप्य् अस्य ब्रह्माहमिति वेदनम्
SKभानुनेव जगत्सर्वं भासते यस्य तेजसा & अनात्मकमसत्तुच्छं किं नु तस्यावभासकम्
SKवेदशास्त्रपुराणानि भूतानि सकलान्य् अपि & येनार्थवन्ति तं किन्नु विज्ञातारं प्रकाशयेत्
SKएष स्वयंज्योतिरनन्तशक्तिः आत्माप्रमेयः सकलानुभूतिः & यम् एव विज्ञाय विमुक्तबन्धो जयत्ययं ब्रह्मविदुत्तमोत्तमः
SKन खिद्यते नो विषयैः प्रमोदते न सज्जते नापि विरज्यते च & स्वस्मिन्सदा क्रीडति नन्दति स्वयं निरन्तरानन्दरसेन तृप्तः
SKक्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः & तथैव विद्वान् रमते निर्ममो निरहं सुखी
SKचिन्ताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु स्वातन्त्र्येण निरङ्कुशा स्थितिरभीर्निद्रा श्मशाने वने & वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही संचारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि
SKविमानमालम्ब्य शरीरमेतद् भुनक्त्यशेषान्विषयानुपस्थितान् & परेच्छया बालवद् आत्मवेत्ता यो ऽव्यक्तलिङ्गो ऽननुषक्तबाह्यः
SKदिगम्बरो वापि च साम्बरो वा त्वगम्बरो वापि चिदम्बरस्थः & उन्मत्तवद्वापि च बालवद्वा पिशाचवद्वापि चरत्यवन्याम्
SKकामान्निष्कामरूपी संश्चरत्येकचारो मुनिः & स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः
SKक्वचिन्मूढो विद्वान् क्वचिद् अपि महाराजविभवः क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः & क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः चरत्य् एवं प्राज्ञः सततपरमानन्दसुखितः
SKनिर्धनो ऽपि सदा तुष्टो ऽप्य् असहायो महाबलः & नित्यतृप्तो ऽप्य् अभुञ्जानो ऽप्य् असमः समदर्शनः
SKअपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्य् अपि & शरीर्यप्यशरीर्येष परिच्छिन्नो ऽपि सर्वगः
SKअशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित् & प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे
SKस्थूलादिसंबन्धवतो ऽभिमानिनः सुखं च दुःखं च शुभाशुभे च & विध्वस्तबन्धस्य सदात्मनो मुनेः कुतः शुभं वाप्यशुभं फलं वा
SKतमसा ग्रस्तवद्भानादग्रस्तो ऽपि रविर्जनैः & ग्रस्त इत्युच्यते भ्रान्त्यां ह्यज्ञात्वा वस्तुलक्षणम्
SKतद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् & पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात्
SKअहिर्निर्ल्वयनीं वायं मुक्त्वा देहं तु तिष्ठति & इतस्ततश्चाल्यमानो यत् किंचित् प्राणवायुना
SKस्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् & दैवेन नीयते देहो यथाकालोपभुक्तिषु
SKप्रारब्धकर्मपरिकल्पितवासनाभिः संसारिवच्चरति भुक्तिषु मुक्तदेहः & सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं चक्रस्य मूलम् इव कल्पविकल्पशून्यः
SKनैवेन्द्रियाणि विषयेषु नियुङ्क्त एष नैवापयुङ्क्त उप्दर्शनलक्षणस्थः & नैव क्रियाफलमपीषदवेक्षते स स्वानन्दसान्द्ररसपानसुमत्तचित्तः
SKलक्ष्यालक्ष्यगतिं त्यक्त्वा यस् तिष्ठेत् केवलात्मना & शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः
SKजीवन्न् एव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः & उपाधिनाशाद्ब्रह्मैव सन् ब्रह्माप्येति निर्द्वयम्
SKशैलूषो वेषसद्भावा- भावयोश् च यथा पुमान् & तथैव ब्रह्मविच् छ्रेष्ठः सदा ब्रह्मैव नापरः
SKयत्र क्वापि विशीर्णं सत्पर्णम् इव तरोर् वपुः पततात् & ब्रह्मीभूतस्य यतेः प्राग् एव तच्चिदग्निना दग्धम्
SKसदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाद्वयानन्दमयात्मना सदा & न देशकालाद्युचितप्रतीक्षा त्वङ्मांसविट्पिण्डविसर्जनाय
SKदेहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः & अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः
SKकुल्यायामथ नद्यां वा शिवक्षेत्रे ऽपि चत्वरे & पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम्
SKपत्रस्य पुष्पस्य फलस्य नाशवद्- देहेन्द्रियप्राणधियां विनाशः & नैवात्मनः स्वस्य सदात्मकस्या- नन्दाकृतेर् वृक्षवद् अस्ति चैषः
SKप्रज्ञानघन इत्य् आत्मलक्षणं सत्यसूचकम् & अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम्
SKअविनाशी वा अरे ऽयमात्मेति श्रुतिर् आत्मनः & प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु
SKपाषाणवृक्षतृणधान्यकडङ्कराद्या दग्धा भवन्ति हि मृद् एव यथा तथैव & देहेन्द्रियासुमन आदि समस्तदृश्यं ज्ञानाग्निदग्धमुपयाति परात्मभावम्
SKविलक्षणं यथा ध्वान्तं लीयते भानुतेजसि & तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते
SKघटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् & तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम्
SKक्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले & संयुक्तमेकतां याति तथात्मन्य् आत्मविन्मुनिः
SKएवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् & ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः
SKसदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः & अमुष्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः
SKमायाकॢप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः & यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ
SKआवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे & नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् \ यद्य् अस्त्य् अद्वैतहानिः स्याद् द्वैतं नो सहते श्रुतिः
SKबन्धञ्च मोक्षञ्च मृषैव मूढा बुद्धेर्गुणं वस्तुनि कल्पयन्ति & दृगावृतिं मेघकृतां यथा रवौ यतो ऽद्वयासङ्गचिदेतदक्षरम्
SKअस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि & बुद्धेर् एव गुणावेतौ न तु नित्यस्य वस्तुनः
SKअतस्तौ मायया कॢप्तौ बन्धमोक्षौ न चात्मनि & निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने \ अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः
SKन निरोधो न चोत्पत्तिर्न बद्धो न च साधकः & न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता
SKसकलनिगमचूडास्वान्तसिद्धान्तरूपं परमिदमतिगुह्यं दर्शितं ते मयाद्य & अपगतकलिदोषं कामनिर्मुक्तबुद्धिं स्वसुतवदसकृत्त्वां भाव्यित्वा मुमुक्षुम्
SKइति श्रुत्वा गुरोर् वाक्यं प्रश्रयेण कृतानतिः & स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः
SKगुरुर् एव सदानन्दसिन्धौ निर्मग्नमानसः & पावयन्वसुधां सर्वाण् विचचार निरन्तरः
SKइत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् & निरूपितं मुमुक्षूणां सुखबोधोपपत्तये
SKहितमिदमुपदेशमाद्रियन्तां विहितनिरस्तसमस्तचित्तदोषाः & भवसुखविरताः प्रशान्तचित्ताः श्रुतिरसिका यतयो मुमुक्षवो ये
SKसंसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा- खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् & अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शयत्य् एषा शंकरभारती विजयते निर्वाणसंदायिनी
SK||इति शंकराचार्यविरचितं विवेकचुडामणि||