The Contemplation of the Blissful Land

Sukhāvatīvyūha · Sउखावतीव्यूह

The Contemplation of the Blissful Land

Sukhāvatīvyūha

Sउखावतीव्यूह

SK
P१
SK
ॐ नमो दशदिगनन्तापर्यन्तलोकधातुप्रतिष्ठितेभ्यः सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धेभ्यो ऽतीतानागत- प्रत्युत्पन्नेभ्यः. नमो ऽमिताभाय. नमो ऽमितायुषे. नमो ऽचिन्त्यगुणाक- रात्मने. नमो ऽमिताभाय जिनाय, ते मुने. सुखावतीं यामि ते चानुकम्पया. सुखावतीं कनकविचित्रकाननां मनोरमां सुगतसुतैर् अलंकृतां. तथाश्रयां प्रथितयशस्य धीमतः, प्रयामि तां बहुगुणरत्नसंचयाम्. एवं मया श्रुतम् : एकस्मिन् समये भगवान् राजगृहे विहरति स्म, गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं द्वात्रिंशता भिक्षुसहस्रैः, सर्वैर् अर्हद्भिः क्षीणास्रवैर् निःक्लेशैर् उषितवद्भिः सम्यगाज्ञासुविमुक्तचित्तैः परिक्षीणभवसंयोजनसहस्रैर् अनुप्राप्तस्वकार्थैर् विजितवद्भिर्, उत्तमदमने शमथप्राप्तैः, सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् महानागैः, षडभिज्ञैर् वशीभूतैर् अष्टविमोक्षध्यायिभिर् बलप्राप्तैर् अभिज्ञानाभिज्ञातैः, स्थविरैर्, महाश्रावकैः. तद् यथा : आज्ञातकौण्डिन्येन च, अश्वजिता च, बाष्पेण च, महानाम्ना च, भद्रजिता P२ च, यशोदेवेन च, विमलेन च, सुबाहुना च, पूर्णेन च मैत्रायणीपुत्रेण, गवांपतिना च, उरुविल्वाकाश्यपेन च, नदीकाश्यपेन च, भद्रकाश्यपेन च, कुमारकाश्यपेन च, महाकाश्यपेन च, शारिपुत्रेण च, महामौद्गल्यायनेन च, महाकप्फिनेन च, महाचुन्देन च, अनिरुद्धेन च, राधेन च, नन्दिकेन च, किम्पिलेन च, सुभूतिना च, रेवतेन च, खदिरवनिकेन च, वक्कुलेन च, स्वागतेन च, अमोघराजेन च, पारायणिकेन च, पन्थेन च, चूलपन्थेन च, नन्देन च, राहुलेन च, आयुष्मता चानन्देन. एभिश् चान्यैश् चाभिज्ञानाभिज्ञातैः स्थविरैर् महाश्रावकैर्, एकपुद्गलं स्थापयित्वा शैक्षप्रतिपद्य् उत्तरिकरणीयं, यद् इदम् : आयुष्मन्तम् आनन्दं, मैत्रेयपूर्वंगमैश् च संबहुलैश् च बोधिसत्त्वैर् महासत्त्वैः. अथ खल्व् आयुष्मान् आनन्द उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत् : विप्रसन्नानि च तव भगवत इन्द्रियाणि, परिशुद्धश् छविवर्णः, पर्यवदातो मुखवर्णः पीतनिर्भासः, तद् यथा शारदं वनदं पाण्डु परिशुद्धं पर्यवदातं पीतनिर्भासं. एवम् एव भगवतो विप्रसन्नानीन्द्रियाणि, परिशुद्धो मुखवर्णः, पर्यवदातश् छविवर्णः पीतनिर्भासः. तद् यथापि नाम भगवञ् जांबूनदसुवर्णनिष्को, दक्षेण कर्मारेण कर्मारपुत्रेण वोल्कामुखे संप्रवेश्य सुपरिनिष्ठितः पाण्डुकम्बलैर् P३ उपरि क्षिप्तो, ऽतीवपरिशुद्धो भवति ; पर्यवदातः पीतनिर्भासः. एवम् एव भगवतो विप्रसन्नानीन्द्रियाणि, परिशुद्धो मुखवर्णः, पर्यवदातश् छविवर्णः पीतनिर्भासः. न खलु पुनर् अहं भगवन्न् अभिजानामि : इति पूर्वं पुर्वतरम्, एवं विप्रसन्नानि तथागतस्येन्द्रियाण्य्, एवं परिशुद्धं मुखवर्णं, पर्यवदातं छविवर्णं पीतनिर्भासम्. तस्य मे भगवन्न् एवं भवति : बुद्धविहारेण वताद्य तथागतो विहरति ; जिनविहारेण, सर्वज्ञताविहारेण, महानागविहारेण वताद्य तथागतो विहरति. अतीतानागतप्रत्युत्पन्नान् तथागतान् अर्हतः सम्यक्संबुद्धान् समनुपश्यतीति. एवम् उक्ते, भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् : साधु साध्व् आनन्द, किं पुनस् ते देवता एतम् अर्थम् आरोचयन्त्य्, उताहो बुद्धा भगवन्तः. अथ स्वेन प्रत्युत्पन्न- मीमांसाज्ञानेनैवं प्रजानासीति. एवम् उक्ते, आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् : न मे भगवन् देवता एतम् अर्थम् आरोचयन्ति, नापि बुद्धा भगवन्तः. अथ तर्हि मे भगवन् स्वेनैव प्रत्यात्ममीमांसाज्ञानेनैवं भवति : बुद्धविहारेणाद्य तथागतो विहरति ; जिनविहारेण, सर्वज्ञताविहारेण, महानागविहारेण वताद्य तथागतो विहरति ; अतीतानागतप्रत्युत्पन्नान् सर्वान् बुद्धान् भगवतः P४ समनुपश्यतीति. एवम् उक्ते, भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् : साधु साध्व् आनन्द ; उदारः खलु त उन्मिञ्जिः, भद्रिका मीमांसा, कल्यानं प्रतिभानं, बहुजनहिताय यस् त्वम् आनन्द प्रतिपन्नो, बहुजनसुखाय, लोकानुकम्पायै, महतो जनकायस्यार्थाय, हिताय सुखाय देवानां च मनुष्यानां च, यस् त्वं तथागतम् एतम् अर्थं परिप्रष्टव्यं मन्यसे. एवम् एतद् भवत्य् आनन्द, तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेष्व् अप्रमेयेष्व् असंख्येयेषु ज्ञानदर्शनम् उपसंहरतः, न च तथागतस्य ज्ञानम् उपहन्यते. तत् कस्य हेतोः. अप्रतिहतहेतुज्ञानदर्शनो ह्य् आनन्द तथागतः. आकाङ्क्षन् आनन्द तथागत एकपिण्डपातेन कल्पं वा तिष्ठेत्, कल्पशतं वा, कल्पसहस्रं वा, कल्पशतसहस्रं वा, यावत् कल्पकोटीनयुतशतसहस्रं वा, ततो वोत्तरि, न च तथागतस्येन्द्रियाण्य् उपनश्येयुः ; न मुख- वर्णस्यान्यथात्वं भवेत् ; नापि छविवर्ण उपहन्यते. तत् कस्य हेतोः. तथा ह्य् आनन्द तथागतः समाधिमुख- पारमिताप्राप्तः. सम्यक्संबुद्धानाम् आनन्द लोके सुदुर्लभः प्रादुर्भावः ; तद् यथोदुम्बरपुष्पाणां लोके प्रादुर्भावः सुदुर्लभो भवति, एवम् एव तथागतानाम् अर्थकामानां हितैषिणाम् अनुकम्पकानां महाकरुणाप्रतिपन्नानां सुदुर्लभः प्रादुर्भावः. अपि तु खल्व् आर्यानन्द P५ तथागतस्यैवैषो ऽनुभावो, यस् त्वं सर्वलोकाचार्याणाम् सत्त्वानां लोके प्रादुर्भावाय बोधिसत्त्वानां महासत्त्वानाम् अर्थाय तथागतम् एतम् अर्थं परिप्रष्टव्यं मन्यसे. तेन ह्य् आनन्द शृणु साधु च सुष्ट्ःउ च, मनसि कुरु, भाषिष्ये ऽहं ते. एवं भगवन्न् इत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्. भगवांस् तस्यैतद् अवोचत् : भूतपूर्वम् आनन्दातीते ऽध्वनीतो ऽसंख्येये कल्पे ऽसंख्येयतरे विपुले ऽप्रमेये ऽचिन्त्ये, यदासीत् तेन कालेन तेन समयेन दीपंकरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि. दीपंकरस्यानन्द परेण परतरं प्रतापवान् नाम तथागतो ऽभूत्. तस्य परेण परतरं प्रभाकरो नाम तथागतो ऽभूत्. तस्य परेण परतरं चन्दनगन्धो नाम तथागतो ऽभूत्. तस्य परेण परतरं सुमेरुकल्पो नाम तथागतो ऽभूत्. एवं चन्द्राननो नाम, विमलाननो नाम, अनुपलिप्तो नाम, विमलप्रभो नाम, नागाभिभूर् नाम, सूर्याननो नाम, गिरिराजघोषो नाम, सुमेरुकूटो नाम, सुवर्णप्रभासो नाम, ज्योतिष्प्रभो नाम, वैडूर्यनिर्भासो नाम, ब्रह्मघोषो नाम, चन्द्राभिभूर् नाम, सूर्यघोषो नाम, मुक्तकुसुमप्रतिमण्डितप्रभो नाम, श्रीकूतो नाम, सागरवरबुद्धिविक्रीडिताभिज्ञो नाम, वरप्रभो नाम, महागन्धराजनिर्भासो नाम, व्यपगतखिलमलप्रतिघो नाम, शूरकूटो नाम, रत्नजहो नाम, महागुणधरबुद्धिप्राप्ताभिज्ञो नाम, चन्द्रसूर्यजिह्मीकरणो नाम, उत्तप्तवैडूर्यनिर्भासो नाम, चित्तधाराबुद्धिसंकुसुमिताभ्युद्गतो P६ नाम पुष्पावतीवनराजसंकुसुमिताभिज्ञो नाम, पुष्पाकरो नाम, उदकचन्द्रोपमो नाम, अविद्यान्धकारविध्वंसनकरो नाम, लोकेन्द्रो नाम, मुक्तच्छत्राप्रवाडसदृशो नाम, तिष्यो नाम, धर्ममतिविनन्दितराजो नाम, सिंह- सागरकूटविनन्दितराजो नाम, सागरमेरुचन्द्रो नाम, ब्रह्म- स्वरनादाभिनन्दिनो नाम, कुसुमसंभवो नाम, प्राप्तसेनो नाम, चन्द्रभानुर् नाम, मेरुकूटो नाम, चन्द्रप्रभो नाम, विमलनेत्रो नाम, गिरिराजघोषेश्वरो नाम, कुसुमप्रभो नाम, कुसुमवृष्ट्याभिप्रकीर्णो नाम, रत्नच्छत्रो नाम, पद्मवीथ्युपशोभितो नाम, तगरगन्धो नाम, रत्ननिर्भासो नाम, निर्मितो नाम, महाव्यूहो नाम, व्यपगतखिलदोषो नाम, ब्रह्मघोषो नाम, सप्तरत्नाभिवृष्टो नाम, महागुणधरो नाम, तमालपत्रचन्दनकर्दमो नाम, कुसुमाभिज्ञो नाम, अज्ञानविध्वंसनो नाम, केशरी नाम, मुक्तच्छत्रो नाम, सुवर्णगर्भो नाम, वैडूर्यगर्भो नाम, महाकेतुर् नाम, धर्मकेतुर् नाम, रत्नश्रीर् नाम, नरेन्द्रो नाम, लोकेन्द्रो नाम, कारुणिको नाम, लोकसुन्दरो नाम, ब्रह्मकेतुर् नाम, धर्ममतिर् नाम, सिंहो नाम, सिंहमतिर् नाम, सिंहमतेर् आनन्द परेण परतरं लोकेश्वरराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि, विद्याचरण- संपन्नः, सुगतो, लोकविदनुत्तरः, पुरुषदम्यसारथिः, शास्ता देवानां च मनुष्याणां च, बुद्धो, भगवान्. तस्य खलु पुनर् आनन्द लोकेश्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने धर्माकरो नाम भिक्षुर् अभूद्, अधिमात्रं स्मृतिमान्, गतिवान्, प्रज्ञावान्, अधिमात्रं वीर्यवान्, उदाराधिमुक्तिः. अथ खलु आनन्द स धर्माकरो भिक्षुर् उत्थायासनाद् P७ एकांसम् उत्तरासङ्गं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येनासौ भगवान् लोकेश्वरराजस् तथागतस् तेनाञ्जलिं प्रणम्य, भगवन्तं नमस्कृत्य, तस्मिन् समये संमुखम् आभिर् गाथाभिर् अभ्यष्टावीत् : अमितप्रभ, अनन्ततुल्यबुद्धे, न च इह अन्यप्रभा विभाति काचित्. सूर्यमणिसिरीण चन्द्र-आभा, न तपि न भासिषु एभि सर्वलोके. (१) रूपम् अपि अनन्तु सत्त्वसारे, तथ अपि बुद्धस्वरो अनन्तघोषः. शीलम् अपि समाधिप्रज्ञवीर्यैः सदृशु न ते ऽस्तिह लोकि कश्चिद् अन्यः. (२) गभिरु विपुलु सूक्ष्म प्राप्तु धर्मो, अचिन्ततु बुद्धवरो यथा समुद्रः. तेनोन्नमना न चास्ति शास्तुः, खिलदोषं जहिया अतार्षि पारम्. (३) यथ बुद्धवरो अनन्ततेजा प्रतपति सर्वदिशा नरेन्द्रराजा, तथ अहु बुद्ध भवित्व धर्मस्वामी, जरमरणान् प्रजां प्रमोचयेयम्. (४) दानदमथशीलक्षान्तिवीर्य- ध्यानसमाधि तथैव अग्रश्रेष्ठां, एभि अहु व्रतां समाददामि, बुद्ध भविष्यामि सर्वसत्त्वत्राता. (५) बुद्धशतसहस्रकोट्य् अनेका P८ यथरिव वालिक गङ्गया अनन्ता, सर्व त अहु पूजयिष्य नाथान् शिववरबोधिगवेषको अतुल्यां. (६) गङ्गरजसमान लोकधातूं तत्र भूयोत्तरि ये अनन्त क्षेत्रा, सर्वत प्रभ मुञ्चयिष्ये तत्रा इति एतादृशि वीर्यम् आरभिष्ये. (७) क्षेत्र मम उदारु अग्रश्रेष्ठो, वरम् इह मण्ड पि संस्कृतेस्मिन्. असदृश निर्वाणलोकधातुसौख्यं, तच् च असत्त्वतया विशोधयिष्ये. (८) दशदिशत समागतानि सत्त्वा तत्र गताः सुखम् एधिष्यन्ति क्षिप्रम्. बुद्ध मम प्रमाण अत्र साक्षी, अवितथवीर्यबलं जनेमि च्छन्दं. (९) दशदिशे लोकविदू असङ्गज्ञानी सद मम चित्तु प्रजानयन्तु ते पि. अविचिगतु अहं सदा वसेयं, प्रणिधिबलं न पुनर् निवर्तयिष्ये. (१०) अथ खलु आनन्द स धर्माकरो भिक्षुस् तं भगवन्तं लोकेश्वरराजं तथागतम् संमुखम् आभिर् गाताभिर् अभिष्टुत्यैतद् अवोचत् : अहम् अस्मि भगवन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामः, पुनः पुनर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयामि, परिणामयामि. तस्य मे भगवान् साधु तथा धर्मं देशयतु, यथाहं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुधेयं ; P९ असमसमस् तथागतो लोके भवेयं ; तांश् च मे भगवान् आकारान् परिकीर्तयतु, यैर् अहं बुद्धक्षेत्रस्य गुणव्यूहसंपदं परिगृह्नीयाम्. एवम् उक्तश् चानन्द स भगवांल् लोकेष्वरराजस् तथागतस् तं भिक्षुम् एतद् अवोचत् : तेन हि त्वं भिक्षो स्वयम् एव बुद्धक्षेत्र- गुणालंकारव्यूहसंपदं परिगृह्णीषे. सो ऽवोचत् : नाहं भगवन्न् उत्सहे. अपि तु भगवान् एव भाषत्व् अन्येषां तथागतानां बुद्धक्षेत्रगुणव्यूहालंकारसंपदं, यां श्रुत्वा वयं सर्वाकारां परिपूरयिष्याम इति. अथानन्द स लोकेश्वरराजस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तस्य भिक्षोर् आशयं ज्ञात्वा, परिपूर्णां वर्षकोटीम् एकाशीतिबुद्धकोटीनयुतशतसहस्राणां बुद्धक्षेत्रगुणालंकार- व्यूहसंपदं साकारां सोद्देशां सनिर्देशां संप्रकाशितवान् ; अर्थकामो, हितैष्य्, अनुकम्पको, ऽनुकम्पाम् उपादाय, बुद्धनेत्र्यानुपच्छेदाय, सत्त्वेषु महाकरुणां संजनयित्वा. परिपूर्णांश् च द्वाचत्वारिम्शत्कल्पांस् तस्य भगवत आयुष्प्रमाणम् अभूत्. अथ खल्व् आनन्द स धर्माकरो भिक्षुर् यास् तेषाम् एकाशीति- बुद्धकोटीनयुतशतसहस्राणां बुद्धक्षेत्रगुणालंकार- व्यूहसंपदस् ताश् च सर्वा एकबुद्धक्षेत्रे परिगृह्य, भगवतो लोकेश्वरस्य तथागतस्य पादौ शिरसा वन्दित्वा, प्रदक्षिणीकृत्य, तस्य भगवतो ऽन्तिकात् प्राक्रामत्. उत्तरि च पञ्चकल्पान् बुद्धक्षेत्रगुणालंकारव्यूहसंपदम्, P१० उदारतरांश् च प्रणीततरांश् च, सर्वलोके दशसु दिक्ष्व् अप्रचरितपूर्वां परिगृहीतवान् ; उदारं च प्रणिधानम् अकार्षीत्. इति ह्य् आनन्द या तेन भगवता लोकेश्वरराजेन तथागतेन तेषाम् एकाशीतिबुद्धक्षेत्रकोटीनयुतशतसहस्राणां संपत्तिः कथिता, ततो ऽतिरेकान्य् उदारप्रणीताप्रमेयतरां बुद्धक्षेत्रसंपत्तिं परिगृह्य, येन स तथागतस् तेनोपसंक्रम्य, तस्य भगवतः पादौ शिरसा वन्दित्वैतद् अवोचत् : परिगृहीता मे भगवन् बुद्धक्षेत्रगुणालंकार- व्यूहसंपद् इति. एवम् उक्ते, आनन्द, स लोकेश्वरराजस् तथागतस् तं भिक्षुम् एतद् अवोचत् : तेन हि भिक्षो भाषस्व. अनुमोदते तथागतः. अयं कालो भिक्षो, प्रमोदय पर्षदं, हर्षं जनय, सिंहनादं नद, यं श्रुत्वा बोधिसत्त्वा महासत्त्वा एतर्ह्य् अनागते चाध्वन्य् एवंरूपाणि बुद्धक्षेत्रसंपत्तिप्रणिधानानि परिगृहीष्यन्ति. अथानन्द स धर्माकरो भिक्षुस् तस्यां वेलायां तं भगवन्तम् एतद् अवोचत् : तेन हि शृणोतु मे भगवान्, ये मम प्रणिधानविशेषाः, यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्ये. अचिन्त्यगुणालंकारव्यूहसमन्वागतं तद् बुद्धक्षेत्रं भविष्यति : १. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे निरयो वा, तिर्यग्योनिर् वा, प्रेतविषयो वासुरो वा कायो भवेत्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. २. सचेन् मे भगवंस् तत्र बुद्धक्षेत्रे ये सत्त्वाः P११ प्रत्याजाता भवेयुस्, ते पुनस् ततश् च्युत्वा, निरयं वा, तिर्यग्योनिं वा, प्रेतविषयं वासुरं वा कायं प्रपतेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये- यम्. ३. सचेन् मे भगवंस् तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजातास्, ते च सर्वे नैकवर्णाः स्युर्, यद् इदं : सुवर्णवर्णाः, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसम्बुध्येयम्. ४. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे देवानां च मनुष्यानां च नानात्वं प्रज्ञयेतान्यत्र नामसंकेत- संवृतिव्यवहारमात्रा देवा मनुष्या इति संख्यागणनातो, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये- यम्. ५. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजातास् ते चेत् सर्वे न र्द्धिवशिता परमपारमिताप्राप्ता भवेयुर्, अन्तश एकचित्तक्षणलवेन बुद्धक्षेत्रकोटीनियुत- शतसहस्रातिक्रमणतयापि, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ६. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुस्, ते चेत् सर्वे न जातिस्मरा स्युर्, अन्तशः कल्पकोटीनियुतशतसहस्रानुस्मरणतयापि, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ७. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरंस्, ते सर्वे न दिव्यस्य चक्षुषो लाभिनो भवेयुर्, अन्तशो लोकधातुकोटीनयुतशतसहस्रादर्शनतयापि, मा P१२ तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ८. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरंस्, ते सर्वे न दिव्यस्य श्रोत्रस्य लाभिनो भवेयुर्, अन्तशो बुद्धक्षेत्रकोटीनयुतशतसहस्राद् अपि युगपत् सद्धर्मश्रवणतया, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ९. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरंस्, ते सर्वे न परचित्तज्ञानकोविदा भवेयुर्, अन्तशो बुद्धक्षेत्रकोटीनयुतशतसहस्रपर्यापन्नानां सत्त्वानां चित्तचरित्रपरिज्ञानतया, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. १०. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरंस्, तेषां काचित् परिग्रहसंज्ञोत्पद्येतान्तशः स्वशरीरे ऽपि, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ११. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरंस्, ते सर्वे न नियताः स्युर्, यद् इदं : सम्यक्त्वे यावन् महापरिनिर्वाणाद्, मा तावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. १२. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य, कश्चिद् एव सत्त्वः श्रावकानां गणानाम् अधिगच्छेद्, अन्तशस् त्रिसाहस्र- महासाहस्रपर्यापन्ना अपि सर्वसत्त्वाः प्रत्येकबुद्धभूताः कल्पकोटीनियुतशतसहस्रम् अपि गणयन्तो, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. १३. सचेन् मे भगवन्न् अनुत्तरां सम्यक्संबोधिम् P१३ अभिसंबुद्धस्य, तस्मिन् बुद्धक्षेत्रे प्रामाणिकी मे प्रभा भवेद्, अन्तशो बुद्धक्षेत्रकोटीनयुतशतसहस्रप्रमाणेनापि, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभि- संबुध्येयम्. १४. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ऽनुत्तरां सम्यक्सम्बोधिम् अभिसंबुद्धस्य बोधिप्राप्तस्य, सत्त्वानां प्रमाणीकृत्यम् आयुष्प्रमानं भवेद्, अन्यत्र प्रणिधानवशेन, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. १५. सचेन् मे भगवन् बोधिप्राप्तस्यायुष्प्रमाणं पर्यन्तीकृत्यं भवेद्, अन्तशः कल्पकोटीनयुतशतसहस्रगणनयापि, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभि- संबुध्येयम्. १६. सचेन् मे भगवन् बोधिप्राप्तस्य तस्मिन् बुद्धक्षेत्रे सत्त्वानाम् अकुशलस्य नामधेयम् अपि भवेन्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. १७. सचेन् मे भगवन् बोधिप्राप्तस्य, नाप्रमेयेषु बुद्धक्षेत्रेष्व् अप्रमेयासंख्येया बुद्धा भगवतो नामधेयं परिकीर्तयेयुर्, न वर्णं भाषेरन्, न प्रशंसाम् अभ्युदीरयेयुर्, न समुदीरयेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. १८. सचेन् मे भगवन् बोधिप्राप्तस्य, ये सत्त्वा अन्येषु लोकधातुष्व् अनुत्तरायाः सम्यक्संबोधेश् चित्तम् उत्पाद्य, मम नामधेयं श्रुत्वा, प्रसन्नचित्ता माम् अनुस्मरेयुस्, तेषां चेद् अहं मरणकालसमये प्रत्युपस्थिते भिक्षुसंघ- परिवृतः पुरस्कृतो न पुरतस् तिष्ठेयम्, यद् इदं : चित्ताविक्षेपतायै, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् P१४ अभिसंबुध्येयम्. १९. सचेन् मे भगवन् बोधिप्राप्तस्याप्रमेयासंख्येयेषु बुद्धक्षेत्रेषु ये सत्त्वाः मम नामधेयं श्रुत्वा, तत्र बुद्धक्षेत्रे चित्तं प्रेषयेयुर्, उपपत्तये कुशलमूलानि च परिणामयेयुस्, ते च तत्र बुद्धक्षेत्रे नोपपद्येरन्, अन्तशो दशभिश् चित्तोत्पादपरिवर्तैः, स्थापयित्वानन्तर्यकारिणः सद्धर्मप्रतिक्षेपावरणावृतांश् च सत्त्वान्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. २०. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे बोधिसत्त्वाः प्रत्याजायेरन्, ते सर्वे न द्वात्रिंशता महापुरुषलक्षणैः समन्वागता भवेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. २१. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुस्, ते सर्वे नैकजातिबद्धाः स्युर् अनुत्तरायां सम्यक्संबोधौ, स्थापयित्वा प्रणिधानविशेषांस् तेषाम् एव बोधिसत्त्वानां महासत्त्वानां, महा- संनाहसंनद्धानां, सर्वलोकार्थसंनद्धानां, सर्व- लोकार्थाभियुक्तानां, सर्वलोकपरिनिर्वापिताभियुक्तानां, सर्वलोकधातुषु बोधिसत्त्वचर्यां चरितुकामानां, सर्व- बुद्धान् सत्कर्तुकामानां, गङ्गानदीवालुकसमान् सत्त्वान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापकानां, भूयश् चोत्तरि- चर्याभिमुखानां समन्तभद्रचर्यानियतानां, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. २२. सचेन् मे भगवन् बोधिप्राप्तस्य, तद्-बुद्धक्षेत्रे P१५ ये बोधिसत्त्वाः प्रत्याजाता भवेयुस्, ते सर्व एकपुरोभक्तेनान्यानि बुद्धक्षेत्राणि गत्वा, बहूनि बुद्धशतानि, बहूनि बुद्धसहस्राणि, बहूनि बुद्धशतसहस्राणि, बह्वीर् बुद्धकोटीर्, यावद् बहूनि बुद्धकोटीनियुतशतसहस्राणि, नोपतिष्ठेरन् सर्वसुखोपधानैर्, यद् इदं : बुद्धानुभावेन, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसं- बुध्येयम्. २३. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे ये बोधिसत्त्वा यथारूपैर् आकारैर् आकांक्षेयुः कुषलमूलान्य् अवलोपितुं, यद् इदं : सुवर्णेन वा, रजतेन वा, मणिमुक्तावैडूर्यशङ्खशिलाप्रवाडस्फटिकमुसालगल्वालोहित- मुक्ताश्मगर्भादिभिर् वान्यतमान्यतमैः सर्वरत्नैर् वा, सर्वपुष्पगन्धमाल्यविलेपनचूर्णचीवरच्छत्र- ध्वजपताकाप्रदीपैर् वा, सर्वनृत्यगीतवाद्यैर् वा, तेषां चेत् तथारूपा आकाराः सहचित्तोत्पादान् न प्रादुर् भवेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये- यम्. २४. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुस्, ते सर्वे न सर्वज्ञतासहगतां धर्मां कथाम् कथयेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. २५. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे बोधिसत्त्वानाम् एवं चित्तम् उत्पाद्येत, यन् न्व् इहैव वयं लोकधातौ स्थित्वाप्रमेयासंख्येयेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः सत्कुर्यामो गुरुकुर्यामो मानयेमः P१६ पूजयेमः, यद् इदं : चीवरपिण्डपातशयनासनग्लान- प्रत्ययभैषज्यपरिष्कारैः पुष्पधूपगन्धमाल्यविलेपन- चूर्णचीवरच्छत्रध्वजपताकाभिर् नानाविधनृत्तगीतवादित- रत्नवर्षैर् इति, तेषां चेत् ते बुद्धा भगवन्तः सहचित्तोत्पादान् तन् न प्रतिगृह्णीयुर्, यद् इदम् : अनुकम्पाम् उपादाय, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसं- बुध्येयम्. २६. सचेन् मे भगवन् बोधिप्राप्तस्य, तद्-बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाता भवेयुस्, ते सर्वे न नारायण- वज्रसंहननात्मभावस्थामप्रतिलब्धा भवेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये- यम्. २७. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे कश्चित् सत्त्वो ऽलंकारस्य वर्णपर्यन्तम् अनुगृह्णीयाद्, अन्तशो न दिव्येनापि चक्षुषैवंवर्णम् एवंविभूतिर् इति बुद्धक्षेत्रम् इति नानावर्णतां संजानीयान्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. २८. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे यः सर्वपरीत्तकुशलमूलो बोधिसत्त्वः स षोडशयोजन- शतोच्छ्रितम् उदारवर्णबोधिवृक्षं न संजानीयान्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये- यम्. २९. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे P१७ कस्यचित् सत्त्वस्योद्देशो वा स्वाध्यायो वा कर्तव्यः स्यान्, न ते सर्वे प्रतिसंवित्प्राप्ता भवेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ३०. सचेन् मे भगवन् बोधिप्राप्तस्य, नैवंप्रभास्वरं तद् बुद्धक्षेत्रं भवेद्, यत्र समन्ताद् अप्रमे- यासंख्येयाचिन्त्यातुल्यापरिमाणानि बुद्धक्षेत्राणि संदृश्येरन्, तद् यथापि नाम सुपरिमृष्ट आदर्शमण्डले मुखमण्डलं, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ३१. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे धरणितलम् उपादाय, यावद् अन्तरीक्षाद्, देवमन्ष्यवि- षयातिक्रान्तस्याभिजातस्य धूपस्य तथागतस्य बोधिसत्त्वस्य पूजा प्रत्यहं सर्वरत्नमयानि नानासुरभिगन्धघटिकाशत- सहस्राणि सदा निर्धूपितान्य् एव न स्युर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ३२. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे न सदाभिप्रविष्टान्य् एव सुगन्धिनानारत्नपुष्पवर्षाणि, सदा प्रवादिताश् च मनोज्ञस्वरा वाद्यमेघा न स्युर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये- यम्. ३३. सचेन् मे भगवन् बोधिप्राप्तस्य, ये सत्त्वा अप्र- मेयासंख्येयाचिन्त्यातुल्येषु लोकधातुष्व् आभया स्फुटा भवेयुस्, ते सर्वे न देवमनुष्यसमतिक्रान्तेन सुखेन समन्वागता P१८ भवेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ३४. सचेन् मे भगवन् बोधिप्राप्तस्य, समन्ताच् चाप्र- मेयासंख्येयाचिन्त्यातुल्यापरिमाणेषु बुद्धक्षेत्रेषु बोधिसत्त्वा मम नामाधेयं श्रुत्वा, तच्-छ्रवणसहगतेन
SK
कुशलमूलेन जातिव्यवृत्ताः सन्तो, न धारणीप्रतिलब्धा भवेयुर्, यावद् बोधिमण्डपर्यन्तम् इति, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ३५. सचेन् मे भगवन् बोधिप्राप्तस्य, समन्ताद् अप्रमे- यासंख्येयाचिन्त्यातुल्यापरिमानेषु बुद्धक्षेत्रेषु याः स्त्रियो मम नामधेयं श्रुत्वा, प्रसादं संजनयेयुर्, बोधिचित्तं चोत्पादयेयुः, स्त्रीभावं च विजुगुप्स्येरन्, जातिव्यतिवृत्ताः समानाः सचेद् द्वितीयं स्त्रीभावं प्रतिलभेरन्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसं- बुध्येयम्. ३६. सचेन् मे भगवन् बोधिप्राप्तस्य, समन्ताद् दशसु दिक्ष्व् अप्रमेयासंख्येयाचिन्त्यातुल्यापरिमाणेषु बुद्धक्षेत्रेषु ये बोधिसत्त्वा मम नामधेयं श्रुत्वा, प्रणिपत्य पञ्चमण्डलनमस्कारेण वन्दिष्यन्ते, ते बोधिसत्त्वचर्यां चरन्तो, न सदेवकेन लोकेन नमसा सत्कृत्येरन्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ३७. सचेन् मे भगवन् बोधिप्राप्तस्य, कस्यचिद् बोधिसत्त्वस्य चीवरधावनशोषणसीवनरजनकर्म कर्तव्यं भवेन्, P१९ न नवनवाभिजातचीवररत्नैः प्रावृतम् एवात्मानं संजानीयुः, सहचित्तोत्पादात् तथागतस्याज्ञानुज्ञातैर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ३८. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे सहोत्पन्नाः सत्त्वा नैवंविधं सुखं प्रतिलभेरंस्, तद् यथापि नाम निष्परिदाहस्यार्हतो भिक्षोस् तृतीयध्यान- समापन्नस्य, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ३९. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्यजातास्, ते यथारूपं बुद्धक्षेत्र- गुणालंकारव्यूहम् आकांक्षेयुस्, तथारूपं नाना- रत्नवृक्षेभ्यो न संजानीयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ४०. सचेन् मे भगवन् बोधिप्राप्तस्य, तं मम नामधेयं श्रुत्वान्यबुद्धक्षेत्रोपपन्ना बोधिसत्त्वा इन्द्रियबलवैकल्पं निर्गच्छेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ४१. सचेन् मे भगवन् बोधिप्राप्तस्य, तद्-अन्यबुद्धक्षेत्र- स्था बोधिसत्त्वा मम नामधेयं श्रुत्वा, सहश्रवणान् न सुविभक्तवतीं नाम समाधिं प्रतिलभेरन्, यत्र समाधौ स्थित्वा बोधिसत्त्वा एकक्षणव्यतिहारेणाप्रमेया- संख्येयाचिन्त्यातुल्यापरिमाणान् बुद्धान् भगवतः पश्यन्ति, स चैषां समाधिर् अन्तरा विप्रनश्येन्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. P२० ४२. सचेन् मे भगवन् बोधिप्राप्तस्य, मम नामधेयं श्रुत्वा, तच्-छ्रवणसहगतेन कुशलमूलेन सत्त्वा नाभिजातकुलोपपत्तिं प्रतिलभेरन्, यावद् बोधिमण्ड- पर्यन्तं, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ४३. सचेन् मे भगवन् बोधिप्राप्तस्य, तद्-अन्येषु बुद्धक्षेत्रेषु ये सत्त्वा मम नामधेयं श्रुत्वा, तच्-छ्रवण- सहगतेन कुशलमूलेन यावद् बोधिपर्यन्तं न सर्वे बोधिसत्त्वचर्यायां प्रीतिप्रामोद्यकुशलमूलसमवधान- गता भवेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ४४. सचेन् मे भगवन् बोधिप्राप्तस्य, सहनामधेय- श्रवणात् तद्-अन्येषु लोकधातुषु बोधिसत्त्वा न समन्तानुगतं नाम समाधिं प्रतिलभेरन्, यत्र स्थित्वा बोधिसत्त्वा एकक्षणव्यतिहारेणाप्रमेयासंख्येयाचिन्त्यापरिमाणान् बुद्धान् भगवतः सत्कुर्वन्ति, स चैषां समाधिर् अन्तराद् विप्रनश्येद्, यावद् बोधिमण्डपर्यन्तं, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ४५. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाता भवेयुस्, ते यथारूपां धर्मदेशनाम् आकांक्षेयुः, श्रोतुम् तथारुपां सहचित्तोत्पादान् P२१ न शृणुयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम् ४६. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे तद्-अन्येषु बुद्धक्षेत्रेषु ये बोधिसत्त्वा मम नामधेयं शृणुयुर्, यस् ते सहनामधेयश्रवणान् नावैवर्त्तिका भवेयुर् अनुत्तरायाः सम्यक्संबोधेर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ४७. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे ये बोधिसत्त्वा मम नामधेयं शृणुयुस्, ते सहनामधेय- श्रवणान् न प्रथमद्वितीयतृतीयाः क्षान्तीः प्रतिलभेरन्, नावैवर्त्तिको भवेद् बुद्धधर्मेभ्यो, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. अथ खल्व् आनन्द स धर्माकरो भिक्षुर् इमान् एवंरूपान् प्रणिधानविशेषान् निर्दिश्य, तस्यां वेलायां बुद्धानुभावेनेमा गाथा अभाषत : सचि मि इमि विशिष्ट नैकरूपा वरप्रणिधान सिया खु बोधिप्राप्ते, म अहु सिय नरेन्द्र सत्त्वसारो, दशबलधारि अतुल्यदक्षिणीयः (१) सचि मि सिय न क्षेत्र एवरूपं बहु अधनान प्रभूत दिव्यचित्रं, सुखि न नरकमय दुःखप्राप्तो, म अहु सिया रतनो नराण राजा. (२) सचि मि उपगतस्य बोधिमण्डं, दशदिशि प्रव्रजि नामधेयु क्षिप्रं P२२ पृथु बहव अनन्तबुद्धक्षेत्रां, म अहु सिया बलप्राप्तु लोकनाथ. (३) सचि खु अहु रमेय कामभोगां, स्मृतिमतिगतिया विहीनु सन्तः, अतुलशिव समेयमाण बोधि, म अहु सिया बलप्राप्तु शास्तु लोके. (४) विपुलप्रभ अतुल्यनन्त नाथा दिशि विदिशि स्फुरि सर्वबुद्धक्षेत्रां, राग प्रशमि प्रशमिय सर्वदोषमोहां, नरकगतिस्मि प्रशामि धूमकेतुं. (५) जानिय सुरुचिरं विशालनेत्रं, विधुनिय सर्वनराण अन्धकारम्, अपनिय सुन अक्षणान् अशेषान्, उपनिय स्वर्गपथान् अनन्ततेजा. (६) न तपति नभ चन्द्रसूर्य-आभा मणिगण अग्निप्रभा व देवतानां, अभिभवति नरेन्द्र-आभ सर्वान् पुरिमचरिं परिशुद्ध आचरित्वा. (७) पुरुषवरु निधान दुःखितानां, दिशि विदिशासु न अस्ति एवरूपा. कुशलशतसहस्र सर्व पूर्णा, पर्षगतो नदि बुद्धसिंहनदं. (८) पुरिमजिन स्वयंभु सत्करित्वा, व्रततपकोटि चरित्व अप्रमेयां, प्रवर वर समेस्ति ज्ञानस्कन्धं, प्रणिधिबलं परिपूर्ण सत्त्वसारो. (९) P२३ यथा भगवन् असङ्गज्ञानदर्शी, त्रिविध प्रजानति संस्कृतं नरेन्द्रः. अहम् अपि सिय तुल्यदक्षिणीयो, विदुः प्रवरो नरनायको नराणां. (१०) सचि मि अयु नरेन्द्र एवरूपा प्रणिधि समृध्यति बोधि प्रापुणित्वा, चलतु अयु सहस्रलोकधातूं कुसुमु प्रवर्ष नभातु देवसंघान्. (११) प्रचलित वसुधा प्रवर्षि पुष्पाः, तूर्यशता गगने थ संप्रणेदुः. दिव्यरुचिरचन्दनस्य चूर्णा, अभिकिरि चैव भविष्यि लोकि बुद्ध, इति. (१२) एवंरूपयानन्द प्रणिधिसंपदा स धर्माकरो भिक्षुर् बोधिसत्त्वो महासत्त्वः समन्वागतो ऽभूत्. एवंरूपया चानन्द प्रणिधिसंपदा अल्पका बोधिसत्त्वाः समन्वागताः. अल्पकानां चैवंरूपाणां प्रणिधीनां लोके प्रादुर्भावो भवति, परीत्तानां न पुनः सर्वशो नास्ति. स खलु पुनर् आनन्द धर्माकरो भिक्षुस् तस्य भगवतो लोकेश्वरराजस्य तथागतस्य पुरतः, सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः पुरत, इमान् एवंरूपान् प्रणिधिविशेषान् निर्दिश्य, यथाभूतं प्रतिज्ञाप्रतिपत्तिस्थितो ऽभूत्. स इमाम् एवंरूपां बुद्धक्षेत्रपरिशुद्धिं बुद्धक्षेत्र- माहात्म्यं बुद्धक्षेत्रोदारतां समुदानयन्, बोधिसत्त्वचर्यां चरन्, अप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यापरिमाणानभिलाप्यानि P२४ वर्षकोटीनयुताशतसहस्राणि न जातु कामव्यापादविहिंसावितर्का वितर्कितवान्, न जातु कामव्यापाद- विहिंसासंज्ञा उत्पादितवान्, न जातु रूपशब्दगन्धरस- स्प्रष्टव्यसंज्ञा उत्पादितवान्. स दहरो मनोहर एव सुरतो ऽभूत् ; सुखसंवासो, ऽधिवासनजातीयः, सुभरः, सुपोषो, ऽल्पेच्छसंतुष्टः, प्रविविक्तो, ऽदुष्टो, ऽमूढो, ऽवङ्को, ऽजिह्मो, ऽशथो, ऽमायावी, सुखिलो, मधुरः, प्रियालापो, नित्याभियुक्तः शुक्लधर्मपर्येष्टौ ; अनिक्षिप्तधुरः, सर्वसत्त्वानाम् अर्थाय महाप्रणिधानं समुदानीतवान् ; बुद्धधर्म- संघाचार्योपाध्यायकल्याणमित्रसगौरवो ; नित्यसंनद्धो बोधिसत्त्वचर्यायाम् ; आर्जवो, मार्दवो, ऽकुहको, निलपको, गुणवान्, पूर्वंगमः सर्वसत्त्वकुशलधर्मसमादापनतायै ; शून्यतानिमित्ताप्रणिहितानभिसंस्कारानुत्पादविहारविहारी ; निर्माणः स्वारक्षितवाक्यश् चाभूत्. बोधिसत्त्वचर्यां चरन्, स यद् वाक्कर्मोत्सृष्टम्, आत्मपरोभयं व्यावाधाय संवर्तते ; तथाविधं त्यक्त्वा यद् वाक्कर्म स्वपरोभये हितसुखसंवर्तकं, तद् एवाभिप्रयुक्तवान्. एवं च संप्रजानो ऽभूत्. यद् ग्रामनगर- निगमजनपदराष्ट्रराजधानीष्व् अवतरन्, न जातु रूपशब्द- गन्धरसस्प्रष्टव्यधर्मेण नीतो ऽभूत्. अप्रतिहतः स बोधिसत्त्वचर्यां चरन्, स्वयं च दानपारमितायाम् अचरत् ; परांश् च तत्रैव समादापितवान्. स्वयं च शीलक्षान्तिवीर्य- ध्यानप्रज्ञापारमितास्व् अचरत् ; परांश् च तत्रैव समादापितवान्. तथारूपाणि च कुशलमूलानि समुदानीतवान्. यैः समन्वागतो यत्र यत्रोपपद्यते, तत्र तत्रास्यानेकानि निधन-
SK
P२५ कोटीनयुतशतसहस्राणि धरण्याः प्रादुर्भवन्ति. तेन बोधिसत्त्वचर्यां चरता, तावद् अप्रमेयासंख्येयानि सत्त्वकोटीनियुतशतसहस्राण्य् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापितानि, येषां न सुकरो वाक्कर्मणा पर्यन्तो ऽधिगन्तुम् ; तावद् अप्रमेयासंख्येया बुद्धा भगवन्तः सत्कृता गुरुकृता मानिताः पूजिताश्, चीवरपिण्डपात- शयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैः स्पर्शविहारैश् च प्रतिपादिताः ; यावन्तः सत्त्वाः श्रेष्ठिगृहपत्यामात्यक्षत्रियब्राह्मणमहाशालकुलेषु प्रतिष्ठापितास्, तेषां न सुकरो वाक्कर्मनिर्देशेन पर्यन्तो ऽधिगन्तुम् ; एवं जाम्बूद्वीपेश्वरत्वे प्रतिष्ठापिताश्, चक्रवर्तित्वे लोकपालत्वे शक्रत्वे सुयामत्वे संतुषितत्वे सुनिर्मितत्वे वशवर्तित्वे देवराजत्वे महाब्राह्मत्वे च प्रतिष्ठापिताः ; तावद् अप्रमेयासंख्येया बुद्धा भगवन्तः सत्कृता गुरुकृता मानिताः पूजिता, धर्मचक्रप्रवर्तनार्थं चाधिष्ठास्, तेषां न सुकरो वाक्कर्मनिर्देशेन पर्यन्तो ऽधि- गन्तुम्. स एवंरूपं कुशलं समुदानीयं, यद् अस्य बोधिसत्त्वचर्याश् चरतो, ऽप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यापरिमाणानभिलाप्यानि कल्पकोटीनयुतशतसहस्राणि सुरभिदिव्यातिक्रान्त- चन्दनगन्धो मुखात् प्रवाति स्म ; सर्वरोमकूपेभ्य उत्पलगन्धो वाति स्म ; सर्वलोकाभिरूपश् चाभूत्, प्रासादिको, दर्शनीयः, परमशुभवर्णपुष्कलतया समन्वागतः. लक्षणानुव्यञ्जनसमलंकृतेनात्मभावेन तस्य सर्वरत्नालंकाराः, सर्ववस्त्रचीवराभिनिर्हाराः, सर्वपुष्प- धूपगन्धमाल्यविलेपनच्छत्रध्वजपताकाभिनिर्हाराः, P२६ सर्ववाद्यसंगीत्यभिनिर्हाराश् च सर्वरोमकूपेभ्यः पाणितलाभ्यां च निश्चरन्ति स्म. सर्वान्नपानखाद्यभोज्यलेह्य- रसाभिनिर्हाराः सर्वोपभोगपरिभोगाभिनिर्हाराश् च पाणितलाभ्यां प्रस्यन्दन्तः प्रादुर्भवन्ति. इति हि सर्व- परिष्कारवशितापारमिप्राप्तः स आनन्द धर्माकरो भिक्षुर् अभूत्, पूर्वं बोधिचर्याश् चरन्. एवम् उक्ते, आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् : किं पुनर् भगवन् स धर्माकरो बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यातीतः परिनिर्वृत, उताहो ऽनभिसंबुद्धो, ऽथ प्रत्युत्पन्नो ऽभिसंबुद्ध, एतर्हि तिष्ठति ध्रियते यापयति, धर्मं च देशयति. भगवान् आह : न खलु पुनर् आनन्द स तथागतो ऽतीतो, नानागतः. अपि त्व् एष स तथागतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध, एतर्हि तिष्ठति ध्रियते यापयति, धर्मं च देशयति. पश्चिमायां दिशीतः कोटीनयुतशतसहस्रतमे बुद्धक्षेत्रे सुखावत्यां लोकधाताव् अमिताभो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो, ऽपरिमाणैर् बोधिसत्त्वैः परिवृतः पुरस्कृतो, ऽनन्तैः श्रावकैर् अनन्त्या बुद्धक्षेत्र- संपदा समन्वागतः. अमिता चास्य प्रभा, यस्या न सुकरं प्रामाणं पर्यन्तो वाधिगन्तुम् ; इयन्ति बुद्धक्षेत्राणि, इयन्ति बुद्धक्षेत्रशतानि, इयन्ति बुद्धक्षेत्रसहस्राणि, इयन्ति बुद्धक्षेत्रशतसहस्राणि, इयन्ति बुद्धक्षेत्रकोटी, इयन्ति बुद्धक्षेत्रकोटीशतानि, इयन्ति बुद्धक्षेत्र- कोटीसहस्राणि, इयन्ति बुद्धक्षेत्रकोटीशतसहस्राणि, इयन्ति बुद्धक्षेत्र- कोटीनयुतशतसहस्रानि स्फुरित्वा तिष्ठन्तीति. अपि त्व् P२७ खल्व् आनन्द संक्षिप्तेन पूर्वस्यां दिशि गङ्गानदीवालिकासमानि बुद्धक्षेत्रकोटीनयुतशतसहस्राणि तया तस्य भगवतो ऽमिताभस्य तथागतस्य प्रभया सदा स्फुटानि. एवं दक्षिणपश्चिमोत्तरासु दिक्ष्व् अध ऊर्ध्वम् अनुविदिक्ष्व् एकैकस्यां दिशि समन्ताद् गङ्गानदीवालिकासमानि बुद्धक्षेत्र- कोटीनयुतशतसहस्राणि तस्य भगवतो ऽमिताभस्य तथागतस्य तया प्रभया सदा स्फुटानि, स्थापयित्वा बुद्धान् भगवतः पूर्वप्रणिधानाधिष्ठानेन ये व्योम- प्रभयैकद्वित्रिचतुःपञ्चदशविंशतित्रिंशच्चत्वारिंशद्योजन- प्रभया, योजनशतप्रभया, योजनसहस्रप्रभया, योजन- शतसहस्रप्रभया, यावद् अनेकयोजनकोटीनयुतशतसहस्र- प्रभया, यावल् लोकं स्फरित्वा तिष्ठन्ति. नास्त्य् आनन्दोपमोपन्यासो, येन शक्यं तस्यामिताभस्य तथागतस्य प्रभयाः प्रमाणम् उद्गृहितुम्. तद् अनेनानन्द पर्यायेण स तथागतो ऽमिताभ इत्य् उच्यते ; अमितप्रभो, ऽमितप्रभासो, ऽसमाप्तप्रभो, ऽसण्गप्रभो, ऽप्रतिहतप्रभो, नित्योत्सृष्टप्रभो, दिव्यमणिप्रभो, ऽप्रतिहत- रश्मिराजप्रभो, रञ्जनीयप्रभः, प्रेमणीयप्रभः, प्रामोदनीय- प्रभः, प्रह्लादनीयप्रभ, उल्लोकनीयप्रभो, निबन्धनीय- प्रभो, ऽचिन्त्यप्रभो, ऽतुल्यप्रभो, ऽभिभूयनरेन्द्रासुरेन्द्र- प्रभो, ऽभिभूयचन्द्रसूर्यजिह्मीकरणप्रभो, ऽभिभूयलोकपालशक्रब्रह्मशुद्धावासमहेश्वरसर्वदेव- जिह्मीकरणप्रभः, सर्वप्रभापारगत इत्य् उच्यते. सा चास्य प्रभा विमला, विपुला, कायसुखसंजननी, चित्तौद्बिल्यकरणी, देवासुरनागयक्षगन्धर्वगरुडमहोरग- किन्नरमनुष्यामनुष्याणां प्रीतिप्रामोद्यसुखकरणी, कुशलाशयानां कल्यलघुगतिविचक्षणबुद्धिप्रामोद्यकरण्य् P२८ अन्येष्व् अपि अनन्तापर्यन्तेषु बुद्धक्षेत्रेषु. अनेन चानन्द पर्यायेण तथागतः परिपूर्णं कल्पं भाषेत, तस्यामिताभस्य तथागतस्य नामकर्मोपादाय प्रभाम् आरभ्य, न च शक्तो गुणपर्यन्तो ऽधिगन्तुं तस्याः प्रभायाः. न च तथागतस्य वैशारद्योपच्छेदो भवेत्. तत् कस्य हेतोः. उभयम् अप्य् एतद् आनन्दाप्रमेयम् असंख्येयम् अचिन्त्यापर्यन्तम्, यद् इदं तस्य भगवतो प्रभागुणविभूतिस् तथागतस्य चानुत्तरं प्रज्ञाप्रतिभानम्. तस्य खलु पुनर् आनन्दामिताभस्य तथागतस्याप्रमेयः श्रावकसंघो, यस्य न सुकरं प्रमाणम् उद्गृहीतुम् ; इयत्यः श्रावककोट्य, इयन्ति श्रावककोटीशतानि, इयन्ति श्रावक- कोटीसहस्राणि, इयन्ति श्रावककोटीशतसहस्राणि, इयन्ति कङ्कराणि, इयन्ति बिंबराणि, इयन्ति नयुतानि, इयन्त्य् अयुतानि, इयन्ति अक्षोभ्याणि, इयन्त्यो विवाहा, इयन्ति श्रोतांसि, इयन्त्यो जाया, इयन्त्य् अप्रमेणेयाणि, इयन्त्य् असंख्येयानि, इयन्त्य् अगण्यानि, इयन्त्य् अतुल्याणि, इयन्त्य् अचिन्त्यानीति. तद् यथानन्द मौद्गल्यायनो भिक्षुर् ऋद्धिवशिताप्राप्तः स आकांक्षन् त्रिसाहस्रमहासाहस्रलोकधातौ यावन्ति तारारूपाणि तानि सर्वाण्य् एकरात्रिं दिवेन गणयेद्, एवंरूपानां च र्द्धिमतां कोटीनयुतशतसहस्रं भवेत्, ते वर्षकोटी- नयुतशतसहस्रम् अनन्यकर्मणो ऽमिताभस्य तथागतस्य प्रथमं श्रावकसन्निपातं गणयेयुस्, तैर् गणयद्भिः शततमो ऽपि भागो न गणितो भवेत् ; सहस्रतमो ऽपि, शतसहस्रतमो ऽपि, यावत् कलाम् अप्य्, उपमाम् अप्य्, उपनिशाम् अपि, न गणितो भवेत्. तद् यथानन्द महासमुद्राच् चतुरशीतियोजनसहस्राण्य् आवेधेन तिर्यग् अप्रमेयात्, कश्चिद् एव पुरुषः शतधाभिन्नया P२९ वालाग्रकोट्यैकम् उदकबिन्दुम् अभ्युत्क्षिपेत्, तत् किं मन्यसे, आनन्द, कतमो बहुतरो, यो वा शतधाभिन्नया वालाग्रकोट्याभ्युत्क्षिप्त एक उदकबिन्दुर्, यो वा महासमुद्रे ऽप्स्कन्धो ऽवशिष्ट इति. आह : योजनसहस्रम् अपि तावद् भगवन् महासमुद्रस्य परीत्तं भवेत्. किम् अङ्ग पुनर्, यः शतधाभिन्नया वालाग्रकोट्याभ्युत्क्षिप्त एक उदकबिन्दुः. भगवान् आह : तद् यथा स एक उदकबिन्दुर् ; इयन्तः स प्रथमसन्निपातो ऽभूत्, तैर् मौद्गल्यायनसदृशैर् भिक्षुभिर् गणयद्भिस् तेन वर्षकोटीनयुतशतसहस्रेण गणितं भवेद्, यथा महासमुद्रे ऽप्स्कन्धो ऽवशिष्ट, एवम् अगणितं द्रष्टव्यम्. कः पुनर् वादो द्वितीयतृतीयादीनां श्रावकसन्निपातादीनाम्. एवम् अनन्तापर्यन्तस् तस्य भगवतः श्रावकसंघो, यो ऽप्रमेयासंख्येय इत्य् एव संख्यां गच्छन्ति. अपरिमितं चानन्द तस्य भगवतो ऽमिताभस्य तथागतस्यायुष्प्रमाणं, यस्य न सुकरं प्रमाणम् अधिगन्तुम् ; इयन्ति वा कल्पा, इयन्ति वा कल्पशतानि, इयन्ति वा कल्पसहस्राणि, इयन्ति वा कल्पशतसहस्राणि, इयत्यो वा कल्पकोट्य, इयन्ति वा कल्पकोटीशतानि, इयन्ति वा कल्पकोटीसहस्राणि, इयन्ति वा कल्पकोटी- शतसहस्राणि, इयन्ति वा कल्पकोटीनयुतशतसहस्राणीति. अथ तर्ह्य् आनन्दापरिमितम् एव तस्य भगवत आयुष्प्रमाणम् अपर्यन्तम्. तेन स तथागतो ऽमितायुर् इत्य् उच्यते. यथा चानन्देह लोकधातौ कल्पसंख्या कल्पगणना प्रज्ञप्तिकसंकेतस्, तथा सांप्रतं दशकल्पास् तस्य भगवतो ऽमितायुषस् तथागतस्योत्पन्नस्यानुत्तरां सम्यक्संबोधिम् P३० अभिसंबुद्धस्य. तस्य खलु पुनर् आनन्द भगवतो ऽमिताभस्य सुखावती नाम लोकधातुर्, ऋद्धा च, स्फीता च, क्षेमा च, सुभिक्षा च, रमणीया च, बहुदेवमनुष्याकीर्णा च. तत्र खल्व् अप्य् आनन्द लोकधातौ न निरयाः सन्ति, न तिर्यग्योनिर्, न प्रेतविषयो, नासुराः काया, नाक्षणोपपत्तयः ; न च तानि रत्नानि लोके प्रचरन्ति, यानि सुखावत्यां लोकधातौ संविद्यन्ते. सा खल्व् आनन्द सुखावती लोकधातुः सुरभिनानागन्धसमीरिता, नानापुष्पफलसमृद्धा, रत्नवृक्षसमलंकृता, तथागताभिनिर्मितमनोज्ञस्वरनानाद्विजसंघनिषेविता. ते चानन्द रत्नवृक्षा नानावर्णा, अनेकवर्णा, अनेकशत- सहस्रवर्णाः : सन्ति तत्र रत्नवृक्षाः सुवर्णवर्णाः सुवर्ण- मयाः ; सन्ति रूप्यवर्णा रूप्यमयाः ; सन्ति वैडूर्यवर्णा वैडूर्यमयाः ; सन्ति स्फटिकवर्णाः स्फटिकमयाः ; सन्ति मुसारगल्ववर्णा मुसारगल्वमयाः ; सन्ति लोहितमुक्तावर्णा लोहितमुक्तामयाः ; सन्त्य् अश्मगर्भवर्णा अश्मगर्भमयाः. सन्ति केचिद् द्वयो रत्नवृक्षयोः सुवर्णस्य रूप्यस्य च. सन्ति त्रयाणां रत्नानां सुवर्णस्य रूप्यस्य वैडूर्यस्य च. सन्ति चतुर्णां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य च. सन्ति पञ्चानां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य च. सन्ति षण्णां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितमुक्तायाश् च. सन्ति सप्तानां रत्नानां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य मुसालगल्वस्य लोहितमुक्ताया, अश्मगर्भस्य च सप्तमस्य. P३१ तत्रानन्द सौवर्णाणां वृक्षाणां सुवर्णमयानि मूल- स्कन्धविटपशाखापत्त्रपुष्पानि फलानि रौप्यमयानि ; रौप्यमयानां वृक्षाणां रूप्यमयान्य् एव मूलस्कन्धविटप- शाखापत्त्रपुष्पानि फलानि वैडूर्यमयानि ; वैडूर्यमयानां वृक्षानां वैडूर्यमयानि मूलस्कन्धविटपशाखापत्त्र- पुष्पाणि फलानि स्फटिकमयानि ; स्फटिकमयानां वृक्षाणां स्फटिकमयान्य् एव मूलस्कन्धविटपशाखापत्त्र- पुष्पाणि फलानि मुसारगल्वमयानि ; मुसारगल्वमयानां वृक्षाणां मुसारगल्वमयान्य् एव मूलस्कन्धविटपशाखा- पत्त्रपुष्पाणि फलानि लोहितमुक्तामयानि ; लोहितमुक्तामयानां वृक्षाणां लोहितमुक्तामयान्य् एव मूलस्कन्धविटपशाखा- पत्त्रपुष्पाणि फलान्य् अश्मगर्भमयाणि ; अश्मगर्भ- मयाणां वृक्षानाम् अश्मगर्भमयाण्य् एव मूलस्कन्धविटप- शाखापत्त्रपुष्पाणि फलानि सुवर्णमयानि. केषांचिद् आनन्द वृक्षाणां सुवर्णमयानि मूलानि, रौप्यमयाः स्कन्धा, वैडूर्यमया विटपाः, स्फटिकमयाः शाखा, मुसारगल्वमयानि पत्त्राणि, लोहितमुक्तामयानि पुष्पाण्य्, अश्मगर्भमयाणि फलानि ; केषांचिद् आनन्द वृक्षाणां रूप्यमयानि मूलानि, वैडूर्यमयाः स्कन्धाः, स्फटिकमया विटपा, मुसारगल्वमयाः शाखा, लोहितमुक्तामयानि पत्त्राण्य्, अश्मगर्भमयाणि पुष्पाणि, सुवर्णमयानि फलानि ; केषांचिद् आनन्द वृक्षाणां वैडूर्यमयानि मूलानि, स्फटिकमयाः स्कन्धा, मुसारगल्वमया विटपा, लोहितमुक्तामयाः शाखा, अश्मगर्भमयाणि पत्त्राणि, सुवर्णमयानि पुष्पाणि, रौप्यमयानि फलानि ; केषांचिद् आनन्द वृक्षाणां P३२ स्फटिकमयानि मूलानि, मुसारगल्वमयाः स्कन्धा, लोहितमुक्तामया विटपा, अश्मगर्भमयाः शाखाः, सुवर्णमयानि पत्त्राणि, रौप्यमयानि पुष्पाणि, वैडूर्यमयानि फलानि ; केषांचिद् आनन्द वृक्षानां मुसारगल्वमयानि मूलानि, लोहित- मुक्तामयाः स्कन्धा, अश्मगर्भमया विटपाः, सुवर्ण- मयाः शाखा, रौप्यमयानि पत्त्राणि, वैडूर्यमयानि पुष्पाणि, स्फटिकमयानि फलानि ; केषांचिद् आनन्द वृक्षाणां लोहितमुक्तामयानि मूलान्य्, अश्मगर्भमयाः स्कन्धाः, सुवर्णमया विटपा, रौप्यमया शाखा, वैडूर्यमयाणि पत्त्राणि, स्फटिकमयानि पुष्पाणि, मुसारगल्वमयानि फलानि ; केषांचिद् आनन्द वृक्षाणाम् अश्मगर्भमयानि मूलानि, सुवर्णमयाः स्कन्धा, रौप्यमया विटपा, वैडूर्यमयाः शाखाः, स्फटिकमयानि पत्त्रानि, मुसारगल्वमयानि पुष्पाणि, लोहितमुक्तामयानि फलानि ; केषांचिद् आनन्द वृक्षाणां सप्तरत्नमयानि मूलानि, सप्तरत्नमयाः स्कन्धाः, सप्तरत्नमया विटपाः, सप्तरत्नमयाः शाखाः, सप्तरत्नमयानि पत्त्राणि, सप्तरत्नमयानि पुष्पानि, सप्तरत्नमयानि फलानि. सर्वेषां चानन्द तेषां वृक्षाणां मूलस्कन्धविटपशाखा- पत्त्रपुष्पफलानि मृदूनि सुखसंस्पर्शानि सुगन्धीनि ; वातेन प्रेरितानां च तेषां वल्गुमनोज्ञनिर्घोषो निश्चरत्य्, असेचनको ऽप्रतिकूलः श्रवणाय. एवंरूपैर् आनन्द सप्तरत्नमयैर् वृक्षैः संततं तद् बुद्धक्षेत्रं समन्ताच् च कदलीस्तम्भैः सप्तरत्नमयै रत्नतालपण्क्तिभिश् चानुपरिक्षिप्तं, सर्वतश् च हेमजालप्रतिच्छन्नं, P३३ समन्ततश् च सप्तरत्नमयैः पद्मैः संच्छन्नं. सन्ति तत्र पद्मान्य् अर्धयोजनप्रमाणानि, सन्ति योजनप्रमाणानि, सन्ति द्वित्रिचतुःपञ्चयोजनप्रमाणानि, सन्ति यावद् दशयोजनप्रमाणानि. सर्वतश् च रत्नपद्मात् षट्त्रिंशद्रश्मिकोटीसहस्राणि निश्चरन्ति. सर्वतश् च रश्मिमुखात् षट्त्रिंशद्बुद्धकोटीसहस्राणि निश्चरन्ति ; सुवर्ण- वर्णैः कायैर् द्वात्रिंशन् महापुरुषलक्षणधरैर्, यानि पूर्वस्यां दिश्य् अप्रमेयासंख्येयासु लोकधातुषु गत्वा, सत्त्वेभ्यो धर्मं देशयन्ति. एवं दक्षिणपश्चिमोत्तरासु दिक्ष्व् अध ऊर्ध्वम् अनुविदिक्षु चानावरणे लोके ऽप्रमेयासंख्येयांल् लोकधातून् गत्वा, सत्त्वेभ्यो धर्मं देशयन्ति. तस्मिन् खलु पुनर् आनन्द बुद्धक्षेत्रे सर्वशः कालपर्वता न सन्ति, सर्वतो रत्नपर्वताः. सर्वशः सुमेरवः पर्वतराजानः, सर्वशश् चक्रवाडमहाचक्रवाडाः पर्वत- राजानो, महासमुद्राश् च न सन्ति. समन्ताच् च तद् बुद्धक्षेत्रं समं रमणीयं पाणितलजातं नानाविध- रत्नसंनिचितभूमिभागम्. एवम् उक्त आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् : ये पुनस् ते भगवंश् चातुर्महाराजकायिका देवाः सुमेरुपार्श्व- निवासिनस् त्रायस्त्रिंशा वा सुमेरुमूर्ध्नि निवासिनस्, ते कुत्र प्रतिष्ठिताः. भगवान् आह : तत् किं मन्यसे, आनन्द, ये त इह सुमेरोः पर्वतराजस्योपरि यामा देवास्, तुषिता देवा, निर्माणरतयो देवाः, परनिर्मितवशवर्तिनो देवा, ब्रह्मकायिका देवा, ब्रह्मपुरोहिता देवा, महाब्रह्मणो P३४ देवा, यावद् अकनिष्ठा देवाः, कुत्र ते प्रतिष्ठिता इति. आह : अचिन्त्यो भगवन् कर्माणां विपाकः, कर्माभिसंस्कारः. भगवान् आह : लब्धस् त्वयानन्देहाचिन्त्यः कर्माणां विपाकः, कर्माभिसंस्कारो ; न पुनर् बुद्धानां भगवताम् अचिन्त्यं बुद्धाधिष्ठानम्. कृतपुण्यानां च सत्त्वानाम् अवरोपितकुशलमूलानां तत्राचिन्त्या पुण्या विभूतिः. आह : न मे ऽत्र भगवन् काचित् कांक्षा वा, विमतिर् वा, विचिकित्सा वा. अपि तु खल्व् अहम् अनागतानां सत्त्वानां कांक्षाविमतिविचिकित्सां निर्घाताय तथागतम् एतम् अर्थं परिपृच्छामि. भगवान् आह : साधु साध्व् आनन्दैवं ते करणीयम्. तस्यां खल्व् आनन्द सुखावत्यां लोकधातौ नानाप्रकारा नद्यः प्रवहन्ति. सन्ति तत्र महानद्यो योजनविस्ताराः. सन्ति यावद् विंशतित्रिंशतिचत्वारिंशत्पञ्चाशद्, यावद् योजन- शतसहस्रविस्ताराः, द्वादशयोजनावेधाः ; सर्वाश् च नद्यः सुखवाहिन्यो, नानासुरभिगन्धवारिवाहिन्यो, नानारत्नलुडितपुष्पसंघातवाहिन्यो, नानामधुरस्वरनिर्घोषाः. तासां चानन्द कोटीशतसहस्राङ्गसंप्रयुक्तस्य दिव्यसङ्गीतिसंमूर्च्छितस्य तूर्यस्य कुशलैः संप्रवादितस्य, तावन् मनोज्ञनिर्घोषो निश्चरति. यथारूपस् तासां महा- नदीनां निर्घोषो निश्चरति, गम्भीर, आज्ञेयो, विज्ञेयो, ऽनेलः कर्णसुखो हृदयंगमः, प्रेमणीयो, वल्गुमनोज्ञो, ऽसेचनको ऽप्रतिकूलः, श्रवणीयो, ऽचिन्त्यशान्तम् अनात्मेति सुखश्रवणीयो, P३५ यस् तेषां सत्त्वानां श्रोत्रेन्द्रियानां भासम् आगच्छन्ति. तासां खलु पुनर् आनन्द महानदीनाम् उभयतस् तीराणि नानागन्धवृक्षैः संततानि, येभ्यो नानाशाखापत्त्र- पुष्पमञ्जर्यो ऽवलंबन्ते. तत्र ये सत्त्वास् तेसु नदीतीरेष्व् आकांक्षन्ति, दिव्यां निरामिषां रतिक्रीडां चानुभवितुं, तेषां तत्र नदीष्व् अवतीर्णानां आकांक्षतां गुल्फमात्रं वारि संतिष्ठन्ते ; आकांक्षतां जानुमात्रं कटीमात्रं कक्षमात्रम्, आकांक्षतां कण्ठमात्रं वारि संतिष्ठन्ते ; दिव्याश् च रतयः प्रादुर्भवन्ति. तत्र ये सत्त्वा आकांक्षन्ति : शीतं वारि भवत्व् इति, तेषां शीतं भवति ; ये आकांक्षन्त्य् : उष्णं भवत्व् इति, तेषाम् उष्णं भवति ; ये आकांक्षन्ति : शीतोष्णं भवत्व् इति, तेषां शीतोष्णम् एव तद् वारि भवत्य् अनुसुखम्. ताश् च महानद्यो दिव्यतमालपत्त्रागरुकालानुसारितगरोरग- सारचन्दनवरगन्धवासितवारिपरिपूर्णाः प्रवहन्ति ; दिव्योत्पलपद्मकुमुदपुण्डरीकसौगन्धिकादिपुष्पसंच्छन्ना, हंससारसचक्रवाककारण्डवशुकसारिकाकोकिलकुणाल- कलविङ्कमयूरादिमनोज्ञस्वरतथागताभिनिर्मितपक्षि- संघनिषेवितपुलिना, धातुराष्ट्रोपशोभिताः, सूपतीर्था, विकर्दमाः, सुवर्णवालिकासंस्तीर्णाः. तत्र यदा ते सत्त्वा आकांक्षन्ति : ईदृशा अस्माकम् अभिप्रायाः परिपूर्यन्ताम् इति, तदा तेषां तादृशा एवाभिप्राया धर्म्याः परिपूर्यन्ते. यश् P३६ चासाव् आनन्द तस्य वारिणो निर्घोषस् तावद् मनोज्ञो निश्चरति, येन सर्वावत् तद् बुद्धक्षेत्रम् अभिज्ञाप्यते. तत्र ये सत्त्वा नदीतीरेषु स्थिता आकांक्षन्ति : मास्माकम् अयं शब्दः श्रोत्रेन्द्रियाभासम् आगच्छन्न् इति, तेषां स दिव्यस्यापि श्रोत्रेन्द्रियस्याभासं नागच्छति. यश् च यश् च यथारूपं शब्दम् आकांक्षन्ति श्रोतुं, स तथारूपम् एवं मनोज्ञं शब्दं शृणोति ; तद् यथा ; बुद्धशब्दं, धर्मशब्दम्, संघशब्दं, पारमिताशब्दं, भूमिशब्दं, बलशब्दं, वैशारद्यशब्दम्, आवेणिकबुद्धधर्मशब्दम्, अभिज्ञाशब्दम्, प्रतिसंविच्छब्दं शून्यतानिमित्ताप्रणिहितानभिसंस्कार- अजातानुत्पादाभावनिरोधशब्दं, शान्तप्रशान्तोपशान्त- शब्दं, महामैत्रीमहाकरुणामहामुदितामहोपेक्षाशब्दम्, अनुत्पत्तिकधर्मक्षान्त्यभिषेकभूमिप्रतिलम्भशब्दं च शृणोति. त एवंरूपांश् छब्दांश् छ्रुत्वोदारप्रीतिप्रामोद्यं प्रतिलभन्ते, विवेकसहगतं, विरागसहगतं, शान्तसहगतं, निरोधसहगतं, धर्मसहगतं, बोधि- परिनिष्पत्तिकुशलमूलसहगतं च. सर्वशश् चानन्द सुखावत्यां लोकधाताव् अकुशलशब्दो नास्ति ; सर्वशो नीवरणशब्दो नास्ति ; सर्वशो ऽपायदुर्गतिविनिपात- शब्दो नास्ति ; सर्वशो दुःखशब्दो नास्ति ; अदुःखासुख- वेदनाशब्दो ऽपि तावद् आनन्द तत्र नास्ति ; कुतः पुनर् दुःखं दुःखशब्दो वा भविष्यति. P३७ तद् अनेनानन्द पर्यायेण सा लोकधातुः सुखावत्य् उच्यते संक्षिप्तेन, न पुनर् विस्तरेण. कल्पो ऽपि परिक्षयं गच्छेत्, सुखावत्यां लोकधातौ सुखकारणेषु परिकीर्तयमानेषु ; न त्व् एव शक्यं तेषां सुखकारणानां पर्यन्तो ऽधिगन्तुम्. तस्यां खलु पुनर् आनन्द सुखावत्यां लोकधातौ ये सत्त्वाः प्रत्याजाताः प्रत्याजनिष्यन्ते वा, सर्वे त एवंरूपेण वर्णेन, बलेन, स्थाम्नारोहपरिणाहेनाधिपत्येन, पुण्य- संचयेनाभिज्ञाभिर् वस्त्राभरणोद्यानविमानकूटागार- परिभोगैर्, एवंरूपशब्दगन्धरसस्पर्शापरिभोगैर्, एवंरूपैश् च सर्वोपभोगपरिभोगैः समन्वागताः ; तद् यथापि नाम देवाः परनिर्मितवशवर्तिनः. न खलु पुनर् आनन्द सुखावत्यां लोकधातौ सत्त्वा औदारिकं कवडीकाराहारम् आहरन्ति. अपि तु खलु पुनर् यथारूपम् एवाहारम् आकांक्षन्ति, तथारूपम् आहृतम् एव संजानन्ति. प्रीणितकायाश् च भवन्ति, प्रीणितगात्राः. न तेषां भूयः काये प्रक्षेपः करणीयः. ते प्रीणितकायास् तथारूपानि गन्धजातान्य् आकांक्षन्ति, तादृशैर् एव गन्धजातैर् दिव्यैस् तद्-बुद्धक्षेत्रं सर्वम् एव निर्धूपितं भवति. तत्र यस् तं गन्धं नाघ्रातुकामो भवति, तस्य सर्वशो गन्धसंज्ञावासनापि न समुदाचरति. एवं ये यथारूपाणि गन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वज- पताकातूर्याण्य् आकांक्षन्ति, तेषां तथारूपैर् एवं तैः सर्वं तद्-बुद्धक्षेत्रं परिस्फुटं भवति. ते यादृशानि चीवराण्य् आकांक्षन्ति नानावर्णान्य् अनेकशत- P३८ सहस्रवर्णानि, तेषां तादृशैर् एव चीवररत्नैः समं तद्- बुद्धक्षेत्रं परिस्फुटं भवति ; प्रावृतम् एव चात्मानं संजानन्ति. ते यथारूपाण्य् आभरणान्य् आकांक्षन्ति, तद् यथा : शीर्षाभरणानि वा, कर्णाभरणानि वा, ग्रीवहस्तपादाभरणानि वा, यद् इदं : मकुटानि, कुण्डलानि, कटकां, केयूरां, वत्सहारां, रूचकहारां, कर्णिका, मुद्रिकाः, सुवर्णसूत्राणि मेखलाः, सुवर्णजालानि, सर्वरत्नकंकणीजालानि, ते तथारूपैर् आभरणैर् अनेकरत्नशतसहस्रप्रत्युप्तैः स्फुटं तद्-बुद्धक्षेत्रं पश्यन्ति स्म. यद् इदम् : आभरणवृक्ष- वस्त्रैस् तैश् चाभरणैर् अलंकृतम् आत्मानं संजानन्ति. ते यादृशं विमानम् आकांक्षन्ति, यद् वर्णलिङ्गसंस्थानं, यावद् आरोहपरिणाहो, नानारत्नमयनिर्यूहशत- सहस्रसमलंकृतं, नानादिव्यदूष्यसंस्तीर्णं, विचित्रोपधान- विन्यस्तरत्नपर्यङ्कं, तादृशम् एव विमानं तेषां पुरतः प्रादुर्भवति. ते तेषु मनोभिनिर्वृतेषु विमानेषु सप्ताप्सरःसहस्रपरिवृताः पुरस्कृता विहरन्ति, क्रीडन्ति रमन्ते परिचारयन्ति. न च तत्र लोकधातौ देवानां मनुष्याणां वा नानात्वम् अस्ति, अन्यत्र संवृतिव्यवहारेण देवा मनुष्या वेति संख्यां गच्छति. तद् यथानन्द, राज्ञश् चक्रवर्तिनः पुरतो मनुष्यहीनो मनुष्यषण्डको न भासते, न तपति, न विरोचते, न भवति विशारदो, न प्रभास्वर, एवम् एव देवानां परनिर्मितवशवर्तिनां पुरतः शक्रो देवेन्द्रो न भासते, P३९ न तपति, न विरोचते, यद् इदम् : उद्यानविमानवस्त्राभरणैर्, आधिपत्येन वा, र्द्ध्या वा, प्रातिहार्येण वैश्वर्येण वा ; न तु खलु पुनर् धर्माभिसमयेन धर्मपरिभोगेन वा. तत्रानन्द यथा देवाः परनिर्मितवशवर्तिन एवं सुखावत्यां लोकधातौ मनुष्या द्रष्टव्याः. तस्यां खलु पुनर् आनन्द सुखावत्यां लोकधातौ पूर्वाह्न- कालसमये प्रत्युपस्थिते, समन्ताच् चतुर्दिशम् आकुल- समाकुला वायवो वान्ति, येनात्र रत्नवृक्षांश् चित्रान्, दर्शनीयान्, नानावर्णान्, अनेकवर्णान्, नानासुरभिदिव्यगन्धपरिवासितान् क्षोभयन्ति, संक्षोभयन्ति, ईरयन्ति, समीरयन्ति ;
SK
यतो बहूनि पुष्पशतानि तस्यां रत्नमय्यां पृथिव्यां प्रपतन्ति मनोज्ञगन्धानि दर्शनीयानि. तैश् च पुष्पैस् तद्बुद्धक्षेत्रं समन्तात् सप्तपौरुषं संस्कृतं रूपं भवति. तद् यथापि नाम कश्चिद् एव पुरुषः कुशलः पृथिव्यां पुष्पसंस्तरं संस्तृणुयाद्, उभाभ्यां पाणिभां समं रचयेत् सुचित्रं दर्शनीयम्, एवम् एतद् बुद्धक्षेत्रं तैः पुष्पैर् नानागन्धवर्णैः समन्तात् सप्तपौरुषं स्फुटं भवति. तानि च पुष्पजातानि मृदूनि काचलिन्दिकसुखसंस्पर्शान्य् ; औपम्यमात्रेण यानि निक्षिप्ते पादे चतुरङ्गुलम् एव नमन्त्य्, उत्क्षिप्ते पादे चतुरङ्गुलम् एवानमन्ति. निर्गते पुनः पूर्वाह्नकालसमये, तानि पुष्पानि निरवसेषम् अन्तर्धीयन्ते. अथ तद्-बुद्धक्षेत्रं विविक्तं, रम्यं, शुभं भवत्य्, अपरिक्लिष्टैस् तैः पूर्वपुष्पैः. ततः पुनर्
SK
अपि समन्ताच् चतुर्दिशं वायवो वान्ति, ये पूर्ववद् अभिनवानि पुष्पाण्य् अभिप्रकिरन्ति. यथा पूर्वाह्न एव मध्याह्ने, P४० ऽपराह्ने कालसमये, संध्यायां, रात्र्याः प्रथमे यामे, मध्यमे पश्चिमे च यामे. तैश् च वातैर् वायद्भिर् नानागन्धपरिवासितैस् ते सत्त्वाः स्पृष्टाः सन्त, एवं सुखसमर्पिता भवन्ति स्म, तद् यथापि नाम निरोधसमापन्नो भिक्षुः. तस्मिंश् चानन्द बुद्धक्षेत्रे सर्वशो ऽग्निचन्द्रसूर्य- ग्रहनक्षत्रतारारूपानां तमोऽन्धकारस्य च नामधेय- प्रज्ञप्तिर् अपि नास्ति. सर्वशो रात्रिदिवप्रज्ञप्तिर् अपि नास्त्य्, अन्यत्र तथागतव्यवहारात्. सर्वशश् चागारपरिग्रह- संज्ञा नास्ति. तस्यां खलु पुनर् आनन्द सुखावत्यां लोकधातौ काले दिव्यगन्धोदकमेघा अभिप्रवर्षन्ति. दिव्यानि सर्व- वर्णिकानि कुसुमानि, दिव्यानि सप्तरत्नानि, दिव्यं चन्दन- चूर्णं, दिव्याश् च्छत्रध्वजपताका अभिप्रवर्षन्ति. दिव्यानि विमानानि, दिव्यानि वितानानि ध्रियन्ते, दिव्यानि रत्नच्छत्राणि सचामराण्य् आकाशे ध्रियन्ते. दिव्यानि वाद्यानि प्रवाद्यन्ते. दिव्याश् चाप्सरसो नृत्यन्ति स्म. तस्मिन् खलु पुनर् आनन्द बुद्धक्षेत्रे ये सत्त्वा उपपन्ना उत्पद्यन्त उपपत्स्यन्ते, सर्वे ते नियताः सम्यक्त्वे यावन् निर्वाणात्. तत् कस्य हेतोः. नास्ति तत्र द्वयो राश्योर् व्यवस्थानं प्रज्ञप्तिर् वा, यद् इदम् : अनियत्यस्य वा मिथ्यात्वनियतस्य वा. तद् अनेनाप्य् आनन्द पर्यायेण सा लोकधातुः सुखावतीत्य् उच्यते संक्षिप्तेन, न विस्तरेण. कल्पो ऽप्य् आनन्द परिक्षयेत्, सुखावत्यां लोकधातौ सुखकारणेषु परिकीर्तयमानेषु ; न च तेषां सुखकारणानां P४१ शक्यं पर्यन्तो ऽधिगन्तुम्. अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा अभाषत : सर्वे पि सत्त्वाः सुगता भवेयुः, विशुद्धज्ञानाः परमार्थकोविदा. ते कल्पकोटीम् अथ वापि उत्तरिम्, सुखावतीवर्ण प्रकाशयेयुः.(१) क्षये कल्पकोटीय व्रजेयु ताश् च, सुखावतीये न च वर्ण अन्तः. क्षयं न गच्छेत् प्रतिभा तेषां प्रकाशयन्तान थ वर्णमाला.(२) ये लोकधातूं परमाणुसदृशां च्छिन्देय भिन्देय रजांश् च कुर्यात्, अतो बहू उत्तरि लोकधातू पूरेत्व दानं रतनेहि दद्यात्.(३) न ता कलां पि उपमा पि तस्य पुण्यस्य भोन्ती पृथुलोकधातवः, यल् लोकधातूय सुखावतीये श्रुत्वैव नाम भवतीह पुण्यं (४) ततो बहू पुण्य भवेत तेषां, ये श्रद्धणेय जिनवचनसंज्ञा. श्रद्धा हि मूलं जगतस्य प्राप्तये, तस्माद् धि श्रुत्वा विमतिं विनोदयेद्, इति.(५) एवम् अप्रमेयगुणवर्णा आनन्द सुखावती लोकधातुः. तस्य खलु पुनर् आनन्द भगवतो ऽमिताभस्य तथागतस्य P४२ दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकासमेषु बुद्धक्षेत्रेषु गङ्गानदीवालुकासमा बुद्धा भगवन्तो नामधेयं परिकीर्तयन्ते, वर्णं भाषन्ते, यशः प्रकाशयन्ति, गुणम् उदीरयन्ति. तत् कस्य हेतोः. ये केचित् सत्त्वास् तस्य ऽमिताभस्य तथागतस्य नामधेयं शृण्वन्ति, श्रुत्वा चान्तश एकचित्तोत्पादम् अप्य् अध्याशयेन प्रसादसहगतम् उत्पादयन्ति, सर्वे ते ऽवैवर्त्तिकतायां संतिष्ठन्ते ऽनुत्तरायाः सम्यक्संबोधेः. ये चानन्द केचित् सत्त्वास् तं तथागतं पुनः पुनर् आकारतो मनसीकरिष्यन्ति, बहुपरिमितं च कुशलमूलम् अवरोपयिष्यन्ति, बोधाय चित्तं परिणाम्य तत्र च लोकधाताव् उपपत्तये प्रणिधास्यन्ति, तेषां सो ऽमिताभस् तथागतो ऽर्हन् सम्यक्संबुद्धो मरणकालसमये प्रत्युपस्थिते ऽनेकभिक्षुगणपरिवृतः पुरस्कृतः स्थास्यति. ततस् ते तं भगवन्तं दृष्ट्वा प्रसन्नचित्ताः सन्ति, तत्रैव सुखावत्यां लोकधाताव् उपपद्यते. य आनन्दाकांक्षत, कुलपुत्रो वा कुलदुहिता वा, किम् इत्य् अहं दृष्ट एव धर्मे तम् अमिताभं तथागतं पश्येयम् इति, तेनानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्याध्याशयपतितया संतत्या तस्मिन् बुद्धक्षेत्रे चित्तं संप्रेष्योपपत्तये कुशलमूलानि च परिणामयितव्यानि. ये पुनस् तं तथागतं न भूयो मनसीकरिष्यन्ति, न च बहुपरिमितं कुशलमूलम् अभीक्ष्णम् अवरोपयिष्यन्ति, तत्र च बुद्धक्षेत्रे चित्तं संप्रेषयिष्यन्ति, तेषां तादृशेनैव सो ऽमिताभस् तथागतो ऽर्हन् सम्यक्संबुद्धो P४३ वर्णसंस्थानारोहपरिणाहेन भिक्षुसंघपरिवारेण, तादृश एव बुद्धनिर्मितो मरणकाले पुरतः स्थास्यति, ते तेनैव तथगतदर्शनप्रसादालम्बनेन समाधिनाप्रमुषितया स्मृत्या च्युतास्, तत्रैव बुद्धक्षेत्रे प्रत्याजनिष्यन्ति. ये पुनर् आनन्द सत्त्वास् तं तथागतं दशचित्तोत्पादां समनुस्मरिष्यन्ति ; स्पृहांश् च तस्मिन् बुद्धक्षेत्रे उत्पादयिष्यन्ति ; गम्भीरेषु च धर्मेषु भाष्यमाणेषु तुष्टिं प्रतिलप्स्यन्ते, न विपत्स्यन्ते, न विषादम् आपत्स्यन्ते, न संसीदम् आपत्स्यन्ते ; ऽन्तश एकचित्तोत्पादेनापि तं तथागतं मनसिकरिष्यन्ति, स्पृहां चोत्पादयिष्यन्ति तस्मिन् बुद्धक्षेत्रे, ते ऽपि स्वप्नान्तरगतास् तम् अमिताभं तथागतं द्रक्ष्यन्ति ; सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; ऽवैवर्त्तिकाश् च भविष्यन्त्य् अनुत्तरायाः सम्यक्संबोधेः. इमं खल्व् आनन्दार्थवसं संपश्यन्तस्, ते तथागता दशसु दिक्ष्व् अप्रमेयासंख्येयासु लोकधातुसु तस्यामिताभस्य तथागतस्य नामधेयं परिकीर्तयन्तो, वर्णान् घोषयन्तः, प्रशंसाम् अभ्युदीरयन्ति. तस्मिन् खलु पुनर् आनन्द बुद्धक्षेत्रे दशभ्यो दिग्भ्य एकैकस्यां दिशि गङ्गानदीवालुकोपमा बोधिसत्त्वास् तम् अमिताभं तथागतम् उपसंक्रामन्ति दर्शनाय, वन्दनाय, पर्युपासनाय, परिप्रश्नीकरणाय ; तं च बोधिसत्त्वगणं तांश् च बुद्धक्षेत्रगुणालंकारव्यूहसंपदविशेषान् द्रष्टुम्. अथ खलु भगवांस् तस्यां वेलायाम् इमम् एवार्थं भूयस्या मात्रया परिदीपयन्न् इमा गाथा अभाषत : P४४ यथैव गङ्गाय नदीय वालिका, बुद्धान क्षेत्रा पुरिमेन तात्तकाः. यतो हि ते आगमि बुद्ध वन्दितुम् संबोधिसत्त्वा अमितायु नायकं.(१) बहुपुष्पपुटान् गृहीत्वा नानावर्ण सुरभी मनोरमान्, ओकिरन्ति नरनायकोत्तमम् अमित-आयु नरदेवपूजितम्.(२) तथ दक्षिणपश्चिमोत्तरासु बुद्धान क्षेत्रा दिशतासु तत्तकाः, यतो यतो आगमि बुद्ध वन्दितुम् संबोधिसत्त्वा अमितायु नायकं.(३) बहुगन्धपुटान् गृहीत्वा नानावर्ण सुरभी मनोरमान्, ओकिरन्ति नरनायकोत्तमं अमित-आयु नरदेवपूजितम्.(४) पूजित्व च ते बहुबोधिसत्त्वान्, वन्दित्व पादाम् अमितप्रभस्य, प्रदक्षिणीकृत्य वदन्ति चैवं : अहो ऽद्भुतं शोभति बुद्धक्षेत्रं.(५) ते पुष्पपुटाहि समोकिरन्ति उदग्रचित्ता अतुलाय प्रीतये, वाचं प्रभाषन्ति पुनस् तु : नायके, अस्मापि क्षेत्रं सिय एवरूपं.(६) P४५ तैः पुष्पपुटा इति क्षिप्त तत्र च्छत्रं तदा संस्थिहि योजनाशतां, स्वलंकृतं शोभति चित्रदण्डं, च्छादेति बुद्धस्य समन्तकायं.(७) ते बोधिसत्त्वास् तथ सत्करित्वा, कथा कथेन्ती इति तत्र तुष्टः : सुलब्ध लाभाः खलु तेहि सत्त्वैः, येही श्रुतं नाम नरोत्तमस्य.(८) अस्मेहि पी लाभ सुलब्ध पूर्वा यद् आगतस्य इम बुद्धक्षेत्रं. पश्याथ स्वप्नोपम क्षेत्र कीदृशं, यत् कल्पितं कल्पसहस्र शास्तुना.(९) पश्यथ, बुद्धो वरपुण्यराशिः, परीवृतु शोभति बोधिसत्त्वैः. अमिताभस्य आभा अमितं च तेजः, अमिता च आयुर्, अमितश् च संघः.(१०) स्मितं करोन्ती अमितायु नाथः षट्त्रिंशत्कोटीनयुतानि अर्चिषां, ये निश्चरित्वा मुखमण्डलाभः स्फुरन्ति क्षेत्राणि सहस्रकोटीः.(११) ताः सर्व अर्चीः पुनरेत्य तत्र, मूर्ध्ने च अस्तंगमि नायकस्य. देवमनुष्या जनयन्ति प्रीतिम्, P४६ अर्चिस् तदा अस्तम् इता विदित्वा.(१२) उत्तिष्ठते बुद्धसुतो महायशा नाम्नाथ सो हि अवलोकितेश्वरः : को हेतुर् अत्र भगवन्, को प्रत्ययः, येन स्मितं कुर्वसि लोकनाथ.(१३) तं व्याकरोही परमार्थकोविदा हितानुकम्पी बहुसत्त्वमोचकः. श्रुत्वा ति वाचं परमां मनोरमां, उदग्रचित्ता भविष्यन्ति सत्त्वाः.(१४) ये बोधिसत्त्वा बहुलोकधातुषु सुखावतीं प्रस्थित बुद्धपश्यना, ते श्रुत्व प्रीतिं विपुलां जनेत्वा, क्षिप्रं इमं क्षेत्र विलोकयेयुः.(१५) आगत्य च क्षेत्रम् इदं उदारं, ऋद्धीबलं प्रापुणि क्षिप्रम् एव, दिव्यं च चक्षुस्, तथ श्रोत्र दिव्यं, जातिस्मरः परमतकोविदाश् च.(१६) अमितायु बुद्धस् तद व्याकरोति : मम ह्य् अयं प्रणिधिर् अभूषि पूर्व. कथं पि सत्त्वाः श्रुणियान नामं, व्रजेयु क्षेत्रं मम नित्यम् एव.(१७) स मे अय प्रणिधि प्रपूर्ण शोभना, सत्त्वाश् च एन्ति बहुलोकधातुतः. आगत्य क्षिप्रं मम ते ऽन्तिकस्मिन् अविवर्त्तिका भोन्तिह एकजातिया.(१८) तस्माद् य इच्छतिह बोधिसत्त्वः : ममापि क्षेत्रं सिय एवरूपं. अहं पि सत्त्वा बहु मोचयेयं, P४७ नामेन घोषेन थ दर्शनेन.(१९) स शीघ्रशीघ्रं त्वरमाणरूपः, सुखावतीं गच्छतु लोकधातुं. गत्वा च पूर्वम् अमितप्रभस्य, पूजेतु बुद्धान सहस्रकोटी.(२०) बुद्धान कोटीं बहु पूजयित्वा, ऋद्धीबलेन बहु क्षेत्र गत्वा, कृत्वान पूजां सुगतान सन्तिके, भक्ताग्रम् एष्यन्ति सुखावती त, इति.(२१) तस्य खलु पुनर् आनन्द भगवतो ऽमितायुषस् तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिवृक्षः षोडसयोजनशतान्य् उच्चैत्वेनाष्टौ योजनशतान्य् अभिप्रलम्बितशाखापत्त्रपलाशः पञ्चयोजनशतमूलारोहपरिणाहः, सदापत्त्रः सदापुष्पः सदाफलो, नानावर्णो ऽनेकशतसहस्रवर्णो, नानापत्त्रो नानापुष्पो नानाफलो, नानाविचित्ररूपेन समलंकृतश्, चन्द्रभासमणिरत्नपरिस्फुटः, शक्राभिलग्नमणिरत्नविचित्रितश्, चिन्तामणिरत्नकीर्णः, सागरवरमणिरत्नसुविचित्रितो, दिव्यसमतिक्रान्तः, सुवर्णसूत्राभिप्रलम्बितो, रूचकहारो रत्नहारो वज्राहारः कटकहारो लोहितमुक्ताहारो नीलमुक्ताहारः, सिंहलतामेखलाकलापरत्नसूत्रसर्व- रत्नकञ्चुकशताभिविचित्रितः, सुवर्णजालमुक्ताजालसर्वरत्न- जालकङ्कणीजालावनतो, मकरस्वस्तिकनन्द्यावर्त्यर्धचन्द्र- समलंकृतः, किङ्किणीमणिसौवर्णसर्वरत्नालंकारविभूषितो, यथाशयसत्त्वविज्ञप्तिसमलंकृतश् च. तस्य खलु पुनर् आनन्द बोधिवृक्षस्य वातसमीरितस्य यः शब्दघोषो निश्चरति, सो ऽपरिमाणान् लोकधातून् अभिविज्ञापयति. तत्रानन्द येषां सत्त्वानां बोधिवृक्षशब्दः P४८ श्रोत्रावभासम् आगच्छति, तेषां श्रोत्ररोगो न प्रतिकांक्षितव्यो, यावद् बोधिपर्यन्तम्. येषां चाप्रमेयासंख्येया- चिन्त्यामाप्यापरिमाणानभिलाप्यानां सत्त्वानां बोधिवृक्षश् चक्षुषाभासम् आगच्छति, तेषां चक्षूरोगो न प्रतिकांक्षितव्यो, यावद् बोधिपर्यन्तम्. ये खलु पुनर् आनन्द सत्त्वास् ततो बोधिवृक्षाद् गन्धं जिघ्रन्ति, तेषां यावद् बोधिपर्यन्तं न जातु घ्राणरोगः प्रतिकांक्षितव्यः. ये सत्त्वास् ततो बोधिवृक्षात् फलान्य् आस्वादयन्ति, तेषां यावद् बोधिपर्यन्तं न जातु जिह्वारोगः प्रतिकांक्षितव्यः. ये सत्त्वास् तस्य बोधिवृक्षस्याभया स्फुटा भवन्ति, तेषां यावद् बोधिमण्डपर्यन्तं न जातु कायरोगः प्रतिकांक्षितव्यः. ये खलु पुनर् आनन्द सत्त्वास् तं बोधिवृक्षं धर्मतो निध्यायन्ति, तेषां तत्रोपादाय यावद् बोधिपर्यन्तं न जातु चित्तविक्षेपः प्रतिकांक्षितव्यः. सर्वे च ते सत्त्वाः सहदर्शनात् तस्य बोधिवृक्षस्यावैवर्त्तिकाः संतिष्ठन्ते ; यद् उतानुत्तरायाः सम्यक्संबोधेस् तिस्रश् च क्षान्तीः प्रतिलभन्ते, यद् इदं : घोषानुगाम् अनुलोमिकां अनुत्पत्तिकधर्मक्षान्तिं च ; तस्यैवामितायुषस् तथागतस्य पूर्वप्रणिधानाधिष्ठानेन, पूर्वजिनकृताधिकारतया, पूर्वप्रणिधानपरिचर्ययोश् च सुसमाप्तया, सुभावितयानू- नाविकलतया. तत्र खलु पुनर् आनन्द ये बोधिसत्त्वाः प्रत्याजाताः प्रत्याजायन्ते प्रत्याजनिष्यन्ते वा, सर्वे त एकजातिप्रतिबद्धास् तत एवानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते ; स्थापयित्वा प्रणिधानवशेन ये ते बोधिसत्त्वा महासिंहनादनादिता, P४९ उदारसंनाहसम्नद्धाः, सर्वसत्त्वपरिनिर्वाणाभियुक्ताश् च. तस्मिन् खलु पुनर् आनन्द बुद्धक्षेत्रे ये श्रावकास् ते व्योमप्रभा, ये बोधिसत्त्वास् ते योजनकोटीशतसहस्रप्रभाः ; स्थापयित्वा द्वौ बोधिसत्त्वौ, ययोः प्रभया सा लोकधातुः सततसमितं नित्यावभासस्फुटा. अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् : किं नामधेयौ भगवन् तौ सत्पुरुषौ बोधिसत्त्वौ महासत्त्वौ. भगवान् आह : एकस् तयोर् आनन्दावलोकितेश्वर बोधिसत्त्वो महासत्त्वो, द्वितीयः स्थामप्राप्तो नाम. इत एवानन्द बुद्धक्षेत्राच् च्युत्वा तत्रोपपन्नौ. तत्र चानन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाताः, सर्वे ते द्वात्रिंशता महापुरुषलक्षणैः समन्वागताः, परिपूर्णगात्रा, ध्यानाभिज्ञाकोविदाः, प्रज्ञाप्रभेदकोविदाः, कुशलास्, तीक्ष्णेन्द्रियाः, सुसंवृतेन्द्रिया, आज्ञातेन्द्रिया, अदीनाचलेन्द्रियाः, प्रतिलब्धक्षान्तिका अनन्तापर्यन्तगुणाः. तस्मिन् खलु पुनर् आनन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाताः, सर्वे ते ऽविरहिता बुद्धदर्शनेन धर्मश्रवणेनाविनिपात- धर्माणो, यावद् बोधिपर्यन्तं. सर्वे च ते तत्रोपादाय न जात्व् अजातिस्मरा भविष्यन्ति, स्थापयित्वा तथारूपेषु कल्पसंक्षोभेषु ये पूर्वस्थानप्रणिहिताः पञ्चसु कषायेषु वर्तमानेषु, यदा बुद्धानां भगवतां P५० लोके प्रादुर्भावो भवति, तद् यथापि नाम ममैतर्हि. तस्मिन् खलु पुनर् आनन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाताः, सर्वे त एकपुरोभक्तेनान्यलोकधातूं गत्वानेकनि बुद्धकोटीनयुतशतसहस्राण्य् उपतिष्ठन्ति, यावच् चाकांक्षन्ति बुद्धानुभावेन ते यथा चित्तम् उत्पादयन्त्य् : एवंरूपैः पुष्पदीपधूपगन्धमाल्यविलेपनचूर्ण- चीवरच्छत्रध्वजपताकावैजयन्तीतूर्यसंगीतिवाद्यैः पूजां कुर्याम इति, तेषां सहचित्तोत्पादात् तथारूपाण्य् एव सर्वपूजाविधानानि पाणौ प्रादुर्भवन्ति. ते तैः पुष्पैर् यावद् वाद्यैस् तेषु बुद्धेषु भगवत्सु पूजां कुर्वन्तो बह्वप- रिमाणासंख्येयं कुशलमूलम् उपचिन्वन्ति. सचेत् पुनर् आकांक्षन्त्य् : एवंरूपाः पुष्पपुटाः पाणौ प्रादुर्भवन्ति, तेषां सहचित्तोत्पादान् नानावर्णा अनेकवर्णा नानागन्धा दिव्याः पुष्पपुटाः पाणौ प्रादुर्भवन्ति. ते तैस् तथारूपैः पुष्पपुटैः तान् बुद्धान् भगवतो ऽवकिरन्ति स्म, अभ्यवकिरन्त्य्, अभिप्रकिरन्ति. तेषां च यः सर्वपरीत्तः पुष्पपुट उत्सृष्टो, दशयोजनविस्तारम् पुष्पच्छत्रं प्रादुर्भवन्ति. उपर्य् अन्तरीक्षे द्वितीये चानुत्सृष्टे, न प्रथमो धरण्यां प्रपतति. सन्ति तत्र पुष्पपुटा य उत्सृष्टाः सन्तो विंशतियोजनविस्ताराणि पुष्पच्छत्राण्य् उपर्य् अन्तरीक्षे प्रादुर्भवन्ति. सन्ति त्रिंशत्चत्वारिंशत्पञ्चाशत्, सन्ति योजन- शतसहस्रविस्ताराणि पुष्पच्छत्राण्य् उपर्य् अन्तरीक्षे प्रादुर्भवन्ति. तत्र य उदारं प्रीतिप्रामोद्यं संजनयन्त्य् ; उदारं च चित्तौद्बिल्यं प्रतिलभ्यन्ते ; ते बह्व् अपरिमितम् असंख्येयं च कुशलमूलम् अवरोप्य, बहूनि बुद्धकोटीनयुतशतसहस्राण्य् उपस्थायैकपूर्वाह्नेन पुनर् अपि सुखावत्यां लोकधातौ प्रतिष्ठन्ते, तस्यैवामितायुषस् P५१ तथागतस्य पूर्वप्रणिधानाधिष्ठानपरिग्रहेण, पूर्वप्रणिधान- समृद्धिपरिपूर्यानूनया सुविभक्ताभावितया. तस्मिन् खलु पुनर् आनन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाताः, सर्वे ते सर्वज्ञतासहगताम् एव धर्मकथां कथ्यन्ति. न च तत्र बुद्धक्षेत्रे सत्त्वानां काचित् परिग्रहसंज्ञास्ति, सर्वं तद्-बुद्धक्षेत्रं समनुचंक्रममाणा, अनुविचरन्तो न रतिं नारतिम् उत्पादयन्ति. प्रक्रामन्तस् ताश् चानुपेक्षा एवं प्रक्रामन्ति, न सापेक्षाः सर्वशस् चैषाम् एवं चित्तम् नास्ति. तत्र खलु पुनर् आनन्द सुखावत्यां लोकधातौ ये सत्त्वाः प्रत्याजाता, नास्ति तेषाम् अन्यातकसंज्ञा, नास्ति स्वकसंज्ञा, नास्ति ममसंज्ञा, नास्ति विग्रहो, नास्ति विवादो, नास्ति विरोधो, नास्ति असमचित्तः ; समचित्तास् ते, हितचित्ता, मैत्रचित्ता, मृदुचित्ताः, स्निग्धचित्ताः, कर्मण्यचित्ताः, प्रसन्नचित्ताः, स्थिरचित्ता, विनीवरणचित्ता, अक्षुभितचित्ता, अलुडितचित्ताः, प्रज्ञापारमिताचर्याचरणचित्ताश्, चित्ताधारबुद्धिप्रविष्टाः, सागरसमाः प्रज्ञया, मेरुसमा बुद्ध्यानेकगुणसंनिचया, बोध्यङ्गसंगीत्या विक्रीडिता, बुद्धसंगीत्याभियुक्ता ; मांसचक्षुः प्रतिचिन्वन्ति. दिव्यं चक्षुर् अभिनिर्हरन्ति. प्रज्ञाचक्षुर्गतिंगताः, धर्मचक्षुःपारंगताः ; बुद्धचक्षुर् निष्पादयन्तो, देशयन्तो, द्योतयन्तो, विस्तारेण प्रकाशयन्तो ; ऽसङ्गज्ञानम् अभिनिर्हरन्तस्, त्रैधातुकसमतयाभियुक्ता, दान्तचित्ताः, शान्तचित्ताः, सर्वधर्मानुपलब्धि- P५२ समन्वागताः, समुदयनिरुक्तिकुशला, धर्मनिरुक्तिसमन्वागता, हाराहारकुशला, नयानयस्थानकुशला ; लोकिकीषु कथास्व् अनपेक्षा विहरन्ति. लोकोत्तराभिः कथाभिः सारं प्रत्ययन्ति. सर्वधर्मपर्येष्टिकुसलाः, सर्वधर्मप्रकृतिव्युपसमज्ञान- विहारिनो, ऽनुपलम्भगोचरा, निष्किञ्चना, निरुपादाना, निश्चिन्ता, निरुपायासा, अनुपादाय सुविमुक्ता, अनङ्गणा, अपर्यन्तस्थायिनो, ऽभिज्ञास्व् अमूलस्थायिनो, ऽसङ्गचित्ता, अनवलीना, गम्भीरेषु धर्मेष्व् अभियुक्ता न संसीदन्ति. दुरनुबोधबुद्धज्ञानप्रवेशोद्गता, एकायतनमार्गानुप्राप्ता, निर्विचिकित्सास्, तीर्णकथंकथा, अपरप्रत्ययज्ञाना, अनधिमानिनः ; सुमेरुसमा ज्ञाने ऽभ्युद्गताः ; सागरसमा बुद्ध्याक्षोभ्या ; चन्द्रसूर्यप्रभातिक्रान्ताः प्रज्ञया, पाण्डरसुशुक्लशुभचित्तया च ; उत्तप्तहेमव्र्णसदृअशावभास- निर्भासगुणप्रधानतया च ; वसुंधरासदृशाः सर्वसत्त्व- शुभाशुभक्षपनतया ; अप्सदृशाः सर्वक्लेशमलनिधावन- प्रवाहनतया ; अग्निराजसदृशाः सर्वधर्ममन्यनाक्लेशनिर्दहनतया ; वायुसदृशाः सर्वलोकासंजनतया ; आकाशसदृशाः सर्वधर्मनैर्वेधिकतया, सर्वशो निष्किंचनतया च. पद्मसदृशाः सर्वलोकानुपलिप्तया ; कालानुसारिमहामेघसदृशा धर्माभिगर्जनतया ; महावृष्टिसदृशा धर्मसलिलाभिवर्षणतया ; ऋषभसदृशा महागणाभिभवनतया ; महानागसदृशाः परमसुदान्तचित्ततया ; भद्राश्वाजानेयसदृशाः सुविनीततया ; सिंहमृगराजसदृशा विक्रमवैशारद्यासंत्रस्ततया ; P५३ न्यग्रोधद्रुमराजसदृशाः सर्वसत्त्वपरित्राणतया ; सुमेरुपर्वतराजसदृशाः सर्वपरवाद्यकम्पनतया ; गगनसदृशा अपरिमाणमैत्रीभावनतया ; महाब्रह्मसमाः सर्वकुशलमूलधर्माधिपत्यपूर्वंगमनतया ; पक्षिसदृशाः संनिचयस्थानतया ; गरुडद्विजराजसदृशाः परप्रवादिविध्वंसनतया ; उदुम्बरपुष्पसदृशा दुर्लभोत्पत्त्यर्थितया ; नागवत् सुसमाहिता, अविक्षिप्ता, अजिह्मेन्द्रिया ; विनिश्चयकुशलाः, क्षान्तिसौरभ्यबहुला ; अनीर्ष्यकाः परसंपत्त्यप्रार्थतया. विशारदा धर्मकथास्व् ; अतृप्ता धर्मपर्येष्टौ ; वैडूर्यसदृशाः शीलेन ; रत्नाकराः श्रुतेन ; मञ्जुस्वरा महाधर्मदुन्दुभिघोषेन ; महाधर्मभेरीं पराघ्नन्तो ; महाधर्मशङ्खम् आपूरयन्तो ; महाधर्मध्वजाम् उच्छ्रापयनतो ; महाधर्मोल्कां प्रज्वालयन्तः ; प्रज्ञाविलोकिनो, ऽसंमूढा, निर्दोषाः, शान्ताखिलाः, शुद्धा, निरामगन्धा, अलुब्धाः, संविभागरता, मुक्तत्यागाः, प्रसृतपाणयो, दानसंविभागरता धर्मामिषाभ्याम्, दाने ऽमत्सरिणो, ऽसंसृष्टा, अनुत्त्रस्तमानसा, विरक्ता, धीरा, वीरा, धौरेया, धृतिमन्तो, ह्रीमन्तो, ऽसादृश्या, निरर्गडा, प्राप्ताभिज्ञाः, सुरताः सुखसंवासा, अर्थकरा, P५४ लोकप्रद्योता, नायका, नन्दीरागानुनयप्रतिघाः, प्रहीणाः, शुद्धाः, शोकापगता, निर्मलास्, त्रिमलप्रहीणा, विक्रीडिताभिज्ञा, हेतुबलिकाः, प्रणिधानबलिका, अजिह्मा, अकुटिलाः. ये ते बहुबुद्धकोटीनयुतशतसहस्रावरोपितकुशलमूला, उत्पाटितमानशल्या, अपगतरागद्वेषमोहाः, शुद्धाः, शुद्धाधिमुक्ता, जिनवरप्रशस्ता, लोकपण्डिता, उत्तप्तज्ञानसमुद्गता, जिनस्तुतास्, चित्तौद्बिल्यसमन्वागताः, शूरा, दृढा, असमा, अखिला, अतुला, अरजसः, सहिता, उदारा, ऋषभा, ह्रीमन्तो, धृतिमन्तः, स्मृतिमन्तो, मतिमन्तो, गतिमन्तः, प्रज्ञाशस्त्रप्रहरणाः, पुण्यवन्तो, द्युतिमन्तो, व्यपगतखिलमलप्रहीणा, अभियुक्ताः सातत्येषु धर्मेषु. ईदृशा आनन्द तस्मिन् बुद्धक्षेत्रे बोधिसत्त्वा महासत्त्वाः संक्षिप्तेन. विस्तरेण पुनः सचेत् कल्पकोटीनयुतशतसहस्रस्थितिकेनाप्य् आयुष्प्रमाणेन तथागतो निर्दिशेद्, न त्व् एव शक्यं तेषां सत्पुरुषाणां गुणपर्यन्तो ऽधिगन्तुम्. न च तथागतस्य वैशारद्योपच्छेदो भवेत्. तत् कस्य हेतोः. उभयम् अप्य् एतद् आनन्दाचिन्त्यम् अतुल्यम्, यद् इदम् : तेषां च बोधिसत्त्वानां गुणास् तथागतस्य चानुत्तरं प्रज्ञाप्रतिभानम्.
SK
अपि चानन्द उत्तिष्ठ पश्चान्मुखो भूत्वा, पुष्पाण्य् अवकीर्याञ्जलिं प्रगृह्य, प्रणिपत. एषासौ दिग्, यत्र स भगवान् अमिताभस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते P५५ यापयति, धर्मं च देशयति ; विरजो विशुद्धो, यस्य तं नामधेयम् अनावरणं दशदिशि लोके विघुष्टम् एकैकस्यां दिशि गङ्गानदीवालिकासमा बुद्धा भगवन्तो वर्णयन्ति, स्तुवन्ति, प्रशंसन्त्य्, असकृद् असकृद् असङ्गवाचाप्रतिवाक्याः. एवम् उक्त, आयुस्मान् आनन्दो भगवन्तम् एतद् अवोचत् : इच्छाम्य् अहं भगवन्तं तम् अमिताभम् अमितप्रभम् अमितायुषं तथागतम् अर्हन्तं सम्यक्संबुद्धं द्रष्टुम्, तांश् च बोधिसत्त्वान् महासत्त्वान् बहुबुद्धकोटीनयुतशतसहस्रावरोपितकुशलमूलान्. समनन्तराभाषिता चायुष्मतानन्देनेयं वाक्, अथ तावद् एव सो ऽमिताभस् तथागतो ऽर्हन् सम्यक्संबुद्धः स्वपाणितलात् तथारूपां प्रभां प्रामुञ्चत्, ययेदं कोटीशतसहस्रतमं बुद्धक्षेत्रं महतावभासेन स्फुटम् अभूत्. तेन खल्व् अपि समयेन सर्वत्र कोटीशतसहस्रबुद्धक्षेत्राणां, ये केचित् कालपर्वता वा, रत्नपर्वता वा, मेरुमहामेरुमुचिलिन्दमहामुचिलिन्दचक्रवाडमहाचक्रवाडा वा, भित्तयो वा, स्तम्भा वा, वृक्षगहनोद्यानविमानानि वा दिव्यमानुष्यकानि, तानि सर्वाणि तस्य तथागतस्य तया प्रभयाभिनिर्भिन्नान्य् अभूवन्, समभिभूतानि. तद् यथापि नाम पुरुषो व्याममात्रके स्थितो द्वितीयं पुरुषं प्रत्यवेक्षत आदित्ये ऽभ्युद्गत ; एवम् एवास्मिन् बुद्धक्षेत्रे भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्ष- गन्धर्वासुरगरुडकिन्नरमहोरगाश् च तस्यां वेलायाम् अद्राक्षुस् तम् अमिताभं तथागतम् अर्हन्तं सम्यक्संबुद्धं, सुमेरुम् इव पर्वतराजानं सर्वक्षेत्राभ्युद्गतम्, सर्वदिसो ऽभिभूय, भासमानं तपन्तं विरोचमानं P५६ बिभ्राजमानं, तं च महान्तं बोधिसत्त्वगणं, तं च भिक्षुसंघं, यद् इदं बुद्धानुभावेन तस्याः प्रभयाः परिशुद्धत्वात्. तद् यथेयं महापृथिव्य् एकोदकजाता भवेत्, तत्र न वृक्षा, न पर्वता, न द्वीपा, न तृणगुल्मौषधिवनस्पतयो, न नदीश्वभ्रप्रपाताः प्रज्ञायेरन्, अन्यत्रैकार्णवीभूतमहापृथिव्य् ऐका स्यात् ; एवम् एव तस्मिन् बुद्धक्षेत्रे नास्त्य् अन्यत् किंचिल् लिङ्गं वा, निमित्तं वान्यत्रैव व्यामप्रभाः श्रावकास्, ते च योजनकोटीशतसहस्रप्रभा बोधिसत्त्वाः, स च भगवान् अमिताभस् तथागतो ऽर्हन् सम्यक्संबुद्धस्, तं च श्रावकगणं तं च बोधिसत्त्वगणम् अभिभूय, सर्वा दिशः प्रभासयन् संदृश्यते. तेन खल्व् अपि समयेन तस्यां सुखावत्यां लोकधातौ बोधिसत्त्वाः श्रावाकदेवमनुष्याश् च सर्वे त इमां लोकधातुं, शाक्यमुनिं च तथागतं महता भिक्षुसंघेन परिवृतं पश्यन्ति स्म, धर्मं च देशयन्तम्. तत्र खलु भगवान् अजितं बोधिसत्त्वं महासत्त्वम् आमन्त्रयते स्म : पश्यसि त्वम् अजितामुष्मिन् बुद्धक्षेत्रे गुणालंकारव्यूहसंपदम् ; उपरिष्टाश् चान्तरीक्ष आरामरमणीयानि, वनरमणीयान्य्, उद्यानरमणीयानि, नदीपुष्किरिणीरमणीयानि, नानारत्नमयोत्पलपद्मकुमुदपुण्डऋईकाकीर्णानि ; अधस्ताच् च धरणितलम् उपादाय, यावद् अकनिष्ठभवनाद्, गगनतलं पुष्पाभिकीर्णं, पुष्पावलिसमुपशोभितं, नानास्तम्भपङ्क्तिपरिस्फुटं तथागताभिनिर्मित- नानाद्विजसंघनिषेवितम्. आह : पश्यामि भगवन्, भगवान् आह : पश्यसि पुनस् त्वम् अजितैतान् अपरान् द्विजसंघान् P५७ सर्वबुद्धक्षेत्रान् बुद्दस्वरेणाभिजिज्ञापयन्ति, येनैते बोधिसत्त्वा नित्यम् अविरहिता बुद्धानुस्मृत्या. आह : पश्यामि भगवन्. भगवान् आह : पश्यसि त्वम् अजितात्र बुद्धक्षेत्रे अमून् सत्त्वान् योजनशतसहस्रकेषु विमानेष्व् अभिरूढान्, अन्तरीक्षे ऽसक्तान् क्रामतः. आह : पश्यामि भगवन्. भगवान् आह : तत् किं मन्यसे ऽजित ; अस्ति किंचिन् नानात्वं देवानां वा परनिर्मितवशवर्तिनां सुखावत्याम् लोकधातौ मनुष्यणां वा. आह : एकम् अप्य् अहं भगवन् नानात्वं न समनुपश्यामि. यावद् महर्द्धिका अत्र सुखावत्यां लोकधातौ मनुष्याः. भगवान् आह : पश्यसि पुनस् त्वम् अजित तत्र सुखावत्यां लोकधाताव् एकेषां मनुष्याणाम् उदारेषु पद्मेषु गर्भावासम्. आह ; तद् यथापि नाम भगवन् त्रयश्त्रिंशा देवा यामा देवा वा, पञ्चाशद्योजनकेषु वा, योजनशतिकेषु वा, पञ्चयोजनशतिकेषु विमानेषु प्रविष्टाः क्रीडन्ति, रमन्ति, परिचारयन्ति ; एवम् एवाहं भगवन् अत्र सुखावत्यां लोकधाताव् एकेषां मनुष्याणाम् उदारपद्मेषु गर्भावासं पश्यामि. सन्ति खलु पुनर् अत्र भगवन् सत्त्वा य उपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति. तत् को ऽत्र भगवन् हेतुः, कः प्रत्ययो, यद् अन्ये पुनर् गर्भावासे प्रतिवसन्ति ; अन्ये पुनर् उपपादुकाः पर्यङ्कैः पद्मेषु प्रादुर्भवन्ति. भगवान् आह : ये ते ऽजित बोधिसत्त्वा अन्येषु बुद्धक्षेत्रेषु स्थिताः सुखावत्यां लोकधाताव् उपपत्तये विचिकित्साम् P५८ उत्पादयन्ति, तेन चित्तेन कुशलमूलान्य् अवरोपयन्ति, तेषाम् अत्र गर्भावासो भवति. ये पुनर् निर्विचिकित्साश् च्छिन्नकांक्षाः सुखावत्यां लोकधाताव् उपपत्तये कुशलमूलान्य् अवरोपयन्ति, बुद्धानां भगवताम् असङ्गज्ञानम् अवकल्पयन्त्य् अभिश्रद्धधत्य् अधिमुच्यन्ते ; तत्रोपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति. ये ते ऽजित बोधिसत्त्वा महासत्त्वा अन्यत्रबुद्धक्षेत्रस्थाश् चित्तम् उत्पादयन्त्य् अमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय, न विचिकित्साम् उत्पादयन्ति, न कांक्षन्त्य् असङ्गबुद्धज्ञानं, स्वकुचलमूलं चाभिश्रद्धधति, तेषाम् औपपादुकानां पर्यङ्कैः पद्मेषु प्रादुर्भूतानां मुहूर्तमात्रेणैवैवंरूपः कायो भवति, तद् यथान्येषां चिरोपपन्नानां सत्त्वानाम्. पश्याजित प्रज्ञादौर्बल्यं प्रज्ञावैमात्रं प्रज्ञापरिहाणिं प्रज्ञापरीत्ततां, यत्र हि नाम पञ्चवर्षशतानि परिहीणा भवन्ति बुद्धदर्शनाद्, बोधिसत्त्वदर्शनात्, सद्धर्मदर्शनाद्, धार्मसंकथ्यात् ; कुशलमूलचर्यायाः परिहीणा भवन्ति सर्वकुशलमूलसंपत्तेर्, यद् इदं विचिकित्सापतितैः संज्ञामनसिकारैः. तद् यथाजित राज्ञः क्षत्रियस्य मूर्धानाभिषिक्तस्य बन्धनागारं भवेत्, सर्वसौवर्णवैडूर्यप्रत्युप्तम्, अवसक्तपट्टमाल्यदामकलापं, नानारङ्गविततवितानं, दूष्यपट्टसंच्छन्नं, नानामुक्तकुसुमाभिकीर्णम्, उदारं, धूपनिर्धूपितं, प्रासादहर्म्यगवाक्षवेदिकातोरणविचित्र- सर्वरत्नप्रतिमण्डितं, हेमरत्नकंकणीजालसंच्छन्नं, चतुरस्रं, चतुःस्थूणं चतुर्द्वारं, चतुःसोपानकम्. तत्र तस्य राज्ञः पुत्रः केनचिद् एव कृत्येन प्रक्षिप्तो P५९ जाम्बूनदसुवर्णमयैर् निगडैर् बद्धो भवति. तस्य च तत्र पर्यङ्कः प्रज्ञप्तः स्याद्, अनेकगोणिकास्तीर्णस्, तूलिकापलालिकास्तीर्णः, काचिलिन्दिकसुखसंस्पर्शः, कालिङ्ग- प्रावरणसोत्तरपटच्छदन, उभयान्तलोहितोपधानश्, चित्रो, दर्शनीयः. स तत्राभिनिषण्णो वाभिनिपन्नो वा भवेत्. बहु चास्यानेकविधं शुचिप्रणीतं पानभोजनं तत्रोपनाम्येत्. तत् किं मन्यसे ऽजित ; उदारस् तस्य राजपुत्रस्य स परिभोगो भवेत्. आह : उदारो भगवन्. भगवान् आह : तत् किं मन्यसे ऽजित ; अपि त्व् आस्वादयेत्, स तन् निगमयेद् वा, तेन वा तुष्टिं विद्यात्. आह : नो हीदं भगवन्. अपि तु खलु पुनर् येन व्यपनीतेन राज्ञा तत्र बन्धनागारे प्रक्षिप्तो भवेत्, स ततो मोक्षम् एवाकांक्षयेत्. अभिजातान् कुमारान् अमात्यान् स्त्र्यागारान् श्रेष्ठिनो गृहपतीन् कोट्टराज्ञो वा पर्येषेद्, य एनं ततो बन्धनागारात् परिमोचयेयुः. किं चापि भगवंस् तस्य कुमारस्य तत्र बन्धनागारे नाभिरतिः. नात्र परिमुच्यते, यावन् न राजा प्रसादम् उपदर्शयति. भगवान् आह : एवम् एवाजित, ये ते बोधिसत्त्वाः विचिकित्सापतिताः कुशलमूलान्य् अवरोपयन्ति, कांक्षन्ति बुद्धज्ञानम् असमसमज्ञानं, किं चापि ते बुद्धनामश्रवणेन, तेन च चित्तप्रसादमात्रेणात्र सुखावत्यां लोकधाताव् उपपद्यन्ते. न तु खल्व् औपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति. अपि तु पद्मेषु गर्भावासे P६० प्रतिवसन्ति. किं चापि तेषां तत्रोद्यानविमानसंज्ञाः संतिष्ठन्ते. नास्त्य् उच्चारप्रस्रावं, नास्ति खेटसिंहानकं, न प्रतिकूलं मनसः प्रवर्तते. अपि तु खलु पुनः पञ्च वर्षशतानि विरहिता भवन्ति बुद्धदर्शनेन, धर्मश्रवणेन, बोधिसत्त्वदर्शनेन, धर्मसांकथ्यविनिश्चयेन, सर्वकुशलधर्मचर्याभिश् च. किं चापि ते तत्र नाभिरमन्ते, न तुष्टिं विदन्ति. अपि तु खलु पुनः पूर्वापराधं क्षपयित्वा, ते भूयस् ततः पश्चान् निष्क्रामन्ति. न चैषां ततो निष्क्रामतां निष्क्रमः प्रज्ञायत, ऊर्ध्वम् अधस् तिर्यग् वा. पश्याजित ; यत्र हि नाम पञ्चभिर् वर्षशतैर् बहूनि बुद्धकोटीनयुतशतसहस्राण्य् उपस्थातव्यानि, बह्वसंख्येयाप्रमेयानि च कुशलमूलान्य् अवरोपयितव्यानि च स्युः. बुद्धधर्माश् च परिगृहीतव्याः. तत् सर्वं विचिकित्सादोषेण विरागयन्ति. पश्याजित कियन् महते ऽनर्थाय बोधिसत्त्वानां विचिकित्सा संवर्तत इति. तस्मात् तर्ह्य् अजित ; बोधिसत्त्वैर् निर्विचिकित्सैर् बोधाय चित्तम् उत्पाद्य, क्षिप्रं सर्वसत्त्वहितसुखाधानाय सामर्थाप्रतिलम्भार्थं, सुखावत्यां लोकधाताव् उपपत्तये कुशलमूलानि परिणामयितव्यानि, यत्र भगवान् अमितायुस् तथागतो ऽर्हन् सम्यक्संबुद्धः. एवम् उक्ते, ऽजितो बोधिसत्त्वो भगवन्तम् एतद् अवोचत् : कियन्तः पुनर् भगवन् बोधिसत्त्वा इतो बुद्धक्षेत्रात् परिनिष्पन्ना, अन्येषां वा बुद्धानां भगवताम् अन्तिकाद् ये सुखावत्यां लोकधाताव् उपपत्स्यन्ते. भगवान् आह : P६१ इतो ह्य् अजित बुद्धक्षेत्राद् द्वासप्ततिकोटीनयुतानि बोधिसत्त्वानां परिनिष्पन्नानि, यानि सुखावत्यां लोकधाताव् उपपत्स्यन्ते, परिनिष्पन्नानाम् अवैवर्त्तिकानां बहुबुद्धकोटी- शतसहस्रावरोपितैः कुशलमूलैः. कः पुनर् वादस्, ततः परीत्ततरैः कुशलमूलैः. दुष्प्रसहस्य तथागतस्यान्तिकाद् अष्टादशकोटीनयुतानि बोधिसत्त्वानां सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; पूर्वान्तरे दिग्भागे रत्नाकरो नाम तथागतो विहरति. तस्यान्तिकान् नवतिबोधिसत्त्वकोट्यः सुखावत्याम् लोकधाताव् उपपत्स्यन्ते ; ज्योतिष्प्रभस्य तथागतस्यान्तिकाद् द्वाविंशतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; अमितप्रभस्य तथागतस्यान्तिकात् पञ्चविंशतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; लोकप्रदीपस्य तथागतस्यान्तिकात् षष्टिबोधिसत्त्वकोट्यः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; नागाभिभुवस् तथागतस्यान्तिकात् चतुःषष्तिबोधिसत्त्वकोट्यः सुखावत्याम् लोकधाताव् उपपत्स्यन्ते ; विरजप्रभस्य तथागतस्यान्तिकात् पञ्चविंशतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; सिंहस्य तथागतस्यान्तिकाद् अष्टादशबोधिसत्त्वसहस्राणि सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; श्रीकूटस्य तथागतस्यान्तिकाद् एकाशीतिबोधिसत्त्वकोटीनयुतानि सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; नरेन्द्रराजस्य तथागतस्यान्तिकाद् दशबोधिसत्त्वकोटीनयुतानि सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; P६२ बलाभिज्ञस्य तथागतस्यान्तिकाद् द्वादशबोधिसत्त्वसहस्राणि सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; पुष्पध्वजस्य तथागतस्यान्तिकात् पञ्चविंशतिर् वीर्यप्राप्ता बोधिसत्त्वकोट्य एकप्रस्थानसंस्थिता एकेनाष्टाहेन नवनवतिकल्पकोटीनयुतशतसहस्राणि पश्चान्मुखीकृत्य याः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; ज्वलनाधिपतेस् तथागतस्यान्तिकाद् द्वादशबोधिसत्त्वकोट्यः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; वैशारद्यप्राप्तस्य तथागतस्यान्तिकाद् एकोनसप्ततिर् बोधिसत्त्वकोट्यो याः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; अमिताभस्य तथागतस्य दर्शनाय, वन्दनाय, पर्युपासनाय परिपृच्छनायै परिप्रश्नीकरणाय. एतेनाजित पर्यायेण परिपूऋणकल्पकोटीनयुतं नामधेयानि परिकीर्तयेयं तेषां तथागतानाम्, येभ्यस् ते बोधिसत्त्वा उपसंक्रामन्ति सुखावतीं लोकधातुं तम् अमिताभं तथागतं द्रष्टुं वन्दितुं पर्युपासितुं, न च शक्यः पर्यन्तो ऽधिगन्तुम्. पश्याजित कियत् सुलब्धलाभास् ते सत्त्वा ये ऽमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्रोष्यन्ति, नपि ते सत्त्वा हीनाधिमुक्तिका भविष्यन्ति, ये ऽन्तश एकचित्तप्रसादम् अपि तस्मिन् तथागते प्रतिलप्स्यन्ते, ऽस्मिंश् च धर्मपर्याये. तस्मात् तर्ह्य् अजित ; आरोचयामि वः, प्रतिवेदयामि वः, सदेवकस्य लोकस्य पुरतो ऽस्य धर्मपर्यायस्य स्रवणाय, P६३ त्रिसाहस्रमहासाहस्रम् अपि लोकधातुम् अग्निपरिपूऋणाम् अवगाह्यातिक्रम्यैकचित्तोत्पादम् अपि विप्रतिसारो न कर्तव्यः. तत् कस्य हेतोः. बोधिसत्त्वकोट्यो ह्य् अजिताश्रवणाद् एषाम् एवंरूपाणां धर्मपर्यायाणां विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः. तस्माद् अस्य धर्मपर्यायस्याध्याशयेन श्रवणोद्ग्रहणधारणार्थां, पर्यवाप्तये, विस्तरेण संप्रकाशनार्थाय, भावनार्थं च, सुमहद्वीर्यम् आरब्धव्यम्. अन्तश एकरात्रिम् दिवसम् अप्य्, एक- गोदोहमात्रम् अप्य् अन्तशः, पुस्तकगतावरोपितम् अपि कृत्वा सुलिखितो धारयितव्यः, शस्तृसंज्ञा च तत्रोत्पादाय कर्तव्या, इच्छद्भिः क्षिप्रम् अपरिमितान् सत्त्वान् अवैवर्त्तिकांश् चानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितुं, तं च तस्य भगवतो ऽमिताभस्य तथागतस्य बुद्धक्षेत्रं द्रष्टुम्. आत्मनश् च विसिष्टां बुद्धक्षेत्रगुणालंकारव्यूहसंपदं परिगृहीतुम् इति. अपि तु खल्व् अजित ; अत्यर्थं सुलब्धलाभास् ते सत्त्वा अवरोपितकुशलमूलाः, पूर्वजिनकृताधिकारा, बुद्धाधिष्ठानाधिष्ठिताश् च भविष्यन्ति, येषाम् अनागते ऽध्वनि, यावत् सद्धर्मप्रलोपे वर्तमान इम एवंरूपा उदारा धर्मपर्यायाः सर्वबुद्धसंवर्णिताः, सर्वबुद्धप्रशस्ताः सर्वबुद्धानुज्ञाता, महतः, सर्वज्ञज्ञानस्य क्षिप्रम् आहारकाः श्रोतावभासम् आगच्छन्ति. श्रुत्वा चोदारं प्रीतिप्रामोद्यं P६४ प्रतिलप्स्यन्त, उद्ग्रहीष्यन्ति, धारयिष्यन्ति, वाचयिष्यन्ति, पर्यवाप्स्यन्ति, परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति, भावनाभिरताश् च भविष्यन्त्य्, अन्तशो लिखित्वा पूजयिष्यन्ति, बहु च ते पुण्यं प्रसविष्यन्ति, यस्य न सुकरा संख्या कर्तुम्. इति ह्य् अजित यत् तथागतेन कृत्यं कृतं तन् मया. यूष्माभिर् इदानीं निर्विचिकित्सैर् योगः करणीयः. मा संशय तम् असङ्गम् अनावरणं बुद्धज्ञानम्. मा भूत् सर्वाकारावरोपेत- रत्नमयपद्मबन्धनागारप्रवेशः. दुर्लभो ह्य् अजित बुद्धोत्पादः, दुर्लभा धर्मदेशना, दुर्लभा क्षणसंपत्. आख्याताजित मया पूर्वकुशलमूलपारमिप्राप्तिः. यूयम् इदानीम् अभियुज्यत प्रतिपद्य वै. अस्य खलु पुनर् अजित धर्मपर्यायस्य महतीं परीन्दनां करोम्य् अविप्रनाशाय. मा बुद्धधर्माणाम् अन्तर्धानाय पराक्रमिष्यथ. मा तथागताज्ञां क्सोभ- यिष्यथ. अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा अभा- षत : नेमे अकृतपुण्यानां श्रवा भेष्यन्ति ईदृशाः, ये तु ते शूर सिद्धार्थाः ते श्रोष्यन्ति इमां गिरां.(१) दृष्टो यैश् च हि संबुद्धो लोकनाथ प्रभंकरः, स गौरवैः श्रुतो धर्मः प्रीतिं प्राप्स्यन्ति ते परां.(२) न शक्त हीनेभि कुशीददृष्तिभिः बुद्धान धर्मेषु प्रसाद विन्दितुम्. ये पूर्वबुद्धेषु अकार्षु पूजां, P६५ ते लोकनाथान् चर्यासु शिक्षिषु.(३) यथान्धकारे पुरुषो ह्य् अचक्षुः मार्गं न जाने कुतु संप्रकाशयेत्. सर्वे तथा श्रावक बुद्धज्ञाने अजानकाः किं पुनर् अन्यसत्त्वाः.(४) बुद्धो हि बुद्धस्य गुणा प्रजानते. न देवनागासुरयक्षश्रावकाः. प्रत्येकबुद्धान पि को गती यथो, बुद्धस्य ज्ञाने हि प्रकाश्यमाने.(५) यदि सर्वसत्त्वाः सुगता भवेयुः विशुद्धज्ञाना परमकोविदा, ते कल्पकोटीर् अथ वापि उत्तरे एकस्य बुद्धस्य गुणान् कथेयुः.(६) अत्रान्तरे निर्वृत ते भवेयुः प्रकाश्यमाना बहुकल्पकोटीः, न च बुद्धज्ञानस्य प्रमाणु लभ्यते, तथा हि ज्ञानाश् चरियं जिनानां.(७) तस्मान् नरः पण्डित विज्ञजातियः, यो मह्य वाक्यम् अभिश्रद्धधेयुः, कृत्स्नां स साक्षी जिनज्ञानराशिं. बुद्ध प्रजानाति गिराम् उदीरयेत्.(८) कदाचि लभ्याति मनुष्यलाभः, कदाचि बुद्धान पि प्रादुर्भावः. श्रद्धा थ प्रज्ञा सुचिरेण लप्स्यते, तस्यार्थप्रज्ञैर् जनयाथ वीर्यं.(९) य ईदृशां धर्म श्रुणित्वा श्रेष्ठां लभ्यन्ति प्रीतिं सुगतं स्मरन्तः, ते मित्रम् अस्माकम् अतीतम् अध्वनि, ये बुद्धा बोधाय जनेन्ति च्छन्दम्, इति.(१०) P६६ अस्मिन् खलु पुनर् धर्मपर्याये भगवता भाष्यमाने द्वादशानां सत्त्वनयुतकोटीनां विरजो विगतमलं धर्मेषु धर्मचक्षुर् विशुद्धं, चतुर्विंशत्या कोटीभिर् अनागामिफलं प्राप्तम्. अष्टानां भिक्षुशतानाम् अनुत्पादायास्रवेभ्यश् चित्तानि विमुक्तानि. पञ्चविंशत्या बोधिसत्त्वकोटीभिर् अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धाः. देवमानुषिकायाश् च प्रजायाश् चत्वारिंशत्कोटीनयुतशतसहस्राणाम् अनुत्पत्तिपूर्वाण्य् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि सुखावत्युपपत्तये च कुशलमूलान्य् अवरोपितानि, भगवतो ऽमिताभस्य दर्शनकामतया. सर्वे ते तत्रोत्पाद्यानुपूर्वेण मञ्जुस्वरा नाम तथागता अन्येषु लोकधातुषूपपत्स्यन्ते. अशीतिश् च नयुतकोट्यो दीपङ्करेण तथागतेन लब्धक्षान्तिका अवैवर्त्या अनुत्तरायाः सम्यक्संबोधेर्, अमितायुषैव तथागतेन परिपाचिताः पूर्वबोधिसत्त्वचर्याश् चरन्तास्, ताश् च सुखावत्यां लोकधाताव् उपपद्य पूर्वप्रणिधानचर्याः परिपूरयिष्यन्ति. तस्यां च वेलायाम् अयं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकम्पितः. विविधानि च प्रातिहार्याणि संदृश्यन्ति, जानुमात्रं च मन्दरवपुष्पैः पृथिव्यां संस्तृतम् अभूत्. दिव्यमानुषिकानि च तूर्याणि संवादितान्य् अभूवन्. अनुमोदकाशब्देन च यावद् अकनिष्ठभवनं विज्ञप्तम् अभूत्. इदम् अवोचद् भगवान् आत्तमना, अजितो बोधिसत्त्वो महासत्त्व आयुष्मांश् चानन्दः, सा च सर्वावती पर्षत् सदेवमानुष्यासुरगन्धर्वश् च लोको भगवतो भाषितम् P६७ अभ्यनन्दन्न् इति. भगवतो ऽमिताभस्य गुणपरिकीर्तनं बोधिसत्त्वानाम् अवैवर्त्तिकभूमिप्रवेशः. अमिताभस्य सुखावती-व्यूह- परिवर्तः समाप्तः.

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Sukhāvatīvyūha (sa_sukhAvatIvyUha.htm).

Source