SKॐ नमो दशदिगनन्तापर्यन्तलोकधातुप्रतिष्ठितेभ्यः सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धेभ्यो ऽतीतानागत- प्रत्युत्पन्नेभ्यः. नमो ऽमिताभाय. नमो ऽमितायुषे. नमो ऽचिन्त्यगुणाक- रात्मने. नमो ऽमिताभाय जिनाय, ते मुने. सुखावतीं यामि ते चानुकम्पया. सुखावतीं कनकविचित्रकाननां मनोरमां सुगतसुतैर् अलंकृतां. तथाश्रयां प्रथितयशस्य धीमतः, प्रयामि तां बहुगुणरत्नसंचयाम्. एवं मया श्रुतम् : एकस्मिन् समये भगवान् राजगृहे विहरति स्म, गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं द्वात्रिंशता भिक्षुसहस्रैः, सर्वैर् अर्हद्भिः क्षीणास्रवैर् निःक्लेशैर् उषितवद्भिः सम्यगाज्ञासुविमुक्तचित्तैः परिक्षीणभवसंयोजनसहस्रैर् अनुप्राप्तस्वकार्थैर् विजितवद्भिर्, उत्तमदमने शमथप्राप्तैः, सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् महानागैः, षडभिज्ञैर् वशीभूतैर् अष्टविमोक्षध्यायिभिर् बलप्राप्तैर् अभिज्ञानाभिज्ञातैः, स्थविरैर्, महाश्रावकैः. तद् यथा : आज्ञातकौण्डिन्येन च, अश्वजिता च, बाष्पेण च, महानाम्ना च, भद्रजिता P२ च, यशोदेवेन च, विमलेन च, सुबाहुना च, पूर्णेन च मैत्रायणीपुत्रेण, गवांपतिना च, उरुविल्वाकाश्यपेन च, नदीकाश्यपेन च, भद्रकाश्यपेन च, कुमारकाश्यपेन च, महाकाश्यपेन च, शारिपुत्रेण च, महामौद्गल्यायनेन च, महाकप्फिनेन च, महाचुन्देन च, अनिरुद्धेन च, राधेन च, नन्दिकेन च, किम्पिलेन च, सुभूतिना च, रेवतेन च, खदिरवनिकेन च, वक्कुलेन च, स्वागतेन च, अमोघराजेन च, पारायणिकेन च, पन्थेन च, चूलपन्थेन च, नन्देन च, राहुलेन च, आयुष्मता चानन्देन. एभिश् चान्यैश् चाभिज्ञानाभिज्ञातैः स्थविरैर् महाश्रावकैर्, एकपुद्गलं स्थापयित्वा शैक्षप्रतिपद्य् उत्तरिकरणीयं, यद् इदम् : आयुष्मन्तम् आनन्दं, मैत्रेयपूर्वंगमैश् च संबहुलैश् च बोधिसत्त्वैर् महासत्त्वैः. अथ खल्व् आयुष्मान् आनन्द उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत् : विप्रसन्नानि च तव भगवत इन्द्रियाणि, परिशुद्धश् छविवर्णः, पर्यवदातो मुखवर्णः पीतनिर्भासः, तद् यथा शारदं वनदं पाण्डु परिशुद्धं पर्यवदातं पीतनिर्भासं. एवम् एव भगवतो विप्रसन्नानीन्द्रियाणि, परिशुद्धो मुखवर्णः, पर्यवदातश् छविवर्णः पीतनिर्भासः. तद् यथापि नाम भगवञ् जांबूनदसुवर्णनिष्को, दक्षेण कर्मारेण कर्मारपुत्रेण वोल्कामुखे संप्रवेश्य सुपरिनिष्ठितः पाण्डुकम्बलैर् P३ उपरि क्षिप्तो, ऽतीवपरिशुद्धो भवति ; पर्यवदातः पीतनिर्भासः. एवम् एव भगवतो विप्रसन्नानीन्द्रियाणि, परिशुद्धो मुखवर्णः, पर्यवदातश् छविवर्णः पीतनिर्भासः. न खलु पुनर् अहं भगवन्न् अभिजानामि : इति पूर्वं पुर्वतरम्, एवं विप्रसन्नानि तथागतस्येन्द्रियाण्य्, एवं परिशुद्धं मुखवर्णं, पर्यवदातं छविवर्णं पीतनिर्भासम्. तस्य मे भगवन्न् एवं भवति : बुद्धविहारेण वताद्य तथागतो विहरति ; जिनविहारेण, सर्वज्ञताविहारेण, महानागविहारेण वताद्य तथागतो विहरति. अतीतानागतप्रत्युत्पन्नान् तथागतान् अर्हतः सम्यक्संबुद्धान् समनुपश्यतीति. एवम् उक्ते, भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् : साधु साध्व् आनन्द, किं पुनस् ते देवता एतम् अर्थम् आरोचयन्त्य्, उताहो बुद्धा भगवन्तः. अथ स्वेन प्रत्युत्पन्न- मीमांसाज्ञानेनैवं प्रजानासीति. एवम् उक्ते, आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् : न मे भगवन् देवता एतम् अर्थम् आरोचयन्ति, नापि बुद्धा भगवन्तः. अथ तर्हि मे भगवन् स्वेनैव प्रत्यात्ममीमांसाज्ञानेनैवं भवति : बुद्धविहारेणाद्य तथागतो विहरति ; जिनविहारेण, सर्वज्ञताविहारेण, महानागविहारेण वताद्य तथागतो विहरति ; अतीतानागतप्रत्युत्पन्नान् सर्वान् बुद्धान् भगवतः P४ समनुपश्यतीति. एवम् उक्ते, भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् : साधु साध्व् आनन्द ; उदारः खलु त उन्मिञ्जिः, भद्रिका मीमांसा, कल्यानं प्रतिभानं, बहुजनहिताय यस् त्वम् आनन्द प्रतिपन्नो, बहुजनसुखाय, लोकानुकम्पायै, महतो जनकायस्यार्थाय, हिताय सुखाय देवानां च मनुष्यानां च, यस् त्वं तथागतम् एतम् अर्थं परिप्रष्टव्यं मन्यसे. एवम् एतद् भवत्य् आनन्द, तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेष्व् अप्रमेयेष्व् असंख्येयेषु ज्ञानदर्शनम् उपसंहरतः, न च तथागतस्य ज्ञानम् उपहन्यते. तत् कस्य हेतोः. अप्रतिहतहेतुज्ञानदर्शनो ह्य् आनन्द तथागतः. आकाङ्क्षन् आनन्द तथागत एकपिण्डपातेन कल्पं वा तिष्ठेत्, कल्पशतं वा, कल्पसहस्रं वा, कल्पशतसहस्रं वा, यावत् कल्पकोटीनयुतशतसहस्रं वा, ततो वोत्तरि, न च तथागतस्येन्द्रियाण्य् उपनश्येयुः ; न मुख- वर्णस्यान्यथात्वं भवेत् ; नापि छविवर्ण उपहन्यते. तत् कस्य हेतोः. तथा ह्य् आनन्द तथागतः समाधिमुख- पारमिताप्राप्तः. सम्यक्संबुद्धानाम् आनन्द लोके सुदुर्लभः प्रादुर्भावः ; तद् यथोदुम्बरपुष्पाणां लोके प्रादुर्भावः सुदुर्लभो भवति, एवम् एव तथागतानाम् अर्थकामानां हितैषिणाम् अनुकम्पकानां महाकरुणाप्रतिपन्नानां सुदुर्लभः प्रादुर्भावः. अपि तु खल्व् आर्यानन्द P५ तथागतस्यैवैषो ऽनुभावो, यस् त्वं सर्वलोकाचार्याणाम् सत्त्वानां लोके प्रादुर्भावाय बोधिसत्त्वानां महासत्त्वानाम् अर्थाय तथागतम् एतम् अर्थं परिप्रष्टव्यं मन्यसे. तेन ह्य् आनन्द शृणु साधु च सुष्ट्ःउ च, मनसि कुरु, भाषिष्ये ऽहं ते. एवं भगवन्न् इत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्. भगवांस् तस्यैतद् अवोचत् : भूतपूर्वम् आनन्दातीते ऽध्वनीतो ऽसंख्येये कल्पे ऽसंख्येयतरे विपुले ऽप्रमेये ऽचिन्त्ये, यदासीत् तेन कालेन तेन समयेन दीपंकरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि. दीपंकरस्यानन्द परेण परतरं प्रतापवान् नाम तथागतो ऽभूत्. तस्य परेण परतरं प्रभाकरो नाम तथागतो ऽभूत्. तस्य परेण परतरं चन्दनगन्धो नाम तथागतो ऽभूत्. तस्य परेण परतरं सुमेरुकल्पो नाम तथागतो ऽभूत्. एवं चन्द्राननो नाम, विमलाननो नाम, अनुपलिप्तो नाम, विमलप्रभो नाम, नागाभिभूर् नाम, सूर्याननो नाम, गिरिराजघोषो नाम, सुमेरुकूटो नाम, सुवर्णप्रभासो नाम, ज्योतिष्प्रभो नाम, वैडूर्यनिर्भासो नाम, ब्रह्मघोषो नाम, चन्द्राभिभूर् नाम, सूर्यघोषो नाम, मुक्तकुसुमप्रतिमण्डितप्रभो नाम, श्रीकूतो नाम, सागरवरबुद्धिविक्रीडिताभिज्ञो नाम, वरप्रभो नाम, महागन्धराजनिर्भासो नाम, व्यपगतखिलमलप्रतिघो नाम, शूरकूटो नाम, रत्नजहो नाम, महागुणधरबुद्धिप्राप्ताभिज्ञो नाम, चन्द्रसूर्यजिह्मीकरणो नाम, उत्तप्तवैडूर्यनिर्भासो नाम, चित्तधाराबुद्धिसंकुसुमिताभ्युद्गतो P६ नाम पुष्पावतीवनराजसंकुसुमिताभिज्ञो नाम, पुष्पाकरो नाम, उदकचन्द्रोपमो नाम, अविद्यान्धकारविध्वंसनकरो नाम, लोकेन्द्रो नाम, मुक्तच्छत्राप्रवाडसदृशो नाम, तिष्यो नाम, धर्ममतिविनन्दितराजो नाम, सिंह- सागरकूटविनन्दितराजो नाम, सागरमेरुचन्द्रो नाम, ब्रह्म- स्वरनादाभिनन्दिनो नाम, कुसुमसंभवो नाम, प्राप्तसेनो नाम, चन्द्रभानुर् नाम, मेरुकूटो नाम, चन्द्रप्रभो नाम, विमलनेत्रो नाम, गिरिराजघोषेश्वरो नाम, कुसुमप्रभो नाम, कुसुमवृष्ट्याभिप्रकीर्णो नाम, रत्नच्छत्रो नाम, पद्मवीथ्युपशोभितो नाम, तगरगन्धो नाम, रत्ननिर्भासो नाम, निर्मितो नाम, महाव्यूहो नाम, व्यपगतखिलदोषो नाम, ब्रह्मघोषो नाम, सप्तरत्नाभिवृष्टो नाम, महागुणधरो नाम, तमालपत्रचन्दनकर्दमो नाम, कुसुमाभिज्ञो नाम, अज्ञानविध्वंसनो नाम, केशरी नाम, मुक्तच्छत्रो नाम, सुवर्णगर्भो नाम, वैडूर्यगर्भो नाम, महाकेतुर् नाम, धर्मकेतुर् नाम, रत्नश्रीर् नाम, नरेन्द्रो नाम, लोकेन्द्रो नाम, कारुणिको नाम, लोकसुन्दरो नाम, ब्रह्मकेतुर् नाम, धर्ममतिर् नाम, सिंहो नाम, सिंहमतिर् नाम, सिंहमतेर् आनन्द परेण परतरं लोकेश्वरराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि, विद्याचरण- संपन्नः, सुगतो, लोकविदनुत्तरः, पुरुषदम्यसारथिः, शास्ता देवानां च मनुष्याणां च, बुद्धो, भगवान्. तस्य खलु पुनर् आनन्द लोकेश्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने धर्माकरो नाम भिक्षुर् अभूद्, अधिमात्रं स्मृतिमान्, गतिवान्, प्रज्ञावान्, अधिमात्रं वीर्यवान्, उदाराधिमुक्तिः. अथ खलु आनन्द स धर्माकरो भिक्षुर् उत्थायासनाद् P७ एकांसम् उत्तरासङ्गं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येनासौ भगवान् लोकेश्वरराजस् तथागतस् तेनाञ्जलिं प्रणम्य, भगवन्तं नमस्कृत्य, तस्मिन् समये संमुखम् आभिर् गाथाभिर् अभ्यष्टावीत् : अमितप्रभ, अनन्ततुल्यबुद्धे, न च इह अन्यप्रभा विभाति काचित्. सूर्यमणिसिरीण चन्द्र-आभा, न तपि न भासिषु एभि सर्वलोके. (१) रूपम् अपि अनन्तु सत्त्वसारे, तथ अपि बुद्धस्वरो अनन्तघोषः. शीलम् अपि समाधिप्रज्ञवीर्यैः सदृशु न ते ऽस्तिह लोकि कश्चिद् अन्यः. (२) गभिरु विपुलु सूक्ष्म प्राप्तु धर्मो, अचिन्ततु बुद्धवरो यथा समुद्रः. तेनोन्नमना न चास्ति शास्तुः, खिलदोषं जहिया अतार्षि पारम्. (३) यथ बुद्धवरो अनन्ततेजा प्रतपति सर्वदिशा नरेन्द्रराजा, तथ अहु बुद्ध भवित्व धर्मस्वामी, जरमरणान् प्रजां प्रमोचयेयम्. (४) दानदमथशीलक्षान्तिवीर्य- ध्यानसमाधि तथैव अग्रश्रेष्ठां, एभि अहु व्रतां समाददामि, बुद्ध भविष्यामि सर्वसत्त्वत्राता. (५) बुद्धशतसहस्रकोट्य् अनेका P८ यथरिव वालिक गङ्गया अनन्ता, सर्व त अहु पूजयिष्य नाथान् शिववरबोधिगवेषको अतुल्यां. (६) गङ्गरजसमान लोकधातूं तत्र भूयोत्तरि ये अनन्त क्षेत्रा, सर्वत प्रभ मुञ्चयिष्ये तत्रा इति एतादृशि वीर्यम् आरभिष्ये. (७) क्षेत्र मम उदारु अग्रश्रेष्ठो, वरम् इह मण्ड पि संस्कृतेस्मिन्. असदृश निर्वाणलोकधातुसौख्यं, तच् च असत्त्वतया विशोधयिष्ये. (८) दशदिशत समागतानि सत्त्वा तत्र गताः सुखम् एधिष्यन्ति क्षिप्रम्. बुद्ध मम प्रमाण अत्र साक्षी, अवितथवीर्यबलं जनेमि च्छन्दं. (९) दशदिशे लोकविदू असङ्गज्ञानी सद मम चित्तु प्रजानयन्तु ते पि. अविचिगतु अहं सदा वसेयं, प्रणिधिबलं न पुनर् निवर्तयिष्ये. (१०) अथ खलु आनन्द स धर्माकरो भिक्षुस् तं भगवन्तं लोकेश्वरराजं तथागतम् संमुखम् आभिर् गाताभिर् अभिष्टुत्यैतद् अवोचत् : अहम् अस्मि भगवन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामः, पुनः पुनर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयामि, परिणामयामि. तस्य मे भगवान् साधु तथा धर्मं देशयतु, यथाहं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुधेयं ; P९ असमसमस् तथागतो लोके भवेयं ; तांश् च मे भगवान् आकारान् परिकीर्तयतु, यैर् अहं बुद्धक्षेत्रस्य गुणव्यूहसंपदं परिगृह्नीयाम्. एवम् उक्तश् चानन्द स भगवांल् लोकेष्वरराजस् तथागतस् तं भिक्षुम् एतद् अवोचत् : तेन हि त्वं भिक्षो स्वयम् एव बुद्धक्षेत्र- गुणालंकारव्यूहसंपदं परिगृह्णीषे. सो ऽवोचत् : नाहं भगवन्न् उत्सहे. अपि तु भगवान् एव भाषत्व् अन्येषां तथागतानां बुद्धक्षेत्रगुणव्यूहालंकारसंपदं, यां श्रुत्वा वयं सर्वाकारां परिपूरयिष्याम इति. अथानन्द स लोकेश्वरराजस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तस्य भिक्षोर् आशयं ज्ञात्वा, परिपूर्णां वर्षकोटीम् एकाशीतिबुद्धकोटीनयुतशतसहस्राणां बुद्धक्षेत्रगुणालंकार- व्यूहसंपदं साकारां सोद्देशां सनिर्देशां संप्रकाशितवान् ; अर्थकामो, हितैष्य्, अनुकम्पको, ऽनुकम्पाम् उपादाय, बुद्धनेत्र्यानुपच्छेदाय, सत्त्वेषु महाकरुणां संजनयित्वा. परिपूर्णांश् च द्वाचत्वारिम्शत्कल्पांस् तस्य भगवत आयुष्प्रमाणम् अभूत्. अथ खल्व् आनन्द स धर्माकरो भिक्षुर् यास् तेषाम् एकाशीति- बुद्धकोटीनयुतशतसहस्राणां बुद्धक्षेत्रगुणालंकार- व्यूहसंपदस् ताश् च सर्वा एकबुद्धक्षेत्रे परिगृह्य, भगवतो लोकेश्वरस्य तथागतस्य पादौ शिरसा वन्दित्वा, प्रदक्षिणीकृत्य, तस्य भगवतो ऽन्तिकात् प्राक्रामत्. उत्तरि च पञ्चकल्पान् बुद्धक्षेत्रगुणालंकारव्यूहसंपदम्, P१० उदारतरांश् च प्रणीततरांश् च, सर्वलोके दशसु दिक्ष्व् अप्रचरितपूर्वां परिगृहीतवान् ; उदारं च प्रणिधानम् अकार्षीत्. इति ह्य् आनन्द या तेन भगवता लोकेश्वरराजेन तथागतेन तेषाम् एकाशीतिबुद्धक्षेत्रकोटीनयुतशतसहस्राणां संपत्तिः कथिता, ततो ऽतिरेकान्य् उदारप्रणीताप्रमेयतरां बुद्धक्षेत्रसंपत्तिं परिगृह्य, येन स तथागतस् तेनोपसंक्रम्य, तस्य भगवतः पादौ शिरसा वन्दित्वैतद् अवोचत् : परिगृहीता मे भगवन् बुद्धक्षेत्रगुणालंकार- व्यूहसंपद् इति. एवम् उक्ते, आनन्द, स लोकेश्वरराजस् तथागतस् तं भिक्षुम् एतद् अवोचत् : तेन हि भिक्षो भाषस्व. अनुमोदते तथागतः. अयं कालो भिक्षो, प्रमोदय पर्षदं, हर्षं जनय, सिंहनादं नद, यं श्रुत्वा बोधिसत्त्वा महासत्त्वा एतर्ह्य् अनागते चाध्वन्य् एवंरूपाणि बुद्धक्षेत्रसंपत्तिप्रणिधानानि परिगृहीष्यन्ति. अथानन्द स धर्माकरो भिक्षुस् तस्यां वेलायां तं भगवन्तम् एतद् अवोचत् : तेन हि शृणोतु मे भगवान्, ये मम प्रणिधानविशेषाः, यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्ये. अचिन्त्यगुणालंकारव्यूहसमन्वागतं तद् बुद्धक्षेत्रं भविष्यति : १. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे निरयो वा, तिर्यग्योनिर् वा, प्रेतविषयो वासुरो वा कायो भवेत्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. २. सचेन् मे भगवंस् तत्र बुद्धक्षेत्रे ये सत्त्वाः P११ प्रत्याजाता भवेयुस्, ते पुनस् ततश् च्युत्वा, निरयं वा, तिर्यग्योनिं वा, प्रेतविषयं वासुरं वा कायं प्रपतेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये- यम्. ३. सचेन् मे भगवंस् तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजातास्, ते च सर्वे नैकवर्णाः स्युर्, यद् इदं : सुवर्णवर्णाः, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसम्बुध्येयम्. ४. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे देवानां च मनुष्यानां च नानात्वं प्रज्ञयेतान्यत्र नामसंकेत- संवृतिव्यवहारमात्रा देवा मनुष्या इति संख्यागणनातो, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये- यम्. ५. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजातास् ते चेत् सर्वे न र्द्धिवशिता परमपारमिताप्राप्ता भवेयुर्, अन्तश एकचित्तक्षणलवेन बुद्धक्षेत्रकोटीनियुत- शतसहस्रातिक्रमणतयापि, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ६. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुस्, ते चेत् सर्वे न जातिस्मरा स्युर्, अन्तशः कल्पकोटीनियुतशतसहस्रानुस्मरणतयापि, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ७. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरंस्, ते सर्वे न दिव्यस्य चक्षुषो लाभिनो भवेयुर्, अन्तशो लोकधातुकोटीनयुतशतसहस्रादर्शनतयापि, मा P१२ तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ८. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरंस्, ते सर्वे न दिव्यस्य श्रोत्रस्य लाभिनो भवेयुर्, अन्तशो बुद्धक्षेत्रकोटीनयुतशतसहस्राद् अपि युगपत् सद्धर्मश्रवणतया, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ९. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरंस्, ते सर्वे न परचित्तज्ञानकोविदा भवेयुर्, अन्तशो बुद्धक्षेत्रकोटीनयुतशतसहस्रपर्यापन्नानां सत्त्वानां चित्तचरित्रपरिज्ञानतया, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. १०. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरंस्, तेषां काचित् परिग्रहसंज्ञोत्पद्येतान्तशः स्वशरीरे ऽपि, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ११. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरंस्, ते सर्वे न नियताः स्युर्, यद् इदं : सम्यक्त्वे यावन् महापरिनिर्वाणाद्, मा तावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. १२. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य, कश्चिद् एव सत्त्वः श्रावकानां गणानाम् अधिगच्छेद्, अन्तशस् त्रिसाहस्र- महासाहस्रपर्यापन्ना अपि सर्वसत्त्वाः प्रत्येकबुद्धभूताः कल्पकोटीनियुतशतसहस्रम् अपि गणयन्तो, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. १३. सचेन् मे भगवन्न् अनुत्तरां सम्यक्संबोधिम् P१३ अभिसंबुद्धस्य, तस्मिन् बुद्धक्षेत्रे प्रामाणिकी मे प्रभा भवेद्, अन्तशो बुद्धक्षेत्रकोटीनयुतशतसहस्रप्रमाणेनापि, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभि- संबुध्येयम्. १४. सचेन् मे भगवंस् तस्मिन् बुद्धक्षेत्रे ऽनुत्तरां सम्यक्सम्बोधिम् अभिसंबुद्धस्य बोधिप्राप्तस्य, सत्त्वानां प्रमाणीकृत्यम् आयुष्प्रमानं भवेद्, अन्यत्र प्रणिधानवशेन, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. १५. सचेन् मे भगवन् बोधिप्राप्तस्यायुष्प्रमाणं पर्यन्तीकृत्यं भवेद्, अन्तशः कल्पकोटीनयुतशतसहस्रगणनयापि, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभि- संबुध्येयम्. १६. सचेन् मे भगवन् बोधिप्राप्तस्य तस्मिन् बुद्धक्षेत्रे सत्त्वानाम् अकुशलस्य नामधेयम् अपि भवेन्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. १७. सचेन् मे भगवन् बोधिप्राप्तस्य, नाप्रमेयेषु बुद्धक्षेत्रेष्व् अप्रमेयासंख्येया बुद्धा भगवतो नामधेयं परिकीर्तयेयुर्, न वर्णं भाषेरन्, न प्रशंसाम् अभ्युदीरयेयुर्, न समुदीरयेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. १८. सचेन् मे भगवन् बोधिप्राप्तस्य, ये सत्त्वा अन्येषु लोकधातुष्व् अनुत्तरायाः सम्यक्संबोधेश् चित्तम् उत्पाद्य, मम नामधेयं श्रुत्वा, प्रसन्नचित्ता माम् अनुस्मरेयुस्, तेषां चेद् अहं मरणकालसमये प्रत्युपस्थिते भिक्षुसंघ- परिवृतः पुरस्कृतो न पुरतस् तिष्ठेयम्, यद् इदं : चित्ताविक्षेपतायै, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् P१४ अभिसंबुध्येयम्. १९. सचेन् मे भगवन् बोधिप्राप्तस्याप्रमेयासंख्येयेषु बुद्धक्षेत्रेषु ये सत्त्वाः मम नामधेयं श्रुत्वा, तत्र बुद्धक्षेत्रे चित्तं प्रेषयेयुर्, उपपत्तये कुशलमूलानि च परिणामयेयुस्, ते च तत्र बुद्धक्षेत्रे नोपपद्येरन्, अन्तशो दशभिश् चित्तोत्पादपरिवर्तैः, स्थापयित्वानन्तर्यकारिणः सद्धर्मप्रतिक्षेपावरणावृतांश् च सत्त्वान्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. २०. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे बोधिसत्त्वाः प्रत्याजायेरन्, ते सर्वे न द्वात्रिंशता महापुरुषलक्षणैः समन्वागता भवेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. २१. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुस्, ते सर्वे नैकजातिबद्धाः स्युर् अनुत्तरायां सम्यक्संबोधौ, स्थापयित्वा प्रणिधानविशेषांस् तेषाम् एव बोधिसत्त्वानां महासत्त्वानां, महा- संनाहसंनद्धानां, सर्वलोकार्थसंनद्धानां, सर्व- लोकार्थाभियुक्तानां, सर्वलोकपरिनिर्वापिताभियुक्तानां, सर्वलोकधातुषु बोधिसत्त्वचर्यां चरितुकामानां, सर्व- बुद्धान् सत्कर्तुकामानां, गङ्गानदीवालुकसमान् सत्त्वान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापकानां, भूयश् चोत्तरि- चर्याभिमुखानां समन्तभद्रचर्यानियतानां, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. २२. सचेन् मे भगवन् बोधिप्राप्तस्य, तद्-बुद्धक्षेत्रे P१५ ये बोधिसत्त्वाः प्रत्याजाता भवेयुस्, ते सर्व एकपुरोभक्तेनान्यानि बुद्धक्षेत्राणि गत्वा, बहूनि बुद्धशतानि, बहूनि बुद्धसहस्राणि, बहूनि बुद्धशतसहस्राणि, बह्वीर् बुद्धकोटीर्, यावद् बहूनि बुद्धकोटीनियुतशतसहस्राणि, नोपतिष्ठेरन् सर्वसुखोपधानैर्, यद् इदं : बुद्धानुभावेन, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसं- बुध्येयम्. २३. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे ये बोधिसत्त्वा यथारूपैर् आकारैर् आकांक्षेयुः कुषलमूलान्य् अवलोपितुं, यद् इदं : सुवर्णेन वा, रजतेन वा, मणिमुक्तावैडूर्यशङ्खशिलाप्रवाडस्फटिकमुसालगल्वालोहित- मुक्ताश्मगर्भादिभिर् वान्यतमान्यतमैः सर्वरत्नैर् वा, सर्वपुष्पगन्धमाल्यविलेपनचूर्णचीवरच्छत्र- ध्वजपताकाप्रदीपैर् वा, सर्वनृत्यगीतवाद्यैर् वा, तेषां चेत् तथारूपा आकाराः सहचित्तोत्पादान् न प्रादुर् भवेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये- यम्. २४. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुस्, ते सर्वे न सर्वज्ञतासहगतां धर्मां कथाम् कथयेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. २५. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे बोधिसत्त्वानाम् एवं चित्तम् उत्पाद्येत, यन् न्व् इहैव वयं लोकधातौ स्थित्वाप्रमेयासंख्येयेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः सत्कुर्यामो गुरुकुर्यामो मानयेमः P१६ पूजयेमः, यद् इदं : चीवरपिण्डपातशयनासनग्लान- प्रत्ययभैषज्यपरिष्कारैः पुष्पधूपगन्धमाल्यविलेपन- चूर्णचीवरच्छत्रध्वजपताकाभिर् नानाविधनृत्तगीतवादित- रत्नवर्षैर् इति, तेषां चेत् ते बुद्धा भगवन्तः सहचित्तोत्पादान् तन् न प्रतिगृह्णीयुर्, यद् इदम् : अनुकम्पाम् उपादाय, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसं- बुध्येयम्. २६. सचेन् मे भगवन् बोधिप्राप्तस्य, तद्-बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाता भवेयुस्, ते सर्वे न नारायण- वज्रसंहननात्मभावस्थामप्रतिलब्धा भवेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये- यम्. २७. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे कश्चित् सत्त्वो ऽलंकारस्य वर्णपर्यन्तम् अनुगृह्णीयाद्, अन्तशो न दिव्येनापि चक्षुषैवंवर्णम् एवंविभूतिर् इति बुद्धक्षेत्रम् इति नानावर्णतां संजानीयान्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. २८. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे यः सर्वपरीत्तकुशलमूलो बोधिसत्त्वः स षोडशयोजन- शतोच्छ्रितम् उदारवर्णबोधिवृक्षं न संजानीयान्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये- यम्. २९. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे P१७ कस्यचित् सत्त्वस्योद्देशो वा स्वाध्यायो वा कर्तव्यः स्यान्, न ते सर्वे प्रतिसंवित्प्राप्ता भवेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ३०. सचेन् मे भगवन् बोधिप्राप्तस्य, नैवंप्रभास्वरं तद् बुद्धक्षेत्रं भवेद्, यत्र समन्ताद् अप्रमे- यासंख्येयाचिन्त्यातुल्यापरिमाणानि बुद्धक्षेत्राणि संदृश्येरन्, तद् यथापि नाम सुपरिमृष्ट आदर्शमण्डले मुखमण्डलं, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ३१. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे धरणितलम् उपादाय, यावद् अन्तरीक्षाद्, देवमन्ष्यवि- षयातिक्रान्तस्याभिजातस्य धूपस्य तथागतस्य बोधिसत्त्वस्य पूजा प्रत्यहं सर्वरत्नमयानि नानासुरभिगन्धघटिकाशत- सहस्राणि सदा निर्धूपितान्य् एव न स्युर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ३२. सचेन् मे भगवन् बोधिप्राप्तस्य, तत्र बुद्धक्षेत्रे न सदाभिप्रविष्टान्य् एव सुगन्धिनानारत्नपुष्पवर्षाणि, सदा प्रवादिताश् च मनोज्ञस्वरा वाद्यमेघा न स्युर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्ये- यम्. ३३. सचेन् मे भगवन् बोधिप्राप्तस्य, ये सत्त्वा अप्र- मेयासंख्येयाचिन्त्यातुल्येषु लोकधातुष्व् आभया स्फुटा भवेयुस्, ते सर्वे न देवमनुष्यसमतिक्रान्तेन सुखेन समन्वागता P१८ भवेयुर्, मा तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम्. ३४. सचेन् मे भगवन् बोधिप्राप्तस्य, समन्ताच् चाप्र- मेयासंख्येयाचिन्त्यातुल्यापरिमाणेषु बुद्धक्षेत्रेषु बोधिसत्त्वा मम नामाधेयं श्रुत्वा, तच्-छ्रवणसहगतेन