Greater Perfection of Wisdom
Larger Prajñāpāramitā
Lअर्गेर् Pरज्ञापारमिता
SK[GBM ५७१.५ = LPG(Cह्) २०२र्५] एवम् उक्ते आयुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्* महागुणसमन्वागतो भगवंन् अवैवर्तिको बोधिसत्वो मनासत्वः अप्रमेयासंख्येयापरिमाणगुणसमन्वागतो ६ भगवन्न् अवैवर्तिको बोधिसत्वो महासत्वः अपरिमितगुणसमन्वागतो भगवन्न् अवैवर्तिको बोधिसत्वो महासत्वः भगवान् आह* एवम् ७ एतत् सुभूते एवम् एतत्* महागुणसमन्वागतः सुभूते अवैवर्तिको बोधिसत्वो महासत्वः अप्रमेयासंख्येयापरिमाणगुणसमन्वागतः सुभूते अवैवर्तिको बोधिसत्वो महासत्वः ८ अपरिमितगुणसमन्वागतः सुभूते अवैवर्तिको बोधिसत्वो महासत्वः तत् कस्य हेतोः तथा ह्य् अनेनानन्तापर्यन्तं ज्ञानं प्रतिलब्धः असाधारणं सर्वश्रावकप्रत्येकबुद्धैः ९ तत्र च ज्ञाने स्थित्वा अवैवर्तिको बोधिसत्वो महासत्वः प्रतिसंविदो ऽभिनिर्हरति / याभिः प्रतिसंविद्भिः सदेवमानुषासुरेण लोकेन पृष्टः प्रतिवचनैर् न शक्यं पर्यादातुं सुभूतिर् आह / १० प्रतिबलो भगवंस् तथागतो ऽर्हं सम्यक्संबुद्धो गंगानदीवालुकोपमान् कल्पान् अवैवर्तिकस्य बोधिसत्वस्य महासत्वस्याकारलिंगनिमित्तानि निर्देष्टुं / यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैर् अवैवर्तिको बोधिसत्वो ११ महासत्वः प्रभाव्यते / साधु भगवन् गंभीरगंभीरस्थानानि निर्देष्टव्यानि / यत्र स्थित्वा बोधिसत्वो महासत्वः षट्सु पारमितासु चरंश् चत्वारि स्मृत्युपस्थानानि परिपूरयति / यावत् सर्वाकारज्ञतां १२ परिपूरयति भगवान् आह / साधु साधु सुभूते साधु खलु पुनस् त्वं सुभूते यस् त्वम् अवैवर्तिकानां बोधिसत्वानां महासत्वानाम् अर्थाय तथागतं गंभीरगंभीराणि स्थानानि यान्य् अधिवचनं १३ यद् उत निर्वाणस्य / आह / निर्वाणस्यैवैतद् भगवन्न् अधिवचनन् न पुनः सर्वधर्माणां / भगवान् आह / सर्वधर्माणाम् अप्य् एतत् सुभूते अधिवचनं गंभीरम् इति / तत् कस्य हेतोः / रूपं सुभूते गंभीरन् वेदना
SK[GBM ५७२.१ = LPG(Cह्) २०२व्] संज्ञा संस्कारा विज्ञानं सुभूते गंभीरं चक्षुर् अपि सुभूते गंभीरं यावन् मनो ऽपि सुभूते गंभीरं यावद् बोधिर् अपि सुभूते गंभीरा कथं च सुभूते रूपं गंभीरं / यथा रूपस्य तथता तथा गंभीरं / यथा वेदनाया २ संज्ञाया संस्काराणां यथा विज्ञानस्य तथता तथा गंभीरं यावद् यथा बोधेस् तथता तथा गंभीरं / आह / कथं भगवं रूपस्य तथता यावत् कथं बोधेस् तथता / भगवान् आह / यत्र सुभूते रूपतथतायां न ३ रूपं नान्यत्र रूपात् तथता यावद् यत्र सुभूते विज्ञानतथतायां न विज्ञानं नान्यत्र विज्ञानात् तथता यावद् यत्र बोधितथतायां न बोधिर् नान्यत्र बोधेस् तथता / आह / आश्चर्यं भगवन् यावच् चेदं सूक्ष्मेणोपायेनावैवर्तिको ४ बोधिसत्वो महासत्वो रूपाच् च निवारितो निर्वाणं च सूचितः वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञानाच् च निवारितो निर्वाणं च सूचित सर्वग्रहेभ्यश् च लौकिकलोकोत्तरेभ्यः साधारणासाधारणेभ्यः ५ सास्रवानास्रवेभ्यो निवारितो निर्वाणं च सूचितः भगवान् आह / यः सुभूते बोधिसत्वो महासत्व इमानि गंभीरगंभीराणि स्थानानि प्रज्ञापारमिताप्रतिसंयुक्तानि चिन्तयिष्यति / ६ तुलयिष्यत्य् उपनिध्यास्यति / एवं मया स्थातव्यं / यथा प्रज्ञापारमितायाम् आज्ञप्तम् एवं मया शिक्षितव्यम्* यथा प्रज्ञापारमितायाम् उपदिष्टम्* अयं सुभूते बोधिसत्वो महासत्वः तथैव ७ संपादयन् यथा प्रज्ञापारमितायाम् आख्यातं तथोपनिध्यायंस् तथोपपरीक्षमाणस् तथा युज्यमानस् तथा घठमानस् तथा व्यायच्छमानो यथा प्रज्ञापारमितायाम् उपदिष्टं / एकेन चित्तोत्पादेनासंख्येयाप्रमेयान्य् ८ अपरिमाणानि कुशलमूलानि परिग्रहीष्यति / सो ऽपरिमाणां कल्पां संसाराच् छोरयिष्यति / कः पनर् वादो यः अव्यवकीर्णः प्रज्ञापारमितायां चरं बोधिप्रतिसंयुक्तैर् ९ मनसिकारैर् विहरिष्यति / तद्यथापि नाम स्यात् सुभूते पुरुषो रागचरितो वितर्कचरितस् तेनान्यतरया स्त्रिया सार्धम् अभिरूपया प्रासादिकया दर्शनीयया संकेतः कृतो भवेत्* १० सा च स्त्री परपरिगृहीता न शक्नुयाद् गृहान् निष्क्रान्तुं / तत् किं मन्यसे सुभूते किंप्रतिसंयुक्तास् तस्य पुरुषस्य वितर्का भवेयुः / आह / स्त्रीप्रतिसंयुक्ता एव भगवंस् तस्य पुरुषस्य वितर्का भवेयुः ११ इमम् एति इयम् आगता एतया सार्धं निषत्स्यामि परिचारयिष्यामि भगवान् आह तत् किं मन्यसे सुभूते रात्रेर् अत्ययाद् दिवसस्यात्ययात् कियन्तस् तस्य पुरुषस्य वितर्का वर्तेरन्* आह बहवो भगवं बहवस् १२ सुगत तस्य पुरुषस्य रात्रेर् अत्ययाद् दिवसस्य चात्ययाद् वितर्का वर्तेरन्* / भगवान् आह / यावन्तः सुभूते तस्य पुरुषस्य रात्रेश् च दिवसस्य चात्ययाद् वितर्का वर्तेरन्न् इयन्तः कल्पान् बोधिसत्वो महासत्वः १३ संसाराच् छोरयति विपृष्ठीकरोति य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां शिक्षेत / उपपरीक्षेत उपनिध्यायति / तथा च योगम् आपद्यते / यथा तां दोषान् विवर्जयति १४ यैर् दोषैर् बोधिसत्वो महासत्वो विवर्तते ऽनुत्तरस्याः सम्यक्संबोधेः एवं योगम् अनुयुक्तः सुभूते बोधिसत्वो महासत्वो ऽनेन विहारेण विहरन् यथा प्रज्ञापारमितायाम् उपदिष्टम् एकदिवसेन
SK[GBM ५७३.१ = LPG(Cह्) २०३र्] यत् कुशलमूलं परिगृह्णाति तेन गंगानदीवालुकोपमाल् लोकधातवः परिपूर्णा भवेयुर् न तत् तस्य कुशलमूलस्य शततमीम् अपि कलान् नोपैति / सहस्रतमीम् अपि शतसहस्रतमीम् २ अपि यावत् संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम् अपि नोपैति // पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरं / गंगानदीवालुकोपमान् कल्पान् दानन् दद्यात् ३ त्रिषु रत्नेषु / बुद्धरत्ने धर्मरत्ने संघरत्ने तत् किं मन्यसे सुभूते अपि नु स बोधिसत्वो महासत्वस् ततोनिदानं बहु पुण्यं प्रसवेत्* आह / बहु भगवं बहु सुगत अप्रमेयम् असंख्येयम् ४ अपरिमाणम् अतुल्यं भगवान् आह / अयम् एव ततः सुभूते बोधिसत्वो महासत्वो बहुतरं पुन्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथानिर्दिष्टायां योगम् आपद्यते / तत् कस्य ५ हेतोः एषो हि बोधिसत्वानां महासत्वानां नयो येन नयेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो गंगनदीवालुकोपमां ६ कल्पांस् तिष्ठन्* श्रोतआपन्नेषु दक्षिणां प्रतिष्ठापयेत् सकृदागामिष्व् अनागामिष्व् अर्हत्सु प्रत्येकबुद्धेषु तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेषु दक्षिणां प्रतिष्ठापये तत् किं मन्यसे सुभूते ७ अपि नु स बोधिसत्वो महासत्वः ततोनिदनं बहु पुण्यं प्रसवेत्* आह / बहु भगवं बहु सुगत / भगवान् आह / अयम् एव सुभूते कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्* ८ य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां योगम् आपद्येत / तत् कस्य हेतोः अत्र हि प्रज्ञापारमितायां चरं बोधिसत्वो महासत्वः श्रावकप्रत्येकबुद्धभूमीम् अतिक्रम्य ९ बोधिसत्वन्यामम् अवक्रामति / यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते / तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो गंगानदीवालुकोपमां कल्पांस् तिष्ठं यापयं १० दानं दद्याच् छीलं रक्षे क्षान्त्या संपादयेद् वीर्यम् आरभेत ध्यानानि समापद्येत प्रज्ञां भावयेत्* अपि नु स ततोनिदानं बहु पुण्यं प्रसवेत्* आह / बहु भगवं बहु सुगत भगवान् आह / अतः स ११ सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वा एकदिवसम् अपि दानं दद्याच् छीलं रक्षेत्* क्षान्त्या संपादयेद् वीर्यम् आरभेत १२ ध्यानानि समापद्येत प्रज्ञां भावये तत् कस्य हेतोः तथा हि सुभूते मातैषा बोधिसत्वानां महासत्वानां यद् उत प्रज्ञापारमिता जनयित्र्यैषा बोधिसत्वाणां महासत्वाणां यद् उत प्रज्ञापारमिता / अत्र सुभूते १३ प्रज्ञापारमितायां स्थित्वा बोधिसत्वा महासत्वाः सर्वधर्मां परिपूरयंति / यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यन्ते / तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो १४ गंगानदीवालुकोपमां कल्पांस् तिष्ठन्* धर्मदानं दद्यात्* अपि स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्* आह / बहु भगवं बहु सुगत भगवान् आह / अतः स सुभूते
SK[GBM ५७४.१ = LPG(Cह्) २०३व्] कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वा एकदिवसम् अपि धर्मदानं दद्यात्* तत् कस्य हेतोः तथा हि सुभूते बोधिसत्वो महासत्वः २ प्रज्ञापारमिताया विरहितः स सर्वाकारज्ञतया विरहितो यः पुनः सुभूते बोधिसत्वो महासत्वः अविरहितः सर्वाकारज्ञतया अविरहितः तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेनानुत्तरां ३ सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितया अविरहितेन भवितव्यं / तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो गंगानदीबालुकोपमान् कल्पांस् तिष्ठन् ४ योगम् आपद्येत चतुर्षु स्मृत्युपस्थानेषु याव शुन्यतानिमित्ताप्रणिहितेषु यावद् योगम् आपद्येत सर्वसमाधिषु / तत् किं मन्यसे सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु ५ पुण्यं प्रसवेत्* आह / बहु भगवं बहु सुगत भगवान् आह / अयम् एव स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायाम् ६ एकदिवसम् अपि योगम् आपद्येत चतुर्षु स्मृत्युपस्थानेषु यावद् अष्टादशष्व् आवेणिकेषु बुद्धधर्मेषु / तत् कस्य हेतोः / अस्थानं सुभूते अनवकाशः यद् बोधिसत्वो महासत्वः ७ प्रज्ञापारमितया अविरहितः सर्वाकारज्ञतया विवर्तते / नेदं स्थानं विद्यते / स्थानं खलु पुनः सुभूते विद्यते यद् बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितः सर्वाकारज्ञतया न्विवर्तेत ८ स्थानाम् एतद् विद्यते / तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेन प्रज्ञापारमितया अविरहितेन भवितव्यं / तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो गंगानदीवालुकोपमां ९ कल्पांस् तिष्ठंस् तच् चामिषदानं तच् च धर्मदानं तांश् च प्रतिसंलयनप्रतिसंयुक्तां मनसिकारान् अनुत्तरस्यै सम्यक्संबोधये परिणामयेद् अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं १० बहु पुण्यं प्रसवेत्* आह / बहु भगवं बहु सुगत / भगवान् आह / अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां ११ यथोपदिष्टायां स्थित्वा एकदैवसिकं चामिषदानं तच् च धर्मदानं तांश् च प्रतिसंलयनप्रतिसंयुक्तान् अननसिकारान् अनुत्तरस्यां सम्यक्संबोधौ परिणमयेत्* तत् कस्य हेतोः एष हि परमः परिणामो १२ यद् उत प्रज्ञापारमितापरिणामः यः पुनः प्रज्ञापारमितया विना परिणामो नासौ परिणामः / तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन १३ प्रज्ञापारमितापरिणमनाकुशलमूलेन भवितव्यं / तत् किं मन्यसे सुभूते / यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितया विरहितो गंगानदीवालुकोपमां कल्पांस् तिष्ठन्न्
SK[GBM ५७५.ल् = LPG(Cह्) २०४र्] अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सश्रावकसंघानाम् यत् कुशलमूलं तत् सर्वम् अनुत्तरस्यां सम्यक्संबोधौ परिणामयेद् अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्* २ आह बहु भगवं बहु सुगत भगवान् आह / अतस् स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वा एकदैवसिकम् ३ अपि कुसलमूलम् अनुत्तरस्यां सम्यक्संबोधौ परिणमयेत्* तत् कस्य हेतोः प्रज्ञापारमिता पूर्वंगता हि सुभूते सर्वपरिणमनात् तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेनानुत्तरां ४ सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितापरिणमनाकुशलेन भवितव्यं / आह / यत् पुनर् भगवंन् अभिसंस्कारः कल्पित उक्तो भगवता तत् कथं स कुलपुत्रो वा कुलदुहिता ५ वा बहुतरं पुण्यं प्रसवेत्* स च भगवंन् अनभिसंस्कारेण शक्यं सम्यग्दृष्टिं चोत्पादयितुं न्यामं चावक्रमितुम्* श्रोतआपत्तिफलं चानुप्राप्तुम्* यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम्* ६ भगवान् आह / एवम् एतत् सुभूते एवम् एतत्* न ह्य् अनभिसंस्कारेण शक्यं सम्यग्दृष्टिं चोत्पादयितुं न्यामं चावक्रमितुम्* श्रोतआपत्तिफलं चानुप्राप्तुम्* यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम्* ७ अपि तु खलु पुनः सुभूते तद् अपि दानम् अनभिसंस्कारो बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः शुन्यकम् एवाख्याति रिक्तकम् एव तुच्छकम् एवासारकम् एवाख्याति ८ तत् कस्य हेतोः तथा हि सुभूते बोधिसत्वो महासत्वो अध्यात्मशुन्यतायां सुशिक्षितो बहिर्धाशुन्यतायाम् अध्यात्मबहिर्धाशुन्यतायां सुशिक्षितः शुन्यताशुन्यतायां महाशुन्यतायां परमार्थशुन्यतायां ९ संस्कृतशुन्यतायाम् असंस्कृतशुन्यतायाम् अत्यंतशुन्यतायाम् अनवराग्रशुन्यतायाम् अनवकारशुन्यतायां प्रकृतिशुन्यतायां सर्वधर्मशुन्यतायां स्वलक्षणशुन्यतायाम् १० अनुपलंभशुन्यतायाम् अभावशुन्यतायां स्वभावशुन्यतायाम् अभावस्वभावशुन्यतायां सुशिक्षितः स खलु पुनः सुभूते बोधिसत्वो महासत्वः आसु शुन्यतासु स्थित्वा यथा यथा ११ तान् संस्कारां प्रत्यवेक्षते / तथा तथा बोधिसत्वो महासत्वः प्रज्ञापारमितया अविरहितो भवति / यथा यथा बोधिसत्वो महासत्वः प्रज्ञापारमितया अविरहितो भवति / तथा तथा १२ असंख्येयम् अप्रमेयम् अपरिमाणं पुण्यं प्रसवति आह / असंख्येयस्य च भगवंन् अप्रमेयस्य चापरिमाणस्य च को विशेषः भगवान् आह / असंख्येयम् अपि१९५ सुभूते यत् संख्यां नोपैति १३ संस्कृते वा धातव् असंस्कृते व धातौ अप्रमेयम् इति सुभूते यस्य प्रमाणं नोपलभ्यते अतीतानागतप्रत्युत्पन्नेषु धर्मेषु / अपरिमाणम् इति सुभूते यन् न शक्यं प्रमातुं /
SK[GBM ५७६.ल् = LPG(Cह्) २०४व्] आह / स्याद् भगवं पैयायो यद् रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं भवेत्* वेदना संज्ञा संस्कार विज्ञानम् असंख्येयम् अप्रमेयम् अपरिमाणं भवेत्* भगवान् आह / स्यात् सुभूते पर्यायो २ येन पर्यायेण रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं भवेत्* वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं भवेत्* आह / कतमेन भगवन् पर्यायेण रूपम् अप्य् ३ असंख्येयम् अप्रमेयम् अपरिमाणं भवेद् वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् भवेत्* भगवान् आह / रूपम् अपि सुभूते शुन्यम् असंख्येयम् अप्रमेयम् ४ अपरिमाणं / वेदना संज्ञा संस्कारा विज्ञानम् अपि सुभूते शुन्यम् असंख्येयम् अप्रमेयम् अपरिमाणं आह / किं पुनर् भगवंन् रूपम् एव शुन्यं वेदना संज्ञा संस्कारा विज्ञानम् एव शुन्यं / न पुनः ५ सर्वधर्माः शुन्याः भगवान् आह / तत् किं मन्यसे सुभूते ननु मया सर्वधर्माः शुन्या इत्य् आख्याताः आह / शुन्या भगवन् सर्वधर्मा इति तथागतेनाख्याता या च भगवंन् शुन्यता / अक्षयापि ६ सा / अप्रमेयापि सा अपरिमाणापि सा न हि भगवं शुन्यतायाः संख्योपलभ्यते न प्रमाणं न परिमाणम् उपलभ्यते / तस्मात् तर्हि भगवं नैषान् धर्माणाम् अर्थतो ७ वा व्यंजनतो वा नानाकरणम् उपलभ्यते / भगवान् आह / एवम् एतत् सुभूते एवम् एतत्* नैषान् धर्माणाम् अर्थतो वा व्यंजनतो वा नानाकरणम् उपलभ्यते / अनभिलाप्यम् एतत् सुभूते तथागतेनाभिलप्तम् ८ अक्षयम् इति वा अप्रमेयम् इति वा / शुन्यम् इति वा आनिमित्तम् इति वा अप्रणिहितम् इति वा अनभिसंस्कारम् इति वा अनुत्पाद इति वा विराग इति वा निरोध इति वा निर्वाणम् ९ इति वा / देशनाभिनिर्हारनिर्देश एष तथागतस्याक्षयम् इति वा यावन् निर्वाणम् इति वा / आह / आश्चर्यं भगवन् यावच् चेदं धर्माणां धर्मता तथागतेन देशिता अनभिलाप्या / यथाहम् भगवतो १० भाषितस्यार्थम् आजानामि / सर्वधर्मा एव भगवन्न् अनभिलाप्याः / भगवान् आह / एवम् एतत् सुभूते एवम् एतत्* सर्वधर्मा सुभूते अनभिलाप्याः या सुभूते धर्माणाम् अनभिलाप्यता सा ११ शुन्यता न च शुन्यतायां किं चिद् अभिलपितं नापि शुन्यता शक्या अभिलपितुं आह / कच्चित् पुनर् भगवंन् अनभिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा / भगवान् आह / नो हीदं सुभूते न सुभूते १२ अनभिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा / आह / सचेत् पुनर् भगवंन् अनभिलाप्यस्यार्थस्य नैव वृद्धिर् न परिहाणिस् तद् दानपारमितया अपि भगवं न वृद्धिर् न परिहाणिर् भविष्यति / एवं १३ शीलपारमितयाः क्षान्तिपारमितयाः वीर्यपारमितयाः ध्यानपारमितयाः प्रज्ञापारमितयाः अपि न वृद्धिर् न परिहाणिर् भविष्यति / चतुर्णां स्मृत्युपस्थानानां यावद् आर्याष्टांगस्य
SK[GBM ५७७.१ = LPG(Cह्) २०५र्] मार्गस्य अष्टानां विमोक्षाणां नवानाम् अनुपूर्वसमापत्तीनां दशानां तथागतबलाणां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां महामैत्र्या महाकरुणाया अष्टादशानाम् आवेणिकानां बुद्धधर्माणां २ न वृद्धिर् न परिहाणिर् भविष्यति / षण्णां पारमितानाम् अभावो भविष्यति / यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् अभावो भविष्यति / एषां च धर्माणाम् अभावात् सर्वाकारज्ञताया अप्य् अभावो ३ भविष्यति / सर्वाकारज्ञताया अभावात् को ह्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते / अभिसंभोत्स्यते वा / भगवान् आह / एवम् एतत् सुभूते एवम् एतत्* नानभिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा / स ४ चेत् पुनः सुभूते बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायाञ् चरतः प्रज्ञापारमितां भावयतः प्रज्ञापारमितायां योगम् आपद्यमानस्योपायकुशलस्य नैवं भवत्य् अहं प्रज्ञापारमितायां ५ विवर्धे एवं यावद् दानपारमितायां विवर्धे / अथ च पुनर् अस्यैवं भवति नामधेयमात्रम् एतद् यद् उत दानपारमिता / स दानपारमितायां चरंस् तां मनसिकारांस् तांश् चित्तोत्पादांस् ६ तानि च कुशलमूलानि अनुत्तरस्यां सम्यक्संबोधौ परिणमयति तथा च परिणमयति / यथा सानुत्तरा सम्यक्संबोधिः एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ७ ध्यानपारमितायां प्रज्ञापारमितायां चरंस् तां मनसिकारांस् तांश् चित्तोत्पादांस् तानि कुशलमूलानि अनुत्तरस्यां सम्यक्संबोधौ परिणमयति / तथा च परिणमयति / यथानुत्तरा ८ सम्यक्संबोधिः आह कथं भगवंन् अनुत्तरा सम्यक्संबोधिः / भगवान् आह / या सुभूते सर्वधर्माणां तथता सानुत्तरा सम्यक्संबोधिः / आह / कतमेषां भगवं सर्वधर्माणां तथतानुत्तरा ९ सम्यक्संबोधिः / भगवान् आह / या सुभूते रूपस्य तथता यावद् या निर्वाणस्य तथता सानुत्तरा सम्यक्संबोधिः सा नैव वर्धते न परिहीयते तत् सुभूते बोधिसत्वो महासत्वः १० प्रज्ञापारमितया अविरहितो भीक्ष्णं बहुलं विहरति न कस्य चिद् धर्मस्य वृद्धिर् वा परिहाणिं वा समनुपश्यति / एवं खलु सुभूते अनभिलाप्यस्यार्थस्य नैव वृद्धिर् न ११ परिहाणि / एवं खलु सुभूते दानपारमिताया शीलपारमिताया क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया प्रज्ञापारमिताया नैव वृद्धिर् न परिहाणिः / एवं १२ यावत् प्रतिसंविदां न वृद्धिर् न परिहाणिः / एवं खलु सुभूते बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरितव्यं / अवृद्ध्यपरिहाणियोगेन /