SK
|| श्रीः || श्रीमन्महामाहेश्वरश्रीमदभिनवगुप्तपादाचार्यविरचितः श्रीतन्त्रालोकः श्रीमद्राजानकजयरथविरचितविवेकाभिख्यव्याख्यानोपेतः प्रथममाह्निकम् ᳚ विवेकः ᳚ यस्मादेषणवित्क्रिया यदुदिता ह्यानन्दचिद्भूमयो यस्यैवोद्धुरशक्तिवैभवमिदं सर्वं यदेवंविधम् | तद्धाम त्रिकतत्त्वमद्वयमयं स्वातन्त्र्यपूर्णप्रथं चित्ते स्ताच्छिवशासनागमरहस्याच्छादनध्वंसि मे || १ || देहे विमुक्त एवास्मि श्रीमत्कल्याणवारिधेः | यस्य कारुण्यविप्रुड्भिः सद्गुरुं तं हृदि श्रये || २ || मूर्ध्न्युत्तं$$$स इव क्ष्मापैः सर्वैर्यस्यानुशासनम् | हृदये भवसंभारकर्कशेऽप्याशु शिश्रिये || ३ || न ग्रन्थकारपदमाप्तुमथास्म्यपूर्वं वाक्कौशलं च न निदर्शयितुं प्रवृत्तः | किं त्वेतदर्थपरिशीलनतो विकल्पः संस्कारवांश्च समियादिति वाञ्छितं नः || ४ || यातायाताः स्थिताः केचिदज्ञा मत्सरिणः परे | संदिग्धाः केऽपि किं ब्रूयां श्रोतारो यदनागताः || ५ || तदनाकर्ण्य गूढार्थं स्वादु स्वाशयकौशलम् | साकूतमुक्तमन्यैर्यत्तेन दोलायते मनः || ६ || अत्र मद्वागशक्तापि यन्निर्यन्त्रणमुल्लसेत् | तत्पारमेश्वरं श्रीमन्महानन्दविजृम्भितम् || ७ || इह खलु शास्त्रादावलौकिकाशीर्वादमुखेन वक्ष्यमाणषडर्धशास्त्रार्थगर्भीकारेण समुचितेष्टदेवतां शास्त्रकारः परामृशति विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः | तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम संस्फुरतात् || १-१ || ᳚मम᳚ आत्मनो ᳚हृदयम्᳚ जगदानन्दादिशब्दवाच्यं तथ्यं वस्तु, सम्यक् देहप्राणादिप्रमातृतासंस्कारन्यक्कारपुरःसरसमावेशदशोल्लासेन दिक्कालाद्यकलिततया श्फुरतात्᳚ कालत्रयावच्छेदशून्यत्वेन विकसतात् -- इत्यर्थः | तच्च कीदृक्? -- इत्युक्तम् -- ᳚तदुभय᳚ इति | ᳚तत्᳚ आद्यार्धव्याख्यास्यमानं च तत् ᳚उभयम्᳚ तस्य ᳚यामलम्᳚ -- ᳚तयोर्यद्यामलं रूपं स सङ्घट्ट इति स्मृतः |᳚