The Light of the Tantra

Tantrāloka Chapters 1 Thru 14

The Light of the Tantra

Tantrāloka Chapters 1 Thru 14

SK
|| श्रीः || श्रीमन्महामाहेश्वरश्रीमदभिनवगुप्तपादाचार्यविरचितः श्रीतन्त्रालोकः श्रीमद्राजानकजयरथविरचितविवेकाभिख्यव्याख्यानोपेतः प्रथममाह्निकम् ᳚ विवेकः ᳚ यस्मादेषणवित्क्रिया यदुदिता ह्यानन्दचिद्भूमयो यस्यैवोद्धुरशक्तिवैभवमिदं सर्वं यदेवंविधम् | तद्धाम त्रिकतत्त्वमद्वयमयं स्वातन्त्र्यपूर्णप्रथं चित्ते स्ताच्छिवशासनागमरहस्याच्छादनध्वंसि मे || १ || देहे विमुक्त एवास्मि श्रीमत्कल्याणवारिधेः | यस्य कारुण्यविप्रुड्भिः सद्गुरुं तं हृदि श्रये || २ || मूर्ध्न्युत्तं$$$स इव क्ष्मापैः सर्वैर्यस्यानुशासनम् | हृदये भवसंभारकर्कशेऽप्याशु शिश्रिये || ३ || न ग्रन्थकारपदमाप्तुमथास्म्यपूर्वं वाक्कौशलं च न निदर्शयितुं प्रवृत्तः | किं त्वेतदर्थपरिशीलनतो विकल्पः संस्कारवांश्च समियादिति वाञ्छितं नः || ४ || यातायाताः स्थिताः केचिदज्ञा मत्सरिणः परे | संदिग्धाः केऽपि किं ब्रूयां श्रोतारो यदनागताः || ५ || तदनाकर्ण्य गूढार्थं स्वादु स्वाशयकौशलम् | साकूतमुक्तमन्यैर्यत्तेन दोलायते मनः || ६ || अत्र मद्वागशक्तापि यन्निर्यन्त्रणमुल्लसेत् | तत्पारमेश्वरं श्रीमन्महानन्दविजृम्भितम् || ७ || इह खलु शास्त्रादावलौकिकाशीर्वादमुखेन वक्ष्यमाणषडर्धशास्त्रार्थगर्भीकारेण समुचितेष्टदेवतां शास्त्रकारः परामृशति विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः | तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम संस्फुरतात् || १-१ || ᳚मम᳚ आत्मनो ᳚हृदयम्᳚ जगदानन्दादिशब्दवाच्यं तथ्यं वस्तु, सम्यक् देहप्राणादिप्रमातृतासंस्कारन्यक्कारपुरःसरसमावेशदशोल्लासेन दिक्कालाद्यकलिततया श्फुरतात्᳚ कालत्रयावच्छेदशून्यत्वेन विकसतात् -- इत्यर्थः | तच्च कीदृक्? -- इत्युक्तम् -- ᳚तदुभय᳚ इति | ᳚तत्᳚ आद्यार्धव्याख्यास्यमानं च तत् ᳚उभयम्᳚ तस्य ᳚यामलम्᳚ -- ᳚तयोर्यद्यामलं रूपं स सङ्घट्ट इति स्मृतः |᳚
SK
इति वक्ष्यमाणनीत्या शक्तिशक्तिमत्सामरस्यात्मा सङ्घट्टः, ततः श्फुरितभावः᳚ परानपेक्षत्वेन स्वत एवोल्लसितसत्ताको योऽसौ -- ᳚अत एव विसर्गोऽयमव्यक्तहकलात्मकः |᳚ इत्युक्त्या कुलाकुलोभयच्छटात्मकहकारार्धार्धरूपो ᳚विसर्गो᳚ बहिरुल्लिलसिषास्वभावः स प्रकृतिर्यस्य तत्; अत एवाह -- ᳚अनुत्तरामृतकुलम्᳚ इति | ᳚अनुत्तरम्᳚ कतिपयकालदार्ढ्यकार्यमृतान्तरवैलक्षण्यात् उत्कृष्टं च तत् -- ᳚यत्रास्ति न भयं किञ्चिन्न जरा व्याधयोऽपि वा | न विघ्ना न च वै मृत्युर्न कालः कलयेच्च तम् ||᳚ इत्यकालकलितत्त्वात् अविद्यमानं मृतं यत्र तत् ᳚कुलम्᳚ शरीरं यस्य तत् अमाख्यकलास्वरूपम् -- इत्यर्थः | तदुक्तम् -- ᳚कला सप्तदशी यासावमृताकाररूपिणी |᳚ इति | किं च तदुभयम् -- इत्याह -- ᳚जननी जनकश्च᳚ इति | कीदृशी जननी ᳚विमलकलाश्रया᳚ इति | विगता᳚मलाः᳚ अवच्छेदका यस्यास्तादृशी या ᳚कला᳚ परविमर्शैकस्वभावकर्तृतालक्षणा, सा ᳚आश्रयः᳚ आलम्बनं स्वरूपं यस्याः सा शुद्धस्वातन्त्र्यशक्तिरूपा -- इत्यर्थः | अत एव ᳚अभिनवायाम्᳚ आद्यायाम् शृष्टौ᳚ शुद्धाध्वमार्गे -- शुद्धेऽध्वनि शिवः कर्ता.................... | इति नीत्या शिवस्यैव तत्र साक्षात्कारित्वात् ᳚महः᳚ पारिपूर्ण्यलक्षणं तेजः स्फारो यस्याः सा -- इत्युक्तम् | इहाद्वयनये हि भगवानेव स्वस्वातन्त्र्यमाहात्म्यात् अभासमात्रसारतया स्वाव्यतिरिक्तमपि व्यतिरिक्तत्वेनेव जगत् आभासयति -- इत्यनन्यापेक्षिणः स्वातन्त्र्यस्यैव जगद्वैचित्र्यनिमित्तत्वमुक्तम् अविद्यावासनादीनां भेदाभेदविकल्पोपहतत्त्वात् जगद्वैचित्र्यनिमित्तत्वाभिधानानुपपत्तेः | अत एव भगवतश्चिदाद्यनन्तशक्तिसम्भवेऽपि तत्स्फुरणमात्रत्वात् तासां तस्या एव प्राधान्यात् इहाभिधानम् | यद्वक्ष्यति � तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः |
SK
इति | जनकश्च कीदृक्? -- इत्युक्तम् ᳚भरिततनुः᳚ इति | ᳚भरिता᳚ सर्वाकाङ्क्षासंक्षयात् पारिपूर्ण्येन पूरिता ᳚तनुः᳚ स्वभावो यस्य सः, अनन्योन्मुखतया स्वतन्त्रः -- इति यावत् | अत एव ᳚पञ्चभिः᳚ चिदानन्देच्छाज्ञानक्रियात्मभिः ᳚मुखैः᳚ -- ᳚.....................शैवी मुखमिहोच्यते |᳚ इत्युक्त्या शक्तिभिः ᳚गुप्ता᳚ परिपूरिता प्रबन्धेनानुवर्तमाना ᳚रुचिः᳚ अभिलाषो विशेषानुपादानात् कृत्यपञ्चकविषयो यस्यासौ, सदैव पञ्चविधकृत्यकारी -- इत्यर्थः | तदुक्तम् -- शृष्टिसंहाकर्तारं विलयस्थितिकारकम् | अनुग्रहकरं देवं प्रणतार्तिविनाशनम् ||᳚ इति | तदेवम् अत्र विसर्गप्रसरस्वभावत्वेन जगद्वैचित्र्यबीजभूतं शिवशक्तिसङ्घट्टात्मकपरत्रिकशब्दवाच्यम् अनाख्यात्मकं विघ्नौधप्रध्वंसाय परामृष्टम् | तदुक्तम् -- ᳚तत्रापि शक्त्या सहितः स्वात्ममय्या महेश्वरः | यदा सङ्घट्टमासाद्य समापत्तिं परां व्रजेत् || तदास्य परमं वक्त्रं विसर्गप्रसरास्पदम् | अनुत्तरविकासोद्यज्जगदानन्दसुन्दरम् || भाविवक्त्राविभागेन बीजं सर्वस्य संस्थितम् | हृत्स्पन्दोद्यत्परासारनिर्नामोर्म्यादि तन्मतम् || एतत्परं त्रिकं सूक्ष्मं सर्वशक्त्यविभागवत् |᳚ इति | अथ च ᳚हृदयम्᳚ � ᳚हृदयं शक्तिसूत्रं तु........................ |᳚ इत्याद्युक्त्या श्रीसृष्टिकाल्याद्यखिलशक्तिचक्रासूत्रणेन प्रस्फुरद्रूपं श्रीकालसङ्कर्षणीधाम शंस्फुरतात्᳚ तदात्म्येनैकः स्याम् -- इत्यर्थः | तच्च कीदृशम् ? -- इत्युक्तम् -- ᳚अनुत्तरामृतकुलम्᳚ इति | सृष्ट्यादीनामत्रैव लयाद् अविद्यमानम् उत्तरम् अन्यत् यस्मात् अत एव ᳚अमृतम्᳚ स्वात्मचमत्कारमात्रपरमार्थम्, अत एव च ᳚कुलम्᳚ -- ᳚कुलं पदनामाख्यं........................... |᳚ इत्यनाख्यरूपम् -- इत्यर्थः | अन्यच्च कीदृक् ? -- इत्याह -- ᳚तदुभय᳚ इति | तच्च तत् व्याख्यास्यमानं सृष्टिसंहारात्मकम् ᳚उभयम्᳚ तस्य ᳚यामलम्᳚ लोलीभावः, ततः -- ᳚चक्रद्वयेऽन्तः कचति लोलीभूता परा स्थितिः |᳚ इति | तथा� प्रभवाप्यययोरन्तर्लोलीभावात्क्रमोऽवताराख्यः |
SK
इत्यादिनीत्या स्फुरितसत्ताकः स्थित्यात्मा विविधः सर्गस्तन्मयम् | परैव हि अनाख्या भगवती संवित् स्वस्वातन्त्र्यात् स्वात्मनि सृष्ट्यादि अवभासयति विलाययति च -- इत्यभिप्रायः | यदुक्तम् -- ᳚यस्य नित्योदिता ह्येकाभासा कालक्षयङ्करी | राजते हृदयाम्भोजविकासिगगनोदरे || सृष्टिस्थित्युपसंहाररूपा तद्भरणे रता |᳚ इति | तच्छब्दपरामृष्टमुभयं व्याचष्टे ᳚जननी जनकश्च᳚ इति | जनयति विश्वम् -- इति ᳚जननी᳚ परा पारमेश्वरी सृष्ट्यादिचक्राद्या सा च शुद्धबोधमात्रस्वभावत्वात् ᳚विमला᳚ येयम् आदिभूता चान्द्रमसी ᳚कला᳚ सा ᳚आश्रयः᳚ -- आलम्बनं गतिर्यस्याः सा, सकलजगदाप्यायकारिपरामृतमयी -- इत्यर्थः | तदुक्तम् -- ऊर्ध्वे तु संस्थिता सृष्टिः परमानन्दरूपिणी | पीयूषवृष्टिं वर्षन्ती बैन्दवी परमा कला ||᳚ इति | तथा� ᳚ऊर्ध्वे स्थिता चन्द्रकला च शान्ता, पूर्णामृतानन्दरसेन देवी |᳚ इति | अत एव ᳚अभिनवायाम्᳚ शदा सृष्टिविनोदाय...................... |᳚ इत्यादिनीत्या सदा द्योतमानायाम् शृष्टौ᳚ बहीरूपतायां स्वातन्त्र्यलक्षणम् ᳚महः᳚ तेजो यस्याः सा -- इत्युक्तम् | जनयति भावसंहारम् -- इति ᳚जनकः᳚ अभिरूपः परः प्रमाता, स च ᳚पञ्चानाम्᳚ वामेश्यादिवाहशक्तीनाम् ᳚मुखैः᳚ चक्षुरादीन्द्रियवृत्तिरूपैर्द्वारैः -- ᳚येन येनाक्षमार्गेण यो योऽर्थः प्रतिभासते | स्वावष्टम्भबलाद्योगी तद्गतस्तन्मयो भवेत् || इत्यादिनीत्या तत्तद्विषयाहरणेन ᳚गुप्ता᳚ -- स्वावष्टम्भबलेन परिरक्षिता ᳚रुचिः᳚ �दीप्तिर्यस्यासौ निखिलभावग्रसिष्णुतया समुद्दीपितपरप्रमातृभावः -- इत्यर्थः | अत एव ᳚भरिततनुः तत्तद्भावसञ्चर्वणेन निराकाङक्षतोत्पादात् स्वात्ममात्रविश्रान्त्या पूर्णः -- इत्यर्थः | तदेवम् अत्र ग्रन्थकृता सृष्ट्यादिक्रमत्रयरूपतामवभासयन्त्यपि तदतिवर्तनेन परिस्फुरन्ती क्रमाक्रमवपुः परैव अनाख्या पारमेश्वरी संवित् परामृष्टा, -- इत्युक्तं स्यात् | यदुक्तमस्मत् परमेष्ठिगुरुभिः� ᳚क्रमत्रयसमाश्रयव्यतिकरेण या संततं
SK
क्रमत्रितयलङ्घनं विदधती विभात्युच्चकैः | क्रमैकवपुरक्रमप्रकृतिरेव या द्योतते करोमि हृदि तामहं भगवती परां संविदम् ||᳚ इति | अथ च ᳚हृदयम्᳚ निजबलसमुद्भूतिलक्षणं तत्त्वं विशेषानुपादानात् सर्वस्य सम्यक् प्रख्योपाख्यारोहेण श्फुरतात्᳚ विकसतात् -- इत्यर्थः | तच्च कीदृक्? ᳚तदुभय᳚ इति | तत् आद्यार्धव्याख्यास्यमानं मातापितृलक्षणम् ᳚उभयम्᳚ तस्य यत् ᳚यामलम्᳚ आद्ययागाधिरूढं मिथुनं, तस्य परस्परौन्मुख्येन चमत्कारतारतम्ययोगात् श्फुरितः᳚ सोल्लासो योऽसौ ᳚भावः᳚ आशयविशेषः, तेन यो ᳚विसर्गः᳚ क्षेपः कुण्डगोलाख्यद्रव्यविशेषनिःष्यन्दः, स प्रकृतिर्यस्य तत्; अत एव च ᳚अनुत्तरे᳚ श्वेतारुणात्मदेवतामयताद्यनुसंधानेन पशुशुक्रशोणितवैलक्षण्यादुत्कृष्टे ᳚अमृते᳚ सारे -- ᳚....................कुलमुत्पत्तिगोचरः |᳚ इत्युक्त्या ᳚कुलम्᳚ आकारो यस्य तत् | किं तदुभयम् ? -- इत्याह -- ᳚जननी जनकश्च᳚ इति | कीदृशी जननी ?᳚विमलकलाश्रया᳚ इति | ᳚विमला᳚ इति वर्णकला ᳚आश्रयः᳚ आलम्बनं यस्याः सा, विमलकलाभिधाना -- इत्यर्थः | तथा -- ᳚अभिनवसृष्टिमहा᳚ इति | ᳚अभिनवस्य᳚ श्रीमदभिनवगुप्तस्य शृष्टिः᳚ जन्म सैव -- ङन्दन्ति पितरस्तस्य नन्दन्ति च पितामहाः | अद्य माहेश्वरो जातः सोऽस्मान्संतारयिष्यति ||᳚ इत्याद्युक्तेः सत्पुत्रप्रसवेन कृतकृत्यतया चमत्कारातिशयकारित्वेन ᳚महः᳚ उत्सवो यस्याः सा तथा | तथा जनकश्च कीदृशः? ᳚पञ्चमुखगुप्तरुचिः᳚ | ᳚पञ्चमुखः᳚ सिंहः, सिंहगुप्तेति संज्ञया ᳚रुचिः᳚ दीप्तिः सर्वत्र प्रथा यस्यासौ -- ᳚तस्यात्मजश्चुखुलकेति जनेप्रसिद्धश् श्चन्द्रावदातधिषणो नरसिंहगुप्तः |᳚ इति वक्ष्यमाणदृशा नरसिंहगुप्तसंज्ञया ख्यातः -- इत्यर्थः | अस्य हि ग्रन्थकृतः श्रीनरसिंहगुप्तविमलाख्यौ पितरौ -- इति गुरवः | शन्ति(न्तो) हि पदेषु पदैकदेशान्प्रयुञ्जानाः |᳚ इति नीत्या ᳚भीमो भीमसेनः᳚ इतिवत् अत्रापि नरसिंहगुप्तसिंहगुप्तपदयोः प्रयोगः | ᳚भरिततनुः᳚ इति�
SK
᳚शिवशक्त्यात्मकं रूपं भावयेच्च परस्परम् | न कुर्यान्मानवीं बुद्धिं रागमोहादिसंयुताम् || ज्ञानभावनया सर्व कर्तव्यं साधकोत्तमैः |᳚ इत्याद्युक्तनीत्या द्वयोरपि शिवश्क्तिसमावेशमयत्वाभिधानस्येष्टेः काकाक्षिन्यायेन योज्यम् | तदेवम् एवंविधसिद्धयोगिनीप्रायपितृमेलकसमुत्थतया -- ᳚तादृङमेलककलिका कलिततनुर्यो भवेद् गर्भे | उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं भक्तः ||᳚ इत्युक्तनीत्या स्वात्मनि निरुत्तरपादाद्वयज्ञानपात्रतामभिदधता ग्रन्थकृता निखिलषडर्धशास्त्रसारसंग्रहभूतग्रन्थकरणेऽप्यधिकारः कटाक्षीकृतः | अत्र च सम्भवन्त्यपि व्याख्यान्तराणि न कृतानि, ग्रन्थगौरवभयात् प्रकतानुपयोगाच्च | केषांचिदपि व्याख्यान्तराणमासमञ्जस्यमतीव सम्भवदपि न प्रकाशितम् | एवं हि -- ᳚....................टस्यै हेतुं न चाचरेत् |᳚ इति वक्ष्यमाणदृशा स्वात्मनि समयलोपावहं महात्मनाम् महागुरूणां निन्दाबीजमासूत्रितम् -- इति भवेत्; को नाम शान्तिकर्मारभमाणो वेतालोत्थापनं कुर्यात्, इह चास्माभिस्तद्व्याख्यासारोच्चयनस्यैव प्रतिज्ञातत्त्वात् तदेव क्रियते, -- इति तदितरत् स्वयमेव सर्वत्रासारतया चिन्वन्तु सचेतसः, -- इत्य लमनेनापि वचनेन, प्रस्तुतमिहाभिदध्मः || १ || तदेवं परं त्रिकं परामृश्य परापरमपि पराम्रष्टुमुपक्रममाणः प्रथमं तावत् परां देवी परामृशति -- नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम् | मातृमानप्रमेयांशशूलाम्बुजकृतास्पदाम् || १-२ || ᳚पराम्᳚ पूर्णाम्, अत एव भिन्नमपि जगत् स्वात्मनि अभेदरूपतया पालयन्तीम् अनन्योन्मुखतया च प्रकृष्टाम् -- ᳚या सा शक्तिर्जगद्धातुः कथिता समवायिनी |᳚ इत्याद्युक्त्या ᳚भैरवयोगिनीम्᳚ नित्यमेव परप्रमात्रवियुक्तत्वात् तदात्मभूताम्, अत एव� ᳚इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते |᳚
SK
इत्याद्युक्त्या चिद्रूपा चासौ ᳚प्रतिभा᳚ प्रज्ञा, ताम् आद्योच्छलत्तात्मकत्वेन बहिरुल्लिलसिषास्वभावाम्, अत एव ᳚देवीम्᳚ प्रमातुरपि विश्रान्तिधामत्वात् प्रमितिरूपतया द्योतमानाम्, अत एव बहिरपि प्रमातृप्रमाणप्रमेयाण्येव ᳚अंशा᳚ अरारूपा भागा यस्य ᳚शूलस्य᳚ तत्र यानि औन्मनसानि अम्बुजानि, तत्र ᳚कृतास्पदाम्᳚ तदुत्तीर्णतया भासमानाम् ङौमि᳚ देहप्राणादिप्रमातृरूपन्यग्भावेन तत्स्वरूपमाविशामि -- इत्यर्थः || २ || एवमुक्तेऽपि परास्वरूपेऽपरास्वरूपमनभिधाय, तदुभयमयस्य परास्वरूपस्य वक्तुमशक्यत्वात् क्रमप्राप्तां परापरां देवीं परिहृत्य, प्रथमं तावदपरां देवीमभिमुखयति� नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते | प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम् || १-३ || ङृत्यतो᳚ -- ङर्तक आत्मा᳚ (शि.३ उ.९ सू.) इति शिवसूत्रदृष्ट्या निगूहितस्वस्वरूपावष्टम्भमूलं तत्तद्विष्ववैचित्र्यभूमिकाप्रपञ्चं प्रकाशयतो ᳚भैरवाकृतेः᳚ पूर्णस्वरूपस्य परमात्मनः ᳚शरीरस्थाम्᳚ -- ᳚एवभूतमिदं वस्तु भवत्विति यदा पुनः | जाता तदैव तद्वस्तु कुर्वत्यत्र क्रियोच्यते ||᳚ इत्याद्युक्त्या तत्तत्प्रमातृप्रमेयाद्यनन्ताभासवैचित्र्यकारितया स्वरूपाविष्टाम्, अत एव ᳚देवीम्᳚ जगदुल्लासनक्रीडाकारिणीम् अपरां भगवतीं ङौमि᳚ इति संबन्धः | अत एव बहिरपि विश्वात्मना द्योतमानत्वेऽपि -- ᳚भेदभावकमायीयतेज्ॐशग्रसनाच्च तत् | सर्वसंहारकत्वेन कृष्णं तिमिररूपधृत् ||᳚ इत्याद्युक्तस्वरूपे परप्रमातर्येव विश्रान्तत्त्वात् कृष्णपिङ्गलरूपाम्� इत्युक्तम् ᳚प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम्᳚ इति || ३ || अथ परापरोभयस्वरूपमयीं परापरां देवीं परमृशति -- दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत् | स्ताज्ज्ञानशूलं सत्पक्षविपक्षोत्कर्तनक्षमम् || १-४ || ᳚ज्ञानम्᳚� ᳚एवमेतदिदं वस्तु नान्यथेति सुनिश्चितम् | ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते ||᳚ इत्याद्युक्तज्ञानशक्तिस्वभावमपि अन्तरासूत्रितेच्छाक्रियात्मकम्, अत एव परापराशब्दव्यपदेश्यम्, अत एव तत् --
SK
᳚लोलीभूतमतः शक्तित्रितयं तत्त्रिशूलकम् |᳚ इति वक्ष्यमाणनीत्या ᳚त्रिशूलम्᳚ अत एव ᳚दीप्ताभिः᳚ -- अप्रतिहताभिः तत्तदिन्द्रियवृत्तिरूपाभिः ᳚ज्योतिश्छटाभिः� ᳚यत्र यत्र मिलिता मरीचयस्तत्र तत्र विभुरेव जृम्भते |᳚ इत्यादिनीत्या वक्ष्यमाणस्वरूपस्य भेदप्रधानस्य बन्धहेतुत्वात् बन्धरूपस्य आणवादिमलत्रयस्य प्लोषकम्, अत एव श्फुरत्᳚ शुद्धबोधैकरूपतयास्फुरत्तासारम्, अत एव शन्᳚ च असौ ᳚पक्षः᳚ जगदानन्दस्तस्य ᳚विपक्षाः᳚ -- तदप्रथारूपा निजानन्दाद्या आनन्दा अनानन्दाश्च तेषाम् ᳚उत्कर्तनम्᳚ -- पूर्णप्रथात्मकत्वेन क्षपणम्, तत्र ᳚क्षमम्᳚ -- समर्थः श्तात्᳚ -- इति वाक्यार्थः -- तदुक्तम् -- ᳚जयन्ति जगदानन्दविपक्षक्षपणक्षमाः | परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः || इति || ४ || इदानीमपरमपि त्रिकं पराम्रष्टुमाह -- स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः | तदेव देवीत्रयमन्तरास्ताम् अनुत्तरं मे प्रथत्स्वरूपम् || १-५ || स्वतन्त्र्यरूपा शक्तिः यस्यासौ अनन्तशक्तिर्भगवान् शिवः, ᳚क्रमस्य᳚ - - ᳚मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ | क्रियावैचित्र्यनिर्भासात् कालक्रममपीश्वरः ||᳚ (रि. २-१-५) इत्याद्युक्तनीत्या देशकालात्मनो विश्ववैचित्र्यस्य सर्गस्य, सम्यक्�भेदेन शिसृक्षा᳚ -- जगत्सृष्टिनिमित्तं पारमेश्वरी इच्छारूपा शक्तिः ᳚क्रमात्मता᳚ -- ᳚क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः |᳚ (रि. २-१-४) इत्यादिनीत्या भेदप्रधानं तत्तदनन्ताभाससंभिन्नं संकुचितात्मरूपं नरत्वम्, इत्येवं येयं नर-शक्ति-शिवात्मिका ᳚विभोः᳚ -- भगवतः परस्य -- अनुत्तरस्य प्रकाशस्य ᳚विभूतिः᳚� तत्तत्स्फुरणात्मत्वेन एश्वर्यं ᳚तदेव᳚ क्रमेण तत्स्फारसारत्वात् समनन्तरोक्तस्वरूपं ᳚देवीत्रयम्᳚ परप्रकाशत्मकत्वात् ᳚अनुत्तरम्᳚ श्वम्᳚ सर्वकर्तृत्वादेरसाधारणम् ᳚रूपम्᳚ ᳚प्रथयत्᳚- तत्तद्भेददशोदयेऽप्यतिरोदधत् मम आत्मनः ᳚अन्तरास्ताम्᳚ एकात्म्येन स्फुरतात् -- इत्यर्थः || ५ ||
SK
एवं स्वदर्शनोचितदेवतापरामर्शानन्तरं तत्स्वरूपानुप्रवेशेनैव युगपद् गणेशवटुकावपि अभिमुखयति -- तद्देवताविभवभाविमहामरीचि चक्रेश्वरायितनिजस्थितिरेक एव | देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः, सम्यक्समुच्छलयतान्मम संविदब्धिम् || १-६ || ᳚एक एव᳚ -- अनन्यापेक्षतया निःसहायो ᳚गणस्य᳚ -- करणचक्रस्य -- ᳚दिनकरसममहदादिकगणपतितां वहति यो नमस्तस्मै |᳚ इत्यादिदृशा ᳚पतिः᳚ -- अहङ्काररूपः प्रभुः, अत एव ᳚तासाम्᳚ समनन्तरोक्तानां ᳚देवतानाम्᳚ ᳚विभवेन᳚ -- परप्रकाशात्मना स्फारेण -- ᳚यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते |᳚ इति वक्ष्यमाणनीत्या भवनशीलाः तन्मयतया परिस्फुरन्त्यो या ᳚महामरीचयः᳚ -- तत्तदिन्द्रियदेवताः तासां यत् ᳚चक्रम्᳚ तत्रेश्वरवदाचरन् निजस्थितिर्यो ᳚मम᳚ आत्मनः शंविद्᳚ एव अनवगाह्यत्वात् ᳚अब्धिः᳚ शम्यक्᳚ विषयकालुष्यविलायनेन समन्तात् -- सर्वत एव तत्तदिन्द्रियप्रसृतसंविद्द्वारेण ᳚उच्छलयतात्᳚ -- विकासयतात्, तदेकमयतामुत्पादयतात् -- इत्यर्थः | अब्धिसमुच्छलनसमुचितत्त्वाच्च श्फुरदिन्दुकान्तिः᳚ -- इत्युक्तम् | वस्तुतो हि अपानव्याप्तिरस्यास्ति -- इत्येवं निर्देशः | अथ च ᳚देवीसुतः᳚ वटुकोऽप्येवंविधः, किन्तु शरीरस्य धवलिम्ना श्फुरदिन्दुकान्तिः᳚ | अस्य हि प्राणव्याप्तिरस्ति इत्येवं निर्दिशन्ति गुरवः | ᳚देवीसुतः᳚ इत्युभयोरपि कुलशास्त्रोचितोऽयं व्यपदेशः | तदुक्तम् -- ᳚देवीपुत्रोऽत्र वटुकः स्वशक्तिपरिवारितः |᳚ इति | ᳚गणेशो विघ्नहर्तासौ देवीपुत्रः........... |᳚ इति च || ६ || इह खलु शास्त्रादौ� ᳚....................ष्त्रोतोभेदं संख्यानमेव च | प्रवर्तयेद् गुरुं स्वं च स्तेयी स्यात् तदकीर्तनात् ||᳚ इत्याद्युक्तदृशा अवश्यमेव शास्त्रकारैः स्वगुर्वादेः कीर्तनं कार्यम्, अतश्च वक्ष्यमाणशास्त्रस्य कुलतन्त्रप्रकियात्मकत्वेन द्वैविध्येऽपि -- ङभःस्थिता यथा तारा न भ्रजन्ते रवौ स्थिते | एवं सिद्धान्ततन्त्राणि न विभान्ति कुलागमे ||
SK
तस्मात्कुलादृते नान्यत्संसारोद्धरणं प्रति |᳚ इत्याद्युक्त्या कुलप्रक्रियायाः प्रक्रियान्तरेभ्यः प्राधान्यात् -- ᳚भैरव्या भैरवात्प्राप्तं योगं व्याप्य ततः प्रिये | तत्सकाशात्तु सिद्धेन मीनाख्येन वरानने || कामरूपे महापीठे मच्छन्देन महात्मना |᳚ इत्यादिनिरूपितस्थित्या तदवतारकं तुर्यनाथमेव तावत् प्रथमं कीर्तयति -- रागारुणं ग्रन्थिबिलावकीर्णं यो जालमातानवितानवृत्ति | कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः || १-७ || शः᳚ -- सकलकुलशास्त्रावतारकतया प्रसिद्धः -- ᳚मच्छाः पाशाः समाख्याताश्चपलाश्चित्तवृत्तयः | छेदितास्तु यदा तेन मच्छन्दस्तेन कीर्तितः ||᳚ इत्याद्युक्त्या पाशखण्डनस्वभावो मच्छन्द एव परमेश्वरसमावेशशालित्वात् ᳚विभुः᳚ मम प्रसन्नः श्तात्᳚ -- स्वात्मदर्शनसंविभागपात्रतामाविष्कुर्यात् -- इत्यर्थः | यो ᳚जालम्᳚ मत्स्यबल्धनम्, इन्द्रजालप्रायां च मायां ᳚बाह्यपथे चकार᳚ -- ᳚अष्टौ सिद्धा महात्मानो जालपृष्ठाः सुतेजसः |᳚ इत्याद्युक्त्या तुरीयतास्वरूपावहितत्त्वेन सङ्कोचापहस्तनादनवधेयतां च निन्ये -- इत्यर्थः | तच्च ᳚रागेण᳚ - - गैरिकादिद्रव्येण रागतत्त्वेन च ᳚अरुणम्᳚ -- लोहितीकृतम् इयर्ति -- गच्छति इत्यर्थानुगमात् तत्तद्भेददशाप्रसररूपं च, तथा ग्रन्थिभिः᳚ -- बन्धनैः ᳚बिलैः᳚ च सलिलनिर्गमनस्थानैः ᳚ग्रन्थौ᳚ मायाया द्वितीयस्मिन् भेदे ᳚बिलैः᳚ बिलाकाराभिः भगसंज्ञाभिर्भोगभूमिभिश्च ᳚अवकीर्णम्᳚ -- व्याप्तम्, तथा ᳚आतानवितानवृत्ति᳚ -- आयामपार्श्वमानयुक्तं विश्वाकारत्वात् सर्वतः प्रसरद्रूपं च, तथा ᳚कलया᳚ विच्छित्तिविशेषेण कलातत्त्वेन च अर्थात्क्षितिपर्यन्तेन ᳚उम्भितम्᳚ आरब्धम् | यदुक्तम् -- ᳚मायारूपं भवेज्जालं दारयेत्कुलचिन्तकः | विश्वाकारं महाजालं नाडीसूत्रनियोजितम् || भुवनाक्षसमोपेतं तत्त्वग्रन्थिदृढीकृतम् | कलारागयुतं चैव.............................. ||᳚ इत्यादि || ७ || ᳚श्रीमच्छ्रीकण्ठनाथाज्ञावशात्सिद्धा अवातरन् |
SK
त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये | द्वयाद्वये च निपुणाः क्रमेण शिवशासने | आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् || स चार्धत्र्यम्बकाभिख्यः सन्तानः सुप्रतिष्ठितः | अतश्चार्धचतस्त्रोऽत्र मठिकाः सन्ततिक्रमात् ||᳚ इति वक्ष्यमाणस्थित्या श्रीसन्तत्यामर्दकत्रैयम्बकार्धत्रैयम्बकाख्यासु सार्धासु तिसृषु मठिकासु मध्यात् वक्ष्यमाणतन्त्रप्रक्रियायाः त्रैयम्बकमठिकाश्रयणेन आयातिक्रमोऽस्ति इति सामान्येन तावत् गुरूनभिमुखयति -- त्रैयम्बकाभिहितसन्ततिताम्रपर्णी सन्मौक्तिकप्रकरकान्तिविशेषभाजः | पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धु कल्लोलकेलिकलनामलकर्णधाराः || १-८ || ᳚त्रैयम्बक᳚ इति ᳚अभिहिता᳚ शन्ततिः᳚ मठिका -- इत्यर्थः || ८ || एवम् -- ᳚शैवादीनि रहस्यानि पूर्वमासन्महात्मनाम् | ऋषीणां वक्त्रकुहरे तेष्वेवानुग्रहक्रिया || कलौ प्रवृत्ते यातेषु तेषु दुर्गमगोचरम् | कलापिग्रामप्रमुखमुच्छिन्ने शिवशासने || कैलासाद्रौ भ्रमन्देवो मूर्त्या श्रीकण्ठरूपया | अनुग्रहायावतीर्णश्चोदयामास भूतले || मुनिं दुर्वाससं नाम भगवानूर्ध्वरेतसम् | नोच्छिद्यते यथा शास्त्रं रहस्यं कुरु तादृशम् || ततः स भगवान्देवादादेशं प्राप्य यत्नतः | ससर्ज मानसं पुत्रं त्र्यम्बकादित्यनामकम् ||᳚ (शिडृ. ७) इत्याद्युक्त्या कलिकालुष्याद्विच्छिन्नस्य निखिलशास्त्रोपनिषद्भूतस्य षडर्धक्रमविज्ञानस्य त्रैयम्बकसन्तानद्वारेण अवतारकत्वादाद्यं कैलासस्थं श्रीश्रीकण्ठनाथाख्यं गुरुं प्रसङ्गात् मठिकान्तरगुरुंश्चोत्कर्षयति -- जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि पथितः | तदपरमूर्तिर्भगवान् महेश्वरो भूतिराजश्च || १-९ || ᳚एक एव गुरुः᳚ -- इत्यनेन अस्य अवतारकत्वं सूचितम् | ᳚महेश्वरः᳚�इति यः श्रीसन्तत्यर्धत्रैयम्बकाख्यमठिकयोर्गुरुतया अनेन अन्यत्रोक्तः परमेश इति ईश इति च | यदाह � ᳚भट्टारिकादिभूत्यन्तः श्रीमान्सिद्धोदयक्रमः भट्टादिपरमेशान्तः श्रीसन्तानोदयक्रमः श्रीमान्भट्टादिरीशान्तः परमोऽथ गुरुक्रमः |
SK
त्रिकरूपस्त्रिकार्थे मे धियं वर्धयतांतराम् ||᳚ इति | ᳚तदपरमूर्तिः᳚ इत्यनयोर्भगवदावेशमयत्वं दर्शितम् | यद्यपि � ᳚यो यत्र शास्त्रेऽधिकृतः स तत्र गुरुः...... |᳚ इति वक्ष्यमाणनीत्या मठिकान्तरगुरूणां त्रिकार्थे गुरुत्वाभावात् इह नमस्काराप्रस्ताव एव | तथापि ᳚तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता |᳚ इत्यादिदृशा सर्वत्रैव गुरूपदेशस्य भावात् आत्मनि भूयोविद्यत्वं दर्शयता ग्रन्थकृता अस्य ग्रन्थस्यापि निखिलशास्त्रान्तरसारसंग्रहाभिप्रायत्वं प्रकाशितम् | यद्वक्ष्यति - - ᳚अध्युष्टसन्ततिस्रोतःसारभूतरसाहृतिम् | विधाय तन्त्रालोकोऽयं स्यन्दते सकलान्रसान् ||᳚ इति || ९ || ᳚पूर्वे जयन्ति गुरवः᳚ इति सामान्येन कृतेऽपि नमस्कारे योगाङ्गत्वेन समानेऽपि -- ᳚.......................टर्को योगाङ्गमुत्तमम् |᳚ इत्याद्युक्त्या परमोपादेयस्वप्रकाशस्वात्मेश्वरप्रत्यभिज्ञापनपरस्य तर्कस्य कर्तारो व्याख्यातारश्च परं नमस्कर्तव्याः इति विशेषप्रयोजकीकारेण गुरुपरमगुरुपरमेष्ठिनः पुनरपि पराम्रष्टुमाह -- श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः | जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः || १-१० || तदास्वादभरावेशबंहितां मतिषट्पदीम् | गुरोर्लक्ष्मणगुप्तस्य नादसंमोहिनीं नुमः || १-११ || इदानीम् � ᳚उपाध्यायान् दशाचार्य आचार्याणां शतं पिता |᳚ इत्याद्युक्त्या तस्याचार्यादपि गौरवातिरेकस्मृतेर्निजमपि पितरमाशीर्वादमुखेन परामृशति -- यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः | स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः || १-१२ || ᳚चुखुलकः᳚ इति लोकप्रसिद्धमस्य नामान्तरम् | ᳚गुरुरुत्तमः᳚ इति उत्तमत्वस्य आचार्यगौरवातिरेकस्मृतिरेव निमित्तम्, अत एव अन्यत्रापि -- ᳚गुरुभ्योऽपि गरीयांसं जनकं चुखुलकाभिधम् |᳚ इत्याद्युक्तम् || १२ || एवं च तन्त्रप्रक्रियोपासन्नगुर्वभिमुखीकरणानन्तरं विश्रान्तिस्थानतया कुलप्रक्रियागुरुमपि उत्कर्षयति -- जयताज्जगदुद्धृतिक्षमोऽसौ भगवत्या सह शम्भुनाथ एकः | यदुदीरितशासनांशुभिर्मे
SK
प्रकटोऽयं गहनोऽयं शास्त्रमार्गः || १-१३ || भगवत्याख्या अस्य दूती, कुलप्रक्रियायां हि दूतीमन्तरेण क्वचिदपि कर्मणि नाधिकारःइत्यतस्तत्सहभावोपनिबन्धः | ᳚योक्ता संवत्सरात्सिद्धिरिह पुंसां भयात्मनाम् | सा सिद्धिस्तत्त्वनिष्ठानां स्त्रीणां द्वादशभिर्दिनैः || अतः सुरूपां सुभगां सरूपां भाविताशयाम् | आदाय योषितं कुर्यादर्चनं यजनं हुतम् || इति || ᳚शास्त्रमार्गो᳚ विमलो जातः इत्यनेनास्य त्रिकाद्यागमव्याख्यातृत्वमपि प्रकाशितम् | यदुक्तमनेनैव� ᳚इत्यागमं सकलशास्त्रमहानिधाना च्छ्रीशम्भुनाथवदनादधिगम्य सम्यक् | शास्त्रे रहस्यरससंततिसुन्दरेऽस्मिन् गम्भीरवाचि रचिता विवृत्तिर्मयेयम् ||᳚ इति || १३ || इदानीं स्वप्रवृत्तिप्रयोजनादि आचक्षाणो ग्रन्थकारो ग्रन्थकरणं प्रतिजानीते -- सन्ति पद्धतयश्चित्राः स्त्रोतोभेदेषु भूयसा | अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते || १-१४ || न चात्र अन्यथा सम्भाव्यम् -- इत्यात्मन्याप्तत्वं प्रख्यापयन्नेवं प्रतिज्ञाकरणे सामर्थ्यं दर्शयति� इत्यहं बहुशः सद्भिः शिष्यसब्रहाचारिभिः | अर्थितो रचये स्पष्टां पूर्णार्थां प्रक्रियामिमाम् || १-१५ || श्रीभट्टनाथचरणाब्जयुगात्तथा श्री भट्टारिकांघिर्युगलाद् गुरुसन्ततिर्या | बोधान्यपाशविषनुत्तदुपासनोत्थ बोधोज्ज्वलोऽभिनवगुप्त इदं करोति || १-१६ || तस्य गुरूपरम्परागतस्य ज्ञानस्य ᳚उपासनम्᳚ -- पुनः पुनः चेतसि विनिवेशनम् तत उत्थितो योऽसावुपदेष्टव्यविषयो ᳚बोधः᳚ -- साक्षात्कारः, तेन ᳚उज्ज्वलः᳚ सम्यगवगतधर्मा सन्, ᳚इदम्᳚ गुरूपदेशात्संशयविपर्यासादिरहितत्त्वेनाधिगतमनुत्तरत्रिकार्थ- प्रक्रियालक्षणम् परान्प्रति चिख्यापयिषया ᳚करोति᳚ -- उपदिशति -- इत्यर्थः | ᳚अभिनवगुप्तः᳚ इति सकललोकप्रसिद्धनामोदीरणेनापि आप्तत्त्वमेव उपोद्वलितम् | उक्तं हि -- शाक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा चाप्तः |᳚
SK
इति | तच्छब्दपरामृष्टं व्याचष्टे ᳚या गुरुसन्ततिः᳚ इति, ᳚गुरुसन्ततिः᳚ गुरुपारम्पर्यमविच्छिन्नतया स्थितं तदुपदिष्टं ज्ञानम् -- इत्यर्थः, सा च कीदृक्? इत्युक्तम् -- बोधान्यपाशविषनुत्᳚ इति | ᳚यत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् | पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते ||᳚ इत्यादिवक्ष्यमाणनीत्या ᳚बोधात्᳚ पराच्छिवाद्यदख्यात्यात्म भेदप्रथात्मकम् ᳚अन्यत्᳚ तदेव ᳚पाशः᳚ सएव मोहकत्वात् ᳚विषम्᳚ तत् नुदति या सा | तथा ᳚श्रीभट्टनाथः᳚ इति श्रीशम्भुनाथः | ᳚श्रीभट्टारिका᳚ इति भगवत्याख्या अस्य दूती | यदुक्तमनेनैव -- ᳚भट्टं भट्टारिकानाथं श्रीकण्ठं दृष्टभैरवम् | भूतिकलाश्रिया युक्तं नृसिंहं वीरमुत्कटम् || नानाभिधानमाद्यन्तं वन्दे शम्भुं महागुरुम् |᳚ इति | श्त्रीमुखे निक्षिपेत्प्राज्ञः स्त्रीमुखाद् ग्राहयेत्पुनः |᳚ इत्याद्युक्तेः कुलप्रक्रियायां दूतीमुखेनैव शिष्यस्य ज्ञानप्रतिपादनाम्नायात् इह गुरुतद्दूत्योः समस्कन्धतया उपादानम् || १६ || ननु सामान्येन त्रिकदर्शनप्रक्रियाकरणं प्रतिज्ञाय, सम्भवत्यपि तदर्थाभिधायिनि शास्त्रजाते किमिति श्रीमालिनीविजयोत्तरमेवाधिकृत्य तन्निर्वाहयिष्यते ? इत्याशङ्क्याह -- न तदस्तीह यन्न श्रीमालिनीविजयोत्तरे | देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः || १-१७ || ᳚श्रीमालिनीविजयोत्तरे᳚ इति नादि-फान्ताया मालिन्या ᳚विजयेन᳚ सर्वोत्कर्षेण, उत्तरतिसर्वस्रोतोभ्यः प्लवते, सारभूतत्त्वात्सर्वशास्त्राणम् || १७ || एतदेवाह� दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः | तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम् || १-१८ ||
SK
इह खलु परपरामर्शसारबोधात्मिकायां परस्यां वाचि सर्वभावनिर्भरत्वात्सर्वं शास्त्रं परबोधात्मकतयैव उज्जृम्भमाणं सत्, पश्यन्तीदशायां वाच्यवाचकाविभागस्वभावत्वेन असाधारणतया अहंप्रत्यवमशार्त्मा अन्तरुदेति, अत एव हि तत्र प्रत्यवमर्शकेन प्रमात्रा परामृश्यमानो वाच्योऽर्थोऽहन्ताच्छादित एव स्फुरति, तदनु तदेव मध्यमाभूमिकायामन्तरेव वेद्यवेदकप्रपञ्चोदयाद् भिन्नवाच्यवाचकस्वभावतया उल्लसति | तत्र हि परमेश्वर एव चिदानन्देच्छाज्ञानक्रियात्मकवक्त्रपञ्चकासूत्रणेन सदाशिवेश्वरदशामधिशयानस्तद्वक्त्रपञ्चकमेलनया पञ्चस्रोतोमयम् अभेदभेदाभेदभेददशोट्टङ्कनेन तत्तद्भेदप्रभेदवैचित्र्यात्म निखिलं शास्त्रमवतारयति, यद्बहिर्वैखरीदशायां स्फुटतामियात् | तथाहि -- प्रथममीशानतत्पुरुषसद्योजातैरेकैकस्य उद्बुभूषुभिः सद्भिर्भेदत्रयमुल्लासितम्, उद्भूतैश्च इत्येकैकभेदाः षट्, त्रिभिरप्येभिः सम्भूय उल्लासित एको भेदः, ईशतत्पुरुषौ ईशसद्योजातौ सद्योजाततत्पुरुषौ इति द्व्यात्मना सम्भूयापि एभिः त्रिभिर्भेदत्रयं समुल्लासितम् -- इत्येते भेदप्रधाना दश शिवभेदाः | तदुक्तम् -- ᳚रिशतत्पुरुषाजातैरुद्भूतैरुद्बुभूषुभिः | एककैः षड्भिरेकेन त्रिकेण द्व्यात्मकैस्त्रिभिः || तदित्थं शिवभेदानां दशानामभवत्स्थितिः |᳚ इति |
SK
एषामेव च वामदेवाघोरमेलनया अष्टादश रुद्रभेदा भवन्ति | तथा च तत्रैककेन वामदेवाघोरात्मभेदेन भेदद्वयमेव, पञ्चविधत्वेऽपि ईशादेर्वक्त्रत्रयस्य शिवभेदेषु उक्तत्वात् उक्तस्य च पुनर्वचनानुपत्तेः, तथा द्व्यात्मकत्वेन भेदत्रयस्य, तेन पञ्चानां त्र्यात्मकत्वेन भेदत्रयस्य शिवभेदेषु उक्तत्वात् | तत्पुरुषसद्योजातयोस्तु एवं स्वभावाभावात्, ताभ्यां सह असङ्गतेर्भेदचतुष्टयाभावादीशवामौ, ईशाघोरौ, अघोर-वामौ�इति द्व्यात्मकं भेदत्रयमेव अवशिष्यते -- इति त्रयो द्विकभेदाः | तथा पञ्चनामापि ईशतत्पुरुषाजातवामाघोराणां त्र्यात्मकत्वेन संमीलनायामीशानस्य क्रमेण इतरवक्त्रसंभेदे षट्, तत्पुरुषस्य त्रयः, तथा सद्योजातस्य तदवशिष्टवक्त्रसंभेदेऽपि एक एव -- इति दशविधत्वेऽपि ईश-तत्पुरुष-सद्योजातात्मनः प्रथमत्रिकस्य शिवभेदेषु उक्तत्वात् ईशवामाघोरात्मनः -- शिष्टस्य त्रिकस्य व्यापारान्तरेण नियोक्ष्यमाणत्वाच्च त्र्यात्मकभेदाष्टकमेवावशिष्यते -- इत्यष्टावेव त्रिकभेदाः | अत एव एकककथनं चिन्त्यमिति न वाच्यम्, तत्पुरुषाजातवामाघोराणां हि द्व्यात्मकतया चतुरात्मकतया वा ज्ञानजनने संयोगनिषेधो विवक्षितः, त्र्यात्मकतायामपि तथाभावे हि बहूनां भेदानां निषेधः प्रसृज्यते, इति भेदसप्तककथनमपि न्याय्यं न स्यात् -- इत्यलं बहुना | तथा पञ्चानाममप्येषां चतुरात्मकत्वेन संमीलनाया पञ्चविधत्वेऽपि नराजातवामाघोराणामुक्तयुक्त्या सङ्गत्यभावाच्चत्वारश्चतुर्भेदाः, सर्वेषामप्येषां संमीलनायां पञ्चकभेद एक एव -- इत्येवम् ᳚अष्टादश᳚ भेदाभेदप्रधाना रुद्रभेदाः | तदुक्तम्� ᳚यदा त्रयाणां वक्त्राणां वामदक्षिणसङ्गतिः | तदा सप्त द्विकभेदा अष्टौ चैव त्रिकात्मकाः || चतुष्काश्चापि चत्वारः पञ्चकस्त्वेकरूपकः | इति विंशतिमध्यात्तु नराजातावसङ्गतिम् || वामाघोरद्वये यातः स्वातन्त्र्यात्पूर्वपश्चिमौ | ज्ञानं भजेते नैवेति भेदषोडशकं स्थितम् || तत्रापि वामदेवीयमेकं तदुपरि स्थितम् |
SK
स्वरूपं भैरवीयं च तेनाष्टादशधा स्थितिः || रुद्रभेदस्य शास्त्रेषु शिवेनैवं निरूपिता |᳚ इति | एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्वं विस्तरत उक्तम्, तद्यथा -- श्रोतस्यूर्ध्वे भवेज्ज्ञानं शिवरुद्राभिधं द्विधा | कामजं योगजं चिन्त्यं मौकुटं चांशुमत्पुनः || दीप्त...............................ण्तरं पुनः | शिवभेदाः समाख्याता रुद्रभेदांस्त्विमांछृणु || विजयं चैव निःश्वासं मद्गीतं पारमेश्वरम् | मुख्यबिम्बं च सिद्धं च सन्तानं नारसिंहकम् || चन्द्रांशं वीरभद्रं च आग्नेयं च स्वयम्भुवम् | विसरं रौरवाः पञ्च विमलं किरणं तथा || ललितं सौरभेयं च तन्त्राण्याहुर्महेश्वरि | अष्टाविंशतिरित्येवमूर्ध्वस्रोतोविनिर्गताः ||᳚ अत्र चानेनैव� ᳚....................... शिवैरूक्तः शिवाभिधः | भेदो रुद्रैश्च रुद्राख्य इति भेदो निरूपितः ||᳚ ᳚वसुभिः᳚ अष्टभिर्गुणिता ᳚अष्टो᳚ चतुःषष्टिर्भैरव भेदाः | तथा च अद्वयस्वभावे स्वरूपे शिवशक्तितत्सङ्घट्टाख्ययोगिनीवक्त्रात्मनि दक्षिणवक्त्रे प्रत्येकमुहुभूषूद्भूततिरोधित्सु-तिरोहितात्मकतया चतूरूपत्वेन भेदषोडशात्मकमितरद्वक्रचतुष्टयं यदा युगपदन्तर्लीनतामेति तदैषां परस्परमेलनया चतुःषष्टिद्वयप्रधाना भैरवभेदाः | तदुक्तम्� ᳚यच्चान्ते दक्षिणं हार्दं लिङ्गं हृत्परमं मतम् | तदप्यन्तःकुताशेषस्प(सृ)ष्टभावसुनिर्भरम् || सर्वसंहारकत्वाच्च कृष्णं तिमिररूपधृत् | भेदभावकमायीयतेज्ॐऽशग्रसनात्मकम् || तत्रान्तर्लीनतां याति यावद्वक्त्रचतुष्टयम् | उद्बुभूषुतथोद्भूतं तिरोधिरत्सु तिरोहितम् || इत्थं युगपदेवैतद्भेदषोडशकात्मकम् | दक्षे वैसर्गिके हार्दे स्वतन्त्रेऽथ शिवे विशत् || अष्टाष्टकात्म तच्छास्त्रं युगपद्भैरवाभिधम् |᳚ इति | एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्व विस्तरत उक्तम् | तद्यथा -- ᳚अन्यत्संक्षेपतो वक्ष्ये गीतं यत्परमेष्ठिना | तच्चभेदैः प्रवक्ष्यामि चतुःषष्टिं विभागशः || भैरवं यामलं चैव मताख्यं मङ्गलं तथा |
SK
चक्राष्टकं शिखाष्टकं बहुरूपं च सप्तमम् || वागीशं चाष्टमं प्रोक्तमित्यष्टौ वीरवन्दिते | एतत्सादाशिवं चक्रं कथयामि समासतः || स्वच्छन्दो भैरवश्वचण्डः क्रोध उन्मत्तभैरवः | असिताङ्गो महोच्छुष्मः कपालीशस्तथैव च || एते स्वच्छन्दरूपास्तु बहुरूपेण भाषिताः | ब्रह्मयामलमित्युक्तं विष्णुयामलकं तथा || स्वच्छन्दश्च रुरुश्चैव षष्ठं चाथर्वणं स्मृतम् | सप्तमं रुद्रमित्युक्तं वेतालं चाष्टमं स्मृतम् || अतः परं महादेवि मतभेदांछृणुष्व मे | रक्ताख्यं लम्पटाख्यं च मतं लक्ष्म्यास्तथैव च || पञ्चमं चालिका चैव पिङ्गलाद्यं च षष्ठकम् | उत्फुल्लकं मतं चान्यद्विश्वाद्यं चाष्टकं स्मृतम् || चण्डभेदाः स्मृता ह्येते भैरवे वीरवन्दिते | भैरवी प्रथमा प्रोक्ता पिचुतन्त्रसमुद्भवा || सा द्विधा भेदतः ख्याता तृतीया तत उच्यते | ब्रह्मी कला चतुर्थी तु विजयाख्या च पञ्चमी || चन्द्राख्या चैव षष्ठी तु मङ्गला सर्वमङ्गला | एष मङ्गलभेदोऽयं क्रोधेशेन तु भाषितः || प्रथमं मन्त्रचक्रं तु वर्णचक्रं द्वितीयकम् | तृतीयं शक्तिचक्रं तु कलाचक्रं चतुर्थकम् || पञ्चमं बिन्दुचक्रं तु षष्ठं वै नादसंज्ञकम् | सप्तमं गुह्यचक्रं च खचक्रं चाष्टमं स्मृतम् || एष वै चक्रभेदोऽयमसिताङ्गेन भासितः | अन्धक रुरुभेदं च अजाख्य मूलसंज्ञकम् || वर्णभण्ठं विडङ्ग च ज्वालिनं मातृरोदनम् | कीर्तिताः परमेशेन रुरुणा परमेश्वरि || भैरवी चित्रिका चैव हंसाख्या च कदम्बिका | हृल्लेखा चन्द्रलेखा च विद्युल्लेखा च विद्युमान् || एते वागीशभेदास्तु कपालीशेन भाषिताः | भैरवी तु शिखा प्रोक्ता वीणा चैव द्वितीयिका || वीणामणिस्तृतीया तु संमोहं तु चतुर्थकम् | पञ्चमं डामरं नाम षष्ठं चैवाप्यथर्वकम् || कबन्धं सप्तमं ख्यातं शिरश्छेदोऽष्टमः स्मृतः | एते देवि शिखाभेदा उन्मत्तेन च भासिताः || एतत्सादाशिवं चक्रमष्टाष्टकविभेदतः ||᳚ इति |
SK
तैर्भिन्नं भेदोपभेदवैचित्र्यात्मना नानाप्रकारम -- इत्यर्थः | यत्तु श्रीश्रीकण्ठ्यां तत्पुरुषवक्त्रमुद्दिश्य ᳚अष्टाविंशतिभेदैस्तु गारुडं हृदयं पुरा |᳚ इत्यादि | तथा� ᳚पश्चिमे भूततन्त्राणि.................. |᳚ तथा� ᳚दक्षिणे दक्षिणे मार्गश्चतुर्विंशतिभेदतः |᳚ इत्यादि | तथा� ᳚वामदेवात्तु यज्जातमन्यत्तत्सामृ(म्प्र)तं शृणु |᳚ इत्यादि अन्यभेदोपभेदवैचित्र्यमुक्तम्, तदेकैकस्य वक्त्रस्य पञ्चवक्त्रात्मकत्वात् एतद्भेदजातोपभेदात्मेव इति तत एव संगृहीम्, इति न पृथगिह आयस्तम् | तदुक्तम् -- ᳚एकैकं पञ्चवक्त्रं च वक्त्रं यस्मात्प्रगीयते | दशाष्टादशभेदस्य ततो भेदेष्वसंख्यता ||᳚ इति | अतश्च भेदभेदाभेदाभेदप्रतिपादकं शिवरुद्रभैरवाख्यं त्रिधैवेदं शास्त्रमुद्भूतम् इति सिद्धान्तः तदुक्तम् -- ᳚तन्त्रं जज्ञे रुद्रशिवभैरवाख्यमिदं त्रिधा | वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते || भेदेन भेदाभेदेन तथैवाभेदभागिना |᳚ इति | एवं च भेदाद्यात्मकमपीदं शास्त्रं परमेश्वरेशवामाघोरात्मकं षष्ठं त्रिकं परादिदेवीत्रयविश्रान्तिधामतया क्रोडीकृत्य᳚ ᳚पुष्पे गन्धस्तिले तैलं देहे जीवो जले रसः | यथा तथैव शास्त्राणां कुलमन्तःप्रतिष्ठिम् ||᳚ इत्याद्युक्त्या परमाद्वयामृतपरिप्लावितं विदध्यात्, अन्यथा ह्यस्य परपदप्राप्तिनिमित्तत्वं न स्यात् | तदुक्तम्� ᳚ततोऽपि संहृताशेषभावोपाधिसुनिर्भरः | भैरवः परमार्थोद्यद्द्रवबृंहितशक्तिकः || रिशान-वाम-दक्षासु तासु शक्तित्रयं क्रमात् | अपरादिपराप्रान्तं क्रोडीकृत्य त्रिकं स्थितः || उर्ध्ववामतदन्यानि तन्त्राणि च कुलानि च | तद्धाराप्रान्तरूढानि प्रापय्याभेदभूमिकाम् ||᳚ इति | ननु एवंविधा श्रुतिर्न काचिदुपलभ्यत इति किं प्रमाणम् ? ननु अत्र उक्तमेवानेन गुरुपारम्पर्यलक्षणं प्रमाणम् | यदाह -- ᳚इत्थं मध्ये विभिन्नं तत्त्रिकमेव तथा तथा | शास्त्रमस्मद्गुरुगृहे सम्प्रदायक्रमात्स्थितम् ||᳚ इति |
SK
ननु यदेवात्र पुंबुद्धिप्रभवत्वं चोद्यं तदेवोत्तरीकृतम्� इत्यपूर्वमिदंपाण्डित्यम्, तेनागमः कश्चन संवादनीयो येनैतत्समाहितं स्यात्, नैतत्, अविगीतैव हि प्रसिद्धिरागमः इत्युच्यते, यदुक्तम्� ᳚प्रसिद्धिरागमो लोके युक्तिमानथवेतरः | विद्यायामप्यविद्यायां प्रमाणमविगानतः || प्रसिद्धिरवगीता हि सत्या वागैश्वरी मता | तथा यत्र यथा सिद्धं तद्ग्राह्यमविशङ्कितैः || इति | सा चात्र विद्यत एवाविगानेन महात्मनां महागुरूणाम् इति किमत्र प्रमाणान्तरान्वेषणेन | यदि चार्वाग्दृशां भवादृशामेवंविधा श्रुतिः कर्णगोचरं न गता तावतैव एतन्नोपपद्यते, इति न वक्तुं शक्यम्, नहि प्रमाणाभावात्प्रमेयस्याप्यभावः स्यात् | न चैते विप्रलम्भका येनैवमन्यथोपदिशेयुः एतदुपदेशमूलतैव निखिलस्य शैवशास्त्रागमार्थस्य प्रयोगदर्शनात् | तेन यथा मन्वादिस्मृतौ उत्सन्नशाखामूलत्वादष्टकादियागानां मूलभूता श्रुतिः कल्प्यते तथा इहापि ज्ञेयम् | नह्येविधां श्रुतिमदृष्ट्वा साक्षात्कृतनिखिलशैवागमसतत्त्वास्त एवमुपदिशेयुः इत्यलं महागुरूणामुपदेशपरीक्षणदुःशिक्षया | ननु शास्त्राणाम् -- ᳚यतः शिवोद्भवाः सर्वे शिवधामफलप्रदाः |᳚ इत्याद्युक्तेरेकत्वनियामककारणफलयोरैक्यमस्ति, इह किंनिबन्धनमेषामेवं नानात्वमुक्तम् ? सत्यम् -- किन्तु अनुग्राह्याशय भेदादेषां नानात्वं कल्पितम् | यदुक्तम्� शर्वमेतत्प्रवृत्त्यर्थं श्रोतॄणां तु विभेदतः | अर्थभेदात्तु भेदोऽयमुपचारत्प्रकल्प्यते || फलभेदो न कल्प्योऽत्र कल्प्यश्चेदयथायथम् |᳚ इति | ननु यद्येवं तत् -- ᳚वेदादिभ्यः परं शैवं शैवाद् वामं च दक्षिणम् | दक्षिणाच्च परं कौलं कौलात्परतरं नहि ||᳚
SK
इत्यादिना उक्तमेषां यथायथमुत्कृष्टत्वं युक्तं न स्यात्,? नैतत्� द्वारद्वारिभावेन एषामुपायोपेयभावस्य उक्तत्वात्, तेन परमाद्वयोपदेशप्रतिपादकमेव शास्त्रं शिवसद्भावलाभैकफलम् -- इत्यवसेयम् | तदेव परमपदप्राप्तो साक्षादुपायभूतत्त्वादुत्कृष्टम् | एतच्चानेनैव श्रीमालिनीश्लोकवार्तिकादौ वितत्य उक्तम्, तत्तत एव स्वयमवधार्यम्, ग्रन्थगौरवभयात्तु प्रतिपदं न संवादितम् | अत एवाह -- ᳚तत्सारं त्रिकशास्त्रम्᳚ इति | तदुक्तम् -- ᳚वेदाच्छैवं ततो वामं ततो दक्षं ततः कुलम् | ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम् ||᳚ इति | अनेनैवाशयेन च -- ᳚वाममार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित् | संस्कार्यो भैरवे सोऽपि कुले कौले त्रिकेऽपि सः ||᳚ इत्यादि श्रीनिशाचारादावुक्तम् || तच्च सिद्धा-नामक-मालिन्याख्य- खण्डत्रयात्मकत्वात् त्रिविधिम् | तत्र क्रियाप्रधानं सिद्धातन्त्रम्, ज्ञानप्रधानं नामकं तन्त्रम्, तदुभयमयं मालिनीमतम् इति तदेव मुख्यम्, यदाह -- ᳚तत्सारं मालिनीमतम्᳚ इति | एवं च, ङ तदस्तीह यन्न᳚ इत्यादि युक्तमेवोक्तम् || १८ || अतश्च सर्वसहत्वात्तदधिकारेणैव च प्रतिज्ञाया अपि निर्वाहो युक्तः� इत्याह -- अतोऽत्रान्तर्गतं सर्वं संप्रदायोज्झितैर्बुधैः | अदृष्टं प्रकटीकुर्मो गुरुनाथाज्ञया वयम् || १-१९ || ᳚अतः᳚ इति उक्त युक्त्यास्यैव शास्त्रस्य प्रधान्यात् | ᳚प्रकटीकुर्मः᳚ इति प्रक्रियाकरणेन | अतश्च ᳚प्रधाने हि कृतो यत्न फलवान्भवति᳚�इति भावः | ᳚गुरुनाथाज्ञया᳚ इति -- नहि तदाज्ञां विनात्र अधिकार एव भवेत् इति भावः ||१९ || अन्यादृष्टप्रकटीकरणे च स्वात्मनि भगवत्प्रसाद एव निमित्तम्�इति दर्शयितुमाह� अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या | त्रिनयनचरणसरोरुहचिन्तनलब्धप्रसिद्धिरिति || १-२० || त्रिनयनप्रसादासादितप्रकृष्टसिद्धेः किं नामासाध्यम् -- इति भावः || २० || एवं चेयं कृतिः सर्वेषामेव ग्राह्या भवेत्, इति प्रतिपादयितुमाह --
SK
श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसङ्कोचम् | अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः || १-२१ || आदिवाक्यम्� हृदयं शास्त्रात्मसतत्त्वम्, महेश्वरस्य पूजनम् ᳚पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा | निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल्लयः ||
SK
इत्याद्युक्त्या तत्तद् वक्ष्यमाणज्ञप्तिक्रमेण स्वात्मतया प्रत्यभिज्ञानम् | अतश्च महावाक्यार्थेन एकमेवादिवाक्यात्मकं वाक्यम् इति दर्शयितुमाह -- ᳚आदिवाक्यम्᳚ इति | इह यद्यपि परमेश्वरशक्तिपातमन्तरेण तच्छास्त्रश्रवणादावन्यत् प्रवृत्तिनिमित्तं नाभ्युपेयते, तथापि शास्त्रकाराणामियं शैली- इत्यभिधेयप्रयोजनादि प्रतिपादयितं प्रवृत्तिहेतुतया अयमादिवाक्योपनिबन्धः | तत्र प्रथमश्लोकपञ्चकासूत्रितोऽनुत्तरषडर्धार्थक्रम इत्यनेन साक्षादभिहितश्च परपरापरापरात्मतादिना बहुप्रकारस्त्रिकार्थस्तावदभिधेयः | तस्यैव च कर्तृप्रतिपादनकौशलेन कौलागमस्य च समस्तशास्त्रप्राधान्याभिधानेन सातिशयत्वं प्रतिपादतितुं ᳚श्रीभट्टनाथ᳚ इत्यादि श्लोकपञ्चकमुपात्तम् | स च गुरुपरम्परागतः ᳚तस्माद् गुरुक्रमायातं दिशन्नेति परं शिवम् |᳚ इत्याद्युक्तनीत्या निजप्रयोजनकारी भवति, इत्येतदङ्गतयैव पारम्पर्यसंदर्शनार्थं गुरुसङ्कीर्तनपरं श्लोकसप्तकमुट्टङ्कितम् | अतश्चास्यैव वक्ष्यमाणोपायक्रमेण स्वात्मतया प्रर्त्याभिज्ञानाज्जीवन्मुक्तिप्रदत्वं प्रयोजनं श्लोकान्तरासूत्रितमपि ᳚श्रीशम्भुनाथ᳚ इत्यादिश्लोकेन साक्षादुक्तम् | एतदुद्दिश्य च को नाम न सचेताः परमेश्वरशक्तिपातपवित्रितः प्रवर्त्तते इत्यस्य प्रवृत्तिनिमित्तत्वम्, प्रवृत्तस्याप्येदुपलब्धौ ᳚तमनित्येषु भोगेषु योजयन्ति विनायकाः |᳚ इत्याद्युक्तेर्विघ्नाः सम्भवन्ति इत्येतन्निरासाय गणेशवटुकयोः स्तुतिः | ᳚अर्थितो रचये᳚ इति प्रतिज्ञातायाः प्रक्रिययायाश्च ᳚तन्मया तन्त्र्यते तन्त्रालोकनाम्न्यत्र शासने |᳚ इत्यादिवक्ष्यमाणोपजीवनेन ᳚तन्त्रालोकः᳚ -- इत्यभिधानम् | एवमभिधानाभिधेययोरभिधेयप्रयोजनयोश्च वाच्यवाचकसाध्यसाधनभावलक्षणः सम्बन्धश्चार्थाक्षिप्तः इत्यनेकवाक्यसंमेलनात्मकमेकमेवादिवाक्यं प्रवृत्तिहेतुतया उक्तम् -- इति पिण्डार्थः || २१ ||
SK
इह यद्यपि सर्ववादिनां मोक्ष एव उपादेयः, तत्प्रतिपक्षभूतः संसारश्च हेयः, तस्य च मिथ्याज्ञानं निमित्तम्, तत्प्रतिकूलं च तत्त्वज्ञानम् -- इति तत्साक्षत्कारेणैव अज्ञानापगमान्मोक्षावाप्तिः इत्यत्राविवादः, तथापि तैस्तदेकनियतं ज्ञानाज्ञानयोः स्वरूपं न ज्ञातम् इति ᳚भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया |᳚ इत्याद्युक्त्या तदभ्युपगतो मोक्षो मोक्ष एव न भवति -- इति दर्शयितुं शास्त्रान्तरवैलक्षण्येन तत्परीक्षणस्य वक्ष्यमाणत्वात् प्राधान्यमपि कटाक्षयितुमुपक्रम एव बन्धमोक्षपरीक्षामुट्टङ्कयति ग्रन्थकारः -- इह तावत्समस्तेषु शास्त्रेषु परिगीयते | अज्ञानं संसर्हेतुर्ज्ञानं मोक्षैककारणम् || १-२२ || न चैतदस्माभिः स्वोपज्ञमेवोक्तम् -- इत्याह -- मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् | इति प्रोक्तं तथा च श्रीमालिनीविजयोत्तरे || १-२३ || ᳚अज्ञानं᳚ तिमिरं परमेश्वरस्वातन्त्र्यमात्रसमुल्लासितस्वरूपगोपनासतत्त्वम् आत्मानात्मनोरन्यथाभिमानस्वभावम् अपूर्ण ज्ञानम्, तदेव चाणवम् ᳚मलम्᳚, न तु नवमाह्निकादौ निषेत्स्यमानं द्रव्यरूपम् | उक्तं च -- श्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता | द्विधाणवं मलमिदं स्वस्वरूपापहानितः ||᳚ इति | तच्च कीदृक् ? इत्याह -- संसार इति | शंसारस्य᳚ ᳚भिन्नवेद्यप्रथात्रैव मायाख्यम्............ |᳚ इत्याद्युक्तस्वरूपस्य मायीयस्य मलस्य शंसारकारणं कर्म संसाराङकुर उच्यते |᳚ इति वक्ष्यमाणनीत्य ᳚अङ्कुरः᳚ कारणं कार्ममलं तस्य ᳚कारणं | तदुक्तम् -- ᳚मलं कर्मनिमित्तं तु नैमित्तकमतः परम् |᳚ इति श्रीमालिनीविजयोत्तरे प्रोक्तम् इत्येतदधिकारेणैवायं ग्रन्थः प्रवृत्त इत्युपोद्वलितम् ||२३ || अज्ञानस्य पौरुषबौद्धात्मकत्वेन द्वैविध्येऽपि इह पौरुषमेव विवक्षितं स्यान्नान्यत् इत्याह� विशेषणेन बुद्धिस्थे संसारोत्तरकालिके | सम्भावनां निरस्यैतदभावे मोक्षमब्रवीत् || २४ ||
SK
᳚विशेषणेन᳚ शंसाराङ्कुरकारणम् इत्यनेन᳚ नहि दुरध्यवसायरूपं बौद्धमज्ञानं कर्मणः कारणम् अपि तु तत्तस्य�इति कथमेतद्विशेषणं सङ्गच्छताम् तद्धि सति कर्मकारणके शरीरे सम्भवति तस्य कार्यकारणात्मकत्वात् बुद्धेश्च कारणवर्गान्तःपातित्त्वात्, अत एवोक्तम् शंसारोत्तरकालिके᳚ इति | ᳚शरीरभुवनाकारो मायीयः परिकीर्तितः |᳚ इत्याद्युक्तेः संसाराच्छरीरादनन्तरभाविनि -- इत्यर्थः || किं तत्सम्भावनानिरासेन? -- इत्युक्तम् -- ᳚एतदभावे मोक्षमब्रवीत्᳚ इति | नहिबौद्धाज्ञानमात्रनिवृत्तौ मोक्षो भवेत् यत्तस्मिन्निवृत्ते बौद्धमेव ज्ञानमुदेति᳚ तस्य च शुद्धविकल्पात्मत्वेऽपि शर्वो विकल्पः संसारः............... |᳚ इति नीत्या संसाराविर्भावकत्वमे इति कथमेतदभावेऽपि एवं स्यात् यदभिप्रायादितो बाह्यैरपि� ᳚परमार्थविकल्पेऽपि नावलीयेत पण्डितः | को हि भेदो विकल्पस्य शुभे वाऽप्यथ वाऽशुभे ||᳚ इत्याद्युक्तम्, पौरुषे पुनरज्ञाने दीक्षादिना निवृत्ते सति यदि बौद्धं ज्ञानमुदियात् तदा तस्य वक्ष्यमाणनीत्या जीवन्मुक्तिं प्रत्यपि कारणत्वं भवेत्, केवलेन पुनस्तेन न किञ्चित्सेत्स्यति -- इत्युक्तप्रायम् | पौरुषं पुनर्ज्ञानमुदितं सत् अन्यनिरपेक्षमेव मोक्षकारणम् | यदुक्तम् -- ᳚पाशाश्च पौरुषाः शोध्या दीक्षायां न तु धीगताः | तेन तस्यां दोषवत्यामपि दीक्षा न निष्फला ||᳚ इति | तच्च ज्ञानमात्रस्वभावम्, अख्यात्यभाव एव हि पूर्णा ख्यातिः, सैव च प्रकाशानन्दघनस्यात्मनस्तात्त्विकं स्वरूपम्, तत्प्रथनमेव मोक्षः इति युक्तमुक्तम् -- ᳚एतदभावे मोक्षमब्रवीत्᳚ इति || २४ || ननु अज्ञानशब्दस्य अपूर्णं ज्ञानमर्थः इत्यत्र किं निबन्धनम्, ज्ञानाभावमात्रमेवास्तु ? इत्याशङ्क्याह� अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः | स हि लोष्ठादिकेऽप्यस्ति न च तस्यास्ति संसृतिः || १-२५ || कोऽसावतिप्रसङ्गः -- इत्याह -- श हि᳚ इत्यादि | तद्युक्तमुक्तम् -- अज्ञानशब्दस्य अपूर्णं ज्ञानमर्थः -- इति ||२५ || तदाह� अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् |
SK
ज्ञानमेव तदज्ञानं शिवसूत्रेषु भासितम् || १-२६ || ᳚अतो᳚ यथोक्ताद्धेतोः ᳚ज्ञेयस्य᳚ नीलसुखादेः, ᳚ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः |᳚ इत्यादिवक्ष्यमाणस्वरूपस्य ᳚तत्त्वस्य᳚ शामस्त्येन᳚ तस्य सर्वत्राविशेषात् तदेकघनाकारत्वेन ᳚अप्रथात्मकम्᳚ यत् इदं नीलम् इदं सुखम् इति द्वैतप्रथात्मकत्वादपूर्णं ᳚ज्ञानम्᳚ तदेव ᳚अज्ञानम्᳚ न पुनर्ज्ञानाभावमात्रम् -- इत्येतच्छिवसूत्रेषु ᳚भासितम्᳚ -- उक्तम् -- इत्यर्थः || २६ || तत्र चैतत्कुत्र दर्शितम् ? इत्याशङ्क्याह -- चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः | संश्लेषेतरयोगाभ्यामयमर्थः प्रदर्शितः || १-२७ || शंश्लेषेतरयोगाभ्याम्᳚ इति संहितया, अन्यथा च अकारप्रश्लेषविश्लेषाभ्यां तेन ᳚ज्ञानं बन्धः, अज्ञानं बन्धः᳚ -- इति चायमर्थः, इत्यज्ञानशब्दस्य अपूर्णज्ञानाभिधानलक्षणः || २७ || एतदेव व्याचष्टे� चैतन्यमिति भावान्तःशब्दःस्वातन्त्र्यमात्रकम् | अनाक्षिप्तविशेषं सदाह सूत्रे पुरातने || १-२८ || द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा | ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते || १-२९ || द्वैतप्रथा तदज्ञानं तुच्छत्वाद् बन्ध उच्यते | तत एव समुच्छेद्यमित्यावृत्त्यनिरूपतिम् || १-३० || इह न किञ्चिदप्यचेतितं भवति, चितिक्रिया सर्वसामान्यरूपा इति | चेतयति इति चेतनः पूर्णज्ञानक्रियावान् तस्य भावः ᳚चैतन्यम्᳚ पूर्णज्ञानक्रियावत्त्वम्, तदेव च परमैश्वर्यस्वभावं स्वातन्त्र्यमुच्यते | तदाह -- श्वतन्त्र्यमात्रकम्᳚ इति | स्वातन्त्र्यमेव केवलं स्वातन्त्र्यमात्रकम्, अत एवाह -- ᳚अनाक्षिप्तविशेषम्; इति, ᳚अनाक्षिप्ताः᳚ स्वसहचारिणोऽपि नित्यत्वव्यापकत्वादयो ᳚विशेषाः᳚ भेदा येन तत् | भावप्रत्ययान्तो हि शब्दः सहचारिधर्मान्तरनिवृत्तिमेव ब्रूते, अत एव द्रव्याभिधायिनः शब्दस्य विशेषः | यदाहुः -- ᳚धर्मान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयोः | साङ्केतभेदस्य पदं ज्ञातृवाञ्छानुरोधः || भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः |᳚
SK
इति | ᳚द्वितीयेन᳚ इति अर्थाद् द्वितीयसूत्रवर्तिना ज्ञानशब्देन, ज्ञप्तिः -- ज्ञानम्, जायते येन इति ज्ञानं च इति व्युत्पत्त्या ᳚क्रियाम् करणम्᳚ च प्राधान्येनाभिदधता तस्य -- चैतन्यमात्मा -- ᳚इत्युक्तस्वरूपस्य᳚ अत एव चेतयते इति ᳚चित्᳚ चितिक्रियायां कर्ता, तन्मात्रमेव केवलं ᳚रूपम्᳚ यस्य तस्य ᳚द्वैतमुच्यते᳚ कर्तृकर्मणोः कर्तृकर्मक्रियाणां च भिन्नानामवच्छेदकानामागूरणाद् द्वैतप्रथासूत्रणं क्रियते, पूर्णमस्य रूपं नाख्यातिः -- इत्यर्थः | ᳚तत्᳚ तस्मात्संविदद्वैतात्मनः पूर्णस्य रूपस्य अख्यानात् ᳚द्वैतप्रथा᳚ एव ᳚अज्ञानम्᳚ अपूर्णं ज्ञानमपूर्णत्वाच्च तदेव अपूर्णंमन्यता शुभाशुभवासनाशरीरभुवनाकारस्वभावविविधसङ्कुचितज्ञानरूप तया मलत्रयात्मा ᳚बन्धः᳚ इति उच्यते, बन्धरूपत्वादेव च तदज्ञानम् शमुच्छेद्यम्᳚ ᳚मलं कर्म च मायीमाणवमखिलं च यत् | सर्वंहेयमिति प्रोक्तं..................... || इत्युक्त्या हेयम -- इत्यर्थः | नन्वत्र द्वैतप्रथात्मकत्वादपूर्णं ज्ञानमेव अज्ञानम् इत्येतत्कुतोऽवगतम् ? -- इत्याशङ्क्योक्तम् -- ᳚इत्यावृत्त्या निरूपितम्᳚ -- इति | ᳚आवृत्त्या᳚ -- इति अज्ञानम् इति संहितापाततः पुनरावर्तनेन -- इत्यर्थः ||२८-३०|| नन्वेवं मोक्षस्य लक्षणमभिधीयताम् ? इत्याशङ्क्याह -- स्वतन्त्रात्मातिरिक्तस्तु तुच्छोऽतुच्छोऽपि कश्चन | न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते || १-३१ || न कश्चिदन्योऽस्ति -- इति वाक्यशेषः | यदि तुच्छस्तत्पूर्वोक्तनीत्या बन्ध एव स्यात्, अतुच्छश्चेत् पारमार्थिकत्वान्नास्य स्वतन्त्रात्मातिरेकः | यद्वक्ष्यति -- ᳚मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः | स्वरूपं चात्मनः संवित्................... ||᳚ इत्यादि | किमुक्तं भवति -- इह तावदात्मज्ञानं मोक्ष इत्यविवादः, अतो यदेवात्मनो लक्षणं तदेव मोक्षस्य इति तन्नान्तरीयकत्वादेव अस्य लक्षणसिद्धेः पृथक्लक्षणं न कृतम्, अत एव ङामापि᳚ इति अपिशब्देन लक्षणादेः पुनः का वार्ता -- इत्यावेदितम् || ३१ ||
SK
एवमप्यस्य तद्वैलक्षण्यं कटाक्षीकर्तं दर्शनान्तरोक्तस्य मोक्षस्य स्वरूपमभिधातुमुत्क्रमते -- यत्तु ज्ञेयसतत्त्वस्य पूर्णपूर्णप्रथात्मकम् | तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् || १-३२ || ᳚यत्᳚ पुनः ᳚ज्ञेयस्य᳚ कला-तत्त्व-भुवनाद्यात्मनोऽध्वनः यत् शतत्त्वम्᳚ उर्ध्वोर्ध्वमन्योन्यं च भेदेनावस्थानम्, तस्य ᳚उत्तरोत्तरम्᳚ उपर्युपरिभावेन तत्तद्भुवनाद्युल्लङ्घनक्रमेण तत्तदवेच्छेदापगमात् यथायथमतिशयाद् द्वैतप्रथात्मकत्वात् संकुचितत्त्वेऽपि ᳚पूर्णपूर्णप्रथात्मकं ज्ञानम्᳚ उदेति तदधरीकृततत्त्वजालोल्लङ्घनात् ᳚चतुर्दशविधं यच्च प्रोक्तं संसारमण्डलम् |᳚ इत्याद्युक्तेः ᳚तस्य तस्य᳚ चतुर्दशविधयोन्यात्मनः शंसारस्य᳚ ᳚शान्तिदं तत उन्मोचकम -- इत्यर्थः | ज्ञानस्य हि मोचनमेव धर्मः, किंतु संकुचितस्यासंकुचितत्त्वम् || ३२ || एतदेव दर्शयति� रागाद्यकलुषोऽस्म्यन्तःशून्योऽहं कर्तृतोज्झितः | इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः || १-३३ || ᳚इत्थम्᳚ प्रथमार्धनिरूपितस्वरूपम् ᳚ज्ञानम्᳚ ᳚तावतः᳚ परिमिताद् बन्धात्, अर्थात् बौद्धादीन्मुञ्चति -- इति संबन्धः | तत्र ᳚रागाद्यकलुषोऽहं भवामि᳚ इति ज्ञानं योगाचाराणाम् | यदाहुः� ᳚रागादिकलुषं चित्तं संसारस्तद्विमुक्तता ||᳚ शंक्षेपात्कथितो मोक्षः प्रहीनावरणैर्जिनैः ||᳚ इति | तथा� ᳚प्रभास्वरमिदं चित्तं प्रकृत्याऽऽगन्तवो मलाः | तेषामपाये सर्वार्थं तज्ज्योतिरविनश्वरम् ||᳚
SK
इति | अयमत्रार्थः -- प्रकृतिप्रभावस्वरस्य चित्तस्य अनाद्यविद्यावशाद् रागादिभिरागन्तुकैर्मलैरावृतत्वेन संसाराविर्भावेऽपि भावनाद्यात्मकमार्गानुष्ठानबलात्तत्तदागन्तुकमलप्रहाणेन आश्रयपरावृत्त्या अविनश्वरज्योतीरूपस्वरूपाभिव्यक्तिर्मोक्ष इति, तदयुक्तम्, -- भावना ह्यत्र भवद्भिः कारणमिष्यते, सा क्षणक्षयिणां चित्तक्षणानां विशेषमाधातुं नोत्सहते, तस्याः स्थिरैकाश्रयगतत्त्वेन विशेषाधानक्षमत्वात् | तथाहि स्थायिनस्तिलादयो भावाः स्थायिभिरेव सुमनोभिर्वास्यन्ते, तथेयमपि स्यात्, अतश्च प्रतिक्षणमपूर्वत्वेन उपजायमानस्य निरन्वयविनाशिलङ्घनाभ्यासवत् अनासादितातिशयस्य चित्तक्षणस्य प्रभास्वरचित्तक्षणोपजननाय भावना न प्रभवेत् इत्यनया कोऽर्थः | समलाश्च चित्तक्षणाः स्वारसिक्याः सदृशारम्भणशक्तेः स्वसदृशानेव चित्तक्षणानुत्पादयितुं क्षमन्ते, न विसदृशान् प्रभास्वरान् | एवं च चित्तक्षणभङ्गुरत्वान्मलप्रहारणायैव भावना न प्रगल्भेत इत्याश्रयपरावृत्तेः का वार्ता इति कृतं क्षणिकवादिनां मोक्षेण | बन्धमोक्षौ च स्थिरैकादिपक्षे युज्येते, बद्धो हि मोक्षाय प्रवर्तते, प्राप्य च निवृत्तो भवति इति, सन्तानश्चैको न विद्यते, तस्य भेदाभेदविकल्पोपहतत्त्वात् | ᳚अन्तः᳚ संविद्रूपतायामपि ᳚शून्योऽहं᳚ भवामि इति ज्ञानं माध्यमिकानाम् | ते खलु सर्वभावनैःस्वाभाव्यवादिनःसंविदोऽपि नैःस्वाभाव्यान्मिथ्यात्वम् अभिदधतस्यच्छून्यतायामेव मोक्षमाचक्षीरन् | यदाहुः -- ᳚चित्तमात्रमिदं विश्वमिति या देशना मुनेः | तत्त्रासपरिहारार्थं बालानां सा न तत्त्वतः || सापि ध्वस्ता महाभागैश्चित्तमात्रव्यवस्थितिः |᳚
SK
इति, तदप्युक्तम्, -- संविदो हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणेऽपि मिथ्यात्वे सत्तैव न भवेत् तस्याः नीलादिवत् परतन्त्ररूपत्वाभावात्, नीलादीनां हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणेऽपि संविदात्मतयाऽस्त्यवस्थानम्, संविदि तु स्फुरत्तामात्रसारायां मिथ्यात्वादसत्त्वमेव स्यात् इति न किञ्चित्स्फुरेत् इति मूर्छैव स्यात् इति | न च संविदः स्फुरत्तामात्रसाररूपाया अपह्नवः शक्यक्रियः इति यत्किञ्चिदेतत् | अथ -- शर्वालम्बनधर्मैश्च सर्वसत्त्वैरशेषतः | सर्वक्लेशाशयैः शून्यं नं शून्यं परमार्थतः ||᳚ इत्याद्युक्त्युक्त्या ग्राह्यग्राहकभावादिना कल्पितेन रूपेण शून्यम्, न तु संविदापि इति चेत्, एवं ह्युच्यमाने विज्ञानवादे एवाभ्युपगमः स्यात्, सोऽपि हि कल्पितपरतन्त्रादिरूपशून्यत्वेन ᳚इत्यन्तःकरणस्यैव विचित्रात्मावभासिनः | अविभाविततत्त्वस्य विस्फूर्जितमिदं जगत् ||᳚ इत्याद्युक्तेर्विज्ञप्तिमेव परमार्थसतीमभ्युपागमत् इति न नवं किञ्चिदायुष्मतोत्प्रेक्षितम् | तत्र चोक्तो दोषः ᳚अकर्ताहं भवामि᳚ इति ज्ञानं सांख्यानाम् | ते हि निष्क्रियमेवात्मानमभ्युपागमन्, अन्यथा हि तस्य चैतन्यं न स्यात्�अतेचनानामेव क्षीरादीनां क्रियावत्त्वोपलब्धेः | अयुक्तं चैतत् -- अकर्तृत्वे हि पुरुषस्य अनिर्मोक्षः स्यात् अकिञ्चित्करत्वे हि पुरुषस्योत्पन्नेऽपि विवेकदर्शने स्वरूपेणावस्थानं न स्यात्, प्रवृत्तिस्वभावायाः प्रकृतेरौदासीन्यायोगात् तं प्रत्यपि पुनः सम्भावनायाः सम्भवात् | न च प्रकृतेः ᳚दृष्टाहमनेन᳚ इति ङ पुनरेतदर्थमहं प्रवर्ते᳚ इत्यनुसन्धानमस्त्याचैतन्यादस्याः प्रेक्षाकारित्वाभावात् | एवं चेयं कृतेऽपि शब्दाद्युपलम्भे यथा पुनस्तदर्थ प्रवर्तते, तथा कृतायामपि विवेकख्यातौ पुनरपि तदर्थं प्रवर्तिष्यते, स्वभावस्यानपेतत्त्वात् | एवमपि कृतमकृतं न भवति -- इति संकुचितमपि ज्ञानं बौद्धादीनां निजोचितामर्थक्रियां विदध्यात् | तथाहि बौद्धाः� ᳚एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्त्तं पश्यामः ||᳚
SK
इत्याद्युक्तयुक्त्या बुद्धिवृत्त्यात्मकं ज्ञानमेव तत्त्वं प्रतिपन्नाः इति बुद्धितत्त्वप्राप्तिरेवैषां मोक्षः | तदुक्तम्� ᳚ब्रह्मा तत्राधिपत्वेन बुद्धितत्त्वे व्यवस्थितः | सर्वज्ञं च तमेवाहुर्बौद्धानां परमं पदम् || इति | अत एवैषां बुद्धितत्त्वाधोवर्तिनः संसारस्य शान्तिः | एवं च ᳚ज्ञानं मुञ्चति तावतः᳚ इति युक्तमुक्तम् | सांख्याश्च सुखदुःखाद्यात्मकप्रकृतिपृथग्भावेन पुंस एव स्वरूपेणावस्थानं तत्त्वं प्रतिपन्नाः इति पंस्तत्त्वप्राप्तिरेवैषां मोक्षः | तदुक्तम् -- ᳚पौरुषे चैव सांख्यानां सुखदःखादिवर्जितम् |᳚ इति | नैरात्म्यदृष्टेश्चात्मदृष्टिर्विशिष्यते, इति सांख्यानां बौद्धेभ्यः पूर्णप्रथात्मकं ज्ञानम् इत्येषां बुद्धितत्त्वोर्ध्ववर्तिपुंस्तत्त्वप्राप्तिः | एवं च पूर्णप्रथात्मकमुत्तोत्तरं ज्ञानम्, इत्यादिः पूर्वसूत्रप्रतिज्ञातोऽर्थो निर्वाहितः | एवं सांख्यपातञ्जलयोः प्रकृतिपृथग्भावेन पंज्ञानस्य साम्येऽपि सांख्येभ्यः पातञ्जलानामीश्वरप्रणिधानात् तद्विशिष्यते, इति तेषां पुंस्तत्त्वोर्ध्ववर्तिनियतितत्त्वप्राप्तिरुक्ता | ᳚षडविंशकं तु देवेशि योगशास्त्रे परं पदम् |᳚ इति | एवं च मौसुलपाशुपतादीनामपि यथायथं ज्ञानातिशयादूर्ध्वोर्ध्व तत्त्वावाप्तिः परं पदम् इति | तदुक्तम्� ᳚मौसुले कारूके चैव मायातत्त्वं प्रकीर्तितम् |᳚ इति | तथा� ᳚व्रते पाशुपते प्रोक्तमैश्वरं परमं पदम् |᳚ इति | तत्रैवं बौद्धादीनां मायीयादेव मलादंशांशिकया, मौसुलानां कार्मादपि, पाशुपतानाम् अनात्मनि आत्माभिमानात् आणवादपि मलान्मोचकं ज्ञानम् इत्युक्तम् शमासव्यासाभ्याम्᳚ इति || ३३ || ननु स्वदर्शनौचित्येन एवं बन्धविगलनेऽपि किमिति नासौ मुक्तः इत्याशङ्क्याह -- तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थितेः | अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः || १-३४ || ᳚.............ऽध्वा बन्धस्य कारणम् |᳚
SK
इत्युक्तेः अध्वा तावद् बन्धकः | तत्र बौद्धादयो बुद्धितत्त्वान्तबन्धविगलनात् तन्मुक्ता अपि तदूर्ध्ववर्त्यध्वान्तरावच्छेदस्थितेरमुक्ता एव, अत एवैषां पुनरपि सर्गारम्भे सृज्यमानत्वात् संसाराविर्भावः, बन्धकारणस्य निःशेषेणाप्रक्षयात् | यद्वक्ष्यति -- शांख्यवेदादिसंसिद्धान् श्रीकण्ठस्तदहर्मुखे | सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ||᳚ इति | श्रीस्वच्छन्दशास्त्रेऽपि -- ᳚लौकिकानां पुनः सृष्टिः पुनः संहार एव च | संसारचक्रमारूढा भवन्ति घटयन्त्रवत् ||᳚ इत्यादि सामान्येनाभिधाय -- ᳚मुक्तं च प्रतिबन्धात्तं पुनर्बध्नाति चेश्वरः | बन्धः संसारतो भूयो यावद्देवं न विन्दति ||᳚ इति बौद्धाद्यवान्तरदर्शनमुक्तोपलक्षणपरतया विशेषेणोक्तम् | यः पुनर्निःशेषप्रक्षीणसर्वाध्वबन्धः स एव साक्षान्मुक्तः इत्याह -- ᳚मुक्तस्तु सर्वावच्छेदवर्जितः᳚ इति | यदुक्तम् -- शर्वाध्वनो विनिष्क्रान्तं शैवानां तु परं पदम् |᳚ इति | तथा� ᳚शैवः सिद्धो भाति मूर्ध्नीतरेषां मुक्तः सृष्टौ पुनरभ्येति नाधः |᳚ इति || ३४ || अत्र चैवंविधमेव पूर्णं ज्ञानं निमित्तम् -- इत्याह -- यत्तु ज्ञेयसतत्त्वस्य ज्ञानं स्वात्मनोज्झितम् | अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् || १-३५ || ᳚अवच्छेदैः᳚ सङ्कोचाधायिभिरिदन्तापरामर्शैः शर्वात्मना᳚ सर्वप्रकारं वासनामात्रेणापि यत् ᳚उज्झितम्᳚ पराहन्तापरामर्शसारम -- इत्यर्थः | अत एव च पूर्णप्रथात्मकत्वात् ङ तत् कुत्राप्यज्ञानम्᳚ अतश्च शत्याम्᳚ मुक्त्याभासविलक्षणां ᳚मुक्तिं᳚ ददाति, अहंपरामर्शसारप्रमात्रैकात्म्येन स्फुरति -- इत्यर्थः || ३५ || इदानीमुद्दिष्टयोर्ज्ञानाज्ञानयोरेव स्वरूपं विभजति -- ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः | द्विधापौरुषबौद्धत्वभिदोक्तं शिवशासने || १-३६ || ᳚शिवशासने᳚ इति पञ्चस्रोतोरूपे पारमेश्वरदर्शने -- इत्यर्थः | एतद्धि सर्वत्रैवाविशेषेणोक्तम् ||३६ || तदेव लक्षयति� तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यथ |
SK
स्वपूर्णचित्क्रियारूपशितावरणात्मकम् || १-३७ || सङ्कोचिदृक्क्रियारूपं तत्पशोरविकल्पितम् | अथ -- शब्द आनन्तर्ये, उद्देशानन्तरं हि लक्षणपरीक्षयोरवसरः -- इत्याशयः | ᳚तत्र᳚ द्विविधयोर्ज्ञानाज्ञानयोर्मध्यात् -- ᳚........................ पुंसः प्रादुर्भवत्परम् |᳚ इत्यस्यात्मनोऽपि यत्समनन्तरोक्तस्वरूपं मलाख्यमनन्यसाधाणानवच्छिन्नज्ञानक्रियायोगि परप्रमातृरूपाच्छिवादेव जातमुद्भूतम् -- इत्यर्थः | परमेश्वर एव हि स्वस्वातन्त्र्यात्पूर्णज्ञत्वकर्तृत्त्वाद्यपहस्तनेन अख्यात्यात्मकारणमलाविर्भावेन स्वात्मानमावृणुयात् | तदुक्तम् -- ᳚परमं यत्स्वातन्त्र्यं दुर्घटसम्पादनं महेशस्य | देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् || (पषा. १५का.) मायापरिग्रहवशाद् बोधो मलिनः पुमान्पशुर्भवति |᳚ इति | (प. सा. १६ का.) वक्ष्यति च -- ᳚तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम् |᳚ इति | तदेव पशोराणवादिमलत्रययोगिनोऽपि तस्य मातुर्देशकालाद्यवच्छिन्नत्वान्नियतदृक्क्रियास्वाभासालोचनात्मकं ज्ञानम् | परमेश्वर एव हि सर्वज्ञताद्यपहस्तनेन अणुतां प्रापितस्य स्वात्मनः पुनरपि कलादियोगं कृतवान्, येनास्य नियतं ज्ञत्वकर्तृत्वाद्यभियुक्तम् | तदुक्तम् -- ᳚असूत सा कलातत्त्वं यद्योगादभवत्पुमान् | जातकर्तृत्वसामर्थ्यो विद्यारागौ ततोऽसृजत् || विद्या विवेचयत्यस्य कर्म तत्कार्यकारणे | रागोऽपि रञ्जयत्येनं स्वभोगेष्वशुचिष्वपि || नियतिर्योजयत्येनं स्वके कर्मणि पुद्गलम् | कालोऽपि कलयत्येनं तुट्यादिभिरवस्थितः ||᳚ इति | ज्ञानस्वरूपस्य प्रथममुद्देशेऽपि अवश्योच्छेद्यत्वप्रतिपादनार्थमादाव-ज्ञानस्वरूपं निरूपितम् || ननु पंसा बुद्धिवृत्त्यात्मकं ज्ञानं निर्विकल्पकम् इत्युच्यते, तत् कथमेतत् बुद्ध्यंशोपनिपाति न स्यात् -- इत्याशङ्क्याह -- तदज्ञानं न बुद्ध्यंशोऽध्यवसायाद्यभावतः || ३८ || एवमपि हि बुद्धेः� ᳚अध्यवसायो बुद्धिः᳚ इत्याद्युक्तेरध्यवसाय एव मुख्यं रूपम्, कथमस्य एतदभावे तद्धर्मत्वं स्यात् || ३८ || अत एवाह�
SK
अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी | षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा || १-३९ || धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम् | बौद्धं तस्य च तत्पौस्नं पोषणीयं च पोष्टृ च || १-४० || अस्याश्चैवमध्यवसाययोगित्वे हेतुः ᳚षट्कञ्चुक᳚ इति | षट्कञ्चुकैः - - ᳚कालकलानियतिबलाद् रागाविद्यावशेन संबद्धः | अधुनैव किञ्चिदेवेदमेव सर्वात्मनैव जानामि | मायासहितं कञ्चुकषट्कर्मणोरन्तरङ्गमिदमुक्तम् ||(पषा. १६ उ. १७) इत्यादिना निरूपितस्वरूपैः -- ᳚आबिलः᳚ प्रतिनियतज्ञत्वकर्तृत्वाद्युत्पत्त्या म्लानप्रायो योऽसौ ᳚अणुः᳚ परिमितात्मा, ततो जातात् ᳚प्रतिबिम्बनात्᳚ चिच्छायासंक्रमणात् -- इत्यर्थः | एवं ह्यस्याः पुंबोधव्यक्तिभूमित्वादेवंस्वभावो भवेत् -- इति भावः | ᳚तादृक्᳚ इति एवमध्यवसायरूपम् | अनयोश्च परस्परं कार्यकारण दर्शयितुमाह -- ᳚तस्य᳚ इत्यादि, ᳚तस्य᳚ इति बौद्धस्य, ᳚पौस्नम्᳚ पंसि भवं पौरुषम् -- इत्यर्थः | ᳚पोषणीयम्᳚ कार्यम् इत्यर्थः | कामशोकाद्यावेशभाजो हि तन्मयतानुसंधानादिना तत्तदर्थसाक्षात्कारात्मकमविकल्पकं ज्ञानमुदियात् | यदाहुः -- ᳚कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः | अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ||᳚ इति | ᳚पोष्टृ᳚ इति कारणम् | स्वप्नादावपि अनुभव एव हि प्राच्यो निमित्तम्, नहि नारिकेलद्वीपवासिनो वह्निविकल्पादाविच्छापि भवेत् || ३९-४० || एवमज्ञानं निरूप्य, ज्ञानमपि द्विविधं निरूपयितुमाह -- क्षीणे तु पशुसंस्कारे पंसः प्राप्तपरस्थितेः | विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् || १-४१ || विकस्वराविकल्पात्मज्ञानौचित्येन यावता | तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्टृ च || १-४२ ||
SK
पशोराणवस्यापि वासनामात्रक्षयाभिधानात् ङिमित्ताभावे नैमित्तिकस्याप्य-भावः᳚ इति न्यायेन कार्ममायीययोरपि प्रक्षयान्निवृत्तनिखिलबन्धस्य ᳚पुंसः᳚ अत एव प्राप्तपरमचिदैकात्म्यस्य ᳚विकस्वरम्᳚ पराहन्ताविमर्शात्मकम् ङिर्विकल्पकम्᳚ कृत्रिमाहङ्कारादिविकल्पविलक्षणं ज्ञानं पौरुषं भवति -- इति वाक्यार्थः | ᳚औचित्येन᳚ इति तद्वत्पूर्णेनात्मना -- इत्यर्थः | अतश्च शर्वो ममायं विभवः᳚ इत्येवंरूपत्वमस्याः | ᳚यस्य᳚ इति बौद्धज्ञानस्य | ᳚प्राग्वत्᳚ इति यथैवाज्ञानयोः परस्परं पोष्यपोषकभावस्तथैव -- इत्यर्थः | तथैव पूर्णापूर्णत्वेन पुनः विशेषो ग्राह्यः, अन्यथा हि ज्ञानाज्ञानयोः स्वरूपमेवाभिहितं न स्यात् || ४१-४२ || नन्वेवंविधमज्ञानं तावदनाद्येवावस्थितम् इति नास्ति विवादः, एतदभावात्मकं ज्ञानं पुनः कदा समुदियात् ? एतदभावे च किं निमित्तम् ? इत्याशङ्क्याह� तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि | तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम् || १-४३ || यद्यप्युक्तस्वरूपम् ᳚पौंस्नमज्ञानम्᳚ -- ᳚दीयते ज्ञानसद्भावः क्षीयन्ते पशुवासनाः | दानक्षपणसंयुक्ता दीक्षा तेनेह कीर्तिता ||᳚ इत्याद्युक्तस्वरूपया दीक्षया नश्यत्येव ᳚तथापि᳚ ᳚तत्᳚ अज्ञानाभावमात्ररूपमात्मज्ञानं व्यक्त्युन्मुखमपि� ᳚......................प्रारब्धेकं न शोधयेत् |᳚ इत्याद्युक्तेरिदंशरीरारम्भकस्य कार्ममलस्य सद्भावात् ᳚तस्य᳚ वर्तमान-शरीरस्य᳚ अन्ते स्फुटं व्यज्यते᳚� ᳚.......................डेहपाते शिवं व्रजेत् |᳚ इत्याद्युक्त्या साक्षात्कारात्म स्फुरति -- इत्यर्थः | आदिशब्दाच्च शेषवृत्त्या ग्रहणम्, न तु तीव्रतरशक्तिपातादेः, तद्धि दीक्षायां निमित्तम् इति तद्वचनेनैवास्य ग्रहः सिद्धः, न चास्मिन्दीक्षातोऽन्यत्ङ्किचिन्मुक्तौ निमित्तम् | तदुक्तम् -- ᳚तस्मात्प्रवितताद् बन्धात्परस्थानविरोधात् | दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ||᳚ इति | तीव्रतमशक्तिपातादौ पुनरनुपायादिक्रमेण दीक्षा भवेत्, येनास्य तत्कालमेवापवर्गः | तदुक्तम्�
SK
᳚तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते |᳚ इति | दीक्षानिरपेक्षमेव पुनरेतत् मुक्तौ निमित्तम् इति न सम्भाव्यम्, एवं श्रुतिविरोधः स्यात् | ᳚तस्य दीक्षां विनैवात्मसंस्कारपरिणामतः | सम्यग्ज्ञानं भवेत्सर्वशास्त्रेषु परिनिष्ठितम् ||᳚ इत्यादौ पुनर्बाह्यक्रियादीक्षाभिप्रायेण तन्निषेधो विवक्षितः, अन्यथा ह्यत्रात्मसंस्कारशब्दार्थ एव कथं सङ्गच्छताम् इत्यलं बहुना || ४३ || ननु यद्येवं दीक्षया देहान्त एवमुक्तिर्भवेत्, तत्कथं ᳚जीवन्नेव विमुक्तोऽसौ᳚ इत्याद्युक्तम्? इत्याशङ्क्याह� बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम् | विलीयते तदा जीवन्मुक्तिः करतले स्थिता || ४४ || ᳚बौद्धज्ञानेन᳚ इति परमेश्वराद्वयशास्त्रश्रवणाद्युद्भूतेन | तदुक्तम् -- ᳚गुरूणैव यदा काले सम्प्रदायो निरूपितः | तदाप्रभृति मुक्तोऽसौ यन्त्रं तिष्ठति केवलम् ||᳚ इति | एतच्च दीक्षिताधिकारेणैव ज्ञेयम्, नहि अकृतदीक्षस्य शास्त्रश्रवणेऽप्यधिकारः इति कुतस्तदवबोधनिमित्तकोऽपि तज्ज्ञानाविर्भावः स्यात् | तदुक्तम् -- ᳚अदीक्षितानां पुरतो नोच्चरेच्छिवपद्धतिम् |᳚ इति | न च अप्रध्वस्तपौरुषाज्ञानस्य अनेन किञ्चिद्भवति इत्युक्तप्रायम्, अन्यथा हि प्रेक्षावतां दीक्षायां प्रवृत्तिरेव न स्यात् -- साध्यस्यार्थस्य अत एव स्रुष्टुरभावात्, अत एव दीक्षायां शिथिलास्थत्वं न वाच्यम्, तस्या एव मुक्ति प्रति मूलकारणत्वात् | एवं दीक्षादिना पौंस्नं ज्ञानमभिव्यक्त्युन्मुखमपि न तदैव मुक्तिप्रदम्, देहान्ते तदभिव्यक्तेरुक्तत्वात्, इदं पुनस्तदैव इति ततोऽस्य प्राधान्यमपि कटाक्षितम् || ४४ || न केवलमेतदेवास्य ततः प्राधान्यनिमित्तं यावदन्यदपि -- इत्याह� दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका | तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता || १-४५ || इह� शर्वलक्षणहीनोऽपि ज्ञानवान्गुरुरुत्तमः |᳚ इत्याद्युक्तेरधिगतशास्त्रार्थस्यैव हि गुरोर्दीक्षायाम् अधिकारः, अत एव तस्य ᳚शिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदम् |᳚ इति लक्षणं प्राधान्येनोक्तम्, अन्यथा पुनः --
SK
᳚शास्त्रहीने न सिद्धः स्याद्दीक्षायां वीरवन्दिते |᳚ इत्याद्युक्त्या दीक्षा विमोचिकैव न स्यात्, तेन इति दीक्षायां बौद्धस्य ज्ञानस्य कारणत्वात्, नहि तेन विना तस्या निष्पत्तिरेव स्यात् || ४५ || न चैतदस्मदुपज्ञमेव -- इत्याह -- ज्ञानाज्ञानागतं चैतद् द्वित्वं स्वायम्भुवे रुरौ | मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः || १-४६ || तदुक्तम् -- श्रीस्वायम्भुवे -- ᳚अथात्ममलमायाख्यकर्मबन्धविमुक्तये | व्यक्तये च शिवत्वस्य शिवज्ञानं प्रवर्तते ||᳚ इति | ᳚अथानादिर्मलः पंसां पशुत्वं परिकीर्तितम् | तत्सद्भाववशोऽज्ञादिः पाशौघः पौरुषः स्मृतः || तस्मात्तत्तत्त्वतो ज्ञेयं मोक्षमक्षयमिच्छता |᳚ इति च | श्रीरुरावपि � ᳚यजन्ति विविधैर्यज्ञैर्मन्त्रतत्त्वविशारदाः | गुरुतन्त्राद्यनुज्ञातदीक्षासिच्छिन्नसंशयाः ||᳚ इति | ङ मीमांस्या विचार्या वा मन्त्राः स्वल्पधिया नरैः | प्रमाणमागमं कृत्वा श्रद्धातव्या विचक्षणैः || सर्वे मन्त्रात्मका देवाः सर्वे मन्त्राः शिवात्मकाः | शिवात्मकमिदं ज्ञात्वा शिवमेवानुचिन्तयेत् ||᳚ इति च | श्रीमतङ्गेऽपि� ᳚ततः स भगवानीशः स्फुरन्माणिक्यशेखरः | वाक्यानलसमुत्थेन ज्वालावीर्येण मन्त्रराट् || प्रददाह मुनेः सर्वमज्ञानं तृणराशिवत् |᳚ इति | ᳚शिववक्त्राम्बुजोद्भूतममलं सर्वतोमुखम् || शिवत्वोन्मीलनं तथ्यं ज्ञानमज्ञाननाशनम् | अनेन सिद्धाः पश्यन्ति यत्तत्पदमनामयम् ||᳚ इति च | आदिशब्देन चिल्लाचक्रेश्वरीमतादेर्ग्रहणम् | तदुक्तं तत्र -- ᳚बौद्धं च पौरुषेयं च द्विविधं तन्मलं स्मृतम् | तत्र दीक्षादिना याति पौरुषेयं मलं क्षयम् | बौद्धमक्षयमेवास्ते तावत्तावत्समुद्रितम् | यावन्न बौद्धमेवास्य सजातीयविलापकम् || ज्ञानमभ्युदितं सम्यक्सारेतरविभागकृत् |᳚ इति पौंस्नज्ञानाभिव्यञ्जने दीक्षा तावन्न प्रभवेद्यावदस्य बौद्धं ज्ञानं पूर्वभावि न स्यात्, येनास्य ततोऽपि प्राधान्यमुक्तम् || ४६ ||
SK
एवं बौद्धमपि ज्ञानं पारमेश्वरं शास्त्रमन्तरेण कुतः समुदियात् इति तदेव मूलकारणत्वादिह प्रधानम् -- इत्याह -- तथाविधावसायात्मबौद्धविज्ञानसम्पदे | शास्त्रमेव प्रधानं यज्ज्ञेयतत्त्वप्रदर्शकम् || १-४७ || शंपदे᳚ इति -- तां जनयितुम् -- इत्यर्थः | यतो ᳚ज्ञेयस्य᳚ नीलसुखादेः ᳚तत्त्वम्᳚ प्रकाशमानत्वान्यथानुपपत्त्या प्रकाशात्मकशिवस्वभावत्वम्, तस्य प्रदर्शकम् पराद्वयोपदेशकारित्वात्तदभिधायकम् -- इत्यर्थः | अत एव चास्य तदप्रदर्शकतया शास्त्रान्तरेभ्यो वैलक्षण्यमपि कटाक्षितम् || ४७ || ननु भवत्वेवम्, अत्र पुनः किं निमित्तं यत्पौंस्नाज्ञाननिवृतौ देहान्ते मुक्तिः, बौद्धाज्ञाननिवृत्तौ तु तदैव -- इत्याशङ्क्याह -- दीक्षया गलितेऽप्यन्तरज्ञाने पौरुषात्मनि | धीगतस्यानिवृत्तत्वाद्विकल्पोऽपि हि सम्भवेत् || १-४८ || ᳚धीगतस्य᳚ इति अज्ञानस्य | ᳚विकल्पो हि᳚ भेदप्रथात्मकः स चैव अख्यातिरूपत्वादज्ञानम् इति बहूक्तम् || ४८ || ननु धीगतमज्ञानं यदि न निवृत्तं तदात्मनः किमायातम्� इत्याशङ्क्याह -- देहसद्भावपर्यन्तमात्मभावो यतो धियि | देहान्तेऽपि च मोक्षः स्यात्पौरुषाज्ञानहानितः || १-४९ || दीक्षितस्यापि हि नियतकालं बुद्धावात्मग्रहो भवेत् इति तयोरभेदाद् बौद्धमप्यज्ञानमात्मन्युपचितं सम्भवेत् -- इति भावः | अत एव देहान्ते बुद्धावात्मग्रहव्युपरमात् पौरुषस्याज्ञानस्य दीक्षादिना पूर्वमेव प्रध्वस्तत्त्वान्मोक्षः इति युक्तमुक्तम् ᳚तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम्᳚ इति || ४९ || एवं विकल्पोऽत्र सम्भवन्मुक्तौ व्यवधायकः इति न तदैव मुक्तिः, तस्य पुनरसम्भवे सत्यपि देहे मुक्तिः -- इत्याह� बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद् ध्रुवम् | तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने || १-५० || न चैतदप्रमाणकम् -- इत्याह -- ᳚इत्युक्तम्᳚ इत्यादि || ५० || विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् | इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः || १-५१ ||
SK
᳚इतरः᳚ इति निर्विकल्पः |᳚ तदैव᳚ इति देहसद्भावे -- इत्यर्थः | यदुक्तम् तत्रैव -- ᳚विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् |᳚ विकल्पहीनचित्तस्तु ह्यात्मानं शिवमव्ययम् || पश्यते भावशुद्ध्य यो जीवन्मुक्तो न संशयः |᳚ इति | इदानीं प्राक् प्रतिज्ञातं शास्त्रस्यैव प्राधान्यं निगमयति�इति इत्यादिना ᳚इति᳚ शब्दः काकाक्षिन्यायेन योज्यः, तेन श्रीनिशाटनग्रन्थसमाप्तौ हेतौ च व्याख्येयः | स च ᳚ज्ञेयतत्त्वप्रदर्शकम्᳚ इत्यादिना प्रागप्युक्तः || ५१ || ननु किं नाम ज्ञेयस्य तत्त्वं यत्प्रदर्श्यमानं शास्त्रप्राधान्यावगमकमपि स्यात् -- इत्याशङ्क्याह� ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः | नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा || १-५२ || ᳚ज्ञेयस्य᳚ नीलादेर्नीलतैव -- प्रकाशमानता न तावदात्मभूता, तथात्वे हि सर्वदैव सर्वान्प्रति च स्यान्न तु कदाचित्कंचित्प्रति इति सर्वेऽपि सर्वज्ञाः स्युः | अतश्च अस्य प्रकाशते, मम प्रकाशते इति प्रकाशात्मप्रमातृसंलग्नैव सा युज्यते इति नासौ स्वातन्त्र्येण पर्यवसितस्वरूपो नीलादिः, शिव एव प्रकाशात्मकः प्रमाता, तदतिरिक्तस्य अन्यस्य भेदाभेदविकल्पोपहतत्त्वात्, अतश्च नीलादेर्ज्ञेयस्य प्रकाशमानत्वात् स एव परमार्थः इत्युक्तम् ᳚प्रकाशात्मकः शिवः परं तत्त्वम्᳚ इति | नन्वसौ स्वयमतथारूपोऽपि प्रकाशसंबन्धात्तथा भविष्यति इत्याशङ्क्याह -- ङहि᳚ इत्यादि | प्रकाशसंबन्धेनापि हि प्रकाशमानो नीलादिः स्वयं प्रकाशरूप एव सन् प्रकाशते, न अप्रकाशरूपश्च प्रकाशते च इति स्यात् नहि अश्वेतः प्रासादः श्वेतते, न चैवं वस्तुत्वमप्यस्य स्यात् नहि प्रकाशरूपतामपहाय अन्यद्वस्तु सम्भवेत् -- इति भावः || ५२ || एवं च न केवलं नीलादेर्ज्ञेयस्य भावस्य प्रकाशमानत्वात्प्रकाशात्मकः शिवस्तत्त्वं यावत्तदभावस्यापि -- इत्याह -- अवस्तुतापि भावानां चमत्कारैकगोचरा | यत्कुड्यसदृशी नेयं धीरवस्त्वेतदित्यपि || १-५३ ||
SK
यतो ङास्त्यत्र घटः᳚ इत्येवंरूपापि बुद्धिर्बोधस्वभावत्वात्कुड्यादिजडपदार्थविलक्षणा अत एव घटाद्यभावोऽपि बुद्ध्यमानत्वात्परमानन्दैकघनबोधात्मकशिवस्वभाव एव -- इत्यर्थः | तदाहुः� ᳚अबोधोऽपि बुद्ध्यमानो बोधात्मभूत ईश्वर एव |᳚ इति || ५३ || ननु सिद्धे प्रकाशे भावाभावरूपस्य ज्ञेयस्य तदेकपरमार्थत्वं सिद्ध्येत्, स एव पुनः केन प्रमाणेन सिद्धः ? इत्याशङ्क्याह -- प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते | अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः || १-५४ || अपूर्वार्थविषयं खलु प्रमाणम् | यदाहुः -- ᳚अनधिगतविषयं प्रमाणमज्ञातार्थप्रकाशो वा |᳚ इति | प्रकाशस्य अपूर्वत्वेन प्रकाशो नास्ति सर्वदैव तस्य प्रकाशमानत्वेन ᳚अनपह्नवनीयत्वात्᳚ इति व्यर्थं तत्र प्रमाणपरिकल्पनम् | तथाहि तदा तस्य अपूर्वत्वेन प्रकाशः स्यात् यद्यसौ पूर्वमनधिगतत्त्वेन अप्रकाशमानः स्यात् तथाभावश्च तद्रहितपूर्वकालस्मृतौ सत्यां भवेक्त्, स्मृतिरपि एवंरूपमनुभवं विना नोत्पद्यते, अनुभूतविषयासम्प्रमोषात्मकत्वात्तस्याः, न च प्रकाशरहितत्त्वेन पूर्वकालमनुभवोऽस्ति, तस्यैवानुभवस्य प्रकाशात्मकत्वात्, स एव हि प्रकाशः इति कथं पूर्वमपि तदभावः, अतश्च सर्वदास्य अवभासमानत्वेन आदिसिद्धत्वात् न प्रमाणसव्यपेक्षा सिद्धिः | स एव च ᳚प्रकाश एव प्रकाशकः प्रमाता᳚ इति नीत्या परप्रमातृरूपः परमेश्वरः शिवः इति युक्तमुक्तम् -- ᳚ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः |᳚ इति || ५४ || न केवलमेतत्सिद्धौ प्रमाणानामनुपयोगो यावत्प्रत्युत एषां तदधीना सिद्धिः -- इत्याह -- प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते | तेषामपि परो जीवः स एव परमेश्वरः || १-५५ ||
SK
इह वस्तूनां नीलपीतादीनां प्रकाशनिरपेक्षेण स्वस्वरूपेण तावत्स्वयमन्योऽन्यं वा न कश्चिद्विशेषः | नहि स्वात्मनि नीलं नीलं पीतं वा पीतम् | यदि नाम हि स्वात्मनि नीलं पीतं स्यात्पीतं वा नीलम्, तत्किमिव न विरुद्धमापतेत् | अथ यथैव यत्प्रकाशते तथैव तत्स्वात्मनि परिनिष्ठतं स्यात् इति न नीलं पीतम्, पीतं वा नीलम्, इति चेत् -- एवं तर्ह्येषां स्वात्मनि विशेषो न कश्चिदुक्तः स्यात् अपि तु प्रकाशते इति -- इति प्रकाश एवैषां रूपं तत्तन्नियतस्वरूपप्रतिष्ठानिबन्धनत्वात् जीवितं वितनुयात् येन नीलमिदं पीतमिदम् इति सिद्ध्येत् | स च नीलाद्युपरागेण नियतरूपतामवलम्बमानः प्रमाणशब्दव्यपदेश्यो भवेत् | न चास्य स्वात्मसिद्धिं प्रति अन्यदपेक्षणीयम् -- प्रकाशरूपत्वात्, प्रकाशस्य च स्वपरप्रकाशकत्वात्, तथाभूतोऽप्यसौ प्रकाशो विमर्शरूपतां विना नार्थस्य आत्मनो वा प्रकाशरूपतायां प्रतिष्ठास्पदं स्यात्, नहि प्रकाशः इत्येवासौ स्वपरात्मनोः प्रतिष्ठापको भवेत्, एवं हि नीलमपि नीलम् इत्येव कृत्वा तथा स्यात् | तस्मात्स्वपरप्रकाशतासिद्धौ तस्यापि अहंपरामर्शात्मा जीवितभूतः प्रकाशोऽभ्युपगमनीयोयेन सर्वं सिद्ध्येत् | यदुक्तम् -- ᳚प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः |᳚ इति | स एव च परप्रकाशात्मा परमेश्वरः शिवः इत्युक्तम् -- ᳚तेषामपि परो जीवः स एव परमेश्वरः᳚ इति || ५५ || एवमादिसिद्धत्वादस्य न केवलं साधकं प्रमाणमकिञ्चित्करं यावद्बाधकमपि -- इत्याह -- सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते | ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते || १-५६ ||
SK
शर्वेषाम्᳚ ज्ञातृज्ञानज्ञेयानाम् ᳚अपह्नवो᳚ निराकरणं तत्र ᳚हेवाक᳚ एव ᳚धर्मः᳚ स्वभावो यस्यासौ बौद्धः | तत्र त्रयाभाववादिनो माध्यमिकाः | ज्ञातृज्ञेयाभाववादिनो योगाचाराः | ज्ञात्रभाववादिनो वैभाषिकाः | सोऽपि ᳚ह्येवं ज्ञानमात्मार्थम्᳚ इत्येतत् मां संवेदनस्वभावत्वाद् विचारयितारं प्रति नेति भासते -- नास्ति इति प्रतीतिरूपो वर्तते -- अवतिष्ठते -- इत्यर्थः, तेन आत्मादेर्निराकरणे साधने वापि अवश्यमेव साधयिता पूर्वकोटावाक्षिप्तः सिद्धः नहि साधयितारमन्तरेण अर्थानां साध्यतैव स्यात्, स च स्वतः सिद्धः प्रकाशात्मा परमार्थरूपः परमेश्वरः शिव एव || ५६ || अतश्च तत्र व्यर्थमेव बौद्धस्यापि प्रमाणस्य परिकल्पनम् -- इत्याह -- अपह्नुतौ साधने वा वस्तूनामाद्यमीदृशम् | यत्तत्र के प्रमाणानामुपपत्त्युपयोगिते || १-५७ || ᳚वस्तूनाम्᳚ ज्ञातृज्ञानज्ञेयात्मनाम्, ᳚आद्यम्᳚ आद्यसिद्धत्वात् ᳚रिदृशम्᳚ परप्रमातृरूपम्, ᳚तत्र᳚ इति आदिसिद्धे प्रमातरि | प्रमेयं खलु प्रमिण्वत्प्रमाणमुच्यते, प्रमेयं च विभिन्नप्रकाशाधीनसिद्धिकमिदन्ताविमृश्यं च भवति | न चैवंरूपत्वं प्रमातुर्येन प्रमाणपरिच्छेद्यः स्यात्, स हि अर्थपरिच्छेदादौ प्रवृत्तः स्वप्रकाशरूपत्वान्न प्रकाशाद्भिन्नो नापीदन्ताविमृश्यः, अहंप्रत्यवमर्शमयत्वात्, स च यदि प्रमाणप्रमेयः स्यात् तत्रापि प्रमितिक्रियायां प्रमात्रा अपरेण भाव्यम्, तत्राप्यन्येन इत्यनवस्थानं स्यात्, तस्मान्नात्र प्रमाणस्य प्रवृत्तौ काचिदुपपत्तिः | यस्तु भावनोपदेशादौ शकृद् विभातोऽयमात्मा प्रमाता᳚ इत्यादिरिदन्तया व्यवहारः स न वास्तवः, तत्र तस्य साक्षादप्रतीतेः; अहन्ताव्यवधानेन हि तत्रासौ प्रतीयते इत्यास्ताम्, एतद्धि पदे पदे वितनिष्यते | प्रमाणानुपयोगस्त्वादिसिद्धत्वात् समनन्तरमेव दर्शितः, इति न पुनर्वितानितः || ५७ || न केवलमत्र युक्तिरेवास्ति यावदागमोऽपि -- इत्याह -- कामिके तत एवोक्तं हेतुवादविवर्जितम् | तस्य देवातिदेवस्य परापेक्षा न विद्यते || १-५८ ||
SK
परस्य तदपेक्षत्वात्स्वतन्त्रोऽयमतः स्थितः | ततः इति -- तत्र प्रमाणानामुपपत्त्युपयोगयोरभावात्, हेतोः� अनुमानस्य वादेन विवर्जितम् अत एवाह -- तस्य इत्यादि, परस्य -- प्रमाणादेः, अतः इति -- परानपेक्षत्वलक्षणाद्धेतोः || ५८ || एवमस्य परानपेक्षत्वाद्यथा न प्रमाणान्यवच्छेदकानि, तथा प्रमेयाण्यपि इत्याह -- अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः || १-५९ || नियता नेति स विभुर्नित्यो विश्वकृतिः शिवः | वशिनः -- स्वतन्त्रस्य इति विशेषणद्वारेण हेतुः | अत्रापीति� परानपेक्षस्य, प्रकाशात्मनः शिवस्य हि देशकालाकारैर्भेदाभेदविकल्पोपहतत्त्वादवच्छेदाधानमशक्यम् इत्युक्तम् -- नियता न इति अत एव च स एवंविधः इत्याह�विभुर्नित्यो विश्वाकृतिः -- इति | विभुः इति -- देशावच्छेदशून्यत्वात् | नित्य इति -- अतीतादिकालावच्छेदविगलनात् | विश्वाकृतिः इति -- चिदचिदाद्याकारवैचित्र्योल्लासकत्वात् ||५९ || एतदेव प्रपञ्चयति -- विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः || १-६० || विश्वाकृतित्त्वाच्चिदचित्तद्वैचित्र्यावभासकः | अत एवास्यागमेषु नानारूपत्वमुच्यते -- इत्याह -- ततोऽस्य बहुरूपत्वमुक्तं दीक्षोत्तरादिके || १-६१ || तदेवाह� भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च | बिन्दुनादादिसंभिन्नः षड्विधः शिव उच्यते || १-६२ || भुवनम् तत्तद्भुवनाधिष्ठेयं भोगाधाररूपम् | विग्रहशब्देन उपचाराद्विग्रहिणो लक्ष्यन्ते | तेषां च रुद्रक्षेत्रज्ञादिनानारूपत्वेऽपि तत्तत्सिद्धिदानसामर्थ्यादिह रुद्रादीनि कारणान्येव | ज्योतिः -- बिन्दुः� ᳚कदम्बगोलकाकारः स्फुरत्तारकसन्निभः |᳚ इत्यादिनास्य ज्योतीरूपत्वेनाभिधानात् | खं शून्यम् -- शक्ति-व्यापिनी- समनालक्षणम् | शब्दो नादात्मा मन्त्रः अकारोकारमकारात्मा | अस्य विशेषणम्बिन्दुनादादिसंभिन्नः इति | यदुक्तम्� ᳚बिन्दुर्नादस्तथा व्योम मन्त्रो भुवनविग्रहौ | षड्वस्त्वात्मा शिवोध्येयः फलभेदेन साधकैः ||᳚ इति | तथा� ᳚उन्मना तु परो भावः स्थूलस्तस्यापरो मतः |
SK
पुनः शून्यं च व्योमात्मा संस्पर्शं च ततः परम् || शब्दो ज्योतिस्तथा मन्त्राः कारणा भुवनानि च |᳚ इति | तथा� ᳚व्योम-विग्रह-बिन्द्वर्ण-भुवनाध्वविभेदतः | लक्ष्यभेदः स्मृतः षोढा................ ||᳚ इत्यादि || ६२ || अत्र च� ᳚यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः | सिद्धिभाक् ................................. || इतिन्यायेन यस्य यत्र निष्ठा तस्य तत्प्राप्तिर्भवति -- इत्याह -- यो यदात्मकतानिष्ठस्तद्भावं स प्रपद्यते | व्योमादिशब्दविज्ञानात् परो मोक्षो न संशयः || १-६३ || यः साधकः, यस्य भुवनादेः, आत्मकतायां तद्रूपतायाः, निष्ठः, स तद्भावम् -- तत्तद्भुवनादिरूपत्वेन नियतां सिद्धिमेति -- इत्यर्थः | तदुक्तम् -- ᳚भुवनं चिन्तयेद्यस्तु वक्ष्यमाणैकरूपकम् | भुवनेशत्वमाप्नोति............................. ||᳚ इत्युपक्रम्य� ᳚ब्रह्मादिकारणानां तु विग्रहं यः सदा स्मरेत् | पूर्वोक्तलक्षणं यच्च तन्मयत्वमवाप्नुयात् || मन्त्रैश्च मन्त्रसिद्धिस्तु जपहोमार्चनाद् भवेत् | पूर्वोक्तरूपकध्यानात्सिध्यत्यत्र न संशयः || ज्योतिर्ध्यानात्तु योगीन्द्रो योगसिद्धिमवाप्नुयात् | तन्मयत्वं तदाप्नोति योगिनामधिपो भवेत् || शून्यध्यानाच्च शून्यात्मा व्यापी सर्वगतिर्भवेत् | समनाध्यानयोगेन योगी सर्वज्ञतां व्रजेत् ||᳚ इति | एषां च षण्णामपि शिवात्मकत्वात् -- ᳚............... शिवं ध्यात्वा तु तन्मयः |᳚ इत्याद्युक्तेः शिवैकमयतयैकैकानुप्रवेशेऽपि शिवात्मकस्वरूपलाभो भवेत् -- इत्याह -- व्योमादिशब्दविज्ञानात् इत्यादि | व्योमादीनाम् एषां षण्णां शब्दानां शब्दः परो विमर्शः, तदात्मकतया यत् विज्ञानम् -- अनुभवः, तस्मात् परो -- विमर्शैकसारशिवैकात्म्यापत्तिलक्षणो, मोक्षो निःसंशयं भवेत्�इति वाक्यार्थः | व्योमादिषट्क इति पाठे तु व्योमादेः षट्कस्य विशिष्टादनवच्छिन्नाज्ज्ञानात् -- इति व्याख्येयम् | न च अत्र भुवनादीनां क्रमो विवक्षितः इतीह व्योमादि इति प्रयुक्तम् || ६३ || ननु यद्ययं विश्वाकृतिस्तत्कथमस्य षड्विधत्वमेवोक्तम्� इत्याशङ्क्याह --
SK
विश्वाकृतित्त्वे देवस्य तदेतच्चोपलक्षणम् | अनवच्छिन्नतारूढाववच्छेदलयेऽस्य च || १-६४ || उपलक्षणम् एव भवति, अनेनैव निखिलविश्वसंग्रहसिद्धेः | न केवलमेतद्विश्वाकारतायामेवास्योपलक्षणं यावदन्यत्रापि -- इत्याह - - अनवच्छिन्नतारूढौ इत्यादि | अवच्छेदलये इति -- अवच्छेदानां सङ्कोचाधायिनां भुवनादीनां लये विश्वोत्तीर्णतायाम् -- इत्यर्थः | विश्वमयत्वेऽप्यस्य स्वस्वरूपान्न प्रच्यावः इत्याशयः | नन्वेमुभयथापि अस्य नियतात्मकत्वावगमादवच्छेद एवोक्तो भवेत्? -- इत्याशङ्क्योक्तम् -- अनवच्छिन्नतारूढाविति | अस्य हि विश्वमयत्वेऽपि विश्वोत्तीर्णत्वादनवच्छिन्नतायामेव प्ररोहो भवेत्, एक एव हि स्वतन्त्रो बोधस्तथा तथा प्रस्फुरेत् इति || ६४ || ननु कथमेकदैव एकस्य विश्वमयत्वेऽपि विश्वोत्तीर्णत्वं सङ्गच्छते? - - इत्याशङ्काशान्तत्यर्थमागमं संवादयति -- उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः | जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम् || १-६५ || दर्पणाद्यन्तः प्रतिबिम्बितं घटादि यथा दर्पणादिव्यतिरेकेण प्रकाशमानमपि दर्पणाद्यनतिरिक्तमेव, अन्यथा दर्पणघटयोरन्योन्यं वैविक्त्येन भानं स्यात्, तथैव प्रकाशात्मना शिवेनापि स्थावरजङ्गमात्मकमिदं विश्वं स्वेच्छया स्वस्वरूपातिरिक्तायमानत्वेन अवभासितं सत्, व्याप्तं प्रकाशमानतान्यथानुपपत्त्या स्वस्वरूपानतिरेकेणैव क्रोडीकृतम्, अत एवायं विश्वमयत्वेऽपि विश्वोत्तीर्णस्तदुत्तीर्णत्वेऽपि तन्मयः इत्युभयथापि न कश्चिद् दोषः | अत एवोक्तम् -- सर्वाकृतिर्निराकृतिः -- इति | सर्वाकृतिः -- विश्वमयः निराकृतिः -- विश्वोत्तीर्णः आवृत्त्या तत्त्वेऽपि तदुत्तीर्णः -- इति च | तदेवमयमेक एव प्रकाशात्मा परमेश्वरः सर्वतो जृम्भते इतीश्वराद्वयमेव परमार्थतः ||६५ ||
SK
ननु भावानां तदपेक्षया पृथक्प्रकाशानुपपत्तेर्मा नाम तदतिरेकेण सत्ता भूत् इति भावापेक्षया प्रकाशात्मक एव एतेश्वरः इत्यास्तां तावदेतत् | यत्पुपर्विभुत्वादि धर्मजातं तस्योक्तं, तदपेक्षया धर्मधर्मिणोर्धर्माणां च परस्परं भेदस्य अनपह्नवनीयत्वाद् योऽयं भेद उल्लसितः कथं वार्यते येन एक एवेश्वरः इत्यद्वयवादनिर्वाहः स्यात् इत्याशङ्क्याह -- न चास्य विभुताद्योऽयं धर्मोऽन्योन्यं विभिद्यते | न च विभुताद्योऽयं अस्य स्वरूपातिरिक्तस्तदतिशायकः कश्चित् धर्मः अपि तु स्वरूपमेवैतत् | विभुत्वं हि व्यापकत्वमुच्यते, तच्च स्वव्यतिरिक्ते व्याप्ये सति स्यात्, न च परं प्रकाशमपेक्ष्य दिगादि किञ्चित्सम्भवेत् इति किं नाम व्याप्नुयात् | नित्यत्वमपि नास्य धर्मः�तस्य कालत्रयानुगामिरूपत्वात्, अस्य चाकालकलितत्वात् | यदभिप्रायेणैव शकृद्विभातोऽयमात्मा᳚ इत्याद्युक्तम् | एवं विश्वाकृतित्त्वमपि | नहि एतदपेक्षया विश्वं नाम किञ्चिदस्ति, यदाकारत्वमप्यस्य स्यात् | एवं चैषां परप्रकाशापेक्षया कथंचिद्भेदायोगात्पारस्परिकोऽपि भेदो नास्ति इत्युक्तम्�न चान्योन्यं विभद्यते इति | ननु यद्येवं तत्कथमस्य विभुर्नित्यो विश्वाकृतिः इत्यादिधर्मभेद उक्तः? -- इत्याशङ्क्याह -- एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते || १-६६ || तेन स्वतन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः | अस्य खलु एक एवासौ अहंप्रत्यवमर्शाख्यो हि स्वभावभूतो धर्मोऽस्ति, यः सर्वं विभुत्वादिधर्मजातमाक्षिपेत् | अत्रायमर्थः -- अयं हि नाम प्रकाशस्य अहंप्रत्यवमर्श उच्यते यदयं स्वस्य परस्य वा प्रकाशने परं नापेक्षते इति | अत एवास्य स्वातन्त्र्यरूपं तत्तद्देशकालाद्यवभाससहस्रोल्लासनसामर्थ्यं स्यात्, येनास्य स्वसमुल्लासितोऽपि संकुचितः प्रमातृवर्गः स्वापेक्षया व्यापकत्वनित्यत्वादि व्यवहरेत्, वस्तुतः पुनरप्यहं प्रत्यवमर्शाख्या स्वातन्त्र्यशक्तिरेवास्यास्ति येन -- श्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः |᳚ (प्र.१ अ.५ आ.१३ श्लो.)
SK
इत्याद्युक्तम् | अत एवाह -- तेन इत्यादि || ६६ || ननु सर्वत्रैवास्य इच्छाद्यनन्तशक्तियोगित्वमुक्तमिति तत्कथमिहैकयैव स्वातन्त्र्याख्यया शक्त्या योग उच्यते ? इत्याशङ्क्याह -- बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता || १-६७ || स्वातन्त्र्यशक्तिरेव हि तत्तदेषणीयाद्युपाधिवशान्नानात्वेन व्यवह्रियते इति तच्छक्तियोगितैवास्यानन्तशक्तित्वम् | यदुक्तम् -- ᳚या सा शक्तिर्जगद्धातुः कथिता समवायिनी | इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते || एकापि सत्यनेकत्वं यथा गच्छति तच्छृणु |᳚ इत्याद्युपक्रम्य� ᳚एवमेषा द्विरूपापि पुनर्भेदैरनन्तताम् | अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी᳚ || ६७ || ननु एवमपीश्वराद्वयवादो न निर्व्यूढस्तदतिरिक्तायाः स्वातन्त्र्यशक्तेरप्यभिधानात् ? इत्याशङ्क्याह� शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् | तेनाद्वयः स एवापि शक्तिमत्परिकल्पने || १-६८ || यतो भावस्य -- यस्य कस्यचन सतः पदार्थस्य�स्वमेव रूपं फलभेदात् भेदारोपेण शक्तिः इति प्रमातृभिः परिकल्प्यते, न त्वसौ वस्तुतः पदार्थान्तरं किञ्चित्, अतः शक्तिशक्तिमत्परिकल्पनेऽपि क्रियमाणे, स एव अद्वयमयो विभुः, न काचिदद्वयखण्डना इति यावत् | तदुक्तम् -- ᳚फलभेदादारोपितभेदः पदार्थात्मा शक्तिः |᳚ इति || ६८ || नन्वेवमस्तु, यन्न शक्तिशक्तिमतोर्भेद इति, शक्तीनां पुनः परस्परं भेद एव भवति इति पुनः स दोषस्तदवस्थ एव ? इत्याशङ्क्याह -- मातृकॢप्ते हि देवस्य तत्र तत्र वपुष्यलम् | को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव || १-६९ ||
SK
यथा वह्नेः दाहपाकादिफलभेदाद् दाहिका पाचिका च शक्तिर्भेदेन कल्पितापि वस्तुतः शक्तिमदेकस्वभावत्वान्न परस्परस्य स्वरूपं भेत्तुमलम्; पृथक्सिद्धं हि वस्तु वस्त्वन्तरं भिनत्ति, नहि शक्तेः शक्तिमदतिरेकेण पृथक्सिद्धिरेवास्ति इति किं केन भेद्यम्, वह्नेरेव हि दाहादिसमर्थं स्वरूपं तथा परिकल्पितम् | एवं परमेश्वरस्य परिकल्पितेऽपि शक्तीनामानन्त्ये न कश्चिद्भेदः इति न कदाचिदीश्वराद्वयवादक्षतिः || ६९ || ननु एवं परिकल्पितोऽपि शक्तीनां भेदो भासत एव इति कथं तदपह्नवः ? -- इत्याशङ्क्याह -- न चासौ परमार्थेन न किञ्चिद्भासनादृते | नह्यस्ति किञ्चित्तच्छक्तितद्वद्भेदोऽपि वास्तवः || १-७० || भानमन्तरेण अन्यत्किंचिन्नास्ति इत्यसौ भेदोऽपि भासमानत्वाद्वस्तुतो न न किञ्चित्, अपि तु परमार्थसन्नेव इति शक्तीनां तद्वतश्च भेदोऽपि पारमार्थिक एव -- इति वाक्यार्थः | एवं भेदस्य भानैकस्वभावत्वान्न ततोऽतिरेकः इति नाद्वयवादक्षतिः, नापि शक्तीनां तद्वतश्च भेदेन स्थितस्य व्यवहारस्यापह्नवः इति सर्वं सुस्थम् || ७० || ननु परमेश्वरस्य स्वातन्त्र्याख्या शक्तिरेकैवास्ति इत्युक्तम्, इच्छादयस्तु किं तद्विस्फूर्जितमात्रम्, उत स्वतन्त्राणि शक्त्यन्तराणि ? इत्याशङ्क्याह -- स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि यत् | शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी || १-७१ ||
SK
यत् नाम हि अवान्तरशक्तिवैचित्र्यं वह्न्यादेः वस्तुनः -- स्वस्याः शक्तेः इति व्यपदेशप्रवृत्तिनिमित्तभूताया निर्विशेषक्रियामात्रनिष्ठायाः सामर्थ्यलक्षणायाः शक्तेः उद्रेको -- दाहपाकादिविशेषरूपशक्त्यन्तरात्मतयोच्छलनं तस्य जनकम् -- अवभासकम्, तदपि -- तादात्म्यात् -- एवंविधस्वशक्त्येकरूपत्वाद्यथोक्तरूपा स्वेव शक्तिः -- इति सम्बन्धः | समर्थो हि वह्निः सर्वं दाहादिकार्यजातं कुर्यात् -- इत्यभिप्रायः | एवं परमेश्वरस्यापि इच्छाद्यवान्तरशक्तिरूपतयावभासमानापि शक्तिर्देवी तत्तद्भेदोल्लासेऽपि परप्रकाशाभिन्नस्वभावत्वात् द्योतमानावभासा स्वातन्त्र्याख्यैव इति युक्तमुक्तम् -- ᳚एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते |᳚ इति | एवमेकैवास्य स्वातन्त्र्याख्या शक्तिस्तथा तथा सृष्टेन भेदेन भायात् इति सिद्धम् || ७१ || न केवलं शक्तिरेवास्यैवङ्कल्पितेन भेदेनावभासते यावत्स्वयमपि -- इत्याह -- शिवश्चालुप्तविभवस्तथा सृष्टोऽवभासते | स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु || १-७२ || शिवश्च स्वा संकुचिता संवित् लक्षणं यस्यासौ बुद्ध्यादौ गृहीतात्मग्रहः परिनिष्ठितः प्रमाता, स एव स्वच्छत्वात्प्रतिबिम्बसहिष्णुत्वेन मकुरः, तस्मिन् भावनोपदेशादौ स्वस्वातन्त्र्यात् तथा भाव्यमानत्वादिना कल्पितेन भेदेन सृष्टः प्रमेयतामापादित इव अवभासते, न चैवमप्यसौ प्रमात्रेकरूपत्वात् तथा भवति इत्युक्तम् -- अलुप्तविभव इति, अपरिहृतप्रमातृभावः -- इत्यर्थः | तदुक्तम्� श्वातन्त्र्यादद्वयात्मानं स्वातन्त्र्याद्भावनादिषु | प्रभुरीशादिसङ्कल्पैर्निर्माय व्यवहारयेत् ||᳚ (रि.प्र. १-५-१६) इति || ७२ || एतदेवोपसंहरति -- तस्माद्येन मुखेनैष भात्यनंशोऽपि तत्तथा | शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः || १-७३ || तस्मात् उभयोरपि शिवशक्त्योस्तथा सृष्टेन भेदेन अवभासननोपपत्तेर्हेतोरपि शिवः प्रकाशमात्रैकरूपत्वात् अनंशोऽपि येन भुवनाद्यन्यतमांशलक्षणेन मुखेन भावनादौ भासते तत् मुखम्�
SK
᳚................... शैवी मुखमिहोच्यते |᳚ इत्याद्युक्त्या तथा शिवप्राप्त्युपायतया शक्तिरेव, नहि एतदवगमादौ उपायान्तरमस्ति उपपद्यते वा | अतश्च शक्तिशक्तिमतोरूपायोपेयभावात्मा क्रमः सम्यगेव स्फुटः न कश्चिदत्र संशयः -- इत्यर्थः || ७३ || अतश्च अनयोरसावुपायोपेयभावस्तत्र तत्र आगमेषु उद्धोष्यते -- इत्याह -- श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम् | अनुभावो विकल्पोऽपि मानसो न मनः शिवे || १-७४ || अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम् | तत् इति शिवागमे शक्तेरुपायत्वमुक्तम् -- इति वाक्यशेषः | एतदेव च शब्दार्थरूपत्वेन शास्त्रस्य द्वैविध्येन प्रवृत्तेरर्थद्वारेण दर्शयति अनुभाव इत्यादिना | तत्र गरुडेन� ᳚शिवतत्त्वं कथं शून्यं तच्छून्यं नाक्षगोचरः | प्रत्यक्षं चाक्षविज्ञानं तदतीतं न किञ्चन ||᳚ इति प्रत्यक्षागोचरत्वाच्छिवत्त्वं न किञ्चित् इति पृष्टे, भगवता -- ᳚माया हेया शिवो ग्राह्यो ग्राहकः पुरुषः स्मृतः | मायाधर्मैः शिवः शून्यः .......................... ||᳚ इत्यादिना� ᳚अतीन्द्रियं च यद्वस्तु तत्राप्यनुभवो न किम् | अनुभावो मनोऽध्यक्षः प्रसिद्धः क्षुद्यथा च तृट् ||᳚ इत्यन्तेन शिवतत्त्वस्य बाह्येन्द्रियाप्रत्यक्षत्वेऽपि मानसप्रत्यक्षविषयत्वात् किञ्चित्त्वेन प्रतिसमाहितम् | एतच्च पुनरप्यागूर्य गरुडेन -- ᳚अनुभावो विकल्पोत्थो विकल्पो मानसः स च | समनस्कं च तज्ज्ञेयमनस्कमरूपकम् || अज्ञात्वा दैशिकस्तत्त्वं कथं दीक्षां करोत्यसौ | ज्ञेयः सर्वात्मनैवार्थः स ज्ञेयो नैव सर्वथा ||᳚ इत्यादिना पृष्टम् | एतत्प्रश्नार्थ एव ग्रन्थकृता संक्षेपचिकीर्षया स्ववचसोपनिबद्धः | अत्रायमर्थः -- यन्नाम बुभुक्षादिन्यायेन शिवस्य मानसप्रत्यक्षविषयत्वमुक्तं तत्र मानसोऽनुभवः शङ्कल्पकमत्र मनः............................ |᳚
SK
इति नीत्या सङ्कल्पात्मकत्वात् विकल्पः तस्य चार्थासंस्पर्शित्वं रूपम् इति मनः तावत् शिवे न प्रमाणम्, यत्र च न प्रमाणं प्रवर्तते, तन्न ज्ञातं भवेत् इत्यज्ञाते शिवतत्त्वे कथं दीक्षा स्यात्, दैशिको हि परं तत्त्वं ज्ञात्वा तत्र दीक्षया दीक्ष्यं योजयेत् | अत एव ᳚गुरौ ज्ञानम्᳚ इत्याद्युक्तम् | इति शब्दः प्रश्नसमाप्तौ | अत्र इति गरुडोक्ते प्रश्ने | उत्तरम् इति भगवदुक्तं प्रतिसमाधानम् || ७४ || तदेवाह� क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः || १-७५ || न-शब्दो भिन्नक्रमः, तेन प्रश्ननिषेधविषयत्वेन योज्यः, नायं प्रश्न इति | हि-शब्दो हेतौ, यतो बुभुक्षादीनां विकल्पात्मक एव मानसोऽनुभवो न भवति -- इत्यर्थः | आसां हि प्रथममविकल्पकमानसप्रत्यक्षविषयत्वमप्यस्ति, अन्यथा तत्पृष्ठभाविनो बुभुक्षेयम् इति विकल्पस्योदयो न स्यात् | सविकल्पकमानसप्रत्यक्षविषयत्वेऽप्यासां न कश्चिद्दोषः, तस्य वस्त्वाश्रयत्वेन प्रमाणत्वाभ्युपगमात् | एवं शिवोऽपि मानसप्रत्यक्षगोचरो भवत्येव, किं तु शक्तिद्वारेण इति विशेषः | यदुक्तं तत्रैवोत्तरग्रन्थे -- ᳚क्षुधाद्यनुभवो यत्र विकल्पस्तत्र नो भवेत् | वस्त्वाश्रयो विकल्पोऽपि तद्वस्तु घटवन्न च || विकल्पो मानसः सूक्ष्मः शून्यशक्तिलयं गतः | तद्गतस्त्वन्यविच्छिन्नस्तेनासौ चित्तवर्जितः || ज्ञानं चात्मेन्द्रियाश्लेषात्कर्ता ह्यात्मा मनः क्रिया | शिवः साध्योऽत्र मन्तव्यो विभुरप्येकधर्मतः ||᳚ इति | यत्तु अस्य शून्यत्वमुक्तं तन्मायाक्षयोपचारेण तद्धर्मैः परिणामित्वादिभिः शून्यत्वाच्छून्यम् -- इत्युक्तम् | अन्यापेक्षया तु तदशून्यमेवेत्यर्थावाप्तम् | अतश्च शिवं शक्तिद्वारेण ज्ञात्वा दैशिकस्तत्र दीक्षया दीक्ष्यं योजयति इति न काचित्क्षतिः ||७५ || ननु सर्वात्मनार्थो ज्ञातो भवति न तु अंशेन | विकल्पश्च सर्वात्मना अर्थं ज्ञातं न शक्नोति -- नियतांशाभिनिवेशित्वात् तस्य, अतः शिवस्तेन शक्तिद्वारेण विषयीकृतोऽपि सर्वात्मना तद्गोचरीभावाभावान्न ज्ञातः इति प्रश्नशेषमाशङ्क्याह --
SK
रसाद्यनध्यक्षत्वेऽपि रूपादेव यथा तरुम् | विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम् || १-७७ || विकल्पः अत्र निर्विकल्पकपृष्ठभावी ग्राह्यः | तेन स तरुं रूपरसाद्यात्मकमपि रूपाद्यात्मनैव गृह्णाति न रसाद्यात्मनापि नियतत्वात्तद्ग्रहणस्य, नहि सर्वात्मत्वेन अगृहीतत्वाद् अगृहीत एवासौ इति वक्तं युज्यते अनुभवविरोधात् | तद्वत् नादबिन्द्वाद्यात्मकशक्तिद्वारेण शिवोऽपि ज्ञात एव भवति इति सिद्धान्तः | तदुक्तं तत्रैव -- ᳚प्रत्यक्षेण यथा वृक्षो रूपमात्राद्विगृह्यते | रसादयो गृहीता नो तथेशो ज्ञानशक्तितः || गृह्यते तत्त्वभावेन वस्तुभावविवर्जनात् |᳚ इति | तथा� ᳚बिन्दुर्नादस्तथा शक्तिः शून्यत्वे परिकल्पिताः | चेतसः स्थितिहेत्वर्थं पुनर्नित्यं स्थिरं भवेत् || अतीन्द्रियः सुसूक्ष्मत्वात्सूक्ष्मा शक्तिः स तद्गतः | ज्ञानशक्तिर्मता सापि तज्ज्ञानाज्ज्ञात एव सः ||᳚ इति | एवं शक्तिरेव परतत्त्वाधिगमे परमुपायः इति सिद्धम् | सा च भुवनादिरूपतया अनन्तप्रकारा इत्युक्तप्रायम् || ७७ || एवं यत्किञ्चन जडाजडात्मकविश्वैचित्र्यं यच्च तद्विषयं सृष्ट्यादि जाग्रदाद्यवस्थादि वा तत्सर्वं परमेश्वरस्य शक्तिस्फार एव -- इत्याह -- बहुशक्तित्वमस्योक्तं शिवस्य यदतो महान् | कलातत्त्वपुरार्णाणुपदादिर्भेदविस्तरः || १-७८ || सृष्टिस्थितितिरोधानसंहारानुग्रहादि च | तुर्यमित्यपि देवस्य बहुशक्तित्वजृम्भितम् || १-७९ || जाग्रत्स्वप्नसुषुप्तान्यतदतीतानि यान्यपि | तान्यप्यमुष्य नाथस्य स्वातन्त्र्यलहरीभरः || १-८० || महामन्त्रेशमन्त्रेशमन्त्राः शिवपुरोगमाः | अकलौ सकलश्चेति शिवस्यैव विभूतयः || १-८१ ||
SK
पदादि इति आदिशब्देन भूतभावग्रहणम् | सृष्टिस्थिति इत्यनेन कृत्यभेद उक्तः | तुर्यमित्यन्यच्छब्दवाच्यं सृष्ट्यादीनामन्तर्वर्ति पूर्णं रूपम् | अनेन चतुष्टयार्थस्यापि आसूत्रणं कृतम्, तेन स्थितौ संहारे तिरोधानानुग्रहयोरन्तर्भावः कार्यो येनैतत्स्यात्, अन्यत्तुर्यम्, जाग्रत्स्वप्न इत्यनेन अवस्थाभेद उक्तः | अकलौ इति विज्ञानाकलप्रलयाकलौ | अनेन प्रमातृभेदः || ७८-८१ || तदेवं वैचित्र्यभाजः षट्त्रिंशत्तत्त्वात्मकस्य जगतश्चिदानन्दैकघनः परमार्थः शिव एवानुप्राणकतया वर्तते -- इत्याह -- तत्त्वग्रामस्य सर्वस्य धर्मः स्यादनपायवान् | आत्मैव हि स्वभावात्मेत्युक्तं श्रीत्रिशिरोमते || १-८२ || द्विविधो हि धर्मः पदार्थस्य -- प्राणप्रदो विशेषाधानहेतुश्च | आद्यो यथा सामान्यम्, नहि गोत्वमन्तरेण गौः गौरेव भवति | द्वितीयो यथा गुणः, शुक्लादिर्हि लब्धसत्ताकं वस्तु विशिनष्टि | एवमिह आत्मैव तत्त्वसमूहस्य प्राणप्रदत्वात् स्वभावभूतो धर्मः अत एव अनपायवान् नित्यावियुक्तः -- इत्युक्तम् | हि शब्दो हेतौ | नन्वत्र किं प्रमाणम् -- इत्याशङ्क्योक्तम् -- ᳚इत्युक्तं त्रिशिरोमते᳚ इति || ८२ || तत्रत्यमेव ग्रन्थं शास्त्रस्य शब्दार्थरूपतया द्वैविध्येन प्रवृत्तेरुभयथाप्याह -- हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् | सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् || १-८३ || समूह एव सामूह्यम् | ग्रामशब्दो हि समूहार्थवृत्तिः -- ᳚कवलीकृतनिःशेषतत्त्वग्रामस्वरूपकम् |᳚ इत्यादिप्रयोगदर्शनात् | तच्च सर्वत्र बाह्ये देहे चान्तः साधारणासाधारणतया द्वैविध्येन वर्तमानम् -- इत्यर्थः | अत एव स्वभावे स्थावरजङ्गमाद्यात्मनि नियते रूपे स्थितम् | एवमपि हृदि -- बोधे स्थितम्, तदैकात्म्येन परिस्फुरत् इति यावत्, अत एव सुसूक्ष्मम् -- अपरिच्छेद्यम् || ८३ || तत्त्वग्रामस्य चास्य न संकुचित आत्मा धर्मः, अपि तु परः -- इत्याह - - आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः |
SK
शिवामृतपरिप्लुतः इति परानन्दचमत्कारमयः -- इत्यर्थः | एवं स एव परमुपेयः इति तत्रैवावधातव्यम् -- इत्यपि सूचितम् | कश्च अत्र उपायो येनैतत्साक्षात्कारो भवेत् -- इत्याह -- प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः || १-८४ || स्वस्थाने वर्तनं ज्ञेयं द्रष्टृत्वं विगतावृति | विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः || १-८५ || ग्रामधर्मवृत्तिरुक्तस्तस्य सर्वं प्रसिद्ध्यति | आदिशब्दाद्भावोऽपि, तेन भावाभावयोः भावयोर्वा यत् मध्यम् अन्तरालं तदवलम्ब्य प्रकाशे स्वात्मन्येव, न पुनर्भावाभावादिस्वरूपे अवस्थितं यत् ज्ञानं तस्य स्वस्य आत्मनः स्थाने स्थितौ वर्तनं ज्ञेयम् -- ग्रामधर्मविषये वृत्तिर्ज्ञातव्या -- इत्यर्थः | इदमत्र तात्पर्यम् -- भावद्वयस्य भावाभावयोर्वा प्रतीतिकाले मध्यं तद्द्वयावच्छेदहेतुं शून्यमुपलभ्य तद्भावाभावादि युगपत्त्यक्त्वा तत्रैव सावधानस्य परमोपेये शिवामृतपरिप्लुते परमात्मनि वृत्तिर्जायते इति | तदुक्तम् -- उभयोर्भावयोर्ज्ञाने ज्ञात्वा मध्यं समाश्रयेत् | युगपच्च द्वयं त्यक्त्वा मध्ये तत्त्वं प्रकाशते || भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् | तदा तन्मध्यभावेन विकसत्यति भावना ||᳚ इति | ᳚ज्ञेयम्᳚ इति काकाक्षिन्यायेन योज्यम् | तेन वर्तनमपि परमार्थसाक्षात्काररूपं द्रष्टत्वं ज्ञेयम्, तच्च विगतावृति विगता निवृत्ता भावाभावाद्यात्मकबाह्यरूपा आवृतिः यस्य तत्, बाह्यदेशाद्यवच्छेदशून्यम् इति यावत् | अथ च विगता परापरात्मना कालेन रहिता कलनात्मिका आवृतिः यस्य तत्, अकालकलितम् -- इत्यर्थः | तदुक्तम् -- ᳚अपरः षोडशो यावत्कालः सप्तदशः परः | परापरस्तु यः कालः स प्रियेऽष्टादशः प्रभुः || प्राण एकं त्रिधा कालं कृत्वा चैव त्यजेत्पुनः |᳚ इति | तथा विगता पदैकादशकात्मिका आवृतिः यस्य तत्, तत्प्रतिनियततत्तद्ब्रह्माद्याकारोज्झितम् इति यावत् | यदुक्तम् -- ᳚पदैकादशिका सा च प्राणे चरति नित्यशः | अकारश्च उकारश्च मकारो बिन्दुरेव च ||
SK
अर्धचन्द्रो निरोधी च नादो नादान्त एव च | शक्तिश्च व्यापिनी चैव समनैकादशी स्मृता ||᳚ इति | अत एव च उन्मनाभिन्नप्रमातृरूपं परमार्थसाक्षात्कारलक्षणमेतद्भवति इति पिण्डार्थः | तदुक्तम्� ᳚उन्मना तु ततोऽतीता तदतीतं निरामयम् |᳚ इति | अत एव तत्तद्देशकालाकारैः विविक्तम् अवच्छेदशून्यं यत् वस्तु महासत्तात्म परं तत्त्वम्, तत्र कथितं सर्वागमेषु अविगानेन उक्तं यत् शुद्धं पराहंपरामर्शमयं विज्ञानं तेन निर्मलः तदैकात्म्यापत्त्या खिलीकृतनिखिलबन्धो ग्रामधर्मवृत्तिः -- ᳚भैरवाद्भैरवीं प्राप्तः ................ |᳚ इत्याद्युक्तेरस्मद्गुरुभिरप्युक्तः इति श्रीकण्ठस्येयमुक्तिः | तदुक्तं तत्र -- ᳚चतुर्थं सम्प्रवक्ष्यामि ग्रामधर्मविभेदतः |᳚ इत्याद्युपक्रम्य ᳚हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् | सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् || आत्मा वै धर्म इत्युक्तो ग्रामधर्मः प्रकीर्तितः | प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः || स्वस्थाने वर्तनं ज्ञेयं वर्तनं वृत्तिरुच्यते | वृत्तिस्तु स्वपदं ज्ञात्वा द्रष्टृत्वं परिपठ्यते || प्रबुद्धं तद्विजानीयाद्वाह्यावरणवर्जितम् | परापरविनिर्मुक्तमेकादशपदोज्झितम् || स्वात्मन्यात्मनि यज्ज्ञानं शिवामृतपरिप्लुतम् | विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः || ग्रामधर्मवृत्तिरुक्तस्तन्त्रेऽस्मिन्सर्वथोदितः |᳚ इति | एतदेव च ᳚अथ वा शिवमन्विच्छेत्साधकः परतत्त्ववित् |᳚ इत्यादि श्थितिः कार्या तु तत्त्वस्था मध्यशक्तिप्रभान्विता |᳚ इत्यन्ततत्रत्यग्रन्थार्थगर्भीकारेण ग्रन्थान्तरमुपक्षेप्तुकामो ग्रन्थकारः स्वोक्त्या योजयति -- ᳚तस्य सर्वं प्रसिद्ध्यति᳚ इति -- तस्य -- ग्रामधर्मवृत्तेः प्राणापानगतित्रोटनेन मध्यधामानुप्रवेशात् प्राप्तपरशक्तिसामरस्यस्य, सर्वं -- बाह्य माभ्यन्तरं च, प्रकर्षेण -- शिवाभेदमयत्वेन, सिद्ध्यति प्रथते -- इत्यर्थः | तदुक्तम् -- ᳚शिवभावनयौषध्या बद्धे मनसि संसृते | काष्ठकुड्यादिषु क्षिप्ते रसवच्छिवहेमता ||᳚
SK
इति || ८४-८५ || अत आह� ऊर्ध्वं त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः || १-८६ || ऊर्ध्वम् इति ऊर्ध्ववाहित्वात्प्राणम्, अध इति अधोवाहित्वादपानम्, त्यक्त्वा इति तद्गतिं त्रोटयित्वा, स ग्रामधर्मवृत्तिरर्थात् मध्यनाडीं प्रविशेत् | स च कीदृशः मध्यदेशगः मध्यनाडिकाया अपि यत् मध्यं तत्रस्था या बिससूत्राकारा शक्तिः तस्या देशः अन्तर्व्योमरूप एकदेशस्तं गच्छति जानाति यः सः -- तदेकतानतया तन्निष्ठः इति यावत् | तदुक्तम् -- ᳚मध्यनाडी मध्यसंस्थबिससूत्राभरूपया | ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते ||᳚ इति | अत एवोक्तं रामस्थः इति ᳚........................एकाकी न रमाम्यहम् |᳚ इत्याद्युक्त्या रमते तत्तज्जडाजडात्मना विश्ववैचित्र्यात्मना क्रीडति इति रामः परमात्मा, तत्र तिष्ठति तद्रूपतया परिस्फुरति इत्यर्थः | तदुक्तं त्रिशिरोभैरवे -- शेव्यमानमधोर्ध्वं तु प्राणापानोत्थरूढधीः | ऊर्ध्वं त्यक्त्वा तु प्रविशेद्रामस्थोऽत्रात एव च ||᳚ तत्रैवागूरणेन भगवत्या -- ᳚रामः किमुच्यते देव योऽत्रस्थः स च कः प्रभो | तस्याभ्यासः कथं नाम ब्रूहि सर्वं महेश्वर ||᳚ इति पृष्टे, भगवता -- ᳚रामस्थं परमेशानि योगं यत्कीर्तितं मया | कथयामि यथातथ्यमभ्यासस्तस्य योगतः ||᳚ इत्यन्तेन प्रतिज्ञाय, तत्समाधानं बहुना ग्रन्थेन कृतम् || ८६ || इह च तदेव ग्रन्थकारः शब्दार्थद्वारेण पठति -- गतिः स्थानं स्वप्नजाग्रदुन्मेषणनिमेषणे | धावनं प्लवनं चैव आयासः शक्तिवेदनम् || १-८७ || बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकशः | एष रामो व्यापकोऽत्र शिवः परमकारणम् || १-८८ ||
SK
स्वप्नः विकल्पः, जाग्रत् ज्ञानम्, उन्मेषणम् ईश्वरदशा, निमेषणम् सदाशिवदशा, आयासः ᳚अय गतौ᳚ गत्यर्थो ज्ञानार्थः तेन अयः अयनं ज्ञानं तस्यासः क्षेपो निवृत्तिः -- अज्ञानम् -- इत्यर्थः | धर्माद्या अष्टौ बुद्धिधर्माः, संज्ञाः -- यादृच्छिका डित्थादयः, कर्माणि -- व्यापाराः | अनेन च गत्यादिना चतुर्दशकेन सकलविश्वस्वीकारः कृतः | यच्चैतद्गत्यादि एष रामः -- सकलविश्वावभासनक्रीडापरः परमात्मा परमेश्वरः, अत एवोक्तम् -- ᳚व्यापकोऽत्र शिवः परमकारणम्᳚ इति, ᳚अत्र᳚ इति -- गत्याद्युपलक्षिते विश्वस्मिन्, शिवस्यैव हि अयमशेषविश्वात्मा स्फारः -- इति भावः | तदुक्तम् -- ᳚विषयेषु च सर्वेषु इन्द्रियार्थेषु च स्थितः | यत्र यत्र निरूप्येत नाशिवं विद्यते क्वचित् ||᳚ इति || ८७-८८|| कथं चात्र तदैकात्म्यापत्तिलक्षणा स्थितिर्भवति -- इत्याह -- कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् | ध्यायते परमं ध्येयं गमागमपदे स्थितम् || १-८९ || परं शिवं तु व्रजति भैरवाख्यं जपादपि | येन क्षीणं कल्मषं तत्तद्भेदावभासकालुष्यं यस्य तादृशं मनो, मनुते इति मनो विमर्शात्मावबोधो यस्य तेन -- शर्वो विकल्पः स्मृतिः......................... |᳚ इति नीत्या स्मृतिरेव केवला स्मृतिमात्रं शरीरमुखहस्ताद्यात्मकं विकल्पनम्, तस्य निरोधनम् -- आकाराद्युल्लेखशून्यत्वेन प्रतिहननम्, तदवलम्ब्य, तत्तन्नियताकारसङ्कोचाभावात् परमं ध्येयं शिवलक्षणं परमकारणं ध्यायते स्वात्माभेदेन परामृश्यते | यदुक्तम् -- ᳚ध्यानं या निश्चला बुद्धिर्निराकारा निराश्रया | न तु ध्यानं शरीरस्य मुखहस्तादिकल्पना ||᳚ इति | एवंविधो ध्याता, गमो गमनं गतिः, अगमश्च अगतिः स्थानम्, ताभ्यामुपलक्षिते पदे समनन्तरोक्ते चतुर्दशविधे आश्रये स्थितम्, अत एव परम् पूर्णम्, अत एव च भैरवाख्यं शिवं व्रजति -- तत्समावेशमाप्नोति -- इत्यर्थः | न केवलमयं ध्यानादेव शिवं व्रजति यावज्जपादपि इत्युक्तं -- जपादपि इति || ८९ ||
SK
कोऽसौ जपो नाम ? इत्याशङ्क्याह -- तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः || १-९० || तस्य -- शिवस्य, स्वरूपम् परावाक्स्वभावाम् आत्मरूपम् अर्थात् भूयो भूयः परामृश्यमानं जपः, अत एव भावाभावपदच्युतः� पूर्वोक्तनीत्या तन्मध्यस्फुरत्संवित्परामर्शमात्रसारः -- इत्यर्थः | तदुक्तम् -- ᳚भूयो भूयः परे भावे भावना भाव्यते हि या | जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ||᳚ इति | एवं ग्रामधर्मवृत्तिरेव रामस्थः इत्युक्तं स्यात् | तदुक्तम् -- श्रीत्रिशिरोभैरवे -- ᳚गच्छंस्तिष्ठन्स्वपञ्जाग्रदुन्मिषन्निमिषंस्तथा | धावनं प्लवनं चैव आयासः शक्तिवेदनम् || बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकशः | एतच्चतुर्दशविधं रामं तु परिकीर्तितम् || व्यापितं देवदेवेन शिवेन परमात्मना | सर्वभावान्तरस्थेन अनेकाकारलक्ष्मणा || कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् | ध्यायते परमं ध्येयं गमागमपदे स्थितम् || परं शिवं तु व्रजति भैरवाख्यं जपादपि | तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ||᳚ इति || ९० || ननु प्रायः सर्वत्रैव ध्यानस्य व्यतिरिक्तसाकारध्येयविषयत्वं जपस्य विकल्पात्मकवाचकवाच्यजप्यनिष्ठत्वं चोक्तम्, इह पुनः स्वात्माभेदेन परामर्शमात्रमेवोभयो रूपम् इति किमेतद् ? इत्याशङ्क्याह -- तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः | दूरासन्नादिको भेदश्चित्स्वातन्त्र्यव्यपेक्षया || १-९१ || इह पराहंपरामर्शमात्रसारत्वात् स्वतन्त्रप्रकाशात्मा परमेश्वर एव परमार्थः इति तत्प्राप्तौ उपदेश्यभेदेन तदुपकल्पितमेव उपायानां नानात्वम्, तेन चित्स्वातन्त्र्यप्रधानतया उल्लसित उपाय आसन्नः इत्युच्यते, अन्यथा तु इतरः -- इत्याह दूर इति | एवमपि उपेयासन्नतया कस्यचिदेव उपायत्वम् इति नाशङ्क्यम् -- उपायोपेयभावस्य द्वारद्वारिभावेन वक्ष्यमाणत्वात् || ९१ || एतदेवोपसंहरति� एवं स्वातन्त्र्यपूर्णत्वादतिदुर्घटकार्ययम् | केन नाम न रूपेण भासते परमेश्वरः || १-९२ ||
SK
रूपेण इति तत्तत्स्वशक्त्यात्मना -- इत्यर्थः || ९२ || अत एवाह� निरावरणमाभाति भात्यावृतनिजात्मकः | आवृतानावृतो भाति बहुधा भेदसङ्गमात् || १-९३ || इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम् | इच्छादिभिरभिख्याभिर्गुरुभिः प्रकटीकृतम् || १-९४ || निरावरणम् इति -- शुद्धप्रकाशमयत्वात्, आवृत इति -- भेदकालुष्योदयात्, आवृतानावृतः इति -- शुद्धज्ञानमयत्वेऽपि भेदकालुष्यासूत्रणात्, अत एव परापरपरापरत्वम्, बहुधा इति -- एषणीयादिनानात्वात् अनेकप्रकारम् -- इत्यर्थः | निरावरणत्वेऽपि हि निषेध्यमानत्वाद् भेदस्य वासनामात्रेणावस्थानम् | इति शब्दः स्वरूपपरामर्शकः, तेन एतदेव अवभासमानं निरावरणत्वादि परादिरूपं शक्तित्रयं गुरुभिः एतच्छास्त्रावतारकैः, इच्छादिसंज्ञाभिः परमेश्वरविषयतया उन्मीलितमपि स्वातन्त्र्यशक्त्यभिधानमेव इति ᳚बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता᳚ इति निर्वाहितम् || ९३-९४ || बहुशक्तित्वमेव च एतदभिधायकानां प्रवृत्तिनिमित्तम् -- इत्याह -- देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते | महाभैरवदेवोऽयं पतिर्यः परमः शिवः || १-९५ || अन्वर्थैः -- व्युत्पन्नैः निरुक्तैः, शास्त्रोक्तैः सामयिकैः || ९५ || तदेवाह� विश्वं बिभर्ति पूरणधारणयोगेन तेन च श्रियते | सविमर्शतया रवरूपतश्च संसारभीरुहितकृच्च || १-९६ || संसारभीतिजनिताद्रवात्परामर्शतोऽपि हृदि जातः | प्रकटीभूतं भवभयविमर्शनं शक्तिपाततो येन || १-९७ || नक्षत्रप्रेरककालतत्त्वसंशोषकारिणो ये च | कालग्राससमाधानरसिकमनःसु तेषु च प्रकटः || १-९८ || सङ्कोचिपशुजनभिये यासां रवणं स्वकरणदेवीनाम् | अन्तर्बहिश्चतुर्विधखेचर्यादिकगणस्यापि || १-९९ || तस्य स्वामी संसारवृत्तिविघटनमहाभीमः |
SK
बिभर्ति -- धारयति पोषयति च स्वात्मभित्तिसंलग्नत्वेन तदुल्लासनात् | तेन इति विश्वेन, भिर्यते इति धार्यते पोष्यते च -- तस्य विश्वमयत्वेनैव सर्वत्र स्फुरणात् | रवरूपतः इति शब्दनस्वाभाव्यात्, तेन भरणाद्रवणाच्च भैरवः इत्ययं निरुक्तः | भीरूणाम् अयं हितकृत् इति भैरवः, भीरुत्वे च निमित्तं संसारः तेन संसारिणामभयप्रदः -- इत्यर्थः | भयं भीः संसारत्रासः, तया जनितो योऽसौ रवः भगवद्विषय आक्रन्दः परामर्शो वा ततो जातः इति भैरवः, तेनाक्रन्दवतां परामर्शवतां च हृदि परमार्थभूमौ स्फुरितः इति यावत् | भवाद्भयं भीस्तस्य रवो विवेचनं विमर्शनं तस्य शक्तिपातमुखेन अयं कारणम् इति भैरवः, संसारवैमुख्येऽपि अयमेव निमित्तम् -- इति भावः | भानि -- नक्षत्राणि, ईरयति प्रेरयति इति भेरः कालः तस्य तत्त्वं क्षणाद्यात्मकं स्वरूपम्, तस्य सम्यङ् निःशेषेण शोषम् अभिभवं कुर्वन्ति इति कालं वयन्ति इति भेरवाः -- कालग्राससमाधिरूढावधाना योगिनः, तेषु अयं स्वामी तत्त्वेन प्रकटः स्फुरितः इति भैरवः | सङ्कोचिनो भेदप्रथामयस्य पशुजनस्य भिये तत्तत्सुखदुःखाद्युपजननत्रासाय रवणं शब्दराशिसमुत्थकादिकलाविमर्शमयो रवो यासां ताः स्वकरणदेव्यः इन्द्रियशक्तयः, तथा अन्तर्बहिः प्रमातृप्रमेयाद्यात्मा चतुर्विधः चतुष्प्रकारः खेचर्यादिको गणः खेचरी-गोचरी-दिक्चरी-भूचर्यो भीरवास्तासामयं स्वामी भैरवः | महाभीम इति भीषणः, तेनात्र भैरवशब्दः सङ्केतितः�इति भावः || ९६-९९ || एतदेवोपसंहरति� भैरव इति गुरुभिरिमैरन्वर्थैः संस्तुतः शास्त्रे || १-१०० || गुरुभिः तत्तच्छास्त्रावतारकैः, इमैः एभिः समनन्तरोक्तैः अन्वर्थैः अर्थानुगतैर्वाचकैः, संस्तुतः परिचितः शास्त्रे विशेषानुपादानात् सर्वत्रैव अर्थादुक्तः | अथ च अन्वर्थैः सम्यक् सकलजगद्भरणादिसामर्थ्यप्रतिपादनद्वारेण स्तुतः इत्यर्थः, यदुक्तम् --
SK
᳚भिर्यात्सर्वं रवयति सर्वदो व्यापकोऽखिले | इति भैरवशब्दस्य सतततोच्चारणाच्छिवः ||᳚ इति | तथा� ᳚..................... भरणाद्भरितस्थितिः |᳚ इति | इमैः इति चिन्त्यम् | गुरुगदितैरिति तु श्रेष्ठः पाठः || १०० || हेयेत्यादिना देवशब्दस्य निर्वचनमाह -- हेयोपादेयकथाविरहे स्वानन्दघनतयोच्छलनम् | क्रीडा सर्वोत्कर्षेण वर्तनेच्छा तथा स्वतन्त्रत्वम् || १-१०१ || व्यवहरणमभिन्नेऽपि स्वात्मनि भेदेन सञ्जल्पः | निखिलावभासनाच्च द्योतनमस्य स्तुतिर्यतः सकलम् || १-१०२ || तत्प्रवणमात्मलाभात्प्रभृति समस्तेऽपि कर्तव्ये | बोधात्मकः समस्तक्रियामयो दृक्क्रियागुणश्च गतिः || १-१०३ ||
SK
स्वस्वातन्त्र्यमाहात्म्यात् शिवादिक्षित्यन्ताशेषविश्वात्मनोल्लासनमेव अस्य क्रीडा सर्वोत्कर्षेण वर्तनेच्छा, तथा स्वतन्त्रत्वं व्यवहरणम् इति -- अभिन्नेऽपि स्वात्मनि भेदेन सञ्जल्पः, क्रीडेति दीव्यति क्रीडति इति देवः | न चात्र क्रीडातिरिक्तं निमित्तम् इत्याह -- हेय इत्यादिना | नहि किञ्चिदुपादातुं हातुं वा जगत्सर्गादौ ईश्वरः प्रवर्तते, अत एव स्वानन्दघनत्वमेवात्र हेतुरुपात्तः, अत एव चास्य स्वतन्त्रत्वमेव, सर्वोत्कर्षेण वर्तनेच्छा विजिगीषुता, विजिगीषोर्हि कथं नु नाम सर्वानेवाभिभूय अहं वर्ते इतीयमेव इच्छा भवति | तथाशब्दः पूर्वापेक्षया समुञ्चये तेन दीव्यति विजिगीषते इति देवः | देवशब्दस्य सर्वस्मात् अभिन्नेऽपि स्वात्मनि भेदेन ᳚अहमिदं जानामि᳚ इति योऽयमस्य सञ्जल्पः तद्व्यवहरणम् अपारमार्थिकेन रूपेण स्फुरणम् - - इत्यर्थः, तेन दीव्यति व्यवहरति इति देवः | निखिलस्य प्रमातृप्रमेयात्मनो निखिले चास्य यत् अवभासनं तत् द्योतनं, तेन दीव्यति द्योतते द्योतयति इति वा देवः | यतः शकलमिदं जगत् स्वरूपलाभात्प्रभृति समस्तेतिकर्तव्यतायां तदायत्तप्रवृत्ति इत्यस्य स्तुतिः | सर्वे हि शिवमन्त्रमहेश्वरादयः तत्परतन्त्रवृत्तित्वादुन्मुखतया प्रह्वा एव�इति भावः | अस्य इति कर्मणि षष्ठी, तेन दीव्यते स्तूयते इति देवः | समस्ता पूर्णा विमर्शलक्षणा क्रिया प्रकृता यस्यासौ, दृक्क्रिये गुणः -- शक्तिर्यस्यासौ, यतोऽयमेवंविधः ततोऽस्य गतिः -- विशेषानुपादानात् सर्वत्र ज्ञानं प्रसरणं च इति सर्वज्ञः सर्वव्यापकश्च इति सिद्धम्, तेन दीव्यति, जानाति, प्रसरति च इति वा देवः || १०१-१०३ || एतदेवोपसंहरति -- इति निर्वचनैः शिवतनुशास्त्रे गुरुभिः स्मृतो देवः | गुरुभिः इति बृहस्पतिपादैः | स्मृत इति -- ᳚एवं वामो देवः स दीव्यति क्रीडति प्रभुर्यस्मात् |᳚ इत्यादिना� ᳚अविहतगतिः स यस्माद्देवस्तस्मात्सदाशिवो गीतः |᳚ इत्यन्तेन ग्रन्थेन व्यावर्णितः -- इत्यर्थः || शासनेत्यादिना पतिशिवशब्दयोर्निर्वचनमाह --
SK
शासनरोधनपालनपाचनयोगात्स सर्वमुपकुरुते | तेन पतिः श्रेयोमय एव शिवो नाशिवं किमपि तत्र || १-१०४ || शासनम् शास्त्रोपदेशादिना बोध्यानां बोधनम् | रोधनम् संसारिणां विलयशक्त्या आघ्रतत्वात् तत्रैवावस्थापनम् | पालनम् यथास्थितस्य विश्ववैचित्र्यस्य नियतनियन्त्रणया तथैव स्थापनात्मकं संरक्षणम् | पाचनम् कर्मणां कर्मिणः प्रति फलदानौन्मुख्यजननम् | उक्तं हि� श्वापेऽप्यास्ते बोधयन्बोधयोग्यान् रोध्यान् रुन्धन्पाचयन्कर्मिकर्म | मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन् सर्वं पश्यन् यद्यथावस्तुजातम् ||᳚ इति | तेन इति -- रक्षणार्थपर्यवसायिनोऽपि पतिशब्दस्य शासनादिकारकत्वेन हेतुना -- इत्यर्थः | अत एव पाति रक्षति इति पतिः | श्रेयोमयः पराद्वयस्वभावत्वात् | अशिवम् इति द्वैतम् || १०४ || ननु एवमपि किं विशेषणयोगेन ? इत्याशङ्क्याह -- ईदृग्रूपं कियदपि रुद्रोपेन्द्रादिषु स्फुरेद्येन | तेनावच्छेदनुदे परममहत्पदविशेषणमुपात्तम् || १-१०५ || ईदृक् इति -- भैरवादिशब्देष्वन्वर्थगत्या दर्शितम् | कियत् इति -- किञ्चिदेव, न तु सर्वम्, एतत् हि अंशांशिकया सर्वत्रैव सम्भवेत् -- इति भावः | अत एव अन्यव्यवच्छेदेन सर्वातिशयप्रतिपदनार्थं परममहत्पदलक्षणं विशेषणमुक्तम् ||१०५|| ननु अज्ञानं संसृतौ निमित्तं, ज्ञानं च मोक्षे, स्वस्वरूपाख्यातिश्चाज्ञानम्, तत्ख्यातिश्च ज्ञानम्, स्वात्मनश्च स्वरूपं परः प्रकाशः, स एव च स्वं रूपं स्वेच्छया प्रच्छाद्य विश्वरूपतामवभासयेत् | एवमपि तदधिगमे तच्छक्तिरेवोपायो येन स्वरूपख्यातिर्भवेत्, इयदेव च ज्ञातव्यम् यत्सर्वेषामेव शास्त्राणां प्रतिपाद्यं तच्च इह उक्तप्रायम् इत्यत एव विरन्तव्यम् ? इत्याशङ्क्याह -- इति यज्ज्ञेयसतत्त्वं दर्श्यते तच्छिवाज्ञया | मया स्वसंवित्सत्तर्कपतिशास्त्रत्रिकक्रमात् || १-१०६ ||
SK
᳚इत्युपोद्धातः᳚ | इति -- उक्तेन प्रकारेण यत् ज्ञेयस्य बन्धमोक्षादेः शास्त्रान्तरदृष्टत्वात् सतत्त्वम् पारमार्थिकं रूपम् अर्थादिह संक्षेपेण उट्टङ्कितम्, तन्मया शिवाज्ञया स्वसंविदादि अवलम्ब्य च दर्श्यते विस्तरेण उच्यते -- इत्यर्थः | शिवोऽत्र गुरुः | ᳚यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः | उभयोरन्तरं नास्ति गुरोरपि शिवस्य च ||᳚ इति | नहि अत्र तदादेशमन्तरेण अधिकार एव भवेत् -- इति भावः | स्वसंवित् स्वानुभवः | सत्तर्को युक्तिः | पतिशास्त्रम् भेदप्रधानं शैवम् | त्रिकम् परादिशक्तित्रयाभिधायकं शास्त्रम् | क्रमः चतुष्टयार्थः | समाहारेऽयं द्वन्द्वः | इह सर्वमेव स्वानुभवेन युक्त्या सामान्यागमेन विशेषागमेन च सिद्धमुपदिश्यते इत्यागमः | उपोद्धात इति -- उप आशु संक्षेपेण ऊर्ध्वमादौ हन्यते टंक्यते दीनार इव राजाभिधानं शास्त्रार्थो यस्मिन् स तथा || १०६ || तदेवं प्रतिज्ञाय शास्त्रार्थगर्भीकारेण सम्प्रति अवतारयितुमाह -- तस्य शक्तय एवैतास्तिस्रो भान्ति परादिकाः | सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः || १-१०७ || तस्य परमेश्वरस्य भैरवादिशब्दाभिधेयस्य, एताः निखिलशक्त्यन्तरगर्भीकारेण प्रधानतया प्रतिपादिताः परादिकास्तिस्रः शक्तयः, सृष्टौ, स्थितौ, लये, संहारे, तुर्ये, अनाख्ये च भान्ति सर्वसर्वात्मकेन रूपेण स्फुरन्ति इत्येकैकस्याः चातूरूप्येण श्रीसृष्टिकाल्याद्यात्मकतया द्वादशधोदय इति वाक्यार्थः | तदुक्तम् -- ᳚धाम्नां त्रयाणामप्येषां सृष्ट्यादिक्रमयोगतः | भवेच्चतुर्धावस्थानमेवं द्वादशधोदितः || स्वसंवित्परमादित्यः प्रकाशवपुरव्ययः |᳚ इति || १०७ || ननु एक एव परप्रकाशात्मको भैरवादिशब्दव्यपदेश्यः परमेश्वरः समस्ति, तस्य चाभिन्ना एकैव स्वातन्त्र्याख्या शक्तिः इत्युपपादितम्, तत्कथमस्य इह द्वादशधोदय इत्युक्तम् ? इत्याशङ्क्याह -- तावान्पूर्णस्वभावोऽसौ परमः शिव उच्यते | तेनात्रोपासकाः साक्षात्तत्रैव परिनिष्ठिताः || १-१०८ ||
SK
तावान् इति -- द्वादश शक्तयः परिमाणमस्य, स तथा, अत एव पूर्णस्वभावः इत्युक्तम् | पूर्णे सर्वमस्ति, सर्वत्र पूर्णमस्ति, अन्यथास्य पूर्णतैव न स्यात् | अत एव अत्र द्वादशात्मके चक्रे ये उपासकाः ᳚ते तत्र परमशिवे एव परिनिष्ठिताः�तदैकात्म्यभाजो भवन्ति -- इत्यर्थः | एतच्च बहुप्रघट्टकवक्तव्यम्, इति शाक्तोपायाह्निक एव वितत्य विचारयिष्यते, इति नेहायस्तम् ||१०८ || ननु कथमेतद्युक्तम्, यतोऽत्र संख्यायाः तत्र तत्र न्यूनत्वमाधिक्यं च सम्भवति? इत्याशङ्क्याह� तासामपि च भेदांशन्यूनाधिक्यादियोजनम् | तत्स्वातन्त्र्यबलादेव शास्त्रेषु परिभाषितम् || १-१०९ || तदेवाह� एकवीरो यामलोऽथ त्रिशक्तिश्चतुरात्मकः | पञ्चमूर्तिः षडात्मायं सप्तकोऽष्टकभूषितः || १-११० || नवात्मा दशदिक्छक्तिरेकादशकलात्मकः | द्वादशारमहाचक्रनायको भैरवस्त्विति || १-१११ || यथा एकवीरो मृत्युजिति प्रथमध्याने | यामलः तत्रैव | कुलप्रक्रियायां तिस्रः शक्तयः पराद्याः | चतुरात्मा जयादिभेदेन | पञ्चमूर्तिः सद्योजातादितया | तदुक्तम् -- शिद्धान्ते पञ्चकं सारं चतुष्कं वामदक्षिणे | त्रिकं तु भैरवे तन्त्रे......................... ||᳚ इति | षडात्मा इति, यद्वक्ष्यति -- ᳚विश्वा तदीशिका रौद्री वीरका त्र्यम्बिका तथा | गुर्वीति षडरे देव्यः................................. ||᳚ इति | सप्तकः इति, यदुक्तम् -- ᳚ब्रह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही च तथेन्द्राणी चामुण्डा चेति मातरः ||᳚ इति | अष्टकेन -- अघोरादिना | स एव एतदष्टकमध्यवर्ती नवात्मा | दशदिक्छक्तिः इति, यदुक्तम्� ᳚उमा दुर्गा भद्रकाली स्वस्ति स्वाहा शुभङ्करी | श्रीश्च गौरी लोकधात्री वागीशी दशमी स्मृता ||᳚ इति | एकादश इति खण्डचक्रोक्ता | इयदन्तं न्यूनसंख्यास्वीकारः भैरवः इति त्रयोदशः | अनेन अधिकसंख्यासूत्रणम् || ११०-१११ || तच्च अधिकसंख्याकत्वं निरवधि -- इत्याह -- एवं यावत्सहस्रारे निःसंख्यारेऽपि वा प्रभुः |
SK
विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते || १-११२ || सहस्रारे इति -- त्रिशिरोभैरवप्रथमपटलोक्ते | ग्रन्थविस्तरभयात्तु न प्रातिपद्येन संवादितम् | निःसंख्यारे इति भुवनादीनामानन्त्यात् | एवमपि एतस्मान्न व्यतिरिक्तम्, इत्याह विश्वशक्तिः इति | तदुक्तम्� ᳚शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते | शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः ||᳚ इति || ११२|| ननु विश्वेषामपि चक्राणां यदि प्रभुरेव परमार्थः तदेकेनैव कार्तार्थ्यात् प्रतिशास्त्रं बहूनि किमुक्तानि ? इत्याशङ्क्याह -- तेषामपि च चक्राणां स्ववर्गानुगमात्मना | एक्येन चक्रगो भेदस्तत्र तत्र निरूपितः || १-११३ || एक्येन तत्तत्सृष्ट्याद्यात्मनियतकृत्यकारित्वादिना साजात्येन | तच्च नियतकृत्यकारित्वादेव अस्य स्ववर्गानुगमात्मकत्वमुक्तम्, अत एव चक्रगो भेद इति शास्त्रेषु चक्राणामानन्त्यम् || ११३ || तदेव दर्शयति� चतुष्षड्द्विर्द्विगणनायोगात्त्रैशिरसे मते | षट्चक्रेश्वरता नाथस्योक्ता चित्रनिजाकृतेः || १-११४ || चतुर्णां द्विगणनायोगेन अष्टौ, पुनस्तथात्वेन षोडश, षण्णां द्विगणनायोगेन द्वादश, पुनस्तथात्वेन चतुर्विंशतिः इति षण्णां चक्राणामीश्वरता, तत्तत्समुल्लास्यचक्राद्युपाधिवैचित्र्याच्चित्रा -- नानाकारा, तदतिरिक्तस्य अन्यस्य अनुपलम्भात् निजाकृतिः यस्य, अत एव नाथस्य स्वातन्त्र्यशालिनः तत्तच्चक्राधिष्ठातुः प्रभोः, त्रैशिरसे मते त्रिशिरोभैरवे उक्ता अभिहिता इत्यर्थः | तदुक्तं तत्र -- ᳚चतुष्कं षट्काष्टकं द्वादशारं षोडशारकम् | चतुर्विंशारकं देवि प्रविभक्त्या सुसंस्थितम् ||᳚ इत्यादि ||११४|| बहुप्रकारत्वं चक्राणां भेदनिमित्तमपि त्रिशिरोभैरव एवोक्तम्, -- इत्याह -- नामानि चक्रदेवीनां तत्र कृत्यविभेदतः | सौम्यरौद्राकृतिध्यानयोगीन्यन्वर्थकल्पनात् || १-११५ || उक्ता इति पूर्वश्लोकाल्लिङ्गादिविपरिणामाद् योज्यम् | एक एव हि परमेश्वरः तत्तत्साधककामानुसारं नियतां सौम्यरौद्रादिरूपाम् आकृतिमाभास्य तां तां सिद्धिं नियच्छेत् | तदुक्तम् --
SK
᳚येन येन हि रूपेण साधकः संस्मरेत्सदा | तस्य तन्मयतां याति चिन्तामणिरिवेश्वरः ||᳚ इति | श्रीत्रिशिरोभैरवप्रथमपटलाच्च अयमर्थः स्वयमेवाधिगन्तव्यः | अस्माभिस्तु ग्रन्थविस्तारभयात् न प्रातिपद्येन संवादितम् || ११५ || तदेवाह� एकस्य संविन्नाथस्य ह्यान्तरी प्रतिभा तनुः | सौम्यं वान्यन्मितं संविदूर्मिचक्रमुपास्यते || १-११६ || आन्तरी प्रतिभा स्वातन्त्र्यशक्तिः | अन्यत् इति रौद्रम् | अत एव तत्तत्सौम्यरौद्रादिनियताकारावच्छिन्नत्वात् मितम् || ११६ || एतदेव विभज्य दर्शयति -- अस्य स्यात्पुष्टिरित्येषा संविद्देवी तथोदितात् | ध्यानात्सञ्जल्पसंमिश्राद् व्यापाराच्चापि बाह्यतः || १-११७ || स्फुटीभूता सती भाति तस्य तादृक्फलप्रदा | पुष्टिः शुष्कस्य सरसीभावो जलमतः सितम् || १-११८ || अनुगम्य ततो ध्यानं तत्प्रधानं प्रतन्यते | ये च स्वभावतो वर्णा रसनिःष्यन्दिनो यथा || १-११९ || दन्त्यौष्ठ्यदन्त्यप्रायास्ते कैश्चिद्वर्णैः कृताः सह | तं बीजभावमागत्य संविदं स्फुटयन्ति ताम् || १-१२० || पुष्टिं कुरु रसेनैनमाप्याययतरामिति | सञ्जल्पोऽपि विकल्पात्मा किं तामेव न पूरयेत् || १-१२१ || अमृतेयमिदं क्षीरमिदं सर्पिर्बलावहम् | तेनास्य बीजं पुष्णीयामित्येनां पूरयेत्क्रियाम् || १-१२२ || ध्यानाद्येव क्रमेण निरूपयति -- पुष्टिरित्यादिना | ततः इति समनन्तरोक्ताद्धेतोः | अतः इति पुष्टेः शुष्कस्य सरसीभावापादानलक्षणत्वात् | जलं हि आप्यायकं तत्प्रधानं पुष्टिप्रयोजकम् पूर्णमित्यादिरूपम | सम्प्रति सञ्जल्पमपि लौकिकालौकिकभेदेन द्विधा व्याचष्टे -- ये च इत्यादिना | ते इति दन्त्योष्ठ्यदन्त्यप्राया वर्णाः | तां संविदं पुष्टिरूपां | बीजभावं मन्त्रभावम् | अत एवास्य सञ्जल्पस्यालौकिकत्वम् | दन्त्योष्ठ्या वकारादयः | दन्त्या अमृतबीजादयः | कैश्चिद्वर्णैरिति अदन्त्योष्ट्यप्रायादिभिः | यदुक्तम् -- ᳚वषडाप्यायने शस्तः .................. |᳚ इति | तथा� ᳚पुष्टावाप्यायने वर्गैः .................. |᳚
SK
इति | एवं मूर्धन्यादीनामपि ग्रहणम् | विकल्पात्मा इत्यनेन अस्य लौकिकत्वं दर्शितम् | तामिति पुष्टिरूपां संविदम् | इदानीं बाह्यमपि होमादिरूपं व्यापारं विभजति अमृता इत्यादिना | क्षीरं दधि | तदुक्तम् -- ᳚दधिहोमात्परा पुष्टिः .............. |᳚ इति | बलावहशब्देन प्रत्येकं संबन्धः | तेन इति गुडूच्यादिना द्रव्यजातेन | बीजम् इति -- शरीरकारणभूतं शुक्रशोणितादि धातुव्रातम् | एनाम् इति -- पुष्टिरूपां क्रियाम् || ११७-१२२ || एतदेव प्रमेयान्तरमुपक्षिपन् उपसंहरति -- तस्माद्विश्वेश्वरो बोधभैरवः समुपास्यते | अवच्छेदानवच्छिद्भ्यां भोगमोक्षार्थिभिर्जनैः || १-१२३ || अवच्छेदानवच्छिद्भ्याम् इति, अवच्छेदः समनन्तरोक्तनीत्या ध्यानादिनियतविधिनियन्त्रितत्वम्, तदन्यथात्वमनवच्छेदः | यद्वक्ष्यति -- शाधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः | मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः ||᳚ इति | भगवतश्च एतत्सावच्छेदमपि रूपम् अनवच्छिन्नपरस्वरूपानुप्राणितमेव, नहि तत्स्वरूपानुप्रवेशं विना किञ्चिदपि सिद्ध्येत् || १२३ || एतदेव शब्दार्थद्वारकं गीताग्रन्थेन संवादयति -- येऽप्यन्यदेवताभक्ता इत्यतो गुरुरादिशत् | इत्यतः -- इत्येवमादिकात् वाक्यकदम्बकात् -- इत्यर्थः | गुरुरिति तात्त्विकार्थोपदेष्टा भगवान्वासुदेवः | तत्र हि -- ᳚त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते | ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ||᳚ इत्यादिना | ᳚क्षीणे पुण्ये मर्त्यलोकं विशन्ति |᳚ इत्यादिना च भोगार्थिनाम्, ᳚अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते | तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ||᳚ इत्यादिना च मोक्षार्थिनाम्, अवच्छेदानवच्छेदाभ्यां क्रमेण स्वरूपमभिधाय पुनः सावच्छेदेऽपि रूपेऽनवच्छिन्नं रूपम् अस्त्येव इत्यभिधातुम् -- ᳚येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः | तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ||᳚ इत्यादिना तेनोपदिष्टम् || एतदेव व्याचष्टे�
SK
ये बोधाद्व्यतिरिक्तं हि किञ्चिद्याज्यतया विदुः || १-१२४ || तेऽपि वेद्यं विविञ्चाना बोधाभेदेन मन्वते | ये याजका बोधाद् वेदित्रेकस्वभावात् स्वात्मरूपात्, व्यतिरिक्तमन्यत् तत्तन्नियताकारम् इन्द्रादिदैवतं याज्यतया विदुः जानीयुः, ते विच्छिन्ननियताकारवत्त्वात् वेद्यमपि इन्द्रादिरूपं दैवतं श्रद्धातिशययोगाद् गाढगाढं विमृशन्तः ᳚वेद्यो वेदकतामाप्तो वेदकः संविदात्मताम् | संवित्त्वदात्मा चेत्सत्यं तदिदं त्वन्मयं जगत् ||᳚ इत्यादिन्यायेन बोधाभेदेन परप्रमात्रेकरूपस्वात्मयत्वेन अवबुध्यन्ते इत्यर्थः || ननु ᳚देवतोद्देशेन द्रव्यत्यागो यागः᳚ इत्युक्तेः द्रव्यत्यागार्थमुद्दिष्टैव देवता भवति, न च बोधैकरूपस्य स्वात्मतत्त्वस्य तथात्वेन उद्देशोऽस्ति, कथमस्य याज्यत्वम् ? इत्याशङ्क्याह -- तेनाविच्छिन्नतामर्शरूपाहन्ताप्रथात्मनः || १-१२५ || स्वयंप्रथस्य न विधिः सृष्ट्यात्मास्य च पूर्वगः | वेद्या हि देवतासृष्टिः शक्तेर्हेतोः समुत्थिता || १-१२६ || अहंरूपा तु संवित्तिर्नित्या स्वप्रथनात्मिका | तेन बोधात्मत्वेन हेतुना, अस्य स्वात्मतत्त्वस्य, शकृद्विभातोऽयमात्मा᳚ इति न्यायेन अनवच्छिन्नतया प्रवृत्ताविरतेन रूपेण पराहंप्रकाशपरामर्शमयस्य, अत एव स्वयंप्रथस्य प्रमाणादिनैरपेक्ष्येण स्वतः सिद्धस्य, विधिः -- अप्रवृत्तप्रवर्तनात्मा, पूर्वभावी, तथा सृष्ट्यात्मा तत्तत्सिद्धसाधनस्वभावो न भवति -- इत्यर्थः | न खलु बोधस्वभावं स्वात्मतत्त्वं विधिविषयतामापद्यते -- तस्य विधिप्राप्त्यभावात्, यावदप्राप्तं हि विधेर्विषयः, न च स्वात्मनः कदाचित् अप्राप्तिरस्ति -- आदिसिद्धतया सर्वदैव स्फुरणात् || १२७ || ननु विधेर्नियोगभावनाद्यात्मतया बहुविधत्वमुक्तम्, स्वात्मा पुनः कस्य विधेर्विषयतां न भजते ? इत्याशङ्क्याह -- विधिर्नियोगस्त्र्यंशा च भावना चोदनात्मिका || १-१२७ || विधिः अप्रवृत्तप्रवर्तको न पुनरज्ञातज्ञापकः | यदाहुः -- ᳚विधेर्लक्षणमेतावदप्रवृत्तप्रवर्तनम् | अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः ||᳚
SK
इति | स्वर्गयागयोश्च साध्यसाधनभावमवबोधयतोऽस्यैव विधेः तावत्प्रवर्तकत्वं यत् सप्रत्ययस्य पुंसः ᳚प्रवृत्तोऽहम्᳚ इति ज्ञानजननम् | स च ङियोगः᳚ इति प्राभाकरैरुक्तः, ᳚भावना᳚ इति भाट्टैः | तत्र तिङादिप्रत्ययवाच्यः ᳚प्रवर्तितोऽहम्᳚ इति प्रेरणात्मकः कार्यात्मा अनुष्ठेयो धर्मो नियोगः | स च -- ᳚दार्शपौर्णमासाभ्यां यजेत स्वर्गकामः |᳚ इत्यादावनुबन्धद्वयावच्छिन्नः प्रतीयते | याज्यादिना हि अस्य विषयानुबन्ध उच्यते | श्वर्गकामः᳚ इत्यनेन च अधिकारानुबन्धः, अत एव च द्व्यनुबन्धबान्धवो ङियोगः᳚ इत्युद्धोष्यते | कंचित् क्वचिन्नियुंक्ते इति नियोगस्वरूपम् इति | ᳚भावना᳚ च भाव्यनिष्ठो भावकव्यापारः, भाव्यं स्वर्गादिफलम्, तन्निष्ठस्तदुत्पादकः पुरुषव्यापारो भावना | पुरुषो हि भवन्तं स्वर्गादिकमर्थं स्वव्यापारेण भावयति इति भावना इत्युच्यते | सा च द्विविधा -- शब्दभावना अर्थभावना च इति | तस्याश्च किम्, केन, कथं भावयेत् इति अंशत्रयापेक्षत्वात् त्र्यंशत्वम् | तदुक्तम्� शा धातोः प्रत्ययाद्वापि भावनावगता सती | अपेक्षतेंऽशत्रितयं किं केन कथमित्यदः ||᳚ इति | त्र्यंशा इति, तत्रार्थभावनायां ᳚किम्᳚ इत्यपेक्षायां स्वर्गः, ᳚केन᳚ इत्यपेक्षायां यागः, ᳚कथम्᳚ इत्यपेक्षायां च ब्रीह्यादि सम्बन्धनीयम् | एवं शब्दभावनायामपि, ᳚किम्᳚ इत्यपेक्षायां भाव्या पुरुषप्रवृत्तिः, ᳚केन᳚ इत्यपेक्षायां शब्दः, ᳚कथम्᳚ इत्यपेक्षायाम् अर्थवादवाक्यव्यापारः सम्बन्धनीयः | चोदना वैदिकं विधायकं वाक्यम् | यदाहुः -- ᳚चोदनेति क्रियायाः प्रवर्तकं वचनम् |᳚ इति | एतञ्चोभयत्रापि सम्बन्धनीयम् | तच्च प्रमाणान्तरप्रतिपन्नमेव अर्थमभिदधत् प्रमाणतां लभते, तं चार्थं साधयति | ᳚एन्द्राग्नमेकादशकपालं निर्वपेत् |᳚ इत्यादौ निर्वपणादिवदुद्दिष्टा इन्द्राद्या देवता अपि विधेयाः -- द्रव्यदेवतासंबन्धस्यैव साक्षात्प्रतिपाद्यत्वात् || १२४-१२७ || तदेवाह� तदेकसिद्धा इन्द्राद्या विधिपूर्वा हि देवताः |
SK
अहंबोधस्तु न तथा ते तु संवेद्यरूपताम् || १-१२८ || उन्मग्नामेव पश्यन्तस्तं विदन्तोऽपि नो विदुः | तदुक्तम्� न विदुर्मां तु तत्त्वेनातश्चलन्ति ते || १-१२९ || विधिपूर्वाः -- विधिरेव पूर्वम् पूर्वभावि अनधिगतार्थप्रकाशनात्मकं प्रमाणं यासां ताः तथोक्ताः, स्वात्मव्यतिरिक्ता हि देवताः वेद्यप्रायाः प्रमाणान्तराप्रतिपन्नाः शास्त्रेण साध्यन्ते इति युक्तः पक्षः | अहंबोधैकरूपः पुनः स्वात्मा पूर्वोक्तयुक्त्या सदैव प्रकाशमानत्वात् न स्वसिद्धौ प्रमाणं किञ्चिदपेक्षते इति युक्तमुक्तम् -- अविधिपूर्वकमिति | तदेवाह -- अहंबोधः इति | तथा इति विधिपूर्वः -- इत्यर्थः | ननु यदि प्रमाणादिनैरपेक्ष्येणैव स्वात्मा स्वयं प्रकाशते किमिति न सर्वदैव सर्वेषाम्? इत्याशङ्क्याह -- ते तु इत्यादि | त इति -- स्वात्मव्यतिरिक्तेन्द्रादिदेवतायाजकाः, तम् सर्वदैव प्रकाशमानं स्वात्मानम्, वेद्यवेदनान्यथानुपपत्त्या तदतिरिक्तस्य च अन्यस्य देवतात्वानुपपत्तेः, वस्तुतो विदन्तोऽपि न विदुः -- वेद्यताया एव प्राधान्येन दर्शनात् वेदित्रेकरूपतया न जानीयुः इत्यर्थः | अतश्च नियततत्तद्देवतादिरूपग्रहणेन च्यवन्ते इत्यर्थः | तदुक्तं तत्र -- ङ तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते |᳚ इति || १२८-१२९ || तदेव व्याचष्टे� चलनं तु व्यवच्छिन्नरूपतापत्तिरेव या | एतदपि तत्रत्येन ग्रन्थेनैव संवादयति -- देवान्देवयजो यान्तीत्यादि तेन न्यरूप्यत || १-१३० || तेन इति -- व्यवच्छिन्नरूपतापत्तिलक्षणेन हेतुना इत्यर्थः | यदुक्तम् - - ᳚यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः | भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ||᳚ इति || १३० || ननु यद्येवं कथमन्यदेवताभक्ता अपि यजन्ति इत्युक्तम् ? इत्याशङ्क्याह -- निमज्ज्य वेद्यतां ये तु तत्र संविन्मयीं स्थितिम् | विदुस्ते ह्यनवच्छिन्नं तद्भक्ता अपि यान्ति माम् || १-१३१ ||
SK
तत्र इति -- स्वात्मव्यतिरिक्तायां देवतायाम् | तद्भक्ताः स्वात्मव्यतिरिक्तदेवतायाजिनः -- इत्यर्थः | माम् इति -- परबोधैकस्वभावम् आत्मानम् | अस्मिन् परमाद्वयमये संविन्मयतयावस्थानमेव यागः, तत्समापत्तिरेव च फलम् || १३१ || ननु भगवद्वासुदेवेन उक्तस्य ᳚माम्᳚ इति अस्मच्छब्दस्य तदेकवाचकत्वात् कथं बोधमात्राभिधायकत्वमुच्यते ? इत्याशङ्क्याह -- सर्वत्रात्र ह्यहंशब्दो बोधमात्रैकवाचकः | स भोक्तृप्रभुशब्दाभ्यां याज्ययष्ट्टतयोदितः || १-१३२ || अत्र इति -- गीताग्रन्थे, अनवच्छिन्नस्यैव बोधमात्रस्य प्रतिपिपादयिषितत्वात्, अत एव केवलस्यैव बोधस्य वाचकः पराम्रष्टा इत्युक्तम् | नहि प्रकाशाद् द्वितीयस्य अपोह्यस्य प्रतियोगिनः सम्भवोऽप्यस्ति, तस्य प्रकाशमानत्वाप्रकाशमानत्वविकल्पोपहतत्वात् | यस्तु शरीरादौ ᳚कृशोऽहम्᳚ इत्यादिः अहंविमर्शः स विकल्प एव, सम्भवात् | ननु यदि बोध एव अप्रतिपक्ष एकोऽस्ति, तत्कथं ᳚मां यजन्ति᳚ इत्यादौ याज्ययष्ट्टतया भेदः पारमार्थिकः स्यात् ? इत्याशङ्क्याह -- स भोक्तृ इत्यादि | बोध एव उभयात्मना स्फुरितः -- इति भावः | तदुक्तं तत्र -- ᳚अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च |᳚ इति || १३२ || ननु एकश्च उभयात्मा च इति कथं सङ्गच्छताम् ? इत्याशङ्क्याह� याजमानी संविदेव याज्या नान्येति चोदितम् | न त्वाकृतिः कुतोऽप्यन्या देवता न हि सोचिता || १-१३३ || संविदेव याज्या, इति उदितम् प्रतिज्ञातम् | न पुनः कुतोऽपि हेतोः अन्याकृतिः इन्द्रादिरूपा, सा च संवित् याजमान्येव, न पुनः अन्या भिन्ना, याजमानी संविदद्वयमयी -- इत्यर्थः | सा हि एवंविधाकृतिः, आकृतिमती वा संविद्देवता नोचिता, संविदि भेदानुपपत्तेः, संविदतिरिक्तस्य च जाड्यात् | न च जडस्य द्योतमानत्वाद्येकस्वभावं देवतात्वं युज्यते इति स्वप्रकाशा संविदेव एका तत्तदात्मना स्फुरति इति युक्तमुक्तम् -- श एव याज्ययष्ट्टतयोदितः᳚ इति || १३३ || अत एव च आदिसिद्धत्वात् संविदि न किञ्चिद् विध्यादि सिद्धिनिमित्तमुक्तम् -- इत्याह --
SK
विधिश्च नोक्तः कोऽप्यत्र मन्त्रादि वृत्तिधाम वा | इह खलु वेदवाक्यानि मन्त्रब्रह्मणरूपत्वेन द्विधा | ब्रह्मणवाक्यान्यपि विध्यर्थवादनामधेयात्मकत्वेन त्रिधा | तत्र विधिवाक्यानां तावत् संविदि व्यापारो नास्ति इत्युक्तप्रायम् | एवं मन्त्रादेरपि तत्र नास्ति व्यापारः | यतो मन्त्रादिः वृत्तेः विधिव्यापारात्मनः क्रियायाः, धाम आश्रयः -- तेन विना क्रियाया असम्पत्तेः | न च संविदि वाच्यवाचकयाज्ययाजकभावाद्यात्मकः कश्चिद्भेदः सम्भवति, एक एव आदिसिद्धो बोधः इति सिद्धम् || ननु यद्येवं तत्कथमयं जडाजडात्मा विश्वप्रसरः ? इत्याशङ्क्याह -- सोऽयमात्मानमावृत्य स्थितो जडपदं गतः || १-१३४ || आवृतानावृतात्मा तु देवादिस्थावरान्तगः | जडाजडस्याप्येतस्य द्वैरूप्यस्यास्ति चित्रता || १-१३५ ||
SK
आवृत्य इति स्वस्वरूपगोपनात्मिकया मायाशक्त्या सङ्कोचवत्तामाभास्य -- इत्यर्थः | जडपदम् इति परप्रकाश्यभावराशिस्वरूपताम् -- इत्यर्थः | विश्वनिर्माणेच्छुर्हि परमेश्वरः प्रथमं स्वाव्यतिरिक्तमेव विश्वं प्रकाशयेत्, अयमेव च आदिसर्गः तत्र तत्रागमेषु उच्यते, अनन्तरं च यदास्य मायया सर्गचिकीर्षा भवति तदा स्वस्वातन्त्र्यात् स्वात्मदर्पणे अनन्तग्राह्यग्राहकद्वयाभाससन्ततीराभासयति, स्वाङ्गरूपभावराशिमध्यादेव हि देहप्राणबुद्धिशून्यानि स्वगताहन्तात्मककर्तृतार्पणेन ग्राहकीभावयति, तदपरं शब्दादि च इदन्ताविषयतया चिद्रूपतातिक्रमणेन ग्राह्यतामापादयति, अत एव च देहादिः कर्तृतां ज्ञातृतां च स्वात्मनि धत्ते, तदितरच्च कार्यतां ज्ञेयतां च | अत एव चैषां जडाजडव्यपदेशः, तदाह -- ᳚आवृतानावृतात्मा᳚ इति | एवमपि चास्य प्रकारवैचित्र्येण आनन्त्यम् इत्याह -- ᳚जड᳚ इत्यादि, चित्रता इति तत्र जडस्य तावच्छब्दादिभेदेन, तस्यापि तारमन्द्रादिभेदेन बहुप्रकारत्वम्, अजडस्यापि सन्तानभेदेन आनन्त्येऽपि बन्धत्रयस्य तारतम्यादिभेदेन नानात्वम् | संकुचिता प्रमातारो हि तत्तत्कर्माशयानुसारेण परिभ्रम्यन्तः तत्तदवस्थासु एकमपि स्वात्मानं धर्माधर्मादिबुद्धिभावरहितत्वेन तत्तदिच्छापरिष्कृतत्वेन च नानाकारतया वैचित्र्येण जानते, जडं च विषयं सुखदुःखादिकारितया नानात्वेन परिविन्दन्ति इति || १३४-१३५ || एवं वैचित्र्यस्य किं निमित्तम् इत्याशङ्क्याह -- तस्य स्वतन्त्रभावो हि किं किं यन्न विचिन्तयेत् | तदुक्तं त्रिशिरःशास्त्रे संबुद्ध इति वेत्ति यः || १-१३६ || एतदेवार्थद्वारकं संवादयति -- तदुक्तम् इत्यादिना | इति वैचित्र्यं यो वेत्ति स संबुद्धः -- सम्यग्बुद्धः इत्यर्थः | त्रिशिरःशास्त्रे इति श्रीत्रिशिरोभैरवे | तत्र हि ᳚अन्यथा स्वल्पबोधस्तु तन्तुभिः कीटवद्यथा | मलतन्तुसमारूढः क्रीडते देहपञ्जरे ||᳚ इत्युपक्रम्य -- शम्यग्बुद्धस्तु विज्ञेयः ................ |᳚ इत्यादिना च�
SK
ङानाकारैर्विभार्वैश्च भ्रम्यते नटवद्यथा | स्वबुद्धिभावरहितमिच्छाक्षेमबहिष्कृतम् ||᳚ इत्यन्तं बहूक्तम् || १३५ || ननु देहादिर्ग्राहकतया अभिमतोऽपि जाड्याज्ज्ञेय एव इति तस्य कथमेवंविधं ज्ञानम् ? इत्याशङ्क्याह -- ज्ञेयभावो हि चिद्धर्मस्तच्छायाच्छादयेन्न ताम् || १-१३६ || ज्ञेयत्वं हि ज्ञानधर्मः, नहि अर्थं जानामि इत्यर्थस्य कश्चिदतिशयः, अपि तु ज्ञानस्यैव तज्ज्ञानरूपता | तदुक्तमत्रापि च -- ᳚............... ज्ञेयस्य ज्ञेयता ज्ञानमेव |᳚ इति | अत एव च तेषां ज्ञेयानां सतां देहादीनां छाया स्वेनैव स्वस्य आवरकत्वायोगात् न चितम् आच्छादयेत् आवृणुयात्, येनैवंविधं ज्ञानं न स्यात्, तेन देहादावात्मग्रहेऽपि आत्मनो न काचिच्चिद्रूपताहानिः | तदुक्तं तत्रैव -- ᳚ज्ञेयस्वभावश्चिद्रूपस्तच्छाया नैव छादयेत् |᳚ इति || १३६ || अत एवाह� तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः | अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् || १-१३७ || तेन इति -- चिदनाच्छादनेन हेतुना | अनावरण इति -- शुद्धसंविद्रूपे आत्मनि -- इत्यर्थः | देहादीनां हि संविद्रूपत्वेऽप्यामुखे ज्ञेयत्वेन अवभासादशुद्धत्वमपि सम्भवेत् || १३७ || ननु संविदि भेदानुपपत्तेः कथं वैचित्र्यं सङ्गच्छताम् ? इत्याशङ्क्या -- संविद्रूपे न भेदोऽस्ति वास्तवो यद्यपि ध्रुवे | तथाप्यावृतिनिर्ह्रासतारतम्यात्स लक्ष्यते || १-१३८ || आवृतेः -- आणवस्य मलस्य, निर्ह्रासः परिक्षयः तस्य तारतम्यम् मृदुमध्याधिमात्रात्मा अतिशयः, ततो लक्ष्यते, इति, न तु साक्षात् सम्भवति -- इत्यर्थः, अत एव पूर्वं ᳚वास्तवः᳚ इति विशेषणमुपात्तम् || १३८ || किं च तत्तारतम्यम् ? इत्याशङ्क्याह -- तद्विस्तरेण वक्ष्यामः शक्तिपातविनिर्णये | समाप्य परतां स्थौल्यप्रसङ्गे चर्चयिष्यते || १-१३९ || वक्ष्यामः इति -- यद्वक्ष्यति -- ᳚तारतम्यप्रकाशे यस्तीव्रमध्यममन्दताः | ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः ||᳚
SK
इत्यादि बहुप्रकारम्, चर्चयिष्यते इति -- लक्ष्यते परीक्ष्यते च इत्यर्थः | इह हि सर्वस्यैव वक्ष्यमाणस्य प्रमेयजातस्य उद्देश्य एव भवेत् इति भावः | यद्वक्ष्यति -- ᳚विज्ञानभित्प्रकरणे सर्वस्योद्देशनं क्रमात् |᳚ इति | तच्च अस्माभिर्ग्रन्थविस्तरभयात् प्रातिपद्येन न दर्शितम् इति स्वयमेव अवधार्यम् ||१३९ || एवं मलनिर्ह्रासतारतम्यानुसारमेव आत्मनां भगवत्स्वरूपमपि प्रथते -- इत्याह -- अतः कंचित्प्रमातारं प्रति प्रथयते विभुः | पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् || १-१४० || कञ्चित् इति -- तीव्रनिर्ह्रासतावृतितारतम्यम्, अंशांशिकाक्रमात् इति -- आवृतिनिर्ह्रासतारतम्यमन्दादिप्रायत्वात् || १४० || ननु किं नाम पारमेश्वरस्य रूपस्य पूर्णत्वमपूर्णत्वं च ? इत्याशङ्क्याह -- विश्वभावैकभावात्मस्वरूपप्रथनं हि यत् | अणूनां तत्परं ज्ञानं तदन्यदपरं बहु || १-१४१ || विश्वेषां नीलसुखादीनां भावानां य एको भावः प्रकाशमानत्वान्यथानुपपत्त्या परप्रकाशलक्षणा प्रधाना सत्ता, तदात्म यत् स्वस्य आत्मनो रूपं तस्य यत्प्रथनम् -- अविकल्पवृत्त्या साक्षात्करणम्, तत् एव अणूनां परं पूर्णं पारमेश्वरं ज्ञानम्, तत एवंविधात् पूर्णात् ज्ञानात् अन्यत् विकल्पात्मकं शाक्तादि ज्ञानम्, अपरं चित्स्वरूपप्रथाविरहादपूर्णम्, बहुवक्ष्यमाणप्रकारेण अनेकप्रकारम् इत्यर्थः || १४१ || तदेव बहुप्रकारत्वं दर्शयति -- तच्च साक्षादुपायेन तदुपायादिनापि च | प्रथमानं विचित्राभिर्भंगीभिरिह भिद्यते || १४२ || तत् इति -- परमपरं वा ज्ञानम् | साक्षादुपायेन इति -- शाम्भवेन | तदेव हि अव्यवहितं परज्ञानावाप्तौ निमित्तम्, स एव परां काष्ठां प्राप्तश्चानुपाय इत्युच्यते | अत एव अनुपायः इति नोपायनिषेधमात्रम् इति वक्ष्यते | तस्य शाम्भवस्य उपायः शाक्तः, आदिशब्दात् तस्यापि उपाय आणवः | भिद्यते इति -- औपचारिकं भेदमेति -- इत्यर्थः || १४२ || न केवलमेवं यावदन्यदपि एतद्वैचित्र्ये निमित्तमस्ति -- इत्याह --
SK
तत्रापि स्वपरद्वारद्वारित्वात्सर्वश्ॐऽशशः | व्यवधानाव्यवधिना भूयान्भेदः प्रवर्तते || १-१४३ || स्वेन, यथा -- शाम्भवेन शाम्भवम्, अत एव स्वपरलक्षणेन द्वारेण, द्वारि सोपायम् | सर्वशः इति -- पूर्णात्मना | अंशश इति -- अपूर्णेन | व्यवधान इति -- साक्षादुपायत्वाभावात् | एवं प्रथमं तावदुपायस्त्रेधा -- शाम्भवादिभेदात्, तेषां च द्वारद्वारिभावेन प्रत्येकं द्वैधे षट्, तत्रापि प्रत्येकं पूर्णत्वापूर्णत्वेन द्वैधे द्वादश, तेषां च प्रत्येकं व्यवहिताव्यवहितत्वेन द्वैधे चतुर्विंशतिः | व्यवधानं च बहुभिर्विजातीयैः, इति भेदानां भूयस्त्वम् || १४३ || ननु ज्ञानं तावदुपेयतया प्रतिज्ञातम् इति, तत्र उपायेन केनचिद्भाव्यम्, स च न ज्ञानमेव, उपेयत्वात्, नापि अज्ञानम्, तदनौपयिकत्वात् तस्य, इति किं नाम उपायस्वरूपम् ? इत्याशङ्क्याह -- ज्ञानस्य चाभ्युपायो यो न तदज्ञानमुच्यते | ज्ञानमेव तु तत्सूक्ष्मं परं त्विच्छात्मकं मतम् || १-१४४ || किं तु तत्सूक्ष्मम् वैकल्पिकस्थूलशाक्तादिज्ञानविलक्षणं मतम् इति - - सम्बन्धः | अत एव परम् -- शाम्भवम् -- इत्यर्थः | अत एव ᳚इच्छात्मकम्᳚ -- इत्युक्तम् | शाक्ताणवयोर्हि ज्ञानक्रियात्मकत्वं भवेत् -- इति भावः || १४४ || ननु एवमपि कथमेकस्यैव उपायोपेयभावः सङ्गच्छते ? इत्याशङ्क्याह -- उपायोपेयभावस्तु ज्ञानस्य स्थौल्यविश्रमः | एषैव च क्रियाशक्तिर्बन्धमोक्षैककारणम् || १-१४५ || स्थौल्यम् चिदानन्दैकघनपरसूक्ष्मस्वरूपनिमज्जनादनन्तग्राह्यग्राहकात्मना भेदेन उल्लसनम्, तत्कृतोऽयं भ्रमः -- यत् ᳚इदमुपेयम्᳚ अयमुपायः᳚ इति | वस्तुतो हि परप्रकाशात्मा शिव एव उपेयः, स च सर्वत एवावभासते, तस्य क्वचिदपि अनपायात् | अत एव नात्र उपायानां किञ्चित्प्रयोजनम्, अज्ञातज्ञापकत्वात् तेषाम् | तदुक्तम् -- ᳚अपरोक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते | यैरुपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते ||᳚
SK
इति | अनेनैव आशयेन च अनुपायनिरूपणं करिष्यते | ननु यद्येवं तत्कथमयं व्यवहारः प्ररोहमुपारोहते ? इत्याशङ्क्याह -- एषैव इत्यादि | क्रियाशक्तिः इति -- तत्तद्भेदवैचित्र्यावस्थितिकारित्वात् | तेन परमेश्वरस्फार एवायम् -- इत्याशयः | अत एवायम् तथात्वेन अज्ञातो बन्धकः, ज्ञातस्तु मोचकः, तदाह ᳚बन्धमोक्षैककारणम्᳚ इति | यदुक्तम्� शेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ||᳚ इति || १४५|| ननु एवमपि अत्र किं नाम उपायतया संमतम् ? इत्याशङ्क्याह� तत्राद्ये स्वपरामर्शे निर्विकल्पैकधामनि | यत्स्फुरेत्प्रकटं साक्षात्तदिच्छाख्यं प्रकीर्त्तितम् || १-१४६ || तत्र एवं सति, आद्ये प्राथमिकालोचनज्ञानात्मनि, अत एव निर्विकल्पोत्थे, अत एव भिन्नस्य परामृश्यस्य अनुल्लासात् स्वपरामर्शे स्फुरत्तामात्ररूपे यत् प्रकटं स्फुरेत्, साक्षात्कारात्मतया यत् स्फुरणं तत् साक्षात् इच्छाख्यं प्रकीर्तितम्, उपायान्तरनिरपेक्षत्वात्, अव्यवधानेच्छाशक्तिस्फाररूपः शाम्भवाख्य उपाय उक्तः -- इत्यर्थः || १४६ || एतदेव दृष्टान्तोपदेशेन स्फुटीकर्तुमाह -- यथा विस्फुरितदृशामनुसन्धिं विनाप्यलम् | भाति भावः स्फुटस्तद्वत्केषामपि शिवात्मता || १-१४७ || भूयो भूयो विकल्पांशनिश्चयक्रमचर्चनात् | यत्परामर्शमभ्येति ज्ञानोपायं तु तद्विदुः || १-१४८ ||
SK
तथैव ᳚आत्मैवेदं सर्वम्᳚ इत्येवमात्मनो विकल्पस्य आत्मानात्माख्यांशद्वयाक्षेपित्वेऽपि प्रतियोगिनिषेधपूर्वको योऽयं पौनःपुन्येन अंशरूपो निश्चयः तस्य यत् क्रमेण चर्चनम् यथायथं स्फुटताभावित्वादिना संस्करणम्, ततो यत् विकल्प्यमानमात्मस्वरूपपरामर्शम् ᳚इत्थमेव इदम्᳚ इत्येवं प्रतीतिमभिन्नां -- साक्षात्कारात्मता मभ्येति, तज्ज्ञानोपायं विदुः -- ज्ञानशक्तिस्फारात्मकं शाक्तमुपायं जानीयुः -- इत्यर्थः | तु- शब्दः पूर्वस्माद्व्यतिरेचकः | इह हि विकल्प एव क्रमेण निर्विकल्पतामेति -- इत्युक्तम् | तत्र पुनर्निर्विकल्पतयैव साक्षात्करणं रूपम्, अत एव च अनयोर्द्वारिद्वारभावः || १४७-१४८ || यत्तु तत्कल्पनाकॢप्तबहिर्भूतार्थसाधनम् | क्रियोपायं तदाम्नातं भेदो नात्रापवर्गगः || १-१४९ || तथा तत् आत्मस्वरूपं क्रियोपायमाम्नातम् -- क्रियाशक्तिस्फारात्मकाणवोपायसमधिगम्यं सर्वागमेषु उक्तम् | यतस्ताभिः भेदप्रथामयीभिः कल्पनाभिः, कॢप्तः स्वशिल्पेन कल्पितः, बहिर्भूतोऽवच्छिन्नो योऽसौ उच्चारादिः अर्थः तत्साधनम्, तुशब्दो व्यतिरेके | शाक्ते हि विकल्प एव अर्थः, इह तु बाह्योऽपि इति, अत एव न तत्र उच्चारादिः | ननु उपायभेदादुपेयभेदोऽपि स्याद् ? इत्याशङ्क्योक्तम् ᳚भेदो नात्रापवर्गगः᳚ इति | स्वरूपप्रथनं हि अपवर्गः, तच्च सर्वैरेव हि द्वारद्वारिभावेन भवति इति भावः || १४९ || ननु ज्ञानमेव उपायः इति सामान्येन प्रतिज्ञातम्, तत्कथमाणवे क्रियोपायत्वमुक्तम् ? इत्याशङ्क्याह� यतो नान्या क्रिया नाम ज्ञानमेव हि तत्तथा | रूढेर्योगान्ततां प्राप्तमिति श्रीगमशासने || १-१५० || अन्या इति अर्थाज्ज्ञानात्, यतः तज्ज्ञानमेव रूढेः प्ररोहात् योगस्यान्तः पराकाष्ठा, तत्त्वं प्राप्तं सत् तथा ᳚क्रिया᳚ इति सर्वत्र अभिधीयते -- इत्यर्थः | ननु अत्र किं प्रमाणम् ? इत्याशङ्क्योक्तम् ᳚इति श्रीगमशासने᳚ इति, अर्थादुक्तम् -- इति शेषः || १५० || तत्रत्यमेव ग्रन्थं पठति -- योगो नान्यः क्रिया नान्या तत्त्वारूढा हि या मतिः |
SK
स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते || १-१५१ || इति || १५१ || एतच्च स्वयमेव व्याचष्टे -- स्वचित्ते वासनाः कर्ममलमायाप्रसूतयः | तासां शान्तिनिमित्तं या मतिः संवित्स्वभाविका || १-१५२ || सा देहारम्भिबाह्यस्थतत्त्वव्रताधिशायिनी | क्रिया सैव च योगः स्यात्तत्त्वानां चिल्लयीकृतौ || १-१५३ || ङिमित्तम्᳚ इत्यनेन सप्तमी व्याख्याता | संवित्स्वभाविका इत्यनेन मतेर्ज्ञानार्थत्वमुक्तम् | सा मतिः� ᳚प्रणवेन तु तत्सर्वं शरीरोत्पत्तिकारणम् | न्यसेत्क्रमेण देवेशि त्रिंशदेकं च संख्यया ||᳚ इत्याद्युक्त्या तत्त्वदीक्षादिना साधारणानि तत्त्वानि अधिशयाना स्वचित्तवासनाशान्तिकारित्वात् क्रिया स्यात् | तथा सैव� ᳚योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुना |᳚ इत्याद्युक्त्या तत्त्वानां चितियोजनाद्योगः स्यात् इति नानयोर्ज्ञानातिरेकः इति युक्तमुक्तम् -- ᳚योगो नान्यः क्रिया नान्या᳚ इति || १५२-१५३ || ननु कथं ज्ञानमेव क्रिया भवेत् ? इति दृष्टान्तोपदर्शनेन उपपादयति -- लोकेऽपि किल गच्छामीत्येवमन्तः स्फुरैव या | सा देहं देशमक्षांश्चाप्याविशन्ती गतिक्रिया || १-१५४ || अन्तः आत्मनि ᳚गच्छामि᳚ इति या स्फुरा स्फुरणम् उद्यन्तृतात्मिका संवित्, सैव देहाद्याविशन्ती वैवश्याविष्करणेन स्वमयतामापादयन्ती गमनक्रिया भवति, इति युक्तमुक्तं ᳚ज्ञानमेव हि तत्तथा᳚ इति | गन्तुर्हि ᳚गच्छामि᳚ इति स्फुरणायां सत्यां कर्तृकरणकर्मात्मकशरीरपादग्रामाद्यावेशेन गमनक्रियासंपत्तिः स्यात् || १५४ || तदेवोपसंहरति� तस्मात्क्रियापि या नाम ज्ञानमेव हि सा ततः | ज्ञानमेव विमोक्षाय युक्तं चैतदुदाहतम् || १-१५५ || ततः इति -- क्रियाया ज्ञानात्मकत्वात् | तेन -- ᳚दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि |᳚ इत्यादिना क्रियाया अपि अपवर्गनिमित्तत्वमुक्तम् | एवं च युक्तमुक्तम् -- ᳚ज्ञानं मोक्षैककारणम्᳚ इति | तदाह -- ᳚युक्तं चैतदुदाहृतम्᳚ इति || १५५ ||
SK
ननु श्वतन्त्रात्मातिरिक्तस्तु᳚ इत्यादिना प्राक् आत्मज्ञानातिरिक्तो मोक्षो नाम न कश्चिदस्ति इत्युक्तम्, इति ज्ञानमेव विमोक्षाय इत्यनेन हेतुफलभावोऽनयोरुच्यमानः कथं सङ्गच्छते ? इत्याशङ्क्याह� मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः | स्वरूपं चात्मनः संविन्नान्यत्तत्र तु याः पुनः || १-१५६ || क्रियादिकाः शक्तयस्ताः संविद्रूपाधिका नहि | असंविद्रूपतायोगाद्धर्मिणश्चानिरूपणात् || १-१५७ || ननु स्वरूपमेव नाम किं यस्यापि प्रथनं मोक्षः स्यात् ? इत्याह -- स्वरूपम् इति, तेन स्वस्य आत्मनो रूपम् संविञ्चैतन्यम्, तस्य प्रथनम् यथातत्त्वम् ज्ञानम्, स एव मोक्षः इति यथोक्तमेव युक्तम् | यः पुनरयं हेतुफलभाव उक्तः स काल्पनिक एव, न तात्त्विकः, यद्वक्ष्यति� ᳚यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता | न सा मुख्या ......................... || इति | अन्यत् इति संविदतिरिक्तम् -- इत्यर्थः | ननु आत्मनः संविदतिरिक्तं यदि रूपं नास्ति, तत्कथमस्य शक्त्यन्तरयोगित्वं स्यात् ? इत्याशङ्क्याह -- तत्र इत्यादि, तु-शब्दः चार्थे || १५६-१५७ || ननु -- ᳚पत्युर्धर्माः शक्तयः स्युः ............... |᳚ इत्याद्युक्त्या साक्षात्पत्युर्धर्मितया शक्तीनां च धर्मतया निरूपणं कृतम् इति धर्मिणश्च अनिरूपणात् इत्यसिद्धोऽयं हेतुः ? इत्याशङ्क्याह -- परमेश्वरशास्त्रे हि न च काणाददृष्टिवत् | शक्तीनां धर्मरूपाणामाश्रयः कोऽपि कथ्यते || १-१५८ || यथा खलु काणादाः -- ᳚आत्मत्वाभिसंबन्धादात्मा |᳚ इत्यादिना धर्मिरूपमात्मानं निरूप्य, ᳚तस्य गुणा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्म संस्कारसंख्यापरिमाणपृथक्त्वसंयोगविभागाः |᳚ इत्यादिना तत्समवेतम् आगमापायि भिन्नं धर्मजातम् अभ्युपागमन्, नैवमिह शक्तितद्वतोर्धर्मधर्मिभावः कश्चिद् अभिधीयते | पर एव हि स्वतन्त्रो बोधस्तत्तदुपाधिवशात् तत्तच्छक्तिरूपतया व्यपदिश्यते इति न वस्तुतः कश्चित् शक्तितद्वतोर्भेदः यदुक्तं प्राक् -- ᳚मातृकॢप्ते हि भावस्य तत्र तत्र वपुष्यलम् |
SK
को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव ||᳚ इति || १५८ || ननु यदि काणादादिदर्शनवत् इहापि धर्मधर्मिभावस्य निरूपणं क्रियते, तदा को दोषः स्यात्? इत्याशङ्क्याह � ततश्च दृक्किर्येच्छाद्या भिन्नाश्चेच्छक्तयस्तथा | एकः शिव इतीयं वाग्वस्तुशून्यैव जायते || १-१५९ || यदि हि शक्तितद्वतोर्धर्मधर्मिभावन्यायेन वास्तव एव भेदः स्यात्, तदा ᳚इत्थं नानाविधैः रूपैः स्थावरैः जङ्गमैरपि | क्रीडया प्रसृतो नित्यमेक एव शिवः प्रभुः ||᳚ इत्यादौ ᳚एक एव शिव᳚ इति इयमीश्वराद्वयप्रतिज्ञात्मिका वाक् अनेकेषां शक्तितद्वदात्मनाम् अर्थानां सम्भवाद् वस्तुशून्या -- अभिधेयरहिता स्यात्, अद्वयवादखण्डना भवति इति यावत् || १५९ || ननु यदि वस्तुतः संवित्स्वभावः शिव एव एकोऽस्ति, तत्कथमयं चिदादिनानाशक्त्यात्मा व्यवहारोऽन्यथा क्रियते ? इत्याशङ्काम् उपसंहारभङ्ग्या उपशमयितुमाह -- तस्मात्संवित्त्वमेवैतत्स्वातन्त्र्यं तत्तदप्यलम् | विविच्यमानं बह्वीषु पर्यवस्यपि शक्तिषु || १-१६० || एतच्च निर्णीतपूर्वम् इति पुनरिह नायस्तम् | यथोक्तम् -- ᳚बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता |᳚ इति || १६० || इह ᳚आत्मज्ञानमेव मोक्षः᳚ इति ज्ञानमोक्षयोः कार्यकारणभाव एव वस्तुतो नास्ति -- इति ङावश्यं कारणानि कार्यवन्ति भवन्ति᳚ इति न्यायेन ज्ञानिनां सत्यपि ज्ञानाख्ये कारणे कार्यात्मा मोक्षो न स्यात् इत्यनिष्टापादनात्मायं प्रसङ्गो नाशङ्कनीयः ? -- इत्याह -- यतश्चात्मप्रथा मोक्षस्तन्नेहाशङ्क्यमीदृशम् | नावश्यं कारणात्कार्यं तज्ज्ञान्यपि न मुच्यते || १-१६१ || ज्ञानिनो हि अवश्यभाविनी मुक्तिः -- इति भावः | अत एव च -- ᳚तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते | प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ||᳚ इति | तथा� ᳚................... ज्ञानी त्वात्मैव मे मतः |᳚ इत्यादि गीतम् || १६१ || ननु� ᳚ज्ञानमेव विमोक्षाय ....................... |᳚ इत्यादिना ज्ञानमोक्षयोः कार्यकारणभाव उक्त एव, इति कथं नायं प्रसङ्गः ? इत्याह --
SK
यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता | न सा मुख्या, ततो नायं प्रसङ्ग इति निश्चितम् || १-१६२ || एतच्च निर्णीतचरम् इति नेह पुनरायस्तम् || १६२ || एतदुपसंहरन्नन्यदवतारयति -- एवं ज्ञानस्वभावैव क्रिया स्थूलत्वमात्मनि | यतो वहति तेनास्यां चित्रता दृश्यतां किल || १-१६३ || ज्ञानस्वभावा इति -- क्रियाया ज्ञानाविनाभावित्वात् | यदुक्तम् -- ᳚................... न ज्ञानरहिता क्रिया ||᳚ इति | स्थूलत्वम् इति -- अन्तर्ग्राह्यग्राहकात्मना भेदेन उल्लासात् | तेन इति -- स्थूलतावहनेन हेतुना | चित्रता इति -- तत्तद्ग्राह्यादिभेदवैचित्र्यात् || १६३ || अत एवाह� क्रियोपायेऽभ्युपायानां ग्राह्यबाह्यविभेदिनाम् | भेदोपभेदवैविध्यान्निःसंख्यत्वमवान्तरात् || १-१६४ || ग्राह्याः उच्चाराद्याः | बाह्याः कुण्डमण्डलादयः | उच्चारादयो हि ग्राह्यभूमिगताः बाह्यत्वेन अवसिता अपि चक्षुरादिबाह्येन्द्रियागोचरत्वात् प्रमात्रन्तरासाधारणत्वाच्च न बाह्याः | कुण्डमण्डलादयः पुनर्बाह्येन्द्रियगोचरत्वात् साधारण्याच्च बाह्याः सन्तो ग्राह्याः इत्युक्तम् -- ᳚ग्राह्यबाह्यविभेदिनाम्᳚ इति | एवं नियतभेदवत्त्वेऽपि एषामेव अवान्तरभेदात् भेदोपभेदनानात्वात् निःसंख्यत्वम् बहुप्रकारत्वम् -- इत्यर्थः | तथाहि�उच्चारस्य प्राणादिभेदात् प्रथमे पञ्च भेदाः, तत्रापि विन्दुनादादयो बहव उपभेदाः, एवमपि उच्चार्यमाणानां मन्त्राणामानन्त्यम् इत्यसंख्यभेदत्वम् || १६४ || एवं च� ᳚यतो नान्या क्रिया नाम ............... |᳚ इत्यादिना उपक्रान्तं क्रियाया ज्ञानात्मकत्वं युक्त्यागमाभ्यां निर्वाहितम् इत्येक एव ज्ञानात्मा मोक्षावाप्तावुपाय इति न उपायनानात्वम्, अत एव तत्फलभूते मोक्षेऽपि न कश्चिद्भेदः -- इत्याह -- अनेन चैतत्प्रध्वस्तं यत्केचन शशङ्किरे | उपायभेदान्मोक्षेऽपि भेदः स्यादिति सूरयः || १-१६५ || यत्केचन सूरय इति शशङ्किरे -- इति सम्बन्धः | केचन सूरय इति -- भेदवादिनः | तत्र हि हेतुफलयोर्वास्तव एव भेदः इति हेतुभेदात् फलभेदोऽपि स्यात् | इह पुनः --
SK
᳚प्रदेशो ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च |᳚ इत्यादिनीत्या शंविदेव सर्वम्᳚ इति को नाम हेतुफलभेदः, काल्पनिकेऽपि हेतुफलयोर्भेदे ज्ञानात्मा एक एव उपायोऽभ्युपगतः इति उपायनानात्वस्यैव अभावात् को नाम फलभूतेऽपि मोक्षे भेदः स्यात् || १६५ || ननु� ᳚तच्च साक्षादुपायेन ..................... |᳚ इत्यादिना साक्षात् उपायनानात्वमुक्तम् इति कथं न तद्भेदादुपेयेऽपि भेदः ? इत्याशङ्क्याह -- मलतच्छक्तिविध्वंसतिरोभूच्युतिमध्यतः | हेतुभेदेऽपि नो भिन्ना घटध्वंसादिवृत्तिवत् || १-१६६ || यत्र वास्तव एव हेतुफलभावोऽस्ति तत्रापि हेतोः दीक्षादेः भेदेऽपि तत्फलभूतस्य मलतच्छक्त्योर्विध्वंसादेः न कश्चिद्भेदः -- कलातत्त्वभुवनादिना भेदेऽपि दीक्षायाः तस्य अविशेषात्, तथा च घटस्य मुद्गरकरभित्तिघटाद्युपायभेदेऽपि अविशिष्ट एव ध्वंसतिरोभावादिः | अतश्च अवश्यमेव हेतुभेदात् फलभेदः इति नायमेकान्तः | यत्र पुनः काल्पनिक एव उपायोपेयभावः, तत्र का नाम इयं वार्ता -- इति भावः | तदेवम् इच्छाज्ञानक्रियात्मकत्वाद् उपायस्य त्रैविध्येऽपि तदुपेयभूतेऽपवर्गे न कश्चित् भेदः -- इति सिद्धम् || १६६ || न केवलं युक्तित एव एतत्सिद्धं यावदागमतोऽपि -- इत्याह -- तदेतत्त्रिविधत्वं हि शास्त्रे श्रीपूर्वनामनि | आदेशि परमेशित्रा समावेशविनिर्णये || १-१६७ || तत्रत्यमेव ग्रन्थं पठति -- अकिञ्चिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः | उत्पद्यते य आवेशः शाम्भवोऽसावुदीरितः || १-१६८ || उच्चाररहितं वस्तु चेतसैव विचिन्तयन् | यं समावेशमाप्नोति शाक्तः सोऽत्राभिधीयते || १-१६९ || उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः | यो भवेत्स समावेशः सम्यगाणव उच्यते || १-१७० || व्यत्यासपाठे च अयमाशयः -- यद् उपायोपेयादिना द्वारद्वारिभावेन शाम्भवोपाये एव प्राधान्येन विश्रान्तिः इति || १६७-१७० || तदेव क्रमेण व्याचष्टे -- अकिञ्चिञ्चिन्तकस्येति विकल्पानुपयोगिता | तया च झटिति ज्ञेयसमापत्तिर्निरूप्यते || १-१७१ ||
SK
तया इति -- विकल्पानुपयोगितया | विकल्पोपयोगे हि तदैव -- ᳚यस्य ज्ञेयमयो भावः स्थिरः पूर्णः समन्ततः |᳚ इत्यादिदृष्ट्या ज्ञेयस्य अवश्यज्ञातव्यस्य पारमार्थिकस्य चिदात्मनो रूपस्य समापत्तिर्न स्यात्, विकल्पो हि अभ्यासबलात् स्वतुल्यविकल्पान्तराविर्भावकतया विगलदस्फुटत्वादिना यथायथं सातिशयविकल्पजननाक्रमेण अविकल्पात्मकसंवित्तादात्म्यम् अभ्येति | यद्वक्ष्यति� ᳚प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा |᳚ इत्याद्युपक्रम्य� शंविदभ्येति विमलामविकल्पस्वरूपताम् |᳚ इति | अत एव शाक्तोपायादस्य भेदः || १७१ || ननु कथं विकल्पानुपयोगितयैव एतत् स्यात् ? इत्याशङ्कां दर्शयितुमाह -- सा कथं भवतीत्याह गुरुणातिगरीयसा | ज्ञेयाभिमुखबोधेन द्राक्प्ररूढत्वशालिना || १-१७२ || प्रतिः आभिमुख्ये, आभिमुख्यं च वस्त्वन्तरापेक्षम्, तच्च अत्र औचित्यात् चिन्मात्रम् -- इत्युक्तम् ᳚ज्ञेयाभिमुखेति᳚ | अतिगरीयस्त्वमेव व्याख्यातुं द्राक्प्ररूढत्वेत्याद्युक्तम्, द्राक् इत्यनेन यथोक्तविकल्पक्रमोपारोहाभावः सूचितः || १७२ || ननु कथमनयोर्भिन्नविभक्तिकयोः सामानाधिकरण्यम् ? इत्याशङ्क्याह - - तृतीयार्थे तसि व्याख्या वा वैयधिकरण्यतः | तृतीयार्थे तसि इति -- तसि इत्यनुबन्धलोपे प्रयोगः | तृतीयार्थे इति सर्वविभक्त्यन्तात् प्रातिपदिकात् तस्येष्टेः | वा शब्दः पक्षान्तरे | वैयधिकरण्यतः इति गुरुणा कृतो यः प्रतिबोधः ततः -- इत्यर्थः || आवेशश्चास्वतन्त्रस्य स्वतद्रूपनिमज्जनात् || १-१७३ || परतद्रूपता शम्भोराद्याच्छक्त्यविभागिनः | अस्वतन्त्रस्य जडस्य बुद्ध्यादेः, मितस्य प्रमातुः, स्वम् असाधारणम्, तत् संकुचितं यत् रूपं तस्य निमज्जनम् गुणीभावः, तदवलम्ब्य परेण स्वतन्त्रेण बोधेन या तद्रूपता -- तादात्म्यम्, स आवेशः इति सम्बन्धः | यदुक्तम् -- ᳚मुख्यत्वं कर्तृतायास्तु बोधस्य च चिदात्मनः | शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ||᳚
SK
इति | कुतः पुनरयमागतः ? इत्याह -- शम्भोः इति | न पुनः शक्तेरणोर्वा | आद्यात् इति -- तत एव हि शक्तेरणोश्च प्रभवः इति भावः | अत एव शक्तिरत्र इच्छा, न तु ज्ञानं क्रिया वा -- तयोः समावेशान्तरगतत्वेन अभिधास्यमानत्वात् ||१७३ || इह पदार्थावगमपुरःसरीकारेण वाक्यार्थावगमः इति पदार्थयोजनानन्तरं वाक्यार्थमपि योजयितुमाह -- तेनायमत्र वाक्यार्थो विज्ञेयं प्रोन्मिषत्स्वयम् || १-१७४ || विनापि निश्चयेन द्राक् मातृदर्पणबिम्बितम् | मातारमधरीकुर्वत् स्वां विभूतिं प्रदर्शयत् || १-१७५ || आस्ते हृदयनैर्मल्यातिशये तारतम्यतः | विज्ञेयम् चिन्मात्राख्यं पारमार्थिकं रूपम्, माता -- सकलकरणग्रामप्रसवनिमित्तत्वाद् बुद्धिः, सैव चिच्छायासंक्रान्तिसहिष्णुत्वाद् दर्पणः, तत्र प्रतिबिम्बितं गृहीतात्मग्रहं परिमितं प्रमातारम् अधरीकुर्वत् बुद्ध्यादौ आत्माभिनिवेशनं गुणीभावमापादयत् | एवं तरतमभावेन अनन्यसाधारणां विभूतिम् बोधात्मताप्रधानतां रचयत्, समनन्तरोक्तयुक्त्या विकल्पोपारोहमन्तरेण अनन्यापेक्षित्वात् झटिति -- शैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः |᳚ इत्याद्युक्तेः हृदयम् विमर्शः, तस्य नैर्मल्यम् अनन्योन्मुखत्वादपरिम्लानत्वम्, तस्य अतिशयः पराकाष्ठा, तत्र स्वयं प्रोन्मिषदास्ते स्वप्रकाशतया प्रकाशते -- इत्यर्थः || १७४-१७५ || ननु ज्ञेयं तावत् जडाजडात्म द्विधा सम्भवति, तत्र संविदि जडेन नीलादिनापि आवेशोऽस्ति इति कथं ᳚बोधात्मैव समावेशः᳚ इत्युक्तम् ? इत्याह -- ज्ञेयं द्विधा च चिन्मात्रं जडं चाद्यं च कल्पितम् || १-१७६ || इतरत्तु तथा सत्यं तद्विभागोऽयमीदृशः | जडेन यः समावेशः सप्रतिच्छन्दकाकृतिः || १-१७७ || चैतन्येन समावेशस्तादात्म्यं नापरं किल |
SK
ननु कथं स्वप्रकाशायाः चितोऽपरप्रकाश्यत्वं ज्ञेयत्वं नाम ? इत्याशङ्क्योक्तम् -- ᳚आद्यं च कल्पितम्᳚ इति | चः शङ्काद्योतकः, परमेश्वर एव हि स्वातन्त्र्याद् अपरिहृतवेदकभावमपि स्वात्मानं भावनोपदेशादौ शिव एव सर्वक्रियाणां कर्ता विज्ञेयः इत्यादि परामर्शैः अहंप्रतीतिम् अन्तरीकृत्य वेद्यतया प्रतिपादयति | इदमेव हि परं स्वातन्त्र्यम् -- यत् स्वं स्वरूपं वेदकमेव सत् वेद्यत्वेन अवभासयति | अत एव कल्पितम् वस्तुशून्यम् -- इत्युक्तम् | इतरत् इति -- जडं नीलादि | तथा इति -- ज्ञेयतया | तत्र नीलज्ञानम् इत्यादौ चितो नीलादिना दर्पणमुखन्यायेन प्रतिबिम्बनमात्रमेव समावेशार्थो न तु तादात्म्यम्, तथात्व हि नीलादेर्ज्ञानात्मीभूतत्वात् ज्ञानमेव अवशिष्यते इति प्रतिच्छन्दव्यवस्थैव न स्यात् | संकुचितायाः चितः पुनरसंकुचितया चितैकात्म्यमेव, तस्या एव वस्तुतो भावात्, तेन बोधैकात्म्यमेव समावेशार्थः इति युक्तमुक्तम्, अस्वतन्त्रस्य परतद्रूपता नामावेशः इति || १७६-१७७ || तदेवोपसंहरति� तेनाविकल्पा संवित्तिर्भावनाद्यनपेक्षिणी || १-१७८ || शिवतादात्म्यमापन्ना समावेशोऽत्र शाम्भवः | संवित्तिः अर्थात् संकुचितरूपा || १७८ || ननु अत्र उत्पत्तौ विकल्पापेक्षित्वं मा भूत् तथात्वे हि शाक्तोपायादस्य भेदो न स्यात्, औत्तरकालिकाः पुनर्विकल्पाः किमत्र अपेक्ष्यन्ते न वा ? इत्याशङ्क्याह -- तत्प्रसादात्पुनः पश्चाद्भाविनोऽत्र विनिश्चयाः || १-१७९ || सन्तु तादात्म्यमापन्ना न तु तेषामुपायता | तच्छब्देन निर्विकल्पकपरामर्शः | अविकल्पकयैवं संवित्त्या शिवात्मताधिगमः कृतः इति कृतस्य करणायोगात् तत्पृष्ठभाविनां विकल्पानां तत्र अकिञ्चित्करत्वम् -- इत्याह -- न तु ᳚तेषामुपायता᳚ इति || १७९ || अत एव च अविकल्पस्य विकल्पापेक्षं प्रामाण्यं वदन्तो निरस्ताः -- इत्याह -- विकल्पापेक्षया मानमविकल्पमिति ब्रुवन् || १-१८० || प्रत्युक्त एव सिद्धं हि विकल्पेनानुगम्यते | अनधिगतार्थविषयं खलु प्रमाणम् | यदाहुः --
SK
᳚अनधिगतविषयं प्रमाणम् अज्ञातार्थप्रकाशो वा |᳚ इति | निर्विकल्पकगृहीतमेव वस्तु च तत्पृष्ठभावी विकल्पः परिच्छिनत्ति इति, तस्य गृहीतग्राहकत्वात् स्वात्मन्येव प्रमाण्यं नास्ति� इति कथमन्यस्यापि प्रामाण्ये निमित्ततां यायात् | अत आह -- शिद्धं हि विकल्पेनानुगम्यते᳚ इति | सिद्धम् इति -- अधिगतम् | अनुगम्यते इति -- अनु पश्चात् गम्यते अधिगम्यते -- इत्यर्थः ||१८० || ननु प्रवर्ततां नाम गृहीतेऽर्थे विकल्पः, तत्र पुनरध्यवसायात्मकत्वादस्य ग्राहकत्वं न युज्यते इति ᳚गृहीतं गृह्णामि᳚ इति प्रतिपत्तिरस्य कथं स्यात् ? इत्याशङ्क्याह -- गृहीतमिति सुस्पष्टा निश्चयस्य यतः प्रथा || १-१८१ || गृह्णामीत्यविकल्पैक्यबलात्तु प्रतिपद्यते | गृहीतमिति प्रथा हि विकल्पस्य भावादौपपत्तिकी, गृहीत एवार्थे अस्य प्रवृत्तेः, यत्तु गृह्णामि इति प्रतिपद्यते तत् दृश्यविकल्प्यार्थैकीकारादिना निर्विकल्पकैकात्म्यावलम्बनबलात् इति युक्तमुक्तम् -- ᳚विकल्पेन गृहीतं गृह्यते᳚ इति || १८१ || ननु ज्ञानं खलु ज्ञापकं न तु कारकम् इति, तेन वस्तुनो ज्ञप्तिः स्यात् न तु सिद्धिः इति कथमुक्तम् -- शिद्धं विकल्पेनानुगम्यते᳚ ? इत्याशङ्क्याह -- अविकल्पात्मसंवित्तौ या स्फुरत्तैव वस्तुनः || १-१८२ || सा सिद्धिर्न विकल्पात्तु वस्त्वपेक्षाविवर्जितात् | आभासवादे हि आभासमानतेव सिद्धिः इत्युक्तम् स्फुरत्तैव वस्तुनः सिद्धिः | ननु विकल्पानामपि स्वात्मनि अविकल्पकत्वात् स्फुरद्रूपता अस्ति इति किमिति न ततोऽपि वस्तुनः सिद्धिः स्यात् ? इत्याशङ्क्याह -- ङ विकल्पात्᳚ इति शर्वो विकल्पः स्मृतिः᳚ इति नीत्या विकल्पानां तावत् स्मृतिरेव रूपम्, सा च असंनिहिते पूर्वानुभूत एव अभिप्रवर्तते इति विकल्पानां वस्त्वनपेक्षित्वम्, यद्यपि च स्वतन्त्रविकल्पादौ क्षेत्रज्ञनिर्मितानां योजनास्ति तथापि पूर्वानुभवसंस्कारजा एव तेऽर्थाः इत्युक्तम् ᳚वस्त्वपेक्षाविवर्जितात्᳚ इति | यस्य च यदपेक्षा नास्ति स कथं तत्सिद्धौ निमित्ततां यायात् -- इति भावः || १८२ ||
SK
यद्येवं निर्विकल्पकसिद्ध एव अर्थे विकल्पः प्रवर्तते न अधिकं किञ्चित्करोति तत्किमिति तेन स क्वचिदपेक्ष्यते -- इत्याह -- केवलं संविदः सोऽयं नैर्मल्येतरविश्रमः || १-१८३ || यद्विकल्पानपेक्षत्वसापेक्षत्वे निजात्मनि | एवं संविदः सर्ववादिसिद्धं व्यवहारादौ विकल्पसापेक्षत्वं परिहृत्य विकल्पानपेक्षत्वमेव स्फुटीकर्तुमुदाहरति -- निशीथेऽपि मणिज्ञानी विद्युत्कालप्रदर्शितान् || १-१८४ || तांस्तान्विशेषांश्चिनुते रत्नानां भूयसामपि | वैकटिको हि अचिरस्थायिनि परिमितेऽपि आलोके भूयसामपि रत्नानाम् अतिसूक्ष्मान् परस्परविशेषान् अवसायं विनापि अनुभवातिशयादेव जानीते, येन ᳚इदमल्पम्, इदं महत्,᳚ ᳚इदमितोऽपि महद्रत्नम्᳚ इत्यस्य विवेकः स्यात् || १८४ || किं चात्र अनुभवातिशये निमित्तं येन विकल्पनैरपेक्ष्येणापि वस्तुनः सिद्धिः स्यात् ? -- इत्याह -- नैर्मल्यं संविदश्चेदं पूर्वाभ्यासवशादथो || १८५ || अनियन्त्रेश्वरेच्छात इत्येतच्चर्चयिष्यते | पूर्वाभ्यासो जन्मान्तरीयः इति, अत एव चर्चयिष्यते त्रयोदशाह्निकादौ || १८५ || न केवलमस्य आवेशस्य त्रैविध्यमेव अस्ति, यावदवान्तरप्रकारत्वमपि -- इत्याह -- पञ्चाशद्विधता चास्य समावेशस्य वर्णिता || १-१८६ || तत्त्वषट्त्रिंशकैतत्स्थस्फुटभेदाभिसन्धितः | वर्णिता इति -- श्रीपूर्वशास्त्रे | यदुक्तं तत्र -- ᳚रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते | भूततत्त्वात्ममन्त्रेशशक्तिभेदाद्वरानने || पञ्चधा भूतसंज्ञोऽत्र त्रिंशद्धा तु तथापरः | आत्माख्यस्त्रिविधः प्रोक्तो दशधामन्त्रसंज्ञकः || द्विविधः शक्तिसंज्ञोऽपि ज्ञातव्यः परमार्थतः | पञ्चाशद्भेदभिन्नोऽयं समावेशः प्रकीर्तितः ||᳚ इति | अत्र च हेतुः -- तत्त्व इति | तत्त्वषट्त्रिंशकं च एतत्स्थानि तत्त्वषट्त्रिंशन्मध्यपतितानि पुमादीनि पृथग्व्याख्यास्यमानानि तत्त्वानि च, तेषां यो वक्ष्यमाणप्रकारः स्फुटो भेदः, तस्य अनुसंधानम् || १८६ || तमेव भेदं निरूपयति -- एतत्तत्त्वान्तरे यत्पुंविद्याशक्त्यात्मकं त्रयम् || १-१८७ ||
SK
अम्भोधिकाष्ठाज्वलनसंख्यैर्भेदैर्यतः क्रमात् | तद्भिन्नम् इत्यध्याहारः | अतस्तत्र पुमान् -- ᳚आत्मा चतुर्विधो ह्येषः |᳚ इत्याद्युक्त्या अम्भोधिभिः -- सकलप्रलयाकलविज्ञानाकलशुद्धलक्षणैः चतुर्भिः भेदैभिन्नः, तथा विद्या काष्ठाभिः -- वर्णबिन्द्वर्धचन्द्र- निरोधिनीनादनादान्तशक्तिव्यापिनीसमनोन्मनात्मभिर्दशभिः भेदैर्भिन्ना, तथा शक्तिः ज्वलनैः -- इच्छाज्ञानक्रियात्मभिः त्रिभिर्भेदैः || १८७ || ननु किमिति इदमेव तत्त्वत्रयं भेदेन निर्दिष्टम् ? इत्याशङ्क्याह -- पुंविद्याशक्तिसंज्ञं यत्तत्सर्वव्यापकं यतः || १-१८८ || अव्यापकेभ्यस्तेनेदं भेदेन गणितं किल | अव्यापकेभ्यः इति -- व्याप्येभ्यतत्त्वान्तरेभ्यः -- इत्यर्थः | मायान्तं हि आत्मतत्त्वस्य, सदाशिवान्तं विद्यातत्त्वस्य, शिवान्तं च शक्तित्त्वस्य व्याप्तिः | यदुक्तम् -- ᳚माया-सदाशिव-शिवप्रान्तव्याप्त्री ननु क्रमात् |᳚ इति || १८८ || न केवलमेतत् तत्त्वान्तरेभ्यो भिद्यते, यावदन्योन्यमपि -- इत्याह -- अशुद्धिशुद्ध्यमानत्वशुद्धितस्तु मिथोऽपि तत् || १८९ || पुमान् अशुद्धो -- भेदमयत्वात्, विद्या शुद्ध्यमाना भेदाभेदमयत्वात्, शुद्धा शक्तिः�अभेदमयत्वात् || १८९ || ननु अस्तु एवम्, भूतानां पुनः पृथक् निर्देशे किं निमित्तम् ? इत्याशङ्क्याह� भूतान्यध्यक्षसिद्धानि कार्यहेत्वनुमेयतः | तत्त्ववर्गात्पृथग्भूतसमाख्यान्यत एव हि || १-१९० || भूतानि तावत् प्रत्यक्षसिद्धानि इति, तदेव एषां तत्त्वान्तरेभ्यो भेदेन उपादाने निमित्तम्, तानि हि नित्यानुमेयान्येव, तदाह -- ᳚कार्यहेत्वनुमेयतः तत्त्ववर्गात्᳚ इति | तथा चात्र भूतानि कारणपूर्वकाणि आचैतन्ये सति अनेकसंख्यायोगित्वात् घटादिवत् -- इत्यनुमानम् | यच्चैषां कारणं तानि -- ᳚तन्मात्रेभ्यश्च भूतानि..................... |᳚
SK
इत्याद्युक्तेः तन्मात्राणि इति, स्वकार्येभ्यो भूतेभ्य एषाम् अनुमेयत्वम् | एवम् अनेनैव अनुमानेन मायान्तः सकलतत्त्ववर्गोऽनुमातव्यः | एतच्च तत्त्वाध्वनि भविष्यति इति नेहायस्तम् | अत एव इति -- प्रत्यक्षसिद्धत्वात् || १९० || ननु भूतानां प्रत्यक्षसिद्धत्वम् अनुमेयात् तत्त्ववर्गात् पृथक्त्वेऽस्तु निमित्तं कथं पुनर्भूतत्वेऽपि तदेव ? इत्याशङ्क्याह -- सर्वप्रतीतिसद्भावगोचरं भूतमेव हि | विदुश्चतुष्टये चात्र सावकाशे तदास्थितिम् || १-१९१ || सर्वेषां विदुषामविदुषां वा प्रतीतौ सता पारमार्थिकेन सत्ताया गोचरमेव हि भूतम् उच्यते | भूतं हि सत्यम्, तच्च सत्यम्, यत्र न कदाचिदपि कस्यचिदपि विप्रतिपत्तिः, अनुमेये पुनरविदुषंतावत् प्रतीतिर्नास्त्येव, विदुषां च प्रतीतावपि बहुप्रकारं परस्परं विप्रतिपत्तिः इति तत्र असत्यत्वसम्भावनापि भवेत् -- इति भावः | चो हेतौ, अतश्च सर्व एवात्र अवकाशः तद्दातृत्वादाकाशः, तत्सहिते वाय्वन्ते चतुष्टये पृथिव्यादिभूतपञ्चके सर्वप्रतीतिसद्भावगोचरत्वात् तस्य भूतत्वस्य, आस्थितिम् अवस्थानं विदुः इति युक्तमुक्तं ᳚भूतसमाख्यान्यत एव᳚ इति | एवं भौत आवेशः पञ्चधा आत्मावेशश्च त्रिधा | एकोऽपि पुंस्तत्त्वरूप आत्मभेदः तत्त्वमध्येऽवस्थाप्यः, अन्यथा हि तात्त्व आवेशः त्रिंशद्धा न स्यात् | विद्यायाश्च समनन्तरोक्तेन सामान्यात्मना मान्त्रेण रूपेण दशधावेशः | विशिष्टेन तु मन्त्र-मन्त्रेश-मन्त्रमहेशात्मना रूपेण अस्यास्तत्त्वमध्ये परिगणनम् | एवं शक्तेरपि एकं भेदं तत्त्वमध्ये व्यवस्थाप्य तदीय आवेशो द्विधा | शिवस्तु समावेश्य एव इति न तत्रावेशोऽस्ति, तस्य परमाद्वयस्वभावत्वात्, तदपेक्षया समावेश्यसमावेशकलक्षणभेदानुपपत्तेः | तद्युक्तमुक्तम् ᳚अस्य समावेशस्य पञ्चाशद्विधत्वम्᳚ इति || १९१ || ननु श्रीपूर्वशास्त्रे रुद्रशक्तिसमावेशस्य पञ्चधात्वचर्चनं प्रतिज्ञाय भूतादीनां स्वरूपनिरूपणं कृतम् ? इत्याह -- रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते |
SK
कोऽवकाशो भवेत्तत्र भौतावेशादिवर्णने || १-१९२ || प्रसङ्गादेतदितिचेत्समाधिः सम्भवन्नयम् | नास्माकं मानसावर्जी लोको भिन्नरुचिर्यतः || १-१९३ || कोऽवकाश इति -- भौतावेशादीनाम् अप्रस्तुतत्वात्, इदमेव हि तदप्रस्तुताभिधानं यदन्यदुपक्रम्य अन्यदभिधीयते इति अश्चोदितम् ᳚कोऽवकाशो भौतावेशादिवर्णने᳚ इति | अथ रुद्रशक्तिसमावेशवर्णने प्रतिज्ञातेऽपि प्रसङ्गादेतदुक्तम्, इति पुनस्तदप्ययुक्तम् -- इत्याह ᳚प्रसङ्गादेतत्᳚ इति | निर्णीतप्राये प्रक्रान्तेऽर्थे यत्किंचिदनुषक्तत्वेन अप्रकृतम् अभिधीयते तत्रायं समाधिः ᳚प्रसङ्गादेतदुक्तम्᳚ इति | इह तु उद्दिष्टेऽपि प्रकृते लक्षणपरीक्षादि अनुक्त्वैव भूतावेशादीनाम् आकस्मिकमेव अभिधानं कृतम् इति को नामायं प्रसङ्गः | एवं हि अप्राकरणिकानां प्रमेयाणामानन्त्यात् अनन्तान्तरङ्गप्रमेयप्रतिपादनप्रसङ्गः स्यात् ? इत्युक्तं ङास्माकं मानसावर्जी᳚ इति || १९२-१९३ || यद्येवं तर्हि किं प्रतिपत्तव्यम् ? -- इत्याह -- उच्यते द्वैतशास्त्रेषु परमेशाद्विभेदिता | भूतादीनां यथा सात्र न तथा द्वयवर्जिते || १-१९४ || अत्र इति -- अद्वयशास्त्रे श्रीश्रीपूर्वे | सा इति -- विभिन्नता | तन्निषेधे तु द्वयवर्जितत्वं हेतुः || १९४ || ततश्च किं स्यात् ? इत्याशङ्क्याह -- यावान्षट्त्रिंशकः सोऽयं यदन्यदपि किञ्चन | एतावती महादेवी रुद्रशक्तिरनर्गला || १-१९५ || अन्यत् इति -- तद्भेदा एव भुवनाद्याः | अनर्गला इति -- व्यापकत्वादप्रतिहता -- इत्यर्थः | यदुक्तम्� ᳚त्वच्छक्तिचक्रात्मकमेव विश्वं ग्राह्यग्रहीतृग्रहणात्मनैतत् | अन्तादिमध्येषु सदा विभाति नात्यन्तभिन्नं भवतोऽस्ति किञ्चित् ||᳚ इति || १९५ || एतच्च तत्रत्येनैव अर्थेन संवादयति -- तत एव द्वितीयेऽस्मिन्नधिकारे न्यरूप्यत | धरादेर्विश्वरूपत्वं पाञ्चदश्यादिभेदतः || १-१९६ || तत एव इति -- रुद्रशक्तेरेव तावत्स्फाररूपत्वात् | अस्मिन् इति -- श्रीपूर्वशास्त्रे | यदुक्तं तत्रैव� ᳚शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते |
SK
स्वरूपसहितं तच्च विज्ञेयं दशपञ्चधा ||᳚ इत्यादि� ᳚..................शिवः साक्षान्न भिद्यते |᳚ इत्यन्तम् | एतच्च तत्त्वभेदने भविष्यति, इति ग्रन्थविस्तरभयात् नेह आयस्तम् || १९६ || ननु यद्येवं तर्हि रुद्रशक्तावेवं-समावेशोऽभिधीयतां किं भूताद्यावेशेन इति स एव दोषः ? इत्याशङ्कां गर्भीकृत्य, एतदेव उपसंहारभङ्ग्या दृष्टान्तं दर्शयन् उपपादयति -- तस्माद्यथा पुरस्थेऽर्थे गुणाद्यंशांशिकामुरवात् | निरंशभावसंबोधस्तथैवात्रापि बुध्यताम् || १-१९७ || यथा संनिहिते घटादौ अर्थे लौहित्याद्यंशाभासद्वारेण अनेकसामान्याभाससंमेलनात्मनो निरंशस्य -- अखण्डस्य अर्थस्य सम्यक् स्वालक्षण्येन बोधो भवेत् तथैव अत्रापि भूताद्यंशमुखेन निखिलरुद्रशक्त्यवभासः इत्यधिगन्तव्यम् ||१९७ || एवमपि किं स्यात् ? इत्याशङ्क्याह -- अत एवाविकल्पत्वध्रैव्यप्राभववैभवैः | अन्यैर्वा शक्तिरूपत्वाद्धर्मैः स्वसमवायिभिः || १-१९८ || सर्वशोऽप्यथ वांशेन तं विभं परमेश्वरम् | उपासते विकल्पौघसंस्काराद्ये श्रुतोत्थितात् || १-१९९ || ते तत्तत्स्वविकल्पान्तःस्फुरत्तद्धर्मपाटवात् | धर्मिणं पूर्णधर्मौघमभेदेनाधिशेरते || १-२०० || अत एव इति धर्ममात्रावगममुखेन धर्मिण्यवगमात् | ध्रुवस्य भावो ध्रैव्यं नित्यत्वम् | अन्यैः इति पूर्णत्वादिभिः, स्वसमवायिभिः इति शक्तिरूपत्वादभिन्नैः इत्यर्थः | ये केचन श्रुतचिन्ताद्युत्थिततत्तन्नियतधर्मविषयस्य विकल्पौघस्य संस्कारम् अवलम्ब्य परमेश्वरं समनन्तरोद्दिष्टाभिः सर्वाभिरेव शक्तिभिः एकयैव वा शक्त्या समाविशन्ति, ते समाविष्टाः सन्तः, ते ते ये विकल्पाः तेषाम् अन्तः स्वाकारतया स्फुरन्तः, ते नियता अनियता वा धर्माः शक्तयः, तेषां पाटवं प्रबोधः तदाश्रित्य पूर्णधर्मौघम् अनन्तशक्तिखचितत्वेन पूर्णस्वभावं धर्मिणम् शक्तिमन्तं परमेश्वरम् अभेदेन अधिशेरते तद्रूपतया स्फुरन्ति -- इत्यर्थः || १९८-२०० ||
SK
ननु एकस्यापि नानाविधधर्मयोगिनोऽर्थस्य आखण्ड्येनैव प्रतीतिगोचरीभावः सम्भवति न तु इतरथा इति किमेतदुक्तम् ? इत्याशङ्काशान्त्यर्थम् एतदेव संवादयति -- ऊचिवानत एव श्रीविद्याधिपतिरादरात् | तदेव पठति� त्वत्स्वरूपमविकल्पमक्षजा कल्पने न विषयीकरोति चेत् | अन्तरुल्लिखितचित्रसंविदो नो भवेयुरनुभूतयः स्फुटाः || १-२०१ || यदि नाम एन्द्रियिकी निर्विकल्पप्रतीतिः अविकल्पम् अविभागमपि त्वत्स्वरूपम्, कल्पने नियततत्तद्धर्मविषयत्वेन भेदनमवलम्ब्य न विषयीकुर्यात् तत् स्फुटा नियतैकतरधर्मावभासमुखेन धर्मिस्वरूपावभासमय्यः, अन्तः अस्फुटाकारत्वेन, उल्लिखिताः चित्राः अवान्तरनानाधर्मविषयाः संविदो यासां ताः, एवंविधाः अनुभूतयः अनुभवाः, नो भवेयुः न उत्पद्येरन् -- इत्यर्थः | यदि हि सर्वधर्माक्रान्त्या धर्मिणि सर्वे अनुभवाः स्युः तत् परिव्राडित्यादौ एकैकस्यापि तिस्रः कल्पना भवेयुः, तेन स्वेच्छावशात्, अर्थित्वानुरोधाद्वा, नैपुण्याद्वा प्रतिप्रमातृनियतधर्मावभासमुखेनैव धर्मिण्यवभासो भवेत् न तु इतरथा इति युक्तम् -- एकतरशक्त्यवभासमुखेन अनन्तशक्तावपि परमेश्वरेऽवभासः इति || २०१ || एतच्च न केवलं युक्त्या सिद्धं यावदागमेनापि -- इत्याह -- तदुक्तं श्रीमतङ्गादौ स्वशक्तिकिरणात्मकम् | अथ पत्युरधिष्ठानमित्याद्युक्तं विशेषणैः || १-२०२ || तस्यां दिवि सुदीप्तात्मा निष्कम्पोऽचलमूर्तिमान् | काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका || १-२०३ || प्रध्वस्तावरणा शान्ता वस्तुमात्रातिलालसा | आद्यन्तोपरता साध्वी मूर्तित्वेनोपचर्यते || १-२०४ || स्वशक्तिकिरणात्मकं यद्वस्तु तत् ᳚पत्युरधिष्ठानम्᳚ इत्यादिभिः विशेषणैः अर्थात् विशिष्टमुक्तम् -- इति सम्बन्धः | ᳚अथ पत्युरधिष्ठानं स्वशक्तिकिरणात्मकम् |᳚
SK
इत्येवं-पाठ एशः, ग्रन्थकृता पुनरेवं विध्यनुवादभावदर्शनार्थम् अन्यथा पाठः कृतः, तान्येव विशेषणानि दर्शयितुं ᳚तस्याम्᳚ इत्यादि ᳚उपचर्यते᳚ इत्यन्तमागमः पठितः | स्वाः अनन्यसाधारणा याः शक्तयः ता एव अभिन्नत्वप्रकाशत्वानन्त्यादिना किरणाः रश्मयः तदात्मकम्, पत्युः शक्तिमतः, अधिष्ठानम् अभिव्यक्तिस्थानम् -- इत्यर्थः | शक्तिरेव तज्ज्ञप्तावुपायः, यदुक्तम् -- ᳚यथालोकेन दीपस्य किरणैर्भास्करस्य वा | ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ||᳚ इति | अत एव तस्याम् शक्तौ, दिवि द्योतमानायाम्, सोऽपि सुष्ठु दीप्तात्मा महाप्रकाशवपुः, अत एव निष्कम्पः स्वस्मिन्नेव रूपे अवस्थितः, तस्य हि प्रकाशात्मनः स्वरूपात्प्रच्यावे सर्वमिदम् अन्धं स्यात्, अत एव च अचलया महाप्रकाशमय्या प्रशस्यया मूर्त्या युक्तः, यतश्च तस्यामेवंविधायाम् अयमेवंविधः, ततः सैव परा काष्ठा लोकोत्तरा विश्रान्तिभूः, अत एव सूक्ष्मा परिच्छेत्तुमशक्या -- परप्रमात्रेकरूपत्वात्, अत एव वस्तुमात्रे पारमार्थिके रूपे अतिशयेन लालसा तत्स्फुरत्तात्मिका इति यावत् | एवं च प्रकर्षेण निःसंस्कारतया ध्वस्तानि बाह्यावरणानि यया सा प्रशान्तभेदा इत्यर्थः, अत एव शान्ता चिन्मात्ररूपा -- इत्यर्थः | एवमपि सर्वदिक्का सर्वदिक्षु भवा स्थावरजङ्गमात्मकजगद्रूपत्वात् चित्रस्वभावा इति यावत्, तदपि अमृतात्मिका नित्या, अत एव आद्यन्तोपरता, अनित्ये हि आद्यन्तौ भवतः, अत एव साध्वी अनित्यत्वादिदोषकालुष्यरहिता -- इत्यर्थः, एवंविधा च एषा शक्तिमतः परमेश्वरस्य मूर्तित्वेन उपचर्यते गौण्या वृत्त्या तद्रूपतया अभिधीयत -- इत्यर्थः || २०२-२०४ || ननु उपचारे मुख्यार्थबाधादिना त्रितयेन अवश्यभाव्यं तच्चात्र किमस्ति न वा ? इत्याशङ्क्याह� तथोपचारस्यात्रैतन्निमित्तं सप्रयोजनम् | निमित्तम् इति कारणम्, तद्वशादेव हि उपचारो भवेत् -- इति भावः | तत्र शक्तेः शक्तिमद्रूपत्वाभिधाने बाधितस्तावत् मुख्योऽर्थः, संबन्धश्च तयोरुपायोपेयभावः || तदाह�
SK
तन्मुखा स्फुटता धर्मिण्याशु तन्मयतास्थितिः || १-२०५ || त एव धर्माः शक्त्याख्यास्तैस्तैरुचितरूपकैः | आकारैः पर्युपास्यन्ते तन्मयीभावसिद्धये || १-२०६ || सा शक्तिः मुखम् उपायो यस्याः, स्फुटता नाम किमुच्यते -- इत्युक्तम् -- ᳚आशु तन्मयतास्थितिः᳚ इति, आसादितायां शक्तावासादित एव शिवः -- इत्याशयः | एतदेव च मुख्यं प्रयोजनम् || २०६ || अत एवाह� तत्र काचित्पुनः शक्तिरनन्ता वा मिताश्च वा | आक्षिपेद्धवतासत्त्वन्यायाद् दूरान्तिकत्वतः || १-२०७ || अनन्ता मिताश्च इत्यर्थाच्छक्तीः | धवतासत्त्वन्यायात१ इति -- धवता हि अधवव्यावृत्ताः स्वव्यक्तीरेव आक्षिपति इत्यस्याः परिमितवस्त्वाक्षेपित्वम्, सत्त्वं पुनर्धवाधवात्मनि सर्वत्रैव अस्ति इत्यस्यानन्तवस्त्वाक्षेपित्वम् | अत एव च मितवस्त्वाक्षेपिण्यो दूराः, अव्यापकत्वेन सर्वत्र असन्निहितत्वात्, अनन्तवस्त्वाक्षेपिण्यस्तु आसन्नाः, व्यापकत्वात् सर्वत्रैव संनिहितत्वात् || २०७ || एतदेव प्रकृते योजयति -- तेन पूर्णस्वभावत्वं प्रकाशत्वं चिदात्मता | भैरवत्वं विश्वशक्तीराक्षिपेद्व्यापकत्वतः || १-२०८ || सदाशिवादयस्तूर्ध्वव्याप्त्यभावादधोजुषः | शक्तीः समाक्षिपेयुस्तदुपासान्तिकदूरतः || १-२०९ || अधोजुषः इति -- रिश्वरादिकाः शक्तीः, तदिति पूर्णस्वभावत्वसदाशिवत्वादेः व्यापकत्वाव्यापकत्वस्वभावत्वाद्धेतोः | पूर्णस्वभावे हि रूपे उपासन्नाः पूर्णमेव भुक्तिमुक्तिलक्षणं फलम् आसादयन्ति, अपूर्णस्वभावे पुनरपूर्णत्वमेव इत्युक्तम् ᳚उपासान्तिकदूरतः᳚ इति | अत एव च दर्शनभेदः || २०८-२०९ || ननु विकल्प एव तत्कल्पनाबलान्नियतः सामान्यात्मा धर्मोऽवभासते इति तत्र तन्मुखेन धर्मिणि अवभासो भवेत् इत्ययं क्रमः शाक्तोपाये स्यात् न तु अखण्डवस्त्ववभासात्मनि निर्विकल्पकस्वभावे शाम्भवे इति कथमिहैतदुक्तम् ? इत्याशङ्क्याह� इत्थं-भावे च शाक्ताख्यो वैकल्पिकपथक्रमः | इह तूक्तो यतस्तस्मात् प्रतियोग्यविकल्पकम् || १-२१० ||
SK
इह इति शाम्भवावसरे, तस्मात् इति -- विकल्पात्, प्रतिपक्षे हि निरूपिते सुष्ठु पक्षनिरूपणं कृतं स्यात् इति -- नैतदप्रस्तुतं किञ्चिदभिहितम् -- इति भावः | विकल्पे हि क्रमेण अखण्डवस्त्ववभासो भवति अविकल्पे पुनरक्रमेण इति -- प्राप्ताविकल्पस्थितिर्यत्र कुत्रचिदवधत्ते तत्रास्य तदैव शिवतापत्तिः स्यात् || २१०|| तदाह� अविकल्पपथारूढो येन येन पथा विशेत् | धरासदाशिवान्तेन तेन तेन शिवीभवेत् || १-२११ || एतदेव उदाहरति� निर्मले हृदये प्राग्र्यस्फुरद्भूम्यंशभासिनि | प्रकाशे तन्मुखेनैव संवित्परशिवात्मता || १-२१२ || इह खलु निर्मले हृदये पूर्णाहंविमर्शात्मनि, अत एव प्राग्र्यम् -- आखण्ड्येन प्रकृष्टम् कृत्वा, स्फुरद्भूमिलक्षणः तत्त्वान्तरापेक्षया अंशः षट्त्रिंशो भागः, तदाभासात्मनि प्रकाशे तद्भूम्यंशात्मनैव उपायेन संवित्परशिवात्मता तदावेशः स्यात् -- इत्यर्थः || २१२ || एतदेव उपसंहरति -- एवं परेच्छाशक्त्यंशसदुपायमिमं विदुः | शाम्भवाख्यं समावेशं सुमत्यन्तेनिवासिनः || १-२१३ || परा भट्टारिकारूपा च असौ इच्छाशक्तिः, तदात्मकश्च असौ अंशः ᳚..................परं त्विच्छात्मकं मतम् |᳚ इत्याद्युक्तेः शाक्ताद्यपेक्षया साक्षादुपायत्वात् संश्चासौ उपायः तम्, सुमत्यन्तेनिवासिनः इति -- श्रीसोमदेवादयः | श्रीसुमतिनाथस्य श्रीसोमदेवः शिष्यः, तस्य श्रीशम्भुनाथः इति हि आयातिक्रमविदः | यद्वक्ष्यति -- ᳚श्रीसोमतः सकलवित्किल शम्भुनाथः... |᳚ इति | यत्तु �- ᳚कश्चिद्दक्षिणभूमिपीठवसतिः श्रीमान्विभुर्भैरवः पञ्चस्रोतसि सातिमार्गविभवे शास्त्रे विधाता च यः | लोकेऽभूत्सुमतिस्ततः समुदभूत्तस्यैव शिष्याग्रणीः श्रीमाञ्छम्भुरिति प्रसिद्धिमगमज्जालन्धरात्पीठतः ||᳚ इत्यन्यत्रोक्तं तत्परमगुर्वभिप्रायेणैव योज्यम् | यद्वा -- ᳚इति श्रीसुमतिप्रज्ञाचन्द्रिकापास्ततामसः | श्रीशम्भुनाथः सद्भावं जाग्रदादौ न्यरूपयत् ||᳚ इत्यादावपि ज्ञेयम् || २१३ || इदानीं शाम्भवमुपायं प्रतिपाद्य, शाक्तमप्याह --
SK
शाक्तोऽथ भण्यते चेतोधीमनोहंकृतिः स्फुटम् | सविकल्पतया मायामयमिच्छादि वस्तुतः || १-२१४ || एतच्चात्र न मनोमात्रम् -- इत्याह -- धीमनोऽहंकृति इति | अत एव स्फुटम् -- साक्षादभिव्यक्तस्वरूपम् -- इत्यर्थः | ततश्च -- शर्वो विकल्पः संसारः................... |᳚ इत्यादिनीत्या भेदप्रथारूपम् इत्युक्तम् -- शविकल्पतया मायामयम्᳚ इति | एवमपि परमार्थतो यथायोगम् एतदिच्छाज्ञानक्रियात्मकम् -- इत्युक्तम् -- ᳚इच्छादिवस्तुतः᳚ इति | यथा खलु पतिरिच्छाद्याभिः शक्तिभिर्विश्वं निर्मिमीते तथैव विकल्पाद्यपि बुद्ध्याद्यन्तःकरणत्रयेण पशुः -- इत्याशयः विकल्पादौ हि प्रायः क्षेत्रज्ञस्यैव स्वातन्त्र्यम्, तन्निर्माणं च एतत्त्रयाधीनमेव इत्येवमुक्तम् || २१४ || अत आह� अभिमानेन सङ्कल्पाध्यवसायक्रमेण यः | शाक्तः स मायोपायोऽपि तदन्ते निर्विकल्पकः || १-२१५ || इह हि स्वात्मनि अहङ्कारग्रहेण कर्तृत्वमभिमन्य बाह्यमेषणीयादि तदतद्रूपतया सङ्कल्प्य तदेव च अन्यापोहेन निश्चित्य ᳚अहमेव सर्वत्र स्थितः᳚ शर्वं वा मय्येव स्थितम्᳚ इत्येवमात्मा यः शाक्तो वैकल्पिकः प्रत्यय उदेति स यद्यपि विकल्पानां भेदनिष्ठत्वात् मायात्मक उपायः तथापि तेषां विकल्पानाम् अभ्यासबलेन यथायथं सातिशयविकल्पजननात् अन्ते स्फुटतमार्थसाक्षात्कारात्मा निर्विकल्पकः शाम्भवः समावेशः स्यात् -- इत्यर्थः | यद्वक्ष्यति� ᳚अनन्तराह्निकोक्तेऽस्मिन् स्वभावे पारमेश्वरे | प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ||᳚ इत्याद्युपक्रम्य� ᳚ततः स्फुटतमोदारताद्रूप्यपरिबृंहिता | संविदभ्येति विमलामविकल्पस्वरूपताम् ||᳚ इति | अत एव हि शाक्तोपायस्य उपायोपायत्वमुक्तम् || २१५ || ननु अस्मदादेः सर्वस्यैव अयत्नोपनतः स्वारसिको निर्विकल्पकः प्रत्ययः स्थितः इति किं नाम तत्र शाम्भवावेशरूपत्वमुक्तम्, यदपि उपेयतया उपदिश्यते ? इत्याशङ्क्याह -- पशोर्वै याविकल्पा भूर्दशा सा शाम्भवी परम् | अपूर्णा मातृदौरात्म्यात्तदपाये विकस्वरा || १-२१६ ||
SK
सा इति अविकल्पा भूः | यदुक्तम् -- ᳚तस्यां दशायामैश्वरो भावः पशोरपि |᳚ इति | यद्येवं तर्हि अत्र किमुपदेशादियत्नेन ? इत्याह परमपूर्णा इति संकुचितस्य हि मातुः संकुचिते एव ज्ञानक्रिये भवतः, इति कथं तत्रास्य दुरात्मनः साक्षात् शाम्भवत्वं भवेत् -- इति भावः, अत एव तस्य मातृदौरात्म्यस्य अपाये पूर्णतोल्लासे सा शाम्भवी दशा विकस्वरा पूर्णज्ञत्वकर्तृत्वादिशालिनी भवेत् -- इत्यर्थः, तेन संकुचितज्ञत्वकर्त्तृत्वाद्यपहस्तनपुरःसरं स्वात्मप्रत्यभिज्ञापनार्थम् अवश्योपादेयोऽयम् उपदेशादियत्नः इति सिद्धम् || २१६ || तदेव प्रकृते योजयति -- एवं वैकल्पिकी भूमिः शाक्ते कर्तृत्ववेदने | यस्यां स्फुटे परं त्वस्यां सङ्कोचः पूर्वनीतितः || १-२१७ || तथा सङ्कोचसम्भारविलायनपरस्य तु | सा यथेष्टान्तराभासकारिणी शक्तिरुज्ज्वला || १-२१८ || इह सविकल्पज्ञानात्मनि शाक्तोपाये यद्यपि निर्विकल्पापेक्षया स्फुटे ज्ञानक्रिये, तथापि मातृदौरात्म्यात् ते संकुचित एव, इति अत्रापि उपदेशादियत्नेन अवश्यं भाव्यं येन सर्वस्य तथा सङ्कोचविलायनपरतया सा शाक्ती भूः उज्ज्वला विकस्वरा, यदियम् उपेयत्वेन अभीप्सितम् अन्तः प्रमात्रैकात्म्यस्वभावम् आभासं करोति परप्रमात्रेकरूपतया स्फुरति -- इत्यर्थः || २१७-२१८ || ननु शाक्तस्य शाम्भवाद्विकल्पाविकल्परूपत्वेन सिद्धो भेदः, विकल्पैकरूपात् पुनराणवादस्य कथं भेदः स्यात् ? इत्याशङ्कां प्रदर्श्य, तयोरेव भेदमभिधत्ते -- ननु वैकल्पिकी किं धीराणवे नास्ति तत्र सा | अन्योपायात्र तूच्चाररहितत्वं न्यरूपयत् || १-२१९ || तत्र इत्यादिना समाधिः, अन्य इति उच्चारादयः | आणवे हि उच्चारादि बाह्यमेव अवलम्ब्य वैकल्पिकी बुद्धिरस्ति, अत्र शाक्ते पुनस्तद्रहितत्वेन इति विशेषः, अत एव चेतसैव इति सावधारणं चिन्तनमात्रम् अत्रोक्तम् || २१९ || नन्वत्र किमुच्चारमात्रेणैव रहितत्वम्, उत करणादिभिरपि ? -- इत्याह - - उच्चारशब्देनात्रोक्ता बह्वन्तेन तदादयः |
SK
शक्त्युपाये न सन्त्येते भेदाभेदौ हि शक्तिता || १-२२० || बह्वन्तेन इति बहुवचनादाद्यर्थो हि लभ्यते -- इति भावः, तेन उच्चारैः रहितम् इति विग्रहो दर्शयितव्यः | एते इति उच्चारकरणादयः | न सन्ति इति भेदैकानिष्ठत्वादेषाम् | अत्र हि बाह्योच्चारादिरहितत्वात् अभेदस्य विकल्पात्मकत्वाच्च भेदस्यापि सम्भवः इत्युभयमयत्वम्, तदाह -- ᳚भेदाभेदौ हि शक्तिता᳚ इति | आणवे पुनर्भेदस्यैव प्राधान्यम् || २२० || तदाह -- अणुर्नाम स्फुटो भेदस्तदुपाय इहाणवः | विकल्पनिश्चयात्मैव पर्यन्ते निर्विकल्पकः || १-२२१ || पर्यन्ते निर्विकल्पकः इत्यनेन अस्यापि शाम्भव एव विश्रान्तिरिति दर्शितम् || २२१ || ननु -- शदाशिवादयस्तूर्ध्वव्याप्त्यभावादधोजुषः | शक्तीः समाक्षिपेयुः .................... ||᳚ २२१ || इत्याद्युक्तयुक्त्या बुद्ध्यादीनां शिवे व्यापृतिरेव नास्ति इति कथमेषां तदवाप्तावुपायत्वमपि उक्तम्? -- इत्याह -- ननु धीमानसाहंकृत्पुमांसो व्याप्नुयुः शिवम् | नाधोवर्तितया तेन कथितं कथमीदृशम् || २२२ || एतदेव समाधत्ते -- उच्यते वस्तुतोऽस्माकं शिव एव तथाविधः | स्वरूपगोपनं कृत्वा स्वप्रकाशः पुनस्तथा || २२३ || वस्तुतो हि शिव एव अस्माकम् -- अद्वैतवादिनां मते -- ᳚शिव एव गृहीतपशुभावः |᳚ इत्याद्युक्तयुक्त्या स्वस्वातन्त्र्यमाहात्म्यादात्मानं प्रच्छाद्य तथाविधः बुद्ध्यादिरूपः परिमितः प्रमाता स्यात्, स एव पुनः उद्वेष्टनयुक्त्या बुद्ध्याद्यपायासादनक्रमेणैव तथा शिव एव स्वप्रकाशो भवति इति शिवेऽपि बुद्ध्यादयो व्याप्रियेरन् नो वा इति न कश्चिद्दोषः || २२३ || न केवलमेतदद्वैतशास्त्रेषु उक्तं यावत् द्वैतशास्त्रेष्वपि -- इत्याह - - द्वैतशास्त्रे मतङ्गादौ चाप्येतत्सुनिरूपितम् | अधोव्याप्तुः शिवस्यैव स प्रकाशो व्यवस्थितः || १-२२४ || येन बुद्धिमनोभूमावपि भाति परं पदम् || १-२२५ || यदुक्तं तत्र� ᳚इत्थं गुणवतस्तस्मात्तत्त्वात्तत्त्वमनिन्दितम् | स्फुरद्रश्मिसहस्राढ्यमधस्ताद् व्यापकं महत् ||᳚
SK
इति | एतदेव निगमयति ᳚अधोव्याप्तुः᳚ इत्यादिना | स इति बुद्ध्यादिरूपः, येन इति बुद्ध्यादीनां शिवप्रकाशैकरूपत्वेन हेतुना || २२४-२२५ || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह -- द्वावप्येतौ समावेशौ निर्विकल्पार्णवं प्रति | प्रयात एव तद्रूढिं विना नैव हि किञ्चन || १-२२६ || प्रतिः -- आभिमुख्ये, तेन एतदुभयमपि परप्रकाशात्मनि शाम्भवावेशे एव विश्रान्तम् -- इत्यर्थः | यद्धि तत्र न विश्रान्तं तदप्रकाशमानत्वात् न किञ्चित् स्यात् इत्युक्तम् -- ᳚तद्रूढिं विना नैव हि किञ्चन᳚ इति | एवं च निर्विकल्पात्मा परः प्रकाश एव सर्वेषामेषामुपायः इत्युक्तं स्यात् || २२६ || न चैतदस्मदुपज्ञमेव -- इत्याह -- संवित्तिफलभिच्चात्र न प्रकल्प्येत्यतोऽब्रवीत् | कल्पनायाश्च मुख्यत्वमत्रैव किल सूचितम् || १-२२७ || अतः इति -- एकस्यामेव निर्विकल्पात्मिकायां संवित्तौ अनुप्रवेशात् | तदुक्तम् -- शंवित्तिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः |᳚ इति | अत्र च उपायानां नानात्वात् प्राप्तं तावत्फलभेदकल्पनम्, अन्यथा हि निषेधस्य प्राप्तिपूर्वत्वात् स एवात्र न स्यात् इति ङ प्रकल्प्या᳚ इत्युक्त्या एतदाक्षिप्तम् -- इत्याह -- कल्पनाया इति | मुख्यत्वम् इति अभिधेयत्वम् | सूचितम् इति -- न तु साक्षादभिहितम् -- इति भावः || २२७ || न केवलमिह निर्विकल्पके विश्रान्तिसतत्त्वं यावदितो बाह्यानां मतेऽपि -- इत्याह� विकल्पापेक्षया योऽपि प्रामाण्यं प्राह तन्मते | तद्विकल्पक्रमोपात्तनिर्विकल्पप्रमाणता || १-२२८ || तस्य विकल्पापेक्षनिर्विकल्पप्रामाण्यवादिनो वैभाषिकादेः मतेऽपि, ते च ते विकल्पाः, तेषां यः क्रमः परम्परा, तया उपात्ता जनिता, निर्विकल्पस्यैव प्रमाणता -- विकल्पोपारोहेण निर्विकल्प एव विश्रान्तिः - - इत्यर्थः || २२८ || एतदेव उदाहरति� रत्नतत्त्वमविद्वान्प्राङ्निश्चयोपायचर्चनात् | अनुपायाविकल्पाप्तौ रत्नज्ञ इति भण्यते || १-२२९ ||
SK
यः कश्चन वैकटिकादिः आदौ अविकल्पवृत्या रत्नस्वरूपमजानानोऽपि ᳚किमेवमस्य तत्त्वं न वा᳚ इत्यादिकल्पनामुखेन विचारमवलम्ब्य, अनुपायस्य स्वारसिकस्य अविकल्पस्य उत्थाने रत्नज्ञः तद्विषयतत्त्वं निर्विकल्पं जानानः इत्युच्यते -- इति वाक्यार्थः | एवमाणवाद्यभिज्ञेऽपि वाच्यम् || २२९ || इह खलु भेदभेदाभेदाभेदात्मना त्रिधा ज्ञानं यदुक्तम् -- ᳚वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते | भेदेन भेदाभेदेन तथैवाभेदभागिना ||᳚ इति, तत्र आणवं भेदप्रधानमुक्तम्, शाक्तं च भेदाभेदप्रधानं शाम्भवं पुनः किं प्रधानम् ? इत्याशङ्क्याह� अभेदोपायमत्रोक्तं शाम्भवं शाक्तमुच्यते | भेदाभेदात्मकोपायं भेदोपायं तदाणवम् || १-२३० || ननु� ᳚...................ंउक्तिश्च शिवदीक्षया |᳚ इत्याद्युक्तेः दीक्षादेः क्रियाया अपि मुक्त्युपायत्वमुक्तम् इति सा किमुपायान्तरमतिरिक्तम्, उत अत्रैव कुत्रचिदन्तर्भावमेति ? इत्याशङ्क्याह -- अन्ते ज्ञानेऽत्र सोपाये समस्तः कर्मविस्तरः | प्रस्फुटेनैव रूपेण भावी सोऽन्तर्भविष्यति || १-२३१ || सोपाये इति उच्चाराद्युपायसहभूते -- इत्यर्थः | अत एव तत्र शोपाये᳚ इति प्रागुक्तम् | समस्तः कर्मविस्तरः इति दीक्षादिर्विचित्रः क्रियाकलापः, भावी वक्ष्यमाणः | अन्तर्भविष्यति इत्यनेन -- नैतदतिरिक्तम् उपायान्तरमस्ति -- इत्यावेदितम् || २३१ || ननु सजातीये सजातीयस्य अन्तर्भावो न्याय्यो न तु इतरथा, इति कथं दीक्षादेः क्रियाया आणवज्ञानान्तर्भावः स्यात् ? इत्याशङ्क्याह -- क्रिया हि नाम विज्ञानान्नान्यद्वस्तु क्रमात्मताम् | उपायवशतः प्राप्तं तत्क्रियेति पुरोदितम् || १-२३२ || तत् इति विज्ञानम्, पुरा इति -- ᳚यतो नान्या क्रिया नाम᳚ इत्यादौ ||२३२|| ननु ᳚ज्ञानं मोक्षैककारणम्᳚ इत्यादिना ᳚ज्ञानान्मुक्तिः᳚ इति तावत्प्रतिज्ञातं तत्किं स्वाधिकरणं मोचकम्, उत पराधिकरणम् ? स्वाधिकरणत्वे च तस्य किं दीक्षायां सत्यामसत्यां वा मोचकत्वम् ? असत्यां चेत् -- ङ चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे |᳚
SK
इत्याद्युक्त्या ज्ञानाधिगमे एव अधिकारो नास्ति इति किं कस्य मोचकं स्यात्, सत्यां चेत् परापेक्षात्मनैव स्वात्मनि दीक्षाकरणानुपपत्तेः, पराधिकरणत्वे च कारणमन्यत्र कार्यं च अन्यत्र इति महान् दोषः ? इत्याशङ्क्याह -- सम्यग्ज्ञानं च मुक्त्येककारणं स्वपरस्थितम् | यतो हि कल्पनामात्रं स्वपरादिविभूतयः || १-२३३ || कल्पनामात्रम् इति, वस्तुतो हि एकैव संवित् तत्तत्स्वपराद्याभासतया प्रस्फुरति -- इत्यभिप्रायः || २३३ || अत एवाह� तुल्ये काल्पनिकत्वे च यदैक्यस्फुरणात्मकः | गुरुः स तावदेकात्मा सिद्धो मुक्तश्च भण्यते || १-२३४ || गुर्वगुर्वाद्यपेक्षया स्वपरकल्पनायाः साम्येऽपि येन शिष्येण गुरुणा वा यदैक्यम् एकीकारः तेन स्फुरणम् स्वपराद्याभासविभागाभावेन एकघनसंविद्रूपतया विमर्शनं तदात्मा यो गुरुः स तावान् एक्यस्फुरणावधिः एक आत्मा यस्य तथाभूतः सन् सिद्धो मुक्तश्च पारमैश्वर्यमात्रमुच्यते -- इत्यर्थः | इदमुक्तं भवति -- यावदस्य हि स्वसंविदेकात्मत्वेन परामर्शः तावदयम् एक एव प्राप्तपरप्रकाशैकात्म्यः परिस्फुरति इति | तदुक्तम् -- ᳚एवं व्याप्तिं तु यो वेत्ति परापरविभागतः | स भवेन्मोचकः साक्षाच्छिवः परमकारणम् ||᳚ इति || २३४ || अत एवाह� यावानस्य हि संतानो गुरुस्तावत्स कीर्तितः | सम्यग्ज्ञानमयश्चेति स्वात्मना मुच्यते ततः || १-२३५ || तत एव स्वसंतानं ज्ञानी तारयतीत्यदः | युक्त्यागमाभ्यां संसिद्धं तावानेको यतो मुनिः || १-२३६ || संतानः शिष्यप्रशिष्यादिरूप इति, इति तावदात्मत्वेन एकस्यैवास्य स्फुरणात् | तत इति तावतः संतानात् | तावन्तं हि संतानमवलम्ब्य संविदैकात्म्यात् एक एवायं गुरुः इति यत् संतानिनो मुच्यन्ते, तत् स एव स्वात्मना मुच्यते इति स्वपरविभागस्य काल्पनिकत्वात् न कश्चिद्दोषः | अत एवाह -- ᳚तत एव᳚ इत्यादि, तारयति इति | तदुक्तम्� ᳚आचार्यः स्वजनानां च कुलकोटिसहस्रशः | ज्ञानज्ञेयपरिज्ञानात्सर्वान्संतारयिष्यति ||᳚
SK
इति | अत्र हेतुः ᳚तावानेको यतो मुनिः᳚ मुनिः इति गुरुः || २३५-२३६ || एवं च सति अयत्नेन परोक्तदूषणोद्धारः सिद्धः -- इत्याह -- तेनात्र ये चोदयन्ति ननु ज्ञानाद्विमुक्तता | दीक्षादिका क्रिया चेयं सा कथं मुक्तये भवेत् || १-२३७ || ज्ञानात्मा सेति चेज्ज्ञानं यत्रस्थं तं विमोचयेत् | अन्यस्य मोचने वापि भवेत्किं नासमञ्जसम् | इति ते मूलतः क्षिप्ता यत्त्वत्रान्यैः समर्थितम् || १-२३८ || ये इति भेदवादप्रकाराः, ते इति एवं चोद्यविधायिनः, क्षिप्ताः प्रतिक्षिप्ताः | यन्मूलत एव ज्ञानक्रिययोरैक्यमभ्युपगतं स्वपरविभागस्य च काल्पनिकत्वम् इति तदेव च अत्र प्रतिसमाधानं नान्यत् इत्याह -- ᳚यत्तु᳚ इत्यादि | यदन्यैर्भेदेश्वरवादिभिर्निरूपितं तत् पुरस्तात् निषेत्स्यामः -- इति सम्बन्धः || २३७-२३८ || ननु यदि भेदवाद्युक्तं मलस्य द्रव्यरूपत्वं नाभ्युपेयते, तत्तस्य किं रूपम् ? इत्याशङ्क्याह� मलो नाम किल द्रव्यं चक्षुःस्थपटलादिवत् | तद्विहन्त्री क्रिया दीक्षा त्वञ्जनादिककर्मवत् || १-२३९ || तत्पुरस्तान्निषेत्स्यामो युक्त्यागमविगर्हितम् | मलमायाकर्मणां च दर्शयिष्यामहे स्थितिम् || १-२४० || एतदेव अधिकावापेन उपसंहरति -- एवं शक्तित्रयोपायं यज्ज्ञानं तत्र पश्चिमम् | मूलं तदुत्तरं मध्यमुत्तरोत्तरमादिमम् || १-२४१ || पश्चिममिति आणवम्, मूलमिति, तस्यैव शाक्तक्रमेण शाम्भवे विश्रान्तिः | तदाह -- तदुत्तरम् इति, तस्मात् आणवात्, उत्तरम् विश्रान्तिस्थानत्वादधिकं शाक्तम् उत्तरात् शाक्तादपि उत्तरं शाम्भवम् | यदुक्तम् -- ᳚विभुशक्त्यणुसम्बन्धात्समावेशस्त्रिधा मतः | इच्छाज्ञानक्रियायोगादुत्तरोत्तरसम्भृतः ||᳚ इति || २४१ || न केवलमाणवादेः विश्रान्तिधामतया शाम्भवमेव ज्ञानमुत्कृष्टम्, यावदस्मादनुपायाख्यम् अन्यत् -- इत्याह� ततोऽपि परमं ज्ञानमुपायादिविवर्जितम् | आनन्दशक्तिविश्रान्तमनुत्तरमिहोच्यते || १-२४२ ||
SK
परमम् इति -- उपेयैकरूपत्वात्, अत एवोक्तम् -- ᳚उपायादिविवर्जितम्᳚ इति | अत एव च ᳚आनन्दशक्तिविश्रान्तम्᳚ -- इत्युक्तम् | इच्छादीनां हि एषणीयादिविषयावच्छेदेन बाह्योन्मुखत्वात् भेदसम्भावनापि स्यात्, आनन्दशक्तिः पुनः -- ᳚आनन्दो ब्रह्मणो रूपम् .................. |᳚ इत्याद्युक्त्या हि चितस्तत्स्वरूपमेव इति, नात्र उपायगन्धोऽस्ति�इति तात्पर्यम् || २४२ || एतच्च न स्वोपज्ञम् अपि तु सर्वत्रैव आगमेषु उक्तम् -- इत्याह -- तत्स्वप्रकाशं विज्ञानं विद्याविद्येश्वरादिभिः | अपि दुर्लभसद्भावं श्रीसिद्धातन्त्र उच्यते || १-२४३ || मालिन्यां सूचितं चैतत्पटलेऽष्टादशे स्फुटम् | न चैतदप्रसन्नेन शङ्करेणेति वाक्यतः || १-२४४ || इत्यनेनैव पाठेन मालिनीविजयोत्तरे | तत्र हि� ᳚अनायासमनारम्भमनुपायं महाफलम् | श्रोतुमिच्छामि योगेश योगं योगविदां वर ||᳚ इति देव्या पृष्टे� ᳚शृणु देवि प्रवक्ष्यामि योगामृतमनुत्तमम् | यत्प्राप्य शिवतां मर्त्या लभन्त्यायासवर्जिताः || न चैतदप्रसन्नेन शङ्करेणोपदिश्यते | कथंचिदुपलब्धेऽपि वासना न प्रजायते ||᳚ इत्याद्युपक्रम्य� ᳚तस्मात्तदभ्यसेन्नित्यमविरक्तेन चेतसा | स विसर्गो महादेवि यत्र विश्रान्तिमर्हति || गुरुवक्त्रं तदेवोक्तं शक्तिचक्रं तदुच्यते | तदेव सर्वमन्त्राणामुत्पत्तिस्थानमुत्तमम् ||᳚ इत्याद्युक्तम् || २४३-२४४ || अयमेव च शास्त्रार्थः -- इत्याह -- इति ज्ञानचतुष्कं यत्सिद्धिमुक्तिमहोदयम् | तन्मया तन्त्र्यते तन्त्रालोकनाम्न्यत्र शासने || १-२४५ || इतीति -- तन्त्रालोके -- तन्त्राणां पारमेश्वराणाम्, आलोक इव आलोकः, तानि आलोकयति प्रकाशयति इति वा | इति -- उक्तस्वरूपं यत् ज्ञानचतुष्कम्, किं भूतम् ? सिद्धिमुक्त्योर्महान् उदयः अस्मिन् इति कृत्वा महोदयम्, तत् अत्र तन्त्रालोके शासने तन्त्र्यते विस्तरेण प्रकाश्यते -- इत्यर्थः || २४५ || अथ -- ᳚तत्र नानुपलब्धेऽर्थे न निर्णीते प्रवर्तते | किं तु संशयिते न्यायस्तदङ्गं तेन संशयः ||᳚
SK
इत्याद्युक्त्या प्रायः संशयिते एव अर्थे निर्णयात्मनः शास्त्रस्य प्रणयनमुक्तम् इति संशयस्य तदङ्गत्वात् प्रथमं तत्स्वरूपमेव निरूपयितुम् उपक्रमते -- तत्रेह यद्यदन्तर्वा बहिर्वा परिमृश्यते | अनुद्घाटितरूपं तत्पूर्वमेव प्रकाशते || १-२४६ || अन्तः मानसविज्ञानादौ, अनुद्घाटितरूपमिति अनुल्लिखितविशेषम्, सामान्यधर्मात्मकम् -- इत्यर्थः || २४६ || अयमेव च प्रायः शंशयः᳚ इत्युच्यते -- इत्याह -- तथानुद्घाटिताकारा निर्वाच्येनात्मना प्रथा | संशयः कुत्रचिदूर्पे निश्चिते सति नान्यथा || १-२४७ || तथा -- प्राथमिकत्वेन अनुद्घाटितः करचरणादिविशेषधर्मानवगमात् अनुन्मुद्रितो योऽसौ ऊर्ध्वतादिः सामान्यधर्मा आकारः तेन अनिर्वाच्येन अन्यतरधर्मिविशेषनिश्चयाभावात् उभयांशावलम्बित्वेन नियतरूपतया वक्तुमशक्येन आत्मना स्वरूपेण विशिष्टा या प्रथा प्रतीतिः सा संशयः, स हि ऊर्ध्वतादेः सामान्यात्मनो धर्मस्य अधिगमे वक्त्रकोटरत्वादीनां विशेषधर्माणां च अनधिगमे सति उदियात् | तदाह ᳚कुत्रचित्᳚ इत्यादि -- कस्मिंश्चित् सामान्यधर्मावच्छेदिनि धर्मिणि -- इत्यर्थः | नान्यथा इति -- सर्वात्मना निश्चिते धर्मिणि अनिश्चिते वा इति यावत् || २४७ || एतदेव विभज्य दर्शयति -- एतत्किमिति मुख्येऽस्मिन्नेतदंशः सुनिश्चितः | संशयोऽस्तित्वनास्त्यादिधर्मानुद्घाटितात्मकः || १-२४८ || एतत्किमिति -- परामर्शात्मा संशयः, श्थाणुर्वा पुरुषो वा᳚ इत्यादिपरामर्शान्तरापेक्षया सर्वेषामेव विशेषधर्माणाम् अनुद्घाटितत्वात् मुख्यः, तत्र च किम् इत्यंशापेक्षया य एतदंशः स धर्मिमात्रग्रहणात् सुष्ठु निश्चितः | ननु -- ङियतोभयांशावलम्बी विमर्शः संशयः |᳚
SK
इति संशयस्य लक्षणम्, तत्र चेत् एकः कश्चिदंशो निश्चितः तत्कृतं तेन, इत्याह शंशयः᳚ इत्यादि | अस्तित्वं च नास्तित्वं च तत् अस्तित्वनास्तित्वमादिर्येषां विशेषधर्माणां तैः अनुद्घाटितः अनुन्मुद्रितः, आत्मा स्वरूपं यस्य स तथा, यत्र हि सत्त्वासत्त्वाख्ययोरपि धर्मयोरनिश्चितत्वात् उद्घाटनं न वृत्तं तत्र का वार्ता अन्येषां धर्माणाम् ? इति सर्वेषामेव धर्माणाम् अनुल्लिखिताकारत्वात् नियतधर्मानवलम्बनात् अयं मुख्यः संशयः, किमित्यंशो हि अनुल्लिखितार्थाकाराभिधायक एव -- इति भावः || २४८ || तदाह� किमित्येतस्य शब्दस्य नाधिकोऽर्थः प्रकाशते | अधिकः इति -- एतच्छब्दार्थात् || तर्हि किमर्थमुपाधीयते ? इत्याशङ्क्याह -- किं त्वनुन्मुद्रिताकारं वस्त्वेवाभिदधात्ययम् || १-२४९ || अयम् इति -- किं-शब्दः || २४९ || संशयस्य च मुख्यत्वं क्वचिदमुख्यत्वे सति युज्यत इत्यस्यामुख्यत्वमपि दर्शयितुमाह -- स्थाणुर्वा पुरुषो वेति न मुख्योऽस्त्येष संशयः | भूयःस्थधर्मजातेषु निश्चयोत्पाद एव हि || २५० || न मुख्यः इति -- पूर्ववत् सर्वेषामेव धर्माणाम् अनुद्घाटितरूपत्वाभावात्, यतः स्थाण्वादिनियतपरामर्शान्यथानुपपत्त्या भूयसामस्थाण्वादिवर्तिनां धर्माणाम् एष निश्चयात्मा प्रत्ययः || २५० || ननु यद्येवं तर्हि अत्र वा अर्थसंभेदसम्भवात् नियतस्य च अनिश्चयात् उदितानुदितहोमन्यायेन विकल्प एव भवेत् ? इत्याशङ्क्याह -- आमर्शनीयद्वैरूप्यानुद्घाटनवशात्पुनः | संशयः स किमित्यंशे विकल्पस्त्वन्यथा स्फुटः || १-२५१ ||
SK
आमर्शनीयम् स्थाणुपुरुषलक्षणं यत् द्वैरूप्यं, तस्य अनुद्घाटनम् -- वक्त्रकोटरत्वादिविशेषरूपतयानाविष्करणम् ततोऽयं प्रत्ययः किमित्यंशसंभेदात् संशय एव | श्थाणुर्वा पुरुषो वा᳚ इत्यत्र हि किं स्थाणुः किं पुरुषः इत्येव तात्त्विकः संशयार्थः, यदि परमेतत् किमिति केवले किमंशे सर्वेषामेव विशेषधर्माणाम् अनुद्घाटितरूपत्वात् मुख्यत्वम्, अत्र च नियतविशेषधर्मानवगमात् अमुख्यत्वम् -- इति विशेषः | विकल्पे पुनर्व्रीहियवयोरुभयोरपि निश्चितत्वे सति नानुद्घाटितरूपत्वम्, तदाह ᳚विकल्पस्त्वन्यथा स्फुटः᳚ इति | अन्यथा इति -- आमर्शनीययोर्द्वयोरपि व्रीहियवयोर्विशेषधर्मात्मना निश्चयात्, एवंविधश्चायं संशयः शास्त्रप्रवृत्तौ निमित्ततां भजते इत्युक्तप्रायम् | शास्त्रं हि निर्णयात्म, निर्णयश्च प्रायः संदिग्ध एवार्थे प्रवर्तते, नहि उपलब्ध एव संशयविषयता प्रतिपद्यते नानुपलब्धः, संशयस्य च प्रमातृधर्मत्वात् यद्यपि केनचित्संशयानेन संदिग्धोऽर्थः प्रतिपद्यते तदा तस्योपलम्भः स्यात्, तत्प्रतिपादनमेव च प्रश्नः इति सोऽपि स्वकारणवत् शास्त्रप्रवृत्तौ निमित्ततां यायात्, तन्निर्णयाय च प्रारभ्यमाणस्य शास्त्रस्य त्रिविधा प्रवृत्तिः -- उद्देशो, लक्षणं, परीक्षा च इति | नामधेयेन पदार्थाभिधानमात्रं चोद्देशः, तस्य च प्रथममवश्यमुपादानं कार्यम्, अनुद्दिष्टस्य लक्षणपरीक्षानुपपत्तेः, अतश्च उद्देशं विना लक्षणपरीक्षात्मशास्त्रस्य प्रणयनमेव न घटते�इत्यस्यापि तत्र अङ्गत्वम् || २५१ || ननु एकेनैव शास्त्रप्रणयनसिद्धेः किमर्थ त्रितयम् ? इति चेत्, न चैतत् -- परस्परानुषक्ततयैव अत्र एषां निमित्तत्वाभिधानात् | संशयित एव हि अर्थः केनचिदभिधीयमानः शास्त्रेण उद्देशादिद्वारेण निर्णीयते इति, अत एव च स्वरूपभेदेऽपि एवं शास्त्रप्रवृत्तौ अनुद्घाटितात्मप्रथात्मकेन समानेन रूपेण कारणत्वमस्ति इति प्रतिपादयितुमाह -- तेनानुद्घाटितात्मत्वभावप्रथनमेव यत् |
SK
प्रथमं स इहोद्देशः प्रश्नः संशय एव च || १-२५२ || तेन पूर्वोक्तेन न्यायेन अनुद्घाटितात्मत्वेन भावस्य वस्तुमात्रस्य प्रथमं यत् प्रथनं स एव इहोद्देशः -- प्रश्नः संशयश्च इति, तत्र संशयस्य तावदेवंरूपत्वं समनन्तरमेव उक्तम्, उद्देशे च अनुद्घाटितत्वेनैव वस्तुनः प्रथनं रूपम् -- नामधेयमात्रेणैव पदार्थानामभिधानात् | प्रश्नेऽपि एवं वाच्यम्, अन्यथा हि निर्णयात्मत्वे प्रतिवचनादस्य विशेषो न स्यात् || २५२ || तत्र संशयितेऽर्थे प्रश्नः प्रवर्तते, इति तन्निर्णयानन्तरं निर्णेतव्यः प्रश्नः, इति प्राप्तावसरं तत्सतत्त्वमेव वक्तुमाह -- तथानुद्घाटिताकारभावप्रसरवर्त्मना | प्रसरन्ती स्वसंवित्तिः प्रष्ट्री शिष्यात्मतां गता || १-२५३ || इह अद्वयनये ᳚परमार्थसती संविदेव सर्वम्᳚ इति प्रष्टृप्रतिवक्तृरूपगुरुशिष्याद्यात्मनो भेदस्य तावदनुपपत्तिः इति | तथा पूर्वोक्तेन प्रकारेण अनुद्घाटिताकारः�सर्वभावनिर्भरत्वात् संविदेकरूपो योऽसौ भावः पारमार्थिकं पूर्णस्वभावं वस्तु, तस्य यः प्रसरः पश्यन्त्यादिदशाक्रमणेन अवरोहः, तदेव वर्त्म, तेन प्रसरन्ती वैखर्यादिरूपतामासादयन्ती, स्वसंविदेव, संकुचिता, प्रमात्रात्माशिष्यभूमिकाम् अवभासयन्ती ᳚प्रष्ट्री᳚ इत्युच्यते -- इत्यर्थः || २५३ || कुत्र कथं चास्याः प्रष्ट्टत्वम् ? इत्याह -- तथान्तरपरामर्शनिश्चयात्मतिरोहितेः | प्रसरानन्तरोद्भूतसंहारोदयभागपि || १-२५४ || यावत्येव भवेद्बाह्यप्रसरे प्रस्फुटात्मनि | अनुन्मीलितरूपा सा प्रष्ट्री तावति भण्यते || १-२५५ ||
SK
तथा -- परमाद्वयमयत्वेन, आन्तरः -- प्रमात्रैगकात्म्यरूपः, योऽसौ परामर्शः, तस्य निश्चयो -- दार्ढ्यम्, तदात्मनस्तिरोहितेः -- उत्तरोत्तरस्य रूपस्य पूर्वपूर्वत्रानवस्थितेः, प्रसरात् -- बाह्यौन्मुख्यात्, अनन्तरमुद्भूतौ यौ संहारश्च -- पराद्यात्मनो रूपस्य स्वात्मन्येव विश्रान्तिः, उदययश्च -- पश्यन्त्याद्यात्मना रूपेण बहिरुद्भवः, तौ भजते, तद्रूपा हि सा संवित् यावति प्रस्फुटात्मनि�ग्राह्यग्राहकयुगलकाद्याभासस्वभावे बाह्यप्रसरे, अनुन्मीलितरूपा -- संविद्रूपत्वेन अनवभासमाना, भवेत् तावत्येव अनुद्घाटितात्मत्वेन प्रथनात् ᳚प्रष्ट्री᳚ इत्युच्यते -- इत्यर्थः || २५४- २५५ || न केवलं संविदः प्रष्ट्टत्वमेव अस्ति, यावत् प्रश्नादिरूपत्वमपि -- इत्याह� स्वयमेवं विबोधश्च तथा प्रश्नोत्तरात्मकः | गुरुशिष्यपदेऽप्येष देहभेदो ह्यतात्त्विकः || १-२५६ || तदुक्तम्� ᳚गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः | पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं समवतारयत् ||᳚ इति | तथा -- ᳚प्रष्ट्री च प्रतिवक्त्री च स्वयं देवी व्यवस्थिता |᳚ इति | ननु गुरुशिष्ययोः परस्परं भेदः साक्षादुपलभ्यते इति किं नाम अनयोर्बोधरूपत्वम् ? इत्याह -- एष इत्यादि | अतात्त्विकः इति -- अवास्तवः | बोध एव हि स्वस्वातन्त्र्यमाहात्म्यात् स्वात्मनि तत्तद्देहादिभावम् आभासयति -- इति भावः || २५६ || तदाह -- बोधो हि बोधरूपत्वादन्तर्नानाकृतीः स्थिताः | बहिराभासयत्येव द्राक्सामान्यविशेषतः || १-२५७ || बोधात्मा परमेश्वरो हि बोधनक्रियाकर्तृत्वलक्षणात् बोधरूपत्वात् अन्तःस्थिता नानाकृतीः -- तत्तद्भावजातम्, द्राक् -- अनन्यापेक्षितया निर्विलम्बनमेव, सामान्यविशेषरूपत्वेन, बहिः -- विच्छेदेन, अवभासयत्येव इति वाक्यार्थः || २५७ || तत्र सामान्यस्य किं नाम बहिरवभासनम् ? -- इत्याह -- स्रक्ष्यमाणविशेषांशाकांक्षायोग्यस्य कस्यचित् | धर्मस्य सृष्टिः सामान्यसृष्टिः सा संशयात्मिका || १-२५८ || स्रक्ष्यमाणाः -- स्वालक्षण्येन उल्लासयिष्यमाणा ये विशेषांशाः, तत्र --
SK
ङिर्विशेषं हि सामान्यं भवेच्छशविषाणवत् |᳚ इत्याद्युक्तयुक्त्या तदविनाभावित्वेन आकांक्षा औन्मुख्यम्, तत्र योग्यस्य -- तदौन्मुख्याभावेऽपि सर्वगतत्वात् तत्स्वरूपानपायात् अनुगुणस्य, कस्यचित् नियतस्य गोत्वादेः धर्मस्य, बहिरवभासनात्मा सृष्टिः सामान्या सृष्टिः, सा एव च अनुद्घाटितात्मप्रथारूपत्वात् शंशयः᳚ इति -- विशेषाकांक्षानुगुणसामान्यप्रतीतिरेव संशयप्रतीतिः -- इत्यर्थः || २५८ || एवं विशेषसृष्टिरपि निश्चयप्रतीतिरूपा -- इत्याह -- स्रक्ष्यमाणो विशेषांशो यदा तूपरमेत्तदा | निर्णयो मातृरुचितो नान्यथा कल्पकोटिभिः || १-२५९ || यदा पुनर्निश्चयोपयोगिना सर्वविशेषाणां सृष्टत्वात् स्रक्ष्यमाणो विशेषांश उपरमेत् -- विशेषविषया सृष्टिः समाप्येत, तदा स एव उद्घाटितात्मप्रथारूपत्वात् श्थाणुरेवायम्᳚ इति प्रत्ययात्मा निश्चयः स्यात् | एतदुत्पादे च प्रमातुरिच्छैव निबन्धनम् -- इत्युक्तम् ᳚मातृरुचितः᳚ इति | प्रमाता हि यावदेव ᳚ज्ञातं मया᳚ इति परितुष्येत्, तावदेव निश्चितं भवति -- इति भावः, अन्यथा पुनः स कदाचिदपि न भवेत्, प्रमात्रिच्छायामेवाविश्रान्तेः | तदाह -- ङान्यथा कल्पकोटिभिः᳚ इति || २५९ || न केवलमस्य निश्चयमात्ररूपत्वमेवास्ति, यावल्लक्षणादिरूपत्वमपि -- इत्याह -- तस्याथ वस्तुनः स्वात्मवीर्याक्रमणपाटवात् | उन्मुद्रणं तयाकृत्या लक्षणोत्तरनिर्णयाः || १-२६० || तस्य -- विशेषात्मनो वस्तुनो यत् स्वात्मनो वीर्यम् -- तदितरपरावृत्तत्वम्, तस्य आक्रमणम् -- स्वात्मना विषयीकरणम्, तत्र पाटवम् -- नैराकांक्ष्यात्तीव्रत्वम्, ततो यत् तेनैव आकारेण उन्मुद्रणम् -- प्रतिनियतस्वस्वरूपाविष्करणम्, तत् उद्घाटितात्मप्रथामयत्वस्य अविशेषात् ᳚लक्षणम्᳚ इति ᳚उत्तरम्᳚ इति ङिर्णयः᳚ इति चोच्यते | तत्र -- असाधारणस्तत्त्वावबोधको धर्मो लक्षणम्, तत्त्वावबोधोपकरणं दूषणोद्धरणमुत्तरम्, तत्त्वावबोधो निर्णयः || २६० || ननु तत्त्वावबोधसारत्वस्य अविशेषात्, परीक्षापि लक्षणेनैव निर्णयवत् कथं न संगृहीता ? इत्याशङ्क्याह --
SK
निर्णीततावद्धर्मांशपृष्टपातितया पुनः | भूयो भूयः समुद्देशलक्षणात्मपरीक्षणम् || १-२६१ || निर्णीतः -- निर्णयविषयीकृतः, तावान् -- नियतलक्षणलक्ष्यः, योऽसौ धर्मांशः -- तद्विषयतया पौनःपुन्येन यः समुद्देशः, यच्च लक्षणम् -- साधारणासाधारणधर्मनिरूपणम्, तदात्मकं पुनः परितः -- सर्वतो निःशेषप्रतिपक्षप्रतिक्षेपेण ईक्षणम् -- परीक्षा -- इति वाक्यार्थः || २६१ || एतच्च उद्देशादित्रयं सर्वत्रैवास्ति -- इत्याह -- दृष्टानुमानौपम्याप्तवचनादिषु सर्वतः | उद्देशलक्षणावेक्षात्रितयं प्राणिनां स्फुरेत् || १-२६२ || एतदेव क्रमेण दर्शयति -- निर्विकल्पितमुद्देशो विकल्पो लक्षणं पुनः | परीक्षणं तथाध्यक्षे विकल्पानां परम्परा || १-२६३ || नगोऽयमिति चोद्देशो धूमित्वादग्निमानिति | लक्ष्यं व्याप्त्यादिविज्ञानजालं त्वत्र परीक्षणम् || १-२६४ || उद्देशोऽयमिति प्राच्यो गोतुल्यो गवयाभिधः | इति वा लक्षणं शेषः परीक्षोपमितौ भवेत् || १-२६५ || स्वःकाम ईदृगुद्देशो यजेतेत्यस्य लक्षणम् | अग्निष्टोमादिनेत्येषा परीक्षा शेषवर्तिनी || १-२६६ ||
SK
उद्देशः इति -- आलोचनमात्रस्य अनुद्घाटितात्मप्रथारूपत्वात् | लक्षणम् इति -- नीलमिति, विकल्पेन निर्विकल्पस्यैव उद्घाटितात्मप्रथारूपत्वात् | विकल्पानाम् इति -- अर्थक्रियाज्ञानपूर्वापरभाविनाम्, तत एव च अर्थतथात्वनिश्चयोत्पादः इत्येषां परीक्षात्वम् | उद्देशः इति -- नगोऽयम् इति धर्मिमात्रस्यैव अनुद्घाटितसाध्यधर्मात्मत्वेन प्रथनात् | लक्ष्यमिति -- साध्यधर्मविशिष्टतया उद्घाटितात्मप्रथारूपत्वात् | व्याप्तिः -- अन्वयव्यतिरेकौ, तद्वशादेव हि साध्यसाधनयोरविनाभावनिश्चयोत्पादः इत्यस्याः परीक्षात्मत्वम् | अयमिति -- पुरोवर्तिनः पिण्डमात्रस्य अनुद्घाटितात्मत्वेन प्रथनात् | प्राच्यः इति -- प्रथमो धर्मिविशेषानवच्छिन्नः इति यावत् | गोतुल्योऽयम् इति -- प्रमाणदशायाम्, गवयशब्दवाच्योऽयम् इति -- फलदशायां च विशेषावच्छेदस्य भावित्वात् | वा-शब्दः समुच्चये, तेन प्रमाणदशायाः फलदशायाश्च उद्घाटितात्मप्रथारूपत्वात् लक्षणत्वम् | शेषः इति -- सास्नादिमद्वाहदोहादिकारी इत्यादिः परामर्शः | ईदृक् इति -- स्वःकामः इत्येव | अस्य इति -- स्वःकामस्य | लक्षणम् इति�अधिकारानुबन्धस्य विषयानुबन्धमन्तरेणानिर्णयात् | शेषवर्तिनी इति -- ᳚शेषः परमार्थत्वात् |᳚ इति वचनात् सा अर्थवादव्यापारात्मा इतिकर्तव्यता -- इत्यर्थः | इत्युक्तम्, न च विशेषस्य आकांक्षणीयत्वमुचितम् -- तदानीं तस्य भविष्यत्तया वार्तामात्रस्यापि अभावात् ? इत्याशङ्कां सोपस्कारप्रागुक्तलक्षणानुवादपुरःसरं प्रतिक्षिपति | विकल्पस्रक्ष्यमाणान्यरुचितांशसहिष्णुनः | वस्तुनो या तथात्वेन सृष्टिः सोद्देशसंज्ञिता || २६७ || तदैव संविच्चिनुते यावतः स्रक्ष्यमाणता |
SK
विकल्पेन -- तत्प्रधानेन प्रमात्रा सामान्यस्य सृष्टत्वात्, तदपेक्षया स्रक्ष्यमाणाः -- लक्षणात् उल्लासयिष्यमाणाः, अत एव अन्ये -- ये सामान्यव्यतिरिक्ताः प्रमातुः संतोषादायकत्वाच्च, रुचिताः -- इष्टाः, ये अंशाः -- विशेषाः, तान् -- अर्थात् व्याप्यत्वेन सहते तच्छीलं यत् तस्यैवंविधस्य सामान्यात्मनो वस्तुनः, तथात्वेन -- स्रक्ष्यमाणत्वादिविशेषणविशिष्टविशेषसहिष्णुत्वेन, या सृष्टिः, तस्या उद्देश्यः -- अभिधानं, तत्र यावतः आकांक्षणीयस्य विशेषस्य स्रक्ष्यमाणता तावत्, तदैव -- उद्देशावसरे, संवित् चिनुते -- अनुसंधत्ते -- इत्यर्थः || २६७ || तत्र हेतुः� यतो ह्यकालकलिता संधत्ते सार्वकालिकम् || १-२६८ || हि-शब्दो वाक्यालङ्कारे || २६८ || ननु उद्घाटितात्मप्रथारूपत्वे सति लक्षणस्य सामान्यविशेषयोर्द्वयोरपि प्रथनात् किं लक्ष्यम्, किं वा लक्षणम् ? इत्यत्र विवेकाभावादनियमः स्यात् -- इत्याशङ्क्याह -- स्रक्ष्यमाणस्य या सृष्टिः प्राक्सृष्टांशस्य संहृतिः | अनूद्यमाने धर्मे सा संविल्लक्षणमुच्यते || १-२६९ || इह विशेषसामान्यविषयसृष्टिसंहृतिमयी संवित् लक्षणम् -- व्यवहरणबीजम -- इति | तत्र सृज्यमानस्य विशेषांशस्य विधेयतया लक्षणत्वं वाच्यम् संह्रियमाणस्य च सामान्यांशस्य अनूद्यमानतया लक्ष्यत्वम् इत्यस्त्येव विवेकः || २६९ || ननु� ᳚भूयो भूयः समुद्वेशलक्षणात्म परीक्षणम् |᳚ इत्युक्तम् तत्र च विरामनिमित्ताभावात् परीक्षाया अविश्रान्तिरेव स्यात् ? इत्याशङ्कामनुवादगर्भां प्रतिक्षिपति -- तत्पृष्ठपातिभूय्ॐशसृष्टिसंहारविश्रमाः | परीक्षा कथ्यते मातृरुचिता कल्पितावधिः || १-२७० || ननु तत्र तत्र प्रत्यक्षादौ क्रमेण पश्यन्तीमध्यमावैखरीरूपतया स्वात्मचमत्कारमयी विमर्शशक्तिरेव विजृम्भते इत्युक्तम्, तत्कथमिह उद्देशाद्यात्मना स्वसिद्धान्ताप्रसिद्धं क्रमान्तरमासूत्रितम् ? इत्याशङ्क्याह� प्राक्पश्यन्त्यथ मध्यान्या वैखरी चेति ता इमाः | परा परापरा देवी चरमा त्वपरात्मिका || १-२७१ ||
SK
ननु संख्यासाम्यमात्रादेव उद्देशादित्रयस्य पश्यन्त्यादिरूपत्वम्, इति किमिदम् ? इत्याशङ्क्याह� इच्छादि शक्तित्रितयमिदमेव निगद्यते | पूर्वेण संबन्धः | एतत्प्राणित एवायं व्यवहारः प्रतायते || १-२७२ || सकलः खलु अयं शुद्धाशुद्धात्मा व्यवहारः संविद्भित्तावेव अवभासते इति भावः | तदुक्तम्� ᳚इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ | समलो विमलो वापि व्यवहारोऽनुभूयते ||᳚ इति || २७२ || न केवलमेषाम् एवंरूपत्वं यावत् -- ᳚परो महानन्तरालो दिव्यो मिश्रस्त्वदिव्यकः | संबन्धः षड्विधस्तन्त्रे ...................... ||᳚ इत्यादिना उक्तस्य संबन्धस्यापि -- इत्याह -- एतत्प्रश्नोत्तरात्मत्वे पारमेश्वरशासने | परसंबन्धरूपत्वमभिसंबन्धपञ्चके || १-२७३ || एते समनन्तरोक्ततत्त्वे ये प्रश्नोत्तरे ते आत्मा स्वरूपं यस्य तस्य भावस्तत्त्वं, तस्मिन्सति -- इत्यर्थः | प्रष्ट्टतद्वक्त्रोरेव संबन्धो भवति -- इति भावः | संबन्धपञ्चके इति महदादिके | षष्ठो हि परः संबन्धः सर्वेषामेव एषाम् अनुप्राणकत्वेन अनुवर्तते, इति पृथगिह नोक्तः || २७३ || एतच्च स्वोपज्ञमस्माभिर्नोक्तम् -- इत्याह -- यथोक्तं रत्नमालायां सर्वः परकलात्मकः | महानवान्तरो दिव्यो मिश्रोऽन्योऽन्यस्तु पञ्चमः || १-२७४ || रत्नमालायाम् इति -- श्रीकुलरत्नमालायाम्, उक्तम् इति -- अर्थतो न तु शब्दतः | तत्र -- ᳚अदृष्टं निर्गुणं यच्च हेयोपादेयवर्जितम् | तत्तत्त्वं सर्वतत्त्वानां प्रधानं परिपठ्यते || अदृष्टविग्रहश्चैव स शान्त इति गीयते | तस्येच्छा निर्गता शक्तिस्तद्धर्मगुणसंयुता ||᳚ इत्यादिना पारमेश्वरी परा शक्तिरेव तत्तत्संबन्धात्मना प्रसृता इति सर्वस्यैव महदादेः संबन्धस्य परकलात्मकत्वमुक्तम् | अत एव च एतदेव -- शृष्टिमार्गानुसारेण आयातश्चावनीतले | कथितो देवि षष्ठस्तु यथावेशस्वरूपतः ||᳚ इत्यनेन उपसंहृतम् | मिश्रः -- दिव्यादिव्यः |
SK
अन्योऽन्यः इति -- दिव्यापेक्षया अन्यो मिश्रः, तस्मादन्योऽपि अदिव्यः इति | दिव्यदिव्यादिव्यादिव्यात्मना त्रिधैव हि सम्भवति विकल्पः | अत एवायमत्र इतरेतरशब्देन उक्तः | तदुक्तम् -- ᳚महानवान्तरो दिव्यो दिव्यादिव्यश्चतुर्थकः | इतरेतरमार्गेण पञ्चधा भिन्नलक्षणः ||᳚ इति | एतच्च सम्बन्धपञ्चकं शिवात् सदाशिवस्य, तस्मात् अनन्तनाथस्य, तस्मात् श्रीकण्ठनन्दिकुमारादीनाम्, तेभ्योऽपि सनत्कुमारादीनामृषीणाम्, तेभ्योऽपि मनुष्यादीनां क्रमेण अवगन्तव्यम् | यदुक्तं तत्रैव� ᳚शिवस्य परिपूर्णस्य परस्यामिततेजसः | तच्छक्तिश्चैव सादाख्या स्वेच्छाकर्तृत्वगोचरा || सत्त्वं तेन च सम्प्राप्तं संबन्धं प्रथमं विदुः | अवान्तरश्च योगेन सादाख्यात्क्रमशः पुनः || प्राप्तोऽनन्तेशदेवेन द्वितीयस्तेन कीर्तितः | तृतीयस्तु पुनर्देवि श्रीकण्ठो नन्दिना सह || द्वाभ्यां देवात्तु मत्वैवं तेन दिव्यः प्रकीर्तितः | व्याख्यानक्रमयोगेन विद्यापीठप्रपूजने || शिष्याचार्यस्वरूपेण पञ्चमस्त्वितरेतरः | इति पञ्चप्रकारोऽयं संबन्धः परिकीर्तितः ||᳚ इति || २७४ || परकलात्मत्वमेव व्याचष्टे -- भिन्नयोः प्रष्टृतद्वक्त्रोश्चैकात्म्यं यत्स उच्यते | प्रष्टा यथा सदाशिवः, वक्ता यथा शिवः, तच्छब्देन प्रश्नक्रियापरामर्शः, तयोर्भिन्नत्वेऽपि तावत्यर्थे संविद्दार्ढ्यैकात्म्यात् संबन्धः, तस्य भेदाभेदरूपत्वात्, एकात्म्यभावे यदा भेदगन्धस्यापि विगलनात् सर्वात्मतालक्षणा पूर्णता स्यात् तदा परः संबन्धः || तदाह� संबन्धः परता चास्य पूर्णैकात्म्यप्रथामयी || १-२७५ || परता हि पूर्णैकात्म्यप्रथालक्षणा | पूर्णे हि सर्वमस्ति, सर्वत्र च पूर्णमस्ति इत्येतत् पञ्चस्वपि संबन्धेषु अस्ति इति युक्तमुक्तम् -- शर्वः परकलात्मकः᳚ इति | तदुक्तम् -- शंबन्धः परमेशानि सर्वः परकलामयः | महानवान्तरो दिव्यो मिश्रोऽदिव्यश्च तत्परः ||᳚ इति || २७५ || संबन्धान्तरेष्वपि एतदेवातिदिशति -- अनेनैव नयेन स्यात्संबन्धान्तरमप्यलम् |
SK
शास्त्रवाच्यं फलादीनां परिपूर्णत्वयोगतः || १-२७६ || एतदेव सङ्कलयति -- इत्थं संविदियं देवी स्वभावादेव सर्वदा | उद्देशादित्रयप्राणा सर्वशास्त्रस्वरूपिणी || २७७ || इत्थम् -- उक्तेन प्रकारेण, सर्वदा संविदेव इयं भगवती स्वस्वातन्त्र्यात् उद्देशादित्रयप्राणेन सर्वात्मना शास्त्रेण स्वरूपिणी | शास्त्रात्मना संविदेव अवभासते -- इत्यर्थः || २७७ || तत्र उद्देशस्वरूपमेव तावदाह -- तत्रोच्यते पुरोद्देशः पूर्वजानुजभेदवान् | विज्ञानभिद्गतोपायः परोपायस्तृतीयकः || १-२७८ || शाक्तोपायो नरोपायः कालोपायोऽथ सप्तमः | चक्रोदयोऽथ देशाध्वा तत्त्वाध्वा तत्त्वभेदनम् || १-२७९ || कलाद्यध्वाध्वोपयोगः शक्तिपाततिरोहिती | दीक्षोपक्रमणं दीक्षा सामयी पौत्रिके विधौ || १-२८० || प्रमेयप्रक्रिया सूक्ष्मा दीक्षा सद्यःसमुत्क्रमः | तुलादीक्षाथ पारोक्षी लिङ्गोद्धारोऽभिषेचनम् || १-२८१ || अन्त्येष्टिः श्राद्धकॢप्तिश्च शेषवृत्तिनिरूपणम् | लिङ्गार्चा बहुभित्पर्वपवित्रादि निमित्तजम् || १-२८२ || रहस्यचर्या मन्त्रौघो मण्डलं मुद्रिकाविधिः | एकीकारः स्वस्वरूपे प्रवेशः शास्त्रमेलनम् || १-२८३ || आयातिकथनं शास्त्रोपादेयत्वनिरूपणम् | सामान्यसंज्ञया कीर्तनं पूर्वज उद्देशः, विशेषसंज्ञया कीर्तनम् अनुज उद्देशः, स एव च विभागः इत्यन्यत्र उक्तः | तत्र पूर्वजमुद्देशमाह -- विज्ञानभित् इत्यादिना निरूपणम् इत्यन्तम्, विज्ञानानि शाम्भवादीनि भिद्यन्ते यत्र इति | गतोपायः इति -- अनुपायः | पौत्रिके विधौ इति पौत्रिकं विधिमाश्रित्य | दीक्षा इति पूर्वेण संबन्धः | प्रमेयप्रक्रिया इत्यर्थात् पौत्रिके विधौ इति योज्यम् | यद्वक्ष्यति -- ᳚तदाह्निकानुजोद्देशे कथितं पौत्रिके विधौ |᳚ इति || २७८-२८३ || किमेवमियता ग्रन्थेन उपनिबद्धेन ? इत्याशङ्क्याह -- इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः || १-२८४ || आह्निकानां समभ्यस्येत् स साक्षाद्भैरवो भवेत् | सप्तत्रिंशत्सु सम्पूर्णबोधो यद्भैरवो भवेत् || १-२८५ || किं चित्रमणवोऽप्यस्य दृशा भैरवतामियुः |
SK
इत्येष पूर्वजोद्देशः कथ्यते त्वनुजोऽधुना || १-२८६ || विज्ञानभित्प्रकरणे सर्वस्योद्देशनं क्रमात् | द्वितीयस्मिन्प्रकरणे गतोपायत्वभेदिता || १-२८७ || विश्वचित्प्रतिबिम्बत्वं परामर्शोदयक्रमः | मन्त्राद्यभिन्नरूपत्वं परोपाये विविच्यते || १-२८८ || विकल्पसंस्क्रिया तर्कतत्त्वं गुरुसतत्त्वकम् | योगाङ्गानुपयोगित्वं कल्पितार्चाद्यनादरः || १-२८९ || संविच्चक्रोदयो मन्त्रवीर्यं जप्यादि वास्तवम् | निषेधविधितुल्यत्वं शाक्तोपायेऽत्र चर्च्यते || १-२९० || बुद्धिध्यानं प्राणतत्त्वसमुच्चारश्चिदात्मता | उच्चारः परतत्त्वान्तःप्रवेशपथलक्षणम् || १-२९१ || करणं वर्णतत्त्वं चेत्याणवे तु निरूप्यते | चारमानमहोरात्रसंक्रान्त्यादिविकल्पनम् || १-२९२ || संहारचित्रता वर्णोदयः कालाध्वकल्पने | चक्रभिन्मन्त्रविद्याभिदेतच्चक्रोदये भवेत् || १-२९३ || परिमाणं पुराणां च संग्रहस्तत्त्वयोजनम् | एतद्देशाध्वनिर्देशे द्वयं तत्त्वाध्वनिर्णये || १-२९४ || कार्यकारणभावश्च तत्त्वक्रमनिरूपणम् | वस्तुधर्मस्तत्त्वविधिर्जाग्रदादिनिरूपणम् || १-२९५ || प्रमातृभेद इत्येतत् तत्त्वभेदे विचार्यते | कलास्वरूपमेकत्रिपञ्चाद्यैस्तत्त्वकल्पनम् || १-२९६ || वर्णभेदक्रमः सर्वाधारशक्तिनिरूपणम् | कलाद्यध्वविचारान्तरेतावत्प्रविविच्यते || १-२९७ || अभेदभावनाकम्पहासौ त्वध्वोपयोजने | संख्याधिक्यं मलादीनां तत्त्वं शक्तिविचित्रता || १-२९८ || अनपेक्षित्वसिद्धिश्च तिरोभावविचित्रता | शक्तिपातपरीक्षायामेतावान्वाच्यसंग्रहः || १-२९९ || तिरोभावव्यपगमो ज्ञानेन परिपूर्णता | उत्क्रान्त्यनुपयोगित्वं दीक्षोपक्रमणे स्थितम् || १-३०० || शिष्यौचित्यपरीक्षादौ स्थानभित्स्थानकल्पनम् | सामान्यन्यासभेदोऽर्घपात्रं चैतत्प्रयोजनम् || १-३०१ || द्रव्ययोग्यत्वमर्चा च बहिर्द्वारार्चनं क्रमात् | प्रवेशो दिक्स्वरूपं च देहप्राणादिशोधनम् || १-३०२ || विशेषन्यासवैचित्र्यं सविशेषार्घभाजनम् | देहपूजा प्राणबुद्धिचित्स्वध्वन्यासपूजने || १-३०३ ||
SK
अन्यशास्त्रगणोत्कर्षः पूजा चक्रस्य सर्वतः | क्षेत्रग्रहः पञ्चगव्यं पूजनं भूगणेशयोः || १-३०४ || अस्त्रार्चा वह्निकार्यं चाप्यधिवासनमग्निगम् | तर्पणं चरुसंसिद्धिर्दन्तकाष्ठान्तसंस्क्रिया || १-३०५ || शिवहस्तविधिश्चापि शय्याकॢप्तिविचारणम् | स्वप्नस्य सामयं कर्म समयाश्चेति संग्रहः || १-३०६ || समयित्वविधावस्मिन्स्यात्पञ्चदश आह्निके | मण्डलात्मानुसन्धानं निवेद्यपशुविस्तरः || १-३०७ || अग्नितृप्तिः स्वस्वभावदीपनं शिष्यदेहगः | अध्वन्यासविधिः शोध्यशोधकादिविचित्रता || १-३०८ || दीक्षाभेदः परो न्यासो मन्त्रसत्ताप्रयोजनम् | भेदो योजनिकादेश्च षोडशे स्यादिहाह्निके || १-३०९ || सूत्रकॢप्तिस्तत्त्वशुद्धिः पाशदाहोऽथ योजनम् | अध्वभेदस्तथेत्येवं कथितं पौत्रिके विधौ || १-३१० || जननादिविहीनत्वं मन्त्रभेदोऽथ सुस्फुटः | इति संक्षिप्तदीक्षाख्ये स्यादष्टादश आह्निके || १-३११ || कलावेक्षा कृपाण्यादिन्यासश्चारः शरीरगः | ब्रह्मविद्याविधिश्चैवमुक्तं सद्यःसमुत्क्रमे || १-३१२ || अधिकारपरीक्षान्तःसंस्कारोऽथ तुलाविधिः | इत्येतद्वाच्यसर्वस्वं स्याद्विंशतितमाह्निके || १-३१३ || मृतजीवद्विधिर्जालोपदेशः संस्क्रियागणः | बलाबलविचारश्चेत्येकविंशाह्निके विधिः || १-३१४ || श्रवणं चाभ्यनुज्ञानं शोधनं पातकच्युतिः | शङ्काच्छेद इति स्पष्टं वाच्यं लिङ्गोद्धृतिक्रमे || १-३१५ || परीक्षाचार्यकरणं तद्व्रतं हरणं मतेः | तद्विभागः साधकत्वमभिषेकविधौ त्वियत् || १-३१६ || अधिकार्यथ संस्कारस्तत्प्रयोजनमित्यदः | चतुर्विशेऽन्त्ययागाख्ये वक्तव्यं परिचर्च्यते || १-३१७ || प्रयोजनं भोगमोक्षदानेनात्र विधिः स्फुटः | पञ्चविंशाह्निके श्राद्धप्रकाशे वस्तुसंग्रहः || १-३१८ || प्रयोजनं शेषवृत्तेर्नित्यार्चा स्थण्डिले परा | लिङ्गस्वरूपं बहुधा चाक्षसूत्रनिरूपणम् || १-३१९ || पूजाभेद इति वाच्यं लिङ्गार्चासम्प्रकाशने | नैमित्तिकविभागस्तत्प्रयोजनविधिस्ततः || १-३२० || पर्वभेदास्तद्विशेषश्चक्रचर्चा तदर्चनम् |
SK
गुर्वाद्यन्तदिनाद्यर्चाप्रयोजननिरूपणम् || १-३२१ || मृतेः परीक्षा योगीशीमेलकादिविधिस्तथा | व्याख्याविधिः श्रुतविधिर्गुरुपूजाविधिस्त्वियत् || १-३२२ || नैमित्तिकप्रकाशाख्येऽप्यष्टाविंशाह्निके स्थितम् | अधिकार्यात्मनो भेदः सिद्धपत्नीकुलक्रमः || १-३२३ || अर्चाविधिर्दौतविधी रहस्योपनिषत्क्रमः | दीक्षाभिषेकौ बोधश्चेत्येकोनत्रिंश आह्निके || १-३२४ || मन्त्रस्वरूपं तद्वीर्यमिति त्रिंशे निरूपितम् | शूलाब्जभेदो व्योमेशस्वस्तिकादिनिरूपणम् || १-३२५ || विस्तरेणाभिधातव्यमित्येकत्रिंश आह्निके | गुणप्रधानताभेदाः स्वरूपं वीर्यचर्चनम् || १-३२६ || कलाभेद इति प्रोक्तं मुद्राणां सम्प्रकाशने |
SK
इत्यादि न केवलमेवं यावत् अन्यदपि अस्य माहात्म्यं स्यात् -- इत्याह ᳚इति सप्ताधिकां, सम्प्रकाशने᳚ इत्यन्तम् | इह ग्रन्थकृता तत्त्वतः समस्तव्यस्तत्वेन सप्तत्रिंशदाह्निकानि उपनिबद्धानि इति | यथा पृथ्वीतत्त्वे भेदस्य प्राधान्यात् स्थूलेन रूपेण सर्वमस्ति, तथा इहापि वक्ष्यमाणम् -- इत्युक्तम् -- शर्वस्योद्देशनं क्रमात्᳚ इति | परोपाये इति -- शाम्भवोपाये, अस्य च अविकल्पकमेव रूपम् इत्युक्तप्रायं तच्च भेदाभावे सति भवेत्, स च वाच्यवाचकात्मनो विश्वस्य संविदेकरूपत्वे सति स्यात्, तत्र वाच्यात्मनो विश्वस्य चित्प्रतिबिम्बत्वेन सामान्यविशेषात्मतया द्विविधस्य, वाचकात्मनो विश्वस्य च परामर्शोदयक्रममन्त्राद्यभिन्नरूपत्वाभ्यां संविदनतिरेकात् तदेकरूपत्वमुच्यते इत्यत्र एतत्प्रमेयत्रयोपक्षेपः | शाक्तस्य च विकल्पकमेव रूपम् इति प्रथमं विकल्पस्यैव संस्कार उक्तः, स च हेयाद्यालोचनद्वारेण तर्केण अभिधीयते इति तदनन्तरं तत्तत्त्वम् | अन्यच्च शुद्धविद्यात्मनस्तर्कस्यैव विस्फूर्जितं यत् तद्वशादेव सद्गुरुप्राप्तिर्भवेत् इति तत्सतत्त्वमुक्तम् | तर्क एव च साक्षाद्योगस्याङ्गम् इति अन्येषां योगाङ्गानामनुपयोगित्वम् तर्कस्य च शुद्धविद्यात्मतया भेदभावकमायीयविकल्पप्रतिघातित्वात् कल्पितस्य अर्चादेरनादरः तत एवाविकल्पसंस्कारस्य दार्ढ्यात् संविच्चक्रोदयः, तदुदय एव च मन्त्राणां परं वीर्यम्, तथामर्श एव च वास्तवं जप्यादि, अत एव च संविदि भेदाभावात् निषेधविधितुल्यत्वम् इत्येतन्नवसंख्याकं प्रमेयमुपक्षिप्तम् | एवमाणवादावपि बुद्धिध्यानादेः साक्षात्तदौपयिकत्वम् इत्येतदस्माभिः स्पष्टत्वात् ग्रन्थविस्तरभयात् अग्रे च निर्णेष्यमाणत्वात् न प्रातिपद्येन व्याख्यातम् इति स्वयमेव अवधार्यम् || २८४-३२६ || ननु एकीकाराह्निकादौ किमिति न अनुजोद्देशः कृतः ? इत्याशङ्क्याह -- द्वात्रिंशतत्त्वादीशाख्यात्प्रभृति प्रस्फुटो यतः || १-३२७ || न भेदोऽस्ति ततो नोक्तमुद्देशान्तरमत्र तत् |
SK
द्वात्रिंशं तत्त्वं स्वरूपं यस्य तन्मुद्राह्निकं तस्मात् द्वात्रिंशसंख्यादनन्तरं यत् ईशाख्यं त्रयस्त्रिंशमेकीकाराह्निकं तत आरभ्य भेदस्य प्राधान्याभावात् अनुज उद्देशो न कृतः -- इत्यर्थः || ३२७ || ननु यद्यतः प्रभृति भेदो नास्ति तत्किमिति आह्निकान्तरपरिगणनमेव कृतम्? इत्याशङ्क्याह -- मुख्यत्वेन च वेद्यत्वादधिकारान्तरक्रमः || १-३२८ || एतदुपसंहरन्नन्यदवतारयति -- इत्युद्देशविधिः प्रोक्तः सुखसंग्रहहेतवे | अथास्य लक्षणावेक्षे निरूप्येते यथाक्रमम् || १-३२९ || अस्य इति -- उद्दिष्टस्य प्रमेयजातस्य || ३२९ || इदानीमाह्निकार्थमेव संचिनोति -- आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्तिव्रातं तस्य स्वरूपं स च निजमहसश्छादनाद् बद्धरूपः | आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित इह यत्संग्रहेणार्थ एषः || ३३० || इह आत्मनस्तावत् धामत्रयीबाह्यप्रकाशविलक्षणः संविद्रूप एव प्रकाशः स्वरूपम्, संविच्च निरवयवा इति एक एव अखण्डप्रकाशरूपः इति यावत् | अत एव च -- ᳚शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् |᳚ इत्याद्युक्तयुक्त्या तस्य आत्मनः क्रोडीकृतानन्तशक्तिकं स्वरूपम्, एवमद्वयात्मत्वेऽपि स एव अतिदुर्घटकारित्वलक्षणात् स्वस्वातन्त्र्यात्, निजस्य -- अनन्यसाधारणस्य ज्ञत्वर्कृत्वलक्षणस्य, महसो गोपनात् ग्राह्यग्राहकात्मकं द्वन्द्वमाभासयन् | ᳚.......................शिव एव गृहीतपशुभावः |᳚ इत्याद्युक्तयुक्त्या ᳚बद्धः᳚ इत्युच्यते, एवमपि तस्य आत्मनः प्रत्यावृत्त्या ᳚मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः | स्वरूपं चात्मनः संवित् ....................... ||᳚ इत्याद्युक्तयुक्त्या ज्ञत्वकर्तृत्वलक्षणस्य स्वमहस एव प्रथनं मोक्षः, यदर्थमेव च तत्तदनन्तशास्त्रात्मक इयान् परिकरः | तदाह श चायम्᳚ इत्यादि, स चायं मोक्षः -- तत्तद्गृहीताधरदर्शनभूमिकस्य अस्य� ᳚रागाद्यकलुषोऽस्म्यन्तः शून्योऽहं कर्तृतोज्झितः |᳚
SK
इत्याद्युक्तयुक्त्या चित्रस्वभावस्य, यद्वा -- ᳚तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः | अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ||᳚ इत्यादिनीत्या चित्राकारस्य -- ᳚अतः कंचित्प्रमातारं प्रति प्रथयते प्रभुः | पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् ||᳚ इत्याद्युक्त्या चित्रः -- शाम्भवाद्यावेशात्मा प्रकटितः, इह इति -- अस्मिन्नाह्निके | ययोः -- बन्धमोक्षयोः संग्रहेण -- संक्षेपेण एषोऽर्थः प्रकटितः इत्यनेनैव सम्बन्धः || ३३० || ननु आत्मनः स्वरूपप्रथनमेव ᳚मोक्षः᳚ इत्युक्तम्, आत्मा चैक एव अखण्डः इति तत्प्रथात्मनो मोक्षस्यापि वैचित्र्यं कुतस्त्यम् ? इत्याशङ्क्याह -- मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते तत्सद्भावाद्विमलमपि तद्भाति मालिन्यधाम | यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरीं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं तत्र मालिन्यशङ्का || १-३३१ || तिमिरम् -- आणवमलमेव मिथ्याज्ञानम् भेदप्रथात्मकम् अपूर्णं वेदनम्, दृष्टेः पूर्णायाः संवित्तेः, असमान्�आत्मनि अनात्माभिमानादिरूपान् दोषान् जनयति इति मिथ्याज्ञानसद्भावात् विमलम् पूर्णमपि तत् ज्ञानं मालिन्यधाम भाति -- स्वस्वातन्त्र्यादपूर्णेन आत्मना परिस्फुरति इत्येतावानर्थः इति व्यवह्रियते यत् पुनरुपेयत्वेन पेर्क्षणीयम् -- अवश्यज्ञातव्यं परप्रमात्रेकात्म पूर्ण ज्ञानं नाहं प्राणो नैव शरीरं न मनोऽहं नाहं बुद्धिर्नाहमहङ्कारधियौ च | योऽत्र ज्ञांशः सोऽस्म्यहमेव........ .................................. ||᳚ इत्यादिनीत्या उद्वेष्टनक्रमेण विमर्शपदवीमारूढं सत् मिथ्याज्ञानसमुत्थाम् अनात्मनि आत्माभिमानरूपां दोषमुद्रां दूरं रुन्ध्येत् -- आत्मन्येव आत्माभिमानेन तिरस्कुर्यात्, तत्र का नाम मालिन्यशङ्का तत्र सम्भावनापि न भवेत् इति वस्तुवृत्तेन बन्धो मोक्षो वापि न नाम कश्चिदस्ति इति का नाम तत्र वैचित्र्यसम्भावना स्यात् | अनेन चाभिप्रायेण -- शंसारोऽस्ति न तत्त्वतस्तनुभृतां बन्धस्य वार्तैव का | बन्धो यस्य न जातु तस्य वितथा मुक्तस्य मुक्तिक्रिया ||
SK
मिथ्यामोहकृदेष रज्जुभुजगच्छायापिशाचभ्रमो | मा किञ्चित्त्यज मा गृहाण विरम स्वस्थो यथावस्थितः ||᳚ इत्यादि अन्यत्र उक्तम् | अथ च तिमिरेण -- नेत्ररोगविशेषेण दृष्टौ अन्यथाज्ञानात्मदोषजातमुत्पादितं प्रेक्ष्येण अञ्जनादिस्थानीयेन रोध्यते इति तत्र मालिन्यशङ्कापि न भवति इति औपम्यं ध्वनितम् || ३३१ || इदानीमस्य शास्त्रस्य परं गाम्भीर्यं मन्यमानो ग्रन्थकृत्, एतदर्थसतत्त्वमजानानैरपि अन्यैरन्यथाबोधेन यत्किंचित् उत्तानमेव अन्यथा उच्यते, तान्प्रति अप्रस्तुतप्रशंसया उपहसितुमाह -- भावव्रात ? हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे | यस्त्वामाह जडं जडः सहृदयंमन्यत्वदुःशिक्षितो मन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसम्भावनात् || १-३३२ || हे भावव्रात -- नीलाद्यर्थ ? आत्मनो हृदयं तेन आत्मतथ्यम् रूपं गोपयित्वा जनस्य�सर्वस्यैव वादिनो हृदयानि -- आशयान् बलात्कारेण आक्रम्य -- ᳚अद्यास्मानसतः करिष्यति सतः किं नु द्विधा वाप्ययं किं स्थास्नूनुत नश्वरानुत मिथोभिन्नानभिन्नानुत | इत्थं सद्वदनावलोकनपरैर्भावैर्जगद्वर्तिभिर्मन्ये मौननिरुद्ध्यमानहृदयैर्दुःखेन तैः स्थीयते ||᳚
SK
इत्यादिस्थित्या विविधाभिर्भङ्गीभिः नर्तयन् यत् संक्रीडसे -- नटवत् अतात्त्विकेन रूपेण समुल्लससि, अतः सः -- सर्वो वादी असहृदयमपि आत्मानं सहृदयत्वेन मन्यमानोऽत एव दुःशिक्षितो मिथ्याभिमानात् अकिञ्चिज्ज्ञः, त्वाम् भावव्रातम्, जडम् -- अचेतनम् आह, अतोऽस्माभिरुत्पेर्क्ष्यते -- यत् अमुष्य वादिनो वस्तुतश्चैतन्यस्वभावेन भवता यत् साम्यं तस्य सम्भावनात् भाववत्त्वमेव जडात्मा इति यद्युच्यते सा अस्य निन्दास्थाने स्तुतिः | भावानां हि तेषां न किञ्चिद्रूपं स्यात्, अतस्तदेव ये न जानते ते जडेभ्योऽपि जडाः इति कथं च तेषां चेतनात्मकैर्भावैः निन्दापर्यवसायि साम्यं स्यात् -- इति भावः | एवं प्रकृतेऽपि अस्य ग्रन्थस्य यस्तत्त्वं न जानाति मा ज्ञासीत्, प्रत्युत अन्यथापि यत्किञ्चन वक्ति इत्यसावेव जडो न पुनरस्य ग्रन्थस्य कश्चिद्दोषः -- इत्यर्थः || ३३२ || ननु यद्येवं तर्हि एतच्छास्त्राधिगमाय केषाञ्चन परेषां विदुषामभ्यर्थना क्रियतां यदत्र यथावस्त्वेव बुद्ध्वा द्वेषो मा कार्यः ? इत्याशङ्क्याह -- इह गलितमलाः परावरज्ञाः शिवसद्भावमया अधिक्रियन्ते | गुरवः प्रविचारणे यतस्तद् विफलाद्वेषकलङ्कहानियाच्ञा || ३३३ ||
SK
इह द्वये पुरुषाः सन्ति -- अनायातशक्तिपाता आयातशक्तिपाताश्च | तत्र पूर्वेषां शतशोऽभ्यर्थितानाम् एतदधिगमाय मनोऽपि न प्रसरति | इत्यत्र अवधातव्यम्, द्वेषो माकार्यः इत्यभ्यर्थनाया असामर्थ्यम् | अपरे च अनभ्यर्थिता अपि स्वयमेव एतदधिगमाय प्रवर्तन्ते इति तत्रापि एवमभ्यर्थनाया वैयर्थ्यम् | तदाह -- ᳚द्वेषकलङ्कहानियाच्ञा᳚ इति | आयातशक्तिपाताश्च कीदृशाः ? इत्याह -- गलितमलाः इति, गलितं मलम् -- अज्ञानं येषां ते तथाविधाः, अत एव च परम् आदिमम् अनुत्तरम् अवरम् अन्त्यम् विसर्गं च ये जानते ते पराहंपरामर्शात्मकमन्त्रवीर्यज्ञाः -- इत्यर्थः अत एव शिवसद्भावमयाः -- परप्रमात्रेकात्मज्ञानशालिनः इति यावत्, अत एव च गुरवः -- तात्त्विकार्थोपदेशिनः इति -- एतदधिगमाय त एव परमाधिकारिणः इत्युक्तं यतः प्रविचारणेऽधिक्रियन्ते इति, यद्वक्ष्यति -- ᳚गुरोर्लक्षणमेतावदादिमान्त्यं च वेदयेत् | पूज्यः सोऽहमिव ज्ञानी भैरवो देवतात्मकः ||᳚ इति || ३३३ || इह आह्निकादाह्निकान्तरस्य सञ्चयन्यायेन परस्परमनुस्यूततां दर्शयितुम् एकेनैव श्लोकेन तत्पर्यन्तप्रारम्भयोरुपसंहारोपक्रमौ करोति, इति अस्य ग्रन्थकारस्य शैली -- इति श्लोकस्य प्रथमार्धेन आह्निकार्थमुपसंहरति -- तन्त्रालोकेऽभिनवरचितेऽमुत्र विज्ञानसत्ताभेदोद्गारप्रकटनपटावाह्निकेऽस्मिन्समाप्तिः | || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके विज्ञानभेदप्रकाशनं नाम प्रथममाह्निकम् || १ || पटौ इति पाक्षिकः पुंवद्भावः | इति शिवम् || श्रीशृङ्गाररथादवाप्य कृतिनो जन्मानवद्यक्रमं श्रीमच्छङ्खधरात्परं परिचयं विद्यासु सर्वास्वपि | श्रीकल्याणतनोः शिवादधिगमं सर्वागमानामपि व्याख्यातं प्रथमाह्निकं जयरथेनात्रावधेयं बुधैः || || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते विज्ञानभेद प्रकाशनं नाम प्रथममाह्निकं समाप्तम् || १ ||
SK
|| श्रीशिवार्पणमस्तु || द्वितीयमाह्निकम् ᳚ विवेक ᳚ जयतान्नतजनजयकृत्सजयो रुद्रो विनाभ्युपायं यः | पूरयति कं न कामं कामं कामेश्वरत्वेन || इदानीम्� ᳚यो हि यस्माद् गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते |᳚ इतिस्थित्या आणवादीनां यथायथमुत्कर्षादिह पूर्वपूर्वमेवाभिधानमिष्यते इत्युपेयैकरूपत्वेन शांभवादप्यनुपायस्योत्कृष्टत्वम्, इति प्रथमं तत्स्वरूपमेवाभिधातुमाह्निकान्तरारम्भं द्वितीयार्धेन प्रतिजानीते� यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपं | तन्निर्णेतं प्रकरणमिदमारभेऽहं द्वितीयम् || २-१ || तन्निर्णयमेवाह� अनुपायं हि यद्रूपं कोऽर्थो देशनयात्र वै | सकृत्स्याद्देशना पश्चादनुपायत्वमुच्यते || २-२ || ᳚वै᳚ शब्दोऽवधारणे, तेन नैव कश्चिदर्थः -- इत्यर्थः | अत्रैव समाधत्ते -- शकृत्स्यात्᳚ इत्यादिना, देशना इत्युपलक्षणम् -- तेन सिद्धदर्शनाद्यपि ग्रह्यम्, यदुक्तम् -- शिद्धानां योगिनीनां च दर्शनं चरुभोजनम् | कथनं संक्रमः शास्त्रे साधनं गुरुसेवनम् || इत्याद्यो निरुपायस्य संक्षेपोऽयं वरानने |᳚ इति || सकृदिति -- न पुनरुपायानुभवः पौनःपुन्येन -- इत्यर्थः | अत एवाह -- ᳚पश्चादनुपायत्वमुच्यते᳚ इति, आणवादौ असकृद्भाव्यमानो हि देशनादि उपेयप्राप्त्ंइ विदधाति इति तत्र तथात्वमुक्तम्, इह तु न तथा इत्यनुपायत्वम्, पर्युदासस्य ᳚अनुदरा कन्या᳚ इति वदल्पार्थत्वेऽपि भावात् अल्पोपायत्वमित्यर्थः | प्राप्तव्ये हि प्राप्ते किं नाम निरर्थकैरायासकारिभिर्भावनादिभिः इति भावः, यदुक्तम् -- ᳚उपायैर्न शिवो भाति भान्ति ते तत्प्रसादतः | स एवाहं स्वप्रकाशो भासे विश्वस्वरूपकः || इत्याकर्ण्य गुरोर्वाक्यं सकृत्केचन निश्चिताः | विना भूयोऽनुसंधानं भान्ति संविन्मयाः स्थिताः ||᳚ इति || २ || नन्वत्र प्रसज्यप्रतिषेधपक्षावलम्बनेनाविद्यमानोपायत्वमेव, इति मुख्योऽर्थः कस्मान्न व्याख्यातः? -- इत्याशङ्क्याह -- अनुपायमिदं तत्त्वमित्युपायं विना कुतः | स्वयं तु तेषां तत्तादृक् किं ब्रूमः किल तान्प्रति || २-३ ||
SK
᳚इदमनुपायं तत्त्वम्᳚ इत्याद्युपदेशादिना केनचिदुपायेनावश्यं भाव्यम्, अन्यथा लक्षणमुपायमन्तरेण कथं सिद्ध्येत्, इत्युक्तम् ᳚इत्युपायं विना कुतः᳚ तेन सकृदुपदेशादिना केनचिदुपायेनावश्यं भाव्यम्, अन्यथा ह्यनुपायपरतत्त्वज्ञप्तिरेव न स्यात् | ननु स्वविमर्शबलात्स्वयमेव प्राप्तप्राप्तव्या अपि केचिद् दृश्यन्ते, इति किं सकृदुपदेशाद्यात्मना स्वल्पेनाव्युत्पन्नेन ? -- इत्याशङ्क्याह -- श्वयमित्यादिना᳚ तदित्यनुपायं परप्रकाशात्मकं रूपम्, किं ब्रूम इति -- नहि तदधिकारेण शास्त्रस्यैव प्रवृत्तिर्भंवेत्�इति भावः, तदुक्तम्� ᳚तत्त्वज्ञस्य तृणं शास्त्रं...................... | इति || यदभिप्रायेणैव� शंसाराम्बुनिधिं यः स्यात्तितीर्षुः कश्चिदुत्तमः नात्यन्ततज्ज्ञो नो मूर्खः सोऽस्मिञ्छास्त्रेऽधिरवान् |᳚ इत्यादावत्यन्ततज्ज्ञस्य शास्त्रे नाधिकार उक्तः, तेन वयमर्वाग्दर्शिनोऽप्यदृष्टेऽर्थे शास्त्रैकदिव्यचक्षुष आरुरुक्षुनायातशक्तिपातान्प्रत्येव किञ्चन ब्रूमः -- तेषां ह्येवमुपायमन्तरेण न कदाचिदप्युपेयप्राप्तिर्भवेत् इत्येवमुक्तम्, यद्वक्ष्यति -- ङानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः |᳚ इति || ३ || ननु यद्येवं तर्हि अल्प एव कश्चिदुपायांशः समुपदिश्यतां येनोपदेश्यजनस्य सुखमेव उपेयप्राप्तिः स्यात्, किं बह्वायासदायिभिरन्यैरुपायैः ? इत्याशङ्क्याह -- यच्चतुर्धोदितं रूपं विज्ञानस्य विभोरसौ | स्वभाव एव मन्तव्यः स हि नित्योदितो विभुः || २-४ || यच्चतुर्धा -- अनुपायादिभेदेन विज्ञानस्य रूपमुक्तं तद्विभोः परमेशवरस्यैव स्वातन्त्र्यं ज्ञेयम्, स एव हि स्वस्वातन्त्र्यादतिनिर्ह्रासतारतम्यादियोगाद्विचित्रेणोपदेश्यजनात्मना प्रस्फुरन् तदनुसारमेव तत्तदुपायवैचित्र्यमप्याभासयेत् | नन्वेक एव विचित्रेण रूपेण च स्फुरति, इति किमेतत्? इत्याशङ्क्याह -- श हीत्यादि᳚ नित्योदित इति -- अप्रच्युतप्राच्यस्वरूपः अत एव ᳚विभुः᳚ व्यापकः -- तत्तद्वैचित्र्यग्रहणकालेऽप्यनुगत एवेत्यर्थः || ४ || अत एवाह -- एतावद्भिरसंख्यातैः स्वभावैर्यत्प्रकाशते |
SK
केऽप्यंशांशिकया तेन विशन्त्यन्ये निरंशतः || २-५ || एतावद्भिरिति -- चतुर्भिः, असंख्यातैरिति -- तत्तदवान्तरभेदात् तेनेति -- अनेकेन स्वभावेन प्रकाशनात् || ५ || न केवलमत्रेयदेव वैचित्र्यं यावदन्यदप्यस्ति -- इत्याह -- तत्रापि चाभ्युपायादिसापेक्षान्यत्वयोगतः | उपायस्यापि नो वार्या तदन्यत्वाद्विचित्रता || २-६ || उपायस्यापीति -- अपिशब्दो भिन्नक्रमः, तेन नो वार्या तदन्यत्वादपि, इति व्याख्येयम्, एतच्च प्रथमाह्निक एव वितत्य निर्णीतम् इति�नेह पुनरायस्तम् || ६ || एवमेतत् प्रसंगादभिधाय प्रकृतमेवाह -- तत्र ये निर्मलात्मानो भैरवीयं स्वसंविदम् | निरुपायामुपासीनास्तद्विधिः प्रणिगद्यते || २-७ || ये केचन तीव्रतीव्रशक्तिपातानुविद्धा विकल्पकलङ्कान्मुक्ताः, भैरवीयां पूर्णम् अत एवानुपायाम् -- अनपेक्षाम्, आत्मसंविदम्, आविष्टाः, तेषां विधिः -- पूर्णासंविदावेशक्रमात्मा प्रकारः, प्रकर्षेण निगद्यते -- युक्तियुक्तत्वेन भण्यते -- इत्यर्थः || ७ || तदेवाह� तत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति | उपायः खलु करणे प्रसृते, अतश्च पूर्णेन भाव्यमेव, इति सर्वेषामविवादः, न चात्रैवम्�क्रियादयो हि संवेद्यमानत्वात्संविन्निष्ठा एव, इति संविच्छक्तिं विना अप्रसिद्धत्वात् कथं तत्रोपायतामासादयेयुः, अतः प्रत्युत क्रियादीनां बहिराभासने संविदुपायः, इति युक्तम् || अत एवाह -- स हि तस्मात्समुद्भूतः प्रत्युत प्रविभाव्यते || २-८ || तस्मादित्यनुपायात्संवित्तत्त्वात् || ८ || अथ यद्यस्य क्रियादि न कारकम् अपि तु ज्ञापकम् इति उच्यते, तदपि न युज्यते, इत्याह� ज्ञप्तावुपाय एव स्यादिति चेज्ज्ञप्तिरुच्यते | प्रकाशत्वं स्वप्रकाशे तच्च तत्रान्यतः कथम् || २-९ ||
SK
इह जडस्तावत् स्वयमप्रकाशात्मा स्वात्मनो न प्रकाशते, अपि तु परस्य, इति -- पर एवास्य प्रकाशः, अजडस्तु स्वयं प्रकाशात्मा स्वात्मन एव प्रकाशते, न परस्य, इति -- न परोऽस्य प्रकाशोऽपितु स्व एव अस्य प्रकाशः, तस्यापि परप्रकाशत्वे ह्यप्रकाशांत्मत्वात् जाड्यं स्यात्, अत एवाह -- श्वप्रकाशे तच्च तत्रान्यतः कथम्᳚ इति प्रकाशत्वम्, एवं चान्योऽपि स्वप्रकाशो वा स्यात् अन्यथा वा, स्वप्रकाशत्वे प्रथमस्यैव तथाभाव उच्यताम्, अनेनापि कोऽर्थः, अन्यथात्वे तस्यापि जाड्यापत्तिः, इति प्रकाशत्वात्तत्प्रकाशनाय प्रमात्रन्तरापेक्षायामनवस्थापत्तिः, इति सर्वेषामेव अप्रकाशात्मत्वान्न किञ्चिदपि प्रकाशेत, इति -- सर्वमिदमन्धं स्यात् || ९ || तदाह� संवित्तत्त्वं स्वप्रकाशमित्यस्मिन्किं नु युक्तिभिः | तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् || १० || किं नु युक्तिभिरिति -- बह्वीभिर्युक्तिभिर्न किञ्चित्प्रयोजनम् -- इत्याह, एकैव हि युक्तिरियं सर्वातिशायिनी यत्संविदः स्वप्रकाशत्वं यदि न स्यात्, न किञ्चिदपि प्रकाशेत इति || १० || ननु यदि नाम अत्र न बाह्यः क्रियादिः प्रगल्भते तदा गुरुज्ञानादि उपायतं भजताम् ? इत्याशङ्क्याह� यावानुपायो बाह्यः स्यादान्तरो वापि कश्चन | स सर्वस्तन्मुखपेर्क्षी तत्रोपायत्वभाक्कथम् || २-११ || यावानिति -- नानाशास्त्रोपदिष्टः, सर्व इति -- बाह्य आन्तरो वा, तन्मुखप्रक्षीति -- संविदधीनसिद्धिरित्यर्थः, यदपेक्ष्य हि यस्य सिद्धिरेवं भवति स कथं तस्य उपायतां यायादिति भावः || ११ || अत एवाह� त्यजावधानानि ननु क्व नाम धत्सेऽवधानं विचिनु स्वयं तत् | पूर्णेऽवधानं न हि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् || २-१२ || इह उपदिश्यमानेन स्वयमेव तावदवधातव्यम् इति परामर्शनीयम्, किं पूर्णे रूपे उतापूर्णे ? तत्र तावत्पूर्णे रूपेऽवधानं न युक्तम्, अवधानं खलु -- प्रतिनियतावधेयविषयनिष्ठम् एकाग्र्यम्, अतश्च भेदप्रधानं न किञ्चित्फलमादातुं समर्थम् || १२ ||
SK
तस्मादसामर्थ्यवैयर्थ्योपहतत्वादवधानस्यापि यत्र नास्ति उपायभावस्तत्र का वार्ता तदनुप्राणितस्य भावनादेः ? इत्याह -- तेनावधानप्राणस्य भावनादेः परे पथि | भैरवीये कथङ्कारं भवेत्साक्षादुपायता || २-१३ || भैरवीये इति -- पूर्णे || १३ || ये पुनरनेनापि उपायेनानुपायं परं तत्त्वमनुसरन्ति तान्प्रति किमुच्यते ? इत्याह -- येऽपि साक्षादुपायेन तद्रूपं प्रविविञ्चते | नूंन ते सूर्यसंवित्त्यै खद्योताधित्सवो जडाः || २-१४ || तदुक्तम्� ᳚अपरोक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते | यैरुपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते ||᳚ इति || १४ || अत्रैव निमित्तान्तरमप्याह -- किं च यावदिदं बाह्यमान्तरोपायसंमतम् | तत्प्रकाशात्मतामात्रं शिवस्यैव निजं वपुः || २-१५ || इह खलु यत्किञ्चन उपायत्वेनाभीष्टं तदप्रकाशमानं प्रकाशमानं वा ? अप्रकाशमानं चेत् तस्य न किञ्चिदपि रूपं स्यात्, इति किं नाम उपायतां भजताम्, प्रकाशमानं चेत् प्रकाशात्मा शिव एवावस्थितः, नहि तदतिरिक्तमन्यत्किञ्चिदुपपद्यते, इति -- कस्योपायभावः, उपायेन हि उपेयाद्व्यतिरिक्तेन भाव्यम्, तच्चात्र न युक्तम्, इति को नाम उपायोपेयभावार्थः || १५ || न केवलं भावनाद्येव उपायत्वेनाभीष्टमेवम्, यादवन्यदपि -- इत्याह -- नीलं पीतं सुख्मिति प्रकाशः केवलः शिवः | अमुष्मिन्परमाद्वैते प्रकाशात्मनि कोऽपरः || २-१६ || उपायोपेयभावः स्यात्प्रकाशः केवलं हि सः || २-१७ || भावनादेः सुप्रसिद्धेऽपि उपायत्वे निरस्ते अन्यस्य कस्यचित्सम्भावनामात्रमपि मा भूत्, इत्येवमुक्तम् ᳚कोऽपर᳚ इति, यत्र उपायत्वसम्भावनापि स्यात् || १७ || ननु यद्येवं तर्हि सर्वत्र प्रसिद्धोऽयं द्वैतव्यवहारः कथमपह्नूयते? इत्याशङ्क्याह -- इदं द्वैतमऽयं भेद इदमद्वैतमित्यपि | प्रकाशवपुरेवायं भासते परमेश्वरः || २-१८ ||
SK
द्वैतव्यवहारोऽपि प्रकाशमानत्वात्प्रकाशात्मैवेत्यभिप्रायः, एतच्च बहूनां वादिनां मतम्�इति द्योतयितुम् ᳚अयं भेद᳚ इति पुनरुपादानमम्, यथा चाद्वैतप्रतिभासे प्रकाशात्मा परमेश्वर एक एव प्रतिभासते तथा द्वैतप्रतिभासेऽपि, इत्यर्थमौपम्यं कटाक्षयितुम् ᳚इदमद्वैतमित्यपि᳚ इत्युपात्तम् || १८ || ननु बाह्योऽर्थः प्रकाशमानत्वात्प्रकाशात्मैव इत्यास्ताम्, अन्योन्यं पुनरस्य भेदे किमायातम्, इत्यापतितमेव द्वैतम् ? -- इत्याशङ्क्याह -- अस्यां भूमौ सुखं दुःखं बन्धो मोक्षश्चितिर्जडः | घटकुम्भवदेकार्थाः शब्दास्तेऽप्येकमेव च || २-१९ || अस्यां भूमाविति -- परमाद्वयदशायाम् -- इत्यर्थः, ᳚एकार्था᳚ इति -- एकः प्रकाश एवार्थोऽभिधेयो येषं ते तथा, सुखदुःखादीनां हि प्रकाशातिरेकेण प्रातिस्विकं नियतं किञ्चन रूपं यदि स्यात् तदैवं सम्भावनापि भवेत् -- इति भावः, अत एव -- ᳚घटो मदात्मना वेत्ति वेद्म्यहं च घटात्मना |᳚ इत्यादिरन्यैरुक्तम् | ननु यद्येवं तर्हि तदभिधायकत्वशब्दाभिप्रायेणापि द्वैतं स्यात् ? इत्याह -- ᳚शब्दास्तेऽप्येकमेव च᳚ इति, एकमिति -- संवेद्यमानत्वात् संवेदनमेवेत्यर्थः || १९ || ननु यदि नीलसुखादि प्रकाशमानत्वात्प्रकाश एव तर्हि तत्केन रूपेण प्रकाशते ? इत्याशङ्क्याह� प्रकाशे ह्यप्रकाशांशः कथं नाम प्रकाशताम् | प्रकाशमाने तस्मिन्वा तद्द्वैतास्तस्य लोपिताः || २-२० || अप्रकाशेऽथ तस्मिन्वा वस्तुता कथमुच्यते | न प्रकाशविशेषत्वमत एवोपपद्यते || २-२१ ||
SK
अप्रकाशांश इति -- सुखादिजडोऽर्थः, कथंनामेति�केन रूपेणेत्यर्थः, तत्र यदि प्रकाशात्मनैव प्रकाशते तत्तस्य नीलसुखादेः स्वभावस्य दोषः स्यात् -- नियतेन नीलत्वादिना बाह्येन रूपेण न भायात्प्रकाश एव शिष्येत इति यावत्, अथ अप्रकाशात्मना नियतेनैव रूपेण प्रकाशते तत्तस्य सत्तानिश्चय एव न भवेत्, नहि प्रकाशमन्तरेण नीलादीनां कदाचिदपि स्वरूपं दृष्टम् ᳚अप्रकाशात्मना रूपेण प्रकाशते᳚ इति वाचोयुक्तिश्च रिक्ता स्यात्, तदाह ᳚अप्रकाश᳚ इत्यादि | प्रकाशः पुनर्नीलादिपरिहारेणानीलादावपि प्रकाशते, नीलादिर्हि उपाधिः, स च स्वस्वातन्त्र्यविजृम्भामात्ररूपत्वान्न वास्तवः, इत्यखण्ड एक एव प्रकाश उज्जृम्भते, यन्महिम्नैव इदं तत्तन्नीलाद्याभासात्म विश्वं स्फुरेत्, अत एवाह -- ङ प्रकाशविशेषत्वमुपपद्यते᳚ इति, अत इति -- एकस्यैव अखण्डस्य प्रकाशस्य तत्तदाभासात्मना स्फुरणात् | ननु ङीलप्रकाशोऽन्यः, पीतप्रकाशश्चान्य᳚ इत्यादिरस्त्येव एषां भेदः, इति किमुक्तं ङ प्रकाशविशेषत्वमुपपद्यते᳚ इति ? नैतत् -- औपाधिको ह्ययं भेदः, स च न वास्तवः -- इत्युपपादितं बहुशः, नीलादयो हि प्रकाशत्वात्प्रकाशात्मका एव इति किं केन भेद्यम्, नहि स्वात्मनैव स्वात्मा भिद्यते इत्येतदुक्तम् -- ङ च प्रकाशैकरूपायां संविदि संविदन्तरमस्ति᳚ एवं हि स्वरूपभेदकृते भेदव्यवहारे क्रियमाणे एकभेदप्रकाशरूपत्वमेवोक्तं भवेत् इति गजस्नानतुल्यत्वं स्यात्, ततश्च पुनरपि ᳚एकैवाखण्डवित्᳚ इत्येव पर्यवस्येत्, एवं च देशकालावपि प्रकाशदशामेवाधिशयानौ प्रकाश्यत्वात्प्रकाशैकात्म्यमेवावगाहमानौ कथङ्कारं प्रकाशस्य भेदाधायकौ स्याताम्, प्रकाशातिरेकाभ्युपगमे वा अनयोरत्र नित्यत्वव्यापकत्वाभ्या भेदाधानेऽसामर्थ्यम्, इत्येक एवाखण्डः प्रकाशः, इति -- मतान्तरसिद्धिभिवाञ्छन्तः परे परं निरस्ताः || २०-२१ || तदाह -- अत एकप्रकाशोऽयमिति वादेऽत्र सुस्थिते | दूरादावारिताः सत्यं विभिन्नज्ञानवादिनः || २-२२ ||
SK
ननु यदि ज्ञानानि विभिन्नानि न सम्भवन्ति, तत् एकशब्द किमपोहनायात्र प्रयुक्तः ? इत्याशङ्क्याह� प्रकाशमात्रमुदितमप्रकाशनिषेधनात् | एकशब्दस्य न त्वर्थः संख्या चिद्व्यक्तिभेदभाक् || २-२३|| अप्रकाशः -- प्रकाश्यो नीलादिर्बाह्योऽर्थस्तावन्निषिद्धः, अतः ᳚प्रकाशः केवलोऽस्ति᳚ इत्येकशब्दस्यात्रासहायाद्वृत्तिः, तदुक्तं -- ᳚एकशब्दस्यार्थः प्रकाशमात्रमुदितम्᳚ इति, न पुनः प्रकाशभेदभाक् इत्येकद्वित्र्यादिलक्षणः संख्यार्थो, येन -- मतान्तराण्यप्यपोह्यतया सम्भवनीयानि स्युः || २३ || अत एवात्र भेदागूरकं व्यवहारमात्रमपि न ज्ञायते, इत्याह -- नैष शक्तिर्महादेवी न परत्राश्रितो यतः | न चैष शक्तिमान्देवो न कस्याप्याश्रयो यतः || २-२४ || नैष ध्येयो ध्यात्रभावान्न ध्याता ध्येयवर्जनात् | न पूज्यः पूजकाभावात्पूज्याभावान्न पूजकः || २-२५ || न मन्त्रो न च मनत्र्योऽसौ न च मन्त्रयिता प्रभुः | न दीक्षा दीक्षको वापि न दीक्षावान्महेश्वरः || २-२६ || एष इति -- व्याख्यातस्वरूपः परः प्रकाशः, शक्तिशक्तिमदादयो हि शब्दाः संबन्धिशब्दत्वान्नित्यसापेक्षाः इत्यन्यागूरणमन्तरेण स्वार्थ एव विश्रान्तिं लभन्ते, इति तैः क्रियमाणो व्यवहारो भेदनिष्ठ एव स्यात्, न चात्र परप्रमात्रेकात्मनि प्रकाशे भेदः कश्चिदस्ति, इत्येवं -- व्यवहारमात्रतां कदाचिदपि स न यायात्, अतश्च नायं शक्तिः, सा हि परं शक्तिमन्तमाश्रित्यैव वर्तते इत्यनपेक्षत्वाद्भेदाविर्भावे प्रकाश एवैकः, इति प्रतिज्ञाया हानिः स्यात्, एवं शक्तिमच्छब्दव्यवहारोऽपि नायम्, सोऽपि हि परं शक्तिलक्षणमर्थमुररीकृत्यैव वर्तते, इति भेद एवापतेत्, एवं ध्येयादावपि ज्ञेयम्, मन्त्र इति | मन्त्रस्य प्रणवादेर्वाच्यः मन्त्रयिता मन्त्रणां पाठकः, न दीक्षेति कर्तृकर्मापेक्षित्वात्, अत्र च माहेश्वर्ये प्रभुत्वं हेतुः || २४-२६ || अत एव यत्किंचन भेदाधायकं तदत्र नास्ति, इत्याह -- स्थानासननिरोधार्घसंधानावाहनादिकम् | विसर्जनान्तं नास्तयत्र कर्तृकर्मक्रियोज्झिते || २-२७ ||
SK
स्थानम् -- स्थापनमुद्रया भगवतोऽवस्थानम्, आसनम् -- संनिधानमुद्रया पूजां प्रति औन्मुख्यम्, निरोधः -- तत्रैवाविचलत्त्वेनास्थानम्, अर्धोऽष्टाङ्गः, संधानं मन्त्रादिविषयम्, आवाहनम् -- अनभिमुखस्याभिमुखीकरणम्, विसर्जनम् -- अभिमुखीभूतस्यानभिमुखीकरणम्, एषामावाहनादिविसर्जनान्तनामसत्त्वे हेतुगर्भं विशेषणम् -- कर्तृ इत्यादि᳚ कर्त्रादीनां हि विकल्पैकपरमार्थत्वात्, प्रकाशस्य च परप्रमात्रेकात्मकत्वेनाविकल्प्यत्वात् न केनचिदपि व्यपदेशेन व्यपदेष्टुं शक्यते, इति ङैष शक्तिः इत्याद्युक्तम् || २७ || न चैतद्युक्तिमात्रशरणम् अपि त्वागमेनापि सिद्धम् इति श्रीभर्गशिखां संवादयति -- न सन्न चासत्सदसन्न च तन्नोभयोज्झितम् | दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् || २-२८ || अयमित्यवभासो हि यो भावोऽवच्छिदात्मकः | स एव घटवल्लोके संस्तथा नैष भैरवः || २-२९ || लोके हि सजातीयव्यावृत्तौ यः कश्चिदर्थः ᳚अयमिति᳚ पुरोवर्तित्वेनावभासते भावः, स एव शत्᳚ इत्यभिधीयते, यथा -- घट इति, समनन्तरव्याख्यातस्वरूपः प्रकाशः पुनरनन्तभावनिर्भरो न तथा -- महासत्तात्मत्वेनानवच्छिन्नत्वात् नैवंरूपः -- सच्छब्दव्यवहार्यो न भवति, इति यावत् || २८-२९ || एवं तर्ह्यसच्छब्दव्यवहार्यो भवेत् ? -- इत्याशङ्क्याह -- असत्त्वं चाप्रकाशत्वं न कुत्राप्युपयोगिता | प्रकाश एव सर्वभावानां परा सत्ता इत्यसत्त्वं नामाप्रकाशत्वम् अकिञ्चिद्रूपत्वमुच्यते, यथा -- शशविषाणादेः, अत एव च तन्न कुत्रापि कस्याञ्चिदपि अर्थक्रियायामुपयुक्तम् -- न काञ्चिदप्यर्थक्रियां करोति, इति यावत् | प्रकाशः पुनर्न तथा -- इत्याह -- विश्वस्य जीवितं सत्यं प्रकाशैकात्मकश्च सः || २-३० || विश्वस्य -- चेतनाचेतनात्मनः सर्वस्य, पारमार्थिकं जीवितम् -- स्फुरत्तात्मकत्वेन अनुप्राणकम्, नहि तेन विना किञ्चिदपीदं प्रकाशते इत्युक्तम् ᳚प्रकाशैकात्मकश्च᳚ इति, एवमनेकरूपत्वादसच्छब्दव्यवहार्योऽपि, न भवेत इति भावः || ३० ||
SK
अत एव सदसदात्मापि न -- इत्याह -- आभ्यामेव तु हेतुभ्यां न द्व्यात्मा न द्वयोज्झितः | सर्वात्मना हि भात्येष केन रूपेण मन्त्र्यताम् || २-३१ || आभ्याम् -- समनन्तरोक्ताभ्यामनवच्छिन्नत्वप्रकाशमानत्वलक्षणभ्याम्, ननु यद्येवं तर्हि सदसदात्मकरूपद्वयोत्तीर्णः स्यात् ? इत्याशङ्क्याह -- ङ द्वयेत्यादि᳚ भावाभावावभासकालेऽपि स एव हि परमवभासते, इति कथं सदसद्भ्यामप्युज्झितः स्यात् ? अत आह शर्वात्मना हि भात्येषः᳚ इति -- एवमेतत्परप्रमात्रेकात्म भवत्येव अन्यथा ह्यनवच्छिन्नरूपत्वात्कदाचिदपि विकल्पतां न यायात् इति -- तात्पर्यार्थः, यदुक्तम् -- शतोऽवश्यं परमसत्सच्च तस्मात्परं विभो | त्वं चासतः सतश्चान्यस्तेनासि सदसन्मयः ||᳚ इति | तथा -- ङ शान्तमुदितं वापि तव रूपं न मध्यमम् | रूपं रूपं तव हरे यन्न केनचिदुच्यते ||᳚ इति | अतश्च केन तावत्कल्पितेन रूपेण एतदुच्यते इति न जानीमः, इयं हि दशा विकल्पोपहतबुद्धीनां मायाप्रमातॄणां दुर्विज्ञेया -- यथोक्तयुक्त्या ज्ञातुमशक्यैव -- इत्यर्थः, साक्षात्कृतपरमात्मतत्त्वानामविकल्पवृत्तीनां पुनरेतत् स्वानुभूतिमात्ररूपपरानन्दचमत्कारघनत्वेन सर्वातिशायि भासते एव, इत्युक्तम् ᳚किमप्येमदनुत्तरम्᳚ इति || ३१ || न केवलमेतदत्रैवोक्तं यावदन्यत्रापि -- इत्याह -- श्रीमत्त्रिशिरसि प्रोक्तं परज्ञानस्वरूपकम् | शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भं परं पदम् || २-३२ ||
SK
᳚परं ज्ञानं कथं देव᳚ इति देवीप्रश्ननिर्णयार्थं ह्येतदत्र परज्ञानरूपं भगवतोक्तम् -- इत्याशयः, तदेव पठति -- ᳚शक्त्या᳚ इत्यादि, यदेतत्परं पदं तच्छक्तिगर्भम्, शक्तिरेव स्वातन्त्र्यविमर्शादिपदाभिधेया गर्भः सारं यस्य तत्, सा च न तदतिरेकिणी -- इत्याह -- ᳚शक्त्या गर्भान्तर्वर्तिन्या᳚ इति, यतस्तयैव स्वातन्त्र्याख्यया शक्त्या गर्भोऽन्तरं प्रमात्रैकात्म्यं तस्यान्तः परा काष्ठा तेन वर्तते तच्छीला�तया स्वस्वभावरूपयोपलक्षितम - - इत्यर्थः, अन्यथा ह्यस्य परत्वमेव न स्यात, यदुक्तम् -- श्वभावमवभासस्य विमर्शं विदुरन्यथा | प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ||᳚ इति | अत एव शक्तौ स्वातन्त्र्यात्मनि स्वभाव एव तिष्ठति -- सदैव ताद्रूप्येण वर्तते इत्यर्थः, अत एव शक्तिगर्भ -- स्वातन्त्र्यशक्तिमन्तरेण नास्यान्याः शक्तयो विद्यन्ते इत्यर्थः, सैव हि तत्तदेषणीयाद्यर्थोपाधिवशान्नानात्वेन व्यवह्रियते -- इति भावः | यदुक्तम् -- ᳚तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः | बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्ता ||᳚ इति | तेन श्वतन्त्रो बोधः परमार्थः, इत्याद्युक्तनीत्यानवच्छिन्नस्वरूपः स्वातन्त्र्यशाल्यविकल्पकः प्रकाश एव परं तत्त्वम् -- इति तात्पर्यम् || ३२ || अत एव च नियतव्यवच्छेदासहिष्णुत्वादेतद्विकल्प्यतां नैति -- इत्याह -- न भावो नाप्यभावो न द्वयं वाचामगोचरात् | अकथ्यपदवीरूढं शक्तिस्थं शक्तिवर्जितम् || २-३३ || अगोचरादिति भावप्रधानो निर्देशः, तेन वाचामगोचरत्वादकथ्यपदवीरूढम् -- इत्यर्थः | एतच्च सर्वमसकृत्त्वेनैव व्याख्यातम्, इति न पुनरायस्तम् || ३३ || ये चातोऽवहितास्त एव परं कृतकृत्याः -- इत्याह -- इति ये रूढसंवित्तिपरमार्थपवित्रिताः | अनुत्तरपथे रूढास्तेऽभ्युपायानियन्त्रिताः || २-३४ ||
SK
इति -- उक्तेन गुरूपदेशादिना, रूढा -- तदैकात्म्यलाभादापादितप्ररोहा, या संवित्तिः, तस्या यः परमार्थः -- सर्वसर्वात्मत्वेन स्फुरणम्, तेन पवित्रिताः -- भेदविकारकालुष्यापनयनेन परमाद्वयपात्रतामापादिताः, अत एव ते व्यतिरिक्तेन बाह्येनाभ्यन्तरेण वाऽभ्युपायेन अनियन्त्रिताः -- तन्निरपेक्षाः सन्तः, अनुत्तरपथे -- पूर्णानन्दचमत्कारघनतया सर्वातिशायिनि चिद्विकासात्मवृत्तिमार्गे विश्रान्ताः�स्वरसावस्थानेनैव लब्धतत्सामरस्याः -- इत्यर्थः, तदुक्तम् -- , ᳚यथा स्थितस्तथैवास्स्व मा गा बाह्यमथान्तरम् | केवलं चिद्विकासेन विकारनिकराञ्जहि ||᳚ इति | तथा -- ᳚आनन्दशक्तिविश्रान्तो योगी समरसो भवेत् |᳚ इति | तथा -- ᳚उपायो नापरः कश्चित्स्वसत्तावगमादृते | तामेवानुसरन्योगी स्वस्थो यः स सुखी भवेत् ||᳚ इति || ३४ || ततश्च किम् ? इत्याह -- तेषामिदं समाभाति सर्वतो भावमण्डलम् | पुरःस्थमेव संवित्तिभैरवाग्निविलापितम् || २-३५ || तेषाम् -- अनुपायसमावेशशालिनाम्, देहाद्यपेक्षया पुरोऽवभासमानमपि इदं सर्वं भावमण्डलम् -- ᳚मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् | मदभिन्नमिदं च ...........................||᳚ इत्यादिनीत्या पूर्णसंविन्मयतयैवावभासते -- इत्यर्थः, यदुक्तम् -- ᳚यथा रुमायां पतिताः काष्ठपर्णोपलादयः | लवणत्वाय कल्पन्ते तथा भावाश्चिदात्मनि ||᳚ इति || ३५ || अत एवाह -- एतेषां सुखदुःखांशशंकातङ्कविकल्पनाः | निर्विकल्पपरावेशमात्रशेषत्वमागताः || २-३६ || एषां न मन्त्रो न ध्यानं न पूजा नापि कल्पना | न समय्यादिकाचार्य पर्यन्तः कोऽपि विभ्रमः || २-३७ || न केवलमेषामविकल्पकावेशमयत्वापत्तेः लौकिक्य एव कल्पनाः न किञ्चित्, यावदलौकिक्योऽपि -- इत्याह -- ᳚एषामित्यादि᳚ कल्पना -- स्थानादिका || ३६-३७|| ननु यद्येवं तर्ह्यस्य शेषवृत्तिः कथं स्यात् ? -- इत्याशङ्क्याह -- समस्तयन्त्रणातन्त्रत्रोटनाटङ्कधर्मिणः | नानुग्रहात्परं किञ्चिच्छेषवृत्तौ प्रयोजनम् || २-३८ ||
SK
समस्ताः -- निखिलाः शास्त्रोक्ता यन्त्रणा -- इदं कार्यम् इदं न᳚ इत्यादयो नियमाः, ता एव तन्यमानत्वात्तन्त्रम् -- पटाद्यारम्भकं तन्तुजालम्, तस्य त्रोटनायां विच्छेदे, टङ्कधर्मिणः शस्त्रकल्पस्य - - इत्यर्थः, यथा हि टङ्कस्तन्त्रं छिनत्ति, तथायमपि अनुपायसमाविष्टः शास्त्रीया यन्त्रणाः -- नहि आरूढस्यास्य ततः कश्चित्सङ्कोचः -- इति भावः, शास्त्रं हि आरुरुक्षूनुपदेश्यान्प्रत्येव नियामकम्, इति समनन्तरमेवोक्तम्, अत एव चास्य स्वात्मनि कृतकृत्यत्वात्परानुग्रहार्थमेव वर्तनम् -- इत्याह -- नानुग्रहादिति᳚ किंचिदिति -- समयपरिपालनादि || ३८ || तदाह� स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्नान्नो पारार्थ्यं प्रति घटयते काञ्चन स्वप्रवृत्तिम् | यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् || ३९ || एषः� लोकः, संकुचितः -- प्रमातृवर्गः तावत् ᳚................ऽभिलाषो मलोऽत्र तु |᳚ इत्यादिनीत्या लौकिकाणवमलयोगादात्मन्यपूर्णम्मन्यतया ᳚किमपि᳚ इति सामान्येन निर्देशात्सर्वमात्मीयं कर्तव्यम्, यत्नतः -- आकांक्षणीयत्वेन, कलयन् ᳚तदसिद्धं यदसिद्धेन साध्यते |᳚ इत्यादिनीत्या यस्य स्वार्थ एव न सिद्धः स कथं परार्थं प्रत्यपि काञ्चन स्वल्पामपि स्वप्रवृत्तिं घटयते, घटितापि वा तत्प्रवृत्तिर्न किञ्चित्कुर्यात् -- इति भावः, यः पुनरनुपायसमाविष्टत्वादेव खिलीकृतनिखिलबन्धः, अत एव भैरवीभावेन भगवदद्वयज्ञानापत्त्या स्वात्मनि कृतकृत्यत्वेन आकांक्षणीयस्यैवाभावात्, पूर्णः -- अनन्योन्मुखतया स्वात्मन्येव विश्रान्तः, तस्येयता निखिलस्य लोकस्य ग्रन्थकर्तव्यमवश्यं कार्यं स्वात्मप्रत्यभिज्ञापनम्, तन्मात्रमेवेदं स्फुटम् -- अपरिम्लानां कृत्यम् -- लोकानुग्रह एवास्य कर्तव्यः -- इत्यर्थः, नहि अस्यात्मनि प्राप्तप्राप्तव्यत्वात्किञ्चित्करणीयमस्ति -- इति भावः, यद्गीतं भगवता -- ᳚यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः | आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ||᳚ इति |
SK
ङ मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन | नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ||᳚ इति च || ३९ || द्विविधाश्च परानुग्रहाः -- निर्मलसंविदोऽनिर्मलसंविदश्च, तत्र निर्मलसंविदः प्रति तावन्निरुपकरणमेवास्यानुग्रहकारित्वम् -- इत्याह -- तं ये पश्यन्ति ताद्रूप्यक्रमेणामलसंविदः | तेऽपि तद्रूपिणस्तावत्येवास्यानुग्रहात्मता || ४० || ये पूर्वाभ्यासादिना निर्मलसंविदः, तीव्रतीव्रशक्तिपातभाजो वा, तम् -- समनन्तरोक्तस्वरूपम्, ताद्रूप्यक्रमेण पश्यन्ति ङिरुपायसमावेशभागयम्᳚ इति ज्ञानपूर्वं साक्षात्कुर्वन्ति, अतस्ते परदर्शनमात्रेणैव तत्संवित्संक्रमात् ᳚...................डीपाद्दीपमिवोदितम् |᳚ इति वक्ष्यमाणनीत्या निरुपायसमावेशभाक्त्वेन तत्सदृक्षा एव भवन्ति इति शेषः, एवंरूपं सिद्धादिदर्शनं च निरुपायसमावेशे निमित्तम्, इति प्रागेव संवादितम् शिद्धानां योगिनीनां च दर्शनम्...........|᳚ इत्यादि, अत एव तावती दर्शनमात्ररूपैवास्य अनुग्रहात्मता, न तु वक्ष्यमाणोपायादिसव्यपेक्षा -- इत्यर्थः || ४० || ननु सर्वत्र दीक्षायाः ᳚....................ंउक्तिश्च शिवदीक्षया |᳚ इत्याद्युत्क्या मुक्तावुपायत्वमुक्तम्, इति कथमत्र दीक्षां विनापि दर्शनमात्रादेव तदवाप्तिरुक्ता ? -- इत्याशङ्क्याह -- एतत्तत्त्वपरिज्ञानं मुख्यं यागादि कथ्यते | दीक्षान्तं विभुना श्रीमत्सिद्धयोगीश्वरीमते || ४१ || एतस्य समनन्तरोक्तस्य निरुपायात्मनस्तत्त्वस्य परिज्ञानमेव मुख्यया वृत्त्या ᳚यागहोमादि᳚ श्रीसिद्धयोगीश्वरीमतादौ�सर्वत्रैवागमे ᳚विभुना᳚ कथ्यते इति संबन्धः, अत एव च बाह्यं यागादि गौणम् -- इत्यर्थसिद्धम्, अन्यथा ह्यस्य मुख्यत्वमेव न स्यात्, यदभिप्रायेणैव चर्याक्रमेऽप्येतन्निषिद्धम्, यदुक्तम्� ङास्य मण्डलकुण्डादि किञ्चिदप्युपयुज्यते | न च न्यासादिकं पूर्वं स्नानादि च यथेच्छेया ||᳚ इति || ४१ || तदेव पठति� स्थण्डिलादुत्तरं तूरं तूरादुत्तरतः पटः | पटाद्ध्यानं ततो ध्येयं ततः स्याद्धारणोत्तरा || २-४२ ||
SK
ततोऽपि योगजं रूपं ततोऽपि ज्ञानमुत्तरम् | ज्ञानेन हि महासिद्धो भवेद्योगीश्वरस्त्विति || २-४३ || स्थण्डिलम् -- यागार्थं गृहीतो भूप्रदेशः, तूरम् -- पात्रादावुत्कीर्ण आकारविशेषः | ज्ञानस्य सर्वोत्कृष्टत्वे हेतुमाह -- ᳚ज्ञानेन᳚ इति, ज्ञानेन हि योगिनामपीश्वरः स्यात् -- इत्यर्थः, अत एव तदुपोद्वलनार्थं महच्छब्देश्वरशब्दयोरपि प्रयोगः || ४२-४३ || अनिर्मलसंविदः प्रति पुनरस्य सोपकरणमेव अनुग्रहकारित्वम् -- इत्याह -- सोऽपि स्वातन्त्र्यधाम्ना चे दप्यनिर्मलसंविदाम् | अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् || २-४४ || स्वातन्त्र्यधाम्ना, न पुनः शास्त्रीययन्त्रणया -- तत्त्रोटनायाः समनन्तरमेवोक्तत्वत् || ४४ || भावी च विधिः कीदृक् ? -- इत्याह -- अनुग्रह्यानुसारेण विचित्रः स च कथ्यते | परापराद्युपायौघसङ्कीर्णत्वविभेदतः || २-४५ || ᳚परापर᳚ इत्येकशेषः, तेन -- परः शाम्भवः, अपरः आणवः, परापरः शाक्तः, सङ्कीर्णत्वम् -- उपायान्तरसाहित्यात् || ४५ || न केवलमस्य परानुग्रहार्थं भाविविध्याश्रयणमुपयुक्तम्, यावत्तदभिधायकं शास्त्राद्यपि -- इत्याह� तदर्थमेव चास्यापि परमेश्वररूपिणः | तदाभ्युपायशास्त्रादिश्रवणाध्ययनादरः || २-४६ || न केवलमारुरुक्षूणामेव शास्त्रमुपादेयं यावदस्यापि, इति अपिशब्दार्थः, यदुक्तम् -- ᳚शङ्काशून्योऽपि तत्त्वज्ञो मुमुक्षुप्रक्रियां प्रति | न त्यजेच्छास्त्रमर्यादामित्याज्ञा पारमेश्वरी ||᳚ इति || ४६ || नन्वेवमुपायमुखप्रेक्षित्वादस्य स्वातन्त्र्यहानिः स्यात् ?� इत्याशङ्क्याह -- नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना | नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः || २-४७ || नहि अस्य आरुरुक्षुवदात्मन्युपायापेक्षा येन स्वातन्त्र्यखण्डना स्यात्, किं तु स्वात्मनि कृतकृत्यत्वादत्परार्थमस्य तत्स्वीकारः | यतः परेषामनिर्मलचित्त्वादुपायमन्तरेण न अनुग्रहः सेत्स्यति, इति -- भाविविध्याश्रयणाद्यप्युक्तम्, यद्गीतम्� शक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत |
SK
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ||᳚ इति || ४७ || न चैतत्स्वोपज्ञमेवास्माभिरुक्तम्, अपि तु भगवता, पूर्वाचार्यैश्च सर्वत्रैवोक्तम्, इति -- निखिलस्य आह्निकार्थस्याविगीततां दर्शयितुमाह -- श्रीमदूर्मिमहाशास्त्रे सिद्धसंतानरूपके | इदमुक्तं तथा श्रीमत्सोमानन्दादिदैशिकैः || २-४८ || ऊर्मिमहाशास्त्र इति -- श्रीमदूर्मिकौलसिद्धसंतानरूपके, इत्यनेन पादोवल्ल्यां पारम्पर्येऽप्यम्लानत्वं र्दशितम् | तत्र हि -- ᳚शून्यं न किञ्चित्तच्छून्यं त्वशून्यं शून्यता नहि | यदकिञ्चित्कथं तद्धि न किञ्चिच्छेत्तुमर्हति ||᳚ इति भगवत्या पृष्टो भगवान् ᳚आत्मा शून्य इह ज्ञेयः शिवधर्मैर्विनाकृतः | शिवः शून्योऽधिगन्तव्यो विमलोऽमूर्तविग्रहः ||᳚ इत्याद्युपक्रम्य� ङास्त्यस्ति नास्ति नास्तीति कोटयो न स्पृशन्ति हि | वाचामगोचरं यस्मात्तत्तत्त्वमिह कथ्यते || यदभावि न तद्भावि यद्भाविन तदन्यथा | एवं विचिन्त्य मतिमान्विकल्पं न समाश्रयेत् || तच्च सर्वगतं सूक्ष्ममुपाधिपरिवर्जितम् |᳚ इत्यादिपर्यन्तं बहूक्तवान् | श्रीमत्सोमानन्दादिदैशिकैः उक्तमिति -- श्रीशिवदृष्ट्यादौ, यदुक्तं तत्र� ᳚भावनाकरणाभ्यां किं शिवस्य सततोदितेः | इति | शकृज्ज्ञाते सुवर्णे किं भावना करणं व्रजेत् | एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः || ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना | करणेन नास्ति कृत्यं क्वापि भावनयापि वा ||᳚ इति च || ४८ || तदेव सर्वत्रावधातव्यम् -- इत्याह -- गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात् समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात् | विलीने शङ्काभ्रे हृदयगगनोद्भासिमहसः प्रभोः सूर्यस्येव स्पृशत चरणान्ध्वान्तजयिनः || २-४९ ||
SK
गुरोरित्यादिवाक्यात्सकृदुपदेशाद्यात्मनः ᳚आत्मैवेश्वरः सर्वज्ञः सर्वकर्ता च᳚ इत्यादिकानां युक्तीनां प्रचयस्य या रचना -- परपक्षबाधनस्वपक्षसाधनाधायिका शास्त्रपरिपाटी, तया उन्मार्जनम् -- बौद्धाज्ञानोत्पुंसनम्, तद्वशात् -- बौद्धज्ञानोदयेन स्वपरामर्शदार्ढ्यात् -- इत्यर्थः | शास्त्रम् -- प्रभुसंमितमद्वैतागमं प्रति समाश्वासात् प्रत्यायादिति, व्यस्तात् -- गुरुतः शास्त्रः स्वतः तीव्रतीव्रशक्तिभाजाम्, यद्वा समुदितात्� समस्तात्कथितात् एतस्मात्त्रयादपि तीव्रमध्यादिशक्तिपातभाजाम्, शङ्काविकल्प एवावारकत्वादभ्रम्, तस्मिन्विलीने सति, हृदयम् -- विमर्श एव अनवच्छिन्नत्वाद्गगनं तत्रोच्चैर्भासनशीलम् -- ज्ञत्वकर्तृत्वलक्षणं महः तेजो यस्य, अत एव ध्वान्तस्यस्वात्मप्रच्छादनेनोपाश्रितस्य द्वैतप्रथात्मकस्य अज्ञानस्य, जयिनः प्रभोः -- विश्वात्मकत्वेन प्रभवनशीलस्य परमात्मनः, चरणान् -- चरेर्गत्यर्थत्वादाणवादीनि ज्ञानानि, यूयम् -- समनन्तरोद्दिष्टाः तीव्रतीव्रदिशक्तिपात भाजः, स्पृशत -- यथोत्तरं स्वात्ममयतयैव भावयध्वम् -- इत्यर्थः, अत एव चास्य सूर्येणौपम्यमुक्तम्, तस्यापि हि अभ्रे गलिते गगनोद्भासित्वेन अन्धकारं निराकुर्वतः पादस्पर्शः उचितः || ४९ || इदानीमाह्निकार्थं श्लोकस्य प्रथमार्धेनोपसंहरति -- इदमनुत्तरधामविवेचकं विगलितौपयिकं कृतमाह्निकम् || २-५० || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके अनुपायप्रकाशनं नाम द्वितीयमाह्निकम् || २ || उपाय एवौपयिकमिति शिवम् || तत्तद्ग्रन्थाधिगमोपायशतान्वेषणप्रसक्तेन | अनुपायाह्निकमेतद् व्याख्यातं जयरथेनाशु || || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते अनुपायप्रकाशनं नाम द्वितीयमाह्निकं समाप्तम् || २ || तृतीयमाह्निकम् ᳚ विवेकः ᳚ स्वात्मत्वेऽपि विचित्रं निखिलमिदं वाच्यवाचकात्म जगत् | दर्पणनगरवदात्मनि विभासयन्विजयते विजयः || १ ||
SK
इदानीमनुपायानन्तर्येण क्रमप्राप्तं शाम्भवोपायं द्वितीयार्धेन प्रणिगदितुं प्रतिजानीते -- अथ परौपयिकं प्रणिगद्यते पदमनुत्तरमेव महेशितुः || ननु यदि नाम परोपायस्यापि अनुत्तरमेव रूपं तत्पूर्वेणैव गतार्थत्वात् किमर्थमिदमाह्निकान्तरमारभ्यते ? इत्याह� प्रकाशमात्रं यत्प्रोक्तं भैरवीयं परं महः | तत्र स्वतन्त्रतामात्रमधिकं प्रविविच्यते || ३-१ || प्रकाशमात्रमिति प्राधान्यात्, नहि निर्विमर्शः प्रकाशः समस्ति उपपद्यते वा, प्रोक्तमित्यनुपायाह्निके, अधिकमिति कल्पनामात्रेण, नहि वस्तुते वस्तुनः स्वभावोऽ -- तिरिच्यते -- तथात्वे वा स स्वभाव एव न स्यात्, स्वतन्त्रतेति प्रकाशनक्रियाकर्तृत्वम्, तस्य चेयत्तत्वं यत् स्वभित्तावेव स्वेच्छया सर्वं प्रकाशयतीति || १ || तदेवाह� यः प्रकाशः स सर्वस्य प्रकाशत्वं प्रयच्छति | यः खलु प्रकाशनक्रियायां कर्ता परप्रमात्रात्माऽनुत्तरशब्दाभिधेयः प्रकाशः स सर्वस्य प्रमातृप्रमेयात्मनो विश्वस्य प्रकाशत्वम् प्रकाशमानतां प्रयच्छति स्वात्मैकात्म्येन अवभासयति -- इत्यर्थः | नहि विश्वं नाम प्रकाशमानत्वात्तदतिरिक्तं किञ्चित्सम्भवति, तदतिरेकाभ्युपगमे ह्यस्य प्रकाशमानत्वायोगाद्भानमेव न स्यात् इति || तदाह� न च तद्व्यतिरेक्यस्ति विश्वं सद्वावभासते || ३-२ || वा शब्दोऽभ्युपगमे || २ || ननु यद्येवं तर्हि प्रकाश एव प्रकाशते इति विश्वस्य अवभास एव न स्यात्, अथ च भासते विश्वमिति किमेतत् ? इत्याशङ्क्याह -- अतोऽसौ परमेशानः स्वात्मव्योमन्यनर्गलः | इयतः सृष्टिसंहाराडम्बरस्य प्रदर्शकः || ३-३ ||
SK
अत इति -- प्रकाशातिरिक्तस्य विश्वस्य भानायोगात् | परमेश्वरो हि अनर्गलत्वलक्षणस्वस्वातन्त्र्यमाहात्म्यात् स्वात्मभित्तावेव अनतिरिक्तमप्यतिरिक्तायमानम् इयद्विश्ववैचित्र्यं प्रदर्शयति इति | इत्येवं विश्ववैचित्र्योल्लासेऽपि प्रकाशमात्रस्वभावे स्वात्मनि अस्य नाधिकं किञ्चित् जातम् -- इति कटाक्षयितुमत्र व्योम्ना निरूपणं कृतम्, अत एव चानेन विश्वस्य चित्प्रतिबिम्बत्वम् -- इत्यनुजोद्दे शोद्दिष्टस्य प्रतिबिम्बवादस्य अवकाशो दत्तः | यथा हि दर्पणादौ परस्परव्यवृत्तात्मानः प्रतिबिम्बिता आकारविशेषाः ततोऽनतिरिक्तत्वेऽपि अतिरिक्ता इव भासन्ते तद्वदिहापीति || ३ || तदाह� निर्मले मकुरे यद्वद्भान्ति भूमिजलादयः | अमिश्रास्तद्वदेकस्मिंश्चिन्नाथे विश्ववृत्तयः || ३-४ || सुबोधमञ्जर्याम्� ᳚रूपादिपञ्चवर्गोऽयं विश्वमेतावदेव हि | गृह्यते पञ्चभिस्तच्च चक्षुरादिभिरिन्द्रियैः ||᳚ इत्याद्युक्त्युक्त्या पञ्चैव रूपादयस्तावत्सर्वमिति || ४ || तेषां प्रतिबिम्बेन व्यवस्थया विषयभागं दर्शयति -- सदृशं भाति नयनदर्पणाम्बरवारिषु | सदृशमिति सजातीयम्, अम्बरेति -- अम्बरस्थं नातितीव्रं नातिमन्दं सौरं चान्द्रं वा तेजः, तत्र हि छायापुरुषोपदेशविद्भिः शरीरसंस्थानप्रतिबिम्बं दृश्यते | यदाहुः -- ङभस्थे च तेजसि रूपप्रतिबिम्बयोगः |᳚ इति | यद्वा विषयान्तरोपलक्षणपरतया शब्दप्रतिबिम्बविषयत्वेन व्याख्येयम्, तेन नभसि प्रतिश्रुत्का तथा परानुभूयमानस्य कटुतिक्तादे रसस्य स्त्र्यादिस्पर्शस्य गन्धस्य च दन्तोदके कन्दादौ स्पर्शक्षेत्रे त्वचि घ्रणे गन्धक्षेत्रे च क्रमेण प्रतिबिम्बनमिति || एतदेव दर्शयति� तथा हि निर्मले रूपे रूपमेवावभासते || ३-५ ||
SK
इह पृथिव्यप्तेजसां त्रयाणामेव रूपवत्त्वमिति पार्थिवे दर्पणादौ, आप्ये स्तिमिते जलाशयादौ, तैजसे चक्षुरादौ च रूपाख्योऽस्ति स्वच्छो गुणः संनिवेशस्य संस्थानात्मा इति तत्प्रतिबिम्बनमेव तत्रावभासते न स्पर्शादेः, तत् खलु आनन्दस्थानाद्यात्मकेषु कन्दाद्याधारादिषु स्पर्शादेः संभवात् प्रतिसंक्रामति, तेन य एव यत्र स्वच्छोऽस्ति गुणः स एव तत्र प्रतिसंक्रामति -- इत्याशयः || ५ || न चैतदसम्बद्धम् -- इत्यवधारयितुमत्र दृष्टान्तमाह -- प्रच्छन्नरागिणी कान्तप्रतिबिम्बितसुन्दरम् | दर्पणं कुचकुम्भाभ्यां स्पृशन्त्यति न तृप्यति || ३-६ || अत्र तावत्प्रच्छन्नरागिण्याः कान्ताया गुरुसंनिधानादेरन्तरायप्रायत्वात् साक्षात् दर्शनाद्यप्राप्तावपि दर्पणप्रतिबिम्बद्वारेणापि अनन्यसञ्चेत्यं ᳚दृष्टो मया कान्तः᳚ इति सन्तोषाभिमानात् कान्तदर्शनं वृत्तम्, अत एव सुन्दरमित्यनेन दर्शनवशोन्मिषिताह्लादातिशयकारित्वाद्यपि सूचितम् | एवमन्यासंवेद्य एतत् स्पर्शोऽपि मे भूयादिति तत्र कृतप्रयत्नापि सा दर्पणे स्पर्शाप्रतिसंक्रमात्तमलभमाना न तृप्यति न प्रीयते -- इत्यर्थः || ६ || ननु यद्यत्र रूपं प्रतिबिम्बितं तत्तदव्यभिचरितस्वभावः स्पर्शोऽपि किं न प्रतिबिम्बितः? इत्याशङ्क्याह� न हि स्पर्शोऽस्य विमलो रूपमेव तथा यतः | नैर्मल्यं चातिनिविडसजातीयैकसङ्गतिः || ३-७ ||
SK
अस्येति -- दर्पणस्य, तथेति -- विमलम्, स्वच्छमेव हि अस्वच्छस्य दर्पण इव मुखस्य प्रतिबिम्बं स्वीकरोति -- इति भावः | नैर्मल्यं नाम च एतत्किमुच्यते ? इत्याह -- नैर्मल्यं चेति | अतिशयेन निविडाः विजातीयभावैरकलुषिता ये सजातीयाः, यथा दर्पणे रूपपरमाणवः, तेषां एका विजातीयाभावादसहाया या सङ्गतिः नैरन्तर्येणावस्थानात्स्थपुटत्वादिपरिहारेण श्लक्ष्णत्वात्म संहतत्त्वं (तदेव) नैर्मल्यम् | यदैव हि विजातीयैः सजातीयाभावैश्चाकलुषितं दर्पणादे रूपमुपलभ्यते तदा रूपप्रतिबिम्बयोगः | यदा तु विजातीयैर्बाष्परजोरूपादिभिः तत्कालुष्यमुपनीयते तदा न इत्यन्वयव्यतिरेकाभ्यां निश्चीयते, यद्यस्यैव प्रतिबिम्बार्पकापेक्षया विशिष्टः स्वच्छताख्यो गुणः स एव तत्प्रतिबिम्बं गृह्णाति इति, अत एव च ᳚रूप एव रूपमवभासते᳚ इत्यादौ प्रतिज्ञातो दर्पणोऽपि मुख प्रतिबिम्बेत् -- इत्याविशेषेण बिम्बप्रतिबिम्बभावो न भवति -- इत्यप्यावेदितम् || ७ || एतदेव प्रकारान्तरेणापि व्याचष्टे -- स्वस्मिन्नभेदाद्भिन्नस्य दर्शनक्षमतैव या | अत्यक्तस्वप्रकाशस्य नैर्मल्यं तद्गुरूदितम् || ३-८ || अत्यक्तप्रतिकबिम्बितेऽपि भावान्तरे तस्याविकल्पस्यैव निर्भासादतिरोहितः स्वप्रकाशो यस्य दर्पणादेः स्वात्मन्यभेदमवलम्ब्य यद्भिन्नस्य भिन्नदेशस्य प्रतिबिम्बार्पकस्य पर्वतादेर्दर्शनम् गर्भीकृतण्यर्थत्वात्प्रकटीकरणम् | नहि दर्पणदेशादणुमात्रेऽपि बाह्ये देशे प्रतिबिम्बं भवति -- इति भावः | तत्र या क्षमता कुड्यादिवैलक्षण्येन प्रतिबिम्बग्रहणसहिष्णुता, तदेव नैर्मल्यम् | न चैतत्स्वोपज्ञमेवास्माभिरुक्तम् -- इत्याह ᳚गुरूदितमिति᳚ गुरुणा परमगुरुणा श्रीमदुत्पलदेवेन -- ᳚अथार्थस्य यथारूपं ..........................|᳚ इत्यादि | तथा -- ङ च युक्तं जडस्यैवं ........................|᳚ इत्यादि श्रीप्रत्यभिज्ञाकारिकाद्वयटीकायामेतन्निखिलमेव प्रतिबिम्बसतत्त्वमुदितम् उक्तम् -- इत्यर्थः || ८ ||
SK
तदेतन्नैर्मल्यं मुख्यामुख्यतया द्विप्रकारमिति दर्शयितुमाह -- नैर्मल्यं मुख्यमेकस्य संविन्नाथस्य सर्वतः | अंशांशिकातः क्वाप्यन्यद्विमलं तत्तदिच्छया || ९ || मुख्यमिति -- सर्वस्यैव रूपाद्यात्मना विश्वस्य प्रतिबिम्बग्रहणसहिष्णुत्वात्, अत उक्तम्�सर्वत इति | संवित्संलग्नमेव हि विश्वं संवेद्यते, अत एव अस्याः सर्वतः स्वच्छत्वम्, तथा क्वापि दर्पणादौ अंशांशिकातोरूपादिलक्षणमंशमंशमवलम्ब्य अन्यत् अमुख्यं नैर्मल्यम्, तद्धि क्वचिदेव किञ्चिन्निर्मलम्, अन्यथा शर्वत्र सर्वं भायात्᳚ इति दर्पणेऽपि स्पर्शःप्रतिबिम्बं गृह्णीयात्, एवं च मुख्यादस्य भेदो न स्यात् | तन्नैर्मल्ये च तत्स्वातन्त्र्यमेव निमित्तम् -- इत्याह -- ᳚विमलं तत्तदिच्छया᳚ इति | तदितिरूपादि, अत एव स्पर्शादि, तत्र अविमलम् इत्यर्थसिद्धं तेन तच्छक्तिरेव तथा प्रसृता -- इति भावः || ९ || अत आह -- भावानां यत्प्रतीघातिवपुर्मायात्मकं हि तत् | तेषामेवास्ति सद्विद्यामयं त्वप्रतिघातकम् || ३-१० || प्रतीघाति इति, प्रतिहन्तृत्वादन्यानुप्रवेशासहम् -- इत्यर्थः, तद्धि मायास्वरूपगोपनाकारित्वात् ᳚येयं पारमेश्वरी क्रियाशक्तिः᳚ तदात्मकम्, अत एव भेदप्राधान्याद्वेद्यतायाः स्थौल्यात् तत्रास्वच्छत्वम् इति प्रतिबिम्बग्रहणासामर्थ्यम् | यत्पुनरप्रतीघाति भावानां वपुः तत्सद्विद्यामयं ज्ञानशक्तिस्वभावम्, अत एव तदपेक्षया तत्स्वच्छम् इति तत्र प्रतिबिम्बग्रहसहिष्णुत्वम्, तेन पूर्वं प्रतिबिम्बात्मकम् इदं तु तद्बहि -- इति विशेषः | एवं परमेश्वर एव स्वस्वातन्त्र्यमाहात्म्यात्तत्तद्बिम्बप्रतिबिम्बाद्याभासवैचित्र्येण अवभासते -- इति तात्पर्यार्थः || १० || तदाह� तदेवमुभयाकारमवभासं प्रकाशयन् | विभाति वरदो बिम्बप्रतिबिम्बदृशाखिले || ३-११ || उभयाकारिमितिप्रतीघात्यप्रतीघात्यात्मकम् आभासमात्रसारमेव एतत्, न तु तात्त्विकमित्युक्तम् -- ᳚अवभासं प्रकाशयन्᳚ इति | उक्तं च -- ᳚तस्मादेको महादेवः स्वातन्त्र्योपहितस्थितिः᳚ |
SK
द्वित्वेन भात्यसौ बिम्बप्रतिबिम्बोदयात्मना || इति || ११ || एवं यथाप्रतीति प्रतिबिम्बसतत्त्वमुपपाद्य केषाञ्चन नैयायिकानां प्रत्यावृत्तैर्नयनरश्मिभिः स्वस्यैव मुखस्य ग्रहणेऽपि दर्पणमुखमिति भ्रन्तिरियम् न पुनः सत्यत्वभ्रन्तत्वव्यतिरेकेण तृतीयस्य राश्यन्तरस्य अभावात्प्रतिबिम्बं नाम किञ्चिदस्ति -- इति मतं निराकर्तुमाह -- यस्त्वाह नेत्रतेजांसि स्वच्छात्प्रतिफलन्त्यलम् | विपर्यस्य स्वकं वक्त्रं गृह्णन्तीति स पृच्छयते || ३-१२ || य इत्येकवचनेन सूत्रकारासूत्रितत्वात्सर्वेषां नैयायिकानां नैतन्मतम् -- इति सूचितम्, कैश्चिदेव हि आग्रहप्रवृत्तैरेतदुक्तम् -- इति भावः | अत एव वृत्तिकारभूषणकारादिभिरेतन्नामापि न स्पृष्टम् | स्वच्छादिति -- बाह्याद्दर्पणादेः, विपर्यस्य इति -- परावृत्त्य -- इत्यर्थः | अत्र च प्रतिफलन्तीति विशेषणद्वारेण हेतुः, अन्यथा हि स्वदेहसंमुखीभाव एव एषां न स्यात् इति कथं स्वमपि वक्त्रं गृह्णीयुः | पृच्छ्यते इति -- एतदभ्युपगमे कस्तवाशय इति || १२ || तदेवाह� देहादन्यत्र यत्तेजस्तदधिष्ठातुरात्मनः | तेनैव तेजसा ज्ञत्वे कोऽर्थः स्याद्दर्पणेन तु || ३-१३ ||
SK
उद्धाटितचक्षुषः प्रमातुर्देहाद्बहिः प्रसृतं यन्नायनं तेजः तेनैव विपर्यस्तेन तेजसा स्वाधिष्ठायकस्यात्मनो यदि स्वमुखज्ञातृता जायेत तद्दर्पणेन पुनः कोऽर्थः? पुरः प्रतिफलनहेतूनामन्येषामपि कुड्यादीनां तत्र संभवात् | अथ दर्पणादय एव प्रतिफलनहेतवो न कुड्यादय इति चेत् ? स्वच्छन्दाभिधानमेतत् -- यतः समानेऽपि प्रतिघातहेतुत्वे दर्पणादय एव तथा न कुड्यादय�इत्यत्र न किञ्चिन्निमित्तमुत्पश्यामः | अथात्राधिकः स्वच्छत्वाख्यो धर्मोऽस्ति निमित्तम् इति चेत्? नैतत्; स्वच्छत्वं हि न प्रतीघाते निमित्तम्, एवं ह्यालोकस्य स्वच्छत्वात् तस्मिन्सति नभसि न कस्यापि अवकाशः स्यात् प्रत्युत तत्प्रतिबिम्बग्रहणे निमित्तम् -- इति विरुद्धत्वमेव हेतोरावहति, तेन प्रतीघाते मूर्तत्वाद्येव निमित्तम्, तच्चोभयत्रापि समानम्, यद्वा दर्पणेन प्रतिफलनस्य वृत्तत्वादिदानीं दर्पणं विनापि स्वमुखग्रहणं स्यात् -- इति तेन किं प्रयोजनम् || १३ || एवं च प्रतिफलनबलात्प्रत्यावृत्ता यदि नायना रश्मयः स्वकमेव वक्त्रं गृह्णन्ति तन्निज एव देशे तन्न्याय्यं नान्यत्र दर्पणादेरन्तः -- इत्याह -- विपर्यस्तैस्तु तेजोभिर्ग्राहकात्मत्वमागतैः | रूपं दृश्येत वदने निजे न मकुरान्तरे || ३-१४ || रूपमिति, स्ववदनसंबन्धि -- वदने निज इति -- स्ववदनदेशे एव -- इत्यर्थः, स्वदेशावस्थितमेव हि ग्राह्यं ग्राहको गृह्णाति -- इति भावः | न हि नीलदेशं परिहृत्य नीलज्ञानं नीलं परिच्छिन्दत् क्वचिद् दृष्टम्, ग्राहकात्मत्वमिति ग्रहीतृसंबद्धमेव चैतज्ज्ञेयम्; आत्माधिष्ठितानामेव ह्येषां ग्राहकत्वव्यवहारः | किं च बहिःनिःसृतानां नयनतेजसामात्मनाधिष्ठानं किमशरीरेण सशरीरेण वा ? आद्ये पक्षेऽशरीरस्य भोगायतनत्वं न स्यात् -- तेन विनापि बहिर्बुद्धिलक्षणस्य भोगस्य उल्लासात्, एवं च तस्य ᳚भोगायतनं शरीरम्᳚ इति स्वसिद्धान्त भङ्गो भवेत् || १४ || सशरीरेणाधिष्ठानेन च विबम्बवदेवास्य प्रतिपत्तिः स्यान्न त्वन्यथा -- इत्याह --
SK
स्वमुखे स्पर्शवच्चेतद्रूपं भायान्ममेत्यलम् | न त्वस्य स्पृश्यभिन्नस्य वेद्यैकान्तस्वरूपिणः || ३-१५ ||
SK
यदीदं निजमुखाधिकरणत्वेनात्मनो रूपमवभासेत् तत् ᳚ममेदं रूपम्᳚ इत्यहन्तास्पदत्वेन पर्यस्ता प्रतिपत्तिः स्यात्, न पुनर्वेद्यैकात्मनोऽस्येदं रूपम् इति इदन्तास्पदत्वेन, अत्र हि अव्युत्पन्नानां बालादीनामयमित्येवैकरसा प्रतिपत्तिः, व्युत्पन्नस्तु ᳚मन्मुखमवेदेमत्र प्रतिबिम्बितम्᳚ इत्याभिमन्यतां नाम, को दोषः? बिम्बात्पुनरस्य प्रतिबिम्बत्वे भेदेन प्रतिपत्तिरस्त्येव -- तत्र एवंरूपत्वस्य अपह्नोतुमशक्यत्वात् | किं च स्वमुख एव यद्यात्मनो रूपभानं स्यात् तत्स्पर्शोऽपि भायात्, रूपसंनिवेशौ हि कामं गुरुत्वगन्धवत्त्वादिरहितौ स्याताम्, न पुनस्तदव्यभिचरितस्वभावत्वात् स्पर्शहीनौ क्वचिद् दृष्टौ | रूपप्रतिबिम्बे तु स्पर्शाद्भिन्नमेव रूपं प्रतीयते | नह्यग्निप्रतिबिम्बभाजो मुकुरस्य क्वचिदुष्णत्वमुपलब्धम् | तद्रूपावभासे यथा तद्धर्मस्य संनिवेशस्य अवश्यं भानं तथा तदव्यभिचारिणः स्पर्शस्यापि स्यात्, यदि स्वमुखमेव गृह्येत तस्मान्न युक्तमुक्तं श्वकस्यैव वक्त्रस्य ग्रहणम्᳚ इति | ननु अत एव उक्तं ᳚भ्रन्तिरियम्᳚ इति यत्स्वमुखमेव गृह्यमाणं भ्रन्त्याऽभिमन्यते -- दर्पणे गृहीतमिति, यद्येवं तर्हि सैवास्तु किमसंवेद्यमानस्य सत्यमुखग्रहणस्याभ्युपगमेन, भ्रन्तौ हि आरोप्यमाणमेव परिस्फुरति न वस्तुतत्त्वमपि, शुक्तिकारजतनिर्भासे हि यदि शुक्तिकापि भयात्तत् कृतं रजतनिर्भासेन इति भ्रन्तिरेव न स्यात्, एवं सत्यमेव चेन्मुखं गृहीतं का नाम भ्रन्तिः, भ्रन्तावपि वा किं दर्पण एव मुखत्वेन भाति उत स्वमुखं परमुखत्वेन ? न तावत् आद्यः पक्षो दर्पणस्याखण्डस्यैव निर्भासमानत्वात्, नहि रजतनिर्भासावसरे शुक्तिकाया अपि भानं भवेत्, नापि द्वितीयः -- एवं हि औदासीन्यमवलम्बमानः सर्वो जनः स्वमुखे भूषणविन्यासप्रसाधनादौ अनादृतः स्यात्, तस्माद्भान्त्यभावाद्विम्बविलक्षणं प्रतिबिम्बाख्यं वस्त्वन्तरमेवैतदभ्युपगन्तव्यम् || १५ || अत आह� रूपसंस्थानमात्रं तत्स्पर्शगन्धरसादिभिः |
SK
न्यग्भूतैरेव तद्युक्तं वस्तु तत्प्रतिबिम्बितम् || ३-१६ || तत् -- उक्तात् भ्रन्त्यभावादेर्हेतोः, स्पर्शादिशून्यत्वात् केवलं तद्रूपसंस्थानं तत्र दर्पणादौ प्रतिबिम्बितं सत् वस्त्वेव, न पुनरवस्तु, किं तु स्पर्शादिभिर्न्यग्भूतैरेव तद्युक्तम्, अन्यथा ह्यस्य बिम्बादविशेष एव स्यात्, तस्मादस्त्येव प्रतिबिम्बलक्षणस्तृतीयो राशिः -- इत्याशयः || १६ || किं नाम चेदं स्पर्शादीनां न्यग्भूतत्वम्? -- इत्याह -- न्यग्भावो ग्राह्यताभावात्तदभावोऽप्रमाणतः | स चार्थसङ्गमाभावात्सोऽप्यादर्शेऽनवस्थितेः || ३-१७ || स इति प्रमाणाभावः, अनवस्थितेरित्यर्थात्स्पर्शादीनाम्, यदि वा नामात्र हि स्पर्शादीनामवस्थानं स्यात् तत्तैः सह इन्द्रियाणि संयुज्येरन्, तत्संनिकर्षादेव चोत्पद्यमानं ज्ञानं तत्र प्रमाणतां यायात् -- इति तत्प्रमीयमाणस्य स्पर्शादेर्ग्राह्याभावो भवेत् -- इति भावः || १७ || किं च अत एव गुरुत्वादिर्धर्मो नैतस्य लक्ष्यते | नह्यादर्शे संस्थितोऽसौ तद्दृष्टौ स उपायकः || ३-१८ || अत इति -- स्पर्शादीनामनवस्थितेः, यदि ह्येतस्य प्रतिबिम्बितस्य रूपसंस्थानमात्रस्य स्पर्शाद्यपि स्यात् तत्तद्धर्मो गुरुत्वादिरपि भायात्, तदभावे चास्य किं प्रमाणम् ? -- इत्याह -- ङह्यादर्शे संस्थितोऽसौ᳚ -- इति गुरुत्वादिर्धर्मः प्रतिबिम्बितस्य पर्वतादेः, असाविति -- गुरुत्वादिधर्मसंभवे हि तद्योगात् दर्पणोऽप्यचाल्यः स्यात्, न चैवम्, इति प्रतिबिम्बेऽपि तन्नास्तीत्युक्तम् -- ᳚गुरुत्वादिर्धर्मो नैतस्य लक्ष्यते᳚ इति | ननु रूपं तावत्स्पर्शाव्यभिचारि सर्वत्रैव दृष्टं बिम्बे चैवमिति दर्पणे रूपमेव केवलं किमिति प्रतिसंक्रान्तम्? -- इत्याशङ्क्याह -- ᳚तद्दृष्टौ स उपायकः᳚ इति, तद्दृष्टाविति�तस्य रूपसंस्थानमात्रस्य, दृष्टौ अभासने -- इत्यर्थः, दर्पणे हि पूर्वोक्तयुक्त्या रूपमेव स्वच्छमस्तीति तदवभासन एवास्य साधनत्वं न स्पर्शादेरपि -- इति भावः | उपाय एव उपायकः इति, स्वार्थे कन् || १८ ||
SK
ननु यथा दर्पणस्तद्दृष्टावुपायस्तथान्येऽप्यालोकादयः, इत्युपायत्वाविशेषेऽप्येष एव कस्मादस्याधार उच्यते ? इत्याशङ्क्याह - - तस्मात्तु नैष भेदेन यद्भाति तत उच्यते | आधारस्तत्र तूपाया दीपदृक्संविदः क्रमात् || ३-१९ || यतः पुनस्तस्मात् आदर्शादेषः प्रतिबिम्बो भेदेन पृथक्तया न भाति ततो हेतोस्तिलेषु तैलमितिवदभिव्यापकतयाऽस्य एष आधार उच्यते, अत्र पुनरुत्पन्नस्य सतः प्रतिबिम्बस्य ज्ञप्तावालोकादय उपाया, इति -- तेभ्योऽस्य विशेषः, तदाह -- तत्र त्विति, क्रमादिति दर्पणाभेदेन उत्पत्त्यवभासात्, उत्तरकालं संनिहितेऽपि दर्पणे जातेऽपि प्रतिबिम्बे दीपं विना कस्तद्व्यवहारः, को हि वेद अन्धतमसे दर्पणे मुखं संक्रान्तमिति, एवमन्धस्य संक्रान्तेऽपि मुखे सत्यपि आलोके न तद्व्यवहारः, अनन्धस्य तु सत्यामपि एवंसामग्र्यां केनापि वैगुण्येन यदीन्द्रियार्थसंनिकर्षाभावात् तज्ज्ञानं नोत्पन्नं तत्क एवं परिच्छिन्द्यात् -- इत्येतज्ज्ञप्तावेषां समुदितानामुपायत्वम्, अवभासनमात्रसारमेव हि प्रतिबिम्बसतत्त्वम् -- इत्येतदिह प्राधान्येनोक्तम् || १९ || ननूक्तयुक्त्या दर्पणात् दीपादीनामपि अविशिष्टमेव प्रतिबिम्बग्रहणसहिष्णुत्वम्, इति किमिति न तेऽपि स्वात्माभेदेन तद्भासयेयुः? इत्याशङ्क्याह -- दीपचक्षुर्विबोधानां काठिन्याभावतः परम् | सर्वतश्चापि नैर्मल्यान्न विभादर्शवत्पृथक् || ३-२० ||
SK
सत्यमस्त्येव दीपादीनां स्वात्मनि प्रतिबिम्बग्रहणसहिष्णुत्वं किं तु प्रतिबिम्बस्य दर्पणे यथानतिरिक्तत्वेऽपि ततोऽतिरिक्तायमानत्वेन प्रकाशः, तथा नात्रेति अत आह -- ङ विभादर्शवत्पृथक्᳚ इति, यतो दीपादीनां काठिन्यस्याभावः, कठिने कि दर्पणादौ प्रतिसंक्रान्तं मुखादि आधारस्य स्थैर्यात् पृथक्प्रतिभासते, दीपादितेजः पुनः काठिन्याभावात् एकवदिति, तत्रास्थैर्यात्तत्तथा प्रकाशते यथा निर्मलेऽपि जलाशयादावस्तिमितत्वात्प्रतिसंक्रान्तमपि मुखादि न लक्ष्यते तथेहापि -- इति भावः | नन्वेवमप्स्वपि द्रवत्वात्काठिन्याभावात् स्तैमित्येऽपि प्रतिबिम्बस्य पृथक् प्रतिभासो न स्यात्? न; अस्त्येव हि अपां काठिन्यम्, नहि यथा नभसि भुजं परिभ्रमयतो न प्रतीघातस्तथात्रापीति अत एवात्र बाहुभ्यां तरतः पुंसो बाह्वोः परं तद्भेदने परिश्रमः किं तु तदापेक्षिकम् | नहि यथा पृथिव्यां काठिन्यमस्ति तथाप्सु, यथा चात्र तथा न तेजसि, नहि तेजसि काठिन्यं नास्तीत्युच्यते किं तु तदपेक्षयापि स्वल्पं प्रतिबिम्बस्य पृथक्प्रकाशनायोग्यमिति, अन्यथा हि अमूर्तत्वादाकाशतुल्या एव दीपादयोऽपि भवेयुः, संविदि पुनरेतन्नास्त्येव�इत्यमूर्तत्वात्तत्र न प्रतिबिम्बस्य पृथक्प्रकाशः | किं च दर्पणादि पुरत एव स्वच्छं, न पश्चादिति तत्र मलिनं पश्चाद्भागं भित्तिन्यायेनाश्रित्य स्वच्छे पुरोभागे प्रतिबिम्बं भासते, इह तु सर्वतः स्वच्छत्वात् एकेन भागेन प्रतिसंक्रान्तमपि मुखादि न लक्ष्यते भागान्तरेण अन्ततः आलोकादिना प्रतिसंक्रान्तेन तस्यावृतत्वात् | यद्वा यथा काचस्फटिकशकलादयः सर्वतः स्वच्छत्वात् तद्व्यवहितवस्तुदर्शनान्यथानुपपत्त्या नायनानां रश्मीनां न प्रतिघातकास्तथा दीपादयोऽपि, काठिन्याभावे सति सर्वतः स्वच्छत्वाद्भागान्तरेण निर्गच्छतः प्रतिबिम्बस्येति न तत्र तत्प्ररोहमेति, मलिनस्य तत्प्रतीघातकस्य भागान्तरस्याभावात्, संवित्पुनः सर्वते नैर्मल्यात्स्वप्रकाशेति न तस्या वेद्यत्वगन्धोऽप्यस्तीति तत्र कथं प्रतिबिम्बस्य
SK
पृथक्प्रकाशः, यत्पुनः प्रसरावसरे दीपे छायापुरुषज्ञाने वा नभस्थे तेजसि प्रतिबिम्बं लक्ष्यते तन्मन्त्रादिमाहात्म्याच्चक्षुष्यपि वा यत्प्रतिबिम्बं दृश्यते तन्न तैजसे चक्षुरिन्द्रिये -- तस्य नित्यपरोक्षत्वात् किं तु आप्ये गोलके इति न कश्चिद्दोषः || २० || न चैतत्प्रतिबिम्बसतत्त्वमस्माभिः स्वोपज्ञमेवोक्तम्, इत्याह -- एतच्च देवदेवेन दर्शितं बोधवृद्धये | मूढानां वस्तु भवति ततोऽप्यन्यत्र नाप्यलम् || ३-२१ || प्रतीघाति स्वतन्त्रं नो न स्थाय्यस्थायि चापि न | स्वच्छस्यैवैष कस्यापि महिमेति कृपालुना || ३-२२ || एतत्प्रतिबिम्बसतत्त्वं कृपालुना देवदेवेन ᳚मूढानाम्᳚ इति वक्ष्यमाणेन प्रकारेण बोधवृद्धये दर्शितमिति सम्बन्धः | दर्शितमिति सामान्यनोक्तेः सर्वत्रैव -- इति भावः, तदुक्तम् -- ᳚पूजयेद्बिम्बवद्देवीः करणत्वेन दीधितीः |᳚ इति | तथा ᳚जलदर्पणवत्तेन सर्वव्याप्तं चराचरम् |᳚ इति | तथा शदसद्वस्तुनिर्भासी दर्पणप्रतिबिम्बवत् |᳚ इति | तथा ᳚यथान्तनिर्मलादर्शे भान्ति भावा विरोधिनः | अनामिश्रास्तथैतस्मिंश्चिन्नाथे विश्ववृत्तयः ||᳚ इति | तथा ᳚प्रतिबिम्बन्ति यस्यार्थास्त्वन्तः स्वच्छमणेरिव |᳚ इति | तथा ङ मे बन्धो न मे मोक्षो जीवस्यैता विभीषिकाः | प्रतिबिम्बमिदं बुद्धिर्जलेष्विव विवस्वतः ||᳚
SK
इति | तत्र तावदेवतत्प्रतिबिम्बं वस्तु भवति -- प्रतिभासमानत्वात्, न च भातमभातं भवति इति हि सर्वेषामेवात्राविवादः, न चात्र कश्चिद्बाधकः प्रत्ययोऽस्ति, तस्योत्तरकालमनुदयात् | ननु यद्येवं तदेतेन प्रसिद्धतद्वस्तुजातीयेन भवितुं युक्तम्, अन्यथा हि अनियतं वस्तुत्वं भवेत्, तेन ᳚शशस्यारूपस्पर्शाद्यात्मकं विषाणं वस्तुभूतमस्ति᳚ इत्यपि स्यात्, न चास्य प्रसिद्धवस्त्वन्तरजातीयत्वमस्तीति कथं वस्तुभूतत्वं स्यात्, बाह्यं खलु उत्पन्नं वस्तु देशाद्देशान्तरमपि व्रजेत, न चैवमेतत् ? तदाह -- ᳚ततोऽप्यन्यत्र न᳚ इति | तत इति दर्पणदेशात्, अन्यत्रेति देशान्तरे | भवति�इति सर्वत्रैव सम्बन्धनीयम्, बाह्यं च रूपादि स्पर्शाद्यव्यभिचरितमेव भवति, नैवमेतदित्याह -- ङाप्यलमिति᳚ नैतत्पर्याप्तम् -- इत्यर्थः, यतोऽत्र स्पर्शादिपरिहारेण रूपसंस्थानमात्रस्यैव प्रतिभासः, न-शब्दोऽत्र काकाक्षिवद्योज्यः, बाह्यं पर्वतादि सर्वस्यैव प्रतिहन्तृ सर्वं चास्य, मूर्तत्वात्, न चैवमेतत् अत आह -- ᳚प्रतिघातीति᳚ न-शब्दोऽत्रापि संबन्धनीयः, अन्यथास्य भग्ने दर्पणे कथं तदन्तः प्रवेशः स्यात्, न चैतद्दर्पणस्य पृष्ठतो युज्यते, तथात्वे हि दर्पणस्यादर्शनं भवेत्, बाह्यस्य च सर्वस्यैवोत्पत्तौ कारणापेक्षास्ति, नहि स्वयम्भु किञ्चित् वस्तु संभवति, उत्पन्नं पुनरन्यनिरपेक्षमेवास्ते, यथा चक्रादिपरिहारेण घटः, इदं पुनरुत्पत्तिनिमित्तं दर्पणादि उपेक्ष्य स्वातन्त्र्येण न किञ्चिदपि सत्तां लभते, न हि दर्पणादिपरिहारेण प्रतिबिम्बं क्वचिद् दृश्यते | तदुक्तम् ङ स्वतन्त्रमिति᳚ -- अत एव च नैतत्स्वयं स्थिरमस्थिरं वापि -- इत्याह -- ङ स्थाय्यस्थायि चापि नेति᳚ | बाह्यं हि वस्तु उत्पन्नं सत् बहुकालयोगित्वात्स्थायीत्युच्यते अन्यथा तु अस्थायि, एतत्पुनर्दर्पणादेरतिरेकेण सत्तामेव नोपलभत इति कस्य कालयोगो येन स्थायित्वमस्थायित्वं वापि भवेत्, तस्मात्प्रसिद्धतद्वस्तुजातीयत्वाभावात् शशविषाणादिवदेतदवस्त्वेवेति नास्य
SK
प्रतिभासो न्याय्यः | अथ चास्ति प्रतिभास इति किमेतदुच्यते? इत्याह -- श्वच्छस्यैवैष कस्यापि महिमेति᳚ स्वच्छस्य दर्पणादेरेवैष प्रभावो यद्वस्तु अवस्तुविलक्षणमाभासमात्रसारं प्रतिबिम्बं नामेदं प्रतिभासते इति, तेन भगवता यथा दर्पणादौ आभासमात्रसारा एव भावा अवभास्यन्ते तथा संवित्तावपीति न बहीरूपत्वेनैषां सत्त्वमस्तीति बोधं वर्धयितुं बाह्यर्थाभिनिवेशिनामेतदुपदिष्टम्, अतः सर्वमेवैतदाभासमात्रसारमेवेति, न बाह्येर्थेऽभिनिवेष्टव्यं येन द्वैतमोहः शाम्येत् || २१-२२ || अत एवाह -- न देशो नो रूपं न च समययोगो न परिमा न चान्यान्यासङ्गो न च तदपहानिर्न घनता | न चावस्तुत्वं स्यान्न च किमपि सारं निजमिति ध्रुवं मोहः शाम्येदिति निरदिशद्दर्पणविधिः || २३ ||
SK
प्रतिबिम्बं तावद्दर्पणातिरेकेण स्वतन्त्रतया पृथक् सत्तां नोपलभत इत्युपादितम्, ततश्च नास्त्यस्य दर्पणात्पृथग्देशः -- इत्युक्तम् -- ङ देश इति᳚ | एवं चास्य न घनता -- काठिन्यलक्षणा मूर्तिरपि नास्तीत्यर्थः, अन्यथा हि दर्पणादस्य पृथग्देशः स्यात् एकस्यैव नभोदेशस्य मूर्तेन दर्पणेनाक्रान्तस्य मूर्तान्तरेणाक्रमितुमशक्यत्वात् मूर्तानां समानदेशत्वविरोधात्, अत एव चास्य नो रूपम् -- रूपाख्यगुणयोगो नास्ति -- इत्यर्थः | स हि मूर्त एव भवति -- इति भावः, अत एव चास्य न कालेन संबन्धः, स हि कंचित्पूर्वापरभाविनमपेक्ष्य पृथगल्ब्धसत्ताकस्य स्यात्, अस्य पुनर्दर्पणात् पृथक् सत्तैव नास्तीत्युक्तं बहुशः, अत एव चास्य ङ परिमा᳚ परिमाणं नास्ति�सत एव तद्योगोपपत्तेः, अन्यथा हि परिमिते दर्पणदेशे महाकारं पर्वतादि कथं प्रतिसंक्रान्तं भवेत्, नापि दर्पणान्तरनेकेषामर्थानां सहप्रतिभासेऽपि परस्परं नैबिड्येन संश्लेषः -- इत्याह -- ङ चान्योन्यासङ्ग इति᳚ | ननु नगरप्रतिभासादौ यद्यनेकेषां भिन्नदेशानामर्थानामेकस्मिन्नेव परिमिते दर्पणदेशे प्रतिभासः तदेतेषामेकदेशत्वान्यथानुपपत्त्या परस्परं संमेलनेनैकपिण्डीभावेनैवासौ न्याय्यः, न चेदेवं तर्हि तत्र नगरप्रतिभास एव न भवेत् -- इत्याह -- ङ च तदपहानिरिति᳚ सर्वेषामेवार्थानां परस्परं वैविक्त्येनैव प्रतिभासात्, न च भातमभातं भवतीत्युक्त्ं बहुशः, अत एव च नास्य अवस्तुत्वम् -- इत्याह -- ङ चावस्तुत्वं स्यात् इति᳚ सर्वेषामेवार्थानां प्रतिभासात्, एवमप्यस्य वस्तुत्वोपपादकमल्पमपि निजं तथ्यं रूपं नास्ति -- इत्याह -- ङ च किमपि सारं निजमिति᳚ इत्येवमाभासमात्रसारं प्रतिबिम्बसतत्त्वं बाह्यार्थवादिनो निश्चितमेव द्वैतप्रथात्मकं संकुचितं ज्ञानं शाम्यतामिति -- एतदर्थः दर्पणविधिः -- कुड्यादिवैलक्षण्येन प्रतिबिम्बसहिष्णुवस्तुप्रकारो निरदिशत् निर्दिष्टवान् | एवं च सत्ययमर्थः प्रदर्शितो भवति -- यद्विश्वमिदं संविदि
SK
दर्पणप्रतिबिम्बन्यायेन अवस्थितं न तु तदतिरिक्ततया बहीरूपत्वेन वस्तुसदिति न तत्राभिनिवेष्टव्यमिति || २३ || तदेवमुपपादिते प्रतिबिम्बमार्गे यच्छब्दस्य प्रतिबिम्बं तत्सामवायिकेन अभिधानान्तरेणाप्यभिधीयते -- इत्याह -- इत्थं प्रदर्शितेऽमुत्र प्रतिबिम्बनवर्त्मनि | शब्दस्य प्रतिबिम्बं यत् प्रतिश्रुत्केति भण्यते || ३-२४ || न चासौ शब्दजः शब्द आगच्छत्त्वेन संश्रवात् | तेनैव वक्त्रा दूरस्थैः शब्दस्याश्रवणादपि || ३-२५ || पिठिरादिपिधानांशविशिष्टछिद्रसङ्गतौ | चित्रत्वाच्चास्य शब्दस्य प्रतिबिम्बं मुखादिवत् || ३-२६ ||
SK
प्रतिसंक्रमणेन श्रुत् श्रवणम् अस्या इति ᳚प्रतिश्रुत्का᳚ यद्वा प्रति सदृशं श्रवणं प्रतिश्रुत् सैवेति | इह खलु नैयायिकानां दर्पणादौ चाक्षुषाणां रश्मीनां प्रतिफलनात् स्वकवक्त्रग्रहणेन रूपस्य प्रतिबिम्बे श्रोत्राद्रेः प्रतिफलनाद्ययोगात् प्रतिश्रुत्कादौ मुख्यशब्दादिरूपतापरिकल्पनेनापि तदपह्नव इति न क्वचिदपि प्रतिबिम्बमस्ति -- इत्याशयः | तत्र रूपप्रतिबिम्बं तावदस्तीत्युगपपादितम् | एवं शब्दादीनामपि प्रतिबिम्बास्तित्वोपपादनाय तन्मतमाशंक्य दूषयति -- ङ चासौ᳚ इत्यादिना | असाविति प्रतिश्रुत्का, शब्दज इति न पुनः संयोगजो विभागजो वा -- स्वत एव स्वहेतुसमुत्थत्वादयं मुख्यः शब्दः -- इति भावः | स च वक्त्रदेशात् गच्छन्नेव प्रतीयते | अत एव तत्सविधवर्तिभिः प्रमातृभिराद्य एव शब्दस्तीव्रतमप्रायः श्रूयते, न पुनरन्त्यो मन्दतमप्रायः, दूरदेशवर्तिभिः पुनरन्त्य एव न त्वाद्य इति; प्रतिश्रुत्का पुनस्तेनैव वक्त्रा तत्समीपस्थैर्वा प्रमातृभिरागच्छत्त्वेन स्वसंमुखं प्रवर्तमानत्वेन संश्रूयते, अत एव च दूरस्थैः गह्वरगुहाप्रायदेशस्थैः प्रमातृभिर्न श्रूयते -- तदाभिमुख्येन तस्याः प्रवर्तमानत्वाभावात्, मुख्यः शब्दश्च बहूनां श्रोतॄणां श्रोत्राकाशदेशमधिशयानो न भिन्नभिन्नस्वरूपतामभ्येति | तथात्वे हि सर्वेषामेव श्रोतॄणामेकविषयत्वेन प्रवृत्तिर्न स्यात्, प्रतिश्रुत्का पुनरधःस्थितक्वथितसशब्दपानीयभाण्डाच्छादनरूपाः पिठिरादयो ये उपादानविशेषास्तेषां यानि विशिष्टानि स्थूलसूक्ष्मादिरूपाणि छिद्राणि सुषिरा भागास्तत्र सङ्गतौ तदाकाशमेलनेन एकशब्दात्मवैचित्र्यं यायादिति वस्तुभूतशब्दजशब्दजातीयत्वानुप लब्ध्या नासौ शब्दजः शब्दः, तस्माद्यथा मुखस्य दर्पणादौ प्रतिबिम्बमस्ति तथास्य मुख्यस्य शब्दस्यापि नभसि -- इत्याह -- ᳚अस्य शब्दस्य प्रतिबिम्बं मुखादिवत्᳚ इति || २४-२६ || न केवलं वस्तुभूतमुख्यशब्दजातीयत्वाभावात् अत्र प्रतिबिम्बत्वं यावद्रूपप्रतिबिम्बजातीयत्वादपि -- इत्याह --
SK
इदमन्यस्य वेद्यस्य रूपमित्यवभासते | यथादर्शे तथा केनाप्युक्तमाकर्णये त्विति || ३-२७ || यथा दर्पणादावहन्ताप्रत्ययस्यापि स्वमुखसंबन्धिनो रूपस्यान्यासंबन्धित्वेन वेद्यतया प्रतीतिः तथा ᳚मयैतदुक्तम्᳚ इति परामर्शनीयस्यापि स्वयमुच्चारितस्य शब्दस्य ᳚केनाप्युक्तम् अहमाकर्णये᳚ इति अतश्च प्रतिबिम्बान्तरजातीय त्वादप्यत्र प्रतिबिम्बत्वम् -- इत्याशयः | तु-शब्दश्चार्थे स च पूर्वापेक्षया, इतिशब्दो वाक्यसमाप्तौ || २७ || ननु केनचिद्वक्त्रा यद्युच्चारितः शब्दो दूरे गुहाद्याकाशे प्रतिसंक्रान्तिमेति तत्तद्देशवर्तिनामेव तच्छ्रवणं भवेत् न त्वन्येषाम् ? -- इत्याह -- नियमाद्बिम्बसांमुख्यं प्रतिबिम्बस्य यत्ततः | तन्मध्यगाः प्रमातारः शृण्वन्ति प्रतिशब्दकम् || ३-२८ || यस्माद्दर्पणादाविव प्रतिबिम्बस्य नियमेन बिम्बसांमुख्यमेव भवति तस्मात्तयोः बिम्बप्रतिबिम्बयोरन्तर्वर्तिन एव प्रमातारस्तं बिम्बसांमुख्येन प्रवर्तमानं प्रतिशब्दं शृण्वन्ति, न पुनर्दूरगास्तदतिरिक्तगह्वरगुहादिदेशस्थाः�तदाभिमुख्येन तस्याप्रवर्तनात् || २८ || ननु यद्येवं तर्हि तन्मध्यगत्वेऽपि केनापि निमित्तेनाश्रुतबिम्बाभिमतशब्दाकाराः प्रमातारः कथं बिम्बाभिमुख्येन प्रवर्तमानं प्रतिशब्दं गृह्णीयुः? -- इत्याशङ्क्याह -- मुख्यग्रहं त्वपि विना प्रतिबिम्बग्रहो भवेत् | स्वपश्चात्स्थं प्रियं पश्येट्टंकितं मुकुरे वपुः || ३-२९ || ᳚भवेत्᳚ इति᳚ प्रतिबिम्बग्रहणयोग्यदेशावस्थानात् श्वपश्चात्स्थम्᳚ इति अतर्कितोपनतबिम्बभूतप्रियादर्शने विशेषणद्वारेण हेतुः || २९ || ननूक्तयुक्त्या दर्पणादेरतिरेकेण प्रतिबिम्बं पृथक्सत्तामेव नोपलभत इति कथं तस्य बिम्बसांमुख्यं भवति? -- इत्याशङ्क्याह -- ṁṁṁṁसांमुख्यं चोच्यते तादृग्दर्पणाभेदसंस्थितेः || ३-३० ||
SK
तादृग्बिम्बसंमुखो योऽसौ दर्पणः, तेनाभेदः दर्पणैकात्म्यं तेन या प्रतिबिम्बस्य संस्थितिः वस्थानं तेन एतदेवास्य सांमुख्यं यद्दर्पणो बिम्बसांमुख्येन वर्तते, तदनधिकवृत्तित्वात् तस्य दर्पणादेः पुनरवश्यंभावि बिम्बसांमुख्यम्, अन्यथा हि प्रतिबिम्बस्योत्पत्तिरेव न स्यात्, एवमाकाशदेरपि बिम्बसांमुख्येनैव हि शब्दादिप्रतिबिम्बग्राहित्वम् -- इत्यवगन्तव्यम् || ३० || तदाह -- अतः कूपादिपिठिराकाशे तत्प्रतिबिम्बितम् | वक्त्राकाशं सशब्दं सद्भाति तत्परवक्तृवत् || ३-३१ ||
SK
अतोः यथोक्ताद्बिम्बसंमुखाधारविशेषैकात्म्याद्धेतोः, कूपाद्याकाशे तद्बिम्बभूतं सशब्दं वक्तुः संबन्ध्याकाशं प्रतिबिम्बितम् जाततदभेदवृत्ति सत् भाति -- प्रतिभासते इत्यर्थः शब्दस्य गुणत्वेन गुणिनि समवेतत्वात्तत्परतन्त्रत्वमेवेति गुणिनैव सह अस्य गुणिनि प्रतिबिम्बनं युक्तमित्युक्तम् -- ᳚आकाशे आकाशम्᳚ इति | कूपाद्याकाशस्य वक्त्राकाशसांमुख्यं हृदयङ्गमीकर्तुं दृष्टान्तयति -- ᳚तत्परवक्तृवत्᳚ इति | ततः प्रकृताद्वक्तुः परो वक्ता प्रतिवक्ता तस्मिन्निव -- इत्यर्थः | यथा वक्तृसंमुखीन एव प्रतिवक्तृसंबन्धी श्रोत्राकाशो वक्तृसंबन्धिनः सशब्दस्याकाशस्य प्रतिबिम्बं गृह्णाति तथा कूपाद्याकाशोऽपीति | इह खलु तत्तदिन्द्रियजं ज्ञानं गृहीततत्तत्प्रतिबिम्बमेव विषयं परिच्छिन्द्यात् अन्यथा हि निराकारस्य ज्ञानस्य नीलपीताद्यनेकविषयसाधारणत्वात् ᳚इदं नीलज्ञानम् इदं पीतज्ञानम्᳚ इति, नियमो न स्यात्, अतश्च साकारं ज्ञानम्, आकारवत्तामन्तरेणास्य प्रतिकर्मव्यवस्थानुपपत्तेः| न च यदेवास्य जनकं तदेव विषय इति प्रतिकर्मव्यवस्थापि सिद्ध्येत्, इति वक्तुं युक्तम्, जनकत्वाविशेषाच्चक्षुरादीनामपि तद्विषयत्वप्रसङ्गात् | अथैतन्नीलेन कर्मणा सत्ता जन्यते न त्वेवं चक्षुरादिना इत्यस्य तदेकविषयत्वम् ? इति चेत् नैतत्, कर्मत्वं हि कारकत्वं तच्चक्रियावेशवशाद्भवति, अन्यथा हि तद्वस्तुमात्रं स्यात् न कारकम्, नीलस्य चेह ज्ञानाख्यक्रियावेश एव विचारयितुं प्रस्तुत इति कथं तत्पूर्वमपि अस्य कर्मत्वं स्यात् इति | न जनकत्वेनापि तदेकविषयत्वं सिद्ध्येत् | यत्पुनर्जनकत्वाविशेषेऽपि वस्तुस्वभावकृत एवायं विशेष इत्युच्यते तत्पलायनप्रकारासूत्रणम्, इत्यलं बहुना | एतेन इन्द्रियाण्यपि गृहीततत्प्रतिबिम्बान्येव तत्तद्विषयपरिच्छेदमाधातुमुत्सहन्ते इति साधु दृष्टान्तितम् -- ᳚तत्परवक्तृवत् -- इति᳚ यद्यप्येतत् श्रोतृमात्रे संभवति तथाप्यभिनिवेशादिना वक्तृप्रतिवक्त्रोः परस्परमवश्यंभावि सांमुख्यमित्येतन्निदर्शनीकृतम् | श्रोतॄणां
SK
पुनरसांमुख्यमपि संभाव्यते | तथाहि -- एवं वदन्तो लौकिकाः श्रोतारो दृश्यन्ते ङ मया श्रुतमनेनोक्तमिति᳚ | यद्वा सामान्येन कूपाद्याकाशे प्रतिबिम्बितो वक्त्राकाशः पर इव वक्ता भाति वक्त्रन्तरेण इव उच्चारितः शब्दः श्रूयते -- इत्यर्थः | एवं प्रतिबिम्बमपि तदभेदवृत्तित्वाद्बिम्बसंमुखमेवेति युक्तमुक्तम् नियमाद्बिम्बसांमुख्यं प्रतिबिम्बस्य -- इति || ३१ || अत एव च बिम्बप्रतिबिम्बयोर्मध्यदेशग एव प्रमाता तत्तद्गृह्णाति नान्य इत्याह -- यथा चादर्शपाश्चात्त्यभागस्थो वेत्ति नो मुखम् | तथा तथाविधाकाशपश्चात्स्थो वेत्ति न ध्वनिम् || ३-३२ || मुखमित्यन्यसंबन्धिमुखप्रतिबिम्बं, तथाविधेति -- बिम्बसंमुखीनः पश्चात्स्थोगह्वरगुहाप्रायदेशस्थः -- इत्यर्थः | ध्वनिमिति प्रतिश्रुत्कालक्षणम्, नो वेत्ति इतिवेदनमात्रनिषेधात्प्रतिबिम्बस्य वस्तुतोऽतस्थानमस्तीति सूचितम्, न हि ज्ञानाभावाज्ज्ञेयस्याप्यभाव इति भावः | तेनोत्पन्नमपि प्रतिबिम्बं योग्यदेशावस्थानाभावान्न जानाति -- इत्यर्थः, यद्यपि चैतन्नियताद्बिम्बसांमुख्यमित्यादिनैव गतार्थ तथापि रूपप्रतिबिम्बसाजात्योपोद्बलनाय पुनरूपात्तम् || ३२ || नन्वत्र रूपप्रतिबिम्बजातीयत्वं किमंशांशिकया सर्वसर्विकया वा? तत्राद्ये पक्षे वस्तुभूतशब्दजशब्दजातीयत्वमपि प्रतिभासमानत्वादिना केनाप्यंशेनास्तीति तद्रूपतापि प्रसक्ता स्यात्, सर्वसर्विकया चैतन्नास्ति, यदुत्पन्नेऽपि रूपप्रतिबिम्बे हस्तादेर्बिम्बस्य प्रतीतिः, इह तु न तथा, इत्याशङ्कां दर्शयति -- शब्दो न चानभिव्यक्तः प्रतिबिम्बति तद् ध्रुवम् | अभिव्यक्तिश्रुतिस्तस्य समकालं द्वितीयके || ३-३३ || क्षणे तु प्रतिबिम्बत्वं श्रुतिश्च समकालिका ||
SK
इह शब्दस्तावत् अनभिव्यक्तः -- अनुच्चारितः प्रतिबिम्बात्मतां नाभ्येति इति नूनमसौ प्रथमे क्षणे स्थानकरणाभिघातादभिव्यक्तः सन् श्रोत्रेन्द्रियग्राह्यतामवगाहते, द्वितीये क्षणे पुनः प्रतिबिम्बतामश्नुवानः श्रूयते, इति नास्योच्चारितप्रध्वंसिनो बिम्बसंमतस्य प्रतिबिम्बात्मतावसरे प्रतीतिः, अतश्च नात्र रूपप्रतिबिम्बजातीयत्वम्᳚ तत्र प्रतिबिम्बकालेऽपि बिम्बस्य प्रतीतेः || ३३ || तदेतन्न -- इत्याह� तुल्यकालं हि नो हस्ततच्छायारूपनिश्चयः || ३-३४ || निश्चय इति विमर्शात्मावभासः, तत्रापि न प्रतिबिम्बकाले बिम्बस्य प्रतीतिः, न हि प्रतिबिम्बप्रतीतौ बिम्बस्यापि हस्तादेः प्रतीर्तिर्युक्ता, युगपत्प्रतीतिद्वयोदयविरोधात् न चेयं चित्रज्ञानवदेकैव उभयालम्बना, बिम्बप्रतिबिम्बयोर्विदूरदेशवर्तित्वात् अविछेच्देन प्रतिभासाभावात् | ननु हस्तादेः प्रतिभासाभावेऽपि वस्तुनोऽवस्थानमस्ति -- इति चेत्? -- तत् -- आभास एव हि सर्ववस्तुव्यवस्थापकः तमन्तरेण अर्थानां सत्त्वासत्त्वनिश्चयायोगात्, स एव चात्र नास्ति, इति हस्तादेर्बिम्बस्य वस्तुतः सद्भावे किं प्रमाणम्, शब्दस्य च द्वितीये क्षणेऽपि नश्यदवस्थस्य वस्तुतः सद्भावोऽस्ति किं तु प्रतिम्बित्मताऽवसरे तस्य प्रतीतिरेव नभवेदित्यत्रापि न बिम्बप्रतिबिम्बयोर्युगपत्प्रतीरितिस्थितमेवास्य तज्जातीयत्वम् || ३४ || एवं नैयायिकमतापहस्तनेन प्रतिबिम्बपरमार्थमुपपाद्य प्रकृतमेवोपक्रमते -- इत्थं प्रदर्शितेऽमुत्र प्रतिबिम्बसतत्त्वके | प्रकृतं ब्रूमहे तत्र प्रतिबिम्बनर्हति || ३-३५ || शब्दो नभसि सानन्दे स्पर्शधामनि सुन्दरः | स्पर्शोऽन्योऽपि दृढाघातशूलशीतादिकोद्भवः || परस्थः प्रतिबिम्बत्वात्स्वदेहोद्धूलनाकरः || ३-३६ ||
SK
तदाह -- तत्रेत्यादि, तत्रेति -- एवंस्थिते सति -- इत्यर्थः | नभसीति - - तत्रैव शब्दस्य नैर्मल्यात्, स च परस्थः सन् प्रतिबिम्बनमर्हति -- इत्यन्वयः, एतच्च सर्वत्रैव योज्यम्, सानन्द इति�आनन्दस्थानात्मके कन्दहृत्तालुतलादौ आधारविशेषे | तत्रैव हि स्पर्शस्य नैर्मल्यान्मिथुनोपभोगसमुचितः स्पर्शः प्रतिसंक्रामति येन धातुनिःष्यन्दसुखाद्यपि स्यात् | अत एवानन्दातिशयकारित्वात् शुन्दरः᳚ इत्युक्तम् | अन्यो दुःखादिकारित्वादसुन्दरोऽपि स्पर्शोऽर्थात् दुःखाद्यात्मके मत्तगन्धजठरकूर्मनाडीकण्ठप्रभृतौ आधारविशेषे प्रतिसंक्रामति येन मूर्च्छाद्यपि स्यात्, परस्थ इति -- परानुभूयमानः, तत्र हि स मुख्यः -- इति भावः | एतच्चोपलक्षणं तेन स्मर्यमाणोत्प्रेक्षमाणादिरूपोऽप्यसौ एवं स्यात् | प्रतिबिम्बत्वं च अस्य कुतो लक्ष्यते ? इत्याह� ᳚प्रतिबिम्बत्वात्स्वदेहोद्धूलनाकरः᳚ इति | एतच्च सुखदुःखयोरनुभवे समानमित्यविशेषेणोपात्तम् || ३५-३६ || नन्वेवमर्थक्रियाकारित्वादेष मुख्य एव स्पर्शः किं न भवति? इत्याशङ्क्याह -- न चैष मुख्यस्तत्कार्यपारम्पर्याप्रकाशनात् || ३-३७ || मुख्य इति -- बिम्बरूपः, तस्य स्पर्शस्य यत्कार्यमानन्दादि तस्य यत् पारम्पर्यं प्रबन्धेन प्रवृत्तिः तस्यानवभासनात् | साक्षाद्धि संनिहिते कारणे कार्यमविच्छेदेनैव उद्गच्छद्भवति, न चैवमिह, इत्यस्य न मुख्यत्वम् || ३७ || एतदेवान्यत्राप्यतिदिशति -- एवं घ्रणान्तरे गन्धो रसो दन्तोदके स्फुटः || ३-३८ || दन्तोदक इति -- निर्मलरसगुणयुक्तेरसनेन्द्रियाधिष्ठानभूते -- इत्यर्थः || ३८ || एवं प्रतिश्रुत्कावद्रसादिप्रतिबिम्बानामपि रूपप्रतिबिम्बजातीयत्वं कटाक्षयन् यथासंभवं व्यवस्थां दर्शयति -- यथा च रूपं प्रतिबिम्बितं दृशोर्न चक्षुषान्येन विना हि लक्ष्यते | तथा रसस्पर्शनसौरभादिकं न लक्ष्यतेऽक्षेण विना स्थितं त्वपि || ३-३९ ||
SK
इह अवभासनमात्रसारमेव प्रतिबिम्बसतत्त्वमित्युक्तं बहुशः | अवभासनं च तत्तद्विषयग्राहकेन्द्रियानुग्राहकान्तःकरणाधिष्ठानायत्तम्, यतः संनिहितेऽपि दर्पणादौ यदि चक्षुरादीन्द्रियजातमन्तःकरणाधिष्ठितं न जातं तत्को नाम मुखादिप्रतिबिम्बावभासः, ततश्च दृशोः दृगिन्द्रियाधिष्ठेययोः गोलकयोः प्रतिसंक्रान्तं रूपमन्येन अन्यसंबन्धिना चक्षुरिन्द्रियेण विना नाभिलक्ष्यतेचक्षुरिन्द्रियान्तरव्यापारमन्तरेण न निर्भासते -- इत्यर्थः | न केवलं तत्परिच्छेदकौशलशून्ये दर्पणादौ प्रतिसंक्रान्तस्य रूपस्यावभासने अन्यसंबन्धिचक्षुरिन्द्रियोपयोगो यावत्स्वयमेवं कुशलयोर्दृशोरपि इति दर्शयितुमुक्तम् -- ᳚दृशोः᳚ -- इति᳚ | न खलु चक्षुरञ्जनादिवदतिसंनिकृष्टं परिच्छेत्तुमलमिति भावः | तेन न इन्द्रियव्यापारमन्तरेणैतन्निर्भासते -- इति तात्पर्यम्| एवं यथैतत्तथा रसादि प्रतिसंक्रान्तं सत् स्थितमपि स्वेन्द्रियव्यापारमन्तरेण पुनर्न लक्ष्यते नाव भासते -- इत्यर्थः | अत्र चक्षुरादीन्द्रियाणामवभासनान्यथानुपपत्त्या अन्तःकरणाधिष्ठानं लक्ष्यते इति न स्वकण्ठेनैतदुपात्तम्, अन्यथा हि व्याप्रियमाणमपि चक्षुरादि न किञ्चित्परिच्छिन्द्यात् | ननु इह रूपशब्दयोरन्तश्चक्षुःश्रोत्रादौ बहिश्चदर्पणाकाशादौ प्रतिबिम्बयोग इति बाह्यं प्रतिबिम्बमन्यसंबन्धिभ्यां चक्षुःश्रोत्राभ्यां परिच्छिद्यते इत्युपपन्नम् | स्पर्शादि पुनरन्तर्देह एव कन्दादौ प्रतिसंक्रामति इति तत्र स्थितम्, तत्परसंतानस्य नित्यानुमेयत्वाच्च अन्यस्य संबन्धिनो बाह्येन्द्रियज्ञानस्य विषयो न भवेत् | तत्कथमुक्तम् रूपप्रतिबिम्बवदेतदक्षेण विना न लक्ष्यते इति || ३९ || तदाह� न चान्तरे स्पर्शनधामनि स्थितं | बहिःस्पृशोन्याक्षधियः स गोचरः || ३-४० ||
SK
आन्तरे इति -- अन्तर्देहवृत्तित्वात्, स्पर्शनधामनीत्युपलक्षणम्, तेन गन्धरसक्षेत्रयोरपि ग्रहणम् | अन्याक्षधियश्चान्तरस्पर्शाद्यग्रहणे ᳚बहिःस्पृशः᳚ इति विशेषणद्वारको हेतुः | श᳚ इति गोचरशब्दापेक्षो निर्देशः | एवमन्तर्देहवृत्तित्वात्कन्दादेः स्पर्शादिक्षेत्रस्य च चक्षुर्गोलकादिवत् प्रमात्रन्तरे इन्द्रियगोचरता नास्तीति || ४०|| तत्र स्थितं स्पर्शादि अन्तःकरणाधिष्ठितस्वेन्द्रियव्यापारादेव निर्भासते -- इत्याह -- अतोऽन्तिकस्थस्वकतादृगिन्द्रिय प्रयोजनान्तःकरणैर्यदा कृता | तदा तदात्तं प्रतिबिम्बमिन्द्रिये स्वकां क्रियां सूयत एव तादृशीम् || ३-४१ || अतः यथोक्तादान्तरत्वादेर्हेतोः | मनःप्रभृतीनामन्तःकरणानां क्रमेण सर्वेन्द्रियसंयोगसंभवात् अन्तिकस्थम् संयुक्तं स्वकम् विषयौचित्येन नियतं तादृगिन्द्रियघाताद्यभावाददृष्टं च तदिन्द्रियम् त्वगादि, तस्य प्रयोजनान्तःकरणकर्तृका स्पर्शादौ विषये प्रेरणा यदा भवेत् तदार्थाद्बिम्बभूतबाह्यस्पर्शादिसंनिकर्षात् जाते इन्द्रिये इन्द्रियज्ञाने, गृहीताकारस्यैव ज्ञानस्य तत्तन्नियतविषयपरिच्छेदोपपत्तेः पूर्वमुक्तत्वात् स्पर्शाद्यात्म प्रतिबिम्बमात्तम् गृहीतं सत् तादृशीम् आनन्दादिलक्षणां स्वकां बिम्बसंमतामर्थक्रियां सूयते करोति -- इत्यर्थः | अत एव चात्र वास्तवत्वम्, सर्वत्रैव ग्राह्यग्राहकभावस्यैवं -- भावात् || ४१ || बाह्यबिम्बाभावे पुनः स्मर्यमाणं स्पर्शादि स्वक्षेत्रे प्रतिसंक्रान्तमपि न सत्यार्थक्रियाकारि -- इत्याह� न तु स्मृतान्मानसगोचरादृता भवेत्क्रिया सा किल वर्तमानतः | अतः स्थितः स्पर्शवरस्तदिन्द्रिये समागतः सन्विदितस्तथाक्रियः || ३-४२ ||
SK
स्मृतादिति बहिरस्यासंभव उक्तः, तस्या अतीतार्थविषयत्वात् मानसज्ञानस्य हि सुगन्धिबन्धूकादि बहिरसंभवदपि विषयो भवेत् -- इति भावः | ऋता भवेत् न तु न भवेदेव -- इत्यभिप्रायः | स्मर्यमाणादपि हि स्पर्शादेः सुखादि स्यात्, किंतु न तत्सत्यं, प्राबन्धिन्यास्तत्प्रवृत्तेरभावात् | अत्र हेतुः -- सा किल वर्तमानत इति, किलेति हेतौ | यतः सा अर्थक्रिया वर्तमानतो बहिः संभवत एवार्थाद्भवति -- इत्यर्थः | तदाह -- अत इत्यादि | अतः उक्ताद्बहिर्बिम्बात्मना संभवन् उत्कृष्टः स्पर्शः तदिन्द्रिये स्पर्शनेन्द्रियज्ञाने, समागतः दत्तप्रतिबिम्बः, अत एव विदितः सन्, यथाक्रियः सत्यनिजार्थक्रियाकारी भवति -- इत्यर्थः || ४२ || नन्वेवं सत एवार्थस्य प्रतिबिम्बार्पणक्षमत्वात् बहिरसंभवन् स्पर्शादिः प्रतिसंक्रान्तिमेव नैतीति स्मृत्यादौ को नामार्थक्रियामेव कुर्यात् यस्या असत्यत्वमपि परिकल्प्येत ? -- इत्याशङ्क्याह -- असंभवे बाह्यगतस्य तादृशः स्व एव तस्मिन्प्रतिबिम्बितस्तथा | करोति तां स्पर्शवरः सुखत्मिकां स चापि कस्यामपि नाडिसंततौ || ३-४३ || बाह्यबिम्बाभावे तत्सदृशः स्मृत्यादिविकल्पैरुल्लिखितः स्व एवाकारीभूतः स्पर्शादिर्न तु बाह्यः तस्मिन् स्पर्शक्षेत्रादौ प्रतिबिम्बितः सन् तथा स्वौचित्यादसत्यां सुखलक्षणाम्, ताम् अर्थक्रिया� करोति -- इति वाक्यार्थः | ननु कन्दादीनां बहूनां स्पर्शक्षेत्राणां संभवात् किं सर्वत्रैव स्पर्शः प्रतिसंक्रामति उत कुत्रचिदेव? -- इत्याशङ्क्याह -- श चापि कस्यामपि नाडिसंततौ᳚ इति᳚ कस्मिंश्चिदेव नाडीसंतत्यात्मके कन्दादावाधारविशेषे -- इत्यर्थः, कन्दादिप्राधान्याद्धि केषांचित्केचिदेवाधारविशेषाः संभवन्तीतियत्रैवैषां नैर्मल्यातिशयः तालुतल इव षण्ठानां तत्रैव तेषां स्पर्शप्रतिसंक्रान्तिः -- इति भावः || ४३ || एवं प्रतिबिम्बसतत्त्वमुपपाद्य प्रकृते योजयति -- तेन संवित्तिमकुरे विश्वमात्मानमर्पयत् | नाथस्य वदतेऽमुष्य विमलां विश्वरूपताम् || ३-४४ ||
SK
तेन समनन्तरोक्तेन हेतुना, विश्वं संवित्तिरेव स्वच्छतातिशयान्मकुरः तस्मिन्नात्मानमर्पयत् प्रतिबिम्बं दददमुष्य संवित्त्यात्मनो नाथस्य विमलाम् युक्त्यनुभवोपपादितत्वान्निरवद्यां विश्वरूपतांस्वात्माभिन्नतां वदते भासयति | संवित्तेरतिरेकेण न स्फुरति इति यावत् | न खलु दर्पणादेः स्वाधारान्मुखादेः पृथक् स्वातन्त्र्येण प्रतिभासो भवति -- इति भावः | तेन निखिलमिदं जगत् संवित्त्यात्मनः परमेश्वरस्यैवैकस्य रूपम् -- इति पिण्डार्थः | यदुक्तं प्रज्ञालङ्कारे� ᳚एवं तर्हि जगत् एकस्यैव कस्यचिदनंशस्य | यथोक्तविधिना रूपमस्तु किं नः क्षीयते ||᳚ इति | ᳚वदते᳚ इति ᳚भासनोपसंभाषा.᳚ (पा. सू. १|३|४७) इत्यादिना भासने आत्मनेपदम् || ४४ || ननु संवित्तेरनतिरिक्तमेव चेद्विश्वं तत्संवित्त्यात्मकत्वात्तस्य तद्धर्मधर्मित्वमपि स्यात् ? सत्यम् -- अस्त्येव तत्, इति बाह्यदृष्टान्तपुरःसरमाह -- यथा च गन्धरूपस्पृग्रसाद्याः प्रतिबिम्बिताः | तदाधारोपरागेण भान्ति खड्गे मुखादिवत् || ३-४५ || तथा विश्वमिदं बोधे प्रतिबिम्बितमाश्रयेत् | प्रकाशत्वस्वतन्त्रत्वप्रभृतिं धर्मविस्तरम् || ३-४६ || इह खलु रूपादयः प्रतिबिम्बिताः सन्तः स्वाधारोपाधिवैशिष्ट्येनैव अवभासन्ते, यथा खड्गे तद्धर्मोर्ध्वताद्युपरक्ततया मुखं तथा महति सूक्ष्मे वा दर्पणे तथात्वेनेति, तद्वद्विश्वमपीदं प्रकाशे प्रतिबिम्बितं सत् प्रकाशमानत्वादि तद्धर्मजातमाश्रयेत् स्वीकुर्यादेव -- इत्यर्थः | प्रकाशादनतिरिक्तत्व एव हि विश्वस्य प्रकाशमानत्वं स्यात् अन्यथा हि प्रकाशमानत्वायोगात् न किञ्चिदपि स्फुरेत् | अत एव च स्वयं प्रकाशमानत्वादस्य स्वातन्त्र्यम् | प्रकाशादतिरिक्तत्वे हि जडस्य नीलसुखाद्यात्मनो विश्वस्य स्वयमप्रकाशरूपत्वात् स्वात्मना न प्रकाशः अपि तु परेण इति परापेक्षायां पारतन्त्र्यं भवेत् -- इति भावः, अव एव च सर्वमेवेदं वेद्यजातं प्रकाशत्मनः परमेश्वरस्य शरीरीभूतम् -- इति प्रकाशात्मत्वाद्विश्वात्मैव, तदुक्तम् --
SK
᳚प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च |᳚ इति | तथा, ᳚एकैकस्यापि तत्त्वस्य षद्त्रिंशत्तत्त्वरूपता |᳚ इति च ||४५-४६|| ननु रूपादीनां मध्यात्क्वचिदेव किञ्चित्प्रतिबिम्बमेतीति प्रतिपादितं प्राक्, तत्कथं रूपाद्यात्मकं निखिलमेव विश्वमेकस्मिन्बोधे प्रतिसंक्रान्तिमियात्? -- इत्याशङ्क्याह -- यथा च सर्वतः स्वच्छे स्फटिके सर्वतो भवेत् | प्रतिबिम्बं तथा बोधे सर्वतः स्वच्छताजुषि || ३-४७ || सर्वत इति -- स्फटिकपक्षे सर्वस्याः पूर्वापरादिकाया दिशः, बोधपक्षे सर्वस्माद्रूपादेः, यद्यपि सर्वतः स्वच्छे स्फटिके सर्वतो रूपमात्रप्रतिबिम्बमेव भवेदिति नास्य दृष्टान्तस्य रूपादिप्रतिबिम्बग्रहणसहिष्णौ बोधे साम्यं तथापि यथायथं स्वच्छतातिशयसंभवात् भावानां प्रतिबिम्बग्रहणोत्कर्षप्रतिपिपादयिषया एतदुपात्तम्, तथाहि -- दर्पणस्य पुरोभाग एव खड्गस्य पूर्वापरभागयोरेव स्फटिकस्य च सर्वत एव स्वच्छतातिशय इत्येषां यथायथं प्रतिबिम्बग्रहणे तारतम्यं संभवति, एवं बोधस्यापि सर्वतः स्वच्छत्वाद्रूपादिप्रतिबिम्बग्रहणे सामर्थ्यमिति | एवं च स्फटिकादपि अत्यन्तस्वच्छो बोधः -- इति तात्पर्यार्थः || ४७ || ननु का नामास्य ततोऽप्यत्यन्तस्वच्छता ? -- इत्याह -- अत्यन्तस्वच्छता सा यत्स्वाकृत्यनवभासनम् | अतः स्वच्छतमो बोधो न रत्नं त्वाकृतिग्रहात् || ३-४८ ||
SK
इह खलु प्रकाशः स्वप्रकाशत्वात् स्वात्मन एव प्रकाशते न परस्य इत्यन्यानपेक्षणात् वेद्यत्वगन्धमात्रमपि न स्पृशति इति नास्य स्फटिकादिवज्ज्ञानान्तरग्राह्यत्वं येनाकारावभासोऽपि स्यात्, इह (तु) स्वच्छमेव हि अस्वच्छस्य प्रतिबिम्बं स्वीकर्तं शक्नुयात् सितदुकूलमिव स्फटिकमणिः, न च परप्रमात्रेकरूपं प्रकाशापेक्ष्यं अन्यदधिकस्वच्छं किञ्चिदस्ति यदस्याप्याकारग्रहणनिपुणं स्यात् इति युक्तमुक्तम् -- ᳚अत्यन्तस्वच्छता सा यत्स्वाकृत्यनवभासनम्᳚ इति | स्फटिकादि पुनर्ग्राह्यत्वादेतदपेक्षया न स्वच्छम् | यथा यथा हि स्फुटा वेद्यता तथा तथा स्वच्छत्वस्याभावः -- इति भावः | अनेनैव चाभिप्रायेण पूर्वम्� ङैर्मल्यं मुख्यमेतस्य संविन्नाथस्य सर्वतः | अंशांशिकातः क्वाप्यन्यत् .............. ||᳚ इत्यादिना बोधस्य तदितरेषां केषाञ्चन भावानां च स्वच्छत्वस्य मुख्यामुख्यतया द्वैविध्यमुक्तम् | एवं दर्पणादि स्वच्छं स्फटिकं स्वच्छतरं बोधस्तु स्वच्छतमः -- इत्याशयः || ४८ || तदेवं संवित्प्रतिबिम्बेन विश्वस्य सर्वतः संभवत्यपि बाह्यप्रतिबिम्बसाम्ये अस्ति कश्चित्ततो युक्तिबलानीतो विशेषः -- इत्याह -- प्रतिबिम्बं च बिम्बेन बाह्यस्थेन समर्प्यते | तस्यैव प्रतिबिम्बत्वे किं बिम्बमवशिष्यताम् || ३-४९ || इह खलु मुखादिना बाह्येन बिम्बेन दर्पणादौ प्रतिबिम्बं समर्प्यते इत्यत्र तावन्न कस्यापि विमतिः, यदा पुनस्तस्य बिम्बत्वेन संमतस्य बाह्यस्यैव प्रतिबिम्बत्वमुपगम्यते तदा किं नाम बिम्बं प्रतिबिम्बार्पणक्षमं वस्तु अवशिष्यताम्, न किञ्चिदपि संभवति -- इत्यर्थः | नहि यथा ज्ञानाद्विच्छिन्नो नीलसुखादिरर्थस्तथा ततोऽपि विच्छिन्नमर्थान्तरमस्तीति कस्याप्यभ्युपगमः || ४९ || ननु यद्यप्येतदेवं तथापि निर्निमित्तमेव कथं प्रतिबिम्बमुदियात् इति, तत्र बिम्बभूतं किञ्चित्कारणं वक्तव्यम् ? इत्याशङ्क्याह -- यद्वापि कारणं किञ्चिद्बिम्बत्वेनाभिषिच्यते | तदपि प्रतिबिम्बत्वमेति बोधेऽन्यथा त्वसत् || ३-५० ||
SK
अत्र खलु बिम्बत्वेन यत्किञ्चन प्रतिबिम्बार्पणक्षमं कारणमिष्यते तत्किं बोधादनतिरिक्तम् ? अतिरिक्तं वा ? अनतिरिक्तत्वे तत् उक्तयुक्त्या प्रतिबिम्बमेव न बिम्बम्, अतिरिक्तत्वे च बुद्ध्यमानत्वाभावात् तन्न किञ्चिदेव इति युक्तमुक्तम् ᳚तस्यैव प्रतिबिम्बत्वे किं बिम्बमवशिष्यताम्᳚ इति || ५० || एतदेवोपसंहरति� इत्थमेतत्स्वसंवित्तिदृढन्यायास्त्ररक्षितम् | साम्रज्यमेव विश्वत्र प्रतिबिम्बस्य जृम्भते || ३-५१ || एवकारो भिन्नक्रमः -- तेन प्रतिबिम्बस्यैव, न पुनर्बिम्बस्यापि -- इत्यर्थः | विश्वत्रेति न पुनर्बाह्ये मुखादौ, तत्र हि बिम्बप्रतिबिम्बयोर्द्वयोरपि सामर्थ्याम् -- इति भावः || ५१ || ननु तयोः परस्परसापेक्षत्वात् कथं बिम्बभावे प्रतिबिम्बस्यैव सद्भावः? इत्याह -- ननु बिम्बस्य विरहे प्रतिबिम्बं कथं भवेत् | किं कुर्मो दृश्यते तद्धि ननु तद्बिम्बमुच्यताम् || ३-५२ || एतदेव समाधत्ते -- किं कुर्म इत्यादिना | दृश्यते इति�नहि दृष्टेऽनुपपन्नं नाम -- इति भावः | ननु न खलु वयं दृष्टमपह्नुमहे यदेवमुच्यते किं तु दृश्यमानमिदं विश्वं प्रतिबिम्बतया न वाच्यमपि तु बिम्बतया इत्यभिदध्म इत्याह -- ङनु तद्बिम्बमुच्यताम् इति᳚ || ५२ || एतदेव निराकरोति� नैवं तल्लक्षणाभावाद्बिम्बं किल किमुच्यते | अन्यामिश्रं स्वतन्त्रं सद्भासमानं मुखं यथा || ३-५३ || तल्लक्षणाभावादिति बिम्बलक्षणायोगात् | किं नाम बिम्बलक्षणम् ? -- इत्याह -- बिम्बमित्यादि | अन्यामिश्रमिति -- सजातीयविजातीयत्यावृत्तम् -- इत्यर्थः | अत एव श्वतन्त्रम्᳚ स्वरूपमात्रनिष्ठम्�परस्य परनिष्ठतानुपपत्तेः | तथात्वे हि स ततः पृथगेव न भवेत -- इति भावः | एवंरूपत्वे चास्याबाधितत्वमेवास्ति प्रमाणमित्युक्तम् -- ᳚भासमानमिति᳚ || ५३ || एवं बिम्बलक्षणानन्तरं तत्तुल्यकक्ष्यतया लक्षणीयस्य प्रतिबिम्बस्य पीठिकाबन्धं कर्तु तदाधारस्य तावत् सर्ववादिसिद्धतां द्योतयितुम् -- ङिजधर्माप्रहाणेन पररूपानुकारिता | प्रतिबिम्बात्मता सोक्ता खड्गादर्शतलादिवत् ||᳚
SK
इति प्रज्ञालङ्कारकारिकार्थगर्भीकारेण लक्षणमाह -- स्वरूपानपहानेन पररूपसदृक्षताम् | प्रतिबिम्बात्मतामाहुः खड्गादर्शतलादिवत् || ३-५४ || इह दर्पणादेस्तनुत्वपरिमण्डलत्वाद्यात्मनः स्वस्यासाधारणस्य रूपस्यापरित्यागेऽपि परस्य मुखादे संबन्धिना रूपेण यत् सादृश्यं तदेव प्रतिबिम्बात्मत्वं न तु तद्रूपतासादनमेव इति सर्व एव वादिन आहुः | नात्र कस्यापि विप्रतिपत्तिः इति भावः | ताद्रूप्ये हि श्लक्ष्णैकवपुषोऽपि दर्पणस्य निम्नोन्नतमुखप्रतिबिम्बपरिग्रहे श्लक्ष्णत्वाभावो भवेत् -- नगरादिप्रतिबिम्बयोगेऽपि अनेकरूपपरिग्रहात् दर्पणस्य आनैक्यं स्यात्, तेन यथा चित्रज्ञानस्य अनेकवेदनेऽपि चित्रपतड्गादौ एकत्वानपायात् अनेकसदृशाकारतया एकत्वमेव नानेकत्वम् | एवं दर्पणादेरप्यनेकप्रतिबिम्बयोगे न अनेकरूपत्वमिति नानैक्यप्रसड्गः अपि तु तत्सादृश्यमात्रमेव, न च सादृश्यमात्रादेव ताद्रूप्यम्, न हि गवयसादृश्यादेव गौर्गवयः | तस्माद् बिम्बसदृशाकारत्वमेव प्रतिबिम्बधारित्वः -- इति तात्पर्यार्थ || ५४ || एतदेवार्थद्वारेण संवादयति -- उक्तं च सति बाह्येऽपि धीरेकानेकवेदनात् | अनेकसदृशाकारा न त्वनेकेति सौगतैः || ३-५५ || उक्तमिति -- प्रज्ञालङ्कारादौ | तदुक्तं तत्र -- ᳚तस्मात्सत्यपि बाह्येऽर्थे धीरेकानेकवेदनात् | अनेकसदृशाकारा नानेकैव प्रसृज्यते ||᳚ इति || ३-५५ || नन्वेवमपि प्रतिबिम्बस्य लक्षणं न किञ्चिदुक्तं स्यात् ? -- इत्याशङ्कां प्रदर्श्य तल्लक्षणमेवाह -- नन्वित्थं प्रतिबिम्बस्य लक्षणं किं तदुच्यते | अन्यव्यामिश्रणायोगात्तद्भेदाशक्यभासनम् || प्रतिबिम्बमिति प्राहुर्दर्पणे वदनं यथा || ३-५६ ||
SK
इह खलु सर्व एव वादिनस्तत्प्रतिबिम्बमाहुः यदन्येन स्वाधिकरणभूतेन दर्पणादिना या व्यामिश्रणा तादात्म्यं तया योगात्तदनतिरिक्तत्वाद्धेतोः | ततोऽन्यस्मात् तदाकारग्रहणसहिष्णोर्दर्पणादेर्भेदेन पृथक्स्वातन्त्र्येण अशक्यं भासनं यस्य तत्, तत्परतन्त्रम् -- इत्यर्थः | अनेन चास्य बिम्बवैपरीत्यं दर्शितम् | तद्धि अन्यामिश्रं स्वतन्त्रं चेत्युक्तम् | एतच्च पूर्वमेव बहूक्तम् इतीह न पुनरायस्तम् || ५६ || एतदेव प्रकृते योजयति -- बोधमिश्रमिदं बोधाद् भेदेनाशक्यभासनम् | परतत्त्वादि बोधे किं प्रतिबिम्बं न भण्यते || ३-५७ || इदं खलु तत्त्वभुवनाद्यात्मकं विश्वं बोधे प्रतिबिम्बं किं न भण्यते -- अवश्यमेवाभिधातव्यम् -- इत्यर्थः, यस्मादिदमपि दर्पणेनेव मुखं बोधेन प्राप्त तदैकात्म्यम्, अत एव दर्पणादिव मुखस्य बोधाद्भेदेन पृथगशक्यं भासनं यस्य तत् | नहि प्रकाशमन्तरेण किञ्चिदपीदं भावजातं स्फुरेत् -- इति भावः | यदुक्तम् -- ᳚तत्तद्रूपतया ज्ञानं बहिरन्तः प्रकाशते | ज्ञानादृते नार्थसत्ता ज्ञानरूपं ततो जगत् || नहि ज्ञानादृते भावाः केनचिद्विषयीकृताः | ज्ञानं तदात्मतां प्राप्तमेतस्मादवसीयते ||᳚ इति | तथा, ᳚युगपद्वेदनाज्ज्ञानज्ञेययोरेकरूपता |᳚ इति || ५७ || तदेवं प्रतिबिम्बलक्षणयोगेऽपि विश्वस्य यदि निर्निमित्तमेव बिम्बत्वमुच्यते तदुच्यतां को दोषः, एष खलु नास्ति विवादः, न चात्र विदुषां भरः, ते हि वस्तुन्येवाभिनिविष्टाः, तच्च नान्यथा कर्तु शक्यम्, प्रतिबिम्बलक्षणयोगस्यैवात्रोपपादितत्वात्, बिम्बलक्षणस्य च योजयितुमशक्यत्वात् | तदाह� लक्षणस्य व्यवस्थैषाऽकस्माच्चेद्बिम्बमुच्यताम् | प्राज्ञा वस्तुनि युज्यन्ते न तु सामयिके ध्वनौ || ३-५८ || अकस्मादिति निर्हेतुकम् -- इत्यर्थः || ५८ || ननु तल्लक्षणयोगाद्विश्वस्य प्रतिबिम्बत्वं यदुच्यते तदास्तां नास्माकमत्र अभिनिवेशः, तस्य पुनर्बिम्बाख्यं कारणमन्तरेण सद्भाव एव कथं स्यात् ? -- इत्याशङ्क्याह --
SK
ननु न प्रतिबिम्बस्य विना बिम्बं भवेत्स्थितिः | एतदेव प्रतिविधत्ते -- किं ततः प्रतिबिम्बे हि बिम्बं तादात्म्यवृत्ति न || ३-५९ || किं तत इति -- बिम्बं चेन्नास्ति ततः किम्, न किञ्चिदपि -- इत्यर्थः | न हि प्रतिबिम्बे शिंशिपात्व इव वृक्षत्वं बिम्बमैकात्म्येन वर्तते, येन बिम्बाभावे प्रतिबिम्बमपि न स्यात् || ५९ || तदाह � अतश्च लक्षणस्यास्य प्रोक्तस्य तदसंभवे | न हानिर्हेतुमात्रे तु प्रश्नोऽयं पर्यवस्यति || ३-६० || अत इति -- बिम्बप्रतिबिम्बयोस्तादात्म्यवृत्तित्वाभावात् | प्रोक्तस्येति -- अर्थाद्विश्वविषये | तदसंभव इति -- बिम्बभावे | ननु न वयं प्रतिबिम्बलक्षणे विवदामहे किं तु बिम्बं विना तत्कथं भवेदिति ब्रूमः, नहि निर्निमित्तमेव भावानां संभवो न्याय्यः ? इत्याशङ्क्याह -- हेतुमात्र इत्यादि हेतुश्च द्विविधः -- उपादानं निमित्तं च, उपादानं यथा घटादौ मृदादि, निमित्तं यथा तत्रैव दण्डादि | प्रतिबिम्बस्य च बिम्बं नोपादानकारणम्, तद्धि घट इव मृत्स्वरूपविकारमासाद्य कार्यानुगामित्वेन वर्तते, नैवमत्र बिम्बम्, प्रतिबिम्बोदयेऽपि तस्याविकृतस्यैव पृथगुपलम्भात् | तेनात्र दण्ड इव घटे निमित्तकारणं बिम्बम् || ६० || ततश्च निमित्तकारणविषय एवायं प्रश्नो नान्यत्र, इत्याह -- तत्रापि च निमित्ताख्ये नोपादाने कथञ्चन | निमित्तकारणानां च कदाचित्क्वापि संभवः || ३-६१ || न च निमित्तकारणानां सर्वसर्विकयैव संभवो भवेत् -- इत्याह� निमित्त इत्यादि | इह खलु दण्डपरिहारेणापि स्वकराहत्यैव चक्रं भ्रमयन् कुम्भकारः कुम्भं कुर्यात् | मृत्परिहारेण पुनरतिनिपुणोऽपि कुम्भकारः कुम्भं कर्तु न शक्नुयात् | अतश्चोपादानकारणवत् नावश्यं निमित्तकारणोपयोगः, तेन बिम्बं विनापि प्रतिबिम्बं भवेत्; तदुत्पादसमर्थस्य तत्प्रतिनिधिभूतस्य कारणान्तरस्यापि भावात् || ६१ || तदाह -- अत एव पुरोवर्तिन्यालोके स्मरणादिना | निमित्तेन घनेनास्तु संक्रान्तदयिताकृतिः || ३-६२ ||
SK
अत इति -- बिम्बाभावेऽपि निमित्तान्तरेण प्रतिबिम्बोत्पादस्य संभवात् | आलोक इति�तस्य रूपप्रतिबिम्बग्रहणसहिष्णुत्वात् | घनेनेति -- भावनात्मतामापन्नेन -- इत्यर्थः, अन्यथा हि सर्वस्यैव स्मर्तुः सर्वदैव पुरः स्मर्यमाणं भायात् | अत्र तावद् बिम्बं नास्ति, दयिताया देशादिविप्रकृष्टत्वेन असंनिहितत्वात् | अथ च तत्कार्यं प्रतिबिम्बं दृश्यते इत्यत्र स्मरणादिना निमित्तान्तरेणावश्यं भाव्यम् | नहि निर्निमित्तमेव प्रतिसंक्रान्तायाः कान्ताया विच्छेदेन कादाचित्कः प्रतिभासो भवेत् || ६२ || तदाह -- अन्यथा संविदारूढा कान्ता विच्छेदयोगिनी | कस्माद् भाति न वै संविद् विच्छेदं पुरतो गता || ३-६३ || अन्यथा इति -- स्मरणादिना निमित्तान्तरेण यदि प्रतिसंक्रान्ता कान्ता न स्यात् -- इत्यर्थः, संविदारूढेति -- नहि संविदमारूढस्य वस्तुनो विच्छेदेन भाने भानं भवेत् -- इति भावः | संविदो विच्छेदे हि जाड्यापत्तेर्न किञ्चिदपि स्फुरेत्, इति सर्वमिदमन्धं स्यात् | संविदारूढं च वस्तु संवेद्यमानत्वादेव, न ततोऽधिकम्, इति न तदपि विच्छेदेन भायात्, अत आह -- ङ संविद्विच्छेदं पुरतो गता᳚ इति || ६३ || ननु यद्येवं तर्हि ग्राह्यग्राहकभाव एव न भवेत्, इति समग्रव्यवहारविप्रलोपः स्यात् ? सत्यम् -- नहि परां संविदमपेक्ष्य भेदगन्धमात्रमप्यस्तीति सर्वं संविदेव, इति किं नाम ग्राह्यं ग्राहकं वापि स्यात्, सैव पुनः स्वस्वातन्त्र्यात्स्वं रूपं गोपयित्वा यदा संकुचितज्ञानात्मतामवभासयति तदायं सकलो ग्राह्यग्राहकात्मा भेदव्यवहारः | तदाह -- अत एवान्तरं किञ्चिद्धीसंज्ञं भवतु स्फुटम् | यत्रास्य विच्छिदा भानं सङ्कल्पस्वप्नदर्शने || ३-६४ ||
SK
अत एव -- परसंविदपेक्षया विच्छेदासंभवाद्धेतोः | किञ्चित्संकुचितप्रमात्रात्म सुस्फुटं निर्विकल्परूपं ज्ञानसंज्ञमान्तरं परसंवित्प्रमेययोर्मध्यवर्ति भवतु, यत्रास्य प्रतिबिम्बस्य, विच्छिदा भेदेन, सङ्कल्पस्वप्नादौ भानं भवेत् -- विरहिणो हि सङ्कल्पादावपि बिम्बाभावात्तीव्रतरस्मरणादिनिमित्तान्तरसंनिधापितमेव कान्ताप्रतिबिम्बं भायात् -- इति भावः || ६४ || एवं बहिः स्मृत्यादौ यथा बिम्बाभावेऽपि निमित्तान्तेरण प्रतिबिम्बं भवेत्तथा इहापि -- इत्याह -- अतो निमित्तं देवस्य शक्तयः सन्तु तादृशे | अतः -- उक्तात् निमित्तकारणमात्रसव्यपेक्षत्वलक्षणाद्धेतोः | देवस्य द्योतनात्मनश्चित्तत्त्वस्य, तादृशे विश्वप्रतिबिम्बने, ज्ञानक्रियाद्याः शक्तयो निमित्तं भवन्तु, एवं न कश्चिद्दोषः संभाव्यते इत्यर्थः | शक्तश्च -- ᳚बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता |᳚ इत्याद्युक्तयुक्त्या स्वातन्त्र्यशक्तिमात्रपरमार्था एव, इति निजैश्वर्यमात्रादेव अस्य स्वात्मनि विश्वाकारधारित्वम् -- इति पिण्डार्थः | यदुक्तं श्रीप्रत्यभिज्ञाकृता -- ᳚तत्र त्वर्पकादुपाधेस्तदाकारत्वं, चित्तत्त्वस्य तु निजैश्वर्यात् |᳚ इति || अनुप्रत्यभिज्ञानकृताप्यनेनैवाभिप्रायेण नाथ त्वया विना बिम्बं स्वच्छे स्वात्मनि दर्शितम् | प्रसेना (प्रभेवा) दर्पणेनैव प्रभावाद् भावमण्डलम् || इत्याद्युक्तम् | तदेवं विश्वचित्प्रतिबिम्बत्वमेवोपसंहरति -- इत्थं विश्वमिदं नाथे भैरवीयचिदम्बरे | प्रतिबिम्बमलं स्वच्छे न खल्वन्यप्रसादतः || ३-६५ || अन्येति -- अन्यमुखप्रेक्षित्वे ह्यस्य स्वातन्त्र्यं खण्ड्येत -- इति भावः | स्वातन्त्र्यं हि विमर्श इत्युच्यते, स चास्य मुख्यः स्वभावः | नहि निर्विमर्शः प्रकाशः संभवत्युपपद्यते वा, अयमेव ह्यस्य विश्वाकारधारित्वे जडेभ्यो विशेषो यत्सर्वमामृशतीति | यदुक्तमनेनैव अन्यत्र -- ᳚अन्तर्विभाति सकलं जगदात्मनीह यद्वद्विचित्ररचना मकुरान्तराले | बोधः पुनर्निजविर्शनसारवृत्त्या विश्वं परामृशति नो मकुरस्तथा तु ||᳚
SK
स चायमामर्शो न साङ्केतिकः अपि तु ᳚चित्स्वभावतामात्रनान्तरीयकः स्वरसोदितः परावाग्रूप इति सर्वैरुद्धोष्यते -- इत्याह᳚ -- अनन्यापेक्षिता यास्य विश्वात्मत्वं प्रति प्रभोः | तां परां प्रतिभां देवीं संगिरन्तु ह्यनुत्तराम् || ३-६६ || अनुत्तरामिति -- निरतिशयस्वातन्त्र्यैश्वयचमत्कारमयीम -- इत्यर्थः | अत एव अनुत्तराद्यनन्तशक्तिव्रातोल्लेखशालिनीं प्रतिभाम् -- इत्यर्थः | अनेन परमर्शोदयक्रमस्याप्यवकाशो दत्तः || ६६ || इह हि विश्वस्य वाच्यवाचकात्मना द्विधा अवभासः, तत्र ᳚प्रकाश एव प्राधान्येन वाच्यात्मविश्वरूपत्वेन परिस्फुरति᳚ इति विश्वचित्प्रतिबिम्बत्वोट्टङ्कनेनोक्तम् | ᳚विमर्शोऽपि तत्तदनुत्तराननन्दाद्यामर्शात्मनोदेति᳚ इति परामर्शोदयक्रममप्याह -- अकुलस्यास्य देवस्य कुलप्रथनशालिनी | कौलिकी सा परा शक्तिरवियुक्तो यया प्रभुः || ३-६७ || इह खलु पूर्णः शिवशक्त्यादिप्रतिनियतव्यपदेशासहिष्णुः अनाख्यः परपरामर्शात्मा अनुत्तरः प्रकाश एव परं तत्त्वम् | स एव च स्वस्वातन्त्र्याद्विश्वमवबिभासयिषुः प्रथमं शिवशक्तिरूपतां स्वात्मन्यवभासयति, यदाहुः -- ङौम्यनुत्तरनाथस्य रश्मिचक्रमहं सदा | शिवशक्तीति विख्यातं परापरफलप्रदम् ||᳚ इति | अनेनैव चाभिप्रायेण ᳚रुद्रश्च रुद्रशक्तिश्व अमनस्के लयं गतौ |᳚ इत्याद्यन्यत्रोक्तम् | ततश्च ᳚यत्रोदितमिदं चित्रं विश्वं यत्रास्तमेति च | तत्कुलं विद्वि सर्वज्ञ शिवशक्तिविवर्जितम् ||᳚ इत्यादिलक्षितात्पूर्णपरसंवित्तत्त्वलक्षणात् कुलात् यदन्यदवभासितं शिवलक्षणमकुलं तस्य प्रकाशैकरूपत्वेन द्योतमानस्य सा परा विश्वापूरणस्वभावा, अत एव ᳚शक्तयोऽस्य जगत्कृत्स्नं.......................|᳚ इत्याद्युक्त्या कुलस्य शाक्तप्रसरात्मनो जगतो यत् प्रथनं तेन शालते तच्छीला अत एव कुले भवम् अकुलात्म कौलं तद्यस्यामन्तस्तादात्म्येन अस्तीति ᳚कौलिकी शक्तिः᳚ यया समनन्तरोक्तरूपः प्रभुरवियुक्तः -- तदव्यविभचरितस्वभावः -- इत्यर्थः |
SK
एवं चाकारलक्षणं कुलम् शरीरमस्य -- इत्याद्यवर्णोऽप्यभिहितः | सोऽपि हि देवः ङास्योच्चारयिता कश्चित्प्रतिहन्ता न विद्यते | स्वयमुच्चरते देवि प्राणिनामुरसि स्थितः ||᳚ इत्याद्युक्तस्वरूपादनाहतात् स्थानकरणाभिघातोत्थाच्च हतात् शब्दात् उत्तीर्णत्वेन परपरामर्शशालिसिततरप्रकाशात्मतया सर्वदैव द्योतमानः | तदुक्तम् -- ᳚अनाहतहतोत्तीर्णो महाविषमचिद्गतिः | वीरहृद्धट्टनोद्युक्तो रावो देव्या विजृम्भते ||᳚ इति | तस्य च परैव सा शक्तिः कुलस्य शरीरस्य यत् प्रथनं तेन श्लाघमाना, तच्छरीरारम्भिका -- इत्यर्थः | अत एव ᳚कौलिकी᳚ इत्युक्तम्, तथाहि -- परैव सूक्ष्मा कुण्डलिनी शक्तिः शिवेन सह परस्परसामरस्यरूपमथ्यमन्थकभावात्मकं सङ्घट्टमासाद्य उत्थिता सती इच्छाज्ञानक्रियारूपतामाश्रित्य रौद्रीत्वमुन्मुद्रयन्ती शृड्गाटकाकारतामम्बिकात्वमवलम्बमाना उकारात्मकशशाङ्कशकलाकारतां ज्येष्ठात्वमधितिष्ठन्ती च शशिबिन्दूदितकालाग्निरूपरेफात्मकबिन्दुविश्रान्तस्पष्टरेखाकारताम अभासयति -- इत्याद्यवर्णशरीरमुल्लासयतीति | तदुक्तं श्रीतन्त्रसद्भावे -- ᳚या सा शक्तिः परा सूक्ष्मा निराचारेति कीर्तिता |᳚ इत्याद्युपक्रम्य ᳚उत्थिता तु यदा तेन कला सूक्ष्मा तु कुण्डली | चतुष्कलमयो बिन्दुः शक्तेरूदरगः प्रभुः || मथ्यमन्थनयोगेन ऋजुत्वं जायते प्रिये | ज्येष्ठा शक्तिः स्मृता सा तु बिन्दुद्वयसुमध्यगा || बिन्दुना क्षेभमायाता रेखेवामृतकुण्डली | रेखिनी नाम सा ज्ञेया उभौ बिन्दू यदन्तगौ || त्रिपथा सा समाख्याता रौद्री नाम्ना तु गीयते | रोधिनी सा समुद्दष्टा मोक्षमार्गनिरोधनात् || शशाङ्कशकलाकारा अम्बिका चार्धचन्द्रिका | एकैवेत्थं पराशक्तिस्त्रिधा सा तु प्रजायते ||᳚ इति | श्रीवामकेश्वरीमतेऽपि ᳚त्रिपुरा परमा शक्तिराद्या जातेह सा प्रिये |᳚ इत्याद्युपक्रम्य ᳚कवलीकृतनिःशेषबीजाङ्कुरतया स्थिता | वामा शिखा ततो ज्येष्ठा शृड्गाटाकारतां गता || रौद्री तु परमेशानि जगद् ग्रासनरूपिणी | त्रिपुरा त्रिविधा देवी ब्रह्मविष्ण्वीशरूपिणी |
SK
ज्ञानशक्तिः क्रियाशक्तिरिच्छाशक्त्यात्मिका प्रिये || त्रैलोक्यं संसृजत्यस्मत् त्रिपुरा परिकार्तिता |᳚ इति | अनेनैव चाभिप्रायेण अन्यत्रापि अस्य सृष्टिस्थितिसंहारात्मकं धामत्रयमयत्वं चोक्तम् | तदुक्तम्� ᳚ऊर्ध्वे तु संस्थिता सृष्टिः परमानन्ददायिनी | पीयूषवृष्टिं वर्षन्ती बैन्दवी परमा कला || अधः संहारकृज्ज्ञेया महानग्निः कृतान्तकः | घोरो ज्वालावलीयुक्तो दुर्धर्षो ज्योतिषां निधिः || तयोर्मध्ये परं तेज उभयानन्दसुन्दरम् | अवतारः स विज्ञेय उभाभ्यां व्यापकः शिवः || परस्परसमाविष्टौ चन्द्रेऽग्निष्टीटिभे शशी | चन्द्रं सृष्टिं विजानीयादभिः संहार उच्यते || अवतारो रविः प्रोक्तो मध्यस्थः परमेश्वरः |᳚ इति | तथा, ᳚कालाभिरूद्रात्प्रसृतं च तेजो भूरि स्फुटं दीप्ततरं विचिन्त्यम् | ऊर्ध्वे स्थिता चन्द्रकला च शान्ता पूर्णामृतानन्दरसेन देवि || तदोभयोर्वह्निविषानुयोगा त्तेजःशशाङ्कौ द्रवितौ च यस्मात् | तेजःशशाङ्कस्फुटमिश्रितत्वा द्भवेत्तदार्कं त्ववताररूपम् || एतच्च विद्वान्विदितार्थभावो ध्यायेत युक्त्यात्मचिदर्करूपम् ||᳚ इति | तथा, ᳚ततोऽस्वरोऽर्कसोमाभिकलाबीजप्रसृतिभाक् | उदेत्येकः समालोकः प्रमाणार्थप्रमातृदः ||᳚ इति | इह च तिस्र एव परमेश्वरस्य मुख्याः शक्तयः संभवन्ति इत्यस्य प्राधान्येन तद्रूपत्वमेवोक्तम्, अन्यत्र पुनः ᳚अकारस्य शिरो रौद्री वक्त्रं वामा प्रकीर्तिता | अम्बिका बाहुरित्युक्ता ज्येष्ठा चैवायुधं स्मृता ||᳚ इत्याद्युक्त्या अभिप्रायान्तरेण अस्य चतूरूपत्वमप्युक्तम् | तदेवमेवंविधा परैव कुण्डलिनी शक्तिरस्य स्वरूपादनतिरिक्ता -- इत्युक्तम् -- ᳚अवियुक्तो यया प्रभुः᳚ इति | तदुक्तम् -- ᳚अकारश्च हकारश्च द्वावेतौ युगपत्स्थितौ | विभक्तिर्नानयोरस्ति मारुताम्बरयोरिव ||᳚ इति | एवमविभागेऽप्यनयोरेकैकप्राधान्येन स्वरूपमात्रविश्रान्तेरेकवीरत्वं चिच्छक्तिरूपत्वं च || ६७ || यदा पुनः ङ शिवः शक्तिरहितो न शक्तिः शिववर्जिता | यामलं प्रसरं सर्व.................................. ||᳚
SK
इत्यादि महागुरूदितनीत्या अनयोः परस्परौन्मुख्यात्मकं यामलं रूपं स्यात्, तदा विश्वसर्गः -- इत्याह� तयोर्यद्यामलं रूपं स सङ्घट्ट इति स्मृतः | आनन्दशक्तिः सैवोक्ता यतो विश्वं विसृज्यते || ३-६८ || तयोरिति -- अकुलकौलिकीशब्दव्यपदेश्ययोः शिवशक्त्योः, सङ्घट्ट इति -- सम्यक् घट्टनं चलनं स्पन्दरूपता स्वात्मोच्छलत्ता -- इत्यर्थः | अतश्च प्रकाशविमर्शात्मनोरनुत्तरयोरेव सङ्घट्टादानन्दशक्त्यात्मनो द्वितीयवर्णस्य उदयो यतः इच्छाद्यात्मनो विश्वस्य सर्गः| चर्याक्रमेऽपि स्त्रीपुंसयोः सङ्घट्ट एवानन्दोदयाद्विसर्गः | इह शिवस्य शक्तेश्च विश्वोत्तीर्णत्वेन विश्वमयत्वेन च विच्छिन्नं रूपम्, इदं पुनः विश्वमयत्वेऽपि विश्वोत्तीर्णम्, इति नियतावच्छेदाभावात् पूर्णं रूपम् || ६८ || अत एव सर्वशास्त्रेषु परमोपेयत्वेनोद्धोष्यते -- इत्याह -- परापरात्परं तत्त्वं सैषा देवी निगद्यते | तत्सारं तच्च हृदयं स विसर्गः परः प्रभुः || ३-६९ || देवीयामलशास्त्रे सा कथिता कालकर्षिणी | महाडामरके यागे श्रीपरा मस्तके तथा || ३-७० || श्रीपूर्वशास्त्रे सा मातृसद्भावत्वेन वर्णिता | परात् विश्वोत्तीर्णात् शैवात् रूपात्, अपरात् विश्वमयात् शाक्ताद्रूपात्, परम् पूर्णं, सारमिति -- श्रीसारभट्टारकाद्युक्तम् | हृदयमिति -- श्रीहृदयनयरहस्यम् | पर इति -- परापरस्य अपरस्य च विसर्गस्य वक्ष्यमाणत्वात् | महाडामरके यागे इति देवीयामलशास्त्रसामानाधिकरण्येन योज्यम्, तेन तत्प्रतिपादके प्राथमिके ग्रन्थैकदेशे इत्यर्थः | तदुक्तं तत्र -- ᳚तन्मध्ये तु परा देवी दक्षिणे च परापरा | अपरा वामशृड्गे तु मध्यशृङ्गोर्ध्वतः शृणु || या सा सङ्कर्षिणी देवी परातीता व्यवस्थिता |᳚ इति | मातृसद्भावत्वेनेति -- यदुक्तं तत्र -- शद्भावः परमो ह्येष मातॄणां परिपठ्यते |᳚ इति || ६९-७० || एवं चिदानन्दशक्ती अभिधाय इच्छाशक्तिमाह -- सङ्घट्टेऽस्मिंश्चिदात्मत्वाद्यत्तत्प्रत्यवमर्शनम् || ३-७१ || इच्छाशक्तिरघोराणां शक्तीनां सा पराप्रभुः |
SK
अस्मिन् समनन्तरोक्तरूपे सङ्घट्टे ᳚आनन्दो ब्रह्मणो रूपम्........................|᳚ इत्याद्युक्त्या चितः प्राधान्यात् योऽयं परस्य प्रमातुः सिसृक्षात्मा परामर्श उदेति सेयमिच्छाख्या शक्तिः | या खलु -- ᳚पूर्ववज्जन्तुजातस्य शिवधामफलप्रदाः | पराः प्रकथितास्तज्ज्ञैरघोराः शिवशक्तयः ||᳚ इत्याद्युक्तानामघोराणां शुद्धस्वातन्त्र्यमात्ररूपत्वादविद्यमानभेदाद्यात्मकघोररूपाणां शक्तीनां प्रभुः प्रभवनिमित्तं -- गर्भीकृतानन्तशक्तिव्राता इति यावत् अत एव परा सर्वोत्कर्षयोगिनी तदाख्या च -- इत्यर्थः | प्रकृतेऽपि अनेन तृतीयवर्णोदय उक्तः | सा च इच्छाशक्तिः ᳚यदा तु तस्य चिद्धर्मविभवामोदजृम्भया | विचित्ररचनानानाकार्यसृष्टिप्रवर्तने || भवत्युन्मुखिताचिन्ता सेच्छायाः प्रथमा तुटिः |᳚ इत्याद्युक्ताद्यस्पन्दात्मिका बहिरौन्मुख्यमात्ररूपिणी स्रष्टव्यानारूषितेच्छामात्ररूपा वा स्यात् तत्तदीषणीयविषयारूषणया प्रक्षोभात्मप्रयत्नरूपतां श्रयन्ती बहीरूपतया एश्वर्यं भजमाना वा इत्यस्या द्वैधम् | तदुक्तं श्रीप्रत्यभिज्ञायाम् -- शा केवलमिच्छामात्ररूपा स्रष्टव्यस्य विप्रकृष्टा | काचित्पुनः प्रयत्नतामापन्ना संनिकृष्टा ||᳚ इति || ७१ || तत्र प्राच्यायाः स्वरूपं निरूपितं द्वितीयस्या निरूपयितुमाह -- सैव प्रक्षुब्धरूपा चेदीशित्री सम्प्रजायते || ३-७२ || तदा घोराः परा देव्यो जाताःशैवाध्वदैशिकाः || तदा प्रक्षुब्धरूपत्वेनेच्छाशक्तेरैश्वर्ये सति परा अघोरा देव्यो जाताः बहीरूपतया प्रस्फुरिताः -- इत्यर्थः | एतदेव हि अस्या एश्वर्यं यत्तत्तदनन्तशक्तिरूपतया बहिरवभासनमिति | ताश्च तथा भेदस्य स्फुटत्वाभावात् स्वस्वरूपावभासनव्यापारशालिन्य एव | इत्याह -- ᳚शैवाघ्वदैशिका᳚ इति | अत एव न घोरादिशक्तिवन्मुक्तिमार्गनिरोधिन्यः -- इति भावः | प्रकृतेऽपि अनेन चतुर्थवर्णोदय उक्तः || ७२ || एवमिच्छाशक्तिं द्विप्रकारामभिधाय ज्ञानशक्तिमप्याह -- स्वात्मप्रत्यवमर्शो यः प्रागभूदेकवीरकः || ३-७३ || ज्ञातव्यविश्वोन्मेषात्मा ज्ञानशक्तितया स्थितः |
SK
इह खलु प्राक् प्रक्षुब्धत्वरूपत्वात्पूर्वं व्यतिरिक्तविमृश्याभावात् स्वात्ममात्रनिष्ठः, अत एव ᳚एकवीरको᳚ यः परामर्शः आसीत्, स एव ज्ञानशक्तित्वेन अन्तर्विजिज्ञास्यतया इष्टस्य विश्वस्य योऽसौ उन्मेषः आद्यः परिस्पन्दः, तद्रूपः सन् अवस्थितः इति पञ्चमबीजनिर्णय इति || ७३ || एतदेव स्वदर्शनभङ्ग्या योजयति -- इयं परापरा देवी घोरां या मातृमण्डलीम् || ३-७४ || सृजत्यविरतं शुद्धाशुद्धमार्गैकदीपिकाम् | घोरामिति | यदुक्तम् -- ᳚मिश्रकर्मफलासक्तिं पूर्ववज्जनयन्ति याः | मुक्तिमार्गनिरोधन्यस्ताः स्युर्घोराः परापराः ||᳚ इति | शुद्धाशुद्धेति -- न पुनर्घोरतर्यादिवदधोऽधःपातिनीम् -- इति भावः || ७४ || इहेच्छाशक्तिवत् ज्ञानशक्तेरपि ज्ञेयाधिक्यानाधिक्याभ्यां द्वैधम् | तत्र यज्ज्ञेयस्यानाधिक्ये स्वरूपं तत् निर्णीतम् | आधिक्ये पुनः स्वरूपं निरूपयति -- ज्ञेयांशः प्रोन्मिषन्क्षोभं यदैति बलवत्त्वतः || ३-७५ || ऊनताभासनं संविन्मात्रत्वे जायते तदा | ज्ञानापेक्षया ज्ञेयरूप्ॐऽश उद्रिक्तत्वात् प्रस्फुटीभवन् यदा क्षोभम् तत्तन्नीलसुखाद्यात्मना चित्राकारधारिताम, एति तदा ज्ञेयस्याधिक्यात् ज्ञानस्य ज्ञानमात्ररूपतायामूनत्वस्य अपूर्णत्वस्य आभासनं जायते सङ्कोचाधिगमो भवेत् -- इति षष्ठवर्णोदयः || ७५ || एवदेव प्रपञ्चयति -- रूढं तज्ज्ञेयवर्गस्य स्थ्|तिप्रारम्भ उच्यते || ३-७६ || रूढिरेषा विबोधाब्धेश्त्रिकारपरिग्रहः | इदं तद्वीजसंदर्भबीजं चिन्वन्ति योगिनः || ३-७७ ||
SK
तत् संविन्मात्रोनताभासनम्, रूढम् जातप्ररोहं सत्, तत्तन्नीलसुखाद्यात्मनो ज्ञेयवर्गस्य स्थितेः प्रारम्भ उच्यते, न पुनः साक्षात्स्थितिरेव, तस्याः क्रियाशक्तौ भावात् | को नाम अस्याः प्ररोहः ? -- इत्याह -- ᳚रूढिरेषेत्यादि᳚ | अनेन ज्ञानादतिरिक्तं न किञ्चिन्नाम ज्ञेयमस्ति अपि तु तदेव तत्तद्भासात्मना स्फुरति -- इति सूचितम् | तत् तस्माद् बोधस्यैव चित्राकारधारित्वाद्धेतोरिदमेव व्याख्यातं संविन्मात्रोनत्वं षष्ठं च भेदसंदर्भस्य कारणत्वेन, योगिनः, न पुनरयोगिनः, तेषां क्रियाशक्त्यात्मस्थूलभेदचेतयितृत्वात्, चिन्वन्ति जानन्ति -- इत्यर्थः | इह खलु एवदेव परविमर्शात्ममुख्यं परामर्शषट्कं यतः परस्परं प्रमेयेन वा सङ्घट्टे सति निखिलपरामर्शोदयः | यद्वक्ष्यति -- श्वराणां षट्कमेवेह मूलं स्याद्वर्णसंततौ |᳚ इति | तत्र अनुत्तरान्दयोः शुद्धसंविन्मात्ररूपत्वात् तदपेक्षया भेदाभावात् प्रमेयवार्तापि नास्तीति || ७७ || इच्छाशक्तेरेव इष्यमाणारूषणया चातूरूप्यं दर्शयितुमुपक्रमते - - इच्छाशक्तिर्द्विरूपोक्ता क्षुभिताऽक्षुभिता च या | इष्यमाणं हि सा वस्तुद्वैरूप्येणात्मनि श्रयेत् || ७८ || इष्यमाणस्य प्रकाशमात्रात्मकत्वात् विश्रान्त्यात्मकत्वाच्च | अत एव अत्र रलयोः श्रुतिः, तयोः प्रकाशस्तम्भस्वभावत्वात् || ७८ || तदाह� अचिरद्युतिभासिन्या शक्त्या ज्वलनरूपया | इष्यमाणसमापत्तिः स्थैर्येणाथ धरात्मना || ३-७९ || ᳚शक्तयोऽस्य जगत् सर्वं.......................... |᳚
SK
इत्याद्युक्तेर्ज्वलनरूपा धरात्मा च येयं द्विप्रकारा शक्तिः तदात्मकं यदिष्यमाणं तेन, अर्थात् द्विप्रकाराया अपि इच्छाशक्तेर्या समापत्तिः अपृथग्भावेनावभासनम् | अतोऽस्याश्चातरूप्यम् -- इत्यर्थः | यद्यपि प्रागपीच्छाया इष्यमाणसमापत्तिरूक्ता येनास्याः क्षुब्धत्वं प्रतिपादितं तथापि तन्न तथा स्फुटेन रूपेण, यथेदानीम् | इत्युक्तं श्थैर्यैण᳚ इति | न चात्रैवमपि बाह्यवत् स्थैर्येणेष्यमाणं प्रतीयते, तथात्वे हि तत्कार्यं स्यात्, नेष्यमाणम्, अत एवात्र अस्फुटत्वात् रलयोः श्रुतिमात्रं | न तु साक्षाद्व्यंजनवत्स्थितिः | तदाह -- ᳚अचिरद्युतिभासिन्येति᳚ | यथाहि विद्युत् क्षणिकत्वादचिरमेव कालमवभासते तथात्र इष्यमाणमपि छायामात्रेणैवेति | अत एव चात्र वर्णश्रुतिमात्रं न साक्षाद्वर्णः | नहि वर्णश्रुतिरेव वर्णः, अत एव नरसिंहवत् जात्यन्तरमिदमिति श्रीमहाभाष्यकारः, अत एव चैतद्वर्णचतुष्टयमुभयच्छतयाधारित्वात् -- ᳚ऋ ऋ ऌ ॡ चतुष्कं च नपंसकगणस्तथा |᳚ इत्याद्युक्त्या सर्वत्रैव नपुंसकत्वेन व्यपदिश्यते, तेन अक्षुब्धा ज्वलनशक्त्याच्छुरिता इच्छा ᳚ऋ᳚ क्षुब्धा तु ᳚ऋ᳚ एवं धराशक्तयाच्छुरिता ᳚ऌ ॡ᳚ इति, ज्वलनाद्यात्मनश्चात्रेष्यमाणस्य स्वरूपमात्रोपादानादेव स्थिरात्मकत्वं लभ्यते इति न तदर्थं विशेषणान्तरोपादानम् || ७९ || ननु यदीच्छाशक्तेरिष्यमाणसमापत्त्या परामर्शान्तरोदय इष्यते तज्ज्ञानशक्तेरपि किं न ज्ञेयसमापत्त्या ? -- इत्याशङ्क्याह -- उन्मेषशक्तावस्त्येतज्ज्ञेयं यद्यपि भूयसा | तथापि विभवस्थानं सा न तु प्राच्यजन्मभूः || ३-८० ||
SK
यद्यपि ज्ञानशक्तावेतज्ज्वलनाद्यात्म ज्ञेयं भूयसा विद्यते तथापि सा ज्ञानशक्तिः ज्ञेयस्य विभवस्थानं न तु प्राच्येच्छाशक्तिलक्षणा जन्मभूः | इच्छाशक्तिवत् नेयमुत्पत्तिस्थानम् -- इत्यर्थः इच्छाशक्तौ खलु इष्यमाणात्मतया उत्पन्नस्य सतो भावजातस्य ज्ञानशक्तावभिव्यक्तिः, यस्य क्रियाशक्तौ बहीरूपतया परिस्फुरणम्, अतो ज्ञानशक्तौ ज्ञेयस्य नापूर्वतया उत्पादः इति न तत्र तत्समापत्त्या परामर्शान्तरोदयः, तेनेच्छाशक्ताविष्यमाणस्यापूर्वतयोत्पादादेवमभिधानम् | यद्यपि सर्वभावनिर्भरत्वात्परस्यामपि संविदि सर्वे भावाः संभवन्ति तथापि तत्र तेषां संविन्मात्रतयाऽवस्थानम् || ८० || इह पुनः किञ्चिदुच्छूनतासमापत्त्या पृथगिवावभास इति इत्येतदुक्तम् | अत आह -- इच्छाशक्तेरतः प्राहुश्चातूरूप्यं परामृतम् | क्षोभान्तरस्यासद्भावान्नेदं बीजं च कस्यचित् || ३-८१ || परामृतमिति -- स्वात्ममात्रविश्रान्त्या परचमत्कारात्मकम् -- इत्यर्थः | यद्वक्ष्यति -- ᳚आत्मन्येव च विश्रान्त्या तत्प्रोक्तममृतात्मकम् |᳚ इति | ननु ᳚..................................बीजं स्वरा मताः |᳚ इत्यादिना स्वरान्तःपातित्वादेषां बीजत्वमुक्तं तच्च प्रक्षोभकत्वमुच्यते न च स्वात्ममात्रविश्रान्तिरूपात्वादत्र तत् सङ्गच्छते, तद्धि क्षेभान्तरसद्भावे स्यात् ? -- इत्याशङ्क्याह -- ङेदं बीजमिति᳚ स्वात्ममात्रविश्रान्तेः क्षोभान्तरानुल्लासकतया स्वकार्याकरणात् दग्धप्रायत्वात्, न तु सर्वसर्विकया बीजरूपत्वाभावात् | नहि शिवशक्त्यात्मबीजयोन्यतिरेकिणः ᳚बीजयोन्यात्मकाद् भेदाद् द्विधा बीजं स्वरा मताः | कादिभिश्च स्मृता योनिः......................... ||᳚ इत्याद्यभिधानात् राश्यन्तरस्य सद्भावोऽस्ति, येनैवं स्यात् | यत्तु -- ᳚या तूक्ता ज्ञेयकालुष्यभाक्क्षिप्रस्थिरयोगतः | द्विरूपायास्ततो जातं ट-ताद्यं वर्गयुग्मकम् ||᳚ इत्यादि पुरस्ताद्वक्ष्यते, तत्तत्रैव समाधास्यते इति युक्तमुक्तं नेंद बीजमिति || ८१ || ननु यद्येवमेषां बीजत्वं नास्ति नर्हि पारिशेष्याद्योनित्वं स्यात् ? इत्याशङ्क्याह --
SK
तत्परिहारार्थमेषां बीजयोनिवैलक्षण्यं प्रतिपादयतुं तत्स्वरूपं तावदाह -- प्रक्षोभकत्वं बीजत्वं क्षोभाधारश्च योनिता | ननु कारणत्वाभिमतं बीजं जडम्, तस्य कथं निरपेक्षस्य रूपान्तराविर्भावने सामर्थ्यम् ? इत्याशङ्क्याह -- क्षोभकं संविदो रूपं क्षुभ्यति क्षोभयत्यपि || ३-८२ || क्षोभः स्याज्ज्ञेयधर्मत्वं क्षोभणा तद्वहिष्कृतिः | यतः संविद एव मुख्यतया क्षोभकं रूपम्, अतः क्षुभेः ण्यन्ताण्यन्तार्थगर्भीकारात्सा संवित् क्षुभ्यति मयूराण्डरसन्यायेन अन्तरासूत्रितप्रायं बहिर्भावोन्मुखमिव ज्ञेयजातं धारयति तच्च तथा क्षुभ्यत् क्षोभयति बहीरूपतयावभासयति -- इत्यर्थः | तदाह -- ᳚क्षोभ᳚ इत्यादि | क्षोभणा प्रेषणादिरूपा प्रेरणा -- इत्यर्थः || ८२ || एतदेव रहस्यप्रक्रियागर्भीकारेणापि सूत्रयति -- अन्तःस्थविश्वाभिन्नैकबीजांशविसिसृक्षुता || ३-८३ || क्षोभोऽतदिच्छे तत्त्वेच्छाभासनं क्षोभणां विदुः | अन्तःस्थम् प्रमात्रैकात्म्येन वर्तमानं यद्विश्वम् ईषणीयादिभावजातम्, तत्राभिन्नमीषणादि संविद्रूपत्वेन अनुद्भन्नविशेषम्, अत एवैकम् अद्वितीयं यत् संविदो रूपं तदेव सर्वभावनिर्भरत्वात् विश्वाविर्भावकतया बीजांशः कारणविशेषः, तस्य या परानपेक्षत्वेन विशिष्टा स्रष्टृत्वेच्छा ग्राह्यग्राहकात्मनो विश्वस्य भिन्नकल्पतयावबिभासयिषा, तया योऽसौ संबन्धः, स एव क्षोभः, तथा ᳚शरं गमयति᳚ इत्यादिवत् अतदिच्छेऽपि औदासीन्यात् बहिर्भावानुन्मुखे देहनीलादौ भावजाते यत्तत्त्वेच्छाभासनम् औदासीन्यच्यावनेन बहिर्भावौन्मुख्येन अवभासनं तां क्षोभणाम्, एतद्गुरुप्रभृतयो विदुः जानीयुः -- इत्यर्थः | चर्याक्रमे हि बीजं सिसृक्षुः पुमान् स्वयं क्षुभ्यति प्रमदां तु क्षोभयति इति | इह चैतदतिरहस्यत्वादप्रस्तुतत्वाच्च न प्रपञ्चितम्, यथोपयोगमूह्यत एव केवलम् || ८३ || एवं बीजस्वरूपमभिधाय योनिस्वरूपमाह -- यदैक्यापत्तिमासाद्य तदिच्छा कृतिनी भवेत् || ३-८४ || क्षोभाधारमिमं प्राहुः श्रीसोमानन्दपुत्रकाः |
SK
येन इदन्ताविमृश्येन देहनीलादिना भावजातेन, कादिना च एकात्म्यमासाद्य तस्य परस्य प्रमातुः संबन्धिनी इच्छा -- कृतिनी ᳚ममैव भैरवस्यैता विश्वभड्ग्यो विनिर्गताः |᳚ इत्यादिन्यायेन स्वात्ममात्रविश्रान्त्या कृतार्था पूर्णा जायते | तमेतं क्षोभस्य संवित्स्वातन्त्र्यस्य आधारम् विषयं श्रीसोमानन्दस्यानुकम्प्याः पुत्राः श्रीमदुत्पदलदेवप्रभृतयः शिष्याः, प्राहुः -- आचक्षत इत्यर्थः | चर्याक्त्रमेऽपि हि यत्सामरस्यमासाद्य पौंस्रोऽभिलाषः कार्तार्थ्यमेति स योनिलक्षणः क्षोभाधारः इति || ८४ || एतच्च बीजयोनिस्वरूपम् ᳚अन्तःस्थ᳚ इत्यादिना सूत्रितम् | रहस्यप्रक्रियागर्भीकारेण परमोपादेयत्वादनुग्राह्याणां हृदयङ्गमीकर्तं स्वयमेव व्याचष्टे -- संविदामीषणादीनामनुद्भिन्नविशेषकम् || ३-८५ || यज्ज्ञेयमात्रं तद्बीजं यद्योगाद्बीजता स्वरे | ईषणादीनां संविदामसञ्जातविभागं | यज्ज्ञेयम् -- अवश्यं ज्ञातव्यं पारमार्थिकं संविद्रूपमेवेच्छादिसंविद्विशेषरूपत्वानुपग्रहात्केवलमनवच्छिन्नं पारमेश्वरं रूपं, तदेव -- ᳚चिदात्मैव हि देवोन्तः स्थितमिच्छावशाद्बहिः | योगीव निरुपादानमर्थजातं प्रकाशयेत् ||᳚ इत्याद्युक्त्त्या सर्वभावनिर्भरत्वात् अन्तःस्थस्य विश्वस्य स्वेच्छयैव बहिराविर्भावनात् बीजम् मुख्यकारणम् -- इत्यर्थः | ननु यद्येवं तत्कथं स्वराणामपि बीजत्वम ? -- त्याशंक्योक्तम् -- ᳚यद्योगाद्बीजता स्वरे᳚ इति | उद्योगादिति यदनुप्राणित्वात् -- इत्यर्थः | अत एव स्वराणां तत्तद्वर्णाविर्भावकत्वादुचितं बीजत्वम् -- इत्याशयः, नहि संवित्स्वातन्त्र्यमन्तरेण अन्यस्य कस्यचित् रूपान्तराविर्भावने सामर्थ्यम् | इति भावः || ८५ || एवं बीजशब्दार्थं व्याख्याय विसिसृक्षात्मकं ण्यन्ताण्यन्ततया द्विप्रकारं क्षोभमपि व्याचष्टे� तस्य बीजस्य सैवोक्ता विसिसृक्षा य उद्भवः | यतो ग्राह्यमिदं भास्यद्भिन्नकल्पं चिदात्मनः || ३-८६ || एष क्षोभः क्षोभणा तु तूष्णींभूतान्यमातृगम् | हठाद्यदौदासीन्यांशच्यावनं संविदो बलात् || ३-८७ ||
SK
उद्भव इत्युड्यन्तृता -- इत्यर्थः | यतो हेतोरिदं ग्राह्यम् देहनीलादि भावजातं कादि च, चिदात्मनः सकाशाद्भिन्नकल्पम् अनतिरिक्तमपि अतिरिक्तायमानं भास्यत् उत्तरकालं भासिष्यमाणं स्यात् स एष उद्यन्तृतामात्ररूपः क्षोभः | चर्याक्रमेऽपि हि क्षोभानन्तरमेवानन्दादि भवेत्, क्षोभणा तु तूष्णींभूता औदासीन्यात् बहिर्भावानुन्मुखा | ये अन्ये नीलाद्यपोहेन अवस्थिता देहादयो मातारः अर्थान्नीलादयः प्रमेयाश्च, तद्गतं बलात् स्वातन्त्र्यलक्षणं स्वं वीर्यमवलम्ब्य संवित्कर्तृकं हठात् अतदिच्छेऽपि तत्त्वेच्छाभासनलक्षणात् बलात्कारात् यदौदासीन्यात् बहिर्भावोन्मुखतायामप्रवर्तनात्, च्यावनम् बहिर्भावौन्मुख्येनैवावभासनं नामेति || ८६-८७ || एवं बीजसूत्रं व्याख्याय योनिसूत्रमपि व्याचष्टे -- जातापि विसिसृक्षासौ यद्विमर्शान्तरैक्यतः | कृतार्था जायते क्षोभाधारोऽत्रैतत्प्रकीर्तितम् || ३-८८ || यत्परस्य प्रमातुरुत्पन्नापि क्षोभलक्षणा स्रष्टृत्वेच्छा -- चिन्मात्रनिष्ठात् प्रकृतादहन्ताविमर्शादन्य इदन्तात्मा विमर्शो -- विमृश्यविमर्शयोरभेदोपचारात्, तत्परामृश्यम् देहनीलादि भावजातं कादि च, तेनैकात्म्यमवलम्ब्य, कृतार्था स्वात्ममात्रविश्रान्त्या पूर्णा जायते, तदेतदत्र ᳚यदैक्यापत्तिमासाद्य᳚ इत्यादौ योनिसूत्रे क्षोभाधारः, प्रकीर्तितम् सम्यगुक्तम् -- इत्यर्थः || ८८ || एवमेतत्पदार्थद्वारेण व्याख्याय तात्पर्यमुखेनाप्यभिधत्ते -- ततस्तदान्तरं ज्ञेयं भिन्नकल्पत्वमिच्छति | विश्वबीजादतः सर्वं बाह्यं बिम्बं विवर्त्स्यति || ३-८९ ||
SK
ततः समनन्तरोक्तात् सिसृक्षालक्षणात् क्षोभाद्धेतोः, आन्तरम् प्रमात्रैकात्म्येन वर्तमानं सत् तत् आसूत्रितप्रायं ज्ञेयं भिन्नकल्पत्वम् अतिरिक्तायमानत्वमेति, अतः विश्वबीजादादिवर्णान्महामायातश्चारभ्य सर्वम् आनन्दादि तत्त्वभुवनादि च भावजातम्, बाह्यम् विच्छेदेनावभासमानम्, बिम्बज्ञानीयाकारलक्षणप्रतिबिम्बात्मकम्, विवर्त्स्यति तत्तद्देहनीलाद्यात्मना पदवाक्यादितया च यथायथं स्फुटीभविष्यति -- इत्यर्थः | चर्याक्रमेऽपि हि बीजमेव भेदेन प्रसृतं सत् स्त्रीपुंनपुंसकादिरूपतामेष्यतीति || ८९ || न चैतत्स्वोपज्ञमेवोक्तम्, -- इत्याह -- क्षोभ्यक्षोभकभावस्य सतत्त्वं दर्शितं मया | श्रीमन्महेश्वरेणोक्तं गुरुणा यत्प्रसादतः || ३-९० || ᳚तदपरमूर्तिर्भगवान् महेश्वरः᳚ इत्यादिना प्राङ्नमस्कृतेन गुरुणा यत्सतत्त्वमुक्तं तन्मया दर्शितम् -- इति संबन्धः || ९० || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवावतारयति -- प्रकृतं ब्रूमहे नेदं बीजं वर्णचतुष्टयम् | नापि योनिर्यतो नैतत्क्षोभाधारत्वमृच्छति || ३-९१ || नहि कादिवदेतदैक्यमासाद्य कस्यचिदपीच्छा कार्तार्थ्यमियादित्यस्य क्षोभाधारत्वागमनम् | नेदं बीजमित्यत्र पुनः ᳚क्षोभान्तरस्यासम्भवात्᳚ इत्यादिना प्रागुपादानाद्धेतोरनिर्देशः | अत एव चास्य वर्णचतुष्टयस्य प्रक्षोभकत्वाभावात् स्वात्ममात्रविश्रान्त्या परचमत्कारमयत्वम् || ९१ || तदाह -- आत्मन्येव च विश्रान्त्या तत्प्रोक्तममृतात्मकम् | न केवलमेषां यथासंभवं प्रमेयेन सङ्घट्टे परामर्शान्तरोदयो यावत् परस्परमपि -- इत्याह -- इत्थं प्रागुदितं यत्तत्पञ्चकं तत्परस्परम् || ३-९२ || उच्छलद्विविधाकारमन्योन्यव्यतिमिश्रणात् | पञ्चकमिति -- अनुत्तरेच्छेशनोन्मेषोनतारूपम्, आनन्दशक्तिर्हि ᳚आनन्दो ब्रह्मणो रूपम्.................... |᳚
SK
इत्याद्युक्त्या चिदव्यतिरिक्तैव, इति नास्याः पृथगभिधानम्, तदेतत्, परस्परं -- न पुनरेकैकम्, उच्छलद्विविधाकारम् प्रादुर्भवन्नानावर्णरूपं भवेत् | न चैतत्पारम्पर्येऽपि स्वात्ममात्रावस्थाने किं तु सङ्घट्टे सति | इत्याह -- व्यतिमिश्रणादिति | तद्यथाअकारस्याकारस्य वा इकारेणेकारेण वा व्यतिमिश्रणे ᳚ए᳚ इति रूपं भवेत् | तयोरेव उकारेणोकारेण वा व्यतिमिश्रणे ᳚ओ᳚ इति रूपं भवेत् | इकारस्यापि अकारेण ᳚य᳚ इति, उकारस्यापि अकारेण ᳚व᳚ इति, व्यतिमिश्रणं च न पञ्चकादतिरिक्तेन परामर्शान्तरेण केनचित् | इत्युक्तम् -- अन्योन्येति | यत्तु -- शैव शीघ्रस्थिरोपात्तज्ञेयकालुष्यरूषिता | विजातीयोन्मुखत्वेन रत्वं लत्वं च गच्छति ||᳚ इत्यादि वक्ष्यति, तत् परमार्शान्तरोदयविषयमिति नात्र मेलनीयम्, संध्यक्षरोदयस्यैव इह प्रक्रान्तत्वात् || ९२ || एतदेव दर्शयति -- योऽनुत्तरः परः स्पन्दो यश्चानन्दः समुच्छलन् || ९३ || ताविच्छोन्मेषसङ्घट्टाद्गच्छतोऽतिविचित्रताम् | तावनुत्तरानन्दशब्दव्यपदेश्यौ ᳚अकाराकारौ᳚ इच्छोन्मेषाभ्याम् ᳚इकारोकाराम्याम्᳚ यः सङ्घट्टः ᳚आद्गुण᳚ इत्येवंरूपः संधिः, तस्मादतिशयेन संधीयमानवर्णद्वय विलक्षणतया, विचित्रताम् ᳚एकारौकारलक्षणाम्᳚ वैचित्रीं गच्छतः प्राप्नुतः -- इत्यर्थः || ९३ || एवमेकारस्योदयमात्रमुक्त्वा गर्भीकारेण स्वरूपमप्यभिधत्ते -- अनुत्तरानन्दचिती इच्छाशक्तौ नियोजिते || ३-९४ || त्रिकोणमिति तत्प्राहुर्विसर्गामोदसुन्दरम् | यदनुत्तरानन्दौ अर्थाद्विकल्पेन, इच्छायां निहितसंधी तत् -- संधीयमानावयवमेकारलक्षणमक्षरं त्रिकोणं ᳚त्रिकोणमेकादशमं वह्निगेहं च योनिकम् | शृङ्गाटं चैव एकारं नामभिः परिकीर्तितम् ||᳚ इत्याद्युक्तेः, इच्छाज्ञानक्रियाख्यकोणत्रयमयत्वाच्च, लिपिक्रमेऽपि तथा संनिवेशात् ᳚त्रिकोणम्᳚ इति त्रिकोणशब्दव्यपदेश्यमाचक्षते -- इति वाक्यार्थः, तच्च ᳚विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते |᳚
SK
इत्यादिवक्ष्यमाणनीत्या, विसर्गः परा शक्तिः, तस्या आमोदः आनन्दोदयक्रमेण क्रियाशक्तिपर्यन्तमुल्लासः, तेन सुन्दरम् तत्र नित्योदितत्वाच्छक्तेः परानन्दमयम् -- इत्यर्थः | त्रिकोणमित्यनेन योगिनीवक्त्रापरपर्यायजन्माधाररूपत्वमप्यस्य सूचितम् | तत एव हि परा शक्तिरुदेति -- इति भावः | यदुक्तम् -- ᳚यदोल्लसति शृङ्गाटपीठात्कुटिलरूपिणी |᳚ इति | तथा ᳚त्रिकोणं भगमित्युक्तं वियत्स्थं गुप्तमण्डलम् | इच्छाज्ञानक्रियाकोणं तन्मध्ये चिञ्चिनीक्रमम् ||᳚ इति | अनेनैवाशयेन च इतो बाह्यैरपि ᳚एकाराकृति यद्दिव्यं मध्ये षट्कारभूषितम् | आलयः सर्वसौख्यानां बोधरत्नकरण्डकम् ||᳚ इत्याद्युक्तम् | चर्याक्रमेऽपि हि विसर्गस्यानन्दफलस्य संबन्धिना स्फारेण परानन्दमयं प्रसरस्थानम्, इति || ९४ || न केवलमनुत्तरानन्दयोरिच्छायां योगे संध्यक्षरलक्षणपरामर्शान्तरोदयो यावदत्रापि -- इत्याह -- अनुत्तरानन्दशक्ती तत्र रूढिमुपागते || ३-९५ || त्रिकोणद्वित्वयोगेन व्रजतः षडरस्थितिम् | तत्र त्रिकोणेऽपि यदा अनुत्तरानन्दौ रूढिं -- ᳚वृद्धिरेचि᳚ इति संधिक्रमेण प्ररोहं प्राप्तौ, तदा अनुत्तरस्य पूर्वोक्तनीत्या रौद्र्यादिशक्तित्रयमयत्वेन आनन्दस्यापि तत्स्फारमात्रसारत्वेन त्रिकोणरूपत्वात् अकारैकारलक्षणत्रिकोणद्वययोगेन, षडराम् षट्कोणां स्थितिं व्रजतः एकाररूपतामवभासयतः -- इत्यर्थः | लिपौ पुनरेवंरूपत्वमतिरहस्यत्वात् न प्रदर्श्यते�इत्येकारस्यैव द्विगुणीभावोन्मीलनायोपरि रेखाविन्यासः | चर्याक्रमेऽपि हि सिद्धयोगिनीत्रिकोणद्वयसम्पुटीभावेन षडरमुद्रामयी स्थितिर्जायते इति || ९५ || एवमनुत्तरानन्दयोरेकारेण सङ्घट्टे यथा परामर्शान्तरोदयः, तद्वदोकारेणापि -- इत्याह -- त एवोन्मेषयोगेऽपि पुनस्तन्मयतां गते || ३-९६ || क्रियाशक्तेः स्फुटं रूपमभिव्यङ्क्तः परस्परम् |
SK
ते एव अनुत्तरानन्दशक्ती, उन्मेषेण उकारेण यो योगः ओकारापत्तिलक्षणः संधिः, तस्मिन्सत्यपि पुनर्यदा तन्मयताम् -- ओकारात्मतां संधिक्रमेण तदेकीभावं गच्छतः, तदा परस्परमनुत्तरानन्दौ औकारात्मना संभूय क्रियाशक्तेरौकारलक्षणं स्फुटं रूपम्, अभितः समन्तात्, व्यङ्क्तः प्रकाशयतः -- इत्यर्थः | ᳚अभितः᳚ स्फुटं रूपं व्यङ्क्तः᳚ इत्यनेन क्रियाशक्तेः संध्यक्षरेषु यथाक्रमम् असेन अनुद्भन्नविशेषम्, अत एवैकम् अद्वितीयं यत् संविदो रूपं तदेव सर्वभावनिर्भरत्वात् विश्वाविर्भावकतया बीजांशः कारणविशेषः, तस्य या परानपेक्षत्वेन विशिष्टा स्रष्टृत्वेच्छा ग्राह्यग्राहकात्मनो विश्वस्य भिन्नकल्पतयावबिभासयिषा, तया योऽसौ संबन्धः, स एव क्षोभः, तथा ᳚शरं गमयति᳚ इत्यादिवत् अतदिच्छेऽपि औदासीन्यात् बहिर्भावानुन्मुखे देहनीलादौ भावजाते यत्तत्त्वेच्छाभासनम् औदासीन्यच्यावनेन बहिर्भावौन्मुख्येन अवभासनं तां क्षोभणाम्, एतद्गुरुप्रभृतयो विदुः जानीयुः -- इत्यर्थः | चर्याक्रमे हि बीजं सिसृक्षुः पुमान् स्वयं क्षुभ्यति प्रमदां तु क्षोभयति इति | इह चैतदतिरहस्यत्वादप्रस्तुतत्वाच्च न प्रपञ्चितम्, यथोपयोगमूह्यत एव केवलम् || ८३ || एवं बीजस्वरूपमभिधाय योनिस्वरूपमाह -- यदैक्यापत्तिमासाद्य तदिच्छा कृतिनी भवेत् || ३-८४ || क्षोभाधारमिमं प्राहुः श्रीसोमानन्दपुत्रकाः | येन इदन्ताविमृश्येन देहनीलादिना भावजातेन, कादिना च एकात्म्यमासाद्य तस्य परस्य प्रमातुः संबन्धिनी इच्छा -- कृतिनी ᳚ममैव भैरवस्यैता विश्वभड्ग्यो विनिर्गताः |᳚ इत्यादिन्यायेन स्वात्ममात्रविश्रान्त्या कृतार्था पूर्णा जायते | तमेतं क्षोभस्य संवित्स्वातन्त्र्यस्य आधारम् विषयं श्रीसोमानन्दस्यानुकम्प्याः पुत्राः श्रीमदुत्पदलदेवप्रभृतयः शिष्याः, प्राहुः -- आचक्षत इत्यर्थः | चर्याक्त्रमेऽपि हि यत्सामरस्यमासाद्य पौंस्रोऽभिलाषः कार्तार्थ्यमेति स योनिलक्षणः क्षोभाधारः इति || ८४ ||
SK
एतच्च बीजयोनिस्वरूपम् ᳚अन्तःस्थ᳚ इत्यादिना सूत्रितम् | रहस्यप्रक्रियागर्भीकारेण परमोपादेयत्वादनुग्राह्याणां हृदयङ्गमीकर्तं स्वयमेव व्याचष्टे -- संविदामीषणादीनामनुद्भिन्नविशेषकम् || ३-८५ || यज्ज्ञेयमात्रं तद्बीजं यद्योगाद्बीजता स्वरे | ईषणादीनां संविदामसञ्जातविभागं | यज्ज्ञेयम् -- अवश्यं ज्ञातव्यं पारमार्थिकं संविद्रूपमेवेच्छादिसंविद्विशेषरूपत्वानुपग्रहात्केवलमनवच्छिन्नं पारमेश्वरं रूपं, तदेव -- ᳚चिदात्मैव हि देवोन्तः स्थितमिच्छावशाद्बहिः | योगीव निरुपादानमर्थजातं प्रकाशयेत् ||᳚ इत्याद्युक्त्त्या सर्वभावनिर्भरत्वात् अन्तःस्थस्य विश्वस्य स्वेच्छयैव बहिराविर्भावनात् बीजम् मुख्यकारणम् -- इत्यर्थः | ननु यद्येवं तत्कथं स्वराणामपि बीजत्वम ? -- त्याशंक्योक्तम् -- ᳚यद्योगाद्बीजता स्वरे᳚ इति | उद्योगादिति यदनुप्राणित्वात् -- इत्यर्थः | अत एव स्वराणां तत्तद्वर्णाविर्भावकत्वादुचितं बीजत्वम् -- इत्याशयः, नहि संवित्स्वातन्त्र्यमन्तरेण अन्यस्य कस्यचित् रूपान्तराविर्भावने सामर्थ्यम् | इति भावः || ८५ || एवं बीजशब्दार्थं व्याख्याय विसिसृक्षात्मकं ण्यन्ताण्यन्ततया द्विप्रकारं क्षोभमपि व्याचष्टे� तस्य बीजस्य सैवोक्ता विसिसृक्षा य उद्भवः | यतो ग्राह्यमिदं भास्यद्भिन्नकल्पं चिदात्मनः || ३-८६ || एष क्षोभः क्षोभणा तु तूष्णींभूतान्यमातृगम् | हठाद्यदौदासीन्यांशच्यावनं संविदो बलात् || ३-८७ ||
SK
उद्भव इत्युड्यन्तृता -- इत्यर्थः | यतो हेतोरिदं ग्राह्यम् देहनीलादि भावजातं कादि च, चिदात्मनः सकाशाद्भिन्नकल्पम् अनतिरिक्तमपि अतिरिक्तायमानं भास्यत् उत्तरकालं भासिष्यमाणं स्यात् स एष उद्यन्तृतामात्ररूपः क्षोभः | चर्याक्रमेऽपि हि क्षोभानन्तरमेवानन्दादि भवेत्, क्षोभणा तु तूष्णींभूता औदासीन्यात् बहिर्भावानुन्मुखा | ये अन्ये नीलाद्यपोहेन अवस्थिता देहादयो मातारः अर्थान्नीलादयः प्रमेयाश्च, तद्गतं बलात् स्वातन्त्र्यलक्षणं स्वं वीर्यमवलम्ब्य संवित्कर्तृकं हठात् अतदिच्छेऽपि तत्त्वेच्छाभासनलक्षणात् बलात्कारात् यदौदासीन्यात् बहिर्भावोन्मुखतायामप्रवर्तनात्, च्यावनम् बहिर्भावौन्मुख्येनैवावभासनं नामेति || ८६-८७ || एवं बीजसूत्रं व्याख्याय योनिसूत्रमपि व्याचष्टे -- जातापि विसिसृक्षासौ यद्विमर्शान्तरैक्यतः | कृतार्था जायते क्षोभाधारोऽत्रैतत्प्रकीर्तितम् || ३-८८ || यत्परस्य प्रमातुरुत्पन्नापि क्षोभलक्षणा स्रष्टृत्वेच्छा -- चिन्मात्रनिष्ठात् प्रकृतादहन्ताविमर्शादन्य इदन्तात्मा विमर्शो -- विमृश्यविमर्शयोरभेदोपचारात्, तत्परामृश्यम् देहनीलादि भावजातं कादि च, तेनैकात्म्यमवलम्ब्य, कृतार्था स्वात्ममात्रविश्रान्त्या पूर्णा जायते, तदेतदत्र ᳚यदैक्यापत्तिमासाद्य᳚ इत्यादौ योनिसूत्रे क्षोभाधारः, प्रकीर्तितम् सम्यगुक्तम् -- इत्यर्थः || ८८ || एवमेतत्पदार्थद्वारेण व्याख्याय तात्पर्यमुखेनाप्यभिधत्ते -- ततस्तदान्तरं ज्ञेयं भिन्नकल्पत्वमिच्छति | विश्वबीजादतः सर्वं बाह्यं बिम्बं विवर्त्स्यति || ३-८९ ||
SK
ततः समनन्तरोक्तात् सिसृक्षालक्षणात् क्षोभाद्धेतोः, आन्तरम् प्रमात्रैकात्म्येन वर्तमानं सत् तत् आसूत्रितप्रायं ज्ञेयं भिन्नकल्पत्वम् अतिरिक्तायमानत्वमेति, अतः विश्वबीजादादिवर्णान्महामायातश्चारभ्य सर्वम् आनन्दादि तत्त्वभुवनादि च भावजातम्, बाह्यम् विच्छेदेनावभासमानम्, बिम्बज्ञानीयाकारलक्षणप्रतिबिम्बात्मकम्, विवर्त्स्यति तत्तद्देहनीलाद्यात्मना पदवाक्यादितया च यथायथं स्फुटीभविष्यति -- इत्यर्थः | चर्याक्रमेऽपि हि बीजमेव भेदेन प्रसृतं सत् स्त्रीपुंनपुंसकादिरूपतामेष्यतीति || ८९ || न चैतत्स्वोपज्ञमेवोक्तम्, -- इत्याह -- क्षोभ्यक्षोभकभावस्य सतत्त्वं दर्शितं मया | श्रीमन्महेश्वरेणोक्तं गुरुणा यत्प्रसादतः || ३-९० || ᳚तदपरमूर्तिर्भगवान् महेश्वरः᳚ इत्यादिना प्राङ्नमस्कृतेन गुरुणा यत्सतत्त्वमुक्तं तन्मया दर्शितम् -- इति संबन्धः || ९० || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवावतारयति -- प्रकृतं ब्रूमहे नेदं बीजं वर्णचतुष्टयम् | नापि योनिर्यतो नैतत्क्षोभाधारत्वमृच्छति || ३-९१ || नहि कादिवदेतदैक्यमासाद्य कस्यचिदपीच्छा कार्तार्थ्यमियादित्यस्य क्षोभाधारत्वागमनम् | नेदं बीजमित्यत्र पुनः ᳚क्षोभान्तरस्यासम्भवात्᳚ इत्यादिना प्रागुपादानाद्धेतोरनिर्देशः | अत एव चास्य वर्णचतुष्टयस्य प्रक्षोभकत्वाभावात् स्वात्ममात्रविश्रान्त्या परचमत्कारमयत्वम् || ९१ || तदाह -- आत्मन्येव च विश्रान्त्या तत्प्रोक्तममृतात्मकम् | न केवलमेषां यथासंभवं प्रमेयेन सङ्घट्टे परामर्शान्तरोदयो यावत् परस्परमपि -- इत्याह -- इत्थं प्रागुदितं यत्तत्पञ्चकं तत्परस्परम् || ३-९२ || उच्छलद्विविधाकारमन्योन्यव्यतिमिश्रणात् | पञ्चकमिति -- अनुत्तरेच्छेशनोन्मेषोनतारूपम्, आनन्दशक्तिर्हि ᳚आनन्दो ब्रह्मणो रूपम्.................... |᳚
SK
इत्याद्युक्त्या चिदव्यतिरिक्तैव, इति नास्याः पृथगभिधानम्, तदेतत्, परस्परं -- न पुनरेकैकम्, उच्छलद्विविधाकारम् प्रादुर्भवन्नानावर्णरूपं भवेत् | न चैतत्पारम्पर्येऽपि स्वात्ममात्रावस्थाने किं तु सङ्घट्टे सति | इत्याह -- व्यतिमिश्रणादिति | तद्यथाअकारस्याकारस्य वा इकारेणेकारेण वा व्यतिमिश्रणे ᳚ए᳚ इति रूपं भवेत् | तयोरेव उकारेणोकारेण वा व्यतिमिश्रणे ᳚ओ᳚ इति रूपं भवेत् | इकारस्यापि अकारेण ᳚य᳚ इति, उकारस्यापि अकारेण ᳚व᳚ इति, व्यतिमिश्रणं च न पञ्चकादतिरिक्तेन परामर्शान्तरेण केनचित् | इत्युक्तम् -- अन्योन्येति | यत्तु -- शैव शीघ्रस्थिरोपात्तज्ञेयकालुष्यरूषिता | विजातीयोन्मुखत्वेन रत्वं लत्वं च गच्छति ||᳚ इत्यादि वक्ष्यति, तत् परमार्शान्तरोदयविषयमिति नात्र मेलनीयम्, संध्यक्षरोदयस्यैव इह प्रक्रान्तत्वात् || ९२ || एतदेव दर्शयति -- योऽनुत्तरः परः स्पन्दो यश्चानन्दः समुच्छलन् || ९३ || ताविच्छोन्मेषसङ्घट्टाद्गच्छतोऽतिविचित्रताम् | तावनुत्तरानन्दशब्दव्यपदेश्यौ ᳚अकाराकारौ᳚ इच्छोन्मेषाभ्याम् ᳚इकारोकाराम्याम्᳚ यः सङ्घट्टः ᳚आद्गुण᳚ इत्येवंरूपः संधिः, तस्मादतिशयेन संधीयमानवर्णद्वय विलक्षणतया, विचित्रताम् ᳚एकारौकारलक्षणाम्᳚ वैचित्रीं गच्छतः प्राप्नुतः -- इत्यर्थः || ९३ || एवमेकारस्योदयमात्रमुक्त्वा गर्भीकारेण स्वरूपमप्यभिधत्ते -- अनुत्तरानन्दचिती इच्छाशक्तौ नियोजिते || ३-९४ || त्रिकोणमिति तत्प्राहुर्विसर्गामोदसुन्दरम् | यदनुत्तरानन्दौ अर्थाद्विकल्पेन, इच्छायां निहितसंधी तत् -- संधीयमानावयवमेकारलक्षणमक्षरं त्रिकोणं ᳚त्रिकोणमेकादशमं वह्निगेहं च योनिकम् | शृङ्गाटं चैव एकारं नामभिः परिकीर्तितम् ||᳚ इत्याद्युक्तेः, इच्छाज्ञानक्रियाख्यकोणत्रयमयत्वाच्च, लिपिक्रमेऽपि तथा संनिवेशात् ᳚त्रिकोणम्᳚ इति त्रिकोणशब्दव्यपदेश्यमाचक्षते -- इति वाक्यार्थः, तच्च ᳚विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते |᳚
SK
इत्यादिवक्ष्यमाणनीत्या, विसर्गः परा शक्तिः, तस्या आमोदः आनन्दोदयक्रमेण क्रियाशक्तिपर्यन्तमुल्लासः, तेन सुन्दरम् तत्र नित्योदितत्वाच्छक्तेः परानन्दमयम् -- इत्यर्थः | त्रिकोणमित्यनेन योगिनीवक्त्रापरपर्यायजन्माधाररूपत्वमप्यस्य सूचितम् | तत एव हि परा शक्तिरुदेति -- इति भावः | यदुक्तम् -- ᳚यदोल्लसति शृङ्गाटपीठात्कुटिलरूपिणी |᳚ इति | तथा ᳚त्रिकोणं भगमित्युक्तं वियत्स्थं गुप्तमण्डलम् | इच्छाज्ञानक्रियाकोणं तन्मध्ये चिञ्चिनीक्रमम् ||᳚ इति | अनेनैवाशयेन च इतो बाह्यैरपि ᳚एकाराकृति यद्दिव्यं मध्ये षट्कारभूषितम् | आलयः सर्वसौख्यानां बोधरत्नकरण्डकम् ||᳚ इत्याद्युक्तम् | चर्याक्रमेऽपि हि विसर्गस्यानन्दफलस्य संबन्धिना स्फारेण परानन्दमयं प्रसरस्थानम्, इति || ९४ || न केवलमनुत्तरानन्दयोरिच्छायां योगे संध्यक्षरलक्षणपरामर्शान्तरोदयो यावदत्रापि -- इत्याह -- अनुत्तरानन्दशक्ती तत्र रूढिमुपागते || ३-९५ || त्रिकोणद्वित्वयोगेन व्रजतः षडरस्थितिम् | तत्र त्रिकोणेऽपि यदा अनुत्तरानन्दौ रूढिं -- ᳚वृद्धिरेचि᳚ इति संधिक्रमेण प्ररोहं प्राप्तौ, तदा अनुत्तरस्य पूर्वोक्तनीत्या रौद्र्यादिशक्तित्रयमयत्वेन आनन्दस्यापि तत्स्फारमात्रसारत्वेन त्रिकोणरूपत्वात् अकारैकारलक्षणत्रिकोणद्वययोगेन, षडराम् षट्कोणां स्थितिं व्रजतः एकाररूपतामवभासयतः -- इत्यर्थः | लिपौ पुनरेवंरूपत्वमतिरहस्यत्वात् न प्रदर्श्यते�इत्येकारस्यैव द्विगुणीभावोन्मीलनायोपरि रेखाविन्यासः | चर्याक्रमेऽपि हि सिद्धयोगिनीत्रिकोणद्वयसम्पुटीभावेन षडरमुद्रामयी स्थितिर्जायते इति || ९५ || एवमनुत्तरानन्दयोरेकारेण सङ्घट्टे यथा परामर्शान्तरोदयः, तद्वदोकारेणापि -- इत्याह -- त एवोन्मेषयोगेऽपि पुनस्तन्मयतां गते || ३-९६ || क्रियाशक्तेः स्फुटं रूपमभिव्यङ्क्तः परस्परम् |
SK
ते एव अनुत्तरानन्दशक्ती, उन्मेषेण उकारेण यो योगः ओकारापत्तिलक्षणः संधिः, तस्मिन्सत्यपि पुनर्यदा तन्मयताम् -- ओकारात्मतां संधिक्रमेण तदेकीभावं गच्छतः, तदा परस्परमनुत्तरानन्दौ औकारात्मना संभूय क्रियाशक्तेरौकारलक्षणं स्फुटं रूपम्, अभितः समन्तात्, व्यङ्क्तः प्रकाशयतः -- इत्यर्थः | ᳚अभितः᳚ स्फुटं रूपं व्यङ्क्तः᳚ इत्यनेन क्रियाशक्तेः संध्यक्षरेषु यथाक्रमम् अस्फुटम्, स्फुटम्, स्फुटतरम्, स्फुटतमं च, रूपमस्ति -- इत्यावेदितम् || ९६ || नन्वनुत्तरानन्दयोरिच्छोन्मेषाभ्यां सङ्घट्टे यथा परामर्शान्तरोदय उक्तः तथा तत्क्षोभरूपाभ्यामीशनोनताभ्यामपि किमिति न ? -- इत्याशङ्क्याह -- इच्छोन्मेषगतः क्षोभो यः प्रोक्तस्तद्गतेरपि || ३-९७ || ते एव शक्ती ताद्रूप्यभागिन्यौ नान्यथास्थिते | यः इच्छोन्मेषसत्क ईषणोनतालक्षणः क्षोभः पूर्वमुक्तः, तं गते तेन सह ᳚आद्गुणः᳚ इत्यादिना संधिं प्राप्ते अपि, ते अनुत्तरानन्दाख्ये शक्ती, ताद्रूप्यभागिन्यावेव तदेव एकारौकारलक्षणं रूपमवश्यं भजेते, अत एव ङान्यथास्थिते᳚ परामर्शान्तरात्मकत्वेन न तिष्ठतः, इति न तत्सङ्घट्टेन अनुत्तरानन्दयोः परामर्शान्तरोदय उक्तः || ९७ || ननु ᳚अनुत्तरः प्रकाश एवैकः प्रकाशते᳚ इति ततोऽन्यन्न किञ्चिदपि संभवेत् तस्यातिरेकानतिरेकविकल्पोपहतत्वात्, तत्कथमिदमुक्तं -- यदियता क्रियाशक्तिपर्यन्तेन वैचित्र्येण स एव परिस्फुरेत् इति ? तदाह - - नन्वनुत्तरतानन्दौ स्वात्मना भेदवर्जितौ || ३-९८ || कथमेतावतीमेनां वैचित्रीं स्वात्मनि श्रितौ | तदेव प्रतिविधत्ते -- शृणु तावदयं संविन्नाथोऽपरिमितात्मकः || ३-९९ || अनन्तशक्तिवैचित्र्यलयोदयकलेश्वरः | अयं खलु अनुत्तरानन्दात्मा संविन्नाथः ᳚शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः |᳚
SK
इत्याद्युक्तेरनन्तस्य शक्तिवैचित्र्यस्य, लयोदययोः निमेषोन्मेषयोर्यत्कलनम् -- स्वात्मनो भेदेन क्षेपः, तत्र स्वतन्त्रत्वात् अपरिमितात्मकः नियतरूपानुपग्रहात् अनवच्छिन्नस्वभावः -- इत्यर्थः || ९९ || नन्वयं संविन्नाथः किमिति नाम न नियतेन रूपेण परिस्फुरेत् ? इत्याशङ्क्याह -- अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः || ३-१०० || महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद् घटादिवत् | यदि नाम महेश्वरः प्रतिनियतेन केनचिद्रूपेण अवतिष्ठेत, तदास्य घटादिन्यायेन माहेश्वर्यं संविद्रूपत्वं च न स्यात् | एतदेव हि अस्य माहेश्वर्यं संविद्रूपत्वं च यत् तत्तदनियतवाच्यवाचकात्मना परिस्फुरेत् इति | तथाहि -- ᳚एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं पश्यामः तत्र यथेष्टं संज्ञाः क्रियन्ताम्᳚ इत्याद्युक्तयुक्त्या संवित् तावदनेकाकारतया परिस्फुरति, इति नास्त्यत्र विवादः | न चास्यास्तत्तदाकारतया परिस्फुरणे ᳚तस्यातिरेकानतिरेकविकल्पोपहतत्वात्᳚ अविद्यादि निमित्तं किं तु स्व एव स्वभावो यः श्वातन्त्र्यम्᳚ इति ᳚माहेश्वर्यम्᳚ इति -- च सर्वत्रोद्धोष्यते, तत्प्रतिनियतेऽस्य स्वरूपे प्रकाशमाने ᳚माहेश्वर्यं संविद्रूपत्वं च न स्यात्, इति जाड्यमेवापतेत् | जड एव हि घटादिः ᳚इदमिदानीमत्र भाति᳚ इत्येवमात्मनियतावभासो भवेत् न परः प्रकाशः || १०० || एतदेव हि तस्य जडाद्वैलक्षण्यं यत् स्वप्रकाशत्वात् अन्येन केनचिन्न परिच्छिद्यते | अन्यप्रमीयमाणत्वमेव हि परिच्छिन्नप्रकाशत्वं यन्नाम सर्वत्रैव जडस्य लक्षणमुच्यते | तदाह� परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् || ३-१०१ || जडाद्विलक्षणो बोधो यतो न परिमीयते | यतश्चैवम्, अतस्तत एव इयान् विश्वप्रसरः -- इत्याह -- तेन बोधमहासिन्धोरुल्लासिन्यः स्वशक्तयः || ३-१०२ || आश्रयन्त्यूर्मय इव स्वात्मसङ्घट्टचित्रताम् |
SK
तेन उक्तानेकाकारतया परिस्फुरणेन हेतुना, सिन्धोरिवोर्मयो बोधात् उल्लसनशीलाः, स्वाः आत्मभूता इच्छाद्याः शक्तयः, स्वात्मसङ्घट्टेन परस्परलोलीभावेन, चित्रतामाश्रयन्ति तत्तद्ग्राह्यग्राहकात्मना तत्तत्परामर्शरूपतया च परिस्फुरन्ति -- इत्यर्थः || १०२ || एतदेव च परं क्रियाशक्ते रूपम्, -- इत्याह -- स्वात्मसङ्घट्टवैचित्र्यं शक्तीनां यत्परस्परम् || ३-१०३ || एतदेव परं प्राहुः क्रियाशक्तेः स्फुटं वपुः | परं स्फुटमिति स्फुटतमम् -- इत्यर्थः, अत एव भेदप्राधान्यात् अस्याः ᳚विषयेष्वेव संलीनानधोधः पातयन्त्यणून् | रुद्राणून्याः समालिङ्ग्य घोरतर्योऽपरास्तु ताः ||᳚ इत्यादिलक्षितानाम् अशुद्धाध्वाधिष्ठात्रीणां घोरतरीणामपि शक्तीनां निमित्तत्वम् | इत्यवगन्तव्यम् | अघोरादीनां हि शक्तीनामिच्छाशक्तेर्ज्ञानशक्तेश्च जन्म -- इत्युक्तम् || १०३ || शक्तित्रयसङ्घट्टात्मकत्वादेव चास्य भगवतः त्रिशूलत्वमुक्तम् -- इत्याह -- अस्मिंश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके || ३-१०४ || त्रिशूलत्वमतः प्राह शास्ता श्रीपूर्वशासने | अत इति -- क्रियाशक्तेः परं स्फुटत्वात्, श्फुटीभूतत्रिशक्तिके᳚ इत्यत्र चायं हेतुः, स्फुटीभूतत्रिशक्तित्वं च त्रिशूलत्वोक्तौ हेतुः यदिच्छाज्ञानक्रियात्मकमरात्रयम् अत्रास्ति�इति भावः | यदुक्तं तत्र - - ᳚............................ट्रिशूलेन चतुर्थकम् |᳚ इति || १०४ || न केवलमत्र शक्तित्रयसमावेशात् त्रिशूलत्वं भगवतोक्तं यावन्निरञ्जनत्वमपि अधिगततत्तदागमार्थैर्गुरुभिः -- इत्याह -- निरञ्जनमिदं चोक्तं गुरुभिस्तत्त्वदर्शिभिः || १०५ || शक्तिमानञ्ज्यते यस्मान्न शक्तिर्जातु केनचित् | चो भिन्नक्रमः, तेनेदम् ᳚औकारलक्षणम्᳚ चतुर्दशं धाम निरञ्जनं चोक्तम् इत्यन्वयः | यतः ᳚यथालोकेन दीपस्य किरणैर्भास्करस्य च | ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ||᳚
SK
इत्याद्युक्त्या शक्तिमान् परः प्रकाशः, शक्त्या अञ्ज्यते परिमितान् प्रमातॄन्प्रति व्यक्तीक्रियते उपाधीयते -- इत्यर्थः | स्वप्रकाशस्य हि परस्य प्रकाशस्य परकर्तृका व्यक्तिरेवोपाधिः | शक्तिः पुनरभिव्यक्तैव तदञ्जने उपायः -- इति न तस्या अपि केनचिदञ्जनं संभवेत् | नहि असंविदितं करणं कारणतामेव यायात् | इति भावः || १०५ || ननु इच्छादिशक्तिरिष्यमाणादिना स्वविषयेणाप्युपाधीयते एव इति कथमुक्तं ङ शक्तिः केनचिदञ्ज्यते᳚ ? -- इत्याशङ्क्याह -- इच्छा ज्ञानं क्रिया चेति यत्पृथक्पृथगञ्ज्यते || ३-१०६ || तदेव शक्तिमत्स्वैः स्वैरिष्यमाणादिकैः स्फुटम् | यत् खलु इच्छाज्ञानक्रियालक्षणाः शक्तयः, स्वैः स्वैः प्रातिस्विकैरिष्यमाणज्ञेयकार्यात्मभिः विषयैः, पृथक् पृथक् भेदेन उपरञ्ज्यते, तदेव स्फुटम् -- पूर्णस्वरूपं शक्तिमत् -- स एव गर्भीकृतानन्तशक्तिः परः प्रकाशः -- इत्यर्थः | शक्तिर्हि नाम शक्तिमत एव स्वं रूपं किं तु फलभेदादारोपितभेदम् येन इष्यमाणाद्युपरागात् ᳚इच्छा᳚ इत्यादिव्यवहारः || १०६ || ननु यदि इच्छादीनामेकैकशः इष्यमाणादिना उपरञ्जने शक्तिमद्रूपत्वं तत्समुदितानामासां किं रूपम् ? -- इत्याशङ्क्याह -- एतत्त्रितयमैक्येन यदा तु प्रस्फुरेत्तदा || ३-१०७ || न केनचिदुपाधेयं स्वस्वविप्रतिषेधतः | एतत्पुनः इच्छाज्ञानक्रियालक्षणं त्रितयं यदा क्रियाशक्त्यात्मना सामरस्येन प्रस्फुरेत्, तदा केनचिदपीष्यमाणादिना विषयेण इच्छादीनामीषणीयादीनां च स्वेन स्वेन विप्रतिषेधात् ईषणीयेन ज्ञानक्रिययोः नाञ्जनं ज्ञेयेनापि न इच्छाक्रिययोः, कार्येणापि न इच्छाज्ञानयोः इत्येवंरूपात् परस्परव्याहतत्वात् नोपाधेयम् नाञ्जनीयम -- इत्यर्थः | यद्वक्ष्यति -- ᳚......................क्रिया देवी निरञ्जनम् |᳚ इति || १०७ || अत एव च एतत् त्रिशूलशब्देनोक्तम् -- इत्याह -- लोलीभूतमतः शक्तित्रितयं तत्त्रिशूलकम् | यस्मिन्नाशु समावेशाद्भवेद्योगी निरञ्जनः || १०८ ||
SK
अतः अनुपहितत्वाद्धेतोर्लोलीभूतम् स्पर्धित्वेऽप्यविभागमाप्तम्, एतच्छक्तित्रितयं त्रिशूलशब्दस्य व्यपदेश्यम्, यस्मिन्ननुपाधौ रूपे न केवलं स्वयं निरञ्जनत्वं यावत्तत्सत्तासमावेशात् प्राप्ततदैकात्म्यो योग्यपि निरञ्जनो भवेत् || १०८ || अथैतदेव प्रमेयान्तरावापेन उपसंहरति -- इत्थं परामृतपदादारभ्याष्टकमीदृशम् | ब्रह्म्यादिरूपसंभेदाड्यात्यष्टाष्टकतां स्फुटम् || ३-१०९ || यदेतत् परामृतपदात् षण्ठवर्णचतुष्टयादारभ्य शलबीजपर्यन्तमीदृशम् यथोक्तरूपमष्टकं तद्ब्रह्म्यादेरष्टकस्य यत्सर्वसर्वात्मकं रूपं तेन प्रतिवर्ण देव्यष्टकस्य वाच्यत्वेन मिश्रीभावात्, अष्टाष्टकतां स्फुटं याति -- चतुःषष्टिरूपतया प्रस्फुरति -- इत्यर्थः, तेन ब्रह्मी ᳚ऋकारः᳚ एवं क्रमेण यावत् ᳚औकारो᳚ योगीश्वरी, पुनर्माहेश्वरी ᳚ऋकारः᳚ अत्र ब्रह्मी ᳚औकारः᳚ यद्वा ᳚ऋकारः᳚ एवमन्यत्र ज्ञेयम् || १०९ || तदेवं क्रियाशक्तिपर्यन्तेन वैचित्र्येण परिस्फुरन्त्या अपि परस्याः संविदः स्वरूपविप्रलोपो न जातः, इत्येव द्योतयितुं बिन्दुस्वरूपं दर्शयति -- अत्रानुत्तरशक्तिः सा स्वं वपुः प्रकटस्थितम् | कुर्वन्त्यपि ज्ञेयकलाकालुष्याद्विन्दुरूपिणी || ३-११० || अत्र एवं संस्थितेऽपि, सा समनन्तरोक्तस्वरूपा अनुत्तरशक्तिः, स्वस्वातन्त्र्यात् ज्ञेयस्य ग्राह्यग्राहकात्मनो भावजातस्य यत्कलनम् इयत्तापरिच्छेदः, तेन यत्कालुष्यम् स्वरूपगोपनात्मा सङ्कोचः, तदवलम्ब्य स्वं स्वप्रकाशं वपुः प्रकटस्थितम् सर्वसंवेद्यतया अवतिष्ठमानं कुर्वाणापि, विन्दुरूपिणी -- वेत्तीति विन्दुः विदिक्रियायां स्वतन्त्रः प्रमाता, तस्य रूपम् -- अविभागः परः प्रकाशः, तदेव विद्यते यस्याः -- तत्स्वभावैव -- इत्यर्थः | एवमपि स्वरूपान्न प्रच्युता -- इति भावः || ११० || अत आह -- उदितायां क्रियाशक्तौ सोमसूर्याग्निधामनि | अविभागः प्रकाशो यः स बिन्दुः परमो हि नः || ३-१११ ||
SK
इह ह्लादतैक्ष्ण्याद्यवच्छिन्नत्वेन नियतात्मनां प्रमाणाद्यात्मनां सूर्यादीनामाश्रयभूतायां क्रियाशक्तावुदितायाम् तत्तद्वैचित्र्यात्मना परिस्फुरन्त्यामपि, अविभागो ह्लादतैक्ष्ण्याद्युपाध्यवच्छेदशून्यः पूर्णो यः प्रकाशः स परमः, एवमपि अप्रच्युतस्वरूपत्वादत्युत्कृष्टोऽस्मद्दर्शने ᳚विन्दुः᳚ विदिक्रियायां स्वतन्त्रः परप्रमात्रेकरूपः परमेश्वरः शिवः -- इत्यर्थः | यद्वक्ष्यति -- ᳚अत्र प्रकाशमात्रं यत्स्थिते धामत्रये सति | उक्तं बिन्दुतया शास्त्रे शिवविन्दुरसौ मतः ||᳚ इति || १११ || न चैतत्स्वोपज्ञमेवोक्तम् -- इत्याह -- तत्त्वरक्षाविधाने च तदुक्तं परमेशिना | हृत्पद्ममण्डलान्तःस्थो नरशक्तिशिवात्मकः || ३-११२ || बोद्धव्यो लयभेदेन विन्दुर्विमलतारकः | तदेवाह -- हृत्पद्मेत्यादि | बिन्दुः वेदयिता परः प्रकाशः, स्वस्वातन्त्र्याद्विश्वमवबिभासयिषुः ᳚त्रिषु स्थानगतो विन्दुमेकत्रैव विभावयेत् |᳚ इत्याद्युक्त्या द्वादशान्तभ्रूमध्यहृदयलक्षणेषु स्थानेषु, लयस्य विश्रान्तेर्भेदात्, नरशक्तिशिवात्मको बोद्धव्यः -- इच्छाद्यात्मकशिवविद्यात्मलक्षणतत्त्वत्रयरूपतया प्रस्फुरितः इत्यर्थः | एवमप्यसौ हृत्पद्ममण्डलान्तःस्थः संकुचितात्मतायाः प्राधान्यात् भेदभूमावेव प्राप्तप्ररोहः -- इत्यर्थः | एवमपि नासौ स्वस्वरूपात्प्रच्युतः इत्याह -- विमलतारक इति | विमलः तत्तद्वैचित्र्योल्लासेऽपि संविन्मात्ररूपत्वात् शुद्धः, अत एव संसाराब्धेस्तारकः || ११२ || न केवलं परामर्शनीयविश्ववैचित्र्यात्मना परिस्फुरतोऽस्य न स्वस्वरूपात् प्रच्यावो यावत्तत्तत्परामर्शात्मनापि -- इत्याह -- योऽसौ नादात्मकः शब्दः सर्वप्राणिष्ववस्थितः || ३-११३ || अध ऊर्ध्वविभागेन निष्क्रियेणावतिष्ठते |
SK
इह योऽसौ विन्दुः स तत्तत्परामर्शात्मतामुल्लिलासयिषुः ङादात्मकः शब्दः᳚ तद्रूपतया स्फुरतीत्यर्थः | शब्दयति स्वाभेदेन विश्वं परामृशतीति शब्दः, परावाग्रूपो विमर्शः, स च नादात्मकः नदति सर्वेषामेव जीवकलात्वेन परिस्फुरतीति नादो ᳚हकारार्धार्धरूपिणी अमा कला᳚ यैव मुख्यया वृत्त्या सर्वत्र अस्वरत्वेन व्यपदिश्यते, तस्यात्मा तद्रूपतया अवभासते इति यावत् | स एव च ᳚अकारः सर्ववर्णानामन्तर्यामितया स्थितः |᳚ इत्याद्युक्त्या सर्वेषामेव वर्णानाम्, अधऊर्ध्वविभागेन अनुत्तरात् शूलबीजपर्यन्तं हकारपर्यन्तं वा प्राणनरूपत्वेनावस्थितः -- सर्व एव परामर्शराशिस्तत्स्फारसारर एव -- इत्यर्थः | अथ च स एव सर्वेषां प्राणिनामध ऊर्ध्वविभागेन सूर्याचन्द्रात्मप्राणापानप्रवाहरूपतयाप्यवस्थितः, सैव हि ᳚परा जीवकला᳚ -- इति भावः | एवमप्यसौ निष्क्रियेण रूपेणावतिष्ठते क्रियाशक्तिपर्यन्तं तत्तद्वैचित्र्यात्मना परिस्फुरणेऽपि नास्य स्वस्वरूपात् प्रच्यावः -- इत्यर्थः || ११३ || ननु उदितायां क्रियाशक्तौ, ह्लादतैक्ष्ण्याद्यवच्छिन्नः सोमसूर्यादिः प्रतिनियतः प्रकाशः प्रकाशते, यः स्वमन्यच्च निखिलमेव प्रकाशयति, यः पुनरविभागः परः प्रकाश उक्तः स किं तदात्मकः उत तत्प्रकाश्योऽन्यो वा ? -- इत्याशङ्क्याह -- ह्लादतैक्ष्ण्यादि वैचित्र्यं सितरक्तादिकं च यत् || ३-११४ || स्वयं तन्निरपेक्षोऽसौ प्रकाशो गुरुराह च | यत्खलु चन्द्रसूर्यादिगतं ह्लादतैक्ष्ण्याद्यात्म सितरक्ताद्यात्म च वैचित्र्यं तदसौ परः प्रकाशः स्वात्मना नापेक्षते -- नियतरूपत्वाभावात्तदेकात्मको न भवेत्, नापि स्वप्रकाशत्वात्तत्प्रकाश्यः | तेन नासौ सूर्यादिरूपः तत्प्रकाश्यो वा, अपि तु सूर्यादिधामत्रयानुप्राणकः परप्रमात्रेकरूपः | आदिशब्दद्वयाच्च दाहकत्वं दाह्यभेदोत्थं नानावर्णत्वं च ग्राह्यम् | एतच्च केवलं नास्माभिरेवोक्तं यावद्भगवता वासुदेवेनापि -- इत्युक्तम् -- ᳚गुरुराह च᳚ इति | यद्गीतम् ङ तद्भासयते सूर्यो न शशाङ्को न पावकः |
SK
यद्गत्वा न निवर्तन्ते तद्धाम् परमं मम ||᳚ इति || ११४ || एतदेवार्थद्वारेण दर्शयति -- यन्न सूर्यो न वा सोमो नाग्निर्भासयतेऽपि च || ३-११५ || न चार्कसोमवह्नीनां तत्प्रकाशाद्विना महः | किमप्यस्ति निजं किं तु संविदित्थं प्रकाशते || ३-११६ || यत्परमं धाम न प्रतिनियतसूर्याद्येकरूपमपि भासयते च -- स्वाभासत्वात् सूर्याद्यवभास्यो न स्यात्, प्रत्युत सूर्यादीनां प्रकाश्यत्वात् तत्प्रकाशमन्तरेण प्रकाशमानतैव न स्यात् इति -- पर एव प्रकाशः तत्तत्सूर्याद्यात्मना प्रस्फुरेत् | अत एवोक्तम् ᳚किं तु संविदित्थं प्रकाशते᳚ इति || ११५-११६ || ननु यद्येवं तर्हि त्रयाणामपि तेजोरूपत्वाविशेषेऽपि तैक्ष्ण्याद्यात्म वैचित्र्यं कुतस्त्यम् ? -- इत्याशङ्क्याह -- स्वस्वातन्त्र्यप्रभावोद्यद्विचित्रोपाधिसङ्गतः | प्रकाशो याति तैक्ष्ण्यादिमवान्तरविचित्रताम् || ११७ || स्वस्वातन्त्र्यमाहात्म्यात् उद्यत्पार्थिवाप्यद्रव्यादिरूपो योऽसौ उपाधिः तेन वैशिष्ट्यमापादितः अर्थात्तेजोरूपतामप्युपगतः प्रकाशः, तैक्ष्ण्याद्यात्म वैचित्र्यान्तरं याति तद्रूपतया प्रस्फुरति -- इत्यर्थः | पर एव हि प्रकाशः पार्थिवादिद्रव्याभाससंभिन्नो वह्न्यात्मना, आप्यद्रव्यावभासोपहितश्चन्द्रात्मना, शुद्धतेजोमात्रावभासोपरक्तश्च सूर्यात्मना प्रस्फुरन् दाहकत्वह्लादकत्वतीक्ष्णत्वादिरूपां विचित्रतामवभासयेत् || ११७ || ननु उपाधियोगमात्रादेव कथमेवं स्वरूपातिशायकमपि वैचित्र्यं भवेत् ? इत्याशङ्कां दृष्टान्तोपदर्शनेन उपशमयति -- दुर्दर्शनोऽपि घर्मांशुः पतितः पाथसां पथि | नेत्रानन्दत्वमभ्येति पश्योपाधेः प्रभाविताम् || ३-११८ || दृष्टिघातकृदपि तीक्ष्णांशुः स्तैमित्यभाजि जलाशयादौ प्रतिबिम्बितो दुर्दर्शनत्वपरिहारेण सुस्वावलोकनीयतामेति, इति दृष्ट एव सर्वत्रायम् उपाधेः प्रभावो यदुपाधेयस्य स्वरूपमतिशाययतीति || ११८ || एवमुपहितसर्वरूपत्वादेव सूर्यादिप्रकाशः स्वप्रकाशने संवित्प्रकाशमपेक्षते -- इत्याह -- सूर्यादिषु प्रकाशोऽसावुपाधिकलुषीकृतः |
SK
संवित्प्रकाशं माहेशमत एव ह्यपेक्षते || ३-११९ || संविच्छब्देनात्र जडात् सूर्यादिप्रकाशात् परस्य प्रकाशस्य वैलक्षण्यं दर्शितम् || ११९ || एवमप्येषां यथासंभवं स्वरूपं दर्शयति -- प्रकाशमात्रं सुव्यक्तं सूर्य इत्युच्यते स्फुटम् | प्रकाश्यवस्तुसारांशवर्षि तत्सोम उच्यते || ३-१२० || सुव्यक्तमिति आप्यद्रव्याद्यनुपहितम् -- इत्यर्थः, सूर्यस्य शुद्धं प्रकाशमात्रमेव रूपम् -- इति भावः | अत एव चास्य प्रमाणत्वम्, तस्य हि ज्ञानमात्रमेव विवक्षितं रूपम् | स्फुटम् सर्वजनसाक्षिकम् | प्रकाश्यानि मेयानि यानि वस्तूनि तेषां सुखदुःखमोहमयत्वात् अंशद्वयापेक्षया यः सारः सुखकार्याह्लादादिरूप उत्कृष्ट्ॐऽशः ᳚.........................षोमो वर्षति चामृतम् |᳚ इत्याद्युक्त्या, तं वर्षति तेन सर्वमिदं भावजातं सिञ्चति, आह्लादमयमेव करोति इत्येवंविधं सत् तत्प्रकाशमात्रं शोमः᳚ उच्यते सोमशब्देन व्यपदिश्यते -- इत्यर्थः | अत एव च आह्लादात्ममेयांशप्राधान्यात् अस्य मेयत्वं यदभिप्रायेण अनयोः ᳚ज्ञानशक्तिः परस्यैषा तपत्यादित्यविग्रहा |᳚ इति | तथा ᳚चन्द्ररूपेण तपति क्रियाशक्तिः शिवस्य तु |᳚ एवं च सूर्य प्रमाणमित्याहुः सोमं मेयं प्रचक्षते | एवं सूर्यसोमयोः स्वरूपमभिधाय वह्नेरप्यभिधत्ते -- अन्योन्यमवियुक्तौ तौ स्वतन्त्रावप्युभौ स्थितौ || ३-१२१ || भोक्तृभोग्योभयात्मैतदन्योन्योन्मुखतां गतम् | ततो ज्वलनचिद्रूपं चित्रभानुः प्रकीर्तितः || ३-१२२ || योऽयं वह्नेः परं तत्त्वं प्रमातुरिदमेव तत् | तौ उभौ सूर्याचन्द्रौ, स्वतन्त्रौ परस्परनैरपेक्ष्येण प्रमाणप्रमेयात्मना पृथग्व्यवहार्यौ अपि, अन्योन्यमवियुक्तौ सहोपलम्भनियमादभेदमापन्नौ -- इत्यर्थः, न खलु ज्ञानं ज्ञेयानारूषितं क्वचिदपि उपलभ्यते ज्ञानं विना वा ज्ञेयमिति | यदाहुः -- श्फटिकस्येव ह्युपाश्रयशून्यस्य ज्ञानस्य स्वरूपमनिरूप्यम् |᳚ इति | तथा ङावेदनमतो वेद्यम्........................... |᳚
SK
इति | अत एव एतत्सूर्याचन्द्रात्मद्वयं ग्राह्यग्राहकरूपत्वात्परस्परौन्मुख्यं प्राप्तं सत्, भोक्ता बुद्ध्याद्यात्मा संकुचितः प्रमाता तन्मयत्वात् प्रमाणमपि भोक्ता, भोग्यं च नीलसुखादि तयोर्यत् लोलीभावमापन्नं सत् उभयं तदात्मा यस्य तत् -- भोक्तृभोग्यसङ्घट्टस्वभावम् -- इत्यर्थः | यतश्चैवं ततो भोक्तृभोग्यसङ्घट्टलक्षणाद्धेतोश्चित्राः नानाकारा मानमेयादिरूपा भानवो यस्यासौ अग्निरुक्तः, यदुक्तम् -- ᳚शुचिर्नामाग्निरुद्भूतः सङ्घट्टात्सोमसूर्ययोः |᳚ इति | स च प्रमाणप्रमेयविभागात्मनो भेदस्य दाहकत्वात् ज्वलनप्रधाना चिद् रूपं यस्य सः, परिमितप्रमातृरूप -- इत्यर्थः | तस्य हि प्रमाणप्रमेययोः संमेलनमेव रूपम् -- इत्यर्थः, वह्नेरप्येवम् इति तस्य प्रमातृत्वम्, अत आह -- योऽयमित्यादि, परमित्यसाधारणम् || १२१-१२२ || ननु वह्नेः परापेक्षप्रकाशत्वात् समनन्तरमेव जाड्यमुक्तं तत्कथमसौ चेतनैकवपुषः प्रमातुस्तत्त्वं स्यात् ? -- इत्याशङ्क्याह - - संविदेव तु विज्ञेयतादात्म्यादनपेक्षिणी || ३-१२३ || स्वतन्त्रत्वात्प्रमातोक्ता विचित्रो ज्ञेयभेदतः | संविदेव हि स्वस्वातन्त्र्यात् विज्ञेयेन भोक्तृभोग्यात्मना वह्निना एकात्म्यासादनात् ᳚प्रमाता᳚ इति उच्यते | अत एवोक्तम् -- अनपेक्षिणीति | वह्निरूपतामासाद्यापि संविदो न स्वरूपप्रच्यावः -- इति भावः | ननु यदि संविद एव प्रमातृत्वं तत्तस्या आखण्ड्यात् तद्रूपस्यापि प्रमातुः कथं वैचित्र्यं सङ्गच्छते ? -- इत्याशङ्क्याह -- ᳚विचित्रो ज्ञेयभेदतः᳚ इति, ज्ञेयस्य कलाद्यात्मनः तत्त्वव्रातस्य भेदात् वैचित्र्यात् -- इत्यर्थः, कलादीनां हि किञ्चित्कर्तृत्वाद्यविशेषेऽपि तत्तत्कर्माधिपत्यादस्त्येव सर्वसंवेद्यं तारतम्यं येनायमुपाधिमाहात्म्यापन्नः प्रमातृभेदः इति || १२३ || अत एवाग्निरपि तथा -- इत्याह -- सोमांशदाह्यवस्तूत्थवैचित्र्याभासबृंहितः || ३-१२४ || तत एवाग्निरुदितश्चित्रभानुर्महेशिना |
SK
ततः प्रमातुर्विचित्रत्वादेव, प्रभुणाग्निरपिचित्रा भोक्तृभोग्यादिरूपा भानवो यस्य स तत्तन्मानमेयादिविचित्रस्फार उक्तः, यतो मेयात्मनः सोमस्य कलादिरूपा अंशा एव दाह्यानि आत्मसात्कार्याणि वस्तूनि तेभ्यः तारतम्यादिना उत्थितेन वैचित्र्याभासेन बृंहितः वैशिष्ट्यमापादितः इत्यर्थः || १२४ || ननु प्रमातुः प्रमेयोपाधिवैचित्र्यमुक्तं प्रमेयं च प्रमात्रपेक्षया पृथगेव न प्रकाशते इति वैचित्र्यचर्चा दूर एवास्तां प्रमातृत्वमेव पुनरस्याः संविदः कथं घटते ? -- इत्याशङ्क्याह -- ज्ञेयाद्युपायसङ्घातनिरपेक्षैव संविदः || ३-१२५ || स्थितिर्माताहमस्मीति ज्ञाता शास्त्रज्ञवद्यतः | ज्ञातृतोपायभूततत्तन्नीलसुखाद्यात्मज्ञेयनिरपेक्षैव संविदः ᳚अहमस्मि᳚ इत्यामर्शमयी या स्थितिः, स ᳚माता᳚ पराहंपरामर्शस्वभावो ज्ञाता -- इत्यर्थः | ज्ञेयनैरपेक्ष्येण च अहंपरामर्शस्य विकल्पात् वैलक्षण्यं दर्शितम् | ᳚कृशोऽहम्᳚ इत्यादौ अहंप्रत्यवमर्शो हि विकल्प एव, प्रतियोगिभूतस्य अकृशत्वादेरपोह्यस्य सम्भवात् | तस्य हि तदतद्रूपधर्मिप्रतियोगिसापेक्षित्वमेव रूपम् | परप्रमात्रात्मनि प्रकाशे पुनरहंप्रत्यवमर्शः प्रवर्तमानोऽतिरेकानतिरेकविकल्पोपहतत्वात् प्रतियोगिनः कस्यापि असंभवात् न विकल्पः | यदाहुः -- ᳚अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः | नासौ विकल्पः स ह्युक्तो द्वयापेक्षी विनिश्चयः ||᳚ इति | ननु प्रमातुरहंविमर्श एव स्वभावोऽस्तु, तस्यापि वा विकल्पाद्वैलक्षण्यम्, किमनेन नः प्रयोजनम्, ज्ञेयं विना पुनरस्य ज्ञातृत्वं न स्यात् ? -- इत्याशङ्क्य उक्तम् ᳚शास्त्रज्ञवद्यतः᳚ इति | यथा शास्त्रज्ञस्य व्याचिख्यासादिविरहेऽपि शास्त्राणां स्वात्माभेदेन वर्तमानत्वात् तत्र ज्ञातृत्वमुच्यते तथा परस्यापि प्रमातुः सर्वभावनिर्भरत्वात् आत्मसंस्थ एव ज्ञेयजात -- इति || १२५ || ननु प्रमासंबन्धात् प्रमाता उच्यते, प्रमा च व्यतिरिक्तज्ञेयविषयात्प्रमाणाद्भवति इति व्यतिरिक्तं ज्ञेयादि परिहृत्य कथमस्य ज्ञातृत्वं स्यात् ? -- इत्याशङ्क्याह --
SK
अज्ञ एव यतो ज्ञातानुभवात्मा न रूपतः || ३-१२६ || न तु सा ज्ञातृता यस्यां शुद्धज्ञेयाद्यपेक्षते | यो हि प्रतिनियतज्ञानात्म प्रमाणादिकमपेक्ष्य ᳚ज्ञाता᳚ इत्युच्यते सोऽज्ञ एव न प्रमातैव भवति -- इत्यर्थः | प्रमातुः खलु अनन्योन्मुखत्वादन्यनिरपेक्षमेव रूपं यथोक्तं न पुनरस्य सापेक्षं रूपं भवितुमर्हति -- परस्य परनिष्ठत्वानुपपत्तेः | तदाह -- ङ तु᳚ इत्यादि || १२६ || ननु यद्येवं तर्हि कथमस्य सर्वत्रैव ज्ञातृत्वमुच्यमानमपह्नूयताम् ? -- इत्याशङ्क्याह -- तस्यां दशायां ज्ञातृत्वमुच्यते योग्यतावशात् || ३-१२७ || मानतैव तु सा प्राच्यप्रमातृपरिकल्पिता | तस्यामिति -- संकुचितप्रमातृरूपायाम् -- इत्यर्थः | योग्यतावशादिति - - ज्ञेयपरिच्छेदकारित्वलक्षणात् | सा पुनरियं दशा प्राच्येन आदिसिद्धेन परेण प्रमात्रा प्रमाणरूपत्वेन परिकल्पिता संकुचितज्ञानात्मकत्वात्तथात्वेनावभासिता -- इत्यर्थः | पर एव हि प्रमाता स्वस्वातन्त्र्यात् स्वं स्वरूपं गोपयित्वा संकुचितज्ञानात्मतामवभास्य ज्ञेयमपि पृथगुल्लासयेत् || १२७ || ननु परा संविदेव यदि मानादिरूपेणापि प्रस्फुरेत् तत्तस्या अस्तमय एव किं न स्यात् ? -- इत्याशङ्क्याह� उच्छलन्त्यपि संवित्तिः कालक्रमविवर्जनात् || ३-१२८ || उदितैव सती पूर्णा मातृमेयादिरूपिणी | मातृमेयादिरूपत्वेन बहिरुल्लसन्त्यपि संवित्तिः शकृद्विभातोऽयमात्मा᳚ इति न्यायेन अवभासनक्रियाविच्छेदाभावात्कालानवच्छेदादुदितैव संविन्मात्ररूपत्वाप्रच्यावात् नियमेन अनस्तमितरूपा -- इत्यर्थः | अत एव पूर्णा स्वात्ममात्रविश्रान्तिरूपत्वादनन्यापेक्षिणी -- इत्यर्थः || १२८ || ननु संविन्नाम क्रिया, तस्याश्च क्रियान्तरवत् कालावच्छेदोऽवश्यसंभाव्यः इति कथमस्याः कालक्रमविवर्जितत्वमुक्तम् ? -- इत्याशङ्क्य लौकिक्या एव पाकादेः क्रियायाः कालावच्छेदोऽस्ति, न तु अस्याः, इति दर्शयितुमाह -- पाकादिस्तु क्रिया कालपरिच्छेदात्क्रमोचिता || ३-१२९ || मतान्त्यक्षणवन्ध्यापि न पाकत्वं प्रपद्यते |
SK
इह पाकादिः लौकिकी क्रिया कालावच्छेदात् क्रमव्याप्ताभिमता यतः सा अन्त्यः क्षणो यत्समनन्तरमेव द्वितीये क्षणे फलनिष्पत्तिस्तेनापि यदा शून्या भवेत् तदानेकक्षणप्रचयवत्त्वेऽपि स्वस्वरूपापरिपूर्तेस्तथा व्यवहारं न भजते | यदि नाम हि साप्यवभासनक्रियावत्कालानवच्छिन्ना स्यात् | तत् प्रथम एव क्षणे पाकादिक्रियात्वेन व्यवहारमियात् | अतश्च पाकादेर्लौकिक्या एव क्रियायाः सक्रमत्वं न पुनः शाश्वत्याः शंविल्लक्षणायाः᳚ इति | यदाहुः -- शक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः | घटते न तु शश्वत्याः प्राभव्याः स्यात्प्रभोरिव ||᳚ इति | अतश्च अकालकलितत्वात् प्रमातृप्रमाणप्रमेयरूपत्वेन अवतिष्ठमानमपि संवित्तत्त्वं संविन्मात्रलक्षणात् मुख्याद्रूपात् नापोढं स्यात् || १२९ || तदाह� इत्थं प्रकाशतत्त्वस्य सोमसूर्याग्निता स्थिता || ३-१३० || अपि मुख्यं तत्प्रकाशमात्रत्वं न व्यपोह्यते | ननु वाच्यात्मविश्वावभासदशायामेवमास्तां वाचकात्मविश्वावभासे पुनः सोमसूर्याग्नीनां रूपमेव किं नामोक्तं यदवभासनेनास्य प्रकाशतत्त्वस्य न स्वस्वरूपापोहः -- इति चिन्तापि स्यात् ? -- इत्याशङ्क्याह -- एषां यत्प्रथमं रूपं ह्रस्वं तत्सूर्य उच्यते || ३-१३१ || क्षोभानन्दवशाद्दीर्घविश्रान्त्या सोम उच्यते | यत्तत्परं प्लुतं नाम सोमानन्दात्परं स्थितम् || ३-१३२ || प्रकाशरूपं तत्प्राहुराग्नेयं शास्त्रकोविदाः |
SK
एषाम् समनन्तरोक्तानां बीजानां यत्प्रथममासाद्यमक्षुब्धं रूपं तत्सूक्ष्मत्वात् एकमात्रात्म ᳚ह्रस्वम्᳚ प्रकाशमात्रप्राधान्याच्च सूर्यः | तथा क्षोभानन्दयोः वशाद्बहीरूपतायां विश्रान्त्या क्षुब्धत्वेन स्थौल्यात् द्विमात्रं ᳚दीर्घम्᳚ आह्लादकारित्वाच्च सोम उच्यते सामान्येनोक्तेः सर्वैः शास्त्रकोविदैरेवं व्यपदिश्यते -- इत्यर्थः | तथा ताभ्यामेकमात्राद्विमात्राभ्यां ह्रस्वदीर्घाभ्यां परमन्यत् यत्त्रिमात्रं प्लुतं नाम तच्छास्त्रकोविदा आग्नेयं प्रामात्रं रूपं प्राहुः यतः प्रकाशे मानात्मनि सूर्ये रूढम् जातप्ररोहं सत् मेयात्मकं सोमानन्दमवलम्ब्य परम् अत्यर्थं स्थितम् मातृरूपतया प्रस्फुरितम् -- इत्यर्थः | मातुर्हि ᳚मानमेयसङ्घट्टात्मकमेव रूपम्᳚ इत्युक्तं प्राक् | तदेषां ह्रस्वत्वं सूर्यत्वं दीर्घत्वं सोमत्वं प्लुतत्वमग्नित्वमिति धामत्रयमयत्वम् || १३१-१३२ || एवमप्यत्र परस्य प्रकाशस्य न स्वस्वरूपात् प्रच्यावः, इति विन्दुरूपत्वमुक्तम् -- इत्याह -- अत्र प्रकाशमात्रं यत्स्थिते धामत्रये सति || ३-१३३ || उक्तं विन्दुतया शास्त्रे शिवविन्दुरसौ मतः | न चायं विन्दुः परप्रमात्रेकरूपत्वान्मन्त्रप्रमेयान्तर्वर्ती इत्याह -- ᳚शिवविन्दुरसौ मतः᳚ इति | अविभागपरप्रकाशात्मकत्वेन विदिक्रियायां स्वतन्त्रः परः प्रमाता -- इत्यर्थः | यदुक्तं प्राक् -- ᳚उदितायां क्रियाशक्तौ सोमसूर्याग्निधामनि | अविभागः प्रकाशो यः स विन्दुः परमो हि नः ||᳚ इति || १३३ || ननु न विन्दुर्नाम परामर्शान्तरं किञ्चिद्युज्यते, वक्ष्यमाणेन मकाराख्येन परामर्शविशेषेणैवास्य संग्रहात्; नहि अनयोः प्रतीतौ कश्चिद्विशेषः, प्रत्येयभेदाद्धि प्रतीतिभेदः, तत्कथमयं ततो भिन्नः स्यात् ? -- इत्याशङ्क्याह -- मकारादन्य एवायं तच्छायामात्रधृद्यथा || ३-१३४ || रलहाः षष्ठवैसर्गवर्णरूपत्वसंस्थिताः |
SK
यथा षष्ठविसर्गार्णतामाश्रिता रेफलकारहकारास्तच्छ्रुतिमात्रधारित्वेऽपि वक्ष्यमाणेभ्यो रेफादिभ्योऽतिरिक्ताः, तथायं विन्दुरपि मकारात् -- इति वाक्यार्थः | ङ च वर्णश्रुतिरेव वर्णः᳚ इत्युपपादितं प्राक् || १३४ || ननु इष्यमाणरूपाभ्यां रेफलकाराभ्यामिच्छाशक्तेरारूषितत्वम् इति तत्र तच्छायामात्रधारित्वात् युक्तं परामर्शान्तरत्वं मकारहकाराभ्यां पुनरारूषणैव कस्याधीयते यस्यापि परामर्शान्तरत्वं स्यात् ? -- इत्याशङ्क्याह -- इकार एव रेफांशच्छाययान्यो यथा स्वरः || १३५ || तथैव महलेशादः सोऽन्यो द्वेधाऽस्वरोऽपि सन् | इकार एव यथा रेफांशच्छायया षण्ठात्मस्वरान्तररूपो भवेत्, तथैवास्वरोऽपि सन् अनुत्तरप्रकाशात्मकोऽपि भवन्नसौ ᳚अः᳚ चिच्छक्त्यात्मा आदिवर्णो मकारहकारलेशमुपाधित्वेनावलम्ब्य तच्छ्रुतिमात्रधारित्वेन द्वेधा -- बिन्दुविसर्गरूपतयान्यः परामर्शान्तररूपभाक् भवति -- इत्यर्थः | अनुत्तर एव हि प्रकाशः स्वस्वातन्त्र्यात् स्वं स्वरूपं गोपयित्वा शक्तिदशामाभास्य संकुचितप्रमातृरूपतामवभासयेत् अतश्चास्य ᳚अकारश्च हकारश्च द्वावेतावेकतः स्थितौ |᳚ इत्याद्युक्त्या ᳚हकाररूपया शक्त्या मकारो ना हृदि स्थितः |᳚ इत्याद्युक्त्या संकुचितप्रमात्रात्मना च मकारेणारूषणा, इति न कश्चित् दोषः || १३५ || ननु अनुत्तर एव कस्मादेवमारूषणया विसर्गाद्यात्मकतामियात् ? -- इत्याशङ्क्याह -- अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा || ३-१३६ || सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् | अस्य अनुत्तरप्रकाशात्मन आदिवर्णस्य प्राक् ᳚कौलिकी सा परा शक्तिरवियुक्तो यया प्रभुः |᳚ इत्यादौ ᳚कौलिकीति, परेति᳚ चोक्ता अन्तः प्रमात्रैकात्म्येन वर्तमाना विमर्शात्मा यासौ विसिसृक्षा, सैव निश्चितं बहिरौन्मुख्यलक्षणात् क्षोभवशात् विसर्गात्मकतामेत्य आनन्दोदयक्रमेण क्रियाशक्तिपर्यन्तं प्रोच्छलन्तीं स्थितिमवभासयति -- इत्यर्थः || १३६ || न चैतदस्मदुपज्ञमेव -- इत्याह -- उक्तं च त्रिशिरःशास्त्रे कलाव्याप्त्यन्तचर्चने || ३-१३७ ||
SK
कला सप्तदशी तस्मादमृताकाररूपिणी | परापरस्वस्वरूपबिन्दुगत्या विसर्पिता || ३-१३८ || प्रकाश्यं सर्ववस्तूनां विसर्गरहिता तु सा | शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा || ३-१३९ || विसर्गप्रान्तदेशे तु परा कुण्डलिनीति च | शिवव्योमेति परमं ब्रह्मात्मस्थानमुच्यते || ३-१४० || विसर्गमात्रं नाथस्य सृष्टिसंहारविभ्रमाः | कलाव्याप्त्यन्तचर्चने इति -- अमाख्यकलास्वरूपस्फारसिद्धान्तविचारावसरे -- इत्यर्थः | तत्र हि ᳚कलाव्याप्तिर्महादेव पदसंज्ञा महेश्वर | अतिसंक्षेपतो ब्रूहि..................... ||᳚ इति भगवत्या पृष्टे तन्निर्णयार्थं ᳚कला सप्तदशी यासौ................. ||᳚
SK
इत्यादि भगवतोक्तम् | यदिह क्वचिच्छब्दद्वारेण क्वचिदर्थद्वारेण च संवादितम्, तत्र ᳚पुरुषे षोडशकले तामाहुरमृतां कलाम् |᳚ इत्याद्युक्त्या अन्तःकरणप्रभृतीनां षोडशानामपि कलानामाप्यायकारित्वात् नित्योदितत्वेन च अनस्तमितरूपत्वात् अमृताकाररूपिणी येयं चिन्मात्रस्वभावा ᳚कौलिकीति, परेति᳚ एवमादिशब्दव्यपदेश्या हकारार्धार्धरूपिणी अमाख्या सप्तदशी कला, परस्य आनन्दात्मनो विसर्गस्य उक्तत्वात् अपरस्य च हकारात्मनो वक्ष्यमाणत्वात् परापरो योऽसौ विसर्गः तस्य स्वरूपस्थौ यावात्मभूतौ विसर्जनीयशब्दवाच्यौ बिन्दू, तयोर्गतिः तद्रूपावभासनेन प्रसरणं तया विसर्पिता तत्तद्रूपावबिभासयिषया प्रोच्छलन्ती -- इत्यर्थः | अत एव च सर्वेषाम् प्रमातृप्रमाणप्रमेयात्मनां वस्तूनां अनतिरेकेऽपि अतिरिक्तत्वेनेव प्रकाश्यं -- तत्तन्नियतप्रकाशात्मिका -- इत्यर्थः, सैव पुनर्विसर्गेण बहिर्भावौन्मुख्येन विरहिता सती, प्रसुप्तभुजगाकारत्वात् स्वात्ममात्रविश्रान्ता शक्तिकुण्डलिनी -- परा संविन्मात्ररूपेति यावत् | अत एव विसर्गस्य बहिर्भावौन्मुख्यात्मकादिकोटिरूपे प्रान्तदेशे प्राणकुण्डलिका ᳚प्राक् संवित्प्राणे परिणता |᳚ इति नीत्या प्रथममेव प्राणरूपतामवभासयन्ती -- इत्यर्थः | तथा प्रत्यावृत्तिक्रमेण अन्तर्भावौन्मुख्यरूपान्तकोट्यात्मनि प्रान्ते स्वरूपे ᳚परा कुण्डलिनी᳚ स्वात्मविश्रान्तपरसंविन्मात्ररूपा -- इत्यर्थः | एवं त्वियमेव संविन्मात्ररूपा सप्तदशी कलाशिवव्योमेति, परमं ब्रह्मेति, शुद्धात्मस्थानम् इति चोच्यते तैस्तैः सामयिकैः शब्दैर्व्यपदिश्यते -- इत्यर्थः | तथाहि श्रीत्रिशिरोभैरवे एव ᳚शिवव्योमेति या संज्ञा परं ब्रह्मेति यत्पदम् |᳚ इति | तथा ᳚आत्मस्थानं किमाख्यातं........................ |᳚ इति भगवत्या पृष्टे ᳚कुण्डल्याख्या तु सा ज्ञेया सर्वाध्वोपरिवर्तिनी |᳚ इत्युपक्रम्य ᳚प्रमाणोत्थानरहितमुपमाभेदवर्जितम् | भूतव्योमपदातीतं चिद्व्योमान्तपदं परम् || भावप्रत्ययसंरम्भमभावं परमा गतिः |
SK
शिवव्योम तु तज्ज्ञेयं सर्वाधारत्वलक्षणम् || बृहत्त्वं बृंहकत्वं च सूक्ष्मं तच्चान्तवर्ति च | परं ब्रह्मेति तत्प्रोक्तं लक्ष्यभूतमलक्ष्यकम् ||᳚ इति | तथा ᳚पूर्वं पदविभागं तु कीर्तितं तदहेयकम् | तथापि भूमिकातीतमात्मस्थानं निगद्यते ||᳚ इत्यादिना स्वरूपमेषां भगवतोक्तम् | तदेवं परैव पारमेश्वरी संवित् तत्तत्प्रमातृप्रमेयात्मनो विश्वस्य सृष्टिसंहारविभ्रमाविर्भावनिबन्धनम् इत्युक्तं स्यात् | अत एव आह -- विसर्गमात्रमित्यादि || १३७-१४० || ननु एकैव अखण्डसंवित् अस्ति इति तदतिरिक्तं किञ्चिदपि न संभवेत्, तत्कस्य नाम सृष्टिः संहारो वा स्यात्, येनास्यास्तत्कारित्वमपि भवेत् ? -- इत्याशङ्क्याह -- स्वात्मनः स्वात्मनि स्वात्मक्षेपो वैसर्गिकी स्थितिः || ३-१४१ || इयमेव नाम वैसर्गिकी सृष्टिसंहारकारित्वलक्षणा स्थितिः यत् स्वात्मन एव न पुनर्मायाप्रकृत्यादेरुपादानात् स्वात्मन्येव न पुनस्ततो विच्छिन्ने कुत्रचिद्देशे काले वा स्वात्मन एव न पुनरन्यस्य कस्यचित् प्रमातृप्रमेयादेः क्षेपः तत्तदाभासवैचित्र्येणान्तर्बहीरूपतया परिस्फुरणमिति, तेनानन्यापेक्षित्वेन पूर्णा परैव संवित् कादिहान्तरूपतया परिस्फुरिता -- इति भावः || १४१ || अत एवाह� विसर्ग एवमुत्सृष्ट आश्यानत्वमुपागतः | हंसः प्राणो व्यञ्जनं च स्पर्शश्च परिभाष्यते || ३-१४२ || इह विसर्ग एव तत्तद्वैचित्र्योपारोहक्रमेण हकारात्म स्थौल्यमुपागतः सन् ᳚हंसः᳚ इत्येवमाद्यैः शब्दैः परिभाष्यते -- सर्वेष्वेव शास्त्रेष्वेवमुच्यते -- इत्यर्थः, तदुक्तं श्रीतन्त्रराजभट्टारके ᳚हंसं शून्यं तथा प्राणं हकारं नामभिः स्मृतम् |᳚ इति | निघण्टावपि ᳚त्रयस्त्रिंशो व्यञ्जनं च द्विकुब्जः स्पर्श एव च ||᳚ इति | एवं च विसर्गस्यैव स्थूलं रूपं ᳚हकारः᳚ इत्युक्तं स्यात् || १४२ || ननु, ᳚शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः |᳚ इत्याद्युक्त्या परस्य अनुत्तरस्य प्रकाशस्य श्वशक्तिमात्रस्फारो विश्वम्᳚ इत्यविवादः, इह पुनः ᳚विसर्गमात्रं नाथस्य सृष्टिसंहारविभ्रमाः |᳚
SK
इत्याद्यन्यथोक्तम्, इति किमेतत् ? इत्याशङ्क्याह -- अनुत्तरं परं धाम तदेवाकुलमुच्यते | विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते || ३-१४३ || एवम्, ᳚अकुलस्यास्य देवस्य....................... |᳚ इत्याद्युपक्रान्तमेव इह निर्वाहितं न तु अपूर्वं किञ्चिदुक्तम् -- इति भावः || १४३ || ननु विसर्गशब्दः शक्तौ केन निमित्तेन प्रवृत्तः ? -- इत्याशङ्क्याह -- विसर्गता च सैवास्या यदानन्दोदयक्रमात् | स्पष्टीभूतक्रियाशक्तिपर्यन्ता प्रोच्छलत्स्थितिः || १४४ || सैव अस्याः कौलिक्याः शक्तेः विसर्गता विसर्जनक्रियायां कर्तृत्वं यदानन्देच्छाद्युदयक्रमेण भिन्नावभासरूपत्वात् स्पष्टीभूता स्पष्टतामाप्ता येयं क्रियाशक्तिः तत्पर्यन्ता प्रोच्छलन्ती स्थितिः तत्तत्परामर्शान्तरवैचित्र्यरूपतया परिस्फुरणम्, इति || १४४ || ननु इयतो वैचित्र्यस्य विसर्गः कारणमस्तु, स एव पुनस्तत्, इति कथं युज्यते ? इत्याशङ्कां दृष्टान्तोपदर्शनद्वारेण उपशमयति -- विसर्ग एव तावान्यदाक्षिप्तैतावदात्मकः | इयद्रूपं सागरस्य यदनन्तोर्मिसंततिः || ३-१४५ || तावान् तत्परिमाणो विसर्ग एव न तु तावतः कारणम् | भेदनिबन्धनो हि कार्यकारणभावः | भेद एव चात्र नास्ति इति कथमेतद्भवेत् -- इति भावः | यस्मादाक्षिप्तो गर्भीकृतः, एतावान् क्रियाशक्तिपर्यन्तो येनैवंविध आत्मा यस्यासौ�तत्तद्वाच्यवाचकाद्यात्मना अनन्ताभासमयः -- इत्यर्थः || १४५ || एवमस्य विसर्जक्रियाकर्तृत्वादेव व्यपदेशान्तरमप्यन्यत्रास्ति -- इत्याह -- अत एव विसर्गोऽयमव्यक्तहकलात्मकः | कामतत्त्वमिति श्रीमत्कुलगुह्वर उच्यते || ३-१४६ || अतः उक्ताद्धेतोः, अव्यक्ता नादमात्ररूपत्वादनुद्भिन्नवर्णप्रविभागा येयं हकला हकारार्धार्धभागः, तदात्मकोऽयं विसर्गः, श्रीमत्कुंलगुह्वराख्ये शास्त्रे ᳚कामतत्त्वम्᳚ कामः इच्छा, तस्य तत्त्वम् सर्वत्रैव अप्रतिहतस्वभावं पूर्ण रूपम् इत्युच्यते -- इति वाक्यार्थः || १४६ || तत्रत्यमेव ग्रन्थं पठति -- यत्तदक्षरमव्यक्तं कान्ताकण्ठे व्यवस्थितम् |
SK
ध्वनिरूपमनिच्छं तु ध्यानधारणवर्जितम् || ३-१४७ || तत्र चित्तं समाधाय वशयेद्युगपज्जगत् | तत्र च ᳚इदानीं कामतत्त्वं तु विषतत्त्वं परं तथा | कथ्यते तव सुश्रोणि भक्तिस्नेहाद्विशेषतः ||᳚ इत्युपक्रम्य ᳚यत्तदक्षरम्.................................. |᳚ इत्यादि चाभिधाय ᳚तत्र चित्तं नियुञ्जीत साधकेन महात्मना | देवकिन्नरगन्धर्वसिद्धविद्याधराङ्गनाः || यक्षकन्यास्तथा नाग्यः पिशाच्यः सुरयोषितः | वशमायान्ति सुभगे नरनारीषु का कथा ||᳚ इत्युक्तम् | यदिह ᳚तत्र चित्तं समाधाय वशयेद्युगपज्जगत्᳚ इत्यर्थद्वारेण पठितम्, यत्तत् -- सर्वदैव स्फुरद्रूपत्वात्स्वानुभूत्येकसिद्धम्, अक्षरं -- नित्योदितत्वादप्रच्युतप्राच्यस्वरूपम्, अत एव अनिच्छम् ङास्योच्चारयिता कश्चित्प्रतिहन्ता न विद्यते | स्वयमुञ्चरते देवः प्राणिनामुरसि स्थितः ||᳚ इत्याद्युक्त्या स्वयमुच्चरद्रूपत्वात् अन्यसंबन्धिनीमुच्चिचारयिषां नापेक्षते -- इत्यर्थः | तदपेक्षित्वे हि तस्याः कादाचित्कत्वात् अस्य नित्योदितत्वं न स्यात् इति भावः | अत एव शहजमिति, स्वयंभु᳚ इति च अन्यत्रैतदुक्तम् | अत एवाव्यक्तम्, व्यक्तत्वं हि स्थानकरणाभिघातादिना भवेत्, तच्च इच्छाधीनम्, इति कथमस्यैत्स्यात् | अत एव ध्वनिरूपम् -- ङादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम् | इति | सुसूक्ष्मो व्यापकः शुद्धः प्राणतत्त्वस्य वाचकः ||᳚
SK
इत्याद्युक्त्या सततोदितनादमात्रस्वभावमित्यर्थः | अत एव सुसूक्ष्मत्वव्यापकत्वादेः, तच्च तत्र स्थूलध्येयादिनिष्ठं यत् ध्यानादि तेन वर्जितम् नैयत्यनिबन्धनध्येयादिरूपत्वेन अक्षोभ्यम् -- इत्यर्थः | एवंरूपत्वेऽपि उपभोगावसरे रतिसौख्यसमावेशवैवश्येन विगलितवेद्यान्तःकरणत्वात् निरस्तवैकल्यायाः कान्तायाः कण्ठान्तः स्वरसत एव उद्यत् अभिव्यज्यमानम्, अत एव सततोदितत्वेऽपि तत्कालमस्य विशेषेणावस्थानम् | एवं च विसर्गस्य अनाहतरूपत्वात् सौक्ष्म्येऽपि कान्ताकण्ठान्तः किञ्चिदुच्छूनतापत्त्या ᳚हा-हा᳚ इति स्फुटमवस्थानम्, येनास्य एतदुपलभ्यमानं निदर्शनीकृतम् | तेन न योगिमात्रगम्यमेवैतत् अपि तु सर्वैरपि उपलभ्यते -- इति भावः | अतश्च अनेनैव हकारस्यापि प्रसङ्गात्स्वरूपं निर्दिष्टं किं तु तस्य स्थौल्यात् स्फुटत्वेनावस्थानम्, अस्य तु सौक्ष्म्यात् न तथा, इति इयानेव विशेषः | अत एव समनन्तरमेव ᳚विसर्ग एव सुस्पष्टमाश्यानत्वमुपागतः |᳚ इत्याद्युक्तम् | यदभिप्रायेणैव अनयोः परापरत्वमपरत्वं चोक्तम् | अत एव अग्रे हकारस्य स्वरूपं न उक्तम् | उक्तं चान्यत्र -- ᳚यत्तदक्षरमक्षोभ्यं प्रियाकण्ठोदितं परम् | सहजं नाद इत्युक्तं तत्त्वं नित्योदितो जपः ||᳚ इति | तथा -- ङित्यानन्दरसास्वादाद्धाहेति गलकोदरे | स्वयंभूः सुखदोच्चारः कामतत्त्वस्य वेदकः ||᳚ इति | तत्र अनाहतात्मनि एवंविधे विसर्गे साधकश्चित्तं सम्यक् -- ᳚अतिसौख्यसमावेशविवशीकृतचेतसः | अविच्छिन्नं जपन्त्येनमङ्गनासङ्गमोत्सवे || अत्रासक्तधियो यान्ति योगं योगीश्वराः परम् | स शिरोरहितः कामः कामिनीहृदयालयः || नेत्रारूढेन तेनाथ शक्तिदृष्टिं समाहरेत् | क्षोभयेन्नात्र संदेहो दृप्तामपि वरस्त्रियम् ||᳚
SK
इत्याद्युक्तनीत्या कामशब्दाभिधेयम् अनच्ककलात्मकं विसर्गं स्वनेत्राभ्यां निर्गंतं साध्यनेत्रयोरनुप्रविष्टं ध्यायेत्, साध्यनेत्राभ्यां च निर्गतं स्वनेत्रयोरनुप्रविष्टं ध्यायेत्, इत्येवं क्रमेण आ समन्तात् दोलायन्त्रक्रमेण गमागमयोः पौनः पुन्येन धृत्वा अनन्यापेक्षेण अवहितं कृत्वा, जगत् जायमानं जन्तुचक्रं युगपत् न तु क्रमेण, वशयेत् स्वात्ममयतयैव सर्वमाभासयेत्, स्वात्मायत्तं वा कुर्यात् -- इत्यर्थः || १४७ || इदानीं यथोक्तविसर्गस्वरूपमेव दृष्टान्तीकृत्य कादीनामुदयं वक्तुमुपक्रमते -- अत एव विसर्गस्य हंसे यद्वत्स्फुटा स्थितिः || ३-१४८ || तद्वत्सानुत्तरादीनां कादिसान्ततया स्थितिः | अतः समनन्तरोक्ताद्धेतोः, विसर्गस्यैव यथा हकारात्मतया स्थूलेन रूपेणावस्थानं तथैव अनुत्तरादीनामपि कादिसान्तत्वेन अनुत्तरादय एव तथा अवभासन्ते -- इत्यर्थः || १४८ || तदेवाह� अनुत्तरात्कवर्गस्य सूतिः पञ्चात्मनः स्फुटम् || ३-१४९ || पञ्चशक्त्यात्मतावेश एकैकत्र यथा स्फुटः | पञ्चात्मत्वे हेतुः -- पञ्चशक्त्यात्मतावेश इति, एकैकत्रेति अनुत्तरेच्छादौ, अनुत्तरस्य हि चिच्छक्तिप्राधान्येऽपि शर्वत्र सर्वमस्ति᳚ इतिन्यायेन पञ्चशक्तिमयत्वम् इति तत्सूतेः कवर्गस्यापि पञ्चात्मत्वम्, एवमन्यत्रापि ज्ञेयम् || १४९ || इच्छाशक्तेः स्वस्वरूपसंस्थाया एकरूपतः || ३-१५० || चवर्गः पञ्चशक्त्यात्मा क्रमप्रस्फुटतात्मकः | या तूक्ता ज्ञेयकालुष्यभाक्क्षिप्रचरयोगतः || ३-१५१ || द्विरूपायास्ततो जातं ट-ताद्यं वर्गयुग्मकम् | उन्मेषात्पादिवर्गस्तु यतो विश्वं समाप्यते || ३-१५२ ||
SK
स्वस्वरूपसंस्थाया इति इष्यमाणानारूषितायाः | एकरूपत इति अक्षुब्धाया एव इच्छाशक्तेः, न पुनः क्षुब्धाया अपि -- इत्यर्थः | चिदादीनामपि शक्तीनां यथायथं बाह्योन्मुखतया स्फुटत्वमस्ति, इत्यौचित्यात्तत्स्फाररूपाणां कवर्गादीनामपि तथात्वमित्युक्तम् -- ᳚क्रमप्रस्फुटतात्मकः᳚ इति | येति इच्छाशक्तिः, ज्ञेयम् अर्थादिष्यमाणम्, द्विरूपायाः -- ऋकारऋकाररूपायाः | एवमनेनानुत्तरादिभ्य एव पञ्चभ्यः कवर्गादीनां पञ्चानां वर्गानामुदयः -- इत्यभिहितम्, अत एवैषां ᳚अकुहविसर्जनीयानां कण्ठः᳚ इत्यादिना सस्थानत्वमुक्तम्, उक्तं चान्यत्र -- ᳚अकुलात्पञ्चशक्त्यात्मा द्वितीयो वर्ग उत्थितः | अनारूषितरूपाया इच्छायाश्च ततः परः || वह्निक्षमाजुषस्तस्याष्ट-ताद्यं च द्वयं ततः | पादिरुन्मेषतो जात इति स्पर्शाः प्रकीर्तिताः ||᳚ इति || १५२ || ननु, ᳚पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु | क्रमात्कादिषु वर्गेषु मकारान्तेषु सुव्रते ||᳚ इत्याद्युक्त्या कादयो मावसानाः पञ्चविंशतिर्वर्णाः पृथ्वीतत्त्वादारभ्य पुरुषतत्त्वान्तं यावत्स्थिताः | तत् तत्त्वान्तराणामपि संभवाद्विश्वमवशिष्यत इति कथमेतावतैवोक्तम् - - ᳚यतो विश्वं समाप्यते᳚ इति ? -- इत्याशङ्क्याह -- ज्ञेयरूपमिदं पञ्चविंशत्यन्तं यतः स्फुटम् | ज्ञेयत्वात्स्फुटतः प्रोक्तमेतावत्स्पर्शरूपकम् || ३-१५३ || यत इदम् विश्वं पृथ्वीतत्त्वादि, पञ्चविंशत्यन्तम् ᳚पुरुषः पञ्चविंशकः᳚ इत्याद्युक्त्या पुरुषतत्त्वान्तं विश्वं स्फुटत्वाज्ज्ञेयरूपम् अत उक्तं ᳚यतो विश्वं समाप्यते᳚ इति | नियत्यादि हि ᳚मायासहितं कञ्चुकषट्कमणोरन्तरङ्गमिदमुक्तम् |᳚ इत्याद्युक्त्या ज्ञातुरत्यन्तं कण्ठसंलग्नत्वेन अभिन्नमेव इति न व्यतिरिक्तस्थूलज्ञेयात्मविश्वरूपतयोक्तम् -- इति भावः | अत एव चैतावत्तत्त्वपञ्चविंशकान्तं विश्वं स्फुटात् ज्ञेयत्वादेव हेतोः, इन्द्रियैः स्पृश्यन्त इति श्पर्शाः᳚ तद्रूपम्, प्रकर्षेण ᳚कादयो मावसानाः स्पर्शाः, इति वाचकाभिप्रायेण ᳚मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः |
SK
आगमापायिनो नित्यास्तांस्तितिक्षस्व भारत ||᳚ इति च वाच्याभिप्रायेण उक्तम् | अत्र च पुंसः प्रमातृत्वेऽपि करणानां च करणत्वादेव प्रमाणत्वेऽपि यज्ज्ञेयत्वमुक्तं तच्छून्यादिप्रमात्रन्तराभिप्रायेण, इति न कश्चिद्दोषः || १५३ || एवं स्पर्शानामुदयमभिधाय अन्तःस्थानामप्यभिधत्ते -- इच्छाशक्तिश्च या द्वेधा क्षुभिताक्षुभितत्वतः | सा विजातीयशक्त्यंशप्रोन्मुखी याति यात्मताम् || ३-१५४ || सैव शीघ्रतरोपात्तज्ञेयकालुष्यरूषिता | विजातीयोन्मुखत्वेन रत्वं लत्वं च गच्छति || ३-१५५ || तद्वदुन्मेषशक्तिर्द्विरूपा वैजात्यशक्तिगा | वकारत्वं प्रपद्येत सृष्टिसारप्रवर्षकम् || ३-१५६ || क्षुभिताक्षुभितरूपत्वेन द्विविधा येयमिच्छाशक्तिः सा, विजातीयश्चिद्रूपो योऽयं शक्त्यंशः अनुत्तरस्तत्र प्रोन्मुखी तेन समं ᳚इको यणचि᳚ इति प्राप्तसंधिः सती यात्मतां याति यकारात्मना प्रस्फुरति -- इत्यर्थः | सैव द्विरूपापीच्छाशक्तिः ᳚अचिरद्युतिभासिन्या᳚ इत्याद्युक्तगत्या शीघ्रं स्थिरं च कृत्वा, उपात्तं यत् ज्ञेयम् अर्थादिष्यमाणम्, तत्कालुष्येणारूषिता सती अनुत्तरात्मनि विजातीये यदुन्मुखत्वं, तेन समं ᳚इको यणचि᳚ इति संधिः, तेन रत्वं लत्वं च गच्छति तदात्मना भासते -- इत्यर्थः | एवमुन्मेषशक्तिरपि द्विप्रकारा ᳚वैजात्यशक्तिगा᳚ -- अनुत्तरेण सह प्राग्वदेव कृतसन्धिर्वकारत्वमवभासयेत् | तदुक्तम् -- ᳚विभिन्नशक्तिसंयोगादिच्छा य-र-लतां गता | उन्मेषशक्तिरायाति वत्वमेव वरानने ||᳚ इति | शृष्टिसारप्रवर्षकम्᳚ इत्यनेन अस्य वरुणबीजत्वादाप्यायकारित्वं दर्शितम्, एवं य-र-लानामपि शोषकारित्वं दाहकत्वं स्तम्भकत्वं च क्रमेणावगन्तव्यम् || १५६ ||
SK
ननु इष्यमाणारूषणायामपि वक्ष्यमाणनीत्या इच्छाशक्तिरेव परामर्शान्तरजननसमर्था, इत्यनुत्तरसङ्घट्टभाजः तस्याः परामर्शान्तरलक्षणं कार्यमुत्पद्यतां नाम, तस्य पुनर्यकारादिरूपत्वेन भेदः कथं स्यात् ᳚कारणभेदाद्धि कार्यभेदः᳚ कारणं चात्रेच्छानुत्तरसङ्घट्टात्मकमेकमेव, इति किमेतत् ? -- इत्याशङ्क्याह -- इच्छैवानुत्तरानन्दयाता शीघ्रत्वयोगतः | वायुरित्युच्यते वह्निर्भासनात्स्थैर्यतो धरा || ३-१५७ || इह इच्छैव, न पुनरिष्यमाणमपि, अनुत्तरानन्दाभ्याम्, अर्थाद्विकल्पेन, याता मिलिता सती, शीघ्रत्वयोगतः संस्कारलक्षणं वेगमुपाधित्वेन स्वीकृत्य, वायुरित्युच्यते वायुबीजयकाररूपतां प्राप्ता -- इत्यर्थः | एवं भासनाद्भास्वत्तालक्षणं धर्मः, तथा स्थैर्यतो धृतिहेतु स्थिरत्वाख्यं धर्मम् उपरञ्जकत्वेन अवलम्ब्य, क्रमेण वह्निः वह्निबीजरेफात्मताम्, धरा धराबीजलकाररूपतां चाभासयति -- इत्यर्थः | आनन्देति चोन्मेषादिविजातीयशक्त्यन्तराभिव्यञ्जनपरतयोक्तम् | तेनानुत्तरादिसङ्घट्टभाज इच्छाया एवमुपाधियोगेन भेदात्कार्यस्यापि भेद इति यथोक्तमेव युक्तम् || १५७ || अत्र चान्तःस्थशब्दस्य प्रवृत्तौ निमित्तं दर्शयति -- इदं चतुष्कमन्तःस्थमत एव निगद्यते | इच्छाद्यन्तर्गत्वेन स्वसमाप्तौ च संस्थितेः || ३-१५८ || अत एव प्रागुक्ताद्धेतोः, ᳚इच्छादि᳚ इति आदि शब्देन उन्मेषस्य ग्रहणादिच्छोन्मेषयोरन्तः अभेदेनावस्थानात्, तथा स्वस्य प्रमात्रेकरूपस्य आत्मनः, सम्यगाप्तिः एकात्म्येनावभासः, तत्र संस्थितेः प्रमात्रैकात्म्येन वर्तमानत्वादिदम् यादि-वान्तं चतुष्कमन्तःस्थं निगद्यते सर्वशास्त्रेषु एवमुच्यते -- इत्यर्थः | यदुक्तम् -- ᳚इच्छाद्यन्तःप्रवेशेन तेऽन्तस्था इति कीर्तिताः |᳚ इति || १५८ || नन्विच्छाद्याः शक्तयो विजातीयशक्तिसंभिन्ना यथा परामर्शान्तराणि आविर्भावयन्ति, तथैव सजातीयशक्तिसंबन्धेऽपि किं, न वा ? -- इत्याशङ्क्याह -- सजातीयकशक्तीनामिच्छाद्याना च योजनम् |
SK
क्षोभात्मकमिदं प्राहुः क्षोभाक्षेभात्मनामपि || ३-१५९ || क्षोभात्मनाम् -- दीर्घाणाम्, अक्षोभात्मनाम् ह्रस्वानाम्, इच्छादीनां शक्तीनामेवंरूपाणां सजातीयानामपि शक्तीनां यदा योजनम् ᳚अकः सवर्णे दीर्घः᳚ इति सन्ध्यात्मा योगो भवेत्, तदा ᳚क्षोभात्मकम्᳚ इति प्राहुः -- सजातीयदीर्घरूपपरामर्शस्वभावत्वं, न पुनर्विजातीयपरामर्शान्तररूपत्वं शास्त्रकोविदाः कथयन्तीत्यर्थः | तेन इ + इ ई, ई + इ ई, इ + ई ई, ई + ई ई, इत्येवंप्राये योगे क्षोभात्म -- दीर्घरूपमीकारत्वमेव भवेत् इति तात्पर्यम् || १५९ || अनुत्तरे पुनरेवंरूपत्वेऽपि विशेषोऽस्ति -- इत्याह -- अनुत्तरस्य साजात्ये भवेत्तु द्वितयी गतिः | अनुत्तरं यत्तत्रैकं तच्चेदानन्दसूतये || ३-१६० || प्रभविष्यति तद्योगे योगः क्षोभात्मकः स्फुटः | अत्राप्यनुत्तरं धाम द्वितीयमपि सूतये || ३-१६१ || न पर्याप्तं तदा क्षोभं विनैवानुत्तरात्मता | अनुत्तरस्य पुनः सजातीययोगे द्विप्रकारा गतिर्भवेत्, यत् यस्मात्तत्र तदेकमनुत्तरं चेत्, आनन्दसूतये प्रभविष्णुतामेष्यति तदा तेनापरेणानुत्तरेणैव योगे संबन्धे, क्षोभात्मक आनन्दरूप एव स्फुट योगः प्राग्वदेव निर्बाधः सन्धिः | यथा ᳚दण्डाग्रमित्यादावेकः प्रकारः, अथापि अर्थादेकस्यानुत्तरस्य᳚ द्वितीयमप्यनुत्तरं सङ्घट्टमानम् आनन्दजन्मने न पर्याप्तं स्यात्, तदा क्षोभात्मकानन्दप्रादुर्भावमन्तरेण ᳚अतो गुणे᳚ इति पररूपे कृते सति, अनुत्तरात्मतैव भवेत्, तथा शीमन्तम्᳚ इत्यादौ -- इति द्वितीयः || १६०-१६१ || एवमेतत् प्रसङ्गादभिधाय प्रकृतमेव ऊष्मणामुदयमभिधत्ते -- इच्छा या कर्मणा हीना या चैष्टव्येन रूषिता || ३-१६२ || शीघ्रस्थैर्यप्रभिन्नेन त्रिधा भावमुपागता | अनुन्मिषितमुन्मीलत्प्रोन्मीलितमिति स्थितम् || ३-१६३ || इष्यमाणं त्रिधैतस्यां ताद्रूप्यस्यापरिच्युतेः | तदेव स्वोष्मणा स्वात्मस्वातन्त्र्यप्रेरणात्मना || ३-१६४ || बहिर्भाव्य स्फुटं क्षिप्तं श-ष-सत्रितयं स्थितम् |
SK
एवमत्रैष्टव्यस्यापि विभज्यावस्थानं दर्शयति -- अनुन्मिषितमित्यादिना | एतस्यां त्रिधाभावमुपागतायामिच्छायामिष्यमाणमपि त्रिधैवावस्थितं, यतः ᳚ तत् सा केवलमिच्छामात्ररूपा स्रष्टव्यस्य विप्रकृष्टा᳚ इत्यादिनीत्या शुद्धायामिकाररूपायाम् ᳚अनुन्मिषितम्᳚ अनुल्लसितं शीघ्ररूपेण एष्टव्येनारूषितायामृकाररूपायाम् ᳚उन्मीलत्᳚ उल्लसद्रूपम्, स्थैर्यात्मना चैष्टव्येनारूषितायां ऌकाररूपायां ᳚प्रोन्मीलितम्᳚ उल्लसितमिति | ननु इष्यमाणस्य शीघ्रत्वादिभेदेन वैशिष्ट्यात्मस्वरूपप्रच्यावः प्राप्तः, इति त्रयोऽत्र विषया इति वाच्यं, न पुनरेक एव त्रिधा ? -- इत्याशङ्क्योक्तम्- ᳚ताद्रूप्यस्यापरिच्युतेरिति᳚ | नहि शीघ्रत्वादिभेदेऽपीष्यमाणतालक्षणाद्रूपादस्य प्रच्यावः -- इति भावः | तदेवं त्रिविधमपीष्यमाणम् स्वातन्त्र्यलक्षणेन स्वोष्मणा बहीरूपतया समुल्लासितं सत् ऊष्मसंज्ञशषसत्रितयात्मना प्रस्फुरेत् | अत आह -- ᳚तदेवेत्यादि᳚ | एवमेषणीयस्य तदतिरेकासंभवात् त्रिप्रकारापीच्छैव स्वोष्मवशात् एवं परामर्शत्रयात्मना प्रस्फुरिता -- इति तात्पर्यार्थः | तदुक्तम् -- ᳚इच्छैव स्वोष्मणाक्रान्ता कलात्रयसमाश्रिता |᳚ इति | अत एवैषामिच्छायाश्च ᳚इचुयशानां तालु᳚ ᳚द्धटुरषाणां मूर्धा᳚ ᳚ऋतुलसानां दन्ताः᳚ इत्यादिना सस्थानत्वमुक्तम् | इयदन्तमेव विस्फार इत्यप्यनेन प्रकाशितम् || १६२-१६४ || अत आह -- तत एव सकारेऽस्मिन्स्फुटं विश्वं प्रकाशते || ३-१६५ || अमृतं च परं धाम योगिनस्तत्प्रचक्षते | तत इति प्रोन्मिलितस्यापीष्यमाणस्य बहीरूपतया समुल्लासितत्वात् | अनेनैव चाभिप्रायेण शार्णेनाण्डत्रयं व्याप्तम्᳚ इत्याद्युक्तम् | अत एव चेयद्विश्वाप्यायकारित्वात् शोमं चामृतनाथं च सुधासारं सुधानिधिम् | सकारं षड्रसाधारं नामभिः परिकीर्तितम् ||᳚ इत्यादिदृशा अमृतबीजतयोक्तेश्च गुरवस्तत्परामृतं धाम प्रचक्षते सर्वशास्त्रेषु कथयन्ति -- इत्यर्थः || १६५ || ननु चास्य किमेवंरूपत्वं क्वचिद्विभाव्यते, न वा ? इत्याशङ्क्याह -- क्षोभाद्यन्तविरामेषु तदेव च परामृतम् || ३-१६६ ||
SK
सीत्कारसुखसद्भावसमावेशसमाधिषु | क्षोभस्य आदियागरूपस्य ये आद्यन्तविरामाः, तेषु ये सीत्कारादयः तेषु तदेवामृतं परं धाम अर्थादभिव्यज्यते -- इति संबन्धः | एवमस्य परानन्दमयतोद्रेचनेन ᳚करणमरीचिचक्रमुदयं कुरुते रभसात् स्थितिमुपयाति तत्र परसौख्यरसान्ततया | विलयमुपैति चात्र परबोधभरक्षपणात् परमकलात्र केवलतया विलसत्यमला ||᳚ इत्याद्युक्तयुक्त्या प्रथमं करणचक्रस्य क्षोभौन्मुख्यात् उदितसीत्कारादौ, अनन्तरं तत्रैव विश्रान्त्या परसामरस्यात्मसौख्यसमावेशे, तदनु च तत्रैव दार्ढ्येन निरूढ्या शदिति ब्रह्म परमम्᳚ इत्यद्युक्त्या सतः परस्य ब्रह्मणो भावः सत्ता, तत्र यः समावेशः - - देहादिप्रमातृतानिमज्जनेन चित्प्रमातृताया उन्मज्जनम्, स एव समाधिः परसंवित्कलारूपत्वेन परिस्फुरणम्, तत्रेति एवमादिष्वानन्दस्थानेष्वभिव्यक्तिः -- इत्यर्थः || १६६ || एवं चास्य परब्रह्मरूपत्वमेवेत्युक्तं स्यादत आह -- तदेव ब्रह्म परममविभक्तं प्रचक्षते || १६७ || ब्रह्मेति -- शर्वं खल्विदं ब्रह्म᳚ इत्याद्युक्त्या व्यापकं रूपम् -- इत्यर्थः | अत एव ᳚अविभक्तमित्युक्तम्᳚ -- नियतरूपस्य हि विभागो भवेत् -- इति भावः | प्रचक्षते इति -- श्रीपरात्रिंशकादौ | तथाहि -- तत्र पराबीजोद्धारे ᳚तृतीयं ब्रह्म सुश्रोणि᳚ इत्युक्तं, तृतीयं ब्रह्म सकारः, यद्गीतं ᳚ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः |᳚ इति || १६७ || यत एव चास्य व्यापकममृतं च रूपम्, अत एव अन्यत्र ᳚विषतत्त्वमिति᳚ व्यपदेशान्तरमप्यस्ति -- इत्याह -- उवाच भगवानेव तच्छ्रीमत्कुलगुह्वरे | शक्तिशक्तिमदैकात्म्यलब्धान्वर्थाभिधानके || ३-१६८ || काकचञ्चुपुटाकारं ध्यानधारणवर्जितम् | विषतत्त्वमनच्काख्यं तव स्नेहात्प्रकाशितम् || ३-१६९ || अन्वर्थाभिधानके इति -- तदुक्तं तत्रैव -- ᳚कुलं शक्तिः समाख्याता गह्वरं शक्तिमानपि | उभयोर्वेदनैकत्वं कथ्यते कुलगुह्वरम् ||᳚
SK
इति | तत्रत्यमेव ग्रन्थं पठति ᳚काकचञ्चु᳚ इत्यादि | संबोधनसारत्वाद्युष्मदर्थस्य -- ᳚हे देवि तव स्नेहात्᳚ शासनीयत्वेनानुकम्प्यत्वात्, विषस्य व्यापकस्य रूपस्य, यत्तत्त्वम् सर्वत्राप्रतिहतत्वम्, तत्प्रकाशितम् अन्योन्यसङ्घट्टात्मसामरस्यावसरेऽनुभवगोचरतामापादितम् -- इत्यर्थः, तच्चानाहतरूपत्वादनच्कशब्दाभिधेयम् | अत एव सततोदितत्वेन ध्यानादिनिरपेक्षम् | तद्धि नियतध्येयादिनिष्ठम् -- इति भावः | एवमपि काकचञ्चुपुटवदाकारो यस्य तत् तथाविधम्, अनच्कस्य द्विकुब्जतया तथा संनिवेशात् || १६८-१६९ || नन्विह अमृतबीजमुपक्रान्तं वर्तते, न च तस्यैवं रूपं संभवति, तस्य कामाक्षरविषयत्वेनोक्तत्वात्, तत्किमर्थमत्रैतत्संवादितम्, भगवतोऽपि -- ᳚यदेतत्कामतत्त्वं तु विषतत्त्वं तदेव हि | तदिदानीं समासेन शृणु त्वं मृगलोचने ||᳚ इत्यादिना कामतत्त्वस्यैव पुनर्विषतत्त्वत्वेनाभिधाने क आशयः ? -- इत्याशङ्क्याह -- कामस्य पूर्णता तत्त्वं सङ्घट्टे प्रविभाव्यते | विषस्य चामृतं तत्त्वं छाद्यत्वेऽणोश्च्युते सति || ३-१७० || ननु भगवता श्रीकुलगुह्वरे कामतत्त्वविषतत्त्वयोः प्राणनामात्ररूपां प्राणादिवायुपञ्चकसामान्यभूतां षष्ठीं प्राणकलामधिकृत्य स्वरूपं निरूपितम्, न पुनः प्राणमात्रम्, तस्यैवंरूपासंभवात् | तस्य हि रेचकादिदशासु परेच्छाधीनवृत्तित्वादुच्चार्यमाणत्वप्रतिहन्यमानत्वाद्यपि संभवेत् | विशिष्टत्वं पुनः कामतत्त्वस्य प्राणरूपत्वम्, विषतत्त्वस्य च अपानरूपत्वम् | अत एवानयोर्हकारसकारात्मत्वम् | तदुक्तम्� श-हौ क्षपादिनामानावधरोत्तरचारिणौ |᳚ परस्परद्वेषरतौ मतौ नगहुडूपमौ || कस्तौ रोधयितुं शक्तो वीर्यं मुक्त्त्वा स्वयं महत् |᳚ इति | तथा, ᳚ऊर्ध्वे बिन्दू रविः प्राणो दिनं भागार्धमेव च | सिद्धैरधिष्ठितो भागः खेचर्याराधनात्मकः || अधो नादस्तथापानो मत्तगन्धः क्षपा शशी | खेचर्यधिष्ठितो भागः सिद्धसेव्यो लयात्मकः ||᳚
SK
इति | एवं वैशिष्ट्येऽपि अनयोः सामान्यस्य विशेषनिष्ठत्वात् प्राणनमात्ररूपत्वम् उभयत्रापि संभवतीति एकरूप्येण निर्देशः, यदभिप्रायेण कामतत्त्वस्यैव विषतत्त्वत्वेन भगवतोऽभिधानम्, इह चैतत्संवादनम्, अत एव कामस्य कामतत्त्वस्यापि पूर्णता स्वात्ममात्रविश्रान्तेरनन्याकाङ्क्षिता नाम, तत्त्वम् पारमार्थिकं रूपम्, सङ्घट्टे प्रविभाव्यते परस्परसामरस्यात्मसंक्षोभावसरे सर्वैरेव साक्षात्क्रियते -- इत्यर्थः | विषतत्त्वस्याप्यणोः परिमितस्य देहादिमातुः स्वाभाविकपूर्णदृक्किर्यावारके पारिमित्यात्मनि छाद्यत्वे च्युते वेद्यवेदकविभागविगलनात्पूर्णे रूपे समुदिते सति, आमृतम् विकासदशामयं तत्त्वं सङ्घट्टे प्रविभाव्यते -- इति पूर्वेणैव संबन्धः || १७० || ननु चास्य स्वाभाविकपूर्णदृक्क्रियावरणेऽपि किं निमित्तम् ? इत्याशङ्क्याह -- व्याप्त्री शक्तिर्विषं यस्मादव्याप्तुश्छादयेन्महः | शक्तिरिति पारमेश्वरी स्वरूपगोपनारूपा मायाख्या | मह इति स्वाभाविकपूर्णदृक्क्रियारूपम्, विषमपि हि बहिर्व्यापकत्वादव्याप्तुरण्वात्मनो दृक्क्रियावरणमेव कुर्यादित्यत्र तदारोपः || एवं न केवलमस्य कामतत्त्वत्वमस्ति, विषतत्त्वत्वं वा, यावन्निरञ्जनत्वमपि -- इत्याह -- निरञ्जनं परं धाम तत्त्वं तस्य तु साञ्जनम् || ३-१७१ || क्रियाशक्त्यात्मकं विश्वमयं तस्मात्स्फुरेद्यतः | प्रोन्मीलितस्यापि इष्यमाणस्य बहीरूपतया समुल्लासितत्वात्क्रियाशक्त्यात्मकम्, अत एव विश्वमयं यत्परम् आपूरकम्, धाम -- सकारात्म चान्द्रं तेजः, तन्निरञ्जनं ᳚एतत्त्रितयमैक्येन यदा तु प्रस्फुरेत्तदा | न केनचिदुपाधेयं स्वस्वविप्रतिषेधतः ||᳚ इत्यादिपूर्वोक्तयुक्त्या न केनचिदप्युपाधेयम् -- इत्यर्थः | तस्य पुनः क्रियाशक्त्यात्मनः चान्द्रस्य धाम्नो यत्तत्त्वम् परमप्रकाशात्म शक्तिमल्लक्षणं विश्रान्तिस्थानं तत्साञ्जनं ᳚शक्तिमानञ्ज्यते यस्मान्न शक्तिर्जातु केनचित् |᳚
SK
इत्यादिप्रागुपपादितयुक्त्या शक्तिकर्तृकेन व्यक्तीकरणेन युक्तम् -- इत्यर्थः | अत आह -- ᳚तस्मात्स्फुरेद्यतः᳚ इति | तस्माद्धेतोः, यतः शक्तेः सकाशात्, स्फुरेत् -- ᳚...........................शैवी मुखमिहोच्यते |᳚ इत्याद्युक्त्या स्वशक्त्यैवाभिव्यज्यते -- इत्यर्थः || १७१ || ननु कामादेस्तत्त्वत्रयस्य इच्छादिशक्तित्रयरूपत्वमस्ति, तत्कथमेकस्यैव अमृतबीजस्य एतद्रूपत्वमुक्तम् ? -- इत्याशङ्क्य विभागावेदनपूर्वमेषामविभागमेव द्रढयति -- इच्छा कामो विषं ज्ञानं क्रिया देवी निरञ्जनम् || ३-१७२ || एतत्त्रयसमावेशः शिवो भैरव उच्यते | भैरव इति -- विश्वमयत्वेन पूर्णत्वात् | अत एव ᳚तदेव ब्रह्म परमम्᳚ इत्याद्युक्तम् || १७२ || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह -- अत्र रूढिं सदा कुर्यादिति नो गुरवो जगुः || ३-१७३ || विषतत्त्वे सम्प्रविश्य न भूतं न विषं न च | ग्रहः केवल एवाहमिति भावनया स्फुरेत् || ३-१७४ || अत्रेति विषतत्त्वात्मनि व्यापके रूपे, रूढिमिति अनुप्रवेशम् | किं चात्र रूढ्या भवेत् ? -- इत्याशङ्क्याह -- ᳚विषतत्त्वे᳚ इत्यादि | भूतमिति यक्षादि | ग्रह इति अनात्मनि आत्माभिमानः | तद्धि परिमिंतस्य प्रमातुर्भवेत् -- इत्यभिप्रायः | परप्रमात्रात्मनि व्यापके रूपे समावेशभाजः पुनर्भावनाभ्यासात् ᳚अहम्᳚ इत्येव परमाद्वयमयतोल्लसेत्, येनास्य तदतिरिक्तमुपद्रवनिमित्तं न किञ्चिदपि भायात् -- इति भावः | यदुक्तम् श्रीकुलगुह्वरे -- ᳚यदा शून्यं निरालम्बं ध्यानधारणवर्जितम् | सर्ववर्णधरं शान्तं सर्ववर्णविवर्जितम् || चिन्मात्रं केवलं शुद्धं विषनिर्वाहकारकम् | न विषं न ग्रहः पापं न यक्षो न च राक्षसः || न पिशाचादिकं किञ्चिन्नायं नाहं विभावयेत् | केवलं भावमात्रेण................................... ||᳚ इत्यादि || १७३-१७४ || ननु इष्यमाणरूषिताया इच्छायाः पूर्वं क्षोभान्तरस्यासंभवात् ᳚................णेदं बीजं च कस्यचित् |᳚ इत्याद्युक्त्या षण्ठत्वं प्रतिज्ञातम्, अनन्तरं चात्र
SK
᳚या तूक्ता ज्ञेयकालुष्य.................... |᳚ इत्यादि, तथा शैव शीघ्रतरोपात्त ....................... |᳚ इत्यादि, तथा ᳚....................षा चैष्टव्येन रूषिता |᳚ इत्यादिवाक्यैः षण्ठवर्णेभ्यः क्षोभान्तरस्यापि सद्भाव उक्तः, इत्येषां पूर्वप्रतिज्ञातं षण्ठत्वं कथं निर्वहेत् ? -- इत्याशङ्क्य प्रतिविधत्ते -- नन्वत्र षण्ठवर्णेभ्यो जन्मोक्तं तेन षण्ठता | कथं स्यादिति चेद् ब्रूमो नात्र षण्ठस्य सोतृता || ३-१७५ || तथाहि तत्रगा यासाविच्छाशक्तिरुदीरिता | सैव सूते स्वकर्तव्यमन्तःस्थं स्वेष्टरूपकम् || ३-१७६ || यत्त्वत्र रूषणाहेतुरेषितव्यं स्थितं ततः | भागान्न प्रसवस्तज्जं कालुष्यं तद्वपुश्च तत् || ३-१७७ || जन्मोक्तमिति -- टवर्गादीनाम् | ब्रूम इति -- ङात्र षण्ठस्य सोतृता इत्युत्तरम् | एतदेवोपपादयति ᳚तथाहीत्यादिना᳚ | यतः षण्ठगता येयमिच्छाशक्तिरुक्ता सैव अन्तःस्थम् स्वाभेदेन वर्तमानमपि यथास्वं नियतं रूपमात्मीयं कार्यं ᳚टवर्गादि᳚, बहिरुल्लासयेत्, न पुनस्तद्गतं रूषणानिमित्तं चिरक्षिप्रस्वभावमेषितव्यम् | तद्धि कालुष्यमेव जनयेत् | एतावतैव च एतच्चरितार्थम्, इति न कार्यान्तराविर्भावनायापि प्रभवति -- इति भावः | तच्च कालुष्यं तन्निमित्तमेषितव्यं वा अस्या इच्छायाः एव वपुः तदेकात्मकम् -- इत्यर्थः | नहि प्रकाशैकस्वभावाया इच्छाया अन्यदतिरिक्तं नाम किञ्चित्संभवेत् -- इति भावः | तेन वस्तुत इच्छाया एव प्राधान्यात् तत्तत्स्वकार्याविर्भावकत्वम् इति युक्तमुक्तं शैव सूते᳚ इति || १७७ || नन्वेवमपि षण्ठानां सर्वसर्विकया न बीजत्वमपास्तं भवेत् ? इत्याशङ्क्याह -- ज्ञेयारूषणया युक्तं समुदायात्मकं विदुः | षण्ठं क्षोभकताक्षोभधामत्वाभावयोगतः || ३-१७८ ||
SK
इष्यमाणस्य इच्छायाश्च मेलनारूपं हि षण्ठं विदुः, यतोऽत्र न क्षोभकत्वं क्षोभाधारत्वं चेति | तेन केवलाया इच्छाया एव क्षोभान्तराविर्भावकत्वेऽपि नैषां बीजत्वमपास्तं भवेत् -- समुदायात्मकत्वात्षण्ठत्वस्य, इति युक्तमुक्तं ङात्र षण्ठस्य सोतृता᳚ इति᳚ || १७८ || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह -- एतद्वर्णचतुष्कस्य स्वोष्मणाभासनावशात् | ऊष्मेति कथितं नाम भैरवेणामलात्मना || ३-१७९ || चतुष्कस्येति -- हकारेण सह | तस्य ह्यनुत्तराज्जन्म -- इति भङ्ग्या प्रागेवोक्तम् | अनुत्तरस्य हि शक्तिर्विसर्गः, तस्यैव चाश्यानं रूपम् अयम् इति | अत एवानुत्तरेणास्य सस्थानत्वम् | स्वोष्मणेति स्वातन्त्र्यलक्षणेन स्वात्मतेजसा -- इत्यर्थः | नहि इच्छाया अनुत्तरस्य वा परामर्शान्तरवदन्यापेक्षया एतदाभासमानम्, अपि तु स्वमाहात्म्यादेव -- इति भावः | यद्यपि कवर्गादीनामनुत्तरादेरेकैकस्मादेव जन्मोक्तं तथापि तच्छक्त्यन्तरप्रयोजकीकारेण, इति युक्तमुक्तं श्वोष्मणाभासनावशात् इति᳚ || १७९ || न केवलं कादि-हान्तस्य वर्णजातस्य स्पर्शादितया पृथक् पृथगभिधानं यावदपृथक्त्वेनापि -- इत्याह -- कादि-हान्तमिदं प्राहुः क्षोभाधारतया बुधाः | क्षोभाधारतया इति योनितया -- इत्यर्थः | यदुक्तम् -- ᳚कादिभिश्च स्मृता योनिः................... |᳚ इति || न केवलं उक्तनीत्या बीजानामेव बीजान्तरयोगे क्षोभान्तराविर्भावो भवेत्, यावद्योनेरपि योन्यन्तरयोगेन -- इत्याह -- योनिरूपेण तस्यापि योगे क्षोभान्तरं व्रजेत् || ३-१८० || तन्निदर्शनयोगेन पञ्चाशत्तमवर्णता | तस्येति योनिरूपस्य कादेः | तथा च तस्य क्षोभान्तरस्य निदर्शनयुक्त्या तदेव क्षोभान्तरमुदाहर्तं मातृकायां पञ्चाशता पूरणेन वर्णेन ᳚क्षकाराख्येन कूटबीजेन᳚ संबन्धः | स हि आद्यन्तभूतयोरनुत्तरविसर्गानुप्राणितयोः ककारसकारयोः प्रत्याहारतयोपात्तो येन निखिलमेव यौगपद्येन मातृकायाः सतत्त्वं प्रदर्शितं भवतीति | तदुक्तं श्रीक्षेमराजपादैः --
SK
᳚तदियत्पर्यन्तं यन्मातृकायास्तत्त्वं तदेव ककारसकारप्रत्याहारेणानुत्तरविसर्गसङ्घट्ट सारेण कूटबीजेन प्रदर्शितमन्ते |᳚ इति || १८० || ननु, ᳚ज्ञेयरूपमिदं पञ्चविंशत्यन्तं यतः स्फुटम् |᳚ इत्याद्युक्त्या कादयो मावसानाः पञ्चविंशतिर्वर्णा ज्ञेयरूपतया भेदैकस्वभावा निर्दिष्टाः, तदनन्तरभावि पुनश्चतुष्कद्वयं कीदृग्रूपम् ? -- इत्याशङ्क्याह -- पञ्चविंशकसंज्ञेयप्राग्वद्भूमिसुसंस्थितम् || ३-१८१ || चतुष्कं च चतुष्कं च भेदाभेदगतं क्रमात् | एतदेव प्रपञ्चयति -- आद्यं चतुष्कं संवित्तेर्भेदसंधानकोविदम् || ३-१८२ || भेदस्याभेदरूढ्येकहेतुरन्यच्चतुष्टयम् | भेदेति -- संविदः सकाशाद्विच्छिन्नम् -- इत्यर्थः | अत एवास्य स्थूल वाय्वादिभूतरूपत्वमुक्तम् | अभेदेति -- इच्छाशक्तिसमुत्थत्वेन शाक्तेजोमात्र रूपत्वात् || १८२ || इदानीमेवमुपपादितं कादिहान्तं वर्णजातं स्वरानुप्राणितमेव भवति, इति दर्शयितुमाह -- इत्थं यद्वर्णजातं तत्सर्वं स्वरमयं पुरा || ३-१८३ || व्यक्तियोगाद्व्यञ्जनं तत्स्वरप्राणं यतः किल | इत्थम् समनन्तरोक्तनीत्या, वर्णजातं यदुक्तम् तत्सर्वमुदयात्पूर्वं श्वरमयम्᳚ स्वराणामेवान्तः शक्त्यात्मना रूपेणावस्थितम् -- इत्यर्थः | अन्यथा ह्येषां तत्तत्संयोजनवियोजनेनैवंरूपतयाभिव्यक्तिरेव न भवेत् -- इति भावः | अत एव तद्वर्णजातं बहिरभिव्यक्तं सत् व्यज्यत इति ᳚व्यञ्जनम्᳚ न पुनरपूर्वतयैव उत्पाद्यं पूर्वमपि स्वरात्मनास्यावस्थानात् | व्यङ्ग्यस्य च व्यञ्जकसंनिधावेव तत्त्वं भवेत् नान्यथा ? -- इत्याशङ्क्याह -- श्वरप्राणं यतः᳚ इति | अभिव्यक्तमेव एतद्वर्णजातं स्वरानुप्राणितमेव भवेत्, अन्यथा हि अनच्कतया अस्य उच्चार एव न भवेत् || १८३ || एवं च श्वरा एव सर्ववर्णानां मूलकारणम्᳚ इयुक्तं भवेत् -- तदाह -- स्वराणां षट्कमेवेह मूलं स्याद्वर्णसंततौ || ३-१८४ || षड्देवतास्तु ता एव ये मुख्याः सूर्यरश्मयः |
SK
षट्कमिति अकारादूकारान्तम् | एवकारेण स्वरान्तराणां व्यवच्छेदः | तेषामप्येतत् स्फारमात्रमेव हि रूपम् -- इत्याशयः | एवमेषां षण्णामेव वर्णान्तराभिव्यञ्जने प्रकाशरूपत्वमित्युक्तं स्यात् | अतश्च प्रकाशरूपत्वादेव एषामन्यत्र ᳚षड्देवतात्मकं सूर्यरश्मित्वम्᳚ अप्युक्तम् -- इत्याह -- ᳚षड्देवता᳚ इत्यादि | यदुक्तम्� ᳚दहनी पचनी धूम्र कर्षिणी वर्षिणी रसा |᳚ इति | मुख्या इति -- दाहकत्वादीनां शक्तीनां प्रकाशैकनिष्ठत्वात्, यदुक्तम् -- ᳚षडेवेह स्वरा मुख्याः कथिता मूलकारणम् | ते च प्रकाशरूपत्वाद्विज्ञेयाः सूर्यरश्मयः ||᳚ इति || १८४ || न केवलमेषां सौरमेव रूपं संभवेद्यावच्चान्द्रमपि -- इत्याह� सौराणामेव रश्मीनामन्तश्चान्द्रकला यतः || ३-१८५ || अतोऽत्र दीर्घत्रितयं स्फुटं चान्द्रमसं वपुः | एतच्च पूर्वमेवोपपादितम्, इति नेह पुनरायस्तम् || १८५ || ननु परस्परव्यावृत्तत्वात्सर्वभावानां कथं सौराणां रश्मीनामन्तश्चान्द्य्रः कलाः संभवन्ति ? -- इत्याशङ्क्याह -- चन्द्रश्च नाम नैवान्यो भोग्यं भोक्तुश्च नापरम् || १८६ || भोक्तैव भोग्यभावेन द्वैविध्यात्संव्यवस्थितः | घटस्य न हि भोग्यत्वं स्वं वपुर्मातृगं हि तत् || ३-१८७ || अतो मातरि या रूढिः सास्य भोग्यत्वमुच्यते |
SK
चन्द्रो हि नाम न सूर्यादन्यो यतस्तद्भोग्यम् | भोग्यं हि नाम प्रमेयमुच्यते | न च प्रमेयं तदुपसर्जनवृत्तित्वात्प्रमाणादतिरिच्यते - - इत्याशयः | तच्चैवंविधं भोग्यं भोक्तुरप्यतिरिक्तं न भवेत्, वस्तुतः सर्ववस्तूनां प्रमातर्येव विश्रान्तेः, अतश्च भोक्तैव तदुभयात्मना रूपेण प्रस्फुरति -- इति भावः | अत आह -- ᳚भोक्तैव भोग्यभावेन᳚ इत्यादि | ननु विप्रतिषेधात्कथं भोग्यभोक्त्रोरेकत्वम् ? -- इत्याशङ्क्याह -- ᳚घटस्येति᳚ | नहि ज्ञेयत्वं नाम घटादेर्ज्ञेयता तस्यात्मीयो धर्मः, तथात्वे हि तस्य सर्वान्प्रत्यविशेषात्सर्वे सर्वज्ञाः स्युः | तेन ज्ञातुरेव स धर्मः, तस्यैव तत्त्वज्ञानोदयेनातिशयदर्शनात् | अतोऽस्य घटादेर्या ज्ञातरि विश्रान्तिस्तदेव ज्ञेयत्वं नाम उच्यते इति | यदुक्तम् -- ᳚भोक्तुर्भोग्यं नापरम्᳚ -- इति || १८६-१८७ || एतदेव प्रकृते योजयति -- अनुत्तरं परामृश्यपरामर्शकभावतः || १८८ || सङ्घट्टरूपतां प्राप्तं भोग्यमिच्छादिकं तथा | अनुत्तरम् -- आदिवर्णलक्षणं परं रूपम् स्वात्मनि भोक्तृभोग्यभावमाभास्य परस्परौन्मुख्येन सङ्घट्टरूपतां प्राप्तं सत्, ᳚भोग्यम्᳚ इत्युच्यते, अन्यथा न भोक्तृत्वं भोग्यत्वं च भवेत्, अन्योन्यापेक्षत्वात्तयोः | तेनाकारद्वयस्य सङ्घट्टादाकारलक्षणं भोग्यं जातमिति तात्पर्यम् | भोग्यं चात्र वक्तुमुपक्रान्तमिति प्राधान्येन तदेवोपात्तम् | एवमिच्छोन्मेषावपि स्वात्मनि भोक्तृभोग्यभावेन सङ्घट्टमासाद्यैषणोनतात्मभोग्यरूपतामाप्ताविति युक्तमुक्तम् -- ᳚अतोऽत्र दीर्घत्रितयं स्फुटं चान्द्रमसं वपुः᳚ इति || १८८ || नन्वेवं भोग्यं तावदास्तां न कश्चिद्दोषो भोक्तुः पुनरनेकरूपतायामद्वयहानिः�इति स्वसिद्धान्तभङ्गो भवेत् ? -- इत्याशङ्क्य इच्छादेर्भोग्यत्वमेवास्ति, न पुनर्भोक्तृत्वम्, इति दर्शयति -- अनुत्तरानन्दभुवामिच्छाद्ये भोग्यतां गते || ३-१८९ || संध्यक्षराणामुदयो भोक्तृरूपं च कथ्यते |
SK
यद्यपीच्छादीनां स्वापेक्षया भोक्तृत्वमस्ति तथापि अनुत्तरापेक्षया एषां भोग्यता विश्रान्तिमेति, तदा संध्यक्षराणामुदयः सृष्टिर्भवेत् | ᳚अनुत्तरानन्दभुवाम्᳚ इति बहुवचननिर्देशो व्यक्त्यपेक्षो ज्ञेयः | स चोदयो भोक्तृप्राधान्ये भवेदित्युक्तम् ᳚भोक्तृरूपं च कथ्यते᳚ इति, अत एवात्र इच्छाद्यं गुणभूतम् | अत एवानुत्तरेच्छादिसङ्घट्टमयत्वाविशेषेऽपि अन्तःस्थानां संध्यक्षरेभ्योऽयमेव विशेषः यत्संध्यक्षराणि गुणीभूतेच्छाकानि अनुत्तरप्रधानानि, अन्तःस्थास्तु गुणीभूतानुत्तरा इच्छादिप्रधाना इति एवमनुत्तर एव एकः पारमार्थिको भोक्तेति सिद्धम्, स हि स्वप्रकाशत्वात्स्वात्मनि प्रमेयत्ववार्तामपि न सहते इति तस्य कथं भोग्यत्वं भवेत् | इच्छादिकं पुनर्भोग्यमेवेत्यस्य भोग्यत्वम् || १८९ || अत आह -- अनुत्तरानन्दमयो देवो भोक्तैव कथ्यते || ३-१९० || इच्छादिकं भोग्यमेव तत एवास्य शक्तिता | आनन्दस्य भोग्यत्वेऽपि अनुत्तराव्यतिरेकाद्भोक्तृत्वमप्यस्ति इत्यवद्योतयितुमिहानन्दग्रहणम् | ᳚भोग्यमेव᳚ इत्येवकारेण भोक्तृत्वव्यवच्छेदः | यत्पुनरेषणाद्यपेक्षया भोक्तृत्वमुक्तं तन्न पारमार्थिकम्, भोग्यस्यैव सतः तथात्वेन कल्पनात् | ᳚ततः᳚ इति भोग्यत्वात् | भोग्यत्वमेव हि शक्तित्वं यदभिप्रायेणैव ᳚शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः᳚ -- इत्युक्तम् ||१९०|| नन्वेवं पुनरपि भोक्ता भोग्यं चेति द्वयमेवापतितम् ? इत्याशङ्क्याह -- भोग्यं भोक्तरि लीनं चेद् भोक्ता तद्वस्तुतः स्फुटः || ३-१९१ || अतः षण्णां त्रिकं सारं चिदिष्युन्मेषणात्मकम् |
SK
इह भोग्यं तावद्भोक्तारमन्तरेण स्वात्मनि सत्तामेव लब्धुं नोत्सहते, इति भोग्यत्वमपि तस्य कथं स्यात्, भोक्तरि चेद्विश्रान्तं तद्भोक्तैवावशिष्यते, न तदतिरिक्तं भोगयं नाम किञ्चित् इति भोक्तैव साक्षाद्विजृम्भते | न काचिदद्वयवादहानिः | एवं भोग्यात्मदीर्घत्रयं भोक्त्रात्मनि ह्रस्वत्रये प्रत्येकं विश्रान्तम् -- इति ह्रस्वत्रयमेव प्रधानभूतमिति तात्पर्यम् | तदाह -- ᳚अतः᳚ इत्यादि | चित् अनुत्तरम् | इषिः इच्छा || १९१ || नन्वेवमपि भोक्तुरानैक्यादद्वयवादहानिरिति तदवस्थ एव स दोषः ? -- इत्याशङ्क्याह -- तदेव त्रितयं प्राहुर्भैरवस्य परं महः || ३-१९२ || तत्त्रिकं परमेशस्य पूर्णा शक्तिः प्रगीयते | तदेव समनन्तरोक्तमनुत्तरेच्छोन्मेषात्मकम्, ᳚त्रितयम्᳚, भैरवस्य -- अनन्यापेक्षत्वात् पूर्णस्य तत्त्वस्य, परम् विश्वापूरकं शाक्तं तेजः प्राहुः, यतः ᳚बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्ता |᳚ इत्याद्युक्तयुक्त्या तदेव त्रिकं पूर्णं सङ्घट्टितं सत् परमेश्वरस्य स्वातन्त्र्यलक्षणा शक्तिः सर्वत्रैवेष्यते, यतोऽयं वाच्यवाचकात्मनो विश्वस्य प्रसरः, एतदेव हि त्रिकं सर्वाक्षेपेण वर्तते -- इत्यभिप्रायः || १९२ || तदाह� तेनाक्षिप्तं यतो विश्वमतोऽस्मिन्समुपासिते || ३-१९३ || विश्वशक्ताववच्छेदवन्ध्ये जातमुपासनम् | यतस्तेन त्रिकेण सर्वमिदमाक्षिप्तम् अतोऽस्मिन्नेव -- स्वातन्त्र्यशक्तिमात्रपरमार्थे त्रिके समावेशशालिनः ᳚..........................शैवी मुखमिहोच्यते |᳚ इत्याद्युक्त्या तद्द्वारेणैव अनवच्छिन्नस्वभावत्वात्पूर्णे शक्तिमद्रूपेऽपि अयत्नेनैव समावेशो जायते -- इति वाक्यार्थः || १९३ || सर्वं चैतदाक्षेप्यमेत्स्फारसारमपरिच्छेद्यं चेत्याह -- इत्येष महिमैतावानिति तावन्न शक्यते || ३-१९४ || अपरिच्छिन्नशक्तेः कः कुर्याच्छक्तिपरिच्छिदाम् | न शक्यते इति -- अर्थात्परिच्छेत्तुम् || १९४ || अत एव च स एव भगवाननुत्तरः स्वस्वातन्त्र्याद्विश्वरूपतामाप्तः -- इत्याह -- तस्मादनुत्तरो देवः स्वाच्छन्द्यानुत्तरत्वतः || ३-१९५ ||
SK
विसर्गशक्तियुक्तत्वात्सम्पन्नो विश्वरूपकः | विसर्गशक्तियोगे स्वाच्छन्द्यमनुत्तरत्वं च हेतुः | स्वतन्त्रस्यैव हि पञ्चविधकृत्यकारित्वाद्विसर्गे सामर्थ्यम् | अनुत्तरस्यैव च शक्तिः विसर्गशब्दव्यपदेश्येति | यदुक्तं प्राक् -- ᳚अनुत्तरं परं धाम तदेवाकुलमुच्यते | विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते ||᳚ इति || १९५ || नन्वेवं विश्वरूपतायामस्यानैक्यं स्यात्, इत्यद्वयहानिः ? -- इत्याशङ्क्याह -- एवं पञ्चाशदामर्शपूर्णशक्तिर्महेश्वरः || ३-१९६ || विमर्शात्मैक एवान्याः शक्तयोऽत्रैव निष्ठिताः | पञ्चाशदामर्शा आदि क्षान्ताः | एक इति -- शक्तिशक्तिमतोरभेदात् | ननु समनन्तरमेव शक्तीनामपरिच्छिन्नत्वमुक्तं तत्कथं तासां पञ्चाशदिति नियतावच्छेदः सङ्गच्छते ? -- इत्याशङ्क्योक्तम् -- ᳚अन्याः शक्तयोऽत्रैव निष्ठिताः᳚ इति | अन्या इति तत्संयोगवियोगसमुत्थाः ᳚घटः पट᳚ इत्येवमादयः | अत्रैव निष्ठिताः -- पञ्चाशतोऽतिरिक्तस्य परामर्शस्यानुपपत्तेः || १९६ || अत एव चार्धमात्रागणनाक्रमेण एकाशीतिपदापि देवी वर्णपञ्चाशत्येवान्तर्भावयिष्यते -- इत्याह -- एकाशीतिपदा देवी ह्यत्रान्तर्भावयिष्यते || ३-१९७ || अत्रान्तर्भावयिष्यते इति एतन्निष्ठतयैव पर्यवसाययिष्यते यद्वक्ष्यति -- ᳚कालोऽर्धमात्राः कादीनां त्रयस्त्रिंशत उच्यते | मात्रा ह्रस्वाः पञ्च दीर्घाष्टकं द्विस्त्रिः प्लुतं तु ऌ || एकाशीतिमिमामर्धमात्राणामाह नो गुरुः | यद्वशाद्भगवानेकाशीतिकं मन्त्रमभ्यधात् || एकाशीतिपदा देवी शक्तिः प्रोक्ता शिवात्मिका |᳚ इति ||१९७ || नन्वेवं परामर्शान्तराणामत्रैव निष्ठितत्वात्पञ्चाशदेव परामर्शा मुख्या, इति पुनरपि नियतावच्छेद एवापतेत् ? -- इत्याशङ्क्य अवच्छेदाधानासामर्थ्यं द्योतयितुमवास्तवत्वप्रकटीकाराय आमर्शविशेषणां तत्तदुपाधियोगोत्थापितत्वं दर्शयति -- एकामर्शस्वभावत्वे शब्दराशिः स भैरवः | आमृश्यच्छायया योगात्सैव शक्तिश्च मातृका || ३-१९८ || सा शब्दराशिसङ्घट्टाद् भिन्नयोनिस्तु मालिनी |
SK
प्राग्वन्नवतयामर्शात्पृथग्वर्गस्वरूपिणी || ३-१९९ || एकैकामर्शरूढौ तु सैव पञ्चाशदात्मिका | एकः आमृश्यशून्यत्वान्निःसहायः | आमर्शनमामर्शः परामर्शकः प्रमाता | तत्स्वभावत्वे पञ्चाशतोऽपि वर्णानां सङ्कलनया ᳚शब्दराशिः᳚ इति, ᳚भैरव᳚ इति व्यपदेशः | आमृश्येनापि योगात् ᳚शक्तिः᳚ इति मातृका इति च, सैव मातृका शब्दराशिसङ्घट्टाच्छक्तिशक्तिमदैक्यात्म्यलक्षणात् लवणारनालवत्परस्परमेलनात्, भिन्ना बीजैर्भेदिता योनयः व्यञ्जनानि यस्याः सा तथाविधा सती, ᳚म᳚ इति�वाच्यस्य प्रतियोग्यभावस्य, अलिनी विमर्शिका | मलते विश्वं स्वरूपे धत्ते, मालयति अन्तःकरोति कृत्स्नमिति च मालिनीति व्यपदिश्यते | भिन्नयोनित्वादेव च अस्या बीजयोनीनां विसंस्थुलत्वात् नादिफान्तत्वम् | प्राग्वदिति -- षोडशकपञ्चपञ्चकचतुष्कद्वयैकरूपतया यथापूर्वम् उक्तम् -- इत्यर्थः, तदुक्तम् -- ᳚......................णवधा वर्गभेदतः | पृथग्वर्गविभेदेन शतार्धकिरणोज्ज्वला ||᳚ इति || १९९ || तदेवमत्र वर्णपञ्चाशतः प्रत्येकं भेदेन स्वरूपमभिधाय अभेदेनापि अभिदधदेव तदनुषक्तमनुजोद्देशोद्दिष्टं मन्त्राद्यभिन्नरूपत्वमपि आसूत्रयति -- इत्थं नादानुवेधेन परामर्शस्वभावकः || ३-२०० || शिवो मातापितृत्वेन कर्ता विश्वत्र संस्थितः | इत्थम् उक्तेन वक्ष्यमाणेन च प्रकारेण, नादेन हकारात्मना शक्त्या, योऽसावनुवेधः तादात्म्यापत्तिः, तेन अनुत्तरः परमेश्वरः शिव एव ᳚अकारश्च हकारश्च द्वावेतावेकतः स्थितौ | विभक्तिर्नानयोरस्ति मारुताम्बरयोरिव ||᳚ इत्याद्युक्त्या परमन्त्रवीर्यस्वभाव-अकारहकारात्मपरामर्शरूपो भवेत्, यतः स एव कर्ता परप्रमात्रेकरूपो वर्णपञ्चाशदात्मनि विश्वत्र, मातापितृत्वेन संस्थितः अनुत्तरविसर्गरूपतया प्रस्फुरितः -- इत्यर्थः || २०० || नन्वेवमपि भेदेनैव वर्णपञ्चाशतो रूपमुक्तं स्यात् नाभेदेन ? इत्याशङ्क्याह -- विसर्ग एव शाक्तोऽयं शिवबिन्दुतया पुनः || ३-२०१ || गर्भीकृतानन्तविश्वः श्रयतेऽनुत्तरात्मताम् |
SK
इह खलु अनुत्तरस्य परमेश्वरस्य शाक्त एवायं विसर्गो -- हकारपर्यन्तेन स्थूलेन रूपेण परिस्फुरणम्, पुनः प्रत्यावृत्त्य शिवबिन्दुतया निर्विभागात्मपरप्रकाशात्मप्रमात्रेकरूपतया क्रोडीकृतनिखिलवाच्यवाचककलापः सन्, अनुत्तरात्मतां श्रयते निर्विभागपरप्रकाशस्वभावबिन्दुरूपतामाश्रयते, येन ᳚अहम्᳚ इति परामर्शो भवेत् यदनुत्तर एव हकारात्मशक्तिरूपतामाभास्य स्वात्मन्येव अविभागप्रकाशरूपे विश्राम्यति -- इति भावः | यद्वक्ष्यति -- शंवित्तौ भाति यद्विश्वं तत्रापि खलु संविदा | तदेतत्त्रितयं द्वन्द्वयोगात्सङ्घाततां गतम् || एकमेव परं रूपं भैरवस्याहमात्मकम् |᳚ (३|२०७) इति || २०१ || ननु अविभागपरप्रकाशविश्रान्तावपि अहंपरामर्शस्य भेदमयत्वमेवास्ति ? -- इत्याह -- अपरिच्छिन्नविश्वान्तःसारे स्वात्मनि यः प्रभोः || ३-२०२ || परामर्शः स एवोक्तो द्वयसंपत्तिलक्षणः | प्रभोः अनुत्तरस्य परमेश्वरस्य, अनन्तजगन्मध्यसातिशये स्वात्मनि यः ᳚अहम्᳚ इति परामर्शः स एव प्रतियोगिभूतस्यापोह्यस्य इदन्तापरामर्शस्यापि सम्भवात् ᳚द्वयसम्पत्तिलक्षण उक्तः᳚ भेदनिबन्धनत्वेन प्रतिभासते -- इत्यर्थः || २०२ || ननु इह शरीरादावहंप्रत्यवमर्शः सप्रतियोगित्वाद्भवतु नाम भेदनिबन्धनं परप्रमात्रात्मनि प्रकाशे प्रवर्तमानः अतिरेकानतिरेकविकल्पोपहतत्वात् प्रतियोगिनो (अप्रतियोगी) न तथा ? -- इत्याह -- अनुत्तरविसर्गात्मशिवशक्त्यद्वयात्मनि || ३-२०३ || परामर्शो निर्भरत्वादहमित्युच्यते विभोः | अनुत्तरविसर्गात्मिके ये शिवशक्ती, तयोरद्वयम् सामरस्यम्, यत्र ᳚शिव᳚ इति, शक्तिः᳚ इत्यपि पृथक् परामर्शो नास्ति, तथात्वे हि प्रतियोगिनः संभावनामात्रमपि भवेत् -- इति भावः | एवंविधे परप्रकाशस्वभावे विभोः अनुत्तरस्यात्मनि निर्भरत्वात्परस्य कस्यचिदपेक्षणीयस्याविद्यमानत्वेन पूर्णत्वात्� ᳚प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः |᳚ (अ.प्र. २२ श्लो.)
SK
इत्यादिदृशा अहमिति स्वात्ममात्रस्फुरत्तारूपः परामर्श उच्यते सर्वशास्त्रेषु अविगानेन अभिधीयते इत्यर्थः || २०३ || ननु भवतु नाम स्वात्ममात्रस्फुरत्तारूपोऽहंपरामर्शः, किमनेन नः प्रयोजनं, वर्णपञ्चाशतः पुनरभेदेन स्वरूपमनेनोक्तं न भवेत् ? इत्याशङ्क्याह -- अनुत्तराद्या प्रसृतिर्हान्ता शक्तिस्वरूपिणी || ३-२०४ || प्रत्याहृताशेषविश्वानुत्तरे सा निलीयते | अनुत्तरात् आदिवर्णादानन्दादिपरामर्शान्तराविर्भावकारित्वाच्छक्तिस्वरूपिणी, या हान्ता प्रसृतिः हकारपर्यन्तेन स्थूलेन रूपेण स्फुरत्ता, सैव पुनः ᳚आदिरन्त्येन सहेता᳚ (पा. २|२|७२) इति नीत्या अकारहकारात्मना रूपेण, प्रत्याहृतम् गर्भीकृतमशेषमानन्दाद्यमृतबीजपर्यन्तं विश्वं यया तथाभूता सती, अनुत्तरे निर्विभागप्रकाशात्मनि परस्मिन्रूपे, निलीयते विश्राम्यति, येनाहंपरामर्शो जायते, येन अभेदेनैव प्रत्याहारनीत्या सर्वेषामपि वर्णानां परामर्शः स्यात् || २०४ || ननु यदि पाणिनीयप्रक्रियया प्रत्याहारक्रमेणैव युगपत्सर्वेषां वर्णानां परामर्शो विवक्षितः तदकारहकारात्मनैव परामर्शविशेषेण भवेत्, यत्तु पुनरपि ᳚अनुत्तरे एव विश्रान्तिः᳚ इत्युक्तं तत्किमर्थम् ? इत्याशङ्क्याह -- तदिदं विश्वमन्तःस्थं शक्तौ सानुत्तरे परे || २०५ || तत्तस्यामिति यत्सत्यं विभुना सम्पुटीकृतिः | यद्यपि अकारहकारात्मनैव रूपेण प्रत्याहारनीत्या समस्तवर्णपरामर्शः सिद्ध्येत्, तथापि हकलात्मनो विश्वरूपायाः शक्तेरनुत्तरकर्तृकं संपुटीकारं प्रदर्शयितुमेहमुक्तम् | तथाहि - - ᳚शक्तयोऽस्य जगत्कृत्स्नं.................... |᳚ इत्यादिनीत्या विश्वं तावच्छक्त्येकात्मकम्, शक्तिरपि ᳚शक्तिमतः खलु शक्तिरनन्या᳚ इत्यादिनीत्या अनुत्तर एव विश्रान्ता, अत एव च परस्परावियोगात् शक्तिशक्तिमतोः तत् शक्तिमद्रूपमप्यनुत्तरम्, तस्यां शक्तावेवान्तःस्थम्, इत्यनुत्तरादेव शक्तेरुदयस्तत्रैव च विश्रान्तिः, इत्यनुत्तरेणैव विभुना नूनं शक्तेराद्यन्तयोगात्संपुटीकृतिः || २०५ || अत एव चागमोऽप्येवम् -- इत्याह --
SK
तेन श्रीत्रीशिकाशास्त्रे शक्तेः सम्पुटिताकृति || ३-२०६ || त्रयाणां परादिशक्तिप्रतिपादकानां शास्त्राणामीशेति त्रीशिका श्रीपरात्रिंशका | यदुक्तं तत्र� ᳚तत्र सृष्टिं यजेद्वीरः पुनरेवासनं ततः | संपुटीकृत्य सृष्टिं तु पश्चाद्यजनमारभेत ||᳚ (परात्री. २९ श्लो.) इति || २०६ || तदेवोपसंहरति -- संवित्तौ भाति यद्विश्वं तत्रापि खलु संविदा | तदेतत्त्रितयं द्वन्द्वयोगात्सङ्घाततां गतम् || ३-२०७ || एकमेव परं रूपं भैरवस्याहमात्मकम् | यदिदं हकलात्म शक्तिरूपं विश्वं संवित्तौ अनुत्तरात्मनि परस्मिन्रूपे भाति तत एवोदितम् -- इत्यर्थः | तत्रापि एवंरूपतायामपि, संविदैव खलु भाति तत्रानुत्तरात्मन्येव रूपे तद्विश्रान्तम् -- इत्यर्थः | यदुक्तम् -- ᳚यत्रोदितमिदं चित्रं विश्वं यत्रास्तमेति च |᳚ इति | तदेतत् संवित्तिर्विश्वं संविदेति त्रितयम्, द्वन्द्वयोगात्परस्परसङ्घट्टात्सङ्घाततां गतम् मेलनां प्राप्तं सत्, अहमिति प्रतियोगिभूतपरामर्शान्तराभावादेकमेव प्रमातृप्रमेयादिप्रकाशविश्रान्तिधामतया, परम् उत्कृष्टम्, भैरवस्य सर्वभावनिर्भरत्वादनन्यापेक्षिणः पूर्णवृत्तेः प्रकाशैकवपुषः स्वात्मनोरूपम् परविमर्शात्मा स्वभावः -- इत्यर्थः || २०७ || ननु ᳚परस्याकुलस्य धाम्नः कौलिकी शक्तिर्विसर्गः᳚ इति प्रगुक्तम् | सा च न शक्तिमतोऽतिरिक्तेति तस्यास्तदतिरेकेण परिस्फुरणमेव न युज्यते, इति का वार्ता पुनरपि तत्र विश्रान्तौ ? इत्याशङ्क्याह -- विसर्गशक्तिर्या शम्भोः सेत्थं सर्वत्र वर्तते || ३-२०८ || तत एव समस्तोऽयमानन्दरसविभ्रमः | या खलु निःश्रेयसात्मपरश्रेयः कारणस्य अकुलस्य धाम्नो विसर्गशक्तिरुक्ता, सैवेत्थम् वक्ष्यमाणेन प्रकारेण, सर्वत्र वर्तते भेदभेदाभेदाभेदात्मना प्रस्फुरति -- इत्यर्थः | यद्वशादेव वाच्यवाचकात्मा बाह्योऽयमानन्दमयः समुज्जृम्भते स्फारः || २०८ || ननु बाह्यस्य सुखदुःखादिरूपत्वादानन्दमयत्वमेव कथमुक्तम् ? -- इत्याशङ्कां गर्भीकृत्य तदेवोपपादयति�
SK
तथाहि मधुरे गीते स्पर्शे वा चन्दनादिके || ३-२०९ || माध्यस्थ्यविगमे यासौ हृदये स्पन्दमानता | आनन्दशक्तिः सैवोक्ता यतः सहृदयो जनः || ३-२१० || इह खलु यस्य कस्यचन प्रमातुः, गीतादौ विषये यदा माध्यस्थ्यविगमः ताटस्थ्यपरिहारेण तदेकतानता, तदा येयं हृदये विश्वप्रतिष्ठास्थाने बोधे, स्पन्दमानता तन्मयतया परिस्फुरद्रूपता, सैवेयमानन्दशक्तिरुक्ता सर्वशास्त्रेषु अभिहिता -- इत्यर्थः | यदुक्तम् -- ᳚गीतादिविषयास्वादासमसौख्यैकतात्मनः | योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता ||᳚ (वि.भै. ७३ श्लो.) इति | भोगस्य सुखदुःखाद्याभाससाधारण्यमनश्नुवाना -- शा स्फुरत्ता महासत्ता देशकालाविशेषिणी | सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ||᳚ (रि.प्र. १|५|१८) इत्यादिनिरूपितस्वरूपा परिस्फुरद्रूपतैव श्वातन्त्र्यमिति विमर्श इति आनन्द इति च᳚ सर्वत्रैव उद्धोष्यते, यन्माहात्म्यादेव च जडोऽपि निखिलोऽयं जनः सचेतन इत्युच्यते, अत एव लोकेऽप्यानन्दातिशयकार्येव जनः शहृदयः᳚ इति प्रसिद्धिः | यद्यपि सर्व एवायं विश्वप्रपञ्च आनन्दशक्तिस्फारः तथापि स्फुटोपलम्भादत्र तस्या एवमुक्तम् || २१० || तदेवं विसर्गशक्तेरेवायं महिमा यदियान्भेदभेदाभेदाभेदात्मा विश्वस्फारः, यदुपाधिवशादेव विसर्गशक्तेरपि त्रैविध्यम् | तदाह -- पूर्वं विसृज्यसकलं कर्तव्यं शून्यतानले | चित्तविश्रान्तिसंज्ञोऽयमाणवस्तदनन्तरम् || ३-२११ || दृष्टश्रुतादितद्वस्तुप्रोन्मुखत्वं स्वसंविदि | चित्तसंबोधनामोक्तः शाक्तोल्लासभरात्मकः|| ३-२१२ || तत्रोन्मुखत्वतद्वस्तुसङ्घट्टाद्वस्तुनो हृदि | रूढेः पूर्णतयावेशान्मितचित्तलयाच्छिवे || ३-२१३ || प्राग्वद्भविष्यदौन्मुख्यसंभाव्यमिततालयात् | चित्तप्रलयनामासौ विसर्गः शाम्भवः परः || ३-२१४ ||
SK
शून्यता भावप्रक्षयात्मकं निष्कलं रूपम्, तस्या अनले तद्विलापकत्वात्तद्विरुद्धे निखिले भावमये सकले रूपे, पूर्वम् अनिदंप्रथमतया प्रवृत्तम्, विसृज्यं न तु स्थाप्यं संहार्यं वा, सकलं प्रमातृप्रमेयात्म विश्वं यत्र, एवंविधं यत्कर्तव्यम् तेन तेन रूपेण परिस्फुरणम्, तदेव नाम चित्तम्� ᳚चितिरेव चेतनपदादवरूढा चेत्यसङ्कोचिनी चित्तम् |᳚ (प्रःऋ. ५ सू.)
SK
इत्यादिनीत्या चितिचेत्ययोः सङ्घट्टरूपं संकुचितं ज्ञानम्, तस्य विश्रान्तिः भेदौन्मुख्ये परा काष्ठा, तदभिधानोऽयं भेदप्राधान्यादाणवो नरसंबन्धी हकारात्मा स्थूलो विसर्गः | एतदनन्तरमपि दृष्टश्रुते आदौ यत्र, आदिग्रहणात् स्पृष्टघ्रताद्यपि, एवंविधं यत्तच्चराचरात्मना प्रसिद्धं जगल्लक्षणं वस्तु, तस्य यदात्मसंविदि प्रकर्षेणोन्मुखत्वम् ग्राह्यग्राहकभेदात्म सकलरूपापहस्तनेन निष्कलरूपतोद्रेचनेन स्वात्मसंविदेकीभावेनावभासनम्, तदेव नाम चित्तस्य संकुचितात्मनो ज्ञानस्य, स्वात्मसंविद्विश्रान्तेः संबोधः सम्यग्बोधः, तन्नामायं सूक्ष्मो विसर्जनीयात्मा भेदाभेदप्रधानः शाक्तोः विसर्ग उक्तः | तथा तत्र आत्मसंविदि, उन्मुखत्वेन तस्य जगल्लक्षणस्य वस्तुनोऽर्थात्तयैव सङ्घट्टात् परस्परौन्मुख्यात्तस्यैव च वस्तुनो हृदि तत्रैव संविल्लक्षणे पारमार्थिके रूपे, प्ररोहात्, शिवे चिदात्मनि बोधे, पूर्णतया कर्तृत्वाद्युत्तेजनेन, मितस्य शून्यादेः संकुचितस्य परिमितस्य प्रमातुर्गुणीभावात्, य आवेशस्ततः प्राग्वदाणववद्भविष्यदपि यदौन्मुख्यम् बहीरूपतया परिस्फुरणम्, तेन संभाव्यमाना येयं मितता संकुचितज्ञानरूपता तस्या लयः संभाव्यमानस्यापि सङ्कोचस्याभावः, ततश्चित्तस्य प्रकर्षेण लयः संकुचिततापासनेन पूर्णतावलम्बनेन च स्वात्मसंविन्मात्रतया परिस्फुरणम्, तन्नामायमभेदप्रधान आनन्दात्मा परः शैवो विसर्गः | तदेवं पारमेश्वरी विसर्गशक्तिरेव तथा तथा परिस्फुरति -- इति नरशक्तिशिवात्मना अस्यास्त्रैविध्यमुक्तम् | तेन युक्तमुक्तम् -- यद्विसर्गशक्तिः सर्वत्र वर्तत इति || २१४ || अत एव भगवताप्येवमुक्तम् -- इत्याह -- तत्त्वरक्षाविधानेऽतो विसर्गत्रैधमुच्यते | अत इति यथोक्तन्यायात् | तदेव शब्दद्वारेण अर्थद्वारेण च पठति -- हृत्पद्मकोशमध्यस्थस्तयोः सङ्घट्ट इष्यते || ३-२१५ || विसर्गोऽन्तः स च प्रोक्तश्चित्तविश्रान्तिलक्षणः | द्वितीयः स विसर्गस्तु चित्तसंबोधलक्षणः || ३-२१६ ||
SK
एकीभूतं विभात्यत्र जगदेतच्चराचरम् | ग्राह्यग्राहकभेदो वै किञ्चिदत्रेष्यते यदा || ३-२१७ || तदासौ सकलः प्रोक्तो निष्कलः शिवयोगतः | ग्राह्यग्राहकविच्छित्तिसम्पूर्णग्रहणात्मकः || ३-२१८ || तृतीयः स विसर्गस्तु चित्तप्रलयलक्षणः | एकीभावात्मकः सूक्ष्मो विज्ञानात्मात्मनिर्वृतः || ३-२१९ || हृत् बोधभूः, तदेव बहिर्विकस्वरत्वात्पद्मं तस्य कोशमध्यम् परा काष्ठा, तत्रस्थो योऽयं चितिचेत्ययोः संकुचितज्ञानात्मा सङ्घट्टः, स एव चित्तविश्रान्तिनामा विसर्गयोः शैवशाक्तयोरन्तः तृतीयः प्रथमो वा, आणवो विसर्गः, प्रकर्षेण भेदप्रधानतयोक्तः | द्वितीयः शाक्तः पुनः स विसर्गश्चित्तसंबोधनामा, यतोऽत्र चराचरं ग्राह्यग्राहकरूपमेतद्विचित्रावभासं जगदेकीभूतं विभाति स्वात्मसंविन्मात्ररूपतया परिस्फुरति | यतोऽसौ शाक्तो विसर्गो ग्राह्यग्राहकभेदावभासे सकलो विश्वमयः प्रोक्तः | परनिःश्रेयसात्मश्रेयस्करस्वात्मसंविदेकीभावे पुनर्निष्कलो विश्वोत्तीर्णो, येनायं भेदाभेदप्रधानः | तृतीयः शैवः पुनः स विसर्गः चित्तप्रलयनामा, यतोऽयं ग्राह्यग्राहकयोः संविन्मात्ररूढ्या येयं विच्छित्तिः त्रोटः, तया सम्यक् शून्यादिनियतावच्छेदाभावात्पूर्णं यद्ग्रहणं तदात्मकः परप्रकाशरूपः -- इत्यर्थः | अत एवैकीभावात्मकः स्वात्मसंविन्मात्रावेशरूपः | अत एव सूक्ष्मः प्रमात्रेकरूपत्वात् त्परासंवेद्यः, अत एव संभाव्यमानस्यापि संकुचितज्ञानरूपस्याभावाद्विज्ञानात्मा पूर्णज्ञानस्वभावः, अत एव परस्य कस्यचिदपि आकाङ्क्षणीयस्याभावादात्मनिर्वृतः स्वात्ममात्रविश्रान्तः, अत एव चायमभेदप्रधानः | तदेवं पारमेश्वरी कौलिक्यादिशब्दव्यपदेश्या विसर्गशक्तिरेव तत्तदामर्शात्मना स्फुरति -- इति तात्पर्यार्थः || २१९ || न चैतदस्माभिः स्वोपज्ञमेवोक्तम् -- इत्याह -- निरूपितोऽयमर्थः श्रीसिद्धयोगीश्वरीमते | तदेवार्थद्वारेण पठति -- सात्र कुण्डलिनी बीजं जीवभूता चिदात्मिका || ३-२२० || तज्जं ध्रुवेच्छोन्मेषाख्यं त्रिकं वर्णास्ततः पुनः |
SK
सा पारमेश्वरी संविन्मात्ररूपा विसर्गशक्तिरेव गर्भीकृतनिखिलविश्वत्वात् कुण्डलिनीशब्दव्यपदेश्या अनच्ककलारूपा वाच्यवाचकात्मन्यत्र विश्वत्र अविद्यादेस्तत्कारणत्वे दूरापास्तत्वात् बीजभूता, तत्त्वेऽपि संविन्निष्ठत्वात् सर्वव्यवस्थितीनां जीवभूता, नहि संविदमन्तरेण किञ्चिदपि स्फुरेत् -- इति भावः | तदुक्तं तत्र -- ᳚या सा कुण्डलिनी सात्र जगद्योनिः प्रकीर्तिता | तुटिरूपा तु सा ज्ञेया जीवभूता जगत्यपि || बीजरूपा समाख्याता चिद्रूपापि प्रकीर्तिता |᳚ इति | मात्रेत्यपपाठः; नह्यनेन कश्चिदप्यागमिकोऽर्थः संग्राह्यो वर्तते यदर्थोऽयमेतत् प्रयोगः, प्रत्युतासङ्गतार्थत्वमसाधुशब्दत्वं च प्रसृज्यते, इत्यलं बहुना | तदेवं भूतायाश्च तस्याः सकाशादनुत्तरेच्छाज्ञानाख्यं परामर्शत्रयं जातम् | ततश्च परामर्शत्रयादुक्तवक्ष्यमाणनीत्या निखिलपरामर्शान्तरोदयः | तदुक्तं तत्र -- ᳚शक्तित्रयसमुद्भूतिस्ततो वर्णसमुद्भवः |᳚ इति || २२० || एतदेव विभजति� आ इत्यवर्णादित्यादियावद्वैसर्गिकी कला || ३-२२१ || ककारादिसकारान्ता विसर्गात्पञ्चधा स च | बहिश्चान्तश्च हृदये नादेऽथ परमे पदे || ३-२२२ || बिन्दुरात्मनि मूर्धान्तं हृदयाद्व्यापको हि सः | एक ᳚इतिशब्दः᳚ स्वरूपपरामर्शकः अपरः प्रकारे, तेनानुत्तरादानन्दो यथा जातः एवमिच्छातः रिशित्री उन्मेषादूनता यावत्ककारादिः सकारोऽन्ते यस्या एवंविधा हकारात्मा वैसर्गिकी कला जाता | निखिलमेव वर्णजातमुदितमित्यर्थः | तदुक्तं तत्र -- ᳚अकाराज्जात आकार इकारादी इति स्मृतः | ऊकारश्च उकारात्स्यादृकाराच्च नपुंसकम् || एकार एस्वरश्चैव ओकार औकार एव च | अङ्कारश्च अनुस्वारः अः विसर्ग इति स्मृतः ||᳚ इति | तथा, ᳚ककारादिसकारान्ता द्वात्रिंशत्ताः कलाः स्मृताः |᳚
SK
इति | मकारान्तेति वक्तव्ये ककारादीत्यत प्रभृति व्यञ्जनरूपत्वं कवर्गस्य च आकाराज्जन्म द्योतयितुमुक्तम् -- ᳚अकुहविसर्जनीयानां कण्ठः᳚ इत्यादिनीत्या कवर्गहकारविसर्जनीयानामकारादेवोत्पत्तिः | वैसर्गिकी कला इति सामान्येनोक्तेः परापरो हि विसर्जनीयात्मा विसर्गः कटाक्षितः | एतच्च सर्वं विसर्गादुत्पन्नं विसर्ग एव तत्तदामर्शात्मना प्रस्फुरितः -- इत्यर्थः | स एव हि परप्रमात्रेकरूपोऽशेषविश्वक्रोडीकारेण अनुत्तरहकारात्मना प्रस्फुरन्नन्तर्बहीरूपतया नरशक्तिशिवात्मतामाभासयेत् | तदुक्तं तत्र -- ᳚तदेवं बिन्दुरुद्दिष्टो व्याप्नुवन्स जगत्स्थितः | अष्टात्रिंशत्कलाभेदाद्बिन्दुमाला व्यवस्थिता || बिन्दुना क्रमिताः सर्वे आदिमान्त्ययुताः स्मृताः |᳚ इति | अत एवाह -- ᳚पञ्चधा स च᳚ इति | चो हेतौ यतः स विसर्ग एव बिन्दुः विदिक्रियायां स्वतन्त्रः प्रमाता, बहीरूपतया हृदये नरतया -- बहीरूपत्वेऽपि अन्तारूपतायामेव विश्रान्तेः; नादे शक्तितया, अन्तारूपतया परमे पदे, द्वादशान्ते शिवतया प्रस्फुरन्पञ्चप्रकारः | अत एव शरीरेऽपि हृदयान्मूर्धान्तं हत्कण्ठललाटशक्त्यन्तद्वादशान्तेषु अर्थादवस्थितः | एवं पञ्चधात्वेऽपि अस्य वस्तुतस्त्रैरूप्य एव पर्यवसानम्, इति न पूर्वापरव्याहतत्वं किञ्चिदाशङ्कनीयम् | नन्वेक एवासौ कथं हृदादौ वर्तते इत्याह -- ᳚व्यापको हि स᳚ इति | यदुक्तं तत्र -- ᳚बाह्यात्मा तु भवेदेको ह्यन्तरात्मा द्वितीयकः | तृतीयो हृदयात्मा तु नादात्मा तु चतुर्थकः || एवमेते महावीरे पञ्चमः परमात्मकः | बिन्दुः पञ्चविधो देवि हृत्कण्ठे तु ललाटके || नासान्ते च तथा चान्ते बिन्दुस्तेनैव व्यापकः |᳚ इति | तदेवमनुत्तरैव इयं पारमेश्वरी विसर्गशक्तिर्हकारपर्यन्तं स्थूलं रूपमाभास्य पुनरपि स्वस्वरूपाप्रच्यावादनुत्तरे स्वात्मन्येव विश्राम्यति, यदवद्योतनाय प्रत्याहृताशेषविश्वः प्रमात्रेकरूपः परमन्त्रवीर्यात्मा अयमहंपरामर्शः ᳚प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः |᳚ (अजड प्र. सि. २२ श्लो.)
SK
इत्यादिसर्वशास्त्रेषु उद्धोष्यते | तदेव च परं तत्त्वं मातृकायाः, यदभिप्रायेणैव ᳚...........ण विद्या मातृकापरा |᳚ (स्व. ११ प. १९७ श्लो.) इत्याद्याम्नातम् | एवं परिज्ञानवतामेव च इयं योगिनां भुक्तिमुक्तिलक्षणां सिद्धिं यच्छेत् | अन्यथा पुनः तत्तद्वाचकानुवेधद्वारेण हर्षशोकादिरूपतामादधाना बन्धकारिण्येव पशूनाम्, इति भुक्तिमुक्तिलक्षणफलायोगात् निष्फलैव भवेत् -- इति पिण्डार्थः | तदुक्तम् -- शेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ||᳚ (स्पन्द. ४|१८) इति || २२२ || न केवलमेवमस्या एव संभवेत्, यावन्मननत्राणधर्माणां मन्त्राणामपि -- इत्याह -- आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत् || ३-२२३ || तु-शब्दश्चार्थे | आदिमः अनुत्तरः, अन्त्यः हकारः, तेन मन्त्रा अपि अहंपरामर्शरूपाभ्यामादिमान्त्याभ्यां विहीनाः तद्रूपत्वेनापरिज्ञायमानाः, शरदभ्रवत् स्युः, अकिञ्चित्करा एव -- इत्यर्थः | तदुक्तं तत्र� ᳚आदिमान्त्यविहीनास्तु मूलयोनिमजानतः | न ते सिद्धिकरा मन्त्रा निष्फलाः शरदभ्रवत् || खपुष्पं निष्फलं यद्वच्छशकस्य विषाणकम् | वन्ध्यायाः प्रसवो देवि क्लीबस्य द्रवमेव च || अग्निमुक्ता यदा विप्रास्तदा एते तु निष्फलाः | आदिमान्त्यविहीनानि मन्त्राणि च तथैव च || निष्फलानि भवन्त्येवं पिबतो मृगतृष्णिकाम् |᳚ इति | अन्यथा पुनरहंपरामर्शात्मकपरमन्त्रवीर्यात्मत्वेन परिज्ञायमानाः तत्तत्स्वकार्यकारिण एव भवेयुः -- इति तात्पर्यार्थः | यद्वक्ष्यति -- ᳚एतद्रूपपरामर्शमकृत्रिममनाबिलम् | अहमित्याहुरेषैव प्रकाशस्य प्रकाशता || एतद्वीर्यं हि सर्वेषां मन्त्राणां हृदयात्मकम् | विनानेन जडास्ते स्युर्जीवा इव विना हृदा || अकृत्रिमैतद्धृदयारूढो यत्किंचिदाचरेत् | प्राण्याद्वा विमृशेद्वापि स सर्वोऽस्य जपो मतः ||᳚ (४|२९४) इति || २२३ || अत एव च एतत्परिज्ञानमेव गुरोर्मुख्यं लक्षणम् -- इत्याह -- गुरोर्लक्षणमेतावदादिमान्त्यं च वेदयेत् |
SK
पूज्यः सोऽहमिव ज्ञानी भैरवो देवतात्मकः || ३-२२४ || अत एव स ज्ञानित्वादियोगात् द्योतनस्वभावो विश्वनिर्भरोऽहमिव सर्वेषां पूज्यः -- इति भगवदुक्तिः | यदुक्तं तत्र� ᳚आदिं चैव तथा चान्त्यमाचार्यो यस्तु विन्दति | स भवेद्योगिसङ्घस्य पूज्यः पूज्यतरो भवे || अच्छिद्रं तस्य कुर्वन्ति कुर्वन्ति च अनुग्रहम् | वरं तस्य प्रयच्छन्ति पुत्रवत्पालयन्ति च || पूज्यः सर्वत्र जायेत अहं देवि यथा तव | स ज्ञानी वै वरारोहे स भवेत्साधकोत्तमः || सर्वेषामुत्तमः प्रोक्तो दैवज्ञः सर्वसिद्धिदः | स यतिः पण्डितश्चैव भैरवेशः प्रकीर्तितः ||᳚ इति || २२४ || अत एव च एवंविधो गुरुर्न केवलं स्वभावात् एव परिस्फुरत् परशक्तिवीर्यात्मनो मन्त्रानेव वेत्ति यावत् यत्किञ्चन लौकिकमपि श्लोकादि -- इत्याह -- श्लोकगाथादि यत्किंचिदादिमान्त्ययुतं ततः | तस्माद्विदंस्तथा सर्वं मन्त्रत्वेनैव पश्यति || ३-२२५ || स खलु गुरुः, तस्मात् निरतिशयज्ञानयोगात्, सर्वं यत्किञ्चन बाह्यं श्लोकादि, तथा अहंपरामर्शरूपत्वेन परामृशन्मन्त्रत्वेनैव -- ᳚मननं सर्ववेत्तृत्वं त्राणं संसार्यनुग्रहः |᳚ इत्येवं कार्यकारितया साक्षात्करोति, यतस्तदपि आदिमान्त्ययुतमहंपरामर्शरूपमेव -- इत्यर्थः | नहि प्रकाशात्मपरप्रमातृरूपतामन्तरेण किञ्चिदपि स्फुरेत् -- इति भावः | तदुक्तं तत्र -- ᳚श्लोकगाथा तथा वृत्तं गीतकं वचनं तथा | स्तुतिर्वै दण्डकं चैव आदिमान्त्ययुता यदा || तेऽपि मन्त्रा भवन्त्येव किं पुनस्तद्ग्रहस्य तु |᳚ इति || २२५ || विसर्गशक्तिरेव च इयान्विश्वस्फारः -- इति न केवलमस्मन्नयसहोदरेषु शास्त्रेषु भगवता उक्तं यावदितो बाह्येष्वपि -- इत्याह -- विसर्गशक्तिर्विश्वस्य कारणं च निरूपिता | एतरेयाख्यवेदान्ते परमेशेन विस्तरात् || ३-२२६ || परमेशेनेति -- गृहीतैतरीयकमुनिभूमिकेन | विस्तरादिति निखिलस्यास्य हि ग्रन्थस्य एतदेव प्राधान्यादभिधेयम् -- इति भावः || २२६ || तदेव अर्थद्वारेण संवादयति --
SK
यल्लोहितं तदग्निर्यद्वीर्यं सूर्येन्दुविग्रहम् | अ इति ब्रह्म परमं तत्सङ्घट्टोदयात्मकम् || ३-२२७ || लोहितं प्रकाशैकात्मकत्वात् दीप्तं यदनुत्तरं धाम तदेव प्रमात्रेकरूपत्वादग्निः; यच्चास्य वीर्यं ज्ञानक्रियात्मा शाक्तः स्फारः तदेव प्रमाणप्रमेयादिरूपतया सूर्येन्दुविग्रहम् इत्येवंरूपयोस्तयोः लोहितवीर्ययोः, यः सङ्घट्टः एकात्म्यं तस्य उदयः सततमेवानस्तमितत्वेन प्रस्फुरद्रूपत्वं तत्स्वभावमिदम् अकारहकारात्मकशिवशक्तिसामरस्यरूपं परं ब्रह्मोच्यते, यतोऽयम् ᳚अहम्᳚ इति परप्रमात्रेकरूपः परः परामर्श उदियात्, यन्माहात्म्यान्निखिलोऽयं वाच्यवाचकात्मा सृष्ट्यवभासः स्यात् | यद्गीतम्� ᳚अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते | भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः || (गी. ८अ. ३ श्लो.) इति | एतदेव स्वरूपं प्राग्वितत्योक्तं न पुनरिहायस्तम् | चर्याक्रमे च यल्लोहितं पक्वान्नरसरूपमार्तवं तदग्निस्तत्परिपाकोऽन्नम् | यद्वा सर्वस्य आर्तवस्य यच्च वीर्यम् आनन्दफलं षष्ठग्रहपर्यायम्, ᳚तद्यदेतद्रेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः | सम्भूयात्मन्येवात्मानं बिभर्ति ||᳚ (ए.उ. ४|२) इत्यादितत्रत्योक्त्या तेजोमयत्वादाप्यायकत्वाच्च सूर्याचन्द्ररूपम् | अत एव धामत्रयात्मकत्वादेतदुभयमपि कुण्डगोलकादिशब्दव्यपदेश्यं परं पावनं येनास्य ᳚..................टत्रार्घः शक्तिसङ्गमात् |᳚ (२९|२५) इत्यादिवक्ष्यमाणनीत्या परमोपादेयत्वमुक्तम् | तत्सङ्घट्टादेव च नित्योदितं परं ब्रह्मापि नियते देहादौ गृहीताहंभावं भवेत् येनायं स्त्रीपुंनपुंसकरूपादिः सर्गः | यदुक्तं तत्र -- ᳚यदेतत्स्त्रियां लोहितं भवत्यग्नेस्तद्रूपं तस्मात्तस्मान्न बीभत्सेत, अथ यदेतत्पुरुषे रेतो भवत्यादित्यस्य तद्रूपं तस्मात्तस्मान्न बीभत्सेत ||᳚ (ए. उ.) इति | तथा, ᳚अः इति ब्रह्म, तत्रागतमहमिति |᳚ (ए. उ.) इति || २२७ || अतश्च अस्यैव विश्वं वैभवम् -- इत्याह -- तस्यापि च परं वीर्यं पञ्चभूतकलात्मकम् |
SK
भोग्यत्वेनान्नरूपं च शब्दस्पर्शरसात्मकम् || ३-२२८ || यदेतत्पञ्चानां पृथिव्यादीनां भूतानामंशांशरूपं शब्दादिविषयपञ्चकं तत् तथोक्तरूपस्य परब्रह्मणः परं वीर्यम् ᳚शक्तयोऽस्य जगत्कृत्स्नं................ |᳚ इत्याद्युक्त्या विश्ववैभवात्मना परां कोटिं प्राप्तः शाक्तः स्फारः -- इत्यर्थः | ननु शब्दादि यद्येतत्स्फार एव तदस्य भोक्त्रेकरूपत्वात् तदपि तथैव किं न स्यात् ? -- इत्याशङ्क्योक्तम् -- ᳚भोग्यत्वेन᳚ इति, न तु भोक्तृत्वेन | यदन्नरूपमिति न पुनरन्नादरूपम् | चर्याक्रमे च -- लोहितवीर्यसङ्घट्टादस्यैव पाञ्चभौतिकशरीरादिपरिग्रहः इति | एतच्च तत्रैव -- ᳚यो ह वात्मानं पञ्चविधमुक्तं वेद यस्मा दिदं सर्वमुत्तिष्ठति स संप्रतिवित्पृथिवी वायुराकाश आपो ज्योतींषि |᳚ (ए. उ.) इत्याद्युपक्रम्य� ᳚तस्माद्योऽन्नं च अन्नादं च वेद अहमस्मिन्नन्नादौ जायते (?) भवत्यस्य अन्नमापश्च पृथिवी चान्नम् |᳚ (ए. उ.) इत्यादि बहूक्तम् || २२८ || ननु ᳚शब्दादयोऽस्यैव स्फारः᳚ इत्यत्र किं प्रमाणम् ? इत्याशङ्क्याह -- शब्दोऽपि मधुरो यस्माद्वीर्योपचयकारकः | तद्धि वीर्यं परं शुद्धं विसिसृक्षात्मकं मतम् || ३-२२९ || शब्द इति शब्दादयः पच्चापि हृद्याः सन्तो यस्मात्परब्रह्मात्मनो वीर्यस्य उपचयहेतवः तदवहितचेतसां झगित्येव परसंविदुल्लासः स्यात् -- इत्यर्थः | यदुक्तम् -- ᳚गीतादिविषयास्वादासमसौख्यैकतात्मनः | योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता ||᳚ (वि.भै. ७३ श्लो.) इति | अनेनैवाभिप्रायेण श्रीप्रशस्तिभूतिपादैरपि ᳚ये ये भावा ह्लादिन इह दृश्याः सुभगसुन्दराकृतयः | तेषामनुभवकाले स्वस्थितिपरिपोषणं सतामर्चा ||᳚
SK
इत्याद्युक्तम् | एवं यदि एषां परब्रह्मरूपत्वं न स्यात् तत्तदवहितचेतसां कथं नाम तद्विकासो भवेत् -- इति भावः | नन्वेवंविधं तत्परं ब्रह्म किं शान्तं किं वा चित्रम् ? -- इत्याशङ्क्याह -- तद्धीत्यादि | हिशब्द आशङ्कानिवृत्त्यर्थः | विसिसृक्षात्मकमिति निर्मित्सात्मकत्वेन सदैव तत्तद्विश्ववैचित्र्योल्लासस्वभावमेव -- इत्यर्थः | मतमिति सर्वेषाम् | न पुनरत्र कश्चिदपि विमतिं कर्तुं शक्नुयात् -- इत्याशयः || २२९ || एवमप्यस्य किं विश्वोत्तीर्णं रूपमुत विश्वमयम् ? -- इत्याशङ्क्याह -- तद्बलं च तदोजश्च ते प्राणाः सा च कान्तता | तदेव तत्तद्रूपतया प्रस्फुरति -- इत्यर्थः | यदुक्तं तत्र -- श एषोऽसुः स एव प्राणः स एष भूतिश्च |᳚ (ए.उ.) इति | तथा� श एष मृत्युश्चैवामृतं च |᳚ (ए. उ.) इति | तथा� ᳚एष ब्रह्मैष इन्द्र एष प्रजापतिः |᳚ (ए. उ.) इति | गीतं च� ᳚तद्वीर्यं सर्ववीर्याणां तद्वै बलवतां बलम् | तदोजश्चौजसां सर्वं शाश्वतं ह्यचलं ध्रुवम् ||᳚ इति || विश्वरूपतया चास्य स्फुरणे प्रक्रियाबन्धं दर्शयति -- तस्माद्वीर्यात्प्रजास्ताश्च वीर्यं कर्मसु कथ्यते || ३-२३० || यगादिकेषु तद्वृष्टौ सौषधीष्वथ ताः पुनः | वीर्ये तच्च प्रजास्वेवं विसर्गे विश्वरूपता || ३-२३१ || प्रजा इति स्त्रीपुमादिरूपाः | ताश्च प्रजा यज्ञादिकेषु कर्मसु, वीर्यम् कारणं कथ्यते -- इति सम्बन्धः | एवमुत्तरत्रापि योज्यम् | तदिति यादिकं कर्म, ओषधीषु अन्नादिरूपासु, वीर्ये इति शुक्रशोणितात्मनि | एवं परब्रह्मण एवाजवञ्जवीभावेन तत्तद्रूपतया विश्वकारणत्वम्, इति तस्यैव एतद्विश्वं रूपमित्युक्तम् | ᳚एवं विसर्गेऽपि विश्वरूपता᳚ इति᳚ | यदुक्तं तत्र -- ᳚अथातो रेतसः सृष्टिः, प्रजापतेरेव रेतो देवा, देवानां रेतो वर्षः, वर्षस्य रेत ओषधयः, औषधीनां रेतो अन्नमन्नस्य रेतो रेतः, रेतसो रेतः प्रजाः |᳚ (ए. उ.) इति | तथान्यत्रापि� ᳚अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते | आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ||᳚(मष्मृ. ३|७७)
SK
इति गीतं च� ᳚अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसंभवः | यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः || (गी. ३ अ. १४ श्लो.) इति || २३१ || तदेवं विसर्गशक्तिरेव तत्तदामर्शातमना स्वात्मनि विश्वरूपतामाभासयन्ती आगमेषु तत्तच्छब्दव्यपदेश्या भवति -- इत्याह -- शब्दराशिः स एवोक्तो मातृका सा च कीर्तिता | क्षोभ्यक्षोभकतावेशान्मालिनीं तां प्रचक्षते || ३-२३२ || पदवाक्याद्यात्मना विभक्तानां स्थूलानां शब्दानामविभागस्वभावः कारणात्मा राशिः, मातृकेति पशुभिः, शर्वेषामेव मन्त्राणां विद्यानां च यशस्विनि | इयं योनिः समाख्याता सर्वमन्त्रेषु सर्वदा ||᳚ इत्यादिनिरूपितेन स्वेन रूपेण अज्ञाता माता -- इत्यर्थः | तदेवं स्वात्ममात्रावस्थानादक्षुब्धाया विसर्गशक्तेरागमिको द्विधा व्यपदेशो दर्शितः | क्षुब्धायाः पुनर्व्यपदेशान्तरमस्ति -- इत्याह -- क्षोभ्येत्यादि | क्षोभ्याः योनयः, क्षोभकाणि बीजानि तेषां भावः क्षुभिक्रियायां कर्तृकर्मरूपः संबन्धस्तत्र य आवेशः परस्परसङ्घट्टात्मा लोलीभावः, ततो भिन्नाः बीजैर्भेदिता योनयः व्यञ्जनानि यस्याः सा तथाविधा सती, मालिनी -- मलते विश्वं स्वरूपं धत्ते इति विश्वस्वरूपिणी -- इत्यर्थः || २३२ || ननु कथमेतावतैवास्या विश्वरूपत्वम् ? -- इत्याह -- बीजयोनिसमापत्तिविसर्गोदयसुन्दरा | मालिनी हि परा शक्तिर्निर्णीता विश्वरूपिणी || २३३ || अनुत्तरप्रकाशात्मपरशक्तिरूपा हि मालिनी तद्रश्मिभूतशिवशक्तिरूपयोर्बीजयोन्योर्या समापत्तिः परस्परसङ्घट्टात्म सामरस्यम्, तया योऽयं विसर्गोदयः तेन तेन रूपेण परिस्फुरणम्, तेन सुन्दरा निरतिशया | येन श्रीपूर्वशास्त्रादौ विश्वरूपत्वमस्या निर्णीतम् || २३३ || ननु एकैवानुत्तरा परा संविदस्ति तदतिरिक्तस्य अन्यस्य कस्यचित्संवेद्यमानतऽयोगात्, तत् तदतिरेकेण शिवशक्तिरूपत्वमपि न युज्यते, का पुनर्वार्ता विश्वरूपतायाः ? -- इत्याशङ्क्याह -- एषा वस्तुत एकैव परा कालस्य कर्षिणी | शक्तिमद्भेदयोगेन यामलत्वं प्रपद्यते || ३-२३४ ||
SK
एषा इति अनुत्तरा संवित्, कलयति शिवादिक्षित्यन्तं जगत्सृजति इति कालः भैरवः, तस्य कर्षिणी स्वात्मायत्ततयावभासयन्ति -- इत्यर्थः | नहि तदिच्छामन्तरेण किञ्चिदपि प्रस्फुरेत् -- इति भावः | यदुक्तम्� ᳚भैरवरूपी कालः सृजति जगत्कारणादिकीटान्तम् | इच्छावशेन यस्याः सा त्वं भुवनाम्बिके जयसि ||᳚ इति, किं तु प्रकाशविमर्शलक्षणमौपाधिकं भेदमवभास्य यामलतामेति येन शक्तिरिति शक्तिमानिति च व्यपदिश्यते | वस्तुतो हि न प्रकाशाद्विमर्शः स वा तस्मादतिरिच्यते -- इति बहुश उक्तम् || २३४ || ननु यद्येवं तर्हि एतदेवास्तु, विश्वरूपतायाः पुनः कोऽवकाशः ? -- इत्याशङ्क्याह -- तस्य प्रत्यवमर्शो यः परिपूर्णोऽहमात्मकः | स स्वात्मनि स्वतन्त्रतवाद्विभागमवभासयेत् || ३-२३५ || तस्येति यामलस्य, अहमात्मक इति असाङ्केतिकपरपरामर्शरूपः -- इत्यर्थः | परिपूर्ण इति -- पारिमित्ये ह्यस्य विकल्परूपत्वं स्यात् -- इति भावः | विभागमिति विश्वरूपताम् -- इत्यर्थः || २३५ || तथात्वे चास्य पश्यन्त्यादिशब्दाभिधेयं त्रैविध्यं भवेत् -- इत्याह - - विभागाभासने चास्य त्रिधा वपुरुदाहृतम् | पश्यन्ती मध्यमा स्थूला वैखरीत्यभिशब्दितम् || ३-२३६ || अस्येति परावाग्रूपस्य अहमात्मनः परामर्शस्य, स्थूलेति -- अपरयोः परत्वं सूक्ष्मत्वं चार्थाक्षिप्तम् | परस्या वाचः पुनरन्यानपेक्षं परत्वम्, इत्यस्याः परतरं रूपम्, सैव हि परमेश्वरी स्वस्वातन्त्र्याद्बहीरूपतामुल्लिलासयिषुर्वाच्यवाचकक्रमानुदयाद्विभाग स्यास्फुटत्वाच्चिज्ज्योतिष एव प्राधान्याद्द्रष्ट्टरूपतया पश्यन्तीशब्दव्यपदेश्या | तदनु वाच्यवाचकक्रमस्य आसूत्रितविभागत्वेऽपि स्फुटास्फुटरूपत्वेन बुद्धिमात्रनिष्ठतया दर्शनप्राधान्याद्द्रष्ट्टदृश्ययोरन्तरालवर्तित्वेन मध्यमापदवाच्या | ततोऽपि स्थानकरणप्रयत्नबलात्तत्तद्वर्णक्रमोपग्रहाद्विभागस्य स्फुटत्वात् दृश्यस्यैव प्राधान्यात् विखरे शरीरे भवत्वाद्वैखरीशब्दाभिधेया -- इत्यस्या विश्वरूपतावभासने त्रैविध्यम् || २३६ ||
SK
एवं न केवलमासामेकैकस्य स्थूलत्वादिना त्रैरूप्यं यावत्प्रत्येकमपि -- इत्याह -- तासामपि त्रिधा रूपं स्थूलसूक्ष्मपरत्वतः | एतदेव वाक्त्रयस्यापि स्थूलोपक्रमं विभजति -- तत्र या स्वरसन्दर्भसुभगा नादरूपिणी || ३-२३७ || सा स्थूला खलु पश्यन्ती वर्णाद्यप्रविभागतः | तत्र स्वराणाम् षड्जादीनां यः परस्परं लोलीभावात्मा सन्दर्भः, अत एव षड्जाद्येकतमत्वे नियतोऽनुद्भिन्नवर्णादिविभाग आलापः, तेन सुभगा माधुर्यातिशयादाह्लादरूपा, अत एव प्राथमिकनादमात्रस्वभावा या वाक् सा खलु स्थूला पश्यन्ती᳚ भवति -- इति शेषः | ननु एवमात्मन आलापस्य स्थानवाय्वादिसङ्घर्षोत्थत्वमपि सम्भवेदिति वैखर्येव किं न स्यात् ? -- इत्याशङ्क्याह -- ᳚वर्णाद्यप्रविभागतः᳚ इति | वर्णाद्यप्रविभागहेतुकमेवास्या माधुर्यं यद्वशादेवात्र सर्वेषामासक्तिः -- मधुर एव हि लोको रज्यति -- इत्यविवादः | अन्यत्र पुनर्वर्णादिविभागात्पारुष्यम् | परुषे च न कस्यचिदप्यासक्तिस्तदियाननयोः स्वानुभवसिद्धो भेदः -- इति भावः || २३७ || तदाह -- अविभागैकरूपत्वं माधुर्यं शक्तिरुच्यते || ३-२३८ || स्थानवाय्वादिघर्षोत्था स्फुटतैव च पारुषी | तदेवमत्र आसक्तिभाजां योगिनां सहसैव संविन्मयीभावो भवतीत्याह -- तदस्यां नादरूपायां संवित्सविधवृत्तितः || २३९ || साजात्यान्तर्म (त्तन्म-)यीभूतिर्झगित्येवोपलभ्यते | संवित्सविधवृत्तित इति मध्यमादिवद्बहीरूपतया दूरदूरमनुल्लासात् | अत एव ᳚गीतादिविषयास्वादा.................... |᳚ (वि.भै. ७३ श्लो.) इत्याद्यन्यत्रोक्तम् || २३९ || ननु केषांचिद्गीतादाववहितचेतसामपि न तन्मयीभावो भवेदिति कथमेतदुक्तम् ? -- इत्याशङ्क्याह� येषां न तन्मयीभूतिस्ते देहादिनिमज्जनम् || ३-२४० || अविदन्तो मग्नसंविन्मानास्त्वहृदया इति | लोके हि सातिशये गीतादौ विषये तन्मयीभावेन सचमत्काराणां शहृदयाः᳚ इति, अन्यथा ᳚परहृदयगा᳚ (अहृदयाः) इति प्रसिद्धिः || २४० ||
SK
एवं पश्यन्त्याः स्थूलं रूपं विचार्य मध्यमाया अप्यभिधत्ते -- यत्तु चर्मावनद्धादि किञ्चित्तत्रैष यो ध्वनिः || ३-२४१ || स स्फुटास्फुटरूपत्वान्मध्यमा स्थूलरूपिणी | तत्र चर्मावनद्धे मृदङ्गादौ एष यो ध्वनिः कराघाताद्युत्थः षड्जाद्येकतमरूपत्वेन अभिव्यक्तेः पूर्वापेक्षया स्फुटो वर्णादिविभागानुल्लासाच्चास्फुटः अत एव मध्यमाशब्दव्यपदेश्यः || २४१ || तदेवमत्राविभागांशस्य सद्भावान्माधुर्यमपि संभवेदिति लोकस्याप्यत्रासक्तिः -- इत्याह -- मध्यायाश्चाविभागांशसद्भाव इति रक्तता || ३-२४२ || अविभागस्वरमयी यत्र स्यात्तत्सुरञ्जकम् | ननु किमियमपि पश्यन्तीवदासक्तिं जनयेत् ? -- इत्याशङ्क्याह -- ᳚अविभागेत्यादि᳚ | अत्र क्वचिदविभागस्वरमयी अर्थाद्वाक् स्यात् तत्सुष्ठु रञ्जकम् आसक्तिजननयोग्यम् -- इत्यर्थः | तेनात्राप्यासक्त्या तनमयीभावो भवेत् -- इति भावः | अनेनास्या अपि वैखरीतो भेदः सूचितः || २४२ || नन्वविभाग एवासक्तौ निमित्तमित्यत्र किं प्रमाणम् ? -- इत्याशङ्क्याह - - अविभागो हि निर्वृत्यै दृश्यतां तालपाठतः || ३-२४३ || किलाव्यक्तध्वनौ तस्मिन्वादने परितुष्यति | अविभाग एव हि निर्वृतिनिमित्तं दृश्यताम् साक्षात्क्रियताम -- इत्यर्थः | नहि दृष्टमदृष्टं भवति -- इति भावः | किलेति हेतौ | यतस्तालानाम् चञ्चुपुटादीनां पाठम् गानमाश्रित्य अव्यक्तध्वन्यात्मनि तस्मिन्नविभागरूपे वादने अर्थात् सर्वोऽप्ययं लोकः परितुष्यति निर्वृतिं भजते -- इत्यर्थः | तेनात्र स्वानुभव एव प्रमाणम् -- इति तात्पर्यम् || २४३ || एवं मध्यमायाः स्थूलं रूपमुक्त्वा वैखर्या अप्यभिधत्ते -- या तु स्फुटानां वर्णानामुत्पत्तौ कारणं भवेत् || ३-२४४ || सा स्थूला वैखरी यस्याः कार्यं वाक्यादि भूयसा | स्फुटानामिति परस्परवैलक्षण्यावस्थानेन श्रोत्राकर्ण्यमानानाम् | अत एव पारुष्यादत्र लोकस्य नासक्तिः || २४४ || एवं स्थूलं भेदत्रयमभिधाय सूक्ष्ममप्याह -- अस्मिन्स्थूलत्रये यत्तदनुसन्धानमादिवत् || ३-२४५ ||
SK
पृथक्पृथक्तत्त्रितयं सूक्ष्ममित्यभिशब्द्यते | अस्मिन् समनन्तरोक्ते स्थूले भेदत्रये यदाद्यम् जिगासाद्यात्मेच्छारूपमनुसन्धानं तदेव पृथक् पृथक् पश्न्तीमध्यमावैखरीगतं सूक्ष्मं भेदत्रय मुच्यते || २४५ || एतदेव क्रमेणोदाहरति -- षड्जं करोमि मधुरं वादयामि ब्रुवे वचः || ३-२४६ || तेन जिगासाविवादयिषाविवक्षात्मकानुसन्धानत्रयरूपमेतत्सूक्ष्मं भेदत्रयम् -- इति तात्पर्यार्थः || २४६ || किं चात्र प्रमाणम् ? -- इत्याशङ्क्याह -- पृथगेवानुसन्धानत्रयं संवेद्यते किल | संवेद्यते इति -- स्वानुभवसिद्धमेतत् -- इत्यर्थः || एवं सूक्ष्मं भेदत्रयमुक्ता परमप्याह -- एतस्यापि त्रयस्याद्यं यद्रूपमनुपाधिमत् || ३-२४७ || तत्परं त्रितयं तत्र शिवः परचिदात्मकः | एतस्य जिगासाद्यात्मनोऽनुसन्धानत्रयस्यापि यदनुपाधिमत् जिगासाद्युपरञ्जकरहितमाद्यं रूपमिच्छाया अपि पूर्वकोटिभूतं संवित्तत्त्वं तदेतत्परं भेदत्रयम् | नन्वनुपाधिमति अत्र संवित्तत्त्वे भेदस्यावकाशमात्रमपि न संभवेत् तत्कथमत्र त्रिरूपत्वमुक्तम् ? -- इत्याशङ्क्याह -- ᳚शिवः परचिदात्मकः᳚ इति | परचिन्मात्ररूपशिवैकात्म्येनात्र पश्यन्त्यादित्रयमवभासते -- इत्यर्थः | यदुक्तम्� श्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् | अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते || ई. प्र. ९|५|२० इति || २४७ || ननु परस्य निरंशस्य प्रकाशस्य विभागेन प्रकाशनमेव नोपपद्यते, तत्रापि त्रैरूप्ये किं निमित्तम् ? -- इत्याशङ्क्याह -- विभागाभासनायां च मुख्यास्तिस्रोऽत्र शक्तयः || २४८ || कास्ताः ? -- इत्याह� अनुत्तरा परेच्छा च परापरतया स्थिता | उन्मेषशक्तिर्ज्ञानाख्या त्वपरेति निगद्यते || ३-२४९ || ह्रस्वत्रयमेव च भैरवात्मनः परस्य तत्त्वस्य शक्तिरूपतया पूर्वं निर्णीतम् तदुक्तम्� ᳚अतः षण्णां त्रिकं सारं चिदिष्युन्मेषणात्मकम् | तदेव त्रितयं प्राहुर्भैरवस्य परं महः ||᳚ (३|९२) इति || २४९ || इदानीं विभागाभासनमेव प्रपञ्चयति --
SK
क्षोभरूपात्पुनस्तासामुक्ताः षट् संविदोऽमलाः | तासामिति तिसृणां शक्तीनां क्षुब्धं रूपमाश्रित्य, पुनः षट् ऊनतान्ताः संविदः पूर्वमुक्ताः | ताश्च क्षुब्धत्वेऽपि स्वस्वरूपाप्रच्यावादमलाः अत एव च परस्परसङ्घट्टेन संविदन्तरावभासनेऽपि योग्याः | तदुक्तम्� श्वराणां षट्कमेवेह मूलं स्याद्वर्णसन्ततौ | षड्देवतास्तु ता एव ये मुख्याः सूर्यरश्मयः ||᳚ (३|१८४) इति || अत आह -- आसामेव समावेशात्क्रियाशक्तितयोदितात् || ३-२५० || संविदो द्वादश प्रोक्ता यासु सर्वं समाप्यते | तासामेव षण्णां संविदां क्रियाशक्तितयोदितेन परस्परसङ्घट्टेन द्वादश संविदः प्रोक्ताः षण्ठवर्जं सन्ध्यक्षरादिरूपोपग्रहात्स्वरद्वादशकात्मनावभासिताः -- इत्यर्थः | एतास्वेव च संवित्सु वक्ष्यमाणनीत्या प्रमेयादिक्रमेण परमात्रन्तमवस्थितत्वात् अतोऽतिरिक्तस्य चाभावात् सर्वस्य परिपूर्तिः ᳚यासु सर्वं समाप्यते᳚ इति | इयदेव च मुख्यं शक्तिचक्रम्, अत्रैवोक्तवक्ष्यमाणनीत्या शक्त्यन्तराणामन्तर्भावात् || २५० || तदाह� एतावद्देवदेवस्य मुख्यं तच्छक्तिचक्रकम् || ३-२५१ || एतावता देवदेवः पूर्णशक्तिः स भैरवः | एता एव द्वादशापि संविदः क्रमदर्शनादौ अन्वर्थेनापि अभिधानेन दर्शितारः -- इति दर्शयितुमाह� परामर्शात्मकत्वेन विसर्गाक्षेपयोगतः || ३-२५२ || इयत्ताकलनाज्ज्ञानात्ताः प्रोक्ताः कालिकाः क्वचित् | ᳚कलशब्दे᳚ ᳚कल किल बिल क्षेपे᳚ ᳚कल संख्याने᳚ ᳚कल गतौ᳚ इति धात्वर्थानुगमात्क्रमेण कलयन्ति परामृशन्ति, क्षिपन्ति, विसृजन्ति संहरन्ति च गणयन्ति जानते चेति काल्यः; ता एव कालिकाः || २५२ || न केवलमेताः क्रमदर्शनादावेवोक्ता यावदस्मन्नयसहोदरेषु शास्त्रेष्वपि -- इत्याह -- श्रीसारशास्त्रे चाप्युक्तं मध्य एकाक्षरां पराम् || ३-२५३ || पूजयेद्भैरवात्माख्यां योगिनीद्वादशावृताम् | सारशास्त्रे इति श्रीत्रिकसारे | यदुक्तं तत्र -- ᳚परां त्वेकाक्षरां मध्ये शङ्खकुन्देन्दुसुन्दराम् | चतुर्भुजां चतुर्वक्त्रां योगिनीद्वादशावृताम् ||᳚
SK
इति | भैरवात्माख्यामिति -- विश्वस्यान्तर्बहीरूपतया पालनपूरणात्मकात् ᳚परा᳚ इत्यन्वर्थानुसरणात्पूर्णेनात्मना समन्तात्ख्याति अवभासते -- इत्यर्थः | कालिकानां च योगिनीत्यनेन नाममात्र एवायं भेदो न वस्तुनि इति -- सूचितम् | तत्तदनुत्तराद्यामर्शरूपत्वमप्यासां संविदां श्रीत्रिकसार एव भङ्ग्याभिहितम् | तत्र हि� ᳚अथातः संप्रवक्ष्यामि वाग्विधानमनुत्तमम् |᳚ इति वाच एव प्राधान्यमुपक्रम्य ᳚तद्बीजं तु विभिन्नं वै स्वरैर्द्वादशभिः क्रमात् | ताश्चैव तु तथा देव्यः......................... ||᳚ इत्याद्युक्तम् | एतच्च शाक्तोपायाह्निक एव वितत्य विचारयिष्यते -- इति नेहायस्तम् || २५३ || आसां च यत्प्रोक्तं मुख्यत्वं तदेव प्रपञ्चयति -- ताभ्य एव चतुःषष्टिपर्यन्तं शक्तिचक्रकम् || ३-२५४ || एकारतः समारभ्य सहस्रारं प्रवर्तते | तासां च कृत्यभेदेन नामानि बहुधागमे || ३-२५५ || उपासाश्च द्वयाद्वैतव्यामिश्राकारयोगतः | श्रीमत्त्रैशिरसे तच्च कथितं विस्तराद्बहु || ३-२५६ || इह नो लिखितं व्यासभयाच्चानुपयोगतः | आगम इति सामान्येनोक्तेः श्रीमत्त्रैशिरस इत्यनेन विशेषो दर्शितः | तत्तत एव प्रथमपटलादेतदनुसर्तव्यम् -- इति भावः || २५६ || ननु यद्येवं तदघोराद्याः सृष्ट्यादिक्रमेष्वप्यवस्थिता याः शक्तयः किमासामेव स्फारो न वा ? -- इत्याशङ्क्याह -- ता एव निर्मलाः शुद्धा अघोराः परिकीर्तिताः || २५७ || घोरघोरतराणां तु सोतृत्वाच्च तदात्मिकाः | सृष्टौ स्थितौ च संहारे तदुपाधित्रयात्यये || ३-२५८ || तासामेव स्थितं रूपं बहुधा प्रविभज्यते | प्रक्षीणमलत्वेऽपि उद्रिक्तदृक्किर्या इत्युक्तं ङिर्मलाः शुद्धाः᳚ इति | तस्य सृष्ट्याद्यात्मन उपाधित्रयस्य अत्ययः अनाख्यम्, यथैवासां द्वादशानामपि संविदामनाख्यक्रमे रूपं प्रविभक्तं तथैव सृष्ट्यादिक्रमेष्वपीति समुच्चितत्वमभिधातुं ᳚तदुपाधित्रयात्यये᳚ इत्युपात्तम् || २५८ ||
SK
ननु अनाख्यक्रमे योऽयं सृष्ट्याद्यात्मन उपाधित्रयस्य अत्यय उक्तः स किं प्रागभावरूपः प्रध्वंसाभावरूपो वा ? -- इत्याशङ्क्याह -- उपाध्यतीतं तद्रूपं तद्द्वधा गुरवो जगुः || ३-२५९ || अनुल्लासादुपाधीनां यद्वा प्रशमयोगतः | अनुल्लासादिति प्रागभावरूपात् | प्राक्कोटौ हि निस्तरङ्गजलधिप्रख्यं परं तत्त्वं यतः स्वस्वातन्त्र्याद्बाह्योन्मुखतायामुपाधीनामुल्लासः स्यात् | प्रशमयोगत इति प्रध्वंसाभावरूपात् || २५९ || प्रशमो हि द्विधा -- इत्याह -- प्रशमश्च द्विधा शान्त्या हठपाकक्रमेण तु || ३-२६० || अलंग्रासरसाख्येन सततं ज्वलनात्मना | शान्त्येति -- शान्तेन मधुरपाकक्रमेण गुर्वाद्याराधनपूर्वं समय्यादिदीक्षासाधनेन तत्तन्नित्यनैमित्तिकाद्यनुष्ठाननिष्ठतया देहान्ते सृष्ट्याद्युपाधीनामत्ययो भवेत् -- इत्यर्थः | शान्तिः पुनः स्वारसिक एव सृष्ट्याद्युपाधीनां प्रशमो न वाच्यः, तथात्वे हि शास्त्रोपदेशादेरानर्थक्यं स्यात् स्वरसत एवोपाधीनां कादाचित्कस्य प्रशमस्याभावात् | तथालम् अत्यर्थम् सार्वात्म्येन, यः सृष्ट्यादीनां ग्रासः स्वात्मसात्कारस्तत्र रसः गृध्नुता तत्त्वेनालंग्रासभैरवादावाख्या यस्य, अत एव सततम् अविच्छिन्नतया ज्वलन् यथायथं दाह्यनिष्ठतया दीप्यमान आत्मा स्वरूपं यस्य, एवंविधेन हठेन क्रमव्यतिक्रमरूपेण सकृदुपदेशात्मना बलात्कारेण यः पाकः चिदग्निसात्कारः, तस्य क्रमः परिपाटी, तेन सृष्ट्याद्युपाधीनामत्ययो भवेत् -- इत्यर्थः | इह खलु सर्वेषामेव सृष्ट्याद्युपाधित्रयात्यय एव समभिलषणीयः -- इति तत्कार्यक्षमः कश्चनोपायविशेषोऽवश्यानुसन्धातव्यः, स च त्रिधेत्युक्तम् | तत्र यो नामानुल्लास एवोपाधीनामुक्तः स दूरापास्तः, समुल्लसितानामेवैषामत्ययस्येष्टेः | शान्त्याख्यश्च उपायविशेषो यद्यपि शनैः शनैर्देहान्ते तदत्ययक्षमः तथापि स मन्दशक्तिपाताधिकारेण प्रवृत्तः -- इति तीव्रशक्तिपाताधिकारेण तृतीयस्य हठपाकप्रशमस्यैवोपायविशेषस्योपदेशो युक्तो येन झटित्येवोपाधिविगलनं भवेत् || २६० ||
SK
तदाह� हठपाकप्रशमनं यत्तृतीयं तदेव च | उपदेशाय युज्येत भेदेन्धनविदाहकम् || ३-२६१ || युज्येतेत्यत्र हेतुः ᳚भेदेन्धनविदाहकम्᳚ इति | अस्यैव हि सहसैव भेदविलापने परं सामर्थ्यम् -- इति भावः || २६१ || अत आह -- निजबोधजठरहुतभुजि भावाः सर्वे समर्पिता हठतः | विजहति भेदविभागं निजशक्त्या तं समिन्धनाः || ३-२६२ || सर्व एव हि सृष्ट्यादयो भावो बोधाग्नौ हठेन समर्पिता भेदविभागं विजहति बोधैकरूपतया परिस्फुरन्ति -- इत्यर्थः | ननु यदि नाम सर्वे भावास्तत्तद्रूपतया बोधादतिरिक्तास्तत्किमिति तदेकरूपतया परिस्फुरन्ति ? -- इत्याशङ्क्याह -- ङिजशक्त्या तं समिन्धानाः᳚ इति | तेऽपि बोधरूपतया निजशक्त्या तमेव बोधमुद्दीपयन्तोऽवभासन्ते -- इत्यर्थः | अबोधरूपत्वे हि तेषामबुध्यमानत्वमेव भवेत् -- इति भावः || २६२ || नन्वेवं किं स्यात् ? इत्याशङ्क्याह -- हठपाकेन भावानां रूपे भिन्ने विलापिते | अश्नन्त्यमृतसाद्भूतं विश्वं संवित्तिदेवताः || ३-२६३ || चिदग्न्युद्बोधनपूर्वं हठपाकक्रमेण सृष्ट्यादीनां भावानां भेदस्य विलापनात् अमृतसाद्भूतम् बोधैकरूपतामापन्नं सत् विश्वं संवित्तिदेव्यः करणेश्वर्योऽश्नन्ति परबोधैकरूपतया परामृशन्ति - - इत्यर्थः | अथ च लौकिको भोक्तृभोग्यव्यवहारोऽपि अत्राक्षिप्तः, तद्विशिष्टत्वेनैव प्रकृतस्यार्थस्यावगतेः || २६३ || ततोऽपि किम् ? -- इत्याह -- तास्तृप्ताः स्वात्मनः पूर्णं हृदयैकान्तशायिनम् | चिद्व्योमभैरवं देवमभेदेनाधिशेरते || ३-२६४ || ताश्च संवित्तिदेवतास्तृप्ताः परबोधैकरूपतासादनेनानन्यपेक्षाः सत्यो हृदयैकान्तशायिनम् सारभूतपरामर्शैकविश्रान्तम्, अत एव पूर्णम् अनन्याकाङ्क्षम्, अत एव च देवम् द्योतनैकसतत्त्वं चिद्व्योमभैरवम् परप्रकाशात्म परं तत्त्वं, स्वात्मनः स्वस्वरूपस्याभेदेनाधिशेरते तदेकरूपतया परिस्फुरन्ति -- इत्यर्थः | अथ चात्र पूर्ववल्लौकिकनायकव्यवहार आक्षिप्तः || २६४ ||
SK
नन्वासां चिदात्मनि परस्मिन्रूपे विश्रान्तत्वात् तदतिरिक्तस्यान्यस्याभावात् द्वादशविधं रूपं कुतस्त्यम् ? -- इत्याशङ्क्याह -- एवं कृत्यक्रियावेशान्नामोपासाबहुत्वतः | आसां बहुविधं रूपमभेदेऽप्यवभासते || ३-२६५ || कृत्यम् रूपाद्यालोचनादि, नाम चक्षुरादिदेवतादि, उपासा रूपाद्यालोचनात्मवृत्तिविलापनादिरूपा | ᳚अभेदेऽपि बहुविधमवभासते᳚ इत्यनेन काल्पनिकत्वमुक्तम् || २६५ || ननु यदि कृत्यादिभेदादासां बहुविधत्वं तद्रूपाद्यालोचनात्मकृत्यमपि द्वादशविधमेव तदतिरिक्तस्य कृत्यान्तरस्याभावात् -- इत्यासां द्वादशविधादेव रूपान्न्यूनमधिकं वा रूपं न स्यात्, इति ᳚ताभ्य एव चतुःषष्टिपर्यन्तं शक्तिचक्रकम्᳚ (३|५४) इत्यादि कथमुक्तम् ? -- इत्याशङ्क्याह -- आसामेव च देवीनामावापोद्वापयोगतः | एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवोत्तरैः || ३-२६६ || रुद्रार्कान्यकलासेनाप्रभृतिर्भेदविस्तरः | आवापः संक्षेपः, उद्वापः विकासः | आसामेव हि स्वस्वातन्त्र्यात् कमलवदनवरतं सङ्कोचविकाससंभवः -- इति भावः | उत्तरे दश, अन्ये त्रयोदश, कलाः षोडश, सेना अष्टादशाक्षौहिण्यः || २६६ || तदेवं प्रसक्तानुप्रसक्त्यागतमेतदुपसंहरन्प्रकृतमेवावतारयति -- अलमन्येन बहुना प्रकृतेऽथ नियुज्यते || ३-२६७ || अन्येनेति अवान्तरेण शाम्भवोपायप्रतिपादनेन, तस्य हि मुख्यतया विश्वचित्प्रतिबिम्बत्वादिना त्रिधा रूपं निरूपितं येन तदुपासन्नानां झटित्येवाविकल्पस्वरूपावाप्तिः स्यात्; तदनेकप्रमेयसंकुलतया विश्वचित्प्रतिबिम्बत्वाद्येवोपदेश्या मा विस्मार्षुः इति तदेव तान्प्रति संक्षेपेणोच्यते -- इत्याह -- ᳚प्रकृतेऽथ नियुज्यते᳚ इति | अथेत्यानन्तर्ये, तदितोऽनन्तरं प्रकृतं विश्वचित्प्रतिबिम्बत्वाद्येव प्रस्तूयते -- इत्यर्थः || २६७ || अत आह -- संविदात्मनि विश्वोऽयं भाववर्गः प्रपञ्चवान् | प्रतिबिम्बतया भाति यस्य विश्वेश्वरो हि सः || ३-२६८ || एवमात्मनि यस्येदृगविकल्पः सदोदयः | परामर्शः स एवासौ शाम्भवोपायमुद्रितः || ३-२६९ ||
SK
पूर्णाहन्तापरामर्शो योऽस्यायं प्रविवेचितः | मन्त्रमुद्राक्रियोपासास्तदन्या नात्र काश्चन || ३-२७० || यस्य तीव्रशक्तिपातवतः साधकादेर्विश्वः प्रमातृप्रमेयात्मा तद्भेदोपभेदादिना प्रपञ्चवानप्ययं भाववर्गः संविदात्मनि प्रतिबिम्बतया भाति दर्पणनगरन्यायेनातिरिक्तायमानत्वेऽपि अनतिरिक्तत्वेन स्वात्ममात्ररूपतयैवावभासते, स खलु विश्वेश्वरः परप्रकाशात्मभगवदैकात्म्येन प्रकाशते -- इत्यर्थः | यस्याप्येवं भाववर्गस्य प्रतिबिम्बकल्पतयावभासने सति स्वात्मनीदृगहमेव भाववर्गात्मना प्रस्फुरित -- इत्येवमात्मसाक्षात्काररूपः सततोदितः परामर्शः स्यात्, स एवासौ शाम्भवोपायेन मुद्रितः स्वसमुचितोपेयासादनेन नियमितः -- इत्यर्थः | अत एवास्य सर्वविषयतया पूर्णो योऽयमहन्तापरामर्शः प्रविवेचितः, अर्थात्तस्यैवात्र शांभवोपाये काश्चन मन्त्रमुद्राक्रियोपासा न ततः पूर्णाहन्तापरामर्शादन्याः, परप्रमात्रेकरूपस्वात्माभेदेनैव प्रस्फुरन्ति -- इत्यर्थः | न ह्येतत्पदमधिशयानस्यैतदुपयोगः�इति भावः | यदुक्तम्� ᳚अयं रसो येन मनागवाप्तः स्वच्छन्दचेष्टानिरतस्य तस्य | समाधियोगव्रतमन्त्रमुद्राजपादिचर्या विषवद्विभाति ||᳚ इति | वक्ष्यति च� श्रानं व्रतं देहशुद्धिर्धारणा मन्त्रयोजना | अध्वकॢप्तिर्यागविधिर्होमजप्यसमाधयः || इत्यादिकल्पना कापि नात्र भेदेन युज्यते |᳚ (तं. ३|२९०) इति || २७० || तदेवं त्रिविधमपि शांभवोपायमुपासन्नो महात्मा जीवन्नेव मुक्तिमासादयेत् -- इत्याह -- भूयोभूयः समावेशं निर्विकल्पमिमं श्रितः | अभ्येति भैरवीभावं जीवन्मुक्त्यपराभिधम् || ३-२७१ || ननु पूर्वम् ᳚तत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति |᳚ (तं. २|८) इत्यादिना नित्योदितत्वेनादिसिद्धत्वाद्भैरवीयायां संविदि ज्ञापकः कारको वा न कोऽप्युपायः समस्तीत्युक्तम् तत्कथमिदमिदानीमुक्तम् -- अयं निर्विकल्पः समावेशोऽत्राभ्युपायः ? -- इत्याशङ्क्याह -- इत एव प्रभृत्येषा जीवन्मुक्तिर्विचार्यते |
SK
यत्र सूत्रणयापीयमुपायोपेयकल्पना || ३-२७२ || प्राक्तने त्वाह्निके काचिद्भेदस्य कलनापि नो | तेनानुपाये तस्मिन्को मुच्यते वा कथं कुतः || ३-२७३ || सूत्रणयापीति -- आह्निकान्तरेषु पुनः स्फुटैव भविष्यति -- इति भावः | भेदस्येति -- कर्तृकरणापादानादेः | अत एवोक्तम् -- ᳚कः कथं कुतः᳚ इति || २७३ || उपायोपेयभावमेव चात्र दर्शयति -- निर्विकल्पे परामर्शे शाम्भवोपायनामनि | पञ्चाशद्भेदतां पूर्वसूत्रितां योजयेद्बुधः || ३-२७४ || धरामेवाविकल्पेन स्वात्मनि प्रतिबिम्बताम् | पश्यन्भैरवतां याति जलादिष्वप्ययं विधिः || ३-२७५ || यावदन्ते परं तत्त्वं समस्तावरणोर्ध्वगम् | व्यापि स्वतन्त्रं सर्वज्ञं यच्छिवं परिकल्पितम् || ३-२७६ || पूर्वेति प्रथमाह्निके | यदुक्तम् -- ᳚पञ्चाशद्विधता चास्य समावेशस्य वर्णिता | तत्त्वषट्त्रिंशकैतत्स्थस्फुटभेदाभिसन्धितः ||᳚ (तं. १|१८७) इत्यादि | योजयेत् इति एकैकध्येन उपायतया परिकल्पयेत् -- इत्यर्थः | तदाह -- धरामित्यादि | एकमेव धरातत्त्वमविकल्पज्ञानेन न तु विकल्पमात्रेण स्वात्मनि प्रतिबिम्बितं पश्यन् स्वात्मसंविन्मात्ररूपतया साक्षात्कुर्वन् सर्वस्य सर्वात्मकत्वाद्भैरवतां याति परप्रकाशरूपतया परिस्फुरति -- इत्यर्थः | एतदेव च तत्त्वान्तरेष्वप्यतिदिशति -- ᳚जलादिष्वपि᳚ इत्यादिना | अयं विधिरिति -- जलादिशिवतत्त्वपर्यन्तं तत्त्वजालमविकल्पवृत्त्या स्वात्मनि प्रतिबिम्बितं पश्यन् भैरवतां यातीति | ननु यदि नाम परं तत्त्वं व्यापि तत्कथं पञ्चत्रिंशत्तत्त्वीमुज्झित्वा षट्त्रिंशद्रूपतयैवोक्तम् ? इत्याशङ्क्याह -- शमस्तावरणोर्ध्वगं परिकल्पितम्᳚ इति | वस्तुतो हि तज्ज्ञातृकर्तृस्वभावपरप्रमात्रेकरूपमित्युक्तम् -- श्वतन्त्रं सर्वज्ञम्᳚ इति || २७६ || ननु यदि नाम परप्रमात्रेकरूपं भैरवात्मकं परं तत्त्वं तत्कथं दर्शनक्रियायां भैरवात्मत्वे चोपायतां यायात् ? -- इत्याशङ्क्याह -- तदप्यकल्पितोदारसंविद्दर्पणबिम्बितम् | पश्यन्विकल्पविकलो भैरवीभवति स्वयम् || ३-२७७ ||
SK
न केवलं तत्त्वान्तराणि यावत्तत्प्रमात्रेकरूपं भैरवात्मकं च परं तत्त्वमपि श्वातन्त्र्यान्मुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः | प्रभुरीशादिसङ्कल्पैर्निर्माय व्यवहारयेत् ||᳚ (रि. १|५|१६) इत्याद्युक्तयुक्त्या स्वस्वातन्त्र्यात्स्वात्मनि परिकल्पितोपायोपेयभावं सत् विकल्पविकलः शाम्भवोपायसमाविष्टः साधकादिरकल्पितत्वादेव तत्तदुपाधिसङ्कोचाभावादुदारा येयं संवित् सैव स्वच्छतातिशयाद्दर्पणस्तत्र प्रतिबिम्बितं पश्यन् तन्मात्ररूपतया साक्षात्कुर्वन् स्वयम् अनन्यापेक्षमेव भैरवीभवति अविकल्पितोदारसंविदात्मना परिस्फुरति -- इत्यर्थः || २७७ || ननु परतत्त्वद्वारेण पूर्णस्वरूपावेशो यद्युच्यते तदास्तां धराद्येशांशिकामुखेन पुनः कथमसौ स्यात् ? -- इत्याशङ्क्याह -- यथा रक्तं पुरः पश्यन्निर्विकल्पकसंविदा | तत्तद्द्वारनिरंशैकघटसंवित्तिसुस्थितः || ३-२७८ || तद्वद्धरादिकैकैकसङ्घातसमुदायतः | परामृशन्स्वमात्मानं पूर्ण एवावभासते || ३-२७९ || इह खलु सर्व एव द्रष्टा यथा निर्विकल्पकेन ज्ञानेन रक्तं लोहितं गुणं तदुपलक्षितं पृथुबुध्नोदराकारादिसन्निवेशाद्यपि पुरः पुरतः प्रथममेव वा साक्षात्कुर्वंस्ते ते स्वेच्छादिनाऽवभासमाना रक्ततादय्ॐऽशा द्वारम् उपायो यस्यास्तथाविधा येयं निरंशस्य अनेकासामान्याभाससंमेलनात्मकस्वलक्षणरूपस्य अखण्डस्य, अत एवांशापेक्षयैकस्य प्रधानस्य सम्यक् अन्यूनातिरिक्तत्वेन वित्तिः अवबोधस्तया सुष्ठु ᳚ज्ञातोऽयं मया घटः᳚ इत्यादिसन्तोषाधानात् नैराकाङ्क्ष्येण स्थितः स्वात्ममात्रविश्रान्तो भवेत् तथैव धरादि पृथ्वीजलादि यदेकमेकं तत्त्वं तथा धरादिर्यो भूताद्यात्मा सङ्घातः, तथा धरादिर्यः पञ्चाशदात्मा समुदायस्तदवलम्बनेन स्वमात्मानं निर्विकल्पकवृत्त्या परामृशन् पूर्ण एवावभासते स्वात्मसंवित्तिमात्ररूपतया प्रस्फुरति -- इत्यर्थः || २७९ ||
SK
ननु धरादितत्त्वसमुदायात्मकं विश्वं नामेदं भिन्नमेवावभासते तत्कथमेवं परामर्शेनैव स्वात्मसंविन्मात्ररूपता ? -- इत्याशङ्क्याह -- मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् | मदभिन्नमिदं चेति त्रिधोपायः स शाम्भवः || ३-२८० || मत्त इति� शर्वत्रात्र ह्यहंशब्दो बोधमात्रैकवाचकः |᳚ (तं. १|१३२) इत्याद्युक्त्या परस्माद्बोधात् न पुनरविद्यादेः, इदम् प्रमातृप्रमेयात्म विश्वमुदितम्, एवंभूतमपि तन्मयि बोधे प्रतिबिम्बितम् अनतिरिक्तत्वेऽपि अतिरिक्तायमानत्वेन न पुनर्विच्छिन्नतयैवावस्थितमेवमपि संह्रियमाणमिदं ममैवाभिन्नं बोधात्मनैव पारमार्थिकेन रूपेण सत् न पुनरवयवविभागक्रमेण द्व्यणुकत्वाद्यापत्त्या पारमाणवेन रूपेण, -- इति युक्तमेव परामर्शमात्राद्विश्वस्य संविन्मात्ररूपत्वमित्येवं परामर्श एव चास्य शाम्भवस्योपायस्य स्वरूपमित्युक्तम् ᳚इति त्रिधोपायः स शाम्भवः᳚ इति || २८० || एवमहंपरामर्शस्य च सृष्ट्यादयो निबन्धनमिति तदासूत्रणमपि अनेन कृतम् -- इत्याह -- सृष्टेः स्थितेः संहृतेश्च तदेतत्सूत्रणं कृतम् | यत्र स्थितं यतश्चेति तदाह स्पन्दशासने || ३-२८१ || न चैतदस्माभिरेवोक्तं यावद्गुरुभिरपि -- इत्याह यत्रेत्यादि | तदुक्तं तत्र -- ᳚यत्र स्थितमिदं विश्वं कार्य यस्माच्च निर्गतम् | तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् ||᳚ (स्प.१ का२) यतो निर्गतमिति सृष्टिरुक्ता, यत्र स्थितमित्यनतिरिक्तत्वेन चातिरिक्तायमानत्वेन -- इति स्थितिसंहारौ || २८१ || ननु किमिदं नाम संविदः सृष्ट्यादिकारित्वमुक्तम् -- ᳚यानुभूतिरजामेयानन्तात्मानन्दविग्रहा |᳚ इत्यादिलक्षणान्तरं किञ्चिद्ब्रह्मवादिवदभिधानीयं येनास्या वाद्यन्तरसिद्धमसाधारणं रूपमभिहितं स्यात् ? -- इत्याशङ्क्याह - - एतावतैव ह्यैश्वर्यं संविदः ख्यापितं परम् | विश्वात्मकत्वं चेत्यन्यल्लक्षणं किं नु कथ्यताम् || ३-२८२ ||
SK
एतावता सृष्ट्यादिकारित्वेनैव हि संविद एश्वर्यं विश्वात्मकत्वं च परं वाद्यन्तरवैलक्षण्येन अत्यर्थं ख्यापितम् उक्तं भवेत् इत्यर्थः | एतदेव ह्यस्या मुख्यमसाधारणं लक्षणं यत्स्वातन्त्र्याद्विश्वात्मकत्वेन परिस्फुरतीति | अत एव किंनु नाम लक्षणान्तरमस्याः कथ्यताम् | तेन कथितेन न किञ्चिदुक्तं भवेत् -- इति भावः | तथात्वे हि प्रत्युत अविद्यादेरतिरेकानतिरेकविकल्पोपहतत्वाद्विश्ववैचित्र्ये कारणमेव न सिद्ध्येत् | तेनास्याः सृष्ट्यादिकारित्वमेव मुख्यं लक्षणमिति यथोक्तमेव युक्तम् || २८२ || अत एव स्वात्मनि सृष्ट्यादिकारित्वमेव परामृशन् परसंविदैकात्म्यमेति, -- इत्याह -- स्वात्मन्येव चिदाकाशे विश्वमस्म्यवभासयन् | स्रष्टा विश्वात्मक इति प्रथया भैरवात्मता || ३-२८३ || षडध्वजातं निखिलं मय्येव प्रतिबिम्बितम् | स्थितिकर्ताहमस्मीति स्फुटेयं विश्वरूपता || ३-२८४ || सदोदितमहाबोधज्वालाजटिलतात्मनि | विश्वं द्रवति मय्येतदिति पश्यन्प्रशाम्यति || ३-२८५ || नन्वेवमपि विश्वस्य सृज्यमानत्वादिरूपतया संस्कारेणावस्थानात्कथमस्य प्रशान्ततोदियात् ? -- इत्याशङ्क्याह� अनन्तचित्रसद्गर्भसंसारस्वप्नसद्मनः | प्लोषकः शिव एवाहमित्युल्लासी हुताशनः || ३-२८६ || देशाध्ववक्ष्यमाणनीत्या निःसंख्याकत्वादनन्तानानासंनिवेशात्मकत्वाच्च चित्राः, अत एव सन्तः शोभना गर्भाः भुवनानि यस्यैवंविधो यः संसारः तत्तत्तत्त्वात्मा विश्वस्फारः स एवासारत्वात् स्वप्नसद्म, जागरासद्मनो हि प्लोषेऽवशेषसम्भावनापि स्यात् -- इति भावः | तस्य प्लोषकः स्रष्टास्मीत्यादिपरामर्शबलोपनीतः,अत एव सतताभ्यासादुल्लसनशीलोऽनवच्छिन्नसंविदात्मकः शिव एवाहमिति परामर्श एव हुताशनः विश्वसंस्कारस्यापिस्वात्मसंवित्सात्कारकः -- इत्यर्थः | यथा ह्यग्नावुदयति अनेकावरकप्रायेऽपि सद्मनि न किञ्चिदवशिष्यते तथैव शिवात्मतायामप्युल्लसितायां विश्वस्येति || २८६ ||
SK
ननु सृष्ट्यादिकारित्वेन स्वात्मनि यः संवित्सात्कारः स सृष्ट्याद्यवच्छिन्नः -- इति कथं तन्मुखेनानवच्छिन्नसंविदैकात्म्यं स्यात् ? -- इत्याशङ्क्याह -- जगत्सर्वं मत्तः प्रभवति विभेदेन बहुधा तथाप्येतद्रूढं मयि विगलिते त्वत्र न परः | तदित्थं यः सृष्टिस्थितिविलयमेकीकृतिवशा दनंशं पश्येत्स स्फुरति हि तुरीयं पदमितः || २८७ || बहुप्रकारं निखिलमिदं जगत्परस्मादेव बोधाद्विच्छित्रतयोदेति, तथोदितमपि तत्रैव बोधे विश्रान्तम्, एवमपि संहृते तस्मिञ्जगति न परः कश्चिदवशिष्यते अपितु बोध एवेति | इत्थमुक्तेन प्रकारेण बोधस्यैव सर्वदशास्वनुस्यूतत्वाद्यः सृष्ट्यादि बोधैकात्म्यलक्षणादेकीकाराद्धेतोरनंशं पश्येत् सृष्ट्यादिविभागविगलनेन अखण्डबोधैकरूपतया साक्षात्कुर्यात् स शाम्भवोपायसमाविष्ट एव हि तुरीयं पदं प्राप्तः सन् स्फुरति अनाख्यपरसंविद्रूपत्वेनावभासते -- इत्यर्थः | स इत्येकवचनेन बहूनामत्र नाधिकार -- इति सूचितम् || २८७ || अत एवाह� तदस्मिन्परमोपाये शाम्भवाद्वैतशालिनि | केऽप्येव यान्ति विश्वासं परमेशेन भाविताः || ३-२८८ || भाविता इति तीव्रतीव्रशक्तिपातत्वेन भगवतात्राधिकृतत्वेनाधिवासिताः -- इत्यर्थः | अत एव केऽप्येवेत्युक्तम् | न हि एवंविधशक्तिपातपात्रत्वं सर्वेषामेव भवेत् - - इति भावः | यदाहुः -- ᳚पूजकाः शतशः सन्ति भक्ताः सन्ति सहस्रशः | प्रसादपात्रमाश्वस्ताः प्रभोर्द्वित्रा न पञ्चषाः ||᳚ इति | परमत्वे चास्य शाम्भवाद्वैतशालित्वं हेतुः | अन्ये ह्याणवादयो भेदरूपत्वादपरमा एव -- इत्याशयः | अत एवात्र स्नानादि भिन्नमुपायजातं न किञ्चिदुपयुक्तम् || २८८ || तदाह� स्नानं व्रतं देहशुद्धिर्धारणा मन्त्रयोजना | अध्वकॢप्तिर्यागविधिर्होमजप्यसमाधयः || ३-२८९ || इत्यादिकल्पना कापि नात्र भेदेन युज्यते | ननु यद्यत्र भिन्नमुपायजातं नोपयुक्तं तदेतदुपायाविष्टः कथं नामाचार्यः परानुग्रहं कुर्यात् ? -- इत्याशङ्क्याह --
SK
परानुग्रहकारित्वमत्रस्थस्य स्फुटं स्थितम् || ३-२९० || यदि तादृगनुग्राह्यो दैशिकस्योपसर्पति | तादृगिति शाम्भवोपायभाजनम्, तस्य हि तद्दर्शनसंभाषणमात्रादिनैव ᳚..........................डीपाद्दीपमिवोद्यतम् |᳚ इत्याशयेन स्वात्मनि कृतकृत्यत्वं जायते -- इति किं नाम भिन्नेनोपायजातेन प्रयोजनम् -- इति भावः || २९० || नन्वनेवंविधश्चेत् कश्चित्तदाराधनाय प्रवृत्तः स्यात्तत्तत्रानेन किं प्रतिपत्तव्यम् ? इत्याशङ्क्याह -- अथासौ तादृशो न स्याद्भवभक्त्या च भावितः || ३-२९१ || तं चाराधयते भावितादृशानुग्रहेरितः | तदा विचित्रं दीक्षादिविधिं शिक्षेत कोविदः || ३-२९२ || तादृश इति शाम्भवोपायभाजनम्, न स्यादिति -- तीव्रतीव्रशक्तिपाताभावात् | अथ च -- ᳚तत्रैतत्प्रथमं चिह्नं रुद्रे भक्तिः सुनिश्चला |᳚ (मा.वि. २|१४) इत्यादिनीत्या शक्तिपातावेदकेन भवभक्त्याख्येन प्रथमेन चिह्नेनाधिष्ठितः, शक्तिपातस्य चात्र भवभक्त्याख्यस्यैकस्य तच्चिह्नस्य निर्देशाच्चिह्नान्तराणां चानिर्देशान्मन्दमन्दादिरूपत्वं सूचितम् | एवं मन्दमन्दादिशक्तिपातवत्त्वेऽपि स न समुचितमाणवाद्युपायमात्राभिज्ञं गुरुमाराधयितुं प्रवृत्तः अपि तु शाम्भवोपायाविष्टम् -- इत्युक्तम् -- ᳚तं चाराधयते᳚ इति | यतः स भावितादृशानुग्रहेरितः, न ह्याणवोपायमात्राभिज्ञाद्गुरोर्भाविनमपि शाम्भवोपायसमुचितमनुग्रहं लभते -- इति भावः | तेन ङ चावज्ञा क्रियाकाले संसारोद्धरणं प्रति |᳚ इत्याद्युक्तेः शिष्यस्य चोक्तयुक्त्या गत्यन्तराभावादवश्यमेव अस्य तदुद्दिधीर्षया भिन्नमुपायजातमुपयुक्तम् -- इत्याह -- तदा विचित्रमित्यादि | अत एव पूर्वं -- शोऽपि स्वातन्त्र्यधाम्ना चेदप्यनिर्मलसंविदाम् | अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् ||᳚ (तं. २|४४) इत्याद्युक्तम् | विचित्रमिति -- अनुग्राह्यभेदात् | यदुक्तं प्राक् -- ᳚अनुग्राह्यानुसारेण विचित्रः स च वक्ष्यते |᳚ (तं. २|४५) इति || २९२ ||
SK
ननवेवंविधस्यानुग्राह्यस्य शाम्भवोपायसमावेशभाजो गुरोः सकाशादाणवोपायप्रक्रियया चेदनुग्रहो वृत्तस्तर्हि ᳚शाणसूत्रवानाभ्यासे त्रसरतन्तुवानवैचित्र्यलाभः᳚ इत्यादिन्यायेन हेतुफलभावस्य नैयत्याद्भाव्यपि शांभवोपायसमुचितोऽनुग्रहः कथं नामास्य स्यात् ? इत्याशङ्क्याह� भाविन्योऽपि ह्युपासास्ता अत्रैवायान्ति निष्ठितिम् | एतन्मयत्वं परमं प्राप्यं निर्वर्ण्यते शिवम् || ३-२९३ || भाविनि आणवादौ वक्ष्यमाणाः | तासां हि द्वारद्वारिभावेनैतदतिरिक्तस्य मृग्यस्याभावात् शाम्भवोपाय एव प्ररोहः -- इत्युक्तम् -- ᳚अत्रैवायान्ति निष्ठितिम्᳚ इति | अत एवैतन्मयत्वमेव नामासां श्रेयोरूपं परमुपेयं सर्वत्रैवोद्धोष्यते | न हि एतद्विश्रान्तिमन्तरेण किञ्चिदपि भवेत् -- इति भावः | अत एवोपायनानात्वेऽपि नोपेयनानात्वम् | यदभिप्रायेणैव -- ᳚द्वावप्येतौ समावेशौ निर्विकल्पार्णवं प्रति | प्रयात एव तद्रूढिं विना नैव हि किञ्चन || संवित्तिफलभिच्चात्र न प्रकल्प्येत्यतोऽब्रवीत् |᳚ (तं. १|२२७) इत्यादि प्रागुक्तम् || २९३ || एतदेव श्लोकस्य प्रथमार्धेनोपसंहरति -- इति कथितमिदं सुविस्तरं परमं शाम्भवमात्मवेदनम् || शैवावेशवशोल्लसदसमरसास्वादसामरस्यमयः | कश्चिज्जयरथनामा तृतीयमिदमाह्निकं व्यवृणीत् || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके शाम्भवोप्रकाशनं नाम तृतीयमाह्निकम् || ३ || उपाय एवौपयिकम् -- इति शिवम् || तत्तद्ग्रन्थाधिगमोपायशतान्वेषणप्रसक्तेन | अनुपायाह्निकमेतद् व्याख्यातं जयरथेनाशु || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते शाम्भवोपायप्रकाशनं नाम तृतीयमाह्निकं समाप्तम् || ३ || चतुर्थमाह्निकम् ᳚ विवेक ᳚ यो दुर्विकल्पविघ्नविध्वंसे सद्विकल्पगणपतिताम् | वहति जयताज्जयन्तः स परं परमन्त्रवीर्यात्मा || इदानीं शांभवोपायानन्तरं क्रमप्राप्तं शाक्तोपायं कथयितुमपरार्धेन प्रतिजानीते --
SK
अथ शाक्तमुपायमण्डलं कथयामः परमात्मसंविदे || ४-१ || ᳚उपायममण्डलम्᳚ इति विकल्पसंस्क्रियादीनामानैक्यात् || १ || तत्र प्रथममनुजोद्देशोद्दिष्टां विकल्पसंस्क्रियां तावदभिधातुमुपक्रमते -- अनन्तराह्निकोक्तेऽस्मिन्स्वभावे पारमेश्वरे | प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा || ४-२ || ᳚अस्मिन्स्वभाव᳚ इति निर्विकल्पैकरूपे, तेनास्य शांभवोपाय एव विश्रान्तिः, इत्यावेदितम् | संस्कारमिति -- पौनःपुन्येन श्रुतचिन्तादिवशात् अस्फुटत्वादिक्रमेण स्फुटतमत्वाद्यापत्तिपर्यन्तं गुणान्तराधानं, येन निर्विकल्पस्वरूपानुप्रवेशो भवेत् | अञ्जसेति शीघ्रम्, अन्यथा हि विरुद्धविकल्पान्तरोत्पादात् संस्कारस्य प्ररोहो न स्यात् || २ || ननु ज्ञानस्य क्षणिकत्वे सर्वेषामविवादः, तद्विकल्पस्यापि ज्ञानरूपत्वेन क्षणिकत्वात्, उत्पादसमनन्तरमेव अन्तर्हितस्वरूपस्य कथं नाम संस्कारः प्ररोहमियात्, स हि स्थिरे स्यात्, यथा -- तिलादौ सुमनोभिः, तत् कथमेतदुक्तम् ? इत्याशङ्क्य्ःअ -- विकल्पः संस्कृतः सूते विकल्पं स्वात्मसंस्कृतम् | स्वतुल्यं सोऽपि सोऽप्यन्यं सोऽप्यन्यं सदृशात्मकम् || ४-३ || इह यथा नीलविकल्पान्नीलविकल्पस्यैव उत्पादो, न पीतविकल्पस्य, तथैव अस्फुटत्वेऽपि स्फुटीभावाय भाव्यमानत्वात् भ्रश्यदस्फुटत्वाद्यापत्तेः आहितसंस्कारो विकल्पः स्वात्मवत् संस्कृतमेव विकल्पान्तरं जनयेत्, कारणानुरूपेणैव हि प्रायः कार्यस्योत्पादो भवेत्, इति भावः | एवं विकल्पान्तरेष्वपि ज्ञेयम् | सोऽपि इति संस्कृताद्विकल्पाज्जातो द्वितीयः, सोऽप्यन्यमिति तृतीयः, पुनः सोऽप्यन्यमिति चतुर्थः | अत्र स्वतुल्यत्वस्य संबन्धसहिष्णुत्वेऽपि शदृशात्मकम्᳚ इत्युक्त्या दूर दूरत्वेऽपि विकल्पमालायाः सादृश्यस्य न काचिद्धानिः, इत्यावेदितम् || ३ || ननु एकस्मात् संस्कृताद्विकल्पात् यदि तादृशस्यैव द्वितीयस्योत्पादः तदास्तां, तृतीयादेः पुनरेवमेवोत्पात्तावानर्थक्यं स्यात्, विशेषे वा सादृश्यस्य हानिः ? इत्याशङ्क.याह -- चतुर्ष्वेव विकल्पेषु यः संस्कारः क्रमादसौ |
SK
अस्फुटः स्फुटताभावी प्रस्फुटन्स्फुटितात्मकः || ४-४ || स्फुटताभावीति स्फुटनयोग्यः, प्रस्फुटन्निति उद्गच्छत्स्फुटत्वः, स्फुटतात्मक इति सिद्धस्फुटत्वः, क्रमादिति अभ्यासातिशयतारतम्यात्, अत एव अत्र यथायथमतिशयदर्शनात् नानर्थक्यं, नापि सादृश्यस्य हानिः -- विसदृशस्य प्रत्ययान्तरस्यानुत्पादात्, आद्य एव हि संस्कारो यथायथमभ्यासातिशयात् प्ररोहमुपगत इत्येवमुक्तम् || ४ || न च इयानेव अस्य संस्कारः संभवेत् | इत्याह -- ततः स्फुटतरो यावदन्ते स्फुटतमो भवेत् | तत इति चतुर्भ्योऽनन्तरम् || ननु अभ्यासातिशयतोऽपि अस्फुटत्वादिरूपो विकल्पः कथं शीघ्रमेव स्फुटताभाव्यादिरूपतामेति ? -- इत्याशङ्क्याःअ� अस्फुटादौ विकल्पे च भेदोऽप्यस्त्यान्तरालिकः || ४-५ || भेद इति विशेषः, आन्तरालिक इति मध्यवर्ती, तथाहि अस्फुटस्फुटताभाविनोरन्तराले भ्रश्यदस्फुटत्वः, एवमीषत्प्रस्फुटत्वः अङ्कुरितस्फुटितत्त्वः आसूत्रितस्फुटतरत्वः उद्गच्छत्स्फुटतमत्वश्चेति || ५ || ननु एवं-कृते सति किं स्यात् ? -- इत्याशङ्क्याह -- ततः स्फुटतमोदारताद्रूप्यपरिबृंहिता | संविदभ्येति विमलामविकल्पस्वरूपताम् || ४-६ || ततो -- यथोक्तात् संस्काराद्धेतोः, स्फुटतमम्, अत एव उदारं -- निर्विल्पकसमानकक्ष्यतया महत्, यत्ताद्रूप्यं -- विकल्पकत्वं तेन परिवृंहिता -- संस्कारान्तरनिरपेक्षीकृता सती, विकल्परूपा संवित्, विमलां-सङ्कोचकलङ्कापहस्तनेन शुड्धामविकल्पस्वरूपतामभ्येति -- पूर्णाविकल्पज्ञानमयतया परिस्फुरतीत्यर्थः | अतश्च ᳚विकल्पमात्रे एव न विश्रान्तव्यम्᳚ इत्यपि अनेन उक्तम् | यदाहुः -- ᳚परमार्थविकल्पेऽपि नावलीयेत पण्डितः | को हि भेदो विकल्पस्य शुभे वाप्यथ वाऽशुभे ||᳚ इति || ६ || एतदेव प्रकृते योजयति -- अतश्च भैरवीयं यत्तेजः संवित्स्वभावकम् | भूयो भूयो विमृशतां जायते तत्स्फुटात्मता || ४-७ ||
SK
अतो -- विकल्पसंविदा एव तत्तत्संस्कारबलादविकल्पसंविद्रूपतया परिस्फुरणाद्धेतोः, यद्भैरवीयं ज्ञानक्रियाख्यं संवित्स्वभावं तेजः तद्रूप एव ᳚अहमिति᳚ भूयो भूयः अस्फुटत्वादिक्रमेण उद्गच्छत्स्फुटतमत्वाद्यापत्तिपर्यन्तेन परामृशतां तीव्रतीव्रशक्तिपातवतां महात्मनां, तस्य परामृश्यस्य संविदात्मकस्य भैरवीयस्य तेजसः स्फुटात्मता जायते -- शांभवावेशवशेन तत्साक्षात्कारो भवतीत्यर्थः || ७ || ननु संविदः प्रमात्रेकरूपत्वात् परामर्शकत्वमेव युज्यते, न परामृश्यत्वं, तथात्वे हि नीलादिवत् अस्या जाड्य्ं प्रसज्येत् ? -- इत्याशङ्कां दर्शयति -- ननु संवित्पराम्रष्ट्री परामर्शमयी स्वतः | परामृश्या कथं ताथारूप्यसृष्टौ तु सा जडा || ४-८ || ताथारूप्येति परामृश्यत्वस्येत्यर्थः || ८ || एतदेव समाधत्ते� उच्यते स्वात्मसंवित्तिः स्वभावादेव निर्भरा | नास्यामपास्यं नाधेयं किञ्चिदित्युदितं पुरा || ४-९ || इह स्वात्मरूपा संवित् तावत् अतिरिक्तस्य अपेक्षणीयस्याभावात् स्वत एव निर्भरा नान्याकांक्षेति, नित्योदितत्त्वात् अस्यां स्वात्मसंवित्तौ न किञ्चिदस्फुटत्वादि अपास्यं, नापि स्फुटतमत्वादि आधेयमिति | पुरा -- अनुपायाह्निके ᳚अत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति |᳚ इत्यादिनोक्तम् | यदभिप्रायेणैव अतो बाह्यैरपि ङापनेयमतः किञ्चित्प्रक्षेप्तव्यं न किञ्चन | द्रष्टव्यं भूततोद्भूतं भूतदर्शी विमुच्यते ||᳚ इत्याद्युक्तम् || ९ || ननु यद्येवं तत् इयान् अस्फुटत्वादिरूपः संविदः कुतस्त्योऽयं स्फारः? इत्याशङ्क.याह -- किं तु दुर्घटकारित्वात्स्वाच्छन्द्यान्निर्मलादसौ | स्वात्मप्रच्छादनक्रीडापण्डितः परमेश्वरः || ४-१० ||
SK
किं पुनः, असौ परमेश्वरः परः प्रकाशः -- स्वरूपगोपनात्मकदुर्घटकारित्वलक्षणात् शुद्धात् स्वाच्छन्द्यात् हेतोः, परप्रमात्रेकस्वभावस्यापि स्वात्मनः प्रच्छादनं -- ग्राह्यग्राहकाद्युल्लासात्तथात्वेनाभासनं, सैव क्रीड. -- प्रतिनियतफलाननुसंधानेन प्रवृत्तिः, तत्र पण्डितः -- प्रवीण इत्यर्थः | इयमेव हि तस्य स्वातन्त्र्यरूपा मायाख्या शक्तिः -- यदनावृतमपि स्वं रूपमावृत्तवेनैव आभासयति, यतोऽयमियान् ग्राह्यग्राहकाद्यात्मा भेदावभासः || १० || तदाह� अनावृत्ते स्वरूपेऽपि यदात्माच्छादनं विभोः | सैव माया यतो भेद एतावान्विश्ववृत्तिकः || ४-११ || एवमस्य विश्वरूपतयावभासनमेव द्वैतमुच्यते, यद्वशादयं दुरन्तः संसारबन्धः, तदपासनायैव च अयं परामर्शो -- यत् संविदेव पुनः पुनः परामृश्यमाना स्फुटतामियात् इति || ११ || तदाह -- तथाभासनमेवास्य द्वैतमुक्तं महेशितुः | तद्द्वयापासनेनायं परामर्शोऽभिधीयते || ४-१२ || तद्द्वयापासनेति -- कार्यकारणयोरभेदोपचारात् || १२ || ननु इह ङहि भातमभातं भवति᳚ इति सर्वेषामविवादः, देहनीलादि चेदं भेदेनावभासते, तत् कथमुक्तं ᳚तदपासनेन संविद एव अवभासो भवेत्᳚? इत्याशङ्कंअपाकर्तुं विकल्पसंस्क्रियानन्तर्येण अनुजोद्देशोद्दिष्टं तर्कतत्त्वमवतारयति -- दुर्भेदपादपस्यास्य मूलं कृन्तन्ति कोविदाः | धारारूढेन सत्तर्ककुठारेणेति निश्चयः || ४-१३ ||
SK
बन्धैककारणत्वात् दुष्टो योऽसौ ग्राह्यग्राहकाद्यात्मा भेदः, स एव दुरुन्मूल्यत्वात् पादपः तस्य अस्य अनुभूयमानस्य, कोविदाः प्रत्यभिज्ञातस्वात्मानः, सन् -- साक्षात्तत्त्वनिष्ठः, अत एव तर्कान्तरविलक्षणो योऽसौ परां कोटिं प्राप्तस्तर्कः -- शुद्धविद्यांशस्पर्शपवित्रिताया बुद्धेरुदीयमानः स्वात्मप्रत्यभिज्ञापनपररूपः, स एव समुत्तेजिधारः कुठारः, तेन मूलम् -- अख्यातिलक्षणं कारणमेव कृन्तन्ति, यथास्य पूर्णपरसंविन्मात्रख्यातेः पुनरुत्थानमेव न भवेत्, इत्ययं निर्णयः, स एव हि महात्मनां देहाद्यालोचनेन यथायथमभ्यासातिशयात् विकल्पशुद्धिमादधानः, परां काष्ठामुपागतः सन्, भावनात्मकतां यायात्, येन अस्फुटमपि संविद्रूपं स्फुटतामासादयेत् || १३ || अत आह� तामेनां भावनामाहुः सर्वकामदुघां बुधाः | स्फुटयेद्वस्तु यापेतं मनोरथपदादपि || ४-१४ || यस्तर्कः, तां भावनामाहुः, इति विधीयमानलिङ्गानुवेधः तर्क एव हि परां काष्ठामुपगतो भावनेत्युच्यते, तदुक्तम् -- ᳚तदेव परम ज्ञानं भावनामयमिष्यते |᳚ इति | अत एव एनामित्यन्वादेशेनास्य कथनं, तस्यां च परिनिष्पन्नायामभीप्सितफलावाप्तिर्भवेत् इत्युक्तं -- सर्वकामदुघामिति, तदुक्तम् -- ᳚मुहूर्तादेव तत्रस्थः समाधिं प्रतिपद्यते | तत्रापि च सुनिष्पन्नो फलं प्राप्नोत्यभीप्सितम् ||᳚ इति | या भावनैव हि मनोरथादपि अपेतं�स्वतन्त्रविकल्पानामपि अविकल्प्यत्वादगोचरं, वस्तु -- पारमार्थिकं परप्रमात्रेकलक्षणं संविद्रूपं, स्फुटयेत् -- अविकल्पवृत्त्या साक्षात्कुर्यात्, यन्महिम्ना किं नाम न योगिनः सिद्ध्येत् || १४ || अतश्च ᳚इदमेव उत्तमं योगस्याङ्गं᳚ इत्यस्मद्दर्शने उच्यते, इत्याह� श्रीपूर्वशास्त्रे तत्प्रोक्तं तर्को योगाङ्गंउत्तमम् | हेयाद्यालोचनात्तस्मात्तत्र यत्नः प्रशस्यते || ४-१५ || मार्गे चेतः स्थिरीभूतं हेयेऽपि विषयेच्छया | प्रेर्य तेन नयेत्तावद्यावत्पदमनामयम् || ४-१६ || यद्यपि ᳚प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा |
SK
तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ||᳚ इत्यादिनीत्या तर्कस्य प्राणायामादिभिर्योगाङ्ग.गत्वे साम्यं, तथापि हेयाद्यालोचनात् असौ उत्तममन्तरङ्गं योगस्याङ्गं, तर्केण हि ᳚इदं हेयम् इदमुपादेयम्᳚ इति विचारयन् योगी झटित्येव तत्त्वज्ञो भवेत्, तदुक्तम् -- ᳚ऊहोऽन्तरंगं योगस्य तेन चाध्वन्यवस्थितेः | साधारणोऽप्यसौ मुक्तेर्भूयसोपकरोति हि ||᳚ इति | तथा श्वसिद्धान्ताविरुद्धेन यस्तर्केण विचारयेत् | धर्मज्ञानापवर्गाथ्रं स तत्त्वं वेद नापरः ||᳚ इति, अतश्च-अत्रैव मुख्यया वृत्त्या यतितव्यम् इत्युक्तं ᳚तस्मात्तत्र यत्नः प्रशस्यते᳚ इति, तत्र हि कृतप्रयत्नो योगी सांख्यादिशास्त्रान्तरोदिते हेये मोक्षोपायलक्षणे मार्गे ᳚ममेदमेव आकाङ्क्षणीयं तत्त्वम्᳚ इत्याद्यभिमानोदयात् स्थिरीभूतमपि चेतः, तेन तर्केण प्रेर्य-ततो हेयान्मार्गात् पराङ्मुखीकृत्य, तावन्नयेत्- उपादेये मार्गे विश्रामयेत्, यावत् पदमनामयं- सर्वोत्तीर्णपरप्रकाशात्मतया प्रस्फुरेदित्यर्थः || १५-१६ || अत्र च विषमत्वात् स्वयमेव पदचतुष्टयं व्याचष्टे -- मार्गोऽत्र मोक्षोपायः स हेयः शास्त्रान्तरोदितः | विषिणोति निबध्नाति येच्छा नियतिसङ्गतम् || १७ || रागतत्त्वं तयोक्तं यत् तेन तत्रानुरज्यते | शास्त्रान्तरोदितस्य मार्गस्य हेयत्वं प्रागेवोपपादितम्, इति नेह पुनरायस्तम् ᳚षिञ् बन्धने᳚ इत्यस्य विपूर्वस्य अचि विषयशब्दः, तेन बिषयरूपा बन्धयित्री येयमिच्छा -- ᳚इदमेव मे स्यात्᳚ इत्यादिरभिमानविशेषः, तया नियतिसङ्गतं रागतत्त्वमुक्तं सामान्येन, सर्वविषयमभिलाषमात्रं हि रागतत्त्वस्य रूपं, तदेव नियतविषयतयोद्यत् नियतितत्त्वस्य, इति तद्युक्तं रागतत्त्वमस्य अभिधेयम्, यत् यस्माद्धेतोः तत्र नियतेः हेये मार्गे तेन रागेण चेतोऽनुरज्यते -- स्थिरीभवेत् इत्यर्थः | ननु सर्वत्रैव अन्यत्र ᳚गुरुदेवाग्निशास्त्रस्य ये न भक्ता नराधमाः | असद्युक्तिविचारज्ञाः शुष्कतर्कावलम्बिनः || भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ||᳚ इति | तथा
SK
᳚हेतुशास्त्रं च यल्लोकेनित्यानित्यविडम्बकम् | वादजल्पवितण्डाभिर्विवदन्ते ह्यनिश्चिताः || हेतुनिष्ठानि वाक्यानि वस्तुशून्यानि सुव्रते | ज्ञानयोगविहीनानि देवतारहितानि तु || धर्मार्थकाममोक्षेषु निश्चयो नैव जायते | अज्ञानेन निबद्धानि त्वधर्मेण निमित्ततः || निरयं ते प्रयच्छन्ति ये तत्राभिरता जनाः |᳚ इत्यादिना भगवतास्य तर्कस्य निन्दां विदधता अधमत्वमवद्योतितम्, यदभिप्रायेणैव तद्वेदकस्य गुरोरपि परिहार्यत्वमुक्तम्, यदुक्तम् -- ᳚तार्किकं न गुरुं कुर्यात्..........................|᳚ इति | तथा ᳚............................टार्किकेवधबन्धनम् |᳚ इति | एतदनुवेधेनैव अभियुक्तैरपि -- ᳚वस्तुनिर्णयशून्याभिर्बोधिताभिः परस्परम् | अभिमानैकसाराभिर्जिह्रीमस्तर्कबुद्धिभिः ||᳚ इत्याद्युक्तम्, तत् कथमस्य इहोत्तमत्वमुक्तम्, एवं हि श्रुतिविरोधः स्यात्, न च उभयत्रापि एकस्यैव प्रामाण्यकारणस्य सद्भावात् एकत्रापि अप्रामाण्यमुद्भावयितं शक्यम्, इति किमत्र प्रतिपत्तव्यम् ? विषयभेदोऽत्र प्रतिपत्तव्यो, येन सर्वं स्वस्थं स्यात्, द्विविधो हि तर्कः -- कश्चिद्धि वस्तुनिर्णयशून्यश्छलादिप्रधानः परपराजयमात्रपर्यवसानो जल्पप्रायः, कश्चित् हेयोपादेयविवेककारितया वस्तुनिर्णयफलः छलादिशून्यो वादप्रायः, तत्राद्यस्य वस्तुनिर्णयशून्यत्वात् गर्हणीयत्वम्, अत एव ᳚..........................वस्तुशून्यानि........|᳚ इति | तथा ᳚.......................णिश्चयो नैव जायते |᳚ इत्याद्युक्तम्, अत एव तद्वेदकानामपि वस्तुज्ञत्वाभावात् परिहार्यत्वमभिहितम्, यस्तु हेयाद्यालोचनेन वस्तुपरिशुद्धिमादधानो हेयमपहाय उपायदेये विश्रामयेत् स परमुत्तमं योगस्याङ्गम्, इति न कश्चिद्दोषः, तत् आस्माकः सत्तर्को, दर्शनान्तरीयस्त्वसत्तर्कः -- इति विभागः || १७ ||
SK
ननु स्वार्थतत्परो लोकः स्वयमेव अनपेक्षितशास्त्रो हेयमपहातुमुपादेयं च उपादातुं प्रवर्तते, नहि बुभुक्षितस्याशने मलिनस्य वा स्नाने शास्त्रमुपयुज्यते, तत्किम् अत्र तर्केण ? -- इत्याशङ्क्याह -- यथा साम्रज्यसंभोगं दृष्ट्वाष्दृष्ट्वथवाधमे || ४-१८ || भोगे रज्येत दुर्बुद्धिस्तद्वन्मोक्षेऽपि रागतः | यथा खलु अज्ञः कश्चन -- हेयोपादेयविवेकमजानानः, साम्रज्य संभोगं सम्यगुपभोगयोग्यतया परिज्ञाय अपरिज्ञाय वा, अधमे -- दुर्गतजनोपभोग्ये, भोगे रागतो रज्येत -- चिरतरप्ररूढप्राक्संस्कारपरिपाकवशात् आसक्तो भवेत्, तथैव साक्षान्मोक्षमपहाय असन्मोक्षेऽपि, इति वाक्यार्थः, तेन हेयहानाय उपादेयोपादानाय च अवश्यं तर्कस्योपयोगः, इति युक्तमुक्तम् ᳚तर्को योगाङ्गमुत्तमम्᳚ इति || १८ || ननु स्वभावत एवायं सर्वो जनस्तत्तद्दर्शनासक्तः स्यात् यदभिप्रायेण -- ᳚रिक्तस्य जन्तोर्जातस्य कार्याकार्यमपश्यतः | विलब्धा वत केनामी सिद्धान्तविषमग्रहाः ||᳚ इत्यादि अन्यत्रोक्तं, तत् तदुचित एव मोक्षोऽपि अस्य भवेत्, इति कोऽयं रागो नाम ? -- इत्याशङ्क्याह -- स एवांशक इत्युक्तः स्वभावाख्यः स तु स्फुटम् || ४-१९ || सिद्ध्यङ्गगमिति मोक्षाय प्रत्यूह इति कोविदाः | स -- राग एव हि श्वाभावाख्योऽंशक᳚ इत्यागमेषूक्तम्, तथाहि श्रीस्वच्छन्दशास्त्रे -- ᳚अंशकं षड्वधं देवि कथयाम्यनुपूर्वशः |᳚ इत्युपक्रम्य ᳚भावांशकः स्वभावाख्यः पुष्पपातांश एव च |᳚ इत्युद्दिश्य श्वभावश्च भवेच्चेष्टा कथयाम्यनुपूर्वशः | ब्रह्मांशो वेदभक्तस्तु रुद्रांशं च निबोध मे || रुद्रभक्तः सुशीलश्च शिवशास्त्ररतः सदा |᳚ इत्यादिना असौ लक्षितः | ननु यद्येवं तत् सर्वोऽयं जनः स्वभाववशादेव स्वोचितं मोक्षमासादयेत्, इति को नाम अस्य हेयोपादेयविभागः ? -- इत्याशङ्क्याह -- श तु इत्यादि, स -- एवंविधःस्वभावः पुनः स्फुटम् ᳚पौरुषं चैव सांख्यानाम्..................|᳚ इत्याद्यागमप्रमाणसिद्धत्वेन अपरिम्लानतया तत्तत्त्वोचितभोगात्मिकायाः सिद्धेरङ्गमपि
SK
श्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रङ्गात् |᳚ (योषू. ३-५१) इत्याद्युक्तिवन्मोक्तुं विघ्न इत्यागमज्ञाः, एवंस्वभावो हि तत्तत्त्वावाप्ति लक्षणां सिद्धिमेव मुक्तिमभिमन्यते, इति मुक्त्याभासरूपायां हेयायां तस्यामेव विश्रान्तः || १९ || एवमेवंस्वभावत्वादेव साक्षान्मोक्षोपायमपहाय अन्यत्रासक्तो भवेत्, इत्याह -- शिवशासनमाहात्म्यं विदन्नप्यत एव हि || ४-२० || वैष्णवाद्येषु रज्येत मूढो रागेण रञ्जितः | ननु असौ साक्षान्मोक्षोपायतया शिवशासनस्य प्रभावातिशयं चेज्जानीते किमित्यन्यत्र आसक्तो भवेत् ? -- इत्याशङ्क्याह -- यतस्तावति सा तस्य वामाख्या शक्तिरैश्वरी || ४-२१ || पाञ्चरात्रिकवैरिञ्च सौगतादेर्विजृम्भते | तावतीति -- तत्तन्नियतसिद्धिमात्राप्रदे, वामाख्येति ᳚वामा संसारवमनात् ......................|᳚ इत्याद्युक्त्या संसाराविर्भाविका तिरोधानशक्तिरित्यर्थः, वैरिञ्चाः - - ब्रह्मवादिनः || २१ || ननु शिवशासनमाहात्म्यमजानन् चेदन्यत्र आसक्तो भवेत् तत् भवतु नाम, को दोषो, जानन् पुनः कथमेवम् ? -- इत्याशङ्क्याह -- दृष्टाः साम्रज्यसंभोगं निन्दन्तः केऽपि बालिशाः || ४-२२ || न तु संतोषतः स्वेषु भोगेष्वाशीः प्रवर्तनात् | इह खलु केऽपि बालिशप्राया अत्युत्कृष्टतया स्पृहणीयत्वेन परिज्ञायापि साम्रज्यसंभोगं बालिशत्वादेव निन्दन्तो दृष्टाः, न पुनः संतुष्टत्वात्, तेषां हि भोगाभिलाषस्य दूरापास्तत्त्वात् तन्निन्दायामौचित्यमित्याशयः, बालिशानाम् पुनः संतोषस्तावन्नास्ति, यतः -- स्वेषु अधमेषु भोगेष्वपि ᳚पुनः पुनरेतत् स्यात्᳚ -- इत्येवंरूपमाशीर्वादं प्रवर्तयन्ते -- भोगाभिलाषस्यानपास्तत्त्वात्, एवं विदन्तोऽपि शिवशासनमाहात्म्यं मूढाः तन्निन्दामारभमाणा अन्यत्रासक्ता दृश्यन्ते, यद्वशात् तेषां वामाधिष्ठितत्त्वात् पुनः पुनः संसारे एव निमज्जनं भवेत् || २२ || तदाह� एवं चिद्भैरवावेशनिन्दातत्परमानसाः || ४-२३ || भवन्त्यतिसुघोराभिः शक्तिभिः पातिता यतः | अति सुघोराभिरिति ᳚विषयेष्वेव संलीनानधोधः पातयन्त्यणून् |᳚
SK
इत्यादिलक्षिताभिः घोरतर्यभिधानाभिरपराभिरित्यर्थः || २३ || अत एव च अस्य मूढजनस्य संसारादुन्मज्जनमेव नास्ति, इत्याह -- तेन शांभवमाहात्म्यं जानन्यः शासनान्तरे || ४-२४ || आश्वस्तो नोत्तरीतव्यं तेन भेदमहार्णवात् | आश्वस्तहृदयत्वात् तन्निष्ठो, न पुनः ᳚अन्तः कौलो बहिः शैवो लोकाचारे तु वैदिकः |᳚ इत्यादिनीत्या लोकसंग्रहरक्षापरत्वेन उत्तानतया, इति नास्य संसारार्णवादुत्तारः स्यात्�तदन्तरेव उन्मज्जननिमज्जानानुभवस्याविच्छेदात् || २४ || न च एतदस्माभिः स्वोपज्ञमेवोक्तमित्याह -- श्रीकामिकायां प्रोक्तं च पाशप्रकरणे स्फुटम् || ४-२५ || तदेव पठति� वेदसांख्यपुराणज्ञाः पाञ्चरात्रपरायणाः | ये केचिदृषयो धीराः शास्त्रान्तरपरायणाः || ४-२६ || बौद्धार्हताद्याः सर्वे ते विद्यारागेण रञ्जिताः | मायापाशेन बद्धत्वाच्छिवदीक्षां न विन्दते || ४-२७ || धीराः -- वेदादिविषय एव स्थिरप्रज्ञाः, शास्त्रान्तरं वेदान्तादि, विद्या च रागश्चेति समाहारे द्वन्द्वः, विद्या चात्र रागशब्दसंनिधेरशुद्धविद्योच्यते, अत एव वेदादिशास्त्रनिष्ठा मायान्तःपातात् तदुत्तीर्णं शैवं ज्ञानं न लभन्ते, इत्युक्तम् -- ᳚मायापाशेन बद्धत्वाच्छिवदीक्षां न विन्दते |᳚ इति ||२६-२७|| पूर्वं च यदस्माभिः श्रीपूर्वशास्त्रीये संवादग्रन्थे विषयेच्छाशब्देन वेदादिशास्त्रान्तरोदिते मोक्षोपाये अभिष्वङ्गप्रदं नियतितत्त्वोपेतं रागतत्त्वं व्याख्यातं, तत् न निर्मूलम्, इत्यभिद्योतयितुम् अत्रत्यमपि रागशब्दं व्याचष्टे -- रागशब्देन च प्रोक्तं रागतत्त्वं नियामकम् | मायीये तच्च तं तस्मिञ्छास्त्रे नियमयेदिति || ४-२८ ||
SK
अत्र च रागशब्देनेति -- वक्ष्यमाणेन हेतुना, नियामकं रागतत्त्वमुक्तमिति समन्वयः, नियामकमिति नियत एव कस्ंमिश्चिद्विषयेऽभिष्वङ्गदमित्यर्थः, यतस्तद्रागतत्त्वं तस्मिन्नियते मायीये शास्त्रे वेदादौ, तं मूढं जनं नियमयेत् ᳚इदमेव ममाकाङ्क्षणीयम्᳚ इति सङ्कुचितत्त्वेनावस्थापयेत्, यद्यपि सामान्येन सर्वविषयाभिलाषमात्रमयत्वं नाम रागतत्त्वस्य स्वरूपं, तथापि नियतविषयोपारोहमन्तरेण तत् नाभिव्यक्तिमियात्, इत्यवश्यमेव तन्नियतितत्त्वामाक्षिपेत्, इति युक्तमुक्तं ᳚रागतत्त्वं नियामकम्᳚ इति || २८ || ननु प्राप्तेऽपि वैष्णवादिशास्त्रान्तरोदिते मोक्षे किमिति नाम अयं जनः संसारात् नोन्मज्जति ? -- इत्याशङ्क्याह� मोक्षेऽपि वैष्णवादेर्यः स्वसङ्कल्पेन भावितः | परप्रकृतिसायुज्यं यद्वाप्यानन्दरूपता || ४-२९ || विशुद्धचित्तमात्रं वा दीपवत्संततिक्षयः | स सवेद्यापवेद्यात्मप्रलयाकलतामयः || ४-३० || यः खलु वैष्णवादीनां मते मोक्षः, सोऽपि अस्मद्दर्शने प्रलयाकलतामयः -- इति संबन्धः, तत्र वैष्णवानां ᳚परप्रकृतिसायुज्यं मोक्षः᳚ तन्मते हि भगवद्वासुदेवाभिधानस्य महाविभूतेश्चेतनाचेतनविधातृत्वात् परप्रकृतिरूपस्य परस्य ब्रह्मणः स्वस्वभावात् क्रमविचित्रतया तथा तथा भावनात् विश्वरूपतयानेकात्मनोऽपि ᳚एकमेवाद्वितीयं ब्रह्म |᳚ इत्यादिश्रुतेः तत्त्वज्ञानाभ्यासात् परिशुद्धसंविद्रूपैकतत्त्वाव्यभिचारात् अनैक्यस्यापारमार्थिकत्वात् उपशान्तविकारग्रन्थेरैक्यात्मावगमो मोक्षः, यत् श्रुतिः -- ᳚पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि |᳚ इति ᳚.......टतः सर्गो बुद्बुदत्वेनाभिव्यज्यते |᳚ इति च | ब्रह्मवादिनाम् ᳚आनन्दरूपता मोक्षः᳚ तन्मते हि संसारदशायामविद्यावरणवशेन अनुभूयमानस्य आत्मनः ᳚आत्मा श्रोतव्यो मन्तव्यो निदिध्यासितव्यः |᳚ इत्यादिश्रुतेः तत्त्वज्ञानाभ्यासादविद्यावरणापगमे निरवधिकनिरतिशयस्वप्रकाशनैसर्गिकानन्दसुन्दरतया संवेदनं मोक्षः | यत् श्रुतिः ᳚विज्ञानमानन्दं ब्रह्म |᳚
SK
इति | ᳚विशुद्धचित्तमात्रं मोक्षः᳚ तन्मते हि स्वभावतः प्रभास्वरस्वरूपस्य चित्तसंतानस्यानाद्यविद्याबलात् रागादिभिरागन्तुकैर्मलैरावृतत्त्वेऽपि नैरात्म्यादिभावनाभ्यासात् तत्तदागन्तुकमलप्रहाणेन आश्रयपरावृत्तिबलादविनश्वरज्योतीरूपस्वस्वरूपसाक्षत्कारो मोक्षः, यदाहुः -- ᳚प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः | तेषामपाये सर्वार्थं तज्ज्योतिरविनश्वरम् ||᳚ इति | वैभाषिकाणां ᳚दीपवत् संततिक्षयो मोक्षः᳚ | तन्मते हि क्लेशकर्मादिहेतुसमुत्थं तत्फलरूपं रूपादिस्कन्धपञ्चकम्, इति तदुभयात्मायं संसारः, यदाहुः -- ᳚हेतुफले संसारः |᳚ इति मोक्षः; पुनर्दीपस्य यथा स्नेहादिकारणक्षयात् पुनरुत्पादायोगात् निरोधः, तथैव नैरात्म्यादिभावनाभ्यासात् क्लेशकर्मादिप्रहाणेन रूपादीनां पञ्चानामपि स्कन्धानाम् इति, यदाहुः -- ᳚दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् | देशं न कञ्चिद्विदिशं न काञ्चित् स्नेहक्षयात्केवलमेति शान्तिम् || योगी तथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् | देशं न कञ्चिद्विदिशं न कंचित् क्लेशक्षयात्केवलमेति शान्तिम् ||᳚ इति | प्रलयाकलानां शवेद्यापवेद्यात्मेति᳚ विशेषणोपादाने च अयमभिप्रायः -- अत्राद्ये पक्षद्वये ब्रह्मण आनन्दमयत्वात् स्वात्मपरामर्शकतया सवेद्यप्रलयाकलप्रायत्वम्, इतरत्र पुनरेकस्य नित्यस्य कस्यचिद्वेदकस्य अनभ्युपगमात् अपवेद्यप्रलयाकलप्रायत्वम्, पक्षचतुष्टयस्य अस्य पक्षान्तरोपलक्षणत्वात् अक्षपादमतादावात्मनः सर्वगुणोच्छेदात्मनि अपवर्गेऽपि अपवेद्यप्रलयाकलप्रायत्वमेवावसेयम्, प्रलयाकलानां च मलद्वयावशेषात् संसारकारणस्याप्रक्षयात् संसारित्वमेव, इति� एतत्प्रायस्य मोक्षस्यापि हेयत्वमुक्तम्, एवं च व्यर्थ एव तैस्तत्तत्तत्त्वप्रलयात् स्वारसिक्यामपि प्रलयाकलतायां यत्नः कृतः इति भावः, अत एव श्वसङ्कल्पेन भावितः᳚ इत्यनेन च अस्य पक्षचतुष्टयस्य काल्पनिकत्वात् अवास्तवत्वं प्रकाशितम् || २९-३० ||
SK
ननु इह ᳚बन्धप्रक्षयो नाम मोक्षः᳚ स च ᳚.....................ऽन्धात्तैमिरिको वरः |᳚ इतिन्यायेन त्रिमलबद्धं सकलमपेक्ष्य द्विमलबद्धस्य प्रलयाकलस्य वृत्तः -- इति किमिति नामास्य तत्प्रायस्यापि मोक्षस्य एकान्ततो हेयत्वम् ? -- इत्याशङ्क्याह -- तं प्राप्यापि चिरं कालं तद्भोगाभोगभुक्ततः | तत्तत्त्वप्रलयान्ते तु तदूध्वार्ंं सृष्टिमागतः || ४-३१ || मन्त्रत्वमेति संबोधादनन्तेशेन कल्पितात् | वैष्णवादिः खलु अयं जनः, तं -- प्रलयाकलप्रायं मोक्षं चिरं कालमासाद्यापि प्रलयाकलसंबन्धिमोहादिरूपभोगाभोगभुक् सन्, समनन्तरं तस्य प्रलयाकलभोगभूमेर्मायादेस्तत्त्वस्य प्रलयान्ते, पुनः सृष्टिप्रारम्भे ᳚.................प्रबुध्यन्ते मन्त्रत्वाय भवाय |᳚ इत्यादिनीत्या आयातशक्तिपातत्त्वे सति अनन्तेशेन कृतात् ज्ञानक्रियोत्तेजनलक्षणात् संबोधात्, तदूर्ध्वां -- मायोपरिवर्तिनीं शुद्धां सृष्टिं प्राप्तः सन् मन्त्रत्वमेति, अन्यथा पुनः संसारित्वम्�इति सिद्धम्, अत एव प्राप्तायामपि वैष्णवादिदर्शनान्तरोक्तायां मुक्तौ संसारस्य प्रक्षयो न जायते, इति तत्र हेयत्वमुक्तम् || ३१ || ननु समानेऽपि प्रलयाकलत्वे केषाञ्चिन्मन्त्रत्वं केषाञ्चित् संसारित्वम्, इत्यत्र किं निमित्तम् ? -- इत्याशङ्क्याह� एतच्चागेर् तनिष्याम इत्यास्तां तावदत्र तत् || ४-३२ || अग्र इति -- नवमाह्निकादौ, यद्वक्ष्यति -- ᳚एतत्कार्ममलं प्रोक्तं येन साकं लयाकलाः | स्युर्गुहागहनान्तःस्थाः सुप्ता इव सरीसृपाः || ततः प्रबुद्धसंस्कारास्ते यथोचितभागिनः | ब्रह्मादिस्थावरान्तेऽस्मिन्संसरन्ति पुनः पुनः || ये पुनः कर्मसंस्कारहान्यै प्रारब्धभावनाः | भावनापरिनिष्पत्तिमप्राप्य प्रलयं गताः || महान्तं ते तथान्तःस्थभावनापाकसौष्ठवात् | मन्त्रत्वं प्रतिपद्यन्ते चित्रं चित्राच्च कर्मतः ||᳚ इति | ᳚इत्यास्ताम्᳚ इति, प्रकृते तर्कतत्त्वेऽस्यानुपयोगात् || ३२ ||
SK
ननु यदि नाम दर्शनान्तरोक्तया मुक्त्या संसारस्य प्रक्षयो न जायते, तत् कस्मादयं वैष्णवादिर्जनस्तत्र अनुरज्यते ? -- इत्याशङ्क्याह -- तेनाज्ञजनताकॢप्तप्रवादैर्यो विडम्बितः | असद्गुरौ रूढचित् स मायापाशेन रञ्जितः || ४-३३ || यः खलु वैष्णवादिर्जनोऽज्ञजनतया � कपिलादिना उपदेष्टृसमूहेन, कल्पितैः -- प्रकृतिपुरुषविवेकादिभिः प्रवादैः मोहितः, स यतस्तेन सकललोकप्रसिद्धेन भगवता परमेश्वरेण, मायापाशेन�वामाख्यया शक्त्या, तत्रैव गाढानुरक्तीकृतः, अत एवासद्गुरौ तत्त्वोपदेष्टरि आचार्यविशेषे रूढचित् -- आश्वस्तो, न तु जिज्ञासामात्रवान्, सद्गुरौ पुनराश्वस्तस्य साक्षादेव मोक्षो भवेदित्यर्थसिद्धो व्यतिरेकः, अत एव चानेन तर्कतत्त्वानन्तर्येण अनुजोद्देशोद्दिष्टं तदनुषक्तमेव गुरुसतत्त्वमपि प्रतिपादयितुमुपक्रमः कृतः || ३३ || ननु यद्येवं तर्हि अस्य वैष्णवादेर्वामाधिष्ठितत्त्वात् सद्गुरावेवाश्वासो न जायते, इति का कथा साक्षान्मोक्षावाप्तौ ? -- इत्याशङ्क्याह -- सोऽपि सत्तर्कयोगेन नीयते सद्गुरुं प्रति | सत्तर्कः शुद्धविद्यैव सा चेच्छा परमेशितुः || ४-३४ || सोऽपीति -- असद्गुरौ रूढचित् वैष्णवादिः, ननु युक्तियुक्ते वस्तुनि तर्केण प्ररोहः क्रियते शिवशक्त्या च सद्गुरुप्राप्तिः, इति सर्वत्रैवोक्तम् -- ᳚यत्र रूढिः प्रजायेत युक्तियुक्ते विनिश्चयात् | शुद्धविद्याप्रसादोऽसावित्याह भगवाञ्छिवः ||᳚ इति, सेति शुद्धविद्या, इच्छेति सद्गुरुप्राप्तिपर्यवसायिनी अनुग्रहरूपा || ३४ || न च एतत् स्वोपज्ञमेवोक्तम्, इत्याह -- श्रीपूर्वशास्त्रे तेनोक्तं स यियायुः शिवेच्छया | भुक्तिमुक्तिप्रसिर्द्ध्य्थं नीयते सद्गुरुं प्रति || ४-३५ || सः -- रुद्रशक्तिसमाविष्टः, स्वस्वरूपं प्राप्तुमिच्छुः, ज्येष्ठाख्यशक्तिरूपया शिवेच्छया सद्गुरुं प्रति नीयते -- सद्गुर्वाभिमुख्येन प्रवर्त्यते, येनास्य भुक्तिमुक्ती सिद्ध्यतः, तेन सत्तर्कशिवशक्त्योरभेदात् यत् सत्तर्केण सद्गुर्वाभिमुख्येन प्रवर्तनं तत् शिवशक्त्यैव, इति सिद्धम् || ३५ ||
SK
ननु शर्वस्य शिवेच्छयैव असद्गुरौ सद्गुरौ वा आभिमुख्यमभिजायते᳚ इत्युक्तं, तत् सद्गुरावेव तदस्तु, किं क्रमेण ? -- इत्याशङ्क्याह -- शक्तिपातस्तु तत्रैष क्रमिकः संप्रवर्तते | स्थित्वा योऽसद्गुरौ शास्त्रान्तरे वा सत्पथं श्रितः || ४-३६ || शास्त्रान्तरे इति -- अर्थादसत्पथे वैष्णवाद्ये, सत्पथं शैवगुरुशास्त्रलक्षणम्, तत्रेति -- असद्गुर्वाद्याश्रयानन्तरं सद्गुर्वाद्याश्रिते || ३६ || ननु अयं लोकश्चेत् सद्रूपमसद्रूपं वा गुरुं शास्त्रं च शक्तिपातवशादाश्रयेत् तदस्तु, को नाम दोषः, तयोरेव पुनरसत्त्वे सत्त्वे वा किं निमित्तम् ? -- इत्याशङ्क्याह -- गुरुशास्त्रगते सत्त्वेऽसत्त्वे चात्र विभेदकम् | शक्तिपातस्य वैचित्र्यं पुरस्तात्प्रविविंच्यते || ४-३७ || अत्रेति -- समनन्तरोक्ते, पुरास्तादिति -- शक्तिपाताह्मिकादौ, विभेदकं -- विशेषे हेतुः, एवं वामाख्यया मायाशक्त्या अधिष्ठिता दर्शनान्तरीया गुर्वाद्याः, ज्येष्ठाशत्तया पुनरास्माकाः, तेन तच्छक्त्यैवाधिष्ठितोऽयं लोकः तत्रश्वस्तः स्यात् ||३७|| न च एतदप्रमाणकम्, इत्याह -- उक्तं स्वच्छन्दशास्त्रे तत् वैष्णवाद्यान्प्रवादिनः | सर्वान्भ्रमयते माया सामोक्षे मोक्षेलिप्सया || ४-३८ || भ्रमयते इति अतस्ंमिस्तद्ग्रहात्, तदाह ᳚अमोक्षे मोक्षलिप्सया᳚ इति, अत्र चार्थद्वारेण पाठे अयमाशयो -- यत् तत्र बहुधोक्तमिति, तदुक्तं -- ᳚अतः परं भवेन्माया सर्वजन्तुविमोहिनी | निर्वैरपरिपन्थिन्या यया भ्रमितबुद्धयः || इदं तत्त्वमिदं नेति विवदन्तीह वादिनः | सत्पथं तु परित्यज्य नयति द्रुतमुत्पथम् || गुरुदेवाग्निशास्त्रस्य ये न भक्ता नराधमाः | असद्युक्तिविचारज्ञाः शुष्कतर्कावलम्बिनः || भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया |᳚ इति | तथा शंख्यवेदपुराणज्ञा अन्यशास्त्रविनिश्चये | न तांल्लङ्घ.यितं शक्ता यदान्ये मोक्षवादिनः || क्लिश्यन्ते मायया भ्रन्ता अमोक्षे मोक्षलिप्सया |᳚ इति || ३८ ||
SK
ननु यदि वैष्णवादिरयं जनो मायया भ्रमितः तत् तस्य तत्रैव संस्कारप्ररोहात् असन्मार्गादवरोहो न स्यात्, इत्यस्य कदाचिदपि सन्मार्गारोहो न भवेत् ? -- इत्याशङ्क्याह -- यस्तु रूढोऽपि तत्रोद्यत्परामर्शविशारदः | स शुद्धविद्यामाहात्म्याच्छक्तिपातपवित्रितः || ४-३९ || आरोहत्येव सन्मार्गं प्रत्यूहपरिवर्जितः | यः पुनस्तत्र वैष्णवादौ संस्कारदार्ढ्यात् जातप्ररोहोऽपि उद्यन्योऽसौ सत्तर्कात्मा परामर्शः तेन विशारदः -- सारेतरविभागकुशलः, अत एव स सत्तर्कात्मशुद्धविद्यामाहात्म्यात् ज्येष्ठाशक्त्यधिष्ठानपवित्रीभूतः सन् निर्विघ्नमेव सन्मार्गमारोहति -- अस्मद्दर्शननिष्ठो भवेत्, येनास्य साक्षात् मोक्षः स्यात् || ३९ || ननु अस्य परामर्शोदये किं निमित्तम् ? -- इत्याशङ्क्याह -- स तावत्कस्यचित्तर्कः स्वत एव प्रवर्तते || ४-४० || स च सांसिद्धिकः शास्त्रे प्रोक्तः स्वप्रत्ययात्मकः | स्वत एव -- लोकप्रसिद्धगुरूपदेशादिनिमित्तानपेक्षं, न तु सर्वसर्विकया निर्निमित्तमेव, वस्तुतः पारमेश्वरशक्तिपातादेर्निमित्तान्तरस्यापि संभवात्, अत एव चास्य यौगिकमपि नाम अस्मद्दर्शनेऽभिहितम्, इत्याह श च᳚ इत्यादि | स इति -- स्वयं प्रवृत्ततर्कः, सांसिद्धिक इति -- तर्केण सह संसिद्ध्या जन्मनागत इत्यर्थः | उक्तं च ᳚गुरुशास्त्रानपेक्षं च यस्यैतत्स्वयमुद्भवेत् | स संसिद्धिक इत्युक्तस्तत्त्वनिष्ठो महामुनिः ||᳚ इति | अत एव स्व आत्मीयो, न तु गुर्वादिपरापेक्षः, इदमेवेति सुनिश्चितं ज्ञानमात्मा स्वभावो यस्य स तथोक्तः || ४० || ननु अन्यत्र परतत्त्वाधिगमे गुर्वाद्यन्यदपि कारणतयोक्तम्, इह पुनः कथं स्वत एव इति ᳚एकमेव᳚ -- इत्याशङ्क्याह -- किरणायां यदप्युक्तं गुरुतः शास्त्रः स्वतः || ४-४१ || तत्रोत्तरोत्तरं मुख्यं पूर्वपूर्व उपायकः | यदपि किरणाख्यायां संहितायां मायाधर्मैः शून्यं परं तत्त्वं ज्ञातुम् -- ᳚शून्यमेवंविधं ज्ञेयं गुरुतः शास्त्रः स्वतः |᳚
SK
इत्यादिना कारणत्रयमुक्तं, तत्र उत्तरोत्तरं मुख्यं विवक्षितं, यथा -- गुरुतः शास्त्रं, ततोऽपि स्वपरामर्शः, यतः पूर्वः पूर्वो यथा गुरुः शास्त्रे उपायः, तदपि स्वपरामर्शे | एवम् ᳚उपादायापि ये हेयास्तानुपायान्प्रचक्षते |᳚ इत्याद्युक्तयुक्त्या गुरुशास्त्रयोरुपायत्वादमुख्यत्वम्, इति स्वपरामर्शस्यैव प्राधान्यं, येन अत्रास्यैव उपादानम् || ४१ || तेन यस्य स्वत एव परामर्श उद्भवेत् स एव सर्वत्र अधिकृतः, इत्याह - - यस्य स्वतोऽयं सत्तर्कः सर्वत्रैवाधिकारवान् || ४-४२ || अभ्षिक्तः स्वस्ंवित्तिदेवीभिर्दीक्षितश्च सः | यस्य स्वतो -- गुर्वादिनैरपेक्ष्येण, अयं समनन्तरोक्तः सत्तर्क उदेति, स सर्वत्रैव -- योगज्ञानादावधिकारवान्भवेत् | ननु ङ चाधिकारिता दीक्षं विना योगेऽस्ति शाङ्करे |᳚ इत्याद्युक्त्या दीक्षादिकमपहाय कथमस्य सर्वत्रैवाघिकारः ? -- इत्याशङ्क्योक्तं -- श्वसंवित्तिदेवीभिर्दीक्षितोऽभिषिक्तश्चेति � स्वा आत्मीया याः संवित्तय इन्द्रियवृत्तयः ता एव ᳚बहिर्मुखस्य मन्त्रस्य वृत्तयो या प्रकीर्तिताः | ता एवान्तर्मुखस्यास्य शक्तयः परिकीर्तिताः ||᳚ इत्याद्युक्त्या प्रमात्रैकात्म्यमभिद्योतयन्त्यो देव्यः, ताभिर्ज्ञानक्रियोत्तेजनेन सर्वत्रैव स्वातन्त्र्यमापादितः, इत्यर्थः || ४२ || अतश्च स एव परमुत्कृष्ट इत्याह -- स एव सर्वाचार्याणां मध्ये मुख्यः प्रकीर्तितः || ४-४३ || तत्संनिधानेनान्येषु कल्पितेष्वधिकारिता || सर्वाचार्याणां वक्ष्यमाणानामकल्पितकल्पकादीनां मुख्यत्वादेव च तत्संनिधावन्येषां न परानुग्रहादावधिकारः, इत्युक्तं ᳚तत्संनिधाने न᳚ इत्यादि, यद्वक्ष्यति -- ᳚यथा भेदेनादिसिद्धाच्छिवान्मुक्तशिवा ह्यधः | तथा सांसिद्धिकज्ञानादाहृतज्ञानिनोऽधमाः || तत्संनिधौ नाधिकारस्तेषां मुक्तशिवात्मवत् | किन्तु तूष्णीं स्थितिर्यद्वा कृत्यं तदनुवर्तनम् ||᳚ इति || ४३ || ननु गुरुतः शास्त्राधिगमः -- इत्यत्र सर्वेषामविवादः, तद्यस्य गुरुरेव नास्ति तस्य शास्त्राधिगमे का वार्ता ? इत्ययं स्वयं प्रवृत्ततर्कोऽपि दीक्षाद्यारभमाणः
SK
᳚शास्त्रहीने न सिद्धिः स्याद्दीक्षादौ वीरवन्दिते |᳚ इत्याद्युक्त्या कां नाम सिद्धिमासादयेत् ? -- इत्याशङ्क्याह -- स समस्तं च शास्त्रार्थं सत्तर्कादेव मन्यते || ४-४४ || मन्यते, इत्यवबुद्ध्येते || ४४ || ननु गुर्वादिनैरपेक्ष्येण कथमेतावतैव समस्तशास्त्रावबोधो भवेत्? इत्याशङ्क्याह -- शुद्धविद्या हि तन्नास्ति सत्यं यद्यन्न भासयेत् | न च एतद्युक्तिमात्रेणैव सिद्धम्, अपि त्वागमेनापि इत्याह -- सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते || ४-४५ || इति श्रीपूर्ववाक्ये तद् अकस्मादिति-शब्दतः | तत् -- सत्तर्कनिमित्तकं समस्तशास्त्रावबोधलक्षणं वस्तु, ᳚अकस्मादितिशब्दात्᳚ उक्तमिति संबन्धः || ननु ᳚अकस्मात् इति᳚ शब्दमात्रादेव कथमेतदुक्तं स्यात् ? -- इत्याशङ्क्याह -- लोकाप्रसिद्धो यो हेतुः सोऽकस्मादिति कथ्यते || ४६ || स चैष परमेशानशुद्धविद्याविजृम्भितम् | अकस्मादिति हि निर्निमित्तत्वमुच्यते, न चैतद्युज्यते, तथात्वे हि -- नित्यसतत्त्वमतत्त्वं वा स्यात् || ४६ || तदत्र केनचित् हेतुना अवश्यभाव्यं, स च न लोकप्रसिद्धो -- गुरूपदेशादेः साक्षाददृष्टत्वात्, तेन पारिशेष्याल्लोकाप्रसिद्धः, स चैष फलानुमेयः पारमेश्वरः शुद्धविद्यासमुल्लासो, यद्वशादेव अस्य गुरुशास्त्रानपेक्षं सर्वविषयं प्रातिभं महाज्ञानमुदियात्, यद्वक्ष्यति -- ᳚मध्यतीव्रात्पुनः सर्वमज्ञानं विनिवर्तते | अयमेव यतो याति बन्धमोक्षतथात्मताम् || तत्प्रातिभं महाज्ञानं शास्त्राचार्यानपेक्षि यत् |᳚ इति || उपाधिभेदाच्च अस्य नानात्वम्, इत्याह -- अस्य भेदाश्च बहवो निर्भित्तः सहभित्तिकः || ४-४७ || सर्वग्ॐऽशगतः सोऽपि मुख्यामुख्यांशनिष्ठितः | भित्तिः परोपजीवित्वं परा प्रज्ञाथ तत्कृतिः || ४-४८ ||
SK
भित्तेर्निष्क्रान्तो निर्भित्तिः, सह भित्त्या वर्तते इति सहभित्तिकः इत्यस्य सांसिद्धिकस्य मुख्यं भेदद्वयं, सहभित्तिश्च सर्वामेव भित्तिं गतः स्यात् अंशेन वा, इत्युक्तं शर्वग्ॐऽशगतश्च᳚ इति, सोऽपि अंशगतः मुख्यांशनिष्ठितः स्यात् अन्यथा वा इति सहभित्तिकस्य त्रयो भेदाः, निर्भित्तिना सह अस्य चत्वारः, बहुत्वं च भित्तेस्तदंशानां च नानात्वात्, अत्र यद्भावाभावाभ्यां भेदोल्लासः तं भित्तिशब्दं व्याचष्टे ᳚भित्तिः᳚ इत्यादिना, परोपजीवित्वमिति -- उपजीव्यमानः परो भित्तिरित्यर्थः, कः परः ? इत्याशङ्क्योक्तं ᳚परः प्रज्ञाथ तत्कृतिः᳚ इति, प्रज्ञा स्वविमर्शः, तत्कृतिः -- तत्तत्कर्माभिधायकं परकृतं शास्त्रम् | ननु अस्य स्वत एव ज्ञानोदयादुपजीव्यमानतया परो नास्ति, इत्यतोऽस्तु नाम निर्भित्तिकत्वं, को दोषः, सहभित्तिकत्वे पुनरस्य उच्यमाने संसिद्धिकत्वमेव न स्यात् � परोपजीवित्वेन कल्पितत्त्वापत्तेः, न च असंभवत्तत्सामान्यः तद्विशेषो नाम, इति कथमस्य सहभित्तिकत्वमुक्तम् ? उच्यते -- इह खलु स्वत एव सत्तर्कोदयात् खिलीकृतनिखिलबन्धनस्य भैरवीभावपूर्णस्य संसिद्धिकस्य गुरोः स्वात्मनि कृतकृत्यत्वात् शेषवृत्तौ परानुग्रह एव परं प्रयोजनम्, यदुक्तं प्राक् -- शमस्तयन्त्रणातन्त्रत्रोटनाटङ्कधर्मणः | नानुग्रहादृते किञ्चिच्छेषवृत्तौ प्रयोजनम् ||᳚ इति | तथा श्वं कर्त्तव्यं किमपि कलयंल्लोक एष प्रयत्नात् नो पारक्यं प्रति घटयते काञ्चन स्वात्मवृत्तिम् | यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् ||᳚ इति च | तत्रास्य निर्मलसंविदोऽनुग्राह्यान् प्रति निरुपकरणमेव अनुग्रहकारित्वम् -- इत्यसौ निरनुसंधानदर्शनमात्रेणैव स्वसंवित्संक्रान्तेः स्वसाम्यापादनेन ताननुगृह्णाति, यदुक्तं प्राक् -- ᳚तं ये पश्यन्ति ताद्रूप्यक्रमेणामलसंविदः | तेऽपि तद्रूपिणस्तावत्येवास्यानुग्रहात्मता ||᳚
SK
इति, यदभिप्रायेणैव परानुग्रहेऽपि परानपेक्षित्वात् ङिर्भित्तिकः᳚ इत्ययमुच्यते | अनिर्मलसंविदः प्रति पुनरस्य सोपकरणमेव अनुग्रहकारित्वम् -- इति ᳚असावित्थं मयायमनुग्राह्यः᳚ इत्याद्यनुसंधानेन अत्र प्रवृत्तेः सर्वमेव बाह्यमुपकरणजातमपेक्षते, येनास्य परानुग्रहः सिद्ध्येत्, यदुक्तं प्राक् -- शोऽपि स्वातन्त्र्यधाम्ना चेदप्यनिर्मलसंविदाम् | अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् ||᳚ इति | ᳚तदर्थमेव चास्यापि परमेश्वररूपिणः | तदभ्युपायशास्त्रादौ श्रवणाध्ययनादरः ||᳚ इति च | अनिर्मलचित्त्वेऽपि अनुग्राह्याणां वैचित्र्यात् तत्तदाशयानुसारेण उपकरणानामपि आनन्त्यम् -- इति तदभिधायकं शास्त्रमपि सर्वेषामेवापेक्षणीयम्, अन्यथा हि परानुग्रहो न सिद्ध्येत्, यदुक्तम् -- ᳚चित्तभेदान्मनुष्याणां शास्त्रभेदो वरानने | व्याधिभेदाद्यथा भेदो भेषजानां महौजसाम् || यथैकं भेषजं ज्ञात्वा न सर्वत्र भिषज्यति | तथैकं हेतुमालम्ब्य न सर्वत्र गुरुर्भवेत् ||᳚ इति | यदभिप्रायेणैवास्य सर्वगतत्त्वमुक्तम् | कश्चिदपि असावेकमेव नियतं शास्त्रमधिकृत्य तदुचितानेव अनुग्राह्याननुगृह्णाति -- इत्यंशगतत्त्वम् अस्योक्तम्, यद्वक्ष्यति -- ᳚कल्पवित्तत्समूहज्ञः शास्त्रवित्संहितार्थवित् | सर्वशास्त्रर्थविच्च............................. ||᳚ इति | ᳚यो यत्र शास्त्रे स्वभ्यस्तज्ञानो व्याख्यां चरेत्तु सः | नान्यथा.................................................. ||᳚ इति च | तत्तच्छास्त्रात्मनामंशानामपि -- ᳚वेदाच्छैवं ततो वामं ततो दक्षं ततः कुलम् | ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम् ||᳚ इत्याद्युक्त्या यथोत्तरं मुख्यत्वम्, इतरेषां चामुख्यत्वम् � इति मुख्यामुख्यरूपत्वमुक्तम् | न च अस्य एवमपि परमुखप्रेक्षित्वात् सांसिद्धिकत्वं खण्ड्यते -- स्वात्मनि स्वत एव कृतकृत्यत्वात् परार्थमेतदपेक्षणात्, यदुक्तं प्राक् -- ङहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना | नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः ||᳚
SK
इति, तेनास्य स्वात्मन्यन्यानपेक्षणात् सांसिद्धिकत्वमेव � इति यथोक्तमेव युक्तम् || ४७-४८ || न च एतत् स्वोपज्ञमेवोक्तम्, इत्याह -- अदृष्टमण्डलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः | स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः || ४-४९ || एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी | दीक्षा भवेदिति प्रोक्तं तच्छ्रीत्रिंशकशासने || ४-५० || परशक्तिपातानुगृहीतत्त्वात् गुर्वाद्यनपेक्षणेन, अदृष्टं- बाह्यदीक्षोपकरणोपलक्षणभूतं, मण्डलं-यागादि येन सः, तथाविधोऽपि, अत एव तिलाज्याहुतिवर्जिताम्, असंदिग्धां निर्वाणगामिनीं दीक्षां भजमानो, यः कश्चित् एवमेव -- स्वत एव तात्त्विकेन रूपेण विशेषानुपादानात् स्वात्मानं वेत्ति, स दीक्षितः -- स्वसंवित्तिदेवीभिरेव पाशक्षपणपुरःसरं स्वात्मज्ञानपात्रतामापादितः, अत एव स नित्यं योगी -- व्युत्थानकालेऽपि परमेश्वरैकात्म्यवान्, अत एव स सिद्धिभाक् � जीवन्नेव मोक्षलक्षणां सिद्धिं भजमानः -- इत्येतत् श्रीत्रिंशिकाशास्त्रे प्रोक्तं -- नैतन्निष्प्रमाणकमित्यर्थः | तत्र च ᳚अदृष्टमण्डलोऽप्येवम्..................... |᳚ इत्यादिश्लोकानन्तरम् ᳚अनेन ज्ञातमात्रेण......................... |᳚ इत्यादिग्रन्थान्तरं संभवदपि प्रकृतानुपयोगात् न पठितम्, अदृष्टमण्डलत्वादेव च ᳚तिलाज्याहुतिवर्जितत्त्वादि᳚ अवसीयते, इति -- तदपि न पठितम् || ४९-५०|| अस्य च व्यपदेशान्तरमपि अस्ति, इत्याह -- अकल्पितो गुरुर्ज्ञेयः सांसिद्धिक इति स्मृतः | य एष गुरुः शंसिद्धिकः᳚ इत्यस्मच्छास्त्रे स्मृतः, स आचार्यान्तरेण अनिष्पादितत्त्वात् ᳚अकल्पितो᳚ ज्ञेयः -- अकल्पितशब्दव्यपदेश्योऽपि भवेदित्यर्थः | एवमकल्पितं गुरुमुक्त्त्वा तत्संबन्धतया गुर्वन्तरमपि आह -- यस्तु तद्रूपभागात्मभावनातः परं विना || ४-५१ || शास्त्रवित्स गुरुः शास्त्रे प्रोक्तोऽकल्पितकल्पकः | यः पुनः सांसिद्धिकरूपभागपि स्वयमुदिते ज्ञाने तावता परिपूर्ण्यस्याभावात् ᳚अहमेव परो हंसः........................ |᳚
SK
इत्याद्युक्तेरात्मभावनाबलात्, परं गुर्वादिकमनपेक्ष्य शास्त्रवित्, स गुरुर्ज्ञानस्य सांसिद्धिकत्वेनाकल्पितत्त्वात् आत्मभावनातः शास्त्रवेदनक्रमेण कल्पनाच्च ᳚अकल्पितकल्पकः᳚ इत्यस्मच्छास्त्रे प्रोक्तः || ५१ || सांसिद्धिकवदस्यापि बहवो भेदाः, इत्याह -- तस्यापि भेदा उत्कृष्टमध्यमन्दाद्युपायतः || ४-५२ || उपायः -- शक्तिपातः || ५२ || ननु अस्य स्वयं प्रवृत्तज्ञानपारिपूर्ण्याय किमात्मभावनैव निमितम्, उतान्यदपि किञ्चित् ? -- इत्याशङ्क्याह -- भावनातोऽथ वा ध्यानाज्जपात्स्वप्नाद् व्रताद्धुतेः | प्राप्नोत्यकल्पितोदारमभिषेकं महामतिः || ४-५३ || अयं खलु महाज्ञानी भावनाद्यनन्तोपायमाहात्म्यात् गुर्वादिना परेणाकृतत्त्वात् अकल्पितम्, अत एवोदारं -- महान्तम्, अभिषेकं प्राप्नोति शास्त्रज्ञानादावधिकारवान्भवति, इत्यर्थः || ५३ || ननु एवं ज्ञानावाप्तौ भावनादिनिमित्तानन्त्ये किं प्रमाणम् ? -- इत्याशङ्क्याह -- श्रीमद्वाजसनीये श्रीवीरे श्रीब्रह्मयामले | श्रीसिद्धायामिदं धात्रा प्रोक्तमन्यत्र च स्फुटम् || ४-५४ || इदमिति -- भावनादीनां निमित्तानामानन्त्यम् || ५४ || एवमनेकागमोक्तावपि निदर्शनार्थं प्रथमं श्रीसर्ववीरग्रन्थं पठति -- तस्य स्वेच्छाप्रवृत्तत्वात् कारणानन्ततेष्यते | कदाचिद्भक्तियोगेन कर्मणा विद्ययापि वा || ४-५५ || ज्ञानधर्मोपदेशेन मन्त्रैर्वा दीक्षयापि वा | एवमाद्यैरनेकैश्च प्रकारैः परमेश्वरः || ४-५६ || संसारिणोऽनुगृह्माति विश्वस्य जगतः पतिः | तत्र हि ᳚अनादिमति संसारे कारणं परमेश्वरः | स्वभावेनैव जन्तूनामनुग्रहपरः सदा ||᳚ इत्यादिना परमेश्वरस्य स्वस्वातन्त्र्यादेव अनुग्रहकारित्वमुपक्रम्य ᳚तया बद्धाञ्छिवो जन्तून्स्वेच्छया मोचयत्यतः |᳚ इत्यादिना तदेव निर्वाह्य,अनेन ग्रन्थेन भगवतः स्वातन्त्र्येऽपि परानुग्रहे निमित्तान्तरोपलक्षितत्त्वमुक्तम्, तथाहि � तस्य परमेश्वरस्यैव भगवतः ᳚इच्छैव कारणं तस्य..................... |᳚
SK
इत्याद्युक्त्या स्वेच्छाया एवानुग्रहादिप्रवृत्तौ कारणत्वेऽपि अनुग्राह्यभेदात् तस्या अपि वैचित्र्यात् कारणानामानन्त्यमुच्यते, वस्तुतस्तु तदतिरेक्यन्यत् अस्यापेक्षणीयं नास्ति -- इति बहुशः प्रागुक्तम्, तेन निखिलस्य जन्मवतो जन्तुचक्रस्य पालनादियोगात् ᳚पतिः᳚ परमेश्वरोऽसौ तत्तदाशयानुसारेण कदाचिद्भक्त्या कदाचिद्योगेन -- इत्येवमाद्यैरनेकैः कारणप्रकारैः संसारिणः -- सङ्कुचितं प्रमातृवर्गमनुगृह्णाति, सङ्कोचापहस्तनेन पूर्णज्ञानरूपतया प्रथयतीत्यर्थः | ᳚एवमाद्यैः᳚ इत्यनेन तपोजपादेर्ग्रहणम्, एवं पूर्णज्ञानावाप्तावनेकेउपायाः संभवन्ति, इति तात्पर्यार्थः || ५५- ५६ || एवमुपदर्शितेऽपि निमित्तानन्त्यसाधनाय प्रमाणेऽधिकावापं कर्तुं श्रीब्रह्मयामलग्रन्थं पठति -- मातृमण्डलसंबोधात् संस्कारात्तपसः प्रिये || ४-५७ || ध्यानाद्योगाज्जपाज्ज्ञानान्मन्त्राराधनतो व्रतात् | संप्राप्यं कुलसामान्यं ज्ञानं कौलिकसिद्धिदम् || ४-५८ || मातॄणां -- चक्षुरादिकरणेश्वरीणं, मण्डलस्य सम्यक् वृत्तिरूपतापरिहारेण शक्तिरूपतया परिज्ञानान्मातृमण्डलकर्तृकात् प्रियमेलापादिक्रमेण संबोधनाद्वा -- इत्येवमाद्यैरनन्तैर्निमित्तैः ᳚............................कुलमुत्पत्तिगोचरम् |᳚ इत्याद्युक्त्या कुले -- स्वस्वरूपादतिरेकायमाणतया उत्पत्स्यमाने प्रमातृप्रमेयात्मनि विश्वत्र, सामान्यम् -- अनुगामितया वर्तमानम्, अन्यथा हि अस्य भानमेव न भवेदिति भावः, अत एव कुले -- आत्मनि, भवा येयं सिद्धिः, तां ददाति � स्वात्ममात्ररूपतया प्रस्फुरत्परप्रमात्रात्म ज्ञानमवश्यं प्राप्यते इत्यर्थः, संस्कारात् -- दीक्षादेः || ५७-५८ || ननु यद्येवं, तर्हि अकल्पितकल्पकस्य गुरोः भावनादिहेतुजालनिष्ठत्वं नाम मुख्यं लक्षणम् ? इत्याशङ्कां ग्रन्थकृदेव स्वयं निराकर्तुमाह -- तत्त्वज्ञानात्मकं साध्यं यत्र यत्रैव दृश्यते | स एव हि गुरुस्तत्र हेतुजालं प्रकल्प्यताम् || ४-५९ ||
SK
यत् खलु स्वात्मलक्षणं सिसाधयिषितं परतत्त्वात्मकं पूर्णं ज्ञानं तदेव नाम यत्र क्वापि दृश्यते स एव अकल्पितकल्पको गुरुर्ज्ञेयो न पुनर्भावनादिहेतुजालमात्रनिष्ठः, एवं हि ङावश्यं कारणानि कार्यवन्ति भवन्ति |᳚ इतिन्यायेन भावनादौ हेतुजाले कृतप्रयत्नोऽपि कश्चित् कदाचित् पूर्णं ज्ञानं नासादयेत्, -- इति कथमिव अस्य अकल्पितकल्पकत्वं स्यात्, एवंरूपस्य ज्ञानस्य कादाचित्कत्वात् केनचित् कारणेन भाव्यम्, इत्युक्तं ᳚तत्र हेतुजालं प्रकल्प्यताम्᳚ इति, तेनेह फलभूतं पूर्णज्ञानवत्त्वमेवास्य मुख्यं लक्षणम् -- इति तात्पर्यार्थः || ५९ || न च एतदस्मदुपज्ञमेव, इत्यर्थद्वारेण संवादयति -- तत्त्वज्ञानादृते नान्यल्लक्षणं ब्रह्मयामले | ᳚भावितः सुप्रसन्नात्मा जपहोमरतः सदा |᳚ इत्यादि अन्यत् शास्त्रन्तरोक्तं लक्षणमपहाय, तत्त्वज्ञानमेव मुख्यं लक्षणं श्रीब्रह्मयामले गुरोरुक्तम्, इति वाक्यार्थः, यदभिप्रायेणैव शर्वलक्षणहीनोऽपि ज्ञानवान्गुरुरुत्तमः |᳚ इत्यादि अन्यत्रोक्तम् || ननु भावनादौ कृतप्रयत्नस्यापि न किचित्फलं जायते इत्येतदागमेन विरुद्ध्यते ? इत्याशङ्कां गर्भीकृत्य पुनरपि अर्थद्वारेण संवादयति -- तत्रैव चोक्तं सेवायां कृतायामविकल्पतः || ४-६० || साधकस्य न चेत्सिद्धिः किं कार्यमिति चोदिते | आत्मीयमस्य संज्ञानक्रमेण स्वात्मदीक्षणम् || ४-६१ || सस्फुरत्वप्रसिद्ध्यर्थं ततः साध्यं प्रसिद्ध्यति | तत्र -- श्रीब्रह्मयामले एव च -- अविकल्पतः, ᳚.........................षंशयानो न सिद्ध्यति |᳚
SK
इत्याद्युक्त्या, विकल्पः -- संशयः, तदभावात् -- स्वपक्षदार्ढ्येन स्वकल्पाम्नातायां लक्षजपादिरूपायां सेवायां कृतायामपि, साधकस्य केनापि वैगुण्येन, तत्फलभूता मनीषितार्थसंपत्तिलक्षणा सिद्धिः, न चेत्स्यात्, तदा किं तेन कार्यम्, इति भगवत्या चोदिते -- प्रश्निते सति, आत्मीयम् -- आत्मसंबन्धि, सं सम्यक् -- संशयविपर्यासरहितम् ᳚आत्मैवेदं सर्वम्᳚ इत्येवमात्म, यत ज्ञानं, तस्य क्रमो -- यथायथमभ्यासातिशयात् पराधाराधिरोहः, तेन सस्फुरत्वप्रसिद्ध्यर्थम्, अर्थात् � जप्यस्य मन्त्रादेः स्वरूपोत्तेजनाय निमित्तान्तरभूतं, स्वात्मनो दीक्षणम्परसंविद्रूपतया प्रत्यवमर्शनं नाम, भगवतोत्तरमुक्तं, येन सिसाधयिषितं वस्तु साधकस्य प्रसिद्ध्यतिफलपर्यन्तां निष्पत्तिं यायादित्यर्थः || ६०-६१ || अत्रैव तात्पर्यार्थं व्याचष्टे -- अनेन स्वात्मविज्ञानं सस्फुरत्वप्रसाधकम् || ४-६२ || उक्तं मुख्यतयाचार्यो भवेद्यदि न सस्फुरः | अनेन-श्रीब्रह्मयामलग्रन्थेन, साधकस्य स्वात्मीयमेव विज्ञानं जप्यस्य मन्त्रादेः सस्फुरत्वे निमित्तमुक्तं, यदि नाम मुख्यत्वेनाचार्यः परमेश्वरैकात्म्यायोगात् सस्फुरो न स्यात्, तेन सस्फुरे पुनराचार्ये सति तमेव स्वात्मनि दीक्षां कारयेत्, येनास्य मन्त्रोऽपि सस्फुरः स्यात् || ६२ || ननु आचार्यः सस्फुरो भवतु अस्फुरो वा, किमनेन नः प्रयोजनं, तमन्तरेण पुनः स्वयमेव दीक्षा न भवेत्, एवं हि आगमविरोध आपतेत्, तदपव्याख्यानमेतत् ? -- इत्याशङ्क्याह -- तत्रैव च पुनः श्रीमद्रक्ताराधनकर्मणि || ४-६३ || विधिं प्रोक्तं सदा कुर्वन् मासेनाचार्य उच्यते | पक्षेण साधकोऽर्धार्धात् पुत्रकः समयी तथा || ४-६४ ||
SK
तत्रैव -- श्रीब्रह्मयामले, पुनः -- समनन्तरोक्तप्रश्नोत्तरानन्तरं, श्रीमद्रक्तायाः -- श्रीचण्डिकाया विधाने, प्रकर्षेण -- गुर्वादिनैरपेक्ष्येण, उक्तं विधिं -- तन्मन्त्रग्रहणजपध्यानादिरूपं, सदा -- प्रत्यहं, साधकः कुर्वन्, मासेन अभिषेकादि परिहारेण ᳚आचार्यः᳚ उच्यते -- तदुचितमधिकारमारभमाणो न प्रत्यवैतीत्यर्थः | एवं पक्षेण शाधकः᳚ सार्धेन-दिनसप्तकेन ᳚पुत्रकः᳚ पादोनेन दिनचतुष्टयेन शमयी᳚ इति || ६३-६४ || ननु दीक्षामन्तरेण कथं समय्यादिरूपत्वं स्यात् ? -- इत्याशङ्क्याह -- दीक्षयेज्जपयोगेन रक्तादेवी क्रमाद्यतः | गुरोरलाभे प्रोक्तस्य विधिमेतं समाचरेत् || ४-६५ || दीक्षयेदित्यनेन सर्वमेव गुरुकर्तृकं कर्मोपलक्षितम्, यदुक्तम् -- ᳚जुहोति जपति प्रेद्धे सर्वत्रैवात्र चण्डिका ||᳚ इति | क्रमादिति-समय्यादिरूपात् | ननु यद्येवं तर्हि गुरुप्रशंसाभिधायिनो निखिलस्यैव आगमस्यानर्थक्यमापतेत् ? इत्याशङ्क्याह -- ᳚गुरोरलाभे᳚ इत्यादि, प्रोक्तस्य -- अकल्पितकल्पकादेः सस्फारस्य गुरोलाभे सति, एतं -- समनन्तरोक्तं, स्वयमेव मन्त्रग्रहणादिरूपं विधिं समाचरेत् -- अनुतिष्ठेत्, अन्यथा पुनराचार्यमेव सर्वं कारयेत्, इति भावः || ६५ || ननु यद्येवं श्वयं गृहीतमन्त्राश्च क्लिश्यन्ते चाल्पबुद्धयः |᳚ इत्यादिना पुस्तकाधीतविद्यानं क्लेशभागित्वाद्यात्मा दोषः कस्मादन्यत्रोक्तः? इत्याशङ्क्याह -- मते च पुस्तकाद्विद्याध्ययने दोष ईदृशः | उक्तो यस्तेन तद्दोषाभावेऽसौ न निषिद्धता || ४-६६ || मते इति -- श्रीसिद्धामते, यद्वक्ष्यति -- ᳚पुस्तकाधीताविद्याश्चेत्युक्तं सिद्धामते यतः |᳚ इति | तेनेति -- भगवता, ईदृश इति -- समन्तरोक्तः सस्फुरत्वाभावलक्षणः, पुस्तकावस्थिता हि मन्त्रा निर्वीर्या इति ततो गृहीतानां तेषां, न स्वसिद्धिसाधनाय निजं तेजः प्रस्फुरेत्, इति - - पुस्तकाधीतविद्यानां सिद्ध्यभावात् क्लेशमात्रभागित्वमुक्तम्, यद्वक्ष्यति -- ᳚लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सोऽत्र कल्पितः |
SK
सङ्केतबलतो नास्य पुस्तकात्प्रथते महः ||᳚ इति | स एव चेद्यदा दोषो न स्यात् तदा नायं कश्चिन्निषेधः, ᳚पुस्तकान्मन्त्रा नाध्येयाः᳚ इति, पुस्तकाधीतानां हि मन्त्राणां समनन्तरोक्तया युक्त्या केषाञ्चन निजं तेजः प्रस्फुरेत्, यद्वक्ष्यति -- ᳚ये तु पुस्तकलब्धेऽपि मन्त्रे वीर्यं प्रजानते | ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति ||᳚ इति || ६६ || एतदभिप्रायावेदकं च तत्रत्यमेव ग्रन्थं पठति -- मन्त्रद्रव्यादिगुप्तत्वे फलं किमिति चोदिते | पुस्तकाधीतविद्या ये दीक्षासमयवर्जिताः || ४-६७ || तामसाः परहिंसादि वश्यादि च चरन्त्यलम् | न च तत्त्वं विदुस्तेन दोषभाज इति स्फुटम् || ४-६८ || इह खलु ᳚कथितं गोपितं तेभ्यस्तस्माल्लेख्यं न पुस्तके | गुरुवक्त्रात्तु लभ्येत अन्यथा न कदाचन ||᳚ इति | तथा श्वमन्त्ररक्षणं यत्नात्सर्वदा कारयेत्सुधीः |᳚ इत्यादि भगवदुक्तं बहुशेऽवधार्य, मन्त्रादीनां पुस्तकाद्यलिखनेन ᳚गोपने किं प्रयोजनम्᳚ ? इति देव्या प्रश्निते, भगवता ᳚पुस्तकाधीतविद्या᳚ इत्यादिनोत्तरं दत्तं, मन्त्राणां हि पुस्तकादौ लिखने केचन ᳚दीक्षासमयवर्जिताः᳚ अत एव ᳚तामसाः᳚ तमो -- बौद्धपौंस्नत्वेन द्विप्रकारमज्ञानं, तत्र भवा ज्ञानशून्याः, ततस्तानधीत्य ᳚परहिंसाद्यर्थं चरन्ति᳚ न पुनस्तत् सिद्ध्येत्, यतस्ते मन्त्रादीनां तत्त्वं न जानते गुरुमुखाभावात्, ततश्च स्फुटमेव तेषां निरयपातादिदोषभागित्वं स्यात्, यतस्ते पुस्तकाधीतत्त्वेन मन्त्रणां निर्वीर्यत्वात्, तत्तद्वश्याद्यारभमाणास्तत्सिध्द्यभावात्, शास्त्रे स्वयं शिथिलितास्थाः सन्तः, परेषामपि तत्र अनादरमुत्पादयन्ति -- इति शास्त्रप्रक्रियोत्सादे निमित्तत्वमासादयेयुः || ६७-६८ || अत्रैव वैषम्यात् पदयुगं व्याचष्टे -- पूर्वं पदयुगं वाच्यमन्योन्यं हेतुहेतुमत् | अन्योन्यमिति -- यतः पुस्तकाधीतविद्या अतो दीक्षासमयवर्जिताः, यतश्च दीक्षासमयवर्जिताः अतश्च पुस्तकाधीतविद्या इति || एवमकल्पितकल्पकं गुरुमभिधाय कल्पितमपि अभिधातुमुपक्रमते
SK
यस्तु शास्त्रं विना नैति शुद्धविद्याख्यसंविदम् || ४-६९ || गुरोः स शास्त्रंमन्विच्छुस्तदुक्तं क्रममाचरेत् | यः कश्चित् पुनः शास्त्रपरामर्शमन्तरेण सत्तर्कात्मिकां शुद्धविद्याख्यां संविदं नाभ्येति -- यस्य स्वत एव सत्तर्को नोदियात्, स कस्यापि अकल्पितादेर्गुरोः सकाशात् शुश्रूषादिना शास्त्रमन्वेष्टुमिच्छुः सन् वृद्धव्यवहारद्यधिगतं शास्त्रोक्तमेव ᳚इदं कृत्वा इदं कुर्यात्᳚ इत्येवमात्मकं क्रममाचरेत्, येनास्य गुर्वाराधनक्रमेण शुद्धविद्योदयः स्यादिति || ६९ || तदाह येन केनाप्युपायेन गुरुमाराध्य भक्तितः || ४-७० || तद्दीक्षाक्रमयोगेन शास्त्रार्थ वेत्त्यसौ ततः | अभिषेकं समासाद्य यो भवेत्स तु कल्पितः || ४-७१ || सन्नप्यशेषपाशौघविनिवर्तनकोविदः | इह खलु ᳚तमराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम् |᳚ इत्यादिशास्त्रोक्तक्रमेण प्रथमं गुरोरेव तावदाराधनं कार्यं, तच्च नोपायमन्तरेण भवेत् -- इतितराम् तत्स्वीकारे यतितव्यम्, स च नैकः -- आराधनीयानामानैक्यात्, कश्चिद्धि शुश्रूषया, कश्चिद्धनेन, कश्चिच्च प्रतिविद्यादिना आराध्यते, इति ᳚येन केनाप्युपायेन᳚ इति सामान्येनोक्तं -- यस्य हि यथाराधनं सिध्द्यति तस्य तथा कार्यमिति भावः, तच्च न दृष्टवत्कार्यार्थमेव कार्यम्, इत्युक्तं ᳚भक्तित᳚ इति, आराधिताच्च तस्माद्दीक्षाक्रमसंबन्धो भवेत् - - येनास्य शास्त्राधिगमः सिद्ध्येत्, अन्यथा हि शास्त्रश्रवणमात्रेऽपि अधिकारो न स्यात्, तदधिगमे पुनः का नाम संभावनेति भावः, यदुक्तम् -- ᳚अदीक्षितानां पुरतो नोच्चरेच्छिवसंहिताम् |᳚ इति | तदनन्तरं च शंहितापारगस्येह सेकः कार्योऽन्यथा नहि |᳚
SK
इत्याद्युक्तदृशा ᳚अभिषेकम्᳚ अर्थात् तस्मादेव गुरोः सम्यक् पूर्णज्ञानादिरूपत्वेनासाद्य, यः सर्वत्रैव परानुग्रहादावधिकृतो भवेत्, स पुनराचार्यान्तरेण निष्पादितत्त्वात् कल्पितोऽपि सन्, अशेषस्य पाशौघस्य, विशेषण -- निःसंस्कारं, निवर्तने कोविदः -- प्रगल्भते इत्यर्थः | अनेन कल्पितत्त्वेऽपि अस्य फलतः कश्चिदकल्पितान्न विशेषः -- इत्यावेदितम् | परमेश्वर एव हि आचार्यमूर्तिमाश्रित्य अशेषपाशौघविनिवर्तनं कुर्यात्, तदुक्तम् -- ᳚यस्मान्महेश्वरः साक्षात्कृत्वा मानुषविग्रहम् | कृपया गुरुरूपेण मग्नाः प्रोद्धरति प्रजाः ||᳚ इति | तदत्र किं वस्तुतः कल्पिताकल्पितविभागेन इति भावः || ७०-७१ || एवमकल्पितत्त्वेऽपि कस्यचिद्यथा स्वात्मज्ञानपारिपूर्ण्याय भावनादिना कल्पितत्त्वमपि संभवेदिति ᳚अकल्पितकल्पकः᳚ उक्तः, तथा कल्पितस्यापि गुर्वाद्यनपेक्षमेव स्वप्रतिभाबलात् क्वचिच्छास्त्रेऽधिगमो जायते -- इत्यकल्पितत्त्वं भवेत्, इति कल्पिताकल्पिताख्यं गुरुमप्यभिधातुमाह -- यो यथाक्रमयोगेन कस्ंमिश्चिच्छास्त्रवस्तुनि || ४-७२ || आकस्मिकं व्रजेद्बोधं कल्पिताकल्पितो हि सः | यः कश्चित्कल्पितो गुरुः, कस्ंमिश्चित् -- लोकोत्तरे शास्त्रीये पारर्माथिकप्रमेयरूपे वस्तुनि, आकस्मिकं -- गुर्वाद्यनपेक्षमेव, यथाक्रमयोगेन -- यथावस्तु, बोधमासादयेत्, स कल्पितत्त्वेऽपि स्वयमेव बोधप्रवृत्तेरकल्पितः || ७२ || ननु कल्पितस्य गुरोः क्वचिदंशे यद्यकल्पितत्त्वं भवेत् तावता किम् ? इत्याशङ्क्याह -- तस्य योऽकल्पितो भागः स तु श्रेष्ठतमः स्मृतः || ४-७३ || उत्कर्षः शुद्धविद्यांशतारतम्यकृतो यतः | श्रेष्ठतमत्वे शुद्धविद्यातारतम्यकृत उत्कर्षो हेतुः -- शुद्धविद्याया एव तरतमभावो हि अकल्पितत्त्वादौ निमित्तमिति भावः || ७३ || ननु ᳚कल्पितस्याकल्पितस्य वा गुरोः फले न कश्चिद्विशेषः᳚ इति समनन्तरमेवोक्तं, तदकल्पितस्य कल्पितापेक्षया श्रेष्ठतमत्वे किं निमित्तम्? इत्याशङ्क्याह -- यथा भेदेनादिसिद्धाच्छिवान्मुक्तशिवा ह्यधः || ४-७४ ||
SK
तथा सांसिद्धिकज्ञानादाहृतज्ञानिनोऽधमाः | तत्संनिधौ नाधिकारस्तेषं मुक्तशिवात्मवत् || ४-७५ || किं तु तूष्णीं-स्थितिर्यद्वा कृत्यं तदनुवर्तनम् | यद्यपि भेदेश्वरवादे ᳚...........................परेह शिवसमता |᳚ इत्याद्युक्तेः अणूनां सर्वज्ञत्वसर्वकर्तृत्वाद्यभिव्यक्तेरविशेषात् ᳚शिवसाम्यं नाम मुक्तिरिष्यते᳚ तथापि मुक्ताणुभ्योऽस्यास्ति विशेषो -- यदयमनादिसिद्ध इति, तेषं पुनःसर्वज्ञत्वादि तदुपाधिकम्, इति यथा सर्वज्ञत्वाद्यविशेषेऽपि तस्मान्मुक्तशिवा न्यूनाः, तथैव अकल्पितादपि गुरोः कल्पितादयः, अस्य हि स्वत एव प्रवृत्तेरनुपाधिकं ज्ञानम्, एषां पुनः परोपाधिकमिति, अत एव यथा परशिवसंनिधौ मुक्तशिवानां सृष्ट्याद्यधिकारित्वे नाघिकारः, तथैव सांसिद्धिकस्य गुरोः संनिधाने कल्पितादीनां दीक्षादौ, इति युक्तमुक्तम् अकल्पितः श्रेष्ठतमः᳚ इति | ननु यद्येवं तत् किं तत्संनिधौ मुक्ताणुवत् कल्पितादयोऽपि किञ्चित् कुर्वन्ति न वा ? इत्याशङ्क्योक्तं ᳚किं तु तूष्णींस्थितिः᳚ इत्यादि || ७४-७५ || ननु इह स्वतः प्रवृत्ततर्कस्यापि अकल्पितस्य यन्नाम शास्त्रादिसापेक्षत्वं प्रागुक्तं, तत् किमस्य, दूषणमुत भूषणम् ? इत्याशङ्क्याह -- यस्त्वकल्पितरूपोऽपि संवाददृढताकृते || ४-७६ || अन्यतो लब्धसंस्कारः स साक्षाद्भैरवो गुरुः | यः पुनरकल्पितरूपोऽपि गुरुः स्वानुभवमात्रगोचरस्य स्वयंप्रवृत्तस्य ज्ञानस्य परत्रापि तथोपलभ्यमानत्वात्मना संवादनेन ᳚एवमेतत् नान्यथा᳚ इत्येवं रूपं दार्ढ्यं कर्तुम्᳚ अन्यतो -- गुरुशास्त्रादेः समस्तात्, गुरुतः शास्त्रतो वा व्यस्तात्, प्राप्तातिशयः स स्वात्मनि नैराकाङ्क्ष्येण शाक्षाद्भैरवः᳚ पूर्णपरसंविदाविष्ट इत्यर्थः || ७६ || ननु कथं संवादमात्रादेव एतत्स्यात् ? -- इत्याशङ्क्याह -- यतः शास्त्रक्रमात्तज्ज्ञगुरुप्रज्ञानुशीलनात् || ४-७७ || आत्मप्रत्ययितं ज्ञानं पूर्णत्वाद्भैरवायते |
SK
यतः शास्त्राधिगमक्रमेण शास्त्रज्ञगुरुप्रज्ञाया अनुशीलनाच्च ᳚इत्थमिदं, नानित्थम्᳚ इत्येवं रूपात् पर्यालोचनात् ससंवादं सत् ज्ञानम् आत्मनि सञ्जातप्रत्ययम् ᳚एवमेवैतत्, नान्यथा᳚ इत्येवंनिश्चयोत्पादात् दार्ढ्यं प्राप्तम्, अत एव नैराकाङ्क्ष्यात् पूर्णं सत् भैरवायते -- निराशंसानुत्तरपरज्ञानरूपतया प्रस्फुरति, इत्यर्थः || ७७ || अत एवागमोऽप्येवम्, इत्याह -- तेन श्रीकिरणोक्तं यद्गुरुतः शास्त्रतः स्वतः || ४-७८ || त्रिप्रत्ययमिदं ज्ञानमिति यच्च निशाटने | तत्सङ्घातविपर्यासविग्रहैर्भासते तथा || ४-७९ || त्रिप्रत्ययमिति, यदुक्तं तत्र -- ᳚त्रिप्रत्ययमिदं ज्ञानमात्मा शास्त्रं गुरोर्मुखम् |᳚ इति, तेनाकल्पितस्यापि गुर्वाद्यपेक्षणेन हेतुना, श्रीकिरणादौ यत् परतत्त्वज्ञाने गुर्वादि कारणत्रयमुक्तं तत् सङ्घातादिरूपत्वेन, तथा -- उक्तेन प्रकारेण, भासते -- सर्वस्यैव अनुभवसिद्धतया प्रस्फुरतीत्यर्थः, सङ्घातः -- समस्तत्त्वं, विपर्यासः -- उक्तक्रमान्यथाभावः, कस्यचित् स्वतः प्रवृत्तेऽपि ज्ञाने गुरुशास्त्राभ्यां पूर्णता भवेत्, इति भावः, विग्रहो -- व्यस्तत्त्वं, - - कस्यचिद्धि गुर्वादिभिरेककैरेव ज्ञानं जायते, इत्याशयः || ७८-७९ || ननु यदि नाम परतत्त्वज्ञाने गुर्वादीनां समस्तानामेव कारणत्वं, तत् कथं व्यस्तानामप्युक्तं, व्यस्तत्त्वेऽपि वा एकस्मादेव कार्यसिद्धेः किमन्येन ? इत्याशङ्क्याह -- करणस्य विचित्रत्वाद्विचित्रामेव तां छिदम् | कर्तुं वासी च टङ्कं च क्रकचं चापि गृह्मते || ४-८० || तावच्च छेदनं ह्येकं तथैवाद्याभिसंधितः |
SK
तक्षादयो हि करणस्य छिदिक्रियायां साधकतमस्य वास्यादेर्विचित्रत्वात् तथाविधामेव तां छिदं -- द्वैधीभावं कर्तुं समस्तमसमस्तं वा तदुपाददते, इति वाक्यार्थः | लोकेहि सरले यथा महति दारुणि वास्यादिभिर्व्यस्तैरवच्छेदः क्रियते वक्रकोटरादौ च समस्तैरित्याशयः | ननु करणवैचित्र्यात् कार्यवैचित्र्ये नास्ति विवादः, तत् वास्यादेः करणस्य भेदाच्छिदिक्रियापि भिन्नभिन्नैव, इति -- व्यस्तैः समस्तैर्वा कथमेभिरेकमेव कार्यं क्रियते? इत्याशङ्क्याह -- ᳚तावच्च᳚ इत्यादि, तावत् -- तत्तद्वास्यादिकरणनिर्वर्त्यमियत् यच्छेदनं तद्ध्येकं, न भिन्नभिन्नं, तथैव च्च्छिदिषात्मन एकस्यैव आद्यस्याभिसंधानस्य भावात् -- परामर्शभेदादेव हि परामृश्यभेदो भवेदिति भावः, एवमेकस्यामपि छिदिक्रियायां वास्यादीनां समस्तानां व्यस्तानां च करणत्वे न कश्चिद्दोषः || ८० || एतदेव प्रकृते योजयति -- इत्थमेव मितौ वाच्यं करणस्य स्वकं वपुः || ४-८१ || न स्वतन्त्रं स्वतो मानं कुर्यादधिगमं हठात् | प्रमात्राश्वासपर्यन्तो यतोऽधिगम उच्यते || ४-८२ || आश्वासश्च विचित्रोऽसौ शक्तिपातवशात्तथा | प्रमितेऽपि प्रमाणानामवकाशोऽस्त्यतः स्फुटः || ४-८३ ||
SK
करणस्य -- गुर्वादेः, स्वकम् -- अनन्यसाधारणं, वपुः -- स्वरुपं, तर्कज्ञानात्मिकायां मितौ, इत्थम् -- उक्तेन व्यस्तसमस्तात्मना प्रकारेणैव वाच्यं, यद्यपि गुर्वादेरेकैकस्यापि तत्त्वाधिगमेऽस्ति साधकतमत्वं, तथापि यावता प्रमातुराकाङ्क्षा विरमेत्, तावदेव एषां व्यस्तानां समस्तानां वा विनियोगः, इत्याकूतम्, अत एव न मानं नाम मानत्वात्स्वतन्त्रम् इत्येव बलात्कारेण प्रमात्रपेक्षां विनां अधिगमं विदध्यात्, अधिगमो हि नाम ᳚ज्ञातोऽयं मयार्थः᳚ इत्येवंपर्यवासनः प्रमातुराश्वासः, स एव चेन्नोत्पन्नः को नाम अधिगमार्थः, स च आश्वासः शक्तिपातस्य तीव्रतमत्वादिभेदात् तथा तीव्रतमत्वादिनैव क्रमेण विचित्रो, येन -- गुर्वादेर्व्यस्तात् समस्ताद्वा उत्पद्यते इत्याशयः, अत एव बहिः प्रमितेऽपि अर्थे प्रमातुराश्वासानुत्पादात् प्रमाणान्तराणामस्ति निर्बाध उपयोगः || ८१-८३ || ननु अर्थालोकादिरूपा सामग्री चेन्न सङ्घटिता, तत् ज्ञानमेव नोत्पद्यते, इति कस्तत्र अधिगमार्थः अथ चेत् सङ्घटिता, तत् प्रथमाक्षसंनिपात एव प्रत्ययान्तरानपेक्षिणः प्रमातुरनधिगतार्थविषयोऽधिगमः स्यात्, एवमपि उत्तरकालं धारावाहीनि विज्ञानानि तत्र चेत्प्रवर्तन्ते, तत् प्रवर्तन्तां नाम, को दोषः, तेषां पुनस्तत्रैव प्रमाणत्वं न भवेत् � आद्येनैव ज्ञानक्षणेन अपूर्वस्यार्थस्य प्रकाशनात्, अपूर्वार्थप्रकाशत्वमेव हि नाम प्रमाणत्वम्, यदाहुः -- ᳚अनधिगतविषयं प्रमाणम्, अज्ञातार्थप्रकाशो वा |᳚ इति, प्रमातुरपि एतावतैव फलवत्त्वं ᳚ज्ञातोऽयं मयार्थः᳚ इत्येवंसंतोषाभिमानात्, न च एतत् औत्तरकालिकानां धारावाहिनां विज्ञानानां संभवति, इति कथमुक्तं ᳚प्रमितेऽपि प्रमाणानामवकाशः᳚ इति ? -- इत्याशङ्क्याह -- दृष्ट्वा दृष्ट्वा समाश्लिष्य चिरं सञ्चर्व्य चेतसा | प्रिया यैः परितुष्येत किं ब्रूमः किल तान्प्रति || ४-८४ ||
SK
दृष्ट्वा दृष्ट्वेति -- आभीक्ष्ण्येनाश्लेषसञ्चर्वणयोरपि असौ अर्थाल्लभ्यते, चिरशब्दाद्वा तेन रूपज्ञानात्मकैः स्पर्शज्ञानात्मकैस्तत्पृष्ठभाविविकल्पज्ञानात्मकैश्च शतशः प्रवृत्तैः प्रमाणैः प्रमितायां प्रियायां येषामाश्वासलक्षणः परितोषो जायते, तान् प्रति किं ब्रूमः -- प्रमात्राश्वासपर्यन्तस्याधिगमस्य आद्येनेव ज्ञानक्षणेन उत्पादेऽनुभवविरोधान्न किञ्चित्, इति यावत्, अतश्च ᳚एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् | कोऽन्यो न भागो दृष्टः स्याद्यः प्रमाणैः परीक्ष्यते ||᳚ इत्याद्युक्तमयुक्तमेव, इति भावः, तेन ᳚यत्रापि स्यात्परिच्छेदः प्रमाणैरुत्तरैः पुनः | नूनं तत्रापि पूर्वेण सोऽर्थो नावधृतस्तथा ||᳚ इत्याद्युक्तयुक्त्या पूर्वप्रमाणानधिगतः कश्चिदपूर्व एवांशः प्रमाणान्तरैरवश्यमधिगम्यते, येन पर्यन्ते प्रमातुः समाश्वासोत्पादः स्यात् | यत् पुनरन्यैः ङैवाधिकपरिच्छेदः प्रमाणैरुत्तरैर्ध्रुवम् | धारावाहिषु बोधेषु कोऽधिकोऽर्थः प्रकाशते ||᳚
SK
इत्याद्युक्त्या गृहीतग्राहिणामपि धारावाहिनां विज्ञानानां प्रामाण्यमुक्तं, तन्न युक्तं -- व्यर्थत्वादिदूषणशतोपनिपातात्, तस्मादेकस्मिन्नपि अर्थेऽनेकप्रमाणप्रवृत्त्यात्मनि संप्लवेऽपि नाधिगतस्यैव अर्थस्याधिगमः, इति -- न प्रमाणान्तराणां निष्प्रयोजनत्वं, तैरपि -- अपूर्वस्यार्थस्य प्रकाशनात्, यद्येवं तदौत्तरकालिकानां धारावाहिनां विज्ञानानां स्वारसिक्यां प्रवृत्तावपूर्वार्थ प्रकाशो न कदाचिदपि विरमेत्, इत्यनवस्थापि न स्यात् -- प्रमात्राश्वासलक्षणस्य अनुलङ्घनीयस्यावधेर्भावात् | एवमपि एकस्मिन्नेवार्थे प्रमातुरनेकैः प्रमाणैः प्रवृत्तैः संभूयापूर्वतया प्रकाशो जायते, -- इत्येषां पूर्वापेक्षमुत्तरेषां प्रामाण्यम्, उत्तरापेक्षं च पूर्वेषाम् -- इत्यन्योन्याश्रयतापि न स्यात्, अत्रान्योन्यापेक्षस्यैव प्रामाण्यस्याभावात्, अपूर्वार्थप्रकाशाधीनं हि ज्ञानानां प्रामाण्यम्, स चापूर्वार्थविषयः प्रकाशः सर्वेषामेव पृथक्पृथगवस्थितः, इति को नाम अन्योन्याश्रयताया अवकाशः, संप्लवो हि धर्म्यभिप्रायेणोच्यते ᳚एकस्मिन्नेवार्थेऽनेकप्रमाणप्रवृत्तिः᳚ इति, वस्तुतः पुनरनेकधर्मविशेषिते धर्मिणि केनचित् कश्चिद्धर्मविशेषोऽपूर्वतया प्रकाशते, यद्वशात् -- तत्तद्धर्माधिगतिपुरःसरीकारेण पूर्णेन रूपेण धर्मिणमधिगम्य प्रमातुः पर्यन्ते समाश्वासो जायते इति || ८४ || तदेतदाह -- इत्थं च मानसंप्लुत्यामपि नाधिगते गतिः | न व्यर्थता नानवस्था नान्योन्याश्रयतापि च || ४-८५ || इदानीं तर्कतत्त्वानुषक्तं गुरुसतत्त्वमुपसंहारन् तदानन्तर्येणानुजोद्देशोद्दिष्टं योगाङ्गानुपयोगित्वमपि वक्तुमुपक्रमते -- एवं योगाङ्गमियति तर्क एव न चापरम् | अन्तरन्तः परामर्शपाटवातिशयाय सः || ४-८६ ||
SK
एवमियति -- गुरुसतत्त्वात्मनि प्रमेये प्रतिपादिते, तर्क एव उत्तमं योगाङ्गं, न पुनरपरं यमादि किञ्चित्, इति पर्यवसितम्, यतः स एवान्तरन्तर् -- यथायथं संवित्संनिकर्षेण शुद्धविद्यात्मनः परामर्शस्य पाटवातिशयं जनयेत्, येन अन्ते योगिनः परसंवित्साक्षात्कारः स्यात्, तदुक्तं -- ᳚लब्धभूमेर्विरक्तस्य तज्जयोपायपेशलः | ऊहो नाम वितर्कोक्तिः प्रविचारेक्षणात्मकः || यद्यत्सातिशयं स्थानं भोगेन समधिष्ठितम् | विनश्वरेण संदेहमूलेन सुमलीमसम् || किमनेन विकल्पोक्तिव्यवहारात्मना त्वलम् | अस्मदन्यद्विशिष्टेन भोगेन परिपूरितम् ||᳚ इत्यादि | ᳚पदं पदवतां श्रेष्ठं स्वतेजोगूढलोचनम् | तदेकं निर्वितर्कं स्यात्प्रभोः स्थानमनातुरम् || शेषाणि सवितर्काणि संत्याज्यानि मुमुक्षुभिः | न वितर्कं विना तानि त्यक्तं योगप्रयोक्तृभिः || शक्यन्ते मुनिशार्दूल तस्मात्तर्कोऽपि युज्यते | योगिनोऽङ्गत्वमापन्नः स्वोपकाराय चेष्टते ||᳚ इत्यन्तम् || ८६ || ननु समानेऽपि योगाङ्गत्वे तर्कस्यैवोत्तमं योगाङ्गत्वं, न पुनर्यमादीनामित्यत्र किं निमित्तम् ? -- इत्याशङ्क्याह -- अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः | इति पञ्च यमाः साक्षात्संवित्तौ नोपयोगिनः || ४-८७ || तपः प्रभृतयो ये च नियमा यत्तथासनम् | प्राणायामाश्च ये सर्वमेतद्बाह्यविजृम्भितम् || ४-८८ || प्रभृतिना शौचादय उक्ताः, यदुक्तम् -- ᳚शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः |᳚ (पातं.योषू. २३२) इति, एवमादयः सर्वे संवित्तौ साक्षान्नोपयोगिनः इति संबन्धः, साक्षाद्ग्रहणेन पारम्पर्येण पुनर्येषामुपयोगित्वं भवेदपि नाम -- इति सूचितम्, एषां साक्षादनुपयोगित्वे हेतुः -- शर्वमेतद्बाह्यविजृम्भितम्᳚ इति || ८७-८८ || न चैतद्युक्तिमात्रेणैव सिद्धं, यावदागमेनापि, इत्याह -- श्रीमद्वीरावलौ चोक्तं बोधमात्रे शिवात्मके | चित्तप्रलयबन्धेन प्रलीने शशिभास्करे || ४-८९ || प्राप्ते च द्वादशे भागे जीवादित्ये स्वबोधके | मोक्षः स एव कथितः प्राणायामो निरर्थकः || ४-९० ||
SK
प्राणायामो न कर्तव्यः शरीरं येन पीड्यते | रहस्यं वेत्ति यो यत्र स मुक्तः स च मोचकः|| ४-९१ || चित्तस्य चेत्यग्रासीकरणक्रमेण चेतयितरि यः प्रलयो -- विश्रान्तिः, स एव अनन्यगमनात्मा बन्धः, तेन शशिसहिते भास्करे -- प्राणापानप्रवाहे प्रलीने, मध्यधामलयादुच्छिन्नस्ववाहे, अत एव जीवः -- उदान एव आदित्यः तत्तत्प्रमेयादिदाह्यवस्तूपादानात् अग्निः, तस्मिन् मध्योर्ध्ववाहक्रमेण द्वादशान्तं प्राप्ते सति -- प्रमाणप्रमेव्यवहारोच्छेदेन प्रमातर्येव पराङ्काष्ठामधिरूढे, निःश्रेयसात्मपरश्रेयोरूपे स्वबोधकेस्वप्रकाशे बोधमात्रे अर्थादुदिते, यः कश्चिदनुभवविशेषः स एव मोक्षः कथितः, ᳚शशिभास्करसंयोगाज्जीवस्तन्मात्रतां व्रजेत् | अत्र ब्रह्मादयो लीना मुक्तये मोक्षकाङ्क्षिणः ||᳚ इत्यादिना तत्रैव प्रागुपदिष्टो, न तु दर्शनान्तरवन्निमित्तान्तरसमधिगम्यः, अत एव रेचकादिरूपः प्राणायामो निरर्थकः -- तेन न कश्चिन्मोक्षलक्षणोऽर्थः सिद्ध्यति इत्यर्थः | एवं भगवता प्रश्निते भगवतीप्रश्नार्थमेव सिद्धान्तीकर्तुम् शत्यमेतन्महाप्राज्ञ प्राणायामो न कारणम् |᳚ इत्युपक्रम्य ᳚प्राणायामो न कर्तव्यः शरीरं येन पीड्यते |᳚ इत्यादिना परपक्षे बाधकं प्रमाणमुपन्यस्य स्वपक्षे साधकं प्रमाणं दर्शयति ᳚रहस्यं वेत्ति यो यत्र᳚ इत्यादि, रहस्यं -- प्रमाणाद्यप्रवृत्तेः सर्वजनागोचरं प्रमातृमात्रसतत्त्वं परं तत्त्वं, योऽभिजानाति -- साक्षात्कुर्यात्, स स्वयं मुक्तः सन्, अन्येषामपि मोचकः, प्राणायामस्य आनर्थक्याभिधाने यमादीनामपि दण्डापूपीयन्यायेन तत् अर्थसिद्धम्, इति पृथक् नोक्तम्, ᳚बोधमात्रे शिवात्मके᳚ इत्यनेन पुनः प्राक् पटलद्वयोक्तमर्थजातं संक्षिप्योपक्षिप्तम् || ८९-९१ || ननु यमादि यदि बाह्यविजृम्भितत्त्वात् न संवित्तावुपयोगि, तदस्तु, को दोषः, प्रत्याहारादि पुनर्बाह्यात्प्रत्यावृत्तं सत्, अन्तरेव लब्धप्ररोहम्, इति तदपि कथं न तत्रोपयुक्तम् ? -- इत्याशङ्क्याह -- प्रत्याहारश्व नामायमर्थीभ्योऽक्षधियां हि यः |
SK
अनिबद्धस्य बन्धस्य तदन्तः किल कीलनम् || ४-९२ || चित्तस्य विषये क्वापि बन्धनं धारणात्मकम् | तत्सदृग्ज्ञानसंतानो ध्यानमस्तमिता परम् || ४-९३ || यदा तु ज्ञेयतादात्म्यमेव संविदि जायते | ग्राह्यग्रहणताद्वैतशून्यतेयं समाहितिः || ४-९४ || अयं हि नाम प्रत्याहारो -- यदर्थेभ्यो रूपादिभ्यः प्रत्याहृतानां चक्षुरादीन्द्रियज्ञानानाम् अन्तः कीलनं -- चित्तस्वरूपानुकारायमाणतया स्वात्मायत्ततासादनम्, यदुक्तम् -- श्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः |᳚ (योषू. २-५४) इति, तदेव च अनिबद्धस्य शंसारोऽस्ति न तत्त्वतस्तनुभृतां बन्धस्य वार्तैव का |᳚ इत्यादिन्यायेन अलब्धप्ररोहस्यापि बन्धस्य, कीलनं -- दार्ढ्यापादनम् ᳚परस्या हि संविदः स्वस्वातन्त्र्यात् गृहीतसङ्कोचाया देशाद्यवच्छिन्नत्वं नाम बन्धः᳚ स एव चात्र कुतश्चित् प्रत्याहृतानामिन्द्रियाणां कुत्रचिदवस्थापनादुपोद्वलीकृतः, इति कथं नाम प्रत्याहारादेः संवित्साक्षात्कारायोपयोगः -- व्यापिका हि संविदः कथं नाम कुत्रचिदेवोपलम्भो भवेत् इति भावः, यदुक्तम् -- ᳚यत्र यत्र मनो याति तत्र तत्रैव धारयेत् | चलित्वा कुत्र गन्तासि सर्वं शिवमयं यतः ||᳚ इति | एवं धारणादावपि अवसेयम्, तत्र हि कन्दादौ नियत एव देशे ᳚चित्तस्य बन्धो रूपम्᳚ यदुक्तम् -- ᳚देशबन्धश्चित्तस्य धारणा |᳚ (यो. सू. ३-१) इति | ध्यानेऽपि सजातीयानामेव ज्ञानानां प्रवहद्रूपत्वं नाम रूपं, न विजातीयानाम्, इत्यत्र नियताकारावच्छिन्नत्वम् | यदुक्तम् -- ᳚तत्र प्रत्ययैकतानता ध्यानम् |᳚ (यो. सू. ३-२) इति, अत एव ᳚अस्तमिता परम्᳚ इत्युक्तम् | समाधावपि ज्ञानज्ञेयाख्यरूपद्वयतिरस्कारेण ध्येयात्मज्ञेयमात्रप्रतिभास एव रूपम्, इत्यत्र नियत एवाकारोऽवच्छेदकः, यदुक्तम् -- ᳚तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः |᳚ (यो. सू. ३-३) इति || ९२-९४ || ननु यमादीनां पञ्चानामपि बहिरङ्गत्वात् यदि संवित्तौ नोपयोगः, तत् तावदास्ताम् ᳚त्रयमन्तरङ्गं पूर्वेभ्यः |᳚ (योषू. ३-७)
SK
इति तेषां किमिति नाम न तत्रोपयोगः ? -- इत्याशङ्क्याह � तदेषा धारणाध्यानसमाधित्रितयी पराम् | संविदं प्रति नो कञ्चिदुपयोगं समश्नुते || ४-९५ || ᳚अनिबद्धस्य बन्धस्य तदन्तः किल कीलनम्᳚ इत्याद्युक्त्या बन्धकत्वादेर्हेतोः || ९५ || ननु यद्येवं तद्यमादीनामष्टानामपि योगाङ्गानां किमर्थमभिधानम्? इत्याशङ्क्याह -- योगाङ्गता यमादेस्तु समाध्यन्तस्य वर्ण्यते | स्वपूर्वपूर्वोपायत्वादन्त्यतर्कोपयोगतः || ९६ || अन्त्येति -- अन्ते साधुः, अष्टानां यमादीनामङ्गानामुपेयत्वेन योग्य इति, यमा नियमानामुपायो, नियमाश्च आसनस्य -- इत्यादिक्रमेण यमादीनामष्टानामपि पूर्वपूर्वोपायत्वेन योगाङ्गत्वं वर्णितम्, यथैषामुपेयरूपत्वात् पार्यन्तिकेतर्के द्वारद्वारिभावेनोपयोगः स्यात्, यस्मादष्टाभिरपि एतैरङ्गैरुपस्कृतमतेर्योगिन एवं स्वपरामर्शो जायते, येनास्य झटित्येव स्वसंवित्तिसाक्षात्कारो भवेत्, यन्नाम अत्र योगस्य स्वदर्शनोक्तानि षडङ्गान्यपहाय पातञ्जलीयं यमाद्यङ्गाष्टकमुक्तं, तत्रायमाशयो यत् क्वचिदपि एतदङ्गाष्टकातिरिक्तम् अन्यदङ्गान्तरं नास्ति, इति सर्वत्र तर्कस्यैवाङ्गान्तराण्युपायः, स च स्वसंवित्साक्षात्कारस्येति || ९६ || एतदेवोपपादयति -- अन्तः संविदि रूढं हि तद्द्वारा प्राणदेहयोः | बुद्धौ वार्प्यं तदभ्यासान्नैष न्यायस्तु संविदि || ४-९७ ||
SK
यतः खलु संविदि, अन्तर् -- अभेदेन, जातप्ररोहं संवेद्यमानं सत् तद्यमादि, तद्द्वारा -- संविन्मुखेनैव, नहि असंविदितिं किञ्चिदपि वस्तु व्यवहारयोग्यं भवेत्, इति भावः, अभ्यासात् -- पौनःपुन्येन सेवनात्, देहादावर्प्यं -- देहादि यथा शनैः शनैः संस्कारपाटवेन तथैव प्ररोहमियादित्यर्थः, तद्यथा आसनादि देहे, प्राणायामादि प्राणे, प्रत्याहारादि बुद्धाविति | संविदि पुनरेष देहादौ प्ररूढस्य यमादेः तद्द्वारेण अभ्यासबलात् प्ररोहोत्पादनात् स न्यायो न भवेत्, संविदि हि यमादेः प्ररोहः पटीयस्त्वमुच्यते, स एव च नाम संस्कारः, न च संवित् संस्कार्या, संस्कारो हि अतिशयः, स च नास्यां सम्भवेत् -- असंविद्रूपतापत्तेः, तेन पराद्वयरूपायां नित्योदितायामस्यां यमादेर्न किञ्चित्प्रयोजनम् -- इति तात्पर्यम्, यदुक्तम् - - ᳚अन्तः संविदि यन्निरूढमभितस्तत्प्राणधीविग्रहे सञ्चार्येत कथं तथेति घटते तत्राभ्युपायक्रमः | ये त्वभ्यासपथेन संविदमिमां संस्कर्तुमभ्युद्यता स्ते किं कुत्र कथं नु वा विदधतामित्यत्र संदिद्महे ||᳚ इति || ९७ || अथ वा देहादिद्वारेण संविद्यभिव्यक्तिलक्षणोऽतिशयो भवेत् इत्याह -- अथ वास्मद्द्वशिप्राणधीदेहादेरपि स्फुटम् | सर्वात्मकत्वात्तत्रस्थोऽप्यभ्यासोऽन्यव्यपोहनम् || ४-९८ || यद्वा पराद्वयदर्शने ᳚प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च |᳚ इत्यादिनीत्या देहादेरपि संविद्रूपत्वेन सर्वात्मकत्वात्, तत्र प्राणादाववस्थितोऽपि यमादीनामभ्यासः, अन्येषां भेदनिष्ठानामयमादिरूपाणां हिंसादीनामपोहनम्, एवं हि यथात्मनि हिंसा न कार्या, तथा परत्रापि -- इति स्वपरयोरात्मरूपतयावभावसनेन भेदविगलनात् संविद एवाभिव्यक्तिर्भवेत्, इति भावः || ९८ || ननु यद्यत्र अभ्यस्यते तच्चेत् तत्र संस्कारदार्ढ्यात् पाटवातिशयं यायात्, इत्यस्तु को दोषः, तत् पुनरन्यव्यपोहनमाधातुं कथमुत्सहते -- येन कार्यान्तरमपि उत्पद्येत ? इत्याशङ्का शमयितुं दृष्टान्तयति --
SK
देह उत्प्लुतिसंपात धर्मोज्जिगमिषारसात् | उत्प्लाव्यते तद्विपक्षपाताशङ्काव्यपोहनात् || ४-९९ || उत्प्लुतिः -- ऊर्ध्वं प्लवनं, तस्याः पौनःपुन्येन संभवात् यः संपातस्तद्धर्मा येयमुद्गन्तुमिच्छा तस्या रसः -- पुनः पुनरभ्यासादादरातिशयः ततो हतोः,यथा देहः तस्योज्जिगमिषारसस्य विपक्षभूतो यस्तिर्यगधश्च पातः तदाशङ्काया व्यपोहनमधिकृत्य, उत्प्लाव्यते -- अङ्गश्रमादिनोर्ध्वप्लवने योग्यः क्रियते इत्यर्थः, -- तेन ऊर्ध्वं प्लवनाभ्यासेन अधःपातादि देहे व्यपोह्यते -- इत्यन्यदभ्यस्यतोऽपि अन्यनिवृत्तिर्भवेदिति भावः || ९९ || एतदेव प्रकृते योजयति -- गुरुवाक्यपरामर्शसदृशे स्वविमर्शने | प्रबुद्धे तद्विपक्षाणां व्युदासः पाठचिन्तने || ४-१०० || एवं शिष्यस्य पाठचिन्तनादौ विषये पुनः पुनरभ्यासातिशयात्, गुरुवाक्यपरामर्शानुगुणे स्वपरामर्शे, उदितस्य स्वपरामर्शस्य, विपक्षभूतानां मौढ्यादीनामपि व्युदासः......... || १०० || ननु गुरुवाक्यबलादेवास्य मौढ्यादीनामपि व्युदासः सिध्येदि अन्तर्गडुप्रायेण स्वविमर्शेनापि कोऽर्थः ? -- इत्याशङ्क्याह -- नह्यस्य गुरुणा शक्यं स्वं ज्ञानं शब्द एव वा | धियि रोपयितुं तेन स्वप्रबोधक्रमो ध्रुवम् || ४-१०१ || नहि नामास्य शिष्यस्य स्वबलादेव गुरुणा चिन्ताद्यात्म स्वं ज्ञानं, पाठ्यमानो वा स्वः शब्दः तद्बुद्धौ प्ररूढं कर्तुं शक्यं, यावदस्य स्वपरामर्शो न स्यात्, यतः स्वविमर्शं विना हि असौ गुरुवाक्यामवधारयितुमपि नालं, का पुनर्मौढ्यादिनिवृतौ संभावनापि भवेत्, तस्मान्निश्चितमेव स्वस्यात्मीयस्य शुद्धविद्यारूपत्वात् प्रकृष्टस्य परामर्शात्मनः बोधस्य क्रमोऽस्तीति शेषः || १०१ || यन्माहात्म्यादवधानशालिनां स्वप्नानुभूतमपि वस्तु अर्थक्रियापर्यन्तां साक्षात्काररूपतामेति, इत्याह -- अत एव स्वप्नकाले श्रुते तत्रापि वस्तुनि | तादात्म्यभावनायोगो न फलाय न भण्यते || ४-१०२ ||
SK
अतः -- स्वपरामर्शस्य सद्भावादेव, तत्र असदर्थोपलम्भात्मन्यपि स्वप्नसमये कस्ंमिश्चित् श्रुतेऽपि वस्तुनि विषये स्त्र्यादाविव ताद्रूप्येण पुनःपुनरभ्यासात्मा भावनायोगः क्रियमाणः फलाय न न भण्यते -- जागरोचितार्थक्रियाकारितया साक्षात्क्रियते इत्यर्थः || १०२ || ननु यद्विषयोऽयं नाम स्वपरामर्श इष्यते, तयोः पाठचिन्तनयोरेव किं स्वरूपम् ? -- इत्याशङ्क्याह -- सङ्केतानादरे शब्दनिष्ठमामर्शनं पठिः | तदादरे तदार्थस्तु चिन्तेति परिचर्च्यताम् || ४-१०३ || संङ्केतस्य -- संकेतिकस्यार्थस्यः अनादरः -- उपेक्षा, अत एव ᳚शब्दनिष्ठम्᳚ इत्युक्तं, न पुनरर्थनिष्ठमपि, तदादरे शब्दापेक्षायां शब्दप्रतीतिपुरःसरीकारेण हि अर्थप्रतीतिरिति भावः || १०३ || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवानुसरति -- तदद्वयायां संवित्तावभ्यासोऽनुपयोगवान् | केवलं द्वैतमालिन्यशङ्कानिर्मूलनाय सः || ४-१०४ || तदिति-उक्ताद्धेतोः, अभ्यास इति यमादीनाम् | ननु यदि नामायमनुपयुक्तः तत्किमर्थमुक्तः ? -- इत्याशङ्क्याह -- केवलमित्यादि ||१०४ || ननु यद्येवं तत्कथं स्वपरामर्शात्मनस्तर्कस्य द्वैतशङ्कानिर्मूलत्वं प्रागुक्तम् ? इत्याशङ्क्याह -- द्वैतशङ्काश्च तर्केण तर्क्यन्त इति वर्णितम् | तत्तर्कसाधनायास्तु यमादेरप्युपायता || ४-१०५ || वर्णितमिति तर्कतत्त्वचर्चावसरे, उक्तं च ᳚अनेन लक्षयेद्योगी योगसिद्धिप्रवर्तकम् | निवर्तकं च यद्वस्तु बहुधा संव्यवस्थितम् ||᳚ इति, तस्मात् यमादीनां यद्द्वैतशङ्कानिर्मूलकत्वमुक्तं तत् तर्कोपायत्वात्पारम्पर्येण, इत्येषां तदेव मुख्यतयाभिधानीयम्, इत्याह -- ᳚तत्तर्केत्यादि᳚ तेन तर्कस्यैव संवितौ साक्षादुपायत्वं, नेतरेषाम् इत्युक्तं भवेत् || १०५ || न चैतत् निष्प्रमाणकमित्याह -- उक्तं श्रीपूर्वशास्त्रे च न द्वैतं नापि चाद्वयम् | लिंङ्गापूजादिकं सर्वमित्युपक्रम्य शम्भुना || ४-१०६ || विहितं सर्वमेवात्र प्रतिषिद्धमथापि वा | प्राणायामादिकैरङ्गैर्योगाः स्युः कृत्रिमा यतः || ४-१०७ ||
SK
तत्तेनाकृतकस्यास्य कलां नार्हन्ति षोडशीम् | श्रीपूर्वशास्त्र इत्युपक्रम्य शंभुनोक्तम्, इति संबन्धः ङ द्वैतं नापि चाद्वैतम्᳚ इत्येवं-वृत्तानुरोधान्न पठितम्, ᳚लिङ्गपूजादिकं सर्वम्᳚ इत्यत्रापि नञा संबन्धः, यदुक्तं तत्र ᳚.........................ऌइङ्गपूजादिकं न च |᳚ इति | सर्वमित्यनेन लिङ्गपूजाद्यपरित्यागादेः स्वीकारः, यदुक्तं तत्र -- ङ चापि तत्परित्यागो निष्परिग्रहतापि वा | सपरिग्रहता वापि जटाभस्मादिसंग्रहः || तत्त्यागो वा व्रतादीनं चरणाचरणं च यत् | क्षेत्रादिसंप्रवेशश्च समयादिप्रपालनम् || परलिङ्गस्वरूपादि नामगोत्रादिकं च यत् | नास्मिन्विधीयते किञ्चिन्न चापि प्रतिषिध्यते ||᳚ इति | एवं हि तूष्णींभाव आपतेत्, इत्याशङ्क्य ᳚विहितम्᳚ इत्याद्युक्तं, सर्वमिति विधीयमानं प्रतिषिध्यमानं च किञ्चिन्निषिद्धं, किञ्चिद्विधीयमानं हि भेदमेवाविर्भावयेत् तेन -- संविदद्वैतशालिनो योगिनः कार्याकार्यविभागो नास्ति, इत्युक्तं स्यात्, अत एव प्राणायामाद्यङ्गकरणकतया कृत्रिमत्वात् स्वरससिद्धसंविदद्वयात्मनो योगस्य स्वल्पेनापि अंशेन दर्शनान्तरीया योगाः साम्यमात्रमप्यधिगन्तुं नोत्सहन्ते इत्युक्तं -- प्राणायामादिकैरित्यादि || १०७ || ननु यद्येवं तत् अकृतकत्वेन निमित्तानपेक्षणादस्य नित्यं सत्त्वमसत्त्वं वा स्यात् ? -- इत्याशङ्क्याह -- किं त्वेतदत्र देवेशि नियमेन विधीयते || ४-१०८ || तत्त्वे चेतः स्थिरं कार्यं तच्च यस्य यथ्|स्त्विति | किं पुनरेतत् अत्र नियमेन विधातव्यं, यत् -- ᳚तत्त्वे स्थिरं चेतः स्यात्᳚ इति, चेतसोऽपि अत्र स्थैर्यमाकस्मिकमेव न स्यात्, इत्यत्र केनापि निमित्तेनावश्यं भाव्यम् ? -- इत्याशङ्क्य उक्तं ᳚तच्च यस्य यथास्त्विति᳚ तच्च -- स्थिरं चेतो, यस्य कस्यचन योगिनो, यथा नियतनिमित्तानपेक्षित्वेन स्यादित्यर्थः, यदुक्तं तत्र -- ᳚तच्च यस्य यथैव स्यात्स तथैव समाचरेत् |᳚
SK
इति, अत एव नियमाभावात् सर्वमेव विहितं प्रतिषिद्धं चेत्युक्तम् | अष्टादशस्य पटलस्यैकवाक्यतां दर्शयितुमालूनविशीर्णतया अयं ग्रन्थः संवादितः || १०८ || तदेवोपसंहरति -- एवं द्वैतपरामर्शनाशाय परमेश्वरः || ४-१०९ || क्वचित्स्वभावममलमामृशन्ननिशं स्थितः | ननु शुद्धसंविन्मात्रात्मैव पारमेश्वरःस्वभावो यस्य ᳚अहमेव सर्वम्᳚ इत्येवंरूपः परामर्शः, न च अस्य क्वचित् कदाचित् कश्चिद्विशेषः संभवेत् इति कथमुक्तं -- क्वचिदमलं स्वभावमामृशन् स्थितः ? इति, इत्याशङ्क्याह -- यः स्वभावपरामर्श इन्द्रियार्थाद्युपायतः || ४-११० || विनैव तन्मुखोऽन्यो वा स्वतन्त्र्यात्तद्विकल्पनम् | इह खलु इन्द्रियार्थाद्युपायनैरपेक्ष्येण अन्तरुल्लखिताकारमात्रनिष्ठः, तन्मुखः � इन्द्रियार्थाद्युपायको निर्विकल्पपृष्ठभावी अन्यो वा यः स्वभावपरामर्शः तदुभयरूपमपि क्षेत्रज्ञस्वातन्त्र्योल्लासितं विकल्पनं विकल्प इत्यर्थः || ११० || तच्च द्विधा, इत्याह -- तच्च स्वच्छस्वतन्त्रात्मरत्ननिर्भासिनि स्फुटम् || ४-१११ || भावौघे भेदसंधातृ स्वात्मनो नैशमुच्यते | तदेव तु समस्तार्थनिर्भरात्मैकगोचरम् || ४-११२ || शुद्धविद्यात्मकं सर्वमेवेदमहमित्यलम् | तच्च -- विकल्पनं, परानवभास्यत्वात् स्वच्छः, अत एवानन्यापेक्षत्वात् स्वतन्त्रो, योऽसावात्मा प्रमात्रेकरूपः परः प्रकाशः, स एव प्रतिबिम्बग्रहणसहिष्णुत्वात् स्फटिकं, तत्राभेदेन निर्भासनशीलेऽपि प्रमातृप्रमेयात्मनि भावौघे, स्फुटं कृत्वा, स्वात्मनः सकाशादन्यापोहरूपत्वेन भेदसंधायकत्वात् नैशं -- मायीयमुच्यते, इति सामान्येनोक्तेः सर्वैरेवाभिधीयते इत्यर्थः, तदेव विकल्पनं पुनः शर्वमिदमहमेव᳚ इत्येवंरूपम्, अत एव समस्तार्थपरिपूर्णस्वात्मैकनिष्ठम्, अत एवालं -- पर्याप्तं सत् शुद्धविद्यात्मकमुच्यते, इति प्राच्येन संबन्धः || १११-११२ || ननु शर्वो विकल्पः संसारः.................... |᳚
SK
इत्यादिनीत्या विकल्पस्तावत् सर्व एव हेयः, तदनेनापि विभागेनाभिहितेन कोऽर्थः ? -- इत्याशङ्क्याह -- इदं विकल्पनं शुद्धविद्यारूपं स्फुटात्मकम् || ११३ || प्रतिहन्तीह मायीयं विकल्पं भेदभावकम् | स्फुटात्मकमिति -- प्रागुक्तविकल्पसंस्क्रियाक्रमणेन साक्षात्कारतां प्राप्तमित्यर्थः, मायीयस्य विकल्पस्य प्रतीघाते भेदभावकत्वं हेतुः, अत एवाभेदभावकत्वादिदमुपादेयम्, इत्युक्तं स्यात् || ११३ || तच्च परामृश्यभेदादनेकप्रकारम्, इत्याह -- शुद्धविद्यापरामर्शो यः स एव त्वनेकधा || ४-११४ || स्नानशुद्ध्यर्चनाहोमध्यानजप्यादियोगतः | ननु अयं शुद्धविद्यात्मा परामर्शः कथं नाम भेदनिष्ठं मायीयमेव विकल्पं प्रतिहन्यात्, यत्प्रयोजकीकाराय अस्यापि प्रकारान्तरासूत्रणम् ? -- इत्याशङ्क्याह -- विश्वमेतत्स्वसंवित्तिरसनिर्भरितं रसात् || ४-११५ || आविश्य शुद्धो निखिलं तर्पयेदध्वमण्डलम् | इह खलु एवंपरामर्शवान् योगी वक्ष्यमाणक्रमेण स्वात्मचमत्कारपूर्णतया आदरातिशयात् विश्वमिदमाविश्य, अत एव परप्रमात्रेकरूपत्वात् शुद्धो निखिलमध्वमण्डलं तर्पयेत् -- स्वात्मसंवित्तिरसनिर्भरतया साक्षात्कुर्यादित्यर्थः | अनेन च प्रतिनियतकल्पितबाह्यार्चनीयाद्यभावं कटाक्षयता योगाङ्गानुपयोगित्वानन्तर्येण उद्दिष्टस्य कल्पितार्चाद्यनादरस्य अवकाशो दत्तः || ११५ || ननु स्नानादेरपि भेदसंधायकत्वान्मायीयामर्शरूपत्वमेव युक्तं कथमस्य शुद्धविद्यापरामर्शकत्वमुक्तम् ? -- इत्याशङ्क्याह -- उल्लासिबोधहुतभुग्दग्धविश्वेन्धनोदिते || ११६ || सितभस्मनि देहस्य मज्जनं स्नानमुच्यते |
SK
बाह्योन्मुखत्वादुल्लसनशीलः प्रमाणात्मा योऽसौ बोधः स एव प्रकाशत्वादग्निः, तेन दग्धं -- स्वात्मसात्कृतं यन्नीलसुखादिरूपं विश्वं तदेव दाह्यत्वादिन्धनं, तत उदितेतदुभयसङ्घट्टनेन लब्धप्रतिष्ठाने, सिते -- निरुपाधिनि, भस्मनि -- अपरिमितप्रमात्रेकरूपे परे तत्त्वे, देहादेः, -- परिमितस्य प्रमातुर्यन्मज्जनं -- स्वगुणीभावेन तत्रैव मुख्यतया समावेशः, तन्नाम स्नानमुच्यते, न पुनर्बाह्यजलादिरूपम्, इति अर्थसामर्थ्यलभ्यो व्यतिरेकः, यदभिप्रायेणैव ᳚यदि मुक्तिर्जलस्नानान्मत्स्यानां सा न किं भवेत् |᳚ इत्यादि अन्यत्रोक्तम् || ११६ || ननु बाह्येन स्नानेन नित्यादौ कर्मण्यधिकारो देहादौ च शुद्धिर्भवेत्, अस्य पुनरेवं विधस्य किं फलम् ? -- इत्याशङ्क्याह -- इत्थं च विहितस्नानस्तर्पितानन्तदेवतः || ११७ || ततोऽपि देहारम्भीणि तत्त्वानि परिशोधयेत् | ननु शर्वं खल्विदं ब्रह्म᳚ इत्यादिनीत्या सर्वमिदं -- देहादि परब्रह्मात्मकशिवस्वभावमेव, इति का नाम तत्र शुद्धिरशुद्धिर्वा ? - - इत्याशङ्क्याह -- शिवात्मकेष्वप्येतेषु बुद्धिर्या व्यतिरेकिणी || ४-११८ || सैवाशुद्धिः पराख्याता शुद्धिस्तद्धीविमर्दनम् | व्यतिरेकिणी -- भेदात्मा, तद्धीः-व्यतिरेकिणीबुद्धिः, यदुक्तम् -- ᳚अशुद्धं नास्ति तत्किचित्सर्वं तत्र व्यवस्थितम् | यत्तेन रहितं किञ्चिदशुद्धं तेन जायते ||᳚ इति || ११८ || ततश्च किम्, -- इत्याह � एवं स्वदेहं बोधैकपात्रं गलितभेदकम् || ४-११९ || पश्यन्संवित्तिमात्रत्वे स्वतन्त्रे तिष्ठति प्रभुः | एवम् � उक्तेन प्रकारेण अनात्मन्यात्माभिमानन्यक्कारेण, आत्मनि स्वतन्त्रतादिधर्मप्रयोजकीकारेण, संविन्मात्ररूपतां साक्षात्कुर्यादित्यर्थः || ११९ || एव स्नानादेरकल्पितत्त्वमभिधायेतरेषामपि अर्चनाङ्गानां दर्शयति - - यत्किञ्चिन्मानसाह्लादि यत्र क्वापीन्द्रियस्थितौ || ४-१२० || योज्यते ब्रह्यसद्धाम्नि पूजोपकरणं हि तत् |
SK
यस्यं कस्याञ्चिदिन्द्रियवृत्तौ, किञ्चित् अनियतं, मानसाह्लादि वस्तु, ब्रह्मरूपे शोभने सूर्याचन्द्रादिविलक्षणे तेजसि, योज्यते -- बहीरूपतापरित्यागेन संविन्मात्रात्मना साक्षात्क्रियते, तन्नाम पूजोपकरणं -- तावतैव पूजायाः परिपूर्तिर्भवेदित्यर्थः || १२० || ननु अश्रुतपूर्वमिदं पूजालक्षणम् ? -- इत्याशङ्क्याह -- पूजा नाम विभिन्नस्य भावौघस्यापि सङ्गतिः || ४-१२१ || स्वतन्त्रविमलानन्तभैरवीयचिदात्मना | विभिन्नस्यापि रूपरसादेर्भावौघस्य, देशकालाद्यनवच्छिन्ननिरुपाधिपूर्णपरसंविदात्मना, या सङ्गतिः -- एकीकारः, सा पूजेति संभाव्यते -- नैतदस्मदुपज्ञमेवेत्यर्थः, यदुक्तम् -- ᳚पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा | निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल्लयः ||᳚ इति | एवं होमादीनामपि पूजोपकरणत्वादेव ईदृक् रूपमर्थसिद्धम्, इति न साक्षादुक्तम्, तच्च प्राक् बहूक्तं, वक्ष्यते च, इति -- तत एवावधार्यम् || १२१ || ननु कथमन्यस्य अन्येनैकीकार एव भवेत् यदपि पूजादेर्लक्षणतयोच्येत ? इत्याशङ्क्याह -- तथाहि संविदेवेयमन्तर्बाह्योभयात्मना || ४-१२२ || स्वातन्त्र्याद्वर्तमानैव परामर्शस्वरूपिणी | इयम्-उक्तस्वरूपा, संविदेव हि स्वस्वातन्त्र्यादन्तर्बहीरूपतया परिस्फुरति, इति -- तदतिरिक्तमन्यत् नाम न किञ्चिद्वस्तुतोऽस्ति, इति युक्तमुक्तं -- ᳚विभिन्नस्यापि भावौघस्य चिदात्मनैकीकार᳚ इति, ननु कथं नामास्या बहीरूपतावभासनेऽपि अहंपरामर्शात्मकं स्वं रूपं स्यात्? इत्याशङ्क्येक्तं ᳚परामर्शस्वरूपिण्येव᳚ इति, एवमप्यस्या न स्वरूपात्प्रच्याव इत्यर्थः || १२२ || इयदेव हि नामास्याः परामर्शरूपत्वं -- यद्विश्वरूपतया प्रस्फुरति, इत्यत आह -- स च द्वादशधा तत्र सर्वमन्तर्भवेद्यतः || ४-१२३ || सूर्य एव हि सोमात्मा स च विश्वमयः स्थितः | कलाद्वादशकात्मैव तत्संवित्परमार्थतः || ४-१२४ ||
SK
सः -- परप्रमातृरूपः परामर्शश्च द्वादशधा विश्वरूपतयोल्लसेदित्यर्थः, अनेन कल्पितार्चाद्यनादरानन्तर्येण अनुजोद्देशोद्दिष्टः संविच्चक्रोदयोऽप्युपक्रान्तः | ननु विश्वस्य प्रमातृप्रमेयादिरूपत्वेनापि बहुधात्वमस्ति, इति कथं -- द्वादशकलात्मसूर्यरूपेण प्रमाणमात्रेणैवोपात्तेन तत्संग्रहः सिद्ध्येत् ? इत्याशङ्क्याह -- ᳚तत्रेत्यादि᳚ सर्वमिति -- प्रमातृप्रमेयादि, इह खलु ᳚योऽयं वह्निः परं तत्त्वं प्रमातुरिदमेव तत् |᳚ इत्याद्युक्त्या परसंविदात्मा प्रमाता तावत् भेदेन्धनदाहकत्वादग्निः, स एव च अहंप्रतीतिमात्रस्वरूपः स्वस्वातन्त्र्यात् बुद्धीन्द्रियाद्यात्मना द्वादशधा प्रस्फुरन् प्रमाणदशामधिशयानः शूर्यः᳚ इत्युच्यते, प्रमाणं च प्रमातुरेव बहिर्मुखं रूपम्, इति -- तत्र प्रमाता तावदन्तर्भावमियात्, प्रमाणं नाम च ज्ञानं, तच्चोपाश्रयशून्यं न क्कचिदपि संभवति -- इत्यवश्यमेव मेयाक्षेपेण वर्तते, इति, तदपि अत्रान्तर्भूतमेव, तदाह शूर्य एव᳚ इत्यादि, शोमः᳚ प्रमेयम्, यदुक्तं प्राक् शूर्यं प्रमाणमित्याहुः सोमं मेयं प्रचक्षते | अन्योन्यमवियुक्तौ तौ स्वतन्त्रावप्युभौ स्थितौ ||᳚ इति | विश्वमय इति विश्वस्य मेयात्मकत्वात्, अतश्च सर्वस्यैव अत्रान्तर्भावात् विश्वरूपतया प्रस्फुरन्त्याः परस्याः संविदो द्वादशात्मकत्वमेव वस्तुतः संभवति, इति युक्तंमुक्तं श च द्वादशधा इति, अत एवाह -- ᳚कलाद्वादशकेत्यादि᳚ कलाः -- प्रमात्रादिरूपाः अंशाः || १२३-१२४ || ननु अस्यास्त्रयोदशात्मकत्वमपि अन्यैरुक्तं, तत् कथमिह द्वादशात्मकत्वमेवोच्यते ? -- इत्याशङ्क्याह � सा च मातरि विज्ञाने माने करणगोचरे | मेये चतुर्विधं भाति रूपमाश्रित्य सर्वदा || ४-१२५ ||
SK
विज्ञाने इति मानविशेषणम्, अन्येषां हि बोधाबोधरूपमपि प्रमाणलक्षणं विवक्षितं, करणगोचरे इति -- प्रमाणविषयतां प्राप्ते इत्यर्थः, अन्यथा हि मेयं नाम स्वात्मनि न किञ्चिदेवेति भावः, चो हेतौ, यतः, सा -- पारमार्थिकी संवित् सृष्टिस्थितिसंहारानाख्यत्वेन चतुर्विधं रूपमाश्रित्य प्रमातरि प्रमाणे प्रमेये च सर्वदा भाति -- अविच्छिन्नत्वेन एकैकत्र चातुरात्म्ये द्वादशधा प्रस्फुरतीत्यर्थः, यदुक्तम् -- शोमार्कानलदीप्तीनां रूपं यः सर्वगोऽमितः | सृष्ट्यादिक्रमयोगेन व्यक्तां नयति स्फुटम् || इति | तथा ᳚यस्यां यस्यां बोधभूमौ समाविशति तत्त्ववित् | तस्यां तन्मयतां प्राप्य चातुरात्म्यं प्रपद्यते ||᳚ इति | ननु अस्याः परस्याः संविदोऽन्यैरनयैव भङ्ग्या त्रयोदशात्मकत्वमुक्तं, यदुक्तम् -- ᳚एकं स्वरूपरूपं हि मानमेयप्रमातृताः | सर्गावतारसंहारमयीराक्रम्य वर्तते || स्वस्वरूपानुगुण्येन प्रत्येकं कलनावशात् | सृष्टिस्थित्यादिभिर्भेदैश्चतुर्धा ता अपि स्थिताः || कालग्रासान्तमुदयाच्चतुर्धा विभवो हि यः | तस्य विश्रान्तिरेकैव ततो देव्यस्त्रयोदश || अनाख्यचक्रे प्राधान्यात्पूजनीयतया स्थिताः |᳚
SK
इति | इह च द्वादशात्मकत्वमुच्यते इति किमेतत्? इति न जानीमः, अत्रोच्यते -- इह खलु परैव संवित् स्वस्वातन्त्र्यात् यथोक्तयुक्त्या द्वादशधा प्रस्फुरिता इति तावदविवादः, तत्र यद्यसौ परैव संवित् तेभ्यो द्वादशभ्यो रूपेभ्यः पृथगवभासेत तदस्या भवेत्त्रयोदशत्वम्, अन्यथा तत् कस्यान्यस्य त्रयोदशत्वं स्यात्, संविदो हि अतिरिकेद्वादश रूपाणि असंविद्रूपत्वात् न चकास्युरेव, इति -- निराभासा संविदेकैव अवशिष्येत, इति को नाम त्रयोदशरूपत्वस्यावकाशः | अथातिरेकेऽपि संवित् सामान्यन्यायेन द्वादशापि रूपाण्यनुयन्ती स्वरूपेणापि अवभासते, इति स्थितमेव अस्यास्त्रयोदशत्वम् इति चेत्, असदेतत्, सामान्यं हि विशेषेभ्यो भिन्नं सत् ताननुगच्छति, येनगौर्गौरिति अभिन्नस्तदनुगतः प्रत्ययः स्यात्, संविदि पुनस्तानि तान्यपि रूपाणि प्रस्फुरन्ति, नातिरिच्यन्ते, तथात्वे हि तेषामवभास एव न स्यात्, तेन यन्नाम तानि तानि रूपाणि प्रस्फुरन्ति तदेवोच्यते शंविदवभासते᳚ इति, तत् किं केनानुगम्यते -- दृष्टान्तस्य वैषम्यात्, यत्किञ्चिदेतत्, यदभिप्रयेणैव -- ᳚भावा भान्तीति संवित्तावात्मा भातीति भासते | आत्मा भातीति संवित्तौ भावा भान्तीति भासते ||᳚
SK
इत्यादि अन्यत्रोक्तम् | अथ परैवेयं संवित् द्वादशकात्मनारूषितेन रूपेण प्रस्फुरेत्, शुद्धसंविन्मात्रात्मना त्रयोदशेन चानारूषितेन ? इति चेत्, नैतत्, इह हि -- निरुपाधिरनारूषिता निराभासा परैव शुद्धा संविदस्ति इति नः सिद्धान्तः, सा च स्वस्वातन्त्र्यमाहात्म्यात् स्वंरूपं गोपयित्वा विश्वरूपतामवभासयन्ती द्वादशकात्मनारूषितेनैव रूपेण प्रस्फुरेत्, नहि तदानीं तदतिरिक्तमनारूषितमपि अस्या रूपं भायात्, तथात्वे हि आरूषितमेव रूपं न चकास्यादित्युक्तं बहुशः | ननु विश्वमयत्वेऽप्यस्या विश्वोत्तीर्णमनारूषितं रूपं संभवेत्, अन्यथा हि अस्या जाड्यमापतेत्, नन्वस्य प्रश्नस्य क इवाशयः -- किं विश्वमयत्वेऽप्यस्या गोशृङ्गन्यायेन तदरिक्तिमनारूषितं रूपं संभवेदिति, उत स्वस्वातन्त्र्याद्विश्वरूपतामवभासयन्त्या अप्यस्याः संविदद्वयात्मनः स्वस्वरूपात् प्रच्यावो न जायते इति ? तत्राद्यः पक्षो दूषितप्रायः -- नहि वैश्वरूप्यमतिक्रम्य अस्याः स्फुरत्तैव स्यादित्युक्तमसकृत्, वक्ष्यति च -- ङ खल्वेष शिवः शान्तो नाम कश्चिद्विभेदवान् | सर्वेतराध्वव्यावृत्तो घटतुल्योऽस्ति कुत्रचित् || महाप्रकाशरूपा हि येयं संविद्विजृम्भते | स शिवः शिवतैवास्य वैश्वरूप्यावभासिता || तथाभासनयोगोऽतः स्वरसेनास्य जृम्भते |᳚ इति | अनेनैवाभिप्रायेण श्रीतपस्विनापि ᳚परतरतयादिरूपं यद्यत्कलयामि तत्तदधरं ते | अधरतरापि न कलना सा काचिद्यत्र न स्थितास्यभितः ||᳚
SK
इत्याद्युक्तम् | द्वितीयस्मिन् पक्षे पुनर्ववस्तुतोऽनारूषितत्त्वेऽपि स्वस्वातन्त्र्योल्लासितेन तेन तेनारूषितेनैव रूपेण अस्या अवभासः, इति पुनरपि नास्यास्त्रयोदशरूपत्वं, तद्धि अयःशलाकाकल्पतया स्पर्धाबन्धेन परिस्फुरतोरनयोः स्यात्, यथाहि -- नटस्तत्तद्भूमिकावलम्बनवेलायां वस्तुतो नटत्वेऽपि तत्तद्रूपतयैवावभासते, न पुनः नटत्वेनापि, तथैव च संविदपि वस्तुतः शुद्धसंविन्मात्रत्वेऽपि विश्वमयतायां द्वादशकात्मनैव रूपेणावभासते, न पुनः शुद्धसंविन्मात्रात्मना त्रयोदशेनापि रूपेणावभासते, इति यथोक्तमेव युक्तम्, तस्माद्विश्वरूपतामवभासयन्ती संवित् द्वादशधैव प्रस्फुरेत्, अन्यथा पुनरेकैवेति पर्यवसितम् | यदागमः -- ᳚पृथक्पृथक्स्वकार्यस्था यावत्तिष्ठन्ति देवताः | तावत्क्रमकृता संज्ञा विद्यते नान्यथा पुनः || एकीभावतया सर्वमनाख्यायां यदा स्थितम् | अक्रमस्तु तदा ज्ञेयः प्रोत्तीर्णः सर्वतो यतः ||᳚ इति | एवं चैकत्वमपि द्वयप्रतिपक्षभूतम्, इति तद्विशेषणत्वमपि न सहते, इति संविदेवेति स्यात्, एवकारश्च अन्ययोगव्यवच्छेदकः, अन्यश्च कश्चिदपीह नास्ति, इति किं व्यवच्छिन्द्यात्, इति तद्योगमप्यसहमाना संविदित्येव स्यात्, संविच्च संवेद्यनिष्ठा, संवेद्यं नाम च स्वात्मातिरिक्तं न किञ्चिदप्यस्ति इति, तथा व्यपदेशमप्यलभमाना सर्वत्रैवाव्यपदेश्येति अनामकेति अनाख्येति चोद्धोष्यते, इत्यलं बहुना | ननु यद्येवं तत् कथमन्यत्र अस्यास्त्रयोदशरूपत्वमुक्तं युज्यते, नहि तन्नोपपद्यते इति वक्तुं शक्यम् -- आगमात्मनो निर्बाधस्य प्रमाणस्य भावात्, तत् कथमेतत् प्रतिसमाधीयते इत्युच्यताम् ? उच्यते � इह भेदाधिवासिता मायाप्रमातारस्तावदुपदेश्याः, इति समानार्थचर्यावत् तदानुगुण्येन अत्र प्रवृत्त उपदेशः सुखेन प्ररोहमियात् इति विकल्पबलोपनतं भेदमाश्रित्य संविदस्त्रयोदशरूपत्वमुक्तम्, इह पुनर्वास्तवमभेदमेवावलम्ब्य एवमुपदेशः, इति सर्वमेव प्रतिसमाहितम् | ननु अस्याः परस्याः संविदः
SK
᳚तस्य शक्तय एताश्च तिस्रो भान्ति परादिकाः | सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः ||᳚ इत्याद्युक्त्या प्रागन्यथा द्वादशधोदय उक्तः, इह चान्यथा, इति पूर्वापरव्याहतत्त्वमापतेत्, इति किमेतत् ? अत्रोच्यते -- इह यावता हि परस्याः संविदो द्वादशधोदयो विवक्षितः स चैवमस्तु, अनेवं वा -- प्रक्रियाया विशेषे तस्याविशेषात्, एतदभिप्रायगर्भीकारेणैव च अन्यत्राप्यनेनैव ᳚ता एताश्चतस्रः शक्तयः स्वातन्त्र्यात्प्रत्येकं त्रिधैव वर्तन्ते -- सृष्टौ स्थितौ संहारे च इति द्वादश भवन्ति |᳚ इत्याद्युक्त्या प्रक्रियान्तरेण अस्या द्वादशधोदय उक्तः, इति सर्वं निरवद्यम् || १२५ || नन्वेवंरूपत्वेनावभासमानाया अस्या वैशिष्ट्यमवश्याश्रयणीयम्, अन्यथानैक्यमेव न स्यात् तत् पुनः कुत्र कीदृक् ? -- इत्याशङ्क्याह -- शुद्धसंविन्मयी प्राच्ये ज्ञाने शब्दनरूपिणी | करणे ग्रहणाकारा यतः श्रीयोगसञ्चरे || ४-१२६ || इयं खलु परा संवित् प्राच्ये -- प्रमातरि कथञ्चित्सङ्कोचोल्लासेऽपि प्रमातृरूपत्वात् शुद्धा, न पुनः प्रमाणादिवदशुद्धैव येयं संवित् संकुचितमविकल्पकं ज्ञानं तत्स्वभावा, बुद्धीन्द्रियाद्यात्मकरणलक्षणे प्रमाणे च शब्दनं -- विकल्पस्तद्रूपिणी भेदामर्शमयीत्यर्थः, अत एव ᳚ग्रहणाकारा᳚ इत्युक्तम्, ग्रहणं हि ग्राह्यग्राहकोभयापेक्षकम् | ननु प्रमाणदशायामपि परैव संवित् ग्रहणाकारा वर्तते, इत्यत्र किं प्रमाणम् ? इत्याशङ्क्याह -- यत इत्यादि ᳚यतः श्रीयोगसञ्चरे᳚ इति वक्ष्यमाणमुक्तमिति शेषः || १२६ || तदेवाह -- ये चक्षुर्मण्डले श्वेते प्रत्यक्षे परमेश्वरि | षोडशारं द्वादशारं तत्रस्थं चक्रमुत्तमम् || ४-१२७ ||
SK
ये इति द्विवचनं गोलकद्वयापेक्षया, एवमुत्तरत्रापि ज्ञेयम्, ये श्वेते चक्षुर्मण्डले दृश्येते दृश्यमाने न तु रक्तमण्डलवद्गुप्ते तत्र विश्वक्रोडीकारादुत्तमं प्रमेयप्रमाणप्रमातृप्रमाणां सर्वसर्वात्मकत्वात् षोडशारं चक्रं तिष्ठति � तद्रूपतया प्रस्फुरतीत्यर्थः, यदभिप्रायेणैव श्रीक्रमसद्भावभट्टारके᳚अनाख्यचक्रे षोडशैव देव्यः पूज्यत्वेनोक्ताः᳚, यदुक्तं तत्र ᳚षोडशातः समासेन शृणुष्वेकमना हर |᳚ इत्यादि | शा सत्ता लीयते यस्याः काली द्व्यष्टकला स्मृता ||᳚ इत्यन्तम् | अत्र चानाख्यत्वेऽपि सृष्ट्यात्मनः प्रमेयस्य प्राधान्येनावस्थितेः सोमरूपत्वात् श्वेतत्वम् || १२७ || ननु यद्यत्र षोडशारं चक्रमवस्थितं, तत् कथं द्वादशारमपि ? इत्याशङ्क्याह -- प्रतिवारणवद्रक्ते तद्बहिर्ये तदुच्यते | द्वितीयं मघ्यगे ये ते कृष्णश्वेते च मण्डले || ४-१२८ || तदन्तर्ये स्थिते शुद्धे भिन्नाञ्जनसमप्रभे | चतुर्दले तु ते ज्ञेये अग्नीषोमात्मकेप्रिये || ४-१२९ || मिथुनत्वे स्थिते ये च चक्रे द्वे परमेश्वरि | संमिलनोन्मीलनं ते अन्योन्यं विदधातके || ४-१३० || तद्बहिः -- श्वेतमण्डलबाह्ये, प्रतिवारणवत् -- प्रतिमण्डलन्यायेन, रक्ते ये मण्डले स्थिते, तत् द्वितीयं -- श्रीसृष्टिकाल्यादिरूपं द्वादशारं चक्रमुच्यते, अनाख्यत्वेऽपि अत्र स्थित्यात्मनः प्रमाणस्य प्राधान्याद्रक्तत्वं, तद्धि प्रमेयोपरञ्जितमेव भवेत्, अतश्च प्रमेयस्य तदभेदेनैवावस्थानात् तद्गतस्य रूपचतुष्कस्य पृथगभावात् द्वादशारत्वम्, अत एवास्य प्रमेयान्तःकाराद्बहिरप्यवस्थानं, मध्यगे -- श्वेतकृष्णमण्डलान्तर्गते, अत एव अन्तर्वर्तिना कृष्णेन मण्डलेन बहिष्ठेन च श्वेतेनाच्छुरणात् श्वेतकष्णे धूसरप्राये ये पुनर्मण्डले तत्प्रमाणस्य प्रमातरि विश्रान्तेः तद्गतस्यापि रूपचतुष्कस्य पृथगभावात् संहारात्मप्रमातृप्रधानं ᳚भैरवत्रयं, देवीत्रयं, कुलेश्वरः, कुलेश्वरी᳚ चेत्यष्टारं चक्रमुच्यते -- इत्यर्थावसेयम्, यद्वक्ष्यति -- ᳚षोडशद्वादशाराभ्यामष्टारेष्वथ सर्वशः |
SK
इति, तस्य -- श्वेतस्यापि मण्डलस्यान्तर् अतीव कृष्णे -- कुमारिकाशब्दव्यपदेश्ये, ये मण्डले स्थिते ते पुनः प्रमातुरपि प्रमायां विश्रान्तेः चतुर्दले ज्ञेये -- देवीत्रयं श्रीमातृसद्भावश्चेति, प्रमामात्रसतत्त्वानाख्यचक्ररूपतया प्रस्फुरत इत्यर्थः, अत एव चात्र सर्वसंहारकत्वात् निर्विभागतया तमोरूपत्वात् कार्ष्ण्यं, तदेवं चक्षुषि प्रतिनियतावयवरूपत्वेन सृष्ट्यादिक्रमचतुष्टयमवस्थितमित्युक्तम्, तत्रापि अस्य यथासंभवं स्वरूपं निरूपयति ᳚अग्नीषोम᳚ इत्यादिना, एतच्चक्रचतुष्टयस्य मघ्यादग्नीषोमात्मकेप्रमातृप्रमेयमये षोडशाराष्टारे भोक्तृभोग्योभयात्मकतया मिथुनरूपे ये द्वे चक्रे स्थिते ते परस्परं संमीलनोन्मीलने विदधाते एव -- विदधातके, सङ्कोचविकासौ कुर्वाते इत्यर्थः, प्रमाता हि स्वात्मनि संमीलनमादधानः प्रमेयमुन्मीलयेत् प्रमेयं च संमीलयन् स्वात्मानमुन्मीलयेत्, एवं प्रमेयमपीत्यन्योन्यशब्दार्थः, एतदेव च सृष्टिसंहाररूपत्वमुच्यते, प्रमेयं च नाम प्रमाणोपारोहमन्तरेण प्रमातरि विश्रान्तिमेव न यायात्, इत्यत्र स्थितेरपि अर्थाक्षिप्तत्वम्, प्रमातापि प्रमेयौन्मुख्येन ᳚ज्ञातोऽयं मयार्थः᳚ इति संतोषोत्पादान्निराकाड्क्षः सन् स्वात्मनि विश्रान्तिमासादयेत् -- इति प्रमातृप्रमेयसङ्घट्टादपि पूर्णायाः परस्याः संविदः समुल्लासः स्यात् || १२८-१३० || अत आह -- यथा योनिश्च लिङ्गं च संयोगात्स्रवतोऽमृतम् | तथामृताग्निसंयोगाद् द्रवतस्ते न संशयः || ४-१३१ || ᳚भोगसाधनसंसिद्ध्यै भोगेच्छोरस्य मन्त्रराट् | जगदुत्पादयामास मायामाविश्य शक्तिभिः ||᳚ इत्यादिनीत्या परस्परावेशलक्षणं संयोगमासाद्य योनिः -- माया, लिङ्गं च -- ᳚लिङ्गशब्देन विद्वांसः सृष्टिसंहारकारणम् | लयादागमनाच्चाहुर्भावानां पदमव्ययम् ||᳚
SK
इत्याद्युक्त्या सृष्ट्यादिपञ्चविधकृत्यकारी परमेश्वरः, तौ यथा स्रवतः -- सृष्टिं कुरुतः, तथा ते -- षोडशाराष्टारे, निःसंशयममृतस्य सोमात्मनः प्रमेयस्य, अग्नेश्च प्रमातुः परस्परौन्मुख्यलक्षणात् संयोगादमृतम् � अकालकलितत्वात् अनादिनिधनं परं संवित्तत्वं द्रवतः -- तद्रूपतया प्रसरत इत्यर्थः, संविदेव हि आश्यानीभूता नीलादिरूपतामधिशयाना प्रमाणोपारोहद्वारेण तद्रूपतां विलाप्य प्रमातरि विश्रान्तिमुपगच्छन्ती स्वेन प्रमात्रेकात्मना रूपेण प्रस्फुरतीत्याशयः || १३१ || ननु मातृमेयाद्यात्मा मायीयोऽयं व्यवहारः, तत् कथं तस्मिन् सत्यप्येवं भवेत् ? -- इत्याशङ्क्याह -- तच्चक्रपीडनाद्रात्रौ ज्योतिर्भात्यर्कसोमगम् | तां दृष्ट्वा परमां ज्योत्स्नां कालज्ञानं प्रवर्तते || ४-१३२ || तयोः -- प्रमातृप्रमेयात्मकयोः षोडशाराष्टारयोश्चक्रयोः, पीडनात् -- सारार्थाकर्षणलक्षणान्निष्पीडनात्, रात्रौ -- मायायामपि सत्याम्, अर्कसोमगं प्रमाणप्रमेयाभ्यामप्यतिक्रान्तं, प्रमातृलक्षणं ज्योतिरवभासत एव, यत् प्रमाणाद्यपेक्षया परमं विश्वाप्यायकारित्वादिना ज्योत्स्नाशब्दव्यपदेश्यं, दषृट्वा � स्वात्मरूपतया निभाल्य ᳚भैरवरूपी कालः सृजति जगत्कारणादिकीटान्तम् |᳚ इत्यादिनीत्या सृष्ट्याद्यात्मनो विश्वस्य कलनात्कालः -- परप्रमात्रेकरूपः पूर्णः प्रकाशः, तस्य ज्ञानं प्रवर्तते -- स एव तद्रूपतयावभासत इत्यर्थः || १३२ || ननु यद्येवं तत्, विश्वस्यावभास एव न स्यात् ? -- इत्याशङ्क्याह -- सहस्रारं भवेच्चकंर ताभ्यामुपरि संस्थितम् | ताभ्यां -- षोडशाराष्टराभ्यामेव चक्राभ्यां सकाशात् सहस्रारं चक्रं -- भूतभावभुवनादिरूपतयानन्तभेदं विश्वम्, उपरि संस्थितं भवेत् -- व्यतिरिक्तायमानत्वेऽपि स्वसंलग्नमेव प्रस्फुरेदित्यर्थः || ततोऽपि विश्वलक्षणाच्चक्रादवान्तराणि चक्राणि उद्भूतानि, इत्याह -- ततश्चक्रात्समुद्भूतं ब्रह्माण्डं तदुदाहृतम् || ४-१३३ || ब्रह्माण्डमिति -- प्रकृत्यण्डादीनामप्युपलक्षणम् || १३३ ||
SK
ननु कथमनेकप्रकारमियदविच्छेदेनैव विश्वं प्रस्फुरेत् ? -- इत्याशङ्क्याह -- तत्रस्थां मुञ्चते धारां सोमो ह्यग्निप्रदीपितः | यतः क्रियाशक्त्यात्मा सोमः परप्रमात्रेकरूपेणाग्निना स्वस्वातन्त्र्यात् प्रदीपितो -- बाह्यौन्मुख्ये समुत्तेजितः सन्, तत्रस्थां -- विश्वत्र वर्तमानां, धारां मुञ्चति -- प्रमातृप्रमेयादिरूपत्वेनाविच्छिन्नेन प्रवाहेण परिस्फुरति, येनायम् इयान्विश्वस्फारः || न केवलमयं साधारणमेव विश्वं सृजति, यावदसाधारणमपि, इत्याह -- सृजतीत्थं जगत्सर्वमात्मन्यात्मन्यनन्तकम् || ४-१३४ || आत्मन्यात्मनि इति वीप्सायांप्रत्यात्ममित्यर्थः || १३४ || तच्च कथम् ? इत्याह -- षोडशद्वादशाराभ्यामष्टारेष्वथ सर्वशः | एवं क्रमेण सर्वत्र चक्रेष्वमृतमुत्तमम् || ४-१३५ || सोमः स्रवति यावच्च पञ्चानां चक्रपद्धतिः | अष्टारेष्विति बहुवचनादाद्यर्थो लभ्यते, इति चतुरारस्यापि आक्षेपात् षोडशद्वादशाराभ्यां सह सर्वत्र सर्वेषु चतुर्ष्वप्येतेषु, चक्रेषु, एवम् -- उक्तयुक्त्या अवरोहात्मना क्रमेण, सर्वशः -- सर्वप्रकारम्, उत्तमममृतं -- बहीरूपतात्मकं निजं सारं, क्रियाशक्त्यात्मा सोमः, अर्थात् तावत् स्रवति यावत् पञ्चप्रकारा बुद्धीन्द्रियादीनां चतुर्णां चक्राणां पद्धतिः -- परिपाटी, पृथ्वीतत्त्वपर्यन्तं प्रमेयप्रकृतिना स्थूलेन रूपेण प्रस्फुरेदित्यर्थः | परमेश्वरो हि स्वस्वातन्त्र्याद्विश्वरूपतामवबिभासयिषुः संकुचितप्रमातृत्वाद्याभासनक्रमेण प्रमाणप्रमेयादिरूपतामधिशयानः कार्यकारणात्मपाञ्चभौतिकशरीरादिरूपतामवभासयति, इति भावः || १३५ || न केवलमयं जगत् सृजत्येव यावत्संहरत्यपि, इत्याह -- तत्पुनः पिबति प्रीत्या हंसो हंस इति स्फुरन् || ४-१३६ || सकृद्यस्य तु संश्रुत्या पुण्यपापैर्न लिप्यते | अहं परप्रमातृरूपोऽपि सविश्वस्फारः, सविश्वस्फारोऽपि वा अहमेव, इत्यकृत्रिमेण सृष्टिसंहारकारिणा स्वभावभूतेन विमर्शेन सातत्येन प्रवृत्तत्वादविच्छिन्नतया प्रस्फुरन् ᳚परमात्मा शिवो हंसः.....................|᳚
SK
इत्याद्युक्त्या ᳚हंसो᳚ हानसमादानधर्मा अग्निशब्दव्यपदिष्टः परप्रमाता, तत् -- प्रमातृप्रमेयाद्यात्मकं विश्वं, पुनः -- सृष्ट्याद्युत्तरकालं, प्रीतिः -- आनन्दः स्वातन्त्र्यं, तया पिबति � स्वात्मसात्करोति संहरतीत्यर्थः, यस्य परमात्मनो हंसस्य, सकृत -- एकवारमपि, संश्रुत्या -- साक्षात्कारेण, अर्थात् सर्वो जनः पुण्यपापैर्न लिप्यते -- स्वकृतैरपि शुभाशुभैः कर्मभिर्भोगं दातुं न स्पृश्यते, अपि तु अपवृज्यत एवेत्यर्थः, तेन एतत्साक्षात्कारभाज एव जनस्य कार्तार्थ्यं, नेतरस्य, इत्युक्तं स्यात्, यदुक्तम् -- ᳚अकृतार्थो नरस्तावद्यावद्धंसं न विन्दति |᳚ इति || १३६ || एवमस्य प्रसङ्गापतितं संहारकारित्वमभिधाय प्रकृतमेवानुबध्नाति -- पञ्चारे सविकारोऽथ भूत्वा सोमस्रुतामृतात् || ४-१३७ || धावति त्रिरसाराणि गुह्यचक्राण्यसौ विभुः | अथासौ -- हंसशब्दव्यपदेश्यो, विभुः -- परमात्मा शिवः स्वस्वातन्त्र्याद् गृहीतसङ्कोचः, पञ्चारे -- पाञ्चभौतिकेशरीरे, समनन्तरोक्तयुक्त्या सोमस्रुतेनामृतेनाप्यायितत्वात् सविकारो भूत्वा, जन्मादिविकारयोगाद्वर्धमानः सन्, त्रिरसाराणि ᳚अम्बुवाहा वहेद्वामा मध्यमा शुक्रवाहिनी | दक्षस्था रक्तवाहा च........................ ||᳚ इत्याद्युक्त्या त्रयोऽम्बुप्रभृतयो रसाः, तत्संख्या नाडिरूपाश्चारा येषां तथाविधानि, यद्वा वियुतत्त्वे त्र्यराणि, यामलत्वे षडराणि, अप्रकाशत्वाद् गुह्यानि, अत एव रहस्यरूपाणि जन्मस्थानप्रभृतीनि चक्राणि, धावति -- जगत्सिसृक्षया तदौन्मुख्येन प्रवर्तते इत्यर्थः || १३७ || ननु यदि नामायं जगत्सिसृक्षुः, तत्तदौन्मुख्येन प्रवृत्त्यास्य कोऽर्थः ? इत्याशङ्क्याह -- यतो जातं जगल्लीनं यत्र च स्वकलीलया || ४-१३८ ||
SK
यतो -- येभ्यो गुह्यचक्रेभ्य एव, स्वकलीलया -- स्वस्वातन्त्र्यात्, जगज्जातम् -- अतिरेकायमाणतयोल्लसितं, तथात्वेऽपि अवभासनान्यथानुपपत्त्या तदनतिरिक्तमेवेत्युक्तम् -- ᳚यत्रैव च लीनमिति᳚ एवमेतदेव जगत्सिसृक्षोः परमात्मनः परमेश्वरस्य परं कारणम्, इति तात्पर्यार्थः || १३८ || न केवलमेषां बाह्यौन्मुख्य एव साधकतमत्वं, यावत् स्वात्मविश्रान्तावपि, इत्याह -- तत्रानन्दश्च सर्वस्य ब्रह्मचारी च तत्परः | तत्र सिद्धिश्च मुक्तिश्च समं संप्राप्यते द्वयम् || ४-१३९ || सर्वस्येतिंपामरादेरपीत्यर्थः, तत्परः -- तदेकपरायणः, पुनः ज्ञानी योगी वा ब्रह्मचारी ᳚आनन्दो ब्रह्मणो रूपम् ......................|᳚ इत्याद्युक्त्या आनन्दरूपं ब्रह्माचरति � परब्रह्मैकात्म्येन प्रस्फुरतीत्यर्थः, अत एव सिद्धिः -- एहिक्यानन्दरूपा, मुक्तिः -- ब्रह्मचारित्वरूपा, सममिति आनन्दस्यैव ब्रह्मरूपत्वात् || १३९ || ननु एवं विश्वसृष्टिरेकस्मादेव अस्माज्जन्मस्थानाख्याद् गुह्यचक्रात् अस्य सिद्ध्येत्, इति किमर्थं ᳚गुह्यचक्राणि᳚ इति वहुवचनेनायं निर्देशः? इत्याशङ्क्याह -- अत ऊर्ध्वं पुनर्याति यावद् ब्रह्मात्मकं पदम् | अग्नीषोमौ समौ तत्र सृज्येते चात्मनात्मनि || १४० || अतो -- यथोक्ताज्जन्मस्थानाख्याद्गह्यचक्रात्, पुनरूर्ध्वं -- ब्रह्यात्मकं परं पदं द्वादशान्तावस्थितं, शक्तिव्यापिनीसमनात्मकारात्रययोगि विसर्गशब्दव्यपदेश्यं गुह्यचक्रं यावत्, याति तदौन्मुख्येन प्रर्वतते इत्यर्थः, चो हेतौ, तत्र हि आत्मना हंसशब्दव्यपदेश्येन परमेश्वरेणात्मनि -- स्वभित्तौ, अहन्तेदन्तास्वभावौ प्रमातृप्रमेयात्मानावग्नीषोमौ समौ सृज्येते, शामानधिकरण्यं हि सद्विद्याहमिदंधियोः ||᳚ इत्यादिन्यायेन तुल्यकक्ष्यतयावभास्येते इत्यर्थः || १४० || यदा पुनः सोमात्मनः प्रमेयस्योद्रेकस्तदा विश्वोल्लास इत्याह -- तत्रस्थस्तापितः सोमो द्वेधा जङ्घे व्यवस्थितः |
SK
तत्र -- साम्यावस्थायामवस्थितः, प्रमेयात्मा सोमो, द्वेधा भासितो -- भेदेन समुत्तेजितः सन्, जङ्घे व्यवस्थितः -- पृथ्वीतत्त्वपर्यन्तेन विश्वात्मना स्थूलेन रूपेणोल्लसित इत्यर्थः || कथं चैतत् ? इत्याह -- अधस्तं पादयेदग्निरमृतं स्रवति क्षणात् || ४-१४१ || गुल्फजान्वादिषु व्यक्तं कुटिलार्कप्रदीपिता | सा शक्तिस्तापिता भूयः पञ्चारादिक्रमं सृजेत् || ४-१४२ || अध इति -- बहीरूपतायाम्, तमिति -- सोमम्, अमृतं स्रवतीति -- अर्थादग्नितापितः सोमो, यतः सा प्राणकुण्डलिनीरूपत्वात् कुटिला सोमात्मिका क्रियारूपा शक्तिः, अर्केण प्रमात्रैव प्रमाणदशामधिशयानेन, प्रदीपिता बहिरुल्लिलासयिषया प्रबोधिता, अत एव भूयः -- पुनस्तापिता बहीरूपत्वेनैवोत्तेजिता सती, पञ्चारादिक्रमं सृजेत् -- पञ्चभूतात्म विश्वमवभासयेदित्यर्थः || १४२ || एतदिन्द्रियान्तरेष्वपि अतिदिशति -- एवं श्रोत्रेऽपि विज्ञेयं यावत्पादान्तगोचरम् | पादान्तगोचरमित्यनेन कर्मेन्द्रियाणामप्येवंरूपत्वम्, इत्युक्तम् || न केवलं प्रमाणरूपेष्विन्द्रियेष्वेवंरूपत्वमस्ति यावत्प्रमेयात्मसु पञ्चभूतेष्वपि, इत्याह -- पादाङ्गुष्ठात्समारभ्य यावद् ब्रह्माण्डदर्शनम् || १४३ || पादाङ्गुष्ठादारभ्य ब्रह्मरन्ध्रन्तं पञ्चभूतात्मकेशरीरेऽप्येवं विज्ञेयम्, इति प्राच्येन संबन्धः | एवं मेयदशायामपि परैव संविद् ग्राह्याकारा वर्तते इत्यत्रापि एतदेव प्रमाणम् इत्यर्थसिद्धम्, अत एवोत्तरत्र संवादयिष्यते || १४३ || नन्विन्द्रियादीनामेवंरूपत्वेनाभिहितेन कोऽर्थः ? -- इत्याशङ्क्याह -- इत्यजानन्नैव योगी जानन्विश्वप्रभुर्भवेत् | ज्वलन्निवासौ ब्रह्माद्यैर्दृश्यते परमेश्वरः || ४-१४४ || ब्रह्माद्यैरिति -- एतत्स्फार एव हि सर्वलोक इति भावः, अत्र चान्तरान्तरावस्थितोऽपि चर्याक्रमः सुस्पष्टत्वात् रहस्यत्वाच्च न तथा वितानितः -- इति स्वयमेवावधार्यम् || १४४ || एवं संवादिते आगमे तात्पर्यार्थं व्याचष्टे -- अत्र तात्पर्यतः प्रोक्तमक्षे क्रमचतुष्टयम् | एकैकत्र यतस्तेन द्वादशात्मकतोदिता || ४-१४५ ||
SK
एकैकत्राक्षे इति -- समस्तेष्विन्द्रियेषु इति यावत्, तेन सृष्ट्यादिक्रमचतुष्टयस्य मातृमानमेयगतत्त्वेन प्रत्येकमवस्थानेन हेतुना, यतो -- यस्मात्, एकैकत्राक्षे द्वादशात्मकतोदिता � एक मेकमिन्द्रियं द्वादशमरीचिरूपमित्यर्थः || १४५ || ननु तात्पर्यार्थव्याख्यानमेव कस्मात्कृतम् ? -- इत्याशङ्क्याह -- न व्याख्यातं तु निर्भज्य यतोऽतिसरहस्यकम् | न केवलं परैव संवित् प्रमाणदशायां ग्रहणाकारा यावत्प्रमेयदशायामपि ग्राह्याकारा, इत्याह -- मेयेऽपि देवी तिष्ठन्ती मासराश्यादिरूपिणी || ४-१४६ || आदिशब्देन द्वादशसंख्यावच्छिन्नानां स्वरादीनां ग्रहणम्, यदुक्तम् -- ᳚द्वादशैव स्वराः प्रोक्ता नपंसकविवर्जिताः | आदित्या द्वादश प्रोक्ता द्वादशारव्यवस्थिताः || मासा द्वादश इत्युक्ताः कला द्वादशसंज्ञिताः |᳚ इति, तन्मेयदशायामपि अस्या द्वादशात्मकत्वमेव, इति भावः || १४६ || एवमेकैवेयं परा संवित् तत्तद्रूपतया सर्वत्रावभासते, इत्याह -- अत एषा स्थिता संविदन्तर्बाह्योभयात्मना | स्वयं निर्भास्य तत्रान्यद्भासयन्तीव भासते || ४-१४७ || अतो -- यथोपपादितात् सर्वत्रैव अवस्थानाद्धेतोः, एषा -- प्रत्यवमर्शात्मा परा संवित्, स्वमाहात्म्यादन्तर्बाह्योभयात्मना प्रमातृप्रमेयादिरूपतया स्वात्मानमवभास्य स्थितापि तत्र अन्यद्व्यतिरिक्तमिवावभासयन्ती, भासते -- सर्वस्यानुभवसिद्धोऽयमर्थ इत्यर्थः, यद्यपि वस्तुतः परा संविदेवावभासते तदतिरेकेहि न किञ्चिद्भायात् तथाप्यामुखे तत्स्वातन्त्र्यादेव तदतिरिक्तमिव प्रमात्रादि अवभासते येनास्या द्वादशधात्वमुल्लसितम् || १४७ || तदेव चेदानीं विभज्य दर्शयन्, क्रमनयसोदरतामस्य दर्शनस्यावेदयति -- ततश्च प्रागियं शुद्धा तथाभासनसोत्सुका | सृष्टिं कलयते देवी तन्नाम्नागम उच्यते || ४-१४८ ||
SK
ततः -- परस्या एव संविदस्तत्तत्प्रमात्रादिरूपत्वेन परिस्फुरणाद्धेतोः, -- तथात्वेन स्फुरणात्प्राक्, शुद्धा -- प्रमात्रादिनियतरूपानारूषिता इयं ᳚श्रीकालसङ्कर्षिणी᳚ -- शब्दव्यपदेश्या परा संविद्देवी कालकलनाकलङ्कग्रसिष्णुतया द्योतमाना, तथा स्वात्मानतिरेकेऽपि अतिरेकायमाणतया यत् स्वातन्त्र्याद्भासनं, तत्र सोत्सुका सिसृक्षायोगिनी सती, सृष्टिं कलयते -- बहिरासूत्रितप्रायं भावजातं विमृशति, अत एव तन्नाम्ना-अन्वर्थेन ᳚श्रीसृष्टिकाली᳚ शब्देन, आगमे -- श्रीपञ्चशतिकादौ, उच्यते -- अभिधीयते इत्यर्थः, यदुक्तं तत्र ᳚मन्त्रोदया व्योमरूपा व्योमस्था व्योमवर्जिता | सर्वा सर्वविनिर्मुक्ता विश्वस्मिन्सृष्टिनाशिनी || या कला विश्वविभवा सृष्ट्यर्थकरणक्षमा | यदन्तः शान्तिमायाति सृष्टिकालीति सा स्मृता ||᳚ इति | श्रीक्रमस्तोत्रेऽपि -- ᳚कौलार्णवानन्दघनोर्मिरूपामुन्मेषमेषोभयभाजमन्तः | निलीयते नीलकुलालये या तां सृष्टिकालीं सततं नमामि ||᳚ इति || १४८ || एवं प्रमेयगतं सृष्टिस्वरूपमभिधाय, स्थितिस्वरूपमप्यभिधातुमाह � तथा भासितवस्त्वंशरञ्जनां सा बहिर्मुखी | स्ववृत्तिचक्रेण समं ततोऽपि कलयन्त्यलम् || ४-१४९ || स्थितिरेषैव भावस्य..................... | ततः -- श्रीसृष्टिकाल्युदयानन्तरमपि, सा -- परैव प्रमात्रेकरूपा संवित्, बहिर्मुखी � स्वस्वातन्त्र्यात् प्रमाणदशामधिशयाना, स्वमात्मीयं यच्चक्षुरादीन्द्रियसंबन्धि रूपाद्यालोचनात्मकं वृत्तिचक्रं, तेन समं तथातिरेकायमाणतया भासितं यद्विश्वलक्षणं वस्तु, तस्य ये ᳚रूपादिपञ्चवर्गोऽयं विश्वमेतावदेव हि |᳚
SK
इत्याद्युक्त्या रूपाद्या अंशाः तत्कर्तृकां रञ्जनाम्, अलम्-अत्यर्थम्, आत्मविषयतयापि कलयन्ती, अविकल्पवृत्त्या जानाना सती ᳚मानं हि नाम मेयोपरञ्जितमेव भवेत्᳚ इत्यविवादः, मानात्मना च बहिर्मुखेन रूपेण मातैव स्फुरेदिति, तस्यापि तद्द्वारेणैव मेयोपरञ्जनं, न पुनः -- साक्षादिति भावः, एषैव रूपादेर्भावजातस्य स्थितः -- अवभासनात्मिका व्यक्तिरित्यर्थः, मेयं हि नाम स्वात्मनि न किञ्चिदिति प्रमाणोपारोहेणैव अस्य स्थितिः स्यात् इति -- एवकाराशयः, एवंविधा चेयं मेये एवासक्त्या रक्तकालीशब्दव्यपदेश्या, इति अत्रापि तन्नाम्ना आगम उच्यते, इति प्राच्येन संबन्धः, तदुक्तं श्रीपञ्चशतिके -- ङ चैषा चक्षुषा ग्राह्या न च सर्वेन्द्रियस्थिता | निर्गुणा निरहङ्कारा रञ्जयेद्विश्वमण्डलम् || सा कला तु यदुत्पन्ना सा ज्ञेया रक्तकालिका |᳚ इति | श्रीक्रमस्तोत्रेऽपि -- ᳚महाविनोदार्पितमातृचक्रवीरेन्द्रकासृग्रसपानसक्ताम् | रक्तीकृतां च प्रलयात्यये तां नमामि विश्वाकृतिरक्तकालीम् ||᳚ इति | ननु सर्वत्रैवान्यत्र श्रीसृष्टिकाल्यनन्तरं श्रीस्थितिकाल्या अभिधानम्, यदुक्तं श्रीसार्धशतिके ᳚द्वादशारं महाचक्रं रश्मिरूपं प्रकीर्तितम् | नाम चैव प्रवक्ष्यामि रश्मीनां तु यदास्थितम् || सृष्टिः स्थितिश्च संहारो रक्तकाली तथैव च | स्वकाली यमकाली च मृत्युकाली तथैव च || रुद्रश्च परमार्कश्च मार्तण्डश्च ततः परः | कालाग्निरुद्रकाली च महाकाल्यभिधा पुनः || महाभैरवशब्दश्च घोराशब्दस्ततः परः | चण्डकालीपदं चान्ते त्रयोदश उदाहृताः ||᳚
SK
इति, तत्कथमिह तदनन्तरं श्रीरक्तकाल्यादिनिर्देशः कृतः, एवं हि आगमविरोधः स्यात् ? सत्यं -- किं तु आगमे संवित्क्रमगोपनार्थम् आलूनविशीर्णतयैवमभिधानं, यथा श्रीपञ्चशतिकेस्थितिक्रमेऽपि, यदेव चानुसृत्य महागुरुभिः पूजाक्रमः प्रक्रान्तः, इह तु पूजाक्रमगोपनाय स्वशय्ययैव स्थापनं, यदधिकृत्य संवित्क्रमः परिनिष्ठितिमियात्, अत एवागमैकशरणतया प्रवृत्तेऽपि श्रीक्रमस्तोत्रे ग्रन्थकृतां संवित्क्रममेव प्रदर्शयितुं तद्विवृतौ श्रीसृष्टिकाल्यादिस्तुतिश्लोकव्याख्यानानन्तरं श्रीरक्तकाल्या भगवत्याः अतः परं स्थितिः संभाव्यते इत्याद्युक्तम्, इह पुनः संवित्क्रमाभिप्रायेणैव मुक्तकण्ठमेवमभिधानम्, इति न कश्चिद्दोषः || १४९ || एवं प्रमेयगतं स्थितिस्वरूपमभिधाय संहारस्वरूपमप्यभिधातुमाह -- .....................टामन्तर्मुखतारसात् | संजिहीर्षुः स्थितेर्नाशं कलयन्ती निरुच्यते || ४-१५० || सैव परा संविद्देवी, तां -- प्रमाणरूपां रक्त्यपरपर्यायां स्थितिम्, अन्तः प्रमात्रेकात्मतायामौन्मुख्ये ᳚ज्ञातो मयार्थः᳚ इति स्वात्मविश्रान्तिचमत्कारात्मनो रसात्, संहर्तुमिच्छुः -- आत्मसाच्चिकीर्षुः, अत एव श्थितेर्नाशं कलयन्ती निरुच्यते᳚ श्रीक्रमभट्टारकादौ स्थितिनाशकालीशब्दव्यपदेश्येत्यर्थः, यदुक्तं तत्र -- ᳚वाजिद्वयस्वीकृतवातचक्र प्रकान्तसङ्घट्टगमागमस्थाम् | शुचिर्ययास्तं गमितोऽर्चिषा तां शान्तां नमामि स्थितिनाशकालीम् ||᳚ इति | श्रीपञ्चशतिकेऽपि -- ᳚हासिनी पौद्गली येयं बालाग्रशतकल्पना | कल्पते सर्वदेहस्था स्थितिः सर्गस्य कारिणी || यदुत्पन्ना तु सा देवी पुनस्तत्रैव लीयते | तां विद्धि देवदेवेश स्थितिकालीं महेश्वर ||᳚ इति || १५० || एवं प्रमेयगतं संहारस्वरूपं निरूप्य, अनाख्यस्वरूपमप्याह -- ततोऽपि संहाररसे पूर्णे विघ्नकरीं स्वयम् | शङ्का यमात्मिकां भागे सूते संहरतेऽपि च || ४-१५१ ||
SK
ततः -- श्रीस्थितिनाशकाल्युदयानन्तरमपि, एवमुक्तरूपस्य संहारस्य प्रमातृतात्मनि रसे, पूर्णे -- परां धारामधिरूढे, सैव परिगृहीतपरिमितप्रमातृभूमिका संवित्, स्वयं -- स्वस्वातन्त्र्यमहिम्ना, बहिरौन्मुख्यात्मन्येकस्मिन् भागे, यमयति ᳚इदं कार्यमिदं न᳚ इति नियताववस्थापयति, इति यमो -- विकल्पः, तदनुप्राणिता येयं शङ्का -- शास्त्राणामानन्त्यात् कार्याकार्यविभागस्य विपर्ययेणापि दर्शनात् किङ्कर्तव्यतया मूढतात्मा विचिकित्सा, अत एव ᳚............................शङ्काया विघ्नभाजनम् |᳚ इत्याद्युक्त्या स्वस्वरूपानुप्रवेशे विघ्नकरी, तां सूते -- प्रमेयकक्ष्यापर्यन्तमुल्लासयति, अन्तर् -- औन्मुख्यात्मनि द्वितीयस्मिन्भागे च, संहरते -- विगलितनियतिसङ्कोचविधिनिषेधाविषयपरसंविदात्मना स्वेनैव विकस्वरेण रूपेण परिस्फुरति ᳚रासभ्या मूत्रकाले तु योनिः प्रस्पन्दते यथा |᳚ इत्याद्युक्तवदनवरतमेव सङ्कोचविकासमयतया अनियतेन रूपेणाख्यातुमशक्या, इत्येवं यमं कलयन्ती ᳚यमकालीति᳚ निरुच्यते, इति पूर्ववदाक्षेपः, तदुक्तं श्रीपञ्चशतिके -- ᳚यमरूपस्वरूपस्था रूपातीतस्वरूपगा | सा कला लीयते यस्यां यमकाली तु सा स्मृता ||᳚ इति | श्रीक्रमस्तोत्रेऽपि -- शर्वार्थसङ्कर्षणसंयमस्य यमस्य यन्तुर्जगतो यमाय | वपुर्महाग्रासविलासरागात् सङ्कर्षयन्तीं प्रणमामि कालीम् ||᳚ इति | एवं प्रमेयांशग्रासरसिकं सृष्ट्यादिदेवीचतुष्टयं निरूपितम् || १५१ || इदानीं तु प्रमाणांशभक्षणप्रवणं संहारादिदेवीचतुष्कं निरूपयति -- संहृत्य शङ्कां शङ्क्यार्थवर्जं वा भावमण्डले | संहृतिं कलयत्येव स्वात्मवह्नौ विलापनात् || ४-१५२ ||
SK
एवं यमात्मिकां शङ्कां संहृत्य शङ्कास्थानं वा शङ्क्यान् -- कार्याकार्यरूपानर्थान्, परिहृत्य -- उपसंहृत्य, तन्नान्तरीयकवृत्त्या सा परैव संविद्देवी स्वात्मवह्निसात्कारलक्षणाद्विलापनाद्धेतोः, निखिले भावमण्डले, संहृतिं कलयत्येव, येन -- श्रीपञ्चशतिकादौ संहारकालीशब्दव्यपदेश्या, इति तन्नाम्ना आगम उच्यते, इति दूरेण संबन्धः, तदुक्तं तत्र -- ᳚चण्डकाली शुद्धवर्णा यामृतग्रसनोद्यता | भावाभावविनिर्मुक्ता विश्वसंहाररूपिणी || यत्र सा याति विलयं सा च संहारकालिका |᳚ इति | श्रीक्रमस्तोत्रेऽपि -- ᳚उन्मन्यनन्ता निखिलार्थगर्भा या भावसंहारनिमेषमेति | सदोदिता सत्युदयाय शून्यां संहारकाली मुदितां नमामि ||᳚ इति || १५२ || कीदृक् चात्रोपसंह्रियमाणानां भावानां कलनम् ? -- इत्याशङ्क्याह -- विलापनात्मिकां तां च भावसंहृतिमात्मनि | आमृशत्येव येनैषा मया ग्रस्तमिति स्फुरेत् || ४-१५३ || स्वयमेव हि नाम भावानां संविद्विलीनतोत्पादनात्मा संहारो � यद्बहीरूपताविलापनेन प्रमाणदशामधिशयानायां संवित्तावभेदेन परामर्शनं, यत एवेयं संवित् ᳚मयैतदर्थजातमात्मनि अभेदेनावभासितम्᳚ इत्येवं स्फुरत्तारूपा भवेत्, इत्युक्तं -- ᳚येनैषा मया ग्रस्तमिति स्फुरेदिति᳚ इयमेव हि संविदः प्रमाणरूपतायां सृष्टिः -- यत् तत्तदर्थारूषिता चकास्यादिति || १५३ || एवं प्रमाणगतं सृष्टिस्वरूपमभिधाय, स्थितिस्वरूपमप्यभिधातुमाह -- संहार्योपाधिरेतस्याः स्वस्वभावो हि संविदः | निरुपाधिनि संशुद्धे संविद्रूपेऽस्तमीयते || ४-१५४ ||
SK
एवं संहरणीये संहृतेऽपि, एतस्याः -- प्रमाणमय्या निखिलार्थसंहर्तृत्वात् मृत्युरूपायाः संविदः, संहारणीयकार्याकार्याद्यर्थविच्छिन्नो, यः स्वः सर्वत एवासाधारणः स्वभावः, स स्वांशसंविद्विश्रान्तिमन्तरेण स्थ्तिमेव न यायात्, इति प्रमेयमिव प्रमाणे निरुपाधिनि -- तत्तदर्थानारूषिते, अत एवं संशुद्धे -- प्रमात्रात्मनि, संविद्रूपे ᳚अस्तमीयते᳚ -- तत्रैव रक्तिरूपां विश्रान्ंतिं गच्छेत् येनास्याः संहर्तृत्वमेव व्यवतिष्ठते, इत्येवं मृत्युरूपाया अपि संविदः कलनात् ᳚मृत्युकालिति᳚ सर्वत्रेयमुद्धोष्यते, इत्यर्थत एतल्लब्धम्, तदुक्तं श्रीपञ्चशतिके -- ᳚ओमित्येषा कुलेशानी मृत्युकालान्तपातिनी | मृत्युकालकला यस्याः प्रविशेद्विग्रहं शिव || तदा सा मृत्युकालीति ज्ञेया गिरिसुताधव |᳚ इति | श्रीक्रमस्तोत्रेऽपि -- ᳚ममेत्यहङ्कारकलाकलापविस्फारहर्षोद्धतगर्वमृत्युः | ग्रस्तो यया घस्मरसंविदं तां नमाम्यकालोदितमृत्युकालीम् ||᳚ इति || १५४ || एवं प्रमाणगतं स्थितिस्वरूपमभिधाय संहारस्वरूपमप्याह -- विलापितेऽपि भावौघे कञ्चिद्भावं तदैव सा | आश्यानयेद्य एवास्ते शङ्कासंस्काररूपकः || ४-१५५ || शुभाशुभतया सोऽयं सोष्यते फलसंपदम् | एवं हि निरुपाधिशुद्धप्रमातृसंविद्विश्रान्त्या संहृतेऽपि कार्यरूपे भावौघे, सा परा संवित् तद्विलापसमनन्तरमेव कञ्चित् प्रतिनियतरूपं भावमाश्यानयेत् -- विलापितत्वेऽपि कथञ्चिद्भेदावभासात्मतया घनतामापादयेत्, य एवाश्यानीभूतः संस्काररूपतया वर्तमानः ᳚शङ्का आस्ते � तन्निमित्ततया अवतिष्ठते इत्यर्थः, यद्वशादेव विचित्राचारप्रदर्शकेष्वनन्तेषु शास्त्रेषु कार्याकार्यविभागनिश्चयमलभमानस्य प्रमातुः ᳚अधर्मं धर्ममिति या बुद्ध्यते तमसावृता |᳚
SK
इत्यादिदृशा यदेव यथा हृदये प्ररोहति तदेव तस्य तथा फलेत् -- इति स एवायं शङ्कानिमित्तं कार्याकार्यलक्षणप्रतिनियतभावाहितः संस्कारः प्रबुद्धः सन् शुभाशुभरूपां फलसंपदं जनयिष्यते, येनायं लोकः स्वर्निरयादिपात्रतया सुखदुःखादिभोक्तृतामियात् || १५५ || नन्वेवं शङ्कमानः प्रमाता कार्याकार्ययोर्निश्चयानुत्पादात् न किञ्चिदप्यनुतिष्ठेत्, इति किमस्य शुभाशुभतया फलेत् ? -- इत्याशङ्क्याह -- पूर्वं हि भोगात्पश्वाद्वा शङ्केयं व्यवतिष्ठते || ४-१५६ || इह सर्वस्य लोकस्य नानात्वेन कार्याकार्ययोः श्रुतेः सुखदुःखाद्यनुभवात् पूर्वमेव तावच्छङ्का जायते ᳚किमनुष्ठेयं मया᳚ इति, स्वसंस्कारप्रबोधतारतम्यात्तु कुत्रचिदेव कस्यचित्तन्निश्चयः समुत्पद्यते, तदनुष्ठानादस्य शुभाशुभफलभागितया सुखदुःखादौ भोक्तृता स्यात्, तदनन्तरं च दुःखाद्युपघातादेवमस्य शङ्का संप्रजायते ᳚यदकार्यमेव नूनं मया कार्यतयानुष्ठितं, येनैवमस्मि दुःखपराभूतो जातः᳚ इति, ततश्च पूर्वं कृतमपि ब्रह्मणालम्भनादि तत्कालमेवेयं शङ्का शिथिलयति, येन तदनुशयवशाच्छुभमशुभं वा फलं दातुं न शक्नुयात् || १५६ || तदेवाह -- अन्यदाश्यानितमपि तदैव द्रावयेदियम् | प्रायश्चित्तादिकर्मभ्यो ब्रह्माहत्यादिकर्मवत् || ४-१५७ || न च मितः प्रमाता तदीयो वा चैतसिकः शङ्काख्यो धर्म एवं विधातुमुत्सहते, इत्याह -- रोधनाद् द्रावणाद्रूपमित्थं कलयते चितिः | एवं संस्कारात्मनावस्थितस्यापि अर्थस्य, रोधनाद् द्रावणाच्च इयं परा संविदुक्तेन प्रकारेण रूपं कलयन्ती श्रीक्रमसद्भावट्टारके᳚रुद्रकालीति᳚ व्यपदिष्टेत्यर्थः᳚ तदुक्तं तत्र -- ᳚इदं सर्वमसर्वं यत्संहारान्तं तु नित्यशः | कुटिलेक्षणरेखान्तग्रस्तमस्तमितं च यत् || ततो बोधरसाविष्टा स्पन्दमाना निराकुला | दीधितीनां सहस्रं यद्वमेच्च पिबते भृशम् || सा कला लीयते यस्यं रुद्रकालीति सा स्मृता |᳚
SK
इति, श्रीपञ्चशतिकादौ पुनरियं ᳚भद्रकाली᳚ इत्युक्ता, इति नाम्नि भेदेऽपि वस्तुनि न कश्चिद्भेदो, यद्रुद्धं वार्थं द्रावयेद्भिन्नं वा, इत्युभयथापि अर्थानुगम इति, तदुक्तं तत्र -- ᳚गमागमसुगम्यस्था महाबोधावलोकिनी | मायामलविनिर्मुक्ता विज्ञानामृतनन्दिनी || सर्वलोकस्य कल्याणी रुद्रा रुद्र सुखप्रदा | यत्रैव शाम्यति कला रुद्रकालीति सा स्मृता || भेदस्य द्रावणाद्भद्रा भद्रसिद्धिकरीति या | इति | श्रीक्रमस्तोत्रेऽपि -- ᳚विश्वं महाकल्पविरामकल्पभवान्तभीमभ्रुकुटिभ्रमन्त्या | याश्नात्यनन्तप्रभवार्चिषा तां नमामि भद्रां शुभभद्रकालीम् ||᳚ इति || न केवलमियमाश्यानीभावेन रुद्धमेवार्थं द्रावयेत्, यावद् द्रावितमपि रोधयेत्, इत्याह -- तदपि द्रावयेदेव तदप्याश्यानयेदथ || ४-१५८ || एवं चात्र प्रमाणरूपत्वेऽपि तत्तदर्थसंहारकारिणः प्रमातुरेव प्राधान्यं, येन ग्रन्थकृतो रुद्रशब्दे भरः || १५८ || एवं प्रमाणगतं संहारस्वरूपं निरूप्य, अनाख्यस्वरूपमपि निरूपयितुमाह -- इत्थं भोग्येऽपि संभुक्ते सति तत्करणान्यपि | संहरन्ती कलयते द्वादशैवाहमात्मनि || ४-१५९ || एवमुपसंहृतेऽपि अर्थे तत्परिच्छेदकारीणि द्वादशापि करणानि संहरन्ती संवित् अहमात्मन्यहङ्कारे, कलयते -- तत्रैव लीनतां नयेदित्यर्थः || १५९ || ननु कान्येतानि द्वादश करणानि, किं चैषां करणत्वम् ? -- इत्याशङ्क्याह -- कर्मबुद्ध्यक्षवर्गो हि बुद्ध्यन्तो द्वादशात्मकः | प्रकाशकत्वात्सूर्यात्मा भिन्ने वस्तुनि जृम्भते || ४-१६० || बुद्ध्यन्त इति -- मनसा सह, प्रकाशकत्वादिति -- अर्थालोचनात्मनः, सूर्यात्मेति -- शूर्यं प्रमाणमित्याहुः.............|᳚ इत्याद्युक्त्या प्रमाणरूप इत्यर्थः, भिन्नं प्रमेयं परिच्छिन्दच्च प्रमाणमुच्यते इत्युक्तं ᳚भिन्ने वस्तुनि जृम्भते᳚ इति || १६० || नन्वहङ्कारस्यापि अन्तःकरणान्तःपातः समस्ति, इति कथं ᳚द्वादशैव करणानि᳚ इत्युक्तम् ? -- इत्याशङ्क्याह -- अहङ्कारस्तु करणमभिमानैकसाधनम् |
SK
अविच्छिन्नपरामर्शी लीयते तेन तत्र सः || ४-१६१ || अहङ्कारः पुनः ᳚अहं शृणोम्यहं पश्यामि᳚ इत्याद्यभिमानैकसाधनत्वात् अविच्छिन्नतया प्रमात्रभेदेन विशेषानुपादानात् सर्वस्यार्थस्य परामर्शनशीलः करणम्, इत्यसौ द्वादशविधोऽपि करणवर्गः तत्राहङ्कारे लीयते -- तदेकविश्रान्तो भवेदित्यर्थः || १६१ || ननु करणत्वाविशेषेऽपि बुद्ध्यादिरेव करणवर्गः कथङ्कारमहङ्कारे लीयते ? इत्याशङ्कां दृष्टान्तोपदर्शनेनोपशमयति -- यथाहि खङ्गपाशादेः करणस्य विभेदिनः | अभेदिनि स्वहस्तादौ लयस्ताद्वदयं विधिः || ४-१६२ || इह करणस्य व्यतिरिक्तत्वे किं प्रेयत्वं सर्वस्यापि तथा प्रसंङ्गः, प्रेर्यत्वे च पेर्रणक्रियायां कर्मत्वं स्यात्, न करणत्वम्, न च अकरणिका क्रिया भवेत्, इति तत्रापि करणान्तरेण भाव्यम्, इत्यनवस्था स्यात्, तद्व्यतिरिक्तस्यापि खड्गादेः करणस्य यथा कर्त्रभिन्नहस्ताद्यभेदभावनया करणत्वं घटते, तथा अहमंशस्पर्शितया प्रमात्रभेदिन्यहङ्कारेऽपि बुद्ध्यादेर्लयात्, इति युक्तमुक्तम् -- अहङ्कारे बुद्धिर्लीयते इति || १६२ || एतदेव प्रकृते विश्रमयति -- तेनेन्द्रियौघमार्तण्डमण्डलं कलयेत्स्वयम् | संविद्देवी स्वतन्त्रत्वात्कल्पितेऽहंकृतात्मनि || ४-१६३ || तेन -- उक्तेन क्रमेण, स्वस्वातन्त्र्यात् स्वयं, न तु परिमितप्रमात्रादिव्यवधानेन, संविद्देवी द्वादशसंख्यावच्छिन्नं बुद्ध्यादीन्द्रियमार्तण्डमण्डलं देहादावभिनिवेशात्कल्पितेऽहंकृतात्मनि कलयेत् -- तदेकमयतामापादयेत्, येन श्रीक्रमस्तोत्रादौ इयं ᳚मार्तण्डकाली᳚ इत्युच्यते, तदुक्तं तत्र -- ᳚मार्तण्डमापीतपतङ्गचक्रं पतङ्गवत्कालकलेन्धनाय | करोति या विश्वरसान्तकां तां मार्तण्डकालीं सततं प्रणौमि ||᳚ इति | श्रीपञ्चशतिकेऽपि -- ᳚शब्दब्रह्मपदातीता षटित्रशान्तनवान्तगा | ब्रह्माण्डखण्डादुत्तीर्णा मार्तण्डी मूर्तिरव्यया || सा कला लीयते यस्यां मार्तण्डी कालिकोच्यते |᳚ इति ||१६३||
SK
एवं प्रमाणांशभक्षणप्रवणं देवीचतुष्टयं निरूपितम्, इदानीं प्रमात्रंशचर्वणाचतुरं देवीचतुष्टयं निरूपयति -- स एव परमादित्यः पूर्णकल्पस्त्रयोदशः | करणत्वात्प्रयात्येव कर्तरि प्रलयं स्फुटम् || ४-१६४ || एवमहङ्कारनाम्नि परमादित्ये संहृतेषु बुद्ध्यादिषु द्वादशसु करणेषु स एवाहङ्कारनामा त्रयोदशः प्रमातृतोन्मुखीभावात् पूर्णकल्पः परमादित्यः करणत्वात् कर्तर्येव स्फुटं प्रलयं प्रयाति -- तदेकरूपतामासादयेदित्यर्थः || १६४ || ननु द्विविधः कर्ता -- संकुचितश्चसंकुचितश्च, तदयं कुत्र तावत् प्रलयं प्रयाति ? -- इत्याशङ्क्याह -- कर्ता च द्विविधः प्रोक्तः कल्पिताकल्पितात्मकः | कल्पितो देहबुद्ध्यादिव्यवच्छेदेन चर्चितः || ४-१६५ || कालाग्निरुद्रसंज्ञास्य शास्त्रेषु परिभाषिता | कालो व्यवच्छित्तद्युक्तो वह्निर्भोक्ता यतः स्मृतः || ४-१६६ || संसाराकॢप्तिकॢप्तिभ्यांरोधनाद् द्रावणात्प्रभुः | अनिवृत्तपशूभावस्तत्राहंकृत्प्रलीयते || ४-१६७ || अस्येति -- देहबुद्ध्यादिव्यवच्छेदभाजः कल्पितस्य प्रमातुः, किं च अस्याः संज्ञायाः प्रवृत्तावत्र निमित्तम् ? -- इत्याशङ्क्याह -- ᳚काल᳚ इत्यादि, व्यवच्छित् -- व्यवच्छेदः, तेन कालेन तद्व्यवच्छेदेन युक्तोऽग्निर्भोक्ता, स एव च किञ्चिद्भोग्यसंस्कारस्याप्रबोधात् ᳚ममैतन्मा भूत्᳚ इति रुणद्धि, प्रबोधाच्च किञ्चिद् द्रावयति, भोगेन स्वात्मसात्करोति रुद्रः, अत एव भोग्यौन्मुख्यात् अनिवृत्तपशूभावः -- प्रोन्मिषदभिलाषात्मकाणवमलयोग इत्यर्थः, तत्रेति -- कालाग्निरुद्रसंज्ञे संकुचिते प्रमातरि, एवमहङ्कारनाम्नः परमार्कस्य परिमिते कालाग्निरुद्रसंज्ञे प्रमातरि, एवंकलनात् श्रीक्रमस्तोत्रादावियं ᳚परमार्ककाली᳚ इत्युच्यते, तदुक्तं तत्र -- ᳚अस्तोदितद्वादशभानुभाजि यस्यां गता भर्गशिखा शिखेव | प्रशान्तधाम्नि द्युतिनाशमेति तां नौम्यनन्तं परमार्ककालीम् ||᳚ इति | श्रीपञ्चशतिकेऽपि -- ᳚एकाकिनी चैकवीरा सुसूक्ष्मा सूक्ष्मवर्जिता | परमात्मपदावस्था परापरस्वरूपिणी ||
SK
सा कला पररूपेण यत्र संलीयते शिव | सा कला परमार्केति ज्ञेया भस्माङ्गभूषण ||᳚ इति || १६५-१६७ || एवं प्रमातृगतं सृष्टिस्वरूपमभिधाय स्थितिस्वरूपमप्याह -- सोऽपि कल्पितवृत्तित्वाद्विश्वाभेदैकशालिनि | विकासिनि महाकाले लीयतेऽहमिदंमये || ४-१६८ || एवमहङ्कारे ग्रस्ते, तद्ग्रसितुः -- कालाग्निरुद्रशब्दव्यपदेश्यस्य कल्पितस्यापि प्रमातुर्ग्रासेन भाव्यम्, इति सोऽपि कल्पितः प्रमाता, कल्पितत्वादेव अहमिदंमये, अत एवाहन्तायामिदन्ताया विश्रान्तेः विश्वाभेदैकशालिनि, अत एव विकासिनि ᳚भैरवरूपी कालः सृजति जगत्कारणादि कीटान्तम् ||᳚ इत्याद्युक्तस्वरूपे महाकाले लीयते � परस्मिन्नकल्पिते पूर्णाहंविमर्शमये प्रमातरि विश्रान्तो भवेदित्येवं परिमितप्रमात्रात्मनः कालाग्निरुद्रस्य कलनात् ᳚कालाग्निरुद्रकालीति᳚ श्रीपञ्चशतिकादावियम् उच्यते, यदुक्तं � ᳚वरदा विश्वरूपा च गुणातीता परा कला | अघोषा सास्वरारावा कालाग्निग्रसनोद्यता || निरामया निराकारा यस्यां सा शाम्यति स्फुटम् | कालाग्निरुद्रकालीति सा ज्ञेयामरवन्दित ||᳚ इति | श्रीक्रमस्तोत्रेऽपि -- ᳚कालक्रमाक्रान्तदिनेशचक्रक्रोडीकृतान्ताग्निकलाप उग्रः | कालाग्निरुद्रो लयमेति यस्यां तां नौमि कालानलरुद्रकालीम् ||᳚ इति || १६८ || एवं प्रमातृगतं स्थितिस्वरूपमभिधाय संहारस्वरूपमप्याह -- एतस्यां स्वात्मसंवित्ताविदं सर्वमहं विभुः | इति प्रविकसद्रूपा संवित्तिरवभासते || ४-१६९ || ततोऽन्तः स्थितसर्वात्मभावभोगोपरागिणी | परिपूर्णापि संवित्तिरकुले धाम्नि लीयते || ४-१७० || एवं कालाग्निरुद्र रूपे परिमिते प्रमातरि ग्रस्ते परिपूर्णाहंभावमयस्य परप्रमातुर्महाकालस्यापि स्वविमर्शविश्रान्त्यात्मना ग्रासेन भवितव्यम्, इत्येतस्यामुक्तस्वरूपायां स्वात्मनो महाकालस्य संबन्धिन्यां संवित्तौ शर्वो ममायं विभवः .......................|᳚
SK
इत्याद्युक्तवत् सर्वमिदमहमेवेति विभुः -- विश्वाभेदैकशालिनी, अत एव प्रविकसद्रूपा या परिमितप्रमातृचर्वणाचतुरा संवित्तिः -- अनुभवविशेषोऽवभासते, सापि ततः एवमवभासानन्तरम्, अन्तः -- प्रमात्रैकात्म्येन वर्तमानानाम्, अत एव सर्वसर्वात्मकत्वेन सर्वात्मरूपाणां भावानां यो भोगो -- हठपाकक्रमेणालंग्रासयुक्त्या स्वात्मसात्कारः, तेनोपरागिणी -- संहर्त्रेकस्वभावा, अत एव परिपूर्णा, अत एव कञ्चिदपि प्रति भोग्यत्वागमनाद्विदिक्रियाकर्तृतारूपा वित्तिः, ᳚अव्ययमकुलममेयं विगलितसदसद्विवेककल्लोलम् | जयति प्रकाशविभवस्फीतं काल्याः परं धाम ||᳚ इत्याद्युक्तस्वरूपशालिन्यकुले धाम्नि लीयते -- स्वात्मविश्रान्तिचमत्काररूपाहंपरामर्शदशाधिशायितामियादिति, एवं महाकालस्य कलनात् ᳚महाकालकालीति᳚ श्रीक्रमस्तोत्रादावुच्यते, तदुक्तं तत्र -- ङक्तं महाभूतलये श्मशाने दिक्खेचरीचक्रग्रणेन साकम् | कालीं महाकालमलंग्रसन्तीं वन्दे ह्यचिन्त्यामनिलानलाभाम् ||᳚ इति | श्रीपञ्चशतिकेऽपि ᳚ऋतोज्ज्वला महादीप्ता सूर्यकोटिसमप्रभा | कलाकलङ्करहिता कालस्य कलनोद्यता || यत्र सा लयमाप्नोति कालकालीति सा स्मृता |᳚ इति || १६९-१७० || एवं प्रमातृगतं संहारस्वरूपं निरूप्यानाख्यास्वरूपमपि निरूपयति -- प्रमातृवर्गो मानौघः प्रमाश्च बहुधा स्थिताः | मेयौघ इति यत्सर्वमत्र चिन्मात्रमेव तत् || ४-१७१ || इयतीं रूपवैचित्रीमाश्रयन्त्याः स्वसंविदः | स्वाच्छन्द्यमनपेक्षं यत्सा परा परमेश्वरी || ४-१७२ || तदेवमत्र -- अहंपरामर्शात्मन्यकुले धाम्नि, प्रमेयं प्रमाणं प्रमाता प्रमा च इत्येतत्सर्वं नानारूपतयोज्जृम्भमाणं चिन्मात्रमेव -- तदेकरसतयावभासते इत्यर्थः, तत् -- तस्मादियतीं प्रामात्राद्यवच्छिन्नां रूपवैचित्रीमाश्रयन्त्याः स्वप्रकाशायाः परस्याः संविदो यदनपेक्षं ᳚तस्य देवातिदेवस्य परबोधस्वरूपिणः | विमर्शः परमा शक्तिः सर्वज्ञज्ञानशालिनी ||᳚
SK
इत्याद्युक्तस्वरूपमहंपरामर्शमये स्वाच्छन्द्यं, सा प्रमेयप्रक्रियया -- प्रमातृपदेन महाभैरवशब्दस्य, मेयपदेन चण्डशब्दस्य, प्रमापदेनोग्रशब्दस्य, मानपदेन घोरशब्दस्य, चाक्षेपात् ᳚ महाभैरवचण्डोग्रघोरकाली᳚ या अस्मद्दर्शने पूर्णतया परा इति परमेश्वर्युक्ता, यदुक्तं श्रीपञ्चशतिके -- ᳚दशसप्तविसर्गस्था महाभैरवभीषणा | संहरेद्भैरवान्सर्वान्विश्वं च सुरपूजित || सान्तः शाम्यति यस्यां च सा स्याद्भरितभैरवी | महाभैरवचण्डोग्रघोरकाली परा च सा ||᳚ इति | श्रीक्रमस्तोत्रेऽपि -- ᳚क्रमत्रयत्वाष्ट्रमरीचिचक्रसञ्चारचातुर्यतुरीयसत्ताम् | वन्दे महाभैरवघोरचण्डकालीं कलाकाशशशाङ्ककान्तिम् ||᳚ इति || १७१-१७२ || ननु किं नामास्याः परत्वम् ? -- इत्याशङ्क्याह -- इमाः प्रागुक्तकलनास्तद्विजृम्भोच्यते यतः | अतस्तद्विजृम्भात्मकत्वादेवासां सर्वसर्वात्मकतया एकैकस्यामपि संविदि सर्वा एव संविदोऽनन्तरत्वेन वर्तन्ते, येनैकैकस्यामपि द्वादशात्मकत्वात् सञ्चारक्रमपूजायां चतुश्चत्वारिंशदधिकं शतं पूज्यत्वेनोक्तम्, यदागमः -- ᳚द्वादशारावियोगेन देवीं द्वादशधा यजेत् |᳚ इति, अत एव च त्रयोदशं रूपमभिधातुमवकाशलेशोऽपि नास्ति इति युक्तमुक्तं ᳚परमार्थतः संविद्द्वादशात्मैव᳚ इति || ननु क्रमदर्शने सर्वत्रैव श्रीसृष्ट्यादिदेवीनां मध्ये श्रीसुकाल्या भगवत्या अभिधानं, येनानाख्यचक्रे त्रयोदश देव्यः, अत एव श्रीमहाभैरवचण्डोग्रघोरकालीभट्टारिकायाश्च त्रयोदशत्वम्, तदुक्तं श्रीपञ्चशतिके -- ᳚डकला भीषणा रौद्रा कुलकालिनिराकुला | अलक्ष्या लक्ष्यनिर्लक्ष्या सुकाली नाम सिद्धिदा ||᳚ इति | श्रीतन्त्रराजभट्टारकेऽपि -- शृष्टिकाली च संहारे सृष्टौ सा परमेश्वरी | स्थितिकाली तथा घोरा ततः संहारकालिका || रक्तकाली चर्वयन्ती रक्तौघमविभेदतः | सुकाली यमकाली च मृत्युकाली भयावहा || भद्रकाली तथा चान्यापरमादित्यकालिका | मार्तण्डकाली कालाग्निरुद्रकालमहोल्बणा || महाकालकुले काली महाभैरवकालिका |
SK
त्रयोदशविधा काली विज्ञेया नामभेदतः ||᳚ इति, श्रीसार्धशतिकं तु समनन्तरमेव संवादितं, तदत्र क्रमनयसमानकक्ष्यत्वविवक्षायामपि कथमेतद्विरुद्धमभिहितं ᳚द्वादशैव देव्यः᳚ इति ? अट्रोच्यते, इह -- क्रमदर्शने सर्वसर्विकया अनाख्यचक्रे त्रयोदशैव देव्यः पूज्यत्वेनाभिमताः, इति तावन्नास्ति नियमः, यतः श्रीक्रमसद्भावभट्टारकेअनाख्यचक्रे सप्तदश देव्यः पूज्यत्वेनोक्ताः, यदुक्तं तत्र -- ᳚कालोत्थिता महादेव सानन्दा नन्दिनी शिवा | चिद्घना युग्ममध्यस्था अक्षरा क्षरगोचरा || अकुला कलयेन्नित्या कालकाली निराकुला | सा कला लीयते यस्यां सृष्टिकाली तु सा स्मृता ||᳚ इत्याद्युपक्रम्य ᳚क्रमत्रयाणां यच्चक्रं घोरघोरतरं महत् | कालरूपं मरीच्याद्यं त्वाष्टंर कल्पान्तकान्तगम् || आचरेत्तु महाचारचातुर्येणैव तत्र च | या कला घोरघोरोग्रा तस्याः सा तुर्यगा शिवा || महाभैरवघोरस्य चण्डरूपस्य सर्वतः | ग्रसते या महाकाली द्व्यष्टका कालनाशिनी || सप्तदशी तु सा काली विद्धि सर्वार्थकारिणी |᳚ इति, अत एव च ᳚एतदाशयेन श्रीस्तोत्रकारस्य पूजाक्रमः, इति न ग्राह्यम्, यदाहुः -- ᳚श्रीक्रमसद्भावादिकशास्त्राशयतश्च पत्रिका अत्र | श्रीस्तोत्रकारभास्करकुलधरपूर्वासु संततिषु ||᳚ इति, अस्य हि अनाख्यचक्रे त्रयोदश देव्यः पूज्यतया अभिमता द्वादश वा, यदधिकारेण अयं विचारः प्रक्रान्तः, एवमिह श्रीसुकालीं विना द्वादशैव देव्यः पूज्यतया यद्युक्ताः, तत्को दोषः, यदागमः -- ᳚यत्सृष्टिस्थितिसंहाररक्तैश्च यममृत्युभिः | रुद्रमार्तण्डपरमादित्यकालाग्निरुद्रकैः || पदैश्च समहाकालैः कालीशब्दान्तयोजितैः | महाभैरवचण्डोग्रघोरकालीपदं नयेत् ||᳚
SK
इति | एवं क्रमकेलावप्येतद्गर्भीकारेण यदनेन ग्रन्थकृता व्याख्यातं तत्रापि अन्यथा न किञ्चित्संभाव्यं, यतोऽत्रास्य ᳚श्रीगोविन्दराज-श्रीभानुकादिक्रमेण᳚ बहुशाखमेवं गुरूपदेशः समस्तीति, योऽद्यापि महात्मनां महागुरूणां हृदयपथे शतशः परिपोस्फुरीति, यदुक्तं तत्रैवानेन -- यथैकः श्रीमान् वीरवरः सुगृहीतनामधेयो ᳚गोविन्दराजाभिधानः᳚ ᳚श्रीभानुकाभिधानो᳚ द्वितीयः श्रीमान् ᳚एरकसमाख्यः᳚ तृतीयः सममेवोपदेशं पीठेश्वरीभ्य उत्तरपीठलब्धोपदेशात् श्रीशिवानन्दनाथाल्लब्धनुग्रहाभ्यः ᳚श्रीकेयूरवती-श्रीमदनिका- श्रीकल्याणिकाभ्यः प्राप्नुवन्तः | तत्राद्यः प्राप्तोपदेश एवैवं मनस्यकार्षीत् -- एतावत्यधिगते किमिदानीं कृत्यमस्तीति, इत्थं च निष्ठितमना यावज्जीवमुपनतभोगातिवाहनमात्रव्यापार एतद्विज्ञानोपदेशपात्रशिष्टोपदेशप्रवणः शरीरान्तं प्रत्यैक्षिष्ट, स चेदं रहस्यं ᳚श्रीसोमानन्दाभिधानाय᳚ गुरवे सञ्चारयांबभूव | द्वितीयोऽपि एवमेवास्त, तस्यैव चैषा ᳚श्रीमदुज्जटोद्भट्टादिनानागुरुपरिपाटीसंततिः, यत्प्रसादासादितमहिमभिरस्माभिरेतत् प्रदर्शितम् | ᳚श्रीमानेरकस्तु᳚ सिद्ध्ये प्रायतत, यावत्सिद्धः सन् एव मनसा समर्थयते स्म -- किं भोगैः, यत -- अयं महान् क्लेशो मयानुभूतः, कथमहं सब्रह्मचारिवद्यावज्जीवं प्रपन्नलोकोद्धरणमात्रपर एव नाभवम्, यतः ᳚श्रीमत्सदाशिवपदेऽपि महोग्रकाली भीमोत्कटभ्रकुटिरेष्यति भङ्गभूमिः | इत्याकलय्य परमां स्थितिमेत्यकाल सङ्कर्षिणीं भगवतीं हठतोऽधितिष्ठत् ||᳚ तदिदानीमपि निजभावगतरहस्योपदेशं स्तोत्रमुखेनापि तावत्प्रसारयंल्लोकाननुगृह्णीयाम् इति, अतश्चास्य एवं गुरुक्रममजानानैरद्यतनैः ᳚श्रीभूतिराजनामाप्याचार्यश्चक्रभानुशिष्योऽन्यः | अभिनवगुप्तस्य गुरोर्यस्य हि कालीनये गुरुता ||᳚
SK
इत्यादि यदुक्तं तत् स्वोत्प्रक्षितमेव -- इत्युपेक्ष्यम् | नहि श्रीचक्रभानुना प्रायः कस्यचिदपि एवमुपदिष्टं -- तन्मूलतयैव इदानीमस्योपदेशस्य शतशो दर्शनात्, तत्रापि चात्र श्रीभूतिराजस्यान्यथा पूजाक्रम इति ᳚देवीपञ्चशताशयमाश्रित्य च भूतिराजपूर्वाणाम् |᳚ इत्यभिदधद्भिर्भवद्भिरेवोक्तम्, अथात्र ᳚द्वादशैव देव्यः पूज्यतया स्थिताः᳚ इत्यभिप्रेतं भवतस्तर्हि श्रीपञ्चशतिकार्थमपि न जानीषे -- तद्गच्छ, स्वगुरुं पृच्छ, किमस्मदाविष्कृतेन, श्रीदेवीपञ्चशतिकेऽपि अस्य श्रीसोमानन्दभट्टपादेभ्यः प्रभृति त्रिकदर्शनवदेव गुरवः, इति न तत्राप्यस्य श्रीभूतिराजो गुरुत्वेन स्थितः, न च ᳚असावस्य न गुरुः᳚ यद्वक्ष्यति -- ᳚अथोच्यते ब्रह्मविद्या सद्यः प्रत्ययदायिनी | शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् ||᳚ इति, ᳚एतद्विद्यात्रयं श्रीमद्भूतिराजो न्यरूपयत् | यः साक्षादभजच्छ्रीमाञ्छ्रीकण्ठो मानुषीं तनुम् ||᳚ इति च, किं त्वत्र नेति निश्चयः, किं च श्रीमदवतारकनाथेन श्रीककारदेवीवत् श्रीमदनिकाश्रीकल्याणिकेचानुगृहीते, इत्यपि अतोऽवसितम्, तदेष ᳚क्रमकुलचतुष्टयाश्रयभेदाभेदोपदेशतो नाथः | सप्तदशैव शिष्यानित्थं चक्रे सवंशनिर्वंशान् ||᳚ इति नियमो न न्याय्यः -- शिष्यद्वयस्यास्यापरिगणनात् अन्यस्यापि कस्यचिच्छिष्यस्य संभाव्यमानत्वात्, एवं ᳚श्रीकेयूरवतीतः प्रभृति श्रीचक्रभानुशिष्यान्तम् | संततयोऽतिनयस्य प्रथिता इह षोडशैवेत्थम् ||᳚ इत्यादावपि ज्ञेयम्, तथाहि -- अत्र श्रीककारदेव्यास्तस्याः ᳚प्रकृतमहानयशिष्याः प्रथितास्त्रयः सवंशास्तु |᳚ इति त्रय एव शिष्याः इति न वाच्यं -- श्रीगोविन्दराजश्रीभानुकयोरपि एतच्छिश्यत्वात् नवेरकनाथश्चास्या अपि शिष्यः, यदाहुः � ᳚यस्याः सदा खेचरिदृष्टिरोधात्सार्वात्मिकी भाति निरन्तरोक्ता | तामस्मि केयूरवतीं प्रसिद्धां नमामि देवीमनिकेतसंस्थाम् ||᳚ ᳚वन्दे ध्वस्तसमस्तभावविभवं श्रीमन्नवेराभिधं तं यो यत्किरणौघपातविलसत्स्पर्शोदयो जृम्भते |᳚ इति, श्रीह्रस्वनाथस्यापि
SK
᳚श्रीवीरनाथपादैः पञ्च च देवीनये कृताः श्ष्यिः |᳚ इति न पञ्चैव शिष्याः -- श्रीभोजराजनाम्नः षष्ठस्यापि संभवात्, तदुक्तं स्वपारम्पर्यं व्याचक्षाणेन श्रीसोमराजेन -- ᳚श्रीमद्वामनभानुः क्रमकमलविकासने चतुरः | जयति षडध्वप्रोज्झितपरनभसि निबद्धसंतानः ||᳚ ᳚येन ध्वस्तः समस्तो गहनतरमहामोहघोरान्धकारो दत्तःसम्यक्प्रकाशः क्रमकमलवनोल्लासविश्रान्तिरूपः | प्राप्ता येनैव संविन्निरुपमसरसास्वादसंयोगभोगा वन्दे श्रीभोजराजं गुरुवरमहितं पूज्यमर्हद्भिरन्तः ||᳚ इति | एवमत्र अनेकप्रकारमासमञ्जस्यं संभवदपि अनङ्गत्वान्न प्रदर्शितम् | ननु एवं गुरुक्रमेऽप्यस्य कथङ्कारमिदं सङ्गच्छतां, यदत्र -- द्वादशैव एता देव्य इति, यतः श्रीमदवतारकनाथस्यापि अत्र त्रयोदशैव विवक्षिताः यः श्रीगोविन्दराजादीनामपि परमगुरुत्वेन स्थितः, यदाह � ᳚एकं स्वरूपरूपं प्रसारस्थितिविलयभेदतस्त्रिविधम् | प्रत्येकमुदयसंस्थितिलयविश्रमतश्चतुर्विधं तदपि || इति वसुपञ्चकसंख्यं विधाय सहजस्वरूपमात्मीयम् | ᳚विश्वविवर्तावर्तप्रवर्तकं जयति ते रूपम् ||᳚ इति ? सत्यमेतत् -- को नामात्र विप्रतिपद्यते, किं तु ᳚अस्य द्वादशापि अभिप्रेताः᳚ इत्यभिदध्मः, यदधिकारेण श्रीगोविन्दराजादीनामुपदेशः प्रवृत्तो योऽस्मत्पर्यन्तमपि प्राप्तः, यदाह -- ᳚कालस्य कालि देहं विभज्य मुनिपञ्चसंख्यया भिन्नम् | स्वस्मिन्विराजमानं तद्रूपं कुर्वती जयसि ||᳚ इति, अयमत्रार्थः -- त्वमेवमुक्तस्वरूपे भगवति कालि ! परप्रकाशैकस्वभावस्वात्मा विभेदिनो ᳚भैरवरूपी कालः सृजति जगत्कारणादि कीटान्तम् |᳚
SK
इत्याद्युक्त्या विश्वकलनाहेतोः कालस्य रूपम्, एवं उक्तयुक्त्या, मुनिपञ्चसंख्यया द्वादशधा विभज्य -- बहिरेवं समुल्लास्य, पुनरपि अतिरिक्तमेव तद्रूपं स्वस्मिन् प्रकाशैकघने रूपे, विराजमानं कुर्वती -- दर्पणप्रतिबिम्बवदनतिरिक्ततयैव अवभासयन्ती, जयसि -- अतिदुर्घटकारिणैकेनैव अनाख्येन रूपेण सर्वकालं परिस्फुरसीति | नन्वेवमेतत् ᳚एकं स्वरूपरूपम् ............................|᳚ इत्यादिना विरुद्ध्येत् -- यत्कथमेकत्रैव परस्याः संविदो द्वादशधोदयमभिधाय त्रयोदशधापि अभिदध्यादिति, तदत्र कर्तृतयावस्थिताया भगवत्या एव त्रयोदशरूपत्वमभिधातव्यं येनानयोरेकवाक्यत्वं स्यात् ? नैतत् -- यदेवमभिधित्सितमपि उत्तरवाक्ये चतुर्दशं रूपमापतेत्, यदत्राप्यस्त्येव भगवत्याः कर्तृतयाऽवस्थानमिति, वस्तुतस्त्वेतत् उभयत्रापि विकल्पस्यैव दौरात्म्यं यत् ᳚राहोः शिरः᳚ इति वदभिन्नमपि वस्तु भेदेनामृशतीति, तस्मात् द्वादशधात्वमेवात्र वक्तुमभिप्रेतं सिद्धपादानाम् -- इत्यवगन्तव्यम्, विरोधस्तु उत्थानोपहत एव, यदत्र -- ᳚तेन तेन क्रमेंण त्वमेव परिस्फुरसि᳚ इत्येवं व्याप्तिपरमेतदभिधानमिति, तथा च -- शदसद्विभेदसूतेर्दलनपरा कापि सहजसंवित्तिः | उदिता त्वमेव भगवति जयसि जयाद्येन रूपेण ||᳚ इत्यादिना श्रीहस्तनयाभ्युदितेन जयाद्येनापि रूपेण त्वमेव परिस्फुरिता -- इत्युक्तम्, अत्र पुनराद्यवर्णकलाचतुष्टयात्मना जयाद्येन रूपेणोदिता त्वं जयसि, इति -- स्वक्रमोचितं व्याख्यानं युक्तम्, यदागमः -- ᳚अथ ब्रह्य परं शुद्धमादिवर्णत्वमागतम् |᳚ इत्याद्युपक्रम्य ᳚अम्बिकाधस्ततस्तिस्रो युगपच्छक्तयः पुनः | ज्येष्ठा रौद्री तथा वामा सुप्तनागेन्द्रसंनिभा || रौद्री शृङ्गाटकाकारा ऋजुरेखा तथा परा | इत्येताः कारणं ज्ञेयाः सर्वमाभ्यः प्रवर्तते || परापरपदप्राप्तौ शान्त्याद्याः परिकीर्तिताः | शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चापरा स्मृता || व्योमपञ्चकमाविष्टाः परमात्मपदास्पदाः |
SK
ता एवापररूपेण जयाद्या गुह्यशक्तयः || इति, अयं च प्रथममेताभिरेव कामरूपे चरुकप्रधानेनानुगृहीतः इति गुरवः, जयनशीला त्वम्, आद्येन -- पूर्वकोटिभाविना रूपेणोदिता जयसि इति तु पापात्पापीयः, एवं ᳚ऋतुमुनिसंख्यं रूपं विभज्य पञ्चप्रकारमेकैकम् | दिव्यौघमुद्गिरन्ती जयति जगत्तारिणी जननी ||᳚ इत्यादावपि ज्ञेयम् | तदेवम् एवंविधस्य गुरुक्रमस्य भावात् तात्त्विक एवायमस्योपदेशः इति स्थितम्, तत्रापि च मूलभूतं शास्त्रं स्वविमर्शात्मा युक्तिश्च, इत्युभयमपि समनन्तरमेव प्रदर्शितम्, इत्येवंप्रत्ययात्म अत्र परं निर्बाधं प्रमाणमुज्जृम्भते | ननु एतदस्तु, किं तु श्रीक्रमस्तोत्रमेवं व्याख्यां न सहते, यत् -- तत्र संविदस्त्रयोदशधैवोदयो विवक्षितः, यतस्तत्र एकैकां देवीं प्रति एकैकेन श्लोकेन प्रक्रान्तायां स्तुतौ श्रीयमकालीभट्टारिकायाः श्लोकयुगलेन स्तुतौ क इवाशयः, तत् स्वकालीमित्यपास्य भवानीमित्यपपाठ एव, इत्यत्र विवरणकारान्तरसंमत एव पाठ इति ? अत्रोच्यते -- इह तावदेकैकां देवीं प्रति एकैकेन श्लोकेन स्तुतिः प्रक्रान्ता -- इति केनोक्तं, यत् श्रीरुद्रकालाग्रिरुद्रकालीभट्टारिकाया अपि ᳚या सा जगद् ध्वंसयते समग्रं मृत्योर्वपुर्ग्रासयतीति विष्वक् | धामाग्निरूपीयसहस्रदीप्तां तां नौमि कालानलरुद्रकालीम् ||᳚
SK
इति द्वितीयेन श्लोकेन स्तुतिः समस्ति, इति श्रीयमकालीभट्टारिकायाः श्लोकयुगलेन स्तुतौ क इवायं संरम्भ इति, अथायमपि भवत्कल्पित एव श्लोकः, इति चेत् नैतत् -- श्रीह्रस्वनाथेनापि स्वलिपिविवरणेऽस्य श्लोकस्य दृष्टत्वात्, सर्वेषामेव च विवरणकृतामत्र प्रतिपदं पाठानां श्लोकानां व्यत्यासो दृश्यते, इत्यस्मद्दृष्ट एव पाठे क इवायं प्रद्वेषः, नन्वेवं तर्हि ᳚अयं पाठः साधुरयमसाधुः᳚ इति विचारः किं नाश्रीयते -- यद्य एव समूलः पाठः स एव साधुरितरस्तु इतरथेति, मूलं चात्रोभयत्रापि प्रदर्शितेन क्रमेण समानमुत्पश्यामः -- इत्येकतरपरिग्रहे यथास्वं गुरूपदेश एव निबन्धनम् | यथोक्तमस्मत्परमगुरुभिः -- ᳚यो यस्य गुर्वादेशः स तस्य मोचकः |᳚ इति, तस्माददृष्टगुरुभिरपरिशीलितशास्त्रसंप्रदायैः स्वविमर्शशून्यैर्देवानंप्रियैर्यत् किञ्चिदत्रोच्यते तदुपेक्ष्यमेव, इत्यलमतिरहस्यप्रकटनमहासाहसेन || किंचात्र कलनमुच्यते ? -- इत्याशङ्क्याह -- क्षेपो ज्ञानं च संख्यानं गतिर्नाद इति क्रमात् || ४-१७३ || स्वात्मनो भेदनं क्षेपो भेदितस्याविकल्पनम् | ज्ञानं विकल्पः संख्यानमन्यतो व्यतिभेदनात् || ४-१७४ || गतिः स्वरूपारोहित्वं प्रतिबिम्बवदेव यत् | नादः स्वात्मपरामर्शशेषता तद्विलोपनात् || ४-१७५ ||
SK
᳚कल किल बिल क्षेपे᳚ ᳚कल गतौ᳚ ᳚कल सख्याने᳚ ᳚कल शब्दे᳚ इति धातुचतुष्टयस्य पञ्चधायमर्थो -- यद्गतिर्ज्ञाने प्राप्तौ च वर्तते इति, एतदेव क्रमेण व्याचष्टे -- क्रमादित्यादिना, भेदनमिति -- बहिरुल्लासनम्, अविकल्पनमिति -- स्वात्माभेदेन परामर्शः भेदितस्यैव प्रमातृप्रमेयादेरर्थस्य परस्परापोहनात् ᳚इदमिदं नानिदम्, इति प्रतिनियततयावस्थापनात् संख्यानं विकल्पः, गतिश्चात्र गत्युपसर्जना प्राप्तिस्तेन भेदितोऽर्थः -- संविल्लक्षणं स्वरूपमारोहति प्राप्नोतीति स्वरूपारोही, तस्य भावस्तत्त्वम्, न चैतत् कट इव देवदत्तस्येत्युक्तं -- प्रतिबिम्बवत् इति, प्रतिबिम्बस्य हि तदव्यतिरिक्तत्वेऽपि तद्व्यतिरिक्त्यैवावभासो भवेदिति भावः, स्वात्मपरामर्शशेषतेति नदनमात्ररूपत्वात्, तद्विलोपनादिति -- तेषामविकल्पज्ञानादीनां विलोपनात्, अपहस्तनादित्यर्थः, एतद्धि भिन्नस्यैव भवेदिति भावः || १७४-१७५ || एतदेव प्रकृते विश्रमयति -- इति पञ्चविधामेनां कलनां कुर्वती परा | देवी काली तथा कालकर्षिणी चेति कथ्यते || ४-१७६ || परादेव्या एवैतदर्थानुगमादेवं व्यपदेशः, इत्याशयः || १७६ || न केवलमस्या एते एव व्यपदेशा यावदन्येऽपि, इत्याह -- मातृसद्भावसंज्ञास्यास्तेनोक्ता यत्प्रमातृषु | एतावदन्तसंवित्तौ प्रमातृत्वं स्फुटीभवेत् || ४-१७७ || वामेश्वरीतिशब्देन प्रोक्तं श्रीनिशिसञ्चरे | तेनास्याः -- काल्यादिशब्दव्यपदेश्यायाः पराभट्टारिकायाः ᳚मातृसद्भाव᳚ इति संज्ञोक्ता, यत् एतावदन्तं -- द्वादशदेवीपर्यन्तं यथायथमुद्रेकमासादयन्त्यां संवित्तौ, सकलादिषु प्रमातृषु प्रमितिक्रियाकर्तृत्वलक्षणं प्रमातृत्वं स्फुटीभवेत् -- स्वतन्त्रस्वप्रकाशपरसंविदेकरूपता स्यात् तन्मातॄणां इति, यदुक्तं -- शद्भावः परमो ह्येष मातॄणां परिपठ्यते |᳚ इति, श्रीनिशिसञ्चरे इति -- श्रीनिशाटने, यदुक्तं तत्र -- ᳚एषा तु कौलिकी विद्या सर्वसिद्धिप्रदायिका | सकाशाद्देवदेवस्य निर्याता शक्तिवर्त्मनि || वामेश्वर्यवतारे तु प्रकाशत्वमुपागता |᳚
SK
इति || १७७ || ननु सृष्ट्यादिरूपोपग्रहेणावभासभेदात् क्रमिकतया वैचित्र्यातिशयादस्याः कथमेकत्वं तात्त्विकं भेवत्, येन ᳚श्रीकालसङ्कर्षिणीति, श्रीमातृसद्भाव, इत्याद्येकतर एव परामर्शः स्यादिति कथमेतदुक्तम् ? -- इत्याशङ्क्याह -- इत्थं द्वादशधा संवित्तिष्ठन्ती विश्वमातृषु || ४-१७८ || एकैवेति न कोऽप्यस्याः क्रमस्य नियमः क्वचित् | क्रमाभावान्न युगपत्तदभावात् क्रमोऽपि न || ४-१७९ || क्रमाक्रमकथातीतं संवित्तत्त्वं सुनिर्मलम् | इत्थम् -- उक्तेन प्रकारेण, परैव संविद्देवी, विश्वमातृष्विति बहुवचनादाद्यर्थो लभ्यते, इति प्रमाणादेरपि आक्षेपात् प्रमातृप्रमाणादिविषयतया द्वादशधात्वेन अवभासमानापि, एकैव - - अद्वितीयेत्यर्थः -- विश्वात्मत्वेन परिस्फुरन्त्या अप्यस्या न स्वस्वरूपात्प्रच्याव इत्याशयः, अत एवास्या न नियतः कश्चित् क्रमः, येन द्वादशधात्वेनैव परिस्फुरेदिति स्यात्, परस्याः संविदो हि सृष्ट्याद्युपाधिसंभेदेन परिस्फुरणेऽपि शकृद्विभातोऽयमात्मा..................|᳚
SK
इत्यादिनीत्या स्वस्वरूपावभासाविच्छेदात् विद्युदादिवदन्तरान्तरा प्रकाशनायोगात् स्वात्मनि कालावच्छेद एव नास्ति इति को नाम तदात्मभूतस्य क्रमस्याप्यवकाशः, अत एव च नास्या यौगपद्यं, तद्धि स्पर्धाबन्धेन परिस्फुरतोरयःशलाकाकल्पयोर्द्वयोः संभवति, न चैतदपेक्षया अन्यः कश्चित् स्पर्धावानस्ति, इति कस्य नाम युगपद्भावः, अत एवास्याः क्रमाक्रमाभ्यामपि न योगः, तदाह -- क्रमाभावादित्यादि, ननु इहावश्यं क्रमाक्रमाभ्यां पदार्थानां योगः संभवेदिति कथमुक्तं शंवित्तत्त्वं तदतीतम्᳚ ? -- इत्याह -- सुनिर्मलमिति, अनिर्मल एव हि शून्यादिर्मायाप्रमाता जन्मादिक्रियावभासभेदादवस्थाभेदावभासक्रमेण कालावच्छेदवान् स्वात्मानं पूर्वावस्थाविनाशावभासापेक्षया अतीतोचितेनावभासेन पश्यन् तदतीतत्त्वानुरोधेन वर्तमानतयावभासयति, वर्तमानावभासापेक्षया च परिणामावभासादिरूपं भविष्यदवस्थान्तरं व्यवस्थापयति, स्वसत्ताकालभाविनं च नीलाद्यर्थविशेषं स्वापेक्षया युगपद्भावेनाभिमन्यते, इति तस्यैव क्रमयौगपद्यावभासः, यदुक्तम् -- शर्वत्राभासभेदो हि भवेत्कालक्रमाकरः | विच्छिन्नभासः शून्यादेर्मातुर्भातस्य नो सकृत् ||᳚ इति || १७८-१७९ || ननु यद्येवं तदस्याः परस्याः संविदः कथं नामावाहनविसर्जनाद्यात्मकत्वात् क्रमानुप्राणिता पूजा भवेत् ? -- इत्याशङ्क्याह -- तदस्याः संविदो देव्या यत्र क्वापि प्रवर्तनम् || ४-१८० || तत्र तादात्म्ययोगेन पूजा पूर्णैव वर्तते | यत्र क्वचन संविदवष्टम्भेनावस्थानं नाम मुख्या पूजा, न पुनरावाहनादिरूपेति तात्पर्यार्थः, यथोक्तम् -- ᳚यस्मिन्यस्ंमिश्चक्रवरे तत्स्पर्शाह्लादनिर्वृतिः | तदवष्टम्भयोगो यः स हि पूजाविधिः स्मृतः ||᳚ इति || १८० ||
SK
ननु ᳚अमन्त्रका तावत्पूजा न स्यात्᳚ इति सर्वत्रैवोक्तं, मन्त्राश्च यदि संविदोऽतिरिक्ताः तत् शंविदैकात्म्येनावस्थानं पूजा᳚ इत्युक्तं हीयेत, अनतिरेकेच तेषां पृथगुपदेश एव न कार्यः ? इत्याशङ्कागर्भीकारेण प्राप्तावसरं संविच्चक्रोदयानुस्यूतत्वेन अनुजोद्देशोद्दिष्टं मन्त्रवीर्यं प्रकाशयितुमाह -- परामर्शस्वभावत्वादेतस्या यः स्वयं ध्वनिः || ४-१८१ || सदोदितः स एवोक्तः परमं हृदयं महत् | यः खलु परावाग्रूपः स्वरसोदितो ध्वनिः -- अहंपरामर्शात्मा नादः ङास्योच्चारयिता कश्चित्प्रतिहन्ता न विद्यते | स्वयमुच्चरते देवः प्राणिनामुरसि स्थितः ||᳚ इत्याद्युक्त्या, स्वयम् -- अनन्यापेक्षत्वेन, अत एव सदा � नित्याविरतेन रूपेण, उदितः -- उच्चरन्नास्ते, स एवैतस्याः परस्याः संविदः, परमं -- सारभूतं, महत् -- सर्वदा चाव्यभिचरितस्वरूपत्वाद् व्यापकं, हृदयं -- तथ्यं रूपं, सर्वशास्त्रेषूक्तं, यस्मादैश्वर्यात्मा अहंपरामर्श एवास्याः स्वभावो, यन्माहात्म्याद्विश्वात्मना इयं परिस्फुरेत्, यदाहुः -- ᳚चितिः प्रत्यवमर्शात्मा परावाक् स्वरसोदिता | स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः || सा स्फुरत्ता महासत्ता देशकालाविशेषिणी | सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ||᳚ इति || १८१ || न केवलमयहंपरामर्शः शास्त्रे हृदयतयेव उक्तो, यावत् स्पन्दादिरूपतयापि, इत्याह -- हृदये स्वविमर्शोऽसौ द्राविताशेषविश्वकः || ४-१८२ || भावग्रहादिपर्यन्तभावी सामान्यसंज्ञकः | स्पन्दः स कथ्यते शास्त्रे स्वात्मन्युच्छलनात्मकः || ४-१८३ || हृदये ᳚हृदयं बोधपर्यायः........................|᳚
SK
इत्युक्त्या बोधे -- स्वात्मभूते योऽसौ विमर्शः, स द्रावितं -- बहीरूपतया प्रसारितम्, अथ च गालितम् -- अन्तःशान्तीकृतमशेषं विश्वं येनासौ, अत एव भावग्रहस्य -- विश्वात्मतास्वीकारस्या, आदौ - - निर्मित्सावसरे, पर्यन्ते -- संजिहीर्षासमये च भवनशीलः, अत एव स्वात्मविकाससङ्कोचमयतयोच्छलत्तारूपः, अत एव विशेषरूपताया अनुल्लासात् प्रशमाच्च सामान्यशब्दवाच्यः स्पन्दशास्त्रादौ श्पन्दः᳚ कथ्यते -- किंचिच्चलनात्मकोच्छलत्तारूपानुगमात् स्पन्दशब्दाभिधेयतयोच्यते इत्यर्थः || १८२-१८३ || ननु यद्येवं तद्बोधस्य किञ्चिच्चलनेन स्वस्वरूपप्रच्यावान्नित्यताहानिः स्यात्? इत्याशङ्क्याह -- किञ्चिच्चलनमेतावदनन्यस्फुरणं हि यत् | ऊर्मिरेषा विबोधाब्धेर्न संविदनया विना || ४-१८४ || किञ्चिच्चलनं हि नामैतदुच्यते -- यद्बोधस्यानन्यापेक्षं स्फुरणं प्रकाशनं, परतोऽस्य न प्रकाशः अपि तु स्वप्रकाश एवेत्यर्थः, इदमेव हि नामास्य जडेभ्यो वैलक्षण्यं -- यत् स्वयमेव तथा तथा प्रकाशते इति, एवमयमहंपरामर्शः स्पन्दशास्त्रादौ यथा स्पन्दत्वेनोक्तः तथैव श्रीमदूर्मिकीलावूर्मित्वेनापि इत्युक्तम् ᳚ऊर्मिरेषा विबोधाब्धेः᳚ इति | ननु सर्वेषु शास्त्रेषु अत्रैव कस्माद्भरः ? इत्याशङ्क्याह -- ङ संविदनया विना᳚ इति, इदमेव हि संविदः संवित्त्वं, यत् -- सर्वमामृशतीति, अन्यथा हि अस्यास्तत्तदर्थोपरागेऽपि स्फटिकादिभ्यो वैलक्षण्यं न स्यात्, यदुक्तम् -- श्वभावमवभासस्य विमर्शं विदुरन्यथा | प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ||᳚ इति | एवं संविदः शुद्धत्वेऽपि तत्तदर्थोपरक्ततया परिस्फुरणं नाम मुख्यं रूपमित्युक्तं स्यात् || १८४ || ननु कथमेतद्युज्यते ? इत्याशङ्क्य दृष्टान्तयति -- निस्तरङ्गतरङ्गादिवृत्तिरेव हि सिन्धुता | एतदेवोपसंहरति -- सारमेतत्समस्तस्य यच्चित्सारं जडं जगत् || ४-१८५ || तदधीनप्रतिष्ठत्वात्तत्सारं हृदयं महत् |
SK
एतद्विमर्शलक्षणं वस्तु, समस्तस्य -- चेतनाचेतनात्मनो विश्वस्य, सारं -- जीवस्थानीयं, यतः शंविन्निष्ठा हि विषयव्यवस्थितयः |᳚ इत्यादिनीत्या रूपाद्यात्मनो जडस्य जगतस्तावत् संवेद्यत्वान्यथानुपपत्त्या संविदेव प्रतिष्ठास्थानमित्यविवादः, तस्याश्च चितः समनन्तरोक्तस्वरूपं हृदयमेव स्वात्मचमत्कृतिनिबन्धनत्वात् महत्सारं, यतः -- तदधीनमेव अस्याः स्वात्मनि प्रतिष्ठानम्, अन्यथा हि जाड्यमेवापतेत्, इत्युक्तं बहुशः || १८५ || एतदेव प्रमेयान्तरगर्भीकारेणापि उपपादयति -- तथा हि सदिदं ब्रह्ममूलं मायाण्डसंज्ञितम् || ४-१८६ || इच्छाज्ञानक्रियारोहं विना नैव सदुच्यते | तच्छक्तित्रितयारोहाद्भैरवीये चिदात्मनि || ४-१८७ || विसृज्यते हि तत्तस्माद्वहिर्वाथ विसृज्यते | इदं हि ब्रह्ममूलं ब्रह्माण्डारम्भकम् अर्थाद्गर्भीकृतप्रकृत्यण्डेन मायाण्डेन प्राप्तसंज्ञं मायीयं विश्वं प्रतिभासमानत्वात् सत् विद्यमानमपि ᳚प्रतिभातोऽप्यर्थः परामर्शमन्तरेण अप्रतिभात एव प्रमातर्यविश्रान्तेः || इत्याद्युक्तयुक्त्या जिज्ञासादिक्रमेण स्वातन्त्र्यात्मनो विमर्शशक्तेः पल्लवप्रायास्विच्छाज्ञानक्रियासु यावन्नारूढं तावत् तथात्वदार्ढ्याभावान्नैव सदुच्यते, इदमेतदिति व्यवहरणीयतां नैतीत्यर्थः | यतस्तद्विश्वमिच्छादिशक्तित्रयात्मनि विमर्शे लब्धप्ररोहं सत् परप्रमात्रात्मनि भैरवीये रूपे विसृज्यते तत्र विश्रान्तिं यायात्, -- इति संहारक्रमः | अथवा सृष्टिक्रमेण � तस्माद्भैरवीयाद्रूपात् तद्विश्वं बहिर्विसृज्यते शक्तित्रयसोपानावरोहक्रमेण कलादिक्षितिपर्यन्तेन स्थूलेन रूपेणावभास्यत इत्यर्थः | अनेन संवित्क्रमानतिवर्तितामभिद्योतयितुं श्रीपराबीजस्यापि उभयथा व्याप्तिगर्भीकारेणोदय उक्तः | तथाहि -- ᳚ब्रह्ममूलं सत्᳚ इत्यनेन सकारस्योद्धारः, यदाशयेनागमे ᳚तृतीयं ब्रह्म सुश्रोणि..............|᳚ (परात्री. १० श्लो.) इत्याद्युक्तम् | तस्यैव च ᳚मायाण्डसंज्ञितम्᳚ इत्यनेन व्याप्तेः प्रदर्शनम् | स च स्वरं विनोच्चारयितुं न शक्यः, इति
SK
᳚अस्ंमिश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके |᳚ इत्याद्युक्तेः इच्छादिनौकारस्योद्धारः, तस्य चेच्छादीनां शक्तित्वात्तदण्डव्याप्तेरपि प्रदर्शनम् | ᳚विसृज्यते᳚ इत्यनेन विसर्गस्योद्धारः, तस्यैव च ᳚भैरवीये चिदात्मनि᳚ इत्यनेन व्याप्तिः | यदुक्तम् -- शार्णेनाण्डत्रयं व्याप्तं त्रिशूलेन चतुर्थकम् | सर्वातीतं विसर्गेण पराया व्याप्तिरिष्यते ||᳚ इति || १८७ || एतदेवोपसंहरति -- एवं सद्रूपतैवैषां सतां शक्तित्रयात्मताम् || ४-१८८ || विसर्गः परबोधेन समाक्षिप्यैव वर्तते | एवं यथोक्तयुक्त्या, एषां ब्रह्माण्डादीनां, सतां विश्वरूपतया प्रतिभासमानानामेव, सद्रूपता परबोधेन सह शक्तित्रयात्मतां विसर्गं च समाक्षिप्यैव वर्तते, विसर्गोपारोहक्रमेण परप्रमात्रैकात्म्येन प्रस्फुरतीत्यर्थः | अनेन च सकारस्यैव औकारविसर्गक्रोडीकारेणाभिधानात् प्राधान्येनोक्तेः श्रीपराबीजस्य संहारक्रमेणोदयेऽपि सृष्टिप्राधान्यं दर्शितम् | यद्वक्ष्यति -- ᳚................प्राच्यं सृष्टौ च हृन्मतम् |᳚ इति || १८८ || एवं संवित्क्रमेण श्रीपराबीजस्योदयमभिधाय एतत्समानस्कन्धताभिधित्सया श्रीपिण्डनाथस्यापि उदयमभिधत्ते -- तत्सदेव बहीरूपं प्राग्बोधाग्निविलापितम् || ४-१८९ || अन्तर्नदत्परामर्शशेषीभूतं ततोऽप्यलम् | खात्मत्वमेव संप्राप्तं शक्तित्रितयगोचरात् || ४-१९० || वेदनात्मकतामेत्य संहारात्मनि लीयते |
SK
तत् विश्वं प्राग्बहीरूपतया प्रतिभासमानत्वेन सत् विद्यमानमेव, प्रतिभासमानत्वान्यथानुपपत्त्या बोधः प्रमाणात्मा संकुचितः प्रतिभासः, स एवाग्निः तेन विलापितं बहीरूपताया भस्मसात्कारेण स्वात्ममात्रपरमार्थतामापादितं सत्, अन्तः प्रमात्रैकात्म्येन नदन् इदन्तापरामर्शतिरस्कारेणोल्लसन् योऽसावहंपरामर्शः, तच्छेषीभूतं स्वस्वरूपपरिहारेण तदेकात्मतामापन्नमपि, अनन्तरमलं मानमेयाद्यात्मभेदसंस्कारस्यापि शून्यतापादनेन अत्यर्थं, खात्मत्वमेव संप्राप्तं परप्रमात्रात्मप्रकाशमात्ररूपतया प्रस्फुरितं सत्, क्रमात्क्रमं क्रियादिशक्तित्रयसोपानारोहेण वेदनात्मकतां विदिक्रियाकर्तृत्वात्मकस्वातन्त्र्यशक्तिरूपतामासाद्य, संहारात्मनि शर्वसंहारसंहारसंहारमपि संहरेत् | सा शक्तिर्देवदेवस्याभिन्नरूपा शिवात्मिका ||᳚ इत्याद्युक्तस्वरूपे श्रीकालसङ्कर्षिणीधाम्नि लीयते तदैकात्म्येन प्रस्फुरतीत्यर्थः | अत्र च संवित्क्रमेणैव श्रीपिण्डनाथस्य व्याप्तिः, -- इति तदनुसारेणैव तस्योद्धारः कृतः | तथा च -- विश्वेन्धनदाहकत्वात् ᳚बोधाग्निना᳚ इत्यनेन अग्निबीजस्य प्रमाणात्मनः संकुचितस्यापि बोधस्य मायाप्रमातरि लयः इति, ङाद᳚ इत्यादिना संहारकुण्डलिन्यात्मकस्यैतद्रूपलिपेः कूटवर्णस्य परप्रमातरि च मायाप्रमातृत्वस्याप्यभावः इति, ᳚खात्मत्वम्᳚ इत्यादिना व्योमात्मनः, खवर्णस्य परस्यापि प्रमातुरिच्छाद्याः शक्तयः सतत्त्वम् इति, ᳚शक्तित्रितय᳚ इत्यनेन तदात्मनो योनिबीजस्येच्छादीनां च शक्तीनां स्वातन्त्र्यशक्तौ पिण्डीभावः इति, ᳚वेदनात्मकताम्᳚ इत्यनेन बिन्दोश्चोद्धारः | एवं च रेफादिबिन्द्वन्तवर्णपञ्चकरूपतया श्रीपञ्चपिण्डनाथोऽयम् -- इत्यागमज्ञाः | अन्यत्र पुनरस्य ᳚शिवनभसि विगलिताक्षः कौण्डिल्युन्मेषविकसितानन्दः | प्रज्वलितसकलरन्ध्रः कामिन्या हृदयकुहरमधिरूढः || योगी शून्य इवास्ते तस्य स्वयमेव योगिनीहृदयम् | हृदयनभोमण्डलगं समुच्चरत्यनलकोटिशतदीप्तम् ||᳚ इत्यादिना भङ्ग्यन्तरेणोदय उक्तः || १९० ||
SK
एतदेवोपसंहरति -- इदं संहारहृदयं प्राच्यं सृष्टौ च हृन्मतम् || ४-१९१ || इदमित्यनेन श्रीपिण्डनाथपरामर्शः | अस्य च श्रीपराबीजवत् सृष्टिक्रमेण संभवत्यपि उदये रेफादीनां वर्णानां भेदसंहारकत्वात् तत्प्राधान्येन निर्देशः शंहारहृदयम्᳚ इति | अत एव श्रीस्तोत्रभट्टारकेऽपि -- ᳚कालानलाद् व्योमकलावसानं चिन्त्यं जगद्ग्रासकलालयेन | चक्रं महासंहृतिरूपमुग्रं गतं चिदाकाशपदस्थमित्थम् ||᳚ इत्यादिना संहारक्रमेणैव अस्योदय उक्तः | प्राच्यमिति प्रागुपात्तं जीवपराबीजम् | अस्य च संहारक्रमेणोदयेऽपि ᳚तत एव सकारेऽस्मिन् स्फुटं विश्वं प्रकाशते | अमृतं च परं धाम योगिनस्तत्प्रचक्षते ||᳚ इत्यादिपूर्वोक्तयुक्त्या विश्वाप्यायकारितया सृष्ट्यात्मनोऽमृतबीजस्य प्राधान्यात् तथा निर्देशः शृष्टौ हृत्᳚ इति || १९१ || एतदेवान्यत्रापि अतिदिशति -- एतद्रूपपरामर्शमकृत्रिममनाविलम् | अहमित्याहुरेषैव प्रकाशस्य प्रकाशता || ४-१९२ || एतद्वीर्यं हि सर्वेषां मन्त्राणां हृदयात्मकम् | विनानेन जडास्ते स्युर्जीवा इव विना हृदा || ४-१९३ || एतद्रूपः -- श्रीपराबीजादिविषयतया सृष्ट्यादिक्रमेणोदयमानः समनन्तरोक्तस्वभावो यः परामर्शस्तं स्वरसोदितत्वादकृत्रिमम्, अत एवेदन्तापरामर्शप्रतिपक्षभावात्मककालुष्याकलङ्कितत्वात् अनाविलम् ᳚अहमित्याहुः᳚ -- अहंपरामर्शात्मत्वेन कथयन्तीत्यर्थः, अहंपरामर्शोऽपि हि -- अनुत्तराद्धान्तं सृष्टिक्रमेण ततोऽपि अनुत्तरान्तं संहारक्रमेणोदेतीति भावः, यदुक्तं प्राक् -- ᳚अनुत्तराद्या प्रसृतिर्हान्ता विश्वस्वरूपिणी | प्रत्याहृताशेषविश्वानुत्तरे सा विलीयते ||᳚
SK
इति, एवं चास्य ᳚श्रीपराबीजपिण्डनाथाभ्यां समानकक्ष्यत्वम्᳚ इत्युक्तं स्यात्, परस्याः हि संविदोऽनन्तविश्ववैचित्र्यलयोदयरूपतया परिस्फुरणं नाम परमार्थः, स चैषामविशिष्टः, इति किं नाम भिन्नकक्ष्यत्वे निमित्तं स्यात् ? ननु परा संवित् तत्तद्रूपतया किमिति परिस्फुरति ? इत्याशङ्क्योक्तम् -- ᳚एषैव प्रकाशस्य प्रकाशता᳚ इति, अन्यथा हि अस्य परस्य प्रकाशस्य जडाद् घटादेर्वैलक्षण्यं न स्यात्, यदुक्तं प्राक् -- ᳚अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः | महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद् घटादिवत् || इति | ननु मन्त्राणां वीर्यमभिधातुमुपक्रान्तं तत् किमिति अकाण्ड एव परस्याः संविदः स्वरूपमुक्तम् ? इत्याशङ्क्याह -- ᳚एतदित्यादि᳚, एतदिति -- अहंपरामर्शानुस्यूतं संवित्तत्त्वं, सर्वेषामिति -- न केवलं श्रीपराबीजपिण्डनाथयोरेवेति भावः, अनेनेति -- अहंपरामर्शात्मना वीर्येण, जडा इति -- स्फुरत्ताशून्यत्वादप्रयोजका इत्यर्थः, यदुक्तम् -- ᳚आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत् |᳚ इति || १९२-१९३ || न केवलमनेन वीर्येण मन्त्र एव वीर्यवन्तो, यावत्तदितरदपीत्याह -- अकृत्रिमैतद्धृदयारूढो यत्किञ्चिदाचरेत् | प्राण्याद्वा मृशते वापि स सर्वोऽस्य जपो मतः || ४-१९४ || अकृतकाहंपरामर्शविश्रान्तो हि योगी तदनुवेधेन यत्किंचिद्बाह्यव्यवहारयोग्यं व्याहरेत् सोऽस्य सर्वो जपः -- सर्वमेवास्य स्वात्मदेवताविमर्शानवरतावर्तनात्मत्वेन मन्त्ररूपतया परिस्फुरेदित्यर्थः, यदुक्तम् -- ᳚श्लोकगाथादि यत्किंचिदादिमान्त्ययुतं यतः | तस्माद्विदंस्तथा सर्वं मन्त्रत्वेनैव पश्यति ||᳚ इति, अत एव ᳚कथा जप᳚ः (शिवषू. ३-२७) इत्याद्यन्यत्रोक्तम्, यदभिप्रायेणैव इतो बाह्यैरपि -- ᳚यो जल्पः स जपः ................|᳚ इत्याद्युक्तम्, अनेन च मन्त्रवीर्यानन्तर्येणानुजोद्देशोद्दिष्टं वास्तवं जपाद्युपक्रान्तम् || १९४ || तत्र जपस्य वास्तवं स्वरूपं तावदुक्तम्, इदानीमादिशब्देन स्वीकृतं वास्तवध्यानाद्यभिधातुमाह �
SK
यदेव स्वेच्छया सृष्टिस्वाभाव्याद् बहिन्तरा | निर्मीयते तदेवास्य ध्यानं स्यात्पारमार्थिकम् || ४-१९५ || एवंविधः खलु योगी सृष्ट्यादिपञ्चविधकृत्यकारित्वलक्षणात् स्वभावाद्धेतोः, यदेव स्वेच्छया बहिरन्तर्वा नीलसुखादि अवभासयति, तदेव नामास्य संविन्मात्ररूपत्वात् पारमार्थिकं ध्यानं, न तु नियतं दशभुजादि अन्यत्किचिदित्यर्थः || १९५ || ननु यद्येवं तद्दशभुजादि नियताकारं ध्यानादि किमिति उक्तम् ? इत्याशङ्क्याह -- निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति | फलार्थिनां काचिदेव ध्येयत्वेनाकृतिः स्थिता || ४-१९६ || निराकार इति -- नियताकाररहिते, इत्यर्थः || १९६ || ननु विश्वाकृतिचेच्चिद्धाम, तत् कथम् अस्याकारान्तराभासपरिहारेण नियताकारतयाभासः स्यात् ? -- इत्याशङ्क्याह � यथा ह्यभेदात्पूर्णेऽपि भावे जलमुपाहरन् | अन्याकृत्यपहानेन घटमर्थयते रसात् || ४-१९७ || तथैव परमेशाननियतिप्रविजृम्भणात् | काचिदेवाकृतिः काञ्चित् सूते फलविकल्पनाम् || ४-१९८ || यथाहि -- अभेदात् -- परस्पराविभागेनावभासात्, मृत्त्वकाञ्चनत्वघटत्वादिभिराभासैः, पूर्णे, अनेकाभाससंभिन्ने घटादौ भावे, जलमुपाहरन् -- उदकाहरणात्मनियतार्थक्रियार्थी प्रमाता, काञ्चनत्वाद्याकारान्तराभासमपहाय अर्थितातारतम्यात्मकाद्रसात्, तत्तदर्थक्रियाक्षमं घटमर्थयते � तत्त्वेनास्य अवभासो जायते इत्यर्थः, तथैव विश्वकृतित्त्वेऽपि चिद्धाम्नः पारमेश्वरनियतिशक्तिमाहात्म्यादाकृत्यन्तरपरिहारेण काचिदेवाकृतिः -- अर्थात् कस्यचित् एव काञ्चिदेव फलविकल्पनां सूते, इति युक्तमुक्तं ᳚फलार्थिनां काचिदेवाकृतिः ध्येयत्वेन स्थिता᳚ इति || १९७-१९८ || यस्तु न नियतार्थक्रियार्थी तस्यानवच्छिन्नमेव रूपमवभासते, इत्याह -- यस्तु संपूर्णहृदयो न फलं नाम वाञ्छति | तस्य विश्वाकृतिर्देवी सा चावच्छेदवर्जनात् || ४-१९९ || तेन बुभुक्षोर्नियताकारं ध्यानं, मुमुक्षोस्तु अनियताकारमिति विषयविभागः, यद्वक्ष्यति -- शाधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः |
SK
मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः ||᳚ इति || १९९ || एवं ध्यानस्य वास्तवं स्वरूपमभिधाय, मुद्राया अप्यभिधत्ते -- कुले योगिन उद्रिक्तभैरवीयपरासवात् | घूर्णितस्य स्थ्तिर्देहे मुद्रा या काचिदेव सा || ४-२०० || कुले -- शरीरे सत्यपि, प्राप्तपरमेश्वरैकात्म्यस्य योगिनः, अत एव तत्रैव दार्ढ्याद्विस्मृतदेहभावस्य, या काचन -- उत्थितत्वादिरूपा, देहे स्थितिः सैव चिच्छक्तिप्रतिकृतिरूपा वास्तवी मुद्रा, न तु नियतकरादिनिर्वर्त्यसंनिवेशादिरूपा इत्यर्थः | यदुक्तम् -- ङादो मन्त्रः स्थितिर्मुद्रा........................|᳚ इति, यदभिप्रायेणैवेतो बाह्यैरपि ᳚.....................ंउद्राया काचिदास्थितिः |᳚ इत्याद्युक्तम् || २०० || इदानीं होममपि वास्तवेन रूपेणाभिधातुमाह -- अन्तरिन्धनसंभारमनपेक्ष्यैव नित्यशः | जाज्वलीत्यखिलाक्षौघप्रसृतोग्रशिखः शिखी || ४-२०१ || बोधाग्नौ तादृशे भावा विशन्तस्तस्य सन्महः | उद्रेचयन्तो गच्छन्ति होमकर्मनिमित्तताम् || ४-२०२ || यदुक्तम् -- शप्तेन्द्रियशिखाजालजटिले जातवेदसि | बोधाख्ये भाववर्गस्य भस्मीभावोऽग्नितर्पणम् ||᳚ इति | यदभिप्रायेणैव अस्मद्गुरुभिरपि -- ᳚शश्वद्विश्वमनश्वर्रपकृतयो विश्वस्तचित्ता भृशं ये विज्ञानतनूनपाति विततोन्मेषा वषट् कुर्वते | तेषां संततसर्वमेययजनक्रीडामहायज्वनां नो मन्येऽवभृथक्षणः क्षणमपि क्षीणस्थितिर्लक्ष्यते ||᳚ इत्याद्युक्तम् || २०२ || न केवलमेतत् परस्वरूपावेशकारित्वादात्मन्येवोपयोगि, यावत्परत्रापि, इत्याह -- यं कञ्चित्परमेशानशक्तिपातपवित्रितम् | पुरोभाव्य स्वयं तिष्ठेदुक्तवद्दीक्षितस्तु सः || ४-२०३ || यं कञ्चित् -- ङ मे प्रियश्चतुर्वेदो मद्भक्तः श्वपचोऽपि वा | तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ||᳚ इत्याद्युक्तेरनियतं पारमेश्वरेणैव शक्तिपातेन पवित्रीकृतम्, अनुग्राह्यतया अग्रे भावयित्वा, उक्तवत् यथोक्तवास्तवजप्यादिनिष्ठतया, स्वयं -- स्वस्वरूप एव तिष्ठेत्, येनासौ दीक्ष्यः --
SK
᳚.......................भुजङ्गवद्गरलसंक्रामः |᳚ इत्याद्युक्तया तत्स्वरूपसंक्रमात् ᳚........................डीपाद्दीपमिवोदितम् |᳚ इतिन्यायेन दीक्षितः, -- पशुवासनाक्षैण्येन लब्धपरतत्त्वाधिगमो भवेदित्यर्थः || २०३ || नन्वकैकस्मादेव वास्तवाज्जप्यादेः स्वरूपविश्रान्तिः सिद्ध्येत् इति किं जप्यादिभिर्बहुभिरेवमुपदिष्टैः ? -- इत्याशङ्क्याह -- जप्यादौ होमपर्यन्ते यद्यप्येकैककर्मणि | उदेति रूढिः परमा तथापीत्थं निरूपितम् || ४-२०४ || इत्थमिति -- जप्यादीनां बहुधात्वेन || २०४ || ननु जप्यादीनां बहूनां कस्मान्निरूपणं कृतम्, इति प्रश्निते तदेवोत्तरीकृतम्, इति किमेतत् ? -- इत्याशङ्क्याह � यथाहि तत्र तत्राश्वः समनिम्नोन्नतादिषु | चित्रे देशे वाह्यमानो यातीच्छामात्रकल्पिताम् || ४-२०५ || तथा संविद्विचित्राभिः शान्तघोरतरादिभिः | भङ्गीभिरभितो द्वैतं त्याजिता भैरवायते || ४-२०६ || यथाहि तत्र तत्र समनिम्नोन्नतादिषु भूभागेषु वाहकेल्यात्मनि कर्कशपांसुलादौ चित्रे देशे कटकमण्डलादिना वाह्यमानोऽश्वो वाहकस्येच्छामात्रकल्पिताम् -- इच्छामात्रविधेयतां याति, तथा संविदपि शान्तघोरतरात्मभिः -- अघोर घोरघोरतरात्मकपरादिशक्तित्रयैकात्म्येन निरूप्यमाणाभिः अत एव विचित्राभिर्जप्यादिभिर्भङ्गीभिरभितः समन्ततः, तत् -- द्वैतं त्याजिता, भैरवायते -- भेदापहस्तनपूर्वमनुत्तरपरसंविद्रूपतया परिस्फुरतीत्यर्थः || २०५-२०६ || एतदेव हृदयङ्गमीकर्तुं दृष्टान्तान्तरप्रदर्शनेनाप्युपपादयितुमाह -- यथा पुरःस्थे मुकुरे निजं वक्रतं विभावयन् | भूयो भूयस्तदेकात्म वक्त्रं वेत्ति निजात्मनः || ४-२०७ || तथा विकल्पमुकुरे ध्यानपूजार्चनात्मनि | आत्मानं भैरवं पश्यन्नचिरात्तन्मयीभवेत् || ४-२०८ ||
SK
यथाहि कश्चिन्निजं वक्त्रं पुरोवर्तिनि मुकुरे, भूयो भूयो विभावयन् -- यत्नेन निरीक्षमाणो, निजात्मनः संबन्धि बिम्बभूतं तद्वक्त्रं तदेकात्म वेत्ति -- मामकमेवेदं वक्त्रमिति निश्चयोत्पादात् प्रतिबिम्बाभेदेनैव मन्यते, तथैव पूजाद्यात्मन्यनेकस्मिन् विकल्पमुकुरे बहुशः स्वात्मानं भैरवतया पश्यन्, अचिरेणैव कालेन तन्मयीभवेत् -- तदैवैकात्म्यं प्राप्नुयादित्यर्थः || २०७-२०८ || तन्मयीभावो नाम किंस्वरूपः ? इत्याह -- तन्मयीभवनं नाम प्राप्तिः सानुत्तरात्मनि | अनुत्तरात्मनि प्राप्त्यापि किं भवेत् ? -- इत्याशङ्क्याह -- पूर्णत्वस्य परा काष्ठा सेत्यत्र न फलान्तरम् || ४-२०९ || सा -- अनुत्तरात्मनि प्राप्तिः, सर्वतो नैराकाङ्क्ष्यात् ᳚पूर्णत्वस्य परा काष्ठा᳚ इति, नात्र अन्यत् किञ्चित् फलं संभवेत्, नहि अत्र साकाङ्क्षत्वस्य नामाप्यवशिष्यते येन फलान्तरमपि मृग्यं भवेदिति भावः, साकाङ्क्षो हि प्रमाता तत्फलमर्थयमानः प्रथमं तावत्साधनमन्विष्यति, यथोदकाहरणार्थी घटं तत्साधनं च प्राप्य तत्तत्फलमासादयेत्, इति नैराकाङ्क्ष्यस्योत्पादात् औदासीन्यमवलम्बमानः स्वात्मन्येव तिष्ठेत्, किं तु न तत् पूर्णं नैराकाङ्क्ष्यं -- क्षणान्तरेणाकाङ्क्षान्तरस्यापि उल्लासात्, अत एव न तत् पारमार्थिकं -- साकाङ्क्षत्वेऽपि तस्य तथाकल्पनात्, अतश्च तत्रोत्पन्नेऽपि फले फलान्तरं संभाव्यम् -- आकाङ्क्षान्तरस्यापि भावात्, यत्पुनः पारमार्थिकं पूर्णत्वं, तत्र न फलान्तरं संभवेत् -- सर्वत एव साकाङ्क्षत्वस्य संक्षयात् || २०९ || तदाह -- फलं सर्वमपूर्णत्वे तत्र तत्र प्रकल्पितम् | अकल्पिते हि पूर्णत्वे फलमन्यत्किमुच्यताम् || ४-२१० || पूर्णत्व इति -- पूर्णत्वनिमित्तम्, तत्रेति -- सर्वस्मिन् फले || २१० || एतदेव सप्रशंसमुपसंहरति -- एष यागविधिः कोऽपि कस्यापि हृदि वर्तते | यस्य प्रसीदेच्चिच्चक्रं द्रागपश्चिमजन्मनः || ४-२११ || नन्वेवंविधस्य यागविधेरधिगममात्रादेव किं नामानन्यसामान्यत्वमस्य भवेत् यदेवमुक्तम् ? -- इत्याशङ्क्याह --
SK
अत्र यागे गतो रूढिं कैवल्यमधिगच्छति | लोकैरालोक्यमानो हि देहबन्धविधौ स्थितः || ४-२१२ || अत्र -- एवंविधे यागे, लब्धप्ररोहः कश्चिदपश्चिजन्मा देहबन्धविधौ स्थितोऽपि -- जीवन्नपि, लोकैः -- बद्धात्मभिरन्यैः ᳚ग्राह्यग्राहकभावो हि सामान्यः सर्वदेहिनाम् |᳚ इत्याद्युक्त्या समानकक्ष्यतयैव व्यवहरन्नालोक्यमानः, कैवल्यमधिगच्छति � ग्राह्यग्राहकभावाद्यात्मकभेदापहस्तनेन प्रत्यभिज्ञातशिवस्वभावस्वात्ममात्ररूपतया प्रस्फुरतीत्यर्थः, अयमेव हि समानेऽपि व्यवहारे बद्धमुक्तयोर्विशेषो -- यन्मुक्तस्य स्वाङ्गरूपतया भावा अवभासन्ते, बद्धस्य तु स्वरूपतः परस्परतश्चात्यन्तं भेदेनेति, यदुक्तम् -- ᳚मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते | महेश्वरो यथा बद्धः पुनरत्यन्तभेदवत् || इति || २१२ || अत एव जीवन्मुक्तविषयतया भगवानपि एवमभ्यधात्, इत्याह � अत्र नाथः समाचारं पटलेऽष्टादशेऽभ्यधात् | अष्टादशे पटले -- प्रकृतत्वात् श्रीमालिनीविजयसत्के|| अत्रत्यमेव ग्रन्थं पठति -- नात्र शुद्धिर्न चाशुद्धिर्न भक्ष्यादिविचारणम् || ४-२१३ || न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च | न चापि तत्परित्यागो निष्परिग्रहतापि वा || ४-२१४ || सपरिग्रहता वापि जटाभस्मादिसंग्रहः | तत्त्यागो न व्रतादीनां चरणाचरणं च यत् || ४-२१५ || क्षेत्रादिसंप्रवेशश्च समयादिप्रपालनम् | परस्वरूपलिङ्गादि नामगोत्रादिकं च यत् || ४-२१६ || नास्मिन्विधीयते किञ्चिन्न चापि प्रतिषिध्यते | विहितं सर्वमेवात्र प्रतिषिद्धमथापि च || ४-२१७ || किं त्वेतदत्र देवेशि नियमेन विधीयते | तत्त्वे चेतः स्थिरीकायर्ंं सुप्रसन्नेन योगिना || ४-२१८ || तच्च यस्य यथैव स्यात्स तथैव समाचरेत् | तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि || ४-२१९ || न संस्पृश्येत दोषैः स पद्मपत्रमिवाम्भसा | विषापहारिमन्त्रादिसंनद्धो भक्षयन्नपि || ४-२२० || विषं न मुह्यते तेन तद्वद्योगी महामतिः |
SK
अनेन च वास्तवजप्यादिसामनन्तर्येण अनुजोद्देशोद्दिष्टस्य विधिनिषेधतुल्यत्वस्याप्युपक्षेपः कृत् || २१३-२२० || एतच्च बहुक्षोदक्षमत्वेन वैषम्यात् स्वयमेव व्याचष्टे -- अशुद्धं हि कथं नाम देहाद्यं पाञ्चभौतिकम् || ४-२२१ || प्रकाशतातिरिक्ते किं शुद्ध्यशुद्धी हि वस्तुनः | यन्नाम हि पाञ्चभौतिकं देहाद्यं ᳚रूपादिपञ्चवर्गोऽयं विश्वमेतावदेव हि |᳚ इत्याद्युक्तयुक्त्या निखिलमेव जगदुदरवर्ति पदार्थजातं, तत् कथमिवाशुद्धम् अर्थात् शुद्धं वा, यतः -- किं शुद्ध्यशुद्धी प्रकाशतातिरिक्ते बहिः सत्यपि वस्तुनि नीलानीलादिन्यायेन प्रतिभासविकारकारित्वाभावात् वस्तुधर्मतया न भवत इत्यर्थः, अतश्च यस्य यो न धर्मः स तथा न भवेदिति ᳚इदं शुद्धमिदमशुद्धम्᳚ इति विभागो दुष्येत्, ननु अनुभवापह्नवोऽयं -- लोकेनिर्बाधस्य शुद्ध्यशुद्धिव्यवहारस्य दर्शनात् ? नैतत् -- नहि वयं शुद्ध्यशुद्धिव्यवहारमपह्नुमहे, किं तु ᳚ते वस्तुधर्मतया न भवतः᳚ इत्युच्यते, प्रमाता हि व्यवस्यति -- इदं शुद्धमिदमशुद्धमिति, वस्तुधर्मत्वे हि अनयोरशुद्धं न कदाचिदपि शुद्ध्येत् शुद्धमपि वा नाशुद्धं स्यात्, नहि नीलमनीलमपि कदाचिद्भवेत् -- स्वभावस्यान्यथाकर्तुमशक्यत्वात्, तथात्वे च ᳚तैजसानां मणीनां च सर्वस्याश्ममयस्य च | भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ||᳚ इत्यादिश्रुतीनां युक्तिबाधितत्त्वं स्यात् || २२१ || एवं प्रमातृधर्मत्वेऽशुद्धं चेद्वस्त्वन्तरेण शोध्यते, तत् किं शुद्धेनाशुद्धेन वा ? इत्याह -- अशुद्धस्य च भावस्य शुद्धिः स्यात्तादृशैव किम् || ४-२२२ || अन्योन्याश्रयवैयर्थ्यानवस्था इत्थमत्र हि | तत्राशुद्धस्य पृथिव्यादेर्भावस्य तादृशेनैवाशुद्धेन जलादिना भावान्तरेण शुद्धिः स्यात् -- नैष पक्षो युज्यते इत्यर्थः, अत्र हि इत्थं -- वक्ष्यमाणेन प्रकारेण अन्योन्याश्रयतादिदूषणजालमापतेत् || २२२ || तदाह -- पृथिवी जलतः शुद्ध्येज्जलं धरणितस्तथा || ४-२२३ || अन्योन्याश्रयता सेयमशुद्धत्वेऽप्ययं क्रमः |
SK
अशुद्धाज्जलतः शुद्ध्येद्धरेति व्यर्थता भवेत् || ४-२२४ || वायुतो वारिणो वायोस्तेजसस्तस्य वान्यतः | अशुद्धादेव हि जलादेरशुद्धस्य पृथिव्यादेः शुद्धावुभयोरविशेषात् परस्परमपि स्यात् -- इतीदमन्योन्याश्रयत्वम्, एवमशुद्धस्यापि अशुद्धेनैवाशुद्धिश्चेत् क्रियते तदुभयोरप्यविशेषात् अन्योन्याश्रयत्वम् इत्युक्तम् ᳚अशुद्धत्वेऽप्ययं क्रम᳚ इति, एवं वैयर्थ्याद्यपि योज्यम्, अथाशुद्धस्य पृथिव्यादंरशुद्धादेव जलादेः शुद्धिः तत्तस्याशुद्धत्वाविशेषात् स्वयमेवास्तु, किमन्येनापि अशुद्धेन जलादिना -- इति वैयर्थ्यम्, अथ पृथिवी जलाच्छुद्धयेत्, जलमपि वायोः, सोऽपि तेजसः, तदप्यन्यस्मादाकाशादेः, तदप्यन्यतः -- इत्यनवस्थानम्, एवमशुद्धस्य पृथिव्यादेर्भावस्य अशुद्धादन्यतो जलादेः शुद्धिर्वा न घटते, इत्युक्तं स्यात् || २२३-२२४ || एवं तर्हि अन्यस्माच्छुद्धादेव शुद्धिः स्यात्, इत्याह -- बहुरूपादिका मन्त्राः पावनात्तेषु शुद्धता || ४-२२५ || पावनादिति -- अर्थात् स्वभावतः || २२५ || नन्वाकाशादिभूतपञ्चकगुणभूतशब्दात्मका मन्त्रा यदि स्वभावत एव शुद्धाः, तत् किमिति स्वयमेव पृथिव्यादयोऽपि स्वभावत एव शुद्धा न स्युः ? इत्याह -- मन्त्राः स्वभावतः शुद्धा यदि तेऽपि न किं तथा | ननु मन्त्राणां पावनत्वे शिवात्मतालक्षणं निमित्तान्तरमस्ति ? इत्याशङ्क्याह -- शिवात्मता तेषु शुद्धिर्यदि तत्रापि सा न किम् || ४-२२६ || ननु यदि नाम मन्त्राणं शिवात्मता पावनत्वे निमित्तं तत् तत्रापि भूतपञ्चकेसा न किं भवेत्, शिवात्मता हि प्रकाशरूपत्वमुच्यते, तेन विना च न किंचिदपि स्फुरति, इति प्रकाशमानत्वान्यथानुपपत्त्या अस्त्येवैषां तदात्मत्वम् || २२६ || अथ समानेऽपि शिवात्मत्वे मन्त्राणां मननत्राणधर्मकतया तथात्वेन परिज्ञानमस्ति, न धरादीनाम्, इति तद्वैलक्षण्येन मन्त्राणामेव शुद्धत्वमिति मतम्, इत्याह -- शिवात्मत्वापरिज्ञानं न मन्त्रेषु धरादिवत् | ते तेन शुद्धा इति चेत्तज्ज्ञप्तिस्तर्हि शुद्धता || ४-२२७ ||
SK
एवं तर्हि शिवात्मत्वेन ज्ञप्तिर्नाम शुद्धतोच्यते, इत्याह -- ᳚तज्ज्ञप्तिः᳚ इति || २२७ || सा च धरादिष्वपि समाना -- इत्याह -- योगिनं प्रति सा चास्ति भावेष्विति विशुद्धता | पशुप्रायाणां हि मन्त्रेष्वपि शिवात्मत्वेन परिज्ञानं नास्ति, -- इति तान् प्रति तेषां स्वकार्यकारित्वाभावात् संभावनीयमपि अशुद्धत्वम् | धरादीनां च योगिनं प्रति तत्परिज्ञानमस्ति, -- इति तेषामपि विशुद्धत्वम् | एतदेव हि नाम योगिनो योगित्वं यत् निखिलमिदं विश्वं शिवात्मतया परिजानाति इति | यथोक्तम् -- ᳚यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः | स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः ||᳚ इति | अतश्च यथोक्तयुक्तिबलाद्भावानां स्वात्मनि शुद्ध्यशुद्धिविभागो न सिद्ध्येत् -- इत्युक्तं स्यात् || ननु केनोक्तं यद्भावानां युक्तिबलेन शुद्ध्यशुद्धिविभाग -- इति, स हि शास्त्रेण व्यवस्थाप्यते, इत्याह -- ननु चोदनया शुद्ध्यशुद्ध्यादिकविनिश्चयः || २२८ || चोदना विधायकं वाक्यम्, यदाहुः -- ᳚चोदनेति क्रियायाः प्रवर्तकं वचनम् |᳚ इति | तया यच्छुद्धतया विहितं तच्छुद्धम्, अन्यथा त्वन्यत् | यत् स्मृतिः -- ᳚ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः | यान्यधःस्थान्यमेध्यानि देहाच्चैव मलाश्च्युताः ||᳚ इति | आदि ग्रहणेन भक्ष्याभक्ष्यादि || २२८ || ननु यदि नाम शुद्ध्यशुद्धिविभागे चोदनैव निमित्तं, तदस्तु को दोषः, किंतु तदविभागेऽपि एषा शिवोदिता चोदनैव निमित्तं ङात्र शुद्धिर्न चाशुद्धिः᳚ इति, तदाह -- इत्थमस्तु तथाप्येषा चोदनैव शिवोदिता | नन्वेवमुभयोरपि चोदनात्वाविशेषे का नाम तावत् प्रमाणभूता भवेत्, यदाश्रयणेन शुद्ध्यशुद्ध्यादिविनिश्चयं विधास्यामः ? इत्याशङ्क्याह -- का स्यात्सतीति चेदेतदन्यत्र प्रवितानितम् || ४-२२९ ||
SK
अन्यत्रेति, इह पुनर्ग्रन्थविस्तरभयान्न प्रवितानितमिति भावः | इह खलु समयोपस्कृतस्य शब्दस्यार्थावबोधमात्रे स्वातन्त्र्यम्, अर्थतथात्वेतरपरिनिश्चये पुरुषमुखप्रेक्षित्वात् पारतन्त्र्यमपरिहार्यम्; तेनाप्तोक्तत्वादेव असौ प्रमाणीभवति, अन्यथा पुनरप्रमाणमेव, -- इति निश्चयः | ततश्च वैदिक्यामस्यां वा चोदनायां साक्षात्कृतनिखिलधर्मा सकलजगदुद्दिधीर्षापर एक एव परमेश्वरः प्रामाण्यनिबन्धनं, तदुपदिष्टत्वात् सर्वशास्त्रणाम् | न च वैदिक्यां चोदनायामकर्तृत्वं वक्तं (शक्यं), रचनावत्त्वात्, सर्वरचनानां कर्तृपूर्वकत्वात्; अतश्चोभयोरपि चोदनयोः सत्त्वमविशिष्टम्, -- इति किमाश्रयणेन तावच्छुद्ध्यादिविवेकं कुर्मः, -- इति न जानीमः | न च अनयोः परस्परं बाध्यबाधकभावो युक्तः तुल्यबलत्वात्, एकतरत्र च दौर्बल्यनिमित्तानुलम्भात् | ननु अस्त्येव एकतरत्र दौर्बल्यनिमित्तं यद्वेदबाह्यत्वं नाम श्रुत्यन्तराणाम्, यदाहुः -- ᳚वेदवर्त्मानुवर्ती च प्रायेण सकलो जनः | वेदबाह्यस्तु यः कश्चिदागमो वञ्चनैव सा |᳚ इति | अतश्च वेदकर्तृक एवागमान्तराणां बोधः -- इति तदाश्रयेणैव युक्तः शुद्ध्यादिविभागः || २२९ || ननु यद्येवं तदितो बाह्यत्वाद्वैदिकीनां चोदनानामनयापि बाधः किं न भवेत् समानन्यायत्वात्, नहि एकतरत्र बलवत् किञ्चित्कारणमुत्पश्यामो, येन अन्यत्र नियमेन बाधः स्यात् ? तदाह -- वैदिक्या बाधितेयं चेद्विपरींतं न किं भवेत् |
SK
ननु यद्येवं तत्परस्परव्याहतत्वादुभयमपीदमप्रमाणम्, -- इति न किञ्चित् सिद्ध्येत् ? नैतत् ईश्वरप्रणीतत्वाख्यस्य बलवतः प्रामाण्यकारणस्योभयत्रापि सद्भावात् | तर्हि सुतरामिदमप्रामाण्यकारणं -- यदेकस्मिन्नपि उपदेष्टरि परस्परव्याहतत्वं नामेति ? नैतत् -- अधिकारिभेदेन तथोपदेशात् | भगवता हि शुद्ध्यादि सामान्येन सर्वपुरुषविषयतया चोदितं, विशिष्टविषयतया त्विदम्, इति न कश्चिदनयोरप्रामाण्यपर्यवसायी दोषः, तत् उभयोरपि चोदनयोर्भिन्नविषयत्वेनावस्थितेः सत्त्वमविशिष्टमेव -- इति सिद्धम् || ननु कथमनयोरविशिष्ट सत्त्वं शुद्ध्यादिविधेः सर्वपुरुषविषयतया प्रवृत्तावपि क्वचिद्विषये बाधात् ? इत्याशङ्क्याह -- सम्यक्चेन्मन्यसे बाधो विशिष्टविषयत्वतः || ४-२३० || अपवादेन कर्तव्यः सामान्यविहिते विधौ | यदि नाम बाधावृत्तं सम्यगवबुद्ध्यसे, तन्न कस्या अपि चोदनायाः सत्त्वहानिः | तथा हि निरवकाशत्वाद्विशेषात्मा अपवादविधिः सर्वत्र लब्धावकाशं सामान्यात्मकमुत्सर्गविधिं बाधते, इति वाक्यविदः | सर्वविषयावष्टम्भेन लब्धप्रतिष्ठोऽपि हि उत्सर्गविधिरपवादविधेर्विशिष्टं विषयं परिकल्प्य विषयान्तरे निर्वाधमभिनिविष्टो भवेत् | यदाह चूर्णिकाकारः -- ᳚प्रकल्प्यापवादविषयं तत उत्सर्गोऽभिनिविशते |᳚ इति | अत एवास्य क्वचिद्बाध्यत्वेऽपि अप्रामाण्यं नाशङ्कनीयं विषयान्तरे प्रमाणरूपत्वेन प्रतिष्ठानात् | स च द्विधा बाधः समानकार्यकारित्वाद्विरोधाद्वा तत्र | ᳚चमसेनापः प्रणयेत् |᳚ इति चमसेनापां प्रणयनं सामान्येन विहितम् | ᳚गोदोहनेन पशुकामस्य प्रणयेत् |᳚ इति पशुकामात्मविशिष्टविषयत्वेन अपवादात्मा गोदोहनविधिः अप्प्रणयनलक्षणसमानकार्यकारित्वाद्बाधते | ᳚अष्टाश्रिर्यूपो भवति |᳚ इति सामान्येन सर्वक्रतुकविषयतया विहितोऽपि अष्टाश्रिर्यूपः ᳚वाजपेयस्य चतुरश्रः |᳚ इत्यनेन अपवादविधिना विरोधाद्बाध्यते || २३० || ननु एवमपि प्रकृते किम् ? -- इत्याशङ्क्याह --
SK
शुद्ध्यशुद्धी च सामान्यविहिते तत्त्वबोधिनि || ४-२३१ || पुंसि ते बाधिते एव तथा चात्रेति वर्णितम् | वैदिक्या चोदनया सामान्येन सर्वपुरुषविषयतया विहिते अपि ते शुद्ध्यशुद्धी तत्त्वज्ञविषये अर्थाद्विरोधेन बाधिते एव, न न बाधिते भवत इत्यर्थः | अत्र हेतुः ᳚तथा चात्रेति वर्णितम्᳚ इति, ङात्र शुद्धिर्न चाशुद्धिः.............. |᳚ इत्यपवादात्म तत्त्वज्ञविषयं विधिवाक्यमुक्तमित्यर्थः || २३१ || ननु नात्र विधिवाक्यत्वं वक्तुं युक्तं निर्बाधस्य शुद्ध्यशुद्धिविभागस्य लोक दर्शनात्, प्रत्यक्षादिप्रमाणान्तरविरुद्धत्वात्, तेनावश्यमनेन अर्थवादेन भाव्यं, तद्धि भूम्ना विध्येकवाक्यतयोच्यते; अतश्च तदर्थेनैव अस्यार्थवत्त्वं न स्वतः; अत एवास्य स्वरूपपरत्वाभावान्न प्रमाणान्तरविरोधः | अर्थवादवाक्याद्धि विधौ श्रद्धातिशयो जायते, येन तत्र सादरं प्रवर्तते लोकः | यदाहुः -- ᳚विधिशक्तिरवसीदति तां प्राशस्त्यज्ञानं समुत्तभ्नाति |᳚ इति | तेन ᳚मृच्छैलधातुरत्नादिभवं लिङ्गं न पूजयेत् | यजेदाध्यात्मिकं लिङ्गं यत्र लीनं चराचरम् ||᳚ इत्यादेः श्रूयमाणस्य सर्वनिर्विकल्पेन योगिना भाव्यम्, -- इत्यादेः परिकल्प्यमानस्य वा विधेः प्ररोचनाकारितया शेषभूतोऽयमर्थवाद एव ? -- इत्याशङ्क्याह -- नार्थवादादिशङ्का च वाक्ये माहेश्वरे भवेत् || ४-२३२ || यदुक्तम् -- ᳚विधिवाक्यमिदं तन्त्रं नार्थवादः कदाचन | झटिति प्रत्यवायेषु सत्क्रियाणां फलेष्वपि ||᳚ इति | तथा ᳚.....................णार्थवादः शिवागमः |᳚ इति | माहेश्वर इति विशेषणद्वारेण महेश्वरप्रणीतत्वं हेतुरुक्तः; यन्नाम हि बुद्धिमान् प्रयुङ्क्ते तन्न कदाचिद्व्यर्थं भवेदिति भावः || २३२ || यत् पुनर्बद्धिमता न प्रयुक्तं तत्रैवं संभावना भवेत्, -- इत्याह - - अबुद्धिपूर्वं हि तथा संस्थिते सततं भवेत् | व्योमादिरूपे निगमे शङ्का मिथ्यार्थतां प्रति || ४-२३३ ||
SK
इह खलु निगमे वेदशास्त्रे, सततं विधिवाक्यानामर्थवादवाक्यानां वा श्रुतिकाले, मिथ्यार्थतां प्रति असदर्थत्वविषये प्रेक्षापूर्वकारिणां शङ्का भवति -- इति संभाव्यं; यतः स परमते घनगर्जितवदबुद्धिपूर्वम् अबुद्धिमत्कर्तृकत्वेन तथा विध्यर्थवादरूपतया संस्थितः; अत एवानर्थक्येन शून्यप्रायत्वात् ᳚व्योमादिरूपे᳚ इत्युक्तम् | यदभिप्रायेणैव -- ᳚आप्तं तमेव भगवन्तमनादिमी शमाश्रित्य विश्वसिति वेदवचस्तु लोकः | तेषामकर्तृकतया तु न कश्चिदेव विस्रम्भमेति मतिमानिति वर्णितं प्राक् ||᳚ इत्याद्यन्यत्रोक्तम् || २३३ || यत्र पुनरवच्छिन्नविज्ञानात्मा परमेश्वर एव शास्त्ररूपेणावस्थितः, तत्र का नाम मिथ्यार्थत्वं प्रति शङ्का भवेत् ? -- इत्याह -- अनवच्छिन्नविज्ञानवैश्वरूप्यसुनिर्भरः | शास्त्रात्मना स्थितो देवो मिथ्यात्वं क्वापि नार्हति || ४-२३४ || ᳚मिथ्यात्वं क्वापि नार्हति᳚ इत्यत्र पूवार्धं हेतुः || २३४ || नन्वीश्वरः सर्वशास्त्राणां प्रणेता -- इत्यधिगतमस्माभिः, न तु स एव तदात्मनावस्थितः, -- इत्यपूर्वमिदं किमुच्यते ? -- इत्याशङ्क्याह -- इच्छावान्भावरूपेण यथा तिष्ठासुरीश्वरः | तत्स्वरूपाभिधानेन तिष्ठासुः स तथा स्थितः || ४-२३५ || यथा खलु परमेश्वरः स्वेच्छामाहात्म्याद्वाच्यात्मप्रमातृप्रमेयादिभावरूपेण स्थातुमिच्छुः सन्, तथा वाच्यात्मविश्वरूपतया स्थितः; तथाशब्दस्यावृत्त्या तथा तद्वदेव तस्य प्रमातृप्रमेयात्मनो वाच्यस्य विश्वस्य यत् स्वम् अन्यापोढं रूपं तस्याभिधानेन वाचकतया स्थातुमिच्छुः सन् तथा वाचकात्मशास्त्ररूपतया स्थितः इत्यर्थः || २३५ || एवमपि यद्यस्य क्वचिन्मिथ्यार्थत्वं स्यात् तदापि न कश्चिद्दोषः, इत्याह -- अर्थवादोऽपि यत्रान्यविध्यादिमुखमीक्षते | तत्रास्त्वसत्यः स्वातन्त्र्ये स एव तु विधायकः || ४-२३६ ||
SK
यत्र खलु स्तुतिनिन्दादिरूपोऽर्थवादोऽन्यस्य विधिनिषेधात्मनो विधिवाक्यस्याङ्गभावमियात् तत्र स्वरूपपरत्वाभावादसावसत्योऽस्तु न कश्चिद्दोषः; नहि अस्य यथाश्रुतोऽर्थः प्रतिपाद्यः, किंतु विधेयो निषेध्यो वा, यदस्याङ्गभावेन प्रतिष्ठानम्; अत एव विधिवाक्यैकवाक्यतयैव अस्य प्रामाण्यम् -- इति वाक्यविदः | यदाहुः -- ᳚इत्यर्थवादा विधिनैकवाक्यभावात्प्रमाणत्वममी भजन्ते ||᳚ इति | तथाहि -- ᳚बर्हिषि रजतं न देयम् |᳚ इत्यस्य विधेः शेषभूतस्य शोऽरोदीद्यदरोदीत् तद्रुद्रस्य रुद्रत्वम् |᳚ इत्यादेरर्थवादस्य न रुद्ररोदनादि प्रतिपाद्यं, किन्तु ᳚बर्हिषि यो रजतं ददाति पुरास्य संवत्सराद् गृहे रोदनं भवति |᳚ इति ᳚बर्हिषि रजतं न देयम्᳚ इति | स एव पुनरर्थवादो यद्यन्याङ्गभावं यायात् तदा विधायको यथाश्रुतार्थप्रतिपादको भवेदित्यर्थः | शोऽरोदीत्᳚ इत्यादावर्थवादवाक्ये हि ᳚रुद्रो रुरोद तस्य यदश्रु अशीर्यत तद्रजतमभवत् |᳚ इति-वृत्तप्रतिपादनं सत्यार्थमेवेदम्, एवं प्रायाणां बहूनामितिवृत्तानां सत्यत्वेनेष्टेः | तदुक्तम् -- ᳚यद्वा स्वरूपपरतामपि संस्पृशन्तः प्रमाण्यवर्त्मन इमे न परिच्यवन्ते | नैयायिका हि पुरुषातिशयं वदन्तो वृत्तान्तवर्णनमपीह यथार्थमाहुः ||᳚ इति || २३६ || न केवलमस्य स्वातन्त्र्य एव सत्यार्थत्वं यावत्पारतन्त्र्येऽपि -- इत्याह -- विधिवाक्यान्तरे गच्छन्नङ्गभावमथापि वा | न निरर्थक एवायं संनिधेर्गजडादिवत् || ४-२३७ ||
SK
यद्वा विधिनिषेधात्मनो विधिवाक्यस्याङ्गभावं गच्छन्नपि अयमर्थवादः संनिहितत्वान्ननिर्थक एव भवेत् अत्र दृष्टान्तः ᳚गजडादिवत्᳚ इति | यथाहि पदाद्यङ्गत्वेन संनिहिता वर्णा न निरर्थकाः तथायमपीति वर्णानामानर्थक्ये हि वर्णव्यत्ययेऽर्थान्तरगमनं न स्यात्, यथा गजः जडः षोडः (?) इति | सङ्घातस्यापि अर्थवत्त्वं न स्यात् -- अवयवानामानर्थक्ये हि समुदायोऽप्यनर्थक एव भवेत्, यथा एकस्या अपि सिकतायास्तैलदानासामर्थ्ये तत्समुदायो राशिरप्यसमर्थः -- इति | एवमर्थवादस्यापि आनर्थक्ये तत्संनिधानेन विधीयमाने निषिध्यमाने वार्थे सादरं प्रवृत्तिर्निवृत्तिर्वा न स्यात् | शोऽरोदीत्᳚ इत्यादौ हि रोदनप्रभवं रजतं निन्दितुमेवमुक्तं येन बर्हिषि तद्दानात् सादरं निवृत्तिर्भवेत् | लोकेऽपि खलु ᳚इयं गौः क्रेतव्या᳚ इत्यतो न तथा क्रेतारः प्रवर्तन्ते, यथा ᳚एषा बहुस्निग्धक्षीरा सुशीला स्त्र्यपत्यानघप्रजा च᳚ इत्येवमादिभ्यः स्तुतिपदेभ्यः, -- इति स्वानुभवसाक्षिकोऽयमर्थः || २३७ || अत आह -- स्वार्थप्रत्यायनं चास्य स्वसंवित्त्यैव भासते | तदपह्नवनं कर्तुं शक्यं विधिनिषेधयोः || २३८ || अथ यद्येतत् बलात्कारेणापह्नूयते तत् विधिनिषेधात्मनो विधिवाक्यस्यापि अर्थापह्नवः कर्तुं शक्यः, -- इत्याह ᳚तदपह्नवनम्᳚ इत्यादि || २३८ || न केवलमत्र स्वसंवित्तिरेव साधकं प्रमाणमस्ति, यावद्युक्तिरपि -- इत्याह -- युक्तश्चात्रास्ति वाक्येषु स्वसंविच्चाप्यबाधिता | या समग्रार्थमाणिक्यतत्त्वनिश्चयकारिणी || ४-२३९ || युक्तिरिति समनन्तरोक्ता || २३९ || ननु भवतु नामेदमर्थवादवाक्यं विधिवाक्यं वा किमनया नश्चिन्तया, तत्रापि वेदशास्त्रोक्तः शुद्ध्यादिविभागस्तावत् यथोक्तयुक्त्या बाधितः, अनेन च न किञ्चिच्छुद्धं विहितं नाप्यशुद्धं तृतीयश्च राशिर्नास्ति, -- इति शुद्ध्यशुद्धिविधानमेव न सिद्ध्येत् ? -- इत्याशङ्क्याह -- मृतदेहेऽथ देहोत्थे या चाशुद्धिः प्रकीर्तिता | अन्यत्र नेति बुद्ध्यन्तामशुद्धं संविदश्च्युतम् || ४-२४० ||
SK
संवित्तदात्म्यमापन्नं सवर्ंं शुद्धमतः स्थितम् | वेदशास्त्रे हि मृतदेहे देहाच्च्युते मलादौ च यदशुद्धिरुक्ता अन्यत्र जीवद्देहे देहस्थ एव मलादौ च न, -- इत्यतः संवित्सहभावासहभावनिबन्धनाद्धेतोः संविदः सकाशात् यत् च्युतं भिन्नं तदाशुद्धं बुद्ध्यन्तां विशेषानुपादानात् सर्व एवावगच्छन्त्वित्यर्थः | अत एव च यत्किंचित् संविदैक्यमापन्नं तत् सर्वं शुद्धमिति; तेन संविदैकात्म्यानैकात्म्याभ्यां सर्वत्र शुद्ध्यशुद्धिविभागः, -- इति स्थितं सिद्धम् || २४० || न च एतद्युक्तिमात्रेणैव सिद्धं यावदागमेनापि, -- इत्याह -- श्रीमद्वीरावलौ चोक्तं शुद्ध्यशुद्धिनिरूपणे || ४-२४१ || तदेव शब्दद्वारेण पठति -- सर्वेषां वाहको जीवो नास्ति किञ्चिदजीवकम् | यत्किंचिज्जीवरहितमशुद्धं तद्विजानत || ४-२४२ || जीवयति निखिलमिदं भूतजातं ज्ञानक्रियोत्तेजनेन प्राणयति -- इति जीवः परप्रकाशः, स सर्वेषां प्रमातृप्रमेयात्मनो विश्वस्य वाहयति संधारयति -- इति वाहकः स्वात्मसंलग्नतयावभासक इत्यर्थः | अत्र हेतुः ङास्ति किञ्चिदजीवकम्᳚ इति, नहि प्रकाशातिरिक्तं किञ्चिदपि भायादिति भावः | यत् पुनः किञ्चिज्जीवरहितं तदैकात्म्येनासंवेद्यमानं, तदशुद्धं विजानत अनुपपत्त्यवस्करदूषितत्त्वात् परिहरणीयतयावगच्छतेत्यर्थः | एवं संविदतिरिक्तस्याशुद्धत्वेनाभिधानात् इतरत् पुनः शुद्धमेव -- इत्यर्थसिद्धम् || २४२ || तदाह -- तस्माद्यत्संविदो नातिदूरे तच्छुद्धिमावहेत् | तदुक्तं तत्रैव -- ᳚अशुद्धं नास्ति तत्किञ्चित्सर्वं तत्र व्यवस्थितम् | यत्तेन रहितं किञ्चिदशुद्धं तेन जायते ||᳚ इति || नन्वेवं शुद्ध्यशुद्धिविभागो न कैश्चिन्महात्मभिः परिगृहीतः -- इति कथमत्र सतां समाश्वासः स्यात् ? -- इत्याशङ्क्याह -- अविकल्पेन भावेन मुनयोऽपि तथाभवन् || ४-२४३ || तथेति संविदैकात्म्यानैकात्म्याभ्यां शुद्ध्यशुद्धिविभागभाज इत्यर्थः | तदुक्तं तत्र ᳚ऋष्भिर्भक्षितं पूर्वं गोमांसं च नरोद्भवम् |᳚
SK
इति | यदि नाम हि ते -- द्रव्याणां संविदैकात्म्यमेव शुद्धिः -- इति न जानीयुः, तत् कथं शास्त्रबहिष्कृतं लोकविरुद्धं गोमांसादि भक्षयेयुः; अत एव हि बाह्यचर्यायाम् ᳚यद्द्रव्यं लोकविद्विष्टं यच्च शास्त्रबहिष्कृतम् | यज्जुगुप्स्यं च निन्द्यं च वीरैराहार्यमेव तत् ||᳚ इत्याद्युक्त्या विकल्पप्रहाणाय लोकशास्त्रविरुद्धं द्रव्यजातमभिहितम् | यन्नाम सर्वद्रव्याणां लोकविरुद्धत्वादि न वास्तवं रूपं, किंतु परा संविदेव, -- इति किं नाम जुगुप्स्यं निन्द्यं वा, सर्वत्रैव संविद्रूपत्वाविशेषात्; अत एव तत्र चित्तप्रत्यवेक्षामात्रमेव प्रयोजनं -- किं संविदेकाग्रीभूतं चित्तं न वा -- इति | यदुक्तम् -- ङ चर्या भोगतः प्रोक्ता या ख्याता भीमरूपिणी | स्वचित्तप्रत्यवेक्षातः स्थिरं किं वा चलं मनः ||᳚ इति || २४३ || ननु यद्येवं तन्मुनिभिर्गेमांसादि कथमभक्ष्यतयोपदिष्टम् ? -- इत्याशङ्क्याह -- लोकसंरक्षणार्थं तु तत्तत्त्वं तैः प्रगोपितम् | एवमुपदिष्टे हि अलब्धसंविदैकात्म्योऽपि लोको लोभलौल्याभ्यां यत्तत् कुर्वाणो लोकयात्रामुच्छिन्द्यात् -- इति, तत् तत्त्वं संविदद्वैतात्म पारमार्थिकं रूपं तैः प्रकर्षेण तत्तद्द्रव्यदूषणादिद्वारेण गोपितं न प्रकाशितमित्यर्थः | यदुक्तं तत्रैव -- ᳚ज्ञात्वा समरसं सर्वं दूषणादि पुनः कृतम् |᳚ इति | यदभिप्रायेणैव ᳚यत्ते कुर्युर्न तत्कुर्याद्यद्ब्रूयुस्तत्समाचरेत |᳚ इत्यादि अन्यत्रोक्तम् | नन्विदं भावजातं बहीरूपतया चेन्न संभवति तत् कस्य शुद्ध्यशुद्धी स्यातां, यदधिकारेणापि अयं विचार आरभ्यते; अथ यदि संभवति, तद्यथैव संभवति तथैव भवेत्, किं तस्य प्रमातृसंबन्धिना परिज्ञानेन ? -- इत्याशङ्क्याह -- बहिः सत्स्वपि भावेषु शुद्ध्यशुद्धी न नीलवत् || ४-२४४ || प्रमातृधर्म एवायं चिदैक्यानैक्यवेदनात् |
SK
बहीरूपतयाभ्युपगम्यमानेष्वपि भावेषु नीलादिन्यायेन प्रतिभासविकारकारित्वाभावात् शुद्ध्यशुद्धी न वस्तुनो धर्मः, किंतु प्रमातुः; प्रमाता हि चिदैक्यानैक्यवेदकतया सातिशस्यः संस्तथा व्यवस्यति ᳚इदं शुद्धमिदमशुद्धम्᳚ इति; अत एव शुद्ध्यशुद्धी न नियते, कस्यचिद्धि यदशुद्धं तन्नान्यस्येति | वस्तुधर्मत्वे हि भवेन्नाम अयं नियमो -- यदिदं शुद्धमिदमशुद्धम् -- इति, नहि कस्यचित् नीलमप्यनीलं भवेत् || २४४ || ननु प्रमातुस्तत्तद्वस्तुदर्शनेनैव हि मनः प्रसीदेद्विचिकित्स्याच्च, -- इति कथं न शुद्ध्यशुद्धी वस्तुनो धर्मः? -- इत्याशङ्क्याह -- यदि वा वस्तुधर्मोऽपि मात्रपेक्षानिबन्धनः || ४-२४५ || सौत्रामण्यां सुरा होतुः शुद्धान्यस्य विपर्ययः | यदि नाम शुद्ध्यशुद्ध्योर्वस्तुधर्मत्वमभ्युपेयते, तदपि प्रमातृपारतन्त्र्यमेव अत्र निबन्धनं भवेत् | यथाहि -- यमेव प्रमातारमपेक्ष्य द्वित्वबुद्धिरुपजायते तस्यैव तद्ग्रहो भवेत् नेतरस्य, तत्र तस्यैकत्वादिबुद्ध्युपजननस्यापि संभाव्यमानत्वात्; एवं येनैव प्रमात्रा यच्छुद्धतया गृहीतं तस्यैव तच्छुद्धं नापरस्य | तथाहि -- एकैव सुरा सौत्रामण्यां होतुर्याजकस्य शुद्धा अवघ्रणभक्षणादौ योग्येत्यर्थः | शुराया अवघ्रणः कर्तव्यः |᳚ इति | अन्यस्य सौत्रामण्यामयाजकस्य पुनरशुद्धा अवघ्रणादावयोग्येत्यर्थः | यत्स्मृतिः -- ᳚ब्रह्मणस्य रुजः कृत्या घ्रतिरघ्रेयमद्ययोः | जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ||᳚ इति | तस्मात् वस्तुधर्मत्वेऽपि अनयोर्मात्रपेक्षानिबन्धनत्वं यदि न स्यात्, तत् सर्वानेव प्रति सुरायाः शुद्धत्वमेव भवेदशुद्धत्वमेव वेति | एवं सुरायाः सामान्येनाशुद्धत्वं विहितं, सौत्रामणीहोतृविषयत्वेन विशेषश्रुत्या विरोधाद्बाधितमित्यवगन्तव्यम् || २४५ || ननु उक्तवच्छैव्या चोदनया यदि वैदिकीचोदना बाधिता तद्यावदास्तां, वैदिक्या पुनश्चोदनया स्वेनैव सर्वं बाध्यते -- इत्येतन्न यौक्तिकमिव नः प्रतिभासते ? इत्याशङ्क्याह --
SK
अनेन चोदनानां च स्ववाक्यैरपि बाधनम् || ४-२४६ || क्वचित्संदर्शितं ब्रह्महत्याविधिनिषेधवत् | श्ववाक्यैः᳚ इति अपवादरूपैः | ᳚क्वचित्᳚ इति उत्सर्गविषये | शंदर्शितम्᳚ इत्यनेन यथोक्तयुक्त्या नैवमयौक्तिकत्वपर्यवसायी कश्चिद्दोषः -- इति प्रकाशितम् | अपिशब्देन न केवलं शास्त्रन्तरीयैर्वाक्यैः, -- इत्युक्तम् | अतश्च नास्माभिरपूर्वं किञ्चिदुत्प्रेक्षितं -- यन्नामोक्तं ᳚शैव्या विशेषचोदनया सामान्यात्मिका वैदिकी चोदना बाधिता᳚ इति | न च एतत् प्रामादिकम् अपितु भूम्ना, -- इति दर्शयितुं ᳚ब्रह्महत्याविधिनिषेधवत्᳚ इति दृष्टान्तितम् | एवं यथा -- ᳚ब्रह्मणो न हन्तव्यः |᳚ इति सामान्येन ब्रह्महत्यानिषेधो विहितः ᳚ब्रह्मणो ब्रह्मणमालभेत |᳚ इति विशेषश्रुत्या बाधितः, तथा सुराया अपि अशुद्धत्वमित्यर्थः || २४६ || एवं शुद्ध्यशुद्धिविषये कृतं विचारमन्यत्रापि अतिदिशति -- भक्ष्यादिविधयोऽप्येनं न्यायमाश्रित्य चर्चिताः || ४-२४७ || ङ भक्ष्यादिविचारणम्᳚ इत्यत्र ङात्र भक्ष्यं न चाभक्ष्यम्᳚ इत्यादयोऽर्थसामर्थ्यलभ्या विधयोऽपि अनेनैव न्यायेन गतार्थाः, -- इत्यर्थः || २४७ || ननु यथा शैव्या विशेषचोदनया सामान्यात्मिका वैदिकी चोदना बाध्यते, तथा वैदिक्यापि शैवी चोदना किं न वा ? इत्याशङ्कां गर्भीकृत्य आगमार्थमेव दर्शयितुमुपक्रमते -- सर्वज्ञानोत्तरादौ च भाषते स्म महेश्वरः | तदेवार्थद्वारेण पठति -- नरर्षिदेवद्रुहिणविष्णुरुद्राद्युदीरितम् || ४-२४८ || उत्तरोत्तरवैशिष्ट्यात् पूर्वपूर्वप्रबाधकम् | नरोक्तस्य ऋष्युक्तं बाधकं, यावद्विष्णूक्तस्य रुद्रोक्तम्, तदाह -- पूर्वपूर्वप्रबाधकम्᳚ इति | अत्र उत्तरोत्तरवैशिष्ट्यं हेतुः | सामान्यस्य हि विशेषेण बाधो न्याय्यः, इति भावः || २४८ || अत एव विपर्ययेण बाधो न भवेदित्याह -- न शैवं वैष्णवैर्वाक्यैर्बाधनीयं कदाचन || ४-२४९ || वैष्णवं ब्रह्मसंभूतैर्नेत्यादि परिचर्चयेत् | ᳚ब्रह्मसंभूतैः᳚ वेदवाक्यैरित्यर्थः | यच्छ्रुतिः -- ᳚प्रजापतिना चत्वारो वेदा असृज्यन्त |᳚
SK
इति | यत्र च वैष्णवं वेदवाक्यैर्न बाध्यते तत्र शैवबाधने का वार्ता, -- इत्यर्थसिद्धम् | आदिशब्दाद् ब्रह्मसंभूतानामपि देववाक्यैर्न बाधः, -- इत्यादि ग्राह्यम् | यदुक्त्ं तत्र -- ङ पुंभिरार्षवाक्यं च वैदिकं चर्षिभिस्तथा | न देर्वैब्रह्मणो वाक्यं वैष्णवं पद्मजन्मजैः || न शैवं विष्णुवचनैर्बाध्यते तु कदाचन |᳚ इति || २४९ || ननु विपर्ययेणापि बाधे को दोषः ? -- इत्याशङ्क्याह -- बाधते यो वैपरीत्यात्स मूढः पापभाग्भवेत् || ४-२५० || वैपरीत्यं पूर्वेणोत्तरस्य बाधः | यदुक्तं तत्र -- ᳚यो हि बाधयते पापः स मूढो नष्टचेतनः | उत्तरोत्तरवैशिष्ट्यं सर्वेषं परिकीर्तितम् ||᳚ इति || २५० || एवं सर्वोत्कृष्टत्वाच्छैव एव शास्त्रे मुख्यया वृत्त्या निष्ठा कार्या, नान्यत्रेत्याह -- तस्मान्मुख्यतया स्कन्द लोकधर्मान्न चाचरेत् | निष्ठाशून्यतया तु गौण्या वृत्त्या लोकसंरक्षणार्थं लोकधर्मानाचरतो न कश्चिद्दोषः, -- इति भावः | तदुक्तं तत्र -- ᳚ये तु वर्णाश्रमाचाराः प्रायश्चित्ताश्च लौकिकाः | संबन्धान्देशधर्मांश्च प्रसिद्धान्न विचारयेत् || गर्भाधानादितः कृत्वा यावदुद्वाहमेव च | तावत्तु वैदिकं कर्म पश्चाच्छैवे ह्यनन्यभाक् | न मुख्यवृत्त्या वै स्कन्द लोकधर्मान्समाचरेत् ||᳚ इति | अत एव ᳚अन्तः कौलो बहिः शैवो लोकाचारे तु वैदिकः | सारमादाय तिष्ठेत नारिकेलफलं यथा ||᳚ इत्यादि अन्यत्रोक्तम् || ननु मुख्यया वृत्त्या यदि लोकधर्मान्नानुतिष्ठेत् तच्छैवशास्त्राङ्गभावेन किं न वा ? -- इत्याशङ्क्याह -- नान्यशास्त्रसमुद्दिष्टं स्रोतस्युक्तं निजे चरेत् || ४-२५१ || ङिजे स्रोतसि -- आत्मीये शास्त्रे ᳚आ कण्ठतः पिबेन्मद्यम् ................... |᳚ इत्याद्युक्तमेवार्थं ᳚चरेत्᳚ अनुतिष्ठेत्, न पुनस्तमपास्य शुरा न पेया |᳚ इत्यादि शास्त्रान्तरोद्दिष्टम् | भगवता हि पृथगधिकारिभेदेन परस्परविलक्षणानि शास्त्राण्युपदिष्टानि, -- इत्यन्यं प्रति उपदिष्टं कथमन्यस्यानुष्ठेयं स्यात् | तदुक्तं तत्र
SK
ङान्यशास्त्रसमुद्दिष्टं न चान्यां देवतां स्मरेत् | विशुद्धभावनायुक्तः शिवैकगतमानसः ||᳚ इति | एतच्च समानतन्त्रापेक्षयापि योज्यं; यतस्तान्यपि क्रियादिभेदाद्भिन्नान्येव, -- इत्यागमविदः | यदाहुः -- ᳚क्रियादिभेदभेदेन तन्त्रभेदो यतः स्मृतः | तस्माद्यत्र यदेवोक्तं तत्कार्यं नान्यतन्त्रतः || इति | अपेक्षायां पुनरुत्पन्नायां शास्त्रान्तरादपेक्षणीयम्, अन्यथा हि तत्तदितिकर्त्तव्यताकलापस्यापरिपूर्तिः स्यात् | तथाहि श्रीपूर्वशास्त्रे -- ᳚तत्र द्वारपतीनिष्ट्वा महास्त्रेणाभिमन्त्रितम् | पुष्पं विनिक्षिपेद्ध्यात्वा ज्वलद्विघ्नप्रकाशान्तये ||᳚ इत्यादौ द्वारपतीनां कथमिष्टिः? -- इत्यपेक्षायां समानतन्त्रात् श्रीत्रिशिरोभैरवात् ᳚ततो मूले उत्तरते नन्दिरुद्रर्ं च जाह्नवीम् | महाकालं सदंष्टंर च यमुनां चैव दक्षिणे ||᳚ इत्याद्यपेक्षणीयम् | अत्रैव च ᳚ज्वलत्पुष्पं कथं विनिक्षिपेत्᳚ इत्यपेक्षायां समानतन्त्रे तत्क्षेपस्य सुस्पष्टमनभिधानात् समानकल्पाच्छ्रीस्वच्छन्दशास्त्रात् -- ᳚भैरवास्त्रं समुच्चार्य पुष्पं संगृह्य भावितः | सप्ताभिमन्त्रितं कृत्वा ज्वलदग्निशिखाकुलम् || नाराचास्त्रप्रयोगेण प्रविशेद् गृहमध्यतः |᳚ इत्याद्यपेक्षणीयम् | नाराचास्त्रस्य च प्रयोगः कीदृक् ? � इत्यपेक्षायां समानकल्पेऽपि शास्त्रे तदनुपलम्भात् अत्यन्तमसमानात् अनन्तविजयाख्यात् सिद्धान्तशास्त्रात् -- ᳚उत्तानं तु करं कृत्वा तिस्रोऽङ्गुल्यः प्रसारयेत् | मध्यमाङ्गुष्ठकौ लग्नौ चालयेत मुहुर्मुहुः || नाराचः कीर्तितो ह्येवम् ......................... |᳚ इत्याद्यपेक्षणीयम् | अपेक्षानिवृत्तिर्हि नः फलं, सा च यत एव भवेत् तदेवापेक्षणायं, किं समानत्वासमानत्वदुर्ग्रहेण | एवमपेक्षायां सत्यां समानादसमानाद्वा शास्त्रान्तरात् तावदपेक्षणीयं यावदपेक्षाया निवृत्तिः स्यात्, तदभावे पुनर्निर्निबन्धनमेव शास्त्रान्तरोक्तस्यापेक्षणीयत्वे सर्वस्यैव तत्प्रसङ्गादनवस्थितमेव शास्त्रार्थानुष्ठानं स्यात् | यदाहुः -- शापेक्षत्वेऽप्यपेक्षैव मानं यावदपेक्षते |
SK
तावदेवान्यतः कार्यं नान्यत्स्यादनवस्थितेः ||᳚ इति || २५१ || ननु निखिलमिदं शास्त्रजातं भगवतैव सकलजगदुद्दिधीर्षयोपदिष्टं, तत्तदुक्तार्थानुष्ठानमवश्यकार्यं येन संसारमोहः शाम्येत्, -- इति तद्यथास्तु, किमनेन विचारेण ? -- इत्याशङ्क्याह -- यतो यद्यपि देवेन वेदाद्यपि निरूपितम् | तथापि किल सङ्कोचभावाभावविकल्पतः || ४-२५२ || वेदादीनां सर्वशास्त्राणां परमेश्वर एवोपदेष्टा, -- इति नास्ति विवादः; किंतु तेन सङ्कोचभावाभेदेन द्विधा शास्त्राण्युपदिष्टानि -- कानिचिद्भेदप्रधानानि कानिचिदभेदप्रधानानि -- इति | तत्र भेदप्रधानानि वेदादीनि शास्त्राणि, अभेदप्रधानानि च शैवादीनि || २५२ || तदाह -- सङ्कोचतारतम्येन पाशवं ज्ञानमीरितम् | विकासतारतम्येन पतिज्ञानं तु बाधकम् || ४-२५३ || शङ्कोचो᳚ भेदप्रथा | पशूनामिदं ᳚पाशवं᳚ वेदादि | ᳚विकासः᳚ सङ्कोचाभावादभेदप्रथा, अत एव भेदप्रथाया बाध्यत्वादिदं बाधकम् | भेदो हि संसारः, स च सर्वेषामेवोच्छेद्यः, -- इत्यविवादः | एवं च बाध्यबाधकयोः साङ्कर्येणानुष्ठानं दुष्येत्, -- इति यथोक्तमेव युक्तम् | अत एवान्यत्र -- ᳚पाशवं ज्ञानमुज्झित्वा पतिशास्त्रं समाश्रयेत् |᳚ इत्याद्युक्तम् || २५३ || इदानीं ङ द्वैतं नापि चाद्वैतम्᳚ इति व्याचष्टे -- इदं द्वैतमिदं नेति परस्परनिषेधतः | मायीयभेदकॢप्तं तत्स्यादकाल्पनिकेकथम् || ४-२५४ || यन्नाम किञ्चनेदं द्वैतं नानारूपत्वं तदपास्य एकात्म्यलक्षणमद्वैतमाश्रयेत्, -- इत्यादि यदन्यत्रोक्तं, तदकाल्पनिकेकवलीकृततत्तत्कल्पनाकलापे स्वात्ममात्रस्फुरत्तारूपे परे तत्त्वे कथं स्यात्, न युज्यते इत्यर्थः | यतस्तत् अन्यापोहरूपत्वेन परस्परप्रतिक्षेपात् ᳚माया᳚ स्वरूपगोपनात्मिका पारमेश्वरी इच्छाशक्तिः, तत आगतो योऽसौ ᳚भेदः᳚ तेन ᳚कॢप्तम्᳚ अनुप्राणितं कल्पनामात्रसतत्त्वमित्यर्थः || २५४ || किं चात्र प्रमाणम् ? -- इत्याशङ्क्याह -- उक्तं भर्गशिखायां च मृत्युकालकलादिकम् |
SK
द्वैताद्वैतविकल्पोत्थं ग्रसते कृतधीरिति || ४-२५५ || इह खलु अविकल्पकपरसंविदावेशवशात् कृतार्था ᳚धीः᳚ ज्ञानं यस्यासौ प्राप्तपरसंविदैकात्म्यो योगी, ᳚द्वैताद्वैतविकल्पात्᳚ उत्थितं भेदानुप्राणनयोल्लसितं, नात्र काचिज्जन्ममरणादिका मानमेयादिरूपा च कल्पनास्तीत्यर्थः | यदुक्तं तत्र -- ᳚मृत्युं च कालं च कलाकलापं विकारजातं प्रतिपत्तिजालम् | एकात्म्यनानात्मवितर्कजातं तदा स सर्वं कवलीकरोति ||᳚ इति || २५५ || अथ ᳚लिङ्गपूजादिकं न च᳚ इति व्याकुरुते -- सिद्धान्ते लिङ्गपूजोक्ता विश्वाध्वमयताविदे | कुलादिषु निषिद्धासौ देहे विश्वात्मताविदे || ४-२५६ || इह सर्वात्मके कस्मात्तद्विधिप्रतिषेधने | ᳚विश्वः᳚ षटित्रशत्तत्त्वात्मको᳚ योऽसौ ᳚अध्वा᳚ तद्रूपतां वेत्तं शिद्धान्ते᳚ भेददर्शने लिङ्गपूजाविधिर्विहितः | पारमेश्वरं हि लिङ्गं गर्भीकृतनिखिलाध्वाप्रपञ्चम्, -- इति तत्पूजनेन समग्रमेवेदं जगत्साक्षात्कृतं भवेदिति भावः | यदाहुः -- ᳚लिङ्गे परमशिवान्तां व्याप्तिं पीठे सदाशिवप्रान्ताम् | ब्रह्मशिलायां मायापर्यन्तां भावयद्भिरिमैः ||᳚ इति, ᳚इष्टेन शिवलिङ्गेन विश्वं संतर्पितं भवेत् |᳚ इति च | ᳚कुलादौ᳚ अद्वयदर्शने पुनरसौ लिङ्गपूजा ङिषिद्धा᳚ यतो देह एव सर्वाध्वमयः, -- इति तत्रैव तत्साक्षात्कारः सुलभः, -- इति किमनुपपत्तिना बाह्येन लिङ्गादिना फलम् | यदुक्तम् -- ᳚यजेदाध्यात्मिकं लिङ्गं बाह्यं लिङ्गं न पूजयेत् |᳚ इति | तथा ᳚हृदयगुहागे गतं सर्वज्ञं सर्वगं परित्यज्य | प्रणमति मितमतिरशिवं शिवाशयाश्मादिमश्लाघ्यम् ||᳚
SK
इति | इह पुनः परमाद्वयरूपे त्रिकदर्शने तद्विधिना तन्निषेधेन वा न किंचित्प्रयोजनम्, -- इत्युक्तं ङात्र लिङ्गपूजा नापि तत्परित्यागः᳚ इति | यत इदं सर्वात्मकं, यावता हि पारमेश्वरपरसंवित्स्फाररूपतया इदं जगत्परिज्ञेयं, तच्च सर्वस्यैव संवित्स्फाररूपत्वात् देहनिष्ठतया अस्तु, अन्यथा वा, किं नाम सार्वात्म्यप्रतिपत्तिविघ्नभूतेन देहबाह्याद्यभिमानेन भवेत्, -- इति भावः | यदाहुः -- ङ क्वापि गत्वा हित्वा वा न किञ्चिदिदमेव ये | भव त्वद्धाम पश्यन्ति भव्यास्तेभ्यो नमो नमः ||᳚ इति || १५६ || इदानीं जटाभस्मादिसंग्रहादि आचष्टे -- नियमानुप्रवेशेन तादात्म्यप्रतिपत्तये || ४-२५७ || जटादि कौले त्यागोऽस्य सुखोपायोपदेशतः | ङियमाः᳚ ᳚जटी मुण्डी शिखी दण्डी पञ्चमुद्राविभूषितः | प्रमादान्मैथुनं कृत्वा मम द्रोही महेश्वरि ||᳚ इत्याद्युक्त्या वैराग्यादयः, तत्र ᳚अनुप्रवेशोऽभ्यासः, तेन या ᳚तादात्म्यप्रतिपत्तिः᳚ पारमेश्वरस्वरूपसमावेशः, तन्निमित्तं सिद्धान्ते बहुक्लेशसाध्यं जटाभस्मादि विहितम् | यदुक्तम् -- ᳚कलातत्त्वपवित्राणुशक्तिमन्त्रेशसंख्यया | विभज्य केशान्संपात्य प्रत्यंशं संहिताणुभिः || व्रतेश्वरस्य पुरतो बध्नीयाच्छिवतेजसा |᳚ इति | तथा ᳚व्रतिनो जटिनो मुण्डास्तेष्वग्र्या भस्मपाण्डुराः | तिलकैः पुण्ड्रकैः पट्टैर्भूषिता भूमिपादयः ||᳚ इति | ᳚कौले᳚ कुलदर्शने पुनः ᳚अस्य᳚ जटाभस्मादेः ᳚त्यागो᳚ निषेधो विहितः, -- इत्यर्थः | यदुक्तम् -- ᳚जटाभस्मादिचिह्नं च ध्वजं कापालिकं व्रतम् | शूलं खट्वाङ्गमत्युग्रं धारयेद्यस्तु भूतले || न तस्य सङ्गमं कुर्यात्कर्मणा मनसा गिरा |᳚ इति | यतोऽत्र ᳚यत्र यत्र मिलिता मरीचयस्तत्र तत्र विभुरेव जृम्भते |᳚ इत्युक्त्या विषयासङ्गेऽपि पारमेश्वरस्वरूपापत्तेः, शुखेन᳚ अयत्नेन ᳚उपायस्योपदेशः᳚ यदुक्तम् -- ᳚पूर्वैर्निरोधः कथितो वैराग्याभ्यासयोगतः | अस्माभिस्तु निरोधोऽयमयत्नेनोपदिश्यते ||᳚
SK
इति | निष्परिग्रहतादि पुनः पृथङ् न व्याख्यातम् अनेनैव गतार्थत्वात्, प्रथमतुर्यपादाभ्यामेव हि एतदर्थोऽभिहितः, -- इति भावः | इह पुनः सार्वात्म्यात् तद्विधिप्रतिषेधने न भवतः, -- इति प्राच्येन संबन्धः | इह हि संविदैकात्म्यं नामोपेयम्, तत्र च यदेव यदा संनिकृष्टं तदेव तदा ग्राह्यम्, इतरत् तु त्याज्यम्, -- इति जटादेर्विधिरस्तु निषेधो वा किमनेन नः प्रयोजनम् | यद्वक्ष्यति -- ᳚परतत्त्वप्रवेशे तु यमेव निकटं यदा | उपायं वेत्ति स ग्राह्यस्तदा त्याज्योऽथ वा क्वचित् ||᳚ (४|२७९) इति || २५७ || अथ व्रतादीनां चरणाचरणं व्याचष्टे -- व्रतचर्या च मन्त्रार्थतादात्म्यप्रतिपत्तये || ४-२५८ || तन्निषेधस्तु मन्त्रार्थसार्वात्म्यप्रतिपत्तये | च शब्दात् सिद्धान्ते उक्ता, -- इत्यनुवर्तनीयम् ᳚मन्त्रार्थो नियतो वाच्यदेवतादिः, ᳚तन्निषेधः᳚ अर्थात्कौले | शार्वात्म्यं᳚ विश्वाभेदः | इह पुनस्तस्या न विधिर्निषेधो वा, -- इत्येतत् सर्वं पूर्वमेव व्याख्यातम्, इति न पुनरायस्तम् || २५८ || अथ क्षेत्रादिसंप्रवेशं व्याख्यातुमाह -- क्षेत्रपीठोपपीठेषु प्रवेशो विघ्नशान्तये || ४-२५९ || मन्त्राद्याराधकस्याथ तल्लाभायोपदिश्यते | ᳚क्षेत्रं᳚ मेलापस्थानं, ᳚पीठं᳚ कामरूपादि ᳚उपपीठं᳚ देवीकोट्टादि | ᳚तल्लाभाय᳚ इति तस्य मन्त्रादेः प्रियमेलापादिक्रमेण सिद्धादेर्लाभः, तन्निमित्तं वा | यदुक्तम् -- ᳚क्षेत्रोपक्षेत्रसंदोहाद्याश्रयान्निर्मलो भवेत् ||᳚ इति || २५९ || अन्यत्र चात्र निषेधः कृतः -- इत्याह -- क्षेत्रादिगमनाभावविधिस्तु स्वात्मनस्तथा || ४-२६० || वैश्वरूप्येण पूर्णत्वं ज्ञातुमित्यपि वर्णितम् | आदिशब्दात् पीठादेर्ग्रहणम् | ᳚तथा᳚ इति प्रागुक्तेन प्रकारेण | तदुक्तम् -- ङातः किञ्चिदपास्यं प्रक्षेप्तव्यं च नात्र किञ्चिदपि | परिपूर्णे सत्यात्मनि किं नु क्षेत्रादिपर्यटनैः ||᳚ इति | इह पुनरेतदुभयमपि नास्तीति प्रागेवोक्तम्, इत्याह -- ᳚इत्यपि वर्णितम्᳚ इति | तदुक्तम् -- ᳚इह सर्वात्मकेकस्मात्तद्विधिप्रतिषेधने |᳚ (४|२५७) इति || २६० ||
SK
अथ समयादिप्रपालनमाचष्टे -- समयाचारसद्भावः पाल्यत्वेनोपदिश्यते || ४-२६१ || भेदप्राणतया तत्तत्त्यागात्तत्त्वविशुद्धये | समयादिनिषेधस्तु मतशास्त्रेषु कथ्यते || ४-२६२ || निर्मर्यादं स्वसंबोधं संपूर्णं बुद्ध्यतामिति | इदं कुर्यादिदं न कुर्यात्, -- इत्येवमात्मा समयाचारः | ᳚भेदप्राणतया᳚ इति किञ्चित् हि त्यक्त्वा किञ्चिदुपादीयते इत्येवमात्मा भेदः, यथा शास्त्रान्तरत्यागेन स्वशास्त्रे प्ररोहः | यद्वक्ष्यति -- ᳚अन्यस्तमन्त्रो नासीत सेव्यं शास्त्रान्तरं च नो | अप्ररूढं हि विज्ञानं कम्पेतेतरभावनात् ||᳚ (२५|५६३) इति | समविषमलक्षणेषु ᳚मतशास्त्रेषु᳚ पुनः शमयादेर्निषेधो᳚ विहितः | तथा च तत्रत्यो ग्रन्थः इत्याह -- ङिर्मर्यादमित्यादि᳚ | तद्धि परं तत्त्वं श्वसंबोधं᳚ स्वप्रकाशम्, अत एवानन्यापेक्षत्वात् शम्पूर्णम्,᳚ अत एव चानियत रूपत्वात् ङिर्मर्यादं᳚ निर्यन्त्रणं ᳚बुध्यताम्᳚ अनुभूयतामित्यर्थः | तदेवम् एवंविधे परे तत्त्वे कथं नाम हानोपादानाद्यपेक्षासहस्रसंभिन्नः समयाचारः शुद्धिनिमित्तम्, इति भावः || २६२ || अथ ᳚परस्वरूपलिङ्गादि नामगोत्रादिकं च यत्᳚ इति व्याख्यातुकामः क्रमेण परकीयं स्वकीयं च रूपाद्याचष्टे -- परकीयमिदं रूपं ध्येयमेतत्तु मे निजम् || ४-२६३ || ज्वालादिलिङ्गं चान्यस्य कपालादि तु मे निजम् | ᳚एतत्᳚ इति ध्यातृस्वभावम् | ᳚ज्वालादि᳚ इति बाह्यैषणादिसमुत्थत्वात् परकीयम् | ङिजम्᳚ इति स्वशरीरावस्थितम् || २६३ || ᳚लिङ्गादि᳚ इत्यादिशब्दार्थमाह -- आदिशब्दात्तपश्चर्यावेलातिथ्यादि कथ्यते || ४-२६४ || ᳚तपः᳚ चान्द्रायणादि, ᳚चर्या᳚ चर्यापादोक्त आचारः, ᳚वेला᳚ मध्याह्नार्धरात्रादिरूपा, ᳚तिथिः᳚ प्रतिपदारूपा || २६४ || नाम शक्तिशिवाद्यन्तमेतस्य मम नान्यथा | ᳚एतस्य᳚ सैद्धान्तिकस्य साधकस्य, व्रतपरिग्रहादौ पुष्पपातादिक्रमेण क्रियमाणं नाम शक्तिशिवाद्यन्तं स्यात् | तेन शिखाशक्तिः, ईशानशिवः; आदिशब्दाद्गणाद्यन्तं, यथा कवचगणः | तदुक्तम् -- श्रजं विमोचयेन्नाम दीक्षितानां तदादिकम् |
SK
शिवान्तकं द्विजेन्द्राणामितरेषां गणान्तकम् ||᳚ इति | तथा ᳚शिशुना क्षिप्तमकामान्निपतेद्यत्र नाम तत्पूर्वम् | शक्त्यन्तं नारीणां शिवशब्दान्तं नृणां कुर्यात् || एवं विप्रक्षत्रियविशां शूद्राणां तु भवेद्गणप्रान्तम् ||᳚ इति | ᳚अन्यथा᳚ इति बोध्याद्यन्तम्, स्वस्वसंततिक्रमेणौवल्ल्यन्तं हि पूजा नाम भवेत्, -- इति रहस्यशास्त्रविदः, तदुक्तम् -- ᳚बोधिः प्रभुस्तथा योगी आनन्दः पाद आवलिः | वीराणां वीरपत्नीनां कल्प्यं नामैतदन्तकम् ||᳚ इति | तेन सत्यबोधिः विश्वप्रभुरित्यादि || गोत्रं च गुरुसंतानो मठिकाकुलशब्दितः || ४-२६५ || तस्य मठिकेति कुलमिति चाभिधानद्वयम् || २६५ || तत्र का मठिका ? -- इत्याह -- श्रीसंततिस्त्र्यम्बकाख्या तदर्धामर्दसंज्ञिता | इत्थमर्धचतस्रोऽत्र मठिकाः शाङ्करे क्रमे || ४-२६६ || युगक्रमेण कूर्माद्या मीनान्ता सिद्धसंततिः | न केवलमर्धचतस्र एव मठिका यावदन्या अपीत्याह -- ᳚युगेत्यादि᳚ | आद्यशब्दस्तन्त्रेण व्याख्येयः; तेन कूर्मस्य त्रेतायुगावतारकस्य श्रीकूर्मनाथस्याद्यः कृतयुगावतारकः श्रीखगेन्द्रनाथः स आद्यो यस्याः सा तथेति | कुलशब्दस्य गुरुकुलमित्यादौ लोकप्रसिद्धेः पृथग्व्याख्यानं कृतम् || २६६ || ᳚गोत्रादि᳚ इत्यादिशब्दार्थमाह -- आदिशब्देन च घरं पल्ली पीठोपपीठकम् || ४-२६७ || मुद्रा छुम्मेति तेषां च विधानं स्वपरस्थितम् | ᳚घरम्᳚ इति षण्णां साधिकाराणां राजपुत्राणां भिन्नं भिन्नमाश्रमस्थानम् | ᳚पल्ली᳚ भिक्षास्थानम् | यद्वक्ष्यति -- ᳚एते हि साधिकाराः पूज्या येषामियं बहुविभेदा | संततिरनवच्छिन्ना चित्रा शिष्यप्रशिष्यमयी || आनन्दावलिबोधिप्रभुपादान्ताथ योगिशब्दान्ता | एता ओवल्ल्यः स्युर्मुद्राषट्कं क्रमात्त्वेतत् || दक्षाङ्गुष्ठादिकनिष्ठान्तमथ सा कनीयसी वामात् | द्विदशान्तोर्ध्वगकुण्डलिबैन्दवहृन्नाभिकन्दमिति छुम्माः || शवराडबिल्लखट्टिल्लाः करबिल्लाम्बिलशरबिल्लाः | अडवी-डोम्बी-दक्षिणपल्ली कुम्भारभिल्लिकाक्षरपल्ली || देवीकोट्टकुलाद्रित्रिपुरीकामाख्यमट्टहासश्च |
SK
दक्षिणपीठं चैतत्षट्कं घरपल्लिपीठगं क्रमशः ||᳚ (२९|३९) इति | श्वपरस्थितम्᳚ इति स्वस्वसंततिक्रमेण भिन्नं भिन्नमित्यर्थः || २६७ || ननु गुरुसंतानादेरेवमुपदेशे किं प्रयोजनम् ? -- इत्याशङ्क्याह -- तादात्म्यप्रतिपत्त्यै हि स्वं संतानं समाश्रयेत् || ४-२६८ || भुञ्जीत पूजयेच्चक्रं परसंतानिना नहि | श्वं संतानम्᳚ इति श्रीमदमरनाथादिक्रमेण यस्य यथा संभवेत् | ᳚परः᳚ श्रीवरदेवादिः शंतानो᳚ ऽस्यास्तीति || २६८ || एतच्च अन्यत्र निषिद्धमित्याह -- एतच्च मतशास्त्रेषु निषिद्धं खण्डना यतः || ४-२६९ || अखण्डेऽपि परे तत्त्वे भेदेनानेन जायते | ᳚अनेन᳚ इति समनन्तरोक्तेन हेयोपादेयरूपेण स्वपरसंतानादिनेत्यर्थः | नहि अखण्डे परे तत्त्वे काचन एवंविधा हेयोपादेयरूपा खण्डना युज्यते -- इत्याशयः || २६९ || एवमर्थमुखेन ग्रन्थं व्याख्याय समन्वयसङ्गत्यापि योजयति -- एवं क्षेत्रप्रवेशादि संताननियमान्ततः || ४-२७० || नास्मिन्विधीयते तद्धि साक्षान्नौपयिकं शिवे | ᳚एवं᳚ पूर्वोक्तनीत्या ᳚क्षेत्रप्रवेशादि᳚ गोत्रशब्दोक्तसंताननियमान्तम् ᳚अस्मिन्᳚ प्रस्तुते शास्त्रे ङ किचिद्विधीयते᳚ क्षेत्रादि प्रवेष्टव्यमित्यादिविधिर्न क्रियते -- इत्यर्थः | यतस्तत् न शिवे साक्षादुपायः | एतच्च बहुशः प्राङ्नर्णीतम् -- इति न पुनरायस्तम् || ननु यदि नामात्र क्षेत्रप्रवेशादेर्न विधिः तर्हि तस्य निषेध एव पर्यवस्येत्? इत्याशङ्क्याह -- न तस्य च निषेधो यन्न तत्तत्त्वस्य खण्डनम् || ४-२७१ || ᳚यत्᳚ यस्मात्, ᳚तत्᳚ क्षेत्रप्रवेशादि, विश्वात्मनः परस्य ᳚तत्त्वस्य न खण्डनं᳚ तदपेक्षया हि बहिः क्षेत्राद्येव नास्ति, -- इति कुत्र प्रवेशाद्यपि भवेत्, इति तद्विषयोऽयं विधिर्निषेधो वा क्रियमाणो विकल्पमात्रवृत्तित्वात् नास्य स्वरूपखण्डनायालम् -- इति भावः || २७१ || अत आह � विश्वात्मनो हि नाथस्य स्वस्मिन्रूपे विकल्पितौ | विधिर्निषेधो वा शक्तौ न स्वरूपस्य खण्डने || ४-२७२ ||
SK
अत एव चात्र सर्वमेव विहितं प्रतिषिद्धं च, -- इत्यर्थगर्भीकारात् नैकत्रैव ग्रहः कार्यः, -- इति तात्पर्यार्थः || २७२ || ननु यद्येवं तत् परतत्त्वविविक्षायाम् ᳚इदमुपादेयमिदं हेयम्᳚ इत्यवश्याश्रयणीयो विभागः कथं सिद्ध्येत् ? -- इत्याशङ्क्याह -- परतत्त्वप्रवेशे तु यमेव निकटं यदा | उपायं वेत्ति स ग्राह्यस्तदा त्याज्योऽथ वा क्वचित् || ४-२७३ || न यन्त्रणात्र कार्येति प्रोक्तं श्रीत्रिकशासने | इह परं प्रविविक्षुणा योगिना तत्र तावच्चेतः स्थिरीकार्यम्, -- इति नास्ति विमतिः | तत्र पुनर्य एव यदा क्वचित् ङिकटो᳚ हठपाकक्रमेण सहसैव परस्वरूपापत्तिनिमित्ततया संनिकृष्ट उपायः परिज्ञायते, स एव तदा ग्राह्योऽथवा अन्यथा त्याज्यो; न पुनर् इदमुपादेयमेव इदं त्याज्यमेव, -- इत्येवमात्मा यन्त्रणा अत्र कार्या | तेन विषयासङ्गेऽपि कदाचित् परतत्त्वानुप्रवेशो भवेत् | क्वचिदित्यनेन च शंनिकृष्टत्वमसंनिकृष्टत्वं च उपायानां न प्रतिनियतम्᳚ इति प्रकाशितम् | अनेन च ᳚किंत्वेतत्᳚ इत्यादिको ग्रंथस्तात्पर्यतो व्याख्यातः | नन्वेवमपूर्वार्थकथने किं प्रमाणम्? इत्याशङ्क्योक्तम् - - ᳚इति प्रोक्तं श्रीत्रिकशासने᳚ इति || २७३ || तत्रत्यमेव ग्रन्थं पठति -- समता सर्वदेवानामोवल्लीमन्त्रवर्णयोः || ४-२७४ || आगमानां गतीनां च सर्वं शिवमयं यतः | ᳚ओवल्ल्यो᳚ बोध्यादयः षट् ज्येष्ठादिभेदभिन्ना ज्ञानसंततयः | ᳚गतीनां᳚ भाववृत्तिद्रव्यभूमिकादिरूपाणां प्रकाराणामित्यर्थः | अत्र हेतुः शर्वं शिवमयं यतः᳚ इति | यदुक्तम् -- शमता सर्वभावानां वृत्तीनां चैव सर्वशः | समता सर्वदृष्टीनां द्रव्याणां चैव सर्वशः || भूमिकानां च सर्वासामोवल्लीनां तथैव च | समता सर्वदेवीनां वर्णानां चैव सर्वशः ||᳚ इति || २७४ || ननु को नाम सर्वं शिवमयं जानाति, यस्यैवमुपदेशः प्ररोहमियात् ? इत्याशङ्क्याह -- स ह्यख्ण्डितसद्भावं शिवतत्त्वं प्रपश्यति || ४-२७५ || यो ह्यखण्डितसद्भावमात्मतत्त्वं प्रपद्यते |
SK
आत्मज्ञानमेव शिवतत्त्वसाक्षात्कारे निमित्तम्, -- इत्यभिदधता नात्र दर्शनान्तरवत् व्यतिरिक्तोपायान्वेषणाद्यायाससाध्यत्वम्, -- इत्यावेदितम् || २७५ || न च अत्र सर्व एव पात्रं, किं तु कश्चिदेव तीव्रतमशक्तिपातपवित्रितः, -- इत्याह -- केतकीकुसुमसौरभे भृशं भृङ्ग एव रसिको न मक्षिका | भैरवीयपरमाद्वयार्चने कोऽपि रज्यति महेशचोदितः || ४-२७६ || नन्वत्रासक्त्या किं स्यात् ? -- इत्याशङ्क्याह -- अस्ंमिश्च यागे विश्रान्ंतिं कुर्वतां भवडम्बरः | हिमानीव महाग्रीष्मे स्वयमेव विलीयते || ४-२७७ || अत्र च सामान्येनोपक्रान्तमधिकारिणमुपसंहारभङ्ग्या विशेषेण निर्देष्टुमाह -- अलं वातिप्रसङ्गेन भूयसातिप्रपञ्चिते | योग्योऽभिनवगुप्तोऽस्मिन्कोऽपि यागविधौ बुधः || २७८ || अथ वा याज्ययाजकादावेवं बहुशाखम् ᳚अतिप्रपञ्चिते᳚ पौनःपुन्यपरीक्षणलक्षणेन ᳚अतिप्रसङ्गेनालम्᳚; यतोऽस्मिन्᳚ समनन्तरोक्तस्वरूपे ᳚यागविधौ᳚ अभितो ग्राह्यग्राहकाद्यनन्तभेदसंभिन्ने जडाजडवर्गे, यो ङवः᳚ अनवच्छिन्नज्ञत्वकर्तृत्वात्मकगुणपरामर्शनरूपः स्वात्मस्तवः, तेन ᳚गुप्तो᳚ मायाव्यामोहमुषितत्त्वेऽपि परिरक्षितसार्वात्म्यमयनिजवैभवः, अत एव च ᳚कोऽपि᳚ अलौकिकः; अथ च एवंविधोऽयमेव ग्रन्थकारोऽत्र योग्य इत्यर्थः || २७८ || एतदेव श्लोकस्य प्रथमार्धेनोपसंहरति -- इत्यनुत्तरपदप्रविकासे शाक्तमौपयिकमद्य विविक्तम् || इति श्रामदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके शाक्तोपायप्रकाशनं नाम चतुर्थमाह्निकम् || ४ || ᳚अद्य᳚ इत्यनेन आह्निकशब्दार्थस्तात्त्विकः, -- इति प्रकाशितम्, इति शिवम् || शाक्तसमावेशवशप्रोन्मीलितसद्विकल्पविभवेन | निरणायि जयरथेन प्रस्फुटमिदमाह्निकं तुर्यम् || इति श्रामदाचार्याभिनवगुप्तपादविरचिते, श्रीजयरथाचार्यकृतप्रकाशाख्यव्याख्योपेते श्रीतन्त्रालोकेशाक्तोपायप्रकाशनं नाम चतुर्थमाह्निकम् || ४ || पञ्चममाह्निकम् ᳚ विवेक ᳚ यो नाम घोरनिनदोच्चारवशाद्भीषयत्यशेषजगत् |
SK
स्वस्थानध्यानरतः स जयत्यपराजितो रुद्रः || १ || इदानीं प्राप्तावसरमाणवोपायमपरार्धेन निरूपयितुमुपक्रमते आणवेन विधिना परधाम पेर्प्सतामथ निरूप्यत एतत् || ५-१ || ᳚विधिना᳚ इत्युच्चारादिरूपेण | ᳚एतत्᳚ इति वक्ष्यमाणमाणवोपायलक्षणम्||१|| ननु शाक्तोपायेनैव सर्वं सिद्ध्येदिति किमर्थम् एतन्निरूप्यते? -- इत्याशङ्कां गर्भीकृत्याह -- विकल्पस्यैव संस्कारे जाते निष्प्रतियोगिनि | अभीष्टे वस्तुनि प्राप्तिर्निश्चिता भोगमोक्षयोः || ५-२ || विरुद्धविकल्पान्तरोदयाभावात् ᳚विकल्पस्य᳚ शाक्तोपायनिरूपितनीत्या ᳚जात᳚ एव स्फुटतमविकल्पस्वरूपासादनात्मनि शंस्कारे᳚ भोगमोक्षयोर्मध्यादेकतरत्र ᳚अभीष्टे वस्तुनि निश्चिता᳚ नियमवती ᳚प्राप्तिः᳚ भवेत् � इत्याह्निकान्तरम् इदमनारम्भणीयमेव -- इति तात्पर्यार्थः || २ || ननु यद्यप्येवं तथापि विकल्पस्य द्वयी गतिः, स हि कस्यचिदुपायान्तरनिरपेक्षतया स्वस्वातन्त्र्यादेव संस्कृतः स्यात्, कस्यचित्तु अन्यथा | तत्र पूर्वः प्रकारः शाक्तोपाये निरूपितः; इतरः पुनराणवोपाये निरूपयिष्यते; -- इति युक्त एवाह्निकान्तरारम्भः, तदाह -- विकल्पः कस्यचित्स्वात्मस्वातन्त्र्यादेव सुस्थिरः | उपायान्तरसापेक्ष्यवियोगेनैव जायते || ५-३ || कस्यचित्तु विकल्पोऽसौ स्वात्मसंस्करणं प्रति | उपायान्तरसापेक्षस्तत्रोक्तः पूर्वको विधिः || ५-४ || ᳚पूर्वको विधिरुक्त᳚ इत्युपादानादपरो वक्ष्यते -- इत्यर्थसिद्धम् || ३-४ || ननु विकल्पोऽपि अर्थावभासरूपत्वात् निर्विकल्पवच्चिदात्मैवेति को नाम तत्र संस्कारः | संस्कारो हि अतिशयः, स च न संविदि युज्यते � इति कस्य नामोपायान्तरं प्रति सापेक्षत्वमनपेक्षत्वं च स्यात् ? -- इत्याशङ्क्याह -- विकल्पो नाम चिन्मात्रस्वभावो यद्यपि स्थितः | तथापि निश्चयात्मासावणोः स्वातन्त्र्ययोजकः || ५ ||
SK
᳚यद्यप्येवं तथापि असौ विकल्पो᳚ नायमघटो भवतीत्यन्यापोहेन घटोऽयमिति निश्चयात्मकत्वात् ᳚अणोः᳚ संकुचितस्य प्रमातुः स्वातन्त्र्यं योजयति, विकल्प्यमानेऽर्थे तस्यैव स्वातन्त्र्योपपत्तेः | अत एव क्षेत्रज्ञव्यापारो विकल्पः -- इत्युक्तम् | तथाहि घटावभासेऽनवभातमपि घटविपर्ययं व्यवहारोपयोग्यतया स्वस्वातन्त्र्यादेव प्रमाता प्रतिपद्यते; अन्यथा हि मायापदे परस्परपरिहारप्रतीतिं विना ग्राह्यग्राहकभावाद्यात्मा व्यवहार एव न सिद्ध्येत् | अतश्च चिदेकरूपत्वेऽपि विकल्पोऽन्यापोहरूपत्वात् भेदमयः -- इति तदपसारणाय स्वात्मनि संस्कारमपेक्षते, यदाधानायापि क्वचिदुपायमुखप्रेक्षित्वमस्य -- इति युक्तमुक्तं ᳚विकल्पोऽसौ स्वात्मसंस्करणे प्रति | उपायान्तरसापेक्ष᳚ इति | संस्कारश्चास्य अस्फुटत्वादिक्रमेण स्फुटतमत्वापत्तिपर्यन्तं पारमार्थिकस्वात्मप्रत्ययरूपनिर्विकल्पकज्ञानात्मत्वासादनम् | यदुक्तं प्राक् ᳚ततः स्फुटतमोदारताद्रूप्यपरिबृंहिता | संविदभ्येति विमलामविकल्पस्वरूपताम् ||᳚ (तं. ४|६) इति || ५ || तत्संस्काराधाने च वक्ष्यमाणनीत्या ध्यानादयो बहव उपायाः -- इति तद्भेदात् तस्याप्यनैक्यम् -- इत्याह निश्चयो बहुधा चैष तत्रोपायाश्च भेदिनः | अणुशब्देन ते चोक्ता दूरान्तिकविभेदतः || ५-६ || बहुधात्वे हेतुः ᳚तत्रोपायाश्च भेदिन᳚ इति | तद्भेदेऽपि हेतुः ᳚दूरान्तिकविभेदत᳚ इति | केचिद्धि उपायाः संविदि संनिकृष्टाः, केचिच्च विप्रकृष्टाः | तथा च ᳚प्राक् संवित् प्राणे परिणता |᳚ इति नीत्या बुद्ध्याद्यपेक्षया तत्र प्राणस्यान्तरङ्गत्वात् तद्गतमुच्चारादि संनिकृष्टं, तदपेक्षया च बुद्धिगं ध्यानादि विप्रकृष्टं, ततोऽपि देहगतं करणादि -- इति | एते चोपाया अत्रैव संभवन्ति न पुनः शाक्ते -- इति कुतोऽवगम्यते, ? -- इत्याशङ्क्योक्तम् -- ᳚अणुशब्देन ते चोक्ता᳚ इति | तेनाणुषु भेदिषूपायेषु भवः, इत्याणवः || ६ || ननु प्राणादयो जाड्यादपारमार्थिकाः, तत्कथं तद्गतमुच्चारादि पारमार्थिकस्वरूपलाभनिमित्तं स्यात् ? -- इत्याशङ्क्याह --
SK
तत्र बुद्धौ तथा प्राणे देहे चापि प्रमातरि | अपारमार्थिकेऽप्यस्मिन् परमार्थः प्रकाशते || ५-७ || ᳚प्रमातरि᳚ इति बुद्ध्यादौ सर्वत्रैव योज्यम् | ᳚अपारमार्थिके᳚ इति बुद्ध्यादेर्वस्तुतो वेद्यरूपत्वेऽपि तथा परिकल्पनात् || ७ || ननु यदेव प्रश्नितं तदेवोत्तरीकृतम् -- इति किमेतत् ? -- इत्याशङ्क्याह -- यतः प्रकाशाच्चिन्मात्रात् प्राणाद्यव्यतिरेकवत् | एवं चिदव्यतिरेकात्प्राणादीनामपि पारमार्थिकत्वमेव -- इति भावः | यदभिप्रायेणैव ᳚यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते | जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता ||᳚ (अ.प्रषि. २० श्लो.) इत्यादि अन्यत्रोक्तम् || ननु प्राणादेर्नीलादेश्च चिदव्यतिरेकात् तुल्यमनेन पारमार्थिकत्वं, नास्त्यत्र काचिदस्माकं विमतिः; किंतु मायापदे प्राणादेर्जाड्येऽपि कथं चित्त्वं सङ्गच्छते ? -- इत्याशङ्क्याह -- तस्यैव तु स्वतन्त्रत्वाद्द्विगुणं जडचिद्वपुः || ५-८ || तु-शब्दो हेतौ | यतस्तस्यैव चिदात्मनः प्रकाशस्य स्वातन्त्र्यात्, अर्थात् तत् प्राणादि जडचिद्रूपत्वात् ᳚द्विगुणं᳚ जडत्वचित्त्वलक्षणगुणद्वययोगि -- इत्यर्थः | परमेश्वर एव हि मायीयसर्गचिकीर्षायां स्वस्वातन्त्र्येण बहिरवभासितभावराशिमध्यात् कांश्चिज्जडानपि प्राणादीन् स्वगताहन्तात्मककर्तृत्वाभिषेकेण ग्राहकीभावयति, कांश्चिदपि शब्दादीन् इदन्तापात्रतया चिद्रूपतातिक्रमेण ग्राह्यतामापादयति; तेन प्राणादीनां जाड्येऽपि परमेश्वरस्वातन्त्र्यादेव चित्त्वम् -- इति || ८ || न केवलमेतद्युक्तित एव सिद्धं यावदागमतोऽपि -- इत्याह -- उक्तं त्रैशिरसे चैतद्देव्यै चन्द्रार्धमौलिना | तदेव पठति � जीवः शक्तिः शिवस्यैव सर्वत्रैव स्थितापि सा || ५-९ || स्वरूपप्रत्यये रूढा ज्ञानस्योन्मीलनात्परा |
SK
यद्यपि ᳚शिवस्यैव᳚ चिन्मात्रात्मनः परस्य प्रकाशस्य संबन्धिनी ᳚परा᳚ विश्वस्फाररूपा ᳚शक्तिः᳚ शर्वत्र जडे प्राणघटादाववस्थिता तद्रूपतया परिस्फुरिता तथापि शा᳚ अर्थात् प्राणादिरूपाहन्तात्मककर्तृतारूपस्य ᳚ज्ञानस्योन्मीलनात्᳚ स्वस्यात्मनो रूपस्य च नीलादेः ᳚अहमिदं जानामि᳚ इत्येवंरूपः संकुचितप्रमातृव्यापारस्वभावो विकल्पात्मा यः ᳚प्रत्ययः᳚ ᳚तत्र ᳚रूढा᳚ प्ररोहं प्राप्ता सती ᳚जीवः᳚ प्राणबुद्ध्यादिप्रमातृरूपतया व्यपदिश्यते -- इत्यर्थः || ९ || तथापि अत्र परमार्थप्रकाशनं कथम् ? -- इत्याशङ्क्याह -- तस्य चिद्रूपतां सत्यां स्वातन्त्र्योल्लासकल्पनात् || ५-१० || पश्यञ्जडात्मताभागं तिरोधायाद्वयो भवेत् | ᳚तस्य᳚ जडस्य चिद्वपुषः प्राणादेर्जडरूपमेकं ᳚भागं तिरोधाय᳚ तत्राहन्ताभिमानमभिभूय स्वातन्त्र्योल्लासनाद्धेतोश्चिद्रूपतामेव परमार्थिकीं ᳚पश्यन्᳚ अकृत्रिमपराहन्तास्पदत्वेनानुभवन् ᳚अद्वयो भवेत्᳚ संविन्मात्ररूपतया परिस्फुरेत् -- इत्यर्थः | तदुक्तम् -- ᳚बुद्धौ प्राणे तथा देहे देशे या जडता स्थिता | तां विरोधाय मेधावी संविद्रश्मिमयो भवेत् ||᳚ इति | एवमत्र प्राणादेर्जाड्येऽपि चिद्रूपतैव परमार्थः -- इत्येषां पारमार्थिकस्वरूपलाभे निमित्तत्वम् -- इत्युक्तं स्यात् || १० || एतदेव पक्षान्तरेणाप्याह -- तत्र स्वातन्त्र्यदृष्ट्या वा दर्पणे मुखबिम्बवत् || ५-११ || विशुद्धं निजचैतन्यं निश्चिनोत्यतदात्मकम् | अथवा यथायं लोकः स्वमुखप्रतिबिम्बमागमापायित्वात् दर्पणातिरिक्तं निश्चिनोति, एवमसौ योगी ᳚तत्र᳚ प्राणादौ स्वस्वातन्त्र्यमाहात्म्यात् ᳚विशुद्धं᳚ वेद्यताद्यकलङ्कितम् | अत एव -- ङाहं प्राणो नैव शरीरं न मनोऽहम् |᳚ (हष्तो. श्लो. ३६) इत्याद्युक्तेः ᳚अतदात्मकम्᳚ अप्राणादिरूपं ततोऽतिरिक्तं निजं स्वाभाविकमेव चिद्रूपत्वम् इत्येवम् अस्य परमार्थिकस्वरूपलाभो भवेत् -- इति || ११ ||
SK
ननु यथा दर्पणादतिरेकेण प्रतिबिम्बस्य सत्ता नास्ति, एवं संविदतिरेकेणापि प्रमातृप्रमेयाद्यात्मनो विश्ववैचित्र्यस्यास्य -- इति प्राङ्नर्णींतं, तत् कथमिह अन्यथोच्यते ? इत्याशङ्क्याह -- बुद्धिप्राणादितो भिन्नं चैतन्यं निश्चितं बलात् || ५-१२ || सत्यतस्तदभिन्नं स्यात्तस्यान्योन्यविभेदतः | बुद्ध्यादिभ्यो बलादनुपपन्नेन क्रमेण ᳚भिन्नम्᳚ अतिरिक्तं ङिश्चितमपि चैतन्यं᳚ वस्तुतस्तदनतिरिक्तमेव भवेत्; यतस्तस्य बुद्ध्यादेरेव परस्परमस्ति भेदः, प्रातिस्विकेन प्रतिनियतेन रूपेण चेत्यमानत्वात्; चैतन्यं पुनर्बुद्ध्याद्यनुस्यूतमेव भायात् अन्यथा हि बुद्ध्यादीनां चेत्यमानत्वमेव न स्यात् || १२ || नन्वेकमेव चैतन्यं कथमनन्तबुद्ध्यादिरूपाविभिन्नं भवेत् ? -- इत्याशङ्क्याह -- विश्वरूपाविभेदित्वं शुद्धत्वादेव जायते || ५-१३ || निष्ठितैकस्फुरन्मूर्तेर्मूर्त्यन्तरविरोधतः | इह खलु परप्रकाशात्मनश्चैतन्यस्य ᳚शुद्धत्वात्᳚ प्रतिनियतस्वाकारकलङ्कितत्वेन अनवभास्यत्वात् स्वप्रकाशत्वलक्षणात् नैर्मल्यातिशयात् ᳚विश्वैः᳚ निखिलैर्बुद्ध्यादिभिराकारैः ᳚अविभेदित्वं जायत एव᳚ न न जायते -- इत्यर्थः | एतदेव हि नामस्य शुद्धत्वं यत् दर्पणादिवत् तत्तदनेकाकारधारितया प्रस्फुरति -- इति | न च एवं विरोधः कश्चित्; यतो ङिष्ठिता᳚ देशकालादिसङ्कोचान्नेयत्येन प्राप्तप्रतिष्ठाना, अत एव ᳚एका᳚ सर्वतो व्यावृत्तत्वात् निःसहाया श्फुरन्ती᳚ तथात्वेन भासमाना मूर्तिः᳚ यस्य तस्य बुद्ध्यादेः ᳚मूर्त्यन्तरेण᳚ प्राणादिसंबन्धिना ᳚विरोधो᳚ मूर्तस्य मूर्त्यन्तरानुप्रवेशायोगात् || १३ || ननु -- ᳚वर्तमानावभासनां भावानामवभासनम् | अन्तः स्थितवतामेव घटते वहिरात्मना ||᳚ (रि. प्र. १|५|१) इत्यादिनीत्या प्रमात्रैकात्म्येनावस्थितानामेव भावानां बहिरवभासनं भवेत् -- इति सर्वत्रैव उपपादितं, तत् बुद्ध्यादेरपि प्रमातुरन्तरवस्थितानामेव अर्थानां किं बहिरवभासनं भवेन्नवा ? इत्याशङ्क्याह � अन्तः संविदि सत्सर्वं यद्यप्यपरथा धियि || ५-१४ ||
SK
प्राणे देहेऽथवा कस्मात्संक्रामेत्केन वा कथम् | तथापि निर्विकल्पेऽस्मिन्विकल्पो नास्ति तं विना || ५-१५ || दृष्टेऽप्यदृष्टकल्पत्वं विकल्पेन तु निश्चयः | ᳚यद्यपि संविद्यन्तर्᳚ एकात्म्येन शर्वम्᳚ इदं भावजातं संभवेत्, अन्यथा बुद्ध्यादौ प्रमातरि सर्वमिदं ᳚कस्मात्᳚ संविदतिरिक्तात्मकात् ᳚केन वा᳚ स्वातन्त्र्यव्यतिरिक्तेन हेतुना ᳚कथं᳚ केन वा अहन्तेदन्तादिपरामर्शातिरिक्तेन प्रकारेण शंक्रामेत्᳚ प्रतिबिम्बकल्पतयावभासेत -- इत्यर्थः | अन्यथा हि बुद्ध्यादेरपि तत्तदर्थावभासो न भवेत् -- इति भावः | ᳚तथापि अस्मिन्᳚ बुद्ध्यादौ प्रमातरि � ᳚तस्यां निर्विकल्पकदशायामैश्वरो भावः पशोरपि |᳚ इत्याद्युक्तयुक्त्या सर्वभावाविभेदावभासात्मनि ङिर्विकल्पे᳚ऽन्तस्तथात्वेन निश्चायको ᳚विकल्पो नास्ति᳚ येन सर्वमेवेदम् अविभेदनावभासमानं स्यात्; यतो -- ᳚दृष्टमपि अविमृष्टमदृष्टमेव |᳚ इत्याद्युक्त्या विकल्पमन्तरेण ᳚दृष्टेऽपि अदृष्टकल्पत्वं᳚ यथैव दृष्टं तथैव न प्ररूढम् -- इत्यर्थः | तु-शब्दो हेतौ; यतो ᳚विकल्पेनैव᳚ इदमित्थमित्येवमात्मा ङिश्चयः᳚ स्यात् | स च विकल्पः सङ्कुचितस्य प्रमातुर्व्यापारः -- इत्यंशांशिकया भेदेनैव निश्चिनुयात्, न तु अभेदेन -- इति नास्ति बुद्ध्यादीनां सर्वभावाविभेदेनावभासः -- इति युक्तमुक्तं ᳚तस्यान्योन्यविभेदतः᳚ इति || १५ || नन्वेवं बुद्ध्यादेरपारमार्थिकत्वेऽपि ध्यानादिद्वारेण यथा परमार्थप्रकाशने निमित्तत्वमुक्तं, तथा शून्यस्यापि कथं न ? -- इत्याशङ्क्याह -- बुद्धिप्राणशरीरेषु पारमेश्वर्यमञ्जसा || ५-१६ || विकल्पं शून्यरूपे न प्रमातरि विकल्पनम् |
SK
इह खलु बुद्ध्यादौ प्रमातरि अहन्तास्पदत्वात् ज्ञत्वकर्तृत्वलक्षणं ᳚पारमेश्वर्यमञ्जसा विकल्प्यं᳚ तत्तदवच्छेदमुखेन स्फुटं कृत्वा निश्चेयं, येन तद्गतं ध्यानादि पारमार्थिकस्वरूपलाभनिमित्तं स्यात् | ᳚शून्यरूपे᳚ पुनः ᳚प्रमातरि᳚ वस्तुतः संभवेऽपि पारमेश्वर(र्य)स्य नियतावच्छेदायोगात् तद्विकल्पयितुमेव न शक्यम् -- इति कथं नामास्य परमार्थप्रकाशने निमित्तत्वं भवेत् | एवं बुद्ध्यादीनां त्रयाणामेव अत्र निमित्तत्वम् -- इत्युक्तं स्यात् || १६ || नन्वेषां बुद्ध्यादीनां किं नाम तदस्ति, यदवलम्बनेनापि पारमार्थिकस्वरूपलाभो भवेत् ? -- इत्याशङ्क्याह -- बुद्धिर्ध्यानमयी तत्र प्राण उच्चारणात्मकः || ५-१७ || ᳚ध्यानमयी᳚ इति अनुसंधानप्राधान्यात् || १७ || उच्चारणं लक्षयति � उच्चारणं च प्राणाद्या व्यानान्ताः पञ्च वृत्तयः | पञ्चेति | यदुक्तम् � ᳚प्राणोऽपानः समानश्च उदानो व्यान एव च |᳚ इति || ननु द्विधा प्राणीया वृत्तिरस्ति -- यदेका पञ्चानामपि प्राणादीनां भित्तिभूता सामान्यप्राणीया, अपरा च विशिष्टप्राणात्मिका -- इति; तत् पञ्च वृत्तय उच्चारणम् -- इति कथमुक्तम् ? इत्याशङ्क्याह -- आद्या तु प्राणनाभिख्यापरोच्चारात्मिका भवेत् || ५-१८ || ᳚प्राणनाभिख्या᳚ इत्यान्तरोद्योगरूपा जीवनापरपर्याया प्राणनामात्रस्वभावा -- इत्यर्थः | यद्वक्ष्यति � ᳚इयं सा प्राणना शक्तिरान्तरोद्योगदोहदा | स्पन्दः स्फुरत्ता विश्रान्तिर्जीवो हृत्प्रतिभा मतिः || सा प्राणवृत्तिः प्राणाद्यै रूपैः पञ्चभिरात्मसात् | देहं यत्कुरुते संवित्पूर्णस्तेनैष भासते ||᳚ (६|१२) इति | तदत्र विशिष्टा एव प्राणादिवृत्तयो विवक्षिताः � इति युक्तमुक्तं -- पञ्च वृत्तय उच्चारणम् -- इति | एतत्स्वरूपं च पुरस्ताद्भविष्यति इति नेहायस्तम् || १८ || एवं बुद्धिप्राणयोरसाधारणं रूपमभिधाय शरीरस्याप्यभिधत्ते -- शरीरस्याक्षविषयैतत्पिण्डत्वेन संस्थितिः |
SK
᳚अक्षाणि᳚ इन्द्रियाणि ᳚विषयाः᳚ कार्याणि ᳚एते᳚ प्राणादयः तेषां ᳚पिण्डत्वेन᳚ एकीभावेन शंस्थिति᳚ नाम देहप्रमातुरसाधारणं रूपम् -- इत्यर्थः || इदानीमधिकारिनिरूपणानन्तरं ध्यानादेः स्वरूपं वक्तुमुपक्रमते - - तत्र ध्यानमयं तावदनुत्तरमिहोच्यते || ५-१९ || तदेवं बहूपायसाध्यत्वेऽपि ᳚ध्यानं᳚ प्रकृतं मूलकारणं यस्यैवंविधम् ᳚अनुत्तरं᳚ पारमार्थिकं रूपम् ᳚इह उच्यते᳚ सांप्रतं प्राप्तावसरमभिधीयते -- इत्यर्थः | अत एव तावच्छब्दः क्रमद्योतकः, अनुजोद्देशे हि बुद्धिध्यानमित्याद्युपक्रमः || १९ || तदाह � यः प्रकाशः स्वतन्त्रोऽयं चित्स्वभावो हृदि स्थितः | सर्वतत्त्वमयः प्रोक्तमेतच्च त्रिशिरोमते || ५-२० || ᳚योऽयं चित्स्वभावो᳚ऽर्कादिप्रकाशविलक्षणोऽत एव स्वप्रकाशत्वात् श्वतन्त्रो᳚ऽत एव च शर्वतत्त्वमयः᳚ तत्तद्रूपतया परिस्फुरन् प्रकाशो हृदि᳚ स्वपरामर्शे शाक्षं सर्वमिदं देहं यद्यपि व्याप्य संस्थितः | तथाप्यस्य परं स्थानं हृत्पङ्कजसमुद्रकम् ||᳚ इत्यादिनीत्या हृदयेऽवस्थितः, तत्रैव तत्त्वविदां साक्षात्कार्यः -- इत्यर्थः | नन्वत्र किं प्रमाणम् -- इत्युक्तम् ᳚एतच्च त्रिशिरोमते प्रोक्तम्᳚ इति || २० || तत्रत्यमेव ग्रन्थं पठति -- कदलीसंपुटाकारं सबाह्याभ्यन्तरान्तरम् | ईक्षते हृदयान्तःस्थं तत्पुष्पमिव तत्त्ववित् || ५-२१ || इह खलु आत्मज्ञः ᳚तत्᳚ स्वतन्त्रप्रकाशात्म परं ब्रह्म आनन्दातिशयदायितया परमोपादेयत्वेन ᳚पुष्पमिव᳚ ᳚.....................ःऋदि ध्येयो मनीषिणाम् |᳚
SK
इत्याद्युक्त्या ᳚हृदयान्तःस्थमीक्षते᳚ साक्षात्कुर्यात् -- इत्यर्थः | यतस्तत् ᳚कदल्या᳚ योऽसौ शंपुटः᳚ परस्परमन्तर्बहीरूपतया मिलितानां दलानां संनिवेशः, तद्वदोतप्रोतत्वेनावस्थितैर्भूततन्मात्रेन्द्रियादिभिस्तत्त्वैः संविलित ᳚ आकारो᳚ यस्य तत्; अत एव ᳚बाह्यं᳚ साधारणं तत्त्वजातम् ᳚आभ्यन्तरम्᳚ असाधारणं तयोः साकल्यं शबाह्याभ्यन्तरं᳚ तस्य ᳚आन्तरं᳚ परप्रमात्रेकरूपम् -- इत्यर्थः | इदमुक्तं भवति यथा कश्चित् कदल्या बाह्यं निःसारं दलमपास्य, शनैः शनैरान्तरमान्तरमाददानः पर्यन्ते परमोपादेयं पुष्पमादत्ते, तथैव तत्त्वविद् बाह्यं बाह्यं शारीरं तत्त्वजातं परित्यज्य, हृदयान्तः परिस्फुरन्तं स्वात्मानं साक्षात्कुर्यात् -- इत्यर्थः || २१ || नन्वात्मनः सर्वदेहव्यापकत्वेऽपि कथं हृदय एवं साक्षात्कारो भवेत् ? इत्याशङ्क्याह -- सोमसूर्याग्निसङ्घट्टं तत्र ध्यायेदनन्यधीः | यतः ᳚तत्र᳚ हृदये सावधानो योगी प्राणापानोदानात्मनां शोमसूर्याग्नीनां सङ्घट्टं ध्यायेत्᳚ कुम्भकवृत्त्योन्मीलनामनुसंदध्यात् -- इत्यर्थः || ननु तत्रैवमनुध्याययतः किं फलम् ? -- इत्याशङ्क्याह -- तद्ध्यानारणिसंक्षोभान्महाभैरवहव्यभुक् || ५-२२ || हृदयाख्ये महाकुण्डे जाज्वलन् स्फीततां व्रजेत् | ᳚तत्᳚ समनन्तरोक्तं सोमसूर्याग्निसङ्घट्टात्म यत् ᳚ध्यानं᳚ तदेव ᳚अरणिः᳚ तस्याः सम्यक् प्राणापानगतित्रोटनेन निर्विकल्पतया मध्यधामानुप्रवेशात्मा यः ᳚क्षोभः᳚ ततो हेतोः हृत्कुण्डे पारिमित्यतिरस्कारेणात्यर्थं ज्वलन् महाभैरवाग्निः श्फीततां व्रजेत्᳚ पूर्णप्रमातृरूपतया स्वात्मसाक्षात्कारो भवेदित्यर्थः | तदुक्तम् -- ङ व्रजेन्न विशेच्छक्तिर्मरुद्रूपा विकासिते | निर्विकल्पतया मध्ये तया भैरवरूपधृत् ||᳚ (वि.भै. २६ श्लोक) इति || २२ || नन्वेतावतैव कथमेवं स्यात् ? -- इत्याशङ्क्याह -- तस्य शक्तिमतः स्फीतशक्तेर्भैरवतेजसः || ५-२३ || मातृमानप्रमेयाख्यं धामाभेदेन भावयेत् |
SK
यतः ᳚तस्य᳚ स्वातन्त्र्यशालिनो भैरवात्मनः परस्य प्रकाशस्य मितप्रमात्रादिधामत्रयम् ᳚अभेदेन भावयेत्᳚ तत्साद्भूतमनुसंदध्यात् | येन पारिमित्यतिरस्कारेण परप्रमात्रैकात्म्यमुदियात् || २३ || ननु सोमसूर्याग्निसङ्घट्टात्म ध्यानं परप्रमातृतापत्तौ निमित्तम् -- इत्युक्तं तत्कथमिदानीमेव तदभेदेन मितमात्रादेर्भावमप्युच्यते -- इत्याशङ्क्याह -- वह्न्यर्कसोमशक्तीनां तदेव त्रितयं भवेत् || ५-२४ || ᳚तत्᳚ प्रमात्रादि त्रितयं वह्न्यादिशक्तीनामेव संबन्धि तद्रूपमेवेत्यर्थः || २४ || न केवलमेतत् वह्न्यादिशक्तिरूपमेव यावत् परादिरूपमपि -- इत्याह -- परा परापरा चेयमपरा च सदोदिता | शदा᳚ सृष्टिस्थितिसंहाराख्यदशासु ᳚उदिता᳚ इति प्रत्येकमभिसंबन्धः || अत आह � सृष्टिसंस्थितिसंहारैस्तासां प्रत्येकतस्त्रिधा || २५ || ननु आसां सदोदितत्वादनाख्यदशायामपि उदयः संभवेत् -- इति कथं सृष्ट्यादिरूपतया प्रत्येकं त्रित्वमेवोक्तम् ? -- इत्याशङ्क्याह - - चतुर्थं चानवच्छिन्नं रूपमासामकल्पितम् | ᳚अनवच्छिन्नं᳚ सृष्ट्याद्यवच्छेदशून्यम्, अत एवं ᳚अकल्पितं᳚ तात्त्विकमित्यर्थंः|| एतदेव सङ्कलयति � एवं द्वादश ता देव्यः सूर्यबिम्बवदास्थिताः || ५-२६ || एकैकमासां वह्न्यर्कसोमतच्छान्तिभासनम् | ᳚ताः᳚ पराद्याः | अत्रैव हृदयङ्गमीकरणाय पुनः एकैकम् इत्यादिः हेतुः | एतच्च अनन्तराह्निक एव वितत्य निर्णीतम् -- इति न पुनरिहायस्तम् || २६ || सर्वस्य चैतदनुभवसिद्धं न तु अपूर्वं किञ्चित् -- इति दर्शयितुमाह - - एतदानुत्तरं चक्रं हृदयाच्चक्षुरादिभिः || ५-२७ || व्योमभिर्निःसरत्येव तत्तद्विषयगोचरे |
SK
᳚एतत्᳚ समनन्तरोक्तं द्वादशात्मकम् ᳚आनुत्तरं चक्रं हृदयात्᳚ तत्स्थात् परमेश्वररूपात् आत्मनश्चक्षुरादीन्द्रियव्योमवर्त्मना तत्तदूर्पादिविषयस्वीकारनिमित्तं तत्तद्वृत्तिरूपतया ङिःसरत्येव,᳚ नतु न कदाचिन्निःसरतीत्यर्थः | इदमुक्तं भवति � यन्नाम प्रबुद्धस्याप्रबुद्धस्य वा स्वरसत एव चक्षुरादीन्द्रियवृत्तिद्वादशकं रूपाद्यर्थालोचनाय प्रसरद्वर्तते, तदेव इदमानुत्तरं चक्रम् -- इति, किंतु अप्रबुद्धस्य तथात्वेनापरिज्ञायमानत्वात् बन्धकं, प्रबुद्धस्य तु मोचकम् � इति विशेषः | यथोक्तम् � शेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ||᳚(स्प.का. ४|१८) इति | तथा ᳚येन येन निबध्यन्ते जन्तवो रौद्रकर्मणा | सोपायेन तु तेनैव मुच्यन्ते भवबन्धनात् ||᳚ इति || २७ || न केवलमेतत् अत्रैव यावदर्थेऽपि -- इत्याह -- तच्चक्रभाभिस्तत्रार्थे सृष्टिस्थितिलयक्रमात् || ५-२८ || सोमसूर्याग्निभासात्म रूपं समवतिष्ठते | ᳚तस्य᳚ समनन्तरोक्तस्य दृगादिदेवीद्वादशकात्मनः ᳚चक्रस्य᳚ तत्तद्वृत्तिरूपाभिः ᳚भाभिः᳚, ᳚तत्रार्थे᳚ तत्र तत्र विषये सृष्टिस्थितिसंहाराख्यरूपतामवलम्ब्य सोमाद्यात्ममेयमानमातृस्फारलक्षणं ᳚रूपं᳚ सम्यक् स्वस्वरूपाविभेदेन ᳚अवतिष्ठते᳚ किञ्चित् सङ्कुचत्तया बहिर्मुखत्वेन प्रस्फुरतीत्यर्थः | प्रमाता हि प्रथममवभास्यमानतया अर्थं सृजति, तदनु तत्रैव प्रशान्तनिमेषं कञ्चित्कालमनुरज्यन् परिस्थापयति, पश्चात् ᳚ज्ञातोऽयं मयार्थः᳚ इति संतोषाभिमानात् स्वात्मनि विमृशन्नुपसंहरति, अनन्तरं हठपाकक्रमेण अलङ्ग्रासयुक्त्या पूर्णत्वापादनेन चिदग्निसाद्भावमापादयति � इति अर्थोऽपि दृगादिदेवीवच्चातूरूप्यमश्नुवानः सर्वस्य सर्वात्मकत्वात् तत्तादात्म्यमेवोपलभते | इति || २८ || अतश्च यत्र क्वापि एतच्चक्षुरादिमरीचिचक्रं निपतेत्, तत्रैतद्रूपतामेव विमृशेत् येन स्वात्मध्यानं सिद्ध्येत्, तदाह -- एवं शब्दादिविषये श्रोत्रादिव्योमवर्त्मना || २९ ||
SK
चक्रेणानेन पतता तादात्म्यं परिभावयेत् | ननु शब्दादि श्रोत्रादिनियतवृत्तिवेदनीयम् -- इति कथमेकैकत्र तत्र निखिलमेव श्रोत्रादिवृत्तिचक्रं निपतेत् -- इति किमेतदुक्तम्? इत्यशङ्क्याह -- अनेन क्रमयोगेन यत्र यत्र पतत्यदः || ५-३० || चक्रं सर्वात्मकं तत्तत्सार्वभौममहीशवत् | तत्तदेतत् ᳚चक्रं᳚ � शमुदायवृत्ताः शब्दा अवयवेष्वपि वर्तन्ते |᳚ इति नीत्या श्रोत्रादिलक्षणमेकैकं चक्रावयवं ᳚यत्र यत्र᳚ शब्दादौ विषये ᳚पतति᳚ अर्थात् तत्र तत्र ᳚अनेन᳚ समनन्तरोक्तेन सृष्ट्यादिक्रमसम्बन्धेन सर्वस्य सर्वात्मकत्वात् चक्रात्मकम् अशेषवृत्त्यन्तरागूरणेन स्वस्वविषयोपभोगं करोतीत्यर्थः | अत्रैव दृष्टान्तः शार्वभौममहीशवत्᳚ इति | यथा सार्वभौमो राजा यत्र कुत्रचन परराष्ट्रे निपतति तत्रास्य राजान्तराणि साहायकार्थमवश्यमनुपतन्ति; एवमेकैकापि चिद्वृत्तिर्यत्र क्वाप्यर्थें प्रसरति तत्रैव वृत्त्यन्तराण्यपि अनुधावन्तीति | यदुक्तम् -- ᳚एकैकापि च चिद्वृत्तिर्यत्र प्रसरति क्षणात् | सर्वास्तत्रैव धावन्ति ताः पुर्यष्टकदेवताः ||᳚ इति || ३० || नन्वेवं सर्वस्य सर्वात्मकत्वोपदेशेन किम् ? -- इत्याशङ्क्याह -- इत्थं वश्वाध्वपटलमयत्नेनैव लीयते || ५-३१ || भैरवीयमहाचक्रे संवित्तिपरिवारिते | ᳚इत्थम्᳚ उक्तेन प्रकारेण ध्यायतश्चक्षुरादिसंवित्तिदेवीचक्रपरिवार्यमाणे ᳚भैरवीये᳚ परप्रमात्रात्मनि चक्रेश्वरे ᳚विश्वं᳚ षड्विधम् ᳚अध्वपटलम् अयत्नेनैव लीयते᳚ तत्साद्भवतीत्यर्थः | एकैकशो हि भावानामानन्त्यात् युगसहस्रैरपि संविदि विलयनं न सिद्ध्येत् � इति सर्वस्य सर्वात्मकत्वात् एकस्मिन्नेव भावे संविदि लीने विश्वमेवाक्रमेण सुखोपायं लीनं स्यात् -- इत्ययत्नशब्दार्थः || ३१ || नन्वेवमपि किम् ? -- इत्याशङ्क्याह -- ततः संस्कारमात्रेण विश्वस्यापि परिक्षये || ५-३२ || स्वात्मोच्छलत्तया भ्रम्यच्चक्रं सञ्चिन्तयेन्महत् |
SK
᳚ततो᳚ऽनन्तरं शंस्कारमात्रेणापि᳚ अवस्थितस्य ᳚विश्वस्य᳚ परितः समन्तात् बहीरूपतया ᳚क्षये᳚ जाते सति व्यतिरिक्तवस्तुग्रासीकारात् श्वात्मोच्छलत्तया᳚ स्वात्मनैव (उल्लसत्तया) ᳚महत्᳚ कृत्वा ᳚भ्रम्यत्᳚ सर्वतः प्रविजृम्भमाणं चक्षुरादीन्द्रियसंवित्तिरूपं ᳚चक्रं᳚ सम्यक् विश्वक्रोडीकारेण चिन्तयेदित्यर्थः || ३२ || ननु संनिहितेऽपि बाह्येऽर्थजाते चक्षुरादीन्द्रियवृत्त्यात्म संविच्चक्रमुदियात् -- इत्यविवादः | तदेव चेत् परिक्षीणं तत् कथमेतत् चक्रमपि स्वात्मन्युल्लसेत् -- इति किमेतदुक्तम् ? -- इत्याशङ्क्याह -- ततस्तद्दाह्यविलयात् तत्संस्कारपरिक्षयात् || ५-३३ || प्रशाम्यद्भावयेच्चक्रं ततः शान्तं ततः शमम् | ᳚ततः᳚ तस्मात् समनन्तरोक्तात् ᳚दाह्यस्य᳚ बाह्यस्यार्थजातस्य संक्षयात् हेतोः तच्चक्रं प्रशाम्यदवस्थं ध्यायेत्; ततोऽनन्तरं ᳚तत्संस्कारस्यापि परिक्षयात् शान्तं᳚ यावदन्ते ᳚शमं᳚ तच्चक्रप्रशान्त्या शुद्धमेव संविन्मात्रमनुसंदध्यादित्यर्थः || ३३ || एतदेव सङ्कलयति � अनेन ध्यानयोगेन विश्वं चक्रे विलीयते || ५-३४ || तत्संविदि ततः संविद्विलीनार्थैव भासते | ननु यद्येवं विलीनार्था संविदेवावभासते तत् विद्युदुद्ध्योतन्यायेन प्रमातृप्रमेयात्म विश्वं भायात् -- इति सर्वदैव प्रलयोदयः स्यात् ? - - इत्याशङ्क्याह -- चित्स्वाभाव्यात् ततो भूयः सृष्टिर्यच्चिन्महेश्वरी || ५-३५ || ननु चितः को नाम अयमेवंविधः स्वभावो येनास्या भूयोऽपि सृष्ट्यादौ कर्तृत्वम् -- इत्याशङ्क्योक्तं ᳚यच्चिन्महेश्वरीति᳚ || ३५ || नन्वेवं विश्वस्य प्रलयोदयचिन्तनेन ध्यायतः कोऽर्थ ? -- इत्याशङ्क्याह -- एवं प्रतिक्षणं विश्वं स्वसंविदि विलापयन् | विसृजंश्च ततो भूयः शश्वद्भैरवतां व्रजेत् || ५-३६ || न केवलमेतदेव चक्रं योगिना ध्येयं यावच्चक्रान्तराण्यपि -- इत्याह - - एवं त्रिशूलात् प्रभृति चतुष्पञ्चारकक्रमात् | पञ्चाशदरपर्यन्तं चक्रं योगी विभावयेत् || ५-३७ || चतुष्षष्टिशतारं वा सहस्रारमथापि वा |
SK
असंख्यारसहस्रं वा चक्रं ध्यायेदनन्यधीः || ५-३८ || एतच्च पुरस्तादेव गतार्थम् -- इति न पुनरिहायस्तम् || ३७-३८ || नन्वसंख्यारत्वे किं निमित्तम् ? -- इत्याशङ्क्याह -- संविन्नाथस्य महतो देवस्योल्लासिसंविदः | नैवास्ति काचित्कलना विश्वशक्तेर्महेशितुः || ५-३९ || नन्वत्र किं प्रमाणम् ? इत्याशङ्क्याह -- शक्तयोऽस्य जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः | इति माङ्गलशास्त्रे तु श्रीश्रीकण्ठो न्यरूपयत् || ५-४० || यदुक्तं तत्र � ᳚शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते | शक्तयश्च जगत्सर्वं शक्तिमांश्च महेश्वरः ||᳚ इति || ४० || न चैतत् स्वोपज्ञमेवास्माभिरुक्तम् -- इत्याह -- इत्येतत् प्रथमोपायरूपं ध्यानं न्यरूपयत् | श्रीशम्भुनाथो मे तुष्टस्तस्मै श्रीसुमतिप्रभुः || ५-४१ || एतदेव अन्यत्राप्यतिदिशति -- अनयैव दिशान्यानि ध्यानान्यपि समाश्रयेत् | अनुत्तरोपायधुरां यान्यायान्ति क्रमं विना || ५-४२ || ᳚अन्यानि᳚ इति शास्त्रान्तरोक्ततत्तच्चक्ररूपाणि || ४२ || एवं ध्यानस्वरूपं निरूप्य तदनन्तरोद्दिष्टं प्राणतत्त्वसमुच्चारं वक्तुमुपक्रमते -- अथ प्राणस्य या वृत्तिः प्राणनाद्या निरूपिता | तदुपायतया ब्रूमोऽनुत्तरप्रविकासनम् || ५-४३ || तदेवाह -- निजानन्दे प्रमात्रंशमात्रे हृदि पुरा स्थितः | शून्यतामात्रविश्रान्तेर्निरानन्दं विभावयेत् || ५-४४ || प्राणोदये प्रमेये तु परानन्दं विभावयेत् | तत्रानन्तप्रमेयांशपूराणापाननिर्वृतः || ५-४५ || परानन्दगतस्तिष्ठेदपानशशिशोभितः | ततोऽनन्तस्फुरन्मेयसङ्घट्टैकान्तनिर्वृतः || ५-४६ || समानभूमिमागत्य ब्रह्मानन्दमयो भवेत् | ततोऽपि मानमेयौघकलनाग्रासतत्परः || ५-४७ || उदानवह्नौ विश्रान्तो महानन्दं विभावयेत् | इह खलु योगी ᳚पुरा᳚ प्रथमं ᳚अशून्यं शून्यमित्युक्तं शून्यं चाभाव उच्यते | अभावः स समुद्दिष्टो यत्र भावाः क्षयं गताः ||᳚ (स्वटं. ४|२९१)
SK
इत्यादिना निरूपितस्वरूपे संविदेकात्मनि ᳚शून्यतामात्रे᳚ विश्रान्तिमाश्रित्य प्राणाद्युदयविश्रामधामनि ᳚हृदि᳚ विषये ङिजो᳚ निरुपाधित्वात् स्वभावभूत ᳚आनन्दो᳚ यस्यैवंविधे प्रमेयाद्यंशान्तरापेक्षया ᳚प्रमात्रंशमात्रे स्थितः᳚ स्वात्मानमेव केवलतया साक्षात्कुर्वन्नवस्थितः सन्, अनन्तरं ᳚प्राक्संवित् प्राणे परिणता |᳚ इति नीत्या प्रमाणात्मनः ᳚प्राणस्य᳚ हृदयात् द्वादशान्तं रेचकक्रमेण ᳚उदये᳚ कथंचिब्दहिरौन्मुख्यात् ङिरानन्दं᳚ निजात्प्रमातृसंमतादानन्दात् निष्क्रान्तं दशाविशेषं ᳚विभावयेत्᳚ लक्षयेदित्यर्थः | अपानात्मनि ᳚प्रमेये᳚ पुनरुदयति ᳚परेण᳚ प्रमेयेण कृतम् ᳚आनन्दं विभावयेत्᳚; यतः ᳚तत्र᳚ तस्यां प्रमेयोदयदशायाम्, असौ परानन्दनिष्ठस्तिष्ठेत्; यतो ᳚अनन्ताः᳚ ये प्रमात्राद्यपेक्षया प्रमेयलक्षणा ᳚अंशाः᳚ तत्कर्तृका येयं ᳚पूरणा᳚ तत्तदर्थग्रहणेन नैराकाङ्क्ष्यं सैव ᳚पानं᳚ पीतिः तेन ङिर्वृतः᳚ स्वात्ममात्रविश्रान्तो, यस्मात् ᳚अपान᳚ एवाप्यायकारितया ᳚शशी᳚ तेन ᳚शोभितः᳚ पूरकक्रमेण द्वादशान्ताद्धृदयं यावत् तद्दशामधिशयान इत्यर्थः | ततोऽपि हृदये कुम्भकवृत्त्या क्षणं विश्रम्य तेषां समनन्तरोक्तानां नीलसुखादिरूपतया ᳚अनन्तानाम्᳚ प्रतिभासमानानां ᳚मेयानाम्᳚ अन्योन्यमेलनात्मा योऽसौ शङ्घट्टः᳚ तेन ᳚एकान्तेन᳚ अव्यभिचारेण ङिर्वृतः᳚ सन्, सममेव समग्रमेयस्वीकारात् समानभूमिमासाद्य मेयेन संभूय कृतत्वाद् बृंहितेन ब्रह्मरूपो योऽसावानन्दः, तन्मयो भवेत्, परानन्ददशातोऽपि विशिष्टामानन्ददशामनुभवेदित्यर्थः | तदन्नतरमपि ᳚मानमेययोः᳚ सूर्यसोमात्मनोः प्राणापानयोर्य ᳚ओघः᳚ प्रवाहस्तस्य याः ᳚षट् शतानि वरारोहे सहस्राण्येकविंशतिः |᳚ (वि.भै. १५६)
SK
इत्यादिना निरूपितस्वरूपाः ᳚कलनाः᳚ तासां ᳚ग्रासतत्परः᳚ तद्धट्टनपरायणो योगी मध्यमार्गेणोर्ध्वगामिनी ᳚उदानवह्नौ᳚ उत्कर्षकक्रमेण परिहृतप्राणाद्यवान्तरक्षोभतया ᳚विश्रान्तो महान्तं᳚ प्रमाणादिदशाधिशायिनिरानन्दादिवैलक्षण्यादुत्कृष्टं प्रमातृसंमतम् ᳚आनन्दं विभावयेत्᳚ स्वात्ममात्रविश्रान्तिरूपतया विमृशेदित्यर्थः || ४७ || नन्वेवं परामर्शेनास्य किं स्यात् इत्याशङ्क्याह -- तत्र विश्रान्तिमभ्येत्य शाम्यत्यस्मिन्महार्चिषि || ५-४८ || ᳚तत्र᳚ महानन्दे विश्रान्तिमागत्य ᳚अस्मिन् महार्चिषि᳚ प्रमात्रात्मन्युदानवह्नौ ᳚शाम्यति᳚ तदेकसाद्भवतीत्यर्थः || ४८ || ननु तत्र का नामास्य शान्तिरुच्यते ? -- इत्याशङ्क्याह -- निरुपाधिर्महाव्याप्तिर्व्यानाख्योपाधिवर्जिता | तदा खलु चिदानन्दो यो जडानुपवृंहितः || ५-४९ || सा च शान्तिः ङिरुपाधिः᳚ निष्क्रान्ता भेदेन स्फुरिता मातृमानमेयात्मान ᳚उपाधयो᳚ यस्याः सा तथा, अत एव कलादिक्षित्यन्तं व्याप्यावस्थानात् ᳚महाव्याप्तिः᳚ अत एव सर्वत्र व्यापकतयाननात् ᳚व्यानाख्या᳚ व्यानदशामधिशयानेत्यर्थः | एवं सर्वमयत्वेऽपि सर्वोत्तीर्णेत्युक्तम् ᳚उपाधिवर्जिता᳚ इति | अत एव ᳚तदा᳚ तस्यां दशायां चिद्रूप एवानन्दः | नहि तदानीं मेयाद्यात्मनामचिताम् अवकाशोऽस्तीत्युक्तं ᳚यो जडानुपवृंहित᳚ इति || ४९ || अत्रैव हेतूपन्यासः -- नह्यत्र संस्थितिः कापि विभक्ता जडरूपिणः | ᳚विभक्ता᳚ इति अविभागेन पुनरेषामस्त्येव सद्भावः -- इति भावः | यदुक्तम् -- श्वात्मेव स्वात्मना पूर्णा भावा भान्त्यमितस्य तु |᳚ (रि.प्र. २|१|७) इति || ननु निरुपाधित्वादनवच्छिन्नं प्रमात्रात्म परं तत्त्वम् -- इत्युक्तं तत् कथमत्र अविभागेनापि व्यवच्छेदका भावाः संस्युः ? -- इत्याशङ्क्याह -- यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् || ५-५० || यदनाहतसंवित्ति परमामृतबंहितम् | यत्रास्ति भावनादीनां न मुख्या कापि सङ्गतिः || ५-५१ || तदेव जगदानन्दमस्मभ्यं शंभुरूचिवान् |
SK
᳚यत्र न कोऽपि᳚ न कश्चिदपि ᳚व्यवच्छेदोऽस्ति᳚; यत एतत् ᳚विश्वतः᳚ सर्वेण रूपेण श्फुरत्,᳚ नहि एतदतिरिक्तमन्यत् किञ्चित् संभवेत्; यतोऽस्य व्यवच्छेदोऽपि भवेदिति भावः | अत एव ᳚यत्, अनाहता᳚ प्रमातृप्रमेयाद्यात्मना सर्वतः प्रस्फुरन्ती शंवित्तिः᳚ यस्य तत्, अत एव स्वातन्त्र्यलक्षणेन ᳚परमेणामृतेन बृंहितं᳚ पूर्णमनन्यापेक्षम् -- इति यावत् | अत एव प्रतिनियतरूपत्वाभावात् ᳚यत्र भावनादीनां न मुख्या᳚ काचित् शङ्गतिः᳚ साक्षादुपायता नास्तीत्यर्थः | यदुक्तम् -- ᳚तेनावधानप्राणस्य भावानादेः परे पथि | भैरवीये कथङ्कारं भवेत् साक्षादुपायता ||᳚ (तं. २|१३) तदेतत् प्रमात्रात्म चिदेकरूपं परं तत्त्वं जगता निजानन्दाद्यात्मना विश्वेन रूपेणानन्दो यत्र यतश्चेति जगदानन्दशब्दवाच्यम् अस्मभ्यं श्रीशंभुनाथ आदिशत्, न पुनरेतदस्माभिः स्वोपज्ञमेवोक्तमित्यर्थः || ५१ || नचैतदुपदेशमात्रादेव विरन्तव्यम् -- इत्याह -- तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः || ५-५२ || ᳚हृदयानाम्᳚ उक्तवक्ष्यमाणानां सृष्ट्याद्यात्मनां हृदयाच्चोच्चारः || नन्वत्र विश्रान्त्या किं स्यात् ? -- इत्याशङ्क्याह -- या तत्र सम्यग्विश्रान्तिः सानुत्तरमयी स्थितिः | एतदेवोपसंहरति � इत्येतद्धृदयाद्येकस्वभावेऽपि स्वधामनि || ५-५३ || षट्प्राणोच्चारजं रूपमथ व्याप्त्या तदुच्यते | यद्यपि स्वात्मतेजसो हृदादावेक एव स्वभावः, नहि हृदयाद् द्वादशान्तं ततोऽपि वा हृदयमपक्रान्तस्य कश्चिद्विशेषः | यदुक्तम् -- ᳚चलित्वा यास्यते कुत्र सर्वं शिवमयं यतः |᳚ (स्वटं. ४|३१०) इति | यदभिप्रायेणैव -- ᳚चक्राधाराटव्यां भ्रमन्त्यसत्यां परिच्युतविवेकाः |᳚ इत्याद्यन्यैरुक्तम्, तथापि सङ्कोचतारतम्येन भेदोल्लासात् सामान्यविशेषरूपतया षट्प्रकारस्य प्राणस्य यः प्राणनापाननाद्यात्मोच्चारः, ततो जातं निरानन्दाद्यात्मकम् एतदूर्पम् ᳚इति᳚ अनन्तरोक्तेन प्रकारेणोक्तमिति शेषः | इदानीमेतदेव मन्त्रव्याप्तिमुखेनाप्यभिधीयते -- इत्याह ᳚अथ᳚ इत्यादि || ५३ || तदेवाह --
SK
प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः || ५-५४ || चतुष्किकाम्बुजालम्बिलम्बिकासौधमाश्रयेत् | त्रिशूलभूमिं क्रान्त्वातो नाडित्रितयसङ्गताम् || ५-५५ || इच्छाज्ञानक्रियाशक्तिसमत्वे प्रविशेत् सुधीः | इह खलु योगी मत्तगन्धसङ्कोचादिक्रमेण प्राणस्य तिर्यक्प्रवाहनिरोधात् कुण्डलतापरिहारेण यो ᳚दण्डप्रयोगः᳚ ᳚यथा दण्डाहतः सर्पो दण्डाकारः प्रजायते | सा तथैव विबुद्ध्येत गुरुणा प्रतिबोधिता ||᳚ इत्यादिनीत्या प्रबुद्धभावेन दण्डाकारतासादनं, तेन ᳚पूर्वापरयोः᳚ प्राणापानवाहयोः शमीकृतेः᳚ विषुवद्रूपावलम्बनेन मध्यधामानुप्रवेशात् ᳚चतुष्किका᳚ ब्रह्मरन्ध्रधोवर्ती चतुष्पथरूपश्चिन्तामण्यभिधान आधारः ᳚अम्बुजं᳚ भ्रूमध्यवर्ती विद्याकमलनामाधारः, ते ᳚आलम्बते᳚ ऊर्ध्वाधोवर्तितया स्वीकरोति तच्छीला येयं ᳚लम्बिका᳚ तदूर्ध्वे सुधाया आधारः, सौधः᳚ तं सुधाधारम् | अथ च सुधाया इदं शौधं᳚ सकारम् ᳚आश्रमयेत् तत्र विश्रान्ति कुर्यादित्यर्थः | ᳚अतो᳚ऽनन्तरमपि शुधीः᳚ योगी नाडीत्रयसङ्घट्टात्मकत्वात् त्रिशूललक्षणं ब्रह्मरन्ध्रेर्ध्ववर्तिनीं नाड्याधाराभिधां ᳚भूमिम्᳚ आक्रम्य � ᳚तच्छक्तित्रितयारोहात् भैरवीये चिदात्मनि | विसृज्यते हि तत्.......................... ||᳚ (५|१८७) इत्याद्युक्तयुक्त्या ᳚इच्छाज्ञानक्रियाशक्तीनां समत्वे᳚ तन्निर्भरे विसर्गादिशब्दव्यपदेश्ये भैरवीये रूपे प्रकर्षेण शूलवर्णपरामर्शगर्भीकारेण ᳚विशेत्᳚ तत्समावेशभाग्भवेदित्यर्थः || ५५ || ननु कथमेतावतैवात्रानुप्रवेशः सिद्ध्येत् ? -- इत्याशङ्क्याह -- एकां विकासिनीं भूयस्त्वसंङ्कोचां विकस्वराम् || ५६ || श्रयेद्भ्रूबिन्दुनादान्तशक्तिसोपानमालिकाम् | तु -- शब्दो भिन्नक्रमो हेतौ | यतः प्रथमम् ᳚एकां᳚ दुर्भेद्यत्वात् प्रधानां भ्रुवि बिन्दुः ᳚भ्रूबिन्दुः᳚ इत्यनेन भ्रूपृष्ठादारभ्य बिन्दुनादनादान्तशक्तिव्यापिनीसमना एवं ऊर्ध्वोर्ध्वपदारोहोपायत्वात् शोपानानि᳚ तेषां ᳚मालिकां श्रयेत्᳚ ऊर्ध्वकुण्डलिनीपदसमासादनौत्सुक्यात् उद्धातक्रमेणाक्रामेदित्यर्थः | ननु �
SK
शमनान्तं वरारोहे पाशजालमनन्तकम् |᳚ (स्वटं. ४|२७) इत्यादिनीत्या बिन्द्वादीनां सङ्कुचितमेव रूपं संभवेत्, तत् कथं नामैतत् नित्योदितत्वात् सततमेव विकस्वरामानन्दसंपदमवाप्तुमुपायतां यायात् ? -- इत्याशङ्क्योक्तं - - ᳚विकासिनीम्᳚ इत्यादि | अनेन हि एषां यथायथं विकासतारतम्यसद्भावात् नित्यविकस्वरेऽपि पदे युक्तमुपायत्वम् -- इत्युक्तं स्यात् || ५६ || ननूर्ध्वकुण्डलिनीपदसमासादनेनापि किं स्यात् ? -- इत्याशङ्क्याह -- तत्रोर्ध्वकुण्डलीभूमौ स्पन्दनोदरसुन्दरः || ५-५७ || विसर्गस्तत्र विश्राम्येन्मत्स्योदरदशाजुषि | यतस्तत्र औन्मनसे पदे श्पन्दनस्य᳚ स्वात्मोच्छलत्ताया ᳚उदरम्᳚ अनन्यस्फुरणात्मा सारस्तेन शुन्दरः᳚ स्पृहणीयो ᳚विसर्गो᳚ विसिसृक्षात्मकं परं पारमेश्वरं रूपं बिन्दुद्वयं चास्तीति, ᳚तत्र᳚ विसर्गे ᳚विश्राम्येत्᳚ तदैकात्म्येन प्रस्फुरेदित्यर्थः | श्पन्दनोदरसुन्दरः᳚ इत्यनेनैव अस्योक्तेऽपि स्वरूपे ᳚मत्स्योदरदशाजुषि᳚ इत्यनेन सर्वदैव अयं स्पन्ददशाधिशायी न तु कदाचिदेव -- इत्युक्तं स्यात् || ५७ || ननु तत्रापि विश्रान्त्या किं स्यात् ? इत्याशङ्कां दृष्टान्तप्रदर्शनेन उपशमयति -- रासभी वडवा यद्वत्स्वधामानन्दमन्दिरम् || ५-५८ || विकाससङ्कोचमयं प्रविश्य हृदि हृष्यति | तद्वन्मुहुर्लीनसृष्टभावव्रातसुनिर्भराम् || ५-५९ || श्रयेद्विकाससङ्कोचरूढभैरवयामलाम् | यथा रासभी वडवा वा मूत्रादिकाले ᳚विकाससङ्कोचमयं᳚ बहिरन्तर्मुखतयानवरतं स्पन्दमानं वराङ्गलक्षणं श्वमानन्दमन्दिरं धाम प्रविश्य᳚ तदेकमना भूत्वा ᳚हृदि हृष्यति᳚ स्वात्मन्यानन्दातिशयमनुभवति, तथा ᳚मुहुर्लीनाः᳚ स्वात्मन्युपसंहृताः शृष्टाः᳚ बहिरुल्लासिताश्च प्रमातृप्रमेयाद्यात्मानः सर्वे ᳚भावाः᳚ तैः सुष्ठु ङिर्भराम्᳚ अनन्याकाङ्क्षाम्, अत एव यथायोगं ᳚विकाससङ्कोचयोः᳚ सृष्टिसंहारयोः ᳚रूढं᳚ तथात्वेन स्फुरितं ᳚पुमान् स्त्रिया᳚ (पाषू. १|२|६७)
SK
इत्येकशेषे ᳚भैरवस्य भैरव्याश्च यामलं᳚ द्वन्द्वं यस्यामेवंविधां विसर्गभुवं ᳚श्रयेत्᳚ स्वानन्दसंवित्तिनिमित्तं समाविशेदित्यर्थः | तदेव हि नाम अस्य परस्य प्रकाशस्यानन्यसारधारणं रूपं, यत् सदैव सृष्टिसंहारकारित्वम् -- इति, अन्यथा हि अस्य जडेभ्यो वैलक्षण्यं न स्यात्, इत्युपपादितं बहुशः | एवं सृष्टौ शक्तेः प्ररोहः, संहारे तु शक्तिमतः | यदुक्तम् -- स्वशक्तिप्रचयोऽस्य विश्वम् | (शिषू. ३|३०) इति | त्रितयभोक्ता वीरेशः | (शिषू. १|११) इति च || ५९ || एतदेव सङ्कलयति � एकीकृतमहामूलशूलवैसर्गिके हृदि || ६० || परस्मिन्नेति विश्रान्तिं सर्वापूरणयोगतः | ᳚एकीकृतं᳚ संविन्मात्रात्मनावस्थापितं पिण्डीभूतं च ᳚महामूलं᳚ परमकारणत्वात् माया ᳚तत एव सकारेऽस्मिन् स्फुटं विश्वं प्रकाशते |᳚ (तं. ३|१६५) इत्याद्युक्त्या विश्वप्रतिष्ठास्थानत्वात् सकारश्च ᳚शूलम्᳚ इच्छादिशक्तित्रयमौकारश्च ᳚वैसर्गिकम्᳚ ऊर्ध्वकुण्डलिनीस्थानं बिन्दुद्वयं च यत्रैवंविधे ᳚परस्मिन्᳚ परप्रमात्रात्मनि संहारहृदादिविलक्षणे च ᳚हृदि᳚ बोधे पराबीजे च सर्वस्यान्तर्बहिर्वा यत् ᳚आपूरणं᳚ स्वात्मसात्कारो भेदोल्लासश्च, तस्य ᳚योगो᳚ युक्तिस्तस्मात् ᳚विश्रान्तिमेति᳚ पराहंभावरूपतया स्वात्ममात्रनिष्ठस्तिष्ठेदित्यर्थः | अहंपरामर्शमात्ररूपत्वमेव हि गर्भीकृताशेषविश्वतया परं विश्रान्तिधाम -- इति नः सिद्धान्त || ६० || अत आह -- अत्र तत्पूर्णवृत्त्यैव विश्वावेशमयं स्थितम् || ५-६१ || प्रकाशस्यात्मविश्रान्तावहमित्येव दृश्यताम् | ᳚अत्र᳚ ऊर्ध्वकुण्डलिनीभूमावशेषविश्वक्रोडीकारेण पूर्णया वृत्त्या ᳚तदेव᳚ अहंपरामर्शात्म परं हृदयं विश्रान्तिधामतयावस्थितं, यतः प्रकाशस्यात्मनि न तु प्रकाश्ये देहादौ विश्रान्तिधामतयावस्थितं, यतः प्रकाशस्यात्मनि न तु प्रकाश्ये देहादौ विश्रान्तावहमित्येव परामर्शो दृश्यतां निरूप्यतामित्यर्थः | नहि अत्र प्रकाशातिरिक्तमन्यत् किञ्चिदपोह्यमपि सम्भवेत् -- इति का कथा परामर्शान्तरस्येति भावः || ६१ ||
SK
नन्वनुत्तरं शान्तं परं ब्रह्मैवास्ति -- इति तत्र को नामायम् अहंपरामर्शो यस्यापि विश्रान्तिधामता स्यात् ? -- इत्याशङ्कां शमयितं प्राणतत्त्वसमुच्चारानन्तर्येणानुजोद्देशोद्दिष्टं चिदात्मनोच्चारमवतारयति -- अनुत्तरविमर्शे प्राग्व्यापारादिविवर्जिते || ५-६२ || चिद्विमर्शपराहंकृत् प्रथमोल्लासिनी स्फुरेत् | ᳚प्राक्᳚ पूर्वकोटौ उल्लिलसिषाद्यात्मभिर्व्यापारैरनुपहिते निस्तरङ्गजलधिप्रख्ये ᳚अनुत्तरात्मनि विमर्शे᳚ परस्मिन् प्रकाशे प्रथममुल्लसनशीला, अत एव व्यतिरिक्तविमृश्याभावात् ᳚चिद्विमर्शपरा᳚ स्वात्ममात्रपरामर्शनतत्परा ᳚अहंकृत्᳚ अहं परामर्शः स्फुरेत् येनास्य सर्वत्रैव स्वातन्त्र्यमुदियात्; स्वस्वातन्त्र्यमाहात्म्यादेव हि अनुत्तरप्रकाशात्मा परमेश्वरः स्वं स्वरूपं गोपयित्वा प्रमाणादिदशामधिशयानः पृथग्भावजातमाभासयेत् || ६२ || तदाह � तत उद्योगसक्तेन स द्वादशकलात्मना || ६३ || सूर्येणाभासयेद्भावं पूरयेदथ चर्चयेत् | ᳚ततो᳚ ऽहंपरामर्शस्फुरणाद्धेतोः स परः प्रकाशः सङ्कुचितप्रमातृभूमिकावभासनपुरस्सरम् ᳚उद्योगः᳚ अर्थावबिभासयिषा, तत्र शक्तेन᳚ सदैव बहिर्मुखेन ᳚द्वादश᳚ षण्ठवर्जमकारादिविसर्गान्ता याः ᳚कलाः᳚ परामर्शास्तत्स्वभावेन प्राप्तपरिपूर्णस्वरूपेण प्रमाणात्मना शूर्येण᳚ एकैकं भावम् आ ईषत्सङ्कुचितेन नीलसुखादिना रूपेण ᳚भासयेत्᳚ बहिः सृजेत्, ᳚पूरयेत्᳚ तथात्वेनैव कञ्चित्कालं स्थापयेत्, ᳚चर्चयेत्᳚ स्वात्मसात्कारेण संहरेदित्यर्थः | यः कश्चनार्थक्रियार्थी हि प्रमाता प्रमाणोपारूढमेवार्थजातं प्रथममालोचयेत्, अनन्तरम् ᳚इदमित्थम्᳚ इति विकल्पयेत्, तदनु ᳚ज्ञातोऽयं मयार्थः᳚ इति संतोषाभिमानाद् बहीरूपताविलापनेन स्वात्मन्येव विश्रमयेत् -- इत्यनुभवसाक्षिकोऽयमर्थः || ६३ || नन्वेव मवभासनादिरूपतामापन्नं भावजातं किं कुर्यात् ? -- इत्याशङ्क्याह -- अथेन्दुः षोडशकलो विसर्गग्रासमन्थरः || ५-६४ || सञ्जीवन्यमृतं बोधवह्नौ विसृजति स्फुरन् |
SK
इच्छाज्ञानक्रियाशक्तिसूक्ष्मरन्ध्रस्रुगग्रगम् || ५-६५ || तदेवम(तद)मृतं दिव्यं संविद्देवीषु तर्पकम् | ᳚अथ᳚ प्रमोपारोहानन्तरं श्फुरन्᳚ स्वेन रूपेणावभासमानोऽत एव ᳚षोडश᳚ अकाराद्या बुद्धीन्द्रियाद्याश्च ᳚कला᳚ यस्यासौ प्राप्तनिजपूर्णस्वरूपोऽत एव उच्छूनरूपतापत्त्या ᳚विसर्गस्य ग्रासः᳚ तद्रूपतिरस्कारात्मान्तः, तेन ᳚मन्थरो᳚ विस्रब्धो देहादिमेयरूप इन्दुः, शञ्जीवनी᳚ -- ᳚पुरुषे षोडशकले तामाहुरमृतां कलाम् |᳚ इत्याद्युक्त्या विश्वसञ्जीवनहेतुरमाख्या सप्तदशी कला कलाषोडशकाप्यायकारिधातुविशेषात्मकम् ᳚अमृतं बोधवह्नौ᳚ परिमिते प्रमातरि ᳚विसृजति᳚ प्रमातृप्रमेयाद्यात्मना स्थूलेन रूपेण समुल्लसतीत्यर्थः | तदुक्तेन प्रकारेणोल्लसितम् एतन्नीलसुखाद्यात्मना चिरस्य लब्धप्ररोहममृतम्, इच्छादय एव स्रुक्, तदग्रगं दिव्यं कृत्वा शंविद्देवीषु तर्पकं᳚ रूपादिविषयरसास्वादेन दृगादिदेवीः सर्वात्ममात्रविश्रान्ता विदध्यादित्यर्थः | सूक्ष्माणि रन्ध्रणि गोलकरूपाणीन्द्रियद्वाराणि | इदमुक्तं भवति -- यत्किञ्चिद्भावजातं तदेषणीयतासमासादनपुरस्सरम् इन्द्रियद्वारोपारोहेण ज्ञेयतामासाद्य तत्तदर्थक्रियाकारितया सर्वात्ममात्रविश्रान्त्युपजननेन संविदः पूर्णतामावहतीति || ६५ || नन्वेवं संविद्देवीतर्पणेन कोऽर्थः -- इत्याशङ्क्याह -- विसर्गामृतमेतावद् बोधाख्ये हुतभोजिनि || ५-६६ || विसृष्टं चेद्भवेत्सर्वं हुतं षोढाध्वमण्डलम् | यद् गुरुवरः -- शर्वभावमयभावमण्डलं विश्वशक्तिमयशक्तिबर्हिषि | जुह्वतो मम समोऽस्ति कोऽपरो विश्वमेधमययज्ञयाजिनः ||᳚ इति | अत्रामृतबीजाद्युद्धारः प्राग्व्याख्ययैव गतार्थः -- इत्यतिरहस्यत्वात् नेह पुनरायस्तम् || ६६ || ननु यदि नामैतावत् विसर्गामृतं परप्रमात्रात्मना परामृष्टं, तावता षड्वधस्याध्वमण्डलस्य किमायातं यदेवमुक्तम् ? -- इत्याशङ्क्याह -- यतोऽनुत्तरनाथस्य विसर्गः कुलनायिका | तत्क्षोभः कादिहान्तं तत्प्रसरस्तत्त्वपद्धतिः || ५-६७ ||
SK
᳚कुलनायिका᳚ इति कौलिकी शक्तिः | यदुक्तं प्राक् -- ᳚अनुत्तरं परं धाम तदेवाकुलमुच्यते | विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते ||᳚ (३|१४४) ᳚कादिहान्तमिदं प्राहुः क्षोभाधारतया बुधाः |᳚ (३|१८०) इति | ᳚तत्क्षोभ᳚ इति तस्य विसर्गस्य क्षोभः, क्षोभाधार इत्यर्थः | यदुक्तम् -- इति | ᳚तत्प्रसर᳚ इति तस्य कादिहान्तस्य क्षोभाधारस्य ᳚प्रसरः᳚ प्रपञ्च इत्यर्थः | यदुक्तम् � ᳚पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु | क्रमात् कादिषु वर्गेषु मकारान्तेषु सुब्रते || वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् | तदूर्ध्वं शादिविख्यातं पुरस्ताद्भ्मपञ्चकम् || अमूला तत्क्रमाज्ज्ञेया क्षान्ता सृष्टिरुदाहृता |᳚ (पट्री. ७) इति || ६७ || ननु यदि नामननुत्तरनाथस्य विसर्गः कौलिकी शक्तिः, तन्मातृकोदये किमेवं प्रदर्शितं न वा ? -- इत्याशङ्क्याह -- अंअ इति कुलेश्वर्या सहितो हि कुलेशिता | यदुक्तम् � ᳚अत्र प्रकाशमात्रं यत्स्थिते धामत्रये सति | उक्तं बिन्दुतया शास्त्रे शिवबिन्दुरसौ मतः ||᳚ (तं.आ. ३|१३४) इति | ᳚अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा | सैव क्षोभवशादेति विसर्गात्मकतां धुर्वम् ||᳚ (तं. ३|१३७) इति च || ननु ᳚शक्तिमतः खलु शक्तिरनन्या᳚ इत्याद्युक्तयुक्त्या शक्तिमतः शक्तेश्च विश्लेषो नास्ति -- इति कथमनयोर्भेदेनोदयः प्रदर्शितः ? -- इत्याशङ्क्याह -- परो विसर्गविश्लेषस्तन्मयं विश्वमुच्यते || ५-६८ || विसर्गस्य ᳚विश्लेषो᳚ विश्लिष्टो विसर्ग इत्यर्थः | अत एव शक्तिमतो भेदित्वात् परः -- इत्युक्तम् | तत्स्फार एव च विश्वमित्युक्तं ᳚तन्मयं विश्वमुच्यते᳚ इति | तदुक्तम् -- ᳚शक्तिश्च शक्तिमांश्चेति पदार्थद्वयमुच्यते | शक्तयोऽस्य जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः ||᳚ इति | एवं विसर्गामृते परप्रमात्रात्मतया परामृष्टे षड्विधोऽपि अध्वा तत्सादेव भवेत् -- इति युक्तमुक्तं ᳚हुतं षोढाध्वमण्डलं भवेत्᳚ इति || ६८ || अतश्च तदधिकारेणैव सर्वमिदं बाह्यमर्चनादि विधेयम् ? -- इत्याह -- वित्प्राणगुणदेहान्तर्बहिर्द्रव्यमयीमिमाम् |
SK
अर्चयेज्जुहुयाद्ध्यायेदित्थं सञ्जीवनीं कलाम् || ५-६९ || ᳚इत्थम्᳚ उक्तेन प्रकारेणेमामेव निखिलजगदाप्यायकारिणीममाख्यां सञ्जीवनीकलामाश्रित्य सार्वात्म्यप्रतिपत्तितत्त्वमर्चनादि विदध्यात्; यतो विद्याज्या परा संवित्, प्राणबुद्धिदेहात्मानः प्रमातारश्च याजकाः, तदपेक्षया अन्तर्बहीरूपाणि रत्नपञ्चकतत्प्रतिनिधिरूपकुङकुमाद्यात्मकानि यागसाधनभूतानि द्रव्याणि च प्रकृतिर्यस्यास्तां तत्स्फारसारामित्यर्थः || ६९ || नन्वेवमर्चनादि सिद्ध्येत् यद्येषा विसर्गभूरासाद्येत, तदासादन एव हि महान् संरम्भो यो युगसहस्रैरपि पारं न यायात् -- इत्यपर्यवसितमेव शास्त्रार्थानुष्ठानं स्यात् ? -- इत्याशङ्क्याह -- आनन्दनाडीयुगलस्पन्दनावहितौ स्थितः | एनां विसर्गनिःष्यन्दसौधभूमिं प्रपद्यते || ५-७० || आनन्दप्रधानं यत् सिद्धयोगिनीसंबन्धि वराङ्गलक्षणं ङाडीयुगलं᳚ तस्य यत् श्पन्दनं᳚ ईरंसया परस्परौन्मुख्यं तत्र ᳚अवहितिः᳚ षडरमुद्राप्रवेशादिक्रमेण तदेकाग्रता तत्र श्थितः᳚ प्ररोहं प्राप्तः सन् एनां सञ्जीवनीं कलां ᳚विसर्गस्य᳚ विसिसृक्षात्मकस्य पारमेश्वरस्य रूपस्य चरमधातोश्च ङिःष्यन्दः᳚ प्रसरस्तस्य शौधभूमिं᳚ विश्रान्तिस्थानं स एव आनन्दातिशयकारित्वात् शौधं᳚ सुधासमूहस्तस्य ᳚भूमिम्᳚ आकरस्थानं प्रपद्यते, तदैकात्म्यमासादयेदित्यर्थः | एतदुक्तं भवति -- इह खलु सर्वेषां ग्राम्यधर्मसेवनं तावदनुक्तसिद्धं, तत्रैव युक्तिलेशमाश्रित्य अवधानमात्रमेव चेत् कृतं तदयत्नेनैव विसर्गभूः समासादिता भवेत् -- इति को नामात्र संरम्भो यदसिद्ध्या शास्त्रर्थानुष्ठानमप्यपर्यवसितं स्यादिति || ७० || नन्वस्तु नाम अस्योपायस्य सुखसाधनत्वं, किन्तु यत्रोपायजालमपि भग्नशक्ति संवृत्तं, तत्र किमनेनैककेनैव कार्यम् ? -- इत्याशङ्क्याह -- शाक्ते क्षोभे कुलावेशे सर्वनाड्यग्रगोचरे | व्याप्तौ सर्वात्मसङ्कोचे हृदयं प्रविशेत्सुधी || ५-७१ || ᳚शाक्ते क्षोभे᳚ इति बाह्यशक्तिसंभोगे | यदुक्तम् --
SK
᳚शक्तिसङ्गमसंक्षुब्धशक्त्यावेशावसानिकम् | यत्सुखं ब्रह्मतत्त्वस्य तत्सुखं स्वाक्यमुच्यते ||᳚ (वि.भै. ६९ श्लो.) इति | ᳚कुलावेश᳚ इति बाह्यशक्त्यभावेऽपि ᳚कुलस्य᳚ शाक्तस्य स्वरूपस्य ᳚आवेशे᳚ स्मरणपुरस्सरं भावनातिशयात् तन्मयीभावे इत्यर्थः | तदुक्तम् -- ᳚लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात् स्मृतेः | शक्त्यभावेऽपि देवेशि भवेदानन्दसंप्लवः ||᳚ (वि. भै. ७० श्लो.) इति | शर्वनाडीनामग्रगोचरे᳚ प्रधाने पार्यन्तिके वा विषये द्वादशान्ते | यदुक्तम् -- ᳚यथा यथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् | प्रतिक्षणं क्षीणवृत्तेर्वैलक्षण्यं दिनैर्भवेत् ||᳚ (वि.भै. ५१ श्लो.) इति | यद्वा ᳚अग्रगोचरे᳚ प्रान्तदेशे यत्र कक्षादाविवाङ्गुलीभिर्मृदुप्रचोदनेन महानानन्दो जायते | यदुक्तम् -- ᳚कुहनेन प्रयोगेन सद्य एव मृगेक्षणे | समुदेति महानन्दो येन तत्त्वं विभाव्यते ||᳚ (वि.भै. ६६ श्लो.) इति | ᳚व्याप्तौ᳚ इति सार्वात्म्यप्रतिपत्त्या सर्वाक्षेपकारिणि विकाससमाधावित्यर्थः | यदुक्तम् -- शर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः | स एवाहं शैवधर्मा इति दार्ढ्याच्छिवो भवेत् ||᳚ (वि.भै. १०९ श्लो.) इति | ᳚जलस्येवोर्मयो वह्नेर्ज्वालाभङ्गा प्रभा रवेः | ममैव भैरवस्यैता विश्वभङ्ग्यो विभेदिताः ||᳚ (वि.भै. ११० श्लो.) इति च | शर्वात्मसङ्कोच᳚ इति सर्वेणात्मना बाह्यस्य सङ्कोचे ङैतद्वस्तु सत् किञ्चित्᳚ इति भावनायामित्यर्थः | यदुक्तम् -- ङिराधारं भवेज्ज्ञानं निर्निमित्तं भ्रमात्मकम् | तत्त्वतः कस्यचिन्नैतदेवं-भावी शिवः प्रिये ||᳚ (वि.भै. ९९ श्लो.) इति | तथा ᳚इन्द्रजालमयं विश्वं न्यस्तं वा चित्रकर्मवत् | भ्रमाद्वा ध्यायतः सर्वं पश्यतश्च सुखोदयः ||᳚ (वि.भै. १०२ श्लो.) इति | एवमादौ विषये शुधीः᳚ पूर्णज्ञानो यः कश्चिदपश्चिमजन्मा स ᳚हृदयं प्रविशेत्᳚ विसर्गभुवमधिशेत इत्यर्थः || ७१ || ननु यद्येवमत्रानेके उपायाः संभवन्ति तत् कथं शाक्तस्यैव क्षोभस्य प्राधान्येन निर्देशः कृतः ? -- इत्याशङ्क्याह --
SK
सोमसूर्यकलाजालपरस्परनिघर्षतः | अग्नीषोमात्मके धाम्नि विसर्गानन्द उन्मिषेत् || ५-७२ || शोमसूर्ययोः᳚ मेयमानयोर्यच्छब्दाद्यात्म श्रोत्रादिरूपं च ᳚कलाजालं᳚ तस्य योऽसौ ग्राह्यग्राहकभावात्मा परस्परं सङ्घट्टः, ततस्तदुभयक्रोडीकारात् चक्रानुचक्रदेवीरूपं ᳚कलाजालं᳚ तस्य परस्परं मेलनात्मा सङ्घर्षः, ततः -- ᳚शुचिर्नामाग्निरुद्भूतः सङ्घर्षात् सोमसूर्ययोः |᳚ इत्याद्युक्त्या अग्नीषोमात्मके मध्यमे धाम्नि अनुप्रवेशेन ᳚विसर्गानन्द उन्मिषेत्᳚ मुख्यया वृत्त्या चरमधातुप्रक्षेपात्म परं सामरस्यमुदियात्, यदनुकल्पतया पुनरन्यत्रानन्द उपचर्यते येन तदपि परसंविदनुप्रवेशे निमित्ततां यायात् || ७२ || एतदेवोपसंहरति � अलं रहस्यकथया गुप्तमेतत्स्वभावतः | योगिनीहृदयं तत्र विश्रान्तः स्यात्कृती बुधः || ५-७३ || यत एतद्योगिनीनां ᳚हृदयं᳚ परमं विश्रान्तिस्थानम्, अत एव स्वभावतो गुप्तमित्यभिहितम्, यदभिप्रायेणैव � ᳚एतन्नायोगिनीजातो नारुद्रश्चापि विन्दति |᳚ (पट्री. १० श्लो.) इत्याद्यन्यत्रोक्तम् | ᳚तत्र᳚ इति योगिनीहृदयात्मनि विसर्गोन्मेषे, ᳚बुध᳚ इत्यनेनात्र ज्ञानित्वस्यैव प्राधान्यम् -- इति कटाक्षितम् || ७३ || नन्वत्र विश्रान्तस्य किं नामाभिज्ञानम् ? -- इत्याशङ्क्याह -- हानादानतिरस्कारवृत्तौ रूढिमुपागतः | अभेदवृत्तितः पश्येद्विश्वं चितिचमत्कृतेः || ५-७४ || हेयोपादेयविषययोर्हानादानयोः ᳚मा किञ्चित्त्यज मा गृहाण |᳚ (अनु. ७ श्लो.)
SK
इत्याद्युक्तिवशात् यस्तिरस्कारः, तत्र येयं निर्विकल्पात्मिका वृत्तिः, तत्र ᳚चितिचमत्कृतेः चिदैकात्म्यविमर्शात् प्ररोहं प्राप्तः सन् विश्वमभेदवृत्तितः ᳚पश्येत्᳚ स्वात्मैकात्म्येन जानीयादित्यर्थः | तेनेदमेवास्य मुख्यं लक्षणं परतत्त्वान्तःप्रवेशे यत् हानादानतिरस्कारेण स्वात्ममात्र एवावस्थानमिति | अत एवानेन चिदात्मोच्चारानन्तर्येणानुजोद्देशोद्दिष्टः परतत्त्वान्तःप्रवेशोऽपि निर्णेतुमुपक्रान्तः | भेदेऽपि हि सति हेयोपादेयविभागः, स एव यस्य विगलितस्तस्य किं नाम हेयं किं वोपादेयम् -- इति पूर्णैवास्य परा संविदुल्लसेत् || ७४ || तदाह � अर्थक्रियार्थितादैन्यं त्यक्त्वा बाह्यान्तरात्मनि | स्वरूपे निर्वृतिं प्राप्य फुल्लां नाददशां श्रयेत् || ५-७५ || इह खलु तत्त्वान्तरनुप्रविष्टो योगी बाह्यान्तरस्वभावे नीलसुखादावर्थजाते हेयोपादेयविभागाभावात् तत्तत्प्रतिनियतार्थक्रियाकाङ्क्षादैन्यमपहाय सर्वभावानां संह्नियमाणत्वात् आकाशबीजस्योद्धारः | तदनु तस्यैव प्ररोहाद्विकस्वरां ङाददशां श्रयेत्᳚ इति विमर्शात्मिकां विश्वोत्तीर्णां संविदमासादयेदित्यर्थः | एवं च प्रथमं विश्वसंहारस्योपक्रान्तत्वात् आकाशबीजस्योदयः, तदनु तस्यैव प्ररोहात् संहारकुण्डलिनीबीजस्य � इति श्रीपिण्डनाथसंबन्ध्याद्यवर्णद्वयमपि अनेनोद्धृतम् || ७५ || नन्वेवमासादितयापि अनया कोऽर्थः स्यात् ? -- इत्याशङ्क्याह -- वक्रमन्तस्तया सम्यक् संविदः प्रविकासयेत् | संविदक्षमरुच्चक्रं ज्ञेयाभिन्नं ततो भवेत् || ५-७६ ||
SK
᳚तया᳚ विश्वोत्तीर्णसंविद्रूपया नाददशया सम्यक् विश्वोपसंहारपुरस्सरं भेदतिरस्कारेण मार्गशुद्धिमादधानया विश्वोत्तीर्णत्वेऽपि विश्वमय्याः परस्याः संविदो ᳚अन्तर्वक्त्रम्᳚ अन्तर्मुखं रूपम् एवंविधो योगी ᳚प्रविकासयेत्᳚ विकासयोग्यं विदधातीत्यर्थः | ᳚ततः᳚ संविदो विकासयोग्यताधानाद्धेतोः शंविदां᳚ नीलादिज्ञानानाम् ᳚अक्षाणां᳚ तदुत्पत्तिनिमित्तभूतानामिन्द्रियाणां ᳚मरुतां᳚ तत्सामान्यवृत्त्यात्मनां प्राणादिरूपाणां यत् मातृमानमेयस्वभावं चक्रं, तत् शून्यप्रमात्रपेक्षया विश्व भावरूपं यज्ज्ञेयं, तदभिन्नमकिञ्चिद्रूपं भवेत् || ७६ || नन्वेवमपि भावसंस्कारस्य विद्यमानत्वात् एकान्ततो भेदविगलनं न वृत्तम् -- इति कथं संविन्मात्रात्मन्यनुप्रवेशः सिद्ध्येत् ? -- इत्याशङ्क्याह -- तज्ज्ञेयं संविदाख्येन वह्निना प्रविलीयते | विलीनं तत् त्रिकोणेऽस्मिञ्शक्तिवह्नौ विलीयते || ५-७७ || ᳚तत्᳚ अभावात्म ज्ञेयं परप्रमात्रात्मना संविदाख्येन वह्निना प्रकर्षेण निःसंस्कारं ᳚विलीयते᳚ विगलति, संविदग्निरेवावशिष्यत इत्यर्थः | अनेनाभावस्यापि विलापनादग्निबीजस्योद्धारः कृतः | एवं ᳚विलीनं᳚ संविन्मात्रात्मतामापन्नमपि तज्ज्ञेयं संवित्त्वान्यथानुपपत्त्या अस्मिन् इच्छादिशक्तित्रयात्मनि ᳚त्रिकोणे शक्तिवह्नौ᳚ सर्वशक्तिक्रोडीकारिण्यां स्वातन्त्र्यशक्तौ ᳚विलीयते᳚ तन्मात्रसारतया प्रस्फुरतीत्यर्थः | एवमनेन संविन्मात्र एव विश्रान्तेः शक्तिबीजस्याप्युद्धारः कृतः | इह खलु इदमेव संविदः संवित्त्वं यत् परम्रष्टृत्वं नाम, यस्य विमर्शः स्पन्दो हृदयं विसर्गः -- इत्यादयः सहस्रशो व्यपदेशाः | यदुक्तम् -- ᳚तस्य देवातिदेवस्य परबोधस्वरूपिणः | विमर्शः परमा शक्तिः सर्वज्ञा ज्ञानशालिनी ||᳚ इति || ७७ || अतश्च मुख्यया वृत्त्या तत्रैव विश्रमणीयं येन साक्षात् परतत्त्वान्तरनुप्रर्वेशः सिद्ध्येत् ? -- इत्याह � तत्र संवेदनोदारबिन्दुसत्तासुनिर्वृतः | संहारबीजविश्रान्तो योगी परमयो भवेत् || ५-७८ ||
SK
तत्रैवं स्थिते सति परप्रमात्रात्मनः शंवेदनस्य᳚ संवेदकत्वाधानात् ᳚उदारा᳚ महती येयं ᳚बिन्दुसत्ता᳚ विदिक्रियाकर्तृत्वात्मिका परा परामर्शदशा, तया सुष्ठु नैराकाङ्क्ष्येण ङिर्वृतः᳚ स्वात्मचमत्कारातिशयशाली, अत एव शंहारबीजे᳚ परप्रमात्रात्मनि बिन्दोरपि उदयात् श्रीपिण्डनाथे च ᳚विश्रान्तः᳚ तदैकात्म्यमापन्नोऽत एव ᳚परमयो योगी भवेत्᳚ परतत्त्वैक्यभाक् भवतीत्यर्थः || ७८ || ननु संविदपेक्षयापि विमर्शस्यैव विश्रान्तिस्थानत्वं प्राधान्येन कस्मादुक्तम् ? इत्याशङ्क्याह � अन्तर्बाह्ये द्वये वापि सामान्येतरसुन्दरः | संवित्स्पन्दस्त्रिशक्त्यात्मा सङ्कोचप्रविकासवान् || ५-७९ || स एव हि संवित्स्पन्दो ᳚अन्तः᳚ परप्रमात्रात्मनि शिवतत्त्वे सर्वविशेषस्वीकारात् सामान्यात्मा, अत एव प्रविकासवान् अहमिति, ᳚बाह्ये᳚ मायातः क्षित्यन्तं भेदोल्लासाद्विशेषात्मा, अत एवान्योन्यव्यावृत्त्या सङ्कोचवान् इदमिति; ᳚द्वये᳚ अन्तर्बहीरूपे विद्यापदे समधृततुलापुटन्यायेन ᳚अहमिदम्᳚ इति सामान्यविशेषात्मा, अत एव सङ्कोचप्रविकासवान्, अत एवाशेषविश्वोल्लासकारित्वात् इच्छादिशक्तित्रयात्मा -- इति स एव परं विश्रान्तिस्थानम् -- इति तत्रैवावधेयम् || ७९ || ननु यद्येवं तर्ह्यस्य सङ्कोचविकासवत्त्वेन नानात्वात् जाड्यमापतेत् -- इति समाप्तं विश्रान्तिस्थानत्वम् ? -- इत्याशङ्क्याह -- असङ्कोचविकासोऽपि तदाभासनतस्तथा | वस्तुतः संविदेकस्वभावत्वात् असङ्कोचविकासोऽपि असौ संवित्सपन्दः स्वस्वातन्त्र्येण तथा सङ्कोचादिरूपतया अवभासते, इति तथा शङ्कोचविकासवान्᳚ इत्युच्यते न तु वस्तुतस्तथा समस्तीति भावः || ननु यदि नाम सङ्कोचविकासाद्यस्य वस्तुतो नास्ति, तत् तदवभासने किं निमित्तम् ? -- इत्याशङ्क्याह � अन्तर्लक्ष्यो बहिर्दृष्टिः परमं पदमश्नुते || ८० || इह हि ᳚बहिः᳚ इदन्तापरामृश्ये देहघटादौ ᳚तत्तद्रूपतया ज्ञानं बहिरन्तः प्रकाशते | ज्ञानादृते नार्थसत्ता ज्ञानरूपं ततो जगत् || नहि ज्ञानादृते भावाः केनचिद्विषयीकृताः | ज्ञानं तदात्मतां यातमेतस्मादवसीयते ||᳚
SK
इत्यादिश्रीकालिकाक्रमोक्त्या संवित्स्फारसारा एवैते, इत्येवमात्मदृष्टिः अत एव ᳚अन्तः᳚ अहंपरामर्शात्मनि संवित्तत्त्वे सावधानो बाह्यविषयासङ्गेऽपि स्वरूपपरामर्शपरत्वात् भैरवमुद्रानुप्रविष्टो योगी ᳚परमं पदमश्नुते᳚ विमर्शदशामधिशेते इत्यर्थः | तेन ᳚अविद्यैव विद्योपायः᳚ इत्यादिन्यायेन सङ्कुचितमपि बाह्यं रूपं विकस्वरस्वरूपापत्तौ निमित्ततां यायात् -- इत्युक्तं स्यात् | तत्र चोचितेन विमर्शेन भाव्यम् -- इति विशेषात्मन इदमिति परामर्शस्यापि उल्लासः -- इति युक्तमुक्तं ᳚तथाभासनतस्तथा᳚ इति || ८० || अत आह -- ततः स्वातन्त्र्यनिर्मेये विचित्रार्थक्रियाकृति | विमर्शनं विशेषाख्यः स्पन्द औन्मुख्यसंज्ञितः || ५-८१ || ᳚ततः᳚ समनन्तरोक्ताद्धेतोः स्वस्वातन्त्र्योत्थापिते तत्तदर्थक्रियाकारिणि भावजाते यदिदमिति विमर्शनं स विशेषाख्यः स्पन्दस्तत्तदर्थक्रियार्थितातारतम्येन प्रवृत्तेः ᳚औन्मुख्यसंज्ञितः᳚ औन्मुख्यशब्दव्यपदेश्यः स्यादित्यर्थः || ८१ || न च अत्रैव विश्रमणीयम् -- इत्याह -- तत्र विश्रान्तिमागच्छेद्यद्वीर्यं मन्त्रमण्डले | शान्त्यादिसिद्धयस्तत्तदूर्पतादात्म्यतो यतः || ५-८२ || तत्र � ᳚इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता | या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ||᳚ (अ.प्रषि. १५ श्लोक) इत्याद्युक्त्या इदंविमर्शविश्रान्तिधामनि अहंपरामर्शे विश्रान्तिं कुर्यात्, यत् न केवलमत्र यावन्मन्त्रमण्डलेऽपि वीर्यं, यतोऽहंपरामर्शानुविद्धमन्त्रमण्डलैकात्म्यादेव तत्फलभूता विचित्रेतिकर्तव्यताकाः शान्त्यादिसिद्धयो भवेयुरित्यर्थः | संविद्विश्रान्तिमन्तरेण हि न किञ्चिदेव भवेदिति भावः | यद्वक्ष्यति - - ᳚यत्तत्र नहि विश्रान्त तन्नभःकुसुमायते |᳚ (तं. ८|३) इति || ८२ || न केवलमेतदेवं यावदिन्द्रियाण्यपि -- इत्याह -- दिव्यो यश्चाक्षसङ्घोऽयं बोधस्वातन्त्र्यसंज्ञकः | सोऽनिमीलित एवैतत् कुर्यात्स्वात्ममयं जगत् || ५-८३ ||
SK
इह खलु बाह्यर्थौन्मुख्येऽपि अन्तर्लक्ष्यत्वाद्दिव्योऽत एव शुद्धबोधैकरूपत्वात् बोधस्वातन्त्र्यशब्दाभ्यां न तु बुद्धीन्द्रियकर्मेन्द्रियशब्दाभ्यां व्यपदेश्यो योऽयमिन्द्रियसमूहः स बहिः ᳚अनिमीलितो᳚ व्यापृत एव सन् भैरवमुद्रानुप्रवेशक्रमेण एतज्जगत् श्वात्ममयं कुर्यात्᳚ संविन्मात्रसारतया परामृशेदित्यर्थः || ८३ || ननु कथमेवं भवेत् ? -- इत्याशङ्क्याह -- महासाहससंयोगविलीनाखिलवृत्तिकः | पुञ्जीभूते स्वरश्म्योघे निर्भरीभूय तिष्ठति || ५-८४ || अकिचिच्चिन्तकस्तत्र स्पष्टदृग्याति संविदम् | यद्विस्फुलिङ्गाः संसारभस्मदाहैकहेतवः || ५-८५ || महासाहसशब्दाभिधेयचकितमुद्रानुप्रवेशेन ᳚विलीना᳚ बाह्याद्विगलिताः प्रत्यावृत्ता निखिला इन्द्रियवृत्तयो यस्य स तथा, अत एव ᳚अकिञ्चिच्चिन्तको᳚ बहिरौन्मुख्याभावात् निरवधानोऽत एव श्वरश्म्योघे᳚ तत्तदिन्द्रियमरीचिचक्रे ᳚पुञ्जीभूते᳚ भेदविगलनात् स्वात्मन्येव सङ्घटितेऽत एव ङिर्भरीभूय᳚ पूर्णतामासाद्य तिष्ठति सति, तत्र अन्तरहंपरामर्शात्मनि प्रमातृतत्त्वे श्पष्टदृक्᳚ प्रस्फुटावबोधः शंविदं याति᳚ परतत्त्वान्तरनुप्रविशेत् यत्स्फारमात्रादयत्नत एव संसारापकृतिः सिद्ध्येत् || ८४-८५ || न चैवमस्माभिः स्वोत्प्रेक्षितमेवोक्तमित्याह -- तदुक्तं परमेशेन त्रिशिरोभैरवागमे | तदेव पठति � शृणु देवि प्रवक्ष्यामि मन्त्रभूम्यां प्रवेशनम् || ५-८६ || ᳚मन्त्रभूम्याम्᳚ इति परतत्त्वान्तः || ८६ || किं तत् ? -- इत्याशङ्क्याह -- मध्यनाड्योर्ध्वगमनं तद्धर्मप्राप्तिलक्षणम् | विसर्गान्तपदातीतं प्रान्तकोटिनिरूपितम् || ५-८७ ||
SK
यन्नाम ᳚विसर्गान्तपदं᳚ द्वादशान्तपदमतिशयेन इतं प्राप्तं तदवधिकं ᳚मध्यनाड्या᳚ उदानवाहक्रमेण ᳚ऊर्ध्वगमनं᳚ तन्मन्त्रभूम्यां प्रवेशनमुच्यते -- इत्यर्थाक्षिप्तम् | यतस्तस्याः संवित्तत्त्वात्मिकाया मन्त्रभूमेर्ये निरावरणत्वनिर्विकल्पत्वादयो ᳚धर्माः᳚ तेषां ᳚प्राप्तिः᳚ तदैकात्म्येन स्फरत्ता तद्रूपम्, अत एव प्रान्तकोटित्वेन निरूपितं सर्वत्रैव परा काष्ठा -- इत्युद्घोष्यते इत्यर्थः | यदुक्तम् -- ᳚यन्निरावरणं संवित्सतत्त्वं कल्पनोज्झितम् | तत् परं पुत्रि कथितं सा काष्ठा सा परा गतिः ||᳚ इति || ८७ || तच्च कथं स्यात् ? -- इत्याशङ्क्याह -- अधःप्रवाहसंरोधादूर्ध्वक्षेपविवर्जनात् | महाप्रकाशमुदयज्ञानव्यक्तिप्रदायकम् || ८८ || अनुभूय परे धाम्नि मात्रावृत्त्या पुरं विशेत् | ᳚अधःप्रवाहस्य᳚ अपानस्य ᳚ऊर्ध्वक्षेपस्य᳚ प्राणस्य चापहस्तनात् तदुभयघट्टनेन परे मध्यमे धाम्नि -- ᳚पीत्वाकुलामृतं दिव्यं पुनरेव विशेत् कुले | पुनरेवाकुलं गच्छेन्मात्रायोगेन पार्वति || सा च प्राणवहा ख्याता तन्त्रेऽस्मिन् पारमेश्वरे |᳚ इत्यादिना निरूपितस्वरूपा या मात्रा तस्या ᳚आवृत्त्या᳚ आवर्तनेन पुनःपुनर्गणनया ᳚उद्गच्छन्तीं तडिद्रूपं प्रतिचक्रं क्रमात्क्रमम् | ऊर्ध्वं मुष्टित्रयं यावत्तावदन्ते महोदयः ||᳚ (वि.भै. २९ श्लो.) इत्याद्युक्तयुक्त्या तत्तच्चक्रोल्लङ्घनक्रमेण द्वादशान्तभुवि शकृद्विभातोऽयमात्मा᳚ इति न्यायेन अवभासनक्रियाविच्छेदाभावात् उदयप्रधानं नित्योदितं यदात्मज्ञानं तस्य ᳚व्यक्तिप्रदायकं᳚ तदूर्पतयावभासमानं परप्रमातृरूपं ᳚महाप्रकाशमनुभूय᳚ पुरं विशेत्᳚ मन्त्रभूमिरूपां पूर्णां स्वात्मवृत्तिमासादयेदित्यर्थः || ८८ || सा च किंविधा ? -- इत्याशङ्क्याह -- निस्तरङ्गावतीर्णा सा वृत्तिरेका शिवात्मिका || ५-८९ || चतुष्षड्द्विर्द्विगुणितचक्रषट्कसमुज्ज्वला | तत्स्थं(त्स्थो) विचारयेत् खं खं खस्थं खस्थेन संविशेत् || ५-९० || खं खं त्यक्त्वा खमारुह्य खस्थं खं चोच्चरेदिति |
SK
खमध्यास्याधिकारेण पदस्थाश्चिन्मरीचयः || ५-९१ || सा च स्वात्मरूपा वृत्तिर्निःशेषविश्वोपशमात् ङिस्तरङ्गा᳚ स्वात्ममात्रविश्रान्त्या शान्तरूपेत्यर्थः | अत एवैकेत्युक्तम् | न चैवमस्या विश्वोत्तीर्णमेव रूपं संभवति, अपितु तथात्वेऽपि विश्वमयीत्याह -- ᳚अवतीर्णा᳚ इति, तत्तदूर्पतया बहिरुल्लसितेत्यर्थः | अत एव तत्रत्यबहुग्रन्थार्थमर्भीकारेणाह -- ᳚चतुष्षड्द्विर्द्विगुणितचक्रषट्कसमुज्ज्वला᳚ इति | यदुक्तं प्राक् -- ᳚चतुष्षड्द्विर्द्विगणनायोगात् त्रैशिरसे मते | षट्चक्रेश्वरता नाथस्योक्ता चित्रनिजाकृतेः ||᳚ (१|११४) इति | एवमपि नास्याः स्वस्वरूपात् प्रच्यावः -- इत्युक्तं ᳚शिवात्मिका᳚ इति | तेनास्या बहीरूपतया स्फुरत्तायामपि परप्रमात्रात्मनि स्वस्वरूपे एव विश्रान्तिः -- इत्युक्तं स्यात्, यदभिप्रायेणैव भैरवमुद्राया अभिधानम् | एतच्च अतिरहस्यत्वात् गोपनीयम् -- इत्याशयेन भगवान्निगूढार्थतयाभिधत्ते -- ᳚खस्थम्᳚ इत्यादिना | इह खलु योगी भूतिशब्दवाच्यमैश्वर्यात्मस्वातन्त्र्यलक्षणं ᳚खमारुह्य᳚ अवलम्ब्य स्वस्वरूपं गोपयित्वा दिक्कालादिना सङ्कुचत्तामवभास्य अणुशब्दव्यपदेश्ये खे स्थितं सङ्कुचिततात्मतया स्फुरितं ᳚खम्᳚ � ᳚परमात्मस्वरूपं तु सर्वोपाधिविवर्जितम् | चैतन्यमात्मनो रूपं सर्वशास्त्रेषु पठ्यते ||᳚ (नेटं. ८|२८) इत्याद्युक्त्या पूर्णप्रथात्मकमवश्यज्ञेयमात्मानं ᳚विचारयेत्᳚ किमस्य सङ्कुचितमेव तात्त्विकं रूपं न वेति विमर्शपदवीं नयेदित्यर्थः | एवं हि पारमार्थिकस्य रूपस्य लाभो भवेदिति भावः | तदुक्तं तत्रैव -- ᳚खं हि यद्भैरवं ज्ञेयं सर्वमार्गान्तमन्तगम् | विचारयेत्तु यो धीमान् करणव्याप्तिमध्यगः || भूमिकास्थो हि चक्रस्थो विन्दते परमार्थतः |᳚ इति | तच्च कथम् ? -- इत्याशङ्क्योक्तं -- ᳚खस्थेन खस्थं खं चोच्चरेदिति᳚ | च शब्दो हेतौ | ᳚खे᳚ रताववतिष्ठमानेन तदासक्तेन सावधानेन चेतसा ᳚खे᳚ कुलमूले शक्त्युत्पत्त्यात्मनि जन्माधारे स्थितं ᳚खं᳚ प्राणरूपां शक्तिमुच्चरेत् --
SK
᳚आमूलात् किरणाभासां सूक्ष्मसूक्ष्मपरात्मिकाम् | चिन्तयेत्तां द्विषट्कान्ते शाम्यन्तीं भैरवोदयः ||᳚ (वि.भै. २८ श्लो.) इत्याद्युक्त्या मध्यधामप्रवेशक्रमेण ऊर्ध्वं द्वादशान्तं नयेत् येन क्रियाशक्त्यात्मनि ᳚खे᳚ गतं दृश्यं तदुपरक्तां क्रियाशक्तिं प्रमेयभुवं तथा ᳚खे᳚ ज्ञानशक्ताववस्थितं द्रष्टारं तदुपरक्तां ज्ञानशक्तिं प्रमाणभुवं त्वक्त्वा प्रमाणप्रमेयात्मव्यवहारपरत्वेऽपि तदासङ्गमपहायेत्यर्थः | यद्यपि अत्रोभयत्रापि द्रष्टृदृश्योपरागः संभवति तथापि प्राधान्यादेवमुक्तम् | तथा ᳚खं᳚ द्रष्टृदृश्याद्युपाधिवर्जितां स्वविमर्शमात्ररूपामिच्छाशक्तिम्, ᳚अधिकारेण अध्यास्य स्वावष्टम्भबलेनाक्रम्य चितिशब्दाभिधेयं ᳚खं᳚ -- ᳚विमर्शधाम तुर्यं च व्यापकं चोर्ध्वमध्यमः | सुशिरं तत्त्वराजानं पराकाशं प्रकीर्तितम् ||᳚ इत्यादिनीत्या श्रीत्रिशिरोभैरवोक्त्या निरूपितस्वरूपं परतत्त्वलक्षणं तुर्यातीतपदं सम्यग्भैरवमुद्रानुप्रवेशक्रमेण ᳚विशेत् समावेशभाक् भवेदित्यर्थः | एवं च ᳚चिन्मरीचयः᳚ तत्तदिन्द्रियवृत्तयो बहिरौन्मुख्याभावात्᳚ ᳚पदस्थाः᳚ तुर्यातीतदशामधिशयाना एव भवन्तीत्यर्थः || ९१ || एवमप्यत्राप्रमत्तेन भाव्यम् -- इत्याह -- भावयेद्भावमन्तःस्थं भावस्थो भावनिःस्पृहः | भावाभावगती रुद्धा भावाभावावरोधदृक् || ५-९२ || एवमपि ᳚भावाभावगतीरुद्धा᳚ प्राणापानक्षोभमपहाय ᳚अन्तःस्थं भावम्᳚ आन्तरीं सत्तां, योगी ᳚भावयेत्᳚ मध्यधामानुप्रवेशक्रमेण पौनःपुन्येन तत्रैव आसक्तिं कुर्यात् येन व्युत्थानेऽपि अतः प्रच्यावो न स्यात्, अत एव स ᳚भावस्थो᳚ ग्राह्यग्राहकसंक्षोभेऽपि बाह्यान्तःकरणवर्गेणालुप्तसंवित्तिः स्वात्ममात्रपरिनिष्ठित एवेत्यर्थः | यदुक्तं तत्रैव ᳚ऊर्ध्वाधोगमविक्षेपरहितः करणेच्छया | रूपं यस्य न हीयेत भावस्थो भावभासकः || स्वरूपप्रतिपन्नोऽसावन्तःकरणवर्जितः | भावस्थं तं विजानीयाद् ग्राह्यग्राहकविप्लवे ||᳚
SK
इति | अत एव ᳚भावाभावयोः᳚ प्राणापानयोर्मध्यधामानुप्रवेशेन निस्तरङ्गतया साम्यात्मा योऽसौ ᳚अवरोधः᳚ तं पश्यति साक्षात्करोतीत्यर्थः | यदुक्तं तत्रैव ᳚प्राणापानौ समौ यस्य साम्यावस्थानमागतौ | निस्तरङ्गप्रकारेण भावाभावावरोधदृक् ||᳚ इति | अत एव बहिरौन्मुख्याभावात् ᳚भावनिःस्पृहः᳚ स्वस्वरूपनिष्ठ एवेत्यर्थः | यदुक्तं तत्रैव � श्वरूपस्थितिसंयोगलक्षवृत्तिरतस्य च | भावनिःस्पृहमेतद्धि तत्पदत्यागवर्तिनः ||᳚ इति || ९२ || ननु खशब्दस्य स्वरूपाविशेषेऽपि कुतस्त्योऽयं दशधा भिन्नोऽर्थः ? -- इत्याशङ्क्याह -- आत्माणुकुलमूलानि शक्तिभूतिश्चिती रतिः | शक्तित्रयं द्रष्टृदृश्योपरक्तं तद्विवर्जितम् || ५-९३ || एतत्खं दशधा प्रोक्तमुच्चारोच्चारलक्षणम् | आत्मा परमात्मा, अणुः सङ्कुचित आत्मा, कुलमूलं प्राणशक्तेः प्रभवस्थानं जन्माधारः, शक्तिर्मध्यमप्राणवाहिनी, भूतिः स्वातन्त्र्यलक्षणमैश्वर्यम्, चितिस्तुर्यातीतपदात्मिका परसंवित्, रतिरासक्तिः, शक्तित्रयं द्रष्टृउपरक्ता ज्ञानशक्तिर्दृश्योपरक्ता क्रियाशक्तिस्तद्विवर्जितेच्छाशक्तिः, प्रोक्तमिति श्रीत्रिशिरोभैरवे | यदुक्तम् -- ᳚खमात्मा केवलं विद्यात् खमणुः सर्वदिक्कतः | कुलमूलं तु खं ज्ञेयं खं शक्तिः परिपठ्यते || एकं तु खमिहोद्भाव्यं खद्वयं भूतिचिद्रतिः | द्रष्टृदृश्योपरक्तं च शक्तित्रितयं खं विदुः |᳚ निष्पन्नपरिणामेन खमभूत्तत्त्वलक्षणम् |᳚ इति उच्चारोच्चारलक्षणमिति यथायथं भावनाप्रकर्षेण परसंविदासादकमित्यर्थः || ९३-९४ || न केवलमत्र खशब्देनैव दशधा भिन्नोऽयमर्थ उच्यते यावच्छब्दान्तरेणापि -- इत्याह -- धामस्थं धाममध्यस्थं धामोदरपुटीकृतम् || ५-९४ || धाम्ना तु बोधयेद्धाम धाम धामान्तगं कुरु | तद्धाम धामगत्या तु भेद्यं धामान्तमान्तरम् || ५-९५ ||
SK
इह खलु योगी ᳚धाम्नो᳚ भूतेः स्वातन्त्र्यस्य यत् ᳚उदरं᳚ सतत्त्वं तेन ᳚पुटीकृतं᳚ सर्वतः संवलितं नित्यावियुक्तम्, अत एव ᳚धाम्नि᳚ अणौ स्थितं सङ्कुचितात्मतया स्फुरितं ᳚धाम᳚ आत्मानं बोधयेत् तद्बोधे समर्थमाचरेदित्यर्थः | तत्समर्थाचरणमेवाह -- ᳚धाममध्यस्थं धाम धाम्ना धामान्तगं कुरु᳚ इति | ᳚धाम्नः᳚ कुलमूलस्य जन्माधारस्य मध्ये स्थितं ᳚धाम᳚ प्राणशक्तिं ᳚धाम्ना᳚ रत्या तदासक्त्या ᳚धाम्नः᳚ चितेस्तुर्यातीतपदस्य ᳚अन्तः᳚ पराकाष्ठा तद्गतं कुरु तदेकरूपतया साक्षात्कुर्यादित्यर्थः | ᳚तत्᳚ तस्मात् परतत्त्वसाक्षात्काराद्धेतोः ᳚धाम्नो᳚ दृश्योपरक्तायाः क्रियाशक्तेः प्रमेयभुवो गत्या ᳚धाम᳚ दृष्ट्रुपरक्ता ज्ञानशक्तिः ᳚भेद्यं᳚ भेदनीयं त्याज्यमित्यर्थः | यथाहि प्रमेयभूः सर्ववादिषु त्याज्यत्वेन सिद्धा तथा प्रमाणभूतमपि ज्ञानं त्याज्यमेवेति भावः | तुशब्दो भिन्नक्रमो हेतौ | ततश्च ᳚आन्तरं᳚ प्रमात्रैकात्म्यमापन्नं ᳚धामान्तम्᳚ अन्त्यं धाम द्रष्टृदृश्याद्युपाधिशून्यां स्वविमर्शमात्ररूपामिच्छाशक्तिम् अर्थात् आश्रयेत् येन तत्रैव प्ररोहमियात् -- इति शब्दार्थसङ्गतिः | वाक्यार्थस्तु प्राग्वत् स्वयमेवाभ्यूह्यः || ९५ || नन्वन्येऽपि परतत्त्वान्तःप्रवेशे बहव उपायाः संभवन्ति तत्कथमस्यैव रहस्यत्वं येन गोपनीयत्वेन निगूढार्थतयैवमुपदेशः ? -- इत्याशङ्क्याह -- भेदोपभेदभेदेन भेदः कार्यस्तु मध्यतः | यः पुनरन्यो भेदोपभेदात्मोपायभेदः संभवति स मध्यतः कार्यो मध्यमो नैवंविध उत्तम इत्यर्थः || एतदेवोपसंहरति -- इति प्रवेशोपायोऽयमाणवः परिकीर्तितः || ५-९६ || श्रीमहेश्वरनाथेन यो हृत्स्थेन ममोदितः | न केवलमेतदिहैवोक्तं यावदन्यत्रापि -- इत्याह -- श्रीब्रह्मयामले चोक्तं श्रीमान् रावो दशात्मकः || ५-९७ || स्थूलः सूक्ष्मः परो हृद्यः कण्ठ्यस्तालव्य एव च | सर्वतश्च विभुर्योऽसौ विभुत्वपददायकः || ५-९८ ||
SK
श्रीमानिति विमर्शरूपतया प्रकाशस्यापि जीवितभूतत्वात् | इहास्य परवाग्रूपस्य अहंविमर्शात्मनो रावस्य प्रथमं तावद्धृदादिभवत्वात् पश्यन्तीमध्यमावैखरीरूपतया त्रैविध्यं, प्रत्येकं च स्थूलसूक्ष्मपरत्वेन त्रैविध्ये नवधात्वम्, एषां नवानामपि भित्तिभूतः परवागात्मा दशमः, स एव हि स्वस्वातन्त्र्यादेवमवभासयेत् | अत उक्तं शर्वतश्च विभुः᳚ इति | स एव च विश्रान्तिस्थानम् -- इत्युक्तं ᳚विभुत्वपददायकः᳚ इति | एतच्च प्राक् ᳚तस्य प्रत्यवमर्शो यः परिपूर्णोऽहमात्मकः | स स्वात्मनि स्वतन्त्रत्वाद्विभागमवभासयेत् || विभागाभासने चास्य त्रिधा वपुरुदाहृतम् | पश्यन्ती मध्यमा स्थूला वैखरीत्यभिशब्दितम् || तासामपि त्रिधा रूपं स्थूलसूक्ष्मपरत्वतः |᳚ (३|२३७) इत्यादिना -- ᳚तत्परं त्रितयं तत्र शिवः परचिदात्मकः |᳚ (३|२४८) इत्यन्तेन निर्णीतप्रायम् -- इति तत एवैतत्सतत्त्वमवधारणीयम् || ९८ || तदेवमत्रैव परमवधातव्यं येन परमार्थिकस्वरूपलाभो भवेत् -- इत्याह -- जितरावो महायोगी संक्रामेत्परदेहगः | परां च विन्दति व्याप्तिं प्रत्यहं ह्यभ्यसेत तम् || ५-९९ || तावद्यावदरावे सा रावाल्लीयेत राविणी | ᳚जित᳚ आक्रान्तो वशीकृत उत्तरोत्तरो रावो येनासावेवंविधो महायोगी अर्थादुत्तरोत्तरत्यागेनोर्ध्वमूर्ध्वं रावं संक्रामेत् येन ᳚परदेहगो᳚ यथायथमुत्कृष्टोत्कृष्टरावस्वरूपनिष्ठः ᳚परां व्याप्तिं विन्दति᳚ पारमार्थिकं स्वरूपं लभते इत्यर्थः | यदुक्तम् -- ङदते दशधा सा तु दिव्यानन्दप्रदायिका | चिनीति प्रथमः शब्दश्चिञ्चिनीति द्वितीयकः || चीरवाकी तृतीयस्तु शङ्खशब्दश्चतुर्थकः | तन्त्रीघोषः पञ्चमश्च षष्ठो वंशरवस्तथा || सप्तमः कांस्यतालस्तु मेघशब्दरवस्तथा | नवमो दावनिर्घोषो दशमो दुन्दुभिस्वनः || नव शब्दान् परित्यज्य दशमो मोक्षदायकः | अनेन विधिना येन व्याहरेद्दशधा रवम् ||᳚
SK
इति | अतश्च तावदत्र प्रतिदिनमभ्यासः कार्यो यावत् सा परवागात्मा विमर्शशक्तिस्तत्तद्रावरूपतया प्रस्फुरणात् राविणी रावादेकमेकं रावं विलाप्य विभागविगलनात् ᳚अरावे᳚ऽहंपरामर्शरूपे स्वात्मनि ᳚लीयेत᳚ विश्राम्यतीत्यर्थः || ९९ || एवं परतत्त्वान्तःप्रवेशं निर्णीय तदानन्तर्योद्दष्टानि तत्पथलक्षणान्यपि लक्षयितुमाह -- अत्र भावनया देहगतोपायैः परे पथि || ५-१००|| विविक्षोः पूर्णतास्पर्शात्प्रागानन्दः प्रजायते | ततोऽपि विद्युदापातसदृशे देहवर्जिते || ५-१०१ || धाम्नि क्षणं समावेशादुद्भवः प्रस्फुटं प्लुतिः | जलपांसुवदभ्यस्तसंविद्देहैक्यहानितः || ५-१०२ || स्वबलाक्रमणाद्देहशैथिल्यात् कम्पमाप्नुयात् | गलिते देहतादात्म्यनिश्चयेऽन्तर्मुखत्वतः || ५-१०३ || निद्रायते पुरा यावन्नरूढः संविदात्मनि |
SK
अत्र समनन्तरोक्ते उपायविशेषे या ᳚भावना᳚ अभ्यासस्तया तथोक्तवक्ष्यमाणैरुच्चारकरणादिभिः ᳚देहगतैरुपायैः परे पथि᳚ परतत्त्वान्तर्वेष्टुमिच्छोर्न तु तत्र प्रविष्टस्य, तस्य हि पूर्णतैव भवेदिति भावः पूर्णतायाः श्पर्शात्᳚ औन्मुख्यमात्रात् न तु तदावेशात् प्रथमम् ᳚आनन्दः᳚ चमत्कारविशेषः प्रकर्षेण स्वात्मविषयीकारेण ᳚जायते᳚ अनुभवपदवीमासादयेदित्यर्थः | तत आनन्दादप्यनन्तरं ᳚विद्युदापातसदृशे᳚ यथा विद्युति पतितायां सर्वं स्वरूपत्यागेन तन्मयीभवति, एवं ᳚धाम्नि᳚ परे तत्त्वे समावेशात् प्रस्फुटं कृत्वा देहादावात्मग्रहविगलनेनाधस्तनदशाविश्लेषात् परधामाधिरोहात्मकः ᳚उद्भवः प्लुतिः᳚ ऊर्ध्वं गमनं भवेदित्यर्थः | अत एव ᳚देहवर्जिते᳚ इत्युक्तम् | क्षणमिति, चिरस्य हि समावेशे पारिपूर्ण्यमेव भवेदिति भावः | एवं पांसूदकवदनेकजन्माभ्यस्तस्य संविद्देहैक्यस्य या ᳚हानिः᳚ विभागेन ज्ञप्तिः, ततः क्षणं संविदात्मनः स्वस्य यत् ᳚बलम्᳚ अहन्तालक्षणं वीर्यं तस्य ᳚आक्रमणात्᳚ आत्मन्येवाभिमानोदयात् अनात्मन्यात्माभिमानः शिथिलीभवेत् -- इति देहादीनां भङ्गुरायमाणत्वात् ᳚कम्पमाप्नुयात्᳚ तत्र दार्ढ्यं जह्यादित्यर्थः | एवं ᳚पुरा᳚ पूर्वं प्रथमं देहस्य संविदैक्याभिनिवेशे निवृत्ते सति संविदौन्मुख्यमात्रात् ङिद्रायते᳚ बाह्यवृत्तिव्युपरमात् आन्तरस्य च कस्यचिदनुभवस्य स्फुटमनुदयात् निद्रायमाण आस्ते इत्यर्थः | कियत्कालमेवमास्ते, इत्याह ᳚यावन्न रूढः संविदात्मनि᳚ इति | तत्रास्य प्ररोहे हि लक्षणान्तरमुदियादिति भावः || १०३ || तदाह -- ततः सत्यपदे रूढो विश्वात्मत्वेन संविदम् || ५-१०४ || संविदन् घूर्णते घूर्णिर्महाव्याप्तिर्यतः स्मृता |
SK
᳚ततो᳚ अनन्तरं परसंविदात्मनि शत्यपदे᳚ प्राप्तप्ररोहः सन् निखिलस्यास्य देहघटाद्यात्मनो जगतः संविदेव सतत्त्वं न पुनस्तदतिरिक्तं नामैतत् किञ्चित् -- इति साक्षात्कुर्वन् ᳚घूर्णते᳚ भ्रमति, चलति स्पन्ददशाधिशायी भवेदित्यर्थः | एतद्दशाधिशायिनो हि योगिनः सदैव सृष्टिसंहारकारित्वेन परं पारमेश्वर्यमुदियात् -- इत्युक्तं ᳚घूर्णिर्महाव्याप्तिर्यतः स्मृता᳚ इति || १०४ || ननु -- ᳚दशावस्थाश्चिनोत्यन्तः शक्तितेजोपवृंहितः | कम्पो भ्रमस्तथा घूर्णिः प्लवनं स्थिरतापि च || चित्प्रकाशस्तथानन्दो दिव्यदृष्टिश्चमत्कृतिः | अवाच्यो दशमो भावः शिवतत्त्वे प्रवेशनात् || संस्पर्शः प्राप्यते यावत्तावन्मुक्तो भवार्णवात् |᳚ इत्याद्युक्त्या परतत्त्वान्तर्विविक्षोर्लक्षणान्तराण्यपि संभवन्ति � इति यावत् तानि नोदितानि तावत्कथमेतावतैव तदनुप्रवेशो भवेत् ? -- इत्याशङ्क्याह -- आत्मन्यनात्माभिमतौ सत्यामेव ह्यनात्मनि || ५-१०५ || आत्माभिमानो देहादौ बन्धो मुक्तिस्तु तल्लयः | इह खलु द्विधा बन्ध आत्मन्यनात्माभिमानोऽनात्मन्यात्माभिमानश्च -- इति तदेव चाणवं मलमुच्यते | यदाहुः � श्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता | द्विधाणवं मलमिदं स्वस्वरूपापहानितः ||᳚ (रि.प्र. ३|२|४) इति | तदेव च कार्ममायीयहेतुत्वात् इयतः संसारस्य मूलभूतम् | यदुक्तम् -- ᳚मलः कर्म निमित्तं तु नैमित्तिकमतः परम् |᳚ (स्वटं. ३|१७६) इति | अतश्च श एष मूले निहितः कुठारः᳚ इतिवत् तत्रैव यदितव्यं येनाशेषबन्धव्युपरमो भवेदिति भावः | तदेवेह प्राधान्येनोक्तम्, अतश्च मुख्यया वृत्त्या स एव बन्धस्तल्लय एव च मुक्तिरिति संक्षेपार्थः || १०५ || तल्लश्च किमक्रमेणैव भवेदुतान्यता ? -- इत्याशङ्क्याह -- आदावनात्मन्यात्मत्वे लीने लब्धे निजात्मनि || ५-१०६ || आत्मन्यनात्मतानाशे महाव्याप्तिः प्रवर्त्तते |
SK
प्रथमं हि ᳚अनात्मनि᳚ देहादावात्माभिमानस्य विलये सति आत्मन्यनात्मत्वाभिमानस्य नाशो भवेत् येन संविल्लक्षणे स्वस्मिन्नेवात्मन्यभिमानोदये सति महाव्याप्तिः प्रवर्त्तते, परं पारमेश्वर्यमुदियादित्यर्थः || १०६ || एवं प्रथमं विशिष्टापूर्वस्पर्शोदयात् आनन्दमात्रानुभवो न तु द्विविधस्यापि बन्धस्य व्युपरमः | तदनु देहादावात्माभिमानविगलनेन आत्मन्येवात्माभिमान उदेति किं तु क्षणमात्रं, पुनरपि व्युत्थानादौ तादवस्थ्यादनन्तरं देहादावात्माभिमानस्य साक्षाद्विलयः, तदनु तत्संस्कारस्यापि यावदन्ते यथायथमात्मन्येवात्माभिमानस्य प्ररोहान्महती व्याप्तिः प्रवर्तते -- इति पञ्चभिरेव लक्षणैः पर्याप्तम् -- इति तान्येवोपात्तानि न पुनरन्यानि तेषामत्रैवान्तर्भावात् || १०६ || यदभिप्रायेणैवागमोऽपि -- इत्याह -- आनन्द उद्भवः कम्पो निन्द्रा घूर्णिश्च पञ्चकम् || ५-१०७ || इत्युक्तमत एव श्रीमालिनीविजयोत्तरे | यदुक्तं तत्र � ᳚अनया शोध्यमानस्य शिष्यस्यास्य महामतिः | लक्षयेच्चिह्नसङ्घातमानन्दादिकमादरात् || आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चकम् |᳚ (मा.वि. ११|३५) इति || १०७ || ननु योगिनः समग्रलक्षणोदये महाव्याप्तिर्भवेत् -- इत्युक्तं, यदा पुनरेकैकमेव लक्षणमुदियात् तदास्य किं भवेत् ? -- इत्याशङ्क्याह -- प्रदर्शितेऽस्मिन्नानन्दप्रभृतौ पञ्चके यदा || ५-१०८ || योगी विशेत्तदा तत्तच्चक्रेशत्वं हठाद् व्रजेत् | यदा पुनरानन्दप्रभृतौ समनन्तरोक्ते पञ्चके योगी ᳚विशेत्᳚ युगपत्तत्प्रवेशविरोधात् एकैकमेव लक्षणमनुभवेत् तदास्य हठात् स्वरसत एव तत्र तत्र नियते चकेर् त्रिकोणादावीशत्वं भवेत्, तत्तच्चक्रजयो जायते इत्यर्थः || १०८ || ननु पूर्णतास्पर्शादेवमनुभवोदयः -- इति पूर्णे सर्वस्य भावात् कथं नैयत्येनैवं भवेत्? -- इत्याशङ्क्याह -- यथा सर्वेशिना बोधेनाक्रान्तापि तनुः क्वचित् || ५-१०९ || किञ्चित्कर्तं प्रभवति चक्षुषा रूपसंविदम् | तथैव चक्रे कुत्रापि प्रवेशात्कोऽपि संभवेत् || ५-११० ||
SK
यद्वत् सर्वव्यापिना बोधेन ᳚आक्रान्ता᳚ तदभेदमापन्नापि तनुः क्वचिदेव किञ्चिदेव कर्तुं प्रभवति चक्षुषा रूपस्येव न तु गन्धादेः, अर्थात् संनिकृष्ट एव देशे न तु विप्रकृष्टे संविदम्; एवं कुत्रापि त्रिकोणादौ प्रतिनियते चकेर् प्रवेशात् कोऽपि आनन्दादिरेकैक एवानुभवविशेषः संभवेत् न तु सर्वः -- इति युक्तमुक्तं ᳚तत्तच्चक्रेशत्वं हठाद्द्रजेत्᳚ इति || ११० || ननु किं कस्य चक्रम् ? -- इत्याशङ्क्याह -- आनन्दचक्रं वह्न्यश्रि कन्द उद्भव उच्यते | कम्पो हृत्तालु निद्रा च घूर्णिः स्यादूर्ध्वकुण्डली || ५-१११ || ᳚वह्न्यश्रि᳚ इति त्रिकोणं योगिनीवक्त्रमित्यर्थः | ᳚ऊर्ध्वंकुण्डली᳚ इति द्वादशान्तः | एषां चाभेदोपचारात् सामानाधिकरण्येन निर्देशः || १११ || नन्वेषामेवं प्रतिनियमे किं प्रमाणम् ? -- इत्याशङ्क्याह -- एतच्च स्फुटमेवोक्तं श्रीमन्त्रैशिरसे मते | तत्र चैतत् षष्ठसप्तमयोरेवानन्तप्रमेयपुरःसरीकारेण बहुना ग्रन्थेन कटाक्षितम्, इति ग्रन्थविस्तरभयात् न संवादितम् -- इति तत एवावधार्यम् || तदेवमियतोपायजातेन समासादनीयस्य परस्य तत्त्वस्य नैमित्तिकं व्यपदेशान्तरमप्यस्ति -- इत्याह -- एवं प्रदर्शितोच्चारविश्रान्तिहृदयं परम् || ५-११२ || यत्तदव्यक्तलिङ्गं नृशिवशक्त्यविभागवत् | ᳚एवम्᳚ उक्तेन प्रकारेण प्रदर्शिता येयमुच्चारादीनां विश्रान्तिः, तस्या यत् ᳚परं हृदयं᳚ योगिनीहृदयादिशब्दव्यपदेश्यमहंपरामर्शमयं संवित्स्पन्दात्मकं प्रकृष्टं सतत्त्वं तन्नरशक्तिशिवाविभागवत्त्वादव्यक्तलिङ्गमुच्यते -- इत्यर्थः || ११२ || नन्वेवं व्यपदेशस्य किं निमित्तम् ? -- इत्याशङ्क्याह -- अत्र विश्वमिदं लीनमत्रान्तःस्थं च गम्यते || ५-११३ || इदं तल्लक्षणं पूर्णशक्तिभैरवसंविदः |
SK
चशब्दो भिन्नक्रमो हेतौ | यतो ᳚त्र᳚ अहंपरामर्शमये परस्मिन् हृदये नरशक्तिशिवात्मकम् ᳚इदं विश्वं लीनम्᳚ अविभागेनावस्थितम् -- इति यावत् | न चैतज्जतुकाष्ठवत् अपि तु क्षीरनीरवदित्युक्तम् ᳚अत्रान्तःस्थं च गम्यते᳚ इति, एकात्म्यमापन्नं सत् प्रतीयते इत्यर्थः | इदमेव हि तन्निरूपितस्वरूपायाः परस्याः संविदो लक्षणं यत् तत एव विश्वमुदेति तत्रैव च विलीयते इति | यदुक्तम् -- ᳚लिङ्गशब्देन विद्वांसः सृष्टिसंहारकारणम् | लयादागमनाच्चाहुर्भावनां पदमव्ययम् ||᳚ इति || ११३ || नन्विह त्रिविधं लिङ्गमुक्तं व्यक्तं व्यक्ताव्यक्तमव्यक्तं च -- इति, तत्राव्यक्तं परैव संवित् -- इत्युक्तम् | अन्यद् द्वयं पुनः किं तस्या एव स्फारो न वा ? इत्याशङ्क्याह -- देहगाध्वसमुन्मेषे समावेशस्तु यः स्फुटः || ५-११४ || अहन्ताच्छादितोन्मेषिभावेदंभावयुक् स च | व्यक्ताव्यक्तमिदं लिङ्गं मन्त्रवीर्यं परापरम् || ५-११५ || नरशक्तिसमुन्मेषि शिवरूपाद्विभेदितम् | ᳚देहगाध्वसमुन्मेषे᳚ देहादावात्माभिमाने सत्यपि यः पुनरपरिम्लानः परतत्त्वान्तःसमावेशः तदिदं व्यक्ताव्यक्तं लिङ्गम् -- इति संबन्धः | ननु यद्येवं तदव्यक्तादस्य को विशेष ? इत्याशङ्क्याह -- अहन्तेत्यादि | अहन्ताच्छादित ᳚उन्मेषिषु᳚ बहिरुल्लसत्सु भावेषु योऽसौ ᳚इदंभाव᳚ इदन्ता तेन युज्यते, इदमहमितिप्रतीतिरूप इत्यर्थः | अत एवास्य विद्यादशावदहन्तेदन्तयोः सामानाधिकरण्यात् व्यक्ताव्यक्तत्वम्, अत एव शुद्धाहंपरामर्शरूपत्वाभावात् शिवरूपाद्विभेदितं सत् नरशक्तिभ्यां समुन्मेषणशीलं, नरशक्तिरूपमिति यावत् | एवमपि परापरं शक्तिप्रधानमित्यर्थः | नरप्रधानं हि व्यक्तं लिङ्गं भविष्यतीत्याशयः | अत एव मन्त्रवीर्यम् | एतद्दशामधिशयानो हि मन्त्रः स्वोचितफलदानसामर्थ्यभाग्भवतीति भावः | यदुक्तम् � न पुंसि न परे तत्त्वे शक्तौ मन्त्रं नियोजयेत् | पुंस्तत्त्वे जडतामेति परे तत्त्वे तु निष्फलः || शक्तौ मन्त्रो नियुक्तस्तु सर्वकर्मफलप्रदः | इति || ११५ ||
SK
न केवलं व्यक्ताव्यक्तमेव लिङ्गमस्याः स्फारो यावत् व्यक्तमपि -- इत्याह -- यन्न्यक्कृतशिवाहन्तासमावेशं विभेदवत् || ५-११६ || विशेषस्पन्दरूपं तद् व्यक्तं लिङ्गं चिदात्मकम् | यन्नाम गुणीकृतपराद्वयरूपाहन्तापरामर्शम्, अत एव ᳚विभेदवत्᳚ बहीरूपतया स्फुरत् विशेषस्पन्दरूपम् -- इति विमर्शनं तद् व्यक्तं लिङ्गमुच्यत इत्यर्थः | एवमपि चिदात्मकम्, अन्यथा हि एतन्न किञ्चिद्भवेदिति भावः || ११६ || न केवलमेषां स्वरूपत एव भेदो यावत् फलतोऽपि -- इत्याह -- व्यक्तात्सिद्धिप्रसवो व्यक्ताव्यक्ताद् द्वयं विमोक्षश्च | अव्यक्ताद् बलमाद्यं परस्य नानुत्तरे त्वियं चर्चा || ५-११७ || यदुक्तम् � ᳚प्रतिमापूजनाद्भुक्तिर्मुक्तिर्लिङ्गार्चनात् सदा | मुखलिङ्गार्चनात्पुंसां भुक्तिमुक्ती प्रसिद्ध्यतः ||᳚ इति | ᳚बलमाद्यं परस्य᳚ इति अव्यक्तं व्यक्ताव्यक्तस्य तद् व्यक्तस्य | ननु यद्येवं तदेतद्भत्तिभूते सर्वसर्वात्मकेऽनुत्तरे धाम्नि पुनः का वार्ता ? -- इत्याशङ्क्याह -- ङानुत्तरे त्वियं चर्चा᳚ इति | तत्र हि पारिपूर्ण्येन नैराकाङ्क्ष्योत्पादात् को नाम सिद्ध्यादिप्रविभागः -- इति भावः || ११७ || नन्वाद्यमेव परस्य विश्रान्तिस्थानं न तु विपर्ययः -- इत्यत्र किं निबन्धनम् ? -- इत्याशङ्क्याह -- आत्माख्यं यद् व्यक्तं नरलिङ्गं तत्र विश्वमर्पयतः | व्यक्ताव्यक्तं तस्माद् गलिते तस्मिंस्तदव्यक्तम् || ५-११८ || यन्नाम समनन्तरोक्तस्वरूपं नरप्रधानत्वात् आत्माख्यमिदंविमर्शास्पदं व्यक्तं लिङ्गं तत्र आत्माख्ये लिङ्गे ᳚यदिदं तदहमेव᳚ इत्येवंरूपतया विश्वं विलापयतो योगिनोऽहन्तेदन्तयोः सामानाधिकरण्येन स्फुरणात् व्यक्ताव्यक्तं लिङ्गं, तस्माव्यक्ताव्यक्तादपि लिङ्गात् तस्मिन् विश्वस्मिन् ᳚गलिते᳚ अहंपरामर्शशेषतामापन्ने तदव्यक्तं लिङ्ग भवेदित्यर्थः || ११८ || नन्वनेन किमुक्तम् ? -- इत्याशङ्क्याह -- तेनात्मलिङ्गमेतत् परमे शिवशक्त्यणुस्वभावमये | अव्यक्ते विश्राम्यति नानुत्तरधामगा त्वियं चर्चा || ५-११९ ||
SK
इत्थम् ᳚एतत्᳚ नरप्रधानं व्यक्तमात्मलिङ्गम् अर्थात् नरशक्तिप्रधाने व्यक्ताव्यक्ते लिङ्गे विश्रान्तिमासाद्य, शिवप्राधान्येऽपि गर्भीकृतावान्तररूपत्वात् नरशक्तिशिवात्मनि, अत एव ᳚परमे᳚ लिङ्गान्तरवैलक्षण्यादुत्कर्षभाजि अव्यक्ते लिङ्गे ᳚विश्राम्यति᳚ तत्तादात्म्येन प्रस्फुरतीत्यर्थः | ननु यथा व्यक्तादिलिङ्गद्वयमव्यक्ते विश्राम्यति तथैव तदप्यनुत्तरे धाम्नि -- इति कस्मान्नोक्तम् ? -- इत्याशङ्क्याह -- ङानुत्तरधामगा त्वियं चर्चा᳚ -- इति | तद्धि अनुत्तरमेव धामाव्यक्तादिलिङ्गत्रयात्मना प्रस्फुरति -- इति सदैव तत्र तद्विश्रान्तमन्यथा ह्यस्य भवनमेव न स्यात् || ११९ || अत एवाह � एकस्य स्पन्दनस्यैषा त्रैधं भेदव्यवस्थितिः | इह खलु ᳚एकस्य᳚ प्रधानस्यानुत्तरात्मनो योगिनीहृदयादिशब्दव्यपदेश्यस्य श्पन्दनस्यैषा᳚ व्यक्तादिलिङ्गात्मिका त्रिविधेन भेदेन ᳚व्यवस्थितिः᳚ परिस्फुरणं न तु तदतिरिक्तमेतत् किञ्चिदित्यर्थः || अतश्च व्यक्तादिलिङ्गपरिहारेणात्रैव विश्रान्तिः कार्या -- इत्याह -- अत्र लिङ्गे सदा तिष्ठेत् पूजाविश्रान्तितत्परः || ५-१२० || यदुक्तम् � ᳚मृच्छैलधातुरत्नादिभवं लिङ्गं न पूजयेत् | यजेदाध्यात्मिकं लिङ्गं यत्र लीनं चराचरम् || बर्हिर्लिङ्गस्य लिङ्गत्वमनेनाधिष्ठितं यतः |᳚ (मा.वि.१८|४२) इति || १२० || नन्वत्र विश्रान्त्या किं स्यात् ? -- इत्याशङ्क्याह -- योगिनीहृदयं लिङ्गमिदमानन्दसुन्दरम् | बीजयोनिसमापत्त्या सूते कामपि संविदम् || ५-१२१ || इदं स्पन्दनात्म योगिनीहृदयाभिधेयमानन्दमयं लिङ्गं बीजयोन्यात्मकशिवशक्त्यैकात्म्येन ᳚कामपि संविदं सूते᳚ परसंविदावेशमाविष्कुर्यादित्यर्थः| अथ च चर्याक्रमेणाप्येवं परसंविदनुप्रवेशो भवेदित्यपि कटाक्षितम् | यदुक्तम् -- ᳚त्रिकोणमण्डलं पूज्यं शक्तित्रयसमन्तिवम् | तन्मध्ये चेतनं चिन्त्यं लिङ्गं वै पश्चिमामुखम् ||᳚ इति यथा ᳚आनन्दस्यन्दि यद् गीतं सर्वप्रसवकारणम् | उपस्थाख्येयमेतत्तु सौषुम्नं रूपमुच्यते ||᳚ इति ||१२१ ||
SK
नन्वत्रैव विश्रान्त्या कथमेवं स्यात्? इत्याशङ्क्याह -- अत्र प्रयासविरहात् सर्वोऽसौ देवतागणः | आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः || ५-१२२ || यदुक्तम् � ᳚त्रिकोणे देवताः सर्वा ब्रह्मविष्णुमहेश्वराः |᳚ इति || १२२ || न केवलमत्र सर्व एव देवतागण आस्ते यावत् पारमेश्वरी शक्तिरपि -- इत्याह -- अत्र भैरवनाथस्य ससङ्कोचविकासिका | भासते दुर्घटा शक्तिरसङ्कोचविकासिनः || ५-१२३ || अत्रानन्दपूर्णे धाम्नि ᳚असङ्कोचविकासिनो᳚ निस्तरङ्गजलधिप्रख्यस्य पूर्णस्य प्रकाशस्य शसङ्कोचविकासिका᳚ सदैव सृष्टिसंहारमयी, अत एव दुर्घटकारिणी स्वातन्त्र्याख्या शक्तिः ᳚भासते स्वात्मैकात्म्येन प्रथते यन्माहात्म्यादियान् विश्वस्फारः सदैव सृष्टिसंहारदशाधिशायितामेतीत्यर्थः || १२३ || तदाह -- एतल्लिङ्गसमापत्तिविसर्गानन्दधारया | सिक्तं तदेव सद्विश्वं शश्वन्नवनवायते || ५-१२४ || एतस्मिन्ननुत्तरधामात्मनि समनन्तरोक्ते ᳚लिङ्गे समापत्तिः᳚ एकात्म्यं यस्यैवंविधो यो ᳚विसर्गः᳚ स्वातन्त्र्याख्या कौलिकी शक्तिस्तस्य या ᳚आनन्दधारा᳚ -- ᳚विसर्गगता च सैवास्या यदानन्दोदयक्रमात् | स्पष्टीभूतक्रियाशक्तिपर्यन्ता प्रोच्छलत्स्थितिः ||᳚ (तं. ३|१४४) इत्याद्युक्त्यानन्दोदयक्रमेणोच्छलत्ता तया शिक्तं᳚ बहिरुच्छूनतामापादितं सत् तत्कालमेव शश्वद्विश्वं ङवनवायते᳚ सदैव सृष्टिसंहारपात्रतामासादयतीत्यर्थः | अथ च चर्याक्रमेण एतयोर्वज्रपद्मादिशब्दव्यपदेश्रूपयोर्लिङ्गयोः शमापत्त्या᳚ संभोगेन विसर्गरूपा येयमानन्दधारा तया शिक्तं᳚ दत्तबीजं सत् स्त्रीपुमाद्यात्म विश्वमनवरतमुत्पद्यत इत्यर्थः || १२४ || ननु भेदप्राणविकल्पसंस्काराधायित्वाद् बुद्धिध्यानादीनां स्पष्टमेवाणवोपायत्वम् -- इति युक्तमत्र तदभिधानं, परतत्त्वान्तःप्रवेशलक्षणः पुनरयमुपायो निर्विकल्पस्वरूपत्वान्न तथा -- इति कथमस्यात्राभिधानम्? इत्याशङ्क्याह -- अनुत्तरेऽभ्युपायोऽत्र तादूर्प्यादेव वर्णितः | ज्वलितेष्वपि दीपेषु घर्मांशुः किं न भासते || ५-१२५ ||
SK
᳚अत्र᳚ आणवोपायप्रकाशनपरेऽप्याह्निके साक्षादनुत्तरनिमित्तं परतत्त्वान्तःप्रवेशात्मायम् ᳚अभ्युपायस्ताद्रूप्यात्᳚ अनुत्तराभ्युपायरूपत्वादेवोक्तः | अत्र दृष्टान्तः, यथा तत्तदर्थप्रकाशनाय परिमितप्रकाशेषु दीपादिषु सत्स्वपि महाप्रकाशस्य घर्मांशोरवस्थाने न कश्चिद्दोषः, एवमत्रापीति तात्पर्यार्थः || १२५ || नन्वेवं त्रयाणामप्याणवादीनामुपायानां साङ्कर्येणैवोपदेशः कार्यः -- इति किं पृथक् पृथगाह्निकपरिकल्पनेन ? -- इत्याशङ्क्याह - - अर्थेषु तद्भोगविधौ तदुत्थे दुःखे सुखे वा गलिताभिशङ्कम् | अनाविशन्तोऽपि निमग्नचित्ता जानन्ति वृत्तिक्षयसौख्यमन्तः || १२६ || ᳚अर्थेषु᳚ नीलादिषु ᳚तद्भोगविधौ᳚ नीलादिबुद्धौ ᳚तदुत्थे᳚ नीलादिकृते दुःखे सुखे वेत्येवमर्थक्रियापर्यन्तं प्राप्तप्रतिष्ठाने बाह्येऽर्थजाते ङिमग्नचित्ताः᳚ तत्तद्धानादानादि कुर्वाणा अपि तत्र ᳚गलिताभिशङ्कमनाविशन्तः᳚ स्वप्नार्थवदसदेवेदमिति निःसंदेहं तद्वैवश्यमभजमाना योगिनो वृत्तिक्षयसौख्यमन्तर्जानन्ति -- ᳚अन्तर्लक्ष्यो बहिर्दृष्टिः परमं पदमश्नुते |᳚ इत्याद्युक्तयुक्त्या बहिस्तत्तदद्व्यवहारपरत्वेऽपि स्वात्ममात्रविश्रान्त्या परं चमत्कारातिशयमनुभवन्तीत्यर्थः | अतश्च भेदमयत्वेऽप्यभेदरूपत्वमस्य इत्यामुखे भेदस्यावस्थानादिहैतदभिधानम् -- इति न कश्चिद्दोषः | एतदेव हि योगिनः परं विस्फूर्जितं यद् भेदमयत्वेऽप्यभेदरूपतयावस्थानमिति || १२६ || तदाह -- सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्रियां तस्मै कुर्वति तत्प्रचारविवशे सत्यक्षवर्गेऽपि च | सत्स्वर्थेषु सुखादिषु स्फुटतरं यद् भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिविभवस्तत्तत्त्वमाचीयताम् || १२७ ||
SK
इह खलु चित्स्वभावत्वादर्कादिप्रकाशविलक्षणे परप्रमातृरूपे पूर्णे आत्मन्येव सति स्वात्मसाक्षात्कारावसरे चिदेकरूपत्वादविभागतया तथा ᳚तस्मै᳚ निरूपितस्वरूपायात्मने सङ्कुचत्तावभासनेन नियतज्ञत्वकर्तृत्वलक्षणाम् ᳚उपक्रियां᳚ कुर्वति श्वान्ते᳚ऽन्तःकरणवर्गे सति बुद्धिप्रमातृदशायामासूत्रितविभागतया तथा ᳚तस्य᳚ स्वान्तस्य योऽसौ ᳚प्रचार᳚ इत्थमहमिदं वेद्मीत्याद्यात्म प्रकृष्टं चरणं ᳚तद्विवशे᳚ तदायत्ते इत्यर्थः | यन्नाम न हि बुद्ध्यादावुपारूढं तत्र बाह्येन्द्रियाणि किं विदध्युरित्यभिप्रायः | एवंरूपे चक्षुरादीन्द्रियकलापे सति देहादिप्रमातृदशायां विभक्ततया विद्यमानेषु सुखादिषु इष्टानिष्टरूपेष्वर्थेषु -- इत्येवमभेदभेदाभेदभेदात्मनि कक्ष्यात्रयेऽपि स्फुटतरं कृत्वा ᳚भेदवन्ध्योदयं᳚ निर्विशेषं यद्योगी तिष्ठति तदेव नाम भैरवमुद्रानुप्रवेशात्म ᳚तत्त्वं᳚ पारमार्थिकं रूपमाचीयतां, ग्राह्यग्राहकाद्यात्मकबाह्यक्षोभमयत्वेऽपि तदासङ्गमपहाय स्वात्ममात्रनिष्ठ एवावतिष्ठेदित्यर्थः | अत एव बाह्याकाङ्क्षासंक्षयात् सदैव प्रक्षीणनिखिलेन्द्रियवृत्तितया ᳚पूर्णरश्मिविभव᳚ इत्युक्तम् | यद्गीतम् � ᳚बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् | स ब्रह्मयोगयुक्तात्मा सुखमव्ययमश्नुते ||᳚ (भ.गी. ५|२१) इति || १२७ || एवमेतदुपसंहृत्य तदानन्तर्येणोद्दिष्टस्य करणस्य प्रविवेचनं प्रतिजानीते -- इत्युच्चारविधिः प्रोक्तः करणं प्रविविच्यते | उच्चार एव हि प्राणचिदात्मना प्रथमं द्विविधः | तत्र चिदात्मापि चित्प्राधान्येन विमर्शप्राधान्येन च भवन् द्विधा भवति -- इति स एव त्रिविधः | तत् परतत्त्वान्तःप्रवेशात्मनोऽप्युपायस्य तद्भेदत्वादुच्चारात्मकत्वमेव -- इति युक्तमुपसंहृतम् -- ᳚उच्चारविधिः प्रोक्तः᳚ इति || तच्च करणं न स्वोपज्ञमेवास्माभिः क्रियते -- इत्याह -- तच्चेत्थं त्रिशिरःशास्त्रे परमेशेन भाषितम् || ५-१२८ || ग्राह्यग्राहकचिद्व्याप्तित्यागाक्षेपनिवेशनैः | करणं सप्तधा प्राहुरभ्यासं बोधपूर्वकम् || ५-१२९ ||
SK
तद्व्याप्तिपूर्वमाक्षेपे करणं स्वप्रतिष्ठता | ᳚चित्᳚ संवित्तिः ङिवेशनं᳚ संनिवेशः | इह ग्राह्यादिभिः सप्तभिः प्रकारैर्भिन्नं करणं नाम बोधपूर्वकमभ्यासं प्राहुः, बोध्यन्यग्भावेन स्वात्मैकतानतामापन्नं बोधमेव कथितवन्त इत्यर्थः | तद्धि करणं -- शोऽहं (सर्वो) ममायं विभव इत्येवं परिजानतः | विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ||᳚ (रि.प्र. ४|३|१२) इत्याद्युक्तनीत्या व्याप्तिपूर्वं विश्वस्याक्षेपे श्वप्रतिष्ठता᳚ स्वात्मन्येव विश्रान्तिरित्यर्थः | यदुक्तं तत्र � ᳚ग्राह्यं च ग्रहकं चैव संवित्तिं च तृतीयिकाम् | संनिवेशं तथा व्याप्तिमाक्षेपं त्यागमेव च || करणं सप्तधा ख्यातमभ्यासं बोधपूर्वकम् | तद्व्याप्तिपूर्वमाक्षेपे करणं स्वप्रतिष्ठता ||᳚ इति | ग्राह्यादीनां च तत्रैव -- ᳚ग्राह्यस्वरूपविज्ञानं द्रव्यत्वे यद्व्यवस्थितम् | व्यक्तिनिष्ठं तु मन्तव्यं ग्राहकं तु स्फुटार्थकम् || ग्राहयेच्चित्स्वरूपं तु व्यक्ताव्यक्तविचारकम् | प्रत्यक्षादिप्रमाणैश्च ग्रहीता गोलकस्थितिः || गोलकं द्वारमित्युक्तं मनसा बाह्यतां ततः | न जहाति न गृह्णाति ग्रहीता ग्राहकः स्मृतः | लक्ष्यलक्षसमायोगात् प्रतिज्ञावस्तुयोगतः | उभयोर्नान्यविश्लेषं यथैवानुभवं स्मृतम् || विचार्यमाणं यत्किञ्चित्स्वरूपविभवात्मकम् | संनिवेशं तु तज्ज्ञेयं तद्व्याप्तिरभिधीयते || स्वरूपस्थितिभावस्य एकदेशगतस्य च | घोणार्चिःप्रविकासं तु स्थानात्स्थानपदक्रमात् || ज्ञायते वस्तुबोधज्ञस्त्रिप्रकारेण वस्तुनि | व्याप्तिस्तु कथिता सा तु सर्वज्ञा सर्वगा परा || अनुभूय स्वरूपं तु निवृत्तिं नैव गच्छति | ज्ञानभेदपदप्राप्त्या अत्याक्षेपगमात्मनः || स्वरूपं चिन्त्यमानोऽपि ग्राह्यप्राकारधर्मधीः | त्यजेत्पूर्वपदाद्भेदात् त्यागं तु परिकीर्तितम् || पदस्थस्त्यागभागी च संवृतात्मपरस्य च | आक्षेपं तं विजानीयात्सर्वत्रावस्थितं प्रिये | इत्यादिना स्वरूपमुक्तम् || १२९ || नन्विहैतन्निर्भज्य कस्मान्नोक्तं किमागमपाठमात्रेण ? -- इत्याशङ्क्याह --
SK
गुरुवक्त्राच्च बोद्धव्यं करणं यद्यपि स्फुटम् || ५-१३० || तथाप्यागमरक्षाथ्रं तदग्रे वर्णयिष्यते | इह यद्यप्यनुभवैकगोचरत्वात् करणस्वरूपं गुरुमुखादेव स्फुटमवगन्तव्यं तथाप्यागमार्थो मा विच्छेदीत्येतदगेर् ᳚वर्णयिष्यते᳚ अन्तरान्तरा पुरस्ताच्चर्चयिष्यतेइत्यर्थः | तथाहि -- ᳚अर्थस्य प्रतिपत्तिर्या ग्राह्यग्राहकरूपिणी | सा एव मन्त्रशक्तिस्तु वितता मन्त्रसंततौ ||᳚ (तं. १६|२५६) इत्यादिना षोडशाह्निके ग्राह्यग्राहकयोः | ᳚यत्तु सर्वाविभागात्म स्वतन्त्रं बोधसुन्दरम् | सप्तत्रिंशं तु तत्प्राहुस्तत्त्वं परशिवाभिधम् ||᳚ (तं. ११|२१) इत्यादिनैकादशाह्निके संवित्तेः | ᳚इह किल दृक्कर्मेच्छाः शिव उक्तास्तास्तु वेद्यखण्डलके |᳚ (तं. १५|३३८) इत्यादिना पञ्चदशाह्निके व्याप्तेः | ᳚एवं त्रिविधविसर्गावेशसमापत्तिधाम्नि य उदेति | संविन्परामर्शात्मा ध्वनिस्तदेव मन्त्रवीर्यं स्यात् ||᳚ (तं. २९ |१४०) इत्यादिना -- ᳚यत्र सर्वे लयं यान्ति दह्यन्ते तत्त्वसञ्चयाः | तां चितिं पश्य कायस्थां कालानलसमप्रभाम् ||᳚ (तं. २५|१७२) इत्यादिना चैकान्नत्रिंशाह्निके त्यागस्याक्षेपस्य च तत्तन्मुद्रास्वरूपनिरूपणद्वारेण द्वात्रिंशाह्निके संनिवेशस्य स्वरूपं वक्ष्यति -- इति तत एवैतत्सतत्त्वं स्वयमेवावधारणीयम् | एवं च व्यावर्णनेऽस्यायमभिप्रायो यदेकप्रघट्टकेनैव रहस्यार्थोपदेशो न न्याय इति | यदुक्तमनेनैवान्यत्र -- ङातिरहस्यमेकत्र ख्याप्यं न च सर्वथा गोप्यम् इति हि अस्मद्गुरवः |᳚ इति | तदस्माकमपि एवं-व्याख्याने श्रीमदभिनवगुप्तपादा एव प्रमाणम् -- इति नात्र विद्वद्भिरस्मभ्यमसूयितव्यम् || १३० || एवं करणस्वरूपमुट्टङ्क्य तदनन्तरोद्दिष्टं वर्णतत्त्वं वक्तुमुपक्रमते -- उक्तो य एष उच्चारस्तत्र योऽसौ स्फुरन् स्थितः || ५-१३१ || अव्यक्तानुकृतिप्रायो ध्वनिर्वर्णः स कथ्यते | य एष प्राणात्मा प्रागुच्चार उक्तस्तत्र स्फुरन् स्थितः -- ङास्योच्चारयिता कश्चित्प्रतिहन्ता न विद्यते | स्वयमुच्चरते देवः प्राणिनामुरसि स्थितः ||᳚ (स्वटं. ७|५७)
SK
इत्याद्युक्त्या स्वरसत एवोच्चरन् | तथा ᳚एको नादात्मको वर्णः सर्ववर्णाविभागवान् | सोऽनस्तमितरूपत्वादनाहत इहोदितः ||᳚ (तं. ६|२१६) इत्यादिवक्ष्यमाणयुक्त्या सर्ववर्णाविभागस्वभावत्वादव्यक्तप्रायो योऽसावनाहतरूपो नादः स वर्णोत्पत्तिनिमित्तत्वाद्वर्ण उच्यते वर्णशब्दाभिधेयो भवेदित्यर्थः || १३१ || नन्वेवंविधोऽयं वर्णः कुत्रोपलभ्यते ? -- इत्याशङ्क्याह -- सृष्टिसंहारबीजं च तस्य मुख्यं वपुर्विदुः || ५-१३२ || तस्य च सृष्टिबीजं संहारबीजं चेति बीजद्वयं ᳚मुख्यं वपुः᳚ प्रधानमभिव्यक्तिस्थानमित्यर्थः || १३२ || नन्वेवमस्य परिज्ञानेन किं स्यात् ? -- इत्याशङ्क्याह -- तदभ्यासवशाद्याति क्रमाद्योगी चिदात्मताम् | तच्छब्देन सृष्टिबीजादावभिव्यज्यमानो नादः परामृष्टः || तदेवोपपादयति � तथा ह्यनच्के साच्के वा कादौ सान्ते पुनःपुनः || ५-१३३ || स्मृते प्रोच्चारिते वापि सा सा संवित्प्रसूयते | इह हि � ᳚......................ड्विजमाद्यमजीवकम् |᳚ (मा. वि. १७|२९) इत्याद्युक्तेः ᳚अनच्के᳚ स्वररहिते ᳚वामजङ्घान्वितो जीवः........................|᳚ (मा. वि. ३|५४) इत्याद्युक्त्या शाच्के᳚ स्वरसहिते च ककारादिसकारान्ते वर्णकलापे पुनःपुनरुच्चारिते स्मृतेऽपि वा सा सा मर्मनिकृन्तनाप्यायनादिरूपा परस्परविलक्षणा शंवित्᳚ अनुभवो जायते| तेन सृष्टिबीजादावभिव्यज्यमानं नादं पौनःपुन्येनोच्चारयन् स्मरन् वापि योगी चिदैकात्म्यमनुभवेत् -- इति युक्तमुक्तं ᳚तदभ्यासवशाद्याति क्रमाद्योगी चिदात्मताम्᳚ इति || १३३ || न केवलं वाच्यार्थाव्यतिरेकिणो लोकोत्तरा मान्त्रा वर्णा एवं यावल्लौकिका अपि -- इत्याह -- बाह्यार्थसमयापेक्षा घटाद्या ध्वनयोऽपि ये || ५-१३४ || तेऽप्यर्थभावनां कुर्युर्मनोराज्यवदात्मनि |
SK
वस्तुवृत्तेनासंभाविनं बाह्यं पृथुबुध्नोदरादिरूपम् ᳚अर्थम्᳚ उत्तमवृद्धादिना कल्पितमिदमस्याभिधेयमित्येवमात्मकं शमयं᳚ चापेक्षमाणा अपि ये घटाद्याः शब्दास्ते स्ववाच्यार्थवार्तामात्रानभिज्ञा अपि आत्मन्यर्थादुच्चारिताः स्मृता वा पृथुबुध्नोदरादेरर्थस्य ᳚भावनां᳚ साक्षात्कारं, मनोराज्यवदिति, यथा स्वोत्पेर्क्षाविकल्पादौ कान्तादिशब्दाः कामशोकादिना भाव्यमानास्तत्रासंनिहितस्यापि कान्तादेरर्थस्य कुर्युः, एवं संभाव्यते इत्यर्थः | एवं समयादिनिरपेक्षाणां संविदैकात्म्येन वर्तमानानां मान्त्राणां वर्णानां पुनरेवंसंभावने का नाम शङ्का भवेदिति भावः || १३४ || आगमोऽप्येवमित्यर्थद्वारेणाह -- तदुक्तं परमेशेन भैरवो व्यापकोऽखिले || ५-१३५ || इति भैरवशब्दस्य संततोच्चारणाच्छिवः | ᳚भैरव᳚ इति निरुक्तदृष्ट्या सर्वं भिर्याद्धारयति पुष्णाति रचयति अन्तर्बहिर्वा करोति सृष्टिस्थितिसंहारकृत् अखिले व्यापकः सकलजगत्क्रोडीकारेण भरितत्वात् पूर्णः -- इत्येवमात्मव्याप्तिगर्भीकारेण भैरवशब्दस्य पौनःपुन्येन ᳚उच्चारणात्᳚ मध्यधाम्नि हृदयात् द्वादशान्तं यावत्परामर्शनाच्छिवो भवेत्, भैरवैकात्म्यमनुभवेदित्यर्थः | उक्तमिति -- श्रीविज्ञानभैरवे | यदुक्तं तत्र -- ᳚भिर्यात्सर्वं रचयति सर्वदो व्यापकोऽखिले | इति भैरवशब्दस्य संततोच्चारणाच्छिवः ||᳚ (वि.भै. ११३ श्लो.) इति || १३५ || ननु यदि नामैवमुच्चारणाद्भवेत् तदस्तु, स्मरणात् पुनरेतत् कथम्? इत्याशङ्क्याह -- श्रीमत्त्रैशिरसेऽप्युक्तं मन्त्रोद्धारस्य पूर्वतः || ५-१३६ || मन्त्रोद्धारस्य पूर्वत इति, ᳚अधुना श्रोतुमिच्छामि मन्त्रोद्धारस्य लक्षणम् |᳚ इति भगवत्या प्रश्ने कृते हि तत्समाधानमारभमाणेन भगवतैतत्स्मरणस्वरूपं प्रथमतरमेवोक्तमित्यर्थः | एतदेव हि विचार्यमाणं मन्त्राणां परं वीर्यमिति भावः | यदुक्तमनेनैव सूत्रविमर्शिन्याम् -- ᳚तत एव सकलसिद्धिवितरणचतुरचिन्तामणिप्रख्य- मागमिकाः स्मरणमेव मन्त्रादिप्राणितं मन्यते |᳚ (रि.प्र.वि. १|४|१)
SK
इति || १३६ || तदेव पठति -- स्मृतिश्च स्मरणं पूर्वं सर्वभावेषु वस्तुतः | मन्त्रस्वरूपं तद्भाव्यस्वरूपापत्तियोजकम् || ५-१३७ || इह अनुभवप्रत्यभिज्ञादिप्रत्ययान्तरवैलक्षण्येनोज्जृम्भमाणं श᳚ इति प्रत्यवमर्शनात्मकमनुभूतार्थप्रकाशसंप्रमोषणरूपं श्मरणं स्मृतिः᳚ तद्रूपा पारमेश्वरी शक्तिरित्यर्थः | तच्च वाच्यवाचकात्मकेषु स्फुरत्सु भावेषु ᳚पूर्वम्᳚ उपादित्सादिपूर्वकोटाववश्यभावि, अन्यथा हि -- श्मरणादभिलाषेण(पेन) व्यवहारः प्रवर्तते |᳚ इत्यादिनीत्या तन्मूलः समग्र एव व्यवहार उत्सीदेत् | पूर्वमनुभूतोऽर्थ इदानीं नास्तीति निर्विषयत्वात् स्मृतिरेव नोल्लसेत्; अस्तित्वे वा तस्यानुभव एव भवेत् -- इति कथं तन्मूलोऽयं व्यवहारः सिद्ध्येदित्याशङ्क्योक्तं -- ᳚वस्तुतो मन्त्रस्वरूपम्᳚ इति | तद्धि स्मरणं वस्तुवृत्तेन मन्त्रयति स्वाभेदेन विश्वं परामृशति -- इति ᳚मन्त्रः᳚ परः प्रमाता तस्य स्वरूपं तदेकविश्रान्तमित्यर्थः | नन्वेमपि किं स्यात् ? -- इत्याशङ्क्याह -- ᳚तद्भाव्यस्वरूपापत्तियोजकम्᳚ इति | यतस्तत्परप्रमात्रात्म मन्त्रस्वरूपं ᳚भाव्यस्य᳚ अनुभवनीयस्य घटादेरर्थस्य श्वरूपापत्तिः᳚ स्वात्मसात्कारस्तत्र योजयति, तथात्वेन व्यवस्थापयतीत्यर्थः | यदि नाम हि तदविभागेन निखिलमिदमनुभूतं वस्तु न संभवेत् तत् स्मरणमेव न भवेदिति भावः | यदुक्तम् -- शर्वेऽनुभूता यदि नान्तरर्थास्त्वदात्मसात्कारसुरक्षिताः स्युः | विज्ञातवस्त्वप्रतिमोषरूपा काचित् स्मृतिर्नाम न संभवेत्तत् ||᳚ इति || १३७ || तामेव विशिनष्टि -- स्मृतिः स्वरूपजनिका सर्वभावेषु रञ्जिका | अनेकाकाररूपेण सर्वत्रावस्थितेन तु || ५-१३८ || स्वस्वभावस्य संप्राप्तिः संवित्तिः परमार्थतः | व्यक्तिनिष्ठा ततो विद्धि सत्ता सा कीर्तिता परा || ५-१३९ ||
SK
यतः सा स्मृतिः ᳚व्यक्तिः᳚ अर्थप्रकटनात्मा प्राच्योऽनुभवः ᳚तन्निष्ठा᳚ तदभेदमापन्ना सती स्वस्येदानीन्तनकालावच्छिन्नस्य रूपस्य ᳚जनिका᳚ स्मर्यमाणार्थावभासिकेत्यर्थः | प्राच्यस्यैव ह्यनुभवस्येदानीन्तनकालावच्छेदेन पुनरुन्मेषो नाम स्मरणम्, अत एव पूर्वापरोभयकालावलम्बनेनौचित्योपनतः श᳚ इति परामर्शोऽस्य परमार्थः | नन्वेवमपि स्मृतेर्विकल्पविशेषत्वात् निर्विषयत्वेन कथमर्थावभासकत्वमित्युक्तं शर्वभावेषु रञ्जिका᳚ इति | ᳚अनेकाकाररूपेण सर्वत्रावस्थितेन तु᳚ इति | सा हि शर्वत्र᳚ सर्वेषु पूर्वावभातेषु घटादिषु भावेष्वर्थितादिवशाद् घटकाञ्चनद्रव्यत्वाद्यात्मकेन ᳚अनेकेनैवाकारेण᳚ कदाचिदपि स्वालक्षण्यात् स्वस्वरूप एवावस्थितेन घटाभासमात्राद्यात्मना ᳚रञ्जिका᳚ स्वकाले स्फुटमेवावभासिकेत्यर्थः | यदुक्तम् � ᳚भासयेच्च स्वकालेऽर्थान्पूर्वाभासितमामृशन् | स्वलक्षणं घटाभासमात्रेणाथाखिलात्मना ||᳚ (रि.प्र. १|४|२) इति | एवं प्राच्यस्यानुभवस्य स्मृत्यभेदेनैवावभासात् स्मृत्यनुभवयोरैक्यं सिद्धम् -- इति सा स्मृतिरेव स्वात्मनः संप्राप्तिः, पारमार्थिकी च संवित्तिरित्युक्तं श्वस्वभावस्य संप्राप्तिः संवित्तिः परमार्थतः᳚ इति | यदुक्तम् -- ङ च युक्तं स्मृतेर्भेदे स्मर्यमाणस्य भासनम् | तेनैक्यं भिन्नकालानां संविदां वेदितैष सः ||᳚ (रि.प्र. १|४|३) अतएव च � शा स्फुरत्ता महासत्ता देशकालाविशेषिणी | सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ||᳚ (रि.प्र. १|५|१४) इत्यादिना निरूपितस्वरूपा पराकृत्त्रिमाहन्तापरामर्शात्मिका मान्त्री वीर्यभूमिरियम्, अत्रैवावधातव्यमित्युक्तं ᳚विद्धि सत्ता सा कीर्तिता परा᳚ इति | विद्धीत्यत्र वाक्यार्थस्य कर्मत्वम् || १३९ || तदेवं लौकिकानां घटादीनां शब्दानामेवमुच्चारणात् स्मरणाद्वा यत्र संविदैकात्म्यावाप्तावुपायत्वं तत्र सृष्टिबीजादीनां का वार्ता ? -- इत्याह -- किं पुनः समयापेक्षां विना ये बीजपिण्डकाः | संविदं स्पन्दयन्त्येते नेयुः संविदुपायताम् || ५-१४० ||
SK
एते संविदुपायतां नेयुरिति काक्वा व्याख्येयम् || १४० || ननु समयानपेक्षमेव कथमेवमेते कुर्वन्ति ? -- इत्याशङ्क्याह -- वाच्याभावादुदासीनसंवित्स्पन्दात्स्वधामतः | प्राणोल्लासनिरोधाभ्यां बीजपिण्डेषु पूर्णता || ५-१४१ || संविदैकात्म्येन स्फुरणात् व्यतिरिक्तस्य वाच्यस्याभावात्, तथा ᳚उदासीनः᳚ स्वात्ममात्रविश्रान्तेरबहिर्मुखो योऽसौ संवित्स्पन्दस्तदूर्पात् श्वधामतः᳚ स्वस्फारात्, तथा प्रमाणात्मनः ᳚प्राणस्योल्लासात्᳚ प्रमेयोन्मुखं प्रसरणात्, तथा ङिरोधात्᳚ अन्तर्मुखरूपे विश्रमात् सृष्टिसंहारकारित्वात् सृष्टिबीजादिरूपेषु ᳚बीजपिण्डेषु पूर्णता᳚ अनन्योन्मुखत्वात् नैराकाङ्क्ष्यमित्यर्थः | घटादिषु लौकिकेषु पुनः शब्देषु वाच्यसद्भावादेरपूर्णत्वात् समयाद्यपेक्षत्वमित्यर्थसिद्धम् || १४१ || एवमेतत् सामान्येनाभिधाय विशेषमुखेनापि दर्शयति -- सुखसीत्कारसत्सम्यक्साम्यप्रथमसंविदः | संवेदनं हि प्रथमं स्पर्शोऽनुत्तरसंविदः || १४२ || हृत्कण्ठ्योष्ठ्यत्रिधामान्तर्नितरां प्रविकासिनि | चतुर्दशः प्रवेशो य एकीकृततदात्मकः || १४३ || ततो विसर्गोच्चारांशे द्वादशान्तपथावुभौ | हृदयेन सहैकध्यं नयते जपतत्परः || १४४ || सुखादिसंबन्धिन्याः ᳚प्रथमायाः᳚ आद्यायाः संविदो यत् ᳚प्रथमम्᳚ आद्यमेव संवेदनम्, अनन्तरं हि संवेद्याद्यारुषितत्वमपि भवेदिति भावः | स नाम अनुत्तरसंविदः श्पर्शः᳚ परसंवित्साक्षात्कारः इत्यर्थः | शुखं᳚ चमत्कारातिशयः, शीत्कारः᳚ तत्कारणं शत्᳚ रमणीयं बाह्यं स्त्र्यादि वस्तु, सम्यगरमणीयमपि स्वोचितेन संनिवेशेनावस्थितं, शाम्यं᳚ रागद्वेषादिद्वन्द्वपरिहारः | अथ च सुखादीनामाद्या सकारमात्ररूपा या संवित् तस्याः संवेदनादप्येवम् -- इति परबीजगतस्यामृतवर्णस्यापि तत्त्वं प्रदर्शितम् | यदुक्तं प्राक् -- ᳚क्षोभाद्यन्तविरामेषु तदेव परमामृतम् | सीत्कारसुखसद्भावसमावेशसमाधिषु ||᳚ (तं. ३|१६७) इति | अस्य च दन्त्यत्वेऽपि कन्दे विश्रान्तिरिति -- ᳚कन्दहृत्कण्ठताल्वग्र......................|᳚ (तं. ५|१४५)
SK
इत्यादिवक्ष्यमाणार्थबलादवगन्तव्यम् | ततोऽपि ᳚अन्तः᳚ मध्यधाम्नि नाडीत्रयस्यापि संमिलिततयात्यन्तं विकस्वरे ब्रह्मरन्ध्रेर्ध्ववर्तिनि नाड्याधाराभिधे परस्मिन्नाधारे यः प्रवेशः स चतुर्दशः, तस्येदं विश्रान्तिस्थानमित्यर्थः | नन्वत्र किमसौ केवलतयैव विश्राम्यत्युतान्यथा ? इत्याशङ्क्योक्तम् -- ᳚एकीकृततदात्मकः᳚ इति | ᳚एकीकृतः᳚ स्वाभेदेनास्थापितः -- ᳚ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः |᳚ (भ.गी. १७|२३) इत्यादिनीत्या तस्य परस्य ब्रह्मण आत्मा येनासावमृतवर्णसंभिन्न इत्यर्थः | ननु यद्येतदस्य विश्रान्तिस्थानम् उदयस्थानं पुनः किम् ? -- इत्याशङ्क्याह � ᳚हृत्कण्ठ्यौष्ठ्यत्रिधामा᳚ इति तात्स्थ्यात् हृदकारः कण्ठ्यौष्ठ्यश्च औकारस्तयोः संहतत्वात् हृत्कण्ठौष्ठानि त्रीणि ᳚धामानि᳚ उदयस्थानानि यस्यासावेवंविधः, तेन हृदयाद्युदयक्रमेण त्रिशूलभूमौ विश्राम्यति -- इति शूलवर्णतत्त्वम् | तदनन्तरमपि विसर्गोच्चारांशे सावधानो जपतत्परो योगी उभौ ᳚द्वादशान्तपथौ᳚ नासिक्यशिवद्वादशान्तौ सृष्ट्यात्मना ᳚हृदयेन सहैकध्यं नयते᳚ शक्त्यादिसामरस्येन द्वादशान्तपर्यन्तं पराबीजमुच्चारयेदित्यर्थः || १४४ || एतदेव सङ्कलयति -- कन्दहृत्कण्ठताल्वग्रकौण्डिलीप्रक्रियान्ततः | आनन्दमध्यनाड्यन्तः स्पन्दनं बीजमावहेत् || ५-१४५ || ᳚कौण्डिली᳚ शक्तिद्वादशान्तः ᳚प्रक्रियान्तः᳚ शिवद्वादशान्तः | एवं कन्दात् प्रभृति तत्तदाधारोल्लङ्घनक्रमेण द्वादशान्तपर्यन्तं मध्यधामान्तरिदं सृष्टिबीजं श्पन्दनमावहेत्᳚ अनुत्तरसंविदामर्शात्मना प्रस्फुरेदित्यर्थः || १४५ || एवमेतद्वर्णंतत्त्वं संहारबीजानुसारेणापि अभिधत्ते -- संहारबीजं खं हृत्स्थमोष्ठ्यं फुल्लं स्वमूर्धनि | तेजस्त्र्यश्रं तालुकण्ठे बिन्दुरूर्ध्वपदे स्थितः || ५-१४६ ||
SK
तत्र खस्य कण्ठ्यत्वेऽप्युरस्यतोद्रेकेण हृत्स्थत्वं, ᳚फुल्लं᳚ फकारस्तच्चौष्ठ्यम्, ओष्ठत एवोच्चारात्, ᳚तेजो᳚ रेफस्तस्य मूर्धन्यत्वान्मूर्धन्येवावस्थानम् | त्र्यश्रमेकारस्तस्यापि कण्ठतालव्यत्वात् तालुकण्ठ एवावस्थितिः | ᳚ऊर्ध्वपदे᳚ इति शक्तिशिवद्वादशान्तरूपे | एवं हृदादिस्थानविश्रान्तिपुरस्सरमेवोच्चारो भवेदिति भावः | यस्तु ᳚खरूपे निर्वृतिं प्राप्य.......................|᳚ (तं. ५|७५) इत्यादिना संवित्क्रमेण प्रागुच्चार उक्तः सोऽप्यत्रानुसंधेयः, संवित्क्रमस्य सर्वत्रैव भावात् || १४६ || नन्वेवमुक्तेन वर्णतत्त्वेन किं भवेत् ? -- इत्याशङ्क्याह -- इत्येनया बुधो युक्त्या वर्णजप्यपरायणः | अनुत्तरं परं धाम प्रविशेदचिरात् सुधीः || ५-१४७ || बुधः सुधीरित्यत्र ᳚ज्ञानित्वस्यात्र प्राधान्यमुक्तम्᳚ इति दर्शितम् || १४७ || तदेवं वर्णतत्त्वमभिधाय भङ्ग्यन्तरेणाप्याह -- वर्णशब्देन नीलादि यद्वा दीक्षोत्तरे यथा | ननु किमेतत् स्वमनीषिकयैवोक्तमुत निबन्धान्तरं किञ्चिदत्रास्ति? इत्याशङ्क्याह -- ᳚दीक्षोत्तरे यथा᳚ इति | अर्थाद्दीक्षोत्तराख्ये ग्रन्थे यथोक्तमिति || तदेवाह -- संहारन्रग्निमरुतो रुद्रबिन्दुयुतान्स्मरेत् || ५-१४८ || हृदये तन्मयो लक्ष्यं पश्येत्सप्तदिनादथ | विस्फुलिङ्गाग्निवन्नीलपीतरक्तादिचित्रितम् || ५-१४९ || जाज्वलीति हृदम्भोजे बीजदीपप्रबोधितम् | दीपवज्ज्वलितो बिन्दुर्भासते विघनार्कवत् || ५-१५० ||
SK
शंहारः᳚ क्षकारो ङा᳚ पुमान् मकारः ᳚अग्निः᳚ रेफः ᳚मरुत्᳚ यकारः, एतान् पिण्डीभूतान् रुद्रेणै(णो)कारेण बिन्द्वर्धचन्द्रादिना च युतान् तावद्धृदये स्मरेत् यावत्तदेकतानः सन् सप्तदिनादूर्ध्वं ᳚लक्ष्यं पश्येत्᳚ ध्येयं किञ्चित् प्रकटीभवेदित्यर्थः | तद्धि अस्य लक्ष्यमुक्तस्वरूपं, यद्बीजं तदेव प्रकाशतादात्म्यात् दीपस्तेन ᳚प्रबोधितम्᳚ अभिव्यञ्जितं सत् विस्फुलिङ्गप्रधानाग्निन्यायेन नीलपीताद्यनेकवर्णचित्रीकृतं हृदम्भोजे ᳚जाज्वलीति᳚ स्पष्टनिरीक्षणीयतामेतीत्यर्थः | एवमत्राप्येकतानस्य सतोऽस्य भावनातारतम्येन दीपवद् ग्रीष्मार्कवच्च यथायथं दीप्तो ᳚बिन्दुः᳚ वेदयिता स्वात्मा भासते, ᳚आत्मानमत एवायं ज्ञेयीकुर्यात् |᳚ (रि.प्र. १|५|१५) इत्याद्युक्तयुक्त्या लक्ष्यतामेतीत्यर्थः || १५० || नन्वेवं लक्ष्यतामाप्तेनात्मनास्य किं स्यात् ? -- इत्याशङ्क्याह � स्वयंभासात्मनानेन तादात्म्यं यात्यनन्यधीः | शिवेन हेमतां यद्वत्ताम्रं सूतेन वेधितम् || ५-१५१ || अनेनेति आत्मना | शिवेनेति, स्वात्मैव हि परमेश्वरः शिवः -- इति नः सिद्धान्तः इत्यभिप्रायः || १५१ || न चैवमस्यैव मन्त्रस्य वीर्यं यन्नीलपीताद्यनेकवर्णोदयद्वारेण स्वात्मसाक्षात्कारः अपि तु सर्वेषाम् -- इत्याह -- उपलक्षणमेतच्च सर्वमन्त्रेषु लक्षयेत् | ननु सर्वेषां मन्त्राणां प्रतिनियतमेव फलं संभवेत् -- इत्यविवादः | न हि अमृतबीजं मारणादि कर्तुमुत्सहते क्रूरबीजं वाप्यायनादि -- इति कथं मन्त्रान्तरनिर्वर्त्यं कर्म मन्त्रान्तरेष्वपि भवेत् ? -- इत्याशङ्क्याह -- यद्यत्सङ्कल्पसंभूतं वर्णजालं हि भौतिकम् || ५-१५२ || तत् संविदाधिक्यवशादभौतिकमिव स्थितम् | यद्यन्नाम हि � ᳚विकल्पयोनयः शब्दा...................|᳚
SK
इत्यादिनीत्या सङ्कल्पसंभूतत्वात् ᳚भौतिकं᳚ भेदानुप्राणितं मायीयं वर्णजातं तत्सर्वमेव संविदाधिक्यवशात् भौतिकत्वन्यग्भावनेन संविद एवोद्रेकादभौतिकमिव स्थितं, भेदरूपत्वेऽपि संविदद्वैतपरमार्थमेवेत्यर्थः | इदमुक्तं भवति -- यद्यपि संविद एवायं सकलः स्फारः, तथापि तस्या आधिक्येनाप्रतीतौ भेदमयत्वात् एषां प्रतिनियतार्थक्रियाकारित्वम्; आधिक्येन प्रतीतौ पुनः सर्वेषां स्वात्मसाक्षात्कारलक्षणमविशिष्टमेव फलमिति | यदुक्तम् -- ᳚एवमेषां स्वरूपांशस्पर्शे शिवमयी स्थितिः | तदनाच्छुरणे भिन्नसंसारस्थितिवर्तनम् ||᳚ इति || १५२ || अतश्च सर्वेषामेव मन्त्राणां संविदात्मन्यनुपाधौ रूपे विश्रान्तस्ताद्रूप्यमेवासादयेत् -- इत्याह � अतस्तथाविधे रूपे रूढो रोहति संविदि || ५-१५३ || अनाच्छादितरूपायामनुपाधौ प्रसन्नधीः | नन्विह सर्वमन्त्राणां स्वरूपे तावदविवादसिद्ध एव भेदः -- इति स फलेऽप्यवश्यमापतेत् कारणभेदाधीनत्वात् तस्य, तत् कथमेवमुक्तम् ? -- इत्याशङ्क्याह -- नीले पीते सुखे दुःखे संविदूर्पमखण्डितम् || ५-१५४ || गुरुभिर्भाषितं तस्मादुपायेषु विचित्रता | ᳚गुरुभिः᳚ वामनदत्ताचार्येण, भाषितमिति संवित्प्रकाशे | अनेनेदमुक्तं भवति � नीलादेर्वाच्यवाचकात्मनो विश्वस्य संविद्रूपत्वाविशेषात् न कश्चिद्वास्तवो भेदः संभवेदिति | ननु यद्येवं तत् कथमिदं वाच्यवाचकात्मवैचित्र्यमपह्नूयतां, नहि भातमभातं भवेत्, तदत्र किं प्रतिपत्तव्यम् ? -- इत्याशङ्क्याह -- ᳚तस्मादुपायेषु विचित्रता᳚ इति | एवं संवित्स्वातन्त्र्योल्लसितं यन्नामेदं वैचित्र्यं तदुपायमात्रविषयमेव पर्यवस्येत्, न तूपेयविषयमपीत्यर्थः | यदभिप्रायेणैव -- शंवित्तिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः |᳚ (मा.वि. २|२५) इत्याद्युक्तम् || १५४ || एवमेकस्मिन्नेवोपेये प्राप्तव्ये परमियदूपायजातमुपदिष्टम् -- इत्याह -- उच्चारकरणध्यानवर्णैरेभिः प्रदर्शितः || ५-१५५ || अनुत्तरपदप्राप्तावभ्युपायविधिक्रमः |
SK
ननूच्चारादीनामागमेऽप्यनेनैव क्रमेण पाठः -- इति कथमिह तदुल्लङ्घनेन ध्यानोप्रकममेषां निर्देशः कृतः ? -- इत्याशङ्क्याह -- अकिञ्चिच्चिन्तनं वीर्यं भावनायां च सा पुनः || ५-१५६ || ध्याने तदपि चोच्चारे करणे सोऽपि तद् ध्वनौ | स स्थानकल्पने बाह्यमिति क्रममुपाश्रयेत् || ५-१५७ || ᳚अकिञ्चिच्चिन्तनं᳚ शांभवः | ᳚भावना᳚ शाक्तः | सेति भावना | तदिति करणं | स्थानकल्पन इति षष्ठादाह्निकात् प्रभृति वक्ष्यमाणे | एवं पूर्वं पूर्वमुत्तरत्रोत्तरत्र वीर्यमिति पाठक्रममपहाय -- ᳚यो हि यस्माद् गुणोत्कृष्टः स तस्मादूर्ध्वमिष्यते |᳚ (मा.वि. २|६०) इत्यादिनीत्यार्थक्रमावलम्बनेनान्यथैवं निर्देशः कृतः -- इति बलीयस्त्वादयमेव क्रमः समाश्रयणीय इत्यर्थः || १५७ || ननु यद्येवं तत् किमनेनैव क्रमेणोपेयप्राप्तिर्भवेदुतान्यथापि ? -- इत्याशङ्क्याह -- लङ्घनेन परो योगी मन्दबुद्धिः क्रमेण तु | ᳚पर᳚ इति तीव्रशक्तिपातानुविद्धः | योगीति, परतत्त्वैक्यभाग्भवेदित्यर्थः || ननु पूर्वं पूर्वमुत्तरस्योत्तरस्य वीर्यमित्युक्तेन किं स्यात् ? -- इत्याशङ्क्याह -- वीयर्ंं विना यथा षण्ठस्तस्याप्यस्त्यथ वा बलम् | मृतदेह इवेयं स्याद् बाह्यान्तःपरिकल्पना || ५-१५८ || यथा पुंस्त्वापादकं वीर्यं विना पुरुषोऽपि ᳚षण्ठः᳚ स्वकर्मण्यकिञ्चित्करः, अथवा तस्यापि चेष्टाद्यन्यथानुपपत्त्या किञ्चिद्वीर्यमस्ति -- इत्यत्यन्तं जडप्रायत्वात् यथा शवशरीरमकिञ्चित्करम्, एवं स्थानकल्पनादिरूपा बाह्यान्तरुपायकल्पनापि निर्वीर्या सत्यकिञ्चित्कर्येव भवेदित्यर्थः || १५८ || इदानीमाह्निकार्थमेव श्लोकस्य प्रथमार्धेनोपसंहरति -- इत्याणवेऽनुत्तरताभ्युपायः प्रोक्तो नयः स्पष्टपथेन बाह्यः | || इति श्रामदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके आणवोपायप्रकाशनं नाम पञ्चममाह्निकम् || ५ || बाह्यो नय इति उच्चारादि, इति शिवम् || गुरुवरचरणप्रसादप्रध्वस्तसमस्तदुर्विकल्पौघः | विवरणमेतदरचयज्जयरथ इति पञ्चमाह्निके कश्चित् ||
SK
इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते आणवोपायप्रकाशनं नाम पञ्चममाह्निकं समाप्तम् || ५ || षष्ठमाह्निकम् ᳚ विवेक ᳚ कवलयितुं किल कालं कलयति यो व्यायतास्यतां सततम् | जयति स सुजयः साक्षात्संसारपराकृतौ सजयः || इदानीमाणवोपायस्यैवाङ्गभूतमुच्चारादिप्रमेयचतुष्टयानन्तरोद्दिष्. तं स्थानकल्पनाख्यं परमं प्रमेयं द्वितीयार्धेनावतारयितुमुपक्रमते -- स्थानप्रकल्पाख्यतया स्फुटस्तु बाह्योऽभ्युपायः प्रविविच्यतेऽथ || ६- १ || अथशब्दोऽधिकारे | तेनेतः प्रभृत्याद्वादशाह्निकं यत्किंचिदुच्यते तत्सर्वं स्थानकल्पनाधिकारेण, इति पञ्चदशाह्निकात्प्रभृति पुनरेतदेव बाह्यस्थण्डिलमण्डलाद्यधिकृत्याभिधीयते -- इत्याग्रन्थपरिसमाप्तेः प्राधान्यात् स्थानकल्पनस्यैव सकलोऽयं प्रपञ्च इति || १ || तदेवाह � स्थानभेदस्त्रिधा प्रोक्तः प्राणे देहे बहिस्तथा | एषामपि भेदान्तराणि सन्ति -- इत्याह -- प्राणश्च पञ्चधा देहे द्विधा बाह्यान्तरत्वतः || ६-२ || मण्डलं स्थण्डिलं पात्रमक्षसूत्रं सपुस्तकम् | लिङ्गं तूरं पटः पुस्तं प्रतिमा मूर्तिरेव च || ६-३ || इत्येकादशधा बाह्यं पुनस्तद् बहुधा भवेत् | ᳚पुस्तं᳚ लेपादिनिर्मिताकृतिः | मूर्तिर्गुर्वादिसंबन्धिनी | तदित्यानन्तर्याद् बाह्यं, पुनरित्येकादशविधत्वेऽपि | बहुधेति मण्डलादीनामप्येकशूलत्रित्रिशूलादिक्रमेण नानात्वात् || ३ || एवं स्वरूपतः स्थानभेदमभिधाय तद्गतं विधिमप्युपदेष्टुं प्रतिजानीते -- तत्र प्राणाश्रयं तावद्विधानमुपदिश्यते || ६-४ || तदेवाह � अध्वा समस्त एवायं षड्वधोऽप्यतिविस्तृतः | यो वक्ष्यते स एकत्र प्राणे तावत्प्रतिष्ठितः || ६-५ || वक्ष्यत इति भुवनाध्वप्रकाशनादौ | ᳚प्राण᳚ इति सामान्यस्पन्दनात्मनि | यदुक्तम् -- ᳚षङ्वधाध्वविभागस्तु प्राणैकत्र यथा स्थितः |᳚ (स्वटं. ४|२३२) इति | विशिष्टे पुनः पदमन्त्रवर्णात्मा त्रिविध एव | यद्वक्ष्यति
SK
᳚षड्वधादध्वनः प्राच्यं यदेतत्त्रितयं पुनः | एष एव स कालाध्वा प्राणे स्पष्टं प्रतिष्ठितः ||᳚ (तं.आ. ६|३७) इति || ५ || तदेवोपपादयति � अध्वनः कलनं यत्तत्क्रमाक्रमतया स्थितम् | क्रमाक्रमौ हि चित्रैककलना भावगोचरे || ६-६ || नन्वेतत्क्रमाक्रमात्मतयैव कस्मात्स्थितमित्याशङ्क्याह -- ᳚क्रमेत्यादि᳚ | इह द्विधैव भावानामवभासः क्रमेणाक्रमेण च; तत्र क्रमेण यथा कार्यकारणादौ, अक्रमेण यथा चित्रज्ञानादौ | स च चित्रे यदैकस्यैवैकदैव च कंचित्पूर्वकालभाविनं समानकालभाविनं च भावमपेक्ष्य क्रमेणाक्रमेण चावभासः -- इति | तद्या नाम भावानामेवं ᳚कलना᳚ परिच्छित्तिः स एव क्रमाक्रमात्मा इति || ६ || ननु सर्वमिदं जगत्संविल्लग्नमेवावभासतेऽन्यथा ह्यस्य भानमेव न भवेत्, संविदि च नित्यत्वात्कालयोगो नास्ति, इति कथमसौ तदनुषक्तस्य भावजातस्यापि स्यात् ? -- इत्याशङ्क्याह -- क्रमाक्रमात्मा कालश्च परः संविदि वर्तते | नन्वेवं ᳚क्रमाक्रमकथातीतं संवित्तत्त्वं सुनिर्मलम्᳚ इत्याद्युक्तं व्याहन्येत, सौगतमतान्तःपातश्च स्यात् -- इत्याशङ्क्याह -- काली नाम परा शक्तिः सैव देवस्य गीयते || ७ || यन्नाम परस्य प्रकाशस्य कालेन योगः सास्य ᳚शक्तिः᳚ स्वेच्छावभासितस्य प्रमातृप्रमेयाद्यात्मनो जगतस्तत्तद्रूपतया कलने सामर्थ्यं न पुनः स्वात्मनि कश्चिदक्रमः क्रमो वा इति न ह्यग्नेर्दाहशक्तियोगे स्वात्मनि स्फोटाद्याविर्भावः || ७ || तदाह � सैव संविद् बहिः स्वात्मगर्भीभूतौ क्रमाक्रमौ | स्फुटयन्ती प्ररोहेण प्राणवृत्तिरिति स्थिता || ६-८ || सैव कालशक्तियोगिनी संवित्स्वाविभागेनावस्थितौ क्रमाक्रमौ बहिः प्ररूढतयावभासयन्ती प्राणवृत्तिरिति स्थिता, प्राणनात्मतया प्रस्फुरितेत्यर्थः || ८ || ननु कथं नामेयं प्राणवृत्त्यात्मना प्रस्फुरिता -- इत्याशङ्क्याह -- संविन्मात्रं हि यच्छुद्धं प्रकाशपरमार्थकम् | तन्मेयमात्मनः प्रोज्झ्य विविक्तं भासते नभः || ६-९ ||
SK
यन्नाम हीदं प्रमातृप्रमेयात्मनो विश्वस्य स्वाविभागेनैवावभासनात्प्रकाशपरमार्थकम्, अत एव तदारूषणाया अभावाच्छुद्धं संविन्मात्रं तत्स्वस्वातन्त्र्यात् स्वात्मन्यपूर्णत्वावबिभासयिषया स्वाविभागेनावस्थितं विश्वात्म ᳚मेयं᳚ आत्मनः सकाशात् ᳚प्रोज्झ्य᳚ पृथक्कृत्य ᳚विश्वस्मादुत्तीर्णोऽहम्᳚ इत्यामृश्य ᳚विविक्तं नभोऽवभासते᳚ सकलभावशून्यत्वान्निरावरणरूपतया प्रस्फुरतीत्यर्थः || ९ || अत एवाह -- तदेव शून्यरूपत्वं संविदः परिगीयते | ᳚शून्यरूपत्वम्᳚ इति शून्यप्रमातृत्वमित्यर्थः | शून्यत्वं चास्य सर्वस्य संवेद्यस्य संक्षयात् न तु संविदोऽपि, तथात्वे हि निखिलमिदमनेलमूकप्रायं स्यात् | यदुक्तम् -- ᳚अशून्यं शून्यमित्युक्तं शून्यं चाभाव उच्यते | अभावः स समुद्द्ष्टो यत्र भावाः क्षयं गताः ||᳚ (स्व. ४|२९१) इति | शर्वालम्बनधर्मैश्च सर्वसत्त्वैरशेषतः | सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ||᳚ इति च || एतच्च परमुपेयमितो बाह्यानामित्याह -- नेति नेति विमर्शेन योगिनां सा परा दशा || १० || सेयं � ङ भावो नापि चाभावो मध्यमाप्रतिपत्तितः |᳚ इत्याद्युक्तयुक्त्या भावाभावविषयेण नेति नेति परामर्शद्वयेन मध्यमपदावेशशालिनां ᳚योगिनां᳚ ᳚परा᳚ शून्यातिशून्यरूपा ᳚दशा᳚ विश्रान्तिस्थानमित्यर्थः | यदाहुः -- ᳚शून्यतावस्थितः पश्चात्संवेदनविवर्जितः | निर्वाणः कृष्णवर्त्मेव निरुपाख्यो भवत्यसौ ||᳚ इति || १० || स एव च शून्यप्रमाता बहिर्मुखीभवन्प्राणप्रमातृतामासादयति -- इत्याह -- स एव खात्मा मेयेऽस्मिन्भेदिते स्वीक्रियोन्मुखः | पतन्समुच्छलत्त्वेन प्राणस्पन्दोर्मिसंज्ञितः || ६-११ || स एव च ᳚खात्मा᳚ शून्यप्रमाता -- ᳚...................ऽभिलाषो मलोऽत्र तु |᳚ (स्वटं. ४-१०४)
SK
इत्याद्युक्तेरपूर्णम्मन्यतात्मकाणवमलयोगात्साकाङ्क्षतया पुनस्तत्स्वीकरणोन्मुखः सन् स्वस्मात् ᳚भेदिते᳚ पृथक्कृतेऽस्मिन् नीलसुखादिरूपे ᳚मेये समुच्छलत्त्वेन पतन्᳚ बहिर्मुखीभवन् प्राणादिशब्दव्यपदेश्यो भवेदित्यर्थः | किंचिच्चलनात्मनः स्वविमर्शरूपस्य स्पन्दनस्यैवायमाद्यः प्रसरः -- इत्युपचारात्तच्छब्दव्यपदेश्यो न तु स एवायं, तस्य शून्यप्रमात्रुल्लासादप्यूर्ध्वभावात् | एवमूर्मिशब्दादावुत्तरत्रापि ज्ञेयम् || ११ || यदभिप्रायेणैव भट्टश्रीकल्लटादयोऽप्येवमूचुः -- इत्याह -- तेनाहुः किल संवित्प्राक्प्राणे परिणता तथा | अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः || ६-१२ || यद्यपि शून्यतावभासनपुरःसरं संवित्प्राणरूपतया परिस्फुरिता तथापि तदवभासनेऽस्या न कश्चिद्रूपान्तरोपग्रहः -- इत्युक्तं ᳚प्राक् संवित्प्राणे परिणता᳚ इति | तैरप्येतन्निर्मूलमेव नोक्तम् -- इत्यागमोऽपि संवादितः ᳚अन्तःकरणेत्यादिना᳚ | अन्तःकरणानां ᳚तत्त्वं᳚ सारभूता बुद्धिस्तस्य बुद्धिप्रमातुरित्यर्थः | तेन बुद्धिप्रमातुरित्यर्थः | तेन बुद्धिप्रमातुः पूर्वं प्राणोल्लासः -- इति सिद्धम् | अन्यथा कथं स तस्याश्रयः स्यात् || १२ || एवमयमेव परस्याः संविदः प्रथमः परिस्पन्दः � इति तदभेदवृत्त्यैव सर्वत्रास्य व्यवहारः -- इत्याह -- इयं सा प्राणनाशक्तिरान्तरोद्योगदोहदा | स्पन्दः स्फुरत्ता विश्रान्तिर्जीवो हृत्प्रतिभा मता || ६-१३ || ᳚आन्तर᳚ आद्यो योऽसौ ᳚उद्योग᳚ उद्यन्तृतात्मा परिस्पन्दस्तत्र ᳚दोहदो᳚ऽभिलाषो यस्याः सा तदेकनिष्ठेत्यर्थः || १३ || नन्वेवमुल्लसिताया अस्याः किं प्रयोजनम् ? -- इत्याशङ्क्याह -- सा प्राणवृत्तिः प्राणाद्यै रूपैः पञ्चभिरात्मसात् | देहं यत्कुरुते संवित्पूर्णस्तेनैष भासते || ६-१४ ||
SK
सेयं सामान्यपरिस्पन्दात्मा प्राणवृत्तिः, पञ्चभिः प्राणापानाद्यै रूपैर्यत्तदन्तर्बहिष्करणाद्याक्रान्तं पाञ्चभौतिकं ᳚देहमात्मसात्कुरुते᳚ व्याप्यावतिष्ठते तेनैष देहो घटादिवत्संवेद्यत्वेऽपि संवित्पूर्णो भासते संवेत्तृतया प्रथत इत्यर्थः | अत एव मूढानामयं भ्रमो यच्चैतन्यविशिष्टात्कायादन्यः कश्चिन्नास्ति इति | यदुक्तम् -- ᳚चैतन्यखचितात्कायान्नात्मान्योऽस्तीति मन्वते |᳚ इति || १४ || तदाह � प्राणनावृत्तितादात्म्यसंवित्खचितदेहजाम् | चेष्टां पश्यन्त्यतो मुग्धा नास्त्यन्यदिति मन्वते || १५ || ᳚मुग्धा᳚ इति देहात्मनोर्विवेकमजानानाः | अयमेषां भावः -- भूतान्येव हि मृदाद्यवस्थायामचेतनान्यपि सुराकारतया परिणता गुडपिष्टादय इव मदशक्तिं, शरीराकारपरिणतानि चैतन्यं प्रतिपद्यन्ते, कालान्तरे च परिणामविशेषभाक्त्वाच्च तच्छून्यतामुपगच्छन्ति, तावन्तं च कालं चैतन्यानपायात्स्मृत्यनुसन्धानादिव्यवहारनिपुणतया चेष्टन्ते -- इति किमन्येन तदतिरिक्तेनात्मनेति || १५ || एतदधिशयाना एव ᳚चार्वाका᳚ इत्युच्यन्ते -- इत्याह -- तामेव बालमूर्खस्त्रीप्रायवेदितृसंश्रिताम् | मतिं प्रमाणीकुर्वन्तश्चार्वाकास्तत्त्वदर्शिनः || ६-१६ || तामेव मतिमिति, ᳚चैतन्यविशिष्टः कायः पुरुषः᳚ इत्याद्युक्त्या चैतन्यखचितो देह एवात्मा न पुनस्तदतिरिक्तः कश्चित् -- इत्येवंरूपाम् | बालादिसंश्रयेणास्या महाजनानुपसेव्यत्वं दर्शितम् | प्रमाणीकुर्वन्त इति, देहादूर्ध्वमपि यदि कश्चित्तदतिरिक्त आत्मा संभवेत्तत्तस्य पूर्वशरीरमपहाय शरीरान्तरमधितिष्ठत एतच्छरीरशैशवादिदशानुभूतार्थस्मरणवत् पूर्वपूर्वशरीरानुभूतार्थस्मरणमपि भवेत् | न हि तस्य शरीरभेदेऽपि नित्यत्वात्स्मरणविशेषे कारणं किंचिदुत्पश्यामो येनेह जन्मन्येवानुभूतं स्मरति नान्यजन्मानुभूतम् -- इति तस्मादूर्ध्वमन्यः कश्चिन्नात्मास्तीत्येव युक्तम् | यच्छ्रुतिरपि -- ᳚विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु- विनश्यति न प्रेत्य संज्ञास्ति᳚ (बृ.आ.उ. ४|५|१३)
SK
इति | अतश्च परलोकादिचिन्तामपास्य यावज्जीवं सुखमेवासितव्यम् -- इत्येषां तत्त्वमित्युक्तं ᳚तत्त्वदर्शिन᳚ इति | यदाहुः -- ᳚यावज्जीवं सुखं जीवेन्नास्ति मृत्युरगोचरः | भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः ||᳚ इति || १६ || नन्वेवं तत्त्वमनुशीलयतामेषां किं स्यात् ? -- इत्याशङ्क्याह -- तेषां तथा भावना चेद्दार्ढ्यमेति निरन्तरम् | तद्देहभङ्गे सुप्ताः स्युरातादृग्वासनाक्षयात् || ६-१७ || शुप्ता᳚ इति अपवेद्यप्रलयाकलप्राया इत्यर्थः || १७ || तद्वासनाक्षये त्वेषां किं भवेत् ? -- इत्याशङ्क्याह -- तद्वासनाक्षये त्वेषामक्षीणं वासनान्तरम् | बुद्धं कुतश्चित्संसूते विचित्रां फलसम्पदम् || ६-१८ || नन्वेषां सांख्यादिभिरपि साम्यं यत्तेषामप्येवंप्रायैव मुक्तिः, पुनरपि तत्तद्वासनानुसारं विचित्रफलोपभोगस्योदयात् | यद्वक्ष्यति -- शांख्यवेदादिसंसिद्धाञ्छीर्कण्ठस्तदहर्मुखे | सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ||᳚ (तं. ६|१५३) इति | तत्सर्वत्रास्यैव कथमवरतया निर्देशः | यदाहुः -- ᳚चार्वाकास्तु वराकाः प्रतिक्षेप्तव्या एव कः क्षुद्रतर्कस्य तदीयस्येह गणनावसरः᳚ इति | तत्किमेतत् ? -- इत्याशङ्क्याह -- अदार्ढ्यशङ्कनात्प्राच्यवासनातादवस्थ्यतः | अन्यकर्तव्यशैथिल्यात्संभाव्यानुशयत्वतः || ६-१९ || अतद्रूढान्यजनताकर्तव्यपरिलोपनात् | नास्तिक्यवासनामाहुः पापात्पापीयसीमिमाम् || ६-२० ||
SK
यदप्यस्मदपेक्षया दर्शनान्तराणां तुल्यमेव पापत्वं तथापि नास्तिक्यवासनायास्ततोऽप्यतिशयेन पापत्वं, यतः ᳚प्राच्या᳚ अनिषेध्यत्वात्पूर्वभाविनी येयमास्तिक्यवासना तस्यास्तादवस्थ्यं | नहि नास्तिक्यवासनाया दार्ढ्येन प्ररोहोऽस्ति येनैतदुपरमो भवेन्निर्मूलत्वेनादार्ढ्यस्यात्राशङ्क्यमानत्वात् | यथा परं ब्रह्म मूलत्वेनावलम्ब्य प्रपञ्चो मिथ्या -- इत्याद्युच्यमानं दार्ढ्येन प्ररोहमियान्नैवमेतत्; आत्मनो हि नास्तित्वे किमन्यदवशिष्यते यन्नामाजडं मूलभूतमधिकृत्य सर्वमिदं सुव्यवस्थितं स्यात्; जडानामेव च परिणामो भवेदिति न चेतनत्वेनासौ युज्यते -- इत्यन्यैर्बहूक्तमिति तत एवावधार्यम् | अत एवास्तिक्यवासनायास्तादवस्थ्येन ᳚अन्येषां᳚ दर्शनान्तरस्थानाम् ᳚अग्निहोत्रं जुहुयात्᳚, ङ हिंस्यात्सर्वभूतानि᳚ इत्याद्यात्मना विधिनिषेधरूपेण ᳚कर्तव्येन᳚ शैथिल्यमस्या जायते | यदात्मनोऽस्तित्वे यदि कैश्चित्पारलौकिकं किंचिदनुष्ठीयते तद्यावद्दूरे आस्ताम्; आत्मनः पुनर्नास्तित्वेऽप्यन्यैः कुशलप्रवृत्तिरकुशलविरतिश्च क्रियते -- इत्यत्र निमित्तं किंचित्संभवेत्, अन्यथा सर्व एव किमेवं कुर्यः | अस्माकं च किंचिदपि कर्तव्यं नास्ति -- इत्यस्थान एवास्माभिर्भ्रन्तं, किमिदं व्यामूढैरिवासितम् -- इत्येवमात्मा पश्चात्तापोऽप्यत्र संभावनीयस्तस्मिन्नुत्पन्ने सति सुखमेव न्यायोपन्यासकदर्थनां परिहृत्य � शन्दिग्धेऽपि परे लोके त्याज्यमेवाशुभं बुधैः | यदि नास्ति ततः किं स्यादस्ति चेन्नास्तिको हतः ||᳚ इत्यादिना मित्रसंमतेनाप्युपदेशेन तस्यामास्तिक्यवासनाया रूढयान्यया दर्शनान्तरस्थया जनतयावश्यमेवास्याः परिलोपः कार्यः -- इति || २० || तदेवमत्र प्रसक्तानुप्रसक्तिकया परदर्शनकथा मा प्रसाङ्क्षीत् इति प्रकृतमेवानुसरति -- अलमप्रस्तुतेनाथ प्रकृतं प्रविविच्यते | तदेवाह � यावान्समस्त एवायमध्वा प्राणे प्रतिष्ठितः || ६-२१ || द्विधा च सोऽध्वा क्रियया मूर्त्या च प्रविभज्यते |
SK
द्विधेति देशकालभेदेन | तत्र क्रियया कालाध्वा प्रविभज्यते मूर्त्या च देशाध्वा | यदुक्तम् � ᳚मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ | क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः ||᳚ (रि. प्र. २|१|५) इति || २१ || ननु � ᳚अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः | यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते ||᳚ (८|३) इत्यादिवक्ष्यमाणनीत्यास्य संविदि प्रतिष्ठितत्वं युक्तं न जडात्मनि प्राणे ? -- इत्याशङ्क्याह -- प्राण एव शिखा श्रीमत्त्रिशिरस्युदिता हि सा || ६-२२ || बद्धा यागादिकाले तु निष्कलत्वाच्छिवात्मिका | ᳚शिखा परिमिता शक्तिर्भैरवस्य तु कथ्यते | क्रियाशक्तिरिति ख्याता....................... ||᳚ इति || २२ || ननु को नामास्या बन्धो येन यागादौ निष्कलत्वाच्छिवात्मिकेयं स्यात् ? -- इत्याशङ्क्याह -- यतोऽहोरात्रमध्येऽस्याश्चतुर्विंशतिधा गतिः || ६-२३ || प्राणविक्षेपरन्ध्रख्यशतैश्चित्रफलप्रदा | यत्षष्टिघटिकासंख्याकस्य बाह्यस्याहोरात्रस्य मध्येऽस्याः प्राणरूपायाः पारमेश्वर्याः क्रियाशक्तेः प्राणचाराणां रन्ध्रख्यैर्द्वारसंख्याकैर्नवभिः शतैरुपलक्षिता, अत एव चतुर्विंशतिभिः संक्रान्तिलक्षणैः प्रकारैरैहिकामुत्रिकभेदाच्चित्रफलप्रदा गतिरूर्ध्वाधरवाहलक्षणश्चारो भवेदित्यर्थः | अयमत्राभिप्रायः -- इह खलु सर्वप्राणिनां -- ᳚मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् | तथा प्रवर्तते प्राणस्त्वयत्नादेव सर्वदा ||᳚ (स्वटं. ७|५७) इत्याद्युक्त्या स्वरसत एव मध्यमः प्राणो वहति -- इति बाह्येनाहोरात्रेण -- ᳚षट्शतानि वरारोहे सहस्राण्येकविंशतिः | अहोरात्रेण बाह्येन अध्यात्मं तु सुराधिपे ||᳚ (स्वटं. ७|५३) इत्याद्युक्त्यान्तः सषट्शता सहस्रैकविंशतिः प्राणचाराणां भवेत् | तत्र प्रतिघटिकं -- ᳚शतानि त्रीण्यहोरात्राः षष्टिरेव तथाधिकाः | वर्षमेतत्समाख्यातं बाह्ये वैघटिका च सा ||᳚ (स्वटं. ७|५१)
SK
इत्याद्युक्त्या प्राणचाराणां सषष्टिस्त्रिशती -- इति सार्धेन घटिकाद्वयेन नवशतानि भवन्ति, स एव च संक्रान्तीनां प्रत्येकमुदयः | यदुक्तम् -- ᳚चतुर्विंशतिसंक्रान्त्यः समधातोः स्वभावतः | शतानि नव वै हंस एकामेकां वहेत्सदा ||᳚ (स्वटं. ७|१६८) इति | सार्धं च घटिकाद्वयं चतुर्विंशतिधा गुणितं षष्टिर्घटिका भवन्ति -- इत्यहोरात्रमध्ये तत्संख्याकानामुदयः | यदुक्तम् -- ᳚बाह्ये चैव त्वहोरात्रे अध्यात्मं तु वरानने | चतुर्विंशतिसंक्रान्तीः प्राणहंसस्तु संक्रमेत् || अहनि द्वादश प्रोक्ता रात्रौ वै द्वादश स्मृताः |᳚ (स्वटं. ७|१६६) इति | यद्यपीयन्तः प्राणचारा अहोरात्रमध्ये भवन्ति -- इत्येतावदत्र वक्तव्यं, तथापि तथात्वे तेषां गणनामात्रं प्रदर्शितं भवेत् न तु तत्तद्विचित्रफलोदयनिमित्तत्वमपीत्येवमुक्तम् || २३ || नन्वेवंविधः शिखाया बन्धः -- इति वक्तुं प्रस्तुते किमिदमप्रस्तुतमभिधीयते यत्प्राणचाराणामियती गतिरिति | नैतत्, अयमेव हि शिखाबन्धो यत्प्राणशक्तेः प्रतिचारमादिमध्यान्तेष्ववधानेन पुनः पुनः परामर्शनं नाम | यदभिप्रायेणैव -- ᳚षट् शातानि दिवा रात्रौ सहस्राण्येकविंशतिः | जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः ||᳚ (वि. भै. १५६) इत्याद्यन्यत्रोक्तं, तदाह -- क्षपा शशी तथापानो नाद एकत्र तिष्ठति || ६-२४ || जीवादित्यो न चोद्गच्छेत्तुट्यर्धं सान्ध्यमीदृशम् | ऊर्ध्ववक्त्रो रविश्चन्द्रोऽधोमुखो वह्निरन्तरे || ६-२५ || माध्याह्निकी मोक्षदा स्याद् व्योममध्यस्थितो रविः | अनन्तमितसारो हि जन्तुचक्रप्रबोधकः || ६-२६ || बिन्दुः प्राणो ह्यहश्चैव रविरेकत्र तिष्ठति | महासन्ध्या तृतीया तु सुप्रशान्तात्मिका स्थिता || ६-२७ ||
SK
यदात्रैकत्र वामपार्श्वे द्वादशान्ताद्धृदन्तं चरन्क्षपाशशी तिष्ठति हृदये निवृत्तगतिर्भवति प्राणादित्यश्च ततो नोद्गच्छति तदेदृशमपानीयमन्त्यं तुट्यर्धं सान्ध्यं वक्ष्यमाणनीत्योद्गच्छत्प्राणार्काद्यतुट्यर्धसंमीलनया स चतुर्भागाङ्गुलद्वयप्रमाणप्राणचाररूपा प्राभातिकी सन्ध्या भवेदित्यर्थः | यदुक्तं तत्र -- श चन्द्रो विद्यमानोऽपि अपानो हृदि मध्यतः | यदा तूत्सन्नतां याति जीवादित्यो न चोद्गमेत् || प्राभातिकीति विज्ञेया आत्मतत्त्वप्रबोधिनी | क्षपा शशी तथापानो नाद एकत्र तिष्ठति || तुट्यर्धं ज्ञानमहसा सन्ध्या वै समुदाहृता |᳚ इति | तदनन्तरं च यदा प्राणात्मा रविरूर्ध्वमुखत्वेन चरंस्ताल्वाद्यात्मन्यन्तरे स्थितश्चन्द्रश्चापानात्माधोमुखत्वेन -- इति तयोः प्रमाणप्रमेयात्मनोः सङ्घट्टात्प्रमातृरूपो वह्निरुदियात्तदेयं माध्याह्निकी सन्ध्या मोक्षदा स्यात्; यतो मध्यनाडीसंबन्धिनो ᳚व्योम्नः᳚ सुषिरस्य ᳚मध्ये᳚ तालुस्थाने स्थितो बहिर्मुखत्वेन प्रमाणत्वेऽपि प्रमातृरूपस्यानपायादनस्तमितसारो रविर्जन्तुचक्रस्य प्रकर्षेण ᳚बोधकः᳚ प्रमाणप्रमेयमयत्वेऽपि प्रमातृरूपतयावभासक इत्यर्थः | यदुक्तं तत्र -- ᳚ऊर्द्धवक्त्रः स्थितो भानुश्चन्द्रश्चाधोमुखः स्थितः |᳚ इत्युपक्रम्य � ᳚तदन्तराले उदितस्ताल्वाकाशान्तगोचरे | प्रमाणरहितो भाव्यः सुशान्तः शान्तबोधनात् || व्योमवद् व्योमवह्निस्तु तुट्यर्धं कालकल्पनात् | माध्याह्निकी तु विज्ञेया संध्या मोक्षप्रदायिका || व्योममध्यस्थितः सूर्यः परादित्येति कथ्यते | अनस्तमितसारो हि जन्तुचक्रप्रबोधकः ||᳚ इति | तदनन्तरं च बिन्द्वाद्यात्मना रविर्यदैकत्र द्वादशान्ते ᳚तिष्ठति᳚ निवृत्तगतिर्भवति, अर्थाच्चापानचन्द्रश्च नोद्गच्छति तदा निःशेषविश्वोपशमात्स्वप्रशान्तात्मिका, अत एवेयं महती सन्ध्या तृतीया श्थिता᳚ स्वरसोदितत्वेन वर्तमानेत्यर्थः | यदुक्तम् तत्र -- ᳚बिन्दुः प्राणोऽप्यहश्चैव रविरेकत्र तिष्ठति | सुप्रशान्तं तु संतिष्ठेन्मनोव्यावृत्तिवर्जितः ||
SK
कृत्वा प्रशान्तभूमौ च स्वरूपं सन्धिदेशतः | महासन्ध्या तु विज्ञेया तृतीया परिकीर्तिता ||᳚ इति || २७ || एतच्चोपसंहारद्वारेण प्रकृते योजयति -- एवं बद्धा शिखा यत्र तत्तत्फलनियोजिका | एवमुक्तेन प्रकारेण क्रमेण यत्र यागादौ प्राणशक्त्यात्मिका शिखा बद्धा मार्गान्तरखिलीकारेण मध्यधामन्येव निश्चलत्वमापादिता तत्र तस्य तस्य मन्त्रसंनिधानादेः फलस्य नियोजिका भवेदित्यर्थः | तदुक्तं तत्र -- ᳚तया निबद्धया देहे संनिधानं गुणेश्वराः | विदध्युः साधकेन्द्राणां देवि नास्त्यत्र संशयः ||᳚ इति || एवं प्राणः पारमेश्वरी शक्तिरिति तत्र यदध्वनः प्रतिष्ठानमुक्तं तत्संविद्येव पर्यवस्येत् -- इत्याह � अतः संविदि सर्वोऽयमध्वा विश्रम्य तिष्ठति || ६-२८ || नन्वमूर्तायां निष्क्रियायां च संविदि मूर्तः क्रमिकश्चाध्वा कथमास्ते ? -- इत्याशङ्क्याह -- अमूर्तायाः सर्वगत्वान्निष्क्रियायाश्च संविदः | मूर्तिक्रियाभासनं यत्स एवाध्वा महेशितुः || ६-२९ || एवमेवंविधायाः संविदो यन्नाम मूर्तिक्रियात्मनावभासनं स एव भुवनादिरूपो मन्त्रादिरूपो वाऽध्वा न त्वतिरिक्तः कश्चिदाधेयो येनैवमाशङ्का स्यात् || २९ || नन्वत्राध्वशब्दस्य प्रवृत्तौ किं निमित्तम् ? -- इत्याशङ्क्याह -- अध्वा क्रमेण यातव्ये पदे संप्राप्तिकारणम् | द्वैतिनां भोग्यभावात्तु प्रबुद्धानां यतोऽद्यते || ६-३० || ᳚यातव्ये पदे᳚ इति शिवतत्त्वात्मनि | भेददशायां हि तत्तत्तत्त्वोल्लङ्घनक्रमेण षट्त्रिंशं शिवतत्त्वं प्राप्यत्वेनोक्तम् | भोग्यभावादित्यदनीयत्वात्; अधिगतसंवित्तत्त्वा हि सर्वं स्वात्मसात्कुर्वन्तीति भावः | तेनाध्वैवाध्वा, अद्यत इत्यध्वा चेति || ३० || ननु सर्वशब्दानां समयमात्रादेवार्थप्रतिपादनं सिद्ध्येत् -- इति किमत्रान्वर्थस्मरणेन नहि सर्वत्रैवैतत्संभवेत् ? -- इत्याशङ्क्याह - - इह सर्वत्र शब्दानामन्वर्थं चर्चयेद्यतः |
SK
यद्यप्यर्थाभिधाने शब्दानां त्रयी गतिर्यौगिकी रूढा योगरूढा च | तत्रापि यौगिक्या एव प्राधान्यं, सनिमित्तं तत्र तस्याः प्रवृत्तेः, अत एवान्यद्द्वयमत्रैव यथाकथंचिदन्तर्भावनीयं येन सर्वत्रैवान्वर्थचर्चा पारं यायात् || तदाह � उक्तं श्रीमन्निशाचारे संज्ञात्र त्रिविधा मता || ६-३१ || नैमित्तिकी प्रसिद्धा च तथान्या पारिभाषिकी | पूर्वत्वे वा प्रधानं स्यात्तत्रान्तर्भावयेत्ततः || ६-३२ || अतोऽध्वशब्दस्योक्तेयं निरुक्तिर्नोदितापि चेत् | क्वचित्स्वबुद्ध्या साप्यूह्या कियल्लेख्यं हि पुस्तके || ६-३३ || प्रसिद्धेति, सनिमित्तत्वेऽपि क्वचिदेव रूढेः | यदुक्तं तत्र -- शंज्ञा हि त्रिविधा ज्ञेया शिवशास्त्रेषु सर्वदा | पारिभाषिकनैमित्ती सिद्धा चासौ प्रसिद्धिभाक् || इह नैमित्तिकी संज्ञा निमित्तात्तु समागता |᳚ इति | एवमिह सर्वसंज्ञानां निमित्तताप्यवश्यं वाच्येत्यत्रैवमुक्तमित्याह -- ᳚अतो᳚ इति | ननु यद्येवं तत्सर्वत्रैव कस्मादेवं नोक्तमित्याशङ्क्याह ? -- नोदितेत्यादि | कियदिति, नह्यत्र शब्दव्युत्पादनं प्रस्तुतमिति भावः || ३३ || ननु परस्याः संविदो मूर्तिक्रियाभासनमध्वेत्युक्तं तत्र क्रियावभासने कतरोऽध्वा मूर्त्यवभासने च कतरः ? -- इत्याशङ्क्याह -- तत्र क्रियाभासनं यत्सोऽध्वा कालाह्व उच्यते | वर्णमन्त्रपदाभिख्यमत्रास्तेऽध्वत्रयं स्फुटम् || ६-३४ || यस्तु मूर्त्यवभासांशः स देशाध्वा निगद्यते | कलातत्त्वपुराभिख्यमन्तर्भूतमिह त्रयम् || ६-३५ || ननु यदि नाम मूर्तिक्रिययोर्वैचित्र्यावभासाद्देशकालभेदेनाध्वनो द्वैविध्यमुच्यते तदास्तां, तत्रापि प्रत्येकं त्रैविध्ये किं निमित्तम् ? -- इत्याशङ्क्याह -- त्रिकद्वयेऽत्र प्रत्येकं स्थूलं सूक्ष्मं परं वपुः | यतोऽस्ति तेन सर्वोऽयमध्वा षड्वध उच्यते || ६-३६ || तेनेति, स्थूलसूक्ष्मपरत्वेन पदवर्णमन्त्रात्मतया भुवनतत्त्वकलात्मतया च प्रत्येकं त्रैविध्येन हेतुनेत्यर्थः | यदुक्तम् -- ᳚पदानि मन्त्रारब्धानि मन्त्रा वर्णैकविग्रहाः |
SK
वर्णाः स्वनिष्ठा इत्येषां स्थूलसूक्ष्मपरात्मता ||᳚ इति | तथा ᳚भुवनव्यापिता तत्त्वेष्वनन्तादिशिवान्तके |᳚ (स्व. ४|९६) इति | तथा कलान्तर्भाविनस्ते वै निवृत्त्याद्यास्तु ताः कलाः || (स्वटं. ४|९७) इति || ३६ || तत्र प्रस्तुतं कालाध्वानं तावदवतारयति -- षड्वधादध्वनः प्राच्यं यदेतत् त्रितयं पुनः | एष एव स कालाध्वा प्राणे स्पष्टं प्रतिष्ठितः || ६-३७ || प्राच्यमिति पूर्वोद्दिष्टं पदमन्त्रवर्णाख्यम् | ᳚प्राण᳚ इत्युपलक्षणं, तेनापानादावप्येवमेव || ३७ || नन्वेवं क्रमाक्रमात्मा काल उक्तः स एव किं तत्त्वानामन्तः परिगणितो न वा ? -- इत्याशङ्क्याह -- तत्त्वमध्यस्थितात्कालादन्योऽयं काल उच्यते | अन्यस्तद्वैलक्षण्यात् || तदेवाह -- एष कालो हि देवस्य विश्वाभासनकारिणी || ६-३८ || क्रियाशक्तिः समस्तानां तत्त्वानां च परं वपुः | ᳚परं वपुः᳚ इत्युत्पत्तिस्थानम्, अत एव ᳚विश्वावभासनकारिणी᳚ इत्युक्तम् || ३८ || ननु परस्याः संविदो विश्वावभासकारित्वं नाम बहिरुन्मेष उच्यते तदेवमस्येश्वररूपत्वमुक्तं स्यादित्याह -- एतदीश्वरतत्त्वं तच्छिवस्य वपुरुच्यते || ३९ || उद्रिक्ताभोगकार्यात्मविश्वैकात्म्यमिदं यतः | ᳚तत्᳚ तस्माद् बहिरुन्मेषलक्षणाद्विश्वावभासकारित्वाद्धेतोरेतदीश्वरतत्त्वमुच्यते, कालात्मनः क्रियाशक्तेरेवैतद्विश्वकलनात्मकत्वं बहिर्मुखं रूपमित्यर्थः | ननु मायादीनामप्येवं रूपं संभाव्यते, इत्येतदेव कथमुक्तमित्याशङ्क्याह -- ᳚शिवस्य वपुः᳚ इति | बहिरौन्मुख्येऽपि स्वात्मन्येव विश्रान्तं, यत इदं बहिर्मुखत्वस्य धाराधिरूढत्वादुद्रिक्ताभोगम्, अत एव कार्यात्म यद्विश्वं तस्य ᳚इदमहम्᳚ इति प्रतीतेः ᳚एकात्म्यं᳚ स्वात्मसात्कार इत्यर्थः | अत एव भेदाभेददशेयमिति सर्वैरुद्घोष्यते || ३९ || नन्वेवमनेनैव विकलनात्कालतत्त्वस्य पृथक् परिगणनं न प्राप्तमिति, ᳚एवं कालः प्रसर्तव्यस्तच्च तत्त्वमनिन्दितम् |᳚ इत्यादिश्रुतिविरोध आपतेदिति किमेतत् ? -- इत्याशङ्क्याह -- एतदीश्वररूपत्वं परमात्मनि यत्किल || ६-४० ||
SK
तत्प्रमातरि मायीये कालतत्त्वं निगद्यते | ननु मायाप्रमातरि किमेवं कालतत्त्वमेवोत तत्त्वान्तराण्यपि -- इत्याशङ्क्याह -- शिवादिशुद्धविद्यान्तं यच्छिवस्य स्वकं वपुः || ६-४१ || तदेव पंसो मायादिरागान्तं कञ्चुकीभवेत् | शिवादीत्यनेन शिवशब्देनानाश्रितभट्टारक उक्तः | स्वकं वपुरित्या नन्दादिशक्तिरूपत्वात् | ᳚पुंसः᳚ इति शिवस्यैव स्वस्वातन्त्र्याद् गृहीतपशुभावस्येत्यर्थः || ४१ || एतदेव विभजते � अनाश्रितं यतो माया कलाविद्ये सदाशिवः || ६-४२ || ईश्वरः कालनियती सद्विद्या राग उच्यते | यदुक्तम् � ᳚शक्त्यादिस्तत्त्ववर्गस्तु कञ्चुकत्वेन वै पशोः | शक्तिर्माया कला विद्या कालो नियतिरेव च || सदाशिवेश्वरौ विद्या रागस्तु वरवर्णिनि |᳚ इति || ४२ || न केवलमेषामेवंरूपत्वमेव यावत्प्रमातृत्वमपि -- इत्याह -- अनाश्रितः शून्यमाता बुद्धिमाता सदाशिवः || ६-४३ || ईश्वरः प्राणमाता च विद्या देहप्रमातृता | नन्वेषां शून्यादिप्रमातृत्वे किं निमित्तम् ? -- इत्याशङ्क्याह -- अनाश्रयो हि शून्यत्वं ज्ञानमेव हि बुद्धिता || ६-४४ || विश्वात्मता च प्राणत्वं देहे वेद्यैकतानता | शून्यमिति, विश्वोच्छेदात् | ज्ञानमिति, सदाशिवस्य ज्ञानशक्तिप्राधान्यात् | ᳚विश्वात्मता᳚ इति बहिरुन्मेषरूपत्वात् | वेद्यैकतानतेति, तत्रैवाभिष्वङ्गात् || ४४ || एवं प्राणे विश्वात्मत्वमस्ति -- इति तदेवात्र संप्रत्यभिधीयते -- इत्याह -- तेन प्राणपथे विश्वाकलनेयं विराजते || ६-४५ || येन रूपेण तद्वच्मः सद्भिस्तदवधीयताम् | येन रूपेणेति, कालात्मना || ४५ || ननु प्राणस्य सर्वशरीव्यापकत्वेनावश्यमवस्थानमस्ति, अन्यथा हि कानिचिदङ्गानि स्तम्भादिवत्स्तब्धान्येव भवेयुः, तदस्य श्रीस्वच्छन्दशास्त्रादौ हृदयादारभ्यैव चारः कस्मादुक्त ? -- इत्याशङ्क्याह � द्वादशान्तावधावस्मिन्देहे यद्यपि सर्वतः || ६-४६ || ओतप्रोतात्मकः प्राणस्तथापीत्थं न सुस्फुटः | इत्थमिति, ओतप्रोतत्वेन | न सुस्फुट इति -- सर्वत्रैव देहे; क्वचिद्धि शरीरे सुस्फुटत्वेन प्राणोऽवभासते क्वचिच्चास्फुटत्वेनेति || ४६ ||
SK
अत एवाह � यत्नो जीवनमात्रात्मा तत्परश्च द्विधा मतः || ६-४७ || संवेद्यश्चाप्यसंवेद्यो द्विधेत्थं भिद्यते पुनः | स्फुटास्फुटत्वाद् द्वैविध्यं प्रत्येकं परिभावयेत् || ६-४८ || ᳚यत्न᳚ इति प्राणीयः स्पन्दः | जीवनमात्रात्मेति, स्वारसिको येनावयवानां स्तब्धतैव न स्यात् | तत्पर इच्छापूर्वकः | प्रत्येकमिति, चतुर्णां द्वैविध्येऽष्टधा प्राणीयो यत्न इति सिद्धम् || ४८ || तत्र स्वारसिकः प्राणीयो यत्नः कन्दात्प्रभृत्येव संवेद्यते किंत्वस्फुटत्वेन -- इत्याह -- संवेद्यजीवनाभिख्यप्रयत्नस्पन्दसुन्दरः | प्राणः कन्दात्प्रभृत्येव तथाप्यत्र न सुस्फुटः || ६-४९ || यदभिप्रायेणैव श्रीस्वच्छन्दशास्त्रे ततः प्रभृति प्राणादेरवस्थानमुक्तम् -- इत्याह -- कन्दाधारात्प्रभृत्येव व्यवस्था तेन कथ्यते | स्वच्छन्दशास्त्रे नाडीनां वाय्वाधारतया स्फुटम् || ६-५० || तेनेति, प्राणस्य संवेद्यत्वेन हेतुनेत्यर्थः | यदुक्तं तत्र � ङाभ्यधो मेढ्रकन्दे च स्थिता वै नाभिमध्यतः | तस्माद्विनिर्गता नाड्यस्तिर्यगूर्ध्वमधः प्रिये ||᳚ (स्वटं. ७|८) इति || ५० || ननु यद्येवं तत्तत्रैव -- ᳚हृच्चकेर् तु समाख्याताः साधकानां हितावहाः | प्राणो वै चरते तासु अहोरात्रविभागतः || तथा ते कथयिष्यामि प्रविभज्य यथा स्फुटम् |᳚ (स्वटं. ७|२१) इत्यादिना हृदयात्प्रभृति वितत्य पुनः प्राणचारः कस्मादुक्त ? -- इत्याशङ्क्याह -- तत्रापि तु प्रयत्नोऽसौ न संवेद्यतया स्थितः | ᳚तत्र᳚ कन्दाधारे ह्यसावपीच्छापूर्वकः प्रयत्नो न स्फुटं संवद्यते -- इति न तत्र वितत्य प्राणचार उक्तः | न हि स्वारसिकेन प्राणचारेणोक्तेन किंचित्फलं, स्वेच्छया हि चारितः प्राणस्तत्तत्सिद्धिनिमित्तं योगिनां स्यात् यदर्थमेवमुपदेशः | तच्च हृदयात्प्रभृत्येव भवेत् -- इति तत्रैवासौ तथा निर्दिष्टः || एतच्चास्माभिरप्येवमेवोच्यते -- इत्याह -- वेद्ययत्नात्तु हृदयात्प्राणचारो विभज्यते || ५१ ||
SK
वेद्ययत्नादिति, अर्थादिच्छापूर्वकस्य | ᳚विभज्यते᳚ इति तुट्याद्यात्मना विभागेनोच्यत इत्यर्थः || ५१ || ननु व्यापकत्वात्सर्वत्राविशेषेऽपि प्राणनस्य क्वचित्स्फुटं तदीयो यत्नः संवेद्यते, क्वचिच्चान्यथेत्यत्र किं निमित्तम् ? -- इत्याशङ्क्याह - - प्रभोः शिवस्य या शक्तिर्वामा ज्येष्ठा च रौद्रिका | सतदन्यतमावात्मप्राणौ यत्नविधायिनौ || ६-५२ || इह खलु परमेश्वरसंबन्धिन्या तासां वामादीनां मध्यादन्यतमया शक्त्या सहभूतावात्मप्राणौ यत्नविधायिनौ, प्रभुशक्तिरात्मा प्राणश्चेति त्रयः संमिलिताः प्राणस्पन्दं विदधतीत्यर्थः | यदुक्तम् -- ᳚तत्रात्मा प्रभुशक्तिश्च वायुर्वै नाडिभिश्चरन् |᳚ (स्व.७|७) इति || ५२ || एवमेषां समानेऽपि यत्नविधायित्वे क्वचित्कस्यचिन्मुख्यत्वम् -- इत्याह -- प्रभुशक्तिः क्वचित्कन्दसङ्कोचस्पन्दने यथा | प्राणशक्तिः क्वचिन्मुख्या यथाङ्गमरुदीरणे || ६-५३ || आत्मशक्तिः क्कचित्प्राणचारे हार्दे यथा स्फुटम् | त्रयं द्वयं वा मुख्यं स्याद्योगिनामवधानिनाम् || ६-५४ || ᳚अङ्गमरुदीरणे᳚ चक्षुःस्फुरणादौ | अत्र हि भाविशकुनाशकुनप्रकाशनाद्यर्थं प्रभुशक्तेरेव प्राधान्येन प्राणस्पन्दने कर्तृत्वम् | ᳚कन्दस्य᳚ आनन्देन्द्रियस्य सङ्कोचे विकासात्मनि स्पन्दने चात्मन एव प्राधान्यं, तत्र हि तदिच्छैव निबन्धनम् | हृदि च प्राधान्येन प्राणस्यैव स्वरसवाहित्वात्स्पन्दने कर्तृत्वम्, एतद् द्वयं पुनः सर्वत्रैव गुणभावेन स्थितमन्यथैवंभावाभावात् | एवमेषां स्वारसिकत्वेन गौणमुख्यभावमुक्त्वा प्रायत्निकत्वेनाप्यभिधत्ते ᳚त्रयम्᳚ इत्यादिना | योगिनो हि तत्तत्फलेप्सवो यत्रैवावधानातिशयात्प्राणं योजयन्ति, तत्रैवात्मानं प्रभुशक्तिं तदन्यतमं वेति || ५४ || न केवलमेषां गौणमुख्यभावो भवेद्यावदन्यथापि -- इत्याह -- अवधानाददृष्टांशाद् बलवत्त्वादथेरणात् | विपर्यर्योऽपि प्राणात्मशक्तीनां मुख्यतां प्रति || ६-५५ ||
SK
अवधानाद्यथा योग्यपि स्वावधानेनैव चक्षुः स्फारयेत् -- इत्यत्रात्मनः प्राधान्यम्| अदृष्टांशाद्यथा गवामपि जन्मान्तरीयसंस्कारवशात् स्वारसिक्यैव प्राणशक्त्या नियतमङ्गं स्फुरेत् येनात्र तस्या एव प्राधान्यम् | बलवत्त्वाद्यथा मल्लादीनां श्रमाद्यभ्यासादायत्तीकृतया प्राणशक्त्यैव तत्तत्प्लुत्यादिसिद्धिः | ईरणाद्यथा वाताभिभूतानां प्राणस्य बलवत्त्वेऽपि प्रभुशक्त्यैव तत्तदङ्गपरिस्पन्दो भवेत् -- इति तस्या एव मुख्यत्वम् | एवमेषां यत्रैवोद्रिक्तत्वेनावस्थानं तत्रैव प्राणीयस्यापि यत्नस्य स्फुटतया संवेद्यत्वमन्यथा पुनरतथात्वमिति सिद्धम् || ५५ || ननु प्रभुशक्तिर्यद्यात्मप्राणाभ्यां सह प्राणीयं यत्नं विदधाति तदस्तु, तस्यास्तु त्रैविध्यं किमर्थमुक्तम् ? -- इत्याशङ्क्याह -- वामा संसारिणामीशा प्रभुशक्तिर्विधायिनी | ज्येष्ठा तु सुप्रबुद्धानां बुभुत्सूनां च रौद्रिका || ६-५६ || ᳚विधायिनी᳚ इत्यर्थात्प्राणीयं यत्नं विदधातीति || ५६ || अत्र किं निमित्तम् ? -- इत्याशङ्क्याह -- वामा संसारवमना ज्येष्ठा शिवमयी यतः | द्रावयित्री रुजां रौद्री रोद्ध्री चाखिलकर्मणाम् || ५७ || वामाद्या किं प्राभव्यः शक्तयः सृष्टिसंहारस्थित्यात्मिकाः -- इति तथैषां प्राणीयं यत्नं विदधति यथा संसारिणामधोधःपातो भवेत्, सुप्रबुद्धानां शिवीभावापत्तिर्बुभुत्सूनां च शिवीभावौन्मुख्येन संसार एवावस्थानमिति | तदुक्तम् -- ᳚अणुं स्वरूपदृश्वानं वामाधो विनिपातयेत् | रौद्री सांसारिकानन्दं कदाचिद्वितरेदपि || ज्येष्ठा स्वातन्त्र्यलेशं तु तनुते ज्ञानकर्मणोः |᳚ इति || ५७ || नन्वेतत्स्वरसत एव सिद्ध्येदिति किमनेनैवमुपदिष्टेन ? -- इत्याशङ्क्याह -- सृष्ट्यादितत्त्वमज्ञात्वा न मुक्तो नापि मोचयेत् | नन्वत्र किं प्रमाणम् ? -- इत्याशङ्क्याह -- उक्तं च श्रीयोगचारे मोक्षः सर्वप्रकाशनात् || ६-५८ || सर्वप्रकाशनादिति, सर्वस्य सृष्ट्यादेर्यथातत्त्वं परिज्ञानादित्यर्थः | नहि तदतिरिक्तमन्यत्किंचित्संभवेदिति भावः || ५८ || अत एवाह --
SK
उत्पत्तिस्थितिसंहारान् ये न जानन्ति योगिनः | न मुक्तास्ते तदज्ञानबन्धनैकाधिवासिताः || ६-५९ || ᳚तदज्ञानं᳚ सृष्ट्यादितत्त्वासंवित्तिः || ५९ || ततश्च प्रकृते किम् ? -- इत्याशङ्क्याह -- सृष्ट्यादयश्च ते सर्वे कालाधीना न संशयः | स च प्राणात्मकस्तस्मादुच्चारः कथ्यते स्फुटः || ६-६० || कालाधीना इति, सृष्टिः स्थितिः संहारश्चेति क्रमात्मकत्वात् | ᳚उच्चारः᳚ इति प्राणचारः, तत्कथनेन हि सृष्ट्यादीनां यथातत्त्वं परिज्ञानं भवेदिति भावः || ६० || तदाह � हृदयात्प्राणचारश्च नासिक्यद्वादशान्तः | षट्त्रिंशदङ्गुलो जन्तोः सर्वस्य स्वाङ्गुलक्रमात् || ६-६१ || नसते कुटिलं गच्छतीति नासिका शक्तिः, तस्या इदं (अयं) ङासिक्यः᳚ शाक्तो द्वादशान्तः | तदुक्तम् � ᳚षट्त्रिंशाङ्गुलश्चारो हृत्पद्माद्यावशक्तितः |᳚ (स्वटं. ४|२३५) इति || ६१ || ननु यद्येवं तदतिक्षुद्रे मशकादिसंबन्धिन्यतिमहति वा हस्त्यादिसत्के देहे कथमेतत्सङ्गच्छते? -- इत्याशङ्क्याह -- क्षोदिष्ठे वा महिष्ठे वा देहे तादृश एव हि | ᳚तादृशः᳚ षट्त्रिंशदङ्गुल एव किन्तु स्वाङ्गुलापेक्षया || न च सर्वस्य जन्तोः प्राणचार एव समो यावद्वीर्यादयोऽपि -- इत्याह -- वीर्यमोजो बलं स्पन्दः प्राणचारः समं ततः || ६-६२ || अयमत्राशयः -- संविद एव ह्ययं स्फारो यत्क्षोदिष्ठो महिष्ठो वा जन्तुवर्गः समुज्जृम्भते, न च तस्याः क्वचित्कश्चिद्विशेषः | यदुक्तम् - - ᳚यैव चिद् गगनाभोगभूषणे भाति भास्वति | धराविवरकोशस्थे सैव चित्कीटकोदरे ||᳚ (वासिष्ठे) इति | तदाहिताश्च वीर्यादयः -- इति तेषामपि विशेषे न किंचिन्निमित्तमुत्पश्यामः | यत्पुनरेषां तारतम्यमभिलक्ष्यते तत्र कर्मवैचित्र्यमपराध्यति, यत्पुंसामप्यन्योन्यापेक्षया वीर्याद्यतिशाययतीति || ६२ || एवं सपीठिकाबन्धं प्राणस्य चारमानमभिधाय तदानन्तर्येणानुजोद्देशोद्दिष्टमहोरात्राद्यपि विभक्तुमपक्रमते -- षट्त्रिंशदङ्गुले चारे यद् गमागमयुग्मकम् | नालिकातिथिमासाब्दतत्सङ्घोऽत्र स्फुटं स्थितः || ६-६३ ||
SK
᳚गमागमौ᳚ प्राणापानारूपावारोहावरोहौ | तच्छब्देन नालिकादीनां सर्वेषामेव परामर्शः || ६३ || एतदेव क्रमेण विभजते -- तुटिः सपादाङ्गुलयुक्प्राणस्ताः षोडशोच्छ्वसन् | निःश्वसंश्चात्र चषकः सपञ्चांशेऽङ्गुलेऽङ्गुले || ६-६४ || श्वासप्रश्वासयोर्नाली प्रोक्ताहोरात्र उच्यते | नवाङ्गुलाम्बुधितुटौ प्रहरास्तेऽब्धयो दिनम् || ६-६५ || निर्गमेऽन्तर्निशेनेन्दू तयाः संध्ये तुटेर्दले | सचतुर्भागमङ्गुलयुग्मं तुटिरुच्यते -- इति तत्षोडशधा गुणितं षट्त्रिंशदङ्गुलानि भवन्तीत्युक्तं ᳚प्राणस्ताः षोडशोच्छ्वसन्᳚ इति | अपानवाहेऽप्येवमित्युक्तम् ङिश्वसंश्चेति᳚ तेनोभयत्र द्वात्रिंशत्तुटयः | यदुक्तम् � ᳚प्राणापानाश्रिते वाहे द्वात्रिंशत्तुटयः स्थिताः |᳚ इति | तथात्र षट्त्रिंशदङ्गुलात्मनि प्राणचारे सपञ्चभागमङ्गुलं प्रति चषकः -- इति त्रिंशद्धा विभक्ते प्राणवाहे त्रिंशच्चषका भवन्ति, एवमपानवाहेऽपि � इति प्राणापानोभयमीलनेन चषकषष्ट्यात्मनो घटिकाया उदयः -- इत्युक्तं ᳚श्वासप्रश्वासयोर्नाडी प्रोक्ता᳚ इति | ङिर्गमे᳚ प्राणस्य बहिरुल्लासे, ङवाङ्गुलाम्बुधितुटौ᳚ नवाङ्गुलिस्थानासु चतसृषु तुटिषु प्रहरो, नवस्वङ्गुलीष्वसावुदेतीत्यर्थः | यदुक्तम् -- ᳚................... प्रहरः स्यान्नवाङ्गुलः |᳚ इति | ᳚ते᳚ इति नवाङ्गुलिमानाः प्रहराः ᳚अब्धयः᳚ चत्वारः, अन्तरित्यर्थादपानस्योदये| एवं निशापि चत्वारः प्रहराः | तदुक्तम् -- ᳚अहोरात्रस्त्वथोऽष्टभिः.................|᳚ (स्वटं. ७|२८) इति | तावेव च प्राणापानौ ᳚इनेन्दू᳚ सूर्याचन्द्रमसौ भवत इत्यर्थः | यदुक्तम् -- ᳚वासरे तु चरेत्सूर्यो धारायां सञ्चरञ्छशी | चन्द्रसूर्योदयो ह्येष............................. ||᳚ (स्वटं. ७|४०) इति | तयोः प्राणापानरूपयो रात्रिदिनयोरर्थाद्द्वादशान्ते हृदि च तुटेर्दले संध्ये | सायंप्रातःसंध्ययोः प्रत्येकं प्राणीयस्यापानीयस्य चान्त्यस्यान्त्यस्य च तुट्यर्धस्य संमेलनया सकलैव तुटिरुदयस्थानमित्यर्थः | अत एव संध्ययोस्तुटिद्वयमहोरात्रस्य च त्रिंशत्तुटयः | यदाहुः --
SK
शंध्याकालं विना त्रिंशत्तुटिकोऽहोरात्रः |᳚ इति | यत्तु � ᳚चतुर्थान्ते च देवेशि प्राणसूर्यः सदास्तगः | ततोऽस्तमयसंध्यात्र तुट्यधर्ं तु भवेत्प्रिये ||᳚ (स्वटं. ७|३६) इति | तथा ᳚हृत्पद्मं तु यदा प्राप्तः प्रभातसमयस्तदा | तुट्यर्धं तु वरारोहे पूर्वसंध्या भवेत्ततः ||᳚ (स्वटं. ७|३९) इत्याद्युक्तं तत्केवलमेव प्राणवाहमधिकृत्यापानवाहं चेत्यधिगन्तव्यम् | एवं ᳚शक्तेर्मध्योर्ध्वभागे तु तुट्यर्धं यत्प्रकीर्तितम् | पक्षसन्धिस्त्वसौ ज्ञेयः.......................... ||᳚ (स्वटं. ७|६८) इत्यादौ पक्षसन्धिग्रन्थेऽप्ययमेवाशयो योज्यः | अन्यथा ह्येका तुटिरकृतविनियोगा स्यात् || ६५ || न केवलमत्र सूर्याचन्द्रमसोरेवोदयो यावद् ग्रहान्तराणामपि -- इत्याह -- केतुः सूर्ये विधौ राहुर्भौमादेर्वारभागिनः || ६-६६ || प्रहरद्वयमन्येषां ग्रहाणामुदयोऽन्तरा | केतुः सूर्येऽन्तर्भवति, एवं विधौ राहुः | तेन य एव सूर्याचन्द्रमसोरुदयः स एवानयोरित्यर्थः | यदुक्तम् -- ᳚राहुश्चरति सोमेन केतुश्चरति भास्वता |᳚ (स्वटं. ७|४२) इति | वारभागिनः पुनर्भौमादेर्ग्रहस्य प्रहरद्वयमुदयस्तस्य प्रत्यहोरात्रामाद्यन्तार्धप्रहरचतुष्टयोपभोगात्, अन्येषां षष्ठपञ्चमानां ग्रहाणामन्तरा प्रहरं प्रहरं प्रत्येकमुदयः प्रत्यहोरात्रमर्धप्रहरद्वयोपभोगात् | तदुक्तम् � ᳚पूर्वोऽष्टभागो दिवसाधिपस्य तथैव चान्ते दिवसस्य विद्यात् | शेषाः ग्रहाः षट्परिवर्तनेन भुञ्जन्ति होरां निशि पञ्चमेन ||᳚ इति || ६६ || अत्रैव प्रथमार्धप्रहरादारभ्य क्रमेण फलं निर्दिशति -- सिद्धिर्दवीयसी मोक्षोऽभिचारः पारलौकिकी || ६-६७ || एहिकी दूरनैकट्यातिशया प्रहराष्टके | सिद्धिर्दवीयसीत्यादिना सप्त भेदाः || ६७ || ननु संध्यायाश्चतुर्धोदयोऽपि कथं द्विधैवोक्त ? -- इत्याशङ्क्याह - - मध्याह्नमध्यनिशयोरभिजिन्मोक्षभोगदा || ६-६८ || अभिजयति सर्वान्विघ्नानित्यभिजिन्नक्षत्रविशेषः | यदुक्तम् -- ᳚मध्याह्ने चार्धरात्रे च उदयोऽभिजितो भवेत् |
SK
अभीप्सितं फलं तत्र साधकानां भवेदिह ||᳚ (स्वटं. ७|४७) इति | स च तालुनि, इत्यधिगन्तव्यम् | यदुक्तम् -- ᳚..............ंअध्याह्नस्तालुमध्यतः |᳚ (७|३३) इति || ६८ || न केवलमत्राभिजित एवोदयो यावदश्विन्यादीनामपि -- इत्याह -- नक्षत्राणां तदन्येषामुदयो मध्यतः क्रमात् | ᳚तदन्येषाम्᳚ इति राशितारादीनाम् | यदुक्तम् ᳚ऋक्षाणिराशयश्चैव तारास्त्वंशास्तथैव च | प्राणे वै उदयन्त्येते अहोरात्रेण सुव्रते ||᳚ (स्वटं. ७|३१) इति | अत्र च नक्षत्राणां सत्रिभागमङ्गुलमुदयस्थानम्, एवमन्येषामपि संख्यानुसारमुदयस्थानं परिकल्पनीयम् | प्रहराष्टके च न नक्षत्राणामेवोदयोऽपि त्वन्येषामपि -- इत्याह -- नागा लोकेशमूर्तीशा गणेशा जलतत्त्वतः || ६-६९ || प्रधानान्तं नायकाश्च विद्यातत्त्वाधिनायकाः | सकलाद्याश्च कण्ठ्योष्ठ्यपर्यन्ता भैरवास्तथा || ६-७० || शक्तयः पारमेश्वर्यो वामेशा वीरनायकाः | अष्टावष्टौ ये य इत्थं व्याप्यव्यापकताजुषः || ६-७१ || स्थूलसूक्ष्माः क्रमात्तेषामुदयः प्रहराष्टके | ङागा᳚ इत्यनन्ताद्याः | यदुक्तम् -- ᳚इनस्त्वनन्त इत्युक्तः सोमो वासुकिरुच्यते | तक्षकः कुज इत्युक्तः कार्कोटः सोमजो भवेत् || सरोजो गुरुराख्यातो महाब्जः शुक्र उच्यते | शङ्खो मन्दगतिर्ज्ञेयः सप्त नागा ग्रहाः क्रमात् || अष्टमः कुलिको नाम राहुः क्रूरग्रहो भवेत् |᳚ इति | एषां च ग्रहवदेव षट्परिवृत्त्यादिक्रमेणोदयः किन्तु कुलिकस्य शङ्खवन्मन्दगतिनैव सहोदयः | यदुक्तम् � ᳚शनैश्चरस्य यः कालस्तं भुङ्क्ते कुलिकः प्रिये | सोऽपि दुष्टः समाख्यातः सर्वकर्मस्वसिद्धिदः ||᳚
SK
इति | लोकेश्वरादीनां पुनराद्यार्धप्रहरक्रमेणैवोदयोऽन्यथा सप्तानां ग्रहाणामष्टकैः सह सङ्गत्ययोगात् | एते च सर्व एवाष्टका भुवनाध्वनि वक्ष्यन्तं -- इति तत एवावधार्याः � इति किं तद्व्यावर्णनग्रन्थविस्तरेण | व्याप्यव्यापकत्वे स्थूलसूक्ष्मत्वं हेतुः, हि सूक्ष्मेण व्याप्यत इति भावः | यथा ग्रहाणां नागा व्यापकास्तेषामपि लोकेश्वराः इत्याद्युत्तरोत्तरम् अत एव क्रमादित्युक्तम् | तदुक्तम् � ᳚ये ग्रहास्ते च वै नागा लोकपालाष्टकं च ते | मूर्तयश्चैव ते चाष्टावष्टौ ते च गणेश्वराः ||᳚ (स्वटं. ७|४३) इत्यादि | एवमनेन ᳚तेन प्राणपथे विश्वाकलनेयं विराजते ||᳚ (तं. ६|४५) इत्यादि यदुक्तं तत्स्मारितमित्यवसेयम् || ७१ || ननु यत्र प्रहराष्टके फलभेद उक्तस्तत्र दिननिशयोः कथं न ? -- इत्याशङ्क्याह -- दिने क्रूराणि सौम्यानि रात्रौ कर्माण्यसंशयम् || ६-७२ || ननु ᳚वासनाभेदतः प्राप्तिः संध्यमन्त्रप्रचोदिता |᳚ इत्यादिदृशानुसन्धानभेदेन फलमपि भिद्यते -- इति कथमेवं नियम एव भवेत् ? -- इत्याशङ्क्याह -- क्रूरता सौम्यता वाभिसन्धेरपि निरूपिता | तेन कदाचिद्व्यत्ययोऽपि भवेदिति भावः || ननु संध्याद्वयस्य फलं निर्दिष्टं सायंप्रातःसंध्ययोः पुनः किं न ? -- इत्याशङ्क्याह -- दिनरात्रिक्षये मुक्तिः सा व्याप्तिध्यानयोगतः || ६-७३ || ते चोक्ताः परमेशेन श्रीमद्वीरावलीकुले | ᳚दिनरात्रिक्षये᳚ इति सायंप्रातःसन्ध्ययोः | ᳚ते᳚ इति व्याप्तिध्यानादयः || ७३ || तदेव पठति � सितासितौ दीर्घह्रस्वौ धर्माधर्मौ दिनक्षपे || ६-७४ || क्षीयेते यदि तद्दीक्षा व्याप्त्या ध्यानेन योगतः | अहोरात्रः प्राणचारे कथितो मास उच्यते || ६-७५ ||
SK
यदि नाम प्राणापानरूपौ सितासितौ परस्परव्यावृत्त्या वर्तमानौ दीर्घह्रस्वादिशब्दव्यपदेश्यौ शुभाशुभौ पक्षौ ᳚क्षीयेते᳚ अपोहात्मविकल्परूपताघट्टनेन निर्विकल्पात्मपरसंविद्रूपत्वेन परिस्फुरतस्तदेव व्याप्त्या ध्यानेन योगेन च दीक्षा, ज्ञानयोगक्रियात्मिकया दीक्षया निर्यन्त्रणमेव मुक्तिर्भवेदित्यर्थः | एतदेव हि व्याप्तिध्यानयोगानां मुख्यं रूपं यत्सितासितादिपक्षयोः प्रक्षयो नामेति | तदुक्तं तत्र -- शितासितौ च यौ पक्षौ दीघह्रस्वौ च कीर्तितौ | धर्माधर्ममयौ पाशौ महाघोरौ भयानकौ || द्वयोर्यत्र भवेच्छेदः क्षयेन्माया तु योगिनी | क्षये शून्यं परं ज्ञेयं दीक्षा ह्येषा प्रकीर्तिता || नान्यथा भवते दीक्षा रजसां पातने न तु | नैव शास्त्रैर्भवेन्मुक्तिर्यजने नैव याजने || एषा ब्रह्मविदां दीक्षा नान्यथा तु वदाम्यहम् |᳚ इति | तथा शितासितौ कथिष्यामि (वदिष्यामि) नामपर्यायवाचकैः |᳚ इत्युपक्रम्य ᳚अहः शुक्लस्तथा प्राणः....................|᳚ इति | ᳚अधर्मश्च क्षपा चैव..........................|᳚ इति एवमहोरात्रमुपसंहृत्य मासमवतारयति ᳚अहोरात्र᳚ इत्यादिना || ७५ || तमेवाह � दिनं कृष्णो निशा शुक्लः पक्षौ कर्मसु पूर्ववत् | पूवर्वदिति, रात्रिन्दिनवत् | तेन कृष्णपक्षे क्रूराणि कर्माण्यन्यत्र च सौम्यानीति | तदुक्तम् � ᳚क्रूरकर्माणि तत्रैव कुर्वन्सिद्धिमवाप्नुयात् | शुभकर्माणि कृष्णे च न च सिद्ध्यन्ति सुव्रते ||᳚ इति | तथा ᳚तदारभ्य च कर्माणि शुभान्याभ्युदयानि च | ध्यानमन्त्राभियुक्तस्य सिद्ध्यन्ते नात्र संशयः ||᳚ इति || तत्त्रैव तिथिभागमाह -- याः षोडशोक्तास्तिथयस्तासु ये पूर्वपश्चिमे || ६-७६ || तयोस्तु विश्रमोऽर्धेऽर्धे तिथ्यः पञ्चदशेतराः |
SK
उक्ता इति, प्राणवाहेऽपानवाहे वा | तयोरिति, पूर्वपश्चिमयोस्तुट्योः | विश्रम इति, पक्षसंधित्वेन वक्ष्यमाणः | अर्धेऽर्ध इति, प्राणीयेऽपानीये च | तयोश्च संमेलनात्तुटिर्विश्रमस्थानं स्यान्नतु तुट्यर्धम् | ᳚इतरा᳚ इति हृदि द्वादशान्ते च विश्रमस्थानत्वेनार्धार्धिकयोक्तायाः षोडश्यास्तुटेरन्या इत्यर्थः | यदुक्तम् -- ᳚तुट्यर्धं चाप्यधश्चोर्ध्वं विश्रमः परिकीर्तितः | मध्ये पञ्चदशोक्ता यास्तिथयस्ताः प्रकीर्तिताः ||᳚ (७|६१) इति || ७६ || अत्राप्यहोरात्रविभागमाह -- सपादे द्व्यङ्गुले तिथ्या अहोरात्रो विभज्यते || ६-७७ || प्रकाशविश्रमवशात्तावेव हि दिनक्षपे | ᳚विभज्यत᳚ इति प्रकाशविश्रमात्मना विभागेन व्यवस्थाप्यत इत्यर्थः | क्वचित् ह्यत्र प्रकाशस्य प्राधान्यं, क्वचिच्च विश्रमात्मन आनन्दस्य; तत्र प्रकाशप्राधान्ये दिनमन्यथा तु रात्रिरित्युक्तं ᳚तावेव हि दिनक्षपे᳚ इति | तेनैककस्यास्तुटेः साष्टभागाङ्गुलपरीमाणमाद्यमर्धं प्रकाशरूपं दिनं, परं तु विश्रान्त्यात्मा रात्रिरिति | तदुक्तम् -- ᳚प्रथमोदये हृत्पद्मात्तुट्यर्धं तु दिनं भवेत् | द्वितीये चैव तुट्यर्धे यदा चरति शर्वरी ||᳚ (स्वटं. ७|६२) इति || ७७ || ननु यदहोरात्रस्य प्रकाशविश्रान्तितारतम्येन दिननिशाविभाग उक्तस्तदास्तां को दोषः, यत्पुनर्बाह्याहोरात्रक्रमातिक्रमेणाप्युक्तमन्तः प्राणापानरूपं दिननिशाविभागमुल्लङ्घ्य तुट्यन्तरमितयोरवस्थानमुच्यते तदपूर्वमिव नः प्रतिभाति? -- इत्याशङ्क्याह -- संवित्प्रतिक्षणं यस्मात्प्रकाशानन्दयोगिनी || ६-७८ || तौ कॢप्तौ यावति तया तावत्येव दिनक्षपे | प्रतिक्षणमिति, सदैव प्रकाशानन्दमयीत्यर्थः | अतश्च तथा संविद उदयः प्रमातॄणां वेद्यग्रहणपरत्वादेस्तारतम्यात्कस्यचित्क्षणः कस्यचित्कल्पः कस्यचिन्निमेषोऽपि वा स्यात् || ७८ || अत एवाह -- यावत्येव हि संवित्तिरुदितोदितसुस्फुटा || ६-७९ || तावानेव क्षणः कल्पो निमेषो वा तदस्त्वपि |
SK
नन्वेवमपि भवतु को दोषस्तत्राप्यस्या वेद्यग्रहणपरत्वं स्वात्मनि विश्रान्तिपरत्वं वा किं तुल्यकक्ष्यतयैव भवेदुतान्यथापि ? -- इत्याशङ्क्याह -- यावानेवोदयो वित्तेर्वेद्यैकग्रहतत्परः || ६-८० || तावदेवास्तमयनं वेदितृस्वात्मचर्वणम् | ᳚वित्तेः᳚ इति संविदः | अस्तमयनमिति, वेद्यप्रकाशस्य न्यग्भावात् | ᳚चर्वणम्᳚ इति विश्रान्तिः | एवकाराभ्यां च साम्यमेव द्योतितम् || ८० || ननु स्वात्मविश्रान्तिपरत्वेऽप्यन्तारूपाणां सुखादीनां वेद्यानां सद्भावात् तद्ग्रहणपरत्वं न हीयेत् -- इति कथमनयोस्तुल्यकक्ष्यत्वं स्यात् ? -- इत्याशङ्क्याह -- वेद्ये च बहिरन्तर्वा द्वये वाथ द्वयोज्झिते || ६-८१ || सर्वथा तन्मयीभूतिर्दिनं वेत्तृस्थता निशा | वेद्यं नाम बहिरस्त्वन्तर्वा, मा वा भूत्किमनेन प्रयोजनं, यावता हि तन्मयीभावो नाम सर्वथा दिनं वेत्तृस्थता स्वात्मविश्रान्तिश्च निशा, इत्यस्माकं विवक्षितं; तेन यावद्वेद्यग्रहस्तावद्दिनमन्यथा तु रात्रिरिति | यदाहुः -- ᳚ततो यत्र यावत्तावदनया वेद्यग्रहवेदकविश्रान्तिभूमौ प्रकाशानन्दावाभास्येते तत्र तावद्रूपे एव दिननिशे᳚ इति | अतश्च दिननिशयोस्तुल्यकक्ष्यत्वमेव भवति, इति न कश्चिन्नियमः | ᳚द्वयोज्झिते᳚ इत्यनेन वेद्यस्यानवकॢप्तिरेवोपोद्बलिता न त्वेवमस्य संभवो दर्शितः, नह्यनन्तर्बहीरूपं वेद्यं किंचित्संभवेत् || ८१ || ननु योऽयं संविदः प्रकाशविमर्शयोरेकतरप्राधान्याद्विशेष उक्तः स किं प्रमातॄणामपि संभवेन्न वा ? -- इत्याशङ्क्याह � वेदिता वेद्यविश्रान्तो वेत्ता त्वन्तर्मुखस्थितिः || ६-८२ || ᳚वेदिता᳚ इति ज्ञाता, ᳚वेत्ता᳚ इति विचारयिता विम्रष्टेत्यर्थः | तेनैकत्र प्रकाशप्राधान्यमन्यत्र तु विमर्शस्य -- इति प्रमातुरपि द्वैविध्यम् || ८२ || वेत्तापि द्विधा -- इत्याह -- पुरा विचारयन्पश्चात्सत्तामात्रस्वरूपकः | विमर्शनान्तरीयक एव हि स्वरूपलाभो भवेदिति भावः | एवमत्र ज्ञानविचारसत्तार्थतया त्रिविधोऽपि विधिराश्रयणीयो येन प्रमातुस्त्रैविध्यं सिध्येदिति भावः ||
SK
अत्रैव प्रसङ्गाज्जाग्रदादिस्वरूपमपि निरूपयति -- जाग्रद्वेदितृता स्वप्नो वेत्तृभावः पुरातनः || ६-८३ || परः सुप्तं क्षये रात्रिदिनयोस्तुर्यमद्वयम् | जाग्रदिति, वेद्यविश्रान्तेरेव प्राधान्यात् | पुरातन इति, विम्रष्टृतात्मकः | स्वप्न इति, वेद्यस्य कथंचिदप्राधान्यात् | पर इति, सत्तामात्रनिष्ठः | सुप्तमिति, वेद्यक्षोभप्रक्षयात् | अद्वयमिति, प्रमातृभेदस्यापि विगलनात् | अनेन च ᳚विश्वात्मता च प्राणत्वम्᳚ इत्याद्युक्तं स्मारितम् || ८३ || ननु रात्रिदिनयोर्बहिः कदाचित्साम्यं भवेत् कदाचिच्च वैषम्यमित्यत्र किं निमित्तम् ? -- इत्याशङ्क्याह � कदाचिद्वस्तुविश्रान्तिसाम्येनात्मनि चर्वणम् || ६-८४ || वेद्यवेदकसाम्यं तत् सा रात्रिदिनतुल्यता | यन्नाम कदाचिद्वेद्ये स्वात्मनि च तुल्यकक्ष्यतया विश्रान्तिर्भवेत् तदेव वेद्यवेदकयोः साम्यं भवेत्, तदनुप्राणितं च रात्रिदिनयोस्तुल्यत्वं, यत्सर्व एव योगिनो महापुण्यं विषुवत्कालमाचक्षते -- यदुक्तम् -- ᳚वेद्यवेदकसाम्येन वस्तुविश्रमचर्वणम् | यदा कदाचिद्भवति सा रात्रिदिनतुल्यता || विषुवत्कालयोगोऽसौ योगिभिः समुदाहृतः |᳚ इति || ८४ || एवं च वेद्यस्य वेदकस्य च विश्रान्तेराधिक्ये दिनस्य निशायाश्च दैघ्यर्ं भवेदन्यथा त्वपचयः, तदाह � वेद्ये विश्रान्तिरधिका दिनदैर्घ्याय तत्र तु || ६-८५ || न्यूना स्यात्स्वात्मविश्रान्तिर्विपरीते विपर्ययः | स्वात्मौत्सुक्ये प्रबुद्धे हि वेद्यविश्रान्तिरल्पिका || ६-८६ || न्यूनेति, अन्यथा हि वेद्यविश्रान्तेराधिक्यमेव न स्यात् | स्यादित्यर्थाद्रात्र्यपचयनिमित्तम्, ᳚विपरीत᳚ इति स्वात्मनो विश्रान्तेराधिक्ये वेद्यस्य चान्यथात्वे; यतः स्वात्मन्यौत्सुक्ये विश्रान्त्यभिलाषे विकस्वरतामुपेयुषि वेद्यविश्रान्तिरल्पीयसी भवेत्, येन निशाया दैर्घ्यं दिनस्यापचयः | तदुक्तम् -- ᳚द्राघीयसी वेद्यवृत्तिर्दिनदैर्घ्याय कल्पते | तथैव स्वात्मविश्रान्तिवृत्तिः स्याद्रात्रिविस्तरः ||᳚ इति || ८६ || अयमेव चात्र पक्षो युक्तः -- इत्याह -- इत्थमेव दिवारात्रिन्यूनाधिक्यक्रमं वदेत् |
SK
नन्वन्तर्बहिश्च रात्रिदिनयोः स्थितेऽप्यौत्सर्गिके क्रमे यथान्तरसावुक्तयुक्त्या प्रकाशविमर्शयोरेकतरप्राधान्यात्प्रतिप्रमातृ विशिष्यते, तथा बहिरपि प्रतिभुवनं किं विशिष्यते न वा ? -- इत्याशङ्क्याह -- यथा देहेष्वहोरात्रन्यूनाधिक्यादि नो समम् || ६-८७ || तथा पुरेष्वपीत्येवं तद्विशेषेण नोदितम् | विशेषेणेति देहमधिकृत्य, तथात्वेन हि तत्कथितं तत्तत्फलसंपत्तिनिमित्तं स्यादित्याशयः || ८७ || नन्वेवं रात्रिदिनविभजने किं प्रमाणम् ? -- इत्याशङ्क्याह -- श्रीत्रैयम्बकसन्तानवितताम्बरभास्करः || ६-८८ || दिनरात्रिक्रमं मे श्रीशंभुरित्थमपप्रथत् | अत एवान्यथान्यैर्यत्तद्विभजनं कृतं तदग्राह्यमेव -- इत्याह -- श्रीसन्तानगुरुस्त्वाह स्थानं बुद्धाप्रबुद्धयोः || ६-८९ || हृद आरभ्य यत्तेन रात्रिन्दिवविभाजनम् | तदसत्सितपक्षेऽन्तः प्रवेशोल्लासभागिनि || ६-९० || अबुद्धस्थानमेवैतद्दिनत्वेन कथं भवेत् | यन्नाम प्राच्यैर्हृदयादारभ्य द्वादशान्तं यावत्तुट्यर्धपरीमाणं प्राणीयमाद्यं स्थानं बुद्धस्य परं त्वबुद्धस्य -- इत्युक्तं, तेनैव बुद्धाबुद्धास्थानवदनेन समाख्यौचित्याद्रात्रिदिनयोरपि विभागः कृतो यद्बुद्धस्थानं दिनमबुद्धस्थानं तु रात्रिरिति, तत्त्वयुक्तं; यदन्तःप्रवेशात्मन्यपानवाहे स्थानस्याविशेषाद्रात्रित्वेन परिकल्पितमबुद्धस्थानमेव दिनं स्यात् -- इति पूर्वापरव्याहतत्वम् || ९० || न चैतद्विद्वेषपूर्वमस्माभिरुक्तमिति न शिष्टनिन्दा कृता स्यात् -- इत्याह -- अलं वानेन नेदं वा मम प्राङ्मतमत्सरः || ६-९१ || हेये तु दर्शिते शिष्याः सत्पथैकान्तदर्शिनः | इदानीं प्रकृतमेवावतारयति -- व्याख्यातः कृष्णपक्षो यस्तत्र प्राणगतः शशी || ६-९२ || आप्यायनात्मनैकैकां कलां प्रतितिथित त्यजेत् | द्वादशान्तसमीपे तु यासौ पञ्चदशी तुटिः || ६-९३ || सामावस्यात्र स क्षीणश्चन्द्रः प्राणार्कमाविशेत् |
SK
प्राणगत इति, तत्रास्य प्राधान्यात् | तेन तुटिस्थानावस्थितां यां (यां) तिथिं प्राणादित्य आक्रमते तस्यां तस्यामपानचन्द्रः सुरादीनामपानरूपेण हेतुना ᳚एकैकां कलां त्यजेत्᳚ एकैककलाह्रासक्रमेण क्षैण्यमासादयेत्; यावत्स एव कलामात्रशेषत्वात्क्षीणः सन् द्वादशान्तसमीपस्थायां पञ्चदशतुट्यात्मिकायाममावास्यायां ᳚प्राणार्कमाविशेत्᳚ तदन्तर्लीनो भवेत्, यदेवास्य बहिरस्तमय इत्युच्यते || ९३ || न चैतन्निर्मूलमेवोक्तम् -- इत्याह -- उक्तं श्रीकामिकायां च नोर्ध्वेऽधः प्रकृतिः परा | अर्धार्धे क्रमते माया द्विखण्डा शिवरूपिणी || ६-९४ || चन्द्रसूर्यात्मना देहं पूरयेत्प्रविलापयेत् | इह खलु ᳚परा᳚ पूर्णा, अत एव ᳚शिवरूपिणी᳚ शक्तिमदवियुक्ता ᳚प्रकृतिः, विश्वोत्पत्तिभूः संवित् ᳚माया᳚ स्वरूपगोपनशीला प्रथमं प्राणात्मतया समुच्छलन्ती द्विखण्डा प्राणापानात्मतया द्वैध्यमापन्ना सती नोर्ध्व एव नाध एव अपि तूर्ध्वाधःप्रवाहात्मना ᳚अर्धार्धे क्रमते᳚ दक्षवामनाड्योरन्तः᳚ समप्रविभागेन प्रवहतीत्यर्थः | अत एव प्राणापानदशामधिशयाना परा संविच्चन्द्रात्मनाप्यायकारितया देहं प्रपूरयेत् सूर्यात्मना च चान्द्रीणामेव कलानामपचयात् ᳚प्रविलापयेत्᳚ शोषयेदित्यर्थः || ९४ || ननु चान्द्रीणां कलानामपचये किं निमित्तम् ? -- इत्याशङ्क्याह -- अमृतं चन्द्ररूपेण द्विधा षोडशधा पुनः || ६-९५ || पिबन्ति च सुराः सर्वे दशपञ्च पराः कलाः | अमा शेषगुहान्तःस्थामावास्या विश्वतर्पिणी || ६-९६ || यच्चन्द्ररूपेण षोडशधा भिन्नममृतं स्थितं तत्पुनर्द्विधा दृश्यमानसितरूपपञ्चदशकलात्मना तद्भित्तिभूतातिस्वच्छाबूर्पकलात्मना चेत्यर्थः | तत्र पञ्चदश कलाः सर्व एव बहिः सुरादयोऽन्त करणानिःकार्याणि चाप्यायलिप्सया पिबन्ति येनासां प्रतिदिनमपचयः स्यात् | यदभिप्रायेणैव -- ᳚यस्मिन्सोमः सुरपितृनरैरन्वहं पीयमानः क्षीणः क्षीणः प्रविशति.................. |᳚ (साम्ब पं. ८ श्लोक)
SK
इत्याद्यन्यत्रोक्तम् | अमाख्या षोडशी पुनः कला सुराद्युपसंहृतकला पञ्चदशकावशिष्टस्वभावत्वाच्छेषरूपा, अत एव गुहान्तरिव स्थितं वस्तु सुरक्षितत्वादक्षीणं स्यात्तथैवेयमपीत्यर्थः | यतः सा विश्वस्य पञ्चदशकलाक्रोडीकारितयाप्यायकारिणी, अत एव येयममा सह यौगपद्येन पञ्चदशानां कलानां वसनात् ᳚अमावास्या᳚ तद्व्यपदेश्येत्यर्थः | तिथौ पुनस्तदधिष्ठितत्वादौपचारिकस्तद्व्यापदेश इत्याशयः || ९६ || एतदेव प्रकृते योजयति एवं कलाः पञ्चदश क्षीयन्ते शशिनः क्रमात् | आप्यायिन्यमृताबूर्पतादात्म्यात्षोडशी न तु || ६-९७ || षोडशी न तु क्षीयते, यदबूर्पतादात्म्यादर्कस्तं क्षपयितुमक्षम इत्यभि प्रायः || ९७ || इदानीमेतदनन्तरभाविनं कृष्णस्य शुक्लस्य च पक्षस्य सन्धिं दर्शयति -- तत्र पञ्चदशी यासौ तुटिः प्रक्षीणचन्द्रमाः | तदूर्ध्वगं यत्तुट्यर्धं पक्षसंधिः स कीर्तितः || ६-९८ || पञ्चदशी तुटिरित्यमावास्योदयस्थानम्, अत एव ᳚प्रक्षीणचन्द्रमा᳚ इत्युक्तम् | यदिति, प्राणीयं षोडशतुटिसंबन्धि || ९८ || ननु संधिर्ह्युभयोर्भवति, तत्कथमेकस्यैव प्राणीयस्य तृट्यर्धस्यासौ स्यात् ? -- इत्याशङ्क्याह -- तस्माद्विश्रमतुट्यर्धादामावस्यं पुरादलम् | परं प्रातिपदं चार्धमिति संधिः स कल्प्यते || ६-९९ || तत्प्राणीयमन्त्यं विश्रमतुट्यर्धमवलम्ब्य ᳚पुरादलं᳚ प्रथममर्धमामावस्यं तत्संलग्नं ᳚परं᳚ द्वितीयं चापानीयमाद्यं तुट्यर्धं प्रातिपदं तत्संलग्नम्, इत्यनयोरुभयोरर्धयोः संमेलनात्प्रतिपदमामावस्यान्तरालभूतोऽसावेकतुट्यात्मा शन्धिः कल्प्यते᳚ तथा व्यपदिश्यत इत्यर्थः | तदुक्तम् -- श पक्षसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् |᳚ (अ. को. १|४|७) इति | इदमेवान्यत्र प्रधानतया पूजाकालत्वेनोक्तम् | यदुक्तम् -- ङ दिवा पूजयेद्देवं रात्रौ नैव च नैव च | अर्चयेद्देवदेवेशं दिनरात्रिपरिक्षये ||᳚
SK
इति | अत्र विश्रमतुट्यर्ध एवार्धार्धिकया विभक्ते यदि सन्धिर्व्याख्यायते तत्सन्धिद्वयस्याप्येकैव तुटिरर्धार्धिकया स्यात् -- इत्येकस्यास्तुटेर्विनियोगाभावादासमञ्जस्यं पर्यवस्येदित्यलं बहुना || ९९ || एवं प्राणे पक्षोदयं प्रदर्श्य सूर्यग्रहणमपि दर्शयति -- तत्र प्रातिपदे तस्मिंस्तुट्यर्धार्धे पुरादलम् | आमावस्यं तिथिच्छेदात्कुर्यात्सूर्यग्रहं विशत् || ६-१०० || अर्धं चार्धं च अर्धार्धं, तुटेरर्धार्धं तुट्यर्धार्धं, तस्मिन् सन्धित्वेन परिकल्पिते तुट्यर्धद्वय इत्यर्थः | तत्रैवं स्थिते सति तुट्यर्धद्वयमध्यादामावस्यं पूर्वमर्धम् अर्थात्परस्मिन्प्रातिपदेऽर्धे वक्ष्यमाणादृणशब्दाभिधेयात् तिथिच्छेदाद्विशत् सत् सूर्यग्रहणं कुर्यात्, प्रतिपदमावास्यासङ्घट्टात्सूर्यग्रहणं भवेदित्यर्थः || १०० || नन्वेतावन्मात्रात्सूर्यग्रहणं भवेदित्यत्र क इवाशयः ? -- इत्याशङ्क्याह -- तत्रार्कमण्डले लीनः शशी स्रवति यन्मधु | तप्तत्वात्तत्पिबेदिन्दुसहभूः सिंहिकासुतः || ६-१०१ || मध्वित्यमृतं | तप्तत्वादिति, यथायथमर्केण संनिकर्षात् | इन्दुसहभूरिति ᳚विधौ राहुः᳚ इत्याद्युक्त्या तत्सहचारित्वात्, अन्यथैषां त्रयाणामपि सङ्घट्टो न भवेदिति भावः | यदुक्तम् -- ᳚रविबिम्बान्तरे देवि चन्द्रबिम्बं तदा भवेत् | तदन्तरे भवेद्राहुरमृतार्थी वरानने || अमृतं स्रवते चन्द्रो राहुश्च ग्रसते तु तत् | पीत्वा त्यजति तद् बिम्बं तदा मुक्तः स उच्यते |᳚ (स्वटं. ७|७०) इति || १०१ || ननु त्रयाणामप्येषां सङ्घट्टे किं सतत्त्वम् ? -- इत्याशङ्क्याह -- अर्कः प्रमाणं सोमस्तु मेयं ज्ञानक्रियात्मकौ | राहुर्मायाप्रमाता स्यात्तदाच्छादनकोविदः || ६-१०२ || तत एव तमोरूपो विलापयितुमक्षमः | ᳚तयोः᳚ प्रमाणप्रमेययोः ᳚आच्छादनं᳚ स्वात्मसात्कारेण तिरोधानं न पुनरत्यन्तमेव विलयः, संस्कारात्मना पुनरपि बोधकमाहात्म्यात्तदुदयस्य भावात्, अत एवोक्तं ᳚विलापयितुमक्षमः᳚ इति | ᳚तत᳚ इत्याच्छादकत्वात्, तमसो ह्यावरकत्वमेव तत्त्वम् || १०२ ||
SK
नन्वेवमेतद्विलापने कः क्षम ? -- इत्याशङ्क्याह -- तत्सङ्घट्टाद्वयोल्लासो मुख्यो माता विलापकः || ६-१०३ || तेषां मातृमानमेयानां शङ्घट्टः᳚ सामरस्यं ततः समुल्लसितमद्वयमेव मुख्यः प्रमाता विलापकस्तत्त्रयसङ्घट्टनेन परसंविन्मात्रसार एवेत्यर्थः | यदाहुः -- ᳚प्राणार्कमानहठघट्टितमेयचन्द्र विद्रावितामृतरसोत्सुकितः खमाता | स्वर्भानुरावृणुत एव रविं रसं तु पुण्ये ग्रहेऽत्र रसयेत्त्रयघट्टनज्ञः ||᳚ इति || १०३ || अत एव चायं कालो महापुण्यः -- इत्याह -- अर्केन्दुराहुसङ्घट्टात् प्रमाणं वेद्यवेदकौ | अद्वयेन ततस्तेन पुण्य एष महाग्रहः || ६-१०४ || ᳚अद्वयेन᳚ चिन्मात्रात्मना भवन्तीत्यर्थः | तदुक्तम् -- ᳚राहुरादित्यचन्द्रौ च त्रय एते ग्रहा यदा | दृश्यन्ते समवायेन तन्महाग्रहणं भवेत् || स कालः सर्वलोकानां महापुण्यतमो भवेत् ||᳚ (स्व. ७|७३) इति || १०४ || नन्वयं सूर्यादीनां सङ्घट्टः किं प्रतिपदमावस्यासंभेद एव भवेदुतान्यथापि? -- इत्याशङ्क्याह -- अमावस्यां विनाप्येष सङ्घट्टश्चेन्महाग्रहः | यथार्के मेषगे राहावश्विनीस्थेऽश्विनीदिने || ६-१०५ || अमावस्यां विनापि शुद्धायामेव प्रतिपदि यद्येष सङ्घट्टः स्यात् तदापीदं महद् ग्रहणं भवेदेव | यथा बहिश्चन्द्रार्कराहूणामश्विन्यामेवावस्थानादेकर्क्षेण वैशाखामावस्यायां प्रहरद्वयादूर्ध्वं शुद्धायामेव प्रतिपदि सूर्यस्य ग्रहणं संभवेत्, लम्बनस्य धनगतत्वाद् ग्रहणस्थित्यर्धस्य लम्बनादूनत्वात् | एवं यत्र प्रतिपदमामावास्यासंभेदेन सूर्यग्रहणं भवेत् तत्रामावस्यायां प्रग्रहणं मोक्षस्तु प्रतिपदि, अन्यथा तूभयमपि प्रतिपद्येवेत्यर्थसिद्धम् || १०५ || तदेवाह � आमावास्यं यदा त्वर्धं लीनं प्रातिपदे दले | प्रतिपच्च विशुद्धा स्यात्तन्मोक्षो दूरगे विधौ || ६-१०६ || तन्मोक्षे च विधुदूरीभावो हेतुरित्युक्तं ᳚दूरगे विधौ᳚ इति | तस्मिन् हि दूरीभूते तत्सहचारी राहुरपि तथा भवेदिति भावः || १०६ || अस्य च ग्रहणस्य महत्त्वे निमित्तं दर्शयति --
SK
ग्रासमोक्षान्तरे स्नानध्यानहोमजपादिकम् | लौकिकालौकिकं भूयःफलं स्यात्पारलौकिकम् || ६-१०७ || भूयःफलमित्यन्तफलम् | यदुक्तम् -- ᳚तत्र स्नानं तथा दानं पूजाहोमजपादिकम् | यत्कृतं साधकैर्देवि तदन्तफलं भवेत् ||᳚ (स्वटं. ७|७४) इति || १०७ || पारलौकिकत्वे निमित्तमाह -- ग्रास्यग्रासकताक्षोभप्रक्षये क्षणमाविशन् | मोक्षभाग्ध्यानपूजादि कूवर्ंश्चंन्द्रार्कयोर्ग्रहे || ६-१०८ || इह खलु योगी चन्द्रार्कयोर्ग्रहे सूर्यग्रहणे ᳚ग्रास्यग्रासकयोः᳚ प्रमेयप्रमात्रोर्यः संबन्धस्तद्रूपो यः ᳚क्षोभः᳚ तत्प्रक्षयात्मनि परस्मिन्प्रमातर्याविशन् परां वृत्तिमवलम्ब्य क्षणमात्रं ध्यानादि कुर्वन् मोक्षभागपवृज्यत एवेत्यर्थः | यदुक्तम् -- ᳚पक्षद्वयं परित्यज्य पूर्वोक्तकरणेन च | उन्मन्यन्ते स्थितो नित्यं परवृत्त्यवलम्बकः || परित्यज्य त्वधः सर्वं ध्यानामास्थाय योजयेत् | तस्य मुक्तिर्न सन्देहस्त्वन्यथा सिद्धिभाग्भवेत् ||᳚ इति || १०८ || तिथिच्छेदादित्युक्तमधिकावापेन लक्षयति -- तिथिच्छेद ऋणं कासो वृद्धिर्निःश्वसनं धनम् | अयत्नजं यत्नजं तु रेचनादथ रोधनात् || ६-१०९ || यन्नाम कासवशेन शीघ्रमेव प्राणस्य प्रसरणात् सहसैवामावास्यो भागः प्रतिपद्भागमनुप्रविशति तदुच्यते ऋणं, तिथिच्छेदयोः कार्यकारणयोरभेदोपचारात्कासश्चेति | यन्नाम च निःश्वासवशादपानवाहस्य चिरेण प्रसरणात् तिथेरधिकीभावेन पूर्णतया पौर्णमास्युदयस्तदुच्यते वृद्धिर्धनं निःश्वसनं च, इत्येतच्चोभयं सर्वेषामयोगिनामपि कासश्वासादिना स्वरसत एवोत्पद्यते -- इत्युक्तम् ᳚अयत्नजम्᳚ इति, यद्वशादन्तरा चन्द्रसूर्योपरागो भवन्नपि तैरनवधानान्न परं लक्ष्यते | योगिनां पुनश्चन्द्रसूर्योपरागयोग्ये तत्प्राणस्य रेचकपूरकाद्यात्मना यत्नेन भवेदित्युक्तं ᳚यत्नजम्᳚ इति | यदुक्तम् -- ᳚तिथिच्छेद ऋणं ज्ञेयं वृद्धौ चैव धनं भवेत् | ऋणं चैव भवेत्कासो निःश्वासो धनमुच्यते ||᳚ (स्वटं. ७|६४) इति | तथा
SK
᳚तिथिच्छेदस्तथा वृद्धिः कासश्वासादि वा भवेत् | अयत्नजो यत्नजस्तु प्राणवृत्तिनिरोधतः ||᳚ इति || १०९ || एतदेवापानवाहेऽप्यतिदेष्टुमाह -- एवं प्राणे विशति चित्सूर्य इन्दुं सुधामयम् | एकैकध्येन बोधांशुकलया परिपूरयेत् || ६-११० || क्रमसंपूरणाशालिशशाङ्कामृतसुन्दराः | तुट्यः पञ्चदशैताः स्युस्तिथयः सितपक्षगाः || ६-१११ || ᳚एवं᳚ पूर्वोक्तयैव गत्या प्राणे ᳚विशति᳚ शक्तेर्हृदन्तमवरोहति चिदात्मा प्राणसूर्यः प्रतितुट्यैकैकध्येन प्रबुद्धांशुजालया कलया सुधामयमिन्दुं परिपूरयेत्, येन प्रतिपद्येककलो द्वितीयस्यां द्विकलः -- इत्याद्यात्मना क्रमेण संपूरणाशालिनः शशाङ्कस्यामृतेन सुन्दरा एताः पञ्चदश तुट्य एव सितपक्षगास्तिथयो भवेयुः | यदुक्तम् -- ᳚प्राणहंसो यदा प्राप्तस्त्वधस्तात्प्रथमां तुटिम् | पूर्वमर्धं त्वहः प्रोक्तं तुट्यर्धमपरं निशा ||᳚ (७|७७) इत्युपक्रम्य ᳚प्रतिपत्सा तु विज्ञेया चन्द्रश्चैककलो भवेत् | द्वितीयायां द्वितीया तु वृद्धिमेति क्रमेण तु || तिथयश्चैवमारभ्य यावत्पञ्चदशी तुटिः |᳚ (स्वटं. ७|७९) इति || १११ || अत्रैव च पक्षसन्धिताद्यप्यतिदिशति -- अन्त्यायां पूर्णमस्तुट्यां पूर्ववत्पक्षसन्धिता | इन्दुग्रहश्च प्रतिपत्सन्धौ पूर्वप्रवेशतः || ६-११२ || एहिकं ग्रहणे चात्र साधकानां महाफलम् | प्राग्वदन्यदयं मासः प्राणचारेऽब्द उच्यते || ६-११३ || पूर्णो माश्चन्द्रो यस्यामेवंविधायां पञ्चदश्यां तुट्यां पूर्ववदिति, तुट्यर्धद्वयसंमेलनया | पूर्वेति, पूर्वं पौर्णमासं सन्धिलक्षणं तुट्यर्धं तत्प्रवेशात् | एतच्च यद्यपि पूर्ववदित्यतिदेशाद् गतार्थमेव तथापि पूर्णिमाप्रतिपत्संभेदेनैवेन्दुग्रहो भवेत् न तु शुद्धायामेव प्रतिपद्यपि -- इति दर्शयितुं साक्षादुक्तम् | एहिकमिति, सृष्टिप्राधान्यात् | प्राग्वदन्यदिति, मातृमेयसंघट्टादि | यदाहुः -- ᳚शक्तिसंस्नुतसुधारसक्रमात् पूर्णमिन्दुमणुराहुराहरन् | छादयेदिह महाशुभे ग्रहे द्रावितं पिबति तं महामुनिः ||᳚
SK
इति | इदानीं मासमुपसंहरन्नब्दमवतारयति अयमित्यादिना || ११३ || तमेवाह � षट्सु षट्स्वङ्गुलेष्वर्को हृदयान्मकरादिषु | तिष्ठन्माघादिकं षट्कं कुर्यात्तच्चोत्तरायणम् || ६-११४ || मकरादिष्वर्थान्मिथुनान्तेषु, तेन षड्भिरङ्गुलैः षड्गुणितानि षट्त्रिंशद्भवन्तीति भावः | माघे हि मकरस्योदयो यावदाषाढे मिथुनस्य | यदुक्तम् -- ᳚षडङ्गुलं च संक्रामो मकरादिषु राशिषु | भानोर्माघाद्याषाढान्तं भवेत्तच्चोत्तरायणम् ||᳚ इति || ११४ || अत्रैव विषुवत्सङ्क्रान्तिं दर्शयति -- संक्रान्तित्रितये वृत्ते भुंक्ते चाष्टादशाङ्गुले | मेषं प्राप्ते रवौ पुण्यं विषुवत्पारलौकिकम् || ६-११५ || अष्टादशाङ्गुल इति -- प्रतिसंक्रान्त्यङ्गुलषट्कस्य भोगात् | ᳚हृदयादुदयस्थानात्सङ्क्रान्तिर्मकरे स्मृता | षडङ्गुलान्यधस्त्यक्त्वा कुम्भे सङ्क्रमते पुनः || कण्ठोर्ध्वं द्व्यङ्गुलं त्यक्त्वा मीने संक्रमते पुनः | गलोर्ध्वाद्यावत्ताल्वन्तं त्यक्त्वा मेषेऽथ संक्रमेत् || नासान्तं यावत्संक्रान्तिरङ्गुलानि षडेव हि | एषा वै विषुसंक्रान्तिरुत्तरे संव्यवस्थिता ||᳚ (स्व. तं. ७|९४) इति | विषुं व्याप्तिं साम्यमर्हति इति विषुवत् | ᳚विषुवत्पारलौकिकम्᳚ इत्येतच्च यद्यपि निखिलस्यैवोत्तरायणस्य संभवति तथाप्यत्र विशेषेणेति स्वकण्ठेनैतदुक्तम् | यदुक्तम् -- ᳚मकराच्च समारभ्य मिथुनान्तं च सुव्रते | उत्तरायणमत्रैतदैहिकीसिद्धिवर्जितम् ||᳚ (स्व. तं. ७|९७) इति || ११५ || ननु यद्येतद्विषुवत्पारलौकिकं दक्षिणायनं पुनः कीदृक् ? -- इत्याशङ्क्याह -- प्रवेशे तु तुलास्थेऽर्के तदव विषुवद्भवेत् | इह सिद्धिप्रदं चैतद्दक्षिणायनगं ततः || ६-११६ || ᳚प्रवेशे᳚ इति शक्तितो हृदन्तम् | ᳚तदेव᳚ इत्यष्टादशाङ्गुलोपभोगात्मसंक्रान्तित्रयानन्तरभावीत्यर्थः | यदुक्तम् � ᳚शक्त्यधो हृदये हंसः संक्रामेत्कर्कटे प्रिये | षडङ्गुलानि संत्यज्य सिंहे वै संक्रमेत्पुनः || षडङ्गुलैः पुनस्त्यक्तैः कन्यां संक्रमते पुनः | नासिकाग्रात्तु ताल्वन्तं त्यक्ते वै विषुवद्भवेत् ||
SK
तुलासंक्रान्तिरेषोक्ता दक्षिणं विषुवद्भवेत् ||᳚ (स्वटं. ७|११३) इति | इह सिद्धिप्रदमिति, यदुक्तम् -- शाधनं यत्कृतं तत्र इह जन्मनि सिद्धिदम् |᳚ इति || ११६ || ननु मकरादे राशिद्वादशकस्य सामान्येन पारलौकिकैहलौकिकत्वेऽपि प्रत्येकमस्ति कश्चिद्विशेषो न वा ? -- इत्याशङ्क्याह -- गर्भता प्रोद्बुभूषिष्यद्भावश्चाथोद्बुभूषुता | उद्भविष्यत्त्वमुद्भूतिप्रारम्भोऽप्युद्भवस्थितिः || ६-११७ || जन्म सत्ता परिणतिर्वृद्धिर्ह्रासः क्षयः क्रमात् | मकरादीनि तेनात्र क्रिया सूते सदृक्फलम् || ६-११८ || ᳚गर्भता᳚ आधानं, प्रोद्भवितुमेषिष्यन् ᳚भावः᳚ सत्ता यस्यासौ तथा आद्य इच्छापरिस्पन्दः | उद्भवितुमिच्छुरुद्बुभूषुस्तस्य भावस्तत्त्वं, उद्भवनात्मकैषणीयसंयुक्तमिच्छामात्रमित्यर्थः | ᳚उद्भविष्यत्त्वम्᳚ उद्भवनाय स्वात्मन्येवोच्छलत्त्वेनावस्थानम् | ᳚उद्भूतिप्रारम्भः᳚ तत्रैव नैविड्यम् | ᳚उद्भवस्थितिः᳚ तत्रैवौन्मुख्यम् | एवं मकरादिराशिद्वादशकं क्रमादिति, गर्भतादिरूपं यतो भवति तेन हेतुनात्र बाह्यबीजादिवज्जपादि क्रियापि गर्भताद्यनुगुणमेव फलं शूते᳚ ददातीत्यर्थः | यदुक्तम् -- ᳚आधानमिच्छा संयोग आनन्दो घनता स्थितिः | जन्म सत्ता परिणतिर्वृद्धिर्हासः क्षयः क्रमात् || माघान्मासात्समारभ्य स्थितयः परिकीर्तिताः | साधकानां सिद्धिविधौ भावानां चापि संभवे ||᳚ इति || ११८ || अत्राप्यवान्तरोऽस्ति विशेषः -- इत्याह -- आमुत्रिके झषः कुम्भो मन्त्रादेः पूर्वसेवने | चतुष्कं किल मीनाद्यमन्तिकं चोत्तरोत्तरम् || ६-११९ || प्रवेशे खलु तत्रैव शान्तिपुष्ट्यादिसुन्दरम् | कर्म स्यादैहिकं तच्च दूरदूरफलं क्रमात् || ६-१२० || ᳚झषो᳚ मकरः | एतौ चार्थात्सिद्धमन्त्रस्य, असिद्धमन्त्रस्य तु मन्त्रादिसेवानिमित्तं मीनादिचतुष्कं; ᳚प्रवेशे᳚ इत्यपानवाहे | यदुक्तम् -- ᳚तस्मादारभ्य मकराद्ध्यानहोमजपादिकम् | परलोकनिमित्ताय तदनन्तफलं भवेत् || पुरश्चर्यानिमित्ताय मन्त्रग्रहव्रतं च यत् |
SK
मीनादावारभेत्सर्वं मन्त्रसिद्ध्यर्थमात्मनः ||᳚ (स्वटं. ७|१०३) इति | तथा ᳚तस्मादिहात्मसिद्ध्यर्रथं पुष्ट्यर्थं चैव साधयेत् | दक्षिणायनजे काले यस्मात्सृष्टिः प्रजायते ||᳚ (स्वटं. ७|११०) इति | एवमुत्तरायणस्य वेद्यग्रहणपरत्वम् -- इति यथायथं फलदानेऽप्यासन्नत्वं; दक्षिणायनस्य त्वन्तर्विश्रान्तिपरत्वम् -- इति फलदाने यथायथं दूरत्वम् | अत एवोत्तरायणे दिनस्य वृद्धिर्निशाया ह्रासोऽत्र त्वन्यथा || १२० || तदाह � निर्गमे दिनवृद्धिः स्याद्विपरीते विपर्ययः | वर्षेऽस्मिंस्तिथयः पञ्च प्रत्यङ्गुलमिति क्रमः || ६-१२१ || तत्राप्यहोरात्रविधिरिति सर्वं हि पूर्ववत् | ननु मासारब्धो वर्षः -- इति तेषां प्रत्यङ्गुलषट्के उदय उक्तः; ते च तिथ्यारब्धा -- इति कथमत्र न तासाम् ? -- इत्याशङ्क्याह -- ᳚प्रत्यङ्गुलं पञ्च तिथय᳚ इति | तत्षट्के त्रिंशद्भवन्ति येन तत्र मासोदय उक्तः | ᳚तत्रापि᳚ इत्यङ्गुलपञ्चांशे तेन प्रत्यङ्गुलदशांशं दिनं निशा च | शर्वं᳚ पक्षादि, तेन पूर्वस्मिन्नङ्गुलत्रये कृष्णपक्षोऽन्यत्र तु परः | तदुक्तम् -- ᳚अङ्गुले ह्यङ्गुले ह्यत्र तिथयः पञ्च संस्थिताः | तस्याप्यर्धं दिनं पूर्वमपरार्धं निशा भवेत् || षट्पञ्चकास्तिथीनां ये तेऽहोरात्रास्तु मासिकाः | त्रिंशता तैरहोरात्रैर्द्विपक्षो मास उच्यते ||᳚ (स्वटं. ७|९१) इति || १२१ || ननु प्रहराष्टकन्यायेन मासद्वादशकस्यापि किमधिष्ठातारः केचित्संभवन्ति न वा ? -- इत्याशङ्क्याह � प्राणीये वर्ष एतस्मिन्कार्तिकादिषु दक्षतः || ६-१२२ || पितामहान्तं रुद्राः स्युर्द्वादशाग्रेऽत्र भाविनः | यदुक्तम् � ᳚दक्षनामा तु यो रुद्रः कथितोऽत्र महेश्वरि | कार्तिकं मासमखिलं स तु भुङ्क्ते महेश्वरि || चण्डो मार्गशिरोमासि हरः पौषे तु कीर्तितः | शौण्डी तु माघमासे च प्रमथः फाल्गुने तथा || भीमश्चैत्रे समाख्यातो वैशाखे मन्मथः स्मृतः | शकुनिर्ज्येष्ठमासे तु आषाढे सुमतिस्तथा || नन्दोऽथ श्रावणे मासि भाद्रे गोपालकस्तथा | पितामहश्च वीरेशो मासस्याश्वयुजस्य च ||᳚
SK
इति | अग्र इत्येकीकारप्रकाशनाह्निके || १२२ || एतदुपसंहरन्नन्यदवतारयति -- प्राणे वर्षोदयः प्रोक्तो द्वादशाब्दोदयोऽधुना || ६-१२३ || खरसास्तिथ्य एकस्मिन्नेकस्मिन्नङ्गुले क्रमात् | द्वादशाब्दोदये ते च चैत्राद्या द्वादशोदिताः || ६-१२४ || खरसा इति | खेति, शून्यं ᳚रसाः᳚ षट्, एवं षष्टिः | तेन प्रत्यङ्गुलमृतुरङ्गुलानां त्रयेऽयनं षट्के वर्षः | एवमेकस्मिन्नेव प्राणचारे वर्षोदये यथा प्रत्यङ्गुलषट्कं द्वादशानां संक्रान्तीनामुदयः एवमिहाब्दानामित्यभिप्रायः | यदुक्तम् -- शंक्रान्तयो द्वादशात्र यद्वदब्दे प्रकीर्तिताः | द्वादशाब्दोदये प्राणे वत्सरास्ते प्रकीर्तिताः ||᳚ (स्वटं. ७|१२६) इति || १२४ || ननु चैत्रस्य प्राक् तालुन्युदयः, इति ततः प्रभृति मन्त्रसेवादि कार्यमित्युक्तम्, इह तु हृदि तस्यैवोदय उक्तः; तदिदानीं साधकः कुत्र मन्त्रादिसेवां कुर्यात् ? -- इत्याशङ्क्याह -- चैत्रे मन्त्रोदितिः सोऽपि तालुन्युक्तोऽधुना पुनः | हृदि चैत्रोदितिस्तेन तत्र मन्त्रोदयोऽपि हि || ६-१२५ || उक्त इत्यब्दोदये | अधुनेति, द्वादशाब्दोदये || १२५ || एवं द्वादशाब्दोदयमभिधाय षष्ट्यब्दोदयमप्यभिधत्ते -- प्रत्यङ्गुलं तिथीनां तु त्रिशते परिकल्पिते | सपञ्चांशाङ्गुलेऽब्दः स्यात्प्राणे षष्ट्यब्दता पुनः || ६-१२६ || प्रत्यङ्गुलं तिथिशतत्रयमित्यङ्गुलपञ्चभागे षष्टिरहोरात्राः | एवं सपञ्चभागेऽङ्गुले षष्ट्यधिकशतत्रयात्माब्द उदियात् | ततः सपञ्चांशाङ्गुलेऽब्दस्योदयात्प्रागुक्तचषकोदयस्थित्या प्राणापानवाहात्मनि प्राणे षष्ट्यब्दता, षष्टिरब्दा भवन्तीत्यर्थः | यदुक्तम् -- ᳚हृत्पद्माद्याव शक्त्यन्तं त्रिंशदब्दोदयो भवेत् |᳚ (स्वटं. ७|१३४) इति || १२६ || अत्रैवाहोरात्राणां सङ्कलनां दर्शयति -- शतानि षट् सहस्राणि चैकविंशतिरित्ययम् | विभागः प्राणगः षष्टिवर्षाहोरात्र उच्यते || ६-१२७ || अनेन चात्र श्रोतॄणामपूर्वदर्शनात् संमोहो मा भूत् -- इति बाह्याहोरात्रगतप्राणचारसंख्यासाजात्यमुद्भावितम् | तदुक्तम् -- ᳚विंशतिस्तु सहस्राणि सहस्रं षट्शताधिकम् |
SK
अहोरात्रास्तु षष्ट्यब्दे संख्यातास्तु वरानने ||᳚ (स्वटं. ६|१३६) इति || १२७ || नन्वेवं तिथिविभाजनेऽस्य किं प्रयोजनम् ? -- इत्याशङ्क्याह -- प्रहराहर्निशामासऋत्वब्दरविषष्टिगः | यश्छेदस्तत्र यः सन्धिः स पुण्यो ध्यानपूजने || ६-१२८ || अब्दरवीत्यब्दद्वादशकं ᳚छेदः᳚ समाप्तिः, शन्धिः᳚ संध्या | अयमत्राशयः -- यन्नाम हि नित्यनैमित्तिकादि बाह्ये प्रयत्नशतैरपि पुरुषायुषेण निष्पत्तिं यायात् न वा, तदन्तरेकस्मिन्नेव प्राणचारे प्रहराहर्निशादिक्रमेण क्षणमात्रमवधानात्सुखमेव योगिनः सिध्येदिति | यदुक्तम् -- ᳚चन्द्रसूर्योपरागे च पक्षमासायनेषु च | युगादिषु युगान्तेषु यच्च संवत्सरेऽप्यथ || वर्षद्वादशके चैव षष्ट्यब्देऽथ वरानने | स्नानदानेन यज्ञैश्च पूजाहोमजपेन च || ध्यानयोगतपोभिश्च बाह्ये कालेऽथ यत्कृतम् | अमुनोक्ते वरारोहे तत्फलं लभते महत् || प्राणहंसगतिं चारे ज्ञात्वैकस्मिंस्तु तद्भजेत् |᳚ (स्वटं. ७|१४०) इति | यदभिप्रायेणैवाह � ᳚या अग्निहोत्राहुतयः सहस्रद्वासप्ततिः स्युः पुरुषायुषेण | नाड्यंशयुक्त्या सकृदाशु जुह्वत् संपादयेद्यस्तव मार्गवित्सः ||᳚
SK
इत्याद्यन्यैरुक्तम् | ननु भवतु नामैतद्यदन्तः क्षणमवधानमात्राद्योगिनो जन्मकृत्यं सिद्ध्येदिति, इदं तु न नः प्रतिभाति यदन्तःप्राणचारे नालिकाद्यब्दान्तं क्रमेणाभिधाय द्वित्रिचतुरब्दादिक्रमव्यतिक्रमेण निष्कारणमेव द्वादशाब्दाद्यभिहितमिति | तत्रापि द्वादशानामेवाब्दानामुदयो न त्रयोदशानां, षष्टिरेव न पुनरेकोनषष्टिरिति, तदधिकस्य चोदयानभिधानमिति न किंचिदत्र निमित्तमुत्पश्यामः � इति किमेतदिति न जानीमः | अत्रोच्यते -- इह तावद्योगिनां प्राणे जिते सत्येतद्भवेत् न त्वन्यथा, प्राणजयश्च योगशास्राद्युक्त्या क्रमेणैव भवेत्; अत एव तत्र ᳚क्रामेदजितां मात्राम्᳚ इत्याद्युक्तम् | ततश्चात्र तुट्यादिक्रमेणैव यथायथं तारतम्यादब्दपर्यन्तं तदुदय उक्तः | एवं जितप्राणः कश्चिद्योगी यदि क्रममपहाय तत्र द्वादशानामब्दानामुदयमसंदध्यात्, तत्तस्य निमित्ततामियात् अत्यन्तमेव प्राणस्य जितत्वात्; न चेह ज्योतिःशास्रवत् संवत्सराणां क्रमः कश्चिद्विवक्षितो येनास्यातिक्रमः स्यात्; यावता हि जितप्राणो योगी यन्नाम तत्रानुसन्धत्ते तत्तस्य साक्षात्कृतं भवेत् -- इत्यभिधानीयं, तच्चैवमस्तु नैवं वा को विशेषः| न चात्र योगिनां प्राणं जेतुं किंचिदपेक्षान्तरमस्ति येन क्रमोऽवश्यस्वीकार्यः स्यात् | न च सहसैवात्यन्तं विदूरेऽप्यनुसन्धानं कार्यम् -- इत्यन्तरा सोपानकल्पतया द्वादशाब्दोदय उक्तः | एवं षष्ट्यब्दोदयेऽपि वाच्यम् | तस्माद्यथांशांशिकाक्रमेण विषं भक्षयन् कश्चिज्जीर्णविषः सन् अक्रमेण बह्वपि विषं भक्षयन् जरयेदेवमिहापि ज्ञेयम् | एतदेव च तदधिकस्याप्युदयानभिधाने निमित्तम् | एवं परां काष्ठां प्राप्तो योगी यत्किंचित्तत्रानुसंदध्यात् तदेव साक्षात्कुर्यात् -- इत्यानन्त्यात्कियदन्यदभिधीयते इति | न ह्यतोऽधिकेनोक्तेन किंचित्प्रयोजनान्तरमुत्पश्यामः | यदुक्तमनेनान्यत्र � ङ षष्ट्यब्दोदयादधिकं परीक्ष्यते आनन्त्यात् |᳚ (तंषा. ६आ.)
SK
इति | यत्पुनरन्यत्र विंशत्यधिकोत्तराब्दशतोदयोऽप्युक्तस्तदप्येवं प्रदर्शनपरमेवेत्येकस्मिन्नेव प्राणचारे कल्पोऽप्यनुपसंहितः साक्षात्कृतो भवेदेव को नामात्र विरोधः | यत्तु द्वादशानामेवाब्दानां षष्टेरेव वा कथमभ्युदयोऽभिहितः इत्युक्तं तद्यद्यपि शिंशपाचोद्यं तदन्याभिधानेऽप्येवञ्चोद्यावकाशात्, तथापि अत्यन्तमेवापूर्वार्थदर्शनेन श्रोतॄणामत्र संमोहो मा भूत् इति कारुण्याद्भगवता प्राच्यगणनाक्रमसजातीयमेवैतदुक्तमिति न कश्चिद्दोषः || १२८ || एवमन्तःकालस्य स्वरूपं निरूप्य बहिरपि निरूपयति -- इति प्राणोदये योऽयं कालः शक्त्येकविग्रहः | विश्वात्मान्तःस्थितस्तस्य बाह्ये रूपं निरूप्यते || ६-१२९ || प्राणोदय इत्यर्थादपानोदयेऽपि विश्वात्मत्वे हेतुः ᳚शक्त्येकविग्रह᳚ इति || तदेवाह � षट् प्राणाश्चषकस्तेषां षष्टिर्नाली च तास्तथा | तिथिस्तत्त्रिंशता मासस्ते द्वादश तु वत्सरः || १३० || अब्दं पित्र्यस्त्वहोरात्र उदग्दक्षिणतोऽयनात् | पितॄणां यत्स्वमाने वर्षं तद्दिव्यमुच्यते || १३१ || षष्ट्यधिकं च त्रिशतं वर्षाणामत्र मानुषम् | तथेति षष्टिरेव | स्वमानेनेति मानुषात्मकस्वकाहोरात्रकल्पनयेत्यर्थः | यत्पित्र्यं वर्षं तदेव दिव्यमुच्यते, येन पितॄणां देवानामप्यहोरात्रादि समानमेवेति भावः | तस्य च पित्र्यस्य दिव्यस्य वा वर्षस्य कियन्मानमित्युक्तं ᳚मानुषं षष्ट्यधिकं वर्षशतत्रयम्᳚ इति || १३१ || एतदेव विभजति � तच्च द्वादशभिर्हत्वा माससंख्यात्र लभ्यते || ६-१३२ || तां पुनस्त्रिंशता हत्वाहोरात्रकल्पना वदेत् | हत्वा तां चैकविंशत्या सहस्रैः षट्शतेन च || ६-१३३ || प्राणसंख्यां वदेत्तत्र षष्ट्याद्यब्दोदयं पुनः |
SK
तदिति, दिव्यं वर्षं ᳚द्वादशभिर्हत्वा, इति द्वादशभिर्विभज्य, तेनात्र मानुषवर्षत्रिंशदात्मा द्वादशो भागो मासः | तामिति, माससंख्यां ᳚त्रिंशता हत्वा᳚ त्रिंशद्धा कृत्वा, तेनात्र मानुषवर्षात्मा त्रिंशो भागो दिव्योऽहोरात्रः | तामिति, मानुषषष्ट्यधिकशतत्रयदिनात्मिकामहोरात्रकल्पनाम् ᳚एकविंशत्या सहस्रैः षट्शतेन च हत्वा᳚ इति तथात्वेन भागशः कृत्वेत्यर्थः | एवं हि प्रति मानुषीं नालिकां दिव्यः प्राणचारो भवेदिति भावः | एवमविशिष्टैव सर्वत्र प्रत्यहं प्राणचारे संख्येत्याख्यातं स्यात् | तत्रैति प्राणसंख्यायां, पुनरित्यादाविवेत्यर्थः || १३३ || नन्वन्ये पित्र्यमेव वर्षं देवानां दिनमित्युक्तवन्तस्तत्कथमिह तयोः साम्यमुक्तं, किमत्र किंचित्साधकं प्रमाणमस्ति ? -- इत्याशङ्क्याह -- उक्तं च गुरुभिः श्रीमद्रौरवादिस्ववृत्तिषु || ६-१३४ || तदेव पठति � देवानां यदहोरात्रं मानुषाणां स हायनः | शतत्रयेण षष्ट्या च नॄणां विबुधवत्सरः || ६-१३५ || पित्र्यं दिनं मानुषाणां हायन इत्यविवादः | देवानामप्येवमित्युक्तेरनयोः साम्यमेव -- इत्यर्थसिद्धम् | नॄणामित्यत्र हायनानामिति शेषः || न केवलमेतद् गुरुभिरेवोक्तं यावदागमोऽप्येवमेव -- इत्याह -- श्रीमत्स्वच्छन्दशास्त्रे च तदेव मतमीक्ष्यते | पितॄणां तदहोरात्रमित्युपक्रम्य पृष्ठतः || ६-१३६ || एवं दैवस्त्वहोरात्र इति ह्यैक्योपसंहृतिः | पृष्ठत इति पश्चात् | यदुक्तम् तत्र -- ᳚दक्षिणं चायनं रात्रिरुत्तरं चायनं दिनम् | पितॄणां तदहोरात्रमनेनाब्दस्तु पूर्ववत् || एवं दैवस्त्वहोरात्रस्तत्राप्यब्दादि पूर्ववत् |᳚ (स्वटं. ११|२०८) इति || १३६ || एवं पित्र्यं वर्षं देवानां दिनमिति यदन्यैरुक्तं तदयुक्तमेव -- इत्याह -- तेन ये गुरवः श्रीमत्स्वच्छन्दोक्तिद्वयादितः || ६-१३७ || पित्र्यं वर्षं दिव्यदिनमूचुर्भ्रन्ता हि ते मुधा | ᳚भ्रन्ता᳚ इत्यत्र हेतुः ᳚उक्तिद्वयादितः᳚ इति | पितॄणामित्येकोक्तिः, एवं दैव इति द्वितीया, आदिशब्दाद्रुरुवृत्तिकारोक्तिः || १३७ ||
SK
इदानीमेतदुपजीवनेनैव युगादिव्यवस्थामप्याह -- दिव्यार्काब्दसहस्राणि युगेषु चतुरादितः || ६-१३८ || एकैकहान्या तावद्भिः शतैस्तेष्वष्ट संधयः | चतुर्युगैकसप्तत्या मन्वन्तस्ते चतुर्दश || ६-१३९ || ब्रह्मणोऽहस्तत्र चेन्द्राः क्रमाद्यान्ति चतुर्दश | ᳚अर्का᳚ द्वादश | युगेषु चतुर्ष्वपि चतुरादित एकैकहान्येत्येषां विभागः; तेन कृते चत्वारि सहस्राणि, त्रेतायां त्रीणि, द्वापरे द्वे, कलावेकम् -- इति दिव्यानां वर्षाणां दशसहस्राणि चतुर्षु युगेषु मानम् | अवशिष्टस्य सहस्रद्वयस्य विभागमाह ᳚तावद्भिरित्यादिना᳚ | तावद्भिश्चतुस्त्र्यादिभिरेवाष्ट सन्धय इति चतुर्णां युगानामाद्यन्तयोर्भावात्, उभयमीलनया तु चत्वारः | एवं कलेरन्तगं शतं कृतस्यादौ चत्वारि शतानीति कलिकृतयुगसंध्या पञ्चशतानि एवं कृतत्रेतयोः संध्या सप्तशतानि, त्रेताद्वापरयोः पञ्च, द्वापरकलियुगयोस्त्रीणि गणयित्वा सहस्रद्वयम्, -- इत्युभयतो दिव्यं वर्षसहस्रद्वादशकं चतुर्युगम् | तदुक्तम् -- ᳚द्वादशाब्दसहस्राणि विज्ञेयं तु चतुर्युगम् | चतुर्भिस्तु कृतं देवि सहस्रैस्तु यथाक्रमम् || त्रेता ज्ञेया त्रिभिर्देवि द्वाभ्यां वै द्वापरः स्मृतः | सहस्रेणैव वर्षाणां विज्ञेयस्तु कलिः प्रिये ||᳚ (स्वटं. ११|२१०) इति | तथा ᳚शतानि चत्वारि कृते त्वादिरन्तश्च कीर्त्यते | त्रेते शतत्रयं ज्ञेयं द्वापरे तु शतद्वयम् || कलौ चापि शतं ज्ञेयं संध्यामानमिदं स्मृतम् |᳚ (स्वटं. ११|२१२) इति | त इति मन्वन्ताः | तत्रेति ब्रह्मेऽह्नि, चतुर्दशेति तेन प्रतिमन्वन्तरमेकैक इन्द्रः संहारं यातीत्यर्थः | तदुक्तम् -- ᳚दिनेनैकेन ब्रह्मेण इन्द्राश्चैव चतुर्दश | राज्यं कृत्वा क्रमाद्यान्ति मन्वन्तरव्यवस्थया ||᳚ (स्वटं. ११|२२९) इति | अत एवानेन संहारचित्रताया अप्यवकाशो दत्तः || १३९ || तदाह � ब्रह्माहोऽन्ते कालवह्नेर्ज्वाला योजनलक्षिणी || ६-१४० || दग्ध्वा लोकत्रयं धूमात्त्वन्यत्प्रस्वापयेत्त्रयम् | लोकत्रयमिति, निरयेभ्यः प्रभृति भूर्भवःस्वपर्यन्तमित्यर्थः | यदुक्तम् --
SK
शा दहेन्नरकान्देवि पातालानि समन्ततः | त्रींल्लोकांश्चैव दहति भूर्भुवःस्वःपदान्तकान् ||᳚ (स्वटं. ११|२३७) इति | अन्यदिति, महोजनस्तपःसंज्ञम् || १४० || ननु सर्वेषां भुवनेश्वराणामधोऽध एव सर्वत्र सृष्टिसंहारकारित्वं श्रूयते; वक्ष्यते च पुरस्तात्तदिदं पुनः कस्मादन्यथोक्तम् -- इत्याशङ्क्याह -- निरयेभ्यः पुरा कालवह्नेर्व्यक्तिर्यतस्ततः || ६-१४१ || विभुरधःस्थितोऽपीश इति श्रीरौरवं मतम् | अस्य खलु निरयेभ्यः पूर्वं सृष्टिरिति तदधोऽवस्थानं न तु तदपकर्षात्; अतश्च तदधःस्थितोऽपि विभुर्व्यापकत्वादूर्ध्वमपि संहारादौ स्वामीत्यर्थः | न चैतदस्माभिः स्वोपज्ञमेवोक्तमित्याह -- ᳚इति श्रीरौरवं मतम्᳚ इति | तदुक्तम् तत्र -- ङरकाणामधः पूर्वं व्यक्तिरस्योपजायते | सर्वस्थानोऽपि संस्तस्मादधःस्थ इव लक्ष्यते ||᳚ इति || १४१ || न केवलमेवं विश्वमास्ते यावदेकार्णवीभावेऽपि -- इत्याह -- ब्रह्मनिःश्वासनिर्धूते भस्मनि स्वेदवारिणा || ६-१४२ || तदीयेनाप्लुतं विश्वं तिष्ठेत्तावन्निशागमे | ननु यद्येवं तत्तदा तेषां भुवनानामीश्वरास्तद्वासिनो वा जीवाः कुत्रासते? -- इत्याशङ्क्याह -- तस्मिन्निशावधौ सर्वे पुद्गलाः सूक्ष्मदेहगाः || ६-१४३ || अग्निवेगेरिता लोके जने स्युर्लयकेवलाः | कूष्माण्डहाटकाद्यास्तु क्रीडन्ति महदालये || ६-१४४ || शूक्ष्मदेहगाः᳚ पुर्यष्टकरूपाः | तुशब्दो व्यतिरेके | अत एव क्रीडन्तीत्युक्तम् || १४४ || निशाक्षये पुनः किं स्यात् ? -- इत्याशङ्क्याह -- निशाक्षये पुनः सृष्टिं कुरुते तामसादितः | तामसादित इति, यदुक्तम् -- ᳚प्रथमं तामसीं सृष्टिं करोति तमसोत्कटाम् |᳚ (स्वटं. ११|२४४) इत्युपक्रम्य ᳚तमोरजःसमावेशान्मानवान्स सृजेत्पुनः | रजःसत्त्वसमाविष्टः सृजेन्मुनिवरेश्वरान् || गतनिद्रः प्रबुद्धः स सत्त्वाविष्टो जगत्पतिः | सृजेद्देवान्सलोकांश्च पूर्वयैव व्यवस्थया ||᳚ (स्वटं. ११|२४६) इति || एवं प्रत्यहं कुर्वतो मन्वन्तराष्टाविंशत्यात्मकाहोरात्रकलनया स्वकवर्षशतान्तेऽस्य संहारः -- इत्याह �
SK
स्वकवर्षशतान्तेऽस्य क्षयस्तद्वैष्णवं दिनम् || १४५ || रात्रिश्च तावतीत्येवं विष्णुरुद्रशताभिधाः | क्रमात्स्वस्वशतान्तेषु नश्यन्त्यत्राण्डलोपतः || १४६ || एतदेव यथोत्तरमतिदिशति ᳚तदित्यादिना᳚ | तद् ब्रह्मं वर्षशतम् | ᳚अण्डलोपतः᳚ इत्यण्डलोपमवधिं कृत्वा, तेन तन्नाशाद्ब्रह्माण्डोऽपि नश्यतीत्यर्थः| तदुक्तम् -- ᳚विष्णोश्च तद्दिनं प्रोक्तं रात्रिर्वै तत्समा भवेत् | अनेन परिमाणेन तस्याब्दं तु विधीयते || वर्षाणां च शते पूर्णे सोऽपि याति परे लयम् | विष्णोरायुर्यदेवोक्तं रुद्रस्यैतद्दिनं प्रिये ||᳚ (स्वटं. ११|२६३) इति | ᳚वत्सराणां शते पूर्णे शतरुद्रदिनक्षयात् | सोऽपि याति परं स्थानं...................... ||᳚ (स्वटं. ११|२७१) इति | ᳚शतरुद्राश्च देवेशि स्वाब्दानां तु शतात्यये | ते प्रयान्ति परं तत्त्वं ततोऽण्डं च विनश्यति ||᳚ (स्वटं. ११|२७३) इति च | अण्डनाशाच्च कालाग्निरुद्रस्यापि नाशः -- इत्यर्थसिद्धम् | यदुक्तम् -- ᳚ततः कालाग्निरुद्रश्च कालतत्त्वे लयं व्रजेत् |᳚ (स्वटं. ११|२७७) इति || १४६ || अव्यक्तान्तमपीयमेव व्यवस्था -- इत्याह -- अबाद्यव्यक्ततत्त्वान्तेष्वित्थं वर्षशतं क्रमात् | दिनरात्रिविभागः स्यात् स्वस्वायुःशतमानतः || ६-१४७ || एवं व्यवस्थयाव्यक्तस्थानां कियन्मानं दिनं भवेत् -- इत्याशङ्क्याह -- ब्रह्मणः प्रलयोल्लाससहस्रैस्तु रसाग्निभिः | अव्यक्तस्थेषु रुद्रेषु दिनं रात्रिश्च तावती || ६-१४८ ||
SK
रसाग्निभिरिति, षट्त्रिंशता | ब्रह्मण इति, बुद्धितत्त्वस्थस्य न तु सत्यलोकस्थस्य; नहि तदायुष्कलनयैतत्कलयितुमेव शक्यमिति भावः | तेन बुद्धितत्त्वस्थस्य ब्रह्मणो गुणतत्त्वशतरुद्रदिनान्ते संहारस्तद्दिनारम्भे च सृष्टिः -- इति तदीयेऽब्दे तस्य सषष्टिशतत्रयं प्रलयोल्लासा भवन्ति, ते च शतेन गुणिताः षट्त्रिंशत्सहस्रसंख्याका भवेयुरित्युक्तं ᳚रसाग्निभिः प्रलयोल्लाससहस्रैरिति | तावद्गुणपरीमाणं च गुणतत्त्ववासिनां रुद्राणामायुर्यदव्यक्तस्थानां दिनमित्युक्तम् ᳚अव्यक्तस्थेषु दिनं रात्रिश्च तावती᳚ इति | यदुक्तम् -- ᳚षट्त्रिंशत्तु सहस्राणि ब्रह्मणां प्रलयोद्भवाः | अव्यक्ते च दिनं प्रोक्तं रुद्राणां तन्निवासिनाम् ||᳚ (स्वटं. ११|२८९) इति | अस्याश्च व्यवस्थायाः शक्तितत्त्वान्तमविशेषेऽप्यव्यक्तान्तमेवमतिदेशस्येद मेव प्रयोजनं यदत्र गुणतत्त्ववर्तिरुद्रायुरपेक्षया दिनमानस्य संख्यानैयत्यमुत्पन्न मिति || १४८ || अत्र च सृष्टिसंहारादौ कस्याधिकारः -- इत्याशङ्क्याह -- तदा श्रीकण्ठ एव स्यात्साक्षात्संहारकृत्प्रभुः | सर्वे रुद्रास्तथा मूले मायागर्भाधिकारिणः || ६-१४९ || अव्यक्ताख्ये ह्याविरिञ्चाच्छ्रीकण्ठेन सहासते | साक्षान्न तु विरिञ्चादिमुखेन, यतस्तदानीं विरिञ्चात्प्रभृति प्रकृतिगर्भाधिकारिणः सर्व एव तत्तद्भुवनेश्वररूपा रुद्रा अव्यक्ताख्ये मूले प्रकृतितत्त्वे श्रीकण्ठेन सहासते, अर्थाच्छ्रीकण्ठनाथमेव नायकतया प्रधानीकृत्य तिष्ठन्तीत्यर्थः | यदुक्तम् -- ᳚प्रजाः प्रजानां पतयः पितरो मानवैः सह | सांख्यज्ञानेन ये सिद्धा वेदेन ब्रह्मवादिनः || छन्दःसामानि चोङ्कारो बुद्धिस्तद्देवताः प्रिये | अह्नि तिष्ठन्ति ते सर्वे परमेशस्य धीमतः ||᳚ इति || १४९ || ननु ᳚महाकल्पस्य पर्यन्ते ब्रह्मा याति परे लयम् |᳚ (स्व. ११|२६१) इत्याद्युक्त्या तस्य परशिवे लय उक्तस्तत्कथमसावास्ते ? -- इत्याशङ्क्याह -- निवृत्ताधःस्थकर्मा हि ब्रह्मा तत्राधरे धियः || ६-१५० || न भोक्ता ज्ञोऽधिकारे तु वृत्त एव शिवीभवेत् |
SK
स एषोऽवान्तरलयस्तत्क्षये सृष्टिरुच्यते || ६-१५१ || यद्यसाववृत्तपरशक्तिपातस्तद्बुध्यधोनिवृत्तकर्मतया भोगाभावात्तत्र भोक्ता न भवेत् -- इत्यत्रैवास्ते, अन्यथा पुनर्यदि ज्ञानी साक्षात्कृतात्मतत्त्वः स्यात् अधिकारनिवृत्त्यनन्तरं स ᳚शिवीभवेत्᳚ तदैकात्म्येनैव प्रस्फुरेदित्यर्थः | एवमन्येषामपि ज्ञेयम् | अवान्तरलय इति, ब्रह्माण्डलयस्योक्तत्वात्प्रकृत्यण्डलयस्य च वक्ष्यमाणत्वात् || १५१ || नन्वत्र ᳚बुद्धितत्त्वे स्थिता बौद्धा गुणेष्वप्यार्हताः स्थिताः | स्थिता वेदविदः पुंसि त्वव्यक्ते पाञ्चरात्रिकाः ||᳚ इत्याद्युक्त्या केचिदात्मानो मुक्ताः संभवन्ति, केचिच्च बद्धास्तत्कथमविशेषेणैवोक्तं ᳚तत्क्षये सृष्टिरुच्यते᳚ इति | नहि मुक्तात्मनां पुनः संसृतिः स्यात्? -- इत्याशङ्क्याह -- सांख्यवेदादिसंसिद्धाञ्छ्रीकण्ठस्तदहर्मुखे | सृजत्येव पुनस्तेन न सम्यङ् मुक्तिरीदृशी || ६-१५२ || इदानीं पूर्वोक्तयैव नीत्या यथोत्तरं वृद्धिक्रमेण दिनादिव्यवस्थामतिदेशद्वारेण दर्शयति ᳚प्रधाने᳚ इत्यादिना शामनसे पदे᳚ इत्यन्तम् -- प्रधाने यदहोरात्रं तज्जं वर्षशतं विभोः | श्रीकण्ठस्यायुरेतच्च दिनं कञ्चुकवासिनाम् || ६-१५३ || तत्क्रमान्नियतिः कालो रागो विद्या कलेत्यमी | यान्त्यन्योन्यं लयं तेषामायुर्गाहनिकं दिनम् || ६-१५४ || तद्दिनप्रक्षये विश्वं मायायां प्रविलीयते | क्षीणायां निशि तावत्यां गहनेशः सृजेत्पुनः || ६-१५५ || एवमव्यक्तकालं तु परार्धैर्दशभिर्जहि | मायाहस्तावती रात्रिर्भवेत्प्रलय एष सः || ६-१५६ || मायाकालं परार्धानां गुणयित्वा शतेन तु | एश्वरो दिवसो नादः प्राणात्मात्र सृजेज्जगत् || ६-१५७ || तावती चैश्वरी रात्रिर्यत्र प्राणः प्रशाम्यति |
SK
अहोरात्रमिति, गुणतत्त्ववर्तिरुद्रायुरपेक्षया ब्रह्मप्रलयोल्लासद्वासप्ततिसहस्रसंख्याकम् | तज्जमिति, षष्ट्यधिकेन शतत्रयेण गुणयित्वा इत्यर्थः | एतदिति, वर्षशतपरीमाणं श्रीकण्ठीयमायुः | कञ्चुकवासिनामित्यर्थान्नियतितत्त्वस्थानां वामदेवादीनां न तु कालतत्त्वादिगतानामपि; तदपेक्षया हि कालतत्त्वादौ यथोत्तरं वृद्ध्यादिव्यवस्था संभवेत्, अत एव ᳚क्रमादन्योन्यं लयं यान्ति᳚ इत्युक्तम् | आगमोऽप्येवं -- ᳚ततो नियतिकालौ च रागो विद्या कला तथा | परस्परं लयं यान्ति क्रमात्सर्वे स्वमानतः ||᳚ (स्वटं. ११ |२९२) इति | तेषामिति, कलातत्त्वस्थानां महादेवादीनां न तु सर्वेषां कञ्चुकवासिनां; तथात्वे हि गाहनिकं दिनमव्यक्तकालसंख्यामपेक्ष्य पञ्चदशस्थानावस्थितेन दशगुणेन परार्धेन वक्ष्यमाणं गुणनं सङ्गतिमियात् | तत्सर्वेषामेव कञ्चुकवासिनां यथोत्तरमायुषो वृद्धया गाहनिकस्य दिनस्यानवच्छिन्नसंख्याप्रतिपादनार्थमेवं वक्ष्यमाणं सङ्गच्छते -- इत्यलं बहुना | गणना तु ग्रन्थविस्तरभयान्न लिखिता -- इति स्वयमेवाभ्यूह्या | तावत्यामिति, वक्ष्यमाणदिनसमानायाम् | जहीति गुणयेत्यर्थः | यदुक्तम् -- ᳚प्राधानिकपरार्धेन दशधा गुणितेन च | माया संहरते सर्वं पुनश्चैव सृजेज्जगत् || मायाकालपरार्धस्य शतधा गुणितस्य च | रिश्वरः कुरुते सृष्टिं संहरेच्च पुनः सृजेत् ||᳚ (स्वटं. ११|२९७) इति | अनेन चात्रोत्तरोत्तरं कालः प्रकृष्यते -- इत्युक्तं स्यात्; एवमुत्तरत्रापि ज्ञेयम् | ङाद᳚ इति बहिरुन्मेषरूपतया नदनस्वभाव ईश्वरः | प्राणात्मेति, प्राणप्रमातृत्वात् | प्रशाम्यतीति, अत ऊर्ध्वं प्राणस्य प्राधान्याभावात्, विश्वमिति तस्याप्यहन्तायां विश्रान्तेः || १५७ || न केवलमात्र नादात्मनः प्राणस्यैव प्रशमो यावद् बिन्द्वाद्यात्मिकायाः संविदोऽपि भविष्यति -- इत्याह -- प्राणगर्भस्थमप्यत्र विश्वं सौषुम्नवर्त्मना || ६-१५८ || प्राणे ब्रह्मविले शान्ते संविद्याप्यवशिष्यते | अंशांशिकातोऽप्येतस्याः सूक्ष्मसूक्ष्मतरो लयः || ६-१५९ ||
SK
गुणयित्वैश्वरं कालं परार्धानां शतेन तु | सदाशिवं दिनं रात्रिर्महाप्रलय एव च || ६-१६० || सदाशिवः स्वकालान्ते बिन्द्वर्धेन्दुनिरोधिकाः | आक्रम्य नादे लीयेत गृहीत्वा सचराचरम् || ६-१६१ || नादो नादान्तवृत्त्या तु भित्त्वा ब्रह्मबिलं हठात् | शक्तितत्त्वे लयं याति निजकालपरिक्षये || ६-१६२ || एतावच्छक्तितत्त्वे तु विज्ञेयं खल्वहर्निशम् | शक्तिः स्वकालविलये व्यापिन्यां लीयते पुनः || ६-१६३ || व्यापिन्या तद्दिवारात्रं लीयते साप्यनाश्रिते | परार्धकोट्या हत्वापि शक्तिकालमनाश्रिते || ६-१६४ || दिनं रात्रिश्च तत्काले परार्धगुणितेऽपि च | सोऽपि याति लयं साम्यसंज्ञे सामनसे पदे || ६-१६५ || महाप्रलय इति, शुद्धाध्वनोऽपि संहरणात् | तदुक्तम् -- ᳚ततः सदाशिवो देवः स्वमानेन च संहरेत् | सृजते च पुनर्भूय आत्मीये देव्यहर्मुखे || महाप्रलय एवोक्तः सादाख्ये तु दिनक्षये |᳚ (स्वटं. ११|२९८) इति | ᳚बिन्दुं चैवार्धचन्द्रं च भित्त्वा चैव निरोधिकाम् | नादतत्त्वे लयं याति गृहीत्वा सचराचरम् ||᳚ (स्वटं. ११|३००) इति | नादानुवृत्त्येति, नादान्तभूमिकामासाद्येत्यर्थः | यदुक्तम् -- ङादः सौषुम्नमार्गेण भित्त्वा ब्रह्मबिलं प्रिये | शक्तितत्त्वे लयं याति शक्तितत्त्वदिनक्षये ||᳚ (स्वटं. ११|३०१) इति | एतावदिति, सदाशिवायुःसंख्यातम् | तदिति, यः शक्तिलयकालः | परार्धकोट्येति, यदुक्तम् � ᳚शक्तिकालपरार्धस्य कोटिधा गुणितस्य तु | अनाश्रितस्य देवस्य दिनमेकं प्रकीर्तितम् ||᳚ (स्वटं. ११|३०३) सोऽपीत्यनाश्रितः | तदुक्तम् -- ᳚अनेन परिमाणेन परार्धगुणितेन च | सोऽपि याति परं स्थानं कारणं समनाश्रयम् ||᳚ (स्वटं. ११|३०४) इति || १६५ || नन्वेवं समनाया अपि लयः कस्मान्नोच्यते -- इत्याशङ्क्याह -- स कालः साम्यसंज्ञः स्यान्नित्योऽकल्यः कलात्मकः | यत्तत्सामनसं रूपं तत्साम्यं ब्रह्म विश्वगम् || ६-१६६ ||
SK
यतः स विश्वकलनाकारी कालः समनाख्या येयं कलाशक्तिस्तदात्मकोऽत एव नित्यो, न ह्यस्याः समनाख्यायाः शक्तेर्महाप्रलयेऽपि नाशः -- इत्याशयः | यदभिप्रायेणैवान्यैः ᳚शंभुः पुरुषो माया नित्यम्᳚ इत्याद्युक्तम् | अत एव पृथिव्यादेरनाश्रितान्तस्य विश्वस्याभेदात्मना साम्येनावस्थानात्साम्यशब्दाभिधेयः | अत एव भेदप्रथाया अभावात् ᳚अकल्यः᳚ कलयितुमशक्य इत्यर्थः | शक्त्यन्तं हि विश्वसंहारे वृत्ते सकलोऽयमणुवर्गः संभूय समनायामेवास्ते -- इत्याह -- ᳚यत्तत्सामनसं रूपं तद्विश्वगं साम्यम्᳚ इति | न चैवमपि भेदवादिवदिदं परस्माद् ब्रह्मणोऽतिरिक्तमित्युक्तं ᳚ब्रह्म᳚ इति, परब्रह्मरूपमित्यर्थः | तदुक्तम् -- श कालः साम्यसंज्ञश्च जन्ममृत्युभयापहः | तस्याप्यूर्ध्वममेयस्तु कालः स्यात्परमावधिः || नित्यो नित्योदितो देवि अकल्यश्च न कल्यते |᳚ (स्वटं. ११|३४६) इति || १६६ || न केवलमत्र प्रलयावसरे विश्वस्यावस्थानमेव यावत्सृष्टिर(ष्टाव)पि -- इत्याह -- अतः सामनसात्कालान्निमेषोन्मेषमात्रतः | तुट्यादिकं परार्धान्तं सूते सैवात्र निष्ठितम् || ६-१६७ || निमेषोन्मेषमात्रत इति, सदाशिवेश्वरदशामधिशयानादित्यर्थः | यदुक्तम् -- श चाधः कलयेत्सर्वं व्यापिन्याद्यं धरावधि | तुट्यादिभिः कलाभिश्च देव्यध्वानं चराचरम् ||᳚ (स्वटं. ११|३०७) इति | अत एव चान्यैरस्मच्छास्त्रप्रक्रियामजानानैः ᳚शक्त्यन्तं महाप्रलये वृत्ते सकलोऽयमणुवर्गः प्रलयान्त ऊर्ध्वोर्ध्वमवस्थितेरभिधानात्परिशिष्टं शिवतत्त्वमेवासादयेत् | तदासादनमेव च मुक्तिः; तदक्रमेण सर्वेषामनायासमेव सा सिद्ध्येदिति किं शास्त्रानुष्ठानादिना᳚ इत्यादि यच्चोदितं तदुत्थानोपहतमेव | न हि शक्त्यन्तं प्रलयेऽप्येषां शिवतत्व एवावस्थानं समनायामेवमभिधानात् शमनान्तं वरारोहे पाशजालमनन्तकम् |᳚ (स्वटं. ४|४२९)
SK
इत्याद्युक्त्या तदन्तं च बन्ध एव -- इति को नाम तत्र मुक्तेरवकाशः | न चैवमपि शंभुवत्समनाया अपि नित्यत्वादभेदवादक्षतिः, भेदमेवाधिकृत्य सृष्टिप्रलयादिव्यवहारस्योत्थानात्; वस्तुतः पुनरभेदवादचर्चा प्रतिपदमिह दर्शिता दर्शयिष्यते च -- इत्यलं बहुना || १६७ || एवमुक्तवक्ष्यमाणपरिमाणोपयोगिन्याः संख्यायाः क्रमेण रूपं दर्शयति -- दशशतसहस्रमयुतं लक्षनियुतकोटि सार्बुदं वृन्दम् | खर्वनिखर्वे शङ्खाब्जजलधिमध्यान्तमथ परार्धं च || ६-१६८ || अब्जेति पद्मं, जलधीति सागरः || १६८ || नन्वेवमवस्थानमेषां कथं स्यात् ? -- इत्याशङ्क्याह -- इत्येकस्मात्प्रभृति हि दशधा दशधा क्रमेण कलयित्वा | एकादिपरार्धान्तेष्वष्टादशसु स्थितिं बूर्यात् || ६-१६९ || यदुक्तम् � ᳚एकं दशगुणं पूर्वं शतं दशगुणं तु तत् | शतं दशगुणं कृत्वा सहस्रं परिकीर्तितम् || सहस्रं दशधा चैवमयुतं तद्धि कीर्तितम् | दशायुतानि लक्षं तु नियुतं दश तानि तु || दश तानि च कोटिः स्याद्दश कोट्यस्तदर्बुदम् | अबुदैर्दशभिर्वृन्दं खर्वं दशभिरेव तैः || दशभिस्तन्निखर्वं तु शङ्कुः स्याद्दश तानि तु | शङ्कुभिर्दशभिः पद्मं दश पद्मानि सागरः || सागरैर्दशभिर्मध्यमन्तस्तैर्दशभिः स्मृतः | अन्तं दशाहतं कृत्वा परार्धं तु प्रकीर्तितम् || एवमष्टादशैतानि स्थानानि गणितस्य तु |᳚ इति || १६९ || एवमत्र सृष्टिप्रलयानामानन्त्येऽपि गौणमुख्यभावं दर्शयितुमाह - - चत्वार एते प्रलया मुख्याः सर्गाश्च तत्कलाः | भूमूलनैशशक्तिस्थास्तदेवाण्डचतुष्टयम् || ६-१७० || मुख्या इत्यवान्तराणामनन्तानां प्रलयानां सर्गाणां चात्रैवान्तर्भावात् | ᳚तत्कला᳚ इति तेषां प्रलयानां सर्गाणां च ᳚कला᳚ पृथिव्यादिभेदचतुष्टयरूपा अंशा इत्यर्थः | तदेवेति, भूमूलादि | तदुक्तम् � ङिजशक्तिवैभवभरादण्डचतुष्टयमिदं विभागेन | शक्तिर्माया प्रकृतिः पृथ्वी चेति प्रभावितं प्रभुणा ||᳚ (प. सा. ४ श्लोक) इति || १७० ||
SK
अत्रैव स्रष्ट्टसंहर्तृविभागमपि दर्शयति -- कालाग्निर्भुवि संहर्ता मायान्ते कालतत्त्वराट् | श्रीकण्ठो मूल एकत्र सृष्टिसंहारकारकः || ६-१७१ || तल्लयो वान्तरस्तस्मादेकः सृष्टिलयेशिता | श्रीमानघोरः शक्त्यन्ते संहर्ता सृष्टिकृच्च सः || ६-१७२ || संहर्ता न पुनः स्रष्टा तद्धि ब्रह्मादीनामेव हि पूर्वमुक्तं, कालतत्त्वराडिति कालतत्त्वाधिपः श्रीकण्ठः | यदुक्तम् -- ᳚एकवीरः शिखोदश्च श्रीकण्ठः कालमाश्रितः |᳚ (मा.वि. ५|२७) इति | श्रीकण्ठ इत्यव्यक्तस्थः | एकत्रेति त्रिष्वपि योज्यम् | तल्लय इति श्रीकण्ठकर्त्तृकः संहारः | यद्वा त्रिष्वपि पृथिव्यादिषु स्थानेषु परापररूपतामधिशयानः श्रीकण्ठनाथ एककः सृष्टिसंहारकारकः | यदुक्तम् � ᳚श्रीकण्ठ एव परया मूर्त्या कालाग्निरुच्यते |᳚ इति | तथा ᳚त्रिष्वेव संस्थितो रुद्रः कालरूपी महेश्वरः |᳚ इति | ᳚शक्त्यन्ते᳚ इति शुद्धाध्वनि | तदुक्तम् -- ᳚तदूर्ध्वे शुद्धमध्वानं यावच्छक्यन्तगोचरम् | तत्सर्वं संहरेद् घोरमघोरो घोरनाशनः ||᳚ इति || १७२ || न केवलं शक्त्यन्तं प्रलयस्यैव महत्त्वं यावत्सृष्टेरपीत्याह -- तत्सृष्टौ सृष्टिसंहारा निःसंख्या जगतां यतः | अन्तर्भूतास्ततः शाक्ती महासृष्टिरुदाहृता || ६-१७३ || ननु पृथिव्यादितत्त्वप्रलये यैव तन्निवासिनामणूनां व्यवस्था सैव किं तत्त्वेश्वरणां न वा ? -- इत्याशङ्क्याह -- लये ब्रह्मा हरी रुद्रशतान्यष्टकपञ्चकम् | इत्यन्योन्यं क्रमाद्यान्ति लयं मायान्तकेऽध्वनि || ६-१७४ || मायातत्त्वलये त्वेते प्रयान्ति परमं पदम् | शुद्धाध्वव्यवस्थितानां पुनः किं परमं पदम् ? -- इत्याशङ्क्याह - - मायोर्ध्वे ये सिताध्वस्थास्तेषां परशिवे लयः || ६-१७५ || तत्राप्यौपाधिकाद्भेदाल्लये भेदं परे विदुः | तत्रापीति, परशिवे | परे विदुरिति, न पुनरस्माकमिदं मत मित्याशयः || १७५ || नन्वेवमपवृक्तेषु पुनः सृष्टौ तत्र केषामधिकारः ? -- इत्याशङ्क्याह -- एवं तात्त्वेश्वरे वर्गे लीने सृष्टौ पुनः परे || ६-१७६ ||
SK
तत्साधकाः शिवेष्टा वा तत्स्थानमधिशेरते | तत्साधका इति � ᳚लोकधर्मिणमारोप्य मते भुवनभर्तरि |᳚ इत्यादिना निरूपिताश्चर्यादिक्रमेण प्रेप्सिततत्तद्भुवनैश्वर्याः | शिवेष्टा इति, तदिच्छामात्रानुगृहीताः || १७६ || नन्वेवमप्येषां ब्रह्मादिशब्दप्रवृत्तौ किं निमित्तम् ? -- इत्याशङ्क्याह -- ब्रह्मी नाम परस्येव शक्तिस्तां यत्र पातयेत् || ६-१७७ || स ब्रह्मा विष्णुरुद्राद्या वैष्णव्यादेरतः क्रमात् | ᳚अत᳚ इति शक्तेः | तदुक्तम् -- ᳚ब्रह्मी च वैष्णवी शक्तिरधिकारपदं गता | यं चाधितिष्ठत्यात्मानं तत्संज्ञां स प्रपद्यते || तदाधिकारं कुरुते इच्छया परमात्मनः |᳚ (स्वटं. ११|२६५) इति || १७७ || ननु ब्रह्मी नाम यदि शिवस्यैव शक्तिस्तत्कथमसावन्यं यायाद्येनायं ब्रह्मेत्युच्यते, न ह्यन्यदीयधर्मस्यान्यत्रान्वयः संभवेत् ? -- इत्याशङ्क्याह -- शक्तिमन्तं विहायान्यं शक्तिः किं याति नेदृशम् || ६-१७८ || छादितप्रथिताशेषशक्तिरेकः शिवस्तथा | न ह्येतच्छिवलक्षणं शक्तिमन्तं विहायान्यं ब्रह्मादिलक्षणं शक्तिर्याति᳚ इत्येवंविधमुक्तं, किं त्वनन्तशक्तिखचितत्वेऽपि कांचिच्छक्तिं प्रच्छाद्य कांचिच्च प्रकटीकृत्यैक एव शिवस्तथा ब्रह्मविष्ण्वाद्यात्मनावभासत इति || १७८ || ननु प्राणस्य परं तत्त्वं प्रत्युपायत्वमस्तीति प्रागुपक्रान्तं तत्तदनभिधाय तदाश्रयेण सृष्टिसंहारादीनामेव स्वरूपमुच्यते - - इति किमेतत् ? -- इत्याशङ्क्याह -- एवं विसृष्टिप्रलयाः प्राण एकत्र निष्ठिताः || ६-१७९ || सोऽपि संविदि संविच्च चिन्मात्रे ज्ञेयवर्जिते | चिन्मात्रमेव देवी च सा परा परमेश्वरी || ६-१८० || अष्टात्रिंशं च तत्तत्त्वं हृदयं तत्परापरम् | संविदीति, तत्तन्नीलाद्याभाससंभिन्नायां परिमितात्मरूपायाम् | चिन्मात्रमेव चाष्टात्रिंशं तत्त्वमित्येतदग्र एवोपपादयिष्यते -- इति नेहायस्तम् | तत्स्थितमेवास्य चिन्मात्रविश्रान्तत्वं यद्वशादेवात्र नालिकादिषष्ट्यब्दोदयान्तं लयोदययोर्वैचित्र्य मिति || १८० || तदाह � तेन संवित्त्वमेवैतत्स्पन्दमानं स्वभावतः || १८१ ||
SK
लयोदया इति प्राणे षष्ट्यब्दोदयकीर्तनम् | संवित्त्वमिति -- ये नाम लयोदयास्तत्संवित्स्वातन्त्र्यम् -- इत्येवं संविदधीनमेव सर्वमेतत्कालीयं वैचित्र्यं, न पुनरस्वाधीनं किञ्चिद्रूपं बहिरस्तीत्युक्तं स्यात् || १८१ || अत आह � इच्छामात्रप्रतिष्ठेयं क्रियावैचित्र्यचर्चना || ६-१८२ || कालशक्तिस्ततो बाह्ये नैतस्या नियतं वपुः | नैतस्या नियतं वपुरिति, तथात्वे हि यत्रैकचषकोदयस्यत्रैवाब्दोदयः कथं भवेदिति भावः || १८२ || ननु कथमतिपरिमितस्यापि कालांशस्य वैतत्येनावभासो भवेत् ? -- इत्याशङ्क्याह -- स्वप्नस्वप्ने तथा स्वप्ने सुप्ते सङ्कल्पगोचरे || ६-१८३ || समाधौ विश्वसंहारसृष्टिक्रमविवेचने | मितोऽपि किल कालांशो विततत्वेन भासते || ६-१८४ || यत्राद्यां स्वाप्नीमेव दशां जाग्रद्दशात्वेन परिकल्प्य द्वितीयां स्वप्नत्वेन कश्चिदभिमन्यते स स्वप्नस्वप्न उच्चते | एवं स्वप्ने क्षणेनैव हरिश्चन्द्रस्येवानेककालिकोऽप्यनुभवोऽभवदिति युक्तमुक्तं - - ᳚मितेऽपि काले वैतत्येनावभासः᳚ इति | शुप्ते᳚ इति सुषुप्तदशायाम्ः तत्र हि क्षणमात्रमपि मोहादौ ᳚चिरस्य गाढमूढोऽहमासम्᳚ इत्याद्यभिमानोदयः | शङ्कल्पगोचरे᳚ इति स्वतन्त्रविकल्पादौ; तत्र हि क्षणेनैव कल्पपरिकल्पनमपि शक्यम् | शमाधौ᳚ इति विश्वसाक्षात्कारात्मनि | विश्वसंहारसृष्टिक्रमस्य ᳚विवेचने᳚ समनन्तरोक्तकालीयप्रमेयसङ्कलनाबुद्धावित्यर्थः | एतच्च कालीयं वैतत्यं स्वपरदृष्टत्वेनापि वैचित्र्यमियात् -- इत्याह -- प्रमात्रभेदे भेदेऽथ चित्रो विततिमाप्यसौ | अनेनैतत्स्वप्नादावनुभूतम् -- इति प्रमात्रन्तरैकीकारेण विततिम्नोऽवभासः; मयैवैतदसाधारण्येनानुभूतम् -- इति वा || इदानीं प्राणीयमेव कालविभागमपानेऽप्यतिदिशति -- एवं प्राणे यथा कालः क्रियावैचित्र्यशक्तिजः || ६-१८५ || तथापानेऽपि हृदयान्मूलपीठविसर्पिणी | यद्यपि द्वादशान्ताद्धृदन्तमपाने कालवैचित्र्यमुक्तं तथापि हृदयान्मत्तगन्धपर्यन्तं प्रसरणेऽस्यैव प्राधान्यमित्येवमुक्तम् | तदुक्तम् --
SK
᳚अपानस्यापि सञ्चारे सर्पितेयं सुविस्तृता | गुदं यावत्ततो वायुरधस्तादुपयाति हि ||᳚ इति || १८५ || नन्वत्रापि प्राणवत्कालवैचित्र्यं किं सञ्चेत्यते न वा ? -- इत्याशङ्क्याह -- मूलाभिधमहापीठसङ्कोचप्रविकासयोः || ६-१८६ || ब्रह्माद्यनाश्रितान्तानां चिनुते सृष्टिसंहृती | ᳚रासभी वडवा यद्वत्᳚ (तं. ५|५८) इत्यादिप्रागुक्तयुक्त्या जन्माधारोदितायाः शक्तेर्यौ सङ्कोचविकासौ तौ ब्रह्माद्यनाश्रितान्तस्य विश्वस्य सृष्टिसंहारादौ योगिनामनुभवसिद्धावित्युक्तं -- ᳚चिनुते सृष्टिसंहृती᳚ इति || १८६ || ननु यद्येवं तत्सर्वत्र प्राणोदय एव प्राधान्येनैतत्कस्मान्निर्दिष्टम् ? -- इत्याशङ्क्याह -- शश्वद्यद्यप्यपानोऽयमित्थं वहति किंत्वसौ || ६-१८७ || अवेद्ययत्नो यत्नेन योगिभिः समुपास्यते | ननु यद्यत्र ब्रह्मादीनां कारणानां सृष्ट्यादि संभवेत् तत्कुत्र कस्यावस्थानम् ? -- इत्याशङ्क्याह -- हृत्कन्दानन्दसङ्कोचविकासद्वादशान्तगाः || ६-१८८ || ब्रह्मादयोऽनाश्रितान्ताः सेव्यन्तेऽत्र सुयोगिभिः | ᳚द्वादशान्तः᳚ शक्तेरुदयविश्रान्तिस्थानम् | सुयोगिभिरित्यन्तःप्राणे सावधानैर्न सामान्यैस्तेषामपानस्यावेद्ययत्नतया तत्सेवनस्य यत्नसाध्यत्वात् || १८८ || ननु व्यापकत्वादेषां स्वरसत एव सर्वत्रावस्थानं सिद्धमित्यत्र विशेषाभिधाने किं प्रयोजनम् ? -- इत्याशङ्क्याह � एते च परमेशानशक्तित्वाद्विश्ववर्तिनः || ६-१८९ || देहमप्यश्नुवानास्तत्कारणानीति कामिके | तत्कारणानीति, तस्य देहस्य कारणानि तत्तदधिष्ठानद्वारेणोत्पत्तिनिमित्तमित्यर्थः || १८९ || कामिकीयमेव ग्रन्थं पठति -- बाल्ययौवनवृद्धत्वनिधनेषु पुनर्भवे || ६-१९० || मुक्तौ च देहे ब्रह्माद्याः षडधिष्ठानकारिणः | तद्बाल्ये ब्रह्मणोऽधिष्ठानकारित्वं, यावन्मुक्तावनाश्रितस्येति || १९० || नन्वस्मद्दर्शने मुक्तेः किमनाश्रिताधिष्ठानं युक्तम् ? -- इत्याशङ्क्याह -- तस्यान्ते तु परा देवी यत्र युक्तो न जायते || ६-१९१ || अनेन ज्ञातमात्रेण दीक्षानुग्रहकृद्भवेत् | अन्त इति, यदुक्तम् � ᳚षट्त्यागात्सप्तमे लयः |᳚ (स्वटं. ४|२६७)
SK
इति | ᳚युक्त᳚इत्यर्थाद् गुरुणा योजितः || १९१ || नन्वपानस्य कालवैचित्र्याभिधाने प्रक्रान्ते किमनेनोपदिष्टेन ? -- इत्याशङ्क्याह -- समस्तकारणोल्लासपदे सुविदिते यतः || ६-१९२ || अकारणं शिवं विन्देद्यत्तद्विश्वस्य कारणम् | हेये हि सुष्ठु ज्ञाते सुखमुपादेये विश्रान्तिर्भवेदिति भावः || १९२ || ननु प्राणक्रमेण ᳚द्वादशान्ते परः शिवः᳚ इत्याद्युक्त्या तत्तत्कारणोल्लङ्घनेन तत्र शिवे विश्रान्तिः स्यादिह पुनः सा कुत्र यत्रैवं स्यात् ? -- इत्याशङ्क्याह -- अधोवक्त्रं त्विदं द्वैतकलङ्कैकान्तशातनम् || ६-९३ || क्षीयते तदुपासायां येनोर्ध्वाधरडम्बरः | यत्र नामापानस्य विश्रान्तिस्तदिदं द्वैतकलङ्कापहम् ᳚अधोवक्त्रं᳚ षष्ठस्रोतोरूपं योगिनीवक्त्रमित्युच्यते; यतोऽयमद्वैतार्थोपदेशिनां रहस्यशास्त्राणामुदयो, येन द्वैतापहतत्वेन हेतुना तत्र विश्रान्तिभाजाम् ᳚ऊर्ध्वाधरडम्बरः᳚ शाम्येत् चिदानन्दैकघनपरशिवैकात्म्यमुल्लसेदित्यर्थः || १९३ || नन्वत्रैवं विश्रान्तिः किं प्राणवत्तुट्यादिक्रमेणैव भवेदुतान्यथापि ? इत्याशङ्क्याह -- अत्रापानोदये प्राग्वत्षष्ट्यब्दोदययोजनाम् || ६-१९४ || यावत्कुर्वीत तुट्यादेर्युक्तांगुलविभागतः | युक्तं तुट्यनुगुणमंगुलविभागमाश्रित्य तुट्यादेरारभ्य षष्ट्यब्दोदययोजनां यावत् प्राग्वदत्रापानोदयेऽर्थाद्योजनां कुर्वीत, येनैवं विश्रान्तिः स्यात् || १९४ || न केवलमेतदपाने यावत्समानेऽपि इत्याह -- एवं समानेऽपि विधिः स हि हार्दीषु नाडिषु || ६-१९५ || सञ्चरन्सर्वतोदिक्कं दशधैव विभाव्यते | हार्दीषु, हृदि तासामभिव्यक्तेः, वस्तुतस्त्वासां नाभेरुदयः | यदुक्तम् -- ङाभ्यधो मेढ्रकन्दे च स्थिता वै नाभिमध्यतः | तस्माद्विनिर्गता नाड्यस्तिर्यगूर्ध्वमधः प्रिये || चक्रवत्संस्थितास्तत्र प्रधाना दश नाडयः |᳚ (स्वटं. ७|८) इति | समानस्यापि मुख्यया वृत्त्या नाभिरेव स्थानम् | यदुक्तम् -- ᳚हृद्गुदे नाभिकण्ठे च सर्वसन्धौ तथैव च | प्राणाद्याः संस्थिता ह्येते....................... ||᳚ (स्वटं. ७|३०१) इति || १९५ ||
SK
नन्वेवं व्यपदेशस्य किं निमित्तम् ? -- इत्याशङ्क्याह -- दश मुख्या महानाडीः पूरयन्नेष तद्गताः || ६-१९६ || नाड्यन्तराश्रिता नाडीः क्रामन्देहे समस्थितिः | मुख्या इति प्रधानाः | तदुक्तम् -- ᳚इडा च पिङ्गला चैव सुषुम्ना च तृतीयिका | गान्धारी हस्तिजिह्वा च पूषा चैवार्यमा तथा || अलम्बुसा कुहूश्चैव शङ्खिनी दशमी स्मृता | एताः प्राणवहाः प्रोक्ताः प्रधाना दश नाडयः ||᳚ (स्वटं. ७|१६) इति | ᳚तद्गताः᳚ इति तद्भेदरूपद्वासप्ततिसहस्रसंख्याकाः | नाड्यन्तरेतितदुपभेदरूपाणि | यदुक्तम् � ᳚द्वासप्ततिसहस्राणि नाड्यस्ताभ्यो विनिर्गताः | पुनर्विनिर्गताश्चान्या आभ्योऽप्यन्याः पुनः पुनः ||᳚ (स्वटं. ७|९) इति | अत एव देहे समननात्समाननामायमित्युक्तं शमस्थितिः᳚ इति || १९६ || ननु यदि नामायं दश नाडीराक्रम्य वर्तते तावतास्य किमायातं येन दशधात्वमुच्यते ? -- इत्याशङ्क्याह � अष्टासु दिग्दलेष्वेष क्रामंस्तद्दिक्पतेः क्रमात् || ६-१९७ || चेष्टितान्यनुकुर्वाणो रौद्रः सौम्यश्च भासते | तद्दिक्पतेरिति, इन्द्रादेः | चेष्टितानीति, स्तम्भादिरूपाणि | रौद्रो याम्यादौ, सौम्यश्च वारुण्यादौ; अत एव पुंसां प्रतिक्षणं क्रोधहर्षाद्याविर्भावः | यदुक्तम् -- ᳚पद्मस्याष्टदलस्येत्थं तन्मध्ये भोगभुक्सदा | संस्थितः सर्वगोऽप्यस्मात्कारणात्सुप्रतीयते || येनाशु विषयान्दृष्ट्वा विचारयति सादरम् | शोकः क्रोधो विषादो वा विस्मयस्ताप एव च || हर्षो वाप्यथ संचिन्त्य हृदयेनैव भाव्यते |᳚ इति || १९७ || एवमस्य सर्वत्र साम्येनावस्थानेऽपि मुख्यया वृत्त्या नाडीत्रय एव चारः -- इत्याह -- स एव नाडीत्रितये वामदक्षिणमध्यगे || ६-१९८ || इन्द्वर्काग्निमये मुख्ये चरंस्तिष्ठत्यहर्निशम् | नाडीत्रितये इति, इडापिङ्गलासुषुम्नात्मके | यदुक्तम् -- ᳚दक्षिणे तु स्थितः सूर्यो वामे सोमो विराजते | पाके प्रकाशकत्वे च मध्यस्थश्चैव पावकः ||᳚ (स्वटं. ७|५२) इति यदुक्तम् � ᳚दशानां तु परं देवि नाडीत्रयमुदाहृतम् | बिन्दुनादात्मिके द्वे वै मध्ये शक्त्यात्मिका स्मृता ||᳚
SK
इति | नन्वत्र कथमसावहर्निशं चरन्नास्ते ? -- इत्याशङ्क्याह -- सार्धनालीद्वयं प्राणशतानि नव यत्स्थितम् || ६-१९९ || तावद्वहन्नहोरात्रं चतुर्विंशतिधा चरेत् | ᳚षट्प्राणाश्चषकस्तेषां षष्टिर्नाली तथा तिथिः |᳚ इत्याद्युक्त्या बाह्यायां घटिकायामन्तःप्राणचाराणां सषष्टिशतत्रयमुदियात्, इति बाह्येन सार्धेन घटिकाद्वयेन नवशतानि वहन् षष्टिघटिकात्म बाह्यमहोरात्रं चतुर्विंशतिभिः प्रकारैरर्थात् स एव समानश्चरेत्, येनात्र सषट्शतसहस्रैकविंशत्यात्मकप्राणचाराश्रयेण चतुर्विंशतिः संक्रान्तीनामुदियात् | यदुक्तम् -- ᳚चतुर्विंशतिसंक्रान्त्यः समधातोः स्वभावतः | शतानि नव वै हंस एकामेकां वहेत्सदा ||᳚ (स्वटं. ७|१६८) इति | ᳚बाह्ये चैव त्वहोरात्रे अध्यात्मं तु वरानने | चतुर्विंशतिसंक्रान्तीः प्राणहंसस्तु संक्रमेत् || अहनि द्वादश प्रोक्ता रात्रौ वै द्वादश स्मृताः |᳚ (स्वटं. ७|१६६) इति च || १९९ || एतदेव विभजते � विषुवद्वासरे प्रातः सांशां नालीं स मध्यगः || ६-२०० || वामेतरोदक्सव्यान्यैर्यावत्संक्रान्तिपञ्चकम् | एवं क्षीणासु पादोनचतुर्दशसु नालिषु || ६-२०१ || मध्याह्ने दक्षविषुवन्नवप्राणशतीं वहेत् | दक्षोदगन्योदग्दक्षैः पुनः संक्रान्तिपञ्चकम् || ६-२०२ || नवासुशतमेकैकं ततो विषुवदुत्तरम् | पञ्चके पञ्चकेऽतीते संक्रान्तेर्विषुवद्बहिः || ६-२०३ || यद्वत्तथान्तः सङ्क्रान्तिर्नवप्राणशतानि सा |
SK
᳚विषुवद्वासरे᳚ रात्रिन्दिनसाम्यात्मनि मेषसंक्रान्तिदिने प्रातः सार्धशतचतुष्टयप्राणचारात्मिकां सचतुर्भागां घटिकां मध्यगः सौषुम्नमार्गावस्थितः सन् स समानस्तावद्वामेतरोदक्सव्यान्यैर्वामदक्षनाड्योः प्रत्येकं सार्धंनालीद्वयं पञ्चधा गमागमैश्चरेत् यावद्वृषादिकन्यान्तं संक्रान्तिपञ्चकं भवेत्, येन सभागत्रयासु त्रयोदशसु घटिकासु व्यतीतासु मध्यनाड्यां मध्याह्नसमये दक्षविषुवत्तुलासंक्रान्तिर्नवप्राणशतीं वहेत्, सार्धंघटिकाद्वयमुदियादित्यर्थः | ततोऽपि दक्षोदगन्योदग्दक्षैर्दक्षवामनाड्योः समानस्य पञ्चधा गमागमैः पुनरेकैकं नवासुशतं प्रत्येकं सार्धंनालीद्वयं वृश्चिकादिमीनान्तं सङ्क्रातिपञ्चकमुदेतीत्यर्थः | तदनन्तरं च मध्यनाड्यां सायमुत्तरं मेषसङ्क्रान्तिरूपं विषुवत् प्राग्वत्सार्धशतचतुष्टयप्राणचारात्म सचतुर्भागैकघटिकोदयं भवेद्येन त्रिंशद्द्यटिकात्मनि दिने सङ्क्रान्तिद्वादशकमुदियात् | तत्र सङ्क्रान्तीनामेकादशकमखण्डम्, एका तु सायंप्रातरर्धार्धिकया, तस्य चार्धद्वयस्य पक्षसन्धिवद्रात्रीयार्धद्वयसंमेलनेऽप्यखण्डत्वम्, इति सायंप्रातरुत्तरविषुवद्द्वयं मध्याह्नार्धरात्रयोश्च दक्षविषुवद्द्वयमिति | यद्वक्ष्यति -- ᳚रात्र्यन्तदिनपूर्वांशौ मध्याह्नो दिवसक्षयः | स शर्वर्युदयो मध्यमुदक्तो विषुतेदृशी ||᳚ (तं. ६|२०५) इति | एतच्च दक्षविषुवद्दिनोदयाभिप्रायेण -- ᳚दक्षिणादुत्तरं याति उत्तराद्दक्षिणं यदा | दक्षिणोत्तरसंक्रान्तिः सा चैवं संविधीयते || दक्षिणस्यां यदा नाड्यां संक्रामेत्तु यदोत्तरम् | यावदर्धं तु तत्रस्थं मध्येनोत्तरतो वहेत् || तावत्तु विषुवत्प्रोक्तमुत्तरं तूत्तरायणे | उत्तराद्दक्षिणायां तु संक्रामन्स वरानने || यावदर्धं वहेत्तत्र अर्धं दक्षिणतो वहेत् | विषुवद्दक्षिणं तावद्दक्षिणायनजं प्रिये ||᳚ (स्वटं. ७|१६३)
SK
इत्यादि श्रीस्वच्छन्दशास्त्रेऽभिहितम् | न चान्तरपूर्व एवायं संक्रान्तीनामुदय इत्याह -- ᳚पञ्चक᳚ इत्यादि | सङ्क्रान्तिरिति, विषुवद्रूपा | ङवप्राणशतानि सा᳚ इत्यनेन यथोक्तमेव मानं स्मारितम् || २०३ || एतदेवान्यत्राप्यतिदिशति -- एवं रात्रावपीत्येवं विषुवद्दिवसात्समात् || ६-२०४ || आरभ्याहर्निशावृद्धिह्राससङ्क्रान्तिगोऽप्यसौ | इत्येवं बाह्येनाहोरात्रेण संक्रान्तिचतुर्विंशतेरुदयादि सर्वं समात् त्रिंशद्घटिकाद्विषुवद्दिवसादारभ्योक्तम्, अन्यथा ह्यहर्निशयोर्वृद्धिह्रासौ न स्यातां, येन संक्रान्तिष्वपि चयापचयाभ्याम् अहनि द्वादश संक्रान्तयो रात्रौ च, इत्येवं विभागनियमो नोक्तः स्यात् || २०४ || अत्र च विषुवत्संक्रान्तीनां विभागं स्फुटयति -- रात्र्यन्तदिनपूर्वांशौ मध्याह्नो दिवसक्षयः || ६-२०५ || स शर्वर्युदयो मध्यमुदक्तो विषुतेदृशी | मध्यमित्यर्थाच्छर्वर्याः | ᳚उदक्तः᳚ इति उत्तराद्विषुवत आरभ्येत्यर्थः | यदुक्तम् -- ᳚पूर्वाह्णे विषुवत्त्वेकं मध्याह्ने तु द्वितीयकम् | तृतीयं चापराह्णे वै अर्धरात्रे चतुर्थकम् || चतुर्धा विषुवत्प्रोक्तमहोरात्रेण मुक्तिदम् ||᳚ (स्वटं. ७|१६७) इति || २०५ || नान्वासां चतसृणां संक्रान्तीनामेवं व्यपदेशे किं निमित्तम् ? -- इत्याशङ्क्याह -- व्याप्तौ विषेर्यतो वृत्तिः साम्यं च व्याप्तिरुच्यते || ६-२०६ || तदर्हति च यः कालो विषुवत्तदिहोदितः | वृत्तिरिति, ᳚विषॢ व्याप्तौ᳚ इति पाठात् | ᳚अर्हति᳚ इत्यर्हेऽर्थे वतेः प्रयोगात् || २०६ || ननु विषुवत्संक्रान्तौ यद्येवं नियमस्तत्तदितरासु का व्यवस्था ? -- इत्याशङ्क्याह -- विषुवत्प्रभृति ह्रासवृद्धी ये दिनरात्रिगे || ६-२०७ || तत्क्रमेणैव संक्रान्तिह्रासवृद्धी दिवानिशोः | तत्क्रमेणेति, रात्रिदिनवृद्धिह्रास्यपरिपाट्या तेन पञ्चत्रिंशद्घटिके दिने चतुर्दश संक्रान्तयः, पञ्चविंशतिघटिकायां रात्रौ दशेति || २०७ || तदेवोपसंहरति � इत्थं समानमरुतो वर्षद्वयविकल्पनम् || ६-२०८ || चार एकत्र नह्यत्र श्वासप्रश्वासचर्चनम् |
SK
वर्षद्वय इति, संक्रान्तिचतुर्विंशतेरुदयात् | एकत्रेति, न तु प्राग्वत्प्राणापानात्मनि चारद्वये || २०८ || ननु किमत्र वर्षद्वयमेवोदियादुतान्यदपि ? -- इत्याशङ्क्याह -- समानेऽपि तुटेः पूर्वं यावत्षष्ट्यब्दगोचरम् || ६-२०९ || कालसंख्या सुसूक्ष्मैकचारगा गण्यते बुधैः | सुसूक्ष्मत्वे हेतुः ᳚एकचारगा᳚ इति | पूर्वं हि तुट्याद्युदयश्चारद्वये प्रोक्तः -- इत्येतदपेक्षया तत्र स्थौल्यं संभाव्यमिति भावः || २०९ || नन्वत्राप्येवं विभागेन कोऽर्थ ? -- इत्याशङ्क्याह -- संध्यापूर्वाह्णमध्याह्नमध्यरात्रादि यत्किल || ६-२१० || अन्तःसंक्रान्तिगं ग्राह्यं तन्मुख्यं तत्फलोदितेः | एतदुपसंहरन्नन्यदवतारयति -- उक्तः समानगः काल उदाने तु निरूप्यते || ६-२११ || तदेवाह � प्राणव्याप्तौ यदुक्तं तदुदानेऽप्यत्र केवलम् | नासाशक्त्यन्तयोः स्थाने ब्रह्मरन्ध्रेर्ध्वधामनी || ६-२१२ || तेनोदानेऽत्र हृदयान्मूर्धन्यद्वादशान्तगम् | तुट्यादिषष्ठिवर्षान्तं विश्वं काले विचारयेत् || ६-२१३ || यदि परमत्रानयोः प्राणोदानयोरियान्विशेषो यत्प्राणस्य ब्रह्मरन्ध्रवर्तिनासिक्यद्वादशान्तमुदयस्थानमस्य तु ऊर्ध्वधामवर्तिशक्तिद्वादशान्तमिति | तेनेति, शक्तिद्वादशान्तं यावदुदानव्याप्तेः || २१३ || नन्वेवं कालीयो विभागः किं व्याने संभवेन्न वा ? -- इत्याशङ्क्याह -- व्याने तु विश्वात्ममये व्यापके क्रमवर्जिते | सूक्ष्मसूक्ष्मोच्छलद्रूपमात्रः कालो व्यवस्थितः || ६-२१४ || सूक्ष्मसूक्ष्मेति, स्पन्दमात्रात्मेत्यर्थः | अत्रैव विश्वात्ममयत्वादिविशेषणद्वारेण हेतुत्रयम्; अत एव चास्य व्यापकत्वात्मना विशेषेणाननाद् व्यानत्वम् || २१४ || एषां च क्रमेण सृष्ट्यादिपञ्चकृत्यकारित्वमस्ति -- इत्याह -- सृष्टिः प्रविलयः स्थेमा संहारोऽनुग्रहो यतः | क्रमात्प्राणादिके काले तं तं तत्राश्रयेत्ततः || ६-२१५ || तं तमिति, प्राणादिकम् | तत्रेति, सृष्ट्यादिकारित्वे || २१५ || एवं प्राणे चारमानादि सर्वमभिधाय तदानन्तर्येणानुजोद्देशोद्दिष्टं वर्णोदयं वक्तुमुपक्रमते �
SK
प्राणचारेऽत्र यो वर्णपदमन्त्रोदयः स्थितः | यत्नजोऽयत्नजः सूक्ष्मः परः स्थूलः स कथ्यते || ६-२१६ || इह तावत्प्राणचारे वर्णानां पदानां मन्त्राणां चोदय इति स्थितम् | स तु द्विधा -- स्वारसिकः प्रायत्निकश्चेति | तत्राद्यो वर्णानां, तेषां नैयत्येन सर्वत्रैवाविशेषात्; द्वितीयस्तु पदानां मन्त्राणां च | ते हि वर्णवदपरिगणितत्वादनियताः, इति योगीच्छानिबन्धन एवैषामुदयः | यो हि यस्याभिप्रेतो मन्त्रादिः स तस्योदयं कारयेत्; अतश्च परेच्छाधीनत्वादेषां प्रायत्निक एवोदयः, स च समनन्तराह्निके प्रतिपादयिष्यते | यद्वक्ष्यति -- ᳚इत्ययत्नजमाख्यातं यत्नजं तु निगद्यते |᳚ (तं. ७|२) इति || २१६ || इह पुनर्वर्णोदय एवायत्नजः परसूक्ष्मस्थूलात्मतया त्रिप्रकारोऽभिधीयते | तत्र परस्यापि वर्णोदयस्य तरतमभावेन द्वैविध्यमिति परतमं तदुदयमभिधातुमुपक्रमते -- एको नादात्मको वर्णः सर्ववर्णाविभागवान् | सोऽनस्तमितरूपत्वादनाहत इहोदितः || ६-२१७ || इह खल्वेक एव सर्ववर्णसामान्यात्मा सततोच्चरद्रूपत्वादनाहतशब्दाभिधेयो नादात्मको वर्ण ᳚उदितः᳚ सततमेवोदयमान आस्त इत्यर्थः || २१७ || स एव च परमुपेयः -- इत्याह -- स तु भैरवसद्भावो मातृसद्भाव एष सः | परा सैकाक्षरा देवी यत्र लीनं चराचरम् || ६-२१८ || द्वितीयं परतमपि एषामुदयमभिधातुमाह -- ह्रस्वार्णत्रयमेकैकं रव्यंगुलमथेतरत् | प्रवेश इति षड्वर्णाः सूर्येन्दुपथगाः क्रमात् || ६-२१९ || इकारोकारयोरादिसन्धौ संध्यक्षरद्वयम् | एओ इति प्रवेशे तु एऔ इतिद्वयं विदुः || ६-२२० || षण्ठार्णानि प्रवेशे तु द्वादशान्तललाटयोः | गले हृदि च बिन्द्वर्णविसर्गौ परितः स्थितौ || ६-२२१ ||
SK
᳚रव्यंगुलम्᳚ इति द्वादशाङ्गुलम्; अत एवाकारादेर्ह्रस्वत्रयस्योदयात्प्राणवाहे षट्त्रिंशदंगुलानि भवन्ति | इतरदिति, दीर्घत्रयम् | षड्वर्णा इति, अकाराद्युकारान्ताः | क्रमादिति -- सूर्यपथे ह्रस्वानां त्रयमिन्दुपथे च दीर्घाणामिति | आदिसंधाविति, अकारेणाकारेण च शंधौ᳚ संधिकार्ये कृते सतीत्यर्थः | अस्यैव संध्यक्षरद्वयस्यादिसंधावितरत्संध्यक्षरद्वयम् | एषां च प्रत्येकमष्टादशांगुलमुदयो येन प्राणापानवाहयोर्व्याप्तिः सिद्ध्येत् | प्रवेश इति न तु निर्गमेऽपि | द्वादशान्तेति न तु समचतुर्भागकलनया, तेन द्वादशान्ते ऋकारः, इत्यादि क्रमः | ᳚परितः᳚ इति सर्वतः | तेन प्राणे बिन्दोः षट्त्रिंशदङ्गुलात्मन्यभ्युदयो विसर्गस्य त्वपाने, द्वयोरपि बिन्दुनादात्मकत्वात् || २२१ || एतदेवान्यत्राप्यतिदिशति -- कादिपञ्चकमाद्यस्य वर्णस्यान्तः सदोदितम् | एवं सस्थानवर्णानामन्तः सा सार्णसन्ततिः || ६-२२२ || अन्तरिति, तेन यदेवाकारस्योदयस्थानं तदेव कवर्गस्येति | सस्थानवर्णानामितीकारादीनां सा सेति चवर्गादिका, तदिकारोदयस्थाने चवर्गस्य यकारशकारयोश्चोदय इत्यादिक्रमः || २२२ || ननु सर्वत्रायं नियमः किं संभवेन्न वा ? -- इत्याशङ्क्याह -- हृद्येष प्राणरूपस्तु सकारो जीवनात्मकः | बिन्दुः प्रकाशो हार्णश्च पूरणात्मतया स्थितः || ६-२२३ || यद्यपि सस्थानतया सकारस्य दन्ता उदयस्थानं हकारस्य च कण्ठ स्तथापि प्राणात्मजीवनरूपत्वात्सकारो हृद्युदेति हकारश्च प्रकाशात्मकत्वात्सर्वत इति || २२३ || एतदुपसंहरन्नन्यदवतारयति -- उक्तः परोऽयमुदयो वर्णानां सूक्ष्म उच्यते | सूक्ष्मश्च त्रिधेति | तत्र सूक्ष्मसूक्ष्मं तावदुदयमाह -- प्रवेशे षोडशौन्मुख्ये रवयः षण्ठवर्जिताः || ६-२२४ || तदेवेन्द्वर्कमत्रान्ये वर्णाः सूक्ष्मोदयस्त्वयम् |
SK
षोडशेति, अपानवाहस्यानन्दप्राधान्यात्; अत एव परोदयेऽप्यपानवाह एव षण्ठवर्णानामुदय उक्तः | ᳚औन्मुख्ये᳚ इति निर्गमे | तेनापाने प्रत्येकं सचतुर्भागमंगुलद्वयमुदयः प्राणे पुनरंगुलत्रयमिति | तदेव वर्णानां षोडशकं द्वादशकं वावलम्ब्यान्ये सस्थानाः कवर्गाद्या इन्द्वर्कप्राणापानविषये समुदयन्ति -- इत्यत्र सूक्ष्मेऽपि वर्णोदये सूक्ष्मोऽयमुदय इत्यर्थः || २२४ || एवं सूक्ष्मसूक्ष्मं वर्णोदयमभिधाय सूक्ष्मस्थूलमप्याह -- कालोऽर्धमात्रः कादीनां त्रयस्त्रिंशत उच्यते || २२५ || मात्रा ह्रस्वाः पञ्च दीर्घाष्टकं द्विस्त्रिःप्लुतं तु ॡ | दीर्घाष्टकमिति, संध्यक्षरैः सह | द्विरिति, द्विमात्रं, त्रिरिति त्रिमात्रं, दीर्घाणां च प्लुतत्वेऽपि तन्नोक्तं तस्योच्चारणापेक्षत्वात्; नह्येषां दीर्घत्ववत्प्लुतत्वमपि स्वाभाविकमिति भावः | एवं ॡकारस्यापि प्लुतत्वमेव स्वभावः -- इति दीर्घत्वापरिगणनेन तदेवेहास्य प्राधान्येनोक्तमिति न कश्चिद्दोषः | तेन कादीनां त्रयस्त्रिंशदर्धमात्राः ह्रस्वानां दश, दीर्घाणां द्वात्रिंशत्, प्लुतस्य षडित्येकाशीतिरर्धमात्राणा मिति || २२५ || नन्वेवं विभाजने किं प्रमाणम् ? -- इत्याशङ्क्याह -- एकाशीतिमिमामर्धमात्राणामाह नो गुरुः || २२६ || तस्याप्येवमभिधाने क इवाशयः ? -- इत्याशङ्क्याह -- यद्वशाद्भगवानेकाशीतिकं मन्त्रमभ्यधात् | यद्वशादिति, अस्याः परस्या मन्त्रमातुरेकाशीतिमात्रासद्भावात् | एकाशीतिकमिति, तावत्संख्याकपदारब्धत्वात् || ननु भगवतो व्योमव्याप्यभिधानेऽप्येतन्निमित्तमित्यत्र किं प्रमाणम् ? -- इत्याशङ्क्याह -- एकाशीतिपदा देवी शक्तिः प्रोक्ता शिवात्मिका || ६-२२७ || श्रीमातङ्गे तथा धर्मसङ्घातात्मा शिवो यतः | शक्तिरिति, व्योमव्यापिरूपा | प्रोक्तेति श्रीमातङ्गे | यदुक्तम् तत्र -- ᳚एकाशीतिपदा देवी या सा शक्तिः शिवात्मिका |᳚ (म. तं. १|७|३१) इति | तथा ᳚मन्त्राश्च शक्तिगर्भस्थाः शक्तिर्वै पारमेश्वरी | कालानलान्तमध्वानं शिवाद् व्याप्तं यया मुने || एकाशीतिदोपेता विद्यापादे मयोदिता |᳚ (म. तं.)
SK
इति | नन्वस्या व्योमव्यापिरूपिण्याः पारमेश्वर्याः शक्तेस्तत्तद्धृदादिमन्त्रात्मकत्वेऽपि कथं शिवात्मकत्वमपि स्यात् ? -- इत्याशङ्क्योक्तं -- ᳚तथेत्यादि᳚ | यत्तथोक्तेन प्रकारेण धर्माणां ᳚पत्युर्धर्माः शक्तयस्तु........................... |᳚ (मटं. १|२०) इत्याद्युक्त्या शक्तीनामेकाशीत्यात्मा यः सङ्घातस्तदात्मा शिवः -- इति सामस्त्येनास्यास्तदात्मकत्वम् | तदुक्तं तत्र � ᳚एकत्रैव समस्तानि एकाशीतिपदानि तु | अष्टषष्ठ्यधिकं प्रोक्तं वर्णानां तु शतत्रयम् || अर्चा तु देवदेवस्य समस्तव्यस्तरूपिणी |᳚ इति | ᳚एकोऽपि वर्णो देवानां वाचकः परिकीर्तितः | सर्वेऽप्येकस्य युज्यन्ते यतस्ते विश्वमूर्तयः ||᳚ इति च || न चैतदागमेनैव सिद्धं यावद्युक्तितोऽपि -- इत्याह -- तथा तथा परामर्शशक्तिचक्रेश्वरः प्रभुः || ६-२२८ || स्थूलैकाशीतिपदजपरामर्शैर्विभाव्यते | ᳚शक्तिमतः खलु शक्तिरनन्या᳚ इत्याद्युक्तयुक्त्या वस्तुतः सर्वशक्त्यविभिन्नस्वभावोऽपि ᳚प्रभुः᳚ परमेश्वरः शिवस्तत्तद्वर्णारब्धत्वात् स्थूलानि यान्येकाशीतिपदानि तज्जा ये प्रणवाद्याः परामर्शास्तैस्तथा तथा सर्वात्मानन्तादितया परामर्शे यस्यैवंविधो यद्धृदादिशक्तिचक्रं तस्य ᳚रिश्वरः᳚ संयोजनवियोजनकारी ᳚विभाव्यते᳚ एवं यस्य ज्ञप्तिः क्रियते इत्यर्थः | अत एव चात्र सर्वात्मादीनां यावता परामर्शः सिद्ध्येत् तावत्येव पदत्वं, येनैकाशीतित्वं स्यात् || २२८ || तदाह � तत एव परामर्शो यावत्येकः समाप्यते || ६-२२९ || तावत्तत्पदमुक्तं नो सुप्तिङ्नियमयन्त्रितम् | नो सुप्तिङ्नियमः, तथात्वे हि ङमः शिवायेति पदं षडर्णं प्रणवादिकम् |᳚ इत्याद्युक्त्यैकत्वेऽप्यस्य पदस्य त्रिपदत्वमापतेदिति गणना विसंवदेत् ||२२९|| ननु यद्येवं तदेकाशीत्यर्धमात्रात्मिकेयमेव भगवती परा शक्तिरवस्थितेति किमनेनैतत्समव्याप्तिकेन व्योमव्यापिनोपदिष्टेन ? -- इत्याशङ्क्याह -- एकाशीतिपदोदारविमर्शक्रमबृंहितः || ६-२३० || स्थूलोपायः परोपायस्त्वेष मात्राकृतो लयः |
SK
᳚लयः᳚ इति स्वात्ममात्रविश्रान्तिः | श्थूलोपायः᳚ इत्यनेनोपदेश्यभेदादुपदेशस्यापि भेदः -- इति प्रकाशितम् || २३० || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवानुसरति -- अर्धमात्रा नव नव स्युश्चतुर्षु चतुर्षु यत् || ६-२३१ || अंगुलेष्विति षट्त्रिंशत्येकाशीतिपदोदयः | प्रत्यंगुलचतुष्टयं नवार्धमात्राः -- इत्यंगुलषट्त्रिंशदात्मनि प्राणचारेऽर्धमात्राणामेकाशीतिरुदियात् || २३१ || आसां चोदये विभागान्तरमस्ति -- इत्याह -- अङ्गुले नवभागेन विभक्ते नवमांशकाः || ६-२३२ || वेदा मात्रार्धमन्यत्तु द्विचतुःषड्गुणं त्रयम् | एकैकस्मिन्नंगुले नवधा विभाजिते षट्त्रिंशतोअंगुलानां सचतुर्विंशतिशतत्रयं मानं भवेत् | भागानां तत्रैकैकस्यार्धमात्रात्मनो व्यञ्जनस्य चत्वारो नव भागा उदयस्थानमित्युक्तं ङवमांशका वेदाः मात्रार्धम्᳚ इति | अन्यत्पुनह्रस्वदीर्घप्लुतलक्षणं त्रयं द्विचतुःषड्गुणं, ह्रस्वस्यैकमात्रत्वादष्टौ नव भागा उदयस्थानं, दीर्घस्य द्विमात्रत्वात्षोडश, प्लुतस्य त्रिमात्रत्वाच्चतुर्विंशतिः || एतदेव सङ्कलयति � एवमङ्गुलरन्ध्रंशचतुष्कद्वयगं लघु || २३३ || दीर्घं प्लुतं क्रमाद् द्वित्रिगुणमर्धं ततोऽपि हल् | ᳚रन्ध्रंशानां᳚ नवभागानां ᳚चतुष्कद्वयम्᳚ अष्टौ नवभागा इत्यर्थः | लघ्विति, ह्रस्वं ᳚ततो᳚ लघोरपीत्यर्थः | तेन पञ्चानां ह्रस्वानां प्रत्येकमष्टसु भागेषूदयाच्चत्वारिंशन्नव नव भागा भवन्ति, दीर्घाणामष्टानां प्रत्येकं षोडशभागकलनया साष्टाविंशतिशतम् इति | प्लुतस्य चतुर्विंशतिस्त्रयस्त्रिंशतां हलां प्रत्येकं भागचतुष्टयकलनया द्वात्रिंशदधिकं शतमिति | यद्यप्येकाशीतेरर्धमात्राणां प्रत्येकमङ्गुलीयाश्चत्वारो नव भागा उदयस्थानमित्येव स्पष्टमभिधातव्यं, तथाप्येवमभिधानेऽयमाशयो यदादौ ह्रस्वानामुदयस्तदनन्तरं दीर्घाणां प्लुतस्य व्यञ्जनानां च, इति क्रमः प्रदर्शितो भवेदिति || २३३ ||
SK
नन्वेतन्मध्ये क्षकारश्चेद् गण्यते तदा कियत्योऽर्धमात्रा अधिकीभवन्ति, तथात्वे वासां कथमुदयः ? -- इत्याशङ्क्याह -- क्षकारस्त्र्यर्धमात्रात्मा मात्रिकः स तथान्तरा || ६-३४ || विश्रान्तावर्धमात्रास्य तस्मिंस्तु कलिते सति | अङ्गुलार्धेऽद्रिभागेन त्वर्धमात्रा पुरा पुनः || ६-२३५ || क्षकारः सर्वसंयोगग्रहणात्मा तु सर्वगः | सर्ववर्णोदयाद्यन्तसन्धिषूदयभाग्विभुः || ६-२३६ || कथमस्य त्र्यर्धमात्रात्मकत्वमित्याशङ्क्योक्तं -- ᳚मात्रिकः᳚ इत्यादि | ककारसकारात्मकार्धमात्राद्वयारब्धत्वात् | अन्तरा विश्रान्ताविति, ककारान्तरमर्धमात्रीयं कालं विश्रम्य सकारस्योच्चारात् | ᳚कलिते᳚ इत्येकाशीत्या, तेनार्धमात्राणां चतुरशीतिरिति | ᳚अद्रि᳚ इति सप्त | अङ्गुलार्धे हि सप्तधा विभक्ते प्रत्यङ्गुलं चतुर्दश भागाः -- इति षट्त्रिंशतोऽङ्गुलानां सचतुष्टयं शतपञ्चकं भागानां भवेत् | तेनार्धाङ्गुलीयेषु षट्सु सप्तभागेष्वर्धमात्रेति षट्त्रिंशदङ्गुलात्मनि प्राणचारे चतुरशीतेरर्धमात्राणामुदय इति | नन्वेवमेकाशीतिकलोदयपक्षे क्षकारस्य नास्त्येवोदयः-इत्युक्तं स्यादित्याशङ्क्याह -- पुरेत्यादि | सर्वसंयोगग्रहणात्मेति, संयोगान्तलक्षणपरत्वात् | यदुक्तं प्राक् � ᳚योनिरूपेण तस्यापि योगे क्षोभान्तरं विदुः | तन्निदर्शनयोगेन पञ्चाशत्तमवर्णता ||᳚ (तं. ३|१८९) इति | अनुत्तरविसर्गानुप्राणितयोः ककारसकारयोः प्रत्याहारतयोपादाने निखिलस्य वर्णजातस्य गर्भीकारात् | अत एवायं सर्ववर्णानामादावन्ते परस्परं संमेलनात्मनि शंधौ᳚ चोदयभाक्सर्ववर्णानुस्यूततयोदियात्, यतोऽयं विभुः᳚ व्यापक इत्यर्थः || २३६ || नन्वेवं वर्णोदयेनाभिहितेन कोऽर्थः ? -- इत्याशङ्क्याह -- इत्थं षट्त्रिंशके चारे वर्णानामुदयः फले | क्रूरे सौम्ये विलोमेन हादि यावदपश्चिमम् || ६-२३७ ||
SK
᳚वर्णानाम्᳚ इत्यकारादीनां, उदय इत्यर्थाद्धृदयाद्द्वादशान्तम् | ᳚क्रूरे᳚ इति मुक्तिलक्षणे, शौम्ये᳚ इति तत्तत्सिद्ध्यात्मनि भोगलक्षणे | ᳚विलोमेन᳚ इत्यर्थादपानोदये | विलोममेवाह -- ᳚हादि यावदपश्चिमम्᳚ इति | तदुक्तम् � ᳚अधः प्रवहणे सिद्धिर्हृत्पद्मं यावदागतः | मुक्तिश्चैव भवेदूर्ध्वे परतत्त्वे तु सुव्रते ||᳚ (स्वटं. ७|५६) इति | वस्तुतस्त्वकारस्य हृद्युदयस्थानं, हकारस्य तु द्वादशान्त इति || २३७ || एवमेतदुपजीवनेनैव सूक्ष्मपरमपि वर्णानामुदयमाह -- हृद्यकारो द्वादशान्ते हकारस्तदिदं विदुः | अहमात्मकमद्वैतं यः प्रकाशात्मविश्रमः || ६-२३८ || अद्वैतमिति, प्रत्याहारक्रमेणाशेषवर्णान्तःकारात् | प्रकाशेति, यदुक्तम् -- ᳚प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः |᳚ (अ.प्रषि. २२) इति || २३८ || एतच्चापानोदयेऽप्येतिदेष्टुमाह -- शिवशक्त्यविभागेन मात्रैकाशीतिका त्वियम् | द्वासप्ततावङ्गुलेषु द्विगुणत्वेन संसरेत् || ६-२३९ || शिवशक्त्योरविभाग इति, बिन्दुनादात्मप्राणापानोभयमेलनायामित्यर्थः | एकाशीतिरित्युपलक्षणं, तेन चतुरशीतिरपि | द्विगुणत्वेनेति, षट्त्रिंशतोअंगुलानाम् || २३९ || एतदुपसंहरन्नन्यदवतारयति -- उक्तः सूक्ष्मोदयस्त्रैधं द्विधोक्तस्तु परोदयः | अथ स्थूलोदयोऽर्णानां भण्यते गुरुणोदितः || ६-२४० || अथ इत्यानन्तर्ये | गुरुणोदित इति सर्वशेषः || तत्र वर्गक्रमेण तावद्वर्णानां स्थूलमुदयमाह -- एकैकमर्धप्रहरं दिने वर्गाष्टकोदयः | रात्रौ च ह्रासवृद्ध्यत्र केचिदाहुर्न केऽपि तु || ६-२४१ || ह्रासवृद्धीति, बाह्यमहोरात्रमपेक्ष्यानपेक्ष्य वा || २४१ || तत्र बाह्याहोरात्रानपेक्षिमते साम्येनैवैषामुदयः -- इत्याह -- एष वर्गोदयो रात्रौ दिवा चाप्यर्धयामगः | ᳚अर्धयामग᳚ इति, प्रतिवर्गं सार्धचतुरङ्गुलमुदय इत्यर्थः || एवं बाह्याहोरात्रानपेक्षिमतमभिधाय तदितरेषोमपि दर्शयति -- प्राणत्रयोदशशती पञ्चाशदधिका च सा || ६-२४२ || अध्यर्धा किल संक्रान्तिर्वर्गे वर्गे दिवानिशोः |
SK
सेति प्राणचारीया सार्धत्रयोदशशती | ᳚अध्यर्धा᳚ इति सार्धा, प्रतिसंक्रान्ति नवानां प्राणचारशतानामभिधानात् | तेन दिने द्वादशानां संक्रान्तीनामुदयः, इति साष्टशतं सहस्रदशकं प्राणचाराणां भवेत् | रात्रावप्येवं सषट्शतसहस्रैक विंशतिः || २४२ || अहोरात्रमेलनायां पुनः प्रतिसंक्रान्तित्रयमेकैकस्य वर्गस्योदयः -- इत्याह -- तदैक्ये तूदयश्चारशतानां सप्तविंशतिः || ६-२४३ || एवं प्रागुक्तसंक्रान्तिद्वयवद् बाह्याहोरात्रह्रासवृद्ध्यनुसारं वर्गाष्टकोदयस्यापि ह्रासवृद्धी भवतः -- इति सिद्धम्, अन्यथा प्रतिवर्गोदयं प्राणचाराणां नैयत्यं न स्यात् || २४३ || ननु क्षकारेण सह नव वर्गाः -- इति येषां मतं तत्रैषामुदये प्राणचाराणां कीदृग्विभागः ? -- इत्याशङ्क्याह -- नव वर्गांस्तु ये प्राहुस्तेषां प्राणशती रवीन् (विः) || सत्रिभागैव संक्रान्तिर्वर्गे प्रत्येकमुच्यते || ६-२४४ || अहर्निशं तदैक्ये तु शतानां श्रुतिचक्षुषी | रवीनिति -- द्वादश | सत्रिभागेति -- प्राणशतत्रयस्याधिक्येनोपदानात् | तेन प्रतिवर्ग प्राणचाराणां शतद्वादशकम् -- इति वर्गनवके साष्टशतं सहस्रदशकं भवेत् ᳚तदैक्ये᳚ इत्यहर्निशमेलने | ᳚श्रुतिचक्षुषी᳚ इति चतुर्विंशतिः || एवं वर्णानां वर्गक्रमेण स्थूलमुदयमभिधाय क्रमान्तरेणाप्याह -- स्थूलो वर्गोदयः सोऽयमथार्णोदय उच्यते || ६-२४५ || तदाह -- एकैकवर्णे प्राणानां द्विशतं षोडशाधिकम् | बहिश्चषकषट्त्रिंशद्दिन इत्थं तथा निशि || ६-२४६ || चषकषट्त्रिंशदिति, प्रतिचषकं षण्णां प्राणचाराणामुदयात् | तेन पञ्चाशतो वर्णानां साष्टशतं सहस्रदशकं प्राणचाराणां स्यात् || २४६ || अत्र चोदये विशेषं दर्शयति -- शतमष्टोत्तरं तत्र रौद्रं शाक्तमथोत्तरम् | यामलस्थितियोगे तु रुद्रशक्त्यविभागिता || ६-२४७ || ᳚यामलस्थितियोगे᳚ इत्युभयसंमेलनायाम् || २४७ || एतदेव चाहोरात्रसंमेलनायां द्विगुणी भवेत् -- इत्याह -- दिनरात्र्यविभागे तु दृग्वह्न्यब्ध्यसुचारणाः |
SK
सपञ्चमांशा नाडी च बहिर्वर्णोदयः स्मृतः || ६-२४८ || दृग्वह्न्यब्धिरिति, द्वात्रिंशदधिकं शतचतुष्टयम् ᳚असुचारणाः᳚ इति प्राणसञ्चारणाः | सपञ्चमांशा नाडीति, चषकषट्त्रिंशतो द्वैगुण्यात् || २४८ || एतदुपसंहरन्नन्यदतारयति -- इति पञ्चाशिका सेयं वर्णानां परिचर्चिता | एकोनां ये तु तामाहुस्तन्मतं संप्रचक्ष्महे || ६-२४९ || तदाह � वेदाश्चाराः पञ्चमांशन्यूनं चारार्धमेकशः | वर्णेऽधिकं तद्द्विगुणमविभागे दिवानिशोः || ६-२५० || ᳚वेदा᳚श्चत्वारः | पञ्चमांशेनार्थात्किंचिदंशेन ङ्यूनं᳚ रहितम् | अधिकमिति, षोडशाधिकशतद्वयस्योपरीत्यर्थः | तेनैकोनपञ्चाशतो वर्णानां प्रत्येकं षोडशाधिकशतद्वयात्मकत्वात् चतुरशीतिशतपञ्चकाधिकं सहस्रदशकं प्राणचारा भवन्ति, अधिकैश्च प्रत्येकं चतुर्भिः सषण्णवतिशतम् | अनेन च चाराणां सार्धचतुर्विंशतेः किंचिदंशन्यूनं पञ्चभागं विंशति (?) साष्टशतं सहस्रदशकम् || २५० || एतदेवोपसंहरति -- स्थूलो वर्णोदयः सोऽयं पुरा सूक्ष्मो निगद्यते | सूक्ष्म इत्यर्थात्परोऽपि पुरा निगदित इत्यर्थः || ६-२५१ || इदानीमाह्निकार्थमार्यायाः प्रथमार्धेनोपसंहरति -- इति कालतत्त्वमुदितं शास्त्रमुखागमनिजानुभवसिद्धम् | इति श्रामदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके कालतत्त्वप्रकाशनं नाम षष्ठमाह्निकम् || ६ || मुखागमेति � ᳚शैवी मुखमिहोच्यते᳚ (वि.भै. २० श्लोक) इत्यादिन्यायेन परतत्त्वप्रवेशोपायत्वाद् गुरुस्तस्य ᳚आगमो᳚ वचनमित्यर्थः | सिद्धमिति -- ᳚यतः शास्त्रक्रमात्तज्ज्ञगुरुप्रज्ञानुशीलनात् | आत्मप्रत्ययितं ज्ञानं पूर्णत्वाद्भैरवायते ||᳚ (तं. ४|७७) इत्याद्युक्तयुक्त्या पारिपूर्ण्येन लब्धसिद्धीति शिवम् || प्राणापानसमाश्रयचारप्रविचारचातुरीनिष्ठः | षष्ठाह्निके वरिष्ठां विवृत्तिमिमां जयरथश्चक्रे || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते कालतत्वप्रकाशनं नाम षष्ठमाह्निकं समाप्तम् || ६ ||
SK
सप्तममाह्निकम् ᳚ विवेक ᳚ तत्तन्मन्त्राभ्युदयप्रगुणीकृतचण्डभैरवावेशः | विद्रावितभवमुद्रो द्रढयतु भद्राणि जयरुद्रः || इदानीं कालतत्त्वानुषक्तमेव द्वितीयार्धेन चक्रोदयं वक्तुमुपक्रमते -- अथ परमरहस्योऽयं चक्राणां भण्यतेऽभ्युदयः || ७-१ || चक्राणामिति मन्त्राद्यात्मनाम् || १ || ननु सर्वमन्त्रसामान्यभूताया भगवत्या मातृकायाः समनन्तरमेवोदय उक्तः, तत्तद्विशेषरूपाणां मन्त्राद्यात्मनां चक्राणामप्युदयाभिधाने किं निमित्तम् ? -- इत्याशङ्क्याह -- इत्ययत्नजमाख्यात यत्नजं तु निगद्यते | नन्वेतन्निगदनेन कोऽर्थः -- इत्याशङ्क्याह -- बीजपिण्डात्मकं सर्वं संविदः स्पन्दनात्मताम् || ७-२ || विदधत्परसंवित्तावुपाय इति वर्णितम् | सर्वमिदं बीजपिण्डात्मकं मन्त्रजातम् अर्थात्प्राणान्तरुदयत् संविदः स्पन्दनात्मतां शाक्तस्वरूपावेशं विदधत् परसंवित्तावुपायः पारम्पर्येण शाम्भवमपि रूपमाविशेत्, -- इत्याणवोपाये वर्णतत्त्वान्तर्वर्णितं तन्नास्यानर्थक्यमित्यर्थः || २ || नन्विह मन्त्राणां प्राणान्तरेवमुदयः, -- इत्यभिधातु प्रक्रान्तं, स च यत्नजः, इति तत्र यत्ने क्रियमाणे तदेव सिद्धयेत् नान्यदिति कथमत्रैव परसंविदुपायत्वमप्येषां स्यात् ? -- इत्याशङ्क्याह -- यथारघट्टचक्राग्रघटीयन्त्रौघवाहनम् || ७-३ || एकानुसंधियत्नेन चित्रं यन्त्रोदयं भजेत् | एकानुसंधानबलाज्जाते मन्त्रोदयेऽनिशम् || ७-४ || तन्मन्त्रदेवता यत्नात्तादात्म्येन प्रसीदति |
SK
इहारघट्टवाहकस्य यन्त्रमात्रवाहनक्रियाविषयत्वात् एकेनैवानुसंधानेन अरघट्टचक्राग्रगतघटीसंबन्धिनो यन्त्रस्यौघेन नैरन्तर्येण वाहनं यथा ᳚चित्रं यन्त्रोदयं भजेत्᳚ ऊर्ध्वाधोमुखरिक्तपूर्णघटीचक्रात्मना वैचित्र्येण निष्पत्तिमियात्, तथा साधकस्यानिशं मन्त्रोदयविषयेणैकेनैवानुसंधानेन न केवलमेतदुदय एव सिध्येत् यावत्तन्नान्तरीयकतया प्रयत्नान्तरमन्तरेण एतन्मन्त्रदेवतापि तादात्म्येन प्रसीदतीति | इदमत्र तात्पर्यम् -- यथा हि यन्त्रं वाहयन् अरघट्टवाहकस्तत्र वैचित्र्यान्तरमपि प्रयत्नान्तरनिरपेक्षमासादयेत्, एवं साधकोऽपि मन्त्रोदय एव प्रयतमानः परसंविदैकात्म्यमिति | एवं चक्रोदयः परसंविदासादने निमित्तमित्यावश्याभिधेयः, -- इत्युक्तं स्यात् || ४ || तदाह -- खे रसैकाक्षि नित्योत्थे तदर्धं द्विकपिण्डके || ७-५ || त्रिके सप्त सहस्राणि द्विशतीत्युदयो मतः | चतुष्के तु सहस्राणि पञ्च चैव चतुःशती || ७-६ || पञ्चार्णेऽब्धिसहस्राणि त्रिशती विंशतिस्तथा | षट्के सहस्रत्रितयं षट्शती चोदयो भवेत् || ७-७ || सप्तके त्रिसहस्रं तु षडशीत्यधिकं स्मृतम् | शतैस्तु सप्तविंशत्या वर्णाष्टकविकल्पिते || ७-८ || चतुर्विंशतिशत्या तु नवार्णेषूदयो भवेत् | अधिषष्ठ्येकविंशत्या शतानां दशवर्णके || ७-९ || एकान्नविंशतिशतं चतुःषष्ठिः शिवार्णके | अष्टादश शतानि स्युरुदयो द्वादशार्णके || ७-१० || त्रयोदशार्णे द्वाषष्ठ्या शतानि किल षोडश | त्रिचत्वारिंशता पञ्चदशेति भुवनार्णके || ७-११ || चतुर्दशशती खाब्धिः स्यात्पञ्चदशवर्णके | त्रयोदशशती सार्धा षोडशार्णे तु कथ्यते || ७-१२ || शतद्वादशिका सप्तदशार्णे सैकसप्ततिः | अष्टादशार्णे विज्ञेया शतद्वादशिका बुधैः || ७-१३ || चतुर्विंशतिसंख्याके चक्रे नवशती भवेत् | सप्तविंशतिसंख्याते तूदयोऽष्टशतात्मकः || ७-१४ || द्वात्रिंशके महाचक्रे षट्शती पञ्चसप्ततिः | द्विचतुर्विंशके चक्रे सार्धां शतचतुष्टयीम् || ७-१५ ||
SK
उदयं पिण्डयोगज्ञः पिण्डमन्त्रेषु लक्षयेत् | चतुष्पञ्चाशके चक्रे शतानां तु चतुष्टयम् || ७-१६ || सप्तत्रिंशत्सहार्धेन त्रिशत्यष्टाष्टके भवेत् | अर्धमर्धत्रिभागश्च षट्षष्ठिर्द्विशती भवेत् || ७-१७ || एकाशीतिपदे चक्रे उदयः प्राणचारगः | चक्रे तु षण्णवत्याख्ये सपादा द्विशती भवेत् || ७-१८ || अष्टोत्तरशते चक्रे द्विशतस्तूदयो भवेत् |᳚
SK
खे इति द्वे शून्ये, रसाः षट्, अक्षीति द्वयं, नित्योत्थ इति स्वरसत एव हि सततं प्रवहतः प्राणस्य सषट्शतसहस्रैकविंशत्या (तिः) चाराणां भवेदिति भावः | एवमेकपिण्डात्मनो मन्त्रस्य प्रतिप्राणचारं तदानुगुण्यात् तत्संख्याक एवोदयः; तेन प्रतिप्राणचारमेकैकस्य पिण्डस्य वर्णस्य वोदयात् द्व्यादिपिण्डवर्णात्मनां मन्त्राणां नित्योदितप्राणाचारार्धत्रिभागक्रमेण न्यूनसंख्याक उदयः, -- इत्याह -- ᳚तदर्धं द्विकपिण्डके᳚ इति | तस्याः सषट्शतायाः सहस्रैकविंशतेरर्धं साष्टशतं सहस्रदशकम् | अत्र हि स्वारसिकप्राणचारद्वयकालस्यैकप्राणचारतयोदयस्य चिकीर्षितत्वं; ᳚जपः प्राणसमः कार्यः᳚ इति हि सर्वत्राविशेषेणोद्धोष्यते, अत एवेह यत्नजत्वमुक्तम् | सप्त सहस्राणि द्विशतीति, स्वारसिकप्राणचारत्रयकालस्यैकप्राणचारतयोदयस्य कर्तुमभिप्रेतत्वात् | एवमुत्तरत्रापि अवसेयम् | अब्धीति चत्वारः | षडशीत्यधिकमिति भूम्ना, एवं हि चारद्वयमधिकं भवेत्, तेनात्र प्रतिचारं किंचिदंशन्यूनता कार्या येन गणनासाम्यं स्यात् | न चैतदस्माभिः स्वोत्प्रेक्षितमुक्तमिति साक्षादागम एव पठितः | अस्माभिरप्यत्र गणना विभज्य न दर्शिता ग्रन्थविस्तरभयादनुपयोगाच्च| अधिकषष्ठिरेकविंशतिशती तया दशवर्णग इत्युदयः | ᳚शिवाः᳚ रुद्रा एकादश, चतुःषष्टिरिति भूम्ना, एवं हि चारचतुष्टयमधिकं भवेत् | द्वाषष्ट्येति भूम्ना, षण्णां प्राणचाराणामतिरेकात् | त्रिचत्वारिंशतेति भूम्ना, चारद्वयाधिक्यात् | पञ्चदशेति शतानि | भुवनेति चतुर्दश | खाब्धिरिति चत्वारिंशत् | सैकसप्ततिरिति भूम्ना चारसप्तकातिरेकात् | न चात्र संख्यायाः कश्चित्क्रमो विवक्षितः, -- इत्येकोनविंशादीनां चक्राणामन्तरानुपदेशे न कश्चिद्दोषो, यावता हि अत्र प्रतिप्राणचारमेकैकस्य चक्रस्योदये यत्नः कार्यः, -- इत्यभिधित्सितं तच्चैवमपि सिद्ध्येदिति | ᳚द्विचतुर्विंशके᳚ इत्यष्टाचत्वारिंशदात्मक इत्यर्थः | ᳚अष्टाष्टके᳚ इति चतुःषष्ठ्यात्मके | सहार्धेनेति येनावशिष्टा
SK
द्वात्रिंशत्प्राणचारा भवन्ति | अर्धमिति अर्धत्रिभाग इति, येन सार्धाश्चत्वारिंशत्प्राणचारा भवेयुः सार्धास्त्रयोदश चेत्युभयथा चतुःपञ्चाशदिति गणनासाम्यं स्यात् | तदुक्तं श्रीयोगिनीकौले -- ङित्योदिते सहस्राणि एकविंशच्छतानि षट् | द्विके दश सहस्राणि तथाष्टौ च शतानि तु || त्रिके सप्त सहस्राणि द्विशतीत्युदयः स्मृतः | चतुष्के तु सहस्राणि पञ्च तुर्यशतानि तु || पञ्चाक्षरे सहस्राणि चत्वारि त्रिशतोदयः | विंशाधिकः समाख्यातो ज्ञेयश्चोदयवाहिभिः || षट्के तु त्रिसहस्राख्यः षट् शतान्तोदयः स्मृतः | सप्तके त्रिसहस्रं तु षडशीत्यधिकं स्मृतम् ||᳚ इत्यादि | ᳚अष्टोत्तरशते चक्रे मन्त्रपिण्डाक्षरात्मके | द्विशतात्मा पुनः प्रोक्त उदयः सर्वसिद्धिदः ||᳚ इत्यन्तम् || ५-१८ || न चैतावतैव विरन्तव्यमित्याह -- क्रमेणेत्थमिदं चक्रं षट्कृत्वो द्विगुणं यदा || ७-१९ || ततोऽपि द्विगुणेऽष्टांशस्यार्धमध्यर्धमेककम् | ततोऽपि सूक्ष्मकुशलैरर्धार्धादिप्रकल्पने || ७-२० || भागषोडशकस्थित्या सूक्ष्मश्चारोऽभिलक्ष्यते |
SK
᳚इत्थं᳚ वक्ष्यमाणेन प्रकारेणेदमष्टोत्तरशतात्मकं चक्रं क्रमेण षट्कृत्वो द्विगुणं प्रथमं षोडशाधिकशतद्वयात्मकं यावदन्ते सद्वादशशतनवकाधिकषट्सहस्रात्मकं यदा भवेत् तदा तस्मिन्नपि द्विगुणे सचतुर्विंशतिशताष्टकाधिकसहस्रत्रयोदशात्मके चक्रेऽध्यर्धमत्रेति कृत्वा सार्धमेककं प्राणस्य चरणमष्टांशस्यार्धं षोडशो भागश्चोदयो भवेदित्यर्थः | तदनन्तरमपि भागषोडशकस्थित्यार्धार्धादिकल्पने कृते सति शूक्ष्मकुशलैः᳚ परधाराधिरूढैर्योगिभिः शूक्ष्मो᳚अतिपरिमितः प्राणीयश्चारांशोअ᳚भिलक्ष्यते᳚ ज्ञायते इत्यर्थः | इदमत्र तात्पर्यम् -- एवंकलनायां हि प्राणचारीयः षोडशो भागः सषट्शतपञ्चचत्वारिंशत्सहस्राधिकलक्षत्रयात्मनश्चक्रस्योदयः स्यात्; तस्याप्यर्धकल्पने सशतद्वयैकनवतिसहस्राधिकलक्षषट्कात्मनश्चक्रस्य द्वात्रिंशो भागः; तस्याप्येवं कल्पने सचतुःशतद्व्यशीतिसहस्राधिकत्रयोदशलक्षात्मनश्चक्रस्य चतुःषष्टितमो भागः, -- इत्यन्तमेव परिमितः प्राणचारीयो भागो योगिनामभिलक्ष्यो भवतीति ||१९-२०|| नन्वेवमभिलक्षणेन योगिनां किं स्यात् ? -- इत्याशङ्क्याह -- एवं प्रयत्नसंरुद्धप्राणचारस्य योगिनः || ७-२१ || क्रमेण प्राणचारस्य ग्रास एवोपजायते | ग्रास इति विरुद्धतया पुनरनुदयात् || अतोऽप्यस्य किं स्यात् ? -- इत्याशङ्क्याह -- प्राणग्रासक्रमावाप्तकालसङ्कर्षणस्थितिः || ७-२२ || संविदेकैव पूर्णा स्याज्ज्ञानभेदव्यपोहनात् | ज्ञानभेदापोहनमेवोपपादयति -- तथा हि प्राणचारस्य नवस्यानुदये सति || ७-२३ || न कालभेदजनितो ज्ञानभेदः प्रकल्पते | कालस्य हि साक्षात् प्राणोऽधिष्ठानमिति प्राणस्यानुदये कालोऽपि नोदियात्, इति तस्याभावात् तज्जनितोऽपि ज्ञानस्य भेदो न भवेत्, -- इति युक्तमुक्तम् -- ᳚एकैव पूर्णा संवित्स्यात्᳚ इति || २३ ||
SK
ननु प्राणग्रासक्रमेण कालस्यापि ग्रासो वृत्तः, -- इति तदाहितश्चेत्संविदि भेदो नास्ति तज्ज्ञेयाहितो भविष्यति येनेदं नीलज्ञानमिदं पीतज्ञानमिति विभागः, इत्येतावतैव कथमेकत्वमस्याः सिद्ध्येत् ? -- इत्याशङ्क्याह -- संवेद्यभेदान्न ज्ञानं भिन्नं शिखरिवृत्तवत् || ७-२४ || नहि एकान्ततः संवेद्यभेदः संविदं भिन्द्यात् | एवं हि तत्तद्गृहाणां नामादिवेद्यभेदेऽपि कथमेकमेव नगरादिज्ञानं स्यादित्युक्तं ᳚शिखरिवृत्तवत्᳚ इति | उन्नतप्रदेशावस्थितस्य हि पुंसस्तत्तदाभासमय एक एव प्रकाशो भवेदिति भावः | यदाहुः -- ᳚तस्मात्सत्यपि बाह्येऽर्थे धीरेकानेकवेदनात् | अनेकसदृशाकारा नानेकेव प्रसज्यते ||᳚ इति | तस्मादस्य काल एव भेदकः, स चातिसूक्ष्मक्षणात्माभिमतो येन ज्ञानस्योत्पादानन्तरं निरोधो भवेत् || २४ || तदाह -- कालस्तु भेदकस्तस्य स तु सूक्ष्मः क्षणो मतः | तुशब्दो हेतौ | स इति कालः || ननु चास्य सौक्ष्म्ये कोऽवधिः ? -- इत्याशङ्क्याह -- सौक्ष्म्यस्य चावधिर्ज्ञानं यावत्तिष्ठति स क्षणः || ७-२५ || तेन नियतोभयान्तपरिच्छिन्ना ज्ञानीयैव सत्तास्य सत्तेत्यर्थः || २५ || नन्वस्य परोपाधिकः कस्मादेवं निर्देशः ? -- इत्याशङ्क्याह -- अन्यथा न स निर्वक्तुं निपुणैरपि पार्यते | अन्यथेति ᳚अभेद्यो निरंशः काललवक्षणः᳚ इत्यादिना साक्षाल्लक्षणेनेत्यर्थः | एवं हि उत्पादानन्तरं निरोध इत्येवमुच्यमाने तस्याद्यन्तौ कथितौ स्यातां तत्सद्भावे च मध्यमप्यवश्यसंभाव्यम्, -- इत्यस्यादिमध्यावसानैस्त्र्यंशत्वमापतेदिति निरंशत्वेऽभिधित्सिते सांशत्वमभिहितं स्यात् | यदाहुः -- ᳚यथान्तोऽस्ति क्षणस्यैवमादिर्मध्यं च चिन्त्यताम् | आत्मकत्वात्क्षणस्यैवं न लोकस्य क्षणे स्थितिः ||᳚ इति | इत्थम् -- ᳚आदिमध्यावसानानि चिन्त्यानि क्षणवत्पुनः |᳚
SK
इत्याद्युक्तयुक्त्यादिमध्यान्तरूपाणां तदंशानामप्येवंविचारे क्रियमाणे स एव पर्यनुयोगः, -- इत्यनवस्थानात् न किंचित्सिद्ध्येत्, -- इत्यतिनिपुणैरपि तस्य लक्षणं कर्तुं न शक्यं, कृतं वा न प्ररोहमियात् || ननु यद्येवं तज्ज्ञानस्यापि कोऽवधिर्येनैतन्निरूपितं भवेत् ? -- इत्याशङ्क्याह -- ज्ञानं कियद्भवेत्तावत्तदभावो न भासते || ७-२६ || कियदिति, क्षणिकत्वेऽपि किंपरिमाणमित्यर्थः | ᳚तदभावः᳚ इति ज्ञानाभावः, तेन यावत्तदभावो न वृत्तस्तावदेकमेव तज्ज्ञानं भवेदिति भावः | अभावश्च प्रत्यक्षग्राह्यः कार्यश्चेति अन्यत्रोपपादितमिति तत एवावधार्यम् || २६ || ननु यद्येवं तत्तदभावोऽपि कदा जायते येन ज्ञानस्याप्यवधिः ? -- इत्याशङ्क्याह -- तदभावश्च नो तावद्यावत्तत्राक्षवर्त्मनि | अर्थे वात्मप्रदेशे वा न संयोगविभागिता || ७-२७ || ज्ञानस्य च तावदभावो न जायते यावदिन्द्रियाणामर्थस्य प्रमातुर्वा संयोगविभागौ न स्यातां, तदविरतेन्द्रियव्यापारस्य प्रमातुर्नीलादिविषये ज्ञाने जायमाने यदा नीलादिना विभाग उत्पद्यते, पीतादिना वा संयोगस्तदा तदभाव इति | ननु प्रदीपादिवत् प्रतिक्षणं करणोपयोगात् ज्ञानस्य क्षणिकत्वे सर्वेषां तावदविवादोऽन्यथा विततकरणव्यापारस्यापि प्रमातुर्नीलादिज्ञानं न स्यात्, तत्किमेतदुक्तं यदिन्द्रियाणां यावन्न संयोगविभागोदयस्तावदेकमेव ज्ञानमिति; एवं हि धारावाहिनां विज्ञानानामभावोऽभिहितो भवेत् | सत्यं, किन्तु भवदभिरुचितं निरन्वयविनाशात्म क्षणिकत्वं ज्ञानस्य न स्यात्, इत्यभिदध्मः | अनन्तरं हि त्रिचतुरादिक्षणावस्थायि ज्ञानं भवेदिति समनन्तरं क्षणनिर्णयेनैवोपपादितम् | तस्मादेकरसेऽपि नीलादिविषये विज्ञानेऽन्तरा चक्षुरादीन्द्रियविभागादिना तदभावादि स्थितमेव किंतु न तथा सञ्चेत्यते; तेन धारावाहिनां विज्ञानानामप्यभावो न स्यादिति न कश्चिद्विरोधः || २७ || ननु संयोगविभागितापि किं सकारणिका भवेत् न वा ? -- इत्याशङ्क्याह -- सा चेदुदयते स्पन्दमयी तत्प्राणगा ध्रुवम् |
SK
भवेदेव ततः प्राणस्पन्दाभावे न सा भवेत् || ७-२८ || स्पन्दमयीति, स्पन्दः प्रकृतिर्मूलकारणं यस्याः सा स्पन्दाधीनैव इत्यर्थः | देशाद्देशान्तरं हि चलद्वस्तु वस्त्वन्तरेण संयुज्यते वियुज्यते वेत्यभिप्रायः | स्पन्दश्च प्राणाश्रयः, इति पारम्पर्येण संयोगविभागितापि प्राणगतैव निश्चितं भवेत्, इति प्राणस्पन्दाभावे सा न भवेत्; निमित्ताभावे नैमित्तिकस्याप्यभावः -- इतिनीत्या तद्भावोऽपि कुतस्त्य इत्यर्थः || २८ || ननु भवतु नाम संयोगविभागिता मा वा भूत् किमनया नश्चिन्तया, यावता ह्यत्र प्राणग्रासक्रमेण कालग्रासे वृत्ते एकैव पूर्णा संवित्स्यादित्युपक्रान्तं तदेव कथं निर्वहेत् इत्युच्यताम् ? -- इत्याशङ्क्याह -- तदभावान्न विज्ञानाभावः सैवं तु सैव धीः | तस्याः संयोगविभागिताया अभावाद्विज्ञानस्याप्यभावो न स्यात्, यद्धि यदन्वयव्यतिरेकानुविधायि तत्तत्कार्यं भवेदिति भावः | एवं हि सति सा प्राच्या या धीः संवित्सैवेयं नतु संविदन्तरमेकैव पूर्णा संवित्स्यादित्यर्थः || नन्वेवमेकस्या एव संविदः किं पूर्वापरैकीकाराद्वैतत्येनावभासो भवेत् ? -- इत्याशङ्क्याह -- न चासौ वस्तुतो दीर्घा कालभेदव्यपोहनात् || ७-२९ || असाविति धीः, दीर्घेत्यर्थान्न सूक्ष्मापि, दैर्घ्यादि हि कालाधीनं, न चास्यास्तत्स्पर्श एवास्ति अकालकलितत्वात् || २९ || तदाह � वस्तुतो ह्यत एवेयं कालं संविन्न संस्पृशेत् | एवं वस्तुतो नित्यत्वमप्यस्या न संभवेत्, तद्धि कालत्रयानुगामित्वमुच्यते नतु सदाभासमानत्वम्, एवं हि त्रिषु कालेषु भासमानत्वमुक्तं स्यात् | यदाहुः -- ङ सदा न तदा न चैकदेत्यपि सा यत्र न कालधीर्भवेत् | तदिदं भवदीयदर्शनं न च नित्यं न च कथ्यतेऽन्यथा ||᳚ (उ. स्तो. १२|५) ननु यद्येवमकालकलिता वस्तुत एकैव संविदस्ति तत्कथमयं बहिर्भेदनिष्ठो व्यवहारः सिद्ध्येत् ? -- इत्याशङ्क्याह -- अत एकैव संवित्तिर्नानारूपे तथा तथा || ७-३० || विन्दाना निर्विकल्पापि विकल्पो भावगोचरे |
SK
अतः कालसंस्पर्शाभावात् एकैव निर्विकल्पापि संवित्तिर्नानारूपेऽनेकाभाससंमूर्छनात्मनि भावविषये तथा तथा नीलानीलादिरूपतया विन्दाना विमृशन्ती विकल्प इत्युच्यते, इति न बाह्यस्यापि व्यवहारस्य विप्रलोपः || ३० || ननु तथा तथा विमर्शेऽप्यस्याः कथमेकत्वमेव ? -- इत्याशंक्याह -- स्पन्दान्तरं न यावत्तदुदितं तावदेव सः || ७-३१ || तावानेको विकल्पः स्याद्विविधं वस्तु कल्पयन् | तत्तस्मात्पूर्वोक्तात्तत्तदर्थादिसंयोगविभागोत्पादलक्षणात् हेतोर्यावद्विकल्प्यवस्त्वन्तरविषयं स्पन्दान्तरं नोदितं तावन्नानाप्रकारं वस्तु कल्पयन्नपि तावान्दीर्घदीर्घ एक एव विकल्पः स्यात् न पुनरनेक इत्यर्थः | यत्तदनेकाभाससंमूर्छनात्मतया विकल्प्यमानेऽपि नीलादौ विकल्पस्यैक्यमेव तावत् एकस्यैवानुसंधानस्य भावात् अन्यथा पुनरस्य स्वरूपलाभ एव न भवेदिति भावः || ३१ || तदाह ये त्वित्थं च विदुस्तेषां विकल्पो नोपपद्यते || ७-३२ || स ह्येको न भवेत्कश्चित् त्रिजगत्यपि जातुचित् | ये इति बौद्धाः | इत्थमिति स्पन्दान्तरोदय एव विकल्पान्तराणामुदयो नत्वेकस्मिन्नेव स्पन्दे इत्यर्थः | एक इति, येन स्मृत्यपलापाद्यनेकाश्रयनिबन्धनो बाह्यो व्यवहारः सिद्ध्येत् | एतदेव दर्शयति -- शब्दारूषणया ज्ञानं विकल्पः किल कथ्यते || ३३ || सा च स्यात्क्रमिकैवेत्थं किं कथं को विकल्पयेत् | घट इत्यपि नेयान्स्याद्विकल्पः का कथा स्थितौ || ७-३४ || न विकल्पश्च कोऽप्यस्ति यो मात्रामात्रनिष्ठितः |
SK
कथ्यते इति भवद्भिः | यदुक्तं -- ᳚अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना᳚ इति | सेति -- शब्दारूषणा, क्रमिकेति -- वाचः क्रमभावित्वात्, इत्थं क्रमिकत्वाद्विकल्पस्योदितानां तत्क्षणानां प्रध्वस्तत्वान्नवानां चानुदयात् को न कश्चित्कल्पितोऽपि विकल्पात्मा प्रमाता किमुत्पन्न प्रध्वस्तप्रकल्प्यं पूर्वापरानुसंधानादेरभावाच्च कथं विकल्पयेत् विकल्पस्य स्वरूपलाभ एव न भवेदित्यर्थः | अत एव घकारोच्चारकाले टकारस्याभावात्तदुच्चारकाले च तस्य प्रध्वस्तत्वात् यत्र ᳚घट᳚ इत्येतावन्मात्रोऽपि विकल्पो न सिध्येत् तत्र व्यवहारादिचिन्ता दूर एवास्तां, तदवस्थानमात्रेऽपि का वार्तेत्यर्थः | नहि तन्मते कोऽप्येवंविधो विकल्पोऽस्ति यस्यांशमात्रेऽपि परिनिष्ठितत्वं, तथात्वे ह्येषां क्षणभङ्गव्रतविलोपो भवेदिति भावः || ३३-३४ || नन्वेकमेव मालासूत्रवत्सर्वत्रानुयायि ज्ञानं किंचिन्नास्ति, इत्यस्माकं मतं नतु क्षणभङ्गुराण्यनेकानि ज्ञानानि न सन्तीति; तत्तान्येव समुदितानि बाह्यव्यवहारनैपुण्यभाञ्जि भविष्यन्ति, इति को दोषः ? -- इत्याशङ्क्याह -- न च ज्ञानसमूहोऽस्ति तेषामयुगपत्स्थितेः || ७-३५ || अयुगपत्स्थितेरिति, उत्पादानन्तरं तन्निरोधस्याभिधानात् || ३५ || तस्माद्वैकल्पिकः सकल एवायं व्यवहारस्तन्मते न सिद्धयेत्, इत्याह -- तेनास्तङ्गत एवैष व्यवहारो विकल्पजः | तेनास्मत्पक्ष एव ज्यायानित्याह -- तस्मात्स्पन्दान्तरं यावन्नोदियात्तावदेककम् || ७-३६ || विज्ञानं तद्विकल्पात्मधर्मकोटीरपि स्पृशेत् | तद्यावद्विकल्पान्तरनिष्ठं स्पन्दान्तरं नोदेति तावद् गोत्वशुक्लत्वचलत्वाद्यात्मकं धर्मौघमपि विकल्पयेत् एकमेवैतद्वैकल्पिकं ज्ञानं स्यात् येनैकानुसंध्यनुप्राणितः समग्र एवायं व्यवहारः सिध्येत् || ३६ || न चैतदपूर्वतया स्वोपज्ञमेवोक्तमित्याह -- एकाशीतिपदोदारशक्त्यामर्शात्मकस्ततः || ७-३७ || विकल्पः शिवतादायी पूर्वमेव निरूपितः |
SK
तत उक्तानेकधर्मपरामर्शकत्वेऽप्येकत्वलक्षणाद्धेतोर्व्योमव्यापिरूपः शुद्धविद्यात्मा विकल्पस्तत्तदनेकहृदादिशक्त्यामर्शकत्वेऽप्येकत्वात् पार्यन्तिकफलरूपां शिवतामेव ददातीति पूर्वमेवास्माभिरुक्तम् || ३७ || नन्वेवमेकस्मिन्नेव प्राणचारे एकपिण्डात्मकाच्चक्रादारभ्य सचतुःशतद्व्यशीतिसहस्राधिकत्रयोदशलक्षात्मकचक्राद्यन्तं यावच्चक्राणां स्वारसिक एवोदयो वर्तते, -- इति योगिनां प्रतिनियतचक्रविषयः कथमवगमो भवेत् ? -- इत्याशङ्कां दृष्टान्तोपदर्शनेनोपशमयति -- यथा � कर्णौ नर्तयामीत्येवं यत्नात्तथा भवेत् || ७-३८ || चक्रचारगताद्यत्नात्तद्वत्तच्चक्रगैव धीः | कर्णौ नर्तयामीत्येवमिच्छापूर्वकात्प्राणीयाद्यत्नात् यद्वद्योगिनस्तथा भवेत्, गोस्फुरितादिन्यायेन कर्णद्वयमेव नृत्यत्स्यात् तद्वदेकपिण्डादिचक्रप्रधानो यः प्राणीयश्चारस्तद्गतादपि यत्नात्तच्चक्रगैव धीः प्रारिप्सितोदयप्रतिनियतचक्रनिष्ठ एवावबोधो भवेदित्यर्थः | अयमत्र भावः -- इह खलु योगिना यत्र क्वापि कर्मणि यस्य कस्यचिन्मन्त्रस्यावश्यं प्राणसाम्येनोच्चारः कार्यः अन्यथा हि न कार्यसिद्धिः स्यात् | तदुक्तम् -- ᳚जपेत्तु प्राणसाम्येन ततः सिद्धिर्भवेद् ध्रुवम् | नान्यथा सिद्धिमाप्नोति हास्यमाप्नोति सुन्दरि ||᳚ इति | ततश्चैकपिण्डात्मनोऽन्यस्य वा चक्रस्योदये तुल्य एव विधिः प्राणसाम्यस्य सर्वत्राविशेषात् || ३८ || तदाह -- जपहोमार्चनादीनां प्राणसाम्यमतो विधिः || ७-३९ || होमेति, तत्रापि मन्त्रोच्चारस्य भावात् | अत इत्युक्ताच्चक्रोदयाद्धेतेः, संख्यायास्तु स्वारसिकप्राणचाराभिप्रायेण वर्णभूयस्त्वाभूयस्त्वनिबन्धनं तथात्वमिति न कश्चिद्विरोधः || ३९ || किमत्र प्रमाणम् ? -- इत्याशङ्क्याह -- सिद्धामते कुण्डलिनीशक्तिः प्राणसमोन्मना | उक्तं च योगिनीकौले तदेतत्परमेशिना || ७-४० ||
SK
तदेतत्परमेशिना श्रीसिद्धयोगीश्वरीमते श्रीयोगिनीकौले चोक्तमिति संबन्धः | तत्तदेकपिण्डाद्यात्मकमन्त्ररूपतया बहिरुल्लसन्ती वर्णकुण्डलिन्याख्या पारमेश्वरी शक्तिर्यदि नाम प्राणसमा प्राणसाम्येनोदयमियात् तदुन्मना शिवैकात्म्येन प्रस्फुरेदित्यर्थः | यदुक्तं तत्र -- ᳚कुर्यात्प्राणसमं जप्यं होमं प्राणसमं कुरु | एवं प्राणसमा शक्तिः कुण्डलाख्या मनोन्मनी ||᳚ इति || ४० || श्रीयोगिनीकौलग्रन्थं पठति -- पदमन्त्राक्षरे चक्रे विभागं शक्तितत्त्वगम् | पदेषु कृत्वा मन्त्रज्ञो जपादौ फलभाग्भवेत् || ७-४१ || पदप्रधानानि मन्त्राक्षराणि यत्रैवंविधे चक्रे पदेषु शक्तितत्त्वगं विभागं कृत्वा एकैकं पदं प्रतिप्राणचारं प्रविभागेनोदयं कारयित्वा जपहोमादौ मन्त्रोदयं जानानो योगी फलभाग्भवेत्, यथोचितं फलमाप्नुयादित्यर्थः || ४१ || ननु कोऽसौ विभागः किं वा फलम् ? -- इत्याशङ्क्याह -- द्वित्रिसप्ताष्टसंख्यातं लोपयेच्छतिकोदयम् | इह चक्राणां प्रागुक्तवदेकद्वित्रिसप्ताष्टादिपदपिण्डसंख्यातम्, अर्थात् शतिकोदयमनेकपदपिण्डात्मकचक्रपर्यन्तं विभागमाश्रित्य, अर्थात् प्राणचारं लोपयेत् प्राणग्रासं कुर्यादित्यर्थः | एतदेव हि मुख्यं फलं योगिनां यदकालकलितायां परस्यां संविद्यनुप्रवेश इति | एवं चात्रैवावधातव्यमित्याह -- इति शक्तिस्थिता मन्त्रा विद्या वा चक्रनायकाः || ७-४२ || पदपिण्डस्वरूपेण ज्ञात्वा योज्याः सदा प्रिये | नित्योदये महातत्त्वे उदयस्थे सदाशिवे || ७-४३ || अयुक्ताः शक्तिमार्गे तु न जप्ताश्चोदयेन ये | ते न सिद्ध्यन्ति यत्नेन जप्ताः कोटिशतैरपि || ७-४४ ||
SK
इति प्रागुक्तं सर्वं ज्ञात्वा चक्रप्रधाना मन्त्रा विद्या वा पदपिण्डस्वरूपेण समनन्तरोक्तपदपिण्डादिगत्या ᳚शक्तिस्थिताः᳚ प्राणसाम्येनोदिताः सर्वकालं जपादौ योज्या येन यथोचिता योगिनां सिद्धिः स्यात् | अन्यथा हि नित्योदयेऽत एव परमुपेयत्वान्महातत्त्वे, सृष्टिप्राधान्यादुदयस्थेऽत एव तत्सिद्धिप्रदायित्वात् सदैव श्रेयोरूपे शक्तिरूपे मध्यधाम्न्ययोजिताः, तथा प्राणस्योदयेन निर्गमने अर्थात्प्रवेशेनापि ये मन्त्रादयो न जप्तास्ते कोटिशतैर्यत्नेनापि जप्ता न सिद्ध्यन्ति, तां पूर्णां दातुं न शक्ता इत्यर्थः | यदुक्तम् -- ङ विन्दति यदा मन्त्री सृष्टिसंहारवर्त्मनी | उदयास्तमरूपेण मन्त्रा अल्पफलप्रदाः || भोगं मोक्षं न यच्छन्ति जप्ता ध्यातास्तु पूजिताः | रिषत्फलं प्रयच्छन्ति शिवाज्ञासंप्रचोदिताः ||᳚ इति | मन्त्रा विद्या वेत्यनेनानुजोद्देशोद्दिष्टो मन्त्रविद्याभेदोऽप्यासूत्रितः || ४४ || ननु सर्वेषां मन्त्रादीनामविशेषेणैव किमियं व्यवस्था किमन्यथा वा ? -- इत्याशङ्क्याह -- मालामन्त्रेषु सर्वेषु मानसो जप उच्यते | उपांशुर्वा शक्त्युदयं तेषां न परिकल्पयेत् || ७-४५ || सर्वेष्विति विद्यास्वपि, मानस इति | तदुक्तम् � ᳚आत्मा न शृणुते यं स मानसो जप उच्यते | आत्मना शृणुते यस्तु तमुपांशं विजानते || परे शृण्वन्ति यं देवि सशब्दः स उदाहृतः |᳚ (स्वटं. २|१४७) इति | वेति विकल्पे | सशब्दस्यार्थसिद्धो निषेधः || ननु समनन्तरमेवोक्तं यच्छक्तिवर्त्मन्ययोजिता मन्त्रा न सिद्ध्यन्तीति तत्कथमिदमुच्यते -- ᳚शक्त्युदयं तेषां न परिकल्पयेत्᳚ ? -- इत्याशङ्क्याह -- पदमन्त्रेषु सर्वेषु यावत्तत्पदशक्तिगम् | शक्यते सततं युक्तैस्तावज्जप्यं तु साधकैः || ७-४६ || तावती तेषु वै संख्या पदेषु पदसंज्ञिता | तावन्तमुदयं कृत्वा त्रिपदोक्त्यादितः क्रमात् || ७-४७ || द्वादशाख्ये द्वादशिते चक्रे सार्धं शतं भवेत् | उदयस्तद्धि सचतुश्चत्वारिंशच्छतं भवेत् || ७-४८ || षोडशाख्ये द्वादशिते द्वानवत्यधिके शते |
SK
चारार्धेन समं प्रोक्तं शतं द्वादशकाधिकम् || ७-४९ || षोडशाख्ये षोडशिते भवेच्चतुरशीतिगः | उदयो द्विशतं तद्धि षट्पञ्चाशत्समुत्तरम् || ७-५० || चाराष्टभागांस्त्रीनत्र कथयन्त्यधिकान्बुधाः | अष्टाष्टके द्वादशिते पादार्धं विंशतिं वसून् || ७-५१ || उदयः सप्तशतिका साष्टा षष्टिर्यतो हि सः | पदप्रधानेषु सर्वेषु विद्यादिरूपेषु मन्त्रेषु पदानां प्राणाशक्तेश्च साम्यं गतं तज्जपादि अभियुक्तैः साधकैर्यावत्कर्तुं शक्यते तावदेव सर्वकालं जपनीयं, येन तेषु पदेषु त्रिपदोक्त्यादिकं क्रममवलम्ब्य ᳚त्रिषु बहुत्वं परिसमाप्यते᳚ इत्यादिनीत्या क्रमेणैकैकं पदं बहुपदतया विभज्य समस्तस्य परस्य प्राणचारसाम्येन सकृदुच्चारयितुमशक्यत्वात् तावन्तं पदांशपरीमाणं प्राणशक्तावुदयं कृत्वा तावती पदांशपरिमाणैव पदसंज्ञिता जपस्य संख्या स्यादिति | अयमत्र भावः -- न केवलमनेकपदस्य मन्त्रस्य प्राणशक्तौ सकृदुच्चारियतुमशक्यत्वं यावद् बह्वर्णतया तत्पदस्यापीति तस्याप्यंशांशिकया विभागः कार्यो येन शनैः शनैरेकमेकं तदंशे प्राणसाम्येनोच्चारयतां योगिनां लक्षजपादि सिद्धयेदिति | तदुक्तं तत्र -- ᳚पदमन्त्राक्षरे चक्रे विभागं शक्तितत्त्वगम् | पदेषु कृत्वा मन्त्रज्ञो जपं नित्यं तु कारयेत् || द्वित्रिसप्ताष्टसंख्यातं लोपयेच्छतिकोदयम् | इति शक्तिस्थिता मन्त्रा विद्या वा चक्रनायकाः || पदपिण्डस्वरूपेण ज्ञात्वा योज्याः सदा प्रिये | नित्योदये महातत्त्वे उदयस्थे सदाशिवे || अयुक्तः शक्तिमार्गे तु अजप्ताश्चोदयेन तु | नैव सिद्ध्यन्ति यत्नेन........................... ||᳚ इति | तथा -- ᳚मालामन्त्रेषु सर्वेषु मानसो जप उच्यते | शक्त्योदयं तु वै तेषु न कदाचित्प्रकल्पयेत् || यतस्तेषां वरारोहे मानसस्तु जपः स्मृतः | क्वचिच्चैव उपांशुः स्याज्जपः शास्त्रेषु कीर्तितः || महामन्त्रेषु सर्वेषु यावत्तत्पदशक्तिगम् | शक्यते सततं युक्तैः प्रजप्तुं साधकोत्तमैः || तावती तेषु वै संख्या पदेषु पदसंज्ञिता |
SK
तावन्तमुदयं कृत्वा त्रिपदोक्त्यादितः क्रमात् ||᳚ इति | अतश्च सामस्त्येन मालामन्त्रादीनां प्राणशक्तावुदयं कर्तुं न शक्यते -- इत्युक्तमेषां शक्त्युदयं न परिकल्पयेदिति | न तु सर्वंसर्विकया, तथात्वे हि जपस्याल्पफलप्रदत्वादधमत्वं स्यात् | यदुक्तम् -- ᳚अधमस्तु जपः प्रोक्तः प्राणसंख्याविवर्जितः |᳚ इति | पदविभागमेव दर्शयति द्वादशेत्यादिना | ᳚द्वादशाख्ये᳚ द्वादशपदात्मके मालामन्त्राद्यात्मनि चक्रे ᳚द्वादशिते᳚ सञ्जातद्वादशसंख्याके प्रत्येकं पदद्वादशकस्य द्वादशधा विभागे कृते सति द्वादशानां चतुश्चत्वारिंशदधिकं शतं भवेत् येन तस्यापि प्रत्येकं सार्धं शतं प्राणचाराणामुदयः, -- इति सषट्शता सहस्रैकविंशतिः प्राणचारणां स्यात् | तथा षोडशपदात्मके चक्रे द्वादशधा कृते तदंशानां द्वानवत्यधिकं शतं षण्णवतेरवशिष्टत्वादयं चोदयः | तथा षोडशाख्ये एव चक्रे षोडशधा कृते षोडशांशानां षट्पञ्चाशदधिकं शतद्वयं भवेदिति भावः | तस्य प्रत्येकं प्राणचाराणां चतुरशीतिः षण्णवतेरेवावशिष्टत्वात् चाराष्टभागैरयमुदयो भवेत् | तथाष्टाष्टके चतुष्षष्टिपदात्मके चक्रे द्वादशधा कृते प्रतिपदं द्वादशकं प्राणचाराणां विंशतिवसूनष्टाविंशतिं तथा षण्णवतेरर्धावशिष्टत्वात् पादार्धमष्टभागमुदयो यतश्चतुःषष्ट्यात्मनश्चक्रस्य द्वादशभिर्गुणनात् अष्टषष्ट्यधिकशतसप्तकलक्षणा सा संख्या भवेदित्येवमत्र सर्वत्र प्राणचाराणां सषट्शता सहस्रैकविंशतिरेव भवेत् || एतदेवोपसंहरति � एष चक्रोदयः प्रोक्तः साधकानां हितावहः || ७-५२ || ननु प्राणचारोदयानुसारं चक्राणामुदय इति स एव कीदृक् येन सोऽपि स्यात् ? -- इत्याशङ्क्याह -- निरुद्ध्य मानसीर्वृत्तीश्चक्रे विश्रान्तिमागतः | व्युत्थाय यावद्विश्राम्येत्तावच्चारोदयो ह्ययम् || ७-५३ ||
SK
इह खलु योगी सङ्कल्पात्मिका मानसीर्वृत्तीः ङिरुद्ध्य᳚ अन्तर्मुखीकृत्य ᳚चक्रस्य᳚ एकपिण्डाद्यात्मनो मन्त्रस्य ᳚विश्रान्तिं᳚ मध्यधामैकात्म्यमागतः सन् यावदुत्थाय हृद आरम्भ्य द्वादशान्तपर्यन्तं निर्गम्य पुनरन्तः प्रविश्य हृद्येव विश्राम्येत् तावदयं प्राणस्योदयो भवेदित्यर्थः || ५३ || अत्रैव त्रैरूप्यं निरूपयन् सिद्ध्यादिविभागमप्याह -- पूर्णे समुदये त्वत्र प्रवेशैकात्मनिर्गमाः | त्रय इत्यत एवोक्तः सिद्धौ मध्योदयो वरः || ७-५४ || अत्र पुनः सम्यक् मध्यधामैकात्म्येन प्रवेशपर्यन्तं प्राणस्योदये निर्गमे ᳚पूर्णे᳚ यथोक्तगत्या परिपूर्तिं प्राप्ते प्रवेशैकात्म्यनिर्गमलक्षणास्त्रयः प्रकाराः सन्तीत्यतः प्रकारत्रयमध्यात्सिद्धिनिमित्तमैकात्म्यलक्षणो मध्योदय एव प्रवेशादपि ᳚वरः᳚ श्रेष्ठ उक्त इत्यर्थः || ५४ || नन्वेवंवचने किं प्रमाणम् ? -- इत्याशङ्क्याह -- आद्यन्तोदयनिर्मुक्ता मध्यमोदयसंयुताः | मन्त्रविद्याचक्रगणाः सिद्धिभाजो भवन्ति हि || ७-५५ || मन्त्रचक्रोदयज्ञस्तु विद्याचक्रोदयार्थवित् | क्षिप्रं सिद्धेयेदिति प्रोक्तं श्रीमद्विंशतिके त्रिके || ७-५६ || ᳚आद्यन्तोदयौ᳚ निर्गमप्रवेशौ, ᳚मध्यमोदयो᳚ मध्यधामैकात्म्यम् | हिर्हेतौ | तेनैवं मन्त्रविद्याचक्रोदयं जानानो योगी निर्विलम्बमेव सिद्धिभाग्भवेदित्यर्थः || ५६ || ननु जितप्राणस्यारूढस्य योगिनः किं नामासाध्यं यन्न प्राणगं कुर्यात्, प्राणं जयतः पुनरारुरुक्षोः कथमेतत्सिध्येत् ? -- इत्याशङ्क्याह -- द्विस्त्रिश्चतुर्वा मात्राभिर्विद्यां वा चक्रमेव वा | तत्त्वोदययुतं नित्यं पृथग्भूतं जपेत्सदा || ७-५७ || पिण्डाक्षरपदैर्मन्त्रमेकैकं शक्तितत्त्वगम् | बह्वक्षरस्तु यो मन्त्रो विद्या वा चक्रमेव वा || ७-५८ || शक्तिस्थं नैव तं तत्र विभागस्त्व्ॐनमोन्तगः | आरुरुक्षुः पुनर्योगी नित्यं द्विःत्रिश्चतुर्वाभ्यासतारतम्यानुसारमेकद्व्यादिक्रमेण ᳚त्रिर्जानुवेष्टनान्मात्रा त्रिगुणच्छोटिकात्रयात् |᳚ (मा. वि. १७|१२)
SK
इति लक्षिताभिर्मात्राभिरनेकाक्षरां विद्यामनेकपिण्डं वा चक्रमनेकपदं वा मन्त्रमेकैकं पिण्डाक्षरपदैः पृथग्भूतमेकमेव पिण्डमक्षरं पदं वा पूर्वोक्तयुक्त्या प्राणशक्तितत्त्वगतं कृत्वा तत्त्वोदययुतं मध्यधामैकात्म्येन सदा जपेत्, लक्षजपादि कुर्यादित्यर्थः | अत एव पदादिविभागशून्यो बह्वक्षर एव यः पुनर्मन्त्रादिस्तमारुरुक्षुर्योगी तावतः प्राणनिरोधस्याशक्यत्वात् शक्तिस्थं नैव कुर्यात् शक्त्युदयमेषां न परिकल्पयेदित्यर्थः | ननु यद्येषां बह्वक्षरतया सामस्त्येन प्राणशक्तावुदयं कर्तुं न शक्यते तत्समनन्तरोक्तक्रमेण व्यस्ततयैतदस्तु -- इत्याशङ्क्योक्तं -- तत्रेत्यादि | आंनमोन्तग इति, नतु मन्त्रान्तरवत् पदपिण्डादिक्रमेणैषां विभागोऽस्ति येनांशांशिकयापि शक्तावुदयः सिद्ध्येत्; अतश्चारुरुक्षुभिरेवंविधानां मन्त्राणां जप एव न कार्यः -- इत्युक्तं स्यात् || ५९ || आरूढस्य पुनर्योगिनो न केवलं पूर्ण एव समुदये प्रवेशादित्रैविध्यं यावत्तदंशेष्वपीत्याह -- अस्मिंस्तत्त्वोदये तस्मादहोरात्रस्त्रिशस्त्रिशः || ७-५९ || विभज्यते विभागश्च पुनरेव त्रिशस्त्रिशः | तस्मात्पूर्वोक्ताद्धेतोः, अस्मिन् प्रक्रान्ते ᳚तत्त्वोदये᳚ कार्यकारणयोरभेदोपचारात् चक्रोदये प्राणापानत्माहोरात्रस्त्रिशस्त्रिशो विभज्यते, केवल एव प्राणोऽपानो वा प्रवेशैकात्म्यनिर्गमात्मना प्रकारत्रयेण विभागमापद्यते इत्यर्थः | तेन षट्त्रिंशदात्मनोरुभयोरपि प्राणापानवाहयोः प्रत्येकं प्रवेशादित्रैविध्यमिति प्रवेशादेः प्रत्यङ्गुलद्वादशकमुदयः | एवमात्मा विभागोऽपि पुनस्त्रिशस्त्रिश एव, प्रवेशाद्यपि प्रवेशष्निर्गमैकात्म्यलक्षणप्रकारत्रयभाग्भवेदित्यर्थः, | तेन प्रत्यङ्गुलचतुष्टयमपि प्रवेशादीनामुदयः, -- इति सिद्धम्; तदारूढस्य योगिनः परिमिते प्राणचारीयेऽप्यंशेऽप्येवं चक्रोदयः सिद्धेयेदित्यभिप्रायः || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवानुसरति -- पूर्वोदये तु विश्रम्य द्वितीयेनोल्लसेद्यदा || ७-६० || विशेच्चार्धार्धिकायोगात्तदोक्तार्धोदयो भवेत् |
SK
यदा पूर्णोदयात्मा तु समः कालस्त्रिके स्फुरेत् || ७-६१ || प्रवेशविश्रान्त्युल्लासे स्यात्स्वत्र्यंशोदयस्तदा | तस्मात् ᳚पूर्वस्मिन्᳚ प्रधाने मध्यधामात्मनि ᳚उदये विश्रम्य᳚ तदैकात्म्येन स्थित्वा ᳚यदा द्वितीयेन᳚ निर्गमात्मना प्रकारेण ᳚उल्लसेत्᳚ प्राणक्रमेणोर्ध्वं गच्छेत्, अर्थात्तृतीयेनापि प्रवेशात्मना प्रकारेण ᳚विशेत्᳚ अपानक्रमेण हृदन्तं प्रवेशं कुर्यात् तदा प्राणापानयोः प्रत्येकमर्धार्धिकया संबन्धात् सषट्शतसहस्रैकविंशत्यात्मन उक्तस्य कालस्यार्धेन प्राणचाराणां साष्टशतं सहस्रदशकमुदयो भवेत् | यदा पुनः ᳚पूर्णः᳚ सषट्छतसहस्रैकविंशतिरूपो योऽसावुदयस्तदात्मा कालः प्रवेशविश्रान्त्युल्लासाख्ये त्रिके साम्येन स्फुरेत् तदा प्रवेशादीनां प्रत्येकं श्वः᳚ आत्मीयो यः सशतद्वयसहस्रसप्तकात्मा ᳚त्र्यंशः᳚ तस्योदयो भवेदित्यर्थः || ननु प्राक् -- ᳚अन्तः संविदि सर्वोऽयमध्वा विश्रम्य तिष्ठति |᳚ (तं. ६|२८) इति प्रतिज्ञातं तत्कथमिह कालाध्वनः प्राण एवैवं प्रतिष्ठितत्वमुच्यते ? -- इत्याशङ्क्याह -- इत्येष कालविभवः प्राण एव प्रतिष्ठितः || ७-६२ || स स्पन्दे खे स तच्चित्यां तेनास्यां विश्वनिष्ठितिः | ᳚प्राण᳚ इति प्राधान्यात् तेनापानादावपि | स इति प्राणः | श्पन्दे᳚ इति सामान्यात्मिकायामाद्यप्रसररूपायां प्राणनावृत्तौ | ᳚खे᳚ इति शून्यप्रमातरि | स इति मेयौत्सुक्येन बहिःसमुच्छलन्प्राणस्पन्दादिशब्दव्यपदेश्यो भवेदिति भावः | तदिति खं, चित एव स्वातन्त्र्याच्छून्यरूपत्वेन परिस्फुरणात् | तेनेत्युक्तेन पारम्पर्येण हेतुना, विश्वेति षड्विधस्याध्वनः | यद्वक्ष्यति -- ᳚अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः | यत्तत्र न हि विश्रान्तं तन्नभःकुसुमायते || संविद्द्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च | नाडीचक्रानुचक्रेषु बहिर्देहेऽध्वसंस्थितिः |᳚(तं. ८|४) इति || एवं संविदधीनावेव विश्वस्य सृष्टिसंहारावित्याह -- अतः संवित्प्रतिष्ठानौ यतो विश्वलयोदयौ || ७-६३ || शक्त्यन्तेऽध्वनि तत्स्पन्दासंख्याता वास्तवी ततः |
SK
अतः कालस्य पारम्पर्येण संविद्येव निष्ठितत्वात् संवित्कर्तृकावेव यतो विश्वस्य सृष्टिसंहारौ, ततः शक्त्यन्तेऽध्वनि तेषां प्रागुक्तानां सृष्टिसंहाराद्यात्मनां स्पन्दानां ᳚तत्सृष्टौ सृष्टिसंहारा निःसंख्या जगतां यतः | अन्तुर्भूता ततः शाक्ती महासृष्टिरुदाहृता ||᳚ इत्याद्युक्तयुक्त्यावान्तराणां स्पन्दानामन्तर्भावात् असंख्यातापि वास्तवी सन्मात्रैकरूपत्वात् पारमार्थिकीत्यर्थः | या हि नाम बहिः कश्चन परिस्पन्दः स संवित्सतत्त्व एव -- इत्यभिप्रायः || न चैतदस्मदुपज्ञमेव, यावदागमेऽपि एवमित्याह -- उक्तं श्रीमालिनीतन्त्रे गात्रे यत्रैव कुत्रचित् || ७-६४ || विकार उपजायेत तत्तत्त्वं तत्त्वमुत्तमम् | इह खलु परसंविदावेशशालिनो योगिनो यत्रैव कुत्रचिच्चक्षुरादौ गात्रे शर्वो ममायं विभवः᳚ इत्यादिसङ्कल्पपूर्वक उपजायमानो यो विकारः स्पन्दस्तस्य यत्तत्त्वं सर्वभावानां स्वाविभागेनावभासनं तदुत्तमं तत्त्वं, संविदनतिरेकात्परः परमार्थ इत्यर्थः | तदुक्तं तत्र -- ᳚यत्रैव कुत्रचिद् गात्रे विकार उपजायते | सङ्कल्पपूर्वको देवि तत्तत्त्वं तत्त्वमुत्तमम् ||᳚ इति | (मा.वि. १८|४२) ननु भवतु नामैतत् तत्राप्यस्य प्राणस्य देहनिष्ठत्वेन कस्माद्रूपमुच्यते ? -- इत्याशङ्क्याह -- प्राणे प्रतिष्ठितः कालस्तदाविष्टा च यत्तनुः || ७-६५ || देहे प्रतिष्ठितस्यास्य ततो रूपं निरूप्यते | तदाविष्टेति, तच्छब्देन प्राणपरामर्शः | तत इति, प्राणस्य तनावाविष्टत्वात् || ननु कथं नाम देहस्य तदावेशः ? -- इत्याशङ्क्याह -- चित्स्पन्दप्राणवृत्तीनामन्त्या या स्थूलता सुषिः || ७-६६ || सा नाडीरूपतामेत्य देहं संतानयेदिमम् | प्राङ्निरूपितस्वरूपाणां चिदादीनां कार्यजननौन्मुख्यादन्त्या, अत एव चिदादेरन्तःकरणात् सुषिशब्दव्यपदेश्या या स्थूलता बहीरूपतया श्यानीभावः सा -- ᳚पादाङ्गुष्ठाग्रतो व्यक्ता नाभितो हृदयं गता | सुषुम्ना नाम सा ज्ञेया ब्रह्मरन्ध्रब्जनिर्गता | प्राणिनां प्राणसञ्चारे निर्मिता परमेष्ठिना ||᳚
SK
इत्याद्युक्त्या प्रथमं मध्यस्थूणान्यायेन मध्यनाडीरूपतामाश्रित्य वक्ष्यमाणप्रमाणमिमं देहं संतानयेत् सर्वतो भेदोपभेदरूपतया नाड्यन्तरोपजननात् जालवत् संतानवन्तं कुर्यादित्यर्थः || अतश्चागमोऽप्येवमित्याह -- श्रीस्वच्छन्देऽत एवोक्तं यथा पर्णं स्वतन्तुभिः || ७-६७ || व्याप्तं तद्वत्तनुर्द्वारद्वारिभावेन नाडिभिः | यथा पलाशपत्रं मध्यतन्त्ववलम्बिभिरात्मीयैस्तन्त्वन्तरैः सर्वत्र व्याप्तं तथा शरीरमपि भेदोपभेदरूपत्वेन द्वारद्वारिकया मध्यनाडिसंलग्नाभिर्गुणप्रधानभावेनावस्थिताभिर्नाडीभिरिति वाक्यार्थः | यदुक्तं तत्र -- ङाभ्यधो मेढ्रकन्दे च स्थिता वै नाभिमध्यतः | तस्माद्विनिर्गता नाड्यस्तिर्यगूर्ध्वमधः प्रिये || चक्रवत्संस्थितास्तत्र प्रधाना दश नाडयः | द्वासप्ततिसहस्राणि नाड्यस्ताभ्यो विनिर्गताः || पुनर्विनिर्गताश्चान्याः आभ्योऽप्यन्याः पुनः पुनः | यावत्यो रोमकोट्यस्तु तावस्यो नाडयः स्मृताः | यथा पर्णं पलाशस्य व्याप्तं सर्वत्र तन्तुभिः |᳚ (स्वटं. ७|११) इति | ननु ᳚मारुतापूरिताः सर्वाः᳚ इत्याद्युक्त्या सर्वा एव तावन्नाडयः प्राणवहाः, ताभिश्च निखिलमेव शरीरं व्याप्तमिति नास्त्यत्र विमतिः, तत्कथं हृदयाद् द्वादशान्तं मत्तगन्धस्थानं वा यावत्षट्त्रिंशदङ्गुल एव प्राणचार उक्तः ? -- इत्याशङ्क्याह - - पादाङ्गुष्ठादिकोर्ध्वस्थब्रह्मकुण्डलिकान्तगः || ७-६८ || कालः समस्तश्चतुरशीतावेवाङ्गुलेष्वितः | द्वादशान्तावधिं किंचित्सूक्ष्मकालस्थितिं विदुः || ७-६९ || षण्णवत्यामधः षड्द्विक्रमाच्चाष्टोत्तरं शतम् |
SK
उर्ध्वस्था ब्रह्मकुण्डलिका ब्रह्मबिलं, समस्तः प्रागुक्तः कालश्चतुरशीतावङ्गुलेष्विति सार्धत्रिहस्तात्मकत्वात् देहस्य | इत इति, गतः स्थित इत्यर्थः | षण्णवत्यामङ्गुलेष्विति पूर्वतो योज्यम् | तथात्वे च द्वादशानामङ्गुलानामाधिक्येनोपादानात् सूक्ष्मशब्दसन्निधेः पूर्वापरयोर्मानयोः स्थूलत्वं परत्वं चार्थसिद्धम् | अध इति पादाङ्गुष्ठात् | षड्द्विक्रमादिति, षण्णां द्विर्योऽसौ द्वादशाङ्गुलात्मा क्रमस्तस्माद्यदूर्ध्व इवाधोऽपि द्वादशान्तः संभवेदिति भावः || नन्वेवं देहस्य मानवैचित्र्ये प्राणादेरपि कश्चिदतिशयो न वा ? -- इत्याशङ्क्याह -- अत्र मध्यमसञ्चारिप्राणोदयलयान्तरे || ७-७० || विश्वे सृष्टिलयास्ते तु चित्रा वाय्वन्तरक्रमात् | अत्र त्रिप्रकारप्रमाणावच्छिन्ने देहे प्राधान्यान्मध्यवाहिनः प्राणस्य ये उदयलया निर्गमप्रवेशास्तदन्तराले विश्वे प्रागुक्तकलना एव सर्वे सृष्टिसंहारा भवन्ति, किंत्वेषामपानवाय्वन्तरक्रमादेव प्राग्वद्वैचित्र्यं नतु देहवैचित्र्यादित्यर्थः || इदानीमाह्निकार्थमेव श्लोकस्य प्रथमार्धेनोपसंहरति -- इत्येष सूक्ष्मपरिमर्शनशीलनीयश्चक्रोदयोऽनुभवशास्त्रदृशा मयोक्तः || ७१ || इति श्रामदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके चक्रोदयप्रकाशनं नाम सप्तममाह्निकम् || ७ || सूक्ष्मपरिमर्शनेत्यनेन अत्यन्तमस्यावधानगम्यत्वमुक्तमिति शिवम् || प्रतिनियतमन्त्रसमुदयचारभिदनुभवनिभालनोद्युक्तः | सप्तममाह्निकमेतद्व्याकृतावाञ्जयरथाभिख्यः || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते चक्रोदयप्रकाशनं नाम सप्तममाह्निकं समाप्तम् || ७ || अष्टममाह्निकम् ᳚ विवेक ᳚ जयकीर्तिरयं जयताज्जगदम्भोजं विभक्तभुवनदलम् | रविरिव विकासयति यश्चिदेकनालाश्रयत्वेन || इदानीं द्वितीयार्धेन देशाध्वनः स्वरूपं संगिरितुमुपक्रमते -- देशाध्वनोऽप्यथ समासविकासयोगात्सङ्गीयते विधिरयं शिवशास्त्रदृष्टः || १ ||
SK
नन्ववान्तराणां प्रमेयाणामनन्तानां प्रतिपाद्यत्वेऽपि कथमिह अस्यैव निर्देशः, इत्याशङ्क्याह � विचारितोऽयं कालाध्वा क्रियाशक्तिमयः प्रभोः | मूर्तिवैचित्र्यजस्तज्जो देशाध्वाऽथ निरूप्यते || ८-२ || ᳚अथ᳚ इत्यानन्तर्ये | तत् पदमन्त्रवर्णात्मना त्रिप्रकारः कालाध्वा विचारितः -- इति तदानन्तर्येण युक्तं देशाध्वनोऽप्यत्र निरूपणम्, -- इत्यत एव क्रमेण भुवनतत्त्वकलाप्रतिपादकं वक्ष्यमाणमाह्निकचतुष्टयम् | ᳚तज्जः᳚ इति तस्मात् प्रभोरेव जातः, स एव तथा तथा बहिःस्फुरित -- इत्यर्थः | यदाहुः -- ᳚आश्यानं चिद्रसस्यौघं साकारत्वमुपागतम् | जगद्रूपतया वन्दे प्रत्यक्षं भैरवं वपुः ||᳚ इति || २ || ननु यद्येवं, षड्विधोऽपि अयमध्वा किं चिदेकरूपात् तस्मादतिरिक्तो न वा? इत्याशङ्क्याह -- अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः | यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते || ८-३ || शंप्रतिष्ठितः᳚ इति तदनतिरिक्तः -- इत्यर्थः | अत्र व्यतिरेकमुखेन द्वितीयार्धं हेतुः | ङभःकुसुमायते᳚ इति न किञ्चित् स्यादिति यावत् || ३ || ननु यदि नाम संविदनतिरिक्त एवायमध्वा, तत् कथं सर्वत्र बर्हिर्भेदेन भायात् ? -- इत्याशङ्क्याह � संविद्द्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च | नाडीचक्रानुचक्रेषु बहिर्देहेऽध्वसंस्थितिः || ८-४ || संविदेव हि स्वस्वातन्त्र्यात् स्वं स्वरूपं गोपयित्वा स्वसमुल्लासिते शून्यप्राणबुद्धिदेहात्मनि प्रमातरि, बहिःप्रमेये च अनतिरिक्तत्वेऽप्यतिरिक्तमिव षड्विधमपि अध्वानमवभासयति, -- इत्युक्तं शंविद्द्वारेण तत्सृष्टे शून्यादावध्वसंस्थितिः᳚ इति | ङाडीचक्रानुचक्रेषु᳚ इति मरुत्सामानाधिकरण्येन योज्यम् || ४ || ननु यद्येवं तदस्तु, को दोषस्तन्निरूपणेन पुनः कोऽर्थः? इत्याशङ्क्याह -- तत्राध्वैवं निरूप्योऽयं यतस्तत्प्रक्रियाक्रमम् | अनुसन्दधदेव द्राग् योगी भैरवतां व्रजेत् || ५ ||
SK
᳚प्रक्रियाक्रमम्᳚ इति कालाग्न्यादेरनाश्रितपर्यन्तं तथातथाऽनुपूर्व्येण अवस्थानम् | ᳚अनुसन्दधत्᳚ इति शर्वमहम्᳚ इति विमर्शनेन स्वात्मविश्रान्तिमयतामापादयन् योगी शीघ्रमेव परसंविदैकात्म्यमियात् || ५ || नचैतदस्मदुपज्ञमेव, इत्याह -- दिदृक्षयैव सर्वार्थान् यदा व्याप्यावतिष्ठते | तदा किं बहुनोक्तेन इत्युक्तं स्पन्दशासने || ८-६ || यथा दिदृक्षावसरे स्वसाक्षितयैव अर्थस्तथा स्फुरति, तथैव योगी धरादिशिवान्ततत्त्वान्तर्भाविनः सर्वानर्थान् यदा शर्वमहम्᳚ इत्यनुसंधानपूर्वं स्वात्मनि क्रोडीकृत्यावतिष्ठते तदा निःशेषवेद्यविगलनेन परभैरवदशावेशचमत्काररूपं यत् फलम्, तत् स्वसंविदेवानुभविष्यति -- इत्यत्र बहुनोक्तेन किम्? न कश्चिदर्थ -- इत्यर्थः | श्वयमेवावभोत्स्यते᳚ इति चात्र तुर्यः पादः || ६ || ननु अध्वप्रक्रियाज्ञानमात्रादेव किमेवं भवेत्? -- इत्याशङ्क्याह -- ज्ञात्वा समस्तमध्वानं तदीशेषु विलापयेत् | तान् देहप्राणधीचक्रे पूर्ववद् गालयेत्क्रमात् || ८-७ || तत्समस्तं स्वसंवित्तौ सा संविद्भरितात्मिका | उपास्यमाना संसारसागरप्रलयानलः || ८-८ || ᳚तदीशेषु᳚ इति ब्रह्मादिषु | ᳚तान्᳚ तदीशानपि देहबुद्धिप्राणशून्यात्मनि कल्पिते रूपे ᳚पूर्ववत्᳚ कालाध्वनिरूपितनीत्या ᳚गालयेत्᳚ देहादारभ्य यथोत्तरं विश्रमयेत्, यावत् ᳚क्रमात्᳚ प्राप्तावसरं ᳚तत् समस्तम्᳚ देहादि स्वसंवित्सात्कुर्यात्, येनास्य सा संविदशेषवेद्यग्रासीकारेण पूर्णा सती ᳚उपास्यमाना᳚ भूयोभूयस्तथा परिशील्यमाना द्वयाद्यवभासतिरस्कारेण परमाद्वयमयतया प्रस्फुरेदित्यर्थः || ८ || ननु ᳚अथ कालाग्निरुद्राधः कटाहः संव्यवस्थितः | कोटियोजनबाहुल्यस्तस्योर्ध्वे भुवनानि तु || नवनवतिकोट्यश्चाप्यण्डानां तु सहस्रकम् | कोटीनां सप्ततिं लक्षाण्ययुतानां सहस्रकम् || अर्बुदान्यथ वृन्दानि खर्वाणि च तथैव च | पद्मानि चाप्यसंख्यानीत्येवमादीन्यनेकशः ||᳚ (स्व. १०|४)
SK
इत्याद्युक्त्या भुवनानामानन्त्ये तदधीशानामपि आनन्त्यम्, -- इति तेषां प्रत्येकमेवमनुसंधाने जन्मसहस्रैरपि न कश्चित् पारं यायात् -- इत्येतदशक्यानुष्ठानम् -- इत्याशङ्क्याह -- श्रीमद्दीक्षोत्तरे चैतानध्वेशान् गुरुरब्रवीत् | ᳚गुरुः᳚ इत्याद्यः श्रीकण्ठनाथः | अब्रवीदिति नैयत्येन || तत्रत्यमेव ग्रन्थं पठति -- ब्रह्मानन्तात्प्रधानान्तं विष्णुः पंसः कलान्तगम् || ८-९ || रुद्रो ग्रन्थौ च मायायामीशः सादाख्यगोचरे | अनाश्रितः शिवस्तस्माद्व्याप्ता तद्व्यापकः परः || ८-१० || ब्रह्माण्डकर्परिकाधोवर्तिनोऽनन्तात्प्रभृति प्रधानान्तं ब्रह्मा व्याप्ता -- इति संबन्धः | एवमुत्तरत्रापि योजनीयम् | ग्रन्थौ चेति, चशब्देन तद्गतरूपायामपि मायायां रुद्रो व्याप्तेत्यर्थः | ᳚रिशः᳚ इतीश्वरः | शादाख्यगोचरः᳚ इति शुद्धविद्यादितत्त्वत्रयानि | ᳚तस्मात्᳚ इति सादाख्यगोचरात् अर्थादूर्ध्वं शक्तितत्त्वस्थाने तु ᳚तद्व्यापकः᳚ इति तेषां ब्रह्माद्यनाश्रितान्तानां पञ्चानामपि कारणानां व्यापकः परः शिवः -- इत्यर्थः | अतश्च नियतत्वात्तदीशानां प्रत्युतैतत् सुखोपायम्, इत्यतः परमन्यज्ज्ञानं नास्तीत्युक्तप्रायम् || १० || यदभिप्रायेणैव श्रीस्वच्छन्दशास्त्रमप्येवमाह -- एवं शिवत्वमापन्नमिति मत्वा न्यरूप्यत | न प्रक्रियापरं ज्ञानमिति स्वच्छन्दशासने || ८-११ || यदुक्तं तत्र � ङास्ति दीक्षासमो मोक्षो न विद्या मातृकापरा | न प्रक्रियापरं ज्ञानं नास्ति योगस्त्वलक्षकः ||᳚ (११|१९८) इति || ११ || नन्वेवमध्वनोऽनुसंधाने कथं बोधस्य साक्षात्कारो भवेत्? -- इत्याशङ्क्याह -- त्रिशिरःशासने बोधो मूलमध्याग्रकल्पितः | षट्त्रिंशत्तत्त्वसंरम्भः स्मृतिर्भेदविकल्पना || ८-१२ || अव्याहतविभागोऽस्मिभावो मूलं तु बोधगम् | समस्ततत्त्वभावोऽयं स्वात्मन्येवाविभागकः || ८-१३ || बोधमध्यं भवेत्किंचिदाधाराधेयलक्षणम् | तत्त्वभेदविभागेन स्वभावस्थितिलक्षणम् || ८-१४ || बोधाग्रं तत्तु चिद्बोधं निस्तरङ्गं बृहत्सुखम् |
SK
श्रीत्रिशिरोभैरवे हि बोध एव मूलमध्याग्रकल्पितः सन् षट्त्रिंशत्तत्त्वसंरम्भस्तथोल्लसितः, -- इत्यर्थादुक्तम्, येन तदनुसंधानाद्बोधसाक्षात्कारः स्यात् | तदेवार्थद्वारेण पठति -- श्मृतिः᳚ इत्यादि | इह खलु यो नाम ᳚अस्मिभावः᳚ ᳚बुद्ध्यस्मितासुसंरूढो गुणान्पूर्वं विभेद्य च | विचारयेद्भूतधर्मान् पृथिव्यादिक्रमेण तु ||᳚ इत्यादितत्रत्योक्त्या अनात्मरूपबुद्ध्यादिनिष्ठाहंभावः संकुचितः प्रमाता स स्मृतिर्भेदविकल्पना च तत्स्वभाव -- इत्यर्थः | स हि ᳚इदमहं जानामि᳚ इति भेदेनैव विश्वं विकल्पयेत् | न केवलं सद्रूपमेवार्थमेवं विकल्पयेत्, यावद्दग्धपित्रादिविषये स्मृतिविकल्पादावसदपि, -- इत्युक्तं श्मृतिः᳚ इति | अत एवेदन्तायाः प्राधान्यादव्याहतविभागः सुस्फुटभेदात्मक -- इत्यर्थः | तच्च बोधगं मूलं बोधस्य परां कोटिं प्राप्तं स्थौल्यमुच्यते, -- इत्यर्थः | तथा अयं भेदेनोल्लसितः शमस्ततत्त्वभावो᳚ भूतभावादिः ᳚इदमहम्᳚ इति न्यायेन बोधरूपे श्वात्मन्येव᳚ विश्रान्तोऽत एव ᳚अविभागको᳚ विगलितभेदो बोधमध्यं भवेत् नतु बोधाग्रम्; यतस्तदहन्तेदन्तयोः सामानाधिकरण्यात् आमुखे भेदप्रतिभासात् ᳚किंचिदाधाराधेयलक्षणम्᳚ किंचित्पदेन बोधमूलवन्न भेदप्रधानं नापि बोधाग्रवदभेदप्रधानम्, -- इति प्रकाशितम्; अत एव अन्तरालवर्तित्वात् ᳚मध्यम्᳚ -- इत्युक्तम् | तथा तत्त्वानां भेदस्य ᳚विभागेन᳚ मूलत एव शातनेन यत् ᳚अहम्᳚ इत्यामर्शरूपे स्वात्मन्येवावस्थानं तत् ᳚बोधाग्रम्᳚ सकलभावाविभागस्वभावः, परां काष्ठां प्राप्तो बोधः -- इत्यर्थः | अत एव तच्चिद्बोधरूपं न तु अणुबोधरूपम्, निस्तरङ्गं न तु क्षुब्धम्, ᳚बृहत् सुखम्᳚ जगदानन्दरूपं न तु अनानन्दादिरूपमित्यर्थः | यदुक्तं तत्र -- ᳚षट्त्रिंशत्तत्त्वविषये यद्भेदेन विकल्पना | स्मृतिः सुस्फुटभेदात्मा मितमाता तदुच्यते || प्रान्तावस्थितिविज्ञानं स्थौल्यं बोधस्य भैरवि | समस्ततत्त्वभावोऽयं नावलोक्यो विभागशः ||
SK
स्वात्मनि संस्थितं विन्द्याद् बोधमध्यं तदुच्यते | आधाराधेयभावोऽयमुभयावस्थितस्य च || तत्त्वभेदविभागेन स्वभावस्थितिलक्षणम् | तत्पदस्थो न विन्देत चिद्व्योमान्तरवर्तिनः || तदतीतं विजानीयान्मध्यमं प्राप्त्यवस्थितम् | प्रान्तावस्थितिविज्ञेयं बोधाग्रं तदिहोच्यते || शक्तिज्ञानं विजानीयात्परमानन्दलक्षणम् | नित्योदितं सुखं विद्धि निस्तरङ्गं तु कथ्यते || बृहत्सुखेति कथितं चिद्बोधं तु निगद्यते |᳚ इति || १४ || एवं षड्वधेऽप्यध्वनि संविदैकात्म्यं परिशीलयतो योगिनो भैरवीभाव एव भवेत् -- इत्याह -- संविदेकात्मतानीतभूतभावपुरादिकः ||८-१५ || अव्यवच्छिन्नसंवित्तिर्भैरवः परमेश्वरः | न केवलमेतदत्रैवोक्तं यावदन्यत्रापि, -- इत्याह -- श्रीदेव्यायामले चोक्तं षट्त्रिंशत्तत्त्वसुन्दरम् || ८-१६ || अध्वानं षड्विधं ध्यायन्सद्यः शिवमयो भवेत् | ᳚ध्यायन्᳚ इति स्वसंविदभेदेन परामृशन्नित्यर्थः | यदुक्तं तत्र -- ᳚अध्वानं निखिलं देवि तत्त्वषट्त्रिंशदुज्ज्वलम् | चिन्तयन् सद्य आप्नोति पदं शाश्वतमुत्तमम् ||᳚ इति || १६ || ननु यदि नाम बोधात्मैव षड्विधोऽपि अयमध्वा, तद्बोधस्य देशाद्यनवच्छिन्नत्वात् कथमस्योर्ध्वादिव्यवस्था स्यात् ? -- इत्याशङ्क्याह -- यद्यप्यमुष्य नाथस्य संवित्त्यनतिरेकिणः || ८-१७ || पूर्णस्योर्ध्वादिमध्यान्तव्यवस्था नास्ति वास्तवी | तथापि प्रतिपत्तॄणां प्रतिपादयितुस्तथा || ८-१८ || स्वस्वरूपानुसारेण मध्यादित्वादिकल्पनाः | प्रतिपत्रादयो हि संकुचितरूपत्वात् गृहीतदेहाद्यभिमानाः � इति तदनुसारेणोर्ध्वादिव्यवस्थां कल्पयेयुः, न तु वस्तुतः सा संभवेत्; अत एवोर्ध्वमप्यन्यापेक्षयाधः स्यात् | तस्मात् प्रतिपत्राद्यपेक्षयैवेयं व्यवस्था -- यत् पृथिवीतत्त्वं सर्वतत्त्वान्तर्वर्ति तत्त्वान्तराणि च तद्बहिरिति || १८ || तदाह � ततः प्रमातृसङ्कल्पनियमात् पार्थिवं विदुः || ८-१९ || तत्त्वं सर्वान्तरालस्थं यत्सर्वावरणैर्वृतम् |
SK
पृथिवीतत्त्वमेव च स्थौल्यस्य परा कोटिः, इति तदुपक्रमं सुखेनावबोधात् तत्रैव प्रथमं भुवनस्थितिरुच्यते, -- इत्याह -- तदत्र पार्थिवे तत्त्वे कथ्यते भुवनस्थितिः || ८-२० || तामेवाह -- नेता कटाहरुद्राणामनन्तः कामसेविनाम् | पोतारूढो जलस्यान्तर्मद्यपानविघूर्णितः || ८-२१ || स देवं भैरवं ध्यायन् नागैश्च परिवारितः || जलस्यान्तरित्यर्थात् तदुपरि संस्थितः | यदुक्तम् -- शंस्थितः सोऽम्भसां रमूध्नि शक्त्याधारस्तु हूहुकः |᳚ इति | अत एव चास्य अप्तत्त्वसंनिकर्षेण कटाहस्याधो बहिर्देशेऽवस्थानं न त्वन्तः, -- इति सिद्धम् | यदुक्तं श्रीनन्दिशाखायाम् -- ᳚कोटियोजनतः स्थौल्यं ब्रह्माण्डस्य कटाहके | तथैवोर्ध्वं स्थितं ज्ञेयमन्तरं कथ्यते प्रिये || अष्टानवतिकोटीर्भिब्रह्माण्डं समुदाहृतम् |᳚ इत्युपक्रम्य ᳚कटाहाधः स्थितं देवि हूहुकं भुवनेश्वरम् | शक्त्याधारं तु जानीयादनन्तं वरवर्णिनि ||᳚ इति | श्रीत्रिशिरोभैरवेऽपि -- ᳚ब्रह्माण्डबाह्यतोऽनन्तो विश्वाधारस्तु कथ्यते |᳚ इति | अन्तरवस्थाने चास्य ᳚दशकोटिमितं तत्तु पोतैः सर्वत्र तत्समम् | ऊर्ध्वं तस्य सुरेशानि कोटिमात्रं तमः परम् ||᳚ इत्याद्युक्तं भुवनादिमानं वक्ष्यमाणब्रह्माण्डान्तर्वर्तिभुवनमानसंख्यातोऽतिरिच्येत, -- इति तत्संख्याया आसमञ्जस्यं स्यात् | ननु यद्येवं तदनन्तस्य -- ᳚ब्रह्माण्डमण्डपस्यान्तर्भुवनानि विशोधयेत् | आदावनन्तभुवनं कौष्माण्डं हाटकेश्वरम् || अनन्तभुवनस्यानु कालाग्निभुवनं महत् | शार्वं ब्रह्मं वैष्णवं च रौद्रं भुवनमुत्तमम् || ब्रह्माण्डोदरमध्ये तु अष्टावेते प्रकीर्तिताः |᳚ इत्यादीनामन्तःस्थितिविधायकानां वाक्यानां कोऽर्थः स्यात् | किञ्च ᳚ब्रह्मणोऽण्डस्य शकलं कोटिमात्रं प्रमाणतः | तदूर्ध्वं कालरुद्रस्तु दशेशानसमन्वितः || कोटिमात्रं पुरं तस्य तज्ज्वाला दशकोटयः | अनन्तोऽधः पद्म ऊर्ध्वे अन्ये तु क्रमशः स्थिताः ||᳚ इति | तथा ᳚अधः कालान्तगो रुद्रो दशेशस्थानमध्यगः |
SK
पद्मश्चोर्ध्वमधोऽनन्तस्तथान्ये क्रमवर्तिनः ||᳚ इत्याद्युक्त्या कालाग्निभुवनान्तरेव अस्य भुवनं न तु पृथक् -- इति वक्ष्यमाणाया भुवनसंख्याया अपि न किंचिदासमञ्जस्यम् | इह च अनन्तस्य श्रीसिद्धातन्त्रोक्तं भुवनमानं न ग्राह्यमेव, ᳚क्रियादिभेदभेदेन तन्त्रभेदो यतः स्मृतः | तस्माद्यत्र यदेवोक्तं तत्कार्यं नान्यतन्त्रतः ||᳚ इत्याद्युक्त्या तत्प्रक्रियाया भिन्नत्वात् | तथा च इह नरकाणां द्वात्रिंशत्कोटयो मानं तत्रैकविंशतिः | यदुक्तम् -- ᳚तस्योर्ध्वं नरका घोरा एकविंशतिकोटयः |᳚ इति | इहापि ᳚अण्डस्यान्तरनन्तः........................ |᳚ (८|३९३) इति, ᳚अष्टावन्तः साकं शर्वेण................. |᳚ (८|३९७) इति च वक्ष्यमाणं व्याहन्येत -- इति किमत्र प्रतिपत्तव्यम्? इदमत्र प्रतिपत्तव्यं यदनन्तस्य बहिरवस्थानमिति | तथाहि -- श्रीतन्त्रराजभट्टारके ᳚ब्रह्माण्डमण्डपान्तर्........................... |᳚ इत्यादिकमनन्तस्य नान्तःस्थितेर्विधायकम्, किन्त्वेवं शुद्धिक्रमस्य तदवस्थितेः पूर्वमुक्तत्वात्, एतावन्मात्रस्यैवात्र विवक्षितत्वात् | यदुक्तं तत्र -- ᳚अतो᳚ भुवनदीक्षान्या शृणु पार्वति तत्त्वतः | आदिष्ट्के पुरा प्रोक्तमेतन्निखिलतो मया || तथापि तव वक्ष्यामि संक्षेपादिह भामिनि | इत्युपक्रम्य ᳚तेषां विभागमधुना शृणु वीरेन्द्रवन्दिते |᳚ इति | तत्र च अस्यादिषट्केबहिरेवावस्थानं विहितम् | यदुक्तम् -- ᳚यत्तद्भूम्यण्डकं भाति पीतमम्बुजजन्मनः | तस्याधोभागगा भान्ति पूर्वदृष्टान्तकारकाः || शेषाहिफणमाणिक्यविश्वकर्म्मप्रसादतः |᳚ इत्युपक्रम्य ᳚अनन्तशक्तिचन्द्रांशुपीयूषोर्मिभिरुल्वणैः | आलिङ्गितमतश्चोच्चैरप्तत्वाधः पथोच्छलत् || भुवनं तस्य वीरस्य भात्यनन्तस्य स्वश्रिया | अनन्तवनितावक्त्रपद्मषण्डसरः सदा ||᳚ इति विशेष्य ᳚ततो हूहुकरुद्रस्य चूडामणिनभ (विव) स्वतः | त्विषा प्रध्वस्ततिमिरं पुरं वीरगणाकुलम् ||᳚ इत्यादिना हूहुकरुद्राणां भुवनानि, ᳚भैरवीयमहारज्जुप्रबद्धानि महेश्वरि |
SK
एतान्यप्सु पुराण्यत्र निभृतानि शिवात्मना || लक्षोच्छिर्तानि सर्वाणि सलिलावर्तगानि च |᳚ इत्यादिना च तेषां देशं मानं चाभिधाय शमन्ताद् ब्रह्मणोऽण्डं तु शतकोटिप्रविस्तरम् | कटाहं च स्मृतं कोटिः शतरुद्रैः समन्वितम् ||᳚ इति | यत्पुनः ᳚......................ऽन्तर्भुवनानि विशोधयेत् |᳚ इत्याद्युक्तं तन्मल्लग्रामवद्भूम्ना व्याख्येयम्, अन्यथा हि पूर्वापरव्याघातः स्यात् | एवमत्र अनन्तपूर्वकं शतरुद्रपर्यन्तं भुवनानां शुद्धौ यौगपद्येन तदसंपत्तेः क्रममात्रमेवाभिधित्सितं न त्वन्तर्बहीरूपत्वमपि, तथात्वे तच्छुद्धावविशेषात् | एवं ᳚एतेषां तु अधस्ताद्वै कालाग्निभुवनं ततः | हूहुकाश्च तथा देवि ब्रह्माण्डोदरवर्तिनः ||᳚ इत्यादावपि व्याख्येयम् | एतच्चोत्तानतयैव गृहीत्वा संग्रहकाराः प्रवृत्ताः -- इति तत्र तत्र तथाभ्यधुः, येनास्य अन्तरवस्थाने भ्रन्तिबीजत्वं प्ररूढम् | तथा च सोमशंभुः -- ᳚अथ हूहुककालाग्निरुद्रौ हाटक एव च | कूष्माण्डश्चाथ शर्वश्च ब्रह्मा विष्णुश्च सप्तमः || रुद्रश्चाष्टाविमे रुद्राः कटाहस्यान्तरे स्थिताः |᳚ इति | गुरुभिरेतन्नाना विकल्पितम्, -- इति तन्मतप्रदर्शनाशयेन ᳚अण्डस्यान्तरनन्त............................... | (८|३९३) इति, अष्टावन्तः साकं शर्वेण....................... | (८|३९७) इति च पुरस्तादिह वक्ष्यति, -- इति न पूर्वापरव्याहतत्वम् | यद्वक्ष्यति -- अथ सकलभुवनमानं यत्पूर्वं निगदितं निजैर्गुरुभिः | तद्वक्ष्यते समासाद् बुद्धौ येनाशु संक्रामेत् ||᳚ (८|३९२)
SK
इति | यत्तु कालाग्निभुवनान्तरेवास्य भुवनं न पृथक्, -- इत्युक्तं तदयुक्तम्; अयं हि हूहुकरुद्राधिपतेर्बहिरवस्थितात् पृथक्शोध्यादनन्तात् कालाग्नेर्भुवनान्तर्वतीं तत्परिवारभूतोऽन्यः | एतस्यैव हि तत्त्वे पृथक्शोध्यत्वमनभिधानीयम्, कालाग्निरुद्रशुद्ध्यैव तच्छुद्धेः; अन्यथा पद्मादीनामपि तदापतेत् -- इति अन्तरनेकेरुद्राः शोधनीयाः स्युः -- इति वृत्तावष्टोत्तरादपि शतादधिकानि प्रसज्येरन् | एवमन्यैश्च यदस्य बहिर्देशावस्थानेऽपि अधःस्थशतरुद्रदशकान्यतरत्वमुक्तं तदप्ययुक्तम्; एवं हि अस्य तन्मध्यपाठेनैव गतार्थत्वादितरमेव पृथगभिधानं स्यात् | यच्च श्रीसिद्धातन्त्रोक्तं भुवनमानमिह न ग्राह्यम् -- इत्युक्तं तदप्ययुक्तम्; यतो यदि नाम नरकादिवदनन्तभुवनस्येह मानं किंचिदुच्येत तत्प्रक्रियाभेदादन्यतन्त्रोक्तमग्राह्यमेव -- इति स्यात् | भुवनस्य मानमवश्यभावि, तच्चेह नोक्तम् -- इति तदाकाङ्क्षायामेव अवश्यमेवान्यतः कुतश्चिदपेक्षणीयम् -- इति को नाम श्रीसिद्धातन्त्रे प्रद्वेषः | यद्वा श्रीतन्त्रराजभट्टारकेऽपि अस्य लक्षोच्छिर्तत्वमुक्तम्, -- इति तदपेक्ष्यताम्, को नाम नो निर्बन्धः; यावता हि अस्माकमन्तर्भुवनमानसंख्याया आसमञ्जस्यमभिधानीयं तच्च उभयथापि सिद्ध्येत् -- इत्यलं बहुना | ᳚कटाहरुद्राणाम्᳚ � इति कटाहाधोवर्तिनां हूहुकरुद्राणाम्; अतश्च तच्छुद्ध्यैव एतच्छुद्धिर्भवेदिति भावः | यदुक्तम् -- ᳚तेन शुद्धेन शुद्धानि त्वण्डान्यत्रोहकैः सह |᳚ (स्व. १०|६) इति | एवमुत्तरत्रापि तत्तद्भुवनेश्वरद्वारेणैव तत्तद्भुवनशुद्धिरिति मन्तव्यम् | यदुक्तम् � ङ तत्र दुःखितः कश्चिन्मुक्त्वा दुःखमनङ्गजम् | रमन्ते तत्र वै वीरा नारीभिः सह लीलया ||᳚ (स्व. १०|८) इति | पोतारूढ इति, यदुक्तम् -- ᳚अनन्तः संस्थितोऽधस्तात्पोतारूढो जलान्तरे |᳚ इति | मद्यपानविघूर्णित इति, यदुक्तम् -- ᳚महापानरतः श्रीमान्महामत्तः सदाम्भसि |᳚ इति | भैरवं ध्यायन्नित्यनेन अस्य तदेकप्रवणतया
SK
᳚भुवनेश त्वया नास्य साधकस्य शिवाज्ञया | प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम् ||᳚ (मा.वि. ९|६४) इत्यादि तदाज्ञानुविधायित्वमस्ति, -- इति प्रथमत एव सर्वाक्षेपेण प्रकाशितम् | नागैरिति, यदुक्तम् � ᳚पद्मश्चैव महापद्मः शङ्खपालोऽथ वज्रिणः | कार्कोटश्च निषादश्च कम्बलाश्वतरावुभौ || एभिश्चैव महानागैः समन्तात्परिवारितः |᳚ इति | एवं च स्वयमपि नागरूपत्वमेव, इति सिद्धम् | यदुक्तम् -- ᳚ऊर्ध्वबाहुर्महाकायो नागरूपी महाबलः | फणानां तु सहस्रेण घारयित्वा जगत्स्थितः ||᳚ इति | अत एव श्रीतन्त्रराजभट्टारकेशेषाहित्वेनायमुक्तः || २१ || इदानीं ब्रह्माण्डस्यान्तर्भुवनानि वक्तुमुपक्रमते -- कालाग्नेर्भुवनं चोर्ध्वे कोटियोजनमुच्छिर्तम् || ८-२२ || लोकानां भस्मसाद्भावभयान्नोर्ध्वं स वीक्षते | ऊर्ध्वं इत्यर्थात् कटाहस्य, स च कोटियोजनानां घनः | यद्वक्ष्यति -- ᳚अधश्चोर्ध्वं कटाहोऽण्डे स घनः कोटियोजनः |᳚ (स्व. १०|१६२) इति | नोर्ध्वं स वीक्षते इति, यदुक्तम् -- नोर्ध्वं निरीक्षते देवो मेदं भूद्भस्मसाज्जगत् | इति | अत एवास्योर्ध्ववक्त्रमनुन्मीलितम् -- इति चतुर्वक्त्रत्वमेव सर्वत्रोक्तम् | यदुक्तम् -- ᳚त्रिनेत्रः स चतुर्वक्त्रो वह्निज्वालावलीधरः |᳚ इति || २२ || ननु ᳚यो हि यस्माद् गुणोत्कृष्टः स तस्मादूर्ध्वमिष्यते |᳚ (मा.वि. २|६०) इत्याद्युक्त्या नरकोर्ध्वमस्यावस्थानं युक्तम्, तत् कथं तदध उक्तम्? -- इत्याशङ्क्याह -- स च व्याप्तापि विश्वस्य यस्मात्प्लुष्यन्निमां भुवम् || ८-२३ || नरकेभ्यः पुरा व्यक्तस्तेनासौ तदधो मतः | उक्तं च प्राक् � ङिरयेभ्यः पुरा कालवह्नेर्व्यक्तिर्यतस्ततः | विभुरप्येष तदधः............................ || (तं आ. ६|१४२) इति || २३ || दश कोट्यो विभोर्ज्वाला तदर्धं शून्यमूर्ध्वतः || ८-२४ || तदूर्ध्वे नरकाधीशाः क्रमाद् दुःखैकवेदनाः | अधो मध्ये तदूर्ध्वे च स्थिता भेदान्तरैर्वृताः || ८-२५ || अवीचिकुम्भीपाकाख्यरौरवास्तेष्वनुक्रमात् |
SK
एकादशैकादश च दशेत्यन्तः शराग्नि तत् || ८-२६ || प्रत्येकमेषामेकोना कोटिरुच्छिर्तिरन्तरम् | लक्षमत्र खवेदास्यसंख्यानामन्तरा स्थितिः || ८-२७ || कूष्माण्ड ऊर्ध्वे लक्षोनकोटिस्थानस्तदीशिता | ᳚तदर्धं᳚ पञ्च कोटयः | ᳚शून्यम्᳚ धूमोष्मादिभयाज्जनरहितम् | यदुक्तम् -- ᳚अस्योपरिष्टाद्देवेशि पञ्च कोट्यो वरानने | न कश्चिन्निवसत्यत्र धूमोष्मपरितापितः ||᳚ (स्व. १०|३०) इति | ᳚तदूर्ध्वे᳚ शून्योपरि | अनुक्रमादिति संहारात्मनः, तेन रौरवे कुम्भीपाकेचैकादशान्तर्भवन्ति अवीचौ च दश, -- इत्यात्मना सह तन्नरकत्रयं ᳚शराग्नि᳚ पञ्चत्रिंशत्संख्यावच्छिन्नं भवतीत्यर्थः | यदुक्तम् � ङरकैकादशगतमवीचिं शोधयेत्प्रिये | आत्मना द्वादशं देवि कुम्भीपाकं विशोधयेत् || महारौरवसंज्ञं चाप्येवमेव विशोधयेत् | पञ्चत्रिंशत्प्रवक्ष्यामि समासेन वरानने || अवीचिः कृमिनिचयो नदी वैतरणी तथा | लोहश्च शाल्मलिश्चैवाप्यसिपर्वत एव च || सोच्छ्रवासश्च निरुच्छवासः पूतिमांसः परस्तथा | तप्तत्रपुः क्षारकूपो जतुलेपस्तथैव च || अन्तर्भूता अवीचौ तु कुम्भीपाकस्य श्रूयताम् | अस्थिभङ्गः क्रकचच्छेदकूपश्चापि कटङ्कटः || वसामिश्रो ह्ययस्तुण्डस्त्रपुलेपश्च कीर्तितः | कुम्भीपाकश्च विज्ञेयस्तीक्ष्णासिश्च तथैव च || तप्तलोहश्च विज्ञेयः क्षुरधारपथस्तथा | अशनिश्च सुतप्तश्च द्वादशैते प्रकीर्तिताः || एकादशान्तर्विज्ञेयाः कुम्भीपाकस्य दारुणाः | महारौरवराजे च अत ऊर्ध्वं निबोध मे || कालसूत्रो महापद्मः कुम्भः सञ्जीवनेक्षुकौ | पाशोऽम्बरीशकश्चैव अयःपट्टस्तथैव च || दण्डयन्त्रस्त्वमेध्यश्च घोररूपस्तथापरः | महारौरव एतेषामुपरिष्टाद्व्यवस्थितः ||᳚ (स्व. १०|८१-९०) इति | ᳚एषाम्᳚ इति त्रयान्तर्भूतानां द्वात्रिंशतो नरकाणाम् ᳚एकोना कोटिः᳚ इति नवनवतिर्लक्षाणि | ᳚अन्तरम्᳚ इति प्रत्येकं शून्यरूपम्, तेन द्वात्रिंशत् कोटयः | तत्र सचत्वारिंशच्छतं प्रधानम्, तत्रापि द्वात्रिंशत्, तत्रापि त्रयमित्युक्तं स्यात् | यदुक्तम् --
SK
᳚अतः परं वरारोहे नरकाः परिकीर्तिताः | पञ्चाशत् कोटयो देवि..................... ||᳚(स्व.१०|३१) इति| तथा, ᳚तेषु मध्ये शतं श्रेष्ठं चत्वारिंशाधिकं प्रिये | तेषामपि वराश्चान्ये द्वात्रिंशन्नरकाधिपाः || राजराजेश्वरास्त्रीणि.............................. ||᳚ इति | एवमुपदेशे च अयमाशयो यत् दीक्ष्यस्य पापभूयस्त्वे तारतम्येन निश्चिते वितत्य नरकाणां शुद्धिः अन्यथा तु संक्षेपेणेति | ऊर्ध्व इति, नरकाणाम् ||२७|| नन्वेवंविधेषु नरकेषु केनाम वसन्ति, केवा न? -- इत्याशङ्क्याह -- शास्त्रविरुद्धाचरणात् कृष्णं ये कर्म विदधते || ८-२८ || तत्र भीमैर्लोकपुरुषैः पीड्यन्ते भोगपर्यन्तम् | ये सकृदपि परमेशं शिवमेकाग्रेण चेतसा शरणम् || ८-२९ || यान्ति न ते नरकयुजः कृष्णं तेषां सुखाल्पतादायि || ᳚शास्त्रविरुद्धाचरणात्᳚ इति विहितस्याकरणात् निषिद्धस्य च करणात् | सुखाल्पतादायीति, प्रमादादपरिनिष्पन्नत्वात् | तदुक्तम् -- ᳚एतेऽतिघोरा नरकास्त्रिकोणाः परिकीर्तिताः | असत्कर्मरतानां तु प्राणिनां पातनाय वै || निस्त्रिंशकर्मकर्तॄणां शठानां पापकर्मणाम् | निर्दयाधमजातीनां परहिंसारतात्मनाम् || परदाररतानां च शिवशास्त्रस्य दूषिणाम् | देवद्रव्यापहाराणां ब्रह्मघ्नपितृघातिनाम् || गोघ्नानां च कृतघ्नानां मित्रविस्रम्भघातिनाम् | सुवर्णभूमिहर्तॄणां शौचाचारनिवर्तिनाम् || दयादाक्षिण्यहीनानां पैशुन्यानृतचेतसाम् | नरकाश्च समाख्यातास्त्वकर्मपथवर्तिनाम् || शुभकर्मरता लोका नरकेन पतन्ति हि | तत् समासेन वक्ष्यामि यथावदनुपूर्वशः || सत्यं क्षान्तिरहिंसा च शौचं स्नानमकल्कता | दया लौल्यं च यस्यासौ नरकान्नाधिगच्छति || शान्तो दान्तः सुहृष्टात्मा त्वनहङ्कारवान्समः | अद्रोही चानसूयश्च परैश्वर्ये च निःस्पृहः || अमात्सर्यममानित्वं शिवभक्तिरचापलम् | जपध्यानरतिः स्थैर्यं कार्पण्यस्य च वर्जनम् || व्रतानि नियमाश्चैव स्वाध्यायश्च त्रिसन्ध्यता | सर्वत्र श्रद्दधानत्वमार्जवं ह्नीर्मनस्विता ||
SK
ओजः प्रशान्तिः संतोषोऽप्रियवाक्यविवर्जनम् | परीक्ष्यकारिता नित्यं मनोऽहङ्कारनिग्रहः || अदम्भित्वममानित्वमकल्को ज्ञानशीलता | पितृदेवार्चने भक्तिर्गोब्रह्मणशरण्यता || अग्नौ होमो गुरौ दानं ज्ञानिनां पर्युपासनम् | एकान्ते च रतिर्ध्यानमात्मन्येव च तुष्टता || अव्यापारः परार्थेषु औदासीन्यमनागसः | अक्रोधित्वमनालस्यमिति धर्माः प्रकीर्तिताः || यस्त्वेतान्भजते धर्मान् सोऽमृतत्वाय कल्पते | नश्यन्ति पौरुषाः पाशा येऽप्यनन्ताः प्रकीर्तिताः || शिवाचाररतानां तु धार्मिकाणां हि देहिनाम् | तस्मादेवं तु विज्ञाय मनो धर्मे नियोजयेत् || यस्य चित्तमसंभ्रन्तं निर्विकल्पमकल्मषम् | स याति परमांल्लोकान्नरकांश्च न पश्यति || यस्य बुद्धिरसंमूढा सर्वभूतेष्वपातकी | अकल्कवान्सत्यवान्योनरकान् स न पश्यति ||᳚ (स्व. १०|५३-७१) इति || २९ || सहस्रनवकोत्सेधमेकान्तरमथ क्रमात् || ८-३० || पातालाष्टकमेकैकमष्टमे हाटकः प्रभुः | सहस्रशब्दसंनिधेरेकं सहस्रं, तदेषामशीतिसहस्राणि मानं सिद्धम् | पातालाष्टकमिति, -- यदुक्तम् -- ᳚आभासं वरतालं च शर्करं च गभस्तिमत् | महातलं च सुतलं रसातलमतः परम् || सौवर्णमष्टमं ज्ञेयं सर्वकामसमन्वितम् |᳚ (स्व. १०|९६) इति | अष्टम इति, सौवर्णाख्ये | यदुक्तम् -- ᳚तदूर्ध्व चैव सौवर्णं पातालं परिकीर्तितम् | तत्रावसत्यसौ देवो हाटकः परमेश्वरः ||᳚ (स्व. १०|११६) इति | यद्यपि चात्र पातालसप्तके ᳚त्रयोऽसुरास्तथा नागा राक्षसाश्चाविभागतः | एकैकत्र च पाताले कथितास्ते वरानने || पातालसप्तकेज्ञेयास्तथान्ये भुवनाधिपाः | बलो ह्यतिबलश्चैव बलवान्बलविक्रमः || सुबलो बलभद्रश्च बलाध्यक्षश्च कीर्तिताः |᳚ (स्व. १०|११४) इत्याद्युक्त्या प्रत्येकं पृथक् भुवनाधिपाः संभवन्ति, तथाप्येषां ᳚हाटकेन विशुद्धेन सर्वेषां शुद्धिरिष्यते |᳚ इत्याद्युक्त्या हाटकरुद्रशुद्ध्यैव शुद्धिः, -- इत्यानर्थक्यादिह तदुपदेशो न कृतः || ३० ||
SK
अस्य चैवमभिधाने किं निमित्तम् ? -- इत्याशङ्क्याह -- प्रतिलोकं नियुक्तात्मा श्रीकण्ठो हठतो बहूः || ८-३१ || सिद्धीर्ददात्यसावेवं श्रीमद्रौरवशासने | शिद्धीः᳚ इति सालोक्यादिरूपाः | यदुक्तं तत्र -- ᳚प्रतिलोकेनियुक्तात्मा श्रीकण्ठो भगवानसौ | करोति हाटको भूत्वा पातालद्वारपालनम् || हठेन भङ्क्त्वा यन्त्राणि पातालेषु महोदयाः | सिद्धीरभ्यस्तसन्मन्त्रान् साधकांल्लम्भयत्यसौ ||᳚ इति || ३१ || नन्वसावेवं सिद्धीः केषां ददाति? -- इत्याशङ्क्याह -- व्रतिनो ये विकर्मस्था निषिद्धाचारकारिणः || ८-३२ || दीक्षिता अपि ये लुप्तसमया न च कुर्वते | प्रायश्चित्तांस्तथा तत्स्था वामाचारस्य दूषकाः || ८-३३ || देवाग्निद्रव्यवृत्त्यंशजीविनश्चोत्तमस्थिताः | अधःस्थगारुडाद्यन्यमन्त्रसेवापरायणाः || ३४ || ते हाटकविभोरग्रे किङ्करा विविधात्मकाः || विकर्मस्थत्वे निषिद्धाचारकारित्वं हेतुः | लुप्तसमया इति, चण्डद्रव्यादिसंस्पर्शात् | अत एव प्रायश्चित्ताकरणाद् भ्रष्टदीक्षाफलाः | यदुक्तम् -- ᳚प्रायश्चित्तमकुर्वाणो मन्त्री विधिविलङ्घने | सिद्धिभ्रंशमवाप्नोति........................ ||᳚ इति | ᳚तत्स्थः᳚ इति वामाचारनिष्ठाः, तेन तत्कारिणस्तद्द्वेषिणश्च -- इत्युक्तं स्यात् | तेषामेव च विशेषणं ᳚देवेत्यादि᳚ | अन्येषां हि एवं नारकित्वमेव भवेत् | यथोक्तम् -- ᳚यदीच्छेन्नरकं गन्तुं सपुत्रपशुबान्धवः | देवेष्वधिकृतिं कुर्याद् गोषु च ब्रह्मणेषु च ||᳚ इति | ᳚उत्तमस्थिताः᳚ इति ᳚वेदादिभ्यः परं शैवम्.......................... |᳚ इत्याद्युक्तेः, ऊर्ध्वोर्ध्वशासनस्थाः | ᳚विविधात्मका᳚ इति तत्तत्कर्मानुसारेणोत्तमादिभिन्नाः -- इत्यर्थः | एतच्चैषां निःष्यन्दफलवत् न तु साक्षात् | तथात्वे हि ᳚ब्रह्मणाः क्षत्रिया वैश्या शूद्रा वा वीरवन्दिते | आचार्यत्वे नियुक्ता ये ते सर्वे तु शिवाः स्मृताः || अन्यथा प्राक्स्वरूपेण ये पश्यन्ति नराधमाः | नरके ते प्रपच्यन्ते सादाख्यं वत्सरत्रयम् ||᳚ (स्व-४|४११) इति | तथा, ᳚प्राग्जात्युदीरणाद्देवि प्रायश्चित्ती भवेन्नरः |
SK
दिनत्रयं तु रुद्रस्य पञ्चाहं केशवस्य च | पितामहस्य पक्षैकं नरकेपच्यते तु सः ||᳚ (स्व. ४|५४२) इत्यादिश्रुतिविरोधः स्यात् || ३४ || एवं भोगोपरमे पुनरेषां किं स्यात् ? -- इत्याशङ्क्याह -- ते तु तत्रापि देवेशं भक्त्या चेत्पर्युपासते || ८-३५ || तदीशतत्त्वे लीयन्ते क्रमाच्च परमे शिवे | अन्यथा ये तु वर्तन्ते तद्भोगनिरतात्मकाः || ८-३६ || ते कालवह्निसंतापदीनाक्रन्दपरायणाः | गुणतत्त्वे निलीयन्ते ततः सृष्टिमुखे पुनः || ८-३७ || पात्यन्ते मातृभिर्घोरयातनौघपुरस्सरम् | अधमाधमदेहेषु निजकर्मानुरूपतः || ८-३८ || मानुषान्तेषु तत्रापि केचिन्मन्त्रविदः क्रमात् | मुच्यन्तेऽन्ये तु बध्यन्ते पूर्वकृत्यानुसारतः || ८-३९ || इत्येष गणवृत्तान्तो नाम्ना हुलहुलादिना | प्रोक्तं भगवता श्रीमदानन्दाधिकशासने || ८-४० || पातालोर्ध्वे सहस्राणि विंशतिर्भूकटाहकः | सिद्धातन्त्रे तु पातालपृष्ठे यक्षीसमावृतम् || ८-४१ || भद्रकाल्याः पुरं यत्र ताभिः क्रीडन्ति साधकाः | ᳚देवेशम्᳚ इति हाटकम् | ᳚अन्यथा᳚ इति तत्पर्युपासावैमुख्येन | ᳚मातृभिः᳚ इत्यपराशक्तिभिः | यदुक्तम् � ᳚विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून् | याः समालिङ्ग्य रुद्राणून् घोरतर्योऽपराः स्मृताः ||᳚ (मा.वि. ३|३१) इति | ᳚तत्रापि᳚ इति मानुषत्वे | तद्धीना (अन्ये) इत्यमन्त्रविदस्तत्तत्स्वकर्मौचित्येन तत्तज्जात्याद्यनुभवन्ति -- इत्यर्थः | नचैतदस्माभिः स्वोपज्ञमेवोक्तम् -- इत्याह -- ᳚प्रोक्तमित्यादि᳚ | यदुक्तं तत्र -- ᳚मातङ्गा हुलहुलाश्चान्ये हेतुका दिव्यरूपिणः | कापालिकाश्च कङ्काला महोच्छुष्माश्च शोभनाः ||᳚ इत्युपक्रम्य ᳚एवं संख्याविहीनास्तु महाचण्डेश्वरेरणात् | चण्डद्रव्यविलुप्तास्तु दीक्षिताः शिवशासने || चण्डद्रव्येण जीवन्ति ते स्मृता ब्रह्मराक्षसाः ||᳚ इति | तथा ᳚रमन्ते विविधैर्भोगैस्तेऽपि पातालवासिनः | पाताले भूतराजानो भवन्ति बलदर्पिताः ||᳚
SK
इति ᳚भूकटाहक᳚ इति मनुष्याधारभूः | एवमियदन्तं ब्रह्माण्डस्यार्धम् तत्कटाहः कोटिः, कालाग्निपुरं कोटिः, तज्ज्वाला दशकोटयः, धूमः पञ्च, नरका द्वात्रिंशत्, कूष्माण्डपुरं नवनवतिलक्षाणि, पातालाष्टकमशीतिसहस्राणि, भूकटाहो विंशतिः, -- इत्येवं पञ्चाशत् कोटयः | अत्रैव श्रीसिद्धयोगीश्वरीमतोक्तं विशेषं दर्शयति शिद्धातन्त्रे᳚ इत्यादिना | यदुक्तं तत्र -- ᳚पातालोर्ध्वे भवेद्भद्रं भद्रकालीगृहं शुभम् | यक्षिणीनां तु सर्वासां नायिका संप्रकीर्तिता || चतुष्षष्टिः सहस्राणि यक्षिणीनां पुराणि तु | तत्र कोटिशतं यावत्कन्यानां तु पुरे पुरे || क्रीडन्ति साधकास्तत्र तैः सार्धं तु मला(हा)बलाः | ज्ञात्वा तु यक्षिणीकल्पं सिद्धयोगीश्वरीमते ||᳚ इति | ᳚तस्योर्ध्वे च पुनर्लक्षं तमश्चैवातिदुस्सहम् | तप्ताङ्गारनिभा भूमिस्तप्तपाषाणदीपिता ||᳚ इति | ᳚तस्योर्ध्वे च न किंचित्स्याद्यावल्लक्षाश्चतुर्दश | पुनर्नागालयं चैवमनन्तभयकारकम् || कृष्णनागसहस्रस्तु लक्षधा परिवारितम् |᳚ इति | ᳚मातृद्रोही पितृद्रोही गुरुद्रोही च भ्रूणहा | बालहन्ता व्रजत्यत्र स्त्रीव्यङ्गे च महापशुः || तिष्ठते यावत्पाताले मन्त्रमार्गस्य दूषकः ||᳚ इति || ४१ || एवं ब्रह्माण्डस्य भूकटाहान्तमेकमर्धमभिधाय तदूर्ध्वमपि भुवनादि दर्शयति -- ततस्तमस्तप्तभूमिस्ततः शून्यं ततोऽहयः || ८-४२ || एतानि यातनास्थानं गुरुमन्त्रादिदूषिणाम् | ततो भूम्यूर्ध्व(मध्य) तो मेरुः सहस्राणि स षोडश || ८-४३ || मग्नस्तन्मूलविस्तारस्तद्द्वयेनोर्ध्वविस्तृतिः | सहस्राब्धिवदुच्छ्रयो हैमः सर्वामरालयः || ८-४४ || सहस्राणीति, योजनानाम् | ᳚मग्नः᳚ इत्यर्थाद्भूकटाहे | तन्मूलविस्तार इति, तच्छब्देन षोडशानां सहस्राणां परामर्शः | ᳚तद्द्वयेन᳚ द्वात्रिंशता सहस्रैः | शहस्राब्धिवसूच्छ्रय᳚ इति चतुरशीतिसहस्रोच्छिर्तिः -- इत्यर्थः | तदुक्तम् -- ᳚तस्या मध्ये महामेरुः सौवर्ण............. |᳚ (स्व. १०|१२१) इत्याद्युपक्रम्य ᳚योजनानां सहस्राणि चतुरशीतिरुच्छिर्तः |
SK
षोडशैव सहस्राणि अधोभागे प्ररोपितः || तान्येव मूलविस्तारो द्विगुणो मूर्धविस्तरः |᳚ (स्व १०|१२३) इति || ४४ || नन्वेवंमानत्वेऽपि अस्य कीदृगाकारः ? -- इत्याशङ्क्याह -- मध्योर्ध्वाधःसमुद्वृत्तशरावचतुरश्रकः | शमुद्वृत्त᳚ इति सम्यगष्टाश्रतापत्तिपूर्वं उदूर्ध्वं वृत्तः, तेनाधो ब्रह्मभागे चतुरश्रो, मध्ये विष्णुभागेऽष्टाश्रो रुद्रभागे च वृत्त ऊर्ध्वे मस्तकेच शरावाकृतिरित्यर्थः || नन्वेवमाकारत्वम् ᳚अव्यक्तं चतुरष्टाश्रवृत्तभागोपलक्षितम् |᳚ इति, तथा ᳚तच्छ्रत्रं कुक्कुटाण्डं च........................ |᳚ इत्याद्युक्त्या पारमेश्वरस्य लिङ्गस्य संभवेत् तत्कथम् ? -- इत्याशङ्क्याह -- भैरवीयं च तल्लिङ्गं धरणी चास्य पीठिका || ८-४५ || सर्वे देवा निलीना हि तत्र तत्पूजितं सदा | मध्ये मेरुसभा धातुस्तदीशदिशि केतनम् || ८-४६ || ज्योतिष्कशिखरं शंभोः श्रीकण्ठांशश्च स प्रभुः | अवरुह्य सहस्राणि मनोवत्याश्चतुर्दश || ८-४७ || चक्रवाटश्चतुर्दिक्को मेरुरत्र तु लोकपाः | अमरावतिकेन्द्रस्य पूर्वस्यां दक्षिणेन ताम् || ८-४८ || अप्सरः सिद्धसाध्यास्तामुत्तरेण विनायकाः | तेजोवती स्वदिश्यग्नेः पुरी तां पश्चिमेन तु || ८-४९ || विश्वेदेवा विश्वकर्मा क्रमात्तदनुगाश्च ये | याम्यां संयमनी तां तु पश्चिमेन क्रमात् स्थिताः || ८-५० || मातृनन्दाः स्वसंख्याता रुद्रास्तत्साधकास्तथा | कृष्णाङ्गारा निरृतिश्च तां पूर्वेण पिशाचकाः || ८-५१ || रक्षांसि सिद्धगन्धर्वास्तूत्तरेणोत्तरेण ताम् | वारुणी शुद्धवत्याख्या भूतौघो दक्षिणेन ताम् || ८-५२ || उत्तरेणोत्तरेणैनां वसुविद्याधराः क्रमात् | वायोर्गन्धवती तस्या दक्षिणे किन्नराः पुनः || ८-५३ || वीणासरस्वती देवी नारदस्तुम्बुरुस्तथा | महोदयेन्दोर्गुह्याः स्युः पश्चिमेऽस्याः पुनः पुनः || ८-५४ || कुबेरः कर्मदेवाश्च तथा तत्साधका अपि | यशस्विनी महेशस्य तस्याः पश्चिमतो हरिः || ८-५५ || दक्षिणे दक्षिणे ब्रह्माश्विनौ धन्वन्तरिः क्रमात् | चशब्दद्वयं हेतौ | पूजितमित्यर्थात् त्रिषु लोकेषु | तदुक्तम् --
SK
᳚लिङ्गरूपी भवेन्मेरुः............................ |᳚ इत्युपक्रम्य ᳚चतुरश्रमधो ब्रह्मा.............................. |᳚ इति, ᳚मध्ये अष्टाश्रको विष्णुः...................... |᳚ इति, ᳚ऊर्ध्वं तु भवति रुद्रो वृत्ताकारः समन्ततः | मेरुः सञ्जायते लिङ्गं धरणी चास्य पीठिका || आलयः सर्वदेवानां तेन लिङ्गत्वमागतम् | लीनमस्य जगत्सर्वं ब्रह्माद्यं सचराचरम् ||᳚ इति | ᳚एवं ते भाषितं लिङ्गं त्रिषु लोकेषु पूजितम् |᳚ इति | शुमेरुर्हेमसंपृक्तः शरावाकृतिमस्तकः |᳚ इति || ᳚धातुः᳚ इति ब्रह्मणः | यदुक्तम् -- ᳚तस्योर्ध्वे तु सभा दिव्या नाम्ना चैव मनोवती |᳚ (स्व. १०|१२३) इत्युपक्रम्य शर्वभोगगुणोपेता ब्रह्मणस्तु महात्मनः |᳚ (स्व. १०|१२४) इति | तदीशदिशीति, तच्छब्देन सभापरामर्शः | अत्र च यद्यपि शृङ्गत्रयमस्ति तथाप्येतदिह प्राधान्यादुक्तम् | यदुक्तं किरणायाम् - - ᳚त्रिभिः शृङ्गैः समायुक्तो रुक्मकाञ्चनरत्नजैः | रत्नजं त्र्यम्बकस्योक्तं राजतं तु त्रिविक्रमे || सौवर्णं कनकाण्डस्य.......................... |᳚
SK
इति | लोकपा इति, भूम्ना | ᳚दक्षिणेन ताम्᳚ इति तस्या दक्षिणे | तेन तद्दक्षिणेऽप्सरःपुरी, तद्दक्षिणे च सिद्धपुरीत्यादिक्रमः | अप्सरःप्रभृतिभिश्चात्र कामवत्याख्याः स्वपुर्यो लक्ष्यन्ते | एवमुत्तरत्रापि ज्ञेयम् | अत्र च ᳚बहुवचनादाद्यर्थो लभ्यते᳚ इति नीत्याऽऽदित्यानामपि ग्रहणम्, -- इत्यस्मिन्नन्तराले चतस्रः पुर्योऽन्यथा षड्विंशतिर्न स्यात् | ᳚ताम्᳚ इति अमरावतीम् | तेन तस्या एव वामे विनायकाः, -- इति ज्ञेयम् | श्वदिशि᳚ इत्यग्निकोणे | तच्चोत्तरत्रापि योज्यम् | ᳚तां पश्चिमेन᳚ इति तस्याः पश्चिमे | तदनुगा इति, उत्तरत्रापि योज्यम् | एतच्च पुरीद्वयं वक्ष्यमाणायाः संयमन्यभिधायाः पुर्याः पुरस्तात् -- इत्यर्थसिद्धम् | एता हि सर्वा एव पुर्यः पूर्वाभिमुखाः, येनास्यां पूर्वपश्चिमादिविभागः | ᳚मातृनन्दा᳚ इति पुर्यभिधानम् | श्वसंख्याताः᳚ इत्येकादश | ᳚तत्साधकाः᳚ इति यमपरिचारकाः | रुद्रा इति, काकाक्षिवत् | ᳚क्रमात्᳚ इति मातृनन्दानन्तरं यमपरिचारकाणां रुद्राणां पुरी, तदनन्तरमेकादशानामिति | ᳚रक्षांसि᳚ इति निस्त्रिंशाभिधानानि | ᳚तस्या दक्षिणे᳚ इत्यर्थात् शुद्धवत्या उत्तरेण | ᳚पुरः᳚ इति पुरस्तात् | वीणासरस्वती, गान्धर्ववेदवती -- इत्यर्थः | ᳚तत्साधकाः᳚ इति कुबेरपरिचारका यक्षाः | दक्षिणे इत्यर्थादमरावत्याः | ᳚उत्तरे दक्षिणे᳚ इति द्विवचनादश्विनोर्धन्वन्तरेश्चैकैव पुरीति ज्ञेयम् || ५५ || तदेवोपसंहरति -- भैरवे चक्रवाटेऽस्मिन्नेवं मुख्याः पुरोऽष्टधा || ५६ || अन्तरालगतास्त्वन्याः पुनः षड्विंशतिः स्मृताः | ᳚मुख्या᳚ इति, लोकपालसंबन्धित्वात् | ᳚अन्या᳚ इति गौण्यः | तदुक्तम् -- शभाया ब्रह्मणोऽधस्ताद्योजनानां चतुर्दश | सहस्राणि परित्यज्य चक्रवाटः समन्ततः || स्वर्गाष्टकं तदुद्दिष्टं तत्र तिष्ठन्ति लोकपाः | पूर्वेणेन्द्रस्य विख्याता पुरी नाम्नामरावती || तेजोवती तथाग्नेय्यां चित्रभानोः प्रकीर्तिता | दक्षिणे यमराजस्य नाम्ना संयमनी पुरी || कृष्णाङ्गारा तु नैरृत्यां राक्षसेशस्य कीर्तिता | पश्चिमेन जलेशस्य पुरी शुद्धवती स्मृता ||
SK
वायव्यां तु पुरी वायोर्नाम्ना गन्धवहा प्रिये | उत्तरेणापि सोमस्य पुरी नाम्ना महोदया || एशान्यामीशराजस्य पुरी नाम्ना यशोवती | एतासामन्तरे देवि शृणु षड्विंशतिं पुरीः || दक्षिणेनामरावत्याः कामवत्यप्सरःपुरी | सौवणीं सिद्धसङ्घानां तस्या वै दक्षिणेन तु || तस्या वै दक्षिणेनान्या पद्मरागोपशोभिता | आदित्यानां पुरी ख्याता नाम्ना चांशुमती शुभा || साध्यानां राजते दिव्या ख्याता वै कुसुमावती | वह्नेः पश्चिमदिग्भागे विश्वेषां रेवती पुरी || तस्यास्तु पश्चिमे देवि दिव्या वै विश्वकर्मणः | पश्चिमे धर्मराजस्य मातृनन्दा पुरी स्मृता || क्रीडन्ति मातरस्तत्र मधुपानविघूर्णिताः | रुद्राणां पश्चिमे तस्या रोहिता नाम काञ्चनी || तत्र शूलधरा रुद्रा यमस्य परिचारकाः | तस्य पश्चिमतो ज्ञेया नाम्ना गुणवती पुरी || एकादशानां रुद्राणां वज्रप्राकारतोरणा | निरृतेः पूर्वभागे तु पिङ्गला नाम वै पुरी || सुकर्मसंज्ञा देवेशि पिशाचास्तत्र संस्थिताः | नैरृत्युत्तरसामीप्ये पुरी कृष्णवती शुभा || निस्त्रिंशा नाम तत्रैव वसन्ति राक्षसाः सदा | तस्या अप्युत्तरे भागे पुरी हैमी सुखावती || मित्रो वसति तत्रैव बहुभृत्यजनावृतः | अस्या अप्युत्तरे हैमी गान्धवीं नाम विश्रुता || वसन्ति तत्र गन्धर्वा दिव्यकन्यासमावृताः |᳚ (स्व. १०|१३०-१४५) इति | तथा ᳚भूतानां सिद्धसेना तु वरुणस्य तु दक्षिणे | हेमसंज्ञा वसूनां तु वरुणस्यापि चोत्तरे || तस्यास्तूत्तरतो देवि नाम्ना सिद्धवती पुरी | सर्वविद्याधराणां तु सा पुरी परिकीर्तिता || वायोर्दक्षिणतो देवि सिद्धा नाम पुरी स्थिता | वसन्ति किन्नरास्तत्र पुरैर्हेमार्कसंनिभैः || वायोः पूर्वेण गान्धवीं हैमी चित्ररथस्य तु | गन्धर्वराजमुख्यस्य दिव्यगन्धर्वनादिता || आस्ते भगवती साक्षात् सप्तस्वरविभूषणा | ग्रामत्रयपरीधाना जातिमेखलमण्डिता || मूर्छनातानचित्राङ्गी नानातानकलोदया | लक्षणव्यञ्जनोपेता मध्यमेनावगुण्ठिता || गन्धर्वैर्गीयमाना सा तत्र देवी सरस्वती |
SK
तस्याः पूर्वेण चित्रा वै तुम्बुरोर्नारदस्य च || सोमस्य पश्चात्प्रमदा गुह्यकानां प्रकीर्तिता || पूर्वेण वै तु सोमस्य नाम्ना चित्रवती पुरी | सर्वधातुमयी चित्रा कुबेरस्य महात्मनः || षड्विंशतिसहस्रैस्तु कोटीनां परिवारितः | यक्षाणामुत्तमः श्रीमानास्ते भोगैरनुत्तमैः || तस्याः पूर्वे शुभा नाम्ना जाम्बूनदमयी पुरी | तत्र वै कर्मदेवास्तु देवत्वं कर्मणा गताः || पश्चिमेनेशराजस्य विष्णोर्वै श्रीमती पुरी | तत्रास्ते श्रीपतिः श्रीमानतसीपुष्पसंनिभः | शङ्खचक्रगदापाणिः पीतवासा जनार्दनः || रिशस्य दक्षिणे भागे नाम्ना पद्मावती पुरी || महापद्मोपविष्टस्य पद्ममालाधरस्य तु | पद्मपत्रायताक्षस्य ब्रह्मणः पद्मजन्मनः | तस्या दक्षिणतो देवि नाम्ना कामसुखा पुरी || अश्विनौ तत्र देवेशि तथा धन्वन्तरिः स्मृतः | उत्तरे त्वमरावत्या महामेघेति विश्रुता || विनायकानां सा दिव्या वसतिस्तत्र कल्पिता |᳚ (स्वटं. १०|१४६-१६१) इति च || ५६ || एतच्च पुण्यकर्मणां भोगस्थानम् -- इत्याह -- इष्टापूर्तरताः पुण्ये वर्षे ये भारते नराः || ८-५७ || ते मेरुगाः सकृच्छम्भुं ये वार्चन्ति यथोचितम् | ᳚पुण्ये᳚ इति वर्षान्तरेभ्यो वैलक्षण्यं कटाक्षितम् | यथोचितमिति, पौराणिक्या प्रक्रियया -- इत्यर्थः | तदुक्तम् � ᳚इष्टापूर्तरता देवि ये नराः पुण्यभारते | त्र्यम्बकं सकृदर्चन्ति मेरुं गच्छन्ति ते नराः ||᳚ (स्व. १०|१६९) इति || ५७ || इदानीं मेर्वधो वर्षादि विभक्तुमुपक्रमते -- मेरोः प्रदक्षिणाप्योदग्दिक्षु विष्कम्भपर्वताः || ८-५८ || मन्दरो गन्धमादश्च विपुलोऽथ सुपार्श्वकः | सितपीतनीलरक्तास्ते क्रमात्पादपर्वताः || ८-५९ || विष्कम्भेति, भुवोऽवष्टम्भकत्वात् || ५९ || तदाह -- एतैर्भुवमवष्टभ्य मेरुस्तिष्ठति निश्चलः | एषां च पृथङ्मानस्यानुक्तत्वात् वक्ष्यमाणेलावृताख्यवर्षैकदेशत्वमवगन्तव्यम्, तच्च मेर्वासन्नमन्यथैषां पादपर्वतत्वं न स्यात् || एषु च चतुर्ष्वपि अचलेषु प्रत्येकमुद्यानसरःकल्पवृक्षाः संभवन्ति -- इत्याह --
SK
चैत्ररथनन्दनाख्ये वैभ्रजं पितृवनं वनान्याहुः || ८-६० || रक्तोदमानससितं भद्रं चैतच्चतुष्टयं सरसाम् | वृक्षाः कदम्बजम्ब्वश्वत्थन्यग्रोधकाः क्रमशः || ८-६१ || एषु च चतुर्ष्वचलेषु त्रयं त्रयं क्रमश एतदाम्नातम् | अत्र च जम्बूरसोत्था जम्बुनदी संभवतीति शेषः | तदुक्तम् -- ᳚कदम्बो मन्दरे ज्ञेयो जम्बूर्वै गन्धमादने | अश्वत्थो विपुले ज्ञेयो न्यग्रोधश्च सुपार्श्वके || सरांस्युपवनान्यत्र अरुणोदं तु पूर्वतः | मानसं दक्षिणे ज्ञेयं सितोदं पश्चिमेन तु || महाभद्रमुत्तरतस्ततश्चैत्ररथं वनम् | नन्दनं तु सवैभ्रजं पितृसंज्ञं क्रमात्स्थितम् ||᳚ इति | ᳚तत्प्रमाणा स्मृता जम्बूर्गन्धमादनमूर्धनि | तस्याः फलसमूहोत्थो रसो ज्ञेयोऽमृतोपमः || तेन जम्बूनदी जाता प्रिये वेगवती भृशम् | मेरुं प्रदक्षिणीकृत्य जम्बूमूलं विशेत्स्वकम् || तत्संपर्कात् समुत्पन्नं कनकं देवभूषणम् | तेन जाम्बूनदं लोके जायते भूषणोत्तमम् ||᳚ (स्व. १०|१९१) इति || ६१ || मेर्वधो लवणाब्ध्यन्तं जम्बुद्वीपः समन्ततः || ८-६२ || लक्षमात्रः स नवधा जातो मर्यादपर्वतैः | समन्तत इति, वलयाकारत्वेन | तदुक्तम् -- ᳚मेर्वधो वलयाकारो जम्बुद्वीपो व्यवस्थितः | लक्षयोजनविस्तारः ......................... ||᳚ इति || ६३ || नवधा जातत्वमेव अस्य दर्शयति -- निषधो हेमकूटश्च हिमवान्दक्षिणे त्रयः || ८-६३ || लक्षं सहस्रनवतिस्तदशीतिरिति क्रमात् | नीलः श्वेतस्त्रिशृङ्गश्च तावन्तः सव्यतः पुनः || ८-६४ || मेरोः षडेते मर्यादाचलाः पूर्वापरायताः | पूर्वतो माल्यवान्पश्चाद्गन्धमादनसंज्ञितः || ८-६५ || सव्योत्तरायतौ तौ तु चतुस्त्रिंशत्सहस्रकौ | अष्टावेते ततोऽप्यन्यौ द्वौ द्वौ पूर्वादिषु क्रमात् || ८-६६ || जाठरः कूटहिमवद्यात्रजारुधिशृङ्गिणः | एवं स्थितो विभागोऽत्र वर्षसिद्ध्यै निरूप्यते || ८-६७ ||
SK
᳚दक्षिणत᳚ इति पूर्वाभिमुखस्य मेरोः | लक्षमिति, जम्बुद्वीपस्य तावत्परिमाणत्वात् | एवं सकलद्वीपायतत्वेऽपि एषां बहिर्यथायथं तद्वर्तुलतानुपाततो हेमकूटहिमवतोरायाममानह्रासः, विस्तरस्त्वेषामविशिष्ट एव | यदुक्तम् -- ᳚लवणोदधिपर्यन्ताः सहस्रद्वयविस्तृताः |᳚ (स्व. १०|२०१) इति | ᳚तावन्त᳚ इति लक्षादिमानाः | चतुस्त्रिंशत्सहस्रकाविति, नीलनिषधाभ्यां सीमन्तित्वेनैवंमानस्येलावृतस्य वक्ष्यमाणत्वात्, विस्तरतस्तु सहस्रम् | यदुक्तम् -- ᳚पूर्वेण माल्यवान्मेरोः पर्वतस्तु विराजते | चतुस्त्रिंशत्सहस्राणि योजनानां सुरेश्वरि || याम्योत्तरायतो भाति सहस्रं तस्य विस्तृतिः | तथैवापरदिग्भागे तत्तुल्यो गन्धमादनः ||᳚ (स्व. १०|२०४) इति | अत्र च नीलनिषधमाल्यवद्गन्धमादनाख्यानां चतुर्णां पर्वतानां चत्वारिंशत् सहस्राणि योजनानामुत्सेधोऽन्येषां तु दश -- इति ज्ञेयम् | यदुक्तम् -- ङीलश्च निषधश्चैव माल्यवान् गन्धमादनः | चत्वारिंशत्सहस्राणि योजनानां समुच्छिर्तः ||᳚ (स्व. १०|२०५) इति | तथा श्रीमृगेन्द्रोत्तरे ........................᳚दशोत्सेधा नवान्तराः |᳚ इति | एवं दक्षिणोत्तरस्थैस्त्रिभिस्त्रिभिः, पूर्वपश्चात्स्थेन चैकैकेन -- इत्यष्टभिः पर्वतैर्विभक्तो जम्बूद्वीपो नवधा जातः | ᳚ततः᳚ इत्यष्टाभ्यः | ᳚कूटो᳚ हेमकूटः | हिमवानर्थात् सकैलासः | ᳚यात्रः᳚ पारियात्रः, स च अर्थान्निषधयुक्तः | तदुक्तम् -- ᳚जठरो हेमकूटश्च पूर्वभागे व्यवस्थितौ | कैलासो हिमवांश्चैव दक्षभागे व्यवस्थितौ || निषधः पारियात्रश्च अपरेण महीधरौ | जारुधिः शृङ्गवांश्चैव उत्तरेण व्यवस्थितौ ||᳚ (स्व. १०|२०८) इति | एते च विष्कम्भपर्वता नियतदेशस्थाः -- इति नात्र विभागान्तरनिमित्तं विभागो नवखण्डात्मा || ६७ || तदेवाह -- समन्ताच्चक्रवाटाधोऽनर्केन्दु चतुरश्रकम् | सहस्रनवविस्तीर्णमिलाख्यं त्रिमुखायुषम् || ८-६८ || मेरोः पश्चिमतो गन्धमादो यस्तस्य पश्चिमे | केतुमालं कुलाद्रीणां सप्तकेन विभूषितम् || ८-६९ ||
SK
मेरोः पूर्वं माल्यवान्यो भद्राश्वस्तस्य पूर्वतः | सहस्रदशकायुस्तत्सपञ्चकुलपर्वतम् || ८-७० || पूर्वपश्चिमतः सव्योत्तरतश्च क्रमादिमे | द्वात्रिंशच्च चतुस्त्रिंशत्सहस्राणि निरूपिते || ८-७१ || मेरोरुदक् शृङ्गवान्यस्तद्बहिः कुरुवर्षकम् | चापवन्नवसाहस्रमायुस्तत्र त्रयोदश || ८-७२ || कुरुवर्षस्योत्तरेऽथ वायव्येऽब्धौ क्रमाच्छराः | दश चेति सहस्राणि द्वीपौ चन्द्रोऽथ भद्रकः || ८-७३ || यौ श्वेतशृङ्गिणौ मेरोर्वामे मध्ये हिरण्मयम् | तयोर्नवकविस्तीर्णमायुश्चार्धत्रयोदश || ८-७४ || तत्र वै वामतः श्वेतनीलयो रम्यकोऽन्तरे | सहस्रनवविस्तीर्णमायुर्द्वादश तानि च || ८-७५ || मेरोर्दक्षिणतो हेमनिषधौ यौ तदन्तरे | हर्याख्यं नवसाहस्रं तत्सहस्राधिकायुषम् || ८-७६ || तत्रैव दक्षिणे हेमहिमवद्द्वितयान्तरे | कैन्नरं नवसाहस्रं तत्सहस्राधिकायुषम् || ८-७७ || तत्रैव दक्षिणे मेरोर्हिमवान्यस्य दक्षिणे | भारतं नवसाहस्रं चापवत्कर्मभोगभूः || ८-७८ || ᳚इलाख्यम्᳚ इति इलावृताख्यस्वाम्यधिष्ठितत्वात् इलावृताभिधानं वर्षम् -- इत्यर्थः | एतच्च पुरस्तादेव स्फुटीभविष्यति -- इति नेहायस्तम् | एवं वर्षान्तरेष्वपि तदभिधानप्रवृत्तौ निमित्तं ज्ञेयम् | तच्च समन्तान्मेरोश्चतुर्दिक्कं नवसहस्रं विस्तीर्णमिति | मध्ये मेरुमूलीयानि षोडशसहस्राण्याकलय्य चतुस्त्रिंशत्सहस्रम्, अत एव माल्यवद्गन्धमादनयोर्दैर्घ्यादियदेव मानमुक्तम्, अत एव सर्वतोदिक्कं साम्याच्चतुरश्रं न तु वर्षान्तरवदायतचतुरश्रम् | अनर्केन्दुत्वे चक्रवाटाधोवर्तित्वं हेतुः | ᳚त्रिमुखायुषम्᳚ इति सहस्रशब्दसंनिधेस्त्रयोदशसहस्रायुरित्यर्थः | यदुक्तम् -- ᳚मेरोः समन्ततो रम्यमिलावृतमुदाहृतम् | अधस्ताच्चक्रवाटस्य नवसाहस्रविस्तृतम् || योजनानां चतुर्दिक्षु चतुरश्रं समन्ततः | नातपो भानुजस्तत्र न च सोमस्य रश्मयः || प्रभवन्ति हि लोकानां मेरोर्भासा प्रभासितम् |᳚ (स्व. १०|२११) इति | ᳚त्रयोदशाब्दसाहस्रमायुस्तेषां प्रकीर्तितम् |᳚ (स्व. १०|२१३)
SK
इति च | पश्चिमत इति, न तु दक्षिणतोऽवस्थितो विष्कम्भपर्वतः | सप्तेनति, यदुक्तम् -- ᳚जयन्तो वर्घमानश्च अशोको हरिपर्वतः | विशालः कम्बलः कृष्णस्तत्र सप्त कुलाद्रयः ||᳚ (स्व. १०|२१८) इति | सहस्रदशकायुरिति, केतुमालशेषतयापि व्याख्येयम् | उक्तं हि -- ᳚................................जीवन्त्ययुतमेव च |᳚ इति | सपञ्चकुलपर्वतमिति, यदुक्तम् -- ᳚कौरञ्जः श्वेतपर्णश्च नीलो मालाग्रकस्तथा | पद्मश्चैव समाख्यातास्तत्र पञ्च कुलाद्रयः ||᳚ (स्व. १०|२२०) इति | ᳚इमे᳚ इति केतुमालभद्राश्वाख्ये वर्षे | ᳚क्रमात्᳚ इति यथासंख्येन | तेन पूर्वपश्चिमतो भद्राश्वकेतुमाले द्वात्रिंशद्द्वात्रिंशत्सहस्राणि, माल्यवान् गन्धमादनश्चैकमेकं सहस्रम्, उभयपार्श्वाभ्यामिलावृतमष्टादश, मेरुः षोडश -- इत्येवं पूर्वापरायतजम्बुद्वीपं योजनानां लक्षम्, सव्योत्तरतश्च चतुस्त्रिंशत्, इत्येतदिलावृतमाननिरूपणादेव गतार्थम् | शृङ्गवा�स्तृतीयः पर्वतः, ᳚तद्बहिः᳚ तस्यापि उदगित्यर्थः | ᳚चापवत्᳚ इति वलयाकारम्, क्षाराब्धिसामीप्यात् | यदुक्तम् -- ङवयोजनसाहस्रं धन्वाकारं प्रकीर्तितम् |᳚ (स्व. १०|२२५) इति | आयाममानावचने चात्रायमाशयो यत् शृङ्गवन्माननिरूपणादेव गतार्थमेतत् -- इति | एवमुत्तरत्रापि ज्ञेयम् | त्रयोदशेति, अर्थात् सहस्राणि | यदुक्तम् -- ᳚त्रिदशाब्दसहस्रायुः कुरुवृक्षफलाशनः | युग्मप्रसूतिः कुरुषु श्यामापुष्पद्युतिर्जनः ||᳚ इति | ᳚अब्धौ᳚ इति अब्धिमध्ये | तदुक्तम् -- ᳚तस्य चोत्तरदिग्भागे प्रविश्य लवणोदधिम् | योजनानां सहस्राणि चत्वार्येव वरानने || एकाधिकानि विस्तीर्णं चन्द्रद्वीपं प्रकीर्तितम् | दशयोजनसाहस्रं द्वीपं भद्रं प्रकीर्तितम् ||᳚ (स्व. २०|२२९)
SK
इति | ᳚तयोः᳚ इति मेरुवामार्धस्थितयोः श्वेतशृङ्गिणोः | तेन शृङ्गवतो दक्षिणे, श्वेतस्य वामे, -- इत्यर्थसिद्धम् | ᳚अर्धत्रयोदश᳚ इति -- अर्धेन त्रयोदश द्वादशसहस्राणि सार्धाणीति यावत् | यदुक्तम् -- ᳚अध्यर्धानि सहस्राणि द्वादशायुर्हिरण्मये |᳚ इति | ᳚अन्तरे᳚ इत्यर्थात् श्वेतस्य दक्षिणे, नीलस्य तु वामे | तानीति, सहस्राणि | ᳚तदन्तरे᳚ इत्यर्थात् निषधस्य दक्षिणे, हेमकूटस्य वामे | तदुक्तम् -- ᳚हेमकूटस्य सौम्येन निषधस्य च दक्षिणे | हरिवर्षं समाख्यातं ........................ || (स्व. १०|२३६) इति | द्वादशेति, सहस्राणि | ᳚कैन्नरम्᳚ इति किंपुरुषसंज्ञम् | यदुक्तम् -- ᳚हेमकूटस्य याम्येन हिमवतश्चतथोत्तरे | वर्षं किंपुरुषं नाम.......................... ||᳚ (स्व. १०|२३८) इति | ᳚तत्सहस्राधिकायुषम्᳚ इति तेभ्यो नवसहस्रेभ्यः सहस्रेणाधिकमायुर्यत्र तद्दशसहस्रायुः -- इत्यर्थः | अस्य ᳚दक्षिणे᳚ इत्यर्थात् क्षाराब्धेरुत्तरे | तदुक्तम् -- ᳚याम्ये हिमाचलेन्द्रस्य उत्तरे लवणोदधेः | भारतं नाम वर्षं तु तत्र चाल्पं सुखं स्मृतम्᳚ || (स्व. १०|२४०) इति | अत एव लवणोदधेर्वलयाकारत्वात् चापवदित्युक्तम् | अस्य च वर्षान्तरवद्भोगभूमित्वेऽपि कर्मभूमित्वमपि अस्ति -- इत्याह -- ᳚कर्मभूः᳚ इति | यदुक्तम् -- ᳚गुणस्त्वेकः स्थितस्तत्र शुभाशुभफलार्जनम् |᳚ (स्व. १०|२४६) इति || ७८ || वर्षान्तराणां हि भोगभूमित्वमेवास्ति, न तु कर्मभूमित्वमपि -- इत्याह -- इलावृतं केतुभद्रं कुरुहैरण्यरम्यकम् | हरिकिन्नरवर्षे च भोगभूर्न तु कर्मभूः || ८-७९ || ननु क्वचिद्भोगभूमावपि कर्मभूमित्वं संभवेत् यदुक्तं प्राक् -- ᳚ते तु तत्रापि देवेशं भक्त्या चेत्पर्युपासते | तदीशतत्त्वे लीयन्ते क्रमाच्च परमे शिवे || अन्यथा ये तु वर्तन्ते तद्भोगनिरतात्मकाः | ते कालवह्निसन्तापदीनाक्रन्दपरायणाः || गुणतत्त्वे निलीयन्ते ततः सृष्टिमुखे पुनः | पात्यन्ते मातृभिर्घोरयातनौघपुरस्सरम् || ७९ ||᳚
SK
इति, तत् कथमेतदुक्तं यद्भारतात् अन्यद्भोगभूरेव ? -- इत्याशङ्क्याह -- अत्र बाहुल्यतः कर्मभूभावोऽत्राप्यकर्मणाम् | पशूनां कर्मसंस्कारः स्यात्तादृग्दृढसंस्कृतेः || ८-८० || ᳚कर्मभूभावः᳚ कर्मभूमित्वम् -- इत्यर्थः | नन्वत्र भूम्नापि कर्मभूमित्वं नास्ति, यत् तिर्यगादयः प्राक्कर्मोपभोगमेव अत्र विदधति न त्वभिनवकर्मार्जनमपि? -- इत्याशङ्क्याह -- ᳚अत्रापि᳚ इति, अपिर्भिन्नक्रमः | तेनाकर्मणामपीति योज्यम् | अकर्मत्वं चैषामन्यवत्प्रतीतिवृत्तेनायोग्यत्वात् वस्तुवृत्तेन पुनस्तत्तद्वासनादार्ढ्यादस्त्येव एषां कर्मसंस्कारः, तदेषामपि तत्कार्यं शुभाशुभं भवेदेव -- इति भावः || ८० || नन्वेवमप्यत्र कर्मभूमित्वं न सिद्ध्येत्, अन्यत्र च भोगभूमित्वम्, यदत्र केषामपि कर्म न स्यादन्यत्र च स्यात् -- इत्याशङ्क्याह -- संभवन्त्यप्यसंस्कारा भारतेऽन्यत्र चापि हि | दृढप्राक्तनसंस्कारादीशेच्छातः शुभाशुभम् || ८-८१ || स्थानान्तरेऽपि कर्मास्ति दृष्टं तच्च पुरातने | तत्र त्रेता सदा कालो भारते तु चतुर्युगम् || ८-८२ || ᳚असंस्काराः᳚ इति कर्मणः संन्यस्तत्वात् | ᳚अन्यत्र स्थानान्तरे᳚ इति स्वर्गादिस्थानमध्ये इत्यर्थः | एकोऽपिशब्दो भिन्नक्रमः, तेन शुभाशुभमपीति योज्यम् | नन्वत्र किं प्रमाणम् ? -- इत्याशङ्क्योक्तम् -- ᳚दृष्टं तच्च पुरातने᳚ इति | ᳚पुरातने᳚ इति भारतरामायणाद्यात्मनि पुराणादौ | तत्र हि जनकस्य भारतवर्षेऽपि अकर्मित्वम्, नहुषस्य स्वर्गेऽपि अशुभकर्मयोगित्वमुक्तम्; अतश्च युक्तमुक्तम् � यद्भारते भूम्ना कर्मभूमित्वमन्यत्र च भोगभूमित्वमिति | तत्रेति, इलावृतादौ | तदुक्तम् -- ङाष्टासु विद्यते काचिद्युगत्रयवती स्थितिः | चतुर्युगवती ज्ञेया भारताख्ये वरानने ||᳚ (स्व. १०|२४७) इति || ८२ || भारतमपि वर्षं जम्बुद्वीपवन्नवखण्डमेव, -- इत्याह -- भारते नवखण्डं च सामुद्रेणाम्भसात्र च | स्थलं पञ्चशती तद्वज्जलं चेति विभज्यते || ८-८३ ||
SK
सामुद्रेणाम्भसेति, अर्थादष्टधा प्रसृतेन, तथात्वेनैव नवधात्वस्य संपत्तेः | यथा हि जम्बुद्वीपः पर्वतैरष्टभिर्विभक्तो नवधा जातः, तथैतदपि समुद्रैः, किंतु एते पूर्वापरायता एव सर्वे इति | तदुक्तम् -- ङव भेदाः स्मृतास्तत्र सागरान्तरिताः प्रिये | एकैकस्य तु द्वीपस्य सहस्रं परिकीर्तितम् || शतानि पञ्च विज्ञेयं स्थलं पञ्च जलं तथा | (स्व. १०|२५१) इति | यत्तु श्रीमृगेन्द्रे ङवाब्धिस्रोतसि द्वीपा नवैवात्रार्धकस्थले |᳚ इत्याद्युक्तं तत् क्षराब्ध्यपेक्षया, अन्यथात्र दशाब्धिस्रोतांसि स्युः | अतश्च सर्वेषां द्वीपानां पार्श्वद्वयेऽपि सामुद्रमम्भः कन्याख्यस्य तु दक्षिण एव, वारुणेनैव पञ्चशतिकेन समुद्रेणास्य विभक्तत्वात् | तेनास्य वामतो हिमवानेव न तु समुद्रान्तरे, तथात्वे हि समुद्रान्तरितत्वात् द्वीपान्तरवत् तन्निवासिनामपि हिमवानगम्यः स्यात्ः अतश्च हिमवत्संनिकर्षेणैव एतन्मितमिति सिद्धम् | तदुक्तं तत्र -- ᳚द्वीपं कुमारिकाख्यं तु हिमवन्निकटे मतम् |᳚ इति | एवं चास्य सहस्रमपि योजनानां स्थलैकरूपत्वमेव, -- इत्यर्थलभ्यम् | अत एवास्य श्रीतन्त्रराजभट्टारकादौ हिमवत्सकाशात् सीमान्तविभागं दर्शयितुं तत्पादावस्थिताद्विन्दुसरोनाम्नः सरोविशेषादारभ्य सहस्रयोजनपरिमाणत्वेन निर्देशः कृतः | तदुक्तं तत्र -- ᳚प्रालेयरोधसो याम्ये सौम्ये वै वीचिमालिनः | कार्मुकाकारसंस्थानं वर्षं तत्कुरुमानगम् ||᳚ इत्युपक्रम्य ᳚शीतसानोः समाश्लिष्टं नाम्ना बिन्दुसरः सरः | तदारभ्य खण्डमेकं सर्वतः सज्जनाकुलम् || वारिलुप्तं न यन्मानं दुहित्रे तद्ददौ भुवः | कुमार्यै भरतो राजा सपत्नेन्दुनभोग्रहः || द्वीपं कुमारिकासंज्ञमतो ह्येतत्प्रगीयते | योजनानां सहस्रं तु नानावर्णाश्रमान्वितम् ||᳚ इति | श्रीस्वच्छन्देऽपि � ᳚बिन्दुसरः प्रभृत्येव कुमार्याह्वं प्रकीर्तितम् | योजनानां सहस्रं तु नानावर्णाश्रमान्वितम् ||᳚ (स्व. १०|२५४) इति || ८३ || एषां च नवानामपि खण्डानां नामविभागमाह --
SK
इन्द्रः कशेरुस्ताम्रभो नागीयः प्राग्गभस्तिमान् | सौम्यगान्धर्ववाराहाः कन्याख्यं चासमुद्रतः || ८-८४ || ᳚आसमुद्रतः᳚ इति समुद्रादारभ्य, तेन क्षाराब्धिनिकटे इन्द्रद्वीपं यावत्पर्यन्ते हिमवन्निकटे कन्याद्वीपम् | ᳚ताम्रभः᳚ इति ताम्रवर्णः | प्रागिति, गभस्तिमान् आदौ पश्चान्नागीयः | ᳚वाराहोः᳚ वारुणः | तदुक्तम् � ᳚इन्द्रद्वीपं कशेरुं च ताम्रवर्णं गभस्तिमत् | नागद्वीपं च सौम्यं च गान्धर्वं वारुणं तथा || द्वीपं कुमारिकाख्यं च नवमं परिकीर्तितम् |᳚ (स्व. १०|२५३) इति || ८४ || कन्याद्वीपे च नवमे दक्षिणेनाब्धिमध्यगाः | उपद्वीपाः षट् कुलाद्रिसप्तकेन विभूषिते || ८-८५ || अङ्गयवमलयशङ्कुः कुमुदवराहौ च मलयगोऽगस्त्यः | तत्रैव च त्रिकूटे लङ्का षडमी ह्युपद्वीपाः || ८-८६ || दक्षिणेनाब्धिमध्यगा इति, वारुणोदधेर्मध्यस्था -- इत्यर्थः | तदुक्तम् -- ᳚कुमार्याख्यस्य निकटे मध्यस्था वारुणोदधेः | अतीत्य योजनशतमनुद्वीपाश्च षट् स्मृताः || अङ्गद्वीपो यवद्वीपो मलयद्वीप एव च | द्वीपोऽन्यः शङ्कुसंज्ञश्च कुमुदश्च ततोऽन्यतः || वराहश्चैव षष्ठः स्यात्............................ |᳚ इति | कुलाद्रिसप्तकेनेति, यदुक्तम् -- ᳚महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः | विन्ध्यश्च पारियात्रश्च भान्त्येते कुलपवर्ताः ||᳚ (स्व. १०|२५७) इति | मलयगोऽगस्त्य इति, तदुक्तम् -- ᳚कथितो मलयद्वीपे मलयो नाम पर्वतः | तस्य पादे त्रिकूटो वै लङ्का तस्योपरि स्थिता ||᳚ (स्व. १०|२५९) इति | ᳚अगस्त्यशिखरं तत्र मलये भूधरोत्तमे | तत्राश्रमो महापुण्य आगस्त्यः स्फटिकप्रभः ||᳚ (स्व. १०|२६२) इति च || ८६ || अत्र च कीदृग्लोकः? -- इत्याशङ्क्याह -- द्वीपोपद्वीपगाः प्रायो म्लेच्छा नानाविधा जनाः | मुक्ताः काञ्चनरत्नाढ्या इति श्रीरुरुशासने || ८-८७ || ᳚म्लेच्छा᳚ इति वर्णाश्रमाचारबहिष्कृताः -- इत्यर्थः | प्रायःशब्देन च क्वचित्सदाचारा अपि संभवन्ति, इत्युक्तम् | नन्वत्र किं प्रमाणम्? -- इत्याशङ्क्योक्तम् -- ᳚इति श्रीरुरुशासने᳚ इति | तदुक्तं तत्र --
SK
युक्ता वर्णाश्रमाचारैः कुमार्याख्ये परं प्रजाः | इतरे म्लेच्छभूयिष्ठाः प्रभूतमणिकाञ्चनाः ||᳚ इति || ८७ || नन्वेवमत्र शुभाशुभार्जनेन कोऽर्थः? -- इत्याशङ्क्याह -- भारते यत्कृतं कर्म क्षपितं वाप्यवीचितः | शिवान्तं तेन मुक्तिर्वा कन्याख्ये तु विशेषतः || ८-८८ || ᳚कर्म᳚ इति शुभाशुभम् | क्षपितमिति, क्रियाज्ञानादिना | तेनात्र कर्मणा कृतेन क्षपितेन वा पृथिव्यादिषु शिवान्तेषु तेषु तेषु तत्त्वेषु भुक्तिस्ततो वा मुक्तिर्भवेत् -- इत्यर्थः | यदुक्तम् -- ᳚तत्रैव यत्कृतं कर्म शुभं वा यदि वऽशुभम् | वसन्ति तेन लोकाश्च शिवाद्यावीचिमध्यगाः ||᳚ (स्व. १०|२४८) इति | तथा, ᳚कन्याख्ये यत्कृतं कर्म जन्तुभिस्तु सितासितम् | स्वर्नारकापवर्गेषु तद्बीजं फलभोगदम् ||᳚ इति ८८ || नन्वेतत् कन्याद्वीपे विशेषेण भवेत्, -- इत्यत्र किं निमित्तम्? -- इत्याशङ्क्याह -- महाकालादिका रुद्रकोटिरत्रैव भारते | गङ्गादिपञ्चशतिका जन्म तेनात्र दुर्लभम् || ८-८९ || अत्रैवेति कन्याख्ये द्वीपे | यदुक्तम् -- ᳚तत्र मध्ये महद्द्वीपं कुमारीद्वीपसंज्ञितम् | तत्र रुद्रायुतं पूर्णमवतीर्णं शुभङ्करम् || पशूनां हेतुभूतं च स्मरणात्पापनाशनम् |᳚ इति | तथा ᳚महाकालस्तथैकाम्रमेवमादि वरानने | तीर्थानां कोटिरुद्दिष्टा महाकामफलोदया || गङ्गादीनां नदीनां च तत्र पञ्च शतानि च |᳚ (स्व. १०|२४९) इति | तेन तीर्थभूयिष्ठत्वादिनेति || ८९ || ननु वर्षान्तरेषु ᳚प्रत्यग्राम्बुजपत्राभा जनाश्चातीव कोमलाः | जम्बूफलरसाहारा जरामृत्युविवर्जिताः ||᳚ (स्व. १०|२१३) इत्याद्युक्त्या सुखभूयिष्ठा जनाः, इह च ᳚जना रोगभयग्रस्ता दुःखिता मन्दसम्पदः |᳚ (स्व. १०|२४०) इत्याद्युक्त्या दुःखभूयिष्ठाः, -- इत्यत्र ᳚जन्म दुर्लभम्᳚ इति केन निमित्तेनोक्तम्? इत्याशङ्क्याह -- अन्यवर्षेषु पशुवद् भोगात्कर्मातिवाहनम् | प्राप्यं मनोरथातीतमपि भारतजन्मनाम् || ८-९० || मनोरथातीतमिति, भोगापवर्गादेर्महीयस्त्वात् || ९० ||
SK
नन्वेवं चेदविशेषेण भारतजन्मनां सिद्ध्येत् तत् ᳚कन्याख्ये तु विशेषतः᳚ इति कस्मादुक्तम्? -- इत्याशङ्क्याह -- नानावर्णाश्रमाचारसुखदुःखविचित्रता | कन्याद्वीपे यतस्तेन कर्मभूः सेयमुत्तमा || ८-९१ || यदुक्तम् � ᳚ये पूर्वोक्ता गुणा लोकेभारते वरवर्णिनि | ते तत्रैव स्थिता लोकेकुमारीसंज्ञकेप्रिये ||᳚ (स्व. १०|२५५) इति | अतश्च एतन्निवासिनामेव शुभाशुभकर्मानुष्ठानात् स्वर्निरयावाप्तिः स्यात् ||९१|| तदाह � पुंसां सितासितान्यत्र कुर्वतां किल सिद्ध्यतः | परापरौ स्वर्निरयाविति रौरववार्तिके || ८-९२ || किमत्र प्रमाणम्? -- इत्युक्तम् -- ᳚रौरववार्तिके᳚ इति | तदुक्तं तत्र -- ᳚पुंसां सितानि कर्माणि कुर्वतामसितानि च | सिद्ध्यतः स्वर्गनिरयावत्र क्षिप्रं परापरौ |᳚ इति || ९२ || एतदेव उपसंहरति -- एवं मेरोरधो जम्बूरभितो यः स विस्तरात् | स्यात् सप्तदशधा खण्डैर्नवभिस्तु समासतः || ८-९३ || सप्तदशधेति, इलावृताद्यान्यष्टौ, इन्द्रद्वीपादीनि च नवेति | नवभिरिति, भारतेन सहेलावृताद्यैः || ९३ || नन्वेवङ्खण्डत्वेऽस्य किं निमित्तम्? -- इत्याशङ्क्याह -- मनोः स्वायंभुवस्यासन् सुता दश ततस्त्रयः | प्राव्रजन्नथ जम्ब्वाख्ये राजा योऽग्नीध्रनामकः || ८-९४ || तस्याभवन्नव सुतास्ततोऽयं नवखण्डकः | नाभिर्यो नवमस्तस्य नप्ता भरत आर्षभिः || ८-९५ || तस्याष्टौ तनयाः साकं कन्यया नवम्ॐऽशकः | भुक्तैस्तैर्नवधा तस्माल्लक्षयोजनमात्रकात् || ८-९६ || शुताः᳚ इति पौत्राः | जम्ब्वाख्ये राजेति, अर्थात् एतन्मध्यात् | ऋषभस्यापत्यमार्षभिः, अत एव नप्तेत्युक्तम् | अष्टौ तनया इति, प्रागुक्ता इन्द्राद्याः | तदुक्तम् -- श्वायंभुवो मनुर्नाम तस्य पुत्रः प्रियव्रतः | तस्याथ दश पुत्रा वै जाता वीर्यबलोत्कटाः || अग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वपुः | ज्योतिष्मान्द्युतिमान् हव्यः सावनः सत्र एव च || मेधा सत्रोऽग्निबाहुश्च एते प्रव्रजितास्त्रयः | सप्तद्वीपेषु ये शेषा अभिषिक्ता महाबलाः || जम्बुद्वीपे तथाग्नीध्रस्तस्य पुत्रा नव स्मृताः |
SK
नाभिः किंपुरुषश्चैव हरिश्चैव इलावृतः || भद्राश्वः केतुमालश्च रम्यकश्च हिरण्मयः | नवमस्तु कुरुर्नाम नववर्षाधिपाः स्मृताः || अग्नीध्रतस्तु जाता वै शूराश्चातिबलोत्कटाः | तेषां नामाङ्कितानीह नव वर्षाणि पार्वति || नाभेः पुत्रो महावीर्य ऋषभो धर्मतत्परः | तस्यापि हि सुतो ज्ञेयो भरतस्तु प्रतापवान् || तन्नाम्नैव तु विज्ञेयं भारतं वर्षमुत्तमम् | तस्याप्यष्टौ पुनः पुत्रा जाताः कन्यापरा प्रिये || भारते त्वष्टद्वीपेऽत्र अष्टौ पुत्रा निवेशिताः | नवमस्तु कुमार्याह्वः कन्यायाः प्रतिपादितः || तेषां नाम्ना तु ते द्वीपा भरतेन प्रकीर्तिताः ||᳚ (स्व. १०|२८३) इति | तस्मादिति, जम्बुद्वीपात् लक्षयोजनमात्रकादिति | तत्रास्य पूर्वपश्चिमतो लक्षयोजनत्वं प्राक् प्रदर्शितम्, दक्षिणोत्तरतस्तु इदानीमुच्यते | तत्र भारतादीनि षड्वर्षाणि प्रत्येकं नवसाहस्राणि -- इति चतुष्पञ्चाशत्, हिमवदादयश्च प्रत्येकं द्विसाहस्रा -- इति द्वादश, मेरुमूलीयसहस्रषोडशकेन सह इलावृतं चतुस्त्रिंशत् सहस्राणि -- इत्येवं योजनानां लक्षं जम्बुद्वीपम् || ९६ || इदानीं तद्बहिरपि संस्थानविशेषं दर्शयति -- लक्षैकमात्रो लवणस्तद्बाह्येऽस्य पुरोऽद्रयः | ऋषभो दुन्दुभिर्धूम्रः कङ्कद्रोणेन्दवो ह्युदक् || ८-९७ || वराहनन्दनाशोकाः पश्चात् सहबलाहकौ | दक्षिणे चक्रमैनाकौ वाडवोऽन्तस्तयोः स्थितः || ८-९८ || अब्धेर्दक्षिणतः खाक्षिसहस्रातिक्रमाद् गिरिः | विद्युत्वांस्त्रिसहस्रोच्छिर्दायामोऽत्र फलाशिनः || ८-९९ || मलदिग्धा दीर्घकेशश्मश्रवो गोसधर्मकाः | नग्नाः संवत्सराशीतिजीविनस्तृणभोजिनः || ८-१०० || निर्यन्त्राणि सदा तत्र द्वाराणि बिलसिद्धये | इत्येतद् गुरुभिर्गीतं श्रीमद्रौरवशासने || ८-१०१ || इत्थं य एष लवणसमुद्रः प्रतिपादितः | तद्बहिः षडमी द्वीपाः प्रत्येकं स्वार्णवैर्वृताः || ८-१०२ || क्रमद्विगुणिताः षड्भिर्मनुपुत्रैरधिष्ठिताः | शाककुशक्रौञ्चाः शाल्मलिगोमेधाब्जमिति षड्द्वीपाः | क्षीरदधिसर्पिरैक्षवमदिरामधुराम्बुकाः षडम्बुधयः || ८-१०३ ||
SK
मेधातिथिर्वपुष्माञ्ज्योतिष्मान्द्युतिमता हवी राजा | संवर इति शाकादिषु जम्बुद्वीपे न्यरूपि चाग्नीध्रः || ८-१०४ || ᳚लवण᳚ इति लवणाम्भः क्षारसमुद्र -- इत्यर्थः | ᳚इन्दुः᳚ चन्द्रः | यदुक्तम् -- ᳚वृत्रारिभयसंत्रस्ताः प्रविष्टास्तत्र पर्वताः | द्वादशैव महावीरास्तान्ब्रवीमि समासतः ||᳚ ऋषभो दुन्दुभिर्धूम्रः प्रविष्टः पूर्वभागतः | चन्द्रः कङ्कस्तथा द्रोणः प्रविष्ट उत्तरेण तु || अशोकोऽथ वराहश्च नन्दनश्च तृतीयकः | अपरेण नगास्तत्र प्रविष्टा लवणोदधिम् || चक्रो मैनाकसंज्ञश्च तृतीयश्च बलाहकः | दक्षिणेन वरारोहे प्रविष्टाश्चैव भूधराः || चक्रमैनाकयोर्मध्ये तिष्ठेद्वै वडवानलः | (स्व. १०|२७३) इति | दक्षिणत इति, चक्रमैनाकादिसंनिकर्षेण, ᳚खाक्षि᳚ इति विंशतिः | गुरुभिरिति, बृहस्पतिपादैः | यदुक्तं तत्र -- ᳚योजनानां सहस्राणि समतिक्रम्य विंशतिम् | विद्युत्वानिति विख्यातः समुद्रे दक्षिणे स्थितः || सहस्राण्यायतस्त्रीणि तावानेवोच्छिर्तोऽचलः | सहस्रविपुलस्तत्र तृणपर्णफलाशनाः || मलोपचितदिग्धाङ्गा दीर्घश्मश्रुशिरोरुहाः | गोधर्माणो जना नग्ना वत्सराशीतिजीविनः || तत्रायन्त्रबिलद्वारप्रवेशाः पुरसंपदः |᳚ इति | क्रमद्विगुणिता इति, तेन शाकद्वीपे द्वे लक्षे, कुशद्वीपे चत्वारि - - इत्यर्थक्रमः | ᳚अब्जः᳚ पुष्करः | इक्षुरेव एक्षवः | ᳚मधुराम्बुकः᳚ स्वादूदः | द्युतिमतेत्यर्थात् सह, ᳚हविः᳚ हव्यः | तदुक्तम् -- ᳚जम्बुद्वीपं च शाकं च कुशं क्रौञ्चं सशाल्मलिम् | गोमेधं पुष्कराख्यं च सप्त द्वीपानि पार्वति᳚ || (स्व.१०|२८४) इति | ᳚क्षारः क्षीरं दधि घृतं तथा चेक्षुरसोऽपि च | मदिरोदश्च स्वादूदः समुद्राः सप्त कीर्तिताः || जम्बुद्वीपं स्मृतं लक्षं योजनानां प्रमाणतः | परिमण्डलतो ज्ञेयः क्षारोदस्तत्समो बहिः || एवं द्विगुणवृद्ध्या तु समुद्रा द्वीपसंस्थिताः | (स्व.२१|२८७) इति | अग्नीध्रस्तु समाख्यातो जम्बुद्वीपे वरानने | शाके मेधातिथिर्नाम वपुष्मान् कुशसंज्ञके ||
SK
राजा क्रौञ्चेऽथ ज्योतिष्माञ्छाल्मलौ द्युतिमान् स्मृतः | गोमेधे हव्यनामा च संवरः पुष्करे तथा || (स्व. १०|२९०) इति च || १०४ || द्वीपषट्कमेव च विभजति -- गिरिसप्तकपरिकल्पिततावत्खण्डास्तु पञ्च शाकाद्याः | पुष्करसंज्ञो द्विदलो हरियमवरुणेन्दवोऽत्र पूर्वादौ || ८-१०५ || ᳚तावन्तः᳚ सप्तैव, गिरिसप्तकस्य पार्श्वगत्यावस्थितत्वात् | ᳚द्विदल᳚ इति एकेन वलयाकारेण पर्वतेन मध्यतो विभक्तत्वात् | ᳚पूर्वादौ᳚ इति चतुर्दिक्षु -- तदुक्तम् -- ᳚मेधातिथेः सप्त पुत्राः शाकद्वीपेऽभिषेचिताः | शान्तोभयस्तु शिशिरः सुखदो नन्दकः शिवः || क्षेमकश्च ध्रुवश्चेति वर्षनाम्ना तु तेऽङ्किताः | वर्षाणि सप्त ख्यातानि पर्वतांश्च निबोध मे || गोमेधश्चन्द्रसंज्ञश्च नारदो दुन्दुभिस्तथा | ऋषभः सोमकश्चैव वैभ्रजश्च कुलाद्रयः ||᳚ (स्व. १०|२९४) इति | ᳚कुशे वपुष्मता पूर्वं सप्त पुत्रा निवेशिताः | श्वेतलोहितजीमूता हरितो वैद्युतस्तथा || मानसः सुव्रतश्चेति वर्षनाम्नैव चाङ्किताः | कुमुदश्चोर्वदश्चैव वराहो द्रोणकङ्कतौ || महिषः कुमुदश्चैव सप्त सीमान्तपर्वताः |᳚ (स्व. १०|३००) इति | ᳚ज्योतिष्मता सप्त पुत्राः क्रौञ्चद्वीपे निवेशिताः | उद्भिज्जश्च समाख्यातो वेणुर्मण्डल एव च || रथकारश्च लवणो धृतिमान्सुप्रतारकः || कपिलश्चेति राजानो वर्षनाम्ना तु तेऽङ्किताः || वैद्रुमो हेमनाभश्च द्युतिमान्पुष्पदन्तकः | कुशलो हरिमर्दश्च सप्तैते तु कुलाद्रयः ||᳚ (स्व. १०|३०५) इति | शप्त द्युतिमता पुत्राः शल्मलावभिषेचिताः | मनोऽनुगस्तथोष्णश्च पावनो ह्यन्धकारकः || मुनिर्दुन्दुभिनामा च कुशलश्चेति ते स्मृताः |᳚ (स्व. १०|३०९) इति | ᳚क्रौञ्चोऽथ वामनश्चैवाप्यन्धकारो दिवाकृतिः | द्विबिन्दुः पुण्डरीकश्च दुन्दुभिश्च कुलाद्रयः ||᳚ (स्व. १०|३११) इति | ᳚हव्यराजः सुतान्सप्त गोमेधे चाभ्यषेचयत् | जलदश्च कुमारश्च सुकुमारो मरीचकः || कुमुदश्चोन्नतश्चैव महाभद्र इति स्मृताः |᳚ (स्व. १०|३१५) इति | ᳚उदयः केसरश्चैव जठरोऽथ सुरैवतः |
SK
श्यामोऽम्बिकेयो मेरुश्च शैलाः सीमान्तगास्त्विमे ||᳚ (स्व. १०|३१७) इति | ᳚अतश्च पुष्कराख्ये च संवरस्तत्र नायकः | द्वौ पुत्रौ तेन विख्यातौ पुष्कराख्ये निवेशितौ || पर्वतो वलयाकारो मानसोत्तरसंज्ञकः |᳚ (स्व. १०|३२३) इति | ᳚धातकी मध्यमे राजा महावीतो बहिर्नृपः | (स्व. १०|३२४) इति | ᳚चतुर्णां लोकपालानां पुरीश्चात्र निबोध मे | हरेर्वस्वेकसाराख्या याम्या संयमनी पुरी || सुखाह्वा वारुणी चैव सोमस्य तु विभावरी |᳚ (स्व. १०|३२७) इति च || १०५ || इयदन्तं सङ्कलयति -- त्रिपञ्चाशच्च लक्षाणि द्विकोट्ययुतपञ्चकम् | स्वाद्वर्णवान्तं मेर्वर्धाद्योजननामियं प्रमा || ८-१०६ || तत्र जम्बुद्वीपीयानि अर्थात् पञ्चाशत्सहस्राणि, क्षाराब्धिर्लक्षम्, शाकद्वीपं द्वे क्षीराब्धिश्च, कुशश्चत्वारि दध्यब्धिश्च, क्रौञ्चोऽष्टौ घृताब्धिश्च, शल्मलिः षोडश इक्षुरसाब्धिश्च, गोमेधो द्वात्रिंशत् मदिराब्धिश्च, पुष्करश्चतुःषष्टिः स्वादूदश्च, -- इत्येवं मेर्वर्धादारभ्य स्वादूदान्तं ससहस्रपञ्चाशत्त्रिपञ्चाशल्लक्षाधिकं कोटिद्वयं योजनानां प्रमाणं भवेत् | तदुक्तम् -- ᳚कोटिद्वयं त्रिपञ्चाशल्लक्षाणि च ततः परम् | पञ्चाशच्च सहस्राणि सप्त द्वीपाः ससागराः ||᳚ इति || १०६ || सप्तमजलधेर्बाह्ये हैमी भूः कोटिदशकमथ लक्षम् | उच्छिर्त्या विस्तारादयुतं लोकेतराचलः कथितः || ८-१०७ || लोकालोकदिगष्टकसंस्थं रुद्राष्टकं सलोकेशम् | केवलमित्यपि केचिल्लोकालोकान्तरे रविर्न बहिः || ८-१०८ || हैमी भूरिति, अर्थाद्देवानां क्रीडार्थम् | ᳚लोकेतराचलः᳚ इति लोकालोकपर्वतः | यदुक्तम् � ᳚ततो हेममयी भूमिर्दशकोट्यो वरानने | देवानां क्रीडनार्थाय लोकालोकस्त्वतः परम् || पर्वतो वलयाकारो योजनायुतविस्तृतः | लक्षमात्रसमुत्सेधो योजनानां वरानने ||᳚ (स्व. १०|३३१) इति | सलोकेशमिति, यदुक्तम् -- ᳚लोकपालाः स्थितास्तत्र रुद्राश्चामोघशक्तयः |᳚ (स्व. १०|३३३)
SK
इति | केचिदिति, लीलाकारादयः | एतद्धि तैः समस्तलोकपालत्वात् रुद्रा एव लोकपालास्तत्र स्थिताः -- इत्यन्यथा व्याख्यातम् | ᳚लोकालोकमतो देवि तत्र रुद्रा व्यवस्थिताः | अमोघशक्तयः सर्वे विरजा वसुधामकाः || कर्दमः शङ्खपालश्च पर्जन्यः स्वर्णलोमकः | केतुमान्रजनश्चैव पूर्वादीशान्तमास्थिताः || लोकपालास्ततो बाह्ये व्याप्य सर्वमिदं स्थिताः |᳚ इत्यादीनामेतद्विरुद्धानां श्रुतीनां सम्भवात् | न बहिरिति, रवेर्लोकालोकसमानोच्छ्रयत्वात् मेरुतदन्तरालवर्तित्वाच्च; अत एवान्तःस्थितानामेव लोकानामालोको यत्र, तथा आलोकः प्रकाशोऽलोकश्च तमोऽन्तर्बहिश्च यस्येति स लोकालोक इति | तदुक्तम् -- ᳚तस्यान्तर्भासते भानुर्न बहिः सुरसुन्दरि |᳚ इति || १०८ || एवं लोकालोकमेर्वन्तरालवर्तित्वेऽस्य भानोर्गतिवैचित्र्यं दर्शयति -- पितृदेवपथावस्योदग्दक्षिणगौ स्वजात्परे वीथ्यौ | भानोरुत्तरदक्षिणमयनद्वयमेतदेव कथयन्ति || ८-१०९ || तत्रास्य भानोर्मेरुसंनिकर्षेण गच्छत उत्तरो मार्गो, लोकालोकसन्निकर्षेण तु दक्षिणः, तौ च मार्गौ श्वजात्परे वीथ्यौ᳚ सुवीथि-अजवीथिशब्दाभ्यां व्यपदेश्यौ -- इत्यर्थः | यदुक्तम् -- शुवीथी उत्तरे तस्य अजवीथी तु दक्षिणे |᳚ (स्व. १०|३३९) इति | तावेव च पितॄणां देवानां च मार्गः -- इत्युक्तं ᳚पितृदेवपथौ᳚ इति (मार्गौ) | तत्र अजवीथी पितॄणां मार्गः, सुवीथी तु देवानाम् | तदुक्तम् -- ᳚अजवीथी दक्षिणं तु सुवीथी चोत्तरायणम् | पितृमार्गस्तथा दिव्यः कथितोऽनुक्रमेण तु ||᳚ इति | एतदेव मार्गद्वयमुत्तरायणं दक्षिणायनं च -- इत्युक्तम् � ᳚उत्तरदक्षिणमयनद्वयमेतदेव᳚ इति | तदुक्तम् -- ᳚लोकालोकोपरिष्टात्तु सवितुर्दक्षिणायनम् | तथोत्तरायणं तत्र उत्तरेण प्रकीर्तितम् ||᳚ (स्व. १०|३३७) इति || १०९ || ननु भानोर्मेरुसन्निकर्षेणोत्तरो मार्गो लोकालोकसन्निकर्षेण तु दक्षिणः -- इत्यत्र किं प्रमाणम्? -- इत्याशङ्क्याह -- शर्वेषामुत्तरो मेरुर्लोकालोकश्च दक्षिणः |᳚
SK
सर्वेषामिति, वर्षाष्टकादिनिवासिनाम् | इलावृते हि भानुरेव न प्रतपति, -- इति कस्तद्गतिवैचित्र्येऽपि अवकाशः; भानुरेव हि भगवान् मेरुमधिकृत्य दक्षिणदिगवस्थिते भारतादौ वर्षत्रये पूर्वतः पश्चात्स्थिते केतुमाले दक्षिणात्, उत्तरदिगवस्थिते कुर्वादौ वर्षत्रये पश्चात्प्राच्ये भद्राश्वेऽपि उदक्तः समुदयन् स्वोदयानुसारेण पूर्वदिगवस्थापनात् सर्वेषामुत्तरयति लोकालोकं च दक्षिणयति, येन अस्य तत्सन्निकर्षविप्रकर्षाभ्यामुत्तरायणदक्षिणायनादि स्यात् || न केवलमस्यैवं गतावेव वैचित्र्यमस्ति यावदुदयास्तमययोरपि -- इत्याह -- उदयास्तमयावित्थं सूर्यस्य परिभावयेत् || ८-११० || ᳚इत्थम्᳚ इति दक्षिणावर्तभङ्ग्या, मेरोः परिभ्रमणेन -- इत्यर्थः || ११० || तदाह � अर्धरात्रोऽमरावत्यां याम्यायामस्तमेव च | मध्यन्दिनं तद्वारुण्यां सौम्ये सूर्योदयः स्मृतः || ८-१११ || उदयो योऽमरावत्यां सोऽर्धरात्रो यमालये | केऽस्तं सौम्ये च मध्याह्न इत्थं सूर्यगतागते || ८-११२ || इह खलु शौम्ये᳚ मेरोरुत्तरे भागे महोदयाख्यायां नगर्यां यदा वारुण्या आगच्छतः सूर्यस्योदयदर्शनं भवेत् तदा प्रहरद्वयस्य व्यतीतत्वात् वारुण्यां गन्धवत्याख्यायां नगर्यां मध्याह्नो याम्यायां दक्षिणदिगवस्थितायां संयमन्याख्यायां नगर्यां च सूर्योऽस्तमेति, प्रहरचतुष्टयातिक्रमेण पर्वतच्छायान्तरितत्वात् प्रकाशो न दृश्यते -- इत्यर्थः | पूर्वदिङ्नगर्याममरावत्याख्यायां चार्धरात्रस्तद्वारुण्युदयावसरेऽस्तमयत्वात् प्रहरद्वयेन चोदयस्य भविष्यत्त्वात् | यश्च अमरावत्यां सूर्योदयः सौम्याया आगच्छतो दर्शनं स यमालयेऽर्धरात्रः प्रहरद्वयेन सूर्यस्योदेष्यमाणत्वात्, केवारुणे चास्तमयः सौम्योदयवेलायां तत्र मध्याह्नस्य वृत्तत्वात् इदानीं प्रहरचतुष्टयस्य अतिक्रान्तत्वात्, सौम्ये च प्रहरद्वयस्य अतीतत्वात् मध्याह्नः -- इत्यनेनैव क्रमेण पूर्वपश्चिमयोर्विदिक्षु चोदयास्तमयावपि सूर्यस्य चिन्त्यौ -- इत्युक्तम् -- ᳚इत्थं भानोर्गतागते᳚ इति | यदुक्तम् --
SK
᳚अर्धरात्रोऽमरावत्यामस्तमेति यमस्य च |᳚ (स्व. १०|३३८) इति | तथा ᳚यदैव चामरावत्यामुदयस्तस्य दृश्यते | तदास्तमेति वारुण्यामित्यादित्यगतागतम् ||᳚ इति | एतच्च द्वीपान्तरेष्वपि योज्यं सूर्योदयस्य सर्वत्र समानत्वात् || ११२ || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवानुसरति -- पञ्चत्रिंशत्कोटिसंख्या लक्षाण्येकोनविंशतिः | चत्वारिंशत्सहस्राणि ध्वान्तं लोकाचलाद्बहिः || ८-११३ || सप्तसागरमानस्तु गर्भोदाख्यः समुद्रराट् | लोकालोकस्य परतो यद्गर्भे निखिलैव भूः || ८-११४ || तदुक्तम् -- ᳚तस्य बाह्ये तमो घोरं दुष्प्रेक्ष्यं जीववर्जितम् | पञ्चत्रिंशत्स्मृताः कोट्यो लक्षाण्येकोनविंशतिः || चत्वारिंशत्सहस्राणि योजनानां वरानने | (स्व. १०|३४१) इति | सप्तानां क्षारादीनां लक्षात्प्रभृति द्विगुणद्विगुणया वृद्ध्या सप्तविंशतिलक्षैककोट्यात्म यन्मानं तत्तुल्यमानः -- इत्यर्थः | समुद्रराडिति, क्षारादिसमुद्रसप्तकगर्भीकारात् | तदुक्तम् -- ᳚गदिता येऽब्धयः सप्त तेऽत्र गर्भे यतः स्मृताः | कथितस्तेन गर्भोदः समस्ताब्धिरसोद्वहः ||᳚ (मृगेन्द्रा.) इति || ११४ || अत्र च तमःस्थाने श्रीसिद्धयोगीश्वरमतोक्तं विशदयति -- सिद्धातन्त्रेऽत्र गर्भाब्धेस्तीरे कौशेयसंज्ञितम् | मण्डलं गरुडस्तत्र सिद्धपक्षसमावृतः || ८-११५ || क्रीडन्ति पर्वताग्रे ते नव चात्र कुलाद्रयः | तत उष्णोदकास्त्रिंशन्नद्यःपातालगास्ततः || ८-११६ || चतुर्दिङ्नैमिरोद्यानं योगिनीसेवितं सदा | ततो मेरुस्ततो नागा मेघा हेमाण्डकं ततः || ८-११७ || तीरे इति, अस्मात्परस्मिन् | तत्र हि लोकालोकसन्निकर्षे गर्भोदः | ङैमिरोद्यानम्᳚ इति नैमिरपुष्पसंज्ञकमित्यर्थः | नागा इत्यर्थाद्रत्नमय्यां भुवि | मेघा इत्यर्थाद्धरिचन्द्रपर्वतोपरि | ᳚हेमाण्डकम्᳚ इति हैमाण्डीया कर्परिका -- इत्यर्थः | तदुक्तं तत्र - - ᳚गर्भोदस्य परे तीरे कौशेयं नाम मण्डलम् | तत्र तिष्ठति देवेशो गरुत्मांश्च समावृतः || सिद्धपक्षसहस्रैस्तु तत्तुल्यबलदर्पितैः |
SK
तिष्ठन्ति पर्वताग्रे ते क्रीडमाना मुहुर्मुहुः ||᳚ इति | ᳚हुलहालवरक्रोधाः कोटको मूलपर्वतः | रोधको वामनः काण्डो विज्ञेयाः कुलपर्वताः ||᳚ इति | ᳚पर्वतान्ते पुनस्त्रिंशन्नद्यो योजनविस्तराः | उष्णोदकाः स्मृतास्तास्तु पातालतलनिम्नगाः ||᳚ इति | ᳚पुनस्तदापगातीरे वनं नैमेरपुष्पकम् | तत्र क्रीडन्ति देवेशि योगिन्यो बलदर्पिताः ||᳚ इति | ᳚वनस्य बाह्यस्य भूमिः सर्वतः संव्यवस्थिता | शुष्का जलविहीना तु पुनर्भूमिस्तु रत्नजा || दिङ्मातङ्गसमाकीर्णा समन्तात्परिशोधिता | वारणा बहवो यत्र मेरुमन्दरसन्निभाः ||᳚ इति | ᳚ततस्तानप्यतिक्रम्य उत्थितस्तु महाऽचलः | हरिश्चन्द्र इति ख्यातो वलयाकारसंस्थितः ||᳚ इति | ᳚तत्र सन्निहिता मेघाः संवर्ताद्या महारवाः |᳚ इति | ᳚पुनस्तद् दृश्यते चाण्डं काञ्चनं चातिभास्वरम् |᳚ इति || ११७ || तदेव सङ्कलयति � ब्रह्मणोऽण्डकटाहेन मेरोरर्धेन कोटयः | पञ्चाशदेवं दशसु दिक्षु भूर्लोकसंज्ञितम् || ८-११८ || तत्र मेरोरारभ्य स्वादूदकान्तं प्राक्कलितं ससहस्रपञ्चाशत्त्रिपञ्चाशल्लक्षाधिकं कोटिद्वयं हैमी भूः, कोटिदशकं लोकालोकविष्कम्भः, सहस्रदशकं तमः, सहस्रचत्वारिंशदेकोनविंशतिलक्षाधिकं कोटिपञ्चत्रिंशकं गर्भोदश्च, ससप्तविंशतिलक्षा कोटिरित्येवं कोटिपरिमाणेन ब्रह्माण्डकटाहेन सह अर्थात्पञ्चाशत्कोटयो भवन्ति -- इत्येवं ᳚दशसु दिक्षु᳚ इति सर्वतः कोटिशतं भूर्लोको भवेत् || ११८ || एष च भूर्लोकः चतुर्दशविधस्यापि भूतसर्गस्यास्पदम् -- इत्याह -- पशुखगमृगतरुमानुषसरीसृपैः षड्भिरेष भूर्लोकः | व्याप्तः पिशाचरक्षोगन्धर्वाणां सयक्षाणाम् || ८-११९ || विद्याभृतां च किं वा बहुना सर्वस्य भूतसर्गस्य | अभिमानतो यथेष्टं भोगस्थानं निवासश्च || ८-१२० ||
SK
᳚तरु᳚ इति स्थावरम् | ᳚विद्याभृताम्᳚ इति एन्द्रप्रकारभूतानाम् | किं वा बहुना इति, एषां हि प्रकारप्रकारिभावेन वचनमानन्त्याय भवेदिति भावः | सर्वस्येति, चतुर्दशविधस्य | ᳚अभिमानतः᳚ इत्यनेन ᳚एतद्भोगस्थानादित्वमभिमानमात्रसारमेव न तु वास्तवं किञ्चित्᳚ इति दर्शितम् | निवास इति, विनापि भोगं केषाञ्चित्; अतश्चैतदत्रैव शोधनीयम् -- इत्याशयः | तदुक्तम् -- ᳚पैशाचं राक्षसं याक्षं गान्धर्वं त्वैन्द्रमेव च | सौम्यं तथा च प्राजेशं ब्रह्मं चैवाष्टमं विदुः ||᳚ (स्व. १०|३५१) इति | ᳚पशुपक्षिमृगाश्चैव तथान्ये च सरीसृपाः | स्थावरं पञ्चमं चैव षष्ठं मानुषयोनिकम् || देवयोनिसमायुक्तं प्रोक्तं संसारमण्डलम् | चतुर्दशविधं चैव भूर्लोकेतु विशोधयेत् ||᳚ (स्व. १०|३५३) इति || १२० || इदानीं भुवर्लोकाद्यभिधत्ते -- भुवर्लोकस्तथा त्वार्काल्लक्षमेकं तदन्तरे | दश वायुपथास्ते च प्रत्येकमयुतान्तराः || ८-१२१ || आद्यो वायुपथस्तत्र विततः परिचर्च्यते | ᳚आ अर्कात्᳚ इति अर्कं यावदित्यर्थः | तदुक्तम् -- ᳚भूपृष्ठाद्यावदादित्यं लक्षमेकं प्रमाणतः |᳚ (स्व. १०|४२२) इति | ᳚अयुतान्तरा᳚ इति दशसहस्रप्रस्थानाः -- इत्यर्थः | तत्रेति, वायुपथदशकमध्यात् || १२१ || तदाह � पञ्चाशद्योजनोर्ध्वे स्यादृतर्द्धिर्नाम मारुतः || ८-१२२ || आप्यायकः स जन्तूनां ततः प्राचेतसो भवेत् | पञ्चाशद्योजनादूर्ध्वं तस्मादूर्ध्वंशतेन तु || ८-१२३ || सेनानीवायुरत्रैते मूकमेघास्तडिन्मुचः | ये मह्याः क्रोशमात्रेण तिष्ठन्ति जलवर्षिणः || ८-१२४ || तेभ्य ऊर्ध्वं शतान्मेघा भेकादिप्राणिवर्षिणः | पञ्चाशदूर्ध्वमोघोऽत्र विषवारिप्रवर्षिणः || ८-१२५ || मेघाः स्कन्दोद्भवाश्चान्ये पिशाचा ओघमारुते | ततः पञ्चाशदूर्ध्वं स्युर्मेघा मारकसंज्ञकाः || ८-१२६ || तत्र स्थाने महादेवजन्मानस्ते विनायकाः | ये हरन्ति कृतं कर्म नराणामकृतात्मनाम् || ८-१२७ || पञ्चाशदूर्ध्वं वज्राङ्को वायुरत्रोपलाम्बुदाः |
SK
विद्याधराधमाश्चात्र वज्राङ्के संप्रतिष्ठिताः || ८-१२८ || पञ्चाशद्योजनोर्ध्वे इति, भूपृष्ठात् | आप्यायक इति, यदुक्तम् -- ᳚यो विवर्धयते पुष्टिमोषधीनां बलं तथा | बृंहयेच्च महीं सर्वामाप्याययति चाव्ययः || (स्व. १०|४२४) इति | पञ्चाशद्योजनादूर्ध्वमिति, यथा भूपृष्ठात् पञ्चाशद्योजनानि परिवर्ज्य ऊर्ध्वमृतर्द्धिः स्थितः, तथा तदूर्ध्वमपि पञ्चाशद्योजनान्यन्तरालत्वेन परिस्थाप्य अयम् -- इत्यर्थः | ᳚प्राचेतसः᳚ इति प्रचेतोभिर्निर्मितत्वात्, तदाख्येन चाग्निना सह निवासात्; अत एवाप्यायकत्वं दाहकत्वं च | तदुक्तम् � ᳚प्राचेतसो नाम वायुः प्रचेतोभिर्विनिर्मितः | स वै नाशयते वृक्षान्कदाचित्संप्रवर्तयेत् || अग्निः प्राचेतसो नाम तेनैव सह तिष्ठति |᳚ (स्व. १०|४२७) इति | ᳚तस्मादूर्ध्वं शतेन᳚ इति प्राचेतसादप्यूर्ध्वं योजनानां शतमतिक्रम्य -- इत्यर्थः | एवमुत्तरत्रापि व्याख्येयम् | तथाभिधायित्वाभावात् भेकादिप्राणिवर्षित्वादेव च सत्त्ववहा इत्युक्ताः | तदुक्तम् -- ᳚योजनानां शतादूर्ध्वं मेघाः सत्त्ववहाः स्मृताः | मत्स्यमण्डूककूर्मांश्च वर्षन्ते दुर्दिने च ते ||᳚ (स्व. १०|४३०) इति | विषवारिवर्षित्वादेव चोपसर्गादिकारिणः | तदुक्तम् -- ᳚पञ्चाशद्योजनादूर्ध्वं वायुरोधः प्रकीर्तितः || तस्मिंस्तु रोगदा मेघा वर्षन्ति च विषोदकम् | तेनोपसर्गा जायन्ते मारकाः सर्वदेहिनाम् ||᳚ (स्व. १०|४३२) इति | ᳚ओघे वसन्ति वै दिव्याः पिशाचाः स्कन्ददेहजाः | त्रिंशत्कोटिसहस्राणि स्कन्दस्यानुचराः स्मृताः || ते वै दिव्यैश्च कुसुमैरर्चयन्ति हरात्मजम् |᳚ (स्व. १०|४४२) इति | ᳚तत्र स्थाने᳚ इति अमोघाख्ये मरुति | ᳚अकृतात्मनाम्᳚ संशयानानाम् | तदुक्तम् -- ᳚तस्मादूर्ध्वं तु तावद्भ्यो देव्यमोघः स्थितो मरुत् | तस्मिंस्ते मारका मेघा अमोघे संप्रतिष्ठिताः ||᳚ (स्व. १०|४३३) इति | ᳚अमोघे विनायका घोरा महादेवसमुद्भवाः | त्रिंशत्कोटिसहस्राणि तस्मिन्वायौ प्रतिष्ठिताः || ये हरन्ति कृतं कर्म नराणामकृतात्मनाम् | (स्व. १०|४४४) इति च |
SK
᳚उपलाम्बुदाः᳚ इति उपलवर्षित्वात् तदाख्याः | विद्याधराधमा इति, वक्ष्यमाणविद्याधरापेक्षया अल्पसिद्धित्वात्; अत एवैषां तत्रत्यमातङ्गारोहादेव तत्तद्गतिभाक्त्वम् || १२८ || एतत्पदप्राप्तौ चैषां निमित्तमाह -- ये विद्यापौरुषे ये च श्मशानादिप्रसाधने | मृतास्तत्सिद्धसिद्धास्ते वज्राङ्के मरुति स्थिताः || ८-१२९ || ᳚विद्यापौरुषे᳚ गारुडविद्यादिस्पर्धायाम् | मृता इत्यर्थादेतदन्ते | तदुक्तम् -- ᳚वज्राङ्को नाम वै वायुः पञ्चाशद्योजने स्थितः | तस्मिंश्चोपलका नाम मेघास्तूपलवर्षिणः ||᳚ (स्व. १०|४३४) इति | ᳚वज्राङ्केऽपि तथा वायौ मातङ्गाः क्रूरकर्मिणः | भिन्नाञ्जननिभा घोरास्तापना नाम विश्रुताः || विद्याधराणामधमा मनःपवनगामिनः | ये विद्यापौरुषे ये च वेतालादीञ्श्मशानतः || साधयित्वा ततः सिद्धास्तेऽस्मिन्वायौ प्रतिष्ठिताः | (स्व. १०|४४६) इति च || १२९ || पञ्चाशदूर्ध्वं वज्राङ्काद्वैद्युतोऽशनिवर्षिणः | अब्दा अप्सरसश्चात्र ये च पुण्यकृतो नराः || ८-१३० || भृगौ वह्नौ जले ये च संग्रामे चानिवर्तिनः | गोग्रहे वध्यमोक्षे वा मृतास्ते वैद्युते स्थिताः || ८-१३१ || पुण्यकृत्त्वमेव व्याचष्टे ᳚भृगावित्यादिना᳚ | भृग्वादौ मृतास्तथाम्नातत्वात् तच्च लुप्तस्मृत्यादीनाम् | यदुक्तम् � ᳚भृगौ च स्मृतेर्लुप्त.......................... |᳚ इति | तथा, ᳚परां काष्ठामनुप्राप्तो भिषग्भिः परिवर्जितः | रसास्वादपरित्यक्तो व्याधिभिः परिपीडितः || विमुखः स्वजनत्यक्तो देहत्यागोद्यतो नरः | आरुहेद्भैरवं यो हि स तत्फलमवाप्नुयात् || अन्यथा पातयेद्देहं ब्रह्महत्याफलं लभेत |᳚ इति | शंग्रामे᳚ इत्यर्थाच्छरणागतादिनिमित्तम्, अन्यथा हि आत्मघातिन एते भवेयुः -- इति कथमेतत्पदप्राप्तिः स्यात् | यदुक्तम् -- ᳚असुर्या नाम ते लोका अन्धेन तमसा वृताः | तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः || (रि.उ. ३ ऋ.) इति | स्थिता इति, अर्थाद्विमानैः | तदुक्तम् -- ᳚तावद्भिर्योजनैरेव ततो वै वैद्युतोऽनिलः | मेघास्तु वैद्युतास्तस्मिन्निवसन्ति तु वैद्युताः ||
SK
अशनिर्वायुसंक्षोभात्तेष्वसौ जायते महान् |᳚ (स्व. १०|४३५) इति | ᳚वैद्युतेऽप्सरसस्तस्मिन्वासवेन प्रयोजिताः | तिष्ठन्ति सर्वदा तत्र पृथिवीपुरपालने || भृगौ वह्नौ जले वाथ संग्रामेष्वनिवर्तकाः | गोग्रहे वन्दिमोक्षे च मिर्यन्ते पुरुषोत्तमाः | ते व्रजन्ति ततस्तूर्ध्वं विमानैर्मणिचिह्नितैः ||᳚ (स्व. १०|४४९) इति || १३१ || वैद्युताद्रैवतस्तावांस्तत्र पुष्टिवहाम्बुदाः | ऊर्ध्वं च रोगाम्बुमुचः संवर्तास्तदनन्तरे || ८-१३२ || रोचनाञ्जनभस्मादिसिद्धास्तत्रैव रैवते | क्रोधोदकमुचां स्थानं विषावर्तः स मारुतः || ८-१३३ || पञ्चाशदूर्ध्वं तत्रैव दुर्दिनाब्दा हुताशजाः | विद्याधरविशेषाश्च तथा ये परमेश्वरम् || ८-१३४ || गान्धर्वेण सदार्चन्ति विषावर्तेऽथ ते स्थिताः | विषावर्ताच्छतादूर्ध्वं दुर्जयः श्वाससंभवः || ८-१३५ || ब्रह्मणोऽत्र स्थिता मेघाः प्रलये वातकारिणः | पुष्कराब्दा वायुगमा गन्धर्वाश्च परावहे || ८-१३६ || जीमूतमेघास्तत्संज्ञास्तथा विद्याधरोत्तमाः | ये च रूपव्रता लोका आवहे ते प्रतिष्ठिताः || ८-१३७ || महावहे त्वीशकृताः प्रजाहितकराम्बुदाः | महापरिवहे मेघाः कपालोत्था महेशितुः || ८-१३८ || ᳚भस्मादि᳚ इत्यादिग्रहणात् पादुकादि | तदुक्तम् -- ᳚तदूर्ध्वं योजनानां तु पञ्चाशद्रैवतः स्मृतः | तस्मिन्पुष्टिवहो नाम पुष्टिं वर्षति देहिनाम् ||᳚ (स्व. १०|४३६) इति | ᳚रैवते तु महात्मानः सिद्धा वै सुप्रतिष्ठिताः | गोरोचनाञ्जने भस्म पादुके अजिनादि च || साधयित्वा महात्मानः सिद्धास्ते कामरूपिणः |᳚ (स्व. १०|४५१) इति च | ऊर्ध्वमिति, रैवतात् | ᳚तदन्तरे᳚ इति तान्येव पञ्चाशद्योजनान्यन्तरं शून्यरूपं यत्र -- इत्यर्थः | तदुक्तम् -- शंवर्ते रोगदा मेघास्ते रोगोदकवर्षिणः | पञ्चाशद्योजने ते वै तस्मिंस्तिष्ठन्ति तोयदाः ||᳚ (स्व. १०|४३७) इति दुर्दिनाब्दा इति, दुर्दिनकारित्वात् | ᳚गान्धर्वेण᳚ इति वंशीवीणादिना | तदुक्तम् -- ᳚विषावर्तो नाम वायुः पञ्चाशदुपरि स्थितः | तस्मिन्क्रोधोदका नाम मेघा वै संप्रतिष्ठिताः ||
SK
ते क्रोधरागबहुलं संग्रामबहुलं तथा | राज्ञां क्षयकरं चैव प्रजानां क्षयदं तथा || वर्षं चैव प्रकुर्वन्ति यदा वर्षन्ति ते घनाः |᳚ (स्व. १०|४४०) इति | ᳚विषावर्ते महावायौ विद्याधरगणाः स्मृताः | दश त्रिंशच्च कोट्यस्ते दिव्याभरणभूषिताः ||᳚ (स्व १०|४५३) इति | ᳚आग्नेया धूमजा मेघाः शीतदुर्दिनदाः स्मृताः | विषावर्तं नावमिव ते वायुं यान्ति संश्रिताः || तत्र गान्धर्वकुशला गन्धर्वसहधर्मिणः | वंशवीणाविधिज्ञाश्च पक्षिणः कामरूपिणः ||᳚ (स्व. १०|४५५) इति च | अत्र च संवर्तेऽपि महावायाविति उद्द्योतकारव्याख्यापाठान्न भ्रमणीयम् -- यत्संवर्ते कथं विद्याधरा नोक्ता विषावर्ते तु उक्ता इति, अस्मत्तर्कित एव हि पाठः साधुः, महाजनपरिगृहीतत्वात् | एवम् - - ᳚योजनानां शतादूर्ध्वं वायुरोधः प्रकीर्तितः |᳚ (स्व. १०|४३१) इत्यादावपि अस्मत्तर्कित एव पाठो ग्राह्यः, अन्यथा हि ᳚तस्मादूर्ध्वं तु तावद्भ्यः.................... |᳚ (स्व. १०|४३२) इत्यादौ तावदर्थस्तन्मतेऽपि न सङ्गतः स्यात् | ᳚दुर्जयः᳚ इति तन्नामा वायुः | तदुक्तम् -- ᳚ब्रह्मजा नाम वै मेघा ब्रह्मनिःश्वाससम्भवाः | उपरिष्टाद्योजनशताद्दुर्जयस्योपरि स्थिताः ||᳚ (स्व. १०|४५६) इति | गन्धर्वाश्च इति, चशब्दाद् दुर्जयाख्यमेघादीनामपि ग्रहणम् | तदुक्तम् -- ᳚तत्रैव दुर्जया नाम इन्द्रस्य परिरक्षकाः | परावहाभिधं वायुं ते समाश्रित्य संस्थिताः || महावीर्यबलोपेता दश कोट्यः प्रकीर्तिताः | पुष्करावर्तका नाम मेघा वै पद्मजोद्भवाः || शक्रेण पक्षा ये च्छिन्नाः पर्वतानां महात्मनाम् | परावहस्तान्वहति मनुजानिव वारणः || तस्मिन्वायुगमा नाम गन्धर्वा गगनालयाः |᳚ (स्व.१०|४६१) इति | तदाप्रभृति एषां नैरन्तर्येणावस्थानमवसातव्यमन्तरालविधायिन्याः श्रुतेरभावात् | ᳚तत्संज्ञाः᳚ इति जीमूतसंज्ञाः | तदुक्तम् -- ᳚जीमूता नाम ये मेघा देवेभ्यो जीवसम्भवाः | द्वितीयमावहं वायुं मेघास्ते च समाश्रिताः || तस्मिञ्जीमूतका नाम विद्याधरगणा दश |᳚ (स्व. १०|४६२)
SK
इति | ᳚रूपव्रता᳚ इति रूपविडम्बकवद् रूपविधानं न तु वस्तुनिष्ठं वस्तु येषां तेन व्रत(ता) जीविन -- इत्यर्थः | तदुक्तं श्रीस्वच्छन्दे -- ᳚ये च रूपव्रता लोकास्तेषां तत्र समाश्रयः |᳚ इति | एतदर्धं च उद्द्योतकृता न दृष्टम्, -- इति न भ्रमणीयम् | ईशकृता इति उमापतिनिर्मिताः | तदुक्तम् � ᳚महावहस्ततो वायुर्यत्र द्रोणाः समाश्रिताः | तस्मिन्द्रोणाः समाख्याता मेघानां परिरक्षकाः || हितार्थं तु प्रजानां वै निर्मितास्ते मया पुरा |᳚ (स्व. १०|४६३) इति | मेघाः᳚ इति संवर्ताद्याः | तदुक्तम् -- ᳚उपरिष्टात्कपालोत्थाः संवर्ता नाम वै घनाः | महापरिवहो नाम वायुस्तेषां समाश्रयः ||᳚ (स्व. १०|४६४) इति || १३८ || एतदेव उपसंहरति -- महापरिवहान्तोऽयमृतर्द्धेः प्राङ्मरुत्पथः | एवमत्र योजनानां सहस्रदशकात् ऋतर्द्धेरारभ्य महापरिवहान्तं षोडशानां वायूनामन्तरालेषु यथोक्तक्रमेण सार्धं शतसप्तकं परिसंख्याय शिष्टं विशेषश्रुत्यभावात् सममेव विभजनीयम्, येन प्रत्येकं शतपञ्चकं सार्धक्रोशा चाष्टसप्ततिर्मानं स्यात् || अग्निकन्या मातरश्च रुद्रशक्त्या त्वधिष्ठिताः || ८-१३९ || द्वितीये तत्परे सिद्धचारणा निजकर्मजाः | तुर्ये देवायुधान्यष्टौ दिग्गजाः पञ्चमे पुनः || ८-१४० || षष्ठे गरुत्मानन्यस्मिङ्गङ्गान्यत्र वृषो विभुः | दक्षस्तु नवमे ब्रह्मशक्त्या समधिति (नि)ष्ठितः || ८-१४१ || दशमे वसवो रुद्रा आदित्याश्च मरुत्पथे | नवयोजनसाहस्रो विग्रहोऽर्कस्य मण्डलम् || ८-१४२ || त्रिगुणं ज्ञानशक्तिः सा तपत्यर्कतया प्रभोः | स्वर्लोकस्तु भुवर्लोकाद् ध्रुवान्तं परिभाष्यते || ८-१४३ || सूर्याल्लक्षेण शीतांशुः क्रियाशक्तिः शिवस्य सा | चन्द्राल्लक्षेण नाक्षत्रं ततो लक्षद्वयेन तु || ८-१४४ || प्रत्येकं भौमतः सूर्यसुतान्ते पञ्चकं विदुः | सौराल्लक्षेण सप्तर्षिवर्गस्तस्माद् ध्रुवस्तथा || ८-१४५ || ब्रह्मैवापररूपेण ब्रह्मस्थाने ध्रुवोऽचलः | मेघीभूतो विमानानां सर्वेषामुपरि ध्रुवः || ८-१४६ ||
SK
᳚मातरो᳚ ब्रह्म्याद्याः | द्वितीय इति, वायुपथे | तत्पर इति, तृतीये | अष्टाविति, नाराचादीनि | तदुक्तम् -- ᳚चतुर्थे पथि चैवात्र वसन्त्यायुधदेवताः | नाराचचापचक्रर्ष्टिशूलशक्तीषुमुद्गराः ||᳚ (स्व. १०|४६८) इति | ᳚दिग्गजा᳚ इति एरावतादयः | तदुक्तम् -- ᳚पञ्चमे पथि देवेशि वसन्त्यैरावतादयः | एरावतोऽञ्जनश्चैव वामनश्च महागजः || सुप्रतीकः करीन्द्रश्च पुष्पदन्तस्तथैव च | कुमुदः पुण्डरीकश्च सार्वभौमोऽपि चाष्टमः || दिग्गजा इति विख्याताः स्वासु दिक्षु व्यवस्थिताः |᳚ (स्व. १०|४७१) इति | अन्यस्मिन्निति, सप्तमे | अन्यत्रेति, अष्टमे | वसवोऽष्टौ, रुद्रा एकादश, आदित्या द्वादश | तदुक्तम् � ᳚अत्र चाङ्गारकः सर्पिर्नैरृतः सदसत्पतिः | बुधश्च धूमकेतुश्च विख्यातश्च ज्वरस्तथा || अजश्च भुवनेशश्च मृत्युः कापालिकस्तथा | एकादश स्मृता रुद्राः सर्वकामफलोदयाः | धाता ध्रुवश्च सोमश्च वरुणश्चानिलोऽनलः || प्रत्यूषश्च प्रदोषश्च वसवोऽष्टौ प्रकीर्तिताः || वसवः कथिता ह्येते आदित्यांश्च निबोध मे | अर्यमा इन्द्रवरुणौ पूषा विष्णुर्गभस्तिमान् || मित्रश्चैव समाख्यातस्त्वजघन्यो जघन्यकः | विवस्वांश्चैव पर्जन्यो धाता वै द्वादश स्मृताः || (स्व. १०|४९९) इति | त्रिगुणमिति, सप्तविंशतिसहस्राणि | ᳚तपति᳚ विश्वं प्रकाशयति -- इत्यर्थः | ज्ञानस्य हि प्रकाशकत्वमेव स्वभाव -- इति भावः | तदुक्तम् -- ᳚ज्ञानशक्तिः परस्यैषा तपत्यादित्यविग्रहा |᳚ (स्व. १०|४९८) इति | भुवर्लोकादित्यारभ्य सूर्यादिति, भुवर्लोकान्ते स्थितात् | क्रियाशक्तिरिति, जगदाप्यायकारित्वात् | तदुक्तम् � ᳚चन्द्ररूपेण तपति क्रियाशक्तिः शिवस्य तु |᳚ (स्व. १०|५०१) इति | नाक्षत्रमिति, मण्डलम् | तदुक्तम् -- ᳚इन्दूर्ध्वे लक्षमात्रेण स्थितं नक्षत्रमण्डलम् |᳚ (स्व. १०|५०१) इति | लक्षद्वयेन इत्यूर्ध्वम्; तेन नक्षत्रमण्डलादूर्ध्वं लक्षद्वयेन भौमः, ततोऽपि बुधो यावदन्ते सौरः | लक्षेण इत्यूर्ध्वम् | तदुक्तम् -- ᳚अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः |
SK
भृग्वङ्गिरा मरीचिश्च ऋषयः सप्त कीर्तिताः ||᳚ (स्व. १०|५०५) इति | तथेति, लक्षेणोर्ध्वम् -- इत्यर्थः | ᳚मेधीभूतः᳚ इति बन्धनस्थानतामाप्तः -- इत्यर्थः | विमानानामिति, ग्रहादिसम्बन्धिनाम् | तदुक्तम् -- ᳚ब्रह्मैवापररूपेण ध्रुवस्थाने नियोजितः | तस्य ज्योतिर्गणो देवि निबद्धो भ्रमते सदा || निश्चलः स तु विज्ञेयः शिवशक्त्या त्वधिष्ठितः |᳚ (स्व. १०|५१०) इति || १४६ || अत्र बद्धत्वेऽपि एषामाधारः कः ? -- इत्याशङ्क्याह -- अत्र बद्धानि सर्वाण्यप्यूह्यन्ते निलमण्डले | अनिलमण्डलानि च कियन्ति ? -- इत्याशङ्क्याह -- स्वस्सप्त मारुतस्कन्धा आमेघाद्याः प्रधानतः || ८-१४७ || स्वरिति, स्वर्गलोके| ᳚आमेघाद्या᳚ इति आमेघादामेघं तदाद्यो येषाम् | तदुक्तम् -- ᳚आमेघाद्भास्करात्सोमान्नक्षत्राद् ग्रहमण्डलात् | ऋषिसप्तकनिर्देशादाध्रुवान्तं च सप्तमः ||᳚ (स्व. १०|५१२) इति | तथा ᳚पृथिव्याः प्रथमः स्कन्ध आमेघेभ्यो य आवहः | द्वितीयश्चापि मेघेभ्य आसूर्यात्प्रवहश्च यः || सूर्यादूर्ध्वं तथा सोमादुद्वहो यस्तु वै स्मृतः | सोमादूर्ध्वं तथर्क्षेभ्यश्चतुर्थः संवहस्तु सः || ऋक्षेभ्यश्च तथैवोर्ध्वमाग्रहाद्विवहस्तु सः | ऊर्ध्वं ग्रहादृषिभ्यस्तु षष्ठो योऽसौ परावहः || सप्तर्षिभ्यस्तथैवोर्ध्वमाध्रुवात्सप्तमस्तु सः | वातस्कन्धः परिवहः.................................. ||᳚ (पुरा.) इति || १४७ || केषां चात्र निवासः ? -- इत्याह -- इतश्च क्रतुहोत्रादि कृत्वा ज्ञानविवर्जिताः | स्वर्यान्ति तत्क्षये लोकं मानुष्यं पुण्यशेषतः || ८-१४८ || एतत्सङ्कलयन्नन्यदवतारयति -- एवं भूमेर्ध्रुवान्तं स्याल्लक्षाणि दश पञ्च च | द्वे कोटी पञ्च चाशीतिर्लक्षाणि स्वर्गतो महान् || ८-१४९ || मार्कण्डाद्या ऋषिमुनिसिद्धास्तत्र प्रतिष्ठिताः | निवर्तिताधिकाराश्च देवा महति संस्थिताः || ८-१५० || महान्तराले तत्रान्ये त्वधिकारभुजो जनाः | अष्टौ कोट्यो महल्लोकाज्जनोऽत्र कपिलादयः || ८-१५१ || तिष्ठन्ति साध्यास्तत्रैव बहवः सुखभागिनः |
SK
जनात्तपोर्ककोट्योऽत्र सनकाद्या महाधियः || ८-१५२ || प्रजापतीनां तत्राधिकारो ब्रह्मात्मजन्मनाम् | ब्रह्मालयस्तु तपसः सत्यः षोडश कोटयः || ८-१५३ || तत्र स्थितः स स्वयम्भूर्विश्वमाविष्करोत्यदः | सत्ये वेदास्तथा चान्ये कर्मध्यानेन भाविताः || ८-१५४ || आनन्दनिष्ठास्तत्रोर्ध्वे कोटिर्वैरिञ्चमासनम् | ब्रह्मासनात्कोटियुग्मं पुरं विष्णोर्निरूपितम् || ८-१५५ || ध्यानपूजाजपैर्विष्णौर्भक्ता गच्छन्ति तत्पदम् | वैष्णवात्सप्तकोटीभिर्भुवनं परमेशितुः || ८-१५६ || रुद्रस्य सृष्टिसंहारकर्रतुब्रह्माण्डवर्त्मनि | तत्र भुवर्लोको लक्षेण, ततः सोमस्ततोऽपि नक्षत्रमण्डलम् � इति त्रीणि लक्षाणि | ततो भौमात्सौरान्तं प्रत्येकं लक्षद्वयेन दश, ततः सप्तर्षयो लक्षेण, ततो ध्रुवः -- इति पञ्चदश भूमेर्ध्रुवान्तं भवेत् | श्वर्गतः᳚ इति स्वर्लोकादारभ्येत्यर्थः | ᳚देवाः᳚ इति तत्तल्लोकवासिनः सङ्क्रन्दनाद्याः, ᳚ये निवृत्ताधिकारास्तु लोकत्रयनिवासिनः | सङ्क्रन्दनादयस्तेषां महल्लोकेलयः स्मृतः ||᳚ यदभिप्रायेणैव पूर्वं ᳚कूष्माण्डहाटकाद्यास्तु क्रीडन्ति महदाह्वये |᳚ इत्याद्युक्तम् | ᳚अन्ये᳚ इति तत्तद्यज्ञानुष्ठातारः कपिलादय इति | तदुक्तम् -- ᳚एकपादोऽथ जह्नुश्च कपिलश्चासुरिस्तथा | भौतिको वाड्वलिश्चैव जनलोकनिवासिनः ||᳚ (स्व. १०|५०८) इति | तथा शाध्या नाम सुरास्तस्मिन्वसन्ति सुखिनः सदा |᳚ इति | अर्ककोट्यो द्वादश | ब्रह्मात्मजन्मनामित्यर्थान्मानसानाम् | तदुक्तम् -- शनकश्च सनन्दश्च सनत्कुमारः सनन्दनः | शङ्कुश्चैव त्रिशङ्कुश्च तपोलोकनिवासिनः ||᳚ (स्व. १०|५२०) इति तथा ᳚प्रजानां पतयस्तत्र मानसा ब्रह्मण......... |᳚ इति | ᳚आविष्करोति᳚ इति सृजति -- इत्यर्थः | ᳚अन्ये᳚ इति शिक्षाकल्पादयः | ᳚आसनम्᳚ इति आस्यतेऽस्मिन्निति भुवनम् | तदुक्तम् � ᳚कर्मज्ञानेन संसिद्धा अद्वैतपरिनिष्ठिताः | आनन्दपदसंप्राप्ता आनन्दपदमागताः || ऋग्वेदो मूर्तिमांस्तस्मिन्निन्द्रनीलसमद्युतिः |᳚ (स्व. १०|५२५) इति |
SK
᳚उत्तरेण यजुर्वेदः शुद्धस्फटिकसन्निभः |᳚ (स्व. १०|५२६) इति | श्थितः पश्चिमदिग्भागे सामवेदः सनातनः |᳚ (स्व. १०|५२७) इति | ᳚अथर्वाञ्जनवच्छ्यामः स्थितो दक्षिणतस्तथा |᳚ (स्व. १०|५२९) इति | ᳚षडङ्गानीतिहासाश्च पुराणान्यखिलानि तु | वेदोपनिषदश्चैव मीमांसारण्यकं तथा || स्वाहाकारवषट्कारौ रहस्यानि तथैव च | गायत्री च स्थिता यत्र यत्र देवश्चतुर्मुखः ||᳚ (स्व. १०|५३०) इति ᳚कोटियोजनमानेन सत्यलोकोर्ध्वतः प्रिये | ब्रह्मासनमिति ख्यातम्...................... ||᳚ (स्व. १०|५३३) इति च | ᳚तत्पदम्᳚ इति विष्णुपदम् | वैष्णवादिति, तदूर्ध्वम् -- इत्यर्थः || १५६ || केषां चात्र निवासः ? -- इत्याह -- दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः || ८-१५७ || ते यान्त्यण्डान्तरे रौद्रं पुरं नाधः कदाचन | लिङ्गाराधनतत्परा इति, शिवधर्मोत्तरादिप्रक्रियया || १५७ || ननु यद्येवं तत्किमेते तत्रैवासते किमुत ततोऽप्यूर्ध्वं यान्ति ? -- इत्याशङ्क्याह � तत्स्थाः सर्वे शिवं यान्ति रुद्राः श्रीकण्ठदीक्षिताः || ८-१५८ || अधिकारक्षये साकं रुद्रकन्यागणेन ते | शिवमिति परम्, ᳚यान्ति᳚ इति तदैकात्म्यापत्त्या मुच्यन्ते -- इत्यर्थः || नन्वेवं माहात्म्यवत्किमेतदेव भुवनमस्ति उत भुवनान्तराण्यपि ? -- इत्याह -- पुरं पुरं च रुद्रोर्ध्वमुत्तरोत्तरवृद्धितः || ८-१५९ || तदाह � ब्रह्माण्डाधश्च रुद्रोर्ध्वं दण्डपाणेः पुरं स च | शिवेच्छया दृणात्यण्डं मोक्षमार्गं करोति च || ८-१६० || सर्वरुद्रौ भीमभवावुग्रो देवो महानथ | ईशान इति भूर्लोकात् सप्त लोकेश्वराः शिवाः || ८-१६१ || ᳚ब्रह्माण्ड᳚ इति तत्कर्परिकाधः -- इत्यर्थः | ᳚दृणाति᳚ इति खण्डयति विगतावरणं करोति -- इत्यर्थः | ᳚देवो महान्᳚ इति महादेवः | भूर्लोकादित्यारभ्य, तेन भूर्लोकेशर्वोऽधिपतिर्यावत्सत्यलोकेरिशानः, इति -- क्रमः | पशुपतिस्तु रुद्रलोकेऽधिपतिरित्यर्थसिद्धम् || १६१ || अत्र च लोकानां परापरत्वमप्यस्तीत्याह -- स्थूलैर्विशेषैरारब्धाः सप्त लोकाः परे पुनः |
SK
सूक्ष्मैरिति गुरुश्चैव रुरौ सम्यङ्न्यरूपयत् || ८-१६२ || विशेषैरिति भूतैः, सूक्ष्मैरिति अविशेषैस्तन्मात्रैः | तदाहुः -- ᳚तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः | एते स्मृता विशेषा............................... ||᳚ (सां.का. ३८) किमत्र प्रमाणम् -- इत्याशङ्क्योक्तम् -- ᳚इति गुरुश्चैव रुरौ सम्यङ्न्यरूपयत्᳚ इति || १६२ || तदाह � ये ब्रह्मणादिसर्गे स्वशरीरान्निर्मिताः प्रभूताख्याः | स्थूलाः पञ्च विशेषाः सप्तामी तन्मया लोकाः || ८-१६३ || परतो लिङ्गाधारैः सूक्ष्मैस्तन्मात्रजैर्महाभूतैः | लोकानामावरणैर्विष्टभ्य परस्परेण गन्धाद्यैः || ८-१६४ || लिङ्गाधारैः शरीराश्रयैः; अत एव लोकावरणै कारणभूतैः -- इत्यर्थः | ᳚विष्टभ्य परस्परेण᳚ इति सामान्यविशेषरूपतया परस्परावष्टम्भेन अवस्थितैः -- इत्यर्थः || १६४ || एतदेव सङ्कलयति -- कालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः | अत ऊर्ध्वं कटाहोऽण्डे स घनः कोटियोजनम् || ८-१६५ || पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठादधरं तथा | तत्र अधस्ताद् भूकटाहान्तं पञ्चाशत्कोटयः सङ्कलिताः, ऊर्ध्वं तु भूपृष्ठाद् ध्रुवान्तं पञ्चदश लक्षाणि, महान् सपञ्चाशीतिलक्षे द्वे कोटी, जनोऽष्टौ, तपो द्वादश, सत्यः षोडश, ब्रह्मं भुवनमेकम्, वैष्णवं द्वे, रौद्रं सप्त, कटाह एकः, -- इत्येवं पञ्चाशत्कोटयः || १६५ || एतदेव उपसंहरति -- एवं कोटिशतं भूः स्यात् सौवर्णस्तण्डुलस्ततः || ८-१६६ || शतरुद्रावधिर्हुंफट् भेदयेत्तत्तु दुःशमम् | तण्डुल इति वर्तुलाकारत्वात् स एव -- इत्यर्थः | ᳚ततः᳚ इति विस्तीर्णः; अत एव शतरुद्रावधिः -- इत्युक्तम् | दुःशममिति, वज्रसाराधिकसारत्वात् देवैरपि दुर्भेद्यमित्यर्थः | तदुक्तम् -- ᳚एवं कोटिशतं ज्ञेयं पार्थिवं तत्त्वमुच्यते | शतरुद्रावधि ज्ञेयं सौवर्णं परिवर्तुलम् || वज्रसाराधिकसारं दुर्भेद्यं त्रिदशैरपि | हुंफट्कारप्रयोगेण भेदयेत्तु वरानने ||᳚ (स्व. १०|६२१) इति || १६६ ||
SK
ननु शतरुद्राः कुत्रावस्थिता -- यदवधिकत्वमपि अस्योच्यते -- इत्याशङ्क्याह -- प्रतिदिक्कं दश दशेत्येवं रुद्रशतं बहिः || ८-१६७ || ब्रह्माण्डाधारकं तच्च स्वप्रभावेण सर्वतः | यदुक्तम् � ᳚दश दश क्रमेणैव दशदिक्षु समन्ततः | पूर्वादिक्रमयोगेन कथयाम्यनुपूर्वशः || कपालीशो ह्यजो बुध्नो वज्रदेहः प्रमर्दनः | विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ||᳚ (स्व. १०|६२३) इति | ᳚अग्निरुद्रो हुताशी च पिङ्गलः खादको हरः | ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षयान्तकौ ||᳚ (स्व. १०|६२५) इति | ᳚याम्यो मृत्युर्हरो धाता विधाता कर्तृसंज्ञकः | संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा ||᳚ (स्व. १०|६२७) इति | ङैरृतो दारुणो हन्ता क्रूरदृष्टिर्भयानकः | ऊर्ध्वकेशो विरूपाक्षो धूम्रे लोहितदंष्ट्रकौ ||᳚ (स्व. १०|६२९) इति | ᳚बलो ह्यतिबलश्चैव पाशहस्तो महाबलः | श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जनान्तकः || मेघनादी सुनादी च ........................|᳚ (स्व. १०|६३२) इति | शीघ्रे लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णो भयानकः | पञ्चान्तकः पञ्चशिखी कर्पदी मेघवाहनः ||᳚ (स्व. १०|६३४) इति | ङिधीशो रूपवान्धन्यः सौम्यदेहो जटाधरः | लक्ष्मीरत्नधरौ कामी प्रसादश्च प्रभासकः ||᳚ (स्व. १०|६३६) इति | ᳚विद्याधिपोऽथ सर्वज्ञो ज्ञानदृग्वेदपारगः | शर्वः सुरेशो ज्येष्ठश्च भूतपालो बलिः प्रियः ||᳚ (स्व. १०|६३८) इति | ᳚वृषो वृषधरोऽनन्तोऽक्रोधनो मारुताशनः | ग्रसनो डम्बरेशौ च फणीन्द्रो वज्रदंष्ट्रकः ||᳚ (स्व. १०|६४०) इति | ᳚शम्भुर्विभुर्गणाध्यक्षस्त्र्यक्षस्तु त्रिदशेश्वरः | संवाहश्च विवाहश्च नभो लिप्सुस्रिलोचनः ||᳚ (स्व. १०|६४२) इति | ᳚शतरुद्रा इति ख्याता ब्रह्माण्डं व्याप्य संस्थिताः |᳚ (स्व. १०|६४४) इति | श्वप्रभावेण᳚ इति स्ववीर्यमाहात्म्याद् -- इत्यर्थः || ननु अण्डं नाम किमुच्यते यदपि ब्रह्मसम्बन्धि स्यात् ? -- इत्याशङ्क्याह -- अण्डस्वरूपं गुरुभिश्चोक्तं श्रीरौरवादिषु || ८-१६८ || तद्ग्रन्थमेव पठति --
SK
व्यक्तेरभिमुखीभूतः प्रच्युतः शक्तिरूपतः | आवापवाननिर्भक्तो वस्तुपिण्डोऽण्ड उच्यते || ८-१६९ || तमोलेशानुविद्धस्य कपालं सत्त्वमुत्तरम् | रजोऽनुविद्धं निर्मृष्टं सत्त्वमस्याधरं तमः || ८-१७० || तत्राद्यं श्लोकं विषमत्वात्स्वयमेव व्याचष्टे -- वस्तुपिण्ड इति प्रोक्तं शिवशक्तिसमूहभाक् | अण्डः स्यादिति तद्व्यक्तौ संमुखीभाव उच्यते || ८-१७१ || तथापि शिवमग्नानां शक्तीनामण्डता भवेत् | तदर्थं वाक्यमपरं ता हि न च्युतशक्तितः || ८-१७२ || तन्वक्षादौ मा प्रसाङ्क्षीदण्डतेति पदान्तरम् | तन्वक्षादिषु नैवास्ते कस्याप्यावापनं यतः || ८-१७३ || तन्वक्षसमुदायत्वे कथमेकत्वमित्यतः | अनिर्भक्त इति प्रोक्तं साजात्यपरिदर्शकम् || ८-१७४ || अण्डो हि नाम ᳚वस्तूनां᳚ तन्वक्षादीनां ᳚पिण्डः᳚ समुदाय उच्यते, तदस्य लक्षणम् -- इत्यर्थः | एवमुक्ते हि शिवस्यापि ᳚शक्तयोऽस्य जगत्कृत्स्नं..................... |᳚
SK
इत्याद्युक्त्या तन्वादिशक्तिसमुदायभाक्त्वात् तत्त्वं प्रसज्यते � इति तस्याण्डस्य व्यक्तौ संमुखीभाव इदंप्रथमतया बहिरवभासो न तु पूर्वमपि -- इति ᳚व्यक्तेरभिमुखीभूतः᳚ इत्यनेनोच्यते येनैवमतिव्याप्तिर्न स्यात्, स हि शकृद्विभातोऽयमात्मा᳚ इति न्यायात् सर्वदैवावभासमानः | एवमपि शक्तिमदैकात्म्यभाजः शक्तिसमूहस्याण्डत्वं प्रसक्तं भवेत् | तासां हि शक्तीनां तत्तदर्थात्मना कादाचित्क एव बहिरभिव्यक्तौ संमुखीभावः, तन्निवृत्त्यर्थं वाक्यान्तरस्योपादानं ᳚प्रच्युतः शक्तिरूपतः᳚ इति | स हि व्यक्त्यभिमुखीभूतत्वादेव शक्त्यात्मनः सूक्ष्माद्रूपात् ᳚प्रच्युतः᳚ स्थूलतया व्यक्तेरात्मना बहिः प्रथितः -- इत्यर्थः | शक्तीनां तु व्यक्तावभिमुखीभावेऽपि न शक्तिरूपतः प्रच्यावः स्वरूपविप्रलोपप्रसङ्गात् | एवमपि तन्वक्षादावण्डता मा प्रसक्ता भूदिति पदान्तरमुपात्तम् ᳚आवापवान्᳚ इति | आवापो वस्त्वन्तरप्रक्षेपो विद्यते यस्य स तथा, चतुर्दशविधस्य भूतजातस्य तासु तासु योनिष्वावापनात्; तन्वादौ पुनरेतन्नास्ति अन्याश्रितत्वात्, तथात्वे चान्याश्रयत्वानुपपत्तेः | ननु एवमपि तन्वादीनामानैक्यात् समुदायरूपतया कथमस्यैकत्वेन निर्देशः स्यात्? � इत्युक्तम् ᳚अनिर्भक्तः᳚ इति | तद्विभागाप्रतिपत्तेरेकत्वानुप्राणकं साजात्यमेव परिदर्शयति येनास्य नगरादिज्ञानवदेकत्वमेव न्याय्यं स्यात् || १७४ || ननु यद्येवं तत्प्रतितत्त्वमण्डत्वं स्यात् � इत्येतद्व्यावर्तनाय वस्तुपिण्डपदस्याप्युपादानम्, -- इत्याह -- विनापि वस्तुपिण्डाख्यपदेनैकैकशो भवेत् | तत्त्वेष्वण्डस्वभावत्वं नन्वेवमपि किं न तत् || ८-१७५ || गुणतन्मात्रभूतौघमये तत्त्वे प्रसृज्यते | उच्यते वस्तुशब्देन तन्वक्षभुवनात्मकम् || ८-१७६ || रूपमुक्तं यतस्तेन तत्समूहोऽण्ड उच्यते |
SK
वस्तुशब्देन हि तन्वादिवत् तत्त्वान्यपि उच्यन्ते, तत्तेषामपि पिण्डोऽण्डः -- इति तत्कथं स्यात्; एवं तर्हि पृथ्वीतत्त्वस्यापि एककस्याण्डत्वमनभिधानीयम्, अभिधाने वा प्रत्येकमपि तथात्वम् � इति व्यर्थमेव वस्तुपिण्डपदोपादानम् | सत्यम् किन्तु पृथ्वीतत्त्वं स्थौल्यस्य परा कोटिः, इति तत्र तत्त्वान्तराण्यपि अन्तरवस्थितानि प्रत्यक्षमभिलक्ष्यन्ते -- इत्येकत्वेऽपि अस्य अनेकतत्त्वमयत्वमिवास्ति इत्युक्तम् | यदाहुः -- ᳚ब्रह्माण्डं च पञ्चभूतात्मकम्᳚ इति | एवं तर्हि सर्वत्र सर्वमस्ति -- इति पृथ्वीतत्त्वस्यापि तत्त्वान्तरेषु सद्भावः -- इति पुनरपि तदवस्थ एव स दोषः | सत्यम्, तथापि पृथ्व्यादीनामूर्ध्वतत्त्वान्तरेषु सूक्ष्मेण रूपेणावस्थितिः, अत्र तु तेषां स्थूलेनेति शेषः | नन्वेवमपि अनेकानि वस्तूनि संभवन्ति -- इति वस्तुशब्देन सत्त्वादयः शब्दादयो वा गुणा अपि उच्यन्ते -- इति तत्पिण्डात्मनि प्रकृत्यादौ तत्त्वेऽपि अण्डत्वं स्यात्? -- इत्याशङ्कां दर्शयति -- ङन्वेवमित्यादिना᳚ | गुणेति प्रकृतिः | इदमत्र प्रतिसमाधानं यद् वस्तुशब्दस्य विशेषेण धर्मरूपे प्रतिनियते तन्वादावेव वाचकत्वमत्र विवक्षितं न तु सामान्येन -- इति तत्समुदाय एव न तु सत्त्वादिसमुदायोऽपि अण्ड उच्यते इति || १७६ || अत्र च यथासंभवमाशङ्का निराकृतैव -- इत्याह -- भवेच्च तत्समूहत्वं पत्युर्विश्ववपुर्भृतः || ८-१७७ || तदर्थं भेदकान्यन्यान्युपात्तानीति दर्शितम् | पत्युश्च तत्समूहत्वसद्भावे विश्ववपुर्धारित्वं हेतुः | ᳚भेदकानि᳚ इति, व्यावर्तकानि || १७७ || अन्ये पुनरेतदन्यथा व्याचख्युः -- इत्याह -- तावन्मात्रास्ववस्थासु मायाधीनेऽध्वमण्डले || ८-१७८ || मा भूदण्डत्वमित्याहुरन्ये भेदकयोजनम् |
SK
᳚तावन्मात्रासु᳚ इति तन्वादिषु | द्वितीयस्तु सुगमत्वात् स्वयं न व्याकृतः -- इति व्याख्यायते -- तस्य चाण्डस्य तमोलेशानुविद्धस्य यदुत्तरमुपरितनं कपालं तद्रजोऽनुविद्धं सत्त्वम्, गुणान्तरानुवेधेऽपि तत्त्वाख्यगुणशून्यं रजोऽनुविद्धम्, तमःसंभेदेऽपि तत्प्रधानमेवेत्यर्थः | मध्यं तु रजःप्रधानमित्यर्थसिद्धम् | यदाहुः -- ᳚ऊर्ध्वं सत्त्वविशालस्तमोविशालस्तु मूलतः सर्गः | मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ||᳚ (सां. ५५ का.) इति || १७८ || एवं प्रकरणादण्डस्वरूपं व्याख्याय प्रकृतमेवानुसरति -- इत्थमुक्तविरिञ्चाण्डभृतो रुद्राः शतं हि यत् || ८-१७९ || तेषां स्वे पतयो रुद्रा एकादश महार्चिषः | एकादशेति, प्रतिदिशमेकः सर्वेषां चैकः, इति | तदुक्तम् -- श्थितो वै पूर्वतोऽण्डस्य श्वेतः........|᳚ (स्व.१०|६४६) इति | ᳚आग्नेय्यामग्निसङ्काशो वैद्युतः..........|᳚ (स्व.१०|६४८) इति | ᳚याम्येऽण्डस्य महाकालः ..............|᳚ (स्व.१०|६४९) इति | ङैरृते बिकटो नाम....................|᳚ (स्व.१०|६५०) इति | ᳚पश्चिमेऽण्डस्य यो रुद्रो महावीर्य इति स्मृतः |᳚ (स्व.१०|६५१) इति | ᳚वायव्यां दिशि चाण्डस्य वायुवेगः..... |᳚ (स्व.१०|६५२) इति | शुभद्रनामोत्तरतः.........................|᳚ (स्व.१०|६५३) इति | ᳚विद्याधरो नाम रुद्र एशान्याम्.........|᳚ (स्व. १०|६५४) इति | ᳚अधः कालाग्निरुद्रोऽन्यः...............|᳚ (स्व. १०|६५६) इति | ᳚एतैः समावृतो रुद्रो....................|᳚ (स्व. १०|६५७) इति | ᳚वीरभद्रो वृतो रुद्रैरुपर्यण्डस्य संस्थितः |᳚ ᳚एकादशो महाकायैः...............|᳚ (स्व. १०|६५८) इति च | श्रीपूर्वशास्त्रे पुनरियान्विशेषो यत् तत्रैषां प्रतिदशकं तन्मध्यादेव एक एकः पतिः, इति | वीरभद्रस्तु उभयथाप्यविशिष्टः || १७९ || तदाह -- अनन्तोऽथ कपाल्यग्निर्यमनैरृतकौ बलः || ८-१८० || शीघ्रे निधीशो विद्येशः शम्भुः सवीरभद्रकः | श्रीवीरभद्रस्य सत्त्वं सर्वाधिपत्यात् | तदुक्तं तत्र -- ᳚अनन्तः प्रथमस्तेषां कपालीशस्तथा परः |
SK
अग्निरुद्रो यमश्चैव नैरृतो बल एव च || शीघ्रे निधीश्वरश्चैव सर्वविद्याधिपोऽपरः | शम्भुश्च वीरभद्रश्च विधूमज्वलनप्रभाः ||᳚ (मा. वि. ५|१४) इति || १८० || कथं चैषामत्रावस्थानम्? -- इत्याह � मधु मधुकृतः कदम्बं केसरजालानि यद्वदावृणुते || ८-१८१ || तद्वत्ते शिवरुद्रा ब्रह्माण्डमसंख्यपरिवाराः | शराष्टनियुतं कोटिरित्येषां सन्निवेशनम् || ८-१८२ || श्रीकण्ठाधिष्ठितास्ते च सृजन्ति संहरन्ति च | ईश्वरत्वं दिविषदामिति रौरववार्तिके || ८-१८३ || तदुक्तम् -- ᳚आवृत्याण्डं स्थिता ह्येते मधु यद्वन्मधुव्रताः | कदम्बकुसुमं यद्वत्केसरैः परिवारितम् ||᳚ इति | शराः᳚ पञ्च, ङियुतम्᳚ दश लक्षाणि | तेन पञ्चाशीतिः सहस्त्राणि दश लक्षाणि कोटिश्चैका तद्भुवनानां प्रत्येकं प्रमाणमिति | अत्र च किं प्रमाणम् -- इत्युक्तम् ᳚इति रौरववार्तिके᳚ इति | तदुक्तं तत्र -- ᳚पञ्चाशीतिर्योजनानां नियुतानां तथा परा | कोटिश्च तन्निवेशस्य विस्तारः परिकीर्तितः ||᳚ इति | ᳚श्रीकण्ठाधिष्ठितास्ते च देवानां मनसेप्सितम् | ऐश्वर्यं संप्रयच्छन्ति हरन्ति च महौजसः ||᳚ इति च || १८३ || अत्र चेयानन्यत्र विशेषः -- इत्याह -- सिद्धातन्त्रे तु हेमाण्डाच्छतकोटेर्बहिः शतम् | अण्डानां क्रमशो द्विद्विगुणं रूप्यादियोजितम् || ८-१८४ || तेषु क्रमेण ब्रह्माणः संस्युर्द्विगुणजीविताः | क्षीयन्ते क्रमशस्ते च तदन्ते तत्त्वमम्मयम् ++ || ८-१८५ || शतमिति, संख्योपलक्षणपरमेषामसंख्यत्वात् | यदुक्तम् -- ᳚पृथग्द्वयमसंख्यातमेकैकं च पृथग्द्वयम् |᳚ (मा.वि. २|५०) इति | ᳚द्विद्विगुणम्᳚ इति द्विशतकोटिचतुःशतकोट्यादि | ᳚रूप्यादि᳚ इत्यादिशब्दात्ताम्रदियोजितत्वम् | द्विगुणजीविता इत्याद्यब्रह्मापेक्षया | तदुक्तं तत्र -- ऊर्ध्वं कालानलं नाम ब्रह्माण्डं द्विगुणं स्थितम् | तावद्यावच्छतं पूर्णमण्डानां ब्रह्मणां तथा || वृद्धिस्तेषु स्मृता देवि द्विगुणा वीरवन्दिते | द्विगुणं च भवेदायुः प्रथमात् पद्मजन्मनः || अधुना संप्रवक्ष्यामि अण्डानां नामगोचरम् |
SK
काञ्चनं कालसंज्ञं च वेतालं च महोदरम् ||᳚ इत्यादि | ᳚गह्वरं शततमं विद्धि सर्वेषामुपरि स्थितम् | इत्यन्तम् | तथा -- ᳚प्रथमं काञ्चनं प्रोक्तं रौक्मं चैव द्वितीयकम् | ताम्रं च लोहजं चैव क्रमादेवं व्यवस्थिताः || महाकल्पे क्षयं यान्ति सदेवाः सपितामहाः | अन्तरक्षीयते ह्येकं महाकल्पशते शते || तावद्यावत्स्थितं शेषं गह्वरं तु महाण्डकम् | महाक्षये क्षयस्तस्य सामान्येनैव लुप्यते ||᳚ इति || १८५ || एवं तत्त्वान्तराणामपि उत्तरोत्तरवृद्ध्या मानं समस्ति �- इत्याह -- धरातोऽत्र जलादि स्यादुत्तरोत्तरतः क्रमात् | दशधाहङ्कृतान्तं धीस्तस्याः स्याच्छतधा ततः || ८-१८६ || सहस्रधा व्यक्तमतः पौंस्नं दशसहस्रधा | नियतिर्लक्षधा तस्मात्तस्यास्तु दशलक्षधा || ८-१८७ || कलान्तं कोटिधा तस्मान्माया विद्दशकोटिधा | ईश्वरः शतकोटिः स्यात्तस्मात्कोटिसहस्रधा || ८-१८८ || सादाख्यं व्यश्नुते तञ्च शक्तिर्वृन्देन संख्यया | व्यापिनी सर्वमध्वानं व्याप्य देवी व्यवस्थिता || ८-१८९ || अप्रमेयं ततः शुद्धं शिवतत्त्वं परं विदुः | उत्तरोत्तरत इति, यथा धरातो जलं दशगुणम्, ततोऽपि तेजो यावदन्तेऽहङ्कारः | ᳚तस्या᳚ इति अहङ्क्रियायाः | ᳚वित्᳚ इति विद्या | ᳚व्यश्नुते᳚ व्याप्नोतीत्यर्थः | सर्वमिति, शक्त्यादिधरान्तम् | तदुक्तम् -- ᳚अथोपरिष्टात्तत्त्वानि उदकादिशिवान्तकम् | उत्तरोत्तरयोगेन दशधा संस्थितानि तु || अहङ्कारस्तदूर्ध्वं तु बुद्धिस्तु शतधा स्थिता | ऊर्ध्वं सहस्रधा ज्ञेयं प्रधानं वरवर्णिनि || पौरुषं दशसाहस्रं नियतिर्लक्षधा स्मृता | तदूर्ध्वं दश लक्षाणि कला यावत्तु सुव्रते || माया तु कोटिधा व्याप्य स्थिता सर्वं चराचरम् | दशकोटिगुणा विद्या मायां व्याप्य व्यवस्थिता || शतकोटिगुणेनैव व्याप्तासावीश्वरेण तु | सादाख्यं कोटिसाहस्रं बिन्दुनादं तदूर्ध्वतः || योजनानां तु वृन्दं वै शक्तिर्व्याप्य व्यवस्थिता | व्यापिनी सर्वमध्वानं व्याप्य देवी व्यवस्थिता ||
SK
अप्रमेयं ततो ज्ञेयं शिवतत्त्वं वरानने |᳚ (स्व. १|६७३) इति || १८९ || एतच्चान्यत्र न क्वचिदपि दृष्टम् -- इत्यतः परं मोक्षस्य न कारणम् - - इत्याह � जलादेः शिवतत्त्वान्तं न दृष्टं केनचिच्छिवात् || ८-१९० || ऋते ततः शिवज्ञानं परमं मोक्षकारणम् | किमत्र प्रमाणम् ? �- इत्याशङ्क्याह -- तथा चाह महादेवः श्रीमत्स्वच्छन्दशासने || ८-१९१ || तदेव अर्थद्वारेण पठति -- नान्यथा मोक्षमायाति पशुर्ज्ञानशतैरपि | शिवज्ञानं न भवति दीक्षामप्राप्य शाङ्करीम् || ८-१९२ || प्राक्तनी पारमेशी सा पौरुषेयी च सा पुनः | दीक्षामप्राप्येति, यदुक्तम् -- ङ चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे |᳚ (मा.वि. ४|६) इति | प्राक्तनीति, तत्तज्जन्मान्तरीयाभ्यासबलाद् अनुपायरूपतामाप्तेत्यर्थः | ᳚पारमेशी᳚ इति विद्येश्वरादिवत् साक्षात्परमेश्वरकर्तृका | ᳚पौरुषेयी᳚ इति शास्त्रक्रमेणाचार्यकर्तृका | तदुक्तं तत्र � ᳚यत्र दृष्टं पशुज्ञानैः कुपथभ्रन्तदृष्टिभिः |᳚ (स्व. १०|६७४) इत्याद्युपक्रम्य ᳚विना प्रसादादीशस्य ज्ञानमेतन्न लभ्यते | न चापि भावो भवति दीक्षामप्राप्य देहिनाम् || यदा तु कारणाच्छक्तिर्भवेन्निर्वाणकारिका | शिवेच्छया प्रपद्येत दीक्षां ज्ञानमयीं शुभाम् || मन्त्रयोगात्मिकां दिव्यां ततो मोक्षं व्रजेत्पशुः | नान्यथा मोक्षमाप्रोति पशुर्ज्ञानशतैरपि || यस्य प्रकाशितं सर्वं शिवेनानन्तरूपिणा | स एव मोक्षं व्रजति शिवः साक्षान्महेश्वरः || तेनेदं ज्ञानमुख्यं तु पुरा प्रोक्तं मया तव |᳚ (स्व. १०|७०६) इति || १९२ || इदानीमप्तत्त्वे भुवनानि वक्तुमुपक्रमते -- शतरुद्रोर्ध्वतो भद्रकाल्या नीलप्रभं जयम् || ८-१९३ || न यज्ञदानतपसा प्राप्यं काल्याः पुरं जयम् | तद्भक्तास्तत्र गच्छन्ति तन्मण्डलसुदीक्षिताः || ८-१९४ || ङील᳚ इति इन्द्रनीलम् | तन्मण्डलसुदीक्षिता इति, ᳚अतो भुवनभर्तरि᳚ इत्याद्युक्त्या तद्भुवनं प्राप्तुम् -- इत्यर्थः || १९४ || ननु किं तत्प्राप्त्या? -- इत्याशङ्क्याह -- निर्बीजदीक्षया मोक्षं ददाति परमेश्वरी |
SK
नन्वप्तत्त्वावस्थितैतद्भुवनमात्रप्राप्त्या कथमेवम्? -- इत्याशङ्क्याह -- विद्येशावरणे दीक्षां यावतीं कुरुते नृणाम् || ८-१९५ || तावतीं गतिमायान्ति भुवनेऽत्र निवेशिताः | इयं हि भगवती शा देवी सर्वदेवीनां नामरूपैश्च तिष्ठति | योगमायाप्रतिच्छन्ना कुमारी लोकभावनी || अचिन्त्या चाप्रमेया च...................... |᳚ (स्व. १०|७२७) इत्युक्त्या सर्वोत्कृष्टा, येनैवमत्र माहात्म्यमुक्तम् || १९५ || ततः कोट्या वीरभद्रो युगान्ताग्निसमप्रभः || ८-१९६ || विजयाख्यं पुरं चास्य ये स्मरन्तो महेश्वरम् | जलेषु मरुषु चाग्नौ शिरश्छेदेन वा मृताः || ८-१९७ || ते यान्ति बोधमैशानं वीरभद्रं महाद्युतिम् | वैरभद्रोर्ध्वतः कोटिर्विष्कम्भाद्विस्तृतं त्रिधा || ८-१९८ || रुद्राण्डं सालिलं त्वण्डं शक्रचापाकृति स्थितम् | ᳚मरुषु᳚ इति महापथे महेश्वरं स्मरन्तो मृताः -- इति सर्वत्र संबन्धः | अन्यथा हि वैद्युतं यान्ति, -- इति पूर्वमुक्तम् | ᳚एश्वरं बोधम्᳚ रौद्रं तेजः, स हि रुद्रक्रोधादुद्भूतः -- इति भावः | ᳚वैरभद्रोर्ध्वतः᳚ इति वीरभद्रसंबन्धिनो विजयाख्यात्पुरादूर्ध्वम् - - इत्यर्थः | शालिलमण्डम्᳚ अम्मयमावरणम्, तत्प्रधानं भुवनमिति यावत् | अत एवाप्तत्त्वीयानां समस्तानां भुवनानामूर्ध्वं तेजस्तत्त्वस्य चाधःस्थितं तञ्चाण्डं ᳚रुद्राण्डम्᳚ तच्छब्दव्यपदेश्यम् | अत्रापि च वीरभद्राख्य एवासौ भगवान्महात्मा रुद्रः सूक्ष्मरूपेणास्ते -- इत्यभिप्रायः | तच्च विष्कम्भात्कोटिः, ऊर्ध्वमेतन्मानम् -- इत्यर्थः | विस्तृतं त्रिधेति, तिर्यक्कोटित्रयपरीमाणमित्यर्थः | एतच्च निखिलाप्तत्त्वापेक्षया न व्याख्येयम्, तन्मानस्य धरापेक्षया दशगुणत्वेन प्रागेवोक्तत्वात् | यदुक्तम् -- ᳚भुवनस्यास्य देवेशि ह्युपर्यावरणं महत् | अम्मयं तु घनं चाति शक्रचापाकृति स्थितम् || वितानमिव तद्भद्रमन्तरे समवस्थितम् | तत्र चास्ते महात्मासावङ्गुष्ठाग्रप्रमाणकः | तत्र योजनकोटिर्वै विष्कम्भादूर्ध्वमुच्यते | तिर्यक्त्रिगुणविस्तारमाप्यमावरणं प्रिये ||᳚ (स्व. १०|७५८)
SK
इति | ᳚रुद्राण्ड इति विख्यातं रुद्रलोक इति प्रिये |᳚ (स्व. १०|७५९) इति च | एवमिति सिद्धम् -- यदप्तत्त्वस्यारम्भ एव भद्रकाल्या भुवनम्, अत एव तत्र ᳚शतरुद्रोर्ध्वतः᳚ इत्युक्तम्, प्रान्ते तु वीरभद्रस्य स्थूलसूक्ष्मतया पुरद्वयमिति || १९८ || तन्मध्ये तु भुवनान्तराणि किं स्थितानि न वा ? -- इत्याशङ्क्याह -- आ वीरभद्रभुवनाद्भद्रकाल्यालयात्तथा || ८-१९९ || त्रयोदशभिरन्यैश्च भुवनैरूपशोभितम् | आङ्शब्दो मर्यादायाम्, तेन भद्रकाल्यालयादारभ्य वीरभद्रभुवनं यावत् अर्थात् भद्रकाल्यालयेन सह त्रयोदश भुवनान्यवस्थितानि -- इत्यर्थः | उपशोभितमिति, अर्थादप्तत्त्वम्, एवं-पाठ एव च आगम इति उद्द्योतकारव्याख्यया न भ्रमितव्यम् || १९९ || तान्येवाह � ततो भुवः सहाद्रेः पूर्गन्धतन्मात्रधारणात् || ८-२०० || मृता गच्छन्ति तां भूमिं धरित्र्याः परमां बुधाः | अब्धेः पुरं ततस्त्वाप्यं रसतन्मात्रधारणात् || ८-२०१ || ततः श्रियः पुरं रुद्रक्रीडावतरणेष्वथ | प्रयागादौ श्रीगिरौ च विशेषान्मरणेन तत् || ८-२०२ || सारस्वतं पुरं तस्माच्छब्दब्रह्मविदां पदम् | रुद्रोचितास्ता मुख्यत्वाद्रुद्रेभ्योऽन्यास्तथा स्थिताः || ८-२०३ || पुरेषु बहुधा गङ्गा देवादौ श्रीः सरस्वती | लकुलाद्यमरेशान्ता अष्टावप्सु सुराधिपाः || ८-२०४ || शहाद्रेः᳚ इति मेर्वादिप्रागुक्तपर्वतयुक्तायाः -- इत्यर्थः | ᳚रसतन्मात्रधारणात्᳚ इति रसतन्मात्रधारणयेत्यर्थः | मृता गच्छन्ति -- इति प्राच्येन संबन्धः | रुद्रस्य क्रीडयावतरणेषु न तु अनुजिघृक्षया, तत्र हि नैतावन्मात्रप्राप्तिर्भवेत् -- इति भावः | एतच्चाग्रत एव व्यक्तीभविष्यति -- इति नेहायस्तम् | ᳚तत्᳚ श्रियः पुरम्, गच्छन्तीति प्राच्येन संबन्धः | ᳚शब्दब्रह्मविदाम्᳚ इति गीतज्ञानां वाक्तत्त्वधारणानिष्ठानां च | तदुक्तम् -- ᳚हाहा हूहूश्चित्ररथस्तुम्बुरुर्नारदस्तथा | विश्वावसुर्विश्वरथो दिव्यगीतविचक्षणाः || संयोज्य मनसात्मानं त्यक्त्वा कर्मफलस्पृहाम् |
SK
ते वै सारस्वतं स्थानं प्राप्ता वै सुरपूजिते || ये च वाग्धारणां ध्यात्वा प्राणान्मुञ्चन्ति देहिनः | ते वै सारस्वतं लोकं प्राप्नुवन्ति नरोत्तमाः ||᳚ (स्व. १०|८४३) इति | ᳚अप्सु᳚ इत्यनेन तत्त्वयोजनाख्यमपि प्रमेयमुट्टङ्कितम्, एवमुत्तरत्रापि ज्ञेयम् | अष्टावित्यनेन भद्रकाल्या भुवोऽब्धेः श्रियः सरस्वत्याश्च भुवनानां पञ्चकेन सह त्रयोदश भवन्ति इति प्रागुपक्रान्तायाः संख्याया अपि सङ्कलनं स्मारितम् | तदुक्तम् -- ᳚लकुली भारभूतिश्च दिण्ड्याषाढी च पुष्करः | नैमिषश्च प्रभासश्च अमरेशस्तथाष्टमः || एतत्पत्यष्टकं प्रोक्तम्........................... |᳚ (मा. वि. ५|१७) इति | श्रीस्वच्छन्दशास्त्रे पुनरेषाम् ᳚अमरेशं प्रभासं च नैमिषं पुष्करं तथा | आषाढिं दिण्डिमुण्डं च भारभूतिं च लाकुलम् || गुह्याष्टकमिति ख्यातं जलावरणगं प्रिये |᳚ (स्व. १०|८५४) इत्यादिनाऽन्यथा पाठः | इह श्रीस्वच्छन्दशास्त्रानुसारं प्रक्रमेऽपि सर्वत्र पूर्वशास्त्रप्रक्रिययैषां पाठेऽयमाशयो यदेतदेव भुवनेशाष्टकमप्तत्त्वे सर्वागमेषु प्रधानतयोक्तमित्यत एव प्रतिष्ठायामेतदाद्यष्टकसप्तकस्वीकारेणैव सर्वत्र भुवनानां सङ्कलनम् || २०४ || ततस्तु तैजसं तत्त्वं शिवाग्नेरत्र संस्थितिः | ते चैनं वह्निमायान्ति वाह्नीं ये धारणां श्रिताः || ८-२०५ || भैरवादिहरीन्द्वन्तं तैजसे नायकाष्टकम् | प्राणस्य भुवनं वायोर्दशधा दशधा तु तत् || ८-२०६ || ध्यात्वा त्यक्त्वाऽथ वा प्राणान् कृत्वा तत्रैव धारणाम् | तं विशन्ति महात्मानो वायुभूताः खमूर्तयः || ८-२०७ || भीमादिगयपर्यन्तमष्टकं वायुतत्त्वगम् | खतत्त्वे भुवनं व्योम्नः प्राप्यं तद्व्योमधारणात् || ८-२०८ || वस्त्रापदान्तं स्थाण्वादि व्योमतत्त्वे सुराष्टकम् | ᳚ततः᳚ इत्यप्तत्त्वात् | तदुक्तम् -- ᳚तत्र भैरवकेदारमहाकालाः समध्यमाः | आम्रतकेशजल्पेशश्रीशैलाः सहरीन्दवः ||᳚ (मा. वि. ५|१८) इति | श्रीस्वच्छन्दे तु -- ᳚हरिश्चन्द्रं च श्रीशैलं जल्पमाम्रतकेश्वरम् |
SK
महाकालं मध्यमं च केदारं भैरवं तथा || अतिगुह्यं समाख्यातम्....................... | (स्व. १०|८७३) इति | ᳚वायौ᳚ इति वायुतत्त्वे | दशधेति, प्राणादिनागादिभेदात् | ध्यानाद्यप्येवमिति पुनर्दशधेति | भीमादीति, तदुक्तम् -- ᳚भीमेश्वरमहेन्द्राट्टहासाः सविमलेश्वराः | कनखलं नाखलं च कुरुक्षेत्रं गया तथा ||᳚ (मा. वि. ५|१९) इति | श्रीस्वच्छन्दे तु -- ᳚गयां चैव कुरुक्षेत्रं नाखलं कनखलं तथा | विमलं चाट्टहासं च माहेन्द्रं भीममष्टमम् || गुह्याद्गुह्यतरं ह्येतत् ..................... |᳚ (स्व. १०|८८४) इति | ᳚व्योम्नः᳚ इत्याकाशस्य | तदुक्तम् -- श्थाणुस्वर्णाक्षकावाद्यौ रुद्रगोकर्णकौ परौ | महालयाविमुक्तेशरुद्रकोट्यम्बरापदाः ||᳚ (मा. वि. ५|२०) इति | श्रीस्वच्छन्दे तु -- ᳚वस्त्रापदं रुद्रकोटिमविमुक्तं महालयम् | गोकर्णं भद्रकर्णं च स्वर्णाक्षं स्थाणुमष्टमम् || पवित्राष्टकमेतत्................................. | (स्व. १०|८८७) इति || २०८ || ननु ङ चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे |᳚ (मा. वि. ४|६) इत्याद्युक्तयुक्त्या दीक्षामन्तरेणाधिकार एव शाङ्करे योगे नास्ति -- इति का कथा तदभ्यासादेर्वृत्तायां च दीक्षायां निर्व्यूढे च योगाभ्यासे जीवत एव मुक्तिर्भवेत् -- इति कस्तत्र शरीरान्ते सन्देहः | गन्धतन्मात्रधारणाद्यभ्यस्यन्तो योगिनः शरीरान्ते धरादिभुवनान्यासादयन्ति -- इति कथमुक्तम् ? -- इत्याशङ्क्याह -- अदीक्षिता ये भूतेषु शिवतत्त्वाभिमानिनः || ८-२०९ || ज्ञानहीना अपि प्रौढधारणास्तेऽण्डतो बहिः | धराब्धितेजोऽनिलखपुरगा दीक्षिताश्च वा || ८-२१० || तावत्संस्कारयोगार्थं न परं पदमीहितुम् | तथाविधावतारेषु मृताश्चायतनेषु ये || ८-२११ || तत्पदं ते समासाद्य क्रमाद्यान्ति शिवात्मताम् | भूतेष्विति, पृथिव्या एव प्राधान्याद् बहुवचनेन निर्देशः | यद्वा तन्मध्यात् ᳚प्रौढधारणा᳚ इति पातञ्जलादिपाशवयोगाभ्यासात् | दीक्षिता इति, ᳚यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः |
SK
सिद्धिभाक्.................................... ||᳚ इत्याद्युक्तयुक्त्या धरादिपदाप्तये एव कृतलोकधर्मिसाधकदीक्षाः -- इत्यर्थः | तदाह -- ᳚तावत्संस्कारेत्यादि᳚ | तथाविधावतारेष्विति, भूमण्डलगतेष्वमरेशाद्यायतनेषु || २११ || किमत्र प्रमाणम् ? -- इत्याशङ्क्याह -- पुनः पुनरिदं चोक्तं श्रीमद्देव्याख्ययामले || ८-२१२ || पुनः पुनरिति, प्रत्यष्टकम् | तदुक्तं तत्र -- ᳚ये मृता जन्तवस्तत्र ते व्रजन्तीह तत्पदम् |᳚ इति | ᳚एतेष्वपि मृताः सम्यग्घित्वा लोकानशेषतः | दीप्यमानास्तु गच्छन्ति स्थानेष्वेतेषु ते प्रिये ||᳚ इति || २१२ || न केवलमेतदत्रैवोक्तं यावदन्यत्रापि -- इत्याह -- श्रीकामिकायां कश्मीरवर्णने चोक्तवान्विभुः | तद्ग्रन्थमेव पठति -- सुरेश्वरीमहाधाम्नि ये मिर्यन्ते च तत्पुरे || ८-२१३ || ब्रह्मणाद्याः सङ्करान्ताः पशवः स्थावरान्तगाः | रुद्रजातय एवैते इत्याह भगवाञ्छिवः || ८-२१४ || आकाशावरणादूर्ध्वमहङ्कारादधः प्रिये | तन्मात्रादिमनोऽन्तानां पुराणि शिवशासने || ८-२१५ || शिवशासने इति, उक्तानीति शेषः | तदुक्तम् -- आकाशावरणादूर्ध्वमहङ्कारादधः प्रिये | भुवनानि प्रवक्ष्यामि........................ ||᳚ (स्व. १०|८९५) इति || २१५ || तान्येवाह � पञ्चवर्णयुतं गन्धतन्मात्रमण्डलं महत् | आच्छाद्य योजनानेककोटिभिः स्थितमन्तरा || ८-२१६ || एवं रसादिमात्राणां मण्डलानि स्ववर्णतः | शर्वो भवः पशुपतिरीशो भीम इति क्रमात् || ८-२१७ || तन्मात्रेशा यदिच्छातः शब्दाद्याः खादिकारिणः | ततः सूर्येन्दुवेदानां मण्डलानि विभुर्महान् || ८-२१८ || उग्रश्चेत्येषु पतयस्तेभ्योऽर्केन्दू सयाजकौ | इत्यष्टौ तनवः शंभोर्याः पराः परिकीर्तिताः || ८-२१९ || अपरा ब्रह्मणोऽण्डे ता व्याप्य सर्वं व्यवस्थिताः | कल्पे कल्पे प्रसूयन्ते धराद्यास्ताभ्य एव तु || ८-२२० || ततो वागादिकर्माक्षयुक्तं करणमण्डलम् | अग्नीन्द्रविष्णुमित्राः सब्रह्माणस्तेषु नायकाः || ८-२२१ || प्रकाशमण्डलं तस्माच्छ्रुतं बुद्ध्यक्षपञ्चकम् |
SK
दिग्विद्युदर्कवरुणभुवः श्रोत्रादिदेवताः || ८-२२२ || प्रकाशमण्डलादूर्ध्वं स्थितं पञ्चार्थमण्डलम् | मनोमण्डलमेतस्मात् सोमेनाधिष्ठितं यतः || ८-२२३ || बाह्यदेवेष्वधिष्ठाता साम्यैश्वर्यसुखात्मकः | मनोदेवस्ततो दिव्यः सोमो विभुरुदीरितः || ८-२२४ || पञ्चवर्णयुतमिति, तदुक्तम् -- ᳚शुक्लपीतसितरक्तहरितं स्फटिकप्रभम् | पञ्चवर्णसमायुक्तशक्रचापसमप्रभम् ||᳚ (स्व. १०|८९७) इति | ᳚अन्तराच्छाद्य᳚ इति वितानवदाकाशादिसर्वमन्तर्गर्भीकृत्य -- इत्यर्थः| तदुक्तम् -- ᳚आदौ तु गन्धतन्मात्रं विस्तीर्णं मण्डलं महत् | स्थितं वितानवद् देवि योजनानेककोटयः ||᳚ (स्व. १०|८९६) इति | ᳚शर्वो ह्यधिपतिस्तत्र एक एव वरानने | तस्मात्तु जायते पृथ्वी शर्वेशेन प्रचोदिता ||᳚ (स्व. १०|८९८) इति | यदिच्छात इति, अन्यथा कथमेषां जडानां कारणता भवेत् -- इति भावः | एवमिति, गन्धतन्मात्रमण्डलवत् -- इति भावः | तदुक्तम् - - ᳚तस्मात्तु मण्डलादूर्ध्वं रसतन्मात्रमण्डलम् | हरितं मरकतश्यामं चाषपक्षनिभं प्रिये || भवो ह्यधिपतिस्तत्र एक एव वरानने | तस्मादापो विनिष्क्रान्ता भवेशेन प्रचोदिताः || तस्मात्तु मण्डलादूर्ध्वं रूपतन्मात्रमण्डलम् | स्फुरत्सूर्यांशुदीप्ताभं पद्मरागसमप्रभम् || रुद्रः पशुपतिस्तत्र एक एवावतिष्ठते | तस्मात्तेजो विनिष्क्रान्तं तद्वै पशुपतीच्छया ||᳚ (स्व. १०|९०२) इति | तस्मात्तु मण्डलादूर्ध्वं स्पर्शतन्मात्रमण्डलम् | सन्ध्यारुणसमच्छायं............................ || (स्व. १०|९०४) इति | ᳚तत्रैव मण्डले देवि ईशानः संव्यवस्थितः | तस्माद्वायुर्विनिष्क्रान्त ईशेच्छापेर्रितः प्रिये || (स्व. १०|९०५) इति | ᳚तस्मात्तु मण्डलादूर्ध्वं शब्दतन्मात्रमण्डलम् | नीलोत्पलदलश्यामं स्वच्छोदकसमप्रभम् ||᳚ (स्व. १०|९०७) इति | ᳚भीमस्तत्राधिपत्येन एक एवावतिष्ठते | तस्मान्नभो विनिष्क्रान्तं भीमेच्छाचोदितं महत् || (स्व. १०|९०९)
SK
इति | ᳚ततः᳚ इति तत्तन्मात्रमण्डलमाश्रित्येत्यर्थः | तेन च शब्दतन्मात्रस्योपरितने भागे मण्डलत्रयमेतद्वर्तते, इति | ᳚विभुः᳚ इति रुद्रः | ᳚महान्᳚ इति महादेवः | ᳚तेभ्य᳚ इति निजनिजरुद्राधिपतिचोदितेभ्यः सूर्यादिमण्डलेभ्यः | यदुक्तम् -- ᳚तत् ऊर्ध्वं सूर्यसंज्ञं यत्र रुद्रो विभुः स्थितः | तत ऊर्ध्वं सोमसंज्ञं महादेवश्च तत्पतिः || उग्रेशाधिष्ठितं तस्मादूर्ध्वं वै वेदमण्डलम् | एभ्यः सूर्यस्तथा सोमो यजमानो विनिर्गताः || कल्पे कल्पे ह्यसंख्याताः......................... | इति | ᳚परा᳚ इति तन्मात्रादीनां सूक्ष्मरूपत्वात् | ᳚ताभ्यः᳚ इति पराभ्यस्तनुभ्यः | ᳚तत᳚ इति तन्मात्रेभ्योऽनन्तरं ᳚करणमण्डलम्᳚ इति, तत्तच्छब्दोदीरणादिव्यापारात्मकत्वात् करणप्रधानं पञ्चानां तत्त्वानां मण्डलं समूह -- इत्यर्थः | तच्च वागादिभिः कर्मेन्द्रियैः सम्बद्धं न तु बुद्धीन्द्रियैरित्युक्तं -- ᳚वागादिकर्माक्षयुक्तम्᳚ इति | तदुक्तम् -- ᳚एभ्यः परतरं चापि मण्डलं करणात्मकम् |᳚ (स्व. १०|९१९) इत्युपक्रम्य ᳚कर्मदेवाः प्रवर्तन्ते तस्माद्वै सर्वदेहिनाम् | वाक्पाणिपादपायुश्च उपस्थश्चेति पञ्चमः ||᳚ (स्व. १०|९२१) इति | ᳚तेषु᳚ इति वागादिषु पञ्चसु तत्त्वेषु | तेन वाक्तत्त्वे वह्निर्नायको यावदुपस्थतत्त्वे ब्रह्मा | तदुक्तम् -- ᳚कर्मेन्द्रियाणां पतयो वह्नीन्द्रहरिवेधसः | मित्रश्च...................................... ||᳚ इति | तस्मात्करणमण्डलादूर्ध्वं तत्तच्छब्दाद्यर्थप्रकाशत्वात् प्रकाशप्रधानं तत्त्वानां मण्डलं बुद्ध्यक्षपञ्चकं ᳚श्रुतम्᳚ तत्त्वेन विख्यातम् -- इत्यर्थः | तदुक्तम् -- ᳚तेभ्यः प्रकाशकं नाम परितः सूर्यसन्निभम् | तस्माद्वै संप्रवर्तन्ते पञ्च बुद्धीन्द्रियाणि तु || श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका च यथाक्रमम् |᳚ (स्व. १०|९२३) इति | श्रोत्रादीति, तेन श्रोत्रे दिशां देवतात्वं यावद्घ्रणे पृथिव्या इति | तदुक्तम् -- ᳚घ्रणादिश्रोत्रपर्यन्ता पृथिवी च अपां पतिः | रविर्विद्युद्दिशो ह्येवं स्थिता बुद्धीन्द्रियेषु ते ||᳚
SK
इति | प्रकाशमण्डलादूर्ध्वमिति, मनस्तत्त्वे तत्रैव पञ्चानामपि शब्दादीनामर्थानामवस्थानमुचितम्, यत्तद्विषयत्वेनैव मनस्तानि तानीन्द्रियाणि प्रवर्तयतीति | तदत्रैषां परेण रूपेणैतद्भुवनमिति भावः | यदुक्तम् -- ᳚एभ्यः परतरं चास्ति चन्द्रमण्डलसन्निभम् | विस्तारात्परिणाहाच्च सर्वतो रश्मिमण्डलम् | तस्माद्वै संप्रवर्तन्ते पञ्चार्थाः सर्वदेहिनाम् ||᳚ (स्व. १०|९२५) इति | मनोमण्डलमिति, मनसः प्रधानं भुवनमित्यर्थः | एतस्मादिति प्रकाशमण्डलादप्यूर्ध्वम् | अत्र च सोमस्याधिष्ठातृत्वे किं निमित्तम्? -- इत्याशङ्क्याह -- ᳚यतः᳚ इत्यादि | यतः साम्येनाविशेषेण सर्वेन्द्रियाणां तत्तद्विषयौन्मुख्येन प्रवर्तकत्वात्मकं यत् ᳚एश्वर्यसुखम्᳚ स्वातन्त्र्यचमत्कारस्तदात्मकः संस्तत्तत्सङ्कल्पात्मव्यवहाररूपत्वात् मन एव देवो ᳚बाह्यदेवेषु᳚ बहीरूपतया द्योतमानेषु बुद्धीन्द्रियादिष्वधिष्ठाता, ततोऽस्य ᳚दिव्यः᳚ सर्वदेवानामाप्यायकारितया दिवे हितः सोमो विभुरुक्तः -- इत्यर्थः || २२४ || ततोऽपि सकलाक्षाणां योनेर्बुद्ध्यक्षजन्मनः | स्थूलादिच्छगलान्ताष्टयुक्तं चाहङ्कृतेः पुरम् || ८-२२५ || बुद्धितत्त्वं ततो देवयोन्यष्टकपुराधिपम् | पैशाचप्रभृतिब्रह्मपर्यन्तं तच्च कीर्तितम् || ८-२२६ || एतानि देवयोनीनां स्थानान्येव पुराण्यतः | अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति ते || ८-२२७ || उक्तम् -- ᳚ततोऽपि᳚ इति मनसोऽप्यनन्तरम् | ᳚अहङ्कृतेः᳚ इति अहङ्कारस्य | ननु किमिति नामास्य मनस ऊर्ध्वं बुद्धेश्चाधोऽवस्थानम्? -- इत्याशङ्क्योक्तम् शकलाक्षाणां योनेर्बुद्ध्यक्षजन्मनः᳚ इति | श्थूल᳚ इति स्थूलेश्वरः | ᳚छगल᳚ इति छगलाण्डः | तदुक्तम् - - श्थूलस्थलेश्वरौ शंकुकर्णकालञ्जरावपि | मण्डलेश्वरमाकोटदुरण्डच्छगलाण्डकाः ||᳚ (मा. वि. ५|२१) इति | श्रीस्वच्छन्दे च -- ᳚छगलाण्डं दुरण्डं च माकोटं मण्डलेश्वरम् | कालञ्जरं शंकुकर्णं स्थूलेश्वरस्थलेश्वरौ || स्थाण्वष्टकं समाख्यातं..................... |᳚ (स्व. १०|८८९)
SK
इति | देवयोन्यष्टकमेव ᳚पुराधिपम्᳚ भुवनेश्वरं यत्र तत्तथा | ᳚तत्᳚ इति देवयोन्यष्टकम् | तदुक्तम् � ᳚पैशाचं राक्षसं याक्षं गान्धर्वं त्वैन्द्रमेव च | सौम्यं तथा च प्राजेशं ब्रह्ममष्टममुच्यते ||᳚ (मा. वि. ५|२३) इति | एतान्येव बुद्धिगतानि ककुभादीनि पुराणि आसां देवयोनीनां श्थानानि᳚ मुख्यानि अवस्थितेर्धामानि -- इत्यर्थः | अधः पञ्चाष्टकादिरूपतयाऽवस्थितानां पुनरासाममुख्यानि भुवनानीति भावः | ᳚अवतीर्य᳚ इत्यर्थादधो ब्रह्माण्डादौ, शंभवन्ति᳚ इति पुनः-पुनः सृष्टिमासादयन्ति -- इत्यर्थः || २२७ || अत्रैव निमित्तमाह � परमेशनियोगाच्च चोद्यमानाश्च मायया | नियामिता नियत्या च ब्रह्मणोऽव्यक्तजन्मनः || ८-२२८ || व्यज्यन्ते तेन सर्गादौ नामरूपैरनेकधा | ब्रह्मणः सर्गादौ ᳚व्यज्यन्ते᳚ तथा तथा स्थूलेन रूपेण व्यक्तीभवन्ति -- इत्यर्थः | अनेकधेति, तारतम्यादिभेदात् || २२८ || न चैवमपि आसां बुद्धाववस्थितेभ्यो भुवनेभ्यः प्रच्यावः -- इत्याह -- स्वांशेनैव महात्मानो न त्यजन्ति स्वकेतनम् || ८-२२९ || एतच्च बृहस्पतिपादैरेव स्वग्रन्थे व्याकृतम् -- इत्याह -- उक्तं च शिवतनाविदमधिकारपदस्थितेन गुरुणा नः | अष्टानां देवानां शक्त्याविर्भावयोनयो ह्येताः || ८-२३० || ᳚देवानां᳚ पिशाचादीनाम् ᳚आविर्भावोः᳚ व्यक्तिस्तेन शक्तिव्यक्तिरूपाद् विविधा योनयः -- इत्यर्थः | तत्र बुद्धौ शक्त्यात्मना आसामवस्थितिरधस्तु व्यक्त्यात्मनेति || ८-२३० || तदाह � तनुभोगाः पुनरेषामधः प्रभूतात्मकाः प्रोक्ताः | ᳚प्रभूतात्मकाः᳚ स्थूलरूपाः || तदेव दर्शयति � चत्वारिंशत्तुल्योपभोगदेशाधिकानि भुवनानि || ८-२३१ || चत्वारिंशदिति, लकुल्यादिभेदात् || २३१ || ननु यद्येषां तुल्योपभोगादित्वमस्ति तत्कथं गुह्याष्टकाद्यष्टकपञ्चकतया भेदः? -- इत्याशङ्क्याह -- साधनभेदात्केवलमष्टकपञ्चकतयोक्तानि | साधनभेदमेवाह � एतानि भक्तियोगप्राणत्यागादिगम्यानि || ८-२३२ || तेषूमापतिरेव प्रभुः स्वतन्त्रेन्द्रियो विकरणात्मा |
SK
तरतमयोगेन ततोऽपि देवयोन्यष्टकं लक्ष्यं तु || ८-२३३ || प्राणत्याग एतत्क्षेत्रादौ, आदिशब्दाल्लोकधर्मिसाधकदीक्षादि | एषां चैवं व्यक्तीभावः किं स्वयमुत कस्यापि अधिष्ठानेन? -- इत्याशङ्क्याह -- ᳚तेष्वित्यादि᳚ पिशाचादिषु | स्वतन्त्रेन्द्रियत्वादेव ᳚विकरणात्मा᳚ स्वेच्छाधीनेन्द्रियवृत्तिः -- इत्यर्थः | यदुक्तं तत्रैव -- ᳚इच्छाधीनानि पुनर्विकरणसंज्ञानि |᳚ इति | नन्वासामविशेषेणैव किं सर्वत्रावस्थानं न वा ? -- इत्याशङ्क्याह -- ᳚तरतमेत्यादि᳚ | ᳚ततः᳚ इति बुद्धेः | अपिर्भिन्नक्रमः, तेन अष्टावपीति योज्यम् || २३३ || न केवलमासामेव तरतमभावो यावदक्षाणामपि -- इत्याह -- लोकानामक्षाणि च विषयपरिच्छित्तिकरणानि | पिशाचादयो हि व्यवहितमपि चक्षुषा पश्यन्ति -- इत्याशयः || न केवलमासां प्रतितत्त्वमेव तरतमभावो यावदन्योन्यमपि -- इत्याह -- गन्धादेर्महदन्तादेकाधिक्येन जातमैश्वर्यम् || ८-२३४ || अणिमाद्यात्मकमस्मिन्पैशाचाद्ये विरिञ्चान्ते | गन्धशब्देनात्र पृथ्व्या अभिधानम्, कार्यकारणयोरभेदोपचारात् | एकाधिक्येन इति, तत्पैशाचे यादृशमैश्वर्यं ततोऽपि द्विगुणं राक्षसे, यावद् ब्रह्मेऽष्टगुणम् -- इत्यर्थः || २३४ || अत एव च दीक्षायामेतच्छुद्धौ यतितव्यम् -- इत्याह -- ज्ञात्वैवं शोधयेद् बुद्धिं सार्धं पुर्यष्टकेन्द्रियैः || ८-२३५ || एवमिति, बुद्धेरेवेदं निखिलं जगद्विजृम्भितम् -- इत्यत एवोक्तं ᳚पुर्यष्टकेन्द्रियैः सार्धम्᳚ इति || २३५ || न केवलमत्र देवयोन्यष्टकमेवास्ति यावदन्यदपि -- इत्याह -- क्रोधेशाष्टकमानीलं संवर्ताद्यं ततो विदुः | तेजोष्टकं बलाध्यक्षप्रभृतिक्रोधनाष्टकात् || ८-२३६ || अकृतादि ततो बुद्धौ योगाष्टकमुदाहृतम् | स्वच्छन्दशासने तत्तु मूले श्रीपूर्वशासने || ८-२३७ || योगाष्टकपदे यत्तु सोमे श्रैकण्ठमेव च | ततो मायापुरं भूयः श्रीकण्ठस्य च कथ्यते || ८-२३८ || तेन द्वितीयं भुवनं तयोः प्रत्येकमुच्यते | तत्र मायापुरं देव्या यया विश्वमधिष्ठितम् || ८-२३९ ||
SK
प्रतिकल्पं नामभेदैर्भण्यते सा महेश्वरी | उमापते पुरं पश्चान्मातृभिः परिवारितम् || ८-२४० || श्रीकण्ठ एव परया मूर्त्योमापतिरुच्यते | ᳚आनीलम्᳚ इति नीलोत्पलाभम् | तदुक्तम् -- शंवर्तस्त्वेकवीरश्च कृतान्तो जननाशनः | मृत्युहर्ता च रक्ताक्षो महाक्रोधश्च दुर्जयः || नीलोत्पलदलाभानि तेषां वै भुवनानि तु |᳚ (स्व. १०|९७६) इति | क्रोधनाष्टकादिति, तदूर्ध्वम् -- इत्यर्थः | तदुक्तम् -- ᳚क्रोधेश्वराष्टकादूर्ध्वं स्थितं तेजोऽष्टकं महत् | बलाध्यक्षो गणाध्यक्षस्त्रिदशस्त्रिपुरान्तकः || सर्वरूपश्च शान्तश्च निमेषोन्मेष एव च |᳚ (स्व. १०|९७८) इति | ᳚ततः᳚ इति तेजोष्टकादनन्तरम् | तदुक्तम् -- ᳚अकृतं च कृतं चैव वैभवं ब्रह्ममेव च | वैष्णवं त्वथ कौमारमौमं श्रैकण्ठमेव च ||᳚ (स्व. १०|९८१) इति | तुशब्दो व्यतिरेके᳚मूल᳚ इति प्रकृतौ | यदुक्तं तत्र -- ᳚योगाष्टकं प्रधानं च........................ |᳚ इति | ᳚योगाष्टकपदे᳚ इत्यपरेण रूपेणोक्तम्, भूय इति परेण रूपेण, तयोरिति उमापतिश्रीकण्ठयोः, तत्रेति द्वयनिर्धारणे | पुरमिति, अर्थाद् द्वितीयम् | एवं विश्वाधिष्ठाने हेतुर्भण्यते शा महेश्वरी᳚ इति | तदुक्तम् -- ᳚ततः साक्षाद्भगवती जगन्माता व्यवस्थिता | उमा त्वमेया विश्वस्य विश्वयोनिः स्वयंभवा ||᳚ (स्व. १०|९८३) इत्यादि | ᳚कल्पे पूर्वे जगन्माता जगद्योनिर्द्वितीयके | तृतीये शाम्भवी नाम चतुर्थे विश्वरूपिणी ||᳚ (स्व. १०|९९२) इत्यादि | मध्ये ᳚कात्यायनीति दुर्गेति विविधैर्नामपर्यायैः | मानुषाणां तु भक्तानां वरदा भक्तवत्सला || पूर्वमेवावतीर्णासि विन्ध्यपर्वतमूर्धनि |᳚ (स्व १०|१००३) इत्यन्तम् | ᳚पश्चात्᳚ इत्युमापुरानन्तरम् | ननु श्रीकण्ठस्य ᳚भूयः पुरं कथ्यते᳚ इत्युपक्रम्य कथमुमापतेरित्युक्तम्? -- इत्याशङ्क्याह -- ᳚श्रीकण्ठ एव᳚ इत्यादि || २४० || कास्ता मातरः? -- इत्याशङ्क्याह -- ब्रह्म्यैशी स्कन्दजा हारी वाराह्यैन्द्री सविच्चिका (चर्चिका) || ८-२४१ || पीता शुक्ला पीतनीले नीला शुक्लारुणा क्रमात् |
SK
अग्नीशसौम्ययाम्याप्यपूर्वनैरृतगास्तु ताः || ८-२४२ || अंशेन मानुषे लोकेधात्रा ता ह्यवतारिताः | तदुक्तम् ᳚ब्रह्मी कमलपत्राभा दिव्याभरणभूषिता | आग्नेय्यां दिशि.......................... |᳚ (स्व. १०|१०१७) इति | ᳚शङ्खगोक्षीरसङ्काशा त्वैशान्यां तु वरानने | माहेश्वरी....................................... ||᳚ (स्व. १०|१०१८) इति | ᳚कौमारी पद्मगर्भाभा हारकेयूरभूषिता | दिश्युत्तरस्यां............................... ||᳚ (स्व. १०|१०१९) इति | श्निग्धनीलोत्पलनिभा हारकुण्डलमण्डिता | दक्षिणस्यां दिशि तु सा उपास्ते परमेश्वरम् || वैष्णवीति च विख्याता ........................ |᳚ (स्व. १०|१०२०) इति | ङीलजीमूतसङ्काशा सर्वाभरणाभूषिता | वारुण्यां दिशि वाराही.................... ||᳚ (स्व. १०|१०२१) इति | ᳚शङ्खकुन्देन्दुधवला हारकुण्डलमण्डिता | एन्द्र्यां दिशि तु चैन्द्राणी................. ||᳚ (स्व. १०|१०२२) इति | करालवदना दीप्ता सर्वाभरणभूषिता | नैरृत्यां दिशि चामुण्डा................. ||᳚ (स्व. १०|१०२३) इति च | अंशेनेति, न तु सर्वसर्विकया | तदुक्तम् -- ङ त्यजन्ति हि ता देवं सर्वभावसमन्वितम् | अंशेन मानुषं लोकं ब्रह्मणा चावतारिताः || असुराणां वधार्थाय मानुषाणां हिताय च |᳚ (स्व. १०|१०२५) इति || २४२ || न चेयदन्तमेवासां व्याप्तिः -- इत्याह -- स्वच्छन्दास्ताः पराश्चान्याः परे व्योम्नि व्यवस्थिताः || ८-२४३ || स्वच्छन्दं ता निषेवन्ते सप्तधेयमुमा यतः | ᳚परे व्योम्नि᳚ इति उन्मनाधाम्नि | ᳚उमा᳚ इति परशिवाभिन्ना परा पारमेश्वरी शक्तिः | तदुक्तम् � श्वच्छन्दाश्च पराश्चान्याः परे व्योम्नि व्यवस्थिताः | स्वच्छन्दं पर्युपासीनाः परापरविभागतः || उमा वै सप्तधा भूत्वा नामरूपविपर्ययैः |᳚ (स्व. १०|१०२७) इति || २४३ || उमापतिपुरस्योर्ध्वं स्थितं मूर्त्यष्टकं परम् || ८-२४४ || शर्वादिकं यस्य सृष्टिर्धराद्या याजकान्ततः | ताभ्य ईशानमूर्तिर्या सा मेरौ संप्रतिष्ठिता || ८-२४५ || श्रीकण्ठः स्फटिकाद्रौ सा व्याप्ता तन्वष्टकैर्जगत् |
SK
ये योगं सगुणं शम्भोः संयताः पर्युपासते || ८-२४६ || तन्मण्डलं वा दृष्ट्वैव मुक्तद्वैता हृतत्रयाः | मूर्त्यष्टकमिति, तदधिष्ठातृ परमिति, अपरस्य परापरस्य च पूर्वमुक्तत्वात् | ᳚यस्य᳚ इति मूर्त्यष्टकाधिष्ठातुः शर्वादेः | ᳚ताभ्यः᳚ इति अष्टाभ्यो मूर्तिभ्यो मध्यात् शगुणम्᳚ इति सत्त्वादिवृत्तिप्रधानं न तु पराद्वयरूपम् | तन्मण्डलमिति, श्रीश्रीकण्ठाद्युक्तम् | ᳚मुक्तद्वैताः᳚ इति सांख्यादिक्रमेण लब्धकैवल्याः || २४६ || ननु यदि नाम योगस्येयदन्तं प्राप्तौ सामर्थ्यमस्ति तत्कथमस्य अधराधरतत्त्वप्राप्तिरप्युक्ता ? -- इत्याशङ्क्याह -- गुणानामाधरौत्तर्याच्छुद्धाशुद्धत्वसंस्थितेः || ८-२४७ || तारतम्याच्च योगस्य भेदात्फलविचित्रता | ततो भोगफलावाप्तिभेदाद्भेदोऽयमुच्यते || ८-२४८ || ᳚आधरौत्तर्यात्᳚ इति गुणप्रधानभावात् | शुद्धत्वम्, निर्बीजत्वात् | अशुद्धत्वम्, सबीजत्वात् | ᳚तारतम्यात्᳚ इति मृदुमध्याधिमात्ररूपत्वात् | फलविचित्रतेति, तत्तत्त्वप्राप्तिरूपा येनायं भेदः | कस्यचिद्योगस्योर्ध्वोर्ध्वं तत्त्वेषु प्राप्तिनिमित्तत्वम्, अन्यस्य च अधराधरेष्विति || २४८ || मूर्त्यष्टकोपरिष्टात्तु सुशिवा द्वादशोदिताः | वामाद्येकशिवान्तास्ते कुङ्कुमाभाः सुतेजसः || ८-२४९ || तदूर्ध्वं वीरभद्राख्यो मण्डलाधिपतिः स्थितिः | यत्त(स्त) त्सायुज्यमापन्नः स तेन सह मोदते || ८-२५० || ततोऽप्यङ्गुष्ठमात्रान्तं महादेवाष्टकं भवेत् | शुतेजसः᳚ इति सूर्यकोटिसमप्रभाः | तदुक्तम् -- ᳚वामो भीमस्तथोग्रश्च शिवः शर्वस्तथैव च | विद्यानामधिपश्चैव एकवीरः प्रचण्डधृत् || रिशानश्चाप्युमाभर्ता अजेशोऽनन्त एव च | तथा एकशिवश्चैव सुशिवा द्वादश स्मृताः || सर्वे कुङ्कुमसङ्काशाः सूर्यकोटिसमप्रभाः |᳚ (स्व. १०|१०३८) इति | तदूर्ध्वमिति, तच्छब्देन सुशिवपरामर्शः | ᳚ततः᳚ इति वीरभद्रमण्डलादप्यनन्तरम् | तदुक्तम् � ᳚महादेवो महातेजा वामदेवभवोद्भवौ | एकपिङ्गेक्षणेशानभुवनेशपुरःसराः ||
SK
अङ्गुष्ठमात्रसहिता महादेवाष्टकेशिवाः |᳚ (स्व. १०|१०४२) इति || २५० || एतदेवोपसंहरति � बुद्धितत्त्वमिदं प्रोक्तं देवयोन्यष्टकादितः || ८-२५१ || महादेवाष्टकान्ते तद् योगाष्टकमिहोदितम् | तत्र श्रैकण्ठमुक्तं यत् तस्यैवोमापतिस्तथा || ८-२५२ || मूर्तयः सुशिवा वीरो महादेवाष्टकं वपुः | एवंविधे च बुद्धितत्त्वे योगाष्टकमध्ये यदष्टमं श्रैकण्ठं भुवनमुक्तं तदधिष्ठाता च यः श्रीकण्ठनाथ उक्तः, तस्यैवायमुमापतेरारभ्य सर्वः प्रपञ्चः -- इत्युक्तम् -- ᳚तस्यैवेत्यादि᳚ | ᳚वीरो᳚ वीरभद्रः | तदुक्तम् -- शर्वेश्वरानधिष्ठाय श्रीकण्ठः कारणेच्छया | एकः स बहुभी रूपैरास्ते प्रतिनिकेतनम् ||᳚ इति || २५२ || उपरिष्टाद्धियोऽधश्च प्रकृतेर्गुणसंज्ञितम् || ८-२५३ || तत्त्वं तत्र तु संक्षुब्धा गुणाः प्रसुवते धियम् | ᳚गुणसंज्ञितं तत्त्वम्᳚ गुणतत्त्वम् -- इत्यर्थः | ननु ᳚प्रंकृतेर्महान्᳚ (सां.का. २२) इत्युक्त्या प्रकृत्यनन्तरं तत्कार्यभूतं बुद्धितत्त्वमन्यैरुक्तम् -- इति कथमिहान्तरा गुणतत्त्वमुच्यते ? -- इत्याशङ्क्याह -- ᳚तत्र तु᳚ इत्यादि | तुशब्दो हेतौ | शंक्षुब्धाः᳚ इति परस्पराङ्गाङ्गिभावेन वैषम्यापत्त्या कार्यजननोन्मुखाः -- इत्यर्थः | प्रकृतौ हि तेषामविशेषेणावस्थानम् | यदाहुः -- ᳚शत्त्वरजस्तमसां साम्यावस्था प्रकृतिः |᳚᳚ (सा. सू. १|६१) इति || न च वैषम्यमनापन्नं कारणं कार्यं जनयेत्, बीजं हि जलादिसंपर्कादुच्छूनतामापन्नं सत् अङ्कुरादि उत्पादयेत् नान्यथा, तथात्वे हि मूलादपि तदुत्पादः स्यात्, तदाह -- न वैषम्यमनापन्नं कारणं कार्यसूतये || ८-२५४ || अत एव वैषम्यमनापन्ना प्रकृति कथं बुद्धिजन्मनि कारणं स्यात् ? इत्याह -- गुणसाम्यात्मिका तेन प्रकृतिः कारणं भवेत् | ᳚तेन᳚ इति वैषम्यापत्तिभावेन | तदवश्यं प्रकृतिकार्यं तत्क्षोभरूपं गुणतत्त्वमन्तराङ्गीकार्यं येन बुद्धिजन्म स्यात् ||
SK
ननु यद्येवं तद् गुणतत्त्वमपि प्रकृतिः किं क्षोभं विना जनयेन्न वा ? तत्राद्ये पक्षे बुद्धितत्त्वमेव तथा जनयतु किमन्तराकल्पितेन गुणतत्त्वेन | अथ सति क्षोभे तत् सोऽपि क्षोभः किं क्षोभान्तरे सत्यसति वा ? इत्यनवस्था स्यात्, येन न गुणानां नापि बुद्धेर्जन्म सिद्धेयत्; तदाह -- नन्वेवं सापि संक्षोभं विना तान्विषमान्गुणान् || २५५ || कथं सुवीत तत्राद्ये क्षोभे स्यादनवस्थितिः | ननु भवेदयं दोषः किंतु सांख्यस्य न पुनरस्माकम्, न हि नाम जडं कारणं क्षोभं विना कार्यमेव जनयितुमलम् लोकेबीजाङ्कुरादौ तथा दर्शनात्, तदाह -- सांख्यस्य दोष एवायं...................... एवकारो भिन्नक्रमः | तेन सांख्यस्यैवेति | यद्वा तस्यापि नायं दोषो यत्तेन स्वत एव क्षुब्धास्ते गुणा अव्यक्तस्य रूपमिष्टम्, अन्यथा कथं तत्कार्योत्पादः स्यात्; अत एव ᳚प्रसवधर्मि᳚ (सां. का. ११) इत्युक्तम् || तदाह -- .................यदि वा तेन ते गुणाः || ८-२५६ || अव्यक्तमिष्टाः ननु यद्येवं तत्तस्य शत्त्वरजस्तमसां साम्यावस्था प्रकृतिः᳚ इति कथं सङ्गच्छेत् ? -- इत्याशङ्क्याह -- साम्यं तु सङ्गमात्रं न चेतरत् | साम्यं पुनरत्र गुणानां सङ्गमात्रत्वम्, क्षुब्धत्वेऽपि समस्पर्धितया समुदितत्वमेव केवलं विवक्षितं न त्वितरत्, अक्षुब्धत्वात् अविशेषेणावस्थानम्, तथात्वे हि यथोक्तदोषावकाशात्मा बाधः स्यात् || तन्न सांख्यानां कश्चिद्दोष उक्तः किन्तु गुणतत्त्ववादिनामेव ? -- इत्याशङ्क्याह -- अस्माकं तु स्वतन्त्रेशतथेच्छाक्षोभसङ्गतम् || ८-२५७ || अव्यक्तं बुद्धितत्त्वस्य कारणं क्षोभिता गुणाः |
SK
इह तावज्जडं कारणं क्षुब्धतामनापन्नं सत् कार्यं जनयितुमेव नालमित्युक्तम्, न चास्य क्षुब्धतापत्तावपि क्षोभान्तरमपेक्षणीयम् ईश्वरेच्छातस्तथाभावात्, न च तामन्तरेण कार्यकारणभाव एव स्यात् -- इत्यग्रे भविष्यति -- इति नेहायस्तम् | अतश्च अस्मद्दर्शने प्रकृतितत्त्वाधिष्ठातुः स्वतन्त्रस्येश्वरस्य तथा स्वतन्त्रैवेयमिच्छा, तया क्षुब्धमव्यक्तं क्षोभिता गुणा गुणात्मतत्त्वात्मतां यातं सत् बुद्धितत्त्वस्य ᳚कारणम्᳚ तत्प्रसवसमर्थम् -- इत्यर्थः || २५७ || ननु यद्येवं तदीश्वरेच्छातः क्षुब्धं सदव्यक्तं बुद्धितत्त्वमेव जनयतु किमन्तरापरिकल्पितेन प्रतिपत्तिगौरवकारिणा गुणतत्त्वेन? -- इत्याह -- ननु तत्त्वेश्वरेच्छातो यः क्षोभः प्रकृतेः पुरा || ८-२५८ || तदेव बुद्धितत्त्वं स्यात् किमन्यैः कल्पितैर्गुणैः | एतदेव प्रतिविधत्ते -- नैतत्कारणतारूपपरामर्शावरोधि यत् || ८-२५९ || क्षोभान्तरं ततः कार्यं बीजोच्छूनाङ्कुरादिवत् | तद्धि नाम कारणमुच्यते यत्क्षोभापत्तावपि तद्रूपतापरामर्शमेव अवरुन्ध्यात, उच्छूनमपि हि बीजं बीजमेवोच्यते, तेन तत्क्षोभरूपमपि गुणतत्त्वं कारणत्वपरामर्शमवरोद्धुमुत्सहते, तथात्वेऽपि कथंचित् प्रकृत्यैक्यानपायात्; अतश्च गुणतत्त्वं नाम न प्रकृतितत्त्वातिरिक्तं तत्त्वान्तरं किन्तु तस्यैव कार्यजननोन्मुखं क्षुब्धं रूपान्तरमिति | तस्य हि तत्त्वान्तरत्वे सप्तत्रिंशत्तत्त्वानि स्युरिति | ᳚षट्त्रिंशत्तत्त्वमुख्यानि यथा शोध्यानि पार्वति | पृथिव्यादिशिवान्तानि............................ || (स्व. ५|२) इत्यादि दुष्येत् | ᳚चतुर्विंशतितत्त्वानि ब्रह्मा व्याप्य व्यवस्थितः | प्रधानान्तं....................................... || (स्व. ११|४६) इति | तथा ᳚............................पुरुषः पञ्चविंशकः |᳚
SK
इत्याद्यपि विरुद्ध्येत, एवं हि प्रधानं पञ्चविंशं स्यात् पुरुषश्च षड्विंशकः इति | तस्मात् यथा मायाया ग्रन्थितत्त्वात्मना द्वैविध्यं तथा प्रकृतेरपि क्षुब्धाक्षुब्धरूपतया, -- इत्यवगन्तव्यं येन सर्वं समञ्जसं स्यात् | बुद्धितत्त्वं तु सर्वस्यैवोद्रेकादत्यन्तमेव ततो विलक्षणं बीजादिवाङ्कुरः, -- इति तत्कार्यमेव न तु कारणमपि, -- इत्यवश्यमन्तरा बुद्धिकारणं गुणतत्त्वमङ्गीकार्यम् | एवं श्वतः क्षुब्धा एव गुणाः प्रकृतिः? -- इत्यभिदधतोऽपि सांख्यस्य न दोषावकाशः, -- इति प्रकाशितम् | तथात्वे हि गुणानामक्षुब्धमपि रूपं पूर्वं वक्तव्यम् अन्यथा क्षुब्धत्वं किमपेक्षं स्यात्; अत एवात्र ᳚बीजोच्छूनाङ्कुरादिवत्᳚ इत्यवस्थात्रयमेव दर्शितम् || २५९ || एवं गुणतत्त्वं साधयित्वा तदन्तर्वर्ति भुवनजातमपि दर्शयति -- क्रमात्तमोरजःसत्त्वे गुरूणां पङ्क्तयः स्थिताः || ८-२६० || तिस्रो द्वात्रिंशदेकातस्त्रिंशदप्येकविंशतिः | स्वज्ञानयोगबलतः क्रीडन्तो दैशिकोत्तमाः || ८-२६१ || त्रिनेत्राः पाशनिर्मुक्तास्तेऽत्रानुग्रहकारिणः | ᳚तमोरजःसत्त्वे᳚ इति समाहारः | तदुक्तम् -- ᳚प्रथमा तमसः पङ्क्तिरुपरिष्टाद् व्यवस्थिता | तेषां नामानि कथ्यन्ते यथावदनुपूर्वशः || शिवः प्रभुर्वामदेवश्चण्डश्चैव प्रतापवान् | प्रह्लादश्चोत्तमो भीमः करालः पिङ्गलस्तथा || महेन्द्रो दिनकृच्चैव प्रतोदो दश एव च | कडेवरश्च विख्यातस्तथैव च कटङ्कटः || अम्बुहर्ता च नारीशः श्वेत ऋग्वेद एव च | यजुर्वेदः सामवेदस्त्वथर्वा सुशिवस्तथा || विरूपाक्षस्तथा ज्येष्ठो विप्रो नारायणस्तथा | गण्डोदरो यमो माली गहनेशश्च पीडनः || प्रथमा पङ्क्तिरुद्दिष्टा रुद्रैर्द्वात्रिंशता वृता | रजसश्चोपरिष्टात्तु द्वितीया पङ्क्तिरुच्यते || शुक्लो दासः सुदासश्च लोकाक्षः सूर्य एव च | सुहोत्र एकपादश्च गृद्ध्रश्चैव शिवेश्वरः || गौतमश्चैव योगीशो दधिबाहुस्तथापरः | ऋषभश्चैव गोकर्णो देवश्चैव गुहेश्वरः || गुहेशानः शिखण्डी च जटी माली तथोग्रकः |
SK
भृगुः शिखी तथा शूली सुगतिश्च सुपालनः || अट्टहासो दारुकश्च लाङ्गुलिश्च त्रिदण्डकः | भावनश्च तथा भाव्यो लकुलेशस्तथा परः || त्रिंशद्रुद्राः समाख्याता द्वितीया पङ्क्तिरुत्तमा | सत्त्वस्य चोपरिष्टात्तु तृतीया पङ्क्तिरुच्यते || देवारुणो दीर्घबाहुररिर्भूतिश्च स्थाणुकः | सद्योजातस्तथा शण्ठी षण्मुखश्चतुराननः || चक्रपाणिश्च कूर्माक्षस्त्वर्धनारीश एव च | संवर्तकश्च भस्मीशः कामनाशन एव च || कपाली भूर्भुवश्चैव वषट्कारस्तथैव च | वौषट्कारस्तथा स्वाहा सुधा च परिकीर्तिता || एकविंशतिरुद्रास्तु पङ्क्तिरेषा तृतीयिका | (स्व. १०|१०५८) इति || २६१ || इयदन्तं भुवनानि सङ्कलयति -- बुद्धेश्च गुणपर्यन्तमुभे सप्ताधिके शते || ८-२६२ || रुद्राणां भुवनानां च मुख्यतोऽन्ये तदन्तरे | बुद्धेरिति, कार्यप्रपञ्चरूपायाः | तेन पृथ्वीतत्त्वादारभ्य गुणतत्त्वपर्यन्तं मुख्यतोऽन्यथा संख्याया आनन्त्यात् भुवनानां सप्ताधिकं शतद्वयं भवेत् | तथा हि पृथिव्यामधस्तादनन्तस्यैकं भुवनम्, अन्तः कालाग्निकूष्माण्डहाटकब्रह्मविष्णुरुद्राणां षट्, बहिः शतरुद्राणां शतम्, तदधिष्ठातुर्वीरभद्रस्य चैकम् -- इत्यष्टोत्तरं शतम् | अप्तत्त्वे तदधिष्ठातुर्वीरभद्रस्य गुह्याष्टकस्य च -- इति नव भुवनानि | तेजस्तत्त्वे शिवाग्नेरतिगुह्याष्टकस्य च -- इति नव | आकाशतत्त्वे आकाशस्य पवित्राष्टकस्य चेति नव | तन्मात्रेषु मूर्तीनामष्टौ, कर्मेन्द्रियाधिपानां पञ्च, ज्ञानेन्द्रियाधिपानां पञ्च, मनसि सोमस्यैकम्, अहङ्कारेऽहङ्कारेशस्य स्थाण्वष्टकस्य चेति नव, बुद्धौ देवयोनिक्रोधतेजोयोगाख्यानि चत्वार्यष्टकानि, इति द्वात्रिंशत्, गुणतत्त्वे च पङ्क्तित्रयमिति || २६२ || अन्यत्र पुनरियान्विशेषः -- इत्याह -- योगाष्टकं गुणस्कन्धे प्रोक्तं शिवतनौ पुनः || ८-२६३ || ᳚गुणस्कन्धे᳚ गुणतत्त्वे || २६३ || तद्ग्रन्थमेव पठति -- योनीरतीत्य गौणे स्कन्धे स्युर्योगदातारः | अकृतकृतविभुविरिञ्चा हरिर्गुहः क्रमवशात्ततो देवी || ८-२६४ ||
SK
करणान्यणिमादिगुणाः कार्याणि प्रत्ययप्रपञ्चश्च | अव्यक्तादुत्पन्ना गुणाश्च सत्त्वादयोऽमीषाम् || ८-२६५ || धर्मज्ञानविरागानैश्वर्यं तत्फलानि विविधानि | यच्छन्ति गुणेभ्योऽमी पुरुषेभ्यो योगदातारः || ८-२६६ || तेभ्यः परतो भुवनं सत्त्वादिगुणासनस्य देवस्य | सकलजगदेकमातुर्भर्तुः श्रीकण्ठनाथस्य || ८-२६७ || ᳚प्रत्ययप्रपञ्चः᳚ इति विपर्ययादिः पञ्चाशदाद्यः | ᳚अमीषाम्᳚ अकृतादीनां योगदातॄणाम् | एतच्चैषां दातृत्वं यत्परेभ्योऽपि धर्मादि प्रयच्छन्तीति | ᳚परतः᳚ इत्यूर्ध्वम् || २६७ || ननु एभ्योऽप्यूर्ध्वमवस्थानेन अस्य किं स्यात्? -- इत्याशङ्क्याह -- येनोमागुहनीलब्रह्मऋभुक्षकृताकृतादिभुवनेषु | ग्रहरूपिण्या शक्त्या प्राभ्व्याधिष्ठानि भूतानि || ८-२६८ || ङीलो᳚ विष्णुः, ग्रहरूपिण्येति, अवष्टम्भात्मिकया -- इत्यर्थः | ᳚अधिष्ठानि᳚ अधिष्ठितानि || २६८ || तत्तदधिष्ठानमेव व्याचष्टे -- उपसंजिहीर्षुरिह यश्चतुराननपङ्कजं समाविश्य | दग्ध्वा चतुरो लोकाञ्जनलोकान्निर्मिणोति पुनः || ८-२६९ || यस्येच्छातः सत्त्वादिगुणशरीरा विसृजति रुद्राणी | अनुकल्पो रुद्राण्या वेदी तत्रेज्यतेऽनुकल्पेन || ८-२७० || पशुपतिरिन्द्रोपेन्द्रविरिञ्चैरथ तदुपलम्भतो देवैः | गन्धर्वयक्षराक्षसपितृमुनिभिश्चित्रितास्तथा यागाः || ८-२७१ || शमाविश्य᳚ इति अधिष्ठाय ᳚दग्ध्वा᳚ इति अर्थात्कालाग्निरूपतया | ᳚रुद्राणी᳚ उमादेवी | ᳚अनुकल्पो᳚ गौणी मूर्तिः, ᳚वेदी᳚ क्रियाशक्त्यात्मा पीठिका | तत्रेति वेद्याम् | पशुपतिरिति, अर्थाद् बाह्यलिङ्गरूपः || २७१ || गुणानां यत्परं साम्यं तदव्यक्तं गुणोर्ध्वतः | क्रोधेशचण्डसंवर्ता ज्योतिःपिङ्गलसूरकौ || ८-२७२ || पञ्चान्तकैकवीरौ च शिखोदश्चाष्ट तत्र ते |
SK
᳚परं साम्यम्᳚ इति अक्षुब्धतयावस्थानम्, अत एव ᳚अव्यक्तम्᳚ -- इत्युक्तम् | इह सर्वत्र भुवनेश्वराणामादिग्रहणेनैव प्रक्रान्तेऽपि संग्रहे स्वकण्ठेनैव पाठेऽयमाशयो यदत्र बहूनि शास्त्रान्तरेष्वसमञ्जसानि पाठान्तराणि संभवन्ति � इति श्रोतॄणां मा भूत्संमोहः -- इति | तदुक्तं श्रीरुरौ -- ᳚क्रोधेशचण्डसवंरतज्योतिःपिङ्गलसूरकाः | पञ्चान्तकैकवीरेशशिखोदाख्या महेश्वराः ||᳚ इति | श्रीनन्दिशिखायामपि � ᳚अष्टौ भुवनपाला ये क्रोधेशश्चण्डसंज्ञकः | संवर्तः पिङ्गलो ज्योतिस्तथा पञ्चान्तको विभुः || एकवीरः शिखोदश्च गुणानां परतः स्थिताः |᳚ इति || २७२ || अत्रापि शिवतनावुक्तं विशेषं दर्शयति -- गहनं पुरुषनिधानं प्रकृतिर्मूलं प्रधानमव्यक्तम् || ८-२७३ || गुणकारणमित्येते मायाप्रभवस्य पर्यायाः | नन्वेवमभिधानानामत्र प्रवृत्तौ किं निमित्तम् ? -- इत्याशङ्क्याह -- यावन्तः क्षेत्रज्ञाः सहजागन्तुकमलोपदिग्धचितः || ८-२७४ || ते सर्वेऽत्र विनिहिता रुद्राश्च तदुत्थभोगभुजः | मूढविवृत्तविलीनैः करणैः केचित्तु विकरणकाः || ८-२७५ || यतोऽत्र सर्व एव क्षेत्रज्ञा रुद्रा वा विनिहिताः सन्तः केचिन्मूढादिरूपैः करणैस्तदुत्थं भोगं भुज्जते, केचित्तु विकरणा एव -- इति | शहजः᳚ आणवः | ᳚आगन्तुकौ᳚ कार्ममायीयौ || २७५ || मूढडिरूपत्वमेव व्याचष्टे -- अकृताधिष्ठानतया कृत्याशक्तानि मूढानि | प्रतिनियतविषयभाञ्जि स्फुटानि शास्त्रे विवृत्तानि || ८-२७६ || भग्नानि महाप्रलये सृष्टौ नोत्पादितानि लीनानि | इच्छाधीनानि पुनर्विकरणसंज्ञानि कार्यमप्येवम् || ८-२७७ || ᳚कृत्यम्᳚ शब्दाद्यालोचनम्; अत एव बाधिर्यादिविशिष्टवृत्तित्वे हेतुः ᳚प्रतिनियतविषयभाञ्जि᳚ इति | सृष्टावनुत्पाद एव लीनत्वे हेतुः | ᳚इच्छाधीनानि᳚ इति स्वात्मायत्तानि -- इत्यर्थः | अत एव श्रीकण्ठादीनां स्वतन्त्रेन्द्रियत्वम् | यदुक्तमत्रैव -- ᳚तेषूमापतिरेव प्रभुः स्वतन्त्रेन्द्रियो विकरणात्मा |᳚ (तं. ८|२२९) एवमिति, मूढादिभेदाच्चतुर्धा || २७७ ||
SK
पंस्तत्त्वे तुष्टिनवकं सिद्धयोऽष्टौ च तत्पुरः | तावत्य एवाणिमादिभुवनाष्टकमेव च || ८-२७८ || तावत्योः, नवाष्टौ च | तदुक्तम् -- ᳚अम्बा च सलिला ओघा वृष्टिः सार्धं च तारया | सुतारा च सुनेत्रा च कुमारी च ततः परम् || उत्तमाम्भसिका चैव तुष्टयो नव कीर्तिताः | तारा चैव सुतारा च तारयन्ती प्रमोदिका || प्रमुदिता मोदमाना रम्यका च ततः परम् | सदाप्रमुदिका चैव सिद्ध्यष्टकमुदाहृतम् || अणिमा लघिमा चैव महिमा प्राप्तिरेव च | प्राकाम्यं च तथेशित्वं वशित्वं यदुदाहृतम् || यत्रकामावसायित्वमणिमाद्यष्टकं स्मृतम् |᳚ (स्व. १०|१०७०) इति || २७८ || तुष्ट्यादीनां च किं रूपम् ? -- इत्याशङ्क्याह -- अतत्त्वे तत्त्वबुद्ध्या यः सन्तोषस्तुष्टिरत्र सा | हेयेऽप्यादेयधीः सिद्धिः न चैतदस्मदुपज्ञमेवेत्याह -- तथा चोक्तं हि कापिलैः || ८-२७९ || तदाह -- आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः | पञ्च विषयोपरमतोऽर्जनरक्षासङ्गसंक्षयविघातैः || ८-२८० || ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः | दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः || ८-२८१ ||
SK
᳚आध्यात्मिक्यः᳚ इति अनात्मरूपे प्रकृत्यादौ भवन्ति -- इत्यर्थः | तत्र प्रधानमहदादिरूपतयाष्टविधा प्रकृतिरेव विश्वोत्पत्तिनिमित्तं नान्यत् -- इति तत्रैव सङ्गद्वेषादिनिवृत्तिनिमित्तं भोक्तृत्वाद्यध्यवस्यतो योगिनः प्रकृत्याख्या तुष्टिः | एवं च प्रकृतेरविशेषात् सर्वदा सर्वस्माच्च सर्वस्योत्पत्तिः स्यात् -- इति यथास्वोपादानं भावानामुत्पादो न्याय्यः -- इति | तदेव विश्वकारणम् -- इति पृथिव्यादावुपादान एव भोक्तृत्वाद्यध्यवस्यत उपादानाख्या | एवमपि कालमपेक्ष्य भावनामुत्पत्तिरिति स एव विश्वकारणम् � इति तत्रैव भोक्तृत्वाद्यध्यवस्यतः कालाख्या | एवमपि भाग्यविशेषात्फलविशेषः -- इति तेषामेव विश्वकारणत्वमिति तत्रैव भोक्तृत्वाद्यध्यवस्यतो भाग्याख्येति चतस्रः | पञ्चेति, बाह्यविषयोपरमस्य पञ्चहेतुत्वात्, ते चार्जनादयः, सर्वस्य सुखार्थं विषयेषु प्रवृत्तिः न च तेभ्यः कदाचिदपि तद्भवेत् यद्विषयाणामर्जनादौ त्रितये यतमानस्य पुंसः परं कष्टमेव, एवमपि एषामाकस्मिकः स्वयमेव संक्षयः -- इति महत्कष्टम्, न चैतत्परोपघातं विना सिद्ध्येत् -- इति कष्टात्कष्टतरम् | तदेषामेवं दोषदर्शनान्माध्यस्थ्यमवलम्बमानस्य योगिनः पञ्चेति नवाम्बाद्यास्तुष्टयः क्रमेण उक्ताः | अनेन च पाठेनैवमीश्वरकृष्णः शिक्षितः -- यदन्यथा नवानां तुष्टीनां स्वकण्ठेनैवोपादानं न स्यादिति | ऊहः प्रत्यक्षादिप्रमाणव्यतिरेकेण स्वयमेव तत्तदर्थविषयः प्रत्ययः, शब्दः स्वयमेवमप्रतिपत्तौ तद्विषयः सकृद्गुरूपदेशः, अध्ययनमेवमप्रतिपत्तौ तत्रैव पौनःपुन्येनाभ्यासः, एषां पञ्च प्रत्यनीका दुःखत्रयं सन्देहो दौर्भाग्यं चेति | तत्र दुःखत्रयस्य शास्त्रान्तरदृष्टैरुपायैर्विघातं कृत्वा कल्याणमित्रपरिचयाच्च सन्देहं व्युदस्य, दानेन च दौर्भाग्यमपाकृत्य पूर्वेषां त्रयाणामन्यतमेन साधयन्ति -- इत्यष्टौ सिद्धयस्ताराद्याः क्रमेण उक्ताः | ननु सर्वेषामविशेषेणैताः सिद्धयः किं न स्युः? -- इत्याशङ्क्योक्तम् शिद्धेः पूर्वोऽङ्कुशस्त्रिविधः᳚
SK
इति | पूर्वो विपर्ययाशक्त्यतुष्टिलक्षणोऽङ्कुशो निरोधकारित्वात्, तेनाविशेषेण सर्वप्राणिषु सिद्धीनामप्रवृत्तिरिति || २८१ || अणिमाद्यूर्ध्वतस्तिस्रः पङ्क्तयो गुरुशिष्यगाः | तत्रापि त्रिगुणच्छायायोगात् त्रित्वमुदाहतम् || ८-२८२ || नाडीविद्याष्टकं चोर्ध्वं पङ्क्तीनां स्यादिडादिकम् | तत्रापीति, अपिशब्देन न केवलं गुणतत्त्वे गुरूणां गुणत्रययोगितया त्रित्वमुक्तं यावदिहापि -- इत्यभिहितम् | तदुक्तम् -- ᳚यथोर्ध्वं गुरुशिष्याणां पङ्क्तित्रयमतः शृणु | मस्करी पूरणः कृत्स्रः कपिलः काश एव च || सनत्कुमारगौतमवसिष्ठाद्यांशकास्तथा | काश्यपो नासिकेतुश्च गालवो भौतिकस्तथा || शाकल्यस्तु समाख्यातो दुर्वासाः परमो मुनिः | वाल्मीकिश्च गुरुश्रेष्ठः सपराशरगालवः || पिप्पलादश्च सौमित्रो वायुपुत्रो भदन्तकः | मस्कर्यादिभदन्तान्ता दृष्टादृष्टस्य वादिनः || द्वाविंशतिर्गुरुवराः प्रथमा पङ्क्तिरिष्यते | जह्नुश्च तृणबिन्दुश्च मुनिस्तार्क्ष्यस्तथैव च || ध्यानाश्रयोऽथ दीर्घश्च होताऽजगर एव च | अगस्त्यो वसुभौमश्च उपाध्यायश्च कीर्तितः || शुक्रो भृग्वङ्गिरा रामो जमदग्निसुतोर्ध्वगः | स्थूलशिरा बालखिल्यो मनुजश्चेति कीर्तितः || वज्रात्रेयो विशुद्धश्च शिवश्चारुरथानुगः | जह्न्वादिचारुपर्यन्ता द्वितीया पङ्क्तिरिष्यते || हरो जण्ठी प्रतोदश्च अमरेशश्चतुर्थकः | कृष्णपिङ्गेशरुद्रश्च इन्द्रजिद् वृषभः शिवः || यमः क्रूरश्च विख्यातो गङ्गाधर उमापतिः | भूतेश्वरः कपालीशः शङ्करश्च तथैव च || अर्धनारीश्वरश्चैव पिङ्गलश्च तथा परः | महाकालश्च संवर्तो मण्डली त्वेकवीरकः || तथा चान्यश्च विख्यातो भारभूतेश्वरो ध्रुवः | जह्न्वादिचारुपर्यन्ता ऋषयः पञ्चविंशतिः || हरादयो ध्रुवान्ताश्च गुरवो विंशतिः स्मृताः |᳚ (स्व. १०|१०८३) इति | अत्र च पङ्क्तिद्वये गुरुशब्दोपादानान्मध्यमायां पङ्क्तौ शिष्या एव -- इत्यर्थसिद्धम् | नाडीरूपाश्च ता विद्यास्तदधिष्ठातृदेवताः -- इत्यर्थः | तदुक्तम् -- ᳚इडा च चन्द्रिणी चैव शान्तिः शान्तिकरी तथा |
SK
माला च मालिनी चैव स्वाहा चैव सुधा तथा ||᳚ (स्व. १०|१०८५) इति || २८२ || ननु नाङ्यधिष्ठातृदेवतानां पुंस्तत्त्वावस्थाने किं निमित्तम्? -- इत्याशङ्क्याह -- पंसि नादमयी शक्तिः प्रसराख्या च यत्स्थिता || ८-२८३ || चोऽवधारणे | यद्यस्मात्पुंस्तत्त्वाधिष्ठातरि संकुचितरूपत्वात् अणुशब्दादिव्यपदेश्ये पुंस्येव, नदति स्वात्माभेदेन विश्वं परामृशति इति ङादः᳚ स्वातन्त्र्यात्मपरकर्तृत्वलक्षणो विमर्शः, तन्मयी शक्तिर्बहीरूपतया प्रसरणशीलत्वात् प्रसराख्या स्थिता, क्रियाशक्तिपर्यन्तेन स्थूलरूपेण स्फुरति -- इत्यर्थः | इदमुक्तं भवति, चिच्छक्तिरेव हि स्वस्वातन्त्र्यात् संकुचितात्मरूपतामाभास्य देहाद्यात्मतामपि जिघृक्षुः प्रथमं नाडीरूपतामियादिति | यदुक्तं प्राक् -- ᳚चित्स्पन्दप्राणवृत्तीनामन्त्या या स्थूलता सुषिः | सा नाडीरूपतामेत्य देहं सन्तानयेदिदम्᳚ || (तं. ७|६६) इति || २८३ || ननु भवेदेवं यदि पुंसः कर्तृत्वं सिद्ध्येत्, तदेव पुनरतिदुर्लभं यत् तथात्वेऽस्य क्षीरादिवदचैतन्यं स्यात् ? -- इत्याशङ्क्याह -- न ह्यकर्ता पुमान्कर्तुः कारणत्वं च संस्थितम् | एवं हि भुजिक्रियाकर्तृत्वायोगात् भोक्तृत्वमपि अस्य न स्यात् | ननु भवद्भिर्जगतां कार्यत्वं साधयितुं पुंसः कर्तृत्वमभ्युपेयते, तच्च अस्माकं प्रकृतिरेव उद्वोढुमुत्सहते -- इति किं तेन अचैतन्याधायिना ? -- इत्याशङ्क्योक्तम् -- ᳚कर्तुः कारणत्वं च संस्थितम्᳚ इति | कर्तुरिति न तु जडस्य प्रकृत्यादेः | एतच्च समनन्तराह्निक एव साधयिष्यते तत एवावधार्यम् || ननु यद्यचैतन्यात्पुंसः कर्तृत्वं नाभ्युपेयेत तत्तथात्वेऽपि तन्नोपरमेत् -- इत्याह -- अकर्तर्यपि वा पुंसि सहकारितया स्थिते || ८-२८४ || शेषकार्यात्मतैष्टव्यान्यथा सत्कार्यहानितः | इह तावद्विश्वोत्पत्तौ प्रकृतिः कारणं सा च पुरुषमनपेक्ष्य न किञ्चिदाधातुं शक्नुयात् तत्संयोगेनैव विश्वोत्पादस्योक्तत्वात् | यदाहुः -- पुरुषस्य दर्शनार्थं कैवल्यार्थंतथा प्रधानस्य |
SK
पङ्ग्वन्धवदुभयोरपि संसर्गस्तत्कृतः सर्गः || (सां. का. २१) इति | तदन्वयव्यतिरेकानुविधानात् पुमानपि विश्वोत्पत्तौ कारणम्, तच्च विश्वस्य तद्रूपानुवृत्त्यसंभवात् नोपादानरूपं किंतु सहकारिरूपम् तथात्वे च अस्योपादेयातिरिक्तसहकार्यात्मतावश्यमेषितव्याऽन्यथा सत्कार्यवादो हीयेत -- इत्येवमपि अस्य विश्वात्मतापरिणामादचैतन्यमेवापतेत् || २८४ || तदेवं विश्वोत्पत्तौ पुंस एव कर्तृत्वमेष्टव्यं येनास्य तत्तद्रूपोपग्रहेऽपि स्वस्वरूपाप्रच्युतेरचैतन्यं न स्यात्, तदाह -- तस्मात्तथाविधे कार्ये या शक्तिः पुरुषस्य सा || ८-२८५ || तावन्ति रूपाण्यादाय पूर्णतामधिगच्छति | ᳚तथाविधे᳚ इति क्रियाशक्त्यात्मनि स्थूलरूपे | तावन्तीति, नाडीविद्यादिरूपाणि | पूर्णतामित्येवमपि स्वात्ममात्रविश्रान्तत्वात् || २८५ || इदानीं प्रकृतमेवानुसरति -- नाङ्यष्टकोर्ध्वे कथितं विग्रहाष्टकमुच्यते || ८-२८६ || कथितमिति -- सर्वशास्त्रे || २८६ || तदाह -- कार्यं हेतुर्दुःखं सुखं च विज्ञानसाध्यकरणानि | साधनमिति विग्रहतायुगष्टकं भवति पुंस्तत्त्वे || ८-२८७ || कार्यं तन्मात्रं हेतुरिति, वागादीन्द्रियदशकात्मकारणम् | ᳚विज्ञानसाध्य᳚ इत्यनेन बुद्धिकर्मेन्द्रियाभिव्यङ्ग्यं ज्ञानमात्रं व्यापारमात्रं चोक्तम् | करणेति, अन्तःकरणत्रयम् | साधनमिति, सर्वकारणं प्रधानमित्यर्थः | विग्रहतायुगिति, सूक्ष्मशरीरारम्भकत्वात्, भवति -- इति सूक्ष्मेण रूपेण, स्थूलेन रूपेणैषामुक्तत्वात्, परेण च रूपेण मायाया वक्ष्यमाणत्वात् || २८७ || भुवनं देहधर्माणां दशानां विग्रहाष्टकात् | अहिंसा सत्यमस्तेयं ब्रह्माकल्काक्रुधो गुरोः || ८-२८८ || शुश्रूषाशौचसन्तोषा ऋजुतेति दशोदिताः | पुंस्तत्त्व एव गन्धान्तं स्थितं षोडशकं पुनः || ८-२८९ || आरभ्य देहपाशाख्यं पुरं बुद्धिगुणास्ततः | तत्रैवाष्टावहङ्कारस्त्रिधा कामादिकास्तथा || ८-२९० || पाशा आगन्तुकगाणेशवैद्येश्वरभेदिताः | त्रिविधास्ते स्थिताः पुंसि मोक्षमार्गोपरोधकाः || ८-२९१ ||
SK
विग्रहाष्टकादिति, ऊर्ध्वम् | पुंस्तत्त्व एवेत्यर्थात्, दशविधस्यापि धर्मस्योर्ध्वम् | देहपाशेत्याद्यावृत्यापि एतदनन्तरं देहपाशानां सूक्ष्मदेहारम्भिणां विषयशब्दवाच्यानां शब्दादीनां पञ्चानामपि पुरं व्याख्येयम् | तदुक्तम् -- ᳚शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः | विषयास्तु समाख्याताः शोधनीयाः प्रयत्नतः ||᳚ (स्व. १०|१०९६) इति | एतच्च यद्यपि श्रीस्वच्छन्दे त्रिविधादहङ्कारादन्तरमुक्तं तथापि इह विकारषोडशकसाजात्येनैवं व्याख्यातम् | शब्दादीनामेव च सर्वतोमुखं परं बन्धकत्वं समस्ति -- इति परसूक्ष्मस्थूलतयैषां तत्र तत्र पौनःपुन्येन शोध्यत्वेनाभिधानम् -- इति न कश्चिद्दोषः | कामादिकाः पाशास्त्रिविधा उदिता -- इति संबन्धः | एषां चात्र अवस्थाने हेतुर्मोक्षमार्गोपरोधका इति | तदुक्तम् -- ᳚कामः क्रोधश्च लोभश्च मोहः पैशुन्यमेव च | जन्ममृत्युजराव्याधिक्षुत्तृट्तृष्णास्तथैव च || विषादश्च भयं चैव मदो हर्षणमेव च | रागो द्वेषश्च वैचित्त्यं कुपितानृतद्रोहिता || माया मात्सर्यं धर्मश्च अधर्मश्चास्वतन्त्रता | आगन्तुकाश्च बोद्धव्या गणपाशान्निबोध मे || देवी नन्दिमहाकालौ गणेशो वृषभस्तथा | भृङ्गी चण्डेश्वरश्चैव कार्तिकेयोऽष्टमः स्मृतः || अनन्तस्त्रितनुः सूक्ष्मः श्रीकण्ठश्च शिवोत्तमः | शिखण्डी चैकनेत्रश्च एकरुद्रस्तथा परः || विद्येश्वराष्टकान्पाशान्दीक्षाकाले विशोधयेत् |᳚ (स्व. १०|११०१) इति || २९१ || नन्विह त्रिविधाः पाशाः -- आणवः कार्मो मायीयश्चेति | तत्र विकारषोडशकादेः पाशत्वं यद्य(द)भिधीयते तदास्ताम्, स हि मायीयस्यैव पाशस्य प्रपञ्चः; यत्पुनरिदं गणानां विद्येशानां च पाशत्वमुच्यते तदपूर्वमिव नः प्रतिभासते? -- इत्याशङ्क्याह -- यत्किञ्चित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् | पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते || ८-२९२ ||
SK
इह खलु पूर्वमुक्तस्वरूपात्प्रकाशैकमात्रवपुषः ᳚परात्᳚ पूर्णाच्छिवात् यत्किञ्चित् न तु नियतमेव ᳚अन्यत्᳚ अतिरिक्तं तन्निखिलमेव पाश उच्यते, बन्धकतयैव अभिमतम् -- इत्यर्थः | ननु परस्मात्प्रकाशादन्यन्नाम न किञ्चिदेव सम्भवेत् तदतिरेकेणास्य भानायोगात्, तथात्वे वा तदेकमात्ररूपत्वात् तत्कस्य पाशत्वेन अभिधानम् ? -- इत्याशङ्क्योक्तम् -- ᳚परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात्᳚ इति | स हि परः शिवः परमाद्वैतसंविद्रूपत्वेऽपि स्वातन्त्र्यसुन्दरो येन स्वं (स्व) रूपं गोपयित्वा तेन तेन संकुचितेन रूपेण प्रस्फुरेत्, यतोऽयं भेदप्रथात्मा मायीय एव मलः प्रबलतामियात् || २९२ || नन्वेवं वेदकैकस्वरूपात् पराच्छिवादन्ये वेद्यैकरूपास्तनुकरणादयो जडा यदि पाशत्वेनेष्यन्ते तदास्ताम्, कथं पुनः वेदकैकस्वभावाः पररूपाः प्रमातारोऽपि ? -- इत्याशङ्क्याह -- तदेवं पुंस्त्वमापन्ने पूर्णेऽपि परमेश्वरे | तत्स्वरूपापरिज्ञानं चित्रं हि पुरुषास्ततः || ८-२९३ || इह खलु पारमेश्वराद्रूपात् भेदेन प्रथनं नाम बन्धो यदख्यातिरिति सर्वत्रोद्धोष्यते तच्च वेदकानां वेद्यानां चाविशिष्टम् -- इति सर्वेषामपि पाशरूपतायां समानः पन्थाः | एवमपि तत्स्वरूपापरिज्ञाने पंसामन्योन्यमतिशयः संभवेत् येनैषामपि वैचित्र्यम् | तथा हि -- कस्यचिदेक एव मलः कस्यचित् द्वौ, कस्यचित्त्रयोऽपीति | एवमपि पाशरूपतायामेषां न कश्चिद्विशेषः, पारमेश्वरस्य स्वरूपापरिज्ञानस्य तादवस्थ्यात् | एवं च विद्येशत्वं त्वपरा मुक्तिः -- इत्यादि युक्तमेव | अत एव शमनान्तं वरारोहे पाशजालमनन्तकम् |᳚ (स्व. ४|४२९) इत्याद्युक्तम् || २९३ || एवमिहापि अनुक्तं यत्किञ्चित्पराच्छिवादन्यत् तत्सर्वं पाशतयैव ज्ञेयमित्याह � उक्तानुक्तास्तु ये पाशाः परतन्त्रोक्तलक्षणाः | ते पुंसि सर्वे तांस्तत्र शोधयन्मुच्यते भवात् || ८-२९४ || पुंस ऊर्ध्वं तु नियतिस्तत्रस्थाः शङ्करा दश | हेमाभाः सुसिताः कालतत्त्वे तु दश ते शिवाः || ८-२९५ || कोटिः षोडशसाहस्रं प्रत्येकं परिवारिणः |
SK
रागे वीरेशभुवनं गुर्वन्तेवासिनां पुरम् || ८-२९६ || पुरं चाशुद्धविद्यायां स्याच्छक्तिनवकोज्ज्वलम् | मनोन्मन्यन्तगास्ताश्च वामाद्याः परिकीर्तिताः || ८-२९७ || कलायां स्यान्महादेवत्रयस्य पुरमुत्तमम् | ᳚शङ्कराः᳚ इत्येतत्संज्ञाः | ᳚वामदेवस्तथा शर्वस्तथा चैव भवोद्भवौ | वज्रदेहः प्रभुश्चैव दाता च क्रमविक्रमौ || सुप्रभेदश्च दशमो नियत्यां शङ्कराः स्मृताः |᳚ (स्व. १०|११०४) इति | हेमाभा इति, शङ्कराः | सुसिता इति, शिवाः | तदुक्तम् -- ᳚हेमाभाः शङ्कराः प्रोक्ताः शिवाः स्फटिकसंनिभाः |᳚ (स्व. १०|११०८) इति | ᳚शुद्धो बुद्धः प्रबुद्धश्च प्रशान्तः परमाक्षरः | शिवश्च सुशिवश्चैव ध्रुवश्चाक्षरशंभुराट् || दशैते कालतत्त्वे तु शिवा ज्ञेया वरानने |᳚ (स्व. १०|११०७) इति च | वीरेशभुवनमिति, अर्थादष्टसंख्यावच्छिन्नम् | ᳚परम्᳚ इति अन्यत् दशसंख्यावच्छिन्नम् | तदुक्तम् � ᳚अत ऊर्ध्वं हरिहरौ रागतत्त्वे निबोध मे | संहृष्टः सुप्रहृष्टश्च सुरूपो रूपवर्धनः || मनोन्मनो महावीरो वीरेशाः परिकीर्तिताः |᳚ (स्व. १०|१११२) इति | ᳚कल्याणः पिङ्गलो बभ्रुवीरश्च प्रभवस्तथा | मेघातिथिश्छेदकश्च दाहकः शास्त्रकारिणः || पञ्च शिष्यास्तथाचार्या दशैते संव्यवस्थिताः |᳚ (स्व. १०|१११४) इति च | ᳚ताः᳚ इति शक्तयः | तदुक्तम् -- ᳚वामा ज्येष्ठा च रौद्री च काली विकरणी तथा | बलविकरणी चैव बलप्रमथनी तथा || सर्वभूतदमनी च तथा चैव मनोन्मनी |᳚ (स्व. १०|१११४) इति च | अत्र च स्त्रीपाठ एव साधुर्महाजनैः परिगृहीतत्वात् | उत्तममिति, विश्वस्य परायां काष्ठायामधिरोहात् | तदुक्तम् -- ᳚महादेवो महातेजा महाज्योति.............. |᳚ इति || २९७ || इदानीं ग्रन्थितत्त्वशक्त्यात्मना त्रिप्रकारं मायायाः स्वरूपं निरूपयति -- ततो माया त्रिपुटिका मुख्यतोऽनन्तकोटिभिः || ८-२९८ || आक्रान्ता सा भगबिलैः प्रोक्तं शैव्यां तनौ पुनः | अङ्गुष्ठमात्रपर्यन्तं महादेवाष्टकं निशि || ८-२९९ || चक्राष्टकाधिपत्येन तथा श्रीमालिनीमते |
SK
मुख्यत इति, अन्यथा हि अस्या वक्ष्यमाणदृशा पुटानामानैक्यम् | ᳚महादेवाष्टकं निशि᳚ इत्यत्रापि ᳚शैव्यां तनौ᳚ इति योज्यम् | तदुक्तं तत्र -- ᳚भगबिलसहस्रकलितं गुहाशिरो यत्प्रपञ्चसर्वगतम् |᳚ इति | ᳚तत्रानघप्रभावः प्रथमश्चक्राधिपो महातेजाः | वामो नाम्ना बलवान् द्वितीयचक्राधिपो रुद्रः || चक्रं भवोद्भवाख्यस्तृतीयमधितिष्ठति स्ववीर्येण | प्रभुरेकपिङ्गचक्षुश्चक्रस्य पतिश्चतुर्थस्य || रिशान इति प्रथितो यच्चक्रं पञ्चमं प्रवर्तयति | षष्ठस्याधिष्ठाता भुवनेशो भुवनचक्रस्य || प्रथितः पुरःसराख्यो यः सप्तमचक्रनायको देवः | अङ्गुष्ठमात्रनामा पतिरष्टमभुवनचक्रस्य ||᳚ इति च | न केवलमत्रैवैतदुक्तं यावदन्यत्रापि -- इत्याह -- ᳚तथा श्रीमालिनीमते᳚ इति | यदुक्तं तत्र � ᳚महातेजःप्रभृतयो मण्डलेशानसंज्ञकाः | मायातत्त्वे स्थितास्तत्र वामदेवभवोद्भवौ || एकपिङ्गेक्षणेशानभुवनेशपुरःसराः | अङ्गुष्ठमात्रसहिताः कालानलसमत्विषः ||᳚ (मा. वि. ५|२९) इति || २९९ || अत्र च श्रीपूर्वशास्त्रादपि विशेषान्तरमस्ति -- इत्याह -- वामाद्याः पुरुषादौ ये प्रोक्ताः श्रीपूर्वशासने || ८-३०० || ते मायातत्त्व एवोक्तास्तनौ शैव्यामनन्ततः | पुरुषादाविति, आदिशब्दाद्रागतत्त्वम् | यदुक्तं तत्र -- ᳚पुरुषे वामभीमोग्रभवेशानैकवीरकाः | प्रचण्डो माधवोऽजश्च अनन्तैकशिवावथ ||᳚ (मा. वि. ५|२६) इति | ᳚अनन्ततः᳚ इति अनन्तपर्यन्तम् -- इत्यर्थः | यदुक्तं तत्र -- ᳚वामस्य ततो भुवनं तस्माद्भैमं ततोऽपि चोग्रस्य | तस्माद्भवस्य भुवनं तदुपरि सर्वस्य देवस्य ||᳚ इति | ᳚तस्माद्गुणैर्विचित्रैर्भुवनवरं चक्रवीरस्य |᳚ इति | ᳚अपरिमितगुणनिधानं भुवनवरं तदुपरि प्रचण्डस्य | यत्र प्रचण्डनामा स्थितोऽनुशास्त्येकवीरादीन् ||᳚ इति च || ३०० || अत्र चैषामुपदेशेन कोऽर्थः ? -- इत्याशङ्क्याह -- कपालव्रतिनः स्वाङ्गहोतारः कष्टतापसाः || ८-३०१ || सर्वाभयाः खङ्गधाराव्रतास्तत्तत्त्ववेदिनः |
SK
᳚तत्तत्त्ववेदिनः᳚ इति वामादिसायुज्यभाजः -- इत्यर्थः | तदुक्तम् -- ᳚ज्ञातज्ञेया विप्राः कापालव्रतभृतो विगतसङ्गाः | भस्मोपलेपनिष्ठा व्रजन्ति वामस्य सायुज्यम् || उपलब्धवेदनीया अतिभीमपदेप्सवो निजशिरोभिः | स्वयमुल्लूनैरिष्ट्वा भौमं गच्छन्ति तद्धाम || विहितोग्रयोगविधयो ये धीरा दुष्करे तपस्युग्रे | ध्यायन्त्युग्रमजस्रं तेऽपि लभन्ते गुणानौग्रान् || विज्ञाय भवं देवं भीतानामभयदानसंसिद्धाः | भवपदमारोहन्तो ध्यानाहितचेतसो विप्राः || स्त्रग्वस्त्रालङ्कारैरभिरामं रूपमात्मनः कृत्वा | असिधाराव्रतनिष्ठाः पूर्वपदं ध्यायिनो यान्ति ||᳚ इति || ३०१ || नन्वेषामपि सृष्ट्यादिकारी प्रभुरनन्तोऽस्ति � इति किमेतावत्पदप्राप्त्या -- इत्याशङ्क्याह -- क्रमात्तत्तत्त्वमायान्ति यत्रेशोऽनन्त उच्यते || ८-३०२ || ᳚तत्तत्त्वम्᳚ इति मायीयं प्रधानं भुवनम् -- इत्यर्थः | ईश इति, अर्थादियदन्तस्याध्वनः || ३०२ || किमत्र प्रमाणम् ? -- इत्याशङ्क्याह -- उक्तं च तस्य परतः स्थानमनन्ताधिपस्य देवस्य | स्थितिविलयसर्गकर्तुर्गुहाभगद्वारपालस्य || ८-३०३ || उक्तमिति, शिवतनावेव | ᳚परतः᳚ इत्यूर्ध्वम् | ᳚गुहा᳚ इति माया || ३०३|| स्थित्यादिकारित्वमेवास्य दर्शयति -- धर्मानणिमादिगुणाञ्ज्ञानानि तपःसुखानि योगांश्च | मायाबिलात्प्रदत्ते पुंसां निष्कृष्य निष्कृष्य || ८-३०४ || तच्छक्तीद्धस्वबला गुहाधिकारान्धकारगुणदीपाः | सर्वेऽनन्तप्रमुखा दीप्यन्ते शतभवप्रमुखान्ताः || ८-३०५ || सोऽव्यक्तमधिष्ठाय प्रकरोति जगन्नियोगतः शम्भोः | शुद्धाशुद्धस्रोतोऽधिकारहेतुः शिवो यस्मात् || ८-३०६ || तच्छक्तीति, तच्छब्देन अनन्तपरामर्शः | अनेन च न केवलमयं क्षेत्रज्ञानामेव स्थितिं विधत्ते यावद्रुद्राणामपि -- इत्युक्तम् | ᳚गुणाः᳚ सर्वज्ञत्वादयः | अनन्तप्रमुखा इति, अनन्तस्वामिकाः -- इत्यर्थः | जगदिति, कार्यकारणात्मनियोगतः शम्भोरिति, न तु स्वेच्छामात्रात् | अत्र हेतुः ᳚शुद्धेत्यादिना᳚ | तदुक्तं तत्र --
SK
᳚अव्यक्तमधिष्ठाय प्रकरोति जगद्यतः स देवेशः | संसारमहाविवरे पर्यस्तांस्त्रायते च यतः || शिवयोगबलोपेतस्तस्मात्पत्युर्नियोग आसीनः | शुद्धाशुद्धस्रोतोऽधिकारहेतुः शिवो ज्ञेयः ||᳚ इति ||३०६|| ननु को नाम शुद्धाशुद्धयोः स्रोतसोरधिकार ? -- इत्याशङ्क्याह -- शिवगुणयोगे तस्मिन् महति पदे ये प्रतिष्ठिताः प्रथमम् | तेऽनन्तादेर्जगतः सर्गस्थितिविलयकर्तारः || ८-३०७ || मायाबिलमिदमुक्तं परतस्तु गुहा जगद्योनिः | ᳚महति पदे᳚ इति शुद्धे स्रोतसि | तस्य विशेषणं ᳚शिवगुणयोगे᳚ इति, सर्वज्ञत्वादिसंभवात् | अनन्तादेरिति ᳚अनन्तोः᳚ मायातत्त्वाधिष्ठाता | मायाबिलमिति, ग्रन्थिरूपा माया, गुहेति, तत्त्वरूपा | ᳚परतः᳚ इति अशुद्धे स्रोतसि -- इत्यर्थः | तेन ग्रन्थितत्त्वरूपतया द्विविधापि माया जगद्योनिरिति संबन्धः | उक्तं च तत्र -- ᳚परतो गुहा भगवती जगतामुत्पत्तिकारणं माया | यस्यां स्थितिमनुभूय प्रविलीयन्ते पुनर्लोकाः ||᳚ इति || ३०७|| अत्र च भगसंज्ञायां प्रवृत्तौ किं निमित्तम् ? -- इत्याशङ्क्याह � उत्पत्त्या तेष्वस्याः पतिशक्तिक्षोभमनुविधीयमानेषु || ८-३०८ || योनिविवरेषु नानाकामसमृद्धेषु भगसंज्ञा | कामयते पतिरेनामिच्छानुविधायिनीं यदा देवीम् || ८-३०९ || प्रतिभगमव्यक्ताद्याः प्रजास्तदास्याः प्रजायन्ते | ᳚तेषु᳚ इति सृष्ट्यादिलाभरूपेष्वित्यर्थः | ᳚अस्याः᳚ इति ग्रन्थिरूपाया मायायाः | ᳚एनाम्᳚ इति ग्रन्थिरूपामेव मायाम् | ᳚प्रतिभगम्᳚ इति भगे भगे इत्यर्थः | अत एव प्रकृत्यण्डादेरसंख्यातत्वम् | एतत्साम्यनिमित्त एव चात्र लौकिकः स्त्रीपुंसवृत्तान्तोऽपि कटाक्षितः || ३०९ || एते चानवच्छिन्ना -- इत्याह -- तेषामतिसूक्ष्माणामेतावत्त्वं न वर्ण्यते विधिषु || ८-३१० || ᳚विधिषु᳚ शास्त्रेषु || ३१० || एतदेव दृष्टान्तोपदर्शनेन द्रढयति -- अववरकाण्येकस्मिन्यद्वत्साले बहूनि बद्धानि | योनिबिलान्येकस्मिंस्तद्वन्मायाशिरःसाले || ८-३११ || मायापटलैः सूक्ष्मैः कुङ्यैः पिहिताः परस्परमदृश्याः |
SK
निवसन्ति तत्र रुद्राः सुखिनः प्रतिबिलमसंख्याताः || ८-३१२ || स्थाने सायुज्यगताः सामीप्यगताः परे सलोकस्थाः | ᳚तत्र स्थाने᳚ इति ग्रन्थिरूपायां मायायाम् | असंख्यातत्वे निमित्तमाह शायुज्य᳚ इत्यादि || ८-३१२ || एतदेवान्यत्रापि अतिदिशति -- प्रतिभुवनमेवमयं निवासिनां गुरुभिरुद्दिष्टः || ८-३१३ || एषां चाधिष्ठातृभिः सममियत्ताकलने निमित्ताभावं दर्शयति -- अपि सर्वसिद्धवाचः क्षीयेरन्दीर्घकालमुद्गीर्णाः | न पुनर्योन्यानन्त्यादुच्यन्ते स्रोतसां संख्याः || ८-३१४ || नन्वस्मात्स्रोतसः किं स्रोतोन्तराणि विलक्षणानि न वा ? -- इत्याशङ्क्याह -- तस्मान्निरयाद्येकं यत्प्रोक्तं द्वारपालपर्यन्तम् | स्रोतस्तेनान्यान्यपि तुल्यविधानानि वेद्यानि || ८-३१५ || अव्यक्तकले गुहया प्रकृतिकलाभ्यां विकार आत्मीयः | ओतः प्रोतो व्याप्तः कलितः पूर्णः परिक्षिप्तः || ८-३१६ || गुहाया हि अव्यक्तं कला च विकारः, अतश्च तयाव्यक्तकलयोरोतत्वादि न्याय्यम् | कारणेन हि स्वकार्यापूरकेण भाव्यम् | यदाहुः -- ᳚कारणमापूरकं च तस्यैव |᳚ इति | आपूरणमेव च ᳚ओतः प्रोतः᳚ इत्यादिना विभक्तम् | ᳚आत्मीयः᳚ इति महदादिरविद्यादिश्च || ३१६ || एवमस्याः शास्त्रान्तरेभ्यो विशेषं दर्शयित्वा प्रकृतमेवाह -- मध्ये पुटत्रयं तस्या रुद्राः षडधरेऽन्तरे | एक ऊर्ध्वे च पञ्चेति द्वादशैते निरूपिताः || ८-३१७ || ᳚अधरे᳚ इति पुटे | एवमन्यत्र || ३१७ || तान्येव पठति � गहनासाध्यौ हरिहरदशेश्वरौ त्रिकलगोपती षडिमे | मध्येऽनन्तः क्षेमो द्विजेशविद्येशविश्वशिवाः || ८-३१८ || इति पञ्च तेषु पञ्चसु षट्सु च पुटगेषु तत्परावृत्त्या | परिवर्त्तते स्थितिः किल देवोऽनन्तस्तु सर्वथा मध्ये || ८-३१९ || तदुक्तम् � ᳚गहनश्च असाध्यश्च तथा हरिहरः प्रभुः | दशेशानश्च देवेशि त्रिकलो गोपतिस्तथा || अधःपुटे तु विज्ञेया मायातत्त्वे वरानने | क्षेमेशो ब्रह्मणस्वामी विद्येशानस्तथैव च || विश्वेशश्च शिवश्चैव अनन्तः षष्ठ उच्यते | ऊर्ध्वं मायापुटस्थास्तु रुद्रा एते प्रकीर्तिताः ||
SK
एषां मध्ये तु भगवाननन्तेशो जगत्पतिः |(स्व. १०|११२५) इति | अत्र चैषां परेण रूपेणान्यथावस्थानेऽपि अनन्तस्य न कश्चिद्विशेषः -- इत्याह ᳚तेषु᳚ इत्यादि | पुटगेष्विति, अर्थादूर्ध्वाधः | तत्परावृत्त्येति, तच्छब्देन रुद्राणां परामर्शः, तेन अधःपुटे ऊर्ध्वपुट एव च उपर्युपरिभावस्य व्यत्ययादेषां स्थितिः परिवर्तते -- इति यावत् | तदुक्तम् -- प्रथमेन तु भेदेन रुद्रा द्वादश कीर्तिताः | अस्मिंस्तु ये महारुद्रा मायातत्त्वे व्यवस्थिताः || तानहं संप्रवक्ष्यामि भेदत्रयविभागशः | गोपतिश्च ततो देवि अधोग्रन्थौ व्यवस्थितः || ग्रन्थ्यूर्ध्वं संस्थितो विश्वस्त्रिकलः क्षेम एव च | ब्रह्मणोऽधिपतिश्चैव शिवश्चैव स पञ्चमः || अध ऊर्ध्वमनन्तस्तु............................ |᳚(स्व. १०|११३०) इति | एवमत्र अधःपुटे परापररूपतया सप्त भुवनानि, ऊर्ध्वपुटे च दश, मध्यपुटे च पुनरेकमेव -- इत्यष्टादश || ३१९ || अन्यत्र पुनरियान्विशेषः -- इत्याह -- ऊर्ध्वाधरगकपालकपुटषट्कयुगेन तत्परावृत्त्या | मध्यतोऽष्टाभिर्दिक्स्थैर्व्याप्तो ग्रन्थिर्मतङ्गशास्त्रोक्तः || ८-३२० || षट्कयुगेनेति, रुद्राणां, तेनोर्ध्वकपालेऽवस्थितैः षड्भिरनन्ताद्यै रुद्रैरधश्च गोपत्यादिभिर्मध्ये च विग्रहेशाद्यैरष्टभिः, -- इति विंशत्या रुद्राणां मायाग्रन्थिरधिष्ठितः -- इत्यर्थः | तदुक्तं तत्र -- ᳚ग्रन्थेरूर्ध्वं कपालानि षट्संख्यातानि सुव्रत | तावन्त्यधस्ताद्रम्याणि रचितानीह धातुभिः ||᳚ (मतं. ८|६७) इत्याद्युपक्रम्य ᳚अनन्तोऽनन्तवीर्यात्मा सर्वेषां मूर्ध्नि संस्थितः | ततोऽधस्ताच्छिवो नाम रुद्रो भुवनकृत् प्रभुः || विश्वेशश्च महातेजा विद्येशानः परस्ततः | ततोऽन्यो ब्रह्मणस्वामी क्षेमेशश्चाप्यनन्तरम् || एते षट् भुवनेशानाः............................. |᳚ (मतं. ८|८२) इति | ᳚एभ्योऽधः संस्थितो ग्रन्थिर्दुर्भेद्यश्चातिविस्तृतः | यत्रासौ विग्रहेशानः............................ ||᳚ (मतङ्ग|८|८४) इति | ᳚यत्र शर्वो भवश्चैव उग्रो भीमश्च वीर्यवान् |
SK
भस्मान्तको दुन्दुभिश्च श्रीवत्सश्च महाबलः || तस्माद् ग्रन्थेरधश्चक्रं षट्कपालमयं महत् |᳚ (मतङ्ग. ८|८६) इति | ᳚गोपतेर्भुवनं दिव्यं त्रिकलस्याप्यनन्तरम् | तदधस्ताद्दशेशस्य भुवनं चारु निर्मलम् || हरेर्हरस्य देवस्य तथा हरिहरस्य च |᳚ (मतङ्ग. ८|८८) इति च || ३२० || अन्यत्र पुनर्विशेषान्तरमप्यस्ति -- इत्याह -- श्रीसारशासने पुनरेषा षट्पुटतया विनिर्दिष्टा | यदुक्तं तत्र � ᳚तस्याधस्तान्महामाया षट्पुटा संव्यवस्थिता |᳚ इति || एवं मायाया ग्रन्थिरूपतामुपसंहरंस्तत्त्वरूपतां वक्तुमुपक्रमते -- ग्रन्थ्याख्यमिदं तत्त्वं मायाकार्यं ततो माया || ८-३२१ || मायाकार्यमिति, जननौन्मुख्यात् मायातत्त्वमेव वैषम्यमापन्नम् -- इत्यर्थः | तस्य पुनरक्षुब्धमेव रूपम् || ३२१ || अत आह -- मायातत्त्वं विभु किल गहनमरूपं समस्तविलयपदम् | ᳚विभु᳚ व्यापकम्, अत एव गहनम् | अरूपमिति, सूक्ष्मत्वात् | समस्तविलयपदमिति, सूक्ष्मेण क्रमेणात्र विश्वस्यावस्थानात् || अत एव न चात्र कश्चिद्भौवनविभागः -- इत्याह -- तत्र न भुवनविभागो युक्तो ग्रन्थावसौ तस्मात् || ८-३२२ || ग्रन्थाविति, तस्यैव स्थूले रूपे इत्यर्थः || ३२२ || नन्वेवमपि अस्या जाड्यात् कथमेवं कार्याविर्भावने सामर्थ्यम् ? -- इत्याशङ्क्याह -- मायातत्त्वाधिपतिः सोऽनन्तः समुदितान्विचार्याणून् | युगपत्क्षोभयति निशां सा सूते संपुटैरनन्तैः स्वैः || ८-३२३ || क्षोभयतीति, कार्यप्रसवयोग्यां करोति -- इत्यर्थः | संपुटैरिति, भगाकारैः | एषां चानन्त्यं शिवतनुग्रन्थेनैव उक्तम् || ३२३ || अत एव कार्यस्यापि आनन्त्यमित्याह -- तेन कलादिधरान्तं यदुक्तमावरणजालमखिलं तत् | निःसंख्यं च विचित्रं मायैवैका त्वभिन्नेयम् || ८-३२४ || ननु कारणस्यैक्येऽपि कार्यमनन्तमित्यत्र किं प्रमाणम् ? -- इत्याशङ्क्याह -- उक्तं श्रीपूर्वशास्त्रे च धराव्यक्तात्मकं द्वयम् | असंख्यातं निशाशक्तिसंज्ञं त्वेकस्वरूपकम् || ८-३२५ || तदुक्तं तत्र --
SK
᳚पृथग्द्वयमसंख्यातमेकैकं च पृथग्द्वयम् |᳚ (मा. वि. २|५०) इति || ३२५ || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवावतारयति -- पाशाः पुरोक्ताः प्रणवाः पञ्च मानाष्टकं मुनेः | कुलं योनिश्च वागीशी यस्यां जातो न जायते || ८-३२६ || पुरेति पुंस्तत्त्वप्रकरणे | मुनेः कुलमिति गुरुशिष्यादिरूपतया प्रागेव उक्तम् | योनिरिति, ᳚वागेव विश्वा भुवनानि जज्ञे᳚ इति स्थित्या विश्वकारणम् | जात इति मन्त्रादिबलेन | न जायते इति, परशिवे योजितत्वात् || ३२६ || किं बहुना यत्किञ्चित्कलादावधराध्वन्युक्तं तत्सर्वमत्रैव स्थितम् -- इत्याह -- दीक्षाकालेऽधराध्वस्थशुद्धौ यच्चाधराध्वगम् | अनन्तस्य समीपे तु तत्सर्वं परिनिष्ठितम् || ८-३२७ || कारणे हि कार्यस्य सूक्ष्मेण रूपेणावस्थानमुचितम् -- इति भावः || ३२७ || ननु भवतु नामैतत्, प्रणवादि पुनः किमुच्यते ? -- इत्याशङ्क्याह -- साध्यो दाता दमनो ध्यानो भस्मेति बिन्दवः पञ्च | पञ्चार्थगुह्यरुद्राङ्कुशहृदयलक्षणं च सव्यूहम् || ८-३२८ || आकर्षादर्शौ चेत्यष्टकमेतत्प्रमाणानाम् | ᳚बिन्दवः᳚ प्रणवाः || ३२८ || एषां च सर्वेषामेव यथासंभवं स्वरूपमभिधातुमाह -- अलुप्तविभवाः सर्वे मायातत्त्वाधिकारिणः || ८-३२९ || मायामयशरीरास्ते भोगं स्वं परिभुञ्जते | स्वमिति, स्वाधिकारोचितम् -- इत्यर्थः || ३२९ || मायामयशरीरत्वमेव व्याचष्टे -- प्रलयान्ते ह्यनन्तेन संहृतास्ते त्वहर्मुखे || ८-३३० || अन्न्यानन्तप्रसादेन विबुधा अपि तं परम् | सुप्तबुद्धं मन्यमानाः स्वतन्त्रम्मन्यताजडाः || ८-३३१ || स्वात्मानमेव जानन्ति हेतुं मायान्तरालगाः | ᳚अहर्मुखे᳚ पुनःसृष्टौ | अन्यानन्तेति, अन्यशब्दो मायाधिकार्यपेक्षया | तं परमनन्तं हेतुं न जानन्ति, अपि तु स्वात्मानमेव -- इति संबन्धः | अत्र च एवकारसामर्थ्यान्निषेधावगमः, तदपरिज्ञाने च हेतुद्वयं सुप्तबुद्धं मन्यमानाः स्वतन्त्रंमन्यताजडाश्चेति | स्वात्मनि च तथापरिज्ञाने हेतुः ᳚मायान्तरालगा᳚ इति | इदमुक्तं भवति -- यद्यपि एषां
SK
᳚शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः |᳚ इत्याद्युक्त्या अनन्तादीनामेव सृष्टिसंहाराः, तथाप्येते मायामोहितत्वात् एश्वर्यमदेनैतन्न जानते, प्रत्युत वयमेव जगतां सृष्टिसंहारकारिणो न पुनरस्मदप्यधिकः कश्चिदस्ति -- इति; यत एते स्वात्मनि पारतन्त्र्येऽपि स्वातन्त्र्याभिनिवेशात् सुप्तप्रबुद्धन्यायेन सृष्टिं प्रलयं च स्वात्माधीनमेव मन्यन्ते इति | तदुक्तम् -- ᳚एश्वर्यमदमाविश्य मन्यमाना महोदयाः | मत्तः श्रेष्ठतरं नान्यत्कारणं जगतां परम् || अहमेव समस्तस्य जगतोऽस्य जगत्पतिः |᳚ (मतङ्ग. ८|७३) इति | यतोऽधोदृष्टयः सर्वे स्वसृष्टिमदमोहिताः | तस्मिन्नभिरताः सन्तः क्रीडाभोगेष्वनिन्दिताः || स्वकार्यकरणैः सम्यक्संहारे स्वापमागताः | ततः क्षोभिकयाविष्टाः संप्रबुद्धाः परस्परम् || तद्विधामेव पश्यन्ति स्वां सृष्टिं रचनोज्ज्वलाम् | सुप्तोत्थिता वयं किं नु स्वनिद्रावशवर्तिनः || क्रीडामो विगतक्लेशाः स्वार्जितेषु बुभुक्षवः | सूक्ष्मपाशावृताः सर्वे न च स्थूलैस्तिरस्कृताः ||᳚ (मतङ्ग. ८|८०) इति || ३३२ || एवं मायाया ग्रन्थितत्त्वरूपतया द्वैविध्यं निरूप्य शक्तिरूपतामपि आख्यातुमाह -- अतः परं स्थिता माया देवी जन्तुविमोहिनी || ८-३३२ || देवदेवस्य सा शक्तिरतिदुर्घटकारिता | निर्वैरपरिपन्थिन्या तया श्रमितबुद्धयः || ८-३३३ || इदं तत्त्वमिदं नेति विवदन्तीह वादिनः | गुरुदेवाग्निशास्त्रेषु ये न भक्ता नराधमाः || ८-३३४ || सत्पथं तान्परित्याज्य सोत्पथं नयति ध्रुवम् | असद्युक्तिविचारज्ञाञ्छुष्कतर्कावलम्बिनः || ८-३३५ || भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया | देवीति, देवाभिन्नत्वात् | अतिदुर्घटकारितेति, स्वातन्त्र्यरूपत्वात् ᳚विवदन्ति, इति विमतिं कुर्वन्तीत्यर्थः | शुष्केति, वस्तुशून्यत्वात् || ३३५ || नन्वेवंविधाया अस्याः कथं समुच्छेदः स्यात् ? -- इत्याशङ्क्याह -- शिवदीक्षासिना च्छिन्ना शिवज्ञानासिना तथा || ८-३३६ || न प्ररोहेत्पुनर्नान्यो हेतुस्तच्छेदनं प्रति |
SK
दीक्षेति, क्रिया | नान्यो हेतुरिति, शास्त्रान्तरोदितः || ८-३३६ || महामायोर्ध्वतः शुद्धा महाविद्याथ मातृका || ८-३३७ || वागीश्वरी च तत्रस्थं वामादिनवसत्पुरम् | शुद्धत्वादेव च अस्या महत्त्वमित्युक्तं ᳚महाविद्या᳚ इति || ३३७ || वामाद्या एव पठति � वामा ज्येष्ठा रौद्री काली कलविकरणीबलविकारिकेतथा || ८-३३८ || मथनी दमनी मनोन्मनी च त्रिदृशः पीताः समस्तास्ताः | सप्तकोट्यो मुख्यमन्त्रा विद्यातत्त्वेऽत्र संस्थिताः || ८-३३९ || एकैकार्बुदलक्षांशाः पद्माकारपुरा इह | विद्याराज्ञ्यस्त्रिगुण्याद्याः सप्त सप्तार्बुदेश्वराः || ८-३४० || ᳚अंशा᳚ इति परिवाराः शप्तार्बुदेश्वरा᳚ इति, अर्बुदशब्देनात्र कोटिर्लक्ष्यते, तेन सप्तकोटिसंख्याकानां मन्त्राणामीश्वर्य -- इत्यर्थः | तदुक्तम् -- ᳚त्रिगुणी ब्रह्मवेताली स्थाणुमत्यम्बिका परा | रूपिणी मर्दिनी ज्वाला सप्तसंख्यास्तदीश्वराः || विद्याराज्ञ्यस्तथा ख्याताः........................ |᳚ (स्व. १०|११४९) इति || ३४० || विद्यातत्त्वोर्ध्वमैशं तु तत्त्वं तत्र क्रमोर्ध्वगम् | शिखण्ङ्याद्यमनन्तान्तं पुराष्टकयुतं पुरम् || ८-३४१ || शिखण्डी श्रीगलो मूर्तिरेकनेत्रैकरुद्रकौ | शिवोत्तमः सूक्ष्मरुद्रोऽनन्तो विद्येश्वराष्टकम् || ८-३४२ || क्रमादूर्ध्वोर्ध्वसंस्थानं सप्तानां नायको विभुः | अनन्त एव ध्येयश्च पूज्यश्चाप्युत्तरोत्तरः || ८-३४३ || ᳚एशं तत्त्वम्᳚ ईश्वरतत्त्वम्, तत्र पुरमप्यैशमित्यर्थाद्योज्यम्, यत्र भगवानीश्वरः साक्षादस्ति | तदुक्तम् -- ᳚बाह्ये तस्यैश्वरं तत्त्वं भुवनान्यत्र मे शृणु |᳚ (स्व. १०|११४९) इत्याद्युपक्रम्य ᳚तत्रस्थ ईश्वरो देवो वरदः सर्वतोमुखः |᳚ (स्व. १०|११५२) इति | पुराष्टकस्य च वृतिच्छन्नत्वेऽपि विशेषणं ᳚शिखण्ड्याद्यमनन्तान्तम्᳚ इति, तथा ᳚क्रमोर्ध्वगम्᳚ इति | तत्त्वं चैषां यथायथं गुणाधिक्यात् | शिखण्डिनो हि सृष्ट्यादिकारित्वे श्रीकण्ठोऽधिकस्तस्माच्च त्रिमूर्त्यादिरपीति | यदाहुः -- ᳚ततश्चानन्तात्सूक्ष्मस्य कलया न्यूनं कर्तृत्वं ततः शिवोत्तमस्य᳚
SK
इत्यादि सर्वेषामत्र सिद्धमिति दोषतः पुनरेतन्न व्याख्येयम् | एषां पूर्वादिदिगष्टकक्रमेण संस्थानस्य श्रूयमाणत्वात् | यदुक्तम् -- ᳚विद्येश्वरानतो वक्ष्ये पूर्वादीशान्तगान्क्रमात् |᳚ (स्व. १०|११५९) इति | एवं क्रमादूर्ध्वोर्ध्वसंस्थानमित्यपि व्याख्येयम् || ३४३ || एषां च विद्येश्वरत्वाभिधाने किं निमित्तम् ? -- इत्याशङ्क्याह -- मुख्यमन्त्रेश्वराणां यत् सार्धं कोटित्रयं स्थितम् | तन्नायका इमे तेन विद्येशाश्चक्रवर्तिनः || ८-३४४ || सार्धं कोटित्रयमित्यन्यस्य सार्धस्य कोटित्रयस्य तत्कालमेव अपवृक्तत्वात् | तदुक्तम् -- ᳚ब्रह्मादिस्तम्बपर्यन्ते जातमात्रे जगत्यलम् | मन्त्राणां कोटयस्तिस्रः सार्धाः शिवनियोजिताः || अनुगृह्याणुसङ्घातं याताः पदमनामयम् | (मा. वि. १|४०) इति || ३४४ || नन्वनन्तस्यैव प्राधान्ये किं प्रमाणम् ? -- इत्याशङ्क्याह -- उक्तं च गुरुभिरित्थं शिवतन्वाद्येषु शासनेष्वेतत् | आदिशब्दाद्रुरुवार्तिकादि || तदेवाह � भगबिलशतकलितगुहामूर्धासनगोऽष्टशक्तियुग्देवः || ८-३४५ || गहनाद्यं निरयान्तं सृजति च रुद्रांश्च विनियुङ्क्ते | उद्धरति मनोन्मन्या पुंसस्तेष्वेव भवति मध्यस्थः || ८-३४६ || ते तेनोदस्तचितः परतत्त्वालोचनेऽभिनिविशन्ते | स पुनरधः पथवर्तिष्वधिकृत एवाणुषु शिवेन || ८-३४७ || अवसितपतिविनियोगः सार्धमनेकात्ममन्त्रकोटीभिः | निर्वात्यनन्तनाथस्तद्धामाविशति सूक्ष्मरुद्रस्तु || ८-३४८ || अनुगृह्याणुमपूर्वं स्थापयति पतिः शिखण्डिनः स्थाने | इत्यष्टौ परिपाट्या यावद्धामानि याति गुरुरेकः || ८-३४९ || तावदसंख्यातानां जन्तूनां निर्वृतिं कुरुते | तेऽष्टावपि शक्त्यष्टकयोगामलजलरुहासनासीनाः || ८-३५० || आलोकयन्ति देवं हृदयस्थं कारणं परमम् | तं भगवन्तमनन्तं ध्यायन्तः स्वहृदि कारणं शान्तम् || ८-३५१ || सप्तानुध्यायन्त्यपि मन्त्राणां कोटयः शुद्धाः |
SK
गुहामूर्धेति, मायोपरिवर्तिनी शुद्धविद्या | अष्टौ शक्तयो वामाद्याः | देवाऽनन्तः, रुद्रान्सूक्ष्मादीन्, विनियुङ्क्ते इति, सृष्ट्यादौ | मनोन्मन्येति, नवम्या | आसां हि नवानामपि शक्तीनां भिन्न एव नियोगः, -- इत्यभिप्रायः | तदुक्तम् -- ङयते परमं स्थानमुन्मन्या परमेश्वरः |᳚ इति | ᳚मध्यस्थः᳚ इति तटस्थः, अत एव सर्वेषामेषां यथोचितमेव सृष्ट्यादि विदध्यात् | उदस्तेति उत्तेजिताः | एवकारो भिन्नक्रमः, तेन अधःपथवर्तिष्वेवेति | यदुक्तम् -- ᳚.......................प्रोक्तोऽनन्तोऽसिते प्रभुः |᳚ इति | अनेकात्मेति मन्त्रकोटीनां विशेषणम् | तदुक्तं तत्रैव -- ᳚तस्मिन्नुदितमुदारं शाङ्करमारोहति प्रभौ धाम | निर्वान्ति मन्त्रकोट्योऽनेकाः परिहार्य कार्यत्वम् ||᳚ इति | निर्वातीति, कृतकृत्यत्वाद् अधिकारेच्छाया अप्युपरमात् निर्वाणमेति -- इत्यर्थः | न हि भगवाननिच्छोर्बलादधिकारं विधत्ते -- इत्याशयः| ᳚तद्धाम᳚ इत्यनन्तस्थानम् | सूक्ष्मरुद्रो द्वितीयः | ᳚अणुम्᳚ विज्ञानाकलम् | शिखण्डिन इति, अष्टमस्य | स हि तदानीं श्रैकण्ठं पदमधितिष्ठतीति भावः | तदुक्तं तत्रैव -- ᳚तत्रोपरतेऽनन्ते परिपाट्या नायकास्तदधिकारम् | कुर्वन्ति सञ्चरन्तः पदात्पदं शासनात्पत्युः || उपरमति पतिरनन्तस्तत्पदमधितिष्ठति प्रभुः सूक्ष्मः | सूक्ष्मपदमपि शिवोत्तम एष विधिः सर्वमन्त्राणाम् || वामाद्यान्नव विभवान्भगवान्निजतेजसः समुद्द्योत्य | अनुगृह्याणुमपूर्वं स्थापयति पतिः शिखण्डिनः स्थाने ||᳚ इति | श्रीमतङ्गेऽपि � ङिर्वाति कृतकृत्यत्वादनन्तोऽनन्तवीर्यवान् | ततस्तस्मिन्समारूढे पञ्चमन्त्रतनुः शिवः || ददात्यनुज्ञां सूक्ष्मस्य विद्येशस्य महात्मनः | स च प्राप्तवरः श्रीमान्भर्तुराज्ञानुवर्तकः || तत्तन्त्रः पदमानन्तमधिष्ठाय महायशाः | निर्वर्तयत्यधश्चक्रं यत्तन्मायात्मकं महत् || एवं शिवोत्तमस्यापि सूक्ष्मस्योपरमे शिवः | प्रददातीशसङ्घस्य कारणत्वमनिन्दितम् || पदात्पदं विचरतो ह्येकैकस्य महात्मनः |
SK
यावत्सा परमा काष्ठा तावच्चक्रस्य कारणम् || अव्युच्छेदाय रुद्राणुं कृत्वा शक्तिबलान्वितम् | नियुनक्ति पदे तस्मिन्यवीयसि शिखण्डिनम् ||᳚ (मतङ्ग. ५|६२) इति | यत्पुनः ᳚अनन्तोपरमे तेषां महतां चक्रवर्तिनाम् | विहितं सर्वकर्तृत्वकारणं परमं पदम् ||᳚ (रौरवे) इत्याद्युक्तं तन्महाप्रलयविषयत्वेन योज्यम् | तत्र हि युगपदेव सर्वेषामुपरमः -- इत्युक्तं प्राक् | श्रीमतङ्गेऽपि -- ᳚शुद्धाध्वपतयो देवा महान्तश्चक्रवर्तिनः | समाप्य स्वाधिकारं ते प्रयान्ति पदमुत्तमम् ||᳚ इति | ᳚एक᳚ इति एक एकः -- इत्यर्थः | ᳚परमं देवम्᳚ परमशिवम् | अपिशब्दो भिन्नक्रमः, तेन सप्तापि मन्त्राणां कोटय इति || ३५१ || नन्वधर एवाध्वन्यनन्तोऽधिकृतः -- इत्युक्तम्, तत्कोऽसावधरोऽन्यो वाध्वा ? -- इत्याशङ्क्याह -- मायादिरवीच्यन्तो भवस्त्वनन्तादिरुच्यतेऽप्यभवः || ८-३५२ || शिवशुद्धगुणाधीकारान्तः सोऽप्येष हेयश्च | अनाश्रितानन्ताद्यधिकारपर्यन्तः -- इत्यर्थः || ८-३५२ || हेयत्वे चात्र किं निमित्तम् ? -- इत्याशङ्क्याह -- अत्रापि यतो दृष्टानुग्राह्याणां नियोज्यता शैवी || ८-३५३ || इष्टा च तन्निवृत्तिर्ह्यभवस्त्वधरे न भूयते यस्मात् | ननु यद्येवं तत्कथमत्राभवशब्दस्य प्रवृत्तिः ? -- इत्याशङ्क्योक्तम् ᳚ह्यभवस्त्वधरे न भूयते यस्मात्᳚ इति || ३५३ || तन्निवृत्तिमेव व्याचष्टे -- पत्युरपसर्पति यतः कारणता कार्यता च सिद्धेभ्यः || ८-३५४ || कञ्चुकवच्छिवसिद्धौ तावति भवसंज्ञयातिमध्यस्थौ | ᳚कारणता᳚ नियोक्तृत्वम्, ᳚कार्यता᳚ नियोज्यत्वम्, शिद्धेभ्यः᳚ इति मुक्ताणुभ्यः, ᳚कञ्चुकवत्᳚ इति मायीयावरणवत् | तदपि हि तथा निवर्तत एव -- इति भावः | यतस्तौ शिवसिद्धौ अतिभवरूपत्वात् ᳚अतिमध्यस्थौ᳚ अत्युदासीनौ नियोज्यनियोक्तृतादिक्षोभशून्यौ भवतः -- इत्यर्थः || ३५४ || इदानीं प्रकृतमेवाह -- धर्मज्ञानविरागैश्यचतुष्टयपुरं तु यत् || ८-३५५ || रूपावरणसंज्ञं तत्तत्त्वेऽस्मिन्नैश्वरे विदुः | वामा ज्येष्ठा च रौद्रीति भुवनत्रयशोभितम् || ८-३५६ ||
SK
सूक्ष्मावरणमाख्यातमीशतत्त्वे गुरूत्तमैः | ᳚तत्त्वेऽस्मिन्नैश्वर᳚ इति, तथा ᳚रिशतत्त्वे᳚ इत्यनेनेदमुक्तं यदियदेव भुवनजातमीश्वरतत्त्वे शोधनीयमिति | तदुक्तम् -- ᳚दश पञ्च च शोध्यानि भुवनान्यैश्वरे क्रमात् |᳚ इति | तत्र विद्येशानामष्टौ भुवनानि, रूपावरणे चत्वारि, सूक्ष्मावरणे त्रीणीति पञ्चदश | अत एवेयतैवोपसंहारगर्भीकारेण श्रीस्वच्छन्दशास्त्रे -- ᳚व्रतं पाशुपतं दिव्यं ये चरन्ति जितेन्द्रियाः | भस्मनिष्ठाजपध्यानात्ते व्रजन्त्यैश्वरं पदम् || तत्रेश्वरस्तु भगवान् देवदेवो निरञ्जनः | अधिकारं प्रकुरुते शिवेच्छाविधिचोदितः ||᳚(स्व.१०|११६९) इत्याद्युक्तम् | श्रीनन्दिशिखायामपि -- ᳚अत्राधिकारवानेवमीश्वरः शिवचोदितः | तज्जपध्याननिष्ठा ये ते व्रजन्त्यैश्वरं पदम् ||᳚ इति || ३५६ || एशात्सादाशिवं ज्ञानक्रियायुगलमण्डितम् || ८-३५७ || शुद्धावरणमित्याहुरुक्ता शुद्धावृतेः परम् | विद्यावृतिस्ततो भावाभावशक्तिद्वयोज्ज्वला || ८-३५८ || शक्त्यावृतिः प्रमाणाख्या ततः शास्त्रे निरूपिता | शक्त्यावृतेस्तु तेजस्विध्रुवेशाभ्यामलङ्कृतम् || ८-३५९ || तेजस्व्यावरणं वेदपुरा मानावृतिस्ततः | मानावृतेः सुशुद्धावृत्पुरत्रितयशोभिता || ८-३६० || सुशुद्धावरणादूर्ध्वं शैवमेकपुरं भवेत् | शिवावृतेरूर्ध्वमाहुर्मोक्षावरणसंज्ञितम् || ८-३६१ || अस्यां मोक्षावृतौ रुद्रा एकादश निरूपिताः | मोक्षावरणतस्त्वेकपुरमावरणं ध्रुवम् || ८-३६२ || ऊर्ध्वे ध्रुवावृतेरिच्छावरणं तत्र ते शिवाः | ईश्वरेच्छागृहान्तस्थास्तत्पुरं चैकमुच्यते || ८-३६३ || इच्छावृतेः प्रबुद्धाख्यं दिग्रुद्राष्टकचर्चितम् | प्रबुद्धावरणादूर्ध्वं समयावरणं महत् || ८-३६४ || भुवनैः पञ्चभिर्गर्भीकृतानन्तसमावृति | सामयात्सौशिवं तत्र सादाख्यं भुवनं महत् || ८-३६५ || तस्मिन्सदाशिवो देवस्तस्य सव्यापसव्ययोः | ज्ञानक्रिये परेच्छा तु शक्तिरुत्सङ्गगामिनी || ८-३६६ || सृष्ट्यादिपञ्चकृत्यानि कुरुते स तयेच्छया | पञ्च ब्रह्माण्यङ्गषट्कं सकलाद्यष्टकं शिवाः || ८-३६७ ||
SK
दशाष्टादश रुद्राश्च तैरेव सुशिवो वृतः | सादाशिवमिति तत्त्वम्, अर्थात्तत्र शुद्धावरणमाहुः -- इति संबन्धः | ᳚शुद्धावृतेः परम्᳚ इति शुद्धावरणादूर्ध्वम् -- इत्यर्थः | ᳚विद्यावृतिः᳚ विद्यावरणमित्यर्थः तदुक्तम् -- ᳚भावसंज्ञा त्वभावाख्या तस्मिञ्छक्तिद्वयं स्थितम् |᳚ इति | ᳚ततः᳚ इति विद्यावरणात्, तेन तदूर्ध्वं शक्त्यावृतिस्तदूर्ध्वमपि प्रमाणावृतिरिति | शास्त्र इति, विशेषानुपादानात् सर्वत्र | तत्र शक्त्यावृतौ रुद्रद्वयम् | तदुक्तम् -- ᳚तेजस्वीशो ध्रुवेशश्च प्रमाणानां परं पदम् |᳚ (स्व. १०|११७२) इति | शक्त्यावरणमूर्ध्वं चेति प्रमाणावरणं चोर्ध्वमित्युद्द्योतकारदृष्टः पाठः पुनरसाधुः,महाजनैरपरिगृहीतत्वात् | श्रीनन्दिशिखायामपि -- ᳚तेजेश्वरो ध्रुवेशश्च शक्त्यावरणसंस्थितौ |᳚ इत्यादिरास्माक एव पाठः | प्रमाणावरणशब्दस्य चात्र प्रवृत्तौ किं निमित्तम् ? -- इत्याशङ्क्योक्तम् -- ᳚तेजस्व्यावरणम्᳚ इति | तेजेशध्रुवेशौ हि मायातत्त्वावस्थितस्य प्रमाणाष्टकस्य परं पदम्, तयोरपीदं द्वितीयं परमावरणमिति | ᳚वेदपुरा᳚ इति चतुर्भुवना | तदुक्तम् -- ᳚ब्रह्मा रुद्रः प्रतोदश्च अनन्तश्च चतुर्थकः |᳚ (स्व. १०|११७३) इति | श्रीनन्दिशिखायामपि -- ᳚ब्रह्मा रुद्रः प्रमाणाख्यः प्रतोदोऽनन्तसंज्ञकः | प्रमाणावरणे ह्येते चत्वारः परिकीर्तिताः ||᳚ इति | शुशुद्धावृत्᳚ इति सुशुद्धावरणम् -- इत्यर्थः | तदुक्तम् -- शुशुद्धावरणं चोर्ध्वं तत्र रुद्रत्रयं विदुः | एकाक्षः पिङ्गलो हंसः कथितं तु समासतः ||᳚ (स्व. १०|११७४) इति | ᳚शैवं पुरम्᳚ शिवावरणम् -- इत्यर्थः | तदुक्तम् -- ᳚शिवावरणमूर्ध्वे तु तत्रैको ध्रुवसंज्ञकः |᳚ (स्व. १०|११७४) इति | एकादशेति, ब्रह्मादयः | तदुक्तम् � ᳚ब्रह्मदन्किदिण्डिमुण्डाः सौरभश्च तथैव च | जन्ममृत्युहरश्चैव प्रणीतः सुखदुःखदः || विजृम्भितः समाख्याताः..................... |᳚ (स्व. १०|११७७)
SK
इति | ᳚आवरणं ध्रुवम्᳚ ध्रुवावरणम् -- इत्यर्थः | ᳚ते᳚ इति इतः प्रभृति पृथिवीपर्यन्तमुक्ताः सर्व एव -- इत्यर्थः | ईश्वरेच्छागृहान्तःस्था इति, तदेकरूपा इति यावत् | यदभिप्रायेणैव -- श्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् | अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ||᳚ (रि.प्र.१|५|१०) इत्याद्यन्यत्रोक्तम् | एकमिति, इच्छाशक्त्यैवाधिष्ठेयत्वात् | प्रबुद्धाख्यमित्यावरणम् | तदुक्तम् � ᳚प्रबुद्धावरणं चोर्ध्वे कथयामि समासतः | प्रीतः प्रमुदितश्चैव प्रमोदश्च प्रलम्बनः || विष्णुर्मदन एवाथ गहनः प्रथितस्तथा | रुद्राष्टकं समाख्यातं विज्ञेयं प्राग्दिशः क्रमात् ||᳚ (स्व. १०|११८०) इति | पञ्चभिर्भुवनैर्युक्तमिति शेषः | तदुक्तम् -- ᳚प्रभवः समयः क्षुद्रो विमलश्च शिवस्तथा | ततो घनः समाख्यातो निरञ्जन इतः परम् || रुद्रोङ्कारास्तु पञ्चैते᳚............................. | (स्व. १०|११८२) इति | गर्भीकृतानन्तसमावृतीति, सर्वशेषत्वेनोक्तं यन्नाम हि किंचिदुपरिवर्ति तत्सर्वमधस्तनं गर्भीकृत्य वर्तत इति | शौशिवम्᳚ इति सुशिवावरणम् | शादाख्यं भुवनम्᳚ इति सदाशिवभट्टारकस्य साक्षादधिष्ठानस्थानम् -- इत्यर्थः | अत एव महदित्युक्तम् | उद्द्योतकृता पुनः ᳚रिश्वरस्य तथोर्ध्वे तु अधश्चैव सदाशिवात् |᳚ (स्व. १०|११८६) इत्यर्धं परिकल्प्य इतः प्रभृति सादाशिवं तत्त्वमिति यदुक्तं तदयुक्तम्, अस्यार्धस्य महाजनैरगृहीतत्वात् | अत एव च एवमपि ᳚ऊर्ध्वम्᳚ इति पुनरुक्तम्, ᳚अधश्चैव सदाशिवात्᳚ इत्यप्यसङ्गतम्, तत्रैव तस्योक्तत्वात्; अपरिकल्पितत्वेऽपि एतदित्थं यथाकथञ्चिदव्याख्येयं यदीश्वरस्येति रुद्रोङ्कारस्य, सदाशिवादिति अधिष्ठातुः, अधिष्ठेयं हि अधिष्ठातुरध एव भवेदिति | यत्तु श्रीनन्दिशिखायाम् -- ᳚कथितं त्वैश्वरं तत्त्वमत ऊर्ध्वं सदाशिवः |᳚
SK
इत्युक्तं तदप्येवमवगन्तव्यं यदैश्वरमिति सादाशिवम्, सदाशिव इति तत्र साक्षात्स्थित इति | अन्यथा हि उभयत्रापि ईश्वरतत्त्वोपसंहारग्रन्थस्य व्याघातः स्यात्; तन्महाजनक्षुण्ण एव मार्गोऽनुगन्तव्यः -- इति उद्द्योतकारव्याख्यया न भ्रमितव्यमित्यलं बहुना | ᳚तस्मिन्᳚ इति सदाख्ये भुवने | शुशिवः᳚ सदाशिवः | वृतश्चतुर्धावरणक्रमेण || ३६७ || एतदेव क्रमेण पठति -- सद्यो वामाघोरौ पुरुषेशौ ब्रह्मपञ्चकं हृदयम् || ८-३६८ || मूर्धशिखावर्मदृगस्त्रमङ्गानि षट् प्राहुः | सकलाकलशून्यैः सह कलाढ्यखमलङ्कृते क्षपणमन्त्यम् || ८-३६९ || कण्ठ्यौष्ठ्यमष्टमं किल सकलाष्टकमेतदाम्नातम् | ओङ्कारशिवौ दीप्तो हेत्वीशदशेशकौ सुशिवकालौ || ८-३७० || सूक्ष्मसुतेजःशर्वाः शिवाः दशैतेऽत्र पूर्वादेः | विजयो निःश्वासश्च स्वायम्भुवो वह्निवीररौरवकाः || ८-३७१ || मुकुटविसरेन्दुविन्दुप्रोद्गीता ललितसिद्धरुद्रौ च | सन्तानशिवौ परकिरणापारमेशा इति स्मृता रुद्राः || ८-३७२ || सर्वेषामेतेषां ज्ञानानि विदुः स्वतुल्यनामानि | ᳚अकलः᳚ इति निष्कलः | अन्त्यमन्ते भवं क्षयान्तम्, हेत्वीशः कारणेश्वरः सूक्ष्मः सूक्ष्मरूपः, सर्वेषामिति शिवानां रुद्राणां च, अत एव दशाष्टादशभेदभिन्नं शैवमुच्यते || ३७२ || मन्त्रमुनिकोटिपरिवृतमथ विभुवामादिरुद्रतच्छक्तियुतम् || ८-३७३ || तारादिशक्तिजुष्टं सुशिवासनमतिसितकजमसंख्यदलम् | यः शक्तिरुद्रवर्गः परिवारे विष्टरे च सुशिवस्य || ८-३७४ || प्रत्येकमस्य निजनिजपरिवारे परार्धकोटयोऽसंख्याः | मायामलनिर्मुक्ताः केवलमधिकारमात्रसंरूढाः || ८-३७५ || सुशिवावरणे रुद्राः सर्वज्ञाः सर्वशक्तिसम्पूर्णाः | अधिकारबन्धविलये शान्ताः शिवरूपिणो पुनर्भविनः || ८-३७६ || मुनीति सप्त | रुद्रा इति, आवरणादिगताः || ३७६ || ऊर्ध्वे बिन्द्वावृतिर्दीप्ता तत्र तत्र पद्मं शशिप्रभम् | शान्त्यतीतः शिवस्तत्र तच्छक्त्युत्सङ्गभूषितः || ८-३७७ || निवृत्त्यादिकलावर्गपरिवारसमावृतः |
SK
असंख्यरुद्रतच्छक्तिपुरकोटिभिरावृतः || ८-३७८ || ऊर्ध्वे इति, सुशिवावरणात् | ᳚तच्छक्ति᳚ इति शान्त्यतीता | तदुक्तम् -- ङिवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च | परिवारः स्मृतस्तस्य शान्त्यतीतस्य सुव्रते || तस्य वामे तु दिग्भागे शान्त्यतीता व्यवस्थिता ||᳚ (स्व. १०|१६२१) इति || ३७८ || एतच्च भङ्ग्यन्तरेणोक्तम् -- इत्याह -- श्रीमन्मतङ्गशास्त्रे च लयाख्यं तत्त्वमुत्तमम् | पारिभाषिकमित्येतन्नाम्ना बिन्दुरिहोच्यते || ८-३७९ || यन्नाम सर्वकर्तृत्वादिगुणयोगादुत्तमं लयाख्यं तत्त्वं तदेवैतद्बहिरभिव्यक्तं सदिह स्वशास्त्रपरिभाषया बिन्दुरुच्यते, श्रीमतङ्गपारमेश्वरेऽस्य तथा समयः कृतः -- इत्यर्थः | यदुक्तं तत्र ᳚तस्मादेव परं तत्त्वमचलं सर्वतोमुखम् | यस्मिन्प्राप्तस्य न पुनर्जन्मेहास्ति कदाचन ||᳚ इति | ᳚इत्थं गुणवतस्तस्मात्तत्त्वात्तत्त्वमनिन्दितम् | स्फुरद्रश्मिसहस्राढ्यमधस्ताद्व्यापकं महत् || पारिभाषिकमित्येतन्नाम्ना बिन्दुरिहोच्यते | चतुर्धावस्थितं चेदं प्रेरकं सर्वतोऽव्ययम् ||᳚ इति || ३७९ || ननु इह पत्युः ᳚लयभोगाधिकाराह्वत्रितत्त्वोक्तिनिदर्शनात् | पदार्थः पतिनामासौ प्रथमः परिकीर्तितः ||᳚ (मतङ्ग.) इति || .................(?) तदत्रास्य यद्येवं तद्भोगादिरूपत्वं पुनः कुत्र ? -- इत्याशङ्क्याह -- चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् | तस्मिन्भोगः समुद्दिष्ट इत्यत्रेदं च वर्णितम् || ८-३८० || यदेतन्निवृत्त्याद्यात्मना चतूरूपं तत्त्वेऽपि तदुत्तीर्णत्वात् निर्मलम्, अत एव सकलत्वेऽपि परस्मिन्नेव तत्त्वे लीनत्वान्निष्कलं पदम्, तस्मिन्भोगः समुद्दिष्टः सादाशिवं तत्त्वमस्य भोगस्थानमित्यत्र श्रीमतङ्गशास्त्र एवेदमुक्तम् | तदुक्तं तत्र -- शदाशिवस्य देवस्य लयस्तत्त्वेऽतिनिष्कले | चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् || तस्मिन्भोगः समुद्दिष्टः पत्युर्विश्वस्य सर्वदा |᳚ (मतङ्ग. १|३|२३) इति | अधिकारस्थानं पुरस्य विद्यादि -- इत्यर्थसिद्धम् | यदुक्तं तत्रैव --
SK
᳚लये च शिवतत्त्वाख्यं व्यक्तौ बिन्द्वाह्वयं पदम् | भोगः सदाशिवस्थाने ईश्वराख्ये च शासनम् || विद्यातत्त्वेऽधिकारोऽस्य योनेर्ज्ञेयः सदैव हि |᳚ (मतङ्ग. १|७|३३) इति || ३८० || ननु सकलत्वं नाम कलादिक्षित्यन्तदेहयोग्यत्वमुच्यते, तच्चेत् सदाशिवभट्टारकस्य संभवति तत्कथमस्यापि अस्मदादिवत् क्षित्यादिरूपत्वं न लक्ष्यते ? -- इत्याशङ्क्याह -- निवृत्त्यादेः सुसूक्ष्मत्वाद्धराद्यारब्धदेहता | मातुः स्फूर्जन्महाज्ञानलीनत्वान्न विभाव्यते || ८-३८१ || ᳚मातुः᳚ सदाशिवभट्टारकस्य | निवृत्त्यादेः सूक्ष्मत्वे हेतुः -- स्फूर्जन्महाज्ञानलीनत्वादिति || ३८१ || (नन्वत्र) स्थिता च धरादिरूपता न विभाव्यते -- इत्येतद्विप्रतिषिद्धम् ? -- इत्याशङ्क्याह -- उद्रिक्ततैजसत्वेन हेम्नो भूपरमाणवः | यथा पृथङ्न भान्त्येवमूर्ध्वाधोरुद्रदेहगाः || ८-३८२ || यथा सुवर्णस्य तेजःपरमाणूनामुद्रिक्तत्वात्काठिन्याद्यन्यथानुपपत्त्या स्थिता अपि भूपरमाणवः पृथङ्न भासन्ते तथात्मज्ञानतिरस्कृतत्वात् शुद्धाशुद्धात्मनि सर्गे तत्तद्भुवनेश्वरदेहगा अपि -- इति वाक्यार्थः || ३८२ || इदानीं प्रकृतमेवाह -- बिन्दूर्ध्वेऽर्धेन्दुरेतस्य कला ज्योत्स्ना च तद्वती | कान्तिः प्रभा च विमला पञ्चैता रोधिकास्ततः || ८-३८३ || रुन्धनी रोधनी रोद्ध्री ज्ञानबोधा तमोपहा | एताः पञ्च कलाः प्राहुर्निरोधिन्यां गुरूत्तमाः || ८-३८४ || ᳚तद्वती᳚ ज्योत्स्नावती, ᳚तत᳚ इति अर्धेन्दोरप्यूर्ध्वम् || ३८४ || अर्धचन्द्रादेश्च मन्त्रप्रमेयरूपत्वात् तदुचितमेव यथोत्तरं सूक्ष्मसूक्ष्मतरादिरूपत्वं दर्शयति � अर्धमात्रः स्मृतो बिन्दुर्व्योमरूपी चतुष्कलः | तदर्धमर्धचन्द्रस्तदष्टांशेन निरोधिका || ८-३८५ || ᳚तदर्धं᳚ मात्राचतुर्भागः ᳚तदष्टांशेन᳚ मात्राष्टांशेन || ३८५ || निरोधिकामेव निर्वक्ति -- हेतून्ब्रह्मादिकान् रुन्द्धे-रोधिकां तां त्यजेत्ततः | निरोधिकामिमां भित्वा सादाख्यं भुवनं परम् || ८-३८६ || पररूपेण यत्रास्ते पञ्चमन्त्रमहातनुः |
SK
᳚हेतून्᳚ इति कारणानि | पररूपेणेति, सुशिवावरणे हि अस्याः परं रूपमित्युक्तम् || ३८६ || अस्यैव स्थानं रूपं च निरूपयति -- इत्यर्धेन्दुनिरोध्यन्तबिन्द्वावृत्यूर्ध्वतो महान् || ८-३८७ || नादः किञ्जल्कसदृशो महद्भिः पुरुषैर्वृतः | चत्वारि भुवनान्यत्र दिक्षु मध्ये च पञ्चमम् || ८-३८८ || इन्धिका दीपिका चैव रोधिका मोचिकोर्ध्वगा | मध्येऽत्र पद्मं तत्रोर्ध्वगामी तच्छक्तिभिर्वृतः || ८-३८९ || नादोर्ध्वतस्तु सौषुम्नं तत्र तच्छक्तिभृत्प्रभुः | तदीशः पिङ्गलेलाभ्यां वृतः सव्यापसव्ययोः || ८-३९० || या प्रभोरङ्कगा देवी सुषुम्ना शशिसप्रभा | ग्रथितोऽध्वा तया सर्व ऊर्ध्वश्चाधस्तनस्तथा || ८-३९१ || नादः सुषुम्नाधारस्तु भित्त्वा विश्वमिदं जगत् | अधःशक्त्या विर्निगच्छेदूर्ध्वशक्त्या च मूर्धतः || ८-३९२ || नाड्या ब्रह्मबिले लीनः सोऽव्यक्तध्वनिरक्षरः | नदन्सर्वेषु भूतेषु शिवशक्त्या ह्यधिष्ठितः || ८-३९३ || एवमर्धेन्दुर्निरोधिनी च बिन्दोरेव प्रसरः -- इत्युक्तं स्यात् | ᳚महद्भिः पुरुषैः᳚ इति मन्त्रमहेश्वररूपैः | ᳚तच्छक्तिः᳚ ऊर्ध्वगामिनी | तदुक्तम् -- ᳚तस्मिन्पद्मं सुविस्तीर्णमूर्ध्वगेशः स्थितः प्रभुः |᳚ (स्व. १०|१२२४) इति | ᳚ऊर्ध्वगा तु कला तस्य नित्यमुत्सङ्गगामिनी |᳚ (स्व. १०|१२२६) इति च | सौषुम्नमिति भुवनम् | ᳚तच्छक्तिः᳚ सुषुम्ना | ᳚तदीशः᳚ सुषुम्नेशः | ᳚ग्रथितः᳚ इति ओतप्रोतत्वेन व्याप्तः | ᳚ऊर्ध्वः᳚ शक्तिशिवात्मकः ᳚अधस्तनो᳚ नादान्तादिः | अस्याश्चोर्ध्वाधरयोरेव व्यापकत्वं दर्शयति ङादः सुषुम्नाधारः᳚ इत्यादिना | इह खलु नादः सुषुम्नाख्यां मध्यनाडीमधितिष्ठन्नधःशक्त्योत्थाय मूलाधारात् प्रबोधमासाद्य प्राणात्मिकयोर्ध्वशक्त्या निखिलमिदं जगत् तत्तत्कारणोल्लङ्घनक्रमेण भित्त्वा तस्या एव सुषुम्नाख्याया नाड्या ᳚मूर्धतः᳚ उपरिष्टान्निर्गच्छेत् येनासौ ब्रह्मबिले विश्रान्तः सन् सर्वेषु भूतेषु ङास्योञ्चारयिता कश्चित्प्रतिहन्ता न विद्यते | स्वयमुच्चरते देवः प्राणिनामुरसि स्थितः ||᳚ (स्व. ७|५८)
SK
इत्याद्युक्त्या नदन्, अत एव घोषादिस्वभावान्तरानुदयात् अव्यक्तध्वनिः, अत एवाविचलद्रूपत्वाद् अक्षरो यतः शिवशक्त्या त्वधिष्ठितः परसंविन्मात्रात्मकः -- इत्यर्थः | तदुक्तम् -- ङाड्याधारस्तु नादो वै भित्त्वा सर्वमिदं जगत् | अधःशक्त्या विनिर्गत्य यावद्ब्रह्माणमूर्ध्वतः || नाड्या ब्रह्मबिले लीनस्त्वव्यक्तध्वनिरक्षरः | नदते सर्वभूतेषु शिवशक्त्या त्वधिष्ठितः ||᳚ (स्व. १०|१२३३) इति || ३९३ || सुषुम्नोर्ध्वे ब्रह्मबिलसंज्ञयावरणं त्रिदृक् | तत्र ब्रह्मा सितः शूली पञ्चास्यः शशिशेखरः || ८-३९४ || तस्योत्सङ्गे परा देवी ब्रह्माणी मोक्षमार्गगा | रोद्ध्री दात्री च मोक्षस्य...................... ᳚तत्र᳚ इति ब्रह्मबिलावरणे | ᳚मोक्षमार्गगा᳚ इति तन्मार्गावस्थिता -- इत्यर्थः | अत एवास्यास्तद्रोधने तद्दाने च सामर्थ्यमित्युक्तं ᳚रोद्ध्री दात्री च मोक्षस्य᳚ इति || ३९४ || ...................टां भित्त्वा चोर्ध्वकुण्डली || ८-३९५ || शक्तिः सुप्ताहिसदृशी सा विश्वाधार उच्यते | तस्यां सूक्ष्मा सुसूक्ष्मा च तथान्ये अमृतामिते || ८-३९६ || मध्यतो व्यापिनी तस्यां व्यापीशो व्यापिनीधरः | तां भित्त्वेति, तत ऊर्ध्वम् -- इत्यर्थः | ऊर्ध्वकुण्डलीति, निखिलस्यास्य विश्वस्यानुन्मिषितत्वेनान्तर्गर्भीकारात्, अत एव शुप्ताहिसदृशी᳚ इत्युक्तम्, अत एव स्वभित्तावेव विश्वोल्लासनात् ᳚विश्वाधार उच्यते᳚ -- इत्युक्तम् | शक्तिरित्यनेन इतः प्रभृति शक्तितत्त्वम् -- इत्यासूत्रितम् | तदुक्तं श्रीनन्दिशिखायाम् -- ᳚तत ऊर्ध्वे शक्तितत्त्वं कथ्यमानं निबोध मे | प्रसुप्तभुजगाकारा ऊर्णातन्तुसमप्रभा || आधारः सर्वतत्त्वानां भुवनानां च सुव्रते |᳚ इति | ᳚तस्याम्᳚ इति शक्तौ | तदुक्तम् -- शूक्ष्मा चैव सुसूक्ष्मा च तथा चैवामृतामिता | व्यापिनी मध्यतो ज्ञेया शेषाः पूर्वादितः क्रमात् ||᳚ (स्व. १०|१२९०) इति | ᳚तस्याम्᳚ इति व्यापिन्याम् | व्यापीश इति, यस्यानाश्रितभैरवापेक्षया पूर्वस्यां दिशि व्यवस्थानम् || ३९६ ||
SK
ननु व्यापिनी शक्तेः पृथगिति तावदविवादः, तत्किं तस्याः शक्तितत्त्वे एवावस्थानम् उत न ? -- इत्याशङ्क्याह � शक्तितत्त्वमिदं यस्य प्रपञ्चोऽयं धरान्तकः || ८-३९७ || शिवतत्त्वं ततस्तत्र चतुर्दिक्कं व्यवस्थिताः | व्यापी व्योमात्मकोऽनन्तोऽनाथस्तच्छक्तिभागिनः || ८-३९८ || मध्ये त्वनाश्रितं तत्र देवदेवो ह्यनाश्रितः | तच्छक्त्युत्सङ्गभृत्सूर्यशतकोटिसमप्रभः || ८-३९९ || ᳚शक्तितत्त्वम्᳚ इति अनाश्रितभुवनम् | ᳚ततः᳚ इति तच्छक्तितत्त्वमेवाश्रित्य -- इत्यर्थः | तद्धि शक्तितत्त्वे एव व्यापिन्यामवस्थितम् -- इति भावः | ᳚तत्र᳚ इति अनाश्रितभुवने | ᳚तच्छक्तयो᳚ व्यापिन्याद्याः | अनाश्रितमिति, भुवनम् | ᳚तच्छक्तिः᳚ अनाश्रिता | तदुक्तम् -- ᳚व्यापिनी व्योमरूपा चानन्तानाथा त्वनाश्रिता | (स्व. १०|१२५०) इति | शिवतत्त्वमिति पुनः स्वार्थवृत्त्या यदि व्याख्यायेत तत्सर्वं व्याहन्येत | यतः ᳚एवं वै शिवतत्त्वं तु कथितं तव सुव्रते | शोधयित्वा ततश्चोर्ध्वं शक्तिश्चैव परा स्मृता || समना नाम सा ज्ञेया........................ || (स्व. १०|१२५४) इत्याद्युक्त्या शिवतत्त्वादपि ऊर्ध्वं समना व्याप्नोतीति | तत्रापि शमनान्तं वरारोहे पाशजालमनन्तकम् |᳚ (स्व. ४|४२९) इत्याद्युक्तेरनन्तं पाशजालं प्रसक्तं स्यात् | एवम् ᳚हेयाध्वानमधः कुर्वन् रेचयेत्तं वरानने | यावत्सा समना शक्तिस्तदूर्ध्वं चोन्मना स्मृता ||᳚ (स्व. १०|१२७१) इत्यादि व्याहतं स्यात् | ᳚...................उन्मन्यन्ते परः शिवः |᳚ इत्याद्यपि दुष्येत् समनाधस्तस्योक्तत्वात्, तस्यापि तत्त्वान्तरत्वे षट्त्रिंशत्तत्त्वानि -- इति प्रतिज्ञाहानिः | नास्य शिवतत्त्वस्य ऊर्ध्वमन्तर्वा समनापि त्वधस्तस्याः शक्तितत्त्व एवाम्नानात् | तदुक्तम् -- ᳚प्रणवेन ततः शक्तिर्न्यसितव्या वरानने | व्यापिनीं समनां चोर्ध्वे तत्रैव तु विशोधयेत् ||᳚ इति | अनाश्रितादीनां च शिवतत्त्वावस्थाने तस्यापि कालकलितत्वमापतेत् ते हि क्षयिणः | यदुक्तम् प्राक् � ᳚शक्तिः स्वकालविलये व्यापिन्यां लीयते पुनः |
SK
व्यापिन्यां तद्दिवारात्रं लीयते साप्यनाश्रिते || परार्धकोट्या हत्वा तु शक्तिकालमनाश्रिते | दिनं रात्रिश्च तत्काले परार्धगुणितेऽपि च || सोऽपि याति लयं साम्यसंज्ञे सामनसे पदे |᳚ (तं. ६|१६६) इति | ततश्च ᳚ऊर्ध्वमुन्मनसो यश्च तत्र कालो न विद्यते | न कल्पः कल्पते कश्चिन्निष्कलः कालवर्जितः || यः शाङ्कर्युन्मनातीतः स नित्यो व्यापकोऽव्ययः |᳚ इत्याद्याः श्रुतयो विरुद्धाः स्युः | न च अनाश्रितादीनां शिवतत्त्वेऽवस्थानमस्ति, अपि तु शक्तितत्त्वे एव व्यापिन्याम् | तदुक्तम् -- ᳚अधो ब्रह्मबिलं देवि शक्तितत्त्वं ततः परम् | पञ्चकारणसंयुक्ता व्यापिनी तु तथा परा || समना उन्मना चैव प्रक्रियाण्डैर्युता प्रिये |᳚ इति | तस्मादस्मदुक्तमेव व्याख्यानं युक्तमित्यन्यदुपेक्ष्यम् || ८-३९९ || शिवतत्त्वोर्ध्वतः शक्तिः परा सा समनाह्वया | सर्वेषां कारणानां सा कर्तृभूता व्यवस्थिता || ८-४०० || बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता | ᳚शिवतत्त्वोर्ध्वतः᳚ इति व्यापिनीपदावस्थितानाश्रितभुवनादप्यूर्ध्वम् -- इत्यर्थः | न चात्रैव अपूर्वतया तत्त्वशब्दस्य भुवनवाचित्वम् ᳚बिन्दुतत्त्वं समाख्यातं ................... |᳚ (स्व. १०|१२१७) इत्यादावपि तथा प्रयोगदर्शनात् | कर्तृभूतेति, क्रियाशक्तिरूपत्वात् || ४००|| तदधिष्ठानमेव स्फुटयति -- तदारूढः शिवः कृत्यपञ्चकं कुरुते प्रभुः || ८-४०१ || शिव इति, यः सर्वत्र षट्त्रिंशत्तत्त्वतयोद्धोष्यते || ४०१ || नन्वयमेतदारूढः सन् कस्मात् सृष्ट्यादि विदध्यात् ? -- इत्याशङ्क्याह -- समना करणं तस्य हेतुकर्तुर्महेशितुः | करणमिति, सृष्ट्यादिक्रियायाम् || ननु सर्वत्र क्रियायां कर्त्रन्तरापेक्षित्वे कर्तुर्हेतुत्वं भवेत् -- इति महेशितुरपि तथात्वे परत्वोन्मुखतया स्वातन्त्र्यं खण्ड्येत, -- इति किमेतदुक्तम् ? -- इत्याशङ्क्याह -- अनाश्रितं तु व्यापारे निमित्तं हेतुरुच्यते || ८-४०२ ||
SK
᳚व्यापारे᳚ इति सृष्ट्यादिक्रियायाम् | इह हि स एव परः परमेश्वरः स्वस्वातन्त्र्यात् प्रथमं शून्यात्मतामवभासयन् अनाश्रितादिरूपतया प्रथितः -- इत्यपेक्षणीयस्यैवाभावात् अस्यैव तावत् पारमार्थिकं शुद्धं कर्तृत्वम्, अनाश्रितादीनां तु तदधिष्ठानवशाद्भिन्नकार्यविषयमशुद्धमुपचरितप्रायं कर्तृत्वम्, अतश्चानाश्रितादिस्तदिच्छयैव सृष्ट्यादि करोति, इति तस्य साक्षात् तदावेशायोगात् तत्र निमित्तमात्रत्वं यथा विद्यया यशः, -- इत्यादावित्युक्तं ङिमित्तं हेतुः᳚ इति | यदाहुः -- ᳚अनाश्रितं तु व्यापारे निमित्तं हेतुरिष्यते |᳚ इति || ४०२ || तदधिष्ठानेऽपि अस्य समनैव करणम् -- इत्याह -- तयाधितिष्ठति विभुः कारणानां तु पञ्चकम् | अधितिष्ठतीति, स्वस्वातन्त्र्यच्छायानुवेधेन सृष्ट्यादिकारित्वे योग्यं कुर्यादित्यर्थः || एतच्च कथम् ? -- इत्याशङ्क्याह -- अनाश्रितोऽनाथमयमनन्तं खवपुः सदा || ८-४०३ || स व्यापिनं प्रेरयति स्वशक्त्या करणेन तु | कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली || ८-४०४ || नादबिन्द्वादिकं कार्यमित्यादिजगदुद्भवः | ᳚खवपुः᳚ व्योमात्मा, स्वशक्त्येति | तथा हि शिवस्य सृष्ट्यादौ समना करणं तथैषामपि अनाश्रिताद्याः स्वाः शक्तय इति | कर्मरूपेति, सृष्ट्यादिक्रियाविशेषकत्वात्, मायाशक्तिरेव हि पारमेश्वरी तत्तन्नादबिन्द्वात्मविश्वरूपतया प्रस्फुरति -- इत्यभिप्रायः | शक्तिकुण्डलीति, अशेषस्य विश्वस्य स्वतादात्म्येन गर्भीकारात् || ४०४ || इयच्च विश्वं हेयमेव -- इत्याह -- यत्सदाशिवपर्यन्तं पार्थिवाद्यं च शासने || ८-४०५ || तत्सर्वं प्राकृतं प्रोक्तं विनाशोत्पत्तिसंयुतम् | सदाशिवोऽत्रानाश्रितः, प्रकृतिश्च समना, तस्या एव मूलप्रकृतित्वात् ||४०५|| एवं पुरमानतत्त्वयोजनात्म प्रमेयद्वयमभिधाय पुरसंग्रहाख्यं प्रमेयमासूत्रयितुमुपक्रमते � अथ सकलभुवनमानं यन्मह्यं निगदितं निजैर्गुरुभिः || ८-४०६ || तद्वक्ष्यते समासाद् बुद्धौ येनाशु सङ्क्रामेत् | येनेति, समासाभिधानेन, अत एवैतन्निष्प्रयोजनं न -- इत्याशयः || ४०६ ||
SK
तदेवाह � अण्डस्यान्तरनन्तः कालः कूष्माण्डहाटकौ ब्रह्महरी || ८-४०७ || रुद्राः शतं सवीरं बहिर्निवृत्तिस्तु साष्टशतभुवना स्यात् | जलतेजःसमीरनभोऽहंकृद्धीमूलसप्तके प्रत्येकम् || ८-४०८ || अष्टौ षट्पञ्चाशद्भुवना तेन प्रतिष्ठेति कला कथिता | अत्र प्राहुः शोध्यानष्टौ केचिन्निजाष्टकाधिपतीन् || ८-४०९ || अन्ये तु समस्तानां शोध्यत्वं वर्णयन्ति भुवनानाम् | श्रीभूतिराजमिश्रा गुरवः प्राहुः पुनर्बही रुद्रशतम् || ८-४१० || अष्टावन्तः साकं सर्वेणेतीदृशी निवृत्तिरियं स्यात् | रुद्राः काली वीरो धराब्धिलक्ष्म्यः सरस्वती गुह्यम् || ८-४११ || इत्यष्टकं जलेऽग्नौ वह्न्यतिगुह्यद्वयं मरुति वायोः | स्वपुरं गयादि खे च व्योम पवित्राष्टकं च भुवनयुगम् || ८-४१२ || अभिमानेऽहङ्कारच्छगलाद्यष्टकमथान्तरा नभोऽहंकृत् | तन्मात्रार्केन्दुश्रुतिपुराष्टकं बुद्धिकर्मदेवानाम् || ८-४१३ || दश तन्मात्रसमूहे भुवनं पुनरक्षवर्गविनिपतिते | मनसश्चेत्यभिमाने द्वाविंशतिरेव भुवनानाम् || ८-४१४ || धियि दैवीनामष्टौ क्रुत्तेजो योगसंज्ञकं त्रयं तदुमा | तत्पतिरथ मूर्त्यष्टकसुशिवद्वादशकवीरभद्राः स्युः || ८-४१५ || तदथ महादेवाष्टकमिति बुद्धौ सप्तदश संख्या | गुणतत्त्वे पङ्क्तित्रयमिति षट्पञ्चाशतं पुराणि विदुः || ८-४१६ || अण्डस्यान्तर्बहिः साष्टशतभुवना निवृत्तिः स्यादिति संबन्धः | यद्वा अन्तःशब्दः प्रागेव व्याख्यातः | तदुक्तम् -- ङिवृत्त्यभ्यन्तरे पृथ्वी शतकोटिप्रविस्तरा | तस्यां च भुवनानां तु शतमष्टोत्तरावधि ||᳚ (स्व. ४|१०३) इति | अष्टाविति, गुह्याष्टकादीनि योगाष्टकान्तानि सप्ताष्टकानि -- इत्यर्थः | तेनेति सप्तकस्याष्टभिर्गुणनात् | तदुक्तम् -- ᳚प्रतिष्ठाया भवेद्व्याप्तिश्चतुर्विंशतितत्त्विका | षट्पञ्चाशद्भुवनिका .......................... ||᳚ (स्व. ४|१४९)
SK
इति | अत्रेति प्रतिष्ठायाम् | अष्टाविति, क्रोधाष्टकेन सह | समस्तानामिति षट्पञ्चाशतोऽपि, मिश्राः प्रधानाः | शर्वेणेति, भूर्लोकाधिपतिना, तेन वीरभद्रस्थानेऽयमिति गणनासाम्यम् | ᳚रुद्राः᳚ एकादश | गुह्यमिति, गुह्याष्टकभुवनम् | अन्तरा नभोऽहङ्कृदिति, अहङ्कारनभसोरन्तः -- इत्यर्थः | तन्मात्रेति पञ्च, बुद्धिकर्मदेवानामिति बुद्धिकर्मेन्द्रियदशकस्य -- इत्यर्थः | तन्मात्रसमूहे भुवनमिति पञ्चार्थमण्डलाख्यम् -- इत्यर्थः | नन्वेषामुक्तेऽपि भुवनपञ्चकेकस्मात्पुनरेतदुच्यते ? -- इत्याशङ्क्योक्तम् -- ᳚अक्षवर्गनिपतितः᳚ इति | एतद्धि एषां मनोऽधिष्ठानेनैव भवेदिति अत्र पुनः परेणापि रूपेणावस्थानमिति भावः | क्रुत्तेजोयोगसंज्ञकमिति अर्थात्क्रोधाद्यष्टकत्रयाधिष्ठेयं भुवनत्रयम्, पङ्क्तित्रयमिति गुरुशिष्यविषयम् | षट्पञ्चाशतं पुराणीति, जलतत्त्वेऽष्टौ भुवनानि, तेजःप्रभृतौ तत्त्वत्रये प्रत्येकं द्वयमिति षट्, अहङ्कारे द्वाविंशतिः, बुद्धौ सप्तदश, गुणेषु च त्रीणीति || ४१६ || नन्वत्र जलादौ सवेषु तत्त्वेषु भुवनानि शोध्यतयोक्तानि प्रकृतौ पुनः कस्मान्न ? -- इत्याशङ्क्याह � यद्यपि गुणसाम्यात्मनि मूले क्रोधेश्वराष्टकं तथापि धियि | तच्छोधितमिति गणनां न पुनः प्राप्तं प्रतिष्ठायाम् || ८-४१७ || इति जलतत्त्वान्मूलं तत्त्वचतुर्विंशतिः प्रतिष्ठायाम् | अम्बादितुष्टिवर्गस्ताराद्याः सिद्धयोऽणिमादिगणः || ८-४१८ || गुरवो गुरुशिष्या ऋषिवर्ग इडादिश्च विग्रहाष्टकयुक् | गन्धादिविकारपुरं बुद्धिगुणाष्टकमहंक्रिया विषयगुणाः || ८-४१९ || कामादिसप्तविंशकमागन्तु तथा गणेशविद्येशमयौ | इति पाशेषु पुरत्रयमित्थं पुरुषेऽत्र भुवनषोडशकम् || ८-४२० || नियतौ शङ्करदशकं काले शिवदशकमिति पुरद्वितयम् | रागे सुहृष्टभुवनं गुरुशिष्यपुरं च वित्कलायुगले || ८-४२१ || भुवनं भुवनं निशि पुटपुरत्रयं वाक्पुरं प्रमाणपुरम् | इति सप्तविंशतिपुरा विद्या पुरुषादितत्त्वसप्तकयुक् || ८-४२२ ||
SK
वामेशरूपसूक्ष्मं शुद्धं विद्यार्थ शक्तितेजस्विमितिः | सुविशुद्धिशिवौ मोक्ष ध्रुवेषिसंबुद्धसमयसौशिवसंज्ञाः || ८-४२३ || सप्तदशपुरा शान्ता विद्येशसदाशिवपुरत्रितययुक्ता | बिन्द्वर्धेन्दुनिरोध्यः परसौशिवमिन्धिकादिपुरसौषुम्ने || ८-४२४ || परनादो ब्रह्मबिलं सूक्ष्मादियुतोर्ध्वकुण्डली शक्तिः | व्यापिव्योमानन्तानाथानाश्रितपुराणि पञ्च ततः || ८-४२५ || षष्ठं च परममनाश्रितमथ समनाभुवनषोडशी यदि वा | बिन्द्वावरणं परसौशिवं च पञ्चेन्धिकादिभुवनानि || ८-४२६ || सौषुम्नं ब्रह्मबिलं कुण्डलिनी व्यापिपञ्चकं समना | इति षोडशभुवनेयं तत्त्वयुगं शान्त्यतीता स्यात् || ८-४२७ || तत्त्वचतुर्विंशतिरिति प्रकृतितत्त्वस्य क्षुब्धाक्षुब्धतया द्वैविध्यात् | गुरव इति, तत्रापि गुरुशिष्यविषयं पङ्क्तित्रयमुक्तम् | विषयेति, विकारषोडशकानन्तर्येण व्याख्याताः शब्दादयः पञ्च, गुणा देहधर्मत्वेन प्रागुक्ता अहिंसादयः | चः समुच्चये, तेन रागतत्त्वे वीरेशभुवनं गुरुशिष्यभुवनं च, इति भुवनद्वयम् | भुवनं भुवनमिति वामादिशक्तिनवकस्य महादेवत्रयस्य च | पुटपुरत्रयमिति त्रिपुटत्वमस्याः | वाक्पुरं योन्याख्याया वागीश्या भुवनम् | सप्तविंशतिपुरेति, तदुक्तम् � ᳚पुंस्तत्त्वाद्यावन्मायान्तं विद्याया व्याप्तिरिष्यते | सप्त तत्त्वानि भुवनसप्तविंशतिरेव च ||᳚ (स्व. ४|१७३) इति | वामेति, वामाद्या नव शक्तयः | ᳚रिशः᳚ ईश्वरः | रूपेत्यादि सर्वमावरणान्तं प्रागुक्तम् | तेजस्विप्रधाना चासौ मितिर्मानावरणम् -- इत्यर्थः | ᳚इषिः᳚ इच्छा | सप्तदशपुरेति, तदुक्तम् -- ᳚....................... विद्यातत्त्वात्सदाशिवम् | तत्त्वानां त्रितये व्याप्तिर्वर्णानां त्रय एव च || पदैकादशिका ज्ञेया पुराणि दश सप्त च | (स्व. ४|१८५) इति | परसौशिवमिति, यत्र परेण रूपेण सदाशिवः | अनाश्रितमिति सर्वाश्रयत्वात् | ᳚यदि वां᳚ इति पक्षान्तरे, षोडशभुवनेति, तदुक्तम् -- पदमेकं मन्त्र एको वर्णाः षोडश कीर्तिताः |
SK
भुवनानि सुसूक्ष्माणि शान्त्यतीते विभावयेत् || (स्व. ४|१९७) इति || ४२७ || एवं श्रीस्वच्छन्दप्रक्रियया विभागमभिधाय शास्त्रान्तरप्रक्रमेणाप्याह -- श्रीमन्मतङ्गशास्त्रे च क्रमोऽयं पुरपूगगः | अयमिति वक्ष्यमाणः || तदाह -- कालाग्निर्नरकाः खाब्धियुतं मुख्यतया शतम् || ८-४२८ || कूष्माण्डः सप्तपाताली सप्तलोकी महेश्वरः | इत्यण्डमध्यं तद्बाह्ये शतं रुद्रा इति स्थिताः || ८-४२९ || स्थानानां द्विशती भूमिः सप्तपञ्चाशता युता | पञ्चाष्टकस्य मध्याद् द्वात्रिंशद्भूतचतुष्टये || ८-४३० || तन्मात्रेषु च पञ्च स्युर्विश्वेदेवास्ततोऽष्टकम् | पञ्चमं सेन्द्रिये गर्वे बुद्धौ देवाष्टकं गुणे || ८-४३१ || योगाष्टकं क्रोधसंज्ञं मूले काले सनैयते | पतद्रुगाद्याश्चाङ्गुष्ठमात्राद्या रागतत्त्वगाः || ८-४३२ || द्वादशैकशिवाद्याः स्युर्विद्यायां कलने दश | वामाद्यास्त्रिशती सेयं त्रिपर्वण्यब्धिरस्ययुक् || ८-४३३ || खाब्धीति चत्वारिंशत् | महेश्वरो रुद्रः | पञ्चममष्टकमिति स्थाण्वाख्यम् | पतद्रुगाद्या अष्टौ | अङ्गुष्ठमात्राद्या अपि अष्टौ | कलने कलायाम् | त्रिपर्वणीति, त्रिभिर्भूतभावतत्त्वाख्यैः पर्वभिर्युक्ते कलादिक्षितिपर्यन्ते पत्यादिपदार्थापेक्षया तृतीयस्मिन्पदार्थेः | यदुक्तं तत्रैव -- ᳚ये भूतभावतत्त्वाख्या मायातः क्षरिताः सदा | स पदार्थस्त्रिपर्वायं तृतीयः शिवशासने ||᳚ (मतङ्ग. १ प.) इति | अब्धिरस्ययुगिति, रसनीया ᳚रस्या᳚ रसाः षट् तेन चतुःषष्टिरित्यर्थः ||४३३|| भुवनेश्वराश्चात्र विचित्राः -- इत्याह -- शैवाः केचिदिहानन्ताः श्रैकण्ठा इति संग्रहः | एषां च शिवादिदीक्षितत्वादेवमभिधानम् | यदाहुः -- ᳚कलाग्निर्नरकाणां तु चत्वारिंशच्छतं ततः | कूष्माण्डः सह पातालैः सप्तभिर्लोकसप्तकम् || रुद्रश्चेत्यण्डमध्येऽयं ततो रुद्रशतं बहिः | स्थानानां द्वे शते क्ष्मैवं सप्तपञ्चाशता युता || पञ्चाष्टकानां द्वात्रिंशत्ततो भूतचतुष्टये | तन्मात्रेषु ततः पञ्च विश्वेदेवास्ततोऽष्टकम् || पञ्चाष्टकानां षष्ठं यत् सेन्द्रिये गर्व एव तत् |
SK
स्थितं बुद्धौ ततो देवा अष्टावष्टौ च योगिनः || गुणेष्वष्टौ तथाऽव्यक्ते क्रोधाद्याः परतस्ततः | काले नियतिसंयुक्ते पतद्रुक्प्रमुखास्ततः || अङ्गुष्ठाद्यास्तु रागेऽष्टौ द्वादशैकशिवादयः | विद्यायां तु कलातत्त्वे वामाद्याः परतो दश || एवं त्रिपर्वणि प्रोक्तं भुवनानां शतत्रयम् | चतुःषष्ट्यधिकं तेषु विचित्रा भुवनेश्वराः || शैवाः केचित्तथानन्ताः श्रैकण्ठाः केचिदेव तु | (मट.वृ.) इति | अत्र च साक्षादागमे संवादिते ग्रन्थविस्तरः स्यात् -- इति तद्वृत्तिकृदुक्तं संवादितम् || ४३३ || नन्वेवं भुवनविभागप्रदर्शनेन कोऽर्थः ? -- इत्याशङ्क्याह -- यत्र यदा परभोगान् बुभुक्षते तत्र योजनं कार्यम् || ८-४३४ || शोधनमथ तद्धानौ शेषं त्वन्तर्गतं कार्यम् | इत्यागमं प्रथयितुं दर्शितमेतद्विकल्पितं तेन || ८-४३५ || यदुक्तम् � ᳚यो यत्राभिलषेद्भोगान् स तत्रैव नियोजितः | सिद्धिभाङ् मन्त्रसामर्थ्यात्...................... ||᳚ इति | अथेति पक्षान्तरे | ᳚तद्धानौ᳚ इति भोगेच्छात्यागे -- इत्यर्थः | अन्तर्गतमिति, प्रधानशुद्ध्यैव तच्छुद्धम् | दर्शितमिति, अन्यथा हि कथमेवं परिज्ञानं भवेत् -- इति भावः | तेनेति -- तेन तेन गुरुणा -- इत्यर्थः || ४३५ || नन्वत्र किमियन्त एव विकल्पाः संभवन्ति न वा ? -- इत्याशङ्क्याह -- अन्येऽपि बहुविकल्पाः स्वधियाचार्यैः समभ्यूह्याः | ननु यद्येवमनेकेविकल्पाः संभवन्ति तदिह पुनः किं ग्राह्यम् ? -- इत्याशङ्क्याह -- श्रीपूर्वशासने पुनरष्टादशाधिकं शतं कथितम् || ८-४३६ || तदिह प्रधानमधिकं संक्षेपेणोच्यते शोध्यम् | शतमिति भुवनानाम् | तदुक्तं तत्र -- ᳚एवं तु सर्वतत्त्वेषु शतमष्टादशोत्तरम् | भुवनानां परिज्ञेयं संक्षेपान्न तु विस्तरात् ||᳚ (मा.वि. ५|३३) प्रधानमिति, तदधिकारेणैवास्य ग्रन्थस्य प्रवृत्तेः || ४३६ || तदेवाह -- कालाग्निः कूष्माण्डो नरकेशो हाटकोऽथ भूतलपः || ८-४३७ || ब्रह्मा मुनिलोकेशो रुद्राः पञ्चान्तरालस्थाः |
SK
अधरेऽनन्तः प्राच्याः कपालिवह्न्यन्तनिरृतिबलाख्याः || ८-४३८ || लघुनिधिपतिविद्याधिपशम्भूर्ध्वान्तं सवीरभद्रपति | एकादशभिर्बाह्ये ब्रह्माण्डं पञ्चभिस्तथान्तरिकैः || ८-४३९ || इति षोडशपुरमेतन्निवृत्तिकलयेह कलनीयम् | लकुलीशभारभूती दिण्ड्याषाढी च पुष्करनिमेषौ || ८-४४० || प्रभाससुरेशाविति सलिले प्रत्यात्मकं सपरिवारे | भैरवकेदारमहाकाला मध्याम्रजल्पाख्याः || ८-४४१ || श्रीशैलहरिश्चन्द्राविति गुह्याष्टकमिदं महसि | भीमेन्द्राट्टहासविमलकनखलनाखलकुरुस्थितिगयाख्याः || ८-४४२ || अतिगुह्याष्टकमेतन्मरुति च सतन्मात्रकेच साक्षे च | स्थाणुसुवर्णाख्यौ किल भद्रो गोकर्णको महालयकः || ८-४४३ || अविमुक्तरुद्रकोटी वस्त्रापद इत्यदः पवित्रं खे | स्थूलस्थूलेशशङ्कुश्रुतिकालञ्जराश्च मण्डलभृत् || ८-४४४ || माकोटाण्डद्वितयच्छगलाण्डा अष्टकं ह्यहङ्कारे | मुनीति सप्त | एवमीशत्वविशेषेणैषां तदन्तःकारः प्रकाशितः | प्राच्या इत्यारभ्य | ᳚अन्तः᳚ इति अन्तकारित्वात् यमः | ᳚लघु᳚ इति शीघ्रकारित्वाच्छीघ्रः | यदुक्तम् -- ᳚आदौ कालाग्निभुवनं शोधितव्यं प्रयत्नतः |᳚ (मा. वि. ५|१) इत्युपक्रम्य ᳚कालाग्निपूर्वकैरेभिर्भुवनैः पञ्चभिः प्रिये | शुद्धैः शुद्धमिदं सर्वं ब्रह्माण्डान्तर्व्यवस्थितम् || तद्बहिः शतरुद्राणां भुवनानि पृथक् पृथक् | दशमं शोधयेत्पश्चादेकं तन्नायकावृतम् || अनन्तः प्रथमस्तेषां कपालीशस्तथापरः | अग्निरुद्रो यमश्चैव नैरृतो बल एव च || शीघ्रे निधीश्वरश्चेति सर्वविद्याधिपोऽपरः | शम्भुश्च वीरभद्रश्च विधूमज्वलनप्रभाः || एभिर्दशैकसंख्यातैः शुद्धैः शुद्धं शतं मतम् |᳚ (मा. वि. ५|१५) इति | प्रत्यात्मकमिति नामान्तरेण गुह्याष्टकमेव अत्रोक्तम् | शतन्मात्रकेच साक्षे च᳚ इति खस्य विशेषणम् | एतदन्तं हि अनेनैवाष्टकेन व्याप्तमिति केषाञ्चिन्मतम् | अन्येषां पुनः कार्यस्य कारणान्तरवस्थानौचित्यात् इयदहङ्कारेण व्याप्तमिति || ४४४ || अत एवाह --
SK
अन्येऽहङ्कारान्तस्तन्मात्राणीन्द्रियाणि चाप्याहुः || ८-४४५ || धियि योन्यष्टकमुक्तं प्रकृतौ योगाष्टकं किलाकृतप्रभृति | इति सप्ताष्टकभुवना प्रतिष्ठितिः सलिलतो हि मूलान्ता || ८-४४६ || नरि वामो भीमोग्रौ भवेशवीराः प्रचण्डगौरीशौ | अजसानन्तैकशिवौ विद्यायां क्रोधचण्डयुग्मं स्यात् || ८-४४७ || संवर्तो ज्योतिरथो कलानियत्यां च सूरपञ्चान्तौ | वीरशिखीशश्रीकण्ठसंज्ञमेतत्त्रयं च काले स्यात् || ८-४४८ || समहातेजा वामो भवोद्भवश्चैकपिङ्गलेशानौ | भुवनेशपुरःसरकावङ्गुष्ठ इमे निशि स्थिता ह्यष्टौ || ८-४४९ || अष्टाविंशतिभुवना विद्या पुरुषान्निशान्तमियम् | हालाहलरुद्रक्रुदम्बिकाघोरिकाः सवामाः स्युः || ८-४५० || विद्यायां विद्येशास्त्वष्टावीशे सदाशिवे पञ्च | वामा ज्येष्ठा रौद्री शक्तिः सकला च शान्तेयम् || ८-४५१ || अष्टादश भुवना स्यात्........................... अत्र च केषाञ्चित् स्वकण्ठेन अन्येषां पर्यायेण अन्येषां च पदैकदेशेनाभिधानम्, -- इति स्वयमेवाभ्यूह्यम् | एतच्च प्रागेव संवादितम् | नरीत्यर्थादन्तर्भावितरागतत्त्वे, तेन पुंस्तत्त्वे वामादयः षट्, रागे च प्रचण्डादयः पञ्च | तदुक्तम् � ᳚ततोऽप्यर्धाङ्गुलव्याप्त्या पुरषट्कमनुक्रमात् | चतुष्कं तु द्वयेऽन्यस्मिन्नेकमेकत्र चिन्तयेत् ||᳚ (मा. वि. ६|१४) इति | सानन्तेति, अनन्तसहित एकशिवः -- इत्यर्थः | निशीति मायायाम् | ᳚रिशे᳚ इति ईश्वरतत्त्वे | एवं निवृत्तौ षोडश, प्रतिष्ठायां षट्पञ्चाशत्, विद्यायामष्टाविंशतिः, शान्तायामष्टादश � इति भुवनानामष्टादशोत्तरं शतम् || ४५१ || ननु शान्त्यतीतायामप्यन्यत्र भुवनविभाग उक्तस्तत्पुनरिह कस्मात् न ? इत्याशङ्क्याह -- ..................शान्त्यतीता त्वभुवनैव | न हि अत्र देशादिकलना काचिद्भवेदिति भावः || एतच्चार्यायाः प्रथमार्धेनोपसंहरिति -- इति देशाध्वविभागः कथितः श्रीशम्भुना समादिष्टः || ८-४५२ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके देशाध्वप्रकाशनं नामाष्टममाह्निकम् || ८ ||
SK
श्रीशम्भुनेति परमेश्वरेण गुरुणेति शिवम् || ᳚जम्बुद्वीपे भारतवर्षं तत्राहितस्थितिर्विदधे | जयरथनामा कश्चिद्विवृतिमिमामष्टमाह्निकेस्पष्टाम् ||᳚ इति श्रीमदाचार्याभिनवगुप्तपादविरचिते, श्रीजयरथाचार्यकृतविवेकाख्यव्याख्योपेते श्रीतन्त्रालोकेदेशाध्वप्रकाशनं नाम अष्टममाह्निकम् || ८ || स्फू नवममाह्निकम् ᳚ विवेकः ᳚ तत्त्वक्रमावभासनविभागविभवो भुजङ्गमाभरणः | भक्तजनजयावहतां वहति जयावहो जयति || इदानीं द्वितीयार्धेन तत्त्वप्रविभागं कथयितुं प्रतिजानीते -- अथ तत्त्वप्रविभागो विस्तरतः कथ्यते क्रमप्राप्तः || ९-१ || विस्तरत इति -- परपरिकल्पितसमारोपापसारणपुरःसरं यथातत्त्वं व्यवस्थापनात्, क्रमप्राप्त इति -- भुवननिरूपणानन्तरं तदनुयायिनां तत्त्वानां निरूपणस्य प्राप्तावसरत्वात् || १ || ननु तत्त्वमेव नाम किमुच्यते, यस्य प्रविभागः अभिधातव्यो भवेत् ? -- इत्याशङ्क्याह -- यान्युक्तानि पुराण्यमूनि विविधैर्भेदैर्यदेष्वन्वितं रूपं भाति परं प्रकाशनिविडं देवः स एकः शिवः इदं हि नाम पारमेश्वरे दर्शने ᳚तत्त्वम्᳚ इत्युच्यते -- यदेकमेव रूपमव्यभिचारेण अनेकत्र भुवनादावनुगामि स्यात्, तच्च पृथिव्याद्यात्मकमनेकप्रकारम्, अत एव तस्य -- पृथिव्यादेर्भावः ᳚तत्त्वम्᳚ तथा व्यपदेशनिमित्तमित्युक्तम्, तच्च समनन्तराह्निकोक्तेषु नानाप्रकारेषु भुवनेषु यदेतत्प्रकाशैकघनं परं तत्त्वं प्रकाशमानतान्यथानुपपत्त्यानुयायि भासते स निखिलविश्वक्रोडीकारेण द्योतमानः, तस्यैव ह्ययं स्फारो यदिदं विश्वं नामावभासते | यदाहुः -- ᳚पञ्चत्रिंशत्तत्त्वी शिवनाथस्यैव शक्तिरुक्तेयम् |᳚ इति | अत एव च तनोति सर्वमिति ᳚तत्᳚ परं रूपम्, तस्य भावस्तत्त्वम् -- इत्यर्थः || ननु यद्येवं प्रकाशैकपरमार्थमेवेदं विश्वम्, तत् तत्त्वस्य पृथक्सत्तैव नास्ति, इति का नाम पृथिव्यादिपरिभाषापि स्यात् ? -- इत्याशङ्क्याह -- तत्स्वातन्त्र्यरसात्पुनः शिवपदाद्भेदे विभाते परं |
SK
यद्रूपं बहुधानुगामि तदिदं तत्त्वं विभोः शासने || २ || पुनरपि तस्य शिवस्यैव स्वातन्त्र्यवशेन शिवपदादेवंविधात् षट्त्रिंशादेव तत्त्वात् परमत्यर्थं पृथिव्यादिपर्यन्तं भेदे समुल्लसिते यद्रूपं पृथिवीतत्त्वादि अनेकैः प्रकारैरनुगामि भाति तदिदं ᳚पृथिव्यादि तत्त्वम्᳚ -- इत्युच्यते -- इति वाक्यार्थः ||२|| एतदेवोपपादयति � तथाहि कालसदनाद्वीरभद्रपुरान्तगम् | धृतिकाठिन्यगरिमाद्यवभासाद्धरात्मता || ३ || एवं व्याप्तिघटनाय तथाहि इति निदर्शनम्, धृत्यादयो हि पृथिवीगुणाः, तदभिन्नरूपत्वाच्च पृथ्व्यास्तद्ग्रहणेनैव ग्रहणं सिद्ध्येदित्युक्तम् -- ᳚धृत्याद्यवभासाद्धरात्मतेति᳚ तेन सास्नादियोगात् यथा खण्डमुण्डादौ गोत्वमनुगामि तथा धृत्यादियोगात् कालाग्निभुवनादावपि पृथ्वीत्वमिति || ३ || एतदेवान्यत्रापि अतिदिशति -- एवं जलादितत्त्वेषु वाच्यं यावत्सदाशिवे | तेन यथा धृत्यादियोगात् सर्वत्रान्वितं पृथ्वीत्वं तथा सांसिद्धिकद्रवत्वभास्वर(शुक्ल)त्वादियोगात् जलादित्वमिति || नन्वेवमनेकत्र पिण्डादौ तथात्वानुगमात् देहभुवनादावपि तत्त्वान्तररूपत्वं स्यात् ? -- इत्याशङ्क्याह � स्वस्मिन्कार्येऽथ धर्मौघे यद्वापि स्वसदृग्गुणे || ९-४ || आस्ते सामान्यकल्पेन तननाद्व्याप्तृभावतः | तत्तत्त्वं क्रमशः पृथ्वीप्रधानं पुंशिवादयः || ९-५ || देहानां भुवनानां च न प्रसङ्गस्ततो भवेत् |
SK
वापि इति विकल्पद्योतकं भिन्नक्रमं द्रष्टव्यम्, तेन स्वसदृग्गुणेऽपि वा इति योज्यम्, एवं स्वस्मिन् घटशरावादौ कार्ये, धर्माणां सत्त्वादीनां गुणानामन्योन्याभिभववृत्त्यादिनाऽनैक्यात्, ओघे स्वसदृग्गुणे संकुचिते प्रमातृवर्गे प्रकाशैकपरमार्थे वा विश्वत्र, यत् पृथ्वीत्वादिकं रूपमनुगामितयास्ते, तत् तनोतिस्वकार्यादि व्याप्नोति इति कृत्वा, क्रमशो यथासंख्येन पृथ्वीप्रधानं पुंशिवादयश्च तत् ᳚तत्त्वम्᳚ -- इत्युच्यते | ततश्च देहभुवनादौ नैव प्रसङ्गः, नहि स्वकार्ये चेष्टादौ तत्तद्भोगादौ च देहादित्वमनुगामितामियात् | आदिशब्दः प्रकारे, तेनाहङ्कारादीनां तत्त्वान्तराणामपि इन्द्रियाद्यात्मनि स्वकार्यादावनुगामित्वमस्तीत्याद्यवसेयम् | एतदर्थगर्भीकारेणैव चान्यैः ᳚आ महाप्रलयस्थायि सर्वप्राण्युपभोगकृत् | तत्त्वमित्युच्यते तज्ज्ञैर्न शरीरघटाद्यतः ||᳚ इत्याद्युक्तम् || ४-५ || नन्वेवमभिधाने किं प्रमाणम् ? -- इत्याशङ्क्याह -- श्रीमन्मतङ्गशास्त्रादौ तदुक्तं परमेशिना || ९-६ || एतच्च तत्र विद्यापादादावनेकप्रकारमुक्तमिति कियल्लिख्यते, इति ग्रन्थविस्तरभयात् प्रतिज्ञामात्रमेव कृतम् | तथा च तत्र -- ᳚तत्त्वं यद्वस्तुरूपं स्यात्स्वधर्मप्रकटात्मकम् | तत्त्वं वस्तुपदं व्यक्तं स्फुटमाम्नायदर्शनात् || यदच्युतं स्वकाद् वृत्तात्ततं चात्मवशं जगत् | ततमन्येन वा न स्यात्तत्तत्त्वं तत्त्वसंततौ ||᳚ इति | तथा ᳚पार्थिवाणुसमूहस्य विप्रकीर्णस्य सर्वतः | किं स्वरूपं स्वकं तत्र पृथिव्यास्तत्त्वसंज्ञकम् ||᳚ इत्याक्षेपपूर्वकम् ᳚मृत्त्वमस्ति मृदस्तत्र येनासावुपदिश्यते | तत्त्वेभ्योऽप्यणुसङ्घेभ्यो विशिष्टमविनाश्यथ ||᳚ इत्यादि बहूक्तम् || ६ || तदेवमवस्थिते कार्यकारणभावात्मा तत्त्वानां प्रविभागो वक्तव्यः - - इत्याह -- तत्रैषां दर्श्यते दृष्टः सिद्धयोगीश्वरीमते | कार्यकारणभावो यः शिवेच्छापरिकल्पितः || ९-७ || शिद्धयोगीश्वरीतन्त्रं शतकोटिप्रविस्तरम् | यत्त्वया कथितं पूर्वं भेदत्रयविसर्पितम् ||
SK
मालिनीविजये तन्त्रे कोटित्रितयलक्षिते | योगमार्गस्त्वया प्रोक्तः सुविस्तीर्णो महेश्वर || भूयस्तस्योपसंहारः प्रोक्तो द्वादशभिस्त्वतः | सहस्रैः सोऽपि विस्तीर्णो गृह्यते नाल्पबुद्धिभिः || अतस्तदुपसंहृत्य समासादल्पधीहितम् | सर्वसिद्धिकरं ब्रूहि प्रसादात्परमेश्वर || एवमुक्तस्तदा देव्या प्रहस्योवाच विश्वराट् | शृणु देवि प्रवक्ष्यामि सिद्धयोगीश्वरीमते | यन्न कस्यचिदाख्यातं मालिनीविजयोत्तरम् ||᳚ (मा.वि. ८-१३) इति | वक्ष्यति च ᳚कार्यकारणभावीये तत्त्वे इत्थं व्यवस्थिते | श्रीपूर्वशास्त्रे कथितां वच्मः कारणकल्पनाम् ||᳚ इति | कार्यकारणभाव इत्यनेनानुजोद्देशोद्दिष्टस्य तदाख्यस्यापि प्रमेयस्यासूत्रणं कृतम् || ७ || नन्विह मृद्धटादावस्तीच्छाया अनुप्रवेशः, किन्तु सा कौम्भकारी, बीजाङ्कुरादौ तु चेतनस्यैवानुप्रवेशो नास्ति, इति का वार्ता तद्धर्मभूताया इच्छायाः, इति किमेतदुक्तं ᳚कार्यकारणभावः शिवेच्छापरिकल्पितः᳚ इति? -- इत्याशङ्क्याह -- वस्तुतः सर्वभावनां कर्तेशानः परः शिवः |
SK
इह खलु जडस्य कारणाभिमतस्य बीजादेरियान् महिमा यत्सदसद्वा कार्याभिमतमङ्कुरं परिदृश्यमानसत्ताकं कुर्यात्, न हि ᳚अङ्कुरो जायते᳚ इत्येतत् बीजस्य किञ्चित्, तस्य ततोऽन्यत्वात्, तथात्वे वा घटादेरप्येवंभावापत्तेः, नाप्यङ्कुरादि, तर्हि तस्यासद्रूपतैव परमार्थः, इति कथं स्वरूपविरुद्धं सत्त्वमभ्युपेयात् | अथोच्यते नासन्नाम किञ्चिद्वस्तु यस्य सत्त्वेन विरोधः स्यात्, तस्योभयवस्त्वधिष्ठानत्वात्, एतद्धि व्यवहारमात्रम् -- यदसतः सत्ताकार्यत्वमिति, वस्तुतो हि ᳚बीजे सति अङ्कुरोऽस्ति᳚ इत्येतावन्मात्रमेतत्, इति किं केन विरुद्ध्येतेति, नन्वेवं बीजे सति अङ्कुरश्चेदस्ति तर्ह्यसौ सर्वदैव सत् स्यात्, नो चेन्न कदाचित् इत्युक्तं स्यात्, अतश्चास्य सर्वदा सत्त्वे न कदाचिदन्यथात्वेन योगः, अन्यथात्वं हि अकिञ्चिद्रूपत्वमुच्यते कस्तेन योगार्थः, तथात्वे वा किं नामास्य स्वरूपेऽधिकम् स्यात्, यद्वशात् -- असद्व्यवहारपात्रत्वमपि उदियात्, न च ᳚बीजापेक्षसत्तास्वभावोऽङ्कुरः᳚ इति वाच्यम्, सर्वभावानां स्वस्वरूपमात्रपरिनिष्ठानात् अन्यस्यान्यापेक्षस्वभावत्वानुपपत्तेः, यद्यपि चासन्नाम न किञ्चिद्वस्तु तथापि एतच्छशविषाणवत् असत्कलनाविषयस्य अन्तःकरणभुवि पतितस्य परिस्फुरतः स्वभावस्य संभवात् बाह्येन्द्रियविषयतापन्नेन सत्स्वभावेन सह विरुध्यत एव, इति युक्तमुक्तम् -- ᳚असतः सत्त्वं विरुद्धम्᳚ -- इति | अथ सदेव तर्ह्यस्य किमुपयाचनीयं यत् बीजादेः प्रार्थयेत् | अथाभिव्यक्तिनियतत्वादि, इति चेन्न तत्रापि सदसद्रूपताया योजयितुं शक्यत्वात्, न च तदुभयात्मकमनुभयात्मकमनिर्वाच्यं वा युज्यते विरुद्धत्वादेवंस्वभावत्वस्य, तत्सर्वथा लोकप्रसिद्धः कार्यकारणभावो नोपपद्यते, इति सर्व एव व्यवहारः समुत्सीदेत्, तेन कार्यकारणभावसमाख्याबलात्कर्तृकर्मभाव एवाश्रयणीयो, यत् कार्यमाभासनक्रियाविषयत्वात् कर्मैव कार्यते तत्तदङ्कुरादि अवभासयते तेन कर्ता तत्समर्थाचरणेनेति कारणमपि कर्तर्येव विश्रान्तम्, तस्मात् चिद्रूप एव
SK
परमेश्वरः स्वेच्छावशात्, इयद्विश्वमवभासयति, किं तु नियतिदशायां प्रथान्तरव्यवधानेन, येन ᳚बीजाद्ङ्कुरो, मृदो घटः᳚ इत्येवमाद्यात्मिका लोकस्य प्रतीतिः | नन्वेवं सोऽपि किं सदसद्वा विश्वमवभासयेदित्युक्त एव दोषः ? न, इह खलु आन्तरत्वग्राह्यत्वबाह्यत्वभेदात् त्रिधार्थः परिस्फुरेत्, तथाहि -- सर्वस्य प्रमातुर्मनोगोचरत्वापत्तेरपि पूर्वं स्वसंविदैकात्म्येन परिस्फुरतोऽर्थस्यान्तरत्वम्, अनन्तरमन्तःकरणैकवेद्यतया सुखादेरिव ग्राह्यत्वमपि, अन्तर्बहिष्करणद्वयवेद्यतया घटादेरिव बाह्यत्वमपि, इति संविदात्मन्यवस्थितस्य चार्थस्य बहिरवभासनम्, इत्युपपादितमन्यत्र बहुशः, तदुक्तम् -- श्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् | अस्त्येव, न बिना तस्मादिच्छामर्शः प्रवर्तते ||᳚ इति | तदयमेव कार्यकारणभावो यदन्तः परिस्फुरत एवार्थस्यान्तर्बहिष्करणोभयवेद्यत्वमाभास्यते इति | यदुक्तम् -- ᳚यदसत्तदसद्युक्ता नासतः सत्स्वभावता | सतोऽपि न पुनः सत्तालाभेनार्थोऽथ चोच्यते || कार्यकारणता लोके सान्तर्विपरिवर्तिनः | उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः ||᳚ इति | न चान्तरवस्थितस्यार्थस्य बहिरवभासनं नामापूर्वं किञ्चित्, अपि तु अभेदाख्यातिमात्रम्, इति न कश्चिद्दोषः, ततश्च युक्तमुक्तम् � श्वातन्त्र्यभाक् परः शिवः सर्वभावानां वस्तुतः कर्ता᳚ इति || ननु अस्त्येवं बीजाङ्कुरादौ, मृद्धटादौ तु नायं वृत्तान्तः, तत्र हि दृश्यते एव कुम्भकारः कर्ता, इति किमदृष्टेन कर्त्रन्तरेण परिकल्पितेन ? -- इत्याशङ्क्याह -- अस्वतन्त्रस्य कर्तृत्वं नहि जातूपपद्यते || ९-८ ||
SK
कुम्भकारो हि न स्वेच्छामात्रेण घटं जनयेत्, अपि तु मृदादि अपेक्ष्य, न चाचेतना मृदादयस्तदिच्छामनुरोध्येरन्, एवं हि पटसंपादनेच्छामपि किं नाद्रियेरन्, ततश्चास्य मृदादिसंस्काराधानमात्र एवोपयोगः, तथात्वेऽपि तस्येयत् मृदादिभ्योऽधिकं यच्चिकीर्षितं घटादि तदानीं चेतसि परिस्फुरेत्, न च तावतैव घटादेः कार्यस्य बहिरवभासः, ततश्च पर एव शिवः स्वेच्छया नियतिदशायां कुम्भकारस्य मृदादेश्च परस्परापेक्षया कार्यमुपजनयेत्, यस्तु तस्य सत्यपि मृत्पिण्डादौ ᳚मयेदं कृतम्᳚ इत्यभिमानः सोऽपि तन्महिम्नैव, एतच्च सर्वं पुरस्तादेव सविस्तरं भविष्यति, इति नेहायस्तम्, तस्माद्युक्तमुक्तम् -- ᳚अस्वतन्त्रस्य कर्तृत्वं न कदाचिदपि उपपन्नम्᳚ -- इति, स हि कुम्भकारादिर्जडे शरीरादौ गृहीताभिमानः, इति कथं स्वरूपविरुद्धं स्वातन्त्र्यमभ्युपगच्छेत्, तद्धि चिदेकगामि इति व्यापकविरुद्धोपलब्धिः || ८ || अत आह -- स्वतन्त्रता च चिन्मात्रवपुषः परमेशितुः | चो ह्यर्थे || ननु लोके शास्त्रे च जडस्यापि स्वातन्त्र्यात्मकं कर्तृत्वमभ्युपेयते, तथा च काष्ठानि ज्वलन्ति, प्रधानं च जगन्मतमिति, तत् किमेतदुक्तं ᳚जडे स्वातन्त्र्यं नोपपन्नम्᳚ इति ? -- इत्याशङ्क्याह -- स्वतन्त्रं च जडं चेति तदन्योन्यं विरुध्यते || ९-९ || स्वातन्त्र्यं हि स्वप्रकाशत्वमुच्यते, जाड्यं च परप्रकाश्यत्वमुच्यते | न चानयोस्तादात्म्यं संसर्गो वा भवेत् -- इत्युक्तं ᳚तदन्योन्यं विरुध्यते᳚ इति, अत एव च तज्जडं वस्तु संविन्निष्ठत्वात् तद्व्यवस्थायाः स्वात्मसिद्धावपि परं स्वप्रकाशात्मकं प्रमातारमपेक्षते, इति स्वातन्त्र्यं कथं जडस्य स्वरूपसंनिविष्टं स्यात् || ९ || तदाह � जाड्यं प्रमातृतन्त्रत्वं स्वात्मसिद्धिमपि प्रति | यत्तु लोके शास्त्रे वा जडस्यापि कर्तृत्वम्, तत्स्वतन्त्राधिष्ठानादिना चोपचरितप्रायम् || ननु मा भूत् कर्तृत्वम्, कारणत्वमेव भविष्यति, यत् सुस्पष्टं जडाजडयोरपि सङ्गतिमियात् ? -- इत्याशङ्क्याह �
SK
न कर्तृत्वादृते चान्यत् कारणत्वं हि लभ्यते || ९-१० || स्यादेवं यद्यर्थस्य बाह्यताभासनात् अन्यत् कार्यत्वं भवेत्, यावता हि अन्तराभासमानस्यार्थस्य तथारूपापरित्यागेनैव बहिराभासनं नाम कार्यत्वम्, ततश्च यदपेक्षयैव अन्तरवस्थितोऽर्थः तदपक्षयैवान्तरवस्थितो बहिर्भवेत्, प्रमातुरेव चान्तःस्थितोऽयमिति, तत एव बहिर्भायान्नान्यतः, इति स एव घटादौ कार्ये कारणं, न तु जडं मृदादि, तदपेक्षयास्य अन्तर्बहिराभासाभावात्, प्रमातुश्च न कर्तृत्वात् अन्यत् कारणत्वम्, इति युक्तमुक्तम् -- ᳚कर्तृत्वमात्रसतत्त्वं जडस्य कारणत्वं न युज्यते᳚ -- इति || १० || ननु अयमेवंविधो भावस्वभाव एव यत् अस्मिन् सतीदं भवतीति, अन्यथा हि भावान्तर्भावेऽपि अभवत् तस्मिन् सति भवति, इति कथं स्यात्, न च अभूताकारभावनमन्तरेण अन्यत् किञ्चित् कार्यकारित्वम्, इति स्थित एव ᳚बीजाङ्कुरादौ भावे भावात्मा कार्यकारणभावः᳚ इति, यद्धर्मालङ्कारः -- ᳚भाव एव परस्येह कार्यताभाव............ |᳚ इति | श्वभावो जनकोऽर्थानामभूताकारभावकः ||᳚ इति च | न च स्वभावमुत्सृज्य भावानामन्यत् किंचिदपेक्षणीयम्, इति किमत्र चेतनानुप्रवेशनेन ? -- इत्याशङ्क्याह � तस्मिन्सति हि तद्भाव इत्यपेक्षैकजीवितम् | निरपेक्षेषु भावेषु स्वात्मनिष्ठतया कथम् || ९-११ ||
SK
बौद्धानां हि नैकस्यैव भावस्य कार्यकारणभावो नापि द्वयोः यौगपद्येन घटपटवत्, न च क्रमिकत्वेऽपि अनैयत्येन नीलपीतादिज्ञानवत्, न च नियतक्रमिकत्वेऽपि पूर्वभावि कार्यं पश्चाद्भावि च कारणम्, अपि तु नियतपूर्वभावं कारणं नियतपरभावं च कार्यम् इति उक्तम्, तस्मिन् कारणाभिमते बीजादावेव सति तस्य कार्याभिमतस्याङ्कुरादेरेव अभूतपूर्वतया अवश्यंभाव इति | नियमश्चात्र ᳚यस्य च भावेन भावलक्षणम्, (पा. सू. २-३-३७) इति सप्तम्याक्षिप्तो, यदन्यस्मिन्सति अभवत् तस्मिन्नेव सति भवतीति, स्यादेतत् एवं जडानां यदि नियमो न भवेत्, यत् -- सति घटे धूमोऽपि स्यात् किन्तु न नैयत्येन इति, नियमे हि अन्योन्यापेक्षा जीवितम्, सा च जडानां न संभवति, ते हि स्वात्ममात्रपरिनिष्ठितत्वादन्योन्यवार्तानभिज्ञाः, इति कस्मिन् सति किं स्यात् | नन्वग्निधूमावेव तथा परिदृश्यमानौ अन्योन्यात्मतामनासादयन्तावपि अन्यथा भवन्तौ नियतावित्युच्येते, न तु नियमो नामापरः कश्चित्पदार्थो योऽनयोरन्योन्यापेक्षां प्रसञ्जयेत्, तदग्नेरयमेव नियमो यत्तस्य पश्चान्नाधूमः, तस्याप्ययमेव यत् ततः पूर्वं नानग्निः, इत्यनयोः स्वात्ममात्रपर्यवसितम् अनन्यस्पर्शितया विशिष्टं रूपमेव कारणता कार्यता च, इति न कश्चिदपेक्षार्थः, ? अत्रोच्यते -- एवं हि दर्शनमात्रमेव प्रमाणीकृतं स्यात्, यत् -- पुरुषेण अग्नेः पश्चात् धूम एव प्रतीयते, नाधूमः, तस्यापि पूर्वमग्निरेव नानग्निरिति, न च दृश्यानपेक्षात् दर्शनमात्रादेव अर्थतथात्वव्यवस्था न्याय्या इत्यनयोः स्वरूपसंनिविष्टः कश्चिद्विशेषोऽभ्युपगमनीयो योऽग्निधूमौ तथा नियमयेत्, अन्यथा हि अग्नेः पश्चात् यो धूम एव नापरः स नाग्नेः स्वरूपातिशयो, नापि यो धूमात् पूर्वमग्निरेव नापरः स धूमस्य, इति कथमेवंभावो भवेत् नहि परः परस्य स्वरूपमतिशाययति न च बहुशोऽपि दैवयोगात् पुरुषेण घटादनन्तरं पटो दृष्ट इति तयोः परस्परयोर्निरपेक्षयोरपि तावता किञ्चित् नियामकं ज्ञातेयमुदियात् येनावश्यं
SK
पौर्वापर्यं स्यात्, एवं च कृत्तिकारोहिण्युदययोरपि कार्यकारणभावो भवेत् -- यदुदितासु कृत्तिकासु नियमेन रोहिण्युदयः इति, अथ कृत्तिकाभ्यो रोहिणीनामभूतपूर्वतया नोदयः, पूर्वदिनेषु तथा दृष्टत्वात्, इति चेत्? -- न एतद्धि धूमेऽपि समानम्, यत् तस्यापि पूर्वदिनेषु वह्निनैरन्तर्येणोदयो दृष्ट इति | ननु पूर्वस्य सामर्थ्यात् परस्य भावः कार्यकारणभावः, स च न कृत्तिकारोहिण्युदययोः संभवति ध्रुवावबद्धं हि नक्षत्रचक्रं युगपदेव नित्यं प्रवहदवस्थितम्, किन्तु घटीयन्त्रवत् क्रमेण परिवर्तमानं दृश्यते, येनायमनयोः पूर्वापरत्वेनावसायो न तु स्वरूपसंनिविष्टः कश्चिद्विशेषः | नन्विदं हि नाम भवद्गृहे पूर्वस्य सामर्थ्यं गीयते यत् तदभावादभूतोऽपि परः तस्मिन् सति भवन् दृश्यते इति, यद्धर्मालङ्कारः ᳚तत्र सामर्थ्यं हि तस्य जनकत्वं, तच्च यदि तस्मिन्सति न भवति कथं नाम तत्सामर्थ्यंम्, अथ भवति कथमसामर्थ्यं स्यात् |᳚ इति | त्रैकाल्यपरीक्षापि ᳚अथ च प्रागसन्भावः कारणे सति दृश्यते |᳚
SK
इति | तच्चात्रापि समानम्, यत् कृत्तिकोदयात् पूर्वमभवन्नपि रोहिण्युदयः तस्मिन् सति भवन् दृश्यते इति, तत् सर्वथा समानेऽपि विधौ कृत्तिकारोहिण्युदययोः कार्यकारणभावो नास्ति, धूमाग्न्योश्चास्ति इति निर्निबन्धनः कथमसौ विभागः श्रद्धातव्यः स्यात् | तस्मात् कार्यकारणयोः स्वरूपसंनिविष्टं किञ्चिज्ज्ञातेयमभ्युपगमनीयं यस्यान्वयव्यतिरेकौ स्याताम्, ज्ञापकेन हि सर्वत्र वस्तुनि संभवदेव रूपं ज्ञाप्यते, नान्यथा, तथात्वे वा भ्रन्तिः स्यात् -- इति न वस्तु ज्ञापितं भवेत्, न च तदपेक्षामपहाय अन्यत् किञ्चित् भवितुमर्हति, सा च द्विविधा -- अन्योन्यानुषङ्गितात्मिका अभिप्रायात्मिका वा न च उभय्यपि सा कार्यकारणतया संमतानां जडानां संभवति, अन्योन्यानुषङ्गिता हि द्वयोरर्थयोः परस्पररूपत्वात् वह्न्यौष्ण्ययोरिव सत्तायामैकात्म्यम्, एकतरापाये पुनः परस्य सत्तैव न स्यात् -- उष्णत्वाभाव इव वह्नेः, न च कार्यकारणयोरेवंभावोऽस्ति, -- परस्परविविक्ततया अग्निधूमयोः प्रतिभासात्, तथात्वे धूमाभावेऽग्निरेव न भायात्, तदभावेऽपि वा धूम इति प्रत्यक्षविरोधः स्यात् | द्वितीया चानुसंधानरूपा | यथा -- भोक्तुरन्नं प्रति, भोक्ता हि अन्नं प्रति सापेक्षोऽपि अन्नानुषङ्गितया न प्रतीयते, किं तु तदस्य संविदि अभिमुखीभावमेति, येनायं तदभिलाषाद्यात्मना अनुसन्धानेन तत्र प्रवर्तते, न चैवं कार्यकारणयोः संभवति, तयोर्जडत्वात्, परस्परस्य स्वरूपमनुसंधातुमसामर्थ्यात् | तत्सर्वथा जडानां किञ्चित् ज्ञातेयं बिना कार्यकारणभावो नोपपन्नः, इत्येव स्थितम् || ११ ||
SK
ननूक्तमेवात्र ज्ञातेयं यत् कारणस्य पूर्वत्वं कार्यस्य च परत्वम् इति, पूर्वसत्ताप्रयोजकीकारेण हि परस्यापूर्वतया सत्ताविर्भावः, अत एव न भविष्यद्वर्तमानयोः तदाविर्भावने सामर्थ्यम्, तावन्तरेणापि तस्य भावात्, पूर्वस्य हि प्रागेव सत्त्वात् तदाविर्भावने सामर्थ्यं, न भविष्यतः, तदानीं तस्याकिंचिद्रूपत्वात्, वर्तमानश्च समानकाल उच्यते, समानकालत्वं च लब्धसत्ताकयोर्भवति, न च तदाऽनयोः किञ्चित् कर्तव्यमवशिष्यते -- यदेकस्यान्येन क्रियेत, इति पौर्वापर्यमात्रमेव कार्यकारणयोर्ज्ञातेयम् -- इत्याह -- स पूर्वमथ पश्चात्स इति चेत्पूर्वपश्चिमौ | स्वभावेऽनतिरिक्तौ चेत्सम इत्यवशिष्यते || ९-१२ || नन्वनयोः पूर्वत्वं परत्वं च किं स्वभावादतिरिक्तमनतिरिक्तं वा ? तत्र नाद्यः पक्षः -- नहि भवद्गृहे पूर्वत्वाद्यपि किञ्चिद्वस्तु सदस्ति यत्तदतिरेकेण सत्तामियात्, व्यवहारमात्रसिद्धत्वे वा तस्य कार्यकारणभावोऽपि एवं स्यादिति स्वसिद्धान्तभङ्गः -- कार्यकारणभावस्य वस्तुस्वभावत्वेनाभ्युपगमात्, यद्धर्मालङ्कारः -- ᳚तदेवमयं वस्तुस्वभाव एव कार्यकारण भावो न तु व्यवहारमात्रसिद्धः |᳚ इति, अनतिरेकपक्षे च कार्यकारणत्वेन संमतं भावद्वयमेवावशिष्यते इति न तयोः ज्ञातेयं किंचिदुक्तं स्यात्, न च भवद्दर्शने धूमाग्न्योर्धूमाग्निरूपतां विहाय अन्यः कश्चित् कार्यकारणभावात्मा विशेषः, अत एव चात्राभ्युच्चयबुद्धिनिर्ग्राह्यत्वमुक्तं यत् न केवलमयमग्निर्धूमो वा यावत् कारणमपि कार्यमपीति | नन्वेवं वदद्भिर्भवद्भिरनक्षरमेव धूमाग्निरूपताया अन्यत् कारणत्वं कार्यत्वं चोक्तम्, तथाहि -- यद्यग्नित्वमेव कारणत्वं तत्प्रतीतेऽग्नित्वे ᳚एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् | कोऽन्यो न भागो दृष्टः स्याद्यः प्रमाणैः परीक्ष्यते ||᳚
SK
इत्याद्युक्तयुक्त्या किमिति न तत् प्रतीयात्, येनाभ्युच्चयबुद्धिनिर्ग्राह्यत्वमपि अस्य स्यात् ? सत्यमेवं किं तु विकल्पस्य एतद्दौरात्म्यं यदग्नित्वमवस्यन्नेतावदेव अवस्यति न कारणत्वमपि येनैवंप्रतीत्यन्तराभ्युच्चयः, ननु विकल्पेन चेत् तथावसितं तावता कः प्रतीत्यन्तराभ्युच्चयार्थः, नहि ᳚गौः᳚ ᳚शुक्ल᳚ इत्येवमादिष्वभ्युच्चयबुद्ध्या किञ्चित् कार्यम् एतद्विकल्पस्य स्वशिल्पनैपुणं यदभिन्नमपि भेदयति भिन्नमपि संसृजतीति | अथ प्रतिभासमूलमेव विकल्पस्य माहात्म्यम्, इह तु न तथा, नहि कारणत्वं कार्यत्वं वा संनिवेशादिवत् अर्थातिशयरूपं येन अनयोः प्रातिभासिकत्वं स्यात्, अथ च प्रतीयमानरूपस्वभावत्वेन क्षणिकत्ववदवस्थाप्येते इत्यस्त्यत्र अभ्युच्चयबुद्ध्या कार्यं, नहि आकारशून्योऽर्थः स्यात् अवेद्यं वा वेदनं तदग्न्याकार एव धूमकारणताया आकारो यत्र प्रतीत्यन्तराभ्युच्चयो भवेत् ? सत्यमस्त्येवं किं तु अग्न्याकारादन्य एव धूमकारणताया आकारः, अन्यथा हि अन्त्यावस्थामप्राप्तोऽपि अग्निः कथं न धूमं जनयेत्, नहि तादवस्थ्यमप्राप्तोऽग्निरग्निर्न स्यात्, क्षणिकत्वं च योगिनां प्रतीयमानात् नीलरूपात् अन्यदेव पर्यवस्येत्, नीलादिकं हि निवृत्त्यनिवृत्त्युभयधर्मसाधारणरूपम्, क्षणिकत्वं पुनर्निवृत्त्येकधर्मस्वभावम्, यत् प्रामाण्यं ङिवृत्तिधर्मता हि सा᳚ इति, तस्मात् भास्वराद्याकारत्वं नामाग्नित्वं धूमानुविहितान्वयव्यतिरेकत्वं च कारणत्वं, पाण्डुराद्याकारत्वं च धूमत्वम्, अग्न्यन्वयव्यतिरेकानुविधायित्वं च कार्यत्वम् इति धूमाग्निरूपतातिरिक्तं कार्यत्वं कारणत्वं चानुक्तसिद्धमेव, अन्यथा हि कार्यकारणत्वेन संमतं भावद्वयं विशरारुप्रायं पर्यवस्येत् || १२ || ननु भवत्वेवं, नहि कार्यकारणभावात्मा कश्चित् संबन्धोऽस्माकं विवक्षितः, सर्व एव हि भावाः स्वात्ममात्रपर्यवसिता एव ? -- इत्याशङ्क्याह -- बीजमङ्कुर इत्यस्मिन् सतत्त्वे हेतुतद्वतोः | घटः पटश्चेति भवेत् कार्यकारणता न किम् || ९-१३ ||
SK
अस्मिन्सतत्त्व इति -- परस्परमपेक्षाशून्ये -- इत्यर्थः किं न भवेदिति - - परस्परनैरपेक्ष्यस्य अविशेषात् अत्रापि कार्यकारणभावो भवतु, इति यावत् | इह खलु अपेक्षाशून्यत्वात् जडानां कार्यकारणभावो न भवेत् -- इत्युपपादितम् | अथ च लोके बीजादङ्कुरो जायते इत्येवमाद्यात्मिका प्रतीतिः, इत्यवश्यं केनचित् चिद्रूपेण प्रमात्रा भाव्यं यत्र विश्रान्तं सत् भावद्वयं कार्यकारणव्यपदेशपात्रतामासादयेत, नहि चिदात्मकैकप्रमातृविश्रान्तिमन्तरेण अत्यन्तविशरारूणां सिकतानामिव जडानां भेदाभेदात्मा संश्लेषः स्यात्, अत एव कर्तृकर्मभावसतत्त्व एव कार्यकारणभावः, इति नः सिद्धान्तः, यदुक्तम् � ᳚जडस्य तु न सा शक्तिः सत्ता यदसतः सतः | कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः ||᳚ इति | ततश्चैतत् युज्यते यत् कृषीवलो बीजादङ्कुरं जनयति, ईश्वरश्च शृङ्गात् शरमग्नेर्वा धूममिति || १३ || नन्वेवं बीजाङ्कुरयोर्भेदे सति एकप्रमातृविश्रान्तिमात्रात् कारणत्वं कार्यत्वं च न सिद्ध्येत्, एवं घटपटाभासयोरपि ताद्रूप्यं स्यात् -- सर्वावभासानां प्रमातर्येव विश्रान्तेः, तत् तयोरैकात्म्यमेव अङ्गीकार्यं येन कारणमेव तत्तद्रूपतया परिणमत् कार्यमित्युच्यते ? -- इत्याह -- बीजमङ्कुरपत्रादितया परिणमेत चेत् | इह तावत् सर्व एव भाववर्गः परिनिष्ठितनिजरूप इति बीजं चेद् बीजं कथमिवाङ्कुरादिरूपतामियात् अतथास्वभावस्य तथास्वभावायोगात्, नहि कदाचित् घटोऽपि पटः स्यात् || अतत्स्वभाववपुषः स स्वभावो न युज्यते || ९-१४ || अथोच्यते -- बीजस्येयानेव स्वभावो यत् क्रमेणाङ्कुराद्यात्मनावतिष्ठते इति ᳚एकमेव हि वस्तु क्रमविचित्रस्वभावम्᳚ इति सत्कार्यवादिनः || १४ || अत आह � स तत्स्वभाव इति चेत् ................. | ननु यद्येवं तर्हि बीजमङ्कुरो वा बीजत्वमात्र एवाङ्कुरत्वमात्र एव वा रूपे विश्रान्तेः बीजस्याबीजात्मकमङ्कुराद्यपि अन्त्यं रूपं संभवेत्, अङ्कुरस्य चानङ्कुराद्यात्मकम् आद्यं बीजाद्यपीति ? -- तदाह �
SK
.................टर्हि बीजाङ्कुरा निजे | तावत्येव न विश्रान्तौ तदन्यात्यन्तसंभवात् || ९-१५ || न चैकमेव वस्तु द्व्यात्मकं संभवेत्, इत्यवश्यं केनचिदेकेन भाव्यं यस्य बीजाङ्कुराद्यात्मना विचित्रोऽयमाकारः प्रस्फुरेत् || १५ || तदाह -- ततश्च चित्राकारोऽसौ तावान्कश्चित्प्रसज्यते | नन्वभीष्टमेवैतदस्माकम् ? -- इत्याह -- अस्तु चेत्............................... | ननु एवमपि कथमेकस्यैव परस्परविरुद्धं बीजत्वाबीजत्वाद्यात्मकमाकारद्वयं संभवेत् ? -- इत्याह -- ........ण जडेऽन्योन्यविरुद्धाकारसंभवः || ९-१६ || नहि एक एव घटो लोहितश्चालोहितश्च भवेदिति भावः, स्यादेतत् -- एवं यदि युगपच्चित्रत्वमभ्युपगच्छेम किं तु क्रमेण, इति को विरोधार्थः || १६ || अत आह � क्रमेण चित्राकारोऽस्तु जडः किं नु विरुद्ध्यते | यत् सत्कार्यसिद्धिः परिदृश्यमानमेव भावशरीरं स्वभावभूतेन क्रमेण तथा तथा भवतीति ᳚एक एव स आकारः क्रमचित्रो हि तत्त्वतः | स्वस्वरूपनिमग्नं तद्वैचित्र्यं सर्वमश्नुते ||᳚ इति च | ᳚जडः᳚ इति, अजडं हि चित्रविज्ञानादि युगपत् चित्रमपि भवेत् इति भावः | ᳚किं नु विरुध्यते᳚ इति -- लोहितोऽपि हि घटः क्रमात् निमित्तान्तरेणापि अलोहितोऽपि स्यात् || ननु क्रमो यौगपद्यं वा न वस्तुनः स्वरूपे कश्चिदतिशयः, अपि तु संविदः, संवित् हि घटादनन्तरं पटं प्रतियती समं वा क्रमाक्रमावुत्थापयेत्, न तु वस्तुनः स्वरूपादधिकः कश्चिदक्रमः क्रमो वा भवेत्, इत्येकस्मिन् वस्तुनि क्रमाभ्युपगमेऽपि न विरुद्धधर्माध्यासो व्युपरमेत् ? -- इत्याह � क्रमोऽक्रमो वा भावस्य न स्वरूपाधिको भवेत् || ९-१७ || तथोपलम्भमात्रं तौ............................. | ङ स्वरूपाधिको भवेत्᳚ इति -- न कश्चिदित्यर्थः | अत्र हेतुः ᳚तथोपलम्भमात्रं तौ᳚ इति उपलम्भो हि क्रमेण अन्यथा वा भवन् क्रमाक्रमाभ्यां भावस्वरूपं व्यवहारयतीति || १७ || ननु उपलम्भस्यापि एवंभावे किं निमित्तम् ? -- इत्याह --
SK
.........................उपलम्भश्च किं तथा | इह खलु उपलब्धा क्रमाक्रमाभ्यामेव तत्तदर्थजातमुपलभते इत्युपलम्भस्यापि क्रमाक्रमायोगः, उपलब्धुश्च संविन्मात्ररूपत्वेऽपि क्रमाक्रमोपलम्भस्वभावत्वादेवंभावः|| तदेतदाशङ्कते � उपलब्धापि विज्ञानस्वभावो योऽस्य सोऽपि हि || ९-१८ || क्रमोपलम्भरूपत्वात् क्रमेणोपलभेत चेत् | अत्रापि स एव पर्यनुयोगः -- इत्याह -- तस्य तर्हि क्रमः कोऽसौ तदन्यानुपलम्भतः || ९-१९ || उपलभ्यस्य हि उपलम्भमुखेन क्रमाक्रमयोग उक्तः, तस्यापि उपलब्धृमुखेन, उपलब्धुः पुनरुपलब्ध्रन्तरं नास्ति -- अनवस्थापत्तेः, तदस्य कुतस्त्यः क्रमः? इत्युक्तम् ᳚तदन्यानुपलम्भतः᳚ इति || १९ || स्वभावपक्षाश्रयेऽपि अस्य नोपलब्धृस्वरूपादाधिक्यं पर्यवस्येत् -- इत्याह -- स्वभाव इति चेन्नासौ स्वरूपादधिको भवेत् | अथ स्वभावभूतत्वात् स्वरूपानतिरिक्तत्वेऽपि क्रमस्य स्वस्वातन्त्र्यादतिरिक्तायमानतया अवभासनमित्युच्यते, तर्हि अस्मद्दर्शनमेवागतोऽसि -- इत्याह -- स्वरूपानधिकस्यापि क्रमस्य स्वस्वभावतः || ९-२० || स्वातन्त्र्याद्भासनं स्याच्चेत् किमन्यद् ब्रूमहे वयम् | इत्थं श्रीशिव एवैकः कर्तेति परिभाष्यते || ९-२१ || किं नाम चास्य कर्तृत्वम् ? -- इत्याशङ्क्याह -- कर्तृत्वं चैतदेतस्य तथामात्रावभासनम् | ᳚तथामात्रावभासनम्᳚ इति, तथा विचित्रेण रूपेण प्रमातृप्रमेयात्मनां मात्राणामंशानामवभासनम् अतिरिक्ततयैव प्रथनम् -- इत्यर्थः || २०-२१ || एवं विश्वे पदार्था यथा भगवता स्वेच्छयैवावभासिताः, तथा कार्यकारणभावोऽपि -- इत्याह -- तथावभासनं चास्ति कार्यकारणभावगम् || ९-२२ || नन्वेवं बीजाङ्कुरादौ घटपटादौ च सर्वत्र भगवत्कर्तृकर्मविशेषेणावभासनम्, इति कथं क्वचिदेव कार्यकारणताव्यवहारः ? -- इत्याशङ्क्याह -- यथा हि घटसाहित्यं पटस्याप्यवभासते | तथा घटानन्तरता किं तु सा नियमोज्झिता || ९-२३ || अतो यन्नियमेनैव यस्मादाभात्यनन्तरम् |
SK
तत्तस्य कारणं ब्रूमः सति रूपान्वयेऽधिके || ९-२४ || नियमोज्झितेति -- तयोर्विपर्ययेण अविशेषेण च दर्शनात् | नन्वेवं बौद्धस्येव तवापि कृत्तिकारोहिण्युदयादौ कार्यकारणभावः प्रसज्येत ? -- इत्याशङ्क्योक्तम् -- शति रूपान्वयेऽधिके᳚ इति | इह तावन्मायापदे घटादेः कार्यस्य मृद्दण्डचक्रादीनि बहूनि कारणानीत्यविवादः, तत्रास्य मृत् उपादानकारणं यत् सैव शिवकस्तूपकादिक्रमेण अन्यानपेक्षितयानुवर्तते इति, दण्डादि तु सहकारिकारणप्रगुणनपरिवर्तनाद्युपकारमात्रचरितार्थत्वात्, तेन यदीयमेव यस्य रूपं केनचिद्धर्मेणानुयायि भासते तदेव तस्योपादानकारणम् इति | यद् बौद्धा अपि -- ᳚अनपेक्षानुवृत्तेश्च भेदेऽप्यर्थान्तराश्रये | तस्योपादानहेतुत्वं मृदः कुण्डादिके यथा ||᳚ इति, यत् पुनरेवमाचक्षाणैरपि धूमादावनुपादानमेव कार्यत्वमभ्यधायि तत्कारणविभागानभिज्ञत्वमेव तेषाम्, यतो धूमस्य नाग्निरुपादानकारणम्, अपि तु आर्द्रेन्धनादि तथाहि -- तुषतुरुष्कादेरुपादानात् अस्य गन्धाद्यप्यन्वयवदवभासते तदेव तस्योपादानकारणम् लौकिकानामपि अत्र वैदुष्यम् � चन्द्रकान्तोदकद्रवादौ च चन्द्रकान्ताश्रयोपकृताश्चन्द्रकिरणा एवोपादानम्, अन्यथा हि चन्द्रकान्तस्य द्रवीभावे क्षणात्क्षणं प्रक्षयः स्यात्, इत्यलमवान्तरेण || २४ || नन्वेवं रूपान्वयोपकृतः पौर्वापर्यनियमात्मा कार्यकारणभावो यदि वास्तवः, तत्कथं व्यभिचरेत् ? -- इत्याशङ्क्याह � नियमश्च तथारूपभासनामात्रसारकः | बीजादङ्कुर इत्येवं भासनं नहि सर्वदा || ९-२५ || भासनामात्रसारत्वे हेतुः -- एवं भासनम् ङहि सर्वदा᳚ इति, कदाचित् हि बीजाभावेऽपि अङ्कुरो भवेदिति भावः || २५ || तदाह � योगीच्छानन्तरोद्भूततथाभूताङ्कुरो यतः | इष्टे तथाविधाकारे नियमो भासते यतः || ९-२६ || स्वप्ने घटपटादीनां हेतुतद्वत्स्वभावता | भासते नियमेनैव बाधाशून्येन तावति || ९-२७ ||
SK
इह खलु योगिनो निरुपादानमेवेच्छामात्रेण अङ्कुरादिकार्यं कुर्वन्तीत्यविवादः, तेन योगीच्छातोऽनन्तरमुद्भूतः अत एव तथाभूतो बीजाभावेऽपि प्रादुर्भूतो योऽसावङ्कुरः तस्मिन्नपि यतः पौर्यापर्यात्मा नियमोऽवभासते ᳚बीजादेव अङ्कुरो जायते᳚ इति नायमेकान्तः -- इत्यर्थः, योगीच्छाभिनिर्वर्तितश्च अङ्कुरो बीजकार्याङ्कुरसमानजातीय एव, न तु शालूकाद्विजातीयः, -- इत्याह -- ᳚तथाविधाकारे᳚ इति, अन्यथा हि योगिनामिच्छाविसंवादात् योगित्वमेव न सिद्ध्येत्, न चैतद्भ्रन्तिमात्रम् -- इत्युक्तम् | ᳚इष्टे᳚ इति -- तत्तत्समीहितार्थक्रियाकारिणि -- इत्यर्थः, तदुक्तम् -- ᳚योगिनामपि मृद्बीजे विनैवेच्छावशेन यत् | (घटा-)दिर्जायते तत्तत्स्थिरस्वार्थक्रियाकरम् ||᳚ इति, तथा यतः स्वप्नेऽपि नियमेनैव घटकार्यः पटोऽपि भासते, घटाभासानन्तरं पटाभासस्योदयात्, स्यादेवमेतत् यदि बाधा न स्यात् -- इत्याह -- ᳚बाधा शून्येन᳚ इति, बाधश्चात्र किं तादात्विकः कालान्तरभावी वा, तत्र तावदुत्तरः पक्षो, जाग्रद्भाविनोऽपि स्वप्नापेक्षया बाधसंभवात्, तादात्विकस्तु नास्त्येव बाधः, प्रबोधपर्यन्तं दार्ढ्येन तथावभासात्, अत एव तावति स्वप्नावस्थायामेव -- इत्युक्तम् || २७ || एवं निर्बाधो नियम एव कार्यकारणताया निबन्धनम् -- इत्याह -- ततो यावति याद्रूप्यान्नियमो बाधवर्जितः | भाति तावति ताद्रूप्याद् दृढहेतुफलात्मता || ९-२८ || ननु एवमपि सौगतमतमेवापतेत् ? -- इत्याशङ्क्याह -- तथाभूते च नियमे हेतुतद्वत्त्वकारिणि | वस्तुतश्चिन्मयस्यैव हेतुता तद्धि सर्वगम् || ९-२९ || तदिति -- यन्नाम चिन्मयस्यैव ᳚हेतुतेति᳚ | सर्वगमिति -- सर्वेषामेव मृद्दण्डाद्याभासानां विश्रान्तिधामत्वेनानुवर्तनात् || २९ || एवं च नैकं किञ्चन जनकं, सामग्री वै जनिकेत्याद्यपि सङ्गच्छते - - इत्याह -- अत एव घटोद्भूतौ सामग्री हेतुरुच्यते | सामग्रीति न पुनर्व्यस्ताः समग्राः | ननु समग्रान् दण्डादीन् विहाय का नामान्या सामग्री इत्युच्यते ? -- इत्याशङ्कक्याह �
SK
सामग्री च समग्राणां यद्येकं नेष्यते वपुः || ९-३० || हेतुभेदान्न भेदः स्यात् फले तच्चासमञ्जसम् | चो हेतौ, एकं वपुरिति -- समग्रप्रत्ययनिमित्तमेकप्रमातृविश्रान्तिलक्षणम्, इह तावन्मृद्दण्डादयो व्यस्ता एव यदि घटहेतवः स्युः तत् कारणभेदात् कार्यभेदस्याविवादात् अनेके घटाः प्रादुर्भवेयुः, न चैवम्, इत्येकप्रमातृविश्रान्त्या सामग्रीशब्दवाच्यमेवैषां वपुरवश्यैषणीयं यदेकमेव घटं जनयेत्, यदपेक्षयैव च कारणानां पारस्परिको भेदः, यतः फलभेदोऽपि स्यात् | नेति काक्का योज्यम्, प्रत्यक्षविरुद्धं चैतत् -- इत्याह -- ᳚तच्चासमञ्जसमिति᳚ || ३० || ननु यत् यस्यान्वयव्यतिरेकावनुविधत्ते तत् तस्य कारणमित्युक्तम् | व्यस्तानां च मृद्दण्डादीनामेवंभावो नास्ति समग्राणां चास्ति, इति कोऽर्थः सामग्रीशब्दवाच्येनैकेन वपुषाभ्युपगतेनैषाम् ? -- इत्याशङ्क्याह � यद्यस्यानुविधत्ते तामन्वयव्यतिरेकिताम् || ९-३१ || तत्तस्य हेतु चेत्सोऽयं कुण्ठतर्को न नः प्रियः | कुण्ठ इति समनन्तरमेव तत्तद्दूषणोदीरणेन भग्नशक्तीकृतत्वात् || ३१ || ननु समस्तानामप्येषां केनचिद्रूपेण यद्यैकात्म्यं न स्यात्, तद्देशकालविप्रकृष्टानामपि हेतुत्वं प्रसज्येत् -- इत्याह -- समग्राश्च यथा दण्डसूत्रचक्रकरादयः || ९-३२ || दूराश्च भाविनश्चेत्थं हेतुत्वेनेति मन्महे | दूरा -- मेर्वादयः, भाविनः -- कर्क्यादयः, इत्थमिति -- तथा, एवं यथा दण्डादयो घटे हेतुत्वेन भवन्ति तथा दूरादयोऽपीति | मन्महे -- प्रसङ्गेन मन्यामहे -- इत्यर्थः || ३२ || नन्वत्र दूरभाविनोरन्वयव्यतिरेकानुविधानमसिद्धम् ? -- इत्याशङ्क्याह -- यदि तत्र भवेन्मेरुर्भविष्यन्वापि कश्चन || ९-३३ || न जायेत घटो नूनं तत्प्रत्यूहव्यपोहितः | यथा च चक्रं नियते देशे काले च हेतुताम् || ९-३४ || याति कर्किसुमेर्वाद्यास्तद्वत्स्वस्थावधि स्थिताः |
SK
ननु चक्रादीनां किं देशकालसंनिकर्षो विवक्षित उत रूपसंनिकर्षः, तत्र देशादिसंनिकृष्टत्वं पटादीनामपि संभवेत्, इति तेषामपि एककार्यकारित्वं प्रसज्येत् रूपसंनिकर्षश्च नेष्यते भवद्भिः, तन्नियतदेशाद्यवस्थायित्वं नाम संनिकर्षः पर्यवस्येत्, तच्च मेर्वादीनामपि अविशिष्टम्, इति तेऽपि हेतवो भवेयुः, तस्मादेषामेकप्रमातृविश्रान्तिसतत्त्वमेकरूपमवश्याभ्युपगमनीयं येन तत्तत्संयोजनवियोजनादावेकस्यैव परमेश्वरस्य कर्तृत्वे विश्वमिदमुन्मिषेत् || ३४ || तदाह � तथा च तेषां हेतूनां संयोजनवियोजने || ९-३५ || नियते शिव एवैकः स्वतन्त्रः कर्तृतामियात् | ननु कथं सर्वत्र शिवस्यैव कर्तृत्वमिष्यते, घटादौ हि कुम्भकारो व्याप्रियमाणो दृश्यते ? -- इत्याशङ्क्याह � कुम्भकारस्य या संवित् चक्रदण्डादियोजने || ९-३६ || शिव एव हि सा यस्मात् संविदः का विशिष्टता | ᳚का विशिष्टतेति᳚ -- को भेद इत्यर्थः, नहि संविदः संविद्रूपादणुमात्रेणापि अधिकं रूपान्तरं किंचिद्भवेत् -- इति भावः || ३६ || ननु कौम्भकारी संवित् देशकालाद्यवच्छेदात् संकुचितस्वभावा ᳚परा᳚ पुनरनवच्छिन्नत्वात् ᳚पराद्वयरूपा᳚ इति कथं तयोरविशेष उक्तः? -- इत्याशङ्क्याह -- कौम्भकारी तु संवित्तिरवच्छेदावभासनात् || ९-३७ || भिन्नकल्पा यदि क्षेप्या दण्डचक्रादिमध्यतः | दण्डचक्रादिमध्यतः क्षेप्येति -- दण्डादिवत् सहकारिकारणमात्रमेतदिति तात्पर्यम्, अतश्च नात्र कुम्भकारस्य साक्षात्कर्तृत्वम्, इति ᳚शिव एव सर्वत्र कर्ता᳚ इति सिद्धम् || ३७ || तदाह � तस्मादेकैकनिर्माणे शिवो विश्वैकविग्रहः || ९-३८ || कर्तेति पुंसः कर्तृत्वाभिमानोऽपि विभोः कृतिः |
SK
ननु यद्येवं तत् दण्डादिसमानकक्ष्यत्वेऽपि कुम्भकारस्य कथमेवमभिमानो भवेत् ᳚यन्मयेदं कृतम्᳚ ? -- इत्याशङ्क्याह -- ᳚पुंसः᳚ इत्यादि, यश्चायमस्य कर्तृत्वाभिमानः -- प्रतिभुवः इव अधमर्णभावः, स पारमेश्वर्यैव नियतिशक्त्या तथा व्यवस्थापितो यतो धर्माधर्मादिव्यवस्थापि सिद्ध्येदिति न कश्चिद्दोषः, एवमाभासमात्रसतत्त्व एव कार्यकारणभाव इति सिद्धम् || ततश्चास्य लोकशास्त्रादावनेकप्रकारं वैचित्र्यम्, -- इत्याह -- अत एव तथाभानपरमार्थतया स्थितेः || ९-३९ || कार्यकारणभावस्य लोके शास्त्रे च चित्रता | तत्र प्राधान्यात् शास्त्रीयं तावद्वैचित्र्यं दर्शयति -- मायातोऽव्यक्तकलयोरिति रौरवसंग्रहे || ९-४० || श्रीपूर्वे तु कलातत्त्वादव्यक्तमिति कथ्यते | रौरवसंग्रह इति बृहत्तन्त्रापेक्षया, तदुक्तं तत्र -- ᳚ततोऽधिष्ठाय विद्येशो मायां स परमेश्वरः | क्षोभयित्वा स्वकिरणैरसृजत्तैजसीं कलाम् || कलातत्त्वाद्रागविद्ये द्वे तत्त्वे संबभूवतुः | अव्यक्तं च ततस्तस्माद् गुणांश्चाप्यसृजत्प्रभुः ||᳚ इति, अत्र च ᳚अव्यक्तं च तत᳚ इति तच्छब्देन मायापरामर्शः इति बृहस्पतिपादाः, यदुक्तम् -- ᳚मायातोऽव्यक्तकलयोः कलातो रागविद्ययोः |᳚ इति, श्रीपूर्व इति श्रीमालिनीविजये, यदुक्तं तत्र -- ................᳚मायामाविश्य शक्तिभिः |᳚ इत्याद्युपक्रम्य ᳚असूत सा कलातत्त्वम्................ |᳚ इति, ᳚तत एव कलातत्त्वादव्यक्तमसृजत्ततः |᳚ इति च, एवमव्यक्तं मायायाः कलायाश्च कार्यमिति शास्त्रीयं वैचित्र्यम् || ४० || अत एव च एवं विसंवादाशङ्कया अत्र यदन्यैरन्यथा व्याख्यातं तदप्रयोजकमेव -- इत्याह -- तत एव निशाख्यानात्कलीभूतादलिङ्गकम् || ९-४१ || इति व्याख्यास्मदुक्तेऽस्मिन् सति न्यायेऽतिनिष्फला | निशाख्यानादिति -- मायाख्यात् तत्त्वात्, अलिङ्गकमिति -- अव्यक्तम् || ४१ || इदानीं लौकिकमपि वैचित्र्यं दर्शयति -- लोके च गोमयात्कीटात् सङ्कल्पात्स्वप्नतः स्मृतेः || ९-४२ || योगीच्छातो द्रव्यमन्त्रप्रभावादेश्च वृश्चिकः |
SK
कीटादिति -- वृश्चिकात् | इह बहिरपि परिस्फुरतोऽर्थस्य आभासमात्रसारत्वमेव मौलं रूपमित्युक्तम् -- शङ्कल्पात्स्वप्नतः स्मृतेः᳚ इति | द्रव्येति -- रत्नौषध्यादि, अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः -- इति भावः | ननु वृश्चिकात् गोमयादेश्च जातोऽन्य एव वृश्चिकः, नहि यादृगेव वृश्चिकाज्जातो वृश्चिकः तादृगेव गोमयादेरिति भवितुमर्हति, कारणभेदात् कार्यभेदस्याविवादात्, न चान्त्यभेदे वस्तुनोः शब्दसाधारण्यमात्रेणैवैकत्वं न्याय्यम्, यदाहुः -- ᳚वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः | न युक्तं साधनम् गोत्वाद्वागादीनां विषाणिवत् ||᳚ इति || ४२ || तदाह � अन्य एव स चेत् ................. | सत्यमेवम् -- इत्याह � ...........कामं कुतश्चित्स्वविशेषतः || ९-४३ || वृश्चिकाद् गोमयादेर्वा जातानां वृश्चिकानां नूनमस्ति कश्चिदात्मीयो देशकालाकाराद्यात्मा विशेषो येनैषामन्योन्यभेदः, किं तु वृश्चिकाज्जातानामपि स तुल्यः, तेषामपि हि देशकालाकारादिना व्यक्तिभेदमुपलभन्ते लौकिकाः || ४३ || अत आह -- स तु सर्वत्र तुल्यस्तत्परामर्शैक्यमस्ति तु | अथ वृश्चिकोऽयमिति प्रत्ययानुगमस्तत्र संभवेत्, तदिहापि समानमित्युक्तम् -- ᳚तत्परामर्शैक्यमस्ति त्विति᳚ | न चायमवृश्चिके वृश्चिकप्रत्ययो विसंवादाभावात्, इह च परामर्श एव दूरान्तिकत्वादिना भिन्नावभासत्वेऽपि अर्थानामैक्यप्रतिष्ठापने परं जीवितम् | यदुक्तम् -- ᳚दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना | बाह्यान्तरतया दोषैर्व्यंजकस्यान्यथापि वा || भिन्नावभासच्छायानामपि मुख्यावभासनात् | एकप्रत्यवमर्शाख्यादेकत्वमनिवारितम् ||᳚ इति, अतश्चैकस्यापि कार्यस्यानेककारणत्वे न कश्चिद्दोषः, आभासमात्रपरमार्थो हि कार्यकारणभाव -- इति परिस्थापितम् || अत एव च कार्यस्य रूवरूपे क्रमे वापि अन्यथाभावोपदेशो नायुक्तः, इत्याह -- तत एव स्वरूपेऽपि क्रमेऽप्यन्यादृशी स्थितिः || ९-४४ || शास्त्रेषु युज्यते चित्रात् तथाभावस्वभावतः |
SK
स्वरूप इति -- यथा मनसः क्वचिद्बुद्धीन्द्रियत्वमुक्तं क्वचिच्च अन्तःकरणत्वम् | तदुक्तम् � ᳚श्रोत्रं त्वक्चक्षुषी जिह्वा नासा चित्तं च धीव्रजः |᳚ इति, अन्तःकरणं त्रिविधमिति च || ४४ || क्रमस्य पुनः कार्यकारणभावप्रस्तावात् प्राधान्येन शास्त्रेष्वन्यादृशीं स्थितिं दर्शयति -- पुंरागवित्कलाकालमाया ज्ञानोत्तरे क्रमात् || ९-४५ || नियतिर्नास्ति वैरिञ्चे कलोर्ध्वे नियतिः श्रुता | पुंरागवित्त्रयादूर्ध्वं कलानियतिसंपुटम् || ९-४६ || कालो मायेति कथितः क्रमः किरणशास्त्रगः | पुमान्नियत्या कालश्च रागविद्याकलान्वितः || ९-४७ || इत्येष क्रम उद्दिष्टो मातङ्गे पारमेश्वरे | ज्ञानोत्तरे इति -- सर्वज्ञानोत्तरे, यदुक्तं तत्र ᳚वस्तुतः पुरुषः सूक्ष्मो व्यक्ताव्यक्तः सनातनः |᳚ इति, ᳚तत ऊर्ध्वं भवेदन्यत्कलावरणसंज्ञकम् |᳚ इति, ᳚अत ऊर्ध्वं भवेदन्यत्कालस्यावरणं गुह |᳚ इति, ᳚अत ऊर्ध्वं भवेदन्यन्मायातत्त्वं सुदुस्तरम् |᳚ इति च, नियतिर्नास्तीति, सर्वज्ञानोत्तरे तस्या अनभिधानात्, वैरिञ्च इति स्वायम्भुवे | यदुक्तं तत्र � ᳚मायातत्त्वात्कालतत्त्वं संस्थितं तत्पदद्वये | संस्थान्यस्मिन्कला तद्वद्विद्याप्येवं ततः पुनः ||᳚ इति, अत्र हि संस्थापयति -- नियच्छति भोगेषु अणूनिति शंस्था᳚ नियतिरिति व्याख्यातारः | अत्र च कालो नियतिसंपुटः, कलेत्येवमात्मैव जरत्पुस्तकदृष्टः पाठो ग्राह्यः | अन्यथा हि कैरणेऽर्थो विसंवदेत्, यदुक्तं तत्र -- ᳚तत्रैव पुरुषो ज्ञेयः प्रधानगृहपालकः | रागतत्त्वाच्च विद्याख्यमशुद्धं पशुमोहकम् ||᳚ इति, ᳚ततः कालनियत्याख्यं संपुटं व्याप्य लक्षधा |᳚ इति, ᳚कालतत्त्वात्कला ज्ञेया लक्षायुतपरिच्छदा |᳚ इति, ᳚तदूर्ध्वं तु भवेन्माया कोटिधा व्याप्य साप्यधः |᳚ इति च | नियत्येति यतः क्रम उद्दिष्ट इति -- अर्थात् सृष्टिक्रमेण | यदुक्तं तत्र -- ᳚क्षोभितोऽनन्तनाथेन ग्रन्थिर्मायात्मको यदा |᳚ इत्याद्युपक्रम्य ᳚तद्वन्मायाणुसंयोगाद्व्यज्यते चेतना कला |᳚ इति, ᳚इत्यणोः कलितस्यास्य कलया प्राग्जगन्निधेः |
SK
कलाधारेऽणुविज्ञानं बुभुत्सोर्विद्यया भवेत् ||᳚ इति, ᳚तस्मादेवाशयाद्रागः सूक्ष्मरूपोऽभिजायते | येनासौ रञ्जितः क्षिप्रं भोगभुग्भोगतत्परः ||᳚ इति, ᳚अथ कालक्रमप्राप्तः कञ्चुकत्रयदर्शनात् | येनासौ कल्यते सूक्ष्मः शिवसामर्थ्ययोगतः || इति, ᳚अथेदानीं मुनिव्याघ्र कारणस्यामितद्युतेः | शक्तिर्नियामिका पुंसः सतत्त्वेन समर्पिता ||᳚ अथ पुंस्तत्त्वनिर्देशः स्वाधिष्ठानोपसर्पितः | इति च क्रमस्यान्यादृशी स्थितिर्निगदसिद्धा, इति न विभज्य व्याख्यातम् || ४७ || इदानीं प्रकृतमेवानुसरति -- कार्यकारणभावीये तत्त्वे इत्थं व्यवस्थिते || ९-४८ || श्रीपूर्वशास्त्रे कथितां वच्मः कारणकल्पनाम् | श्रीपूर्वशास्त्र इति -- तदधिकारेणैव एतस्य ग्रन्थस्य प्रवृत्तेः, कारणकल्पना च अत्र तत्त्वं प्रति प्रविभागस्य प्रक्रान्तत्वात् तद्विषयैव पर्यवस्येत्, इत्यनुजोद्देशोद्दिष्टस्य तत्त्वक्रमनिरूपणाख्यस्यापि प्रमेयस्य सावकाशता, इत्यर्थसामर्थ्य लभ्यम् || ४८ || तदेवाह � शिवः स्वतन्त्रदृग्रूपः पञ्चशक्तिसुनिर्भरः || ९-४९ || स्वातन्त्र्यभासितभिदा पञ्चधा प्रविभज्यते | श्वतन्त्रदृग्रूपः᳚ इति -- अनन्याकाङ्क्षत्वात् स्वतन्त्रा येयं दृक् तद्रूपो -- निराशंसः -- इत्यर्थः | अत एव ᳚पञ्चशक्तिसुनिर्भरः᳚ पूर्णः -- इत्युक्तम् || पञ्चधा प्रविभागमेव दर्शयति -- चिदानन्देषणाज्ञानक्रियाणां सुस्फुटत्वतः || ९-५० || शिवशक्तिसदेशानविद्याख्यं तत्त्वपञ्चकम् | सदेति -- सदाशिवः | तदुक्तम् -- ᳚चिदानन्देषणाज्ञानक्रियापञ्चमहातनुः | विवर्तते महेशानस्तत्त्ववर्गेषु पञ्चधा ||᳚ इति || तथा, ᳚शिवशक्तिसदाशिवतामीश्वरविद्यामयीं च तत्त्वदशाम् | शक्तीनां पञ्चानां विभक्तभावेन भासयति ||᳚ इति || ५० || नन्विह सर्वस्य सर्वात्मकत्वादेकैकापि शक्तिः सर्वशक्तिस्वभावा, इति कथमेकैकशक्तिमुखेन तत्त्वपञ्चकनिरूपणम् ? -- इत्याह -- एकैकत्रापि तत्त्वेऽस्मिन् सर्वशक्तिसुनिर्भरे || ९-५१ || तत्तत्प्राधान्ययोगेन स स भेदो निरूप्यते |
SK
तत्तदिति -- चिदानन्दादि | इह खलु चिन्मात्रस्वभावः पर एव शिवः पूर्णत्वात् निराशंसोऽपि स्वस्वातन्त्र्यमाहात्म्यात् बहिरुल्लिलसिषया परानन्दचमत्कारतारतम्येन प्रथमम् ᳚अहम्᳚ इति परामर्शतया शक्तिदशामधिशयानः प्रस्फुरेत्, अनन्तरं च अहमिदमिति परामर्शशाखाद्वयमवभासयेत्, तत्र च शुद्धचिन्मात्राधिकरण एव अहमित्यंशे यदा परमेश्वर इदमंशमुल्लासयति तदा तस्य प्रोन्मीलितमात्रचित्रकल्पभावराशिविषयत्वेनास्फुटत्वात् इच्छाप्रधानं सदाशिवतत्त्वम् -- अहमिदमिति, भावराशौ पुनः स्फुटीभूते तदधिकरणे एवेदमंशे यदाहमंशं निषिञ्चति तदा ज्ञानशक्तिप्रधानमीश्वरतत्त्वम् -- इदमहमिति | अत एव चाहंविमर्शस्याविशेषेऽपि अत्रेदमंशस्य ध्यामलत्वाध्यामलत्वाभ्यामयं विशेषः, यदा पुनः प्ररूढभेदभावराशिगतेदमंशस्फुरणे चिन्मात्रगतत्वेन अहमंशः समुल्लसति ᳚भेदाद्वैतवादिनामिव ईश्वरस्य यः समधृततुलापुटन्यायेन अहमिदमिति परामर्शः᳚ तत्क्रियाशक्तिप्रधानं विद्यातत्त्वम् -- इति विभागः | यद्यपि परमशिवस्यैवेदमेकघनमैश्वर्यं तथापि तस्य यथा बहिरौन्मुख्येन व्यापारः ᳚शक्तितत्त्वम्᳚ तथा सदाशिवेश्वरयोरपि ᳚विद्यातत्त्वमिति᳚ | अमुनैव चाशयेनान्यत्र -- ङिराशंसात्पूर्णादहमिति पुरा भासयति यत् द्विशाखामाशास्ते तदनु च विभङ्क्तुं निजकलाम् | स्वरूपादुन्मेषप्रसरणनिमेषस्थितिजुष स्तदद्वैतं वन्दे परमशिवशक्त्यात्मनिखिलम् ||᳚ इत्याद्यनेनोक्तम् || ५१ || ननु यदि नामात्र परे रूपेऽपि एवं भेदः संभवेत् तर्हि अस्य कथमनवच्छिन्नपरप्रकाशात्मकं स्वरूपं तिष्ठेत् ? -- इत्याशङ्क्याह -- तथाहि स्वस्वतन्त्रत्वपरिपूर्णतया विभुः || ९-५२ || निःसंख्यैर्बहुभी रूपैर्भात्यवच्छेदवर्जनात् | पर एव हि शिवः स्वस्वातन्त्र्यमाहात्म्यात् भूतभावभुवनाद्यात्मकैर्विच्छिन्नैरनन्तै रूपैः स्वात्मन्यवच्छेदं वर्जयित्वा भाति, एवमपि अप्रच्युतप्राच्यस्वरूपत्वात् अनवच्छिन्नपरप्रकाशात्मक एव -- इत्यर्थः || ५२ ||
SK
ननु ᳚अनेकत्र एकरूपानुगमस्तत्त्वम्᳚ इत्युक्तं तच्चात्र कथम् ? -- इत्याशङ्क्याह -- शांभवाः शक्तिजा मन्त्रमहेशा मन्त्रनायकाः || ९-५३ || मन्त्रा इति विशुद्धाः स्युरमी पञ्च गणाः क्रमात् | स्वस्मिन्स्वस्मिन् गणे भाति यद्यद्रूपं समन्वयि || ९-५४ || तदेषु तत्त्वमित्युक्तं कालाग्न्यादेर्धरादिवत् | एष्विति शिवादिपञ्चसु तत्त्वेषु, कश्चैषां स्वो गणः ? -- इत्याशङ्क्योक्तम् � ᳚शाम्भवाद्या अमी पञ्चगणाः᳚ इति | क्रमादिति -- यथासंख्येन | तेन शिवतत्त्वे शांभवा यावद्विद्यातत्त्वे मन्त्रा इति | शांभवा इति शंभोः परप्रकाशात्मन इमे, परप्रकाशनान्यथानुपपत्त्यावाप्ततत्तादात्म्यवृत्तयो भुवनादयो विश्वे भावाः -- इत्यर्थः, यदुक्तं प्राक् -- ᳚यान्युक्तानि पुराण्यमूनि विविधैर्भेदैर्यदेष्वन्वितं | रूपं भाति परं प्रकाशनिविडं देवः स एकः शिवः ||᳚ इति |शक्तिजा इति -- अनाश्रिताद्याः, मन्त्रमहेशाद्यास्तु पूर्वमेवोक्ताः, एवं च मन्त्रमहेशाद्यात्मनि स्वस्मिन् वर्गद्वये ᳚किं त्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः | बहिर्भावपरत्वे तु परतः पारमेश्वरम् ||᳚ इत्याद्युक्तयुक्त्या यदा आन्तरदशोद्रिक्तत्वादिकमनुयायि रूपमाभासते तदभिप्रायेणात्र शदाशिवतत्त्वमीश्वरतत्त्वं च᳚ इत्युक्तं न पुनरधिष्ठातृदेवताभिप्रायेण, सदैवान्तारूपतया शिवत्वस्य भासनात् बहीरूपतया चैश्वर्यस्यैव परिस्फुरणात्, एवं हि ब्रह्मादीनामपि पृथक्तत्त्वपरिगणनं प्राप्नुयात्, अन्यथा हि एषां कारणत्वस्याविशेषात् अर्धजरतीयं स्यात्, तथात्वे च पृथिव्यधिष्ठातृत्वात् सार्वभौमस्यापि राज्ञः तत्त्वान्तरत्वं प्रसज्येत्, न चैवम्, इति यथोक्तमेव युक्तम् || ५४ || तदाह � तेन यत्प्राहुराख्यानसादृश्येन विडम्बिताः || ९-५५ || गुरूपासां विनैवात्तपुस्तकाभीष्टदृष्टयः | ब्रह्मा निवृत्त्यधिपतिः पृथक्तत्त्वं न गण्यते || ९-५६ || सदाशिवाद्यास्तु पृथग् गण्यन्त इति को नयः | ब्रह्मविष्णुहरेशानसुशिवानाश्रितात्मनि || ९-५७ || षट्के कारणसंज्ञेऽर्धजरतीयमियं कुतः |
SK
इति तन्मूलतो ध्वस्तं गणितं नहि कारणम् || ९-५८ || यथा पृथिव्यधिपतिर्नृपस्तत्त्वान्तरं नहि | तथा तत्तत्कलेशानः पृथक् तत्त्वान्तरं कथम् || ९-५९ || आख्यानसादृश्येनेति -- सदाशिवादीति नामसादृश्येन || ५६-५९ || एतदेवाधिकावापेनोपसंहरति -- तदेवं पञ्चकमिदं शुद्धोऽध्वा परिभाष्यते | तत्र साक्षाच्छिवेच्छैव कर्त्र्याभासितभेदिका || ९-६० || ननु यद्येवं तदशुद्धेऽध्वनि कः कर्ता ? -- इत्याशङ्क्याह -- ईश्वरेच्छावशक्षुब्धभोगलोलिकचिद्गणान् | संविभक्तुमघोरेशः सृजतीह सितेतरम् || ९-६१ || ईश्वरस्य समनन्तरोक्तस्य शुद्धस्वातन्त्र्यमयस्य इच्छावशेन क्षुब्धा ᳚क्षोभोऽस्य लोलिकाख्यस्य सहकारितया स्फुटम् | तिष्ठासा योग्यतौन्मुख्यमीश्वरेच्छावशाच्च तत् ||᳚ इत्यादिवक्ष्यमाणनीत्या कार्मस्य मलस्य सहकारितायामुन्मुखी भोगलोलिका अभिलाषात्मकमाणवं मलं यस्यैवंविधो यश्चिद्गणः -- संकुचित आत्मवर्गस्तं संविभक्तुं -- तत्तद्भोगसाधनसंसिद्ध्या संविभागं कर्तुमघोरेशो -- मन्त्रमहेश्वराणां प्रथमः अन्यत्रानन्तशब्दवाच्यः सितेतरम् -- अशुद्धमध्वानम्, इह -- अस्मद्दर्शने, सृजति -- मायासंक्षोभपुरःसरं कलादिक्षित्यन्तेन वैचित्र्येणावभासयति बहिः -- इत्यर्थः | तदुक्तम् -- ᳚रिश्वरेच्छावशादस्य भोगेच्छा संप्रजायते | भोगसाधनसंसिद्ध्यै भोगेच्छोरस्य मन्त्रराट् || जगदुत्पादयामास मायामाविश्य शक्तिभिः |᳚ इति | तथा शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः | इति || ६१ || ननु ᳚देवादीनां च सर्वेषां भाविनां त्रिविधं मलम् | तत्रापि कार्ममेवैकं मुख्यं संसारकारणम् ||᳚ इत्याद्युक्तयुक्त्या सर्वत्र मलस्य त्रैविध्येऽपि मुख्यतया कार्मस्यैव संसारकारणत्वम्, इह पुनः सृष्टिहेतुत्वाभिधानेन लोलिकाया इति, किमेतत् ? -- इत्याशङ्क्याह -- अणूनां लोलिका नाम निष्कर्मा याभिलाषिता | अपूर्णंमन्यताज्ञानं मलं सावच्छिदोज्झिता || ९-६२ ||
SK
या नामाणूनां निष्कर्मा � क्रियारूपत्वाभावात् इच्छामात्रस्वभावाभिलाषिता, सा प्रतिनियतविषयाभावादवच्छिदोज्झिता लोलिका स्वात्मनि साकांक्षतेव, अत एवापूर्णंमन्यता | अत एव पूर्णज्ञानात्मकस्वरूपाख्यातेरज्ञानं -- संकुचितज्ञानम्, अत एव स्वस्वरूपापहान्या मलम् श्वातन्त्र्यहानिर्बोघस्य स्वातन्त्र्यस्याप्यबोधता | द्विधाणवं मलमिदं स्वस्वरूपापहानितः ||᳚ इत्याद्युक्त्या द्विप्रकारमाणवाख्यं सर्वत्रैवोच्यते -- इत्यर्थः | एवं कार्मस्यैव मलस्य मुख्यतया संसारकारणमिति | यदुक्तम् -- ङिमित्तमभिलाषाख्यम्..................... | इति | इयमेवाणूनामणुताया योग्यता यत् तस्यां सत्यां तत्तदवच्छेदपात्रत्वमेषामुदियात् || ६२ || तदाह -- योग्यतामात्रमेवैतद्भाव्यवच्छेदसंग्रहे | मलस्तेनास्य न पृथक् तत्त्वभावोऽस्ति रागवत् || ९-६३ || योग्यतामात्रमिति -- साक्षादवच्छेदाधायित्वाभावेन, अस्येति -- मलस्य | इह खलु वस्तुना वस्त्ववच्छिद्यते वस्तुन एव च पृथक्तत्त्वभावो भवेत्, न चैतद्वस्तु किञ्चित्, अपि तु पूर्णस्वरूपस्याख्यातिमात्रम् इति युक्तमुक्तम् -- तत्तदवच्छेदसंग्रहे योग्यतामात्रमेव एतन्मलमिति || ६३ || ननु सांख्येन वैराग्यलक्षणो बुद्धिधर्मो रागः तत्तद्विषयाभिलाषस्वभावोऽभ्युपगतः, इति किमनेनान्येनैवंविधेन रागतत्त्वेन मलेन च प्रयोजनम् ? -- इत्याशङ्क्याह -- निरवच्छेदकर्मांशमात्रावच्छेदतस्तु सा | रागः पुंसि धियो धर्मः कर्मभेदविचित्रता || ९-६४ || निरवच्छेदेति निर्विशेषः, तेन सा लोलिकैव ᳚किंचिन्मे भूयात्᳚ इति सामान्याकारविषयमात्रावच्छिन्ना पुंधर्मत्वेनाभिमतो रागो यः कञ्चुकपञ्चकान्तस्तत्त्वान्तरेण सर्वत्र परिगणितः बुद्धिधर्मस्तु तस्यैव बहिष्पर्यन्ततया प्रसरणं, येन तत्तद्विषयभेदवैचित्र्येण बुभुक्षापिपासास्त्रीसंबुभुक्षादिलक्षणोऽयमध्यवसायः समुदियात् || ६४ || आणवे पुनः सामान्येनैषणीयविषयोल्लेखतोन्मुखतामात्रं, यतोऽयमेवंविधः समुल्लासः | तदाह � अपूर्णंमन्यता चेयं तथारूपावभासनम् |
SK
चो हेतौ, यस्मादियमपूर्णंमन्यताणवमललक्षणा, तथा पुंबुद्धिधर्मतयाभिमतस्य रागावैराग्यात्मनो रूपस्य अवभासनम् तथा तथा सैवावभासते -- इत्यर्थः, अत एवैतदाणवेऽङ्कुरितप्रायं रागे मुकुलितं बुद्धौ पुनः फुल्लं फलितं च इत्यलमवान्तरेण बहुना || ननु स्वतन्त्रो बोध एव परमार्थः, इत्यस्मत्सिद्धान्तः, तत्तदतिरिक्तः कुतोऽयं मलो नाम ? -- इत्याशङ्क्याह � स्वतन्त्रस्य शिवस्येच्छा घटरूपो यथा घटः || ९-६५ || स्वात्मप्रच्छादनेच्छैव वस्तुभूतस्तथा मलः | वस्तुभूत इति प्रच्छन्नात्मरूपत्वात् | इह खलु परमेश्वरः पूर्णज्ञानक्रियात्मकं स्वं स्वरूपं स्वेच्छया प्रच्छाद्य संकुचितात्मतामवभासयेत्, अतश्च संकुचितमेव ज्ञानमस्य रूपमिति सर्वत्रोद्घोष्यते | तदुक्तम् � ᳚मलमज्ञानमिच्छन्ति...................... |᳚ इति || ६५ || नन्वखण्डः पर एव प्रकाशः समस्ति, इति तदतिरेकेण कथङ्कारमयं मलो नाम वस्तुरूपतामियात् ? -- इत्याशङ्क्याह -- यथैवाव्यतिरिक्तस्य धरादेर्भावितात्मता || ९-६६ || तथैवास्येति शास्त्रेषु व्यतिरिक्तः स्थितो मलः | अस्येति मलस्य | इतीति वस्तुतः परप्रकाशाव्यतिरिक्तत्वेऽपि धरादिवत् व्यतिरिक्ततयास्य भानात्, शास्त्रेष्विति स्वायम्भुवादिषु, यदुक्तं तत्र -- ᳚अथानादिर्मलः पुंसां पशुत्वं परिकीर्तितम् |᳚ इति | तथा ᳚प्रोक्तो येन मलं ज्ञानं मलस्तद्भिन्नलक्षणः |᳚ इति | तथा ᳚.....................टतः पुंसां मलः स्मृतः |᳚ इति | अत एवास्य व्यतिरिक्ततयावभासनं नाम नापूर्वं किञ्चित्, येनात्र न परेषां संरम्भः श्लाघ्यतामियात्, स्वातन्त्र्येण हि अस्य व्यतिरिक्तत्वे स श्लाघ्यः स्यात् || ६६ || न चैवमित्याह � व्यतिरिक्तः स्वतन्त्रस्तु न कोऽपि शकटादिवत् || ९-६७ ||
SK
इह शकटादयः पदार्था बहिर्यथा परस्परं स्वातन्त्र्येण व्यतिरिक्ताः स्थिता न तथायं -- परप्रकाशापेक्षयास्य भेदेन भानायोगात् | एवं हि स द्वितीयः संनिहितः | इत्येतावतैव आत्मनां रूपामिश्रणेऽपि आणवरूपामशुद्धिं विदध्यात् इति व्यापकतया तत्संनिधानस्याविशेषात् शिवमुक्ताणूनपि किं न आवृणुयात् -- इत्युक्तम् || ६७ || तत्सद्वितीया साशुद्धिः शिवमुक्ताणुगा न किम् | ननु व्यापकोऽपि मलः प्रतिपुरुषमेकैकया शक्त्या ज्ञानक्रियात्मकं स्वरूपमावृणुयात्, यदाहुः � ᳚मलशक्तयो विभिन्नाः प्रत्यात्मानं च तद्गुणावरिकाः |᳚ इति | ततश्चायं परिणामवैचित्र्यात् यं प्रत्यावारिकायाः शक्तेः तन्निवृत्तिपरिणामं भजते तं प्रति न संनिदध्यात्, इति न मुक्ताणूनपि आवृणुयात्, शिवं प्रत्यस्य पुनरावारकत्वमेव नास्ति तस्यानादिशुद्धबोधरूपत्वात् || तदाह � मलस्य रोद्ध्री काप्यस्ति शक्तिः सा चाप्यमुक्तगा || ९-६८ || इति न्यायोज्झितो वादः श्रद्धामात्रैककल्पितः | अमुक्तगेति -- न पुनर्मुक्ताणुगा शिवगा वा, इति मलस्य च शक्तिरपि अभ्युपगम्यमाना तद्वदेव संनिधिमात्रेणावारिका, इत्युक्त एव दोषः आवारकत्वे हि अस्याः सर्वमेवावार्यं स्यात्, न वा किञ्चित्, इति कुतोऽयं नैयत्येनावसायः | नहि वस्तु भवत्पक्षपाति स्यात् ᳚यत्किंचिदावृणुयात् किंचिन्न᳚ इति, नहि नीलं कस्यचिदप्यनीलं भवेदिति भावः | अथानेकास्ता इति परिणामवैचित्र्यात् काचित् कंचित् रुणद्धि, न वा, येन मुक्तामुक्तविभागः ? -- इति चेत् नैतत्, इह खलु सर्वपदार्थानां तत्तत्कार्यान्यथानुपपत्त्या शक्तिः परिकल्प्यते, यथा वह्नेर्दाहान्यथानुपपत्त्या दाहिका शक्तिः, सा च पदार्थस्यात्मैव, किं तु व्यापारभेदादारोपभेदः यदाहुः -- ᳚फलभेदादारोपितभेदः पदार्थात्मा शक्तिः |᳚
SK
इति, अत एव चास्या व्यापारभेदात् भेदो येनानेकशक्तियोगी ᳚पदार्थः᳚ इत्युच्यते | यथा वह्नेर्दहनपचनाद्यनेकव्यापारयोगात् ᳚दाहिका पाचिका᳚ इत्येवमाद्या अनेकाः शक्तयः, स्वतः पुनरेकैकस्याः शक्तेर्भेदो न युक्तः स्वरूपाविशेषात्, व्यापारस्य चैकत्वात्, प्रमाणान्तरस्याप्यभावात्, दृष्टसिद्धये हि अदृष्टं कल्प्यं तच्चैकया शक्त्या सिद्धम् इति किमदृष्टभेदकल्पनायासेन | एवं मलस्यापि यद्यावरणव्यापारे शक्तिरस्ति तत्सर्वमेवावृणुयात् किमस्याभेदेन येनैक्यं स्यात्, अत एव मलस्यापि कापि रोद्ध्री शक्तिरस्ति इत्येकवचनेनैव निर्देशः, अत उक्तम् -- ᳚एष न्यायोज्झितः᳚ इत्यादि | मलस्य च परिणामयोगात् जडस्य रोधिका शक्तिरभ्युपगम्यमाना स्वयं तावज्जाड्यादेव न प्रवर्तते तथात्वेन ᳚अमुमावृणुयादमुं न᳚ इत्यभिसंधानाभावाद्विश्वमपि प्रति प्रवृत्ता स्यात् येन सर्व एवावृता भवेयुः, एवं चेश्वरेऽपि किं प्रमाणं यः शुद्धबोधस्वभाव एवासाविति न चायमनादिशुद्धबोधस्वभावः, इति वक्तुं युक्तम् अनादेरेव तन्निरोधकत्वस्य विचारयितुमुपक्रान्तत्वात् || तदेवाह � रोद्ध्री शक्तिर्जडस्यासौ स्वयं नैव प्रवर्तते || ९-६९ || स्वयं प्रवृत्तौ विश्वं स्यात्तथा चेशनिका प्रमा | इहाचेतनश्चेतनाधिष्ठित एव प्रवर्तते, इति तावदविवादः, ततश्च परमेश्वर एव तच्छक्तिं तथा प्रेरयेत्, इति चेत्तदपि न, इत्याह -- मलस्य रोद्ध्रीं तां शक्तिमीशश्चेत्संयुनक्ति तत् || ९-७० || कीदृशं प्रत्यणुमिति प्रश्ने नास्त्युत्तरं वचः |
SK
कीदृशमिति -- किं निर्मलं समलं वा, तत्राद्ये पक्षे मुक्ताणून्प्रति तां सन्नियुञ्ज्यात्, येन सर्वदैव संसारः | द्वितीयस्मिन्पुनर्व्यर्थस्तन्नियोगः तत्पूर्वमपि तस्य मलयोगात्, तदुभयथापि तन्नियोगो न युज्यते, इत्यत्र प्रतिसमाधानं न विद्यते इत्युक्तम् -- ङास्त्युत्तरं वचः᳚ इति | मलेन घटस्येव पटादिनावार्यस्याणुवर्गस्यावृतत्वेऽपि न स्वरूपं विशिष्यते, अपि तु तद्विषयं ज्ञातुर्ज्ञानं विहन्यते, तथात्वे च शिवस्यैवासौ मलो भवेत्, यदस्य तद्विषयमनेन ज्ञानमावृतमिति || तदाह � मलश्चावरणं तच्च नावार्यस्य विशेषकम् || ९-७१ || उपलम्भं विहन्त्येतद् घटस्येव पटावृतिः | मलेनावृतरूपाणामणूनां यत्सतत्त्वकम् || ९-७२ || शिव एव च तत्पश्येत्तस्यैवासौ मलो भवेत् | ननु यद्येवं तर्हि मलेन ज्ञत्वकर्तृत्वात्मकस्वरूपावरणाच्छिवस्याणूनां च स्वरूपनाश एव कृतो भवेत् ? -- इत्याह � विभोर्ज्ञानक्रियामात्रसारस्याणुगणस्य च || ९-७३ || तदभावो मलो रूपध्वंसायैव प्रकल्पते | सारस्येति -- तदेकरूपस्येत्यर्थः | तदभाव इति -- ज्ञानक्रिययोरभावकारि त्वात् || ७३ || ननु असौ समवेतः, तस्य चेन्मलेनापहस्तनं कृतं तावता धर्मिणः किं वृत्तं यत्तस्य स्वरूपध्वंसो भवेत् ? -- इत्याशङ्क्याह -- धर्माद्धर्मिणि यो भेदः समवायेन चैकता || ९-७४ || न तद्भवद्भिरुदितं कणभोजनशिष्यवत् | यदुक्तं प्राक् � ᳚पारमेश्वरशास्त्रे हि न काणादादिदृष्टिवत् | शक्तीनां धर्मरूपाणामाश्रयः कोऽपि कथ्यते ||᳚ इति एतच्च तत्रैव निरूपितमिति -- तत एवावधार्यम्, इह तु ग्रन्थविस्तरभयात् न पुनरायस्तम् ततश्च संविन्मात्ररूपात् शिवादणुवर्गाद्वा ज्ञानक्रिययोः नाधिकं किंचिद्रूपमिति भवतां मतम् | यदुक्तम् -- ᳚क्रियाधिकाः शक्तयस्ताः संविद्रूपाधिका नहि |᳚ इति, एवं च तेषां मलेन तदपहस्तनात् स्वरूपनाश एव कृतो भवेत्, इति युक्तमुक्तम् ᳚विभोरणूनां च मलो रूपध्वंसायैव प्रकल्पते᳚ इति || ७४ ||
SK
ननु रूपानपहस्तनेऽपि यथा चक्षुरादेः पटलादिरावरणं | तथैवेहापि भविष्यति ? -- इत्याशङ्क्याह � नामूर्तेन न मूर्तेन प्रावरीतुं च शक्यते || ९-७५ || ज्ञानं चाक्षुषरश्मीनां तथाभावे सरत्यपि | ज्ञानमिति -- अमूर्तशुद्धचित्स्वभावात्मरूपं न चैवंविधस्य आत्मज्ञानस्यामूर्तेन मूर्तेन वा केनचिदावरणं युक्तम् अमूर्तस्यावरीतुमशक्यत्वात् | तथाभाव इति -- प्रावरीतुं शक्यते, चक्षुःसूर्यादिरश्मीनां हि भौतिकत्वान्मूर्तत्वम्, इति मूर्तैः पटलाभ्रदिभिस्तद्युज्यते एव -- इत्याशयः || ७५ || नन्वसौ अमूर्तोऽस्तु मूर्तो वा, कोऽभिनिवेशः, स पुनरावरणायायातोऽस्य ज्ञातृस्वभावत्वात् ज्ञेयो भवेत्, तथाभूतश्चासौ ताटस्थ्यमवलम्बते भवन्मते ज्ञातृज्ञेयभावस्यैवंरूपत्वात् | एवं च अस्य स्वरूपमावरीतुं न शक्नुयात्, भिन्नवृत्तित्वात् | ततश्चासौ निर्मलत्वात् पूर्णज्ञानक्रिय एव इति सर्वः सर्वज्ञो भवेत् ? -- तदाह -- स एव च मलो मूर्तः किं ज्ञानेन न वेद्यते || ९-७६ || सर्वगेण ततः सर्वः सर्वज्ञत्वं न किं भजेत् | मलो मूर्त इत्यकारप्रश्लेषाप्रश्लेषाभ्यां योज्यम् | सर्वगेणेति मलानावृतत्वात् व्यापकेन सर्वज्ञेन च -- इत्यर्थः | तत इति -- मलानावृतत्वात् व्यापकेन सर्वज्ञेन चेत्यर्थः, तत इति ज्ञत्वस्वभावस्यानिरोधात्, सर्व इति अणुवर्गः || ७६ || ननु तमसः प्रकाशाभावमात्रमयत्वात् अमूर्तस्यापि प्रकाशं प्रत्यावारकत्वं दृष्टम्, एवं मलस्यापि भविष्यति इति चेत् ? तदपि न -- इत्याह -- यश्च ध्वान्तात्प्रकाशस्यावृतिस्तत्प्रतिघातिभिः || ९-७७ || मूर्तानां प्रतिघस्तेजोऽणूनां नामूर्त ईदृशम् |
SK
केचिद्धि प्रकाशाभावमात्रं तमः प्रतिपन्नाः, अन्ये ᳚प्रकाशाभावव्यञ्जनीयमारोपितं नीलिममात्रं हि मूर्तिः᳚ इति एवमप्यनेनावस्थितस्य प्रकाशस्यावृतिः कार्या, अपि तु स्थितेरेव प्रतिबन्धः, तन्मूर्त्तत्वात् प्रतिघातिभिस्तमःपरमाणुभिर्मूर्तानां तेजःपरमाणूनां प्रतिहननमेव क्रियते इत्यनयोः प्रतिघात्यप्रतिघातकभावो नावार्यावारकभाव इति नायमत्र दृष्टान्तः || ७७ || नन्वचेतनश्चेतनाधिष्ठितः सन् यदि किञ्चित् कुर्यात् तदस्तु, को दोषः, चेतनमेव पुनरावरीतुं कुतोऽस्य सामर्थ्यमस्ति ? -- इत्याह -- न च चेतनमात्मानमस्वतन्त्रो मलः क्षमः || ९-७८ || आवरीतुं.............................. || मद्यवत्, इति चेत्, तदपि नेह समानम् -- इत्याह -- .......ण वाच्यं च मद्यावृतिनिदर्शनम् | न खलु जडं मद्याद्यपि स्वयं चेतनमात्मानमावृणुयात् किन्तु चेतनाधिष्ठितम् | नहि अचेतनं चेतनपेर्रणामन्तरेण किंचिदपि कर्त्तुं शक्नुयात् || ७८ || तथा च भवन्त एव -- इत्याह -- उक्तं भवद्भिरेवेत्थं जडः कर्ता नहि स्वयम् || ९-७९ || स्वतन्त्रस्येश्वरस्यैताः शक्तयः प्रेरिकाः किल | तदुक्तम् ᳚जडस्य स्वतः प्रवृतौ निवृत्तौ च सामर्थ्यं नास्ति᳚ इत्युक्तम् | अतः पाशानामपि ईश्वर एव तदा निवर्तकत्वात् पुंभ्यो मोक्षदो रज्ज्वादिबद्धमेषादिवदिति᳚ इत्यादि || ७९ || ततः किम् ? -- इत्याशङ्क्याह -- अतः कर्मविपाकज्ञप्रभुशक्तिबलेरितम् || ९-८० || मद्यं सूते मदं दुःखसुखमोहफलात्मकम् | तेन जडमपि मद्यादि परमेश्वरशक्तिप्रेरणया चेतनमात्मानमावृत्य मदयेत्, किन्तु गृहीतसङ्कोचं प्राणादिमयं न तु शुद्धचित्स्वभावं तस्योक्तयुक्त्यावरीतुमशक्य त्वात् || ८० || नन्वेवं मलोऽपि स्वतन्त्रेश्वरशक्तिपेर्रितमेव चेतनमणुवर्गमावृणुयात् ? -- इत्याशङ्क्याह -- न चेशप्रेरितः पुंसो मल आवृणुयाद्यतः || ९-८१ || निर्मले पुंसि नेशस्य प्रेरकत्वं तथोचितम् |
SK
इह अनादित्वेऽपि मलस्य बन्धकतायामवश्यमीश्वरप्रेरणमादितरमुपयुक्तम् � अचेतनस्य चेतनाधिष्ठानं विना कार्यकारित्वाभावात् | अतश्चासौ परमेश्वरः कान् प्रति बन्धनाय मलं प्रेरयेत् | किं समलान् उत निर्मलान्, तत्राद्ये पक्षे व्यर्थं तत्पेर्रणं तत्पूर्वमपि तेषां मलयोगात्, द्वितीयस्मिन् अशक्यं मुक्ताणून् प्रत्यपि प्रसङ्गात्, अत एवोक्तम् -- ᳚रिशस्य निर्मले पुंसि पेर्रकत्वं हि नोचितम् |᳚ इति, प्रत्युत पूर्णज्ञानक्रियात्मनो नैर्मल्यस्याविशेषात् परमेश्वरोऽणवश्च परस्परस्य निरोधाय मलं नियुञ्जीरन्, अणव एव वा परमेश्वरं प्रति यदेकापेक्षया भूयसां सामर्थ्यातिशयः, यदाहुः -- ᳚विप्रतिषिद्धधर्मसमवाये भूयसां स्यात्सधर्मत्वम् |᳚ इति || ८१ || तदाह तुल्ये निर्मलभावे च प्रेरयेयुर्न ते कथम् || ९-८२ || तमीशं प्रति युक्तं यद् भूयसां स्यात्सधर्मता | इदानीमेतदुपसंहरन् प्रकृतमेवानुसरति -- तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम् || ९-८३ || निर्णीतं विततं चैतन्मयान्यत्रेत्यलं पुनः | अन्यत्रेति प्रथमाह्निकादौ अत एव पुनरित्युक्तम् || न चास्य क्वचिदपि विगीततास्ति -- इत्याह | मलोऽभिलाषश्चाज्ञानमविद्या लोलिकाप्रथा || ९-८४ || भवदोषोऽनुप्लवश्च ग्लानिः शोषो विमूढटा | अहंममात्मतातङ्को मायाशक्तिरथावृतिः || ९-८५ || दोषबीजं पशुत्वं च संसाराङ्कुरकारणम् | इत्याद्यन्वर्थसंज्ञाभिस्तत्र तत्रैष भण्यते || ९-८६ || नन्वसावनुगतोऽर्थः कः ? -- इत्याशङ्क्याह -- अस्मिन् सति भवति भवो दुष्टो भेदात्मनेति भवदोषः | मञ्चवदस्मिन् दुःखस्रोतोऽणून् वहति यत्प्लवस्तेन || ९-८७ || भवदोष इति तत्कारित्वात् मञ्चवदिति ᳚तत्र तस्येव᳚ इति सप्तम्यन्तोपमानम् | प्लव इति तात्कर्म्यात् || ८७ || नन्वेवं सर्वस्यानुगतोऽर्थः किं न दर्शितः ? -- इत्याशङ्क्याह -- शेषास्तु सुगमरूपाः शब्दास्तत्रार्थमूहयेदुचितम् | अत एवास्माभिरपि ग्रन्थविस्तरभयादेतन्न व्याकृतम् इति स्वयमेवाभ्यूह्यम् ||
SK
नन्वत्र संसाराङ्कुरकारणमित्यत्र कः सुगमोऽनुगमः ? -- किं संसार एवाङकुर उत संसारस्याङ्कुरस्तस्य कारणम् ? -- इत्याशङ्कामपनुदन् प्रकृतप्रमेयसङ्गतिसंदर्शनपुरःसरं क्रमप्राप्तं कार्ममलं प्रस्तौति -- संसारकारणं कर्म संसाराङ्कुर उच्यते || ९-८८ || चतुर्दशविधं भूतवैचित्र्यं कर्मजं यतः | कर्मणः संसारकारणत्वे द्वितीयमर्धं हेतुः, तेन संसारस्य ᳚शरीरभुवनाकारं मायीयं परिकीर्तितम् |᳚ इत्यादिना निरूपितस्य मायीयमलस्याङ्कुर इवाङ्कुरः कारणं कार्ममलम् | तस्यापि कारणमाणवमिति | यदुक्तम् � ᳚मलः कर्मनिमित्तं तु नैमित्तिकमतः परम् |᳚ इति | ङिमित्तमभिलाषाख्यम् ...................... |᳚ इति च || ८८ || एवं यतः कर्मवशादेव विचित्रः संसारः समुद्भवेत् अतः सर्वेषां तदुच्छेदायैव यत्नः -- इत्याह � अत एव सांख्ययोगपाञ्चरात्रादिशासने || ९-८९ || अहंममेति सन्त्यागो नैष्कर्म्यायोपदिश्यते | शासन इति शास्त्रे इदं हि तत्रोपदिष्टं यत् यः कश्चित्परब्रह्मणि आहितचित्तः सर्वमपि कुर्वन् ङाहं किञ्चि करोमि᳚ इत्यभिमानादहन्तां सन्त्यजेत्, तत्र च सङ्गाभावात् ङ ममानेन कृतेन कश्चिदर्थः᳚ इति ममताग्रहमपि, स नैष्कर्म्यं प्राप्नुयात् -- येनास्य तदेकनिमित्तः संसार एव न भवेदिति | यद्गीतम् -- ङ मां कर्माणि लिम्पन्ति न मे कामः फलेष्वपि | इति मां योऽभिजानाति कर्मभिर्न स बध्यते ||᳚ इति | ᳚त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः | कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ||᳚ इति | ᳚योगयुक्तो विशुद्धात्मा विदितात्मा जितेन्द्रियः | सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते || नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् |᳚ इति | ᳚ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्तवा करोति यः | लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ||᳚ इति च || ८९ || ननु यद्येवं तर्हि मुक्त एवासौ ? -- इत्याशङ्क्याह -- निष्कर्मा हि स्थिते मूलमलेऽप्यज्ञाननामनि || ९-९० || वैचित्र्यकारणाभावान्नोर्ध्वं सरति नाप्यधः |
SK
केवलं पारिमित्येन शिवाभेदमसंस्पृशन् || ९-९१ || विज्ञानकेवली प्रोक्तः शुद्धचिन्मात्रसंस्थितः | अपिश्चार्थे भिन्नक्रमः, तेन ङिष्कर्मापि᳚ इति | ऊर्ध्वमिति शुद्धमध्वानम् | न संसरति अज्ञाननाम्नो मूलमलस्याणवस्य अवस्थानात्, नाप्यधः शुद्धेतरं, वैचित्र्यकारणस्य कार्ममलस्याभावात्, केवलमसौ ᳚मायोर्ध्वे शुद्धविद्याधः सन्ति विज्ञानकेवलाः |᳚ इत्याद्युक्तयुक्त्या शुद्धाशुद्धाध्वमध्यवर्ती शुद्धबोधैकस्वभावोऽपि, स्वातन्त्र्यहानेः आणवमलांशकृतस्य स्वरूपसङ्कोचस्य संभवात् पारिमित्येन स्वातन्त्र्यावियुक्तबोधस्वभावपरमेश्वराविभेदमप्राप्नुवन्, विज्ञानकेवली विज्ञानं बोधात्मकं रूपं केवलं स्वातन्त्र्यरहितमस्य इति, प्रकर्षेणोक्तः, सर्वत्रोद्घोषितः -- इत्यर्थः | यदुक्तम् -- ᳚शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता | निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् || बोधादिलक्षणैक्येऽपि येषामन्योन्यभिन्नता | तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः ||᳚ इति || ९१ || ननु अस्य किं सर्वदैव शिवाभेदासंस्पर्शः, उत न ? -- इत्याशङ्क्याह -- स पुनः शांभवेच्छातः शिवाभेदं परामृशन् || ९-९२ || क्रमान्मन्त्रेशतन्नेतृरूपो याति शिवात्मताम् | क्रमादिति -- शिवाभेदपरामर्शस्य तारतम्यातिशयात् अत एव तद्दार्ढ्यातिशयात् अक्रमेणापि मन्त्रमहेश्वरत्वमस्य भवेत् -- इति भावः | तदुक्तम् -- श सिसृक्षुर्जगत्सृष्टेरादावेव निजेच्छया | विज्ञानकेवलानष्टौ बोधयामास पुद्गलान् || इति | ईशा मन्त्रेश्वराः | तन्नेतारो मन्त्रमहेश्वराः इति || ९२ || नन्वस्ति तावद्विज्ञानाकलस्याणवो मलः, स च कर्मणः कारणं तत्कथमसौ स्वकार्यं न जनयेत् -- येनास्य पुनः पुनः संसारित्वमेव स्यात् प्रत्युत मन्त्रादिक्रमेण शिवात्मतां याति, इति कस्मादुक्तम् ? -- इति गर्भीकृताशङ्काशङ्कान्तरमाशङ्कते -- ननु कारणमेतस्य कर्मणश्चेन्मलः कथम् || ९-९३ || स विज्ञानाकलस्यापि न सूते कर्मसंततिम् | एतदेव प्रतिविधत्ते --
SK
मैवं, स हि मलो ज्ञानाकले दिध्वंसिषुः कथम् || ९-९४ || हेतुः स्याद् ध्वंसमानत्वं स्वातन्त्र्यादेव चोद्भवेत् | दिध्वंसिषुरिति | श्वातन्त्र्यस्याप्यबोधता.................... |᳚ इत्याद्युक्त्या देहाद्यहंभावाभिमानस्वभावभेदान्तरखण्डनात् | अत एव स्वकार्यजननासामर्थ्यात् कथं हेतुः स्यादित्युक्तम्, प्रत्युतास्य ध्वंसोन्मुखतात्मना स्वमहिम्ना ध्वंसमानत्वमेव तन्नान्तरीयकं ध्वस्तत्वमेव वोदियात् | नहि निनंक्षु बीजं पुनः प्ररोहमियात्, नापि अस्य नश्यत्तायां नष्टतायां वा निनंक्षुत्वादेव अन्यत् किञ्चिदपेक्षणीयं संभवेत् || अनेनैव चाभिप्रायेण विज्ञानाकलादिक्रमकल्पना सर्वत्र कृता -- इत्याह -- दिध्वंसिषुध्वंसमानध्वस्ताख्यासु तिसृष्वथ || ९-९५ || दशास्वन्तः कृतावस्थान्तरासु स्वक्रमस्थितेः | विज्ञानाकलमन्त्रेशतदीशादित्वकल्पना || ९-९६ || अवस्थान्तराणीति -- किंचिद्ध्वंसमानत्वकिंचिद्ध्वस्तत्वादिरूपाणि, एतदन्तःकारे च हेतुः -- स्वक्रमस्थितेरिति | नहि दिध्वंसिषुतादिदशानन्तरं झटित्येवाखण्डतया ध्वंसमानत्वं ध्वस्तत्वं वा प्रादुर्भवेत् -- इति भावः | तेनात्र पञ्चस्वप्यासु दशासु यथासंख्येन विज्ञानाकलादिरूपत्वं कल्पितमिति | ईशाः -- मन्त्रेश्वराः, तदीशाः -- मन्त्रमहेश्वराः, आदिः -- आदिसिद्धः शिवः, अन्यथा हि तदीशादिकल्पनेत्येव स्यात्, एवं च आसामवस्थानां भेदात् सुषुप्ततुर्ययोरपि अनेकरूपत्वमित्यर्थसिद्धम् || ९६ || अत आह � ततश्च सुप्ते तुर्ये च वक्ष्यते बहुभेदता | तस्माद्युक्तमुक्तम् -- दिध्वंसिषुर्मूलमलः कर्मणो न निमित्तमिति || तदेवाह -- अतः प्रध्वंसनौन्मुख्यखिलीभूतस्वशक्तिकः || ९-९७ || कर्मणो हेतुतामेतु मलः कथमिवोच्यताम् | खिलीभूत इति -- अखण्डशक्तिः पुनः कर्मणो हेतुतां यायात् - इत्याशयः | एतच्च अभ्युपगम्योक्तम् || वस्तुतस्तु मलस्यैतन्न घटते -- इत्याह -- किं च कर्मापि न मलाद्यतः कर्म क्रियात्मकम् || ९-९८ || क्रिया च कर्तृतारूपात् स्वातन्त्र्यान्न पुनर्मलात् |
SK
मलादिति -- अकर्तृतात्मकास्वातन्त्र्यरूपात् -- इत्यर्थः | कर्तृकर्मत्वतत्त्व एव च कार्यकारणभावः, इति समनन्तरमेवोपपादितम् || ९८ || ननु यद्येव तत्कथं ᳚मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् |᳚ इत्याद्युक्तम् ? -- इत्याशङ्क्याह -- या त्वस्य कर्मणश्चित्रफलदत्वेन कर्मता || ९९ || प्रसिद्धा सा न सङ्कोचं विनात्मनि मलश्च सः | सेति -- चित्रफलप्रदत्वेन कर्मता, स इति -- सङ्कोचः | तेन सङ्कोचं विनास्य न तत्तत्फलदाने सामर्थ्यम् | सङ्कोच एव मल इत्यस्य तत्कारणत्वमुपचरितम्, संकुचितो हि भोक्ता शुभाशुभाद्यात्मकं भिन्नं सत् फलमात्मनि भोग्यत्वेनाभिमनुते, येन देवमनुष्यादिविचित्ररूपतयास्य अवस्थानम् || ९९ || तदाह -- विचित्रं हि फलं भिन्नं भोग्यत्वेनाभिमन्यते || ९-१०० || भोक्तर्यात्मनि तेनेयं भेदरूपा व्यवस्थितिः | अतश्च नास्य स्वसंपत्तावुपादानं सहकारि वा कारणं मलः, किन्तु कार्यकरणे हस्तावलम्बनप्रायः -- इत्याह -- इति स्वकार्यप्रसवे सहकारित्वमाश्रयन् || ९-१०१ || सामर्थ्यव्यञ्जकत्वेन कर्मणः कारणं मलः | नहि सङ्कोचं विनास्य विचित्रफलदाने किंचित्सामर्थ्यमभिव्यज्यते � इति भावः || १०१ || नन्वेवं विज्ञानाकलानामपि स्वातन्त्र्यसङ्कोचप्रयुक्तमलद्वययोगात् तत्र ᳚विज्ञानकेवलो मलैकयुक्तः᳚ इत्यादि दुष्येत् प्रत्युत ᳚तत्कर्मयुक्तः प्रलयकेवलः᳚ इत्याद्युक्त्या प्रलयकेवलित्वं प्रसज्येत् ? -- इत्याशङ्कते -- नन्वेवं कर्मसद्भावान्मलस्यापि स्थितेः कथम् || ९-१०२ || विज्ञानाकलता तस्य सङ्कोचो ह्यस्ति तादृशः | केनेदमुक्तं मलद्वययोगोऽस्येति -- तदाह -- ᳚तस्येत्यादि᳚ | तादृश इति - - प्राग्वदेव प्रलयाकलादिदशोचितः कर्मसामर्थ्यव्यञ्जनयोग्य इति यावत् || १०२ || तदेव प्रतिविधत्ते -- मैवमध्वस्तसङ्कोचोऽप्यसौ भावनया दृढम् || ९-१०३ || नाहं कर्तेति मन्वानः कर्मसंस्कारमुज्झति |
SK
भावनयेति ᳚अहं-ममेति᳚ संन्यासादिरूपया | अतश्च अस्य नैष्कर्म्यान्न कार्ममलयोगः, इति स्थितं विज्ञानाकलत्वम् || १०३ || ननु संस्कारोच्छेदे पूर्वापरानुसंधानाभावो भवेदित्यस्य प्रमातृत्वमेव न स्यात् ? -- इत्याशङ्क्याह -- फलिष्यतीदं कर्मेति या दृढा वृत्तिरात्मनि || ९-१०४ || स संस्कारः फलायेह न तु स्मरणकारणम् | दृढ इति -- अनादित्वात्, द्विधा हि आत्मनि भावनात्मा वृत्त्यादिशब्दव्यपदेश्यः संस्कारः -- सादिरनादिर्वा, नाद्यः -- अनुभवाहितो यः प्रबोधबलात् प्रबुध्यमानः स्मरणकारणतया प्रमातुरनुसंधातृत्वं पुष्येत्, अन्यः पुनः कर्मवासनात्मा यद्वशाद्विचित्रफलदायि कर्म स्यात् || १०४ || ननु कर्मसंस्कारश्चेदुच्छिन्नस्तावता कर्मणः किं वृत्तं यदस्य तत्फलभागित्वं न स्यात् ? -- इत्याशङ्क्याह � अप्रध्वस्तेऽपि सङ्कोचे नाहं कर्तेति भावनात् || ९-१०५ || न फलं क्षीवमूढादेः प्रायश्चित्तेऽथ वा कृते | अप्रध्वस्त इति -- संनिहितेऽपि सहकारिणि इति यावत्, न फलमिति -- सुकृतदुष्कृतात्मनः कर्मण इत्यर्थावसेयम् | नहि क्षीवमूढादेः ᳚इदमहं करोमि᳚ इत्यनुसंधानमस्ति अननुसंधाय च कृतं कृतमेव न भवेदिति किं फलेत् यदभिप्रायेणैव च ᳚.......................षमुत्थानात् क्रियादयः |᳚ इत्यादि अन्यैरुक्तम् | प्रायश्चित्तेऽपि कृते ङाहमत्र कर्ता᳚ इति निवृत्तिभावनात् तत्तद्विषयानुसंधानशैथिल्यादेव न तत्तत् फलदायि स्यात्, यदाहुः -- ᳚पापं कृत्वा तु संतप्य तस्मात्पापाद्विमुच्यते | नैवं कुर्यामहमिति निवृत्त्या तु स पूयते ||᳚ इति || १०५ || नन्वेवं सत्तया फलदाने कर्म न प्रयोजकं किन्तु अभिसंधानादित्यायातम् ? सत्यमेतत्, -- इत्याह -- यन्मयाद्य तपस्तप्तं तदस्मै स्यादिति स्फुटम् || ९-१०६ || अभिसंधिमतः कर्म न फलेदभिसन्धितः | स्फुटमिति -- दार्ढ्येन, कर्मेति -- तपोरूपम्, न फलेदिति -- कर्तुः, तद्धि परस्मै स्तादित्यभिसंहितमिति कथं स्वत्र फलदायि स्यात्, यदाहुः --
SK
ङासमीहितं फलं भवति................. |᳚ इति || १०६ || नन्वेवं कर्मफलयोर्वैयधिकरण्यात् कृतनाशाकृताभ्यागमचोद्यं कथङ्कारं परानुद्यते ? -- इत्याशङ्क्याह -- तथाभिसंधानाख्यां तु मानसे कर्म संस्क्रियाम् || ९-१०७ || फलोपरक्तां विदधत्कल्पते फलसम्पदे | तपःप्रभृति हि कर्म ᳚तथा परत्रैव फलतु᳚ -- इत्यभिसंधानात्मकं मनसि संस्कारं समर्पयत् फलसम्पदे कल्पते -- तथैव फलदानकुशलतामियात् -- इत्यर्थः | यथाभिसंधानमेव हि कर्मफलव्यवस्थेत्यभिप्रायः | यदाहुः � ᳚यद्यथा चाभिसंधत्ते तत्तत्तस्य तथा फलेत् |᳚ इति | ततश्च नैतच्चोद्यं तद्धि एवं भवेत् यदि स्वत्रैव फलाभिसंधाने परत्र फलेदिति || १०७ || नन्वेवमभिसंधानमात्रायत्तत्वे कर्मफलयोः तद्व्यवस्थैव तुट्येत् यत् सर्व एवाफलाभिसन्धानेन यत्तत्कर्म कुर्वाणोऽपि न तत्फलभागी भवेदिति कृतं स्वर्निरयाभ्यामिति ? सत्यमेतत् -- यद्यत्र कश्चित् तीव्रमभिनिविष्टो भवेत् | तदाह -- यस्तु तत्रापि दार्ढ्येन फलसंस्कारमुज्झति || ९-१०८ || स तत्फलत्यागकृतं विशिष्टं फलमश्नुते | यः पुनस्तत्रानुसंधाने कर्मफलसंस्कारमपि दार्ढ्येनोज्झति ᳚अनाश्रितः कर्मफलं कार्यं कर्म करोति यः |᳚ इत्याद्युक्त्या तदासङ्गं जह्यात्, स तस्य फलस्य अनासङ्गेन जनितं विशिष्टं लोकोत्तरं फलमश्नुते -- मायोत्तीर्णं पदमासादयेत् -- इत्यर्थः, यद्गीतम् -- ᳚कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः | जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ||᳚ इति || १०८||
SK
ननु यद्येवं तद्धीवरादेः प्रजागरणामात्रेणैव शिवरात्रिफलभागित्वश्रुतिः, अकामत एवापेयपानादि कुर्वतां प्रायश्चित्तस्मृतिश्च कथं सङ्गच्छताम्, नहि तेषामेतदनुसन्धानमस्ति ᳚यदेतदर्थं वयमेवं कुर्मः᳚ इति ? अत्रोच्यते -- कुत्र नामात्रानुसंधानमुपयुक्तम् किं कर्मणः स्वरूपे किं वा फले | न तावत्फले, नहि ब्रह्महत्यया निरयो मे भूयादित्यभिसंधाय कश्चित् ब्रह्मणं हन्यात् | एवं हि ततोऽस्य निवृत्तिरेव स्यात् | वस्तुतः सर्वस्यैव लोकस्य निरयभीरुत्वात्, प्रत्युत निष्कण्टकीकरणाद्यभिसमीहितं दृष्टमपि फलं ततोऽस्य न स्यात्, तदैव कण्टकान्तरोत्पादस्य शतशो दर्शनात् | नापि कृपादानात् किंचित्फलं भवेत्, तत्र कृपामात्रेणैव प्रवृत्तेः फलानभिसंधानात् | अथ स्वरूपे तदत्रास्त्येव, नहि धीवरादेः जागर्मीत्यभिसंधानं नास्तिक्षीवमूढादिवदस्य अस्वस्थवृत्तित्वाभावात्, किन्तु अज्ञत्वात् न तथा दार्ढ्येन, येनास्य परिमितफलभाक्त्वप्रतिपादनम् | एवं सौगतमतेऽपि कस्यचन क्रिमिविशेषस्य प्रसङ्गात् चैतन्यभट्टारकं प्रदक्षिणयतोऽस्त्येव तथा प्रक्रमणे समुत्थानम्, नहि तूलस्येवास्य वातादिपेर्रणादेवंविधत्वम् | अतश्च न्याय्योऽस्य भगवदाधिपत्येन वस्तुबलोपनीतो जन्मान्तरे सद्गतिप्रतिलम्भः | अपेयपानादावपि अपेयत्वानभिसन्धेरकामस्य सामान्येन ᳚इदं पिबामि᳚ इत्यभिसंधानमस्ति येनापरीक्ष्यकारित्वादिनास्य प्रायश्चित्तं स्मृतं किंतु सकामापेक्षया न्यूनम् | यन्मनुः -- ᳚प्रायश्चित्तमकामानां सकामानां तथैव च | विहितं यदकामानां द्विगुणं तत्सकामतः ||᳚ इति | तस्मादनुसंधानानुप्राणितैव कर्मफलव्यवस्था इत्यलं बहुना || १०८ || एतदेव प्रकृते योजयति -- अनया परिपाट्या यः समस्तां कर्मसंततिम् || ९-१०९ || अनहंयुतया प्रोज्झेत् ससङ्कोचोऽपि सोऽकलः | अनयेति -- फलत्यागपर्यन्तरूपया, समस्तामिति -- शुभामशुभां च, अनहंयुतयेति -- तदनासक्ततया -- इत्यर्थः, अकल इति -- विज्ञानाकलः || १०९ ||
SK
ननु एवं कश्चित् द्वेषवशादपि आत्मीयं दुष्कृतमस्मै स्तात् इति शत्रुविषयमभिसन्दध्यात् येन कृत्वापि दुष्कृतं न तत्फलभाग्भवेदिति कर्मफलव्यवस्थाया विसंस्थुलत्वमेवापतेत् ? -- तदाह -- नन्वित्थं दुष्कृतं किंचिदात्मीयमभिसन्धितः || ९-११० || परस्मै स्यान्न विज्ञातं भवता तात्त्विकं वचः | इत्थमिति -- अभिसन्धानमात्रायत्तत्वेन कर्मफलव्यवस्थायाः, अविज्ञातकर्मफलव्यवस्थाकस्यैतत् चोद्यमित्युक्तम् -- ङ विज्ञातम्᳚ इत्यादि || ११० || एतदेव उपपादयति � तस्य भोक्तुस्तथा चेत्स्यादभिसन्धिर्यथात्मनि || ९-१११ || तदवश्यं परस्यापि सतस्तद्दुष्कृतं भवेत् | पराभिसन्धिसंवित्तौ स्वाभिसन्धिर्दृढीभवेत् || ९-११२ || अभिसन्धानविरहे त्वस्य नो फलयोगिता | न मे दुष्कृतमित्येषा रूढिस्तस्याफलाय सा || ९-११३ || यथा तस्य दुष्कृतकर्तुरात्मनि ᳚एतदस्मै स्तात्᳚ इत्यभिसन्धानमस्ति, तथैव चेत् तद्भोक्तृत्वेन अभिमतस्य ᳚परस्य स्तान्मम᳚ एतदित्यनुसन्धानं स्यात् तद्भवेदेवम्, यतः सुकृतदुष्कृतात्मकस्य परस्य संबन्धिन्यामेवमभिसंधानसंवित्तौ तदर्पणविषयस्यात्मीयमभिसन्धानं दृढीभवेत् � तत्फलभागित्वेन अवष्टम्भभाग्भवेत -- इत्यर्थः | यस्य पुनरेवमात्मीयमभिसंधानमेव नास्ति तस्य कुतस्तफलभागित्वं भवेत्, प्रत्युत ᳚मा मे दुष्कृतं भूयात, इति विरुद्धमनुसंधानमस्य स्वरसत एव प्ररोहमुपागतं संभाव्यते | वस्तुतो हि सर्व एवायं लोकः पापभीरुः तच्चास्य फलभाव एव निमित्तमिति कुतः परानुसन्धानमात्रादेव परस्य दुष्कृतफलभाक्त्वं भवेदेवम्, इत्युक्तं स्यात् | यत् कर्तुः अभिसन्धानात् कर्म फलेत् तदर्पणविषयस्य च पराभिसन्धौ स्वाभिसन्धानविरहान्न फलोदयः इति || ११३ || कर्तुरपि अनुसन्धानाभावे पुनः किं तत्कृतं कर्म स्वस्मै परस्मै वा फलेत् उताफलमेव इत्यन्तःकृत्य संक्षेपेणाभिप्रेतमेव पक्षमुपक्षिपति -- पराभिसन्धिविच्छेदे स्वात्मनानभिसंहितौ |
SK
द्वयोरपि फलं न स्यान्नाशहेतुव्यवस्थितेः || ९-११४ || द्वयोरिति -- अर्पणक्रियाकर्तृविषययोः, नाशहेतुः -- स्वपरानुसन्ध्यभाव लक्षणः || ११४ || ननु ᳚एतदीयं दुष्कृतं मे भूयात्᳚ -- इत्यनुसन्धानं यथा परस्य नास्ति तथा शुकृतं मे भूयात्᳚ -- इत्यपि मा भूदिति कथमुक्तम् ᳚यन्मयाद्य तपस्तप्तम्᳚ इत्यादि ? -- इत्याशङ्क्याह -- सुखहेतौ सुखे चास्य सामान्यादभिसन्धितः | निर्विशेषादपि न्याय्या धर्मादिफलभोक्तृता || ९-११५ || दुःखं मे दुःखहेतुर्वा स्तादित्येष पुनर्न तु | सामान्योऽप्यभिसन्धिः स्यात्तदधर्मस्य नागमः || ९-११६ || सर्वो हि लोकः सुखस्पृहयालुर्दुःखजिहासुश्च इति सर्वेषां सुखं तद्धेतुं वा प्रति सामान्यात्मनापि अभिसंधानं न्याय्यं न दुःखं तद्धेतुं वा प्रतीति युक्तमुक्तम् -- ᳚परस्य सुकृतफलभागित्वमेव भवेत् न दुष्कृतफलभागित्वमपि᳚ इति, निर्विशेषादिति -- अनेनाद्य तपस्तप्तं तपो मे भूयादित्येवंरूपत्वविरहादपि -- इत्यर्थः || ११६ || एवमेतत् प्रसङ्गादभिधाय, प्रकृतमेवानुसरति -- प्रकृतं ब्रूमहे ज्ञानाकलस्योक्तचरस्य यत् | अनहंयुतया सर्वा विलीनाः कर्मसंस्क्रियाः || ९-११७ || उक्तचरस्येत्यनेन प्रागुक्तं कार्ममलाभावोपपादकं निखिलमेव प्रमेयमनुस्मारितम्, अतश्चास्य विज्ञानाकलस्य कार्म एव मलो नास्ति इति तत्सामर्थ्यव्यञ्जकत्वात्मकनिजकरणीयायोगात् दिध्वंसिषुः मलः तत्त्वादेव किंचिद्ध्वंसमानत्वादिक्रमेण ध्वंसमानत्वं तन्नान्तरीयकं ध्वस्तत्वं च यायात् || ११७ || तदाह -- तस्मादस्य न कर्मास्ति कस्यापि सहकारिताम् | मलः करोतु तेनायं ध्वंसमानत्वमश्नुते || ९-११८ || तेनेति -- सहकारित्वाकरणेन || ११८ || ननु मलस्य ध्वस्तत्वे शर्वमहम्᳚ इति सर्वत्राहंभावोदयात् कर्मणि तत्फले च तथाभावात् अस्य पुनरपि कार्ममलयोगः स्यात् ? -- इत्याशङ्क्याह -- अपध्वस्तमलस्त्वन्तःशिवावेशवशीकृतः | अहंभावपरोऽप्येति न कर्माधीनवृत्तिताम् || ९-११९ ||
SK
कर्माधीनवृत्तित्वाभावे शिवावेशवशीकृतत्वं हेतुः || ११९ || एवमेतन्मलस्य संसाराङ्कुरकारणत्वं तत्प्रसङ्गेन च संसाराङ्कुरस्य स्वरूपं गर्भीकृतप्रागुक्तसकलप्रमेयया श्रीमालिनीविजयोक्त्या संवादयति -- उक्तं श्रीपूर्वशास्त्रे च तदेतत्परमेशिना | मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् || ९-१२० || धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम् | तत्र कर्मसूत्रं व्याचष्टे -- लक्षयेत्सुखदुःखादि स्वं कार्यं हेतुभावतः || ९-१२१ || लक्षयेदिति -- स्वसत्ताप्रयोजकीकारेण तथा व्यवस्थापयेत् -- इत्यर्थः | कथं चास्य तल्लक्षकत्वम् ? -- इत्याशङ्क्योक्तं -- ᳚हेतुभावतः᳚ इति || १२१ || ननु ङावश्यं कारणानि कार्यवन्ति भवन्ति᳚ इति न्यायात् नियमेन कथङ्कारं कार्यं हेतुर्व्यवस्थापयेत् ? -- इत्याशङ्क्याह -- नहि हेतुः कदाप्यास्ते विना कार्यं निजं क्वचित् | हेतुता योग्यतैवासौ फलानन्तर्यभाविता || ९-१२२ || का नाम योग्यता ? -- इत्युक्तं ᳚फलानन्तर्यभाविता᳚ इति | अत एव नैयायिकादयः सामग्र्या एव कारणत्वमभ्युपागमन् | समग्राणि कारणमिति नावश्यमित्यादि पुनरसमग्रापेक्षयोक्तम् || १२२ || ननु यद्येवं तत् कार्यात् पूर्वं सामग्र्यन्तरनुप्रविष्टस्यापि वह्न्यादेः किं कारणत्वं स्यान्न वा ? -- इत्याशङ्क्याह -- पूर्वकस्य तु हेतुत्वं पारम्पर्येण........... तेन सुखदुःखादेर्लक्षणम् इति षष्ठीतत्पुरुषगर्भमेतत् व्याख्यानम् | तत्रैव बहुव्रीहिगर्भं व्याख्यानान्तरं दर्शयति -- .......................... किं च तत् | लक्ष्यते सुखदुःखाद्यैः समाने दृष्टकारणे || ९-१२३ || चित्रैर्हेत्वन्तरं किञ्चित्तच्च कर्मेह दर्शनात् |
SK
᳚किं च, ᳚तत्᳚ | इत्यनेन पूर्वत्रानवकॢप्त्या नायं व्याख्याविकल्पः किं तु आवृत्त्या समुच्चय इति द्योतितम्, प्रतिपुरुषं समानेऽपि सेवाध्ययनादौ दृष्टे कारणे यत् सुखदुःखादीनां वैचित्र्यं तेन तदन्यथानुपपत्त्या तत्र तत्किंचिददृष्टसंज्ञं हेत्वन्तरं लक्ष्यते -- अनुमीयते इत्यर्थः | कार्यविशेषजनकत्वाच्च तेन विशिष्टेन केनचित् भाव्यम् -- इत्याह -- ᳚तच्च कर्म᳚ इति, विशिष्टत्वेऽपि कर्मेति कुतो निर्ज्ञातं पिशाचाद्यप्यस्तु ? -- इत्याशङ्क्योक्तम् � इह दर्शनादिति, इह सर्वत्रैव हि कर्मवैचित्र्यात् कार्यवैचित्र्यं दृश्यते - - इत्याशयः || १२३ || एतदेव उपपादयति -- स्वाङ्गे प्रसादरौक्ष्यादि जायमानं स्वकर्मणा || ९-१२४ || दृष्टमित्यन्यदेहस्थं कारणं कर्म कल्प्यते | यतः स्वाङ्गे विचित्रं प्रसादरौक्ष्यादि स्वेन पांसुलेपाद्यात्मना कर्मणा जायमानं दृष्टम् अतो ᳚दृष्टवददृष्टकल्पना᳚ इति न्यायात् अत्रापि कर्मैव न तु पिशाचादि कारणं कल्प्यते, किं तु तदन्यदेहस्थं -- देहान्तरोपचितम् -- इत्यर्थः || १२४ || न चैतावतैव अत्र वैषम्यमुद्भाव्यमित्याह -- इहाप्यन्यान्यदेहस्थे स्फुटं कर्मफले यतः || ९-१२५ || कृषिकर्म मधौ भोगः शरद्यन्या१ च सा तनुः | इहापि शरीरक्षणिकत्वे सर्वेषामविवादात् ᳚अन्यदेहस्थं कर्म अन्यदेहस्थं फलम्᳚ इति नास्ति विमतिः, यतः कृषिकर्म वसन्ते तत्फलं शरदीति एतच्च अवस्थावैचित्र्यात् शरीरभेद एव घटते, इति युक्तमुक्तम् -- अन्यदेहस्थं कर्म कारणं कल्प्यते इति || १२५ || नन्वेवं कृतनाशाकृताभ्यागमचोद्यमापतेत् ? -- इत्याशङ्क्याह -- अनुसन्धातुरेकस्य संभवस्तु यतस्ततः || ९-१२६ || तस्यैव तत्फलं चित्रं कर्म यस्य पुरातनम् | येनैव मया प्रागुप्तंं स एवाहमद्य भोक्ष्ये, इत्यनुसंधानैक्यात् कर्मफलयोर्वैयधिकरण्याभावात् न कृतस्य नाशो नापि अकृतस्याभ्यागमः, इति युक्तमुक्तम् -- अन्यान्यदेहस्थे कर्मफले इति || १२६ ||
SK
ननु भवेदेवं यद्यनुसंधानमेव स्यात्, नहि जन्मान्तरीये कर्मणि एहिके च फले कस्यचित् तदस्ति ? -- इत्याशङ्क्याह -- क्षीवोऽपि राजा सूदं चेदादिशेत्प्रातरीदृशम् || ९-१२७ || भोजयेत्यनुसन्धानाद्विना प्राप्नोति तत्फलम् | इत्थं जन्मान्तरोपात्तकर्माप्यद्यानुसन्धिना || ९-१२८ || विना भुङ्क्ते फलं हेतुस्तत्र प्राच्या ह्यकम्पता | नहि क्षीवस्य राजादेरेवमनुसंधिः संभवति यन्मया ह्य एवमादिष्टः सूदो येनाद्य तथा तदादेशफलमेवं भोगः प्राप्त इति | भोजयेति -- भोगं कुरु इत्यर्थः | एवमिहापि अनुसन्धानमन्तरेण जन्मान्तरीयात् कर्मणः फललाभो भवेदिति न कश्चिद्दोषः | ननु अनुसन्धानमात्रायत्तैव कर्मफलव्यवस्था इति समनन्तरमेवोक्तं, तदधुनैव कथं विपर्यास्यते ? इत्याशङ्क्योक्तम् -- ᳚हेतुस्तत्र प्राच्या ह्यकम्पता᳚ इति | पूर्वं हि तत्र ᳚एवमहं करोमि᳚ इति दृढनिरूढोऽनुसन्धिरभूत् यत्संस्कारदार्ढ्यादिह तत्फलमिति, इह च स एव प्रयोजको नहि फलतत्संबन्धादौ क्वचिदसावुपादेयः � इति समनन्तरमेवोपपादितम् | एवं फलदानोन्मुखस्य कर्मणः प्राच्यानुसन्धानसंस्कारस्य दार्ढ्यमवश्यंभावि अन्यथा तथात्वायोगात्, ततश्च तदनुन्मुखस्य तथा तद्दार्ढ्यं न संभवेत् इति तत् केनचिदुपायेन फलदानाय निरोद्धुमपि शक्यं, तत्र हि अन्तः प्रतिबन्धोपनिपाताद्यपि संभाव्यते इति भावः ||१२८|| तदाह � अत एव कृतं कर्म कर्मणा तपसापि वा || ९-१२९ || ज्ञानेन वा निरुध्येत फलपाकेष्वनुन्मुखम् | अत इति -- फलौन्मुख्ये कर्मणः प्राच्यानुसन्धिनिष्कम्पस्यावश्योपयोगात् | कर्मणेति -- क्रियादीक्षादिना | निरुध्येत इति -- फलदानायोग्यं कुर्यात् -- इत्यर्थः || १२९ || अत एव फलदानोन्मुखं कर्मानिरोध्यमेव -- इत्याह -- आरब्धकार्यं देहेऽस्मिन् यत्पुनः कर्म तत्कथम् || ९-१३० || उच्छिद्यतामन्त्यदशं निरोद्धं नहि शक्यते |
SK
कथमुच्छिद्यतामिति -- न कथंचिदपि उच्छेत्तुं शक्यम् -- इत्यर्थः | अत्र हेतुः -- आरब्धकार्यमिति | यद्धि यावत् कार्यमेवारब्धुं न प्रवृत्तं तावत्तदारम्भकत्वमेव अस्य अन्तरा केनचिदुपायेन प्रतिबध्यते, इति युक्तः तन्निरोधः, यत्पुनस्तदारब्धुमेव प्रवृत्तं तस्य प्रवृत्तत्वादेव किं निरुध्यते -- इत्युक्तम् -- अन्त्यदशं निरोद्धुं नहि शक्यते इति, यदभिप्रायेणैव ᳚...................प्रारब्ध्रेकं न शोधयेत् |᳚ इति, ᳚.....................येनेदं तद्धि भोगतः ||᳚ इत्यादि सर्वत्रोद्घोष्यते | सद्योनिर्वाणदीक्षादि पुनरासन्नमरणादेरेव भवेदिति तत्रापि दत्तप्रायफलत्वात् ततः पराङ्मुखमेव कर्म शोध्यमिति न कश्चिद्दोषः | तदुक्तम् -- ᳚दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् | उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ||᳚ इति || १३०|| ननु देहारम्भकजात्यायुष्प्रदकर्म आरब्धकार्यत्वात् मा नाम निरोधि, यत् पुनरद्यतनं प्राक्तनं वा अस्मिन्नेव देहे दिनैर्मासैः संवत्सरैर्वा भोगमात्रलक्षणं कार्यमारप्स्यते तत् किं निरोद्धुं शक्यते न वा ? -- इत्याशङ्क्याह -- तत्रैव देहे यत्त्वन्यदद्यगं वा पुरातनम् || ९-१३१ || कर्म तज्ज्ञानदीक्षाद्यैः शण्ढीकर्तुं प्रसह्यते | अन्यदिति -- सद्य एव अनारब्धकार्यम् | शण्ढीकर्तुमिति � फलदानयोग्यतापहस्तनेन ध्वंसयितुम् -- इत्यर्थः | प्रसह्यते इति -- न तु तथा क्रियते ᳚......................प्रारब्ध्रेकं न शोधयेत् |᳚ इति सामान्येनोक्तेः | एवं विशेषस्य चावचनात् | आदिशब्दात् मन्त्रौषधादि | तदुक्तम् -- ᳚ये त्विहागन्तवः प्रोक्तास्ते प्रशाम्यन्ति भेषजैः | जपहोमप्रधानैश्च.................................... ||᳚ इति | रसायनादि पुनराब्धकार्यस्य आयुष्प्रदस्यैव कर्मणः सहायकं कुर्यात् येनैतच्चिरस्यानुपरतकार्यौन्मुख्यमास्ते यद्वशादवश्यंभाविनोऽपि कालमृत्योरभियुक्तानां किंचित्कालं प्रतिबन्धात्मा जयः स्यात् | तदुक्तम् -- ᳚रसायनतपोजापयोगसिद्धैर्महात्मभिः |
SK
कालमृत्युरपि प्राज्ञैर्जीयतेऽनलर्सैजनैः ||᳚ इति | विषादि पुनः प्रयुज्यमानं क्षीणायुष्येव प्रतपति नान्यस्मिन् | परं तत्र दुष्कृतभाजः प्रयोक्तुरभिमानमात्रं ᳚मयेदं कृतम्᳚ इति मन्यते इति | एवं चेदं देहकृतारम्भककर्मविषयतया भेषजादिसाध्येऽपि अर्थे यस्याः सामर्थ्यं न दृष्टं कस्तां प्रति अदृष्टेऽपि अर्थे समाश्वास इति किं दीक्षया इति न वाच्यम्, नहि भेषजादिभिर्नवं किञ्चि क्रियते यदेतदनाश्वासाय पर्यवस्येत्, इत्यलमवान्तरेण || १३१ || ननु को नामास्य ध्वंसः ? -- इत्याशङ्क्याह -- तथा संस्कारदार्ढ्यं हि फलाय दृढटा पुनः || ९-१३२ || यदा यदा विनश्येत कर्म ध्वस्तं तदा तदा | तथेति -- प्राक्प्ररूढानुसन्धानानुसारेण -- इत्यर्थः | एवं प्ररोहमुपागतो हि तत्संस्कारः फलनिमित्तमिह स्यात् -- इत्युपपादितम् | यत्तु संस्कारस्यैव फलोपजननप्रयोजकं दार्ढ्यमपाक्रियते तदकार्यकारित्वात् उच्यते -- कर्म ध्वस्तमिति निरुद्धमिति उच्छिन्नमिति शण्ढीकृतमिति च | यत्तद्भ्यां च नात्र कालनियमः कश्चिदित्युक्तम् | एवं मोहवशात् कृतमपि कर्म ज्ञानदीक्षादिना सर्वेंषां विनापि भोगमक्रमेणैव विनाशमियादिति पिण्डार्थः || १३२ || तदाह � अतो मोहपराधीनो यद्यप्यकृत किञ्चन || ९-१३३ || तथापि ज्ञानकाले तत्सर्वमेव प्रदह्यते | किञ्चनेति -- शुभमशुभं वा | ज्ञानकाल इति -- संवित्साक्षात्कारक्षणे -- इत्यर्थः || १३३ || किमत्र प्रमाणम् ? -- इत्याशङ्क्याह -- उक्तं च श्रीपरेऽहानादानः सर्वदृगुल्वणः || ९-१३४ || मुहूर्तान्निर्दहेत्सर्वं देहस्थमकृतं कृतम् | इह कश्चित् सर्वदृक् -- सर्वमेव संविद्रूपतया जानानः, अत एव विगलितभेदत्वात् अहानादानः, अत एवोल्वणः -- त्यक्तहेयोपादेयविभागः, क्षणादेव सर्वं दुष्कृतं सुकृतं च देहस्थं निर्दहेत् -- ज्ञानाग्निसात् कुर्यात् -- इत्यर्थः || १३४ || ननु यस्य सर्वमेव संविन्निष्ठं तस्य कथं कर्मापि देहस्थं संभवेत् ? -- इत्याशङ्कां गर्भीकृत्य स्वयमेव देहस्थपदं व्याचष्टे --
SK
देहस्थमिति देहेन सह तादात्म्यमाश्रिता || ९-१३५ || स्वाच्छन्द्यात्संविदेवोक्ता तत्रस्थं कर्म दह्यते | देहैक्यवासनात्यागात् स च विश्वात्मतास्थितेः || ९-१३६ || अकालकलिते व्यापिन्यभिन्ने या हि संस्क्रिया | सङ्कोच एव सानेन सोऽपि देहैकतामयः || ९-१३७ || संविदेवेति -- सर्वो हि भाववर्गः संवित्स्फार एवेति भावः | तत्रस्थमिति -- देहावच्छिन्नसंविन्निष्ठम् -- इत्यर्थः | कर्मणश्च इयान् दाहो यद्देहाहंभावसंस्कारगुणीभावो नाम इति, स च वैश्वात्म्यमाश्रितायां संविदि आत्माभिमानस्य मुख्यत्वात् भवेदित्युक्तम् -- स च विश्वात्मतास्थितेरिति | नहि अद्वयैकपरमार्थे नित्ये व्यापके च संविद्रूपे कश्चिदतिरेकेण देहादिसंस्कारो न्याय्यः | स हि सङ्कोच एव सति स्यात्, सङ्कोचश्च देहाद्येकरूप एवेति युक्तमुक्तम् -- सर्वमेव संविदैकात्म्येन जानतः कर्मदाहो भवेदिति, यदभिप्रायेणैव ᳚यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् | यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ||᳚ इत्यादि गीतम् || १३७ || एतदुपसंहरन् अन्यदवतारयति -- एतत्कार्ममलं प्रोक्तं येन साकं लयाकलाः | स्युर्गुहागहनान्तःस्थाः सुप्ता एव सरीसृपाः || ९-१३८ || ततः प्रबुद्धसंस्कारास्ते यथोचितभागिनः | ब्रह्मादिस्थावरान्तेऽस्मिन् संसरन्ति पुनःपुनः || ९-१३९ || येनेति -- कार्मेण मलेन | द्विमलबद्धा हि प्रलयाकलाः | गुहागहनम् -- मायागर्भः | एतेनेयदन्तमेषां व्याप्तिरित्यपि सूचितम् | तत इति मायान्तरवस्थानानन्तरं सृष्टिप्रारम्भे -- इत्यर्थः | संस्कारः - - कर्मवासनात्मा, तद्वैचित्र्यादेव चैषां यथोचितभागित्वमुक्तम्, संसरन्तीति -- अर्थादघोरेशसंसृष्टाः | उक्तं च प्राक् -- ᳚तद्दिनप्रक्षये विश्वं मायायां प्रविलीयते | क्षीणायां निशि तावत्यां गहनेशः सृजेत्पुनः ||᳚ इति || १३९ || नन्वेषामविशेषेण अधः संसरणमेव किं स्यात् उत ऊर्ध्वमपि ? -- इत्याशङ्क्याह -- ये पुनः कर्मसंस्कारहान्यै प्रारब्धभावनाः | भावनापरिनिष्पत्तिमप्राप्य प्रलयं गताः || ९-१४० ||
SK
महान्तं ते तथान्तःस्थभावनापाकसौष्ठवात् | मन्त्रत्वं प्रतिपद्यन्ते चित्राच्चित्रं च कर्मतः || ९-१४१ || अप्राप्येति -- तत्प्राप्तौ हि विज्ञानाकलत्वमेषां भवेत् -- इति भावः | तथान्तःस्थेति -- कर्मसंस्कारहान्यनुसारेण दत्तवासनाः -- इत्यर्थः, चित्रादिति -- काकाक्षिन्यायेन भावनापरिपाकसौष्ठवस्य कर्मणश्च विशेषणत्वेन योज्यम् | अत एव मन्त्रत्वमपि साञ्जननिरञ्जनादिभेदात् चित्रमित्युक्तम् | कारणस्य वैचित्र्यात् कार्यमपि तथैव भवेदिति भावः | मन्त्राणां च प्रलयाकलोपादानत्वे न अन्यथा संभाव्यम् | यदाहुः -- ᳚मन्त्राणां च प्रलयाकलानां सतामनुगृहीतानाम् |᳚ इति | श्रीपूर्वशास्त्रे च मन्त्रमहेश्वराणां विज्ञानाकला, मन्त्रेश्वराणां सकला उपादानत्वेनोक्ता इति पारिशेष्यात् मन्त्राणां प्रलयाकलोपादानत्वं सिद्धम् || १४१ || इदानीं प्रकृतमेवोपसंहरति -- अस्य कार्ममलस्येयन्मायान्ताध्वविसारिणः | प्रधानं कारणं प्रोक्तमज्ञानात्माणवो मलः || ९-१४२ || प्रधानमिति -- तत्तत्सामर्थ्यव्यञ्जकत्वात् | नहि एतत्सहकारित्वमन्तरेणास्य स्वकार्यप्रसवे किंचित्सामर्थ्यं भवेत् -- इति भावः | यदुक्तम् -- ᳚जन्माभिजनिका शक्तिः कर्मणो न मलं विना | अणुरज्ञानरहितः क्वचिज्जातो न दृश्यते ||᳚ इति || १४२ || ननु भवतु नामैतत्, यत्पुनरस्य ᳚रिश्वरेच्छावशक्षुब्धभोगलोलिका.............. |᳚ इत्यादौ क्षुब्धत्वं प्राक्प्रस्तावितं तत् किमुच्यते ? -- इत्याशङ्क्याह -- क्षोभोऽस्य लोलिकाख्यस्य सहकारितया स्फुटम् | तिष्ठासायोग्यतौन्मुख्यमीश्वरेच्छावशाच्च तत् || ९-१४३ || सहकारितयेति -- अर्थात्कार्मस्य मलस्य || १४३ || नन्वेतद्वस्तुसामर्थ्यादेव सिद्ध्येदित्यत्रेश्वरेच्छायाः किं प्रयोजनम् ? - - इत्याशङ्क्याह -- न जडश्चिदधिष्ठानं विना क्वापि क्षमो यतः | नन्वेवमीश्वरः स्वेच्छया व्यतिरिक्तानणून् प्रत्येव मलं नियुञ्ज्यादिति इह भेदवाद एव परापतेत् ? -- इत्याशङ्क्याह � अणवो नाम नैवान्यत्प्रकाशात्मा महेश्वरः || ९-१४४ ||
SK
चिदचिद्रूपताभासी पुद्गलः क्षेत्रवित्पशुः | नहि अणवो नाम प्रकाशात्मनो महेश्वरादन्यत् किञ्चि यत् स एव स्वस्वातन्त्र्यात् स्वात्मनि चिदचिद्रूपतामवभासयन् ᳚पुथ हिंसासंक्लेशनयोः᳚ इत्यस्य क्विपि कृते, पुथा -- हिंसया परताबुद्ध्या क्लेशेन च, गलतीति पुद्गलः, कर्मबीजप्ररोहावहं क्षेत्रं शरीरमेवात्मत्वेन जानानः पाश्यत्वात् पशुरित्युच्यते -- इत्यर्थः | तदुक्तम् -- ᳚.....................शिव एव गृहीतपशुभावः |᳚ इति || १४४ || नन्वेवं पशुभावग्रहणेऽस्य चिदचिद्रूपतावभासनेन किं स्यात् ? -- इत्याशङ्क्याह -- चिद्रूपत्वाच्च स व्यापी निर्गुणो निष्क्रियस्ततः || ९-१४५ || भोगोपायेप्सुको नित्यो मूर्तिवन्ध्यः प्रभाष्यते | अचित्त्वादज्ञता भेदो भोग्याद्भोक्त्रन्तरादथ || ९-१४६ || निर्गुण इति -- सत्त्वादयो हि जडस्य प्रकृत्यादेरेव भवन्तीति भावः | अत एव तद्वृत्तयोऽप्यस्य न संभवन्तीत्युक्तं ङिष्क्रिय᳚ इति | एवं च ततो निर्गुणत्वादेवेति व्याख्येयम् | भोगोपायेप्सुक इति -- भोगस्योपायान् कारणादीन् आप्तुमिच्छति तदेकासक्त इति यावत् | मूर्तिवन्ध्य इत्यमूर्त इत्यर्थः, अज्ञतेति -- जडे हि देहादावस्य आत्माभिमानः इति भावः | अतश्च जाड्यादेव निखिलविश्वक्रोडीकारप्रभवनशीलत्वाभावात् भेदप्रथात्मकमायीयमलगर्भीकृतत्वाच्च सर्वतो व्यावृत्त इत्युक्तं ᳚भोग्यात् भोक्त्रन्तराच्चास्य भेदः᳚ इति | तदुक्तम् -- ᳚अणवश्चिदचिद्रूपाः ........................... |᳚ इति तथा ᳚पशुर्नित्यो ह्यमूर्तोऽज्ञो निर्गुणो निष्क्रियोऽप्रभुः | व्यापी मायोदरान्तःस्थो भोगोपायविचिन्तकः ||᳚ इति || १४६ || एवं तदनतिरेकेऽपि अतिरेकायमाणानामणूनाम् ईश्वरेच्छावशादेव मलः प्रबोधमियात्, येनैषां कर्मवैचित्र्यात् तत्तत्संसाराविर्भावो भवेत् | तदाह -- तेषामणूनां स मल ईश्वरेच्छावशाद्भृशम् | प्रबुध्यते................................... || न चैतत् युक्तिमात्रसिद्धमेव -- इत्याह -- ...........टथा चोक्तं शास्त्रे श्रीपूर्वनामनि || ९-१४७ || तदेव पठति �
SK
ईश्वरेच्छावशादस्य भोगेच्छा संप्रजायते | भोगेच्छोरुपकारार्थमाद्यो मन्त्रमहेश्वरः || ९-१४८ || मायां विक्षोभ्य संसारं निर्मिमीते विचित्रकम् | तदुक्तं तत्र � ᳚रिश्वरेच्छा वशादस्य भोगेच्छा संप्रज्ञायते | ᳚भोगसाधनसंसिद्ध्यै भोगेच्छोरस्य मन्त्रराट् | जगदुत्पादयामास मायामाविश्य शक्तिभिः ||᳚ इति || १४८ || न च मायापि तदतिरिक्ता काचित्संभवति -- इत्याह -- माया च नाम देवस्य शक्तिरव्यतिरेकिणी || ९-१४९ || भेदावभासस्वातन्त्र्यं तथाहि स तया कृतः | यन्नाम हि निखिलजगदुल्लासनक्रीडाशालिनः परमेश्वरस्य भेदावभासने स्वातन्त्र्यं तदेवाव्यतिरेकिणी अपूर्णताप्रथनेन मीनाति हिनस्ति इति माया शक्तिरुच्यते | तथाहि तयैवायं भेदावभासः समुल्लासितः | अत एव कारणे कार्योपचारात्सैव भेदावभास इत्युच्यते || १४९ || तदाह � आद्यो भेदावभासो यो विभागमनुपेयिवान् || ९-१५० || गर्भीकृतानन्तभाविविभासा(गा) सा परा निशा | इह हि बहिरुल्लिलसिषामात्रत्वेन आसूत्रितप्रायत्वात् विभागमप्राप्तोऽत एव आद्यो यो भेदावभासः सा परा निशा महती मायेत्यर्थः अत एव बहिर्मुखतायां भाविनो विभागस्य शिम्बिकाफलवत् अस्यां गर्भीकारोऽस्ति इत्युक्तम् -- गर्भीकृतानन्तभाविविभागेति || एवमस्याः शक्तिरूपतामभिधाय शा चैका व्यापिनी सूक्ष्मा निष्कला जगतो निधिः | अनाद्यन्ताशिवेशानी व्ययहीना च कथ्यते ||᳚ इत्यागमार्थगर्भीकारेण तत्त्वरूपतामपि अभिधातुमाह -- सा जडा भेदरूपत्वात् कार्यं चास्या जडं यतः || ९-१५१ || व्यापिनी विश्वहेतुत्वात् सूक्ष्मा कार्यैककल्पनात् | शिवशक्त्यविनाभावान्नित्यैका मूलकारणम् || ९-१५२ || भेदरूपत्वादिति -- अयमेव हि जडस्य स्वभावो यत् ᳚इदमत्र इदानीं भाति᳚ इति परिच्छिन्नतया प्रकाश्यते इति, यदुक्तं प्राक् -- ᳚परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् |᳚ ततश्च मीयते हेयतया परिच्छिद्यते योगिभिः इत्येवमस्या अभिधानम् | अत एवाशिवेत्युक्तम् | यदाहुः � ᳚..........................ऽशिवा भेदप्रथाप्रदा |᳚
SK
इति | अजाड्ये च अस्याः कार्यमपि तथा स्यादित्युक्तम् -- ᳚कार्य चास्या जडं यतः᳚ इति कलादेर्मायाकार्यस्य अजाड्ये हि एकस्मिन्नेव देहे चेतनानेकत्वं पुरुषोपादानानर्थक्यं च प्रसज्येत् | विश्वहेतुत्वादिति - - पंभोगाय कार्यकरणात्मनो विश्वस्यानेकस्रोतोमुखेन कारणात् -- इत्यर्थः, यदुक्तम् -- ᳚व्यापिनी पुरुषानन्त्यभोगाय कुरुते यतः | सर्वकार्याणि सर्वत्र स्रोतोभिर्विश्वधामभिः ||᳚ इति | ततश्च सर्वत्र मातीति | सूक्ष्मा -- सर्वजनावेद्येति यावत् | इयं हि अर्वाग्दर्शिभिः कार्यान्यथानुपपत्त्या परिकल्प्यते इति भावः | शिवशक्त्यविनाभावादिति -- शिवस्तावन्नित्यः शक्तिश्च तदविनाभूतत्वात् तद्धर्मधर्मिणीत्युक्तम् ङित्येति᳚ | अत एवानाद्यन्तेति व्ययहीनेति चोक्तम् | ततश्च माशब्दवाच्याद्विनाशरूपान्निषेधात् यातेति | शिवश्च एक एव स्वतन्त्रः पदार्थः शक्तिश्चास्य आत्मभूता इति ᳚अभिन्नादभिन्नमभिन्नम्᳚ इति न्यायात् सापि एकैवेत्युक्तम् -- एकेति | अत एव निरंशत्वात् निष्कला इत्युक्तम् | शिवश्च शक्तिवशादेव अन्तरेवावस्थितमपि विश्वं बहिरवभासयेदित्युक्तम् -- मूलकारणमिति, अत एव जगतो निधिरिति ईशानीति चोक्तम् | ततश्च मात्यस्यां विश्वमिति स्वात्माभिन्नमपि भावमण्डलं शिवो यया मिमीते भिदा व्यवस्थापयति इति च || १५२ || नन्वन्यैः प्रकृतेर्मूलकारणत्वमुक्तं तत्कथमिह मायाया एवमभिधानम् ? -- इत्याशङ्क्याह -- अचेतनमनेकात्म सर्वं कार्यं यथा घटः | प्रधानं च तथा तस्मात् कार्यं नात्मा तु चेतनः || ९-१५३ ||
SK
अत्र पञ्चावयवं परार्थमनुमानं निर्दिष्टम् | तद्यथा -- प्रधानं कार्यम्, अचैतन्ये सति अनेकत्वात् | यत् अचैतन्ये सत्यनेकं तत्सर्वं कार्यं, यथा घटः, यन्न कार्यं तदचैतन्ये सति अनेकं न भवति, यथात्मा, अचैतन्ये सत्यनेकं च प्रधानं, तस्मात् कार्यमिति | बहुशश्च एतद्वेदवादिभिरुपपादितम् इति इह ग्रन्थविस्तरभयात् न वितानितम् | यत् पतिताघातदानेन को नाम पौरुषोत्कर्ष इति | माया पुनरचैतन्येऽपि एका इत्यस्याः कारणत्वमेव न कार्यत्वमपीति सिद्धम् | ततश्च कारणस्य पूर्वभावित्वात् सर्वत्र तत्त्वाद्यध्वोपदेशे प्रथममस्या एव निर्देशः || १५३|| तदाह -- अत एवाध्वनि प्रोक्ता पूर्वं माया द्विधा स्थिता | तस्याश्च तत्त्वग्रन्थिरूपतया द्विधावस्थानमित्युक्तम् -- द्विधा स्थितेति | कारणस्य हि उच्छूनेन अनुच्छूनेन च रूपेण भाव्यम् -- इति भावः || ननु समनन्तरमेवोक्तं यन्नाम माया देवस्याव्यभिचारिणी शक्तिरिति तत् कथमसौ भेदनिरूपिणं तत्त्वभावमियात् ? नन्वत्यल्पमिदमुच्यते यन्मायावत् पारमेश्वर्य एव शक्तयः कलादिरपि तत्त्वग्राम इति, यदभिप्रायेणैव ᳚शक्तयोऽस्य जगत्कृत्स्रं.........................|᳚ इत्याद्युद्घोष्यते, अत आह -- यथा च माया देवस्य शक्तिरभ्येति भेदिनम् || ९-१५४ || तत्त्वभावं तथान्योऽपि कलादिस्तत्त्वविस्तरः | एतदेवोपपादयति � निरुद्धशक्तेर्या किंचित्कर्तृतोद्वलनात्मिका || ९-१५५ || नाथस्य शक्तिः साधस्तात्पुंसः क्षेप्त्री कलोच्यते | निरुद्धशक्तेरिति -- स्वरूपस्य गोपितत्वात् | अधस्तादिति -- प्राणादिप्रमातृतायाम् | कलाशब्दस्य च अत्र प्रवृत्तावधःप्रक्षेप एव निमित्तम् || १५५ || एतदेवान्यत्रापि अतिदिशति -- एवं विद्यादयोऽप्येते धरान्ताः परमार्थतः || ९-१५६ || शिवशक्तिमया एव प्रोक्तन्यायानुसारतः | प्रोक्तन्यायानुसारत इति -- प्रोक्तं न्यायमनुसृत्य -- इत्यर्थः | तेन यथा नाथस्य किञ्चित्कर्तृतोद्वलनात्मिका शक्तिः कलोच्यते, तथा किञ्चिद्वेदनात्मिका शक्तिर्विद्येत्यादि || १५६ ||
SK
नन्वेवं कलादेस्तत्त्वग्रामस्य शिवशक्तिमयत्वमेव यद्यस्ति तत्तर्हि कस्य माया कारणं स्यात् ? -- इत्याशङ्क्याह � तथापि यत्पृथग्भानं कलादेरीश्वरेच्छया || ९-१५७ || ततो जडत्वे कार्यत्वे पृथक्तत्त्वस्थितौ ध्रुवम् | उपादानं स्मृता माया क्वचित्तत्कार्यमेव च || ९-१५८ || तथापीति -- शिवशक्तिमयतायामपि -- इत्यर्थः | ततः ईश्वरेच्छाकृतात् पृथग्भानात्, तेन कलादेर्भेदरूपत्वात् जडत्वं ततः कार्यत्वं ततोऽपि पृथक्त्त्वेनावस्थानमिति, ततश्चात्र मायायाः कारणत्वं युक्तमित्युक्तम् -- ᳚उपादानं स्मृता माया᳚ इति | क्वचिदित्यव्यक्तादौ, तत्कार्यमिति -- कलादि || १५८ || ननु पृथग्भानं नाम भागासिद्धो हेतुः, नहि पक्षीकृतस्य पृथिव्यादेरिव कलादेरपि अर्वाग्दर्शिनः प्रति तदस्ति -- इत्याशङ्क्याह -- तथावभासचित्रं च रूपमन्योन्यवर्जितम् | यद्भाति किल सङ्कल्पे तदस्ति घटवद्वहिः || ९-१५९ || यत् किल तथा पृथगवभासेन चित्रं -- जडत्वकार्यत्वादिना नानात्मकम् अत एव परस्परापोढं रूपं स्वतन्त्रविकल्पादाववभासते तद्धटवद् बहिरस्ति | ङहि भातमभातं भवति᳚ इति न्यायात् वस्तुसदेवेत्यर्थः | तेनायमत्र प्रयोगः -- तन्मात्रादि तत्त्वजातं बहिरस्ति, सङ्कल्पादौ पृथग्भानात्, यत्सङ्कल्पादौ पृथग्भवति (भाति) तत् बहिरस्ति, यथा घटादि, यन्न बहिरस्ति तन्न पृथग्भाति, यथा परमात्मा, पृथग्भाति च तन्मात्रादि तत्त्वजातम्, तस्माद् बहिरस्ति इति | परमात्मनश्च शकृद्विभातोऽयमात्मा᳚ इत्यादौ पृथगवभासः स्थितोऽपि विद्युदुद्द्योतवत् न प्ररोहमुपगच्छेत्, श्वातन्त्र्यामुक्तमात्मानं....................... |᳚ इत्यादिन्यायेन मूलभूतानवच्छिन्नाहंविमर्शमयत्वस्य तिरोभावाभावात् | यद्वा ᳚विशेषा अभिधेयाः, प्रमेयत्वात्, सामान्यवत्᳚ इति न्यायेन केवलान्वय्येवायम्, न चात्र अस्तितायां साध्यायां ङासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः | धर्मो विरुद्धो भावस्य सा सत्ता साध्यते कथम् ||᳚
SK
इत्याद्युक्तयुक्त्या भावाभावोभयधर्मस्य हेतोः असिद्धविरुद्धानैकान्तिकतायामहेतुत्वमिति वाच्यम् -- बहिष्ट्वनिष्ठायाः सत्तायाः साधनात् || १५९ || ननु खपुष्पादेः सङ्कल्पादौ पृथग्भानेऽपि नहि बहिरस्तिता, इत्यनैकान्तिकोऽयं हेतुः ? -- इत्याशङ्क्याह � खपुष्पाद्यस्तितां ब्रूमस्ततो न व्यभिचारिता | तत इति -- खपुष्पादेरपि बहिरस्तित्वात् || ननु विरुद्धमिदमभिधानं खपुष्पादिनास्तितायाः सर्वप्रमातृसाक्षिकत्वात्, नैतत् -- इत्याह -- खपुष्पं कालदिङ्मातृसापेक्षं नास्तिशब्दतः || १६० || धरादिवत्................................ | नास्तीति काकाक्षिवद्योज्यम् | तेनायमत्र प्रयोगः -- खुपष्पादि कालदिङ्मातृसापेक्षनास्तित्वं नास्तिशब्दप्रयोगविषयत्वात् | यन्नास्तिशब्दप्रयोगविषयः तत् कालदिङ्मातृसापेक्षनास्तित्वम्, यथा धरादि, यन्न कालदिङ्मातृसापेक्षनास्तित्वं तन्न नास्तिशब्दप्रयोगविषयः, यथा संवित्, नास्तिशब्दप्रयोगविषयश्च खपुष्पादि, तस्मात् कालदिङ्मातृसापेक्षनास्तित्वमिति | यत् पुनरिदमिदानीम् इह न वेद्मि इत्यादि संविदि कालाद्यपेक्षया नास्तित्वं व्यवह्रियते तद्वेद्योपाधिनिबन्धनमित्युक्तं बहुशः || १६० || ननु यद्येवं तत् कृतमत्यन्ताभावव्यवहारेण ? -- इत्याशङ्क्याह -- ..........टथात्यन्ताभावोऽप्येवं विविच्यताम् | एवमिति खपुष्पादिनास्तित्ववत्, तेनायमत्र प्रयोगः -- अत्यन्ताभावः कालदिङ्मातृसापेक्षो, नास्तिशब्दविषयत्वात्, यन्नास्तिशब्दविषयः तत् कालदिङ्मातृसापेक्षम्, यथा प्रागभावादि, यन्न कालदिङ्मातृसापेक्षं तत् न नास्तिशब्दविषयः, यथा संवित्, नास्तिशब्दविषयश्च अत्यन्ताभावः, तस्मात् कालदिङ्मातृसापेक्ष इति || एवं तन्मात्रादावुपपादिते तत्त्वजाते प्रसङ्गात् देहभुवनाद्यपि उपपादयति -- यत्सङ्कल्प्यं तथा तस्य बहिर्देहोऽस्ति चेतनः || ९-१६१ || चैत्रवत्सौशिवान्तं तत् सर्वं तादृशदेहवत् | यस्य देहो यथा तस्य तज्जातीयं पुरं बहिः || ९-१६२ || अतः सुशिवपर्यन्ता सिद्धा भुवनपद्धतिः |
SK
सङ्कल्प्यमित्यागमतः, तथेति -- देहित्वेन, चेतन इति -- चेतनाधिष्ठितः, तादृशदेहवदिति -- चेतनाधिष्ठितबाह्यदेहयुक्तमित्यर्थः | यथेति -- शुद्धाशुद्धादिरूपः, तज्जातीयमिति -- तदनुरूपमित्यर्थः | इदं चात्र प्रयोगद्वयम् -- सौशिवान्तं तत्त्वजातं चेतनाधिष्ठितबाह्यदेहयुक्तम्, तथा चैत्रादि, यन्न चेतनाधिष्ठितबाह्यदेहयुक्तं तन्न प्रमाणमूलतया सङ्कल्पविषयः यथा घटादि, प्रमाणमूलतया सङ्कल्प विषयश्च सौशिवान्तं तत्त्वजातम्, तस्मात् चेतनाधिष्ठितबाह्यदेहयुक्तमिति | सुशिवान्ता देहिनोऽनुरूपविशिष्टभुवनयोगिनो, देहित्वात्, यो देही सोऽनुरूपविशिष्टभुवनयोगी, यथा पृथिवीगतः पार्थिवदेहः चैत्रादिः, यो नानुरूपविशिष्टभुवनयोगी स न देही, यथा परः शिवः, देहिनश्च सुशिवान्ताः तस्मादनुरूपविशिष्टभुवनयोगिन इति || १६२ || नन्वेवमणूनां प्रतिनियतभुवनभोगित्वमेव सिद्धं तत्सर्वेषामेवाणूनां सर्व एवाविशेषेण भोग्यत्वादध्वा बन्धक इति विरुद्ध्येत ? -- इत्याशङ्क्याह -- आत्मनां तत्पुरं प्राप्यं देशत्वादन्यदेशवत् || ९-१६३ || आत्मनामध्वभोक्तृत्वं ततोऽयत्नेन सिद्ध्यति | तत्पुरमिति -- तत्तत्तत्त्वगतं निखिलम् -- इत्यर्थः, प्राप्यमिति -- भोग्यत्वयोग्यत्वात्, अयत्नेनेति -- प्रमाणान्तरानपेक्षित्वेनेत्यर्थः | अयं चात्र प्रयोगः -- तत्तद्भुवनजातमणूनां भोग्यं देशत्वात्, यो देशः सोऽणूनां भोग्यः, यथा ग्रामादि, योऽणूनां न भोग्यः स न देशः, यथा द्वितीयोऽणुः, तत्तद्भुवनजातं च देशः तस्मादणूनां भोग्यम् इति || १६३ || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवानुसरति -- सा माया क्षोभमापन्ना विश्वं सूते समन्ततः || ९-१६४ || दण्डाहतेवामलकी फलानि किल यद्यपि | तथापि तु तथा चित्रपौर्वापर्यावभासनात् || ९-१६५ || मायाकार्येऽपि तत्त्वौघे कार्यकारणता मिथः |
SK
यद्यपि सा माया क्षुब्धा सती अक्रमेण विश्वं सूते तथा प्रतिशास्त्रं भेदाभिधानात् तेन तेन प्रकारेण चित्रस्य पौर्वापर्यस्यावभासनात् कलादावपि तत्त्वौघे कार्यकारणता भवेत् � इति वाक्यार्थः | किलेत्यागमे | यदुक्तं श्रीस्वच्छन्दे -- ᳚मायातत्त्वं जगद्बीजं नित्यं विभु तथाऽव्ययम् | तत्स्थं कृत्वात्मवर्गं तु युगपत् क्षोभयेत् प्रभुः || हेलादण्डाहतायास्तु बदर्या वा फलानि तु | तिर्यगूर्ध्वमधस्तात्तु निर्गच्छन्ति समन्ततः ||᳚ (स्वच्छ. ११|६०) इति | न केवलं माया कारणं कलादिक्षित्यन्तं विश्वं च कार्यं यावत् तत्कार्ये कलादावपि एवंरूपत्वम् -- इत्यपिशब्दार्थः | तच्चैषां पारस्परिकमित्युक्तं ᳚मिथः᳚ इति | तेन यदेव कार्यं तदेव कारणं यदेव कारणं तदेव कार्यमिति | यथा मायापेक्षया कला कार्यं विद्यापेक्षया च कारणमिति || १६५ || ननु प्रतिशास्त्रं यदि तात्त्वीयस्य कार्यकारणभावस्य भेदेनाभिधानं तत् तर्हि कतरस्येहोपदेशः -- इत्याशङ्क्याह -- सा यद्यप्यन्यशास्त्रेषु बहुधा दृश्यते स्फुटम् || ९-१६६ || तथापि मालिनीशास्त्रदृशा तां संप्रचक्ष्महे | सेति -- कार्यकारणता || १६६ || नन्वाचैतन्येऽपि मायाया एकत्वात् कार्यत्वं पराकृत्य कारणत्वमेवोक्तम् | एवं कलादीनामपि वाच्यम्, आचैतन्ये सति एकत्वाविशेषात् | तत्र आचैतन्यं ᳚परमतमप्रतिषिद्धम् अनुमतमेव᳚ -- इति भङ्ग्याभिधायैकत्वं प्रतिक्षेप्तुमनेकत्वमुपपादयति -- कलादिवसुधान्तं यन्मायान्तः संप्रचक्षते || ९-१६७ || प्रत्यात्मभिन्नमेवैतत् सुखदुःखादिभेदतः | संप्रचक्षते इत्यग्रे || १६७ || ननु कलादीनां स्वरूपाभेदेऽपि सुखदुःखादिभेदे किं हीयेत ? -- इत्याशङ्क्याह -- एकस्यामेव जगति भोगसाधनसंहतौ || ९-१६८ || सुखादीनां समं व्यक्तेर्भोगभेदः कुतो भवेत् |
SK
जगतीति -- जनिमरणधर्मिणि अनपवर्गे -- इत्यर्थः | भोगसाधनसंहतावितिकलादिक्षित्यन्तायाम् | सममिति -- युगपत्साधारणतयेति यावत् | इह कारणभेदात् कार्यभेदः इति तावदविवादः | तच्च प्रत्यात्मं कलादिवसुधान्तं भोगसाधनम् चेदभिन्नं तत् कुतस्त्योऽयं सुखादिभोगस्य भेदः इति || १६८ || नन्वसौ कर्मभेदाद्भविष्यति, सुखादीनां कर्म निमित्तम्, तच्च प्रत्यात्मभिन्नम् ? -- इत्याशङ्क्याह � न चासौ कर्मभेदेन तस्यैवानुपपत्तितः || ९-१६९ || तस्यैवेति -- कर्मभेदस्य | एवं हि आत्मनां भेदेऽपि कलादिक्षित्यन्ता भोगसंहतिरेकैव -- इत्युक्तम् | तच्चानादित्वात् संसारस्य युगपदेव सा सर्वैरात्मभिः संबद्धा -- इत्यर्थसिद्धम् | सा च तथा संबद्धा सती सममेव सर्वैरात्मभिः कर्मणि प्रयुज्यते -- इत्यविशेषेण सर्वान् प्रति कर्माददाना कथं कर्मभेदं विदध्यात्; ततश्चात्मनां भेदेऽपि न कर्मणो भेदः -- इति तत् कार्यतोऽपि सुखादीनां भेदो नास्ति || १६९ || एवं कलादिक्षित्यन्ता भोगसाधनसंहतिः प्रत्यात्मभिन्नैव येन सुखदुःखादिभेदो भवेत्, तदाह -- तस्मात् कलादिको वर्गो भिन्न एव कदाचन | एक्यमेतीश्वरेच्छातो नृत्तगीतादिवादने || ९-१७० || यत् भोगकारिकाः ᳚वसुधादिकलाप्रान्ता भोगसाधनसंहतिः | नियता प्रति भोक्तारं परिज्ञेया मनीषिभिः || अन्यथा हि सुखादीनां दृष्टो भेदो न युज्यते | योक्ष्यते कर्मणो भेदान्न भेदे यदि योक्ष्यते || संबद्धा युगपत् सा तु कुर्वती कर्म कर्तृभिः | कथं भिन्नानि कर्माणि कर्तृभेदात् करिष्यति ||᳚ इति | अयं चात्र प्रयोगः -- कलादितत्त्वजातं प्रत्यात्मभिन्नं सुखदुःखादिभेदित्वात्, यत् सुखदःखादिभेदि तत् प्रत्यात्मभिन्नं यथा देहादि, यन्न प्रत्यात्मभिन्नं तन्न सुखदुःखादिभेदि यथा माया, सुखदुःखादिभेदि च कलादितत्त्वजातं तस्मात्प्रत्यात्मभिन्नमिति ||
SK
नन्वेवमात्मभेदात् कलादीनामपि भेदः -- इत्युक्तम्, इह च आत्मभेद एव न तात्त्विकः -- इति कथमेषामपि असौ स्यात् -- इति चेत् ? -- बाढमित्याह -- ᳚कदाचन एक्यमेतीश्वरेच्छातो नृत्तगीतादिवादने᳚ | एक्यमेतीति तावत्यंशे भेदविगलनात्; यद्यपि सर्वेषां प्रमातॄणां प्रमेयानां च एकचित्तत्त्वमयत्वमेव सतत्त्वं तथापि मायाशक्तिसमुल्लासितोऽयं दृढनिरूढो भेदावभासो वर्तते तत्रापि तु प्रतिप्रसवभङ्ग्या क्वचिदंशे सृष्टमेषामैक्यं चकास्ति, सर्वत्रैवं किं न स्यात् -- इत्युक्तम् -- ᳚रिश्वरेच्छातः᳚ इति || १७० || अत एव शिवाद्वयमयत्वादेषां शुद्धत्वमपि संभवेत् -- इत्याह -- एषां कलादितत्त्वानां सर्वेषामपि भाविनाम् | शुद्धत्वमस्ति तेषां ये शक्तिपातपवित्रिताः || ९-१७१ || भाविनामिति -- वक्ष्यमाणत्वात् कलादीनाम् | शुद्धत्वं कस्यास्ति ? इत्युक्तं तेषामिति | ते च के ? -- इत्युक्तम् -- ᳚ये शक्तिपातपवित्रिताः᳚ इति || १७१ || ननु कलादीनां भोगसाधनत्वाविशेषात् शुद्ध्यशुद्ध्योः को भेदः ? - - इत्याशङ्क्याह -- कला हि शुद्धा तत्तादृक् कर्मत्वं संप्रसूयते | मितमप्याशु येनास्मात् संसारादेष मुच्यते || ९-१७२ || तादृगिति -- परमेश्वरार्चनध्यानादिविषयम् || १७२ || एतदेवान्यत्रापि अतिदिशति -- रागविद्याकालयतिप्रकृत्यक्षार्थसञ्चयः | इत्थं शुद्ध इति प्रोच्य गुरुर्मानस्तुतौ विभुः || ९-१७३ || इत्थमिति -- कलावत् | तेन रागो भगवत्येवाभिष्वङ्गं संप्रसूयते, विद्यापि तद्विषयमेव विवेकम्, कालश्च तदुपदेशादिविषयमेव कलनम्, नियतिश्च तदाराधनादावेव नियमनम्, एवमन्यत् स्वयमभ्यूह्यम् | न चैतदस्मदुपज्ञमेव -- इत्याह -- इतीत्यादि | ᳚गुरुः᳚ श्रीविद्याधिपतिः ᳚मानस्तुतौ᳚ प्रमाणस्तोत्रे || १७३ || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह -- एवमेषा कलादीनामुत्पत्तिः प्रविविच्यते | तदाह -- मायातत्त्वात् कला जाता किञ्चित्कर्तृत्वलक्षणा || ९-१७४ || तदुक्तम् -- ᳚असूत सा कलातत्त्वं यद्योगादभवत् पुमान् |
SK
जातकर्तृत्वसामर्थ्यो.............................. ||᳚ (मा. १|२७) नन्वात्मा स्वत एव ज्ञाता कर्ता चेत्युक्तं तदस्य कलया किंचित्कर्तृत्वं जन्यते इति किमेतत् ? -- इत्याशङ्क्याह � माया हि चिन्मयाद् भेदं शिवाद्विदधती पशोः | सुषुप्ततामिवाधत्ते तत एव ह्यदृक्क्रियः || ९-१७५ || चिन्मयात् शिवाद्भेदं विदधतीति स्वरूपं गोपयन्तीत्यर्थः | अत एवास्या चिन्मयत्वात् मूर्छितप्रायतामाविष्कुर्यादित्युक्तम् � शुषुप्ततामिवाधत्ते᳚ इति | तत एवेति सुषुप्तताधानात् | ᳚अदृक्क्रियः᳚ इति तिरोहितपूर्णज्ञानक्रियः -- इत्यर्थः || १७५ || नन्वेवं जडमेव जगत् स्यात् तदपि वा न स्यात्, दृक्शक्तितिरोभावेन तथात्वाप्रथनात् ? -- तदेतदाशङ्क्याह � कला हि किंचित्कर्तृत्वं सूते स्वालिङ्गनादणोः | तस्याश्चाप्यणुनान्योन्यं ह्यञ्जने सा प्रसूयते || ९-१७६ || नन्वणोः कलालिङ्गनमस्तु, अन्यथा ह्यस्य किंचित्कर्तृत्वं नोदियात्, अण्वालिङ्गनेन पुनरस्याः कोऽर्थः -- इत्याशङ्क्योक्तम् -- अन्योन्यमित्यादि | ᳚अञ्जनं संश्लेषः || १७६ || एतदेव निदर्शनद्वारेणोपपादयति -- सद्योनिर्वाणदीक्षोत्थपुंविश्लेषे हि सा सती | श्लिष्यन्त्यपि च नो सूते तथापि स्वफलं क्वचित् || ९-१७७ || यतः सा कला संश्लिष्यन्त्यपि सती सद्योनिर्वाणदीक्षायां कलात ऊर्ध्वं नियोजनात् पुंसि विश्लेषिते तथापि दीक्षान्तरवत् संस्कारमात्रेणापि क्वचिदपि अणौ किंचित्कर्तृत्वाद्यात्मकं स्वफलं ङो सूते᳚ न जनयति -- इत्यर्थः || १७७ || ननु कला स्वशक्त्यैव कार्यं जनयेदिति किमस्याः पुंश्लेषेण? -- इत्याशङ्कां निदर्शनदृशा उपशमयति � उच्छूनतेव प्रथमा सूक्ष्माङ्कुरकलेव च | बीजस्याम्ब्वग्निमृत्कम्बुतुषयोगात् प्रसूतिकृत् || ९-१७८ || यथा बीजस्य प्रथमावस्थात्मिकोच्छूनता, तदनु सूक्ष्मो वाङ्कुरांशो जलादियोगादेव स्वकार्यं कुर्यात्, तथा मायाकार्यं कलादि पुंयोग एवेति युक्तमुक्तम्᳚पुंविश्लेषे कला स्वं फलं च संप्रसूयते᳚ इति | अग्नीति -- तेजोमात्रमत्र विवक्षितम् || १७८ ||
SK
ननु तन्तुसंयोगजनिते पटे यथैकोऽपि तन्तुरनुपादानम् न स्यात्, तथा ᳚तद्वन्मायाणुसंयोगाद्व्यज्यते चेतना कला |᳚ (मतङ्ग ९|१५) इत्याद्युक्त्या मायाणुसंयोगजायाः कलाया मायोपादानकारणं न त्वणुरिति कथं निश्चिनुमः ? -- इत्याशङ्क्याह � कला मायाणुसंयोगजाप्येषा निर्विकारकम् | नाणुं कुर्यादुपादानं किन्तु मायां विकारिणीम् || ९-१७९ || नाणुमुपादानं कुर्यादिति -- अणुरस्या उपादानकारणं न भवेत् -- इत्यर्थः | अत्र हेतुः -- निर्विकारकमिति | उपादानकारणं हि स्वरूपविकारमासाद्य कार्यानुगामित्वेन वर्तते, यथा घटादौ मृत् नैवमस्याः, तस्य चिदेकरूपतया नित्यत्वात् | अतश्चोभयसंयोगजत्वेऽपि अस्या मायैवोपादानकारणमित्युक्तम् -- ᳚किन्तुमायां विकारिणीम्᳚ इति, तत्तद्वृत्तिपरिणामभेदभिन्नाम् -- इत्यर्थः || १७९ || ननु मा भूत् कलाया निर्विकारत्वादणुरुपादानकारणम्, मायैवेति तु कुतोऽयं नियमः; संयुक्तानां हि मलमायाकर्मणां संसारकारणत्वमित्युक्तम्? -- तदेतदाशशङ्क्याह -- मलश्चावारको माया भावोपादानकारणम् | कर्म स्यात् सहकार्येव सुखदुःखोद्भवं प्रति || ९-१८० || एषां हि समानेऽपि संसारकारणत्वे प्रतिनियतकार्यकारित्वं, यन्मलस्य ज्ञानक्रियावरणमेव कार्यम्; अतश्चैतावतैव उपक्षीणसामर्थ्योऽयं कथमिव किंचित्कर्तृत्वोत्तेजनामयीं तद्विरुद्धां कलामपि जनयेत् | सुखादीनां च वैषयिकत्वेन सत्त्वादिगुणमयस्रक्चन्दनाद्युपादानकानां सहकारितयैव कर्म निमित्तम्; अतश्च पारिशेष्यात् कलादिक्षित्यन्तानां भावानामुपादानकारणं माया -- इति विभागः || १८० || एवमावारकतया मलेन संच्छन्नचैतन्यस्य अणोः किञ्चिञ्ज्ञत्वकर्तृत्वसमुद्बलननिमित्तेन केनचिद्भाव्यं तच्च न तावत् कर्म, तस्य भोगोत्पत्तावेव परिदृष्टशक्तित्वात् -- अतश्च पारिशेष्यात् कलैवेत्याह � अतः संच्छन्नचैतन्यसमुद्बलनकार्यकृत् | कलैवानन्तनाथस्य शक्त्या संप्रेरिता जडा || १८१ ||
SK
᳚चैतन्यम्᳚ इति चितिक्रियाकर्तृत्वम् -- इत्यर्थः | ननु जडा च कला चैतन्यं चोपोद्बलयतीति विप्रतिषिद्धमेतत् ? -- इत्याशङ्क्योक्तम् -- ᳚अनन्तनाथस्य शक्त्या संप्रेरिता᳚ इति || १८१ || ननु यद्येवं तदीशशक्तिरेव एतत् समुद्बलयतु, किं कलया ? -- इत्याशङ्क्याह -- न चेशशक्तिरेवास्य चैतन्यं बलयिष्यति | तदुपोद्बलितं तद्धि न किंचित्कर्तृतां व्रजेत् || ९-१८२ || एकेन तच्छब्देन ईशशक्तिः परामृष्टा, अन्येन चैतन्यम् | इह यदि नाम मुक्ताणूनामिव बद्धाणूनामपि परमेश्वरः कलादिनिरपेक्षतया स्वशक्त्यैव कर्तृत्वादि उपोद्बलयेत् तत् सर्वदा सर्वत्र च स्यादित्युक्तम् -- ङ किञ्चित्कर्तृतां व्रजेत्᳚ इति | यदाहुः -- ᳚पाशं विना न शंभुर्व्यञ्जयति यतो न सर्वविषयं तत् | न च विगताञ्जनसङ्गं मुक्ताणुगकर्तृशक्तिमिव ||᳚ इति || १८२ || ननु भोगे कर्तव्ये पुंसः कर्तृत्वम्, -- इति नास्ति विप्रतिपत्तिः; कला पुनः कतरत् कारकम् -- इति नैव जानीमः | न तावत् कर्म, चैतन्योपोद्बलकारितया भुजिक्रियां प्रत्यविषयत्वात्; नापि करणम्, तद्धि कर्तृप्रयोज्यं भवति; इदं पुनः कर्तुरपि प्रयोजकम्, इति कथं विद्यादिवत् करणतामियात् | तत्रास्याः कारकान्तरवत् कर्तृत्वं दूरापेतम् -- इत्यभिपेर्त्य करणत्वमेवाशङ्क्य दूषयति -- सेयं कला न करणं मुख्यं विद्यादिकं यथा | पंसि कर्तरि सा कर्त्री प्रयोजकतया यतः || ९-१८३ || मुख्यमिति बुद्धध्याद्यन्तःकरणापेक्षया परम् -- इत्यर्थः | ᳚करणेन येन भोग्यं करोति पुरुषः प्रचोद्य महदादीन् | भोग्ये भोगं च पुनः सा विद्या तत् परं करणम् ||᳚ इति | ᳚पुंसि कर्तरि᳚ इति विषये, प्रयोज्यनिष्ठो हि प्रयोजकव्यापारः | एवं च उभयोरपि कर्तृत्वे प्रयोजकव्यापारविशिष्टः प्रयोज्य एव पुमान् साक्षात् क्रियां प्रति स्वातन्त्र्ययोगात् प्रधानभूतः कर्तेति | तदुक्तम् -- ᳚कर्तृशक्तिं व्यनक्त्यस्य कला साऽतः प्रयोजिका | ततः कलासमायुक्ता भोगेऽणुः कर्तृकारकम् ||᳚ इति ||१८३|| एवं पुंस्कलयोः प्रयोज्यप्रयोजकतया
SK
᳚इत्येतदुभयं विप्र संभूयानन्यवत् स्थितम् | भोगक्रियाविधौ जन्तोर्निजगुः कर्तृकारकम् ||᳚ इत्याद्युक्त्या एककर्तृकारकीभूतत्वेनालक्ष्यान्तरत्वेऽपि भगवदनुग्रहात् कस्यचित् यदानयोर्विवेकज्ञानं जायते तदासौ मायापुंविवेकः सर्वकर्मक्षयात् विज्ञानाकलता च भवेद्येनायं पुमान् मायाधो न संसरेत् -- इति तदाह -- अलक्ष्यान्तरयोरित्थं यदा पुंस्कलयोर्भवेत् | मायागर्भेशशक्त्यादेरन्तरज्ञानमान्तरम् || ९-१८४ || तदा मायापुंविवेकः सर्वकर्मक्षयाद् भवेत् | विज्ञानकलता मायाधस्तान्नो यात्यधः पुमान् || ९-१८५ || मायागर्भेशोऽनन्तः | शक्त्यादीति आदिशब्दात् तदुपदिष्टं ज्ञानादि | तदुक्तम् -- ᳚किंतु कारणवक्त्राब्जसमुद्भूतेन सुव्रत | ज्ञानचक्षुःप्रदीपेन सम्यगालोक्य सादरम् || अयं पुमानियं चैषां कला दोषालया शुभा | अनयोरन्तरं ज्ञात्वा स्वस्थो निर्वात्यसंशयः ||᳚ इति | आन्तरमिति प्रकृतिपुरुषविवेकापेक्षया अन्तरङ्गम् -- इत्यर्थः || १८५ || ननु प्रकृतिपुरुषविवेकज्ञानादेव सर्वकर्मक्षयः सिद्धः -- इति किं मायापुंविवेकेन? -- इत्याशङ्क्याह -- धीपुंविवेके विज्ञाते प्रधानपुरुषान्तरे | अपि न क्षीणकर्मा स्यात् कलायां तद्धि संभवेत् || ९-१८६ || ᳚धीपुंविवेके᳚ इति तद्रूपे प्रधानपुरुषविवेके -- इत्यर्थः | बुद्धिद्वारेण हि प्रकृतेः पुरुषस्य चाविवेको विवेको वा भवेत् | तत्र प्रतिसंक्रान्तायाश्चिच्छायायाः कर्तृत्वाभिमानो हि अविवेकः; तस्यामेव विगलितविषयवृत्तिपरिणामरूपत्वात् निष्कम्पदीपशिखाप्रख्यायाश्चित एवाकर्तृत्वाभिमानो विवेकः -- इति | एवं मायाया अपि कलाद्वारक एव पुंसो विवेकः -- इत्युक्तम् | अपिर्भिन्नक्रमः, तेन विज्ञातेऽपि -- इत्यर्थः | कलायामिति -- सत्याम् | कलैव हि किंचित्कर्तृत्वाभिव्यञ्जनाम् कर्मणः साक्षात् निमित्तमिति | उक्तं च -- ᳚गुणतत्त्वोर्ध्वभोग्यस्य कर्मणोऽनुपलम्भतः | कैवल्यमपि सांख्यानां नैव युक्तमसंक्षयात् ||᳚ इति || १८६ ||
SK
एवं प्रकृतिपुरुषविवेके प्रकृत्यन्तं पुंसः कर्मक्षयो भवेत्, कलापुंविवेके तु मायान्तं, येनास्य तदधःसंसरणं न स्यात्, तदाह -- अतः सांख्यदृशा सिद्धः प्रधानाधो न संसरेत् | कलापुंसोर्विवेके तु मायाधो नैव गच्छति || ९-१८७ || सांख्यदृशेति -- सांख्यदर्शनवत् प्रकृतिपुरुषविवेकेन -- इत्यर्थः | स चास्मद्दर्शनोक्तप्रकृत्यादिधारणाक्रमेण सिद्धः -- इत्यवगन्तव्यम् | अन्यथा हि अस्य पुनरपि तदधः संसरणं स्यात् | यदुक्तं प्राक् -- शांख्यवेदादिसंसिद्धाञ् श्रीकण्ठस्तदहर्मुखे | सृजत्येव पुनस्तेन न सम्यक् मुक्तिरीदृशी ||᳚ (त. ६|१४८) इति || १८७ || ननु यद्येव तन्मायोर्ध्वं पुनः कदा गच्छेत् -- इत्याशङ्क्याह -- मलाद्विविक्तमात्मानं पश्यंस्तु शिवतां व्रजेत् | ननु त्रिविधेऽपि विवेकदर्शने द्रष्ट्र तावद्भाव्यम्, स च शुद्धबोधस्वभाव एवेति कथं कस्यचित् कदाचिदेव एतद्भवेत् -- इत्याशङ्क्याह -- सर्वत्र चैश्वरः शक्तिपातोऽत्र सहकारणम् || ९-१८८ || ननु अत्र शक्तिपातश्चेदविशिष्टः तत् विवेकत्रयात्मनि तत्कार्येऽयं कुतस्त्यो विशेषः -- इत्याशङ्क्याह -- मायागर्भाधिकारीयो द्वयोरन्त्ये तु निर्मलः | मायागर्भाधिकारिणोऽनन्तादेः | द्वयोरिति -- प्रकृतिमायाविवेकयोः | अत एव नात्र मोक्षपर्यन्तत्वम् | ᳚अन्त्य᳚ इति मलविवेके, ङिर्मल᳚ इति मोक्षपर्यन्तत्वम् | ᳚अन्त्य᳚ इति मलविवेके, ङिर्मल᳚ इति मोक्षपर्यन्तवृत्तित्वात् || नन्वियं मायैवास्तु किमस्यास्ततोऽन्यत्वेन? -- इत्याशङ्क्याह -- सेयं कला कार्यभेदादन्यैव ह्यनुमीयते || ९-१८९ || अन्यथैकं भवेद्विश्वं कार्यायेत्यन्यनिह्नवः | कार्यभेदादिति -- माया हि अणोर्मूर्छितप्रायतां विदध्यात्, इयं पुनः किंचित्कर्तृतामिति | अन्यैवेति -- अर्थान्मायातः | अन्यथेत्यादिनात्र व्यतिरेकः | एकमिति -- मायातत्त्वम् ततश्च तस्मादेव किंचित्कर्तृत्वादीनि विश्वानि कार्याणि जायेरन् -- इत्यन्यस्य स्थितस्यापि निखिलस्य विद्यादेस्तत्त्वजातस्यापह्नवः प्रसज्येतत्युक्तम् -- ᳚इत्यन्यनिह्नवः᳚ इति || १८९ ||
SK
ननु कलायाः श्रीमतङ्गादौ किंचित्कर्तृताधायकत्वमुक्तं | तथा च तत्र -- ᳚रिषदुन्मीलितात्मानः कलया विद्धमूर्तयः | प्रस्पन्दमानास्तरलाः प्रयान्त्युच्छूनतां मुने ||᳚ (म. ९|९) इत्याद्यस्ति | श्रीपूर्वशास्त्रे पुनः सामान्येन कर्तृताधायकत्वमेव | यदुक्तं तत्र -- ᳚....................टद्योगादभवत् पुमान् | जातकर्तृत्वसामर्थ्यो......................... ||᳚ (म.विटं. १|२७) इति | इह च तदधिकारेणैव तत्त्वक्रमनिरूपणं प्रक्रान्तम् इति कथमिव अस्यास्तद्विरुद्धं किंचित्कर्तृताधायकत्वमुक्तम् -- इत्याशङ्क्याह -- इति मतङ्गशास्त्रादौ या प्रोक्ता सा कला स्वयम् || ९-१९० || किंचिद्रूपतयाक्षिप्य कर्तृत्वमिति भङ्गितः | ᳚इति᳚ उक्तेन किंचित्कर्तृत्वाधायकत्वात्मना प्रकारेण श्रीमतङ्गशास्त्रादौ या कला प्रोक्ता सा पंसि पूर्णकर्तृतानुपपत्तेः स्वसामर्थ्यादेव किंचिद्रूपत्वमाक्षिप्य कर्तृत्वमिति सामान्यरूपया भङ्ग्या अर्थादिह श्रीपूर्वशास्त्रे प्रोक्ता -- इति वाक्यार्थः | आदिशब्दात् मृगेन्द्रादौ | तदुक्तं तत्र -- ᳚कर्तृशक्तिरणोर्नित्या विभ्वी चेश्वरशक्तिवत् | तमश्छन्नतयार्थेषु नाभाति निरवग्रहा || तदनुग्राहकं तत्त्वं कलाख्यं तैजसं हरः | मायां विक्षोभ्य कुरुते प्रवृत्त्यङ्गं परं हि तत् || तेन प्रदीपकल्पेन तदा स्वच्छचितेरणोः | प्रकाशयत्येकदेशं विदार्य तिमिरं घनम् || कलयत्येष यो धातुः संख्याने प्रेरणे च सः | प्रोत्सारणं प्रेरणे सा कुर्वती तमसा कला || इत्येतदुभयं विप्र संभूयानन्यवत् स्थितम् | भोगक्रियाविधौ जन्तोर्निजगुः कर्तृकारकम् ||᳚ इति || १९० || ननु किंचिद्रूपविशिष्टमपि कर्तृत्वं कथमज्ञस्य भवेत् ? -- इत्याशङ्क्य किञ्चिञ्ज्ञेयत्वाधायिनस्तत्त्वान्तरस्यापि उत्पत्तिं प्रतिजानीते � किंचिद्रूपविशिष्टं यत् कर्तृत्वं तत्कथं भवेत् || १९१ || अज्ञस्येति ततः सूते किंचिज्ज्ञत्वात्मिकां विदम् | ᳚ततः᳚ इति प्रकृतत्वात् कला | तदुक्तम् -- ᳚ज्ञानं विना न कर्तृत्वं कस्यचिद् दृश्यते यतः | अतः कलातः सञ्जातमविद्यारूपमप्रथम् ||᳚
SK
इति | किञ्चिज्ज्ञत्वेऽपि पूर्णेन हि ज्ञत्वेन पूर्णमेव कर्तृत्वं व्याप्तमिति भावः || १९१ || ननु आत्मनः सांख्यैः कर्तृत्वं नाभ्युपेयते -- इति तदुपपादकं कलातत्त्वं यदुक्तं तदास्ताम्; ज्ञत्वं पुनरस्य बुद्ध्यादिद्वारेण तैरुपपादितम् -- इति किमनेन? -- इत्याशङ्क्याह -- बुद्धिं पश्यति सा विद्या बुद्धिदर्पणचारिणः || ९-१९२ || सुखादीन् प्रत्ययान् मोहप्रभृतीन् कार्यकारणे | कर्मजालं च तत्रस्थं विविनक्ति निजात्मना || ९-१९३ || मोहशब्देनात्र तमोऽपि उपलक्ष्यते | तेन तमोमोहप्रभृतीन् विपर्ययाशक्तितुष्टिसिद्ध्याख्यान् पञ्चाशत्प्रत्ययान् -- इत्यर्थः | यदुक्तम् -- ᳚तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः | अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ||᳚ (विष्णु पु.१|५|५) इति | करणमेव कारणम् तेन कार्यकारणे भूतेन्द्रियाणि, ᳚विविनक्ति᳚ इति इदं सुखं न दुःखमोहावित्याद्यात्मना विवेकेन जानाति -- इत्यर्थः | अत एव निजात्मना अन्यव्यावृत्तेन प्रातिस्विकेन रूपेण -- इत्युक्तम् | तदुक्तम् -- ᳚विद्या विवेचयत्यस्य कर्म तत्कार्यकारणे |᳚ (मा. १|२८) इति || १९३ || ननु पुंसस्तत्तत्प्रत्ययविशिष्टायां बुद्धौ वेद्यायामस्तु नाम विद्याकरणं विषयोपलब्धौ पुनरस्यानया कोऽर्थः, तत्र हि बुद्धिरेव तथास्ति ? -- इत्याशङ्क्याह -- बुद्धिस्तु गुणसङ्कीर्णा विवेकेन कथं सुखम् | दुःखं मोहात्मकं वापि विषयं दर्शयेदपि || ९-१९४ || गुणसङ्कीर्णेत्यनेन तन्नान्तरीयकं जाङ्यमपि अस्या उक्तम् | उक्तं च ᳚त्रैगुण्यात्मा विवेकेन शक्ता दर्शयितुं नहि | विषयाकारमात्मानमविविक्ता यतः स्वयम् ||᳚ इति || १९४ ||
SK
ननु सांख्यमतमजानानैरिव भवद्भिरेतदुक्तं यद्गुणसङ्कीर्णत्वात् बुद्धिः सुखाद्यात्मकं विषयं विवेकेन कथं दर्शयेदिति | ते हि वरणात्मना तमसा सर्वतः समावृतमपि रजसा शनैस्तदपसारणात् क्वचिदेव प्रवर्तितं सदाविशेषेण प्रकाशकमपि सत्त्वं क्रमेण नियतं सुखादि प्रकाशयेत् -- इति त्रिगुणैव बुद्धिः क्रमेण सुखाद्यात्मनो विषयस्य विवेकेन प्रदर्शिका, -- इत्यभ्युपाजग्मुः | सत्यं, सुखाद्यात्मकं विषयं बुद्धिर्दर्पणवदेव दर्शयेत्; किंतु गुणसङ्कीर्णत्वात् न विवेकेनेत्यभिदध्मः | बुद्धिर्हि त्रिगुणत्वेऽपि नीलादिवैलक्षण्येन सत्त्वभागस्योद्रेकात् प्रतिसंक्रान्तमपि कथं दुःखादि विविक्ततयाध्यवस्येत् | नहि तदानीं दुःखादेरपि दर्शनं येन ततो विवेकेन सुखादेरध्यवसायः स्यात् | न च दर्शनमात्रमेव विषयसंवेदनं येन भवेदपि विवेकः; तस्य हि अध्यवसायो जीवितम् | यदुक्तम् � ᳚प्रतिविषयाध्यवसायो दृष्टम् |᳚ (सां. का. ५) इति | न चेयं पूर्वदृष्टात् दुःखादेरस्य विवेकं कर्तुं शक्नुयात् जाङ्यादेव अनुसन्धातुमशक्यत्वात् | तस्मात् स्वच्छायां बुद्धौ प्रतिसंक्रान्तस्यापि सुखादेः केनचिद्विवेकेन भाव्यं तच्च परं कारणं विद्याख्यम् -- इत्युक्तमेव | तदाह -- स्वच्छायां धियि संक्रामन्भावः संवेद्यतां कथम् | तया विनैति साप्यन्यत्करणं पुंसि कर्तरि || ९-१९५ || संवेद्यतामिति -- विवेकेनाध्यवसेयताम् -- इत्यर्थः | तयेति -- विद्यया | सापीति -- बुद्ध्यपेक्षया | कर्तरीति -- विषयाध्यवसाये || १९५ || ननु बुद्धिरुभयतो निर्मलदर्पणप्रख्येति तस्या एकतः पुंश्छाया प्रतिसंक्रामेत्, यद्वशादियं चेतनायमाना सत्यन्यतः प्रतिसंक्रान्तं भावजातमध्यवस्येत् इति किं विद्याख्येन करणान्तरेण भाव्यम् ? तदाह � ननु चोभयतः शुभ्रदर्शदशीयधीगतात् | पुंस्प्रकाशाद्भाति भावः मैवं तत्प्रतिबिम्बनम् || ९-१९६ || एतदेव परिहरति � जडमेव हि मुख्योऽथ पुंस्प्रकाशोऽस्य भासनम् |
SK
बहिःस्थस्यैव तस्यास्तु बुद्धेः किङ्कल्पना कृता || ९-१९७ || इह जडत्वात् बुद्धेः स्वयं विषयप्रकाशनं तावन्नोचितम् -- इत्युक्तम् - - प्रतिसंक्रान्तेऽपि पुंस्प्रकाशे जाड्यमस्या न निवर्तते प्रतिबिम्बस्य निजाधिकरणैकयोगक्षेमत्वमेव भवेदित्युपपादितमेव प्राक् | बहिर्हि दर्पणादौ प्रतिबिम्बितश्चेतनोऽपि चैत्रादिर्दर्पणस्य मा नाम चैतन्यमाधात् प्रत्युत तत्र स्वयमचेतनवन्न किंचिदपि कर्तुं प्रभवेत् | एवं जडायां बुद्धौ प्रतिसंक्रान्तोऽपि पुंस्प्रकाशस्तदेकयोगक्षेमत्वात् जाड्यमेवासादयेत् इति कथं सोऽपि विषयप्रकाशनकुशलः स्यात् | अथ स्वयमेवासौ विषयस्य प्रकाशकोऽस्तु इत्युक्तम् -- ᳚मुख्योऽथ पुंस्प्रकाशोऽस्य भासनम्᳚ इति; एवं तर्हि विषयस्यापि साक्षात् बाह्यस्यैव प्रकाशनमस्तु किमन्तरालपरिकल्पितेन बुद्धितत्त्वेन -- इत्युक्तम् ᳚बुद्धेः किं कल्पना कृता᳚ इति || १९७ || एवं हि मुख्यमात्मप्रकाशमपेक्ष्य तदतिरिक्तं न किंचिदपि प्रकाशेत -- इति सर्वं प्रकाश एवेत्यभेद एव सर्वतः परिस्फुरेत् -- इति ग्राह्यग्राहकभावाद्यात्मा सकलोऽयं भेदव्यवहारः समाप्तः | स एव चेह विचारयितुं प्रक्रान्तः � इति प्रतिज्ञातार्थविरुद्धमिदमभिधानं भवेत् -- इत्याह � अभेदभूमिरेषा च भेदश्चेह विचार्यते | एवं पर एव प्रकाशः स्वस्वातन्त्र्यात् स्वं रूपं गोपयित्वा यदा संकुचितात्मतामवभासयति, तदा सकल एवायं भेदव्यवहारः समुल्लसेत् येनायं पुमान् इन्द्रियप्रणालिकया बुद्धौ प्रतिसंक्रान्तं सुखदुःखाद्यात्मकं विषयं विद्यया परस्परवैविक्त्येन जानाति -- इति बुद्ध्यादिकल्पने न कश्चिद्दोषः | तदाह � तस्माद् बुद्धिगतो भावो विद्याकरणगोचरः || ९-१९८ || ननु विद्याख्यस्य करणस्य वेद्य एव भावो गोचरः, स च बाह्य एव इति कथमेवमुक्तम् -- इत्याशङ्क्याह -- भावानां प्रतिबिम्बं च वेद्यं धीकल्पना ततः | साक्षात्तद्वेदने उक्त एव दोषः ||
SK
ननु एवमणोः किञ्चिञ्ज्ञत्वोत्पत्त्या किंचित्कर्तृत्वं तावदुपपादितम्; तदत्र समानेऽपि किंचित्त्वे कस्मादिदमेव किञ्चिज्जानाति करोति च? -- इत्याशङ्क्य तदुपपादकं रागतत्त्वं तावदाह -- किञ्चित्तु कुरुते तस्मान्नूनमस्त्यपरं तु तत् || ९-१९९ || रागतत्त्वमिति प्रोक्तं यत्तत्रैवोपरञ्जकम् | कलाविद्ययोर्हि किंचित्त्वमपूर्णत्वमात्राभिधायि -- इत्युक्तम्, इदं पुनस्तथात्वेऽपि प्रतिनियतवस्तुपर्यवसायि -- इत्यवश्यमत्रास्य केनचिदपरेण निमित्तेन भाव्यम्, यद्वशात् तत्रैव अणोरासङ्गो भवेत् | किञ्च तदित्युक्तं ᳚तत्तु रागतत्त्वमिति प्रोक्तम्᳚ इति | उक्तं च -- ᳚रागोऽनुरञ्जयत्येनं स्वभोगेष्वशुचिष्वपि |᳚ (मा. १|२८) इति || १९९ || नन्ववैराग्यलक्षणो बुद्धिधर्मोऽत्र सांख्यैर्निमित्तमुक्तम् -- इति किमनेनान्येन रागतत्त्वेन? -- इत्याशङ्क्याह -- न चावैराग्यमात्रं तत्तत्राप्यासक्तिवृत्तितः || ९-२०० || विरक्तावपि तृप्तस्य सूक्ष्मरागव्यवस्थितेः | तदिति -- रागतत्त्वम् | तत्रापीति -- अवैराग्ये | एवमवैराग्यासङ्गेऽपि एतदेव निमित्तमिति भावः | कस्यचिच्च निवृत्तविषयाकाङ्क्षस्य अवैराग्याभावेऽपि सूक्ष्मेक्षिकयाभिष्वङ्गो भवत्येव ᳚किंचिन्मे भूयात्᳚ इति प्रतिपत्तेरविरहात्; तद्रागतत्त्वस्यैव अयं महिमा यद् बुद्धाववैराग्यादीनां सर्वेषामेव धर्माणां बहिष्पर्यन्ततया विशेषेणोल्लास इति | तदुक्तम् -- ᳚धर्मादयोऽप्यभिष्वङ्गवासनाया एव पल्लवाः इति समस्तोऽयं रागवर्गः; ते तु विशेषोल्लासात्मनो बुद्धिधर्मत्वेन गणिताः |᳚ इति | एवं द्वेषोऽप्यस्यैव प्रसरः | तत्रापि अनिष्टप्रहानादावभिष्वङ्गस्यैव संभवात्; तस्माद्यत्र क्वचनोपादेये हेये वा ᳚किंचिन्मे भूयात्᳚ इति सामान्येनाभिष्वङ्ग मात्रं रागतत्त्वमन्यस्तु पुनः तस्यैव प्रपञ्चः � इति प्राङ्निरूपितप्रायमित्यलं बहुना || २०० ||
SK
नन्वणोः कलया किंचिद्रूपतां, विद्यया विविक्तविषयतां, रागेण नियतवस्तुपर्यवसायितां च नीतं कर्तृत्वं ᳚अकरवं करोमि करिष्यामि᳚ इति प्रतीत्यन्यथानुपपत्त्या कालेनापि कलितम् � इति तदुपपादकं कालतत्त्वमप्याह -- कालस्तुट्यादिभिश्चैतत् कर्तृत्वं कलयत्यतः || २०१ || कार्यावच्छेदि कर्तृत्वं कालोऽवश्यं कलिष्यति | ननु कर्तृत्वं नाम चेतनस्य स्वातन्त्र्यं तच्च तदनतिरिक्तमिति कथमस्य नित्यस्य सतः कालेन योगः? -- इत्यशङ्क्योक्तम् -- ᳚कार्यावच्छेदि᳚ इति | द्विधा हि कर्तृत्वं शुद्धं मायीयं च | तत्राद्यमनवच्छिन्नाहंपरामर्शमयं कार्यानारूषितमेव; अन्यच्च घटक्रिया पटक्रिया -- इत्यादिकार्यारूषितम् | एतेनास्य कलनयापि भाव्यमित्येवमुक्तम् -- ᳚अवश्यम्᳚ इति | भावाभावाभासक्रमजीवितत्वात् कार्यक्रियाया -- इत्यर्थः | एवमेतन्मुखेन परिमितोऽपि प्रमातानेन कलित एव -- इत्यर्थसिद्धम् | तदुक्तम् -- ᳚कालोऽपि कलयत्येनं तुट्यादिभिरवस्थितः |᳚ (मा. १|२९) इति || २०१ || ननु तामर्थक्रियामर्थयमानो जनः किंचिदुपादत्ते, किंचिच्च जहाति, -- इति नास्ति विमतिः; कुतः पुनरयं नियमो यत् पाकार्थी वह्निमेवादित्सति न लोष्ठम्, स्वर्गार्थी च ज्योतिष्टोममेव न श्येनम् -- इति तदवश्यमत्र केनचिन्नमित्तेन भाव्यं तच्च किम् -- इत्याशङ्क्याह -- नियतिर्योजनां धत्ते विशिष्टे कार्यमण्डले || ९-२०२ || नियतिर्हि ᳚अस्मादेव कारणात् इदमेव कार्यं भवेत्᳚ इति नियममादध्यात् - - इत्युक्तम् -- ᳚विशिष्टे कार्यमण्डले योजनां धत्ते᳚ इति | तदुक्तम् -- ङियतिर्योजयत्येनं स्वके कर्मणि पुद्गलम् |᳚ (मा. १|२९) इति | अतश्च नियतामर्थक्रियामर्थयता नियतमेव वस्तु उपादातव्यम् -- इति न कश्चिद्दोषः || २०२ || नन्विह तत्त्वानां कार्यकारणभावनिरूपणस्य प्रक्रान्तत्वात् कलायास्तावन्मायाकार्यत्वमुक्तम्; विद्यादितत्त्वचतुष्टयं पुनः ᳚तस्मात् कला समुत्पन्ना विद्या रागस्तथैव च | कालो नियतितत्त्वं च पुंस्तत्त्वं प्रकृतिस्तथा ||᳚ (स्व. ११|६३)
SK
इत्यादिश्रीस्वच्छन्दशास्त्रस्थित्या कलावत् किं मायाया एव कार्यमुत न ? -- इत्याशङ्क्याह -- विद्या रागोऽथ नियतिः कालश्चैतच्चतुष्टयम् | कलाकार्यं................................ अत्र च नियतिः कालः -- इत्ययं क्रमः श्रीपूर्वशास्त्रानुगुण्येनोक्तः; तत्र हि नियतेरनन्तरं कालस्य निर्देशः | पूर्वं पुनः कालस्य प्रथमं निर्देशेऽयमाशयः यत् नियतेः कार्यकारणविषयनियमनव्यापारः, तच्च प्राग्भावि कारणं पश्चाद्भावि कार्यम् -- इति कालावच्छेदमन्तरेण कथं भवेदिति | यद्वा युगपदुत्पादात् एषां न क्रमविवक्षा -- इत्येवमुक्तम् | यद्यपि श्रीपूर्वशास्त्रे .......................विद्यारागौ ततोऽसृजत् |᳚ (मा. वि. १|२७) इत्येतावदेवोक्तं तथापि नियतिकालयोः कार्यत्वेन संमतत्वात् कारणान्तरस्य साक्षादनभिहितत्वात् ᳚तत एव᳚ इति एवकारेण अव्यक्तान्तमस्याः कलाया एवाविशेषेण कारणत्वस्याभिधानात् अविशिष्टाप्रतिषिद्धं कलाया एव कारणत्वं पर्यवस्येदित्युक्तम् -- ᳚एतच्चतुष्टयं कलाकार्यम्᳚ इति || ननु भोक्तृभोग्यरूपतया विश्वं तावत् द्विविधं तत्रैतत् कलादि किं भोक्तृपक्षपतितमुत अन्यथा ? -- इत्याशङ्क्याह -- .........भोक्तृभावे तिष्ठद्भोक्तृत्वपूरितम् || ९-२०३ || भोक्तृभावावस्थाने हेतुः ᳚भोक्तृत्वपूरितम्᳚ इति | भोक्तृत्वं हि आणवादिनोपक्रान्तमपि कलादिना किंचित्कर्तृत्वाधानेन पूरितमुपबृंहितं कार्यपर्यन्तीकृतमिति यावत् | अत एवैषां तद्धर्मत्वात् भोक्तर्येवावस्थानम् | तथा च पर एव प्रमाता मायया प्रथममपहृतैश्वर्यसर्वस्वः सन् पुनरपि तदैश्वर्यसर्वस्वमध्यात् कलादिमुखेन प्रतिवितीर्णकिंचिदंशः परिमिततामश्नुवानः पशुः इत्युच्यते | तत्र कलाविद्ययोस्तावत् तद्धर्मत्वं निर्विवादसिद्धम् | नहि ज्ञत्वकर्तृत्वयोः प्रमातृधर्मत्वे कश्चिद्विवादः; रागोऽपि तद्धर्म एव भोग्यं प्रति प्रवृत्तिहेतुत्वात्, भोग्यधर्मत्वे हि अस्य न कश्चिदपि वीतरागः स्यात्, भोग्यस्य सर्वान् प्रति अविशेषेण रञ्जकत्वात् | उक्तं च �
SK
᳚यज्जनिताभिष्वङ्गे भोग्याय नरि क्रिया स रागोऽत्र | भोग्यविशेषे रागे नहि कश्चिद्वीतरागः स्यात् ||᳚ इति | कालोऽप्येवम् -- प्रथमं हि असौ ᳚कृशोऽहमभवं स्थूलो वर्ते स्थूलतरश्चाश्वगन्धाघृतोपयोगेन भविष्यामि᳚ इत्येवं क्रममासूत्रयन् प्रमातृसंलग्नत्वेनैव परिस्फुरेत् | स एव पुनरेवं कालेन कलितः सन्, स्वापेक्षया भूताद्यात्मक्रमावभासनपुरःसर स्वसहचारि मेयमपि कलयेत् ᳚यत् ᳚इतिदमासीत्, वर्तते, भविष्यति᳚ इति | नियतेश्च कार्यकारणयोर्नियमनं रूपम्, कार्यकारणभावश्च कर्तृत्वमात्रपर्यवसाय एवेत्युक्तं प्राक् | कर्तृत्वं च प्रमातुर्धर्मः -- इति तन्नियमनादियमपि तथा मातुरेव, ᳚इदमेवास्मि करोमि᳚ इत्यभिमानात् | एवं कालरागनियतिविद्याः कलानिमित्तकाः | ᳚अहमिदानीमिदमेव जानामि करोमि᳚ इति विमर्शः प्रमातुरेव उचितो न प्रमेयस्येति युक्तमुक्तं -- ᳚कलादि भोक्तृभावे तिष्ठत्᳚ इति | एतद्योगादेव हि परस्याः संविदः परं भोक्तृत्वलक्षणं पारिमित्यं समुदियात् || २०३ || तदाह -- माया कला रागविद्ये कालो नियतिरेव च | कञ्चुकानि षडुक्तानि संविदस्तत्स्थितौ पशुः || ९-२०४ || कञ्चुकानीति -- आवारकत्वात् | तत्स्थिताविति � तच्छब्देन कञ्चुकपरामर्शः | तदुक्तम् -- ᳚माया कलाऽशुद्धविद्या रागः कालो नियन्त्रणा | षडेतान्यावृतिवशात् कञ्चुकानि मितात्मनः ||᳚ इति || २०४ || ननु सर्वत्र देहपुर्यष्टकादिरेव वेद्यरूपः पशुरिति, भोक्तेति, अणुरिति चोच्यते यस्येदमन्तरङ्गमावरणं कञ्चुकषट्कम् | यदुक्तम् -- ᳚मायासहितं कञ्चुकषट्कमणोरन्तरङ्गमिदमुक्तम् |᳚ (परमा. २७ श्लो.) इति | तत् कथमिहोक्तं संविदः षट् कञ्चुकानि ? -- इत्याशङ्क्याह -- देहपुर्यष्टकाद्येषु वेद्येषु किल वेदनम् | एतत्षट्कससङ्कोचं यदवेद्यमसावणुः || ९-२०५ ||
SK
यद्वेद्येषु देहादिषु मध्ये प्रमात्रेकरूपत्वात् अवेद्यमेतेन मायादिना षट्केन ससङ्कोचं परिमिततामापादितं विदिक्रियाकर्तृरूपं वेदनं सोऽयमणुः किलागमेषु उच्यते -- इत्यर्थः | इदमेव च पञ्चविंशं पुंस्तत्त्वमित्युच्यते, यत् श्रीपूर्वशास्त्रेषु पुमानिति, अणुरिति, पुद्गलमिति चोक्तम् | परस्या एव संविदश्चोक्तयुक्त्या मायावशात् पुंस्त्वं जातम् इति; तत एवास्य पुंस्तत्त्वस्य श्रीस्वच्छन्दशास्त्रादौ तत्र तत्रागमे जन्मोक्तम् -- इति अत्राप्येतदवसेयम् | तदुक्तं श्रीमृगेन्द्रेऽपि -- ᳚ग्रन्थिजन्यकलाकालविद्यारागान्यमातरः |᳚ इत्यादि सामान्येनोपक्रम्य ᳚पुंस्तत्त्वं तत एवाभूत् पुंस्प्रत्ययनिबन्धनम् |᳚ इति | एतच्च श्रीपूर्वशास्त्रे तथानभिधानात् नात्र स्वकण्ठेनोक्तम् || २०५ || नन्वनयैव परिपाट्या कञ्चुकषट्कस्य किं सर्वत्र वृत्तान्तः संभवेन्न वा ? -- इत्याशङ्क्याह -- उक्तं शिवतनुशास्त्रे तदिदं भङ्ग्यन्तरेण पुनः | तदेवाह -- आवरणं सर्वात्मगमशुद्धिरन्याप्यनन्यरूपेव || ९-२०६ || आवरणं संसारकारणत्वेनोक्तमाणवं मलम् -- तदुक्तं तत्र � ᳚तस्मात्सर्वात्मगता तेभ्यस्त्वन्या विभात्यनन्येव | संसाराङ्कुरकारणमाणवं चेतसोऽशुद्धिरिति ||᳚ इति || २०६ || ननु कथमेकस्या एव अस्या अन्यत्वमनन्यत्वं च स्यात् ? -- इत्याशङ्क्याह -- शिवदहनकिरणजालैर्दाह्यत्वात् सा यतोऽन्यरूपैव | अनिदंपूर्वतया यद्रञ्जयति निजात्मना ततोऽनन्या || ९-२०७ || सहजाशुद्धिमतोऽणोरीशगुहाभ्यां हि कञ्चुकस्त्रिविधः | दाह्यत्वादित्यनेनास्या अपायित्वमुक्तम् | भिन्नस्यैव हि आगमापायौ भवतः -- इति भावः | ᳚यतः᳚ इति सर्वात्मभ्यः | यद्वा विज्ञानामृतसरिता प्लाव्यत्वादिति पाठो ग्राह्यः | तदुक्तं तत्र -- ᳚विज्ञानामृतसरिता शिवशशिनः स्यन्दमानयामलया | प्रप्लाव्य यतस्तेभ्यो निरस्यतेऽधस्ततः सान्या ||᳚
SK
इति | पूर्वत्र पुनः कञ्चुकानां दाह्यत्वमुचितमित्येवमुक्तम् � ᳚अनिदंपूर्वतया᳚ इत्यनादिकालानुबन्धित्वात्; अत एवास्याः सहजत्वात् ताम्रकालिका(मा)वत् असंलक्ष्यभेदत्वेनानन्यत्वम् | तदुक्तं तत्र -- ᳚श्लिष्टा यस्मादात्मस्वनादिकालानुबन्धिनी चितिवत् | वृत्त्यानुरञ्जयन्ती तस्मात् प्रतिभात्यनन्येव ||᳚ इति | एवमाणवमलावरण(व)तोऽपि अणोः, ईशः तदीया मलाधिष्ठायिका निरोधशक्तिः, गुहा कर्मणोऽवस्थितिस्थानं माया, ताभ्यां सह त्रिविधो मलः ईशशक्तिमायाख्यः प्रावरणप्रायत्वात् कञ्चुकरूपो बन्धः | तदुक्तं तत्र -- ᳚एवं महता तमसा सहजेनाविद्धचेतसः पुंसः | परमेश्वराद् गुहातः प्रवर्त्तते कञ्चुकस्त्रिविधः ||᳚ इति | एवं बन्धत्रयभाज एव हि कलायोगयोग्यता भवेदिति भावः | अत एव ᳚त्रिबद्धचित्कलायोगा........................... |᳚ इत्यादि अन्यत्रोक्तम् || २०७ || अत एवाह � तस्य द्वितीयचितिरिव स्वच्छस्य नियुज्यते कला श्लक्ष्णा || ९-२०८ || अनया विद्वस्य पशोरुपभोगसमर्थता भवति | विद्या चास्य कलातः शरणान्तर्दीपकप्रभेवाभूत् || ९-२०९ || सुखदुःखसंविदं या विविनक्ति पशोर्विभागेन | रागश्च कलातत्त्वाच्छुचिवस्त्रकषायवत् समुत्पन्नः || ९-२१० || त्यक्तं वाञ्छति न यतः संसृतिसुखसंविदानन्दम् | एवमविद्यामलिनःसमर्थितस्त्रिगुणकञ्चुकबलेन || ९-२११ || गहनोपभोगगर्भे पशुरवशमधोमुखः पतति |
SK
द्वितीयेति -- स्वाभाविक्या एकस्याः चितेः उक्त युक्त्या कञ्चुकत्रयेणावृतत्वात् | स्वच्छस्येति -- स्वभावतः | श्लक्ष्णेति -- प्रथममुद्भिन्नत्वात् सूक्ष्मेत्यर्थः | अस्याश्च किंचित्प्रकाशत्वेन शरणान्तर्दीपकप्रभेवेत्युक्तम् | शुचिवस्त्रस्थानीय आत्मा | अविद्यामलिन इति अविद्यया आणवेन मलेन तदुपलक्षिताभ्यामीशशक्तिमायाभ्यां च ᳚मलिनः᳚ संच्छादितपूर्णज्ञानक्रियः -- इत्यर्थः | त्रिविधकञ्चुकबलेनेति त्रिविधस्य कलाविद्यारागात्मनः कञ्चुकस्य बलेन किंचिज्ज्ञत्वकर्तृत्वाद्युपोद्बलकेन सामर्थ्यविशेषेण -- इत्यर्थः | एवमाणवादिकञ्चुकत्रयेण सह षट् कञ्चुकानीत्यत्र भङ्ग्यन्तरत्वम् | कालनियत्योस्तु अनभिधानेऽयमाशयो यत् कलादिशुद्ध्यैतत्तत्त्वशुद्धिरिति | यद् रुरुवृत्तिः � ᳚कलादिभिरेव शुद्धैस्तत् शुद्धं द्रष्टव्यम् | इत्यभिप्रायतोऽनभिधानं नाभावात् ||᳚ इति | ᳚अधोमुखः᳚ इति मायीयभोगौन्मुख्यात् || २११ || ननु प्रकृतेऽपि एवं मलस्यावारकत्वात् कञ्चुकत्वमेव वक्तुं युक्तम्, -- इति कथं ᳚षट् कञ्चुकानि᳚ इत्युक्तम् ? -- इत्याशङ्क्याह -- एतेन मलः कथितः कम्बुकवदणोः कलादिकं तुषवत् || ९-२१२ || एतेनेति -- मायादीनां षण्णामेव कञ्चुकत्वाभिधानेन | कम्बुकवदित्यन्तश्चान्तस्त्वात् | एवं मलावृतस्य सतो हि पुंसः प्रतिप्रावरणप्रायं कञ्चुकषट्कमिति; अत एवोक्तम् -- तुषवदिति | तदुक्तम् -- ᳚एवं च पुद्गलस्यान्तर्मलः कम्बुकवत् स्थितः | तुषवत् कञ्चुकानि स्युः ......................... ||᳚ इति || २१२ || एतदेवोपसंहरति � एवं कलाख्यतत्त्वस्य किंचित्कर्तृत्वलक्षणे | विशेषभागे कर्तृत्वं चर्चितं भोक्तृपूर्वकम् || ९-२१३ || कलायास्तावत् किंचिद्रूपताविशिष्टं कर्तृत्वं लक्षणं तत्र विशेषभागेऽर्थादवस्थितं विशेष्यांशरूपं यत् कर्तृत्वं तद्भोक्तृरूपं चर्चितं, विद्याद्युत्पादक्रमेण उक्तयुक्त्या भोक्तृत्वाधायकत्वेन विचार्य उक्तमित्यर्थः || २१३ || नन्वत्र विशेषभागावस्थितं किंचित्त्वम् ? -- इत्याशङ्क्याह -- विशेषणतया योऽत्र किञ्चिद्भागस्तदोत्थितम् |
SK
वेद्यमात्रं स्फुटं भिन्नं प्रधानं सूयते कला || ९-२१४ || इह कर्तृत्वस्य स्वयमनवच्छिन्नत्वेऽपि किंचिद्विषयत्वात् किंचिद्रूपत्वं जातम्, इति किंचित्त्वं वेद्यपक्ष एव तिष्ठेत्; ततश्च तदंशप्रयोजकीकारेणोल्लसितं सत् भाविवेद्यविशेषापेक्षया वेद्यसामान्यात्मकं भोग्यरूपं प्रधानं कला सूयते बहीरूपतया व्यक्ततां नयेत् -- इत्यर्थः | तदुक्तम् � ᳚तत एव कलातत्त्वादव्यक्तमसृजत्....... |᳚ इति (मा. १|३०) इति | तच्च भिन्नं प्रतिपुंनियतत्वादनेकमिति यावत् | कलादीनां च तथात्वेऽपि स्फुटं तदपेक्षया स्थूलम् -- इत्यर्थः || २१४ || ननु भोक्तृभोग्ययोः परस्परसापेक्षत्वात् कथं नाम क्रमेणोत्पत्तिः सङ्गच्छताम्; नहि भोग्यं विना भोक्तृत्वमेव किञ्चिद् भवेत्, भोक्तृत्वं विनापि भोग्यमिति तत् कथं भोक्तृत्वं प्रसूय भोग्यं कला सूते इत्युक्तम् ? -- इत्याशङ्क्याह -- सममेव हि भोग्यं च भोक्तारं च प्रसूयते | कला भेदाभिसंधानादवियुक्तं परस्परम् || ९-२१५ || भोक्तारमिति भोक्तृगतं भोक्तृत्वम् -- इत्यर्थः | यतः तत् भोक्तृभोग्यात्मकमुभयं परस्परावियुक्तं सापेक्षम् -- इत्यर्थः | वस्तुतो हि अनयोः ᳚भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः |᳚ (स्प. १|४) इत्याद्युक्तेः अद्वयमयत्वेन अभेदेऽपि मायीयं भेदमभिसंधाय परस्परमपेक्षालक्षणमवियुक्तत्वं दर्शितम् -- इत्युक्तं -- ᳚भेदाभिसंधानात्᳚ इति || २१५ || ननु अनयोरेवमवियोगेन कोऽर्थः ? -- इत्याशङ्क्याह -- भोक्तृभोग्यात्मता न स्याद्वियोगाच्च परस्परम् | वियोगादिति -- परस्परसापेक्षत्वाभावात् || नन्वेवंविधा भोक्तृभोग्यात्मताऽपि मा भूत् ? -- इत्याशङ्क्याह -- विलीनायां च तस्यां स्यान्मायाऽस्यापि न किञ्चन || ९-२१६ || भोक्तृभोग्यात्मतालक्षणे हि क्षोभे प्रलीने संसार एव न भवेत् � इति भावः | यदुक्तम् -- ङिजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः | यदा क्षोभः प्रलीयेत तदा स्यात् परमं पदम् ||᳚ (स्प. १|९) इति || २१६ ||
SK
ननु कथमेतदुक्तम्, अन्यत्र हि पूर्वम् कलातो भोक्तृरूपं रागविद्यायुग्मप्रकृति -- तत्त्वमिति क्रमेण भोक्तृभोग्योत्पाद उक्तः ? -- इत्याह -- ननु श्रीमद्रौरवादौ रागविद्यात्मकं द्वयम् | सूते कला हि युगपत्ततोऽव्यक्तमिति स्थितिः || ९-२१७ || तत इति रागविद्यायुग्मप्रसरादनन्तरम् -- इत्यर्थः | तदुक्तम् -- श्कन्धोऽपरः कलायास्तु यस्मादेताः प्रजज्ञिरे | विद्यारागप्रकृतयो युग्मायुग्मक्रमेण तु ||᳚ तथा च श्रीरुरौ � ᳚कलातत्त्वाद्रागविद्ये द्वे तत्त्वे संबभूवतुः | अव्यक्तं च ततः......................... ||᳚ इति वाक्यभेदेन पाठः | एषां हि सममेवोत्पादे रागविद्याव्यक्तानि संबभूवुरित्येकवाक्यतैव स्यात् | पूर्वं पुनर्व्याख्यातृभेदमवलम्ब्य ᳚मायातोऽव्यक्तकलयोः᳚ इत्याद्युक्तम् | तत्र हि वार्तिककारः तच्छब्देन मायां व्याख्यातवान् | वृत्तिकारस्तु आनन्तर्यमिति || २१७ || एतदेव प्रतिविधत्ते -- उक्तमत्र विभात्येष क्रमः सत्यं तथा ह्यलम् | रज्यमानो वेद सर्वं विदंश्चाप्यत्र रज्यते || ९-२१८ || उच्यते इति वक्तव्ये बुद्धिस्थतया सिद्धतामभिप्रेत्य निर्विलम्बमेव एतद्दत्तोत्तरमित्युक्तम्; सत्यम्, एष त्वदभिमतः क्रमोऽत्र विभाति | तथाहि -- अलमत्यर्थं रागविद्ययोरपि परस्परं क्रमोऽस्ति -- इत्यर्थः | सर्व एव हि पुमान् रज्यन् वा सर्वं वेत्ति, विदन् वा सर्वत्र रज्यतीत्यसावपि क्रमः कथं न भवेत् || २१८ || ननु यद्येवं तत् कथं भोक्तृभोग्ययोर्युगपदुत्पादो भवतैवोक्तः? -- इत्याशङ्क्याह -- तथापि वस्तुसत्तेयमिहास्माभिर्निरूपिता | तस्यां च न क्रमः कोऽपि स्याद्वा सोऽपि विपर्ययात् || ९-२१९ || तथापीति -- एवमेषां क्रमसंभावनेऽपि -- इत्यर्थः | वस्तुसत्तेति, वस्तुनोर्भोक्तृभोग्ययोः सत्ता पारमार्थिकः संभवः -- इत्यर्थः | ङ क्रमः᳚ इति परस्परसापेक्षत्वात् | यदुक्तमनेनैव अन्यत्र � ᳚अत्र चैषां वास्तवेन पथा क्रमवन्ध्यैव सृष्टिरित्युक्तम् |᳚ (तं. सा. ८ आ) इति || २१९ ||
SK
यदि चात्र वस्तुसत्तामपहाय संभावनामात्रेण क्रम उच्यते प्रत्युत विपर्ययेणापि असौ स्यात् भोगोत्पादानन्तरं भोक्तृत्वोत्पादः, इति तस्मात् नात्र विप्रतिपत्तव्यम् -- इत्याह -- तस्माद्विप्रतिपत्तिं नो कुर्याच्छास्त्रोदिते विधौ | शास्त्रोदिते विधाविति -- रुरुशास्त्रोदितविधिमाश्रित्य -- इत्यर्थः | इयदेव हि तत्र विवक्षितं यत् कलातत्त्वात् रागादितत्त्वत्रयं समुत्पन्नम् -- इति, अस्य पुनर्युगपदयुगपद्वा समुत्पादः, तत्स्वरूपनिरूपणात्मकात् विचाराल्लभ्यते न तु यथाश्रुतादुत्तानादर्थमात्रादेव -- इत्यस्मदुक्तमेव ज्यायः || २१९ || ननु वेद्यमात्रं प्रधानमित्युक्तम्, न च विशेषरूपस्य सुखादेरेव पृथगस्य वेद्यत्वमस्ति? -- इत्याशङ्क्याह -- एवं संवेद्यमात्रं यत् सुखदुःखविमोहतः || ९-२२० || भोत्स्यते यत्ततः प्रोक्तं तत्साम्यात्मकमादितः | एवमुक्तेन प्रकारेण संवेद्यमात्रं भवत् यत् सुखादिभ्यो भोत्स्यते ᳚कार्यतस्तदुपलब्धेः᳚ इति नीत्यानुमास्यते ततो विशेषस्य सामान्यपूर्वकत्वात् हेतोः साम्यात्मकमविभागरूपं तदादितः प्रोक्तं कारणतया निरूपितम् -- इत्यर्थः || २२० || ननु सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः -- इति सांख्याः, तत्कथमिह सुखादिभ्यस्तद्भोत्स्यते इत्युक्तम् ? -- इत्याशङ्क्याह -- सुखं सत्त्वं प्रकाशत्वात् प्रकाशो ह्लाद उच्यते || ९-२२१ || दुःखं रजः क्रियात्मत्वाद् क्रिया हि तदतत्क्रमः | मोहस्तमो वरणकः प्रकाशाभावयोगतः || ९-२२२ || ननु सुखस्य प्रकाशरूपत्वमसिद्धं सुखं हि सुखमेव न प्रकाशः -- इत्युक्तम् ᳚प्रकाशो ह्लाद उच्यते᳚ इति | ᳚ह्लादः᳚ इत्यहंचमत्कारमयत्वात् | दुःखमितिप्रकाशाप्रकाशरूपम्, प्रकाशरूपत्वे हि सुखमेव स्यात् अन्यथा तु मोहः | क्रियात्मत्वादिति -- भावाभावरूपतया अस्य क्रमिकत्वात् | नन्वेवं दुःखस्य क्रमिकत्वमस्तु क्रियात्वं तु कुतः ? -- इत्युक्तम् -- ᳚क्रिया हि तदतत्क्रमः᳚ इति तदतदोरिति प्रकाशाप्रकाशयोः | तदुक्तम् -- ᳚प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः |᳚ (सां.का. १२) इति |
SK
शत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः | गुरु वरणकमेव तमः................................... ||᳚ (सां .का. १३) इति च | श्रीप्रत्यभिज्ञायामपि -- शत्तानन्दः क्रिया पत्युस्तदभावोऽपि सा पशोः | द्वयात्म तद्रजो दुःखं श्लेषि सत्त्वतमोमयम् ||᳚ (४अ.१आ.७का.) इति तदेवं सत्त्वरजस्तमसां साम्यात्मकमक्षुब्धं रूपं प्रधानम्? - - इत्युक्तम् || २२२|| ननु प्रधानस्य यद्यक्षुब्धमेव रूपं तत्कथं कार्यजन्मनि प्रभवेत्? -- इत्याशङ्क्याह -- त एते क्षोभमापन्ना गुणाः कार्यं प्रतन्वते | अक्षुब्धस्य विजातीयं न स्यात् कार्यमदः पुरा || ९-२२३ || उक्तमेवेति शास्त्रेऽस्मिन् गुणांस्तत्त्वान्तरं विदुः | कार्यमिति -- महदादि | विजातीयमिति -- गुणानां वैषम्यात् | इत्येतच्च पुरा भुवनाध्वनिरूपणावसरे एवोक्तम् इति न पुनरिहायस्तम् | तत् तत एवावधार्यमिति भावः | तदुक्तं तत्र -- ᳚उपरिष्टाद्धि योऽधश्च प्रकृतेर्गुणसंज्ञितम् | तत्त्वं तत्र तु संक्षुब्धा गुणाः प्रसुवते धियम् || (त. ८|२५३) न वैषम्यमनापन्नं कारणं कार्यसूतये |᳚ इत्यादि ङैतत्कारणतारूपपरामर्शावरोधि यत् | क्षोभान्तरं ततः कार्यं बीजोच्छूनाङ्कुरादिवत् ||᳚ (त. ८|२५४) इत्यन्तम् | ततश्च युक्तिसिद्धम् अस्मिन्नुपक्रान्ते श्रीपूर्वशास्त्रे गुणांस्तत्त्वान्तरं प्रकृतेरेव कार्यजननोन्मुखं क्षुब्धं द्वितीयं रूपं मायाया इव ग्रन्थिं विदुः श्रीश्रीकण्ठनाथाद्या उपदेश्यतया जानीयुः -- इत्यर्थः | तदुक्तं तत्र -- ᳚ततो गुणान्............................... |᳚ (मा. १|३०) इति || २२३ || अत्र च ग्रन्थिवत् भुवनविभागोऽपि पूर्वमेव दर्शितः -- इत्याह -- भुवनं पृथगेवात्र दर्शितं गुणभेदतः || ९-२२४ || तदुक्तं प्राक् � ᳚क्रमात् तमोरजःसत्त्वे गुरूणां पङ्क्तयः स्थिताः | तिस्रो द्वात्रिंशदेकातस्ंत्रिशदप्येकविंशतिः ||᳚ (तं. ८|२६०) इति || २२४ || ननु अस्या जाड्यात् कथङ्कारं कार्यजननायौन्मुख्यमेव जायते, येन क्षुब्धत्वमपि स्यात् ? -- इत्याशङ्क्याह --
SK
ईश्वरेच्छावशक्षुब्धलोलिकं पुरुषं प्रति | भोक्तृत्वाय स्वतन्त्रेशः प्रकृतिं क्षोभयेद् भृशम् || ९-२२५ || स्वतन्त्रेश इति श्रीकण्ठनाथः | तदुक्तम् -- ᳚एवंविधं प्रधानं तद् ब्रह्मणा सहितं पुरा | श्रीकण्ठकिरणाघ्रतं व्यक्तिमायाति तत्क्षणात् ||᳚ इति | एवं च सांख्यानामिव अस्माकमपि नैतच्चोद्यं यत् पुंसो निर्विकारत्वात् बन्धमोक्षदशयोरविशेष एवेति बद्धवन्मुक्तमपि प्रति प्रकृतिः किमिव न महदादि विकारजातं जनयितुं प्रवर्तते, प्रवृत्त्यात्मनः स्वभावस्यानपेतत्वात् | न च अस्या ᳚दृष्टाहमनेन᳚ इति न पुनरेतदर्थं प्रवर्ते इत्यनुसंधानमस्ति आचैतन्यात् तस्मादनिर्मोक्ष एवेति || २२५ || तदाह � तेन यच्चोद्यते सांख्यं मुक्ताणुं प्रति किं न सा | सूते पुंसो विकारित्वादिति तन्नात्र बाधकम् || ९-२२६ || तेनेति -- एवंविधं नियतमेव पुरुषं प्रति अस्याः स्वतन्त्रेशकर्तृकेण क्षोभणेन हेतुना -- इत्यर्थः | अत्रेति -- अस्मद्दर्शने || २२६ || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह -- गुणेभ्यो बुद्धितत्त्वं तत् सर्वतो निर्मलं ततः | पंस्प्रकाशः स वेद्योऽत्र प्रतिबिम्बत्वमार्छति || ९-२२७ || तत् -- तस्मात् स्वतन्त्रेशकर्तृकात् हेतोः -- इत्यर्थः | बुद्धितत्त्वमिति -- अर्थात् जातम् | तदुक्तम् � ᳚अष्टगुणां तेभ्यो धियं.................... |᳚ (मा. १|३०) इति | तत इति -- सर्वतो नैर्मल्यात् || २२७ || ननु अव्यवहितत्वात् पुंस्प्रकाशोऽत्र प्रतिबिम्बमाधत्ताम्, तथात्वाभावात् बाह्यं वेद्यं पुनः कथम् ? -- इत्याशङ्क्याह -- विषयप्रतिबिम्बं च तस्यामक्षकृतं बहिः | अतद्द्वारं समुत्पेर्क्षाप्रतिभादिषु तादृशी || ९-२२८ || वृत्तिर्बोधो भवेद् बुद्धेः सा चाप्यालम्बनं ध्रुवम् | आत्मसंवित्प्रकाशस्य बोधोऽसौ तज्जडोऽप्यलम् || ९-२२९ ||
SK
द्विधा हि बुद्धेर्बहिर्विषयप्रतिबिम्बमक्षद्वारकमतद्द्वारकं च | तत्राद्यः प्रत्यक्षादौ, अन्यच्च उत्प्रेक्षादौ, आदिशब्दात् स्वप्नादि | अत्र हि स्वयमुपस्थापित एवार्थोऽस्याः परिस्फुरेत् -- इति भावः | तत् तादृश्यक्षानक्षाहिता वेद्यप्रतिबिम्बसहिष्णुतालक्षणा वृत्तिः बुद्धेर्विषयावभासको बोधो भवेत् -- इति संबन्धः | ननु जडत्वात् बुद्धिबोधः कथं विषयं प्रकाशयेत्? -- इत्याशङ्क्याह � सा चेत्यादि | चो ह्यर्थे | सा बुद्धिरपि हि आत्मसंविदः पुंबोधस्य प्रकाशो व्यक्तिराविर्भावः, तस्य ध्रुवमालम्बनं स्थिरः प्रतिबिम्बाधारः -- इत्यर्थः | तत् तस्मात् आत्मसंविदभिव्यक्तिस्थानत्वात् हेतोरस्या वृत्त्यात्मा बोधो जडोऽपि असावलम्, विषयप्रकाशनाय समर्थः -- इत्यर्थः | तदुक्तम् -- ᳚प्रकाशो विषयाकारो देवद्वारो न वा क्वचित् | पुंबोधव्यक्तिभूमित्वात् बोधो वृत्तिर्मतेर्मता ||᳚ इति || २२९ || एवं बुद्धेः करणरूपतां निरूप्य कारणरूपतामप्याह -- बुद्धेरहंकृत् तादृक्षे प्रतिबिम्बितपुंस्कृतेः | प्रकाशे वेद्यकलुषे यदहंमननात्मता || ९-२३० || अहंकृदिति अर्थाज्जाता | तदुक्तम् -- ᳚........................ढीतोऽप्यहंकृतम् |᳚ (मा. १|३०) इति | सा च तादृक्षे पुंस्प्रकाशस्याभिव्यक्तिस्थानभूते वेद्यकलुषे च बुद्धिवृत्त्यात्मनि प्रकाशे यत् ᳚इदं करोमि᳚ ᳚जानामि᳚ इत्यहमात्माभिमानः | ननु बुद्धिबोधोऽपि ᳚लेशोक्तो बुद्धिबोधोऽयं चेतनेनोपभुज्यते | भोग्यत्वं चास्य संसिद्धं येनोत्पन्नोऽनुभूयते ||᳚ इत्याद्युक्त्या भोग्यत्वात् वेद्य एवेति कथमिदन्ताभाजनेऽस्मिन् अहमित्यभिमानो निरूढिमुपगच्छेत्? -- इत्याशङ्क्योक्तम् -- ᳚प्रतिबिम्बितपुंस्कृतेः᳚ इति -- अभिव्यक्तं पुमांसमुद्दिश्य -- इत्यर्थः || २३० || एवमपि नायमात्मनि अहमभिमानः, किन्तु अनात्मरूपायां बुद्धावेव, आत्मप्रतिबिम्बस्य बुद्ध्याधारतया तदेकपरिणामत्वात्, अस्याश्चासाधारणं कार्यमाह -- तया पञ्चविधश्चैष वायुः संरम्भरूपया | प्रेरितो जीवनाय स्यादन्यथा मरणं पुनः || ९-२३१ ||
SK
संरम्भरूपयेति -- अहंकृतश्च संरम्भो वृत्तिरपि वृत्तिवृत्तिमतोस्ताद्रूप्याद्रूपम् -- इत्युक्तम् | तदुक्तम् � ᳚पञ्चकर्मकृतो वायोर्जीवनाय प्रवर्तकः | संरम्भोऽहंकृतो वृत्तिः..................... ||᳚ इति | अन्यथेति -- अप्रेरितः | एवमहंकृतः संरम्भात्मिकया वृत्त्या प्राणादीनां प्रेरणमपेर्रणं च कार्यं, येन सर्वेषां जीवनं मरणं वा स्यात् || २३१ || एवं चास्या अहंकृतः शुद्धचित्स्वातन्त्र्यमयात् स्वात्ममात्रविश्रान्तिसतत्त्वात् स्वरसोदितात् अहंभावादियान् विशेषो यदियं जडायामनात्मरूपायां बुद्धावभिनिविष्टेति | तदाह -- अत एव विशुद्धात्मस्वातन्त्र्याहंस्वभावतः | अकृत्रिमादिदं त्वन्यदित्युक्तं कृतिशब्दतः || ९-२३२ || इदमिति -- अहंकृतम् | अन्यदिति -- कृत्रिमम् | ननु अस्य कृत्रिमत्वे किं प्रमाणम्? -- इत्याशङ्क्योक्तम् -- इत्युक्तम्, कृतिशब्दत इति | श्रीपूर्वशास्त्रे हि अहंकृतमित्युक्तं, कृतं कृत्रिममेवोच्यते करोतेरेवमर्थत्वात् || २३२ || एतदुपसंहरन्नन्यदवतारयति -- इत्ययं करणस्कन्धोऽहङ्कारस्य निरूपितः | त्रिधास्य प्रकृतिस्कन्धः सात्त्वराजसतामसः || ९-२३३ || त्रिधेति -- सत्त्वादेरेकैकस्याङ्गित्वात् || २३३ || तत्र सात्त्विकस्य यावत् प्रकृतिस्कन्धतां निरूपयति -- सत्त्वप्रधानाहङ्काराद्भोक्त्रंशस्पर्शिनः स्फुटम् | मनोबुद्ध्यक्षषट्कं तु जातं भेदस्तु कथ्यते || ९-२३४ || प्रधानेत्यनेन एषामन्योन्यमिथुनवृत्तित्वात् गुणभूतयोः रजस्तमसोरपि सद्भावो दर्शितः | स्फुटं भोक्ंत्रशस्पर्शिन इति -- साक्षात् तत्स्वरूपप्रत्यवमर्शात्मकत्वादहंप्रत्ययस्य | मनोबुद्ध्यक्षषट्कमिति -- ᳚मनःषष्ठानीन्द्रियाणि᳚ इति श्रुतेर्मनोयुक्तानि बुद्धीन्द्रियाणि -- इत्यर्थः | तदुक्तम् -- ᳚श्रोत्रं त्वक्चक्षुषी जिह्वा नासा च मनसा सह | प्रकाशान्वयतः सत्त्वात्तैजसश्च स सात्त्विकः ||᳚
SK
इति | ननु एषामेकस्मादेव अहङ्कारादुत्पादेऽपि कथं मनसः सर्वमेव विषयोऽन्येषां च नियतम् ? -- इत्याशङ्क्योक्तम् -- ᳚भेदस्तु कथ्यते᳚ इति | भेद इति विषयस्य नैयत्यानैयत्याभ्यामुत्थापित -- इत्यर्थः || २३४ || तदाह -- मनो यत्सर्वविषयं तेनात्र प्रविवक्षितम् | सर्वतन्मात्रकर्तृत्वं विशेषणमहंकृतेः || ९-२३५ || तेनेति -- मनसः सर्वविषयत्वेन हेतुना -- इत्यर्थः | अत्रेति � सर्वत्र शास्त्रे | प्रविवक्षितमिति -- ᳚भूतादेस्तन्मात्रः स तामसः᳚ इत्याद्युक्तेः | तेन तमःप्रधानादहङ्कारात् तन्मात्राणामुत्पादः -- इति नास्ति विवादः | तमश्च सत्त्वप्रधानेऽपि अहङ्कारे संभवेदेषामन्योन्यमिथुनवृत्तित्वात् | यदुक्तम् � ᳚अन्योऽन्यमिथुनाः सर्वे सर्वे सर्वत्रगामिनः |᳚ इति | ततश्च तद्विशिष्टात् सात्त्विकादहङ्कारान्मनो जायते इत्यस्य सर्वविषयत्वम् | एवं यस्मात् मनसः सर्वविषयत्वम् अत इदं ज्ञायते यदहंकृतः सर्वतन्मात्रकारणत्वं येन मनसः शब्दादीनां च ग्राह्यग्राहकभावो भवेत् || २३५ || एवं चास्य बुद्ध्यादेस्त्रयस्यासाधारणक्रियामुखेनान्तःकरणत्वमेवाह -- बुद्ध्यहंकृन्मनः प्राहुर्बोधसंरभणैषणे | करणं बाह्यदेवैर्यन्नैवाप्यन्तर्मुखैः कृतम् || ९-२३६ || बोधः शब्दादेर्विषयस्याध्यवसायः | संरम्भोऽहमात्माभिमानः | एषणमिच्छा सङ्कल्पः | अत्र च क्रियात्वात् करणेन तावद्भाव्यम् | तच्च न वक्ष्यमाणं श्रोत्रादि, तस्य बाह्यक्रियाविषयत्वात् आसां चान्तारूपत्वात् | तस्मादन्तःकृतिसाधकत्वात् तदन्यदेव अन्तःकरणाख्यमित्युक्तं ᳚बुद्ध्यहंकृन्मनः᳚ इति | तदुक्तम् -- ᳚इच्छासंरम्भबोधाख्या नोक्तैः सिद्ध्यन्ति साधनैः | तत्सिद्धं करणं त्वन्तर्मनोऽहङ्कारबुद्धयः ||᳚
SK
इति | बुद्ध्यहंकृन्मन इति द्वन्द्वः समाहारे | ननु बहिष्करणत्वेऽपि श्रोत्रादीन्येव प्रत्यावृत्त्यान्तर्मुखानि सन्ति संभूय बोधादीनां साधनत्वं प्रतिपद्यन्ते इति किमन्तःकरणान्तरोपदेशेन? -- इत्याशङ्क्याह -- बाह्येत्यादि | अन्तर्मुखानामपि बाह्येन्द्रियाणां नैव बोधादि कर्तुं शक्यम् -- इत्यर्थः | यदि नाम हि बाह्येन्द्रियाणि बाह्यात् प्रत्यावृत्त्यान्तर्मुखतया संभूय बोधादि कुर्युः तच्छब्दाद्यालोचनावसरे बोधादेरपि उपलम्भो न स्यात् | एषां हि बहिरसंहतानां शब्दाद्यालोचनमिष्टम्, अन्तर्मुखतायां च संहतानां बोधादिकमिति कथमेतत् एकस्मिन्नेव काले भवेत्; दृश्यते च युगपदेतत्, इति न युक्तमुक्तं ᳚बाह्येन्द्रियाण्येव अन्तर्मुखानि सन्ति संभूय बोधादेः साधनम्᳚ इति | तदुक्तम् -- ᳚अन्तर्मुखगतानां च चित्ताद्यर्थं प्रकुर्वताम् | बाह्यार्थबुद्धिभिः साकं न स्युरिच्छादिकाः क्रियाः ||᳚ इति || २३६|| ननु चैतन्याविभागवर्त्ती प्राण एव बोधादि विदध्यादिति किमेभिरन्तः -- करणैः? -- इत्याशङ्क्याह -- प्राणश्च नान्तःकरणं जडत्वात् प्रेरणात्मनः | प्रयत्नेच्छाविबोधांशहेतुत्वादिति निश्चितम् || ९-२३७ || प्राणश्च जडत्वान्नान्तःकरणं भवेदिति निश्चितम् -- इति संबन्धः | ननु जडमपि वास्यादि कर्त्रा प्रेर्यमाणं करणं दृष्टम् ? -- इत्याशङ्क्योक्तम् � ᳚प्रेरणात्मनः प्रयत्नेच्छाविबोधांशहेतुत्वात्᳚ इति | प्रेर्यमाणं हि करणं प्रयत्नं विना न भवेत्, प्रयत्नश्चेच्छापूर्वकः, इच्छा च बोधपूर्विकेति प्राणस्यान्तःकरणत्वाभ्युपगमेऽपि बोधादिकार्योपपादकेन करणान्तरेण अवश्यभाव्यमिति किं बुद्ध्यादिभिरपराद्धम् | तदुक्तम् -- ᳚अन्येऽन्तःकरणं प्राणमिच्छन्ति व्यक्तचेतनम् | प्रयत्नेन विना सोऽस्ति तत्सिद्धौ करणं तु किम् ||᳚ इति || २३७ || नन्वन्तारूपत्वाविशेषात् एकमेवान्तःकरणमस्तु, किमस्य त्रैविध्येन? -- इत्याशङ्क्याह -- अवसायोऽभिमानश्च कल्पना चेति न क्रिया | एकरूपा ततस्त्रित्वं युक्तमन्तःकृतौ स्फुटम् || २३८ ||
SK
नैकरूपा क्रियेति स्यति-मन्यिति-कॢपीनां भिन्नत्वात् | अन्यव्यवच्छेदेनाभिमतस्य अवसायो हि एषामेकविषयत्वेऽपि विभिन्नं कार्यं भवेत् -- इति भावः | तदुक्तम् -- ᳚कलपिर्मतिः स्यतिश्चैव जाता भिन्नार्थवाचकाः | इच्छासंरम्भबोधार्थास्तेनान्तःकरणं त्रिधा ||᳚ इति || २३८ || नन्वसंविदितं तावत्करणं न स्यात्, बुद्धिश्च मनोऽहङ्कारवन्न संवेद्या इति कथमस्याः करणत्वं युज्यते? -- इत्याशङ्क्याह -- न च बुद्धिरसंवेद्या करणत्वान्मनो यथा | प्रधानवदसंवेद्यबुद्धिवादस्तदुज्झितः || ९-२३९ || ᳚असंवेद्यबुद्धिवादः᳚ इति सांख्याभ्युपगतः | अयं चात्र प्रयोगः -- बुद्धिः संवेद्या करणत्वात्, यत् करणं तत् संवेद्यं यथा मनः, यन्न संवेद्यं तन्न करणं यथा प्रधानम्, बुद्धिश्च करणम्; तस्मात् संवेद्या -- इति | संवेद्यत्वे च अस्या गुणान्वितत्वं हेतुः प्रधानेनानैकान्तिक इति ᳚तुल्ये गुणान्वितत्वे तु संवेद्यं चित्तमिष्यते | बुद्धिश्चापि ह्यसंवेद्या धन्या तार्किकता तव ||᳚ इत्याद्युपेक्ष्यम् || २३९ || ननु भवतु एवमन्तःकरणानाम्, बुद्धीन्द्रियाणां पुनर्मनोवदाहङ्कारिकत्वेऽपि नियतविषयत्वे किं निमित्तम् ? -- इत्याशङ्क्याह -- शब्दतन्मात्रहेतुत्वविशिष्टा या त्वहंकृतिः | सा श्रोत्रे करणं यावद् घ्रणे गन्धत्वभेदिता || ९-२४० || अहङ्कारस्य मनसि जन्ये हि अविशेषेण तन्मात्रकर्तृत्ववैशिष्ट्यं प्रयोजकम्, बुद्धीन्द्रियवर्गे तु नैयत्येन; येनैषां नियतविषयत्वं भवेत् | यदुक्तम् -- ᳚मनसि जन्ये सर्वतन्मात्रजननसामर्थ्ययुक्तः स जनकः, श्रोत्रे तु शब्दजननसामर्थ्यवि शिष्ट इति, यावत् घ्रणे गन्धजननयोग्यतायुक्तः |᳚ (तंषा. ८ आ.) इति | एवं चाहङ्कारिकत्वादेव एषां विषयेषु नियमो यच्छ्रेत्रं शब्दमेवैकं गृह्णाति न स्पर्शादि, त्वक् च स्पर्शमेवैकं नेतरत्, यावत् घ्रणं गन्धमेवैकमिति | यैः पुनः ङ चाप्यहंकृतो जन्म नियमे कारणं मम |᳚ इत्याद्युक्तम्, तदहङ्कारस्वरूपनिरूपणानभिज्ञत्वमेवैतेषाम् || २४० ||
SK
नन्वेषामन्यैर्ग्राह्यग्राहकभावे नियमान्यथानुपपत्त्या भौतिकत्वमुक्तम् | यदाहुः -- ᳚घ्रणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः |᳚ (न्या. सू. १|१|१२) इति | तेन पार्थिवत्वात् घ्रणं गन्धस्यैव ग्राहकं न रसादेर्यावदाकाशरूपत्वात् श्रोत्रं शब्दस्यैव ग्राहकं न स्पर्शादेरिति, अयुक्तं चैतत्? -- इत्याह -- भौतिकत्वमतोऽप्यस्तु नियमाद्विषयेष्वलम् | अतः -- तत्तद्वृत्तिविशिष्टाहङ्कारजन्यतयैव विषयनियमस्य सिद्धत्वात् हेतोः, एषां विषयेषु नियमात् यद्भौतिकत्वमपि अन्यैरुक्तं तदलमस्तु न किंचिदेतद्वाच्यम् -- इत्यर्थः | एवं हि उच्यमाने वायुरपि त्वगिन्द्रियग्राह्यः स्यात् तत्प्रकृतिकत्वात् तस्य; न चेष्यते भवद्भिः, वायोरग्राह्यत्वेनाभ्युपगमात्; द्वीन्द्रियग्राह्यं हि द्रव्यं दार्शनं स्पार्शनं च, वायुश्च द्रव्यमिति कथमेकेन्द्रियग्राह्यतामियात् | किं च त्वगिन्द्रियं पृथिव्यादिद्रव्यत्रितयं तद्गतांश्च यथोक्तलक्षणान् स्पर्शान्न गृह्णीयात् वायुप्रकृतिकत्वात् तस्य, प्रकृतिप्रक्रमेणैव च ग्राह्यग्राहकभावनियमस्योक्तत्वात् | एवं चक्षुरपि तेजोद्रव्यं तद्गतमेव च रूपं गृह्णीयात् न पृथिव्याद्यपि, तेजःप्रकृतित्वादस्य | एवं कर्मणि सामान्ये समवाये चेन्द्रियप्रत्यक्षत्वं न स्यात्, इन्द्रियाणां भौतिकत्वात्, एषां चातदात्मकत्वात् दृश्यते चैतत्सर्वम्; तस्मान्न भौतिकानीन्द्रियाणि -- इति वाच्यम् | यद्भोगकारिकाः -- ᳚चतुर्द्रव्यगतान् स्पर्शांश्चतुरो मरुतः क्रमात् | द्रव्याणां त्रितयं चैव गृह्णाति न च मारुतम् || त्रीणि द्रव्याणि चक्षुश्च तेषु रूपाणि चैव हि | अतो न नियमोऽक्षाणां विषयाणां च कल्पने || भौतिकत्वाच्च नियमे कर्मसामान्ययोः स्फुटम् | देवेभ्यो बुद्धयो न स्युः समवाये च देहिनः ||᳚ इति | ननु इन्द्रियाणां प्रकृतिनियमे विषयनियमाख्यां युक्तिमन्यथोपपादयता भवता भौतिकत्वं तावन्निरस्तम्; आहङ्कारिकत्वे पुनः का युक्तिः? -- इत्याशङ्क्याह -- अहं शृणोमि पश्यामि जिघ्रमीत्यादिसंविदि || ९-२४१ || अहंतानुगमादाहङ्कारिकत्वं स्फुटं स्थितम् |
SK
आदिशब्दात् स्पृशामि रसयामीति | स्फुटमिति -- स्वानुभवसिद्धमेव -- इत्यर्थः || २४१ || एषां चाहङ्कारिकत्वादेव करणत्वं घटते नान्यथा -- इत्याह -- करणत्वमतो युक्तं कर्त्रंशस्पृक्त्वयोगतः || ९-२४२ || कर्तुर्विभिन्नं करणं प्रेर्यत्वात् करणं कुतः | अतः आहङ्कारिकत्वात् अहंपरामर्शानुवेधात् कर्त्रंशस्पर्शित्वात् एषां करणत्वं युक्तम्; अन्यथा हि कर्तुश्चेत् विभिन्नं करणमिष्यते, तत् प्रेर्यत्वात् करणमेव कुतो भवेत्, अपि तु पेर्रणविषयत्वात् कर्म -- इत्यर्थः || २४२ || न च अकरणिका क्रिया भवेदिति तत्र करणान्तरमन्वेष्यम्; तच्च कर्तुर्विभिन्नत्वात् प्रेर्यमेवेति, तत्रान्यत् करणमित्यनवस्था स्यात् -- इत्याह -- करणान्तरवांछायां भवेत्तत्रानवस्थितिः || ९-२४३ || एवं हि देहादौ गृहीताभिमानः संकुचितः प्रमाता स्वयमेव स्वं वपुः पृथक्कृत्यैवाहन्तासंस्पर्शात् स्वाङ्गरूपमपि श्रोत्रादि शब्दादिविषयतया तदालोचनक्रियादौ साधनतां नयेत्, तदाह -- तस्मात् स्वातन्त्र्ययोगेन कर्ता स्वं भेदयन् वपुः | कर्मांशस्पर्शिनं स्वांशं करणीकुरुते स्वयम् || ९-२४४ || तस्मादिति -- कर्तुर्विभेदकरणत्वस्यानुपपन्नत्वात् | स्वातन्त्र्ययोगेनेति -- कर्तृतावशेन -- इत्यर्थः | कर्मांशस्पर्शिनमिति -- शब्दादिविषयसंबद्धम् -- इत्यर्थः | स्वांशमिति -- श्रोत्रादिरूपम् || २४४ || ननु यद्येवं तत् कथं ᳚कुठारेण छिनत्ति᳚ इत्यादौ कर्तुर्विभिन्नस्यापि कुठारादेः करणत्वं स्यात्? -- इत्याशङ्क्याह -- करणीकृततत्स्वांशतन्मयीभावनावशात् | करणीकुरुतेऽत्यन्तव्यतिरिक्तं कुठारवत् || २४५ || संकुचित एव हि प्रमाता करणीकृतेन तेन बुद्धिकर्मेन्द्रियाद्यात्मना स्वांशेन यत् तन्मयीभावनमविभागाभिमानः तन्महिम्ना व्यतिरिक्तहस्तादिकमपेक्ष्य अत्यन्तव्यतिरिक्तमपि कुठारादिकं करणीकुरुते, छिदिक्रियायां साधकतमतां नयेत् -- इत्यर्थः | एवं कर्तुः स्व एवांशः पृथक् कृतः इति मुख्यतया करणतामियादिति सिद्धम् || २४५ || तदाह �
SK
तेनाशुद्धैव विद्यास्य सामान्यं करणं पुरा | ज्ञप्तौ कृतौ तु सामान्यं कला करणमुच्यते || ९-२४६ || पुरेति पूर्वम् | विद्याकलयोरेव हि अनन्तरं बुद्धिकर्मेन्द्रियाद्यात्मा विशेषवपुःप्रसरः || २४६ || ननु कला सर्वत्र प्रयोजककर्तृत्वेनोक्ता इति कथमिहास्याः करणत्वेनाभिधानम् -- इत्याह -- ननु श्रीमन्मतङ्गादौ कलायाः कर्तृतोदिता | तस्यां सत्यां हि विद्याद्याः करणत्वार्हताजुषः || ९-२४७ || कर्तृप्रयुक्तानामेव हि करणादिभावो भवेत् -- इति भावः || २४७ || तदेव प्रतिविधत्ते -- उच्यते कर्तृतैवोक्ता करणत्वे प्रयोजिका | तया विना तु नान्येषां करणानां स्थितिर्यतः || ९-२४८ || ᳚करणत्व᳚ इति सतीत्यर्थः | ᳚प्रयोजिका᳚ इति मुख्या | करणत्वं पुनरस्या अमुख्यमित्यर्थसिद्धम् | कर्तृत्वस्यैव हि व्यतिरेकमुखेन मुख्यतायां हेतुः तया विनेत्यादि || २४८ || अस्याः प्रयोजककर्त्तृत्वाभिधानात् न करणवर्गान्तःपातः -- इत्याह -- अतोऽसामान्यकरणवर्गात् तत्र पृथक् कृता | पृथक्कृता इति करणत्वस्यामुख्यत्वात् || ननु यद्येवं तत्कथं विद्यावत् कर्त्रंशस्पर्शित्वात् कलाया अपि मुख्यं करणत्वमुक्तम् ? -- इत्याशङ्क्याह � विद्यां विना हि नान्येषां करणानां निजा स्थितिः || ९-२४९ || कलां विना न तस्याश्च कर्तृत्वे ज्ञातृता यतः | कलाविद्ये ततः पुंसो मुख्यं तत्करणं विदुः || ९-२५० || अन्येषामिति कर्तुः कथंचिद्विभिन्नानामन्तर्बहिष्करणानाम्; एषां हि कथंचिद्भेदेऽपि स्वांशरूपविद्याद्यविभागभावनया करणत्वं भवेत् -- इति भावः | तस्या विद्यायाश्च न निजा स्थितिरिति संबन्धः यतः कर्तृत्वे ज्ञातृता भवेत् | नहि कर्तृत्वं विना ज्ञानक्रियायामपि कर्तृत्वं भवेदिति भावः | तत इति विद्याया अपि करणत्वस्य कलाधीनत्वात् | यदधीनं हि अन्यस्य करणत्वं तस्यापि हस्ताधीनकरणभावदात्रादिवत् करणत्वं दृष्टम् || २५० || ननु चक्षुरादेरिव रूपादौ क्वानयोर्विवेकेन करणत्वं दृष्टम्? -- इत्याशङ्क्य प्रागुक्तं हेतुतया निर्दिशन्नाह �
SK
अत एव विहीनेऽपि बुद्धिकर्मेन्द्रियैः क्वचित् | अन्धे पङ्गौ रूपगतिप्रकाशो न न भासते || ९-२५१ || अत एव विद्याकलयोर्मुख्यकरणत्वात् क्वचित् काले कदाचित् -- इत्यर्थः | अन्ध इति पङ्गाविति च बुद्धिकर्मेन्द्रियहीनत्वोपलक्षणमेतत् | न न भासते अपितु भासते एव -- इत्यर्थः || २५१ || ननु यदि अन्धादीनामपि रूपादि भायात् तत् कृतं बुद्धिकर्मेन्द्रियैः ? -- इत्याशङ्क्याह -- किंतु सामान्यकरणबलाद्वेद्येऽपि तादृशि | तादृशि इति सामान्यरूपे एव -- इत्यर्थः || तदाह -- रूपसामान्य एवान्धः प्रतिपत्तिं प्रपद्यते || ९-२५२ || अन्धादीनामपि हि अस्माकमिव मेर्वपरपार्श्ववर्तिषु पदार्थेषु सामान्यात्मना रूपादौ प्रतिभासो भवेत्; अनुल्लिखितरूपादिप्रतिभासत्वे हि एषां बाह्यमर्थं प्रति प्रवृत्तिरेव न स्यात् || २५२ || एवमेतत् प्रसङ्गादभिधाय प्रकृतमेवाह -- तत एव त्वहङ्कारात् तन्मात्रस्पर्शिनोऽधिकम् | कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घिर् जज्ञिरे || ९-२५३ || ततस्त्रिस्कन्धतयोक्तादहङ्कारात् -- इत्यर्थः | ननु सत्त्वप्रधानेऽपि अहङ्कारे तन्मात्रस्पर्श उक्तः इति ततोऽस्य को विशेषः? -- इत्याशङ्क्योक्तम् -- अधिकं त्विति | ज्ञानदशायां हि उपक्रान्तोऽपि तत्स्पर्श इह क्रियाप्रधानतया कार्यपर्यन्तीभूतः -- इत्यर्थः | अनेन चास्य राजसत्वं प्रकाशितम् | तदुक्तम् -- ᳚वाणी पाणी भगः पायुः पादौ चेति रजोद्भवाः | कर्मान्वयाद्रजोभूयान् गर्वो वैकारिकोऽत्र यः ||᳚ इति | वक्ष्यति च � ᳚उक्त इन्द्रियवर्गोऽयमहङ्कारात् तु राजसात् |᳚ (९|२७१) इति || २५३ || अत्र च प्राग्वदेवाहङ्कारानुवेधात् आहङ्कारिकत्वं स्फुटयति -- वच्म्याददे त्यजाम्याशु विसृजामि व्रजामि च | इति याऽहंक्रिया कार्यक्षमा कर्मेन्द्रियं तु तत् || ९-२५४ || विसृजामीति विसर्गस्यानन्दफलत्वात् | ननु बुद्धीन्द्रियेष्वपि अहन्तानुवेधोऽस्ति, इति कस्तेभ्य एषां विशेषः? -- इत्याशङ्क्योक्तम् -- कार्यक्षमेति | एषां चाहंक्रियाकार्यत्वेऽपि सामानाधिकरण्यनिर्देशेऽयमाशयो यदधिष्ठानमात्रं नेन्द्रियमिति || २५४ || अत आह �
SK
तेन च्छिन्नकरस्यास्ति हस्तः कर्मेन्द्रियात्मकः | तेनेति कार्यक्षमाहंक्रियामयत्वेन हेतुना -- इत्यर्थः | अहंक्रिया च सर्वशरीराधिष्ठानेति तान्यपि तथेति सिद्धम् | यद्वक्ष्यति -- तस्मात् कर्मेन्द्रियाण्याहुस्त्वग्वद्व्याप्तॄणि मुख्यतः | तत्स्थाने वृत्तिमन्तीति................................ ||᳚ (९|२६०) इति | ᳚कर्मेन्द्रियात्मको हस्तः᳚ इति प्रत्यक्षाधिष्ठानातिरिक्तवृत्तिः कर्त्रंशतयाधिष्ठातृरूपः || ननु यद्येवं तत्कथं पञ्चाङ्गुलावेव पाणीन्द्रियतया व्यवहारः? -- इत्याशङ्क्याह -- तस्य प्रधानाधिष्ठानं परं पञ्चाङ्गुलिः करः || ९-२५५ || प्रधानेत्यनेन अप्रधानमपि अधिष्ठानान्तरमस्यास्तीत्यावेदितम् | अत एव छिन्नकरादेर्मुखादिनापि आदानं स्यात् || २५५ || ननु तिर्यगादीनां मुखेनापि आदानं संभवेत् किन्तु न तत् पाणीन्द्रियकरणकम्; आत्मनो हि भोगायतनं शरीरं तैस्तैः स्वावयवैरेव तत्तत्कर्मफलोपभोगं संपादयति? -- इत्याशङ्क्याह -- मुखेनापि यदादानं तत्र यत् करणं स्थितम् | स पाणिरेव, करणं विना किं संभवेत् क्रिया || ९-२५६ || तत्रेति आदानक्रियायां, स्थितमिति न तूक्तं मुखादि | अत्र हि तृतीयाश्रुत्या प्रकृत्यर्थनिवेशि करणत्वं वाच्यम् | प्रकृत्यर्थश्च मुखम् न च तस्य करणता युज्यते भौतिकतया कर्त्रंशस्पर्शशून्यत्वात् | न च कर्तुरत्यन्ताविभेदि करणं भवति इति समनन्तरमेवोपपादितम्; तेन तल्लक्षितं तदधिष्ठानमेव कर्त्रंशस्पर्शि किंचिदभ्युपेयं यत्र तृतीयार्थः करणत्वं पर्यवस्येत्, तच्च पाणीन्द्रियमित्युक्तम् -- श पाणिरेव᳚ इति | ततश्च अधिष्ठानमात्रपाण्याद्यभिप्रायम् ᳚रिषद्विहारादानादि दृष्टं लूनाङ्धिर्पाणिषु᳚ | (न्या. मं. ८ आ.) इत्यादि प्रलपितमेव परैः | ननु दृष्टं मुखादि कॢप्तम्, अदृष्टं तु करणं कल्प्यम् | ᳚कॢप्तकल्प्यविरोधे च कॢप्तः कॢप्तपरिग्रहः |᳚
SK
इति न्यायेन कॢप्तपरिग्रह एवात्र न्याय्यः इति किमेतदुक्तम्? -- इत्याशङ्क्योक्तम्, ᳚करणं विना किं संभवेत् क्रिया᳚ इति | मुखादि हि अवयवतया कॢप्तं न करणतया, नहि अस्य तथाभावो युज्यते इत्युक्तम् | अतश्चान्यदेव करणतया कल्प्यं यदकरणिका क्रिया न संभवेत् इति || २५६ || एवं हि बुद्धीन्द्रियकल्पनमपि अफलमेव भवेत् ? -- इत्याह -- तथाभावे तु बुद्ध्यक्षैरपि किं स्यात्प्रयोजनम् | तु-शब्दो हेतौ || ननु बुद्धिः करणापेक्षा इत्यादानाद्यपि करणापेक्षमिति किमिदं चाशेन पञ्चाशदिव साध्यते -- इत्याशङ्क्याह -- दर्शनं करणापेक्षं क्रियात्वादिति चोच्यते || ९-२५७ || परैर्गमौ तु करणं नेष्यते चेति विस्मयः | परैरिति नैयायिकादिभिः | यदाहुः -- ᳚गन्धाद्युपलब्धिक्रिया करणपूर्विका क्रियात्वात् छिदिक्रियावत् |᳚ इति | गमाविति पादेन्द्रियवृत्त्यात्मिकायां गमनक्रियायाम् -- इत्यर्थः | एतच्च आदानादेरपि उपलक्षणम् | विस्मय इति, एवं हि क्रियात्वस्य हेतोरनैकान्तिकत्वं स्यात् यदकरणपूर्विकापि गमिक्रिया भवेत् इति | अतश्च दर्शनक्रियायामपि करणपूर्वकत्वं न सिद्धयेत् इत्याश्चर्यमिदं नैयायिकस्य यदितः संधीयमानमितस्त्रुट्यति इति | इदं चास्य महाश्चर्यं यदेतद्दर्शने गमनादिकमेव पञ्चधा कर्म, ज्ञानादिरेव चात्मनो नवधा विशेषगुणाः | तत्र मुख्यक्रियायामपि गमौ न करणपूर्वकत्वम्, गुणात्मनो ज्ञानस्य च करणपूर्वकत्वमित्यपूर्वमभिधानमिति || २५७ || तदाह � गमनोत्क्षेपणादीनि मुख्यं कर्मोपलम्भनम् || ९-२५८ || पुनर्गुणः क्रिया त्वेषा वैयाकरणदर्शने | उपलम्भनमिति दर्शनात्म ज्ञानम् | यदुक्तम् -- ᳚उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनानि पञ्चैव कर्माणि |᳚ इति, ᳚बुद्धिसुखदुःखेच्छा-द्वेष-प्रयत्नधर्माधर्मभावनात्मानो विशेषगुणाः |᳚
SK
इति च | ननु जानातेर्धातोरर्थः क्रियैव ज्ञानं न गुणः -- इत्याह - - क्रिया त्वेषेत्यादि | वैयाकरणो हि एवमाचक्षाणो न दुष्यति, यस्य क्रियावचनो धातुरिति सामयिको नियमः | नैयायिकादेः पुनर्ज्ञानस्य गुणगणमध्यपाठात् कथमेवमभिधानं सङ्गच्छताम्; अतश्च एतदस्य स्ववचनविरुद्धमेव यद् गुणत्वेऽपि ज्ञानस्य क्रियात्वात् करणपूर्वकत्वमभ्युपेयते न क्रियात्वेऽपि गमनादाविति || २५८ || तदेवाह -- क्रिया करणपूर्वेति व्याप्त्या करणपूर्वकम् || ९-२५९ || ज्ञानं नादानमित्येतत् स्फुटमान्ध्यविजृम्भितम् | आन्ध्यविजृम्भितमिति पूर्वापरापरामर्शात्मा व्यामोहः -- इत्यर्थः || २५९ || ननु न वयं गमनादावकरणपूर्वकत्वमुपगच्छामः, किंतु नियतपादेन्द्रियादिकरणपूर्वकत्वं नेच्छामः यत् लूनाङ्घ्र्योऽपि जान्वादिना गच्छन्ति, उरगाश्चोरसापीति? -- तदाशङ्क्याह -- तस्मात् कर्मेन्द्रियाण्याहुस्त्वग्वद् व्याप्तॄणि मुख्यतः || ९-२६० || तत्स्थाने वृत्तिमन्तीति मतङ्गे गुरवो मम | तस्मात् यथोक्तयुक्त्या पादादेरधिष्ठानमात्रस्य पादादीन्द्रियत्वाभावात् हेतोः त्वगिन्द्रियवत् निखिलशरीरव्यापकानि कर्मेन्द्रियाणि आहङ्कारिकेन्द्रियवादिनः समाचख्युः; किंतु तस्मिन् पादादावधिष्ठानात्मनि स्थाने मुख्यतो वृत्तिमन्ति, येन सर्वेषां तत्रैव इन्द्रियत्वाभिमानः | वस्तुतः पुनः सकलमेवैषां शरीरमधिष्ठेयम् | अत एवैषां यत्र क्वचन कार्यदर्शनमविरुद्धम् | न चैतदस्माभिः स्वोपज्ञमित्युक्तम् -- ᳚मतङ्गे गुरवो मम᳚ इति | मतङ्गशास्त्रव्याख्यातारः श्रीमदनिरुद्धप्रभृतयः -- इत्यर्थः || २६० || ननु भवत्वेवं यत् गत्यादिकाः क्रियाः पादादिकरणपूर्वकत्वं विना न सिद्ध्यन्ति इति; पञ्चैव कर्मेन्द्रियाणि इति तु कुतोऽयं नियमो यदन्यान्यपि तान्यापतन्ति, निगरणादीणां कर्मान्तराणामपि भावात् | यदाहुः � ᳚कण्ठोऽन्ननिगरणेन स्तनकलशालिङ्गनादिना वक्षः | भारवहनेन चांसद्वयमिन्द्रियमुच्यते न कथम् ||᳚ (न्या. मं. ८ आ.)
SK
इति | तत् कण्ठादेरपि निगरणादिक्रियान्यथानुपपत्त्या कर्मेन्द्रियत्वं वाच्यम्, इत्यपरिनिष्ठितानि कर्मेन्द्रियाणि स्युरिति -- तदाह नन्वन्यान्यपि कर्माणि सन्ति भूयांसि तत्कृते || ९-२६१ || करणान्यपि वाच्यानि तथा चाक्षेष्वनिष्ठितिः | ननु किमिहानेनोक्तेन फलं यदन्यैरेवैतत् परिहृतमित्याह -- नन्वेतत् खेटपालाद्यैर्निराकारि न कर्मणाम् || ९-२६२ || यत्साधनम् तदक्षं स्यात् किन्तु कस्यापि कर्मणः | खेटपालाद्यैरिति श्रीमत्सद्योज्योतिःप्रभृतिभिः -- इत्यर्थः | यदाहुः -- ᳚आनन्दादिभिरेभिस्तु कर्मभिः परिभाषितैः | कर्मेन्द्रियाण्यतो नैषामानन्त्यं कर्मणां वशात् ||᳚ इति | एतदेव व्याचख्युरपि; न मयैतदुच्यते यत् कर्मसाधनम् तत्कर्मेन्द्रियमिति, अपि तु यान्येषामानन्दादीनां कर्मणां साधनानि तानि कर्मेन्द्रियाणीति || २६२ || न ह्येतदस्माकमावर्जकं साक्षात्समाधानम् -- इत्याह -- एतन्नास्मत्कृतप्रश्नतृष्णासन्तापशान्तये || ९-२६३ || नह्यस्वच्छमितप्रायैर्जलैस्तृप्यन्ति बर्हिणः | एतदस्माकं परकृतप्रश्नतृष्णासंतापं शमयितुं नालम् -- इत्यर्थः | एवं हि पराभिमतानि कर्मान्तराणि करणान्तराणि च सन्तीत्यभ्युपगतं भवतीति || २६३|| ननु यद्येवं तर्हि किमत्र प्रतिसमाधानं यद्भवादृशामावर्जकम् (स्यात् ?) -- इत्याह -- उच्यते श्रीमतादिष्टं शंभुनात्र ममोत्तरम् || ९-२६४ || स्वच्छसंवेदनोदारविकलाप्रबलीकृतम् | स्वच्छेत्यादिनास्य विशेषणद्वारेण स्वसंवेदनसिद्धत्वलक्षणो हेतुः || २६४ || तदाह � इह कर्मानुसन्धानभेदादेकं विभिद्यते || ९-२६५ || तत्रानुसंधिः पञ्चात्मा पञ्च कर्मेन्द्रियाण्यतः | तत्रेति कर्मभेदनिमित्तानुसन्धानभेदे सति -- इत्यर्थः | पञ्चात्मेति पञ्चप्रकारः | अत इत्यनुसंधानस्य पञ्चप्रकारत्वात् || २६५ || तत्रानुसन्धानभेदकृतं कर्मभेदं तावदाह -- त्यागायादानसंपत्त्यै द्वयाय द्वितयं विना || ९-२६६ || स्वरूपविश्रान्तिकृते चतुर्धा कर्म यद्बहिः | पायुपाण्यङ्घिर्जननं करणं तच्चतुर्विधम् || ९-२६७ ||
SK
अन्तः प्राणाश्रयं यत्तु कर्मात्र करणं हि वाक् | इह खलु सर्वस्यैव हेयहानायादेयादानाय तदुभयरूपाय तदुभयरूपतापरिहारेण स्वरूपविश्रान्तये च अनुसंधिश्चतुर्धा भिद्यते इति तन्निमित्तं कर्मापि तथा भवेत्; यत् यस्मादेवंविधं कर्म, तत् तस्मात् बहिः क्रमेण पायुपादपाणिप्रजननसंज्ञं चतुर्विधमेव करणं भवति -- इति संबन्धः | यद्यपि सर्वक्रियाणां संयोगविभागवत्त्वमस्ति, तथापि विशेषतो गतिक्रियाया -- ग्रामप्राप्त्यादिलक्षणैकफलोद्देशेन प्रवृत्तायां हि तस्यां तत्तद्देशत्यागपुरःसरीकारेण देशान्तरादानमेव रूपम् इति हानादानात्मकैककर्मविषयत्वं पादेन्द्रियस्य | अत एव द्वयायेत्युक्तम् | स्वरूपविश्रान्तिश्च अत्र निर्वृत्यपरपर्यायानन्दानुभवमात्ररूपतोच्यते | तत्र हि कथञ्चित् त्यागोपादानपूर्वकत्वेऽपि ᳚इदं हेयमिदमुपादेयम्᳚ इति क्षोभः प्रशाम्येत् | प्राणाश्रयमिति, वाचो हि प्राण एवाधिष्ठानमिति तमेवाधिकृत्य इयं वचनक्रियायां साधकतमतामियात्; त्यागादि चतुर्विधमपि कर्म लब्धसत्ताकस्य भवेत् | सिद्धमेव हि वस्तु त्यज्यते चोपादीयते च विश्रान्तिधामतयानुमीयते च | वचनात्मकं पुनः कर्म शब्दजनन एव व्याप्रियते, इत्यस्य पूर्वेभ्यो विशेषः | अत एव तुशब्दो व्यतिरेके | ननु प्राण एव विचित्रस्थानकरणसंयोगविभागाभ्यां विचित्रवर्णात्मकं शब्दं जनयेत् इति किं वागिन्द्रियेण स्यात् | यदाहुः -- ᳚वायुर्नाभेरुत्थित उरसि विस्तीर्णः कण्ठे विवर्तते मूर्धानमाहत्य परावृत्तो वक्त्रे चरन् विविधान् शब्दान् अभिव्यनक्ति |᳚ इति | नैतत्; एवं हि विचित्रवर्णात्मकः शब्दः सर्वकालमुञ्चरन्नेव भवेत् | नहि स कोऽपि कालक्षणोऽस्ति यत्र प्राणः तत्तद्विचित्रस्थानकरणसंयोगविभागभागी न प्रवहेत् | तस्मात् तदतिरिक्तेन वागिन्द्रियेण भाव्यम्, यदधिष्ठानात् प्राणः शब्दजन्मनि प्रभवेत्, इतरथा च नेति || २६७ || ननु बुद्धीन्द्रियाणामालोचनं वृत्तिरित्युक्तम्, कर्मेन्द्रियाणां का वृत्तिः? -- इत्याशङ्क्याह --
SK
उक्ताः समासतश्चैषां चित्राः कार्येषु वृत्तयः || ९-२६८ || चित्रा इति हानादानादिरूपत्वात् | समासत इति निखिलकर्मान्तरस्वीकारात्; नहि एतदतिरिक्तं कर्मान्तरं किञ्चि संभवेत् -- इति भावः | अत एव कर्मान्तराभावात् करणान्तरमपि न प्रकल्प्यम्, एतावतैव तत्स्वीकारसिद्धेः ||२६८|| तदाह � तदेतद्व्यतिरिक्तं हि न कर्म क्वापि दृश्यते | तत्कस्यार्थे प्रकल्प्येयमिन्द्रियाणामनिष्ठितिः || ९-२६९ || कस्यार्थ इति किमर्थम् -- इत्यर्थः || २६९ || नन्वेवं पञ्च कर्मेन्द्रियाणि, पञ्चैवैषां नियता हानाद्या वृत्तयः इत्युक्तम्, तदेषां पाणिना विहरणमपि पादेन चादानमपि इत्यन्योन्यस्य वृत्तिसाङ्कर्यं कुतस्त्यम् ? -- इत्याशङ्क्याह -- एतत्कर्तव्यचक्रं तदसाङ्कर्येण कुर्वते | अक्षाणि सहवृत्त्या तु बुद्ध्यन्ते सङ्करं जडाः || ९-२७० || तदेतदिति हानादानादि | असाङ्कर्येणेति; नहि विहरणं पाणिः करोति आदानं वा पादः किन्तु एकस्मिन्नेवाधिष्ठाने पादः पाणिश्च विहरणं चादानं च यथाक्रमं कुरुतः सर्वशरीरव्यापकत्वात् एषाम्, पञ्चाङ्गुलादेश्च शरीरावयस्य मुख्याधिष्ठानत्वात् | सहवृत्त्येति एकाधिष्ठानगतत्वेन -- इत्यर्थः | जडा इति अधिष्ठानाधिष्ठेयविभागमजानानाः -- इत्यर्थः | एवं हि चक्षुःश्रवसामेकस्मिन्नेव गोलके दर्शनश्रवणशक्तिसंभवात् वृत्तिसाङ्कर्येण बुद्धीन्द्रियाणामपि अभावो भवेत् || २७० || एवमक्षपादादिमतं प्रक्षिप्य स्वमतमेव उपसंहरति -- उक्त इन्द्रियवर्गोऽयमहङ्कारात् तु राजसात् | अयमिति प्रक्रान्तत्वात् कर्मेन्द्रियरूपः || एवमहङ्कारस्य सात्त्विकराजसतया प्रकृतिस्कन्धतामभिधाय तामसतयाप्याह -- तमःप्रधानाहङ्काराद् भोक्त्रंशच्छादनात्मनः || ९-२७१ || भूतादिनाम्नस्तन्मात्रपञ्चकं भूतकारणम् | ᳚भोक्त्रंशच्छादनात्मनः᳚ इति भोग्यांशस्योद्भूततया प्राधान्यात् | अस्य च भूतादिनामत्वे भूतकारणतन्मात्रकारणत्वं निमित्तम् -- इत्युक्तं भूतकारणमिति | उक्तं च -- ᳚शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः |
SK
गुणा विशिष्टास्तन्मात्रास्तन्मात्रपदयोजिताः || प्रकाशकर्मकृद्वर्गवैलक्षण्यात् तमोभवाः | प्रकाश्यत्वाच्च भूतादिरहङ्कारोऽत्र तामसः ||᳚ इति || २७१ || ननु कथमेतदुक्तम् यत् ᳚राजसादहङ्कारात् कर्मेन्द्रियवर्गो जातः᳚ इति | एवं हि सांख्याः प्रतिपन्नवन्तो यत् सात्त्विकादहङ्कारात् मनो(कर्म)बुद्धीन्द्रियवर्गः प्रवृत्तः, तामसात्तन्मात्रवर्गः, राजसात् पुनरुभयमिति | यदाहुः -- शात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् | भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ||᳚ (सां. २५ का.) इति | तदाह -- मनोबुद्ध्यक्षकर्माक्षवर्गस्तन्मात्रवर्गकः || २७२ || इत्यत्र राजसाहंकृद्योगः संश्लेषको द्वये | अत्र द्वये इति इन्द्रियैकादशके तन्मात्रपञ्चके च | संश्लेषक इति कार्यजननौन्मुख्यात्मसन्धानाधायकत्वात् | सात्त्विको ह्यहङ्कार इन्द्रियभावेन प्रवर्तमानो निष्क्रियत्वात् राजसं प्रवर्तकत्वेनाकाङ्क्षति, तामसोऽपि तन्मात्रभावेन प्रवर्तमान इति || २७२ || ननु किमनेन सैद्धान्तिकेन मतेनोपन्यस्तेन सांख्यमतेन वा, इह खलु श्रीपूर्वशास्त्रमधिकृत्य तात्त्विकस्य कार्यकारणभावस्य निरूपणं प्रक्रान्तम् | तत्र च ᳚तत्त्रिधा तैजसात् तस्मान्मनोऽक्षेशमजायत | वैकारिकात् ततोऽक्षाणि तन्मात्राणि तृतीयकात् ||᳚ (मा. १|३१) इत्युक्तम् -- एवमाशङ्कां गर्भीकृत्य तत्रैव व्याख्याभेदं तावत् दर्शयति -- अन्ये त्वाहुर्मनो जातं राजसाहंकृतेर्यतः || ९-२७३ || समस्तेन्द्रियसञ्चारचतुरं लघु वेगवत् | अन्ये तु सात्त्विकात् स्वान्तं बुद्धिकर्मेन्द्रियाणि तु || ९-२७४ || राजसाद् ग्राहकगार्ह्यभागस्पर्शीनि मन्वते | राजसाहंकृतेरिति तैजसशब्दाभिहितायाः | बाह्येन्द्रियाणि च मनोऽधिष्ठितान्येव स्वविषयेषु प्रवर्तितुमुत्सहन्ते इत्युक्तं ᳚लघु᳚ कृत्वा शमस्तेन्द्रियसञ्चारचतुरम्᳚ इति | अत एव सकलबाह्येन्द्रियाधिष्ठातृत्वात् इहाक्षेशम् -- इत्युक्तम् | यदभिप्रायेणैवान्यैः ᳚युगपज्ज्ञानानुपपत्तिर्मनसो लिङ्गम् |᳚ (न्या. सू. १|१|१६) इत्युक्तम् | ननु शुगन्धिं शीतलां दीर्घामश्नतः शुष्कशष्कुलीम् |
SK
कपिलब्रह्मणः सन्ति युगपत्पञ्चबुद्धयः ||᳚ इत्यादिभङ्ग्या युगपज्ज्ञानोत्पादोऽपि दृश्यते? इत्याशङ्क्योक्तम् � वेगवदिति, आशु सञ्चारि -- इत्यर्थः | तेनोत्पलदलशतसूचीव्यतिभेदन्यायेनात्र स्थितोऽपि क्रमो न विभाव्यते - - इति भावः | एवं चास्य क्रियावत्त्वाद्रजोगुणान्वयः -- इति युक्तमुक्तम् ᳚राजसाहंकृतेर्मनो जातम्᳚ इति | एवं पारिशेष्याद्वैकारिकशब्दाभिधेयात् सात्त्विकादहङ्कारात् बुद्धिकर्मेन्द्रियाणि -- इति सिद्धम् | सात्त्विकादिति तैजसशब्दाभिहितात् | तेजसो हि प्रकाशरूपत्वात् तथात्वम् -- इत्येवमुक्तम् | राजसादिति वैकारिकशब्दाभिहितात्, विशिष्टक्रियाप्राधान्याच्च अस्यैवमभिधानम् | अत एव तत्संश्लेषवत्त्वात् ᳚ग्राहकग्राह्यभागस्पर्शीनि᳚ -- इत्युक्तम् || २७४ || सैद्धान्तिकास्तु नैतदनुमन्यन्ते, -- इत्याह -- खेटपालास्तु मन्यन्ते कर्मेन्द्रियगणः स्फुटम् || ९-२७५ || राजसाहंकृतेर्जातो रजसः कर्मता यतः | राजसाहंकृतेरिति न पुनः सात्त्विकाहंकृतेः | कारणानुविधायित्वं हि नाम तत्कार्यत्वे नियामकम् | बुद्धीन्द्रियवर्गश्च प्रकाशकः कर्मेन्द्रियवर्गश्च कर्मकृत् -- इति तथानुरूपादेवाहङ्कारात् अनयोरुद्भवो न्याय्यः | यदुक्तम् � शमनोबुद्धिदेवानां गणो यस्मात् प्रकाशकः | तस्मात् स सात्त्विकाज्जातः स्वानुरूपादहंकृतः ||᳚ इति | ᳚राजसस्तैजसाद्वर्गः कर्माक्षाणां तु कर्मकृत् | जातः कार्यस्य येनेह कारणानुविधायिता ||᳚ इति च | अन्यथा पुनरेषां संभवे कॢप्ते सर्वविकारेषु कारणाव्यवस्था प्रसज्येत | एवं हि तन्मात्रवर्गस्यापि तस्मादेव कस्मान्न संभवो भवेत् तामसाद्वाहङ्कारात् वर्गद्वयस्यापीति | यदाहुः -- ᳚विनिवारयितुं शक्या नाव्यवस्था विकारगा | सात्त्विकात् संभवे कॢप्ते सात्त्वराजसवर्गयोः ||᳚ इति || २७५|| ननु आस्तामेतत् न वयमत्र विप्रतिपद्यामहे, ᳚चित्रो हि कार्यकारणभावः᳚ इत्युपपादितम् | श्रीपूर्वशास्त्रे पुनः किं न्याय्यमिति चिन्तनीयम् | तदधिकारेणैव हि तात्त्विकः कार्यकारणभावो निरूपयितुमुपक्रान्तः | अत आह --
SK
श्रीपूर्वशास्त्रे तु मनो राजसात् सात्त्विकात्पुनः || ९-२७६ || इन्द्रियाणि समस्तानि युक्तं चैतद्विभाति नः | श्रीपूर्वशास्त्रे पुनरेतदेव युक्तमस्माकं विभाति यन्मनो राजसादहङ्काराज्जातं बुद्धिकर्मेन्द्रियाणि तु सात्त्विकादिति | चोऽवधारणे भिन्नक्रमः || २७६ || युक्तत्वमेवात्रोपदर्शयति -- तथाहि बाह्यवृत्तीनामक्षाणां वृत्तिभासने || ९-२७७ || आलोचने शक्तिरन्तर्योजने मनसः पुनः | बाह्यवृत्तीनामक्षाणामिति, बाह्यानां चक्षुरादीनां दशानामिन्द्रियाणाम् -- इत्यर्थः | एषां चाविकल्पनिजवृत्तिभासनात्मन्यालोचनमात्र एव सामर्थ्यमित्युक्तम् ᳚वृत्तिभासने आलोचने शक्तिः᳚ -- इति | वस्त्विति पाठे तु तदधिगमात्मनि -- इत्यर्थः | इयांस्तु विशेषः यत् बुद्धीन्द्रियेष्वालोचनानुपाती वचनादिरूपः क्रियांशः परिस्फुरति स सर्व एव बुद्ध्यादिप्रमातृविश्रान्तिसतत्त्वो भेदाभेदमयसंबन्धमूलोऽन्तर्योजनात्मा मनसो व्यापारः, क्रिया हि बहिर्बहूनां क्रमिकाणां क्षणानामन्तःप्रमातृमयतयैकता नाम | न चाविकल्पदशायामेवंभावो भवेत्, एकैकस्मिन्नाभासक्षणेऽनुभवस्य वृत्तेः | तेन ᳚वच्म्यहम्᳚ इत्यादौ संभवतः प्रमातुः प्रथमविकल्पतया वचनादिविषयस्य शब्दादेः कर्त्रंशस्पर्शावरोहेण कार्यांशस्पर्शोद्रेकादीषत्परिस्फुरणं नाम कर्मेन्द्रियाणां मुख्यावृत्तिः, येनास्य मूकाद् वैलक्षण्यं स्यात्; वचनादिक्रिया तु वैकल्पिकतया मायाप्रमातुः मानस एव व्यापारः || २७७ || नन्वत्र किं प्रमाणम् -- इत्याशङ्क्याह -- उक्तं च गुरुणा कुर्यान्मनोऽनुव्यवसायि सत् || ९-२७८ || तद्द्वयालम्बना मातृव्यापारात्मक्रिया इति | गुरुणेति श्रीप्रत्यभिज्ञाकृता | यदुक्तं तत्र -- ᳚तद्द्वयालम्बना एता मनोऽनुव्यवसायि सत् | करोति मातृव्यापारमयीः कर्मादिकल्पनाः ||᳚ (रि.प्र. २|२|३)
SK
इति | मन एव हि कल्पनानन्तरं चक्षुरादिव्यवसितमपि अर्थमनुव्यवस्यन्निश्चयदशामधिशाययत् तदेकानेकरूपं द्वयमवलम्बमाना एताः क्रियादिकल्पनाः कुर्यात् एतावत्येव च मायाप्रमातुः प्रमातृत्वमित्युक्तम् -- ᳚मातृव्यापारात्म᳚ इति | ङिर्विकल्पदशायां हि सोऽयमैश्वरो भावः पशोरपि |᳚ इत्यादिनीत्या तत्तदर्थजातमभेदेनैव परिस्फुरेत् -- इति कथं भेदाभेदमयी लोकयात्रा निर्वहेत् || २७८ || तन्मात्राणि पुनरत्र भूतादेस्तामसादेवाहङ्कारात् -- इत्याह -- तन्मात्रस्तु गणो ध्वान्तप्रधानाया अहंकृतेः || ९-२७९ || ननु बुद्धिकर्मेन्द्रियवर्गद्वयवत् तन्मात्रोऽपि वर्गः सात्त्विकादेवाहङ्कारात् कथं नोदियात् ? इत्याशङ्क्याह -- अत्राविवादः सर्वस्य ग्राह्योपक्रम एव हि | नहि अत्र कश्चिद्विप्रतिपद्यते यत् वरणात्मनो ग्राह्यस्यायमुपक्रम इति | अत एवायं प्रकाश्यो न तु प्रकाशकः | तदस्य सात्त्विकादहङ्कारात् कथमुत्पत्तिः स्यात् | तदुक्तम् -- ᳚मात्रावर्गोऽप्यहङ्काराद्वर्गद्वयविलक्षणः | प्रकाश्यस्तामसस्तस्माज्जातो भूतादिसंज्ञितात् ||᳚ इति || २७९ || तन्मात्रवर्गमेव विभज्य दर्शयति -- पृथिव्यां सौरभान्यादिविचित्रे गन्धमण्डले || ९-२८० || यत्सामान्यं हि गन्धत्वं गन्धतन्मात्रनाम तत् | अन्यत् असौरभम् | आदिशब्दः प्रकारे | तेन तीव्रमन्दादेस्तत्प्रयुक्ततया घृतक्षतजादिसंबन्धिनश्च गन्धस्य ग्रहणम् | तदुक्तं भूपरीक्षायाम् -- ᳚घृतक्षतजपक्कान्नमदिरागन्धसंयुता |᳚ इति | विचित्र इति विशेषात्मनि -- इत्यर्थः | सामान्यमित्यविशेषः | अविशेषनिष्ठैरेव हि विशेषैर्भाव्यमिति भावः | अत एव चानुद्भिन्नविशेषतया स गन्धादिरेव केवलस्तन्मात्र इत्युक्तम् || २८० || तच्च सामान्यरूपत्वादेव अशेषविशेषान्वयात् व्यापि -- इत्याह -- व्यापकं तत एवोक्तं सहेतुत्वात्तु न ध्रुवम् || ९-२८१ || स्वकारणे तिरोभूतिर्ध्वंसो यत्तेन नाध्रुवम् |
SK
न चैतद्देशानवच्छिन्नत्वात् कालेनापि अनवच्छिन्नमित्युक्तं शहेतुत्वात्तु न ध्रुवम्᳚ इति | कृतकं हि न जातु नित्यं भवेत् -- इति भावः | एवमप्यन्ते विनाशदर्शनाभावात् नैतद्विनश्वरमित्युक्तम् -- ङाध्रुवम्᳚ इति | यस्मादस्मन्मते स्वस्मिन्नेव कारणे प्रलीनत्वं नाम नाशो, यदन्तर्विपरिवर्तिन एवार्थस्य बहिरवभासो नाम कार्यत्वम्, पुनस्तत्रैव विश्रान्तिर्नाश इति | तेन नैतत् कूटस्थनित्यम्, अपि तु परिणामिनित्यम् -- इति सिद्धम् || २८१ || एतदेवान्यत्रापि अतिदिशति -- एवं रसादिशब्दान्ततन्मात्रेष्वपि योजना || ९-२८२ || ननु किमेभिः परोक्षैरविशेषैः, विशेषा एव प्रत्यक्षा अभ्युपगम्यन्तां यद्वशादियं सकलैव लोकयात्रा सिध्येत् ? -- इत्याशङ्क्याह -- विशेषाणां यतोऽवश्यं दशा प्रागविशेषिणी | अवश्यमिति, कार्यापेक्षया हि कारणेन भाव्यम् -- इति भावः | एषामेव प्रकृतिरूपतां निरूपयति -- क्षुभितं शब्दतन्मात्रं चित्राकाराः श्रुतीर्दधत् || ९-२८३ || नभः शब्दोऽवकाशात्मा वाच्याध्याससहो यतः | तदेतत्स्पर्शतन्मात्रयोगात् प्रक्षोभमागतम् || ९-२८४ || वायुतामेति तेनात्र शब्दस्पर्शोभयात्मता | क्षुभितमिति कार्यजननोन्मुखम् -- इत्यर्थः | चित्राकारा विशेषरूपाः श्रुतीर्दधत्, -- इत्यनेनास्य शब्दैकगुणत्वमुक्तम् | ननु शब्द एव कथं नभो भवेदित्याशङ्क्योक्तम् -- ᳚शब्दः᳚ इत्यादि | यतः शब्दोऽवकाशात्मा अवकाशात्मत्वात् नभसोऽनुगुणं कारणम् -- इत्यर्थः | अवकाशात्मत्वेऽपि अस्य हेतुः ᳚वाच्याध्याससहः᳚ इति | तेन यथा शब्दः स्वात्मनि वाच्यस्य अध्याससहत्वादवकाशतां ददाति तथा तत्कार्यं आकाशोऽपि सर्वस्येति | तदिति शब्दतन्मात्रम् | तेनेति शब्दस्पर्शतन्मात्रकारणत्वेन हेतुना | ᳚शब्दस्पर्शोभयात्मता᳚ इति शब्दस्पर्शोभयगुणत्वम् -- इत्यर्थः || २८४ || नन्वन्यैराकाशैकगुणः शब्दः -- इत्युक्तम् | यदाहुः -- ᳚तत्राकाशस्य गुणाः शब्दसंख्यापरिमाणपृथक्त्वसंयोगविभागाः |᳚ इति | तत्कथमिह वायोरपि तद्गुणत्वमुच्यते ? -- इत्याशङ्क्याह --
SK
अन्ये त्वाहुर्ध्वनिः खैकगुणस्तदपि युज्यते || ९-२८५ || यतो वायुर्निजं रूपं लभते न विनाम्बरात् | उत्तरोत्तरभूतेषु पूर्वपूर्वस्थितिर्यतः || ९-२८६ || तत एव मरुद्व्योम्नोरवियोगो मिथः स्मृतः | तदिति शब्दस्याकाशगुणत्वम् यतो वायुरम्बरं विना निजं रूपमेव न लभते, तत्सहचरितस्वभाव एव -- इत्यर्थः | यदुत्तरोत्तरस्मिन् वाय्वादौ भूते पूर्वपूर्वस्याकाशादेः स्थितिरित्याकाशस्य वायोश्च परस्परमवियोगः स्मृत इति | तदुक्तम् -- ᳚अत एव स्पर्श एव वायुः तथा चोत्तरोत्तरस्य | पूर्वपूर्वभूतं कारणमाहुः............................ ||᳚ इति | अतश्च तत्सहचरितस्याकाशस्यैवायं मुख्यतया गुणः | वायोस्तु तत्साहचर्यादुपचरित इति || २८६ || शब्दस्पर्शौ तु रूपेण समं प्रक्षोभमागतौ || ९-२८७ || तेजस्तत्त्वं त्रिभिर्धर्मैः प्राहुः पूर्ववदेव तत् | तैस्त्रिभिः सरसैरापः सगन्धैर्भूरिति क्रमः || ९-२८८ || त्रिभिर्धर्मैरित्युपलक्षितम् | पूर्ववदिति, उत्तरोत्तरस्मिन् भूते पूर्वस्य पूर्वस्यावस्थानात् यथा वायावुपचरितः शब्दो गुणः, तथा तेजस्यपि शब्दस्पर्शौ उपचरितौ -- रूपं तु मुख्य इत्यर्थः | सगन्धैरिति, अर्थात् तैश्चतुर्भिः | तदुक्तम् -- ᳚क्षुभिताच्छब्दतन्मात्रात् तदध्यासावकाशदात् | आकाशं जातमेकेन गुणेनैवोपलक्षितम् || शब्दस्पर्शगुणाभ्यां तु क्षुभिताभ्यां समीरणः | गुणौ द्वावत एवास्य दृश्येते वीरवन्दिते || शब्दस्पर्शालोकगुणैः क्षुभितैरनलोद्भवः || त्रिगुणत्वमतस्तस्य प्रशंसन्ति त्रयीविदः | शब्दस्पर्शरूपरसैः क्षुभितैर्वारिसंभवः || चतस्रः शक्तयस्तेन वारिणो वरवर्णिनि | शब्दादिभिः पञ्चभिश्च क्षुभितैर्भूसमुद्भवः || तेन सर्वगुणा भूमिः सर्वदैव विभाव्यते ||᳚ इति || २८८ || ननु गन्धादिगुणग्राम एव प्रत्यक्षत उपलभ्यते न तु तदतिरिक्तवृत्ति किञ्चिद्धरादि, तथात्वे वा गुणगुणिनोः किंचिज्ज्ञातेयमभ्युपगन्तव्यम् ? -- इत्याशङ्क्याह -- तत्र प्रत्यक्षतः सिद्धो धरादिगुणसञ्चयः |
SK
गुणसञ्चय इति गन्धादिगुणव्राताभिन्नत्वात् तद्रूपः -- इत्यर्थः | तदुक्तम् -- ᳚इत्थं यथोक्तगन्धादिव्राताभिन्ना धरादयः | प्रत्यक्षसिद्धा लोकस्य..................... || इति | नहि धरादीनां तदतिरेकेणोपलम्भ एव भवेत् -- इति भावः || तदाह � नहि गन्धादिधर्मौघव्यतिरिक्ता विभाति भूः || २८९ || गन्धादीनामन्यतमस्य ग्रहे हि धरादिबुद्धिर्जायते नान्यथा � इति गन्धादिभ्यो धरादीनामव्यतिरिक्तत्वम्, यस्मिन्नगृहीते हि यत् गृह्यते तत्ततोऽन्यत् जलादिव भूः | तदुक्तम् -- ङागृहीतैस्तु गन्धाद्यैर्जातुचिज्जायते मतिः | धरित्र्या हि जलादीनामग्रहेऽपि प्रजायते || गन्धादिभ्यस्ततो नान्या जलादिभ्यः पृथक्च भूः |᳚ इति || २८९|| ननु गन्धादय एव चेद्धरा तद्धराया एकरूपत्वात् नैषां क्रमेणोपलम्भो भवेद् ? -- इत्याशङ्क्याह � यथा गुणगुणिद्वैतवादिनामेकमप्यदः | चित्रं रूपं पटे भाति क्रमाद्धर्मास्तथा भुवि || ९-२९० || इह खलु काणादादिषु गुणगुणिनोर्भेदेऽपि यथैकमपि शुक्लहरितनीलादिमयतया चित्रमिदं रूपं रूपाख्यो गुणो यथायथमुद्वेष्ट्यमाने गुणिनि पटे क्रमेणोपलभ्यते तथा धरादेरेकत्वादेकरूपा अपि गन्धादयो धर्मा धरादावस्मदादिभिः क्रमेणोपलभ्यन्ते इति न कश्चिद्दोषः | तदुक्तम् -- ᳚चित्रस्वभावकाः प्रोक्ता गुणाभिन्ना धरादयः | क्रमसंख्या यथा चित्रं पटे रूपं तु वेष्टिते ||᳚ इति || २९० || ननु विषममेतत्, विस्तृतपटादौ विचित्रस्यापि रूपस्य युगपदुपलम्भात्? -- इत्याशङ्क्याह -- यथा च विस्तृते वस्त्रे युगपद्भाति चित्रता | तथैव योगिनां धर्मसामस्त्येनावभाति भूः || ९-२९१ || धर्मसामस्त्येनेति, धर्मादीनां हि गन्धादीनां सामस्त्येन सहभावेन यौगपद्येनेति यावत् | पटस्य युगपत् चित्ररूपावभासे विस्तृतत्वं निमित्तम् इह तु धर्मसामस्त्यावभासे धरादिसिद्धानां योगिनां योगजधर्मातिशयात् पटुकरणत्वमिति || २९१ ||
SK
एवं योगिनां पटुकरणत्वम् अयोगिनां तदभावः � इत्युपायभेदादेव धरादौ गन्धादीनां क्रमेणोपलम्भः -- इति | नेदं चोद्यं यत् धरादीनामेकरूपत्वात् गन्धादीनां कथं क्रमेणोपलम्भः इति | तदाह � गन्धादिशब्दपर्यन्तचित्ररूपा धरा ततः | उपायभेदाद्भात्येषा क्रमाक्रमविभागतः || ९-२९२ || ननु यदि धरादेर्गन्धादेश्च रूपे न कश्चिद्भेदः संभवति तत् कथम् ᳚उपायभेदे तद्भाति यदि बुद्धिभिदा कुतः |᳚ इत्यादिनीत्या ᳚गन्धवती धरा᳚ इति विशेषणविशेष्यतया बुद्धिभेदो भवेत् ? -- इत्याशङ्क्याह - - तत एव क्रमव्यक्तिकृतो धीभेद उच्यते | षष्ठीप्रयोगो धीभेदाद्भेद्यभेदकता तथा || ९-२९३ || तत इति, यत उपायभेदेन क्रमाक्रमावभासः | षष्ठीप्रयोग इति, धराया गन्ध इति | भेद्यभेदकतेति विशेषणविशेष्यभावः ( विशेष्यविशेषण भावः इति पाठः समीचीनतरः) -- इत्यर्थः तद्यथा गन्धवती धरेत्यादि | तदुक्तम् -- ᳚विशेषणविशेष्यत्वव्यपदेशस्य धीभिदाम् | क्रमव्यङ्ग्यत्वतो हेतोर्गोचरत्वं व्रजन्त्यमी ||᳚ इति || २९३ || प्रकृतमेवोपसंहरति -- तेन धर्मातिरिक्तोऽत्र धर्मी नाम न कश्चन | तेनेति क्रमग्रहणस्य अन्यथासिद्धित्वेन हेतुना | तदेवं गन्धादिधर्मौघाव्यतिरिक्ता धरादयः -- इत्युक्तम्, ते च के कुत्र कियन्तः कीदृशाः पुनः ? -- इत्याशङ्क्याह -- तत्रानेकप्रकाराः स्युर्गन्धरूपरसाः क्षितौ || ९-२९४ || संस्पर्शः पाकजोऽनुष्णाशीतः शब्दो विचित्रकः | शौक्ल्यं माधुर्यशीतत्वे चित्राः शब्दाश्च वारिणि || ९-२९५ || शुक्लभास्वरतोष्णत्वं चित्राः शब्दाश्च पावके | अपाकजश्चाशीतोष्णो ध्वनिश्चित्रश्च मारुते || ९-२९६ || वर्णात्मको ध्वनिः शब्दप्रतिबिम्बान्यथाम्बरे | अनेकप्रकारा इति | तत्र गन्धो द्विविधः -- सुरभिरसुरभिश्च | रूपमनेकप्रकारं शुक्लपीतादि | रसः षड्विधो मधुरादिः | पाकज इति, देशकालादिद्रव्यान्तरसंयोगप्रभवत्वात् | तदुक्तम् -- श्पर्शोऽस्या अनुष्णाशीतत्वे सति पाकजः |᳚
SK
इति | विचित्रक इति, खटखटादिरूपत्वात् | शौक्ल्यादित्रयं रूपरसस्पर्शविषयम् | यदुक्तम् -- ᳚शुक्लमधुरशीता एव रूपरसस्पर्शाः |᳚ इति | चित्रा इति, छलछलादिरूपत्वात् | एवमुत्तरत्रापि धमधमचटचटादिरूपतया वैचित्र्यं ज्ञेयम् | शुक्लभास्वरतेति रूपे | तदुक्तम् -- ᳚तत्र शुक्लं भास्वरं च रूपमुष्ण एव स्पर्शः |᳚ इति | अपाकज इति | तदुक्तम् -- श्पर्शोऽस्यानुष्णाशीत्वे सति अपाकजः |᳚ इति | वर्णात्मक इति, वाचकशब्दमयः -- इत्यर्थः | प्रतिबिम्बानीति, तदुक्तम् -- ᳚प्रतिशब्दकसङ्घातो नभस्येवोदितो बुधैः |᳚ इति | नन्वन्यैरस्पर्शवदाकाशैकगुणत्वं शब्दस्य निरणायि | यदाहुः -- ᳚शब्दः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वादयावद्द्रव्यभावित्वात्, आश्रयात् अन्यत्रोपलब्धेश्च न स्पर्शवद्विशेषगुणः |᳚ इति | तत्कथमिह स्पर्शवतां क्षित्यादीनामपि गुणः शब्दः -- इत्युच्यते ? -- इत्याशङ्क्याह -- यत्तु न स्पर्शवद्धर्मः शब्द इत्यादि भण्यते || ९-२९७ || काणादैस्तत्स्वप्रतीतिविरुद्धं केन गृह्यताम् | स्वप्रतीतिविरुद्धमिति, अनुभवबाधितम् -- इत्यर्थः || २९७ || एतदेवोपपादयति � पटहे ध्वनिरित्येव भात्यबाधितमेव यत् || ९-२९८ || अतश्च आश्रयादन्यत्रास्य नोपलम्भः -- इति भावः || ननु पटहे ध्वनिरिति पटहहेतुत्वादन्यथा सिद्धोऽयमवभासः? -- इत्याशङ्क्याह -- न च हेतुत्वमात्रेण तदादानत्ववेदनात् | नहि अत्र पटहे सति ध्वनिरित्येतावतीयं प्रतिपत्तिरस्ति, अपि तु पटहदेशोऽयं ध्वनिरिति; अतश्च असिद्धोऽयं हेतुरिति भावः | ननु कथं निष्क्रियतया पटहदेशमप्राप्तवतः श्रोत्रस्य तद्देशस्थशब्दोपलम्भनिमित्तत्वं भवेत् -- इत्याशङ्क्याह � श्रोत्रं चास्मन्मतेऽहंकृत्कारणं तत्र तत्र तत् || ९-२९९ || वृत्तिभागीति तद्देशं शब्दं गृह्णात्यलं तथा |
SK
तदित्यहंकृत्कारणत्वाद्धेतोः, अहंकृतोऽपि रजोरूपत्वात् क्रियावत्त्वम्, इति तत्कार्यं श्रोत्रमपि क्रियावदित्युक्तं -- तत्र तत्र वृत्तिभागीति | तत्र तत्र विषयदेशे व्यापारभाक् क्रियावत् -- इत्यर्थः | अतश्च श्रोत्रं पटहदेशमपि शब्दं तथा तत्स्थेनैवालं पर्याप्तेन रूपेण गृह्णीयात् | इह खलु काणादा एवमूचुः यत् -- ᳚वीचीसन्तानक्रमेण कर्णशष्कुल्यवच्छिन्नं श्रोत्रतया संमतं नभोदेशं संप्राप्य संयोगवि भागप्रभवप्रथमशब्दप्रसूतः शब्दः स्वविषयं ज्ञानं जनयेत् |᳚ इति || २९९ || एतदेव प्रतिक्षेप्तुमनुवदति -- यस्त्वाह श्रोत्रमाकाशं कर्णसंयोगभेदितम् || ९-३०० || शब्दजः शब्द आगत्य शब्दबुद्धिं प्रसूयते | तस्य मन्देऽपि मुरजध्वनावाकर्णके सति || ९-३०१ || अमुत्र श्रुतिरेषेति दूरे संवेदनं कथम् | अतश्च ᳚आश्रयादन्यत्रास्योपलम्भः᳚ इति नायमसिद्धो हेतुः -- इत्याशयः | तस्यैवमभिधातुः काणादस्य मन्द इत्यन्त्यप्रायत्वात्, अपिना अस्यानाकर्णनयोग्यत्वं सूचितम् | अमुत्रेति मुरजदेशे यदि नाम हि श्रोत्रतया संमतं नभोदेशं प्राप्तः सन् अन्त्यप्रायः शब्दजः शब्दः प्रतीयेत तदिह श्रोत्रे शब्दः इति प्रतिपत्तिः स्यात्, न तु दूरतया मुरजदेशादाविति | ततश्च श्रवणाकाशसमवेतशब्दोपलम्भपक्षः स्वानुभवेनैव प्रतिक्षिप्तः - - इति भावः || ३०१ || अत्रैव हेतुमाह � नहि शब्दजशब्दस्य दूरादूररवोदितेः || ९-३०२ || श्रोत्राकाशगतस्यास्ति दूरादूरस्वभावता | नहि दूराददूराद्वा शब्दादुदितस्य शब्दस्य श्रोत्राकाशदेशसमवायाविशेषात् कारणवैदूर्यावैदूर्याभ्यां स्वात्मनि कश्चिदतिशयः || ३०२ || ननु मा भूत् श्रोत्रवृत्तितया शब्दजः शब्दो दूरप्रतीतिविषयः, प्रथम एव तु श्रोत्रपर्यन्तप्रसरणशीलो दूरदेशस्थतया तथा स्यात्? -- इत्याशङ्क्याह -- न चासौ प्रथमः शब्दस्तावद्व्यापीति युज्यते || ९-३०३ || तत्रस्थैः सह तीव्रात्मा श्रूयमाणस्त्वनेन तु | कथं श्रूयेत मन्दः सन्नहि धर्मान्तराश्रयः || ९-३०४ ||
SK
प्रथमः शब्द इति, दूरदेशस्थमुरजाद्युद्भूतः | एवं हि प्रथमोऽयं मुरजादिशब्दस्तद्देशसंनिकृष्टैः श्रोतृभिः तीव्रतया श्रूयमाणः कथमनेन दूरदेशस्थेन श्रोत्रा मन्दतया श्रूयते; नहि स तीव्र एव शब्दो मन्दत्वाख्यस्य धर्मान्तरस्यापि आश्रयः स्यात्, एकस्य विरुद्धधर्मायोगात् अतश्च स्वाश्रयमुरजादावेवास्योपलब्धिः -- इत्यसिद्ध एवायं हेतुः || ३०४ || ननु काणादैः शब्दस्य स्पर्शवद्धर्मतामपाकर्तुं हेतुत्रयमुपन्यस्तं तत् कथमेतदेकेनैव हेतुना पराकृतेन पराकृतं स्यात्, अन्यस्य हेतुद्वयस्याविकलस्यैव भावात् ? -- इत्याशङ्क्याह -- एतच्चान्यैरपाकारि बहुधेति वृथा पुनः | नायस्तं पतिताघातदाने को हि न पण्डितः || ९-३०५ || अन्यैरिति ज्योत्स्नाकारादिभिः | ते हि एवमाहुः यत् परैः संयोगस्य स्पर्शवद्गुणत्वेऽपि अकारणगुणपूर्वकतैव प्रत्यपादि अन्यथा हि कार्यद्रव्येषु संयोगज एव संयोगः स्यात्, कारणसंयोगपूर्वकत्वादेव कार्यसंयोगस्य | ततश्चान्यतरोभयकर्मजः संयोगः स्थाणुश्येनयोः श्येनो वा न स्यात् | नच संयोगो यावद्द्रव्यं भवति, सत्येव द्रव्ये विभागोत्पत्तौ तन्निवृत्तेः | अतश्च द्वयोरपि हेत्वोः संयोगेनानैकान्तिकत्वम्, प्रत्युत संयोगमेव दृष्टान्तीकृत्य अकारणगुणपूर्वकत्वायावदद्रव्यभावित्वाभ्यां स्पर्शवद्गुणत्वसाधने साधनविपर्ययसाधनाद्विरुद्धम् | पिठरपाकपक्षे च घटपाकजरूपादिभिः स्फुटतरमनैकान्तिकत्वम् अकारणगुणपूर्वकत्वं च परं प्रत्यसिद्धं च शब्दगुणादेवोपादानात्, शब्दगुणस्य कार्यस्योत्पादोपगमात् अयावद्द्रव्यभावित्वमपि तथा यावद्द्रव्यमेव शङ्खादौ शब्दस्य भावात् कथं न श्रूयते -- इति चेत्? -- अनभिव्यक्तत्वादिति ब्रूमः | यदनभिव्यक्तशब्दकादभिव्यक्तशब्दः परिणामोऽन्य एवेति | तस्मात् स्पर्शास्पर्शवतोरुभयोरपि धर्मः शब्द इति | वृथेति, तत एवावधार्यमिति भावः || ३०५ || एवं शिवादेर्धरान्तस्य तत्त्वजातस्य क्रमं निरूप्य व्याप्यव्यापकभावं दर्शयति --
SK
अमीषां तु धरादीनां यावांस्तत्त्वगणः पुरा | गुणाधिकतया तिष्ठन् व्याप्ता तावान् प्रकाशते || ९-३०६ || पुरेति, यो यस्य पूर्वभावी -- इत्यर्थः | इह खलु तत्त्वानां षट्त्रिंशत्त्वेऽपि मुख्यया वृत्त्या नरशक्तिशिवात्मकत्वेन त्रैविध्यं | तेषां प्रकाशमयचिद्धर्मताख्यो गुणो यथायथमधिकतया स्फुटीभवन् विशिष्यते -- इति यो यतो विशिष्टगुणः स तस्य व्यापको यथा शक्तेः शिवः शिवशक्ती च नरस्येति | यदभिप्रायेणैव ᳚मायासदेशपर्यन्तमात्मविद्याशिवाह्वयम् | तत्त्वत्रयं यथापूर्वं चिन्मयत्वप्रकाशभाक् ||᳚ इत्याद्यन्यैरुक्तम् | एवं च यद्यपि नरात्मके मायादौ तत्त्वजाते चिद्धर्मतात्मनो गुणस्याविशिष्टमेव न्यूनत्वं तथापि एषामवरोहक्रमेण वेद्यताया यथायथं स्थौल्यातिशयात्मगुणोऽपि आरोहक्रमेण तारतम्यात् विशेषः -- इत्युक्तम् | गुणाधिकतया तिष्ठन् यावान् पूर्वभावी तत्त्वगुणस्तावान् अमीषां धरादीनां तत्त्वानां व्यापकः, यथा धराया जलं तस्यापि तेजः -- इत्यादि || ३०६ || नन्वग्निधूमवत् कारणं कार्याव्यभिचारितया तद्व्यापकम्, कार्यं च तदव्यभिचारितया व्याप्यम्; अथवा तिरस्करिणीतिरोहितनटवत् सूक्ष्मं व्याप्यम्, स्थूलं च व्यापकम् -- इति किमत्र गुणाधिक्यकथनेन ? -- इत्याशङ्क्याह � व्याप्यव्यापकता यैषा तत्त्वानां दर्शिता किल | सा गुणाधिक्यतः सिद्धा न हेतुत्वान्न लाघवात् || ९-३०७ || किलेति आगमे || ३०७ || एतदेव हेतुत्वस्य लाघवस्य व्यभिचारं दर्शयन्नुपपादयति -- अहेतुनापि रागो हि व्याप्तो विद्यादिना स्फुटम् | अहेतुनेति, विद्यारागयोः ᳚अव्यक्तरागविद्याः कलासमुत्थाः᳚ इत्याद्युक्त्या कलातः सहैव समुत्पत्तेः | ननु अकारणं च व्यापकं चेति विप्रतिषिद्धमेतत् ? -- इत्याशङ्क्याह -- तद्विना न भवेद्यत्तद् व्याप्तमित्युच्यते यतः || ९-३०८ || न लाघवं च नामास्ति किञ्चिदत्र स्वदर्शने | गुणाधिक्यादतो ज्ञेया व्याप्यव्यापकता स्फुटा || ९-३०९ ||
SK
न भवेदिति, आभास्यतां न यायात् -- इत्यर्थः | नहि आभासवादे विनाभासमन्यत् किञ्चि भावानां सत्तावेदकं प्रमाणं संभवेत् -- इति भावः | अतश्चेह यदनुग्रहं विना यन्न भासते तत्तद्व्याप्यमित्युक्तम्, इतरच्च तद्व्यापकमिति | अत्र स्वदर्शने इति, संविदद्वैतमात्रसतत्त्वे त्रिकशास्त्रे -- इत्यर्थः | नहि परां संविदमधिकृत्य स्थूलं सूक्ष्मं वा किंचिदस्ति -- इत्यभिप्रायः | अत इति हेतुत्वस्य लाघवस्य च व्याप्यव्यापकतायां निमित्तत्त्वानुपपत्तेः || ३०९ || ननु श्रीपूर्वशास्त्रे गुणाधिक्यादूर्ध्वाधरभावमात्रमेवोक्तं न व्याप्यव्यापकत्वम् -- इति किमेतदुच्यते ? -- इत्याशङ्क्याह � यो हि यस्माद् गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते | ऊर्ध्वता व्याप्तृता श्रीमन्मालिनीविजये स्फुटा || ९-३१० || नहि एवमादावूर्ध्वत्वं देशकृतं कालकृतं वा विवक्षितं किं तु चिद्धर्मत्वतारतम्याद् गुणोत्कर्षः, तदेव च व्यापकत्वमित्युक्तम् -- ऊर्ध्वता व्याप्तृतेति || ३१० || एवमियता पर्यवसितमित्याह -- अतः शिवत्वात्प्रभृति प्रकाशता स्वरूपमादाय निजात्मनि ध्रुवम् | समस्ततत्त्वावलिधर्मसञ्चयै रविभाति भूर्व्याप्तृतया स्थितैरलम् || ३११ || अतो गुणप्रकर्षप्रयुक्तात् व्याप्यव्यापकभावात् हेतोः, शिवात्प्रभृति स्वात्मनि चिद्धर्मताख्यगुणप्रकर्षमादाय समस्तानां तत्त्वानां संबन्धिभिः संग्रहपर्यन्तैः धर्माणां सञ्चयैर्निश्चितमेव पूर्णेन रूपेण व्याप्तृतया स्थितैर्भूर्भाति समस्ततत्त्वव्याप्या -- इत्यर्थः || ३११ || एतदेवान्यत्रापि अतिदिशति -- एवं जलादेरपि शक्तितत्त्वपर्यन्तधाम्नो वपुरस्ति तादृक् | तादृगिति, पूर्वपूवैस्तत्त्वैर्व्याप्यम् -- इति भावः || ननु व्याप्यव्यापकभावेऽपि एषां को विशेषः ? -- इत्याशङ्क्याह -- किं तूत्तरं शक्तितयैव तत्त्वं पूर्वं तु तद्धर्मतयेति भेदः || ९- ३१२ ||
SK
उत्तरमिति धरादि | पूर्वमिति जलादि | तद्धर्मतयेति स धर्मो यस्येति शक्तिमद्रूपतया -- इत्यर्थः | तेन धरातत्त्वं शक्तिरूपम्, जलतत्त्वं तु शक्तिमद्रूपम्; सधरं च जलतत्त्वं शक्तिः, तेजस्तत्त्वं तु शक्तिमत् | यावत् शक्तितत्त्वं शक्तिः शिवस्तु शक्तिमान् येन ᳚पञ्चत्रिंशत्तत्त्वी शिवनाथस्यैव शक्तिरुक्तेयम् |᳚ इत्याद्यन्यैरुक्तम् || ३१२ || एतच्चान्यत्र वैतत्येनोक्तमिति तत एवावधार्यम् -- इत्याह -- अनुत्तरप्रक्रियायां वैतत्येन प्रदर्शितम् | एतत् तस्मात् ततः पश्येद्विस्तरार्थी विवेचकः || ९-३१३ || अनुत्तरप्रक्रियायामिति श्रीपरात्रीशिकाविवरणादौ -- इत्यर्थः || ३१३ || एतदेव श्लोकस्य प्रथमार्धेनोपसंहरति -- इति तत्त्वस्वरूपस्य कृतं सम्यक् प्रकाशनम् || ९-३१४ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके तत्त्वप्रकाशनं नाम नवममाह्निकम् || ९ || सम्यगिति अनेनात्र भोगकारिकादिभ्यो वैलक्षण्यं कटाक्षितमिति शिवम् || शङ्करनन्दनसद्योज्योतिर्देवबलकणभुगादिमतम् | प्रत्याख्यास्यन्नवमं व्याचख्यावाह्निकं जयरथाख्यः || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते तत्त्वप्रकाशनं नाम नवममाह्निकं समाप्तम् || ९ || दशममाह्निकम् ᳚ विवेक ᳚ तत्तत्तत्त्वविभेदनसमुद्यतोद्द्योतिनिशितशूलकरः | जयति अपरं जयमूर्तिः संसारपराजयस्फूर्तिः || $$$$$इदानीमेषामेव तत्त्वानां द्वितीयार्धेन पाञ्चदश्यादिभेदमभिधातुं प्रतिजानीते उच्यते त्रिकशास्त्रैकरहस्यं तत्त्वभेदनम् || १०-१ || तदेवाह � तेषाममीषां तत्त्वानां स्ववर्गेष्वनुगामिनाम् | भेदान्तरमपि प्रोक्तं शास्त्रेऽत्र श्रीत्रिकाभिधे || १०-२ || भेदान्तरमपि पाञ्चदश्यादिलक्षणमपि-इति पूर्वापेक्षया | ᳚श्रीत्रिकाभिधे शास्त्रे᳚ इति श्रीमालिनीविजयोत्तरे | तदुक्तं तत्र -- ᳚अथैषामेव तत्त्वानां धरादीनामनुक्रमात् | प्रपञ्चः कथ्यते लेशात्................. || (मा. वि. २|१) इत्यादि
SK
᳚शिवः साक्षान्न भिद्यते |᳚ (मा. वि. २|७) इत्यन्तम् || २ || तदेवाह � शक्तिमच्छक्तिभेदेन धराद्यं मूलपश्चिमम् | भिद्यते पञ्चदशधा स्वरूपेण सहानरात् || १०-३ || कलान्तं भेदयुग्घीनं रुद्रवत्प्रलयाकलः | तद्वन्माया च नवधा ज्ञाकलाः सप्तधा पुनः || १०-४ || मन्त्रास्तदीशाः पाञ्चध्ये मन्त्रेशपतयस्त्रिधा | शिवो न भिद्यते स्वैकप्रकाशघनचिन्मयः || १०-५ || ᳚शक्तिमच्छक्तिभेदेन᳚ इति शक्तिमतां शक्तीनां च वक्ष्यमाणस्वरूपाणां शिवादीनामिच्छादीनां च भेदेन प्रत्येकं सप्तधात्वे चतुर्दशात्मना प्रकारेण -- इत्यर्थः| मूलपश्चिममिति प्रधानान्तं तत्त्वचतुर्विंशकमिति-अर्थः | स्वरूपेणेति स्वं रूपं मातृमानाद्यनुपरक्तं बहीरूपतया परिदृश्यमानजडस्वभावं यथा पृथिव्या गन्धादिगुणोत्कटम्| यद्वक्ष्यति -- ᳚तत्र स्वरूपं भूमेर्यत्पृथग्जडमवस्थितम् | मातृमानाद्युपधिभिरसञ्जातोपरागकम् ||᳚᳚ (१०|८) इति | आ नरादिति पुंस्तत्वादारभ्य कलान्तं तत्त्वषट्कम् -- इत्यर्थः | भेदयुग्घीनमिति भेदयुग्मरहितं त्रयोदशविधमिति यावत् | इह यद्यपि सर्वं सर्वात्मकमिति सर्वत्र पञ्चदशात्मकत्वमेव न्याय्यं तथाप्यधराधरतत्त्वक्रोडीकारेण प्रतितत्त्वं प्राक् पूर्णेन रूपेण परसंवित्समुल्लसेत् येनोत्तरोत्तरत्र पूर्वपूर्वस्थितिरव्यभिचारेण भवेत्, अन्यथा हि -- ᳚यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते |᳚ (तं. ८|३) इत्याद्युक्तयुत्त्या धरादेस्तत्त्वजातस्य सत्तैव न स्फुरेत् | उत्तरोत्तरं पुनस्तत्त्वजातं पूर्वपूर्वस्मिन्रूपे विलीनं सत् क्रमेण संविद्येव विश्राम्येत् यथायथं तस्या एवोद्रेकात्, अत एव संविद्विश्रान्तत्वान्न तत्पृथग्भोगं दातुमलम्, -- इति तदीयं भेदद्वयं न्यूनतामियात्, येनात्र सशक्तिकस्य प्रलयाकलादेः षट्कस्य प्रमातृत्वात् सकलस्य च सशक्तिकस्य स्वरूपीभूतत्वात् त्रयोदशविधत्वमेव स्यात् | यदुक्तम् -- ᳚विश्वात्मके हि विश्वस्मिन् या संविदवलोकयेत् | निजवीर्यमहास्फारं समवष्टम्भयोगतः ||
SK
विशिष्टकार्यसंपत्त्यै प्राक्तत्रोदेति सा हठात् | अधराधरतत्त्वेषु स्थिता पूर्वस्थितिर्यतः || अन्यथा स्थितिरेवैषां न भवेत्पूर्वहानितः | पूर्वस्वरूपे त्वधरं विलीनं तत्त्वजालकम् || भोगाय नालमित्येवं न्यूनत्वं तत्र भेदगम् |᳚ इति | सशक्तिकश्च सकलः स्वरूपीभूतः सन् स्वरूपमेव न तथा भिन्द्यात् | भेदो हि प्रतियोगिनमधिकृत्य परत्र भेदसङ्कलनां विदध्यात्, यथा-इदं मेयम्, इदं मानम्, अयं माता-इति | मेयस्य पुनर्मेयता स्वात्मनि न कश्चिद् भेदः | एवं स्वरूपस्य स्वात्मनि भेदाभावात् युक्तमुक्तं क्रमेण भेदद्वयह्रास इति | यदुक्तम् � ᳚भेदा हि न स्वरूपं भिन्दन्त्यपि तु भेदसङ्कलनाम् | अन्यत्र प्रतियोगिनि विदधति हि परत्र तेन तदभावात् || ङिजगतभेदद्वितयीनिरास उक्तः क्रमेणेह | परिपूर्णे शिवतत्त्वे भेदाभावादभेद्यता तेन ||᳚ इति | रुद्रवदिति रुद्रशब्देन लक्षितामेकादशसंख्यामर्हतीति वत्यन्तम् | प्रलयाकल इत्यर्थात्स्वरूपीभूतः | एवमुत्तरत्र विज्ञानाकलादावपि ज्ञेयम् | अत एवात्र विज्ञानाकलादीनां पञ्चानामेव प्रमातृत्वं येनैकादशविधत्वम् | मायेति तात्स्थ्याद् द्वितीयोऽपवेद्यः प्रलयाकल उच्यते, तेन सोऽप्येकादशविध एव -- इत्यर्थः | नवधेति सशक्तीनां चतुर्णां मन्त्रादीनां प्रमातृत्वात् | सप्तधेति सशक्तिकस्य मन्त्रेश्वरादेस्त्रयस्य प्रमातृत्वात् | तदीशाः मन्त्रेश्वराः | पाञ्चध्ये इति मन्त्रमहेश्वरशिवयोरेव सशक्तिकयोः प्रमातृत्वात् | त्रिधेति शिवस्यैव सशक्तिकस्य प्रमातृत्वात् | शिवस्य भेदाभावे हेतुः श्वैकप्रकाशघनचिन्मयः᳚ इति | भेदो हि प्रतियोग्यपेक्षः, न च परं प्रकाशमपेक्ष्य अन्यः कश्चित्प्रतियोगी संभवेदिति समनन्तरमेवोक्तमित्यास्तामेतत् | उक्तं च -- ᳚शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते | स्वरूपसहितं तच्च विज्ञेयं दशपञ्चधा ||᳚ (मा. वि. २|२) इति | ᳚एवं जलादिमूलान्तं तत्त्वव्रातमिदं महत् | पृथग्भेदैरिमैर्भिन्नं विज्ञेयं तत्फलेप्सुभिः ||
SK
अनेनैव विधानेन पुंस्तत्त्वात्कलान्तकम् | त्रयोदशविधं ज्ञेयं रूद्रवत्प्रलयाकलः || तद्वन्मायापि विज्ञेया नवधा ज्ञानकेवलाः | मन्त्राः सप्तविधास्तद्वत्पञ्चधा मन्त्रनायकाः || त्रिधा मन्त्रेश्वरेशानाः शिवः साक्षान्न भिद्यते |᳚ (मा. वि. २|७) इति च || ३-५ || ननु के ते ᳚शक्तिमच्छक्तिभेदेन᳚ इत्यासूत्रिताः शक्तयः शक्तिमन्तश्च येन भुवः पञ्चदशात्मकत्वं स्यात् ? -- इत्याशङ्क्याह -- शिवो मन्त्रमहेशेशमन्त्रा अकलयुक्कली | शक्तिमन्तः सप्त तथा शक्तयस्तच्चतुर्दश || १०-६ || स्वं स्वरूपं पञ्चदशं तद्भू पञ्चदशात्मिका | ईशा मन्त्रेश्वराः, अकलयुग्विज्ञानाकलप्रलयाकलौ, कली सकलः, शक्तय इत्यर्थात् शिवादिसंबन्धिन्य इच्छाद्याः सप्त | तदुक्तम् -- ᳚शिवादिसकलात्मान्ताः शक्तिमन्तः प्रकीर्तिताः | तच्छक्तयश्च विज्ञेयास्तद्वदेव विचक्षणैः ||᳚ (मा. वि. २|३) इति | स्वं स्वरूपमिति अर्थात्पृथिव्यादेः || ६ || नन्वस्मद्दर्शने नरशक्तिशिवात्मकमेव विश्वमिति सर्वत्रोद्धोष्यते, तत्कथमिह सिद्धान्तदर्शनादिसमुचितं प्रमातृभेदमवलम्ब्यैतदुक्तम् ? -- इत्याशङ्कां गर्भीकृत्यैतदुपपादयति -- तथाहि तिस्त्रो देवस्य शक्तयो वर्णिताः पुरा || १०-७ || ता एव मातृमानमेयत्रैरूप्येण व्यवस्थिताः | त्रैरूप्यमेव वर्णयति -- परांशो मातृरूपोऽत्र प्रमाणांशः परापरः || १०-८ || मेयोऽपरः शक्तिमांश्च शक्तिः स्वं रूपमित्यदः | अद इति वाक्यार्थपरामर्शः, तेन मातृरूपः परांशः शक्तिमान्, प्रमाणरूपः परापरांशः शक्तिर्मेयरूपोऽपरांशः स्वरूपमिति | यत्पुनः शक्तिमतां शक्तीनां च सप्तविधत्वमुक्तं तदवान्तरप्रकारप्रायमित्यत्र मौलं नरशक्तिशिवात्मकत्वमेव स्थितमिति न कश्चिद्दोषः || ८ || एवमेषां शक्तिमदादीनां मध्यात्स्वरूपं तावत्प्रथमं लक्षयति - - तत्र स्वरूपं भूमेर्यत्पृथग्जडमवस्थितम् || १०-९ || मातृमानाद्युपधिभिरसञ्जातोपरागकम् | असञ्जातोपरागकमिति, तदुपरक्तत्वे हि शक्तिमदादिरूपत्वमेव स्यात् -- इत्याशयः || ९ ||
SK
एवमस्यैकध्येऽपि अवान्तरचतुर्दशभिन्नत्वे शक्तिमन्तः शक्तयश्च निमित्तम् -- इत्याह -- सकलादिशिवान्तैस्तु मातृभिर्वेद्यतास्य या || १०-१० || शक्तिमद्भिरनुद्भूतशक्तिभिः सप्त तद्भिदः | सकलादिशिवान्तानां शक्तिषूद्रेचितात्मसु || १०-११ || वेद्यताजनिताः सप्त भेदा इति चतुर्दश | अनुद्भूतशक्तिभिरित्यनेनात्र शक्तिमतां प्राधान्यं कटाक्षितम् | उद्रेचितात्मस्वित्यनेन तु शक्तीनाम् | वस्तुतो हि शक्तितद्वतोः परस्परमवियोग एव, किन्तु प्राधान्यमेव प्रयोजकीकृत्य तथाव्यपदेशो यदयं शक्तिमान् इयं शक्तिरिति || ननु सकलादिप्रमातृसप्तकं सर्वत्र प्रसिद्धमित्यास्तां को दोषः, तच्छक्तयस्तु न क्वचिदपि परिपठिताः, इति कास्ताः ? -- इत्याशङ्क्याह -- सकलस्य प्रमाणांशो योऽसौ विद्याकलात्मकः || १०-१२ || सामान्यात्मा स शक्तित्वे गणितो न तु तद्भिदः | लयाकलस्य मानांशः स एव परमस्फुटः || १०-१३ || ज्ञानाकलस्य मानं तु गलद्विद्याकलावृति | अशुद्धविद्याकलनाध्वंससंस्कारसङ्गता || १०-१४ || प्रबुभुत्सुः शुद्धविद्या मन्त्राणां करणं भवेत् | प्रबुद्धा शुद्धविद्या तु तत्संस्कारेण सङ्गता || १०-१५ || मानं मन्त्रेश्वराणां स्यात्तत्संस्कारविवर्जिता | मानं मन्त्रमहेशानां करणं शक्तिरुच्यते || १०-१६ || स्वातन्त्र्यमात्रसद्भावा या त्विच्छा शक्तिरैश्वरी | शिवस्य सैव करणं तया वेत्ति करोति च || १०-१७ || सामान्यात्मेति विद्याकलाभ्यामेव बुद्धिकर्मेन्द्रियलक्षणस्य विशेषात्मनः प्रसरस्य संग्रहात्, अत एवोक्तं ङतु तद्भिदः᳚ इति | एवं हि तत्तद्व्यापारभेदादनन्ताः शक्तयो भवेयुः इति भावः | उक्तं च प्राक् � ᳚तेनाशुद्धैव विद्यास्य सामान्यं करणं पुरा | ज्ञप्तौ कृतौ तु सामान्यं कला करणमुच्यते ||᳚ (तं. ९|२४४)
SK
इति | स एवेति विद्याकलात्मकः, परमस्फुट इति, इयान्विशेषः, स हि प्रसुप्तभुजगप्रायः -- इत्यभिप्रायः | गलदिति गलन्त्यौ विनाशोन्मुखे - - इत्यर्थः | प्रबुभुत्सुरिति न तु प्रबुद्धा, एवं ह्यशुद्धविद्याकलाध्वंससंस्कारसङ्गमोऽस्या न स्यात् | प्रबुद्धत्वे हि अशुद्धविद्याकलाध्वंससंस्कारस्यापि नश्यदवस्थात्मना संस्कारेणास्याः सङ्गमो भवेत् | अत उक्तं ᳚तत्संस्कारेण सङ्गता᳚ इति | तत्संस्कारविवर्जितेति, तेन नश्यदवस्थात्मनापि संस्कारेण विवर्जिता प्रनष्टतत्संस्कारा -- इत्यर्थः | नहि इदानीमशुद्धविद्यादेर्गन्धमात्रमपि संभवेत्-इति भावः | मानमित्यर्थाच्छुद्धविद्या, मानमेव च करणमिति शक्तिरिति च तत्र तत्र व्यपदिश्यते, -- इत्युक्तं ᳚करणं शक्तिरुच्यते᳚ इति | स्वातन्त्र्यमात्रसद्भावेति, तदुक्तं प्राक् � ᳚एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते | तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः ||᳚ (तं.१|६७) इति | अत एवैश्वरीत्युक्तम्, तया वेत्ति करोति चेति सर्वशेषः, यत्सकलोऽपि अशुद्धविद्याकलात्मिकयैव शक्त्या वेत्ति करोति चेति, एवमन्यज्ज्ञेयम् ||१२-१७|| एवं प्रसङ्गात्सकलादिशक्तीनां स्वरूपमभिधाय प्रकृतमेवाह -- आ शिवात्सकलान्तं ये मातारः सप्त ते द्विधा | न्यग्भूतोद्रिक्तशक्तित्वात्तद्भेदो वेद्यभेदकः || १०-१८ || ननु प्रमातृभेदाद्यदि वेद्यस्यापि भेदो भवेत् तदनेकेषु प्रमातृषु एकमेव नीलं विदितं न स्यादपितु भिन्नभिन्नम्, न चैवमस्ति, नहि तत्तद्देशकालावस्थाप्रमातृभेदेऽपि नीलस्य स्वात्मनि कश्चिद्विशेषः संलक्ष्यते ? -- इत्याशङ्कां गर्भीकृत्यैतदेवोपपादयति -- तथाहि वेद्यता नाम भावस्यैव निजं वपुः | अनेन चानुजोद्देशोद्दिष्टस्य वस्तुधर्माख्यस्य प्रमेयस्यासूत्रणं कृतम् || नन्वसिद्धेयं प्रतिज्ञा नहि नीलज्ञाने नीलस्य कश्चिद्विशेषः, अपितु प्रमातुः, तस्य पूर्वमज्ञत्वेऽनन्तरं ज्ञत्वोत्पत्तेः, यदपि ᳚प्रत्यक्षतां परोक्षोऽपि प्रत्यक्षोऽपि परोक्षताम् | देशकालादिभेदेन विषयः प्रतिपद्यते ||᳚
SK
इत्याद्युक्त्या विषयस्य प्रत्यक्षत्वं परोक्षत्वं वा धर्म उच्यते तदपि प्रमात्रतिशयाभिप्रायमेव? -- इत्याशङ्क्यात्रैव हेतुमाचष्टे -- चैत्रेण वेद्यं वेद्मीति किं ह्यत्र प्रतिभासताम् || १०-१९ || नीलं वेद्मीत्यत्र केवलनीलप्रथायां वेद्यताया विषयधर्मत्वं मा विज्ञायि, चैत्रेण वेद्यं नीलं वेद्मीत्यस्यां तु प्रथायां किं नीलमात्रं प्रथते किमुत चैत्रवेद्यताविशिष्टं नीलमिति | तत्राद्ये नीलं वेद्मि चैत्रवेद्यं नीलं वेद्मीत्यनयोः प्रतीत्योरविशेषः स्यात्, न चैवम्, अनुभवविरोधात् | द्वितीये तु चैत्रवेद्यता नीलस्य किं स्वगता विशेषणमुत प्रमातृगता, न तावत्प्रमातृगता व्यधिकरणयोर्भिन्नकक्ष्यत्वेन विशेषणविशेष्यभावायोगात्, स्वगतत्वे तु सिद्धः प्रतिज्ञार्थो ᳚वेद्यता भावस्य निजं वपुः᳚ इति || १९ || ननु व्यधिकरणत्वेऽपि ज्ञातोऽर्थ इति तथा प्रतीतेरस्तु विशेषणविशेष्यभावः, चैत्रेण वेद्यं नीलं वेद्मीत्यस्यां हि प्रथायां चैत्रेण ज्ञातमर्थं जानामीत्युक्तं भवेत्, ज्ञानं च प्रमातुरेवातिशयो न प्रमेयस्येत्युक्तप्रायं, तदाह -- ननु चैत्रीयविज्ञानमात्रमत्र प्रकाशते | वेद्यताख्यस्तु नो धर्मो भाति भावस्य नीलवत् || १०-२० || अत्रेति नीलादौ विषये || २० || ननु ज्ञानं नाम क्रिया, सा च फलानुमेया, फलं च प्रकटताख्यं विषयधर्मः सैव च वेद्यता? -- इति कौमारिलं मतमाशङ्क्य प्रतिक्षिपति -- वेद्यता च स्वभावेन धर्मो भावस्य चेत्ततः | सर्वान्प्रत्येव वेद्यः स्याद् घटनीलादिधर्मवत् || १०-२१ || घटनीलादीति भावप्रधानो निर्देशः | एवं हि भावस्य घटत्वं संनिवेशो नीलत्वं रूपम्, आदिग्रहणात्कार्यत्वकारणत्वादीत्येवमादयो धर्मा यथा सर्वान्प्रत्यविशिष्टास्तथा वेद्यताख्यो धर्मो भवेदित्यन्धाद्यभावः प्रसज्येत सर्वे च सर्वज्ञाः स्युः || २१ ||
SK
ननु नियतप्रमातृबुद्धिजन्यत्वात्कञ्चिदेव प्रति वेद्यत्वं स्यात् न सर्वान्प्रति, इति चैन्मैवम्, एवमपि हि यथा कुविन्दजन्यः पटो न तमेव प्रति, सर्वाविशेषात् तथा वेद्यतापि सर्वाविशेषेणैव भवेत्, न तु येन जन्यते तं प्रत्येवेति नियमो युक्तस्तदाह -- अथ वेदकसंवित्तिबलाद्वेद्यत्वधर्मभाक् | भावस्तथापि दोषोऽसौ कुविन्दकृतवस्त्रवत् || १०-२२ || दोषोऽसाविति सर्वान्प्रति तथा स्यादिति | अपेक्षाबुद्धिजन्यत्वे वेद्यत्वस्येव वेदकत्वस्यापि तथाभावो भवेत् वेद्यवेदकयोरन्योन्यापेक्षत्वात्, न चैतदस्ति, वेदकस्येव वेद्यस्याचैतन्येन बुद्ध्ययोगात्; अतश्च स्थूलतया द्वित्वादिवदपेक्षाबुद्धिजन्यत्वमनाशङ्क्य भङ्ग्यन्तरेण तत्प्रतिसमाहितम् | यदि च नाम भावस्य नीलत्वादिवद्वेद्यताख्योऽपि धर्मो भवेत् तत्किमसौ वेद्यो न वा? अवेद्यत्वे न किञ्चित्स्यात्, नहि संविदमनारूढं वस्तु वस्तुत्वं लभते -- इत्युक्तमन्यत्र बहुशः, अथ वेद्यस्तु तस्यापि नीलत्वादिवद्वेद्यत्वेन भाव्यमन्यथा ह्यविदित एव स्यात्; एवं च तत्राप्यन्यद्वेद्यत्वं तत्राप्यन्यदिति मूलक्षतिकारिणी व्यक्तमनवस्था स्यात्, येन कस्यचिदप्यर्थस्य वेद्यता न घटेतेति मूर्छितप्रायं विश्वं पर्यवस्येत् | तदाह -- वेद्यताख्यस्तु यो धर्मः सोऽवेद्यश्चेत्खपुष्पवत् | वेद्यश्चेदस्ति तत्रापि वेद्यतेत्यनवस्थितिः || १०-२३ || ततो न किञ्चिद्वेद्यं स्यान्मूर्छितं तु जगद्भवेत् | ननु तत्तन्नियतोपाधिवशाद्यथा ज्ञानस्य तत्तदर्थप्रकाशकं रूपं येन ᳚इदं नीलज्ञानमिदं पीतज्ञानम्᳚ इति प्रतिकर्म नियमः स्यात्, तथा भावस्यापि प्रतिनियतप्रमात्रुपाध्युपस्कृतमेव रूपमुच्यतां येन संबन्धिनियमः सिद्ध्येत् अयं चैत्रस्यैव वेद्योऽयं मैत्रस्य चेति | तदाह -- ननु विज्ञात्रुपाध्यंशोपस्कृतं वपुरुच्यताम् || १०-२४ || भावस्यार्थप्रकाशात्म यथा ज्ञानमिदं त्वसत् |
SK
उपाध्यंशेति विज्ञातृणामानैक्यात्, नचैतद्युक्तम्; एवं हि बाह्यस्यार्थस्य तत्तन्नियतोपाध्युपस्कृतरूपत्वात् ज्ञानवद्भेदः प्रसज्येत, चैत्रवेद्योऽन्योऽन्यश्च मैत्रवेद्योऽर्थ इति | नहि तदेव नीलज्ञानं भूत्वा पीतज्ञानं भवितुमर्हति, न चैतदिष्टं वः, सर्वस्यार्थस्य बहिरेकत्वेनैव सत्त्वाभ्युपगमात् | एवं च किमयमेकप्रमातृवेद्यतोपरक्त उत सर्वप्रमातृवेद्यतोपरक्तः ? तत्रैकप्रमातृवेद्यतोपरक्तत्वेनान्यस्य प्रमातुरसाववेद्यः स्यात्, अनेकप्रमातृवेद्यत्वोपरक्तत्वेऽपि एकैकध्येन न कस्यचिदपीति सर्वात्मना मूर्छितमेव जगद्भवेत् || २४ || तदाह � एकविज्ञातृवेद्यत्वे न ज्ञात्रन्तरवेद्यता || १०-२५ || समस्तज्ञातृवेद्यत्वे नैकविज्ञातृवेद्यता | अतो न वेद्यत्वं नाम भावस्य किञ्चित् -- इत्याह -- तस्मान्न वेद्यता नाम भावधर्मोऽस्ति कश्चन || १०-२६ || ननु यद्येवं तर्हि भावः कथं विदिक्रियाकर्मतामियात् ? -- इत्याशङ्क्याह -- भावस्य वेद्यता सैव संविदो यः समुद्भवः | नन्वन्या संविदन्यश्चार्थस्तत्कथमन्यस्य समुद्भवेऽन्यस्य वेद्यताख्योऽतिशयः, नहि घटस्योदये पटस्य किञ्चित्स्यात्, संविच्चात्मनामविशिष्टा, -- इति तत्समुद्भवः सर्वेषामप्यविशेषेणैव भवेदिति संबन्धिनियमोऽपि न सिद्ध्येत् ? -- इत्याशङ्क्याह -- अर्थग्रहणरूपं हि यत्र विज्ञानमात्मनि || १०-२७ || समवैति प्रकाश्योऽर्थस्तं प्रत्येषैव वेद्यता | इह खलु ज्ञानस्यार्थजन्यत्वादर्थविषयत्वं जनकत्वस्य चक्षुरादिभिरविशेषेऽपि वस्तुस्वाभाव्याद्विषयत्वनियमो येन ᳚इदं नीलग्रहणमिदं पीतग्रहणम्᳚ इति स्यात्, तच्चैवंविधं दृष्टादृष्टात्मविशिष्टसामग्रीबलात् यत्र प्रत्यगात्मनि अयुतसिद्धतया वर्तते तमेव प्रति सोऽर्थः प्रकाश्यमानो भवेत्, एषैव चार्थस्य वेद्यतोच्यत इति न कश्चिद्दोषः || २७ || एतदेव प्रतिविधत्ते -- अत्र ब्रूमः पदार्थानां न धर्मो यदि वेद्यता || १०-२८ || अवेद्या एव ते संस्युर्ज्ञाने सत्यपि वर्णिते |
SK
अर्थग्रहणरूपेऽप्यात्मसमवेते ज्ञाने सति-इत्यर्थः | एवमपि ह्यर्थस्य न किञ्चित्, नहि ज्ञानार्थयोरेकरूपत्वमेकाधिकरणत्वं वा, ग्राह्यग्राहकात्मतयाऽनयोः स्वरूपभेदात्, ज्ञानस्य चार्थग्रहणात्मकत्वेऽपि ज्ञातृसमवेतत्वात्, यदभिप्रायमेव च ᳚..................परावस्था हि भासनम्᳚ | इत्याद्यन्यैरुक्तम् | न चान्यस्यातिशयेऽन्यस्य किञ्चित्स्यात्, अथार्थजन्यत्वात् ज्ञानमर्थस्य प्रकाश इति चेत्? -- नैतत्, नहि यो यज्जन्यः स तस्य प्रकाशो भवति वह्नेरिव धूमः स परं तद्गतो लिङ्गं भवेत् | यद्यविनाभावो निश्चीयेत, न चेह तन्निश्चयोऽस्ति विनाप्यर्थं भ्रन्त्यादौ तत्प्रकाशात्मनो ज्ञानस्योदयात्, अतश्च युक्तमुक्तम् -- ᳚अवेद्या एव पदार्थाः स्युः᳚ इति || २८ || एतदेव दृष्टान्तोपदर्शनद्वारेण द्रढयति -- यथाहि पृथुबुध्नादिरूपे कुम्भस्य सत्यपि || १०-२९ || अतदात्मा पटो नैति पृथुबुध्नादिरूपताम् | तथा सत्यपि विज्ञाने विज्ञातृसमवायिनि || १०-३० || अवेद्यधर्मका भावाः कथं वेद्यत्वमाप्नुयुः | यथा खलु घटस्य पृथुबुध्नोदराकारत्वमस्ति इत्यातानवितानवत्त्वात् अपृथु बुध्नोदराकारः पटस्ताद्रूप्यं न यायात्, तथा ज्ञातृसमवायिन्यर्थप्रकाशात्मकेऽपि ज्ञाने स्वयमप्रकाशरूपा भावा नैव प्रकाशमाना भवेयुः-इति वाक्यार्थः || ३० || एवं न केवलं भवन्मतेऽर्थ एव न प्रकाशते यावन्न किञ्चिदपीति महद्दूषणान्तरमप्यापतेत् -- इत्याह -- अनर्थः सुमहांश्चैष दृश्यतां वस्तु यत्स्वयम् || १०-३१ || प्रकाशात्म न तत्संविच्चाप्रकाशा तदाश्रयः | अप्रकाशो मनोदीपचक्षुरादि तथैव तत् || १०-३२ || किं तत्प्रकाशतां नाम सुप्ते जगति सर्वतः | इह बाह्यं निमित्तकारणं वस्तु तावदप्रकाशात्मकमिति नास्ति विवादः, एतद्विषयं कार्यं ज्ञानमप्यप्रकाशात्मकमेव विषयप्रकाशकाले तत्प्रकाशस्याप्रकाशनात् | नहि विषयग्रहणकाले तज्ज्ञानस्य ग्रहणमस्ति ज्ञानार्थयोर्युगपदप्रतिभासात् | तदाहुः -- ङ वै युगपदाकारद्वितयं प्रतिभासते |
SK
इदं ज्ञानमयं चार्थ इति भेदानुपग्रहात् ||᳚ इति | तदाश्रयश्च समवायिकारणमात्मा विषयवन्निमित्तकारणतया विवक्षितं सहकारिभूतं मनश्चक्षुराद्यन्तःकरणचक्रमपि अप्रकाशात्मकमेव नित्यपरोक्षत्वात्, दीपश्च निमित्तकारणभूतो यद्यपि भवन्मते परस्येव स्वस्यापि प्रकाशकस्तथाप्यविदित एवासौ तथा न भवेत्, वेद्यत्वमेव च विचारयितुमुपक्रान्तमित्यर्थवदस्यापि वार्तेत्येवमुक्तम् | अतश्चार्थप्रकाशने समग्रैव सामग्रीयमप्रकाशरूपैवेति न किञ्चिदपि प्रकाशेतेति सर्वमिदमन्धं स्यात् | आत्ममनसोश्च पारोक्ष्यात् तत्संयोगोऽपि असमवायिकारणमप्रकाश एवेति गतार्थत्वात् पृथगत्र नोक्तः || ननु प्रदीपस्येव ज्ञानस्यार्थप्रकाशकत्वमेव रूपं तत्कस्येदं चोद्यम् ᳚अर्थप्रकाशात्मके ज्ञाने सत्यपि नार्थः प्रकाशते᳚ इति, अपर्यनुयोज्यो हि भावानां स्वभावः | तदाह -- ज्ञानस्यार्थप्रकाशत्वं ननु रूपं प्रदीपवत् || १०-३३ || इह चैत्रो जीवति इति यथा चैत्रस्यैव जीवनाख्योऽतिशयो न परस्य तथा ᳚अर्थः प्रकाशते᳚ इत्यर्थस्यैव कश्चिदतिशयो न ज्ञानस्येत्याशयेनैतदेवोपहासपुरःसरं सदसदनेकपक्षोट्टङ्कनक्रमेण समाधत्ते -- अपूर्वमत्र विदितं नरीनृत्यामहे ततः | अर्थप्रकाशो ज्ञानस्य यद्रूपं तन्निरूप्यताम् || १०-३४ || अर्थः प्रकाशश्चेद्रूपमर्थो वा ज्ञानमेव वा | अथार्थस्य प्रकाशो यस्तदूर्पमिति भण्यते || १०-३५ || यन्नामेदमुच्यते ज्ञानस्यार्थप्रकाशो रूपमिति तत्र कोऽर्थ इति विचार्यताम्, किमर्थश्चासौ प्रकाशश्चेति समानाधिकरण्यम्, अथार्थश्च प्रकाशश्चेति समुच्चय आहोस्विदर्थस्य प्रकाश इति संम्बन्धमात्रम् || ३५ || तत्र संभवमात्रेणाशंकितमप्याद्यं पक्षद्वयं परस्यानभिप्रेतमित्यप्रतिक्षिप्य तृतीयमेव पक्षं प्रतिक्षेप्तुं विभजति -- षष्ठी कर्तरि चेदुक्तो दोषः एव दुरुद्धरः | अथ कर्मणि षष्ठ्येषा ण्यर्थस्तत्र हृदि स्थितः || १०-३६ ||
SK
यदि नामार्थस्य प्रकाशनक्रियायां कर्तृत्वं तत्कथं ज्ञानस्यैवमतिशयः, नह्यन्यस्यातिशयेऽन्यस्य किञ्चिदित्युक्तं बहुशः | तत् ᳚यथा हि पृथुबुध्नादिरूपे कुम्भस्य सत्यपि᳚ (१०|२९श्लो.) इत्यादिनोक्तः परस्य पररूपोपग्रहात्मा दुरुद्धरो दोषः प्रसज्येत | अथ प्रकाशनक्रियायामर्थस्य कर्मत्वं तर्ह्यणावकर्मकस्य णौ कर्मोत्पत्तेः ᳚ज्ञानमर्थं प्रकाशयति᳚ इति सिद्धः प्रेषणाध्येषणादिविलक्षणस्तत्समर्थाचरणलक्षणः प्रयोज्यप्रयोजकव्यापारभावः || ३६ || एवं च प्रयोजकव्यापारस्य प्रयोज्यव्यापारनिष्ठत्वात् प्रकाशमान एवार्थो ज्ञानेन प्रकाशते इति, तच्च न युक्तं स्वयं प्रकाशमानस्यार्थस्य प्रयोजकव्यापारानपेक्षणे ज्ञानोपयोगवैयर्थ्यात् | अथाप्रकाशमान एवार्थः खपुष्पादिवैलक्षण्येन योग्यतया प्रकाशमान इति सव्यापार इति प्रयोज्य इति चोच्यते तदप्ययुक्तमेव, स्वयमप्रकाशमानस्याश्वेतप्रासादस्याश्वेतनवत्परोपयोगेऽपि प्रकाशनासामर्थ्यात् | योग्यता च प्रकाशाप्रकाशरूपतया निरूप्यमाणा पुनरप्यसामर्थ्यवैयर्थ्ये नातिक्रामतीत्यर्थस्य प्रकाशो ज्ञानस्य रूपमित्येतदसमीचीनम् | तदाह -- तथा चेदं दर्शयामः किं प्रकाशः प्रकाशते | अप्रकाशोऽपि नैवासौ तथापि च न किञ्चन || १०-३७ || तत्र प्रकाशः किं प्रकाशते वैयर्थ्यान्न प्रकाशते -- इत्यर्थः, अप्रकाशोऽप्यसावसामर्थ्यान्नैव प्रकाशते -- इति संबन्धः | एवं सति प्रकाश्यो बाह्योऽर्थः प्रकाशकं च ज्ञानं न किञ्चित्स्यादित्युक्तम् -- ᳚तथापि च न किञ्चन᳚ इति || ३७ || ननु यद्येवं तत्कथं लोकेऽपि देवदत्तश्चैत्रं ग्रामं नयतीत्यादौ प्रसिद्धः प्रयोज्यप्रयोजकभावो घटते ? -- इत्याह -- तर्हि लोके कथं ण्यर्थः गच्छत्यगच्छति वा प्रयोज्ये प्रयोजकव्यापारेण न किञ्चिद्भवेदिति भावः || अत्रैवोत्तरयति -- ...............उच्यते चेतनस्थितौ | मुख्यो ण्यर्थस्य विषयो जडेषु त्वौपचारिकः || १०-३८ ||
SK
इह प्रेर्यपेर्रकोभयाभिप्रायपरमार्थस्तावत् ण्यर्थः, तत्र प्रेर्यस्य स्वातन्त्र्येण प्रवृत्तक्रियत्वेऽपि पारतन्त्र्यरामर्शलक्षणः, प्रेरकस्य च स्वतन्त्रेऽपि पेर्र्ये समधिगततत्पारतन्त्र्यस्य स्वात्मनि अपेक्षणीयतापरामर्शलक्षणोऽभिप्रायः, येनोभयाभिप्रायमेलनारूपः प्रयोज्यप्रयोजकभावात्मा मुख्यः संबन्धः समुल्लसति | यत्र पुनः प्रयोज्यस्य प्रयोजकस्योभयस्य वा जडत्वादनुसन्धिप्राणितोऽभिप्रायो न संभवति तत्रासौ नास्त्येव, लक्षणया तु तत्र तत्र तथा व्यवहर्तव्यो यथा -- शरं गमयति कारीषोऽध्यापयति वायुरद्रिं पातयतीति || ३८ || तदाह -- तथाहि गन्तुं शक्तोऽपि चैत्रोऽन्यायत्ततां गतेः | मन्वान एवं वक्त्यस्मि गमितः स्वामिनेति हि || १०-३९ || स्वाम्यप्यस्य गतौ शक्तिं बुद्ध्वा स्वाधीनतां स्फुटम् | पश्यन्निवृत्तिमाशंक्य गमयामीति भाषते || १०-४० || पेर्र्यप्रेरकयोरेवं मौलिकी ण्यर्थसङ्गतिः | तदभिप्रायतोऽन्योऽपि लोके व्यवहरेत्तथा || १०-४१ || शरं गमयतीत्यत्र पुनर्वेगाख्यसंस्क्रियाम् | विदधत्प्रेरकम्मन्य उपचारेण जायते || १०-४२ || वायुरद्रिं पातयतीत्यत्र द्वावपि तौ जडौ | द्रष्टृभिः प्रेरकप्रेर्यवपुषा परिकल्पितौ || १०-४३ ||
SK
प्रेर्यप्रेरकयोरिति शरं गमयतीति, वायुरद्रिं पातयतीति च | निवृत्तिमाशङ्क्येति, गन्तुं शक्तत्वेऽपि औदासीन्यादिना कदाचिन्न गच्छेत् -- इत्यर्थः | अतश्च गच्छत्यपि प्रयोज्ये प्रयोजकव्यापारेणावश्यभाव्यम् -- इति भावः | एवमिति, प्रयोज्यप्रयोजकयोरभिप्रायमेलनया -- इत्यर्थः | तदभिप्रायत इति मुख्यण्यर्थरूपतामनुसन्धाय -- इत्यर्थः | अन्योऽपि लोक इति, प्रयोज्यप्रयोजकाभ्यामपरस्तटस्थोऽपीति यावत् | तथेति प्रयोज्यप्रयोजकभावेन, वेगाख्यसंस्क्रियां विदधदिति, आकर्षणमोक्षणादाविच्छाप्रयत्नादिमान् धानुष्कः | आकृष्टधनुषो हि तस्य शरमुमुक्षानन्तरप्रयत्नापेक्षात्मांगुलिसंयोगजमंगुलिकर्म, तस्माज्ज्यांगुलिविभागः, ततः संयोगविनाशे धनुःस्थस्थितस्थापकलक्षणसंस्कारापेक्षात् धनुर्ज्यासंयोगात् ज्यायां कर्म उत्पद्यते, तेन स्वकारणापेक्षं ज्यायां वेगाख्यं संस्कारमादत्ते, तमपेक्षमाणः शरज्यासंयोगे नोदनं भवति तस्मादिषावाद्यं गत्यात्मकं कर्म तन्नोदनापेक्षमिषौ वेगाख्यमेव संस्कारमारभते यस्मादापतनादिषोरुत्तरोत्तरकर्मारम्भः | प्रेरकं मन्यते इति स्वयम् | एतदेवात्रोपचारबीजं, प्रेरकम्मन्यत्वादेव हि असावुपचाराल्लोकेन प्रेरक उच्यते | वस्तुतो हि प्रेर्यप्रेरकयोः परस्परापेक्षं रूपं तत् | यत्र प्रेर्यस्य जडत्वात्पारतन्त्र्यानुसन्धानात्मकं प्रेर्यत्वमेव नास्ति, तत्रानुसन्धिभाजोऽपि प्रेरकस्य तदपेक्षं मुख्यं प्रेरकत्वं कथं स्यात्, अतः प्रेरकम्मन्यत्वात्तस्य प्रेरकत्वमुपचाराल्लोके व्यवहरेत् -- इत्युक्तम् -- ᳚उपचारेण जायते᳚ इति | कारीषोऽध्यापयतीत्यादौ प्रेरकस्य जाड्यान्मुख्यप्रेर्यत्वासंभवेऽपि प्रेर्यम्मन्यतानिमित्तादुपचारादध्येतुः प्रेर्यताव्यवहारः | परिकल्पितावित्युपचरिताविति यावत् | तत्र च बीजं वायुप्रभवमवयवविभागजनकं कर्म || ४३ || एतदेवोपसंहरति � इत्थं जडेन संबन्धे न मुख्या ण्यर्थसङ्गतिः | आस्तामन्यत्र विततमेतद्विस्तरतो मया || १०-४४ ||
SK
संबन्ध इति अजडस्य जडान्तरस्य वा | एवमपि तत्समर्थाचरणलक्षणे ण्यर्थे किं प्रवृत्तक्रियाविषयत्वमाहोस्विदप्रवृत्तक्रियाविषयत्वमित्यादि बहु वक्तव्यमिति नेह वितानितमित्याह -- आस्तामित्यादि | अन्यत्रेति -- रकीर्णकविवरणादौ || ४४ || एतदेव प्रकृते योजयति -- अर्थे प्रकाशना सेयमुपचारस्ततो भवेत् | ᳚ततः᳚ इति, समनन्तरोक्ताज्जडेनाजडस्य जडान्तरस्य वा संबन्धे ण्यर्थस्य मुख्यत्वाभावात् हेतोः | ᳚उपचारः᳚ इति यथा जाड्यादद्रेर्वायोश्च पात्यपातयितृत्वे प्रयोज्यप्रयोजकभावो न मुख्यः, तथा ज्ञानमर्थं प्रकाशयतीत्यत्र ज्ञानार्थयोः प्रकाश्यप्रकाशकभावेऽपीति | नैयायिकानां हि ज्ञानमपि अचेतनमेवापद्यते ज्ञेयत्वादर्थवत्, तद्योगात् पुनरात्मा चेतनः | यदाहुः श चेतनश्चिता योगात्..................... |᳚ इति | एतच्चादूर एव व्यक्तीभविष्यति -- इति नेहायस्तम् | एतदभ्युपगमे च यथा प्रयोज्यस्याद्रेः स्वव्यापारःऐ पतनं तात्त्विकसिद्धमेवमिह प्रयोज्यस्यार्थस्य प्रकाशनमभ्युपगन्तव्यम् | तदाह � अस्तु चेद्भासते तर्हि स एव पतदद्रिवत् || १०-४५ || एतच्चाभ्युपगम्य सोपचारमुक्तम्, वस्तुतस्तु सोऽपीह न संभवति निमित्ताभावात्, नहि निर्निमित्तमुपचरणं न्याय्यम् -- इत्याह -- उपचारे निमित्तेन केनापि किल भूयते | केनापीति यत्र यथा विवक्षितेन || एतदेव दर्शयति � वायुः पातयतीत्यत्र निमित्तं तत्कृता क्रिया || १०-४६ || गिरौ येनैष संयोगनाशाद् भ्रंशं प्रपद्यते | इह तु ज्ञानमर्थस्य न किञ्चित्करमेव तत् || १०-४७ || उपचारः कथं नाम भवेत्सोऽपि ह्यवस्तु सन् | तत्कृतेति वेगवद्द्रव्यात्मवायुसंयोगजनिता-इत्यर्थः | क्रियेति अवयवविभागजनकं कर्मेति यावत् | संयोगाद्धि कर्म, तस्मादवयवविभागस्ततः संयोगनाशस्ततः पतनम्, अतश्चात्र सनिमित्तकत्वात्पतनस्य तात्त्विकत्वम् | इह पुनः ᳚अर्थातिशयपक्षे च सर्वसर्वज्ञता भवेत् |᳚
SK
इत्याद्युक्तयुक्त्या ज्ञानेनार्थस्य न किञ्चित्क्रियते, इति निमित्ताभावादुपचारः कथङ्कारं न तिष्ठेत्तज्ज्ञानोदयेऽपि कथमर्थः प्रकाशते, इति स्यात् | यद्वा निर्निमित्तमप्युपचारोऽस्तु किमनेन सेत्स्यति ? -- इत्याह -- ᳚भवेत्सोऽपि ह्यवस्तु सन्᳚ इति | नहि उपचारे विषयस्य विषयिणा ताद्रूप्यं वस्तुतो घटते येनाप्रकाशोऽप्यर्थः प्रकाशत्वोपचारात् तथाभावमियात्, नह्यग्न्युपचारान्माणवकोऽग्निरेव भवेत् येन दाहादिलक्षणां तदर्थक्रियामपि कुर्यात् || तदाह � अप्रकाशित एवार्थः प्रकाशत्वोपचारतः || १०-४८ || तादृगेव शिशुः किं हि दहत्यग्न्युपचारतः | अप्रकाशित इति -- असञ्जातप्रकाशताख्यधर्मक इति यावत् | तादृगित्यप्रच्युतप्राच्यरूपोऽप्रकाशित एव -- इत्यर्थः || ननूपचारः सर्वात्मना चेदवस्तुसंस्तत्कथं माणवकोऽग्निः इत्यादिस्तद्व्यवहारः सर्वत्रैवाविगानेन प्रसिद्धः, अथ तत्रोपचर्यमाणसहचारितैक्ष्ण्यादिगुणसदृशगुणयोगो नाम वास्तवमस्ति निमित्तं यद्वशादेवमादिरुपचारः समुल्लसेत् -- इति चेत् ? नैतत्, एवमपि ह्यत्र किं वास्तवं निमित्तं येनार्थस्य प्रकाशत्वमुपचरेम, तस्मादपारमार्थिक एवात्रोपचारः -- इत्याह -- शिशौ वह्न्युपचारे यद् बीजं तैक्ष्ण्यादि तच्च सत् || १०-४९ || प्रकाशत्वोपचारे तु किं बीजं यत्र सत्यता | सदिति, वह्निगततैक्ष्ण्यादिसदृशस्य तैक्ष्ण्यादेः शिशौ वास्तवत्वात् | किं बीजम् ? इति, न किञ्चित् -- इत्यर्थः || ननु किमनया सदसन्निमित्तादिपर्येषणया यावता हि जानान एव विषयविषयिणोर्विविक्तं स्वरूपं प्रयोजनपरतया चेतनः पुरुष एवैवं व्यवहरति ᳚माणवकोऽग्निः᳚ इति, तथैव तत्तद्व्यवहरणयोग्यताख्यं प्रयोजनमुद्दिश्याप्रकाशरूपेऽप्यर्थे प्रकाशोऽयमर्थ इति व्यवहरेत् ? -- इत्याशङ्क्याह -- सिद्धे हि चेतने युक्त उपचारः स हि स्फुटम् || १०-५० || अध्यारोपात्मकः सोऽपि प्रतिसन्धानजीवितः | न चाद्यापि किमप्यस्ति चेतनं ज्ञानमप्यदः || १०-५१ || अप्रकाशं तदन्येन तत्प्रकाशेऽप्ययं विधिः |
SK
सोऽपीत्यध्यारोपः | भवन्मते च प्रतिसन्धाता कश्चिन्नास्ति स हि चेतनो वा स्यात् आत्मा, चैतन्यं वा ज्ञानं, न तावदद्यापि चेतन आत्मा सिद्धः, तस्य स्वतोऽचेतनस्य ज्ञानयोगे तथात्वोपगमात्, ज्ञानयोगश्च समवायेन यथात्मनस्तथा जन्यतयार्थेन्द्रियादेरेकार्थसमवायेन च सुखादेरपि संभवतीत्यर्थादयश्चेतनाः स्युः | न चात्र नियमनिमित्तमुत्पश्यामो येन समवायाच्चेतनत्वं नैकार्थसमवायादेरिति | यत्पुनः संबन्धाविशेषेऽपि वस्तुस्वभावकृत एवायं विशेषः � इत्युच्यते तत्पलायनप्रकारासूत्रणम् | तदाह -- ङ चाद्यापि किमप्यस्ति चेतनम्᳚ इति | नापि चैतन्यरूपे ज्ञान एव चेतन इति व्यवहारः, तस्य धर्मरूपत्वेन धर्मिव्यपदेशायोगात्, तदपि च ज्ञानं यदि स्वयंप्रकाशरूपं भवेत् तदैतद्युज्येत, न चैवम्-इत्याह -- ज्ञानमप्येतदप्रकाशमिति | अप्रकाशमिति, विषयप्रतिभासकाले तदप्रतिभासाभ्युपगमात् | नन्वप्रतिभासमानमपि ज्ञानं न शाबराणामिवास्माकं परोक्षं नित्यानुमेयमपितु विषयग्रहणानन्तरमात्ममनःसंयोगजेन ज्ञानान्तरेण ज्ञायत एवेति कथमस्याप्रकाशरूपत्वं येन चेतनव्यपदेशो न स्यात्, तदाह -- ᳚तदन्येन तत्प्रकाशेऽप्ययं विधिः᳚ इति | अयं विधिरित्यर्थप्रकाशीयप्रकारः -- इत्यर्थः | यथा ह्यर्थस्यान्येन ज्ञानेन प्रकाशत्वे प्रयोज्यप्रयोजकभावः प्रसक्तः स च न मुख्यो गौणो वा कथञ्चन व्यवतिष्ठते, इत्यर्थस्य प्रकाशनमेवासिद्धम्, एवं ज्ञानस्य ज्ञानान्तरवेद्यत्वेऽपि मुख्यण्यर्थसङ्गत्यभावात् प्रकाशनमेव न सिद्ध्येत् | न चाप्रकाशात्मनो जडस्य प्रतिसन्धातृत्वं युज्यते प्रतिसन्धानाभावे तज्जीविताध्यारोपानुपपत्तावुपचारः कथंकारमत्र व्यवतिष्ठेत् -- इत्यलं बहुना || ननु परप्रकाश(श्य)त्वेऽपि दीपो यथार्थस्य प्रकाशस्तथा ज्ञानमपि भवेत् तत्कथमेवमुक्तं यज्ज्ञानान्तरज्ञेयत्वादप्रकाशरूपं ज्ञानं नार्थं प्रकाशयेत् इति ? -- इत्याह -- ननु प्रदीपो रूपस्य प्रकाशः कथमीदृशम् || १०-५२ ||
SK
नन्वत्रापि प्रागुक्तं समग्रमेव दूषणजातमुपनिपतेत् -- इत्याह -- अत्रापि न वहन्त्येताः किं नु युक्तिविकल्पनाः | ᳚एता युक्तिविकल्पनाः᳚ इति समनन्तरोक्ता मुख्यामुख्यण्यर्थमूला उपपत्तिप्रकाराः -- इत्यर्थः || अत्र न केवलमेवं युक्तिपराहतत्वं यावद्वैषम्यमपि -- इत्याह -- यादृशा स्वेन रूपेण दीपो रूपं प्रकाशयेत् || १०-५३ || तादृशा स्वयमप्येष भाति ज्ञानं तु नो तथा | नो तथेति स्वयमप्रकाशरूपत्वात् | अत एव तुशब्दो व्यतिरेके, तेनार्थप्रकाशनावसरे दीपस्य स्वयमपि प्रकाशो न तु ज्ञानस्येति, अतश्च ᳚तदसिद्धं यदसिद्धेन साध्यते᳚ इति न्यायेन स्वयमप्रकाशमानं ज्ञानं कथं परं प्रकाशयेत् -- इत्याशयः || वैषम्यमेव प्रकारान्तरेणापि द्रढयति -- प्रदीपश्चैष भावानां प्रकाशत्वं ददा(धा)त्यलम् || १०-५४ || अन्यथा न प्रकाशेरन्नभेदे चेदृशो विधिः | ᳚प्रकाशत्वं ददा(धा)ति᳚ इति स्वप्रभाच्छुरणया भास्वरतामाद(ध)त्ते -- इत्यर्थः | येन नीलेऽपि पटे रक्तपटभ्रमः -- इति प्रावादुकानां प्रवादः | एवं भास्वरताधानमन्तरेण चार्थानां प्रकाश एव न स्यात् -- इत्युक्तम् -- ᳚अन्यथा न प्रकाशेरन्᳚ इति | अत एव मन्दप्राये प्रदीपे न किञ्चिदपि प्रकाशेतेत्युक्तम् -- अलमिति -- प्रकाशेन पर्याप्तः समर्थ इति यावत् | ज्ञानं पुनरर्थस्य न कञ्चिदप्यतिशयमाधत्ते इत्युक्तं बहुशः | यदि च किञ्चित्करमपि ज्ञानमर्थस्य प्रदीप इव प्रकाशत्वं दध्यात्तेन तस्याभेदो वाच्यः, दीपो हि स्वप्रभाच्छुरणात्मनाऽवान्तरव्यापारेणार्थे प्रकाशत्वं दधाति, ज्ञानस्य तु न कश्चिदवान्तरव्यापारोऽत्र संभवति | अथ च प्रकाशयत्यर्थमिति नैतदभेदमन्तरेण कथञ्चिद् घटते इत्युक्तम् -- ᳚अभेदे चेदृशो विधिः᳚ इति | ईदृशो विधिरिति प्रदीपन्यायेनार्थे प्रकाशत्वप्रधा(दा)नसामर्थ्यप्रकारः -- इत्यर्थः | अतश्च प्रकाश एव स्वशक्तिविस्फारसारतत्तदर्थवपुषा परिस्फुरतीति सिद्धम् || तदाह � तस्मात्प्रकाश एवायं पूर्वोक्तः परमः शिवः || १०-५५ ||
SK
यथा यथा प्रकाशेत तत्तद्भाववपुः स्फुटम् | ᳚पूर्वोक्तः᳚ इति प्रथमाह्निकादौ | यदुक्तम् -- ᳚ज्ञेयस्य च परं तत्वं यः प्रकाशात्मकः शिवः |᳚ (तं. १|५२) इत्याद्यनन्तप्रकारम् | यथायथेति येन येन नीलाद्यात्मना -- इत्यर्थः | यदा च प्रागुक्तयुक्त्या प्रकाशार्थयोरभेद एव तदा नीलत्वमिव नीलस्य प्रकाशमानत्वमपि स्वरूपगत एव धर्मः -- इति युक्तमुक्तम् -- वेद्यता भावस्य निजं वपुरिति || अत आह -- एवं च नीलता नाम यथा काचित्प्रकाशते || १०-५६ || तद्वच्चकास्ति वेद्यत्वं तच्च भावांशपृष्ठगम् | नन्वभिन्नमिदमर्थप्रकाशात्मकमखण्डं स्वलक्षणम्, तत्र वेद्यत्वं नाम धर्मः किमर्थांशे निपतति आहोस्वित्प्रकाशांशे? इत्याशङ्क्योक्तम् -- ᳚तच्च भावांशपृष्ठगम्᳚ इति | अत एव शाबरमतोदितस्य द्विविधस्यापि प्रमाणबलस्यानेन संग्रहः क्रियमाणो नापसिद्धान्ततां पुष्णाति -- इत्याह -- फलं प्रकटतार्थस्य संविद्वेति द्वयं ततः || १०-५७ || विपक्षतो रक्षितं च सन्धानं चापि तन्मिथः | प्रकटतार्थगतेति कौमारिलाः | संवित्प्रमातृगतेति प्राभाकराः | तत इति समनन्तरोक्तादर्थप्रकाशयोरभेदलक्षणाद्धेतोः | विपक्षत इति, प्रकटताया अर्थधर्मत्वे सर्वान्प्रत्येवार्थः प्रकटो भवेदिति सर्वे सर्वज्ञा भवेयुः | संवित्तेश्च प्रमातृधर्मत्वेऽर्थस्य न किञ्चिदित्यसौ परोक्ष एव स्यादित्येवमादिरूपात् | रक्षितमिति | नहि इदानीमर्थस्य प्रकटता सर्वाविशेषेण युज्यते वक्तं प्रमातुरेकत्वात् सर्वार्थस्यैवाभावात्, मायापदे च यद्यपि भिन्नाः प्रमातारस्तथापि प्रकाशमानोऽर्थः प्रमातृगतत्वेन तत्तत्प्रमातृभेदेन सुखादिवदेकैकशो नियत एव, संवित्तिश्च प्रमातृधर्मोऽपि नार्थसंबन्धं जहाति प्रमातृसारत्वादर्थस्येति सर्वसर्वज्ञस्यार्थपारोक्ष्यस्य न कश्चिदवकाशः | तत एव च तयोः परस्परेणापि संधानम्, प्रकटतासंवित्तिपक्षयोरन्योन्यं नास्ति कश्चिद्भेदः -- इत्यर्थः | इत्थमियता नीलतादिवद्वेद्यत्वं भावधर्म एवेति निर्वाहितम् ||
SK
एतदेव दृष्टान्तदृशा दर्शयति -- तथाहि निभृतश्चौरश्चैत्रवेद्यमिति स्फुटम् || १०-५८ || बुद्ध्वा नादत्त एवाशु परीप्साविवशोऽपि सन् | सेयं पश्यति मां नेत्रत्रिभागेनेति सादरम् || १०-५९ || स्वं देहममृतेनेव सिक्तं पश्यति कामुकः | यथा चाशु तारतम्याविचारेणैव तत्तदर्थजिघृक्षापरोऽपि भवंश्चौरश्चैत्रेणैतद्विदितमिति स्फुटं निश्चितं ज्ञात्वा परमोपादेयमपि भावजातं नैवादत्ते -- इति तदुपादातुं हातुं वा न समर्थः -- इति किङ्कर्तव्यतामूढतया दुःखितप्रायत्वान्निभृतश्चित्रलिखित इवास्ते -- इत्यर्थः | कामुकश्च शेयं मनोरथशतैरप्यप्राप्या प्रियतमा सादरं नतु वेश्यावद्रञ्जनामात्रेण नेत्रत्रिभागेन नतु तटस्थवत्सृष्टेन नेत्रेण मां पश्यति क्षणमपि मद्दर्शनान्न विरमति᳚ इति स्वं देहममृतेनेव सिक्तं पश्यति, स्वात्मनि परं सुखातिशयमवबुद्ध्यत -- इत्यर्थः | तद्यद्यर्थवेदनं प्रमातुर्धर्मः स्यात्तत्कथं चौरश्चैत्रविदितत्वादर्थं नादद्यात्, कामुकश्च प्रियावलोकनादमृतासिक्तमिव स्वं देहं जानीयादिति युक्तमुक्तं -- वेद्यता भावधर्म इति | अर्थविनिवेशिनश्च वेद्यत्वस्यार्थक्रियाभेदोपदर्शनार्थमुदाहरणद्वयोपादानं यत्पूर्वत्र दुःखकारित्वमुत्तरत्र सुखकारित्वमिति || ननु संविन्मयश्चेदर्थस्तर्हि तस्य वेद्यत्वमिति संविदेवोक्ता भवेत्, न च संविदर्थस्य धर्मस्तत्किमिदं वेद्यत्वं भावधर्म इति ? -- इत्याशङ्क्याह -- न चैतज्ज्ञानसंवित्तिमात्रं भावांशपृष्ठगम् || १०-६० || अर्थक्रियाकरं तच्चेन्न धर्मः को न्वसौ भवेत् |
SK
नचेदं वेद्यत्वं ज्ञानात्मकं संविन्मात्रमेव यतो भावांशपृष्ठगमिति | अत एव तत्संविन्मात्रातिरिक्तत्वेनार्थाद्भावांशधर्मस्तथात्वे चास्य किं निबन्धनम् -- इत्युक्तमर्थक्रियाकरमिति | सा चार्थक्रिया समनन्तरमेव दर्शिता | धर्मश्चेन्नेष्यते तन्नीलादिरपि कश्चिद्धर्मः स्यादित्युक्तं ङ चेत्को न्वसौ भवेत्᳚ इति | मात्रग्रहणेन च वेद्यत्वस्य ज्ञानसंवित्तेराधिक्यं ध्वनितम् | अधिकश्च भावो वा स्यात् तद्धर्मो वा, न तावद्वेद्यत्वं भावस्तस्य हि वेद्यत्वं न तु वेद्यत्वमेव सः, अतश्च तद्धर्म एवेति युक्तमुक्तम् -- ᳚वेद्यत्वं भावधर्मः᳚ इति || नन्वत्रोक्त एव दोषो यद्वेद्यताधर्मा भावः सर्वान्प्रति स्यादिति | नैवमेतत् -- इत्याह -- यच्चोक्तं वेद्यताधर्मा भावः सर्वानपि प्रति || १०-६१ || स्यादित्येतत्स्वपक्षध्नं दुष्प्रयोगास्त्रवत्तव | भवत एवायं व्यामोहो यदयुध्यमानं वासुदेवं प्रति प्रेरणात्मकाद्दुष्प्रयोगात् यथा वारुणी गदा प्रयोक्तारमेव श्रुतायुधं जघान तथा मत्पक्षं प्रति प्रयुक्तं दूषणं म(त्व)त्पक्षमेव हन्यात्, तथा च ज्ञानेनानतिशयितोऽपि अर्थस्त्वन्मते, यदि वेद्यतामासादयेत् तदतिशयितत्वाविशेषात् सर्वान्प्रत्येवासौ वेद्यः स्यादिति || अस्मत्पक्षे पुनः परप्रकाशात्मा स्वतन्त्रः शिव एवास्तीति तदपेक्षया नान्यः कश्चिदिति सर्वार्थस्यैवाभावात् कं प्रति चकास्यात् -- इत्याह - - अस्माकं तु स्वप्रकाशशिवतामात्रवादिनाम् || १०-६२ || अन्यं प्रति चकास्तीति वच एव न विद्यते | मायापदे तु प्रमातृभेदेऽपि तत्तन्मातृमयत्वादर्थः सुखादिवत्प्रत्येकं नियत एवेत्युक्तं प्राक् || न केवलमेकप्रमातृसतत्त्ववस्तुवादेनैवं युज्यते यावत्प्रमातृप्रमेययोस्तत्त्वतो भेदेऽपि -- इत्याह � सर्वान्प्रति च तन्नीलं स घटश्चेति यद्वचः || १०-६३ || तदप्यविदितप्रायं गृहीतं मुग्धबुद्धिभिः | अविदितप्रायमिति, किमिह वयं वेद्यतायाः सर्वाविशेषं प्रसञ्जयितुं नीलतां निदर्शयामः किमु तामेव वेद्यतामित्यविविच्यैवोपगतम् -- इत्यर्थः ||
SK
एतदेव सयुक्तिकं दर्शयति -- नहि कालाग्निरुद्रीयकायावगतनीलिमा || १०-६४ || तव नीलः किं नु पीतो मैवं भून्नतु नीलकः | न कञ्चित्प्रति नीलोऽसौ नीलो वा यं प्रति स्थितः || १०-६५ || तं प्रत्येव स वेद्यः स्यात्सङ्कल्पद्वारकोऽन्ततः | कालाग्निरुद्रस्य देहे संविदितो यो नीलिमाख्यो गुणः स न चैत्रस्य भवितुमर्हति, न हि धर्म्यन्तरगतेन धर्मेण धर्म्यन्तरं तद्वत्तया सुवचम् | अत्यन्तमसंभवनीयतां परधर्मस्य परत्र दर्शयितुं कालाग्निरुद्रीयकाय -- इत्युक्तम् | ननु यद्यन्यगतो नीलिमा नान्यं प्रति स्यात् किमसौ तं प्रति पीतो भवेत्? -- इत्याशङ्कते ᳚किं नु पीतः᳚ इति | परिहरति ᳚मैवं भून्नतु नीलकः᳚ इति | नहि पीतो नेति नीलो भवितुमर्हति, न हि घटलौहित्यमेव पटस्य मालिन्यमित्येव (लौहित्यमिति) युज्यते, ततश्च यथा नीलं सर्वान् प्रति -- इति निदर्शनस्य कोऽभिप्रायः -- इति न जानीमः | यदि तु वेद्यतया नीलं सर्वाविशिष्टमिति निदर्शनार्थस्तदिदं दार्ष्टान्तिकमेव दृष्टान्तीकृतं स्वमतविरुद्धं चाभिहितं येनोक्तं -- मुग्धबुद्धिभिः᳚ इति | इह पुनरस्मन्मते परप्रमात्रपेक्षया पृथक् प्रमातृप्रमेययोरवभास एव नास्तीति किं कस्य चकास्यात् -- इत्याह -- ङ कञ्चित्प्रति नीलोऽसौ᳚ इति | अपरप्रमात्रपेक्षया तु स्फुटेऽपि प्रमातृप्रमेयविभागे प्रमातृमयत्वादर्थस्य पूर्वोक्तयुक्त्या यं प्रति नीलं नीलं तं प्रति वेद्यमेव स्यात् -- इत्याह -- ङीलो वा᳚ इत्यादि | एवकारो भिन्नक्रमः | ननु नीलं वेद्यमेवेति नियमनिमित्तं न किञ्चिदुत्पश्यामो देशकालादिभेदेन पारोक्ष्यस्यापि संभवात्? -- इत्याशङ्क्याह -- शङ्कल्पद्वारकोऽन्ततः᳚ इति | यस्तु सङ्कल्पादिना वेद्यो न भवति नासौ तं प्रति नीलोऽपि स्यात्, नहि नीलतया वेदनं मुक्त्वा नीलो नाम कश्चित् प्रकाशमानतैव सत्तेत्युक्तत्वात् || भवन्मते परापेक्षस्य धर्मस्य परत्वाविशेषेऽपि परत्र यथा नियमो दृष्टस्तद्वदिह किं नेष्यते -- इत्याह � यथा चार्थप्रकाशात्म ज्ञानं सङ्गीर्यते त्वया || १०-६६ ||
SK
तथा तज्ज्ञातृवेद्यत्वं भावीयं रूपमुच्यताम् | भवता हि सामान्येनार्थप्रकाशात्मकत्वं ज्ञानस्य रूपमुक्तं तत्सर्वार्थप्रकाशत्वाविशेषेऽपि युगपत्तथा सामनन्त्यायोगात् इदं नीलज्ञानमिदं पीतज्ञानमिति नियतार्थप्रकाशात्मकमेव ज्ञानमभ्युपेयते, एवमस्मत्पक्षेऽपि वेद्यताख्यो भावीयो धर्मः प्रतिनियतप्रमातृसंबन्धी वाभिधीयताम्, कोऽयमस्थानेऽभिनिवेशो यदेकस्य प्रमातुर्वेद्यः परस्यापि तथा स्यादिति | अथ तत्र जनकत्वादि निबन्धनान्तरमाश्रीयते, तदिहापि समानम्, भवति हि मायापदे प्रमातृजन्यं वेद्यत्वमित्यभिमानः | अत एव नैयायिकप्रक्रियैव मायापदे व्यवहारनिबन्धनमिति चिरन्तनानामाम्नायः || न चास्य पर्यनुयोगस्यावकाशलेशमपि पश्यामः -- इत्याह -- न च ज्ञाताऽत्र नियतः कश्चिज्ज्ञाने यथा तव || १०-६७ || अर्थे ज्ञाता यदा यो यस्तद्वेद्यं वपुरुच्यताम् | नहि यथा भवतो ज्ञानाद् व्यतिरिक्तः स्वतन्त्र एवार्थः संभवति तथेहार्थप्रकाशव्यतिरिक्तो ज्ञाता नाम येनैकस्य प्रमातुः प्रकाशमानोऽर्थः प्रमात्रन्तरस्यापि तथा किं न स्यादिति चोद्येत, अस्मद्दर्शने हि परस्परानुरूपग्राह्यग्राहकयुगलनिर्माणभङ्ग्या यो यदर्थावभाससंभिन्नसंविदात्मकः स तस्य प्रमाता, यस्तु न तथा स न तस्य प्रमातैव भवेदिति तं प्रति कथङ्कारं प्रकाशतामिति सिद्धं नियतप्रमातृवेद्यत्वम् || तदेतदस्माभिः पुनः पुनरुच्यमानं श्रुत्वाप्यनवधारयन्नवहास्यतामेव यास्यति -- इत्याह -- तत्तद्विज्ञातृवेद्यत्वं सर्वान्प्रत्येव भासताम् || १०-६८ || इत्येवं चोदयन्मन्ये व्रजेद् बधिरधुर्यताम् | न ह्यन्यं प्रति वै कञ्चिद्भाति सा वेद्यता तथा || १०-६९ || बधिरधुर्यतामिति, बधिरो हि न शृणोत्येव, अयं पुनः श्रऋण्वन्नपि न श्रऋणोतीति तमप्यतिशेते -- इत्येवमुक्तम् | यतस्तदर्थावभाससंभिन्नसंविद्रूपमन्यं कञ्चित्प्रति तथैकात्म्येन सा वेद्यता नैव भाति तं प्रति भावो वेद्यतामेव न यायात् -- इत्यर्थः ||
SK
᳚अतश्च वेद्यता नाम भावस्यैव निजं वपुः᳚ इत्युक्ते किमिति निष्कारणमियत्कुप्यते -- इत्याह -- भावस्य रूपमित्युक्ते केयमस्थानवैधुरी | ननु भावधर्मवेद्यतापक्षे नीलतादेरिव वेद्यताया अपि स्वव्यतिरिक्तस्वरूपावेशिवेद्यतायोगादनवस्थाऽऽपतेदित्युक्तं तत्कथं परिहर्तव्यम् -- इत्याह -- अनेन नीतिमार्गेण निर्मूलमपसारिता || १०-७० || अनवस्था......................... अनेन नीतिमार्गेणेति -- यथैकप्रमातृवेद्यताया न प्रमात्रन्तरसंबन्धो युक्तस्तथैव समानन्यायत्वाद्वेद्यतान्तरसंबन्धोऽपि-इत्यर्थः || ७० || एतदेवोपपादयति � तथा ह्यन्यैर्नीलाद्यै किन्तु सदृशी न सा | वेद्यता किन्तु धर्मोऽसौ यद्योगात्सर्वधर्मवान् || १०-७१ || धर्मी वेद्यत्वमभ्येति स सत्तासमवायवत् | ननु भवन्मते वेद्यता नाम किं धर्ममात्रमुत ज्ञानरूपतया गुणपदार्थान्तरतेति | तत्र धर्ममात्रत्वे न भवेदेवास्या वेद्यताख्यधर्मान्तरयोगः, ज्ञानगुणरूपत्वे च ङिर्गुणा गुणाः᳚ इति नीत्या कथमस्या वेद्यतान्तरं सजातीयो धर्मः स्यात् | तद्यथा वैजात्येन नीलताया वेद्यताख्यो धर्मो भवेत् नैवं तस्या वेद्यतान्तरमित्यस्या नीलादिधर्मान्तरवैलक्षण्यम् अपितु असौ वेद्यताधर्मः समवायवृत्या स्वाश्रयस्य वेद्यव्यवहारहेतुर्यं विना सकलधर्मकल्माषितवपुषोऽपि तस्य धर्मिणः स्वयं वेद्यावेद्यत्वविरहिणो वेद्यमिति व्यपदेशोऽपि दुर्घटः स्यात् | ननु वेद्यताख्यो धर्मोऽपि स्वयमवेद्यश्चेदसिद्ध एवासाविति कथमिव स्वसंबन्धेन धर्मिणं व्यवहारयेत् -- इत्याशङ्कां परिहरिष्यन् दृष्टान्तयति -- श सत्तासमवायवत्᳚ इति | अनेन गुणकर्मविशेषा अप्युपलक्षिताः || ७२ || एतदेव व्यनक्ति -- ब्रूषे यथा हि कुरुते सत्ता सत्यसतः सतः || १०-७२ || समवायोऽपि संश्लिष्टः श्लिष्टानश्लिष्टताजुषः | अन्त्यो विशेषो व्यावृत्तिरूपो व्यावृत्तिवर्जितान् || १०-७३ || व्यावृत्तान् श्वेतिमा शुक्लमशुक्लं गमनं तथा | तद्वन्नीलादिधर्मांशयुक्तो धर्मी स्वयं स्थितः || १०-७४ ||
SK
अवेद्यो वेद्यतारूपाद्धर्माद्वेद्यत्वमागतः | ᳚कुरुते᳚ इति प्रतिवाक्यार्थमनुषज्यते | सतीति स्वरूपेण | शंश्लिष्टः᳚ इति स्वयं वृत्तिरूपः -- इत्यर्थः | ᳚अन्त्यः᳚ इति अन्तेषूत्पादविनाशयोरन्तेऽस्थितत्वादन्तशब्दवाच्येषु नित्यद्रव्येषु भवः स्थित इति यावत् | ᳚विशेषः᳚ इति स्वाश्रयस्य सर्वतो विशेषकत्वाद्भेदकः -- इत्यर्थः | श्वेतिमेति स्वयं श्वेतरूपोऽशुक्लं करोति -- इत्यर्थः | तथेति अगन्तारं गन्तारं कुर्यात्-इति तात्पर्यम् | वेद्यत्वमागतः सन् स्थित इति योजनीयम् | किलेदं भवद्दर्शनं यदुत परसामान्यरूपा द्विविधा सत्ता स्वरूपसत्ता समवायिनी चेति | तत्र समवायिनी द्रव्यगुणकर्मस्वेव भवति, स्वरूपसत्ता तु सामान्यविशेषसमवायेषु | यदुक्तम् -- ᳚त्रिपदार्थकरी सत्ता......................... |᳚
SK
इति | तत्र यथैव द्रव्यादयस्त्रयः स्वरूपेण न सन्तो नासन्तः सत्तासमवायात्तु सन्तः, सत्ता तु स्वरूपेणैव सत्त्वात् न सत्यसती वेतिपर्यनुयोगपात्रम् | अनेनापरमपि सामान्यमुपलक्षितम् | यतो गौः स्वरूपेण न गौर्नागौर्गोत्वाभिसंबन्धात्तु गौः, गोत्वं तु स्वत एव तथात्वात् न जात्यन्तरयोगमावहति | यथा च कार्यं वा कारणे सामान्यं वा विशेषे स्वयमवृत्तिरूपं समवायवृत्त्या वर्तते, समवायश्च स्वाश्रये वर्तमानः स्वयमेव वृत्तिरूपत्वान्न समवायादिवृत्त्यन्तरमपेक्षते | यथा च भावानामनुवृत्तिप्रत्ययहेतुसामान्ययोगद्वारकसंशयप्रतिपक्षतया गुणकर्मादयो धर्मा व्यावृत्तिबुद्धिहेतवो विशेषा इह, तेषामपि तथैव सामान्ययोगेन संशयबीजभूतत्वे प्रलये वा नित्यद्रव्येषु सजातीयविजातीयवैलक्षण्याधायिनोऽत्यन्तव्यावृत्तिबुद्धिहेतवो मादृशामन्यथानुपपत्या योगिनां तु प्रत्यक्षेण सिद्धा अन्त्या विशेषा उपगम्यन्ते | भावाश्च स्वरूपेण न व्यावृत्ता नाप्यव्यावृत्ता व्यावृत्तियोगात्तु व्यावृत्ता इति भंग्या विशेषैरेव व्यावृत्यन्ते, विशेषास्तु स्वयं व्यावृत्तिरूपत्वान्न व्यावृत्ता अव्यावृत्ता वेति विकल्पनीयाः | यथा च पटः स्वरूपान्न श्वेतो नाप्यश्वेतः श्वेतगुणसंबन्धात्तु श्वेतः, श्वेतगुणस्तु श्वेतरूपत्वादेव न स्वसमवायिश्वेतान्तरमुपयाचते | यथा च गन्ता न स्वयं गन्ता नाप्यगन्ता गमनक्रियायोगात्तु गन्ता, गमनक्रिया तु गमनात्मकत्वादेव न स्वात्मनि गमनमन्यदर्थयते | एवं सकलधर्मयुक्तोऽपि भावः स्वयं न वेद्यो नावेद्यो वेद्यतासंबन्धात्तु वेद्यः, वेद्यता पुनः स्वात्मनैव वेद्यत्वान्नावेद्या वेद्या वेत्यनुयोक्तुं युक्तेत्युपरम्यते || ७३- ७४ || ननु यथा (सत्ता)स्वरूपेण सती तथा वेद्यतापि स्वरूपेणैव वेद्येत्युक्ते स्वरूपस्यैव वेद्यत्वं वेदकत्वं च द्वितयं प्राप्नुयात्, तच्च न युक्तं, विरोधात् ? -- इत्याशङ्क्य स्वयंवेद्यतां स्वप्रकाशतायामेव विश्रमयति � वेद्यता भासमाना च स्वयं नीलादिधर्मवत् || १०-७५ ||
SK
अप्रकाशा स्वप्रकाशाद्धर्मादेति प्रकाशताम् | वेद्यता च यदा स्वयमवभासते तदासौ नीलादिवज्जडोचितेन रूपेणाप्रकाशमानापि स्वप्रकाशताख्यात्स्वरूपादेव प्रकाशतामेति स्वयमेव प्रकाशते, न तु स्वापेक्षया कर्मभावं लभते -- इत्यर्थः || ७५ || अतश्च न वेद्यता वेद्या भवितुमर्हति -- इत्याह -- प्रकाशे खलु विश्रान्तिं विश्वं श्रयति चेत्ततः || १०-७६ || नान्या काचिदपेक्षाऽस्य कृतकृत्यस्य सर्वतः | वेद्यस्य हि जडतया पारतन्त्र्ये संविदि विश्रान्तिर्नाम वेद्यता, विश्रान्तेस्तु किमन्यदपेक्षणीयं येन वेद्यतायामपि वेद्यता भवेत् -- इत्युक्तं ङान्या काचिदपेक्षा᳚ इति ᳚कृतकृत्यस्य᳚ इति च || ७६ || ननु यदि प्रकाशविश्रान्तिसतत्त्वैव वेद्यता तत्कथमस्या भावधर्मत्वम् ? -- इत्याशङ्क्याह -- यथा च शिवनाथेन स्वातन्त्र्याद्भास्यते भिदा || १०-७७ || नीलादिवत्तथैवायं वेद्यता धर्म उच्यते | धर्म इत्यर्थाद्भावस्य || ७७ || ननु भवतु नाम वेद्यता नाम भावधर्मः का नो विचिकित्सा, इदं पुनः कथं यदनेकेषु प्रमातृषु तथानैक्यमिति, नहि प्रमातृभेदेऽपि नीलस्य स्वात्मनि कश्चिद्विशेषो येनैवं स्यात् ? -- इत्याशङ्क्याह -- एवं सिद्धं हि वेद्यत्वं भावधर्मोऽस्तु का घृणा || १०-७८ || इदं तु चिन्त्यं सकलपर्यन्तोक्तप्रमातृभिः | वेद्यत्वमेकरूपं स्याच्चातुर्दश्यमतः कुतः || १०-७९ || एतदेव प्रतिविधत्ते -- उच्यते परिपूर्णं चेद्भावीयं रूपमुच्यते | तद्विभुर्भैरवो देवो भगवानेव भण्यते || १०-८० || अथ तन्निजमाहात्म्यकल्पित्ॐऽशांशिकाक्रमः | सह्यते किं कृतं तर्हि प्रोक्तकल्पनयाऽनया || १०-८१ || एवंविधं हि भावानां रूपं पूर्णमपूर्णं च, तत्र पूर्णरूपत्वे स्वप्रकाशः पर एव प्रकाशस्तथोज्जृम्भते इति को नाम भावार्थः, अपूर्णं च रूपं धर्मधर्म्यादिरूपतया पारमेश्वर्या स्वातन्त्र्यशक्त्यैव तथा कल्पितमिति भेदानुप्राणितः समग्र एवायं व्यवहारः सोढव्य इति किमनया पाञ्चदश्यादिक्रमकल्पनयाऽपराद्धं यदेवमस्याः प्रद्वेषः || ८१ ||
SK
तदेवमेकमेव नीलं तत्तदंशांशिकाक्रमेणावभासमानं तथा तथा भिद्यत एव -- इत्याह -- अत एव यदा येन वपुषा भाति यद्यथा | तदा तथा तत्तदूर्पमित्येषोपनिषत्परा || १०-८२ || येन वपुषेति उद्रिक्तानुद्रिक्तसकलादिशिवान्तप्रमातृवेद्येन -- इत्यर्थः | तद्रूपमिति -- सकलवेद्यं प्रलयाकलवेद्यमित्यादि || ८२ || ननु यदि तत्तत्सकलादिप्रमातृवेद्यता प्रमातृभेदादेव कथञ्चन भेदमुपनीता तथाप्येकरूपैवासावर्थक्रियाया भेदेनाकरणात् तद्वेद्यमप्येकरूपमेवेति पुनरपि पाञ्चदश्यादिक्रमकल्पना कल्पनैव ? - - इत्याशङ्क्य वेद्यताभेदसमर्थनार्थमर्थक्रियाभेदं प्रतिजानीते -- चैत्रेण वेद्यं जानामि द्वाभ्यां बहुभिरप्यथ | मन्त्रेण तन्महेशेन शिवेनोद्रिक्तशक्तिना || १०-८३ || अन्यादृशेन वेत्येवं भावो भाति यथा तथा | अर्थक्रियादिवैचित्र्यमभ्येत्यपरिसंख्यया || १०-८४ || यथैव भावो भाति तथाऽर्थक्रिया, ..........ऽन्यादृशेनेति अनुद्रिक्तशक्तिना | इत्येवमिति चैत्रेण............... || ८४ || तदेव दिङ्मात्रेणोपपादयन् व्यनक्ति -- तथा ह्येकाग्रसकलसामाजिकजनः खलु | नृत्तं गीतं सुधासारसागरत्वेन मन्यते || १०-८५ || इह खलु प्रेक्षावतां सामाजिकानां मध्यादेवैकः प्रमाता पदे............टेन दाढ्र्यादेव मयेति(न्यते) नृत्तगीतादेर्बहुवेद्यताख्यमतिशयं मन्वानस्तत्स्वानुभवैकगोचराचरमचमत्कारसारतया परामृशेत्- इत्यर्थः | एकैकप्रमातृवेद्याद्धि नृत्तादेरनेकप्रमातृवेद्यस्यास्यास्त्येव सर्वसञ्चेत्योऽतिशयो येन तावत्यंशे प्रमात्रैक्यं स्यात् || ८५ || तदाह � तत एवोच्यते मल्लनटप्रेक्षोपदेशने | सर्वप्रमातृतादात्म्यं पूर्णरूपानुभावकम् || १०-८६ || तत इति बहुमातृवेद्यत्वलक्षणाद्धेतोः | उच्यते इति -- सर्वैः | यच्छ्रीप्रत्यभिज्ञायां -- ᳚᳚तं तं घटादिमर्थमेकदेशव्यवस्थिताः प्रमातारः समं संवेद्यमानास्तावत्यंशे तदैक्यमुपयान्ति |᳚᳚
SK
इति | पूर्णरूपेति इयदेव हि पूर्णं रूपं यद्विगलितवेद्यान्तरतया तत्रैवानन्याकांक्षत्वेन परामर्शनं नामेति || ८६ || नन्वेकैकस्य पृथक् पृथक् नृत्तादिसंवित्तिरेवमवस्थितेति किमनेकप्रमातृवेद्यत्वेन -- इत्याह � तावन्मात्रार्थसंवित्तितुष्टाः प्रत्येकशो यदि | कः संभूय गुणस्तेषां प्रमात्रैक्यं भवेच्च किम् || १०-८७ || एवं हि सामाजिकानामनेकप्रमातृवेद्यता, संमीलनयातः को गुणो न कश्चित्स्वानुभवसाक्षिकस्यापि चमत्कारातिशयस्य निह्नव एव कृतः स्यात्-इत्यर्थः | ननु तावत्यंशे प्रमात्रैक्यादेवैवं चमत्कारानुभवो भवेत्? -- इत्याशङ्क्याह -- ᳚प्रमात्रैक्यं भवेच्च किम्᳚ इति | एकस्मिन् हि वस्तुन्यनेकवेद्यतावभास एव स्वात्मविश्रान्तिमयपरामर्शोपारोहक्रमेण विगलितभेदतया प्रमातृणामैक्योपगमे बीजं यत एवंविधानन्दसन्दोहपात्रताऽपि भवेत् || ८७ || अत एवाह � यदा तु तत्तद्वेद्यत्वधर्मसंदर्भगर्भितम् | तद्वस्तु शुष्कात्प्राग्रूपादन्यद्युक्तमिदं तदा || १०-८८ || शुष्कात्प्रागूर्पादिति एकैकप्रमातृसंवेद्यान्नीरसप्रायादिति यावत् | अन्यदिति निरतिशयचमत्कारकारिरूपान्तराविष्टम् -- इत्यर्थः | अत्र हेतुःतत्तद्वेद्यत्वधर्मसंदर्भगर्भितमिति प्रमात्रैक्यम् || ८८ || न केवलं लोके सकलप्रमात्रपेक्षया वेद्यत्वमेवं विचित्रार्थक्रियाकारि, यावच्छास्त्रेऽपि प्रमात्रन्तरापेक्षया -- इत्याह -- शास्त्रेऽपि तत्तद्वेद्यत्वं विशिष्टार्थक्रियाकरम् | भूयसैव तथा च श्रीमालिनीविजयोत्तरे || १०-८९ || तथा षड्विधमध्वानमनेनाधिष्ठितं स्मरेत् | अधिष्ठानं हि देवेन यद्विश्वस्य प्रवेदनम् || १०-९० || तदीशवेद्यत्वेनेत्थं ज्ञातं प्रकृतकार्यकृत् |
SK
भूयसैवेत्यविगानेन सर्वत्रैव -- इत्यर्थः | एतदेवोदाहरति तथा चेत्यादिना | एतच्च स्वयमेव व्याख्याय प्रकृते योजयति अधिष्ठानमित्यादिना | नहि भेदवादिनामिवास्माकं भिन्नं विश्वमस्ति येन तदुक्तवदधिष्ठात्रधिष्ठेयभावो भवेदित्युक्तं देवेन विश्वस्याधिष्ठानं प्रवेदनमिति | संविन्मयो हि सः संविदश्च संवेद्य एव विषय इत्याधार इत्यधिष्ठेय इति चोच्यते, ततश्चेत्थमनेकवेद्यताप्रकारेण शिववेद्यत्वेन ज्ञातं सत् षडध्वलक्षणं विश्वं प्रकृतं दीक्षाकर्मादिकार्यं करोत्येवंविधार्थक्रियाक्षमम् -- इत्यर्थः | एवं मन्त्रमहेश्वरादिवेद्यत्वेनापि नियततत्तत्तत्त्वावाप्तिः स्यादित्यपरिसंख्येयमत्रार्थक्रियावैचित्र्यम् || ९१ || एतदुपसंहरन्नन्यदवतारयति -- एवं सिद्धं वेद्यताख्यो धर्मो भावस्य भासते || १०-९१ || तदनाभासयोगे तु स्वरूपमिति भण्यते | तदनाभासयोगे इति तस्य वेद्यताख्यस्य धर्मस्यापरामर्शे सति -- इत्यर्थः | तेनाभासान्तरसंमूर्छनाविरहितो नीलमित्येव विमृश्यमानः सामान्यात्मक एकक एवाभासः पञ्चदशं स्वरूपमित्युक्तम् || ९२ || ननु नीलमित्यपि स्वरूपेण विमृश्यमानमन्तःकृतनिखिलधर्मात्मकमेव विमृष्टं स्यादिति प्रमात्रन्तरवेद्यतोपरागो दुरपह्नव एव? -- इत्याशङ्क्याह -- उपाधियोगिताशङ्कामपहस्तयतोऽस्फुटम् || १०-९२ || स्वात्मनो येन वपुषा भात्यर्थस्तत्स्वकं वपुः |
SK
उपाधियोगिताशङ्कामित्याशंकितमाभासान्तरम् -- इत्यर्थः | अस्फुटमिति -- वस्तुनो हि देशकालाभाससंमूर्छनया स्वालक्षण्यापत्तौ स्फुटता भवेत् -- इति भावः | स्वात्मन इति प्रमातुः, येन वपुषेति सामान्यात्मना, स्वकं वपुरिति स्वरूपम् | इह हि मायापदे विकल्पदशामधिशयानो विमर्शः समारोपितधर्मान्तरप्रतिक्षेपाय प्रवर्तमानः स्वालक्षण्यादविभिन्नमपि आभासान्तरं व्यवच्छिन्दन् सामान्यात्मकं नीलमात्रमेव विमृशति नतु स्वरूपाविनाभाविनीं सत्तामपि स्पृशतीति कथं नीलमात्रपरामर्शदशायां वेद्यताख्यधर्मान्तरोपरागसंभावनापि -- इति तात्पर्यार्थः || ९३ || ननु धर्मान्तरं व्यवच्छेत्स्यता विकल्पेन प्रमात्रन्तरवेद्यता व्यवच्छिद्यतां नहि तामन्तरेण स्वरूपमेव न स्यात् तत्प्रमातृवेद्यता तु कथङ्कारं तिरोधीयेत ? -- इत्याशङ्क्याह -- जानामि घटमित्यत्र वेद्यतानुपरागवान् || १०-९३ || घट एव स्वरूपेण भात इत्यपदिश्यते | नन्वत्र जानामीति ज्ञानक्रियाकर्मतया स्वयंवेद्यता तावदस्ति, प्रमात्रन्तरवेद्यता चावश्यंभाविनी अस्मदाद्यगोचरत्वेऽन्ततः क्रिमिसर्वज्ञादेरपि वेद्यो भवेदित्युक्तत्वात्; तत्कथमुक्तं वेद्यतानुपरागवान् स्वरूपेण घटो भात इति ? -- तदाह -- ननु तत्र स्वयंवेद्यभावो मन्त्राद्यपेक्षया || १०-९४ || अपि चास्त्येव...................... तदिदमनवधारितास्मदभिप्रायस्य चोद्यम् न ह्यस्माभिर्घटः स्वरूपेण वेद्यतानुपरागवानित्युक्तं किंतु वेद्यतानुपरागवान् भात इति || न च घटं जानामीत्यत्र स्ववेद्यतां सर्वज्ञादिवेद्यतां च जानामीत्यनुसन्धिरस्ति, जानामीति चास्मदर्थविश्रान्तो ज्ञानपरामर्श एवायम् -- इत्याह -- ...........णन्वस्तु न तु सन्प्रतिभासते | न च स्वरूपपरामर्शनान्तरीयकतया सर्वत्रैव स्वात्मवेद्यतापि स्यात् -- इत्याह -- अवेद्यमेव कालाग्निवपुर्मेरोः परा दिशः || १०-९५ || ममेति संविदि परं शुद्धं वस्तु प्रकाशते | शुद्धमिति स्वपरवेद्यतासंभेदपरामर्शरहितम् -- इत्यर्थः || ९५ ||
SK
ननु शुद्धं वस्तु प्रकाशते चेत्सिद्धमस्य वेद्यत्वम्, अवेद्यं च प्रकाशते चेति विप्रतिषेधः ? सत्यं, किन्तु प्रकाशमानत्वाद्वेद्यं नतु वेद्यत्वेन प्रकाशमानम् -- इत्याह -- भातत्वाद्वेद्यमपि तन्न वेद्यत्वेन भासनात् || १०-९६ || अवेद्यमेव भानं हि तथा कमनुयुञ्जमहे | तदिति स्वरूपमात्ररूपं शुद्धं वस्तु | अवेद्यमिति वेद्यत्वाभासान्तरासंमूर्छितम् -- इत्यर्थः| अत्र हेतुः न वेद्यत्वेन भासनादिति | ननु ᳚अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यति |᳚ इति भङ्ग्या वेद्यतायामनाभासमानायां कथमिव स्वरूपेण वेद्यं भातं भवेत् ? -- इत्याशङ्क्याह -- भानं हीत्यादि | भानं हि प्रकाशः, स च विमर्शजीवितः -- इत्युक्तम् | स च ᳚घटं जानामि᳚ इत्यत्र घट इव वेद्यतायां न संभवति वेद्यमित्यनवसायात् प्रत्युत कालाग्न्यादाववेद्यतापरामर्शो दर्शितः, तत्कस्यायं पर्यनुयोगो वेद्ये प्रकाशमाने कथं वेद्यताया अप्रकाशनमिति || ९६ || एवं च पाञ्चदश्यादिक्रमकल्पना वास्तव्येव -- इत्याह -- एवं पञ्चदशात्मेयं धरा तद्वज्जलादयः || १०-९७ || अव्यक्तान्ता यतोऽस्त्येषां सकलं प्रति वेद्यता | अनेन वस्तुधर्माख्यप्रमेयानन्तर्येणानुजोद्देशोद्दिष्टस्य तत्त्वविधेरप्यासूत्रणं कृतम् || ९७ || ननु ᳚इत्यनेन कलाद्येन धरान्तेन समन्विताः | पुमांसः सकला ज्ञेया.................... ||᳚ (मा.वि.१|३५) इत्युक्त्या कलान्तं सकलस्यावस्थानं तत्कथमव्यक्तान्तमस्य प्रमातृत्वमुक्तम् ? -- इत्याशङ्क्याह -- यत्तूच्यते कलाद्येन धरान्तेन समन्विताः || १०-१८ || सकला इति तत्कोशषट्कोद्रेकोपलक्षणम् | नह्यनेन वाक्येन पुंसः कलान्तमवस्थानमुक्तं, तथात्वे हि ᳚पुरुषः पञ्चविंशकः᳚ इत्यादिश्रुतिविरोधः स्यात्, किंतु उद्रिक्तमस्य मायादिकञ्चुकषट्कमिति | तद्धि प्रलयाकलस्यानुद्रिक्तं विज्ञानाकलस्य ध्वस्तमिति || ९८ || तदाह � उद्भूताशुद्धचिद्रागकलादिरसकञ्चुकाः || १०-९९ || सकलालयसंज्ञास्तु न्यग्भूताखिलकञ्चुकाः |
SK
ज्ञानाकलास्तु ध्वस्तैतत्कञ्चुका इति निर्णयः || १०-१०० || रसेति षट् || १०० || ननु देहादिवेद्यांशप्राधान्यान्मुख्यतया सकलः प्रमातैव न भवतीति कुतस्त्यं पाञ्चदश्यम्? -- इत्याशङ्क्याह -- तेन प्रधाने वेद्येऽपि पुमानुद्भूतकञ्चुकः | प्रमातास्त्येव सकलः पाञ्चदश्यमतः स्थितम् || १०-१०१ || यद्यपि सकले देहाद्यात्मनो वेद्यस्यैव प्राधान्यं तथापि ज्ञानकलो(क्रियो)त्तेजककलाविद्यादिकञ्चुकोद्रेकादस्त्येव प्रमातृत्वमित्यनवद्यं पाञ्चदश्यम् || १०१ || ननु वेद्यांशप्राधान्याद्धरादिवत्पुंस्यपि पाञ्चदश्यमेव न्याय्यं तत्कथं ᳚आनराद्भेदयुग्धीनम्᳚ इत्याद्युक्तम्? -- इत्याशङ्क्याह -- पाञ्चदश्यं धराद्यन्तर्निविष्टे सकलेऽपि च | सकलान्तरमस्त्येव प्रमेयेऽत्रापि मातृ हि || १०-१०२ || धराद्यन्तर्निविष्टे इत्यनेनास्य वेद्यांशप्राधान्यमेवोपोद्वलितम् | अत एवोक्तं प्रमेय इति | प्रमात्रेकरूपत्वे हि कथमेवं सङ्गच्छताम् -- इत्याशयः | सकलान्तरमिति, यदा त्वत्र प्रलयाकलः प्रमाता तदा त्रायोदश्यमेवेति सर्वं स्वस्थम् || १०२ || ननु किमनेनैवमुपदिष्टेन पाञ्चदश्येन? -- इत्याशङ्क्याह -- स्थूलावृतादिसङ्कोचतदन्यव्याप्तृताजुषः | पीताद्याः स्थिरकम्प्रत्वाच्चतुर्दश धरादिषु || १०-१०३ || स्वरूपीभूतजडताः प्राणदेहपथे ततः | प्रमातृताजुषः प्रोक्ता धारणा विजयोत्तरे || १०-१०४ ||
SK
एतदेव ह्यधिकृत्य श्रीमालिनीविजयोत्तरे धरादिष्वव्यक्तान्तेषु चतुर्विंशतौ तत्त्वेषु प्रतितत्त्वं जडात्मकस्वरूपधारणया सह चतुर्दश धारणाः प्रोक्ताः -- इति संबन्धः | तत्र सकलस्य स्थूलमाणवादि मलत्रयम्, प्रलयाकलस्यावरणमावृतमिति व्युत्पत्त्यावृतं मलद्वयम्, विज्ञानाकलस्यादि प्राथमिकमाणवं मलम्, मन्त्राणां प्रलयाकलोपादानत्वादावृततया सङ्कोचः, मन्त्रेश्वराणां सकलोपादानत्वात् स्थूलात्मा तच्छब्दनिर्दिष्टः सङ्कोचः, मन्त्रमहेश्वराणामन्यः सङ्कोचस्य यथायथं विगलनाद् विकासः | शिवस्य व्याप्तृता देशकालाद्यवच्छेदशून्यत्वात् व्यापकत्वम्, ता जुषन्ते सेवन्ते तदालम्बनाः -- इत्यर्थः | नन्वेवं सप्त धारणा भवेयुः न चतुर्दश ? -- इत्याशङ्क्योक्तं -- स्थिरकम्प्रत्वादिति | स्थिरं स्वात्मविश्रान्त्या निर्व्यापारं शक्तिमदूर्पम्, कम्प्रं स्पन्दात्मकं सव्यापारं शक्तिरूपम् | अत एवात्र सकलतच्छक्त्यधिकारेण ᳚तद्वदेव स्मरेद्देहं किं तु व्यापारवर्जितम् | (मा. वि. १२|२९) इति शव्यापारं स्मरेद्देहं........................ ||᳚ (मा.वि. १२|२६) इति चोक्तम् | ताश्च यथायथं भेदविगलनात् देहप्राणबुद्ध्यादिप्रमातृदशाधिशायिन्यः, इत्युक्तं -- ᳚प्राणदेहपथे᳚ इति | प्रमातृताजुषश्चेति तत्र स्वरूपसकलशक्तिमच्छक्तिधारणाधिकारेणोक्ताः | यदुक्तं तत्र -- श्वदेहे हेमसङ्काशं तुर्याश्रं वज्रलाञ्छितम्᳚ (मा. वि. १२|२२) इत्यादि | प्राणादौ तु प्रलयाकलविज्ञानाकलादिधारणाः | यदुक्तम् -- ᳚चतुर्थे हृद्गतं ध्यायेद् द्वादशांगुलमायतम्᳚ | (मा.वि. १२|३०) इत्यादि | ᳚पीताद्याः᳚ इत्याद्यशब्दाज्जलतत्त्वादौ शुक्लादीनां ग्रहणम् | एतच्च सर्वं ᳚यः पुनर्गुरुणैवादौ कृतावेशविधिक्रमः | स वासनानुभावेन भूमिकाजयमारभेत᳚ || (मा. वि. १२|२१) इत्यादिना | ᳚चतुर्विंशत्यमी प्रोक्ताः प्रत्येकं दशपञ्चधा | धारणाः क्ष्मादितत्त्वानां समासाद्योगिनां हिताः ||᳚ (मा. वि. १६|१७)
SK
इत्यन्तेन श्रीपूर्वशास्त्र एव सप्रपञ्चमुक्तमिति तत एवावधार्यम्, इह तु ग्रन्थविस्तरभयान्न प्रातिपद्येन संवादितम् || १०४ || एवं पाञ्चदश्यं निरूप्य त्रायोदश्याद्यपि निरूपयति -- यदा तु मेयता पुंसः कलान्तस्य प्रकल्प्यते | तदुद्भूतः कञ्चुकांशो मेयो नास्य प्रमातृता || १०-१०५ || अतः सकलसंज्ञस्य प्रमातृत्वं न विद्यते | त्रयोदशत्वं तच्छक्तिशक्तिमद्द्वयवर्जनात् || १०-१०६ || न्यग्भूतकञ्चुको माता युक्त(यत)स्तत्र लयाकलः | मायानिविष्टो विज्ञानाकलाद्याः प्राग्वदेव तु || १०-१०७ || मायातत्त्वे ज्ञेयरूपे कञ्चुकन्यग्भवोऽपि यः | सोऽपि मेयः कञ्चुकैक्यं यतो माया सुसूक्ष्मिका || १०-१०८ || विज्ञानाकल एवात्र ततो मातापकञ्चुकः | मायानिविष्टेऽप्यकले तथेत्येकादशात्मता || १०-१०९ || विज्ञानकेवले वेद्ये कञ्चुकध्वंससुस्थिते | उद्बुभूषुप्रबोधानां मन्त्राणामेव मातृता || १०-११० || तेऽपि मन्त्रा यदा मेयास्तदा माता तदीश्वरः | स ह्युद्भवात्पूर्णबोधस्तस्मिन्प्राप्ते तु मेयताम् || १०-१११ || उद्भूतपूर्णरूपोऽसौ माता मन्त्रमहेश्वरः | तस्मिन्विज्ञेयतां प्राप्ते स्वप्रकाशः परः शिवः || १०-११२ || प्रमाता स्वकतादात्म्यभासिताखिलवेद्यकः |
SK
पुंसः कलान्तस्येति पुंस्तत्त्वादारभ्य कलान्तस्य तत्त्वषट्कस्य -- इत्यर्थः | अस्येत्युद्भूतस्य कञ्चुकषट्कस्य मेयत्वात् | त्रयोदशत्वमिति सकलस्य तच्छक्तेश्च प्रमेयतया स्वरूपीभूतत्वात् | नन्वत्र सकलस्य प्रमेयत्वं प्रलयाकलस्य च प्रमातृत्वमित्युक्तं विज्ञानाकलादीनां पुनः का व्यवस्था? -- इत्याशङ्कयोक्तम् -- विज्ञानाकलाद्याः प्राग्वदेवेति | सकलेऽपि प्रमातरि यथैषां प्रमातृत्वं तथैव -- इत्यर्थः | ननु मायातत्त्वे ज्ञेये कञ्चुकन्यग्भावोऽपि कस्माज्ज्ञेयः -- इत्याशङ्क्योक्तम् -- कञ्चुकैक्यं यतो मायेति | अत्रापि हेतुः सुसूक्ष्मिकेति, अनुद्भिन्नविभागा हि कारणदशा -- इत्याशयः | ᳚ततः᳚ इति न्यग्भूतकञ्चुकस्य प्रलयाकलस्यापि स्वरूपीभूतत्वात् | मन्त्राणामेवेति न तु विज्ञानाकलस्यापि येनात्र नवधात्वम् | तदीश्वर इति मन्त्रेश्वरः | स्वकतादात्म्येति न तु मन्त्रमन्त्रेश्वरादिवद्भेदाभेदादिरूपतया -- इत्यभिप्रायः | एतच्चाह्निकारम्भ एव निर्णीतप्रायमिति नेह पुनरायस्तम् || ११२ || ननु तस्मिन्नपि विज्ञेयतां प्राप्ते कः प्रमाता ? -- इत्याशङ्क्याह -- शिवः प्रमाता नो मेयो ह्यन्याधीनप्रकाशता || १०-११३ || मेयता सा न तत्रास्ति स्वप्रकाशो ह्यसौ प्रभुः | परप्रकाशत्वं नाम मेयत्वं तच्चास्य स्वप्रकाशत्वान्न विद्यते, इति कथं शिवस्यापि प्रमात्रन्तरवन्मेयता भवेत् -- इत्यर्थः || ११३ || ननु परप्रकाशत्वेनैव सर्वेषां प्रकाशः सिद्ध्येदिति किं स्वप्रकाशत्वेनाप्यभ्युपगतेन ? -- इत्याशङ्क्याह � स्वप्रकाशेऽत्र कस्मिंश्चिदनभ्युपगते सति || १०-११४ || अप्रकाशात्प्रकाशत्वे ह्यनवस्था दुरुत्तरा | ततश्च सुप्तं विश्वं स्यान्न चैवं भासते हि तत् || १०-११५ || अप्रकाशादेव प्रकाशेऽभ्युपगम्यमाने प्रमात्रन्तरकल्पना न विरमेदिति मूलक्षतिकारिणी व्यक्तमनवस्था पतेत् येन न किञ्चिदपि प्रकाशेतेति मूर्छितप्रायमेव विश्वं स्यात्, प्रसङ्गविपर्ययपर्यवसायितामेव चास्य प्रसङ्गस्य प्रतिपादयति न चैवमित्यादिना || ११५ ||
SK
ननु भासते चेद्विश्वं तर्हि ᳚प्रथमस्य तथाभावे प्रद्वेषः किंनिबन्धनः | इति भंग्या तस्यैव स्वप्रकाशत्वमस्तु किमवान्तरेण? -- इत्याशङ्क्याह -- अन्याधीनप्रकाशं हि तद् भात्यन्यस्त्वसौ शिवः | अन्यमेव हि प्रमातारमपेक्ष्य विश्वं प्रकाशते न तु स्वत इति तदधीन एवास्य प्रकाशः, अन्यश्च प्रमाता शिव एवेत्युपपादितं प्राग्बहुशः | स एव च स्वप्रकाश इत्यभ्युपेतमन्यथा हि न किञ्चिच्चकास्यात् || तदादिसिद्धत्वादस्य न साधकेन प्रमाणेन किञ्चित्कृतम् -- इत्याह -- इत्यस्य स्वप्रकाशत्वे किमन्यैर्युक्तिडम्बरैः || १०-११६ || मानानां हि परो जीवः स एवेत्युक्तमादितः | प्रत्युत प्रमाणानां तदधीना सिद्धिरित्यादितः प्रथमाह्निक एवोपपादितम् -- इत्यर्थः | यदुक्तं तत्र -- ᳚प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते | अनपह्ववनीयत्वात्किं तस्मिन्मानकल्पनैः || प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते | तेषामपि परो जीवः स एव परमेश्वरः ||᳚ (१|५५) इति || ११६ || ननु शकृद्विभातोऽयमात्मा᳚ इत्याद्युपदेशान्यथानुपपत्या स्वप्रकाशेऽपि शिवे वेद्यत्वमस्ति, इति कथमुक्तम् ङ मेयः शिवः᳚ इति? - - इत्याशङ्क्याह -- नन्वस्ति स्वप्रकाशेऽपि शिवे वेद्यत्वमीदृशः || १०-११७ || उपदेशो(श्यो)पदेष्टृत्वव्यवहारोऽन्यथा कथम् | ईदृश इति सकललोकसाक्षिकश्चिरतरनिरूढः -- इत्यर्थः || ११७ || एतदेवाभ्युपगम्य विशेषयति -- सत्यं स तु तथा सृष्टः परमेशेन वेद्यताम् || १०-११८ || नीतो मन्त्रमहेशादिकक्ष्यां समधिशाय्यते | एवमेतत् किन्तु ᳚......................बन्धात्यात्मानमात्मना᳚ | इति भंग्या स्वस्वातन्त्र्यात्परमेश्वरेण स शिवस्तथोपदेश्यत्वेन सृष्टत्वाद्वेद्यतां नीतः सन्मन्त्रमहेश्वरादिदशाधिशायी संपाद्यते -- इत्यर्थः || ११८ || नन्वेवं शिवस्वरूपमेव प्रत्यवमृष्टं न स्यादिति तत्र क्रियमाणमपि भावनादि व्यर्थमेव? -- इत्याशङ्क्याह -- तथाभूतश्च वेद्योऽसौ नानवच्छिन्नसंविदः || १०-११९ || पूर्णस्य वेद्यता युक्ता परस्परविरोधतः |
SK
एवं मन्त्रमहेश्वरादिदशाधिशायित्वादसौ शिवो वेद्योऽपि तथाभूतोऽनवच्छिन्नपूर्णसंविदात्मकः शिव एव -- इत्यर्थः | न ह्येवंविधेऽस्मिन्वेद्यत्वं न्याय्यं जाड्याजाड्ययोरेकत्र विरोधात् || ११९ || ननु यद्येवं वेद्यरूपोऽपि शिव एव तत्कथं तथाभावाविशेषात्तृणपर्णादावपि शिवभावना न फलेत् ? -- इत्याशङ्क्याह -- तथा वेद्यस्वभावेऽपि वस्तुतो न शिवात्मताम् || १०-१२० || कोऽपि भावः प्रोज्झतीति सत्यं तद्भावना फलेत् | कोऽपीति तृणपर्णपाषाणादिरपि -- इत्यर्थः | यदभिप्रायेणैव -- ᳚तृणात्पर्णाच्च पाषाणात्काष्ठात्कुड्यात्स्थलाज्जलात् | उद्गच्छ गच्छ मे त्राणं विभो क्व नु न ते स्थितिः ||᳚ इत्याद्याचार्यैरुक्तम् || १२० || नचैतदागमेष्वपि असिद्धतयैवोक्तमपि तु अत एव न्यायात् -- इत्याह -- श्रीपूर्वशास्त्रे तेनोक्तं शिवः साक्षान्न भिद्यते || १०-१२१ || नन्वत्र ᳚शिवो न भिद्यते᳚ इति भेदनिषेध एवोक्तो न तु तस्यैव भूमिकान्तरप्राप्त्या भेदः? -- इत्याशङ्क्याह -- साक्षात्पदेनायमर्थः समस्तः प्रस्फुटीकृतः | एवं न्यूनसंख्यानिरासेन पाञ्चदश्याद्युपदिष्टम् | इदानीं तदेव यथासंभवशङ्कापुरःसरमधिकसंख्यानिरासेन द्रढयितुमाह -- नन्वेकरूपतायुक्तः शिवस्तद्वशतो भवेत् || १०-१२२ || त्रिवेदतामन्त्रमहानाथे कात्र विवादिता | क्वान्यत्र विवादिता ? इत्याशङ्क्याह -- महेश्वरेशमन्त्राणां तथा केवलिनोर्द्वयोः || १०-१२३ || अनन्तभेदतैकैकं स्थिता सकलवत्किल | सकलवदिति तस्य देहादेरारभ्य सर्वं भिन्नं येन संतानभेदः || १२३ || अत एवाह � ततो लयाकले मेये प्रमातास्ति लयाकलः || १०-१२४ || अतस्त्रयोदशत्वं स्यादित्थं नैकादशात्मता | विज्ञानाकलवेद्यत्वेऽप्यन्यो ज्ञानाकलो भवेत् || १०-१२५ || माता तदेकादशता स्यान्नैव तु नवात्मता | एवं मन्त्रतदीशानां मन्त्रेशान्तरसंभवे || १०-१२६ || वेद्यत्वान्नव सप्त स्युः सप्त पञ्च तु ते कथम् |
SK
इत्थं लयाकलादीनामानन्त्यात् | मन्त्रेशेतिशब्देन मन्त्रेश्वराः, तेन मन्त्रान्तराणामीशान्तराणां च संभव इति | तत्र सकलस्य सकलान्तरवेद्यत्वे मौलस्य सशक्तिकस्य प्रमातृसप्तकस्यैव भावात्पाञ्चदश्यमेव, सकलस्य च स्वरूपीभावे लयाकलादेः सशक्तिकस्य प्रमातृषट्कस्य भावात् त्रायोदश्यमेवेति नास्ति विवादः | लयाकलस्य तु लयाकलान्तरवेद्यत्वे प्रमातृणां तादवस्थ्यात् त्रायोदश्यमेव स्यात्, विज्ञानाकलादेश्च विज्ञानाकलान्तरादिवेद्यत्वेऽपि अनेनैव न्यायेन प्रतिप्रमातृ भेदद्वयमधिकीभवेदिति कथमुक्तम् ᳚..........................ॠउद्रवत्प्रलयाकलः | तद्वन्मायापि विज्ञेया नवधा ज्ञानकेवलाः || मन्त्राः सप्तविधास्तद्वत्पञ्चधा मन्त्रनायकाः | (मा. वि. २|६) इति ? || १२६ || एतच्चाभ्युपगम्य प्रतिविधत्ते -- उच्यते सत्यमस्त्येषा कलना किन्तु सुस्फुटः || १०-१२७ || यथात्र सकले भेदो न तथा त्वकलादिके | ननु कोऽसौ सुस्फुटः सकले भेदो यः प्रलयाकलादौ नास्ति? -- इत्याशङ्क्याह -- अनन्तावान्तरेदृक्षयोनिभेदवतः स्फुटम् || १०-१२८ || चतुर्दशविधस्यास्य सकलस्यास्ति भेदिता | ईदृक्षेति प्रत्यक्षोपलक्ष्यमाणः | भेदितेति देवमनुष्यादिभेदवत्त्वम् -- इत्यर्थः || १२८ || ननु प्रबुद्धसंस्काराः प्रलयाकला एव तथा तथा सकलीभवन्तीति सर्वत्रैवोक्तं, तत्तेषामेव यो भेदो नास्ति स कथं सकलानामपि स्यात् ? -- इत्याशङ्क्याह -- लयाकले तु संस्कारमात्रात्सत्यप्यसौ भिदा || १०-१२९ || अकले न विशेषाय सकलस्यैव युज्यते | संस्कारमात्रेण सतोऽपि भेदस्य विशेषायोगे विशेषणद्वारेणाकलत्वं हेतुः, प्रलयाकलस्य हि ङ किञ्चिच्चेतितवानहम्᳚ इति अपवेद्यत्वे, शुखमहमस्वाप्सम्᳚ इति सवेद्यत्वेऽपि यत्र बाह्यार्थवेदनमपि नास्ति तत्र का वार्ता प्रमात्रन्तरवेदने येन त्रायोदश्यं स्यात् || १२९ || विज्ञानाकलादीनां पुनः संस्कारमात्ररूपोऽपि भेदो नास्ति � इत्याह -- विज्ञानकेवलादीनां तावत्यपि न वै भिदा || १०-१३० ||
SK
शिवस्वाच्छन्द्यमात्रं तु भेदायैषां विजृम्भते | तेषां हि शुद्धबोधाद्येकरूपत्वेऽपि परमेश्वरस्वातन्त्र्यविजृम्भामात्ररूप एव पारस्परिको भेद इत्युक्तम् � ᳚शिवस्वाच्छन्द्यमात्रं तु भेदायैषां विजृम्भते |᳚ इति यदुक्तम् -- ᳚बोधादिलक्षणैक्येऽपि येषामन्योन्यभिन्नता | तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः ||᳚ (रि. प्र. ३|२|७) इति | अतश्च शुद्धबोधाद्येकरूपत्वाद् विज्ञानाकलादीनां यत्रैवं भेदो नास्ति तत्र का वार्ता यथोत्तरं पूर्णदृक्रियायोगिनां मन्त्रमन्त्रेश्वरमन्त्रमहेश्वराणामित्येतत्स्वकण्ठेन नोक्तम् | अतश्च सकलात्प्रलयाकलादीनामेवं विशेषः -- इति नात्र प्रलयाकलादेः प्रलयाकलान्तरादिवेद्यत्वमस्तीति न संख्यायामेवमाधिक्यं भगवानुपादिशत् ||१३०|| तदाह � इत्याशयेन संपश्यन्विशेषं सकलादिह || १०-१३१ || लयाकलादौ नोवाच त्रायोदश्यादिकं विभुः | इयता भावधर्मवेद्यतामूलं पाञ्चदश्याद्युपपादितम् || १०-१३१ || अधुना तु तदेव घटयितुं प्रलयाकलविज्ञानाकलापेक्षया तन्मूलभूता वेद्यतैव नास्ति? -- इत्याशङ्कते � नन्वस्तु वेद्यता भावधर्मः किन्तु लयाकलौ || १०-१३२ || मन्वाते नेह वै किञ्चित्तदपेक्षा त्वसौ कथम् | प्रलयाकलविज्ञानाकलौ हि प्रसुप्तभुजगशून्यसमाधिस्थयोगिप्रायत्वान्न किञ्चिज्जानीतः, -- इति तयोर्वेदितृत्वमेव नास्तीत्याश्चर्यं तदपेक्षयापि कथङ्कारं वेद्यता भावधर्मः स्यात् ? || १३२ || एतदेव प्रतिविधत्ते -- श्रूयतां संविदैकात्म्यतत्त्वेऽस्मिन्संव्यवस्थिते || १०-१३३ || जडेऽपि चितिरस्त्येव भोत्स्यमाने तु का कथा | स्वबोधावसरे तावद्भोत्स्यते लयकेवली || १०-१३४ || द्विविधश्च प्रबोधोऽस्य मन्त्रत्वाय भवाय च | संविदद्वैतपरमार्थे हि अस्मिन्दर्शने यत्र नीलसुखादिर्जडोऽपि चेतनस्तत्र प्रबुभुत्सौ प्रलयाकलादौ प्रमातरि का वार्तेति प्रलयाकलविज्ञानाकलयोरस्त्येव वेदितृत्वं येन वेद्यतापि भावधर्मो भवेत् || १३४ || ननु यद्येवं तत्कदा कस्य बोधः ? -- इत्याशङ्क्याह --
SK
भावनादिबलादन्यवैष्णवादिनयोदितात् || १०-१३५ || यथास्वमाधरौत्तर्यविचित्रात्संस्कृतस्तथा | लीनः प्रबुद्धोः मन्त्रत्वं तदीशत्वमथैति वा || १०-१३६ || स्वातन्त्र्यवर्जिता ये तु बलान्मोहवशीकृताः | लयाकलात्स्वसंस्कारात्प्रबुध्यन्ते भवाय ते || १०-१३७ || तथेति यथास्वमाधरौत्तर्येणैव-इत्यर्थः | वैष्णवादिनयानां च यथास्वमाधरौत्तर्यं पूर्वमेव वितत्य निर्णीतमिति नेहायस्तम् | तदुक्तं प्राक् -- ᳚ये पुनः कर्मसंस्कारहान्यै प्रारब्धभावनाः | भावनापरिनिष्पत्तिमप्राप्य प्रलयं गताः || महान्तं ते तथान्तःस्थभावनापाकसौष्ठवात् | मन्त्रत्वं प्रतिपद्यन्ते चित्राच्चित्रं च कर्मतः ||᳚᳚ (९|१४१) इति | स्वातन्त्र्यवर्जिता इति वैष्णवादिनयान्तरोदितभावनाद्यनुष्ठानशक्तिशून्याःइत्यर्थः | अत एवोक्तम् -- ᳚बलान्मोहवशीकृता᳚ इति || १३७ || न केवलं प्रलयाकल एव द्विधा बुद्ध्यते यावद्विज्ञानाकलोऽपि -- इत्याह -- ज्ञानाकलोऽपि मन्त्रेशमहेशत्वाय बुध्यते | मन्त्रादित्वाय वा जातु जातु संसृतयेऽपि वा || १०-१३८ || मन्त्रादित्वायेत्यादिशब्दान्न शिवत्वायापीति विशेषयति -- मन्त्रेशमहेशत्वायेति | ईशाः मन्त्रेश्वराः || १३८ || ननु विज्ञानाकलस्य ङिष्कर्मा हि स्थिते मूलमलेऽप्यज्ञाननामनि | वैचित्र्यकारणाभावान्नोर्ध्वं सरति नाप्यधः || केवलं पारिमित्येन शिवाभेदमसंस्पृशन् | विज्ञानकेवली प्रोक्तः शुद्धविज्ञानसंस्थितः || स पुनः शाम्भवेच्छातः शिवाभेदं परामृशन् | क्रमान्मन्त्रेशतन्नेतृरूपो याति शिवात्मताम् ||᳚ (९ |९३) इत्यादिप्रागुक्तयुक्त्या मन्त्रमन्त्रेश्वरमन्त्रमहेश्वरत्वायाभिधीयतां प्रबोधः, कथं पुनः संसृतयेऽपि जातु बुद्ध्यते इत्युक्तम् ? -- इत्याशङ्क्याह -- अवतारो हि विज्ञानियोगिभावेऽस्य भिद्यते | विज्ञानाकलस्य हि अस्मद्दर्शनानुसारं विज्ञानित्वेन योगित्वेन चावतारान्नेतरवत्संसृतिः -- इत्युक्तम् -- ᳚अवतारोऽस्य भिद्यते᳚ इति || एवमस्योपपादितं प्रबोधं संवादयति -- उक्तं च बोधयामास स सिसृक्षुर्जगत्प्रभुः || १०-१३९ ||
SK
विज्ञानकेवलानष्टाविति श्रीपूर्वशासने | तदुक्तं तत्र � श सिसृक्षुर्जगत्सृष्टेरादावेव निजेच्छया | विज्ञानकेवलानष्टौ बोधयामास पुद्ग्लान् ||᳚ (मा. वि. १|१९) इति || १३९ || नन्वप्रबुद्धयोस्तावल्लयाकलयोर्वेदितृत्वं नास्तीत्यविवादः, प्रबुद्धौ च तौ सकलमन्त्रादिरूपतां प्राप्नुतः, -- इति तदपेक्षयैव तदा वेद्यता भावधर्मः स्यान्न लयाकलापेक्षयेत्येवमपि पाञ्चदश्यादिक्रमो विघटेत ? -- इत्याशङ्क्याह -- अतः प्रभोत्स्यमानत्वे यानयोर्बोधयोग्यता || १०-१४० || तद्वलाद्वेद्यतायोग्यभावेनेवात्र वेद्यता | अतः समनन्तरोक्तान्न्यायादनयोः प्रलयाकलविज्ञानाकलयोः प्रभोत्स्यमानत्वे प्रबुभुत्सुदशायां समनन्तरमेव वेदितृत्वस्यावश्यमभिव्यक्तेर्या बोधे योग्यता पात्रत्वं तदपेक्षया च योग्यतारूपतैव वेद्यतापि धरादौ संम्भवतीति को नामात्र विघटनावकाशः || १४० || एतदेव निदर्शयति � तथाहि गाढनिद्रेऽपि प्रियेऽनाशङ्कितागताम् || १०-१४१ || मां द्रक्ष्यतीति नाङ्गेषु स्वेषु मात्यभिसारिका | प्रियस्य गाढनिद्रामूढत्वाद्भाविनीमपि स्वात्मनि तद्वेद्यतां संभाव्याभिसारिकाया एवं संमदातिशय इत्यस्य निद्रितत्वेऽपि भावबोधसंबन्धनिबन्धनात्मिकया योग्यतया वेदितृत्वमस्ति येनैवमुक्तम् || १४१ || एतदेव प्रकृते योजयति -- एवं शिवोऽपि मनुते एतस्यैतत्प्रवेद्यताम् || १०-१४२ || यास्यतीति सृजामीति तदानीं योग्यतैव सा | वेद्यता तस्य भावस्य भोक्तृता तावती च सा || १०-१४३ || लयाकलस्य चित्रो हि भोगः केन विकल्प्यते |
SK
एतस्य लयाकलादेरेतद्भावजातं स्वबोधावसरे प्रकर्षेण न त्विदानीमिव योग्यतामात्रेण वेद्यतां यास्यतीति, अतो हेतोर्ग्राह्यग्राहकरूपतया परस्परानुरूपं युगलमिदं निर्मिणोमि इत्येवं भगवान् शिवोऽपि परामृशतीति, तदानीं प्रलयाकलाद्यवस्थायां योग्यतयैव वेद्यता भावधर्मः -- इत्यर्थः | ननु वेद्यता भावस्यौषचारिकी मुख्या वा योग्यतामात्रेण भवतु नाम, वेदितृता कथमेवं भवेत्, सा हि भोक्तृता भोगश्च सुखदुःखाद्यनुभवः, इति तदभावे लयाकलादौ वेदितृता तदपेक्षा च वेद्यतापि कथं तिष्ठेताम् ? -- इत्याशङ्क्याह -- भोक्तृतेत्यादि | तावतीति सुखदुःखाद्यनुभवरूपप्ररोहावस्थाविलक्षणयोग्यतामात्ररूपैव -- इत्यर्थः | ननु किमिदमपूर्वं परिभाष्यते भाविभोगसंबन्धनिबन्धना भोक्तृतेति, नहि भावनास्थविरभावेन बालोऽपि स्थविर इत्यनुपचरितं युज्यते वक्तुम्? -- इत्याशङ्क्याह -- चित्रो हीत्यादि | भोगो हि देशकालावस्थास्वालक्षण्यादिवैचित्र्येण नानाविधो भोक्तृणां व्यवतिष्ठते, यथा स्फुट एव सुखदुःखाद्यनुभवो भोग इति न नियन्तुमुचितमस्फुटेऽपि तथाभावात् | एवं भावितायामस्फुटतरेऽपि योग्यतामात्रेण भवेदेव भोगव्यवहारस्तत्तद्भोक्त्रौचित्येन तथा तथा भोगोपपत्तेः || १४३ || तदेव दर्शयति � यथा यथा हि संवित्तिः स हि भोगः स्फुटोऽस्फुटः || १०-१४४ || स्मृतियोग्योऽप्यन्यथा वा भोग्यभावं न तूज्झति | यथा यथेति स्फुटत्वेनास्फुटत्वेन वा अन्यथा वापीति | अपिर्भिन्नक्रमः | अन्यथेति स्फुटत्वान्मार्गगमनादावविमृष्टदृष्टतृणशर्करादिवत्स्मर्तुमयोग्य् अः -- इत्यर्थः || १४४ || अत्रैव दृष्टान्तयति -- गाढनिद्राविमूढोऽपि कान्तालिड्गितविग्रहः || १०-१४५ || भोक्तैव भण्यते सोऽपि मनुते भोक्तृतां पुरा | भण्यते इति लोकैः | सोऽप्यर्थात्प्रबुद्धः | पुरेति गाढमूढदशायामपि -- इत्यर्थः || १४५ || न केवलं मूढदशायामेव योग्यतामात्रेण भोक्तृभोग्यभावो भवेद्यावदमूढदशायामपि -- इत्याह --
SK
उत्प्रेक्षामात्रहीनोऽपि काञ्चित्कुलवधूं पुरः || १०-१४६ || संभोक्ष्यमाणां दृष्ट्वैव रभसाद्याति संमदम् | उत्प्रेक्षेति कुलवधूविषयः सङ्कल्पः | संभोक्ष्यमाणामित्यदृष्टवशात्करिष्यमाणसंभोगाम् -- इत्यर्थः | अत एव रभसादवलोकनसमनन्तरमेव आवेगवता भिलाषेण लब्धलाभ इव संमदं संभोगसमुचितामानन्दमयतामियाद्येनास्य भोक्तृभावो भवेत् || १४६ || ननु संभुज्यमानापि कुलवधूर्यदि योग्यतामात्रेण कञ्चित्प्रति भोग्या तदविशेषात्सर्वान्प्रत्येवास्तु? -- इत्याशङ्क्याह -- तामेव दृष्ट्वा च तदा समानाशयभागपि || १०-१४७ || अन्यस्तथा न संवित्ते कमत्रोपलभामहे | तदेत्येकतरसंमदावसरे -- इत्यर्थः | समानाशयभागपीति तेनैव भोक्ता सदृशरागादिवासनोऽपि -- इत्यर्थः || १४७ || ननु कारणाविशेषेऽपि कार्यं क्वचिदेव नान्यत्रेति निर्हेतुककार्यनियमवादिन एवोपालभ्याः? -- इत्याशङ्क्य दृष्टान्तदृशोपपादयति -- लोके रूढमिदं दृष्टिरस्मिन्कारणमन्तरा || १०-१४८ || प्रसीदतीव मग्नेव निर्वातीवेतिवादिनि | दृष्टिरित्यादिवादिनि लोके इदं रूढमिति समन्वयः, इदमिति कारणाविशेषेऽपि क्वचिदेव कार्यमिति, कारणमन्तरेति प्रसिद्धकारणाभावेन -- इत्यर्थः, तेन दृष्टकारणसामग्र्यविशेषेऽपि अदृष्टवशात्क्वचिदेव दृष्टिप्रसादादिलक्षणो भोगो भवेदित्यमूढदशायामपि योग्यतया भोक्तृभोग्यभावदर्शनाल्लयाकलादीनामपि तथाभावोपपत्तेः सिद्धः पाञ्चदश्यादिभेद इति || १४८ || उपसंहरति � इत्थं विस्तरतस्तत्त्वभेदोऽयं समुदाहृतः || १०-१४९ || नन्वेकैव धरा सकलादिभिरैकैकध्येन द्विकत्रिकादिक्रमात्साहित्येन वा वेद्यत इति कथं पाञ्चदश्यादेरप्याधिक्यं न स्यात्? -- इत्याशङ्क्याह -- शक्तिशक्तिमतां भेदादन्योन्यं तत्कृतेष्वपि | भेदेष्वन्योन्यतो भेदात्तथा तत्त्वान्तरैः सह || १०-१५० || भेदोपभेदगणनां कुर्वतो नावधिः क्वचित् | एवं च भुवनादेरपि वैचित्र्यमवतिष्ठते, -- इत्याह -- तत एव विचित्रोऽयं भुवनादिविधिः स्थितः || १०-१५९ || तदुक्तम् �
SK
᳚भेदः प्रकथितो लेशादनन्तो विस्तरादयम् | एवं भुवनमालापि भिन्ना भेदैरिमैः स्फुटम् ||᳚ (मा. वि. २|८) इति || १५९ || वैचित्र्यमेवात्र दर्शयति -- पार्थिवत्वेऽपि नो साम्यं रुद्रवैष्णवलोकयोः | का कथान्यत्र तु भवेद्भोगे वापि स्वरूपके || १०-१५२ || यत्र समानेऽपि पार्थिवत्वे रौद्रे वैष्णवे च लोके भोगस्वरूपयोर्वैचित्र्यमस्ति, ततोऽन्यत्र पार्थिवा(दा)प्याद्यात्मनि भुवनादौ तयोः का वार्तेत्युक्तम् -- ᳚का कथान्यत्र तु भवेत्᳚ इति || १५२ || ननूच्यतां विस्तारो येन भुवनादावेवं वैचित्र्यम् ? -- इत्याशङ्क्याह - - स च नो विस्तरः साक्षाच्छक्यो यद्यपि भाषितुम् | तथापि मार्गमात्रेण कथ्यमानो विविच्यताम् || १०-१५३ || एवमत्र शक्तिशक्तिमतां भेदादित्यादिना ग्रहणवाक्येनासूत्रितो भेदोपभेदात्मा विस्तरस्तावद्दिङमात्रेणाभिधीयते || १५३ || तत्र शक्तिशक्तिमतां मौलश्चतुर्दशविधः समनन्तरमेवोक्तोऽन्योन्यं च तेषां भेदादवान्तरमपि भेदजातं भवेत् -- इत्याह -- सप्तानां मातृशक्तीनामन्योन्यं भेदने सति | रूपमेकान्नपञ्चाशत्स्वरूपं चाधिकं ततः || १०-१५४ || एकान्नपञ्चाशदिति, सप्तानां सकलादिप्रमातृशक्तीनां ताभिरेव सप्तभि रगुणनात् || १५४ || नन्वन्यसंबन्धिनी शक्तिः कथमन्यं भिन्द्यात्, न हि पटस्यातानवितानवत्त्वेन घटस्तथा स्यात् ? -- इत्याशङ्क्याह -- सर्वं सर्वात्मकं यस्मात्तस्मात्सकलमातरि | लेयाकलादिशक्तीनां संभवोऽस्त्येव तत्त्वतः || १०-१५५ || नन्वेवं वस्तुतः संभवेत् किन्तु न तथा संलक्ष्यते ? -- इत्याशङ्क्याह -- स त्वस्फुटोऽस्तु भेदांशं दातुं तावत्प्रभुर्भवेत् | वस्तुवृत्तमधिकृत्य हि भेदोपदर्शनमिहोपक्रान्तम् -- इत्याशयः || एवं शक्तिमतामन्योन्यं भेदने सति एकोनपञ्चाशदात्मनामपि भेदानां तत्कृतेष्वपि भेदेष्वन्योऽन्यतो भेदादित्यासूत्रितमनेकप्रकारत्वं भवेत् -- इत्याह -- तेषामपि च भेदानामन्योऽन्यं बहुभेदता || १०-१५६ ||
SK
अन्योऽन्यमित्यर्थाद्भेदने सति, बहुभेदतेति एकोनपञ्चाशत एकोनपञ्चाशता गुणनादेकोत्तरचतुर्विशतिशतप्रकारता -- इत्यर्थः || १५६ || तत्त्वान्तरैः सहेत्युक्तं विभजति -- मुख्यानां भेदभेदानां जलाद्यैर्भेदने सति | मुख्यभेदप्रकारेण विधेरानन्त्यमुच्यते || १०-१५७ || मुख्यानां भेदभेदानामित्येकोनपञ्चाशदूर्पाणामुपभेदानाम् -- इत्यर्थः | अमुख्यानां पुनरेषामेवं गुणने भेदविधेरानन्त्ये का वार्ता इत्युक्तं स्यात् | भेदने सतीति -- एकद्वित्रादिक्रमेण | मुख्यभेदप्रकारेणेति -- मुख्यस्य चतुर्दशविधस्य भेदस्य प्रकारेण तद्वत् -- इत्यर्थः | अनेन मुख्यभेदानामपि धरादेरेकद्वित्रादिक्रमेण भेदने भेदविधेरानन्त्यमपि भवेदित्यनुवादाद्विधिः || १५७ || न केवलमेषां वैचित्र्यं यावत्प्रकारान्तरेणापि -- इत्याह -- सकलस्य समुद्भूताश्चक्षुरादिस्वशक्तयः | न्यग्भूताश्च प्रतन्वन्ति भेदान्तरमपि स्फुटम् || १०-१५८ || यद्यपि शकलस्य प्रमाणांशो योऽसौ विद्याकलात्मकः | सामान्यात्मा स शक्तित्वे गणितो न तु तद्भिदः ||᳚ (१०|१२) इति प्रागुक्तं, तथापि सामान्यस्य विशेषाविनाभावित्वाच्चक्षुरादिशक्तीनामप्यत्रावश्यभावी सम्भव इत्युक्तं सकलस्य चक्षुरादिशक्तयः समुद्भूता न्यग्भूताश्च भेदान्तराधानं कुर्वन्तीति || १५८ || एतदेव लयाकलादीनामप्यतिदिशति -- एवं लयाकलादीनां तत्संस्कारपदोदितात् | पाटवात्प्रक्षयाद्वापि भेदान्तरमुदीर्यते || १०-१५९ || तत्संस्कारेति तासां चक्षुरादिशक्तीनां संस्कारो वासना -- इत्यर्थः | लयाकलस्यापि सकलवद्विद्याकलात्मिकैव शक्तिः, किन्तु संस्काररूपतया तस्यास्तथा न स्फुटत्वम् | यदुक्तम् -- ᳚लयाकलस्य मानांशः स एव परमस्फुटः |᳚ (१०|१३) इति || १५९ || ननु चक्षुरादिशक्तीनां यद्युद्भवतिरोभावौ तद्वेद्यतायाः किमायातं येनैवं भेदान्तरोदयः स्यात् ? -- इत्याशङ्क्याह -- न्यक्कृतां शक्तिमास्थायाप्युदासीनतया स्थितिम् | अनाविश्येव यद्वेत्ति तत्रान्या वेद्यता खलु || १०-१६० ||
SK
आविश्येव निमज्येव विकास्येव विघूर्ण्य च | विदतो वेद्यतान्यैव भेदोऽत्रार्थक्रियोचितः || १०-१६१ || अनाविश्येव तृणशर्करादिन्यायेन उत्तानतया -- इत्यर्थः | आविश्येव इत्यादौ यथोत्तरमपकर्षः | आवेशो हि तन्मयीभावः, निमज्जनमासङ्गात्मा तदन्तःप्रवेशः, विकासस्तदौत्सुक्येन प्रसरणम्, विघूर्णनं तदौन्मुख्येनोच्छलनात्मकं स्पन्दनम्, विदत इति उद्रिक्तस्वशक्तेः -- इत्यर्थः | ननु फलाविशेषाद्वचनमात्रसारेणामुना भेदेन कोऽर्थः ? -- इत्याशंक्योक्तम् -- ᳚भेदोऽत्रार्थक्रियोचितः᳚ इति | अनुद्भूतशक्तिकस्य हि दृष्टमप्यदृष्टमिव न तथा निर्वृतिं पुष्येत्, उद्भ्ररूतशक्तेः पुनरासज्य विषयं पश्यतः परश्चमत्कारातिशयो भवेदित्यर्थक्रियाकृत एवायं भेदः किमुच्यते वचनमात्रसार इति || १६१ || तदेवान्वयव्यतिरेकगर्भं दृष्टान्तद्वारेण द्रढयति -- अन्यशक्तितिरोभावे कस्याश्चित्सुस्फुटोदये | भेदान्तरमपि ज्ञेयं वीणावादकदृष्टिवत् || १०-१६२ || वीणावादकस्य हि दृगादिशक्तिन्यग्भावे श्रोत्रशक्तेरेवोद्भवः || १६२ || शक्तेश्च तिरोभावोद्भवौ विभजति -- तिरोभावोद्भवौ शक्तेः स्वशक्त्यन्तरतोऽन्यतः | चेत्यमानादचेत्याद्वा तन्वाते बहुभेदताम् || १०-१६३ || क्वचिद्धि चक्षुरादिशक्तेः स्वयमवधानानवधानाभ्यामुद्भवतिरोभावौ, क्वचिच्च वीणावादकस्येव श्रोत्रादिशक्त्यन्तरात्, क्वचिच्चान्यतो मन्त्रौषधादेः, सर्वं चैतच्चेत्यमानमचेत्यमानं वेति भेदानामानन्त्यम् || १६३ || एतच्च भेदजातं धरादिगतैकैकभावादिप्रकारेणापि प्रथमं तावद्योज्यम् -- इत्याह -- एवमेतद्धरादीनां तत्त्वानां यावती दशा | काचिदस्ति घटाख्यापि तत्र संदर्शिता भिदः || १०-१६४ || तत्रेति एकघटाख्यदशायाम्, एवमनेकदशावति तत्त्वे पुनः कियन्तो भेदा, -- इति को नाम वक्तुं शक्नुयात् -- इत्याशयः || १६४ || ननु यन्नामेदं शक्तेरुद्भवतिरोभावाद्युक्तं तत्प्रमातुरतिशयो नान्यस्येति कथमेवंभेदभिन्नत्वं घटादेर्वेद्यस्यार्थस्य स्यात् ? -- इत्याशङ्क्याह --
SK
अत्रापि वेद्यता नाम तादात्म्यं वेदकैः सह | ततः सकलवेद्योऽसौ घटः सकल एव हि || १०-१६५ || यावच्छिवैकवेद्योऽसौ शिव एवावभासते | तावदेकशरीरो हि बोधो भात्येव यावता || १०-१६६ || तत इति वेद्यवेदकयोस्तादात्म्यात तेन यो यत्प्रमातृवेद्योऽर्थः स तत्प्रमातृरूप एवेति सिद्धम् | अर्थो हि तत्तत्प्रमातृमय एवेत्युपपादितं प्राग् बहुशः | बोधो हि यावता वेद्यवेदकात्मना रूपेण परिस्फुरेत् तावता तत्तत्तादात्म्यमय एवाखण्डपरप्रकाशात्मक इति यावत् | तदुक्तम् -- ᳚यावन्न वेदका एते तावद्वेद्याः कथं प्रिये | वेदकं वेद्यमेकं तु तत्त्वं नास्त्यशुचि ततः ||᳚ इति || १६६ || एवं धरादौ भावभुवनादिगतत्वेन व्यस्तसमस्ततया पाञ्चदश्यमुपपाद्य, तत्त्वाश्रयतयागमगर्भं सामस्त्येनेवाभिधत्ते -- अधुनात्र समस्तस्य धरातत्त्वस्य दर्श्यते | सामस्त्य एवाभिहितं पाञ्चदश्यं पुरोदितम् || १०-१६७ || धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते | स एव शिवनाथोऽत्र पृथिवी ब्रह्म तन्मतम् || १०-१६८ || धरातत्त्वगताः सिद्धीर्वितरीतं समुद्यतान् | प्रेरयन्ति शिवेच्छातो ये ते मन्त्रमहेश्वराः || १०-१६९ || अधुना प्राप्तावसरं समस्तस्य धरातत्त्वस्य पुरोदितं व्यस्तसमस्तभेदभिन्नं पाञ्चदश्यं सामस्त्य एवावान्तरप्रकारद्वारकवैयस्त्यपरिहारेण दर्श्यते, यतस्तत्तथैव प्रक्रान्ते श्रीपूर्वशास्त्रेऽभिहितम् | तत्र तन्मूलभूतं प्रमातृसप्तकं तावन्निर्दिशतिधरेत्यादिना | ननु शिवो नाम निखिलतत्त्वबृंहणाद् ब्रह्मेत्युच्यते तत्कथं नैयत्येन व्यवतिष्ठताम् ? -- इत्याशंक्योक्तम् -- पृथिवी ब्रह्मेति | यच्छ्रुतिः -- ᳚पृथिव्येवेदं ब्रह्म᳚ इति | शिवेच्छात इति तेषामपि ह्यत्र शिवः प्रेरकः -- इत्यभिप्रायः || १६९ || के पुनः प्रेर्याः? -- इत्याशङ्क्याह -- प्रेर्यमाणास्तु मन्त्रेशा मन्त्रास्तद्वाचकाः स्फुटम् | धरातत्त्वगतं योगमभ्यस्य शिवविद्यया || १०-१७० || न तु पाशवसांख्यीयवैष्णवादिद्वितादृशा | अप्राप्तधुर्वधामानो विज्ञानाकलताजुषः || १०-१७१ ||
SK
तावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः | सौषुप्तावस्थयोपेतास्तेऽत्र प्रलयकेवलाः || १०-१७२ || मन्त्रेशा इति तत्तन्मन्त्रवाच्याः शतरुद्राद्याः | तदुक्तम् � ᳚प्रेर्यमाणास्तु वाच्यांशभूमिं शक्त्या निवेशिताः | मन्त्रेशाः शतरुद्रादिविरिश्चान्ततया स्थिताः || शिवस्य नादशक्त्यन्तर्धरासंक्षोभसंभवाः | मन्त्रास्तद्वाचकास्तत्तत्फलदानसमुद्यताः ||᳚ इति | द्वितादृशेति भेददृष्ट्या, अप्राप्तध्रुवधामान इति भावनानिष्पत्तिमप्राप्यान्तरा विलयात्, तावदिति धरादेः, लयं गता इत्यर्थादप्तत्वादौ, प्रलयादौ हि प्रलयकेवलिनामूर्ध्वोर्ध्वं तत्त्वेष्ववस्थानमित्युक्तं प्राक् | सौषुप्तावस्थयोपेता इति सुषुप्तावस्थिताः -- इत्यर्थः || १७२ || ननु प्रलयाकलानां तत्तत्त्वलीनत्वं रूपम्, तच्च देहादिप्रमातृसंस्कारसंभवमात्रात्मनि सौषुप्ते न संभवेदिति कथङ्कारमेषां तदवस्थोपेतत्वम्? -- इत्याशङ्क्याह -- सौषुप्ते तत्त्वलीनत्वं स्फुटमेव हि लक्ष्यते | अन्यथा नियतस्वप्नसंदृष्टिर्जायते कुतः || १०-१७३ || अन्यथेति तत्तत्त्वलयाभावे -- इत्यर्थः | इह किल जाग्रत इव स्वप्नसुषुप्तयोः, स्वप्नस्यापि सुषुप्तादानन्तर्यं नियतमुपलभ्यते, न ह्यन्तःकरणबहिष्करणविश्रान्तिमयमिदमनधिशयानः स्वप्नपदमास्कन्दतीति स्वप्नावस्थाया नियतपूर्वभावि सौषुप्तं कारणम्, कारणानुरूप्येण च कार्योत्पत्या भवितव्यम्, तद्यत्तत्त्वविलयसारं सौषुप्तं तत्तत्त्वोचितभावभुवनादिमयी स्वप्नसृष्टिर्विभाव्यते, यथा धरालीनस्य पर्वतादिरोहणमबादिलीनस्य चोदन्वत्तरणादि || १७३ || ननु यदि सौषुप्तेऽपि निखिलवेद्यविलयात्मा तत्त्वविलयस्तन्नियतवेद्यानुभवसंस्कारलब्धजन्मनः स्मृतेस्तदा प्रबुद्धस्य कोऽवसरः ? -- इत्याशङ्क्याह -- सौषुप्तमपि चित्रं च स्वच्छास्वच्छादि भासते | अस्वाप्सं सुखमित्यादिस्मृतिवैचित्र्यदर्शनात् || १०-१७४ ||
SK
चित्रमिति गुणत्रयमयत्वात्, अत एवोक्तं -- स्वच्छास्वच्छादीति | तत्र स्वच्छे सत्त्वप्रधाने शुखमहमस्वाप्सम्᳚ इति | अस्वच्छे तमःप्रधाने ङ किञ्चिच्चेतितवानहम्᳚ इति| आदिग्रहणात् स्वच्छास्वच्छे रजःप्रधाने ᳚दुःखमहमस्वाप्सम्᳚ इति स्मृतेर्वैचित्र्यम् | तदेतदन्यथानुपपत्त्या नायं नियमः, शौषुप्ते निखिलवेद्यविलयः᳚ इति, येन प्रबुद्धस्य स्मृतिर्विरुद्ध्येत -- इत्याशयः || १७४ || न चेदं वाच्यं यत्तूलशयनसुखादिस्पर्शानुभवसमुत्थेयं स्मृतिरिति -- इत्याह -- यदैव स क्षणं सूक्ष्मं निद्रायैव प्रबुध्यते | तदैव स्मृतिरेषेति नार्थजज्ञानजा स्मृतिः || १०-१७५ || तदा हि स्यादेतदेवं यदा प्रथमं प्रबोधस्ततः सुखाद्यनुभवस्ततस्तदाहितसंस्कारजा प्रबोधोपनिपाते स्मृतिरिति | न चात्रैवं, प्रबोधस्मृत्योरेकक्षणभावित्वात् | तदाह -- ᳚यदैव प्रबुद्ध्यत इति तदैव स्मृतिरिति᳚ च || १७५ || अत एवात्र स्थिरप्रबोधाभावेऽप्यन्तरान्तरा प्रबुद्धस्य विद्युदुन्मिषितन्यायेन तथानुभवात्स्मृतिरित्यादि वदन्त उत्पेर्क्षितव्याः -- इत्याह -- तेन मूढैर्यदुच्येत प्रबुद्धस्यान्तरान्तरा | तूलिकादिसुखस्पर्शस्मृतिरेषेति तत्कुतः || १०-१७६ || तत्कुत इति निर्हेतुकमेव -- इत्यर्थः || १७६ || मायाकर्मसमुल्लाससंमिश्रितमलाबिलाः | धराधिरोहिणो ज्ञेयाः सकला इह पुद्गलाः || १०-१७७ || मायेत्यादिनैषां त्रिमलबद्धत्वमुक्तम् || १७७ || एवं प्रमातृसप्तकं निर्दिश्य, सामान्येन तच्छक्तिसप्तकं निर्देष्टुमाह � अस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने | प्रक्षोभो यस्तदेवोक्तं शक्तीनां सप्तकं स्फुटम् || १०-१७८ || शिवो ह्यच्युतचिद्रूपस्तिस्रस्तच्छक्तयस्तु याः | ताः स्वातन्त्र्यवशोपात्तग्रहीत्राकारतावशात् || १०-१७९ || त्रिधा मन्त्रावसानाः स्युरुदासीना इव स्थिताः | ग्राह्याकारोपरागात्तु ग्रहीत्राकारतावशात् || १०-१८० || सकलान्तास्तु तास्तिस्त्र इच्छाज्ञानक्रिया मताः |
SK
स्वस्वव्यापारेति, स्वस्य स्वस्य स्तम्भादेः सृष्ट्यादेश्च व्यापारस्य क्रियायाः -- इत्यर्थः | एतच्चानेनैवान्यत्र विशेषेणोक्तम् | तद्यथा -- ᳚तत्रैव धरणीनाम्नि भिन्नाभासिनि या पृथक् | स्तम्भादिकावलोक्येत शिवशक्तिरसौ भुवि || अत्रैव सृष्टिविलयस्थित्यनुग्रहसंहृतिः | सकलादिशिवान्तेयं विधत्ते विविधस्थितिः || सेह मन्त्रमहेशानशक्तिस्तत्त्वाधिकारिणी | तत्तत्त्वमन्त्रवृन्देषु हठादेव हि पुद्गलान् || या प्रेरयति माहेशी शक्तिः सा बोधभूमिगा | यया बुद्ध्येत भूतत्त्वसद्भावं पीतलादिकम् || त्रायते तद्विपक्षाच्च मन्त्रशक्तिरसौ मता | तत्तत्त्वभोगाभोगे या सम्यगौत्सुक्यदायिनी || तावन्मात्रमलावस्था शक्तिर्वै ज्ञानकेवली | प्रबुद्धस्फारतत्तत्त्वगतकर्माभिमुख्यतः || तद्भोगोन्मुखता शक्तिः प्रलयाकलगामिनी | मायाकर्ममलव्यक्तिसमावेशे तु या स्थितिः || बाह्यान्तरेन्द्रियकृता नानावस्थानुयायिनी | भोगसाधनशक्तिः सा सकलाणुसमाश्रया ||᳚ इति | नन्वस्मदर्शने नरशक्तिशिवात्मकमेव विश्वमिति तत्र तत्रोद्धोष्यते तदिह कथमपूर्वतयेदमुच्यते ? -- इत्याशङ्क्याह -- शिव इत्यादि | तत्र शिवस्तावन्नित्यचिदात्मा परप्रमाता इति नास्ति विवादः | तच्छक्तिश्चेच्छाज्ञानक्रियात्मिका प्रस्फुरन्ती शुद्धाशुद्धरूपतया प्रमातृषट्कमुल्लासयति | तत्र मन्त्रमहेश्वरादेस्त्रयस्य ग्राह्याद्यनपेक्षणाच्छुद्धं ग्रहीतृत्वम् | विज्ञानाकलादेस्तु त्रयस्य ग्राह्याद्यपेक्षणादशुद्धं ग्रहीतृत्वम् | अत एवोक्तं -- स्वातन्त्र्यवशोपात्तेति, ग्राह्याकारोपरागात्त्विति च | ᳚त्रिधा मन्त्रावसानाः इति मन्त्रमहेश्वर-मन्त्रेश्वर-मन्त्ररूपाः -- इत्यर्थः | उदासीना इवेत्यक्षुब्धाः, क्षुब्धत्वे ह्येषां शक्तित्वं भवेदिति भावः || १८० || एतदेवोपसंहरति � सप्तधेत्थं प्रमातृत्वं तत्क्षोभो मानता तथा || १०-१८१ || मानतेति शक्तिरूपतया -- इत्यर्थः || १८१ || नन्वेवं चातुर्दश्यमेवाभिहितं स्याच्छिवशत्यात्मकं द्विकं वा? -- इत्याशङ्क्याह -- यत्तु ग्रहीतृतारूपसंवित्संस्पर्शवर्जितम् |
SK
शुद्धं जडं तत्स्वरूपमित्थं विश्वं त्रिकात्मकम् || १०-१८२ || संवित्संस्पर्शवर्जनादेव शुद्धम्, अत एव जडं वेद्यतायाः प्राधान्यान्नरात्मकम् -- इत्यर्थः | यदुक्तम् -- ᳚यदा तु ग्राहकावेशविस्मृतेर्जडता स्फुटम् | पारतन्त्र्यात्तदोदेति तत्स्वरूपं नरात्मकम् ||᳚ इति | तदेवं पाञ्चदश्यादिक्रमेऽपि त्रिकपरमार्थतैवेत्युक्तम् -- ᳚इत्थं विश्वं त्रिकात्मकम्᳚ इति || १८२ || एतदेवान्यत्राप्यतिदिशति एवं जलाद्यपि वदेद्भेदैर्भिन्नं महामतिः | ननु ᳚शिवशक्ती तावदविच्युतचिदूर्पे᳚ इति न कस्यचिद् विमतिः; शक्तिरेव चेच्छाज्ञानक्रियात्मना प्रस्फुरन्ती प्रमातृषट्कतयावभासते इत्युक्तम्, तच्छक्तेः सर्वत्राविशेषान्मन्त्रमहेश्वरान्तमपि पाञ्चदश्यमेव संभवेदिति त्रायोदश्याद्यपहाय तदेव कस्मान्न निरूपितम् ? -- इत्याशङ्क्याह -- अनया तु दिशा प्रायः सर्वभेदेषु विद्यते || १०-१८३ || भेदो मन्त्रमहेशान्तेष्वेष पञ्चदशात्मकः | तथापि स्फुटताभावात्सन्नप्येष न चर्चितः || १०-१८४ || मन्त्रमहेशान्तेषु सर्वभेदेष्वित्यर्थात्प्रलयाकलादिषु, अतश्चोक्तं न्यायविरुद्धं त्रायोदश्यादि -- इत्याशयः | सत्यमेवं किन्त्वेतत्त्रायोदश्यादिवन्न स्फुटमितीह नोक्तम् || १८४ || नन्वधराधररूपं पूर्वस्मिन्पूर्वस्मिन्नूपे निलीनं सत्स्वरूपमेव जह्यादिति, तत्रास्य निरवकाशैव पाञ्चदश्यादिशङ्का? -- इत्याशङ्क्याह -- एतच्च सूत्रितं धात्रा श्रीपूर्वे यद् ब्रवीति हि | सव्यापाराधिपत्वेनेत्यादिना जाग्रदादिताम् || १०-१८५ || अभिन्नेऽपि शिवेऽन्तःस्थसूक्ष्मबोधानुसारतः | श्रीपूर्वशास्त्रे ह्यभिन्नेऽपि शिवे जाग्रदादिरूपतामभिदधता भगवतैतत्सूचितं यज्जाग्रदादिवत्पाञ्चदश्याद्यप्युपर्युपरि संभवेदिति | तथा च शव्यापाराधिपत्वेन तद्धीनपेर्रकत्वतः | इच्छानिवृत्तेः स्वस्थत्वादभिन्नमपि पञ्चधा ||᳚ (मा. वि. २|३५)
SK
इत्यत्र शिवस्य सव्यापारत्वेन क्रियाशक्तिप्रधाना जागरा | अधिपत्वेन स्वस्वातन्त्र्यादसाधारणतत्तत्सृष्टिमयो ज्ञानशक्तिप्रधानः स्वप्नः | ज्ञानक्रियाभ्यां हीनेनौदासीन्यप्रच्यावात्मना प्रेरकत्वेनेच्छाप्रधानं सौषुप्तम् | एषणीयपूर्णतया तन्निवृत्त्याप्यानन्दशक्तिप्रधानं तुर्यम् | निरानन्दतया सर्वसर्वात्मकपरिपूर्णस्वरूपविश्रान्तेश्चिच्छक्तिप्रधानं तुर्यातीतमिति पञ्चावस्थात्मकत्वमित्यर्थः | ᳚अन्तःस्थसूक्ष्मबोधानुसारतः᳚ इति प्रमात्रेकरूपसूक्ष्मबोधाश्रयेण -- इत्यर्थः | बोधस्य हि बोधरूपतयान्तः सर्वं संभवेत् -- इति भावः || १८५ || इह ᳚अध्वा समस्त एवायं षड्वधोऽप्यतिविस्तृतः | यो वक्ष्यते स एकत्र प्राणे तावत्प्रतिष्ठितः ||᳚ (तं. ६|५) इत्याद्युक्त्या बहिरिवान्तरपि प्राणे तत्त्वाध्वास्तीति तद्गतत्वेनापि पाञ्चदश्याद्यभिधातुमुपक्रमते -- अधुना प्राणशक्तिस्थे तत्त्वजाले विविच्यते || १०-१८६ || भेदोऽयं पाञ्चदश्यादिर्यथा श्रीशंभुरादिशत् | श्रीशंभुरादिशदित्यनेन गुरुपरम्परागतत्वादविगीतप्रसिद्धिनिबन्धनत्वमस्य ध्वनितम् || १८६ || तदेवाह -- समस्तेऽर्थेऽत्र निर्ग्राह्ये तुटयः षोडश क्षणाः || १०-१८७ || षद्त्रिंशदंगुले चारे सांशद्व्यङ्गुलकल्पिताः | समस्तेऽर्थे निर्ग्राह्ये इति तत्त्वभावभुवनाद्यात्मनि वेद्यवस्तुनि -- इत्यर्थः | क्षणशब्दश्चात्र ᳚मानुषाक्षिनिमेषस्याष्टम्ॐऽशः क्षणः स्मृतः |᳚ (स्व. ११|१९९) इति लक्षितक्षणद्वयात्मनि कालविशेषे वर्तते | यदुक्तम् -- क्षणद्वयं तुटिर्ज्ञेया............................... | (स्व. ११|१९९) इति | सांशेति सचतुर्भागा -- इत्यर्थः | यदुक्तम् -- ᳚तुटिः सपादांगुलयुक्प्राणः.................... |᳚ (तं. ६|६४) इति || १८७ || एतदेव विभजति � तत्राद्यः परमाद्वैतो निर्विभागरसात्मकः || १०-१८८ || द्वितीयो ग्राहकोल्लासरूपः प्रतिविभाव्यते | अन्त्यस्तु ग्राह्यतादात्म्यात्स्वरूपीभावमागतः || १०-१८९ || प्रविभाव्यो न हि पृथगुपान्त्यो ग्राहकः क्षणः |
SK
आद्य इति तुट्यात्मा कालक्षणः | निर्विभागेति, यदुक्तम् -- ᳚......................शिवः साक्षान्न भिद्यते |᳚ (मा. वि. २|७) इति | ग्राहकोल्लासरूप इति शक्तेरेव हि षण्णां प्रमातृणामुल्लासः इत्युक्तप्रायम् | अन्त्य इति षोडशस्तुट्यात्मा कालक्षणः | ग्राह्यतादात्म्यादिति यथायथं ग्राह्यत्वस्यैवोद्रेकात् | ननु शिवशक्तित्वेन स्वरूपत्वेन च तुटित्रयमत्र विनियुक्तमित्यवशिष्टवक्ष्यमाणप्रमातृतच्छक्तिद्वादशकापेक्षया एका तुटिरधिकीभवेत्, तत्किमसौ स्वरूपेऽन्तर्भवति उत प्रमातृपक्षे निक्षिप्यते ? -- इत्याशंक्य चरमव्याख्येयमपि अवशिष्टमुपान्त्यक्षणमन्त्यक्षणप्रसङ्गागतमनागतावेक्षणन्यायेन् अ प्रागेव निर्णयति प्रविभाव्यो न हीति | पृथगित्यर्थादन्त्यात्क्षणात् | उपान्त्य इति अन्त्यसमीपस्थः पञ्चदशस्तुट्यात्मा क्षणस्तत्र ह्यन्तरोच्छूनतामासाद्यान्ते ग्राह्यतैव साक्षादुल्लसेत् -- इत्याशयः || १८९ || एवमवशिष्टं तुटिद्वादशकं मन्त्रमहेश्वरतच्छक्त्यादिरूपतया विभजति -- तृतीयं क्षणमारभ्य क्षणष्|ट्कं तु यत्स्थितम् || १०-१९० || तन्निर्विकल्पं प्रोद्गच्छद्विकल्पाच्छादनात्मकम् | तृतीयमिति प्रथमद्वितीयापेक्षया | क्षणषट्कमिति शक्तिमच्छक्तिरूपम् ||१९०|| ननु कथमत्रोद्गच्छतां विकल्पानामाच्छादनं स्यात्? -- इत्याशङ्क्याह -- तदेव शिवरूपं हि परशक्त्यात्मकं विदुः || १०-१९१ || तद्धि क्षणषट्कं शुद्धविद्यामयत्वात् शक्तिमच्छक्त्यपेक्षया क्रमेण शिवरूपमेव परशक्त्यात्मकमेव चेत्याम्नायः || १९१ || एवमेकं क्षणषट्कं व्याख्याय, परमप्याचष्टे -- द्वितीयं मध्यमं षट्कं परापरपदात्मकम् | विकल्परूढिरप्येषा क्रमात्प्रस्फुटतां गता || १०-१९२ || मध्यममिति प्रथमषट्कोपान्त्यान्तरालवर्तित्वात्, अत एव प्रथमषट्कस्य परत्वादन्त्योपान्त्यात्मनः स्वरूपस्य चापरत्वात्परापरपदात्मकत्वम् -- इत्युक्तम् | विकल्परूढिरिति मायीयत्वात् | क्रमादिति यथायथमिदन्ताया उद्रेकात् || १९२ ||
SK
ननु शिवस्याभिन्नरूपत्वात्तत्र तत्र विभागे शक्तिरेव बीजं तस्याश्चेच्छाज्ञानक्रियात्मना त्रिधैव प्रसर इति षट्कनिरूपणे कोऽवसरः ? -- इत्याशङ्क्याह -- षट्केऽत्र प्रथमे देव्यस्तिस्रः प्रोन्मेषवृत्तिताम् | निमेषवृत्तितां चाशु स्पृशन्त्यः षट्कतां गताः || १०-१९३ || प्रोन्मेषवृत्तितामित्यनेन च शक्तिरूपत्वं निमेषवृत्तितामित्यनेन च शक्तिमद्रूपत्वम् || १९३ || एवदेवान्यत्र योजयति -- एवं द्वितीयषट्केऽपि किं त्वत्र ग्राह्यवर्त्मना | उपरागपदं प्राप्य परापरतया स्थिताः || १०-१९४ || आद्येऽत्र षट्के ता देव्यःस्वातन्त्र्योल्लासमात्रतः | जिघृक्षितेऽप्युपाधौ स्युः पररूपादविच्युताः || १०-१९५ || ननु षट्कद्वयेऽपि यद्येवमुन्मेषनिमेषवृत्त्या तिस्र एव देव्यः स्थितास्तर्ह्येकमेव षट्कमस्तु को द्वितीयार्थः? -- इत्याशङ्क्याह -- किं त्वित्यादि || १९५ || ननु यदीच्छा ज्ञानं क्रिया चेति पृथगेतानि पदानि, तदिच्छाहितो ज्ञाने तदुभयाहितश्च क्रियायामतिशयो नास्तीति ᳚अधराधरतत्त्वेषु स्थिता पूर्वस्थितिर्यतः | अन्यथा स्थितिरेवैषां न भवेत्पूर्वहानितः ||᳚ इत्याद्युक्तं विहन्येत? -- इत्याशङ्क्याह -- अस्ति चातिशयः कश्चित्तासामप्युत्तरोत्तरम् | यो विवेकधनैधीरैः स्फुटीकृत्यापि दर्श्यते || १०-१९६ || अत्रैव द्विधा मतान्तरं दर्शयति -- केचित्वेकां तुटिं ग्राह्ये चैकामपि ग्रहीतरि | तादात्म्येन विनिक्षिप्य सप्तकं सप्तकं विदुः || १०-१९७ || तत्र केचिदेकां पञ्चदशमुपान्त्यां तुटिमन्त्यतुट्यात्मनि ग्राह्ये स्वरूपे तादात्म्येन विनिक्षिप्यास्मदुक्तवदन्त्योपान्त्यतुटिद्वयैकीकारेण स्वरूपमभिधाय, परिशिष्टतुटिचतुर्दशकाद्यं तुटिसप्तकं प्रमातृसप्तकत्वेनान्यत्तच्छक्तिसप्तकत्वेनाभिदधुरित्येकीयमतम् | अपिशब्दात्केचिदित्यस्य समुच्चयः | तेन केचिच्चैकां तुटिं ग्रहीतृ पक्षे विनिक्षिप्यार्थादन्त्यां स्वरूपत्वेन निरूप्य तथैवान्यच्चतुर्दशकमित्यन्यदीयमतम् || १९७ || ननु यद्येवं तर्हि कतरदुपपन्नम् ? -- इत्याशङ्क्याह -- तदस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः |
SK
संवेदयन्ते यदूर्पं तत्र किं वाग्विकत्थनैः || १०-१९८ || तदेवमेवानुभवभाजां योगिनां यदेव स्वसंवेदनेन सिद्ध्यति तदेव प्रमाणं नेतरदिति | तत्र किमस्मदीयैः परकीयैर्वा प्रलापप्रायैरनुभवशून्यैर्वाग्व्यापारैः | अनेन च प्रागुक्तस्य स्वपक्षस्यैव स्वसंवेदनसिद्धत्वमस्ति -- इत्यावेदितम् | यदेकस्यैव प्रमातुरक्षुब्धतया क्षुब्धतया च शक्तिमच्छक्तिरूपत्वमिति संनिकर्षेणैव तदभिधानं न्याय्यं न पृथक्त्वेन स्वरूपस्य चोपान्त्यतुटावुच्छूनतासाध(द)नपुरःसरमन्त्यतुटौ पूर्णतयैव प्ररोहोन्याय्य इति अलं बहुना || १९८ || एतदेवोपसंहरति -- एवं धरादिमूलान्तं प्रक्रिया प्राणगामिनी | गुरुपर्वक्रमात्प्रोक्ता भेदे पञ्चदशात्मके || १०-१९९ || गुरुपर्वक्रमादित्यनेन प्रसिद्धिनिबन्धनत्वमेवास्य निर्वाहितम् || १९९ || एवं पाञ्चदश्यमुपदिश्य, त्रायोदश्याद्यप्युपदिशति -- क्रमात्तु भेदन्यूनत्वे न्यूनता स्यात्तुटिष्वपि | भेदन्यूनत्व इति, त्रायोदश्यैकादश्याद्यात्मनि, न्यूनतेति स्वरूपपक्षनिक्षेपात् | यथा यथा हि सकलतच्छक्त्यादिरूपं भेदद्वयं न्यूनतामियात् तथा तथा तुटिद्वयमप्येवं स्यात् | यद्वक्ष्यति -- ᳚एवं द्वयं द्वयं यावन्न्यूनीभवति भेदगम् | तावत्तुटिद्वयं याति न्यूनतां क्रमशः स्फुटम् ||᳚ (१०|१९८) इति तत्तुटीनां द्वयस्य द्वयस्य स्वरूपपक्षे निक्षेपात् | प्रमातृत्वेनास्थाशैथिल्यं नाम न्यूनत्वं न तु स्वरूपविप्रलोप एव, षट्त्रिंशदंगुलात्मनि प्राणचारे तावत्तुटिसंख्याकत्वस्यानपहानेः, अत एवात्र सकलादेर्विकल्पप्रमातुर्विलयादुपर्युपरि क्रमेणाविकल्पप्रमातृणामुदयो, यथायथं संविद एवोदेर्कात् || तदाह -- तस्यां ह्रासो विकल्पस्य स्फुटता चाविकल्पिनः || १०-२०० || तस्यामिति प्रमातृभेदन्यूनतायाम् || २०० || नन्वेवमत्र पाञ्चदश्यक्रमवदेव षोडश तुटयो व्यवस्थिता इति कथमासां सकलादिरूपतयास्थाशैथिल्यं भवेद्येनाविकल्पस्य स्फुटत्वं विकल्पस्य च ह्रासः? -- इत्याशङ्क्याह --
SK
यथा हि चिरदुःखार्तः पश्चादात्तसुखस्थितिः | विस्मरत्येव तद्दुःखं सुखविश्रान्तिवर्त्मना || १०-२०१ || तथा गतविकल्पेऽपि रूढाः संवेदने जनाः | विकल्पविश्रान्तिबलात्तां सत्तां नाभिमन्वते || १०-२०२ || तद्दुःखमिति प्राक्चिरमनुभूतम् | विकल्पविश्रान्तीति तद्विरामः | तां सत्तामिति वैकल्पिकीम् | यथा दुःखस्य प्रागनुभूतत्वात्प्ररूढापि तद्वासना सुखविश्रान्तिबलेन प्रबोधाभावादस्थितकल्पा, तथा निर्विकल्पदशाधिशायिनां जनानां क्षीणविकल्पत्वात् तत्क्षोभेऽपि वैकल्पिकी सत्ता नोदियात्, तथात्वे हि तेषां निर्विकल्पकसंवित्साक्षात्कारो भवेद्येनायं संसारदोषः प्रशाम्येत् || २०२ || अतोऽत्रैवावधातव्यम् -- इत्याह -- विकल्पनिर्ह्रासवशेन याति विकल्पवन्ध्या परमार्थसत्या | संवित्स्वरूपप्रकटत्वमित्थं तत्रावधाने यततां सुबुद्धिः || १०-२०३ || न चैतदस्मदुपज्ञमेव -- इत्याह -- ग्राह्यग्राहकसंवित्तौ संबन्धे सावधानता | इयं सा तत्र तत्रोक्ता सर्वकामदुघा यतः || १०-२०४ || तत्र तत्र श्रीविज्ञानभैरवादौ | यदुक्तम् -- ᳚ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् | योगिनां तु विशेषोऽयं संबन्धे सावधानता ||᳚ (वि. भै. १०६ श्लो.) इति | मायापदनिरूढिभाजां ग्राह्यग्राहकक्षोभ एव विश्रान्तिरिदं ग्राह्यमयं ग्राहक इति | निर्विकल्पकदशाधिशायिनां पुनस्तत्क्षोभावसरेऽपि ग्राह्यग्राहकयोर्यत उदयो यत्र वा विश्रान्तिस्तत्रैवावहितत्वं येन सर्वेप्सितफलसंपत्तिः || २०४ || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह -- एवं द्वयं द्वयं यावन्न्यूनीभवति भेदगम् | तावत्तुटिद्वयं याति न्यूनतां क्रमशः स्फुटम् || १०-२०५ || एवं च शक्तिमच्छक्तिसंबन्धिनीनां द्वादशानां तुटीनामन्त्योपान्त्यात्मतुटिद्वयलक्षणस्वरूपपक्षनिक्षेपाच्छिवे तुटिद्वयमेवावशिष्यते? -- इत्याह -- अत एव शिवावेशे द्वितुटिः परिगीयते | नन्वखण्डपरिपूर्णसंविदेकरसो निर्विभागात्मा शिवः इति कस्तत्र द्वयार्थः, -- इत्याशङ्क्य, तुटिद्वयमेव शक्तिमच्छक्तिरूपतया विभजति --
SK
एका तु सा तुटिस्तत्र पूर्णा शुद्धैव केवलम् || १०-२०६ || द्वितीया शिव(शक्ति)रूपैव सर्वज्ञानक्रियात्मिका | पूर्णत्वादेव च शुद्धा क्षोभरहिता -- इत्यर्थः | क्षोभो हि शक्तिदशा | यदुक्तम् -- ᳚शिव(शक्ति)रूपैव सर्वज्ञानक्रियात्मिका᳚ इति || २०६ || अत एवात्रावहितस्य सर्वविषयज्ञत्वकर्तृत्वादि भवेत् -- इत्याह -- तस्यामवहितो योगी किं न वेत्ति करोति वा || १०-२०७ || न चात्र विगीतत्वमस्ति -- इत्याह -- तथा चोक्तं कल्लटेन श्रीमता तुटिपातगः | लाभः सर्वज्ञकर्तृत्वे तुटेः पातोऽपरा तुटिः || १०-२०८ || यत्तत्त्वार्थचिन्तामणिः -- ᳚तुटिपाते सर्वज्ञतादयः....................... |᳚ इति | एतदेव व्याचष्टे � ᳚तुटेः पातोऽपरा तुटिः᳚ इति | आद्यायास्तुटेः पातोऽपचयो ह्रासो द्वितीया तुटिरिति यावत् || २०८ || ननु द्वितीयस्यां तुटाववहितस्य कस्मात्सर्वज्ञत्वादिलाभः, प्रथमायामेव तथात्वमस्तु ? -- इत्याशङ्क्याह � आद्यायां तु तुटौ सर्वं सर्वतः पूर्णमेकताम् | गतं किं तत्र वेद्यं वा कार्यं वा व्यपदेशभाक् || १०-२०९ || वेद्यं कार्यमिति यथाक्रमं ज्ञानक्रियापेक्षयोक्तम् || २०९ || एवं द्वितीयैव तुटिः सर्वज्ञत्वादिसिद्धिनिमित्तम् -- इत्याह -- अतो भेदसमुल्लासकलां प्राथमिकीं बुधाः | चिन्वन्ति प्रतिभां देवीं सर्वज्ञत्वादिसिद्धये || १०-२१० || सैव शक्तिः शिवस्योक्ता तृतीयादितुटिष्वथ | मन्त्रादि(धि)नाथतच्छक्तिमन्त्रेशाद्याः क्रमोदिताः || १०-२११ || भेदसमुल्लासंशापेक्षयोक्तं प्राथमिकीमिति | अत्रैव हि प्रथममासूत्रितप्रायो भेद इति भावः | अत एव नवनवोल्लेखशालित्वात्प्रतिभामित्युक्तम् | सैवेति द्वितीयरूपाद्या प्रतिभा| ननु द्वितीयस्यां तुटौ शैवी शक्तिरुक्ता, तृतीयादिषु पुनः किम्? -- इत्याशङ्क्याह -- तृतीयेत्यादि || २११ || ननु यद्वद् द्वितीयस्यां तुटाववहितस्य सर्वज्ञत्वादिरूपा सिद्धिरुक्ता तद्वदास्वपि तुटिषु किं काचित्सिद्धिः स्यान्न वा ? -- इत्याशङ्क्याह -- तासु संदधतश्चित्तमवधानैकधर्मकम् | तत्तत्सिद्धिसमावेशः स्वयमेवोपजायते || २१२ ||
SK
तत्तत्सिद्धीति, तास्ताः सिद्धयः श्रीपूर्वशास्त्रादौ धारणापटलाद्युक्ता देहगुरुत्वादयः || २१२ || ननु शिवशक्तिरेव सर्वत्र सर्वेण रूपेण प्रस्फुरतीति तस्याः सर्वत्राविशेषादत्रापि सर्वज्ञत्वादिरूपैव सिद्धिः कस्मान्नोदियात्? -- इत्याशङ्क्याह -- अत एव यथा भेदबहुत्वं दूरता तथा | संवित्तौ तुटिबाहुल्यादक्षार्थासंनिकर्षवत् || १०-२१३ || अत इति मन्त्रादि(धि) नाथादीनां क्रमेणोदयाद्धेतोः | एतदेव दृष्टान्तद्वारेण हृदयङ्गमयति -- अक्षार्थासंनिकर्षवदिति | यथान्तरालिकव्यवधायकार्थान्तरभूयस्त्वादक्षाणामर्थे संनिकर्षाभावस्तथा योगिनामपि भेदबहुत्वनिमित्तस्य तुटिबाहुल्यस्य व्यवधायकत्वात्संवित्ताविति || २१३ || एतदेव व्यतिरेचयति -- यथा यथा हि न्यूनत्वं तुटीनां ह्रासतो भिदः | तथा तथातिनैकट्यं संविदः स्याच्छिवावधि || १०-२१४ || शिवतत्त्वमतः प्रोक्तमन्तिकं सर्वतोऽमुतः | अत इति भेदह्रासनिमित्तकसंविन्नैकट्यात् अन्तिकं प्रोक्तमिति विशेषानुपादानात्सर्वत्र | यदुक्तम् -- ᳚.............ण सावस्था न या शिवः |᳚ (स्प. २९ का.) इति | अतश्च सर्वस्य शिवमयत्वात्तदावेशे महात्मनामुपायादिढौकनात्मा न कश्चिद्यत्नः संभवेत्, विप्रकृष्टमेवासादयितुं हि यत्नयोगः स्यात् || २१४ || तदाह � अत एव प्रयत्नोऽयं तत्प्रवेशे न विद्यते || १०-२१५ || यथा यथा हि दूरत्वं यत्नयोगस्तथा तथा | अत एव भावनाद्यात्मनामुपायानामवकाश एव शिवे नास्तीत्यस्मद् गुरवः || २१५ || तदाह � भावनाकरणादीनां शिवे निरवकाशताम् || १०-२१६ || अत एव हि मन्यन्ते संप्रदायधना जनाः | भावनादि हि भाव्यमानादिनिष्ठम्, न चास्य भाव्यमानादित्वं न्याय्यं प्रमात्रेकरूपत्वाद्भावनादिविषयत्वानुपपत्तेः | तदाहुः -- ᳚करणेन नास्ति कृत्यं क्वापि भावनयापि वा |᳚ (शि. दृ. आ. ७|६ श्लो.) इति || २१६ || ननु विप्रकृष्ट एव कस्माद्यत्नयोगः स्यान्न संनिकृष्टे? -- इत्याशङ्कं दृष्टान्तोपदर्शनेन शमयति � तथा हि दृश्यतां लोको घटादेर्वेदने यथा || १०-२१७ ||
SK
प्रयत्नवानिवाभाति तथा किं सुखवेदने | प्रयत्नवानिवेति -- जिज्ञासादिपरत्वात् || २१७ || नन्वेवं सुखादिवदान्तरत्वमात्रमस्य सिद्ध्येद्येन सुखोपायत्वं स्यान्न तु परप्रमात्रेकरूपताप्रयुक्तं भावनाद्यविषयत्वम्? -- इत्याशङ्क्याह -- आन्तरत्वमिदं प्राहुः संविन्नैकट्यशालिताम् || १०-२१८ || तां च चिदूर्पतोन्मेषं बाह्यत्वं तन्निमेषताम् | इदं हि नामान्तरत्वमुच्यते यददूरविप्रकर्षेण संविदः परिस्फुरणमित्युक्तमान्तरत्वं संविन्नैकट्यशालितां प्राहुरिति | नन्वेवमप्यस्य तदवस्थमेव सुखादिसाम्यम् ? -- इत्याशङ्क्याह -- तां च चिदूर्पतोन्मेषं प्राहुरिति | इदं हि नामात्र संविन्नैकट्यशालित्वं विवक्षितं यच्चिदूर्पतायाः प्राधान्यमिति | अत एव चिदूर्पनिमज्जनमेव बाह्यत्वमित्युक्तम् -- ᳚बाह्यत्वं तन्निमेषताम्᳚ इति | ᳚ततो भेदो हि बाह्यता................... |᳚ (रि. प्र. ८६ का.) इत्याद्युक्त्या सुखादीनामप्यन्तःकरणैकवेद्यत्वेऽपि पृथक्प्रथत्वाख्यमुख्यबाह्यतालक्षणयोगाद् बाह्यत्वमेवेत्युक्तमन्यत्र बहुशः || २१८ || ननु यद्येवं शिवस्य चिदूर्पताप्राधान्यमेवान्तरत्वं तच्चितः स्वप्रकाशत्वात्सर्वत एव प्रकाशमानत्वं स्यादिति सर्वेषामेवान्तिकतमत्वात्सर्वदैव कस्मान्न भायात् ? -- इत्याशङ्क्याह -- भविनां त्वन्तिकोऽप्येवं न भातीत्यतिदूरता || १०-२१९ || एवमित्युक्तगत्या | भवित्वादेव हि नैषां तथा परामर्शोऽस्ति येनायं सर्वतो न भायात् -- इति भावः | अत एवैषां तथापरामर्शायोगाद्दूर एव संविदवभासो येनायमियान्संसारडम्बरः | यदुक्तम् -- श्वापरामर्शमात्रं यदपराधः कियानसौ | तावन्मात्रेण तज्जातं यद्वक्तुं नैव पार्यते ||᳚ इति || २१९ || नन्विह देशकालस्वभावविप्रकर्षात् त्रिधैव दूरत्वमुच्यते, संविदि पुनरेतन्न संभवति, -- इति कथमेतदुक्तम् ? -- इत्याशङ्क्याह -- दूरेऽपि ह्यन्तिकीभूते भानं स्यात्वत्र तत्कथम् |
SK
देशतो हि दूरेऽपि वस्तुनि प्रयत्नवशान्निकटतामुपेयुषि भानमर्थान्नैकट्येन भवेत्, संविदि पुनर्विदूरत्वमशक्यक्रियम्, अपसर्पणादेरभावात् || एवं संविदि देशतो विप्रकर्षं निरस्य, कालतोऽपि निरस्यति � न च बीजाङ्कुरलतादलपुष्पफलादिवत् || १०-२२० || क्रमिकेयं भवेत्संवित्सूतस्तत्र किलाङ्कुरः | बीजाल्लता त्वंकुरान्नो बीजादिह तु सर्वतः || १०-२२१ || संवित्तत्त्वं भासमानं परिपूर्णं हि सर्वतः | क्रमिकेयं न भवेदिति अकालकलितत्वात् | बीजादीनामेव क्रमिकत्वं निरूपयति -- शूत᳚इत्यादिना | लताया अपि हि बीजादुत्पत्तावङ्कुरलतयोः क्रमिकत्वं न भवेत् -- इति भावः | एवं दलादेरपि लतादेरेवोत्पत्तिर्नाङ्कुरादेरित्यवसेयं येनैषां क्रमिकत्वमेव स्यात् | संवित्पुनर्देशकालानवच्छेदात् सर्वत्र सर्वदैवावभासते यतोऽस्याः सर्वतः परिपूर्ण्यं तदाह � इहेत्यादि || २२१ || ननु च कारणदशायां कार्यस्य प्रागभावादनागतत्वम्, इह च संविदः कादाचित्कत्वेन कार्यत्वात्तथाभावोपपत्तेरागतः कालविप्रकर्षः, इति कथमुक्तं क्रमिकेयं संविन्न भवेदिति ? -- इत्याशङ्क्याह � सर्वस्य कारणं प्रोक्तं सर्वत्रैवोदितं यतः || २२२ || संविदो हि कार्यत्वे किं संविदेव कारणमुतान्यत्किञ्चिज्जडम् | तत्र जडस्य तावत्कारणत्वं न युज्यते -- इत्युपपादितं प्राग्बहुशः | संविदश्च संविदन्तराद्भेदानुपपत्तेरेकैवाखण्डा संविदिति किं कस्यं कारणं कार्य वेति | संवित्तत्त्वमेव सर्वस्य कारणं यत्तत्स्वातन्त्र्यविजृम्भामात्रमेव विश्वमिदम्, अत एवोक्तं -- सर्वत्रैवोदितमिति | सर्वत्रैवोदितत्वाच्चास्थानेनैव स्वभावविप्रकर्षोऽपि निरस्तः || २२२ || ननु प्रमातृरूपा संवित्सर्वस्य कारणमस्तु प्रतिनियतघटादिप्रमेयप्रमितिरूपा तु सा कथं तथात्वमश्नुवीत ? - - इत्याशङ्क्याह -- तत एव घटेऽप्येषा प्राणवृत्तिर्यदि स्फुरेत् | विश्राम्येच्चाशु तत्रैव शिवबीजे लयं व्रजेत् || १०-२२३ ||
SK
ततः सार्वत्रिकोदयप्रयुक्तसर्वकारणभावाद्धेतोरेषा पाञ्चदश्याद्यात्मना निरूपिता प्राणवृत्तिर्यदि घटेऽपि स्फुरेद्विश्राम्येच्च नैयत्येनापि उदयं लयं च लभेत, तथापि तत्र समनन्तरोक्तसतत्त्वे शिवबीज एव लयं व्रजेत्सर्वतः परिपूर्णप्रकाशविमर्शमय्येव चकास्यात् -- इत्यर्थः | आश्वित्यनेनान्तरालिकतुटिक्रमोपनतशक्तिमच्छक्तिक्रमभेदस्य प्रकाशमात्रसारतया न किञ्चित्तत्त्वमित्युक्तम् || २२३ || अत एवाह � न तु क्रमिकता काचिच्छिवात्मत्वे कदाचन | ननु मन्त्र-तदीश-तन्महेशादिपम्परया शिवात्मत्वेन विश्रान्तिरुदिता, अतात्त्विकोऽप्ययं क्रमो नासन्नेव शिवेच्छया तथावभासनात्, तच्छिव एव सर्वस्य कारणम्, -- इति परमकारणताभिप्रायेण भवतु, मन्त्रादि(धि)नाथादि पुनरवान्तरकारणं कथङ्कारं पराकरणीयम् ? -- इत्याशङ्क्याह -- अन्यन्मन्त्रादि(धि)नाथादि कारणं तत्तु संनिधेः || १०-२२४ || शिवाभेदाच्च किं चाथ द्वैते नैकट्यवेदनात् | यथा किल मृदेकैव सती शिबिकस्तूपकपिण्डाद्यवस्थाक्रमेण घटस्य कारणम् इति नेयता पिण्डाद्येव कारणमिति युक्तं कार्यात्मनि तथानुवृत्यभावात्, तत्तदवस्था तु दण्डादिवत्करणमिति युज्यते वक्तुम् | इदमेव हि करणं यत्कार्यनिर्वर्तनाय व्याप्रियमाणमपि न कारणं व्यवदध्यात् | एवमिह परिपूर्णसंविन्मयः शिव एव निजेच्छावभासितमन्त्राधिनाथाद्यवस्थाक्रमेण जगतः कारणम्, नैतावता मन्त्राधिनाथाद्यवस्थैव कारणम्, कर्तृप्रयोज्यतया करणं तु भवेदेव, न हि तज्जगदवभासने व्याप्रियते, न च तथाभावेऽपि पूर्णचिदात्मनः शिवस्य कारणतां व्यवधत्ते -- इतीच्छादिशक्तिवन्मन्त्राधिनाथादेः करणत्वमेव न्याय्यमित्युक्तं मन्त्राधिनाथाद्यन्यत्करणम् -- इत्यर्थः | यत्तु � ᳚शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः |᳚
SK
इत्यादिना मन्त्राधिनाथादेः कारणत्वमुच्यते तद्वैयपदेशिकम् -- इत्याह -- कारणमित्यादि | तदिति मन्त्राधिनाथादि | संनिधेरिति घटोत्पत्ताविव दिक्कालाकाशादीनाम् | शिवाभेदादिति, शिवस्तावत्कारणमित्युक्तं तदभेदान्मन्त्राधिनाथाद्यपि तथोच्यते घटकारणमृदभिन्नरूपादिवत्, द्वैते नैकट्यवेदनादिति भेददशायामेषां यथायथं मायाप्रमात्रपेक्षया संनिकर्षाद्राजाज्ञया नियुक्तवधकवत् || २२४ || एतदेव च परमुपादेयमित्यत्रैव निरूढिः कार्या -- इत्याह -- अनया च दिशा सर्वं सर्वदा प्रविवेचयन् || १०-२२५ || भैरवायत एव द्राक् चिच्चक्रेश्वरतां गतः | प्रकृतमेवोपसंहरति -- स इत्थं प्राणगो भेदः खेचरीचक्रगोपितः || १०-२२६ || मया प्रकटितः श्रीमच्छाम्भवाज्ञानुवर्तिना | इदानीं तत्त्वविध्यनुषक्ततयानुजोद्देशोद्दिष्टं जाग्रदादि निरूपयति -- अत्रैवाध्वनि वेद्यत्वं प्राप्ते या संविदुद्भवेत् || १०-२२७ || तस्याः स्वकं यद्वैचित्र्यं तदवस्थापदाभिधम् | अत्र पाञ्चदश्यादिक्रमात्मतया निरूपिते तत्त्वाद्यध्वनि स्वरूपत्वेन प्रमेयतामापन्ने यैव शिवाद्येकैकप्रमातृरूपा संविदुल्लसेदेवंविधायास्तस्याः स्वकं स्वेच्छावभासिततत्तत्प्रमेयोपहितं तत्तत्साधारण्यासाधारण्यादिप्रयुक्तं यद्वैचित्र्यं तज्जाग्रदाद्यवस्थाशब्दव्यपदेश्यं स्यात् -- इति वाक्यार्थः || २२७ || अवस्थापदान्येव विभजति -- जाग्रत्स्वप्नः सुषुप्तं च तुर्यं च तदतीतकम् || १०-२२८ || इति पञ्च पदान्याहुरेकस्मिन्वेदके सति | तदतीतकमिति -- तुर्यातीतकम् | एकस्मिन्वेदके सतीति, अनेकस्मिन्वेदके ह्यन्यस्य जाग्रदन्यस्य स्वप्नः, -- इत्यवस्थानामवस्थात्वं पञ्चात्मकत्वं च न स्यात्, एकमेव ह्यवस्थातारमधिकृत्यासां तथाभावो भवेत् -- इति भावः || २२८ || ननु यद्येवं, तत्तुर्यातीतरूपस्याप्येकस्य शिवस्य जाग्रदाद्यवस्थाः प्रसज्येरन्? -- इत्याशंक्य तदेवाभ्युपगच्छति -- तत्र यैषा धरातत्त्वाच्छिवान्ता तत्त्वपद्धतिः || १०-२२९ || तस्यामेकः प्रमाता चेदवश्यं जाग्रदादिकम् |
SK
तद्दर्श्यते शम्भुनाथप्रसादाद्विदितं मया || १०-२३० || ᳚एक᳚ इति सकलः शिवो वा | अवश्यमित्यनेनान्यथा पुनरेतन्न स्यादिति सूचितम् | एतच्च नास्माभिः स्वोपज्ञमेवोच्यते -- इत्याह -- ᳚तद्दर्श्यते᳚ इत्यादि || २३० || तदेवाह � यदधिष्ठेयमेवेह नाधिष्ठातृ कदाचन | संवेदनगतं वेद्यं तज्जाग्रत्समुदाहृतम् || १०-२३१ || एवकारार्थमेव स्फुटयति -- ङाधिष्ठातृ कदाचन᳚ इति | संवेदनगतमिति, अन्यथा ह्यस्य वेद्यत्वमेव न भवेत् -- इति भावः | न हि स्वात्मनि वेद्यमवेद्यं वेत्युक्तं बहुशः || २३१ || एतदेव प्रपञ्चयति -- चैत्रमैत्रादिभूतानि तत्त्वानि च धरादितः | अभिधाकरणीभूताः शब्दाः किं चाभिधा प्रमा || १०-२३२ || प्रमातृमेयतन्मानप्रमारूपं चतुष्टयम् | विश्वमेतदधिष्ठेयं यदा जाग्रत्तदा स्मृतम् || १०-२३३ || भूतानीति, चतुर्दशविधभूतसर्गान्तःपातित्वात् तेन स्थावरवर्जं पैशाचादि मानुषान्तं सर्वमनेन संगृहीतम् | शब्दा इति -- धरादितत्त्वान्तःपातित्वात्प्रमेयत्वेऽपि परप्रत्ययकारित्वादेषां प्रमाणत्वमित्युक्तम् -- ᳚अभिधाकरणीभूताः᳚ इति | अभिधेत्यर्थप्रतीतित्वात् फलरूपा -- इत्यर्थः | एवमेतन्मातृमेयमानप्रमात्मकं चतुष्टयमधिष्ठेयरूपमेव यदा भवेत्तदा जाग्रत् स्मृतं जाग्रदवस्थेयम् -- इत्यर्थः || २३२ || अधिष्ठात्रधिष्ठेयभावमेव विभज्य दर्शयति -- तथा हि भासते यत्तन्नीलमन्तः प्रवेदने | सङ्कल्परूपे बाह्यस्य तदधिष्ठातृ बोधकम् || १०-२३४ || यत्तु बाह्यतया नीलं चकास्त्यस्य न विद्यते | कथञ्चिदप्यधिष्ठातृभावस्तज्जाग्रदुच्यते || १०-२३५ || यत्किञ्चन नीलादि सङ्कल्पाद्यात्मनि ज्ञानेऽन्तस्तादात्म्येन भासते तदधिष्ठातृ यतो बाह्यस्य बोधस्य नीलादेस्तद् बोधकमवभासकम् -- इत्यर्थः | अतश्च बोध्यत्वादेव बाह्यं नीलं कथञ्चिदप्यधिष्ठातृभावमधिगन्तुं नोत्सहते, -- इत्यधिष्ठेयैकरूपत्वाज्जाग्रद्दशात्मकत्वेनैव सर्वत्रोच्यते � इति युक्तमुक्तं -- यदधिष्ठेयं तज्जाग्रदिति || २३५ ||
SK
नन्वस्य चतुष्टयस्य समानेऽप्यधिष्ठेयत्वे किमन्योन्यं कश्चिद्विशेषः संभवेन्न वा? -- इत्याशङ्क्याह � तत्र चैत्रे भासमाने यो देहांशः स कथ्यते | अबुद्धो यस्तु मानांशः स बुद्धो मितिकारकः || १०-२३६ || प्रबुद्धः सुप्रबुद्धश्च प्रमामात्रेति च क्रमः | ᳚देहांशः᳚ इति देहस्य भौतिकत्वात्प्रमेयरूपः -- इत्यर्थः | तत्प्रवृत्तेश्च प्राणादिप्रेरणामयत्वात्तत्संस्पर्शोऽस्ति, -- इति मानांशस्य बुद्धत्वमुक्तम् | प्राणादिसंस्पर्शेन ह्येषां चेतनायमानत्वं जायते -- इत्युक्तं प्राक् | ᳚मितिकारकः᳚ इति मितिं करोतीति मितिकारः मितिकार एव मितिकारकः प्रमात्रंश इत्यर्थः | स च बुद्ध्यादिरूपत्वात्प्रबुद्ध इत्युक्तम् | शुप्रबुद्धः᳚ इति वेद्यकालुष्यशून्यतया स्वात्मनि विश्रान्तिमयसंवित्तिमात्ररूपत्वात् प्रमामात्रेति प्रमित्यंशः-इत्यर्थः || २३६ || न चाबुद्धादिरूपत्वमत्रास्माभिः स्वोपज्ञमेवोक्तम् -- इत्याह -- चातुर्विध्यं हि पिण्डस्थनाम्नि जाग्रति कीर्तितम् || १०-२३७ || ननु जाग्रदादीनि पञ्च पदानि परस्परं विभिन्नानीत्युक्तम्, तत्कथमियं सङ्कीर्णप्राया जाग्रत्स्वप्नो जाग्रत्सुषुप्तमित्यादिप्रसिद्धिः ? -- इत्याशङ्क्याह -- जाग्रदादि चतुष्कं हि प्रत्येकमिह विद्यते | प्रत्येकमिति परस्परम्, तेन जाग्रज्जाग्रज्जाग्रत्स्वप्न इत्यादिप्रसिद्धिर्न विरुध्यते -- इति सिद्धम् || २३७ || न केवलमेवंरूपत्वमेवात्रास्ति यावदबुद्धादिरूपत्वम् -- इत्याह -- जाग्रज्जाग्रदबुद्धं तज्जाग्रत्स्वप्नस्तु बुद्धता || १०-२३८ || इत्यादि तुर्यातीतं तु सर्वगत्वात्पृथक्कुतः | ननु ᳚पञ्चावस्था᳚ इत्युक्तं तच्चतुष्टयस्याबुद्धादिरूपत्वमभिहितम्, तुर्यातीतस्य पुनः किंरूपत्वम्? -- इत्याशङ्क्याह -- ᳚तुर्यातीतं तु सर्वगत्वात्पृथक्कुतः᳚ इति | ᳚त्रिषु चतुर्थं तैलवदासेच्यम् |᳚ (शिषू. २३०) इति शिवसूत्रदृष्ट्या यत्र तुर्यमपि सर्वत्राविभक्तं तत्र का वार्ता तुर्यातीतस्येत्याकृतम् || २३८ || एतदेव संवादयति -- उक्तं च पिण्डगं जाग्रदबुद्धं बुद्धमेव च || १०-२३९ ||
SK
प्रबुद्धं सुप्रबुद्धं च चतुर्विधमिदं स्मृतम् | उक्तमिति श्रीश्रीपूर्वशास्त्रे | तदुक्तं तत्र -- ᳚चतुर्विधं तु पिण्डस्थमबुद्धं बुद्धमेव च | प्रबुद्धं सुप्रबुद्धं च........................ ||᳚ (मा. वि. २|४३) इति || २३९ || एवमवस्थाचतुष्टयस्य परस्परं सङ्कीर्णत्वेऽपि ᳚यो देहांशः᳚ इत्यादिनोक्तं प्रमेयपदं मुख्या जाग्रदवस्था -- इत्याह -- मेयभूमिरियं मुख्या जाग्रदाख्यान्यदन्तरा || १०-२४० || अन्यदिति -- मानाद्यंशरूपं स्वप्नादि | अन्तरेति -- तन्मध्यपतितममुख्यम् -- इत्यर्थः || २४० || ननु मेयभूमिरेव मुख्या जाग्रदवस्थेत्यत्र किं प्रमाणम्? -- इत्याशङ्क्याह -- भूततत्त्वाभिधानानां य्ॐऽशोऽधिष्ठेय उच्यते | पिण्डस्थमिति तं प्राहुरिति श्रीमालिनीमते || १०-२४१ || नन्वित्थं प्रमेयभूमौ पिण्डस्थमेव मुख्यमुक्तं स्यान्न जाग्रत् ? -- इत्याशंक्य जाग्रत एवेदं संज्ञान्तरम् -- इत्याह � लौकिकी जाग्रदित्येषा संज्ञा पिण्डस्थमित्यपि | योगिनां योगसिद्ध्यर्थं संज्ञेयं परिभाष्यते || १०-२४२ || तदुक्तम् � ᳚पिण्डस्थः सर्वतोभद्रो जाग्रन्नामद्वयं मतम् |᳚ (मा. वि. २|३६) इति || २४२ || ननु योगसिद्धौ पिण्डस्थमिति परिभाषणे किं निमित्तम् ? -- इत्याशङ्क्याह -- अधिष्ठेयसमापत्तिमध्यासीनस्य योगिनः | तादात्म्यं किल पिण्डस्थं मितं पिण्डं हि पिण्डितम् || १०-२४३ || अधिष्ठेयेन धरादिना या समापत्तिस्तादात्म्यमयः समाधिविशेषस्तामधिशयानस्य योगिनो यद्धराद्यैकात्म्यं तदागमे पिण्डस्थमुच्यते, यतो धराद्येन मीयमानं पिण्डितं विशरारुतापरिहारेण शरीरीभूतं सत्पिण्डं गर्भीकृततत्तदर्थजातं व्यापकरूपम् -- इत्यर्थः || २४३ || न केवलमिदमेव जाग्रतः पारिभाषिकं संज्ञान्तरं यावदन्यदपि -- इत्याह -- प्रसंख्यानैकरूढानां ज्ञानिनां तु तदुच्यते | सर्वतोभद्रमापूर्णं सर्वतो वेद्यसत्तया || १०-२४४ || तदिति -- जाग्रत् | एवं परिभाषणे चात्र किं निमित्तम् ? -- इत्याशंक्योक्तम् � ᳚आपूर्णं सर्वतो वेद्यसत्तया᳚ इति || २४४ ||
SK
एवमपि प्रसंख्यानपरेष्वेवायं संज्ञानियमः -- इति कोऽभिप्रायः ? -- इत्याशङ्क्याह -- सर्वसत्तासमापूर्णं विश्वं पश्येद्यतो यतः | ज्ञानी ततस्ततः संवित्तत्त्वमस्य प्रकाशते || १०-२४५ || एवं चात्र तिस्त्र एव संज्ञाः -- इत्यवधारणं कुतस्त्यम् ? -- इत्याशङ्क्याह -- लोकयोगप्रसंख्यानत्रैरूप्यवशतः किल | नामानि त्रीणि भण्यन्ते स्वप्नादिष्वप्ययं विधिः || १०-२४६ || एतदेवान्यत्राप्यतिदिशति -- श्वप्नादिष्वप्ययं विधिः᳚ इति | तेन लौकिकी संज्ञा स्वप्नः सुषुप्तं तुर्यं च, यौगिकी पदस्थं रूपं रूपातीतं च, ज्ञानीया व्याप्तिर्महाव्याप्तिः प्रचयश्चेति | तुर्यातीते पुनर्वक्ष्यमाणदृशा योगो न प्रतपेदिति लोकप्रसंख्यानाभिप्रायेण तुर्यातीतं महाप्रचयश्चेति संज्ञाद्वयमेवोक्तम् || २४६ || एवं जाग्रदवस्थां निरूप्य, स्वप्नावस्थामपि निरूपयति -- यत्त्वधिष्ठानकरणभावमध्यास्य वर्तते | वेद्यं सत्पूर्वकथितं भूततत्त्वाभिधामयम् || १०-२४७ || तत्स्वप्नो मुख्यतो ज्ञेयं तच्च वैकल्पिके पथि | यत्पुनर्जाग्रद्दशाधिशाय्यपि चैत्रमैत्रादिभूतानीत्यादिनोक्तं भूततत्त्वावधिष्ठितिक्रियायां प्रमाणपदास्कन्दनेनास्ते तन्मुख्यतः स्वप्नो मेयच्छायावभासिनी मानप्रधाना स्वप्नावस्थेयम् -- इत्यर्थः | ᳚मुख्यतः᳚ इति अन्तरा ह्यमुख्या अप्यस्य स्वप्नजाग्रदादयो भेदाः संभवन्ति -- इति भावः | ननु विकल्पाविकल्पात्मके पदद्वयेऽप्येषामेवंरूपत्वं भवेत् इदं पुनः किमधिकृत्योक्तम्? -- इत्याशङ्क्याह -- ᳚ज्ञेयं तच्च वैकल्पिके पथि᳚ इति | तदुक्तम् -- श्वप्नो विकल्पाः |᳚ (शि. सू. १|९) इति || २४७ || ननु लोके सर्वस्य स्वापावसरे स्वानुभवसाक्षिकमविकल्पकवृत्त्यैव तत्तदर्थानुभवो भवेदिति किमेतत्? -- इत्याशङ्क्याह -- वैकल्पिकपथारूढवेद्यसाम्यावभासनात् || २४८ || लोकरूढोऽप्यसौ स्वप्नः साम्यं चाबाह्यरूपता |
SK
लोकेऽपि ह्यसाधारण्यादिना वैकल्पिकार्थसमानमेवावभासमधिकृत्य स्वप्नावस्था प्ररोहमुपगतेति नेदमपूर्वं किञ्चिदुक्तम् -- ᳚तच्च वैकल्पिके पथि ज्ञेयम्᳚ इति | ननु विकल्पस्वप्नयोरर्थावभासे कुतस्त्यमेवं साम्यम्? -- इत्याशंक्योक्तम् -- शाम्यं चाबाह्यरूपता᳚ इति | चो हेतौ | अबाह्यरूपत्वादेव चात्रासाधारण्यादि भवेदिति भावः || २४८ || एवं वैकल्पिकार्थत्वेऽप्यत्र स्पष्टास्पष्टतया द्वैविध्यं विभजति - - उत्पेर्क्षास्वप्नसङ्कल्पस्मृत्युन्मादादिदृष्टिषु || १०-२४९ || विस्पष्टं यद्वेद्यजातं जाग्रन्मुख्यतयैव तत् | एतच्चात्र भयादिविषयत्वेन वाच्यम् | यदुक्तम् -- ᳚भावनाबलतः स्पष्टं भयादाविव भासते | यज्ज्ञानमविसंवादि तत्प्रत्यक्षमकल्पकम् ||᳚ इति | गाढत्रासानुरागादिना हि पुरःस्फुरदूर्पमेवाततायिनायिकादि भायादित्युक्तम्विस्पष्टं वेद्यजातमिति | आदिशब्दात्कामशोकादि | तदुक्तम् -- ᳚कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः | अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ||᳚ इति | मुख्यतयेति स्पष्टत्वस्यासाधारणजाग्रल्लक्षणत्वात्, तेनार्थस्य वैकल्पिकत्वात्स्वप्नत्वं स्पष्टत्वाच्च जाग्रत्वमिति स्वप्नजागरेयमित्युक्तं स्यात् || २४९ || एवं स्वप्नजागरां निरूप्य स्वप्नस्वप्नमपि निरूपयति -- यत्तु तत्राप्यविस्पष्टं स्पष्टाधिष्ठातृ भासते || १०-२५० || विकल्पान्तरगं वेद्यं तत्स्वप्नपदमुच्यते | अपिर्भिन्नक्रमः | तेन जाग्रदविशिष्टाधिष्ठात्रपि विकल्पान्तरगमविस्पष्टं वेद्यजातं पुनस्तत्रोत्पेर्क्षादौ यद्भासते तत्स्वप्नपदमुच्यते स्वप्नस्वप्नरूपत्वान्मुख्यः स्वप्नः -- इत्यर्थः || २५० || नन्वत्रार्थस्य स्पष्टास्पष्टत्वाभ्यां जाग्रत्स्वप्नविभाग उक्तस्तच्च स्पष्टास्पष्टत्वं संनिकर्षविप्रकर्षाभ्यामपि देवकुलादौ दृष्टमिति कथं तावतैवैतद्भवेत् ?इत्याशङ्क्याह -- तदैव तस्य वेत्त्येव स्वयमेव ह्यबाह्यताम् || १०-२५१ || तदैवेति निर्विचारम् -- इत्यर्थः | तस्येत्युत्पेरेक्षाविषयस्यार्थस्य | स्वयमेवेति न तु तैमिरिकादिद्विचन्द्रादिवदाप्तवचनात् || २५१ ||
SK
ननु अबाह्यता नाम किमुच्यते ? -- इत्याशङ्क्याह -- प्रमात्रन्तरसाधारभावहान्यस्थिरात्मते | बाह्यत्वे ह्यर्थस्य सर्वप्रमातृसाधारण्यं स्थिरत्वं च भवेत् � इति भावः || नन्वत्र स्वप्नजागराद्येव भेदतया किमस्ति उतान्यदपि ? -- इत्याशङ्क्याह -- तत्रापि चातुर्विध्यं तत् प्राग्दिशैव प्रकल्पयेत् || १०-२५२ || गतागतं सुविक्षिप्तं सङ्गतं सुसमाहितम् | न केवलं जागरायामेव चातुर्विध्यमस्ति यावत्स्वप्नेऽपीत्यपिशब्दार्थः | प्राग्दिशैवेति मेयादिगतत्वेन स्वप्नस्वप्नादिगतत्वेन च | तदेवाह -- गतागतमित्यादि | एते च क्रमेण षट्त्रिंशदंगुलप्राणचारोपजायमानगमागमसंबन्धात् दूरतरदेशकालोल्लिख्यमानपदार्थसंस्पर्शात् सङ्कल्पनैकवृत्तिमनोमात्रसंसर्गाद् वैकल्पिकार्थैकतानत्वाच्चेत्येवमन्वर्थनामानश्चत्वारो भेदाः | तदुक्तम् -- ᳚द्विसंज्ञं स्वप्नमिच्छन्ति पदस्थं व्याप्तिरित्यपि |᳚ (मा. वि. २|३७) इत्युपक्रम्य ᳚.............................पदस्थं च चतुर्विधम् | गतागतं सुविक्षिप्तं सङ्गतं सुसमाहितम् ||᳚ (मा. वि. २|४४) इति || २५२ || स्वप्नेऽपि जागरावत्त्रिधैव संज्ञाभेदोऽस्ति -- इत्याह -- अत्रापि पूर्ववन्नाम लौकिकं स्वप्न इत्यदः || १०-२५३ || बाह्याभिमतभावानां स्वापो ह्यग्रहणं मतम् | सर्वाध्वनः पदं प्राणः सङ्कल्पोऽवगमात्मकः || १०-२५४ || पदं च तत्समापत्ति पदस्थं योगिनो विदुः | लोकेऽपि स्वप्नशब्दस्यात्र प्रवृत्तौ किं निमित्तम्? -- इत्याशंक्योक्तम् -- बाह्याभिमतभावानां स्वापो ह्यग्रहणमिति | सर्वाध्वनः पदमिति स्थानं यथा चैतत्तथा षष्ठाह्निक एव निर्णीतम् | पद्यते ज्ञायतेऽनेन सर्वमित्यवगमात्मकत्वात्सङ्कल्पोऽपि पदं तदैकात्म्यमेव च तत्स्थत्वमुच्यते -- इत्युक्तम् तत्समापत्ति पदस्थमिति | तेन प्राणैकात्म्यं सङ्कल्पैकात्म्यं चेत्यर्थः | ᳚योगिनः᳚इत्यनेनास्याः संज्ञाया योगिविषयत्वमुक्तम् || २५४ || एवं ज्ञानिविषयत्वेनापि संज्ञान्तरं योजयति -- वेद्यसत्तां बहिर्भूतामनपेक्ष्यैव सर्वतः || १०-२५५ ||
SK
वेद्ये स्वातन्त्र्यभाग् ज्ञानं स्वप्नं व्याप्तितया भजेत् | इह खलु बहीरूपतात्मपारतन्त्र्यमपहाय सर्वतः स्वात्ममात्रोल्लिखित एवार्थे स्वतन्त्रं संयोजनवियोजनकारि वैकल्पिकं ज्ञानमेव स्वप्नं ज्ञानिषु व्याप्तितया भजेत्तथा व्यवहरेत् -- इत्यर्थः || २५५ || जागरायां च यथा प्रमेयस्य प्राधान्यं तथेहापि प्रमाणस्य -- इत्याह -- मानभूमिरियं मुख्या स्वप्नो ह्यामर्शनात्मकः || १०-२५६ || मानप्राधान्ये हेतुः श्वप्नो ह्यामर्शनात्मकः᳚ इति | ᳚आमर्शनात्मकः᳚ इति मानसावसायरूपत्वान्निश्चयात्मकः -- इत्यर्थः || २५६ || वेद्यच्छायोऽवभासो हि मेयेऽधिष्ठानमुच्यते | यत्त्वधिष्ठातृभूतादेः पूर्वोक्तस्य वपुर्धुर्वम् || १०-२५७ || बीजं विश्वस्य तत्तूष्णीभूतं सौषुप्तमुच्यते | नन्वधिष्ठितिक्रियाकरणं स्वप्नः -- इत्युक्तं तत्कथमामर्शनात्मकत्वमिहास्योक्तम्? -- इत्याशङ्क्याह -- अनुभूतौ विकल्पे च योऽसौ द्रष्टा स एव हि || १०-२५८ || न भावग्रहणं तेन सुष्ठु सुप्तत्वमुच्यते | य एव जागरायां स्वप्ने च प्रमातोक्तः स एव सौषुप्तेऽपीति, प्रमिणोतीति प्रमाता प्रमातृत्वादेवावश्यं मेयमानादिक्षोभेन भवितव्यमिति कथमुक्तं तूष्णींभूतम्? -- इत्याशङ्क्याह -- श एव हि न भावग्रहणम्᳚ इति | न हि प्रमातैव भावः प्रमेयम्, ग्रहणं वा प्रमाणम्, तथात्वे हि चतुष्ट्वमेवैतन्न स्यादिति समग्र एव व्यवहारः समुत्सीदेत्, अतश्च मेयमानादिक्षोभमन्तरेण प्रमातापि स्वात्ममात्रविश्रान्तो भवेद्येनेयमवस्था सर्वत्र सुष्ठु सुप्तमित्युद्धोष्यते || २५८ || ननु यद्येवं तर्हि कथमन्तःकरणधर्मो गाढनिद्रापि लोकेषु सुषुप्तमित्युच्यते? इत्याशङ्क्याह � तत्साम्याल्लौकिकीं निद्रां सुषुप्तं मन्वते बुधाः || १०-२५९ || बीजभावोऽथाग्रहणं साम्यं तूष्णींस्वभावता | किं नाम च तत्साम्यम् ? -- इत्याशंक्योक्तम् तूष्णींस्वभावतेति | तूष्णीं -स्वभावेऽपि किं निमित्तम्? -- इत्याशङ्क्याह -- ᳚बीजभावः᳚ इति संभाव्यमानभाविकार्यसंबन्धात्, अग्रहणमिति च बाह्यविषयासंवेदनात् || २५९ ||
SK
इदमेव च जाग्रज्जाग्रदादिवन्मुख्यं सुषुप्तम् -- इत्याह -- मुख्या मातृदशा सेयं सुषुप्ताख्या निगद्यते || १०-२६० || अस्यापि प्राग्वदेव योगिज्ञानिविषयतया संज्ञाद्वयमस्ति -- इत्याह � रूपकत्वाच्च रूपं तत्तादात्म्यं योगिनः पुनः | रूपस्थं तत्समापत्त्यौदासीन्यं रूपिणां विदुः || १०-२६१ || प्रसंख्यानवतः कापि वेद्यसङ्कोचनात्र यत् | नास्ति तेन महाव्याप्तिरियं तदनुसारतः || १०-२६२ || प्रमातृमात्रसारत्वाद्विश्वस्य रूपयति तत्तदर्थजातं स्वात्मसात्कारेण रूपवत्करोतीति रूपं प्रमाता, तदैकात्म्यं नाम योगिषु रूपस्थं विदुस्तथा व्यवहरन्ति -- इत्यर्थः | नन्वेवं प्रमात्रैकात्म्ये योगिनां तुर्यसुषुप्तयोः को विशेषः? -- इत्याशङ्क्याह � तत्समापत्त्या रूपिणामौदासीन्यमिति | अत्र हि प्रमातृरूपसमापत्त्या रूपिणां भावानामौदासीन्यमनुद्रेको न तु तुर्यदशायामिव सर्वतो विगलनं येनाविशेषः स्यात् | तेनेति वेद्यसङ्कोचनानास्तित्वेन हेतुना -- इत्यर्थः | ᳚तदनुसारतः᳚ इति प्रसंख्यानवतोऽनुसृत्य -- इत्यर्थः | तदुक्तम् -- ᳚रूपस्थं तु महाव्याप्तिः सुषुप्तस्यापि तद्द्वयम् |᳚ (मा. वि. २|३७) इति || २६२ || अत्रापि पिण्डस्थादिवद्भेदचातूरूप्यमस्ति -- इत्याह -- उदासीनस्य तस्यापि वेद्यं येन चतुर्विधम् | भूतादि तदुपाध्युत्थमत्र भेदचतुष्टयम् || १०-२६३ || उदितं विपुलं शान्तं सुप्रसन्नमथापरम् | वेद्यादिक्षोभशून्यस्यापि प्रमातुर्भूततत्त्वादि वेद्यं येन वक्ष्यमाणोदितत्वादिभेदाच्चतुर्विधम्, तेनापि उपाधिबलायातमुदितत्वादिभेदचतुष्टयमेव -- इति वाक्यार्थः | उदितमिति संस्कारमात्रात्मनावस्थानात् | विपुलमिति तथैव प्ररोहात् | शान्तमिति प्रलीनसंस्कारत्वात् | सुप्रसन्नमिति उद्भवदहंभावरसौन्मुख्यात् | तदुक्तम् � ᳚चतुर्धा रूपसंस्थं तु ज्ञातव्यं योगचिन्तकैः | उदितं विपुलं शान्तं सुप्रसन्नमथापरम् ||᳚ (मा. वि. २|४४) इति || २६३ || इदानीं क्रमप्राप्तं तुर्यं लक्षयति -- यत्तु प्रमात्मकं रूपं प्रमातुरुपरि स्थितम् || १०-२६४ ||
SK
पूर्णतागमनौन्मुख्यमौदासीन्यात्परिच्युतिः | तत्तुर्यमुच्यते शक्तिसमावेशो ह्यसौ मतः || १०-२६५ || प्रमातुरिति मितस्य, पूर्णस्य हि चतस्रोऽपि विधाः स्वातन्त्र्यविजृम्भामात्रम् -- इत्यभिप्रायः | उपरिस्थितत्वमेव दर्शयति -- पूर्णतागमनौन्मुख्यमौदासीन्यात्परिच्युतिरिति | ननु कथङ्कारं नाम तुर्यदशायामौदासीन्यन्यग्भावमात्रात्स्वरूपताग्रहोन्मुखीभावो भवेत्? -- इत्याशङ्क्याह -- ᳚शक्तिसमावेशो ह्यसौ मतः᳚ इति | परामर्शरूपायां हि शक्तौ समावेशस्तत्प्राधान्यमेव -- इत्यर्थः || २६५ || नन्विदं पूर्णतागमनं प्रत्यौन्मुख्यं नाम किं पूर्णं रूपमुतापूर्णं, तत्रापूर्णं चेज्जाग्रदादय एव, पूर्णं चेत्तुर्यातीतमेवेत्यन्तरा किमिदं तुर्यं नाम ? -- इत्याशङ्क्याह -- सा संवित्स्वप्रकाशा तु कैश्चिदुक्ता प्रमेयतः | मानान्मातुश्च भिन्नैव तदर्थं त्रितयं यतः || १०-२६६ || सा तुर्यरूपा संवित्कैश्चित्स्वप्रकाशत्वात्प्रमेयादिभ्यो व्यतिरिक्तैवोक्ता-इति वाक्यार्थः, अन्यथा ह्यस्याः परप्रकाशवादे प्रकाशत्वेन च प्रमाणादपरोक्षसंविद्वादे च तथाविधादेव प्रमातुर्भेदो न सिद्ध्येत् | ननु स्वप्रकाशत्वमप्यस्याः कुतस्त्यम्? -- इत्याशंक्योक्तम् ᳚तदर्थं त्रितयं यतः᳚ इति | यतस्तज्जाग्रदादित्रयं तस्यां संविद्येवार्थोऽर्थनात्मिका याच्ञाकांक्षा यस्य तत्संविद्विश्रान्त्युन्मुखम् -- इत्यर्थः | अन्यथा हि जाग्रदादिविश्रान्तिरूपायास्तस्या अपि विश्रान्त्यन्तरोन्मुखत्वेऽनवस्था भवेत् -- इति भावः || २६६ || कथं चास्यामेते विश्राम्यन्ति? -- इत्याशङ्क्याह -- मेयं माने मातरि तत् सोऽपि तस्यां मितौ स्फुटम् | विश्राम्यतीति सैवैषा देवी विश्वैकजीवितम् || १०-२६७ || देवीति स्वप्रकाशत्वाद् द्योतमाना -- इत्यर्थः | विश्वैकजीवितमिति प्रमेयादेः सर्वस्यैवात्र विश्रमात् | यदुक्तम् � ᳚वेद्यं वेदकतामाप्तं वेदकः संविदात्मताम् | संवित्त्वदात्मा चेत्सत्यं तेनेदं त्वन्मयं जगत् ||᳚ इति || २६७ ||
SK
नन्वियं प्रमाणफलरूपा मेयादित्रयसाध्या मितिरतो मेयादयोऽस्या जीवितं न तु सा तेषामिति किमेतदुक्तम् ? -- इत्याशङ्क्याह -- रूपं दृशाहमित्यंशत्रयमुत्तीर्य वर्तते | द्वारमात्राश्रितोपाया पश्यामीत्यनुपायिका || १०-२६८ || प्रमातृता स्वतन्त्रत्वरूपा सेयं प्रकाशते | संवित्तुरीयरूपैवं प्रकाशात्मा स्वयं च सा || १०-२६९ || रूपमिति प्रमेयम्, दृशेति प्रमाणम्, अहमिति प्रमाता, सेयं विश्वैकजीवितं शुद्धा परा संविदेवमंशत्रयोत्तीर्णा पश्यामीत्येवमाकारं बहिष्प्रसरणानन्तरं प्रत्यावृत्य स्वात्मविश्रान्तौ यद्द्वारं तावत्येवाश्रितो मेयादित्रयलक्षण उपायो यया सा, स्वरूपे पुनरनुपयुज्यमानानुपपद्यमानोपाया, स्वातन्त्र्यमयी परप्रमातृता सा -- इति वाक्यार्थः | ननु कर्मकरणकर्तृव्यतिरिक्तं फलदशाधिशायि तुरीयं रूपं प्रकाशं पश्यामो न तु तदतिरिक्ता काचन संवित्परिस्फुरति यस्याः पश्यामीति द्वारमुच्येत ? -- इत्याशङ्क्याह -- ᳚प्रकाशते᳚ इति | चो हेतौ | सा हि परप्रमातृरूपा शुद्धा संवित्स्वयं प्रकाशते न तु पश्यामीत्यादिविकल्पोल्लेखभूमिः -- इत्यर्थः | यतस्तुरीयाभिमतस्य पश्यामीति प्रकाशस्य सैवात्मा तस्यां हि क्षणमप्यप्रकाशमानायां न किञ्चिदेव परिस्फुरेत् || २६९ || अत एवाह � तत्समावेशतादात्म्ये मातृत्वं भवति स्फुटम् | तत्समावेशोपरागान्मानत्वं मेयता पुनः || १०-२७० || तत्समावेशनैकट्यात् त्रयं तत्तदनुग्रहात् | प्रमात्रादीनां हि तुर्यसंविदमपेक्ष्य यथायथं विप्रकर्षः -- इत्युक्तम् -- ᳚तत्समावेशतादात्म्ये᳚ इति, तत्समावेशोपरागादिति, तत्समावेशनैकट्यादिति च || २७० || प्रमाणफलविलक्षणसंविद्वाद एव चागमप्रसिद्धिरनुगता -- इत्याह - - वेद्यादिभेदगलनादुक्ता सेयमनामया || १०-२७१ || मात्राद्यनुग्रहादा(धा)नात्सव्यापारेति भण्यते | उक्तेति इहैव समनन्तरम् | ᳚अनामया सव्यापारा च भण्यते᳚ इति श्रीपूर्वशास्त्रे यददूर एव संवादयिष्यति || २७१ || एतदेव स्वदर्शनभङ्ग्यापि योजयति --
SK
जाग्रदाद्यपि देवस्य शक्तित्वेन व्यवस्थितम् || १०-२७२ || अपरं परापरं च द्विधा तत्सा परा त्वियम् | ततश्च तज्जाग्रदादित्रयमेव द्विधा पारमेश्वरी शक्तिः -- इत्युक्तम् -- द्विधा तत्सेति| सेति शक्तिः, इयं तु तुर्यात्मा संवित्परा तेन जाग्रत्स्वप्नावपरा, सुषुप्तं परापरा, तुर्यं च परेति || २७२ || अत्रापि प्राग्वदेव संज्ञाभेदोऽस्ति -- इत्याह -- रूपकत्वादुदासीनाच्च्युतेयं पूर्णतोन्मुखी || १०-२७३ || दशा तस्यां समापत्ती रूपातीतं तु योगिनः | पूर्णतौन्मुख्ययोगित्वाद्विश्वं पश्यति तन्मयः || १०-२७४ || प्रसंख्याता प्रचयतस्तेनेयं प्रचयो मता | पूर्णतौन्मुख्यादुदासीनादूर्पकत्वात्प्रमातृत्वात् च्युतायामस्यां तुर्यदशायां योगिषु समापत्तिर्नाम रूपं मितमपि मातारमतिक्रान्तत्वादूर्पातीतमित्युच्यते | ᳚प्रचयतः᳚ इति राशीभूतत्वेन, अत एव ᳚तन्मयः᳚ इत्युक्तं विश्वस्य करामलकवत्प्रचिततया दर्शनेन हेतुना -- इत्यर्थः | तदुक्तम् -- ᳚प्रचयो रूपातीतं च सम्यक्तुर्यमुदाहृतम् |᳚ (मा. वि. २|३८) इति || २७४ || नन्वस्यामपि परस्परसाङ्कर्याज्जाग्रदादिवच्चातूरूप्यं किं संभवेन्न वा ? -- इत्याशङ्क्याह -- नैतस्यामपरा तुर्यदशा सम्भाव्यते किल || १०-२७५ || संविन्न किल वेद्या सा वित्त्वेनैव हि भासते | तुर्यं हि परा संवित्, सा च वेदित्रेकस्वभावेति वेद्यदशासंस्पर्शोऽप्यस्या न स्यात्तत्कथमियं वेद्यवेदकोभयरूपतामश्नुवीत येनोभयदशाधिशायि तुर्यतुर्यमपि स्यात् || २७५ || ननु यद्येवं तर्हि तुर्यजाग्रदाद्यपि किं संभवेन्न वा ? -- इत्याशङ्क्याह -- जाग्रदाद्यास्तु सम्भाव्यास्तिस्त्रोऽस्याः प्राग्दशा यतः || १०-२७६ || त्रितयानुग्रहात्सेयं तेनोक्ता त्रिकशासने | मनोन्मनमनन्तं च सर्वार्थमिति भेदतः || १०-२७७ ||
SK
शंभाव्याः᳚ इति जाग्रदादयो हि परस्या एव संविदः स्वातन्त्र्यविजृम्भितम्, अत एवाह -- यतस्त्रितयानुग्रहात्सेयमिति | अत एव जाग्रदाद्यानुगुण्येन श्रीपूर्वशास्त्रे त्रिप्रकारतयेयमुक्ता -- इत्याह - - तेनेत्यादि | तेनेति जाग्रदाद्यवस्थात्रयानुग्राहकत्वेन | मनोन्मनमिति जागरायामविकल्पकप्राधान्यान्मनसो मननरूपस्वव्यापारोत्क्रमणेन वृत्तेः | अनन्तमिति स्वप्ने विषयेन्द्रियाद्यनपेक्षणेन देशकालाद्यनियमात् | सर्वार्थमिति सुषुप्ते विश्वस्य शक्त्यात्मनावस्थानात् || २७७ || एवं तुर्यमभिधाय तुर्यातीतमप्यभिधत्ते -- यत्तु पूर्णानवच्छिन्नवपुरानन्दनिर्भरम् | तुर्यातीतं तु तत्प्राहुस्तदेव परमं पदम् || १०-२७८ || ननु तुर्यातीतं नाम पञ्चमं पदं, किमतोऽप्यन्यत्पदमस्ति न वा? -- इत्याशंक्योक्तम् -- तदेव परमं पदमिति | परममित्यनन्याकांक्षं परविश्रान्तिधामत्वात्, अत एवोक्तम् -- पूर्णानवच्छिन्नवपुरिति, आनन्दनिर्भरमिति च || २७८ || ननु लोकयोगप्रसंख्यानवशाद्यथा जाग्रदादीनां चतसॄणामप्यवस्थानां त्रीणि नामान्युक्तानि, तद्वदिहापि किमुच्यन्ते न वा ? -- इत्याशङ्क्याह -- नात्र योगस्य सद्भावो भावनादेरभावतः | अप्रमेयेऽपरिच्छिन्ने स्वतन्त्रे भाव्यता कुतः || १०-२७९ || योगाद्यभावतस्तेन नामास्मिन्नादिशद्विभुः | तेनेति योगादेरसद्भावेन | यथा चैतत्तथा द्वितीयाह्निकादावुक्तम् || २७९ || अतश्चात्र संविदेकरूपत्वात्प्रसंख्यानमेव प्रपततीति तदभिप्रायेणैव नामास्ति -- इत्याह -- प्रसंख्यानबलात्त्वेतदूर्पं पूर्णत्वयोगतः || १०-२८० || अनुत्तरादिह प्रोक्तं महाप्रचयसंज्ञितम् | एतदूर्पमित्येतच्छब्देन तुर्यातीतपरामर्शः | ननु तुर्ये ᳚प्रचयः᳚ इति संज्ञानमुक्तमिह तु ततोऽपि महत्त्वे किं निमित्तम्? -- इत्याशंक्योक्तम् -- ᳚अनुत्तरात्᳚ इति ᳚पूर्णत्वयोगतः᳚ इति | अनुत्तरादिति तुर्यात् | तत्र हि संविदो विश्वोत्तीर्णमेव रूपमिह तु तथात्वेऽपि विश्वमयमिति ततोऽप्यस्य महत्त्वयोगः | तदुक्तम् --
SK
᳚महाप्रचयमिच्छन्ति तुर्यातीतं विचक्षणाः |᳚ (मा. वि. २|३८) इति || २८० || अत एवात्र प्रचय इव भेदसंभावनापि नास्तीति न कश्चिदपि विशेषकतया भेद उक्तः -- इत्याह � पूर्णत्वादेव भेदानामस्यां सम्भावना न हि || १०-२८१ || तन्निरासाय नैतस्यां भेद उक्तो विशेषणम् | ननु श्रीपूर्वशास्त्रे ᳚मनोन्मनमनन्तं च सर्वार्थं सततोदितम् | प्रचये तत्र संज्ञेयमेकं तन्महसि स्थितम् ||᳚ (मा.वि. २|४६) इत्यादिना महाप्रचयेऽपि सततोदिताख्यो भेद उक्तः � इति कथमेतदवोचस्तुर्यातीतदशायां नोक्तो भेद इति ? -- इत्याशङ्क्याह -- सततोदितमित्येतत्सर्वव्यापित्वसूचकम् || २८२ || शत्त्वं लघु प्रकाशम् |᳚ (सां. १३ का.) इत्यादौ सत्त्वस्य लघुत्वादिना तथातथास्वरूपमेवोक्तं तथेहापि सततोदितत्वेन सर्वव्यापित्वलक्षणमखण्डस्वरूपमेव प्रकाशितमिति || २८२ || किमत्र प्रमाणम् ? -- इत्याशङ्क्याह -- न ह्येक एव भवति भेदः क्वचन कश्चन | भेदा हि प्रतियोगिनमपेक्ष्य भेदका भवेयुरिति कथमेक एव भेदः स्यात् | स हि स्वरूपमेवोच्यते || अतश्चात्रैको भेदः -- इत्येतन्मूढप्रलपितम् -- इत्याह -- तुर्यातीते भेद एकः सततोदित इत्ययम् || १०-२८३ || मूढवादस्तेन सिद्धमविभेदित्वमस्य तु | अत एवागमोऽप्येवम् -- इत्याह -- श्रीपूर्वशास्त्रे तेनोक्तं............ तत्र पिण्डस्थस्य प्राक्संवादितत्वात्पदस्थात्प्रभृति तदेव पठति -- ...............पदस्थमपरं विदुः || १०-२८४ || मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते | रूपातीतं परा शक्तिः सव्यापाराप्यनामया || १०-२८५ || निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः | सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते || १०-२८६ ||
SK
अपरमित्यधिष्ठानकरणं सुषुप्ते च प्रमातुरेव प्राधान्यमित्युक्तम् -- ᳚मन्त्रास्तत्पतयः सेशा इति | शक्तिरिति संवित्, सैव हि तुर्यस्य रूपमित्युक्तं प्राक् | ङिष्प्रपञ्च᳚ इति अविभिन्नस्वभावः इत्यर्थः | अत एवोक्तम् -- श्वात्मन्यवस्थितः᳚ इति ङिराभासः᳚ इति ᳚शुद्ध᳚ इति च | शर्वातीतः᳚ इति सर्वं तुर्याद्यतीतः सर्वानप्यत्यर्थमितश्च -- इत्यर्थः || २८६ || नन्विह ᳚श्रीशम्भुनाथाज्ज्ञात्वा मयैतद्दर्श्यते᳚ इति प्रागुक्तं तेन पुनः स्वोपज्ञमेव किमेतदुक्तं न वा ? -- इत्याशङ्क्याह -- इति श्रीसुमतिप्रज्ञाचन्द्रिकाशान्ततामसः | श्रीशंभुनाथः सद्भावं जाग्रदादौ न्यरूपयत् || २८७ || श्रीसुमतिनाथो ह्यस्य परमगुरुर्यत्पारम्पर्यादनेनैतदधिगतम् || २८७ || इदानीमेषामेव गुर्वन्तरमताभिप्रायेणापि स्वरूपं निरूपयितुमुपक्रमते -- अन्ये तु कथयन्त्येषां भङ्गीमन्यादृशीं श्रिताः | यदूर्पं जाग्रदादीनां तदिदानीं निरूप्यते || १०-२८८ || अन्य इति श्रीप्रत्यभिज्ञाकारादयः || २८८ || तदेवाह � तत्राक्षवृत्तिमाश्रित्य बाह्याकारग्रहो हि यः | तज्जाग्रत्स्फुटमासीनमनुबन्धि पुनः पुनः || १०-२८९ || आत्मसङ्कल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः | लयाकलस्य भोगोऽसौ मलकर्मवशान्न तु || १०-२९० || स्थिरीभवेन्निशाभावात्सुप्तं सौख्याद्यवेदने | ज्ञानाकलस्य मलतः केवलाद्भोगमात्रतः || १०-२९१ || यन्नाम बाह्यत्वात्सर्वप्रमातृसाधारणस्यार्थस्य सर्वाक्षगोचरतया ग्रहणं तज्जाग्रज्जागरावस्था -- इत्यर्थः | तज्जार्थस्य बाह्यत्वादेव स्फुटमासीनं स्पष्टावभासतया तिष्ठत्, अत एव बाधानुदयात्पुनःपुनरनुबन्धि स्फुटं स्थिरार्थविषयम् -- इत्यर्थः | तदुक्तम् -- शर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा | सृष्टिः साधारणी सर्वप्रमातृणां स जागरः ||᳚ (रि. प्र. ३|२|१७) इति | स्वप्नस्य च जाग्रद्विपर्यये हेतुरात्मसङ्कल्पनिर्माणमिति | तत्र हि मनोमात्रविषयत्वादर्थस्य सर्वाक्षगोचरत्वं सर्वप्रमातृसाधारणत्वं पुनःपुनरनुबन्धित्वं च नेति | तदुक्तम् �
SK
᳚मनोमात्रपथेऽप्यक्षविषयत्वेन विभ्रमात् | स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ||᳚ (रि. प्र. ३|२|१६) इति | यत्पुनरत्र स्पष्टावभासत्वमुक्तं तदपि सर्वाक्षगोचरत्वाद्यभावाज्जाग्रद्विपरीतमेवेति न कश्चिद्विरोधः | ᳚लयाकलस्य भोगोऽसौ᳚ इति लयाकलोऽत्र भोक्तैव -- इत्यर्थः, अत एव जाग्रत्यपि सकलः प्रमातेत्यनेन सूचितम् | तदुक्तम् -- ᳚तत्र स्वरूपे ग्राह्यत्वं सकलो ग्राहको मतः | ग्रहणाकारतामाप्ता शक्तिः सकलसंमता ||᳚ इति | ननु चात्र लयाकलस्य सकलवत्कस्मान्न भोगः स्थिरत्वं यायात् ? -- इत्याशङ्क्याह -- न त्वित्यादि | अस्य ह्याणवकार्ममलद्वययोगाज्जातोऽपि भोगो मायीयमलाभावान्न प्ररोहमियाच्छरीरादेराश्रयस्यासंपत्तेः | तदुक्तम् -- ᳚प्रलयाकलसंज्ञो यस्तस्य कार्ममलस्थितेः | स भोगो जायते मायाभावात्स्थैर्यं न गच्छति ||᳚ इति | सौख्यादीत्यादिशब्दान्नीलादि | तदुक्तम् -- ᳚.....................षौषुप्तं प्रलयोपमम् |᳚ (रि. प्र. ३|२|१५) इति | ᳚................................ज्ञेयशून्यता |᳚ (रि. प्र. ३|२|१३) इति च | तच्च ज्ञानाकलस्य पदमिति शेषः | अत्र हेतुरभिलाषैकरूपाणवमात्रोत्थाद्भोगयोग्यत्वादिति || २९१ || ननु विज्ञानाकलानामपि किमाणवमलयोगोऽस्ति तन्निमित्तकं भोगयोग्यत्वं च ? -- इत्याशङ्क्याह -- भेदवन्तः स्वतोऽभिन्नाश्चिकीर्ष्यन्ते जडाजडाः | तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास्त्रयः || १०-२९२ || यावद्भैरवबोधान्तःप्रवेशनसहिष्णवः | भावा विगलदात्मीयसाराः स्वयमभेदिनः || १०-२९३ || तुर्यातीतपदे संस्युरिति पञ्चदशात्मके | ते हि विज्ञानाकला बोधाद्येकरूपत्वादभिन्ना अपि स्वतः परमेश्वरेच्छया भेदवन्तश्चिकीर्ष्यन्ते | अत एव भेदभाक्त्वाज्जडाः, अभेदभाक्त्वाच्चाजडाः -- इत्युक्तं ᳚जडाजडाः᳚ इति | यदाहुः -- ᳚बोधादिलक्षणैक्येऽपि येषामन्योन्यभिन्नता | तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः ||᳚ (रि. प्र. ३|२|७)
SK
इति | तत्र स्थिता इति -- तत्र जाग्रदादौ स्थिताः सकलप्रलयाकलविज्ञानाकला एव ये यथायोगं मन्त्रादिरूपतां प्राप्ताः सन्तस्तुर्ये प्रमातारस्तदुपादानकत्वान्मन्त्रादीनाम् | तदुक्तम् -- ᳚विशिष्टसुखदुःखादिसाधनावेदने सति | तत्सामान्यमयो भोगो जागरे स्मृतिमागतः || सौषुप्तो मलमात्रोत्थस्तत्र विज्ञानकेवलाः | भेदवन्तः स्वतोऽभिन्नाश्चिकीर्ष्यन्ते जडाजडाः || तत्राविश्य च त इत्थं स्वातन्त्र्यात्तुर्यमीदृशम् | मन्त्रतत्पतिमन्त्रेशमहेशस्थितिभाक्क्रमात् ||᳚ इति | सर्वे हि परसंविद्विश्रान्त्युन्मुखा एव -- इति भावः | अत एव तुर्यातीतपदे प्रमातृप्रमेयात्मानः सर्व एव भावाः परसंविदैकात्म्यसहिष्णुत्वाद्विगलदात्मीयसारा अत एव स्वयमभेदिनः संस्युः शिवशक्तिमात्रात्मना रूपेण परिस्फुरन्ति -- इत्यर्थः | यथोत्तरं भेदविगलनक्रमावद्योतको यावच्छब्दः | पाञ्चदश्यक्रमे चैवं जाग्रदाद्यवस्था इत्युक्तम् -- ᳚इति पञ्चदशात्मके᳚ इति || २९३ || एवं मतभेदेऽपि जाग्रदाद्यवस्थानां तात्पर्येणैकमेव रूपं विश्रमयति -- यस्य यद्यत् स्फुंटं रूपं तज्जाग्रदिति मन्यताम् || १०-२९४ || यदेवास्थिरमाभाति स पूर्वं स्वप्न ईदृशः | अस्फुटं तु यदाभाति सुप्तं तत्तत्पुरोऽपि यत् || १०-२९५ || त्रयस्यास्यानुसंधिस्तु यद्वशादुपजायते | स्रक्सूत्रकल्पं तत्तुर्यं सर्वभेदेषु गृह्यताम् || १०-२९६ || यत्त्वद्वैतभरोल्लासद्राविताशेषभेदकम् | तुर्यातीतं तु तत्प्राहुरित्थं सर्वत्र योजयेत् || १०-२९७ ||
SK
सपूर्वमिति पूर्वानुभूतम् -- इत्यर्थः | अस्फुटमिति सुषुप्ते विश्वस्य शक्त्यात्मनावस्थानादनुद्भिन्नरूपम् -- इत्यर्थः | ननु यद्येवं तर्ह्यत्र न किञ्चिदपि भायात्? -- इत्याशङ्क्याह -- तत्पुरोऽपि यदिति | ततः सुषुप्तात्पुरो जागरायामपि तद्भवति -- इत्यर्थः | अत एव सुखमहमस्वाप्समित्यादिका स्मृतिः स्यात्, अत एव समनन्तरं संवादितम् ᳚जागरे स्मृतिमागतः᳚ इति | त्रयस्येति जाग्रदादेः | सर्वभेदेष्विति जाग्रज्जाग्रदाद्यवान्तरप्रकारेषु -- इत्यर्थः | स्रक्सूत्रकल्पमिति सर्वानुगमात् | अत एवोक्तम् -- ᳚त्रिषु चतुर्थं तैलवदासेच्यम् |᳚ (शि. सू. ३|२०) इति | तुर्यातीते पुनरनुगन्त्रनुगम्याद्यभावाद् भेदगन्धोऽपि नास्तीत्युभयमतानुयायि तात्पर्यतो जाग्रदादीनां रूपमुक्तम् | एवं पाञ्चदश्यक्रमे जाग्रदाद्यवस्थापञ्चकमभिधाय त्रायोदश्यादावप्यतिदिशति -- इत्थं सर्वत्र योजयेदिति || २९७ || तदेवाह � लयाकले तु स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु | स्वप्नादीति क्रमं सर्वं सर्वत्रानुसरेद् बुधः || १०-२९८ || तत्पूर्ववृत्तीति ततः स्वरूपात्पूर्ववृत्ति लयाकलात् -- इत्यर्थः | सर्वत्रेति शिवान्तम् || २९८ || तदाह -- एकत्रापि प्रभौ पूर्णे चित्तुर्यातीतमुच्यते | आनन्दस्तुर्यमिच्छैव बीजभूमिः सुषुप्तता || १०-२९९ || ज्ञानशक्तिः स्वप्न उक्तः क्रियाशक्तिस्तु जागृतिः | नचैतत् ᳚अग्निर्माणवकः᳚ इत्यादिवदुपचरितम् -- इत्याह -- न चैवमुपचारः स्यात्सर्वं तत्रैव वस्तुतः || १०-३०० || न चेन्न क्वापि मुख्यत्वं नोपचारोऽपि तत्क्वचित् | यतस्तत्र चिदेकरूपे पूर्णे प्रभावेव सर्वं भावजातं वस्तुतोऽस्ति, अन्यथा हि न किञ्चन चकास्यात् | यदुक्तम् � श्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् | अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ||᳚ (रि. प्र. १|५|१०) इति | ततश्च सकलादौ तन्मुख्यं न स्यादप्रकाशनादेव, तथात्वे च मुख्याभावादुपचारोऽपि व्याहन्येतेति वास्तवमेव शिवेऽपि जाग्रदाद्यवस्थापञ्चकम् || ३०० || अत्रैव प्रमाणसिद्धतामाह --
SK
एतच्छ्रीपूर्वशास्त्रे च स्फुटमुक्तं महेशिना || १०-३०१ || एतदेव श्रौतेनार्थेन च क्रमेणाह -- तत्र स्वरूपं शक्तिश्च सकलश्चेति तत्त्रयम् | इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके || १०-३०२ || अकलौ स्वप्नसौषुप्ते तुर्यं मन्त्रादिवर्गभाक् | तुर्यातीतं शक्तिशंभू त्रयोदशाभिधे पुनः || १०-३०३ || स्वरूपं जाग्रदन्यत्तु प्राग्वत्प्रलयकेवले | स्वं जाग्रत्स्वप्नसुप्ते द्वे तुर्याद्यत्र च पूर्ववत् || १०-३०४ || विज्ञानाकलभेदेऽपि स्वं मन्त्रा मन्त्रनायकाः | तदीशाः शक्तिशंभ्वित्थं पञ्च स्युर्जाग्रदादयः || १०-३०५ || सप्तभेदे तु मन्त्राख्ये स्वं मन्त्रेशा महेश्वराः | शक्तिः शंभुश्च पञ्चोक्ता अवस्था जाग्रदादयः || १०-३०६ || स्वरूपं मन्त्रमाहेशी शक्तिर्मन्त्रमहेश्वरः | शक्तिः शंभुरिमाः पञ्च मन्त्रेशे पञ्चभेदके || १०-३०७ || स्वं क्रिया ज्ञानमिच्छा च शंभुरत्र च पञ्चमी | महेशभेदे त्रिविधे जाग्रदादि निरूपितम् || १०-३०८ ||
SK
स्वरूपं धराद्यव्यक्तान्तं, सकलशब्दसंनिधानात्तदीयैव शक्तिः | अकलौ प्रलयाकलविज्ञानाकलौ | स्वरूपमिति सकलतच्छक्तिसहितं कलान्तमन्यत्प्राग्वदिति तदकलौ स्वप्नसुप्ते, तुर्यं मन्त्रादिवर्गभाक्, तुर्यातीतं शक्तिशंभु, -- इत्यनुसर्तव्यम् | ᳚प्रलयाकले᳚ इत्यर्थाद्वेद्ये, तेनैकादशात्मके भेदे -- इत्यर्थः | स्वमिति प्रलयाकलाद्यात्मकं स्वरूपं यत्प्राक्स्वप्नपदं समभवत् | ᳚द्वे᳚ इति विज्ञानाकलतच्छक्ती, तेन विज्ञानाकलशक्तिः स्वप्ने, विज्ञानाकलस्तु सुषुप्ते इति | पूर्ववदिति तेन तुर्ये मन्त्रादयस्तुर्यातीते तु शक्तिशिवाविति | ᳚विज्ञानाकलभेदे᳚ इति नवात्मके भेदे -- इत्यर्थः | स्वमिति विज्ञानाकलादिरूपं यत्प्राक्स्वप्नसौषुप्तदशमध्यशेत | ᳚जाग्रदादयः᳚ इत्यनेन क्रमः सूचितः, तेन सशक्तिर्विज्ञानाकलो जाग्रत् यावच्छक्तिशिवौ तुर्यातीतमिति | स्वं मन्त्रादिरूपं जाग्रद्यत्प्राक्स्वप्नदशामधिशयानमासीत्, तेन स्वप्ने मन्त्रेश्वराः, सुप्ते मन्त्रमहेश्वरास्तुर्ये शक्तिस्तुर्यातीते तु शंभुरिति | स्वरूपमिति मन्त्रेश्वरादिरूपं जाग्रद्यत्प्राक्स्वप्नपदमासीत् मन्त्रमहेश्वरशक्तेरारभ्य पुनः क्रमात्स्वप्नाद्या अवस्थाः | स्वमिति मन्त्रमहेश्वरादिरूपं जाग्रद्यावच्छंभुः पञ्चमी तुर्यातीतावस्था स्यात् | अस्मद्दर्शने च वस्तुतः शिवशक्तेस्त्रैरूप्यमेवोदितमित्युक्तम् क्रिया ज्ञानमिच्छा चेति || ३०७ || न केवलमियदन्तमेव जाग्रदादि निरूपणीयतया संभवेद्यावद्विगलितभेदसद्भावे शिवेऽपि -- इत्याह -- व्यापारादाधिपत्याच्च तद्धान्या प्रेरकत्वतः | इच्छानिवृत्तेः स्वस्थत्वाच्छिव एकोऽपि पञ्चधा || १०-३०९ || एतच्च समनन्तरमेवोक्तं विभज्य ग्रन्थकृतास्माभिश्च व्याख्यातमिति नेह पुनरायस्तम् | तदुक्तं तत्र -- श्वरूपं तत्र शक्तिश्च सकलश्चेति तत्त्रयम् | इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके || अकलौ द्वौ परिज्ञेयौ सम्यक्स्वप्नसुषुप्तयोः | मन्त्रादितत्पतीशानवर्गस्तुर्य इति स्मृतः || शक्तिशंभू परिज्ञेयौ तुर्यातीते वरानने |
SK
त्रयोदशात्मके भेदे स्वरूपसकलावुभौ || मन्त्रमन्त्रेश्वरेशानाः शक्तीशावपि पूर्ववत् | प्रलयाकलभेदेऽपि स्वं विज्ञानकलावुभौ || मन्त्रमन्त्रेश्वरेशानाः शक्तीशावपि पूर्ववत् | नवधा कीर्तिते भेदे स्वं मन्त्रा मन्त्रनायकाः || तदीशाः शक्तिशंभू च पञ्चावस्थाः प्रकीर्तिताः | पूर्ववत्सप्तभेदेऽपि स्वं मन्त्रेशेशशक्तयः || शिवश्चेति परिज्ञेयाः पञ्चैव वरवर्णिनि | स्वं शक्तिः स्वा निजेशानाः शक्तिशंभू च पञ्चके || त्रिके स्वं शक्तिशक्तीच्छाशिवभेदं विलक्षयेत् | सव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः || इच्छानिवृत्तेः स्वस्थत्वादभिन्नं चेति पञ्चधा |᳚ (मा. वि. २|२७-३५) इति | प्रमातृभेदश्च वस्तुधर्मादिषु त्रिष्वपि प्रमेयेष्वन्तः प्रतिपदमुक्तः -- इति तेन नेह पृथगुपात्तः || ३०८ || एतदेव प्रथमार्धेनोपसंहरति इत्येष दर्शितोऽस्माभिस्तत्त्वाध्वा विस्तरादथ | इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके तत्त्वभेदप्रकाशनं नाम दशममाह्निकम् || १० || विस्तरादिति, पूर्वाह्निके हि संक्षेपेण षट्त्रिंशद्धा एतदुक्तम्, इह तु प्रतितत्त्वं पाञ्चदश्यादिक्रमेणान्यथेति भावः | अथेत्यन्ते मङ्गलार्थमिति शिवम् || कौमारिलनैयायिकमतविमतिसतत्त्वविज्जयरथाख्यः | अख्यापयदतिविशदां दशमाह्निके विवृतिरीतिमिमाम् || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते, श्रीजयरथाचार्यकृतविवेकाख्यव्याख्योपेते श्रीतन्त्रालोके तत्त्वभेदप्रकाशनं नाम दशममाह्निकम् || १० || एकादशमाह्निकम् ᳚ विवेक ᳚ स्वात्ममहाभीमरवामर्शनवशशकलिताध्वसन्तानः | भवदुर्गभञ्जनजयोत्साहो जयताज्जयोत्साहः || इदानीमपरार्धेन कलाध्वानमुपक्रमते -- कलाध्वा वक्ष्यते श्रीमच्छांभवाज्ञानुसारतः || ११-१ || ननु कलैव नाम किमुच्यते यस्या अप्यध्वपरिभाषा स्यात्? -- इत्याशङ्क्याह -- यथा पूर्वोक्तभुवनमध्ये निजनिजं गणम् | अनुयत्परतो भिन्नं तत्त्वं नामेति भण्यते || ११-२ || तथा तेष्वपि तत्त्वेषु स्ववर्गेऽनुगमात्मकम् |
SK
व्यावृत्तं परवर्गाच्च कलेति शिवशासने || ११-३ || तत्त्वेष्विति मध्ये, स्ववर्ग इति वक्ष्यमाणनीत्यैकतत्त्वादिरूपे, व्यावृत्तमिति अश्वादिभ्य ए(इ)व गोत्वम् || ३ || अत्रैव पक्षान्तरं प्रदर्शयति -- केचिदाहुः पुनर्याऽसौ शक्तिरन्तः सुसूक्ष्मिका | तत्त्वानां सा कलेत्युक्ता धरण्यां धारिका यथा || ११-४ || सुसूक्ष्मिकेति कार्यान्यथानुपपत्त्या परिकल्प्यमाना स्वयमलक्ष्यत्वात् | एवं धरण्या यथा धारिका शक्तिरनुगतास्ति तथा परां काष्ठां प्राप्ताद् बहिर्मुखत्वान्निवर्तकत्वेन कलयित्री निवृत्त्याख्यापि -- इत्युक्तं स्यात् | एवमबादिमूलान्तं तत्त्वचतुर्विंशतेरपि भेदव्यवहार एव प्रतिष्ठानेन कलयित्री प्रतिष्ठाख्या शक्तिः | एवमन्यासामपि संकुचितात्मरूपत्वस्य वेदनेन मायीयपदस्योपशमनेन तदतीतत्वेन च कलनात्तदाख्यत्वं च ज्ञेयम् || ४ || न चात्र वस्तुतः पक्षद्वयेऽपि कश्चिद्विशेषोऽस्ति -- इत्याह -- अत्र पक्षद्वये वस्तु न भिन्नं भासते यतः | अनुगामि न सामान्यमिष्टं नैयायिकादिवत् || ११-५ || यतः पूर्वस्मिन्नपि पक्षे शक्तिरूपतामपहाय नैयायिकादिवदनुगममात्रलक्षण मेव सामान्यं नाभिपेर्तं तदुभयत्रापि शक्तिरूपत्वानुगमस्याविशेषान्न कश्चिदतिशय इति || ५ || अत्र चान्येषां मतान्तरमप्यस्ति -- इत्याह -- अन्ये वदन्ति दीक्षादौ सुखसंग्रहणार्थतः | शिवेन कल्पितो वर्गः कलेति समयाश्रयः || ११-६ || ननु समयो नामेच्छामात्रनिबन्धनः सङ्केतः स चापारमार्थिकत्वादसत्यः, अत एव समयान्तरमप्युत्सहते, इत्येवं नियमो न स्यात् ? -- इत्याशङ्क्याह -- कृतश्च देवदेवेन समयोऽपरमार्थताम् | न गच्छतीति नासत्यो न चान्यसमयोदयः || ११-७ || अपारमार्थिकत्वागमनेऽसत्यत्वाभावे समयान्तरानुदये च देवदेवकृतत्वं हेतुः, अन्यथा ह्येतत्त्रयमप्यत्र संभाव्यं भवेत् -- इति भावः || ७ || नन्वासां च किमनुगन्तव्यं किं वा सुखेन संग्रहणीयम् ? -- इत्याशङ्क्याह -- निवृत्तिः पृथिवीतत्त्वे प्रतिष्ठाव्यक्तगोचरे |
SK
विद्या निशान्ते शान्ता च शक्त्यन्तेऽण्डमिदं चतुः || ११-८ || अण्डमिदं चतुरिति, इदमेव निवृत्त्यादिकलासमव्याप्तिकमण्डचतुष्टयम् -- इत्यर्थः | तदुक्तम् � ᳚पार्थिवं प्राकृतं चैव मायीयं शाक्तमेव च | इति संक्षेपतः प्रोक्तमेतदण्डचतुष्टयम् ||᳚ (मा. वि. २|४९) इति | ᳚शक्त्यन्ते᳚ इत्यनेन व्यापिनीपदादौ कलान्तरस्यावकाशोऽस्ति -- इति प्रकाशितम् || ८ || तदाह � शान्तातीता शिवे तत्त्वे कलातीतः परः शिवः | ᳚शिवे तत्त्वे᳚ इत्यर्थादाक्षिप्तशक्तितत्त्वे सर्वाविभागात्मनि षट्त्रिंशे यस्य समनन्तरमेव सकलसङ्कल्पनाकलङ्ककवलीकाराभिद्योतनायोपदेश्यजनापेक्षया सप्तत्रिंशादित्वेन कल्पितमपि रूपान्तरं लक्ष्यते | अत एवोक्तम् -- ᳚कलातीतः परः शिवः᳚ इति | ᳚कलातीतः᳚ इति समग्रकलोज्झितत्वान्निष्कलः इत्यर्थः | अत एव ᳚परः᳚ इत्युक्तम् || एतदेवोपपादयति � नह्यत्र वर्गीकरणं समयः कलनापि वा || ११-९ || युज्यते सर्वतोदिक्कं स्वातन्त्र्योल्लासधामनि | वर्गीकरणं प्रकारद्वयात्मा पक्षः, आद्यः समयोऽन्यः कलना तथातथाविकल्पनम् | अत्र सर्वतः स्वातन्त्र्योल्लासधामत्वं हेतुः || ९ || ननु यद्येवं तत् शर्वक्रियाणां कर्ता शिवो विज्ञेयः᳚ इत्युपदेशादौ कथमसौ कलनीयतां यायात् ? -- इत्याशङ्क्याह -- स्वातन्त्र्यात्तु निजं रूपम् बोद्धृधर्मादविच्युतम् || ११-१० || उपदेशतदावेशपरमार्थत्वसिद्धये | बोध्यतामानयन्देवः स्फुटमेव विभाव्यते || ११-११ || यतोऽतः शिवतत्त्वेऽपि कलासंगतिरुच्यते | ᳚अतः᳚ इति बोद्धृत्वेऽपि स्वस्वातत्र्याद् बोद्ध्यत्वेन विभावनात्, कलासंगतिरिति तथातथाविकल्पनसंबन्धः -- इत्यर्थः | तदुक्तम् -- श्वातन्त्र्यान्मुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः | प्रभुरीशादिसङ्कल्पैर्निर्माय व्यवहारयेत् ||᳚ (रि.प्र. १|५|१६) इति | एतच्च बहुप्रकारं प्रागुपपादितमिति न पुनरिहायस्तम् | इयता च कलास्वरूपमुक्तम् || ११ ||
SK
ननु भवतु नामैतन्नास्माकमत्र विप्रतिपत्तिः किन्तु शक्त्यन्तमेव यावत् कस्मादण्डत्वमुक्तं न तु व्यापिन्यादौ? -- इत्याशङ्क्याह -- अण्डं च नाम भुवनविभागस्थितिकारणम् || ११-१२ || प्राहुरावरणं तच्च शक्त्यन्तं यावदस्ति हि | तदिति आवरणम् || १२ || नन्वत्र भुवनानां विभागेनावस्थानमस्ति तत्कारणमण्डरूपमावरणं च नास्ति, -- इत्यपूर्वमिदमभिधानम् -- इत्याह -- यद्यपि प्राक् शिवाख्येऽपि तत्त्वे भुवनपद्धतिः || ११-१३ || उक्ता तथाप्यप्रतिघे नास्मिन्नावृतिसंभवः | ᳚शिवाख्येऽपि तत्त्वे᳚ इति तात्स्थ्यात् व्यापिन्यादावपि -- इत्यर्थः | ᳚अप्रतिघे᳚ इति विश्वोत्तीर्णतया शून्यरूपत्वात्, आवृत्यभावे चायमेव विशेषणद्वारेण हेतुः || १३ || ननु प्रतीघातो नाम मूर्तधर्मो मूर्तत्वं च पृथिव्यामेव संभवेत्, ततश्च तामपहायान्यत्राण्डस्य संभवो न न्याय्यः -- इत्याह -- नन्वेवं धरणीं मुक्त्वा शक्तौ प्रकृतिमाययोः || ११-१४ || अपि चाप्रतिघत्वेऽपि कथमण्डस्य संभवः | अत्रास्मद्गुरवः प्राहुर्यत्पृथिव्यादिपञ्चकम् || ११-१५ || प्रत्यक्षमिदमाभाति ततोऽन्यन्नास्ति किञ्चन | मेयत्वे स्थूलसूक्ष्मत्वान्मानत्वे करणत्वतः || ११-१६ || कर्तृतोल्लासतः कर्तृभावे स्फुटतयोदितम् | त्रिंशत्तत्त्वं विभेदात्म तदभेदो निशा मता || ११-१७ || कार्यत्वकरणत्वादिविभागगलने सति | विकासोत्कस्वतन्त्रत्वे शिवान्तं पञ्चकं जगुः || ११-१८ ||
SK
यतः प्रत्यक्षसिद्धात्पृथिव्यादिपञ्चकादन्यत् किञ्चिन्नास्ति, तद्भित्त्यवलम्बनेनैव निखिलस्य विश्वस्योदयः इत्यर्थः | यतोऽस्य मेयत्वे सति उक्तहेतुपञ्चकबलात् त्रिंशतस्तत्त्वानां विभेदेनोदयः | तथा च स्थूलसूक्ष्मरूपं पृथिव्यादीनां पञ्चकद्वयमेतद्रूपमेवेति तावन्नास्ति विप्रतिपत्तिः, ज्ञानांशस्पर्शात्प्रमाणरूपम् बुद्धीन्द्रियपञ्चकमप्येतन्मूलमेव | नहि मेयमपहाय मानत्वं नाम किञ्चिद्भवेत् -- इति भावः | कर्त्रंशस्पर्शात् करणरूपम् कर्मेन्द्रियपञ्चकमप्येतदालम्बनमेव, कार्यमन्तरेण करणत्वायोगात् कर्तृत्वे च कार्यविषयमेव भवेत् -- इति मनःप्रभृति तत्त्वपञ्चकमप्येवम्, अन्यथा हि कर्तृत्वमेव नोल्लसेत् | यद्यप्यन्तःकरणत्रयं करणपक्षनिक्षिप्तमेव तथापि कर्तुरन्तरङ्गत्वाद् बहिष्करणद्वारेण च बाह्यविषयसंस्पर्शादेवमुक्तम् | प्रकृतेश्च बुद्ध्यादिकर्त्रुपकरणकारणत्वात्पारम्पर्येण कर्तृतोल्लासकत्वमित्येवमभिधानम् | एवं नियत्यादिकञ्चुकपञ्चकमपि ᳚अधुनैव किञ्चिदेवेदमेव सर्वात्मनैव जानाति |᳚ (परषा. १७ श्लो.) इत्याद्युक्तयुक्त्या कर्तृत्वस्यैवोपोद्बलत्वात् तदवलम्बनमेवेति | नन्वेवं मायादि ततोऽन्यत्स्यात्? -- इत्याशङ्क्याह -- ᳚तदभेदः᳚ इत्यादि | तच्छब्देनात्र पृथिव्यादीनां परामर्शः | एतदभेदे च कार्यस्य सूक्ष्मेण रूपेणावस्थानं भवेत् -- इति भावः | विकासोत्केति, यथायथमिदन्तायाः सङ्कोचेनाहन्तायाः समुल्लासात्, इदन्तायाश्च संकुचन्त्या अपि मेयनिष्ठत्वं निर्विवादमेवेति युक्तमुक्तमस्मद्गुरुभिः - - ᳚पृथिव्यादिपञ्चकादन्यत् किञ्चिन्नास्ति᳚ इति || १८ || न च स्वोपज्ञमेवैतदुक्तम् -- इत्याह -- श्रीमत्कालोत्तरादौ च कथितं भूयसा तथा | पञ्चैतानि तु तत्त्वानि यैर्व्याप्तमखिलं जगत् || ११-१९ || तदेवाह -- पञ्चेत्यादि | एतानीति पृथिव्यादीनि | यदुक्तं तत्र -- ᳚पृथिव्यापस्तथा तेजो वायुराकाशमेव च |᳚ इति || १९ || अत एव सद्योजातादेरप्येषैव व्याप्तिः सर्वत्रोच्यते -- इत्याह -- पञ्चमन्त्रतनौ तेन सद्योजातादि भण्यते |
SK
ईशानान्तं तत्र तत्र धरादिगगनान्तकम् || ११-२० || तेनेति पृथिव्यादीनामेवोक्तेन जगद्व्यापकत्वेन हेतुना, तत्र तत्र श्रीकालोत्तरादौ | यदुक्तं तत्र � शद्यस्तु पृथिवी ज्ञेया वामो ह्यापः प्रकीर्तिताः | अघोरस्तेज इत्युक्तं वायुस्तत्पुरुषः स्मृतः || आकाशस्तु भवेदीशः स्वयं देवो महेश्वरः | इति | श्रीपरेऽपि शद्यः क्षितिर्जलं वामोऽघोरस्तेजो नरो मरुत् | ईशः खं............................................ ||᳚ इति || २० || एवं शक्त्यन्तमेव यावदावरणं संभवतीत्युपपादितम्, ततश्च व्यापिन्यादावावरणं नास्ति -- इत्याह -- शिवतत्त्वमतः शून्यातिशून्यं स्यादनाश्रि(वृ)तम् | ᳚अतः᳚ इति शक्त्यन्तमेव यावदावरणस्य संभवात् | शून्यातिशून्यमिति, ᳚शून्यात्᳚ व्यापिन्यादिपदाद्भावसंस्कारस्यापि प्रक्षयादतिशून्यं षट्त्रिंशं तत्त्वम् -- इत्यर्थः | अत एवावरणविगमात् ᳚अनावृतम्᳚ -- इत्युक्तम् | ततश्च नात्राण्डव्यपदेशः -- इति युक्तमुक्तं शक्त्यन्तं यावदण्डत्वमिति || नन्वेवं विश्वोत्तीर्णमेव षट्त्रिंशं तत्त्वमित्युक्तं भवेत्, ततश्च स्वतन्त्रबोधैकरूपम् विश्वमयं परं तत्त्वमिति रिक्ता वाचोयुक्तिः स्यात् ? -- इत्याशङ्क्याह -- $$$$$यत्तु सर्वाविभागात्म स्वतन्त्रं बोधसुन्दरम् || २१ || सप्तत्रिंशं तु तत्प्राहुस्तत्त्वं परशिवाभिधम् |
SK
इह खलु विश्वोत्तीर्णत्वेऽपि विश्वमयमेकमेव रूपम् स्वतन्त्रबोधात्मकं परं तत्त्वं यत् सर्वत्र षट्त्रिंशं तत्त्वमित्युद्धोष्यते | तत्र चाविद्यापदपतिताः प्रतिपत्तारो विप्रतिपद्यन्ते � यदेकस्मिन्नेव रूपे कथं विरुद्धधर्मसंसर्गः स्यादिति, यदभिप्रायेणैवैतद्रूपमतः पृथक्कृत्योक्तम् -- सप्तत्रिंशमिति | नहि वस्तुतः किञ्चिदेवं तत्त्वं संभवति, तथात्वे हि ᳚षट्त्रिंशत्तत्त्वमुखानि᳚ इत्यादिश्रुतिविरोधः स्यात् | न चैवमत्र कश्चिद्विरोधः, स ह्युभयवस्त्वधिष्ठानो भवेत् | न चात्रैकमपि वस्तु संभवति, नहि परं तत्त्वमधिकृत्य विश्वमेव नाम किञ्चिद्वस्तु सदस्ति यदुत्तीर्णत्वेन यन्मयत्वेन चात्र विरोधः परापतेत् | तस्मात् षट्त्रिंशस्यैव तत्त्वस्य सर्वाविभागात्मत्वाद्यात्मकमेकं रूपम् सप्तत्रिंशत्वेन परिकल्पितं भेदात्तान् प्रमातॄन् प्रत्येवमुपदेशात् || २१ || नन्वेवमस्तु को दोषः, एतस्यापि रूपस्य भावनोपदेशादौ पुनर्यदा वेद्यभावः परिकल्प्यते तदा कस्य प्रमातृत्वं स्यात् ? -- इत्याशङ्क्याह -- तस्याप्युक्तनयाद्वेद्यभावेऽत्र परिकल्पिते || ११-२२ || यदास्ते ह्यनवच्छिन्नं तदष्टात्रिंशमुच्यते | उक्तनयादिति, श्वातन्त्र्यात्तु निजं रूपम्᳚ (त.आ. ११|१०) इत्यादिरूपात् | यदिति विश्वोत्तीर्णाद्यपेक्षया तृतीयं रूपम्, वस्तुतो हि विश्वोत्तीर्णत्वादिरूपत्वेऽपि स्वतन्त्रबोधः परमार्थः -- इत्यादिनीत्यानवच्छिन्नं बोधमात्रमेवास्य परं रूपम् यदष्टात्रिंशमिति परिकल्प्यते || २२ || नन्वेवं तस्यापि वेद्यत्वपरिकल्पनेऽन्यः प्रमाता कल्पनीयस्तस्याप्यन्य इत्यनवस्था स्यात् ? -- इत्याशङ्क्याह � न चानवस्था ह्येवं स्याद् दृश्यतां हि महात्मभिः || ११-२३ || एतदेव दर्शयति � यद्वेद्यं किञ्चिदाभाति तत्क्षये यत्प्रकाशते | तत्तत्त्वमिति निर्णीतं षट्त्रिंशं हृदि भासते || २४ || ᳚तत्क्षये᳚ इति तस्य समनान्तस्य वेद्यस्य | यदिति वेदकैकरूपम्, प्रकाशते इत्ययत्नमेव सर्वेषां साक्षात्कृतं भवेत् -- इत्यर्थः | यदाहुः --
SK
ङाथ वेद्यक्षये केन न दृश्योऽस्येकको भवान् |᳚ (उ. स्तो. १|८) इति | षट्त्रिंशमिति, विश्वोत्तीर्णं रूपम् -- इत्यर्थः || २४ || नन्वेवमस्य किं विश्वविविक्ततैव रूपमुतान्यत्किञ्चित्तदतिरिक्तम् ? -- तदाह -- तत्किं न किञ्चिद्वा किञ्चिदित्याकाङ्क्षावशे वपुः | तत्राद्यः पक्षो दूरापेतः, नहि घटाभाव एव पटस्य रूपम् भवितुमर्हति; अतश्चैतदनागूर्यैव पक्षान्तरं दर्शयति -- चिदानन्दस्वतन्त्रैकरूपं तदिति देशने || ११-२५ || सप्तत्रिंशं समाभाति तत्राकाङ्क्षा च नापरा | तत्र चिता बोधसुन्दरत्वमानन्दे(न)च सर्वाविभागात्मत्वमुक्तम् | शक्तिदशायामेव हि विश्वमविभागेन भवेत् -- इति भावः | एवमुपदेशे च षट्त्रिंशदतिरिक्तं रूपमुपदिष्टं भवेदित्युक्तम् -- ᳚इति देशने सप्तत्रिंशं समाभाति᳚ इति | नहि यदेव विश्वोत्तीर्णं तदेव विश्वमयं भवितुमर्हति -- इत्युक्तप्रायम् | एवं चास्य चिदानन्देत्यादिना साक्षात्तात्त्विकं रूपमुक्तम -- इत्यत्रान्यत् किञ्चिदाकाङ्क्षणीयं नास्तीत्युक्तम् -- तत्राकाङ्क्षा च नापरेति || २५ || एवमुपदेश्यत्वादेव वेद्यभावः पुनरवस्थितः -- इत्यस्य केनचिद्वेदकेन भाव्यम्, स एव पुनः कतरः ? -- इत्याशङ्क्याह -- तच्चापि कॢप्तवेद्यत्वं यत्र भाति स चिन्मयः || ११-२६ || अष्टात्रिंशत्तमः सोऽपि भावनायोपदिश्यते | यदि नाम ततः सप्तत्रिंश एव पुनर्भवेत् || ११-२७ || ᳚चिन्मयः᳚ इत्यनवच्छिन्नबोधमात्ररूपः -- इत्यर्थः | नन्वियमेव सानवस्था यत्तस्य वेद्यभावे कल्पिते प्रमात्रन्तरेण भाव्यं तस्याप्येवमिति ? तदेतदाशङ्क्याह -- सोऽपीत्यादि || २७ || ननु कथमष्टात्रिंश एव सप्तत्रिंशो भवेत्? -- इत्याशङ्क्याह -- अविभागस्वतन्त्रत्वचिन्मयत्वादिधर्मता | समैव वेद्यीकरणं केवलं त्वधिकं यतः || ११-२८ ||
SK
विरुद्धधर्माध्यासस्तावद्भेदहेतुरित्यविवादः | सर्वाविभागात्मत्वादेश्चाविशेषात् स एवात्र नास्ति -- इति कुतस्त्योऽयमनयोर्भेदः | यावता हि वेद्यत्वमात्रमत्राधिकं येनैकैकस्य वेद्यत्वं परिकल्प्यतेऽन्यस्य च वेदकत्वम् | एवमेवंविधं परं तत्त्वं यदा कल्पितवेद्यभानं(वं) भवेत् तदा सप्तत्रिंशमुच्यतेऽन्यथा त्वष्टात्रिंशमिति | न चाष्टात्रिंशस्यैव वेद्यभावे कल्पिते सप्तत्रिंशादन्यदपूर्वं किञ्चिद्रूपमुक्तं भवेत्, नाप्यन्यस्य तद्वेदकस्य कल्प्यमानस्य ततः, इत्यनयोः क्रियाव्यवहारवत्पारस्परिक एव वेद्यवेदकभावः -- इत्यनवस्थाया न कश्चिदवकाशः | वस्तुतो हि सर्वशास्त्रेषु षट्त्रिंशत्वेन गीयमानमनवच्छिन्नं बोधमात्रमेव परतत्त्वमित्युक्तम्, तस्यैव पुनः स्वस्वातन्त्र्यादेवं भेदोल्लासो येन मायाप्रमात्रपेक्षया महागुरूणां यथागममेवमुपदेशः -- इत्यलं पिष्टपेषणेन | आः किमुच्यते यथागममिति, को नामायमागमः, न तावत्प्रकृतं पूर्वशास्त्रम्, न हि तत्रैतत्किञ्चिदुक्तं प्रत्युत तत्र दीक्षादौ ᳚षट्त्रिंशत्तत्त्वभेदने न्यासोऽयं समुदाहृतः |᳚ (मा.वि. ६|६) इत्याद्येतद्विरुद्धमेवाभिहितम् | ग्रन्थकृता च तत्त्वाध्वप्रकाशनादौ तत्र तत्र तन्मतानुवर्तनमेव कृतम् | एवंविधश्च कश्चिदागमोऽपि न संवादितः | प्रक्रियाप्रतिपादकाश्चान्ये सर्व एवागमास्तथैवेति किं नाम तथाविधमागमान्तरमस्ति यदनतिक्रमेणापूर्वतयैवमुपदेशः इति ? अस्त्येव ह्येवंविधमागमान्तरम् | तथा च श्रीकुलरत्नमालायाम् -- ᳚तत्त्वाध्वानं प्रवक्ष्यामि यथा ज्ञास्यसि सुव्रते | चरशक्तिद्वयं पूर्वं तदूर्ध्वं पञ्चकं स्मृतम् || चतुष्कं च ततो देवि द्विरन्ध्रं जन्म एव च | व्याप्तिर्वैकुण्ठसंघट्टो व्याप्तिश्चैव तु लम्बिका || रन्ध्रं तु अष्टमं देवि अर्धेन्दुः कुण्डली प्रिये | शान्तं चैव प्रशान्तं च विन्दुर्नित्योदितस्तथा || ऊर्ध्वे नादं विजानीयात्षट्चक्राणि तदूर्ध्वतः | शक्तितत्त्वं तु षट्चक्रं शिवतत्त्वं तथैव च ||
SK
अष्टात्रिंशदमी तत्त्वास्तथाध्वायं वरानने | लौकिको यो न जानाति कथं दीक्षां तु कारयेत् ||᳚
SK
इत्याद्युक्तम् | नन्वत्र परमेश्वरेण प्रतिज्ञयापि तत्त्वाध्वप्रवचनं पञ्चत्रिंशषट्त्रिंशयोरेव तत्त्वयोः साक्षादभिधानं कृतं न तु प्रसिद्धानामपि तत्त्वान्तराणाम्, का वार्ता तु सप्तत्रिंशाष्टात्रिंशयोः, प्रत्युत म्लिष्टप्रायमालूनविशीर्णं किं तावदप्रातीतिकमुक्तम् -- इति न जानीमः | ननु स्थितमेवात्र सर्वतत्त्वप्रवचनं किन्तु षट्त्रिंशत्तत्त्वविषयायामविगीतायामपि प्रसिद्धौ सप्तत्रिंशाष्टात्रिंशयोरपूर्वतयाभिधानेन सुकुमारहृदयानामागमिकानां संमोहो मा भूदिति करुणापरस्य परमेश्वरस्य गूढार्थतया यथोक्तनीत्या मायाप्रमात्रपेक्षया कल्पनामात्रसारमेवमभिधानम्, तच्च गुरूपसेवनादावदृष्टकष्टैः स्वावमर्शशून्यैश्च कथमेवमेवावगम्यते � इत्यामुखे म्लिष्टप्रायत्वादि लक्ष्यते | वस्तुतस्तु स्थितमेव सर्वतत्त्वानामभिधानम् | तथा च चरशब्देनात्र चरेर्गत्यर्थत्वाद्गतिक्रियोच्यते, तस्याश्चाकरणिका क्रिया न संभवति - - इति साधकतमतया परिकल्प्यमाना पादेन्द्रियात्मिका येयं शक्तिस्तस्या यद्द्वयं समस्तशरीरव्यापकत्वेऽपि अधिष्ठात्रधिष्ठेययोरभेदोपचारान्मुख्यमधिष्ठानस्थानं पादयुग्मम्, तेन तत्त्वक्रमप्रवचनस्य प्रक्रान्तत्वाद्धरातत्त्वं लक्ष्यते -- इति पूर्वं प्रथमं स्थौल्यस्य परां काष्ठां प्राप्तं धरातत्त्वं स्मृतम् -- इत्यर्थः | तदूर्ध्वमप्यबाद्याकाशान्तं चतुष्कमावृत्त्या ᳚तदूर्ध्वं च पञ्चकं चतुष्कम्᳚ गन्धतन्मात्रं पुमन्तं तत्त्वविंशकं स्मृतमित्येवं पञ्चविंशतितत्त्वान्युक्तानि -- इति सिद्धम् | चतुष्कशब्दस्य च तदूर्ध्वपदानन्तरं निर्देष्टव्यत्वेऽपि उभयत्रापि संबन्धसहिष्णुताप्रतिपादनाभिप्रायेणात्र निर्देशः | एषां च गणनामात्रेणैव निर्देशे दर्शनान्तरेष्वपि प्रसिद्धत्वं निमित्तम्, अत एव स्मृतमित्युक्तं न तूच्यते इत्युक्तमिति वा | तदनन्तरमपि ᳚द्विरन्ध्रम्᳚ द्वे रन्ध्रे ज्ञानक्रियालक्षणं मार्गद्वयं तद्गतं ᳚जन्म᳚ स्वरूपगोपनाबलात्तिरस्कृतस्य प्रतिप्रसवभङ्ग्या किञ्चित्त्वेन पुनराविर्भवनम्, तेन
SK
तदुपोद्बलकं कलाविद्यात्मकं तत्त्वद्वयमेतदित्युक्तं स्यात् | कञ्चुकानां च क्रमस्यावास्तवत्वादनयोः प्राधान्यात्पुंस्तत्त्वानन्तर्येण वचनम् | ᳚व्याप्तिः᳚ विशिष्टाप्तिः सामान्याकारविषयमात्रावच्छिन्नः ᳚किञ्चिन्मे भूयात्᳚ इत्येवमात्मक आसङ्गो रागतत्त्वम् -- इत्यर्थः | ᳚वैकुण्ठेन᳚ कण्ठदेशस्थेन विष्णुना सह शङ्घट्टो᳚ मेलनमस्यास्ति � इत्यनेन नियतितत्त्वमुक्तम् | अस्यापि ह्यङ्गुलदीक्षायां वक्ष्यमाणक्रमेणादूरविप्रकर्षात्कण्ठ एव देशः -- इत्याशयः | यद्वा स्थितिकारिणो वैकुण्ठस्य नियतिसंरक्षणमेव मुख्यया वृत्त्या कार्यमित्यस्यास्तथात्वमुक्तम् | ᳚व्याप्तिः᳚ व्यापकत्वात्कालतत्त्वम्, न हि तत्किञ्चिज्जगदुदरवर्त्ति पदार्थजातं संभवति यन्न कालेन कलितमिति | लम्बिकेति, तात्स्थ्यान्माया | ᳚पाठक्रमादार्थः क्रमो बलीयान्᳚ इति स्थित्या बिन्दुर्वेदनमिति, वेद्यतेऽनेनेति वा विद्या तदाख्यं द्वात्रिंशं तत्त्वम् -- इत्यर्थः | तथा स एव ᳚रिश्वरो बहिरुन्मेषः ............................. |᳚ (रि.प्र. ३|१|३) इत्याद्युक्त्या नित्योदितोऽत एव विदिक्रियाकर्तृत्वेन प्रवृत्तत्वाद् बहिरुल्लसद्रूप ईश्वरस्तदाख्यं तत्त्वमिति यावत् | अस्यैव चावान्तरमात्रप्रमेयसंग्रहणपरत्वेनार्धेन्दुरिति विशेषणम् | अत एव नादान्तस्यापि नादान्तःकारो व्याकार्यः | नादमिति, सादाशिवं तत्त्वम् -- इत्यर्थः | ᳚ऊर्ध्वे᳚ इत्यस्यावृत्त्या सदाशिवस्याप्यूर्ध्वे ᳚कुण्डली᳚ ᳚...................टदूर्ध्वं शक्तिकुण्डली |᳚
SK
इति वचनाच्छक्तिः | यथायथमावरणविगमाच्च ᳚शान्तं᳚ व्यापिन्याः, ᳚प्रशान्तम्᳚ समनाया रूपम् | एतच्च कुण्डल्यादित्रयं तात्स्थ्यादूर्ध्वं ब्रह्मरन्ध्रेर्ध्वर्ती -- इत्यर्थः | तच्च रन्ध्रमष्टमं नादादारभ्य वैलोम्येन तावत्संख्याकत्वात्; अनेन चैवंरूपम् पञ्चत्रिंशं शक्तितत्त्वमुक्तम् | ननु यद्येवं तत् ᳚षट् चक्राणि तदूर्ध्वतः᳚ इति तच्छब्देन किं नादः परामृश्यते किमुत व्यवहितमपि कुण्डल्यादित्रयम्, एवंपरामर्शेऽपि ᳚षट् चक्राणि᳚ इति किमुच्यते ? -- इत्याशङ्क्योक्तम् -- शक्तितत्त्वं तु षट्चक्रमिति | षट् चक्राणि शक्तितत्त्वादन्यन्न किञ्चित् -- इत्यर्थः | परमेश्वरस्य हि स्वातन्त्र्याख्या समवायिनी शक्तिरेव समनादिनेच्छादिना चान्तर्बहीरूपेण त्रैरूप्येण प्रस्फुरन्ती सती षट्चक्रं शक्तितत्त्वमित्युक्तम् | चक्रशब्दो ह्यत्र ᳚कृती च्छेदने᳚ इत्यस्य धातो रूपम् विवक्षितम्, तेन यथोक्तगत्या षोढा भेदितम् -- इत्यर्थः | ननु ᳚पञ्चत्रिंशत्तत्त्वी शिवनाथस्यैव शक्तिरुक्तेयम्᳚ इत्याद्युक्त्या शिवतत्त्वं तावत्षट्त्रिंशमेव -- इति नास्ति विप्रतिपत्तिः, सर्वत्रैवागमे च तथैवाविगीता प्रसिद्धिरिति कथम् ᳚अष्टात्रिंशदमी तत्त्वा᳚ इत्युपसंहृतम् ? -- इत्याशङ्क्योक्तम् -- तथैवेति षट्चक्रमेव षोढा विकस्वरम् -- इत्यर्थः | ᳚कस विकासे᳚ इत्यस्य हि धातोरयं प्रयोगः | नन्वेवमपि शिवतत्त्वस्य षोढा विकसितत्वादेकचत्वारिंशत्तत्त्वानि स्युः, षट्त्रिंशदेवेति पुनरपि तदवस्थ एव स दोषः, कथम् ᳚अष्टात्रिंशत्तत्त्वानि᳚ इति ? नैतत्, उक्तनीत्या हि षट्त्रिंशस्यैव शिवस्य स्वप्रकाशत्वेऽप्युपदेशभावनादौ कल्पितायामपि प्रमेयतायां तथा हि ᳚यादृशो यक्षस्तादृशो बलिरप्यस्य᳚ इतिवत् तादृशेनैव प्रमात्रा भाव्यमिति सप्तत्रिंशं रूपं कल्पितम्, तस्याप्येवंरूपतायामष्टात्रिंशं, तस्याप्येवंरूपतायामनवस्थापरिहाराय पुनः सप्तत्रिंशमेवरूपम् प्रमातृत्वेन कल्पितम् -- इति त्रयस्याप्यस्य प्रत्येकं मातृत्वमेयत्वरूपत्वे शिवतत्त्वस्य षट्चक्रत्वं येन ᳚अष्टात्रिंशत्तत्त्वानि᳚
SK
इत्युपसंहृतम् | नन्वेवमपि ᳚अष्टात्रिंशत्तत्त्वानि᳚ इति न युज्यते, सप्तत्रिंशस्यापि मेयत्वे कल्पिते षट्त्रिंश एव यथोक्तगत्या प्रमातास्तु किमनवस्थादायिनाष्टात्रिंशेनाप्युपकल्पितेन -- इति चतुश्चक्रमेवास्तु शिवतत्त्वम् | ननूक्त एवात्र परिहारो यावता हि एकस्यैव षट्त्रिंशस्य तत्त्वस्य मायाप्रमात्रपेक्षया विश्वोत्तीर्णत्वेऽपि विश्वमयत्वं प्रमातृत्वेऽपि प्रमेयत्वं च कथं नाम संगच्छताम् -- इत्येतदपास्यं वर्तते | तच्चोभयमपि सप्तत्रिंशाष्टात्रिंशयोरेवोपकल्पनेनोपशाम्यति, द्वयोरपि भिन्नविषयत्वेनैव कृतार्थत्वस्योक्तत्वात्; आपतन्ती चानवस्था परिह्रियमाणा श्रोतॄणां परं सुखावबोधाय स्यात् न संभाव्यमानेत्यप्यष्टात्रिंशस्य परिकल्पने बलवदवलम्बनमित्यास्ताम् | वस्तुतस्तु षट्त्रिंशमेव सर्वंसहमित्युक्तप्रायम् | अत एव श्रीप्रत्यभिज्ञाकारादिभिः ᳚प्रथमस्य तथा भावे प्रद्वेषः किंनिबन्धनः |᳚ इत्यादि हृदि समाधाय षट्त्रिंशस्यैव शिवस्य न्यायसिद्धं स्वप्रकाशत्वमभ्युपगम्य नैतत्किञ्चिदुक्तं, किं त्वियदेवोक्तं यत् -- श्वातन्त्र्यान्मुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः | प्रभुरीशादिसङ्कल्पैर्निर्माय व्यवहारयेत् ||᳚ (रि.प्र. १|५|१६) इति | ग्रन्थकृता पुनस्तदेव भित्तितयावलम्ब्य तदागमार्थव्याचिकीर्षापरतयैवमभिहितम् � इति सर्वं सुस्थम् || २८ || एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवोपक्षेप्तुं न केवलमेभिरेवमखिलं जगद्व्याप्तं यावद्भङ्ग्यन्तरेणापि -- इत्याह -- धरायां गुणतत्त्वान्ते मायान्ते क्रमशः स्थिताः | गन्धो रसो रूपमन्तः सूक्ष्मभावक्रमेण तु || ११-२९ || इति स्थिते नये शक्तितत्त्वान्तेऽप्यस्ति सौक्ष्म्यभाक् | स्पर्शः कोऽपि सदा यस्मै योगिनः स्पृहयालवः || ११-३० || तत्स्पर्शान्ते तु संवित्तिः शुद्धचिद्व्योमरूपिणी | यस्यां रूढः समभ्येति स्वप्रकाशात्मिकां पराम् || ११-३१ || श्पर्शः᳚ इति सञ्चरत्पिपीलिकास्पर्शप्रायः | यदुक्तम् -- ᳚शक्तिं भित्त्वा ततो देवि त्वक्शेषे व्यापिनी भवेत् |
SK
भवेदनुभवस्तत्र स्पर्शो यद्वत्पिपीलिका ||᳚ (स्व. ४|३८२) इति | स च शौक्ष्म्यभाक्᳚ स्थूलसूक्ष्मान्तरविलक्षणोऽतः ᳚कोऽपि᳚ -- इत्युक्तम् | अतश्च स एव परमुपेयः, इत्युक्तं -- ᳚यस्मै योगिनः स्पृहयालवः᳚ इति | न चायमकाण्डकूष्माण्डन्यायेनात्रावस्थितः � इत्युक्तम् ᳚इति स्थिते नये᳚ इति | तेन धरायां गन्धः प्रकृत्यन्ते रसो मायान्ते रूपमित्यन्तः सूक्ष्मेण रूपेण स्थितानीति न्यायमवलम्ब्य -- इत्यर्थः | अत एव चैतदन्ते सर्वभावसंक्षयात्, ᳚व्योमरूपिणी शुद्धज्ञानरूपा संवित्तिः᳚ -- इत्युक्तम् | अत्र च व्योमरूपत्वोक्त्या शक्त्यन्तादौ गुणगुणिनोरभेदोपचाराद्वाय्वादिरूपत्वं ज्ञेयम् | परामित्यर्थात्संवित्तिम् || ३१ || नन्वेषां भूतगुणत्वाविशेषेऽपि योगिना स्पर्श एव स्पृहणीयो न रूपादयः -- इत्यत्र किं प्रमाणम् ? -- इत्याशङ्क्याह � अतो विन्दुरतो नादो रूपमस्मादतो रसः | इत्युक्तं क्षोभकत्वेन स्पन्दे स्पर्शस्तु नो तथा || ११-३२ || इहोन्मेषादिशब्दव्यपदेश्यपरतत्त्वनिभालनोद्यतानामप्यनुन्मूलितदेहाह ंभाविनां योगिनामचिरात् तत एव विन्दुनादाद्यभिव्यक्तिवत्सिद्धिभूतो रूपादिरपि परतत्त्वासादनविघ्नप्रायत्वात् क्षोभकत्वेन प्रवर्तते न तथा स्पर्शः -- इति श्रीस्पन्दशास्त्रादावुक्तम् | तत्र चास्य -- ᳚प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः |᳚ (स्प. ४|१२) इति द्वितीयमर्धम् | रूपमन्धकारेऽपि तत्तद्दृश्याकारदर्शनम् | रसवद्वस्तुविरहेऽपि लोलाग्रादावमृताद्यास्वादः || ३२ || ननु भवत्वेवं स्पर्शस्य स्पृहणीयत्वं को दोषः पृथिव्यादितत्त्वपञ्चकस्य पुनरेवमवस्थाने किं प्रमाणम् ? -- इत्याशङ्क्याह -- मतं चैतन्महेशस्य श्रीपूर्वे यदभाषत | धारिकाप्यायिनी बोद्ध्री पवित्री चावकाशदा || ११-३३ || एभिः शब्दैर्व्यवहरन् निवृत्त्यादेर्निजं वपुः | बोद्ध्रीति, तेजसो भास्वरत्वेन दर्शनप्राधान्यात् | पवित्रीति, अधराधरस्य भूतभावादेः संविदात्मकसारसंग्रहणायासारप्रायं जाड्यादिरूपत्वं शिथिलयन्ती -- इत्यर्थः | यदुक्तमनेनैव --
SK
ङिबिडजडिमबन्धाद् बन्धुरत्वं प्रयातं शिथिलयति यतः सा ग्रन्थिविस्फोटनेन | अधरपदनिविष्टं तेन सा शान्तशक्ति प्रसरसरणिरुक्ता तादृशेनैव नाम्ना ||᳚ इति | ᳚पूञ् पवने᳚ इत्यस्य ह्ययं प्रयोगः | उत्पूयिनीति त्वैशः पाठः | एभिः शब्दैरिति धरादिरूपत्वं गमयद्भिः -- इत्यर्थः || ३३ || एतदुपसंहरन्नन्यदवतारयति -- पञ्चतत्त्वविधिः प्रोक्तस्त्रितत्त्वमधुनोच्यते || ११-३४ || विज्ञानाकलपर्यन्तमात्मा विद्येश्वरान्तकम् | शेषे शिवस्त्रितत्त्वे स्यादेकतत्त्वे शिवः परम् || ११-३५ || यदुक्तम् � ᳚विज्ञानाकलपर्यन्तमात्मतत्त्वमुदाहृतम् | रिश्वरान्तं च विद्याह्वं शेषं शिवपदं विदुः ||᳚ (मा. वि. २|४७) इति | इह चानेन ᳚एकत्रिपञ्चाद्यैस्तत्त्वकल्पनम्᳚ (त. १|२९६) इत्यनुजोद्देशोद्दिष्टस्यैव तत्त्वकल्पनादेः प्रमेयस्यावकाशो दर्शित इति || ३५ || ननु पृथिव्यादेस्तत्त्वपञ्चकस्याखिलतत्त्वव्यापकत्वेनाभिधानात् तत्त्वाध्वरूपत्वमेव -- इति नास्ति विमतिः, त्रित्त्वादेः पुनः कलादिवत्किमध्वान्तरत्वमुत तत्त्वाध्वत्वमेव? -- इत्याशङ्क्याह -- इमौ भेदावुभौ तत्त्वभेदमात्रकृताविति | तत्त्वाध्वैवायमित्थं च न षडध्वस्थितेः क्षतिः || ११-३६ || अयमिति समनन्तराह्निकद्वयोक्तः | यतस्तत्तद् व्याप्तिगर्भीकारेण तत्त्वाध्वन एवैतद्भेदवैचित्र्यमिति, अतश्च ....................᳚षड्वधोऽध्वा प्रकीर्तितः |᳚ इत्यादिप्रत्यभिज्ञाया न काचित् खण्डना -- इत्युक्तम् -- इत्थं च न षडध्वस्थितेः क्षतिरिति || ३६ || एतदेवान्यत्राप्यतिदिशति -- प्रकृत् पुमान्यतिः कालो माया विद्येशसौशिवौ | शिवश्च नवतत्त्वेऽपि विधौ तत्त्वाध्वरूपता || ११-३७ || एवमष्टादशाख्येऽपि विधौ न्यायं वदेत्सुधीः | उक्तं च ᳚...............................णवतत्त्वीं प्रचक्ष्महे |᳚ इत्युपक्रम्य ᳚प्रकृतिः पुरुषश्चैव नियतिः काल एव च | माया विद्या तथेशश्च सदाशिवशिवौ तथा ||᳚ इति | न्यायमिति, तत्त्वाध्वरूपतायां साधकमेव -- इत्यर्थः | तदुक्तम् --
SK
᳚शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः | मनो बुद्धिरहंकारो गुणाः प्रकृतिरेव च || पुरुषो नियतिश्चैव कालो माया तथैव च | विद्या चैवेश्वरं तत्त्वं सादाख्यं शक्तिगोचरः | अष्टादशैवं तत्त्वानि................................ ||᳚ इति || ३७ || ननु तत्त्वाद्यध्वनामन्यतमेनैव प्रकारेण दीक्षा सिद्ध्येदिति मूलतः षड्वधत्वमेव किमर्थमुक्तं, तत्राप्यवान्तरवैचित्र्यम् ? -- इत्याशङ्क्याह -- यत्र यत्र हि भोगेच्छा तत्प्राधान्योपयोगतः || ११-३८ || अन्यान्तर्भावनातश्च दीक्षानन्तविभेदभाक् | अनेके हि दीक्ष्याः -- इति तत्तदाशयानुसारं कस्यचिदध्वनः प्राधान्यमितरेषां च गुणभावो येनैवं दीक्षाया अप्यानन्त्यम् | एवं तत्त्वाध्वन्यपि कस्यचित्तत्त्वस्य प्राधान्यं कस्यचिच्च गुणभावो येनैवमनेकभेदत्वम्, तथात्वे चैषां न तत्त्वाध्वरूपताप्रच्यावस्तत्त्वभेदमात्रकृतत्वादेवंरूपत्वस्य || ३८ || तदाह -- तेन षट्त्रिंशतो यावदेकतत्त्वविधिर्भवेत् || ११-३९ || तत्त्वाध्वैव स देवेन प्रोक्तो व्याससमासतः | तेनेति, उक्तेन न्यायेन | प्रोक्त इति सर्वत्रागमे | यदुक्तम् � ᳚तत्त्वैः षट्त्रिंशतार्धेन तदर्धेनाथ पञ्चभिः | स्थितिरेकेन वा कार्या परापरविभूतये ||᳚ इति || ३९ || ननु ᳚अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् |᳚ इति न्यायेन यद्येकतत्त्वात्मना संक्षिप्तेनैव प्रकारेण दीक्षा सिद्ध्येत् तत्किमन्यैर्विस्तृतैः प्रकारैः ? -- इत्याशङ्क्याह -- एकतत्त्वविधिश्चैष सुप्रबुद्धं गुरुं प्रति || ११-४० || शिष्यं च गतभोगाशमुदितः शंभुना यतः | गतभोगाशमिति मुमुक्षुमेव -- इत्यर्थः || ४० || ननु दीक्षया शिवतत्त्वं नामासाद्यम् -- इति सर्वत्रोक्तम्, तच्चादित एव सिद्धमिति किमनया व्यस्तया समस्तया वा? -- इत्याशङ्क्याह -- भेदं विस्फार्य विस्फार्य शक्त्या स्वच्छन्दरूपया || ११-४१ || स्वात्मन्यभिन्ने भगवान्नित्यं विश्रमयन् स्थितः |
SK
एतदेव परमेश्वरस्य परं स्वातन्त्र्यं यदेवं भेदमवभासयति च दीक्षादिक्रमेणाद्वयैकपरमार्थे स्वात्मनि च विश्रमयति, इति | यदभिप्रायेणैव प्रागेव -- ᳚प्रतिक्षणं विश्वमिदं स्वसंविदि विलापयन् | विसृजंश्च ततो भूयः शश्वद्भैरवतां व्रजेत् ||᳚ (तं. ५|३६) इत्याद्युक्तम् || ४१ || इदानीं प्रकृतमेवोपसंहरन्नन्यदवतारयति -- इत्थं त्र्यात्माध्वनो भेदः स्थूलसूक्ष्मपरत्वतः || ११-४२ || मेयभागगतः प्रोक्तः पुरतत्त्वकलात्मकः | अधुना मातृभागस्थं रूपम् त्रेधा निरूप्यते || ११-४३ || प्रोक्त इत्यष्टमाह्निकात्प्रभृति | त्रेधेति पदमन्त्रवर्णगतत्वे स्थूलसूक्ष्मपरत्वेन -- इत्यर्थः | एतदेव हि वर्णानां परत्वं यत्स्थूलसूक्ष्मौ पदमन्त्रावप्येतद्व्याप्तावेव, इति | अत एव चानुजोद्देशोद्दिष्टस्य वर्णभेदक्रमाख्यस्यापि प्रमेयस्यावकाशो दत्तः || ४३ || तदाह � यत्प्रमाणात्मकं रूपमध्वनो मातृभागगम् | पदं ह्यवगमात्मत्वसमावेशात्तदुच्यते || ११-४४ || तदेव च पदं मन्त्रः प्रक्षोभात्प्रच्युतं यदा | गुप्तभाषी यतो माता तूष्णींभूतो व्यवस्थितः || ११-४५ || यन्नाम हि प्रमात्रंशाश्रयणेन प्रमाणात्मकं बाहिर्मुख्यात्प्रक्षुब्धमध्वनो रूपम् तत्पदमुच्यते तथागमेऽभिधीयते -- इत्यर्थः | यतः पद्यते ज्ञायतेऽनेनार्थः, इत्यवगमात्मकं पदम्, अध्वनोऽप्यवगमात्मत्वसमावेशात्, इत्येव प्रमाणात्मकत्वे हेतुः, प्रकाशावेशमन्तरेण हि प्रकाश्यं नाम न किञ्चन प्रकाशेत -- इत्याशयः | यदा च तदेव पदं प्रमाणात्मकाद्रूपात्प्रच्युतमन्तर्मुखत्वादक्षुब्धं रूपमाप्तं तदा प्रमात्रात्मा मन्त्रो यतोऽसौ प्रक्षोभाभावादौदासीन्येनावस्थानात् ᳚गुप्तभाषी᳚ अन्तःपरामर्शात्मकः इत्यर्थः | अत एव ᳚मन्त्रः᳚ इत्यन्वर्थमभिधानम् ? -- इति भावः || ४५ || नन्वस्य तूष्णींभूतत्वादन्तःपरामर्शात्मकत्वे किं प्रमाणम् ? -- इत्याशङ्क्याह -- तथापि न विमर्शात्मरूपं त्यजति तेन सः | प्रमाणात्मविमर्शात्मा मानवत्क्षोभभाङ् न तु || ११-४६ ||
SK
मन्त्राणां च पदानां च तेनोक्तं त्रिकशासने | अभिन्नमेव स्वं रूपं निःस्पन्दक्षोभिते परम् || ४७ || नह्यसौ तूष्णींभूतत्वेऽपि श्वभावमवभासस्य विमर्शं विदुः᳚ (रि. प्र. १|५|११) इत्याद्युक्तयुक्त्या विमर्शात्मकतां जहाति, इति प्रमाणवदस्यापि विमर्श एव स्वभावो येनानयोः स्वरूपे न कश्चिद्भेदः | अत एव वक्ष्यमाणगत्या श्रीपूर्वशास्त्रे पदानां मन्त्राणां चैकमेव रूपमुक्तम्; किं त्वयमेवानयोर्विशेषो यन्मानं क्षुब्धम्, माता पुनरक्षुब्धः -- इति | तदुक्तम् ᳚मानवत्क्षोभभाङ् न तु᳚ इति, ङिःस्पन्दक्षोभिते परम्᳚ इति च || ४७ || एवं स्थूलसूक्ष्मभेदेन पदमन्त्राध्वस्वरूपम् निरूप्य परत्वेन वर्णाध्वानमपि निरूपयति � औदासीन्यपरित्यागे प्रक्षोभानवरोहणे | वर्णाध्वा मातृभागे स्यात् पूर्वं या कथिता प्रमा || ११-४८ || सा तु पूर्णस्वरूपत्वादविभागमयी यतः | इह परिमितप्रमातृदशाधिशायिनीमुदासीनतां परित्यजन्ती प्रमाणसमुचितं क्षुब्धं रूपम् चानवरूढा, इत्यर्थात्पूर्णतारूपा या प्रमितिः पूर्वमुक्ता सैव प्रमात्रंशाश्रयणेन वर्णाध्वा स्यात्, यदियं दशा स्वात्ममात्रविश्रान्त्या क्षोभोपशमान्मातृमानादिगर्भीकारेण तदविभिन्नस्वभावा -- इत्यर्थः || ४८ || अत एवात्र पदमन्त्रक्रोडीकारसहिष्णुतयैव वर्णाध्वनो निर्देशः -- इत्याह -- तत एकैकवर्णत्वं तत्त्वे तत्त्वे क्षमादितः || ११-४९ || कृत्वा शैवे परे प्रोक्ताः षोडशार्णा विसर्गतः | पूर्णत्वादेव चास्या दशायाः क्षित्यादितत्त्वचतुस्त्रिंशतौ क्षकारात्प्रभृति एकमेव वर्णं योजयित्वा ᳚परे᳚ पूर्णत्वाद्व्यापकतयाभिमतेऽर्थात् सशक्तिके ᳚शैवे᳚ शिवाख्ये षट्त्रिंशे तत्त्वे संहारप्रक्रमस्याध्वशुद्धावुचितत्वात् विसर्गादारभ्यानुलोम्येनाकारपर्यन्तं स्वरषोडशकमुक्तम् || ४९ || ननु यदि नाम निर्विभागपरिपूर्णसंविदात्मिका सा दशा, कुतस्त्योऽयं विभागः? -- इत्याशङ्क्याह -- तत्र शक्तिपरिस्पन्दस्तावान् प्राक् च निरूपितः || ११-५० ||
SK
यश्चायं षोढाध्वविभागः स पूर्वस्तच्छक्तिपरिस्पन्द एवेत्युक्तं प्राग्बहुशः | तस्येति संबन्धमात्रे वाच्ये तत्रेति सप्तम्या तद्भित्तिलग्नत्वमेवावेदितम् || ५० || एतदेव सङ्कलयितुं प्रतिजानीते -- सङ्कलय्योच्यते सर्वमधुना सुखसंविदे | सर्वमिति षडध्वजातम् || तदेवाह � पदमन्त्रवर्णमेकं पुरषोडशकं धरेति च निवृत्तिः | तत्त्वार्णमग्निनयनं रसशरपुरमस्त्रमन्त्रपदमन्या || ११-५१ || मुनितत्त्वार्णं द्विकपदमन्त्रं वस्वक्षिभुवनमपरकला | अग्न्यर्णतत्त्वमेककपदमन्त्रं सैन्यभुवनमिति तुर्या || ११-५२ || षोडश वर्णाः पदमन्त्रतत्त्वमेकं च शान्त्यतीतेयम् | अभिनवगुप्तेनार्यात्रयमुक्तं संग्रहाय शिष्येभ्यः || ११-५३ || पदमन्त्रवर्णमिति समाहारः | एकमिति क्षकाररूपम् | पुरषोडशकमिति कालाग्न्यादिवीरभद्रान्तम् | भुवनविभागश्चायमष्टमाह्निकान्ते, ᳚श्रीपूर्वशासने पुनरष्टादशाधिकं शतं कथितम् | तदिह प्रधानमधिकं संक्षेपेणोच्यते शोध्यम् ||᳚ (८|४|३६)
SK
इत्यादिना सिद्धान्ततयोक्त इति तत एवात्रानुसन्धेयः किं तत्संवादनग्रन्थगौरवेण | निवृत्तिरिति, येह धारिकेत्युक्ता | ᳚अग्नयः᳚ त्रयः ङयने᳚ द्वे, तेनाबादीन्यव्यक्तान्तानि तत्त्वानि, हादिङान्ता वर्णाश्च त्रयोविंशतिः | ᳚रसाः᳚ षट्, ᳚शराः᳚ पञ्च | एवं षट्पञ्चाशत् पुराणि | ᳚अस्त्राणि᳚ शराः पञ्च, तेन द्वे चतुरक्षरे, त्रीणि पञ्चाक्षराणि, इति पञ्च पदानि मन्त्राश्च | अन्येति, आप्यायिन्यपरर्याया प्रतिष्ठा | मुनीति सप्त, तेन पुमादिमायान्तानि तत्त्वानि जादिघान्ताश्च वर्णाः | द्विकेति, तेन पञ्चाक्षरमेकं द्व्यक्षरं द्वितीयं चेति पदे मन्त्रौ च | ᳚वसवः᳚ अष्टौ ᳚अक्षिणी᳚ द्वे, तेनाष्टाविंशतिर्भुवनानि | अपरकलेति, बोधिन्यपरपर्याया विद्या | ᳚अग्नयः᳚ त्रयः, तेन गखका वर्णा विद्येश्वरसदाशिवाश्च तत्त्वानि | एककेति, तेन त्र्यक्षरं पदं मन्त्रश्च | शैन्यानि᳚ अक्षौहिण्योऽष्टादश | तुर्येति, उत्पूयिन्यपरपर्याया शान्ता | षोडशेति, विसर्गाद्यकारान्ताः | स्वरषोडशकात्मकमेवैकं पदं मन्त्रश्च | तत्त्वमिति, शिवाख्यं षट्त्रिंशं, तच्च सशक्तित्वेऽपि प्राधान्यादेकम्, शक्तिर्हि न शक्मिमतो भिन्ना भवितुमर्हति -- इति भावः | वस्तुतस्तु व्यापकतयाभिमतं तत्त्वद्वयमेव, यदभिप्रायेणैव श्रीपूर्वशास्त्रे -- ᳚षट्त्रिंशत्तत्त्वभेदेन न्यासोऽयं समुदाहृतः |᳚ (मा.वि. ६|६) इत्युक्तम् | शान्त्यतीतायां च भुवनानि न संभवन्ति -- इति नात्र तन्निर्देशः | यदुक्तम् -- ᳚................... शान्त्यतीता त्वभुवनैव |᳚ (८|४५२) इति | एवमप्यधिकृत्य पदवर्णविभागो मन्तव्यः | एवमष्टादशोत्तरं शतं भुवनानि, षट्त्रिंशत्तत्त्वानि, पञ्च कलाः, दश पदानि, तावन्त एव मन्त्राः, पञ्चाशद्वर्णाश्चेति षोढाध्वा � इति पिण्डार्थः | तदुक्तम् -- ᳚आद्यं धारिकया व्याप्तं तत्रैकं तत्त्वमिष्यते | एकमेकं पृथक् क्षार्णं पदार्णमनुषु स्मरेत् || कालाग्निभुवनाद्यावद्वीरभद्रपुरोत्तमम् | पुरषोडशकं ज्ञेयं षड्विधोऽध्वा प्रकीर्तितः || आप्यायिन्या द्वितीयं च तत्र तत्त्वानि लक्षयेत् |
SK
त्रयोविंशत्यबादीनि तद्वट्टाद्यक्षराणि च || पदानि पञ्च मन्त्राश्च षट्पञ्चाशत्पुराणि च | तत्त्वानि सप्त बोधिन्या तच्चतुर्धा पुराणि च || तृतीये सप्त वर्णाः स्युः पदमन्त्रद्वयद्वयम् | उत्पूयिन्या चतुर्थं तु तत्र तत्त्वत्रयं विदुः || वर्णत्रयं मन्त्रमेकं पदमेकं च लक्षयेत् | अष्टादश विजानीयाद्भुवनानि समासतः || शिवतत्त्वं परं शान्तं कला तत्रावकाशदा | स्वरषोडशकं मन्त्रं पदं चैकं विलक्षयेत् || इत्येवं षड्विधोऽप्यध्वा समासात्परिकीर्तितः |᳚ (मा.वि. २|५७) इति | अभिनवगुप्तेति स्वनामोदीरणस्यायमाशयो -- यदेतावत्प्रमेयजातं विस्तरीतुमिव संग्रहीतुमप्यनन्यसाधारणं ममैव परं प्रावीण्यमिति || ५३ || ननु पारमेश्वरः शक्तिपरिस्पन्द एव षोढाध्वा इति प्राङ्निरूपितम्, तत्कथमिदानीं तत्त्वभुवनादितया बहीरूपत्वेनापि तस्य स्वरूपमुक्तम्? -- इत्याशङ्क्याह -- सोऽयं समस्त एवाध्वा भैरवाभेदवृत्तिमान् | तत्स्वातन्त्र्यात्स्वतन्त्रत्वमश्नुवानोऽवभासते || ११-५४ || यद्यपि वस्तुतः समस्तोऽयमध्वा पूर्णप्रकाशभिन्न एव तथापि तदिच्छयैव तदतिरिक्तायमानतया स्वातन्त्र्येण प्रस्फुरेद् येनास्य बहीरूपतयाऽवभासः || ५४ || ननु कलाद्यध्वा मेयभागगतत्वाद् बहिः स्वातन्त्र्येणावभासतां नाम, मन्त्राद्यध्वा पुनः प्रमातृभागगतः इति कथमस्य तथाभावः स्यात्? -- इत्याशङ्क्याह -- तथाहि मातृरूपस्थो मन्त्राध्वेति निरूपितः | मन्त्राद्यध्वा हि प्रमातृभागगतोऽपि तथा स्वतन्त्र एव इत्येवं समस्त एवाध्वायमविशेषेण निरूपितः समनन्तरमेवोक्तः -- इत्यर्थः || नन्वयं मन्त्राद्यध्वा प्रमातृभागगतश्च स्वातन्त्र्येणावभासेत चेति विप्रतिषिद्धमेतत्? -- इत्याशङ्क्यैतदेवोपपादयति -- तथाहि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा || ११-५५ || शिवज्ञानक्रियायत्तमननत्राणतत्परा | अशेषशक्तिपटलीलीलालाम्पट्यपाटवात् || ११-५६ || च्युता मानमयाद्रूपात् संविन्मन्त्राध्वतां गता |
SK
यदा हि चेतनव्यापारमयप्रमाणरूपेण विमर्शनेन बाह्यमर्थजातं स्वात्मसात्कृतं तदा निखिलस्य चक्षुरादीन्द्रियवृत्तिस्वभावस्य शक्तिनिकुरम्बकस्य या ᳚लीला᳚ बहिःप्रसरणं तत्र ᳚लाम्पट्यात्᳚ औत्सुक्यात् यदौन्मुख्यात्मकं पाटवमेवंविधात् क्षुब्धान्मानमयाद्रूपादवरूढा, अत एव शिवस्य ᳚विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः |᳚ (रि. प्र. १|८|११) इत्यादिनीत्या स्वातन्त्र्यमात्ररूपयोर्ज्ञानक्रिययोरायत्तं तदेकपरमार्थं यन्मननमिदमिति परामर्शः, तथा त्राणमिदंपरामर्शविश्रान्तिभूरहन्तापरामर्शस्तत्र तत्परा बहिरौन्मुख्यविरमात्तदेकविश्रान्ता सङ्कुचितप्रमातृरूपा संविन्मन्त्राध्वतां गता तन्मयतया प्रस्फुरिता -- इत्यर्थः || ५६ || द्विविधं हि संविदः परिस्फुरणं क्षुब्धमक्षुब्धं च | तत्राक्षुब्धतायामस्याः प्रमातृत्वे मन्त्राध्वत्वम्, अन्यथा पुनः प्रमाणत्वे पदाध्वत्वम्, तदाह -- प्रमाणरूपतामेत्य प्रयात्यध्वा पदात्मताम् || ११-५७ || एतदेवोपपादयति � तथा हि मातुर्विश्रान्तिर्वणान्सङ्घट्य तान्बहून् | प्रमाता हि वदकषादीननेकान्वर्णान् संक्षोभ्य तत्तत्पदनिष्पत्त्या तं तमर्थमधिगच्छेत् येनास्य स्वात्मनि क्षोभोपरमः स्यात् || ननु सङ्घट्टने वर्णानामेव क्षोभः स्यान्न प्रमातुरिति कस्तस्य तदुपरमार्थः? -- इत्याशङ्क्याह -- सङ्घट्टनं च क्रमिकं सञ्जल्पात्मकमेव तत् || ११-५८ || विकल्पस्य स्वकं रूपं भोगावेशमयं स्फुटम् | अतः प्रमाणतारूपं पदमस्मद्गुरुर्जगौ || ११-५९ || क्रमिकमिति पूर्वापररूपत्वाद्वाचः, अत एव ᳚तत्पूर्वजनितसंस्कारसहितोऽन्त्यो वर्णो वाचकः᳚
SK
इति भङ्ग्या सन्धाय जल्पनात्सञ्जल्पात्मकम् -- इत्युक्तम् | विनानुसन्धानमेव पदसंपत्त्यभावात् क्रमिकैर्वर्णैः क इवार्थाधिगमो भवेत् -- इति भावः | एतदेव च ᳚शब्दसंसर्गयोग्यार्थप्रतीतिः कल्पना᳚ इत्यादिनीत्या विकल्पस्य तात्त्विकं रूपम् -- इत्याह -- विकल्पस्य स्वकं रूपमिति | नन्वेवमपि प्रमातुः कः क्षोभः? -- इत्याशङ्क्याह -- स्फुटं भोगावेशमयमिति, तत्तदर्थानुभवोदितसुखदुःखादिवेदनात्मकम् -- इत्यर्थः | ᳚अतः᳚ इति भोगावेशमयत्वेन प्रमातृक्षोभरूपत्वात् || इह वाचकतया साजात्येन वर्णाध्वनः प्रसङ्गेऽपि ᳚ज्ञानं न जायते किञ्चिदुपष्टम्भनवर्जितम् |᳚ इत्यादिनीत्या प्रमेयमन्तरेण प्रमाणतैव न भवेत् -- इत्येतदानन्तर्येण प्रमेयभागस्थं कलाद्यध्वत्रयमभिधत्ते | तत्रापि मेयस्य मानरूपतावेशे कलाध्वत्वम्, अन्यथा तु सूक्ष्मत्वे स्थूलत्वे च तत्त्वाध्वत्वं भुवनाध्वत्वं च -- इत्याह -- प्रमाणरूपतावेशमपरित्यज्य मेयताम् || ११-६० || गच्छन्कलनया योगादध्वा प्रोक्तः कलात्मकः | शुद्धे प्रमेयतायोगे सूक्ष्मस्थूलत्वभागिनि || ११-६१ || तत्त्वाध्वभुवनाध्वत्वे क्रमेणानुसरेद् गुरुः | कलनयेति, कलना हि विकल्पनं तदेव च प्रमाणसतत्त्वम् -- इत्युक्तं प्राग्बहुशः | ᳚शुद्धे᳚ इति प्रमाणतावेशशून्ये -- इत्यर्थः || ६१ || एवं प्रमातृप्रमाणप्रमेयानन्तरं तत्संबन्धनिबन्धनं प्रमाणफलरूपम् वर्णाध्वानं वक्तुमुपक्रमते -- प्रमेयमानमातॄणां यद्रूपमुपरि स्थितम् || ६२ || प्रमात्मात्र स्थितोऽध्वायं वर्णात्मा दृश्यतां किल | उपरि स्थितमिति, प्रमेयादीनां त्रयाणामपि विश्रान्तिधाम -- इत्यर्थः || ६२ || तदेवाह � उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः || ११-६३ || सर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः | सृष्टाः स्वात्मसहोत्थेऽर्थे धरापर्यन्तभागिनि || ११-६४ || आमृशन्तः स्वचिद्भूमौ तावतोऽर्थानभेदतः | वर्णौघास्ते प्रमारूपां सत्यां बिभ्रति संविदम् || ११-६५ || इह खलु ᳚अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा |
SK
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ||᳚ (वा. प.) इत्यादिनीत्या क्रमस्यानुन्मीलनात्परस्परमनासादितविभागवर्णौघा भगवता स्वचिद्भूमौ पश्यन्त्यात्मनि शुद्धविद्यादशायां मायादिधरान्ते स्वाविभिन्ने वाच्यरूपतत्तत्तत्त्वाद्यात्मन्यर्थे सति तावतो धरान्तानेवार्थानभेदेनामृशन्तोऽहन्ताच्छादितेदन्ता- परामर्शसाराः सन्तः शृष्टाः᳚ समुल्लासिताः -- इत्यर्थः | नन्वेषां प्रतिनियतार्थविषयमेव वाचकत्वं च दृश्यते न सर्वार्थविषयमिति किमेतदुक्तम्? -- इत्याशङ्क्याह -- सर्वाभिधानेत्यादि | यदभिप्रायेण वैयाकरणैरपि शर्वः शब्दः सर्वार्थप्रतिपादनशक्तियुक्तः᳚ इत्याद्युक्तम् | सर्वाभिधानसामर्थ्येऽपि किं निमित्तम्? -- इत्युक्तम् -- उच्छलदित्यादि | परस्यां हि संविदि सर्वभावनिर्भरत्वात्सर्वमस्ति -- इत्यभिप्रायः | त एव च वर्णाः प्रमारूपां प्रमात्रादित्रयविश्रान्तिमयीं पारमार्थिकीं संविदं ᳚बिभ्रति᳚ पुष्णन्ति तन्मयतयैव प्रस्फुरन्ति - - इत्यर्थः || ६५ || ननु शब्दार्थव्युत्पत्तिबालिशानां बालादीनामपि संभवत्येव प्रमेति कथमेतदुक्तं ᳚वर्णा एव बिभ्रति? -- इत्याशङ्क्याह -- बालास्तिर्यक्प्रमातारो येऽप्यसङ्केतभागिनः | तेऽप्यकृत्रिमसंस्कारसारामेनां स्वसंविदम् || ११-६६ || भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम् | अकृत्रिमसंस्कारसारामिति, स्वारसिकपरामर्शपरमार्थाम् -- इत्यर्थः | ननु चिदेकस्वभावनिर्विभागसहजपरामर्शसारप्रमाश्रयणे बालतिर्यगादीनामव्युत्पत्तिविशेषेऽपि कथङ्कारं परस्परं प्रमातृतायां वैचित्र्यं स्यात्? -- इत्याशङ्क्योक्तम् -- भिन्नभिन्नामिति, स्वस्वातन्त्र्यमायानुवेधोपरतसङ्कोचाम् -- इत्यर्थः | (यदुक्तम्) -- ᳚व्यवहाराः प्रतायन्ते तिरश्चामपि तद्वशात् |᳚ इति || ६६ || न केवलमियमसङ्केतभाजां बालादीनामेव विचित्रायां प्रमातृतायां निबन्धनं यावत्सङ्केतभाजां व्युत्पन्नानामपि -- इत्याह -- अस्या चाकृत्रिमानन्तवर्णसंविदि रूढताम् || ११-६७ || सङ्केता यान्ति चेत्तेऽपि यान्त्यसङ्केतवृत्तिताम् |
SK
अस्यां समनन्तरोक्तस्वरूपायामकृत्रिमा स्वयमगृहीतसङ्कोचात् एवानन्ता येयं वर्णसंवित् तस्यां विमर्शशक्तिसारायामावापोद्वापपरिगृहीतान्वयव्यतिरेकहेतुकाः शब्दार्थसंयोजनात्मानः शङ्केता अपि रूढताम्᳚ विश्रान्तिं यदा यान्ति तदा ते सङ्केता एवासङ्केतवृत्तितां यान्ति | ᳚शब्दे वाचकशक्तिश्च नित्यैवाग्नाविवोष्णता |᳚ इत्यादिनीत्या सङ्केतसमयविलक्षणविमर्शसारशक्तिरूपसंबन्धात्मकतया वस्तुस्पृशो भवन्ति -- इत्यर्थः | अपिर्भिन्नक्रमः || ६७ || एतदेव व्यतिरेकद्वारेणाप्युपपादयति अनया तु विना सर्वे सङ्केता बहुशः कृताः || ११-६८ || अविश्रान्ततया कुर्युरनवस्थां दुरुत्तराम् | बालो व्युत्पाद्यते येन तत्र सङ्केतमार्गणात् || ११-६९ || अनया समनन्तरोक्तया संविद्रूढतया विना हि विश्रान्तिमलभमाना बहुशः कृता अपि ᳚वृक्षस्तरुः शाखी᳚ इत्यादयः सर्वे सङ्केताः ᳚शब्दैरेव शब्दान् व्याचष्टे᳚ इति भङ्ग्या दुरुत्तरामनवस्थां कुर्युः, सङ्केतान्तरमार्गणं न विरमेत् -- इत्यर्थः | यतो येन येन सङ्केतेन बालो व्युत्पाद्यते तत्र ᳚को वृक्षस्तरुः शाखी᳚ इत्यादिवत्सङ्केतान्तरं मृग्यत एवेति || ६९ || नन्वस्य किं सङ्केतान्तरमार्गणेन, अङ्गुल्यादिनिर्देशेन व्युत्पत्तिर्भविष्यति? -- इत्याशङ्क्याह -- अङ्गुल्यादेशनेऽप्यस्य नाविकल्पा तथा मतिः | विकल्पः शब्दमूलश्च शब्दः सङ्केतजीवितः || ११-७० || अस्य व्युत्पाद्यमानस्य बालादेः ᳚घटोऽयम्᳚ इत्यङ्गुल्या निर्दिश्यमाने पुरोवर्तिन्यर्थे तथा वाच्यवाचकभावलक्षणा मतिर्घटशब्दवाच्योऽयमिति शब्दानुवेधादविकल्पा तावन्न भवेत् | ᳚अथ चेत्सविकल्पा तद्विकल्पाः शब्दयोनयः |᳚ इत्यादिनीत्या विकल्पस्तावच्छब्दमूलः, शब्दश्च सङ्केतैकपरमार्थः -- इति सङ्केतान्तरापेक्षायामनवस्थावश्यमापतेत् || ७० || अतश्च संवित्परामर्शसारः शुद्धविद्यात्मा सङ्केतानपेक्षो वर्णग्राम एव विश्रान्तिस्थानतयाभ्युपगन्तव्यो येनानवस्था शाम्येत् -- इत्याह -- तेनानन्तो ह्यमायीयो यो वर्णग्राम ईदृशः | संविद्विमर्शसचिवः सदैव स हि जृम्भते || ११-७१ ||
SK
᳚रिदृशः᳚ इति सङ्केतादिनिरपेक्षः | सदैवेति, कृत्रिममायीयवर्णव्यवहरणावसरेऽपि -- इत्यर्थः | इह हि या काचन प्रमा समुल्लसति तत्रावश्यमिदमित्थमिति वर्णसंभेदेन भाव्यमिति भावः || ७१ || ननु प्रमासु प्रतिषिद्धा एव मायीया वर्णाः संभेदकतयाऽवभासन्ते -- इति किं नाम मायीयैरलौकिकैवर्णैः प्रयोजनम्? -- इत्याशङ्क्याह -- यत एव च मायीया वर्णाः सूतिं वितेनिरे | ये च मायीयवर्णेषु वीर्यत्वेन निरूपिताः || ११-७२ || सङ्केतनिरपेक्षास्ते प्रमेति परिगृह्यताम् | निरूपिता इति, श्रीपूर्वशास्त्रादौ | यदुक्तं तत्र -- ᳚या सा शक्तिर्जगद्धातुः कथिता समवायिनी |᳚ इत्यादि पीठिकाबन्धं कृत्वा ᳚तत्र तावत्समापन्ना मातृभावं विभिद्यते |᳚ इत्याद्युपक्रम्य श तया संप्रबुद्धः सन्योनिं विक्षोभ्य शक्तिभिः | तत्समानश्रुतीन् वर्णांस्तत्संख्यानसृजत् प्रभुः || तैस्तैरालिङ्गिताः सन्तः सर्वकामफलप्रदाः | भवन्ति साधकेन्द्राणां नान्यथा वीरवन्दिते ||᳚ (मा.वि. ३|२८) इति | ᳚ते᳚ इत्यमायीया वर्णाः | परिगृह्यतामिति, अन्यथा हि प्रागुक्तवदनवस्थोपनिपातात्प्रमोत्पाद एव न स्यात् -- इत्यनेन मूकप्रायं विश्वं भवेत् -- इति भावः || ७२ || एतदेव निदर्शयति � तथा हि परवाक्येषु श्रुतेष्वाव्रियते निजा || ११-७३ || प्रमा यस्य जडोऽसौ नो तत्रार्थेऽभ्येति मातृताम् | श्रुतेष्वपि हि परवाक्येषु यस्य तद्विषया निजा प्रमाव्रियते आवृता भवति, अनवधानादिना परवाक्याद्यवगन्तुं नोत्सहते; अत एव स जडस्तत्रार्थे प्रमातृतां नाभ्येति, तदर्थाधिगन्ता न भवेत् -- इत्यर्थः || ७३ || नन्वस्य परवाक्यादौ तत्पाठान्यथानुपपत्त्यास्त्येवा(व)गमः � इति किं नाम सुप्रमाणम्? -- इत्याशङ्क्याह -- शुकवत्स पठत्येव परं तत्क्रमितैकभाक् || ११-७४ || स्वातन्त्र्यलाभतः स्वाक्यप्रमालाभे तु बोद्धृता |
SK
स खल्वावृतप्रमितिर्जडस्तेषां परवाक्यानां क्रमिकतामेवैकां भजमानः शुकवदर्थात् परवाक्यादि पठत्येव, केवलं तद्विषया बोद्धृता पुनरस्य स्वकैव स्वाक्या येयं प्रमा तस्याः लाभे सति, तत्रैव कर्तृतात्मनः स्वातन्त्र्यस्य लाभाद्भवेत् -- इति वाक्यशेषः || ७४ || न केवलमस्यैवं प्रमालाभे परकीय एव वाक्यादौ बोद्धृत्वं भवेद्यावत्स्वकीयेऽपि कर्तृत्वम् -- इत्याह -- यस्य हि स्वप्रमाबोधो विपक्षोद्भेदनिग्रहात् || ११-७५ || वाक्यादिवर्णपुञ्जे स्वे स प्रमाता वशीभवेत् | यस्य हि प्रमातुरनवधानाद्यात्मनां ᳚विपक्षाणामुद्भेदस्य᳚ प्रथमोल्लासस्यापि ङिग्रहात्᳚ उन्मूलनात् स्वप्रमा प्रबुद्धा भवेत् स स्वे महावाक्यादिरूपे वर्णपुञ्जे वशीभवेत्, स्वयमपि तत्तद्वर्णारब्धं वाक्यादि निर्मातुं स्वतन्त्रः स्यात् -- इत्यर्थः || ७५ || ननु यद्येवं तत्प्रमाबोधस्याविशेषेऽपि कस्मात् केचित्प्रमातारो वाक्याद्येव कुर्वते परे शास्त्राद्यपि -- इत्याशङ्क्याह -- यथा यथा चाकृतकं तद्रूपमतिरिच्यते || ११-७६ || तथा तथा चमत्कारतारतम्यं विभाव्यते | तद्रूपमिति, तच्छब्देन प्रमाबोधपरामर्शः | चमत्कारेति, उत्तरोत्तरं वाक्यादिनिर्माणकर्तृतातिशयः -- इत्यर्थः || ७६ || ननु च प्रमा नामानवच्छिन्नसहजपरामर्शमयी इति तस्याः प्रबोधः सर्वतोमुख एव भवेन्नांशांशिकया इति कथमुक्तम् ᳚यथायथं तद्रूपमतिरिच्यते᳚ इति? -- इत्याशङ्क्याह -- आद्यामायीयवर्णान्तर्निमग्ने चोत्तरोत्तरे || ११-७७ || संकेते पूर्वपूर्वांशमज्जने प्रतिभाभिदः | इह खलु बालादीनां प्रथमसङ्केतादारभ्य यथापूर्वनिवेशिनि संविद्विमर्शबाह्यप्रसराभिप्रायेणोत्तरोत्तरे सङ्केते तदन्तर्विश्रान्त्यभिप्रायेण पूर्वस्मिन्पूर्वस्मिन्सङ्केतात्मन्यंशेऽर्थादुत्तरोत्तरस्य ᳚मज्जने᳚ तादात्म्ये सति, आद्यानां निखिलसङ्कोचविश्रान्तिभूतानां शुद्धविद्यात्मनां वर्णानामन्तः स्वात्मनि निःशेषेण ᳚मग्ने᳚ तदेकमयतामापन्ने ᳚प्रतिभायांः प्रमाप्रबोधस्य ᳚भिदो᳚ विशेषास्तारतम्यरूपम् वैचित्र्यम् -- इत्यर्थः ||७७||
SK
अत एव सर्वतोमुखं कवित्वं वक्तृत्वादावप्रतिहतः प्रसरोऽपि कदाचिद्भवेत् -- इत्याह -- आद्योद्रेकमहत्त्वेऽपि प्रतिभात्मनि निष्ठिताः || ११-७८ || ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः | ᳚आद्योद्रेकमहत्त्वे᳚ इति, ᳚आद्येन᳚ प्राथमिकेन ᳚उद्रेकेण᳚ उच्छलत्तया महत्त्वं यस्य तस्मिन् परसंविद्धामसविधवर्तिनि -- इत्यर्थः || ७८ || परधाराधिरोहे पुनः सर्वज्ञानक्रियायोग एव स्यात् -- इत्याह -- यावद्धामनि सङ्केतनिकारकलनोज्झिते || ११-७९ || विश्रान्तश्चिन्मये किं किं न वेत्ति कुरुते न वा | अतश्चागमोऽप्येवम् -- इत्याह -- अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता || ११-८० || सर्वज्ञत्वादिसिद्धौ वा का सिद्धिर्या न तन्मयी | अतः परामर्शसारत्वादेव वर्णानां वाक्सिद्धिनिमित्तं विद्येश्वरत्वाद्यापत्तिनिमित्तं च समुपास्यता श्रीपूर्वशास्त्रादावुक्ता -- इत्यर्थः | यदुक्तं तत्र -- ᳚भूयोऽपि समुदायेन वर्णभेदश्च कीर्त्यते | स्त्रीरूपां हृदि संचिन्त्य सितवस्त्रादिभूषिताम् || नाभिचक्रोपविष्टां तु चन्द्रकोटिसमप्रभाम् | बीजं यत्सर्वशास्त्राणां तत्तदा स्यादनारतम् || स्वकीयेनैव वक्त्रेण निर्गच्छत्प्रविचिन्तयेत् | तारहारलताकारं विस्फुरत्किरणाकुलम् || वर्णैस्तारकसङ्काशैरारब्धममितद्युति | मासार्धाच्छास्त्रसङ्घातमुद्गिरत्यनिवारितम् || स्वप्ने मासात्समाधिस्थः षड्भिर्मासैर्यथेच्छया | उच्छिन्नान्यपि शास्त्राणि ग्रन्थतश्चार्थतोऽपि च || जानाति वत्सराद्योगी यदि चिन्मयतां गतः | अनुषङ्गफलं चैतत्समासादुपवर्णितम् || विद्येश्वरसमानत्वसिद्धिरन्याश्च सिद्धयः |᳚ (मा.वि. १९|५५) इति | आदिशब्दाद्वश्यादिसिद्धिस्वीकारः | तदुक्तं तत्र � ᳚अथवा योजयेत्कश्चिदेनां वश्यादिकर्मसु | तदा प्रसाधयत्याशु साधकस्य समीहितम् || उदितादित्यवर्णानां(भां) समस्ताक्षरपद्धतिम् |᳚ (मा. वि. १९|६१)
SK
इति | ननु समुपास्यमानानां वर्णानां वाक्सिद्ध्यादिनिमित्तत्वमुचितम् इत्यास्तामेतत्, वश्यादिसिद्धिसाधकत्वं पुनरेषां कथङ्कारं संगच्छताम् ? -- इत्याशङ्क्योक्तम् -- का सिद्धिर्या न तन्मयीति || ८० || अत एव च ᳚ये च मायीयवर्णेषु वीर्यत्वेन निरूपिताः |᳚ (तं. ११|७३) इत्यादिनीत्या मायीयवर्णानां परामर्शमात्रसारा एते वर्णा वीर्यत्वेनावश्यमुपगन्तव्याः, अन्यथा हि ते लिपिसंनिवेशकल्पा न काञ्चन सिद्धिं विदध्युरित्यागमसंवादेन द्रढयति -- तदुक्तं वरदेन श्रीसिद्धयोगीश्वरीमते || ११-८१ || तेन गुप्तेन गुप्तास्ते शेषा वर्णास्त्विति स्फुटम् | तदेवाह -- तेनेत्यादि | तेनेति, संवित्परामर्शमात्ररूपेण वीर्येणेत्यर्थः | ᳚गुप्ताः᳚ इति प्रच्छन्ननिजात्मानः | तदुक्तं तत्र -- ᳚दृष्ट्वा संस्कारविरहं मनुजानां समन्ततः | विभेदं समयानां च कृतवन्तो नराधमाः || सर्वेषामेव मन्त्राणामतो वीर्यं प्रगोपितम् | तेन गुप्तेन ते गुप्ताः शेषा वर्णास्तु केवलाः || गुप्तवीर्या महादेवि विधिनापि प्रयोजिताः | तेनैते न प्रसिद्ध्यन्ति जप्ताः कोटिशतैरपि ||᳚ इति || ८१ || तदेवोपसंहरति � एवं मामातृमानत्वमेयत्वैर्योऽवभासते || ११-८२ || षड्वधः स्ववपुःशुद्धौ शुद्धिं सोऽध्वाधिगच्छति | स्ववपुःशुद्धाविति, श्वस्य᳚ असाधारणस्य कलाद्यात्मनः स्वरूपस्य ᳚शुद्धौ᳚ भोगासङ्गमालिन्यविनिवृत्तौ -- इत्यर्थः || ८२ || ननु यद्येवं तत्प्रतिदीक्ष्यं साक्षात्षड्वधोऽप्यध्वा किं शोध्य उत न? -- इत्याशङ्क्याह -- एकेन वपुषा शुद्धौ तत्रैवान्यप्रकारताम् || ११-८३ || अन्तर्भाव्याचरेच्छुद्धिमनुसन्धानवान् गुरुः | एकेनेति कलादिमध्यादन्यतमेन | शुद्धाविति कर्तव्यायाम् || ८३ || एवमप्यशक्तौ क्रमान्तरमस्ति -- इत्याह -- अनन्तर्भावशक्तौ तु सूक्ष्मं सूक्ष्मं तु शोधयेत् || ११-८४ || तद्विशुद्धं बीजभावात् सूते नोत्तरसंततिम् | सूक्ष्ममिति, पेलवं कारणम् -- इत्यर्थः | यथा वाचकाध्वनो वर्णाः, वाच्याध्वनश्च कलाः || ८४ ||
SK
ननु शोध्यस्य षड्वधस्याप्यध्वनः का नाम शुद्धिः? -- इत्याशङ्क्याह -- शोधनं बहुधा तत्तद्भोगप्राप्त्येकतानता || ११-८५ || तदाधिपत्यं तत्त्यागस्तच्छिवात्मत्ववेदनम् | तल्लीनता तन्निरासः सर्वं चैतत्क्रमाक्रमात् || ११-८६ || तत्तद्भोगप्राप्त्येकतानतेति -- तस्य तस्य दीक्ष्यतया संमतस्य अणोः ᳚अर्जिते सति भोक्तव्यो भोगो दुःखसुखात्मकः ||᳚ (स्व ४|१२०) इत्यादिनीत्या प्राक्कर्मार्जितस्य सुखदुःखात्मनो भोगस्य या ᳚प्राप्तिः᳚ भोग्यता तत्रैकतानता ᳚प्राक्कर्मवासनाशेषफलभोग्यत्वहेतवे |᳚ (स्व. ४|११४) इति | तथा ᳚भिन्नदेहा विसृज्यन्ते गर्भे वागीशियोनिषु |᳚ (स्व. ४|११५) इत्यादिनीत्या तद्भोग्यत्वसंपत्तये तत्तद्देहसृष्टिद्वारेण जन्मपरिग्रहे दार्ढ्यम् -- इत्यर्थः | तदाधिपत्यमिति, तस्य दीक्ष्यस्याणोर्भोगे ᳚आधिपत्यम्᳚ अधिकारः | तत्त्याग इति, तस्याणोर्भोगविषयः ᳚त्यागः᳚ समाप्तिः, उपभोगद्वारेण निःशेषीकरणात्मा निष्कृतिः | यदुक्तम् -- ᳚विषया भुवनाकारा ये केचिद्भोग्यरूपिणः | भुक्तकर्मफलाशेषा निष्कृतिस्तेन सा स्मृता ||᳚ (स्व. ४|१२५) इति | तच्छिवात्मत्ववेदनमिति, तस्याणोः ᳚शुद्धतत्त्वाग्रसंस्थं तच्चैतन्यं कनकप्रभम् |᳚ (स्व. ४|१३३) इत्याद्युक्त्या तत्तदावरणविगमाच्छ्रेयोरूपम् निर्मलात्मत्वेन ᳚वेदनम्᳚ अस्य शोधितादधस्तनादध्वन उद्धारः इत्यर्थः | तल्लीनतेति, तस्य भोगे लीनता परप्रीत्यात्मविश्रान्तिसतत्त्वो लयः | यदुक्तम् � ᳚लयः परमया प्रीत्या सुखदुःखात्मकेऽप्यलम् |᳚ (स्व. ४|१२०) इति | तन्निरास इति, तस्य भोगान्निरासः पुनर्भोगैरसंबन्धो भोक्तृत्वाभावात्मा विश्लेषः | यदुक्तम् � ᳚विश्लेषो निष्कृतिर्भोगाद्भोगाभावे स हि स्मृतः |᳚ (स्व. ४|१२६) इति | अत्र च शुद्धिस्वरूपमात्राभिधित्सया क्रमो न विवक्षितः -- इत्येवमेषामभिधानम् | तदेतज्जन्माधिकारभोगलयनिष्कृतिविशे(श्ले)षोद्धारादिलक्षणं सर्वं शोधनसमाख्यातं संस्कारजातं श्रीमत्स्वच्छन्दशास्त्राद्युक्तरूपात् क्रमाद्भवेत् | तीव्रतीव्रशक्तिपातवतां च
SK
᳚जननादिविहीनां तु येन येनाध्वना गुरुः | कुर्यात्स एकतत्त्वान्तां .................... ||᳚ (१८|२) इत्यादिवक्ष्यमाणस्वरूपादक्रमाद्वेति || ८६ || ननु चैतत्सर्वं किममन्त्रकं कार्यमुत समन्त्रकम्, तत्राप्यमन्त्रकत्वे छात्रमनोरथप्रायत्वान्न किञ्चित् सिद्ध्येत्, -- इति यत्किञ्चिदेतत् स्यात् | समन्त्रकत्वे पुनरचिन्त्या मन्त्रशक्तिरचिन्त्यप्रभावत्वादनायासमक्रमेणैव सर्वसंपत्तिरस्तु किं क्रमेण येन ᳚गर्भेषु गर्भनिष्पत्ति (त्त्यै) भैरवेणाहुतित्रयम् | हुत्वा तु जननं कार्यं पुनस्तेनाहुतित्रयात् ||᳚ (स्व. ४|११८) इति | तथा ᳚विश्लेषश्च हृदा होम्यो निष्कृतिः शिरसा पुनः |᳚ (स्व. ४|१६४) इत्याद्युक्तम्? -- इत्याशङ्क्याह -- अत एव च ते मन्त्राः शोधकाश्चित्ररूपिणः | सिद्धान्तवामदक्षादौ चित्रां शुद्धिं वितन्वते || ११-८७ || अतो जन्मादेः संस्कारजातस्य क्रमेणाक्रमेण च भावादेव सिद्धान्तादावुक्तास्ते हृदाद्याः प्रतिनियतशुद्धिकारित्वाच्चित्ररूपिणः शोधका मन्त्राः ᳚चित्राम्᳚ जन्मादिरूपतया नानाविधां क्रमिकीमेव शुद्धिमादध्युस्तत्के पुनरक्रमिकीम् ? -- इत्याशङ्क्याह -- अनुत्तरत्रिकानामक्रममन्त्रास्तु ये किल | ते सर्वे सर्वदाः किन्तु कस्यचित् क्वापि मुख्यता || ११-८८ || ये पुनरनुत्तरत्रिकार्थरूपे सिद्धाना(वा)मकमालिन्याख्ये त्रिप्रकारे क्रमे मन्त्रा उक्तास्ते किल सर्व एव न तु शास्त्रान्तरोक्तवन्मूलमन्त्राद्येव सर्वदा सर्वामेव शुद्धिं क्रमादक्रमाद्वा दध(द)ति -- इत्यर्थः | ननु यद्येवं तत्कथं तत्रापि मन्त्राणां कृत्वात्मस्थं ततो योनौ गर्भाधानं विचिन्तयेत् | त्र्यार्णार्धाक्षरया मन्त्री सर्वगर्भक्रियान्वितम् ||᳚ (मा. वि. ९|६०) इत्याद्युक्त्या नियतकर्मविषयत्वमुक्तम्? -- इत्याशङ्क्याह -- किन्तु क्वापि कस्यापि मुख्यतेति | यदभिप्रायेणैव श्रीपूर्वशास्त्रे -- ᳚मायान्तमार्गसंशुद्धौ दीक्षाकर्मणि सर्वतः | क्रियास्वनुक्तमन्त्रासु योजयेदपरां बुधः || विद्यादिसकलान्ते च तद्वदेव परापराम् | योजयेन्नेश्वरादूर्ध्वं पिबन्यादिकमष्टम् ||
SK
न चापि सकलादूर्ध्वमङ्गषट्कं विचक्षणः | निष्कले परया कार्यं यत्किञ्चिद्विधिचोदितम् ||᳚ (मा. वि. ९|७१) इत्याद्युक्तम् || ८८ || अत एवात्र सर्वेषामेव मन्त्राणामध्वनि शोधकतया व्यवस्थितिरुक्ता -- इत्याह -- अतः शोधकभावेन शास्त्रे श्रीपूर्वसंज्ञिते | परापरादिमन्त्राणामध्वन्युक्ता व्यवस्थितिः || ११-८९ || ᳚अतः᳚ इति सर्वेषां त्रिकमन्त्राणां सर्वदत्वात् | शोधकभावेनेति, न तु शास्त्रान्तरोक्तवच्छोध्यत्वेनापीति | तदुक्तं तत्र � ङिष्कले पदमेकार्णं त्र्यर्णैकार्णमथ द्वयम् |᳚ (मा. वि. ४|१९) इत्यादि शार्णेनाण्डत्रयं व्याप्तं त्रिशूलेन चतुर्थकम् | सर्वातीतं विसर्गेण पराया व्याप्तिरिष्यते ||᳚ (मा. वि. ४|२५) इत्यन्तम् || ८९ || ननु यथान्यत्र मूलमन्त्रस्यैव शोधकत्वमुक्तमन्येषां हृदादीनां पुनः शोध्यत्वं शोधकत्वं च तद्वदिहापि शक्तित्रयमन्त्राणामेव किं शोधकत्वमुक्तं न वा? -- इत्याशङ्क्याह -- शोधकत्वं च मालिन्या देवीनां त्रितयस्य च | देवत्रयस्य वक्त्राणामङ्गानामष्टकस्य च || ११-९० || किं वातिबहुना द्वारवास्त्वाधारगुरुक्रमे | लोकपास्त्रविधौ मन्त्रान् मुक्त्वा सर्वं विशोधकम् || ११-९१ || द्वारादिमन्त्राणां पुनरत्र न शोधकत्वं नापि शोध्यत्वम् � इति भावः || ९१ || नन्वध्वषट्कस्य शोध्यत्वं परापरादीनां मन्त्राणां शोधकत्वं चेति यदुक्तं तदिदं संबन्धमन्तरेणायःशलाकाकल्पत्वे कथं घटताम्? -- इत्याशङ्क्याह -- यच्चैतदध्वनः प्रोक्तं शोध्यत्वं शोद्धृता च या | सा स्वातन्त्र्याच्छिवाभेदे युक्तेत्युक्तं च शासने || ११-९२ || ननु शिवाभेदस्याविशिष्टत्वादेकत्र शोध्यत्वमपरत्र शोधकत्वमिति वैचित्र्ये किं निमित्तम्? -- इत्याह -- सेति | नचैतदस्मदुपज्ञमेव -- इत्युक्तम् -- ᳚इत्युक्तं च शासने᳚ इति | ᳚शासने᳚ -- इत्यद्वयनयात्मनि | तदुक्तम् -- शर्वत्र भैरवो भावः सामान्येऽप्यथ गोचरे | न च तद्व्यतिरेकेण परोऽस्तीत्यद्वयागमः ||᳚ इति | अद्वयागम इति, अद्वया गतिः -- इत्यर्थः || ९२ || एतदेवोपपादयति --
SK
सर्वमेतद्विभात्येव परमेशितरि ध्रुवे | प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः || ९३ || प्रतिबिम्बस्वरूपेणेति, स्वरूपानतिरिक्तत्वेन -- इत्यर्थः | अत एवोक्तं -- न तु बाह्यतयेति || ९३ || ननु दर्पणादौ बाह्यार्थसमर्पितत्वादस्ति प्रतिबिम्बस्य वैचित्र्यम्, इह पुनरुक्त्या बाह्यसमर्पकाभावाच्चिदाहितमेव तदिति चित एकत्वात्तत्रास्य प्रमातृप्रमेयादेर्वैचित्र्यं न स्यात्? -- इत्याशङ्क्याह � चिद्व्योम्न्येव शिवे तत्तद्देहादिमतिरीदृशी | भिन्ना संसारिणां रज्जौ सर्पस्रग्वीचिबुद्धिवत् || ११-९४ || इह खलु चिदेकरूपत्वाद्भावशून्यतया व्योमप्राये शिव एवैकस्मिन् मायाप्रमातॄणामीदृशी प्रतिबिम्बकल्पा तस्य तस्य विचित्रस्य देहादेः प्रमातृप्रमेयाद्यात्मनो भावजातस्य मतिः सर्पादिबुद्धिरिव रज्जौ स्वरूपेण भिन्ना, न तु भिन्नप्रत्येयालम्बना -- इत्यर्थः || ९४ || ननु रज्जुभुजगादिबुद्धिरपि किं भ्रन्तिमात्रमेव ? -- इत्याशङ्कां निरवकाशयितुं भ्रन्तित्वमेवोपपादयति -- यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः | देहान्तरादिर्मरणे कीदृग्वा देहसंभवः || ११-९५ ||
SK
यतः कस्यचिद् बालादेः प्राच्यस्य प्राथमिकस्य बाल्यावस्थाव्यवस्थितस्य देहस्यान्तर्दग्धपित्रादेश्च मरणस्यान्तर्गाढगाढं निद्रालोश्च सिद्धस्यान्तर्वर्तमानस्यापि देहान्तरं यौवनावस्थावस्थितमुत्तरं प्राग्भाविजीवदवस्थं चेष्टमानावस्थं चान्यच्छरीरमादिशब्दाच्च नीलादि स्वप्नगोचरः स्वप्नादावाभासमानं भ्रन्तिमात्रमेव -- इत्यर्थः | नहि तथाभूतं शरीरादि स्वप्नादौ सत् -- इत्यभिप्रायः | नन्वस्ति शरीरं तथाभूतं तु मा भूत् नत्वेतावतात्यन्तमसतोऽवभास उक्तः स्यात्? -- इत्याशङ्क्याह -- ᳚मरणे कीदृग्वा देहसंभवः᳚ इति | इह खलु भासमानस्य रूपस्य सत्त्वमसत्त्वं वा निरूप्यम्, न चात्र देहमात्रमवभासतेऽपितु प्रतिनियतावस्थावस्थितं तथा च नास्ति -- इति युक्तमुक्तम् ᳚असद्देहाद्यवभासते᳚ इति | अस्तु वा तत्र कथञ्चिद्धर्मिमात्रद्वारकं सत्त्वं मरणे तु प्रत्यक्षमेव तद्देहभस्मीभावदर्शनादत्यन्तमसतोऽवभासः कथङ्कारं पराणुद्यताम् || ९५ || न केवलं स्वप्नादावेतदेवावभासते यावदत्यन्तासंभाव्यमन्यदपि -- इत्याह -- स्वप्नेऽपि प्रतिभामात्रसामान्यप्रथनाबलात् | विशेषाः प्रतिभासन्ते न भाव्यन्तेऽपि ते यथा || ११-९६ || इह खलु स्वप्नादौ नियतधर्मिपरिहारेण शिरश्छेदमात्रादिनिष्ठात् परामर्शमात्राद्यत्सामान्येन तथाप्रथनं तस्मात्, अत एव विशेषमन्तरेण सामान्यप्रतिभासस्यानुपपत्तिलक्षणाद् बलात्कारादनुसन्धातुमप्यशक्याः स्वशिरश्छेदादयो विशेषा अपि ᳚प्रतिभासन्ते᳚ऽनपह्नवनीयतया प्रस्फुरन्ति -- इति युक्तमुक्तम् -- सर्वमेतत्संविद्रूपतयैवावभासते न तु बाह्यतया -- इति || ९६ || ननु चिदेव यद्येवं परिस्फुरति तदेकचित्तत्त्वसाराः सन्तः सर्वे भावाः कथमिवान्योन्यस्य वैचित्र्यमासादयेयुः? -- इत्याशङ्क्याह -- शालग्रामोपलाः केचिच्चित्राकृतिभृतो यथा | तथा मायादिभूम्यन्तलेखाचित्रहृदश्चितः || ११-९७ ||
SK
यथा हि उपलत्वाविशेषेऽपि केचिदेव मुद्राशब्दाद्यभिधेयाः शालग्रामोपलाः स्वभावत एव तत्तच्छङ्खचक्रादिसंनिवेशविशेषवत्त्वाद्विचित्राकारभाजस्तथैव प्रमातृप्रमेयाद्यात्मानः स्वयमविशिष्टा अपि चितः स्वस्वातन्त्र्योल्लासितया मायादिभूम्यन्तया रेखया कलादीनां प्रतिपुंनियतत्वाद्विचित्रोपाधिरूपया तावत्याध्वमर्यादया चित्रहृदो भिन्नभिन्नरूपपरामर्शाः -- इत्यर्थः || ९७ || ननु ᳚अयमेव भेदो भेदहेतुर्वा भावानां योऽयं विरुद्धधर्माध्यासः कारणभेदो वा |᳚ इत्यादिनीत्या विवादस्तत्कथं चित एकत्वादेवंभावो भवेत्? -- इत्याशङ्क्याह -- नगरार्णवशैलाद्यास्तदिच्छानुविधायिनः | न स्वयं सदसन्तो नो कारणाकारणात्मकाः || ९८ || एतदेवोपपादयति -- न स्वयमित्यादिना | यतो नगराद्यर्थजातं स्वयं तावद् बाह्यतया न सत्, तथात्वे हि अस्य स्थूलं सूक्ष्मं वा रूपम् स्यात्, नचात्रैकमपि संभवति | तथा हि एकरूपतयाऽवभासमानस्य स्थूलस्य कम्पाकम्पादियोगाद्विरुद्धधर्माध्यासेनैकतैव न स्यात् � इति स्थौल्ये बाधः; परमाणूनामप्यवश्यंभाविनि परस्परसंयोगे षडंशता प्रसजेत् -- इति सौक्ष्म्येऽपि बाधः | नचासत्, असतो भासनायोगात्, अत एव सत्तानुपपेत्तेर्नेदं कारणमसत्तानुपपत्तेश्च न कार्यमित्युक्तम् ङो कारणाकारणात्मकाः᳚ इति | नहि सत्तामुत्पत्तेः प्रागसत्तां च विना कारणत्वं कार्यत्वं च घटते᳚ -- इत्युक्तं प्राक् || ९८ || ननु लोके कार्यकारणादिरूपश्चिरप्ररूढोऽयं व्यवहारो -- यदग्निः कारणं धूमश्च कार्यमिति तन्नान्तरीयक१ एव च सदसत्त्वे इति किमेतदुक्तम्? -- इत्याशङ्क्याह -- नियतेश्चिररुढायाः समुच्छेदात्प्रवर्तनात् | अरूढायाः स्वतन्त्रोऽयं स्थितश्चिद्व्योमभैरवः || ११-९९ ||
SK
इह हि पारमेश्वर्या एव नियतिशक्तेरिदं विजृम्भितं यदग्निः कारणं धूमश्च कार्यमिति, न पुनरग्न्यादीनामेवंस्वभावत्वम् | तथात्वे हि नियत एव कार्यकारणभावो भवेत्, न चैवमस्ति -- यदग्निमन्तरेण योगीच्छयाऽप्यभूतस्य धूमस्य प्रादुर्भावो दृश्यते -- इत्युक्तं चिररुढाया नियतेः समुच्छेदादरूढायाश्च प्रवर्तनादिति | अतश्च पूर्णरूपायाश्चित एवात्र सर्वकर्तृत्वम् -- इत्युपपादितं प्राग्बहुशः || ९९ || ननु यद्येवं पूर्णरूपा चिदेव तथा तथाऽवभासते तत्कोऽयं भेदो नाम? -- इत्याशङ्क्याह -- एकचिन्मात्रसंपूर्णभैरवाभेदभागिनि | एवमस्मीत्यनामर्शो भेदको भावमण्डले || ११-१०० || तेनाख्यातिविजृम्भामात्रसारोऽयं भेदः -- इत्यभिप्रायः || १०० || ननु बीजाङ्कृरादावनुप्रवेश एव चितो नास्ति मृद्घटादौ पुनरस्ति तदनुप्रवेशः, किं त्वसौ कौम्भकारी न पूर्णा, -- इति कथमुक्तं पूर्णरूपायाश्चित एव सर्वत्र कर्तृत्वम्? -- इत्याशङ्क्याह -- सर्वप्रमाणैर्नो सिद्धं स्वप्ने कर्त्रन्तरं यथा | स्वसंविदः स्वसिद्धायास्तथा सर्वत्र बुद्ध्यताम् || ११-१०१ || इह यथा केनापि प्रमाणेन स्वप्नादाववभासमानानां घटाङ्कुरादीनां स्वतः सिद्धायाः स्वसंविदः सकाशादन्यः कश्चित्कारणतयाऽभिमतः कर्ता न सिद्धस्तथा सर्वत्र जागरादावपि ᳚बुद्ध्यताम्᳚ संविद एव सर्वदशासु सर्वभावाविर्भावने पूर्णं कर्तृत्वं बोद्धव्यम् -- इत्यर्थः || १०१ || ननु कोऽर्थस्तथाबोधेन? -- इत्याशङ्क्याह -- चित्तचित्रपुरोद्याने क्रीडेदेवं हि वेत्ति यः | अहमेव स्थितो भूतभावतत्त्वपुरैरिति || ११-१०२ || यः खलु ᳚अहमेव विश्वात्मतयोल्लसितः᳚ इत्येवं विमृशेत् स चित्तमेव तत्तद्वैचित्र्यातिशययोगाच्चित्रे पुरे, न पुनररण्यादौ तत्र तथा चमत्कारतारतम्याभावादनन्तभावसंभारनिर्भरमुद्यानम्, तत्र ᳚क्रीडेत्᳚ स्वात्मन्येव पूर्णतया विश्राम्यञ्जीवन्नेव मुक्तो भवति? -- इत्यर्थः || १०२ ||
SK
ननु सर्व एव जन्मादिविनाशान्तं विकारजातमनिच्छन्तोऽपि बलादासादयन्ति इत्यत्र कर्मादिनिमित्तमन्यदनुसरणीयं तत्कथमुक्तं चित एव सर्वत्र कर्तृत्वमिति ? -- इत्याशङ्क्याह -- एवं जातो मृतोऽस्मीति जन्ममृत्युविचित्रताः | अजन्मन्यमृतौ भान्ति चित्तभित्तौ स्वनिर्मिताः || ११-१०३ || यद्गीतम् � ङ जायते मिर्यते वा कदाचिन्नायं भूत्वा भविता वा न भूयः | अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ||᳚ (गी. २|२०) इति || १०३ || ननु यदि जन्ममृत्यू न स्तस्तत्कथमिह परलोकादिव्यवस्था स्यात्? -- इत्याशङ्क्याह � परेहसंविदामात्रं परलोकेहलोकते | नन्विह परत्र च देशे काले वा संविदिति इहत्वपरत्वयोर्देशकालात्मकत्वात्कथं संविन्मात्ररूपत्वं स्यात्? -- इत्याशङ्क्याह -- वस्तुतः संविदो देशः कालो वा नैव किञ्चन || ११-१०४ || ननु संविदो देशकालौ मा भूताम्, संवित्क्रियाकर्मणस्तु संवेद्यस्य धारकतयाधारभूतौ देशकालौ विना भूतभावाद्यात्मना स्वसाक्षिकमपि नैयत्यं न स्यात्? -- इत्याशङ्क्याह -- अभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः | तदवेक्ष्यत तन्मध्यात् केनैकोऽपि धराधरः || ११-१०५ || इह खलु विश्वं नाम किं संविदो बहिर्मूर्तमुत संविन्मयं तत्रास्य मूर्तत्वे धार्यत्वादेव सर्वस्य किं केन धार्यम्, संविन्मयत्वे पुनर्धार्यधारकभावार्थ एव कः, तत्रापि वा संविदेव धारिका यद्भित्ताविदं सर्वं प्रस्फुरेत् || १०५ || ननु पृथिव्यपां धारिका आपश्च तेजसस्तच्च वायोरित्यादिराधाराधेयभावक्रमः सर्वत्रैवोक्तः -- इति किमेतदुक्तं किं केन धार्यमिति? -- इत्याशङ्क्याह -- भूततन्मात्रवर्गादेराधाराधेयताक्रमे | अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी || ११-१०६ ||
SK
एवमपि ह्यवश्यमन्ते संविद एव धारकत्वमभ्युपगन्तव्यम्, अन्यथा हि पृथिव्या अपि किं धारकं तस्यापि किम् -- इत्याद्यनवस्था न शाम्येत् | पृथिव्यादीनां च संवेद्यत्वान्यथानुपपत्त्या संविन्मयतायामेवैवमाधाराधेयभावः संगच्छते -- इति संविदेवैका भगवती विश्वोल्लासने धारणे च निमित्तं येन न कश्चिद्दोषः || १०६ || तदाह -- तस्मात्प्रतीतिरेवेत्थं कर्त्री धर्त्री च सा शिवः | ततो भावास्तत्र भावाः शक्तिराधारिका ततः || ११-१०७ || प्रतीतिरिति संवित् | ननु शक्तिरेव धारिणीत्युक्तं परिपूर्णसंविदात्मनि शैवे धामनि पुनः क आधाराधेयभावाद्यर्थः ? -- इत्याशङ्क्याह -- ᳚शक्तिराधारिका ततः᳚ इति | तदि(त्रे)ति, तत्र शिव एव -- इत्यर्थः | संविन्मयी शिवरूपैव सेत्युक्तम् || १०७ || नचैतदपूर्वं किञ्चिदित्याह -- साङ्कल्पिकं निराधारमपि नैव पतत्यधः | स्वाधारशक्तौ विश्रान्तं विश्वमित्थं विमृश्यताम् || ११-१०८ || ᳚गगने चतुर्दन्तो हस्ती धावति᳚ इत्यादाविव वैकल्पिक्यां संविदि भवं हस्त्यादि विनापि बाह्यमाधारं स्वस्यां संविन्मात्ररूपायां धारिकायां शक्तौ विश्रान्तं सत् यथा नैवाधः पतति स्वावष्टम्भेनैवावतिष्ठते तथा निखिलमिदं विश्वमपि विमृश्यतां निश्चयेन परिगृह्यताम् -- इत्यर्थः || १०८ || ननु घटाद्यात्मना परिस्फुरतो धरादिवपुषो वस्तुसतो विश्वस्य साङ्कल्पिकमवस्तुभूतं निदर्शनं संगच्छतां कथम्? -- इत्याशङ्क्याह -- अस्या घनाहमित्यादिरूढिरेव धरादिता | यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता || ११-१०९ || घनद्रवादिरूपमपि विश्वं तथा तथा संविदि विमर्शप्ररोहमनधिगच्छत् संविद्बाह्यमेव वस्तुसत्तां न जातुचिदधिशयीत -- इत्याशयः || १०९ || ननु यद्यनुदितानस्तमितसंविन्मात्रसारं घनद्रवादिरूपम् धराद्यर्थजातमभ्युपेयते तत्कथमस्योदयव्यययोगः समाधीयते ? -- इत्याशङ्क्याह -- मणाविन्द्रायुधे भास इव नीलादयः शिवे | परमार्थत एषां तु नोदयो न व्ययः क्वचित् || ११-११० ||
SK
ननु तत्तन्नियतदेशकालावलम्बनेन तत्तदर्थजातस्योत्पत्तिविनाशावनपह्नवनीयावेव -- इति कथमुक्तं नैषामुदयो व्ययो वेति ? -- इत्याशङ्क्याह -- देशे कालेऽत्र वा सृष्टिरित्येतदसमञ्जसम् | चिदात्मना हि देवेन सृष्टिर्दिक्कालयोरपि || ११-१११ || न च मायापदेऽपि देशकालयोः कश्चिन्नियमः -- इत्याह -- जागराभिमते सार्धहस्तत्रितयगोचरे | प्रहरे च पृथक् स्वप्नाश्चित्रदिक्कालमानिनः || ११-११२ || जाग्रद्दशायामपि हि नियतपरिमाणे शरीरदेशे प्रहराद्यात्मनि काले च पृथगुर्वीपर्वताकाशादितया दिनमाससंवत्सरकल्पादितया च विचित्रदिक्कालाद्यभिमानभाजः स्वप्नदशावलम्बिनोऽवभासा उपलभ्यन्ते -- इति को नामानयोर्नियमः || ११२ || एवं च येऽप्यत्यन्तसंकुचितक्षणात्मककालनियमाद्भावानां क्षणिकत्वमाचक्षते तेऽप्यनया दिशा परास्ताः -- इत्याह � अत एव क्षणं नाम न किञ्चिदपि मन्महे | क्रियाक्षणे वाऽप्येकस्मिन् बह्व्यः संस्युर्द्रुताः क्रियाः || ११-११३ || तेन ये भावसङ्कोचं क्षणान्तं प्रतिपेदिरे | ते नूनमेनया नाड्या शून्यदृष्ट्यवलम्बिनः || ११-११४ || अतो देशकालयोरनियमादेव न कश्चिन्नियतः क्षणो नाम सिद्धो यत एकस्मिन्नप्युत्पत्त्यादिक्षणे ᳚द्रुताः᳚ निरन्तरा ᳚बह्व्यः᳚ स्थित्यर्थक्रियाविनाशाद्याः क्रियाः संस्युः | क्षणस्याप्यवान्तरानेकक्षणयोगात् क्षणत्वमेव न पर्यवस्येत्, भावानां क्षणादूर्ध्वमवस्थानानभ्युपगमात् क्षणस्य चाव्यवस्थितेः क्षणमपि स्थितिर्न स्यात् -- इति शून्यतैवावलम्बिता भवेत्, तत्किं विज्ञाननयादिसोपानकल्पनया ? -- इति ||११४|| ननु यदि देशकालौ वास्तवौ न स्तस्तत्कोऽयं व्यवहारो नाम ? -- इत्याशङ्क्याह -- तद्य एष सतो भावाञ् शून्यीकर्तुं तथासतः | स्फुटीकर्तुं स्वतन्त्रत्वादीशः सोऽस्मत्प्रभुः शिवः || ११-११५ || सत इति, बहीरूपतया | शून्यीकर्तुमिति, बाह्यतान्यक्कारेण संविन्मयतयावस्थापयितुम् -- इत्यर्थः | असत इति, संविन्मात्रसारतया स्वरूपशून्यान् -- इत्यर्थः | स्फुटीकर्तुमिति, बहिरवभासयितुम् || ११५ ||
SK
प्रकृतमेवोपसंहरति तदित्थं परमेशानो विश्वरूपः प्रगीयते | न तु भिन्नस्य कस्यापि धरादेरुपपन्नता || ११-११६ || उक्तं चैतत्पुरैवेति न भूयः प्रविविच्यते | भूयोभिश्चापि बाह्यार्थदूषणैः प्रव्यरम्यत || ११-११७ || प्रव्यरम्यतेति, प्रविरतं पर्यवसितं समाप्तमिति यावत् || ११७ || इदानीमाह्निकार्थमेव श्लोकस्य प्रथमार्धेनोपसंहरति -- तदित्थमेष निर्णीतः कलादेर्विस्तरोऽध्वनः || ११-११८ || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके कलादिप्रदर्शनं नाम एकादशमाह्निकम् || ११ || स्पष्टमिति शिवम् || ११८ || निःशेषषड्वधाध्वप्रविभागसतत्त्वविद् व्यधाद्विवृतिम् | एकादशाह्निके किल जयरथपदलाञ्छनः कश्चित् || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते, श्रीजयरथाचार्यकृतविवेकाख्यव्याख्योपेते श्रीतन्त्रालोके कलादिप्रदर्शनं नाम एकादशमाह्निकम् || ११ || द्वादशमाह्निकम् ᳚ विवेक ᳚ अमृतात्मकार्धचन्द्रप्रगुणाभरणोऽर्ध्वमण्डलं निखिलम् | विश्रमयन्निजसंविदि जयदोऽस्तु सतां सदा जयदः || अथ द्वितीयार्धेनाध्वोपयोगं प्रकाशयितुमाह -- अथाध्वनोऽस्य प्रकृत उपयोगः प्रकाश्यते || १२-१ || प्रकृत इति यागादौ || १ || तदेवाह � इत्थमध्वा समस्तोऽयं यथा संविदि संस्थितः | तद्द्वारा शून्यधीप्राणनाडीचक्रतनुष्वथो || १२-२ || बहिश्च लिङ्गमूर्त्यग्निस्थण्डिलादिषु सर्वतः | तथा स्थितः समस्तश्च व्यस्तश्चैष क्रमाक्रमात् || १२-३ || तद्द्वारेति संविद्द्वारेण, तत्सृष्टा एव शून्यादयः | यदुक्तं प्राक् -- शंविद्द्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च | नाडीचक्रानुचक्रेषु बहिर्देहेऽध्वसंस्थितिः ||᳚ (तं. ८|४) इति | बहिरिति शून्यादिप्रमातुः, मूर्तिः शिष्यात्मा, आदिशब्दात् कुम्भादौ | तदुक्तम् -- ᳚कुम्भमण्डलवह्निस्थश्चाध्वात्मस्थः शिशोश्च यः | सूत्रस्थश्चापि चैकत्र अध्वसन्धिः प्रकीर्तितः ||᳚
SK
इति | समस्त इति षड्विधोऽपि, व्यस्त इति शोध्यत्वेनाभिमतः कलाद्यन्यतमः, क्रमाक्रमादिति क्रमः स्थूलसूक्ष्मपरात्मा, अक्रम एकप्रघट्टकात्मा || ३ || नन्वेवमवस्थानेनास्य किं प्रयोजनम्? -- इत्याशङ्क्याह -- आसंवित्तत्त्वमाबाह्यं योऽयमध्वा व्यवस्थितः | तत्र तत्रोचितं रूपं स्वं स्वातन्त्र्येण भासयेत् || १२-४ || संवित्तत्त्वादारभ्य बाह्यपर्यन्तं योऽयं षड्विधोऽप्यध्वा संस्थितस्तत्र तत्र भुवनपदाद्यात्मन्यध्वनि स्वं संकुचितमात्मानं स्वातन्त्र्येण ᳚अहमेव परो हंसः᳚ (स्व. ४|३९५) इत्याद्यात्मना स्वविमर्शेनोचितमसंकुचितं परशिवात्मकं रूपम् भासयेत् तन्मयं संपादयेत् -- इत्यर्थः | तदुक्तम् � ᳚अस्य विश्वस्य सर्वस्य पर्यन्तेषु समन्ततः | अध्वप्रक्रियया तत्त्वं शैवं ध्यात्वा महोदयः ||᳚ (वि. भै. ५७ श्लो.) इति | अनेन चानुजोद्देशोद्दिष्टमभेदभावनाख्यमपि प्रमेयमासूत्रितम् || ४ || ननु संकुचितस्यापि देहादिप्रमातुः कथमेवं भायात् ? -- इत्याशङ्क्याह -- सर्वं सर्वत्र रूपं च तस्यापि न न भासते | नह्यवच्छेदितां क्वापि स्वप्नेऽपि विषहामहे || १२-५ || अवच्छेदितामिति संकुचितात्मतामिति | यदाहुः -- ᳚प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च |᳚ इति || ५ || नन्वेवमवभासनेन कोऽर्थः? -- इत्याशङ्क्याह -- एवं विश्वाध्वसंपूर्णं कालव्यापारचित्रितम् | देशकालमयस्पन्दसद्म देहं विलोकयेत् || १२-६ || ततश्च किम्? -- इत्याशङ्क्याह -- तथा विलोक्यमानोऽसौ विश्वान्तर्देवतामयः | ध्येयः पूज्यश्च तर्प्यश्च तदाविष्टो विमुच्यते || १२-७ || न केवलं देहादावेवंभावनेनैतत्स्याद्यावद् बहिरपि, -- इत्याह � इत्थं घटं पटं लिङ्गं स्थण्डिलं पुस्तकं जलम् | यद्वा किञ्चित् क्वचित्पश्येत्तत्र तन्मयतां व्रजेत् || १२-८ || ननु संविन्मयतापत्तावर्चनादि सर्वत्र निमित्तमुक्तमिह पुनः किमेतदुच्यते? -- इत्याशङ्क्याह -- तत्रार्पणं हि वस्तूनामभेदेनार्चनं मतम् | तथा सम्पूर्णरूपत्वानुसन्धिर्ध्यानमुच्यते || १२-९ ||
SK
संपूर्णत्वानुसन्धानमकम्पं दार्ढ्यमानयन् | तथान्तर्जल्पयोगेन विमृशञ्जपभाजनम् || १२-१० || तत्रार्पितानां भावानां स्वकभेदविलापनम् | कुर्वंस्तद्रश्मिसद्भावं दद्याद्धोमक्रियापरः || १२-११ || दार्ढ्यमिति साक्षात्कारपर्यन्तम् | तथेति अनुसन्धानदार्ढ्येन | दद्यादिति तद्रश्मिरूपतया चकास्यात् -- इत्यर्थः | अयमेव होम उच्यते इत्युक्तम् -- ᳚होमक्रियापरः᳚ इति || ११ || नन्वेवमनुतिष्ठतः किं स्यात् -- इत्याशङ्क्याह -- तथैवंकुर्वतः सर्वं समभावेन पश्यतः | निष्कम्पता व्रतं शुद्धं साम्यं नन्दिशिखोदितम् || १२-१२ || सर्वं हेयोपादेयाद्यात्मकम् | तदुक्तं तत्र -- शर्वत्र समता ह्यत्र व्रते देवि विधीयते | न कषायैर्व्रती भिक्षुर्न मौनी संयतो भवेत् || यावन्न परमेशानो विज्ञातः सर्वगः शिवः | तस्मादन्तर्मुखो नित्यं साधनातत्परो व्रती || सर्वभूतान्तरस्थायी यस्मादेकः शिवः प्रिये | तस्मात्समत्वं मूलं तु व्रतानां परमं व्रतम् || येऽन्ये केचिद् व्रता भद्रे तेऽङ्गभावं व्रजन्त्यतः | अङ्ग्यसौ कथितो देवि व्रतानां परमो व्रतः ||᳚ इति || १२ || अयमेव च परः समाधिः -- इत्याह -- तथार्चनजपध्यानहोमव्रतविधिक्रमात् | परिपूर्णं स्थितिं प्राहुः समाधिं गुरवः पुरा || १३ || पुरागुरवः पूर्वगुरवः श्रीकण्ठाद्याः | यदाहुः -- श्वपरस्थेषु भूतेषु जगत्यस्मिन्समानधीः | शिवोऽहमद्वितीयोऽहं स समाधिः परः स्मृतः ||᳚ (ने. त. ८|१८) इति || १३ || नन्वेवंविधे त्वर्चनादौ किं बाह्यं किञ्चिदपेक्षणीयं न वा ? -- इत्याशङ्क्याह -- अत्र पूजाजपाद्येषु बहिरन्तर्द्वयस्थितौ | द्रव्यौघे न विधिः कोऽपि न कापि प्रतिषिद्धता || १२-१४ || बहिःस्थितौ द्रव्यौघे मद्यादौ, अन्तःस्थितौ नालाज्यादौ || १४ || नन्वत्र कस्मादुपेक्षणीयत्वम् ? -- इत्याशङ्क्याह -- कल्पनाशुद्धिसन्ध्यादेर्नोपयोगोऽत्र कश्चन | नन्वत्र किं प्रमाणम् ? -- इत्याशङ्क्याह -- उक्तं श्रीत्रिकसूत्रे च जायते यजनं प्रति || १२-१५ || अविधिज्ञो विधिज्ञश्चेत्येवमादि सुविस्तरम् |
SK
श्रीत्रिकसूत्र इति त्रिकप्रमेयसूचिकायां श्रीपरात्रीशिकायाम् -- इत्यर्थः | तथा च तत्र -- ᳚अविधिज्ञो विधानज्ञो जायते यजनं प्रति |᳚ (परात्री. २० श्लो.) इत्यादि बहूक्तम् | एतच्च प्रागेवोक्तमिति न पुनरायस्तमिह || १५ || ननु एवमप्यत्र ङित्योदिता पराशक्तिर्यद्यप्येषा तथापि च | बाह्यचर्याविहीनस्य दुर्लभा कौलिकी स्थितिः ||᳚ इत्यादिना बाह्योपयोगः कथञ्चिदाम्नातः, इति किमेतदुक्तम्? -- इत्याशङ्क्याह -- यदा यथा येन यत्र स्वा संवित्तिः प्रसीदति || १२-१६ || तदा तथा तेन तत्र तत्तद्भोग्यं विधिश्च सः | एतच्च सर्वमेवात्र विहितम् -- इत्याह -- लौकिकालौकिकं सर्वं तेनात्र विनियोजयेत् || १२-१७ || निष्कम्पत्वे सकम्पस्तु कम्पं निर्ह्रासयेद् बलात् | निष्कम्पत्व इति निर्विकल्पकत्वे -- इत्यर्थः | कम्पं शङ्कादिरूपम् | बलान्निर्ह्रासयेत् तत्रैव यत्नपरो भवेत् -- इत्यर्थः || १७ || तदाह � यथा येनाभ्युपायेन क्रमादक्रमतोऽपि वा || १२-१८ || विचिकित्सा गलत्यन्तस्तथाऽसौ यत्नवान्भवेत् | विचिकित्सेति शङ्का, अनेन च कम्पह्रासाख्यमपि प्रमेयमुक्तम् || अतश्च किम्? -- इत्याह � धीकर्माक्षगता देवीर्निषिद्धैरेव तर्पयेत् || १२-१९ || निषिद्धैरिति ᳚यद्द्रव्यं लोकविद्विष्टम्᳚ इत्यादिनाऽऽम्नातैः || १९ || नन्वेवं निषिद्धाचरणे किं प्रमाणम् ? -- इत्याशङ्क्याह -- वीरव्रतं चाभिनन्देदिति भर्गशिखावचः | तदुक्तं तत्र � ᳚वीरव्रतं चाभिनन्देद्यथायोगं तथाभ्यसेत् |᳚ इति || ननु शङ्कादिभिः किं कृतं यदेवं तन्निर्ह्रासे यत्नः ? -- इत्याशङ्क्याह -- तथाहि शङ्का मालिन्यं ग्लानिः सङ्कोच इत्यदः || १२-२० || संसारकारागारान्तः स्थूलस्थूणा घटायते | मालिन्यमाणवमलात्मकमज्ञानम् | ग्लानिस्तदुत्थोऽनुत्साहः | यदुक्तम् -- ᳚ग्लानिर्विलुण्ठिका देहे तस्याश्चाज्ञानतः सृतिः |᳚ (स्प. ३|८) इति | सङ्कोचो देहादिप्रमातृतापारिमित्यम्, स्थूणाशब्देन चात्र हडिर्लक्ष्यते || २० ||
SK
नन्वस्त्येव दुरुन्मूलं शङ्काया बीजं यदिदं कार्यमिदं नेति, तत्कथं तन्निर्ह्रासे यत्नवता भाव्यम्? -- इत्याशङ्क्याह -- मन्त्रा वर्णस्वभावा ये द्रव्यं यत्पाञ्चभौतिकम् || १२-२१ || यच्चिदात्म प्राणिजातं तत्र कः सङ्करः कथम् | सङ्करो हि भिन्नस्वभावानां भवति न च मन्त्रादीनां कश्चित्स्वभावः -- इत्युक्तं वर्णस्वभावा इति पाञ्चभौतिकमिति चिदात्मेति च | एतच्च प्रागेव निषेधविधितुल्यत्वाभिधानसमये निरूपितमित्य(ति त)त एवावधार्यम् || २१ || एवमस्या निमित्ताभावात् संभव एव नास्ति -- इत्याह -- सङ्कराभावतः केयं शङ्का तस्यामपि स्फुटम् || १२-२२ || न शङ्केत तथा शङ्का विलीयेतावहेलया | सङ्करशब्दोऽत्र सङ्कीर्यमाणयोः कार्याकार्ययोरुपलक्षणम् | केयमिति न काचित् -- इत्यर्थः | एवं निर्हेतुकत्वेऽपि अस्यां प्रमादादुल्लसन्त्यां न विचिकित्सितव्यम् -- इत्याह -- ᳚तस्यामपि न शङ्केत᳚ इति | तथा च सुखमेव तन्निरासः सिद्ध्येत् -- इत्युक्तम् -- ᳚तथा शङ्का विलीयेतावहेलया᳚ इति || २२ || न चात्र युक्तिरेवास्ति यावदागमोऽपि -- इत्याह -- श्रीसर्वाचारवीरालीनिशाचरक्रमादिषु || १२-२३ || शास्त्रेषु विततं चैतत्तत्र तत्रोच्यते यतः | क्रमः क्रमदर्शनम्, आदिशब्दाच्छ्रीगमशास्त्रम् || २३ || तत्रत्यमेव ग्रन्थैकदेशमुदाहरति -- शङ्कया जायते ग्लानिः शङ्कया विघ्नभाजनम् || १२-२४ || ᳚शङ्कया कुगतिं याति तस्माच्छङ्कां परित्यजेत् ||᳚ इत्यस्य द्वितीयमर्धम् | तत्र श्रीसर्ववीरे -- ᳚अज्ञानाच्छङ्कते मूढस्ततः सृष्टिश्च संहृतिः | मन्त्रा वर्णात्मकाः सर्वे वर्णाः सर्वे शिवात्मकाः || पेयापेयं स्मृता आपो भक्ष्याभक्ष्यं तु पार्थिवम् | सुरूपं च विरूपं च तत्सर्वं तेज उच्यते | स्पृश्यास्पृश्यौ स्मृतो वायुश्छिद्रमाकाशमुच्यते || नैवेद्यं च निवेदी च नैवेद्यं गृह्णते च ये | सर्वं पञ्चात्मकं देवि न तेन रहितं क्वचित् || इच्छामुत्पादयेदात्मा कथं शङ्का विधीयते |᳚
SK
इत्याद्युक्तम् | श्रीवीरावलौ च सप्तमोद्देशे बहूक्तं तच्च प्रागपि किञ्चित्संवादितमिति ग्रन्थविस्तरभयान्न पुनर्लिखितं तत्तत एवावधार्यम् | श्रीनिशाचरेऽपि � ᳚विकल्पाज्जायते शङ्का सा शङ्का बन्धरूपिणी | बन्धोऽन्यो नहि विद्येत ऋते शङ्कां विकल्पजाम् ||᳚ इत्युपक्रम्य मन्त्रशङ्कात्मशङ्का च तत्त्वशङ्का परा मता | षड्विधां कथयिष्यामि यथा मोक्षमवाप्स्यसि ||᳚ इत्यादि बहूक्तम् | श्रीक्रमसद्भावेऽपि ᳚...................शङ्काशून्यो भवेत्सदा |᳚ इति || २४ || न केवलमेतत्स्वतः शास्त्रतश्च सिद्धं यावद्गुरुतोऽपि -- इत्याह -- उवाचोत्पलदेवश्च श्रीमानस्मद्गुरोर्गुरुः | तदेवाह � सर्वाशङ्काशनिं मार्गं नुमो माहेश्वरं त्विति || २५ || तदुक्तम् � शर्वाशङ्काशनिं सर्वालक्ष्मीकालानलं तथा | सर्वामङ्गल्यकल्पान्तं मार्गं माहेश्वरं नुमः ||᳚ (उ. स्तो. २|२८) इति || २५ || एतदेव श्लोकस्य प्रथमार्धेनोपसंहरति -- अनुत्तरपदाप्तये तदिदमाणवं दर्शिताभ्युपायमतिविस्तरान्ननु विदांकुरुध्वं बुधाः | इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके अध्वोपयोगप्रकाशनं नाम द्वादशमाह्निकम् || १२ || दर्शिताभ्युपायमिति दर्शितः स्थानभेदाद्यात्माभ्युपायो यस्य इति शिवम् ||२६|| चिदभेदभावनावशनिरस्तशङ्काकलङ्कदुर्ललितः | जयरथ एतदरचयत् कृतिविवृति द्वादशाह्निकं सद्यः || इति श्रीमदाचार्याभिनवगुप्तपादविरचिते, श्रीजयरथाचार्यकृतविवेकाख्यव्याख्योपेते श्रीतन्त्रालोके अध्वोपयोगप्रकाशनं नाम द्वादशमाह्निकम् || १२ || त्रयोदशमाह्निकम् ᳚ विवेक ᳚ जयवर्धनः सुखर्द्धिं वर्धयतात्पूर्णचन्द्रविशदगतिः | आप्याययति जगद्यः स्वशक्तिपातामृतासारैः || इह शंविदि फलभेदोऽत्र न प्रकल्प्यो मनीषिभिः |᳚ (मा. वि. २|२५) इत्याद्युक्त्या यद्याणवादीनामनुत्तरपदावाप्तिरेव फलं तदेक एवोपाय उपदिश्यतां किमेभिस्त्रिभिः? -- इत्याशङ्कां निराचिकीर्षुरधिकारभेदमुपदिष्टं द्वितीयार्धेन शक्तिपातक्रमविवेकमभिधातुं प्रतिजानीते �
SK
अथाधिकृतिभाजनं क इह वा कथं वेत्यलम् | विवेचयितुमुच्यते विविधशक्तिपातक्रमः || १३-१ || इहेति, आणवादावुपायत्रये || १ || नन्वन्यैरुक्तः शक्तिपातविवेक इति किमिहापि तेन स्यात्, बाढं किन्तु तदेवानूद्य दूषयित्वा स्वसिद्धान्तः करिष्यते -- इत्याह -- तत्र केचिदिह प्राहुः शक्तिपात इमं विधिम् | तं प्रदर्श्य निराकृत्य स्वमतं दर्शयिष्यते || १३-२ || इमं विधिमिति, उपक्रान्तं शक्तिपातविवेकप्रकारम् -- इत्यर्थः || २ || नन्विह प्रकृतिपुरुषविवेकज्ञानान्मुक्तिस्तस्य च वैराग्यादि निमित्तमिति किमदृष्टस्य शक्तिपातस्य परिकल्पनेन? -- इत्याशङ्कां गर्भीकृत्य सांख्यात्तावदाधिक्यं प्रतिपादयति -- तत्रेदं दृश्यमानं सत्सुखदुःखविमोहभाक् | विषमं सत्तथाभूतं समं हेतुं प्रकल्पयेत् || १३-३ || सोऽव्यक्तं तच्च सत्त्वादिनानारूपमचेतनम् | घटादिवत्कार्यमिति हेतुरेकोऽस्य सा निशा || १३-४ || तत्रेति परकीयशक्तिपातविवेकानुवादतन्निराकरणस्वमतप्रदर्शनेषु कर्तव्येषु शक्तिपातक्रमोपपादनपरतयेदमुच्यते -- इत्यर्थः | इदमिति महदादिक्षित्यन्तम्, सुखदुःखमोहभाक्तत्वादेव विषमं परस्पराङ्गाङ्गिभावावस्थितसत्त्वादिगुणरूपम् -- इत्यर्थः | तथाभूतमिति सुखदुःखमोहस्वभावम् | सममिति अनङ्गाङ्गिभावावस्थितगुणम् -- इत्यर्थः | अत एव शत्त्वरजस्तमसां साम्यावस्था प्रकृतिः᳚ -- इत्युक्तम् | स इति हेतुः | नन्वस्तु सांख्यमतमेतद्वैषम्यं साम्यविश्रान्तमिति; साम्यं च नित्यमेकमकारणपूर्वकं तत ऊर्ध्वं तु तद्धेतुभूतं तत्त्वान्तरं न संभवेदिति किं नाम तत आधिक्यम्? -- इत्याशङ्क्याह -- तच्चेत्यादि | अयं चात्र प्रयोगः -- अव्यक्तं कार्यम्, आचैतन्ये सत्यनेकत्वात्, यदाचैतन्ये सत्यनेकं तत्सर्वं कार्यं यथा घटः, यन्न कार्यं तदाचैतन्ये सत्यनेकं न भवति यथात्मा, आचैतन्ये सत्यनेकं चाव्यक्तम् तस्मात्कार्यमिति | उक्तं च प्राक् -- ᳚अचेतनमनेकात्म सर्वं कार्यं यथा घटः |
SK
प्रधानं च तथा तस्मात्कार्यं नात्मा तु चेतनः ||᳚ (९|१५६) इति | कार्यत्वाच्चाव्यक्तस्य किं कारणम् -- इत्युक्तम् -- हेतुरेकोऽस्य सा निशेति || ४ || नन्वेवमस्माकमिव प्रकृतिर्मायैव भवतां विश्वकारणमस्तु किं तदधिष्ठात्रेश्वरेणापि? -- इत्याशङ्क्याह -- सा जडा कार्यताद्रूप्यात्कार्यं चास्यां सदेव हि | कलादिधरणीप्रान्तं जाड्यात्सा सूतयेऽक्षमा || १३-५ || तेनेशः क्षोभयेदेनां क्षोभोऽस्याः सूतियोग्यता | ननु कार्यजाड्याद्यद्यपि मायाया अपि जाड्यं तत्कुम्भकारस्यापि कुम्भवत् तत्प्रसज्यते? -- इत्याशङ्क्याह -- ᳚कलादिधरणीप्रान्तं कार्यं चास्यां सदेव हि᳚ इति | नियतिदशायां हि यदेव यस्य केनचिद्रूपेणानुयायि भासते तदेव तस्य मृदिव घटस्य मुख्यं कारणं तत्रैव चास्य सत्त्वम् -- इति भावः | तेनेति सूत्यक्षमत्वेन हेतुना | एवं च प्रकृतिपुरुषादिविवेकज्ञानादेव मुक्तिर्न स्यात् -- इत्यावेदितम् | नहि ईश्वरशक्तिपातमन्तरेण तद्विवेकज्ञानमेवोदियादिति तन्निमित्ताया मुक्तेरपि कोऽवसरः | एतच्च प्रागेवोपपादितं नेह पुनरायस्तम् || ननु चेश्वरक्षोभितेयं किं नाम सुवीत ? -- इत्याशङ्क्याह -- पुंसः प्रति च सा भोग्यं सूतेऽनादीन् पृथग्विधान् || १३-६ || भोग्यमिति कलादिक्षित्यन्तम् | एवंप्रसवश्चास्या न स्वार्थं जाड्यात्, नापीश्वरार्थं तस्य शुद्धबोधैकरूपत्वात् तत् किं प्रति? -- इत्याशङ्क्योक्तम् -- अनादीन् पृथग्विधान् पुंसः प्रतीति || ननु यद्येवं तत् पुंस्त्वाविशेषान्मुक्ताणून् प्रत्यपि किं न तत्सुवीत? - - इत्याह -- पुंसश्च निर्विशेषत्वे मुक्ताणून् प्रति किं न तत् | अथोच्यते तत्कर्मसंस्कारसहचारितयास्या एवं सूतियोग्यत्वं मुक्ताणुषु च कर्मसंस्कार एव नास्तीति कथं तान् प्रत्येवं स्यादिति तत्तेषां कर्मसंस्काराभावः कुतस्त्यः -- इत्याह -- निमित्तं कर्मसंस्कारः स च तेषु न विद्यते || १३-७ || इति चेत्कर्मसंस्काराभावस्तेषां कुतः किल | कुत इति न कुतश्चित् -- इत्यर्थः ||
SK
यतो न तावद्भोगात्कर्मक्षयः, द्विधा हि भोगः संभाव्यते क्रमेणाक्रमेण वा | तत्र क्रमेण भोगे कर्मान्तरप्रसङ्गो दुर्निवार इति कदाचिदपि नास्य क्षयः स्यात्, अक्रमेण पुनरेषां भोग एव न भवेत्, एवं हि कर्मणा क्रमफलदानात्मा स्वभाव एव त्यक्तो भवेत् | न चैतत्, इत्युभयथापि न कर्मक्षयः सिद्ध्येत् | तदाह -- न भोगादन्यकर्मांशप्रसङ्गो हि दुरत्ययः || १३-८ || युगपत्कर्मणां भोगो न च युक्तः क्रमेण हि | फलेद्यत्कर्म तत्कस्मात्स्वं रूपम् सन्त्यजेत् क्वचित् || १३-९ || ज्ञानात्कर्मक्षयश्चेत्तत्कुत ईश्वरचोदितात् | धर्माद्यदि कुतः सोऽपि कर्मतश्चेत्तदुच्यताम् || १३-१० || अथ ᳚ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन |᳚ (गी. ४|३७) इत्याद्युक्त्या यदि ज्ञानात्कर्मक्षय इष्यते तज्ज्ञानेऽपि किं निमित्तम् -- इत्युक्तम् तत्कुत इति | तस्य हि षट्षोडशपदार्थपरिशीलनाद्यनेकप्रकारमन्यैर्निमित्तमुक्तं तत् कतरत् तावत्तदेकनियतमिति न जानीमः | तत्र सेश्वरमीमांसावादाधिकारेण तावदाह -- रिश्वरेत्यादि | धर्मादिति अपूर्वादिशब्दव्यपदेश्याद्यजेतेत्यादिचोदनालक्षणादर्थात् -- इत्यर्थः | तस्यापि किं निमित्तम् -- इत्युक्तम् कुतः सोऽपीति | कर्मत इति, विहितं हि कर्म क्षणिकत्वाच्चिरभावि फलं दातुमसमर्थमिति तत्सिद्धयेऽन्तरा पुंसां संस्कारविशेषः कल्पनीयो यो धर्म इत्यपूर्वमिति च व्यपदिश्यते यद्वशादियं निखिलैव कर्मफलव्यवस्था सिद्ध्येत् | यदाहुः -- ᳚फलाय कर्म विहितं क्षणिकं चिरभाविने | तत्सद्भिर्नान्यथेत्येवमपूर्वमधिगम्यते ||᳚ इति | तदिति कर्म येन संस्कारद्वारिका ज्ञानावाप्तिः स्यात् | उच्यतामिति साक्षेपं प्रश्नेनात्यन्तमसंभाव्यत्वं सूचितम् || १० || तदेवाह -- नहि कर्मास्ति तादृक्षं येन ज्ञानं प्रवर्तते | कर्मजत्वे च तज्ज्ञानं फलराशौ पतेद् ध्रुवम् || १३-११ || चो हेतौ | फलराशौ पतेदिति फलरूपम् भवेत् -- इत्यर्थः || ११ || न च कर्मान्तरफलने कर्मान्तरस्य प्रक्षयो न्याय्यः -- इत्याह --
SK
अन्यकर्मफलं प्राच्यं कर्मराशिं च किं दहेत् | एवं हि फलत्वाविशेषात् स्वर्गपश्वादिरूपमपि फलं ज्ञानजनकं कर्मापि दहेत् -- इत्याशयः || ननु कर्मफलत्वाविशेषेऽपि तथेश्वरेच्छावशाज्ज्ञानमेव कर्मान्तरदाहकं न स्वर्गपश्वाद्यपि? -- इत्याशङ्क्याह -- ईशस्य द्वेषरागादिशून्यस्यापि कथं क्वचित् || १३-१२ || तथाभिसन्धिर्नान्यत्र भेदहेतोरभावतः | क्वचिदिति ज्ञाने, अन्यत्रेति स्वर्गपश्वादौ, भेदहेतोरभावात् इति, न हि रागद्वेषादिविरहभाज ईश्वरस्यैवं कश्चिद्विशेषोऽस्ति येन विनापि निमित्तमेकं दाहकत्वेनाभिसन्दध्यादितरच्च दाह्यत्वेनेति || न च कर्मफलत्वेऽपि ज्ञानस्येश्वरेच्छोपनतमेव कर्मान्तरदाहकत्वं किन्तु युक्तिबलोपनीतम् -- इत्याह -- नन्वित्थं प्रदहेज्ज्ञानं कर्मजालानि कर्म हि || १३-१३ || अज्ञानसहकारीदं सूते स्वर्गादिकं फलम् | अज्ञानं ज्ञानतो नश्येदन्यकर्मफलादपि || १४ || इह तावदनुष्ठीयमानमग्निहोत्रहवनादिलक्षणं कर्म ᳚कर्तर्यबोधे कार्मं तु᳚ (रि. प्र. ३|६) इत्याद्युक्तेरज्ञानसहकारितमेव तत्तत्स्वर्गादिकं फलं जनयेत्, अज्ञानं च कर्मान्तरहेतुमत्तयोदिताज्ज्ञानान्नश्येदिति वस्तुतः सहकार्यभावात् प्रतिरुद्धफलजननसामर्थ्यं कर्म जायते -- इत्येतावदुच्यते ज्ञानं कर्मजालानि प्रदहेदिति || ननु यदि नाम फलदानसहकारिभूताज्ञाननिवर्तनद्वारेण निरुद्धफलजननसामर्थ्यं कर्म संपाद्यते तद्यत्राज्ञानं च न निवार्यते कर्म च निष्फलीक्रियते तत्र किं प्रतिपत्तव्यम् ? -- इत्याशङ्क्याह � उपवासादिकं चान्यद्दुष्टकर्मफलं भवेत् | निष्फलीकुरुते दुष्टं कर्मेत्यङ्गीकृतं किल || १५ ||
SK
इह खल्वन्यत् स्मृत्यादिशास्त्रान्तरोद्दिष्टमुपवासादिकमादिशब्दादनघत्वादीत्येवंप् रकारं कर्मफलं दुष्टं भवेत् कर्मफलव्यवस्था तत्रोत्सीदेत् -- इत्यर्थः | किल यतो विनाप्यज्ञाननिवृत्तिमर्थादुपवासादि प्रायश्चित्तकर्म दुष्टं श्वदंशाद्यात्मविरुद्धं कर्म निष्फलीकुरुते प्रतिरुद्धफलोत्पादनसामर्थ्यं करोत्येवं कर्मवादिभिर्भवद्भिरेवाभ्युपगतम् | यच्छातातपः शुव्रतं तु शुना दष्टं त्रिरात्रमुपवासयेत् |᳚ इति || १५ || तन्नैतद्युक्तमज्ञानविनिवर्तनद्वारेण कर्म निष्फलीक्रियते न वा -- इति दूरदूरा चिन्ता स्यात् ? -- इत्याशङ्क्याह � अज्ञानमिति यत्प्रोक्तं ज्ञानाभावः स चेत्स किम् | प्रागभावोऽथवा ध्वंस आद्ये किं सर्वसंविदाम् || १३-१६ || कस्यापि वाथ ज्ञानस्य प्राच्यः पक्षस्त्वसंभवी | ᳚ज्ञानाभावः᳚ इति प्रसज्यप्रतिषेधावलम्बनात् | ध्वंसः प्रध्वंसाभावः | तत्र च प्रागभावं तावद्विकल्पयति आद्य इत्यादिना | कस्यापीति प्रतिनियतस्य | प्राच्यः पक्ष इति सर्वसंविदभावलक्षणः || नह्येवं कश्चित्क्रमः संभवति, यदनादावस्मिन् संसारे यस्य न किञ्चिदात्मास्तीति तदाह � न किञ्चिद्यस्य विज्ञानमुदपादि तथाविधः || १३-१७ || नाणुरस्ति भवे ह्यस्मिन्ननादौ कोऽन्वयक्रमः | एवं ह्यसावनेलमूकतया घटादिप्राय एव भवेदित्यभिप्रायः | एवं सर्वसंविदभावपक्षं प्रतिक्षिप्यैकतरज्ञानाभावपक्षमपि प्रतिक्षिपति -- भाविनः प्रागभावश्च ज्ञानस्येति स्थिते सति || १३-१८ || मुक्ताणोरपि सोऽस्त्येव जन्मतः प्रागसौ न च | ज्ञानं भावि विमुक्तेऽस्मिन्निति चेच्चर्च्यतामिदम् || १३-१९ || भाविन इति भविष्यतः | भूतस्याभावे हि प्रध्वंसाभावो भवेत् -- इति भावः | न केवलमस्मदादेर्बद्धात्मनो यावन्मुक्ताणोरपीत्यपिशब्दार्थः | स इति भाविज्ञानप्रागभावः | कथम् ? -- इत्याह -- जनमत इत्यादि, असौ प्रागभावो ह्युत्पत्तेः प्राग्भवेदित्युक्तम् | न चास्मिन्मुक्ताणावुत्पत्स्यमानं ज्ञानमेवं चर्च्यतां कस्मान्न मुक्ताणौ ज्ञानं भावीति || १९ || तदाह �
SK
कस्माज्ज्ञानं न भाव्यत्र ननु देहाद्यजन्मतः | तत्कस्मात्कर्मणः क्षैण्यात्तत्कुतोऽज्ञानहानितः || १३-२० || अज्ञानस्य कथं हानिः प्रागभावे हि संविदः | अज्ञानं प्रागभावोऽसौ न भाव्युत्पत्त्यसंभवात् || १३-२१ || इह बद्धाणुष्वपि हि बाह्येन्द्रियबुद्धिसंबन्धाद्युपस्थापितविषयत्वे ज्ञातुरेव ज्ञानत्वं व्यवह्रियते, न तु वस्तुतो ज्ञानस्योदयव्ययौ स्तः, मुक्ताणुषु पुनर्देहेन्द्रियादिसंबन्धवन्ध्यतया ज्ञानस्य व्यावहारिक्यप्युत्पादादिवार्ता दूरतो निरस्तेत्युक्तं -- ᳚देहाद्यजन्मतः᳚ इति | विकल्पज्ञानं तु मुक्तत्वादेवात्र नाशङ्कनीयम् | ᳚अज्ञानहानितः᳚ इत्यज्ञानसहचरितानि कर्माणि किल फलन्तीति प्रागेवोक्तम् | ननु मुक्ताणौ भाविज्ञानप्रागभावलक्षणमज्ञानं न स्यादित्युक्तमज्ञानस्य कथं हानिरिति | अवश्यं हि मुक्ताणोरपि भाविनो ज्ञानस्य प्रागभावो भवेत् -- इत्याह -- प्रागभावे हि संविदोऽज्ञानमिति | शंविदः᳚ इति कस्यचिद्भाविनो ज्ञानस्य -- इत्यर्थः | ननु मुक्ताणावुत्पत्स्यमानं ज्ञानमेव नास्ति, -- इति कस्य प्रागभावः स्यात् -- इत्याह ᳚प्रागभावः᳚ इत्यादि || ननु मुक्ताणौ भाविज्ञानासंभवे किं निमित्तम्? -- इत्याह -- कस्मान्न भावि तज्ज्ञानं ननु देहाद्यजन्मतः | इत्येष सर्वपक्षघ्नो निशितश्चक्रकभ्रमः || १३-२२ || एवं हि भाविज्ञानाभावे देहाद्यजन्म निमित्तम्, तत्रापि कर्मक्षैण्यं तत्राप्यज्ञानहानिस्तत्रापि भाविज्ञानानुत्पादस्तत्रापि देहाद्यजन्म तत्रापि कर्मक्षैण्यमित्येवं परिवर्त्तमानं मूलक्षतिकरं चक्रकचोद्यमापद्यते इति नेदं युक्तमुक्तमज्ञानं ज्ञानस्य प्रागभाव इति || २२ || न चात्र प्रध्वंसाभावोऽपि न्याय्यः -- इत्याह -- अथ प्रध्वंस एवेदमज्ञानं तत्सदा स्थितम् | मुक्ताणुष्विति तेष्वस्तु मायाकार्यविजृम्भितम् || १३-२३ ||
SK
सदा स्थितमिति, तत्तद्विषयाहितसुखदुःखज्ञानाद्यात्मनो भोगस्यात्यन्तविनिवृत्तेः, तत्तेष्वप्यज्ञानस्य सदा स्थितत्वात् तत्सहचरितानि कर्माण्यपि फलन्तीति तन्निमित्तकमायीयमलोल्लासे कलादिक्षित्यन्तस्य तत्कार्यस्यापि समुल्लासोऽस्तु, बद्धाणुभ्यो मुक्ताणवो न विशिष्येरन् -- इत्यर्थः || २३ || एवं प्रसज्यप्रतिषेधपक्षं प्रतिक्षिप्य पर्युदासमुपक्षिपति -- अथाज्ञानं नह्यभावो मिथ्याज्ञानं तु तन्मतम् | तदेव कर्मणां स्वस्मिन्कर्तव्ये सहकारणम् || १३-२४ || ननु यदि नाम कर्मणां स्वकर्तव्यतायां मिथ्याज्ञानं सहकारिकारणं तत्किमेषां फलोत्पत्तिकाल एव सहकारितयाऽऽकस्मिकमापतेदुत स्वोत्पत्तिकालात्प्रभृति फलावध्यनुवर्तते इति वाच्यम् -- इत्याह -- वक्तव्यं तर्हि किं कर्म यदा सूते स्वकं फलम् | तदैव मिथ्याज्ञानेन सता हेतुत्वमाप्यते || १३-२५ || अथ यस्मिन्क्षणे कर्म कृतं तत्र स्वरूपसत् | मिथ्याज्ञानं यदि ततस्तादृशात्कर्मणः फलम् || १३-२६ || तदैव सतेति, मृद इव दण्डादिना कार्योत्पादकाल एवोपनिपतता -- इत्यर्थः | तादृशादिति, मिथ्याज्ञानसहचरितात् | तेन यथा क्षित्यादिसहचरितादन्त्याद् बीजादेरंकुरादि स्यात् तथा मिथ्याज्ञानसहचरितात् कर्मणस्तत्तद्भोगादिलक्षणं फलमिति || २६ || एतदेव क्रमेण प्रतिक्षिपति -- प्राक्पक्षे प्रलये वृत्ते प्राच्यसृष्टिप्रवर्तने | देहाद्यभावान्नो मिथ्याज्ञानस्य क्वापि संभवः || १३-२७ || उत्तरस्मिन्पुनः पक्षे यदा यद्येन यत्र वा | क्रियते कर्म तत्सर्वमज्ञानसचिवं तदा || १३-२८ || अवश्यमिति कस्यापि न कर्मप्रक्षयो भवेत् |
SK
᳚प्रलय᳚ इति देहप्राणबुद्धिशून्यानामपि संक्षयात् प्रकृष्टे लये महासंहारे -- इत्यर्थः | प्राच्येति प्राथमिक्याद्येति यावत् | इहादिसर्गे तावदीश्वरः स्वकर्मानुरूप्येणैवाणूनां तत्तद्देहसंयोजनादि विदध्यादिति नास्ति विमतिः | कर्म चाज्ञानसहचरितमेव फलति, अज्ञानं च तदा देहाद्यसंभवे निरधिकरणं नास्तीति तत्साहचर्याभावात्प्रतिरुद्धफलजननसामर्थ्येषु कर्मसु सृष्ट्यसंपत्तेस्तत्र प्रवृत्तिमात्रमपि नेश्वरस्य सिद्ध्येदिति न किञ्चित्स्यात् | अथ कर्मणामुत्पत्तिकालादारभ्य फलपर्यन्तमज्ञानस्यानुवर्तमानत्वं तत्सर्वकालमेषामवश्यमेव तत्साचिव्यं स्यादिति कदाचिदपि कस्यापि न कर्म क्षीयेत, अज्ञाननाशाद्धि तन्नश्येदित्युक्तम्, अज्ञानं चात्र सर्वदैवानुवर्तमानमवतिष्ठते इति कथमेवंभावो भवेत् || २७-२८ || ज्ञानिनापि हि क्रियमाणं कर्म कर्मतयैवाज्ञानसहचरितं स्यात्, तत्तत्रापि तन्निरुद्धफलभाजनसामर्थ्यमित्यज्ञानिषु का वार्ता | भवतु वा, मिथ्याज्ञानसाहचर्याभावाज्ज्ञानिना क्रियमाणं कर्म निष्फलं ज्ञानादर्वाक् कृतं तु कथमेवं स्यात् -- इत्याह -- यद्यपि ज्ञानवान्भूत्वा विधत्ते कर्म किञ्चन || १३-२९ || विफलं स्यात्तु तत्पूर्वकर्मराशौ तु का गतिः | का गतिरिति ज्ञानिनोऽप्यनन्तपूर्वकर्मवैफल्ये न किञ्चिन्निमित्तं संभवेत् -- इत्यर्थः || ननु किमनेन नः पक्षेण प्राच्य एव पक्षोऽस्तु यत् प्रलयस्य वृत्तत्वाद्देहाद्यभावेऽपि चित्स्वभावत्वादणूनां ज्ञानं संभवत्येव ? -- इत्याह -- अथ प्रलयकालेऽपि चित्स्वभावत्वयोगतः || १३-३० || अणूनां संभवत्येव ज्ञानं मिथ्येति तत्कुतः | स्वभावादिति चेन्मुक्ते शिवे वा किं तथा न हि || १३-३१ || भवतु नामैषां ज्ञानम्, मिथ्यात्वं पुनः कुतस्त्यम् ? -- इत्युक्तम् -- ᳚मिथ्येति तत्कुतः᳚ इति | अथ ज्ञानत्वादेव ज्ञानस्य मिथ्यात्वं तच्चित्स्वभावत्वाविशेषान्मुक्ताणूनां शिवस्यापि वा कथं न मिथ्याज्ञानयोगः ? -- इत्याह -- ᳚मुक्ते शिवे वा किं तथा न हि᳚ इति || ३१ ||
SK
नन्विह सामान्येनाज्ञानं न विवक्षितं किन्तु प्रकृतिपुरुषविवेकादर्शनरूपम् यथा सांख्यैराख्यातम्, तदेवाह -- यच्चादर्शनमाख्यातं निमित्तं परिणामिनि | प्रधाने तद्धि सङ्कीर्णवैविक्त्योभययोगतः || १३-३२ || दर्शनाय पुमर्थैकयोग्यतासचिवं धियः | आरभ्य सूते धरणीपर्यन्तं तत्र यच्चितः || १३-३३ || बुद्धिवृत्त्यविशिष्टत्वं पुंस्प्रकाशप्रसादतः | प्रकाशनाद्धियोऽर्थेन सह भोगः स भण्यते || १३-३४ || प्रधाने परिणामिनि निमित्तमिति तत्तद्बुद्ध्यादिरूपतया प्रधानपरिणामार्थम् -- इत्यर्थः | तदेव च भोगापवर्गमयसाङ्कर्यवैविक्त्यदर्शनाय भवेदित्युक्तम् ᳚तद्धि सङ्कीर्णवैविक्त्योभययोगतो दर्शनाय᳚ इति | यदाहुः -- ᳚विना सर्गेण बन्धो हि पुरुषस्य न युज्यते | सर्गस्तस्यैव मोक्षार्थं............................ ||᳚ इति | तत्र परिणामित्वं तावदाह -- ᳚पुमर्थेत्यादि᳚ | पुंसः प्रधानकैवल्यावधिपरिच्छिन्ने साङ्कर्यदर्शनात्मन्यर्थे येयमेकाऽनन्यसाधारणा कार्यजननाभिमुख्यलक्षणा योग्यता तत्सचिवं तत्सहकृतम् -- इत्यर्थः | तदुक्तम् -- ᳚पुरुषस्य दर्शनार्थः कैवल्यार्थस्तथा प्रधानस्य | पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ||᳚ ᳚प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः | तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ||᳚ (सां.का.२२) इति | नन्वेवं परिणमतु प्रधानं साङ्कर्येण वैविक्त्येन वा, दर्शनं पुनरत्र किं नामोच्यते? -- इत्याशङ्क्याह -- ᳚तत्रेत्यादि᳚ | तत्रैवं प्रधानस्य परिणामे पुंस्प्रकाशसंक्रान्तिमहिम्ना तत्तदर्थाकाराया बुद्धेराचैतन्येऽपि चेतनायमानतयावस्थानाद्यच्चितः पुरुषस्यौदासीन्येऽपि स्वच्छायासंक्रान्तिद्वारेणोभयतो निर्मलदर्पणप्रख्याया बुद्धेरिदमहं जानामीत्येवमात्मिकया वृत्त्या कर्तृतयेवाभिमानात्सारूप्यं स एव विषयच्छायायोगिन्यां बुद्धौ चिच्छायासंक्रान्तेः साङ्कर्यदर्शनात्मा भोगो भण्यते � इति वाक्यार्थः | यदुक्तम् -- ᳚तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् |
SK
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ||᳚ (सां. का. २०) इति || ३४ || एवं साङ्कर्यमभिधाय वैविक्त्यं व्यनक्ति -- बुद्धिरेवास्मि विकृतिधर्मिकान्यस्तु कोऽप्यसौ | मद्विलक्षण एकात्मेत्येवं वैविक्त्यसंविदि || १३-३५ || पुमर्थस्य कृतत्वेन सहकारिवियोगतः | तं पुमांसं प्रति नैव सूते किंत्वन्यमेव हि || १३-३६ || विकृतिधर्मेत्यनेनास्याः परिणामित्वादाचैतन्याद्युक्तम्, अत एव पुंसश्चेतनत्वादियोगात् एतद्वैलक्षण्यं कटाक्षयितुं कोऽपीति मद्विलक्षण इति चोक्तम् | यदाहुः -- ᳚त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि | व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ||᳚ (सां. का. ११) इति | वस्तुतः प्रकृतिपुरुषयोरुपरतविषयच्छायायां बुद्धौ निष्कम्पदीपशिखाप्रख्यकेवलचिच्छायासंक्रान्तिर्नाम वैविक्त्यज्ञानमुच्यते, यत्रेदमुपचर्यते प्रकृतिरन्या पुरुषोऽन्यश्चेति | यदुक्तम् -- ᳚एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् | अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ||᳚ (सां. का. ६४) इति | एवं चोभयथा दर्शनात्मनः पुमर्थस्य कृतत्वात् अत एव पुमर्थैकयोग्यतात्मनः सहकारिणो वियोगात्तं प्राप्तविवेकज्ञानं पुरुषं प्रति नैव सूते प्रतिनिवृत्तप्रसवा भवति -- इत्यर्थः | यदुक्तम् � ᳚तेन निवृत्तप्रसवामर्थवशात्सप्तरूपविनिवृत्ताम् | प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः || दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरतै(मत्ये)का | सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य || (सां.का. ६६) इति | न चैवं निवृत्तप्रसवत्वात् प्रकृतेरविशेषेणैव सर्वेषां निर्मोक्षप्रसङ्ग इत्युक्तं किंत्वन्यमेव हीति | अन्यमित्यप्राप्तविवेकज्ञानम् -- इत्यर्थः || ३५-३६ || एतदेव संक्षेपेण प्रतिक्षेप्तुमुपक्षिपति -- अत्र पुंसोऽथ मूलस्य धर्मोऽदर्शनता द्वयोः | अथवेति विकल्पोऽयमास्तामेतत्तु भण्यताम् || १३-३७ ||
SK
एतद्धि यदि नामादर्शनात्मकमज्ञानं पुंसो धर्मस्तत्तस्य नित्यमेव बन्धे ज्ञानोदये वा विकारित्वादाचैतन्यम्, प्रकृतेश्च तद्धर्मत्वे पुंसः किमायातं येन तस्य बन्ध इति सदैवास्य निर्मोक्षः स्यात्, उभयधर्मत्वे चोभयथापि दूषणोपनिपात इत्यादि विविच्यमानमतिगहनत्वात् वस्तुतस्तु व्याहतिनिमित्तत्वमियात् -- इत्याशयः | एतत् परं वक्ष्यमाणदृशा मया चोद्यमानं निर्णीयतामित्युक्तम् � एतत्तु भण्यतामिति || ३७ || तदेवाह � भोगो विवेकपर्यन्त इति यत्तत्र कोऽवधिः | विवेकलाभे निखिलसूतिदृग्यदि सापि किम् || १३-३८ || सामान्येन विशेषैर्वा प्राच्ये स्यादेकजन्मतः | उत्तरे न कदाचित्स्याद्भाविकालस्य योगतः || १३-३९ || यदभिप्रायेणैव ᳚कैवल्यार्थं प्रवृत्तेश्च᳚ (सां. का. १७) इत्याद्युक्तम् | यदि नाम निखिलसूतिसंपत्तिरेव विवेकलाभे सूत्यन्तरसम्पत्त्ययोगादवधिः, तत्किं सापि सूतिमात्रात्मना वा स्यात् पार्थिवघटाद्यात्मविशिष्टसूत्याद्यात्मना वा ? -- इत्याह -- सा किं सामान्येन विशेषैर्वेति | न चैतदुभयमपि सङ्गच्छते -- इत्याह -- प्राच्य इत्यादि | एकजन्मत इति, एकस्यामपि व्यक्तौ सामान्यस्य कार्त्स्न्येनैव वृत्तेः | न कदाचिदिति, भाविनां सूतिविशेषाणामानन्त्यात् || ३८-३९ || ननूत्तर एव पक्षोऽस्तु आनन्त्यचोद्यं तु निःशेषविशेषानवलम्बनात् कतिपयविशेषाश्रयणाच्च न स्यात्? -- इत्याशङ्कते -- कैश्चिदेव विशेषैश्चेत्सर्वेषां युगपद्भवेत् | विवेकोऽनादिसंयोगात्का ह्यन्योन्यं विचित्रता || १३-४० || इह खलु प्रकृतिसंयोगानादित्वस्य तुल्यत्वात् सर्वेषामेव पुरुषाणां प्रकृतिनियतविशेषसूतिसंपत्तिसामनन्तर्येण युगपददूरविप्रकर्षेण वा तद्विवेक उदियाच्छरदीव शालिस्तम्बानां पाक इत्येषां परस्परस्य वैचित्र्यान्तरायोगात् क्रमेण भोगापवर्गौ न स्यातामिति न सांख्योक्तमप्यज्ञानं नैयायिकतामवलम्बते || ४० || अत आह -- तस्मात्सांख्यदृशापीदमज्ञानं नैव युज्यते | सांख्यदृशापीत्यपिशब्देन न केवलं प्रागुक्तक्रमेणैतन्न युज्यते यावदनेनापि मतेन -- इत्युक्तम् ||
SK
नन्विह भोगापवर्गमात्रमेवोपादेयमिति तदेव विविच्यतां किमज्ञानयुक्तायुक्तत्वकथनेन? -- इत्याशङ्क्याह -- अज्ञानेन विना बन्धमोक्षौ नैव व्यवस्थया || १३-४१ || युज्येते तच्च कथितयुक्तिभिर्नोपपद्यते | व्यवस्थयेति � ᳚अयं बद्धोऽयं मुक्तः᳚ इति || ४१ || ननु माभूदज्ञानं युक्तमयुक्तं वा किमनया नश्चिन्तया यदणूनां मायासद्भावादेव बन्धमोक्षविभागः सिद्ध्येत्? -- इत्याशङ्क्याह -- मायाकर्माणुदेवेच्छासद्भावेऽपि स्थिते ततः || १३-४२ || न बन्धमोक्षयोर्योगो भेदहेतोरसंभवात् | देवेच्छेति, ईश्वरशक्त्यधिष्ठानं विना हि मायादि जाड्यात्किञ्चिदपि कर्तुं न शक्नुयात् -- इत्याशयः | तत इत्यज्ञानस्यायौक्तिकत्वात् | योगो युक्तिः | भेदहेतोरसंभवादिति, नहि मायादीनां प्रतिपुंनियतत्वादीश्वरस्य च वीतरागद्वेषत्वादयं बद्धोऽयं मुक्त इति विभागे किञ्चिन्निमित्तं संभवेत् -- इति भावः || ४२ || एवमणूनां ज्ञत्वकर्तृत्वप्रतिबन्धकमज्ञानशब्दवाच्यं किञ्चिदावरणं वक्तव्यं येनायं बद्धोऽयं मुक्त इति विभागो भवेत् - - इत्याह -- तस्मादज्ञानशब्देन ज्ञत्वकर्तृत्वधर्मणाम् || १३-४३ || चिदणूनामावरणं किञ्चिद्वाच्यं विपश्चिता | अज्ञानशब्देनेति, यदुक्तम् -- ᳚मलोऽज्ञानं पशुत्वं च तिरस्काररसस्तमः | अविद्या ह्यावृतिर्मूर्च्छा पर्यायास्तत्र चोदिताः ||᳚ इति || ४३ || तच्च कीदृक् -- इत्याह -- आवारणात्मना सिद्धं तत्स्वरूपादभेदवत् || १३-४४ || भेदे प्रमाणाभावाच्च तदेकं निखिलात्मसु | स्वरूपादभेदवदिति अवयविवन्निरंशात्मकम् -- इत्यर्थः | एवमप्यवयविनामानैक्ये प्रमाणमस्ति कारणभेदो नाम, नेह तथेत्युक्तं भेदे प्रमाणाभावात्तदेकमिति | निखिलात्मसु इति बहुवचननिर्देशादेकमपीदं बहुशक्तिकम्, अन्यथा ह्यस्य निखिलात्मावारकत्वं न घटेत, एकमुक्तौ वा सर्वे मुच्येरन्निति | यदाहुः � ᳚मलशक्तयो विभिन्नाः प्रत्यात्मानं च तद्गुणावरिकाः |᳚ इति || ४४ || तच्चैवंविधं किं नित्यं कार्यं वा, कार्यं चेत्तत्कुतोऽस्य प्रसवः -- इत्याह --
SK
तच्च कस्मात्प्रसूतं स्यान्मायातश्चेत्कथं नु सा || १३-४५ || क्वचिदेव सुवीतैतन्न तु मुक्तात्मनीत्ययम् | प्राच्यः पर्यनुयोगः स्यान्निमित्तं चेन्न लभ्यते || १३-४६ || उत्पत्त्यभावतस्तेन नित्यं न च विनश्यति | मायातश्चेदस्य प्रसवस्तत्सर्वान् प्रत्येवासावेतत् सुवीत न कञ्चिदेव वा प्रतीति, तदाह -- मायातश्चेदित्यादि | ततश्च बद्धाणुवन्मुक्ताणून् प्रत्यप्यविशेषेणासावेतत् सुवीत, -- इति प्राच्य एवायं पर्यनुयोगः परापतेत् | तथाहि -- ज्ञानत्वादेव ज्ञानस्य मिथ्यात्वे, तत्स्वभावत्वाविशेषात् मुक्ताणुष्वपि तद्योग इत्युक्तं प्राक्, न हि वस्तु भवत्पक्षपाति भवेत् -- इति भावः | अथास्य नास्ति किञ्चिन्नमित्तं तर्हि नित्यमेवास्तु -- इत्याह -- निमित्तमित्यादि | तेनेति निमित्तालाभेन, उत्पत्त्यभावे चायं हेतुः, तन्निमित्ताभावादुत्पत्त्यभावः, तस्माच्चेदं नित्यमिति नित्यत्वादेव चेदं न विनश्वरमित्युक्तं न च विनश्यतीति || ४६ || न केवलं नित्यत्वादेव नैतद्विनश्यति यावन्निमित्तान्तरादपि -- इत्याह - - तत एवैकतायां चान्यात्मसाधारणत्वतः || १३-४७ || तत एव भेदे प्रमाणाभावलक्षणात् प्रागुक्ताद्धेतोरेकतायां सत्यां स्वपरसाधारणत्वाच्चैतन्न विनश्यतीति प्राच्येन सम्बन्धः | अस्य ह्येकत्वेन सर्वसाधारण्यादेकत्र नाशे सर्वत्रैवासौ स्यादिति युगपदेव सर्वे मुच्येरन् -- इत्यभिप्रायः || नन्वेतज्ज्ञानाभावमात्ररूपत्वान्न किञ्चिदिति किमनेन तुच्छेन कृत्यम्? - - इत्याशङ्क्याह -- न वाऽवस्त्वर्थकारित्वान्न चित्तत्संवृतित्वतः | अर्थकारित्वादिति पुमावरणलक्षणायामर्थक्रियायामस्य कर्तृत्वात् -- इत्यर्थः | न चैवमप्यस्य ज्ञानमेव रूपमित्युक्तं न चित्तत्संवृतित्वतः इति | न हि चिदेव चिदावरिका भवेत् -- इति भावः || ४७ || ननु भवतु नामैतत्, आत्मनां पुनरनेन किङ्कारणकः सम्बन्धः? -- इत्याशङ्क्याह -- न चैतेनात्मनां योगो हेतुमांस्तदसंभवात् || १३-४८ ||
SK
तदसंभवादिति -- परिकल्प्यमानो हि हेतुः किं निर्मलान् पुंसः प्रति मलं योजयेदुत समलान् (प्रति)| तत्राद्ये पक्षे निर्मलत्वाविशेषाच्छिवमुक्ताणून् प्रत्यपि योजयेत् शिववद्वा न कञ्चिदपि प्रतीति | द्वितीयस्मिन् पुनर्व्यर्थं तद्योजनं ततः पूर्वमपि समलत्वात्, अतश्चात्मनामनादिरेव तत्सम्बन्धः � इति सिद्धम् | यदाहुः -- ᳚अनाद्यनादिसम्बन्धो मल ................ |᳚ इति | आगमोऽपि ᳚अनादिमलसम्बन्धाद् .................... |᳚ इत्याद्युपक्रम्य ᳚विशुद्धं स्फटिकं कस्मात्कस्मात्ताम्रं सकालिकम् | यथा तत्र निमित्तं नो तथा शुद्धशिवात्मनोः ||᳚ इति || ४८ || एतदेव व्यस्ततयोक्तमाणवमलस्वरूपं सामस्त्येनोपसंहारदिशानुवदन् मलान्तरकारणत्वं तस्यैव विधातुमाह -- तेनैकं वस्तु सन्नित्यं नित्यसंबद्धमात्मभिः | जडं मलं तदज्ञानं संसाराङ्कुरकारणम् || १३-४९ || तदेवंविधमाणवं मलं संसारस्य ᳚शरीरभुवनाकारं मायीयम् ............... |᳚ इत्यादिना निरूपितस्य मायीयमलस्याङ्कुर इवाङ्कुरः कारणं कार्मं मलं तस्य कारणं मलद्वयस्यापि साक्षात्पारम्पर्येण च निमित्तम् -- इत्यर्थः | यदुक्तम् -- ᳚मलः कर्मनिमित्तं तु नैमित्तिकमतः परम् |᳚ इति || ४९ || नन्वेवंविधं मलं चेन्नित्यमणुभिर्वा नित्यमेव संबद्धम्, तन्न कदाचिदपि संसारः शाम्येदित्यनिर्मोक्ष एव प्रसजेत् ? -- इत्याशङ्क्याह -- तस्य रोद्ध्री यदा शक्तिरुदास्ते शिवरश्मिभिः | तदाणुः स्पृश्यते स्पृष्टः स्वके ज्ञानक्रिये स्फुटे || १३-५० || समाविशेदयं सूर्यकान्तोऽर्केणेव चोदितः | उदास्ते इति स्वस्मान्निरोधाख्याद् व्यापारान्निवर्तते -- इत्यर्थः | स्पृश्यते इति शिवशक्तिपातभाग्भवेत् -- इत्यर्थः | तेन यथार्करश्मिस्पृष्टः सूर्यकान्तः स्वकामभिज्वलनलक्षणां क्रियां समाविशेत् तथाऽयमपि शिवशक्तिपातपूतः स्वके पूर्णे ज्ञानक्रिये, समभिव्यक्तस्वसंविद्वैभवो भवेत् -- इत्यर्थः ||
SK
ननु यद्येवं तत्कथं शुद्धात्मनामपि पूर्णनिजज्ञानक्रियासमावेशाविशेषात् स्वरुपाभिव्यक्तावन्योन्यस्य वैचित्र्यं स्यात्? -- इत्याशङ्क्याह -- रोद्ध्र्याश्च शक्तेर्माध्यस्थ्यतारतम्यवशक्रमात् || १३-५१ || विचित्रत्वमतः प्राहुरभिव्यक्तौ स्वसंविदः | अतः शिवरश्मिस्पर्शाद्धेतोरणूनां या स्वसंविदभिव्यक्तिस्तस्यां वैचित्र्ये मलसम्बन्धिन्या एव रोद्ध्र्याः शक्तेः स्वव्यापारौदासीन्यात्मनो माध्यस्थ्यस्य यत्तारतम्यं परात्परमतिशयस्तत्प्रयुक्तः क्रमो निमित्तं येनात्मनां शुद्धत्वेऽप्यन्योऽन्यस्य विशेषः || ५१ || ननु सर्वत्र पारमेश्वरः शक्तिपात एव स्वसंविदभिव्यक्तो निमित्तमित्यादिष्टं तत्कथमिह रोधशक्त्यौदासीन्यात्मा मलपरिपाक एवोक्तः? -- इत्याशङ्क्याह -- स एष शक्तिपाताख्यः शास्त्रेषु परिभाष्यते || १३-५२ || स इति मलपरिपाकहेतुकः प्रकान्तः शिवरश्मिस्पर्शः | एष इति समनन्तरमेव प्रत्यक्षतया परामृष्टः | परिभाष्यते इति श्रीमत्खेटपालाचार्यप्रभृतिभिः स्वसमयेनावस्थाप्यते -- इत्यर्थः || ५२ || एवं परकीयं शक्तिपातविधिं प्रदर्श्य निराकरोति -- अत्रोच्यते मलस्तावदित्थमेष न युज्यते | इति पूर्वाह्णिके प्रोक्तं पुनरुक्तौ तु किं फलम् || १३-५३ || इत्थमुक्तेन रूपेण | पूर्वाह्णिक इति नवमाह्निकादौ | पुनरुक्तौ किं फलमिति तदतिरिक्तं तु किञ्चिद्विवेच्यम् -- इत्याशयः || ५३ || तदेवाह � मलस्य पाकः कोऽयं स्यान्नाशश्चेदितरात्मनाम् | स एको मल इत्युक्तेर्नैर्मल्यमनुषज्यते || १३-५४ || अथ प्रत्यात्मनियतोऽनादिश्च प्रागभाववत् | मलो नश्येत्तथाप्येष नाशो यदि सहेतुकः || १३-५५ || हेतुः कर्मेश्वरेच्छा वा कर्म तावन्न तादृशम् |
SK
पाकः कोऽयमिति, न तु मल एव, स हि स्वरूपतः पूर्वमेव निराकृतप्राय इत्यभिप्रायः | एको मल इति, एकत्वे हि मलस्यैकत्रापि तन्नाशे सर्वेषामप्यसौ स्यादिति युगपदेव विश्वनिर्मोक्षप्रसङ्गः | न च रोद्ध्र्याः शक्तेरानैक्यं युज्यते -- इत्युपपादितं पूर्वं येनापि युगपन्मुक्तिपरिहारकदशा स्यात्, अयमेव वा प्रत्यात्मनियत इष्यतां येन नैवं कश्चिद्दोषः इत्युक्तम् -- ᳚अथ प्रत्यात्मनियतः᳚ इति | ननु भवतु नामैवमनियतो नियतो वा मलस्तस्य पुनरनादित्वात्कथं नाशो युज्येत्? -- इत्याशङ्क्याह � प्रागभाववदनादिरपि मलो नश्येदिति | अनादिरपि हि प्रागभावः कार्योत्पादान्नश्येत् -- इत्याशयः | यदि चानादेरयुक्तोऽपि नाशोऽभ्युपगम्यते तत्किमसौ सहेतुको निर्हेतुको वा ? | सहेतुकत्वे च को हेतुरित्याह -- तथापीत्यादि | तत्र तावत्कर्मणो हेतुत्वं(न) न्याय्यम् -- इत्याह -- कर्मेत्यादि | तादृशमिति -- मलनाशहेतुभूतं तस्य भोगैकहेतुत्वात् | नापीश्वरेच्छायाः, साऽपि किं स्वतन्त्रा तद्धेतुरुत परतन्त्रा (न तावत्परतन्त्रा) मलकर्मपाकतारतम्यातिरिक्तस्यापेक्षणीयस्याभावात् | मले च नाश्ये तदयोगात् | नापि स्वतन्त्रा ईश्वरस्य वीतरागद्वेषत्वात्सर्वान्प्रत्यविशेषेणैव तथाभावापत्तेः || ५५ || तदाह � ईश्वरेच्छा स्वतन्त्रा च क्वचिदेव तथैव किम् || १३-५६ || अहेतुत्वे चास्य द्वितीयक्षणपरिसंख्यातो नाशः, इत्यनारब्धपरिसमाप्त एव संसारः स्यात् -- इत्याह � अहेतुकोऽस्य नाशश्चेत्प्रागेवैष विनश्यतु | प्रागेव विनश्यत्विति, स्थित्यन्तरमेवैष मा दर्शि -- इत्यर्थः || अथोच्यते निरन्तरसुसदृशक्षणान्तरसन्ततिवृत्त्या ध्वस्तोऽप्यध्वस्त इवास्ते येनादर्शनं न यायात् -- इत्याह � क्षणान्तरं सदृक् सूते इति चेत्स्थिरतैव सा || १३-५७ || एवं हि सन्तानवृत्त्या निरपेक्षतया क्षणान्तरमारभमाणो न तु विच्छेदमधिगच्छेत् -- इत्युक्तम् -- स्थिरतैव सा -- इति | न हि अस्यान्त्यस्येव घटक्षणस्य सामग्र्यन्तरोपनिपातः संभाव्यते येन विसदृशकार्योत्पादे निरन्वयो नाशः स्यात् || ५७ ||
SK
एतच्च मलस्य नाशमभ्युपगम्योक्तं वस्तुतस्त्वसावस्य न स्यात् -- इत्याह -- न च नित्यस्य भावस्य हेत्वनायत्तजन्मनः | नाशो दृष्टः प्रागभावस्त्ववस्त्विति तथाऽस्तु सः || १३-५८ || हेत्वनायत्तजन्मनश्च प्रागभावस्य नाशो दृश्यते इति किमेतदुक्तम्? -- इत्याशङ्क्याह -- प्रागभावस्त्ववस्त्विति | तथास्तु स इति प्रागभावो हि अवस्तुत्वान्न काचिन्नियमेन व्यवस्था स्यात्, भावे त्वयं नियमो यदनादेरानन्त्यमिति || ५८ || अथ मलस्य न नाशः पाकः किन्त्वस्य शक्तिप्रतिबन्धो नाम -- इत्याह -- अथास्य पाको नामैष स्वशक्तिप्रतिबद्धता | सर्वान्प्रति तथैष स्याद् रुद्धशक्तिर्विषाग्निवत् || १३-५९ || पुनरुद्भूतशक्तौ च स्वकार्यं स्याद्विषाग्निवत् | मुक्ता अपि न मुक्ताः स्युः शक्तिं चास्य न मन्महे || १३-६० || यदि नामास्य स्वशक्तिप्रतिबन्ध एव पाकस्तद्यथा विषमग्निर्वा प्रतिरुद्धमरणदाहशक्ती सर्वान्प्रति अविशेषेणैव स्याताम्, तथाऽयमपि प्रतिरुद्धरोधकशक्तिरिति युगपदेव सर्वे मुच्येरन् | एवं च केनापि निमित्तेन प्रतिबन्धकनिवृत्तौ यद्यस्य विषाग्निवत् पुनरपि स्वशक्तिरुन्मज्जेत् तत्सर्वान्प्रति अविशिष्टैवासौ स्यादिति महतायासेन मुक्ता अप्यकस्मादेव बद्धा भवेयुस्तान्प्रति प्रतिप्रसवन्यायेन निरोधकत्वस्य संभाव्यमानत्वात्, अतश्च बन्धमोक्षौ प्रति न् कस्यचिदपि दार्ढ्यं भवेत्, इति को नाम पेर्क्षापूर्वकारी बन्धं हातुं मोक्षं चोपादातुमुद्यच्छेत् | किंनामधेया चास्य शक्तिरिति न बुद्ध्यामहे यस्या अपि प्रतिबन्धो नामास्य पाकः स्यात् -- इत्याह -- ᳚शक्तिं चास्य न मन्महे᳚ इति || ६० || अथोच्यते रोधिकास्य शक्तिरिति तत्किमसौ रुन्ध्यात् -- इत्याह -- रोद्ध्रीति चेत्कस्य नृणां ज्ञत्वकर्तृत्वयोर्यदि | यद्येवं, तदस्याः किं संनिधिमात्रेण तद्रोधकत्वमुत किंचित्करत्वेनेत्याशङ्क्याह -- सद्भावमात्राद्रोद्धृत्वे शिवमुक्ताण्वसंभवः || १३-६१ ||
SK
तत्र संनिधिमात्रेणैवास्या रोधकत्वे तत्संनिधानस्याविशेषाद् विमुक्ताणून्प्रत्यपि तथा स्यादिति सर्वमिदमन्धमूकप्रायं बद्धमेव जगत्स्यात् || ६१ || द्वितीयमपि पक्षं प्रतिक्षेप्तुमाह -- संनिधानातिरिक्तं च न किञ्चित्कुरुते मलः | आत्मनां परिणामित्वादनित्यत्वप्रसङ्गतः || १३-६२ || यदि नाम हि संनिधानातिरेकेण मलस्तच्छक्तिर्वा कञ्चिदप्यतिशयमात्मनामादध्यात् तत्तेषां विकारित्वादनित्यत्वं प्रसजेदिति स्वसिद्धान्तभङ्गो भवेत् || ६२ || ननु न किञ्चिदप्यात्मनां मलः कुर्यात् किन्तु तत्समवेतं ज्ञत्वकर्त्तृत्वाद्यावृणुयाद् येनैषां बद्धत्वमुच्यते? -- इत्याशङ्क्याह -- ज्ञत्वकर्तृत्वमात्रं च पुद्गला न तदाश्रयाः | तच्चेदावारितं हन्त रूपनाशः प्रसज्यते || १३-६३ || इति तदावरणेनात्मनां किमिति स्यात्, किन्तु ज्ञानक्रिये एवात्मनां रूपम् तत्तदावरणमात्रादेवैषां रूपनाशः प्रसजेदित्युक्तमेव प्राक् ᳚विभोर्ज्ञानक्रियामात्रसारस्याणुगणस्य च | तदभावो मलो रूपध्वंसायैव प्रकल्पते ||᳚ धर्माद्धर्मिणि यो भेदः समवायेन चैकता | न तद्भवद्भिरुदितं कणभोजनशिष्यवत् || (तं. ९|७४-७५) इति || ६३ || इह च मलेन ज्ञानक्रिययोरावरणं नाम पटेनेव घटस्य द्रष्टारं प्रत्यप्रकाशनमुच्यते, तच्च वस्तुनो नावस्तुतामाधातुं शक्नुयाद् येन ज्ञानस्याज्ञानत्वं स्यात् | ततश्च सर्व एव मुक्ता भवेयुर्बद्धा वा इति, सत्यपि मले न काचिद् बन्धमोक्षव्यवस्था सिद्ध्येत्, तदाह -- आवरणं चादृश्यत्वं न च तद्वस्तुनोऽन्यताम् | करोति घटवज्ज्ञानं नावरीतुं च शक्यते || १३-६४ || अत्र न केवलमेवं यावदावरणमेव न संभवति -- इत्याह -- घटवदित्यादि | न हि मूर्तेनामूर्तेन वा मलेनामूर्तस्य ज्ञानस्यावरणं घटते तद्धि मूर्तस्यैव मूर्तेन भवेत् � इति भावः | क्रिया च ज्ञानपल्लवप्रायेति च नात्र तस्याः पृथगुपा दानम् || ६४ || प्रत्युतास्यावरणायायातो मलो ज्ञेयः स्यादिति ज्ञातृत्वमेवोत्तेजितं भवेत् -- इत्याह -- ज्ञानेनावरणीयेन तदेवावरणं कथम् |
SK
न ज्ञायते तथा च स्यादावृतिर्नाममात्रतः || १३-६५ || आवरणीयेनेत्यावार्यतयाभिमतेन -- इत्यर्थः | आवरणमिति तात्कर्म्यान्मलम् | अतश्चैतदतिरस्कृतत्वान्मलवदेव सर्वमपि जानीयादिति सर्वः सर्वज्ञो भवेत् -- इति वस्तुशून्यं शब्दैकमात्रशरणमावरणमुक्तं स्यादित्युक्तम् -- ᳚तथा च स्यादावृतिर्नाममात्रतः᳚ इति || ६५ || यदि च नामास्य स्वशक्तिप्रतिबन्ध एव पाकस्तत्कोऽस्याः प्रतिबन्धकः, ईश्वरश्चेत् ? -- किमसौ निरपेक्षः प्रवर्तते किमुत कर्मसाम्यमपेक्ष्येति ? निरपेक्षश्चेत् सर्वान्प्रत्येव तथा स्यात् -- इत्याह -- रोद्ध्र्याश्च शक्तेः कस्तस्य प्रतिबन्धक ईश्वरः | यद्यपेक्षाविरहितस्तत्र प्राग्दत्तमुत्तरम् || १३-६६ || दत्तमिति | यदुक्तम् -- ᳚इश्वरेच्छा स्वतन्त्रा च क्वचिदेव तथैव किम् |᳚ (तं. १३|५६) इति || ६६ || उत्तरस्मिन् पुनः पक्षे कर्मणां साम्यमेव किमुच्यते यदपेक्ष्यास्य प्रवृत्तिः स्यात् -- इत्याह -- कर्मसाम्यमपेक्ष्याथ तस्येच्छा संप्रवर्तते | तस्यापि रूपं वक्तव्यं समता कर्मणां हि का || १३-६७ || तदेवाह � भोगपर्यायमाहात्म्यात्काले क्वापि फलं प्रति | विरोधात्कर्मणी रुद्धे तिष्ठतः साम्यमीदृशम् || १३-६८ || इह भोगक्रममहिम्ना बहुषु कर्मसु क्षीणेषु क्वाप्यनियते काले यत्परिपक्वेऽपि तुल्यफलविरुद्धे कर्मणी विरोधात्फलं प्रति रुद्धे तिष्ठतः प्रातिस्विकं प्रतिनियतं भोगं दातुमुदासाते, तदनन्तरभावीनि कर्माणि चापरिपक्वत्वाद् अर्थाद्भोगाय नोन्मुखीभवन्ति, तदीदृशं विरुद्धकर्मद्वयविरोधलक्षणं कर्मणां साम्यमुच्यते -- इति वाक्यार्थः || ६८ || ननु भवतु नामैवं कर्मसाम्यम्, का पुनरीश्वरस्य एतदपेक्षा? -- इत्याशङ्क्याह -- तं च कालांशकं देवः सर्वज्ञो वीक्ष्य तं मलम् | रुन्धे लक्ष्यः स कालश्च सुखदुःखादिवर्जनैः || १३-६९ ||
SK
तमिति रुद्धविरुद्धकर्मोपलक्षितम्, तदवेक्षणे च विशेषणद्वारेण सर्वज्ञत्वं हेतुः | नन्वेवंविधस्यास्य कालस्यास्तित्वे किं प्रमाणम्? - - इत्याशङ्क्याह -- ᳚लक्ष्यः᳚ इत्यादि | स चैवंविधः कालः सुखादिवर्जनैर्लक्ष्यः, सर्वेषामेव सुखदुःखाद्यनुभवशून्यतया स्वसंवेदनसिद्धः -- इत्यर्थः || ६९ || एतदेव हि प्रतिक्षिपति -- नैतत्क्रमिकसंशुद्धव्यामिश्राकारकर्मभिः | तथैव देये स्वफले केयमन्योऽन्यरोद्धृता || १३-७० || इह हि त्रिविधानि कर्माणि शुभान्यशुभानि शबलानि च | तत्र शुभमशुभं च कर्म प्रतिनियतरूपत्वात् संशुद्धाकारम्, शबलं पुनरनियतरूपत्वाद् व्यामिश्राकारं, तेषां क्रमिकत्वमेव न्याय्यं परस्परपरिहृतस्वरूपतया युगपदवस्थानायोगात् | अतश्च क्रमेणैव स्वमपि फलं ददाति, एषां का नाम फलं प्रत्यन्योऽन्यस्य रोद्धृता कस्मिंश्चिदपि कालक्षणे युगपत्प्रवृत्त्ययोगात्, एषां हि अनुष्ठानेऽवस्थाने फलदाने च क्रमिकैकजीवितत्वमेव -- इत्युक्तं बहुशः || ७० || भवतु नाम वैतत् क्वापि काले फलं प्रति विरुद्धे कर्मणी रुद्धे तिष्ठत इति, तत्र पुनरन्तरा ततोऽन्यत्कर्म किञ्चित्किं फलेन्न वा ? यदि फलेत् कृतं तन्निरोधेन प्राग्वदेव कर्मणामानुपूर्व्येण फलदानावस्थितेः, अथ न फलेत्तज्जात्यायुष्प्रदमपि कर्म न फलेदिति तदैव सर्वस्य देहपातः, तत्कृतं मलशक्तिप्रतिबन्धेन -- इत्याह -- रोधे तयोश्च जात्यायुरपि न स्यादतः पतेत् | देहो भोगदयोरेव निरोध इति चेन्ननु || १३-७१ || जात्यायुष्प्रदकर्मांशसंनिधौ यदि शङ्करः | मलं रुन्द्धे भोगदातुः कर्मणः किं बिभेति सः || १३-७२ ||
SK
ननु केनेदमुक्तं जात्यायुष्प्रदमपि कर्म तदा न फलेदिति भोगदकर्माभिप्रायेण खल्वेतद्विवक्षितम्? -- इत्याशङ्कते -- ᳚भोगदयोरेव निरोध इति चेत्᳚ इति | नन्वेवं जात्यायुष्प्रदकर्मानिरोधेऽपि यदीश्वरो मलं निरुन्ध्यात् तद्भोगदस्यापि कर्मणो निरोधमनपेक्ष्यैव मलं रुणद्ध्रु, किं तस्माद् बिभेति यद्यत्तन्निरोधमवश्यमपेक्षते -- इत्याह -- ङनु᳚ इत्यादि || ७२ || न चैतदैकान्तिकं यत्सुखदुःखाद्यनुभवशून्ये कर्मसाम्यात्मनि कालक्षण एवेश्वरो मलशक्तिं रुणद्धि -- इति शतशोऽप्येवमनुभवे हि न कैश्चिदपि मलशक्तिनिरोधहेतुकपारमेश्वरशक्तिपातचिह्नं किञ्चन सञ्चेत्यते -- इति | तदाह -- शतशोऽपि ह्लादतापशून्यां संचिन्वते दशाम् | न च भक्तिरसावेशमिति भूम्ना विलोकितम् || १३-७३ || ह्लादतापौ सुखदुःखे, भक्तिरसावेशमिति, भक्तिर्हि नाम शक्तिपातस्य प्रथमं चिह्नम् | यदुक्तम् � ᳚तत्रैतत्प्रथमं चिह्नं रुद्रे भक्तिः सुनिश्चला |᳚ (मा. वि. २|१४) इति || ७३ || इदानीं सर्वतः प्रच्यावितस्य परस्य कुशकाशावलम्बनेन पक्षान्तरमाशङ्कते -- अथापि कालमाहात्म्यमपेक्ष्य परमेश्वरः | तथा करोति वक्तव्यं कालोऽसौ कीदृशस्त्विति || १३-७४ || कालमाहात्म्यमिति, कालस्य क्षणलवादिक्रमेण कल्पमहाकल्पपर्यन्तं वैचित्र्यम् -- इत्यर्थः | तथा करोति इति मलशक्तिं प्रतिबध्नीयात् -- इत्यर्थः | ननु यद्येवं तद्दिक्कालादीनां सर्वसाधारण्यादविशिष्टमेव कालस्य माहात्म्यमिति मलशक्तिप्रतिबन्धे कतरत्तावदीश्वरस्तदपेक्षते इति न जानीमः � इत्युक्तम् ᳚कीदृशोऽसौ कालः इति वक्तव्यम्᳚ -- इति || ७४ || तत्र हि सामान्येन तदपेक्षायां युगपदेव सर्वे मुच्येरन् विशेषश्चात्रान्वेष्यमाणो न लभ्यते -- इत्याह � किं चानादिरयं भोगः कर्मानादि सपुद्गलम् | ततश्च भोगपर्यायकालः सर्वस्य निःसमः || १३-७५ ||
SK
ततः कर्मतद्भोगपुद्गलादीनामनादित्वस्याविशेषाद् भोगक्रमे सर्वस्य पुद्गलस्य निःशेषेण दूरमपि विप्रकर्षं परिहृत्य समः कालः स्यात् येन वृक्षफलानामिवर्तौ मलशक्तीनां सममेव सामनन्तर्येण वा पाक उदियादिति सर्वस्य मुक्तावविशेष एव प्रसजेत् || ७५ || स्यात् पुनरयं विशेषो यदि कर्मादित्रितयान्यतरस्य कस्यचिदादिमत्त्वं भवेत् यदवधिकतयाऽनेन कल्पं भुक्तमनेन तु कल्पद्वयम् अत एव च चिरक्षिप्रलक्षणात्प्रतिनियताद्भोगक्रमात्कर्मणामपि साम्यम् -- इत्याह -- आदिमत्त्वे हि कस्यापि वर्गादस्माद्भवेदियम् | वैचित्री भुक्तमेतेन कल्पमेतेन तु द्वयम् || १३-७६ || इयतो भोगपर्यायात्स्यात्साम्यं कर्मणामिति | न चैतद्भवतामिति सर्वथा सावद्यमेवैतत् || ७६ || एवं च न केवलमियदेव अवद्यं यावदन्यदपि -- इत्याह -- अनेन नयबीजेन मन्ये वैचित्र्यकारणम् || १३-७७ || जगतः कर्म यत्कॢप्तं तत्तथा नावकल्पते | अनेन इति समनन्तरोक्तेन कर्माद्यनादित्वाविशेषलक्षणेन -- इत्यर्थः | मन्ये इति संभावनायाम् || ७७ || तदनवकल्पनमेव उपपादयति -- अनादिमलसंच्छन्ना अणवो दृक्क्रियात्मना || १३-७८ || सर्वे तुल्याः कथं चित्रां श्रिताः कर्मपरम्पराम् | इह अणूनामनादिमलसंच्छन्नत्वात् अविशेष एव सर्वथा -- इति कर्मपरम्पराश्रयणेऽपि अविशिष्टत्वमेव एषां न्याय्यं तत्कर्मण एव वैचित्र्यं नास्ति -- इति कथं तज्जगद्वैचित्र्येऽपि निमित्ततामियात् || ७८ || अथात्र भोगलोलिका चेन्निमित्तं तत्तस्या अपि कुतस्त्यं वैचित्र्यम् -- इत्याह -- भोगलोलिकया चेत्सा विचित्रेति कुतो ननु || १३-७९ || सेति भोगलोलिका | ननु इति आक्षेपे || ७९ || अथ भोगलोलिकाया अपि वैचित्र्ये कर्मवासनावैचित्र्यं निमित्तमित्युच्यते, तत्पुनरपि स एव दोषस्तद्वैचित्र्येऽपि किं निमित्तमिति -- इत्याह -- अनादि कर्मसंस्कारवैचित्र्यादिति चेत्पुनः | वाच्यं तदेव वैचित्र्यं कुतो नियतिरागयोः || १३-८० || महिमा चेदयं तौ किं नासमञ्जस्यभागिनौ |
SK
अनादीति क्रियाविशेषणम् | तेन अनादि कृत्वा कर्मवासनावैचित्र्यात्सा विचित्रा -- इत्यर्थः | एवं कर्मसंस्कारस्तावत्कर्माहित इति तद्वैचित्र्ये कर्मवैचित्र्यं निमित्तम्, तत्रापि भोगलोलिका, तत्रापि कर्मसंस्कारवैचित्र्यम्, तत्रापि कर्मवैचित्र्यम् -- इत्येवं विपरिवर्तमानो मूलक्षतिकरोऽयं दुरतिक्रमश्चक्रकपातः | अथोच्यते नैतद्भोगलोलिकाया वैचित्र्ये निमित्तं किन्तु नियतिरागयोरिदं विजृम्भितम् -- इत्याह -- नियतीत्यादि | रागस्य हि किञ्चिन्मे भूयादिति भोगलोलिकैव रूपम् | इदमेव इति तु नियतेः रूपम् | ततस्तावेव भोगलोलिकवैचित्र्यकारिणाविति | एतदपि न -- इत्याह -- तावित्यादि | नियतिर्हि तत्र तत्र विषयवैचित्र्येणैव नियच्छति, रागो वा रञ्जयति -- इति तद्वैचित्र्येऽपि अन्यनिमित्तमन्वेष्यम्, तत्राप्यन्यदिति मूलक्षतिकारिणी व्यक्तमनवस्थाऽऽपतेत् || ८० || अथ ईश्वरेच्छा कर्मवैचित्र्ये निमित्तमित्युच्यते, तदपि न -- इत्याह -- ईश्वरेच्छानपेक्षा तु भेदहेतुर्न कल्पते || १३-८१ || सा न तावत्सापेक्षा मलकर्मातिरिक्तस्य अपेक्षणीयस्य अभावात् कर्मवैचित्र्ये च कार्ये तदयोगात्, नापि अनपेक्षा, ईश्वरस्य वीतरागद्वेषत्वात् सर्वान्प्रति अविशिष्टतया तद्वैचित्र्यानुपपत्तेः || ८१ || ननु न कदाचिदनीदृशं जगदित्यादिवेदनादेव कर्मवैचित्र्यमेवमवस्थितम् -- इति किमनया निमित्तपर्येषणया इत्याह -- अथानादित्वमात्रेण युक्तिहीनेन साध्यते | व्यवस्थेयमलं तर्हि मलेनास्तु वृथामुना || १३-८२ || एवं तर्हि अनादि विचित्रं कर्मैव सर्वव्यवस्थासहिष्णु भविष्यति -- इति किं नाम अनेन व्यर्थेन मलेन अभ्युपगतेन इत्युक्तम् -- ᳚अलं तर्हि मलेनास्तु वृथाऽमुना᳚ इति || ८२ || एतदेव उपपादयति � तथाहि कर्म तावन्नो यावन्माया न पुद्गले | व्याप्रियेत न चाहेतुस्तद्वृत्तिस्तन्मितो मलः || १३-८३ || इत्थं च कल्पिते मायाकार्ये कर्मणि हेतुताम् | अनादि कर्म चेद्गच्छेत्किं मलस्योपकल्पनम् || १३-८४ ||
SK
इह तावदेवंविधा व्यवस्था यदात्मनां प्रलयकालव्यवस्थायां यावन्मायीयो मलो न व्यापृतः तावत्कार्म एव न संभवेत्, अन्यथा हि एषां पुनः कलादियोगो न घटेत | न चास्याहेतुकत्वं न्याय्यं, नित्यं सत्त्वस्यासत्त्वस्य वा प्राप्तेः | तस्मात्कार्ममलान्यथानुपपत्त्या तद्धेतुराणवाख्यो मलोऽनुमित इति | यदागमोऽपि -- ङिमित्तमभिलाषाख्यं नैमित्तिकमतः परम् |᳚ इति | एवमपि मायापदवर्तिनि कर्मणि यदि अनादितद्वासनात्मकं कर्मैव हेतुतयाऽभ्युपगम्यते तद् व्यर्थं मलस्योपकल्पनमिति || ८४ || यदि नाम चैतदभ्युपगम्यते माभून्मल इति, तन्न काचन भवन्मते भोगापवर्गभूता कर्मव्यवस्था सिद्ध्येत् -- इत्याह -- ननु माभून्मलस्तर्हि चित्राकारेषु कर्मसु | सन्तत्यावर्तमानेषु व्यवस्था न प्रकल्पते || १३-८५ || असति हि मले विचित्राकारतया सन्तन्यमानमपि कर्म जीवन्मुक्तमिव सर्वं प्रति अकिञ्चित्करमेव -- इति नास्य भोगहेतुतयाऽवस्थानमवकल्पते, नापि अपवर्गहेतुतया | सा हि साम्ये सत्यस्य घटते | तच्च विचित्राकारत्वादस्य न कदाचिदपि स्यात् | यत् आदौ मध्ये च विचित्रत्वात् साम्यं न सहते तत्कथमन्तेऽपि तथा भवेत् -- इति भावः || ८५ || तदाह � आदौ मध्ये च चित्रत्वात्कर्मणां न यथा समः | आत्माकारोऽपि कोऽप्येष भाविकाले तथा भवेत् || १३-८६ || एकः अपिशब्दो भिन्नक्रमः, तेन भाविकालेऽपीति | एष इति कोऽपि आत्माकारः भवेत् -- इति न समः | इदमत्र आकूतम्, -- भवतां हि मले सति कर्म यस्यापि साम्ये तत्परिपाकोऽपवर्गनिमित्तमिति मतम् | यत्र च मल एव नास्ति तत्र कः कर्मार्थो यदपेक्षयापि एवं स्यादिति || ८६ || एवमुच्छिन्न एव भवदभिमतो बन्धमोक्षविभागः, कृतं च शास्त्राडम्बरेण -- इत्याह -- इत्थमुच्छिन्न एवायं बन्धमोक्षादिकः क्रमः | अज्ञानाद् बन्धनं मोक्षो ज्ञानादिति परीक्षितम् || १३-८७ || ननु आस्तामेतत्, अभ्युपगम्यापि मलं कर्मसाम्यं न सङ्गच्छते -- इत्याह -- विरोधे स्वफले चैते कर्मणी समये क्वचित् |
SK
उदासाते यदि ततः कर्मैतत्प्रतिबुध्यताम् || १३-८८ || शिवशक्तिनिपातस्य कोऽवकाशस्तु तावता | यदि नाम कस्मिंश्चित्काले विरुद्धे कर्मणी भोगदानं प्रति रुद्धे तिष्ठतस्तदौचित्यादन्तरा कर्मान्तरमेव किञ्चित्प्रतिबुध्यताम्, तत्प्रतिक्षेपेण स्वमेव फलं दातुं समुज्जृम्भताम् | तावता कर्मप्रतिरोधमात्रेणैव पुनरकाण्डकूष्माण्डन्यायेन शिवशक्तिनिपातस्य कोऽवसरः || ८८ || एवं हि प्रलयदशायां युगपदेव अणूनां तन्निपातः प्रसजेत् तदानीं सर्वकर्मणां भोगदाने प्रतिरुद्धशक्तित्वात्, न च कर्मसाम्येऽभ्युपगम्यमाने शिवशक्तिनिपातेन कश्चिदर्थः -- इत्याह -- क्वापि काले तयोरेतदौदासीन्यं यदा ततः || १३-८९ || कालान्तरे तयोस्तद्वद्विरोधस्यानिवृत्तितः | अतश्च न फलेतान्ते ताभ्यां कर्मान्तराणि च || १३-९० || रुद्धानि प्राप्तकालत्वाद्गताभ्यामुपभोग्यताम् | एवं सदैव वार्तायां देहपाते तथैव च || १३-९१ || जाते विमोक्ष इत्यास्तां शक्तिपातादिकल्पना | यदि नाम हि कस्मिंश्चित्काले विरुद्धे कर्मणी रुद्धे तिष्ठतस्तदुत्तरकालमपि विरोधस्य अनिवृत्तत्वात् तथैव आसाते, कर्मान्तराणि च प्राप्तकालानि उपभोग्यतागमनेन प्राप्तकालत्वात् रुन्धाते -- इति कदाचिदपि किमपि कर्म न फलेत् | एवं च सदातन्यां वार्तायां क्रमादायुष्प्रदस्य कर्मणोऽप्यन्तरा क्षैण्यात् देहपातोऽवश्यं भवेत्, -- इति अयत्नत एव मोक्षः सिद्ध्येत् | तत् ᳚अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् |᳚ इति भङ्ग्या व्यर्थं शक्तिपातपरिकल्पनमिति || ९१ || अथोच्यते रुद्धे सती कर्मणी सदैव कर्मान्तरमपि रुन्धाते, किन्तु उत्तरकालं कदाचिदपि तत्फलेत् इति | तत्प्रथम एव क्षणे तत्फलतु नियतनिमित्तावचनात् किं कर्मान्तरप्रतीक्षणेन -- इत्याह -- अथोदासीनतत्कर्मद्वययोगक्षणान्तरे || १३-९२ || कर्मान्तरं फलं सूते तत्क्षणेऽपि तथा न किम् |
SK
अथ न तत्र कर्मान्तरं किञ्चित्फलेत्, अपि तु ते एव प्रतिबन्धवर्जिते रुद्धे कर्मणी फलत इतीष्यते, तत्तयोः प्रतिबन्धवर्जनमेव किंकृतम् -- इत्याह -- क्षणान्तरेऽथ ते एव प्रतिबन्धविवर्जिते || १३-९३ || फलतः प्रतिबन्धस्य वर्जनं किंकृतं तयोः | तदपि तयोः किं स्वतः परतो वा | स्वतश्चेत् आदावेव अस्तु, परतश्चेत्कुत इत्यनवधारणादास्तामेतत् || ९३ || ननु कर्मसाम्यमपेक्ष्य परमेश्वरः शक्तिपातं कुर्यादित्युक्तम्, न च तदुभयमपि स्वयमविचित्रत्वात् तीव्रमध्यमन्दादिभेदभिन्ने शक्तिपातवैचित्र्ये निमित्तं भवितुमर्हति -- इत्याह -- कर्मसाम्यं स्वरूपेण न च तत्तारतम्यभाक् || १३-९४ || न शिवेच्छेति तत्कार्ये शक्तिपाते न तद्भवेत् | न च तारतम्यभागिति, साम्यात्मकत्वात् नित्यत्वाच्च | तदिति तारतम्यम् | कारणगुणप्रक्रमेण हि कार्येण भाव्यम् -- इति भावः || ९४ || एवमनुग्रहवन्निग्रहोऽपि भवन्मते न घटते -- इत्याह -- तिरोभावश्च नामायं स कस्मादुद्भवेत्पुनः || १३-९५ || कर्मसाम्येन यत्कृत्यं प्रागेवैतत्कृतं किल | इयदेव हि कर्मसाम्यस्य कृत्यं यत्तदपेक्ष्य अणूनामीश्वरः शक्तिपातं कुर्यादिति | तच्च अनेन प्रागेव कृतमिति पुनस्तदनन्तरमपि तिरोभावो नाम कस्मादुद्भवेत्, तदुद्भवे न किञ्चिन्निमित्तं उत्पश्याम इत्यर्थः | न तावन्मलम् तस्य परिपक्वत्वात् | न हि तत् कृतकार्यत्वात् परिपक्वं सत् पुनरपि पुंबन्धकतया परिणमेत् | एवं हि यत्नसंस्थापिताऽपि शास्त्रव्यवस्था विसंस्थुलतां यायात् | नापि कर्ममलसहकृतस्यैवास्य भोगदानं प्रति सामर्थ्यम्, नापि तत्साम्यं तस्य शक्तिपातमात्रहेतुतया चरितार्थत्वात् || ९५ || ननु किमेभिः, ईश्वरेच्छैवास्य हेतुरुच्यताम् -- इत्याह -- हेतुत्वे चेश्वरेच्छाया वाच्यं पूर्ववदेव तु || १३-९६ ||
SK
तत्र हि न तावदियं निरपेक्षा तद्धेतुरित्युक्तं प्राग्बहुशः | नापि सापेक्षा मलकर्माभ्यामन्यस्य अपेक्षणीयस्य अभावात् तिरोभावे च कार्ये तदयोगात् | तत्पराहतं भेदवादिनामीश्वरः पञ्चकृत्यकारीति || ९६ || अनयैव भङ्ग्या च किमीश्वरेच्छा नित्यहेतुरेवं कुर्यात् उत अनित्यहेतुः -- इत्यादिकल्पनान्तराण्यपि परिकल्पितानि निरस्तानि -- इत्याह -- एतेनान्येऽपि येऽपेक्ष्या ईशेच्छायां प्रकल्पिताः | ध्वस्तास्तेऽपि हि नित्यान्यहेत्वहेत्वादिदूषणात् || १३-९७ || तत्र अहेतुत्वे नित्यं सत्त्वमसत्त्वं वेति दोषः | नित्यहेतुत्वे नित्यं सत्त्वमेव | अनित्यहेतुत्वे च को नामायमनित्योऽन्यो हेतुरिति तदनवधारणान्न किञ्चित्सिद्ध्येदिति || ९७ || अथोच्यते वैराग्याद्यपेक्ष्य परमेश्वरः शक्तिपातं विदध्यादिति, तदपि न -- इत्याह -- वैराग्यं भोगवैरस्यं धर्मः कोऽपि विवेकिता | सत्सङ्गः परमेशानपूजाद्यभ्यासनित्यता || १३-९८ || आपत्प्राप्तिस्तन्निरीक्षा देहे किञ्चिच्च लक्षणम् | शास्त्रसेवा भोगसङ्घपूर्णता ज्ञानमैश्वरम् || १३-९९ || इत्यपेक्ष्यं यदीशस्य दूष्यमेतच्च पूर्ववत् | एतच्च पूर्ववद्दूष्यमिति, यदपेक्षणीयस्य वैराग्यादेरहेतुत्वे नित्यं सत्त्वमसत्त्वं वेति दोषः | सहेतुत्वे च किं नित्यो हेतुः कादाचित्को वा | तत्राद्ये नित्यं सत्त्वमेव, इतरत्र च कोऽन्यः कादाचित्को हेतुः | न तावदीश्वरेच्छा, तथात्वे ह्यन्योन्याश्रयः | नापि मलपरिपाकः कर्मसाम्यं वा | एवं हि शक्तिपाते कार्ये तदेव ईश्वरोक्तवदपेक्षणीयमस्तु, किमेभिरपि अन्तरापरिकल्पितैः | न च इतरदपि कारणं किञ्चिद्वक्तुं शक्यं तस्यापि नियमायोगात् || ९९ || ननु इह वैराग्यादयस्तावच्छक्तिपातवदव्यभिचरितसहभावाः सर्वत्र दृश्यन्त इत्येतावता इदं संभाव्यते यन्नूनं वैराग्याद्यपेक्ष्य परमेश्वरः शक्तिपातं विदध्यादिति, अन्यथा हि कथमेषामेतत्सहभावो भवेत्, तत्र पुरःस्थितानां वैराग्यादीनां ᳚कार्यं चेदुपलभ्येत किं कारणपरीक्षया |᳚ इति न्यायेन किमेवं कारणान्वेषणेन -- इत्याह --
SK
व्यभिचारश्च सामस्त्यव्यस्तत्वाभ्यां स्वरूपतः || १३-१०० || अन्योन्यानुप्रवेशश्चानुपपत्तिश्च भूयसी | इह शक्तिपाते कार्ये किमीश्वरेण वैराग्यादयः समस्ता अपेक्ष्याः उत व्यस्ताः, उभयथाऽपि व्यभिचारः | तत्र न तावत्समस्ताः, शक्तिपातवतां तथारूपत्वादृष्टेः | नापि व्यस्ताः, बौद्धादीनां वैराग्येऽपि शक्तिपाताभावात् | वैराग्यादयश्च परस्परान्तर्भावादियन्तोऽपि न संभवन्ति -- इत्याह -- श्वरूपतोऽन्योन्याश्रयानुप्रवेशश्च᳚ इति | यतः ᳚वैराग्यं नाम भोगेभ्यो वैमुख्यमुच्यते इति |᳚ ततः पृथग्भोगवैरस्यं न वाच्यं तत्रैवास्य अन्तर्भावात् | भूयसी च इयमनुपपत्तिर्यदियदपेक्षते परमेश्वर इति | किञ्चिन्मात्रमपेक्षमाणस्यापि हि स्वातन्त्र्यं खण्ड्येत, कि पुनरियद्वस्तुजातं यत्रैकतराभावेऽपि न किञ्चित् सिद्ध्येदिति | तद्धिगिदमैश्वर्यं यत्स्वेच्छयैव न किञ्चिदपि कर्तुं पार्यत इति | यदाहुः -- ᳚राज्यमिव मन्त्रिपरवशमैश्वर्यं क्वोपयुज्यते तादृक् | यात्रापरनिरपेक्षं रुच्यैव न रच्यते किञ्चित् ||᳚ इति || १०० || तद्भेदवादिनां कस्तावच्छक्तिपातविधौ क्रम इति न जानीमः -- इत्याह -- तस्मान्न मन्महे कोऽयं शक्तिपातविधेः क्रमः || १३-१०१ || एवं शक्तिपातविधौ परकीयमतमनुवादपुरःसरं निराकृत्य, स्वमतं दर्शयितुमाह -- इत्थं भ्रन्तिविषावेशमूर्च्छानिर्मोकदायिनीम् | श्रीशंभुवदनोद्गीर्णां वच्म्यागममहौषधीम् || १३-१०२ || तदेव प्रकटयति � देवः स्वतन्त्रश्चिद्रूपः प्रकाशात्मा स्वभावतः | रूपप्रच्छादनक्रीडायोगादणुरनेककः || १३-१०३ || इह एक एव परमेश्वरश्चिद्रूपः सन् प्रकाशात्मा, न तु सूर्यादिप्रकाशान्तरवत् जडः | अत एव स्वतन्त्रोऽत एव निखिलजगल्लयोदयक्रीडाकारित्वात् देवः स्वभावत एव न तु किञ्चिदपि अपेक्ष्य | परिपूर्णदृक्क्रियास्वभावस्य एकस्यैव आत्मनो गोपनेन संकुचितदृक्क्रियात्माणुरनेककः परिगृहीतकृत्रिमानेकरूपः संवृत्तो येनायमियतः संसारस्य समुल्लासः || १०३ ||
SK
ननु एतावता कः संसारार्थः ? -- इत्याशङ्क्याह -- स स्वयं कल्पिताकारविकल्पात्मकर्मभिः | बध्नात्यात्मानमेवेह स्वातन्त्र्यादिति वर्णितम् || १३-१०४ || इह हि स एव स्वेच्छावशात्परिकल्पिततत्तदाकारैरिदं कार्यम् इदमकार्यम् इत्येवंविधविविधविकल्पमात्रपरमार्थैः कर्मभिः ᳚तत्रापि कार्ममेवैकं मुख्यं संसारकारणम् |᳚ (रि.प्र. ३ अ. १० श्लो.) इत्युक्त्या मुख्यया वृत्त्या कार्मेण मलेन स्वस्वातन्त्र्यादात्मानं बध्नाति तत्तज्जात्यायुर्भोगवैचित्र्येण संसरति � इति नवमाह्निकादावुक्तप्रायम् -- इति किं पुनस्तत्प्रपञ्चनेन -- इत्यर्थः || १०४ || न केवलं स्वातन्त्र्यादात्मानं बध्नात्येव यावन्मोचयत्यपि -- इत्याह -- स्वातन्त्र्यमहिमैवायं देवस्य यदसौ पुनः | स्वं रूपं परिशुद्धं सत्स्पृशत्यप्यणुतामयः || १३-१०५ || इदमपि हि नाम अस्य स्वातन्त्र्यविजृम्भितमेव यदणुरूपोऽपि सन्नसौ प्रत्यावृत्त्या स्वयं परिशुद्धं रूपम् स्पृशति, गोपितमपि पूर्णदृक्क्रियास्वभावमात्मानं प्रकटयति -- इत्यर्थः || १०५ || ननु यद्येवं तत्कस्मात्कस्मिंश्चिदेव पुंस्यसावेवमात्मानमभिव्यनक्ति, किमन्यत्र अस्य प्रद्वेषः? -- इत्याशङ्कां निरवकाशयति -- न वाच्यं तु कथं नाम कस्मिंश्चित्पुंस्यसौ तथा | न हि नाम पुमान्कश्चिद्यस्मिन्पर्यनुयुज्यते || १३-१०६ || न हि अस्मद्दर्शने भेदवादिवत् तदतिरिक्तः कश्चित् पुमान् नाम संभवेत् यत्रायं पर्यनुयोगः स्यात् सर्वानेव मोचयतु मा वा कञ्चिदिति | यावता हि देव एवासौ स्वातन्त्र्यात् शुद्धाशुद्धात्मतया प्रथते यदस्य तादृशमेव स्वं रूपमिति || १०६ || ननु भवतु नामैवम्, तथापि भेददशाधिशायित्वेऽस्य किं नायं पर्यनुयोग इति | ननु एवं चेन्मन्यसे कः पर्यनुयोगार्थ ? -- इत्याह -- देव एव तथाऽसौ चेत् स्वरूपं चास्य तादृशम् | तादृक्प्रथास्वभावस्य स्वभावे काऽनुयोज्यता || १३-१०७ || काऽनुयोज्यतेति न काचित् -- इत्यर्थः | अपर्यनुयोज्यो हि भावस्वभावः -- इति भावः || १०७ || न चैतदस्माभिरेवोक्तम् -- इत्याह --
SK
आहास्मत्परमेष्ठी च शिवदृष्टौ गुरूत्तमः | एतदेवाह � पञ्चप्रकारकृत्योक्तिशिवत्वान्निजकर्मणे || १३-१०८ || प्रवृत्तस्य निमित्तानामपरेषां क्व मार्गणम् | सृष्ट्यादिपञ्चप्रकारं कृत्यं यस्य तस्योक्तिः पञ्चविधकृत्योऽयमिति एवंस्वभावं यच्छिवत्वं तस्मात्, अनुग्रहाद्यात्मने निजकर्मणे प्रवृत्तस्य अस्य देवस्य अपरेषां रागद्वेषादीनां निमित्तानां क्व मार्गणं निमित्तान्वेषणप्रसङ्गस्यैव अभावात्, कथमेवमात्मस्वरूपाभिव्यक्तिलक्षणमनुग्रहं विदध्यादिति न पर्यनुयोज्यम् || ननु कर्मणि तत्फलोपभोगे वा कर्तव्ये निमित्तमन्तरेण पुंसः प्रवृत्तिरेव न भवेत्, तत्किमेतदुक्तमपरेषां निमित्तानां क्व मार्गणमिति? -- इत्याशङ्क्याह -- छन्नस्वरूपताभासे पुंसि यद्यादृशं फलम् || १३-१०९ || तत्राणोः सत एवास्ति स्वातन्त्र्यं कर्मतो हि तत् | परिगृहीतसङ्कोचे हि पुंसि तीव्रमन्दादिरूपम् यत्सुखाद्यात्म फलं, तत्र भोक्तव्ये यत्तस्य भुजिक्रियाविषयं स्वातन्त्र्यं कर्तृत्वं तदणोः सत एव | यतस्तत्कर्मजं न तु सहजमिति तत्र स्त्र्यादि निमित्तान्तरमवश्यमृग्यमन्यथा हि कथं तदनुभव एव भवेत् || ननु एवं स्वरूपगोपनात्मनि अणुत्वे सति कार्मः, ततस्तन्निमित्तकः संसार इति तयोः सर्ववादिप्रतिपन्नमनादित्वं व्याहन्येत? -- इत्याशङ्क्याह -- ईश्वरस्य च या स्वात्मतिरोधित्सा निमित्तताम् || १३-११० || साभ्येति कर्ममलयोरतोऽनादिव्यवस्थितिः | इह ईश्वरस्य स्वरूपतिरोधित्सैव तावदाणवस्य मलस्य कारणं यत्स्वरूपाख्यातिरेव तत्, अख्यातिनान्तरीयकमेव च कर्म यत्पूर्णे रूपे तद्योगो नास्ति इति मलवत्तस्यापि सैव कारणमिति मलकर्मणोरनादित्वे समानः पन्थाः, किन्तु उत्पन्नं सत् कर्ममलमपि अपेक्षते | यदुक्तम् -- ङिमित्तमभिलाषाख्यं नैमित्तिकमतः परम् |᳚ इति ||
SK
ननु एवमख्यातिराणवं मलमस्तु, अभिलाषरूपता पुनरस्य कुतस्त्या, यदभिलाषक्रियायां कर्ता तावन्नास्ति तस्य गोपितस्वरूपत्वात् | नापि तत् कर्म अभिलषणीयस्य इदानीन्तनक्षणं यावदनुल्लसितत्वात् | तत्कथं ङिमित्तमभिलाषाख्यम्᳚ इत्यादिरागमः प्रमाणतां यायात् ? -- इत्याशङ्क्याह -- तिरोधिः पूर्णरूपस्यापूर्णत्वं तच्च पूरणम् || १३-१११ || प्रति भिन्नेन भावेन स्पृहातो लोलिका मलः | इह खलु पूर्णस्य रूपस्य तिरोभावो नाम अपूर्णत्वमुच्यते | तच्च भिन्नेन भावेन पूरणं प्रति स्पृहा योग्यतया तदौन्मुख्यमात्रमतो लोलिका इति अभिलाष इति च मलः सर्वशास्त्रेषु उद्धोष्यते इति युक्तमुक्तम् -- ᳚.................. अभिलाषो मलोऽत्र तु |᳚ (स्व. ४|१०५) इति || ननु भेदवादिवन्मलादीनामीश्वरस्य च ᳚यथानादिप्रवृत्तोऽयं घोरः संसारसागरः | शिवोऽपि हि तथानादिः संसारान्मोचकः स्मृतः ||᳚ इत्यादिनीत्या तुल्यकक्ष्यतयैव अनादित्वमुच्यतां किमेवं प्रक्रियागौरवकारिणा हेतुहेतुमद्भावपरिकल्पनेन? -- इत्याशंक्याह -- विशुद्धस्वप्रकाशात्मशिवरूपतया विना || १३-११२ || न किञ्चिद्युज्यते तेन हेतुरत्र महेश्वरः | इह मलादीनां सत्तान्यथानुपपत्त्या विशुद्धस्वप्रकाशात्ममहेश्वरसंविद्विश्रान्तिरेव तत्त्वमित्यत्र महेश्वर एव हेतुः, यत्प्राक् ᳚यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते |᳚ (८|३) इत्युक्तम् || ननु यद्येवं तत्किमेभिरन्तर्गडुप्रायैर्मलादिभिः, ईश्वरेच्छैव विश्वसर्गादौ निरपेक्षा निमित्तमस्तु ? -- इत्याशङ्क्याह - - इत्थं सृष्टिस्थितिध्वंसत्रये मायामपेक्षते || १३-११३ || कृत्यै मलं तथा कर्म शिवेच्छैवेति सुस्थितम् | इह खलु उक्तयुक्त्या विश्वत्र सृष्टिस्थितिसंहारलक्षणं निजं कृत्यत्रयं कर्तुमीश्वरेच्छैव प्रगल्भते, किन्तु मलं कर्म मायां चापेक्ष्य | यत्परमेश्वरः ᳚शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः |᳚
SK
इत्युक्त्या मायीयेऽध्वनि अनन्तमुखेन सृष्ट्यादि विदध्यात् | न च तस्य ईश्वरवदनन्यापेक्षमेव स्वातन्त्र्यं समस्ति इति अवश्यमस्य मलाद्यपेक्षणीयम् | अन्यथा हि कथं प्रतिपुं विचित्रं सृष्ट्यादि स्यादिति सर्वं सुस्थम् || ननु परमेश्वरः सृष्ट्यादौ कृत्यत्रये मलाद्येवमपेक्षते इत्युक्तम्, अवशिष्टे पुनरनुग्रहादौ कृत्यद्वये किं तदपेक्षते न वा? -- इत्याशङ्क्याह -- यत्तु कस्मिंश्चन शिवः स्वेन रूपेण भासते || १३-११४ || ननु इदमर्धजरतीयं यदीश्वरः किञ्चित्कृत्यं सापेक्षं कुर्यात् किञ्चिच्च निरपेक्षम्? -- इत्याशङ्क्याह -- तत्रास्य नाणुगे तावदपेक्ष्ये मलकर्मणी | अणुस्वरूपताहानौ तद्गतं हेतुतां कथम् || १३-११५ || व्रजेन्मायानपेक्षत्वमत एवोपपादयेत् | यन्नाम हि मलाद्यणुताया निमित्तं तत्कथं तदपगमे हेतुतां यायात्, नहि घटस्य घटतायां निमित्तं मृच्चक्रसूत्रादि तन्नाशे कर्परादिजनने वा कश्चिदपेक्षते -- इति युक्तमुक्तमस्यानुग्रहे कार्ये तद्विरुद्धे मलकर्मणी नापेक्ष्ये इति | एवमत्र मायानपेक्षत्वमपि उपपादनीयम् | यत्र हि मलाद्यपि नापेक्षणीयं तत्र का वार्ता तदपेक्षाया इत्युक्तं मायानपेक्षत्वमत एवोपपादयेदिति || तस्मादनुग्रहे कर्तव्ये परमेश्वरस्यैव अनन्यापेक्षं युक्तं कर्तृत्वम् - - इत्याह -- तेन शुद्धः स्वप्रकाशः शिव एवात्र कारणम् || १३-११६ || ननु यद्येवमनन्यापेक्ष एव अनुग्रहं परमेश्वरः कुर्यात्, तत्तस्य तरतमभावः कुतस्त्यः? -- इत्याशङ्क्याह -- स च स्वाच्छन्द्यमात्रेण तारतम्यप्रकाशकः | ननु स्वाच्छन्द्यमात्रेण इत्यसिद्धम्, यल्लोकधर्मिण इव कस्यचित्कर्माद्यपेक्ष्यापि पारमेश्वर्यनुग्रहशक्तिर्निपतेत्? -- इत्याशङ्क्याह -- कुलजातिवपुष्कर्मवयोऽनुष्ठानसंपदः || १३-११७ || अनपेक्ष्य शिवे भक्तिः शक्तिपातोऽफलार्थिनाम् | या फलार्थितया भक्तिः सा कर्माद्यमपेक्षते || १३-११८ || ततोऽत्र स्यात्फले भेदो नापवर्गे त्वसौ तथा |
SK
शिवे भक्तिरेव शक्तिपात इति लिङ्गलिङ्गिनोरभेदोपचारात् | भक्तिर्हि नाम अस्य प्राथमिकं चिह्नम् | यदुक्तम् -- ᳚तत्रैतत्प्रथमं चिह्नं रुद्रे भक्तिः सुनिश्चला |᳚ (मा. वि. १४|८) इति | अफलार्थिनामिति मुमुक्षूणाम् | आद्यमिति प्राक्तनम् | अपेक्ष्यमाणं च कर्म विचित्रं तत् तत्फलेऽपि वैचित्र्यमित्युक्तं ततोऽत्र स्यात्फले भेद इति | कर्मानपेक्षत्वादपवर्गे पुनरयं भेदो नास्ति -- इत्याह -- नापवर्गे त्वसौ तथेति || ननु यस्य एकैव अविभक्ता भुक्तिमुक्तिविषया भक्तिस्तस्य कथमसौ एकत्र कर्मापेक्षतेऽपरत्र न इति सङ्गच्छतां नाम? -- इत्याशङ्क्याह -- भोगापवर्गद्वितयाभिसन्धातुरपि स्फुटम् || १३-११९ || प्राग्भागेऽपेक्षते कर्म चित्रत्वान्नोत्तरे पुनः | चित्रत्वादिति | यदुक्तम् -- ᳚कार्ये विशेषमाधित्सुर्विशिष्टं कारणं स्पृशेत् | सन्ति भोगे विशेषाश्च विचित्राः कर्मसङ्गताः ||᳚ इति | उत्तर इति अपवर्गे | यदुक्तम् -- ᳚मुमुक्षोर्न विशेषाय नैःश्रेयसपथं प्रति | नहि ब्रह्मणि शंसन्ति .................. ||᳚ इति | एवमाद्यः परः शक्तिपातो द्वितीयस्त्वपर इति सिद्धम् | यद्वक्ष्यति -- ᳚इदं सारमिह ज्ञेयं परिपूर्णचिदात्मनः | प्रकाशः परमः शक्तिपातोऽवच्छेदवर्जितः || तथाविधोऽपि भोगांशावच्छेदेनोपलक्षितः | अपरः शक्तिपातोऽसौ पर्यन्ते शिवताप्रदः ||᳚ (१३|२५२) इति || ननु एवमीश्वरस्तिरोभावेऽपि किं सृष्ट्यादिवन्मलाद्यपेक्षते किमुत अनुग्रहवन्न? -- इत्याशंक्य, गर्भीकृतमलादिनैरपेक्ष्यं तत्स्वरूपमेव तावदभिधत्ते -- अनाभासितरूपोऽपि तदाभासितयेव यत् || १३-१२० || स्थित्वा मन्त्रादि संगृह्य त्यजेत्सोऽस्य तिरोभवः |
SK
कश्चिद्धि वस्तुतोऽनुग्रहशक्तिपाताभावात् अनाभासितरूपोऽपि परमेश्वरेच्छयैव परविप्रलम्भाय दाम्भिकतया भक्तिश्रद्धादिदर्शनेन आभासितरूपतयेव स्थित्वा शैवशास्त्रोक्तं मन्त्रादि सम्यग्दीक्षादिपूर्वं गृहीत्वा पश्चादादराभावात् यत्त्यजेत् सोऽस्य तिरोभवः | तिरोहितस्यापि स्वस्वरूपस्य गण्डोपरिपिटकोद्भेदन्यायेनाभिधानं येनास्य कदाचिदपि संसारान्निःसरणं न स्यात् | यदुक्तमनेनैवान्यत्र -- ᳚कश्चित्त्वीशेच्छया सम्यगनाश्वस्तेन चेतसा | निन्दन्नेव भजेच्चर्यां स तिरोहित उच्यते || निन्द्यमानमहामन्त्रविद्याचर्यादिकोपजम् | पाप्म तं पातयेद् घोरे यातनाधाम्नि सर्वथा ||᳚ (तं.वढा.३|७३) इति || इदानीम् ᳚आगममहौषधीं वच्मि᳚ इत्युपक्रान्तं निर्वाहयितुमाह -- श्रीसारशास्त्रे भगवान्वस्त्वेतत्समभाषत || १३-१२१ || एतद्वस्तु इति अस्मदभिमतशक्तिपातविधिलक्षणम् || १२१ || तदेवाह -- धर्माधर्मात्मकैर्भावैरनेकैर्वेष्टयेत्स्वयम् | असन्देहं स्वमात्मानमवीच्यादिशिवान्तके || १३-१२२ || तद्वच्छक्तिसमूहेन स एव तु विवेष्टयेत् | स्वयं बध्नाति देवेशः स्वयं चैव विमुञ्चति || १३-१२३ || स्वयं भोक्ता स्वयं ज्ञाता स्वयं चैवोपलक्षयेत् | स्वयं भुक्तिश्च मुक्तिश्च स्वयं देवी स्वयं प्रभुः || १३-१२४ || स्वयमेकाक्षरा चैव यथोष्मा कृष्णवर्त्मनः | अनेकैर्धर्माधर्मात्मकैर्भावैरिति मुख्यतया संसारकारणेन विचित्रेण कार्मेण मलेन -- इत्यर्थः | तद्वदिति स्वयमेव स्वमात्मानं, शक्तिसमूहेन इति वामाज्येष्ठादिरूपेण, विवेष्टयेदिति अधितिष्ठेत् | अत एवोक्तं -- स्वयमेव बध्नाति इति स्वयमेव विमुञ्चति च इति | अत एवोक्तं -- भोक्तेति ज्ञातेति च यद्भोग एव बन्धो ज्ञातृत्वमेव च मोक्ष इति | न चास्य तावतिरिक्तावित्युक्तं स्वयं भुक्तिश्च मुक्तिश्चेति | अत एव सर्वमिदं विश्वं स्वात्ममयतयैव पश्येदित्याह -- स्वयमेव उप समीपे लक्षयेदिति | देवीति -- शक्तिः | एकाक्षेरति -- पराभट्टारिका | एतदेव व्यनक्ति -- यथोष्मा कृष्णवर्त्मन इति | यथोच्यते --
SK
᳚वह्नेरूष्मेव विज्ञेया ............................ |᳚ (नेट.१|२६) इति || एतदेव तात्पर्यतो व्याचष्टे -- वस्तूक्तमत्र स्वातन्त्र्यात्स्वात्मरूपप्रकाशनम् || १३-१२५ || अत्र स्वात्मन एव स्वातन्त्र्याद् बद्धतयेव मुक्ततयापि प्रकाशनं नाम वस्तूक्तम् | अयमेव तात्त्विकोऽर्थः प्रतिपादितः -- इत्यर्थः || १२५ || न केवलमेतदत्रैवोक्तं यावदन्यत्रापि -- इत्याह -- श्रीमन्निशाकुलेऽप्युक्तं मिथ्याभावितचेतसः | मलमायाविचारेण क्लिश्यन्ते स्वल्पबुद्धयः || १३-१२६ || स्फटिकोपलगो रेणुः किं तस्य कुरुतां प्रिये | व्योम्नीव नीलं हि मलं मलशङ्कां ततस्त्यजेत् || १३-१२७ || क्लिश्यन्त इति -- वृथा क्लेशमनुभवन्ति -- इत्यर्थः | यथा स्फटिकोपलगतो रेणुर्व्योमगतो वा नीलिमा तयोर्न किञ्चिदपि वस्तुतो मलिनत्वादि कर्तुं शक्नुतामेवं शुद्धबुद्धस्वभावस्य आत्मनः स्वेच्छामात्रपरिकल्पिते मलकर्मणी, इति तच्छङ्कां त्यजेत् वस्तुतः किञ्चिदेतन्नास्ति -- इत्यर्थः | यदुक्तं तत्र -- ङ मलो मलिनः कश्चिद्विद्यते वस्तुतः प्रिये | स्वमनोमलिनत्वेन मलमात्मनि कथ्यते || मलमायाविचारेण क्लिश्यन्ते स्वल्पबुद्धयः | स्फटिकोपलगो रेणुः किं तस्य कुरुतां प्रिये || अज्ञानमात्रं तु मलं ज्ञानं शुद्धं स्वभावतः | शुद्धस्वभावबोधस्य न बन्धः स्यात्कदाचन || आकाशे नीलिमा यद्वन्मलमेवं चिदात्मनः |᳚ इति || १२७ || पूर्वाचार्यैरपि एतदेवोक्तम् -- इत्याह -- श्रीमान्विद्यागुरुश्चाह प्रमाणस्तुतिदर्शने | तदेवाह � धर्माधर्मव्याप्तिविनाशान्तरकाले शक्तेः पातो गाहनिकैर्यः प्रतिपन्नः || १३-१२८ || तं स्वेच्छातः संगिरमाणाः स्तवकाद्याः स्वातन्त्र्यं तत्त्वय्यनपेक्षं कथयेयुः |
SK
इह गाहनिकैर्गहनं मायामेव विश्वकारणत्वेन अभिदधद्भिर्भेदवादिभिर्धर्माधर्मयोः कर्मणोर्या व्याप्तिः कार्यजन्मने प्रसरणं तस्या विनाशः प्रतिबन्धस्तदात्मन्यन्तरे साम्यलक्षणे काले तदपेक्षो यः शक्तिपातः प्रतिपन्नस्तमेव स्तवकाद्याः स्तोत्रकारादयः स्वेच्छामात्रेणैव प्रतिजानानास्त्वद्विषयमनन्यापेक्षं तत्स्वातन्त्र्यमावेदयन्ति -- इत्यर्थः || १२८ || एवमियता मतादीनां तत्त्वं विवेचितम्, इदानीं पुनः शक्तिपातविचित्रतामभिधातुमाह -- तारतम्यप्रकाशो यस्तीव्रमध्यममन्दताः || १३-१२९ || ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः | यो नाम शक्तिपातस्य तारतम्यप्रकाश उक्तस्ता एव तीव्रमध्यमन्दताः प्रत्येकं त्रैधमास्थिताः | तीव्रतीव्रादिरूपतया अस्य नव प्रकाराः -- इत्यर्थः || एतदेव फलतो दर्शयति -- तीव्रतीव्रः शक्तिपातो देहपातवशात्स्वयम् || १३-१३० || मोक्षप्रदस्तदैवान्यकाले वा तारतम्यतः | मध्यतीव्रात्पुनः सर्वमज्ञानं विनिवर्तते || १३-१३१ || स्वयमेव यतो वेत्ति बन्धमोक्षतयात्मताम् | तत्प्रातिभं महाज्ञानं शास्त्राचार्यानपेक्षि यत् || १३-१३२ || स्वयमिति प्रसिद्धदेहपातनिमित्तमन्तरेण -- इत्यर्थः | अन्यकाल इति आसन्ने विप्रकृष्टे वा | अनेन च अस्य तरतमभावेन त्रैविध्यसूचनादपि प्रत्येकं तथात्वे सप्तविंशतिर्भेदा भवन्ति � इति कटाक्षितम् | पुनः शब्दो व्यतिरेके | तेनात्र पूर्ववन्न देहस्य निवृत्तिः किन्तु अज्ञानस्य | स्वयमेव इति न तु गुरुतः शास्त्रतो वा | यतोऽस्य स्वप्रतिभात एव एवं ज्ञानमुदियादत एव अस्य महत्त्वे शास्त्राचार्यानपेक्षित्वं हेतुः || १३२ || ननु आत्मानं प्रत्येव किं बन्धमोक्षतयात्मतामसौ वेत्ति उत परं प्रत्यपि? -- इत्याशङ्क्याह -- प्रतिभाचन्द्रिकाशान्तध्वान्तश्चाचार्यचन्द्रमाः | तमस्तापौ हन्ति दृशं विस्फार्यानन्दनिर्भराम् || १३-१३३ || तमस्तापाविति शैष्यौ || १३३ ||
SK
ननु एवंविधप्रतिभाभाजनभूतोऽपि को नामासाविति निरूप्यम् | न तावच्छासिता, व्युत्पत्त्यासादनसमये तत्त्वाभावात् | आसादितव्युत्पत्तिर्हि परान्व्युत्पादयन् कामं शासितेत्युच्येत | नापि शिष्यः, तस्य पराधेयव्युत्पत्तिकत्वात् | तत्कतरस्तावदयमिति न जानीमः ? -- इत्याशङ्क्याह -- स शिष्टः कर्मकर्तृत्वाच्छिष्योऽन्यः कर्मभावतः | शिष्यत इति स्वप्रतिभाधेयव्युत्पत्तिकत्वेन स्वप्रतिभां प्रति कर्मणोऽपि परं प्रति शास्यत्वाभावेन स्वातन्त्र्यविवक्षया कर्तृत्वात् ᳚लूयते केदारः᳚ इतिवत् कर्मवद्भावात् कर्मणि क्ते शिष्ट इति | अन्य इत्येवंप्रतिभाभाजः || स चायं सर्वशास्त्रेषु स्वयं गुर्वाद्युपदेशनैरपेक्ष्येण भवनात् स्वयंभूः -- इत्याह -- शिष्टः सर्वत्र च स्मार्तपदकालकुलादिषु || १३४ || उक्तः स्वयंभूः शास्त्रार्थप्रतिभापरिनिष्ठितः | तदुक्तं प्राक् � श तावत्कस्यचित्तर्कः स्वयमेव प्रवर्तते | स च सांसिद्धिकः शास्त्रे प्रोक्तः स्वप्रत्ययात्मकः ||᳚ (४|४०) इति || ननु स्वयमेव चेत्प्रतिभायाः समुल्लासस्तत्कस्यचिदेव इति कुतस्त्योऽयं नियमः | बाढं, न नियम -- इत्याह � यन्मूलं शासनं तेन न रिक्तः कोऽपि जन्तुकः || १३-१३५ || व्युत्पत्तेर्हि प्रतिभात्मकमेव वस्तु मूलम् | न च तेन प्रतिभात्मना वस्तुना तिर्यक्प्रायोऽपि कश्चिज्जन्तुः स्वोचितव्यापारनैपुणान्यथानुपपत्त्या रिक्तः | अत एव ᳚व्यवहाराः प्रतायन्ते तिरश्चामपि यद्वशात् |᳚ इत्युक्तम् || १३५ || ननु यद्येवं तत्कस्मादविशिष्टैव सर्वेषां प्रतिभा नोल्लसेत्? -- इत्याशङ्क्याह -- तत्रापि तारतम्योत्थमानन्त्यं दार्ढ्यकम्प्रते | एवं प्रतिभाया अविशेषेण संभवेऽपि तारतम्येन समुल्लासादनन्तप्रकारत्वं यतः सा दार्ढ्यकम्प्रते अपेक्षते, प्रथमतो दृढा कम्पमाना वा स्यात् -- इत्यर्थः || कम्पमाना च सा युक्त्याद्यपेक्षते यतोऽस्या दार्ढ्यमुदियात् -- इत्याह -- युक्तिः शास्त्रं गुरुर्वादोऽभ्यास इत्याद्यपेक्षते || १३-१३६ || वादो वीतरागकथा || १३६ ||
SK
ननु आमुखे कम्पमानमपि ज्ञानं स्वयमेव क्कचिद्यथायथं दार्ढ्यं गच्छत् दृष्टं तत्किं युक्त्याद्यपेक्षणेन? -- इत्याशङ्क्याह -- कम्पमानं हि विज्ञानं स्वयमेव पुनर्व्रजेत् | कस्यापि दार्ढ्यमन्यस्य युक्त्याद्यैः केवलेतरैः || १३-१३७ || युक्त्याद्यैरिति सुसंवादायापेक्ष्यमाणैः | केवलेतरैरिति व्यस्तसमस्तैः | यस्य पुनः स्वयमेव कम्पमानं विज्ञानं दार्ढ्यं गच्छेत् स निर्भित्तिरिति प्रागुक्तः | यस्य तु युक्त्याद्यैः स सभित्तिक इति || १३७ || ननु एवमत्र फले कश्चिद्विशेषोऽस्ति न वा? -- इत्याशङ्क्याह -- यथा यथा परापेक्षातानवं प्रातिभे भवेत् | तथा तथा गुरुरसौ श्रेष्ठो विज्ञानपारगः || १३-१३८ || न केवलं प्रातिभस्यैव गुरोः परानपेक्षत्वे श्रेष्ठत्वं यावत्कल्पितस्यापि, शास्त्रीये क्कचिदंशे येन कल्पितोऽप्यसौ अकल्पित इत्युच्यते | तस्मात्प्रातिभत्वमेव सर्वात्मना ज्यायः -- इत्याह -- अन्यतः शिक्षितानन्तज्ञानोऽपि प्रतिभाबलात् | यद्वेत्ति तत्र तत्रास्य शिवता ज्यायसी च सा || १३-१३९ || यदुक्तं प्राक् � ᳚येन केनाभ्युपायेन गुरुमाराध्य भक्तितः | तद्दीक्षाक्रमयोगेन शास्त्रार्थं वेत्त्यसौ ततः || अभिषेकं समासाद्य यो भवेत्स तु कल्पितः | सन्नप्यशेषपाशौघविनिवर्तनकोविदः || यो यथाक्रमयोगेन कस्ंमिश्चिच्छास्त्रवस्तुनि | आकस्मिकं व्रजेद् बोधं कल्पिताकल्पितो हि सः || तस्य योऽकल्पितो भागः स तु श्रेष्ठतमः स्मृतः |᳚ (४|७३) इति || १३९ || एवमकल्पितत्वादेव प्रातिभस्य गुरोर्न बाह्यं किञ्चिदपेक्षणीयम् -- इत्याह -- न चास्य समयित्वादिक्रमो नाप्यभिषेचनम् | न सन्तानादि नो विद्याव्रतं प्रातिभवर्त्मनः || १३-१४० || आदिविद्वान्महादेवस्तेनैषोऽधिष्ठितो यतः | संस्कारास्तदधिष्ठानसिद्ध्यै तत्तस्य तु स्वतः || १३-१४१ ||
SK
न हि नामास्य प्रातिभवर्त्मनो गुरोर्दीक्षाभिषेकादिः संस्कारः कश्चिदुपयुक्तः, यतोऽयमादिगुरुणा महादेवेन स्वयमेव अधिष्ठितः | तदधिष्ठानसिद्ध्यर्थं ह्येव संस्काराः प्रणीताः | तदेव पुनरस्य स्वतः सिद्धमिति किमेभिर्व्यर्थैः परिकल्पितैर्भवेत् || १४१ || ननु एवमपि वृत्तदीक्षोऽयमिति न भवितुमर्हति? -- इत्याशङ्क्याह -- देवीभिर्दीक्षितस्तेन सभक्तिः शिवशासने | तेन स्वतस्तदधिष्ठानेन हेतुना शिवशासने शक्तिपातप्रथमचिह्नभूतया भक्त्या युक्तः सन् देवीभिः दीक्षितः ताभ्य एव अधिगताधिकार -- इत्यर्थः || एवमकल्पितत्वेऽपि अस्य क्वचिदंशे कल्पितत्वमपि भवेत्? -- इत्याशङ्क्याह -- दृढताकम्प्रताभेदैः सोऽपि स्वयमथ व्रतात् || १३-१४२ || तपोजपादेर्गुरुतः स्वसंस्कारं प्रकल्पयेत् | सोऽपि प्रातिभो गुरुर्दृढताकम्प्रतामूलैस्तीव्रमध्यमन्दादिभेदैरुपलक्षितः सन् क्रमेण स्वयमात्मभावनातो व्रतादेर्गुरुतो वा स्वस्य आत्मनो दीक्षादिलक्षणं संस्कारं प्रकल्पयेत् येनायमकल्पितकल्पकः प्रागुक्तः | तथा च ᳚यस्तु तद्रूपभागात्मभावनातः परं विना | शास्त्रवित्स गुरुः शास्त्रे प्रोक्तोऽकल्पितकल्पकः || तस्यापि भेदा उत्कृष्टमध्यमन्दाद्युपायतः | भावनातोऽथवा ध्यानाज्जपात्स्वप्नाद्व्रताद् धृतेः || प्राप्नोत्यकल्पितोदारमभिषेकं महामतिः ||᳚ (४|५३) इति || १४२ || ननु किमत्र प्रमाणम्? -- इत्याशङ्क्याह -- यतो वाजसनेयाख्य उक्तं सिञ्चेत्स्वयं तनुम् | १३-१४३ || इत्याद्युपक्रमं यावदन्ते तत्परिनिष्ठितम् | अभिषिक्तो भवेदेवं न बाह्यकलशाम्बुभिः || १३-१४४ || यदुक्तं तत्र � ᳚व्रतादौ च जपादौ च तयोरन्ते तथैव च | यागं कृत्वाथ विधिवत्स्वेन स्वमभिषेचयेत् || यदि संपत्त्यभावः स्यान्मनसैवं प्रकल्पयेत् | यस्मादिदं जगत्सर्वं मनस्यन्तः प्रतिष्ठितम् ||᳚ इत्यादि ᳚ततः पीयूषकलशं कलाकमलमण्डितम् | ध्यात्वा शिरसि तेनैव प्लावितं भावयेद् बुधः || अभिषिक्तो भवेदेवं न बाह्यकलशाम्बुभिः |
SK
य एवमभिषिक्तः सन् सोऽधिकारी जपादिके ||᳚ इत्यन्तम् || १४४ || एतच्च न केवलमत्रैवोक्तं यावदन्यत्रापि -- इत्याह -- श्रीसर्ववीरश्रीब्रह्मयामलादौ च तत्तथा | निरूपितं महेशेन कियद्वा लिख्यतामिदम् || १३-१४५ || इत्थं प्रातिभविज्ञानं किं किं कस्य न साधयेत् | यत्प्रातिभाद्वा सर्वं चेत्यूचे शेषमहामुनिः || १३-१४६ || अत्रैव यदित्यादिप्रमाणनिर्देशः | ऊचे इति पातञ्जलसूत्रेषु || १४५-१४६ || केचिच्चात्र विवदन्ते यन्नायं सर्वसंपत्तिहेतुरिति -- इत्याह -- अन्ये त्वाहुरकामस्य प्रातिभो गुरुरीदृशः | सामग्रीजन्यता काम्ये तेनास्मिन्संस्कृतो गुरुः || १३-१४७ || नियतेर्महिमा नैव फले साध्ये निवर्तते | अभिषिक्तश्चीर्णविद्याव्रतस्तेन फलप्रदः || १३-१४८ || अकामस्येति मुमुक्षोः | काम्ये हि सर्वांगोपसंहारेण यथाशक्तिप्रयोगोपगमात्सामग्रीजन्यतेति, तत्र गुरुतः प्राप्तदीक्षाभिषेकादिः स्वयं च चीर्णविद्याव्रतो गुरुः फलप्रदो न पुनस्तथाभूतोऽयं प्रातिभः | अयं हि नियतेर्महिमा यन्नियतादेव कारणान्नियतमेव फलं स्यादिति तन्नियतिदशाधिशायिनः साधकस्य कथमेवमन्यथाभावो भवेत् -- इति भावः || १४८ || अस्मद्गुरवस्तु एतन्न मन्यन्ते -- इत्याह -- असदेतदिति प्राहुर्गुरवस्तत्त्वदर्शिनः | श्रीसोमानन्दकल्याणभवभूतिपुरोगमाः || १३-१४९ || तथाहि त्रीशिकाशास्त्रविवृतौ तेऽभ्यधुर्बुधाः | तदभिहितमेव पठति -- सांसिद्धिकं यद्विज्ञानं तच्चिन्तारत्नमुच्यते || १३-१५० || तदभावे तदर्थं तदाहृतं ज्ञानमादृतम् | यद्धि प्रातिभं नाम विज्ञानं तत्सर्वशास्त्रेषु चिन्तामणिप्रायमुच्यते यदस्मात्काम्यादिसर्वफलसंपत्तिः स्यादिति | तस्य सांसिद्धिकस्य ज्ञानस्य अभावे पुनस्तद्भवदभिमतमाहृतं गुर्वाद्याधेयत्वात् कृत्रिमं ज्ञानमाणवादेः शाम्भव एव द्वारद्वारिभावेन विश्रान्त्युपगमात् तदर्थं सांसिद्धिकज्ञानाभिव्यक्तिनिमित्तमेव आदृतम् | येन तदेव विश्रान्तिधामतया सर्वत्र प्रधानतया उद्धोष्यते || १५० || यदागम इत्याह �
SK
एवं यो वेद तत्त्वेन तस्य निर्वाणगामिनी || १३-१५१ || दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता | अदृष्टमण्डलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः || १३-१५२ || स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः | अविधिज्ञो विधानज्ञो जायते यजनं प्रति || १३-१५३ || इत्यादिभिस्त्रीशिकोक्तैर्वाक्यैर्माहेश्वरैः स्फुटम् | ज्ञानं दीक्षादिसंस्कारसतत्त्वमिति वर्णितम् || १३-१५४ || इह यः कश्चित्सांसिद्धिकं ज्ञानं तत्त्वतो वेत्ति, तस्य बाह्यक्रियां विना निःसन्देहा निर्वाणगामिनी दीक्षा स्वत एव भवति | अत एवासौ दीक्षितः सन् नित्यं सिद्धिभाग्योगी चेति बाह्यक्रियामजानानो जानानो वा यजनं प्रति जायते काम्यादिविषयायां यजिक्रियायां कर्ता भवेत् | एवमाद्यैर्माहेश्वरैर्वाक्यैर्दीक्षादिसंस्कारसतत्त्वमेव सांसिद्धिकं ज्ञानमुक्तम् || १५४ || यत्पुनर्दीक्षादिनिमित्तकं ज्ञानं तज्ज्ञानहीनानाम् -- इत्याह -- ज्ञानोपायस्तु दीक्षादिक्रिया ज्ञानवियोगिनाम् | इत्येतदधुनैवास्तां स्वप्रस्तावे भविष्यति || १३-१५५ || अधुनैवास्तामेवेति शक्तिपातविचित्रतानिरूपणावसरे तत्प्रसङ्गाभावात् | अत एवोक्तम् -- स्वप्रस्तावे भविष्यति इति | स्वप्रस्ताव इति दीक्षाप्रकरणे || १५५ || ननु एवं तात्त्विकस्य ज्ञानस्य प्रतिभावद्गुरुशास्त्रादिलक्षणमपि प्रमाणमभिव्यक्तिनिमित्तमस्ति इति किं प्रतिभायामेवैवं भरः? -- इत्याशङ्क्याह -- गुरुशास्त्रप्रमाणादेरप्युपायत्वमञ्जसा | प्रतिभा परमेवैषा सर्वकामदुघा यतः || १३-१५६ || गुर्वादेः प्रमाणस्यापि परमेव यौक्तिकमुपायत्वं सैवास्य विश्रान्तिस्थानम् -- इत्यर्थः | यत इयमेव परतत्त्वैक्यापादनेन सर्वाभीष्टसंपत्तिहेतुः -- इत्युक्तम् सर्वकामदुघेति | आणवादेरुपायस्य हि द्वारद्वारिभावेन शाम्भवे प्रतिभात्मनि अविकल्प एव ज्ञाने विश्रान्तिरिति असकृदुक्तम् || १५६ || अत एवाह -- उपाययोगक्रमतो निरुपायमथाक्रमम् | यद्रूपं तत्परं तत्त्वं तत्र तत्र सुनिश्चितम् || १३-१५७ ||
SK
उपायानामाणवादीनां योगे परस्परस्य संबन्धे य आणवः शाक्ते, शाक्तः शांभव इत्यादिरूपः क्रमः तमवलम्ब्य निरुपायमत एव अक्रमं यत्प्रतिभात्मकं रूपमुदेति, तदेव परं तत्त्वं तत्र तत्र सर्वशास्त्रेषु सुनिश्चितम् | नात्र कस्यचिद्विमतिः -- इत्यर्थः || १५७ || ननु यद्येवं तत्प्रातिभस्य गुरोरन्यतः स्वात्मनि संस्कारपरिकल्पनेन कोऽर्थः ? -- इत्याशङ्क्याह � यस्तु प्रातिभबाह्यात्मसंस्कारद्वयसुन्दरः | उक्तोऽनन्योपकार्यत्वात्स साक्षाद्वरदो गुरुः || १३-१५८ || यदुक्तम् -- ᳚यस्त्वकल्पितरूपोऽपि संवाददृढताकृते | अन्यतो लब्धसंस्कारः स साक्षाद्भैरवायते ||᳚ (४|७७) इति || १५८ || एवं च प्रतिभापि शक्तिपातस्य बाह्यानामुपायानां वैचित्र्यात्तरतमभावेनोदियात्, येन मध्यतीव्रस्यापि शक्तिपातस्य तीव्रादिभेदभिन्नत्वं स्यात् -- इत्याह -- स्वमुक्तिमात्रे कस्यापि यावद्विश्वविमोचने | प्रतिभोदेति खद्योतरत्नतारेन्दुसूर्यवत् || १३-१५९ || अत्र च दृष्टान्तसामर्थ्यादन्तरा यथोत्तरं कतिचिज्जनमोचनेऽपि इति लभ्यते || १५९ || ननु इह प्रतिभायाः साक्षान्मध्यतीव्रः शक्तिपातः पारिपूर्ण्ये निमित्तमिति नास्ति विमतिः, तदितरद् बाह्यं पुनः कियदनुशीलनादपि प्रातिभत्वं भजेत् ? -- इत्याशङ्क्याह -- ततः प्रातिभसंवित्त्यै शास्त्रमस्मत्कृतं त्विदम् | योऽभ्यस्येत्स गुरुर्नैव वस्त्वर्था हि विडम्बकाः || १३-१६० || ततस्तरतमभावेन प्रतिभोदयाद्धेतोर्यः पुनरिदं श्रीतन्त्रालोकसंज्ञमस्मत्कृतं शास्त्रं प्रातिभत्वं संवेदयितुमभ्यस्येत्स समनन्तरमेव संपूर्णबोधत्वात् प्रातिभो गुरुर्भवेत् यद्दृक्पातमात्रात्सर्वोऽप्ययं लोकस्ताद्रूप्यमियात् | यदुक्तं प्राक् -- ᳚इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः | आह्निकानां समभ्यस्येत्स साक्षाद्भैरवो भवेत् | सप्तत्रिंशत्सुसंपूर्णबोधो यद्भैरवो भवेत् | किं चित्रमणवोऽप्यस्य दृशा भैरवतामियुः ||᳚ (१|२८६)
SK
इति | ननु महतीयं विडम्बना यत्स्वयमेव स्वकृतिं प्रत्येवं प्रशंसा नाम? -- इत्याशङ्क्योक्तम् -- नैव वस्त्वर्था हि विडम्बका इति || १६० || ननु इदानीमेवोक्तं न कश्चिदपि जन्तुः प्रतिभया रिक्त इति, तत्किं तदुदये परकीयशास्त्राद्यपेक्षणेन ? -- इत्याशङ्क्याह -- परोपजीविताबुद्ध्या सर्व इत्थं न भासते | तदुक्त्या न विना वेत्ति शक्तिपातस्य मान्द्यतः || १३-१६१ || यतः खलु परमेव उपजीवितुं प्रवृत्तः सर्व एवोपजीवनान्यथानुपपत्त्या इत्थमुक्तेन प्रकारेण प्रतिभानवान् तथा न प्रकाशते, यतः शक्तिपातस्य मान्द्यात् परोक्तिमन्तरेण न किञ्चिद्वेत्ति, सर्वत्रैवास्य गुरुशास्त्रापेक्षा -- इत्यर्थः || १६१ || न चैतत्स्वोपज्ञमेव अस्माभिरुक्तम् -- इत्याह -- स्फुटमेतच्च शास्त्रेषु तेषु तेषु निरूप्यते | तेषु तेषु इत्यनेन सर्वशास्त्राविगीतत्वमस्यार्थस्य उक्तम् || एतदेव दर्शयति � किरणायां तथोक्तं च गुरुतः शास्त्रतः स्वतः || १३-१६२ || ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे | तथाशब्देन च केचिद्योगयोग्याः क्रियायोग्याश्च इत्याक्षिप्तम् | अनेन चैषां नियतविषयत्वेनापि शास्त्राद्यपेक्षा -- इति कटाक्षितम् || १६२ || ननु इदं सिद्धसाधनं यद्गुरुशास्त्रापेक्षं ज्ञानमुदियादिति | एतद्धि लोकत एव सिद्धम्, किमत्र प्रमाणोपन्यासेन | स्वत एव केषाञ्चिदेतदुदेति इत्यत्र पुनः किं प्रमाणम्? -- इत्याशङ्क्याह -- श्रीमन्नन्दिशिखातन्त्रे वितत्यैतन्निरूपितम् || १३-१६३ || प्रश्नोत्तरमुखेनेति तदभग्नं निरूप्यते | अभग्नमिति अखण्डम् || १६३ || तदेवाह � अनिर्देश्यः शिवस्तत्र कोऽभ्युपायो निरूप्यताम् || १३-१६४ || इति प्रश्ने कृते देव्या श्रीमाञ्छंभुर्न्यरूपयत् | कोऽभ्युपाय इति अर्थात्साधकस्य, येनानिर्देश्येऽपि शिवे ज्ञानमुदियात् | तदुक्तं तत्र -- ᳚अनिर्देश्यः शिवो ह्येवं कथितः परमेश्वरः | उपायः कथ्यतां देव भक्तानुग्रहकाम्यया ||᳚ इति || १६४ || किं न्यरूपयत् ? -- इत्याह -- उपायोऽत्र विवेकैकः स हि हेयं विहापयन् || १३-१६५ ||
SK
ददात्यस्य च सुश्रोणि प्रातिभं ज्ञानमुत्तमम् | विवेकैक इति विवेक एव एकः प्रधानं स्वपरामर्शात्मा विवेकः -- इत्यर्थः | हेयमिति मायीयभावादि | अस्येति साधकस्य || १६५ || ततोऽपि किम्? -- इत्याह � यदा प्रतिभया युक्तस्तदा मुक्तश्च मोचयेत् || १३-१६६ || परशक्तिनिपातेन ध्वस्तमायामलः पुमान् | तदुक्तं तत्र � ᳚उपायो देवदेवेशि विवेकस्तत्र वै परः | हेयतां चैव संसारे ज्ञात्वा जन्तुर्विमोचयेत् || अनित्येऽस्मिञ्छिवो ह्येकः शिवः(नित्यः)सर्वगतः प्रभुः | मायीयान्युज्झ्य भावानि यदा भावेन भावयेत् || ददात्यस्य च सुश्रोणि प्रातिभं ज्ञानमुत्तमम् | यदा प्रातिभसंयुक्तो मुच्यते मोचयेत्तदा || परशक्तिनिपातेन ध्वस्तमायामलः पुमान् | परं याति पदं यत्र गत्वा भूयो न जायते || इति || १६६ || ननु समनन्तरमेव ᳚दीक्षयोन्मोच्य देवेशि अध्वबन्धात्सुदारुणात् | सर्वज्ञादिगुणांश्चैव शिशोरापादयेद्गुरुः ||᳚ इत्यादिना दीक्षया मोक्षः -- इत्युक्तम् | इदानीं तु प्रातिभानमुच्यते इति किमेतदुक्तम्? -- इत्याह -- ननु प्राग्दीक्षया मोक्षोऽधुना तु प्रातिभात्कथम् || १३-१६७ || कथमिति उभयोर्मध्यात्कतरत्प्रमाणम् -- इत्यर्थः | तदुक्तं तत्र � ᳚दीक्षया पूर्वमेवोक्तः पुद्गलस्य भवार्णवात् | मोक्षोऽधुना वदस्येवं प्रातिभस्येव तत्कथम् || प्रमाणमत्र देवेश प्रातिभं वाऽथ दीक्षणम् | एतन्मे वद कामारे स्फुटार्थेन महेश्वर || इति || १६७ || एतदप्युत्तरयति परमेश्वरः -- इत्याह -- इति देव्या कृते प्रश्ने प्रावर्तत विभोर्वचः | दीक्षया मुच्यते जन्तुः प्रातिभेन तथा प्रिये || १३-१६८ || इयान्पुनरनयोर्विशेषः -- इत्याह -- गुर्वायत्ता तु सा दीक्षा बध्यबन्धनमोक्षणे | प्रातिभोऽस्य स्वभावस्तु केवलीभावसिद्धिदः || १३-१६९ || बध्यबन्धनमोक्षणनिमित्तं परापेक्षा -- इत्यर्थः || १६९ || ननु किं नामास्य केवलीभावसिद्ध्या ? -- स्यादित्याह -- केवलस्य ध्रुवं मुक्तिः परतत्त्वेन सा ननु | नृशक्तिशिवमुक्तं हि तत्त्वत्रयमिदं त्वया || १३-१७० ||
SK
ना बध्यो बन्धने शक्तिः करणं कर्तृतां स्पृशत् | शिवः कर्तेति तत्प्रोक्तं सर्वं गुर्वागमादणोः || १३-१७१ || पुनर्विवेकादुक्तं तदुत्तरोत्तरमुच्यताम् | कथं विवेकः किं वास्य देवदेव विविच्यते || १३-१७२ || परतत्त्वेन केवलस्येति केवलपरतत्त्वात्मा मुक्त एव भवेत् -- इत्यर्थः | एवमपि देवी पुनः प्रश्नयति -- ननु इत्यादि | इह तावन्नरशक्तिशिवात्मकं विश्वमिति सर्वशास्त्रेषु उक्तम् | तत्र बन्धनक्रियायां ना नरो बध्यः, कर्मकर्त्रावेशमयी शक्तिश्च कर्तृतां स्पृशत्करणम्, शिवश्च कर्ता इत्येतत्सर्वमणोर्गुरुतश्च शास्त्रतश्चोपदेश्यतयोक्तम् | येनास्य बध्यबन्धबन्धयितृविभागावभासपुरःसरं महाज्ञानमुदियात् | भूयश्च तदेवोत्तरादागमादप्युत्तरमनुत्तरं विवेकादुक्तम् | तदस्य साधकस्य कथं विवेकस्तदुत्पादकः प्रकारः, किं वा विवेच्यमित्युच्यतां संशयविपर्ययादिव्युदसनेन निर्णीयताम् -- इत्यर्थः | तदुक्तम् -- ᳚तत्त्वं त्रिविधमाख्यातं नरशक्तिशिवात्मकम् | शिवात्मकं सर्वगतं निष्प्रपञ्चमलेपकम् || तद्धर्मधर्मिणी शक्तिस्त्वयाऽऽख्याता महेश्वर | बन्ध्यबन्धनभावेन नरतत्त्वमुदाहृतम् || कर्तृत्वे करणत्वे च शक्तितत्त्वं त्वयोदितम् | तच्च गुर्वागमात्साध्यमणुभिश्चोदितं स्फुटम् || विवेकात्तत्कथं लभ्यं भूय एवोच्यते त्वया | प्रातिभस्य च ज्ञानस्य गुर्वाम्नायागतस्य च || द्वैधं किमेतदुद्दिष्टं मोहनाय ममाधुना | उत्तरोत्तरमस्मात्तु स्फुटमाख्याहि शङ्कर || येन निःसंशया सिद्धिर्मुक्तिरन्ते भवत्यणोः | कथं विवेकः किं वाऽस्य देवदेव विविच्यते || इति | नृशक्तिशिवमिति गुर्वागमादिति च समाहारे द्वन्द्वः || १७२ || एतच्च निर्णेतुं परमेश्वरः प्रत्युवाच -- इत्याह -- इत्युक्ते परमेशान्या जगादादिगुरुः शिवः | तदेवाह -- शिवादितत्त्वत्रितयं तदागमवशाद्गुरोः || १३-१७३ || अधरोत्तरगैर्वाक्यैः सिद्धं प्रातिभतां व्रजेत् |
SK
यन्नाम हि नरशक्तिशिवात्मकं तत्त्वत्रयं तद्गुरोरागमाच्च प्रश्नप्रतिवचनरूपैर्वाक्यैः सिद्धं यथायथं तात्त्विकेन रूपेण प्ररोहमुपगतं प्रातिभतां व्रजेत् प्रातिभं ज्ञानमस्य जायते -- इत्यर्थः || ननु प्रातिभत्वं वस्तुसदिति असकृदुक्तं तत्कथमिह शिवादितत्त्वत्रयमेव गुर्वादिमाहात्म्यात्प्रातिभतां व्रजेदित्युक्तम्? -- इत्याशङ्क्याह -- दीक्षासिच्छिन्नपाशत्वाद्भावनाभावितस्य हि || १३-१७४ || विकासं तत्त्वमायाति प्रातिभं तदुदाहृतम् | यन्नाम हि गुरुतो दीक्षासिच्छिन्नपाशस्य, आगमतश्च भावनाभावितस्य साधकस्य वस्तुसदेव प्रतिभातत्त्वं विकस्वरतां यायात्, तदेवोच्यते प्रातिभं ज्ञानमिति | तदुक्तम् -- ᳚तदागमवशात्साध्यं गुरुवक्त्रान्महाधिपे | शिवशक्तिकरावेशाद्गुरुः शिष्यप्रबोधकः || अधरोत्तरगैर्वाक्यैः प्रभुशक्त्युपबृंहितः | तच्छक्त्या सुप्रबुद्धस्य ध्वस्तमायामलस्य च || दीक्षासिच्छिन्नपाशस्य भावनाभावितस्य च | विकासं तत्त्वमायाति यत्तज्ज्ञानमिदं प्रिये || प्रातिभं तत्समाख्यातं तत्त्वज्ञानस्य भावनात् | इति || १७४ || एतदेव दृष्टान्तोपदर्शनेन हृदयङ्गमयति -- भस्मच्छन्नाग्निवत्स्फौट्यं प्रातिभे गौरवागमात् || १३-१७५ || बीजं कालोप्तसंसिक्तं यथा वर्धेत तत्तथा | योगयागजपैरुक्तैर्गुरुणा प्रातिभं स्फुटेत् || १३-१७६ || यथा हि भस्मच्छन्नोऽग्निर्मुखमारुतादिना स्फुटतां यायात्, यथा वा स्वकाल एवोप्तं संसिक्तं च बीजमंकुरपल्लवादिरूपतयाभिव्यक्तिमियात्, तथा प्रातिभमपि ज्ञानं गुरूपदिष्टैर्यागयोगादिभिरिति | तदुक्तम् � ᳚यथाग्निर्भस्मना च्छन्नस्तदपास्येन्धनेन्धितः | समीरणबलाविष्टो भूरितेजा वरानने || प्रभविष्णुः प्रकाशार्चिरेवमेतद्भवेत्स्फुटम् |᳚ इति | ᳚यथोप्तं कालतो बीजं तत्सुसिक्तमथ क्रमात् | अंकुरैः पल्लवैराढ्यं तत्पुष्पादिफलान्वितम् || व्यापकं विटपं तद्वद्गुरुतः प्रातिभं प्रिये |᳚ इति च || १७६ ||
SK
एवं गुर्वाम्नायगतं प्रातिभं ज्ञानं निरूप्य, पात्रोपकृतं तदेव स्वाभाविकं निरूपयितुं प्रथमं तावद्विवेकस्यैव स्वरूपम् निरूपयति -- विवेकोऽतीन्द्रियस्त्वेष यदायाति विवेचनम् | पशुपाशपतिज्ञानं स्वयं निर्भासते तदा || १३-१७७ || प्रातिभे तु समायाते ज्ञानमन्यत्तु सेन्द्रियम् | वागक्षिश्रुतिगम्यं चाप्यन्यापेक्षं वरानने || १३-१७८ || तत्त्यजेद् बुद्धिमास्थाय प्रदीपं तु यथा दिवा | यः पुनरतीन्द्रियः प्रमाणागोचर एष संविल्लक्षणोऽर्थो विचारपदवीमभ्युपेयात् स स्वपरामर्शात्मा विवेको नाम, यत्तस्मिन्सति स्वयमनन्यापेक्षमेव बध्यबन्धबन्धयितृविषयं प्रातिभं ज्ञानं परिस्फुरेत्, यस्मिन्नभ्युदिते दिनकृत्स्थानीयां बुद्धिं सम्यग्ज्ञानमास्थाय प्रदीपमिव दिने तदन्यत्संकुचितं ज्ञानं वागुपलक्षितैः कर्मेन्द्रियैरक्षिश्रुत्युपलक्षितैर्बुद्धीन्द्रियैश्च गम्यं सेन्द्रियमन्तःकरणैर्गम्यं च, अत एवान्यापेक्षं त्यजेत् | एतदवधीरणेन महाप्रकाश एव विश्रान्तो भवेत् -- इत्यर्थः | तदुक्तम् -- ᳚विवेकोऽतीन्द्रिये भावे यदायाति विवेचनम् | पशुपाशपतिज्ञानं स्वयमेति विचारताम् || प्रातिभे तु समायाते ज्ञानमन्यत्तु सेन्द्रियम् | वागक्षिश्रुतिगम्यं तु अन्यापेक्षं वरानने || तत्त्यज्येद् बुद्धिमास्थाय प्रदीपं तु यथा दिवा | इति || अत एवास्यार्वाग्दर्शिवैलक्षण्यमपि जायते -- इत्याह -- प्रादुर्भूतविवेकस्य स्याच्चिदिन्द्रियगोचरे || १३-१७९ || दूराच्छ्रुत्यादिवेधादिवृद्धिक्रीडाविचित्रिता | प्रादुर्भूतविवेकस्य हि साधकस्य शब्दादाविन्द्रियार्थे विषये दूराच्छ्रुत्यादिविचित्रिता चित् स्यात् देशकालाकारविप्रकृष्टादिविषया संवित्तिरस्य जायते -- इत्यर्थः| तदुक्तम् -- ᳚प्रादुर्भूतविवेकस्य लक्षणं यत्प्रवर्तते | तथा ते कथयिष्यामि येन येनेन्द्रियेण तु || साध्यं यत्तस्य तस्यैवं पाटवं जायते भृशम् | दूराच्छ्रवणविज्ञानं मननं चावलोकनम् ||᳚ इति || ᳚क्रीडाकर्माण्यथोक्तानि सर्वतन्त्रोदितानि तु | क्षणेनानुभवेत्तानि शक्तिज्ञानोपवृंहितः ||
SK
षट्चक्रं षोडशाधारं कुलं जानाति सुव्रते | मन्त्रवेधादि कुरुते स्वस्थावेशादिकानि तु || क्षणादन्यानि विशते पुराणि नगनन्दिनि | इति च || प्ररूढविवेकस्यास्य पुनरेवं सिद्धिषु वैमुख्यात्परसंविद्विश्रान्तिरेव भवेत् -- इत्याह -- सर्वभावविवेकात्तु सर्वभावपराङ्मुखः || १३-१८० || क्रीडासु सुविरक्तात्मा शिवभावैकभावितः | माहात्म्यमेतत्सुश्रोणि प्रातिभस्य विधीयते || १३-१८१ || स्वच्छायादर्शवत्पश्येद् बहिरन्तर्गतं शिवम् | इह खलु सर्वेषां भावानां संविदेव सतत्वम्, न तु बाह्यं किञ्चिन्नीलादिरूपत्वमित्येवमात्मकाद्विवेकात्तद्वैवश्यहीनोऽत एव परपुरप्रवेशादिप्रायासु क्रीडासु विरक्तात्मत्वात्परप्रकाशमय्यां शिवसत्तायामेव प्राधान्येन विश्रान्तो येन दर्पण इव बिम्बप्रतिबिम्बोदयात्मना स्वं सर्वत्र शिवमेव बहिरन्तर्गतं पश्येत्तदेकघनाकारतया विश्वं साक्षात्कुर्यात् -- इत्यर्थः | ननु कथमेकदैवायं बहिरन्तश्च शिवं द्रष्टुं शक्नुयात्? -- इत्याशङ्क्योक्तम् -- ᳚प्रातिभस्यैतन्माहात्म्यं विधीयते᳚ इति || एवं चास्य हेयमुपादेयं वा किञ्चिन्नास्ति इत्ययमकिञ्चित्करीषु परिमितासु सिद्धिषु निबन्धनभूतं प्रतिनियतं ध्यानाद्यपहाय परामेव संविदं परं परामृशेत् -- इत्याह -- हेयोपादेयतत्त्वज्ञस्तदा ध्यायेन्निजां चितिम् || १३-१८२ || तदेति प्रातिभस्यैवं माहात्म्ये सति -- इत्यर्थः | तदुक्तम् � शर्वभावविवेकेन सर्वभावपराङ्मुखः | विवेकी सुविरक्तात्मा शिवभावैकतत्परः || प्राकाम्यमेतत्सुश्रोणि प्रातिभस्य विधीयते |᳚ इति | ᳚यथादर्शगतां च्छायां पश्यति स्वां तथा प्रिये | बहिरन्तःस्थितं देवं शिवं सर्वगतं विभुम् ||᳚ इति | श्वप्नेन्द्रजालवत्सर्वं सिद्धियोगं विभावयेत् | दृष्ट्ववं लक्षणं भद्रे प्रातिभस्य तु साधकः || हेयोपादेयतत्त्वज्ञस्तदा ध्यायेच्छिवं विभुम् |᳚ इति च | ननु अकिञ्चित्कर्यश्चेत्सिद्धयस्तत्किमर्थमुक्ताः? -- इत्याशङ्क्याह -- सिद्धिजालं हि कथितं परप्रत्ययकारणम् |
SK
इहैव सिद्धाः कायान्ते मुच्येरन्निति भावनात् || १३-१८३ || सिद्धिर्हि नाम परेषां प्रत्ययमात्रम्, अन्यथा देहान्ते मुक्तिरिति कस्य समाश्वासः स्यात् || १८३ || यस्य पुनः परप्रत्ययानपेक्षत्वेन परतत्त्व एव भावनादार्ढ्यं स जीवन्नेव मुक्तः -- इत्याह � परभावनदार्ढ्यात्तु जीवन्मुक्तो निगद्यते | एतदेवोपसंहरति � एतत्ते प्रातिभे भेदे लक्षणं समुदाहृतम् || १३-१८४ || अत्र च न केवलमेतदेव लक्षणं यावदन्यदपि -- इत्याह -- शापानुग्रहकार्येषु तथाभ्यासेन शक्तता | शक्ततेत्यर्थात्प्रादुर्भूतविवेकस्य | प्ररूढविवेको हि क्रीडाप्रायासु सिद्धिषु अनासङ्गान्माध्यस्थ्यमवलम्बमानः परतत्त्व एव विश्रान्तो येनासौ स्वयं मुक्तः सन् परानपि मोचयेत् || १८४ || तदाह � तेषूदासीनतायां तु मुच्यते मोचयेत्परान् || १८५ || नन्वात्मा स्वत एव शुद्धबोधस्वभाव इति किं नामास्यावशिष्यते यत्प्रतिभा कुर्यादिति किं तयास्य? -- इत्याशङ्क्याह -- भूतेन्द्रियादियोगेन बद्धोऽणुः संसरेद् ध्रुवम् | स एव प्रतिभायुक्तः शक्तितत्त्वं निगद्यते || १३-१८६ || तत्पातावेशतो मुक्तः शिव एव भवार्णवात् | स एव भूतेन्द्रियादियुक्तो बद्धोऽणुः प्रतिभया युक्तः प्रादुर्भूतविवेकश्चेत् तच्छक्तितत्त्वं निगद्यते शुद्धविद्यादशाधिशायी भवेत् येन तदनुग्रहनिग्रहाद्यनेककार्यकरणप्रवणतामियात् | तत्रैव लब्धप्ररोहः पुनरसौ भवार्णवान्मुक्तः शिव एव तथाणुरूपतावधीरणेन शक्तिनिःश्रेणिकाक्रमणक्रमेण परधाराधिरोहितया परस्यामेव संविदि विश्रान्तो भवेत् -- इत्यर्थः | एतेन चोद्यसमाधानाभ्यामुपक्रान्तं नरशक्तिशिवात्मकं तत्त्वत्रयमेव प्रातिभविज्ञानात्मकतां यायादिति निर्वाहितम् | तदुक्तम् -- ᳚यदा देवि महान्स्थूलो गुणत्रयसमन्वितः | भूतेन्द्रियादियोगेन बध्यते चाप्यणुस्तदा || संसारे संसरेत्तेन बद्धोऽणुर्वरवर्णिनि | स एव प्रतिभायुक्तः शक्तितत्त्वं निगद्यते || तत्पातावेशतो जन्तुर्मुच्यते तु भवार्णवात् | हित्वा कारणषट्कं तु शिवतत्त्वे लयं व्रजेत् ||
SK
इति ते सर्वमाख्यातं यथाभेदद्वयं प्रिये |᳚ इति || एवमुपपादितेऽपि प्रातिभस्य द्वैधे देवी पुनः प्रश्नयति -- नन्वाचार्यात्सेन्द्रियं तज्ज्ञानमुक्तमतीन्द्रियम् || १३-१८७ || विवेकजं च तद्बुद्ध्या तत्कथं स्यान्निरिन्द्रियम् | इह तावद्गौरवं ज्ञानं बुद्ध्यान्तःकरणनिर्वर्त्यत्वात्सेन्द्रियमुक्तम्, विवेकजं च तन्निरिन्द्रियम् | तत्र तद्विवेकजं ज्ञानं ᳚बुद्धिमास्थाय᳚ इत्याद्युक्त्या बुद्ध्योपलक्षितमपि कथं निरिन्द्रियं स्यात् शशविषाणवदत्यन्तमसदेव -- इत्यर्थः | तदुक्तम् -- शेन्द्रियं चैव गुरुतो ज्ञानमुक्तमतीन्द्रियम् | विवेकजन्म नो बुद्ध्या विना देव प्रवर्तते || निरिन्द्रियत्वं तु कथं प्रोच्यते तस्य शङ्कर | एतच्छशविषाणेन प्रतिभाति समं मम ||᳚ इति || एवमुक्तश्च भगवान् प्रत्युवाच -- इत्याह -- इति पृष्टोऽभ्यधात्स्वान्तधियोर्जाड्यैकवासनात् || १३-१८८ || अक्षत्वं प्रविवेकेन तच्छित्तौ भासकः शिवः | इह मनोबुद्ध्योर्जाड्यैकलक्षणात्संस्कारादुल्लसता परस्परस्य सङ्कल्प्यादध्यवसेयाच्च विषयात्प्रकृष्टेन भेदेन अक्षत्वमिन्द्रियत्वं यतोऽनयोर्बन्धकत्वम् | तस्य च जाड्यसंस्कारकारणस्य भेदस्यावृत्त्या यथोक्तस्वरूपतया प्रकृष्टेन विवेकेन च्छित्तौ निवृत्तौ शिव एव भासको निरिन्द्रिया संविदेव सर्वतः समुज्जृम्भत इति सिद्धं विवेकजस्य ज्ञानस्यातीन्द्रियत्वम् || ननु जाड्यात्मैव संस्कारो भेदनिबन्धनमिति केनोक्तम्? -- इत्याशङ्क्याह -- संस्कारः सर्वभावानां परता परिकीर्तिता || १३-१८९ || परतेति भिन्नता -- इत्यर्थः | परिकीर्तितेति सर्वैः | यदभिप्रायेणैव प्राक् ᳚परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् |᳚ (३|१०१) इत्याद्युक्तम् | तदुक्तम् -- ᳚इन्द्रियत्वं मनोबुद्ध्योर्वासनातः सुरेश्वरि | जडत्वात्तेषु तद्भावादिन्द्रियत्वं तु बन्धकम् || विवेकयुक्त्या तच्छेदः शिवतत्त्वप्रकाशकः | संस्कारः सर्वभावानां परता परिकीर्तिता ||᳚ इति || १८९ || सा चेह नास्ति -- इत्याह -- मनोबुद्धी न भिन्ने तु कस्मिंश्चित्कारणान्तरे |
SK
विवेके कारणे ह्येते प्रभुशक्त्युपवृंहिते || १३-१९० || इह हि मनोबुद्धी मूलकारणे विवेके समुल्लसति कस्मिंश्चिच्छुद्धविद्यात्मनि कारणान्तरे स्वस्वरूपतिरस्कारात्तद्रूपताजन्मने न भिन्ने भवतो यत एते प्रभुशक्त्युपवृंहिते तदैकात्म्यमापन्ने -- इत्यर्थः || १९० || ननु यद्येवं तन्मनोबुद्धी विना ज्ञानस्योत्पत्तिरेव न स्यादिति कृतं निरिन्द्रियत्वादिविचारेण? -- इत्याशङ्क्याह � न मनोबुद्धिहीनस्तु ज्ञानस्याधिगमः प्रिये | परभावात्तु तत्सूक्ष्मं शक्तितत्त्वं निगद्यते || १३-१९१ || न हि मनो बुद्धिं वा विहाय ज्ञानस्याधिगमोऽवभासो भवेत्, किन्तु ते एव मनोबुद्धी प्रोक्तयुक्त्या स्वस्वरूपनिमज्जनेन सूक्ष्मं शाक्तं रूपमधिकृत्य एतज्ज्ञानं जनयतः -- इत्युक्तम् -- ᳚परभावात्तु तत्सूक्ष्मं शक्तितत्त्वं निगद्यते |᳚ इति || १९१ || ननु यद्येवं, तद्विवेकस्याप्यत्र कस्मात्कारणत्वमुक्तम् -- इत्याशङ्क्याह -- विवेकः सर्वभावानां शुद्धभावान्महाशयः | महाशय इति सर्वभावक्रोडीकरणसहिष्णुः -- इत्यर्थः || ननु बुद्धिरपि उभयतो दर्पणप्रख्या भोक्तृभोग्यात्मसर्वभावपरिस्फुरणसहिष्णुरित्युक्तं तत्कथं तामपहाय विवेकस्य एवंरूपत्वमुच्यते? -- इत्याह -- बुद्धितत्त्वं तु त्रिगुणमुत्तमाधममध्यमम् || १३-१९२ || अणिमादिगतं चापि बन्धकं जडमिन्द्रियम् | त्रिगुणत्वादेव च उत्तमाधममध्यममित्युक्तम्, अणिमादिगतत्वादेव भोगजालासक्तिकारितया बन्धकम् | तदुक्तम् -- ᳚बुद्धितत्त्वं महादेवि प्रधानाशयगोचरम् | तमो रजस्तथा सत्त्वमुत्तमाधममध्यमम् || अणिमादिविभेदेन भोगजालसमावृतम् |᳚ इति || इह ᳚अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् |᳚ इति भङ्ग्या प्रातिभादेव चेन्मुक्तिस्तत्किमनेकायाससाध्यया दीक्षया इति पुनर्देवी प्रश्नयति -- ननु प्रातिभतो मुक्तौ दीक्षया किं शिवाध्वरे || १९३ || तदुक्तम् � ᳚प्रातिभेन महेशान मुच्यते यदि पुद्गलः | तत्किमर्थं शिशोर्दीक्षा क्रियते तु शिवाध्वरे ||᳚ इति || १९३ ||
SK
एतदपि परमेश्वरः प्रत्युक्तवान् -- इत्याह -- ऊचेऽज्ञाना हि दीक्षायां बालवालिशयोषितः | पाशच्छेदाद्विमुच्यन्ते प्रबुद्ध्यन्ते शिवाध्वरे || १३-१९४ || तस्माद्दीक्षा भवत्येषु कारणत्वेन सुन्दरि | दीक्षया पाशमोक्षे तु शुद्धभावाद्विवेकजम् || १३-१९५ || एष्विति बालादिष्वज्ञानेषु, अतश्चाज्ञविषया दीक्षा इति विशेषः | कारणत्वेनेति मुक्तेः प्रबोधस्य च | अत एव तेषां दीक्षया पाशमोक्षे कृते शुद्धभावात् विवेकजं प्रातिभं ज्ञानं समुदियात् || ननु एतन्न्यायमुखेनैव कस्मान्नोपपादितं किं प्रतिपदं तद्ग्रन्थपाठेन? -- इत्याशङ्क्याह -- इत्येष पठितो ग्रन्थः स्वयं ये बोद्धुमक्षमाः | तेषां शिवोक्तिसंवादाद् बोधो दार्ढ्यं व्रजेदिति || १३-१९६ || एतच्च न केवलमत्रैवोक्तम्, यावदन्यत्रापि -- इत्याह -- श्रीमन्निशाटने चात्मगुरुशास्त्रवशात्त्रिधा | ज्ञानं मुख्यं स्वोपलब्धि विकल्पार्णवतारणम् || १३-१९७ || मन्त्रात्मभूतद्रव्यांशदिव्यतत्त्वादिगोचरा | शङ्का विकल्पमूला हि शाम्येत्स्वप्रत्ययादिति || १३-१९८ || यद्यप्यत्र गुरुतः शास्त्रतः स्वतश्चेति त्रिधा ज्ञानमुक्तं तथापि विकल्पार्णवतारकत्वात्स्वोपलब्धि स्वत उद्भूतं ज्ञानं मुख्यं यतस्तीव्रमध्यशक्तिपातवतः स्वप्रत्ययादेव प्राधान्येन विकल्पमूला मन्त्रादिविषया षोढा शङ्का शाम्येदविकल्पस्वात्मसंविद्विश्रान्तो भवेत् -- इत्यर्थः | अंशेति सिद्धाद्या मन्त्रांशकास्तत्प्रकारत्वान्मन्त्राशङ्कायामेवान्तर्भूताः | आदिशब्दः प्रकारे | तेन द्रव्यशङ्काप्रकारभूताया जातिशङ्काया अपि ग्रहणम् | तदुक्तं तत्र -- ᳚त्रिप्रत्ययमिदं ज्ञानमात्मा शास्त्रं गुरोर्मुखम् | प्राधान्यात्स्वोपलब्धिः स्याद्विकल्पार्णवतारिणी || विकल्पाज्जायते शङ्का सा शङ्का बन्धरूपिणी | बन्धोऽन्यो न हि विद्येत ऋते शङ्कां विकल्पजाम् || विकल्पायासयुक्तस्य न हि स्याच्छ्रेयसी गतिः | मन्त्रशङ्कात्मशङ्का च द्रव्यशङ्का तथा पुनः || भूतशङ्का तथा दिव्यकर्मशङ्का परा मता | पञ्चधा तु स्मृता शङ्का तत्त्वशङ्का परा स्मृता || षड्वधां कथयिष्यामि यथा मोक्षमवाप्स्यसि |᳚
SK
इत्याद्युपक्रम्य ᳚तस्मात्सर्वप्रयत्नेन स्वात्मप्रत्ययकारणम् | स्वसंवित्तिकरं नॄणां नरशक्तिशिवात्मकम् || बोद्धव्यं लयभेदेन यथाप्रत्ययमात्मनि | विकल्पक्षीणचित्तस्तु परमाद्वैतभावितः || मुच्यते नात्र सन्देह इति सत्यं ब्रवीमि ते ||᳚ इति || १९८ || ननु श्रीपूर्वशास्त्रमधिकृत्येदमुच्यते इत्युपक्रान्तं तत्किमिह श्रीमन्नन्दिशिखाद्यवान्तरग्रन्थार्थकथनेन? -- इत्याशङ्क्याह -- एनमेवार्थमन्तःस्थं गृहीत्वा मालिनीमते | मालिनीमते निरूपितमिति प्राच्येन संबन्धः | तदेव पठति -- एवमस्यात्मनः काले कस्मिंश्चिद्योग्यतावशात् || १३-१९९ || शैवी संबध्यते शक्तिः शान्ता मुक्तिफलप्रदा | तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते || १३-२०० || इत्युक्त्वा तीव्रतीव्राख्यविषयं भाषते पुनः | अज्ञानेन सहैकत्वं कस्यचिद्विनिवर्तते || १३-२०१ || रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया | भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति || १३-२०२ || तमाराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम् | तत्क्षणाद्वोपभोगाद्वा देहपाताच्छिवं व्रजेत् || १३-२०३ || एतच्च स्वयमेव व्याचष्टे -- अस्यार्थ आत्मनः काचित्कलनामर्शनात्मिका | स्वं रूपम् प्रति या सैव कोऽपि काल इहोदितः || १३-२०४ || योग्यता शिवतादात्म्ययोगार्हत्वमिहोच्यते | अस्य श्लोकचतुष्टयस्यायमर्थः यदात्मनो या काचिद् बहिर्मुखताविलक्षणा स्वात्मप्रत्यवमर्शनात्मिका कलना, सैवेह कोऽपि कर्मसाम्यादिविलक्षणान्तःस्पर्शात्मा कालः, यदुक्तं कस्मिंश्चित्काल इति | शिवतादात्म्यलक्षणं योगमर्हति इति योग्यस्तस्य भावो योग्यता ताद्रूप्यग्रहणसहिष्णुत्वमित्युक्तं -- योग्यतावशादिति || ननु स्वात्मप्रत्यवमर्शे व्यतिरिक्तं तावन्निमित्तं किञ्चिन्नापेक्षणीयं तत्पूर्वमपि सोऽस्तु, यद्वा इदानीमपि मा भूत्? -- इत्याशङ्क्याह -- पूर्वं किं न तथा कस्मात्तदैवेति न सङ्गतम् || १३-२०५ || तथाभासनमुज्झित्वा न हि कालोऽस्ति कश्चन |
SK
यदि नाम हि परस्य प्रकाशस्य तथास्वरूपपरामर्शात्मकतयावभासनमपहाय तन्निरपेक्षः स्वतन्त्रः कश्चित्कालः स्यात्, तत् तदधिकारेण चोद्येतापि यदिदानीमिव पूर्वमपि कस्मान्नैतदिति | स एव पुनः प्रकाश्यदशामधिशयानः प्रकाश्यत्वादेव प्रकाशैकात्म्यापत्तेस्तदतिरेकेण नास्तीत्यसङ्गतमेवैतत् || ननु यद्येवं तत्कथमेतदतीतवर्तमानाद्याभाससंभिन्नतया भावजातं भायात्? -- इत्याशङ्क्याह -- स्वातन्त्र्यात्तु तथाभासे कालशक्तिर्विजृम्भताम् || १३-२०६ || न तु पर्यनुयुक्त्यै सा शिवे तन्महिमोदिता | मायापदे पुनस्तत्स्वातन्त्र्यादतीतवर्तमानाद्याभासनिमित्तं विजृम्भतां नाम कालशक्तिः, परस्मिन्प्रकाशे पुनस्तदभेदमाधातुं न समर्था यतस्तत्स्फारमात्रमेवासावित्युक्तं प्राग्बहुशः | एवमात्मनः स्वस्वरूपामर्शने सति शिवतादात्म्यार्हतया तच्छक्तिः संबध्यत इति प्रथमश्लोकार्थः || ननु ᳚अवस्थात्रितयेऽप्यस्मिंस्तिरोभावनशीलया | शिवशक्त्या समाक्रान्ताः प्रकुर्वन्ति विचेष्टितम् || (मा.वि.५|३६) इत्याद्युक्त्या सदैवैषां शिवशक्तिसंबन्धोऽस्ति, तत्कस्मिंश्चित्काले सा संबध्यते इत्येतत्कस्मादुक्तम्? -- इत्याशङ्कां प्रदर्श्य प्रतिक्षिपति -- ननु शैवी महाशक्तिः संबद्धैवात्मभिः स्थिता | सत्यं साच्छादनात्मा तु शान्ता त्वेषा स्वरूपदृक् || १३-२०७ || आच्छादनात्मेति प्रकाशात्मस्वरूपावरणात्, स्वरूपदृगिति तत्तदावरणविगमनेन परिपूर्णस्वस्वरूपप्रकाशिका -- इत्यर्थः | यदुक्तम् � ᳚वामा संसारवमना स्वरूपावरणात्मिका |᳚ इति | तथा ᳚क्रमेण सर्वभोगाप्तसंस्कारार्थपरम्पराम् | संजिहीर्षुर्महापूर्णा ज्येष्ठा मोक्षैकपद्धतिः ||᳚ इति || २०७ || नन्वस्य स्वरूपावरणदर्शनाद्यनेककार्यकरणप्रवणतया विमर्शमयी स्वातन्त्र्यशक्तिरेव सर्वतः समुज्जृम्भते, तत् आच्छादनात्मा वामेति शान्ता च ज्येष्ठा इत्येतत्कथमुक्तम्? -- इत्याशङ्क्याह -- क्षोभो हि भेद एवैक्यं प्रशमस्तन्मयी ततः || १३-२०८ ||
SK
भेदो हि क्षोभ एव न तु शान्तत्वम् | एक्यमभेदश्च प्रशम एव न तु क्षोभः | ततो हेतोरेषा शक्तिस्तन्मयी क्षोभमयी प्रशममयी च भवेत्, येनोक्तमियमाच्छादनात्मा शान्ता चेति || ननु भवत्वेवं शान्ता पुनः किं समनन्तरमेव स्वरूपम् दर्शयेदुत केनचित्क्रमेण? -- इत्याशङ्क्याह -- तया शान्त्या तु संबद्धः स्थितः शक्तिस्वरूपभाक् | त्यक्ताणुभावो भवति शिवस्तच्छक्तिदार्ढ्यतः || १३-२०९ || तया शान्त्या शान्तया शक्त्या पुनः संबद्धः स्थितः सन् आत्मा शक्तिस्वरूपभाक् साक्षाच्छुद्धविद्यादशाधिशायी भवेत्, अत एव त्यक्ताणुभावः संस्तस्यामेव शक्तौ दार्ढ्यं तदावेशवैवश्यमाश्रित्य शिवो भवति तत्तदावरणतिरस्करिणीतिरस्कारादभिव्यक्तपूर्णकर्तृत्वसतत्त्वसंवि देकरूपः स्यात् -- इत्यर्थः | यदुक्तं समनन्तरमेव -- श एव प्रतिभायुक्तः शक्तितत्त्वं निगद्यते | तत्पातावेशतो मुक्तः पशुरेव भवार्णवात् ||᳚ इति || २०९ || नन्वेवमस्य स्वरूपलाभः किं सत्येव देहे भवेत्, उतासति? -- इत्याशङ्क्याह -- तत्रापि तारतम्यादिवशाच्छीघ्रचिरादितः | देहपातो भवेदस्य यद्वा काष्ठादितुल्यता || १३-२१० || ननु अहञ्चमत्कारसारपरसंविदद्वयमयेऽपि अस्मद्दर्शने यदि जीवतोऽपि काष्ठादितुल्यता नाम मुक्तिस्तत्सर्वगुणच्छेदादेवंप्रायां मुक्तिमभिदधतामक्षपादानां क इव उपहासावसरः? -- इत्याशङ्क्याह -- समस्तव्यवहारेषु पराचीनितचेतनः | तीव्रतीव्रमहाशक्तिसमाविष्टः स सिध्यति || १३-२११ || स तीव्रतीव्रशक्तिभाक् समस्तेषु बाह्यव्यवहारेषु पराचीनितं पराचि भवं संपादितं चेतनं येन स पराङ्मुखीकृतानुसंधानः सिद्ध्यति परसंविच्चमत्कारानुभवलाभभाजनं भवति -- इत्यर्थः || एवमेतदुपसंहरन्नन्यदुपक्षिपति -- एवं प्राग्विषयो ग्रन्थ इयानन्यत्र तु स्फुटम् | ग्रन्थान्तरं मध्यतीव्रशक्तिपातांशसूचकम् || १३-२१२ ||
SK
प्राग्विषय इति तीव्रतीव्रशक्तिपातविषयः | इयानिति सार्धश्लोकरूपः | अन्यत्रेति मध्यतीव्रमन्दतीव्राख्ये शक्तिपातद्वये | मध्यतीव्राख्यस्य द्वितीयस्य शक्तिपातस्य प्राथमिकेनांशेन भागेन सूचकमर्थाद् द्वितीयेनांशेन, तच्च मन्दतीव्राख्यस्य तृतीयस्यास्य सूचकम् | यद्वक्ष्यति -- श इत्यन्तो ग्रन्थ एष द्वितीयविषयः स्फुटः | अन्यस्तु मन्दतीव्राख्यशक्तिपातविधिं प्रति᳚ || इति || २१२ || तदेव व्याचष्टे � अज्ञानरूपता पुंसि बोधः सङ्कोचिते हृदि | सङ्कोचे विनिवृत्ते तु स्वस्वभावः प्रकाशते || १३-२१३ || इह हृदि सारभूते विमर्शात्मनि रूपे, सङ्कोचिते गुणीभावमापादिते, यः पुंसि परिमितात्मनि अपूर्णख्यातिरूपो बोधः सैवाज्ञानरूपता तेन सहैकत्वम् -- इत्यर्थः | स एव सङ्कोचहेतुकश्चेत्कस्यचिन्निवृत्तः, तदास्य स्व एवानन्यसाधारणः, स्वभावः प्रकाशते पूर्णज्ञानक्रियो भवेत् -- इत्यर्थः | तन्निवृत्तौ च पारमेश्वरः शक्तिपात एव निमित्तम् | तदुदये च तानि तानि चिह्नानि जायन्ते | येनास्य शक्तिपातो वृत्त इति सर्व उपलक्षयेत् || २१३ || तदाह � रुद्रशक्तिसमाविष्ट इत्यनेनास्य वर्ण्यते | चिह्नवर्गो य उक्तोऽत्र रुद्रे भक्तिः सुनिश्चला || १३-२१४ || मन्त्रसिद्धिः सर्वतत्त्ववशित्वं कृत्यसंपदः | कवित्वं सर्वशास्त्रार्थबोद्धृत्वमिति तत्क्रमात् || १३-२१५ || स्वतारतम्ययोगात्स्यादेषां व्यस्तसमस्तता | तत्रापि भुक्तौ मुक्तौ च प्राधान्यं चर्चयेद् बुधः || १३-२१६ || उक्त इति श्रीपूर्वशास्त्रे | तदुक्तं तत्र ᳚रुद्रशक्तिसमावेशस्तत्र नित्यं प्रतिष्ठितः | सति तस्मिंश्च चिह्नानि तस्यैतानि विलक्षयेत् || तत्रैतत्प्रथमं चिह्नं रुद्रे भक्तिः सुनिश्चला | द्वितीयं मन्त्रसिद्धिः स्यात्सद्यःप्रत्ययकारिका || सर्वतत्त्ववशित्वं च तृतीयं लक्षणं स्मृतम् | प्रारब्धकार्यनिष्पत्तिश्चिह्नमाहुश्चतुर्थकम् || कवित्वं पञ्चमं ज्ञेयं सालङ्कारं मनोहरम् | सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ||᳚ (८|१३)
SK
इति | कृत्यसंपद इति कृत्यानां प्रारब्धानां कार्याणां निष्पत्तये -- इत्यर्थः | तत्क्रमादिति तस्या रुद्रशक्तेः क्रमाद्यथायथमतिशयात् -- इत्यर्थः | अत एवाह -- स्वेत्यादि | स्वतारतम्येत्यर्थाद्रुद्रशक्तेः | तत्रापीति, एवं व्यस्तसमस्ततायामपि -- इत्यर्थः | तथाहि -- ᳚भक्तिरेव परां काष्ठां प्राप्ता मोक्षोऽभिधीयते |᳚ इत्युक्त्या भक्त्यादीनां मुक्तौ मन्त्रसिद्ध्यादीनां च भुक्तौ प्राधान्यमन्यत्र चानुषङ्ग इति | समस्तं चेदं चिह्नजातमस्मिन्नेव ग्रन्थकारे प्रादुरभूदिति प्रसिद्धिः | यद्गुरवः -- ᳚अकस्मात्सर्वशास्त्रार्थज्ञत्वाद्यं लक्ष्मपञ्चकम् | यस्मिञ्छ्रीपूर्वशास्त्रोक्तमदृश्यत जनैः स्फुटम् ||᳚᳚ इति || २१६ || एतदुपसंहरन्मन्दतीव्रग्रन्थं विभजति -- स इत्यन्तो ग्रन्थ एष द्वितीयविषयः स्फुटः | अन्यस्तु मन्दतीव्राख्यशक्तिपातविधिं प्रति || १३-२१७ || एतदेव व्याचष्टे � मन्दतीव्राच्छक्तिबलाद् यियासास्योपजायते | शिवेच्छावशयोगेन सद्गुरुं प्रति सोऽपि च || १३-२१८ || अत्रैव लक्षितः शास्त्रे यदुक्तं परमेष्ठिना | शिवेच्छावशयोगेनेति शिवेच्छाया वशात्स्वातन्त्र्याद्योगेन शैवी शक्तिरनन्यापेक्षतयैवास्य संबध्यते -- इत्यर्थः | तद्योगश्चानेकविध इति विभक्तं मन्दतीव्राच्छक्तिबलादिति | सोऽपीति सद्गुरुः | अत्रैव शास्त्रे इति प्रकान्ते श्रीपूर्वसंज्ञके || तदेव पठति � यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः || १३-२१९ || स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः | दृष्टाः संभावितास्तेन स्पृष्टाश्च प्रीतचेतसा || १३-२२० || नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि | ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः || १३-२२१ || ते यथेष्टं फलं प्राप्य पदं गच्छन्त्यनामयम् |
SK
यथार्थत इति पाञ्चदश्यादिरूपतया सर्वसर्वात्मकत्वेन -- इत्यर्थः | मत्सम इति श्रीश्रीकण्ठनाथोक्तिः | एतदेव मन्त्रवीर्यप्रकाशक इत्यादिना प्रकाशितम् | संभाविता इति निर्ध्याताः | प्रमुच्यन्त इति ज्ञानाग्निदग्धत्वात् | शिवचोदिता इति आयातशक्तिपाताः | यथेष्टं फलमिति भुक्तिमुक्तिलक्षणम् || ननु शिवेच्छयास्य सद्गुरुं प्रति यियासा जायते इत्यत्र किं लिङ्गम्? -- इत्याशङ्क्याह -- किं तत्त्वं तत्त्ववेदी क इत्यामर्शनयोगतः || १३-२२२ || प्रतिभानात्सुहृत्सङ्गाद्गुरौ जिगमिषुर्भवेत् | एवं जिगमिषायोगादाचार्यःप्राप्यते स च || १३-२२३ || तारतम्यादियोगेन संसिद्धः संस्कृतोऽपि च | अस्य हि शिवशक्तिपातवशादेवमामर्शयोगिनी प्रतिभा जायते कल्याणमित्रपरिचयो वा | यस्य हि स्वयमेवं प्रतिभा नोदियात्, तस्य तदासङ्गादिति उभयथाप्येवं प्रतिभायामुदितायां सद्गुरुं प्रति जिगमिषुर्भवेत् | अतो जिगमिषायोगाद्गतौ सत्यामाचार्यस्तेन प्राप्यते | स चाचार्यः शक्तिपातस्य तीव्रत्वात् प्रागुक्तलक्षणः सांसिद्धिकः, इतरथा तु संस्कृतः || एवं चास्य उपलक्षणपरतया अवान्तरमपि तरतमभावं विभजति -- प्राग्भेदभागी झटिति क्रमात्सामस्त्यत्ॐऽशतः || १३-२२४ || इत्यादिभेदभिन्नो हि गुरोर्लाभ इहोदितः | तस्माद्दीक्षां स लभते सद्य एव शिवप्रदाम् || १३-२२५ || ज्ञानरूपां यथा वेत्ति सर्वमेव यथार्थतः | जीवन्मुक्तः शिवीभूतस्तदैवासौ निगद्यते || १३-२२६ || तत्र प्राग्भेदभागी संसिद्धविषयो यो लाभः प्राप्तिः, स शक्तिपातस्य तारतम्ययोगात् गुरोः सामस्त्यतः सामस्त्येन अंशतः अंशेन प्रागुक्तनीत्या सर्वगस्यांशगतस्य चाक्रमेण क्रमेण वा इत्यादिभेदभिन्नो भवेत्, एवं संस्कृतविषयोऽपि कल्पितस्याकल्पितस्य वा इत्याद्यनुसर्तव्यम् | स चैवंविधात्तस्मादाचार्यादेवं दीक्षां लभते यथाऽसौ तदैव शिवीभूतः सन् सर्वमेव यथार्थतो वेत्ति च जीवन्मुक्तश्च निगद्यते | यदुक्तम् -- ᳚...................टत्क्षणाद्वा शिवं व्रजेत् |᳚ इति || २२६ ||
SK
ननु देहसंबन्धेऽप्यस्य कथमेवंरूपत्वं स्यात् ? -- इत्याशङ्क्याह -- देहसंबन्धिताप्यस्य शिवतायै यतः स्फुटा | नहि तदानीमस्य देहादावात्माभिमानो भवेत् -- इति भावः || सा चेयमनेकप्रकारा दीक्षा -- इत्याह -- अस्यां भेदो हि कथनात्सङ्गमादवलोकनात् || १३-२२७ || शास्त्रात्संक्रमणात्साम्यचर्यासंदर्शनाच्चरोः | मन्त्रमुद्रादिमाहात्म्यात्समस्तव्यस्तभेदतः || १३-२२८ || क्रियया वान्तराकाररूपप्राणप्रवेशतः | कथनादिति तत्त्वस्य | सङ्गमादिति सङ्घटनामात्रात् | शास्त्रादिति व्याख्यानात् | साम्यचर्यासंदर्शनादिति साम्येन जात्यादिभेदतिरस्कारेण, बाह्यचर्यायाः संदर्शनात् विमर्शनादनुष्ठानादिति यावत् | चरोरिति कुण्डगोलकादेः | क्रिययेति होमादिरूपया | वा शब्दः समुच्चये | आन्तराकाररूपप्राणप्रवेशत इति बाह्यदेहापेक्षयाभ्यन्तराकारप्राणप्रवेशाद्योगक्रमेण -- इत्यर्थः | एतच्च शक्तिपातस्य तारतम्यात् व्यस्तं समस्तं वा भवेत् -- इत्युक्तम् समस्तव्यस्तभेदत इति || एवंविधया चानया ᳚कथनादुभयसामरस्यम्᳚ इत्याद्युक्तनीत्या सत्यपि देहे परसंविद्विश्रान्तिर्जायते, येनायं जीवन्मुक्त इति व्यपदेशपात्रतामियात् | तदाह -- तदा च देहसंस्थोऽपि स मुक्त इति भण्यते || १३-२२९ || किमत्र प्रमाणम्? -- इत्याशङ्क्याह -- उक्तं च शास्त्रयोः श्रीमद्रत्नमालागमाख्ययोः | तदेव पठति � यस्मिन्काले तु गुरुणा निर्विकल्पं प्रकाशितम् || १३-२३० || तदैव किल मुक्तोऽसौ यन्त्रं तिष्ठति केवलम् | यन्त्रमिति अकिञ्चित्करत्वात् || ननु यदि तदानीं देहादेर्यन्त्रप्रायता, तत्कथं सुखदुःखे स्यातां स्यातां चेन्न मुक्तत्वम्? -- इत्याशङ्क्याह -- प्रारब्धकर्मसंबन्धाद्देहस्य सुखिदुःखिते || १३-२३१ || न विशङ्केत तच्च श्रीगमशास्त्रे निरूपितम् | देहस्य देहबुद्ध्यादेरनात्मनः | न विशङ्केतेति सुखदुःखानुभवान्नास्मि मुक्त इति | ननु नेयं निर्मूला शङ्का, तत्कथमेवमुक्तम्? -- इत्याशङ्क्याह -- ᳚तच्च श्रीगमशास्त्रे निरूपितम्᳚ इति | चो ह्यर्थे || तदेव पठति �
SK
अविद्योपासितो देहो ह्यन्यजन्मसमुद्भवा || १३-२३२ || कर्मणा तेन बाध्यन्ते ज्ञानिनोऽपि कलेवरे | ननु देहप्रारब्धॄणि त्रीणि जात्यायुर्भोगदानि कर्माणि संभवन्ति इति कथं कर्मणा इत्येकवचनेन निर्देशः? तच्छब्दस्य च यच्छब्दनिर्देश्यपरामृश्यार्थानुपलक्षणात् कथमुपपत्ति? -- इत्याशङ्काद्वयं गर्भीकृत्याह -- जात्यायुर्भोगदस्यैकप्रघट्टकतया स्थितिः || १३-२३३ || उक्तैकवचनाद्धिश्च यतस्तेनेतिसङ्गतिः | एकवचनादिति कर्मणेति | यतस्तेनेतिसङ्गतिरिति यतस्तेनेत्येवंरूपा हेतुहेतुमद्भावलक्षणा सङ्गतिर्यस्यासौ एवंविधो, हिरिति हिशब्दार्थ एवं तच्छब्देन परामृश्यते -- इत्यर्थः | तेन जन्मान्तरोपार्जितेन जात्यायुर्भोगदत्वात् त्रिविधेन एकप्रघट्टकतयोक्तेन कर्मणा यतो मायाधिष्ठितो देहो भवति, तेन कलेवरे सति ज्ञानिनोऽपि बाध्यन्ते सुखदुःखानुभवाद् बद्धा इव लक्ष्यन्ते इति श्रीगमग्रन्थार्थः | अनेन च उपभोगाद्वा शिवं व्रजेदिति विवृतम् || इदानीं तु देहपाताच्छिवं व्रजेदिति विवृणोति -- अभ्यासयुक्तिसंक्रान्तिवेधघट्टनरोधतः || १३-२३४ || हुतेर्वा मन्त्रसामर्थ्यात्पाशच्छेदप्रयोगतः | सद्योनिर्वाणदां कुर्यात्सद्यःप्राणवियोजिकाम् || १३-२३५ || अभ्यासः पौनःपुन्येन प्राणचारामर्शनम् | युक्तिर्वक्ष्यमाणजालप्रयोगादिरूपा | संक्रान्तिः परपुरप्रवेशादिः | वेधो मन्त्रादिरूपतया वक्ष्यमाणः | घट्टनं प्राणविक्षेपः | रोधः प्राणस्य गतागतपरिहारेण मध्यधामनि अवस्थापनम् | मन्त्रस्येति कालरात्र्यादेः | सद्य इति दीक्षासमकालम् || न चेयं सर्वथा कार्यो -- इत्याह -- तत्र त्वेषोऽस्ति नियम आसन्ने मरणक्षणे | तां कुर्यान्नान्यथारब्धृ कर्म यस्मान्न शुद्ध्यति || १३-२३६ || उक्तं च पूर्वमेवैतन्मंत्रसामर्थ्ययोगतः | प्राणैर्वियोजितोऽप्येष भुङ्क्ते शेषफलं यतः || १३-२३७ || तज्जन्मशेषं विविधमतिवाह्य ततः स्फुटम् | कर्मान्तरनिरोधेन शीघ्रमेवापवृज्यते || १३-२३८ || अन्यथेति अनासन्ने मरणे | यदुक्तम् --
SK
᳚दृष्ट्वा शिष्यं जराग्रस्तं व्याधिभिः परिपीडितम् | उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ||᳚ इति | ननु अनासन्नमरणस्यापीयमस्तु को नियमः, अस्यां हि कृतायां तदैव मुक्तिः स्यादिति किं मरणासत्तिक्षणापेक्षादिविलम्बनेन? -- इत्याशङ्क्योक्तम् -- आरब्धृ कर्म यस्मान्न शुद्ध्यतीति | ननु इयं चेत्कर्मणः शोधिका तद्भविष्यत इवास्याप्यस्तु, न चेदस्येव तस्यापि मा भूत्? -- इत्याशङ्क्योक्तम् -- उक्तं च पूर्वमेवैतदिति | पूर्वमिति नवमाह्निके | यदुक्तं तत्र -- ᳚आरब्धकार्यं देहेऽस्मिन्यत्पुनः कर्म तत्कथम् | उच्छिद्यतामन्त्यदशं निरोद्धुं न हि शक्यते ||᳚ (१३१) इत्यादि | ननु अनया मन्त्रसामर्थ्यात्प्राणवियोग एव चेत्कृतस्तद्भोक्तुरेवाभावात् कस्य नामैतत्कर्म फलेदिति किं तच्छुद्ध्यशुद्धिविचारेण? -- इत्याशङ्क्याह -- मन्त्रेत्यादि | शेषस्य शोधितादवशिष्टस्य देहारम्भकस्य कर्मणः -- इत्यर्थः | यतस्तस्मात् प्राक्तनाज्जन्मनः शेषं प्रारब्धृकर्मकार्यं विचित्रमायुर्भोगादि ततो भोगादतिवाह्य परिसमाप्य कर्मान्तरस्य भविष्यदादेरपि विलम्बकारिणोऽप्यन्यस्य कस्यचिदभावादपवृज्यते मुच्यते -- इत्यर्थः | तद्युक्तमुक्तमासन्न एव मरणक्षणे तां कुर्यादिति || २३८ || अत आह -- तस्मात्प्राणहरीं दीक्षां नाज्ञात्वा मरणक्षणम् | विदध्यात्परमेशाज्ञालङ्घनैकफला हि सा || १३-२३९ || एवं हि परमेश्वराज्ञोल्लङ्घनादन्यत्किञ्चिन्न सिद्ध्यति इत्यावेदितं स्यात् || २३९ || एवं प्रकृतमुपसंहरन्नन्यदवतारयति -- एकस्त्रिकोऽयं निर्णीतः शक्तिपातेऽप्यथापरः | एकस्त्रिक इति तीव्राख्यः || तदेवाह -- तीव्रमध्ये तु दीक्षायां कृतायां न तथा दृढाम् || १३-२४० || स्वात्मनो वेत्ति शिवतां देहान्ते तु शिवो भवेत् | न तथा दृढामिति अविकल्पस्वभावस्वात्मज्ञानसाक्षात्काराभावात् || किमत्र प्रमाणम्? -- इत्याशङ्क्याह -- उक्तं च निशिसञ्चारयोगसञ्चारशास्त्रयोः || १३-२४१ || तदेवार्थद्वारेण पठति -- विकल्पात्तु तनौ स्थित्वा देहान्ते शिवतां व्रजेत् | यदुक्तं तत्र --
SK
᳚विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् |᳚ इति || मध्यमध्ये शक्तिपाते शिवलाभोत्सुकोऽपि सन् || १३-२४२ || बुभुक्षुर्यत्र युक्तस्तद्भुक्त्वा देहक्षये शिवः | मन्दमध्ये तु तत्रैव तत्त्वे क्वापि नियोजितः || १३-२४३ || देहान्ते तत्त्वगं भोगं भुक्त्वा पश्चाच्छिवं व्रजेत् | यत्रेति अभिमते तत्त्वादौ | तदिति तत्रत्यमेव योगाभ्यासादिलब्धं भोगजालम् | भुक्त्वा इत्यर्थादनेनैव देहेन | अत एवोक्तम् -- देहक्षये शिव इति | तत्रैवेति प्रक्रान्ते शक्तिपाते | क्वापि यथाभिमते | नियोजित इत्यर्थाच्छिवलाभोत्सुकोऽपि सन्निति | भुक्त्वेत्यर्थाद्देहान्तरेण | अत एवोक्तं देहान्ते तत्त्वगं भोगं भुक्त्वेति | यदुक्तमनेनैवान्यत्र ᳚मध्यमध्याच्छिवतोत्सुकोऽपि भोगपेर्प्सुर्भवतीति तथैव दीक्षायां ज्ञानभाजनम् | स च योगाभ्यासलब्धमनेनैव देहेन भोगं भुक्त्वा देहान्ते शिव एव | निकृष्टमध्यात्तु देहान्तरेण भोगं भुक्त्वा शिवत्वमेति ||᳚ (तंषा. ११ आ.) इति || एवमप्यत्र तरतमभावः कश्चित्संभवति, येन विशेषान्तरमप्युदियात् -- इत्याह -- तत्रापि तारतम्यस्य संभवाच्चिरशीघ्रता || १३-२४४ || बह्वल्पभोगयोगश्च देहभूमाल्पताक्रमः | तत्र प्रथमः प्रकारः पुत्रकविषयः | शिष्टं तु प्रकारद्वयं शिवधर्मिसाधकविषयमिति निरूपितम् || इदानीं तु लोकधर्मिविषयमवशिष्टं शक्तिपातं निरूपयति -- तीव्रमन्दे मध्यमन्दे मन्दमन्दे बुभुक्षुता || १३-२४५ || क्रमान्मुख्यातिमात्रेण विधिनैत्यन्ततः शिवम् |
SK
अत्रैवंप्रकारे मन्दाख्ये शक्तिपाते बुभुक्षुता अर्थाल्लोकधर्मिणः साधकस्य क्रमादतिमात्रेण मुख्या यथायथं प्रधानभूता -- इत्यर्थः | एवमप्यसौ लोकधर्मी पर्यन्ते विधिना स्वोचितेन दीक्षाप्रकारेण शिवमेति अपवृज्यत एव -- इत्यर्थः | यदुक्तमनेनैव - - ᳚भोगोत्सुकता यदा प्रधानभूता तदा मन्दत्वं पारमेश्वरमन्त्रयोगोपायतया यतस्तत्रौत्सुक्यम् | पारमेशमन्त्रयोगादेश्च यतो मोक्षपर्यन्तत्वमतः शक्तिपातरूपता | तत्रापि तारतम्यात् त्रैविध्यम् ||᳚ इति | अयं चात्राशयः -- यः कश्चित्तीव्रमन्दशक्तिपातवांल्लोकधर्मी, स दीक्षाबलात् देहान्ते क्वचन यथाभिमते भुवनादौ भोगान्भुक्त्वा शिवतां यायात् | यदुक्तम् -- ᳚लोकघर्मिणमारोप्य मते भुवनभर्तरि | तद्धर्मापादनं कुर्याच्छिवे वा मुक्तिकांक्षिणम् ||᳚ (मृटं.) इति | वक्ष्यति च � ᳚प्रारब्धदेहभेदे तु भुङ्क्तेऽसावणिमादिकम् | भुक्त्वोर्ध्वं याति यत्रैष युक्तोऽथ सकलेऽकले ||᳚ (१५|३१) इति | कश्चिच्च मध्यमन्दशक्तिपातवान् क्वचन भुवनादौ कञ्चित्कालं भोगान्भुक्त्वा, तदीश्वरदीक्षितः पर्यन्ते शिवतां गच्छेत् | मन्दमन्दशक्तिपातवान् पुनस्तत्रैव सालोक्यसामीप्यसायुज्यासादनक्रमेण चिरतरं कालं भोगान्भुक्त्वा, तत एव दीक्षामासाद्य शिवतामियात् || श्रीपूर्वशास्त्रीयमेव ग्रन्थं मतान्तरेण व्याचष्टे -- अन्ये यियासुरित्यादिग्रन्थं प्राग्ग्रन्थसङ्गतम् || १३-२४६ || कुर्वन्ति मध्यतीव्राख्यशक्तिसंपातगोचरम् | प्राग्ग्रन्थसङ्गतमिति प्राग्ग्रन्थेन ᳚अज्ञानेन सह᳚ इत्यादिना सङ्गतं संबद्धम् -- इत्यर्थः | अत्रैव विशेषणद्वारेण हेतुर्मध्यतीव्राख्यशक्तिसंपातगोचरमिति || तदेवाह � यदा प्रतिभयाविष्टोऽप्येष संवादयोजनाम् || १३-२४७ || इच्छन्यियासुर्भवति तदा नीयेत सद्गुरुम् |
SK
यदा हि रुद्रशक्तिसमावेशादज्ञानविनिवृत्त्या प्रोदितप्रातिभज्ञानोऽप्येष मध्यतीव्रशक्तिपातवान् संवादयोजनामिच्छन् प्रागुक्तयुक्त्या संवाददार्ढ्यमुत्पादयितुं यियासुर्गुरुकुलं जिगमिषुर्भवति, तदा पारमेश्वर्या शक्त्या सद्गुरुं प्रति नीयेत तदाभिमुख्येनास्य प्रवृत्तिरुत्पाद्यते -- इत्यर्थः || नचैतदविशेषेणैव भवेत् -- इत्याह -- न सर्वः प्रतिभाविष्टः शक्त्या नीयेत सद्गुरुम् || १३-२४८ || इति ब्रूते यियासुत्वं वक्तव्यं नान्यथा ध्रुवम् | यियासुत्वमिति प्रागेवोक्तं ब्रूत इति संबन्धः | अन्यथेति सर्वस्यैव शक्तिकर्तृके सद्गुरुप्रापणे | न वक्तव्यमिति यियासुत्वम् | यदि नाम हि सर्वोऽपि प्रातिभज्ञानभागाचार्यः सद्गुरुं प्रति अविशेषेण शक्त्या नीयेत, तद्यियासुशब्दस्य प्रयोगं विना ᳚रुद्रशक्तिसमाविष्टः(साधकः) स शिवेच्छया | भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ||᳚ इत्येतावदभिधानीयम् || तदाह � रुद्रशक्तिसमाविष्टो नीयते सद्गुरुं प्रति || १३-२४९ || एवं हि प्रातिभस्याचार्यस्य सभित्तिनिर्भित्त्यादिभेदभिन्नत्वं न भवेत् -- इति भावः || २४९ || तस्मात्प्रातिभज्ञानवत्त्वेऽपि संवाददार्ढ्यमनुपेक्षमाण एव यियासुर्भवति, नान्यः -- इत्याह -- तेन प्राप्तविवेकोत्थज्ञानसंपूर्णमानसः | दार्ढ्यसंवादरूढ्यादेर्यियासुर्भवति स्फुटम् || १३-२५० || नचैतन्निर्मूलं व्याख्यानम् -- इत्याह -- उक्तं नन्दिशिखातन्त्रे प्राच्यषट्के महेशिना | अभिलाषः शिवे देवे पशूनां भवते तदा || १३-२५१ || यदा शैवाभिमानेन युक्ता वै परमाणवः | तदैव ते विमुक्तास्तु दीक्षिता गुरुणा यतः || १३-२५२ || प्राप्तिमात्राच्च ते सिद्धसाध्या इति हि गम्यते | यद्यपि यदैव परमा अत्यन्तं बद्धा अणवः प्रातिभज्ञानात्मना शैवेनाभिमानेन युक्तास्तदैव विमुक्ताः, तथापि तदा तेषां प्रागवस्थापेक्षया पशूनां संवाददार्ढ्याय शिवे ᳚शिव आचार्यरूपेण लोकानुग्रहकारकः |᳚ इत्याद्युक्त्या गुरावभिलाषो यियासा भवति, यतो गुरुणा दीक्षिताः कृतसंस्कारा भवन्ति -- इत्यर्थः |
SK
ततश्च ᳚यस्त्वकल्पितरूपोऽपि संवाददृढताकृते | अन्यतो लब्धसंस्कारः स साक्षाद्भैरवो गुरुः ||᳚ (तंत्रालो. ४|७७) इत्याद्युक्त्या गुर्वादेरन्यतः संस्कारस्य दृढताकृते प्राप्तिमात्रादेव ते सिद्धसाध्या निकृत्तभवबन्धना भवन्ति इति गम्यते तात्पर्येणावबुध्यते -- इत्यर्थः | यदुक्तं तत्र सार्धश्लोकानन्तरम् - - शमाघ्रय यदा शक्त्या गुरुमूर्तिस्तदा विभुः | आविश्य दीक्षयाणूनां स्वशक्त्या शक्तिमान्पतिः || कृन्तते बन्धजालं तु कृत्यन्ते बन्धसञ्चयाः | तेन बन्धनिकृन्ती सा कथिता तु शिवाध्वरे ||᳚ इति || नन्वेवं यियासुरित्यादिग्रन्थश्चेन्मध्यतीव्रस्य शक्तिपातस्य विषयस्तन्मन्दतीव्रस्य कः स्यात्? -- इत्याशङ्क्याह � तमाराध्येति तु ग्रन्थो मन्दतीव्रैकगोचरः || १३-२५३ || तीव्रतीव्रविषयस्तु ग्रन्थः प्राग्यदेवेत्यर्थसिद्धम् || तदेवोपसंहरति � नवधा शक्तिपातोऽयं शम्भुनाथेन वर्णितः | अमुमेवार्थं तात्पर्यगत्या निरूपयति -- इदं सारमिह ज्ञेयं परिपूर्णचिदात्मनः || १३-२५४ || प्रकाशः परमः शक्तिपातोऽवच्छेदवर्जितः | तथाविधोऽपि भोगांशावच्छेदेनोपलक्षितः || १३-२५५ || अपरः शक्तिपातोऽसौ पर्यन्ते शिवताप्रदः | इदम् इहास्मिन् नवविधेऽपि शक्तिपाते सारं ज्ञेयं यत्परिमितेऽप्यात्मनि परिपूर्णचिदात्मतया यः परमः प्रकाशः, स परमः शक्तिपात उच्यते, यतोऽवच्छेदवर्जितस्तत्तदुपाधिविगलनादनवच्छिन्नसंविदेकस्वभावः - - इत्यर्थः | असौ पुनरपरः शक्तिपातो यः परिपूर्णचिदात्मतया प्रकाशमानत्वेऽपि भोगांशावच्छिन्नः | अत एवोक्तम् -- पर्यन्ते शिवताप्रद इति || नन्वेवंविधस्यास्य शक्तिपातस्य को हेतुः, किं कर्म किमुतान्यत् किञ्चित्? -- इत्याशङ्क्याह -- उभयत्रापि कर्मादेर्मायान्तर्वर्तिनो यतः || १३-२५६ || नास्ति व्यापार इत्येवं निरपेक्षः स सर्वतः |
SK
नास्ति व्यापार इति नैतत्कृतः शक्तिपातः -- इत्यर्थः | अत्र विशेषणद्वारेण हेतुर्मायान्तर्वर्तिन इति | यदेव हि कर्मादि अणोर्मायान्तर्वर्तितायां निमित्तं तत्कथं तदुत्तीर्णतायां निमित्ततां यायात् -- इत्याशयः | यथोक्तं प्राक् � ᳚तत्रास्य नाणुगे तावदपेक्ष्ये मलकर्मणी | अणुस्वरूपताहानौ तद्गतं हेतुतां कथम् || व्रजेन्मायानपेक्षत्वमत एवोपपादयेत् |᳚ (१३-११५) इति | अनेन च शक्तिपातविचित्रतानन्तर्येणानुजोद्देशोद्दिष्टमायानिरपेक्षत्वसिद्धेरव काशो दत्तः || अतश्च शुद्धात्मनां कर्मादिनैरपेक्ष्येणैव भैरवीभावो भवेत् -- इत्याह -- तेन मायान्तराले ये रुद्रा ये च तदूर्ध्वतः || १३-२५७ || स्वाधिकारक्षये तैस्तैर्भैरवीभूयते हठात् | ये मायया ह्यनाक्रान्तास्ते कर्माद्यनपेक्षिणः || १३-२५८ || शक्तिपातवशादेव तां तां सिद्धिमुपाश्रिताः | हठादिति कर्मादिनिरपेक्षपरमेश्वरशक्तिपातबलात् -- इत्यर्थः | ननु मायोर्ध्वे कर्मादेरसंभवादस्तु नाम तन्नैरपेक्ष्यं मायान्तस्तु तत्संभवात्कथमेतत्सङ्गच्छताम् | तथात्वे वा कस्मात्तत्तत्सिद्ध्युदयः? -- इत्याशङ्क्याह -- ये माययेत्यादि | तां तां सिद्धिं भुक्तिमुक्तिलक्षणाम् || नन्वेते पूजाजपादिकर्मणैव तां तां सिद्धिमुपाश्रिता इति कथङ्कारमुक्तकर्माद्यनपेक्षिणः? -- इत्याह -- ननु पूजाजपध्यानशङ्करासेवनादिभिः || १३-२५९ || ते मन्त्रादित्वमापन्नाः कथं कर्मानपेक्षिणः | एतदेव परिहरति � मैवं तथाविधोत्तीर्णशिवध्यानजपादिषु || १३-२६० || प्रवृत्तिरेव प्रथममेषां कस्माद्विविच्यताम् | इह तावदिदमेव चिन्त्यतां यदेषां शुद्धात्मनां प्रथममेव तथाविधान्मायान्तश्चारिणः कर्मादेरुत्तीर्णस्तदपरामृष्टो योऽयं शिवस्तद्विषयेषु ध्यानजपादिषु कस्मात्प्रवृत्तिः किं तत्र निमित्तम् -- इत्यर्थः || ननूक्तमेवात्र कर्मतत्साम्यादि निमित्तम्? -- इत्याशङ्क्याह -- कर्मतत्साम्यवैराग्यमलपाकादि दूषितम् || १३-२६१ || ईश्वरेच्छा निमित्तं चेच्छक्तिपातैकहेतुता ||
SK
दूषितमिति समनन्तरमेव | ईश्वरेच्छा चेन्निमित्तं तर्ह्यस्मत्पक्षमेवागतोऽसि यच्छुद्धात्मनां तत्र तत्र कर्मादिनिरपेक्षः पारमेश्वरः शक्तिपात एवैको हेतुरिति || नचैवं जपादेः कर्मता न्याय्या -- इत्याह -- जपादिका क्रियाशक्तिरेवेत्थं न तु कर्म तत् || १३-२६२ || कर्म तल्लोकरूढं हि यद्भोगमवरं ददत् | तिरोधत्ते भोक्तृरूपं संज्ञायां तु न नो भरः || १३-२६३ || इत्थं शक्तिपातैकहेतुकत्वे जपादिलक्षणा क्रिया पारमेश्वरी स्वरूपविकासिका क्रियाशक्तिरेव, न तु तत्कर्म | तद्धि कर्म लोके रूढं यदवरं परिमितं भोगं ददद्भोक्तुः पूर्णं रूपम् तिरोधत्ते तथातथासङ्कोचनादावृणुयात् -- इत्यर्थः | अथ जपाद्यपि लोके कर्मतया प्रसिद्धमित्युच्यते, तत्को नाम नाम्नि विवादं विद्वान्विदध्यात् -- इत्याह -- संज्ञायां तु न नो भर इति || २६३ || ननु यद्येते मायया कर्मणा वाप्यनाक्रान्तास्तदेषां पूर्णत्वात् तस्यां तस्यां सिद्धावभिलाष एव कथं भवेत्? -- इत्याशङ्कां प्रदर्श्य प्रतिक्षिपति -- तेषां भोगोत्कता कस्मादिति चेद्दत्तमुत्तरम् | चित्राकारप्रकाशोऽयं स्वतन्त्रः परमेश्वरः || १३-२६४ || स्वातन्त्र्यात्तु तिरोभावबन्धो भोगेऽस्य भोक्तृताम् | पुष्णन्स्वं रूपमेव स्यान्मलकर्मादिवर्जितम् || १३-२६५ || दत्तमिति प्राक्स्वमतप्रदर्शनोपक्रमे | तदेव संक्षेपेण व्यनक्ति चित्रेत्यादिना | अयं तावदेक एव चिद्रूपः परमेश्वरः स्वस्वातन्त्र्याच्चित्रेण तत्तत्प्रमातृप्रमेयाद्यात्मकेनानेकेनाकारेण प्रकाशते -- इति स्थितम् | तत्तस्मादेकत्वेऽप्यानैक्यावभासनाद्धेतोरस्य स्वस्वातन्त्र्यमाहात्म्यात्तिरोभावः स्वरूपगोपना तदात्मा बन्धो भोगे भोक्तृतां पुष्णन्सङ्कोचाभासनपुरःसरं जात्यायुर्भोगप्रदत्वेन विकल्पितात्मभिः स्वयङ्कल्पितैः कर्मभिरात्मानं बध्नन्, पुनरपि उद्वेष्टनक्रमेणागन्तुकमलकर्मादिरूपतातिरस्कारेण स्वं परिशुद्धं रूपमेव स्यात् पूर्णदृक्क्रियात्मा स्वतन्त्रः परमेश्वर एवावशिष्येत - - इत्यर्थः | यदुक्तं प्राक् �
SK
᳚देवः स्वतन्त्रश्चिद्रूपः प्रकाशात्मा स्वभावतः | रूपप्रच्छादनक्रीडायोगादणुरनेककः || स स्वयङ्कल्पिताकारविकल्पात्मककर्मभिः | बध्नात्यात्मानमेवेह स्वातन्त्र्यादिति वर्णितम् || स्वातन्त्र्यमहिमैवायं देवस्य यदसौ पुनः | स्वं रूपम् परिशुद्धं सत्स्पृशत्यप्यणुतामयः ||᳚ (१३|१०५) इति || २६५ || ननु ᳚शक्तयोऽस्य जगत्कृत्स्रं....................... |᳚ इत्याद्युक्त्या पारमेश्वरशक्तिस्फारसारमेव सर्वमिदं विश्वं तद्भूतभाववल्लौकिकं शुभाशुभं कर्मापि तथेति कथं जपादिका क्रियैव तच्छक्तिरित्युक्तं न तु कर्मापि -- इत्याशङ्काङ्गर्भीकृत्य, शक्तिरूपत्वाविशेषेऽप्येषां विशेषोऽस्तीति संवादपुरःसरं विभजति -- उक्तं सेयं क्रियाशक्तिः शिवस्य पशुवर्तिनी | बन्धयित्रीति तत्कर्म कथ्यते रूपलोपकृत् || १३-२६६ || ज्ञाता सा च क्रियाशक्तिः सद्यःसिद्ध्युपपादिका | सेयं पारमेश्वरी क्रियाशक्तिरिदमहं करोमि इत्यादिभेदावग्रहशालिनि पशौ वर्तमाना हानादानादिक्षोभमयत्वात् बन्धमेवाधत्त इति तत् स्वरूपलोपकारित्वात् सुखदुःखादिप्रदं कर्म उच्यते, येनोक्तम् � ᳚कर्म तल्लोकरूढं हि यद्भोगमवरं ददत् | तिरोधत्ते भोक्तृरूपम् ...................... ||᳚ इति | सैव पुनः शंविदेवेदं सर्वम्᳚ इति शिवशक्त्यात्मकं स्वं मार्गमधितिष्ठन्ती ज्ञाता सद्य एव तां तां सिद्धिमुपपादयेत् येनोक्तं जपादिका क्रिया पारमेश्वरी शक्तिर्न तु कर्मेति | तदुक्तं श्रीस्पन्दे -- शेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ||᳚ (४|१८) इति || ननु का नामात्र सिद्धिर्विवक्षिता? -- इत्याशङ्क्याह -- अविच्छिन्नस्वात्मसंवित्प्रथा सिद्धिरिहोच्यते || १३-२६७ || सा भोगमोक्षस्वातन्त्र्यमहालक्ष्मीरिहाक्षया | सा चेह सत्यपि देहे भवेदित्युक्तमक्षया भोगमोक्षमहालक्ष्मीरिति || ननु विष्ण्वादिप्रसादोपनतापि सा सा सिद्धिर्भवन्ती लोके दृश्यत एव, तच्छिवशक्तिपातादेवैवं भवेत् -- इति कस्मादुक्तम्? -- इत्याशङ्क्याह --
SK
विष्ण्वादिरूपता देवे या काचित्सा निजात्मना || १३-२६८ || भेदयोगवशान्मायापदमध्यव्यवस्थिता | तेन तद्रूपतायोगाच्छक्तिपातः स्थितोऽपि सन् || १३-२६९ || तावन्तं भोगमाधत्ते पर्यन्ते शिवतां न तु | इह या नाम काचन परमेश्वरे विष्ण्वादिरूपता, सा स्वयमुल्लसिताद्भेदयोगवशान्मायापदमध्यमध्यास्त इति विष्ण्वादिरूपतामवलम्ब्य स्थितोऽपि सन् शक्तिपातस्तावन्तं तदधिकारोचितमेव भोगमादध्यात्, न तु अन्ते शिवतामपि, येनास्य पारमेश्वराच्छक्तिपातादवरत्वम् || ननु मायाध्वमध्यवर्तिनो विष्णुविरिञ्चादेः कथङ्कारमवरे भोगादिमयेऽप्यनुग्रहे सामर्थ्यम्? -- इत्याशङ्कां दृष्टान्तप्रदर्शनेन शिथिलयति -- यथा स्वातन्त्र्यतो राजाप्यनुगृह्णाति कञ्चन || १३-२७० || ईशशक्तिसमावेशात्तथा विष्ण्वादयोऽप्यलम् | इह यथा ᳚अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः | रिश्वरप्रेरितो गच्छेच्छ्वभ्रं वा स्वर्गमेव वा ||᳚ इत्यादिदृशा ईश्वरपेर्रणया मायान्तश्चार्यपि राजादिः स्वेच्छया कञ्चन स्वसंविभागेनानुगृह्णाति, तथा विष्ण्वादयोऽपि भोगाधानेन कञ्चनानुग्रहीतुमलं समर्थाः -- इत्यर्थः || ततश्च किम्? -- इत्याशङ्क्याह -- मायागर्भाधिकारीयशक्तिपातवशात्ततः || १३-२७१ || कोऽपि प्रधानपुरुषविवेकी प्रकृतेर्गतः | उत्कृष्टात्तत एवाशु कोऽपि बुद्ध्वा विवेकिताम् || १३-२७२ || क्षणात्पुंसः कलायाश्च पुंमायान्तरवेदकः | ततस्तेषामेवंसामर्थ्यादेव मायागर्भाधिवासमधिकृत्य, प्रवृत्तात्तदीयान्मन्दाच्छक्तिपातात्कोऽपि कापिलादिः प्रकृतिपुरुषयोर्विवेकं जानानः प्रकृतेर्गतः प्राकृताद् बन्धान्मुक्तः, कोऽपि च तत एव मायागर्भाधिकारीयात् तीव्राच्छक्तिपातादाशु पंसः कलायाश्च विवेकं ज्ञात्वा, क्षणादेव पंमायान्तरवेदको मायातः समुत्तीर्णः -- इत्यर्थः || नन्वेवमप्यस्य कोऽर्थः? -- इत्याशङ्क्याह -- कलाश्रयस्याप्यत्यन्तं कर्मणो विनिवर्तनात् || १३-२७३ || ज्ञानाकलः प्राक्तनस्तु कर्मी तस्याश्रयस्थितेः | तदुक्तं प्राक् � ᳚तदा मायापुंविवेकः सर्वकर्मक्षयाद्भवेत् |
SK
विज्ञानाकलता मायाधस्तान्नो यात्यतः पुमान् ||᳚ (९|१८५) इति | नन्वेवं प्रकृतिपुरुषविवेकिनोऽपि किमत्यन्तं कर्म निवर्तते न वा? -- इत्याशङ्क्याह -- प्राक्तनस्त्वित्यादि | आश्रयः कलादिः || नन्वेवं तर्हि अस्मद्वद् बद्ध एवासाविति किं प्रकृतिपुरुषज्ञानेन? -- इत्याशङ्क्याह -- स परं प्रकृतेर्बुध्ने सृष्टिं नायाति जातुचित् || १३-२७४ || मायाधरे तु सृज्येतानन्तेशेन प्रचोदनात् | सृज्येतेति त्रिमलबद्धत्वात् | तदुक्तं प्राक् -- ᳚धीपुंविवेके विज्ञाते प्रधानपुरुषान्तरे | अपि न क्षीणकर्मा स्यात्कलायां तद्धि संभवेत् || अतः सांख्यदृशा सिद्धः प्रधानाधो न संसरेत् | (९|१८७) इति || ननु भवतु नामैतत्, मायापुंविवेकज्ञस्य तु ज्ञानाकलतैव किं भवेदुत ततोऽपि विशेषः? -- इत्याशङ्क्याह -- विज्ञानाकलतां प्राप्तः केवलादधिकारतः || १३-२७५ || मलान्मन्त्रतदीशादिभावमेति सदा शिवात् | अधिकारत इति अधिकारमात्रावशेषात् -- इत्यर्थः | सदेति कदाचिदपि अन्यथा न भवेत् -- इति भावः | शिवादिति नत्वनन्तेशचोदनया | यदुक्तं प्राक् -- श पुनः शांभवेच्छातः शिवाभेदं परामृशन् | क्रमान्मन्त्रेशतन्नेतृरूपो याति शिवात्मताम् ||᳚ (९|९३) इति || ननु भवत्वेवं पारमेश्वराच्छक्तिपातात्पुनः किं स्यात्? -- इत्याशङ्क्याह -- पत्युः परस्माद्यस्त्वेष शक्तिपातः स वै मलात् || १३-२७६ || अज्ञानाख्याद्वियोक्तेति शिवभावप्रकाशकः | यः पुनरयं परस्मात् नत्वपरस्माद्विष्ण्वादेः पत्युः सकाशाच्छक्तेः पातः, स एव शिवभावावभासनेन मोक्षप्रदो यस्मादज्ञानाख्यात् न तु द्रव्यरूपान्मलाद्वियोक्ता वियोजकः -- इत्यर्थः | यदुक्तं प्राक् ᳚मलाद्विविक्तमात्मानं पश्यंस्तु शिवतां व्रजेत् |᳚ (९|१८८) इति || ननु स एवैवं कस्मात्? -- इत्याशङ्क्याह -- नान्येन शिवभावो हि केनचित्संप्रकाशते || १३-२७७ || अन्येनेति विष्ण्वादिसंबन्धिना, ते ह्यत्र भ्रन्ता एव -- इत्यभिप्रायः || २७७ || अत एवाह � स्वच्छन्दशास्त्रे तेनोक्तं वादिनां तु शतत्रयम् | त्रिषष्ट्यभ्यधिकं भ्रन्तं वैष्णवाद्यं निशान्तरे || १३-२७८ ||
SK
शिवज्ञानं केवलं च शिवतापत्तिदायकम् | चोऽवधारणे, तेन केवलं शिवज्ञानमेव शिवतापत्तिदायकम् -- इत्यर्थः | एतच्च संवादितं प्राग्बहुशः || एवं च यदेव पारमेश्वर्याः शक्तेरधिष्ठानं शिवतापत्तिं दद्यात्, तदेव शक्तिपातशब्दव्यपदेश्यं न त्वेवमेव, न ह्येवंविधं किञ्चिज्जगत्यस्मिन्समस्ति यत्पारमेश्वर्या शक्त्या नाधिष्ठितम् | तदाह -- शिवतापत्तिपर्यन्तः शक्तिपातश्च चर्च्यते || १३-२७९ || अन्यथा किं हि तत्स्याद्यच्छैव्या शक्त्यानधिष्ठितम् | अत एवोक्तयुक्त्या तांस्तानप्यधितिष्ठन्ती विष्ण्वादिशक्तिर्न मोक्षप्रदेति नेहास्याः शक्तिपाततया परिगणनम् | तदुक्तमनेनैवान्यत्र -- ᳚वैष्णवादीनां तु राजानुग्रहवन्न मोक्षान्ततेति नेह तद्विवेचनं, शिवशक्त्यधिष्ठानं तु सर्वत्रेत्युक्तम् | सा परं ज्येष्ठा न भवति अपि तु घोरा घोरतरा वा ||᳚ (तंषा. ११ आ.) इति || अतश्च ᳚विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून् | रुद्राणून्याः समालिङ्ग्य घोरतर्योऽपराः स्मृताः ||᳚ इत्याद्युक्तशक्त्यधिष्ठितानां भेदावष्टम्भभाजां वैष्णवादीनामस्मिन्संविदद्वैतात्मनि शिवज्ञानेऽधिकारो नास्ति -- इत्याह -- तेनेह वैष्णवादीनां नाधिकारः कथञ्चन || १३-२८० || ते हि भेदैकवृत्तित्वादभेदे दूरवर्जिताः | नन्वेषामपि कदाचिदनुग्राहिका शैवी शक्तिश्चेत्संबध्यते, तदा किं कर्तव्यम्? -- इत्याशङ्क्याह -- स्वातन्त्र्यात्तु महेशस्य तेऽपि चेच्छिवतोन्मुखाः || १३-२८१ || द्विगुणा संस्क्रियास्त्येषां लिङ्गोद्धृत्याथ दीक्षया | लिङ्गोद्धृत्येत्युपवासादिक्रमेण वक्ष्यमाणरूपया || १३-२८१ || ननु पारमेश्वर्या शक्त्या चेदयमधिष्ठितस्तदन्यवदेक एवास्य दीक्षादिः संस्कारोऽस्तु, द्विगुणेनानेन कोऽर्थः? -- इत्याशङ्कां दृष्टान्तप्रदर्शनेन प्रशमयति -- दुष्टाधिवासविगमे पुष्पैः कुम्भोऽधिवास्यते || १३-२८२ || द्विगुणोऽस्य स संस्कारो नेत्थं शुद्धे घटे विधिः | एतदेवोपसंहरति -- इत्थं श्रीशक्तिपातोऽयं निरपेक्ष इहोदितः || २८३ ||
SK
नन्वेवमागमान्तरविरोधो भवेद्यत्र तु कर्मसाम्यादिसापेक्षत्वमस्योक्तं यन्मतङ्गे शमत्वधर्मव्यापारः कष्टोऽयं स्यात्सुदुष्करः |᳚ इति | किरणेऽपि � शमे कर्मणि सञ्जाते तत्कालं योग्यतावशात् | तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा || सर्वज्ञः स शिवो यद्वत् किञ्चिज्ज्ञत्वविवर्जितः |᳚ इति, तत्किमेतदुक्तम्? -- इत्याशङ्क्याह -- अनयैव दिशा नेयं मतङ्गकिरणादिकम् | ग्रन्थगौरवभीत्या तु तल्लिखित्वा न योजितम् || १३-२८४ || नेयमिति पूर्वपक्षयोजनादिक्रमेण व्याख्येयम् -- इत्यर्थः || न केवलमेतदस्मदागम एवोक्तं यावच्छ्रुत्यर्थोपजीविनि पुराणादावपि - - इत्याह -- पुराणेऽपि च तस्यैव प्रसादाद्भक्तिरिष्यते | यया यान्ति परां सिद्धिं तद्भावगतमानसाः || १३-२८५ || ᳚तस्यैव तु प्रसादेन भक्तिरुत्पद्यते नृणाम् |᳚ इत्यस्य प्रथममर्धम् || २८५ || एतदेव व्याचष्टे � एवकारेण कर्मादिसापेक्षत्वं निषिध्यते | प्रसादो निर्मलीभावस्तेन संपूर्णरूपता || १३-२८६ || आत्मना तेन हि शिवः स्वयं पूर्णः प्रकाशते | इह तावदीश्वरः स्वस्वातन्त्र्यात् सङ्कोचावभासनेनाणुतां परिगृह्णन् प्रत्यावृत्य निर्मलं पूर्णमपि रूपमादर्शयति, इत्युक्तम्, तत्तस्य प्रसादः प्रसन्नत्वं मलापगमः, तेन च निर्मलीभावेन संपूर्णरूपता यतः स्वयमेव शिवः परमेश्वरः तेनात्मना तत्तत्संकुचितात्मावच्छेदं परिगृह्यापि पूर्णः प्रकाशते प्रत्यावृत्तपूर्णदृक्क्रियास्वभावो भवेत् | यदुक्तम् ᳚परां सिद्धिं यान्ति᳚ इति || २८६ || एतदेव व्यतिरेकद्वारेण निदर्शयति -- शिवीभावमहासिद्धिस्पर्शवन्ध्ये तु कुत्रचित् || १३-२८७ || वैष्णवादौ हि या भक्तिर्नासौ केवलतः शिवात् | या पुनः कस्मिंश्चिदेवमुक्तयुक्त्या शिवीभावापत्तिविरहिणि वैष्णवादौ भक्तिः, नासौ केवलतः शिवात् कर्माद्यनपेक्षिणः परमेश्वरान्न भवेत् -- इत्यर्थः || २८७ || ननु समनन्तरमेवेदमुक्तं यच्छैव्या शक्त्यानधिष्ठितं न किञ्चिदपि स्यादिति, तदिदानीं वैष्णवादौ भक्तिः शिवान्नेति कथमिवाभिधीयते? -- इत्याशङ्क्याह --
SK
शिवो भवति तत्रैष कारणं न तु केवलः || १३-२८८ || निर्मलश्चापि तु प्राप्तावच्छित्कर्माद्यपेक्षकः | तत्रेति विष्ण्वादिविषयायां भक्तौ केवलत्वं निर्मलत्वं च व्यतिरेचयितुमपि त्वित्याद्युक्तम् | प्राप्तावच्छिदिति विष्ण्वादिरूपोपग्रहावच्छिन्नतया परिगृहीतसङ्कोचकलङ्कः -- इत्यर्थः || २८८ || ननु कस्यायमर्थः? -- इत्याशङ्क्याह -- यया यान्ति परां सिद्धिमित्यस्येदं तु जीवितम् || १३-२८९ || न हि तदेकरूपत्वाभावे भक्तेरुक्तरूपा परा सिद्धिर्भवेत् -- इति भावः ||२८९|| एतच्च न्यायागमकोविदैर्गुरुभिरप्यनुमतम् -- इत्याह -- श्रीमानुत्पलदेवश्चाप्यस्माकं परमो गुरुः | शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् || १३-२९०|| अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे | कर्हिचित्प्राप्तशब्दाभ्यामनपेक्षित्वमूचिवान् || १३-२९१ || दुर्लभत्वमरागित्वं शक्तिपातविधौ विभोः | श्रीमानुत्पलदेवश्चापि विभोः शक्तिपातविधावनपेक्षित्वाद्यूचिवान् -- इति संबन्धः | यत्तत्र योग्यायोग्यत्वलक्षणं विचारणं प्राप्तं न्यायोपनतमपि कर्हिचित्कदाचिदपि विस्मृत्यापि न करोषि यतः कर्मादिनिरपेक्षतया स्वेच्छामात्रमेवात्र भवतो निबन्धनम् | अत एवात्र दुर्लभत्वमपि | तद्धि लोके सुलभमुच्यते, यत् किञ्चिदुपायमपेक्ष्य भवति येन तत्संभरणेन नूनं तल्लाभो भवेत् | अत एवात्रारागित्वमपि | विष्ण्वादयो हि कृतमेव जनमनुगृह्णन्ति नाकृतमिति रागद्वेषविवशा इव लक्ष्यन्ते, भवान् पुनः सर्वनिरपेक्षमेवैतत्कुरुते -- इति | अत एव निरपेक्षस्वतन्त्रशक्तिपातक्रमानुरूपमीशेत्यामन्त्रणम् || न केवलं कर्हिचित्प्राप्तशब्दाभ्यामेवैतदूचिवान्, यावदपरार्धेनापि - - इत्याह -- अपरार्धेन तस्यैव शक्तिपातस्य चित्रताम् || १३-२९२ || व्यवधानचिरक्षिप्रभेदाद्यैरुपवर्णितैः | उपवर्णितैरिति समनन्तरमेव, यतोऽत्र मां प्रति कस्माद्विलम्बसे व्यवधानादिना कालं क्षिपसि क्षिप्रमेव स्वप्रकाशं कुरु -- इति तात्पर्यम् ||
SK
न केवलमेतत्संविदद्वैतनिष्ठैरेव गुरुभिरुक्तं यावच्छैवशास्त्रव्याख्यातृभिरपि -- इत्याह -- श्रीमताप्यनिरुद्धेन शक्तिमुन्मीलिनीं विभोः || १३-२९३ || व्याचक्षाणेन मातङ्गे वर्णिता निरपेक्षता | स्थावरान्तेऽपि देवस्य स्वरूपोन्मीलनात्मिका || १३-२९४ || शक्तिः पतन्ती सापेक्षा न क्वापीति सुविस्तरात् | श्रीमतानिरुद्धेनापि सुविस्तरान्निरपेक्षता वर्णिता -- इति संबन्धः | शक्तिमुन्मीलिनीमिति | यदुक्तं तत्र � ᳚यदास्योन्मीलिनी शक्तिः शिवरागेण रञ्जिता | निपतत्यतितेजस्का नित्यानुग्रहशालिनी ||᳚ (१|४|४५) इति | स्थावरान्ते इत्यनेनात्यन्तमयोग्यानामपि स्वरूपमुन्मीलयति -- इति सूचितम् || इहेदानीं शक्तिपातवैचित्र्यमूलमधिकारवैचित्र्यमप्यभिधातुमुपक्रमते � एवं विचित्रेऽप्येतस्मिञ्छक्तिपाते स्थिते सति || १३-२९५ || तारतम्यादिभिर्भेदैः समय्यादिविचित्रता | तदेवाह � कश्चिद्रुद्रांशतामात्रापादनात्तत्प्रसादतः || १३-२९६ || शिवत्वं क्रमशो गच्छेत् समयी यो निरूप्यते | कश्चिच्छुद्धाध्वबन्धः सन् पुत्रकः शीघ्रमक्रमात् || १३-२९७ || भोगव्यवधिना कोऽपि साधकश्चिरशीघ्रतः | कश्चित्संपूर्णकर्तव्यः कृत्यपञ्चकभागिनि || १३-२९८ || रूपे स्थितो गुरुः सोऽपि भोगमोक्षादिभेदभाक् | समय्यादिचतुष्कस्य समासव्यासयोगतः || १३-२९९ || क्रमाक्रमादिभिर्भेदैः शक्तिपातस्य चित्रता | क्रमश इति पुत्रकदीक्षानन्तरम्? अत एवात्र मन्दः शक्तिपातः | शीघ्रमिति देहपातसामनन्तर्येण | अक्रमादिति सत्यपि देहे -- इत्यर्थः | भोगव्यवधिश्च चिरं शीघ्रं वा भवेदित्युक्तम् -- चिरशीघ्रत इति | भोगमोक्षादिभेदभागित्यर्थाच्छिष्यं प्रति, स्वयं हि तस्य संपूर्णकर्तव्यत्वमुक्तम् | तारतम्यादेव च तयोरपि तारतम्यमिति भेदशब्देनोक्तम् | समासव्यासयोगत इति क्रमाक्रमादिभिरिति च, तत्र क्रमादादौ समयी, ततः पुत्रकः, तत आचार्य इति सामस्त्यम्, अक्रमात्कश्चित्पुत्रक एव, नत्वादौ समय्यपि, कश्चिदाचार्य एव, नत्वादौ समयी पुत्रको वेति व्यस्तत्वम् ||
SK
न केवलमेवमेव शक्तिपातस्य क्रमाक्रमाभ्यां वैचित्र्यं यावत्प्रकारान्तरेणापि -- इत्याह -- क्रमिकः शक्तिपातश्च सिद्धान्ते वामके ततः || १३-३०० || दक्षे मते कुले कौले षडर्धे हृदये ततः | उल्लङ्घनवशाद्वापि झटित्यक्रममेव वा || १३-३०१ || त्रिकार्थस्यैव परमुत्कृष्टत्वात् | षडर्धे हृदये इति सामानाधिकरण्येन योज्यम् | तदुक्तम् ᳚वेदाच्छैवं ततो वामं ततो दक्षं ततो मतम् | ततः कुलं ततः कौलं त्रिकं सर्वोत्तमं परम् ||᳚ इति | अतश्च सिद्धान्तात्प्रभृति षडर्धपर्यन्तं यथायथं तारतम्याच्छक्तिपातस्यापि तथाभावो भवेत् -- इति भावः | उल्लङ्घनवशादिति सिद्धान्तानन्तरं दक्षे, ततः कुले, ततः षडर्धे चेति | झटित्यक्रममेवेति त्रिकार्थ एवेति || ३०१ || नचैतन्निर्मूलमेवोक्तम् -- इत्याह -- उक्तं श्रीभैरवकुले पञ्चदीक्षासुसंस्कृतः | गुरुरुल्लङ्घिताधःस्थस्रोता वै त्रिकशास्त्रगः || १३-३०२ || इह ᳚होत्री दीक्षा तु सिद्धान्ते तन्त्रे योजनिका स्मृता | त्रिके समावेशवती कुले स्तोभात्मिका मता || सामरस्यमयी कौले दीक्षा पञ्चविधोदिता |᳚ इत्याद्युक्त्या पञ्चविधया दीक्षया सुष्ठु संस्कृतोऽपि त्रिकशास्त्रग एव गुरुरुल्लङ्घिताधरदशाधिशायिशैवादिशास्त्रप्रवाहः सर्वमूर्धाभिषिक्तः -- इत्यर्थः | यदुक्तम् -- ᳚वाममार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित् | संस्कार्यो भैरवे सोऽपि कुले कौले त्रिकेऽपि सः ||᳚ इति || ३०२ || ननु इह सर्वशास्त्राणां ᳚यतः शिवोद्भवाः सर्वे शिवधामफलप्रदाः |᳚ इत्याद्युक्त्या हेतुतः फलतो वा न कश्चिद्विशेषः, तत्कथमिदमुत्तरमिदं चाधरशास्त्रमित्युक्तम्? -- इत्याशङ्क्याह � ज्ञानाचारादिभेदेन ह्युत्तराधरता विभुः | शास्त्रेष्वदीदृशच्छ्रीमत्सर्वाचारहृदादिषु || १३-३०३ || ज्ञानं द्वयाद्वयरूपम्, क्रिया बाह्या आन्तरी वा | तन्निमित्तमेव चात्राधरौत्तर्यमित्युपपादितं बहुशः || ३०३ || तदेव पठति -- वाममार्गाभिषिक्तस्तु दैशिकः परतत्त्ववित् | तथापि भैरवे तन्त्रे पुनः संस्कारमर्हति || १३-३०४ ||
SK
ननु यदि नाम शैवादावयमभिषिक्तस्तावतैव च परं तत्त्वं वेत्ति, तदस्य भैरवतन्त्रादौ पुनः संस्कारेण कोऽर्थः? -- इत्याशङ्क्याह -- शैववैमलसिद्धान्ता आर्हताः कारुकाश्च ये | सर्वे ते पशवो ज्ञेया भैरवे मातृमण्डले || १३-३०५ || मातृमण्डलकुलकौलादौ च भैरवतन्त्रादिसंस्कृता अपि पशव एव -- इत्यर्थसिद्धम् || ३०५ || आदिशब्दाक्षिप्ते कुलकौलादावप्येतदुक्तम् -- इत्याह -- कुलकालीविधौ चोक्तं वैष्णवानां विशेषतः | भस्मनिष्ठाप्रपन्नानामित्यादौ नैव योग्यता || १३-३०६ || भस्मनिष्ठाप्रपन्नानामिति शैवादीनाम् || ३०६ || न केवलमेतदत्रैवोक्तं यावदन्यत्रापि -- इत्याह -- स्वच्छन्दशास्त्रे संक्षेपादुक्तं च श्रीमहेशिना | तदेव पठति � अन्यशास्त्ररतो यस्तु नासौ सिद्धिफलप्रदः || १३-३०७ || एतदेवोपपादयति � समय्यादिक्रमाल्लब्धाभिषेको हि गुरुर्मतः | स च शक्तिवशादित्थं वैष्णवादिषु कोऽन्वयः || १३-३०८ || इत्थमिति काकाक्षिवत्, तेन पारमेश्वराच्छक्तिपातादित्थं समय्यादिक्रमेण लब्धाभिषेकः -- इत्यर्थः | इत्थमुक्तेन प्रकारेणान्यशास्त्ररतेषु वैष्णवादिषु इह गुरुत्वे को नामान्वयो न कश्चिदभिसंबन्धः, नहि तेषामुक्तयुक्त्या पारमेश्वरशक्तिपात एवास्ति -- इति का कथा समय्यादिक्रमेण शास्त्रश्रवणाभिषेकादौ -- इत्याशयः || ननु किं नामायमत्र दाम्भिकतया कृत्रिमभक्त्यादिप्रदर्शनादासादितैवंरूपो गुरुः स्यात्? -- इत्याशङ्क्याह � छद्मापश्रवणाद्यैस्तु तज्ज्ञानं गृह्णतो भवेत् | प्रायश्चित्तमतस्तादृगधिकार्यत्र किं भवेत् || १३-३०९ || नन्वयमन्यशास्त्ररतो गुरुश्छद्मादिना वा शैवं शास्त्रं गृह्णातु, प्रायश्चित्ती वा भवतु, किमनया नश्चिन्तया, शिष्यं तावदनुगृह्णात्येव? -- इत्याशङ्क्याह -- फलाकाङ्क्षायुतः शिष्यस्तदेकायत्तसिद्धिकः | ध्रुवं पच्येत नरके प्रायश्चित्त्युपसेवनात् || १३-३१० || शिष्यस्तावत्फलं किञ्चिदाकाङ्क्षते, तच्च गुर्वायत्तमित्यसद्गुरुप्राप्त्यास्य तत्सिद्धिर्मा भूत्प्रत्युत ᳚................. तत्संपर्की तु पञ्चमः |᳚
SK
इत्युक्त्या प्रायश्चित्तिगुरूपसेवनाद् ध्रुवमसौ नरके पच्यते महानस्यानर्थः स्यात् -- इत्यर्थः | तदुक्तम् � ᳚यदा जानन्ति नो तत्त्वं छद्माद् गृह्णन्ति कौलिकम् | महापातकिनो येन नरकं गन्तुकामिनः ||᳚ इत्युपक्रम्य � ᳚महार्थं भैरवोक्तं वै ज्ञानविज्ञानभाण्डकम् | स्वयं गृहीत्वा त्वाचारं दीक्षानुग्रहकारिणः || विक्रीणन्त्यात्मभोगार्थं पशूनामीदृशात्मनाम् | ते पतन्ति महाघोरे नरके तैः समं ततः || सपुत्रमित्रभृत्याश्च यावत्सप्तकुलैः सह | न शक्नुवन्ति वै तेषां प्रायश्चित्तानि शुद्धये ||᳚ इति || ३१० || नन्वस्य गुरौ देवे च शक्तिपातलिङ्गं भक्तिर्दृश्यते इति शिवेनैवासौ तथा नियुक्तः, तदस्य को दोषो येनैवं स्यात्? -- इत्याशङ्क्याह -- तिरोभावप्रकारोऽयं यत्तादृशि नियोजितः | गुरौ शिवेन तद्भक्तिः शक्तिपातोऽस्य नोच्यते || १३-३११ || अनेन चानपेक्षत्वसिद्ध्यनन्तरमनुजोद्देशोद्दिष्टं तिरोभावविचित्रत्वमप्युप क्रान्तम् || ३११ || ननु भवत्वेवं, यस्मात्पुनरनेन च्छद्मापश्रवणादिना ज्ञानमाहृतं तेन गुरुणा किं कार्यम् ? -- इत्याशङ्क्याह � यदा तु वैचित्र्यवशाज्जानीयात्तस्य तादृशम् | विपरीतप्रवृत्तत्वं ज्ञानं तस्मादुपाहरेत् || १३-३१२ || तं च त्यजेत्पापवृत्तिं भवेत्तु ज्ञानतत्परः | यदेति कालान्तरे, प्रथममेव हि तथात्वे ज्ञानदानमेव न भवेत् -- इति भावः | वैचित्र्यं नानाप्रकारं व्यापारव्याहारादि | उपाहरेदिति ज्ञानाहृतिलक्षणया वक्ष्यमाणया युक्त्या | त्यजेदिति तत्सहवासादि न कुर्यात् -- इत्यर्थः | अत्र हेतुः पापवृत्तिमिति | एवमपि कृत्वा प्रायश्चित्तं विदध्यादित्युक्तम् -- भवेत्तु ज्ञानतत्पर इति || तदेव दृष्टान्तोपदर्शनेन हृदयङ्गमयति -- यथा चौराद् गृहीत्वार्थं तं निगृह्णाति भूपतिः || १३-३१३ || वैष्णवादेस्तथा शैवं ज्ञानमाहृत्य सन्मतिः | निग्रहं कुर्यादिति शेषः | सचात्र त्यागाद्यात्मा इत्युक्तप्रायम् || नन्वस्य प्रथमं निर्विकारमेव प्रसन्नचेतसा गुरुणा ज्ञानमुपदिष्टं तावतैव चास्य
SK
᳚यस्मिन्काले तु गुरुणा निर्विकल्पं प्रकाशितम् | तदैव किल मुक्तोऽसौ............................ ||᳚ इत्याद्युक्त्या कृतकृत्यत्वमिति किमेवं पुनरायातम्? -- इत्याशङ्क्याह -- स हि भेदैकवृत्तित्वं शिवज्ञाने श्रुतेऽप्यलम् || १३-३१४ || नोज्झतीति दृढं वामाधिष्ठितस्तत्पशूत्तमः | शिवेनैव तिरोभाव्य स्थापितो नियतेर्बलात् || १३-३१५ || कथङ्कारं पतिपदं प्रयातु परतन्त्रितः | नोज्झतीति तत्रानाश्वस्तत्वात् तदिदं दृढं वामाधिष्ठितत्वात् | परतन्त्रित इति नियतेर्बलात् | तदुक्तम् � ᳚वैष्णवाः सौगताः श्रौतास्तथा श्रुत्यन्तवादिनः | इत्यादयो नाधिकृता जातुचित्पतिशासने ||᳚ इति || अत एवागमोऽप्येवम् -- इत्याह -- स्वच्छन्दशास्त्रे प्रोक्तं च वैष्णवादिषु ये रताः || १३-३१६ || भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया | ननु भ्रमयतु नाम माया वैष्णवादीन्, यस्तु वैष्णवादिः सन्नपि शैवस्तस्य किमायातम्? -- इत्याशङ्क्याह -- वैष्णवादिः शैवशास्त्रं मेलयन्निजशासने || १३-३१७ || ध्रुवं संशयमापन्न उभयभ्रष्टतां व्रजेत् | मेलयन्निति उभयत्रापि अनाश्वासात् || ननु एवमपि उभयभ्रष्टतायां को हेतुः? -- इत्याशङ्क्याह -- स्वदृष्टौ परदृष्टौ च समयोल्लङ्घनादसौ || १३-३१८ || प्रत्यवायं यतोऽभ्येति चरेत्तन्नेदृशं क्रमम् | तदुक्तम् � ᳚अथ वेदाश्रितः शैवं पुनरेव समीहते | वेदनष्टः शैवनष्टः पुनरेव भविष्यति || सन्ध्यादिवन्दनं कार्यं यदि वैदिकदर्शने | लोपश्च शिवमन्त्राणां प्रायश्चित्तं विधीयते || शिवधर्मो ह्यथादौ चेद्वेदधर्मो विलुप्यते | समेत्य वाऽप्यनुष्ठाने आदिमध्यान्तदूषणम् || प्रतिपत्तिविरोधश्च विचित्तत्वं प्रपद्यते | कस्यारम्भः किमग्रेऽन्ते किं कृत्यं विचिकित्सया || आदौ किञ्च करिष्यामि द्वाभ्यामादरशासनात् | क्रियाक्रमविरोधेऽपि प्रायश्चित्तं परस्परम् ||᳚ इति || न केवलमेतत्स्वच्छन्दशास्त्रे एवोक्तं यावदन्यत्रापि -- इत्याह -- उक्तं श्रीमद्गह्वरे च परमेशेन तादृशम् || १३-३१९ || तदेव पठति �
SK
नान्यशास्त्राभियुक्तेषु शिवज्ञानं प्रकाशते | न प्रकाशते इति तत्राधिकारिणस्ते न भवन्ति -- इत्यर्थः || तदेव विभज्य दर्शयति -- तन्न सैद्धान्तिको वामे नासौ दक्षे स नो मते || १३-३२० || कुलकौले त्रिके नासौ पूर्वः पूर्वः परत्र तु | अधिकारी न भवेत् -- इति संबन्धः | अयं पुनरत्र विशेषो यत्पूर्वः पूर्वः परत्र सर्वत्राधिकारी भवेदित्युक्तं पूर्वः पूर्वः परत्र त्विति || ननु समानेऽप्यन्यशास्त्राभियुक्तत्वे पूर्वः पूर्वः परत्र चेदधिकारी, तत्परः परः पूर्वत्र कस्मान्न? -- इत्याशङ्क्याह -- अवच्छिन्नोऽनवच्छेदं नो वेत्त्यानन्त्यसंस्थितः || १३-३२१ || सर्वंसहस्ततोऽधःस्थ ऊर्ध्वस्थोऽधिकृतो गुरुः | इहोपाधीनां नानात्वादानन्त्यसंस्थितोऽवच्छिन्नः संकुचितः प्रमातानवच्छेदमविद्यमानावच्छेदमनवच्छिन्नं पूर्णं प्रमातारं नो वेत्ति तदात्मतया न भायात् | ततोऽनवच्छिन्नत्वात्सर्वंसह ऊर्ध्वस्थ एव गुरुरधःस्थे प्रतिनियते वैष्णवादावधिकृतो नत्वधःस्थ ऊर्ध्वस्थे | स हि संकुचितज्ञान इति कथं पूर्णज्ञानावगाहनपात्रतामियात् || नन्वेवमूर्ध्वस्थोऽपि पूर्णज्ञानो गुरुरधःस्थे वैष्णवादौ कथङ्कारमधिकारं कुर्यात्? -- इत्याशङ्क्याह -- स्वात्मीयाधरसंस्पर्शात्प्राणयन्नधराः क्रियाः || १३-३२२ || सफलीकुरुते यत्तदूर्ध्वस्थो गुरुरुत्तमः | यदूर्ध्वस्थो गुरुः स्वात्मसाक्षात्कारात् संपूर्णाद्वयज्ञानपरामृतसंपातादधराः क्रियाः प्राणयंस्तदनुप्राणिताः संपादयन् परिपूर्णभुक्तिमुक्तिप्रदतया सफलयति, तदसावुत्तमः सर्वातिशायी -- इत्यर्थः || नन्वेवंविधोऽप्यूर्ध्वस्थो गुरुरधःस्थे वैष्णवादौ किं कुर्यात्, नह्यसावेतदनुग्रहस्य पात्रम्? -- इत्याशङ्क्याह -- अधःस्थदृक्स्थोऽप्येतादृग्गुरुसेवी भवेत्स यः || १३-३२३ || तादृक्शक्तिनिपातेद्धो यो द्रागूर्ध्वमिमं नयेत् |
SK
यो ह्यधस्तनदर्शनस्थोऽपि वैष्णवादिः, स तादृशां मध्यात्तीव्रप्रायेण शक्तिपातेन इद्धः सन्नेतादृशमूर्ध्वस्थं गुरुं सेवमानो भवेत्, य इममधःस्थदृक्स्थमपि वैष्णवादिकं शीघ्रमेवोर्ध्वं नयेत् परसंविदैकात्म्येनावभासयेत् -- इत्यर्थः || ननु यथा पूर्वः पूर्वः परत्र परत्राधिकारी, तथा परः परः पूर्वत्रापि कस्मान्न? -- इत्याशङ्कां दृष्टान्तोपदर्शनेन प्रशमयति -- तत्तद्गिरिनदीप्रायावच्छिन्ने क्षेत्रपीठके || १३-३२४ || उत्तरोत्तरविज्ञाने नाधिकार्यधरोऽधरः | इह यथा तैस्तैर्गिरिनदीप्रायैर्निम्नोन्नतैर्भूमिभागैरवच्छेदमीयुष्यूर्ध्वोर्ध्वे कोट्टप्राये क्षेत्रसंस्थानादावधरोऽधरो निम्ननिम्नदेशस्थो नाधिकारी, तथाधोऽधःस्थितो वैष्णवादिरुत्तरोत्तरे शैवादौ विज्ञानेऽपि -- इति वाक्यार्थः || न केवलमेतत्परमेवोद्दिश्योक्तं यावत्स्वमपि -- इत्याह -- उत्तरोत्तरमाचार्यं विदन्नप्यधरोऽधरः || १३-३२५ || कुर्वन्नधिक्रियां शास्त्रलङ्घी निग्रहभाजनम् | शास्त्रलङ्घीति | तदुक्तम् -- ङ कुर्यादधिकारं तु आचार्ये महति स्थिते | यस्तु मोहवशात्कुर्याच्छाकिन्यो वै शपन्ति तम् ||᳚ नन्वेवमस्तु शैववैष्णवादीनामाधरोत्तर्यं शैवादीनामेव पुनः समानेऽपि पारमेश्वरे शक्तिपाते परस्परस्य किं निमित्तम्? -- इत्याशङ्क्याह -- शक्तिपातबलादेव ज्ञानयोग्यविचित्रता || १३-३२६ || तद्वैचित्र्यमेव दर्शयति -- श्रौतं चिन्तामयं द्वात्म भावनामयमेव च | ज्ञानं तदुत्तरं ज्यायो यतो मोक्षैककारणम् || १३-३२७ || चिन्तामयं च ज्ञानं मन्दस्वभ्यस्तभेदभिन्नतया द्विरूपम् -- इत्याह - - द्वात्मेति | तदुक्तम् -- ᳚ज्ञानं च त्रिविधं प्रोक्तं तत्राद्यं श्रुतमिष्यते | चिन्तामयमथान्यच्च भावनामयमेव च || शास्त्रार्थस्य परिज्ञानं विक्षिप्तस्य श्रुतं मतम् | इदमत्रेदमत्रेति इदमत्रोपयुज्यते || सर्वमालोच्य शास्त्रार्थमानुपूर्व्या व्यवस्थितिः | तच्च चिन्तामयं ज्ञानं द्विरूपमुपदिश्यते || मन्दस्वभ्यस्तभेदेन तत्र स्वभ्यस्तमुत्तमम् |
SK
सुनिष्पन्ने ततस्तस्मिञ्जायते भावनामयम् || यतो योगं समासाद्य योगी योगफलं लभेत | एवं विज्ञानभेदेन ज्ञानी प्रोक्तश्चतुर्विधः ||᳚ इति | तदुत्तरमिति तेषां श्रौतादीनां चतुर्णां ज्ञानानां मध्यादुत्तरं भावनामयम् -- इत्यर्थः || ३२७ || मोक्षैककारणत्वमेव विभज्य दर्शयति -- तत्त्वेभ्य उद्धृतिं क्वापि योजनं सकलेऽकले | कथं कुर्याद्विना ज्ञानं भावनामयमुत्तमम् || १३-३२८ || तत्त्वेभ्य इत्यशुद्धेभ्यः, क्वापीति यथाभिमते, ज्ञान्यपि हि गुरुरकृततत्तत्त्वसाक्षात्कारः कथमेवं कुर्यात् -- इत्याशयः || ३२८ || ननु ᳚द्वावेव मोक्षदौ प्रोक्तौ ज्ञानी योगी च शाङ्करे |᳚ इत्याद्युक्त्या योगिनोऽपि मोक्षकारणत्वमुक्तं तत्कथमिह भावनामयस्यैव ज्ञानस्य तदेककारणत्वमुच्यते? -- इत्याशङ्क्याह -- योगी तु प्राप्ततत्तत्त्वसिद्धिरप्युत्तमे पदे | सदाशिवाद्ये स्वभ्यस्तज्ञानित्वादेव योजकः || १३-३२९ || ननु योगबलादेव योगिनस्तत्तत्त्वसिद्धिर्जायते इति तत एवासौ तेषु तेषु तत्त्वेषु शिष्यस्य योजनां विदध्यादिति किमस्यैवंविधेन ज्ञानेन प्रयोजनम्? -- इत्याशङ्क्याह -- अधरेषु च तत्त्वेषु या सिद्धिर्योगजास्य सा | विमोचनायां नोपायः स्थितापि धनदारवत् || १३-३३० || ननु केनैवमुक्तं यदस्योर्ध्वेषु सदाशिवादितत्त्वेषु योगजा सिद्धिर्न स्यात्, यद्वशात्सर्वमपीदं जगदुन्मोचयेत्? -- इत्याशङ्क्याह -- यस्तूत्पन्नसमस्ताध्वसिद्धिः स हि सदाशिवः | साक्षादेष कथं मर्त्यान्मोचयेद्गुरुतां व्रजन् || १३-३३१ ||
SK
अयमत्र पिण्डार्थः -- इह ज्ञानी तावच्चतुर्विधः | तस्य यथोत्तरं वैशिष्ट्यमित्युक्तप्रायम् | ततश्च योगिवदभ्यासरहितोऽपि ज्ञानी सर्वथा स्वभ्यस्तभावनामयविज्ञानप्रसादासादितभैरवीभावो दीक्षादिक्रमे प्रशस्यतर इत्येवमुक्तं भावनामयमेव ज्ञानं ज्याय इति | योगी चतुर्विधः -- संप्राप्तो घटमानः सिद्धयोगः सुसिद्धश्चेति | तत्र संप्राप्तः -- प्राप्तयोगोपदेशमात्रः, घटमानश्च तदभ्यासमात्रनिष्ठ इत्येतौ, स्वयमेव न तथा योगे वा ज्ञाने वा प्ररूढाविति परस्य किं कुरुतः | सिद्धयोगस्य पुनः स्वभ्यस्तज्ञानमप्यस्ति -- इति तत्प्रयोजकीकारेणैवायं मोचको नान्यथा -- इत्युक्तं � ᳚योगी तु स्वभ्यस्तज्ञानित्वादेव उत्तमे पदे योजकः᳚ इति | श्थितापि योगजास्य सिद्धिर्विमोचनायां नोपायः᳚ इति च | उक्तं च -- ᳚उत्तरोत्तरवैशिष्ट्यमेतेषां समुदाहृतम् | ज्ञानिनां योगिनां चैव सिद्धयोगविदुत्तमः || यतोऽस्य ज्ञानमप्यस्ति पूर्वो योगफलोज्झितः |᳚ (मा. तं.) इति | सुसिद्धस्तु � ᳚यः पुनर्यत्र तत्रैव संस्थितोऽपि यथा यथा | भुञ्जानस्तत्फलं तेन हीयते न कथञ्चन || सुसिद्धः स तु बोद्धव्यः सदाशिवसमः प्रिये |᳚ (मा. तं.) इत्याद्युक्त्या सदैवास्खलितस्वरूपः शिव एव इत्यसौ गुरुतां व्रजन् विद्येशानपास्य कथं साक्षान्मोचयेन्मर्त्यान्, पारम्पर्येण तु मोचयेदेवेति तदभिधानस्येह कोऽवसरः -- इत्यर्थः | यदुक्तमनेनैवान्यत्र -- शुसिद्धस्तु शिव एवेति किं तत्रोच्यते᳚ इति | ततश्चैवं ज्ञानयोगयोर्विभागं विचार्य स्वभ्यस्तज्ञानवानेव गुरुर्मोक्षप्रद इति सर्वत्रोक्तं येनास्माभिरप्येवमिहाभिहितम् || तदाह � तेनोक्तं मालिनीतन्त्रे विचार्य ज्ञानयोगिते | यतश्च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान्बुधैः || १३-३३२ || चशब्दोऽवधारणे भिन्नक्रमः | तेन स्वभ्यस्तज्ञानवानेव गुरुर्मोक्षप्रदः प्रोक्त इति || ततश्चेदं सिद्धम् -- इत्याह -- तस्मात्स्वभ्यस्तविज्ञानतैवैकं गुरुलक्षणम् | एकमिति न द्वितीयं योगित्वमपि -- इत्यर्थः ||
SK
ननु योग्यपि गुरुरुक्तः, तत्कथमेवमभिधातुं युज्यते | सत्यम्, किन्त्वयमस्ति विभागो यज्ज्ञानी तावद्योगिनो विशिष्यते इत्युक्तं तत्रापि च कुत्र ज्ञानी योगी वा गुरुः कार्यः, कुत्र वा परिहार्य इति | स चेहास्माभिर्गुरुमुखाधिगतः प्रकाश्यते -- इत्याह -- विभागस्त्वेष मे प्रोक्तः शंभुनाथेन दर्श्यते || १३-३३३ || एष इति वक्ष्यमाणः || ३३३ || तदेवाह � मोक्षज्ञानपरः कुर्याद्गुरुं स्वभ्यस्तवेदनम् | अन्यं त्यजेत्प्राप्तमपि तथा चोक्तं शिवेन तत् || १३-३३४ || अन्यमित्यस्वभ्यस्तज्ञानम् | ननु ᳚गुरुत्यागाद्भवेन्मृत्युः᳚ इत्यादिना प्राप्तस्य गुरोस्त्यागे दोषोऽभिहितः -- इति कथमेवमुक्तम्? -- इत्याशङ्क्याह -- ᳚तथाचोक्तं शिवेन तत्᳚ इति | नैतन्निष्प्रमाणकम् -- इत्यर्थः || ३३४ || तदेव पठति -- आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् | विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् || १३-३३५ || ननु विज्ञानार्थी शिष्यः, तच्चानेन कथञ्चिदाद्यादेव प्राप्तमिति किमस्य गुर्वन्तरगमनेन? -- इत्याशङ्क्याह � शक्तिहीनं गुरुं प्राप्य मोक्षज्ञाने कथं श्रयेत् | नष्टमूले द्रुमे देवि कुतः पुष्पफलादिकम् || १३-३३६ || शक्तिहीनमिति विज्ञानदानादावसामर्थ्यात् | स हि स्वयमज्ञ इति परस्यापि किं कुर्यात् -- इत्याशयः || ३३६ || नन्विह भावना नाम मुख्या, सा चाज्ञेऽपि गुरौ क्रियमाणावश्यं फलेदिति किं तत्त्यागेन? -- इत्याशङ्क्याह -- उत्तरोत्तरमुत्कर्षलक्ष्मीं पश्यन्नपि स्थितः | अधमे यः पदे तस्मात्कोऽन्यः स्याद्दैवदग्धकः || १३-३३७ || एवं भोगमोक्षाद्यभिवाञ्छतावश्यमुत्कृष्ट एव गुरुराश्रयणीयो येनास्य तत्सिद्धिरयत्नमेव स्यात् -- इत्याह � यस्तु भोगं च मोक्षं च वाञ्छेद्विज्ञानमेव च | स्वभ्यस्तज्ञानिनं योगसिद्धं स गुरुमाश्रयेत् || १३-३३८ || योगसिद्धमिति सिद्धयोगं तृतीयं योगिनम् -- इत्यर्थः तस्य चावश्यंभावि स्वभ्यस्तज्ञानम् -- इत्युक्तं स्वभ्यस्तज्ञानिनमिति, यत्समनन्तरमेव संवादितं यतोऽस्य ज्ञानमप्यस्तीति || ३३८ ||
SK
एवंविधश्चेद्गुरुर्न प्राप्यते, तदा किं कर्तव्यम्? -- इत्याशङ्क्याह -- तदभावे तु विज्ञानमोक्षयोर्ज्ञानिनं श्रयेत् | विज्ञानमोक्षयोरिति तन्निमित्तम् -- इत्यर्थः || एवमपि भुक्त्यर्थिना किं कार्यम्? -- इत्याशङ्क्याह -- भुक्त्यंशे योगिनं यस्तत्फलं दातुं भवेत्क्षमः || १३-३३९ || श्रयेदित्यनुषज्यते | स चार्थाद्धटमानसिद्धयोगयोरन्तरालवर्ती मितः | तदिति भुक्तिलक्षणम् || ३३९ || यः पुनः संप्राप्तो घटमानो वा योगी भुक्तिमात्रमपि दातुं न समर्थः परं तदुपायोपदेशकुशलः, तमनादृत्यापि ज्ञानी गुरुः कार्यो यस्तदुपायमुपदिशन् क्रमेण मोचयेदपि -- इत्याह -- फलदानाक्षमे योगिन्युपायैकोपदेशिनि | वरं ज्ञानी योऽभ्युपायं दिशेदपि च मोचयेत् || १३-३४० || ननु यद्येवं मितोऽपि ज्ञानी गुरुः कार्यः, तद्विज्ञानार्थिनः शिष्यस्य तत्परिपूर्तिः कुतः स्यात्? -- इत्याशङ्क्याह � ज्ञानी न पूर्ण एवैको यदि ह्यंशांशिकाक्रमात् | ज्ञानान्यादाय विज्ञानं कुर्वीताखण्डमण्डलम् || १३-३४१ || तेनासंख्यान्गुरून्कुर्यात्पूरणाय स्वसंविदः | यदि नाम हि एक एव न पूर्णज्ञानशाली गुरुः प्राप्यते, तदेकैकतः परिमितज्ञानाद् गुरोरंशांशिकाक्रमेणापि ज्ञानान्यादाय स्वात्मन्यखण्डमण्डलं पूर्णं ज्ञानं कुर्यात्, अतश्चैवंविधादेकस्मादेव गुरोस्तदलाभात्स्वसंवित्परिपूरणाय महतापि प्रयत्नेन निःसंख्याका गुरवः कार्याः, नैवं कश्चित्प्रत्यवायः -- इत्यर्थः || तीव्रशक्तिपाताघ्रतः पुनः पूर्णज्ञानमेव गुरुमासादयेत् यत्प्रसादादनायासमेवास्य स्वात्मनो विज्ञानपारिपूर्ण्यं समुदियात् -- इत्याह -- धन्यस्तु पूर्णविज्ञानं ज्ञानार्थी लभते गुरुम् || १३-३४२ || अत्र चाहमेवोदाहरणं यद्विज्ञानार्थिना मया लोकोत्तरे द्वयाद्वयात्मनि शैवशास्त्रादावभिख्यामात्रप्रख्यापितपरश्रेयःसंश्रयः श्रीमान् कल्याणः पूर्णविज्ञानवानेक एव गुरुर्लब्धः, पदवाक्यप्रमाणादौ लौकिके श्रीमान् सुगृहीतनामधेयः शङ्खधरश्चेति || ३४२ ||
SK
ननु यदि नाम एकस्मादेव पूर्णविज्ञानशालिनो गुरोरनायासमेव पूर्णं ज्ञानं स्यात् तदस्तु, तदर्थं पुनर्नानागुर्वादिसंभरणात्मा प्रयत्नोऽपि कस्मात्क्रियते? -- इत्याशङ्क्याह -- नानागुर्वागमस्रोतःप्रतिभामात्रमिश्रितम् | कृत्वा ज्ञानार्णवं स्वाभिर्विप्रुड्भिः प्लावयेन्न किम् || १३-३४३ || स्रोतः सन्ततिर्नदीप्रवाहश्च, प्रतिभा सांमुख्येन भानम्, मिश्रितं पूरितं किं न प्लावयेदिति सर्वमेव ज्ञानसंविभागभाजनं कुर्यात् - - इत्यर्थः || एतच्च गुरुभिरप्युक्तम् -- इत्याह -- आ तपनान्मोटकान्तं यस्य मेऽस्ति गुरुक्रमः | तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता || १३-३४४ || श्रीमता कल्लटेनेत्थं गुरुणा तु न्यरूप्यत | अनेनैवाशयेन मयाऽपि नानागुरूपसेवनं कृतम् -- इत्याह -- अहमप्यत एवाधःशास्त्रदृष्टिकुतूहलात् || १३-३४५ || तार्किकश्रौतबौद्धार्हद्वैष्णवादीन्नसेविषि | कुतूहलादिति न त्वादरात्, तार्किका नैयायिकवैशेषिकादयः || ननु यथा वैष्णवादिभ्यः शैवादीनां गुरूणामेवमुत्कर्षः, तथैषामधरशासनस्थानामपि परस्परं किमस्ति न वा? -- इत्याशङ्क्याह -- लोकाध्यात्मातिमार्गादिकर्मयोगविधानतः || १३-३४६ || संबोधोत्कर्षबाहुल्यात्क्रमोत्कृष्टान्विभावयेत् | लोकः श्रुतिस्मृत्यादिः, अध्यात्मं वेदान्तादिः, अतिमार्गो लौकिकमार्गातीतं सांख्यपातञ्जलादि, एवमादावग्निष्टोमादेः कर्मणः, चित्तवृत्तिनिरोधाद्यात्मनश्च योगस्य विधानतो हेतोः सम्यग्बोधस्य यथायथमुत्कर्षतारम्यात् क्रमोत्कृष्टान्वैदिकादीन् गुरून्विभावयेज्जानीयात् -- इत्यर्थः || एवं वैष्णवादिक्रमेण यथायथं संबोधोत्कर्षभाजामेव मुनीनामस्मद्दर्शनं प्रत्यपि जिज्ञासा जाता -- इत्याह -- श्रीपूर्वशास्त्रे प्रष्टारो मुनयो नारदादयः || १३-३४७ || प्राग्वैष्णवाः सौगताश्च सिद्धान्तादिविदस्ततः | क्रमात् त्रिकार्थविज्ञानचन्द्रोत्सुकितदृष्टयः || १३-३४८ || एवं यथायथमूर्ध्वोर्ध्वक्रमेण गुरुशास्त्रपरिचयात् संबोधोत्कर्षो भवेत् -- इति न गुरुभूयस्त्वे विचिकित्सितव्यम् -- इत्याह --
SK
तस्मान्न गुरुभूयस्त्वे विशङ्केत कदाचन | ननु ᳚गुर्वन्तररते मूढे आगमान्तरसेवके | शक्तिहिंसाकरे द्विष्टे संपर्कं नैव कारयेत् ||᳚ इत्याद्युक्त्या गुर्वन्तररतस्यास्पृश्यत्वमभिहितमिति गुर्वन्तरगमने विवेकिनः शङ्कावश्यमुदियादित्येवं कस्मादुक्तम्? -- इत्याशङ्क्याह -- गुर्वन्तररते मूढे आगमान्तरसेवके || १३-३४९ || प्रत्यवायो य आम्नातः स इत्थमिति गृह्यताम् | इत्थमिति वक्ष्यमाणप्रकारेण || तदेवाह � यो यत्र शास्त्रेऽधिकृतः स तत्र गुरुरुच्यते || १३-३५० || तत्रानधिकृतो यस्तु तद्गुर्वन्तरमुच्यते | तत्रानधिकृत इति यथा वामे सैद्धान्तिकः || एतदेव दृष्टान्तोपदर्शनेन हृदयङ्गमयति -- यथा तन्मण्डलासीनो मण्डलान्तरभूपतिम् || १३-३५१ || स्वमण्डलजिगीषुः सन्सेवमानो विनश्यति | तथोत्तरोत्तरज्ञानसिद्धिप्रेप्सुः समाश्रयन् || १३-३५२ || अधराधरमाचार्यं विनाशमधिगच्छति | इह यथा तस्मिन्नेव मण्डले स्थितः कश्चित्तदेव स्वमास्पदभूतं मण्डलमपहृतप्रायं जेतुमिच्छुस्तत्रानधिकारिणमपि मण्डलान्तरभूपतिं सेवमानो विनश्यति तज्जयोऽस्य मा भूत् प्रत्युतानर्थान्तरं किञ्चिदुदियात् -- इत्यर्थः | एवमूर्ध्वोर्ध्व एव ज्ञाने स्थितस्तत्सिद्धिमेव च प्राप्तुमिच्छुस्तदनधिकृतमधराधरमाचार्यं समाश्रयन्विनाशमधिगच्छति तत्समुदितेऽमुष्य भुक्तिमुक्ती मा स्यातां प्रत्युत प्रत्यवायित्वं भवेत् -- इत्यर्थः || न केवलमेतत्स्वदर्शनमेवाधिकृत्योक्तं यावद्दर्शनान्तराण्यपि -- इत्याह -- एवमेवोर्ध्ववर्तिष्णोरागमात्सिद्धिवाञ्छकः || १३-३५३ || मायीयशास्त्रनिरतो विनाशं प्रतिपद्यते | उक्तं च श्रीमदानन्दे कर्म संश्रित्य भावतः || १३-३५४ || जुगुप्सते तत्तस्मिंश्च विफलेऽन्यत्समाश्रयेत् | दिनाद्दिनं ह्रसंस्त्वेवं पच्यते रौरवादिषु || १३-३५५ ||
SK
नचैतन्न्यायमात्रसिद्धमेव -- इत्याह -- ᳚उक्तं च᳚ इत्यादि | यः कश्चिदुत्तरोत्तरशास्त्रीयमपि कर्म संश्रित्य भावतो जुगुप्सते तत्र निष्ठां न यायादिति तस्मिन्निष्फलेऽन्यन्मायीयशास्त्रीयं कर्म सम्यगाहृदयादाश्रयेत्, स पुनरिह लोके दिनाद् दिनं ह्रसन् धनदारादिभिरपचीयमानः परत्र रौरवादिषु पच्यते पापफलभाग्भवेत् -- इत्यर्थः | एवंपाठश्च जरत्पुस्तकेषु शतशो दृष्टः || ननु यद्येवमूर्ध्वशासनस्थोऽप्यधराधरे गुर्वादौ रज्यन् प्रत्यवेयात्, तदूर्ध्वोर्ध्वं मार्गं प्राप्तुमिच्छुरधरं गुर्वादि परिहरन् कीदृक् स्यात्? -- इत्याशङ्क्याह -- यस्तूर्ध्वोर्ध्वपथप्रेप्सुरधरं गुरुमागमम् | जिहासेच्छक्तिपातेन स धन्यः प्रोन्मुखीकृतः || १३-३५६ || एवमेवंविधानामेवानुग्राह्यतयास्मद्दर्शनसंस्कारविशेषोऽप्युक्तः -- इत्याह -- अत एवेह शास्त्रेषु शैवेष्वेव निरूप्यते | शास्त्रान्तरार्थानाश्वस्तान्प्रति संस्कारको विधिः || १३-३५७ || नचैतदेवास्य दर्शनस्योत्तमत्वे निमित्तं यावदन्यदपि -- इत्याह -- अतश्चाप्युत्तमं शैवं योऽन्यत्र पतितः स हि | इहानुग्राह्य ऊर्ध्वोर्ध्वं नेतस्तु पतितः क्वचित् || १३-३५८ || ऊर्ध्वोर्ध्वमिति यथा वैष्णवादिः शैवे, स वामे स च दक्षे इति | क्वचिदिति वैष्णवादौ || एवं ह्यस्मद्दर्शन इव तत्रापि तं प्रति कश्चन लिङ्गोद्धारप्रायः संस्कारविशेषोऽभिहितः स्यात् | तदाह -- अत एव हि सर्वर्ज्ञैब्रह्मविष्ण्वादिभिर्निजे | न शासने समाम्नातं लिङ्गोद्धारादि किञ्चन || १३-३५९ || सर्वज्ञैरिति ते ह्येवं जानते यदूर्ध्वोर्ध्ववर्तिनां शैवादीनामस्मदादिदर्शनानुग्राह्यत्वं नास्तीति || ननु यद्येते सर्वज्ञाः तदत्युत्कृष्टं शैवं ज्ञानमपहाय कस्मादेवमपकृष्टं ज्ञानमादिशन्? -- इत्याशङ्क्याह -- इत्थं विष्ण्वादयः शैवपरमार्थैकवेदिनः | कांश्चित्प्रति तथादिक्षुस्ते मोहाद्विमतिं श्रिताः || १३-३६० ||
SK
कांश्चिदिति तावदुपदेशयोग्यान् | तथेति अपकृष्टज्ञानात्मना प्रकारेण -- इत्यर्थः | तेषां च तावतैव मोहवशादिदमेव तत्त्वमिति विरुद्धे निश्चय इत्युक्तं ते मोहाद्विमतिं श्रिता इति || तेषां च तत्रैवाभिनिवेशाद् ब्रह्माद्यैरपि तदेव दार्ढ्येनोपदिष्टम् - - इत्याह -- तथाविधामेव मतिं सत्यसंस्पर्शनाक्षमाम् | दृष्ट्वैषां ब्रह्मविष्ण्वाद्यैर्बुद्धैरपि तथोदितम् || १३-३६१ || तथाविधामिति विरुद्धाम्, अत एवोक्तं सत्यसंस्पर्शनाक्षमामिति | बुद्धैरपि शैवपरमार्थतया प्रबुद्धैरपि -- इत्यर्थः | तथेति तत्तदाशयोचितेनापकृष्टज्ञानात्मना प्रकारेण -- इत्यर्थः || ३६१ || प्रतिज्ञातमेवाह्निकार्थं प्रथमार्धेनोपसंहरति -- इत्येष युक्त्यागमतः शक्तिपातो विवेचितः | इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके शक्तिपातप्रदर्शनं नाम त्रयोदशमाह्निकम् || १३ || विवेचित इति शिवम् || परमेशशक्तिपातव्यक्तस्वात्मीयवीर्यवैभवतः | प्रभविष्णुराह्निकार्थं त्रयोदशं जयरथः स्फुटं व्यवृणोत् || इति श्रामदाचार्याभिनवगुप्तपादविरचिते, श्रीजयरथाचार्यकृतविवेकाभिख्यव्याख्योपेते श्रीतन्त्रालोके शक्तिपातप्रदर्शनं नाम त्रयोदशमाह्निकम् || १३ || चतुर्दशमाह्निकम् ᳚ विवेक ᳚ यो योगिनीप्रियतया तिरोहितिव्यपगतिक्रमं जगताम् | प्रबलीकरोति बलतो बलाय तस्मै बलिं यामः || इह तावत्परमेश्वरः पञ्चविधकृत्यकारीति सर्वत्रोक्तम् | तत्रास्य पूर्वं संहारचित्रतानिरूपणावसरे सृष्ट्यादित्रयं दर्शितं समनन्तराह्निके चानुग्रह इति संप्रत्यवशिष्टं तिरोभावाख्यं पञ्चम कृत्यं द्वितीयार्धेन प्रतिपादयितुमाह -- तिरोभावस्वरूपं तु कथ्यमानं विविच्यताम् | इह दीक्षाया उपक्रमेऽपि एतन्निर्देशेऽयमाशयो यत्प्रथमं हेये प्रदर्शिते परमुपादेये विश्रान्तिर्भवेदिति || तदेव अवतारयति � स्वभावात् परमेशानो नियत्यनियतिक्रमम् || १४-१ || स्पृशन्प्रकाशते येन ततः स्वच्छन्द उच्यते | स्वभावादिति स्वो भाव इच्छा ततः -- इत्यर्थः ||
SK
तत्रास्य नियतिक्रमस्पर्शेन प्रकाशनं दर्शयति � नियतिं कर्मफलयोराश्रित्यैष महेश्वरः || १४-२ || सृष्टिसंस्थितिसंहारान्विधत्तेऽवान्तरस्थितीन् | अवान्तरस्थितीनिति शाक्तमहासृष्ट्याद्यपेक्षया | ते च पृथ्व्याद्यण्डत्रयविषयाः | यदुक्तं प्राक् � ᳚कालाग्निर्भुवि संहर्ता मायान्ते कालतत्त्वराट् | श्रीकण्ठो मूल एकत्र सृष्टिसंहारकारकः || तल्लयोऽवान्तरस्तस्मा.......................... |᳚ (६|१७२) इति || २ || अन्यत्र पुनरस्य नियतिस्पर्शो नास्ति -- इत्याह -- महासर्गे पुनः सृष्टिसंहारानन्त्यशालिनि || १४-३ || एकः स देवो विश्वात्मा नियतित्यागतः प्रभुः | महत्त्वमेवास्य दर्शयति सृष्टिसंहारानन्त्यशालिनीति | यदुक्तं प्राक् -- ᳚श्रीमानघोरः शक्त्यन्ते संहर्ता सृष्टिकृच्च सः | तत्सृष्टौ सृष्टिसंहारा निःसंख्या जगतां यतः || अन्तर्भूतास्ततः शाक्ती महासृष्टिरुदाहृता |᳚ (६|१७३) इति | नियतित्यागत इति न हि इयं कर्मभूर्येनात्र तदपेक्षया नियतिपरिग्रहोऽपि स्यात् || न केवलमत्रास्य नियतित्यागो यावदवान्तरसर्गादावपि -- इत्याह -- अवान्तरे या च सृष्टिः स्थितिश्चात्राप्ययन्त्रितम् || १४-४ || नोज्झत्येष वपुस्त्यक्तनियतिश्च स्थितोऽत्र तत् | नोज्झतीति तथात्वे ह्यस्य स्वातन्त्र्यखण्डना भवेत् -- इति भावः || ४ || नियतित्यागात्यागयोः को विशेषः? -- इत्याशङ्क्याह -- नियत्यैव यदा चैष स्वरूपाच्छादनक्रमात् || १४-५ || भुङ्क्ते दुःखविमोहादि तदा कर्मफलक्रमः | त्यक्त्वा तु नियमं कार्मं दुःखमोहपरीतताम् || १४-६ || बिभासयिषुरास्तेऽयं तिरोधानेऽनपेक्षकः | स्वरूपाच्छादनक्रमादिति तमवलम्ब्य -- इत्यर्थः | कार्मनियमत्यागे हेतुरनपेक्षक इति | यदभिप्रायेणैव वक्ष्यति -- ङचास्य कर्ममहिमा तादृग्येनेत्थमास्त सः |᳚ (१४.१४) इति || ६ || ननु तिरोधानमेव नाम किमुच्यते यत्रापि विभोः कर्मादिनैरपेक्ष्यम्? -- इत्याशङ्कां गर्भीकृत्य कार्यद्वारेण दृष्टान्तोपदर्शनपुरःसरं तत्स्वरूपमेवाभिधत्ते -- यथा प्रकाशस्वातन्त्र्यात् प्रतिबुद्धोऽप्यबुद्धवत् || १४-७ ||
SK
आस्ते तद्वदनुत्तीर्णोऽप्युत्तीर्ण इव चेष्टते | इह यथा प्रकाश एव अहंपरामर्शोदयात् प्रबुद्धोऽपि अप्रबुद्धवदास्ते ᳚वीतरागा अपि सरागवत् व्यवहरन्ति᳚ इति न्यायेन गोपितस्वात्मवीर्यावष्टम्भोऽवतिष्ठते, तथा कश्चिदनुत्तीर्णोऽपि पारमेश्वरशक्तिपाताभावादनाभासितरूपोऽपि उत्तीर्ण इव आभासितरूप इव चेष्टते परविप्रलम्भाय दाम्भिकतया भक्तिश्रद्धादि विदध्यात् | वस्तुतस्तु पारमेश्वरमन्त्रतन्त्रादावस्य न कश्चिदादरप्रत्यय इत्येतत्तिरोधानं नाम -- इत्यर्थः | यदुक्तं प्राक् � ᳚अनाभासितरूपोऽपि तदाभासितयेव यत् | स्थित्वा मन्त्रादि संगृह्य त्यजेत्सोऽस्य तिरोभवः ||᳚ (१३|१२१) इति || ७ || ननु इह तावत् ᳚शिवोऽहमद्वितीयोऽहं........................ |᳚ इत्याद्युक्त्या शिवतामनापन्नोऽपि तादात्म्यप्रतिपत्तये तथा भावयेदित्याम्नातं तदेवमेवास्य चेच्चेष्टा तदा को दोषः ? -- इत्याशङ्क्याह -- यथा च बुद्धस्तां मूढचेष्टां कुर्वन्नपि द्विषन् || १४-८ || हृद्यास्ते मूढ एवं हि प्रबुद्धानां विचेष्टितम् | कुर्वन्नपि हृदि द्विषन्नास्ते तत्राहृदयादस्य विश्रान्तिर्नास्ति -- इत्यर्थः || ८ || न चैतदस्माभिरेवोक्तम् -- इत्याह -- श्रीविद्याधिपतिश्चाह मानस्तोत्रे तदीदृशम् || १४-९ || तदेव -- पठति -- ये यौष्माके शासनमार्गे कृतदीक्षाः संगच्छन्तो मोहवशाद्विप्रतिपत्तिम् | नूनं तेषां नास्ति भवद्भानुनियोगः सङ्कोचः किंसूर्यकरैस्तामरसानाम् || १४-१० || ज्ञातज्ञेया धातृपदस्था अपि सन्तो ये त्वन्मार्गात्कापथगास्तेऽपि न सम्यक् | प्रायस्तेषां लैङ्गिकबुद्ध्यादिसमुत्थो मिथ्याबोधः सर्पवसादीपजकल्पः || १४-११ || यस्माद्विद्धं सूतकमुख्येन नु ताम्रं तद्यद्भूयः स्वां प्रकृतिं नो समुपेयात् | नो तैः पीतं भूतलसंस्थैरमृतं त द्येषां तृट्क्षुद्दुःखविबाधाः पुनरस्मिन् || १४-१२ ||
SK
भवद्दर्शनमनुप्रविश्यापि तत्र ये विप्रतिपन्नास्तेषां शक्तिपात एव नायातः, अतश्च भवद्दर्शनस्य उत्तानतया तत्त्वं जानाना अपि ततः सांख्यादिकुमार्गं गता इति ते सम्यक् विलयशक्त्याघ्रता एव -- इत्यर्थः | यतस्तेषां सर्पवसादीपादिवत् तद्दर्शनादुत्पन्नं मिथ्याज्ञानमस्ति, येनैतदन्यथा जानते | सर्पवसादीपे हि सति सर्वं सर्पमयमेव दृश्यते इति | अतश्च दर्शनान्तरान्यथानुपपत्त्या एतन्निश्चीयते यत्त्वद्दर्शने तिरोहितत्वादेते न प्ररोहमुपगता इति | नहि पारदेन विद्धं ताम्रं पुनस्ताम्रतां यायात्, न वा पीतामृतानां पुनस्तृडादिबाधा स्यात् || १२ || एवञ्च प्रबुद्धचेष्टैव तिरस्क्रियमाणत्वादेनं तिरोभावयेत् -- इत्याह -- ततः प्रबुद्धचेष्टासौ मन्त्रचर्यार्चनादिका | द्वेषेद्धान्तर्दहत्येनं दाहः शङ्कैव सा यतः || १४-१३ || अन्तर्दाहे हेतुर्द्वेषेद्धेति द्वेषेणेद्धा द्विष्यमाणतयोत्तेजिता -- इत्यर्थः | तद्द्वेषेणैव ह्यस्यैवंभावः -- इति भावः | तदुक्तम् -- ङिन्द्यमानमहामन्त्रविद्याचर्यादिकोपजम् | पाप्म तं पातयेद्धोरे यातनाधाम्नि सर्वथा ||᳚ इति | कश्चात्र दाहार्थः? -- इत्याशङ्क्याह -- दाहः शङ्कैव सा यत इति | शङ्का हि विकल्पः, स एव च संसारनिमित्तम् | यदुक्तम् -- शर्वो विकल्पः संसारः ................... |᳚ इति | तत्रैव चास्य दन्दह्यमानत्वं नाम तिरोभाव इत्येवमुक्तम् || १३ || नन्वत्र चास्य किं प्राक्तनकर्मविस्फूर्जितं निमित्तमुतान्यत्किञ्चित्? -- इत्याशङ्क्याह -- न चास्य कर्ममहिमा तादृग्येनेत्थमास्त सः | किं हि तत्कर्म कस्माद्वा पूर्वेणात्र समो विधिः || १४-१४ ||
SK
तादृक् तिरोधानहेतुः, इत्थमिति प्रबुद्धचेष्टादिद्वेषकारितया | नह्येवंविधं कर्म किञ्चिदस्ति यत्तिरोधानहेतुतां यायात्, तद्धि जात्यायुर्भोगप्रदम्, न चैतन्मध्यात्तिरोधानं किञ्चिदित्युक्तम् -- किं हि तत्कर्मेति | न चैवंविधः कश्चन कर्माशयोऽप्यस्ति योऽस्य हेतुतां यायात् -- इत्याह -- कस्माद्वेति | एवं च यथा कर्मादिनैरपेक्ष्येण परमेश्वरेच्छयैव अनुग्रहः स्यादिति पूर्वमुक्तं तथा तिरोधानमपि -- इत्युक्तम् -- पूर्वेणात्र समो विधिरिति | विधिरिति चोद्यप्रतिसमाधानप्रकारः || १४ || अत एवाह -- तस्मात्सा परमेशेच्छा ययायं मोहितस्तथा | अनन्तकालसंवेद्यदुःखपात्रत्वमीहते || १५ || ननु पारमेश्वरमिच्छामात्रमेव चेदत्र निमित्तं तत्कुतस्त्यमिदमेषां दुःखवैचित्र्यम्? -- इत्याशङ्क्याह -- तत्रापि चेच्छावैचित्र्यादिहामुत्रोभयात्मकः | दुःखस्यापि विभेदोऽस्ति चिरशैघ्र्यकृतस्तथा || १४-१६ || एतदेव दर्शयति � कालकामान्धकादीनां पौलस्त्यपुरवासिनाम् | तथान्येषां तिरोभावस्तावद्दुःखो ह्यमुत्र च || १४-१७ || पुरवासिनस्त्रिपुराः, अन्येषामिति चित्रसेनादीनाम् | चशब्दादिहापि, तेन कालादीनामिहैव दाहाद्यनन्तरमनुग्रहस्य वृत्तत्वात्, पौलस्त्यादीनामुभयत्रापि अनुग्रहासंपत्तेः || १७ || न केवलमस्य पारमेश्वरमिच्छामात्रमेव निमित्तं यावदन्यदपि -- इत्याह -- अन्योऽपि च तिरोभावः समयोल्लङ्घनात्मकः | समयोल्लङ्घनात्मक इति कार्यकारणयोरभेदोपचारात् || किमत्र प्रमाणम्? -- इत्याशङ्क्याह -- यदुक्तं परमेशेन श्रीमदानन्दगह्वरे || १४-१८ || समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः | नचात्र शतं समा एव इति नियमो विवक्षितः -- इत्याह -- तत्रापि मन्दतीव्रदिभेदाद् बहुविधः क्रमः || १४-१९ || एवं तिरोभावस्य स्वरूपमभिधाय, तद्व्यपगममप्यासूत्रयति -- स्वातन्त्र्याच्च महेशस्य तिरोभूतोऽप्यसौ स्वयम् | परद्वारेण वाऽभ्येति भूयोऽनुग्रहमप्यलम् || १४-२० || अत्र स्वयं तावदनुग्रहाभिमुख्येनागमनमाह --
SK
भूयोऽनुग्रहतः प्रायश्चित्ताद्याचरणे सति | अनुसारेण दीक्षादौ कृते स्याच्छिवतामयः || १४-२१ || प्रायश्चित्ताचरणं हि स्वयमेव भवेत् -- इति भावः | अनुसारेणेति शक्तिपातस्य तीव्रमन्दादिरूपतया स्वयोग्यतायाः || २१ || परद्वारेणाप्याह � तिरोभूतः परेतासुरपि बन्धुसुहृद्गुरून् | आलम्ब्य शक्तिपातेन दीक्षाद्यैरनुगृह्यते || १४-२२ || अत्रापि प्राग्वद्वैचित्र्यमस्ति -- इत्याह -- तत्रापि कालशीघ्रत्वचिरत्वादिविभेदताम् | तथैति शक्तिपातोऽसौ येनायाति शिवात्मताम् || १४-२३ || तथेति चिरं शीघ्रेण वा || २३ || प्रागुक्तमेव प्रमेयं संचिनोति -- इत्थं सृष्टिस्थितिध्वंसतिरोभावमनुग्रहः | इति पञ्चसु कर्तृत्वं शिवत्वं संविदात्मनः || २४ || ननु भवतु संविदः सृष्ट्यादौ कृत्यपञ्चके कर्तृत्वं नाम शिवत्वं मादृशां पुनरेतदुपदेशेन कोऽर्थः? -- इत्याशङ्क्याह -- पञ्चकृत्यस्वतन्त्रत्वसंपूर्णस्वात्ममानिनः | योगिनोऽर्चाजपध्यानयोगाः संस्युः सदोदिताः || २५ || अर्चादीनां हि परतत्त्वानुप्राणित्वं नाम तत्त्वम् | तञ्चैवंमानिनो योगिनः सर्वदैवास्तीत्युक्तं तेऽपि सदोदिताः -- इति || २५ || एवं चैतदेव परमुपेयं येन जीवतोऽपि मुक्तिः स्यात्, अतश्च क्षणमात्रावभासिनि कृत्रिमप्राये भोगादावासक्तिर्न कार्या -- इत्याह -- एन्द्रजालिकवृत्तान्ते न रज्येत कदाचन | सादाशिवोऽपि यो भोगो बन्धः सोऽप्युचितात्मनाम् || १४-२६ || ननु ज्ञानक्रियात्मा शिव इत्यस्मन्मतं तत्कथमुक्तं कर्तृत्वमेव शिवत्वमिति? -- इत्याशङ्क्याह -- ज्ञातृत्वमेव शिवता स्वातन्त्र्यं तदिहोच्यते | नहि ज्ञानक्रिययोः कश्चिद्भेदः -- इति भावः | यदुक्तम् -- ङ क्रियारहितं ज्ञानं न ज्ञानरहिता क्रिया |᳚ इति || कुलालादिन्यायेन निर्मातृतारूपम् पुनः कर्तृत्वमत्र न विवक्षितं यतस्तन्न मुख्यम् | तद्धि शुद्धस्वातन्त्र्यात्मनः कर्तृत्वस्याधिष्ठेयं तेन विनाऽस्यानुदयात् | तदाह -- कुलालवत्तु कर्तृत्वं न मुख्यं तदधिष्ठितेः || १४-२७ ||
SK
ननु तर्हि मादृशामपि कुलालादिवदेव न मुख्यकर्तृत्वमिति कृतमात्मनि शिवत्वाभिमानेन, तथात्वे ह्यस्माकमपीच्छामात्रानुवर्ति जगद्भवेत्, न चैवम्? -- इत्याशङ्क्याह -- इति ज्ञात्वा ग्रहीतव्या नैव जात्वपि खण्डना | शिवोऽहं चेन्मदिच्छानुवर्ति किं न जगत्त्विति || १४-२८ || खण्डनेति पारिमित्यम् || २८ || तदग्रहणमेवोपपादयति -- ममेच्छामनुवर्तन्तामित्यत्राहंविदि स्फुरेत् | शिवो वा परमेशानो देहादिरथ निर्मितः || १४-२९ || शिवस्य तावदस्त्येतद्देहस्त्वेष तथा त्वया | कृतः काऽन्या देहताऽस्य तत्किं स्याद्वाच्यतापदम् || १४-३० || अहंविदीति अहंसंवित्तौ -- इत्यर्थः | तत्र स्वतन्त्रः शिव एव यद्यत्र स्फुरेत् तत्स्थितमेव जगतस्तदिच्छानुवर्तित्वम् | अथ निर्मितो देहादिः, कुत एवमस्य भवेत् | स हि जड एव अपहस्तितपूर्णज्ञानक्रियः सृष्टः, अन्यथा हि अस्य देहत्वमेव न स्यात्, तदेतन्नोपालम्भनीयमित्युक्तम् तत्किं स्याद्वाच्यतापदमिति | तस्माच्छिव एवाहमभिमानः कार्यो न देहादौ येन तत्त्वमेव दार्ढ्यातिशयात्प्ररोहमुपगच्छेत् | इयता च ज्ञानपरिपूर्णताख्यं प्रमेयमुक्तं तदेव च परमुपादेयं येनोक्तम् -- ᳚एन्द्रजालिकवृत्तान्ते न रज्येत कदाचन |᳚ इति || ३० || ननु किमत्र प्रमाणम्? -- इत्याशङ्क्याह -- उक्तं च सिद्धसन्तानश्रीमदूर्मिमहाकुले | ऊर्मिमहाकुले इति ऊर्मिकौले || तदेव पठति -- पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः || ३१ || कुहकादिषु ये भ्रन्तास्ते भ्रन्ताः परमे पदे | ननु यद्येवं तत्कथं प्राणविक्षेपाद्यात्मिकाया उत्क्रान्तेः परपदोपायत्वं सर्वत्रोक्तम्? -- इत्याशङ्क्याह -- सर्वत्र बहुमानेन याप्युत्क्रान्तिर्विमुक्तये || १४-३२ || प्रोक्ता सा सारशास्त्रेषु भोगोपायतयोदिता | यद्गीतम् � शर्वद्वाराणि संयम्य मनो हृदि निरुध्य च | मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् || ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् | यः प्रयाति त्यजन्देहं स याति परमां गतिम् ||᳚ (८|१२,१३) इति | सारशास्त्रेविष्वति प्रधानेषु ऊर्मिकौलादिषु -- इत्यर्थः |
SK
भोगोपायतयेति न मुक्त्युपायतया | अनेन च उत्क्रान्तेरनुपयुक्तत्वमासूत्रितम् || तदेव उपपादयितुं तत्रत्यमेव ग्रन्थं पठति -- यदि सर्वगतो देवो वदोत्क्रम्य क्व यास्यति || १४-३३ || अथासर्वगतस्तर्हि घटतुल्यस्तदा भवेत् | उत्क्रान्तिविधियोगोऽयमेकदेशेन कथ्यते || १४-३४ || निरंशे शिवतत्त्वे तु कथमुत्क्रान्तिसंगतिः | घटतुल्य इति नियतदेशकालाकारतया सङ्कुचितप्रायत्वात् | उत्क्रान्तिप्रकारश्चायं योग एकदेशेन नियतदेशतया कथ्यते यदधराधरपदत्यागेन ऊर्ध्वोर्ध्वपदाक्रमणमुत्क्रान्तिरिति | नचैतच्छिवतत्त्वे संगच्छते, यतः सदसदादिविकल्पोज्झितत्वात् तन्निरंशम् | तदुक्तं तत्र -- ᳚उत्क्रान्तिर्विद्यते तत्र यत्र स्यान्मानकल्पना | अमाने शून्यनिर्भासे तत्रोत्क्रान्तिर्न विद्यते || अस्ति चेद्भगवान्व्यापी कथयोत्क्रमणेन किम् | नास्ति चेद्भगवान्व्यापी कथयोत्क्रमणेन किम् || उत्क्रान्तिविधियोगोऽयमेकदेशेन कथ्यते | विभुत्वादात्मनः सोऽपि शिवस्य च न विद्यते || नास्त्यस्ति नास्ति नास्तीति कोटयो न स्पृशन्ति यम् | वाचामगोचरो यस्मात्तत्तत्त्वमिह कथ्यते ||᳚ इत्याद्युपक्रम्य ᳚यदि सर्वगतो देवो वदोत्क्रम्य क्व यास्यति | अथासर्वगतस्तर्हि घटतुल्यस्तदा भवेत् || तस्मादुत्क्रान्तियोगोऽयं भ्रन्तिरेषा तमोमयी |᳚ इति || भोगोपायता चास्याः कथं स्यात् ? -- इत्याशङ्क्याह -- यथा धरादौ वाय्वन्ते भृग्वम्ब्वग्न्युपवासकैः || १४-३५ || आत्मनो योजनं व्योम्नि तद्वदुत्क्रान्तिवर्तना | तेन यथा भृग्वादिभिः क्रमेण धरादौ तत्त्वचतुष्टये भोगस्तथाप्यनया आकाशतत्त्वे इति | कारणगुणप्रक्रमेण हि कार्येण भवितव्यम् -- इति भावः || अतश्च न परतत्त्वावाप्तिकामैरेतदनुष्ठेयम् -- इत्याह -- तस्मान्नोत्क्रमयेज्जीवं परतत्त्वसमीहया || १४-३६ || ननु यद्युत्क्रान्तेर्मुक्त्युपायत्वं नास्ति, तत्कथं श्वशरीरं परित्यज्य शाश्वतं पदमृच्छति |᳚ (१७|२५) इत्यादि श्रीमालिनीविजयोत्तरे प्रोक्तम् ? -- इत्याशङ्क्याह -- श्रीपूर्वशास्त्रे तूक्तं यदुत्क्रान्तेर्लक्षणं न तत् |
SK
मुक्त्युपायतया किन्तु भोगहान्यै तथैषणात् || १४-३७ || तथेत्युत्क्रान्त्यात्मना प्रकारेण || ३७ || एतद्धि पारमेश्वरशक्तिपातवशोन्मिषितपरसंविदैकात्म्यभाजां योगिनां बाह्यविषयोपभोगवैमुख्यात् देहत्याग एव उपायमात्रमिति | तदाह -- जपध्यानादिसंसिद्धः स्वातन्त्र्याच्छक्तिपाततः | भोगं प्रति विरक्तश्चेदित्थं देहं त्यजेदिति || १४-३८ || न चापूर्वतयैवात्रैतदुपदिष्टम् -- इत्याह -- स्वच्छन्दमृत्योरपि यद् भीष्मादेः श्रूयते किल | भोगवैरस्यसंप्राप्तौ जीवितान्तोपसर्पणम् || १४-३९ || ननु जीवितान्तस्य भोगवैमुख्यं नाम स्वारसिकं निमित्तं न हि त्यक्तरसास्वादो जन्तुः कथञ्चिदपि जीवेत् तत्किं तदुपायोपदेशेन, न हि बुभुक्षितोऽश्नीयादित्यादौ शास्त्रमपेक्षणीयम्? -- इत्याशङ्क्याह -- योगमन्त्रामृतद्रव्यवराद्यैः सिद्धिभाक्तनुः | हातुं न ह्यन्यथा शक्या विनोक्तक्रमयोगतः || १४-४० || सिद्धिभाक् स्थैर्यं प्राप्त इत्यर्थः || ४० || न चैतस्वमनीषिकयैवोक्तम् -- इत्याह -- उक्तं च मालिनीतन्त्रे परमेशेन तादृशम् | सर्वमप्यथवा भोगं मन्यमानो विरूपकम् || १४-४१ || इत्यादि वदता सर्वैरलक्ष्यान्तः सतत्त्वकम् | परमेशेन इत्यादि वदता तादृशमुक्तम् -- इति संबन्धः | विरूपकमिति परसंविदावेशचमत्कारतारतम्यात्, न तु त्यक्तरसास्वादत्वात् | सर्वैरिति उत्तानप्रायार्थवेदिभिः | इदमत्रान्तःसतत्त्वं यदस्य स्वात्मनि शिवाहंभावाभिमानेनैव मुक्तिः, देहत्यागस्त्वनयेति | यदभिप्रायेणैवात्र ᳚....................शाश्वतं पदमृच्छति |᳚ (१७|२५) इति | तथा ᳚.................डीक्षोक्तं फलमश्नुते |᳚ इत्याद्युक्तम् -- तस्मात्सृष्ट्यादिपञ्चविधकृत्यकारित्वाभिमान एव स्वात्मनि परं मुक्तावुपायः -- इत्याह -- एवं सृष्ट्यादिकर्तव्यस्वस्वातन्त्र्योपदेशनम् || १४-४२ || यत्सैव मुख्यदीक्षा स्याच्छिष्यस्य शिवदायिनी | नचैतदप्रमाणकम्ः -- इत्याह -- उक्तं श्रीनिश्चारे च भैरवीयेण तेजसा || १४-४३ || व्याप्तं विश्वं प्रपश्यन्ति विकल्पोज्झितचेतसः |
SK
विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् || १४-४४ || बाह्यदीक्षादियोगेन चर्यासमयकल्पनैः | अविकल्पस्तथाद्यैव जीवन्मुक्तो न संशयः || १४-४५ || तेजसेति पूर्णज्ञानक्रियात्मनेति, अत एवोक्तम् -- विकल्पोज्झितचेतस इति संविदद्वैतमात्रनिष्ठाः -- इत्यर्थः | विकल्पयुक्तचित्त इति इदानीमेव संविदद्वैतासिद्धेः | अद्यैवेति सत्यपि देह इति यावत् | तदुक्तं तत्र � ᳚तेजसास्य शिवस्यैव व्याप्तं सर्वं चराचरम् | पश्यन्ति मुनयः सिद्धा वीरसंज्ञाश्च देवताः || विकल्पोज्झितचित्तास्तु पश्यन्ति भुवि मानवाः | विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् || विकल्पक्षीणचित्तस्तु आत्मानं शिवमव्ययम् | पश्यते भावशुद्ध्या यो जीवन्मुक्तो न संशयः ||᳚ इति | एवं निर्विकल्पवृत्तीनां जीवतामेव मुक्तिरितरेषां तु देहपातानन्तरमिति सिद्धम् || ननु जीवत एव यन्न सिद्धं तन्मृतस्य भविष्यति इत्यत्र किं प्रमाणम्? -- इत्याशङ्क्याह -- संसारजीर्णतरुमूलकलापकल्प सङ्कल्पसान्तरतया परमार्थवह्नेः | स्युर्विस्फुलिङ्गकणिका अपि चेत्तदन्ते देदीप्यते विमलबोधहुताशराशिः || ४६ || संसार एव शर्वो ममायं विभवः᳚ इत्यादिशुद्धविकल्पघुणग्रस्तत्वाज्जीर्णतरुः, तस्यावष्टम्भकतया मूलकलापप्राया ये भेदानुप्राणकत्वादशुद्धाः सङ्कल्पास्तैर्व्यवहितत्वेन साक्षादनभिव्यक्तित्वात् पारमार्थिकस्य बोधहुताशराशेर्विस्फुलिङ्गकणिकाप्राया अपि यदि समाधानादिदशासु त्वदावेशलेशा भवेयुः, तदवश्यमर्थाद्देहस्यान्ते पुनः पुनरभ्यासफूत्कारोत्तेजितः परमार्थवह्निर्देदीप्यते देहप्रमातृतादिनिर्वापणपूर्वं परप्रमातृत्वमेवात्यर्थं दीप्ततामियात् -- इत्यर्थः || ४६ || एतदेव प्रथमार्धेनोपसंहरति -- इत्थं दीक्षोपक्रमोऽयं दर्शितः शास्त्रसंमतः | इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके दीक्षोपक्रमप्रकाशनं नाम चतुर्दशमाह्निकम् || १४ || शास्त्रसंमत इति न तु स्वोपज्ञ एवेति शिवम् || अहिततिरोहितिविहतिप्रोन्मोषितस्वात्मपूर्णविज्ञानः |
SK
अह्नायाह्निकमेतच्चतुर्दशं जयरथः समाचख्यौ || इति श्रामदाचार्याभिनवगुप्तपादविरचिते, श्रीजयरथाचार्यकृतविवेकाख्यव्याख्योपेते श्रीतन्त्रालोके दीक्षोपक्रमप्रकाशनं नाम चतुर्दशमाह्निकम् || १४ ||

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. tantrāloka of abhinavagupta with the commentary of jayaratha chapters 1 thru 14 [M00092].

Source