SKयोगवासिष्ठ ओf वाल्मीकि श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशाख्यव्याख्यासहितः Wइथ् थे चोम्मेन्तर्य् वासिष्ठमहारामायणतात्पर्यप्रकाश पणशीकरोपह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा सम्पादितः Eदितेद् ब्य् Vअसुदेव ळxमन ष्हर्म Pअन्सिकर् १९१८ मुमुक्षुव्यवहारप्रकरणं द्वितीयम् | प्रथमः सर्गः १ वाल्मीकिरुवाच | इति नादेन महता वचस्युक्ते सभागतैः | राममग्रगतं प्रीत्या विश्वामित्रोऽभ्यभाषत || १ || अजमजरमनाद्यमेकं निजसौख्यलवाञ्चिताखिलानन्दम् | हृदि निहितमात्मसारं निगमान्तामृतरसायनं वन्दे || श्रीरामादिवचनमुखेन वर्णितापि साधनसंपन्मुमुक्षिभिः केन क्रमेण व्यवहरद्भिः संपाद्या कथं च तया तत्त्वविश्रान्तिलाभ इति प्रत्येकं विविच्य तेषामुपदेशाय द्वितीयं प्रकरणमारभमाणः श्रीवाल्मीकि-रुवाच - svayaṃ vicārātsaṃbuddhe pitrā cokte'pyaviśvasan | janakoktyā śukastattve viśrānta iti kīrtyate || tatrādau mandavairāgyādisāthanānāṃ sahasaivādhikārasaṃpattibhrameṇa śravaṇādau pravṛttirmā bhūditi śukhākhyāyikayā tatparipākalakṣaṇāni darśayan ācāryāddhaiva vidyā viditā sāśiṣṭhaṃ prāpat iti śruteḥ kulācāryaṃ viṣiṣṭhaṃ śrīrāmasyopadeśanāya pūrvavṛttantasmāraṇa- त्वरमाणो विश्वामित्र एव प्रथममभ्यभाषतेत्याह - इतीति | सभायामा-गतैः सिद्धैः अग्रगतं पुरःस्थितम् अधिकारसीम्नि स्थितं च | मुख्याधि-कारिणां दौर्लभ्याद्रामे रसज्ञतमत्वाद्वर्तिष्यमाणब्रह्मचर्चायां च प्रीत्या || १ || न राघव तवास्त्यन्यज्ज्ञेयं ज्ञानवतां वर | स्वयैव सूक्ष्मया बुद्ध्या सर्वं विज्ञातवानसि || २ || ज्ञेयमज्ञातत्वादवश्यज्ञातव्यम् | सर्वं हेयोपादेयरहस्यम् | तथाच सारासारविवेचनपरया बुद्ध्या परमार्थसारभूतमखण्डाद्वयचिन्- kevalaṃ mārjanāmātraṃ manāgevopayujyate | svabhāvavimale nityaṃ svabuddhimukure tava || 3 ||
SKतर्हि कुतो न विश्रान्तिस्तत्राह - केवलमिति | मार्जना अविश्वाससंदेहमालिन्य-निराकारणं तावन्मात्रम् | स्वबुद्ध्या विदितेऽपि प्रमाणाचार्यादिसंवाद-मन्तरेण विश्वासाभावादित्यर्थः | तथाचाहुः बलवदपि शिक्षितानामा-त्मन्यप्रत्ययं चेतः इति || ३ || भगवद्व्यासपूत्रस्य शुकस्येव मतिस्तव | विश्रान्तिमात्रमेवान्तर्ज्ञातज्ञेयाप्यपेक्षते || ४ || भगवतो व्यासस्य | अत्र व्यासशुकौ प्राक्तनद्वापरान्तजातौ गृह्येते | प्रतिद्वापरान्तं व्यासावतारभेदप्रसिद्धेः || ४ || श्रीराम उवाच | भगवद्यासपुत्रस्य शुकस्य भगवन्कथम् | ज्ञेयेऽप्यादौ न विश्रान्तं विश्रान्तं च धिया पुनः || ५ || ज्ञेये स्वेनैव विचारेण ज्ञातुं शक्येऽपि तत्त्वे | धिया गुरूपदेशसंवा- viśvāmitra uvāca | ātmodantasamaṃ rāma kathyamānamidaṃ mayā | śṛṇu vyāsātmajodantaṃ janmanāmantakāraṇam || 6 || ātmodantasamaṃ svavṛttāntasadṛśam | janmanāmanto mokṣaḥ || 6 || yo'yamañjanaśailābho niviṣṭo hemaviṣṭare | pārśve tava piturvyāso bhagavānbhāskaradyutiḥ || 7 || añjanaśailo nīlādririti prasiddho varṣaparvataḥ | niviṣṭa upaviṣṭaḥ | viṣṭare āsane || 7 || asyābhūdinduvadanastanayo nayakovidaḥ | śuko nāma mahāprājño yajño mūrtyeva susthitaḥ || 8 || nayakovidaḥ sarvaśāstrajñaḥ | mūrtyā śarīreṇa yukto yajña iva susthitaḥ || 8 || pravicārayato lokayātrāmalamimāṃ hṛdi | taveva kila tasyāpi viveka udabhūdayam || 9 || viveko vicāraḥ | ayamīdṛśaḥ || 9 || tenāsau svavivekena svayameva mahāmanāḥ | pravicārya ciraṃ cāru yatsatyaṃ tadavāptavān || 10 || yatparamārthasatyamātmatattvadvitīyacinmātrarūpaṃ tadavāptavāñjñātavān | jñānasyaiva tallābhatvāt || 10 || svayaṃ prāpte pare vastunyaviśrāntamanāḥ sthitaḥ | idaṃ vastviti viśvāsaṃ nāsāvātmanyupāyayau || 11 || aviśrāntau heturaviśvāsaḥ || 11 || kevalaṃ virarāmāsya ceto vigatacāpalam | bhogebhyo bhūribhaṅgebhyo dhārābhya iva cātakaḥ || 12 ||
SKविरराम उपरतम् | विरक्तमिति यावत् | भूरिभङ्गेभ्यो बहुतरविनाशदुःख- ekadā so'malaprajño merāvekāntasusthitam | papraccha pitaraṃ bhaktyā kṛṣṇadvaipāyanaṃ munim || 13 || kṛṣṇadvaipāyānaṃ vyāsam || 13 || saṃsārāḍambaramidaṃ kathamabhyutthitaṃ mune | kathaṃ ca praśamaṃ yāti kiyatkasya kadeti vā || 14 || paravañcanārtha kṛtrimaceṣṭitamāḍambaraṃ kathaṃ kena krameṇa abhutthita- कस्य संसारः किं देहस्य उत इन्द्रियाणामुत मनसः प्राणस्य वा उत संघातस्य उत तदन्यस्य विकारिणो निर्विकारचिन्मात्रस्य वेति पप्रच्छेति पूर्वेणान्वयः || १४ || इति पृष्टेन मुनिना व्यासेनाखिलमात्मजे | यथावदमलं प्रोक्तं वक्तव्यं विदितात्मना || १५ || विदितात्मना व्यासेन अखिलं वक्तव्यं यथावत्प्रोक्तमित्यन्वयः || १५ || आऽज्ञासिषं पूर्वमेतदहमित्यथ तत्पितुः | स शुकः शुभया बुद्ध्या न वाक्यं बह्वमन्यत || १६ || आ अज्ञासिषमिति च्छेदः | ननु यद्यत्र प्राक् स्वविचारेणैव ज्ञातस्य स्मरणार्थोऽयं आ इति निपातस्तर्हि वाक्यस्मरणयोरङित् इत्यनाङ्त्वात् निपात एकाजनाङ् इति प्रगृह्यत्वे प्रकृतिभावो न्याय्यः | सत्यम् | तथापि पूर्वं आसमन्ताद्विशिष्याज्ञासिषमिति धात्वर्थातिशद्योतकतया क्रियायोगस्यापि विवक्षितत्वात्तत्रैकशेषादिना आङोऽपि संग्रहात् निपात् एकाजनाङ् इत्यत्र आङ्वर्ज्य इति प्रसज्यप्रतिषेधपक्षस्वीकारात् प्रतिषेधाश्च बलीयांसो भवन्ति इति महाभाष्योक्तेः प्रगृह्यसंज्ञानिषेधात्संधिः साधुरेव | अथ उपदेशानन्तरं शुकस्तत्पितुर्वाक्यं आज्ञासिषमित्यनपूर्वार्थतया श्भया बुद्ध्या न बह्वम्न्यतेत्यन्वयः || १६ || व्यासोऽपि भगवान्बुद्धा पुत्राभिप्रायमीदृशम् | प्रत्युवाच पुनः पुत्रं नाहं जानामि तत्त्वतः || १७ || जनको नाम भूपालो विद्यते वसुधातले | यथावद्वेत्त्यसौ वेद्यं तस्मात्सर्वमवाप्स्यसि || १८ || पुत्राभिप्रायं बुद्ध्वा तद्बुद्धिमेवानुसरन् प्रत्युवाच नाहं जानामि | उक्तादन्यदिति भावः || १७ || १८ ||
SKपित्रेत्युक्ते शुकः प्रायात्सुमेरोर्वसुधातले | विदेहनगरीं प्राप जनकेनाभिपालिताम् || १९ || विदेहा नाम जनपदास्तेषां नगरीं मिथिलाम् || १९ || आवेदितोऽसौ याष्टीकैर्जनकाय महात्मने | द्वारि व्याससुतो राजञ्शुकोऽत्र स्थितवानिति || २० || याष्टीकैर्द्वास्थैर्यष्टिधरैः || २० || जिज्ञासार्थं [शुकस्याज्ञायास्तां] शुकस्यासावास्तामेवेत्यवज्ञया | उक्त्वा बभूव जनकस्तूष्णीं सप्त दिनान्यथ || २१ || जनकोऽपि विदितशुकवृत्तन्तः सहसैवोपदेशे व्यासवचनवदवहेलनया तस्याकृतार्थता मा भूदिति शुकस्य वैराग्यादिसाघनानां विश्वासस्य स्थैर्यस्य च जिज्ञासार्थम् | अवज्ञया उपेक्षया || २१ || ततः प्रवेशयामास जनकः शुकमङ्गणम् | तत्राहानि स सप्तैव तथैवावसदुन्मनाः || २२ || अङ्गणं गृहान्तश्चत्वरम् | उन्मनाः तत्त्वजिज्ञासोत्कण्ठाविस्मृतानादर इति यावत् || २२ || अथ प्रवेशयामास जनकोऽन्तःपुरं शुकम् | राजा न दृश्यते तावदिति सप्त दिनानि च || २३ || तत्रोन्मदाभिः कान्ताभिर्भोजनैर्भोगसंचयैः | जनको लालयामास शुकं शशिसमाननम् || २४ || यावद्भोजनादिभिस्त्वं न पूज्यसे तावद्राजा न दृश्यते इति वादनमिषेण तत्रान्तःपुरे सप्त दिनानि भोगसंचयैर्लालयामासेत्युत्तरेण संबन्धः || २३ || २४ || ते भोगास्तानि दुःखानि वासपुत्रस्य तन्मनः | नाजह्रुर्मन्दपवना बद्धपीठमिवाचलम् || २५ || नाजर्ह्नुर्न विचक्रुः | बद्धपीठं दृढमूलम् || २५ || केवलं सुसमः स्वस्थो मौनी मुदितमानसः | अतिष्ठत्स शुकस्तत्र संपूर्ण इव चन्द्रमाः || २६ || केवलमित्यवधारणे | भोगानादरयोः सुसमोऽतएव स्वस्थः | तत्र हेतुः- parijñātasvabhāvaṃ taṃ śukaṃ sa janako nṛpaḥ | ānītaṃ muditātmānamavalokya nanāma ha || 27 || itthaṃ parīkṣaṇena parijñātastattvadarśanaparyantapratiṣṭhito vicāravairādyādi- निःशेषितजगत्कार्य प्राप्ताखिलमनोरथ | किमीप्सितं तवेत्याशु कृतस्वागतमाह तम् || २८ ||
SKनिःशेषितानि निरवशेषं कृतानि जगति प्रसिद्धानि कार्याण्यवश्यकर्तव्यानि परमपुरुषार्थसाधनानि येन तथाविध | हे कृतकृत्येत्यर्थः | सर्वसुखल-वानामात्मसुखेऽन्तर्भावात्तत्प्राप्त्यैव प्राप्ताखिलमनोरथ || २८ || श्रीशुक उवाच | संसाराडम्बरमिदं कथमभ्युत्थितं गुरो | कथं प्रशममायाति यथावत्कथयाशु मे || २९ || संसारेति प्राग्व्याख्यातम् || २९ || विश्वामित्र उवाच | जनकेनेति पृष्टेन शुकस्य कथितं तदा | तदेव यत्पुरा प्रोक्तं तस्य पित्रा महात्मना || ३० || इति पृष्टेन जनकेन तस्य शुकस्य पित्रा पुरा पूर्व यत्प्रोक्तं तदेव कथितमित्यन्वयः || ३० || श्रीशुक उवाच | स्वयमेव मया पूर्वमेतज्ज्ञातं विवेकतः | एतदेव च पृष्टेन पित्रा मे समुदाहृतम् || ३१ || समुदाहृतं सम्यगुदाहरणोपपत्तिभिर्व्याख्यातम् || ३१ || भवताप्येष एवार्थः कथितो वाग्विदां वर | एष एव च वाक्यार्थः शास्त्रेषु परिदृश्यते || ३२ || व्यक्यार्थः सर्वोपनिषद्गतमहावाक्यानामर्थः | तत्तात्पर्यनिर्णायक- yathāyaṃ svavikalpotthaḥ svavikalpaparikṣayāt | kṣīyate dagdhasaṃsāro niḥsāra iti niścayaḥ || 33 || svasminnajñānopahite ātmani vividhaṃ kalpayatīti vikalpo'nantakāmakarmavā- समष्टिव्यष्टिसंस्कारपरिशेषेणाव्या-कृते लीनमनादिजीवभावोपाधिभूतमन्तःकरणं तस्मात्प्रलयक्रमविप- vartate | sa ca karmopāsanasamuccayamātrānuṣṭhānenādhyātmikavyaṣṭibhāva- श्रवणादिपरिपाकजन्यतत्त्वसाक्षात्कारेण सवासनकार्यकारणाविद्या- dagdhaśabdo nindāyām | athavā svaprakāśātmani duḥsthitatvānmithyātvācca pūrvameva dagdhaprāyo'taeva niḥsāraḥ sa bhūyaḥ sākṣātkārapralayānala- पुनःपुनः प्ररोहशङ्कावारणाय वा निःसार इति निश्चयः | तत्त्वविदामिति शेषः || ३३ || तत्किमेतन्महाबाहो सत्यं ब्रूहि ममाचलम् | त्वत्तो विश्रान्तिमाप्नोमि चेतसा भ्रमता जगत् || ३४ ||
SKएतत् मया स्वयमेव पूर्व विचारेण परिज्ञातं यत् तदेव सत्यं किं तर्हि तदचलमसंदिग्धं हृदि यथा भवति तथा ब्रूहि | जगत् नानाविषयानिदं वा तत्त्वं स्यादन्यद्वेत्यविश्वासेन भ्रमता चेतसा भ्राम्यमाणोऽहं त्वत्तः | त्वद्वचनविश्वासादिति यावत् | विश्रान्तिं तत्रैव स्थैर्यमाप्नोमि || ३४ || जनक उवाच | नातः परतरः कश्चिन्निश्चयोऽस्त्यपरो मुने | स्वयमेव त्वया ज्ञातं गुरुतश्च पुनः श्रुतम् || ३५ || अतोऽस्मात्त्वया परिज्ञातात् | निश्चयो निश्चेतव्योऽर्थः || ३५ || अविच्छिन्नचिदात्मैकः पुमानस्तीह नेतरत् | स्वसंकल्पवशाद्बद्धो निःसंकल्पश्च मुच्यते || ३६ || तमेव दृढनिशयाय पुनराह - अविच्छिन्नेति || ३६ || तेन त्वया स्फुटं ज्ञातं ज्ञेयं यस्य महात्मनः | भोगेभ्यो विरतिर्जाता [दृश्याद्वा] र्ड्श्यात्प्राक्सकलादिह || ३७ || महात्मनस्तवेति शेषः | प्राक् भोगेभ्यः | इहास्यां निश्चयदशायाम् | दृश्यात् दृश्यमात्रात् || ३७ || तव बाल महावीर मतिर्विरतिमागता | भोगेभ्यो दीर्घरोगेभ्यः किमन्यच्छ्रोतुमिच्छसि || ३८ || बालोऽपि विषयत्यागशूरत्वान्महावीर || ३८ || न तथा पूर्णता जाता सर्वज्ञानमहानिधेः | तिष्ठतस्तपसि स्फारे पितुस्तव यथा तव || ३९ || यथा तव पूर्णता जाता तथा तव पितुर्नेति दार्ढ्यार्थं प्रशंसा | एवमुत्तरत्रापि || ३९ || व्यासादधिक एवाहं व्यासशिष्योऽसि तत्सुतः | भोगेच्छातानवेनेह मत्तोऽप्यत्यधिको भवान् || ४० || प्राप्तं प्राप्तव्यमखिलं भवता पूर्णचेतसा | न दृश्ये पतसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज || ४१ || दृश्ये बाह्यविषये न पतसि दृश्यदर्शनस्यैव संसारपातत्वात् | उदरमन्तरं कुरुते अथ तस्य भयं भवति इति श्रुतेः | भ्रान्तिं ज्ञेयान्तरसद्भावभ्रमं दृश्यदर्शनभ्रमं वा || ४१ || अनुशिष्टः स इत्येवं जनकेन महात्मना | अतिष्ठत्स शुकस्तूष्णीं स्वच्छे परमवस्तुनि || ४२ || स पूर्वोक्तोऽविच्छिन्नचिदात्मैकस्त्वमित्येवमनुशिष्टः स शुकः | स्वच्छे दृश्यमालिन्यशून्ये || ४२ ||
SKवीतशोकभयायासो निरीहश्च्छिन्नसंशयः | जगाम शिखरं मेरोः समाध्यर्थमनिन्दितम् || ४३ || सात्त्विकदेवाधिष्ठितत्वेन विक्षेपहेत्वभावादनिन्दितम् | समाध्यनुकूलमिति यावत् || ४३ || तत्र वर्षसहस्राणि निर्विकल्पसमाधिना | दश स्थित्वा शशामासावात्मन्यस्नेहदीपवत् || ४४ || शशाम विदेहमुक्तोऽभूत् || ४४ || व्यपगतकलनाकलङ्कशुद्धः स्वयममलात्मनि पावने पदेऽसौ | सलिलकण एवाम्बुधौ महात्मा विगलितवासनमेकतां जगाम || ४५ || कलना दृश्योनमुखता कलङ्कस्तन्मूलमज्ञानं तदुभयापगमा- paramātmavastuni | salilakaṇapakṣe kalanā pṛthagbhāvaḥ | kalaṅko nīlamegha- चोक्तं विष्णुपुराणे - विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते | आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति || इति || ४५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये [मोक्षोपाये] मुमुक्षु-व्यवहारप्रकरणे शुकनिर्याणं नाम प्रथमः सर्गः || १ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे शुकनिर्याणं नाम प्रथमः सर्गः || १ || द्वितीयः सर्गः २ विश्वामित्र उवाच | तस्य व्यासतनूजस्य मलमात्रोपमार्जनम् | यथोपयुक्तं ते राम तावदेवोपयुज्यते || १ || इह रामोपदेशार्थं विश्वामित्रेण धीमता | प्रार्थितस्य विषिष्ठस्य तदुत्साहः प्रकीर्त्यते || शुकाख्यायिकां प्रकृते योजयन् रामोपदेशाय वसिष्ठं प्रवर्तयितुमा- yāvatprakāramupayuktya-mupapattiyuktamupadeśanamupayujyate tāvadeva te tavāpi upayuktaṃ yujyata iti saṃbandhaḥ | upayuktamabhūditi pūrvavākyamātraśeṣatayā tu na vyākhyeyam | samānavākye yuṣmadasmadādeśavidhānena virodhāt || 1 || jñeyametena vijñātamaśeṣeṇa munīśvarāḥ | svadante'smai na yadbhogā rogā iva sumedhase || 2 || uktamartha sarvamunisaṃmatyā samarthayituṃ munīśvarā iti teṣāṃ saṃbodhanam | svadante rocante | asmai rāmāya | rucyarthānāṃ prīyamāṇaḥ iti saṃpradānatvāccaturthī || 2 ||
SKज्ञातज्ञेयस्य मनसो नूनमेतद्धि लक्षणम् | न स्वदन्ते समग्राणि भोगवृन्दानि यत्पुनः || ३ || भोगभावनया याति बन्धो दार्ढ्यमवस्तुजः | तयोपशान्तया याति बन्धो जगति तानवम् || ४ || भावनया वासनया | तानवमल्पताम् || ४ || वासनातानवं राम मोक्ष इत्युच्यते बुधैः | पदार्थवासनादार्ढ्यं बन्ध इत्यभिधीयते || ५ || यावद्विषयावासना क्षीयते तावता मुच्यते | सर्वथा क्षये तु सर्वतो मुक्तिरिति भावः || ५ || स्वात्मतत्त्वाभिगमनं भवति प्रायशो नृणाम् | मुने विषयवैरस्यं कदर्थादुपजायते || ६ || अभिगमनमापातज्ञानम् | प्रायशः अल्पश्रवणाद्यायासेनापि | अपरोक्ष- kadarthātkleśāt || 6 || samyakpaśyati yastajjño jñātajñeyaḥ sa paṇḍitaḥ | na svadante balādeva tasmai bhogā mahātmane || 7 || tarhyalaṃ tāvatā kiṃ vairāgyeṇa tatrāha - samyagiti | samyak rāgādyapratihataṃ yathā syāttathā yaḥ paśyati sa eva tajjñastattvajñānajanyāviddyocchedaphala-bhāgiti jñātajñeyaḥ paṇḍitaśca | āpātadarśī tu maurkhyānapagamānna tatheti bhāvaḥ || 7 || yaśaḥprabhṛtinā yasmai hetunaiva vinā punaḥ | bhuvi bhogā na rocante sa jīvanmukta ucyate || 8 || prabhṛtigrahaṇena pūjālābhādayo gṛhyante | hetunā uddeśyena phalena vinaiva | tathāca na dāmbhikabhogatyāgādiṣṭasiddhirityarthaḥ || 8 || jñeyaṃ yāvanna vijñātaṃ tāvattāvanna jāyate | viṣayeṣvaratirjantormarubhūmau latā yathā || 9 || vairāgyabodhoparamāṇāmabhivṛddhau parasparasahāyatvājjñānaparipākāti- यावद्यावन्न विज्ञात. म्तावत्तावद्विषयेष्वरतिर्न जायत इति व्यतिरेकप्रकर्षादन्वय-प्रकर्षो लक्ष्यते | रसोऽप्यस्य परं दृष्ट्वा निवर्तते इति भगवद्वचनादिति भावः || ९ || अतएव हि विज्ञातज्ञेयं [विज्ञातं ज्ञेयं] विद्धि रघूद्वहम् | [येनेदं] यदेनं रञ्जयन्त्येता न रम्या भोगभूमयः || १० || भोगभूमयो विषयाः || १० ||
SKरामो यदन्तर्जानाति तद्वस्त्वित्येव सन्मुखात् | आकर्ण्य चित्तविश्रान्तिमाप्नोत्येव मुनीश्वराः || ११ || यदि रामस्तत्त्वज्ञस्तर्हि किमर्थमुपदेशार्थं वक्ष्यमाणा वसिष्ठप्रार्थना तत्राह - राम इति | सतो वसिष्ठस्य मुकात् | आप्नोत्येव अन्योऽप्यधिकारीति शेषः | तथा च सर्वोपकारायोपदेशप्रार्थनेत्यर्थः | अथवा रामो यदन्तस्तत्त्वं जानाति तद्राम एव विश्वासदार्ढ्याभावाद- kevalaṃ kevalībhāvaviśrāntiṃ samapekṣate | rāmabuddhiḥ śarallakṣmīḥ khalu viśramaṇaṃ yathā || 12 || tadeva sphuṭamāha - kevalamiti | kevalībhāvaviśrāntiṃ dvaitanirāse advitīya-cinmātrapariśeṣam | khalviti niścayena | viśvāsenetyarthaḥ || 12 || atrāsya cittaviśrāntyai rāghavasya mahātmanaḥ | yuktiṃ kathayatu śrīmānvasiṣṭho bhagavānayam || 13 || raghūṇāmeṣa sarveṣāṃ prabhuḥ kulaguruḥ sadā | sarvajñaḥ sarvasākṣī ca trikālāmaladarśanaḥ || 14 || nanu tvayaiva kuto nopadiśyate tatrāha - raghūṇāmiti | raghūpalakṣitānāmi- साक्षी तत्त्वतो योगबलेन विभागशश्च साक्षाद्द्रष्टा | साक्षाद्द्रष्टरि संज्ञायाम् इतीनिः | तत्र हेतुः त्रिष्वपि कालेष्वमलं मोहातिरस्कृतं दर्शनसाधनं मनो यस्य || १४ || वसिष्ठ भगवन्पूर्वं कच्चित्स्मरसि यत्स्वयम् | आवयोर्वैरशान्त्यर्थं श्रेयसे च महाधियाम् || १५ || कच्चिदिति हितप्रश्ने | महाधियां मुनीनामित्युत्तरेणान्वयः || १५ || निषधाद्रेर्मुनीनां च सानौ सरलसंकुले | उपदिष्टं भगवता ज्ञानं पद्मभुवा बहु || १६ || सानौ प्रस्थदेशे | सरला वृक्षविशेषाः | बहुश्रेष्ठमुपपत्तितो वा बहु || १६ || येन युक्तिमता ब्रह्मन्ज्ञानेनेयं हि वासना | सांसारी नूनमायाति शमं श्यामेव भास्वता || १७ || येन ज्ञानेन | युक्तिरुपपत्तिस्तदेकतानता च || १७ || तदेव युक्तिमज्ज्ञेयं रामायान्तेनिवासिने | ब्रह्मन्नुपदिशाशु त्वं येन विश्रान्तिमेष्यति || १८ || कदर्थना च नैवैषा रामो हि गतकल्पषः | निर्मले मुकुरे वक्रमयत्नेनैव बिम्बति || १९ ||
SKअल्पफलो बहुप्रयासः कदर्थना || १९ || तज्ज्ञानं स च शास्त्रार्थस्त्वद्वैदग्ध्यमनिन्दितम् | सच्छिष्याय विरक्ताय [यत्किंचिदुपदिश्यते] साधो यदुपदिश्यते || २० || नेयं कदर्थना प्रत्युताभिज्ञतादयादिसार्थक्यापादनादभ्युदय एवेत्याह - तदिति | विदग्धः पण्डितस्तद्भावो वैदग्ध्यम् | अनिन्दितं प्रशस्तम् | पात्रेष्वप्रतिपत्तौ वैयर्थ्यान्निन्दितमेव स्यादिति भावः || २० || अशिष्यायाविरक्ताय यत्किंचिदुपदिश्यते | तत्प्रयात्यपवित्रत्वं गोक्षीरं श्वदृताविव || २१ || दृतिश्चर्मभस्त्रा || २१ || वीतरागभयक्रोधा निर्माना गलितैनसः | वदन्ति त्वादृशा यत्र तत्र विश्राम्यतीह धीः || २२ || रागादीनामविद्यामूलकत्वात्तदुच्छेदादेव वीतरागादयः | गलितैनसो निष्पापाः | इहास्यामुपदेशदशायामेव | अस्मिन्नित्यपरोक्षे आत्मतत्त्वे वा || २२ || इत्युक्ते गाधिपुत्रेण व्यासनारदपूर्वकाः | मुनयस्ते तमेवार्थं साधुसाध्वित्यपूजयन् || २३ || गाधिपुत्रेण विश्वामित्रेण | अपूजयन् प्राशंसन् || २३ || अथोवाच महातेजा राज्ञः पार्श्वे व्यवस्थितः | ब्रह्मेव ब्रह्मणः पुत्रो वसिष्ठो भगवान्मुनिः || २४ || यतोऽयं ब्रह्मणः पुत्रो ब्रह्मेव महातेजस्त्वादिगुणविशिष्टोऽतो दिव्यानामपि महर्षीणां पुरतो ब्रह्मेवोवाचेति भावः || २४ || श्रीवसिष्ठ उवाच | मुने यदादिशसि मे तदविघ्नं करोम्यहम् | कः समर्थः समर्थोऽपि सतां लङ्घयितुं वचः || २५ || तत्त्वज्ञानां लक्षणभूतानमानित्वादिगुणान्स्वाचरितैः शिक्षयन्निव विनयोक्तिभिः प्रार्थितार्थनिरूपणं प्रतिजानीते - मुने इत्यादिना | आदिशसि आज्ञापयसि || २५ || अहं हि राजपुत्राणां रामादीनां मनस्तमः | ज्ञानेनापनयाम्याशु दीपेनेव निशातमः || २६ || ज्ञानोदये अज्ञाननिवृत्तौ न विलम्ब इति द्योतनायाश्विति || २६ || स्मराम्यखण्डितं सर्वं संसारभ्रमशान्तये | निषधाद्रौ पुरा प्रोक्तं यज्ज्ञानं पद्मजन्मना || २७ ||
SKयज्ज्ञानं पुरा पद्मजन्मना प्रोक्तं तत्सर्वमखण्डितमविच्छिन्नं ग्रन्थतोऽर्थतश्च स्मरामि | अथवा अखण्डितं निरन्तरं स्मरामि अनुसंदधे || २७ || वाल्मीकिरुवाच | इति निगदितवानसौ महात्मा परिकरबन्धगृहीतवक्तृतेजाः | अकथयदिदमज्ञतोपशान्त्यै परमपदैकविबोधनं वसिष्ठः || २८ || असौ महात्मा वसिष्ठ इति निगदितवान्व्यक्तं प्रतिज्ञातवान्सन् यथा शूरो नटो वा भूषणाच्छादनायुधादिपरिकरबन्धनेनोद्युक्तः शोभते तथैव शिष्यप्रबोधानुरञ्जनोपायदृष्टान्तोपाख्यानप्रमाणतर्काद्यनुसंधानो त्साहादिपरिकरबन्धनेन गृहीतं स्वीकृत्ऽम् वक्तॄणां व्याख्यातॄणां तेजः शोभाविशेषो येन तथाविधः सन् सर्वेषां जगतामज्ञताया उपशान्त्यै मूलोच्छेदायेदं वक्ष्यमाणं परमपदस्यैकं मुख्यं वोबोध्यते एन तद्विबोधनं शास्त्रमकथयत् || २८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहार- iti śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśe mumukṣuvyavahāraprakaraṇe viśvāmitravākyaṃ nāma dvitīyaḥ sargaḥ || 2 || tṛtīyaḥ sargaḥ 3 śrīvasiṣṭha uvāca | pūrvamuktaṃ bhagavatā yajjñānaṃ padmajanmanā | sargādau lokaśāntyarthaṃ tadidaṃ kathayāmyaham || 1 || sthūlādijagadāropanirāsābhyāṃ prasādhyate | pratyakcidātmā viṣayo rāmaśaṅkāhnuticchalāt || itthaṃ prāktanaṃ sarvaṃ pratisaṃdhāya vistareṇa tadvaktukāmaḥ sadgurusmara- सर्वसंसारदुः-खोपशान्तिस्तदर्थं यज्ज्ञानं ज्ञानसाधनं शास्त्रमुक्तं तदेवेदं कथयामि नान्यदिति संप्रदायशुद्धिरुक्ता || १ || श्रीराम उवाच | कथयिष्यसि विस्तीर्णां भगवन्मोक्षसंहिताम् | इमं तावत्क्षणं जातं संशयं मे निवारय || २ ||
SKइत्थं प्रतिज्ञया अवधापितो रामः [सत्यासत्यजिज्ञासायां] सत्यामन्य-जिज्ञासायां तदवधानायोगात् सूचीकटाहन्यायेन प्रथममुत्पन्नः संशयस्तदपनोदं प्रार्थयमान उवाच - कथयिष्यसीति | एतत्संशय-निवृत्त्यनन्तरमिति भावः | इमं व्यासस्य शिष्टलोकवत् जीवदर्शनाच्छुकस्य च विदेहमुक्तिश्रवणात्संजातम् || २ || पिता शुकस्य सर्वज्ञो गुरुर्व्यासो महामतिः | विदेहमुक्तो न कथं कथं मुक्तः सुतोऽस्य सः || ३ || [तमेव] दर्शयति - पितेति | नन्वघटितोऽयं संशयः | न | आत्यन्तिकदुःखो- -मुक्तिरेव ज्ञानफलं तच्चेत्सर्वज्ञस्यापि व्यासस्य न संपन्नं ज्ञास्या-नित्यफलत्वं प्राप्तम् | किंच यदि ज्ञानेनाज्ञानं निःशेषमुच्छिन्न तर्हि भृग्वादिवज्जीवनासंभवः उपादाननाशे कार्यावस्थानायोगात् अजीवने च ब्रह्मविद्याप्रवर्तकाभावात्संप्रदायोच्छेदः | अथ नोच्छिन्नं तर्ह्यनिर्- [phalatyavidheyatvāditi] phalati tasya kālatraye'pyakhaṇḍātmanāva- श्रीवसिष्ठ उवाच | परमार्कप्रकाशान्तस्त्रिजगत्रसरेणवः | उत्पत्योत्पत्य लीना ये न संख्यामुपयान्ति ते || ४ || इति पृष्टो भगवान्वसिष्ठो यावद्रामो बन्धस्याविद्यकत्वमविद्यास्वरूपं तत्साक्ष्यपरिच्छिन्नसर्वाधारचित्स्वरूपं च न जानाति तावज्जिवन्मुक्तौ न विश्वसितीति प्रथमं तदुपपाद्य पश्चात्समाधास्यामीति मन्यमानस्त- sthūlaprapañca-paramparādhyāropaṃ darśayati - paramārketyādiśokatrayeṇa | na tatra sūryo bhāti na candratārakaṃ yena sūryastapati tejaseddhaḥ ityādiśruteḥ sūryādi-sarvagajadavabhāsakatvāt- त्रिजगदुपक्षिता-नन्तकोटिब्रह्माण्डलक्षणास्त्रसरेणव उत्पत्योत्पत्य स्थित्वा स्थित्वा लीनास्ते संख्यां नोपयान्ति | संख्यातुं न शक्यन्त इत्यर्थः | एतेन व्यासादयोऽप्य संख्याता तुपद्यन्त इति सूचितम् || ४ || वर्तमानाश्च याः सन्ति त्रैलोक्यगणकोटयः | शक्यन्ते ताश्च संख्यातुं नैव काश्चन केनचित् || ५ ||
SKवर्तमानाः सन्तीति | आरब्धापरिसमाप्तत्वं वर्तमानता उक्तिकालसंबन्धोऽस्तितेति न पौनरुक्त्यम् || ५ || भविष्यन्ति पराम्बोधौ जगत्सर्गतरङ्गकाः | तांश्च वै परिसंख्यातुं सा कथैव न विद्यते || ६ || परः परमात्मा स एवाम्बोधिः | ये भविष्यन्ति तान् | सा प्रसिद्धा | कथा वाक्प्रवृत्तिः | अनेन त्रैकालिकजतदुत्पत्त्याद्याधारभूते परमात्मनि जगदध्यारोपो दर्शितः || ६ || श्रीराम उवाच | या भूता या भविष्यन्त्यो जगत्सर्गपरम्पराः | तासां विचारणा युक्ता वर्तमानास्तु का इव || ७ || पृष्टमर्थमुपेक्ष्यान्यद्वदतो गुरोर्निगूढाशयः स्वेन सम्यग्विदित इति गोरोरुत्साहाय स्वकौशलं सूचयन् रामस्तेषु सर्गेषु स्वयं कंचिद्विशेष- prātisvikarūpeṇāsaṃkhyeyāsta-thāpi te kālataḥ kūladvayadarśanādbhūtabhaviṣyatsargāpekṣayā nyūna-saṃkhyā iti viditā eveti bhāvaḥ | kā iva kiṃbhūtā ivota bhaviṣyanta iva | nobhayasāmyamapīti na tatpaṅktāveṣāṃ vicāraṇā yuktetyarthaḥ | tathā-cānantānāmāgantunāṃ teṣāmupādānamātmatattvamanantamekamanā-gantukaṃ cidrūpaṃ tvayā darśitamiti mayā viditamiti bhāvaḥ || 7 || śrīvasiṣṭha uvāca | tiryakpuruṣadevāderyo nāma sa vinaśyati | yasminneva pradeśe'sau tadaivedaṃ prapaśyati || 8 || evaṃ nigūḍhāśayaparijñānena tatra viśeṣoktyā protsāhitaḥ pūrvoktasthūla- स्थूलीभावावभासात्सूक्ष्मप्रपञ्चमात्रतेति दर्शयिष्यन् श्रीवसिष्ठ उवाच - तिर्यगिति | तिर्यञ्चः पशुपक्ष्यादयः पुरुषा मनुष्या देवाः प्रसिद्धा आदिः प्रधानो यस्य प्राणिनिकायस्य तस्य मध्ये यो यस्मिन्नेव प्रदेशे यदैव विनश्यति म्रियते सोऽसौ प्रत्यगात्मा तस्मिन्नेव प्रदेशे तदैवेदं वक्ष्यमाणं जगत्रयं प्रपश्यति नान्यत्र न वाचिरेणेत्यर्थः || ८ || आतिवाहिकनाम्नान्तः स्वहृद्येव जगत्रयम् | व्योम्नि चित्तशरीरेण व्योमात्मानुभवत्यजः || ९ ||
SKस किमुपकरणः किंस्वरूपश्च पश्यति तत्राह - आतिवाहिकेति | अतिवहनमति-वाहो धूमार्चिरादिमार्गाभिमानिदेवैः परलोकप्रापणं तत्र साधुराति-वाहिकस्तन्नाम्ना वासनामयेन सूक्ष्मशरीरेण स्वहृद्येवान्तर्व्योम्नि दहराकाशे जगत्रयं वासनामयमेवानुभवति भ्रान्त्या वासनामय-तत्तच्छरीराणि वा प्राप्नोति क्रमशः | वस्तुतस्तु स व्योमात्मा प्रागुक्तचिदा-काशस्वरूपः अतएवाजो जन्मादिविक्रियारहितश्चेत्यर्थः | ननु तेन प्रद्योते-नैष आत्मा निष्क्रामति चक्षिषो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्य-स्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति उत्क्रामन्तं स्थितं वापि इत्याद्यनेक- kathamucyata iti cet | satyam | karmopāsanānurūpavyavahāradṛṣṭyā te śrutismṛtivādāḥ | iha tu paramārthadṛṣṭyā asmindyāvāpṛthivī antareva [samāhite kalpite] samāhite iti śrutivāda-vaddhṛdyeva paralokakalpanamucyate | ātmano vaipulyāddhṛdayasyā- हृदयपरिच्छेदं निवार्य निष्क्रियत्वं प्रपञ्चस्य वासनामात्रमयत्वं च व्युत्पादयितुं परलो-कवदुत्-क्रमणगमनादेरपि तत्रैव कल्पनामात्रेणाप्युपपत्तेरित्यभि-प्रेत्येत्यविरोधः || ९ || एवं मृता म्रियन्ते च मरिष्यन्ति च कोटयः | भूतानां यां जगन्त्याशामुदितानि पृथक्पृथक् || १० || एकत्र व्युत्पादितं न्यायं सर्वत्र दर्शयति - एवमिति | भूतानां कोटय इत्यन्वयः | जगन्ति दृश्यजातानि मरणकाले तेषां जगतां वासनासु लीनानि यानि यां आशां वासनां यस्यां यस्यां वासनायां कर्मपरिपाका- sphuranti tāni tānyeva prāpnuvantīti śeṣaḥ | yadyadbhavanti tadābhavanti yaṃ yaṃ vāpi smaranbhāvam ityādiśrutismṛtibhya iti bhāvaḥ || 10 || saṃkalpanirmāṇamiva manorājyavilāsavat | indrajālāmāla iva kathārthapratibhāsavat || 11 ||
SKइत्थं वासनामयत्वे जगतो यत्फलितं परमार्थदृष्ट्या भ्रमरूपत्वं तदाह - संकल्पेत्यादिषड्भिः | संकल्पे मानसपूजादौ रत्नमयप्रासादा-देर्यत्नेन निर्माणं मनोराज्ये त्वयत्नेनेति भेदः | निर्वाणम् इति पाठे निर्वृतिर्निर्वाणं सुखं सांकल्पिकाङ्गनापरिष्वङ्गादिजम् | इन्द्रजालान्या-रचिता [इन्द्रजालेनारचिता] मालेव यस्मिन्भ्रमे स एव || ११ || दुर्वातभूकम्प इव त्रस्तबालपीशाचवत् | मुक्तालीवामले व्योम्नि नौष्पन्दतरुयानवत् || १२ || दुर्वातो वातरोगविशेषस्तेन भूकम्पभ्रमः | बालस्य भीषणार्थं कल्पितः पिशाचस्तद्वत् | मुक्ताली मौक्तिकसमूहः | नौकारूढानां नौष्पन्दे तीरस्थतरूणां यानं गमनं भ्रान्त्या प्रसिद्धम् || १२ || स्वप्नसंवित्तिपुरवत्स्मृतिजातखपुष्पवत् | जगत्संसरणं स्वान्तर्मृतोऽनुभवति स्वयम् || १३ || संवित्तिर्दर्शनम् | स्मृतेः स्मरणाज्जातं कल्पितं खे पुष्पं तद्वत् | जगत्संसरणमिति प्रथमान्तं प्रथमान्तप्राक्तनदृष्टान्तान्वयानु- jātasyāpyupalakṣaṇam || 13 || tatrātipariṇāmena tadeva ghanatāṃ gatam | ihaloko'yamityeva jīvākāśe vijṛmbhate || 14 || tarhi kathaṃ vaidharmyācca na svapnādivat iti bhagavato bādarāyaṇasya sūtram bhoktuściraṃ tatra vaidharmyeṇa niyatavyavahārādiḥ satyatāpratyayaśca tatrāha - tatreti | atipariṇāmaściraparicayaḥ | ghanatāṃ pañcīkaraṇena dṛḍhatām | tathā ca tatkṛta eva vaidharmyādivyavahāra iti bhāvaḥ || 14 || punastatraiva janmehāmaraṇādyanubhūtimān | paraṃ lokaṃ kalpayati mṛtastatra tathā punaḥ || 15 || anavasthitasvabhāvatvādapi jagato mithyātvamiti darśayitumāha - punariti | īhā janmottaraṃ maraṇaparyantaṃ ceṣṭā || 15 || tadantaranye puruṣāsteṣāmantastathetare [tathā pare] | saṃsāra iti bhāntīme kadalīdalapīṭhavat || 16 || vāsanāyā antaḥ antare anye puruṣā dehāḥ | puruṣā iti paśvādīnāmapyupa- न पृथ्व्यादिमहाभूतगणा न च जगत्क्रमाः | मृतानां सन्ति तत्रापि तथाप्येषां जगद्भ्रमाः || १७ ||
SKएवं मिथ्यात्वे सिद्धे तदपवादेनात्मपरिशेषसिद्धिरित्यभिप्रेत्याह - न पृथ्व्यादीति | ज्ञानं विना नोच्छिद्यन्ते इति शेषः | एवं प्रपञ्चापवादेन परिशिष्टात्मसिद्धिः || १७ || अविद्यैव ह्यनन्तेयं नानाप्रसरशालिनी | जडानां सरिदादीर्घा तरत्सर्गतरङ्गिणी || १८ || मूलोच्छेदं विना नापलापमात्रेण तन्निवृत्तिसिद्धिरित्यभिप्रेत्याविद्योच्छेद्य-त्वमाह - अविद्यैवेति | जडानां भूढानां आदीर्घा दुष्तरेति यावत् | तरद्भिश्चलद्भिः सर्गैस्तरङ्गिणी तरङ्गवती || १८ || परमार्थाम्बुधौ स्फारे राम सर्गतरङ्गकाः | भूयोभूयोऽनुवर्तन्ते त एवान्ये च भूरिशः || १९ || अविद्यादिसर्वकल्पनाधिष्ठानं दर्शयति - परमार्थेति | ते प्राक्तना अभिनवाश्च || १९ || सर्वतः सदृशाः केचित्कुलक्रममनोगुणैः | केचिदर्धेन सदृशाः केचिच्चातिविलक्षणाः || २० || इमं व्यासमुनिं तत्र द्वात्रिंशं संस्मराम्यहम् | यथासंभवविज्ञानदृशा संदृश्यमानया || २१ || प्रकृतशङ्कासमाधानोपोद्घातेन जगद्व्यवस्थितिं प्रकृतशास्त्रविषयं च व्युत्पाद्य शङ्कासमाधानमुपक्रमते - इममित्यादिना | पुराणभारता-दिनिर्माणकारैः संदृश्यमानया प्रसिद्धया | यथोचितेन संभवेन जन्मना विज्ञानेन शास्त्रादिज्ञानेन दृशा ब्रह्मविद्यया चोपलक्षितेषु | तत्र तेषु व्याससर्गतरङ्गकेषु | इमं द्वात्रिंशं संस्मरामीति संबन्धः || २१ || द्वादशाल्पधियस्तत्र कुलाकारेहितैः समाः | दश सर्वे समाकाराः शिष्टाः कुलविलक्षणाः || २२ || तेष्वप्यवान्तरविशेषमाह - द्वादशेति | अल्पधियो ब्रह्मविद्ब्रह्मविद्वरो ब्रह्मविद्वरीयान् ब्रह्मविद्वरिष्ठ इति प्रसिद्धेषु चतुर्थस्थानाविश्रान्तेरल्प- adyāpyanye bhaviṣyanti vyāsavālmīkayastathā | bhṛgviṅgaraḥpulastyāśca tathaivāpyanyathaiva ca || 23 || tathaiva pūrvasadṛśā anyathaiva tadvilakṣaṇāścetyarthaḥ || 23 || narāḥ surarṣidevānāṃ gaṇāḥ saṃbhūya bhūriśaḥ | utpadyante vilīyante kadācicca pṛthakpṛthak || 24 ||
SKब्राह्मी द्वासप्ततिस्त्रेता आसीदस्ति भविष्यति | स एवान्यश्च लोकाश्च त्वं चाहं चेति वेद्म्यहम् || २५ || ब्राह्मी ब्राह्मकल्पावयवभूता त्रेता सांप्रतमस्ति प्रतिकल्पं चासीद्- 25 || krameṇāsya muneritthaṃ vyāsasyādbhutakarmaṇaḥ | saṃlakṣyate'vatāro'yaṃ daśamo dīrghadarśinaḥ || 26 || asya purovartino vyāsasya vyāsajīvasya || 26 || abhūma vyāsavālmīkiyuktā vayamanekaśaḥ | abhūma vayameveme bahuśaśca pṛthakpṛthak || 27 || abhūma vayameveme sadṛśā itare vidaḥ | abhūma vayameveme nānākārāḥ samāśayāḥ || 28 || itare visadṛśāḥ | vidaḥ abhijñāḥ || 28 || bhāvyamadyāpyaneneha nanu svārāṣṭakaṃ punaḥ | bhūyo'pi bhārataṃ nāma setihāsaṃ kariṣyati || 29 || kariṣyati ayamiti śeṣaḥ || 29 || kṛtvā vedavibhāgaṃ ca nītvānena kulaprathām | brahmatvaṃ ca tathā kṛtvā bhāvyaṃ vaidehamokṣaṇam || 30 || kulasya svavaṃśasya bharatavaṃśasya vā prathāṃ prakhyātima | brahmatvaṃ [hiraṇyagamādhikāraṃ] hairaṇyagarbhādhikāram | vaidehamokṣaṇaṃ videhamuktatāṃ prāptena śeṣaḥ | bhāvyamiti bhāve kṛtyaḥ | athavā vaidehamokṣaṇaṃ bhāvyaṃ prāptavyam | bhū prāptāvātmanepadī tasmātkarmaṇi kṛtyaḥ || 30 || vītaśokabhayaḥ śāntanirvāṇo gatakalpanaḥ | jīvanmukto jitamanā vyāso'yamiti varṇitaḥ || 31 || tasya sāṃprataṃ jīvanmuktatāṃ darśayati - vīteti | nirvāṇo nirgato mohabandha-nāt | gatyarthatvātkartari ktaḥ | nirvāṇo vāte iti niṣṭhānatvam | śāntaścāsau nirvāṇaśceti karmadhārayaḥ | ataeva gatā ahaṃmametyadhyāsakalpanā yasya | ataeva ca vītaśokabhayaḥ || 31 || vittabandhuvayaḥkarmavidyāvijñānaceṣṭitaiḥ | samāni santi bhūtāni kadācinnatu tāni tu || 32 || dvacittu tāni na samānītyanvayaḥ || 32 || [kvaciditi pūrvottarānvayi] dvacitsargaśataistāni bhavanti na bhavanti vā | kadācidapi māyeyamitthamantavivarjitā || 33 || kvacitkadācidapi bhavanti || 33 ||
SKयच्छतीयं विपर्यासम् भूरिभूतपरम्परा | बीजराशिरिवाजस्रं पूर्यमाणः पुनःपुनः || ३४ || भूतपरम्परा प्राणिनिकायः | यथा धान्यादिबीजराशिर्मानाय पुनः पुनः प्रस्थादौ पूर्यमाणः पुना राशिकृतो न पूर्वक्रमसंनिविष्टबीजो भवति किंतु विपर्यासं [गच्छति] यच्छति तद्वत् || ३४ || तेनैव संनिवेशेन तथान्येन पुनःपुनः | सर्गाकाराः प्रवर्तन्ते तरङ्गाः कालवारिधेः || ३५ || संनिवेशोऽवयवसंस्थानविशेषः क्रमो वा || ३६ || आश्वस्तान्तःकरणः शान्तविकल्पः स्वरूपसारमयः | परमशमामृततृप्तस्तिष्ठति विद्वान्निरावरणः || ३६ || जीवन्मुक्तस्य योगबलादाधिकारिकनानाशरीरपरिग्रहेऽपि न मुक्तिस्वरूप- sarvasyopa-pādako heturnirāvaraṇa iti | anāśvāsavikalpāsāradehādimayatvāśāntatṛptyā- ज्ञानफलं सा च न पाक्षिकीति भावः || ३६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहार- iti śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśe mumukṣuvyavahāraprakaraṇe bhūyobhūyaḥsargānuvarṇanaṃ nāma tṛtīyaḥ sargaḥ || 3 || caturthaḥ sargaḥ 4 śrīvasiṣṭha uvāca | saumyāmbutve taraṅgatve salilasyāmbutā yathā | samaivābdhau tathāḍehasadehamunimuktatā || 1 || muktānubhavato muktyoraviśeṣo'tra kīrtyate | mūladārḍhyāya śāstrīyaṃ pauruṣaṃ ca praśasyate || ātmano nityamuktasvabhāvasyājñānāvaraṇameva bandhaḥ | jñānena tannāśa eva muktiḥ | naṣṭe tvajñāne parijñātaścitravyāghra iva dṛśyamāno'pi vyavahāraḥ kautukāyaiva nānarthāyeti na jīvanmuktavidehamuktayorviśeṣa iti pūrvaśaṅkāṃ samādhāya prastutamātmatattvaṃ vistareṇopadeṣṭukāmaḥ prathamaṃ mūladārḍhyāya puruṣaprayatnaṃ samarthayati - saumyetyādinā | he saumya priyadarśana ambutve niścalāmbutve | samaiva na viṣamā | tathaiva adeha- सदेहा वास्त्वदेहा वा मुक्तता विषये न च | अनास्वादितभोगस्य कुतो भोज्यानुभूतयः || २ ||
SKविषये न च विषयाधीना तु न | यदि मुक्तिः स्वर्गादिरिव विषयाधीना स्यात्तर्हि तथैव विषयवैषम्याद्विषमास्यादिति भावः | ननु तथापि भोक्तृत्वाभोक्तृ-त्वकृतो विशेषोऽस्त्येव भोगार्थत्वाद्देहस्थितेस्तत्राह - अनास्वादितेति | भोगेषु सत्यबुद्ध्या भोक्तृत्वाभिमानेन | भोगास्वादने हि भोगकृतो विशेषः स्यान्न त्वसङ्गोदासीनात्मैकत्वदर्शिनः स इति भावः || २ || जीवन्मुक्तं मुनिश्रेष्ठं केवलं हि पदार्थवत् | पश्यामः पुरतो नास्य पुनर्विघ्नोऽन्तराशयम् || ३ || तर्हि कथमस्य सदेहत्वं तत्राह - जीवन्मुक्तमिति | मुनिश्रेष्ठं व्यासं पदार्थवत्सदेहवत्पुरतः पश्यामः | स्वकल्पनयेति शेषः | अन्तराशय- iti bhāvaḥ || 3 || sadehādehamuktānāṃ bhedaḥ ko bodharūpiṇām | yadevāmbutaraṅgatve saumyatve'pi tadeva tat || 4 || abodha eva hi bhedakastadapagame bodhamātrapariśeṣe ko bhedaka ityarthaḥ | saumyatve niścalatayā prasannatve | tat ambu | tadeva ambveva || 4 || na manāgapi bhedo'sti sadehādehamuktayoḥ | saspando'pyathavā'spando vāyureva yathānilaḥ || 5 || ambuni kadācidasvacchatvādikṛto viśeṣo'pi syāditi dṛṣṭāntāntareṇoktaṃ samarthayate - na manāgiti || 5 || sadehā vā videhā vā muktatā na pramāspadam | asmākamapi tasyāsti svaikatāstyavibhāginī || 6 || atra kvacitpuṣtakeṣu - mayoktaṃ kevalībhāvaṃ tattatsmaraṇajīvanam | sadehasya videhasya samataiva [samā śivā] sadā śivā ||
SKइति श्लोकोऽधिकः पठ्यते तस्यायमर्थः - ननु वायुः सस्पन्दः शिशिरस्तरु-तरङ्गादिकम्पहेतुस्त्वगिन्द्रियवेद्यश्च | अस्पन्दस्तु तद्विपरीत इति तत्रापि इति तत्रापि भेदोऽस्त्येवेति कथं तदभावेऽसौ दृष्टान्तस्तत्राह - मयेति | हे राम त्वं सर्वत्र उक्तं विवक्षितं तत्तद्दृष्टान्तस्मरणस्य जीवनं सारभूतं केवलीभावं वस्तुनः स्वरूपाप्रच्युतिलक्षणं मय उपमिनु नत्वविवक्षि-तं [विवक्षितकार्यकृतं भ्देअं कल्पयेत्ययं] कार्यभेदकृतं कार्यभेदकृतं वैलक्षण्यं कल्पयेत्यर्थः | तथाचैकांशे [चैकांशेन दृष्टान्त] दृष्टान्तो न सर्वांशे इति भावः | अत्र सदेहादेहमुक्तै-क्यमुपमेयं उक्तं विवक्षितं तत्सादृश्यार्थं स्मर्यते तत्स्मरणं सस्पन्दास्पन्दानिलैक्यमुपमानं तस्य जीवनं उपमेयसादृश्योल्लासा- kiṃca sadehavidehabandhamokṣādivyavahāro'pyajñadṛśā kalpanayaiva na paramārtha-dṛśetyāha - sadeheti (?) | asmākaṃ vasiṣṭhasya tasya vyāsasyāpi sadehā videhā vā muktatā pramāyāḥ paramārthadṛṣṭerāspadaṃ viṣayo nāsti kiṃtu avibhā-ginī dvaitaśūnyā svātmaikataivāstīti tallābharūpe jñānaphale viśeṣā-bhāvānna jñānasyānityaphalatādoṣaśaṅkāvakāśaḥ nāpi jñānodaye dehapātāpattiḥ | svavirodhyaṃśasyaiva jñānena bādhāddehadhāraṇasya ca prārabdhaphalatvena jñānatulyatvenopajīvyatvena ca jñānāviruddhatvādupā-dānanidrānāśe'pi svapnasaṃskārasya kaṃcitkālamanuvṛttivadavidyocchede'pi yāvatprārabdhaṃ dehādipratibhāsopapatteriti bhāvaḥ || 6 || tasmātprakṛtamevedaṃ śṛṇu śravaṇabhūṣaṇam | mayopadiśyamānaṃ tvaṃ jñānamajñāndhyanāśanam || 7 || itthaṃ niraste saṃśaye prakṛtasyāvasaraṃ darśayati - tasmāditi | ajñānamajñā saivāndhyaṃ tasya nāśanam || 7 || sarvameveha hi sadā saṃsāre raghunandana | samyakprayuktātsarveṇa pauruṣātsamavāpyate || 8 ||
SKननु शुक्रादीनां शमदमादीसाधनसंपन्नानां श्रवणं पलितं कथमन्येषामाधुनिकानां तत्फलिष्यति साधनानां दुःसंपादत्वादि- sadā sarvamevāvāpyate tarhi kathaṃ kvacidyatnavaiphalyadarśanaṃ tatrāha - samyagiti | anuparam eva samyadprayogaḥ | samavāpyate saṃprāpyate || 8 || iha hīndorivodeti śītalāhlādanaṃ hṛdi | parispandaphalaprāptau pauruṣādeva nānyataḥ || 9 || parispandaḥ śāstravihitakāyavākcittacalanarūpaṃ karma tasya phalaṃ cittaśuddhidvārā jñānaṃ tatprāptau satyāṃ hṛti śītalaṃ kāmakrodhādi- ब्रह्मण आनन्दः | श्रोत्रियस्य चाकामहतस्य इति | स्मृतिश्च यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् | तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् | इति तत्तु सर्व पौरुषादेव भवति नान्यत इति पुरुषप्रयत्न एव निर्भरः कार्य इति भावः || ९ || पौरुषं स्पन्दफलवद्दृष्टं प्रत्यक्षतो नयत् | कल्पितं मोहितैर्मन्दैर्दैवं किंचिन्न विद्यते || १० || ननु दैवप्रातिकूल्ये पौरुषं व्यर्थं दृश्यते | तथाच श्रेयांसि बहुविघ्नानि इति प्रवादान्न तत्फलाश्वास इत्याशङ्क्य दैवस्य पौरुषेऽन्तर्भावं दौर्बल्यं च वक्ष्यमाणमभिप्रेत्य स्वतन्त्रं तन्निरस्यति - पौरुषमिति | गमनभोजनादिपौरुषं स्पन्दद्वारा देशान्तरं तृप्त्यादि वा नयत्प्रापयत् प्रत्यक्षतो दृष्तमिति नयत्पदस्य पूर्वत्र वा, यद्दैवं न दृष्टं तत् न विद्यत इति पदभङ्गेनोत्तरत्र वान्वयः || १० || साधूपदिष्टमार्गेण यन्मनोङ्गविचेष्टितम् | तत्पौरुषं [तत्साफल्यम्] तत्सफलमन्यदुन्मत्तचेष्टितम् || ११ || किं तत्पौरुषं यत्प्रशस्यते तदाह - साध्विति | अङ्गग्रहणं वाचोप्युपलक्षणम् || ११ || यो यमर्थं प्रार्थयते तदर्थं चेहते क्रमात् | अवश्यं स तमाप्नोति न चेदर्धान्निवर्तते || १२ || ईहते चेष्टते | क्वचिद्विघ्नैः प्रतिघातः शास्त्रोक्तक्रमभ्रंशादेवेति सूचनाय क्रमादित्युक्तम् | साङ्गात्कर्मणः फलावश्यंभावनियमादिति भावः || १२ ||
SKपौरुषेण प्रयत्नेन त्रैलोक्यैश्वर्यसुन्दराम् | कश्चित्प्राणिविशेषो हि [वृषतां, वृषा=इन्द्रः] शक्रतां समुपागतः || १३ || तमेव नियमं बहुशः संवादेन द्रढयति - पौरुषेणेत्यादिचतुर्भिः || १३ || पौरुषेणैव यत्नेन सहसाम्भोरुहास्पदम् | कश्चिदेव चिदुल्लासो ब्रह्मतामधितिष्ठति || १४ || अम्भोरुहास्पदं पद्मासनं अधिष्ठायेति शेषः | ब्रह्मतां हिरण्यगर्भतां गुणमूर्तिसारुप्यमुक्तिं वा | एवमुत्तरयोरपि || १४ || सारेण पुरुषार्थेन स्वेनैव गरुडध्वजः | कश्चिदेव पुमानेव पुरुषोत्तमतां गतः || १५ || पौरुषेणैव यत्नेन ललनावलिताकृतिः [वलिताकृतिम्] | शरीरी कश्चिदेवेह गतश्चन्द्रार्धचूडताम् || १६ || प्राक्तनं चैहिकं चेति द्विविधं विद्धि पौरुषम् | प्राक्तनोऽद्यतनेनाशु पुरुषार्थेन जीयते || १७ || पुरुषार्थेन पौरुषेण जीयतेऽभिभूयते || १७ || यत्नवद्भिर्दृढाभ्यासैः [प्रजोत्साह] प्रज्ञोत्साहसमन्वितैः | मेरवोऽपि निगीर्यन्ते कैव प्राक्पौरुषे कथा || १८ || नन्वनन्तकोटिकल्पार्जितानामनन्तानां प्राक्तनकर्मणां कथमल्पेनाद्य- pralayādhikāridevatā-bhāvaṃ prāptaiḥ puruṣairityarthaḥ | yadyapyanantāni karmāṇi tathāpi teṣa'm mūlaikyāttannāśena jayaḥ sukara ityabhipretyāha - kaiveti || 18 || śāstraniyantritapauruṣaparamā puruṣasya puruṣatā yā syāt | abhimataphalabharasiddhyai bhavati hi saivānyathā tvanarthāya || 19 || uktamarthamupasaṃharaṃstadbhraṃśe'narthamāha - śāstreti | śāstraiḥ śrutyādibhirniyantritaṃ niyamitaṃ yatpauruṣaṃ tadeva paramamavaśya- स्यात्सैवाभिमतफलभरस्य सिद्ध्यै भवति हि | अन्यथा अशास्त्रीया त्वनर्थायेत्यर्थः || १९ || कस्यांचित्स्वयमात्मदुःस्थितिवशात्पुंसो दशायां शनैरङ्गुल्यग्रनिपीडितैकचुलुकादावापबिन्दुर्बहुः | कस्यांचिज्जलराशिपर्वतपुरद्वीपान्तरालीकृता भर्तव्योचितसंविभागकरणे पृथ्वी न पृथ्वी भवेत् || २० ||
SKनन्वल्पधनबलबुद्धीनां कथं महाधनबलबुद्धिसाध्यपौरुषफल- janmāntare vā mahādhanādisaṃpattyā tallābhaḥ sidhyati | nahi puruṣasya durdaśā sudaśā vā sadaiva bhavatītyabhipretya śāstrīyaprayatnatacchaithilyayoḥ phalato mahadantaraṃ darśayati - kasyāṃciditi | puṃsaḥ śāstrīyaprayatna- स्वहस्तादेरप्य-स्वाधीनत्वादङ्गुल्यप्राणां निपीडितेन पीडासाध्येनापि निकुञ्चनेन संपाद्यादेकचुलुकात्करसंमितसलिलात् मुखे आ उप्यते क्षिप्यत इत्यावाप-स्तथाविधो बिन्दुरपि दुर्लभत्वाद्बहुमतो भवति | तस्यैव शास्त्रीययत्न-दार्ढ्ये धर्मोत्कर्षात्कस्यांचित्प्रियव्रतादिवत्सप्तद्वीपाधिपत्यदशायां भर्तव्येभ्यः पुत्रादिभ्य उचितो दायादिसंविभागस्तत्करणे जलराश्याद- pṛthvī na mahatī bhavet | na na bahumatā bhavedityarthaḥ | tathāhi prasiddhaṃ purāṇe priyavratottānapādau tāvevāvāṃ snuhītarū iti || 20 || ityārṣe śrīvāsiṣṭhamahārāmāyaṇe vālmīkīye mumukṣuvyavahāra- इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे पौरुषप्रकरणं नाम चतुर्थः सर्गः || ४ || पञ्चमः सर्गः ५ श्रीवसिष्ठ उवाच | प्रवृत्तिरेव प्रथमं यथाशास्त्रविहारिणाम् | प्रभेव वर्णभेदानां साधनी सर्वकर्मणाम् || १ || प्राबल्ये पौरुषस्यात्राप्यवश्यं फलसंगमे | दैवस्याव्यतिरेके च युक्तिदृष्टान्त ईर्यते || यत्पूर्वमुक्तं पौरुषातिरेकेण दैवस्यासत्त्वं दैवात्पौरुषस्य प्राबल्यं पौरुषादेव पुरुषार्थसिद्धिरिति च तत्सर्वमुपपत्तिभिः समर्थयितुं प्रतिजानीते - प्रवृत्तिरेवेति | शास्त्रमनतिक्रम्य विहारिणां वाङ्यनः- puruṣārthānāṃ siddhau prathamaṃ pravṛttireva kāraṇaṃ yathā nīlapītādi- प्रमाणं ते कार्याकार्यव्यवस्थितौ आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते इत्यादिस्मृतेरिति भावः || १ || मनसा वाञ्छ्यते यच्च यथाशास्त्रं न कर्मणा | साध्यते मत्तलीलासौ मोहनी नार्थसाधनी || २ ||
SKननु तृप्त्यादिवद्दृष्टफलत्वाद्विद्यायाः कस्तत्साधने शास्त्रीयनियमस्योप-योगस्तत्राह - मनसेति | असौ मत्तलीला उन्मत्तचेष्टैव | साध्यते तेनेति शेषः | अतएव न पुरुषार्थसाधनी प्रत्युत मोहनी | दृष्तफलत्वेऽप्यशास्त्रीयोपाय- yathā saṃyatate [saṃyatyate] yena tathā tenānubhūyate | svakarmaiveti cāste'nyā vyatiriktā na daivadṛk || 3 || śāstrīyasya yatnasya śāstrīyameva phalamaśāstrīyasya cāśāstrīyamevetyau- दिअवादुभयवैपरीत्यमपि स्यात्तत्राह - यथेति | ननु दैवादुभयवैपरित्यमपि स्यात्तत्राह - आस्तेऽन्या व्यतिरिक्ता न दैवदृगिति | प्राक्तनकर्मैव फलावस्थं दैवमित्युच्यते न ततोऽतिरिक्तं दैवं दृश्यत इत्यर्थः || ३ || उच्छास्त्रं शास्त्रितं चेति द्विविधं पौरुषं स्मृतम् | तत्रिच्छास्त्रमनर्थाय परमार्थाय शास्त्रितम् || ४ || उक्तमर्थमेव स्फुटयति - उच्छास्त्रमिति | शास्त्रितं शास्त्रनियतम् | प्रातिपदिकाद्धात्वर्थे णिचि क्तः || ४ || द्वौ हुडाविव युध्येते पुरुषार्थौ समासमौ | प्राक्तनश्चैहिकश्चैव शाम्यत्यत्राल्पवीर्यवान् || ५ || हुडौ मेषौ | कदाचित्समौ कदाचिदसमौ | अत्र अनयोर्मध्ये || ५ || अतः पुरुषयत्नेन यतितव्यं यथा तथा | पुंसा तन्त्रेण सद्योगाद्येनाश्वद्यतनो जयेत् || ६ || तन्त्रेण शास्त्रीयनियमेन | अतन्द्रेण इति पाठे निरालस्येन पुंसा || ६ || द्वौ हुडाविव युध्येते पुरुषार्थौ समासमौ | आत्मीयश्चान्यदीयश्च जयत्यतिबलस्तयोः || ७ || ननु मनुष्याणां त्रिभिरृणवा [ऋणवान्] जायते इति श्रुतौ देवादिऋणित्वश्रवणात् तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः इति श्रवणाच्च तरस्यावश्यंविघ्नाचरणे कृतोऽपि यत्नो विफलः स्यादित्याशङ्क्याह - द्वाविति | दोषेषु सत्स्वेव देवानां विघ्नशक्तेः स्वप्रयत्नेन दोषजये तेषां विघ्नशक्तिः कुण्ठीभवतीति भावः || ७ || अनर्थः प्राप्यते यत्र शास्त्रितादपि पौरुषात् | अनर्थकर्तृ बलवत्तत्र ज्ञेयं स्वपुरुषम् || ८ ||
SKननु शास्त्रीयमार्गे यतमानानामपि क्वचिद्रोगाद्यनर्थः कथं दृश्यते तत्राह - अनर्थ इति | तथाच तदपि जय्यमेवेति भावः || ८ || परं परुषमाश्रित्य दन्तैर्दन्तान्विचूर्णयन् | शुभेनाऽशुभमुद्युक्तं प्राक्तनं पौरुषं जयेत् || ९ || शुभेनाद्यतनपौरुषेण | उद्युक्तं विघ्नाचरणायेत्यर्थः || ९ || प्राक्तनः पुरुषार्थोऽसौ मां नियोजयतीति धीः | बलादद्पदीकार्या प्रत्यक्षादधिका न सा || १० || पुरुषार्थः कर्मफलम् | अधस्पदीकार्या पादेनाक्रमणीया | विनाशनीयेति यावत् | अधःशिरसी पदे इति सत्वम् || १० || तावत्तावत्प्रयत्नेन यतितव्यं सुपौरुषम् | प्राक्तनं पौरुषं यावदशुभं शाम्यति स्वयम् || ११ || सुपौरुषमिति क्रियाविशेषणम् | स्वयमिति निःशेषतालाभाय विशेषणं परतः शान्तौ तदपगमे पुनरुद्भवो मा भूदिति || ११ || दोषः शाम्यत्यसंदेहं प्राक्तनोऽद्यतनैर्गुणैः | दृष्टान्तोऽत्र ह्यस्तनस्य दोषस्याद्य गुणैः क्षयः || १२ || प्राक्तन एव प्रबलः किं न स्यात्तत्राह - दोष इति | ह्यस्तनस्य पूर्वेद्युस्तनस्य दोषस्याजीर्णादेः | गुणैर्लङ्घनादिभिः || १२ || असद्दैवमधःकृत्वा नित्यमुद्रिक्तया धिया | संसारोत्तरणं भूत्यै यतेताऽऽधातुमात्मनि || १३ || असद्दैवं प्राक्तनदुरदृष्टमद्यतनसुकृतैरुद्रिक्तया धिया अधःकृत्वा परिभूय आत्मनि संसारोत्तरणमाधातुं संपादयितुं भूत्यै शमदमश्रवणादिसंपदे यतेत || १३ || न गन्तव्यमनुद्योगैः साम्यं पुरुषगर्दभैः | उद्योगस्तु यथाशास्त्रं लोकद्वितयसिद्धये || १४ || लोकद्वितयं स्वर्गापवर्गौ || १४ || संसारकुहरादस्मान्निर्गन्तव्यं स्वयं बलात् | पौरुषं यत्नमाश्रित्य हरिणेवारिपञ्जरात् || १५ || हरिणा सिंहेन अरिभिर्मनुष्यैः कृताद्बन्धनपञ्जरादिव | विष्णुना असुरैः प्रयुक्तान्मायापञ्जरादिवेति वा || १५ || प्रत्यहं प्रत्यवेक्षेत देहं न᳚वरमात्मनः | संत्यजेत्पशुभिस्तुल्यं श्रयेत्सत्पुरुषोचितम् || १६ ||
SKतुल्यं तुल्यताम् | भावप्रधानो निर्देशः | सत्पुरुषोचितं साधुसंगमसच्छास्त्रादि श्रयेत् || १६ || किंचित्कान्तान्नपानादिकलिलं कोमलम् गृहे | व्रणे कीट इवास्वाद्य वयः कार्यं न भस्मसात् || १७ || कलिलं द्रवपिच्छिलम् | वयः सर्वपुरुषार्थसाधनं यौवनम् | भस्मसाद्भस्मप्रायम् |व्यर्थमिति यावत् || १७ || शुभेन पौरुषेणाशु शुभमासाद्यते फलम् | अशुभेनाशुभं नित्यं दैवं नाम न किंचन || १८ || न किंचन प्राक्तनशुभाशुभातिरिक्तमित्यर्थः || १८ || प्रत्यक्षमानमुत्सृज्य योऽनुमानमुपैत्यसौ | स्वभुजाभ्यामिमौ सर्पाविति प्रेक्ष्य पलायते || १९ || अद्यतनयोरदृष्टरूपयोः शुभाशुभयोः प्रत्यक्षमानं श्रुतिः दृष्टयोस्त्वन्वयव्यतिरेकसहकृतं चक्षुरादि तत्सिद्धमद्यतनशुभ- pratyakṣaśrutipramāṇaṃ prabhusaṃmitamutsṛjya pauruṣaprayatnaphala- इत्यपादानता || १९ || दैवं संप्रेरयति मामिति दग्धधियां मुखम् | अदृष्टश्रेष्ठदृष्टीनां दृष्ट्वा लक्ष्मीर्निवर्तते || २० || न दृष्टा श्रेष्ठानां पौरुषेणैव पुरुषार्थं प्राप्तानां विश्वामित्रादीनां दृष्टिर्यैस्तेषाम् || २० || तस्मात्पुरुषयत्नेन विवेकं पूर्वमाश्रयेत् | आत्मज्ञानमहार्थानि शास्त्राणि प्रविचारयेत् || २१ || विवेकं नित्यानित्यादिविवेकोपलक्षितसाधनचतुष्टयम् || २१ || चित्ते चिन्तयतामर्थं यथाशास्त्रं निजेहितैः | असंसाधयतामेव मूढाना. म्धिग्दुरीप्सितम् || २२ || श्रवणादिप्रवणतां स्थिरीकर्तुमन्यचेष्टां निन्दति - चित्ते इति | यथाशास्त्रं निजैरीहितैः श्रवणमननादिचेष्टाभिरर्थं परमार्थभूतमात्मतत्त्वम-चिन्तयतामत एव तं पुरुषार्थमसंसाधयतामेव मूढानां दुरन्त- evakāro yogyajanmalābhe'pi tadasādhane punastaddaurlabhyadyotanārthaḥ | tathā ca śrutiḥ iha cedavedīdatha satyamasti na cedihāvedīnmahatī vinaṣṭiḥ iti || 22 || pauruṣaṃ ca navānantaṃ na yatnamabhivācchyate | na yatnenāpi mahatā prāpyate ratnamaśmataḥ [tailamaśmanaḥ] || 23 ||
SKनन्वियन्तं कालं पौरुषं कार्यमित्यवध्यवगमेन तस्यानन्त्यात्परि- tatpauruṣama-nantamanavadhikaṃ na | sākṣātkārodayasyaivāvadhitvāt | yatnaṃ pariśrama-mabhilakṣya ca na vāñchyate nāpekṣyate | pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam iti bhagavadvacanāditi bhāvaḥ | nanvidaṃ pūrṇāhutyā sarvānkāmānavāpnoti itivatprarocanāmātraṃ śramādhikye satyevaṃ phalādhikyaniyamādityāśaṅkyānvayavyabhicāramāha - neti | ratnatattva- [व्यतिरेकेऽभिचारो] व्यभिचारोऽपि बोध्यः || २३ || यथा घटः परिमितो यथा परिमितः पटः | नियतः परिमाणस्थः पुरुषार्थस्तथैव च || २४ || पूर्वार्धोक्तं दृष्टान्तेन दृअधयति - यथेति | घटो जले यत्रापरिच्छेदकत्वेन पटस्तु दैर्घ्यादिना परिमितः प्रमाणैर्निश्चितस्तथैव पुरुषार्थः पौरुषयत्नोऽपि परिमाणे साक्षात्कारफलावधौ तिष्ठतीति परिमाणस्थो नियत एव || २४ || स च सच्छास्त्रसत्सङ्गसदाचारैर्निजं फलम् | ददातीति स्वभावोऽयमन्यथा नार्थसिद्धये || २५ || स पौरुषयत्नः सदाचारैः सहित इति शेषः || २५ || स्वरूपं पौरुषस्यैतदेवं व्यवहरन्नरः | याति निष्फलयत्नत्वं न कदाचन कश्चन || २६ || स्वरूपं पौरुषस्यैतदित्युक्तोपसंहारः | तादृशस्य फलाव्यभिचारमाह - एवमिति || २६ || दैन्यदारिद्र्यदुःखार्ता अप्यन्ये पुरुषोत्तमाः | पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् || २७ || उक्तं द्रढयितुमन्यत्रापि [मन्यत्राप्यस्य] न्याय्यस्य पौरुषस्य फलाव्यभिचारं दर्शयति - दैन्येति | अन्ये नलहरिश्चन्द्रादयः || २७ || आबाल्यादलमभ्यस्तैः शास्त्रसत्सङ्गमादिभिः | गुणैः पुरुषयत्नेन स्वार्थः संप्राप्यते यतः || २८ || यदि न श्रमापेक्षा तर्ह्यन्ते तत्करिष्यामः किमधुनैव तेनेत्याशङ्क्याह - komalakaṇṭakāyamānai-rityarthaḥ || 28 || iti pratyakṣato dṛṣṭamanubhūtaṃ śrutaṃ kṛtam | [daivotthamiti] daivāttamiti manyante ye hatāste kubuddhayaḥ || 29 ||
SKप्रत्यक्षतो दृष्टमस्मदादिभिर्जीवन्मुक्तैरित्यर्थः | कृतं साधनतः || २९ || आलस्यं यदि न भवेज्जगत्यनर्थः को न स्याद्बहुधनको बहुश्रुतो वा | आलस्यादियमवनिः ससागरान्ता संपूर्णा नरपशुभिश्च निर्धनैश्च || ३० || यद्येवं तर्हि न कुतः सर्वे यतन्ते - तत्राह - आलस्यमिति | अनर्थहेतुत्वादर्थ-विघातकत्वाच्चानर्थः | बहुधनकः संपन्नतमः | शेषाद्विभाषा इति कपू | बहुशुतः पण्डितः | सागरान्तैः समुद्रान्तैः सहिता अवनिर्भूमिः | तस्मादालस्यमुत्सृज्य बाल्यात्प्रभृति सत्संगमादिपरेण भाव्यमिति मुख्यः पक्ष इति भावः || ३० || बाल्ये गतेऽविरतकल्पितकेलिलोले दोर्दण्डमण्डितवयः [मण्डनवयः] प्रभृति प्रयत्नात् | सत्सङ्गमैः पदपदार्थविशुद्धबुद्धिः कुर्यान्नरः [सुगुण] स्वगुणदोषविचारणानि || ३१ || यत्यप्यत्यन्तबाल्यप्रभृति कर्तुं न शक्यते तर्हि यौवनमारभ्य वा यतितव्यमित्याह - बाल्य इति | नरः अविरतैश्चपलैर्बालैः कल्पिताभिः क्रीडाभिर्लोले बाल्ये गते सति दोर्दण्डाभ्यां दुरुशुश्रूषादिसमर्था- padapadārthaviśuddhabuddhiḥ padatadarthatatparīkṣākuśalaḥ [tattvaparīkṣā] | vyutpannaḥ sannityarthaḥ | gurusatīrthyābhijñatamādisatsaṃgamaiḥ | svasya ātmano guṇānāṃ śāntyādīnāṃ doṣāṇāṃ rāgādīnāṃ cārthānarthaparya- वाल्मीकिरुवाच | इत्युक्तवत्यथ मुनौ दिवसो जगाम सायंतनाय विधयेऽस्तमिनो जगाम | स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरेण [रविकरैश्च] सहाजगाम || ३२ ||
SKश्रीवाल्मीकिरुवाचारिस्.टनेमिनं प्रतीति देवदूतोक्तिः | मुनौ वाल्मीकौ इति उक्तप्रकारेण वसिष्ठोक्तं भरद्वाजं प्रत्युक्तवति सति दिवसो जगाम | इनः सूर्यश्चास्तं जगाम | भरद्वाजादिमुनिसभा च वाल्मीकये कृतनमस्करणा सायंतनाय संध्योपास्त्यग्निहोत्रादिविधये स्नातुं जगाम | अथ श्यामाया रात्रेः क्षये सति प्रातः रविकरेण आतपेन सह आजगाम | पुनर्वाल्मीकिसंनिधिमित्यर्थः | उत्तरत्रापि सर्वत्रायं श्लोक एवमेव व्याख्येयो नतु मुनौ वसिष्ठे इत्युक्तवतीति | उत्तरत्र विस्तरेण तत्र तत्र दशरथसभोत्थानवर्णनस्याह्निकशेषानुष्ठानस्य रात्रौ रामादिभिः श्रुतार्थचिन्तनस्योषःकालसूर्योदयादेश्च वर्णनविस्तरस्याकाण्डप्रस्तुत- ityārṣe śrīvāsiṣṭhamahārāmāyaṇe vālmīkīye mumukṣuvyavahāra- इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे पौरुषस्थापनं नाम पञ्चमः सर्गः || ५ || प्रथमो दिवसः | षष्ठः सर्गः ६ श्रीवसिष्ठ उवाच | तस्मात्प्राक्पौरुषाद्दैवं नान्यत्तत्प्रोज्झस्य दूरतः | साधुसंगमसच्छास्त्रैर्जीवमुत्तारयेद्बलात् || १ || यत्रास्ति प्रबलं दैवं तत्रापि परपौरुषम् | प्रोच्यते बलवद्दैवं प्राक्तनं वा स्वपौरुषम् || उक्तमेवार्थं प्रतिष्ठापयिष्यन्वसिष्ठ उवाच - तस्मादिति | तस्मात्स्वतन्त्रस्य दुर्वचत्वात्प्राक्तनपौरुषादन्यद्दैवं नास्ति | तद्दैवं तदधीनोऽहं न स्वतन्त्र इति दैष्टिकतामिति यावत् | दूरतः प्रोज्झ्यत्यक्त्वा | उत्तारयेत् | संसारादिति शेषः || १ || यथा यथा प्रयत्नः स्याद्भवेदाशु फलं तथा | इति पौरुषमेवास्ति दैवमस्तु तदेव च || २ || किं तद्बलं तद्दर्शयति - यथेति || २ || दुःखाद्यथा दुःखाके हा कष्टमिति कथ्यते | हाकष्टशब्दपर्यायस्तथा हा दैवमित्यपि || ३ || हा कष्टमिति दुःखरूपेण परिणतं प्राक्तनं कर्मोच्यते तदेव दैवमित्यर्थः || ३ || प्राक्स्वकर्मेतराकारं [प्राक्सकर्म] दैवं नाम न विद्यते | बालः प्रबलपुंसेव तज्जेतुमिह शक्यते || ४ ||
SKइतराकारं स्वरूपान्तरवत् | अस्तु प्राक्तनकर्मैव दैवं किं ततस्तत्राह - बाल इति || ४ || ह्यस्तनो दुष्ट आचार आचारेणाद्य चारुणा | यथाशु शुभतामेति प्राक्तनं कर्म तत्तथा || ५ || चारुणा आचारेण प्रायश्चित्तादिना | शुभतामशुभाक्षमताम् || ५ || तज्जयाय यतन्ते ये न लोभलवलम्पटाः | ते दीनाः प्राकृता मूढाः स्थिता दैवपरायणाः || ६ || लोभयन्तीति लोभा विषयसुखलवास्तेषु लम्पटाः सन्तो ये न यतन्ते ते दीनाः प्राकृताः पामराः || ६ || पौरुषेण कृतं कर्म दैवाद्यदभिनश्यति [द्यदपि] | तत्र नाशयितुर्ज्ञेयं पौरुषं बलवत्तरम् || ७ || यत्रापि दैवप्राबल्यप्रसिद्धिस्तत्रापि पौरुषस्यैव प्राबल्यमिति दर्शयति - पौरुषेणेति || ७ || यदेकवृन्तफलयोरथैकं शून्यकोटरम् | तत्र प्रयत्नः स्फुरितस्तथा तद्रससंविदः || ८ || नन्वस्तु पुरुषतन्त्रेष्वेवम् अपुरुषतन्त्रेषु तु दैवमेव शरणं स्यात्तत्राह - śeṣaḥ | tadrasaṃ saṃvettyupabhuṅkte [sevantyupa] yaḥ puruṣaḥ kīṭādirvā tasya prāktana aihiko vā prayatna eva tadrasavi-ghātāya sphuritaḥ || 8 || yatprayānti jagadbhāvāḥ saṃsiddhā api saṃkṣayam | kṣayakārakayatnasya hyatra jñeyaṃ mahadbalam || 9 || ekatroktaṃ nyāyamanyatrāpi darśayati - yadityādinā | yat yatra | jagati prasiddhā bhāvāḥ padārthāḥ || 9 || dvau huḍāviva yudhyete puruṣārthau parasparam | ya eva balavāṃstatra sa eva jayati kṣaṇāt || 10 || tatroktaṃ smārayati - dvāviti || 10 || bhikṣuko maṅgalebhena nṛpo yatkriyate balāt | tadamātyebhapaurāṇāṃ prayatnasya balaṃ mahat || 11 || rājavaṃśābhāve paurāmātyavisṛṣṭena maṅgalālaṃkṛtenemena gajena yaḥ kaścidbhikṣuko'pi nṛpaḥ kriyate iti prasiddhaṃ yattaditi saṃbandhaḥ || 11 || pauruṣeṇānnamākramya yathā dantena cūrṇyate | anyaḥ pauruṣamāśritya tathā śūreṇa cūrṇyate || 12 ||
SKअन्नमदनार्हं चर्वणयोग्यमिति यावत् | आत्तम् इति पाठे मुखेन गृहीतं तदेव | आक्रम्य निष्पीड्य | अन्यो दुर्बलः शूरेण प्रबलेन || १२ || अन्नभूता हि महतां लघवो यत्नशालिनाम् | यथेष्टं विनियोज्यन्ते तेन कर्मसु लोष्टवत् || १३ || हि यस्माद्धेतोः | अन्नभूता उपभोग्यभूताः | लघवोऽल्पबलाः | तेन हेतुना | लोष्टं शुष्कमृत्पिण्डः || १३ || शक्तस्य पौरुषं दृश्यमदृश्यं वापि यद्भवेत् | तद्दैवमित्यशक्तेन बुद्धमात्मन्यबुद्धिना || १४ || आत्मनि स्वस्मिन् | अबुद्धिना मुधेन || १४ || भूतानां बलवद्भूतं यन्न दैवमिति स्थितम् | तत्तेषामप्यधिष्ठातृ सतामेतत्स्फुटं मिथः || १५ || तेषां शक्तानामपि भूतानां बलवद्भूतं यत्तदधिष्ठातृ [यत्तत्तेषामधिष्ठातृ] नियन्तृ एतत्सतां विद्यमानप्राणिनां मिथः परस्परं स्फुटं व्यक्तं नतु दैवं स्थितमित्यन्वयः | यत्नस्तेनेति पाठे तु केन हेतुना यत्न एव स्थितो न दैवं स्थितमिति भित्त्वा व्याख्येयम् || १५ || शास्त्रामात्येभपौराणामविकल्पा स्वभावधीः | या सा भिक्षुकाराज्यस्य कर्तृ धर्तृ प्रजास्थितेः || १६ || अविकल्पा ऐकमत्यापन्नेति यावत् | स्वभावधीः स्वारसिकी बुद्धिर्या सैव भिक्षुकराजभावस्य कर्तृ कर्त्री प्रजास्थितेश्च धर्तृधारयित्री पदसंस्कार-पक्षेऽन्तरङ्गं सामान्ये नपुंसकं बहिरङ्गेण विशेष्यसंबन्धेन न बाध्यते | तथाच महाभाष्ये शास्त्रेण धर्मनियमः इति वार्तिकशेषप्र-सङ्गेन प्रयोगः शक्यं चानेन श्वमांसादिभिरपि क्षुत्प्रतिहन्तुं अतः शास्त्रेण नियमः क्रियते पञ्चपञ्चनखा भक्ष्याः इतीति || १६ || भिक्षुको मङ्गलेभेन नृपो यत्क्रियते क्वचित् | प्राक्तनं पौरुषं तत्र बलवद्वापि कारणम् || १७ || अन्यपौरुषेणान्यस्य फलभोगे अतिप्रसङ्गमाशङ्क्य पक्षान्तरमाह - भिक्षुक इति | तत्र प्राक्तनं बलवत्पौरुषं वा कारणमित्यन्वयः || १७ || ऐहिकः प्राक्तनं हन्ति प्राक्तनोऽद्यतनं बलात् | सर्वदा पुरुषस्पन्दस्तत्रानुद्वेगवाञ्जयी || १८ ||
SKपुरुषं स्पन्दयतीति पुरुषस्पन्दो यत्नः | अनुद्वेगवानुद्वेगादुपरतः | तथा- bhāvaḥ || 18 || dvayoradyatanasyvia pratyakṣādbalitā bhavet | daivaṃ jetuṃ [jetumataḥ] yato yatnairbālo yūneva śakyate || 19 || tameva spaṣṭamāha - dvayoriti || 19 || meghena nīyate yadvadvatsaropārjitā kṛṣiḥ | meghasya puruṣārtho'sau jayatyadhikayatnavān || 20 || nanu karakādinipātena kṛṣiphalavighātādau vaiparītyameva dṛṣṭamityāśaṅkya so'pyasmadiṣṭasādhaka eva dṛṣṭānta ityāha - megheneti | nīyate apanīyate vināśyata ityarthaḥ | meghasya meghābhimānipuruṣasyāsau puruṣārtho yadvattadvadanyatrāpi bodhyamityarthaḥ | abhyupetya cedam | vastutastu tatrāpi prāktanaṃ svasya pauruṣamevādṛṣṭadvārā hetuḥ || 20 || krameṇopārjite'pyarthe naṣṭe kāryā na kheditā | na balaṃ yatra me śaktaṃ tatra kā paridevanā || 21 || astu vā kvacitpauruṣavaiphalyaṃ tathāpi na khedo yuktaḥ kiṃtu punarudyoga eva yukta ityāha - krameṇetyādicaturbhiḥ || 21 || yanna śaknomi tasyārthe yadi duḥkhaṃ karomyaham | tadamāritamṛtyorme yuktaṃ pratyaharodanam || 22 || deśakālakriyādravyavaśato visphurantyamī | sarva eva jagadbhāvā jayatyadhikayatnavān || 23 || deśeti | tathāca yatra deśe kāle vā svayatno viphalo'bhūttadvihāya deśāntare kālāntareṇa kriyāntareṇa dravyāntareṇa vā yatitavyameva | prāgādidikṣu vighnitasyāpi viśvāmitratapasa uttaradiśi siddhidarśanāditi bhāvaḥ || 23 || tasmātpauruṣamāśritya sacchāstraiḥ satsamāgamaiḥ | prajñāmamalatāṃ nītvā saṃsārajaladhiṃ taret || 24 || prāktanaścaihikaścemau puruṣārthau phaladdrumau | saṃjātau puruṣāraṇye jayatyabhyadhikastayoḥ || 25 || phalantau phalajananasamarthau tathāvidhau ca tau drumau phaladdrumau saṃjātau puruṣāraṇye | ekasya mūlacchedena śoṣo parasya praroho'tra jayaḥ || 25 ||
SKकर्म यः प्राक्तनं तुच्छं न निहन्ति शुभेहितैः | अज्ञो जन्तुरनीशोऽसावात्मनः सुखदुःखयोः || २६ || उक्तार्थानभ्युपगमे अनिष्टं दर्शयन्नीश्वराधीनतावादं निराचष्टे - कर्मेत्यादिना | यो न निहन्ति अनीशोऽस्वतन्त्रो यं जन्तुरीश्वरप्रेरितः सन्स्वर्गं नरकमेव वा गच्छेद्विनापि पुण्यपापाभ्यामित्यर्थः || २६ || ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव वा | स सदैव पराधीनः पशुरेव न संशयः || २७ || तथा चानिर्मोक्षप्रसङ्ग इत्याह - स इति || २७ || यस्तूदारचमत्कारः सदाचारविहारवान् | स निर्याति जगन्मोहान्मृगेन्द्रः पञ्जरादिव || २८ || स्वपक्षे तु नायं दोष इत्याह - यस्त्विति | प्रयत्नकौशलमत्र चमत्कारः || २८ || कश्चिन्मां प्रेरयत्येवमित्यनर्थकुकल्पने | यः [स्थितो दृष्टं] स्थितोऽदृष्टमुत्सृज्य त्याज्योऽसौ दूरतोऽधमः || २९ ||
SKईश्वरस्वातन्त्र्यनिरासमुपसंहरति - कश्चिदिति | ननु एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति इत्यादिश्रुतिस्मृति- yathākārī yathācārī tathā bhavati sādhukārī sādhurbhavati pāpakārī pāpo bhavati yajet juhuyāddadyāt kartā śāstrārthavattvāt na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ ityādyanekaśrutisūtrasmṛtyanubhavaviruddhaṃ jīvasya pāratantryamucyate | nahyasvatantro jīvaḥ kartā bhavati | svatantraḥ kartā ityanuśāsanavirodhāt | na vā balavattareśvarāyatto'yaṃ vidhiśatena niṣedha- ब्रह्मवधादौ प्रवर्तितोऽयमपराधी स्यात् | कथं वा विषमेषु स्वयमेव कांश्चित्प्रवर्त्य तान्नरकादिभागिनः कुर्वाणस्येश्वरस्य वैषम्यनैर्घृ-ण्यदोषौ न स्याताम् | कथं वा अन्तर्यामिब्राह्मणवाक्यशेषे नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽस्तोऽस्ति मन्ता इत्यादिना जीवापलापेनेश्व-रैकस्वातन्त्र्यसमर्थनं च संगछताम् | यदि तु क्द्वलाज्ञपुरुषदृष्टिम-वलम्ब्य कर्मकाण्डप्रवृत्तेर्जीवस्वातन्त्र्यवादः तच्छैथिल्यापादनेन सर्वभूतेष्वैकात्म्यव्युत्पादनाय प्रवृत्तां विवेकदृष्टिमवलम्ब्येश्व- tadetad-brahmāpūrvamanaparamanantaramabāhyamayamātmā brahma sarvānubhūḥ na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ ityādiśrutismṛtivādāḥ | yathā svapnadarpaṇādau dāruhastidhāvanasya hastidṛṣṭyā darśane hastī dhāvati na dāru | dārudṛśā darśane tu dārveva dhāvati na hastī | paramārthadṛśā tu na hastī na vā dāru na vā dhāvatyavikṛtaṃ puruṣadarpaṇādisvarūpamevāste iti vādāstadvadityavirodhaṃ brūṣe tarhi mokṣopāyapravartakavasiṣṭhavacanasyā-pyajñaviṣayatvādyukta evātreśvarasvātantryanirāsaḥ | tathāca bhagavatpā-dīyaṃ bhāṣyam tametamavidyākhyamātmānātmanoritaretarādhyāsaṃ puraskṛtya sarve pramāṇaprameyavyavahārā laukikāḥ pravṛttāḥ sarvāṇi ca śāstrāṇi vidhiniṣedhamokṣaparāṇi iti | evaṃ
SKचाज्ञदृष्टिसिद्धजीवस्वातन्त्र्य- vaiṣamyanairghṛṇyādiprasakti-rapīti bhāvaḥ || 29 || vyavahārasahasrāṇi yānupāyānti yānti ca | yathāśāstraṃ vihartavyaṃ teṣu tyaktvā sukhāsukhe || 30 || upāyānti lābhādiphalena | yānti tadvighātena | teṣu priyāpriye rāgadveṣau tyaktvā yathāśāstrameva vyavahartavyamityarthaḥ || 30 || yathāśāstramanucchinnāṃ maryādāṃ svāmanujjhataḥ | upatiṣṭhanti sarvāṇi ratnānyambunidhāviva || 31 || sarvāṇi abhīṣṭānīti śeṣaḥ || 31 || svārthaprāpakakāryaikaprayatnaparatā budhaiḥ | proktā pauruṣaśabdena sā siddhyai śāstrayantritā || 32 || pauruṣaśabdārthamāha - svārtheti | svārthaḥ sukhaṃ duḥkhanivṛttiśca tatprāpakāṇi yānyavaśyakartavyāni sādhanāni tadekaprayatnatatparatetyarthaḥ | sā siddhyai paramapuruṣārthāya || 32 || kriyayā spandadharmiṇyā svārthasādhakatā svayam | sādhusaṃgamasacchāstratīkṣṇayonniyate dhiyā || 33 || spando dehādicalanaṃ taddharmiṇyā tatparamparārupayā śuśrūṣayā śravaṇādikriyayā sādhusaṃgamena sacchāstraiścāsaṃbhāvanādi- स्वार्थसाधकतेत्यर्थः || ३३ || अनन्तं समतानन्दं परमार्थं विदुर्बुधाः | स येभ्यः प्राप्यते नित्यं ते सेव्याः शास्त्रसाधवः || ३४ || साधुसच्छास्त्रयोर्लक्षणमाह - अनन्तमिति | समता अज्ञानकृतवैषम्य-निवृत्तिः || ३४ || देवलोकादिहागत्य लोकद्वयहितं भवेत् | प्राक्तनं पौरुषं तद्वै दैवशब्देन कथ्यते || ३५ || यल्लोकद्वयहितं पौरुषं भवेत्तदेव देवलोकभुक्तशिष्टं देवलोकादिहागत्य स्थितस्य दैवशब्देन कथ्यत इत्यर्थः || ३५ || तद्युक्तमेतदेतस्मिन्नास्ति नापवदामहे | मूढैः प्रकल्पितं दैवं मन्यन्ते ये क्षयं गताः || ३६ || तदेतद्युक्तमेतस्मिन्नास्ति संदेह इति शेषः | तन्नापवदामहे न निन्दामः | किं तर्हि निन्द्यते तदाह - मूढैरिति | ते क्षयं गता इत्यपवदामहे इति शेषः || ३६ ||
SKनित्यं स्वपुरुषादेव लोकद्वयहितं भवेत् | ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा || ३७ || ननु प्राग्देवलोकावाप्तिरपि दैवादेव किं न स्यात्तत्राह - नित्यमिति | प्रसाधितं फलेनोपसंहरति - ह्यस्तनीत्यादिना || ३७ || अद्यैवं प्राक्तनी तस्माद्यत्नाद्यः कार्यवान्भवेत् | करामलकवद्दृष्टं पौरुषादेव तत्फलम् || मूढः प्रत्यक्षमुत्सृज्य दैवमोहे निमज्जति || ३८ || एवं अद्य [क्वचित् अद्य इति न लभ्यते] अद्यतन्या प्राक्तनी शोभामभ्येतीति पूर्वेणान्वयः | नन्वस्तु प्राक्तनजयः पुरुषार्थसिद्धिस्तु कुतस्तत्राह - तस्मादिति | यः कार्यवान्भवेत्तस्य तत्फलं करामलकद्दृष्टमित्यन्वयः || ३८ || सकलकारणकार्यविवर्जितं निजविकल्पबलादुपकल्पितम् | तदनपेक्ष्य हि दैवमसन्मयं श्रय शुभाशय पौरुषमात्मनः || ३९ || हे शुभाशय तत्तस्मात्कारणान्निजस्य स्वस्य विकल्पोऽथशून्या चित्तवृत्तिस्तद्-वशादुपकल्पितमत एवासन्मयम् | स्वार्थे मयट् | तत्र हेतुः - सकलैः कारणैः कार्यैः प्रयोजनैश्च विवर्जितमिति | तथाविधं दैवमनपेक्ष्य पौरुषं श्रय स्वीकुरु || ३९ || शास्त्रैः सदाचरविजृम्भितदेशधर्मैर्य- त्कल्पितं फलमतीव चिरप्ररूढम् | तस्मिन्हृदि स्फुरति चोपनमेति चित्त- मङ्गावली तदनु पौरुषमेतदाहुः || ४० || किं तत्पौरुषं यच्छ्रयेत्युच्यते तदाह - शास्त्रैरिति | वेदस्मृत्यादिभिः शास्त्रैः सतामाचरणं सदाचरः | घञर्थे कविधानम् इति कः | तेन विजृम्भिता विस्तीर्णा ये देशधर्मास्तत्तद्देशनियताचारास्तैश्च यच्चित्त- prarūḍhaṃ prasiddhaṃ ca tasmin hṛdi buddhau sphurati abhilaṣite sati tatsādhanā-caraṇecchayā cittaṃ copanaṃ spandam | cupa mandāyāṃ gatau lyuṭ | eti prāpnoti tadanusāreṇa aṅgāvalī indriyahastapādādiścopanameti śravaṇādinā vyavaharati etadeva pauruṣamityāhuḥ śiṣṭā ityarthaḥ || 40 ||
SKबुद्ध्वैव पौरुषफलं पुरुषत्वमेत- दात्मप्रयत्नपरतैव सदैव कार्या | नेया ततः सफलतां परमामथासौ सच्छास्त्रसाधुजनपण्डितसेवनेन || ४१ || एतत्पुरुषत्वमधिकारिपुंजन्मपौरुषफलं पुरुषार्थसिद्धावेव सफलं नान्यथेति बुद्ध्वा सदैव आत्मप्रयत्नपरतैव कार्या | अथासौ प्रयत्नपरता सच्छास्त्राणां साधुजनानां सेवनेन तदनुगतविचारेणात्मज्ञानफल- dvitīyā || 41 || daivapauruṣavicāracārubhi- ścedamācaritamātmapauruṣam | nityamea jayatīti bhāvitaiḥ kārya āryajanasevayodyamaḥ || 42 || idamātmapauruṣaṃ nityamācaritaṃ saddaivaṃ jayatyeveti daivapauruṣayorbalā- नित्यं भावितैः श्रवणादिभिरुद्यमः कार्यस्तत्त्वज्ञायेत्यर्थः || ४२ || जन्मप्रबन्धमयमामयमेष जीवो बुद्ध्वैहिकं सहजपौरुषमेव सिद्ध्यै | शान्तिं नयत्ववितथेन वरौषधेन मृष्टेन तुष्टपरपण्डितसेवनेन || ४३ || एष जीव ऐहिकमिहास्मिन्नधिकारिजन्मनि संपाद्यमानं सहजं शास्त्र- paramapuruṣārthalābhāyeti buddhvā nityasaṃtuṣṭānāṃ parāṇāṃ sarvot- जन्मपरम्परा तन्मयं तत्प्रचुरमामयं शान्तिं नयतु | अधीष्टे लोट् | अतिसुलभोपाये सति किमर्थमवसीदतीत्यर्थः || ४३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहार- iti śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśe mumukṣuvyavahāraprakaraṇe daivanirākaraṇaṃ nāma ṣaṣṭhaḥ sargaḥ || 6 || saptamaḥ sargaḥ 7 śrīvasiṣṭha uvāca | prāpya vyādhivinirmuktaṃ dehamalpādhivedanam | tathātmani samādadhyādyathā bhūyo na jāyate || 1 || pauruṣaikapradhānatvaudāharaṇavistaraiḥ | pratyudāharaṇiaścātra yuktibhiśca samarthyate || 1 || kṛtameva daivanirāsena pauruṣaprādhānyasamarthanamudāharaṇapratyudāharaṇairdṛḍhīkariṣyannadhikā riṇo hitopadeśopapattibhiḥ puruṣārthe avatārayati - prāpyeti | alpā ādhivedanā mānasaduḥkhabhogā yasmin | samādadhyāccittasamādhānāya prayateta || 1 ||
SKदैवं पुरुषकारेण यो निवर्तितुमिच्छति | इह वामुत्र जगति स संपूर्णाभिवाञ्छितः || २ || अनिच्छतः कथं यत्नः स्यादिति तत्रेच्छावश्यकत्वमाह - दैवमिति | संपूर्णाभिवाञ्छितो भवतीति शेषः || २ || ये समुद्योगमुत्सृज्य स्थिता दैवपरायणाः | ते धर्मर्थं कामं च नाशयन्त्यात्मविद्विषः || ३ || अन्वयमुखेनोक्तमर्थं व्यतिरेकमुखेनापि समर्थयति - ये इति | आत्मविद्विषः स्वात्मशत्रवः || ३ || संवित्स्पन्दो मनःस्पन्द ऐन्द्रियस्पन्द एव च | एतानि पुरुषार्थस्य रूपाण्येभ्यः फलोदयः || ४ || प्रत्यक्षपौरुषविरुद्धं दैवं प्रत्याचिख्यासुः पौरुषस्य प्रत्यक्षसिद्धं स्वरूपमाह - संवित्स्पन्द इत्यादिना | संवित्स्पन्दः पुरुषार्थतत्साधनस्फूर्तिस्तेन तत्साधनेच्छायत्नो मनः स्पन्दस्तेन कर्मेन्द्रियाणामङ्गचालनाय प्रवृत्तिरैन्द्रियस्पन्दः | एव कारचकाराभ्यां तत्प्रयुक्तकायबाह्योपकरणस्पन्दोऽपि संगृह्यते | एतानि पुरुषार्थस्य पौरुषस्य रूपाणि क्रमिकविभेदाः | एतेभ्यो निरन्तरवृत्तेभ्यः फलोदयोऽभिलषितार्थसिद्धिः प्रसिद्धेत्यर्थः || ४ || प्. ८८) यथा संवेदनं चेतस्तथा [चैतत्तथा इति पाठः] तत्स्पन्दमृच्छति | तथैव कायश्चलति तथैव फलभोक्तृता || ५ || उक्तमर्थ विवृणोति - यथेति | यथा संवेदनं साक्षिणि यादृशी विषयस्फूर्तिः पूर्व भवति ततो मनस्तादृशं स्पन्दमृच्छति गच्छति | तथैव कर्मेन्द्रियस्पन्देन कायश्चलति | क्रियानुसारिणी च फलसिद्धिरित्यर्थः || ५ || आबालमेतत्संसिद्धं यत्र यत्र यथा यथा | दैवं तु न क्वचिद्दृष्टमतो जगति पौरुषम् || ६ ||
SKयत्र यत्र फले लौकिके वैदिके वा यथा यथा पौरुषमुपयुज्यते ध्यानादौ मानसमेव प्रधानमासनमौने तदङ्गे | स्तवनादौ वाचिकमेव प्रधानमैकाप्यसांमुख्ये तदङ्गे | यात्रादौ तु कायिकमेव प्रधानं वाङ्मनोनियमौ तदङ्गे | क्वचित्तु द्वयोर्द्वयोः प्राधान्यं क्वचित्त्रयाणामिति तत्र तत्र तथा तथा तत्पौरुषमाबालं बालानभिव्याप्य संसिद्धं प्रत्यक्षसिद्धं दैवं तु न क्वचिद्दृष्टमित्यसदेवेत्यर्थः || ६ || पुरुषार्थेन देवानां गुरुरेव बृहस्पतिः | शुक्रो दैत्येन्द्रगुरुतां पुरुषार्थेन चास्थितः || ७ || उक्तमर्थमुदाहरणैः स्फुटयति - पुरुषार्थेनेत्यादिचतुर्भिः || ७ || दैन्यदारिद्र्यदुःखार्ता अपि साधो नरोत्तमाः | पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् || ८ || महान्तो विभवास्वादैर्नानाश्चर्यसमाश्रयाः | पौरुषेणैव दोषेण नरकातिथितां गताः || ९ || नानाविधनामाश्चर्यरूपाणां विभावानां [विभवानां इति पाठः] समाश्रया नहुषादयः || ९ || भावाभावसहस्रेषु दशासु विविधासु च | स्वपौरुषवशादेव निवृत्ता भूतजातयः || १० || भावा विभवा अभावा विपदस्तेषां सहस्रेषु | निवृत्ता अतिक्रान्ताः || १० || शास्त्रतो गुरुतश्चैव स्वतश्चेति त्रिसिद्धयः | सर्वत्र पुरुषार्थस्य न दैवस्य कदाचन || ११ || लौकिकाःस् वत एव यागादयः स्वतः शास्त्रतश्च ज्ञानं तु स्वतः शास्त्रतो गुरुतश्चेति त्रिसिद्धयः | ननु [ननु दैवासिद्धौ यमहानिः इति मुद्रितपुस्तकपाठः] दैवस्य त्रिसिद्धयो निर्व्यापारदैवदुर्ग्रहवादिनां मतावलम्बने सर्वविधीनामुच्छेदप्रसङ्गः | सोमेन यजेत इत्यादिवाक्यबोधितयागानां व्यापारजन्यत्वाद्भावनानां च पुरुषप्रवृत्तिनिमितत्वात्प्रवृत्तेश्च परिस्पन्दरूपत्वात् || ११ || अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् | प्रयत्नाच्चित्तमित्येष सर्वशास्त्रार्थसंग्रहः || १२ || तेषु प्रस्तुतोपयोगिसारं दर्शयति - अशुभेष्विति || १२ || यच्छ्रेयो यदतुच्छं च यदपायविवर्जितम् | तत्तदाचर यत्नेन पुत्रेति गुरवः स्थिताः || १३ ||
SKश्रेयः सर्वोत्कृष्टम् | अतुच्छं परमार्थसत्यम् | अपायविवर्जितं नित्यम् | फलओ यद्यदीदृशं तत्तदाचर || १३ || यथा यथा प्रयत्नो मे फलमाशु तथा तथा | इत्यहं पौरुषादेव फलभाङ् नतु दैवतः || १४ || आशु शीघ्रं भवतीति शेषः | इति निश्चित्य || १४ || पौरुषाद्दृश्यते सिद्धिः पौरुषाद्धीमतां क्रमः | दैवमाश्वासनामात्रं [दुःखपेलव इति पाठः] दुःखे पेलवबुद्धिषु || १५ || क्रम आचरणम् | दुःखे रुदत्सु पेलवबुद्धिषु आश्वासनामात्रमश्रुमार्जनतुल्यम् || १५ || प्रत्यक्षप्रमुखैर्नित्यं प्रमाणैः पौरुषक्रमः | फलितो दृश्यते लोके देशानतरगमादिकः || १६ || देशान्तरे गमनं गमः || १६ || भोक्ता तृप्यति नाभोक्ता गन्ता गच्छति नागतिः | वक्ता वक्ति न चावक्ता पौरुषं सफलं नृणाम् || १७ || इति सफलं दृष्टमिति शेषः || १७ || पौरुषेण दुरन्तेभ्यः संकटेभ्यः सुबुद्धयः | समुत्तरन्त्ययत्नेन न तु मोघतयानया || १८ || मोघतया निर्व्यापाररूपया [रूपतया इति पाठः] | अनया दैवदृष्ट्या || १८ || यो यो यथा प्रयतते स स तत्तत्फलैकभाक् | न तु तूष्णीं स्थितेनेह केनचित्प्राप्यते फलम् || १९ || एकभाक् नियतं भाजनम् || १९ || शुभेन पुरुषार्थेन शुभमासाद्यते फलम् | अशुभेनाशुभं राम यथेच्छसि तथा कुरु || २० || पुरुषार्थात्फलप्राप्तिर्देशकालवशादिह | प्राप्ता चिरेण शीघ्रं वा यासौ दैवमिति स्मृता || २१ || यदि दैवे महती भक्तिस्तर्हि पौरुषमेव दैवबुद्ध्यावलम्ब्यतां नत्वसत्कल्पनमन्यदित्यभिप्रेत्याह - पुरुषार्थादित्यादिना | फलप्राप्तिः फलसंपत् || २१ || न दैवं दृश्यते दृष्ट्या न च लोकान्तरे स्थितम् | उक्तं दैवाभिधानेन स्वर्लोके कर्मणः फलम् || २२ || ननु स्वर्गादिलोकस्थं दैवमिहादर्शनेन नापलपितुं शक्यं तत्राह - नेति | स्वर्लोके स्वर्गलोके || २२ || पुरुषो जायते लोके वर्धते जीर्यते पुनः | न तत्र दृश्यते दैवं जरायौवनबाल्यवत् || २३ || तत्र पुरुषे || २३ ||
SKअर्थप्रापककार्यैकप्रयत्नपरता बुधैः | प्रोक्ता पौरुषशब्देन सर्वमासाद्यतेऽनया || २४ || सदसत्पौरुषयोर्विभागमाह - अर्थेत्यादिना || २४ || देशाद्देशान्तरप्राप्तिर्हस्तस्य द्रव्यधारणम् | व्यापारश्च तथाङ्गानां पौरुषेण न दैवतः || २५ || देशान्तरप्राप्तिः पदयोः पौरुषेण | अन्यो व्यापारश्चाङ्गान्तराणां पौरुषेणैव न दैवतो दृष्ट इत्यर्थः || २५ || प्. ८९) अनर्थप्राप्तिकार्यैकप्रयत्नपरता तु या | प्रोक्ता प्रोन्मत्तचेष्टेति न किंचित्प्राप्यतेऽनया || २६ || अनर्थस्य प्राप्तिर्यस्मादिति व्यधिकरणपदबहुव्रीहिः | कर्मणि क्तिनि समानाधिकरणपदो वा | न किंचिच्छुभमिति शेषः | अशुभं तु प्राप्यत एव || २६ || क्रियया स्पन्दधर्मिण्या स्वार्थसाधकता स्वयम् | साधुसंगमसच्छास्त्रतीक्ष्णयोन्नीयते धिया || २७ || अधिकविवक्षयोक्तमेव पुनराह - क्रिययेत्यादिना | क्रिययेति तृतीयान्तपाठः प्राग्व्याख्यातः | क्वचित्तु क्रियायाः स्पन्दधर्मिण्याः इति पाठस्तत्र क्रियायाः स्वार्थसाधकता प्रसिद्धेति तत्फलभूतया धिया स्वयमुन्नीयते उद्ध्रियत इत्यर्थः || २७ || अनन्तसमतानन्दं परमार्थं स्वकं विदुः | स येभ्यः प्राप्यते यत्नात्सेव्यास्ते शास्त्रसाधवः || २८ || समता अज्ञानकृतवैषम्यनिवृत्तिस्तदुपलक्षितमानन्दं ये विदुः स चानन्दो येभ्यः प्राप्यते ते सव्याः प्रणिपातपरिप्रश्नशुश्रूषादिभिरभ्यासेन चावर्जनीयाः || २८ || सच्छास्त्रादिगुणो मत्या सच्छास्त्रादिगुणान्मतिः | विवर्धेते मिथोऽभ्यासात्सरोब्जाविव कालतः || २९ ||
SKयद्विवक्षयोक्तमपि पुनरुक्तं तदाह - सच्छास्त्रेति | आदिपदात्साधुसंगमपरिग्रहः | तत्र साधुसंगमाभ्यासस्य गुणस्तत्समशीलताप्राप्तिः | शास्त्राभ्यासस्य गुणः शास्त्रतात्र्पर्यज्ञानम् | मतिस्तत्त्वबोधः | यथा यथायं गुरुशुश्रूषाशास्त्राभ्यासपरो भवति तथा तथास्य बोधो विवर्धते | यथा यथा च बोधाभिवृद्धिस्तथा तथा गुरुशास्त्रविश्वासवृद्धिस्तद्गुणवृद्ध्या सुखादिवृद्ध्योत्तरोत्तरभूमिकामारोहति | कालतश्चिरकालतो वर्षाकालतश्च || २९ || आबाल्यादलमभ्यस्तैः शास्त्रसत्संगमादिभिः | गुणैः पुरुषयतेन स्वार्थः संपद्यते हितः || ३० || तथा तद्विवृद्धये चिरं यत्नः कार्य इति वक्तुमुक्तमेव पुनराह - आबाल्यादिति || ३० || पौरुषेण जिता दैत्याः स्थापिता भुवनक्रियाः | रचितानि जगन्तीह विष्णुना न च दैवतः || ३१ || जगति पुरुषकारकारणेऽस्मिन् कुरु रघुनाथ चिरं तथा प्रयत्नम् | व्रजसि तरुसरीसृपाभिधानां सुभग यथा न दशामशङ्क एव || ३२ || पुरुषकारः पौरुषं तदेव पुरुषार्थकारणं यस्मिंस्तथाविधे जगति | रघुनाथेत्यधिकृतकुलश्रेष्ठत्वद्योतनाय संबोधनम् | सरीसृपः सर्पः || ३२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे [२] पौरुषप्राधान्यसमर्थनं नाम सप्तमः सर्गः || ७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे पौरुषप्राधान्यसमर्थनं नाम सप्तमः सर्गः || ७ || अष्टमः सर्गः ८ श्रीवसिष्ठ उवाच | नाकृतिर्न च कर्माणि न स्पन्दो न पराक्रमः | तन्मिथ्याज्ञानवद्रूढं दैवं नाम किमुच्यते || १ || वर्णितं दैवमिथ्यात्वमुदाहरणविस्तरैः | उपजीव्यविरोधादियुक्तिभिश्च समर्थ्यते || १ ||
SKइत्थं दैवं निरस्य पौरुषस्वातन्त्र्यसमर्थितेप्यनाश्वासेन [स्वातन्त्र्यैक्यसमर्धिते इति पाठः] मोमुह्यमानं प्राग्वैराग्यप्रकरणे पञ्चविंशे सर्गे अत्रैव दुर्विलासानां चूडामणिरिहापरः | करोत्यत्तिति लोकेऽस्मिन्दैवं कालश्च कथ्यते || तेनेयमखिला भूतसंततिः परिपेलवा | तापेन हिममालेव नीता विधुरतां भृशम् || नृत्यतो हि कृतान्तस्य नितान्तमिव रागिणः | नित्यं नियतिकान्तायां मुने परमकामिता || इत्यादिना स्वेन विस्तरेणोपवर्णितं बहुतरश्रुतिस्मृतिपुराणैतिह्येषु [पुराणेतिहासेषु इति पाठः] परमस्वतन्त्रतया प्रसिद्धं दैवं दुरपह्नवमिति मन्यमानं श्रीरामं लिङ्गैरुपलक्ष्य यावदस्य दैवस्वातन्त्र्ये [स्वातन्त्र्यैक्य उपजीव्य इति पाठः] उपजीव्यविरोधो न प्रदर्शितस्तावन्न विश्वसिष्यतीति तं दिदर्शयिषुः श्रीवसिष्ठ उवाच - नाकृतिरित्यादिना | आकृतिर्जातिरनुगतसंस्थानं च | कर्मस्पन्दपराक्रमाणां मानसशारीरफलोपधानैः सामान्यविशेषतद्विशेषभावेन वा भेदः | यस्यैते न सन्ति तद्दैवं किंस्वरूपमिति न तत्त्वतो निर्णीय जनैरुच्यते | यतो दुर्वचं तत्तस्मान्मिथ्याज्ञानवदेव रूढमित्यर्थः | मिथोऽज्ञानवदिति पाठेऽपि अज्ञानं भ्रान्तिज्ञानं तद्वदेव मिथोऽन्योन्यं व्यवहारे रूढमित्यर्थः || १ || स्वकर्मफलसंप्राप्ताविदमित्थमितीति याः | गिरस्ता दैवनाम्नैताः र्पसिद्धिं समुपागताः || २ || किमधिष्ठाना भ्रान्तिरिति चेत्तद्दर्शयन् मिथोव्यवहारं स्फुटयति - स्वकर्मेति | इदं कर्म इत्थमनेन क्रमेणानुष्ठितमिति एवंरूपफलसंपन्नमिति या गिरो वाग्व्यवहारास्ताः लक्षणया तद्विषया इत्यर्थः || २ || तत्रैव मूढमतिभिर्दैवमस्तीति निश्चयः | आत्तो दुरवबोधेन रज्ज्वामिव भुजंगमः || ३ || तत्र तेषु | दुरवबोधेन भ्रान्त्या | आत्तो गृहीतः || ३ || ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा | अद्यैवं प्राक्तनी तस्माद्यत्नात्सत्कार्यवान्भवेत् || ४ || तथाच मदुक्तमेव फलितमित्याह - ह्यस्तनीति || ४ ||
SKमूढानुमानसंसिद्धं दैवं यस्यास्ति दुर्मतेः | दैवाद्दाहोऽस्ति नैवेति गन्तव्यं तेन पावके || ५ || उपजीव्यप्रमाणविरोधं विवक्षुः प्रथमं प्रत्यक्षस्वक्रियाविरोधमाह - p. 90) daivameveha cetkartṛ puṃsaḥ kimiva ceṣṭayā | snānadānāsanoccārāndaivameva kariṣyati || 6 || uccārān dānādyaṅgamantrādyuccāraṇāni || 6 || kiṃvā śāstropadeśena mūko'yaṃ puruṣaḥ kila | saṃcāryate tu daivena kiṃ kasyehopadiśyate || 7 || tathāca vedādiprāmāṇyavirodha ityāha - kimiti | mūko vāgvyāpāre'pyasvatantraḥ || 7 || na ca nispandatā loke dṛṣṭeha śavatāṃ vinā | spandācca phalasaṃprāptistasmāddaivaṃ nirarthakam || 8 || dṛṣṭavirodho'pītyāha - na ceti || 8 || na cāmūrtena daivena mūrtasya sahakartṛtā | puṃsaḥ saṃdṛśyate kācittasmāddaivaṃ nirarthakam || 9 || nanu dehādispandaḥ kartrantarasamuccayakartṛkaḥ kriyātvāt śibikodvahanavadityanumāne mūrtakartrantarasya pratyakṣabādhe amūrtaḥ sahakārikartā setsyati tadeva daivaṃ naḥ siddhamityāśaṅkyāha - na ceti | tathā ca mūrtasamuccitakartṛkatvaṃ dṛśyasamuccitakartṛkatvaṃ copādhirityarthaḥ | tathāca pakṣe upādhyabhāvābhāvena sādhyābhāvaḥ siddha ityāha - tasmāditi || 9 || mitho'ṅgāni samāsādya dvayorekaikakartṛtā | hastādīnāṃ hatatve ha na daivena kvacitkṛtam || 10 || kvacillekhanavapanādau mithaḥ parasparaṃ lekhanīkṣurādyaṅgāni samāsādya prāptayordvayormadhye dvitīyasya pratyākhyānamekaikasya kartṛtā ca saṃdṛśyata ityanuṣajyate | kvacittu pustake puṃsaḥ saṃdṛśyata ityardhaṃ punaḥ paṭhyate | etena hastapādamanobuddhyādivatkriyopakaraṇatvenāpi daivakalpanāśā nirastetyāha - hastādīnāmiti | tatra hastādau sati tena daivasyānyathāsiddheḥ karaṇatvāyogādbātarogādinā hatatve naṣṭatve satītyuktam | ha iti killarthe || 10 || manobuddhivadapyetaddaivaṃ nehānubhūyate | āgopālaṃ kṛtaprajñaistena daivamasatsadā || 11 ||
SKपृथक्चेद्बुद्धिरन्योऽर्थः सैव चेत्कान्यता तयोः | कल्पनायां प्रमाणं चेत्पौरुषं किं न कल्प्यते || १२ || किंच दैवसिद्धौ कर्त्रादिकारकबुद्धिरेव मानं तत्पृथग्भूतबुद्धिर्वा | द्वितीये क्रियायामनुपयुक्तोऽन्य एव दैव्मिति निरर्थकोऽर्थः कल्पितः स्यात् | आद्ये प्रसिद्धकर्त्रादिरेव दैवशब्देनोक्तः स्यादित्याह - पृथगिति | ननु समानपाण्डित्यादिफलमीहमानानामधीयानानां केचिदेव तत्फलेन युज्यन्ते न सर्वे तत्रावश्यं वैषम्ये निमित्तं कल्प्यम् कार्यवैषम्यलिङ्गस्य कल्पनाप्रमाणत्वादितिचेत्तत्राह - कल्पनायामिति | तत्रापि दृष्टसजातीयपौरुषमेव प्राक्तनं कल्प्यते नाप्रसिद्धं दैवमित्यर्थः || १२ || नामूर्तेस्तेन सङ्गोऽस्ति नभसेव वपुष्मतः | मूर्तं च दृश्यते लग्नं तस्माद्दैवं न विद्यते || १३ || कारकान्तरसहकारित्वायोग्यत्वादपि न तत्कल्पना युक्तेत्याह - नेति | तेन कारकान्तरेण | सङ्गः संयोगः | वपुष्मतोऽस्मदादेः | चकारोऽवधारणे | यस्मान्मूर्तमेव लग्नं परस्परसंयुक्तं दृश्यते तस्मात् || १३ || विनियोत्क्रथ भूतानामस्त्यन्यच्चेज्जगत्त्रये | शेरते भूतवृन्दानि दैवं सर्वं करिष्यति || १४ || शेरते शयीरन् | व्यत्ययेन लिङर्थे लट् || १४ || दैवेन त्वभियुक्तोऽहं तत्करोमीदृशं स्थितम् | समाश्वासनवागेषा न दैवं परमार्थतः || १५ || अभियुक्तः प्रेरितः | स्थितं दैवसंकल्पसिद्धम् || १५ || मूढैः प्रकल्पितं दैवं तत्परास्ते क्षयं गताः | प्राज्ञास्तु पौरुषार्थेन पदमुत्तमतां गताः || १६ || ये शूरा ये च विक्रान्ता ये प्राज्ञा ये च पण्डिताः | तैस्तैः किमिव लोकेऽस्मिन्वद दैवं प्रतीक्ष्यते || १७ || किमिति काकुः प्रश्नच्छलेनाक्षेपे || १७ || कालविद्भिर्विनिर्णीता यस्यातिचिरजीविता | स चेज्जीवति संछिन्नशिरास्तद्दैवमुत्तमम् || १८ || ननु दैवज्ञा ग्रहान् निवेदयन्ति तदेव दैवमित्याशङ्क्य तेषां लिङ्गविदयाचारभेदेन पौरुषतत्फलसूचकत्वमेव न कारणतेत्यभिप्रेत्याह - कालविद्भिरिति || १८ ||
SKकालविद्भिर्विनिर्णीतं पाण्डित्यं यस्य राघव | अनध्यापित एवासौ तज्ज्ञश्चेद्दैवमुत्तमम् || १९ || उत्तमं श्रेष्ठं कारणं सिद्ध्येदिति शेषः || १९ || विश्वामित्रेण मुनिना दैवमुत्सृज्य दूरतः | पौरुषेणैव संप्राप्तं ब्राह्मण्यं राम नान्यथा || २० || अस्माभिरपरै राअम पुरुषैर्मुनितां गतैः | पौरुषेणैव संप्राप्ता चिरं गगनगामिता || २१ || विश्वासदार्ढ्याय पुरोगतेष्वेव पौरुषफलमुदाहरति - विश्वाब्मितेणेति || २० || २१ || उत्साद्य देवसंघातं चक्रुस्त्रिभुवनोदरे | पौरुषेणैव यत्नेन साम्राज्यं दानवेश्वराः || २२ || यत्तु प्रसिद्धमिन्द्रादिदैवं तदपि पौरुषेण पराजितं प्रसिद्ध्मित्याह - उत्साद्येति || २२ || आलूनशीर्णमाभोगि जगदाजह्नुरोजसा | पौरुषेणैव यत्नेन दानवेभ्यः सुरेश्वराः || २३ || योऽपि तस्य जयः सोऽपि पौरुषादेव न स्वत इत्याह - आलूनेति | आभोगि विस्तीर्णं जगत् आलूनं छिन्नं शीर्णं जर्जरीकृतं च शत्रुसैन्यं यस्मिन् युद्धादिकर्मणि तद्यथा स्यात्तथा आजह्नुः प्रत्याजह्नुः | तथाच दैवस्यापि दैवं पौरुषमेवेति भावः || २३ || राम पौरुषयुक्त्या च सलिलं धार्यतेऽनया | चिरं करण्डके चारु न दैव तत्र कारणं || २४ || अनया रालमधूच्छिष्टादिलेपनादिरूपेण प्रसिद्धया पौरुषयुक्त्या | करण्डके वंशसंपुटके || २४ || भरणादानसंरम्भविभ्रमश्रमभूमिषु | शक्तता दृश्यते राम न दैवस्यौषधेरिव || २५ || भरणं स्वजनपोषणं | आदानं बलात्परराष्ट्रदेः | संरम्भः क्रोधेन परनिग्रहः | विभ्रमा भोगविलासाः | अन्येऽपि ये श्रमभूमयः कष्टसाध्याः पुरुषार्थास्तेषु दैवस्य शक्तता न दृश्यते | ओषधिग्रहणं मणिमन्त्राद्युपलक्षणं तस्येव || २५ || प्. ९१) सकलकारणकार्यविवर्जितं निजविकल्पवशादुपकल्पितम् | त्वमनपेक्ष्य हि दैवमसन्मयं श्रय शुभाशय पौरुषमुत्तमम् || २६ || हे शुभाशय त्वं निजः स्वीयो विकल्पो भ्रमस्तस्मादुपकल्पितमिवासन्मयं तुच्छप्रायं दैवमनपेक्ष्य पौरुषं श्रय आश्रय || २६ ||
SKइत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे दैवनिराकरणं नामाष्टमः सर्गः || ८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे दैवनिराकरणं नामाष्टमः सर्गः || ८ || नवमः सर्गः ९ श्रीराम उवाच || भगवन्सर्वधर्मज्ञ प्रतिष्ठामलमागतम् | यल्लोके तद्वद ब्रह्मन्दैवं नाम किमुच्यते || १ || दैवापलापसिद्ध्यर्थं मनोमान्त्रत्वमुच्यते | कर्मणः सफलस्यान्न मनसश्च चिदात्मता || १ || पूर्व पौरुषस्वातन्त्र्यसिद्धये क्वचिद्दैवमसदेव नास्त्येवेत्यपलपितम् | क्वचित्तु प्राक्तनप्रयत्नजन्यकरैव दैवं पौरुषमेव वा दैवमित्युक्तम् | तत्र प्रथमकल्पे दृढतरलोकवेदप्रसिद्धेर्निरालम्बनत्वापत्तिमसति दुर्बले [दुर्बले तत्सापेक्ष इति पाठः] तत्सापेक्षपौरुषप्राबल्योक्तिविरोधं च द्वितीये तु असद्दैवमिति प्रतिज्ञानुपपत्तिमाधुनिकप्रवृत्तीनामपि पूर्वकर्मफलतया तदनुगुणतयैवोत्पत्तौ तद्विरोधित्वाभावेन ताभिस्तज्जयोक्तिविरोधं तत्पारतन्त्र्येऽपि पुरुषस्वातन्त्र्यविघातं चाक्षेप्स्यामीति गूढाभिसंधिः श्रीरामस्तदर्थ गुरोः कतरस्मिन्कल्पे निर्भर इति जिज्ञासुरुवाच - भगवन्निति | प्रतिष्ठां प्रसिद्धिमलमत्यन्तमागतं प्राप्तं यद्दैवं तत्किमसदुत सदेवेत्यर्थः || १ || श्रीवसिष्ठ उवाच || पौरुषं सर्वकार्याणां कर्तृ राघव नेतरत् | फलभोक्तृ च सर्वत्र न दैवं तत्र कारणम् || २ || एवं पृष्टो ज्ञातरामाभिप्रायः श्रीवसिष्ठोऽपि दैवापलापोपपत्त्यैव जगदपलापेनाद्वितीयमात्मतत्त्वं बुबोधयिषुः कल्पयोः फलतो नास्ति भेद इति गूढाभिप्रायः | प्रथमकल्पमेवावलम्ब्योक्तमेवोवाच - पौरुषमिति | वस्तुत उदासीनत्वादात्मनो न कर्तृत्वं न वा भोक्तृत्वमिति द्योतनाय करणेऽपि पौरुषे तत्कर्तृताव्यपदेशः || २ || दैवं न किंचित्कुरुते न भुङ्क्ते न च विद्यते | न दृश्यते नाद्रियते केवलं कल्पनेदृशी || ३ || विवेकिभिर्नाद्रियते | कल्पनानिरूढभ्रान्तिर्लोकानामित्यर्थः || ३ ||
SKसिद्धस्य पौरुषेणेह फलस्य फलशालिना | शुभाशुभार्थसंपत्तिर्दैवशब्देन कथ्यते || ४ || निरालम्बनत्वानुपपत्तिं परिहरति - सिद्धस्येति | फलशालिना अवश्यं फलवता पौरुषेण सिद्धस्य वनितापिण्डादेर्भर्तृसपत्न्यादिभिः शुभाशुभं यत्प्राप्यते तदेवालम्ब्य दैवमिति व्यवह्रियत इत्यर्थः || ४ || पौरुषोपनता नित्यमिष्टानिष्टस्य वस्तुनः | प्राप्तिरिष्टाप्यनिष्टा वा दैवशब्देन कथ्यते || ५ || प्रथममिष्टस्य पश्चादनिष्टापि प्राप्तिर्भवति कदाचित्प्रथममनिष्ठस्य पश्चादिष्टापीति तथोक्तिः कथ्यते | लोकैरिति शेषः || ५ || भावी [भावी पौरुषजः] त्ववश्यमेवार्थः पुरुषार्थैकसाधनः | यः सोऽस्मिṁल्लोकसंघाते दैवशब्देन कथ्यते || ६ || लोकायतिकानां मतमाह - भावीति | पुरुषार्थोऽत्र भोगः || ६ || ननु राघव लोकस्य कस्यचित्किंचिदेव हि | दैवमाकाशरूपं हि करोति न करोति च || ७ || सिद्धान्तमाह - नन्विति | कस्यचित्किंचिदेव दैवमाकाशरूपं शून्यकल्पं नभोनैल्यसदृशं वा करोति भ्रान्तदृशा | न करोति विवेकिदृशा || ७ || पुरुषार्थस्य सिद्धस्य शुभाशुभफलोदये | इदमित्थं स्थितमिति योक्तिस्तद्दैवमुच्यते || ८ || इदं फलमित्थमेतद्बीजात्मना प्राक् स्थितम् || ८ || इत्थं ममाभवद्बुद्धिरित्थं मे निश्चयो ह्यभूत् | इति कर्मफलप्राप्तौ योक्तिस्तद्दैवमुच्यते || ९ || इष्टानिष्टफलप्राप्ताविदमित्यस्य वाचकम् | आश्वासनामात्रवचो दैवमित्येव कथ्यते || १० || इष्टानिष्टफलयोः प्राप्तौ सत्यामिदं प्राक्तनं कर्म इत्थमेवं प्रकारमित्यस्यार्थस्य सर्वकल्पनानां पौरुषे एवान्तर्भावः || १० || श्रीराम उवाच | भगवन्सर्वधर्मज्ञ यत्प्राक्कर्मोपसंचितम् | तद्दैवं [तदेतद्दैवमित्युक्तं इति पाठः] दैवमित्युक्तमपमृष्टं कथं त्वया || ११ ||
SKकल्पद्वयाभेदोक्त्याऽशयमप्रतिपद्यमानः प्रथमकल्पेनोपक्रम्य द्वितीयकल्पेनोपसंहारे विरोधं मन्यमानः स्वाभिसंधिं प्रकाशयन् श्रीराम उवाच - भगवन्निति | यत्प्राक्तनं कर्म तदेव पुनःपुनर्दैवमिति यद्युक्तं तर्हि तद्विद्यत एव न विद्यते इति त्वया कथमपमृष्टमपलपितम् | अपलापवचनस्य कोऽभिप्राय इत्यर्थः || ११ | श्रीवसिष्ठ उवाच || साधु राघव जानासि शृणु वक्ष्यामि तेऽखिलम् | दैवं नास्तीति ते येन स्थिरा बुद्धिर्भविष्यति || १२ || स्वाभिसंधिं प्रकटयन् श्रीवसिष्ठ उवाच - साध्विति | जानासि विरोधं कल्पद्वयेऽपि दोषांश्चेति भावः | स्थिरा दोषाशङ्कानुपहता || १२ || प्. ९२) या मनोवासना पूर्वं बभूव किल भूरिशः | सैवेयं कर्मभावेन नृणां परिणतिं गता || १३ || कर्मभावेन कायिकवाचिककर्मभावेन | यद्धि मनसा ध्यायति तद्वाचा वदति तत्कर्मणा करोति इति श्रुतेस्तथैवानुभवाच्चेति भावः || १३ || जन्तुर्यद्वासनो राम तत्कर्ता [तत्कर्मा इति पाठः] भवति क्षणात् | अन्यकर्मान्यभावश्चेत्येतन्नैवोपपद्यते || १४ || तदेवान्वयव्यतिरेकोपदर्शनेनोपपादयति - जन्तुरिति || १४ || ग्रामगो ग्राममाप्नोति पत्तनार्थी च पत्तनम् | यो यो यद्वासनस्तत्र स स प्रयतते सदा || १५ || विशेषे सहचारदर्शनात्सामान्ये व्याप्तिः सिद्धेत्याह - ग्रामग इति | ग्रामगो ग्रामगमनगोचरोद्भूतवासनः || १५ || यदेव तीव्रसंवेगाद्दृढं कर्म कृतं पुरा | तदेव दैवशब्देन पर्यायेणेह कथ्यते || १६ || तीव्रसंवेगात् फलाभिलाषातिशयात् | कर्मप्रयत्नप्राबल्येन कृतं यत् || १६ || एवं कर्मस्थकर्माणि कर्मप्रौढा स्ववासना | वासना मनसो नान्या मनो हि पुरुषः स्मृतः || १७ ||
SKकर्मसु तिष्ठन्तीति कर्मस्थाः कर्तारस्तेषां सर्वाणि कर्माण्येवमुक्तरीत्यैव भवन्ति | कर्म च प्रौढा उपचिता स्ववासनैव | वासना च स्वकारणान्मनसो नान्या वाचारम्भणं विकारो नामधेयम् इति श्रुत्युक्तन्यायात् | यद्यपि वाक्काययोरपि कर्म दृश्यते तथापि तयोरपि विमर्शे मनोवासनामात्रत्वं वक्ष्यमाणमभिप्रेत्यैवमुक्तम् | मनश्च पुरुषः पूर्णात्मैव न ततो व्यतिरिच्यते | तन्मनोऽकुरुत आत्मन्वी स्याम् इतीत्यादिश्रुतेर्मनसः पुरुषविवर्तत्वादिति भावः || १७ || यद्दैवं तानि कर्माणि कर्म साधो मनो हि तत् | मनो हि पुरुषस्तस्माद्दैवं नास्तीति निश्चयः || १८ || पुरुषस्य च परमार्थतो निर्विकारचिन्मात्ररूपत्वान्मनसोऽसत्त्वे कर्मासत्त्वात्तदात्मकदैवासत्त्वं [कर्मासत्त्वमतस्तदात्मक इति पाठः] फलितमित्याह - यदिति || १८ || एष एव मनोजन्तुर्यद्यत्प्रयतते हितम् | कृतं तत्तदवाप्नोति स्वत एव हि दैवतः || १९ || प्राणन्नेव प्राणो नाम भवति वदन् वाक्पश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनः इति श्रुतेरात्मन एवाध्यासान्मन आदिभावेन स्थितस्य कर्मतत्फलभावेनाप्यवस्थितिरिति स एव दैवमिति यद्युच्यते तर्ह्यस्तु नाम न तेन पुरुषस्वातन्त्र्यविधात इत्याशयेनाह - एष एवेति | मनः मन आदिभावं प्राप्तः || १९ || मनश्चित्तं वासना च कर्म दैवं च निश्चयः | राम दुर्निश्चयस्यैताः संज्ञाः सद्भिरुदाहृताह् || २० || यद्यत्यन्तासदेव मनस्तर्हि कथं तेन व्यवहारसिद्धिर्वन्ध्यापुत्रादिना तददर्शनादित्याशङ्क्ययौक्तिकदृशा तस्यानिर्वचनीयतां दर्शयन् तदेतद्धृदयं मनश्चैतत्संज्ञानमाज्ञानं विज्ञानं प्रज्ञानम् इत्यादिश्रुतिमनुरुध्य मनस एव दैवादिसंज्ञाभेदा इत्याह - मन इति | दुर्निश्चयस्य सत्त्वासत्त्वचिज्जडत्वभेदाभेदादिना तत्त्वतो निश्चेतुमशक्यस्य मिथ्याभूतस्य मनसस्तदात्मतापन्नस्य पुरुषस्येति यावत् || २० || एवंनामा हि पुरुषो दृढभावनया यथा | नित्यं प्रयतते राम फलमाप्नोत्यलं तथा || २१ ||
SKतथाच पुरुषस्वातन्त्र्यं सिद्धमित्याह - एवंनामेति | एवं पूर्वोक्तविधानि नामानि यस्य || २१ || एवं पुरुषकारेण सर्वमेव रघूद्वह | प्राप्यते नेतरेणेह [नचिरेणेह इति पाठः] तस्मात्स शुभदोऽस्तु ते || २२ || स पुरुषकारः || २२ || श्रीराम उवाच || प्राक्तनं वासनाजालं नियोजयति मां यथा | मुने तथैव तिष्ठामि कृपणः किं करोम्यहम् || २३ || एवमपि प्राक्तनवासनापरवशस्य नेदानीं स्वातन्त्र्यसिद्धिरिति रामः शङ्कते - प्राक्तनमिति | कृपणो दीनः | परवश इति यावत् || २३ || श्रीवसिष्ठ उवाच | अत एव हि राम त्वं श्रेयः प्राप्नोषि शाश्वतम् | स्वप्रयत्नोपनीतेन पौरुषेणैव नान्यथा || २४ || अस्त्विदानीं फले अस्वातन्त्र्यं औत्तरकालिकफलानुकूले यत्ने तु स्वातन्त्र्यमस्त्येव | सद्विद्यासंपन्नजन्मानुमितसत्प्रयत्नप्रारब्धफलायाः पूर्ववासनायाः स्वविरुद्धफलमात्रप्रतिरोधकत्वात्तदधिकृतजन्मन्यपि तत्प्रवृत्त्यस्वातन्त्र्ये कर्मब्रह्मविद्यापरशास्त्रवैयर्थ्यप्रसङ्गादित्यभिप्रेत्य श्रीवसिष्ठ उवाच - अत एव हीति | अतः अधिकृतजन्महेतुवासनानुगुण्यादेव | वासनानुगुण्यस्य जन्मविवेकसंपद्विशेषेणानुमानादिति भावः | प्राप्नोषि प्राप्स्यसि | वर्तमानसामीप्ये वर्तमानवद्यपदेशः || २४ || द्विविधो वासनाव्यूहः शुभश्चैवाशुभश्च ते | प्राक्तनो विद्यते राम द्वयोरेकतरोऽथ वा || २५ || उक्तमेवार्थं समर्थयितुं वासनां विभज्य पृच्छति - द्विविध इति || २५ || वासनौघेन शुद्धेन तत्र चेदद्य नीयसे | तत्क्रमेण शुभेनैव पदं प्राप्स्यसि शाश्वतम् || २६ || तत्राद्ये तावदाह - वासनौघेनेति || २६ || अथ चेदशुभो भावस्त्वां योजयति संकटे | प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता बलात् || २७ || द्वितीयेऽप्याह - अथेति | न स्वातन्त्र्येण वासनानामुद्बोधः | किंतूद्बोधकानुसारेण | यद्यसत्समागमादिना दैवादेका अशुभवासनोद्भवेत्सापि तद्विरोधिसाधुसंगमसच्छास्त्रसेवनेन विरोधिवासनामुद्भाव्योत्पाद्य वा झटिति तिरस्कार्येत्यर्थः || २७ ||
SKप्राज्ञश्चेतनमात्रस्त्वं न देहस्त्वं जडात्मकः | अन्येन चेतसा [चेत्यसे तत्त्वं इति पाठः] तत्ते चेत्यत्वं क्वेव विद्यते || २८ || ननु यो मनसि तिष्ठन्मनसोन्तरो यं मनो न वेद इति मनसः प्रेरकः प्राज्ञात्मान्यः श्रूयते तदधीने मनोवासनोद्भवे कथं मम सद्वासनोद्भवस्वातन्त्र्यमित्याशङ्क्याह - प्राज्ञ इति | यश्चेतनमात्रश्चिन्मात्रस्वभावः प्राज्ञः श्रुतः स एव त्वं न जडात्मकः सूक्ष्मः स्थूलो वा देहस्त्वं येनान्यः स्याः | नान्योऽतोऽस्ति द्रष्टा तत्त्वमसि इत्यादिश्रुतेः | तत्तस्मादेवं चिन्मात्रस्वरूपस्य तव अन्येन चेतसा चेतनेन चेत्यात्वं भास्यत्वं क्व विद्यते | यदि प्राज्ञस्त्वदन्यः स्यात्तर्हि चितश्चिदन्तरेण प्रकाशायोगात्त्वामपश्यन्न सर्वज्ञ एव स स्यादतस्त्वमेव स इति व्यतिहारेणैक्यं सिद्धमिति भावः | पाठान्तरे [पाठान्तरं अन्येन चेत्यसे चेत्ते चेतस्त्वं क्वेव विद्यते इति] अन्येन त्वं चेत् यदि चेत्यसे भास्यसे तर्हि ते तव चेतस्त्वं चेतनत्वं क्व विद्यते | चिद्भास्यस्य जडत्वापत्तेर्दुर्वारत्वादित्यर्थः || २८ || प्. ९३) अन्यस्त्वां चेतयति चेत्तं चेतयति कोऽपरः | क इमं चेतयेत्तस्मादनवस्था न वास्तवी || २९ || चितश्चिदन्तरवेद्यत्वे तदप्यन्यवेद्यमित्यनवस्थापि स्यादित्याह - अन्य इति | इमं तच्चेतयितारं कश्चेतयेत् | तस्याप्यन्यश्चेदनवस्था स्यात् सा च न वास्तवी वस्तुसिद्धिकरीति तव सद्वासनोद्बोधयत्ने स्वातन्त्र्यमव्याहृतमिति भावः || २९ || शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् | पौरुषेण प्रयत्नेन योजनीया शुभे पथि || ३० || पुरुषस्वातन्त्र्यप्रसाधनस्य फलमाह - शुभाशुभाभ्यामिति || ३० || अशुभेषु समाविष्टं शुभेष्वेवावतारय | स्वं मनः पुरुषार्थेन बलेन बलिनां वर || ३१ || अशुभाच्चालितं याति शुभं तस्मादपीतरत् | जन्तोश्चित्तं तु शिशुवत्तस्मात्तच्चालयेद्बलात् || ३२ ||
SKचित्तनदी हि द्वेधा प्रवहति पुण्याय च पापाय च तत्रैकस्रोतोनिरोधे अपरत्र द्विगुणं वहतीति योगशास्त्रोक्तिमनुसृत्याह - अशुभादिति | चालितं निवारितम् | तस्माच्छुभादपि चालितमितरदशुभम् | चालयेदशुभादिति शेषः || ३२ || समता सांत्वनेनाशु न द्रागिति शनैः शनैः | पौरुषेणैव यत्नेन पालयेच्चित्तबालकम् || ३३ || इति उक्तक्रमेण चित्तबालकमाशु शीघ्रमेव रागादिवैषम्यत्याजनेन स्वाभाविक्यां समतायां सांत्वनेन निर्दोषतामापाद्य शनैःशनैरात्मस्वरूपे निरोधलक्षणेन पौरुषेण प्रयत्नेन पालयेन्नतु द्रागेव हठान्निरुध्यादुद्वेगात् समाधानभ्रंशो मा भूदिति | तथाच भगवद्वचनं शनैःशनैरुपरमेद्बुद्ध्या धृतिगृहीतया इत्यादि || ३३ || वासनौघस्त्वया पूर्वमभ्यासेन घनीकृतः | शुभो वाप्यशुभो वापि शुभमद्य घनीकुरु || ३४ || त्वया शुभो वा अशुभो वा घनीकृतोऽस्तु नाम तथाप्यद्य शुभमेव घनीकुरु | प्रथमे फलशैघ्र्याय द्वितीये तु विरोधिनिरासाय तस्यावश्यकत्वादिति भावः || ३४ || प्रागभ्यासवशाद्याता यदा ते वासनोदयम् | तदाभ्यासस्य साफल्यं विद्धि त्वमरिमर्दन || ३५ || न च वासनाभ्यासस्य वैफल्यं शङ्क्यं पूर्ववासनाभ्यासेषु प्रत्यक्षतः फलकॢप्तेरित्याह - प्रागिति | उदयमुद्भवं घनीभावमित्यर्थः || ३५ || इदानीमपि ते याति घनतां वासनानघ | अभ्यासवशतस्तस्माच्छुभाभ्यासमुपाहर || ३६ || इदानीमपीति | तद्वदेवेति भावः || ३६ || पूर्वे चेद्धनतां याता नाभ्यासात्तव वासना | वर्घिष्यते तु नेदानीमपि तात सुखी भव || ३७ || प्राक्तनवासनाघनीभावेऽपि संदिहानं प्रत्याह - पूर्वमिति | तथाच यथोचितं सुखेन व्यवहर्तव्यमिति न दुर्वासनावृद्धिप्रयुक्तानर्थसंभावनेन विषादस्ते युक्त इति भावः || ३७ || संदिग्धायामपि भृशं शुभामेव समाहर | अस्यां तु वासनावृद्धौ शुभाद्दोषो न कश्चन || ३८ ||
SKतर्हि किमिति शुभवासनावर्धने मां प्रवर्तयसि तत्राह - संदिग्धायामपीति | समाहर उपचिनु | शुभादाचरणादस्यां शुभायां वासनावृद्धौ तु न कश्चन दोषः | शुभाशुभफलारम्भे संदिग्धेऽपि शुभं चरेत् | यदि न स्यात्तदा किं स्याद्यदि स्यान्नास्तिको हतः || इति न्यायादिति भावः || ३८ || यद्यदभ्यस्यते लोके तन्मयेनैव भूयते | इत्याकुमारं प्राज्ञेषु दृष्टं संदेहवर्जितम् || ३९ || वस्तुतस्तु न संदेहसंभावना | अन्यत्राप्यभ्यासस्याभ्यस्यमानदार्ढ्यहेतुत्वकॢप्तेरित्याह - यद्यदिति || ३९ || शुभवासनया युक्तस्तदत्र भव भूतये | परं पौरुषमाश्रित्य विजित्येन्द्रियपञ्चकम् || ४० || अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः | गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर || ४१ || तर्हि कियत्कालं शुभवासना अभ्यसनीया तत्राह - अव्युत्पन्नेति | तत्त्वज्ञानपर्यन्तमित्यर्थः | प्रमाणानि युक्त्यनुभवादीनि || ४१ || ततः पक्वकषायेण नूनं विज्ञातवस्तुना | शुभोप्यसौ त्वया त्याज्यो वासनौघो निराधिना || ४२ || पक्वा वस्त्रादिलग्नमलभागाः क्षारपाकेनेव शिथिलिता रागादिवासनाकषाया यस्य तेन | ततस्तदनन्तरं विज्ञातात्मवस्तुना | तथाच स्मृतिः - कषाये कर्मभिः पक्वे ततो ज्ञानं प्रजायते इति | अत एव निराधिना अपगतमासदुःखेन पूर्णेनेति यावत् || ४२ || यदतिसुभगमार्यसेवितं त- च्छुभमनुसृत्य मनोज्ञभावबुद्ध्या | अधिगमय पदं सदा विशोकं तदनु तदप्यवमुच्य साधु तिष्ठ || ४३ || उक्तमेवार्थं संक्षिप्योपसंहरन्नाचरणीयं शुभं लक्षयति - यदिति | मनोज्ञभावाः शुभवासनास्तत्संपन्नया बुद्ध्या पदं परमार्थवस्तु अधिगमय साक्षात्कुरु | तच्छुभवासनानुसरणमप्यवमुच्यसाधुरूपे तिष्ठ || ४३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे कर्मविचरो नाम नवमः सर्गः || ९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे कर्मविचारो नाम नवमः सर्गः || ९ || दशमः सर्गः १०
SKश्रीवसिष्ठ उवाच यथास्थितं ब्रह्मतत्त्वं सत्तानियतिरुच्यते | सा विनेतुर्विनेतृत्वं सा विनेयविनेयता || १ || धातुः स्वस्य च जन्मात्र समस्तजनमुक्तये | स्वोपदेश इति प्रोक्तो ज्ञानावतरणक्रमः || १ || नन्वस्तु दैवं नाम प्राक्तनं पौरुषमेवेति तदाधुनिकेन शुभाचरणेन जय्यम् नियतिस्तु दुर्जयैव | या हि कृतान्तस्य कान्तेति वर्णिता वैराग्यप्रकरणे तां हि भाविपदार्थानामवश्यंभावलक्षणां भवितव्यतापरपर्यायामप्रतीकार्यामाहुरभियुक्ताः - अवश्यंभाविभावानां प्रतीकारो भवेद्यदि | तदा दुःखैर्न लिप्येरन्नलरामयुधिष्ठिराः || इति | तथाच तन्नियम्यत्वेऽपि पुरुषस्य न स्वातन्त्र्यमिति शङ्कापरिजिहीर्षुः श्रीवसिष्ठ उवाच - यथास्थितमिति | ब्रह्मतत्त्वं यथास्थितं सच्चिदानन्दस्वप्रकाशात्मना सर्वत्र समतया सर्वानुकूल्येन स्थितं तत्संबन्धिनी सर्वपदार्थानां सत्तैव भविष्यत्कालसंबन्धेन व्यपदिश्यमाना भवितव्यताख्या नियतिरुच्यते | सत्ता च स सर्वत्र यथास्थितं ब्रह्मतत्त्वम् | तदेव हि कारणकार्ययोर्नियामकनियम्यरूपेणावतिष्ठते | कारणे सत्यवश्यं कार्येण भाव्यं कार्ये सत्यवश्यं कारणेन भाव्यमिति नियतिर्नियमः | सा च विनेतुर्नियन्तुः कारणादेर्विनेतृत्वं कार्यादिनियामकत्वम् | विनेयस्य नियम्यस्य च कार्यादेर्विनेयता नियम्यता | नियतपूर्वकालसत्ताकारणता नियतपश्चात्कालसत्ताकार्यतेति तयोर्देशकालविशेषितसत्तामात्ररूपत्वादित्यर्थः | पूर्वोक्तनियतिरपि सर्वकारणभूतब्रह्मसत्तारूपकालशक्तिरिति भावः || १ || अतः परुषमाश्रित्य श्रेयसे नित्यबान्धवम् | एकाग्रं कुरु तच्चित्तं शृणु चोक्तमिदं मम || २ || अतः सर्वानुकूलब्रह्मसत्तारूपत्वात्पौरुषसाफल्येऽप्यनुकूलैव नियतिर्न प्रतिकूलेत्यत उक्तं वचनं वक्ष्यमाणमिदमेकाग्रकरणोपायबोधकं प्रथमं तदेव वचनमाह - पौरुषमित्यादिना || २ || अवान्तरनिपातीनि स्वारूढानि मनोरथम् | पौरुषेणेन्द्रियाण्याशु संयम्य समतां नय || ३ ||
SKइन्द्रियाणि मनोरथं विषयाभिलाषं स्वारूढानि सन्ति अवान्तरे मुक्तेरर्वाक्तने ऐहिकस्वर्गादिसुखे निपातनशीलानि [निपतन इति पाठ] भवन्त्यतस्तानि यथा मनोरथं नारोहन्ति तथा पौरुषेण प्रयत्नेन संयम्य मनः समतां नयेत्यर्थः || ३ || इहामुत्र च सिद्ध्यर्थं पुरुषार्थफलप्रदाम् | मोक्षोपायमयीं वक्ष्ये संहितां सारनिर्मिताम् || ४ || तदनन्तरं यत्कार्यं तदाह - इहेत्यादिना | इह सिद्धिर्जीवन्मुक्तता अमुत्र सिद्धिर्विदेहमुक्तता | इह मनुष्यलोके अमुत्र स्वर्गादिलोकेषु चाधिकारिणां ज्ञानसिद्ध्यर्थमिति वा | मोक्षोपायमयीं मोक्षसाधनोपदेशप्रचुराम् | यां संहितां वक्ष्ये तां स्वीकुर्विति शेषः || ४ || अपुनर्ग्रहणायान्तस्त्यक्त्वा संसारवासनाम् | संपूर्णौ शमसंतोषावादायोदारया धिया || ५ || तच्छ्रवणे मन्दविरक्तस्यापि नाधिकार इति द्यतनायापुनर्ग्रहणायेति | शमसंतोषौ शान्तिवतृष्ण्यसुखे || ५ || सपूर्वापरवाक्यार्थविचारविषयाहृतम् | मनः समरसं कृत्वा सानुसंधानमात्मनि || ६ || कर्मकाण्डश्रुतयः पूर्ववाक्यानि | उपासनापरश्रुतय उत्तरवाक्यानि | अर्थविचारो ज्ञानसाधकत्वम् | पूर्वापरवाक्यार्थविचारसहितं च तद्विषयैरहतं चेति विग्रहः | आत्मनि सानुसंधानं समरसं गुरुशास्त्रोपदिष्टप्रकारस्य स्वानुभवस्य चैकरस्यापादनसहितमिति यावत् || ६ || सुखदुःखक्षयकरं महानन्दैककारणम् | मोक्षोपायमिमं राम वक्ष्यमाणं मया शृणु || ७ || इमां मोक्षकथां श्रुत्वा सह सर्वैर्विवेकिभिः | परं यास्यसि निर्दुःखं नाशो यत्र न विद्यते || ८ || अविवेकिनां श्रवणशालाप्रवेशम्पि वारयितुं सर्वैर्विवेकिभिरित्युक्तिः || ८ || इदमुक्तं पुराकल्पे ब्रह्मणा परमेष्ठिना | सर्वदुःखक्षयकरं परमाश्वासनं धियः || ९ || इत्थं साङ्गं श्रवणमवतार्य श्रोतव्यशास्त्रादेरसिद्धये [शास्त्रादेः सिद्धये इति पाठः] तदवतारप्रकारं विवक्षुराह - इदमिति | पुराकल्पे कल्पादौ || ९ || श्रीराम उवाच |
SKकेनोक्तं कारणेनेदं ब्रह्मन्पूर्वं स्वयंभुवा | कथं च भवता प्राप्तमेतत्कथय मे प्रभो || १० || वसिष्ठाभिप्रायानुरूपं जिज्ञासुः श्रीराम उवाच - केनेति || १० || श्रीवसिष्ठ उवाच | अस्त्यनन्तविलासात्मा सर्वगः सर्वसंश्रयः | चिदाकाशोऽविनाशात्मा प्रदीपः सर्वजन्तुषु || ११ || तत्रादौ परमेष्ठिनो जन्म वक्तुं तन्मूलकारणमाह - अस्तीति | अनन्तानां मायिकविलासानामधिष्ठानभूत आत्मा अस्ति | सर्वगः सर्वान्तरः सर्वसंश्रयः सर्वाधार इति तस्य मायातत्कार्यातिरेकद्योतनायोक्तम् | सर्वजन्तुषु प्रदीप इति प्रत्यक्चिद्रूपत्वेन [प्रत्यक्त्वेन इति पाठः] नित्यापरोक्षतालाभाय || ११ || स्पन्दास्पन्दसमाकारात्त्ततो विष्णुरजायत | स्यन्दमानरसापूरात्तरङ्गः सागरादिव || १२ || मायातत्कार्याणां स्पन्दे अस्पन्दे च सम एक आकारः स्वभावो यस्य तस्मान्निर्विकारादित्यर्थः | विष्णुः सर्वकार्यव्यापनशीलो ब्रह्माण्डात्मा विराट् सूक्ष्मभूतसृष्टिक्रमेणाजायत | स्यन्दमानस्य रसस्य जलस्य आपूरात्स्पन्दास्पन्दयोरप्यप्रच्युतजलैकस्वभावात्सागरात्तरङ्ग इव | अनेन निर्विकाराज्जगदुत्पत्तिर्विवर्तरूपैव न परिणाम इति ध्वन्यते || १२ || प्. ९५) सुमेरुकर्णिकात्तस्य दिग्दलाद्धृदयाम्बुजात् | तारकाकेसरवतः परमेष्ठी व्यजायत || १३ || तस्य विराजः सुमेरुः कर्णिका यस्य दिशो दलानि यस्य तादृशात्तरकाकेसरवतो हृदयाम्बुजात् || १३ || वेदवेदार्थविद्देवमुनिमण्डलमण्डितः | सोऽसृजत्सकलं सर्वं विकल्पौघं यथा मनः || १४ || देवानां मुनीनां च मण्डलैः समूहैः | सर्गं प्राणिनिकायम् || १४ || जम्बूद्विपस्य कोणेऽस्मिन्वर्षे भारतनामनि | ससर्ज जनसर्गौघं ह्याधिव्याधिपरिप्लुतम् || १५ || भावाभावविषण्णाङ्गमुत्पातध्वंसतत्परम् | सर्गेऽस्मिन्भूतजातीनां [सर्वभूतानां इति पाठः] नानाव्यसनसंकुलम् || १६ ||
SKभावाभावौ लाभालाभौ ताभ्यां विषण्णमङ्गं मनो यस्य | उत्पत्तिरुत्पातस्तत्संनिहितो ध्वंसो मरणं तत्र तत्परम् | अल्पजीवितमिति यावत् | एतस्मिन्भूतजातीनां सर्गे नानाविधैर्विषयभोगव्यसनैः संकुलं जनस्य दुःखं दृष्ट्वेत्युत्तरत्रान्वयः || १६ || जनस्यैतस्य दुःखं तद्दृष्ट्वा सकललोककृत् | जगाम करुणामीशः पुत्रदुःखात्पिता यथा || १७ || ईशस्तद्दुःखनिवारणसमर्थः || १७ || क एतेषां हताशानां दुःखस्यान्तो हतायुषाम् | स्यादिति क्षणमेकाग्रं चिन्तयामास भूतये || १८ || अन्तयति नाशयतीत्यन्तः क उपायः स्यादिति चिन्तयामास || १८ || इति संचिन्त्य भगवान्ससर्ज स्वयमीश्वरः | तपो धर्मं च दानं च सत्यं तीर्थानिच् चैव हि || १९ || प्रथमं शुद्धिसाधनसर्गमाह - इतीति || १९ || एतत्सृट्वा पुनर्देवश्चिन्तयामास भूतकृत् | पुंसां नानेन सर्वस्य दुःखस्यान्त इति स्वयम् || २० || सर्गस्य सृष्टेः संबन्धिनां पुंसां | स्वसृष्टानामिति यावत् | अन्तो मूलतो निवृत्तिः || २० || निर्वाणं नाम परमं सुखं येन पुनर्जनः | न जायते न म्रियते तज्ज्ञानादेव लभ्यते || २१ || जनो जीवः पुनर्न जायते न म्रियते तन्निर्वाणम् || २१ || संसारोत्तरणे जन्तोरुपायो ज्ञानमेव हि | तपो दानं तथा तीर्थमनुपायाः प्रकीर्तिताः || २२ || अनुपाया असाधनानि प्रकीर्तिताः न कर्मणा न प्रजया धनेन प्लवा ह्येते अदृढा यज्ञरूपाः इत्यादिश्रुतिषु || २२ || तत्तावद्दुःखमोक्षार्थे जनस्यास्य हतात्मनः [महात्मनः इति पाठः] | प्रत्यग्रं तरणोपायमाशु प्रकटयाम्यहम् || २३ || प्रत्यग्रं नवम् | दृढमिति यावत् || २३ || इति संचिन्त्य भगवान्ब्रह्मा कमलसंस्थितः | मनसा परिसंकल्प्य मामुत्पादितवानिमम् || २४ || इमं त्वत्पुरःस्थं माम् || २४ || कुतोऽप्युत्पन्न एवाशु ततोऽहं समुपस्थितः | पितुस्तस्य पुनः शीघ्रमूर्मिरूर्मेरिवानघ [मूर्तिरूर्मेः इति पाठः] || २५ || कुतोऽपि अनिर्वचनीयमायावशादेवोपाध्युत्पत्त्योत्पन्नः सन्नाशु समुपस्थितः पितुः पितरमित्यर्थः || २५ ||
SKकमण्डलुधरो नाथः सकमण्डलुना मया | साक्षमालः साक्षमालं स प्रण्म्याभिवादितः || २६ || साक्षमालं यथा स्यात्तथा प्रणम्य नम्रीभूयाभिवादितो नमस्कृतः || २६ || एहि पुत्रेति मामुक्त्वा स स्वाब्जस्योत्तरे दले | शुक्लाभ्र इव शीतांशुं योजयामास पाणिना || २७ || योजयामास संयोजयामास | उपवेशितवानिति यावत् || २७ || मृगकृत्तिपरीधानो मृगकृत्तिनिजाम्बरम् | मामुवाच पिता ब्रह्मा सुहंसः सारसं यथा || २८ || मुहूर्तमात्रं ते पुत्र चेतो वानरचञ्चलम् | अज्ञानमभ्याविशतु शशः शशधरं यथा || २९ || वानरजातिरिव चञ्चलं चापलहेतुरज्ञानं कर्तृ ते चेतः कर्म अभ्याविशतु प्रविशतु | शशः कलङ्कः || २९ || इति तेनाशु शप्तः सन्विचारसमनन्तरम् | अहं विस्मृतवान्सर्वं स्वरूपममलं किल || ३० || विचारः परमेष्ठिनः संकल्पस्तत्समनन्तरम् | सर्वं पूर्णम् | किलेत्याश्चर्ये || ३० || अथाहं दीनतां यातः स्थितोऽसंबुद्धया धिया | दुःखशोकाभिसंतप्तो जातो जन इवाधनः || ३१ || दीनतां अपहृतधन इव कार्पण्यम् || ३१ || कष्टं संसारनामायं दोषः कथमिहागतः | इति चिन्तितवानन्तस्तूष्णीमेव व्यवस्थितः || ३२ || तृष्णीं निर्व्यापारो व्यवस्थितः || ३२ || अथाभ्यधात्स मां तातः पुत्र किं दुःखवानसि | दुःखोपघातं मां पृच्छ सुखी नित्यं भविष्यसि || ३३ || दुःखमुपहन्तीति दुःखोपघात उपायस्तम् | कर्मण्यण् || ३३ || ततः पृष्टः स भगवान्मया सकललोककृत् | हेमपद्मदलस्थेन संसारव्याधिभेषजम् || ३४ || कथं नाथ महादुःखमयः संसार आगतः | कथं च क्षीयते जन्तोरिति पृष्टेन तेन मे || ३५ || तेन मे प्रोक्तमित्युत्तरेणान्वयः || ३५ || तज्ज्ञानं सुबहु प्रोक्तं यज्ज्ञात्वा पावनं परम् | अहं पितुरभिप्रायः किलाधिक इव स्थितः || ३६ || पितुरधिकः सर्वोत्कृष्टोऽभिप्रायस्तत्त्वावबोध इव निर्मलः परिपूर्णस्वभावः स्थितः | किलेत्याश्चर्ये || ३६ ||
SKततो विदितवेद्यं मां निजां प्रकृतिमास्थितम् | स उवाच जगत्कर्ता वक्ता सकलकारणं || ३७ || स वक्ता उपदेष्टा पिता मामुवाच || ३७ || शापेनाज्ञपदं नीत्वा पृच्छकस्त्वं मया कृतः | पुत्रास्य ज्ञानसारस्य समस्तजनसिद्धये || ३८ || समस्तानामधिकारिजनानां ज्ञानसिद्धये || ३८ || प्. ९६) इदानीं शान्तशापस्त्वं परं बोधमुपागतः | संस्थितोऽहमिवैकात्माऽकनकं कनकादिवत् || ३९ || यथा कनकं चिरं मालिन्यसंसर्गादकनकभावमिवापन्नं पुनः शोधनेनादिकास्थितशुद्धकनकभावेनावतिष्ठते तद्वत् || ३९ || गच्छेदानीं महीपृष्ठे जम्बूद्विपान्तरस्थितम् | साधो भरतवर्षं त्वं लोकानुग्रहहेतुना || ४० || फलमपि प्राग्बुद्ध्युपारूढं [रूढक्रियाहेतुः इति पाठः] क्रियाहेतुरिति हेतुनेत्युच्यते || ४० || तत्र क्रियाकाण्डपरास्त्वया पुत्र महाधिया | उपदेश्याः क्रियाकाण्डक्रमेण क्रमशालिना || ४१ || तत्रेति | न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् इति न्यायादिति भावः || ४१ || विरक्तचित्ताश्च तथा महाप्राज्ञा विचारिणः | उपदेश्यास्त्वया साधो ज्ञानेनानन्ददायिना || ४२ || महाप्राज्ञाः सूक्ष्मार्थग्रहणपटवः विचारिणो विमर्शशीलाः || ४२ || इति तेन नियुक्तोऽहं पित्रा कमलयोनिना | इह राघव तिष्ठामि यावद्भूतपरम्परा || ४३ || भूतपरम्परा अधिकारिजनप्रवाहो यावत्स्थास्यति तावत् || ४३ || कर्तव्यमस्ति न ममेह हि किंचिदेव स्थातव्यमित्यतिमना भुवि संस्थितोऽस्मि | संशान्तया सततसुप्तधियेह वृत्त्या कार्यं करोमि न च किंचिदहं करोमि || ४४ || कर्तव्यं क्रियाप्रयोजनम् | मनोऽतिक्रान्तोऽतिमना निर्मनस्कः | अत एव सततं सुप्तेव निरभिमाना धीर्यस्यां तया वृत्त्या कार्यं यथाप्राप्तानुवर्तनं करोमि | अथवा संशान्तया वृत्त्या स्थितोऽहं सततसुप्ता अज्ञास्तेषां धिया कार्यं करोति स्वधिया तु न किंचित्करोमित्यर्थः || ४४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे ज्ञानावतरणं नाम दशमः सर्गः || १० ||
SKइति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे ज्ञानावतरणं नाम दशमः सर्गः || १० || एकादशः सर्गः ११ श्रीवसिष्ठ उवाच || एतत्ते कथितं सर्वं ज्ञानावतरणं भुवि | मया स्वमीहितं चैव कमलोद्भवचेष्टितम् || १ || ज्ञानावतारविस्तारो राम वराग्यसंस्तवः | वकृत्प्रच्छकलक्ष्मादि प्राधान्येनात्र वर्ण्यते || १ || पुनर्विस्तरेण ज्ञानावतारप्रकारं वक्तृप्रच्छकलक्षणं च वर्णयिष्यंस्तदवतारायोक्तमुपसंहरति - एतदिति | मम एतावज्ज्ञानावतरणं स्वं स्वीयं ईहितं जन्मादि चेष्टितं कमलोद्भवस्य मत्पितुश्चेष्टितं चैव ते कथितमित्यन्वयः || १ || तदिदं परमं ज्ञानं श्रोतुमद्य [श्रोतु मम इति पाठः] तवानघ | भृशमुत्कण्ठितं चेतो महतः सुकृतोदयात् || २ || सुकृतोदयात्पुण्यपरिपाकात् || २ || श्रीराम उवाच || कथं ब्रह्मन्भवतो लोके ज्ञानावतारणे | सर्गादनन्तरं बुद्धिः प्रवृत्ता परमेष्ठिनः || ३ || तादृशसुकृतोदयः कीदृग्विधलक्षणैः परिज्ञेयः कीदृशाश्च तल्लक्ष्यवस्तूपदेशप्रकार इति प्राक्तनकथाविस्तरश्रवणमुखेन जिज्ञासुः श्रीराम उवाच - कथमिति | कथं केन प्रकारेण | तं प्रकारं विस्तरेण वर्णयेत्यर्थः || ३ || श्रीवसिष्ठ उवाच || परमे ब्रह्मणि ब्रह्मा स्वभाववशतः स्वयम् | जातः स्पन्दमयो नित्यमूर्मिरम्बुनिधाविव || ४ || स्वस्य भावः प्राक्तनविद्याकर्मवासनाप्रचयस्तद्वशतः | स्वयमेव तदनुरूपोपाध्यात्मा जातः | स्पन्दमयः क्रियाशक्तिप्रचुरः | नित्यमभीक्ष्णम् || ४ || दृष्ट्वैवमातुरं सर्गं सर्गस्य सकलां गतिम् | भूतभव्यभविष्यस्थां ददर्श परमेश्वरः || ५ || स च भुवनभूतग्रामसर्गानन्तरं सर्गं सृष्टजनमेवं जन्मरजामृत्युनरकादिप्रकारेण स्वाज्ञानवशादातुरं दुःखितं दृष्ट्वा तद्दृष्टान्तेनैव भूतभव्यभविष्यत्कालस्थामपि सर्गस्य सकलां गतिं ददर्श || ५ || सक्रियाक्रमकालस्य कृतादेः क्षय आगते | मोहमालोच्य लोकानां कारुण्यमगमत्प्रभुः || ६ ||
SKविशेषेण च स्वर्गापवर्गसाधनानुष्ठानयोग्यकालस्य कृतयुगादेः क्षये आगते लोकस्य भाविनं मोहमालोच्य || ६ || ततो मामीश्वरः सृष्ट्वा ज्ञानेनायोज्य चसकृत् | विससर्ज महीपीठं लोकस्याज्ञानशान्तये || ७ || असकृदुपदेशेन ज्ञानेनायोज्य संयोज्य || ७ || यथाहं प्रहितस्तेन तथान्ये च महर्षयः | सनत्कुमारप्रमुखा नारदाद्याश्च भूरिशः || ८ || क्रियाक्रमेण पुण्येन तथा ज्ञानक्रमेण च | मनोमोहामयोन्नद्धमुद्धर्तुं लोकमीरिताः || ९ || क्रिया कर्म तदुपदेशक्रमेण | चादुपासनोपदेशक्रमेण | मनश्च मोहोऽज्ञानं च तावेव वा तद्युक्तो वा आमयः संसाररोगस्तेनोन्नद्धं बद्धं वशीकृतमिति यावत् | ईरिताः प्रेरिताः || ९ || महर्षिभिस्ततस्तैस्तैः क्षीणे कृतयुगे पुरा | क्रमात्क्रियाक्रमे शुद्धे पृथिव्यां तनुतां गते || १० || महर्षिभिर्भूपालाः परिकल्पिता इत्युत्तरेणान्वयः | शुद्धे वैदिके रागलोभाद्यनुपहते वा || १० || क्रियाक्रमविधानार्थं मर्यादानियमाय च | पृथग्देशविभागेन भूपालाः परिकल्पिताः || ११ || विधानार्थं प्रवर्तनार्थम् || ११ || प्. ९७) बहूनि स्मृतिशास्त्राणि यज्ञशास्त्राणि चावनौ | धर्मकामार्थसिद्ध्यर्थं कल्पितान्युचितान्यथ || १२ || अथ राजकल्पनानन्तरं राज्ञां प्रजानां च स्वस्वधर्मनियमनोचितानि स्मृतिशास्त्राणि कल्पितानि || १२ || कालचक्रे वहत्यस्मिंस्ततो विगलिते क्रमे | प्रत्यहं भोजनपरे जने शाल्यर्जनोन्मुखे || १३ || भोजनग्रहणं भोगमात्रस्योपलक्षणं शालिग्रहणं च विषयमात्रस्य || १३ || द्वन्द्वानि संप्रवृत्तानि विषयार्थं महीभुजाम् | दण्ड्यतां संप्रयातानि भूतानि भुवि भूरिशः || १४ || द्वन्द्वानि लक्षणया तन्निष्ठानि वैराणि | विषयार्थं देशार्थं भोग्यार्थ वा | यद्वा द्वन्द्वानि शीतोष्णादीनि | विषयार्थं तत्परिहारोपायविषयसंपादनार्थम् | ततश्च विषयसिद्धेर्धनमलत्वाद्धनार्थं भूतानि परभूजुजां दण्ड्यतां दण्डनीयतां संप्रयातानि || १४ ||
SKततो युद्धं विना भूपा महीं पालयितुं क्षमाः | न समर्थास्तदा याताः प्रजाभिः सह दैन्यताम् || १५ || पूर्व क्षमाः समर्था अपि ततस्तदनन्तरं न समर्थाः सन्तो दीना एव दैन्यास्तद्भावं याताः | देहे आत्मताबुद्ध्या युद्धादौ देहनाशे आत्मनाशभयादित्यर्थः || १५ || तेषां दैन्यापनोदार्थं सम्यग्दृष्टिक्रमाय च | ततोऽस्मदादिभिः प्रोक्ता महत्यो ज्ञानदृष्टयः || १६ || सम्यग्दृष्टिरात्मतत्त्वज्ञानं तस्य क्रमणं क्रमो लोके प्रचारस्तस्मै || १६ || अध्यात्मविद्या तेनेयं पूर्वं राजसु वर्णिता | तदनु प्रसृता लोके राजविद्येत्युदाहृता || १७ || तेनोक्तहेतुना | राजविद्येत्युदाहृता व्यासादिभिः || १७ || राजविद्या राजगुह्यमध्यात्मज्ञानमुत्तमम् | ज्ञात्वा राघव राजानः परां निर्दुःखतां गताः || १८ || अथ राजस्वतीतेषु बहुष्वमलकीर्तिषु | अस्माद्दशरथाद्राम जातोऽद्य त्वमिहावनौ || १९ || तव चातिप्रसन्नेऽस्मिञ्जातं मनसि पावनम् | निर्निमित्तमिदं चारु वैराग्यमरिमर्दन || २० || अतिप्रसन्ने अत्यन्तं निर्मले | निर्निमित्तं श्मशानमापदं दैन्यमिति वक्ष्यमाणदृष्टनिमित्तरहितम् || २० || सर्वस्यैव हि सर्वस्य साधोरपि विवेकिनः | निमित्तपूर्वं वैराग्यं जायते राम राजसम् || २१ || सर्वस्य विवेकिनः पुरुषसार्थस्य [पुरुषार्थस्य इति क्वाचित्कः पाठः] मध्ये साधोरुत्तमत्वेन प्रसिद्धस्यापि सर्वस्य बहुतरजनस्य सर्वस्य विषयस्य संबन्धीति वा | रजोगुणकार्यदृष्टदुःखानुभवनिमित्तमत एव राजसम् || २१ || इदं त्वपूर्वमुत्पन्नं चमत्कारकरं सताम् | तवानिमित्तं वैराग्यं सात्त्विकं स्वविवेकजम् || २२ || सत्त्वात्सुखं च ज्ञानं चेत्यादिस्मृतेर्विवेकज्ञानमात्रजत्वात्सात्त्विकम् || २२ || बीभत्सं विषयं दृष्ट्वा को नाम न विरज्यते | सतामुत्तमवैराग्यं विवेकादेव जायते || २३ || उक्तमेव व्यनक्ति - बीभत्समिति || २३ || ते महान्तो महाप्राज्ञा निमित्तेन विनैव हि | वैराग्यं जायते येषां तेषां ह्यमलमानसम् || २४ ||
SKस्वविवेकचमत्कारपरामर्शविरक्तया | राजते हि धिया जन्तुर्युवेव वरमालया || २५ || स्वविवेकवशादेव यश्चमत्कारपरामर्शस्तत्त्वाभिमुख्यं तेनेतरविषयेभ्यो विरक्तया || २५ || परामृश्य विवेकेन संसाररचनाभिमाम् | वैराग्यं येऽधिगच्छन्ति त एव पुरुषोत्तमाः || २६ || स्वविवेकवशादेव विचार्येदं पुनः पुनः | इन्द्रजालं परित्याज्यं सबाह्याभ्यन्तरं बलात् || २७ || इदं दृश्यजातमिन्द्रजालमिवेन्द्रजालम् | मायिकमिति यावत् | न बाह्यमेव किंतु बाह्यसहितमाभ्यन्तरं देहेन्द्रियप्राणमनोबुद्ध्यविद्यान्तमपि || २७ || श्मशानमापदं दैन्यं दृष्ट्वा को न विरज्यते | तद्वैराग्यं परं श्रेयः स्वतो यदभिजायते || २८ || अकृत्रिमविरागत्वं महत्त्वमलमागतः | योग्योऽसि ज्ञानसारस्य बीजस्येव मृदुस्थलम् || २९ || अलमत्यन्तमागतः प्राप्तवान् || ज्ञानानां विद्यानां सार आत्मविद्या तस्य || २९ || प्रसादात्परमेशस्य नाथस्य परमात्मनः | त्वादृशस्य शुभा बुद्धिर्विवेकमनुधावति || ३० || तपःप्रभावाद्देवप्रसादाच्च | यस्य देवे परा भक्तिः ईश्वरानुग्रहादेव पुंसामद्वैतवासना | प्रसादादेव रुद्रस्य भवानिसहितस्य तु || अभ्यात्मविषयं ज्ञानं जायते बहुजन्मभिः || इत्यादिश्रुतिस्मृत्याद्यनुसरन्नाह - प्रसादादिति || ३० || क्रियाक्रमेण महता तपसा नियमेन च | दानेन तीर्थयात्राभिश्चिरकालं विवेकतः || ३१ ||
SKतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन इत्यादिश्रुतिमनुसृत्याह - क्रियाक्रमेणेति | क्रियाक्रमश्च गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपन यनं चत्वारि वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पञ्चानां यज्ञानामनुष्ठानमष्टका [देवमनुष्यभूतब्रह्मणामेतेषां च इति पाठः] पार्वणं श्राद्धं श्रावण्याग्रयणी चैत्र्याश्वयुजीति सप्त पाकसंस्था अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यन्याग्रयणेष्टिर्निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्थाः अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोलशी वाजपेयोऽतिरात्र आप्तोर्याम इति सप्त सोमयज्ञसंस्था इत्येते चत्वारिंशत्संस्कारा अष्टावात्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो माङ्गल्यमकार्पण्यमस्पृहेति यस्यैते चत्वारिंशत्संस्कारा अष्टावात्मगुणाश्च स ब्रह्मणः सायुज्यं प्राप्नोतीति गौतमस्मृतौ दर्शितः | नियमेनेन्द्रियप्राणमनोनियमनेन || ३१ || दुष्कृते क्षयमापन्ने परमार्थविचारणे | काकतालीययोगेन बुद्धिर्जन्तोः प्रवर्तते || ३२ || काकागमनमिव तालपतनमिव संपन्नेन योगेन साधनसमूहमेलनेन | समासाच्च तद्विषयात् इत्युपमानविषयात्समासादुपमानान्तरे छः | तथाच ब्रह्मजिज्ञासाप्रयोजकविचारोदय एव दुर्लभ इति भावः || ३२ || प्. ९८) क्रिअयापरास्तावदलं चक्रावर्तिभिरावृताः | भ्रमन्तीह जना यावन्न पश्यन्ति परं पदम् || ३३ || तत्कुतः | यावत्परं पदं न पश्यन्ति तावच्चक्रभिवावर्तयन्ति भ्रामयन्ति पुरुषं तच्छीलै रागादिभिरावृताः सन्तः सर्वेऽप्यैहिकामुष्मिकभोगसाधनक्रियापरा एवेह संसारे भ्रमन्ति | अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः | दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनेव नीयमाना यथान्धाः इत्यादिश्रुतेरिति भावः || ३३ || यथाभूतमिदं दृष्ट्वा संसारं तन्मयीं धियम् | परित्यज्य परं यान्ति निरालाना गजा इव || ३४ ||
SKयथाभूतं यथास्थितं परमार्थभूतमित्यर्थः | इदं नित्यापरोक्षं ब्रह्मतत्त्वं परं च तदेव | यद्वा | इदं दृश्यजातं यथाभूतं परमार्थतः असदसारं दुःखभूतं विवेकबुद्ध्या दृष्ट्वेत्यर्थः | परं ब्रह्म यान्ति ज्ञानेन प्राप्नुवन्ति | आलानं बन्धनस्तम्भस्तस्मान्निर्गताः || ३४ || विषमेयमनन्तेह राम संसारसंसृतिः | देहयुक्तो महाजन्तुर्विना ज्ञानं न पश्यति || ३५ || देहेन तादात्म्याध्यासाद्युक्त एकीभूत इव मिलितः | अत एव महानपि जन्तुः कृमिकीटादिप्रायः || ३५ || ज्ञानयुक्तिप्लवेनैव संसाराब्धिं सुदुस्तरम् | महाधियः समुत्तीर्णा निमेषेण रधूद्वह || ३६ || महाधियो विवेकिनः || ३६ || तामिमां ज्ञानयुक्तिं त्वं संसाराम्भोधितारिणीम् | शृणुष्वावहितो बुद्ध्या नित्यावहितया तया || ३७ || नित्यमवहितया विचाराभ्यासपरया | तया विवेकवैराग्यादिसंपत्त्या प्रसिद्धया बुद्ध्या | अवहित एकाग्रः सन् || ३७ || यस्मादनन्तसंरम्भा जागत्यो दुःखभीतयः | चिरायान्तर्दहन्त्येता विना युक्तिमनिन्दिताम् || ३८ || संरम्भो विक्षेपवेगः | वाचो वेगं मनसः क्रोधवेगं जिह्वावेगमुदरोपस्थवेगम् इत्यादिप्रसिद्धः || ३८ || शीतवातातपादीनि द्वन्द्वदुःखानि राघव | ज्ञानशक्तिं विना केन सह्यतां यान्ति साधुषु || ३९ || आपतन्ति प्रतिपदं यथाकालं दहन्ति च | दुःख्चिन्ता नरं मूढं तृणमग्निशिखा इव || ४० || प्राज्ञं विज्ञातविज्ञेयं सम्यगदर्शनमाधयः | न दहन्ति वनं वर्षासिक्तमग्निशिखा इव || ४१ || विज्ञातानि विज्ञेयानि विचार्य ज्ञातुं योग्यान्यध्यात्मशास्त्राणि येन अत एव सम्यगदर्शनं ब्रह्म तत्त्वसाक्षात्कारो यस्य तम् | आधयो मानसव्यथाः || ४१ || आधिव्याधिपरावर्ते संसारमरुमारुते | क्षुभितेऽपि न तत्त्वज्ञो भज्यते कल्पवृक्षवत् || ४२ || आधिव्याधय एव परा उत्कृष्टा आवर्ताश्चक्रवाता यस्मिन्संसाररूपे मरुदेशप्रसिद्धे मारुते क्षुभिते संचलितेऽपि भज्यते आमर्द्यते पीड्यते इत्यर्थः || ४२ ||
SKतत्त्वं ज्ञातुमतो यत्नाद्धीमानेव हि धीमता | प्रामाणिकः प्रबुद्धात्मा प्रष्टव्यः प्रणयान्वितम् || ४३ || यत्नादुपगमनप्रणिपातसेवादिप्रयत्नात् | प्रामाणिकः श्रुत्यादिप्रमाणकुशलः || ४३ || प्रामाणिकस्य पृष्टस्य वक्तुरुत्तमचेतसः | यतेन वचनं ग्राह्यमंशुकेनेव कुङ्कुमम् || ४४ || यथा कुङ्कुमद्रवे रञ्जनाय निमज्जितेनांशुकेन वस्त्रेण कुङ्कुमं तद्भावानुरञ्जनेनानपायि गृह्यते तद्वद्ग्राह्यम् || ४४ || अतत्त्वज्ञमनादेयवचनं वाग्विदां वर | यः पृच्छति नरं तस्मान्नास्ति मूढतरोऽपरः || ४५ || तदर्थं वकृत्प्रच्छकलक्षणं विवक्षुरपरीक्षकं निन्दति - अतत्त्वज्ञमिति | न आदेयं ग्राह्यं वचनं यस्य || ४५ || प्रामाणिकस्य तज्ज्ञस्य वक्तुः पृष्टस्य यत्नतः | नानुतिष्ठति यो वाक्यं नान्यस्तस्मान्नराधमः || ४६ || अज्ञतातज्ज्ञते पूर्वं वक्तुर्निर्णीय कार्यतः | यः करोति नरः प्रश्नं प्रच्छकः स महामतिः || ४७ || कार्यतो व्यवहारलिङ्गतः || ४७ || अनिर्णीय प्रवक्तारं बालः प्रश्नं करोति यः | अधमः प्रच्छकः स स्यान्न महार्थस्य भाजनम् || ४८ || परीक्षणेन प्रकृष्टवक्तारमनिर्णीय | बालो मूर्खः || ४८ || पूर्वापरसमाधानक्षमबुद्धावनिन्दिते | पृष्टं प्राज्ञेन वक्तव्यं नाधमे पशुधर्मिणि || ४९ || पूर्वापरयोरुक्तानुक्तयोः समाधाने विविच्यावधारणे क्षमा समर्था बुद्धिर्यस्य || ४९ || प्रामाणिकार्थयोग्यत्वं प्रच्छकस्याविचार्य च | यो वक्ति तमिह प्राज्ञाः प्राहुर्मूढतरं नरम् || ५० || एवमपरीक्ष्य वक्तारमपि निन्दति - प्रामाणिकेति || ५० || त्वमतीव गुणश्लाघी प्रच्छको रघुनन्दन | अहं च वक्तुं जानामि समो योगोऽयमावयोः || ५१ || वक्तृप्रच्छकलक्षणोक्तेः प्रकृतोपयोगं दर्शयति - त्वमिति || ५१ || यदहं वच्मि तद्यत्नात्त्वया शब्दार्थकोविद | एतद्वस्त्विति निर्णीय हृदि कार्यमखण्डितम् || ५२ || महानसि विरक्तोऽसि तत्त्वज्ञोऽसि जनस्थितौ | त्वयि चोक्तं लगत्यन्तः कुङ्कुमाम्बु यथांशुके || ५३ ||
SKकुलेन गुणैः सदाचारादिभिश्च महान् || ५३ || उक्तावधानपरमा परमार्थविवेचिनी | विशत्यर्थं तव प्रज्ञा जलमध्यमिवार्कभाः || ५४ || मेधाप्रतिभाशालिनीत्वं विशेषणद्वयेन लभ्यते | अर्कभाः सूर्यप्रभा || ५४ || यद्यद्वच्मि तदादेयं हृदि कार्यं प्रयत्नतः | नोचेत्प्रष्टव्य एवाहं न त्वयेह निरर्थकम् || ५५ || आदरदृढीकरणायाह - यद्यदिति | प्रयत्नतश्चिराभ्यासादिप्रयत्नेन || ५५ || मनो हि चपलं राम संसारवनमर्कटम् | संशोध्य हृदि यत्नेन श्रोतव्या परमार्थगीः || ५६ || प्रयत्नान्तरमप्याह - मन इति || ५६ || प्. ९९) अविवेकिनमज्ञानमसज्जनरतिं जनम् | चिरं दूरतरे कृत्वा पूजनीया हि साधवः || ५७ || तत्र प्रथमोपदेष्टव्यार्थमाह - अविवेकिनमिति | न विद्यते ज्ञानं शास्त्रोत्थं यस्य तम् | दूरतरे अतिदूरे || ५७ || नित्यं सज्जनसंपर्काद्विवेक उपजायते | विवेकपादपस्यैव भोगमोक्षौ फले स्मृतौ || ५८ || तत्फलमाह - नित्यमिति || ५८ || मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः | शमो विचारः संतोषश्चतुर्थः साधुसंगमः || ५९ || एते सेव्याः प्रयत्नेन चत्वारौ द्वौ त्रयोऽथवा | द्वारमुद्धाटयन्त्येते मोक्षराजगृहे तथा || ६० || अशक्तौ त्रयस्तदशक्तौ द्वौ वा || ६० || एकं वा सर्वयत्नेन प्राणांस्त्यक्त्वा समाश्रयेत् | एकस्मिन्वशगे यान्ति चत्वारोऽपि वशं यतः || ६१ || प्राणांस्त्यक्त्वेत्यादरणीयत्वातिशयोक्तिः || ६१ || सविवेको हि शास्त्रस्य ज्ञानस्य तपमः श्रुतेः | भाजनं भूषणाकारो भास्करस्तेजसामिव || ६२ || विवेकेन सहितः सविवेकः पुरुषः शास्त्रस्य श्रुतेः श्रवणस्य तपसस्तदर्थालोचनस्य च भाजनं योग्यः | भूषणाकारः शिरोभूषणमिव श्रैष्ठ्येनादरणीयः [श्रेष्ठो इति पाठः] | तेजसां मध्ये भास्कर इव || ६२ || घनतामुपयातं हि प्रज्ञामान्द्यमचेतसाम् | याति स्थावरतामम्बु जाड्यात्पाषाणतामिव || ६३ ||
SKप्रज्ञामान्द्यं मौर्ख्यम् | घनतामभेद्यताम् | स्थावरतामद्रवतां काठिन्यमिति यावत् | जाड्याच्छीतातिशयात् | प्रसिद्धं हीदं हिमकरकादौ || ६३ || त्वं तु राघव सौजन्यगुणशास्त्रार्थदृष्टिभिः | विकासितान्तःकरणः स्थितः पद्म इवोदये || ६४ || उन्मुखीकरणाय पुना रामं प्रशंसति - त्वं त्विति || ६४ || इमां ज्ञानगिरं श्रोतुमवबोद्धुं च सन्मते | अर्हस्युद्धतकर्णस्त्वं जन्तुर्वीणास्वनं यथा || ६५ || अवबोद्धुं मन्तुम् | उद्धतौ ऊर्ध्वीकृतौ कर्णौ येन तथाविधो जन्तुर्भृगादिरिव || ६५ || वैराग्याभ्यासयोगेन समसौजन्यसंपदाम् [शमसौजन्य] | अर्जनां कुरुतां राम यत्र नाशो न विद्यते || ६६ || सुजनानां धर्मः सौजन्यं विनयादि तद्रूपाणां संपदाम् || ६६ || शास्त्रसज्जनसंसर्गपूर्वकैः सतपोदमैः | आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत् || ६७ || प्रज्ञां विवेकग्रहणधारणपटीयसीं बुद्धिं || ६७ || एतदेवास्य मौर्ख्यस्य परमं विद्धि नाशनम् | यदिदं प्रेक्ष्यते शास्त्रं किंचित्संस्कृतया धिया || ६८ || तद्वृद्धावप्येतद्ग्रन्थपरिशीलनमेवोपाय इत्यभिप्रेत्याह - एतदिति || ६८ || संसारविषवृक्षोऽयमेकमास्पदमापदाम् | अज्ञं संमोहयेन्नित्यं मौर्ख्यं यत्नेन नाशयेत् || ६९ || आस्पदं प्रतिष्ठा | यतः संमोहयेत्तस्मादिति शेषः | मौर्ख्यमज्ञानम् || ६९ || दुराशासर्पगत्येन मौर्ख्येण हृदि वल्गता | चेतः संकोचमायाति चर्माग्नाविव योजितम् || ७० || दुराशया सर्पगतिं कुटिलगतिं वहतीति सर्पगत्येन हृदि हृद्गतेन [हृद्गते प्रतीचि इति पाठः] प्रतीचि वल्गता विक्षेपसहस्रात्मना चलता | चेतो बुद्धिश्चिदात्मा वा | संकोचं संकुचितपद्मवदप्रसन्नताम् | मालिन्यमिति यावत् || ७० || प्राज्ञे यथार्थभूतेयं वस्तुदृष्टिः प्रसीदति | दृगिवेन्दौ निरम्भोदे सकलामलमण्डले || ७१ ||
SKक्व तर्हि प्रसीदति तमाह - प्राज्ञे इति | इयं प्रागुक्ता वस्तु परमार्थरूपं दृश्यते यया सा वस्तुदृष्टिः सूक्ष्मबुद्धिः | दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः इति श्रुतेः | यथार्थभूता यथार्थवस्त्वैकरस्यमापन्ना | अथवा वस्तुभूता दृष्टिश्चिदात्मा प्राज्ञे उपदेष्टरि सति प्रसीदत्यज्ञानमालिन्यमपास्य स्फुरति || ७१ || पूर्वापरविचारार्थचारुचातुर्यशालिनी | सविकाल्सा मतिर्यस्य स पुमानिह कथ्यते || ७२ || मतिविकासलक्षणमाचक्षाणस्तद्वन्तं प्रशंसति - पूर्वेति | पूर्वपरविचारेण सूक्ष्मतमार्थग्रहणपटीयसी चातुर्येण च शोभमाना मतिः सविकासेत्यर्थः | पुमान् पुरुषार्थसंपादनेन सार्थकीकृतपुंजन्मेत्यर्थः || ७२ || विकसितेन सितेन तमोमुचा वरविचारणशीतलरोचिषा | गुणवता हृदयेन विराजसे त्वममलेन नभः शशिना यथा || ७३ || स्वमतिस्तर्हि सविकासा न वेति संदिहानं राममाश्वासयन्नाह - विकसितेनेति | तमोऽज्ञानं मुञ्चता अत एव सितेन स्वच्छेन गुणवता शान्त्यादिगुणशालिना हृदयेन प्रागुक्तबुद्ध्या त्वं विराजसे || ७३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे वक्तृप्रच्छकलक्षणं नामैकादशः सर्गः || ११ || इति श्रीवासिष्ठमहारामायणतार्पर्यप्रकाशेमुमुक्षुव्यवहारप्रकरणे वक्तृप्रच्छकलक्षणं नामैकदशः सर्गः || ११ || द्वादशः सर्गः १२ श्रीवसिष्ठ उवाच || परिपूर्णमना मान्यः प्रष्टुं जानासि राघव | वेत्सि चोक्तं च तेनाहं प्रवृत्तो वक्तुमादरात् || १ || अनर्थता भवगतेर्ज्ञानमाहात्म्यमुत्तमम् | रामे च प्रच्छकगुणसमृद्धिरिह वर्ण्यते || १ ||
SKअन्येषामपि विवेकवैराग्यदार्ढ्याय संसारगतेरनर्थरूपतां ज्ञानमाहात्म्यं च विवक्षुस्तत्प्ररोचनाय न केवलं त्वयि सविकासा बुद्धिरेव अपित्वन्येऽपि बहवो गुणाः प्रच्छकलक्षणं च समग्रमस्तीति प्रशंसनेन रामं प्रोत्साहयन् श्रीवसिष्ठ उवाच - परिपूर्णमना इति | उक्तवक्ष्यमाणैर्गुणैः परिपूर्णं मनो यस्य | उक्तं च सामान्योक्तिसूचितमपि वेत्सि विशिष्यावधारयसि || १ || प्. १००) रजस्तमोभ्यां रहितां शुद्धसत्त्वानुपातिनीम् | मतिमात्मनि संस्थाप्य ज्ञानं श्रोतुं स्थिरो भव || २ || रजसा मतेश्चापलं स्यात्तमसा त्वावरणमतस्तद्रहितामत एव शुद्धसत्त्वगुणे परमात्मनि चानुपातिनीम् | आत्मनि संस्थाप्य स्वस्थीकृत्य | स्थिर उद्युक्तः || २ || विद्यते त्वयि सर्वैव प्रच्छकस्य गुणावली | वक्तुर्गुणाश्चैव [गुणावली च मयि इति मुद्रितपुस्तके पाठः] मयि रत्नश्रीर्जलधौ यथा || ३ || रत्नानां श्रीः संपत् रत्नसहिता श्रीर्लक्ष्मीश्च || ३ || आप्तवानसि वैराग्यं विवेकासङ्गजं सुत | चन्द्रकान्त इवार्द्रत्वं लग्नचन्द्रकरोत्करः || ४ || शिष्यांश्च पुत्रवत्पश्येत् इति न्यायात्सुतेति संबोधनम् | आर्द्रत्वं सद्रवताम् | लग्नश्चन्द्रकराणामुतकरो यस्मिन् || ४ || चिरमाशैशवादेव तवाभ्यासोऽस्ति सद्गुणैः | शुद्धैः शुद्धस्य दीर्घैश्च पद्मस्येवातिसंततैः || ५ || अभ्यासः परिशीलनम् | संबन्ध इति यावत् | शुद्धस्य तव | दीर्घैः सर्वदिक्प्रसृतैः | संततैरविच्छिन्नैः | पद्मपक्षे गुणैस्तन्तुभिः सौरभ्यादिभिश्च || ५ || अतः शृणु कथां वक्ष्ये त्वमेवास्या हि भाजनम् | न हि चन्द्रं विना शुद्धा सविकासा कुमुद्वती || ६ || भाजनं श्रवणफलप्रबोधाधारः | शुद्धा शुभ्रा | सविकासा चन्द्रकृतप्रबोधाधारः | यथा चन्द्र एव कुमुद्वती सविकासा तथेयं कथा त्वय्येव सविकासेति वार्थः || ६ || ये केचन समारम्भा याश्च काश्चन दृष्टयः | ते च ताश्च पदे दृष्टे निःशेषं यान्ति वै शमम् || ७ ||
SKनन्वस्य कथाश्रवणसमारम्भस्य कोऽवधिरिति चेत्परमपददर्शनविश्रान्तिरेवेत्यभिप्रेत्याह - ये केचनेति | ते सर्वे समारम्भास्ताः सर्वाः प्रमाणप्रमेयदृष्टयः | नन्विह पुमान्त्रिया इत्येकशेषेण भाव्यम् न हि द्वन्द्व इवैकशेषो वैकल्पिक इति चेत्सत्यम् |तथापि महाभाष्याद्यभियुक्तप्रयोगेष्वेकशेषवृत्तेः स्वपदविग्रहवाक्यप्रयोगदर्शनाददोषः || ७ || यदि विज्ञानविश्रान्तिर्न भवेद्भव्यचेतसः | तदस्यां संसृतौ साधुश्चिन्तामौढ्यं सहेत कः || ८ || उक्तविश्रान्तावनाश्वासं वारयति - यदीति | साधुर्विवेकी कः सहेत | तदसहनात्त्वरितं [त्वमिह देह इति पाठः] देहत्यागोद्युक्तः स्यादिति भावः || ८ || परं प्राप्य विलीयन्ते सर्वा मननवृत्तयः | कल्पान्तार्कगणासङ्गात्कुलशैलशिला इव || ९ || न केवलं बाह्यदृष्टय एव विलीयन्तेऽपि तु मानसा [मानस्योऽपीति पाठः] अपीत्याह - परमिति | तथाच श्रुतिः - भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशया | क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इति | दृष्टान्तपक्षे हिरण्यगर्भस्यायुरन्तम् || ९ || दुःसहा राम संसारविषावेशविषूचिका | योगगारुडमन्त्रेण पावनेन प्रशाम्यति || १० || लोके विषसंबन्धादपि विषूचिका प्रसिद्धा | योगो जीवस्य ब्रह्मैक्यबोधः स एव गारुडमन्त्रस्तेन | पावनेन विषशोधनेन || १० || स च योगः सज्जनेन सह शास्त्रविचारणात् | परमार्थज्ञानमन्त्रो नूनं लभ्यत एव च || ११ || सज्जनेन गुरुसतीर्थ्यादिना सह | चकारात्फलति च || ११ || अवश्यमिह हि विचारे कृते सकलदुःखपरिक्षयो भवतीति मन्तव्यं नातो विचारदृष्टयोऽवहेलया द्रष्टव्याः || १२ || पद्योक्तमर्थं गद्यैः प्रपञ्चयति - अवश्यमित्यादिना | इहास्मिन्नधिकारिजन्मनि अवश्यं भवतीत्यन्वयः | अवहेलया अनादरेण न द्रष्टव्याः || १२ ||
SKविचारवता [विचारवशतः इति पाठः] पुरुषेण सकलमिदमाधिपञ्जरं [मायिपञ्जरं इति पाठः] सर्पेण त्वचमिव परिपक्वां संत्यज्य विगतज्वरेण शीतलान्तःकरणेन विनोदादिन्द्रजालमिव जगदखिलमालोक्यते सम्यग्दर्शनवता असम्यगदर्शनवतो हि परं दुःखमिदम् || १३ || विचारवता सम्यग्दर्शनवता अत एव शीतलान्तःकरणेन पुरुषेण | वशतः इति पाठे तु विचारस्य वशोऽपरोक्षबोधस्ततः | सर्पेण परिपक्वां जीर्णां त्वचमिव सर्वमाधिपञ्जरं संत्यज्याखिलमिदं जगदिन्द्रजालमिव कौतुकं सुखरूपमवलोक्यते | परमित्यवधारणे निपातः | परमुत्कृष्टं दुःखमिति वा || १३ || विषमो ह्यतितरां संसाररागो [संसारोरग इति पाठः] भोगीव दशति असिरिव च्छिनत्ति कुन्त इव वेधयति रज्जुरिवावेष्टयति पावक इएव दहति रात्रिरिवान्धयति अशङ्कितपरिपतितपुरुषान्पाषाण इव विवशीकरोति हरति प्रज्ञां नाशयति स्थितिं पातयति मोहान्धकूपे तृष्णा जर्जरीकरोति न तदस्ति किंचिद्दुःखं संसारी यन्न प्राप्नोति || १४ || प्रतिज्ञातं वैषम्यमेव दृष्टान्तैः प्रपञ्चयति - भोगीवेत्यादिना | मोहान्धकूपे इत्यन्ते सर्वत्र संसाररागस्यैव [रोगस्यैव इति पाठः] कर्तृत्वेनान्वयः | विवशीकरोतीत्यन्ते सर्वत्र अशङ्कितपरिपतितपुरुषानित्यस्य कर्मतयान्वयः | अशङ्कितमनाशङ्कितमनर्थशङ्कां विनैव मोहाद्विषयेषु परिपतितान्पुरुषानिति तदर्थः | शिरसि पतितः पाषाण इव विवशीकरोति मूर्च्छयति | प्रज्ञां विवेकदृष्टिम् | स्थितिं मर्यादाम् | पातयति पुरुषानित्यनुषज्जते | मोहलक्षणे अन्धकार युक्तकूपे | अन्धकूपो नरकविशेषो वा | जर्जरीकरोत्यभिषवेण सोममिव शिथिलीकरोति पुरुषानित्येव | किं बहुनेत्येकोक्त्याप्याह - न तदस्तीति || १४ || प्. १०१) दुरन्तेयं किल विषयविषूचिका यदि न चिकित्स्यते तन्नितरां नरकनगरनिकरफलानुबन्धिनी तत्तत्करोति || १५ ||
SKनरकाणां मलमूत्रादीनां नगराणीव शरीराणि तेषां निकरः स्वस्वजनपोष्यवर्गादिसमूहस्तत्रानुरागेण पुरुषमनुबध्नाति [मूलानुरोधेनैतट्टीकायोजनं विचारणीयम्] तच्छीला विषयलक्षणा विषूचिका यदि न चिकित्स्यते तत्तर्हि नितरां तत्तद्वक्ष्यमाणं नरकदुर्दशासहस्रं करोति || १५ || यत्र शिलाशितासिशातः पात उपलताडनमग्निदाहो हिमावसेकोऽङ्गावकर्तनं चन्दनचर्चातरुवनानि घुणवृत्तान्तःपरिवेषोऽङ्गपरिमार्जनमनवरतानलविचलितसमरनार् आचनिपातो निदाघविनोदनं धारागृहसीकरवर्षणं शिरश्छेदः सुखनिद्रामूकीकरणमाननमुद्राबान्धुर्यं महानुपचयः || १६ ||
SKयत्र शिलाशिता पाषाणभक्षकता | असिभिः शातः खण्डनम् | पातः पर्वताग्रेभ्यः पातनम् | उपलघनैस्ताडनम् | अग्निना दाहः | हिमेनावसेकः सदा आर्द्रता | अङ्गानामकर्तनं छेदनं कुठाकर्तर्यादिभिः | चन्दनकाष्ठस्येव चर्चा घर्षणं शिलाफलकेषु | असिपत्रतरूणां वनानि तेषु धावनमिति यावत् | घुणाः काष्ठान्तःकीटकास्तेषामिव वृत्तान्तः सर्वाङ्गे काष्ठयन्त्रनिपीडनम् | परिवेषस्तप्तायःकटकशृङ्खलाभिः परितो वेष्टनम् | अङ्गानां कण्टकमार्जनीभिः परिमार्जनं निस्त्वचनमिति यावत् | अनवरतमनलविचलितान्यग्निज्वालानिःसरणानि येभ्यस्तथाविधानां समरनाराचानां युद्धप्रक्षिप्तबाणानां धारावदविच्छेदेन निपतनं निपातः | निदाघस्य ग्रीष्मकालस्य विनोदोऽतिवाहनम् | विनैव च्छायापानीयाभ्यामिति शेषः | तथा शिशिरे धारागृहेषु सीकरवर्षणम् | शिरसंच्छिन्नप्ररूढस्य पुनःपुनश्छेदः | सुखनिद्राविषये तु मूकीकरणं वार्तापि नास्तीत्यर्थः | आननस्य मुद्रा पिधानेन निरुच्छ्वासत्वापादनम् | बान्धुर्यं निम्नोन्नतभावोऽङ्गानाम् | विसंष्ठुलत्वाद्व्यवहाराक्षमतेति यावत् | पर्वतवन्महानुपचयो देहस्यैकैकाङ्गस्य वेत्यर्थः | अथवा यत्र शिलाशितादिचतुष्टयं हिमावसेकवत्सोढव्यम् | अङ्गावकर्तनं चन्दनलेपवत् | तरुवनादित्रयमङ्गपरिमार्जनवद्देहसंस्कारवत् | विशिष्टशरधारानिपातस्तु निदाघविनोदनार्थधारागृहसीकरवर्षणवत् | शिरश्छेदप्रयुक्तं मरणं सुखनिद्रावत् | मुखपिधानेन बलान्मूकीकरणं च सहजवृत्त्या आननमुद्रावत् बान्धुर्य च महासंपदुपचयवदवश्यं सोढव्यमित्यर्थः || १६ || तदेवंविधकष्टचेष्टासहस्रदारुणे संसारचलयन्त्रेऽस्मिन् राघव नावहेलना कर्तव्या अवश्यमेवं विचारणीयमेवं चावबोद्धव्यं यथा किल शास्त्रविचाराच्छ्रेयो भवतीति || १७ ||
SKदुःखस्थानानामानन्त्याद्दिक्प्रदर्शनमात्रं ह्येतदिति प्रदर्श्योपसंहरंस्तद्वर्णनस्य प्रकृतोपयोगमाह - तदेवमिति | चलैर्नश्वरैर्देहैर्यन्त्रणं यन्त्रं संकोचः परिच्छेदः पारवश्यं च तस्मिन् | एवं वक्ष्यमाणरीत्या | तमेवाह - यथेति || १७ || अन्यच्च रघुकुलेन्दो यदि चैते महामुनयो महर्षयश्च विप्राश्च राजानश्च ज्ञानकवचेनावगुण्ठितशरीरास्ते कथमदुःखक्षमा अपि दुःखकरीं तां तां वृत्तिपूर्विकां संसारकदर्थनामनुभवन्तः सततमेव मुदितमनसस्तिष्ठन्ति || १८ || ननु कथं शास्त्रविचाराच्छ्रेयो भवतीति निश्चयस्तत्पराणामपि माण्डव्यादीनां दुर्दशासहस्रदर्शनादित्याशङ्कां परिहरन्विद्याया दृष्टफलतां दर्शयति-अन्यच्चेति | ज्ञानकवचेनावगुण्ठितशरीरा अत एवादुःखार्हा अप्येते पूर्वोक्तमुन्यादयोऽज्ञवन्मनोवृत्तिपूर्विकां दुःखकरीं तां तां संसारकदर्थंनामनुभवन्तस्तिष्ठन्तीति यदि मन्यसे तर्हि ते कथं सततमेव मुदितमनसस्तिष्ठन्तीत्येवमन्वयः | मुनयो ध्यानपराः | ऋषयो मन्त्रजपपराः | विप्राः कर्मपराः | राजानो जनकादयः || १८ || इह हि | विकौतुका विगतविकल्पविप्लवा यथा स्थिता हरिहरपद्मजादयः | नरोत्तमाः समधिगतात्मदीपका- स्तथा स्थिता जगति विशुद्धबुद्धयः || १९ || इह हीत्यस्य देहलीदीपन्यायेन पूर्वत्रोत्तरश्लोके चान्वयः | तर्हि कीदृशी तेषां स्थितिस्तामाह - विकौतुका इति | अपूर्वविषयदर्शनोपभोगोत्साहः कौतुकं तद्रहिताः | विकल्पैर्विप्लवो विक्षेपस्तद्रहिताः || १९ || परिक्षीणे मोहे विगलति [विगलितघने इति पाठः] घने ज्ञानजलदे परिज्ञाते तत्त्वे समधिगत आत्मन्यतितते | विचार्यार्यैः सार्धं चलितवपुषो वै सदृशतो धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् || २० ||
SKयदि ब्रह्मादिदेववदेते पूर्णकामास्तर्हि कथं तेषां संसारेष्वटनदर्शनमित्याशङ्कां परिहरन् विचारादेर्जीवन्मुक्तिविहरणफलतां दर्शयति - परिक्षीणे इति | आर्यैर्गुर्वादिभिः सार्धं विचार्य पदार्थपरिशोधने सदृशतस्तादात्म्याध्यासप्रसक्तात्मसादृश्याच्चलितान्यनात्मभावेन निरस्तानि वपूंषि स्थूलादिशरीराणि येन तस्याधिकारिणः प्रथमं वाक्यात्तत्त्वे परिज्ञाते मननेन च अतितते अपरिच्छिन्ने आत्मनि सम्यगसंभावनानिरासेनाधिगते | धिया निदिध्यासननिरस्तविपरीतभावनया बुद्ध्या च तस्य भावस्तत्त्वं ब्रह्मभावस्तस्मिन्दृष्टे साक्षात्कृते सति मोहे परिक्षीणे तत्कार्यनिबिडभ्रान्तिज्ञानमेधे च विगलति सतीदं जागतमटनं भ्रमणं रमणं क्रीडनमेव न पीडनमित्यर्थः || २० || प्. १०२) अन्यच्च राघव | प्रसन्ने चित्तत्त्वे हृदि शमभवे वल्गति परे शमाभोगीभूतास्वखिलकलनादृष्टिषु पुरः | समं याति स्वान्तःकरणघटनास्वादितरसं धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् || २१ || रमणत्वमेवोपपादयति - प्रसन्ने इति | चित्तत्त्वे चैतन्यमात्रस्वभावे परमार्थवस्तुनि प्रसन्ने सति परे उत्कृष्टे शमभवे शान्त्याविर्भावे वल्गति प्राप्ते अखिलकलनादृष्टिषु समस्तबुद्धिवृत्तिषु शमाभोगीभूतासु शान्तिरसास्वादरूपासु सतीषु [प्रतीतिषु इति पाठः] स्वान्तःकरणघटना आस्वादितब्रह्मरसं यथा स्यात्तथा समं वैषम्यशून्यस्वभावं याति गच्छति | अतो युक्तं रमणत्वमित्यर्थः || २१ || अन्यच्च | रथः स्थाणुर्देहस्तुरगरचना चेन्द्रियगतिः परिस्पन्दो वातो वहनकलितानन्दविषयः | परोऽणुर्वा देही जगति विहरामीत्यनघया धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् || २२ ||
SKआत्मानं रथिनं विद्धि शरीरं रथमेव तु इत्यादिरूपकदृष्ट्या वा रमणमुपपन्नमित्याह - रथ इति | स्थाणुश्छिन्नतरुरिवाचेतनो देहो रथः इन्द्रियाणां विषयाभिमुखी गतिस्तुरगाणां रचनागतिचातुरी परितः स्पन्दश्चालनं येन स प्रग्रहो वातः प्राणप्रधानं मनः अर्थाद्रथादिभिर्वहनेन प्रापणेन कलिताः प्राप्ता आनन्दरूपा विषया येन तथाविधो देही आत्मा समाधौ परः परमात्मैव व्यवहारकाले बुद्ध्युपाधिपरिच्छेदादणुः सूक्ष्मो वा रथीति शेषः | एवंभूतोऽहं जगति विहरामीति धियापि रमणमेवेत्यर्थः || २२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे तत्त्वमाहात्म्यवर्णनं नाम द्वादशः सर्गः || १२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे तत्त्वमाहात्म्यवर्णनं नाम द्वादशः सर्गः || १२ || त्रयोदशः सर्गः १३ || श्रीवसिष्ठ उवाच | एतां दृष्टिमवष्टभ्य दृष्टात्मानः सुबुद्धयः | विचरन्तीह संसारे महान्तोऽभ्युदिता इव || १ || वर्णिता इह बाहुल्याद्वैराग्यादिगुणोदयाः | जीवन्मुक्तिफलोन्नद्धा विशेषेण शमः पुनः || १ || वैराग्यशान्त्यादिसाधनानि वर्णयिष्यन्प्रस्तुतां जीवन्मुक्ति स्थितिमेव वर्णयति - एतामिति | अभ्युदिताः साम्राज्याभ्युदयं प्राप्ता इव || १ || न शोचन्ति न वाञ्छन्ति न याचन्ते शुभाशुभम् | सर्वमेव च कुर्वन्ति न कुर्वन्तीह किंचन || २ || यतः शुभाशुभमुपादातुं हातुं वा न वाञ्छन्ति अत एव तत्साधनानि न याचन्ते || २ || स्वच्छमेवावतिष्ठन्ते स्वच्छं कुर्वन्ति यान्ति हि | हेयोपादेयतापक्षरहिताः स्वात्मनि स्थिताः || ३ || असङ्गात्मदर्शनात्स्वच्छं निर्लेपम् | कुर्वन्ति शास्त्रीयम् | गच्छन्ति लौकिकसन्मार्गम् || ३ || आयान्ति च न चायान्ति प्रयान्ति च न यान्ति च | कुर्वन्त्यपि न कुर्वन्ति न वदन्ति वदन्ति च || ४ || आयान्ति प्रयान्त्यन्यदृशा | स्वदृशा तु न | सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव समना अमना इव इत्यादिश्रुतेरिति भावः || ४ ||
SKये केचन समारम्भा याश्च काश्चन दृष्टयः | हेयोपादेयतस्तास्ताः क्षीयन्तेऽधिगते पदे || ५ || क्षीयन्ते प्रयोजकद्वेषरागयोः [प्रयोजकदोषगुणयोः इति पाठः] क्षयात्तद्विषयसत्यताबुद्धिक्षयाच्चेति भावः || ५ || परित्यक्तसमस्तेहं मनोमधुरवृत्तिमत् | सर्वतः सुखमभ्येति चन्द्रबिम्ब इव स्थितम् || ६ || ईहा इच्छा चेष्टा च मधुरवृत्तिः शान्तिर्ब्रह्माकारता च | सुखं कर्तृ | मनः कर्म | चन्द्रबिम्बे स्थितं स्वर्गिणमिव मनः कर्तृ चन्द्रबिम्बे स्थितमिवेत्युत्प्रेक्षा वा || ६ || अपि निर्मननारम्भमव्यस्ताखिलकौतुकम् | आत्मन्येव न मात्यन्तरिन्दाविव रसायनम् || ७ || विषयमननकौतुकयोरेव विक्षेपहेतुत्वात्तदभावे निर्विक्षेपं सुखमित्यनुषज्जयते | सुखात्मतापन्नं मन इत्यर्थः | न माति न परिच्छिद्यते | इन्दौ पूर्णचन्द्रे | रसायनममृतम् || ७ || न करोतीन्द्रजालानि नानुधावति वासनाम् | बालचापलमुत्सृज्य पूर्वमेव विराजते || ८ || इन्द्रजालानि मायिकविक्षेपान् | वासनां तद्धेतुम् | बालानामिव भ्रान्तिप्रसक्तं चापलमुत्सृज्य पूर्वमनादिसिद्धमात्मसुखमेव विराजते || ८ || एवंविधा हि वृत्तय आत्मतत्त्वावलोकनाल्लभ्यन्ते नान्यथा || ९ || प्रयोजनप्रपञ्चनस्य प्रस्तुतोपयोगं पुनर्गद्येनोपसंहरति - एवमिति | वृत्तयः स्थितयः || ९ || तस्माद्विचारेणात्मैवान्वेष्टव्य उपासनीयो ज्ञातव्यो यावज्जीवं पुरुषेण नेतरदिति || १० || अन्वेषणं श्रवणमननाभ्यासः | उपासनं निदिध्यासनम् || १० || स्वानुभूतेश्च शास्त्रस्य गुरोश्चैवैकवाक्यता | यस्याभ्यासेन तेनात्मा सन्ततेनावलोक्यते || ११ || एकवाक्यता एकार्थनिष्ठता निश्चयः यस्याधिकारिणः श्रवणादेरभ्यासेन || ११ || अवहेलितशास्त्रार्थैरवज्ञातमहाजनैः | कष्टामप्यापदं प्राप्तो न मूढैः समतामियात् || १२ || अवहेलितौ शास्त्रतदर्थौ यैः | अवज्ञाता उपेक्षिता महान्तः पूज्या जनास्तत्त्वज्ञा यैः || १२ || प्. १०३)
SKन व्याधिर्न विषं नापत्तथा नाधिश्च भूतले | खेदाय स्वशरीरस्थं मौर्ख्यमेकं यथा नृणाम् || १३ || किंचित्संस्कृतबुद्धीनां श्रुतं शास्त्रमिदं यथा | मौर्ख्यापहं तथा शास्त्रमन्यदस्ति न किंचन || १४ || दुरधिगमानि शास्त्राणि कथं मौर्ख्यनिवृत्तिः स्यात्तत्राह - किंचिदिति | ईषद्व्युत्पन्नानामपीत्यर्थः || १४ || इदं श्राव्यं सुखकरं यथा दृष्टान्तसुन्दरम् | अविरुद्धमशेषेण शास्त्रं वाक्यार्थबन्धुना || १५ || यथोचितैर्दृष्टान्तैः | वाक्यार्थः परमात्मा बन्धुः प्रियतमोऽवश्यं लब्धुमिष्टो यस्य तेन | श्राव्यमवश्यं श्रोतव्यम् || १५ || आपदो या दुरुत्तारा याश्च तुच्छाः कुयोनयः | तास्ता मौर्ख्यात्प्रसूयन्ते खदिरादिव कण्टकाः || १६ || तुच्छा अधमाः || १६ || वरं शरावहस्तस्य चाण्डालागारवीथिषु | भिक्षार्थमटनं राम न मौर्ख्यहतजीवितम् || १७ || सर्वदुर्दशाहेत्वपेक्षया एकैका दुर्दशापि वरमित्याह द्वाभ्याम् || १७ || वरं घोरान्धकूपेषु कोटरेष्वेव भूरुहाम् | अन्धकीटत्वमेकान्ते न मौर्ख्यमतिदुःखदम् || १८ || कोटरेष्वेव वा || १८ || इममालोकमासाद्य मोक्षोपायमयं जनः | अन्धतामेति न पुनः कश्चिन्मोहतमस्यपि || १९ || मोहो मूर्च्छा मृत्युद्वारं तल्लक्षणेऽपि तमसि नान्धतामेति किमन्यत्रेत्यर्थः || १९ || तावन्नयति संकोचं तृष्णा वै मानवाम्बुजम् | यावद्विवेकसूर्यस्य नोदिता विमला प्रभा || २० || ननु तृष्णात्यागे उपायं न पश्यामस्तत्राह - तावदिति | मानवमेवाम्बुजं पद्मम् || २० || संसारदुःखमोक्षार्थं [मोक्षोर्थमीदृशैः इति पाठः] मादृशैः सह बन्धुभिः | स्वरूपमात्मनो ज्ञात्वा गुरुशास्त्रप्रमाणतः || २१ || ज्ञात्वा विहरेत्युत्तरेणान्वयः || २१ || जीवन्मुक्ताश्चरन्तीह यथा हरिहरादयः | यथा ब्रह्मर्षयश्चान्ये तथा विहर राघव || २२ || अनन्तानीह दुःखानि सुखं तृणलवोपमम् | नातः सुखेषु बध्नीयाद्दृष्टिं दुःखानुबन्धिषु || २३ || दृष्टिमास्थाम् || २३ ||
SKयदनन्तमनायासं तत्पदं सारसिद्धये | साधनीयं प्रयत्नेन पुरुषेण विजानता || २४ || तदात्मतत्त्वं पद्यते प्राप्यते येन तज्ज्ञानं तत्पदं परमपुरुषार्थसिद्धये साधनीयम् || २४ || त एव पुरुषार्थस्य भाजनं पुरुषोत्तमाः | अनुत्तमपदालम्बि मनो येषां गतज्वरम् || २५ || न विद्यते उत्तममुत्कृष्टतममन्यद्यस्मात्तथाविधं पदं वस्तु तदालम्बि || २५ || संभोगाशनमात्रेण राज्यादिषु सुखेषु ये | संतुष्टा दुष्टमनसो विद्धि तानन्धदर्दुरान् || २६ || दर्दुरान्भेकान् | स हि कूपस्थो न बहिः पश्यति तत्राप्यन्धश्चेत्सुतरामिति भावः || २६ || ये शठेषु दुरन्तेषु दुष्कृतारम्भशालिषु | द्विपत्सु मित्ररूपेषु भक्ता वै भोगभोगिषु || २७ || शठेषु वच्चकेषु दुरन्तेषु दुरुच्छेदेषु प्रबलेष्विति यावत् | भक्ताः सक्ता ये ते यान्तीत्युत्तरेणान्वयः || २७ || ते यान्ति दुर्गमादुर्गं दुःखादुःखं भयाद्भयम् | नरकान्नरकं मूढा मोहमन्थरबुद्धयः || २८ || दुर्गमात्संकटात् | मन्थरबुद्धयो मन्दबुद्धयः || २८ || परस्परविनाशोक्तेः श्रेयःस्थो न कदाचन | सुखदुःखदशे राम तडित्प्रसरभङ्गुरे [तडित्प्रासरभङ्गुरे इति पाठः] || २९ || सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् | घटीयन्त्रवदश्रान्तं भ्रमन्याति पुनः पुनः || इत्यादिवाक्यैः सुखदुःखदशयोः परस्परविनाशोक्तेरयं कदापि श्रेयसि तिष्ठतीति श्रेयःस्थो विश्रान्तिभाङ्ग भवति | प्रत्यक्षतोऽपि तयोर्भङ्गुरता प्रसिद्धेत्याह - सुखदुःखेति || २९ || ये विरक्ता महात्मानः सुविविक्ता भवादृशाः | पुरुषान्विद्धि तान्वन्द्यान्भोगमोक्षैकभाजनान् || ३० || सुविविक्ताः सम्यग्विवेकिनः || ३० || विवेकं परमाश्रित्य वैराग्याभ्यासयोगतः | संसारसरितं घोराभिमामापदमुत्तरेत् || ३१ || संसारसरिद्रूपामिमामापदम् || ३१ || न स्वप्तव्यं च संसारमायास्विह विजानत | विषमूर्च्छनसंमोहदायिनीषु विवेकिना || ३२ ||
SKविषवन्मूर्च्छनेन समुच्छ्रवेण संमोहं कश्मलं दातुं शीलं यासां तासु संसाराख्यमायासु मिध्यावञ्चनोपायेषु || ३२ || संसारभिममासाद्य यस्तिष्ठत्यवहेलया | ज्वलितस्य गृहस्योच्चैः शेते तार्णस्य संस्तरे || ३३ || तार्णस्य तृणविकारय | राहोः शिर इतिवत्संस्तराद्भेदकल्पनया षष्ठी || ३३ || यत्प्राप्य न निवर्तन्ते यदासाद्य न शोचति | तत्पदं शेमुषीलभ्यमस्त्येवात्र न संशयः || ३४ || ननु संसारात्परमन्यन्नास्त्येव तत्र किमवलम्ब्य संसारे क्षरति कार्येस्याशंक्याह - यदिति | शेमुषीलभ्यं ज्ञानमात्रेण प्राप्तुं शक्यमस्त्येव | न नास्ति | तदसत्त्वे जगदान्ध्यप्रसङ्गादात्मापलापायोगाच्चेति भावः | तथाचोक्तं पुराणेषु - असत्यस्मिन्नगन्नाथे अन्धीभूतमिदं भवेत् | सूर्येणेव विहीनत्वान्निरालोकं जगद्यथा || इति श्रुतिश्च असन्नेव स भवति असद्ब्रह्मेति वेद चेत् | अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः इति || ३४ || नास्ति चेत्तद्विचारेण दोषः को भवतां भवेत् | अस्ति चेत्तत्समुत्तीर्णा भविष्यथ भवार्णवात् || ३५ || संदिग्धे परलोकेऽपि वरं श्रुतिपथाश्रयः | यदि न स्यात्तदा किं स्याद्यै स्यान्नास्तिको हतः || इति न्यायेन संदिहानं प्रत्यप्याह - नास्ति चेदिति | संदेहेऽपि महाफलस्योपेक्षानर्हत्वाचेति भावः || ३५ || प्. १०४) प्रवृत्तिः पुरुषस्येह मोक्षोपायविचारणे | यदा भवत्याशु तदा मोक्षभागी स उच्यते || ३६ || तर्हि कथं न सर्वे प्रवर्तन्त इत्याशङ्क्य यावन्नानुग्रहः साक्षाज्जायते परमेशितुः | तावन्न सद्गुरुं कश्चित्सच्छास्त्रं वापि विन्दति || इति वचनादीश्वरानुग्रहलभ्यमोक्षभागिताशालिन इव मोक्षसाधने प्रवृत्तिर्न सर्वेषामित्याह - प्रवृत्तिरिति | प्रवृत्तिफलं लिङ्गानुमेयं मोक्षभागित्वमिति भावः || ३६ || अनपायि निराशङ्कं स्वास्थ्यं विगतविभ्रमम् | न विना केवलीभावाद्विद्यते भुवनत्रये || ३७ ||
SKननु देहेन्द्रियविषयशून्यकेवलीभावहेतुना किमनेन शास्त्रेण सत्स्वेव देहादिषूपायान्तरेणापि स्वर्गादिसुखस्य संभवादित्याशङ्क्याह - अनपायीति | स्वर्गादि अपायपतनाशङ्काऽस्वास्थ्यादिग्रस्तमेवेति केवलीभाव एव पुरुषार्थ इति भावः || ३७ || तत्प्राप्तावुत्तमप्राप्तौ न क्लेश उपजायते | न धनान्युपकुर्वन्ति न मित्राणि न बान्धवाः || ३८ || तदिति योग्यत्वाद्व्यवहितविचारप्रवृत्तिपरामर्शः | तस्याः प्राप्तौ सत्यामुत्तमस्य कैवल्यस्य प्राप्तौ क्लेशो नोपजायते | ननु धनादिभिरेव केवलीभावोऽस्तु किं विचारेण तत्राह - नेति || ३८ || न हस्तपादचलनं न देशान्तरसंगमः | न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयाः || ३९ || हस्तपादचलनं कायिकनमस्कारादौ | देशान्तरसंगमो यात्रादौ | उपवासादौ कायक्लेशेन बलोत्साहनिद्रादिवैधुर्यम् | तीर्थायतनानि क्षेत्राणि तत्र निवासाः || ३९ || पुरुषार्थैकसाध्येन वासनैकार्थकर्मणा | केवलं तन्मनोमात्रजयेनासाद्यते पदम् || ४० || केन तर्हि तत्प्राप्यते तत्राह - पुरुषार्थेति | पुरुषार्थः श्रवणमनननिदिध्यासनपौरुषं तदेकसाध्येन | द्वैतवासनाविरोधिब्रह्माकारदृढवासनाया एकार्थेन तुल्यविषयेण कर्मणा साध्येन साक्षात्कारेणेत्यर्थः | मनोमात्रस्य द्वैतस्य मूलोच्छेदलक्षणेन जयेन | यथाहुः - एवं निरन्तरकृता ब्रह्मैवास्मीति वासना | हरत्यविद्याविक्षेपान् रोगानिव रसायनम् || इति || ४० || विवेकमात्रसाध्यं तद्विचारैकान्तनिश्चयम् | त्यजता दुःखजालानि नरेणैतदवाप्यते || ४१ || विवेको देहेन्द्रियादेरात्मनः पृथक्करणम् | विचारश्च श्रवणमनननिदिध्यासनैरसंभावनादिनिरासः एकान्त ऐकाग्र्यं च ताभ्यां निश्चेतुं शक्यम् | दुःखजालानि विषयान् || ४१ || सुखसेव्यासनस्थेन तद्विचारयता स्वयम् | न शोच्यते पदं प्राप्य न स भूयो हि जायते || ४२ || स प्राप्तपदः || ४२ || तत्समस्तसुखासारसीमान्तं साधवो विदुः | तदनुत्तमनिष्पन्दं परमाहू रसायनम् || ४३ ||
SKसंसारे सारत्वेन प्रसिद्धसुखानामुत्कर्षे इतरेषामसाराणां सत्तस्फूर्त्योः सीमान्तं परमावधिम् | सुखस्य आसाराणां मेघस्थानीयमवधिमिति वा | एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति सा काष्ठा सा परा गतिः इत्यादिश्रुतेरिति भावः | अनुत्तमा निष्पन्दा आनन्दरसाविर्भावा ध्यानिनां यस्मात् || ४३ || क्षयित्वात्सर्वभावानां स्वर्गमानुष्ययोर्द्वयोः | सुखं नास्त्येव सलिलं मृततृष्णास्विवैतयोः || ४४ || अतो मनोजयश्चिन्त्यः शमसंतोषसाधनः | अनन्तसमसंयोगस्तस्मादानन्द आप्यते || ४५ || अनन्ते समः संयोग ऐकरस्यलक्षणः || ४५ || तिष्ठता गच्छता चैव पतता भ्रमता तथा | रक्षसा दानवेनापि देवेन पुरुषेण वा || ४६ || शारीरपरिश्रमो मनुष्याधिकारनियमश्च नास्तीत्याह - तिष्ठतेत्यादिना || ४६ || मनः प्रशमनोद्भूतं तत्प्राप्यं परमं सुखम् | विकासिशमपुष्पस्य विवेकोच्चतरोः फलम् || ४७ || विकासी शमः पुष्पं यस्य उच्चस्योत्कृष्टस्य तरोः कल्पवृक्षस्य फलं परं सुखम् || ४७ || व्यवहारपरेणापि कार्यवृन्दमविन्दता | भानुनेवाम्बरस्थेन नोज्झ्यते न च वाञ्छयते || ४८ || ननु तत्प्राप्तमपि पुनर्व्यवहारप्रसक्तावपैष्यतीत्याशङ्क्याह - व्यवहारेति | नोज्झ्यते नोत्सृज्यते पूर्णत्वेनाहेयत्वादत एव न वाञ्छयते || ४८ || मनःप्रशान्तमत्यच्छं विश्रान्तं विगतभ्रमम् | अनीहं विगताभीष्टं नाभिवाञ्छति नोज्झति || ४९ || सति मनसि कथं न वाञ्छा स्यात्तत्राह - मन इति || ४९ || मोक्षद्वारे द्वारपालानिमाञ्छृणु यथाक्रमम् | येषामेकतमासक्त्या मोक्षद्वारं प्रविश्यते || ५० || प्रागनुक्रान्तानपि [एकादशसर्गे मोक्षद्वारे द्वारपाला इत्यादिना] विस्तरेण वर्ण्यमानाच्छृणु || ५० || सुखदोषदशादीर्घा संसारमरुमण्डली | जन्तोः शीतलतामेति शीररश्मेः समप्रभा || ५१ ||
SKतत्रासर्गसमाप्तेः शमं प्रस्तोतुमुपक्रमते - सुखेति | सुखशब्देन तदाशा लक्ष्यते | सैवाध्वगस्य तृषातापसमा दोषदशा तया दीर्घा दुरतिक्रमा शीतलतामेति शमेनेत्यपकृष्यते | समप्रभा प्रभासमा | पदव्यत्यासश्छान्दसः | यथा चन्द्रस्य स्वीया प्रभा तद्वत् | शीतरश्मिसमप्रभेति पाठे स्पष्टम् || ५१ || शमेनासाद्यते श्रेयः शमो हि परमं पदम् | शमः शिवः शमः शान्तिः शमो भ्रान्तिनिवारणम् || ५२ || हि यस्माच्छमेन श्रेय आसाद्यते अत आयुर्घृतमितिवदमेदोपचारात्तत्परमं पदं तद्विष्णोः परमं पदम् इति श्रुतिप्रसिद्धं [प्रसिद्धः इति पाठः] शम एव | एवं न सन्न चासञ्छिव एव केवलः इति श्रुतिप्रसिद्धः शिवोऽपि शम एव | एवं तरति शोकमात्मवित् इत्यादिश्रुतिसिद्धा सर्वदुःखोपशान्तिरपि शम एवेत्यर्थः || ५२ || पुंसः प्रशमतृप्तस्य शीतलाच्छतरात्मनः | शमभूषितचित्तस्य शत्रुरप्येति मित्रताम् || ५३ || रागद्वेषाद्यतापितत्वाच्छीतलो निर्मोहत्वादच्छतरश्च आत्मा विज्ञानात्मा यस्य || ५३ || प्. १०५) शमचन्द्रमसा येषामाशयः समलंकृतं | क्षीरोदानामिवोदेति तेषां परमशुद्धता || ५४ || आशयश्चित्तम् | ज्ञाqनलब्धा स्वाभाविकशुद्धता शमेन द्विगुणीभवन्तीवाभिवर्धत इव | यथा क्षीरोदानां शुभ्रता चन्द्रोदयेनेत्यर्थः || ५४ || हृत्कुशेशयकोशेषु येषां शमकुशेशयम् | सतां विकसितं ते हि द्विहृत्पद्माः समा हरेः || ५५ || कुशेशयं पद्मम् | हरेः समा हरिणा तुल्याः | हरेर्हृत्पद्मस्यैव बहिर्ब्रह्मासनपद्मतया द्वैधीभावादिति भावः || ५५ || शमश्रीः शोभते येषां मुखेन्दावकलङ्किते | ते कुलीनेन्दवो वन्द्याः सौन्दर्यविजितेन्द्रियाः || ५६ || कुलीनाः सत्कुलास्त एवेन्दवः स्वपरकुलोद्योतपापोपशमहेतुत्वात् | विजितेन्दव इति पाठे स्पष्टम् | पाठान्तरे तु सौन्दर्येण गुणैर्विजितानि वशीकृतानि परेषामपि चक्षुर्मनः प्रभृतीनीन्द्रियाणि यैः || ५६ ||
SKत्रैलोक्योदरवर्तिन्यो नानन्दाय तथा श्रियः | साम्राज्यसंपत्प्रतिमा यथा [यथाश्रम इति पाठः] शमविभूतयः || ५७ || साम्राज्यसंपत्प्रतिमेवाकारमात्रेण सदृशी यासां नतु गुणान्तरैरित्यर्थः || ५७ || यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः | तत्सर्वं शान्तचेतःसु तमोऽर्केष्विव नश्यति || ५८ || तत्सर्वमिति नपुंसकमनपुंसकेन इत्येकशेषैकवद्भावः || ५८ || मनो हि सर्वभूतानां प्रसादमधिगच्छति [मनुगच्छति इति पाठः] | न तथेन्दोर्यथा शान्ते जने जनितकौतुकम् || ५९ || इन्दोश्चन्द्रान्निमित्तभूतात् | विषयस्यापि निमित्तत्वविवक्षया पञ्चमी | जनितं कौतुकं स्वात्मानुभवचमत्कारो यस्मिंस्तथाभूतं सद्यथा प्रसादमधिगच्छतीति संबन्धः || ५९ || शमशालिनि सौहार्दवति सर्वेषु जन्तुषु | सुजने परमं तत्त्वं स्वयमेव प्रसीदति || ६० || स्वयमेवेत्यनायासोक्तिः || ६० || मातरीव परं यान्ति विषमाणि मृदूनि च | विश्वासमिह भूतानि सर्वाणि शमशालिनि || ६१ || विषमाणि क्रूरकुटिलाशयानि | मृदूनि तद्विपरीतानि || ६१ || न रसायनपानेन न लक्ष्म्यालिङ्गनेन च | तथा सुखमवाप्नोति शमेनान्तर्यथा मनः || ६२ || इन्द्रपदे अमृतरसायनपानेन | विष्णुपदे लक्ष्म्यालिङ्गनेन || ६२ || सर्वाधिव्याधिचलितं [व्याधिवलितं] क्रान्तं तृष्णावरत्रया | मनः शमामृतासेकैः समाश्वासय राघव || ६३ || चलितं भीषणेन कम्पितम् | वरत्रया चर्मरज्ज्वाक्रान्तमितस्तत आकृष्टम् | श्रान्तमिति यावत् || ६३ || यत्करोषि यदश्नासि शमशीतलया धिया | तत्रातिस्वदते स्वादु [साधु इति पाठः] नेतरत्तात मानसे || ६४ || स्वादु मधुरं यथा स्यात्तथा तत्र तत् मानसेऽतिस्वदते रोचते || ६४ || शमामृतरसाच्छन्नं मनो यामेति निर्वृतिम् | छिन्नान्यपि तयाङ्गानि मन्ये रोहन्ति राघव || ६५ || निर्वृतिं सुखम् | तया निर्वृत्या | रोहन्ति पुनः प्रादुर्भवन्ति | मन्ये इत्युत्प्रेक्षा || ६५ ||
SKन पिशाचा न रक्षांसि न दैत्या न च शत्रवः | न च व्याघ्रभुजङ्गा वा द्विषन्ति शमशालिनम् || ६६ || सुसंनद्धसमस्ताङ्गं प्रशमामृतवर्मणा | वेधयन्ति न दुःखानि शरा वज्रशिलामिव || ६७ || सुसंनद्धानि सम्यग्गुप्तानि समस्तान्यङ्गानि यस्य तम् | अमृतरूपेण वर्मणा कवचेन | वेधयन्ति पीडयन्ति | दुःखानि दुःखनिमित्तानि || ६७ || न तथा शोभते राजा अप्यन्तःपुरसंस्थितः | समया स्वच्छया बुद्ध्या यथोपशमशीलया || ६८ || यथा पुरुष इति शेषः || ६८ || प्राणात्प्रियतरं दृष्ट्वा तुष्टिमेति न वै जनः | यामायाति जनः शान्तिमवलोक्य शमाशयम् || ६९ || जनस्तां तुष्टिं नैतीत्यर्थः | शमयुक्तः आशयो यस्य तम् || ६९ || समया शमशालिन्या वृत्त्या यः साधु वर्तते | अभिनन्दितया लोके जीवतीह स नेतरः || ७० || जीवति सफलजीवनो भवति || ७० || अनुद्धतमनाः शान्तः साधुः कर्म करोति यत् | तत्सर्वमभिनन्दन्ति तस्येमा भूतजातयः || ७१ || अनुद्धतं विनीतं मनो यस्य साधुः [साधुसंमतः इति पाठः] शान्तो यत्प्रमादादपराधमपीति यावत् || ७१ || श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा [स्नात्वा इति पाठः] शुभाशुभम् | न हृष्यति ग्लायति यः स शान्त इति कथ्यते || ७२ || इदानीं दाम्भिकसात्त्विकपरीक्षणाय शान्तलक्षणान्याह - श्रुत्वेत्यादिना | शुभाशुभं प्रियाप्रियम् || ७२ || यः समः सर्वभूतेषु भावि काङ्क्षति नोज्झति | जित्वेन्द्रियाणि यत्नेन स शान्त इति कथ्यते || ७३ || भाविसुखादि न काङ्क्षति प्रारब्धप्रापितं च नोज्झति || ७३ || स्पृष्ट्वाऽवदातया बुद्ध्या यथैवान्तस्तथा बहिः | दृश्यन्ते यत्र कार्याणि स शान्त इति कथ्यते || ७४ || आर्जवमपि तल्लक्षणमित्याह - स्पृष्ट्वेति | स्पृष्ट्वा ज्ञात्वापि परकौटिल्यादीनीति शेषः | मोक्षोपायतया कर्तव्यानि कार्याणि || ७४ || तुषारकरबिम्बाभं मनो यस्य निराकुलम् | मरणोत्सवयुद्धेषु स शान्त इति कथ्यते || ७५ ||
SKमरणोत्सवयुद्धेषु भयरागक्रोधैर्निराकुलमसंतप्तमत एव तुषारकरश्चन्द्रस्तद्बिम्बाभम् || ७५ || स्थितोऽपि न स्थित इव न हृष्यति न कुप्यति | यः सुषुप्तसमः स्वस्थः स शान्त इति कथ्यते || ७६ || हर्षकोपनिमित्तवत्प्रदेशे स्थितोऽपि || ७६ || अमृतस्यन्दसुभगा यस्य सर्वजनं प्रति | दृष्टिः प्रसरति प्रीता स शान्त इति कथ्यते || ७७ || अमृतस्यन्दोऽमृतप्रवाह इव सुभगा सुखदा || ७७ || प्. १०६) योऽन्तः शीतलतां यातो यो भावेषु न मज्जति | व्यवहारी न संमूढः स शान्त इति कथ्यते || ७८ || भावेषु विषयेषु व्यवहारी सन्नपि न मज्जति नासज्जते || ७८ || अप्यापत्सु दुरन्तासु कल्पान्तेषु महत्स्वपि | तुच्छेऽहं न मनो यस्य स शान्त इति कथ्यते || ७९ || महत्सु चिरकालिकेषु | तुच्छे मिथ्याभूते नश्वरे देहादौ यस्याहमिति मनो नास्ति || ७९ || आकाशसदृशी यस्य पुंसः संव्यवहारिणः | कलङ्कमेति न मतिः स शान्त इति कथ्यते || ८० || परमाकाशेन ब्रह्मणा सदृशी समरसा प्रसिद्धाकाशवदविकार्या वा | कलङ्कं रागादिलेपम् || ८० || तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च | बलवत्सु गुणाढ्येषु शमवानेव राजते || ८१ || लोकेऽपि सर्वगुनश्रैष्ठ्येन शमः प्रसिद्ध इत्याह - तपस्विष्विति || ८१ || शमसंसक्तमनसां महतां गुणशालिनाम् | उदेति निर्वृतिश्चित्ताज्ज्योत्स्नेव सितरोचिषः || ८२ || सीमान्तो [सीमन्तः इति पाठः] गुणपूगानां पौरुषैकान्तभूषणम् | संकटेषु भयस्थाने शमः श्रीमान्विराजते || ८३ || गुणानां पूगानां समूहानां सीमान्तोऽवधिः | एकान्तभूषणं मुख्यभूषणम् | श्रीमान् सर्वगुणसंपत्तिमान् शमो विराजते || ८३ || शमममृतमहार्यमार्यगुप्तं परमवलम्ब्य परं पदं प्रयाताः | रघुतनय यथा महानुभावाः क्रममनुपालय सिद्धये तमेव || ८४ ||
SKअहार्यं परैरपहर्तुमशक्यमार्यैः पूज्यैर्गुप्तं सावधानतया रक्षितं परमुत्कृष्टं साधनमवलम्ब्य महानुभावा यथा येन क्रमेण परं पदं प्रयाताः प्राप्तास्तमेव क्रममनुपालय अवलम्ब्य रक्षस्वेत्यर्थः || ८४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे शमनिरूपणं नाम त्रयोदशः सर्गः || १३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे शमनिरूपणं नाम त्रयोदशः सर्गः || १३ || चतुर्दशः सर्गः १४ श्रीवसिष्ठ उवाच | शास्त्रावबोधामलया धिया परमपूतया | कर्तव्यः कारणज्ञेन विचारोऽनिशमात्मनः || १ || साधुसंगमसच्छास्त्रभावशुद्ध्युपबृंहितः | शमसंतोषयोर्हेतुर्विचारोऽत्र प्रशस्यते || १ ||
SKइत्थं मोक्षद्वारपालं शमाख्यमाद्यमुपवर्ण्य द्वितीयं विचारं वर्णयिष्यन् वसिष्ठ उवाच - शास्त्रेति | तत्रार्थानर्थानुबन्धविचारः सारासारविचारो हेयोपादेयविचारः प्रमाणतात्पर्यविचारः आत्मतत्त्वपरीक्षा चेति विचारः पञ्चविधः | तत्र स्वाभाविकप्रवृत्तेर्विषयाणां चानर्थानुबन्धिता शास्त्रीयप्रवृत्तेर्वैराग्यादेश्च पुरुषार्थानुबन्धितेत्यन्वयव्यतिरेकादिना परीक्षात्मक आद्यः | स्त्रीपुत्रस्वदेहादिषु स्वतो बीजतः परिणामतश्चाशुचिविण्मूत्राद्यमङ्गलत्वपरीक्षात्मा ब्रह्मलोकान्तसुखानामनित्यत्वदुःखसंभिन्नत्वादिपरीक्षात्मा च द्वितीयः | एतौ वैराग्यमुमुक्षाहेतू | मुमुक्षोत्तरमपि मोक्षसाधनं कर्म वोपासनमेव वा ते अपि किं समुच्चिते उत ज्ञानसमुच्चिते उत ज्ञानमेवेति परीक्षात्मा तृतीयः | यदापि ज्ञानमेव तदापि तत्किं सांख्यवैशेषिकाद्यभिमतं कपिलगौतमोक्ततत्तछास्त्रप्रमाणकं श्रौतमेव वा यदापि श्रौतं तदापि किं श्रुतीनां द्वैते उताद्वैते सविशेषे उत निर्विशेषे आत्मन्यनात्मनि वा तात्पर्यमिति परीक्षात्मा चतुर्थः | स च श्रवणमित्युच्यते | श्रुत्यादिप्रमाणानामप्यद्वितीये सच्चिदानन्दब्रह्मात्मनि तात्पर्यावधारणेऽपि स्वात्मनि परमार्थतस्तथात्वं संभवति न वेति रत्नपरीक्षान्यायेनानुभवनिष्ठगुरुसतीर्थ्यादिसंवादेन जीवेश्वरजगत्तत्त्वपरिशोधनेन च यावदवधारणं परीक्षणात्मा पञ्चमः | तत्राद्यानां त्रयाणां फलं साधनचतुष्टयसंपत्तिः अन्त्ययोस्तु क्रमात्प्रमाणप्रमेयासंभावनानिवृत्तिः | तत्राद्या यद्यपि भाग्यवशतः स्वतोऽपि च भवन्ति तथापि स्वप्रत्ययदृढीकाराय पुनर्गुरुशास्त्रपुरःसरं कर्तव्याः | अन्त्यौ तु गुरुशास्त्राभ्यामेव भवत इति सर्वसाधारण्येन शास्त्रावबोधामलया धियेत्युक्तम् | कारणज्ञेन विषयविशयपूर्वपक्षसिद्धान्तप्रयोजनविभागज्ञानवता [विशयः = संशयः] पुंसा प्रमाणप्रमेयतत्त्वप्रतिपादनोपायकुशलेन गुरुणा सहेति वार्थः | तत्र चित्तशुद्धेरप्युपयोगं दर्शयति - परमपूतयेति || १ ||
SKविचारात्तीक्ष्णतामेत्य धीः पश्यति परं पदम् | दीर्घसंसाररोगस्य विचारो हि महौषधम् || २ || तीक्षणतां सूक्षतत्त्वावगाहनकुशलताम् || २ || आपद्वनमनन्तेहापरिपल्लविताकृति | विचारक्रकचच्छिन्नं नैव भूयः प्ररोहति || ३ || आपदेव दुरुत्तरत्वाद्वनम् | अनन्ताभिरीहाभिः प्रवृत्तिभिः परितः पल्लवितेव रागादिभिर्विवृद्धा आकृतिः संनिवेशो यस्य | क्रकचं काष्ठदारणम् || ३ || मोहेन बन्धुनाशेषु संकटेषु शमेषु [भ्रमेषु च इति पाठः] च | सर्वं व्याप्तं महाप्राज्ञ विचारो हि सतां गतिः || ४ || बन्धुनाशादिषु दुःखस्थानेषु यदुचितं कर्तव्यं येन चोपायेन दुःखोत्तरणं चित्तसमाधानं च तत्सर्वं मोहेन वैचित्त्येन व्याप्तं न स्फुरतीति यावत् | तत्र विचार एव गतिस्तत्प्रसंधाने हेतुरित्यर्थः || ४ || प्. १०७) न विचारं विना कश्चिदुपायोऽस्ति विपश्चिताम् | विचारादशुभं त्यक्त्वा शुभमायाति धीः सताम् || ५ || तदेवाह - नेति || ५ || बलं बुद्धिश्च तेजश्च प्रतिपत्तिः क्रियाफलम् | फलन्त्येतानि सर्वाणि विचारेणैव धीमताम् || ६ || तेजः सामर्थ्यम् | प्रतिपत्तिस्तत्तत्कालोचिता स्फूर्तिः | क्रिया तदनुष्ठानं तत्फलं च | फलन्ति निष्पद्यन्ते सफलीभवन्ति वा || ६ || युक्तायुक्तमहादीपमभिवाञ्छितसाधकम् | स्फारं विचारमाश्रित्य संसारजलधिं तरेत् || ७ || युक्तमुचितमुपादेयमयुक्तमनुचितं हेयं तयोः प्रकाशने महादीपम् | स्फारमनल्पम् || ७ || आलूनहृदयाम्भोजान्महामोहमतङ्गजान् | विदारयति शुद्धात्मा विचारो नाम केसरी || ८ || आलूनानि हृदयस्थानि आलूनानि हृदयस्थानि विवेकाम्भोजानियैस्तान् | शुद्धात्मा जल्पच्छलजात्यादिदोषशून्यः || ८ || मूढाः कालवशेनेह यद्गताः परमं पदम् | तद्विचारप्रदीपस्य विजृम्भितमनुत्तमम् || ९ || मूढास्तरणोपायमार्गव्यामूढाः | विजृम्भितं तादृशमार्गप्रकाशनस्य फलम् || ९ || राज्यानि संपदः स्फारा भोगो मोक्षश्च शाश्वतः | विचारकल्पवृक्षस्य फलान्येतानि राघव || १० ||
SKया विवेकविकासिन्यो मतयो महतामिह | न ता विपदि मज्जन्ति तुम्बकानीव वारिणि || ११ || विवेकोऽत्र विचारस्तेन विकासिन्यो या मतयस्ता न मज्जन्ति न विषीदन्ति | तुम्बकानि शुष्कालाबुकानि || ११ || विचारोदयकारिण्या धिया व्यवहरन्ति ये | फलानामत्युदाराणां भाजनं हि भवन्ति ते || १२ || विचारवती धीर्विवेकोदयकारिणी तया ये व्यवहरन्ति | उदाराणां श्रेष्ठानाम् || १२ || मूर्खहृत्काननस्थानामाशाप्रथमरोधिनाम् | अविचारकरञ्जानां मञ्जर्यो दुःखरीतयः || १३ || मूर्खाणां हृन्मन एव काननं वनं तत्स्थानाम् | पुरुषार्थविषये आशां मुमुक्षां प्रथमं रुन्धन्ति तच्छीलानाम् | करञ्जानां कुबेराक्षवल्लीनाम् | तत्पक्षे आशा दिशः | ते हि वृतिभावेन दिशो रुन्धन्ति | मञ्जर्यः फलकोशमञ्जर्यो दुःखव्यवहाराडम्बरभूतास्ता हि सकण्टकाः कटुकफलगर्भाः प्रसिद्धाः || १३ || कज्जलक्षोदमलिना मदिरामदधर्मिणी | अविचारमयी निद्रा यातु ते राघव क्षयम् || १४ || क्षोदश्चूर्णमिव मलिना | मदिरामदधर्मा भ्रान्तिस्खलनादयस्तद्वती | क्षयं यातु विचारेणेति शेषः || १४ || महापदतिदीर्घेषु सद्विचारपरो नरः | न निमज्जति मोहेषु तेजोराशिस्तमः स्विव || १५ || महत्य आपदो येषु ते च ते अतिदीर्घाश्च तेषु | मोहेषु अज्ञानेषु | तेजोराशिः सूर्यः || १५ || मानसे सरसि स्वच्छे विचारकमलोत्करः | नूनं विकसितो यस्य हिमवानिव भाति सः || १६ || मानसं मन एव सरस्तदेव हिमवत्कुक्षौ प्रसिद्धं मानसं सरः | शैत्यौन्नत्यस्थैर्यादिगुणैर्हिमवानिव || १६ || विचारविकला यस्य मतिर्मान्द्यमुपेयुषः | तस्योदेत्यशनिश्चन्द्रान्मुधा यक्षः शिशोरिव || १७ || मान्द्यं मौर्ख्यम् | चन्द्रदैवत्ये चन्द्रवद्विवेकप्रकाशयोग्ये च मनसि चन्द्रिकासदृश ज्ञानसुखाविर्भाव एवोचितस्तस्माद्यस्य मूर्खस्य शोकदुःखाद्युद्भवस्तस्य चन्द्रादप्यशनिर्वज्रमुदेति | यथा शिशोर्बालस्य मौर्ख्याद्यक्षः प्रागुक्तवेताल उदेति तद्वत् || १७ ||
SKदुःखखण्डकमस्थूलं विपन्नवलतामधुः | राम दूरे परित्याज्यो निर्विवेको नराधमः || १८ || निर्विवेको नराधमो दुःखबीजानामेव निरन्तरभरणाय निर्मितं खण्डकं भूकुसुलम् | न विद्यते स्थूलं यस्मात्तथाविधम् | अतिस्थूलमित्यर्थः | विपल्लक्षणानां नवलतानां मधुर्वसन्त उल्लासहेतुरित्यर्थः || १८ || ये केचन दुरारम्भा दुराचारा दुराधयः | अविचारेण ते भान्ति वेतालास्तमसा यथा || १९ || दुरारम्भाः स्वपरदुःखानुकूलकर्माणि | दुराचारा निषिद्धाचरणानि | भान्ति आविर्भवन्ति || १९ || अविचारिणमेकान्तवनद्रुमसधर्मकम् | अक्षमं साधुकार्येषु दूरे कुरु रघूद्वह || २० || एकान्तेन नियमेन वनद्रुमसमानधर्माणम् | एकान्ते मनुष्यासेव्यस्थाने वा विद्यमानेन वनद्रुमेण सधर्माणम् | अत एव साधूनामध्वगानां छायाश्रयदानादिकार्येषु साधुषु पुरुषार्थोपयोगिषु कार्येषु वाऽक्षममसमर्थम् || २० || विविक्तं हि मनो जन्तोराशावैवश्यवर्जितम् | परां निर्वृतिमभ्येति पूर्णचन्द्र इवात्मनि || २१ || विविक्तं विचारवत् | आशाया वैवश्येन पारवश्येन वर्जितम् | निर्वृतिं विश्रान्तिसुखम् || २१ || विवेकितोदिता देहे सर्वं शीतलयत्यलम् | अलंकरोति चात्यन्तं ज्योत्स्नेव भुवनं यथा || २२ || ज्योत्स्ना चन्द्रिकेव | भुवनं जलं यथा तापार्तं सर्वं जनं शीतलयति तृषार्तं च अलं तृप्तं करोति तद्वत् || २२ || परमार्थपताकाया धियो धवलचामरम् | विचारो राजते जन्तो रजन्यामिव चन्द्रमाः || २३ || जन्तोरधिकारिजन्मवतः पुरुषस्य परमार्थस्योत्कृष्टपुरुषार्थलक्षणराजभावप्राप्तेः सूचकत्वात्पताकाया धियः शुद्धबुद्धेः संबन्धिविचारो धवलचामरमिवासाधारणं राजचिह्नं राजते | रूपितपताकाचामरयो रजनीचन्द्रमसावुपमाने | तत्र रजन्या वैयधिकरण्येनोपमानत्वम् || २३ || विचारचारवो जीवा भासयन्तो दिशो दश | भान्ति भास्करवन्नूनं भूयो भवभयापहाः || २४ ||
SKजीवा विचारेणैव क्रमाचारवो जीवन्मुक्तभूताः सन्तो भूयसां प्राणिनां विचारप्रकाशेन भवभयलक्षणं तमोऽपघ्नन्तो [तमोऽपहरन्तो इति पाठः] भास्करवद्भान्ति || २४ || प्. १०८) बालस्य स्वमनोमोहकल्पितः प्राणहारकः | रात्रौ नभसि वेतालो विचारेण विलीयते || २५ || ननु विचारेण भयनिवृत्तिः क्व दृष्टा तत्राह - बालस्येति | निशि बहिर्गमनप्रतिबन्धार्थं कल्पितो वेतालस्तथा संसारो विलीयते || २५ || सर्व एव जगद्भावा अविचारेण चारवः | अविद्यमानसद्भावा विचारविशरारवः || २६ || अस्तु तत्र तथा प्रकृते कथं भयनिवृत्तिरित्याशङ्क्य भयहेतोर्जगतो विचारेण मिथ्यात्वनिर्णयादित्याह - सर्व एवेति | चारवः सत्यवद्रमणीयाः | विशरारवः शिलास्फालितलोष्टादिवद्विशरणशीलाः | असारा मिथ्याभूता इति यावत् || २६ || पुंसो निजमनोमोहकल्पितोऽनल्पदुःखदः | संसारचिरवेतालो विचारेण विलीयते || २७ || उक्तमेव स्पष्टयति - पुंस इति || २७ || समं सुखं निराबाधमनन्तमनपाश्रयम् | विद्धीमं केवलीभावं विचारोच्चतरोः [विचारोऽस्य तरोः इति पाठः] फलम् || २८ || न भयनिवृत्तिरेव किंतु निरतिशयानन्दावाप्तिरपि तत्फलमित्याह - सममिति | समं जगद्वैषम्यशून्यम् | अनपाश्रयमनन्याधीनम् | केवलीभावं कैवल्यम् || २८ || अचलस्थितितोदारा प्रकटाभोगतेजसा | तेन निष्कामतोदेति शीततेवेन्दुनोदिता || २९ || तद्विच्छेदशङ्कां वारयति - अचलेति | तेन विचारेण प्रकटस्याभोगस्य निरतिशयानन्दस्य तेजसा सामर्थ्येन चाञ्चल्यहेत्वज्ञाने नष्टे अचलस्थितितया उदारा आनन्दपूर्णतालक्षणा निष्कामता उदेति || २९ || स्वविचारमहौषध्या साधुश्चित्तनिषण्णया | तयोत्तमत्वप्रदया नाभिवाञ्छति नोज्झति || ३० || अचलस्थितिरेवोत्तमत्वं तत्प्रदया पूर्वोक्तया विचारलक्षणया महौषध्या सिद्धः पुरुषो नाभिवाञ्छत्यप्राप्तं प्राप्तं च नोज्झति | कृतकृत्यो भवतीत्यर्थः || ३० ||
SKतत्पदालम्बनं चेतः स्फारमाभासमागतम् | नास्तमेति न चोदेति खमिवातिततान्तरम् [गतान्तरम् इति पाठः] || ३१ || ननु चित्तं यदि विचारजन्यज्ञानेन नश्येत्तर्हि जीवनासंभवः यदि न नश्येत्तर्हि पुनर्विक्षेपाञ्जनयेदेवेति कथं कृतकृत्यतेत्याशङ्क्याह - tadvadābhāsatāṃ gataṃ cittamapi khamākāśamivātitatamativistīrṇabrahmabhāvaṃ prāptamāntaraṃ vikṣepabījavāsanājālaṃ yasya | nāstaṃ vināśameti yena jīvanaṃ na syāt nāpi rāgadveṣādivṛttibhirudeti yena vikṣepaḥ syādityarthaḥ | yadvā cetaḥ ābhāsaṃ bharjitabījamiva nodeti yena vikṣepaḥ syāt | anādivāsanayā sphāratāṃ gataṃ dṛḍhaṃ viṣaya saṃskāravaśānna vināśameti || 31 || na dadāti na cādatte na connamati śāmyati | kevalaṃ sākṣivatpaśyañjagadābhogi tiṣṭhati || 32 || tatkutaḥ | yato jagadviṣayānayaṃ kevalaṃ sākṣivadaudāsīnyena paśyaṃsteṣu rāgitayā mano na dadāti satyatayā puruṣārthabuddhyā ca nādatte nopabhuṅkte || 32 || na ca śāmyati nāpyantarnāpi bāhye'vatiṣṭhati | na ca naiṣkarmyamādatte na ca karmaṇi majjati || 33 || na suṣuptāvivopādhiśāntyā śāmyati nāpi svapnavadāntaravāsanāmaye nimajjati na vā mūḍhajanajāgradvadbahye'vasannastiṣṭhati || 33 || upekṣate gataṃ vastu saṃprāptamanuvartate | na kṣubdho na ca vā'kṣubdho bhāti pūrṇa ivārṇavaḥ || 34 || arṇavapakṣe gataṃ lakṣmīkaustubhādivastu upekṣate na tatprāptyai yatate | kṣubdho maryādātyāgaparyantaṃ kṣobhavān | akṣubdhaḥ stimitaḥ | svābhāvikaṃ vyavahāraṃ tyajanniti yāvat | kṣobhādiphalābhāvasamuccayārthaścakāraḥ || 34 || evaṃ pūrṇena manasā mahātmāno mahāśayāḥ | jīvanmuktā jagatyasminviharantīha yoginaḥ || 35 || ihāsmiñśarīra evānubhūyamāno jīvabrahmaikyalakṣaṇo yogo yeṣāmasti te || 35 || uṣitvā suciraṃ kālaṃ dhīrāste yāvadīpsitam | te tamante parityajya yānti kevalatāṃ tatām || 36 || tamupādhyābhāsam | tatāmaparicchinnāṃ kevalatāṃ videhakaivalyam || 36 ||
SKकोऽहं कस्य च संसार इत्यापद्यपि धीमता | चिन्तनीयं प्रयत्नेन सप्रतीकारमात्मना || ३७ || आपद्यपि कुटुम्बादिव्यापृतायामपि | सप्रतीकारं तत्प्रतीकारश्रवणाद्यनुष्ठानसहितं यथा स्यात्तथा | आत्मना स्वेनैव || ३७ || कार्यसंकटसंदेहं राजा जानाति राघव | निष्फलं सफलं वापि विचारेणैव नान्यथा || ३८ || कार्योऽवश्यकर्तव्यः संकटेष्वर्थकृच्छ्रेषु संदिह्यत इति संदेहः संधिविग्रहादिस्तं जानाति निश्चिनोति || ३८ || वेदवेदान्तसिद्धान्तस्थितयः स्थितिकारणम् | निर्णीयन्ते विचारेण दीपेन च भुवो निशि || ३९ || वेदानां कर्मकाण्डानां वेदान्तानां च सिद्धान्तस्थितयो धर्मब्रह्मतत्त्वलक्षणास्तात्पर्यविश्रान्तिभूमयः स्थितेः पुरुषार्थप्रतिष्ठायाः कारणं प्रापिका इति यावत् | दीपेन चेति तुल्ययोरेव [तुल्ययोगे समुच्चयः इति पाठः] समुच्चय इत्यौत्सर्गिकनियमात्सादृश्यं गम्यते || ३९ || अनष्टमन्धकरेषु बहुतेजः [तेजस्सु जिह्मितं इति टीकाकारसम्मतः पाठः] स्वजिह्मितम् | पश्यत्यपि व्यवहितं विचारश्चारुलोचनम् || ४० || प्रसिद्धलोचनमन्धकारे नष्टमिव बहुतेजःसु सूर्यादिषु जिह्मितं प्रतिहतं व्यवहितविप्रकृष्टग्रहणेष्वसमर्थं च विचारलक्षणं लोचनं तु न तथेत्यर्थः || ४० || विवेकान्धो हि जात्यन्धः शोच्यः सर्वस्य दुर्मतिः | दिव्यचक्षुर्विवेकात्मा जयत्यखिलवस्तुषु || ४१ || विवेको विचार आत्मेव प्रियः प्रधानो वा यस्य स पुरुषो दिव्यचक्षुर्जयति अभिभवत्यापदो विनाशयति प्राप्नोति वा पुरुषार्थम् || ४१ || प्. १०९) परमात्ममयी मान्या महानन्दैकसाधिनी | क्षणमेकं परित्याज्या न विचारचमत्कृतिः || ४२ || विचारेष्वपि यः सारभूतस्तमाह - परमात्मेति | स्त्रीमयो जाल्मः इतिवदत्यासक्त्या तत्प्रायताद्योतनाय मयट् | क्षणं क्षणमपि | उदरमन्तरं कुरुते अथ तस्य भयं भवति इति श्रुतेः | सा हानिस्तन्महाछिद्रं सान्धता सा च मूकता | यत्क्षणं वा मुहूर्त वा शिवमेकं न चिन्तयेत् इति लैङ्गवचनाच्चेति भावः || ४२ ||
SKविचारचारुपुरुषो महतामपि रोचते | परिपक्वचमत्कारं सहकारफलं यथा || ४३ || महतां विदिततत्त्वानां किं पुनर्विविदिषूणामिति द्योतनार्थमपिशब्दः | परिपक्वः परिपाकनिष्पन्नश्चमत्कारो माधुर्यातिशयो यस्मिन् | सहकारस्याम्रस्य फलम् || ४३ || विचारकान्तमतयो नानेकेषु पुनः पुनः | लुठन्ति दुःखश्वभ्रेषु ज्ञाताध्वगतयो नराः || ४४ || विचारेणैव ज्ञाता अनुभवाध्वनि गतिर्यैः | समासोक्त्या लौकिकाध्वगवृत्तान्तोऽपि गम्यते || ४४ || नच रौति तथा रोगी नानर्थशतजर्जरः | अविचारविनष्टात्मा यथाऽज्ञः परिरोदिति || ४५ || विषशस्त्रधाताद्यनर्थशतैर्जर्जरः शिथिलाङ्गोऽपि तथा नच रौति यथा अविचारेण विनष्टो विनाशितप्राय आत्मा येन सोऽज्ञः परितो जन्मपरम्परासु रोदिति || ४५ || वरं कर्दममेकत्वं मलकीटकता वरम् | वरमन्धगुहाहित्वं न नरस्याविचारिता || ४६ || सर्वानर्थनिजावासं सर्वसाधुतिरस्कृतम् | सर्वदौस्थित्यसीमान्तमविचारं [१] परित्यजेत् || ४७ || नित्यं विचारयुक्तेन भवितव्यं महात्मना | तथान्धकूपे पततां विचारो ह्यवलम्बनम् || ४८ || तथाहि प्रसिद्धम् | अन्धयतीत्यन्धस्तथाविधः कूपो रागादिः फलाभेदेनोच्यते || ४८ || स्वयमेवात्मनात्मानमवष्टभ्य विचारतः | संसारमोहजलधेस्तारयेत्स्वमनोमृगम् || ४९ || अवष्टभ्य रागादिप्रवाहाकृष्टमपि बलात्स्थिरीकृत्य || ४९ || कोऽहं कथमयं दोषः संसाराख्य उपागतः | न्यायेनेति परामर्शो विचार इति कथ्यते || ५० || विचारस्वरूपमेव दर्शयति - कोऽहमिति | किं देहादिरेवाहमुत तद्विलक्षण इति त्वंपदार्थविचारः | संसारः कथं केन हेतुना अधिष्ठाने आगत इति तत्पदार्थविचारः | श्रुतिमुन्याचार्यसांप्रदायिकदर्शितेन न्यायेन || ५० || अन्धान्धमोहसुघनं चिरं दुःखाय केवलम् | कृतं शिलाया हृदयं दुर्मतेश्चाविचारिणः || ५१ ||
SKशिलाया दुर्मतेश्च हृदयं मन आन्तरावयवश्च | दुःखाय पीडायै | टङ्कच्छेदादिकष्टनिष्पाद्यत्वाद्दुष्टाय खाय च्छिद्रायैव च कृतं धात्रा | नान्यत्र तस्योपयोग इत्यर्थः | सादृश्यलाभः प्राग्वत् | यतस्तदन्धादचक्षुषोऽप्यन्धं मोहेन च सुघनमतिनिबिडम् | अन्धो ह्यदृष्ट्वा कूपे पतति मनस्तु दृष्ट्वापि मोहान्नरकेष्वपि पततीति | शिलाहृदयपक्षे अन्धादप्यन्धं जडत्वान्मोहादपि सुघनं कठोरत्वादित्यर्थः | अथवा यो दुर्मतिरविचारी च पुरुषस्तस्य हृदयं शिलायाः सकाशात् कृतमित्युत्प्रेक्षा | यतोऽन्धादन्धं मोहेन सुघनं च | अतस्तच्चिरं केवलं दुःखायैवेत्यर्थः || ५१ || भावाभावग्रहोत्सर्गदृशामिह हि राघव | न विचारादृते तत्त्वं ज्ञायते साधु किंचन || ५२ || भावः सत्यस्तस्य ग्रह उपादानं अभावोऽस्त्यस्तस्योत्सर्गस्त्यागस्तौ पश्यतां प्रेक्षावतामिह व्यवहारभूमौ साधु सम्यक् तत्त्वं विचारं विना न ज्ञायते || ५२ || विचाराज्ज्ञायते तत्त्वं तत्त्वाद्विश्रान्तिरात्मनि | अतो मनसि शान्तत्वं सर्वदुःखपरिक्षयः || ५३ || तत्त्वं वस्तुनो नित्यत्वं तत्त्वज्ञानाद्विश्रान्तिर्मनोनैश्चल्यम् | अतो विश्रान्तेः शान्तत्वमेव सर्वदुःखपरिक्षयः || ५३ || सफलतां फलते भुवि कर्मणां प्रकटतां किल गच्छति उत्तमाम् | स्फुटविचारदृशैव विचारिता शमवते भवते च विरोचताम् || ५४ || विस्तरोक्तं संक्षिप्योपसंहरति - सफलतामिति | यतः सर्वोपि जनः स्फुटविचारदृशैव लौकिकवैदिककर्मणां सफलतां फलते निष्पादयति आत्मतत्त्वस्य उत्तमां वक्ष्यमाणसप्तमभूमिकांतामुत्कृष्यमाणां प्रकटतां च गाच्छति प्राप्नोति | अतः शमादिसाधनसंपत्तिमते [२] भवते च तादृशी विचारिता रोचताम् | गच्छति उत्तमामित्यसंधिर्वाक्ये संहिताया अनित्यत्वात् || ५४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे विचारनिरूपणं नाम चतुर्दशः सर्गः || १४ ||
SKइति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे विचारनिरूपणं नाम चतुर्दशः सर्गः || १४ || पञ्चदशः सर्गः १५ श्रीवसिष्ठ उवाच | संतोषो हि परं श्रेयः संतोषः सुखमुच्यते | संतुष्टः परमभ्येति विश्राममरिसूदन || १ || वैराग्यकल्पवृक्षस्य च्छायेव सुखशीतलः | तृतीयो द्वारपालोऽत्र संतोष उपवर्ण्यते || १ || क्रमप्राप्तं तृतीयद्वारपालं संतोषं वर्णयति - संतोष इत्यादिना | वक्ष्यमाणलक्षणः सन्तोष एव परं श्रेयो मोक्षः सुखमितरदपि | आयुर्घृतमितिवत्साधने फलाभेदारोपेण स्तुतिः | विश्रममात्यन्तिकदुःखविक्षेपनिवृत्तिम् || १ || प्. ११०) संतोषैश्वर्यसुखिनां चिरविश्रान्तचेतसाम् | साम्राज्यमपि शान्तानां जरत्तृणलवायते || २ || संतोषलक्षणेनैश्वर्येण प्रभावेन सुखिनाम् | चिरं विश्रान्तमाश्वस्तं चेतो येषाम् | जरतो जीर्णस्य तृणस्य लवो लेशः स इवाचरति | तुच्छीभवतीत्यर्थः || २ || संतोषशालिनी बुद्धी राम संसारवृत्तिषु | विषमास्वप्यनुद्विग्ना न कदाचन हीयते || ३ || विषमासु दारिद्र्यवियोगादिवैषम्यवतीष्वपि संसारस्थितिषु दैवात्प्रसक्तासु संतोषशालिनी बुद्धिर्न हीयते | सुखेन न वियुज्यत इत्यर्थः || ३ || संतोषामृतपानेन ये शान्तास्तृप्तिमागताः | भोगश्रीरतुला तेषामेषा प्रतिविषायते || ४ || प्रतिकूलविषवदाचरति | तथा भातीत्यर्थः || ४ || न तथा सुखयन्त्येताः पीयूषरसवीचयः | यथातिमधुरास्वादः संतोषो दोषनाशनः || ५ || अतिमधुर आनन्दप्रचुर आस्वादोऽनुभवो यस्य | आशादैन्यादिदोषनाशनः || ५ || अप्राप्तवाञ्छामुत्सृज्य संप्राप्ते समतां गतः | अदृष्टखेदाखेदो यः स संतुष्ट इहोच्यते || ६ || संतोषमाश्रयलक्षणेन लक्षयति - अप्राप्तेति | प्राप्तेऽपि विषये मिथ्यात्वादप्राप्तसमतां तत्प्राप्तिनिमित्तहर्षादिराहित्येन पूर्वावस्थासमतां वा गतः | तत्र हेतुमाह - अदृष्टेति || ६ || आत्मनात्मनि संतोषं यावद्याति न मानसम् | उद्भवन्त्यापदस्तावल्लता इव मनोबिलात् || ७ ||
SKआत्मना स्वेनैव न निमित्तान्तरेण | आत्मन्येव न विषयान्तरे || ७ || संतोषशीतलं चेतः शुद्धविज्ञानदृष्टिभिः | भृशं विकासमायाति सूर्यांशुभिरिवाम्बुजम् || ८ || अम्बुजपक्षे सम्यक् तोषस्तृषानिवृत्तिर्येन तेन जलेन शीतलमाप्यायितम् || ८ || आशावैवश्यविवशे चित्ते संतोषवर्जिते | म्लाने वक्त्रमिवादर्शे न ज्ञानं प्रतिबिम्बति || ९ || वैवश्यं पारवश्यं तेन विवशे व्याकुले | म्लाने आदर्शे वक्त्रमिव न प्रतिबिम्बति व्यक्तीभवति | उपदिष्टमपीत्यर्थः || ९ || अज्ञानघनयामिन्या संकोचं न नराम्बुजम् | यात्यसावुदितो यस्य नित्यं संतोषभास्करः || १० || यस्य नराम्बुजस्य विकासायासौ प्रागुक्तः संतोषभास्कर उदितस्तन्नराम्बुजमज्ञानलक्षणया गाढान्धकाररात्र्या संकोचं न याति || १० || अकिंचनोऽप्यसौ जन्तुः साम्राज्यसुखमश्नुते | आधिव्याधिविनिर्मुक्तं संतुष्टं यस्य मानसम् || ११ || नाभिवाञ्छत्यसंप्राप्तं भुङ्क्ते यथाक्रमम् | यः सुसौम्यसमाचारः संतुष्ट इति कथ्यते || १२ || प्रागुक्त लक्षणमनूद्य लक्षणान्तरमप्याह - नेति | यथाक्रमं प्राप्तं सुखं दुःखं च | सौम्यो जगदानन्दनः सम्यगाचार आचरणं यस्य || १२ || संतुष्टिपरतृप्तस्य महतः पूर्णचेतसः | क्षीराब्धेरिव शुद्धस्य मुखे लक्ष्मीर्विराजते || १३ || मुखकान्तिविशेषोऽपि तल्लक्षणमित्याह - संतुष्टीति || १३ || पूर्णतामलमाश्रित्य स्वात्मन्येवात्मना स्वयम् | पौरुषेण प्रयत्नेन तृष्णां सर्वत्र वर्जयेत् || १४ || स्वात्मन्यात्मनैव पूर्णतां निरतिशयानन्दरूपतामाश्रित्यानुभवेनावलम्ब्य || १४ || संतोषामृतपूर्णस्य शान्तशीतलया धिया | स्वयं स्थैर्यं मनो याति शीतांशोरिव शाश्वतम् || १५ || शीतांशोरिव संतोषलक्षणेनामृतेन पूर्णस्य पुंसः क्रोधसंतापहेत्वभावाच्छान्ता शीतला च या धीस्तया निमित्तभूतया मनः शाश्वतं स्थैर्यं याति || १५ || संतोषपुष्टमनसं भृत्या इव महर्द्धयः | राजानमुपतिष्ठन्ति किंकरत्वमुपागताः || १६ ||
SKविनैव विषयार्जनं संतोषमात्रेण कथं देहयात्रासिद्धिस्तत्राह - संतोषेति | भृत्या राजानमिव महत्य ऋद्धयः संपद उपतिष्ठन्ति | तथाचाहुः - आशाया दासा ये दासास्ते सर्वलोकस्य | आशा दासी येषां तेषां दासायते लोकः || इति || १६ || आत्मनैवात्मनि स्वस्थे संतुष्टे पुरुषे स्थिते | प्रशाम्यन्त्याधयः सर्वे प्रावृषीवाशु पांशवः || १७ || नन्वस्त्वेवं देहयात्रा तथापि देवानामिव मानसं दुःखं दुश्चिकित्स्यं तत्राह - आत्मनैवेति | पांशवो धूलयः | तालत्र्या अपि दन्त्याश्च शम्बशूकरपांशवः इति || १७ || नित्यं शीतलया राम कलङ्कपरिभिन्नया | पुरुषः शुद्धया वृत्त्या भाति पूर्णतयेन्दुवत् || १८ || तथापि कारणकलङ्कावरणेन दुःखबीजेन यद्दुःखं तत्स्यादेवेति तत्राह - नित्यमिति | यथा अमायां क्षीणेन्दुः कलङ्काद्भेदेनाविभाव्यमानत्वात्कलङ्कमग्न इव भवति सूर्यसन्निधानाच्च न शीतलया वृत्त्या वर्तते स एव पौर्णमास्यां कलापूर्णतया कलङ्कस्यापि भासकत्वात्तद्विविक्तया शुद्धया वृत्त्या भाति तद्वत्पुरुषोऽप्यसंतोषे मोहकलङ्कमग्न इव तापत्रयेण दह्यमान इव भवति संतोषामृतकलापूर्णस्त्वज्ञानकलङ्कसाक्षित्वात्तदसंस्पृष्टया स्वात्मसुखशीतलया वृत्त्या भातीत्यर्थः || १८ || समतासुन्दरं वक्त्रं पुरुषस्यावलोकयन् | तोषमेति यथा लोको न तथा धनसंचयैः || १९ || समता सर्वत्र संतोषादवैषम्यबुद्धिः || १९ || समतया मतया गुणशालिनां पुरुषराडिह यः समलंकृतः | तममलं प्रणमन्ति नभश्चरा अपि महामुनयो रघुनन्दन || २० || तस्य सर्वोत्कृष्टतामाह - समतयेति | नभश्चरा देवा महान्तो मुनयोऽपि प्रणमन्ति नमस्यन्ति || २० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे संतोषनिरूपणं नाम पञ्चदशः सर्गः || १५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे सन्तोषनिरूपणं नाम पञ्चदशः सर्गः || १५ || प्. १११) षोडशः सर्गः १६
SKविशेषण महाबुद्धे संसारोत्तरणे नृणाम् | सर्वत्रोपकरोतीह साधुः साधुसमागमः || १ || चतुर्थो द्वारपालोऽत्र वर्ण्यते साधुसंगमः | चतुर्ष्वेकैकसेवापि [कैकमेवापि पुरुषार्थफलेत्यपि इति पाठः] पुरुषार्थे [पुरुषार्थफलेत्यपि इति पाठः] फलत्यपि || १ || चतुर्थमपि द्वारपालं साधुसमागममुपवर्णयंश्चतुर्ष्वेकैकविषये पौरुषस्य पुरुषार्थपर्यवसानं दर्शयिष्यन् वसिष्ठ उवाच - विशेषेणेति | सर्वत्र सर्वावस्थासु || १ || साधुसङ्गतरोर्जातं विवेककुसुमं सितम् | रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः || २ || फलश्रियो मोक्षफलसंपदो भाजनं भवन्तीति शेषः || २ || शून्यमाकीर्णतामेति मृतिरप्युत्सवायते | आपत्संपदिवाभाति विद्वज्जनसमागमे || ३ || शून्यं स्वजनधनादिशून्यम् | दुःखस्थानमाकीर्णतां तद्व्याप्तताम् || ३ || हिममापत्सरोजिन्या मोहनीहारमारुतः | जयत्येको जगत्यस्मिन्साधुः साधुसमागमः || ४ || आपल्लक्षणायाः सरोजिन्याः कमलिन्या हिमं प्रालेयम् | साधुः प्रशस्तः || ४ || परं विवर्धनं बुद्धेरज्ञानतरुशातनम् [अज्ञानज्वरनाशनम् इति पाठः] | समुत्सारणमाधीनां विद्धि साधुसमागमम् || ५ || बुद्धेर्विवेकज्ञानस्य विशेषेण वर्धनम् | शातनं विशरणकरणम् || ५ || विवेकः परमो दीपो जायते साधुसंगमात् | मनोहारोज्ज्वलो नूनमासेकादिव गुच्छकः || ६ || मनोहरश्चासावुज्ज्वलो निर्मलश्च | आरामासेकाद्गुच्छकः पुष्पफलगुच्छः || ६ || निरपायां निराबाधां निर्वृतिं नित्यपीवरीम् | अनुत्तमां प्रयच्छन्ति साधुसङ्गविभूतयः || ७ || नित्यपीवरीं नित्यं वर्धमानां नित्यामपरिच्छिन्नामिति वा | निर्वृतिं सुखम् || ७ || अपि कष्टतरां प्राप्तैर्दशां विवशतां गतैः | मनागपि न संत्याज्या मानवैः साधुसंगतिः || ८ || मनाक् ईषदपि | क्षणमपीति यावत् || ८ || साधुसंगतयो लोके सन्मार्गस्य च दीपिकाः | हार्दान्धकारहारिण्यो भासो ज्ञानविवस्वतः || ९ ||
SKसन्मार्गस्य सदाचारस्य दीपिका यावदज्ञाननिशानुवृत्तिस्तावत् | तदुत्तरकालं तु ज्ञानरूपस्य सूर्यस्य भासः प्रकाशाः || ९ || यः स्नातः शीतसितया साधुसंगतिगङ्गया | किं तस्य दानैः किं तीर्थैः किं तपिभिः किमध्वरैः || १० || शीतसितयेति तापमालिन्यक्षयलाभाय विशेषणे | अध्वरैर्यज्ञैः || १० || नीरागाश्छिन्नसंदेहा गलितग्रन्थयोऽनघ | साधवो यदि विद्यन्ते किं तपस्तीर्थसंग्रहैः || ११ || ग्रन्थिः अन्तःकरणतद्धर्मतादात्म्यसंसर्गाध्यासलक्षणश्चिदचिद्ग्रन्थिः || ११ || विश्रान्तमनसो धन्याः प्रयत्नेन परेण हि | दरिद्रेणेव मणयः प्रेक्षणीया हि साधवः || १२ || अलभ्यलाभतया मणय इव || १२ || सत्समागमसौन्दर्यशालिनी धीमतां मतिः | कमलेवाप्सरोवृन्दे सर्वदैव विराजते || १३ || कमला लक्ष्मीस्तत्पक्षे सता विष्णुना समागमः सर्वोत्कृष्टं सौन्दर्यं च | नह्येते तत्सोदर्याणामप्यप्सरसां [महत्सोदर्याणां इति पाठः] स्तः || १३ || तेनामलविचारस्य पदस्याग्रावचूलिता | प्रथिता येन धन्येन न त्यक्ता साधुसंगतिः || १४ || पदस्य ब्रह्मात्मवस्तुनश्चूडामणिस्थानीयस्य बहूनां तत्प्राप्त्यै यतमानानां मध्ये अग्रावचूलिता प्रथमं तत्प्राप्त्या शिरोभूषणीकरणम् | प्रथिता प्रख्यापिता | चूडायामवतंसनमवचूडः | मयूरव्यसकादित्वात्समासस्तत्करोतीति णिचि ताच्छीलिकणिन्यन्ताद्भावे तल् | डलयोरभेदाल्लत्वम् || १४ || विच्छिन्नग्रन्थयस्तज्ज्ञाः साधवः सर्वसंमताः | सर्वोपायेन संसेव्यास्ते ह्य्पाया भवाम्बुधौ || १५ || सर्वोपायेन दानमानसेवनादिसर्वप्रयत्नेन | उपायास्तरणोपायाः || १५ || त एते नरकाग्नीनां संशुष्केन्धनतां गताः | यैर्दृष्टा हेलया सन्तो नरकानलवारिदाः || १६ || यैः सन्तो हेलयापि न दृष्टास्ते नरकाग्नीनामिन्धनानि पोषका भवन्ति | हेलया अनादरेण | नरकलक्षणस्यानलस्य वारिदा मेघा इव प्रशमनहेतवः || १६ || दारिद्र्यं मरणं दुःखमित्यादिविषयो भ्रमः | संप्रशाम्यत्यशेषेण साधुसंगमभेषजैः || १७ ||
SKभ्रमः सन्निपातः | अशेषेण मूलोच्छेदेन || १७ || संतोषः साधुसङ्गश्च विचारोऽथ शमस्तथा | एत एव भवाम्भोधावुपायास्तरणे नृणाम् || १८ || सर्वान्द्वारपालान्युगपत्प्रशिशंसिषुरनुवदति - संतोष इति || १८ || संतोषः परमो लाभः सत्सङ्गः परमा गतिः | विचारः परमं ज्ञानं शमो हि परमं सुखम् || १९ || सर्वत्र फलाभेदारोपः || १९ || चत्वार एते विमला उपाया भवभेदने | यैरभ्यस्तास्त उत्तीर्णा मोहवारिभवार्णवात् || २० || मोह एव वारि यस्मिंस्तथाविधद्भवार्णवात् || २० || एकस्मिन्नेव वै तेषामभ्यस्ते विमलोदये | सर्वाभ्यासासामर्थ्ये fओलिओ ११२ - ११३ इस् उन्च्लेअर् प्. ११४) दधात्येवं जगच्छब्दरूपार्थमसदात्मकम् | तरङ्गोत्पलमालाभं दृष्टनृत्यमिवोत्थितम् || २४ || असदात्मकं सत् जगच्छब्दस्य गच्छति विचारे न तिष्ठतीति जगदित्यनुरूपार्थं धत्ते संपादयति | तरङ्गेषु उत्पलमाला भ्रान्तिकल्पिता | पूर्वदृष्टं नृत्यं स्मर्यमाणं मनस्युत्थितमिव || २४ || चक्रचीत्कारपूर्णस्य जलराशिमिवोद्यतम् | शीर्णपत्रं भ्रष्टनष्टं ग्रीष्मे वनमिवारसम् || २५ || चक्रश्चक्रवाकः | मुखसंबन्धिवायुयुक्तस्तुषारसमूहश्चीत्कारः | यथा उत्तानशायिनः पुरुषस्य कवेर्वा चक्रवाकचीत्कारेण पूर्णस्य नभसो दर्शने उद्यतं उत्प्रेक्षितं जलराशिं सर इव | शीर्णपत्रमरसं शुष्कं निःसारं च | अत एव भ्रष्टं छायाशोभादिभिर्नष्टं फलादिसमृद्धिरहितम् || २५ || मरणव्यग्रचित्ताभं शिलागृहगुहास्पदम् | अन्धकारगुहैकैकनृत्तमुन्मत्तचेष्टितम् || २६ || मरणे व्यग्राणां चित्तं भ्रान्तिमूर्च्छोन्मुखमस्थिरं च प्रसिद्धम् | शिलानां गृहाः पर्वतास्तेषां गुहास्थानमिव सान्धकारशून्यभीषणम् | सान्धकारगुहास्वेकैकनृत्तमिवोन्मत्तचेष्टितप्रायम् || २६ || प्रशान्ताज्ञाननीहारं विज्ञानशरदम्बरम् | समुत्कीर्णमिव स्तम्भे चितं [चित्तभित्ताविव इति पाठः] भित्ताविवोदितम् || २७ ||
SKपरमार्थतस्तु प्रशान्ता ज्ञाननीहारं विज्ञानशरदम्बरं च | सम्यगुत्कीर्णं टङ्कच्छेदादिना कल्पितं प्रतिमाद्याकारमिव || २७ || पङ्कादिवाभिरचितं सचेतनमचेतनम् | ततः स्थितिप्रकरणं चतुर्थं परिकल्पितम् || २८ || मृत्पङ्काभिरचितचेतनाचेतनाकारं परमार्थतो मृन्मात्रस्वभावमिवाधिष्ठानपृथक्सत्ताशून्यं जगदुत्पन्नमिति बुध्यते श्रोत्रेत्यर्थः [श्रोतेत्यर्थः इति पाठः] | ततस्तस्मादुत्पत्तिप्रकरणादनन्तरम् || २८ || त्रीणि ग्रन्थसहस्राणि व्याख्यानाख्यायिकामयम् | इत्थं जगदहंभावरूपस्थितिमुपागतम् || २९ || व्याख्यानं प्रपञ्चतदधिष्ठानतत्त्वस्थितिव्युत्पादनमाख्यायिकाः कथास्तत्प्रचुरम् | तदेवाह - इत्थमित्यादिभिश्चतुर्भिरर्धैः | ब्रह्मैव द्रष्ट्टदृश्यक्रमं प्रकर्षेण रूढं स्वीकुर्वत्सत् इत्थं वर्ण्यमानप्रकारेण जगद्भावरूपेणाहंभावरूपेण च भोक्तृभोग्यलक्षणेन कर्तृत्वसंतानितेन स्थितिमुपागतमिति अत्र स्थितिप्रकरणे कीर्तितमित्युत्तरेणान्वयः || २९ || द्रष्ट्टदृश्यक्रमं प्रौढमित्यत्र परिकीर्तितम् | दशदिङ्मण्डलाभोगभासुरोऽयं जगद्भ्रमः || ३० || इत्थमभ्यागतो वृद्धिमिति तत्रोच्यते चिरम् | उपशान्तिप्रकरणं ततः पञ्चसहस्रकम् || ३१ || वृद्धिग्रहणं विपरिणामस्याप्युपलक्षणम् | चिरमनादिकालादारभ्याऽभ्यागतोऽस्ति || ३१ || पञ्चमं पावनं प्रोक्तं युक्तिसंततिसुन्दरम् [मुनिसंतति इति पाठः] | इदं जगदहं त्वं च स इति भ्रान्तिरुत्थिता || ३२ || इत्थं संशाम्यतीत्यस्मिन्कथ्यते श्लोकसंग्रहैः | उपशान्तिप्रकरणे श्रुते शाम्यति संसृतिः || ३३ || संशाम्यति जीवन्मुक्तिक्रमेणोपक्षीणं सल्लेशतोऽवशिष्यत इत्यस्मिन्नुपशान्तिप्रकरणे कथ्यते | लेशतोऽवशेषमेव तच्छ्रवणफलकीर्तनमुखेन [फलानुकीर्तन इति पाठः] स्फुटयति - उपशान्तीत्यादि - सौम्यवारिसरित्समेत्यन्तेन || ३३ || प्रभ्रष्टचित्रसेनेव किंचिल्लभ्योपलम्भना | शतांशशिष्टा भवति संशान्तभ्रान्तरूपिणी [भ्रान्तिरूपिणी इति पाठः] || ३४ ||
SKप्रभ्रष्टा विशीर्णप्राया चित्रलिकितसेनेव || ३४ || अन्यसंकल्पचित्तस्था नगरश्रीरिवासती | अलभ्यवस्तुपार्श्वस्थस्वप्नयुद्धचिरारवा || ३५ || तत्राप्युत्तरोत्तरभूमिकाजये अपक्षयप्रकर्षाल्लक्ष्यालक्ष्यसंस्कारमात्रेण परिशेषं दृष्टान्तैराह - अन्येत्यादिना | परकीयसंकल्पनिर्मितत्वात्तच्चित्तस्था | न लभ्यं वस्तु धनादि याभ्यां तथाविधौ संकल्पयितृपुरुषपार्श्वस्थपुरुषान्तरस्य स्वप्नयुद्धचिरारवौ यस्यां तथाविधा नगरश्रीरिव | मिथ्यात्वेन तुल्ययोरपि परकीयक्रियाशब्दयोरविषयीभूतेति यावत् | सा यथा स्वप्नद्रष्ट्टदृशा किंचित्स्फुटलक्ष्या संकल्पयितुर्दृशा तु ईषल्लक्ष्याप्यसती स्वत एव शाम्यति तद्वदित्यर्थः || ३५ || शान्तसंकल्पमत्ताभ्रभीषणाशनिशब्दवत् | विस्मृतस्वप्नसंकल्पनिर्माणनगरोपमा || ३६ || ततोऽप्युपशान्तिप्रकरणे अलक्ष्यावस्थया परिशेषे शान्तेत्यादि नव दृष्टान्ताः | शान्त उपरतो यह् संकल्पस्तेन कल्पितस्य मत्तगजवन्निरङ्कुशस्याभ्रस्य भीषणः अशनिशब्दः स्फूर्जथुस्तद्वत् | विस्मृतं स्वप्नेन संकल्पेन वा निर्माणं यस्य नगरस्य तदुपमा || ३६ || भविष्यन्नगरोद्यानप्रसूवन्ध्यामलाङ्गिका [नगरोद्यानसोत्सवश्यामलात्मिकाः इति पाठः] | तस्या [नश्यज्जिह्वोच्यमान इति पाठः] जिह्वोच्यमानोग्रकथार्थानुभवोपमा || ३७ || भविष्यतो नगरस्योद्याने प्रसूयते या वन्ध्या तद्वदमलं निर्मलं शून्यमेवाङ्गं स्वरूपं यस्यास्तस्या वन्ध्याया जिह्वया उच्यमाना ये उग्रा वीररसाद्युपेताः स्वपुत्रयुद्धादिकथार्थाः || ३७ || अनुल्लिखितचित्रस्य चित्रव्याप्तेव भित्तिभूः | परिविस्मर्यमाणार्थकल्पनानगरीनिभा || ३८ || सर्वर्तुमदनुत्पन्नवनस्पन्दास्फुटाकृतिः | भाविपुष्पवनाकारवसन्तरसरञ्जना || ३९ || अनुत्पन्नवनस्पन्द [स्पंदन इति पाठः] इव अस्फुटाकृतिरलक्ष्याकारा | वसन्तेनेव रसरञ्जना यस्याः || ३९ || अन्तर्लीनतरङ्गौघसौम्यवारिसरित्समा | निर्वाणाख्यं प्रकरणं ततः षष्ठमुदाहृतम् || ४० || सौम्यं निश्चलत्वात्प्रसन्नम् || ४० ||
SKशिष्टो ग्रन्थः परीमाणं तस्य ज्ञानमहार्थदः | बुद्धे तस्मिन्भवेच्छ्रेयो निर्वाणं शान्तकल्पनम् || ४१ || शिष्टः द्वात्रिंशत्सहस्रमध्ये परिगणितसार्धसप्तदशसहस्रावशिष्टः | सार्धचतुर्दशसहस्रमिति यावत् | मूलाविद्योच्छेदाच्छान्ताः सर्वकल्पना यस्मिन् || ४१ || प्. ११५) अचेत्यचित्प्रकाशात्मा विज्ञानात्मा निरामयः | परमाकाशकोशाच्छः शान्तसर्वभवभ्रमः || ४२ || श्रोता अकलेवर इत्यन्तेन वर्ण्यमानस्वभावो भवेदित्यन्वयः | अचेत्यो निर्विषयः | अत एव निरामयः || ४२ || निर्वापितजगद्यात्रः कृतकर्तव्यसुस्थितः | समस्तजनतारम्भवज्रस्तम्भो नभोनिभः || ४३ || यथा वज्रमणिस्तम्भः स्वप्रतिबिम्बितसमस्तजनतामविकृत एवारभते जनतातत्समारम्भाणां चाधारस्तद्वत् || ४३ || विनिगीर्णयथासंख्यजगज्जालातितृप्तिमान् | आकाशीभूतनिःशेषरूपालोकमनस्कृतिः || ४४ || विनिगीर्णैर्यथाप्रसिद्धसंख्यैर्जगज्जालैरिव अतितृप्तिमानित्युत्प्रेक्षा | रूपालोको बाह्येन्द्रियैर्भोगः मनस्कृतिर्मानसः || ४४ || कार्यकारणकर्तृत्वहेयादेयदृशोज्झितः | सदेह इवनिर्देहः ससंसारोऽप्यसंसृतिः || ४५ || कार्यकारणकर्तृत्वे आधिभूताध्यात्मिकाधिदैवरूपे स्वीकारपरित्यागदृशा || ४५ || चिन्मयो घनपाषाणजठरापीवरोपमः | चिदादित्यस्तṁल्लोकानन्धकारोपरोपमम् || ४६ || घनं पाषाणजठरमिवापीवरं निश्छिद्रं पूर्णमन्यदप्युपमा यस्य | चिदादित्यः स्वाज्ञानपरिकल्पितान् लोकान् स्वाकारवृत्तीद्धेन स्वालोकेन तपन् परप्रकाशरूपोऽपि दृश्याभावादेव तत्प्रथाविषये अन्धकारोपरोपमं रलयोरभेदाद्धनीभूतान्धकारोपलसदृशं परमान्ध्यमिवागत इति परेणान्वयः || ४६ || परप्रकाशरूपोऽपि परमान्ध्यमिवागतः | रुद्धसंसृतिदुर्लीलः प्रक्षीणाशाविषूचिकः || ४७ || नष्टाहंकारवेतालो देहवानकलेवरः | कस्मिंश्चिद्रोमकोट्यग्रे तस्येयमवतिष्ठते | जगल्लक्ष्मीर्महामेरोः पुष्पे क्वचिदिवालिनी || ४८ ||
SKदेहवानकलेवर इति | तथाच श्रुतिः अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् | महान्तं विभुमात्मानं मत्वा धीरो न शोचति इति | जगतस्तत्साक्षात्कारबाध्यत्वमुक्तं संभावयितुं तस्य जगत्कल्पनाधिष्ठानत्वेनापरिच्छिन्नत्वमाह - कस्मिंश्चिदित्यादिना | रोमकोटिवत्परिच्छिन्नाविद्याया अप्यग्रे एकदेशे जगल्लक्ष्मीरवतिष्ठते | तथाच श्रुतिः पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि इति | स्मृतिश्च विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितोजगत् इति || ४८ || परमाणौ परमाणौ चिदाकाशः स्वकोटरे | जगल्लक्ष्मीसहस्राणि धत्ते कृत्वाथ पश्यति || ४९ || नन्वविस्तृतदेशे कथमतिविस्तृतजगद्भानमित्याशङ्का दर्पणोदरे साभ्रग्रहनक्षत्रव्योमसमावेशदर्शनान्नाज्ञानस्यास्ति दुष्करमित्यभिप्रेत्याह - परमाणाविति | स्वकोटरे स्वान्तःकल्पिताकाशे | चिदाकाशस्य इति पाठे अर्थाच्चिदाकाश एव धत्ते पश्यति च | अथशब्दः समुच्चये || ४९ || विततता हृदयस्य महामते- र्हरिहराञ्जजलक्षशतैरपि | तुलनमेति न मुक्तिमतो यतः प्रविततास्ति निरुत्तमवस्तुनः || ५० || महामतेर्जीवन्मुक्तस्य हृदयं परमात्मैव तस्य विततता विस्तीर्णता हरिहरादीनां लक्षशतैरपि तुलनमियत्तापरिच्छेदं [इयत्तां परिच्छेदं इति पाठः] नैति | तत्किं तेषामसामर्थ्यात् | न | यतो यस्माद्धेतोर्न विद्यते उत्तममुत्कृष्टतमं सत्तया आनन्त्येनानन्दस्वाभाव्येन च यस्मात्तथाविधस्यात्मवस्तुनः सा प्रवितता अपरिच्छिन्नता परमार्थत एवास्ति न त्वाकाशादीनामिव द्रष्ट्टपुरुषाशक्तिकल्पितेत्यर्थः || ५० || इत्यार्षे श्रीवसिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे ग्रन्थसंख्यादिवर्णनं नाम सप्तदशः सर्गः || १७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे ग्रन्थसंख्यादिवर्णनं नाम सप्तदशः सर्गः || १७ || अष्टादशः सर्गः १८ श्रीवसिष्ठ उवाच | अस्यां वा चित्तमात्रायां प्रबोधः संप्रवर्तते | बीजादिव सतो व्युप्तादवश्यंभावि सत्फलम् || १ ||
SKएतद्ग्रन्थगुणा मुख्यामुख्यैरप्यानुषङ्गिकैः | फलैः सह निरूप्यन्ते ग्राह्यांशाश्चोपमास्विह || १ || इत्थं प्रकरणभेदं विषयप्रयोजनाभ्यामुपवर्ण्य समग्रग्रन्थगुणान्वर्णयंस्तत्र तत्र दृष्टान्तोपन्यासेषु ग्राह्यांशं तात्पर्यं च ग्रंथशैलीपरिज्ञानाय वक्तुमुपक्रमते - अस्यामित्यादिना | अस्यां षट्प्रकरणीरूपायां मोक्षोपायसंहितायां सतोऽनुपहतशक्तेर्व्युप्ताद्विशिष्टक्षेत्रकाले उप्तादवश्यंभावि सत्फलं यथा प्रवर्तते तद्वत् || १ || अपि पौरुषमादेयं शास्त्रं चेद्युक्तिबोधकम् | अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्याय्यैकसेविना || २ || ननु सतीष्वनेकशाखाभेदभिन्नासु श्रुतिषु ता विहाय पुरुषबुद्धिविरचितमिदमेवोपादेयतया किमर्थमुच्यते तत्राह - अपीति | युक्तिभिर्बोधकं तत्त्वनिर्णायकम् | ऋषिर्वेदस्तत्र भवमार्षम् | न्यायादनपेतं न्याय्यं तदेव मुख्यमित्यनुसरता भाव्यम् पुरुषेणेत्यर्थः | यद्यपि श्रुतयोऽभ्यर्हितास्तथापि गूढाभिसंधित्वात्सहसा नानुभवायालमिति न साधारणाधिकारिभिरुपादेयाः | तत्साराभिज्ञानुभवमूलकयुक्तिघटितं त्विदं शास्त्रं स्फुटाभिसन्धित्वा fओलिओ ११६ - ११७ इन् उन्च्लेअर् प्. ११८) यथेदं श्रूयते चास्त्रं तामापातनिकां शृणु | विचार्यते यथार्थोऽयं यथा च परिभाषया || ४९ || आपातनं शास्त्रवतारस्तदुपायोऽवधारणरूप आपातनिका ताम् | यथा येन दृष्टान्तेन | परिभाषया उपक्रमोपसंहारादिरूपया [आदिग्रहणादभ्यासोऽपूर्वताफलं अर्थवाद उपपत्तिश्च ग्राह्याः] तत्तद्बोधोपयोगिसंकेतेन च यथा श्रूयते ताम् || ४९ || येनेहाननुभूतेऽर्थे दृष्टेनार्थेन बोधनम् | बोधोपकारफलदं तं दृष्टान्तं विदुर्बुधाः || ५० || तत्र दृष्टान्तस्य लक्षणमाह - येनेति | दृष्टेनार्थेन साधर्म्येण बोध्यते येन तद्बोधनम् | तदेव विवृणोति - बोधोपकारफलदमिति | दृष्टः अन्तः सादृश्यबलेन प्रकृतार्थनिर्णयो येन स दृष्टान्त इति तदर्थज्ञा बुधाः || ५० ||
SKदृष्टान्तेन विना राम नापूर्वार्थोऽवबुध्यते | यथा दीपं विना रात्रौ भाण्डोपस्करणं गृहे || ५१ || अपूर्वार्थोऽदृष्टार्थोऽद्भुतार्थो वा | उपस्करणं गुणवदुपकरणम् | उपात्प्रतियत्न -इति सुट् || ५१ || यैर्यैः काकुत्स्थ दृष्टान्तैस्त्वं मयेहावबोध्यसे | सर्वे सकारणास्ते हि प्राप्यन्तु सदकारणम् || ५२ || दृष्टान्तेषु विवक्षितसादृश्यविवेकाय हेयांशं दर्शयति - यैरिति | सकारणा जन्या अत एवानृताश्च | ज्ञेयं तु सत्परमार्थसत्यमकारणं नित्यम् | मिथ्याभूतैरेव मृत्सुवर्णाद्युपादानैर्दृष्टान्तैः सद्ब्रह्म कारणं बोध्यते | तथाच जन्यत्वानृतत्वादयो दृष्टान्तधर्मा हेया इत्यर्थः || ५२ || उपमानोपमेयानां कार्यकारणतोदिता | वर्जयित्वा परं ब्रह्म सर्वेषामेव विद्यते || ५३ || परब्रह्मदृष्टान्तेष्वेवायं नियमो नान्यदृष्टान्तेष्वित्याह - उपमानेति | कार्यकारणता कार्यत्वकारणत्वादिना सादृश्यमुदिता पूर्वोक्ता | अयमर्थः - यथा विचारादिभिर्बिम्बग्राहकं ज्ञानमुत्पद्यत इत्युच्यते तथा ज्ञानाद्बिम्बमुत्पद्यते इति न वक्तव्यं ब्रह्मण उत्पत्तेर्वक्तुमशक्यत्वात् || ५३ || ब्रह्मोपदेशे दृष्टान्तो यस्तवेह हि कथ्यते | एकदेशसधर्मत्वं तत्रान्तः परिगृह्यते || ५४ || वर्जयित्वा परं ब्रह्मेत्युक्तं विस्पष्टयति - ब्रह्मेति | एकदेशसधर्मत्वमादाय तत्रान्तःप्रकृतनिर्णयः | अयं भावः - जगद्विवर्तब्रह्माधिष्ठानबोधने भुजङ्गविवर्ताधिष्ठानबोधकरज्जुदृष्टान्तस्याधिष्ठानविवर्तांशमात्र् एण दृष्टान्तत्वं न तु दार्ष्टान्तिकनित्यत्वसुखित्वादिसर्वांशेन || ५४ || यो यो नामेह दृष्टान्तो ब्रह्मतत्त्वावबोधने | दीयते स स बोद्धव्यः स्वप्नजातो [स्वप्नदृष्टजगतः] जगद्गतः || ५५ || ननु किमित्येकदेशे स दृष्टान्त एवोपादियत इति चेत् सर्वांशसादृश्याप्रसिद्धेरेवेत्यभिप्रेत्याह - यो य इति | स्वप्नजात इव मिथ्याभूतो जगदन्तर्गत एव न वास्तवः | द्वितीयपरमार्थसच्चिदानन्दवस्त्वप्रसिद्धेरिति भावः || ५५ ||
SKएवं सति निराकारे ब्रह्मण्याकारवान्कथम् | दृष्टान्त इति नोद्यन्ति मूर्खवैकल्पिकोक्तयः || ५६ || वैकल्पिका विकल्पोद्भूता उक्तयः | ब्रह्म सद्वितीयमद्वितीयं वा | सद्वितीयं चेदपसिद्धान्तः | अद्वितीयं चेद्गुरुशास्त्राद्यभावाज्ज्ञानानुत्पत्तिः | एवं विकल्पोक्तयो नोद्यन्ति || ५६ || अन्यासिद्धविरुद्धादिदृग्दृष्टान्तप्रदूषणैः | स्वप्नोपमत्वाज्जगतः समुदेति न किंचन || ५७ || एतेन दृष्टान्तोपन्यासस्यानुमानोन्नयनेन बोधकत्वे दृष्टान्तहेतुव्याप्त्यादेरनृतत्वे व्याप्यत्वासिद्धिः स्वरूपासिद्धिरित्यादयः प्रापञ्चिकैर्हेतुभिः सत्यत्वादिसाधने विरुद्धत्वादयश्च हेत्वाभासताप्रयोजकदोषाः स्युरिति तार्किकप्रत्यवस्थानस्याप्यवसरो निरस्त इत्याह - अन्येति | अन्येषामसिद्धविरुद्धादिदोषदृशां तार्किकाणां दृष्टान्तप्रदूषणैर्दूष्यस्य हेत्वादेर्जगतः स्वप्नोपमत्वाद्वस्तुनि न किंचिद्दूषणं समुदेतीत्यर्थः | साध्यसिद्धिपर्यन्तं बोध्यबोधकव्यवहारस्तु व्यावहारिकसत्यतामात्रेणाप्युपपन्न इति भावः || ५७ || अवस्तु पूर्वापरयोर्वर्तमाने विचारितम् | यथा जाग्रत्तथा स्वप्नः सिद्धमाबालमागतम् || ५८ || उक्तं स्वप्नोपमत्वं तत्साधर्म्यप्रदर्शनेनोपपादयति - अवस्त्विति | पूर्वापरयोरुत्पत्तिविनाशपूर्वोत्तरकालयोरवस्तु अभावग्रस्तं वर्तमानकालेऽपि उपादानाद्भेदाभेदसत्तया अविचारितं विचार्य वादिसहस्रेणापि निर्णेतुमशक्यम् | वर्तमानकाले तु विचारितं सदवस्त्विति वा | यथा जाग्रद्वस्तु तथा स्वप्नोऽपीति मिथ्यात्वेन साम्यमित्यर्थः || ५८ || स्वप्नसंकल्पनाध्यानवरशापौषधादिभिः | यथार्था इह दृष्टान्तास्तद्रूपत्वाज्जगत्स्थितेः || ५९ ||
SKननु प्रातिभासिकसत्तावता स्वप्नेन कथं व्यावहारिकसत्तातुल्यतेति चेत्परस्परहेतुफलभावदर्शनाल्लौकिकाचाराच्च तुल्यतेत्याह - स्वप्नेति | जाग्रति कार्याकार्यत्वेन संदिग्धयात्रादौ देवताप्रार्थनादिना शयानस्य स्वप्ने कार्यमिति संकल्पोदये तथा चिन्तने चिन्तनोपलक्षितचिरकालपूजामन्त्रजपस्तुत्यादिना तदनुकूलवरलाभे शत्रूणां मुनिशापादिदर्शनेन वा प्रातर्यात्रादिकरणे [करणेन इति पाठः] शत्रुजयादिदर्शनात् स्वाप्नौषधलाभेन जागरे रोगशान्तिदर्शनाच्च तत्साम्येन सर्वजगत्स्थितेरपि तद्रूपत्वात्स्वप्नदृष्टान्ता यथार्थाः || ५९ || मोक्षोपायकृता ग्रन्थकारेणान्येऽपि ये कृताः | ग्रन्थास्तेष्वियमेवैका व्यवस्था बोध्यबोधने || ६० || मोक्षोपायकृता वाल्मीकिना अन्येऽपि पूर्वरामायणादयो ये ग्रन्थाः कृतास्तेष्वपि दृष्टान्तानां संभवदंशसाम्यबोधने व्यवस्था प्रसिद्धेत्यर्थः || ६० || स्वप्नाभत्वं च जगतः श्रुते शास्त्रेऽवबोध्यते | शीघ्रं न पार्यते वक्तुं वाक्किल क्रमवर्तिनी || ६१ || ननु तर्हि श्रोतारः स्वप्नसाम्यमुक्तं कुतः सहसैव न बुध्यन्ते कुतो वा विप्रतिपद्यन्ते इत्याशङ्क्याध्यात्मशास्त्रश्रवणसंस्काराभावेन जगत्सत्यताभ्रमादित्याह - स्वप्नाभत्वमिति | वक्तुं बोधयितुम् | पार्यते शक्यते | श्रोतॄणां विरोधिसंस्कारोच्छेदस्य चिरसाध्यत्वादिति भावः || ६१ || प्. ११९) स्वप्नसंकल्पनाध्याननगराद्युपमं जगत् | यतस्त एव दृष्टान्तास्तस्मात्सन्तीह नेतरे || ६२ || ध्यानेऽपि नगरकल्पनं मानसपूजायां प्रसिद्धम् || ६२ || अकारणे कारणता यद्बोधायोपमीयते | न तत्र सर्वसाधर्म्यं संभवत्युपमाश्रमैः || ६३ ||
SKयदि जगति स्वप्नाद्युपमाने सर्वांशेऽपि साधर्म्यं विवक्षितं तर्हि ब्रह्मण्यपि कटकमुकुटाद्युपादानस्वर्णदृष्टान्ते तद्वदेव परिणामिता कुतो न विवक्ष्यते तत्राह - अकारणे इति | तदेतद्ब्रह्मापूर्वमनपरं एकमेवाद्वितीयम् इत्यादिश्रुतिभिश्चितिशक्तिरपरिणामिन्यप्रतिसंक्रमाशुद्धा चानन्ता च | अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते इत्यादिस्मृतिभिरसङ्गोदासीनस्य परिणामहेतुत्वासंस्पर्शाच्चितो जाड्याकाराघटनाच्चेत्यादियुक्तिभिश्च परिणामाघटनादकारणे अपरिणामिनि यत् यत्र परिणामि स्वर्णादिवत् करणतोपमीयते तत्रोपमाप्रयुक्तैः श्रमैः प्रयत्नैरपि सर्वांशे साधर्म्यं न लब्धुं शक्यमित्यर्थः || ६३ || उपमेयस्योपमानादेकांशेन सधर्मता | अङ्गीकार्यावबोधाय धीमता निर्विवादिना || ६४ || तदेव स्पष्टमाह - उपमेयस्येति || ६४ || अर्थावलोकने दीपादाभामात्रादृते किल | न स्थानतैलवर्त्यादि किंचिदव्युपयुज्यते || ६५ || लोकेऽपि मणिर्दीप इवेक्ष्यत इत्यादौ नाविवक्षितांशसादृश्यबोधो दृष्ट इत्याह - अर्थेति द्वाभ्याम् | श्लोकद्वयस्य यथाश्रुतार्थो वा स्पष्टः | आभामात्रात्प्रकाशमात्रात् || ६५ || एकदेशसमर्थत्वादुपमेयावबोधनम् | उपमानं करोत्यङ्ग दीपऽर्थप्रभया यथा || ६६ || दृष्टान्तस्यांशमात्रेण बोध्यबोधोदये सति | उपादेयतया ग्राह्यो महावाक्यार्थनिश्चयः || ६७ || एतच्छास्त्रीयसर्वदृष्टान्तानामुपयोगमाह - दृष्टान्तस्येति | जगतः स्वप्नादिदृष्टान्तैर्मिथ्यात्वे प्रतीच आकाशसवित्रादिदृष्टान्तस्य ब्रह्मणो मृल्लोहादिदृष्टान्तस्य च पदार्थपरिशोधनेन बोध्यलक्ष्यार्थं तस्य बोधोदये सति सकार्याविद्योच्छेदार्थमवश्योपादेयतया सर्वश्रुतिशास्त्रमहातात्पर्यविषयोऽहं ब्रह्मास्मीति महावाक्यार्थनिश्चयो ग्राह्य इत्यर्थः || ६७ || न कुतार्किकतामेत्य नाशनीया प्रबुद्धता | अनुभूत्यपलापान्तैरपवित्रैर्विकल्पितैः || ६८ ||
SKनन्वहं गौरः स्थूल इत्यादिप्रत्यक्षेणौषधपानारोग्यलाभादिप्रवृत्तिफलदर्शनलिङ्गेन परव्यवहारसाम्योपमानेन सर्वव्यावहारिकमहाजनवाक्यैः ब्राह्मणो यजेत इत्यादिश्रुत्या स्मृत्या धर्मशास्त्रैरनेकतार्किकादियुक्तिभिश्च देहस्तदन्यो वा कर्तृभोक्तृत्वादिस्वभाव आत्मावगम्यते तत्कथं प्रत्यक्षाद्यनेकप्रमाणविरुद्धोऽर्थो महावाक्यमात्रादुपादेय इत्याशङ्क्याह - नेति | अनुभूतिर्विद्वत्प्रत्यक्षं तदपलापपर्यवसितैरपवित्रदेहाद्यात्मभावविषयत्वादपवित्रशुनकसूकराद् इजन्मफलत्वाच्चापवित्रैर्विकल्पितैर्ब्रह्म सप्रमाणमप्रमाणं वा सप्रमाणं चेद्वैतहानिः अप्रमाणं चेत्प्रमेयहानिरित्यादिर्विकल्पैः परमपुरुषार्थानुबन्धिनी प्रबुद्धता र्पबोधयोग्याभिज्ञता न नाशनीया | यथा च देहादेरात्मत्वासंभवस्तथवक्ष्यत इति भावः || ६८ || विचारणादनुभवकारिवैरिणोऽपि वाङ्मयं त्वनुगतमस्मदादिषु | स्त्रियोक्तमप्यपपरमार्थवैदिकं वचो वचःप्रलपनमेव नागमः || ६९ ||
SKननु सर्वजनस्य निरुपाधिकस्वेच्छाविहारसुखार्थित्वाद्दयालोराप्ततमस्य चार्वाकादेर्भार्यापुत्रमित्रादेश्च दृष्टबहुतरविचित्रभोगसुखानुबन्धिस्वाभाविकस्वप्रीतिविषये प्रवर्तकं संसारसारतादिवचनं कथं हेयं वा तपःक्लेशसंयमवित्तव्ययायासानुबन्धीष्टपुत्रवित्तभार्यादिवियोजकसंन्या सभिक्षाटनाइदृष्टानर्थसहस्रपर्यवसितं निर्विषयात्ममात्रपरिशेषात्मकपरमदारिद्र्यलक्षणमोक्षफलानुषङ्गिब्रह् मात्मैकत्वबोधकत्वाद्वैरिवाक्यकल्पमचेतनं श्रौतं महावाक्यमुपादेयमित्याशङ्क्याह - विचारणादिति | सत्यमविचारणादेवमेव विचारणात्तु वैरिणो वैरित्वेन ज्ञातस्यापि वाङ्मयं नित्यनिरतिशयानन्दात्मरूपपरमपुरुषार्थानुभवकारीति अस्मदादिष्वनुभवनिष्ठेषु परमाप्ततमं सर्वप्रमाणमूर्धन्यमित्यनुगतमेव | अपगतं परमार्थभूतं वैदिकं पुरुषार्थतत्त्वं यस्मात्तथाविधं वचो वाक्यं स्त्रिया परमप्रेयस्योक्तमपि मृत्युनरकाद्यनर्थपरम्परानुबन्धित्वाद्वचःप्रलपनं वाक्प्रलापमात्रमेव न आगमो नाप्तवचनं न वा प्रमाणमित्यर्थः || ६९ || अस्माकमस्ति मतिरङ्ग तयेति सर्व- शास्त्रैकवाक्यकरणं फलितं यतो यः | प्रातीतिकार्थमपशास्त्रनिजाङ्गपुष्टा- त्संवेदनादितरदस्ति ततः प्रमाणम् || ७० ||
SKननु तर्हि कपिलकणादजैमिनिप्रभृतयो वेदार्थज्ञा अपि कथमन्यथैव पुरुषार्थतदुपायतत्त्वं निरूपितवन्तः भवन्तस्त्वन्यथा निरूपयन्ति तत्र भवदुक्तौ को विशेषस्तत्राह - अस्माकमिति | हे अङ्ग अस्माकं यतो यस्या मतेः सकाशादयस्तत्त्वसाक्षात्कारजीवन्मुक्तिलक्षणः शुभावहो विधिस्तादृशी मतिरस्ति तया इतिपूर्वोक्तप्रकारेण प्रातीतिकोऽपरोक्षानुभवयोग्योऽर्थः परमपुरुषार्थो यस्मात्तथाविधं सर्वशास्त्राणां सकलश्रुत्यध्यात्मशास्त्राणामेकवाक्यकरणमेकमहावाक्यार्थपर्यवसान ं फलितम् | ततः अपशास्त्रं श्रुतितात्पर्याविषयीभूतं निजाङ्गैस्तर्कादिभिरेव पुष्टंयत्सांख्यकणादादिसंवेदनं तस्मादितरन्महावाक्यार्थरूपं प्रातीतिकार्थमपरोक्षानुभवयोग्यार्थकं प्रमाणमस्माकमस्ति नतु तेषाम् | कुतर्कोपहृतमतित्वेन श्रुतितात्पर्यावधारणयोग्यमतिशून्यत्वादित्यर्थः || ७० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे दृष्टान्तनिरूपणं नामाष्टादशः सर्गः || १८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे दृष्टान्तनिरूपणं नाम अष्टादशः सर्गः || १८ || fओलिओ १२० - १२१ इस् उन्च्लेअर् प्. १२२) रूपालोकमनस्कारपदार्थव्याकुलं जगत् | विद्यते वेदनस्यान्तर्वातान्तः स्पन्दनं यथा || २८ || ननु मनश्चलने निर्विषयवेदनस्य हेतुत्वायोगात्सविषय तद्वाच्यम् | तत्र मनश्चलनादपि पूर्वसिद्धो विषयो वाच्यः | तथा विषयाणां मनोमयत्वस्य प्रागुक्तत्वाद्विषयसिद्धेः प्राङ्मनःसिद्धिर्वाच्येत्यन्योन्याश्रय इत्याशङ्क्य सर्वसंस्काररूपेण मायाशबलचिदन्तरधिष्ठानसत्तया सदेवाविर्भवतीत्याह - रूपेति | बहिरिन्द्रियैर्विषयग्रहो रूपालोको मनसा विषयानुसंधानं मनस्कारस्तदुभयविषयाः पदार्थाश्च तैर्व्याकुलम् || २८ || सर्वात्मवेदनं शुद्धं यथोदेति तदात्मकम् | भाति प्रसृतदिक्कालबाह्यान्तारूपदेहकम् || २९ ||
SKननु तर्हि कथं कादाचित्कतदुत्पत्त्यादिव्यवस्था स्यात्तत्राह - सर्वेति | उदेति कर्मपरिपाकव्यवस्थया यादृशं प्राणिकर्मभोगायाविर्भवति तदात्मकमुत्पन्नमिव प्रसृतदिक्कालबाह्याभ्यन्तरपदार्थवेषं भाति [परमार्थतस्त्वरूपदेहकमेव] | अन्तारूपेति ढ्र्लोपे इति दीर्घः || २९ || दृष्ट्वैव दृश्यताभासं स्वरूपं धारयन्स्थितः | स्वं यथा यत्र यद्रूपं प्रतिभाति तथैव तत् || ३० || तर्हि [तर्हीत्यारभ्य चरममित्यन्तं क्वचिन्नास्ति] स विचारश्चरमं स्वं देहादिदृश्यताभासं दृष्ट्वैव तदेव मे स्वरूपमिति मोहाद्धारयन् सर्वात्मा जीवभावेन स्थित इत्यर्थः | युक्तं चैतदित्याह - स्वमिति || ३० || स सर्वात्मा यथा यत्र समुल्लासमुपागतः | तिष्ठत्याशु तथा तत्र तद्रूप इव राजते || ३१ || तदेव स्फुटमाह - स इति || ३१ || सर्वात्मकतया द्रष्टुर्दृश्यत्वमिव युज्यते | दृश्यत्वंद्रष्ट्टसद्भावे दृश्यतापि न वास्तवी || ३२ || इवकारसूचितं दृश्यमिथ्यात्वमुपपादयति - दृश्यत्वमिति | दृक्स्वरूपो द्रष्टा यदि दृक्स्वरूपात्प्रच्युतो दृश्यत्वमापद्येत तत् तर्हि निर्द्रष्ट्टकदृश्यसिद्धिरेव न स्यात् | यद्यप्रच्युतस्तर्हि दृश्यतास्य विवर्तमात्रं रज्जुस्वभावादप्रच्युतस्य सर्पभाववदिति मिथ्यात्वमेवेत्यर्थः || ३२ || अकारणकएवातो ब्रह्म सिद्धमिदं स्थितम् | प्रत्यक्षमेव निर्मातृ तस्यांशास्त्वनुमादयः || ३३ || अतः कार्यमिथ्यात्वे तत्सापेक्षकारणभावस्यापि मिथ्यात्वादकारणकं सिद्धम् | इत्थं प्रत्यक्षतत्त्वविमर्शे ब्रह्मैवाद्वयं सिद्धमित्युपसंहरति - इदं स्थितं प्रत्यक्षमेवेति | अनुमानादयस्तु प्रत्यक्षपूर्वकत्वात्तत्तत्पर्यवसितत्वाच्च तदंशा एवेति सर्वप्रमाणतत्त्वमात्मैवेत्यर्थः || ३३ || स्वयत्नमात्रे यदुपासको य- स्तद्दैवशब्दार्थमपास्य दूरे | शूरेण साधो पदमुत्तमं तत् स्वपौरुषेणैव हि लभ्यतेऽन्तः || ३४ ||
SKसिंहावलोकनन्यायेन दैवनिरासं स्मारयन् पौरुषस्यैवैतत्फलमित्याह - स्वेति | परमार्थतः स्वकीयप्राक्तनप्रयत्नमात्रं दैवमिति कल्पयित्वा तदधीनोऽहमिति तदुपासनपरो यः पुरुषस्तत्कल्पितं दैवशब्दार्थं दूरे अपास्येन्द्रियादिजये शूरेणाधिकारिणा स्वपौरुषेणैव तत्परमपदं अन्तर्हृद्येवासाद्यते प्राप्यते || ३४ || विचारयाचार्यपरम्पराणां मतेन सत्येन [सत्त्वेन इति मूलव्याख्ययोः क्वाचित्कः पाठः] सितेन तावत् | यावद्विशुद्धं स्वयमेव बुद्ध्या ह्यनन्तरूपं परमभ्युपैषि || ३५ || सत्येन [सत्त्वेन इति मूलव्याख्ययोः क्वाचित्कः पाठः] परमार्थनिष्ठेन | सितेन प्रमाणपरिशुद्धेन तावद्विचारय यावत्स्वयमेव स्वबुद्ध्या त्रिविधपरिच्छेदशून्यं पदमभ्युपैषि साक्षात्कारेण प्राप्नोषि || ३५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे प्रमाणनिरूपणं नामैकोनविंशः सर्गः || १९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे प्रमाणनिरूपणं नामैकोनविंशतितमः सर्गः || १९ || विंशः सर्गः २० श्रीवसिष्ठ उवाच || आर्यसंगमयुक्त्यादौ प्रज्ञां वृद्धिं नयेद्बलात् | ततो महापुरुषतां महापुरुषलक्षणैः || १ || प्रज्ञाबुद्धिप्रकारोऽत्र महापुरुषलक्षणम् | सदाचारक्रमाश्चोक्ताः परस्परविवर्धनाः || १ || उक्तं ज्ञानं महापुरुषेष्वेव प्रतितिष्ठति नान्येषु | महापुरुषता च वक्ष्यमाणसदाचारेण सिद्ध्यतीति सदाचारं वर्णयितुमुपक्रममाणः श्रीवसिष्ठ उवाच - आर्येति | आदौ आर्याणां संगमैस्तदुपदेशाचरणशिक्षणयुक्त्या प्रज्ञां वृद्धिं नयेत् | ततः स्वं महापुरुषलक्षणैर्वक्ष्यमाणैर्महापुरुषतां नयेत् || १ || यो यो येन गुणेनेह पुरुषः प्रविराजते | शिष्यते तं तमेवाशु तस्माद्बुद्धिं विवर्धयेत् || २ ||
SKतत्र यदि सर्वे गुणा एकस्मिन् पुरुषे न लभ्येरंस्तर्हि यो यः पुरुषो येन येन गुणेन प्रभूतो विज्ञायते स तेनैवेतरेभ्यः शिष्यते विशिष्यते तस्मात्पुरुषात्त्तं तमेवाशु शिक्षित्वा स्वबुद्धिं विवर्धयेत् | शिक्षेत इति पाठे तु स्पष्टम् || २ || महापुरुषता ह्येषा शमादिगुणशालिनी | सम्यग्ज्ञानं विना राम सिद्धिमेति न कांचन || ३ || एषा शमादिगुणप्रज्ञाशालितैव महापुरुषता || ३ || प्. १२३) ज्ञानाच्छमादयो यान्ति वृद्धिं सत्पुरुषक्रमाः | श्लाघनीयाः फलेनान्तर्वृष्टेरिव नवाङ्कुराः || ४ || सत्पुरुषैः क्रम्यन्त आचर्यन्त इति सत्पुरुषक्रमाः सदाचारा अमानित्वादयश्च अन्तःफलेनात्मसुखाविर्भावेन श्लाघनीयाः प्रशस्याः || ४ || शमादिभ्यो गुणेभ्यश्च वर्धते ज्ञानमुत्तमम् | अन्नात्मकेभ्यो यज्ञेभ्यः शालिवृष्टिरिवोत्तमा || ५ || शाल्याद्यन्नोत्पत्तिहेतुभूता वृष्टिरिव | तथाच स्मृतिः अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते | आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः || इति || ५ || गुणाः शमादयो ज्ञानाच्छमादिभ्यस्तथा ज्ञता | परस्परं विवर्धन्ते ते अब्जसरसी इव || ६ || युगपत्परस्परवृद्ध्यनुरूपदृष्टान्तोपन्यासायोक्तमेव पुनराह - गुणा इति | ते अब्जसरसी इवेत्युभयत्रापि प्रगृह्यत्वादसंधिः अब्जैः सरसः शैत्यसौगन्ध्यशोभादिगुणैर्वृद्धिरत्र विवक्षिता || ६ || ज्ञानं सत्पुरुषाचाराज्ज्ञानात्सत्पुरुषक्रमः | परस्परं गतौ वृद्धिं ज्ञानसत्पुरुषक्रमौ || ७ || एवं ज्ञानसदाचारयोरपि परस्परवृद्धिहेतुतेत्याह - ज्ञानमिति || ७ || शमप्रज्ञादिनिपुणपुरुषाथक्रमेण च | अभ्यसेत्पुरुषो धीमाञ्ज्ञानसत्पुरुषक्रमौ || ८ || शमेन प्रज्ञामहापुरुषतादिना च निपुणो यः पुरुषार्थः श्रवणादिप्रयत्नस्तत्क्रमेण ज्ञानसदाचारावभ्यसेत् || ८ || न यावत्सममभ्यस्तौ ज्ञानसत्पुरुषक्रमौ | एकोऽपि नैतयोस्तात पुरुषस्येह सिध्यति || ९ || यथा कलमरक्षिण्या गीत्या वितततालया | खगोत्सादेन सहितं गीतानन्दः प्रसाध्यते || १० ||
SKविवृद्धिफलमपि तयोस्तुल्यकालमेव भवतीति सदृष्टान्तमाह - यथेति द्वाभ्याम् | पक्वशालिक्षेत्ररक्षिण्याः स्त्रियाः खगोत्सादनांशे व्यापारान्तराकर्त्र्या अपि विततकरतालध्वनियुक्तया गीत्या आनुषङ्गिकखगोत्सादेन तुल्यकालो गीतानन्दः प्रवर्तते [१] || १० || ज्ञानसत्पुरुषेहाभ्यामकर्त्रा कर्तृरूपिणा | तथा पुंसा निरिच्छेन सममासाद्यते पदम् || ११ || तथा ज्ञानविघ्नरागमानादिनिरासांशे निरिच्छेन | अत एवाकर्त्रापि ज्ञानसाधनश्रवणसदाचाराभ्यामनुष्ठिताभ्यां तन्मात्रकर्तृरूपिणां पुंसां आनुषङ्गिकविघ्ननिरासेन समं परमपदमासाद्यते || ११ || सदाचारक्रमः प्रोक्तो मयैवं रघुनन्दन | तथोपदिश्यते सम्यगेवं ज्ञानक्रमोऽधुना || १२ || यथा एवंप्रकारोऽयं सदाचारक्रमो मया प्रोक्तस्तथा अधुना उत्तरप्रकरणे ज्ञानक्रम उपदिश्यते इति वक्ष्यमाणप्रतिज्ञा || १२ || इदं यशस्यमायुष्यं पुरुषार्थफलप्रदम् | तज्ज्ञादाप्ताच्च सच्छास्त्रं श्रोतव्यं किल धीमता || १३ || साधनकलापोपदेशं फलकीर्तनोपसंहरति - इदमित्यादिना | किलेति सांप्रदायिकार्थप्रसिद्धौ || १३ || श्रुत्वा त्वं बुद्धिनैर्मल्याद्बलाद्यास्यसि तत्पदम् | यथा कतकसंश्लेषात्प्रसादं कलुषं पयः || १४ || बलादिति साधनप्रभावोक्तिः | प्रसादं नैर्मल्यम् || १४ || विदितवेद्यमिदं हि मनो मुने- र्विवशमेव हि याति परं पदम् | यदवबुद्धमखण्डितमुत्तमं तदवबोधवशान्न जहाति हि || १५ ||
SKमुनेः प्रकृतसाधनसंपत्त्या मननशीलस्य मनो विदितवेद्यं सत्तद्बलाद्विवशं परं पदमनिच्छदपि याति | न केवलं साधनप्राबल्यादेवैवं किंतु वेद्यतत्त्वस्वभावादपीत्याह - यदिति | अवबोधवशादवबोधाधीनत्वात् | अवबोधात्मकचरमवृत्तीद्धत्वादिति यावत् | अवधूयाज्ञानतत्कार्यं बुद्धं जागरूकमखण्डितमुत्तमं यत्पदं तन्मनो न जहाति | अज्ञानतत्कार्यान्तरैः समं भाधत एवेत्यर्थः | हीति विद्वत्प्रसिद्धौ | तथाचाहुः देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् | आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते || १५ || इत्यार्षे श्रीवासिष्ठमहारामायणे द्वात्रिंशत्साहस्र्यां संहितायां वाल्मीकीये मोक्षोपाये मुमुक्षुव्यवहारप्रकरणे सदाचारनिरूपणं नाम विंशतितमः सर्गः || २० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे मुमुक्षुव्यवहारप्रकरणे सदाचारनिरूपणं नाम विंशतितमः सर्गः || २० || समाप्तमिदं मुमुक्षुव्यवहारप्रकरणम् |