Crown Jewel of Yoga Upanishad
Yogacūḍāmaṇyupaniṣat
SKयोगचूडामण्युपनिषत् आप्यायन्तु- इति शान्तिः योगाङ्गषट्कम् योगचूडामणिं वक्ष्ये योगिनां हितकाम्यया | कैवल्यसिद्धिदं गूढं सेवितं योगवित्तमैः || १ || आसनं प्राणसंरोधः प्रत्याहारश्च धारणा | ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् || २ || एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् | विवरणम् मूलाधारादिषट्चक्रसहस्रारोपरिस्थितम् | योगज्ञानमुख्यफलं रामचन्द्रपदं भजे || इह खलु सामवेदप्रविभक्तेयं योगचूडामण्युपनिषत् षडङ्गयोगोपायप्रदर्शनपूर्वक निष्प्रतियोगिकब्रह्ममात्रपर्यवसन्ना विजयते | अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते | स्वाज्ञलोकमुद्दिश्य श्रुतिरेवमाह- योगेति | योगचूडामणिं योगश्रेष्ठमित्यर्थः | कथमस्य चूडामणित्वम् ? cūḍāmaṇitvaṃ yujyate ityarthaḥ || 1 || p. 238) yamaniyamasādhanasaṃpannānāṃ ṣaḍaṅgayogaḥ ucyate- āsanamiti || 2 || ādāvāsanamuddiśati- ekamiti | proktaṃ- siddhapadmāsanalakṣaṇasya triśikhibrāhmaṇopaniṣadi prakāśitatvāt || yogasiddhaye āvaśyakaṃ dehatattvajñānam ṣaṭcakraṃ ṣoḍaśādhāraṃ trilakṣyaṃ vyomapañcakam || 3 || svadehe yo na jānāti tasya siddhiḥ kathaṃ bhavet | dehatattvajñānaṃ vinā dehe siddhiḥ kathaṃ syādityākṣipati- ṣaṭcakramiti | mūlādhārādiṣaṭcakram | mūlādhāratrikoṇamārabhya ṣoḍaśāntāvadhi ṣoḍaśādhāraṃ vidyate | tadrājayogasāre prasiddham | bāhyamadhyāntarbhedena trilakṣyam | ākāśādiparamākāśāntaṃ vyomapañcakam || 3 || śiṣṭaṃ spaṣṭam || mūlādhārādicakrāṇi caturdalaṃ syādādhāraṃ svādhiṣṭhānaṃ ca ṣaḍdalam || 4 || nābhau daśadalaṃ padmaṃ hṛdayaṃ dvādaśārakam | ṣoḍaśāraṃ viśuddhākhyaṃ bhrūmadhye dvidalaṃ tathā || 5 || sahasradalasaṃkhyātaṃ brahmarandhre mahāpathi | yat tvayā pṛṣṭaṃ tat mūlādhārādisahasrārānteṣvantarbhavatītyāha- caturdalamiti || 4-5 || yonisthāne paramajyotirdarśanam ādhāraṃ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam || 6 ||
SKयोनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते | कामाख्यं तु गुदस्थाने पङ्कजं तु चतुर्दलम् || ७ || प्. २३९) तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता | तस्य मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् || ८ || नाभौ तु मणिवद्बिम्बं यो जानाति स योगवित् | तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् || ९ || त्रिकोणं तत्पुरं वह्नेरधोमेढ्रात् प्रतिष्ठितम् | समाधौ परमं ज्योतिरनन्तं विश्वतोमुखम् || १० || तस्मिन् दृष्टे महायोगे यातायातो न विद्यते | प्रथमद्वितीयचक्रतया नामोद्दिश्य क्रमेण विवृणोति- आधारमिति || ६ || योनिस्थानं किमित्यत्र- योनिस्थानमिति | द्वयोः मूलाधारस्वाधिष्ठानयोः | योगसिद्धेः तत्पीडनपूर्वकत्वात् तदेव विशदयति- कामाख्यमिति | योगसिद्धिकामाख्यम् || ७ || योनिः कुण्डलिनीशक्तिः | अस्या जगत्प्रसूतिहेतुत्वात् योनित्वमुपपद्यते | अत एव कामाख्या | तस्य सुषुम्नामध्यविलसितकुण्डलिनीभोगस्य मध्ये वायव्यं पश्चिमाभिमुखं महालिङ्गं केवलकुम्भके योगिप्रत्यक्षतया स्थितं भवति || ८ || एवंज्ञानवदभ्यासफलमाह- tapteti || 9 || yasya evaṃ yogakāle pāvakī jvālā dṛśyate tasya punariḍādimārgeṇa yātāyāto na vidyate ityāha- samādhāviti || 10 || svādhiṣṭhānādicakralakṣaṇam svaśabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tadāśrayam || 11 || svādhiṣṭhānāśrayādasmānmeḍhramevābhidhīyate | tantunā maṇivat proto yo'tra kandaḥ suṣumnayā || 12 || p. 340) tannābhimaṇḍale cakraṃ procyate maṇipūrakam | dvādaśāre mahācakre puṇyapāpavivarjite || 13 || tāvajjīvo bhramatyevaṃ yāvattattvaṃ na vindati | svāadhiṣṭhānalakṣaṇamāha- sveti || 11 || meḍhrasya prāṇanāḍitvāt svādhiṣṭhānāśrayatvaṃ yujyate | maṇipūrakalakṣaṇaṃ kimityatra tantuneti || 12 || svājñānāvadhi jīvo hṛdāsanaḥ san saṃsāramaṇḍale paribhramatītyāha- dvādaśāra iti | puṇyapāpavivarjite- tatra pratyagdṛṣṭeḥ puṇyapāpasaṃbandhābhāvāt || 13 || nāḍimahācakram
SKऊर्ध्वं मेढ्रादधोनाभेः कन्दयोनिः खगाण्डवत् || १४ || तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः | तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृता || १५ || प्रधानाः प्राणवाहिन्यो भूयस्तासु दश स्मृताः | इडा च पिङ्गला चैव सुषुम्ना च तृतीयगा || १६ || गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी | अलम्बुसा कुहूश्चैव शङ्खिनी दशमी स्मृता || १७ || एतन्नाडीमहाचक्रं ज्ञातव्यं योगिभिः सदा | नाडीकन्दं तद्गतनाडीभेदं चाह- ऊर्ध्वमिति || १४-१५ || दशनाडीनां स्थानानि निर्दिशति- इडेति || १६-१७ || प्. ३४१) नाडीस्थानानि इडा वामे स्थिता भागे दक्षिणे पिङ्गला स्थिता || १८ || सुषुम्ना मध्यदेशे तु गान्धारी वामचक्षुषि | दक्षिणे हस्तिजिह्वा च पूषा कर्णे तु दक्षिणे || १९ || यशस्विनी वामकर्णे चानने चाप्यलम्बुसा | कुहूश्च लिङ्गदेशे तु मूलस्थाने तु शङ्खिनी || २० || एवं द्वारं समाश्रित्य तिष्ठन्ते नाडयः क्रमात् | मध्यस्थसुषुम्नायाः इडा वामे स्थिता || १८-२० || नाडीसंचारिवायवः तद्व्यापारश्च इडापिङ्गलसौषुम्नाः प्राणमार्गे च संस्थिताः || २१ || सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः | प्राणापानसमानाख्या व्यानोदानौ च वायवः || २२ || नागः कूर्मोऽथ कृकरो देवदत्तो धनंजयः | हृदि प्राणः स्थितो नित्यमपानो गुदमण्डले || २३ || समानो नाभिदेशे तु उदानः कण्ठमध्यगः | व्यानः सर्वशरीरे तु प्रधानाः पञ्च वायवः || २४ || उद्गारे नाग आख्यातः कूर्म उन्मीलने तथा | कृकरः क्षुत्करो ज्ञेयो देवदत्तो विजृम्भणे || २५ || प्. ३४२) न जहाति मृतं वापि सर्वव्यापी धनंजयः | एते नाडीषु सर्वासु भ्रमन्ते जीवजन्तवः || २६ || तत्र अयोगियोगिभेदेन इडेति || २१ || नाडीगतप्राणादिस्वरूपं तद्व्यापारं चाह- प्राणेति || २२-२५ || जीवजन्तवः- जीवरूपिण इत्यर्थः, तेषां जीवाधारत्वात् || २६ || प्राणचलनाचलनाभ्यां जीवचलनाचलने आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः | प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति || २७ ||
SKप्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति | वामदक्षिणमार्गाभ्यां चञ्चलत्वान्न दृश्यते || २८ || रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः | गुणबद्धस्तथा जीवः प्राणापानेन कर्षति || २९ || प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च गच्छति | अपानः कर्षति प्राणं प्राणोऽपानेन कर्षति || ३० || ऊर्ध्वाधःसंस्थितावेतौ यो जानाति स योगवित् | प्राणचलनाचलनसापेक्षं जीवचलनाचलनमित्याह- आक्षिप्त इति || २७ || तदेव विशदयति- प्राणेति || २८-३० || प्. ३४३) अजपागायत्र्या अनुसंधानम् हकारेण बहिर्याति सकारेण विशेत् पुनः || ३१ || हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा | षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः || ३२ || एतत्संख्यान्वितं मन्त्रं जीवो जपति सर्वदा | अजपा नाम गायत्री योगिनां मोक्षदा सदा || ३३ || अस्याः संकल्पमात्रेण सर्वपापैः प्रमुच्यते | अनया सदृशी विद्या अनया सदृशो जपः || ३४ || अनया सदृशं ज्ञानं न भूतं न भविष्यति | कुण्डलिन्यां समुद्भूता गायत्री प्राणधारिणी || ३५ || प्राणविद्या महाविद्या यस्तां वेत्ति स वेदवित् | प्राणापानोच्छ्वासादिव्यापृतिरेव हंसमनुः अजपागायत्री जीवनिर्वर्त्या भवतीति अजपेयत्तां तज्ज्ञानफलं चाह- हकारेणेति || ३१-३३ || उच्छ्वासनिःश्वासयोः हंसः सोऽहमित्यजपानुसंधानेन जीवः सर्वपापैः प्रमुच्यते | अजपां स्तौति- अनयेति || ३४ || अजपा कुण्डलिनीजन्येति ज्ञानफलमाह कुण्डलिन्यामिति || ३५ || कुण्डलिन्या मोक्षद्वारभेदनम् कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलाकृतिः || ३६ || ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाद्य तिष्ठति | येन द्वारेण गन्तव्यं ब्रह्मद्वारमनामयम् || ३७ || प्. ३४४) मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी | प्रबुद्धा वह्नियोगेन मनसा मरुता सह || ३८ || सुचीवद्गात्रमादाय व्रजत्यूर्ध्वं सुषुम्नया | उद्घाटयेत् कवाटं तु यथा कुञ्चिकया गृहम् | कुण्डलिन्या तथा योगी मोक्षद्वारं प्रभेदयेत् || ३९ ||
SKकृत्वा संपुटितौ करौ दृढतरं बद्ध्वाथ पद्मासनं गाढं वक्षसि संनिधाय चुबुकं ध्यानं च तच्चेष्टितम् | वारंवारमपानमूर्ध्वमनिलं प्रोच्चारयेत् पूरितं मुञ्चन् प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः || ४० || अङ्गानां मर्दनं कृत्वा श्रमसंजातवारिणा | कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् || ४१ || ब्रह्मचारी मिताहारी योगी योगपरायणः | अब्दादूर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा || ४२ || सुस्निग्धमधुरा हारश्चतुर्थांशावशेषितः | भुञ्जते शिवसंप्रीत्या मिताहारी स उच्यते || ४३ || कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्लाकृतिः | बन्धनाय च मूढानां योगिनां मोक्षदा सदा || ४४ ||
SKप्. ३४५) सर्वप्राण्याधारकुण्डलिनीस्वरूपं तद्व्यापृतिं चाह- कन्देति || ३६ || सुषुम्नाख्यं ब्रह्मद्वारमुखम् || ३७ || अयोगिनां मूलाधारप्रदेशे प्रसुप्ता | योगिनां योगकाले प्रबुद्धा || ३८ || यतः इयं मोक्षद्वारभेदनपटुः अतः कुञ्चिकया देवालयकवाटमिव योगी तया मोक्षद्वारं विभेदयेदित्याह- उद्घाटयेदिति || ३९ || तद्भेदनोपायं तत्फलं चाह- कृत्वेति | नरो योगी स्वहृदयसमं स्वकरौ संपुटितौ कृत्वा पद्मासनं बद्ध्वा गाढं वक्षसि संनिधाय चुबुकं कण्ठसंकोचलक्षणजालंधरबन्धमारोप्य मूलबन्धेन वारंवारम् अपानम् ऊर्ध्वम् अनिलपूरितं प्रोच्चारयेत् ऊर्ध्वं प्राणेनैक्यं नयेत् | ऐक्यानन्तरं केवलकुम्भकमास्थाय कुण्डलिनीशक्तिप्रभावात् तत्कुण्डलिनीचेष्टितं प्राणादिव्यापारं मुञ्चन् शरीरत्रयकलनाविरलं ब्रह्मास्मीति मननं ध्यानं च कृत्वा सम्यक् प्रबोधमेत्य तत्समकालं प्राणं परमात्मानम् उपैति || ४० || एवं साधनानुष्ठानवान् योगी अचिरात् सिद्धो भवतीत्याह- अङ्गानामिति | यद्यभ्यासकाले स्वेदो जायते तदा अङ्गानां वारिणा दृढकायो भवेदित्यर्थः | योगानुकूलाहारनियममाह- कट्विति || ४१-४३ || अयोगियोगिनां इयं शक्तिः बन्धमोक्षहेतुः स्यादित्याह- कन्देति | कन्दाधोभागे यदि स्थिता तदा बन्धनाय | यदि सुषुम्नामार्गेण कन्दोर्ध्वमार्गं गता तदा योगिनां मोक्षदा || ४४ || बन्धत्रयम् महामुद्रा नभोमुद्रा ओड्याणं च जलंधरम् | मूलबन्धं च यो वेत्ति स योगी मुक्तिभाजनम् || ४५ || पार्ष्णिघातेन संपीड्य योनिमाकुञ्चयेद् दृढम् | अपानमूर्ध्वमाकृष्य मूलबन्धोऽयमुच्यते || ४६ || प्. ३४६) अपानप्राणयोरैक्यं क्षयान्मूत्रपुरीषयोः | युवा भवति वृद्धोऽपि सततं मूलबन्धनात् || ४७ || ओड्याणं कुरुते यस्मादविश्रान्तं महाखगः | ओड्डियाणं तदेव स्यान्मृत्युमातङ्गकेसरी || ४८ || उदरात् पश्चिमं ताणमधोनाभेर्निगद्यते | ओड्याणमुदरे बन्धस्तत्र बन्धो विधीयते || ४९ ||
SKबध्नाति हि शिरोजातमधोगामि नभोजलम् | ततो जालंधरो बन्धः कण्ठदुःखौघनाशनः || ५० || जालंधरे कृते बन्धे कण्ठदुःखौघनाशने | न पीयूषं पतत्यग्नौ न च वायुः प्रधावति || ५१ || वक्ष्यमाणमहामुद्रादिज्ञानतो मुक्तिभाक् भवतीत्याह- महामुद्रेति || ४५ || मूलबन्धादिलक्षणमाह- पार्ष्णीति || ४६ || तत्फलमेतत्- अपानेति || ४७-५२ || खेचरीमुद्रा कपालकुहरे जिह्वा प्रविष्टा विपरीतगा | भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी || ५२ || न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा | न च मूर्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम् || ५३ || प्. ३४७) पीड्यते न च रोगेण लिप्यते न स कर्मभिः | बध्यते न च केनापि यो मुद्रां वेत्ति खेचरीम् || ५४ || चित्तं चरति खे यस्माज्जिह्वा चरति खे यतः | तेनेयं खेचरी मुद्रा सर्वसिद्धनमस्कृता || ५५ || बिन्दुमूलशरीराणि सिरा यत्र प्रतिष्ठिताः | भावयन्ति शरीराणि अपादतलमस्तकम् || ५६ || खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः | न तस्य क्षीयते बिन्दुः कामिन्यालिङ्गितस्य च || ५७ || यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः | यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति || ५८ || तत्फलमेतत् न रोग इति || ५३-५५ || खेचरीमुद्रारूढाः योगिनः शरीरे सर्वं पश्यन्तीत्याह- विन्द्विति | सिराशब्देन नाड्यः उच्यन्ते | तदुपलक्षितचतुर्दशभुवनानि यत्र प्रतिष्ठितानि तद्बिन्दुः ईश्वरः एव मूलं येषां अनन्तकोटिब्रह्माण्डानां तानि बिन्दुमूलानि तानि च शरीराणि अनन्तकोटिब्रह्माण्डानि खेचरीमुद्रारूढयोगिनः स्वाधिष्ठितापादतलमस्तकं स्वशरीरं भावयन्ति महाविराड्भावं नयन्तीत्यर्थः || ५६ || किंच- खेचर्येति || ५७ || नभोमुद्रा खेचरीत्यर्थः || ५८ || वज्रोल्यादियोगिलक्षणम् ज्वलितोऽपि यथा बिन्दुः संप्राप्तश्च हुताशनम् | व्रजत्यूर्ध्वं गतः शक्त्या निरुद्धो योनिमुद्रया || ५९ || प्. ३४८) स पुनर्द्विविधो बिन्दुः पाण्डरो लोहितस्तथा | पाण्डरं शुक्लमित्याहुर्लोहिताख्यं महारजः || ६० ||
SKसिन्दूरव्रातसंकाशं रविस्थानस्थितं रजः | शशिस्थानस्थितं शुक्लं तयोरैक्यं सुदुर्लभम् || ६१ || बिन्दुर्ब्रह्मा रजः शक्तिर्बिन्दुरिन्दू रजो रविः | उभयोः संगमादेव प्राप्यते परमं पदम् || ६२ || वायुना शक्तिचालेन प्रेरितं च यथा रजः | याति बिन्दुः सदैकत्वं भवेद्दिव्यवपुस्तदा || ६३ || शुक्लं चन्द्रेण संयुक्तं रजः सूर्यसमन्वितम् | तयोः समरसैकत्वं यो जानाति स योगवित् || ६४ || वज्रोल्यादियोगिलक्षणमाह- ज्वलितोऽपीति | यथा लोहद्रावकबिन्दुः लोहसंनिध्यात् ज्वलति तथायं बिन्दुः योषित्सांनिध्यात् ज्वलितोऽपि पुरुषेण हुतं रेतः अश्नातीति हुताशनं योषिद्योनिमण्डलं संप्राप्तोऽपि लिङ्गाकुञ्चनलक्षणया योनिमुद्रया शक्त्या यथाबलं निरुद्धः सन् ऊर्ध्वमेव व्रजति नाधः पततीत्यर्थः | अस्यामरोलियोगसिद्धत्वात् तद्बिन्दुः कदापि न क्षरतीति भावः || ५९-६० || भ्रूमण्डलोर्ध्ववामदक्षिणभागयोः रविशशिस्थाने भवतः | रजःशुक्लरूपयोः सूर्याचन्द्रमसो ऐक्यं योगिनो विना यस्य कस्यापि दुर्लभमित्यर्थः || ६१ || किंच- बिन्दुरिति || ६२ || केन रवीन्द्वोरैक्यं तेन किं जायते इत्यत आह- वायुनेति | यथा स्वशक्तिचालेन प्रचण्डवायुना प्रेरितं सद्रजो रविनैकत्वमायाति तथा वायुना सह कुण्डलिनीशक्तिचालेन प्रेरितं शशिमण्डलस्थं रजः, बिन्दुरिति तृतीयार्थे प्रथमा, बिन्दुना रविणा प्. ३४९) सदा एकत्वं याति | यदा सूर्याचन्द्रमसोरैक्यं भवति तदा अयं योगी दिव्यवपुः भवेत् || ६३-६४ || महामुद्रा शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः | रसानां शोषणं चैव महामुद्राभिधीयते || ६५ || वक्षोन्यस्तहनुः प्रपीड्य सुचिरं योनिं च वामाङ्घ्रिणा हस्ताभ्यामनुधारयन् प्रसरितं पादं तथा दक्षिणम् | आपूर्य श्वसनेन कुक्षियुगलं बद्ध्वा शनै रेचये- देतद्व्याधिविनाशिनी सुमहती मुद्रा नृणां प्रोच्यते || ६६ || चन्द्रांशेन समभ्यस्य सूर्यांशेनाभ्यसेत् पुनः | या तुल्या तु भवेत् संख्या ततो मुद्रां विसर्जयेत् || ६७ ||
SKनहि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः | अतिभुक्तं विषं घोरं पीयूषमिव जीर्यते || ६८ || क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः | तस्य रोगाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् || ६९ || कथितेयं महामुद्रा महासिद्धिकरी नृणाम् | गोपनीया प्रयत्नेन न देया यस्य कस्यचित् || ७० || महामुद्रास्वरूपं तत्फल चाह- शोधनमिति | यन्नाडीशुद्धिकरं चन्द्रसूर्ययोरपि चालकं शरीरस्थदुष्टवातपित्तादिरसानां शोषणकरं भवति तदेव महामुद्रेत्यभिधीयते || ६५ || तदभ्यासप्रकारस्तु- आदौ प्. ३५०) जालंधरबन्धमारोप्य वामपादतलेन योनिं निपीड्य बहिः प्रसारितदक्षिणचरणं हस्ताभ्यां धारयन् चन्द्रनाडीसमुद्भवश्वसनेन वामदक्षिणकुक्षियुगलमापूर्य निरुच्छ्वासं बद्ध्वा कुम्भकान्ते पिङ्गलया शनैरेव रेचयेदिति यदेतत् सैषा नृणां सर्वव्याधिविनाशिनी महामुद्रा भवति || ६६ || एवं चन्द्रांशेनेति || ६७-७० || प्रणवजपः पद्मासनं समारुह्य समकायशिरोधरः | नासाग्रदृष्टिरेकान्ते जपेद्ॐकारमव्ययम् || ७१ || एवं महामुद्रामभ्यस्य ततो यथोक्तविधिना प्रणवार्थानुसंधानपूर्वकं प्रणवं सदा जपेदित्याह- पद्मेति || ७१ || प्रणवार्थरूपं ब्रह्म ॐ नित्यं शुद्धं बुद्धं निर्विकल्पं निरञ्जनं निराख्यातमनादिनिधनमेकं तुरीयं यद्भूतं भवद्भविष्यत् परिवर्तमानं सर्वदानवच्छिन्नं परं ब्रह्म | तस्माज्जाता परा शक्तिः स्वयं ज्योतिरात्मिका | आत्मन आकाशः संभूतः | आकाशाद्वायुः | वायोरग्निः | अग्नेरापः | अद्भ्यः पृथिवी | तेषां पञ्चभूतानां पतयः पञ्च सदाशिवेश्वररुद्रविष्णुब्रह्माणश्चेति | तेषां ब्रह्मविष्णुरुद्राश्चोत्पत्तिस्थितिलयकर्तारः | राजसो ब्रह्मा सात्त्विको विष्णुस्तामसो रुद्र इति | एते त्रयो गुणयुक्ताः | ब्रह्मा देवानां प्रथमः संबभूव | धाता च सृष्टौ विष्णुश्च स्थितौ रुद्रश्च नाशे भोगाय चेन्द्रः प्रथमजा बभूवुः | एतेषां ब्रह्मणो लोका देवतिर्यङ्नरस्थावराश्च जायन्ते | तेषां मनुष्यादीनां
SKप्. ३५१) पञ्चभूतसमवायः शरीरम् | ज्ञानकर्मेन्द्रियैर्ज्ञान- so'pi sthūlaprakṛtirityucyate | jñānakarmendriyairjñānaviṣayaiḥ prāṇādipañcavāyumanobuddhibhiśca sūkṣmastho'pi liṅgamevetyucyate | guṇatrayayuktaṃ kāraṇam | sarveṣāmevaṃ trīṇi śarīrāṇi vartante | jāgratsvapnasuṣuptiturīyāścetyavasthāścatasraḥ | tāsāmavasthānāmadhipatayaścatvāraḥ puruṣā viśvataijasaprājñātmānaśceti || viśvo hi sthūlabhuṅnityaṃ taijasaḥ praviviktabhuk | ānandabhuk tathā prājñaḥ sarvasākṣītyataḥ paraḥ || 72 || praṇavaḥ sarvadā tiṣṭhet sarvajīveṣu bhogataḥ | abhirāmastu sarvāsu hyavasthāsu hyadhomukhaḥ || 73 || oṃkarārthacaitanyaṃ kimityatra brahmetyāha- omiti | nityaśuddhādipadānāṃ nṛsiṃhatāpinyāṃ padaśo vyākhyātatvāt | bhūtamiti bhūtādikālatraye'pi svayaṃ ekarūpeṇāvasthitam, utpattipralayavairalyādanādinidhanam, anavacchinnaṃ paricchedarahitaṃ yat tadeva praṇavārthacaitanyaṃ brahmetyarthaḥ | brahmaṇo niṣpratiyogikasvamātratve avyaktādisthāvarāntasṛṣṭiḥ kutaḥ ? ityāśaṅkya tadajñānādetat sarvaṃ tasmāt jātavat bhātītyāha- tasmāditi | svājñadṛṣṭyā yannirviśeṣaṃ brahma niṣpratiyogikasvamātraṃ tasmānnirviśeṣabrahmaṇaḥ sakāśāt citsāmānyātmikā parā śaktiḥ svāropāpavādādhikaraṇasāṃnidhyāt svayaṃjyotirātmikā jāteva jātā na vastuta ityarthaḥ | evaṃ svājñadṛṣṭivikalyitāvyaktamahattattvopādhikāt ātmanaḥ | evaṃ ātmanaḥ sakāśāt krameṇa pañcabhūtāni jātāni, teṣām ityādi | sṛṣṭyādikartṛtvaṃ guṇatrayayoganimittaṃ tat katham ? rājasa iti |
SKप्. ३५२) सृष्ट्यादिकर्तारो ब्रह्मादयः प्रथमजपदं गता इत्याह- ब्रह्मेति | सदेव सोम्येदमग्र आसीत् हिरण्यगर्भः समवर्तताग्रे इति श्रुतेः | तत्र धातेत्यादि | यदेकमेवाग्रे सच्चैतन्यं समवर्तत तदेव सृष्ट्यादिकार्यभेदानुरोधेन ब्रह्मविष्णुरुद्रेन्द्रतां प्राप्तवत् भातीति तेषां प्रथमजत्वम् उक्तमित्यर्थः | एतेषां मध्ये ब्रह्मण इत्यादि | ब्रह्मणः सकाशात् भूरादिचतुर्दशलोकाः तन्निवासिनो देवतिर्यङ्नराः तद्भोज्यतया स्थावराश्च स्थावराणि च जायन्ते | तेषां शरीरं भौतिकमित्याह- तेषामिति | शरीरं भवति | जाग्रदाद्यवस्थारूढजीवापेक्षया तत्तदवस्थानुरोधेन शरीरत्रयं प्रदर्शयति- ज्ञानेति | विषयैः सह स्थूलकल्पितैः पञ्चीकृतभूतकार्यैः यो विशिष्टः सोऽपि जीवः | जाग्रदवस्थाभिमानिस्थूलशरीरोपाधिको विश्व इत्यर्थः | तैजसभोग्यलिङ्गशरीरमाह- ज्ञानेति | अपञ्चीकृतभूतकार्यैः ज्ञान विषयैः सह प्राणादि बुद्धिभिश्च युक्तस्तैजसः स्वप्नावस्थायां सूक्ष्मस्थोऽपि सूक्ष्मशरीरस्थोऽपि तदभेदेन अयं लिङ्गमेवेत्युच्यते | स्वापाभिमानिप्राज्ञनिर्वर्त्यं यत् तत् गुणत्रययुक्तं कारणं कारणशरीरं भवति | विश्वादित्रयस्य स्थूलादिभुक्त्वं तुरीयस्य तद्राहित्यं चाह- विश्व इति || ७२ || तुर्यप्रणवस्य सर्वव्यापकत्वमाह- प्रणव इति | प्रणवः तुरीय्ॐकारस्तुरीयः साक्षी स्थूलप्रविभक्तादिभोगाभिमानतः विश्वादिभावं गतेषु सर्वजीवेषु सर्वदा प्रत्यग्रूपेण तिष्ठेत् | अभितः परितो राजते महीयते इत्यभिरामः | तुरीयस्तु सर्वासु जाग्रदाद्यवस्थासु मिथ्यात्वदृष्ट्या अधोमुखः पराङ्मुखः उदासीनो भवति, विश्वादिवत् जाग्रदादिसंमुखो न कदापि भवतीत्यर्थः || ७३ || प्रणवावयवानां प्रत्येकमर्थः अकार उकारो मकारश्चेति त्रयो वर्णास्त्रयो वेदास्त्रयो लोकास्त्रयो गुणास्त्रयोऽक्षराणि एवं प्रणवः प्रकाशते | अकारो जाग्रति नेत्रे वर्तते सर्वजन्तुषु | उकारः कण्ठतः स्वप्ने मकारो हृदि सुप्तितः || ७४ ||
SKप्. ३५३) विराड्विश्वः स्थूलश्चाकारः | हिरण्यगर्भस्तैजसः सूक्ष्मश्च उकारः | कारणाव्याकृतप्राज्ञश्च मकारः | अकारो राजसो रक्तो ब्रह्मा चेतन उच्यते | उकारः सात्त्विकः शुक्लो विष्णुरित्यभिधीयते || ७५ || मकारस्तामसः कृष्णो रुद्रश्चेति तथोच्यते | प्रणवात् प्रभवो ब्रह्मा प्रणवात् प्रभवो हरिः || ७६ || प्रणवात् प्रभवो रुद्रः प्रणवो हि परो भवेत् | अकारे लीयते ब्रह्मा उकारे लीयते हरिः || ७७ || मकारे लीयते रुद्रः प्रणवो हि प्रकाशते | स्वातिरिक्तप्रपञ्चजातं प्रणवावयवसंभूतमित्याह- अकार इति | त्रयः त्रीणि अक्षराणि | एवं वस्तुतः सदा प्रणवः प्रकाशते | कथमकारादीनां सर्वव्यापकत्वमित्यत्र- अकार इति || ७४-७५ || ब्रह्माद्यारोपापवादाधारस्तुरीय्ॐकार एवेत्याह- प्रणवादिति || ७६ || रुद्रः, ततः प्रणवः || ७७ || तुरीय्ॐकाराग्रविद्योतब्रह्म ज्ञानिनामूर्ध्वगो भूयादज्ञानीनामधोमुखः || ७८ || एवं वै प्रणवस्तिष्ठेद्यस्तं वेद स वेदवित् | अनाहतस्वरूपेण ज्ञानिनामूर्ध्वगो भवेत् || ७९ || तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् | प्रणवस्य ध्वनिस्तद्वत् तदग्रं ब्रह्म चोच्यते || ८० || प्. ३५४) ज्योतिर्मयं तदग्रं स्यादवाच्यं बुद्धिसूक्ष्मतः | ददृशुर्ये महात्मानो यस्तं वेद स वेदवित् || ८१ || स्वज्ञस्वाज्ञदृष्ट्या ऊर्ध्वाधोमुखतया प्रणव एव प्रकाशत इति यो वेद स वेदवित् भवतीत्याह- ज्ञानिनामिति | ज्ञानिदृष्ट्या अनाहतविलसत्प्रत्यगभिन्नब्रह्मरूपेण तुरीय्ॐकाराग्रविद्योतब्रह्ममात्रतया सर्वोर्ध्वं प्रणवो विभाति, अज्ञानामधोमुखाकारादितया विभातीत्यर्थः || ७८-७९ || किंच- तैलेति || ८०-८१ || प्रणवार्थतुरीयहंसः जाग्रन्नेत्रद्वयोर्मध्ये हंस एव प्रकाशते | सकारः खेचरी प्रोक्तस्त्वंपदं चेति निश्चितम् || ७२ || हकारः परमेशः स्यात् तत्पदं चेति निश्चितम् | सकारो ध्यायते जन्तुर्हकारो हि भवेद् ध्रुवम् || ८३ || इन्द्रियैर्बध्यते जीव आत्मा चैव न बध्यते | ममत्वेन भवेज्जीवो निर्ममत्वेन केवलः || ८४ ||
SKप्रणवार्थतुरीयहंसः क्व आसनमासाद्य प्रकाशते इत्यत आह- ādhārādheyatā śrūyate | evam ādhārādheyātmakajāgrannetradvayayoḥ madhye tadāropāpavādādhikaraṇatayā haṃsaḥ pratyagabhinnaparamātmaiva prakāśate | haṃsasya pratyaktvaṃ paratvaṃ tayoḥ aikyasiddhatvaṃ vā kuta ityata āha- sakāra iti | sarvaprāṇihṛdaye vidyamāne khe avyākṛtākāśe tatratyaparāgrūpaliṅgaśarīraprātilomyena caratīti khecarī sakāra iti proktaḥ sakārasya khecarībījatvāt, sa tvaṃpadārthaḥ iti prabhokteḥ | ataḥ sakārabījaṃ tvaṃpadārthapratyakcaitanyamiti niścitam || 82 || hakārārthaḥ parameśaḥ paramātmā syāt | ataḥ hakārabījārthabhūtaṃ tatpadalakṣyaparamātmacaitanyamiti p. 355) niścitam | evaṃ sakāravācyo jantuḥ jīvaḥ svagatajīvatvamapāsya so'haṃśabdalakṣyapratyagabhinnaparamātmāsmīti yadyātmānaṃ dhyāyate jānāti tadā hakārārthaḥ paramātmaiva bhavediti yat tat dhruvaṃ satyam ityarthaḥ, brahma veda brahmaiva bhavati iti śruteḥ || 83 || dehendriyādau ahaṃmamābhimānabhāvābhāvau jīvaparabhedābhedahetū bhavata ityāha- केवलात्मप्रकाशकप्रणवजपः भूर्भुवः स्वरिमे लोकाः सोमसूर्याग्निदेवताः | यस्य मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति || ८५ || इच्छा क्रिया तथा ज्ञानं ब्राह्मी रौद्री च वैष्णवी | त्रिधा मात्रास्थितिर्यत्र तत्परं ज्योतिरोमिति || ८६ || वचसा तज्जपेन्नित्यं वपुषा तत् समभ्यसेत् | मनसा तज्जपेन्नित्यं तत्परं ज्योतिरोमिति || ८७ || शुचिर्वाप्यशुचिर्वापि यो जपेत् प्रणवं सदा | न स लिप्यति पापेन पद्मपत्रमिवाम्भसा || ८८ || केवलात्मप्रकाशकप्रणवस्वरूपं निर्दिशति- भूरिति || ८५- praṇavārthaparaṃjyotirityāha- vacaseti || 87 || praṇavajapasya śucyādiniyamābhāvaprakaṭanapūrvakaṃ tatphalamāha- śuciriti || 88 || praṇavānuṣṭhāyino'pi prāṇajaya āvaśyakaḥ cale vāte calo bindurniścale niścalo bhavet | yogī sthāṇutvamāpnoti tato vāyuṃ nirundhayet || 89 ||
SKप्. ३५६) यावद्वायुः स्थितो देहे तावज्जीवो न मुञ्चति | मरणं तस्य निष्क्रान्तिस्ततो वायुं निरुन्धयेत् || ९० || यावद् बद्धो मरुद् देहे तावज्जीवो न मुञ्चति | यावद् दृष्टिर्भ्रुवोर्मध्ये तावत् कालभयं कुतः || ९१ || अल्पकालभयाद् ब्रह्मा प्राणायामपरो भवेत् | योगिनो मुनयश्चैव ततः प्राणान्निरोधयेत् || ९२ || प्रणवानुष्ठानेन पुरुषार्थसिद्धेः किं प्राणजयेनेत्याशङ्क्य बिन्दुप्राणयोः अन्योन्याश्रयतः जीवनहेतुबिन्दुजयार्थं प्राणजयः कर्तव्य इत्याह- चल इति || ८९-९१ || अत एव ब्रह्मादयोऽपि प्राणायामपरा भवन्तीत्याह- अल्पेति | यतः प्राणायामपरा भवन्ति ततः तस्मात् || ९२ || नाडीशुद्धितः प्राणायामसिद्धिः षड्विंशदङ्गुलीर्हंसः प्रयाणं कुरुते बहिः | वामदक्षिणमार्गेण प्राणायामो विधीयते || ९३ || शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम् | तदैव जायते योगी प्राणसंग्रहणक्षमः || ९४ || प्राणगतिनिरोधनमेव प्राणायाम इत्याह- षड्विंशदिति | इडापिङ्गलामार्गमाश्रित्य बहिः षड्विंशत्यङ्गुलपर्यन्तं प्राणः प्रसरति, तद्गतिकुण्ठनाय प्राणायामो विधीयते इत्यर्थः || ९३ || नाडीशुद्ध्यनन्तरं केवलकुम्भकशक्तिः भवतीत्याह- शुद्धिमिति || ९४ || प्. ३५७) प्राणायामलक्षणम् बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् | धारयेद्वा यथाशक्त्या भूयः सूर्येण रेचयेत् || ९५ || अमृतोदधिसंकाशं गोक्षीरधवलोपमम् | ध्यात्वा चन्द्रमसं बिम्बं प्राणायामे सुखी भवेत् || ९६ || स्फुरत्प्रज्वलसज्ज्वालापूज्यमादित्यमण्डलम् | ध्यात्वा हृदि स्थितं योगी प्राणायामे सुखी भवेत् || ९७ || प्राणायामलक्षणं तत्र ध्येयबिम्बद्वयं चाह- बद्धेति || ९५- nāḍīśodhanam prāṇaṃ cediḍayā pibenniyamitaṃ bhūyo'nyathā recayet pītvā piṅgalayā samīraṇamatho baddhvā tyajed vāmayā | sūryācandramasoranena vidhinā bindudvayaṃ dhyāyataḥ śuddhā nāḍigaṇā bhavanti yamino māsadvayādūrdhvataḥ || 98 || yatheṣṭadhāraṇa vāyoranalasya pradīpanam | nādābhivyaktirārogyaṃ jāyate nāḍiśodhanāt || 99 ||
SKनाडीशुद्ध्युपायमाह- प्राणमिति || ९८ || तत्फलं- यथेष्टेति || ९९ || मात्रानियमपूर्वकः प्राणायामः प्राणो देहस्थितो यावदपानं तु निरुन्धयेत् | एकश्वासमयी मात्रा ऊर्ध्वाधो गगने स्थितिः || १०० || प्. ३५८) रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः | प्राणायामो भवेदेवं मात्राद्वादशसंयुतः || १०१ || मात्राद्वादशसंयुक्तौ निशाकरदिवाकरौ | दोषाजालमबध्नन्तौ ज्ञातव्यौ योगिभिः सदा || १०२ || पूरकं द्वादशं कुर्यात् कुम्भकं षोडशं भवेत् | रेचकं दश च्ॐकारः प्राणायामः स उच्यते || १०३ || अधमे द्वादशा मात्रा मध्यमे द्विगुणा मता | उत्तमे त्रिगुणा प्रोक्ता प्राणायामस्य निर्णयः || १०४ || अधमे स्वेदजननं कम्पो भवति मध्यमे | उत्तमे स्थानमाप्नोति ततो वायुं निरुन्धयेत् || १०५ || बद्धपद्मासनो योगी नमस्कृत्य गुरुं शिवम् | नासाग्रदृष्टिरेकाकी प्राणायामं समभ्यसेत् || १०६ || द्वाराणां नव संनिरुध्य मरुतं बद्ध्वा दृढां धारणां नीत्वा कालमपानवह्निसहितं शक्त्या समं चालितम् | आत्मध्यानयुतस्त्वनेन विधिना विन्यस्य मूर्ध्नि स्थिरं यावत् तिष्ठति तावदेव महतां सङ्गो न संस्तूयते || १०७ || प्राणायामो भवेदेवं पातकेन्धनपावकः | भवोदधिमहासेतुः प्रोच्यते योगिभिः सदा || १०८ || मूलबन्धावधिं, मात्रालक्षणं, भङ्ग्यन्तरेण प्राणायामलक्षणं चाह- प्राण इति | सहजोच्छ्वासनिःश्वासकालो मात्राकाल इत्यर्थः || १००-१०१ ||
SKप्. ३५९) योगिना द्वादशमात्रालंकारचन्द्रसूर्यौ ध्येयावित्याह- mātrākālaḥ | tatsaṃyuktau niśākaradivākarau candrasūryanāḍībhyāṃ gamanāgamanaṃ kurvantau | doṣāgrahaṇamahnaścāpyupalakṣaṇārtham | doṣājālamabadhnantau ahorātramaviśrāntau yogibhiḥ ādau jñātavyau | candrasūryanāḍīgatiṃ jñātvā yadā yā nāḍī pravahati tadā tayā pūrakaṃ niruddhayā anyayā recakaṃ kuryāt | evaṃ kṛte vāyoḥ nāḍīdvaye'pi prāṇasya samagatiḥ syāt | tataḥ prāṇāyāmo nirāyāsena bhavediti bhāvaḥ || 102 || tataḥ pūrakaṃ dvādaśaṃ dvādaśamātrākālaṃ kuryāt | daśa coṃkāra iti daśamātrākālaḥ ityarthaḥ || 103 || kiṃca- adhame || 104- संनिरुध्य अपानवह्निसहितं कुण्डलिनीशक्त्या समं चालितं मारुतं बद्ध्वा मूलाधारादिषट्चक्रेषु क्रमात् नीत्वा अनेन विधिना कालं तुर्यात्मानं मूर्ध्नि सहस्रारचक्रे विन्यस्य स्थिरं संभाव्य यावन्मूर्ध्नि स्थिरं तिष्ठति तावदेव महतां सङ्गो न संस्तूयते मूर्ध्नि साक्षात्कृततुर्यतत्त्वस्य कृतकृत्यत्वेन नहि सङ्गकाङ्क्षा अस्ति | यावत्सहस्रारे तुर्यात्मानं न पश्यति तावन्महतां सङ्गः स्तूयत इत्यर्थः || १०६-१०७ || प्राणायामं स्तौति- प्राणेति | महासेतुः इति प्रोच्यते || १०८ || योगाङ्गानां प्रत्येकं फलं तत्तारतम्यं च आसनेन रुजं हन्ति प्राणायामेन पातकम् | विकारं मानसं योगी प्रत्याहारेण मुञ्चति || १०९ || धारणाभिर्मनोधैर्यं याति चैतन्यमद्भुतम् | समाधौ मोक्षमाप्नोति त्यक्त्वा कर्म शुभाशुभम् || ११० || प्राणायामद्विषट्केन प्रत्याहारः प्रकीर्तितः | प्रत्याहारद्विषट्केन जायते धारणा शुभा || १११ || प्. ३६०) धारणा द्वादश प्रोक्तं ध्यानं योगविशारदैः | ध्यानद्वादशकेनैव समाधिरभिधीयते || ११२ || समाधौ परमं ज्योतिरनन्तं विश्वतोमुखम् | तस्मिन् दृष्टे क्रियाकर्म यातायातो न विद्यते || ११३ ||
SKप्रतिस्विकेन षडङ्गयोगफलमाह- आसनेनेति || १०९ || ध्यानेन याति || ११० || आसनजयापेक्षया प्राणायामादेः द्वादशगुणाधिक्यं दर्शयति- प्राणेति || १११-११२ || समाधिसिध्यनन्तरं कृतकृत्यता स्यादित्याह- समाधाविति | विश्वतोमुखं ब्रह्म विजयते अयमहमस्मीति || ११३ || षण्मुखीमुद्राभ्यासेन नादाभिव्यक्तिः संबद्ध्वासनमेढ्रमङ्घ्रियुगलं कर्णाक्षिनासापुट- द्वारानङ्गुलिभिर्नियम्य पवनं वक्त्रेण वा पूरितम् | बद्ध्वा वक्षसि बह्नपानसहितं मूर्ध्नि स्थितं धारये- देवं याति विशेषतत्त्वसमतां योगीश्वरस्तन्मनाः || ११४ || गगनं पवने प्राप्ते ध्वनिरुत्पद्यते महान् | घण्टादीनां प्रवाद्यानां नादसिद्धिरुदीरिता || ११५ || एवं समाधिः केन सिध्यतीत्यत्राह- संबद्ध्वेति | योगी सम्यक् सिद्धासनं बद्ध्वा मध्ये मेढ्रं तदधोर्ध्वमङ्घ्रियुगलं च बद्ध्वेत्यर्थः | षण्मुखीमुद्रया वक्त्रेण वायुमापूर्य बन्धत्रयपूर्वकं मूर्ध्नि सहस्रारे तुर्ये तुर्यातीते वा मनो धारयेत् | एवं धारणा योगीश्वरो विशेषतत्त्वसमताम् अवशिष्टतत्त्वतुर्यातीतभाव यातीत्यर्थः || ११४ || षण्मुखीमुद्राभ्याससिद्धिः नादाभिव्यक्तिरित्याह- गगनमिति | हृदयावच्छिन्नाव्याकृतगगनम् || ११५ || प्. ३६१) प्राणाभ्यासः सर्वरोगनिरासकः प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् | प्राणायामवियुक्तेभ्यः सर्वरोगसमुद्भवः || ११६ || हिक्का कासस्तथा श्वासः शिरःकर्णाक्षिवेदनाः | भवन्ति विविधा रोगाः पवनव्यत्ययक्रमात् || ११७ || यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः | तथैव सेवितो वायुरन्यथा हन्ति साधकम् || ११८ || युक्तंयुक्तं त्यजेद्वायुं युक्तंयुक्तं प्रपूरयेत् | युक्तंयुक्तं प्रबध्नीयादेवं सिद्धिमवाप्नुयात् || ११९ || विधिवत् प्राणाभ्यासः सर्वरोगनिरासकः विपरीते विपरीतफलदो भवतीत्याह- प्राणायामेनेति || ११६-११७ || यतः एवम् अतः यथाशास्त्रं गुरूक्तप्रकारेण प्राणाभ्यासो विशिष्टफलदः इत्याह- prāṇābhyāse indriyapratyāhāra āvaśyakaḥ
SKचरतां चक्षुरादीनां विषयेषु यथाक्रमम् | तत्प्रत्याहरणं तेषां प्रत्याहारः स उच्यते || १२० || यथा तृतीयकाले तु रविः प्रत्याहरेत् प्रभाम् | तृतीयाङ्गस्थितो योगी विकारं मानसं हरेत् || १२१ || इत्युपनिषत् || इन्द्रियाणामिन्द्रियार्थपरवशतया स्थितत्वात् कथम् अभ्याससिद्धिरित्यत्र तत्प्रत्याहरणादभ्यासः सफलो भवेदित्याह- चरतामिति || १२० || कथं प्. ३६२) प्रत्याहरणं कर्तव्यम् इत्यत्र सदृष्टान्तं तदाह- यथेति | यथा रविः तृतीयकाले सायाह्ने स्वप्रभां प्रत्याहरेत् तथा बाल्ययौवनकौमारभेदेन स्थूलसूक्ष्मकारणशरीरभेदेन तमोरजःसत्त्वभेदेन व्रतिकामिवनिभेदेन वा तत्राप्यसङ्गतया तृतीयाङ्गस्थितो योगी सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति बोधेन मानसं तद्विकारं संकल्पादिं च हरेत् विलापयेत् अपह्नवं कुर्यादित्यर्थः | इत्युपनिषच्छब्दः योगचूडामण्युपनिषत्समाप्त्यर्थः || १२१ || श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | लिखितं स्याद्विवरणं योगचूडामणेः स्फुटम् || चूडामणिविवरणमशीत्यधिशतद्वयम् || इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे षट्चत्वारिंशत्संख्यापूरकं योगचूडामण्युपनिषद्विवरणं संपूर्णम्