SK
श्रीः स्वच्छन्दतन्त्रम् श्रीमन्महामाहेश्वराचार्यक्षेमराजकृतोद्योताख्यविवरणोपेतम् प्रथमः पटलः ᳚ स्वच्छन्दोद्योतः ᳚ विश्वैकरूपविश्वात्मविश्वसर्गादिकारणम् | परप्रकाशवपुषं स्तुमः स्वच्छन्दभैरवम् || प्रसरच्छक्तिकल्लोलजगल्लहरिकेलये | सर्वसम्पन्निधानाय भैरवाम्भोधये नमः || एकैव बोधजलधेः शक्तिशुक्तिर्जयत्यसौ | यदन्तनीखिलं भाति मुक्तामयमिदं जगत् || स्मृतिमात्रविनिर्धूतनिःशेषाज्ञानकिल्विषाः | गुरुसूक्तवरस्फारा विजयन्ते जगत्त्रये || तत्सेवाविमलव्यक्तमहामाहेशदर्शनः | क्षेमराजो विवृणुते श्रीस्वच्छन्दनयं मनाक् || अभिनवबोधादित्यद्युतिविकसितहत्सरोजान्मे | रसयत सरसाः परिमलमसारसंसारवासनाशान्त्यै || इहानुजिघृक्षारससरसहृदयपरसंवित्सम्मुखीकृतो ग्रन्थमवतारयितुं कश्चिद् देवीशिष्य आह ---- कैलासशिखरासीनं भैरवं विगतामयम् | चण्डनन्दिमहाकालगणेशवृषभृङ्गिभिः || १-१ || कुमारेन्द्रयमादित्यब्रह्मविष्णुपुरःसरैः | स्तूयमानं महेशानं गणमातृनिषेवितम् || १-२ || सृष्टिसंहारकर्त्तारं विलयस्थितिकारकम् | अनुग्रहकरं देवं प्रणतातीविनाशनम् || १-३ || मुदितं भैरवं दृष्ट्वा देवी वचनमब्रवीत् | इह परमेश्वरस्य चिदानन्दघनस्य ब्रह्मदर्शनोक्ततत्त्वातिशायिनः स्वच्छन्दभैरवस्फुरत्तात्मा परमार्थः, इति भगवतः शास्त्रस्य चास्य तदेवाभिधानम् | तस्य स्वात्मैकरूपपञ्चकृत्यकारित्वमित्याशयेन शृष्ट्रयादिपञ्चकृत्यकरं देवं मुदितं भैरवं दृष्ट्वा देवी वचनमब्रवीत्᳚ इत्युक्तम् | तत्र देवः शिवादिक्षित्यन्ताशेषसृष्ट्यादिक्रीडापरः, तावदशेषोत्कर्षतया विजिगीषुः, तदभिन्नत्वात् विश्वस्य जगद्व्यवहाररूपतयापि द्योतमानः, शिवमन्त्रमहेश्वरादिभिः स्तूयमानः, सर्वेषामगतीनां गतिः प्राप्योऽभिन्नबोधसारश्च, यथोक्तं ᳚दिवु क्रीडादौ᳚ इति |